SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ -३१८ १० १५ २० २५ काव्यानुशासनम् [१०८) अ. १. सू. ४ मध्ययमक मन्तादिकमिदम् । त्वं सद्गतिः सितापारा पराविद्योतितीर्षतः । 1 संसारादत्र चाम् त्वं सत्त्वं पासि विपत्तितः ॥ ५०५॥ [ दे. श. लो. ८४ ] . स्वं शोभना गतिः । निर्मला अनन्ता प्रकृष्टं तत्वज्ञानम् । अत्र भवे । हे मातः । प्राणिनमापदः । गूढचतुर्थः । परमा या तपोवृत्तिरार्यायास्तां स्मृतिं जना: । परमायात पोषाय धियां शरणमादृताः ॥ ५०६ ॥ [ दे. श. श्लो. ८५] हे जना: अत्यर्थ सादराः सन्तः देव्यास्तां स्मृतिं स्मरणमागच्छत । किंविधा । या स्मृतिः प्रकृष्टा तपोवृत्तिः । देवीस्मरणमेव परमं तप इत्यर्थः । अनियतावयवं यमकमिदम् । प्रवादिमतभेदेषु दृशस्ते महिमाश्रयः । भान्ति वशिखस्येव शिखानामसमाश्रयः ॥ ५०७ ॥ [ दे. श. को. ८६. ] दर्शनानि महिनामाश्रयः । यानि प्रवादिनां भिन्नानि ज्ञानानि तास्त्वदीया दृष्ट इति तात्पर्यम् । भवत्रिशूलस्य कोटीनां विषमधारा इव । अन्तयमकम् । यचेष्टया तव स्फीतमुदारवसु धामतः । तच्चेतो यात्यवहितं मुदा रवसुधामतः ॥५०८॥ [दे. श. लो. ८७ ] यच्चेतस्तव श्रवणचिन्तनाध्ययनादिव्यापारेण विकसित सावधानं च । अत एव शाश्वतधनरूपम् । तच्चेतो हर्षेणोपलक्षितं धामतोऽतो मोक्षलक्षणात् । वसुधां शब्दामृतं शब्दब्रह्मोदयं याति । गोमूत्रिकाबन्धो यमकं च । सुरदेशस्य ते कीर्ति मण्डनत्वं नयन्ति यैः । वरदे शस्यते धीरैर्भवती भुवि देवता ||५०९ ॥ [ दे. श. लो. ८८. ] स्वर्गस्य । ते पुमांसः । हे वरदे । धीरैरविकृतचित्तैः । तेषां कीर्तिः स्वर्गे यातीति भावः । अनियतावयवं यमकम् । पादपरावृत्त्या गोमूत्रिकापि । तत्त्वं वीतावततत्तत्त्वं ततवती ततः । 3 वित्तं वित्तव वित्तत्वं वीतावीतवतां बत ॥५१०॥ [ दे. श. लो. ८९] यतस्त्वं भवती तत्तत्वं परब्रह्मस्वरूपम् । वीतावतततुत् विगत विस्तीर्णब्यथम् । विस्तारितवती । सांख्यानां त्वमेव यस्मात्सर्वत्र प्रधानमित्यर्थः । ततो 2 A drops रम तप 1. A. drops त्वं, B ' म्बत्वे 3 A. C. have some unnecessary additional letters. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy