SearchBrowseAboutContactDonate
Page Preview
Page 675
Loading...
Download File
Download File
Page Text
________________ જૈન પરંપરાને ઇતિહાસ-ભાગ ૨ [ પ્રકરણ यत्र तत्र समये तथा यथा योऽसि सोऽस्यभिधया यया तया । वीतदोषकलुषः स चेद् भवान्नेक एव भगवन् ! नमोऽस्तु ते ॥३१॥ (-अयोगव्यवच्छेद-द्वात्रिंशिका) स्वयं विवादग्रहिले वितण्डापाण्डित्यकण्डूलमुखे जनेऽस्मिन् । मायोपदेशात् परमर्म भिन्दन्नहो ! विरक्तो मुनिरन्यदीयः ॥१०॥ न धर्महेतुर्विहिताऽपि हिंसा नोत्सृष्टमन्यार्थमपोद्यते च । स्वपुत्रघातानृपतित्वलिप्सासब्रह्मचारि स्फुरितं परेषाम् ॥११॥ प्रतिक्षणोत्पाद-विनाशयोगिस्थिरैकमध्यक्षममीक्षमाणः । जिन ! त्वदाज्ञामवमन्यते यः स वातकी नाथ ! पिशाचकी वा ॥२१॥ (-अन्ययोगव्यवच्छेद-द्वात्रिंशिका) कुण्ठाऽपि यदि सोत्कण्ठा त्वद्गुणग्रहणं प्रति । ममैषा भारती तहिं स्वस्त्येतस्यै किमन्यथा ! ॥२-७॥ क्षण सक्तः क्षणं मुक्तः क्षणं क्रुद्धः क्षणं क्षमी । मोहाद्यैः क्रिडयैवाहं कारितः कपिचापलम् ॥१६-४॥ तव चेतसि वर्तेऽहमिति वार्ताऽपि दुर्लभा । मञ्चित्ते वर्तते चेत् त्वमलमन्येन केनचित् ॥१९-१॥ तव प्रेष्योऽस्मि दासोऽस्मि सेवकोऽस्म्यस्मि किङ्करः । ओमिति प्रतिपद्यस्व नाथ ! नातः परं ब्रुवे ||२०-८॥ स्वयं ज्ञापयसे तत्त्वं मार्ग दर्शयसि स्वयम् । स्वयं च त्रायसे विश्वं त्वत्तो नाथामि नाथ ! किम् ॥ (-वीतरागस्तोत्र) बने पद्मासनाऽऽसीनं क्रोडस्थितमृगार्भकम् । कदाऽऽघ्रास्यन्ति वक्त्रे मां जरन्तो मृगयूथपाः ॥१४५॥ शत्रौ मित्रे तृणे स्त्रैणे स्वर्णेऽमनि मणौ मृदि । मोक्षे भवे भविष्यामि निर्विशेषमतिः कदा ? ॥१४६॥ (-अडोलभावना, योगशास्त्र, प्र० ३) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001077
Book TitleJain Paramparano Itihas Vol 2
Original Sutra AuthorN/A
AuthorDarshanvijay, Gyanvijay, Nyayavijay
PublisherCharitra Smarak Granthmala
Publication Year1960
Total Pages820
LanguageGujarati
ClassificationBook_Gujarati, History, & Story
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy