SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ कारिका ११.] भूतचैतन्यविवेकः। ६१३. किन, चक्षुरादिभ्यः किमेकैकशो मनोविज्ञानमुत्पद्यते, समस्तेभ्यो वा ? । प्रथमपक्षे नियतविषयमेव मनोज्ञानं स्याद् रूपादिदर्शनादिवत् । द्वितीये तु नान्धबधिरादेर्मनो. विज्ञानं स्यात् । न हि बीजादिभ्यः समस्तेभ्यः समुत्पद्यमानोऽहरस्तदेकापायेऽप्युत्पद्यते । वन पक्षुरादिकार्यता। ६१४. नापि प्राणापानकार्यता । प्राणापानौ हि मनोविज्ञानान्वयव्यतिरेकानुविधायिनी ।। न मनोविज्ञानं वदन्वयव्यतिरेका विधायि । अन्यथा मूर्छाविच्छेदे चैतन्यं न स्यात् । कार्यतामन्तरेण मनोहानपश्यता च तयोर्न स्यात् । न खल्वन्याधीनम् अन्येन वशयितुं शक्यम् । अथ अन्यत उत्पनोऽपि अन्येन नियम्यते, यथा स्वामिना मृत्यः । तदप्यसत् । _ "भृत्यस्यान्यत उत्पत्तिश्यते न पुनस्तयोः। मचित्तमन्तरेणास्ति तयोरुत्पत्तिरन्यतः॥" ६१५. अथ स्वापावस्थायां प्राणापानौ चित्तमन्तरेणापि दृश्येते । तत् कथं तत्कायौँ । वन । निद्रामिभूतस्य तदाऽपि भावात् । "शरीरपंच यावत्यस्ताः सर्वातिसंस्कृताः। सुप्तस्य दीर्घहलादिनिःश्वासा पूर्वचित्ततः॥" नहि चैतन्यमन्तरेण प्रेरणाकर्षणे भवतः । न च प्रेरणाकर्षणे एव चैतन्यात् नं प्राणापानाविति । वत्स्वरूपव्यतिरेकेण प्रेरणाकर्षणयोरभावात् । ६१६. अब स्थिरो वायुः प्राणापानयोहेतुः, ततश्चेतना । तदप्यसत् । मृतस्यापि खिरो बाबुरस्ति इति प्राणापानानिवृत्तौ चैतन्यस्वानिवृत्तिः स्यात् । यदि च प्राणापानकार्य चैतन्य सदा योनि सातिशये तस्यापि तो स्याताम् । अवश्यं हि कारणे परिहीयमानेऽभिवर्धमाने वा कार्यस हानिरूपचयश्च स्यात् । अन्यथा तत् तस्य कार्यमेव न भवेत् । न चैवम् । अवो न शरीरेन्द्रियप्राणापानकार्य चित्तम् । ६१७. नापि देहाभितम् । आश्रयायिभावप्रतिषेधात् । तथा हि-असतस्तावत् खरविषाणस्येव नाश्रयः । केवलमसत् कारणादुत्पत्तिमेवेहते, अतोऽसतः कारणमेव स्थात्, नाश्रयः । सतोऽपि सर्वनिराशंसत्वात् न कश्चिदाश्रयः । अथ सतः स्थितिकरणीदाश्रयः । न, स्थितेः स्थातुरव्यतिरेके तत्करणे स एव कृतः स्यात् । न च सत: करणमुत्पन्नस्य पुनरुत्पादायोगात् । अथोत्पन्नस्यापि किश्चिदनुत्पन्नमस्ति तत्करणादाश्रयः । सर्वामनोत्पादे कारणमुच्यते, कस्यचितु धर्मस्योत्पादे आधारः । न च स्थितिरव्यतिरिक्ता खरूपात्, पततोऽपि खित्यभावे स्वरूपसनावात् । यदि पुनरव्यतिरिका स्थितिः स्यात्, स्थिते. रव्यतिरिक्तः स भवेत्, ततः सर्वदा स्थितिरेव भवेत् । तेन खरूपे सति निवर्तमाना विरुद्ध धर्माभ्यासात् ततो व्यतिरिका सा । तदप्यसत् । व्यतिरेके" हि सति तदेतुरेवासौ, न. वस्यापार। १. ये उत्पमु०। २. रेकविधायि अ००। ३. स्यात् कार्य अ० ब० मु०। ४.मिद्धाभि म.ब, सिसाभिक०। ५. ताः खार्थाश्चिक0मु०। ६.त्र्यात् प्राणामु०।७. न्यानिक०। ८.करणे वाश्रयः मु०। ९. रेकेण तत्क' मु०। १०. तत्कारणामु०। ११. भाधारोऽनवस्थिति म०प०। १२. °तिरिके हि मु०। न्या०७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001047
Book TitleNyayavatarvartik Vrutti
Original Sutra AuthorSiddhasen Divakarsuri
AuthorShantyasuri, Dalsukh Malvania
PublisherSaraswati Pustak Bhandar Ahmedabad
Publication Year2002
Total Pages525
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Nyay, Philosophy, P000, & P010
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy