SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ आ.श्रीजिनदासगणिविरचितचूर्णि - हरिभद्रसूरिविर० विवृति-मल० हेमचन्द्रसूरिविर० वृत्तिभिः समेतम् ७६ भावावश्यकम्, लोके हि भारत - रामायणयोर्वाचनं श्रवणं वा पूर्वाह्नापराह्णयोरेव रूढम्, विपर्यये दोषदर्शनात् । ततश्चेत्थमनयोर्लोकेऽवश्यकरणीयत्वादावश्यकत्वम्, तद्वाचक श्रोतॄणां च तदर्थोपयोगपरिणामसद्भावाद् भावत्वम्, तद्वाचक - श्रोतारश्च पत्रकपरावर्तनहस्ताभिनय-गात्रसंयतत्व- करकुड्मलमीलनादिक्रियायुक्ता भवन्ति, क्रिया च अनागमत्वेन 5 प्रागिहोक्ता, किरियाऽऽगमो न हो * [ ] त्ति वचनात्, ततश्च क्रियालक्षणे देशे आगमस्याभावात् नोआगमत्वमपि भावनीयम्, नोशब्दस्यात्र देशनिषेधवचनत्वात्, देशे त्वागमोऽस्ति, लौकिकाभिप्रायेण भारतादेरागमत्वात्, तस्माद् यथानिर्दिष्टसमये लौकिकास्तदुपयुक्ता यदवश्यं भारतादिवाचयन्ति शृण्वन्ति वा तल्लौकिकं भावावश्यकमिति स्थितम्, भावमाश्रित्याऽऽवश्यकं भावश्चासावावश्यकं चेति वा भावावश्यकमित्यलं 10 विस्तरेण । सेत मित्यादि निगमनम् । उक्तो नोआगमतो भावावश्यकप्रथमभेद:, अथ तद्वितीयभेदनिरूपणार्थमाह - से किं तं कुप्पावयणियमित्यादि । अत्र च निर्वचनमाह- कुप्पावयणियं भावावस्सयं जे इमे इत्यादि, कुत्सितं प्रवचनं येषां ते तथा, तेषु भवं कुप्रावचनिकं भावावश्यकम्, किं तत् ? उच्यते, य एते चरक - चीरिकादय: पाषण्डस्था यथावसरम् इज्याञ्जलि - होमादीनि 15 भावरूपाण्यावश्यकानि भावावश्यकानि कुर्वन्ति तत् कुप्रावचनिकं भावावश्यकमिति सम्बन्ध: । तत्र चरकादिस्वरूपं प्रागेवोक्तम्, इज्याञ्जल्यादिस्वरूपं तूच्यते - तत्र यजनमिज्या याग इत्यर्थः, तद्विषयो जलस्याञ्जलिरिज्याञ्जलिर्यागदेवतापूजावसरभावीति हृदयम् । अथवा यजनमिज्या पूजा गायत्र्यादिपाठपूर्वकं विप्राणां सन्ध्यार्चनमित्यर्थः, तत्राञ्जलिः इज्याञ्जलिः। अथवा देशीभाषया ईज्जत्ति माता, तस्या नमस्कारविधौ तद्भक्तैः क्रियमाणः 20 करकुड्मलमीलनलक्षणोऽञ्जलिरिज्याञ्जलिः । होम: अग्निहोत्रिकैः क्रियमाणमग्निहवनम्। जपो मन्त्राद्यभ्यासः । उंदुरुक्कंति देशीवचनत उन्दु मुखम्, तेन रुक्कं वृषभादिशब्दकरणमुन्दुरुक्कं देवतादिपुरतो वृषभगर्जितादिकरणमित्यर्थः । नमस्कारो 'नमो भगवते दिवसनाथाय' इत्यादिकः । एतेषां द्वन्द्वे इज्याञ्जलि - होम - जपोन्दुरुक्क - नमस्काराः, ते आदिर्येषां तानि तथा, आदिशब्दात् स्तवादिपरिग्रहः । एतेषां च चरकादिभिरवश्यं क्रियमाणत्वा * दृश्यतां पृ०५० पं० १७ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001106
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 01
Original Sutra AuthorAryarakshit
AuthorPunyavijay, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1999
Total Pages540
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, G000, G010, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy