SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ अनुयोगद्वारसूत्रम् [सू० १०१] भिन्नम्, भित्त्वा च ते परमाणवोऽन्येषु परमाणु - द्वयणुक-त्र्यणुकादिषु अनन्ताणुकस्कन्धपर्यन्तेषु अनन्तस्थानेषूत्कृष्टान्तराधिकारादसकृत् प्रतिस्थानमुत्कृष्टां स्थितिमनुभवन्तः पर्यटन्ति, कृत्वा चेत्थं पर्यटनं कालस्यानन्तत्वाद् विश्रसादिपरिणामतो यदा तैरेव परमाणुभिस्तदेव विवक्षितमानुपूर्वीद्रव्यं निष्पद्यते तदाऽनन्त उत्कृष्टान्तरकालः प्राप्यते । नानाद्रव्याण्यधिकृत्य पुनर्नास्त्यन्तरम्, न हि स कश्चित् कालोऽस्ति यत्र सर्वाण्यप्यानुपूर्वी 5 द्रव्याणि युगपदानुपूर्वीभावं परित्यजन्ति, अनन्तानन्तैरानुपूर्वीद्रव्यैः सर्वदैव लोकस्याशून्यत्वादिति भावः । अनानुपूर्वीद्रव्यान्तरकालचिन्तायाम् एगं दव्वं पडुच्च जहन्त्रेणं एवं समयं ति, इह यदा किञ्चिदनानुपूर्वीद्रव्यं परमाणुलक्षणमन्येन परमाणु-द्वयणुक-त्र्यणुकादिना केनचिद् द्रव्येण सह संयुज्य समयादूर्ध्वं वियुज्य पुनरपि तथास्वरूपमेव भवति तदा समयलक्षणो 10 जघन्यान्तरकालः प्राप्यते, उक्कोसेणं असंखेजं कालं ति तदेवानानुपूर्वीद्रव्यं यदान्येन परमाणु-द्वयणुक-त्र्यणुकादिना केनचिद् द्रव्येण सह संयुज्यते, तत्संयुक्तं चासङ्ख्येयं कालं स्थित्वा वियुज्य पुनस्तथास्वरूपमेव भवति, तदाऽसङ्ख्यात उत्कृष्टान्तरकालो लभ्यते । अत्राह - ननु अनानुपूर्वीद्रव्यं यदा अनन्तानन्तपरमाणुप्रचितस्कन्धेन सह संयुज्यते, तत्संयुक्तं चासङ्खयेयं कालमवतिष्ठते, ततोऽसौ स्कन्धो भिद्यते, भिन्ने च तस्मिन् 15 यस्तस्माल्लघुस्कन्धो भवति तेनापि सह संयुक्तमसङ्ख्येयं कालं तिष्ठति, ततस्तस्मिन्नपि भिद्यमाने यस्तस्माल्लघुतरः स्कन्धो भवति तेनापि संयुक्तमसङ्ख्यातं कालमवतिष्ठते, पुनस्तस्मिन्नपि भिद्यमाने यस्तस्माल्लघुतमः स्कन्धो भवति तेनापि संयुक्तमसङ्ख्येयं कालमवतिष्ठते, इत्येवं तत्र भिद्यमाने क्रमेण कदाचिदनन्ता अपि स्कन्धाः संभाव्यन्ते, तत्र च प्रतिस्कन्धसंयुक्तमनानुपूर्वीद्रव्यं यदा यथोक्तां स्थितिमनुभूय तत एकाक्येव भवति तदा 20 तस्य यथोक्तानन्तस्कन्धस्थित्यपेक्षया अनन्तोऽपि कालोऽन्तरे प्राप्यते, किमित्यसङ्ख्येय एवोक्तः ? अत्रोच्यते-स्यादेवं हन्त यदि संयुक्तोऽणुरेतावन्तं कालं तिष्ठेत्, एतच्च नास्ति, पुद्गलसंयोगस्थितेरुत्कृष्टतोऽप्यसङ्ख्येयकालत्वादित्युक्तमेव । अथ ब्रूयात् यस्मिन् स्कन्धे संयुज्यतेऽसौ परमाणुः स चेत् स्कन्धोऽसङ्ख्येयकालाद्भिद्यते तर्ह्येतावतैव चरितार्थः पुद्गलसंयोगासङ्ख्येयकालनियमः, विवक्षितपरमाणुद्रव्यस्य तु वियोगो मा भूदपीति, 25 Jain Education International १५९ For Private & Personal Use Only www.jainelibrary.org
SR No.001106
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 01
Original Sutra AuthorAryarakshit
AuthorPunyavijay, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1999
Total Pages540
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, G000, G010, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy