SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ अनुयोगद्वारसूत्रम् [सू० २३३-२५९] ३०१ उदइए इत्यादि, भावना पूर्वाभिहितानुगुण्येन कर्तव्या । नवरमत्रौदयिकौपशमिक - क्षायोपशमिकपारिणामिकभावनिष्पन्नस्तृतीयभङ्गो गतिचतुष्टयेऽपि संभवति । तथाहि - औदयिकीअन्यतरागतिः, नारकतिर्यग्देवगतिषुप्रथमसम्यक्त्वलाभकाले एव मनुष्यगतौतु तत्रोपशमश्रेण्यां चौपशमिकं सम्यक्त्वम्, क्षायोपशमिकानीन्द्रियाणि, पारिणामिकं जीवत्वमित्येवमयं भङ्गक: सर्वासुगतिषुलभ्यते। यत्त्विहसूत्रेप्रोक्तम् उदएत्तिमणूसेउवसंता 5 कसायत्ति तत् मनुष्यगत्यपेक्षयैव द्रष्टव्यम्, मनुष्यत्वोदयस्योपशमश्रेण्यांकषायोपशमस्य च तस्यामेव भावाद् अस्य चोपलक्षणमात्रत्वादिति। एवमौदयिक-क्षायिक-क्षायोपशमिकपारिणामिकभावनिष्पन्नश्चतुर्थभङ्गोऽपि चतसृष्वपि गतिषु संभवति । भावना त्वनन्तरोक्ततृतीयभङ्गकवदेव कर्तव्या, नवरमौपशमिकसम्यक्त्वस्थाने क्षायिकसम्यक्त्वं वाच्यम्, अस्ति च क्षायिकसम्यक्त्वंसर्वास्वपिगतिषु, नारकतिर्यग्देवगतिषु पूर्वप्रतिपन्नस्यैव 10 मनुष्यगतौतुपूर्वप्रतिपन्नस्यप्रतिपद्यमानकस्य चतस्यान्यत्रप्रतिपादितत्वादिति। तस्मादत्राप्येतौ द्वौ भङ्गको सम्भविनौ, शेषास्तु त्रयः संवृतिमात्रम्, तद्रूपेण वस्तुन्यसम्भवादिति। साम्प्रतं पञ्चकसंयोगमेकंप्ररूपयन्नाह - तत्थ णंजे से एक्के पंचकसंजोगे इत्यादि। अयं च सविवरण: सुगम एव, केवलं क्षायिकः सम्यग्दृष्टिः सन् य: उपशमश्रेणी प्रतिपद्यते तस्यायं भङ्गक: संभवति, नान्यस्य, समुदितभावपञ्चकस्यास्य तत्रैव भावादिति परमार्थः। 15 तदेवमेको द्विकसंयोगभङ्गको द्वौ द्वौ त्रिकयोग-चतुष्कयोगभङ्गकावेकस्त्वयं पञ्चकसंयोगभङ्गक इत्येतेषड्भङ्गकाअत्र सम्भविनः प्रतिपादिताः,शेषास्तुविंशतिः संयोगोत्थानमात्रतयैव प्ररूपिता इति स्थितम्। एतेषु चषट्सुभङ्गकेषु मध्ये एकस्त्रिकसंयोगो द्वौ चतुष्कसंयोगावित्येते त्रयोऽपि प्रत्येकं चतसृष्वपि गतिषु संभवन्तीति निर्णीतम्, अतो गतिचतुष्टयभेदात् ते किल द्वादश विवक्ष्यन्ते, ये तु शेषा द्विकयोग-त्रिकयोग-पञ्चकयोगलक्षणास्त्रयो भङ्गा: सिद्ध- 20 केवल्युपशान्तमोहानां यथाक्रमं निर्णीताः, ते यथोक्तैकैकस्थानसम्भवित्वात् त्रय एवेत्यनया विवक्षयाऽयं सान्निपातिको भावः स्थानान्तरे पञ्चदशविध उक्तो द्रष्टव्यः । यदाह - अविरुद्धसन्निवाइयभेया एमेते पण्णरस[ ]त्ति। सेत्तं सण्णिवाइए त्ति निगमनम्। उक्त: सान्निपातिको भावः, तद्भणने चोक्ता: षडपि भावाः, ते च तद्वाचकैर्नामभिर्विना प्ररूपयितुं न शक्यन्त इति तद्वाचकान्यौदयिकादीनि नामान्यप्युक्तानि । एतैश्च षड्भिरपि 25 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001106
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 01
Original Sutra AuthorAryarakshit
AuthorPunyavijay, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1999
Total Pages540
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, G000, G010, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy