SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ आ.श्रीजिनदासगणिविरचितचूर्णि हरिभद्रसूरिविर० विवृति-मल० हेमचन्द्रसूरिविर० वृत्तिभिः समेतम् ९६ एतद्भणने चोक्तं सर्वमपि भावश्रुतमतो निगमयति-सेतं भावसुतमिति । तदेवं स्वरूपत उक्तंभावश्रुतम्। अनेनैव चात्राधिकार इत्यतोऽस्यैव पर्यायनिरूपणार्थमाह- तस्स णमित्यादि । तस्य श्रुतस्य अमूनि अनन्तरमेव वक्ष्यमाणतया प्रत्यक्षाण एकार्थिकानि तत्त्वत एकार्थविषयाणि नानाघोषाणि पृथग्भिन्नोदात्तादिस्वराणि 5 नानाव्यञ्जनानि पृथग्भिन्नाक्षराणि नामधेयानि पर्यायध्वनिरूपाणि भवन्ति, तद्यथा - सुत गाहा, व्याख्या-गुरुसमीपे श्रूयत इति श्रुतम्, अर्थानां सूचनात् सूत्रम्, विप्रकीर्णार्थग्रन्थनाद् ग्रन्थः, सिद्धं प्रमाणप्रतिष्ठितमर्थमन्तं संवेदननिष्ठारूपं नयतीति सिद्धान्तः, मिथ्यात्वाऽविरति-कषायादिप्रवृत्तजीवानां शासनात् शिक्षणाच्छासनम्, प्रवचनमिति पाठान्तरम्, तत्रापि प्रशस्तं प्रधानं प्रथमं वा वचनं प्रवचनम्, मोक्षार्थमाज्ञाप्यन्ते प्राणिनोऽनयेत्याज्ञा, 10 उक्तिर्वचनं वाग्योग इत्यर्थः, हिता - हितप्रवृत्ति - निवृत्त्युपदेशनादुपदेश:, यथावस्थितजीवादिपदार्थप्रज्ञापनात् प्रज्ञापना, आचार्यपारम्पर्येणागच्छतीत्यागमः, आप्तवचनं वाऽऽगम इति, सूत्रे सूत्रविषये एकार्थाः पर्याया इति गाथार्थ: । सेतं सुतमिति, तदेतन्नामादिभेदैरुक्तं श्रुतमित्यर्थः । [सू० ५२] से किं तं खंधे ? खंधे चउव्विहे पण्णत्ते । तंजहा - 15 नामखंधे १, ठवणाखंधे २, दव्वखंधे ३, भावखंधे ४ । 20 [सू० ५३ ] ' से किं तं नामखंधे ? नामखंधे जस्स णं जीवस्स वा अजीवस्स वा जाव खंधे ति णामं कज्जति । से तं णामखंधे । [सू० ५४] से किं तं ठवणाखंधे ? ठवणाखंधे जण्णं कट्ठकम्मे वा जाव खंधे इठवणा ठविज्जति। सेतं ठवणाखंधे । [सू० ५५] णाम-ठवणाणं को पतिविसेसो ? नामं आवकहियं, ठवणा इत्तिरिया वा होज्जा आवकहिया वा । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001106
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 01
Original Sutra AuthorAryarakshit
AuthorPunyavijay, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1999
Total Pages540
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, G000, G010, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy