SearchBrowseAboutContactDonate
Page Preview
Page 504
Loading...
Download File
Download File
Page Text
________________ १२७ त्रिस्थानके तृतीयोद्देशकटीकागतगाथाविवरणम् भवति लोके तथाभूतप्ररूपकात्, शेषाणामपि गुणहानिः सन्नायकाभावात्, तीर्थोच्छेदश्च भावेन, ततः सम्यग्ज्ञानाद्यप्रवृत्तेरिति ॥९॥ पृ०२३७] सुत्तत्थे निम्माओ, पिअदढधम्मोऽणुवत्तणाकुसलो । ___ जाईकुलसंपन्नो, गंभीरो लद्धिमंतो अ ॥१०॥ [पञ्चव० १३१५] व्या० सूत्रार्थे निर्मातो निष्ठितः, प्रियदृढधर्म: उभययुक्तः, अनुवर्त्तनाकुशल: उपायज्ञः, 5 जातिकुलसम्पन्न: एतद्द्वयसमन्वितः, गम्भीरो महाशयः लब्धिमांश्चोपकरणाद्यधिकृत्येति ॥१०॥ संगहुवग्गहनिरओ, कयकरणो पवयणाणुरागी अ । एवंविहो उ भणिओ, गणसामी जिणवरिंदेहिं ॥११॥ [पञ्चव० १३१६] व्या० सङ्ग्रहोपग्रहनिरतः सङ्ग्रह उपदेशादिना उपग्रहो वस्त्रादिना, अन्ये पुनरत्र व्यत्ययं 10 वदन्ति, कोऽर्थः ? सङ्ग्रहो वस्त्रादिना उपग्रह उपदेशादिना, कृतकरणोऽभ्यस्तक्रियः, प्रवचनानुरागी च प्रकृत्या परार्थप्रवृत्तः, एवंविध एव भणित: प्रतिपादितो गणस्वामी गच्छाधिपो जिनवरेन्द्रैः भगवद्भिरित्यर्थः ॥११।। जे आवि मंदे त्ति गुरुं विइत्ता, डहरे इमे अप्पसुए त्ति नच्चा । हीलंति मिच्छं पडिवज्जमाणा, करति आसायण ते गुरूणं ॥१२॥ दशवै० ९।१।२] 15 व्या० ये चापि केचन द्रव्यसाधवोऽगम्भीरा मन्द इति गुरुं विदित्वा तन्त्रयुक्त्याऽऽलोचनाऽसमर्थस्सत्प्रज्ञाविकल इति स्वमाचार्यं ज्ञात्वा तथा कारणान्तरस्थापितम् अप्राप्तवयसं डहरोऽयम् अप्राप्तवयाः खलु अयम्, तथा अल्पश्रुत इति अनधिगतागम इति विज्ञाय, किम् ? हीलयन्ति सूयया असूयया वा खिंसयन्ति, सूयया अतिप्रज्ञस्त्वं वयोवृद्धो बहुश्रुत इति असूयया तु मन्दप्रज्ञस्त्वमित्यादि अभिदधति । मिथ्यात्वं प्रतिपद्यमाना गुरुर्न हीलनीय इति तत्त्वमन्यथा- 20 ऽवगच्छन्तः कुर्वन्त्याशातनां लघुताऽऽपादनरूपां ते द्रव्यसाधवः गुरुणाम् आचार्याणां तत्स्थापनाया अबहुमानेन, एकाशातनया सर्वेषामाशातनेति बहुवचनम्, अथवा कुर्वन्ति आशातनां स्वसम्यग्दर्शनादिभावस्य ह्रासरूपाम् ॥१२॥ उवसंपया य तिविहा, नाणे तह दंसणे चरित्ते अ । दंसणनाणे तिविहा, दुविहा य चरित्तअट्ठाए ॥१३॥ [आव०नि० ६९८] 25 व्या० उपसम्पत् त्रिविधा ज्ञाने ज्ञानविषया तथा दर्शनविषया चरित्रविषया च, तत्र दर्शन-ज्ञानयोस्सम्बन्धिनी त्रिविधा, द्विविधा च चारित्रार्थायेति गाथार्थः ॥१३॥ निअगच्छादन्नम्मि उ, सीअणदोसाइणा होइ [आव.नि. ७१८] त्ति गाथार्द्धम् । १. तुल्यप्रायम् आवश्यकहारि' वृत्तौ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy