SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ १२ न्यायावतारसूत्रवार्तिकवृत्तौ [१. सामान्यल० परि० कत्वम् । किन्तु संबन्धबलात् । न च तेषां बहिरथैः संबन्धोऽस्ति । विवक्षायां संबन्धेऽपिन ये यथा यमर्थ विवक्षन्ति ते तथैव तमर्थ प्रतिपादयन्तीति, विसंवादनाभिप्रायाणामन्यथाभिधाय अन्यथा प्रवृत्तिदर्शनात् इति' कथं प्रेक्षावतां प्रवृत्त्यर्थमादिवाक्यमिति ।। ६४. सत्राक्षेपपरिहारः । 'निष्फलमिदं शास्त्रं काकदन्तपरीक्षावत् । अशक्यानुष्ठानं वा • ज्वरहरतक्षकचूडारमालकारोपदेशवत् । अनभिमतं वा माविवाहोपदेशवत् । अतो वा शानात् लघुतर उपायः प्रमाणव्युत्पत्तेः । अनुपाय एव वा इदम्'-इत्यनर्थसंशयनिवृत्यर्थम् , अर्थसंशयोत्पादनार्थ प्रेक्षावतामादिवाक्यमिति । ते हि कृषीवलादय इव अर्थसंशयात् प्रवर्तन्त इति । ६५. एतदन्ये दूषयन्ति । युक्ता :षीवलादीनाम् अवधृतबीजाबीजखभावानाम् उपायनिश्चये " सति उपेये संदेहेऽपि प्रवृत्तिरिति । अत्र तु उपायनिश्चयाभावात् क प्रवृत्तिरिति । साधकबाधकप्रमाणाभावाचार्थसंशयस्यानिवारितत्वात् । तथा, प्रमाणव्युत्पादकानां च शालान्तराणां दर्शनात्-'कि अस्य प्रमाणव्युत्पत्तिः प्रयोजनम् , उतान्यद्' इति प्राक्प्रवर्तमानः संशयः केन विनिवार्येत । तस्मात्-'प्रेक्षावतां प्रवृत्तिः प्रयोजनवत्तया व्याप्तेति निःप्रयोजनमिदं शास्त्र नारग्धव्यम्' इति व्यापकानुपलब्ध्या प्रत्यवतिष्ठमानस्य परस्यासिद्धतोदावनम् अनेन क्रियत ॥ इति । न चैतद् वाध्यम्-अप्रमाणकेनानेन कथमेतदपि क्रियत इति । यतः अप्रमाणकेनैव वचसा परेण व्यापकानुपलब्धिरुपन्यस्ता । सा च वचनमात्रेणैवासिद्धोद्भाव्यत इति । ६. एतदप्यपरे दूषयन्ति । यतो यथाऽसिद्धसाधनमादाय वादी प्रत्यवतिष्ठमानो निगृह्यते तथाऽसहूषणवादी प्रतिवाथपीति । अथ अप्रे तस्यार्थस्य शास्त्रेण समर्थनात् न दोष इति । ययेवं तर्हि आदिवाक्येन शास्त्रार्थः प्रतिज्ञायत इति युक्तम् । .६७. एतदप्ययुक्तम् । यतः शास्त्रार्थोऽनेन किं प्रमाणभूतेन प्रतिज्ञायते, किंवाऽप्रमाण. भूतेनेति । तत्र यदि प्रतिज्ञैव प्रमाणभूता साध्यार्थ प्रतिपादयति, किमङ्ग हेतूपन्यासेन ? अब अप्रमाणभूता, तर्हि तदेव दूषणमिति । तस्मात् वचनस्य प्रत्यक्षाविवत् प्रमाणभूतत्वात् ततः प्रेक्षावतां फलार्थिनां युक्ता प्रवृत्तिरिति युक्तम् । अथ कस्यचिद्वाक्यस्स-'नद्यातीरे शर्कराशकटं पर्यस्तम्-इत्यादिकस्य मिथ्यारूपस्योपलब्धेः कथं प्रेक्षावतां ततः प्रवृत्तिरित्यमिधीयते; तर्हि मरुमरीचिकाजलोल्लेखिनो ज्ञानस्य मिथ्यात्वोपलब्धेः कथं प्रेक्षावता प्रत्यक्षादेरपि प्रवृत्तिरिति । अथ मिथ्येतरयोः संवादासंवादलक्षणो विशेषोऽस्तीत्युच्यते; अत्रापि बाप्तप्रणीतत्वानाप्तप्रणीतत्वलक्षणोऽस्तीति वक्ष्यामः । नच शब्दानां संबन्धबलादर्यप्रतिपाद. कत्वम्, किन्तु विवक्षावशात् । सा च पुरुषसत्यत्वासत्यत्वेन सत्येतरा भवन्ती शब्दानां सत्यस्वासत्यत्वं ख्यापयतीति पुरुषप्रामाण्यमेव दर्पणसंक्रान्तं प्रतिबिम्बमिव शब्देष्वभिधीयत १. विसंवादेनामि०म०। २. इति तत्राक्षेपपरिहारः अ०। ३. तत्र निष्फलमिदं प०कमु०। ४. असाध्यानु मु०। ५. तामादी वाच्य मु०। ६. कृषिवला अ०प०। ७. उपेयर्सदे क०मु०। ८. °स्य निवामु०क०। ९. विनिवार्यते अ०।१०. साध्यमर्थम् मु०क०। ११. इत्यादिवाक्यस्य ०। १३. प्रत्यक्षादपि मु०। १३. प्रणीतखाऽप्रणीतबलक्ष क० मु०। १४. वक्षामः क०। १५. 'सत्यासपन । सत्यासत्सेनक०म० १६. सत्यतासत्यखं म०क०। १७. संक्रान्तप्रक० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001047
Book TitleNyayavatarvartik Vrutti
Original Sutra AuthorSiddhasen Divakarsuri
AuthorShantyasuri, Dalsukh Malvania
PublisherSaraswati Pustak Bhandar Ahmedabad
Publication Year2002
Total Pages525
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Nyay, Philosophy, P000, & P010
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy