SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ २९२ काव्यानुशासनम् [१०३) अ. ४ सू. ९ दातारो यदि कल्पशाखिभिरलं यद्यर्थिनः किं तृणैः सन्तश्चेदमृतेन किं यदि खलास्तत्कालकूटेन किम् । किं कर्पूरशलाकया यदि दृशोः पन्थानमेति प्रिया संसारेऽपि सतीन्द्रजालमपरं यद्यस्ति तेनापि किम् ॥४२॥ माधुर्योजःप्रसादव्यञ्जकाश्च वर्णा उपनागरिका परुषा कोमला च वृत्तिरित्याचक्षते। वैदर्भी गौडीया पाञ्चाली चेति रीतय इत्यन्ये । यदाह(32) माधुर्यव्यञ्जकैर्वर्णैरुपनागरिकेष्यते । ओजःप्रकाशकैस्तेऽस्तु परुषा कोमला परैः ॥ ____ केषाञ्चिदेता वैदर्भाप्रमुखा रीतयो मताः ॥ [ ] यद्यपि गुणेषु नियता वर्णादयस्तथापि--- १०३) वक्तृवाच्यप्रबन्धौचित्याद्वर्णादीनामन्यथात्वमपि।९। तत्र वाच्यप्रबन्धानपेक्षया वक्त्रौचित्यादेव वर्णादयः । यथामन्थायस्तार्णवाम्भःप्रतिकुहरवलन्मन्दरध्वानधीरः कोणाघातेषु गर्जप्रलयघनघटाऽन्योन्यसंघट्टचण्डः । कृष्णाक्रोधाग्रदूतः कुरुकुलनिधनोत्पातनिर्घातवातः केनास्मात्सिंहनादप्रतिरसितसखो दुन्दुभिस्ताडितोऽयम् ।४२८। [वे. सं. अं. १. श्लो. २२ ] अत्र यद्यपि न वाच्यं क्रोधादिव्यञ्जकं काव्यं चाभिनेयार्थ, तथापि भीमसेनस्य वक्तुरौचित्यादुद्धता वर्णादयः । __ अत्रेति । यदि हि क्रोधादिव्यञ्जकं वाच्यं भवेत्तत उपपद्येरन्नुद्धता रचनादयः । न चैतदनभिनेयार्थ, येन स्वेच्छाप्यनुमन्येत रचनादीनाम् । किं त्वभिनेयार्थमिदम् । न च तत्र रौद्रादावप्युद्धता रचनादय उपपन्नाः । अतो वक्रौचित्यादेव रघनादीनामप्यन्यथात्वमत्रेत्यर्थः । 1. A. B. ०नामन्यथा० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy