SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे [टी०] तारा पुद्गलरूपेति पुद्गलस्वरूपमभिधातुमाह- एगपएसोगाढेत्यादि सुगमम्, नवरमेकत्र प्रदेशे क्षेत्रस्यांशविशेषे अवगाढा: आश्रिता एकप्रदेशावगाढाः, ते च परमाणुरूपाः स्कन्धरूपा वेति, एवं वर्ण ५गन्ध २ रस ५ स्पर्श ८ भेदविशिष्टाः पुद्गला वाच्याः, अत एवोक्तम्-जाव एगगुणलुक्खेत्यादि । 5 तदेवमनुगमोऽभिहितः । अधुना कथञ्चित् प्रत्यवस्थानावसरे भणितमपि नयद्वारमनुयोगद्वारक्रमायातमिति पुनर्विशेषेणोच्यते । तत्र नैगमादयः सप्त नयाः, ते च ज्ञाननये क्रियानये चान्तर्भवन्तीति ताभ्यामध्ययनमिदं विचार्यते, तत्र ज्ञानचरणात्मकेऽस्मिन्नध्ययने ज्ञाननयो ज्ञानमेव प्रधानमिच्छति, ज्ञानाधीनत्वात् सकलपुरुषार्थसिद्धेः, यतः10 विज्ञप्तिः फलदा पुंसाम्, न क्रिया फलदा मता । मिथ्याज्ञानात् प्रवृत्तस्य, फलप्राप्तेरसम्भवाद् ॥ [ ] इति । अत ऐहिका-ऽऽमुष्मिकफलार्थिना ज्ञान एव यत्नो विधेय इति । क्रियानयस्तु क्रियामेवेच्छति, तस्या एव पुरुषार्थसिद्धावुपयुज्यमानत्वात्, तथा चोक्तम् क्रियैव फलदा पुंसाम्, न ज्ञानं फलदं मतम् । 15 यत: स्त्रीभक्ष्यभोगज्ञो न ज्ञानात् सुखितो भवेत् ॥ [ ] इति । अत ऐहिका-ऽऽमुष्मिकफलार्थिना क्रियैव कार्येति । जिनमतं तु नानयोः प्रत्येक पुरुषार्थसाधनता, यत उक्तम्हयं नाणं कियाहीणं हया अन्नाणओ किया । पासंतो पंगुलो दड्डो, धावमाणो य अंधओ ॥ [आव०नि० १०१] त्ति । संयोग एव चानयोः फलसाधकत्वम्, यत उक्तम्संजोगसिद्धीए फलं वयंति, न हु एगचक्केण रहो पयाइ । अंधो य पंगू य वणे समिच्चा, ते संपउत्ता नगरं पविट्ठा ॥ [आव०नि० १०२] इति । भाष्यकृताऽप्युक्तम् नाणाहीणं सव्वं नाणणओ भणति किं थ किरियाए । 25 किरियाए करणनओ तदुभयगाहो य सम्मत्तं ॥ [विशेषाव० ३५९१] ति । अथवा सप्तापि नैगमादयः सामान्यनये विशेषनये चान्तर्भवन्ति, तत्र सामान्यनयः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy