SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् ६४ पाउ इत्यादि, प्रादुः प्राकाश्ये, ततश्च प्रकाशप्रभातायां रजन्याम्, किञ्चिदुपलभ्यमानप्रकाशायामिति भावः । तदनन्तरं सुविमलायां तस्यामेव किञ्चित्परिस्फुटतरप्रकाशायाम् । अथशब्द आनन्तर्ये, तदनन्तरं पाण्डुरे प्रभाते । कथंभूत इत्याह फुल्लोत्पलकमलकोमलोन्मीलिते, फुल्लं विकसितं तच्च तदुत्पलंचफुल्लोत्पलम्, कमल: 5 हरिणविशेष:, फुल्लोत्पलं चकमलश्चफुल्लोत्पल-कमलौ, तयोःकोमलम् अकठोरं दलानां नयनयोश्चोन्मीलितम् उन्मीलनं यत्र प्रभाते तत् तथा, अनेन च प्रागुक्तायाः सुविमलतायाः वक्ष्यमाणसूर्योदयस्य चान्तरालभाविनीं पूर्वस्यां दिश्यरुणप्रभावस्थामाह। तदनन्तरम् उठ्ठिए सूरिएत्तिअभ्युद्गते आदित्ये, कथम्भूते इत्याह - रक्ताशोकप्रकाश-किंशुक-शुकमुखगुजार्धरागसदृशे, रक्ताशोकप्रकाशस्य किंशुकस्यपुष्पितपलाशस्यशुकमुखस्य गुञ्जार्धस्य 10 चरागेण सदृशो यःस तथा तस्मिन्, आरक्ते इत्यर्थः। तथा कमलाकरनलिनीषण्डबोधके, कमलानामाकरा उत्पत्तिभूमयो ह्रदादिजलाशयविशेषास्तेषुयानिनलिनीषण्डानितेषांबोधको य:स तथा तस्मिन्। पुन: किंभूतेतस्मिन्नित्याह-सहस्ररश्मी, दिनं करोतीति दिनकरस्तस्मिन, तेजसा ज्वलति, तत्रैते भावा: सर्वेऽपि सन्तीति ज्ञापनार्थं सूर्यस्य विशेषणबहुत्वम् । अनेन चोत्तरोत्तरकालभाविना आवश्यककरणकालविशेषणकलापेन प्रकृष्ट-मध्यम15 जघन्योद्यमवतां सत्त्वानां तं तमावश्यककरणसमयमाह। तथाहि - केचित् प्रकृष्टोद्यमिनः किञ्चित्प्रकाशमात्रायां रजन्यां मुखधावनाद्यावश्यकं कुर्वन्ति, मध्यमोद्यमिनस्तु तस्यामेव सुविमलायामरुणप्रभावसरे वा, जघन्योद्यमिनस्तु समुद्ते सवितरीति। मुहधोवणेत्यादि, मुखधावनं च दन्तप्रक्षालनं च तैलं च फणिहश्च सिद्धार्थाश्च हरितालिका चआदर्शश्चधूपश्चपुष्पाणि चमाल्यं चगन्धाश्चताम्बूलंचवस्त्राणि च तान्यादिः 20 येषां स्नाना-ऽऽभरण-परिधानादीनां तानि तथा । तत्र फणिहः कङ्कतकः, तं मस्तकादौ व्यापारयन्ति । सिद्धार्थाः सर्षपा:, हरितालिका दूर्वा, एतद्वयं मङ्गलार्थं शिरसि प्रक्षिपन्ति।आदर्श तु मुखादिनिरीक्षन्ते।धूपेन तु वस्त्रादि धूपयन्ति। अग्रथितानिपुष्पाणि, तान्येव ग्रथितानि माल्यम्, अथवा विकसितानिपुष्पाणि, तान्येवाविकसितानि माल्यम्, एतेषांचमस्तकादिषूपयोगः। शेषं स्वरूपत उपयोगतश्चप्रतीतमेव। एतानिद्रव्यावश्यकानि 25 कृत्वा तत: पश्चाद् राजकुलादौ गच्छन्ति । तत्र रमणीयतातिशयेन स्त्रीपुरुषमिथुनानि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001106
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 01
Original Sutra AuthorAryarakshit
AuthorPunyavijay, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1999
Total Pages540
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, G000, G010, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy