SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ श्री शत्रुञ्जयमण्डन-श्री ऋषभदेवस्वामिने नमः । श्री पद्मप्रभस्वामिने नमः । श्री शंखेश्वरपार्श्वनाथाय नमः । श्री नाकोडापार्श्वनाथाय नमः । श्री नाकोडाभैरववीराय नमः । श्री महावीरस्वामिने नमः । श्री गौतमस्वामिने नमः । पूज्यपादाचार्यमहाराजश्रीमद्विजयसिद्धिसूरीश्वरजीपादपद्मभ्यो नमः । पूज्यपादाचार्यमहाराजश्रीमद्विजयमेघसूरीश्वरजीपादपद्मभ्यो नमः । पूज्यपादसद्गुरुदेवमुनिराजश्री भुवनविजयजीपादपद्मभ्यो नमः । आमुखम् । परमकृपालोः परमात्मनः पूज्यपादानां परमोपकारिणां सद्गुरुदेवानां पितृचरणानां मुनिराजश्री भुवनविजयजीतातपादानां च कृपया द्वादशाङ्ग्यां तृतीयस्य श्री स्थानाङ्गसूत्रस्य हस्तलिखितप्राचीनविविधादर्शाद्यनुसारेण संशोधनं विधाय आगमभक्तानां पुरत उपन्यस्यन्तो वयमद्यामन्दमानन्दमनुभवामः । विरचयितार:- अस्य सूत्रस्य रचना भगवतो महावीरस्वामिनः शिष्येण पञ्चमगणभृता सुधर्मस्वामिना विहिता इति श्वेताम्बराचार्याणामभिमतम्, प्रथमेन गणभृता भगवता इन्द्रभूतिना गौतमस्वामिना विहिता इति तु दिगम्बराचार्याणामभिमतम् । एवं च २५५९ वर्षेभ्यः प्रागेतत् स्थानाङ्गसूत्रं विरचितमिति उभयेषां श्वेताम्बर-दिगम्बराणां सम्मतम् । ___ सत्यप्येवं वीरनिर्वाणसंवत् ९८० तमे ९९३ तमे वा वर्षे संघसमवायेन यदा श्रीदेवर्द्धिगणिक्षमाश्रमणैर्विहितं पुस्तकालेखनं तदा, ततः पूर्वं वा कस्मिंश्चित् समये, केषुचित् सूत्रांशेषु अन्यकर्तृकं संक्षेपणं प्रक्षेपणं वाऽवश्यं सञ्जातमस्तीति ऐतिह्यविदः संशोधका आमनन्ति। कालक्रमेण दुर्भिक्षादिकारणबाहुल्येन श्रमणैः कण्ठस्थीकृता अनेकेंऽशा व्यवच्छिन्ना बहूनां सूत्राणामिति तु सर्वेऽपि अभ्युपगच्छन्ति । यतः स्थानाङ्गं ७२००० द्वासप्ततिसहस्रपदपरिमितमासीदिति श्वेताम्बरशास्त्रेषु अनेकस्थानेषु वर्णितम् । दिगम्बरमतानुसारेण तु स्थानाङ्गे ४२००० द्विचत्वारिंशत् पदसहस्राणि आसन् । सम्प्रति तु स्थानाङ्गे द्वात्रिंशताऽक्षरैरेकोऽनुष्टप् श्लोक इति गणनया किञ्चिदधिकाः ३७०० श्लोका एव विद्यन्ते । तथा च स्थानाङ्गस्य परिमाणे कालक्रमेण महान् हासः संजात इति स्पष्टमेव । नामार्थ:- “तिष्ठन्ति आसते वसन्ति यथावदभिधेयतया एकत्वादिभिर्विशेषिता आत्मादयः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy