SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ अनुयोगद्वारसूत्रम् [ सू० २१-२२] ६२ जइ एयस्स णिग्गहो ण कीरइ तओ अण्णे वि विणस्संति त्ति। सेत्तमित्यादि निगमनत्रयं निगदसिद्धम्। [हे० २१ - २२] उक्तो नोआगमतो द्रव्यावश्यकान्तर्गतज्ञशरीरभव्यशरीरव्यतिरिक्तद्रव्यावश्यकप्रथमभेदः। अथ तद्वितीयभेदनिरूपणार्थमाह - से किं तमित्यादि। अथ किं तत् कुप्रावचनिकं द्रव्यावश्यकम् ? अत्र निर्वचनम् – कुप्पा-वयणियं 5 दव्वावस्सयं जे इमे इत्यादि, कुत्सितं प्रवचनं येषां ते कुप्रवचनास्तेषामिदं कुप्रावचनिकं द्रव्यावश्यकम्। किं पुनस्तदित्याह – जेइमेइत्यादि, य एते चरक-चीरिकादय:प्रभातसमये इन्द्र-स्कन्दादेरुपलेपनादि कुर्वन्ति तत् कुप्रावचनिकं द्रव्या- वश्यकमिति समुदायार्थः। तत्र धाटिवाहका: सन्तो ये भिक्षां चरन्ति ते चरका:, अथवा ये भुञ्जानाश्चरन्ति ते चरका: । रथ्यापतितचीरपरिधानाश्चीरिकाः, अथवा येषां चीरमयमेव सर्वमुपकरणं ते 10 चीरिका: । चर्मपरिधानाश्चर्मखण्डिका:, अथवा चर्ममयं सर्वमेवोपकरणं येषां ते चर्मखण्डिकाः । ये भिक्षामेव भुञ्जते न तु स्वपरिगृहीतगोदुग्धादिकं ते भिक्षोण्डा:, सुगतशासनस्था इत्यन्ये । पाण्डुराङ्गा भस्मोद्धूलितगात्राः। विचित्रपादपतनादिशिक्षाकलापयुक्तवराटकमालिकादिचर्चितवृषभकोपायत: कणभिक्षाग्राहिणो गौतमाः । गोचर्यानुकारिणो गोव्रतिकाः, ते हि वयमपि किल तिर्यक्षु वसाम इति भावनां भावयन्तो 15 गोभिर्निर्गच्छन्तीभिः सह निर्गच्छन्ति स्थिताभिस्तिष्ठन्त्यासीनाभिरुपविशन्ति।भुजानाभिस्तद्वदेव तृण-पत्र-पुष्प-फलादिभुञ्जते । तदुक्तम् - गावीहिंसमं निग्गमपवेसठाणासणाइपकरेति। भुंजंति जहा गावी तिरिक्खवासं विभावंता॥१॥[ गृहस्थधर्मएव श्रेयानित्यभिसन्धाय तद्यथोक्तचारिणोगृहिधर्माः। तथाचतदनुसारिणां 20 वच: - गृहाश्रमसमो धर्मो न भूतो न भविष्यति। तं पालयन्ति ये धीरा: क्लीबा: पाषण्डमाश्रिताः॥१॥[ ]इति । याज्ञवल्क्यप्रभृतिऋषिप्रणीतधर्मसंहिताश्चिन्तयन्ति ताभिश्च व्यवहरन्तीति धर्म Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001106
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 01
Original Sutra AuthorAryarakshit
AuthorPunyavijay, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1999
Total Pages540
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, G000, G010, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy