SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् १५४ अथानभ्युपगम्यमानाऽपि परमाणो: सांशताऽनन्तरोक्तविकल्पबलेनाऽऽपाद्यते, ननु भवन्तोऽपि तर्हि प्रष्टव्या: - क्वचिद् विज्ञानसन्ताने विवक्षित: कश्चिद्विज्ञानलक्षणः क्षण: स्वजनकपूर्वक्षणस्य कार्यं स्वजन्योत्तरक्षणस्य कारणमित्यत्र सौगतानां तावदविप्रतिपत्ति:, तत्रेहापि विचार्यते- किमसौ येन स्वरूपेण पूर्वक्षणस्य कार्यं तेनैवोत्तरक्षणस्य कारणमुत 5 स्वरूपान्तरेण ? यद्याद्य: पक्षस्तर्हि यथा पूर्वापेक्षयाऽसौ कार्यं तथोत्तरापेक्षयापि स्यात्, यथा वा उत्तरापेक्षया कारणं तथा पूर्वापेक्षयाऽपि स्यात्, एकस्वरूपत्वात् तस्येति । अथ द्वितीय: पक्षस्तर्हि तस्य सांशत्वप्रसङ्गोऽत्रापि दुर्वार: स्यात् । अथ निरंश एवासौ ज्ञानक्षणोऽकार्याकारणरूपतत्तद्वस्तुव्यावृत्तत्वात् तथा तथा व्यपदिश्यते न पुनस्तस्यानेक स्वरूपत्वमस्ति, नन्वस्माकमपि नेदमुत्तरमतिदुर्लभं स्यात्, यतो द्रव्यतया निरंश एव 10 परमाणुस्तथाविधाचिन्त्यपरिणामत्वात् दिक्षट्केन सहनैरन्तर्येणावस्थितत्वात् तत्स्पर्शक उच्यते, न पुनस्तत्रांशैः काचित् स्पर्शना समस्तीति, अत्र बहु वक्तव्यम्, तत्तु नोच्यते स्थानान्तरेषु चर्चितत्वादित्यलं विस्तरेण ४ । सू० ११०] [१] णेगम-ववहाराणं आणुपुव्विदव्वाइं कालओ केवचिरं होति ? एंगं दव्वं पडुच्च जहण्णेणं एगं समयं उक्कोसेणं 15 असंखेज्जं कालं, नाणादव्वाइं पडुच्च णियमा सव्वद्धा। [२] एवं दोन्नि वि। [चू० ११०] कालतो के वचिरं इत्यादि । आणुपुग्विदव्वाण आनुपूर्वित्वोत्पादप्रथमसमयारद्धं संताणतो अव्वोच्छिन्नं जहण्णुक्कोसतो कालमग्गणाते एगा-ऽणेगदव्वेसु समयादि यावत् परा असंख्येयैव स्थिति:, सेसं सुत्तसिद्धं । अणाणुपुब्वि 20 -अव्वत्तव्वेसु वि एवं चेव। [हा० ११०] साम्प्रतं कालद्वारम्, तत्रेदंसूत्रंणेगम-ववहाराणमित्यादिआनिगमनं पाठसिद्धमेव । णवरमियमित्थं भावणा- दोण्हं परमाणूणं एक्को परमाणू संजुत्तो समयं चिट्ठिऊण विजुत्तो, एवं आणुपुग्विदव्वं जहण्णेणं एगं समयं होति, उक्कोसेणं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001106
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 01
Original Sutra AuthorAryarakshit
AuthorPunyavijay, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1999
Total Pages540
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, G000, G010, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy