SearchBrowseAboutContactDonate
Page Preview
Page 482
Loading...
Download File
Download File
Page Text
________________ २०४५) अ. ८ सू. ९-१०] काव्यानुशासनम् 1 मध्यादुपान्ततो वा ग्रन्थान्तरप्रसिद्धमितिवृत्तं यस्यां वर्ण्यते सा इन्दुमत्यादिवत् खण्डकथा । समस्तफलान्तेतिवृत्तवर्णना समरादित्यादिवत् सकलकथा | एकतरचरिताश्रयेण प्रसिद्ध कथान्तरोपनिबन्ध उपकथा । लम्भाङ्किताद्भूतार्था नरवाहनदत्तादिचरितवद् बृहत्कथा । एते च कथाप्रभेदा एवेति न पृथग्लक्षिता: । २०४) गद्यपद्यमयी साङ्का सोच्छ्वासा चम्पूः ॥ ९ ॥ संस्कृताभ्यां गद्यपद्याभ्यां रचिता, अभिप्रायेण यान्यङ्कनानि स्वनाम्ना परनाम्ना वा कविः करोति तैर्युक्ता उच्छ्रासनिबद्धा चम्पूः । यथा वासवदत्ता दमयन्ती वा । २०५) अनिबद्धं मुक्तकादि ॥ १०॥ मुक्तक संदानितकविशेषककलापक कुलकपर्याकोशप्रभृत्य निबद्धम् । aण्डकथेति । तथा च--- (199) ग्रन्थान्तरप्रसिद्धं यस्यामितिवृत्तमुच्यते विबुधैः । मध्यादुपान्ततो वा सा खण्डकथा यथेन्दुमती ॥ सकलकथेति । चरितमित्यर्थः । उपकथेति । तथा च ( 200 ) यत्राश्रित्य कथान्तरमतिप्रसिद्धं निबध्यते कविभिः । चरितं विचित्रमन्यत्सोपकथा चित्रलेखादिः ॥ बृहत्कथेति । तथा च (201) लम्भाङ्किताद्भुतार्था पिशाच भाषामयी महाविषया । नरवाहनदत्ता देश्वरितमिव बृहत्कथा भवति ॥ ॥ इति आचार्य श्री हेमचन्द्रविरचिते विवेकेऽष्टमोऽध्यायः ॥ 1. I. समरादित्यवत् ५९ ४६५ Jain Education International For Private & Personal Use Only १० १५ २० www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy