SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ अनुयोगद्वारसूत्रम् [सू० २९] ८१ 10 तस्य निग्रहोध्रुवनिग्रहः, निग्रहहेतुत्वान्निग्रहः। तथा कर्ममलिनस्याऽऽत्मनो विशुद्धिहेतुत्वाद् विशुद्धिः । अध्ययनषट्कवर्गः सामायिकादिषडध्ययनसमुदायः । सम्यग् जीवकर्मसम्बन्धव्यवहारापनयनाद् न्यायः। मोक्षाराधनानिबन्धनत्वाद् आराधना। मार्ग: पन्थाः शिवस्येति गाथार्थः। समणेण गाहा निगदसिद्धैव । नवरम् अन्त इति मध्ये । सेत्तमित्यादि निगमनम्। 5 हे० २९] तदेवं स्वरूपत उक्तं भावावश्यकम् । अनेनैव चात्राधिकार इत्यतो नानादेशजविनेयानुग्रहार्थं तस्यैव पर्यायाभिधानार्थमाह- तस्स णं इमे इत्यादि । तस्य आवश्यकस्य अमूनिवक्ष्यमाणानिएकार्थिकानि परमार्थत एकार्थविषयाणि नानाघोषाणि पृथभिन्नोदात्तादिस्वराणि नानाव्यञ्जनानि पृथग्भिन्नककाराद्यक्षराणि नामधेयानि पर्यायध्वनयो भवन्ति, तद्यथा-आवस्सयं गाहा। व्याख्या-श्रमणादिभिरवश्यं क्रियत इति निपातनादावश्यकम्, अथवा ज्ञानादिगुणा मोक्षो वा आ समन्ताद्वश्यः क्रियतेऽनेनेत्यावश्यकम्, अथवा आ समन्ताद्वश्या इन्द्रियकषायादिभावशत्रवो येषां ते तथा, तैरेव क्रियते यत् तदावश्यकम्, अथवा समग्रस्यापि गुणग्रामस्यावासकमित्यावासकमित्याद्यपरमपि स्वधिया वाच्यम्, पूर्वमपि च व्युत्पादितमिदम् । तथा मुमुक्षुभिर्नियमानुष्ठेयत्वादवश्यकरणीयम् । तथा ध्रुवनिग्रह इति , अत्रा- 15 नादित्वात् क्वचिदपर्यवसितत्वाच्च ध्रुवं कर्म तत्फलभूतः संसारो वा, तस्य निग्रहहेतुत्वान्निग्रहो ध्रुवनिग्रहः । तथा कर्ममलिनस्याऽऽत्मनो विशुद्धिहेतुत्वाद्विशुद्धिः । तथा सामायिकादिषडध्ययनकलापात्मकत्वादध्ययनषड्वर्गः। तथाऽभिप्रेतार्थसिद्धेः सम्यगुपायत्वात् न्याय:, अथवाजीवकर्मसम्बन्धापनयनान्न्याय:, अयमभिप्राय:-यथाकारणिकैदृष्टोन्यायोद्वयोरर्थिप्रत्यर्थिनोभूमिद्रव्यादिसम्बन्धं चिरकालीनमप्यपनयत्येवंजीव-कर्मणोरनादिकालीनमप्या- 20 श्रयाश्रयिभावसम्बन्धमपनयतीत्यावश्यकमपि न्याय उच्यते । तथा मोक्षाराधनाहेतुत्वादाराधना। तथा मोक्षपुरप्रापकत्वादेव मार्ग इति गाथार्थः ।।२।। उक्तगाथाया आद्यपदं सूत्रकार एव व्युत्पादयन्नाह- समणेण० गाहा, श्रमणादिना अहोरात्रस्य मध्ये यस्मादवश्यं क्रियते तस्मादावश्यकम् । एवमवश्यकरणीयादिपदानामपि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001106
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 01
Original Sutra AuthorAryarakshit
AuthorPunyavijay, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1999
Total Pages540
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, G000, G010, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy