SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ हेतुबिन्दु टीकालोकः । ર अनवसितः-अनवधारितः, विवेक:- अन्यत्वं येन स तथा तस्य [ ५.६] । तदनवसाय एव कुत इत्याह - समवायस्य [ ५.६] इति । समवायेन हि सम्बद्धं सामान्यमिति-नैयायिकादीनां मतम् । तस्य' सामान्यस्याध्यवसायात् [ ५७ ] समारोपात् । तत्र [५.७] स्वलक्षणे । ननु किमिदं समवायस्य सूक्ष्मत्वं विवक्षितम् । यदि परिमाणविशेषयोगित्वम्, तदस्य 5 न सम्भवति । अथाप्युपलब्धिजननयोग्यरूपरहितत्वं तदपि तदभावात्तदेव नोपलभ्यताम्, न तु तस्य ताद्रूप्येण सामान्यतद्वतोर्भेदानुपलक्षणमुपपद्यते । न च समवायो नोपलभ्यते नैयायिकमते समवेतविशेषणभावेन तस्योपलब्धेरिष्टत्वात् । तन्मतस्य चाशंक्यमान त्वादिति । १.५.पं.८.] न, अभिप्रायापरिज्ञानात् । इह हि सूक्ष्मत्वं समवायस्य समवायिनोर्भेदेनानुपलम्भकत्वं 10 विवक्षितम् । एष हि समवायस्य महिमा येन समवायिनौ निर्लुठितगर्भवद्भेदेन नोपलम्भयति पटतन्त्वादिवदिति । अन्यथा व्याख्यानं तु साहसमेव । अत्र एवं तर्हि [५.७] इति प्रतिविधानम् । इह भ्रान्तेस्त्वयाऽप्यवश्याभ्युपगन्तव्यत्वाद् भ्रान्तिमात्रमेवास्तु [ ५.८] इत्याह । वासनाद्वयनिबद्धो हि विकल्पः स्वाभासमेवागोव्यावृत्तं प्रतियन् बाह्यस्याप्यगोव्या- 15 वृत्ततया भेदमवगाहितुमनीशानो बाह्य एव गौर्मया प्रतीत इत्यभिमन्यमा [76] 'नः प्रकृत्यैव भ्रान्तिरूपो जायते । भ्रान्तिरेव भ्रान्तिमात्रम् [ ५.८] वस्तुभूतसामान्यशून्यं स्वलक्षणाश्रयतया अनुमानज्ञानाश्रयतयोपगतत्वेन च तयोरन्तर्वर्तित्वादनुपयोगितया च घाटामस्तकान्तरालवर्तमांसपिण्डरूपगडुस्थानीयत्वात् ग़डुरूपं [५.८] तेन तद्विषयतयोपगतेनेति प्रकरणात् 20 किं [५.८] न किञ्चिदित्यर्थः । अयमस्याशयः ― - यदि विकल्पो दृश्यविकल्प्यावर्थावेकीकृत्य लोकं प्रवर्तयितुं न शक्नुयात् यदि च तदुपगमेऽपि भ्रान्तिः प्रवृत्तिनिमित्तं नोपगम्येत, तदा तथा प्रवृत्तौ सामान्यमुपयुज्येतापि । यदि च तत् प्रमाणप्रसिद्धं भवेत् गडुवदेवानुपयुक्तमपि उपगम्येत, उपगम्य च तथा प्रवृत्तिरिष्येत, यावता सर्वमेवेदमसम्भवीति । ननु निर्निबन्धनोऽन्यत्रान्यस्य समारोपो नोपपद्यते । न च व्यक्तिषु सर्वतो व्यावृत्तासु अनुगताकारस्य बुद्धिप्रतिभासस्यारोपे किञ्चिन्निमित्तमस्ति । तत् कथं भ्रान्त्या प्रवृत्तिकल्पना ज्यायसीत्यभिप्रायवानाह - निर्बीजे [ ५८ ] | १. आलोकसंमतः ' तदध्यवसायात् ' इति पाठ: । 'अवसायात् ' s । Jain Education International For Private & Personal Use Only 25 www.jainelibrary.org
SR No.001073
Book TitleHetubindu Tika
Original Sutra AuthorDharmakirti Mahaswami
AuthorArchatt Bhatt, Durvek Mishra Pandit, Sukhlal Sanghavi, Jinvijay, B Bhattacharya
PublisherOriental Research Institute Vadodra
Publication Year1949
Total Pages523
LanguageSanskrit
ClassificationBook_Devnagari, Philosophy, B000, & B999
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy