SearchBrowseAboutContactDonate
Page Preview
Page 488
Loading...
Download File
Download File
Page Text
________________ त्रिस्थानके प्रथमोद्देशकटीकागतगाथाविवरणम् [पृ०१९२] अत्थपुरिसो तयज्जणपरायणो मम्मणो व्व निहिपालो । भोगपुरिसो समज्जियविसयसुहो चक्कवट्टि व्व ॥ ३४|| [विशेषाव० २०९४] व्या० गाथार्थः सुगमः, नवरं राजगृहनगरनिवासी रत्नमयबलीवर्दनिर्मापको मम्मणो वणिगावश्यकवृत्तितोऽवसेयः । भोगपुरुषः सविशेषकष्टानुष्ठानसमर्जितविषयसुखश्चक्रवर्त्तीव । अत्रान्त्यं पदद्वयमेव लिखितमस्ति, तस्यैव प्रस्तुतत्वादिति ॥ ३४ ॥ 5 [पृ०१९२] उग्गा भोगा रायन्न खत्तिआ संगहो भवे चहा । आरक्खि गुरु वयंसा, सेसा जे खत्तिआ ते उ ।।३५।। [आव०नि० २०२, बृहत्कल्पभा० ३२६५ ] व्या० उग्रा भोगा राजन्याः क्षत्रियाः, एषां समुदायरूपः सङ्ग्रहो भवेच्चतुर्द्धा । एतेषामेव यथासङ्ख्यं स्वरूपमाह- आरक्खीति, उग्रा उग्रदण्डकारित्वादुग्राः, आदिदेवेन ये आरक्षकत्वे 10 नियुक्ताः, भोगा ये गुरुत्वेन व्यवहृताः क्वचिद्भोजा इति पाठः, अर्थः स एव । राजन्या ये वयस्यतया स्थापिताः, समानवयस इति कृत्वा वयस्याः । शेषा उक्तव्यतिरिक्ता ये क्षत्रियास्ते तु, तुशब्दः पुनरर्थे, ते पुनः क्षत्रियाः प्रकृतितया स्थिताः राजकुलीनाः प्रजाभूता इत्यर्थः, इति गाथार्थः ।।३५।। [पृ०१९७] अरिहंति वंदणनमंसणाणि अरिहंति पूअसक्कारं । सिद्धिगमणं च अरहा, अरहंता तेण वुच्वंति || ३६ || [ आव०नि० ९२६] व्या० अर्ह पूजायाम् [पा०धा० ५६४], अर्हन्तीति, पचाद्यच् कर्त्तरि, अर्हाः, किमर्हन्तीति ? वन्दन-नमस्कारकरणे । तत्र वन्दनं शिरसा, नमस्कारकरणं वाचा । तथा अर्हन्ति पूजासत्कारम्, तत्र वस्त्र-माल्यादिजन्या पूजा, अभ्युत्थानादिसम्भ्रमः सत्कारः, तथा सिध्यन्ति निष्ठितार्था भवन्त्यस्यां प्राणिन इति सिद्धिर्लोकान्तक्षेत्रलक्षणा, वक्ष्यति च - इह बोंदिं चइत्ताणं, तत्थ गंतूण 20 सिज्झति। तद्गमनं च प्रत्यर्हाः, अरहंता तेण वुच्छंति प्राकृतशैल्या अर्हास्तेनोच्यन्ते ||३६|| [पृ०२००] सूओ १ दणो २ जवऽन्नं ३, तिण्णि अ मंसाई ६ गोरसो ७ जूसो ८ । भक्खा ९ गुललावणिया १०, मूलफला ११ हरिअगं १२ डागो १३ ||३७|| होइ रसालू १४ अ तहा, पाणं ९५ पाणीअ १६ पाणगं १७ चेव । अट्ठारसमो सागो १८, निरुवहओ लोइओ पिंडों ॥ ३८ ॥ [ प्रवचनसारो०१४११-२] 25 ९. इतः परं प्रवचनसारोद्धारे गाथात्रयं वर्तते, यथा- जलथलखहयरमंसाई तिन्नि जूसो उ जीरयाइजुओ । मुग्गरसो भक्खाणि य खंडखज्जयपमुक्खाणि ॥ १४१३|| गुललावणिया गुडपप्पडीउ गुलहाणिया उवा भणिया । मूलफलत्तिक्कपयं हरिययमिह जीरयाई य ॥ १४१४ || डाओ वत्थुलराईण भजिया हिंगुजीरयाइजुया । सा य रसालू जा मज्जिय त्ति तल्लक्खणं चेयं ॥ १४१५ ॥ Jain Education International १११ For Private & Personal Use Only 15 www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy