Page #1
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
। कोबातीर्थमंडन श्री महावीरस्वामिने नमः ।।
।। अनंतलब्धिनिधान श्री गौतमस्वामिने नमः ।।
।। गणधर भगवंत श्री सुधर्मास्वामिने नमः ।।
।। योगनिष्ठ आचार्य श्रीमद् बुद्धिसागरसूरीश्वरेभ्यो नमः ।।
। चारित्रचूडामणि आचार्य श्रीमद् कैलाससागरसूरीश्वरेभ्यो नमः ।।
आचार्य श्री कैलाससागरसूरिज्ञानमंदिर
पुनितप्रेरणा व आशीर्वाद राष्ट्रसंत श्रुतोद्धारक आचार्यदेव श्रीमत् पद्मसागरसूरीश्वरजी म. सा.
जैन मुद्रित ग्रंथ स्केनिंग प्रकल्प
ग्रंथांक :१
जैन आराधना
न
कन्द्र
महावीर
कोबा.
॥
अमर्त
तु विद्या
श्री महावीर जैन आराधना केन्द्र
शहर शाखा
आचार्यश्री कैलाससागरसूरि ज्ञानमंदिर कोबा, गांधीनगर-श्री महावीर जैन आराधना केन्द्र आचार्यश्री कैलाससागरसूरि ज्ञानमंदिर कोबा, गांधीनगर-३८२००७ (गुजरात) (079) 23276252, 23276204 फेक्स : 23276249 Websiet : www.kobatirth.org Email : Kendra@kobatirth.org
आचार्यश्री कैलाससागरसूरि ज्ञानमंदिर शहर शाखा आचार्यश्री कैलाससागरसूरि ज्ञानमंदिर त्रण बंगला, टोलकनगर परिवार डाइनिंग हॉल की गली में पालडी, अहमदाबाद - ३८०००७ (079)26582355
-
-
-
For Private And Personal Use Only
Page #2
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
Page #3
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
YADNYAVALKYASMRITI
OF
YOGÎSHVARA YADNYAVALKYA
With the Commentary Mitâksharâ
Op
VIDNYANESHVARA.
EDITED BY WÂSUDEV LAXMAN S'ÂSTRÎ PAŅSIKAR.
Third Edition.
PUBLISHED
BY
PÂNDURANG JÂWAJI,
PROPRIETOR OF THE NirnayA-SAGAR' PRESE,
BOMBAY
1926.
Price 2} Rupees
For Private And Personal Use Only
Page #4
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ All rights reserved by the publisher. ]
PUBLISHER:-Pandurang Jawaji, PRINTER :-Ramchandra Yesu Shedge,
at the Nirnaya-sagar' Press, 26-28, Kolbhat Lane, Bombay.
For Private And Personal Use Only
Page #5
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ श्रीः ॥
श्रीमद्योगीश्वर महर्षियाज्ञवल्क्यप्रणीता याज्ञवल्क्यस्मृतिः ।
विज्ञानेश्वरप्रणीतमिताक्षराव्याख्यासंवलिता ।
इयं च
पणशीकरोपाह्वलक्ष्मणशर्मतनुजनुषा वासुदेवशर्मणा
स्मृत्यादिप्राचीनधर्मशास्त्रमन्थालोचनेन टिप्पण्यादिभिः
वर्णक्रमकोशेन च सनाथीकृता ।
( तृतीयावृत्तिः )
मुम्बय्यां
पाण्डुरङ्ग जावजी इत्येतैः
स्वीये निर्णयसागर मुद्रणयन्त्रालये मुद्रयित्वा प्रकाश्यं नीता ।
शकाब्दाः १८४८, सनाब्दाः १९२६.
मूल्यं २ || सार्धं रूप्यकद्वयम् ।
For Private And Personal Use Only
Page #6
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
इ० स० १८६७ वत्सरे प्रणीतपञ्चविंशतितमाङ्कस्थराजकीय
नियमानुसारेण प्रकाशका स्वायत्तीकृतोऽयं ग्रन्थः ।
For Private And Personal Use Only
Page #7
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
किंचित्प्रास्ताविकम् ।
इह जगदारम्भात्प्राग्जगतो विचारणायां 'नासदासीनो सदासीत्' 'तम आसीत्तमसा गृहमने प्रकेतं सलिलं सर्वमा इदं' 'अम्भः किमासीत्' इत्यादिश्रुतिवचोभ्यस्तर्कागोचरमेवाखिलं प्रतीयते । ततश्च 'को अद्धा वेद य इह प्रवोचत्कुत आ जाता कुत इयं विसृष्टिः।' इत्यादिविमर्शनोत्तरं 'यो अस्याध्यक्षः परमे व्योमन् सो अङ्ग वेद यदि वा न वेद' इत्येवंरीत्या निर्णयश्च निगममूलक एवेति मानुषप्राणिदुस्तर्यमेव कृत्स्नं खलु । अथापि जगदन्तःपातिमिर्निजप्ररोहमूलगवेषणं खमतिपरिणामावध्यनुमेयमेव । निर्दिष्टरूपजगदभावदशायां च 'स ईक्षत बहुस्यां प्रजायेय' इति श्रुतेः सर्गादावतक्यन्द्रजालिकेन सिसृक्षुणा भगवता स्थावर जंगमं जगत् धर्माधौं च सृष्ट्वाऽखिलव्यवहाराय तत्तच्छब्दानां तेन तेनार्थेन संबन्धं कल्पयित्वा धर्माधर्मप्रतिपादकपदे वेदान्कल्पयित्वा हिरण्यगर्भादिभ्यः प्रतिपादितास्तैरन्येभ्य इत्येवमुत्तरोत्तरं शब्दार्थप्रतिपत्तिः । एवं परंपरासादितश्रुतिभागा मन्त्रद्रष्टार ईशसृष्टजनतार्थं विशेषतश्च दुःषमानुभावेनापचीयमानमेधायुर्बलादिगुणानामैदंयुगीनमानुषप्राणिनां निःश्रेयसकाङ्गिणः पारिकाङ्क्षिणोऽखिलव्यवहाराय केवलनिगमानामचारितार्थ्य मन्वाना नानासूत्रस्मृतीतिहासादीन्धर्मशास्त्रप्रतिपादकान्निबन्धान्परिकल्पयांबभूवुः।
तथाच 'भारतं पञ्चमो वेदः' इति पञ्चमवेदत्वेन सुप्रतिष्ठितेऽखिलधर्मशास्तरि महाभारते युधिष्ठिरप्रति भीमसेनवचः-'धर्ममर्थ च कामं च यथावद्वदतांवर । विभज्य काले कालज्ञः सर्वान्सेवेत पण्डितः।' इति । स्मृत्यन्तरेऽपि-धर्ममर्थ च कामं च यथाशक्ति न हापयेत् ।' इति । तथा-'न पूर्वाह्नमध्यंदिनापराह्नानफलान्कुर्याद्यथाशक्ति धर्मार्थकामेभ्यः' इति । तत्र निरतिशयानन्दलक्षणस्यात्यन्तिकदुःखनिवृत्तिलक्षणस्य वा मोक्षस्यैव निरुपधीच्छाविषयखात्पुरुषेणाभ्यर्थ्यमानतया मुख्यं पुरुषार्थत्वम् । धर्मादीनां तु तत्साधनमात्रेण । तत्रापि धर्ममात्रं यथायोगं सर्वेषां साधनम् । अतएष प्रवृ. त्तिनिवृत्त्यात्मकतया द्विविधस्यापि धर्मस्य पुरुषार्थसाधनतोक्का वृद्धः-प्रवृत्तिलक्षणे धर्मे फलमभ्युदयो मतः। निवृत्तिसंझके धर्मे फलं निःश्रेयसं मतम् ॥' इति । स्कान्देपि–'धर्मात्सुखं च ज्ञानं च यस्मादुभयमानुयात्। तस्मात्सर्व परित्यज्य विद्वान्धर्म समाचरेत् ॥' इत्यादि पर शतप्रमाणवचोनिचयैर्धर्म एवाखिलस्थितिहेतुत्वेन राद्धान्तितो दरीदृश्यते ॥ तथाच धर्मशब्दं निर्णिनीषुः सुगृहीतनामा भगवान् जैमिनिरसुसूत्रत् “चोदनालक्षणोऽर्थो धर्मः" इति । अनेन सूत्रेण धर्मखरूपं तत्प्रमाणं चोच्यते । न तावद्यागापूर्वोभयनिष्ठा धर्मत्वं जातिः, यागस्य क्रियेच्छान्यतररूपतया क्रियात्वेनेच्छात्वेन च संकरात् । अतोऽपूर्वनिष्ठैव सुखकारणतावच्छेदिका धर्मत्वं जातिरिति नैयायिकाः। अपूर्वमजानतामपि
For Private And Personal Use Only
Page #8
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
यागादिकर्तरि धार्मिक इति प्रयोगाद्वेदबोधितेष्टसाधनत्वरूपो यागापूर्वोभयनिष्ठोपाधिरेव धर्मत्वमिति केचित् । वस्तुतस्तु अलौकिकश्रेयःसाधनत्वेन विहितक्रियात्वं विहितत्वं वा धर्मत्वमिति स्फुटं निरणायि विद्वललामेन गागाभट्टेन ॥ मिताक्षराकारस्तुधर्मशब्दः षड्विधस्मार्तधर्मविषयः । तद्यथा - ' वर्णधर्म आश्रमधर्मो वर्णाश्रमधर्मो गुणधर्मो निमित्तधर्मः साधारणधर्मश्चेति । तत्र वर्णधर्मो नित्यं मद्यं वर्जयेदित्यादिः । आश्रमधर्मोऽनीन्धनभैक्षचर्यादिः । वर्णाश्रमधर्मः पालाशो दण्डो ब्राह्मणस्येत्येवमादिः । गुणधर्मः शास्त्रीयाभिषेकादिगुणयुक्तस्य राज्ञः प्रजापालनादिः । निमित्तधर्मो विहिताकरणप्रतिषिद्धसेवननिमित्तं प्रायश्चित्तम् । साधारणधर्मोऽहिंसादिः न हिंस्यात्सर्वा भूतानीत्याचाण्डालं साधारणो धर्मः' इति । एवं गुणविशिष्टधर्मप्रतिपादकं शास्त्रमेव धर्मशास्त्रमिति जेगीयते । आस्तां दुरूहविषयमीमांसाविस्तरेण । प्रकृतमनुसरामः ।
अखिलधर्माणामाचार-व्यवहार- प्रायश्चित्ताख्य कोटित्रय पर्यवसानात्तद्विवेचनमन्तरा दुर्ज्ञेयैव धर्मशास्त्रसिद्धिरिति विचार्य सर्वमानवप्राण्युद्दिधीर्षुः परमकारुणिको याशवल्क्ययोगीन्द्रो निजनामधेयोहङ्कितां याज्ञवल्क्यस्मृतिमचीक्लृपत् । अथच वाचंयमवचोगुम्फस्य सूत्रवदल्पाक्षरत्वेन दुरूहस्य यथावदवबुबोधयिषुरखिलश्रुतिस्मृतिशास्त्राब्धिपारदृश्वा सर्वतन्त्र स्वतन्त्र विज्ञानेश्वरो विपुलार्थवतीमपि प्रमिताक्षरां मिताक्षरानानीं याज्ञवल्क्यस्मृति व्याख्यामरीरचत् ।
यद्यपि याज्ञवल्क्यस्थितिकालः पुरुषायुषेण मतिमदग्रेसरेणापि निश्वेतुमशक्यस्तथापि श्रीमद्भागवतद्वादशस्कन्धे -- 'ते परम्परया प्राप्तास्तत्तच्छिष्यैर्धृतव्रतैः । चतुयुगेष्वथ व्यस्ता द्वापरादौ महर्षिभिः ॥' अस्यार्थः - एवं चतुर्युगेषु प्राप्ताः द्वापरादौ द्वापरमादिर्यस्य तदयनांशलक्षणस्य कालस्य तस्मिन्द्वापरान्ते वेदविभागसिद्धेः शंतनुकालसमकालं व्यासावतारप्रसिद्धेश्च । व्यस्ता विभक्ताः । ' अस्मिन्नप्यन्तरे ब्रह्मन्भगवाँल्लोकभावनः । ब्रह्मेशाद्यैर्लोकपालैर्याचितो धर्मगुप्तये ॥ पराशरात्सत्यवत्यामंशांशकलया विभुः । अवतीर्णो महाभाग वेदं चक्रे चतुर्विधम् ॥' इति । अतो द्वापरस्यान्तिमकाले कलियुगारम्भात्पूर्वं व्यासावतारः । स च तदानीमेव ऋगादिसंहिताश्चतस्रो विभज्यैकैकस्मै शिष्यायैकैकां संहितां ददौ । तत्र च यजुर्वेदसंहितां वैशंपायनायादात् । तस्यैवान्तेवासी याज्ञवल्क्यो बभूवेति निश्चीयते ।
।
एकदा विदेहत्वेन सुप्रसिद्धस्य जनकस्य सदस्येव ब्रह्मवादचर्चाप्रसङ्गे कहोडा दिनह्मर्षिवरै राज्ञा विदेहेन च याज्ञवल्क्या ब्रह्मविद्योपनिबद्धास्तत्रतत्र नैकशः पूर्वपक्षाः कृतास्तदानीं याज्ञवल्क्यो निजातर्क्यमतिवैभवेन सर्वेषां पूर्वपक्षाणां यथावदुत्तररूपेण सर्वान्समादधे । तच्छ्रुत्वा ससभास्तारो राजा दानमानादिसत्कारैस्तं संपूज्य प्रशस्य सएवानूचानतम इति लिश्चित्य साष्टाङ्गं प्रणनामेति ।
तच्च श्रु
अथ श्रीमद्याज्ञवल्क्यमहर्षेरितिवृत्तं किमप्यत्र निर्दिश्यते । तिशिरोभागबृहदारण्यकोपनिषदि तृतीयाध्याये एवं निर्दिष्टमासीत् - कदाचन विदेहानां सम्राट् जनकराजः श्रुतिशास्त्रोदितवैदिककर्मण्यमिरतो बहुदक्षिणेन यज्ञेनायजत् । तत्र कुरुपाञ्चालवासिनो वैतानिककर्मनिष्णाता राज्ञा निमन्त्रिता ब्राह्मणाः
For Private And Personal Use Only
Page #9
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
केचन यज्ञदिदृक्षवश्चाभिसंगता बभूवुः । अथ मिलितं विद्वत्समाजमालोच्य यियक्षमाणस्य जनकस्य जिज्ञासा बभूव किल कोनु खल्वत्रानूचानतमो ब्रह्मिष्ठ इति । सच गवां सहस्रं रुहोवाच हे भगवन्तः, यो वो ब्रह्मिष्ठः स एता गा उत्कालयतु खगृहंप्रतीति । तदैते ब्राह्मणा न दधृषुः । अथ याज्ञवल्क्यो निजमन्तेवासिनमुवाच हे सौम्य, उत्कालयेमा गा अस्मद्गृहान्प्रतीति । एतच्छ्रुत्वा सचोत्कालितवानाचार्यगृह प्रतीत्याख्यायिकायामखिलविप्रसमाजापमाननमभवत् ।।
अथ कदाचन वैशंपायनस्य ब्रह्महत्यादोष उदभूत् । तदंहोनिबर्हणाय वैशंपायनः खच्छात्रान् ब्रह्महत्यामार्जनक्षम व्रतमादिदेश । तदानीं याज्ञवल्क्यः प्रोवाच भगवन् , श्रीमदुक्तं व्रतं सुदुश्चरमप्यहमेवाचरिष्ये किमल्पसाराणामेतेषामादेशेनेति । तदिदं विप्रावमानकारकं याज्ञवल्क्योक्तं श्रुत्वा वैशंपायनश्चक्रोध । आहच याज्ञवल्क्यं ब्राह्मणावमन्ता त्वमसि अतो मत्तो यदधीतं तत्सर्वं त्यक्त्वा याहीति । तदसहिष्णुर्याज्ञवल्क्योऽधीतं यजुर्वेदगणं छर्दित्वा गुरुमुत्सृज्यागच्छत् । आरराधच भगवन्तं सूर्यनारायणमेकान्तभावेन । निःसीमनिजपरिचरणपरितुष्टो भगवानादित्योऽयातयामानि यजूषि तस्मै प्रायच्छत् । तैर्याज्ञवल्क्यो वाजसनीसंज्ञाः शाखा अकरोत् इति श्रीभागवते। विज्ञानेश्वरविषये मिताक्षरोपसंहारे-- 'नासीदस्ति भविष्यति क्षितितले कल्याणकल्पं पुरं
नो दृष्टः श्रुतएव वा क्षितिपतिः श्रीविक्रमार्कोपमः। विज्ञानेश्वरपण्डितो न भजते किंचान्यदन्योपम
श्चाकल्पं स्थिरमस्तु कल्पलतिकाकल्पं तदेतत्रयम् ॥ स्रष्टा वाचां मधुरवपुषां विद्वदाश्चर्यसीनां
दातार्थानामतिशयजुषामर्थिसार्थार्थनामा । आ च प्राचः समुद्रान्नतनृपतिशिरोरत्नभाभासुराभिः
पायादाचन्द्रतारं जगदिदमखिलं विक्रमादित्यदेवः॥' इत्यादिलेखादस्य नृपविक्रमादित्यकालीनत्वं स्फुटं भवति । तत्र कल्याणपुरमितिनाम्ना प्रसिद्धं नगरमस्त्यधुना हैदराबादराज्ये कल्याणकीर्तिनाम्ना प्रथितम् । तत्रत्या राजानश्चौलुक्यान्ववायाः । तेषां वंशावलिदक्षिणेतिहासाख्यकोशे भाण्डारकरोपाढे रामकृष्ण गोपालसंज्ञया प्रथितैः सविस्तरं प्रकाशितास्ति । तत्रैव विक्रमादित्यराजा समजनि यदाश्रयेणैव विदुषामग्रेसरेण विज्ञानेश्वरेण मिताक्षराख्या याज्ञवल्क्यस्मृतिव्याख्या निरमायि। तस्य च राज्यकालो यूनसहस्रशाकमारभ्य ड्यूनपञ्चाशदधिकसहसमितशकपर्यन्तं पञ्चाशदब्दमित एवासीत् । एवंसति गुर्जराङ्कितयाज्ञवल्क्यस्मृतिप्रस्तावे बापूशास्त्रीमोघे इत्येतैः "विक्रमादित्यकालीनोयं विज्ञानेश्वरः तद्न्थस्य मिताक्षराख्यस्य संवदभिधशकप्रवर्तकविक्रमादित्यदेवकालिकतावसीयते'इत्यादिप्रकटितं परास्तम् ।
यद्यप्ययं प्रन्थो बहुभिर्बहुवारमङ्कनादिना प्रकाशितएवासीत्तथापि तेष्वनवधानालस्याव्युपत्त्यादिमूलका नैकशो मूले व्याख्यायां च तत्रतत्रानवसरविराम-विरामस्थ
विपताना
For Private And Personal Use Only
Page #10
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लसंयोजना-संबद्धाक्षरप्रथन-मूलव्याख्याविसंवादादिजन्मानोऽर्थानवबोधेन तिरस्कारावहाः प्रमादा बहवोऽस्मिन्प्रन्थे सन्त्येव । अतस्तन्मार्जनपूर्व सम्यक्परिशोध्याङ्कनीयोयं महानिबन्धो भूयादखिललोकोपकारक इति बहुभिगीर्वाणवाङ्मयपरायणैधमैकधुरीणैवैदिकगृहस्थोभयसरणिभिः श्रेष्ठिवरश्रीमत् तुकाराम जावजीसविधे निरपेक्षबुद्ध्या सूचितं तैराहत्य परिशोधने नियोजितेन मया सूक्ष्मैषिकया यथामिति परिष्कृतोऽयं प्रन्थ इति सुधियो विदांकुर्वन्तु । एतच्छोधने संगृहीतहस्तलिखितप्राचीनादर्शपुस्तकानीत्थम्
१ वे. शा. सं. बाळशास्त्री पुराणिक नागांव इत्येत्तैर्दत्तमेकं भिन्न पाठान्तरप्रचुरं प्रायः शुद्धम् ।
२ वे. शा सं. नीलकंठशास्त्री ( नानाशास्त्री) देवस्थळी सावंतवाडी इत्येत्तैर्दत्तं पाहू सामान्यतः शुद्धम् ।
३ वे. रा. रा. मोरेश्वरभट्ट खरे मालवण इत्येत्तैर्दत्तं व्यवहाराध्यायरहितम् । ४ रा. रा. जनार्दन महादेव गुर्जर मुंबई इत्येतैमुद्रितं च ।।
एतेषां संकलनेन यावन्मनीषं पाठान्तरादिसंयोजनेनच संस्कृतमिदं पुस्तकम् । व्यवहाराध्याये दुरूहत्वमार्जनाय बालंभट्टीव्याख्याधारेण टिप्पणमप्ययोजि'। सर्वेषां शीघ्रोपस्थित्यै याज्ञवल्क्यस्मृतिस्थपद्यानां मातृकाक्रमकोशोप्यन्ते योजितः । अत्र विद्वद्वरपण्डित जीवरामशास्त्रिभिः क्वचन साधकसूचनादिभिस्तथा शोधनकाले वे. शा. सं. महादेवशास्त्री बाके इत्येतैश्च बहूपकृतं तन्नामनिर्देशाहतेऽन्यन्न साधनमुत्ततु मन्ये । एवं दुरूहविषयसंस्करणसाहसमुररीकृत्यायासबाहुल्येन यथामति शोधितेऽप्यस्मिन्महति ग्रन्थे मानुषशेमुषीसुलभमव्युत्पत्त्यनवधानहक्कापलाक्षरयोजकादिनियतं स्खलितं द. यालवो महाशयाः शोधयेयुरहमपि पुनर्मुद्रणावसरे शोधयेयेति विज्ञापयति
विद्वदेकान्तवशंवदः पणशीकरोपाह्वो
वासुदेवशर्मा।
For Private And Personal Use Only
Page #11
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
याज्ञवल्क्यस्मृतिस्थविषयानुक्रमणी ।
५. naman .....
अथाचाराध्यायः १ विषयाः .
पृष्ठं विषयाः उपोद्घातप्रकरणम् १ ब्रह्मचारिणो वानि मङ्गलाचरणम् ... ...
गुर्वाचार्यादिलक्षणम् मुनीनां प्रश्नः ...
उपाध्यायत्वलक्षणम् षड्डिधस्मार्तधर्म विचारः
ब्रह्मचर्याविधिः धर्मस्य चतुर्दश स्थानानि
उपनयनकालस्य परमावधिः धर्मशास्त्रप्रयोजका ऋषयः
द्विजत्वहेतुकथनम् ... धर्मस्य कारकहेतवः
वेदग्रहणाध्ययनफलम् ... धर्मस्य ज्ञापकहेतवः
काम्यब्रह्मयज्ञाध्ययनफलम् ... देशादिकारकहेतूनामपवादः ...
पञ्चमहायज्ञफलम् ...
नैष्ठिकब्रह्मचारिधर्माः ... कारकहेतुषु ज्ञापकहेतुषु वा संदेहे निर्णयः ... ...
विवाहप्रकरणम् ३ ४
गुरुदक्षिणादानपूर्व स्नानम् ... ब्रह्मचारिप्रकरणम् २ | कन्यालक्षणानि ... वर्णानां निर्णयः ...
कन्याया बाह्यलक्षणानि गर्भाधानादिसंस्काराः . ... ४ कन्याया आभ्यन्तरलक्षणानि ... १४ संस्कारकरणे फलम्
५ सापिण्ड्यविचारः ...
चारः ... ... १५ स्त्रीसंस्कारेषु विशेषः
कन्यावरणे नियमः... ... उपनयनकाल:
कन्यादाने वरनियमः ... गुरुधर्माः
द्विजातीनां शूदापरिणयननिषेधः । शौचाचाराः ...
वर्णक्रमेण भार्याकरणेऽधिकारः प्राजापत्यादितीर्थानि
ब्राह्मविवाहलक्षणम्... आचमनविधिः
७ दैवार्षविवाहयोर्लक्षणम् ... १७ प्राणायामविचारः ...
प्राजापत्यविवाहलक्षणम् सावित्रीजपप्रकारः...
आसुरगान्धर्वादिविवाहलक्षणानि अग्निकार्यम्
सवर्णापरिणयने विशेषः ... अभिवादनम्
कन्यादातृक्रमः ... ... अध्याप्याः
कन्याहरणे दण्डः .... दण्डादिधारणम्
कन्याया दोषमनाख्याय दाने भैक्षचर्याप्रकारः ...
| अन्यपूर्वालक्षणम् ... भोजनादिप्रकारः ...
... ९ | देवरादिनियोगविधिः
""Irrur ur ur , , , . . . . . .
For Private And Personal Use Only
Page #12
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
याज्ञवल्क्यस्मृतिः।
WWW Wwww
mr
विषयाः
पृष्ठं | विषयाः • व्यभिचारिणीविषये... ... १९ दम्पत्योः शेषभोजनम्
तस्या अल्पप्रायश्चित्तार्थमर्थवादः १९ | अतिथीनां भोजनम् द्वितीयपरिणयने हेतवः ... २० भिक्षवे भिक्षादानम् पतिव्रतास्त्रीप्रशंसा ... ... श्रोत्रियसत्कारः ... अधिवेत्तुर्दण्डः ...
प्रतिसंवत्सरमाः स्त्रीधर्माः
परपाकरुचिनिषेधः... शास्त्रीयदारसंग्रहस्य फलम्
सायंसंध्यादि स्त्रीणां ऋतुकालावधिः
ब्राह्म मुहूर्ते आत्मनो हितचिन्तनम् स्त्रीगमने वर्ण्यदिनानि
मानार्हाः अनृतुगमने नियमाः
वृद्धादीनां मार्गो देयः ...। स्त्रीणां भर्त्रादिभिः सत्कारः ... द्विजातीनामिज्यादिकर्माणि स्त्रिया कर्तव्यम् ...
क्षत्रियवैश्यकर्माणि प्रोषितभर्तृका नियमाः
शूद्रकर्माणि ... स्त्रिया अस्वातन्त्र्यम्
साधारणधर्माः ... मृतभर्तृकाविषये ...
| श्रौतकर्माणि सहगमनम् ...
नित्यश्रौतकर्माणि ... अनेकभार्याविषये ...
२७ यज्ञार्थ हीनभिक्षानिषेधः ... प्रमीतभार्यविषये ...
२५ | कुशूलधान्यादिसंचयोपायः ... वर्णजातिविवेकप्रकरणम् ४ । । स्नातकधर्मप्रकरणम् ६ सजातिपुत्रादयः ... ... २७ स्नातकव्रतानि ... अनुलोमा मूर्धावसिक्तादयः ... २८ | राजादिभ्यो धनग्रहणम् प्रतिलोमजाः ...
उपाकर्मकालः
४४ संकीर्णजात्यन्तरम् ...
उत्सर्जनकालः ... ... ४४ वर्णप्राप्तौ कारणान्तरम् ... ३० अनध्यायाः ...
... ... ४४ हीनवृत्त्या जीवनम् ... ... स्नातकव्रतानि ___ गृहस्थधर्मप्रकरणम् ५ अभोज्यानि कस्मिन्ननौ किं कर्तव्यं तनिर्णयः ३१
अभोज्यानानि ... गृहस्थधर्माः
अभोज्यानेषु प्रतिप्रसवः दन्तधावनादि ...
भक्ष्याभक्ष्यप्रकरणम् ७ योगक्षेमार्थ राजाद्याश्रयः
द्विजातीनां धर्माः ... वेदादिजपः
पर्युषितस्य प्रतिप्रसवः पञ्चमहायज्ञाः ...
संधिन्यादिदुग्धविषये भूतबलिः
शिग्वादिनिषेधः ... पितृमनुष्येभ्योऽन्नदानम् ___... ३३ | ऋव्यादपक्ष्यादिनिषेधः
m
my
४०
... ४९
For Private And Personal Use Only
Page #13
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विषयानुक्रमणी ।
विषयाः
पृष्ठं विषयाः पलाण्ड्वादिनिषेधः ... ... पार्वणश्राद्धखरूपम्... पश्चपश्चनखा भक्ष्याः .
एकोद्दिष्टश्राद्धखरूपम् मांसभक्षणे विधिः ...
५४ त्रिविधं श्राद्धम् ... वृथामांसभक्षणे निन्दा ... पार्वणवृद्धिश्राद्धयोः कालः मांसवर्जनविधिः ... ....
श्राद्धे ब्राह्मणसंपत्तिः द्रव्यशुद्धिप्रकरणम् ८ श्राद्धे वय॑ब्राह्मणाः... सौवर्णादिपात्राणां शुद्धिः
पार्वणश्राद्धप्रयोगः ... यज्ञपात्रादीनां शुद्धिः
अग्नौकरणम् सलेपानां शुद्धिः ...
अन्ननिवेदनम् ... भूमिशुद्धिः
पिण्डप्रदानम् ... गवाघ्रातानादिशुद्धिः
अक्षय्योदकदानम् ... पुसीसकादीनां शुद्धिः
खधावाचनम् अमेध्योपहतद्रव्यशुद्धिः
ब्राह्मणप्रार्थना उदकमांसयोः शुद्धिः
ब्राह्मणविसर्जनम् ... अम्यादिशुद्धिः ...
वृद्धिश्राद्धम् दानप्रकरणम् ९ एकोद्दिष्टश्राद्धम् ... दानपात्रब्राह्मणप्रशंसा
नवश्राद्धम् सत्पात्रब्राह्मणलक्षणम्
सपिण्डीकरणम् सत्पात्रे गवादिदानं देयम्
उदकुम्भश्राद्धम् ... प्रतिग्रहनिषेधः ... ... ६३ एकोद्दिष्टकालः ... ... प्रत्यहंदाने विशेषः ... ... ६३ नित्यश्राद्धव्यतिरिक्तसर्वश्राद्धगोदाने विशेषः ... .
पिण्डप्रक्षेपस्थलम् ... गोदानफलम्
भोज्यविशेषेण फलविशेषः ... उभयतोमुखीलक्षणं तद्दाने फलं च ६४ गयाश्राद्धफलम् ... ... ८६ सामान्यगोदाने फलम्
तिथिविशेषात्फलविशेषः गोदानसमानि ... ... ६५ नक्षत्रविशेषात्फलविशेषः ... ८७ भूम्यादिदाने फलम् ... ६५ पितृशब्दार्थः ... ... ८८ गृहादिदाने फलम् ... ... ६५
___ गणपतिकल्पप्रकरणम् ११ वेददानफलम् ... दानं विनापि दानफलावाप्तिः ... ६६ विघ्नकारकहेतवः ... ... ८८ सर्वप्रतिग्रहनिवृत्तिप्रसङ्गेऽपवादः ६६ विघ्नज्ञापकहेतवः ... ... ८९ अप्रत्याख्येयमाह ... ... ६६ विघ्नज्ञापकहेतुप्रत्यक्षलिङ्गानि ... ८९ प्रतिग्रहनिवृत्तरपवादः ... ६७ | विघ्नोपशान्त्यर्थ कर्म श्राद्धप्रकरणम् १०
स्नपनविधिः श्राद्धशब्दार्थः ... ... ६७ । उपस्थानमन्त्राः ... ... . ९०
For Private And Personal Use Only
Page #14
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
याज्ञवल्क्यस्मृतिः।
, १०४
०
. विषयाः
पृष्ठं । विषयाः ग्रहपूजा ... ... ९३ | दूतानां त्रैविध्यम् ... ... नित्यकाम्यसंयोगाः ... ९३ खैरविहारः सेनादर्शनं च ... १०३
ग्रहशान्तिप्रकरणम् १२ चाराणां गूढभाषणश्रवणम् ... ग्रहयज्ञः
राज्ञो निद्रादिप्रकारः ... १०३ नवग्रहनामानि ...
प्रजापालनफलम् ... नवग्रहमूर्तिद्रव्याणि...
| चाटतस्करादिभ्यो रक्षणम् ... नवग्रहध्यानानि ...
प्रजानामरक्षणे फलम् ... १०४ नवग्रहमन्त्राः ...
राष्ट्राधिकृतविचेष्टितज्ञानम् ... १०५ नवग्रहसमिधः ...
| उत्कोचजीविनां दण्डः नवग्रहहोमाहुतिसंख्या
| अन्यायेन प्रजाभ्यः करग्रहणे ... १०५ नवग्रहाणां भोजनानि
देशाचारादिरक्षणम्... ... नवग्रहदक्षिणा ... ... ९६ मन्त्रमूलत्वं राज्यस्य ... १०६ दुष्टग्रहपूजा ...
शल्यादीनां चिन्तनम्
... १०६ राजधर्मप्रकरणम्
सामाधुपायाः ... ... १०६ अभिषिक्तस्य राज्ञो धर्माः
संधिविग्रहादिगुणाः ... अष्टादश व्यसनानि ... ९८ परराष्ट्र यानकालः ... ... १०७ राजमन्त्रिणः राजपुरोहितश्च ... ९८ दैवपुरुषकारयोर्विचारः
... १०७ राजपुरोहितलक्षणम्
दैवविषये मतान्तराणि ... १०७ यज्ञादिकरणे ऋत्विजः
लाभप्रकारः
... १०८ ब्राह्मणेभ्यो धनदाने फलविशेषः ९९ राज्यागानि
... १०८ धनरक्षणप्रकारः ...
दुर्वृत्तेषु दण्डकरणम् .. १०८ लेख्यकरणम् ...
अन्यायदण्डनिषेधः ... १०९ लेख्यकरणप्रकारः ... ... १०० दण्ज्यदण्डने फलम् ...
... १०९ राज्ञो निवासस्थानम्
त्रसरेण्वादिमानम् ... .... ११० अधिकारिणः ... ... १०१ रजतमानम् ... ... १११ विक्रमार्जितद्रव्यदाने फलम् ... १०१
ताम्रमानम् रणे मरणं वर्गफलकम्
खशास्त्रपरिभाषा ... .. १११ शरणागतरक्षणम् ... ... दण्डभेदाः
... ११२ आयव्ययनिरीक्षणम् ... १०२ दण्डव्यवस्थानिमित्तानि हिरण्यस्य भाण्डागारे निक्षेपः... १०२, इत्याचाराध्यायः ।
०
० ० ० ० ०
० ० ० . . . . . . . 6 6 6
G ० ०
-
.... १११
... १०१
-
... ११२
__अथ व्यवहाराध्यायः २ • साधारणव्यवहारमातृका- । व्यवहारलक्षणम् प्रकरणम् १
सभासदलक्षणम् ... उपोद्धातः ... ... ११३ सभासदसंख्या ...
... ११३ ... ११४ ... ११४
For Private And Personal Use Only
Page #15
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विषयानुक्रमणी।
विषयाः
पृष्ठं विषयाः बृहस्पतिमते सभ्यसंख्या ... ११४ कारणोत्तरोदाहरणम् ... १२० ब्राह्मणानां सभासदां च भेदः... ११४ पूर्वन्यायोत्तरोदाहरणम् .. १२१ अन्यायाद्राजनिवारणम् ... ११४ उत्तराभासानां लक्षणानि ... १२१ ब्राह्मणानां दोषः ... ... ११४ उत्तराभासोदाहरणानि राजसंसदि वणिजामपि स्थापना ११५ संकरानुत्तरम् ... ... १२१ प्राडिवाकः ... ... ११५ अनुत्तरत्वे कारणम्... ... प्राशिवाकगुणाः ... ... ११५ मिथ्योत्तरकारणोत्तरयोः संकरे तदुब्राह्मणप्राड्डिवाकाभावे क्षत्रियादिः ११५दाहरणम् ... ... १२१ प्राशिवाकलक्षणम् ... ... ११५ कारणोत्तरप्राङ्न्यायोत्तरसंकरः... १२२ सभासदां दण्डः ... ... ११५ | तदुदाहरणम् ... ... १२२ व्यवहारविषयः ... ... ११६ उत्तरसंकरे क्रमः ... ... १२२ व्यवहारस्याष्टादश मेदाः
मिथ्योत्तरकारणोत्तरयोरेकस्मिन् राज्ञः कार्यानुत्पादकत्वम् ... ११६ व्यवहारप्राप्तो निर्णयप्रकारः १२३ कार्यार्थिनि प्रश्नः ...
उत्तरे पत्रे निवेशिते साधननिर्देभासानानाह्वाने ... ... ११६ शप्रकारः ... ... १२३ तदपवादः ... ... ११६ | व्यवहारस्य चत्वारः पादाः ... १२४ भासेधलक्षणम् ... ... ११७
असाधारणव्यवहारमातृकाआसेधश्चतुर्विधः ...
प्रकरणम् २ कचिदासेधातिक्रमे दण्डाभावः ११७
प्रत्यभियोगः ... प्रतिवादिन्यागते लेखादिकर्तव्यता ११७
... १२४
अर्थिविषये ... ... १२५ हीनः पञ्चविधः ...
एकस्मिन्नभियोगेऽनेकद्रव्याणां भाषाकरणप्रकारः ...
निवेशाभावः ... पक्षाभासाः ... ... ११८
... १२५ अनादेयव्यवहाराः ... ... ११९ तदुदाहरणम् ... ... १२५ आदेयव्यवहाराः ...
अभियोगमनिस्तीर्येत्यस्यापवादः शोधितलेख्यनिवेशनप्रकारः ... १२० प्रतिभूग्रहणम् ... ... १२६ उत्तरावधिशोधनम् ... ... १२० प्रतिभ्वभावे निर्णयः
१२६ पूर्वपक्षमशोधयित्वैव उत्तरादाने निह्नवे प्रतिभूकर्तव्यम् सभ्यानां दण्डः...
मिथ्याभियोगे दण्डः उत्तरदानप्रकारः ...
कालविलम्बापवादः उत्तरखरूपम् ...
दुष्टलक्षणम् ... चतुर्विधमुत्तरम् ... ... १२० | अनाहूतवादने ... ... १२८ सत्योत्तरोदाहरणम् ...
द्वावपि युगपद्धर्माधिकारिणं प्राप्ती मिथ्योत्तरोदाहरणम्
तत्र कस्य क्रियेत्याकाङ्किते मिथ्योत्तरं चतुर्विधम् ... १२० निर्णयः ... ... १२९
या०२
... ११८
१२७
For Private And Personal Use Only
Page #16
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
याज्ञवल्क्यस्मृति।
.. १३९
१
विषयाः . पृष्ठं विषयाः
- पृष्ठं सपणविवादस्थले निर्णयप्रकारः १२९ शिरोमुण्डनादिदण्डाः छलनिरसनप्रकारः ... ... १२९ अङ्कने च व्यवस्था ... छलानुसारिव्यवहारलक्षणम् ... १३० चक्षुनिरोधशब्दार्थः ... १३९ निहतैकदेश विभावने निर्णयप्रकारः १३० कीदृशो भोगः प्रमाणम् ... न्यायाधिगमे तर्कः... ... १३० आगमनिरपेक्षस्य भोगस्य प्रामाण्यं १४० अनेकार्थाभियोगे निर्णयः ... १३१ अनागमोपभोगे दण्डः ... १४० स्मृत्योर्विरोधे निर्णयप्रकारः ... १३१ आगमसापेक्षभोगविषये ... १४० धर्मशास्त्रार्थशास्त्रयोर्विप्रतिपत्ती त्रिविधः स्वीकारः ... ... १४१
निर्णयः ... ... १३२ स्वीकारे नियमः ... ... १४१ धर्मशास्त्रार्थशास्त्रोदाहरणम् ... १३२ पुरुषव्यवस्थया प्रामाण्यव्यवस्थया आततायिहननविषये निर्णयः ... १३२ च आगमविषये दण्डव्यवस्था १४१ द्विजातीनां शस्त्रग्रहणे १३२ अभियुक्ते मृते निर्णयः ... १४२ आततायिनः ... .... १३३ / व्यवहारसिद्धये व्यवहारदर्शिनां अन्योदाहरणम् ... ... १३३ / बलाबलम् ... ... १४२ अन्यथाकरणे प्रायश्चित्तम् ... १३३ प्रबलदृष्टव्यवहारविषये ... १४३ प्रमाणचतुष्टयम् ... ... १३३ | मत्तोन्मत्तादिभिर्निर्णीतव्यवहारप्रमाणभेदाः ... ... १३३ विषये.
१४३ मानुषदिव्यप्रमाणग्रहणे निर्णयः १३४ गुरुशिष्यपितृपुत्रादीनां व्यवहारतत्रोदाहरणम् ... ... १३४ ... १३४ विषये।
१४३ दिव्यप्रमाणग्रहणे निषेधः ... १३४ स्त्रीभर्तृव्यवहारविषये ... १४३ तदपवादः ... ... १३५) खामिदासव्यवहारविषये ।... १४४ लेख्यादीनामपि क्वचिनियमः ... १३५ /
१४४ प्रमाणबलाबलविचारः ... १३५ | गोपशौण्डिकादिस्त्रीणां व्यवहारे १४४ आध्यादिषु पूर्वोत्तरक्रियानिर्णयः १३६ परावर्त्यद्रव्यविषये निर्णयप्रकारः १४४ दशविंशतिवर्षापभोगे निर्णयः ... १३६ / तत्र कालावधिः ... अनागमोपभुक्तौ दण्डः ... १३७ | तत्र नृपतिभागः ...
... १४४ अस्वत्वस्य दाने दण्डः ... खाम्यनागमविषये ... ... दशविंशतिवर्षोपभोगे हानेरपवादः निधिप्राप्तौ निर्णयप्रकारः ... १४५ उपनिक्षेपलक्षणम् ... ... १३७ ब्राह्मणस्य निधौ प्राप्ते निर्णयः ... १४५ आध्यादीनां हर्तुदण्डः ... १३८ | ब्राह्मणभिन्नस्य निधौ लब्धे निर्णयः १४५ दण्डपरिमाणम् ...
अनिवेदितनिधिविषये निर्णयः १४५ दण्डप्रकाराः ___... १३८ धनस्वामिन्यागते निर्णयः ... १४५ धनदानाशक्तौ दण्डप्रकारः ... १३८ | तत्र राजभागः ... ... १४५ उत्तमसाहसदण्डखरूपम् ... १३८ चौरहतद्रव्यविषये ... ... १४६ ब्राह्मणस्य वधदण्डनिषेधः ... १३८ | चौरहतद्रव्यापहारे राज्ञो दोषः ... १४६
.... १४४
१३७
१३८
For Private And Personal Use Only
Page #17
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
: विषयानुक्रमणी।
१४७
.. १५२
... १४७
विषयाः : पृष्टं | विषयाः . . पृष्ठं चौरहृतोपेक्षाकरणे ... ... १४६ | पुत्रपौत्रैर्ऋणं देयमित्यस्यापवादः १५० चौरहतदानविषये ... ... १४६ न पतिः स्त्रीकृतमित्यस्यापवादः १५१
ऋणादानप्रकरणम् ३ पतिकृतमृणं भार्या न दद्यादित्यऋणादानं सप्तविधम् ... १४६ |
• स्यापवादः ... : ... १५१ अधमर्णविषये पञ्चविधम् । ... १४६ भायोदीनामधनत्वम् ... १५१ उत्तमर्णविषये द्विविधम्
पुनरपि यदृणं दातव्यं येन च यत्र मासि मासि वृद्धिदान विषये ... दातव्यं तत्रितये निर्णयः ... १५१ वर्णक्रमाद्वृद्धिनिर्णयः ... १४६ कालविशेषे ऋणदानविषये ... १५२ चक्रवृद्धिकायिकादिवृद्धिप्रकाराः... १४७ प्राप्तव्यवहारविषये निर्णयः ... १५२ प्रहीतृविशेषेण प्रकारान्तरवृद्धिः १४७ प्राप्तव्यवहारेपि ऋणदाननिषेधः १५२ कारितवृद्धिः
... १४७ आसेधाह्वाननिषेधः... ... १५२ अकृतद्धिः
| ऋणात्पितृमोचन विषये ... १५२ याचितकविषये निर्णयः १४७ श्राद्धे बालस्याप्यधिकारः ...
.. १५२ याचितकाऽदाने निर्णयः
विभक्तविषये निर्णयः ... अनाकारितवृद्धरपवादः १४७ अविभक्तविषये निर्णयः . १५२ द्रव्यविशेषेण वृद्धिविशेषः ... १४८ पुत्रविषये ऋणदाने विशेषः ... १५२ प्रयुक्तस्य द्रव्यस्य चिरकालावस्थि- | पौत्रविषये ऋणदाने विशेषः ... १५२
तस्य वृद्धिः ... ... १४८ ऋणापाकरणे ऋणी तत्पुत्रः पौत्र वस्नधान्यादीनां वृद्धिः ... १४८ - इति त्रयः कर्तारस्तेषां समपुरुषान्तरे संक्रमणेन प्रयोगान्त
वाये क्रमः : ... ... १५२ रकरणविषये ... ... १४८ परपूर्वाः स्त्रियः ... ... १५३ सकृत्प्रयोगविषये ... ... १४८ | पुनर्भूखैरिणीस्त्रीणां लक्षणम् ... १५३ प्रयुक्तस्य धनस्य ग्रहणप्रकाराः... १४८ | योषिद्बाह ऋणापाकरणेऽधिकारी १५४ धर्मादयश्चोपायाः ... ... १४९ | रिक्थग्रहणाभावे पुत्रपौत्रैर्ऋणदाराज्ञा दापने च प्रकाराः ... __नविषये ....
..... ...
... १५४ बहुघूत्तमर्णिकेषु युगपत्प्राप्तेषु केन योषिबाहिविषये ... ... १५४
क्रमेणाधमर्णिको दाप्य इत्यपे- प्रातिभाव्यादीनां निषेधः .... १५५ क्षितविषये क्रमः ... १४९ दम्पत्योर्विभागाभावे..... १५५ उत्तमणे दुर्बले प्रतिपन्नार्थदापने : पूर्तेषु कर्मसु जायापत्योः पृथगनिर्णयप्रकारः ...
घिकारः .. ...
... १५५
... न्यायार्थ व्ययदानम्
प्रातिभाव्यनिरूपणम् ... निर्धनाधर्णिकविषये
प्रातिभाव्यं त्रिविधम् ... दीयमानाग्रहणे ...
दर्शनप्रत्ययप्रतिभूविषये कुटुम्बार्थे कृतर्णविषये ... १५० दानप्रतिभूविषये ... ... ... १५६ अदेयर्णविषये निर्णयः . ... १५० दर्शनप्रतिभूविषये .... ... १५६
१५५
For Private And Personal Use Only
Page #18
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
याज्ञवल्क्यस्मृतिः।
... १५८
विषयाः .
पृष्ठं विषयाः दानप्रतिभूपौत्रविषये
साक्षिप्रकरणम् ५. प्रातिभाव्यातिरिक्तपैतामहर्णदाने साक्षिखरूपनिरूपणम्
पौत्राधिकारः ... ... १५६ साक्षिभेदाः ... ... १६४ वृद्धिदाने निषेधः ... ... १५६ / कृतसाक्षिणः ... ... १६४ बन्धकप्रतिभूविषये ऋणदाने
अकृतसाक्षिणः ... ... १६४ निर्णयः ... ... १५६ लिखितादिसाक्षिणां भेदाः ... १६४ प्रतिभुवामनेकत्वे ऋणदानप्रकारः १५७ ! तेपि साक्षिणः कीदृशाः कियन्तश्च प्रतिभूदत्तस्य प्रतिक्रियाविधिः ... १५७ भवन्तीत्येतद्विषये प्रीतिदत्तस्यावृद्धिः ... ... १५७ | दोषादसाक्षिणः ... प्रतिभूदत्तस्य सर्वत्र द्वैगुण्ये प्राप्ते- भेदादसाक्षिणां स्वरूपम् ... ऽपवादः ...
स्वयमुक्तिखरूपम् ... ... १६५ स्त्रीपशूनां वृद्धिविषये
असाक्षिणः खरूपम् ... १६५ धान्यवृद्धिविषये ...
एकसाक्षिविषये ... ... १६६ वस्त्ररसविषये ... ... १५८ चौर्यादिषु वय॑साक्षिणोऽपि ग्राह्याः १६६ लग्नकविशेषनिषेधः ...
साक्षिश्रावणम् ... ... १६६ आधिविधिः ... ... १५८ | ब्राह्मणादिषु श्रावणे नियमाः ... १६७ आधिलक्षणम् ... ... १५८ तदपवादः ... ... १६७ सच द्विविधः ...
साक्षिदूषणदाने स्थलम् चतुर्विधस्याधेविशेषः
साक्षिश्रावणप्रकारः... गोप्याधिभोगे वृद्धिनिषेधः ... साक्षिसंत्रासने ... आधिनाशे निर्णयः ... ... १५९ साक्षिणामकथने कर्तव्यता ... १६८ आधिसिद्धिविषये निर्णयः ... १५९
साश्यानङ्गीकारविषये ___... १६८ जङ्गमस्थावरभेदेन द्विविध आधिः १६०
कूटसाक्षिणां दण्डः... ... आधिनाशविषये धनदाने विशेषः १६० साक्षिद्वैधे निर्णयप्रकारः ... १६८ आधिमोक्षण विषये निर्णयः ... १६०
जयपराजयावधारणविषये ... १६८ असन्निहिते प्रयोक्तरि कर्तव्यता १६१ | साक्षिणां स्वभावोक्तवचनग्रहणे १६९ असंनिहितेऽधमणे कर्तव्यता ... १६१ साक्षिभाषितपरीक्षा ... १७० भोग्याधौ विषये ... ... १६१
क्रियाबलाबलावलम्बे फलभोग्याधिविषये ... ... १६२
साक्षिणां दोषावधारणे उपनिधिप्रकरणम् ४ अथ मतम् ... ... १७० उपनिधिद्रव्यलक्षणम् ... १६२ कूटसाक्षिणां दण्डः... ... १७१ उपनिधिदानेऽपवादः ... १६३ | ब्राह्मणकूटसाक्षिविषये __... १७१ उपनिध्युपभोक्तुर्दण्डः ... १६३ लोभादिकारणविशेषे दण्डः ... १७१ उपनिधिधर्माणां याचितादिष्वति- ब्राह्मणे शारीरदण्डनिषेधः ...
... ... १६३ . साक्ष्यनिहवे दण्डः... ... १७२
१८७
... १५८
.
.
. १७१
देशः
For Private And Personal Use Only
Page #19
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
... १९० ... १९२
१९५
विषयानुक्रमणी। विषयाः
विषयाः जानतः साक्ष्यानङ्गीकारे ... घटदिव्यप्रयोगः ... ... १८३ वर्णिनां वधे अनृतानुजा
अग्निदिव्यविधिः ... ... १८७ अनृतवचने प्रायश्चित्तम्
कर्तुरन्याभिमन्त्रणम् ... १८७ लेख्यप्रकरणम् ६
उदकदिव्यविधिः
विषदिव्यविधिः ... लेख्यद्वैविध्यम् ... ...
कोशदिव्यविधिः ... ... १९४ अन्यकृतलेख्ये विशेषः ... १७४ लेख्ये संवत्सरादीनां निवेशः ... १७४
तण्डुलदिव्यविधिः ...
तप्तमाषविधिः ... १९५ लेख्यसमाप्तौ अधमर्णस्य संमतिः १७४
धर्माधर्माख्यविधिः ... ... १९६ लेख्ये साक्षिणां विशेषः ...
पक्षान्तरेण विधिः ... ... १९६ लेखकसंमतिः ... ...
अन्ये शपथाः खकृतलेख्ये विशेषः
शुद्धिविभावना ... ... १९६ लेख्यारूढणविषये विशेषः बलात्कारकृतलेख्ये विशेषः ...
दायविभागप्रकरणम् ८ तदपवादः ...
... १७६
दायशब्दार्थः ... ... १९७ जीर्णादिपत्रविषये ...
दायो द्विविधः ... ... १९७
१९७ देशान्तरस्थपत्रानयनाय काला
अप्रतिबन्धदायलक्षणम् वधिः
सप्रतिबन्धदायलक्षणम् राजकीयपत्रविषये ... ... १७७
विभागलक्षणम् ... राजकीयजयपत्रविषये
१९७ खत्वनिरूपणम् ... १७७
... सभासदां पत्रविषये
स्तेनातिदेशः ...
१९७
... ... १७७ पञ्चविधहीनविषये ... ... १७७
लौकिकीसत्ताविषये विचारः ... १९७ लेख्यसंदेहे निर्णयोपायाः
यत्र काले येन च यथा विभागः लेख्यस्य पृष्ठे लेखनप्रकारः ...
पितुरिच्छया विभागप्रकारः ... कृस्ने ऋणे दत्ते कर्तव्यता ... १७८
विषमविभागनियमः ... २०१ ससाक्षिके ऋणे कृत्स्ने दातव्ये ...
ज्येष्टपुत्र विषये उद्धारविभागः ...
| विभागकालाः ... कर्तव्यता ... .... १७८
... २०२
समविभागे पत्नीनां विशेषः ... २०२ 'दिव्यप्रकरणम् ७
पुत्रस्य दायजिघृक्षाभावे विशेषः २०२ दिव्यमातृका ... ... १७८ विषमविभागनिषेधः ... २०३ शपथाः ... ... ... १७८ पितृमरणानन्तरं समविभागः ... महाभियोगेषु शङ्कितेष्वपवादः... १७९ विंशोद्धारादिः ... ... ततोऽर्थी लेखयेदित्यस्यापवादः ... १७९ विषमविभागनिषेधः ... अवष्टम्भाभियोगेष्वेवेत्यस्यापवादः १७९ उद्धारविभागे निषेधः दिव्ये साधारणविधिः ... १८० मातृधने दुहित्रधिकारः ... दिव्येषु पूर्वाह्लादिकालाः ... १८१ दुहित्रभावे मातृधने पुत्राधिकारः २०३
... १९७
... १७६
२००
..१७७
२०१
س
س
س
س
س
For Private And Personal Use Only
Page #20
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
याज्ञवल्क्यस्मृतिः ।
م
م
م
م
विषयाः
पृष्ठं | विषयाः अविभाज्यधनम् ....... ... २०४ पौनर्भवपुत्रलक्षणम् पितृधृतवस्त्रादिविषये २०५ दत्तकपुत्रलक्षणम् ... ... स्त्रीणामलङ्कारविषये... ... २०५ एकपुत्रदाने निषेधः । ... २१३ योगक्षेमशब्दार्थः ... ... २०५ अनेकपुत्रसद्भावेऽपि ज्येष्ठदाने पैतामहे द्रव्ये पौत्राणां विभागे
निषेधः ... ... २१३ विशेषः .... ... २०६ पुत्रप्रतिग्रहप्रकारः ...
२१४ पितामहोपात्तधने पितुः पुत्रस्य च क्रीतपुत्र लक्षणम् ... - सत्ता विषये ... ... २०६
कृत्रिमपुत्रलक्षणम्...
... २१४
खयंदत्तपुत्रलक्षणम् विभागोत्तरमुत्पन्नपुत्रस्य विभागविषये ... ... २०७
सहोढजपुत्रलक्षणम् पितृदत्तधनविषये निर्णयः ... २०८
अपविद्धपुत्रलक्षणम् पितुरूवं विभागे मातुः वपुत्र
पुत्राणां दायग्रहणे क्रमः ... २१४ समांशित्वम् ... ... २०८
औरसपौत्रिकेयसमवाये निर्णयः २१४ असंस्कृतभ्रातृसंस्कारकरणविषये २०८
पूर्वपूर्वसत्वे उत्तरेषां चतुर्थाशित्वम् २१४
दत्तकानन्तरं औरसे जाते निर्णयः २१५ असंस्कृतभगिनीसंस्कारकरणविषये
असवर्णपुत्रविषये ... ... २१५ ... ... २०९
क्षेत्रजस्य विशेषः ... ... २१५ भगिनीनां विभागः... ... २०९
द्वादशपुत्राणां मध्ये षट् दायादाः भिन्नजातीयानां पुत्राणां विभागः २१०
षट् अदायादाः... ... २१५ भ्रात्रादिवञ्चनया स्थापितस्य समु
दत्तकस्य जनकरिक्थगोत्रनिवृत्तिः २१५ दायद्रव्यस्य विभागः .... २१० । पूर्वपूर्वाभावे सर्वेषां पितृधनाधिसमुदायद्रव्यापहारे दोषः ...
कारः ... ... ११५ ध्यामुष्यायणपुत्रलक्षणम्
भ्रातृपुत्रसत्वे अन्यपुत्रग्रहणनिघ्यामुष्यायणाधिकारविषये ... २११/ षेधः ... ... २१६ नियोगप्रकारः ... ... २११ शूद्रापुत्रविषये । ... ... २१६ नियोगनिन्दा ...
शूद्रधनविभागे विशेषः। ... विधवासंयमः ...
विभक्तस्यापुत्रस्यासंसृष्टिनो धनेधर्म्यनियोगप्रशंसा ...
__ऽधिकारिणः मुख्यगौणपुत्राणां दायग्रहणव्यव- पत्नी ...
२१६ स्था तेषां खरूपं च ... २१३ दुहिता ... औरसपुत्रलक्षणम् ...
दौहित्रः... पुत्रिकापुत्रलक्षणम् ....
| माता ....
.. २२१ क्षेत्रजपुत्रलक्षणम् ... ... २१३ पिता ... गूढजपुत्रलक्षणम् ... २१३ भ्रातरः ... कानीनपुत्रलक्षणम्... ... २१३ भिन्नोदरा:
२५६
___... २१६
२२१
.. २२१
.
२२२
For Private And Personal Use Only
Page #21
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विषयानुक्रमणी।
... २२३
س
س
س
३३
س
ه
विषयाः
पृष्ठं विषयाः भ्रातृपुत्राः
२२२ | ऊढानूढासमवाये अधिकारनिर्णयः २२९ गोत्रजाः
... २२२ प्रतिष्ठिताप्रतिष्ठितासमवाये अधिपितामही
... २२२ कारनिर्णयः .... ... २२९ पितामहादयः
... २२३ वाग्दत्ताविषये निर्णयः ... २३० समानोदकाः
वाग्दत्ताकन्यामरणे निर्णयः ... बन्धवः...
दुर्भिक्षादिसंकटे स्त्रीधनग्रहणे भर्तुआत्मबन्धवः
रधिकारः ... ... २३० पितृबन्धवः
आधिवेदनिकाख्यस्त्रीधनलक्षणम् २३१ मातृबन्धवः
... २२३ विभागसंदेहे हेतवः ... २३१ आचार्यः
। सीमाविवादप्रकरणम् ९ .. शिष्यः ...
सीमाविवादे निर्णयः ... २३२ सब्रह्मचारी
सीमाविवादे तनिर्णयसाधनानि २३२ श्रोत्रियः
सीमायाश्चातुर्विध्यम् ... २३२ राजा ...
| ग्रामसामन्तादयः ... २३२ वीरमित्रोदयकारमतम् ... २२४ वृद्धादिलक्षणम् ... ... २३२ वानप्रस्थादीनां धनेऽधिकारिणः २२४ मौललक्षणम् ... संसृष्टिधन विषये निर्णयः ... २२५ | उद्धृतलक्षणम् ... सोदरस्य संसृष्टिधनेऽधिकारि- वनचारिलक्षणम् ...
निर्णयः ... ... सीमावृक्षाः ... सोदरासोदरसंसर्गे निर्णयः ... २२६ सीमालिङ्गानि ... संसृष्टिधनविभागे ... ... २२६ / सीमानिर्णयोपायः ... ... २३३ तस्योद्धृतस्य विनियोगः ... सीमानिर्णये साक्षिणः ... २३३ अनंशाः
निर्णीतसीमापत्रकरणप्रकारः ... २३४ तेषां भरणम् ...
साक्षिणामनृतवचने दण्डः ... २३५ अनंशानां पुत्रविषये विभाग- ज्ञातृचिह्नाभावे राज्ञा निर्णयः निर्णयः
__ कर्तव्यः ... ... २३५ क्लीबादिदुहितॄणां विशेषः २२८ सीमानिर्णयस्यारामादिषु अतिदेशः २३६ क्लीबादिपत्नीनां विशेषः २२८ सीमानिर्णयप्रसंगेन मर्यादाभेदादौ अथ स्त्रीधनम् ...
। दण्डाः ... ... २३६ स्त्रीधनखरूपनिरूपणम्
खीयभ्रान्त्या क्षेत्रादिहरणे दण्डः २३६ स्त्रीधनभेदाः ... ... २२९ / उत्तमसाहसदण्डलक्षणम् ... २३६ अध्यन्यादिस्त्रीधनस्वरूपम् ... २२९ ! सेतुकूपादिकरणनिषेधे दण्डः ... २३६ स्त्रीधनविभागः ... ... २२९ / अल्पोपकारे निषेधः ... २३७ विवाहभेदेन स्त्रीधनेऽधिकारिभेदाः २२९ सेतोद्वैविध्यम्
२३७ अपत्यवतीधने दुहित्राद्यधिकारः २२९ / सेतुप्रवर्तयितृविषये ... २३७
س
ه
२२५
س
ه
For Private And Personal Use Only
Page #22
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
याज्ञवल्क्यस्मृतिः।
... २३८
२४५
... २४०
विषयाः
पृष्ठं विषयाः फालाहतक्षेत्रविषये ... २३७ रक्षणनिमित्तं राजभागः ... २४३ . स्वामिपालविवादप्रकरणम् १० | मनूक्तषड्भागादिग्रहणस्य द्रव्यगवादिभिः परसस्यादिभक्षणे दण्डः २३७
विशेषेऽपवादः ... ... २४३ माषप्रमाणम् ... ... २३८
दत्ताप्रदानिकप्रकरणम् १२ । अपराधातिशये द्विगुणदण्डः ... २३८
दत्ताप्रदानिकखरूपम् क्षेत्रान्तरे पश्वन्तरे चातिदेशः... २३८
... २४४
| दत्तानपाकर्मखरूपम् . २४४ क्षेत्रवामिने फलदापन विषये
तञ्चतुर्विधम् ... ... २४४ निर्णयः
कुटुम्बाविरोधेन देयविषये क्षेत्र विशेषे अपवादः
.. २४४ ... २३९ वृत्तिकरणप्रकारः ...
भर्तव्यगणः ... ... २४४ ... २३९
अदेयमष्टविधम् ... पशुविशेषे दण्डाभावः
... २४४
सर्वखदाने निषेधः... ... २४५ अदण्ड्याः पशवः ... ... २३९ गोपविषये निर्णयः...
हिरण्यादिकमन्यस्मै प्रतिश्रुतमन्य
... २४० गोपविषये वेतनकल्पना
___ स्मै न देयम् ... ... प्रमादनाशे निर्णयः
देयधनस्य प्रतिग्रहप्रकाश विषये पशूनां कर्णादिचिह्नदर्शने ...
प्रतिश्रुतमप्यधर्मिषु न देयम् ... २४५ पालदोषेण पशुविनाशे पाले दण्डः २४०
अदत्तप्रकारः ... ... २४५ गोप्रसंगाद्गोप्रचारः ... ... २४० दत्तादत्तखरूपम् ... ... २४५ गवादिप्रचारार्थक्षेत्रपरिमाणम् ... २४१, कीतानुशयप्रकरणम् १३ खामिविक्रयप्रकरणम् ११। क्रीतानुशयः ... ... २४६
क्रीतानुशयखरूपम् ... ... २४६ रहस्यल्पेन क्रयनिषेधः ... २४१
प्रत्यर्पणीयनिर्णयः ... ... २४६ खाम्य भियततः कर्तव्यता ... २४२ द्वितीयादिदिने प्रत्यर्पणीयनिर्णयः २४७ ग्राहिते हर्तरि कर्तव्यतानिर्णयः २४२
बीजादिक्रये परीक्षाकालः ... २४७ देशान्तरगते योजनसंख्ययानय
वर्णादिपरीक्षा नार्थ कालो देयः ... २४२ / कम्बलादौ वृद्धिः ... ... २४७ मूलस्यानयने ... ... २४२
द्रव्यान्तरे विशेषः ... २४७ अविज्ञातदेश विषये...
... २४२ | ह्रासद्धिज्ञानोपायः ...
... २४८ साक्ष्यादिभिः क्रयस्याशोधने दण्डः अभ्युपेत्याशुश्रूषाप्रकरणम् १४ नष्टवस्तुनिश्चयोपायाः
अभ्युपेत्याशुश्रूषास्वरूपम् ... २४८ नष्टवस्त्वभाविते दण्डः ... २४३ शुश्रूषकः पञ्चविधः... ... २४८ तस्करस्य प्रच्छादकदिषये ... २४३ कर्मकरश्चतुर्विधः
२४८ राजपुरुषानीतविषये
कर्मापि द्विविधम् ... २४८ नष्टं द्रव्यं राजपा प्रत्यानीतं भृतकत्रैविध्यम् ... २४८ राज्ञा रक्षणीयम्
... २४३ दासमेदाः
शणमू
२४७
For Private And Personal Use Only
Page #23
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विषयानुक्रमणी ।
کب
کر،
विषयाः
विषयाः
पृष्ठं बलाहासीकृत विषये ... २४९ वाक्पारुष्यप्रकरणम् १८ दासमोक्षविषये
वाक्पारुष्यलक्षणम् ... २५७ प्रवज्यावसितस्य मोक्षविषये ....
तस्य त्रैविध्यम् ... ... २५७ वर्णापेक्षया दास्यव्यवस्था ...
निष्ठुराकोशे सवर्णविषये दण्डः २५७ अन्तेवासिधर्माः ... ... अश्लीलाक्षेपे दण्डः ... ... २५८ संविद्यतिक्रमप्रकरणम् १५
विषमगुणदण्डः ... ... २५८
परस्पराक्षेपे दण्डः ... ... संविधतिक्रमलक्षणम् ... धर्मरक्षणाय ब्राह्मणस्थापना ... २५१
प्रतिलोमानुलोमाक्षेपे दण्डः नियुक्तकर्तव्यकर्म ... ...
| निष्ठुराक्षेपे दण्डः ... ... २५९
अशक्तविषये ... ... २५९ तदतिक्रमादौ दण्डः ... २५१
| तीव्राक्रोशे दण्डः ... ... २६० गणिषु राज्ञो वर्तनप्रकारः ...
विद्यादीनां क्षेपे ... समूहदत्तापहारिणो दण्डः ... २५२ कार्यचिन्तकलक्षणम्
दण्डपारुष्यप्रकरणम् १९ विद्यधर्मस्य श्रेण्यादिष्वतिदेशः २५३
| दण्डपारुष्यस्य प्रकरणम् वेतनादानप्रकरणम् १६ तस्य त्रैविध्यम्
| तत्र पञ्चविधयः ... वेतनादानस्वरूपम् ... ... २५३
... २६१ गृहीतवेतनविषये ... ... २५३
दण्डप्रणयनार्थं तत्स्वरूपसंदेहे भृतिमपरिच्छिद्य कर्मकारयितुर्दण्डः २५३
निर्णयहेतुः ... ... २६१ अनाज्ञप्तकारि विषये ... २५४
साधनविशेषेण दण्डविशेषः ... २६१ भृतिदानप्रकारः
पुरीषादिस्पर्शे दण्डः ... २६१
प्रातिलोम्यापराधे दण्डः ... २६२ आयुधीयभारवाहकविषये ... त्याजकविषये ... ... २५५
सजातीयविषये हस्तपादे उद्गणे । अपगतव्याधिविषये ... २५५
दण्डः ...
___... २६२
केशादिलुश्चने दण्डः ... द्यूतसमाह्वयप्रकरणम् १७
काष्टादिभिस्ताडने दण्डः द्यूतसमायस्वरूपम् ... २५५ लोहितदर्शने दण्डः... ... २६२ द्यूतसभाधिकारिणो वृत्तिः ... २५५ | करपादादित्रोटने दण्डः ... २६३ क्लप्तवृत्तेः सभिकस्य कर्तव्यम् ... २५६ चेष्टादिरोधने दण्डः __... २६३ सभिकेनादत्ते राज्ञा दापनम् ... २५६ कन्धरादिभङ्गे दण्डः ... २६३ जयपराजयविप्रतिपत्तौ निर्णयो- बहुभिरेकस्याङ्गभङ्गादिकरणे दण्डः २६३
| व्रणरोपणादौ औषधार्थ पश्यार्थ द्यूतं निषेद्धं दण्डः ... ... २५६ च व्ययदानम् ... ... २६४ कूटाक्षदेविनिर्वासने विशेषः ... २५६ बहिरङ्गार्थनाशे दण्डः ... २६४ समाह्वये द्यूतधर्मातिदेशः ... २५७ | दुःखोत्पादादिद्रव्यप्रक्षेपे दण्डः २६४
पायः
२५६
For Private And Personal Use Only
Page #24
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
याज्ञवल्क्यस्मृतिः।
w
w
w
विषयाः पृष्ठं | विषयाः
पृष्ठं पश्वभिद्रोहे दण्डः ... ... २६४ स्वदेशपण्यविषये लाभनिर्णयः २७० लिङ्गच्छेदने दण्डः ...
परदेशपण्यविषयेऽनिरूपणप्रकारः २७१ महापशुविषये दण्डः
विक्रीयासंप्रदानप्रकरणम् २१ स्थावराभिद्रोहे दण्डः ... २६४ विक्रीयासंप्रदानस्वरूपम् ... २७१ वृक्षविशेषच्छेदने दण्डः
तस्य द्वैविध्यम् ... ... २७१ गुल्मादीनां छेदने दण्डः ... २६५ विक्रीयासंप्रयच्छतो दण्डः ... २७१
साहसप्रकरणम् अर्घहानिविषये निर्णयः ... साहसलक्षणम्
राजदैवोपघातेन पण्यदोषे ... साहसस्य त्रैविध्यम्...
एकत्र विक्रीयान्यत्र विक्रये ... २७२ प्रथमसाहसम् ... ... २६६ निर्दोष दर्शयित्वा सदोषदाने ... २७२ मध्यमसाहसम् ...
तदुभयसाधारणधर्माः .... २७३ उत्तमसाहसम् ...
अनुशयकालावधिः ... ... २७३ परद्रव्यापहरणरूपे साहसे दण्डः ।
संभूयसमुत्थानप्रकरणम् २२ साहसस्य प्रयोजयितुर्दण्डः ...
संभूयसमुत्थानविषये लाभालाभौ २७३ साहसिक विशेष प्रति दण्डः ... भ्रातृभार्याताडने दण्डः
प्रतिषिद्धादिविषये निर्णयः ... २७३ ... २६७
राजनिरूपिताधं राजभागः ... २७३ संदिष्टस्याप्रदातुर्दण्डः ...
व्यासिद्धादिविषये निर्णयः ... २७४ समुद्रगृहभेदकृदादीनां दण्डः ...
शुल्कवञ्चनार्थ पण्यपरिमाणनिह्नवे खच्छन्दविधवागाम्यादीनां दण्डः
दण्डः अयुक्तशपथकरणे दण्डः ... २६७
तरिकस्य शुल्कविषये ... २७४ पुंस्त्वप्रतिघातने दण्डः ... २६७
देशान्तरमृतवणिग्धननिर्णयः ... २७५ दासीगर्भविनाशने दण्डः ... पितापुत्रादीनामन्योन्यत्यागे दण्डः २६७
वणिग्धर्मस्य ऋत्विगादिष्वतिदेशः २७५ नेजकस्य दण्डः ... ... २६७
स्तेयप्रकरणम् २३ पितापुत्र विरोधे साक्षिणां दण्डः २६८ स्तेयलक्षणम् ... ... २७६ तुलानाणककूटकरणे दण्डः ... २६८ स्तेयग्रहणस्य ज्ञानोपायाः ... २७६ नाणकपरीक्षक विषये दण्डः ... २६८ लोप्नपरीक्षणम् ... ... २७६ चिकित्सक विषये दण्डः ... २६८ | शङ्कया ग्राह्यविषये ... ... २७७ अवध्यबन्धनादौ दण्डः ... २६९ चौर्यशङ्कया गृहीतविषये निर्णयः २७७ कूटतुलापहारे दण्डः ... २६९ चौरे दण्डः ... ... २७७ भेषजादावसारद्रव्यमिश्रणे दण्डः २६९ चौरविशेषेऽपवादः . ... २७८ अजातौ जातिकरणे दण्डः ... २६९ श्वपदाकारमङ्कनम् ... ... २७८ समुद्रभाण्डव्यत्यासकरणे दण्डः... २६९ प्रायश्चित्तं कुर्वतो नाङ्कनम् ... २७८ वणिजां अर्घह्रासवृद्धिकरणे दण्डः २७० चौरादर्शनेऽपहृतद्रव्यप्राप्युपायाः २७९ अर्घकरणे विशेषः ... ... २७० | अपराधविशेषेण दण्ड विशेषः ... २७९
w w w w w w w w Trurrr ur ur 2 2 222222
w ur w
For Private And Personal Use Only
Page #25
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
...
विषयानुक्रमणी ।
विषयाः
पृष्ठ
विषयाः
२७९ | उत्तमवर्णकन्यासेवने दण्डः
कोष्ठागारादिभेदकादिवधः उत्क्षेपकादीनां करादिच्छेदः २७९ | स्त्रीदूषणे दण्डः उत्क्षेपकादीनां द्वितीयतृतीयापराधे मिथ्याभिशंसने दण्डः
दण्ड:
२७९ पशुगमने दण्डः
... २७९ | साधारणस्त्रीगमने दण्डः २८० वेश्याख्यानादिजातिनिरूपणम्
दण्ड कल्पनोपायः क्षुद्रादिद्रव्यस्वरूपम् तद्विषये दण्डनियमः धान्यापहारे दण्डः सुवर्णाद्यपहारे दण्डः द्रव्यविशेषाद्दण्डः अकुलीनानां तु दण्डान्तरम् क्षुद्रद्रव्यापहारे दण्डः अपराध गुरुत्वादपि दण्ड गुरुत्वम् पथिकानां अल्पापराधे निर्णयः अचौरस्यापि चौरोपकारिणो दण्डः २८१
२८१
२८१
२८१
२८१
शस्त्रावपातनादिषु दण्डः विप्रदुष्टादिस्त्रीणां दण्डः प्रकीर्णप्रकरणम् २५ अविज्ञातकर्तृके हनने हन्तृज्ञानोपायः २८२ स्त्रीपुंयोगाख्यव्यवहारः व्यभिचारिप्रश्नविषये क्षेत्रादीनां दाहकस्य राजपत्यभि
२८२ | लक्षणम्.
गामिनश्च दण्डः ...
स्त्रीसंग्रहणप्रकरणम् २४ स्त्रीसंग्रहणस्य त्रैविध्यम् स्त्री संग्रहणोपायः
प्रतिषिद्धस्त्रीपुंसयोः पुनः संल्लापा
दिकरणे दण्ड: चारणदारेषु दण्डाभावः संग्रहणे दण्ड: मात्रादिगमने दण्ड: प्रातिलोम्येन स्त्रीगमने क्षत्रिया
दीनां दण्डः द्विजातिभिः शस्त्रधारणे पारदार्यप्रसंगात्कन्याहरणे दण्डः आनुलोम्यापहारे दण्डः कन्यादूषणे दण्डः
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
www. kobatirth.org
...
२८०
२८०
२८१
Acharya Shri Kailassagarsuri Gyanmandir
२८०
पञ्चचूडाख्या अप्सरसः २८० | दास्यभिगमने दण्डः
२८० | बलात्कारेण एकस्यां मुहुर्गमने
२८२
२८३
२८४
...
दण्डः
व्याधिताया अदण्डः
...
...
स्त्रीपुंसयोः स्वमार्गे स्थापनम् प्रकीर्णलक्षणम् अपराधविशेषे दण्डः
For Private And Personal Use Only
...
...
२८४ | क्षुद्रपशुहिंसायां विशेषः २८४ | जारं चौरेति वदतो दण्डः २८५ | राज्ञोऽनिष्टप्रवक्तुर्दण्डः २८५ | राज्ञः कोशापहारे दण्डः २८५ जीवनोपकरणापहारे
...
...
***
...
२८७
२८७
शुल्कं गृहीत्वा नेच्छन्त्या दण्डः
२८८
गत्वा शुल्क मददद्दण्ड्यः
२८८
२८८
अयोनौ गच्छतो दण्डः अन्त्यस्यार्यागमने वधः प्रायश्चित्तानभिमुखस्य निर्वासनम् २८८
२८८
...
...
...
...
...
...
...
...
अभक्ष्येण द्विजदूषणे दण्डः कूटस्वर्णव्यवहारादौ दण्डः विषयविशेषे दण्ड: ..
२८३ | काष्ठोष्टाद्युत्क्षेपणे दण्डः २८४ | छिन्ननस्ययानेन मारणविषये २८४ | उपेक्षायां स्वामिनो दण्डः २८४ | प्रवीणप्राजकस्थलविषये निर्णयः
प्राणिविशेषाद्दण्डविशेषः
***
...
...
...
...
...
...
...
...
...
...
१५
***
.
२८५
२८६
२८६
२८६
२८६
२८६
२८७
२८७
२८८
૨૮૮
२८९
२८९
२८९
२८९
२८९
२९०
२९०
२९०
२९०
२९०
२९०
२९०
२९१
२९१
२९१
२९१
Page #26
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
याज्ञवल्क्यस्मृतिः।
विषयाः
पृष्ठं | विषयाः ब्राह्मणस्य शारीरदण्डनिषेधः ... २९१ राजानुमत्या व्यवहारस्य दुईष्टत्वे मृतवस्तुविक्रेयगुरुताडनविषये ... २९१ दण्डः ... ... २९२ राजासनारोहणे दण्डः ... २९१ निर्णीतव्यवहारप्रत्यावर्तने दण्डः २९२ परनेत्रभेदनादौ दण्डः ... २९१ तीरितादिस्थलविषये ... २९२ ब्राह्मणवेषधारणे दण्डः ... २९१
न्यायापेतस्य पुनाये विशेषः २९२ रागलोभादिनाऽन्यथाव्यवहारदर्शने दण्डः ... ...
अन्यायगृहीतदण्डधनस्य गतिसाक्षिदोषेण दुईष्टतायां साक्षिणां
विषये ... ... २९३ दण्डः ... ... २९२ । इति व्यवहाराध्यायसूचीपत्रम् ।
m
०
०
३०१
- प्रायश्चित्ताध्यायः ३ आशौचप्रकरणम् १ उदकदानोत्तरं कर्तव्यता ... आशौचशब्दार्थः ... ... २९४ | शोकनिरसनेतिहासखरूपम् ... मृतविषये खननदाहादिनिर्णयः २९४ | रोदननिषेधः ... ... अनुगमनम्
प्रेतदहनोत्तरं गृहप्रवेशविधिः चाण्डालायग्निनिषेधः ... २९५ अतिदेशः ... ... ३०२ उदकदाने निर्णयः ... ... धर्मार्थप्रेतनिहरणे फलम् आहिताग्निमरणे विशेषः
ब्रह्मचारिविषये निर्णयः शूद्राहृताग्निकाष्ठविषये
आशौचिनां नियमाः प्रेतस्नानम्
प्रेतपिण्डदाने निर्णयः प्रेतनिहरणे विशेषः
कर्तृनियमाः ... ... ३०३ प्रेतनयने द्वारनिर्णयः
द्रव्यनियमः ...
... ३०३ पर्णशरदाहादि ... ...
पिण्डदानाधिकारिणः
.... ३०३ अग्निसंस्कारोत्तरं कर्तव्यता ... २९६
पिण्डसंख्याकालादिनिर्णयः उदकदाने गुणविधिः ... २९७
(शिक्यादौ जलदानम् सपिण्डानां मध्ये केषांचिदुदक- अस्थिसंचयनकालः
... ३०४ दानप्रतिषेधः ... ... वपनम् ... ... पाखण्ड्यादीनां मरणे आशौचा
| अग्निहोत्रविषये निर्णयः ... ३०४ दिनिर्णयः ... ... २९८ सूतके संध्योपासननिर्णयः ... मृत्युविशेषादाशौचादिनिषेधः ... २९८ स्मार्तकर्मविषये निर्णयः ... पतितादीनां दाहाश्रुपातनिषेधः सूतकान्नभोजनादिनिषेधः ... आत्महननविषये ... ... २९८ आशौचनिमित्तानि कालनियमाश्च नारायणवलिप्रयोगः ... २९९ सपिण्डाद्याशौचम् ... ... ३०६ नागबलिः ... ... २९९ | बालाद्याशौचम् ... ... विष्णुपुराणोक्तनारायणबलिः ... २९९ जननाशौचम् ... ...
mmmmmmmmm m mr m mr mmm r me mmm or or
३०३
.mSSS
६
For Private And Personal Use Only
Page #27
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विषयानुक्रमणी ।
Mr me
विषयाः पृष्ठं | विषयाः
पृष्ठं प्रसूतिकाशौचम्
३०७ | अन्याश्रितभार्यामरणे आशौचपुत्रजननदिने दानाधिकारः ... ३०७ निर्णयः ... ... ३१८ षष्ठीपूजने निर्णयः ... ... ३०८ अनुगमनाशौचनिर्णयः ... ३१८ आशौचसंपाते निर्णयः ... ३०८ राजादीनां सपिण्डाशौचापवादः ३१९ जननमरणाशौचसंपाते निर्णयः ३०८ | दासादीनामाशौचविषये निर्णयः ३२० पित्रोराशौचसंकरे निर्णयः ... ३०८ ऋत्विगादीनां आशौचापवादः... ३२० गर्भस्रावे आशौचनिर्णयः ... ३०९
| ब्रह्मचारिसंन्यासिविषये निर्णयः ३२० सप्तममासादौ गर्भस्रावे निर्णयः ३०९ आशौचान्ते स्नानम् ... ३२१ जातमृते मृतजाते वा आशौचम् ३०९
| रजखलादीनां स्पर्शे निर्णयः ... ३२२ तत्र व्यवस्था ... ... ३१०
दुःस्वप्नादिविषये निर्णयः रजखलाशुद्धिविषये निर्णयः ... ३११
श्वादिस्पर्शविषये निर्णयः ... रजखलावस्थायां नियमाः ... ३११
श्वपाकविषये निर्णयः ... ३२३ ज्वरादिपीडितरजखलाविषये
पक्षिस्पर्शे निर्णयः ... ... शुद्धिनिर्णयः ... ... ३११
शुद्धिहेतूनां कथनम् . रजखलायाः सूतिकायाश्च मरणे
अकार्यकारिणां नद्यादीनां च शुद्धिनिर्णयः ... ...
विषये निर्णयः... ... ३२५ आहितामिमरणे विशेषः ...
आपद्धर्मप्रकरणम् २ मृत्युविशेषेणाशौचापवादः ... आपदि वृत्त्यन्तरजीवननिर्णयः... ३२६ युद्धमरणे निर्णयः ...
वैश्यवृत्त्या जीवतो ब्राह्मणस्यापविदेशस्थाशीचे विशेषः ... ३१२ णनीयविषये ... ... ३२७ विदेशस्थमृताशौचे विशेषः ... ३१२ निषिद्ध प्रतिप्रसवः... ... दशाहादूर्ध्व ज्ञाते निर्णयः ... | निषिद्धातिक्रमे दोषः ... पितृपत्नीविषये विशेषः ...
... ३१३ आपद्यसत्प्रतिग्रहेऽदोषः ... ३२८ देशान्तरलक्षणम् ... ... ३१३ | आपत्काले जीवनानि ... वर्णविशेषत आशौचदिनसंख्या ३१३ कृष्यादीनां जीवनहेतूनामसंभवे वयोवस्थाविशेषादपि दशाहाद्या-
जीवनम् ... ... ३२९ शौचस्यापवादः... ... ३१४ | राज्ञो वृत्तिविषये कर्तव्यता ... ३२९ वयोवस्थाविशेषतः स्त्रीणामाशौ- ___ वानप्रस्थधर्मप्रकरणम् ३ चम्...
वानप्रस्थधर्माः .... ... गुरुमातुलादिमरणे आशौचम् ... ३१७ अग्निपरिचर्याक्षमविषये निर्णयः ३३१ पित्रोमरणे विवाहितकन्याविषये पूर्वोक्तद्रव्यसंचयनियमः
आशौचम् ... ... ३१७ चान्द्रायणादिविधानम्.. ... श्वशुरादिमरणे आशौचम् ... ३१७ अनौरसपुत्राद्याशौचम् ... ३१८ सकलानुष्ठानसमर्थविषये ... ३३४
या०३
in ar an
r
३३०
و
...
नयमः
سم
भैक्षाचरणम्
WWW AM
اس
...
...
For Private And Personal Use Only
Page #28
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
याज्ञवल्क्यस्मृतिः।
३५१
m
mm
विषयाः
विषयाः यतिधर्मप्रकरणम् ४ गीतज्ञस्य फलान्तरम्
.... ३५१ यतिधर्मनिरूपणम् ... ... ३३५ पुनरात्मस्वरूपम् ... यतिधर्माः ... ... ३३६ ऋषिप्रश्नः भिक्षाटने कर्तव्यता ___... ३३७ प्रत्युत्तरम् ...
... ३५१ यतिपात्राणि तेषां शुद्धिश्च ..... कर्मानुरूपशरीरग्रहणम्
... ३५४ यतेरात्मापासनाङ्गनियमविषये ... सत्वादिगुणपरिपाकः
... ३५४ ___ आशयशुद्धिविषये ... ३३८ जन्मान्तरज्ञानविषये ... ३५५ इन्द्रियनिरोधोपायतया संसारनि- अन्यदुःखज्ञानविषये... ... ३५६ रूपणम् ... ... ३३८
भेदप्रत्ययः ... ... ३५६ अनन्तरं कर्तव्यविषयः ... ३३९ | आत्मनो जगदुत्पत्तिः ... ३५७ जीवपरमात्मनोरभेदनिरूपणम् ३३९ | आत्मनि प्रमाणनिरूपणम् ... ३५७ शरीरग्रहणप्रकारः ... ... ३४०
संसारखरूपम् ... पृथिव्यादीनां शरीसरम्भकत्व- शरीरग्रहणद्वारेण पुनस्तस्य
विषये ... ... ३४१ विस्रम्भः ... संयुक्तशुक्रशोणितस्य कायरूपपरि- अमृतत्वप्राप्त्युपायाः णतो क्रमः ...
जातिस्मरणविषये गर्भिण्यै दोहददानम्
कालकर्मादीनां कारणवम् गर्भस्थैर्यादिकथनम्...
| मोक्षमार्गनिरूपणम्...
वर्गमार्गनिरूपणम् ... कायस्वरूपकथनम् ...
| संसरणमार्गनिरूपणम्
... ३६१ अस्थिसंख्या ...
भूतचैतन्यवादिपक्षखण्डनम् सविषयाणि ज्ञानेन्द्रियाणि
क्षेत्रज्ञखरूपम् कर्मेन्द्रियाणि ... ... ३४६ | बुद्ध्यादेरुत्पत्तिः ... प्राणायतनानि ... ... ३४६ / गुणखरूपम् ।
... ३६३ प्राणायतनानां विस्तारः ... ३४६ खर्गिमार्गनिरूपणम् । नवच्छिद्राणि ...
धर्मप्रवर्तकाः
... ... ३६४ नाडीसंख्या ...
वेदादीनामनादित्वनिरूपणम् शिरासंख्या
आत्मदर्शनावश्यकता केशमर्मसंधिसंख्या...
प्राप्तिमार्गदेवयानमार्गों सकलशरीरछिद्रसंख्या
पितृयानमार्गः ... ... शरीररसादिपरिमाणम्
| उपासनाप्रकारनिरूपणम् ... उपासनीयात्मस्वरूपम्
| धारणात्मकयोगाभ्यासप्रयोभात्मध्यानप्रकारः ... ... ३४९ जनम् ... ... ३६७
प्रकारः ... ३५० | यज्ञदानाद्यसंभवे सत्वशुद्धावुपावीणादिवाद्यद्वारा मोक्षमार्गप्राप्तिः ३५० यान्तरम् ... ... ३६५
Mmm
प्रसवकालः
m
mr m
ur
m
Mmm
or
mr
mr
८५
m
For Private And Personal Use Only
Page #29
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विषयानुक्रमणी।
س
س
س
س
Arr ?
س
س
विषयाः
पृष्ठं विषयाः प्रायश्चित्तप्रकरणम् ५ सुरापानप्रायश्चित्तम् ... ३९६ कर्मविपाकनिरूपणम् ... ३६७ | सुराविषये विचारः... .... ३९७ पूर्वकर्मानुरोधेन जन्मानि ... ३६८ | एकादशमद्यानि ... ... ३९७ पापानुरोधेन रोगिणो भवन्ति ... ३६८ प्रायश्चित्तान्तरम् ... कर्मविपाकं दर्शयितुमाह
| सुरासंसृष्टशुष्करसानभक्षणे प्रायशङ्खन क्वचिद्विशेषो दर्शितः ... ३७० श्चित्तम् ... ... ४०० प्रायश्चित्ताधिकारिनिरूपणम् ... ३७२ शुष्कसुराभाण्डस्थोदकपानविषये प्रायश्चित्ताकरणे दोषः
प्रायश्चित्तम् ... ... ४०० तामिस्रादिनरकाः ...
... ३७४ मद्यपाने प्रायश्चित्तम् ... ४०१ प्रायश्चित्तफलम् ... ... ३७४ | द्विजातिभार्याविषये सुरापानप्रामहापातकिनः ... ... ३७६ यश्चित्तम् ... ... ४०२ ब्रह्महत्यासमानि पापानि
सुवर्णस्तेयप्रायश्चित्तम् सुरापानसमानि ...
शङ्कोको विशेषः ... सुवर्णस्तेयसमानि ...
सुवर्णशब्दस्यार्थः ... गुरुतल्पसमानि ...
सुवर्णस्तेये प्रायश्चित्तान्तरम् ... गुरुतल्पातिदेशः ...
गुरुतल्पगमनप्रायश्चित्तम् ... गुरुतल्पपापे प्रायश्चित्तम् ... ३८० | गुरुशब्दस्यार्थः ... ... ४०७ उपपातकानि ...
| गुरुतल्पगमने प्रायश्चित्तान्तरम् ४०७ जातिभ्रंशकराणि ...
ब्रह्महादिमहापातकिसंसर्गिप्रायसंकरीकरणानि ...
श्चित्तम् ... ... ४१२
| पतितसंसर्गप्रतिषेधेन प्रतिषिद्धस्य मलावहप्रकीर्णकानि
__ यौनसंबन्धस्य क्वचित्प्रतिप्रसवः ४१५ ब्रह्मवधप्रायश्चित्तम् ...
निषिद्धसंसर्गोत्पन्नप्रतिलोमवधे अनुग्रहकादिप्रायश्चित्तम् ... ३८५, प्रायश्चित्तम् ... ... ४१६ ब्रह्मवधे विशेषः ... ... ३८६ शूद्रादीनां विषये प्रायश्चित्तम् ... ४१६ प्रोत्साहकादीनामपि दण्डप्रायश्चि- गोवधप्रायश्चित्तम् ... ... ४१७
त्तनिरूपणम् ... ... ३८६ | तथा वयोविशेषादपि प्रायश्चित्तबालवृद्धादीनां साक्षात्कर्तृविषये ।
विशेषः ... ... ४२० अर्धं प्रायश्चित्तम् ... ३८९ पालनाकरणादिनोपेक्षायां क्वचिब्रह्महत्यादिप्रायश्चित्तस्य नैमित्ति- प्रायश्चित्तविषये विशेषः ... ४२१
कसमाप्त्यवधिः ... ... ३८९ स्त्रीणां प्रायश्चित्तविषये विशेषः ४२३ प्रायश्चित्तान्तरम् ... ... | पुरुषेषु च विशेषः ... ... ४२३ ब्रह्महत्याप्रायश्चित्तस्यातिदेशः ... ३९५ उपपातकानां प्रायश्चित्तम् ... ४२३ आत्रेयीहत्याप्रायश्चित्तम् ... ३९५ स्त्रीशदविटक्षत्रवधे प्रायश्चित्तम्... ४३१ आत्रेयीलक्षणम् ... ... ३९६ / स्त्रीवधे प्रायश्चित्तम् ... ... ४३३
س
س
سم
अपात्रीकरणानि .
4
... ३८४
س
WWW PWWW
For Private And Personal Use Only
Page #30
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
याज्ञवल्क्यस्मृतिः।
विषयाः
पृष्ठं विषयाः ईषव्यभिचरितब्राह्मण्यादिवधे जातिदुष्टसंधिन्यादिक्षीरपाने
विशेषः ... ... ४३३ / प्रायश्चित्तम् ... ... ४५२ अनुपपातकप्राणिवधे प्रायश्चित्तम् ४३४ | स्वभावदुष्टमांसादिभक्षणे प्रायमार्जारादिवधे प्रायश्चित्तम् ... ४३४/ श्चित्तम् ... ... ४५३ वृक्षगुल्मलतादिछेदने प्रायश्चित्तम् ४३७ अशुचिस्पृष्टभक्षणे प्रायश्चित्तम्... ४५४ पुंश्चलीवानरादिवधप्रायश्चित्तप्रसं- अशुचिद्रव्यसंस्पृष्टभक्षणे प्रायश्चि
गात्तदंशनिमित्तं प्रायश्चित्तम् ४३७ तम् ... ... ... ४५५ शारीरचरमधातुविच्छेदकस्कन्दने भावदुष्टभक्षणे प्रायश्चित्तम् ... ४५७ प्रायश्चित्तम् ... ... ४३८
कालदुष्टभक्षणे प्रायश्चित्तम् ... ४५७ ब्रह्मचारिणा योषिद्गमने कृते प्राय- गुणदुष्टशुक्तादिभक्षणे प्रायश्चित्तम् ४५८ श्चित्तम् ... ... ४३९
हस्तदानादिक्रियादुष्टाभोज्यभक्षणे
प्रायश्चित्तम् ... ... ४५८ खप्ने रेतःपाते प्रायश्चित्तम् ... ४४० गार्हस्थ्यपरिग्रहेण संन्यासात्प्रच्यु
एकादशाहादिश्राद्धभोजने प्राय
श्चित्तम् ... ... ४५९ तौ प्रायश्चित्तम् ... ... ४४१
परिग्रहाभोज्यभोजने प्रायश्चित्तम् ४६० ब्रह्मचारिप्रायश्चित्तप्रसंगादन्यदप्य
आशौचिपरिगृहीतानभोजने प्रानुपातकप्रायश्चित्तम् ... ४४२
यश्चित्तम् ... ... ४६१ ब्रह्मचारिप्रायश्चित्तप्रसंगाद्गुरोरपि
ब्रह्मचर्याद्यनभोजने प्रायश्चित्तम् ४६१ प्रायश्चित्तम् ... ... ४४३ जातिभ्रंशकरपापे प्रायश्चित्तम् ... ४६२ सकलहिंसाप्रायश्चित्तापवादः ...
प्रकीर्णकप्रायश्चित्तानि ६ मिथ्याभिशंसने प्रायश्चित्तम् ... ४४४ गुरुनिर्भर्त्सनप्रायश्चित्तम् ... ४६२ अभिशस्तप्रायश्चित्तम्
विप्रदण्डोद्यमे प्रायश्चित्तम् ... ४६३ भ्रातृभार्यागमने प्रायश्चित्तम् ... ४४५ पादप्रहारे प्रायश्चित्तम् ... ४६३ रजखलाभार्यागमने प्रायश्चित्तम् ४४५
मनुप्रोक्तप्रकीर्णकप्रायश्चित्तम् ... ४६४ रजखलायास्तु रजस्खलादिस्पर्श
नित्यश्रीतादिकर्मलोपे प्रायश्चित्तम् ४६४ . प्रायश्चित्तम् ... ... ४४७ इन्द्रधनुर्दर्शनादौ प्रायश्चित्तम् ... ४६४ अयाज्ययाजने प्रायश्चित्तम् ... ४४७ पतितादिसंभाषणे प्रायश्चित्तम् ... ४६४ वेदविप्लावने प्रायश्चित्तम् ।
ब्रह्मसूत्रं विना विण्मूत्रोत्सर्गादौ खाध्यायत्यागे प्रायश्चित्तम् ... ४४९ प्रायश्चित्तम् ... ... ४६४ अग्नित्यागे प्रायश्चित्तम् ... ४४९ स्तेनपतितादिपतिभोजने प्रायअनाश्रमवासप्रायश्चित्तम्
__श्चित्तम् ... ... ४६४ समुद्रयानादौ प्रायश्चित्तम्
नीली विषये प्रायश्चित्तम् ... ४६४ वेश्यादावभ्यासे ... ... क्वचिद्देश विशेषगमने प्रायश्चित्तम् ४६५ असत्प्रतिग्रहे प्रायश्चित्तम् ... ४५१ प्रायश्चित्तिविषये देशकालादिविपलाण्ड्वादिभक्षणे प्रायश्चित्तम् ... ४५२ चारः ... ... ४६५
For Private And Personal Use Only
Page #31
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विषयानुक्रमणी।
TO
.
.
... ४८०
... ४८१
४७
विषयाः
पृष्ठं विषयाः पतितस घटस्फोटविधिः ... ४६५ / | तप्तकृच्छ्रव्रतम् पतितस्य प्रायश्चित्तानन्तरं ग्रहण- पादकृच्छ्रम्
विधिः ... ... ४६६ प्राजापत्यकृच्छ्रम् ... पूर्वोक्तस्य पतितपरित्यागादिविधे
अतिकृच्छ्रः
... ४८२ रतिदेशः ...
कृच्छ्रातिकृच्छ्रः ...
... ४८२ स्त्रीणां विशेषपातित्यम्
पराककृच्छ्रः
... ४८३ सकलव्रतविधौ विशेषः
सौम्यकृच्छ्रः
... ४८३
तुलापुरुषकृच्छ्रः चरितव्रतसाधारणधर्माः
...४८३
... ... ४६९ रहस्यप्रायश्चित्तानि ...
... ४७२
चान्द्रायणव्रतम् ... ... ४८३ प्रायश्चित्तान्तरम् ...
| चान्द्रायणान्तरम् ... ... ४८४ सुरापानप्रायश्चित्तम्...
कृच्छ्रचान्द्रायणसाधारणेतिकर्तसुवर्णस्तेयप्रायश्चित्तम् .... ४७२
व्यता ... ... ४८५ गुरुतल्पगप्रायश्चित्तम्
प्रायश्चित्ते वपननिर्णयः ... ४८७ गोवधादिषट्पञ्चाशदुपपातकप्राय
अनादिष्टपापे प्रायश्चित्तम् ... ४८७ ... ४७४
व्रताशक्तौ गोदानादिकादयोऽनुउपपातकसामान्यप्राप्तस्य प्राणाया
___ कल्पाः ... ... ४८८ मशतस्यापवादः...
... ४७५
महापातकादौ गवादिसंख्या ... ४८८ अज्ञानकृतप्रायश्चित्तम् ... ४७५ चान्द्रायणादौ धेनुसंख्या ... ४८९ सकलसाधारणपवित्रमन्त्राः
अभ्यासे प्रायश्चित्तावृत्तिः ... ४९० यमनियमाः
... ४७८
व्रताशक्तस्य ब्राह्मणभोजनम् ... ४९० सान्तपनाख्यव्रतम् ... ... ४७८ / कृच्छ्रचान्द्रायणादिफलम् ... ४९१ महासान्तपनाख्यव्रतम् ... ४७९ / एतच्छास्त्राध्ययने फलश्रुतिः ... ४९१ पूर्णकृच्छ्राख्यव्रतम् ... ४७९/ इति प्रायश्चित्ताध्यायसूचीपत्रम् ।
४७३
श्चित्तम्
समाप्तेयं याज्ञवल्क्यस्मृतिविषयसूची।
For Private And Personal Use Only
Page #32
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
Page #33
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
La600RAN
याज्ञवल्क्यस्मृतिः।
मिताक्षरासंवलिता। उपोद्घातप्रकरणम् १
श्रीगणेशाय नमः। धर्माधौं तद्विपाकास्त्रयोऽपि क्लेशाः पञ्च प्राणिनामायतन्ते । यस्मिन्नेतैनों परामृष्ट ईशो यस्तं वन्दे विष्णुमोंकारवाच्यम् ॥ १ ॥ याज्ञवल्क्यमुनिभाषितं मुहुर्विश्वरूपविकटोक्तिविस्तृतम् ।
धर्मशास्त्रमृजुभिर्मिताक्षरैर्बालबोधविधये विविच्यते ॥ २ ॥ याज्ञवल्क्यशिष्यः कश्चित्प्रश्नोत्तररूपं याज्ञवल्क्यमुनिप्रणीतं धर्मशास्त्रं संक्षिप्य कथयामास-यथा मैनुप्रणीतं भृगुः । यस्य चायमाद्यः श्लोकः
योगीश्वरं याज्ञवल्क्यं संपूज्य मुनयोऽब्रुवन् ।
वर्णाश्रमेतराणां नो ब्रूहि धर्मानशेषतः ॥१॥ __ योगिनां सनकादीनामीश्वरः श्रेष्ठस्तं याज्ञवल्क्यं संपूज्य मनोवाकायकर्मभिः पूजयित्वा मुनयः सामश्रवःप्रभृतयः श्रवणधारणयोग्या अब्रुवन् उक्तवन्तः धर्मानोऽस्मभ्यं ब्रूहीति । कथम् । अशेषतः कास्येन । केषाम् । वर्णाश्रमेतराणाम् । वर्णा ब्राह्मणादयः, आश्रमा ब्रह्मचारिप्रभृतयः, इतरेऽनुलोमप्रतिलोमजाता मूर्धावसिक्तादयः । इतरशब्दस्य 'द्वन्द्वे च' इति सर्वनामसंज्ञाप्रतिषेधः। अत्रच धर्मशब्दः षड्डिधस्मार्तधर्मविषयः । तद्यथा-वर्णधर्म आश्रमधर्मों वर्णाश्रमधर्मों गुणधर्मो निमित्तधर्मः साधारणधर्मश्चेति । तत्र वर्णधर्मो ब्राह्मणो नित्यं मचं वर्जयेदित्यादिः। आश्रमधर्मोऽग्नीन्धनभैक्षचर्यादिः । वर्णाश्रमधर्मः पालाशो
१ जात्यायु गा विपाकाः. २ अविद्याऽस्मितारागद्वेषाभिनिवेशाख्याः क्लेशाः । तत्र सम्यगध्यात्मविद्भिर्दर्शितार्थे विपरीतं ज्ञानमविद्या। अहमस्मि मद्विशिष्टः कोऽपि नास्तीत्यभिमानातिशयोऽस्मिता । विषयेष्वासक्ती रागः । दुःखेष्वप्रीतिषः। अननुभूतादपि मरणादेखासोऽभिनिवेशः इति. ३ मनुनोक्तं ख. ४ प्रभुस्तं ख. ५ सोमश्रवादयः क. ६ ब्रूहि कथयेति क. ७ स्मार्तकर्मविषयः.८ वर्जयेदिति क.
For Private And Personal Use Only
Page #34
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
याज्ञवल्क्यस्मृतिः। [आचाराध्यायः दण्डो बामणस्वेत्येवमादिः । गुणधर्मः शास्त्रीयाभिषेकादिगुणयुक्तस्य राज्ञः प्रजापरिपालनादिः। लिमित्तधर्मो विहिताकरमप्रतिनिखसेचननिमित्तं प्रायश्चित्तम् । साधारणधर्मोऽहिंसादिः । 'न हिंस्यात्सा भूतानी'त्याचण्डालं साधारणो धर्मः। 'शौचाचारांश्च शिक्षये दित्याचार्यकरणविधिप्रयुक्तत्वाद्धर्मशास्त्राध्ययनस्य प्रयोजनादिकथनं नातीवोपयुज्यते । तत्र चायं क्रमः । प्रागुपनयनारकामचारकामवादकामभक्षाः । ऊर्ध्वमुपनयनात्प्राग्वेदाध्ययनोपक्रमाद्धर्मशास्त्राध्ययनं, ततो धर्मशास्त्रविहितयमनियमोपेतस्य वेदाध्ययनं, ततस्तदर्थ जिज्ञासा, ततस्तदर्थानुष्ठानमिति । तत्र यद्यपि धर्मार्थकाममोक्षाः शास्त्रेणानेन प्रतिपाद्यन्ते तथापि धर्मस्य प्राधान्याद्धर्मग्रहणम् । प्राधान्यं च धर्ममूलत्वादितरेषाम् । नच वकव्यं धर्ममूलोऽर्थोऽर्थमूलो धर्म इत्यविशेष इति । यतोऽर्थमन्तरेणापि जपतपस्तीर्थयात्रादिना धर्मनिष्पत्तिरर्थलेशोऽपि न धर्ममन्तरेणेति । एवं काममोक्षावपीति ॥२॥ एवं पृष्टः किमुवाचेत्याह
मिथिलास्थः स योगीन्द्रः क्षणं ध्यात्वाब्रवीन्मुनीन् ।
यमिन्देशे मृगः कृष्णस्तसिन्धर्मानिबोधत ॥ २॥ मिथिलानाम नगरी तत्रावस्थितः स याज्ञवल्क्यो योगीश्वरः क्षणं ध्यात्वा केचित्कालं मनः समाधाय एते श्रवणाधिकारिणो विनयेन पृच्छन्तीति युक्तमेतेभ्यो वक्तुमित्युक्तवान्मुनीन् । किम् । यस्मिन्देशे मृगः कृष्णस्तस्मिन्धर्मान्नि. बोधतेति । कृष्णसारो मृगो यस्मिन्देशे स्वच्छन्दं विहरति तस्सिन्देशे वक्ष्यमाणलक्षणा धर्मा अनुष्ठेया नान्यत्रेत्यभिप्रायः ॥२॥
'शौचाचारांश्च शिक्षये' दित्याचार्यस्य धर्मशास्त्राध्यापनविधिः । शिष्येण तदध्ययनं कर्तव्यमिति कुतोऽवगम्यत इत्यत आह
पुराणन्यायमीमांसाधर्मशास्त्राङ्गमिश्रिताः।
वेदाः स्थानानि विद्यानां धर्मस्य च चतुर्दश ॥ ३ ॥ पुराणं ब्राह्मादि । न्यायस्तर्कविद्या । मीमांसा वेदवाक्यविचारः । धर्मशास्त्रं मानवादि । अङ्गानि व्याकरणादीनि षट् । एतैरुपेताश्चत्वारो वेदाः । विद्याः पुरुषार्थसाधनानि । तासां स्थानानि च चतुर्दश । धर्मस्य च चतुर्दश स्थानानि हेतवः । एतानि च त्रैवर्णिकैरध्येतव्यानि तदन्तर्भूतत्वाद्धर्मशास्त्रमप्यध्येतव्यम् । तत्रैतानि ब्राह्मणेन विद्याप्राप्तये धर्मानुष्ठानाय चाधिगन्तव्यानि । क्षत्रियवैश्याभ्यां धर्मानुष्ठानाय । तथाच शङ्केन विद्यास्थानान्युपक्रम्योक्तम्'एतानि ब्राह्मणोऽधिकुरुते सच वृत्तिं दर्शयतीतरेषाम्' इति । मनुरपि द्विजा
१ अयमेव पाठो युक्तः । सर्वभूतानि इति ख. पाठः. २ श्रुत्युक्तशौचाचारान् ख. ३ जपतीर्थयात्रा क. ख. ४ पुरुषार्थज्ञानानि क. पुरुषार्थसाधनशानानि ख. ५ तदन्तर्गतत्वात् क. ६ तत्र ब्राह्मणेनैतानि क.
For Private And Personal Use Only
Page #35
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उपोद्घातप्रकरणम् १] मिताक्षरासहिता । तीनां धर्मशास्त्राध्ययनेऽधिकारो ब्राह्मणस्य प्रवचने नान्यस्येति दर्शयति (२०१६) 'निषेकादिश्मशानान्तो मत्रैर्यस्योदितो विधिः । तस्य शास्त्रेऽधिकारोऽस्मिन्ज्ञेयो नान्यस्य कर्हिचित् ॥ विदुषा ब्राह्मणेनेदमध्येतव्यं प्रयत्नतः। शिज्येभ्यश्च प्रवक्तव्यं सम्यङ्नान्येन केनचित् ॥' इति ॥ ३ ॥
अस्तु धर्मशास्त्रमध्येतव्यं, याज्ञवल्क्यप्रणीतस्यास्य शास्त्रस्य किमायातमित्यत आह
मन्वत्रिविष्णुहारीतयाज्ञवल्क्योशनोङ्गिराः। यमापस्तम्बसंवर्ताः कात्यायनबृहस्पती ॥४॥ पराशरव्यासशङ्खलिखिता दक्षगौतमौ ।
शातातपो वसिष्ठश्च धर्मशास्त्रप्रेयोजकाः ॥५॥ उशनःशब्दपर्यन्तो द्वन्द्वैकवद्भावः । याज्ञवल्क्यप्रणीतमिदं धर्मशास्त्रमध्येतव्यमित्यभिप्रायः । नेयं परिसंख्या किंतु प्रदर्शनार्थमेतत् । अतो बौधायनादेरपि धर्मशास्त्रत्वमविरुद्धम् । एतेषां प्रत्येकं प्रामाण्येऽपि साकाङ्क्षाणामाकाङ्क्षापरिपूरणमन्यतः क्रियते । विरोधे विकल्पः ॥ ४ ॥ ५ ॥ इदानीं धर्मस्य कारकहेतूनाह
देशे काल उपायेन द्रव्यं श्रद्धासमन्वितम् ।
प्राप्ते प्रदीयते यत्तत्सकलं धर्मलक्षणम् ॥ ६॥ देशो 'यस्मिन्देशे मृगः कृष्ण' इत्युक्तलक्षणः । कालः संक्रान्त्यादि । उपायः शास्त्रोक्ततिकर्तव्यताकलापः । द्रव्यं प्रतिग्रहादिलब्धं गवादि । श्रद्धा आस्तिक्यविस्तदन्वितं यथा भवति तथा। पात्रं न विद्यया केवलये'त्येवमादिवक्ष्यमाणलक्षणम् ।प्रदीयते यथा न प्रत्यावर्तते तथा परस्वत्वापत्त्यवसानं त्यज्यते । एतद्धर्मस्योत्पादकम् । किमेतावदेव नेत्याह-सकल मिति । अन्यदपि शास्त्रोक्तं जातिगुणहोमयागादि तत्सकलं धर्मस्य कारकं, जातिगुणद्रव्यक्रियाभावार्थात्मकं चतुर्विधं धर्मस्य कारकमित्युक्तं भवति । तच्च समस्तं व्यस्तं वा यथाशास्त्रं द्रष्टव्यम् । श्रद्धा सर्वत्रानुवर्तत एव ॥ ६ ॥ इदानीं धर्मस्य ज्ञापकहेतूनाह. श्रुतिः स्मृतिः सदाचारः स्वस्य च प्रियमात्मनः ।
सम्यक्संकल्पजः कामो धर्ममूलमिदं स्मृतम् ॥ ७॥ श्रुतिर्वेदः । स्मृतिधर्मशास्त्रम् । तथाच मनुः (२०१०) श्रुतिस्तु वेदो विज्ञेयो धर्मशास्त्रं तु वै स्मृतिः' इति । सदाचारः सतां शिष्टानामाचारोऽनुष्ठानम् । स्वस्य
१ कस्यचित् क. ख. २ प्रवर्तकाः इति क. पाठः. ३ परिसंख्यानाम एकस्यानेकत्र प्राप्तस्यान्यतो निवृत्त्यर्थमेकत्र पुनर्वचनम् । एतद्विस्तरोऽये ८१ श्लोकमिताक्षरायां द्रष्टव्यः. ४ विरोधे तु ख. ५ नुष्ठानं नाशिष्टानाम् ख.
For Private And Personal Use Only
Page #36
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
याज्ञवल्क्यस्मृतिः ।
[आचाराध्यायः
चात्मनः प्रियं, वैकल्पिके विषये यथा 'गर्भाष्टमेऽष्टमे वादे' इत्यादावारमेच्छैव नियामिका । सम्यक्संकल्पाजातः कामः शास्त्राविरुद्वो यथा 'मया भोजनव्यतिरेकेणोदकं न पातव्यम्' इति । एते धर्मस्य मूलं प्रमाणम् । एतेषां विरोधे पूर्वपूर्वस्य बलीयस्त्वम् ॥ ७ ॥ देशादिकारकहेतूनामपवादमाह
इज्याचारदमाहिंसादानस्वाध्यायकर्मणाम् ।
अयं तु परमो धर्मो यद्योगेनात्मदर्शनम् ॥८॥ इज्यादीनां कर्मणामयमेव परमो धर्मः यद्योगेन बाह्यचित्तवृत्तिनिरोधेनास्मनो दर्शनं याथातथ्यज्ञानम् । योगेनात्मज्ञाने देशादि नियमो नास्तीत्यर्थः । तदुक्तं 'यत्रैकाग्रता तत्राविशेषात्' इति पातञ्जले ॥ ८॥ । कारकहेतुषु ज्ञापकहेतुषु वा संदेहे निर्णयहेतूनाह
चत्वारो वेदधर्मज्ञाः पर्षत्रैविद्यमेव वा।
सा ब्रूते यं स धर्मः स्यादेको वाऽध्यात्मवित्तमः ॥९॥ चत्वारो ब्राह्मणाः वेदधर्मशास्त्रज्ञाः पर्षत् । तिस्रो विद्या अधीयन्त इति त्रैविद्यास्तेषां समूहस्त्रैविद्यम् । धर्मशास्त्रज्ञत्वमन्त्राप्यनुवर्तते तद्वा पर्षत् । सा पूर्वोक्ता पर्षत् यं ब्रूते स धर्मः । अध्यात्मज्ञानेषु निपुणतमो धर्मशास्त्रज्ञश्च एकोऽपि वा यं ब्रूते सोऽपि धर्म एव ॥ ९॥
इत्युपोद्धातप्रकरणम् ।
अथ ब्रह्मचारिप्रकरणम् २ एतैर्नवभिः श्लोकैः सकलशास्त्रोपोद्भातमुक्त्वा इदानीं वर्णादीनां धर्मान्वक्तुं प्रथमं तावद्वर्णानाह
ब्रह्मक्षत्रियविशुद्रा वर्णास्त्वाद्यास्त्रयो द्विजाः । निषेकाद्याः श्मशानान्तास्तेषां वै मत्रतः क्रियाः ॥१०॥ ब्राह्मणक्षत्रियवैश्यशूदाश्चत्वारो वर्णा वक्ष्यमाणलक्षणास्तेषामाद्यास्त्रयो ब्राह्मणक्षत्रियवैश्या द्विजाः द्विर्जायन्त इति द्विजाः तेषां द्विजानां वै एव न शूद्रस्य । निषेकाद्याः निषेको गर्भाधानमाद्यो यासां तास्तथोक्ताः । श्मशानं पितृवन तत्संबन्धि कर्म अँन्ते यासां ताः क्रिया मन्त्रैर्भवन्ति ॥ १० ॥ इदानी ताः क्रिया अनुक्रामति
गर्भाधानमृतौ पुंसः सवनं स्यन्दनात्परा । १ इत्यत्रात्मेच्छैव, इत्यादिष्वात्मेच्छैव ख. २ शास्त्राविरुद्धः कामो यथा ख. ३ वेदशास्त्रधर्मशाः ख. ४ वेदधर्मशास्त्रज्ञश्च ख. ५ सोपि धर्मः ख. ६ न शूदाणां क. ७ अन्तो यासां क
For Private And Personal Use Only
Page #37
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ब्रह्मचारिप्रकरणम् २] मिताक्षरासहिता ।
षष्ठेऽष्टमे वा सीमन्तो मास्येते जातकर्म च ॥११॥ अहन्येकादशे नाम चतुर्थे मासि निष्क्रमः ।
षष्ठेऽन्नप्राशनं मासि चूडा कार्या यथाकुलम् ॥ १२ ॥ गर्भाधानमित्यनुगतार्थ कर्मनामधेयम् । एवं वक्ष्यमाणान्यपि । तद्गर्भाधानमृतौ ऋतुकाले वक्ष्यमाणलक्षणे । पुंसवनाख्यं कर्म गर्भचलनात्पूर्वम् । षष्ठेऽष्टमे वा मासि सीमन्तोन्नयनम् । एते च पुंसवनसीमन्तोनयने क्षेत्रसंस्कारकर्मत्वासकृदेव कार्ये न प्रतिगभम् । यथाह देवल:--'सकृच्च संस्कृता नारी सर्वगर्भेषु संस्कृता । यं यं गर्भ प्रसूयेत स सर्वः संस्कृतो भवेत्' इति । यद्वा एते आ इते आगते गर्भकोशाजाते कुमारे जातकर्म । एकादशेऽहनि नाम । तच्च पितामहमातामहादिसंबद्धं कुलदेवतासंबद्धं वा । यथाह शङ्ख:-'कुलदेवतासंबद्धं पिता नाम कुर्यात्' इति । चतुर्थे मासि निष्क्रमणलक्षणं सूर्यावेक्षणं कर्म । षष्ठे मास्यप्राशनं कर्म । चूडाकरणं तु यथाकुलं कार्यमिति प्रत्येकं संबध्यते ॥ ११ ॥१२॥ एतेषां नित्यत्वेऽप्यानुषङ्गिकं फलमाह
एवमेनः शमं याति बीजगर्भसमुद्भवम् । एवमुक्तेन प्रकारेण गर्भाधानादिभिः संस्कारकर्मभिः कृतैरेनः पापं शर्म याति । किंभूतम् । बीजगर्भसमुद्भवं शुक्रशोणितसंबद्धं गात्रव्याधिसंक्रान्तिनिमित्तं वा नतु पतितोत्पनस्वादि ॥ स्त्रीणां विशेषमाह
तूष्णीमेताः क्रियाः स्त्रीणां विवाहस्तु समत्रकः ॥ १३ ॥ एता जातकर्मादिकाः क्रियाः स्त्रीणां तूष्णीं विनैव मन्त्रैर्यथाकालं कार्याः । विवाहः पुनः समन्त्रकः कार्यः ॥ १३ ॥ उपनयनकालमाह
गर्भाष्टमेष्टमे वाब्दे ब्राह्मणस्योपनायनम् ।
राज्ञामेकादशे सैके विशामेके यथाकुलम् ॥ १४ ॥ गर्भाधानमादिं कृत्वा जननं वाष्टमे वर्षे ब्राह्मणस्योपनायनं उपनयनमेवोपनायनम् । स्वार्थे अण वृत्तानुसारात् । छन्दोभङ्गात् । भाष वा दीर्घत्वम् । अत्रेच्छया विकल्पः । राज्ञामेकादशे । विशां वैश्यानां सैके एकादशे। द्वादशे इत्यर्थः । गर्भग्रहणं सर्वत्रानुवर्तते । समासे गुणभूतस्यापि गर्भशब्दस्य बुद्ध्या विभज्योभयत्राप्यनुवर्तनं कार्यम् । 'गर्भादेकादशे राज्ञो गर्भाद्धि द्वादशे विशः' इति स्मृ. त्यन्तरदर्शनात् । यथा भथ शब्दानुशासनं केषां शब्दाना लौकिकानां वैदिकानामिति । अत्रापि कार्यमित्यनुवर्तते । कुलस्थित्या केचिदुपनयनमिच्छन्ति ॥१४॥
१ कुमारे जाते ख. २ नामकरणम्' ख. ३ अवधिं कृत्वा जन्मनो ख. ४ प्रकरणानुसारम् क. ५ वचनात् ख. ६ शब्दानामिति क.
For Private And Personal Use Only
Page #38
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
याज्ञवल्क्यस्मृतिः।
[आचाराध्यायः
गुरुधर्मानाह
उपनीय गुरुः शिष्यं महाव्याहृतिपूर्वकम् ।
वेदमध्यापयेदेनं शौचाचारांश्च शिक्षयेत् ॥ १५ ॥ स्वगृह्योक्तविधिनोपनीय गुरुः शिष्यं महाव्याहृतिपूर्वकं वेदमध्यापयेत् । महाव्याहृतयश्च भूरादिसत्यान्ताः सप्त । पञ्च वा गौतमाभिप्रायेण । किंच शौचाचारांश्च वक्ष्यमाणलक्षणान् शिक्षयेत् । उपनीय शौचाचारांश्च शिक्षयेदित्यनेन प्रागुपनयनात्कामचारो दर्शितः। वर्णधर्मान्वर्जयित्वा स्त्रीणामप्येतत्समानं विवाहादाक् । उपनयनस्थानीयत्वाद्विवाहस्य ॥ १५ ॥ शौचाचारानाह
दिवा संध्यासु कर्णस्थब्रह्मसूत्र उदअखः ।
कुर्यान्मूत्रपुरीषे च रात्रौ चेद्दक्षिणामुखः ॥१६॥ कर्णस्थं ब्रह्मसूत्रं यस्य स तथोक्तः । कर्णश्च दक्षिणः । 'पवित्रं दक्षिणे कर्णे कृत्वा विण्मूत्रमुत्सृजेत्' इति लिङ्गात् । असावहनि संध्ययोश्च उदङ्मुखो मूत्रपुरीषे कुर्यात् । चकारागस्मादिरहिते देशे । रात्रौ तु दक्षिणामुखः ॥ १६ ॥
गृहीतशिश्नश्चोत्थाय मृद्भिरभ्युद्धृतर्जलैः । __गन्धलेपक्षयकरं शौचं कुर्यादतन्द्रितः ॥ १७ ॥ किंच अनन्तरं शिश्नं गृहीत्वोत्थायोद्धृताभिरद्भिर्वक्ष्यमाणलक्षणाभिम॒द्भिश्च गन्धलेपयोः क्षयकरं शौचं कुर्यात् । अतन्द्रितोऽनलसः । उद्धृताभिरद्भिरिति जलान्तः शौचनिषेधः। अत्र गन्धलेपक्षयकरमिति सर्वाश्रमिणां साधारणमिदं शौचम् । मृत्संख्यानियमस्त्वदृष्टार्थः ॥ १७ ॥
अन्तर्जानुः शुचौ देश उपविष्ट उद खः।
प्राग्वा ब्राह्मण तीर्थेन द्विजो नित्यमुपस्पृशेत् ॥ १८॥ शुचौ अशुचिगव्यासंस्पृष्टे । देश इत्युपादानादुपानच्छयनासनादिनिषेधः । उपविष्टो न स्थितः शयानः प्रबो गच्छन्वा । उदङ्मुखः प्रामुखो वेति दिगन्तरनिवृत्तिः । शुचौ देश इत्येतस्मात्पादप्रक्षालनप्राप्तिः । ब्राह्मण तीर्थेन वक्ष्यमाणलक्षणेन । द्विजो न शूद्रादिः । नित्यं सर्वकालमाश्रमान्तरगतोऽपि । उपस्पृशेदाचामेत् । कथम् । अन्तर्जानुः जानुनोर्मध्ये हस्तौ कृत्वा दक्षिणेन हस्तेनेति ॥१८॥ प्राजापत्यादितीर्थान्याह
कनिष्ठादेशिन्यपृष्ठमूलान्यग्रं करस्य च ।
प्रजापतिपितृब्रह्मदेवतीर्थान्यनुक्रमात् ॥ १९ ॥ १ शिष्यं गुरुः ख. २ शाचमिदं ख. ३ इत्युपानत् क.
For Private And Personal Use Only
Page #39
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ब्रह्मचारिप्रकरणम् २] मिताक्षरासहिता । .. कनिष्ठायास्तर्जन्या अङ्गुष्ठस्य च मूलानि करस्यामं च प्रजापतिपितृब्रह्मदेवती. नि यथाक्रमं वेदितव्यानि ॥१९॥ आचमनप्रकार:त्रिः प्राश्यापो द्विरुन्मृज्य खान्यद्भिः समुपस्पृशेत् ।
अद्भिस्तु प्रकृतिस्थाभिहीनाभिः फेनबुद्बुदैः ॥२०॥ चारत्रयमपः पीत्वा मुखमङ्गुष्ठमूलेन द्विरुन्मृज्य खानि छिद्राणि ऊर्ध्वकायगतानि घ्राणादीनि अनिरुपस्पृशेत् । अनिद्रव्यान्तरासंसृष्टाभिः । पुनरगिरित्यग्रहणं प्रतिच्छिद्रमुदकस्पर्शनार्थम् । स्मृत्यन्तरात्-'अङ्गुष्ठेन प्रदेशिन्या घ्राणं चैव मुखं स्पृशेत् । अङ्गुष्ठानामिकाभ्यां च चक्षुःश्रोत्रं पुनः पुनः ॥ कनिष्ठाङ्गुष्टयो भि हृदयं तु तलेन वै । सर्वाभिस्तु शिरः पश्चाद्वाह चाग्रेण संस्पृशेत् ॥' इति । पुनस्ता एव विशिनष्टि । प्रकृतिस्थाभिः गन्धरूपरसस्पर्शान्तरमप्राप्ताभिः । फेनबुहुदरहिताभिः । तुशब्दाद्वर्षधारागतानां शूदायावर्जितानां च निषेधः ॥२॥
हृत्कण्ठतालुगाभिस्तु यथासंख्यं द्विजातयः ।।
शुध्येरन्स्त्री च शूद्रश्च सकृत्स्पृष्टाभिरन्ततः ॥२१॥ हत्कण्ठतालुगाभिरद्भिर्यथाक्रमेण द्विजातयः शुध्यन्ति । स्त्री च शूद्रश्च अन्ततः भन्तर्गतेन तालुना स्पृष्टाभिरपि । सकृदिति वैश्याद्विशेषः । चशब्दादनुपनी. तोऽपि ॥ २१ ॥
स्नानमब्दैवतैर्मत्रैर्मार्जनं प्राणसंयमः । . सूर्यस्य चाप्युपस्थानं गायत्र्याः प्रत्यहं जपः ॥ २२॥ . प्रातःस्नानं यथाशास्त्रमब्दैवतैमरापोहिष्ठेत्येवमादिभिर्मार्जनम् । प्राणसंयमः प्राणायामो वक्ष्यमाणलक्षणः । ततः सूर्यस्योपस्थानं सौरमन्त्रेण । गायत्र्यास्तत्सवितुर्वरेण्यमित्याचाँयाः प्रतिदिवसं जपः। कार्यशब्दो यथालिङ्गं प्रत्येकमभिसंबध्यते ॥ २२ ॥ प्राणायामविचार:
गायत्रीं शिरसा साध जपेयाहृतिपूर्विकाम् ।
प्रतिप्रणवसंयुक्तां त्रिरयं प्राणसंयमः ॥ २३ ॥ गायत्री पूर्वोक्तामापोज्योतिरित्यादिना शिरसा संयुक्तां उक्तव्याहृतिपूर्विकां प्रतिव्याहृति प्रणवेन संयुक्तां ॐ भूः ॐ भुवः स्वरिति त्रीन्वारान्मुखनासिकासंचारिवायुं निरन्धन मनसा जपेदित्ययं सर्वत्र प्राणायामः ॥ २३ ॥ सावित्रीजपप्रकार:
प्राणानायम्य संप्रोक्ष्य तृचेनाब्दैवतेन तु ।
जपन्नासीत सावित्री प्रत्यगातारकोदयात् ॥ २४ ॥ १ संस्पृष्टाभिः क. ग. २ पुनरग्रहणं क. ३ अन्तेन ख. ४ मित्यादेः ख. ५ जपः कार्यः ख
या.४
For Private And Personal Use Only
Page #40
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
याज्ञवल्क्यस्मृतिः ।
संध्यां प्राक्प्रातरेवं हि तिष्ठेदासूर्यदर्शनात् ।
प्राणायामं पूर्वोक्तं कृत्वा तृचेनाब्दैवतेन पूर्वोक्तेनात्मानमद्भिः संप्रोक्ष्य सावित्रीं जपन्प्रत्यक्संध्यामोसीत । अर्थात्प्रत्यङ्मुख इति लभ्यते । आतारकोदयात् तारको दयावधि । प्राक्संध्यां प्रातःसमये । एवं पूर्वोक्तविधिमाचरन्प्राङ्मुखः सूर्योदयावधि तिष्ठेत् । अहोरात्रयोः संधौ या क्रिया विधीयते सा संध्या । तत्र अहः संपूर्णादित्यमण्डलदर्शनयोग्यः कालः । तद्विपरीता रात्रिः । यस्मिन्काले खण्डमण्डलस्योपलब्धिः स संधिः ॥ २४ ॥
अग्निकार्यं ततः कुर्यात्संध्ययोरुभयोरपि ॥ २५ ॥
ततः संध्योपासनानन्तरं द्वयोः संध्ययोरग्निकार्यं भग्नौ कार्य समित्प्रक्षेपादि यत्तत्कुर्यात् स्वगृह्येोक्तेन विधिना ॥ २५ ॥
अध्याप्यानाह -
[ आचाराध्यायः
ततोऽभिवादयेदृद्धान सावहमिति ब्रुवन् ।
तदनन्तरं वृद्धान्गुरुप्रभृतीनभिवादयेत् । कथम् । असौ देवदत्तशर्माहमिति स्वं नाम कीर्तयन् ॥
गुरुं चैवाप्युपासीत स्वाध्यायार्थं समाहितः ॥ २६ ॥ आहूतवाप्यधीयीत लेब्धं चास्मै निवेदयेत् ।
हितं तस्याचरेन्नित्यं मनोवाक्कायकर्मभिः ॥ २७ ॥
तथा गुरुं वक्ष्यमाणलक्षणमुपासीत तत्परिचर्यापरस्तदधीनस्तिष्ठेत् । स्वाध्यायार्थमध्ययनसिद्धये समाहितोऽविक्षिप्तचित्तो भवेत् । आहूतश्चाप्यधीयीत गुर्वाहूत एवाधीयीत न स्वयं गुरुं प्रेरयेत् । यच्च लब्धं तत्सर्वं गुरवे निवेदयेत् । तथा तस्य गुरोर्हितमाचरेत् । नित्यं सदा । मनोवाक्कायकर्मभिः न प्रतिकूलं कुर्यात् । अपिशब्दाद्गुरुदर्शने गौतमोक्तं कण्ठप्रावृतादि वर्जयेत् ॥ २६ ॥ २७ ॥
कृतज्ञाद्रोहिमेधा विशुचिकल्पानसूयकाः ।
अध्याप्या धर्मतः साधुशक्ताप्तज्ञानवित्तदाः ॥ २८ ॥
कृतमुपकारं न विस्मरतीति कृतज्ञः । अद्रोही दयावान् । मेधावी ग्रन्थग्रहणधारणशक्तः । शुचिर्बाह्याभ्यन्तरशौचवान् । कल्प आधिव्याधिरहितः । अनसू
को दोषानाविष्कारेण गुणाविष्करणशीलः । साधुर्वृत्तवान् । शक्तः शुश्रूषायाम् । भतो बन्धुः । ज्ञानदो विद्याप्रदः । वित्तदोऽर्पेणपूर्वकमर्थप्रदाता । एते गुणाः समस्ता व्यस्ताश्च यथासंभवं द्रष्टव्याः । एते च धर्मतः शास्त्रानुसारेणाध्यायाः २८ दण्डादिधारणमाह-
दण्डाजिनोपवीतानि मेखलां चैव धारयेत् ।
१ मुपासीत. ग. २ लब्धं तस्मै इति ख. ३ नाविष्करणेन ख. ४ पणो वेतनभाषा बन्धस्तद्रहितं; अर्पणपूर्वकं ख. ग.
For Private And Personal Use Only
Page #41
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ब्रह्मचारिप्रकरणम् २] मिताक्षरासहिता ।
तथा स्मृत्यन्तरप्रसिद्धं पालाशादिदण्डं, अजिनं काष्र्णादि, उपवीतं कार्पासादिनिर्मितं, मेखलां च मुञ्जादिनिर्मितां, ब्राह्मणादिर्ब्रह्माचरी धारयेत् ॥
भैक्षचर्याप्रकारः
ब्राह्मणेषु चरेद्वैक्षमनिन्द्येष्वात्मवृत्तये ॥ २९ ॥ आदिमध्यावसानेषु भवच्छब्दो पलक्षिता । ब्राह्मणक्षत्रियविशां भैक्षचर्या यथाक्रमम् ॥ ३० ॥
1
पूर्वोक्तदण्डादियुक्तो ब्रह्मचारी ब्राह्मणेष्वनिन्द्येषु अभिशस्तादिव्यतिरिक्तेषु स्वकर्मनिरतेषु भैक्षं चरेत् । आत्मवृत्तये आत्मनो जीवनाय न परार्थं आचार्यतद्भार्यापुत्रव्यतिरेकेण । निवेद्य गुरवे तदनुज्ञातो भुञ्जीत । तदभावे तत्पुत्रादाविति नियमात् । अत्रच ब्राह्मणग्रहणं संभवे सैति नियमार्थम् । यत्तु सार्ववर्णिकं भैक्षचरणमिति तत्रैवर्णिकेंविषयम् । यच्च चातुर्वण्यं चरेद्वैक्षमिति तदापद्विषयम् । कथं भैक्षचर्या कार्या । आदिमध्यावसानेषु भवच्छब्दोपलक्षिता । भवति भिक्षां देहि । भिक्षां भवति देहि । भिक्षां देहि भवति इत्येवं वर्णक्रमेण भैक्षचर्या कार्या ॥ २९ ॥ ३० ॥
भोजन प्रकार :
कृताग्निकार्यो भुञ्जीत वाग्यतो गुर्वनुज्ञया ।
अपोशन क्रियापूर्व सत्कृत्यान्नमकुत्सयन् ॥ ३१ ॥
पूर्वोक्तेन विधिना भिक्षामाहृत्य गुरवे निवेद्य तदनुज्ञया कृताभिकार्यो वाग्यतो मौनी अन्नं सत्कृत्य संपूज्य अकुत्सयन्ननिन्दन् अपोशनक्रियां अमृतीपस्तरणमसीत्यादिकां पूर्वं कृत्वा भुञ्जीत । अत्र पुनरग्निकार्यग्रहणं संध्याकाले कथंचिकृताद्मिकार्यस्य कालान्तरविधानार्थं न पुनस्तृतीयप्रात्यर्थम् ॥ ३१ ॥
ब्रह्मचर्ये स्थितो नैकमन्नमद्यादनापदि ।
ब्राह्मणः काममश्नीयाच्छ्राद्धे व्रतमपीडयन् ॥ ३२ ॥
ब्रह्मचर्ये स्थित एकानं नाद्यादनापदि व्याध्याद्यभावे । ब्राह्मणः पुनः श्राद्धे, ऽभ्यर्थितः सन् कॉममश्नीयात् । व्रतमपीडयन् मधुमांसपरिहारेण । अत्र ब्राह्मणग्रहणं क्षत्रियादेः श्राद्ध भोजनव्युदासार्थम् । 'राजन्यवैश्ययोश्चैव नैतत्कर्म प्रचक्षते' इति स्मरणात् ॥ ३२ ॥
मधुमांसादिवर्ज्यान्याह -
मधुमांसाञ्जनोच्छिष्टशुक्तस्त्रीप्राणिहिंसनम् । भास्करालोकनाश्लीलपरिवादादि वर्जयेत् ॥ ३३ ॥
१ कार्ष्णाजिनादि ख. २ दिदोषरहितेषु. ख. ३ सति । न नियमार्थं ख. ४ त्रैवर्णिकाप्राहयर्थम्. ख. ५ कालान्तरं मध्याह्नादि. ६ एकान्नमेकस्वामिकम्. ७ कामं यथेष्टम्.
For Private And Personal Use Only
Page #42
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
याज्ञवल्क्यस्मृतिः ।
[ आचाराध्यायः
मधु क्षौद्रं न मथम् । तस्य 'नित्यं मद्यं ब्राह्मणो वर्जयेत्' इति निषेधात् । मांसं छागादेरपि । अञ्जनं घृतादिना गात्रस्य, कज्जलादिना चाक्ष्णोः । उच्छिष्टमगुरोः । शुक्तं निष्ठुरवाक्यं नोनरसः, तस्याभक्ष्यप्रकरणे निषेधात् । स्त्रियमुपभोगे । प्राणिहिंसनं जीववधः । भास्करस्योदयास्तमयावलोकनम् । अश्लीलमसत्यभाषणम् । परिवादः सदसद्रूपस्य परदोषस्य ख्यापनम् | आदिशब्दात्स्मृत्यन्तरोक्तं गन्धमायादि गृह्यते । एतानि ब्रह्मचारी वर्जयेत् ॥ ३३ ॥
गुर्वाचार्यादिलक्षणमाह
स गुरुः क्रियाः कृत्वा वेदमस्मै प्रयच्छति । उपनीय ददद्वेदमाचार्यः स उदाहृतः ॥ ३४ ॥
aisai गर्भाधानाथा उपनयनपर्यन्ताः क्रिया यथाविधि कृत्वा वेदमस्मै ब्रह्मचारिणे प्रयच्छति स गुरुः । यः पुनरुपनयनमात्रं कृत्वा वेदं प्रयच्छति स आचार्यः ॥ ३४ ॥
उपाध्यायविंग्लक्षणम् -
एकदेशमुपाध्याय ऋत्विग्यज्ञकृदुच्यते ।
एते मान्या यथापूर्वमेभ्यो माता गरीयसी ॥ ३५ ॥
वेदस्यैकदेशं मन्त्रब्राह्मणयोरेकं अङ्गानि वा योऽध्यापयति स उपाध्यायः । यः पुनः पाकयज्ञादिकं वृत्तः करोति स ऋत्विक् । एते च गुर्वाचार्योपाध्यायविजो यथापूर्वं यथाक्रमेण मान्याः पूज्याः । एभ्यः सर्वेभ्यो माता गरीयसी पूज्यतमा ॥ ३५ ॥
वेदग्रहणार्थं ब्रह्मचर्यावधिमाह -
प्रतिवेदं ब्रह्मचर्य द्वादशाब्दानि पञ्च वा । ग्रहणान्तिकमित्येके केशान्तचैव षोडशे ॥ ३६ ॥
यदा विवाहासंभवे वेदानधीत्य वेदौ वा वेदं वेति प्रवर्तते तदा प्रतिवेद वेदवेदं प्रति ब्रह्मचर्य पूर्वोक्तं द्वादशवर्षाणि कार्यम् । अशक्तौ पञ्च । ग्रहणान्तिकमित्येके वर्णयन्ति । केशान्तः पुनमदानाख्यं कर्म गर्भादारभ्य षोडशे वर्षे ब्राह्मणस्य कार्यम् । एतच्च द्वादशवार्षिके वेदवते बोद्धव्यं इतरस्मिन्पक्षे यथासंभवं द्रष्टव्यम् । राजन्यवैश्ययोस्तूपनयनकालवद्वाविंशे चतुर्विंशे वा द्रष्टव्यम् ॥ ३६ ॥ उपनयनकालस्य परमावधिमाह
आषोडशादाद्वाविंशाच्चतुर्विंशाच्च वत्सरात्
1
ब्रह्मविशां काल औपनायनिकः परः || ३७ ॥
१ न रसादि क. २ भास्करस्य चालोकनं क. ३ गुह्यभाषणं ख. ४ ददाति ख. ५ गावः केशा दीयन्ते खण्डयन्ते यस्मिन्. ६ वा यथासंभवं ख.
For Private And Personal Use Only
Page #43
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ब्रह्मचारिप्रकरणम् २ ] मिताक्षरासहिता।
अतऊर्ध्वं पतन्त्येते सर्वधर्मबहिष्कृताः।
सावित्रीपतिता व्रात्या वात्यस्तोमाते क्रतोः ॥ ३८॥ आषोडशाद्वर्षात्षोडशवर्ष यावत् आद्वाविंशादाचतुर्विंशाद्वर्षाद्रह्मक्षत्रविशां औपनायनिकः उपनयनसंबन्धी परः कालः । नातःपरमुपनयनकालोऽस्ति किंतु मत ऊवं पतन्त्येते सर्वधर्मबहिष्कृताः सर्वधर्मेष्वनधिकारिणो भवन्ति । सावित्रीपतिताः पतितसावित्रीका भवन्ति । सावित्रीदानयोग्या न भवन्ति । व्रात्याः संस्कारहीनाश्च ब्रौत्यस्तोमात्क्रतोर्विना । कृते तु तस्मिन्नुपनयनाधिकारिणो भवन्ति ॥ ३७ ॥ ३८॥ आधास्त्रयो द्विजा इत्युक्तं तत्र हेतुमाह
मातुर्यदये जायन्ते द्वितीयं मौञ्जिबन्धनात् ।
ब्राह्मणक्षत्रियविशस्तस्मादेते द्विजाः स्मृताः ॥ ३९ ॥ मातुः सकाशात्प्रथमं जायन्ते, मौञ्जिबन्धनाच द्वितीयं जन्म यस्मात्तस्मादेते ब्राह्मणक्षत्रियवैश्या द्विजा उच्यन्ते ॥ ३९ ॥ वेदग्रहणाध्ययनफलमाह
यज्ञानां तपसां चैव शुभानां चैव कर्मणाम् ।
वेद एव द्विजातीनां निःश्रेयसकरः परः ॥४०॥ यज्ञानां श्रौतस्मार्तानां, तपसां कायसंतापरूपाणां चान्द्रायणादीनां, शुभानां च कर्मणां उपनयनादिसंस्काराणां अवबोधकत्वेन वेदएव द्विजातीनां परो निःश्रेयसकरो नान्यः । वेद एवेति तन्मूलकस्वेन स्मृतेरप्युपलक्षणार्थम् ॥ ४०॥ ग्रहणाध्ययनफलमुक्त्वेदानी काम्यब्रह्मयज्ञाध्ययनफलमाह
मधुना पयसा चैव स देवांस्तपेयेविजः। पितॄन्मधुघृताभ्यां च ऋचोऽधीते हि योऽन्वहम् ॥४१॥ यजूंषि शक्तितोधीते योऽन्वहं स घृतामृतैः । प्रीणाति देवानाज्येन मधुना च पितृस्तथा ॥४२॥ स तु सोमघृतैर्देवांस्तर्पयेद्योऽन्वहं पठेत् ।
सामानि तृप्तिं कुर्याच्च पितॄणां मधुसर्पिषा ॥४३॥ योऽन्वहमृचोऽधीते स मधुना पयसा च देवान्पिढेश्च मधुघृताभ्यां तर्पयति । यः पुनः शक्तितोऽन्वहं यजूंष्यधीते स घृतामृतैर्देवान्पिढेश्व मधुघृताभ्यां तर्पयति । यस्तु सामान्यन्वहमधीते स सोमघृतैर्दैवान्पितूंश्च मधुसर्पिभ्यां प्रीणाति । ऋगादिग्रहणं सामान्येन ऋगादिमात्रप्रात्यर्थम् ॥ ४ ॥ ४२ ॥४३॥
१ यथाकालमसंस्कृताः इति अपरः पाठः २ ब्राह्मणक्षत्रियविशां ख. ३ ब्रात्यस्तोमो नाम व्रात्यानां प्रायश्चित्तक्रतुः । तेन चोदालकवतादिप्रायश्चित्तान्तरमप्युलक्ष्यते, अपरार्क ४ करो मोक्षकरो ख. ५ काम्यव्रत ख. ६ च यो ख. ७ प्रीणयति क. ८ मत्रप्राध्यर्थ.
For Private And Personal Use Only
Page #44
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
१२
Acharya Shri Kailassagarsuri Gyanmandir
याज्ञवल्क्यस्मृतिः ।
[ आचाराध्यायः
मेदसा तर्पयेद्देवानथर्वाङ्गिरसः पठन् । पितॄंश्व मधुसर्पिर्भ्यामन्वहं शक्तितो द्विजः ॥ ४४ ॥ वाकोवाक्यं पुराणं च नाराशंसीश्च गाथिकाः । इतिहासांस्तथा विद्याः शक्त्याधीते हि योन्वहम् ॥ ४५ ॥ मांसक्षीरौदनमधुतर्पणं स दिवौकसाम् । करोति तृप्तिं कुर्याच्च पितॄणां मधुसर्पिषा ॥ ४६ ॥ ते तृप्तास्तर्पयन्त्येनं सर्वकामफलैः शुभैः ।
यः पुनः शक्तितोऽन्वहं अथवाङ्गिरसोऽघीते स देवान्मेदसा पितॄंश्च मधुसपिभ्यां तर्पयति । यस्तु वाकोवाक्यं प्रश्नोत्तररूपं वेदवाक्यम् । पुराणं ब्राह्मादि । चकारान्मानवादिधर्मशास्त्रम् । नाराशंसीश्च स्वदैवत्यान्मन्त्रान् । गाथा यगाथेन्द्रगाथाद्याः | इतिहासान्महाभारतादीन् । विद्याश्च वारुणाद्याः । शक्तितोऽन्वहमधीते स मांसक्षीरोदनमधुसर्पिर्भिर्देवान् पितॄंश्च मधुसर्पिभ्यां तर्पयति ॥ ४४ ॥ ४५ ॥ ४६ ॥ ते पुनस्तृप्ताः सन्तो देवाः पितरश्च एनं स्वाध्यायाकारिणं सर्वकामफलैः शुभैरनन्योपघातलक्षणैस्तर्पयन्ति ॥
प्रशंसार्थमाह
यं यं ऋतुमधीते' च तस्य तस्याप्नुयात्फलम् ॥ ४७ ॥ त्रिर्वित्त पूर्णपृथिवीदानस्य फलमश्रुते ।
तैपसश्च परस्येह नित्यस्वाध्यायवान्द्विजः ॥ ४८ ॥ यस्य यस्य क्रतोः प्रतिपादकं वेदैकदेशमन्वहमधीते तस्य तस्य क्रतोः फलमवाप्नोति । तथा वित्तपूर्णायाः पृथिव्याः त्रिः त्रिवारं दानस्य यत्फलं परस्य तपसश्चान्द्रायणादेर्यत्फलं तदपि नित्यस्वाध्यायवानामोति । नित्यग्रहणं काम्यस्यापि सतो नित्यत्वज्ञापनार्थम् ॥ ४७ ॥ ४८ ॥
एवं सामान्येन ब्रह्मचारिधर्मानभिधायाधुना नैष्ठिकस्य विशेषमाह -
नैष्ठिको ब्रह्मचारी तु वसेदाचार्यसंनिधौ ।
तदभावेऽस्य तनये पत्त्यां वैश्वानरेऽपि वा ।। ४९॥ अनेन विधिना देहं साधयन्विजितेन्द्रियः । ब्रह्मलोकमवाप्नोति न चेह जायते पुनः ।। ५० ।।
उक्तेन प्रकारेणात्मानं निष्ठा उत्क्रान्तिकालं नयतीति नैष्ठिकः स यावज्जीवमाचार्यसमीपे वसेत् । न वेदग्रहणोत्तरकालं स्वतन्त्रो भवेत् । तदभावे तत्पुत्रसमीपे तदभावे तद्भार्यासमीपे तदभावे वैश्वानरेऽपि । अनेनोक्तविधिना देहं साधयन्
I
१ यथा - पृच्छामि त्वा परमन्तं पृथिव्याः इति प्रश्नः, इयं वेदिः परो अन्तः इत्युत्तरम्. एवमन्यदपि वाकोवाक्यं ज्ञेयम्. २ मधीतेऽसौ ख. ३ तपसो यत्परस्य ख. ४ अनेनोक्तप्रकारेण. ख. ५ ग्रहणकालोत्तरं ख. ६ स्वोपास्याग्निसंनिधौ ख.
For Private And Personal Use Only
Page #45
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विवाहप्रकरणम् ३]
मिताक्षरासहिता ।
क्षपयन् विजितेन्द्रियः इन्द्रियजये विशेषप्रयत्नवान्ब्रह्मचारी ब्रह्मलोकममृतत्वमानोति । न कदाचिदिह पुनजीयते ॥ ४९ ॥ ५० ॥
इति ब्रह्मचारिप्रकरणम् ।
अथ विवाहप्रकरणम् ३
यः पुनर्विवाह्यस्तस्य विवाहार्थ स्नानमाह
गुरवे तु वरं दत्त्वा स्नायीत तदनुज्ञया । वेदं व्रतानि वा पारं नीत्वा ह्युभयमेव वा ॥ ५१ ॥
पूर्वोक्तेन न्यायेन वेदं मन्त्रब्राह्मणात्मकम्, व्रतानि ब्रह्मचारिधर्माननुक्रान्तान्, उभयं वा पारं नीत्वा समाप्य, गुरवे पूर्वोक्ताय वरमभिलषितं यथाशक्ति दवा स्वायात् । अशक्तौ तदनुज्ञया अदत्तवरोऽपि । एषां च पक्षाणां शक्तिकालाद्यपे
क्षया व्यवस्था ॥ ५१ ॥
स्नानानन्तरं किं कुर्यादित्यत आह
अवित्रह्मचर्यो लक्षण्यां स्त्रियमुदहेत् ।
अनन्यपूर्विकां कान्तामसपिण्डां यवीयसीम् ॥ ५२ ॥
१६
अविष्ठुतब्रह्मचर्योऽस्खलितब्रह्मचर्यः । लक्षण्यां बाह्याभ्यन्तरलक्षणैर्युक्ताम् । बाह्यानि 'तनुलोमकेशदशनाम्' इत्यादीनि ( ३।१०) मनुनोक्तानि । आभ्यन्तराणि 'भष्टौ पिण्डान्कृत्वा' इत्याद्याश्वलायनोक्तविधिना ज्ञातव्यानि । स्त्रियं नपुंसकत्वनिवृत्तये स्त्रीत्वेन परीक्षिताम् । अनन्यपूर्विकां दानेनोपभोगेन वा पुरुषान्तरापरिगृहीताम् । कान्तां कमनीयां वोदुर्मनोनयनानन्दकारिणीम् । 'यस्यां मनश्चक्षुषोर्निर्बन्धस्तस्यामृद्धिः' इत्यापस्तम्ब स्मरणात् । एतच्च न्यूनाधिकाङ्गादिबाह्यदोषाभावे । असपिण्डां समान एकः पिण्डो देहो यस्याः सा सपिण्डा न सपिण्डा असपिण्डा ताम् । सपिण्डता च एकशरीरावयवान्वयेन भवति । तथाहि पुत्रस्य पितृशरीरावयवान्वयेन पित्रासह । एवं पितामहादिभिरपि पितृद्वारेण तच्छरीरावयवान्वयात् । एवं मातृशरीरावयवान्वयेन मात्रा । तथा मातामहादिभिरपि मातृद्वारेण । तथा मातृष्वसृमातुलादिभिरप्येकशरीरावयवान्वयात् । तथा पितृव्यपितृष्वस्त्रादिभिरपि । तथा पत्यासह पढ्या एकशरीरारम्भकतया । एवं भ्रातृभार्याणामपि परस्परमेकशरीरारधैः
१ केशादीनि मनुप्रोक्तानि क. २ तानिच - पूर्वस्यां रात्रौ गोष्ठवल्मीककितवस्थानहदेरिणक्षेत्रचतुष्पथश्मशानेभ्यो मृत्तिकां गृहीत्वा पिण्डाष्टकं कर्तव्यम् । तत्रानुक्रमेण प्रथमे पिण्डे स्पृष्टे धान्यवती भवेत् । द्वितीये स्पृष्टे पशुमती भवेत् । तृतीयेऽग्निहोत्रशुश्रूषणपरा भवति । चतुर्थे विवेकिनी चतुरा सर्वजनार्जनपरा भवति । पञ्चमे रोगिणी । षष्ठे वन्ध्या । सप्तमे व्यभिचारिणी । अष्टमे विधवा भवेदित्याश्वलायनोक्तानि ३ सह सापिण्ड्यं ख. ४ एकशरीरारम्भः क.
For Private And Personal Use Only
Page #46
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
१४
www. kobatirth.org
याज्ञवल्क्यस्मृतिः ।
[ आचाराध्यायः
सहैकशरीरारम्भकत्वेन । एवं यत्र यत्र सपिण्डशब्दस्तत्र तत्र साक्षात्परम्परया वा एकशरीरावयवान्वयो वेदितव्यः । यद्येवं मातामहादीनामपि 'दशाहं शावमाशौचं सपिण्डेषु विधीयते' इत्यविशेषेण प्राप्नोति । स्यादेतत् यदि तत्र 'प्रतानामितरे कुर्युः' इत्यादिविशेषवचनं न स्यात् । अतश्च सपिण्डेषु यत्र विशेषवचनं नास्ति तत्र 'दशाहं शावमाशौचम्' इत्येतद्वचनमवतिष्ठते । अवश्यं चैकशरीरावयवान्वयेन सापिण्ड्यं वर्णनीयम् । 'आत्मा हि जज्ञ आत्मनः' इत्यादिश्रुतेः । तथा 'प्रजामनु प्रजायसे' इतिच । स एवायं विरूढः प्रत्यक्षेणोपलभ्यते इत्यापस्तम्बवचनाच्च । तथा गर्भोपनिषदि - ' एतत् पादकौशिकं शरीरं त्रीणि पितृतस्त्रीणि मातृतोऽस्थिस्नायुमजानः पितृतस्वमासरुधिराणि मातृतः ' इति तत्रतत्रावयवान्वयप्रतिपादनात् । निर्वाप्यपिण्डान्वयेन तु सापिण्ड्ये( ऽङ्गीक्रियमाणे ) मातृसंताने भ्रातृपितृव्यादिषु च सापिण्ड्यं न स्यात् । समुदायशक्त्यङ्गीकारेण रूढिपरिग्रहेऽवयवशक्तिस्तत्रतत्रावगम्यमाना परित्यक्ता स्यात् । (सरस्ववयवार्थेषु योऽन्यत्रार्थे प्रयुज्यते तत्रानन्यगतित्वेन समुदायः प्रसिद्ध्यति ।) परम्परयैकशरीरावयवान्वयेन तु सापिण्ड्ये यथा नातिप्रसङ्गस्तथा वक्ष्यामः । यवीयसीं वयसा प्रेमाणतश्च म्यूनां उद्वहेत्परिणयेत्स्वगृह्येोक्तविधिना ॥ ५२ ॥
विशेषान्तराण्याह
Acharya Shri Kailassagarsuri Gyanmandir
अरोगिणीं भ्रातृमतीमसमानार्षगोत्रजाम् ।
1
I
अरोगिणीं अचिकित्सनीय व्याध्यनुपसृष्टाम् । भ्रातृमतीं पुत्रिकाकरणशङ्कानि - वृत्तये । अनेनापरिभाषितापि पुत्रिका भवतीति गम्यते । भसमानार्षगोत्रजां ऋषेरिदमा नाम प्रवर इत्यर्थः । गोत्रं वंशपरम्पराप्रसिद्धं । भाषं च गोत्रं च आर्षगोत्रे । समाने आर्षगोत्रे यस्यासौ समानार्षगोत्रस्तस्माज्जाता समानार्षगोत्रजा न समानार्षगोत्रजा असमानार्षगोत्रजा ताम् । गोत्रप्रवरौ च पृथक्पृथक्पर्युदासनिमित्तम् । तेनासमानार्षजामसमान गोत्रजामिति । तथाच 'असमानप्रवरैविवाहः' इति गौतमः । तथा 'असपिण्डा च या मातुरसपिण्डा च या पितुः । सा प्रशस्ता द्विजातीनां दारकर्मणि मैथुने ॥' इति ( ३।५ ) मनुः । तथा मातृगोत्रामध्यपरिणेयां केचिदिच्छन्तिं । मातुलस्य सुतामूढा मातृगोत्रां तथैव च । समानप्रवरां चैव गत्वा चान्द्रायणं चरेत् ॥' इति प्रायश्चित्तस्मरणात् । अत्र चाsसपिण्डामित्यनेन पितृष्वसृमातृष्वस्त्रादिदुहितृनिषेधः । तथा भसगोनामित्यनेनासपिण्डाया अपि भिन्नसन्तानजायाः समानगोत्राया निषेधः । तथा असमानप्रवरामित्यनेनाप्यसपिण्डाया असगोत्राया अपि समानप्रवराया निषेधः । तथाच असपिण्डामित्येतत्सार्ववर्णिकम् । सर्वत्र सापिण्ड्यसद्भावात् । असमाना
१ पिण्डनिर्वापणयुक्त्या निर्वाप्यसपिण्डा. ख. २ भ्रातृपुत्रादिषु ख भ्रातृव्यपितृव्या. ग. ३ . पुस्तकेऽधिकमिदं. ४ प्रमाणेन च क. ५ असमानगोत्रजां असमानार्षजामित्यर्थः ख. ६ असगोत्रा च ख. ग. ७ अत्र क. पुस्तके 'सगोत्रां मातुरप्येके नेच्छन्त्युद्वाहकर्मणि । जम्मनाम्नोर विज्ञाने दहेदविशङ्कितः ॥' इति व्यासः इति विशेषः ८ त्यक्त्वाख.
For Private And Personal Use Only
Page #47
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विवाहप्रकरणम् ३] मिताक्षरासहिता ।
गोत्रजामित्येतत्रैवर्णिकविषयम् । यद्यपि राजन्यविशां प्रातिस्विकगोत्राभावा. प्रवराभावस्तथापि पुरोहितगोत्रप्रवरौ वेदितव्यौ । तथाच 'यजमानस्यार्षयान्प्रवृणीत' इत्युक्त्वा 'पौरोहित्यानाजन्यविशां प्रवृणीते' इत्याहाश्वलायनः । सपिण्डासमानगोत्रासमानप्रवरासु भार्यात्वमेव नोत्पद्यते । रोगिण्यादिषु तु भार्यात्वे उत्पनेऽपि दृष्टविरोध एव ॥
असपिण्डामित्यत्रैकशरीरावयवान्वयद्वारेण साक्षात्परम्परया वा सापिण्ड्यमुपं. तच्च सर्वत्र सर्वस्य यथाकथंचिदनादौ संसारे संभवतीत्यतिप्रसङ्ग इत्यत आह
पञ्चमात्सप्तमादूर्ध्व मातृतः पितृतस्तथा ॥५३॥ मातृतो मातुः संताने पञ्चमादूर्व पितृतः पितुः संताने सप्तमादूर्व साक्ति ण्ड्यं निवर्तत इति शेषः । अतश्चायं सपिण्डशब्दोऽवयवशक्तयाँ सर्वत्र वर्तमानोऽपि निर्मन्थ्यपङ्कजादिशब्दवनियतविषय एव । तथाच पित्रादयः षद सपिण्डाः पुत्रादयश्च षट् आत्मा च सप्तमः संतानभेदेऽपि यतः संतानमेदस्तमादाय गणयेथावरसप्तम इति सर्वत्र योजनीयम् । तथाच मातरमारभ्य तत्पितृपितामहादि. गणनायां पञ्चमसंतानवर्तिनी मातृतः पञ्चमीत्युपर्यते । एवं पितरमारभ्य तरिपत्रादिगणनायां सप्तमपुरुषसंतानवर्तिनी पितृतः सप्तमीति । तथाच 'भगिन्योर्भगिनीभ्रानो तृपुत्रीपितृव्ययोः । विवाहेऽव्याँदिभूतत्वाच्छाखाभेदोऽवंगण्यते ॥' यद्यपि वसिष्ठेनोक्तं-'पञ्चमी सप्तमी चैव मातृतः पितृतस्तथा' इति । 'त्रीनतीत्यमातृतः पञ्चातीत्य च पितृतः' इति च पैठीनसिना तदप्याभिषेधार्थ न पुनस्तप्राप्त्यर्थमिति सर्वस्मृतीनामविरोधः। एतच्च समानजातीये द्रष्टव्यम् । विजातीये तु विशेषः । यथाह शङ्ख:-'ययेकजाता बहवः पृथक्क्षेत्राः पृथग्जनाः। एकपिण्डाः पृथक्शौचाः पिण्डस्त्वावर्तते त्रिषु ॥' एकस्मात् ब्राह्मणादेर्जाताः एकजाताः । पृथक्षेत्राः भिन्नजातीयासु भिन्नासु स्त्रीषु जाताः । पृथक्जनाः समानजातीयासु भिन्नासु स्त्रीषु जातास्ते एकपिण्डाः किंतु पृथक्शौचाः । पृथक्शौचमाशौचप्रकरणे वक्ष्यामः । पिण्डस्त्वावर्तते त्रिषु त्रिपुरुषमेव सापिण्ड्यमिति ॥ ५३ ॥
दशपूरुषविख्याताच्छ्रोत्रियाणां महाकुलात् । पुरुषा एव पूरुषाः दशभिः पुरुषैः मातृतः पञ्चभिः पितृतः पञ्चभिर्विख्यातं यल्कुलं तस्मात् । श्रोत्रियाणामधीतवेदानाम् । अध्ययनमुपलक्षणं श्रुताध्ययनसंपन्नानाम् । महच्च तत्कुलं च महाकुलं पुत्रपौत्रपशुदासीग्रामादिसमृद्धं तस्मारकन्यका आहर्तव्येति नियम्यते ॥ एवं सर्वतः प्राप्तौ सत्यामपवादमहा
स्फीतादपि न संचारिरोगदोषसमन्वितात् ॥ ५४॥ १ गोत्रप्रवर्तकऋष्यपत्यत्वप्रयुक्तत्वमत्र प्रातिस्विकत्वम्. प्रातिस्विकगोत्राभावस्तथापि ख. २ दृष्टदोषविरोधः क. ३ शब्दो योगेऽवयव. क. ४ वयवशक्त्या प्रवर्त. क. ५ पञ्चमपुरुषवर्तिनी ख. ६ ब्यादि ख. ७ वगम्यते क. ८ एकपिण्डाः सपिण्डाः ख. ९ पौरुष क.
-
For Private And Personal Use Only
Page #48
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
याज्ञवल्क्यस्मृतिः।
[आचाराध्यायः
स्फीतादिति। संचारिणो रोगाः श्वित्रकुष्ठापस्मारप्रभृतयः शुक्रशोणितद्वारेणानुप्रविशन्तो दोषाः । पुनः हीनक्रियनिःपौरुषत्वादयो मनुनोक्ताः। एतैः समन्विता. रस्फीतादपि पूर्वोक्तान्महाकुलादपि नाहर्तव्या ॥ ५४ ॥ एवं कन्याग्रहणनियममुक्त्वा कन्यादाने वरनियममाह
एतैरेव गुणैर्युक्तः सवर्णः श्रोत्रियो वरः।
यत्नात्परीक्षितः पुंस्त्वे युवा धीमान्जनप्रियः ॥ ५५॥ एतैरेव पूर्वोकैर्गुणैर्युक्तो दोषैश्च वर्जितो वरो भवति । तस्यायमपरो विशेषः । सवर्ण उत्कृष्टो वा न हीनवर्णः । श्रोत्रियः स्वयं च श्रुताध्ययनसंपन्नः। यत्नात्प्रय. नेन पुंस्त्वे परीक्षितः । परीक्षोपायश्च नारदेन दर्शितः-'यस्याप्सु प्लवते बीज हादि मूत्रं च फेनिलम् । पुमान्स्याल्लक्षणैरेतैर्विपरीतैस्तु षण्ढकः ॥ (हादिफेनिलमूत्रश्च गुरुशुक्रर्षभस्वरः । पुमान्स्यादन्यथा पाण्डदुश्चिकित्स्यो मुखेभगः ॥ शुभबीजवति क्षेत्रे पुत्राःसंतानवर्धनाः। निष्ठा विवाहमन्त्राणां तासां स्यात्सप्तमे पदे॥') इति । युवा न वृद्धः । धीमान् लौकिकवैदिकव्यवहारेषु निपुणमतिः। जनप्रियः मितपूर्वमृद्वभिभाषणादिभिरनुरक्तजनः ॥ ५५ ॥
रति-पुत्र-धर्मार्थत्वेन विवाहस्त्रिविधः । तत्र पुत्रार्थो द्विविधः नित्यः काम्यश्च । तत्र नित्ये प्रजार्थे सवर्णः श्रोत्रियो वरः' इत्यनेन सवर्णा मुख्या दर्शिता । इदानीं काम्ये नित्यसंयोगे चानुकल्पो वक्तव्य इत्यत आह
यदुच्यते द्विजातीनां शूद्राद्दारोपसंग्रहः ।
नैतन्मम मतं यस्मात्तत्रायं जायते स्वयम् ॥५६॥ यदुच्यते 'सवर्णाग्रे द्विजातीनां प्रशस्ता दारकर्मणि । कामतस्तु प्रवृत्तानामिमाः स्युः क्रमशोऽवराः ॥' इत्युपक्रम्य ब्राह्मणस्य चतस्रो भार्याः क्षत्रियस्य तिस्रो वैश्यस्य द्वे इति द्विजातीनां शूद्रावेदनमिति । नैतद्याज्ञवल्क्यस्य मतम् । यस्मादयं द्विजातिस्तत्र स्वयं जायते । 'तजाया जाया भवति यदस्यां जायते पुनः' इति श्रुतेः । अत्र च तत्रायं जायते स्वयमिति हेतुं वदाता नैत्यकपुत्रोत्पादनाय काम्यपुत्रोत्पादनाय वा प्रवृत्तस्य शूद्रापरिणयन निषेधं कुर्वता नैत्यकपुत्रोत्पादनानुकल्पे काम्ये च पुत्रोत्पादने ब्राह्मणस्य क्षत्रियावैश्ये क्षत्रियस्य च वैईयाभार्यानुज्ञाता भवति ॥ ५६ ॥ इदानी रतिकामस्योत्पन्नपुत्रस्य वा विनष्टभार्यस्याश्रमान्तरानधिकारिणो
गृहस्थाश्रमावस्थामात्राभिकाङ्गिणः परिणयनक्रममाहतिस्रो वर्णानुपूर्येण द्वे तथैका यथाक्रमम् ।
ब्राह्मणक्षत्रियविशां भायों स्वा शूद्रजन्मनः ॥ ५७ ॥ वर्णक्रमेण ब्राह्मणस्य तिस्रो भार्याः । क्षत्रियस्य द्वे । वैश्यस्यैका । शूद्रस्य तु १ अयं पाठः कः पुस्तकेऽधिकः. २ स्मितमृदुपूर्वाभिभाषण क. ३ वैश्याभ्यनुशा ख.
For Private And Personal Use Only
Page #49
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विवाहप्रकरणम् ३] मिताक्षरासहिता । खैव भार्या भवति । सवर्णा पुनः सर्वेषां मुख्या स्थितैव । पूर्वस्याः पूर्वस्या अभावे उत्तरोत्तरा भवति । अयमेव च क्रमो नैत्यकानुकल्पे काम्ये च पुत्रोत्पादन विधौ । भतश्च यच्छूद्रापुत्रस्य पुत्रमध्ये परिगणनं विभागसंकीर्तनं च, तथा 'विप्रान्मूर्धावसिक्तो हि' इत्युपक्रम्य 'विन्नास्वेष विधिः स्मृतः' इति च तद्गतिकामस्याश्रममात्राभिकाविणो वा नान्तरीयकतयोत्पन्नस्य ॥ ५७ ॥ विवाहानाह
ब्राह्मो विवाह आहूय दीयते शक्त्यलंकृता ।
तजः पुनात्युभयतः पुरुषानेकविंशतिम् ॥ ५८॥ स ब्राह्माभिधानो विवाहः यस्मिन्नुक्तलक्षणाय वरायाहूय यथाशक्त्यलंकृता कन्या दीयते उदकपूर्वकं, तस्यां जातः पुत्र उभयतः पित्रादीन्दश पुत्रादींश्च दश आत्मानं चैकविंशं पुनाति सवृत्तश्चेत् ॥ ५८ ॥ देवार्षविवाही
यज्ञस्थऋत्विजे दैव आदायार्षस्तु गोद्वयम् ।
चतुदेश प्रथमजः पुनात्युत्तरजश्व षट् ॥ ५९॥ स दैवो विवाहो यस्मिन्यज्ञानुष्टाने वितते ऋत्विते शक्त्यालंकृता कन्या दीयते । यत्र पुनर्गोमिथुनमादाय कन्या दीयते स आर्षः । प्रथमजो दैवविवाहजअतुर्दश पुनाति सप्तावरान् सप्तपरान् । उत्तरज आर्ष विवाहजः षट् पुनाति श्रीन्पूर्वान् त्रीपरान् ॥ ५९॥ प्राजापत्यविवाहलक्षणम्
इत्युक्त्वा चरतां धर्म सह या दीयतेऽर्थिने ।
स कायः पावयेत्तजः षट् षट् वंश्यान्सहात्मना ॥ ६० ॥ सह धर्म चरतामिति परिभाष्य कन्यादानं स प्राजापत्यः । तजः षट् पूर्वाषट् परान आस्मना सहेत्येवं त्रयोदश पुनाति ॥ ६० ॥
आसुरगान्धर्वादिविवाहलक्षणानि___ आसुरो द्रविणादानागान्धर्वः समयान्मिथः । . राक्षसो युद्धहरणात्पैशाचः कन्यकाछलात् ॥ ६१॥
आसुरः पुनविणादानात् । गान्धर्वस्तु परस्परानुरागेण भवति । राक्षसो युद्धेनापहरणात् । पैशाचस्तु कन्यकाछलात् छलेन छद्मना स्वापाद्यवस्थास्वपैहरणात् ॥ ६ ॥ सवर्णादिपरिणयेन विशेषमाह
पाणिग्राह्यः सवर्णासु गृह्णीयात्क्षत्रिया शरम् ।
वैश्या प्रतोदमादद्याद्वेदने खग्रजन्मनः ॥ ६२॥ १ अन्योद्देशकव्यापारनिवर्त्यत्वं; यमन्तरा नोद्देश्यसिद्धिस्तत्वं वा नान्तरीयकत्वम्. २ छवस्थासु हरणात. क.
For Private And Personal Use Only
Page #50
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
१८
याज्ञवल्क्यस्मृतिः ।
[ आचाराध्यायः
सवर्णासु विवाहे स्वगृह्येोक्तविधिना पाणिरेव ग्राह्यः । क्षत्रियकन्या तु शरं गृह्णीयात् । वैश्या प्रतोदमादद्यात् । उत्कृष्टवेदने शूद्रा पुनर्वसनस्य दशाम् । य• थाह मनुः ( ३४४ ) - ' वसनस्य दशा ग्राह्या शूद्रयोत्कृष्टवेदने' इति ॥ ६२ ॥ . कन्यादातृक्रममाह
Acharya Shri Kailassagarsuri Gyanmandir
पिता पितामहो भ्राता सकुल्यो जननी तथा । कन्याप्रदः पूर्वनाशे प्रकृतिस्थः परः परः ॥ ६३॥ अप्रयच्छन्समा मोति भ्रूणहत्यामृतावृतौ । । गम्यं त्वभावे दातृणां कन्या कुर्यात्स्वयंवरम् ॥ ६४॥
एतेषां पित्रादीनां पूर्वस्य पूर्वस्याभावे परः परः कन्याप्रदः प्रकृतिस्थश्चेत् यधुन्मादादिदोषवान्न भवति । अतो यस्याधिकारः सोऽप्रयच्छन् भ्रूणहत्यामृतावृतावाप्नोति । एतच्चोत्तलक्षणवरसंभवे वेदितव्यम् । यदा पुनर्दातृणामभावस्तदा क न्यैव गम्यं गमनार्हमुक्तलक्षणं वरं स्वयमेव वरयेत् ॥ ६३ ॥ ६४ ॥
कन्याहरणे दण्डः ---
सकृत्प्रदीयते कन्या हरंस्तां चौरदण्डभाक् ।
सकृदेव कन्या प्रदीयत इति शास्त्रनियमः । अतस्तां दत्त्वा अपहरन् कन्यां चौरवद्दण्ड्यः ॥
एवं सर्वत्र प्रतिषेधे प्रासेऽपवादमाह -
दत्तामपि हरेत्पूर्वाच्छ्रेयांचेवर आव्रजेत् ।। ६५ ।।
यदि पूर्वस्माद्वराष्छ्रेयान्विद्याभिजनाद्यतिशययुक्तो वर भागच्छति पूर्वस्य च पातकयोगो दुर्वृत्तत्वं वा तदा दत्तामपि हरेत् । एतच्च सप्तमपदात्प्राद्रष्टव्यम् ॥ ६५ ॥
अनाख्याय ददद्दोषं दण्ड्य उत्तमसाहसम् ।
अदुष्टां तुं त्यजन्दाण्ड्यो दूषयंस्तु मृषा शतम् || ६६ ॥
यः पुनश्चक्षुर्ग्राह्यं दोषमनाख्याय कन्यां प्रयच्छति असावुत्तमसाहसं दण्ड्यः । उत्तमसाहसं च वेक्ष्यते । अदुष्टां तु प्रतिगृह्य त्यजन्नुत्तमसाहसमेव दण्ड्यः । यः पुनर्विवाहात्प्रागेव द्वेषादिना असद्भिर्दोषैर्दीर्घरोगादिभिः कन्यां दूषयति स पणानां वक्ष्यमाणलक्षणानां शतं दण्ड्यः ॥ ६६ ॥
अनन्य पूर्विकामित्यत्रानन्यपूर्वी परिणेयोक्ता तत्रान्य पूर्वा कीदृशीत्याह
अक्षता च क्षता चैव पुनर्भूः संस्कृता पुनः ।
स्वैरिणी या पतिं हित्वा सवर्णं कामतः श्रयेत् ॥ ६७ ॥ अन्यपूर्वा द्विविधा पुनर्भूः स्वैरिणी चेति । पुनर्भूरपि द्विविधा क्षता चाक्षता १ च त्यजन् क. २ अग्रे व्यवहाराध्याये.
For Private And Personal Use Only
Page #51
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विवाहप्रकरणम् ३]
मिताक्षरासहिता ।
१९
च । तत्र क्षता संस्कारात्प्रागेव पुरुषसंबन्धदूषिता । भक्षता पुनः संस्कारदूषिता । या पुनः कौमारे पति त्यक्त्वा कामतः सवर्णमाश्रयति सा स्वैरिणीति ॥ ६७ ॥
एवं सर्वप्रकारेणान्य पूर्वापर्युदासे प्राप्ते विशेषमाह -
आपुत्रां गुर्वनुज्ञातो देवरः पुत्रकाम्यया । सपिण्डो वा सगोत्रो वा घृताभ्यक्त ऋतावियात् ॥ ६८ ॥ आगर्भसंभवाद्गच्छेत्पतितस्त्वन्यथा भवेत् ।
अनेन विधिना जातः क्षेत्रजोऽस्य भवेत्सुतः ॥ ६९ ॥
अपुत्रा लब्धपुत्रां पित्रादिभिः पुत्रार्थमनुज्ञातो देवरो भर्तुः कनीयान् भ्राता सपिण्डो वा उक्तलक्षणः सगोत्रो वा । एतेषां पूर्वस्याभावे परः परः घृताभ्यक्तसर्वाङ्गः ऋतावेवं वक्ष्यमाणलक्षणे इयागच्छेत् आगर्भोत्पत्तेः । ऊर्ध्वं पुनर्गच्छन् अन्येन वा प्रकारेण तदा पतितो भवति । अनेन विधिनोत्पन्नः पूर्वपरिणेतुः क्षेत्रजः पुत्रो भवेत् । एतच्च वाग्दत्ताविषयमित्याचार्याः । 'यस्या म्रियेत कन्याया वाचा सध्ये कृते पतिः । तामनेन विधानेन निजो विन्देत देवरः ॥ ' इति (९।६९ ) मनुस्मरणात् ॥ ६८ ॥ ६९ ॥
व्यभिचारिणीं प्रत्याह
हृताधिकारां मलिनां पिण्डमात्रोपजीविनीम् । परिभूतामधःशय्यां वासयेद्व्यभिचारिणीम् ॥ ७० ॥
या व्यभिचरति तां हृताधिकारां भृत्यभरणाद्यधिकाररहिताम् । मलिनां भक्षनाभ्यञ्जनशुभ्रवस्त्राभरणशून्याम् । पिण्डमात्रोपजीविनीं प्राणयात्रामात्रभोज - नाम् । धिक्कारादिभिः परिभूतां भूतलशायिनीं स्ववेश्मन्येव वासयेत् । वैराग्य जननार्थं न पुनः शुद्ध्यर्थम् । 'यत्पुंसः परदारेषु तच्चैनां चारयेद्रतम्' इति पृथकप्रायश्चित्तोपदेशात् ॥ ७० ॥
तस्या अल्पप्रायश्चित्तार्थमर्थवादमाह -
सोमः शौचं ददावासां गन्धर्वश्व शुभां गिरम् ।
पावकः सर्वमेध्यत्वं मेध्या वै योषितो ह्यतः ॥ ७१ ॥
परिणयनात्पूर्वं सोमगन्धर्ववह्नयः श्रीर्भुक्त्वा यथाक्रमं तासां शौचमधुरवचनसर्वमेध्यत्वानि दत्तवन्तः । तस्मात्स्त्रियः सर्वत्र स्पर्शालिङ्गनादिषु मेध्याः शुद्धाः स्मृताः ॥ ७१ ॥
नच तस्यास्तर्हि दोषो नास्तीत्याशङ्कनीयमित्याह -
व्यभिचारादृतौ शुद्धिर्गर्भे त्यागो विधीयते । गर्भभर्तवधादौ च तथा महति पातके ॥ ७२ ॥
१ ददौ स्त्रीणां क २ स्त्रियो भुक्त्वा क.
या. ५
For Private And Personal Use Only
Page #52
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०
याज्ञवल्क्यस्मृतिः। [आचाराध्यायः अप्रकाशितान्मनोव्यभिचारात्पुरुषान्तरसंभोगसंकल्पाद्यदपुण्यं तस्य ऋतौ रजो. दर्शने शुद्धिः । शूद्रकृते तु गर्भे त्यागः। (मनुः ९११५५) 'ब्राह्मणक्षत्रियविशा भार्याः शूद्रेण संगताः । अप्रजाता विशुद्ध्यन्ति प्रायश्चित्तेन नेतराः ॥' इति स्मरणात् । तथा गर्भवधे भर्तृवधे महापातके च ब्रह्महत्यादौ आदिग्रहणाच्छिप्यादिगमने च त्यागः । 'चतस्त्रस्तु परित्याज्याः शिष्यगा गुरुगाच या। पतिती च विशेषेण जुङ्गितोपगता च या ॥' इति व्यासमरणात् । जुङ्गितः प्रतिलोमजश्चर्मकारादिः । त्यागश्चोपभोगधर्मकार्ययोः नतु निष्कासनं गृहात्तस्याः । 'निरुध्यादेकवेश्मनि' इति नियमात् ॥ ७२ ॥ द्वितीयपरिणयने हेतूनाह
सुरापी व्याधिता धूर्ता बन्ध्यार्थभ्यप्रियंवदा ।
स्त्रीप्रसूश्वाधिवेत्तव्या पुरुषद्वेषिणी तथा ॥ ७३ ॥ सुरां पिबतीति सुरापी शूदापि । 'पतत्यधं शरीरस्य यस्य भार्या सुरां पिबेत्' इति सामान्येन प्रतिषेधात् । व्याधिता दीर्घरोगप्रस्ता । धूर्ता विसंवादिनी । वन्ध्या निष्फला । अर्थनी अर्थनाशिनी । अप्रियंवदा निठुरभाषिणी । स्त्रीप्रसूः स्त्रीजननी । पुरुषद्वेषिणी सर्वत्राहितकारणी। अधिवेत्तव्येति प्रत्येकमभिसंब. ध्यते । अधिवेदनं भार्यान्तरपरिग्रहः ॥ ७३ ॥
अधिविना तु भर्तव्या महदेनोऽन्यथा भवेत् ।
यत्रानुकूल्यं दंपत्योस्त्रिवर्गस्तत्र वर्धते ॥ ७४ ॥ विंच । सा अधिविना पूर्ववदेव दानमानसत्कारैर्भर्वव्या । अन्यथाऽभरणे महदपुण्यं वक्ष्यमाणो दण्डश्च । नच भरणे सति केवलमपुण्यपरिहारः। यतः यत्र दंपत्योरानुकूल्यं चित्तैक्यं तत्र धर्मार्थकामानां प्रतिदिनमभिवृद्धिश्च ॥ ७४ ॥ स्त्रियं प्रत्याह
मृते जीवति वा पत्यौ या नान्यमुपगच्छति ।
सेह कीर्तिमवाप्नोति मोदते चोमया सह ॥ ७५॥ भर्तरि जीवति मृते वा या चापल्यादन्यं पुरुषं नोपैगच्छति सेह लोके विपुलां कीर्तिमवानोति । उमया च संह क्रीडति पुण्यप्रभावात् ॥ ७५ ॥ अधिवेदनकारणाभावे अधिवेत्तारं प्रत्याह
आज्ञासंपादिनी दक्षां वीरसं प्रियवादिनीम् । त्यजन्दाप्यस्तृतीयांशमद्रव्यो भरणं स्त्रियाः॥७६॥ आज्ञासंपादिनीमादेशकारिणीम्, दक्षां शीघ्रकारिणीम्, वीरसूं पुत्रवतीम्, प्रियवादिनी मधुरभाषिणी यस्त्यजति अधिविन्दति स राज्ञा स्वधनस्य तृतीयांशं दाप्यः । निर्धनस्तु भरणं मासाच्छादनादि दाप्यः ॥ ७६ ॥ १ सर्वत्र संबध्यते क. २ नैवोपगच्छति क. ३ आदेशसंपादिनी ख.
For Private And Personal Use Only
Page #53
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
विवाहप्रकरणम् ३ ]
स्त्रीधर्मानाह
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मिताक्षरास हिता ।
स्त्रीभिर्भवचः कार्यमेष धर्मः परः स्त्रियाः । - आशुद्धेः संप्रदीक्ष्यो हि महापातकदूषितः ॥ ७७ ॥
स्त्रीभिः सदा भर्तृवचनं कार्यम् । यस्मादयमेव पर उत्कृष्टो धर्मः स्त्रीणां स्वर्गहेतुत्वात् । यदा तु महापातकदूषितस्तदा आशुद्धेः संप्रतीक्ष्यः । न तत्पारतत्र्यम् । उत्तरकालं तु पूर्ववदेव तत्पारतन्त्र्यम् ॥ ७७ ॥
२१
शास्त्रीयदारसंग्रहस्य फलमाह -
लोकानन्त्यं दिवः प्राप्तिः पुत्रपौत्रप्रपौत्रकैः । यस्मात्तस्मात्स्त्रियः सेव्याः कर्तव्याश्च सुरक्षिताः ॥ ७८ ॥
लोके आनन्त्यं वंशस्याविच्छेदः दिवः प्राप्तिश्च दारसंग्रहस्य प्रयोजनम् । कथमित्याह । पुत्रपौत्रप्रपौत्रकै लोकानन्त्यम्, अग्निहोत्रादिभिश्र स्वर्गप्राप्तिरित्यन्वयः । यस्मात्रीभ्यः एतहूयं भवति तस्मात् स्त्रियः सेव्या उपभोग्याः प्रजार्थम् । रक्षितव्याश्च धर्मार्थम् । तथाचापस्तम्बेन धर्मप्रजासंपत्तिः प्रयोजनं दारसंग्रहस्योक्तं 'धर्मप्रजा संपन्नेषु दारेषु नान्यां कुर्वीत' इति वदता । रतिफलं तु लौकिकमेव ॥ ७८ ॥ पुत्रोत्पत्यर्थं स्त्रियः सेव्या इत्युक्तं तत्र विशेषणमाह
षोडशनिशाः स्त्रीणां तस्मिन्युग्मासु संविशेत् । ब्रह्मचार्येव पर्वाण्याद्याश्चतस्तु वर्जयेत् ॥ ७९ ॥
I
I
स्त्रीणां गर्भधारणयोग्यावस्थोपलक्षितः काल ऋतुः । सच रजोदर्शनदिवसादारम्य षोडशाहोरात्रस्तस्मिन् ऋतौ युग्मासु समासु रात्रिषु । रात्रिग्रहणाद्दिवसप्रति - वेधः । संविशेत् गच्छेत्पुत्रार्थम् । युग्मास्विति बहुवचनं समुच्चयार्थम् । अतश्चैकमपि ऋतौ अप्रतिषिद्धासु युग्मासु सर्वासु रात्रिषु गच्छेत् । एवं गच्छन्ब्रह्मचार्येव भवति । अतो यत्र ब्रह्मचयं श्राद्धादौ चोदितं तत्र गच्छतोपि न ब्रह्मचर्यस्खलन दोषोऽस्ति । किंच पर्वाण्याद्याश्चतस्त्रस्तु वर्जयेत् । पर्वाणीति बहुवचनादाथार्थावगमादष्टमी चतुर्दश्योहणम् । यथाह मनुः (४।१५५ ) ' अमावास्या - मष्टमीं च पौर्णमासीं चतुर्दशीम् । ब्रह्मचारी भवेन्नित्यमप्यृतौ स्नातको द्विजः ॥’ इति । अतोऽमावास्यादीनि रजोदर्शनादारभ्य चक्त्रो रात्रीश्च वर्जयेत् ॥ ७९ ॥ एवं गच्छन् स्त्रियं क्षामां मघां मूलं च वर्जयेत् । सुस्थ इन्दौ सकृत्पुत्रं लक्षण्यं जनयेत्पुमान् ॥ ८० ॥
For Private And Personal Use Only
.
एवमुक्तेन प्रकारेण स्त्रियं गच्छन् क्षामां गच्छेत् । क्षामता च तस्मिन्काले रजस्वलाव्रतेनैव भवति । अथ चेन्न भवति तदा कर्तव्या क्षमता पुत्रोत्पत्यर्थमल्पाsस्त्रिग्धभोजनादिना । 'पुमान्पुंसोऽधिके शुक्रे स्त्री भवत्यधिके स्त्रियः' इति
१ सर्वथा क. २ चतस्त्रश्च ख ३ श्राद्धादिषु क. ४ पौष्णं च क.
Page #54
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२
याज्ञवल्क्यस्मृतिः।
[आचाराध्यायः
वचनात् । यदा युग्मायामपि रात्रौ शोणिताधिक्यं तदा स्येव भवति पुरुषाकृतिः । अयुग्मायामपि शुक्राधिक्ये पुमानेव भवति रुयाकृतिः । कालस्य निमितत्वात् । शुक्रशोणितयोश्चोपादानकारणत्वेन प्राबल्यात् । तस्मारक्षामा कर्तव्या। मघामूलनक्षत्र वर्जयेत् । चन्द्रे चैकादशादिशुभस्थानगते चकारात्पुंनक्षत्रशुभयोगलनादिसंपत्तौ सकृदेकस्यां रात्रौ न द्विस्त्रिा । ततो लक्षणैर्युक्तं पुत्रं जनयति । पुमानप्रतिहतपुंस्त्वः ॥ ८ ॥ एवमृतौ नियममुक्त्वा इदानीमनृतौ नियममाह
यथाकामी भवेद्वापि स्त्रीणां वरमनुसरन् ।
खदारनिरतश्चैव स्त्रियो रक्ष्या यतः स्मृताः ॥ ८१ ॥ भा-या इच्छानतिक्रमेण प्रवृत्तिरस्यास्तीति यथाकामी भवेत् । वाशब्दो नियमान्तरपरिग्रहार्थो न पूर्व नियमनिवृत्यर्थः । स्त्रीणां वरमिन्द्रदत्तमनुस्मरन 'भवतीनां कामविहन्ता पातकी स्यात्' इति । यथा 'ता अब्रुवन् वरं वृणीमहा ऋत्वियाप्रजां विन्दामहै काममाविजनितोः संभवामेति तस्मादृत्वियाः स्त्रियः प्रजा विन्दन्ते काममाविजनतोः संभवन्ति वारे वृत५ह्यासाम्' इति । अपिच स्वदारेष्वेव निरतः नितरां रतस्तन्मनस्को भवेदित्यनुषज्यते । एवकारेण ख्यन्तरगमनं निवर्तयति, प्रायश्चित्तस्मरणात् । उभयत्रापि दृष्टप्रयोजनमाह-स्त्रियो रक्ष्या यतः स्मृता इति । यस्मास्त्रियो रक्ष्याः स्मृता उक्ताः 'कर्तव्याश्च सुरक्षिताः' इति । तत्र सुरक्षितत्वं यथाकामित्वेन स्यन्तरागमनेन च भवतीति, अत्राह 'तस्मिन्युग्मासु संविशे'दिति । किमयं विधिनियमः परिसंख्या वा । उच्यते । न तावद्विधिः, प्राप्तार्थत्वात् । नापि परिसंख्या, दोषत्रयसमासक्तः । अतो नियम प्रतिपेदिरे न्यायविदः । कः पुनरेषां भेदः । अत्यन्ताप्राप्तप्रापणं विधिः। यथा 'अग्निहोत्रं जुहुयात्' 'अष्टकाः कर्तव्याः' इति । पक्षे प्राप्तस्याप्राप्तपक्षान्तरप्रापणं नियमः । यथा 'समे देशे यजेत' 'दर्शपूर्णमासाभ्यां यजेत' इति यागः कर्तव्यतया विहितः। सच देशमन्तरेण कर्तुमशक्य इत्यर्थाद्देशः प्राप्तः । सच द्विविधः समो विषमश्चेति । यदा यजमानः समे यियक्षते तदा समे यजेतेति वचनमुदास्ते, स्वार्थस्य प्राप्तत्वात् । यदा तु विषमे देशे यियक्षते तदा समे यजेतेति स्वार्थ विधत्ते, स्वार्थस्य तदानीमप्राप्तत्वात् । विषमदेशनिवृत्तिस्त्वार्थिकी । चोदितदेशेनैव यागनिष्पत्तेरचोदितदेशोपादानेन यथाशास्त्रं यागो नानुष्ठितः स्यादिति । तथा 'प्रामुखोऽन्नानि भुञ्जीत' इति । इदमपि सातमुदाहरणं पूर्वेण व्याख्यातम् ॥ एकस्यानेकत्र प्राप्तस्यान्यतो निवृत्यर्थमेकन पुनर्वचनं परिसंख्या। तद्यथा
१ कालस्यानियतत्वात् क. २ वृणीमहै ख. ३ वरं वृतं तासां ख. ४ उक्ताः पूर्व ७८ श्लोके. ५ विध्यादयश्च-'विघिरत्यन्तमप्राप्तौ नियमः पाक्षिके सति । तत्र चान्यत्र वा प्राप्तौ परिसंख्या निगद्यते' इति. ६ दोषत्रयासक्तेः क. ७ प्राप्तार्थत्वात् क. ८ स्त्वसिद्धा कः
For Private And Personal Use Only
Page #55
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विवाहप्रकरणम् ३]
मिताक्षरासहिता ।
'इमामगृभ्ण प्रशनामृतस्येत्यश्वाभिधानीमादत्ते' इत्ययं मन्त्रः स्वसामर्थ्यादश्वाभिधान्याः गर्दभामिधान्याश्च रशनाया ग्रहणे विनियुक्तः पुनरश्वामिधानीमादस इत्यनेनाश्वाभिधान्यां विनियुज्यमानो गर्दभाभिधान्याः निवर्तते । यथा 'पञ्च पञ्चनखा भक्ष्याः' इत्यत्र हि यदृच्छया शशादिषु श्वादिषु च भक्षणं प्राप्तं पुनः शशादिषु श्रूयमाणं श्वादिभ्यो निर्वर्तत इति । किं पुनरत्र युक्तं । परिसंख्येत्याह । तथाहि कृतदारसंग्रहस्य स्वेच्छयैवत गमनं प्राप्तमिति न विधेरयं विषयः । नापि नियमस्य । गृह्यस्मृतिविरोधात् । एवंहि स्मरन्ति गृह्यकाराः - 'दारसंग्रहानन्तरं त्रिरात्रं द्वादशरात्रं संवत्सरं वा ब्रह्मचारी स्यात्' इति । तत्र द्वादशरात्रात्संवत्सराद्वा पूर्व मे वर्तुसंभवे ऋतौ गच्छेदेवेति नियमाद्ब्रह्मचर्यस्मरणं बाध्येत । अपिच प्राप्ते भावार्थे वचनं विशेषणपरं युक्तं, प्राप्तं चतौं भार्यागमनेमिच्छयैव, अतो यदि गच्छेडतावेवेति वचनव्यक्तिर्युक्ता । किंच नैयमिकात्पुत्रोत्पत्तिविधेरेव ऋतौ गमनं नित्यप्राप्तमेवेति ऋतौ गच्छेदेवेति नियमोऽनर्थकः स्यात् । नियमे चादृष्टं कल्पनीयम् । किंच ऋतौ गन्तव्यमेवेति नियमे असन्निहितस्य व्याध्यादिना असमथेस्यानिच्छोश्वाशक्योsर्थ उपदिष्टः स्यात् । विध्यनुवादविरोधश्च नियमे । तथाहि एकः शब्दः सकृदुच्चरितस्तमेवार्थ पक्षेऽनुवदति पक्षेऽनुविधत्ते चेति । तस्मातावेव गच्छेन्नान्यत्रेति परिसंख्यैव युक्ता । तदिदं भौरुविविश्वरूपादयो नानुमन्यन्ते । अतो नियम एव युक्तः । पक्षे स्वार्थविधिसंभवात् अगमने दोषश्रवणाच्च । 'ऋतुस्रातां तु यो भार्यां सन्निधौ नोपगच्छति । घोरायां भ्रूणहत्या - यां युज्यते नात्र संशयः ॥' इति । नच विध्यनुवादविरोधः, अनुवादाभावाद्विध्यर्थत्वाच वचनस्य । तत्रहिं विध्यनुवादविरोधो यत्र विधेयावधितया तदेवानुवदितव्यं, अप्राप्ततयान्योद्देशेन विधातव्यं च । यथा वाजपेयाधिकरणपूर्वपक्षे 'वाजपेयेन स्वाराज्यकामो यजेतेति वाजपेयलक्षणगुणविधानावधित्वेन यागोऽनुवदि'तव्यः, सएव स्वाराज्यलक्षणफलोद्देशेन विधातव्यश्चेति । नचानुवादेनेह कृत्य'मस्ति । यस्तु नियमेऽदृष्टं कल्प्यमित्युक्तं तत्परिसंख्यायामपि समानम् । अनृतौ गच्छतो दोषकल्पनात् । यत्तु नैयमिकपुत्रोत्पादन विध्याक्षेपेणैव ऋतौ नित्यगमनप्राप्ते न नियम इति । तदसत् । स एवायं नैयमिकपुत्रोत्पादनविधिः । स्यान्मतम् ' एवं गच्छन् स्त्रियं क्षामां लक्षण्यं पुत्रं जनयेत्' इति स्वयभिगमनातिरिक्तः पुत्रोत्पादनविधिरिति । तन्न । र्गमनकरणिकाया भावनाया एव पुत्रोत्पत्तिकर्मता प्रह इयते । एवं गच्छन् लक्षण्यं पुत्रं जनयेदित्यनेन यथाग्निहोत्रं जुह्वन् स्वर्ग भावयेदिति । नचासं निहिता देरशक्यार्थ विधिप्रसङ्गः । सन्निहितशक्तयोरेवोपदेशात् 'ऋतुनातां तु यो भार्यां सन्निधौ नोपगच्छति' । 'यः स्वदारानृतुस्नातान्स्वस्थः सनोपगच्छति' इति विशेषोपादानात् । अनिच्छानिवृत्तिस्तु नियमविधानादेव । नच विशेषण परताप | पक्षे भावार्थविधिसंभवात् । नापि गृह्यस्मृतिविरोधः । संव
1
२३
१ निवर्तयति ख. २ भार्येच्छयैव क. ३ भागुरि क. ४ तथा फलोद्देशेन क. ५ तदसदिति क. नास्ति. ६ यतस्तच्च गमन. क.
For Private And Personal Use Only
Page #56
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४
याज्ञवल्क्यस्मृतिः।
[आचाराध्याय:
सरात्पूर्वमेवर्तुदर्शने संविशतो न ब्रह्मचर्यस्खलनदोषो यथा श्राद्धादिषु । तमा. स्वार्थहानि-परार्थकल्पना-प्राक्षबाधलक्षणदोषत्रयवती परिसंख्या न युक्ता । एवं 'पञ्च पञ्चनखा भक्ष्या' इत्यत्र यद्यपि शशादिषु भक्षणस्य पक्षे प्राप्तेनियमः वाशादिषु, श्वादिषु च प्राप्त परिसंख्येत्युभयसंभवस्तथापि नियमपक्षे शशायभक्षणे दोषप्रसङ्गः, श्वादिभक्षणे चादोषप्रसङ्गेन प्रायश्चित्तस्मृतिविरोध इति परिसंख्यैः वाश्रिता । एतेन 'सायंप्रातर्द्विजातीनामशनं स्मृतिनोदितम्' इत्यत्रापि नियमो व्याख्यातः । 'नान्तरा भोजनं कुर्यात्' इति च पुनरुक्तं स्याल्परिसंख्यायाम् । एवंच नियमे सति ऋतावृताविति वीप्सा लभ्यते, 'निमित्तावृत्तौ नैमित्तिकमप्यावर्तते' इति न्यायात् । 'यथाकामी भवे'दित्ययमपि नियम एव । अनृतावपि स्त्रीकामनायां सत्यां स्त्रियमभिरमयेदेवेति । 'ऋतावुपेयात्सर्वत्र वा प्रतिषिद्धवर्जम्' इत्ये. तदपि गौतमीयं सूत्रद्वयं नियमपरमेव । 'ऋतावुपेयादनृतावपि स्त्रीकामनायां सत्यां प्रतिषिद्धवर्जमुपेयादेवेत्यलमतिप्रसङ्गेन ॥१॥
भर्तृभ्रातृपितज्ञातिश्वश्रूश्वशुरदेवरैः ।
बन्धुभिश्च स्त्रियः पूज्या भूषणाच्छादनाशनैः ॥ ८२ ॥ किंच । भर्तृप्रभृतिभिः पूर्वोक्ताः साध्यः स्त्रियो यथाशक्त्यलंकारवसनभोज. मपुष्पादिभिः संमाननीयाः । यस्मात्ताः पूजिता धर्मार्थकामान्संवर्धयन्ति ॥८॥ तया पुनः समर्पितगृहव्यापारया किंभूतया भवितव्यमित्यत आह
संयतोपस्करा दक्षा हृष्टा व्ययपराशुखी।
कुयोच्छशुरयोः पादवन्दनं भतत्परा ॥ ८३॥ संयतः स्वस्थाननिवेशितः उपस्करो गृहोपकरणवर्गों यया सा तथोका। यथोलुखलमुसलशूर्पादेः कण्डनस्थाने, दषदुपलयोरवियोगेन पेषणस्थान इत्यादि । दक्षा गृहव्यापारकुशला । हृष्टा सदैव प्रहसितानना । व्ययपराशुखी न ग्ययशीला । स्यादिति सर्वत्र शेषः । किंच । श्वश्रूश्च श्वशुरन भरौ । 'श्वशुरः श्वश्या' इत्येकशेषः । तयोः पादवन्दनं नित्यं कुर्यात् । श्वशुरग्रहणं मान्यान्तरोपलक्षणार्थम् भर्तृतत्परा भर्तृवशवर्तिनी सती पूर्वोक्तं कुर्यात् ॥ ८३ ॥ ..... विधायुक्तम्, प्रोषिते भर्तरि तया किं कर्तव्यमित्यत माह
क्रीडा शरीरसंस्कारं समाजोत्सवदर्शनम् ।
हास्यं परगृहे यानं त्यजेत्प्रोपितमतका ॥ ८४॥ देशान्तरगतमईका क्रीडां कन्दुकादिभिः, शरीरसंस्कारमुद्वर्तनादिभिः, स. माजो जनसमूहः उसनो विवाहादिः तयोर्दर्शनं, हास्यं विजृम्भणं, परगृहे गमनम् । त्यजेदिति प्रत्येक पंबध्यते ॥ ८४ ॥
१ प्रायश्चित्तविरोधः क. २ श्रुतिचोक्विं क. ३ परिसंख्याया। तस्मानियमपरमेवेति ग. ४ बुपेयादेवानृतवपि क.
For Private And Personal Use Only
Page #57
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विवाहप्रकरणम् ३] मिताक्षरासहिता।
रक्षेत्कन्यां पिता विनां पतिः पुत्राश्च वार्धके ।
अभावे ज्ञातयस्तेषां न स्वातव्यं कचिस्त्रियाः॥ ८५॥ किंच । पाणिग्रहणात्प्राक् पिता कन्यामकार्यकरणाद्रक्षेत् । तत अवं भर्ता । तदभावे पुत्राः वृद्धभावे । तेषामुक्तानामभावे ज्ञातयः । ज्ञातीनामभावे राजा। 'पक्षद्वयावसाने तु राजा भर्ता प्रभुः स्त्रियाः' इति वचनात् । अतः कचिदपि स्त्रीणां नैव स्वातत्र्यम् ॥ ४५ ॥
पितृमातृसुतभ्रातृश्वश्रूश्वशुरमातुलैः ।
हीना न स्याद्विना भर्ना गर्हणीयान्यथा भवेत् ॥ ८६ ॥ किंच । भो विना भर्तृरहिता पित्रादिरहिता वा न स्यात् । यस्मात्तदैहिता गर्हणीया निन्द्या भवेत् । एतच्च ब्रह्मचर्यपक्षे । 'भर्तरि प्रेते ब्रह्मचर्य तदन्वारोहणं वा' इति विष्णुसरणात् । अन्वारोहणे महानभ्युदयः । तथाच व्यासः कपोतिकाख्यानव्याजेन दर्शितवान्-'पतिव्रता संप्रदीप्तं प्रविवेश हुताशनम् । तत्र चित्राङ्गदधरं भतारं सान्वपद्यत ॥ ततः स्वर्ग गतः पक्षी भार्यया सह संगतः । कर्मणा पूजितस्तत्र रेमे च सह भार्यया ॥' इति । तथाच शङ्खाशिरसौ-'तिनः कोट्योऽधकोटी च यानि लोमनि मानुषे । तावत्कालं वसेस्वर्गे भर्तारं यानुगच्छति ॥' इति प्रतिपाद्य तयोरवियोगं दर्शयतः-'ध्यालग्राही यथा सपं बलादुद्धरते बिलात् । तद्वदुद्धत्य सा नारी सह तनैव मोदते ॥ तत्र सा भर्तृपरमा स्तूयमानाऽप्सरोगणैः । क्रीडते पतिना साध यावदिन्द्रामतुर्दश॥' इति । तथा-'ब्रह्मानो वा कृतसो वा मित्रानो वा भवेपतिः। पुनात्यविधवा नारी तमादाय मृता तु या ॥ मृते भर्तरि या नारी समारोहेडुताशनम् । सारुन्धतीसमाचारा स्वर्गलोके महीयते ॥ यावच्चामो मृते पत्यो स्त्री नात्मानं प्रदाहयेत् । तावन्न मुच्यते सा हि स्त्रीशरीराकथंचन ॥' इति । हारीतोपि-'मातृकं पैतृकं चापि यत्र चैव प्रदीयते । कुलत्रयं पुनात्येषा भर्तारं यानुगच्छति ॥' इति । तथा-'मार्तेि मुदिते हृष्टा प्रोषिते मलिना कृशा । मृते म्रियेत या पत्यौ सा स्त्री ज्ञेया पतिव्रता ।' इति । अयं च सकल एव सर्वासां स्त्रीणामगर्भिणीनामबालापत्यानामाचण्डॉलं साधारणो धर्मः । भारं यानुगच्छतीत्यविशेषोपादानात् । यानि च ब्राह्मण्यनुगमननिषेधपराणि वाक्यानि-'मृतानुगमनं नास्ति ब्राह्मण्या ब्रह्मशासनात् । इतरेषु तु वर्णेषु तपः परममुच्यते ॥ जीवन्ती तद्धितं कुर्यान्मरणादात्मघातिनी । या स्त्री बाझपजातीया मृतं पतिमनुव्रजेत् ॥ सा स्वर्गमात्मघातेन नात्मानं न पति नयेत् ॥' इत्येवमादीनि तानि पृथचिंत्यधिरोहणविषयाणि । -'पृथक्
१ वित्रां परिणीतां. २ पतिः स्त्रियाः क. ३ तद्रहिता पित्रादिरहिता क. ४ प्रजितस्तेन. ५ रोमाणि. ६ वाथ मित्रनः कृतन्नो वा खः ब्रह्मनो वा मुरापोवा ग.७ अयं सवासां ख. ८ माचाण्डालानां ख. ९चित्यन्वावरण.
For Private And Personal Use Only
Page #58
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
याज्ञवल्क्यस्मृतिः ।
[आचाराध्यायः
चितिं समारुह्य न विप्रा गन्तुमर्हति' इति विशेष स्मरणात् । अनेन क्षत्रियादिस्त्रीणां पृथकचित्यभ्यनुज्ञा गम्यते । यत्तु कैश्चिदुक्तं पुरुषाणामिव स्त्रीणाम. ध्यात्महननस्य प्रतिषिद्धत्वादतिप्रवृद्धवर्गाभिलाषायाः प्रतिषेधशास्त्रमतिकामन्या अयमनुगमनोपदेशः श्येनवत् । यथा 'श्येनेनाभिचरन्यजेत' इति तीव. क्रोधाकान्तस्वान्तस्य प्रतिषेधेशास्त्रमतिकामतः श्येनोपदेश इति । तदयुक्तम् । ये तावत् श्येनकरणिकायां भावनायां भाव्यभूतहिंसायां विधिसंस्पर्शाभावेन प्रतिषेधसंस्पर्शात्फलद्वारेण श्येनस्थानर्थतां वर्णयन्ति तेषां मते हिंसाया एवं स्वर्गार्थतया अनुगमनशास्त्रेण विधीयमानत्वाप्रतिषेधसंस्पर्शाभावादग्नीषोमीयव. स्पष्टमेवानुगमनस्य श्येनवैषम्यम् । यत्तु मतं हिंसानाम मरणानुकूलो व्यापारः, श्येनश्च परमरणानुकूलव्यापाररूपत्वाद्धिसैव, कामाधिकारे च करणांशे रागतः प्रवृत्तिसंभवेन विधेरप्रवर्तकत्वात् । रागप्रयुक्तहिंसारूपत्वात् श्येनः प्रतिषिद्धः स्वरूपेणैवानर्थकर इति, तत्राप्यनुगमनशास्त्रेण मरणस्यैव स्वर्गसाधनतया विधानान्मरणे यद्यपि रागतः प्रवृत्तिस्तस्थापि मरणानुकूले व्यापारेऽग्निप्रवेशादावितिकर्तव्यतारूपे विधित एवं प्रवृत्तिरिति न निषेधस्थावकाशः 'वायव्यं श्वेतमालभेत भूतिकामः' इतिवत् तस्मात्स्पष्टमेवानुगमनस्य श्येनवैषम्यम् । यत्तु तस्मादुह न पुरायुषः स्वःकामी प्रेयात्' इति श्रुतिविरोधादनुगमनमयुक्तमिति । यच्च 'तदुह न स्वःकाम्यायुषः प्राङ् न प्रेयात्' इति स्वर्गफलोद्देशेनायुषः प्रागायुर्व्ययो न कर्तव्यो मोक्षार्थिना, यस्मादायुषः शेषे सति नित्यनैमित्तिककर्मानुष्ठानापितान्तःकरणकलङ्कस्य श्रवणमनन निदिध्यासनसंपत्तौ सत्यमात्मज्ञानेन निरतिशयानम्दब्रह्मप्राप्तिलक्षणमोक्षसंभवः । तस्मादनित्यापसुखरूपस्वार्थमायुययो न कर्तव्य इत्यर्थः । अतश्च मोक्षमनिच्छन्त्या अनित्यापसुखरूपवर्गार्थिन्या अनुगमनं युक्तमितरकाम्यानुष्ठानवदिति सर्वमनवधम् ॥ ८६ ॥
पतिप्रियहिते युक्ता वाचारा विजितेन्द्रिया ।
सेह कीर्तिमवाप्नोति प्रेत्य चानुत्तमां गतिम् ॥ ८७॥ किंच । प्रियमनवद्यत्वेन मनसोऽनुकूलम्, आयत्यां यच्छ्रेयस्करं तद्धितं । प्रियं च तद्धितं च प्रियहितं । पत्युः प्रियहितं पतिप्रियहितं तस्मिन् युक्ता निरता । स्वाचारा शोभन आचारो यस्याः सा तथोक्ता । शोभनश्चाचारो दर्शितः शङ्खन-'नानुक्त्वा गृहानिर्गच्छेशानुत्तरीया न त्वरितं ब्रजेन परपुरुषममिभाबेतान्यत्र वणिक्प्रव्रजितवृद्धवैयेभ्यो न नाभिं दर्शयेदागुल्फाद्वासः परिदध्यान खनौ विवृतौ कुर्यान हसेदप्रावृता भर्तारं तद्वन्धून्वा न द्विष्यान गणिकाधूर्ता भिसारिणीप्रव्रजिताप्रेक्षणिकामायामूलकुहककारिकादुःशीलादिभिः सहैकत्र तिष्ठेसंसर्गेण हि कुलस्त्रीणां चारित्रं दुष्यति' इति । विजितेन्द्रिया विजितानि संयमितानि इन्द्रियाणि श्रोन्नादीनि वागादीनि च मनःसहितानि यया सी इह
. १ विशेषोपादानात् क. २ प्रतिषिद्धशास्त्र. ग. ३ कर्तव्यतानुरूपं. ख. ४ स्वर्गकामः. ५ प्रेयादिति ख. ६ क्षालितान्तःकरणं. ख. ७ हि चरित्रं क.८ सा तथोक्ता इह क..
For Private And Personal Use Only
Page #59
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वर्णजातिविवेकप्र० ४] मिताक्षरासहिता । लोके कीर्ति प्रख्याति परलोके चोत्तमां गतिं प्राप्नोति । अयंच सकल एव स्त्रीधर्मों विवाहादूर्ध्व वेदितव्यः । 'प्रागुपनयनारकामचारकामवादकामभक्षाः' इति स्मरणात् । 'वैवाहिको विधिः स्त्रीणामौपनायनिकः स्मृतः' इति च ॥ ८७ ॥ - अनेकभार्य प्रत्याह
सत्यामन्यां सवर्णायां धर्मकार्य न कारयेत् ।
सवर्णासु विधौ धर्ये ज्येष्ठया न विनेतरा ॥ ८८ ॥ सवर्णायां सत्यामन्यामसवर्णा नैव धर्मकार्य कारयेत् । सवर्णास्वपि बह्वीषु भर्षे विधौ धर्मानुष्ठाने ज्येष्ठया विना ज्येष्ठां मुक्त्वा इतरा मध्यमा कनिष्ठा वा बनियोक्तव्या ॥ ८॥ प्रमीतपतिकाया विधिमुक्त्वा इदानीं प्रमीतभार्य प्रत्याह
दाहयित्वाग्निहोत्रेण स्त्रियं वृत्तवतीं पतिः । - आहरेद्विधिवदाराननींश्चैवाविलम्बयन् ॥ ८९॥ पूर्वोक्तवृत्तवतीं आचारवती विनां स्त्रियमग्निहोत्रेण श्रौतेनाग्निना तदभावे मार्तेन दाहयित्वा पतिः भर्ता अनुत्पादितपुत्रोऽनिष्टयज्ञो वा आश्रमान्तरेष्वनधिकृतो वा रूयन्तराभावे पुनरान् अग्नीश्च विधिवदाहरेत् । अविलम्बयन शीघ्रमेव ।-'अनाश्रमी न तिष्ठेत दिनमेकमपि द्विजः' इति दक्षमरणात् । एतत्वाधानेन सहाधिकृताया एव नान्यस्या । यत्त-'द्वितीयां चैव यो भायाँ दहेछैतानिकाग्निभिः । जीवन्त्यां प्रथमायां हि सुरापानसमं हि तत् ॥' इति । तथा-'मृतायां तु द्वितीयायां योऽग्निहोत्रं समुरसृजेत् । ब्रह्मघ्नं तं विजानीयाचश्व कामात्समुत्सृजेत् ॥' इत्येवमादि, तदाधानेन सहानधिकृताया अनिदाने वेदितव्यम् ॥ ८९॥
इति विवाहप्रकरणम् ।
. अथ वर्णजातिविवेकप्रकरणम् ४ ब्राह्मणस्य चतस्रो भार्या भवन्ति क्षत्रियस्य तिस्रो वैश्यस्य द्वे शूद्रस्यैकेयुक्रवा, तासु च पुत्रा उत्पादयितव्या इत्युक्तम् । इदानी कस्यां कस्मात् कः पुत्रो भवतीति विवेक्तुमाह
सवर्णेभ्यः सवर्णासु जायन्ते हि सजातयः ।
अनिन्द्येषु विवाहेषु पुत्राः संतानवर्धनाः ॥९०॥ - सवर्णेभ्यो ब्राह्मणादिभ्यः सवर्णासु ब्राह्मण्यादिषु सजातयो मातृपितृसमानजातीयाः पुत्रा भवन्ति । 'विनास्वेष विधिः स्मृतः' इति सर्वशेषत्वेनोपसंहारा
१ विधवायाः. २ विधुरं प्रति. ३ मृतां. ४ विवेकमाह. ख.
For Private And Personal Use Only
Page #60
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८
याज्ञवल्क्यस्मृतिः ।
[ आचाराध्यायः
द्विनासु सवर्णाविति संबध्यते । विनाशब्दस्य संबन्धिशब्दस्वाद्वेतेभ्यः सवर्णेभ्य इति लभ्यते । एकः सवर्णशब्दः स्पष्टार्थः । अतश्चायमर्थः संवृत्तः । उक्तेन विधिनोढायां सवर्णायां वोढुः सवर्णादुत्पन्नास्तस्मात्समानजातीया भवन्ति । अतश्च कुण्डगोलककानीन सहोढं जादीनाम सवर्णस्वमुक्तं भवति । ते च सवर्णेभ्योऽनुलोम प्रतिलोमेभ्यश्च मिद्यमानाः साधारणधर्मै हिंसादिभिरधिक्रियन्ते ।'शूद्राणां तु सधर्माणः सर्वेऽपध्वंसजाः स्मृताः' इति स्मरणात् । अपध्वंसजा व्यभिचारजाताः शूद्रधर्मैरपि द्विशुश्रूषादिभिरधिक्रियन्ते । ननु कुण्डगोलक - योरब्राह्मणत्वात् श्राद्धे प्रतिषेधोऽनुपपन्नः न्यायविरोधश्च । यो यज्जातीयाचज्जातीयायामुत्पन्नः स तज्जातीय एव भवति - यथा गोर्गवि गौः, अश्वाद्वडवायामश्वः । तस्माद्ब्राह्मणाद्ब्राह्मण्यामुत्पन्नो ब्राह्मण इति न विरुद्धम् । तथा कानीमपौनर्भवादीननुक्रम्य - 'सजातीयेष्वयं प्रोक्तस्तनयेषु मया विधि:, इति वक्ष्यमाणवचनविरोधश्च । नैतत्सारम् । ब्राह्मणेन ब्राह्मण्यामुत्पन्नो ब्राह्मण इति भ्रमनिवृत्यर्थः श्राद्धे प्रतिषेधः । यथाऽत्यन्तमप्राप्तस्य पतितस्य श्राद्धे प्रतिषेधः । नच न्यायविरोधः । यत्र प्रत्यक्षगम्या जातिर्भवति तत्र तथा । ब्राह्मणादिजातिस्तु स्मृतिलक्षणा यथास्मरणं भवति । यथा समानेऽपि ब्राह्मण्ये कुण्डिनो वसिष्ठोsत्रिगौतम इति स्मरणलक्षणं गोत्रम्, तथा मनुष्यत्वे समानेऽपि ब्राह्मण्यादिजातिः स्मरणलक्षणा । मातापित्रोश्चैतदेव जातिलक्षणम् । नचानवस्था । अनादित्वात्संसारस्य शब्दार्थव्यवहारवत् । 'सजातीयेष्वयं प्रोक्तस्तनयेषु मया विधिः ' इति तुक्तानुवादत्वाद्यथासंभवं व्याख्यास्यते । क्षेत्रजस्तु मातृसमानजातीयो नियोगस्मरणात् शिष्टसमाचाराच्च । यथा धृतराष्ट्रपाण्डुविदुराः क्षेत्रजाः सन्तो मातृसमानजातीया इत्यलमतिप्रसङ्गेन । किंचानिन्येषु ब्राह्मादिविवाहेषु पुत्राः सन्तानवर्धना अरोगिणो दीर्घायुषो धर्मप्रजा संपन्ना भवन्ति ॥ ९० ॥
}
सवर्णानुक्त्वा इदानीमनुलोमानाह
विप्रान्मूर्धावसिक्तो हि क्षत्रियायां विशः स्त्रियाम् । अम्बष्ठः शूद्र्यां निषादो जातः पारशवोऽपि वा ॥ ९१ ॥
ब्राह्मणात्क्षत्रियायां विनायामुत्पन्नो मूर्धावसिको नाम पुत्रो भवति । वैश्यकन्यायां विनीयामुत्पन्नोऽम्बष्ठो नाम भवति । शूद्रायां विज्ञायां निषादो नाम पुत्रो भवति । निषादो नाम कश्चिन्मत्स्यघातजीवी प्रतिलोमजः स माभूदिति पारशवोऽयं निषाद इति संज्ञा विकल्पः । विप्रादिति सर्वत्रानुवर्तते । यत्तु 'ब्राह्मन क्षत्रियायामुत्पादितः क्षत्रिय एव भवति । क्षत्रियेण वैश्यायामुत्पादितो वैश्य एव भवति । वैश्येन शूद्रायामुत्पादितः शूद्र एव भवति' इति शङ्ख
1
१ वोदुभ्यः. क. २ सहोढादीनां. क. ३ अब्राह्मणत्वे. ख. ४ इति वचन. ख. ५ वसिष्ठोगोतम. ख. ६ विन्नायामम्बष्ठो. ख. ७ शूद्रायां निषादो ख. ८ शूद्र इति क.
For Private And Personal Use Only
Page #61
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वर्णजातिविवेकप्र० ४] मिताक्षरासहिता।
२९
मरणं तत्क्षत्रियादिधर्मप्राप्त्यर्थ न पुनर्मूर्धावसिक्तादिजातिनिराकरणाथै क्षत्रियादिजातिप्रात्यर्थ वा। अतश्च मूर्धावसिक्कादीनां क्षत्रियादेरुक्तैरेव दण्डाजिनोपवीतादिभिरुपनयनादिकं कार्यम् । प्रागुपनयनास्कामचारादि पूर्ववदेव वेदितव्यम् ॥ ९ ॥
वैश्याशूद्योस्तु राजन्यान्माहिष्योग्रौ सुतौ स्मृतौ।
वैश्यात्तु करणः शूद्या विनाखेष विधिः स्मृतः ॥ ९२॥ वैश्यायां शूद्रायां च विज्ञायां राजन्यान्माहिष्योग्रौ यथाक्रमं पुत्रौ भवतः । वैश्येन शूदायां विनायां करणो नाम पुत्रो भवति । एष सवर्णमूर्धावसिक्तादिसंज्ञाविधिः विनासूढासु स्मृत उक्तो वेदितव्यः । एते च मूर्धावसिक्ता-म्बष्टनिषाद-माहिष्यो-प्र-करणाः षडनुलोमजाः पुत्रा वेदितव्याः ॥ १२ ॥ प्रतिलोमजानाह
ब्रामण्यां क्षत्रियात्सूतो वैश्यावदेहकस्तथा।
शूद्राजातस्तु चण्डालः सर्वधर्मबहिष्कृतः ॥९३ ॥ माझण्यां क्षत्रियवैश्यशूद्वैरुत्पादिता तथाक्रम सूत-वैदेहक-चण्डालाख्याः पुत्रा भवन्ति । तत्र चण्डालः सर्वधर्मबहिष्कृतः ॥ ९३ ॥
क्षत्रिया माग, वैश्याच्छूद्राक्षत्तारमेव च । .. शूद्रादायोगवं वैश्या जनयामास वै सुतम् ॥ ९४ ॥
किच । क्षत्रिया योषित वैश्यान्मागधं नाम पुत्रं जनयति । सैव शूद्राक्षतारं पुत्रं जानयति । वैश्ययोषिच्छूद्रादायोगवं पुत्रं जनयति । एते च सूतवैदेहक-चण्डाल-मागध-क्षमा-ऽयोगवाः षट् प्रतिलोमजाः । एतेषां च वृत्तय औशनसे मानवे च द्रष्टव्याः ॥ ९४ ॥ संकीर्णसंकरजात्यन्तरमाह
माहिष्येण करण्यां तु रथकारः प्रजायते ।
असत्सन्तस्तु विज्ञेयाः प्रतिलोमानुलोमजाः ॥९५॥ क्षत्रियेण वैश्यायामुपादितो माहिष्यः । वैश्येन शूदायामुत्पादिता करणी तस्यां माहियेणोत्पादितो रथकारो नाम जात्या भवति । तस्य चोपनयनादि सर्व कार्य वचनात् । यथाह शङ्क:-क्षत्रियवैश्यानुलोमान्तरोत्पन्नो यो रथकारखस्सेज्यादानोपनयनसंस्कारक्रिया अश्वप्रतिष्ठारथसूत्रवास्तुविद्याध्ययनवृत्तिता च' इति । एवं ब्राह्मणक्षत्रियोत्पमसुर्धावसिक्तमाहिष्यादनुलोमसंकरे जात्यन्तरता उपनयनादिप्राप्तिश्च वेदितव्या, तयोर्द्विजातित्वात् । संज्ञास्तु स्मृत्यन्तरोक्ता द्रष्टव्याः । एतच्च प्रदर्शनमात्रमुक्तम् । संकीर्णसंकरजातीनामानन्त्याद्वक्तु
१ रोत्पन्नजो ख. २ द्विजत्वात् क. ३ जातानां क. ग.
For Private And Personal Use Only
Page #62
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
याज्ञवल्क्यस्मृतिः। [आचाराध्यायः मशक्यत्वात् । अत एतावदन विवक्षितं-असन्तः प्रतिलोमजाः सन्तश्चानुलोमजा ज्ञातव्या इति ॥ ९५॥
सवर्णेभ्यः सवर्णासु जायन्त इत्यादिना वर्णप्राप्ती कारणमुक्तम्' इदानी कारणान्तरमाह
जात्युत्कर्षो युगे ज्ञेयः सप्तमे पञ्चमेऽपि वा।
व्यत्यये कर्मणां साम्यं पूर्ववच्चाधरोत्तरम् ॥ ९६ ॥ जातयो मूर्धावसिक्ताथास्तासामुत्कर्षों ब्राह्मणत्वादिजातिप्राप्तिर्जात्युस्कर्षों युगे जन्मनि सप्तमे पञ्चमे अपिशब्दाषष्ठे वा बोद्धव्यः । व्यवस्थितश्चायं विकल्पः । व्यवस्था च-ब्राह्मणेन शूद्रायामुत्पादिता निषादी, सा ब्राह्मणेनोढा दुहितरं कांचिजनयति, सापि ब्राह्मणेनोढान्यां जनयतीत्यनेन प्रकारेण षष्ठी सप्तमं ब्राह्मणं जनयति । ब्राह्मणेन वैश्या यामुत्पादिता अम्बष्ठा । साप्यनेन प्रकारेण पञ्चमी षष्ठं ब्राह्मणं जनयति । मूर्धावसिक्काप्यनेन प्रकारेण चतुर्थी पञ्चमं ब्राह्मणमेव जनयति । एवमुना क्षत्रियेणोढा माहिष्या च यथाक्रमं षष्ठं पञ्चमं च क्षत्रियं जनयति । तथा करणी वैश्योढा पञ्चमं वैश्यामित्येवमन्यत्राप्यूहनीयम् । किंच कर्मणां व्यत्यये वृत्त्यर्थानां कर्मणां विपर्यासे यथा ब्राह्मणो मुख्यया वृत्या अजीवन् क्षात्रेण कर्मणा जीवेदित्यनुकल्पः । तेनाप्यजीवन वैश्यवृत्त्या तयाप्यजीवन् शूद्रवृत्या । क्षत्रियोऽपि स्वकर्मणा जीवनार्थेनाजीवन् वैश्यवृत्या शुद्धवृत्या वा । वैश्योपि स्ववृत्त्या अजीवन् शूदवृत्त्येति कर्मणां व्यत्ययः। तस्मिन्व्यत्यये सति यद्यापद्विमोक्षेऽपि तां वृतिं न परित्यजति तदा सप्तमे षष्ठे पञ्चमे वा जन्मनि साम्यं यस्य हीनवर्णस्य कर्मणा जीवति तत्समानजातित्वं भवति । तद्यथा। ब्राह्मणः शूद्रवृत्या जीवस्तामपरित्यजन् यदि पुत्रमुत्पादयति सोपि तयैव वृत्त्या जीवनपुत्रान्तरमित्येवं परम्परया सप्तमे जन्मनि शूद्रमेव जनयति । वैश्यवृत्त्या जीवन षष्ठे वैश्यम् । क्षत्रियवृत्या जीवन् पञ्चमे क्षत्रियम् । क्षत्रियोऽपि शूद्भवृत्त्या जीवन् षष्ठे शूद्रम् । वैश्यवृत्या जीवन् पञ्चमे वैश्यम् । वैश्योऽपि शूद्रवृपया जीवंस्तामपरित्यजन्पुत्रपरम्परया पञ्चमे जन्मनि शूद्रं जनयतीति । पूर्ववचाधरोत्तरम् । अस्यार्थः-वर्णसंकरे अनुलोमजाः प्रतिलोमजाश्च दर्शिताः। संकीर्णसंकरजाताश्च रथकारनिदर्शनेन दर्शिताः । इदानीं वर्णसंकीर्णसंकरजाताः प्रदर्श्यन्ते । अधरे च उत्तरे च अधरोत्तरं यथा मूर्धावसिक्तायां क्षत्रियवैश्यशूद्वैरुत्पादितस्तथाम्बष्ठायां वैश्यशूद्राभ्यां निषायां शूद्रेणोस्पादिता अधराः प्रतिलोमजास्तथा मूर्धावसिक्ताम्बष्ठानिषादीषु ब्राह्मणेनोत्पादिताः, माहिष्योग्रयोाह्मणेन क्षत्रियेण चोत्पादिताः, करण्यां ब्राह्मणेन
- १ पञ्चमे सप्तमेपि ख. २ सप्तमं क. ३ ब्राह्मणवृत्त्या ग. ४ पञ्चमे षष्ठे सप्तमे ख. ५ पुनरप्येवं ख. ६ वर्णसंकरजाताः ख.
For Private And Personal Use Only
Page #63
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गृहस्थधर्मप्रकरणम् ५] मिताक्षसद्धिता क्षत्रियेण वैश्येन चोत्पादिताः उत्तरे अनुलोमजाः । एवमन्यत्राप्यूहनीयम् । एतदधरोत्तरं पूर्ववदसत्सदिति बोद्धव्यम् ॥ ९६ ॥
इति वर्णजातिविवेकप्रकरणम् ।
अथ गृहस्थधर्मप्रकरणम् ५ श्रौतस्मार्तानि कर्माणि अग्निसाध्यानि दर्शयिष्यन् कस्मिन्नग्नौ किं कर्तव्यमित्याह. कर्म स्मात विवाहानौ कुर्वीत प्रत्यहं गृही।
दायकालाहते वापि श्रौतं वैतानिकाग्निषु ॥ ९७॥ स्मृत्युक्तं वैश्वदेवादिकं कर्म लौकिकं च यत्प्रतिदिनं पाकलक्षणं तदपि गृहस्थो विवाहानौ विवाहसंस्कृते कुर्वीत । दायकाले विभागकाल आहृते वा 'वैश्यकुलादग्निमानीय' इत्यादिनोक्तसंस्कारसंस्कृते । अपिशब्दात्प्रेते वा गृहपतावाहृते संस्कृते एव । ततश्च कालत्रयातिक्रमे प्रायश्चित्तीयते । श्रुत्युक्तमग्निहोत्रादिकं कर्म वैतानिकाग्निषु आहवनीयादिषु कुर्वीत ॥ ९७ ॥ . गृहस्थधर्मानाह
शरीरचिन्तां निवर्त्य कृतशौचविधिर्द्विजः।
प्रातःसंध्यामुपासीत दन्तधावनपूर्वकम् ॥ ९८॥ शरीरचिन्तामावश्यकादिकां 'दिवासंध्यासु कर्णस्थब्रह्मसूत्र उदङ्मुखः' इत्यायुक्तविधिना निवर्त्य 'गन्धलेपक्षयकरम्' इत्यादिनोक्तेन विधिना कृतशौचविधिर्द्विजः दन्तधावनपूर्वकं प्रातःसंध्यामुपासीत । दन्तधावनविधिश्च-'कण्टकिक्षीरवृक्षोत्थं द्वादशाङ्गुलसंमितम् । कनिष्ठिकाग्रवत्स्थूलं पर्वार्धकृतकूर्चकम् ॥ दन्तधावनमुद्दिष्टं जिह्वोल्लेखनिका तथा ॥' इति । अत्र वृक्षोत्थमित्यनेन तृणलोष्टाङ्गुल्यादि निषेधः । पलाशाश्वत्थादिनिषेधश्च स्मृत्यन्तरोक्तो द्रष्टव्यः। दन्तधावनमन्त्रश्च-'आयुर्बलं यशो वर्चः प्रजाः पशुवसूनि च । ब्रह्म प्रज्ञां च मेधां च त्वं नो धेहि वनस्पते ॥' इति । ब्रह्मचारिप्रकरणोक्तस्यापि संध्यावन्दनस्य पुनर्वचनं दन्तधावनपूर्वकत्वप्रतिपादनार्थम् , दन्तधावननृत्यगीतादि ब्रह्मचारी वर्जयेदिति तनिषेधात् ॥ ९८ ॥
हुखाग्नीन्सूर्यदैवत्यान्जपेन्मन्त्रान्समाहितः।
वेदार्थानधिगच्छेच्च शास्त्राणि विविधानि च ॥ ९९ ॥ प्रातःसंध्यावन्दनानन्तरं अग्नीनाहवनीयादीन् यथोक्तेन विधिना हुत्वा और १ अहृत आहितः, २ तिक्रमेण प्राय. ग. ३ आवश्यकां दिवा. क. ४ नो देहि ग.
या०६
For Private And Personal Use Only
Page #64
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३२
याज्ञवल्क्यस्मृतिः ।
[ आचाराध्यायः
पासनानिं वा । तदनन्तरं सूर्यदैवत्यान् 'उदुत्यं जातवेदसम्' इत्यादीन्मन्त्रान्जपेत् । समाहितोऽविक्षिप्तचित्तः । तदनन्तरं वेदार्थान्निरुक्तव्याकरणादींश्च श्रवणेनाधिगच्छेज्जानीयात् । चकारादधीतं चाभ्यसेत् । विविधानि च शास्त्राणि मीमांसाप्रभृतीनि धर्मार्थांरोग्यप्रतिपादकान्यधिगच्छेत् ॥ ९९ ॥
उपेयादीश्वरं चैव योगक्षेमार्थसिद्धये ।
स्नात्वा देवान्पिचैव तर्पयेदर्चयेत्तथा ॥ १०० ॥
तदनन्तरमीश्वरमभिषेकादिगुणयुक्तमन्यं वा श्रीमन्तमकुत्सितं योगक्षेमार्थसिद्धये । अलब्धलाभो योगः लब्धपरिपालनं क्षेमे तदर्थमुपेयादुपासीत । उपेयादित्यनेन सेवां प्रतिषेधति । वेतनग्रहणेनाज्ञाकरणं सेवा । तस्याः श्ववृत्तित्वेन निषेधात्, ('सेवा श्ववृत्तिराख्याता तस्मात्तां परिवर्जयेत्' इति मनुस्मरणात् ) । ततो मध्याह्ने शास्त्रोक्तविधिना नद्यादिषु स्नात्वा देवान्स्वगृह्येोक्तान् पितॄंश्च चकारादृषींश्च देवादितीर्थेन तर्पयेत् । तदनन्तरं गन्धपुष्पाक्षतैः हरिहर हिरण्यगर्भप्रभृतीनामन्यतमं यथावासनमृग्यजुः साममन्त्रैस्तत्प्रकाशकैः स्वनामभिर्वा चतुर्थ्यन्तैर्नमस्कारयुक्तैराराधयेद्यथोक्तविधिना ॥ १०० ॥
वेदाथर्वपुराणानि सेतिहासानि शक्तितः ।
जपयज्ञप्रसिद्ध्यर्थं विद्यां चाध्यात्मिकीं जपेत् ॥ १०१ ॥
तदनन्तरं वेदाथर्वेतिहासपुराणानि समस्तानि व्यस्तानि वा । आध्यात्मिकीं च विद्यां जपयज्ञसिद्ध्यर्थं यथोक्तेन विधिना यथाशक्ति जपेत् ॥ १०१ ॥ • बलिकर्मस्वधाहोमस्वाध्यायातिथिसत्क्रियाः । भूतपित्रमरत्रह्ममनुष्याणां महामखाः ॥ १०२ ॥
बलिकर्म भूतयज्ञः । स्वधा पितृयज्ञः । होमो देवयज्ञः । स्वाध्यायो ब्रह्मयज्ञः । अतिथिसत्क्रिया मनुष्ययज्ञः । एते पञ्च महायज्ञा अहरहः कर्तव्याः नित्यत्वात् । यत्पुनरेषां फलश्रवणं तदेषां पावनत्वख्यापनार्थे न काम्यत्वप्रतिपादनाय ॥ १०२ ॥
देवेभ्यश्च हुतादन्नाच्छेषाद्भूतबलिं हरेत् ।
अन्नं भूमौ श्वचाण्डालवायसेभ्यश्च निक्षिपेत् ॥
१०३ ॥ स्वगृह्येोक्तविधिना वैश्वदेवैहोमं कृत्वा तदवशिष्टेनान्नेन भूतेभ्यो बलिं हरेत् । अन्नग्रहणमपक्वन्युदासार्थम् । तदनन्तरं यथाशक्ति भूमावन्नं श्वचाण्डालवायसेभ्यो निक्षिपेत् । चशब्दात्कृमिपापरोगिपतितेभ्यः । यथाह मनुः ( ३।९२ ) - 'शुनां च पतितानां च श्वपचां पापरोगिणाम् । वायसानां कृ
· १ करणादिश्रवणेनाधि. ख. २ क्षेमस्तदर्थं ग. ३ सेवेत्याद्यधिकं क. ग. पुस्तकयोः ४ थर्व पुराणेतिहासादीनि कृत्वा क ५ वैश्वदेवं कृत्वा क•
For Private And Personal Use Only
Page #65
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गृहस्थधर्मप्रकरणम् ५ ] मिताक्षरासहिता ।
३३
मीणां च शनकैर्निक्षिपेद्भुवि ॥' इति । एतच्च सायंप्रातः कर्तव्यम् । 'अथ सायंप्रातः सिद्धस्य हविष्यस्य जुहुयात्' इत्याश्वलायनस्मरणात् । इह केचिद्वैश्वदेवाख्यस्य कर्मणः पुरुषार्थत्वमन्नसंस्कारकर्मत्वं चेच्छन्ति - 'अथ सायंप्रातः सिद्धस्य हविष्यस्य जुहुयादित्यन्नसंस्कारकर्मकता प्रतीयते । 'अथातः पञ्च महायज्ञाः ' इत्युपक्रम्य 'तानेतान्यज्ञानहरहः कुर्वीते 'ति नित्यत्वाभिधानात्पुरुषार्थत्वं चावगम्यते' इति । तदयुक्तम् । पुरुषार्थत्वेन संस्कार कर्मत्वानुपपत्तेः । तथाहि । द्रव्यसंस्कारकर्मस्वपक्षेनार्थता वैश्वदेवकर्मणः, पुरुषार्थत्वे वैश्वदेवकर्मार्थता द्रव्यस्येति परस्परविरोधात्पुरुषार्थत्वमेव युक्तम् । - 'महायज्ञैश्व यज्ञैश्च ब्राह्मीयं क्रियते तनुः' इति । तथा- - 'वैश्वदेवे तु निर्वृत्ते यद्यन्योऽतिथिराव्रजेत् । तस्मा अन्नं यथाशक्ति प्रदद्यान्न बालें हरेत् ॥' इति ( ३|१०८ ) मनुस्मरणात् । पुरुषार्थत्वे वैश्वदेवाख्यं कर्म न प्रतिपाकमावर्तनीयम् । तस्मादथ सायंप्रातरित्यादिनोत्पत्ति प्रयोगौ दर्शितौ, ' तानेतान्यज्ञानहरहः कुर्वीते' त्यधिकारविधिरिति सर्वमनवद्यम् ॥ १०३ ॥
अनं पितृमनुष्येभ्यो देयमप्यन्वहं जलम् ।
स्वाध्यायं सततं कुर्यान्न पचेदन्नमात्मने ॥ १०४ ॥
प्रत्यहमन्नं पितृभ्यो मनुष्येभ्यश्च यथाशक्ति देयम् । अन्नाभावे कन्दमूलफलादि । तस्याप्यभावे जलं देयं अपिशब्दात् । स्वाध्यायं सततं कुर्यादविस्मरणाथैम् । न पचेदन्नमात्मार्थम् | अन्नग्रहणं सकलादनीयद्रव्यप्रदर्शनार्थम् । कथं तर्हि । देवताद्युद्देशेनैव ॥ १०४ ॥
बालस्ववासिनीवृद्धगर्भिण्यातुरकन्यकाः ।
संभोज्यातिथिभृत्यांश्च दम्पत्योः शेषभोजनम् ॥ १०५ ॥ परिणीता पितृगृहे स्थिता स्ववासिनी । शेषाः प्रसिद्धाः । बालादीनतिथिभृं त्यांश्च संभोज्य भोजयित्वा दम्पत्योः शेषभोजनं कर्तव्यम् । 'प्राणानिहोत्र विधिनाभीयादन्नमनापदि । मतं विपक्कं विहितं भक्षणं प्रीतिपूर्वकम् ॥' ॥ १०५ ॥ आपोशनेनोपरिष्टादधस्तादश्नता तथा ।
अनग्नममृतं चैव कार्यमन्नं द्विजन्मना ॥ १०६ ॥
भुञ्जानेन द्विजन्मना उपरिष्टादधस्ताच्चापोशनाख्येन कर्मणान्नमनन्नममृतं च कार्यम् । द्विजन्मग्रहणमुपनयनप्रभृति सर्वाश्रमसाधारणम् ॥ १०६ ॥ अतिथित्वेन वर्णानां देयं शक्त्यानुपूर्वशः ।
अप्रणोद्योऽतिथिः सायमपि वाग्भूतृणोदकैः ॥ १०७ ॥ वैश्वदेवानन्तरं वर्णानां ब्राह्मणादीनामतिथित्वेन युगपत्प्राप्तानां ब्राह्मणाद्यानुपूर्येण यथाशक्ति देयम् । सायंकालेऽपि यद्यतिथिरागच्छति तदासावप्रणोद्यो
१ एतेन काम्यत्वमपि प्रतिपादितं भवति. २ चान्वहं कुर्यात् ख. ३ प्राणेत्याद्यधिकं क. पुस्तके.
For Private And Personal Use Only
Page #66
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३४
याज्ञवल्क्यस्मृतिः ।
[ आचाराध्यायः
प्रत्याख्येय एव । यद्यप्यदनीयं किमपि नास्ति तथापि वाग्भूतृणोदकैरपि सत्कारं कुर्यात् । यथाह मनुः (४/१०१ ) - 'तृणानि भूमिरुदकं वाक्चतुर्थी च सूनृता । एतान्यपि सतां गेहे नोच्छिद्यन्ते कदाचन ॥' इति ॥ १०७ ॥
सत्कृत्य भिक्षवे भिक्षा दातव्या सुव्रताय च । भोजयेच्चागतान्काले सखिसंबन्धिबान्धवान् ॥ १०८ ॥
भिक्षवे सामान्येन भिक्षा दातव्यां । सुव्रताय ब्रह्मचारिणे यतये च सत्कृत्य स्वस्तिवाच्य भिक्षादानमपूर्वमित्यनेन विधिना भिक्षा दातव्या । भिक्षा च ग्राससंमिता । ग्रासश्च मयूराण्डपरिमाणः । - ' ग्रासमात्रा भवेद्भिक्षा पुष्कलं तच्चतुगुणम् । हंतस्तु तैश्चतुर्भिः स्यादग्रं तत्रिगुणं भवेत् ॥' इति शातातपस्मरणात् । भोजनकाले चागतान्सखिसंबन्धिबान्धवान्भोजयेत् । सखायो मित्राणि । संबन्धिनो येभ्यः कन्या गृहीता दत्ता वा । मातृपितृसंबन्धिनो बान्धवाः ॥ १०८॥
I
महोक्षं वा महाजं वा श्रोत्रियायोपकल्पयेत् ।
सत्क्रियाऽन्वासनं स्वादु भोजनं सूनृतं वचः ॥ १०९ ॥
महान्तमुक्षाणं धौरेयं महाजं वा श्रोत्रियायोक्तलक्षणायोपकल्पयेत् भवदर्थमयमस्माभिः परिकल्पित इति तत्प्रीत्यर्थे नतु दानाय व्यापादनाय वा । यथा सर्वमेतद्भवदीयमिति । प्रतिश्रोत्रियमुक्षासंभवात् । 'अस्वर्ग्य लोकविद्विष्टं धर्म्यमप्याचरेन्नतु' इति निषेधाच्च । तस्मात्सत्क्रिया ह्येव कर्तव्या । सत्क्रिया स्वागतवचनासनपाद्यार्थ्याचमनादिदानम् । तस्मिन्नुपविष्टे पश्चादुपवेशनमन्वासनम् । स्वादु भोजनं मिष्टमशनम् । सूनृतं वचः धन्या वयमद्य भवदागमनादित्येवमादि । अश्रोत्रिये पुनः 'अश्रोत्रियस्योदकासने' इति गोतमोक्तं वेदितव्यम् ॥ १०९ ॥
प्रतिसंवत्सरं वर्ध्याः स्नातकाचार्यपार्थिवाः ।
प्रियो विवाद्यश्च तथा यज्ञं प्रत्यृत्विजः पुनः ॥ ११० ॥
स्वातको विद्यास्नातक; व्रतस्नातकः विद्याव्रतस्नातकः इति । ( समाप्य वेदमस - माध्य व्रतं यः समावर्तते स विद्यास्नातकः । समाप्य व्रतमसमाप्य वेदं यः समावर्तते स व्रतस्नातकः । उभयं समाप्य यः समावर्तते स विद्याव्रतस्नातकः 1 ) आचार्य उक्तलक्षणः । पार्थिवो वक्ष्यमाणलक्षणः । प्रियो मित्रम् । विवाह्यो जामाता । चकाराच्वशुरपितृव्यमातुलादीनां ग्रहणम् । 'ऋत्विजो वृत्वा मधुपर्कमाहरेस्नातकायोपस्थिताय राज्ञे चाचार्याय च श्वशुरपितृव्यमातुलानां च' इत्याश्वलायनस्मरणात् । एते स्नातकादयः प्रतिसंवत्सरं गृहमागता अर्ध्याः मधुपर्केण
१ यथाहेत्यादि मनुवचनं क. ग. नैवास्ति २ संबद्धा बान्धवाः क. ३ याद्येव कर्त्तव्यं ग. ५ धनुश्चिह्नगो भागः क. ग. नास्ति.
For Private And Personal Use Only
Page #67
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गृहस्थधर्मप्रकरणम् ५] मिताक्षरासहिता। संपूज्या वन्दितव्याः । अर्घशब्दो मधुपर्क लक्षयति । ऋत्विजश्वोक्तलक्षणाः संवत्सरादयंगपि प्रतियज्ञं मधुपर्केण संपूज्याः ॥ ११ ॥ ___ अध्वनीनोऽतिथिज्ञेयः श्रोत्रियो वेदपारगः।
मान्यावेतौ गृहस्थस्य ब्रह्मलोकमभीप्सतः ॥१११॥ अध्वनि वर्तमानोऽतिथिर्वेदितव्यः । श्रोत्रियवेदपारगावध्वनि वर्तमानौ ब्रसलोकमभीप्सतो गृहस्थस्य मान्यावतिथी वेदितव्यौ । यदप्यध्ययनमात्रेण श्रोत्रियस्तथापि श्रुताध्ययनसंपन्नोऽत्र श्रोत्रियोऽभिधीयते । एकशाखाध्यापनक्षमो वेदपारगः ॥ १११ ॥
परपाकरुचिर्न स्यादनिन्यामत्रणाहते।
वाक्पाणिपादचापल्यं वर्जयेचातिभोजनम् ॥ ११२ ॥ परपाके रुचिर्यस्यासौ तथोक्तः परपाकरुचिः । नैव परपाकरुचिः स्यात् । अनिन्ग्रेनामन्त्रणं विना । 'अनिन्धेनामनितो नापकामेत्' इति स्मरणात् । वाक्पाणिपादचापल्यं वाक्च पाणी च पादौ च वाक्पाणिपादं तस्य चापल्यं वर्जयेत् । वाक्चापल्यमसभ्यानृतादिभाषणम् । पाणिचापल्यं वैल्गनास्फोटनादि । पादचापल्यं लङ्घनोत्प्लवनादि । चकारान्नेत्रादिचापल्यं च वर्जयेत् । --'न शिश्नोदरपाणिपादचक्षुर्वाक्चापलानि कुर्यात्' इति गौतमस्मरणात् । तथा अतिभोजनं च वर्जयेत् । अनारोग्यहेतुत्वात् ॥ ११२ ॥ - अतिथिं श्रोत्रियं तृप्तमासीमान्तमनुव्रजेत् ।
अहःशेष समासीत शिष्टैरिष्टैश्च बन्धुभिः ॥ ११३॥ पूर्वोक्तं श्रोत्रियातिथिं वेदपारगातिथिं च भोजनादिना तृप्तं सीमान्तं यावदनुव्रजेत् । ततो भोजनानन्तरमहःशेषं शिष्टैरितिहासपुराणादिवेदिभिः, इष्टैः काव्यकथाप्रपञ्चचतुरैः, बन्धुभिश्चानुकूलालापकुशलैः सहासीत ॥ ११३ ॥
उपास्य पश्चिमां संध्यां हुखाग्नीस्तानुपास्य च। .
भृत्यैः परिवृतो भुक्ता नातितृप्याथ संविशेत् ॥ ११४ ॥ ततः पूर्वोक्तेन विधिना पश्चिमां संध्यामुपास्य आहेवनीयादीनग्नीनग्निं वा हुत्वा तानुपास्योपस्थाय भृत्यैः पूर्वोक्तैः स्ववासिन्यादिभिः परिवृतो नातितृप्य भुक्त्वा चकारादायव्ययादिगृहचिन्तां निर्वानन्तरं संविशेत्स्वप्यात् ॥ ११४ ॥
ब्राह्म मुहूर्ते चोत्थाय चिन्तयेदात्मनो हितम् ।
धर्मार्थकामान्खे काले यथाशक्ति न हापयेत् ॥ ११५ ॥ — ततो ब्राह्म मुहूर्ते उत्थाय पश्चिमेऽर्धप्रहरे प्रबुध्यात्मनो हितं कृतं करिष्यमाणं च वेदार्थसंशयांश्च चिन्तयेत् । तदानीं चित्तस्याव्याकुलत्वेन तत्त्वप्रतिभा
.. १ अध्ययनक्षमो ख. २ कल्याण ख. ३ अग्निमग्नीन्वा ख. ४ प्रतिभासन ख.
For Private And Personal Use Only
Page #68
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
याज्ञवल्क्यस्मृतिः। [आचाराध्यायः नयोग्यत्वात् । ततो धर्मार्थकामान्स्वोचितकाले यथाशक्ति न परित्यजेत् । यथासंभवं सेवेतेत्यर्थः । पुरुषार्थत्वात् । यथाह गौतमः-'न पूर्वाह्नमध्याह्वापराह्रानफलान्कुर्यात् धर्मार्थकामेभ्यस्तेषु धर्मोत्तरः स्यात्' इति । अत्र यद्यप्येतेषां सामान्येन सेवनमुक्तं तथापि कामार्थयोर्धर्माविरोधेनानुष्ठानं तयोर्धर्ममूलत्वादेवं प्रतिदिनमनुष्ठेयम् ॥ ११५॥
विद्याकर्मवयोबन्धुवित्तैर्मान्या यथाक्रमम् ।
एतैः प्रभूतैः शूद्रोऽपि वार्धके मानमर्हति ॥ ११६ ॥ विद्या पूर्वोक्ता, कर्म औतं स्मात च, वयः आत्मनोऽतिरिक्तं सप्तत्या बा अर्च, बन्धुः स्वजनसंपत्तिः, वित्तं ग्रामरत्नादिकं एतैर्युक्ताः क्रमेण मान्याः पूजनीयाः। एतैर्विद्याकर्मबन्धुवित्तैः प्रभूतैः प्रवृद्धैः समस्तैयस्तैर्वा युक्तः शूद्रोऽपि वार्धके अशीतेरूवं मानमर्हति । 'शूद्रोऽप्यशीतिको वरः' इति गौतमस्मरणात् ॥ ११६॥
वृद्धभारिनृपस्नातस्वीरोगिवरचक्रिणाम् ।।
पन्था देयो नृपस्तेषां मान्यः सातश्च भूपतेः ॥ ११७॥ वृद्धः पक्वकेशः प्रसिद्धः । भारी भाराकान्तः। नृपो भूपतिःन क्षत्रियमानम् । स्नातो विद्यावतोभयनातकः । स्त्री प्रसिद्धा । रोगी व्याधितः । वरो विवाहोग्रतः । चक्री शाकटिकः । चकारान्मत्तोन्मत्तादीनां ग्रहणम् ।-'बालवृद्धमत्तोन्मत्तोपहतदेहभाराकान्तस्त्रीस्रातकप्रवजितेभ्यः' इति शङ्खमणात्। एतेभ्यः पन्था देयः । एतेष्वभिमुखायातेषु स्वयं पथोऽपक्रामेत् । वृद्धादीनां राज्ञा सह पथि समवाये राजा मान्य इति तस्मै पन्था देयः । भूपतेरपि स्नातको मान्यः । स्नातकग्रहणं स्नातकमात्रप्राप्त्यर्थ न ब्राह्मणाभिप्रायेण । तस्य सदैव गुरुत्वात् । यथाह शङ्ख:-'अथ ब्राह्मणायाग्रे पन्था देयो राज्ञ इत्येके । तच्चानिष्टं गुरुज्येष्ठश्च ब्राह्मणो राजानमतिशेते तस्मै पन्था' इति । वृद्धादीनां पथि परस्परसमवाये वृद्धतराद्यपेक्षया विद्यादिभिर्वा विशेषो द्रष्टव्यः ॥ ११७ ॥
इज्याध्ययनदानानि वैश्यस्य क्षत्रियस्य च ।
प्रतिग्रहोधिको विप्रे याजनाध्यापने तथा ॥ ११८ ॥ वैश्यस्य क्षत्रियस्य च चकारागाह्मणस्य द्विजानुलोमानां च यागाध्ययनदानानि साधारणानि कर्माणि । ब्राह्मणस्याधिकानि प्रतिग्रहयाजनाध्यापनानि । तथेति स्मृत्यन्तरोक्तवृत्युपसंग्रहः । यथाह गौतमः-'कृषिवाणिज्ये वा स्वयं कृते कुसीदं च' इति । अध्यापनं तु क्षत्रियवैश्ययोर्बाह्मणप्रेरितयोर्भवति न स्वेच्छया। -'आपत्काले ब्राह्मणस्याब्राह्मणाविद्योपयोगोऽनुगमनं शुश्रूषा, समाप्ते ब्राह्मणो गुरुः' इति गौतमस्मरणात् । एतान्यनापदि ब्राह्मणस्य पद कर्माणि । १ बन्धुर्बहुस्वजन ग. २ पक्कशरीरः ख. ३ नृपो राजा न क. ४ वाभिमुख्यागतेषु ख.
For Private And Personal Use Only
Page #69
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गृहस्थधर्मप्रकरणम् ५ ] . मिताक्षरासहिता।
तत्र त्रीणीज्यादीनि धर्मार्थानि । त्रीणि प्रतिग्रहादीनि वृत्यर्थानि ।-'पण्णां तु कर्मणामस्य त्रीणि कर्माणि जीविका । याजनाध्यापने चैव विशुद्धाच्च प्रतिग्रहः ॥' इति (१०७६) मनुस्मरणात् । अत इज्यादीन्यवश्यं कर्तव्यानि न प्रतिग्रहादीनि । 'द्विजातीनामध्ययनमिज्या दानं च ब्राह्मणस्याधिकाः, प्रवचनयाजनप्रतिग्रहाः पूर्वेषु नियमः' इति गौतमस्मरणात् ॥ ११८॥
प्रधानं क्षत्रिये कर्म प्रजानां परिपालनम् ।
कुसीदकृषिवाणिज्यपाशुपाल्यं विशः स्मृतम् ॥ ११९ ॥ क्षत्रियस्य प्रजापालनं प्रधानं कर्म धर्मार्थ वृत्त्यर्थं च । वैश्यस्य कुसीदकृषिवाणिज्यपशुपालनानि वृत्त्यर्थानि कर्माणि । कुसीदं वृद्ध्यर्थ द्रव्यप्रयोगः । लाभार्थं क्रयविक्रयौ वाणिज्यम् । शेषं प्रसिद्धम् । -'शस्त्रास्त्रभृत्त्वं क्षत्रस्य वणिक्. पशुकृषी विशः । आजीवनार्थ धर्मस्तु दानमध्ययनं यजिः ॥' इति (१०७९) मनुस्मरणात् ॥ ११९॥
शूद्रस्य द्विजशुश्रूषा तयाज्जीवन्वणिग्भवेत् । शिल्पैर्वा विविधैर्जीवेद्विजातिहितमाचरन् ॥ १२० ॥ शूदस्य द्विजशुश्रूषा प्रधानं कर्म धर्मार्थ वृत्यर्थं च । तत्र ब्राह्मणशुश्रूषा परमो धर्मः।-'विप्रसेवैव शूद्रस्य विशिष्टं कर्म कीर्त्यते' इति (१०।१२३) मनुस्मरणात् । यदा पुनर्द्विजशुश्रूषया जीवितुं न शक्नोति तदा वणिग्वृत्त्या जीवेत् । नानाविधैर्वा शिल्पैर्द्विजातीनां हितं कुर्वन् । यादृशैः कर्मभिर्द्विजातिशुश्रूषायामयोग्यो न भवति तादृशानि कर्माणि कुर्वमित्यर्थः । तानि च देवलोक्तानि'शूद्रधर्मो द्विजातिशुश्रूषा पापवर्जनं कलत्रादिपोषणं कर्षणपशुपालनभारोद्वहनपण्यव्यवहारचित्रकर्मनृत्यगीतवेणुवीणामुरजमृदङ्गवादनादीनि' ॥ १२० ॥
भारतिः शुचिर्भूत्यभर्ता श्राद्धक्रियारतः।
नमस्कारेण मन्त्रेण पञ्चयज्ञान हापयेत् ॥ १२१ ॥ किंच भार्यायामेव न साधारणस्त्रीषु परस्त्रीषु वा रतिरभिगमनं यस्य स तथोक्तः । शुचिः बाह्याभ्यन्तरशौचयुक्तः द्विजवत् । भृत्यादिभर्ता । श्राद्ध क्रियारतः श्राद्धानि नित्यनैमित्तिककाम्यानि, क्रियाः स्नातकव्रतान्यविरुद्धानि तेषु रतः । नम इत्यनेन मत्रेण पूर्वोक्तान्पञ्चमहायज्ञानहरहर्न हापयेदनुतिष्ठेत् । नमस्कारमत्रं च केचित्-‘देवताभ्यः पितृभ्यश्च महायोगिभ्य एव च । नमः स्वाहायै स्वधायै नित्यमेव नमोनमः ॥' इति वर्णयन्ति । नम इत्यन्ये । तत्र वैश्वदेवं लौकिकेऽग्नौ कर्तव्यं न वैवाहिकेऽनावित्याचार्याः ॥ १२१ ॥ इदानीं साधारणधर्मानाह
अहिंसा सत्यमस्तेयं शौचमिन्द्रियनिग्रहः । .
दानं दमो दया क्षान्तिः सर्वेषां धर्मसाधनम् ॥ १२२ ॥ १ क्रियापरः ख.
For Private And Personal Use Only
Page #70
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
याज्ञवल्क्यस्मृतिः।
[आचाराध्यायः
हिंसा प्राणिपीडा तस्या अकरणमहिंसा । सत्यमप्राणिपीडाकरं यथार्थवचनम् । अस्तेयमदत्तानुपादानम् । शौचं बाह्यमाभ्यन्तरं च । बुद्धिकर्मेन्द्रियाणां नियत विषयवृत्तितेन्द्रियनिग्रहः । यथाशक्ति प्राणिनामनोदकादिदानेनार्तिपरिहारो दानम् । अन्तःकरणसंयमो दमः । आपनरक्षणं दया । अपकारेऽपि चित्तस्याविकारः शान्तिः । एते सर्वेषां पुरुषाणां ब्राह्मणाद्याचण्डालं धर्मसाधनम् ॥ १२२ ॥
वयोबुद्ध्यर्थवाग्वेषश्रुताभिजनकर्मणाम् ।
आचरेत्सदृशीं वृत्तिमजिह्मामशठां तथा ॥ १२३ ॥ वयो बाल्ययौवनादि । बुद्धि नैसर्गिकी लौकिकवैदिकव्यवहारेषु । अर्थो वित्तं गृहक्षेत्रादि । वाक् कैथनम् । वेषो वस्त्रमाल्यादिविन्यासः । श्रुतं पुरुषार्थशा
श्रवणम् । अभिजनः कुलम् । कर्म वृत्त्यर्थं प्रतिग्रहादि । एतेषां वयःप्रभूतीनां सदृशीमुचितां वृत्तिमाचरणं आचरेत्स्वीकुर्यात् । यथा वृद्धः स्वोचितां न यौवनोचिताम् । एवं बुद्ध्यादिष्वपि योज्यम् । अजिह्मामवक्राम् । अशठाममत्सराम् ॥ १२३ ॥ एवं स्मार्तानि कर्माण्यनुक्रम्येदानीं श्रौतानि कर्माण्यनुक्रामति
त्रैवार्षिकाधिकानो यः स हि सोमं पिबेद्विजः ।
प्राक्सौमिकीः क्रियाः कुर्याद्यस्यान्नं वार्षिकं भवेत्॥१२४॥ त्रिवर्षजीवनपर्याप्तं त्रैवार्षिकं अधिकं वा अनं यस्य स एव सोमपानं कुर्यान्न ततोऽल्पधनः।(मनुः ११८)-'अतः स्वल्पीयसि द्रव्ये यः सोमं पिबति द्विजः। स पीतसोमपूर्वोऽपि न तस्यामोति तत्फलम् ॥' इति दोषश्रवणात् । एतच्च काम्याभिप्रायेण । नित्यस्य चावश्यकर्तव्यत्वान्न नियमः । यस्य वर्षजीवनपर्यातमन्नं भवति स प्राक्सौमिकीः सोमात्प्राक् प्राक्सोमं प्राक्सोमंभवाः प्राक्सौमिक्यः । कास्ताः । अग्निहोत्रदर्शपूर्णमासाग्रयणपशुचातुर्मास्यानि कर्माणि तद्विकाराश्चैताः क्रियाः कुर्यात् ॥ १२४ ॥ एवं काम्यानि श्रौतानि कर्माण्य भिधायेदानी नित्यान्याह
प्रतिसंवत्सरं सोमः पशुः प्रत्ययनं तथा ।
कर्तव्याग्रयणेष्टिश्च चातुर्मास्यानि चैव हि ॥ १२५ ॥ संवत्सरे संवत्सरे सोमयागः कार्यः । पशुः प्रत्ययनं अयने अयने दक्षिणोत्तरसंज्ञिते निरूढपशुयागः कार्यः । तथा प्रतिसंवत्सरं वा ।-'पशुना संवत्सरे संवत्सरे यजेत षट्सु षट्सु वा मासेवित्येके' इति श्रवणात् । 'आग्रयणेष्टिश्च सस्योत्पत्तौ कर्तव्या । चातुर्मास्यानि च प्रतिसंवत्सरं कर्तव्यानि ॥ १२५ ॥
एषामसंभवे कुर्यादिष्टिं वैश्वानरी द्विजः।
१ आचाण्डालान्तं ख. २ व्यवहारेषु ज्ञानं क. ३ वचनम् ग. ४ सोमयागं क. ग. ५ पूर्णमासपशु ख. पूर्णमासचातुर्मास्यानि ग. ६ काम्यानि क.
For Private And Personal Use Only
Page #71
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गृहस्थधर्मप्रकरणम् ५ ] मिताक्षरासहिता ।
३९
नादतात।
हीनकल्पं न कुर्वीत सति द्रव्ये फलप्रदम् ॥ १२६ ॥ एषां सोमप्रभृतीनां पूर्वोक्तानां नित्यानां कथंचिदसंभवे तत्काले वैश्वानरीमिष्टिं कुर्यात् । किंच योयं हीनकल्प उक्तः सति द्रव्येऽसौ न कर्तव्यः । यच्च फलप्रदं काम्यं तद्धीनकल्पं न कुर्वीत न कर्तव्यमेव ॥ १२६ ॥
चण्डालो जायते यज्ञकरणाच्छूद्रभिक्षितात् ।
यज्ञार्थ लब्धमददद्भासः काकोऽपि वा भवेत् ॥ १२७ ॥ यज्ञार्थं शूद्रधनयाचनेन जन्मान्तरे चण्डालो जायते । यः पुनर्यज्ञार्थं या. चितं ने सर्व प्रयच्छति न त्यजति स भासः काकोऽपि वा वर्षशतं भवेत् । यथाह मनुः (११।२५)-'यज्ञार्थमर्थ भिक्षित्वा यः सर्वं न प्रयच्छति । स याति भासतां विप्रः काकतां वा शतं समाः ॥' इति । भासः शकुन्तः। काकः प्रसिद्धः ॥ १२७ ॥
कुशूलकुम्भीधान्यो वा व्याहिकोऽश्वस्तनोऽपि वा।। कुशूलं कोष्ठकं, कुम्भी उष्ट्रिका, कुशूलं च कुम्भी च कुशूलकुम्भ्यौ ताभ्यां परिमितं धान्यं यस्य स तथोक्तः कुशूलधान्यः स्यात्, कुम्भीधान्यो वा । तत्र स्वकुटुम्बपोषणे द्वादशाहमात्रपर्याप्तं धान्यं यस्यास्ति स कुशूलधान्यः । कुम्भीधान्यस्तु स्वकुटुम्बपोषणे पडहमात्रपर्याप्तधान्यः । व्यहपर्याप्तं धान्यमस्यास्तीति च्याहिकः । श्वोभवं धान्यमस्यास्तीति श्वस्तनः। न विद्यते श्वस्तनं यस्य सोऽश्वस्तनः॥
कुशूलधान्यादिसंचयोपायमाह..जीवेद्वापि शिलोच्छेन श्रेयानेषां परः परः ॥ १२८॥
शाल्यादिनिपतितपरित्यक्तवल्लरीग्रहणं शिलम् । एकैकस्य परित्यक्तस्य कणस्योपादानमुन्छः, शिलं चोञ्छश्च शिलोज्छं तेन शिलेनोच्छेन वा । कुशूलधान्यादिश्चतुर्विधो गृहस्थो जीवेत् । एषां कुशूलधान्यादीनां ब्राह्मणानां गृहस्थानां चतुर्णी परः परः पश्चात्पश्चात्पठितः श्रेयान्प्रशस्यतरः । एतच्च यद्यपि द्विजः प्रेकृतस्तथापि ब्राह्मणस्यैव भवितुमर्हति विद्योपशमादियोगात् । तथाच मनुना (१२)-'भद्रोहेणैव भूतानामल्पद्रोहेण वा पुनः। या वृत्तिस्तां समास्थाय विप्रो जीवेदनापदि ॥” इति विप्रमेव प्रस्तुत्य (मनुः ४७)-'कुशूलधान्यको वा स्थाकुम्भीधान्यक एव वा' इत्याद्यभिहितत्वात् । एतच्चानतिसंयतं यायावरं प्रत्युच्यते न विप्रमात्राभिप्रायेण । तथा सति- त्रैवार्षिकाधिकानो यः स हि सोमं पिबेट्विजः' इत्यनेन न विरोधः । तथाच गृहस्थानां द्वैविध्यं तत्र तत्रोकम् । यथाह देवल:-'द्विविधो गृहस्थी यायावरः शालीनश्च । तयोर्यायावरः प्रवरो याजनाध्यापनप्रतिग्रहरिक्थसंचयवर्जनात् । षट्कर्माधिष्ठितः प्रेष्य. १ न. परित्यजति क. २ शाल्यादेनिपतित. क. ३ ब्राह्मणानां चतुर्णी ख. ४ श्रेयानुत्कृष्टतमः ख. ५ प्रकृतः प्रकरणप्राप्तः प्राकृतः ख.६ पुरस्कृत्य क.७ नतिसंपन्नसंयतं क.
For Private And Personal Use Only
Page #72
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४०
याज्ञवल्क्यस्मृतिः। [आचाराध्यायः चतुष्पदगृहग्रामधनधान्ययुक्तो लोकानुवर्ती शालीनः' इति । शालीनोऽपि चतुर्विधः याजनाध्यापनप्रतिग्रहकृषिवाणिज्यपाशुपाल्यैः पनिर्जीवत्येकः । याजनादिभिस्त्रिभिरन्यः । याजनाध्यापनाभ्यामपरः । चतुर्थस्त्वध्यापनेनैव । तथाह मनुः (१९)-'षट्कमैको भवत्येषां त्रिभिरन्यः प्रवर्तते । द्वाभ्यामेकश्चतुर्थस्तु ब्रह्मसत्रेण जीवति ॥' इति । अत्र च 'प्रतिग्रहोऽधिको विप्रे' इत्यादिना शालीनस्य वृत्तयो दर्शिताः । यायावरस्य जीवेद्वापि शिलोज्छेनेति ॥ १२८ ॥
इति गृहस्थधर्मप्रकरणम् ।
अथ लातकधर्मप्रकरणम् ६ एवं श्रौतस्मार्तानि कर्माण्यभिधायेदानी गृहस्थस्य स्नानादारभ्य ब्राह्मणस्यावश्यकर्तव्यानि विधिप्रतिषेधात्मकानि मानससंकल्परूपाणि स्नातकव्रतान्याह
न स्वाध्यायविरोध्यर्थमीहेत न यतस्ततः।।
न विरुद्धप्रसङ्गेन संतोषी च भवेत्सदा ॥ १२९ ।। ब्राह्मणस्य प्रतिग्रहादयोऽर्थप्राप्त्युपाया दर्शितास्तत्र विशेष उच्यते । स्वाध्यायविरोधिनमर्थमप्रतिषिद्धमपि नेहेत नान्विच्छेत् । न यतस्ततः न यतः कुतश्चिदविदिताचारात् । न विरुद्धप्रसङ्गेन विरुद्धमयाज्ययाजनादि, प्रसङ्गो नृत्यगीतादिः । विरुद्धं च प्रसङ्गश्च विरुद्धप्रसङ्गं तेन । नार्थमीहेतेति संबध्यते । नत्र आवृत्तिः प्रत्येकं पर्युदासार्था । सर्वत्राप्यस्मिन्नातकप्रकरणे नशब्दः प्रत्येक पर्युदासार्थ एव । किंच अर्थालामेऽपि संतोषी परितृप्तो भवेत् । चकारात्संयतश्च 'संतोषं परमास्थाय सुखार्थी संयतो भवेत्' इति (१।१२) मनुस्मरणात् १२९ कुतस्तर्हि धनमन्विच्छेदित्याह
राजान्तेवासियाज्येभ्यः सीदनिच्छेद्धनं क्षुधा ।
दम्भिहैतुकपाखण्डिबकवृत्तींश्च वर्जयेत् ॥ १३० ॥ क्षुधा सीदन्पीड्यमानः स्नातकः राज्ञो विदितवृत्तान्तात्, अन्तेवासिनो व. क्ष्यमाणलक्षणात्, याज्यात् याजनाहींच्च धनमाददीत । क्षुधा सीदन्नित्यनेन विभामादिप्राप्तकुटुम्बपोषणपर्याप्तधनो न कुतश्चिदर्थमन्विच्छेदिति गम्यते । किंच दम्भिहैतुकादीन्सर्वकार्येषु लौकिकवैदिकशास्त्रीयेषु वर्जयेत् । चकाराद्विकर्मस्थबैडालतिकान्शठान्वर्जयेत् । यथाह मनुः (४३०)-'पाखण्डिनो विकर्मस्थान्बैडालनतिकान्शठान् । हैतुकान्बकवृत्तींश्च वाङ्मात्रेणापि नार्चयेत् ॥' इति । लोकरञ्जनार्थमेव कर्मानुष्ठायी दम्भी। युक्तिबलेन सर्वत्र संशयकारी हैतुकः । त्रैविद्यविरुद्धपरिगृहीताश्रमिणः पाखण्डिनः । बकवद्यस्य वर्तनमिति बकवृत्तिः । यथाह मनु:-'अधोदृष्टिनें कैतिकः स्वार्थसाधनतत्परः । शठो मि१ कुतश्चिद्धनमन्वि. क. २ वृत्तिकशठान क. ग. ३ नैष्कृतिकः ख.
For Private And Personal Use Only
Page #73
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स्नातकधर्मप्रकरणम् ६ ] मिताक्षरासहिता । थ्याविनीतश्च बकवृत्तिरुदाहृतः ॥' इति । प्रतिषिद्धसेविनो विकर्मस्थाः। बिडालो मार्जारस्तस्य व्रतं स्वभावो यस्यासौ बैडालनतिकः । तस्य लक्षणमाह मनुः (१९९५)-'धर्मध्वजी सदा लुब्धश्छामिको लोकदम्भकः । बैडालनतिको ज्ञेयो हिंस्रः सर्वाभिसंधकः ॥' इति । शठः सर्वत्र वक्रः । एतैः संसर्गनिषेधादेव स्वयमेवंभूतो न भवेदिति गम्यते ॥ १३० ॥
शुक्लाम्बरधरो नीचकेशश्मश्रुनखः शुचिः।
न भायर्यादर्शनेऽश्नीयान्नैकवासा न संस्थितः ॥ १३१ ॥ किंच । शुक्ले धौते अम्बरे वाससी धरतीति शुक्लाम्बरधरः । केशाश्च ३मश्रूणि च नखाश्च केशश्मश्रुनखं नीचं निकृत्तं केशश्मश्रुनखं यस्यासौ तथोक्तः । शुचिरन्तर्बहिश्च स्नानानुलेपनधूपनगादिभिः सुगन्धी च भवेत् । यथाह गौ. तम:--'स्मातको नित्यं शुचिः सुगन्धिः स्नानशीलः' इति । सुगन्धित्व विधानादेव निर्गन्धमाल्यस्य निषेधः । तथाच गोभिल:-'नागन्धां सज धारयेदन्यत्र हिरण्यरवस्त्रजः' इति । सदा स्नातक एवंभूतो भवेत् । एतच्च सति संभवे ।--'न जीर्णमलवद्वासा भवेच्च विभवे सति' इति स्मरणात् । नच भार्यादर्शने तस्यां पुरतोऽवस्थितायामश्नीयात् अवीर्यवदपत्योत्पत्तिभयात् । तथाच श्रतिः-'जायाया अन्ते नाश्नीयादवीर्यवदपत्यं भवति' इति । अतस्तया सह भोजनं दूरादेव निरस्तम् । न चैकवासाः न संस्थितः उत्थितः अश्नीयादिति संबध्यते ॥ १३१ ॥
न संशयं प्रपद्येत नाकस्मादप्रियं वदेत् । . नाहितं नानृतं चैव न स्तेनः स्थान वार्धषी ॥ १३२ ॥
किंच । कदाचिदपि संशयं प्राणविपत्तिसंशयावह कर्म न प्रपद्येत न कुर्यात् । यथा व्याघ्रचौराद्युपहतदेशाक्रमणादि । अकस्मानिष्कारणं कंचिदपि पुरुषं स्त्रियं वा अप्रियमुद्वेगकरं वाक्यं न वदेत् । न चाहितं नानृतं वा प्रियमपि । चकारादश्लीलमसभ्यं बीभत्सकरं चाकस्मान्न वदेदिति संबध्यते । एतच्च परिहासादिव्यतिरेकेण । --'गुरुणापि समं हास्यं कर्तव्यं कुटिलं विना' इति स्मरणात् । नच स्तेनः अन्यदीयस्यादत्तस्य ग्रहीता न स्यात् । न वाधुषी स्यात् । प्रतिषिद्धवृद्ध्युपजीवी वाधुषी ॥ १३२ ॥
दाक्षायणी ब्रह्मसूत्री वेणुमान्सकमण्डलुः। .
कुर्यात्प्रदक्षिणं देवमृगोविप्रवनस्पतीन् ॥ १३३ ॥ किंच दाक्षायणं सुवर्ण सदस्यास्तीति दाक्षायणी । ब्रह्मसूत्रं यज्ञोपवीतं तदसास्तीति ब्रह्मसूत्री । वैणवयष्टिमान् । कमण्डलुमान् । स्यादिति सर्वत्र संबन्धनीयम् । अत्रच ब्रह्मचारिप्रकरणोक्तस्थापि यज्ञोपवीतस्य पुनर्वचनं द्वितीयप्रा१ परुषमप्रियं ख. २ तद्वान्, तद्धारणात् क.
For Private And Personal Use Only
Page #74
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४२
याज्ञवल्क्यस्मृतिः।
[आचाराध्यायः
यर्थम् । यथाह वसिष्ठः-'स्नातकानां तु नित्यं स्यादन्तर्वासस्तथोत्तरम् । यज्ञोपवीते द्वे यष्टिः सोदकश्च कमण्डलुः ॥' इति । अत्रच दाक्षायणीति सामान्याभिधानेऽपि कुण्डलधारणमेव कार्यम् । – 'वैष्णवीं धारयेद्यष्टिं सोदकं च कमण्डलुम्। यज्ञोपवीतं वेदं च शुभे रौक्मे च कुण्डले ॥' इति (४।३६) मनुस्मरणात् । तथा देवं देवता , मृदं तीर्थादुद्धृतां, गां, ब्राह्मणं, वनस्पतींश्चाश्वत्थादीन्प्रदक्षिणं कुर्यात् । एतान्दक्षिणतः कृत्वा प्रबजेदित्यर्थः । एवं चतुष्पथादीनपि
-'मृदं गां देवतां विप्रं धृतं मधु चतुष्पथम् । प्रदक्षिणानि कुर्वीत प्रज्ञातांश्च वनस्पतीन् ॥' इति (३९) मनुस्मरणात् ॥ १३३ ॥
न तु मेहेन्नदीछायावम॑गोष्ठाम्बुभससु ।
न प्रत्यम्यर्कगोसोमसंध्याम्बुस्त्रीद्विजन्मनः ॥ १३४ ॥ नद्यादिषु न मेहेत् न मूत्रपुरीषोत्सर्ग कुर्यात् । एवं श्मशानादावपि । यथाह शङ्ख:-'न गोमयकृष्टोप्तशाद्वलचितिश्मशानवल्मीकमखलगोष्ठबिलपर्वतपुलिनेषु मेहेत भूताधारत्वात्' इति । तथान्यादीन्प्रति अन्यादीनामभिमुखं न मेहेत् । नाप्येतान्पश्यन् । यथाह गौतमः-'न वायवग्निविप्रादित्यापोदेवतागाश्च प्रतिपश्यन्वा मूत्रपुरीषामेध्यान्युदस्येनैतान्प्रति पादौ प्रसारयेत्'इति । एतद्देशव्य. तिरेकेण भूमिमयज्ञियैस्तृणैरन्तर्धाय मंत्रपुरीषे कुर्यादिति । यथाह वसिष्ठः'परिवेष्टितशिरा भूमिमयज्ञियैस्तृणैरन्तर्धाय मूत्रपुरीषे कुर्यात्' इति ॥ १३४ ॥
नेक्षेतार्क न ननां स्त्रीं न च संसृष्टमैथुनाम् ।
न च मूत्रं पुरीषं वा नाशुची राहुतारकाः॥ १३५ ॥ नैवार्कमीक्षेतेति यद्यप्यत्र सामान्येनोक्तं तथाप्युदयास्तमयराहुग्रस्तोदकप्रतिबिम्बमध्याह्नवर्तिन एवादित्यस्यावेक्षणं निषिध्यते न सर्वदा । यथोक्तं मनुना (४॥३७)-'नेक्षेतोद्यन्तमादित्यं नास्तं यन्तं कदाचन । नोपसृष्टं न वारिस्थं न मध्यं नभसो गतम् ॥' इति । उपभोगादन्यत्र नानां स्त्रियं नेक्षेत । 'न नग्नां स्त्रियमीक्षेतान्यत्र मैथुनात्' इत्याश्वलायनः। संसृष्टमैथुनां कृतोपभोगाम् । उपभोगान्तेऽननामपि नेक्षेत । चकारागोजनादिकमाचरन्तीम् । तथाच मनुः (१४३)'नाश्नीयाद्भार्यया साधं नैनामीक्षेत चाश्नतीम् । क्षुवतीं जृम्भमाणां च न चांसीनां यथासुखम् ॥ नाञ्जयन्तीं स्वके नेत्रे न चाभ्यक्तामनावृताम् । न पश्येत्प्रसवन्ती च श्रेयस्कामो द्विजोत्तमः ॥' इति । मूत्रपुरीषे च न पश्येत् । तथा अशुचिः सन् राहुतारकाश्च न पश्येत् । चकारादुदके स्वप्रतिबिम्बं न पश्येत्--'न चोदके निरीक्षेत स्वं रूपमिति धारणा' इति वचनात् ॥ १३५ ॥
अयं मे वज्र इत्येवं सर्व मत्रमुदीरयेत् ।
वर्षत्यप्रावृतो गच्छेत्स्वपेत्प्रत्यक्शिरा न च ।। १३६॥ १ एवं देवं क. २ प्रदक्षिणतः ख. ३ प्रत्यर्काग्निनो क. ४ श्मशानवल्मीक क. ५ नैता देवताः प्रति ख. ६ मेहनं कार्य क. ग.
For Private And Personal Use Only
Page #75
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स्नातकधर्मप्रकरणम् ६] मिताक्षरासहिता ।
वर्षति सति 'अयं मे वज्रः पाप्मानमपहन्तु' इति मन्त्रमुच्चारयेत् । वर्षति अप्रावृतोऽनाच्छादितो न गच्छेन्न धावेत् । 'न प्रधावेच्च वर्षति' इति प्रतिषेधात् । नच प्रत्यक्शिराः स्वप्यात् । चकारानग्मो न शयीत । एकश्च शून्यगृहे नच नग्नः शयीतेति । 'नैकः स्वपेच्छून्यगृहे' इति च (४।५७) मनुस्मरणात् ॥ १३६ ॥
ष्ठीवनासक्शकुन्मूत्ररेतांस्यप्सु न निक्षिपेत् ।
पादौ प्रतापयेन्नानौ न चैनमभिलषयेत् ॥ १३७ ॥ ठीवनमुद्रिणं, असृग्रक्तं, शकृत् पुरीषं, शेषं प्रसिद्धं एतान्यप्सु न निक्षिपेत् । एवं तुषादीनपि । यथाह शङ्ख:-'तुषकेशपुरीषभस्मास्थिश्लेष्मनखलोमान्यप्सु न निक्षिपेन्न पादेन पाणिना वा जलमभिहन्यात्' इति । अग्नौ च पादौ न प्रतापयेत् । नाप्यग्निं लवयेत् । चकारात् ष्ठीवनादीन्यग्नौ न निक्षिपेत् । मुखोपधमनादि चाग्नेर्न कुर्यात् । तथाच मनुः (४।५३)-'नाग्निं मुखेनोपध. मेन्नम्नां नेक्षेत च स्त्रियम् । नामेध्यं प्रक्षिपेदग्नौ न च पादौ प्रतापयेत् ॥ अधः स्तानोपदध्याच न चैनमैमिलञ्जयेत् । न चैनं पादतः कुर्यान्न प्राणिव॑धमाचरेत् ॥' इति ॥ १३७ ॥
जलं पिबेनाञ्जलिना न शयानं प्रबोधयेत् ।
नाक्षैः क्रीडेन धर्माधितैर्वा न संविशेत् ॥ १३८ ॥ जलमञ्जलिना संहताभ्यां हस्ताभ्यां न पिबेत् । जलग्रहणं पेयमात्रोपलक्षणम् । विद्यादिभिरास्मनोऽधिकं शयानं न प्रबोधयेशोत्थापयेत् । 'श्रेयांसं न प्रबोधयेत्' इति विशेषस्मरणात् । अक्षादिभिर्न क्रीडेत् । धर्मग्नैः पशुलम्भनादिभिर्न क्रीडेत् । व्याधितैर्वराधभिभूतैरेकन न संविशेन शयीत ॥ १३८ ॥
विरुद्धं वर्जयेत्कर्म प्रेतधूमं नदीतरम् ।
केशभसतुषाङ्गारकपालेषु च संस्थितिम् ॥ १३९ ॥ जनपदग्रामकुलाचारविरुद्धं कर्म वर्जयेत् । प्रेतधूमं बाहुभ्यां नदीतरणं च वर्जयेदिति संबध्यते । केशादिषु संस्थितिं वर्जयेत् । चकारादस्थिकार्पासामेध्येषु च ॥ १३९॥
नाचक्षीत धयन्तीं गां नाद्वारेण विशेत्कचित् ।
न राज्ञः प्रतिगृह्णीयाल्लुब्धस्योच्छास्त्रवर्तिनः ॥ १४० ॥ परस्य क्षीरादि पिबन्ती गां परस्मै नाचक्षीत नच निवर्तयेत् । अद्वारेण काप. थेन क्वचिदपि नगरे ग्रामे मन्दिरे वा न प्रविशेत् । नच कृपणस्य शास्त्रातिक्रमकारिणो राज्ञा सकाशात्प्रतिगृह्णीयात् ॥ १४० ॥
१ च्छादितो न इयात् क. २ मनुलवयेत् ग. ३ मतिलवयेत् ग. ४ प्राणाबाध. ख. ५ क्षीरादिधयन्तीं गां क.
या. ७
For Private And Personal Use Only
Page #76
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४४
याज्ञवल्क्यस्मृतिः।
[आचाराध्यायः
प्रतिग्रहे सूनिचक्रिध्वजिवेश्यानराधिपाः ।।
दुष्टा दशगुणं पूर्वात्पूर्वादेते यथाक्रमम् ॥ १४१ ॥ प्रतिग्रहे साध्ये सून्यादयः पञ्च पूर्वस्मात्पूर्वस्मात्परः परो दशगुणं दुष्टः । सूना प्राणिहिंसा सास्यास्तीति सूनी प्राणिहिंसापरः । चक्री तैलिकः । ध्वजी सुराविक्रयी । वेश्या पण्यस्त्री । नराधिपोऽनन्तरोक्तः ॥ १४१ ॥ अथाध्ययनधर्मानाह
अध्यायानामुपाकर्म श्रावण्यां श्रवणेन वा ।
हस्तेनौषधिभावे वा पञ्चम्यां श्रावणस्य तु ॥ १४२॥ - अधीयन्त इत्यध्याया वेदास्तेषामुपाकर्म उपक्रममोषधीनां प्रादुर्भावे सति श्रावणमासस्य पौर्णमास्यां, श्रवणनक्षत्रयुते वा दिने, हस्तेन युतायां पञ्चम्यां वा स्वगृह्योक्तविधिना कुर्यात् । यदा तु श्रावणे मासि ओषधयो न प्रादुर्भवन्ति तदा भाद्रपदे मासि श्रवणनक्षत्रे कुर्यात् । तत ऊर्ध्वं सार्धचतुरो मासान्वेदानधीयीत । तथाच मनुः (१९५)-'श्रावण्यां प्रौष्टपद्यां वाप्युपाकृत्य यथाविधि । युक्तश्छन्दांस्यधीयीत मासान्विप्रोऽर्धपञ्चमान् ॥' इति ॥ १४२ ॥ उत्सर्जनकाल:
पौषमासस्य रोहिण्यामष्टकायामथापि वा। . जलान्ते छन्दसां कुर्यादुत्सर्ग विधिवदहिः॥ १४३ ॥ पौषमा सय रोहिण्यामष्टकायां वा ग्रामावहिर्जलसमीपे छन्दसां वेदानां स्वगृह्योक्तविनोत्सर्ग कुर्यात् । यदा पुनर्भाद्रपदे मासि उपाकर्म तदा माघशु. लप्रथमदिवसे उत्सर्ग कुर्यात् । यथोक्तं मनुना (१९६)-'पौषे तु छन्दसां कुर्याद्वहिरुत्सर्जनं द्विजः । माघशुक्लस्य वा प्राप्ते पूर्वाह्ने प्रथमेऽहनि ॥' इति । तदनन्तरं पक्षिणीमहोरानं वा विरम्य शुक्लपक्षेषु वेदान् कृष्णपक्षेष्वङ्गान्यधीयीत । यथाह मनुः (४१९७) 'यथाशास्त्रं तु कृत्वैवमुत्सर्ग छन्दसा बहिः । विरमेत्पक्षिणीं रात्रिं यद्वाप्येकमहर्निशम् ॥ अत ऊर्ध्वं तु छन्दांसि शुक्लेषु नियतः पठेत् । वेदाङ्गानि च सर्वाणि कृष्णपक्षेषु संपठेत् ॥' इति ॥ १४३ ॥ अनध्यायानाह
त्र्यहं प्रेतेष्वनध्यायः शिष्यविंग्गुरुबन्धुषु ।
उपाकर्मणि चोत्सर्गे स्वशाखाश्रोत्रिये तथा ॥ १४४ ॥ उक्तेन मार्गेणाधीयानस्य द्विजस्य शिष्यविंग्गुरुबन्धुषु प्रेतेषु मृतेषु व्यहमनध्यायस्त्रीनहोरात्रानध्ययनं वर्जयेत् । उपाकर्मणि उत्सर्गाख्ये च कर्मणि कृते यहमनध्यायः । उत्सर्गे तु मनूक्तपक्षिण्यहोरात्राभ्यां सहास्य विकल्पः । स्वशाखाश्रोत्रिये स्वशाखाध्यायिनि प्रेते च व्यहमनध्यायः ॥ १४४॥
१ प्रतिग्रहेषु साध्येषु ख.
For Private And Personal Use Only
Page #77
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स्नातकधर्मप्रकरणम् ६] मिताक्षरासहिता ।
संध्यागर्जितनिर्यातभूकम्पोल्कानिपातने। ..
समाप्य वेदं धुनिशमारण्यकमधीत्य च ॥ १४५ ॥ संध्यायां मेघध्वनौ, निर्घाते आकाशे उत्पातध्वनौ, भूमिचलने, उल्कापतने, मन्त्रस्य ब्राह्मणस्य वा समाप्ती आरण्यकाध्ययने च थुनिशमहोरात्रमनध्यायः १४५
पञ्चदश्यां चतुर्दश्यामष्टम्यां राहुस्तके ।
ऋतुसंधिषु भुक्त्वा वा श्राद्धिकं प्रतिगृह्य च ॥ १४६ ॥ पञ्चदश्याममावास्यायां पौर्णमास्यां चतुर्दश्यामष्टम्यां राहुसूतके चन्द्रसूर्योपरागे च धुनिशमनध्यायः । यत्तु-'न्यहं न कीर्तयेद्ब्रह्म राज्ञो राहोश्च सूतके' इति तदस्तास्तमयविषयम् । ऋतुसंधिगतासु च. प्रतिपत्सु श्राद्धिकभोजने तत्प्रतिग्रहे च धुनिशमनध्यायः । एतच्चैकोद्दिष्टव्यतिरिक्तविषयम् । तत्र तु त्रिरात्रम् (मनुः ॥११०)–'प्रतिगृह्य द्विजो विद्वानेकोद्दिष्टस्य केतनम् । व्यहं न कीर्तयेब्रह्म' इति स्मरणात् ॥ १४६ ॥
पशुमण्डूकनकुलश्वाहिमार्जारमूषकैः ।
कृतेऽन्तरे त्वहोरात्रं शक्रपाते तथोच्छ्रये ॥ १४७॥ अध्येतॄणां पश्वादिभिरन्तरागमने कृते शक्रध्वजस्थावरोपणदिवसे उच्छ्रायदिवसे चाहोरात्रमनध्यायः। युनिशमिति प्रकृते पुनरहोरात्रग्रहणं संध्यागर्जिन. निर्घातभूकम्पोल्कानिपातनेष्वाकालिकत्वज्ञापनार्थम् । --'आकालिकनिर्घातभूकम्पराहुदर्शनोल्काः' इति गौतमवचनात् । निमित्तकालादारभ्यापरेधुर्यावत्स एव कालस्तावत्कालः अकालः तत्र भव आकालिकोऽनध्यायः । एतञ्च प्रातःसंध्यास्तनिते । सायंसंध्यास्तनिते तु रात्रिमेव । -'सायसंध्यास्तनिते तु रात्रि प्रातःसंध्यास्तनितेऽहोरात्रम्' इति हारीतस्मरणात् । यत्पुनर्गौतमेनोक्तं 'श्वनकुलसर्पमण्डूकमार्जाराणामन्तरागमने व्यहमुपवासो विप्रवासश्चेति तत्प्रथमाध्ययन एव ॥ १४७ ॥
श्वक्रोष्ट्रगर्दभोलूकसामबाणार्तनिःस्वने ।
अमेध्यशवशूद्रान्त्यश्मशानपतितान्तिके ॥ १४८ ॥ श्वा कुक्कुरः । कोष्टा सृगालः । गर्दभो रासभः । उलूको घूकः । साम सामानि । बाणो वंशः । आतॊ दुःखितः । एषां श्वादीनां निःस्वने तावत्कालमनध्यायः । एवं वीणादिनिःस्वनेऽपि ।- 'वेणुवीणाभेरीमृदङ्गगच्यार्तशब्देषु' इति गौतमवचनात् । गत्री शकटम् । अमेध्यादीनां संनिधाने तावत्कालिकोऽनध्यायः ॥ १४८॥
देशेऽशुचावात्मनि च विद्युत्स्तनितसंप्लवे ।
भुक्त्वार्द्रपाणिरम्भोन्तरर्धरात्रेऽतिमारुते ॥ १४९॥ १ उत्सवदिवसे. २ संध्यामहोरात्रं ख. ३ मार्जाराणां त्र्यहं ख. ४ ध्ययनविषय एव ख.
For Private And Personal Use Only
Page #78
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
याज्ञवल्क्यस्मृतिः।
[आचाराध्यायः
__ अशुचौ देशेऽशुचावात्मनि च । तथा विद्युत्संप्लवे पुनः पुनर्विद्योतमानायां विद्युति, स्तनितसंप्लवे प्रहरद्वयं पुनःपुनर्मेघघोषे तावत्कालिकोऽनध्यायः । भुक्त्वार्द्रपाणि धीयीत । जलमध्ये च । अर्धरात्रे महानिशाख्ये मध्यमप्रहरद्वये अतिमारुतेऽहन्यपि तावत्कालं नाधीयीत ॥ १४९ ॥
पांसुप्रतर्षे दिग्दाहे संध्यानीहारभीतिषु ।
धावतः पूतिगन्धे च शिष्टे च गृहमागते ॥ १५० ॥ । औरपातिके रजोवर्षे । दिग्दाहे यत्र ज्वलिता इव दिशो दृश्यन्ते। संध्ययोः, नीहारे धूमिकायां, भीतिषु चौरराजादिकृतासु तत्कालमनध्यायः । धावतस्त्वरितं गच्छतोऽनध्यायः । पूतिगन्धे अमेध्यमद्यादिगन्धे । शिष्टे च श्रोत्रियादौ गृहं प्राप्ते तदनुज्ञावध्यनध्यायः ॥ १५० ॥
खरोष्ट्रयानहस्त्यश्वनौवृक्षेरिणरोहणे ।
सप्तत्रिंशदनध्यायानेतांस्तात्कालिकान्विदुः ॥१५१ ॥ यानं रथादि । इरिणमूरं मरुभूमिवां । खरादीनामारोहणे तावत्कालमनध्यायः । एवं श्वकोष्टगर्दभेत्यस्मादारभ्य सप्तत्रिंशदनध्यायानेतांस्तात्कालिकान्निमित्तसमकालान्विदुरनध्यायविधिज्ञाः । विदुरित्यनेन स्मृत्यन्तरोक्तानन्यानपि संगृह्णाति । यथाह मनुः (११२)-'शयानः प्रौढपादश्च कृत्वा चैवावसविणकाम् । नाधीयीतामिषं जग्ध्वा सूतकानाद्यमेव च ॥' इत्यादि ॥ १५१ ॥ एवमनध्यायानुक्त्वा प्रकृतानि स्नातकव्रतान्याह
देवर्विक्स्नातकाचार्यराज्ञां छायां परस्त्रियाः।
नाकामेद्रक्तविण्मूत्रष्ठीवनोद्वर्तनादि च ॥ १५२ ॥ देवानां देवार्चानामृत्विक्स्नातकाचार्यराज्ञां परस्त्रियाश्च छायां नाकामेनाधितिष्ठेन लङ्घयेद्बुद्धिपूर्वकम् । यथाह मनुः (४।१३०)-'देवतानां गुरो राज्ञः सातकाचार्ययोस्तथा । नाकामेकामतश्छायां बभ्रुणो दीक्षितस्य च ॥' इति । बभ्रुणो नकुलवर्णस्य यस्य कस्यचिद्गोरन्यस्य वा श्यामादेः । बभ्रुण इति नपुंसकलिङ्गनिर्देशात् । रक्तादीनि च नाधितिष्ठेत् । आदिग्रहणास्त्रानोदकादेर्ग्रहणम् । (मनुः ४१३२)-'उद्वर्तनमपम्नानं विण्मूत्रं रक्तमेव च । श्लेष्मनिष्ट्यूतवान्तानि नाधितिष्ठेत कामतः ॥' इति ॥ १५२ ॥
विवाहिक्षत्रियात्मानो नावज्ञेयाः कदाचन ।
आमृत्योः श्रियमाकाङ्गेन कंचिन्मर्मणि स्पृशेत् ॥१५३ ॥ विप्रो बहुश्रुतो ब्राह्मणः, अहिः सर्पः, क्षत्रियो नृपतिः, एते कदाचिदपि नावमन्तव्याः । आत्मा च स्वयं नावमन्तव्यः । आमृत्योर्यावजीवं श्रियमिच्छेत् । न कंचिदपि पुरुषं मर्मणि स्पृशेत् कस्यचिदपि मर्म दुश्चरितं न प्रकाशयेत्॥१५३॥
१ पांसुवर्षे दिशां दाहे क. पांसुवर्षे च दिग्दाहे ग. २ गृहमागते क. ३ ऊखरं क. ४ रध्ययन क. रध्यापन ग. ५ कृतावसक्थिक ऊरुभ्यामवनि गतः. ६ सोमादेः ग.
For Private And Personal Use Only
Page #79
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स्नातकधर्मप्रकरणम् ६]
मिताक्षरासहिता।
दूरादुच्छिष्टविण्मूत्रपादाम्भांसि समुत्सृजेत् ।
श्रुतिस्मृत्युदितं सम्यनित्यमाचारमाचरेत् ॥ १५४ ॥ भोजनाद्युच्छिष्टं विणमूत्रे पादप्रक्षालनोदकं च गृहा रात्समुत्सृजेत् । श्रोतं स्मात चाचारं नित्यं सम्पगनुतिष्ठेत् ॥ १५४ ॥
गोब्राह्मणानलान्नानि नोच्छिष्टो न पदा स्पृशेत् ।
न निन्दाताडने कुर्यात्पुत्रं शिष्यं च ताडयेत् ॥ १५५ ॥ गां ब्राह्मणमग्निं अन्नमदनीयं विशेषतः पक्कमशुचिर्न स्पृशेत् । पादेन त्वनुच्छिष्टोऽपि । यदा पुनः प्रमादास्पृशति तदा आचमनोत्तरकालम् -'स्पृष्ट्वैतानशुचिनित्यमद्भिः प्राणानुपस्पृशेत् । गात्राणि चैव सर्वाणि नाभिं पाणितलेन तु ॥' इति (११४३) मनूक्तं कार्यम् । एवं प्राणादीनुपस्पृशेत् । कस्यचिदपि निन्दातारने न कुर्यात् । एतश्चानपकारिणि । (मनुः ॥१६७)-'अयुध्यमानस्योत्पाद्य ब्राह्मणस्यासृगङ्गतः । दुःखं सुमहदामोति प्रेत्याप्राज्ञतया नरः ॥' इति । पुत्रशिष्यौ शिक्षार्थमेव ताडयेत् । चकारावासादीनपि । ताडनं च रज्वादिनोत्तमाअव्यतिरेकेण कार्यम् । 'शिष्यशिष्टिरबंधेनाशक्ती रज्जुवेणुविदलाभ्यां तनुभ्यामन्येन घ्नन् राज्ञा शास्यते' इति गौतमवचनात् । -पृष्ठतस्तु शरीरस्य नोत्तमाओं कथंचन' इति ( ८।३०० ) मनुवचनात् ॥ १५५ ॥
कर्मणा मनसा वाचा यत्नाद्धर्म समाचरेत् ।
अस्वयं लोकविद्विष्टं धर्नामप्याचरेत्र तु ॥ १५६ ॥ कर्मणा कायेन यथाशक्ति धर्ममनुतिष्टेत् तमेव मनसा ध्यायेत् वाचा च वदेत् । धयं विहितमपि लोकविद्विष्टं लोकाभिशस्तिजननं मधुपर्के गोवधादिकं नाचरेत् । यस्मादस्वय॑मैग्नीषोमीयवत्स्वर्गसाधनं न भवति ॥ १५६ ॥
मातृपित्रतिथिभ्रातृजामिसंबन्धिमातुलैः। वृद्धवालातुराचार्यवैद्यसंश्रितबान्धवैः ॥ १५७ ॥ ऋत्विक्पुरोहितापत्यभार्यादाससनामिभिः ।
विवादं वर्जयित्वा तु सर्वाल्लोकाञ्जयेद्गृही ॥ १५८ ॥ माता जननी । पिता जनकः । अतिथिरध्वनीनः । भ्रातरो भिन्नोदरा अपि । जामयो विद्यमानभर्तृकाः स्त्रियः। संबन्धिनो वैवाद्याः । मातुलो भातुर्धाता। वृद्धः सप्तत्युत्तरवयस्कः । बाल आषोडशाद्वर्षात् । आतुरो रोगी । आचार्य उपनेता । वैद्यो विद्वान् भिषग्वा । संश्रितः उपजीवी । बान्धवाः पितृपक्ष्या मातृपक्ष्याश्च । मातुलस्य पृथगुपादानमादरार्थम् । ऋत्विग्याजकः । पुरोहितः शान्त्यादेः कर्ता । अपत्यं पुत्रादि । भार्या सहधर्मचारिणी । दासः कर्मकरः । सनाभयः १ रवधेन बाधनाशक्तौ ख. २ मग्निष्टोमीयवत् ख.
-
For Private And Personal Use Only
Page #80
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४८
याज्ञवल्क्यस्मृतिः।
[आचाराध्यायः
सोदराः । भ्रातृभ्यः पृथगुपादानमजामिभगिनीप्राह्यर्थम् । एतैर्मात्रादिभिः सह चाकलहं परित्यज्य सर्वान्प्राजापत्यादीन् लोकान्प्रामोति ॥ १५७ ॥ १५८ ॥
पञ्च पिण्डाननुद्धृत्य न स्वायात्परवारिषु ।
स्नायानदीदेवखातहूदप्रस्रवणेषु च ॥ १५९ ॥ परवारिषु परसंबन्धिषु सर्वसत्वोद्देशेनात्यक्तेषु तडागादिषु पञ्च पिण्डाननुद्धृत्य न स्नायात् । अनेनात्मीयोत्सृष्टाभ्यनुज्ञातेषु पिण्डोद्वारमन्तरापि मानमभ्यनुज्ञातम् । नद्यादिषु कथं तह त्याह-मायान्नदीति । साक्षात्परम्परया वा समुद्रगाः स्रवन्त्यो नद्यः । देवखातं देव निर्मितं पुष्करादि । उदकप्रवाहाभिघातकृतसजलो महानिम्नप्रदेशो हृदः । पर्वताधुच्चप्रदेशात्प्रसृतमुदकं प्रस्रवणम् । एतेषु पञ्चपि. ण्डानुद्धरणे नैव मायात् । एतच्च नित्यस्नानविषयं सति संभवे (मनुः ४।२०३) -'नदीषु देवतखातेषु तडागेषु सरःसु च । स्नानं समाचरेन्नित्यं गतप्रस्रवणेषु च ॥' इति नित्यग्रहणात् । शौचार्थे तु यथासंभवं परवारिषु पञ्च पिण्डानुद्धरणेऽपि सर्वस्य न निषेधः ॥ १५९ ॥
परशय्यासनोद्यानगृहयानानि वर्जयेत् । . अदत्तान्यग्निहीनस्य नान्नमद्यादनापदि ॥ १६०॥ शय्या कशिपुः । आसनं पीठादि । उद्यानमाम्रादिवनम् । गृहं प्रसिद्धम् । यानं रथादि । परसंबन्धीन्येतान्यदत्तान्यननुज्ञातानि वर्जयेत् नोपभुञ्जीत । अभोज्यान्नान्याह-अग्निहीनस्येति । अग्निहीनस्य श्रौतस्मार्ताम्यधिकाररहितस्य शूद्रस्य प्रतिलोमजस्य च अधिकारवतोऽप्यग्निरहितस्थानमनापदि न भुञ्जीत प्रतिगृह्णीयाच्च । 'तस्मात्प्रशस्तानां स्वकर्मणा शुद्धजातीनां ब्राह्मणो भुञ्जीत प्रतिगृह्णीयाच' इति गौतमवचनात् ॥ १६० ॥
कदर्यवद्धचौराणां क्लीवरङ्गावतारिणाम् ।
वैणाभिशस्तवाधुष्यगणिकागणदीक्षिणाम् ।। १६१ ॥ कदर्यो लुब्धः-'भात्मानं धर्मकृत्यं च पुत्रदारांश्च पीडयेत् । लोभाद्यः पितरौ भृत्यान्स कदर्य इति स्मृतः ॥' इत्युक्तः । बद्धो निगडादिना वाचा संनिरुद्धश्च । चौरो ब्राह्मणसुवर्णव्यतिरिक्तपरस्वापहारी । क्लीबो नपुंसकः । रनावतारी नटचारणमल्लादिः । वेणुच्छेदजीवी वैणः । अभिशस्तः पतनीयैः कर्मभिर्युक्तः । वाधुष्यो निषिद्धवृद्ध्युपजीवी । गणिका पण्यस्त्री । गणदीक्षी बहुयाजकः । एतेषामन्नं नाश्रीयादित्यनुवर्तते ॥ १६ ॥
चिकित्सकातुरक्रुद्धपुंश्चलीमत्तविद्विषाम् ।।
क्रूरोग्रपतितत्रात्यदाम्भिकोच्छिष्टभोजिनाम् ॥ १६२ ॥ चिकित्सको भिषग्वृत्त्युपजीवी। आतुरो महारोगोपसृष्टः।-'वातव्याध्यश्मरी१ मन्तरेणापि क. २ वृत्त्युपजीवी क.
For Private And Personal Use Only
Page #81
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
स्नातकधर्मकरणम् ६]
मिताक्षरासहिता ।
४९.
कुष्ठमेहोदरभगन्दराः । अर्शासि ग्रहणीत्यष्टौ महारोगाः प्रकीर्तिताः' इति । क्रुद्धः कुपितः । पुंश्चली व्यभिचारिणी । मत्तो विद्यादिना गर्वितः विद्विट् शत्रुः । क्रूरो दृढाभ्यन्तरकोपः । वाक्कायव्यापारेणोद्वेजक उग्र । पतितो ब्रह्महादिः । व्रात्यः पतितसावित्रीकः । दाम्भिको वञ्चकः । उच्छिष्टभोजी परभुक्तोज्झिताशी । एतेषां चिकित्सकादीनामन्नं नाश्नीयात् ॥ १६२ ॥
Acharya Shri Kailassagarsuri Gyanmandir
अवीरास्त्रीस्वर्णकारस्त्री जितग्रामयाजिनाम् । शस्त्रविक्रयिकर्मारतन्तुवायश्ववृत्तिनाम् ॥ १६३ ॥
1
अवीरा स्त्री स्वतन्त्रा व्यभिचारमन्तरेणापि । पतिपुत्ररहितेत्यन्ये । स्वर्णकारः सुवर्णस्य विकारान्तर कृत् । स्त्रीजितः सर्वत्र स्त्रीवशवर्ती । ग्रामयाजी ग्रामस्य शान्त्यादिकर्ता बहूनामुपनेता वा । शस्त्रविक्रयी शस्त्रविक्रयोपजीवी । कर्मारो लोहकारः तक्षादिश्च । तन्तुवायः सूचीशिल्पोपजीवी । श्वभिर्वृत्तिर्वर्तनं जीवनमस्यास्तीति श्ववृत्ती । एतेषामन्नं नाश्नीयात् ॥ १६३ ॥
नृशंसराजरजककृत प्रवधजीविनाम् ।
चैलधाव सुराजीव सहोपपतिवेश्मनाम् ॥ १६४ ॥ पिशुनानृतिनोश्चैव तथा चाक्रिकवन्दिनाम् ।
एषामन्नं न भोक्तव्यं सोमविक्रयिणस्तथा ॥ १६५ ॥
प्रसवमाह -
नृशंसो निर्दयः । राजा भूपतिः । तत्साहचर्यात्पुरोहितश्च । यथाह शङ्खः'भीतावगीत रुदिताक्रन्दितावघुष्टक्षुधितपरिभुक्तविस्मितोन्मत्तावधूतराजपुरोहितान्नानि वर्जयेत्' इति । रजको वस्त्रादीनां नीलादिरागकारकः । कृतघ्न उपकृतस्य हन्ता । वधजीवी प्राणिनां वधेन वर्तकः । चैलधावो वस्त्रनिर्णेजनकृत् । सुराजीवो मद्यविक्रयजीवी । उपपतिर्जारः । सहोपपतिना वेश्म यस्यासौ सहोपपतिवेश्मा | पिशुनः परदोषस्य ख्यापकः । अनृती मिथ्यावादी । चात्रिकस्तैलिकः । शाकटिकश्चेत्येके । अभिशस्तः पतितश्चाक्रिकस्तैलिक इति भेदेनाभिधानात् । बन्दिनः स्तावकाः । सोमविक्रयी सोमलताया विक्रेता । एतेषामन्नं न भोक्तव्यम् । सर्वे चैते कर्दयादयो द्विजा एव कदर्यत्वादिदोषदुष्टा अभोज्यान्नाः । इतरेषां प्रायभावात्प्राप्तिपूर्वकत्वाच्च निषेधेस्य ॥ १६४ ॥ १६५ ॥
अग्निहीनस्य नान्नमद्यादनापदीत्यत्र शूद्रस्याभोज्यान्नत्वमुक्तं तत्र प्रति
शूद्रेषु दासगोपाल कुलमित्रार्धसीरिणः ।
भोज्यान्ना नापितश्चैव यच्चात्मानं निवेदयेत् ॥ १६६ ॥
१ नील्या दिरागकरः क.
दासा गर्भदासादयः । गोपालो गवां पालनेन यो जीवति । कुलमित्रं पितृ
1
२ प्रतिषेधस्य क. ३ गवां पालकः गवां पालनेन ख.
-
For Private And Personal Use Only
Page #82
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
५०
Acharya Shri Kailassagarsuri Gyanmandir
याज्ञवल्क्यस्मृतिः ।
[ आचाराध्यायः
पितामहादिक्रमायातः । अर्धसीरी हलपर्यांयसीरोपलक्षित कृषिफलभागग्राही । नापितो गृहव्यापार कारयिता नापितश्च । यश्च वामनः कायकर्मभिरात्मानं निवेदयति तवाहमिति । एते दासादयः शूद्राणां मध्ये भोज्यान्नाः । चकारात्कुम्भकारश्च । - ' गोपनापितकुम्भकारकुलमित्रार्धिकनिवेदितात्मानो भोज्यान्नाः' इति वचनात् ॥ १६६ ॥
इति स्नातकधर्मप्रकरणम् ।
अथ भक्ष्याभक्ष्यप्रकरणम् ७
न स्वाध्यायविरोध्यर्धमित्यत आरभ्य ब्राह्मणस्य स्नातकव्रतान्यभिधायेदानीं द्विजातिधर्मानाह
अनर्चितं वृथामांसं केशकीटसमन्वितम् ।
शुक्तं पर्युषितोच्छिष्टं श्वस्पृष्टं पतितेक्षितम् ॥ १६७ ॥ उदक्यास्पृष्टसंघुष्टं पर्यायान्नं च वर्जयेत् ।
गोघातं शकुनोच्छिष्टं पदा स्पृष्टं च कामतः ॥ १६८ ॥ अनचितं अचय यदवज्ञया दीयते । वृथामांसं वक्ष्यमाणप्राणात्ययादिव्यतिरेकेण, देवाद्यर्धनावशिष्टं च यन्न भवति आत्मार्थमेव यत्साधितम् । केशकीटादिभिश्च समन्वितं संयुक्तम् । यत्स्वयमनम्लं केवलं कालपरिवासेन द्रव्यान्तरसंसर्गकालपरिवासाभ्यां वाम्लीभवति तच्छ्रुक्तदध्यादिव्यतिरेकेण । - 'न पापीय सोऽश्नमश्नीयान्न द्विःपर्क न शुक्तं न पर्युषितं अन्यत्र रागखाण्डवचुक्रदधिगुडगोधूमयवपिष्टविकारेभ्यः' इति शङ्खस्मरणात् । पर्युषितं राज्यन्तरितम् । उच्छिष्टं भुक्तोज्झितम् । श्वस्पृष्टं शुना स्पृष्टम् । पतितेक्षितं पतितादिभिरीक्षितम् । उदक्या रजस्वला तथा स्पृष्टम् । उदक्याग्रहणं चण्डालाद्युपलक्षणार्थम् । - - 'अमेध्यपतितचण्डालपुल्क सरजस्वलाकुन खि कुष्ठिसंस्पृष्टान्नं वर्जयेत्' इति शङ्खस्मरणात् । को भुङ्क्त इति यदाघुष्य दीयते तत्संघुष्टान्नम् । अन्यसंबन्ध्यन्यव्यपदेशेन यद्दीयते तत्पर्यायान्नम्, यथा-- ' ब्राह्मणानं ददच्छूद्रः शूद्राचं ब्राह्मणो ददत् । उभावेतावभोज्यान्नौ भुक्त्वा चान्द्रायणं चरेत् ॥' इति । पर्याचान्तमिति पाठे परिगतमाचान्तं गण्डूषग्रहणं यस्मिन् तत्पर्याचान्तं तन भोक्तव्यम् । एतदुक्तं भवति – गण्डूषग्रहणादूर्ध्व आचमनात्प्राक् न भोक्तव्यमिति । पार्श्वाचान्तमिति पाटे एकस्यां पङ्क्तौ पार्श्वस्थे आचान्ते न भोक्तव्यं भस्मोदकादिविच्छेदेन विना । वर्जयेदिति प्रत्येकं संबध्यते । तथा गोघ्रातं गवा आघातम् । शकुनोच्छिष्टं शकुनेन काकादिना भुक्तमास्वादितम् । पदा स्पृष्टं बुद्धिपूर्व पादेन स्पृष्टं वर्जयेत् ॥ १६७ ॥ १६८ ॥
१ कर्म स्थायी क.
For Private And Personal Use Only
Page #83
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भक्ष्याभक्ष्यप्रकरणम् ७] मिताक्षरासहिता।
५१ पर्युषितस्य प्रतिप्रसवमाह
अनं पर्युषितं भोज्यं स्नेहाक्तं चिरसंस्थितम् ।
अस्नेहा अपि गोधमयवगोरसविक्रियाः॥१६९॥ अन्नमदनीयं पर्युषितं घृतादिस्नेहसंयुक्तं चिरकालसंस्थितमपि भोज्यम् । गोभूमयवगोरसविक्रियाः मण्डकसक्तुकिलाटकूर्चिकाद्या अस्नेहा अपि चिरकालसं. स्थिता भोज्याः, यदि विकारान्तरमनापन्नाः । -'अपूपधानाकरम्भसक्तुयावकतैलपायसशाकानि शुक्तानि वर्जयेत्' इति वसिष्ठस्मरणात् ॥ १६९ ॥
संधिन्यनिर्दशावत्सागोपयः परिवर्जयेत् ।
औष्ट्रमैकशर्फ स्त्रैणमारण्यकमथाविकम् ॥ १७० ॥ गौः या वृषेण संधीयते सा संधिनी । 'वशां वन्ध्यां विजानीयादृषाक्रान्तां च संधिनीम्' इति त्रिकाण्डीसरणात् । या चैकां वेलामतिक्रम्य दुह्यते, याच वत्सान्तरेण संघीयते सापि संधिनी । प्रसूता सत्यनतिक्रान्तदशाहा अनिर्दशा । मृतवत्सा अवरसा । संधिनी च अनिर्दशा च अवत्सा च संधिन्यनिर्दशावत्सास्ताव गावश्च तासां पयः क्षीरं परिवर्जयेत् । संधिनीग्रहणं संधिनीयमलसुवोरुपलक्षणार्थम् । यथाह गौतमः-'स्यन्दिनीयमलसूसंधिनीनां च' इति । नवत्पयःस्तनी स्यन्दिनी । यमलसूर्यमलप्रसविनी । एवमजामहिष्योश्चानिर्दशयोः पयो वर्जयेत् ।-'गोमहिष्यजानामनिर्दशानाम्' इति वसिष्ठस्मरणात् । पयोगहणात्तद्विकाराणामपि दध्यादीनां निषेधः । नहि मांसनिषेधे तद्विकाराणामनिषेधो युक्तः । विकारनिषेधे तु प्रकृतेरनिषेधैः । पयोनिषेधाच्छकृन्मूत्रादेरनिषेधः। उष्ट्राजातमौष्ट्रं पयोमूत्रादि । एकशफा वडवादयः तत्प्रभवमैकशफम् । स्त्रीभवं
णम् । स्त्रीग्रहणमजाव्यतिरिक्तसकलद्विस्तनीनामुपलक्षणार्थम् । -'सर्वासां द्विस्तनीनां क्षीरमभोज्यमजावर्जम्' इति शङ्खस्मरणात् । अरण्ये भवा आरण्यकास्तदीयमारण्यकं क्षीरं माहिषव्यतिरेकेण । 'आरण्यानां च सर्वेषां मृगाणां माहिपं विना' इति वचनात् । अवेर्जातमाविकम् । वर्जयेदिति प्रत्येकमभिसंबध्यते । औष्ट्रमित्यादिविकारप्रत्ययनिर्देशाद्विकारमात्रस्य पयोमूत्रादेः सर्वदा निषेधः।'नित्यमाविकमपेयमौष्ट्रमैकशर्फ च' इति गौतमस्मरणात् ॥ १७ ॥
देवतार्थ हविः शिशु लोहितान्त्रश्चनांस्तथा ।
अनुपाकृतमांसानि विड्जानि कवकानि च ॥ १७१ ॥ देवतार्थे बल्युपहारनिमित्तं साधितम् । हविः हवनार्थ सिद्धं प्राक् होमात् । शिग्रुः सोभानः । लोहितान् वृक्षनिर्यासान् । व्रश्चनप्रभवान् वृक्षच्छेदनजातानलोहितानपि । यथाह मनुः-'लोहितान्वृक्षनिर्यासान्द्रश्चनप्रभवांस्तथा' इति। लोहितग्रहणात् हिडकर्पूरादीनामनिषेधः । अनुपाकृतमांसानि यज्ञेऽहुतस्य पशो१ सक्तुपाचकतैल. ख. २ रनिषेधो युक्त ख. ३ व्यतिरिक्तम् क. ४ शोभाञ्जनः क.
For Private And Personal Use Only
Page #84
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५२
याज्ञवल्क्यस्मृतिः ।
[ आचाराध्यायः
मौसानि । विजानि मनुष्यादिजग्धबीजपुरीषोस्पेनानि तन्दुलीयकप्रभृतीनि च । कवकानि छत्राकाणि । वर्जयेदिति प्रत्येकमभिसंबध्यते ॥ १७१ ॥
क्रव्यादपक्षिदात्यूहशुकप्रतुदटिट्टिभान् ।
सारसैकशफान्हंसान्सर्वांश्च ग्रामवासिनः ॥ १७२ ॥
क्रव्यादा आममांसादनशीलाः । पक्षिणो गृध्रादयः । दात्यूहश्चातकः । शुकः कीरः । चञ्वा प्रतुद्य भक्षयन्तीति प्रतुदाः श्येनादयः । टिट्टिभस्तच्छब्दानुकारी । सारसो लक्ष्मणः । एकशफ़ा अश्वादयः । हंसाः प्रसिद्धाः । ग्रामवासिनः पारावतप्रभृतयः । एतान्क्रव्यादादीन्वर्जयेत् ॥ १७२ ॥ कोयष्टिवचक्रावलाकाबक विष्किरान् ।
वृथाक्कसरसंयावपायसापूपशष्कुलीः ॥ १७३ ॥
I
कोयष्टिः क्रौञ्चः । लवो जलकुकुटः । चक्राह्वश्चक्रवाकः । बलाकाबकौ प्रसिद्धौ । नखैर्विकीर्यं भक्षयन्तीति विष्किराश्वकोरादय एव गृह्यन्ते । लावकमयूरादीनां भक्ष्यत्वात्, ग्रामकुकुटस्य ग्रामवासित्वादेव निषेधाच्च । एतान्कोयष्ट्या - दीन्वर्जयेत् । वृथा देवताद्युद्देशमन्तरेण साधिताः कृसरसंयावपायसाऽपूपशष्कुलीर्वर्जयेत् । कृसरं तिलमुद्गसिद्धे ओदनः । संयावः क्षीरगुडघृतादिकृत उत्करिकाख्यः पाकविशेषः । पायसं पयसा शृतमन्नम् । अपूपोऽस्नेहपको गोधूमविकारः । शष्कुली स्नेहपको गोधूमविकारः । ' न पचेदन्नमात्मने' इति कृस - रादीनां निषेधे सिद्धे पुनरभिधानं प्रायश्चित्तगौरवार्थम् ॥ १७३ ॥ कलविङ्कं सकाकोलं कुररं रज्जुदालकम् ।
जालपादान्खञ्जरीटानज्ञातांश्च मृगद्विजान् ॥ १७४ ॥
कलङ्को ग्रामचटकः । ग्रामनिवासित्वेन प्रतिषेधे सिद्धे सत्युभयचारित्वात्पुनर्वचनम् । काकोलो द्रोणकाकः । कुरर उत्क्रोशः । रज्जुदालको वृक्षकुट्टकः । जालपादो जालाकार पादः । अजालपादा अपि हंसाः सन्तीति हंसानां पुनर्वचनम् । खञ्जरीटः खञ्जनः । ज्ञातितो ये अज्ञाता मृगाः पक्षिणश्च । एतान्कलचिङ्कादीन्वर्जयेत् ॥ १७४॥
चापांच रक्तपादांश्च सौनं वल्लुरमेव च ।
मत्स्यांश्च कामतो जग्ध्वा सोपवासख्यहं वसेत् ।। १७५ ।। चाषाः किकीदिवयः । रक्तपादाः कादम्बप्रभृतयः । सूनिना त्यक्तं सौनं घात - स्थानभवं मांसं भक्ष्याणामपि । वल्लूरं शुष्कमांसम् । मत्स्या मीनाः । एतांश्चाषादीन्वर्जयेत् । चकारान्नालिकाशणछत्रा ककुसुम्भादीन् । - ' - 'नालिकाशणछत्राककुसुम्भालावुविद्भवान् । कुम्भीर्केन्दुकवृन्ताककोविदारांश्च वर्जयेत् ॥' इति 'तथा
१. पुरीषस्थाने उत्पन्नानि क. २ तिलमुद्गमिश्र ओदनः क. ३ उभयपरत्वात् ख.
४ कम्बुक क
For Private And Personal Use Only
Page #85
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भक्ष्याभक्ष्यप्रकरणम् ७] मिताक्षरासहिता।
५३
ऽकालप्ररूढानि पुष्पाणि च फलानि च । विकारवञ्च यत्किंचित्प्रयत्नेन विवर्जयेत् ॥' 'तथा वटप्लक्षाश्वत्थकपित्थनीपमातुलिङ्गफलानि वर्जयेत्' इति स्मरणात्। एतान्संधिनीक्षीरप्रभृतीननुक्रान्तान्कामतो भक्षयित्वा त्रिरात्रमुपवसेत् । अकामतस्त्वहोरात्रम् । शेषेषूपवसेदहः' इति मनुस्मरणात् । यत्पुनः शङ्खनोक्तम्'बलबलाकाहंसप्लवचक्रवाककारण्डवगृहचटककपोतपारावतपाण्डुशुकसारिकासारसटिट्टिभोलूककङ्करक्तपादचाषभासवायसकोकिलशावलिकुक्कुटहारीतभक्षणे द्वादशरात्रमनाहारः पिबेद्गोमूत्रयावकम्' इति तद्वहुकालाभ्यासे मतिपूर्वे समस्तभक्षणे वा वेदितव्यम् ॥ १७५ ॥
पलाण्डु विड्वराहं च छत्राकं ग्रामकुक्कुटम् ।
लशुनं गृञ्जनं चैव जग्ध्वा चान्द्रायणं चरेत् ॥ १७६ ॥ पलाण्डुः स्थूलकन्दनालो लशुनानुकारी । विवराहो ग्रामसूकरः। छत्राकं सर्पछत्रम् । ग्रामकुक्कुटः प्रसिद्धः । लशुनं रसोनं सूक्ष्मश्वेतकन्दनालम् । गृञ्जनं लशुनानुकारिलोहितसूक्ष्मकन्दम् । एतानि षट् सकृत्कामतो जग्ध्वा भक्षयित्वा चान्द्रायणं वक्ष्यमाणलक्षणं चरेत् । ग्रामकुक्कुटछत्राकयोः पूर्वप्रेतिषेधितयोरिहाभिधानं पलाण्ड्वादिसमानप्रायश्चित्तार्थम् । मतिपूर्व चिरतराभ्यासे तु 'छत्राकं विवराहं च लशुनं ग्रामक्कुटम् । पलाण्डं गृञ्जनं चैव मत्या जग्ध्वा पतेविजः' इति (५।१९) मनूक्तं । अमतिपूर्वाभ्यासे-'अमत्यैतानि षट् जग्ध्वा कृच्छ्रे सान्तपनं चरेत् । तृतीयाध्याये वक्ष्यमाणं यतिचान्द्रायणं वापि' इति द्रष्टव्यम् । अमतिपूर्वाभ्यासे तु शङ्खोक्तं-'लशुनपलाण्डुगृञ्जनविचराहग्रामकुक्कुटकुम्भीकभक्षणे द्वादशरात्रं पयः पिबेत्' इति ॥ १७६ ॥
भक्ष्याः पञ्चनखाः सेधागोधाकच्छपशल्लकाः। शशश्च मत्स्येष्वपि हि सिंहतुण्डकरोहिताः ॥ १७७ ॥
तथा पाठीनराजीवसशल्काश्च द्विजातिभिः। सेधा श्वावित् । गोधा कृकलासानुकारिणी महती । कच्छपः कूर्मः । शल्लकः शल्लकी । शशः प्रसिद्धः । पञ्चनखादीनां श्वमार्जारवानरादीनां मध्ये एते सेधादयो भक्ष्याः। चकारात्खगोऽपि । यथाह गौतमः-'पञ्चनखाः शशशल्लकश्वाविद्रोधाखङ्गकच्छपाः' इति । यथाह मनुरपि-'श्वाविधं शल्लक गोधां खगकू. मंशशांस्तथा । भक्ष्यान्पञ्चनखेष्वाहुरनुष्ट्रांश्चैकतोदतः ॥' इति । यत्पुनर्वसिष्ठेन 'खड्ने तु विवदन्ते' इत्यभक्ष्यत्वमुक्तं तच्छ्राद्धादन्यत्र । 'खड्गमांसैर्भवेद्दत्तमक्षय्यं पितृकर्मणि' इति श्राद्धे फलश्रुतिदर्शनात् । तथा मत्स्यानां मध्ये सिंहतुण्डादयो भक्ष्याः । सिंहतुण्डः सिंहमुखः । रोहितो लोहितवर्णः। पाठीनश्चन्द्रकाख्यः । राजीवः पद्मवर्णः । सह शल्कैः शुक्त्याकारैर्वर्तत इति सशल्कः । एते च सिंह१ दघित्थ क. २ प्रतिषिद्धयो. क. ३ शल्यकाः क. ४ शालुकः शाली. ५ शल्यक..
For Private And Personal Use Only
Page #86
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
याज्ञवल्क्यस्मृतिः। [आचाराध्यायः तुण्डादयो नियुक्ता एव भक्ष्याः । 'पाठीनरोहितावाद्यौ नियुक्ती हव्यकव्ययोः । राजीवाः सिंहतुण्डाश्च सशल्काश्चैव सर्वशः ॥' इति (५।१६) मनुस्मरणात् । द्विजातिग्रहणं शूद्रव्युदासार्थम् ॥ १७७ ॥
अनर्चितं वृथामांसमित्यारभ्य द्विजातिधर्मानुक्त्वेदानीं चातुर्वर्ण्यधर्मानाह___ अतः शृणुध्वं मांसस्य विधिं भक्षणवर्जने ॥ १७८ ॥
मांसस्य प्रोक्षितादेर्भक्षणे तब्यतिरिक्तस्य च निषिद्धस्य वर्जने प्रोक्षितादिव्यतिरेकेण मांसं न भक्षयामीत्येवं संकल्परूपेण विधि सामश्रवःप्रभृतयः हे मुनयः शृणुध्वम् ॥ १७८ ॥ तत्र भक्षणे विधिं दर्शयति
प्राणात्यये तथा श्राद्धे प्रोक्षिते द्विजकाम्यया ।
देवान्पितॄन्समभ्यच्ये खादन्मांसं न दोषभाक् ॥ १७९ ॥ अन्नाभावेन व्याध्यमिभवेन वा मांसभक्षणमन्तरेण यदा प्राणबाधा भवति तदा मांसं नियमेन भक्षयेत् । 'सर्वत एवात्मानं गोपायेत्' इत्यात्मरक्षाविधानात् । तस्मादु ह न पुरायुषः स्वःकामी प्रेयात्' इति मरणनिषेधाश्च । तथा श्राद्धे मांसं निमनितो नियमेन भक्षयेत् । अभक्षणे दोषश्रवणात् ।-'यथाविधि नियुक्तस्तु यो मांसं नात्ति मानवः । स प्रेत्य पशुतां याति संभवानेकविंशतिम् ॥' इति मनुस्मरणात् ।प्रोक्षणाख्यश्रौतसंस्कारसंस्कृतस्य पशोर्यागार्थस्थानीषोमीयादेहुँतावशिष्टं मांसं प्रोक्षितं तद्भक्षयेत् । अभक्षणे यागानिष्पत्तेः । द्विजकाम्या ब्राह्मणभोजनार्थे देवपित्रर्थं च यत्साधितं तेन तानभ्यया॑वशिष्टं भक्ष. यन्न दोषभाग्भवति । एवं भृत्यभरणावशिष्टमपि ।-'यज्ञार्थ ब्राह्मणैर्वध्याः प्रशस्ता मृगपक्षिणः । भृत्यानां चैव वृत्त्यर्थमगस्त्यो ह्याचरम्पुरा ॥' इति (५।२२)मनुस्मरणात् । न दोषभागिति दोषाभावमात्रं वदता अतिथ्याद्यर्चनावशिष्टस्याभ्यनुज्ञामानं न प्रोक्षितादिवनियम इति दर्शितम् । एवमप्रतिषिद्धानामपि शशादीनां प्राणात्ययव्यतिरेकेणाभक्ष्यत्वावगमात् शूद्रस्यापि मांसप्रतिबद्धः सर्वविधिनिषेधाधिकारोऽवगम्यते ॥ १७९ ॥
इदानीं प्रोक्षिताव्यतिरिक्तस्य वृथामांसमित्यनेन प्रतिषिद्धस्य भक्षणे निन्दार्थवादमाह
वसेत्स नरके घोरे दिनानि पशुरोमभिः ।
संमितानि दुराचारो यो हन्त्यविधिना पशून् ॥१८० ॥ अविधिना देवताद्युद्देशमन्तरेण यः पशून्हन्ति स तस्य पशोर्यावन्ति रोमाणि तावन्ति दिनानि घोरे नरके वसेत् । हन्तीत्यष्टविधोऽपि घातको गृह्यते ।
१ नियुक्तस्यैव क. २ चातुर्वर्ण्य प्रत्याह क. ३ तस्मादिह ख. ४ अभक्षणाद्यागा ख. ५ह्यचरत्तथा ख.
For Private And Personal Use Only
Page #87
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्रव्यशुद्धिप्रकरणम् ८] मिताक्षरासहिता ।
५५
यथाह मनुः (५/५१ ) ' अनुमन्ता विशसिता निहन्ता क्रयविक्रयी । संस्कर्ता चोपहर्त्ता च खादकश्चेति घातकाः ॥' इति ॥ १८० ॥
इदानीं वर्जने विधिमाह
सर्वान्कामानवाप्नोति हयमेधफलं तथा । गृहेऽपि निवसन्विप्रो मुनिर्मासविवर्जनात् ॥ १८१ ॥
इदानीं द्रव्यशुद्धिमाह
यः प्रोक्षितादिव्यतिरेकेण मया मांसं न भक्षितव्यमिति सत्यसंकल्पो भवति स सर्वान्कामान् तत्साधने प्रवृत्तो निर्विघ्नं प्राप्नोति । विशुद्धाशयत्वात् । यथाह मनुः ( ५/४७ ) - 'यद्ध्यायते यत्कुरुते रतिं बध्नाति यत्र च । तदवाप्नोत्यविन यो हिनस्ति न किंचन ।' इति । एतच्चानुषङ्गिकं फलम् । मुख्यं फलमाह - इयमेधफलं तथेति । एतच्च सांवत्सरिकसंकल्पस्य । - ' वर्षे वर्षेऽश्वमेधेन यो यजेत
ते समाः । मांसानि च न खादेद्यस्तयोः पुण्यफलं समम् ॥' इति ( ५/५३ ) मनुस्मरणात् । तथा गृहेऽपि निवसन्ब्राह्मणादिश्वातुवर्णिको मुनिवन्माननीयो भवति मांसत्यागात् । एतच्च न प्रतिषिद्धमांसविषयं नापि प्रोक्षितादिविषयम्, किंतु पारिशेष्यादतिथ्याद्यर्चना वशिष्टाभ्यनुज्ञातविषयमिति ॥ १८१ ॥ इति भक्ष्याभक्ष्यप्रकरणम् ।
अथ द्रव्यशुद्धिप्रकरणम् ८
सौवर्णराज ताब्जानामूर्ध्वपात्रग्रहाश्मनाम् । शाकरज्जुमूलफलवासोविदलचर्मणाम् ।। १८२ ।। पात्राणां चमसानां च वारिणा शुद्धिरिष्यते । चरुस्रुक्स्रुव सस्नेहपात्राण्युष्णेन वारिणा ।। १८३ ॥
सौवर्ण सुवर्णकृतम् । राजतं रजतकृतम् । अजं मुक्ताफलशङ्खशुक्त्यादि । ऊर्ध्वपात्रं यज्ञियोलूखलादि, ग्रहादिसाहचर्यात् । ग्रहाः षोडेशिप्रभृतयः । अश्मा दृषदादिः । शाकं वास्तुकादि । रज्जुः बल्वजादिनिर्मिता । मूलमाईकादि । फलमात्रादि । वासो वस्त्रम् । विदलं वैणवादि । चर्म अजादीनाम् । विदलचर्मणोग्रहणं तद्विकाराणां छत्रवरत्रादीनामुपलक्षणार्थम् । पात्राणि प्रोक्षणी पात्रप्रभृतीनि । चमसा होतृचमसादयः । एतेषां सौवर्णादीनां लेपरहितानामुच्छिष्टस्पर्शमात्रे वारिणा प्रक्षालनेन शुद्धिः । चरुश्वरस्थाली । स्रुक्स्रुवौ प्रसिद्धौ । सस्नेहानि पात्राणि प्राशित्रहरणादीनि । एतानि च लेपरहितान्युष्णेन वारिणा शुध्यन्ति । - 'निर्लेपं काञ्चनं भाण्डमद्भिरेव विशुध्यति । अनमश्ममयं चैव राजतं चानुप१ परिशेषात् ख. • २ षोडशी यज्ञियपात्र विशेषः. या०.८
For Private And Personal Use Only
Page #88
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५६
याज्ञवल्क्यस्मृतिः ।
[ आचाराध्यायः
स्कृतम् ॥' इति (५।११२) मनुस्मरणात् । अनुपस्कृतमखातपूरितम् । सलेपानां तु — " तैजसानां मणीनां च सर्वस्याश्ममयस्य च । भस्मनाद्भिर्मृदा चैव शुद्धिरुक्ता मनीषिभिः ॥' इति (५।१११) मनूक्तं द्रष्टव्यम् । मृद्भस्मनोरेककार्यत्वाद्विकल्पः । आपस्तु समुच्चीयन्ते । काकादिमुखोपघाते तु - ' कृष्णशकुनिमुखावमृष्टं पात्रं निर्लिखेत्, श्वापदमुखावमृष्टं पात्रं न प्रयुञ्जीत' इति द्रष्टव्यम् । एतच्च मार्जारादन्यत्र । - ' मार्जारश्चैव दव च मारुतश्च सदा शुचिः ।' इति मनुस्मरणात् ॥ १८२ ॥ १८३ ॥
यज्ञपात्रादीनां प्रोक्षणेन शुद्धिः
स्यशूर्पाऽजिनधान्यानां मुसलोलूखलाऽनसाम् ।
प्रोक्षणं संहतानां च बहूनां धान्यवाससाम् || १८४ ॥
स्फ्यो वज्रो यज्ञाङ्गम् । अनः शकटम् । शेषं प्रसिद्धम् । एतेषामुष्णेन वारिणा शुद्धिः । पुनरजिनग्रहणं यज्ञाङ्गाजिनप्रात्यर्थम् । संहतानामशुद्धिद्रव्यांरब्धावयविनां बहूनां धान्यानां वाससां च । वासोग्रहणमुक्तशुद्धीनामुपलक्षणार्थम् । उक्तशुद्धीनां धान्यवासःप्रभृतीनां बहूनां च राशीकृतानां प्रोक्षणेनैव शुद्धिः । बहुत्वं च स्पृष्टापेक्षया । एतदुक्तं भवति - यदा धान्यानि वस्त्रादीनि वा राशीकृतानि तन्त्र चण्डालादिस्पृष्टान्यल्पानि बहूनि चास्पृष्टानि तत्र स्पृष्टानामुक्तैव शुद्धिरितरेषां प्रोक्षणमिति । तथाच स्मृत्यन्तरम् - 'वस्त्र धान्यादिराशीनामेकदेशस्य दूषणे । तावन्मात्रं समुद्धृत्य शेषं प्रोक्षणमर्हति ॥' इति । यदा पुनः स्पृष्टानां बहुत्वं अस्पृष्टानां चाल्पत्वं तदा सर्वेषामेव क्षालनम् । यथाह मनुः (५।११८) - 'अद्भिस्तु प्रोक्षणं शौचं बहूनां धान्यवाससाम् । प्रक्षालनेन त्वल्पानामद्भिः शौचं विधीयते ॥' इति । स्पृष्टानामस्पृष्टानां च समत्वेऽपि प्रोक्षणमेव । बहूनां प्रोक्षणविधानेनाल्पानां क्षालने सिद्धे पुनरल्पानां क्षालनवचनस्य समेषु क्षालननिवृत्यर्थत्वात् । इयत्स्पृष्टमि यदस्पृष्टमित्यविवेके तु क्षालनमेव । पाक्षिकस्यापि दोषस्य परिहर्तव्यत्वात् अनेकपुरुषैर्धार्यमाणानां तु धान्यवासः प्रभृतीनां स्पृष्टानामस्पृटानां च प्रोक्षणमेवेति निबन्धकृतः ॥ १८४ ॥
निर्लेपानां स्पर्शमात्रदुष्टानां शुद्धिमुक्त्वेदानीं सलेपानां शुद्धिमाहतक्षणं दारुशृङ्गास्थां गोवालैः फलसंभुवाम् ।
मार्जनं यज्ञपात्राणां पाणिना यज्ञकर्मणि ॥ १८५ ॥
दारूणां मेषमहिषादिशृङ्गाणां करिवाराहशङ्खाद्यस्नाम् । अस्थिग्रहणेन दन्तानामपि ग्रहणम् । उच्छिष्टसे हादिभिर्लिप्तानां मृद्भस्मोदकादिभिरनपगतलेपानाम् । (मनु: ५। १२६ ) – ' यावन्नापैत्यमेध्याक्कादन्धो लेपश्च तत्कृतः । तावन्मृद्वारि चादेयं सर्वासु द्रव्यशुद्धिषु ॥' इति सामान्यतः शुद्धिविधानात् । तक्षणं तावन्मात्रावयवापनयनं शुद्धिः । फलसंभुवां बिल्वालाबुनालिकेरादि फलसंभूतानां पा
१ मुखावघृष्टं ख. २ द्रव्याणां बहूनां ख- ३ क्षालनवचननिवृ. ख.
For Private And Personal Use Only
Page #89
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
द्रव्यशुद्धिप्रकरणम् ८] मिताक्षरासहिता ।
त्राणां गोवालेरुदर्पणाच्छुद्धिः । यज्ञपात्राणां स्रुक्खुवादीनां यज्ञकर्मणि प्रयुज्यमानानां दक्षिणेन हस्तेन दर्भेर्दशापवित्रेण वा यथाशास्त्रं कर्माङ्गतया मार्जनं कतंव्यम् । एतच्च श्रौतमुदाहरणमन्येषामपि सौवर्णादीनां पात्राणां स्मार्तलौकिककर्मसु कृतशौचानामेवाङ्गत्वमिति दर्शयितुम् । यज्ञाङ्गानां पुनः कृतशौचानामिदं दशापवित्रादिभिर्मार्जनं संस्कारार्थमिति शेषः ॥ १८५ ॥
·.
इदानीं सलेपानामेव केषांचिल्लेपापकर्षणे विशेषहेतूनाह
सोषरोदकगोमूत्रैः शुद्ध्यत्याविककौशिकम् । सश्रीफलैरंशुपतं सारिष्टैः कुतपं तथा ।। १८६ ॥
anton
ऊपर मृत्तिकासहितेन गोमूत्रेणोदकेन वा लेपापेक्षया । आविकमूर्णामयम् । कौशिकं कोशप्रभवं तसरीपट्टादि प्रक्षालितं शुद्ध्यति । उदकगोमूत्रैरिति बहुवचनं पश्चादप्युदकप्रात्यर्थम् । अंशुपट्टे वल्कलतन्तुकृतम् । सश्रीफलैर्बिल्वफलसहितैः । कुतपः पार्वतीयच्छागरोम निर्मितकम्बलः । अरिष्टे सहितैरुदकगोमूत्रैः शुद्ध्यतीत्यनुवर्तते । एतच्चोच्छिष्टस्नेहादियोगे सति वेदितव्यम् । अल्पोपघाते तु प्रोक्षणादि । क्षालनासहत्वात् । सर्वत्र द्रव्याविनाशेनैव शुद्धेरिष्टत्वात् । तथाच देवलः - 'ऊर्णा कौशेय कुतप पक्ष मदुकूलजाः । अल्पशांचा भवन्त्येते शोषणप्रोक्षणादिभिः॥' इत्यभिधायाह - ' तान्येवामेध्ययुक्तानि क्षालयेच्छोधनैः स्वकैः । धान्यकल्कैस्तु फलजै रसैः क्षारानुगैरपि ॥' इति । क्षौमवदेव शाणस्य समानयोनित्वात् । ऊर्णादिग्रहणं तदारब्धतूलिकादिप्राध्यर्थम् । अतस्तस्याल्पोपघाते नैव क्षालनं कार्यम् । 'अमेध्यले पादन्यत्र - 'तूलिकामुपधानं च पुष्परक्ताम्बरं तथा । शोषयित्वा तपे किंचित्करैः संमार्जयेन्मुहुः ॥ पश्चाश्च वारिणा प्रोक्ष्य विनियुञ्जीत कर्मणि । तान्यप्यतिमलिष्ठानि यथावत्परिशोधयेत् ॥' इति देवलस्मरणात् । पुष्परक्तानि कुङ्कुमकुसुम्भादिरक्तानि । पुष्परक्तग्रहणमन्यस्यापि हरिद्रादिरक्तस्य क्षालनासहस्य प्रत्यर्थम् । न मञ्जिष्ठादेः । तस्य क्षालनसहत्वात् । शङ्खेनाप्युक्तम्- 'रागद्रव्याणि प्रोक्षितानि शुचीनि' इति ॥ १८६ ॥
१ हेतुलक्षणेनाह क. त्वात् ख. ४ मद्यमूत्रपुरीषैश्च श्लेष्मपूयाश्रशोणितैः क.
५७
सगौरसर्षपैः क्षौमं पुनः पाकान्महीमयम् ।
कारुहस्तः शुचिः पण्यं भैक्षं योपिन्मुखं तथा ॥ १८७ ॥
गौर सर्षपसहितैरुदकगोमूत्रैः क्षौमं क्षुमा अतसी तत्सूत्रनिर्मितं पटादि शुयति । पुनः पाकेन मृन्मयं घटादि । एतच्चोच्छिष्टस्नेहलेपे वेदितव्यम् । मनुः (५/१२३ ) - 'मैत्रः पुरीषैर्वा ष्ठीवनैः पूयशोणितैः । संस्पृष्टं नैव शुद्ध्येत पुन:पाकेन मृन्मयम् ॥' इति स्मरणात् । चण्डालाद्युपघाते तु त्याग एव । यथाह पराशरः - ' चण्डालाद्यैस्तु संस्पृष्टं धान्यं वस्त्रमथापि वा । प्रक्षालनेन शुच्येत परित्यागान्महीमयम् ॥' इति । कारवो रजकचैलधावक सूपकाराद्यास्तेषां हस्तः २ अरिष्टफलसहितैः ख. अरिष्टसहितैः फेनकसहि... ३ योग
For Private And Personal Use Only
Page #90
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५८
याज्ञवल्क्यस्मृतिः।
[आचाराध्यायः
सदा शुचिः । शुचित्वं तत्साध्ये कर्मणि । वस्त्रधावनादौ सूतकादिसंभवेऽपि । तथाच स्मृत्यन्तरम्-'कारवः शिल्पिनो वैद्या दास्यो दासास्तथैव च ।. राजानो राजभृत्याश्च सद्यःशौचाः प्रकीर्तिताः ॥' इति । पण्यं पणार्ह विक्रेयं यवव्रीह्यादि । अनेकक्रेतृजनकरपरिघट्टितमप्यप्रयतं न भवति । सूतकादिनिमित्तेन च वणिजाम् । भिक्षाणां समूहो भैक्षं तद्ब्रह्मचार्यादिहस्तगतं अनाचान्तस्त्रीप्रदानाऽशुचिरथ्याक्रमणादिना निमित्तेनापि न दुष्यति । तथा योषिन्मुखं संभोगकाले शुचि । 'स्त्रियश्च रतिसंसर्गे' इति स्मरणात् ॥ १८७ ॥ इदानीं भूशुद्धिमाह
भूशुद्धिर्मार्जनाद्दाहारकालाद्गोक्रमणात्तथा ।
सेकादुल्लेखनाल्लेपागृहं मार्जनलेपनात् ॥ १८८ ॥ मार्जन्यां पांसुतृणादीनां प्रोत्सारणं मार्जनम् । दाहस्तृणकाष्ठायैः । कालो यावता कालेन लेपादिक्षयो भवति तावान् । गोक्रमणं गवां पादपरिघट्टनम् । सेकः क्षीरगोमूत्रगोमयवारिभिः प्रवर्षणं वा । उल्लेखनं तक्षणं खननं वा । लेपो गोमयादिभिः । एतैर्मार्जनादिभिः समस्तैयस्तैर्वा अमेध्यादिदुष्टा मलिना च भूमिः शुद्यति । तथाच देवलः-'यत्र प्रसूयते नारी म्रियते दह्यतेऽपि वा। चण्डालाध्युषितं यत्र यत्र विष्ठादिसंहतिः॥ एवं कश्मलभूयिष्ठा भूरमेध्या प्रकीर्तिता । श्वसूकरखरोष्ट्रादिसंस्पृष्टा दुष्टतां व्रजेत् ॥ अङ्गारतुषकेशास्थिभस्माधैर्मलिना भवेत् ॥' इत्यमेध्या दुष्टा मलिनेति शोध्यभूमेस्पैविध्यमभिधाय शु. द्धि विभागं दर्शयति-'पञ्चधा वा चतुर्धा वा भूरमेध्यापि शुद्ध्यति । दुष्टान्विता विधा द्वेधा शुध्यते मलिनकधा ॥' इति । यत्र मनुष्या दह्यन्ते यत्र चण्डालैरध्युषितं तत्र पञ्चभिर्दहनकालगोक्रमणसेकोल्लेखनैः शुद्धिः । यत्र मनुष्या जायन्ते यत्र म्रियन्ते यत्र चात्यन्तं विष्टादिसंहतिः तासां दाहवर्जितैस्तैरेव चतुर्भिः । श्वसूकरखरैश्चिरकालमध्युषितायाः गोक्रमणसेकोल्लेखनैस्त्रिभिः । उष्ट्रनामकुक्कुटादिभिश्विरकालमधिवासितायाः सेकोल्लेखनाभ्यां शुद्धिः। अङ्गारतुषकेशादिभिश्चिरकालमधिवासिताया उल्लेखनेन शुद्धिः । मार्जनानुलेपने तु सर्वत्र समुच्चीयते । एवं गृहं मार्जनलेपनाभ्यां शुद्ध्यति । गृहस्य पृथगुपादानं संमार्जनलेपनयोः प्रतिदिवसं प्राप्त्यर्थम् ॥ १८८ ॥
गोध्रातेऽन्ने तथा केशमक्षिकाकीटदूषिते ।
सलिलं भस मृद्वापि प्रक्षेप्तव्यं विशुद्धये ॥ १८९ ॥ गोध्राते गोनिःश्वासोपहतेऽन्ने अदनीयमात्रे । तथा केशमक्षिकाकीटैर्दूषिते । केशग्रहणं लोमादिप्राप्त्यर्थम् । कीटाः पिपीलिकादयः । उदकं भस्म मृद्वा यथासंभवं प्रक्षेप्तव्यं शुद्ध्यर्थम् । यत्तु गौतमेनोक्तम्-'नित्यमभोज्यं केशकीटावपअम्' इति तत्केशकीटादिभिः सह यत्पक्कं तद्विषयम् ॥ १८९ ॥ १ संगतिः ख. २ विशुद्ध्यति क. ३ तस्याः पञ्च क., तयोः पञ्च ख.
For Private And Personal Use Only
Page #91
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्रव्यशुद्धिप्रकरणम् ८ ] मिताक्षरासहिता ।
पुसीसकताम्राणां क्षाराम्लोदकवारिभिः ।
भस्माद्भिः कांस्यलोहानां शुद्धिः प्लावो द्रवस्य तु ॥१९०॥ त्रपुप्रभृतीनि प्रसिद्धानि तेषां क्षारोदकेनाम्लोदकेन वारिणा वोपघातापे. क्षया समस्तैयस्तैर्वा शुद्धिः कार्या । कांस्यलोहानां भसोदकेन । ताम्रग्रहणाद्रीतिकापित्तलयोर्ग्रहणम् । एकयोनित्वात् । एतच्च ताम्रादीनामम्लोदकादिभिः शुद्ध्यभिधानं न नियमार्थम् । 'मलसंयोगजं तजं यस्य येनोपहन्यते । तस्य तच्छोधनं प्रोक्तं सामान्यं द्रव्यशुद्धिकृत् ॥' इत्यविशेषेण स्मरणात् । अतो न ताम्रादेरुच्छिष्टोदकादिलेपस्यान्येनापगमसंभवे नियमेनाम्लोदकादिना शुद्धिः कार्या । अतएव मनुना सामान्येनोक्तम्-'ताम्रायःकांस्यरैत्यानां पुणः सीस. कस्य च । शौचं यथा कर्तव्यं क्षाराम्लोदकवारिभिः ॥' इति । यत्तु-'भसना शुद्ध्यते कांस्यं ताम्रमम्लेन शुद्ध्यति' इति, तत्ताम्रादेः शौचस्य परां काष्ठां प्रतिपादयितुं नान्यस्य निषेधाय । यदा तूपघातातिशयस्तदाम्लोदकादीनामावृत्तिः । -'गवाघ्रातानि कांस्यानि शूद्रोच्छिष्टानि यानि च । शुद्ध्यन्ति दशभिः क्षारैः श्वकाकोपहतानि च ॥' इति स्मरणात् । दशक्षारानाह-'तिलमुष्ककशिग्रूणां कोकिलाक्षपलाशयोः। काकजङ्घा तथावज्ञचिञ्चाश्वत्थवटस्य च ॥ एभिस्तु दशभिः क्षारैः शुद्धिर्भवति कांस्यके ॥' शुद्धिः प्लावो द्रवस्य त्विति । द्रवस्य द्रवद्रव्यस्य घृतादेः प्रस्थप्रमाणाधिकस्य श्वकाकाद्युपहतस्य अमेध्यसंस्पृष्टस्य च प्लावः प्लावनं समानजातीयेन द्रवद्रव्येण भाण्डस्यातिपूरणं यावन्नि:सरणं शुद्धिरित्यनुवर्तते । ततोऽल्पस्य त्यागः । बह्वल्पत्वं च देशकालाद्यपेक्षयापि वेदितव्यम् । यथाह बौधायन:-'देशं कालं तेथा मानं द्रव्यं द्रव्यप्र. योजनम् । उपपत्तिमवस्थां च ज्ञात्वा शौचं प्रकल्पयेत् ॥' इति । कीटाधुपहतस्य तूत्पवनम् । यथाह मनुः-'द्रवाणां चैव सर्वेषां शुद्धिरुत्पवनं स्मृतम्' इति । उत्पवनं चात्र वस्त्रान्तरिते पात्रे प्रक्षेपः । अन्यथा कीटाद्यपगमस्यासंभवात् । शूद्रभाण्डस्थितस्य मधूदकादेः पात्रान्तरानयनाच्छुद्धिः।-'मधूदके पयस्तद्विकाराश्च पात्रात्पात्रान्तरानयने शुद्धाः' इति बौधायनस्मरणात् । मधुतादेवापसदहस्तात्प्राप्तस्य पात्रान्तरानयनं पुनः पवनं च कार्यम् । यथाह शङ्ख:-'अभ्यवहार्याणां घृतेनाभिघारितानां पुनः पवनमेवं स्नेहानां स्नेहवन्द्रसानाम्' इति ॥ १९० ॥ .. एवं सौवर्णराजतादीनामेतत्प्रकरणप्रतिपादितानां सर्वेषामुच्छिष्टस्नेहाद्युपधाते शुद्धिमुक्त्वेदानीं तेषामेवामेध्योपहतानां शुद्धिमाह
अमेध्याक्तस्य मृत्तोयैः शुद्धिर्गन्धादिकर्षणात् । वाक्शस्तमम्बुनिर्णिक्तमज्ञातं च सदा शुचि ॥ १९१ ॥ अमेध्याः शरीरजा मला वसाशुक्रादयः।--'वसा शुक्रमसृङ्मजामूत्रविकर्ण. १ दकवारिणा क. २ दकादिभिः क. ३ इदं क. पुस्तकेऽधिकम्. ४ अमेध्यद्रव्य क. ५ तथात्मानं ख. ६ घृतादेहींनवर्णा क. ७ पचनं कार्य ख.
For Private And Personal Use Only
Page #92
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
याज्ञवल्क्यस्मृतिः।
[आचाराध्यायः
विण्नखाः । श्लेष्मा-श्रु दूषिका स्वेदो द्वादशैते नृणां मलाः ॥' तथा-'मानु. पास्थि शवं विष्ठा रेतो मूत्रार्तवं वसा । स्वेदा-श्रु दूषिका श्लेष्म मद्यं चामेध्यमुच्यते ॥' इति । अमेध्यादयो मला मनुदेवलादिभिः प्रतिपादिताः तैर्वसादिरक्तलिप्तममेध्याक्तं तस्य मृदा तोयेन च शुद्धिः कर्तव्या गन्धापकर्षणेन । आदिग्रहणाल्लेपस्यापि ग्रहणम् । यथाह गौतमः - लेपगन्धापकर्षणैः शौचममेध्यलिप्तस्य' इति । सर्वशुद्धिषु च प्रथमं मृत्तोयैरेव लेपगन्धापकर्षणं कार्यम् । यदि गन्धादि मृत्तायैनं गच्छति तदान्येन । 'अशक्तावन्येन मृदद्भिः पूर्व मृदा च' इति गौतमस्मरणात् । वसादिग्रहणं च सर्वेषाममेध्यत्वं प्रतिपादयितुं न समानोपघाताय-'मद्यमूत्रपुरीषैश्च श्लेष्मपूयाश्रुशोणितैः । संस्पृष्टं नैव शुद्ध्येत पुनःपाकेन मृन्मयम् ॥' इत्युपघाते विशेषाभिधानात्---'अमेध्यत्वं चैवमेषां देहाच्चैव मलाच्युताः' इति वचनाद्देहच्युतानामेव न स्वस्थानावस्थितानाम् । पुरुषस्य नाभेरूज़ करव्यतिरिक्ताङ्गानामन्यामध्यस्पर्शे स्नानम् । यथाह देवल: --'मानुषास्थि वसां विष्ठामार्तवं मूत्ररेतसी । मजानं शोणितं स्पृष्ट्वा परस्य स्नानमाचरेत् ॥' इति-'तान्येव स्वानि संस्पृश्य प्रक्षाल्याचम्य शुद्ध्यति' इति । तथा-'अर्व नाभेः करौ मुक्त्वा यदङ्गमुपहन्यते । तत्र स्नानमधस्तात्तु प्रक्षाल्याचम्य शुद्ध्यति ॥' इति । कृतेऽपि यथोक्तशौचे मनसोऽपरितोषाद्यत्र शुद्धिसंदेहो भवति तद्वाक्शस्तं शुचि । शुद्धमेतदस्त्विति ब्राह्मणवचनेन शुद्धं भवतीत्यर्थः । अम्बुनिर्णिक्तं यत्र प्रतिपदोक्ता शुद्धिर्नास्ति तस्य प्रक्षालनेन शुद्धिः । प्रक्षालनासहस्य प्रोक्षणेन । अज्ञातं च सदा यत्काकाद्युपहतमुपयुक्तं न कदाचिदपि ज्ञायते तच्छुचि । तदुपयोगाददृष्टदोषो नास्तीत्यर्थः । नन्वेतद्विरुध्यते-'संवत्सरस्यैकमपि चरेत्कृच्छ्रे द्विजोत्तमः । अज्ञातभुक्तशुद्ध्यर्थे ज्ञातस्य तु विशेषतः ॥' इत्यदृष्टदोषेऽपि प्रायश्चित्तप्रतिपादनात् । नैतत् । प्रायश्चित्तस्य जग्धिविषयत्वात् दोषाभावस्य चान्योपयोगिविषयत्वात् ॥ १९१ ॥
शुचि गोतृप्तिकृत्तोयं प्रकृतिस्थं महीगतम् ।
तथा मांसं श्वचण्डालक्रव्यादादिनिपातितम् ॥ १९२॥ महीगतं भूमिस्थमुदकं एकगवीतृप्तिजननसमर्थ चण्डालादिभिरस्पृष्टं प्रकृतिस्थं रूपरसगन्धस्पर्शान्तरमनापन्नं शुचि आचमनादियोग्यं भवति । महीगतमित्यशुचिभूगतस्य शुचित्वनिषेधार्थ नत्वान्तरिक्षोदकस्य शुद्धत्वव्यावृत्त्यर्थे । नाप्युद्धृतस्य–'उद्धृताश्चापि शुद्ध्यन्ति शुद्धः पात्रैः समुद्धृताः । एकरात्रोषिता आपस्त्याज्याः शुद्धा अपि स्वयम् ॥' इति देवलवचनात् । तथा चण्डालादिकृते तडागादौ न दोषः-'अन्त्यैरपि कृते कूपे सेतौ वाप्यादिके तथा । तत्र सात्वा च पीत्वा च प्रायश्चित्तं न विद्यते ॥' इति शातातपस्मरणात् । तथा
१ गंधापकर्षणात् क. २ ङ्गानां मत्या क. ३ उपभुक्तं ख. ४ नतु तद्वि ख. ५ भावस्य वान्यप्रयोग क.
For Private And Personal Use Only
Page #93
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्रव्यशुद्धिप्रकरणम् ८] मिताक्षसहितान मांसं श्वचण्डालक्रव्यादादिभिर्निपातितं शुचि । आदिग्रहणात्पुल्कसादेरपि ग्रहणम् । निपातितग्रहणं भक्षितस्य निराकरणार्थम् ॥ १९२ ॥
रश्मिरनी रजश्छाया गौरश्वो वसुधानिलः ।
विप्रुषो मक्षिकाः स्पर्शे वत्सः प्रस्तवने शुचिः ॥ १९३ ॥ रश्मयः सूर्यादेः प्रकाशकद्रव्यस्य । अग्निः प्रसिद्धः । रजः अजादिसंबन्धन्यतिरेकेण । तत्र-'श्वकाकोष्ट्रखरोलूकसूकरग्राम्यपक्षिणाम् । अजाविरेणुसंस्पर्शावायुर्लक्ष्मीश्च हीयते ॥' इति दोषश्रवणात्तत्स्पर्शे संमार्जनादि कार्यम् । छाया वृक्षादेः । गौः । अश्वः । वसुधा भूमिः। अनिलो वायुः। विग्रुषोऽवश्यायबिन्दवः । मुखजानां वक्ष्यमाणत्वात् । मक्षिकाश्च । एते चण्डालादिस्पृष्टा अपि स्पर्श शुचयः । वत्सः प्रस्नवने उधोगतदुग्धापकर्षणे शुचिः। वत्सग्रहणं बालसोपलक्षणार्थम्-'बालैरनुपरिक्रान्तं स्त्रीभिराचरितं च यत् । अविज्ञातं च यत्किंचिनित्यं मेध्यमिति स्थितिः ॥' इति वचनात् ॥ १९३ ॥
अंजाश्वयोर्मुखं मेध्यं न गोर्न नरजा मलाः ।
पन्थानश्च विशुध्यन्ति सोमसूर्यांशुमारुतैः ॥ १९४ ॥ अजाश्वयोर्मुखं मेध्यं । न गोः। न नरजा मलाः । नरशब्दो लक्षणया देहममिधत्ते । तज्जा मला वसादयो मेध्या न भवन्ति । पन्थानो मार्गाः श्वचण्डाखादिभिः स्पृष्टा अपि रात्रौ सोमांशुभिर्मारुतेन च शुध्यन्ति । दिवा तु सूर्याभूमिारुतेन च ॥ १९४ ॥
मुखजा विYषो मेध्यास्तथाचमनबिन्दवः ।
श्मश्रु चास्यगतं दन्तसक्तं त्यक्त्वा ततः शुचिः ॥१९५॥ मुखे जाता मुखजाः श्लेष्मविप्रुषो मेध्याः नोच्छिष्टं कुर्वन्ति अनिपतिताश्चेदने । 'न मुखविपुष उच्छिष्टं कुर्वन्ति न चेदङ्गे निपतन्ति' इति गौतमवचनात् । तथाच ये आचमनतोयबिन्दवः पादौ स्पृशन्ति ते मेध्याः । श्मश्रु चास्वगतं मुखप्रविष्टमुच्छिष्टं न करोति । दन्तसक्तं चान्नादिकं स्वयमेव च्युतं त्यक्त्वा शुचिर्भवति । अच्युतं दन्तसमम् । तथाच गौतमः-'दन्तश्लिष्टं तु दन्तवदन्यत्र जिह्वाभिमर्शनात्प्राक् च्युतेरित्येके च्युतेष्वास्त्राववद्विद्यानिगिरन्नेव तच्छुचि' इति । निगिरणं पुनरनेन याज्ञवल्क्योक्तेन त्यागेन विकल्प्यते । निगिरनेवेत्येवकारः 'चर्वणे त्वाचमेन्नित्यं मुक्त्वा ताम्बूलचर्वणम् । ओष्ठौ विलोमको स्पृष्ट्वा वासो विपरिधाय च ॥' इति विष्णूक्ताचमननिषेधार्थः । ताम्बूलग्रहणं फलाधुपलक्ष. णार्थम् । यथाह शातातपः-'ताम्बूले च फले चैव भुक्ते स्नेहावशिष्टके । दन्तलग्नस्य संस्पर्शे नोच्छिष्टो भवति द्विजः ॥' इति ॥ १९५ ॥
१ अजाश्वं मुखतो मेध्यं ग. २ दन्तेभ्यः पतितं त्यजति गिलति वा एतावता शुज्यति विना आचमनं इति ग. पु. विशेषः. ३ निर्गिरनेव क. निगरनेव ख.
For Private And Personal Use Only
Page #94
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
याज्ञवल्क्यस्मृतिः। . [आचाराध्यायः स्नात्वा पीत्वा क्षुते सुप्ते भुक्त्वा रथ्योपसर्पणे ।
आचान्तः पुनराचामेद्वासो विपरिधाय च ॥ १९६॥ स्नानपानक्षुतस्वमभोजनरथ्योपसर्पणवासोविपरिधानेषु कृतेष्वाचान्तः पुनराचामेत् । द्विराचामेदित्यर्थः । चकाराद्रोदनाध्ययनारम्भचापल्यानृतोक्त्यादिषु । तथाच वसिष्ठः-सुस्वा भुक्त्वा क्षुत्वा सात्वा पीत्वा रुदित्वा चाचान्तः पुनराचामेत्' इति । मनुरपि-'सुस्वा क्षुत्वा च भुक्त्वा च ष्ठीवित्वोक्त्वानृतं वचः । पीत्वापोऽध्येष्यमाणश्च आचामेत्प्रयतोऽपि सन् ॥' इति । भोजने स्वादावपि द्विराचमनम्-'भोक्ष्यमाणस्तु प्रयतोऽपि द्विराचामेत्' इत्यापस्तम्बस्मरणात् । स्नानपानयोरादौ सकृत् । अध्ययने त्वारम्भे द्विः। शेषेष्वन्ते एव यथोक्तं द्विराचमनम् ॥ १९६ ॥
रथ्याकर्दमतोयानि स्पृष्टान्यन्त्यश्ववायसैः ।
मारुतेनैव शुद्ध्यन्ति पक्केष्टकंचितानि च ॥ १९७ ॥ रथ्या मार्गमात्रम् । कर्दमः पकः । तोयमुदकम् । रथ्यास्थितानि कर्दमतोयानि अन्त्यैश्चण्डालादिभिः श्वभिर्वायसैश्च स्पृष्टानि मारुतेनैव शुद्ध्यन्ति शुद्धिमुपयान्ति । बहुवचनं तद्गतगोमयशर्करादिप्राप्त्यर्थम् । पक्केष्टकादिभिश्चितानि प्रासादधवलगृहादीनि चण्डालादिस्पृष्टानि मारुतेनैव शुद्ध्यन्ति । एतच्च 'प्रोक्षणं संहतानाम्' इत्युक्तमोक्षणनिषेधार्थम् । तृणकाष्ठपर्णादिमयानां तु प्रोक्षणमेवेति ॥ १९७ ॥
- इति द्रव्यशुद्धिप्रकरणम् ।
अथ दानप्रकरणम् ९ इदानीं दानधर्म प्रतिपादयिष्यंस्तदङ्गभूतपात्रप्रतिपादनार्थ तत्प्रशंसामाह-~
तपस्तत्वासृजब्रह्म ब्राह्मणान्वेदगुप्तये । - तृप्त्यर्थं पितृदेवानां धर्मसंरक्षणाय च ॥ १९८॥
ब्रह्मा हिरण्यगर्भः कल्पादौ तपस्तहवा ध्यानं कृत्वा कान्सृजामीति पूर्व ब्राह्मणान्सृष्टवान् । किमर्थम् । वेदगुप्तये वेदरक्षणार्थम् । पितॄणां देवतानां च तृप्त्यर्थम् । अनुष्ठानोपदेशद्वारेण धर्मसंरक्षणार्थ च । अतस्तेभ्यो दत्तमक्षय्यफलं भवतीत्यभिप्रायः ॥ १९८ ॥
सर्वस्य प्रभवो विप्राः श्रुताध्ययनशीलिनः ।
तेभ्यः क्रियापराः श्रेष्ठास्तेभ्योऽप्यध्यात्मवित्तमाः॥१९९।। सर्वस्य क्षत्रियादेविप्राः प्रभवः श्रेष्ठाः जात्या कर्मणा च । ब्राह्मणेष्वपि श्रुता.. १ चाल्पानृतो ख. २ पक्केष्टिकचितानि ख. ३ कृत्वा मुख्यान्सृजामीति ख.
For Private And Personal Use Only
Page #95
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दानप्रकरणम् ९] . मिताक्षरासहिता । ध्ययनशीलिनः श्रुताध्ययनसंपन्ना उत्कृष्टाः । तेभ्योऽपि क्रियापरा विहितानुष्ठानशीलाः। तेभ्योऽप्यध्यात्मवित्तमाः वक्ष्यमाणमार्गेण शमदमादियोगेनारमतत्त्वज्ञाननिरताः श्रेष्ठा इत्यनुषज्यते ॥ १९९ ॥
एवं जातिविद्यानुष्ठानतपसां प्रशंसामुखेनैकैकयोगेनं पात्रताममिधायाधुना तेषां समुच्चये संपूर्णपात्रतामाह
न विद्यया केवलया तपसा वापि पात्रता ।
यत्र वृत्तमिमे चोभे तद्धि पात्रं प्रकीर्तितम् ॥ २०० ॥ केवलया विद्यया श्रुताध्ययनसंपत्त्या नैव संपूर्णपात्रत्वम् । नापि केवलेन तपसा शमदमादिना । अपिशब्दात्केवलेनानुष्ठानेन केवेलया जात्या वा नैव संपूर्णपात्रता । कथं तर्हि । यत्र पुरुषे वृत्तमनुष्ठानं इमे चोभे विद्यातपसी स्तः जमदाड्राह्मणजातिश्च तदेव मन्वादिभिः संपूर्णपात्रं प्रकीर्तितम् । हि यस्मादतः परमुस्कृष्टं पात्रं नास्ति । अत्र जातिविद्यानुष्ठानतपःसमुच्चयानामुत्तरोत्तरप्राशस्त्येन फलतारतम्यं द्रष्टव्यम् ॥ २०॥ सत्पात्रे गवादिदानं देयम्
गोभूतिलहिरण्यादि पात्रे दातव्यमर्चितम् ।
नापात्रे विदुषा किंचिदात्मनः श्रेय इच्छता ।। २०१॥ पूर्वोक्ते पात्रे गवादिकमर्चितं शास्त्रोक्तोदेकदानादीतिकर्तव्यासहितं देयम् । भपात्रे क्षत्रियादौ ब्राह्मणे च पतितादौ विदुषा पात्रविशेषेण फलविशेष जानता श्रेयः संपूर्णफलमिच्छता किंचिदल्पमपि न दातव्यम् । श्रेयोग्रहणादपात्रदा. नेऽपि किमपि तामसं फलमस्तीति सूचितम् । यथाह कृष्णद्वैपायन:-'अदेशकाले यहानमपात्रेभ्यश्च दीयते । असत्कृतमवज्ञातं तत्तामसमुदाहृतम् ॥' इति । अपात्रे न दातव्यमिति वदता विशिष्टदेशकालद्रव्यसन्निधौ पात्रस्यासन्निधाने द्रव्यस्य वा तदुद्देशेन त्यागं तस्सै प्रतिश्रवणं वा कृत्वा समर्पयेत् नत्वपात्रे दात. व्यमिति सूचितम् । तथा प्रतिश्रुतमपि पश्चात्पातकादिसंयोगे ज्ञाते न देयम्'प्रतिश्रुत्याप्यधर्मसंयुक्ताय न दद्यात्' इति निषेधात् ॥ २०१ ॥ अपात्रे दातुनिषेधमुक्त्वा प्रतिग्रहीतारं प्रत्याह
विद्यातपोभ्यां हीनेन नतु ग्राह्यः प्रतिग्रहः।
गृह्णन्प्रदातारमधो नयत्यात्मानमेव च ॥ २०२ ॥ विद्यातपोभ्यां हीनेन प्रतिग्रहः सुवर्णादिर्न ग्राह्यः । यस्माद्विद्याविहीनः प्रतिगृह्णन् दातारमात्मानं चाधो नरकं नयति प्रापयतीति ॥ २०२॥ गवादि पात्रे दातव्यमित्युक्तं तत्र विशेषमाह
दातव्यं प्रत्यहं पात्रे निमित्तेषु विशेषतः । १ योगे पात्रतां ग. २ केवलजात्या क. ३ दकपाद्यादीति क. ४ किंचित्तामसं क.
For Private And Personal Use Only
Page #96
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
याज्ञवल्क्यस्मृतिः।
[आचाराध्यायः
याचितेनापि दातव्यं श्रद्धापूतं स्वशक्तितः॥२०३॥ प्रतिदिवसं शक्त्यनुसारेण यथोक्तविधिना पात्रे गवादिकं स्वकुटुम्बाविरोधेन दातव्यम् । निमित्तेषु चन्द्रोपरागादिषु विशेषतोऽधिकं यत्नेन दातव्यम् । याचितेनापि श्रद्धापूतमनसूयापवित्रीकृतं शक्त्या दातव्यम् । याचितेनापि दातव्यमिति वदता यथोक्तं पात्रं स्वयमेव गत्वा आहूय वा यहानं तन्महाफलमुक्तम् । तथाच स्मरणम्-'गत्वा यद्दीयते दानं तदनन्तफलं स्मृतम् । सहस्रगुणमाहूय याचिते तु तदर्धकम्' इतिः ॥ २०३ ॥ गवादिकं देयमित्युक्तं तत्र गोदाने विशेषमाह
हेमशृङ्गी शफै रौप्यैः सुशीला वस्त्रसंयुता।
सकांस्यपात्रा दातव्या क्षीरिणी गौः सदक्षिणा ॥२०४॥ हेममये शृङ्गे यस्याः सा हेमशृङ्गी । शफैः खुरैः रौप्यैः राजतैः संयुता वस्त्रेण च संयुता कांस्यपात्रसहिता बहुक्षीरी सुशीला गौर्यथाक्तिदक्षिणासहिता दातव्या ॥ २०४ ॥ गोदानफलमाह
दातास्याः स्वर्गमाप्नोति वत्सरानोमसंमितान् ।
कपिला चेत्तारयति भूयश्वासप्तमं कुलम् ।। २०५॥ अस्या गोः रोमसंमितान् रोमसंख्याकान्वत्सरान्स्वर्गमामोति दाता। सा यदि कपिला तदा न केवलं दातारं तारयति किंतु कुलमपि आसप्तमं सप्तममभिव्याप्य पित्रादीन्षद आत्मानं च सप्तमम् । अप्यर्थे भूयःशब्दः ॥ २०५ ॥ उभयतोमुखीदानफलम् -
सवत्सारोमतुल्यानि युगान्युभयतोमुखीम् ।
दातास्याः स्वर्गमानोति पूर्वेण विधिना ददत् ।। २०६ ।। सवत्सारोमतुल्यानि वत्सेन सह वर्तत इति सवत्सा तस्या रोमतुल्यानि वत्सस्य गोश्च यावन्ति रोमाणि तावत्संख्याकानि युगानि कृतत्रेतादीनि उभयतोमुखीं ददत्स्वर्गमामोत्यनुभवति पूर्वेण विधिना दाता चेत् ॥ २०६ ॥ का पुनरुभयतोमुखी कथं तावत्तद्दानं महाफलमित्यत आह
यावद्वत्सस्य पादौ द्वौ मुखं योन्यां च दृश्यते ।
तावद्गौः पृथिवी ज्ञेया यावद्गर्भ न मुञ्चति ॥ २०७॥ गर्भान्निर्गच्छतो वत्सस्य द्वौ पादौ मुखं च यावत्कालं योन्यां दृश्यते तावत्कालं उभयतोमुखमस्या अस्तीत्युभयतोमुखी। यावत्कालं गर्भ न मुञ्चति तावत्सा गौः पृथिवीसमा ज्ञेया। अतः फलातिशयो युक्तः ॥ २०७ ॥ १ खुरै रूप्यैः ख. २ बहुक्षीरा गौर्यथा. क. ख.
For Private And Personal Use Only
Page #97
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दानप्रकरणम् ९] मिताक्षरासहिता। सामान्यगोदाने फलम्
यथाकथंचिद्दत्त्वा गां धेनुं वाऽधेनुमेव वा ।
अरोगामपरिक्लिष्टां दाता स्वर्गे महीयते ॥२०८ ॥ यथाकथंचिद्धेमशृङ्गाद्यभावेऽपि यथासंभवं पूर्वोक्तेन विधिना धेनुं दोग्ध्री अधेनुं वा अवन्ध्यां अरोगां रोगरहितां अपरिक्लिष्टां अत्यन्तादुर्बलां गां दत्त्वा दाता स्वर्गे महीयते पूज्यते ॥ २०८ ॥ गोदानसमान्याह
श्रान्तसंवाहनं रोगिपरिचर्या सुरार्चनम् ।
पादशौचं द्विजोच्छिष्टमार्जनं गोगदानवत् २०९ ॥ श्रान्तस्यासनशयनादिदानेन श्रमापनयनं श्रान्तसंवाहनम् । रोगिणां परिचर्या यथाशक्त्यौषधादिदानेन । सुरार्चनं हरिहरहिरण्यगर्भादीनां गन्धमाल्यादिभिराराधनम् । पादशौचं द्विजानां समानामधिकानां च । तेषामेवोच्छिष्टस्य मार्जनम् । एतान्यनन्तरोक्तेन गोदानेन समानि ॥ २०९ ॥
भूदीपाश्चान्नवस्त्राम्भस्तिलसर्पिःप्रतिश्रयान् ।
नैवेशिकं स्वर्णधुर्यं दत्त्वा स्वर्गे महीयते ॥ २१० ॥ भूः फलप्रदा । दीपा देवायतनादिषु । प्रतिश्रयः प्रवासिनामाश्रयः । निवेशनार्थ गार्हस्थ्याथै यस्कन्या दीयते तन्नैवेशिकम् । स्वर्णं सुवर्णम् । धुर्यो भारसहो बलीवर्दः । शेषं प्रसिद्धम् । एतान्भूदीपादीन्दत्वा स्वर्गलोके महीयते पूज्यते । स्वर्गफलं च भूमिदानादीनां न फलान्तरव्युदासार्थम् । मनुः (।२२९) --'यत्किंचित्कुरते पापं ज्ञानतोऽज्ञानतोऽपि वा । अपि गोचर्ममात्रेण भूमिदानेन शुद्ध्यति ॥' तथा—'वारिदस्तृप्तिमाप्नोति सुखमक्षय्यमन्नदः । तिलप्रदः प्रजामिष्टां दीपदश्चक्षुरुत्तमम् ॥ वासोदश्चन्द्रसालोक्यमश्विसालोक्यमश्वदः । अनदुद्दः श्रियं पुष्टां गोदो बध्नस्य विष्टपम् ॥' इत्यादिफलान्तरश्रवणात् । गोचर्मलक्षणं च बृहस्पतिना दर्शितम्-'सप्तहस्तेन दण्डेन त्रिंशद्दण्डं निवर्तनम् । दश तान्येव गोचर्म दत्त्वा स्वर्गे महीयते ॥' इति ॥ २१० ॥
गृहधान्याभयोपानच्छत्रमाल्यानुलेपनम् ।
यानं वृक्षं प्रियं शय्यां दत्त्वात्यन्तं सुखी भवेत् ।। २११॥ गृहं प्रसिद्धम् । धान्यानि च शालीगोधूमादी नि । अभयं भीतत्राणम् । उपानहौ । छन्त्रम् । माल्यं मल्लिकादेः । अनुलेपनं कुङ्कुमचन्दनादि । यानं रथादि । वृक्षमुपजीव्यमाम्रादिकम् । प्रियं यद्यस्य प्रियं धर्मादिकम् । शय्यां च दत्वात्यन्तमतिशयेन सुखी भवति । नच हिरण्यादिवद्धस्ते दातुमशक्यत्वाद्धर्मस्य दाना१ भूः कृषिफलप्रदा ग. २ भारवाहो ग. ३ चर्मादीनामसंभवः ख.
For Private And Personal Use Only
Page #98
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
याज्ञवल्क्यस्मृतिः
[आचाराध्यायः
अषक यतः।
संभवः । भूमिदानादावपि समानत्वात् । स्मृत्यन्तरेऽपि धर्मदानश्रवणात्'देवतानां गुरूणां च मातापित्रोस्तथैव च । पुण्यं देयं प्रयत्नेन नापुण्यं चोदित क्वचित् ॥' अपुण्यदाने तदेव वर्धते प्रतिग्रहीतुरपि लोभादिना प्रवृत्तस्य–'यः पापमैबलं ज्ञात्वा प्रतिगृह्णाति दुर्मतिः। गर्हिताचरणात्तस्य पापं तावत्समाश्रयेत् ॥ समद्विगुणसाहस्रमानन्त्यं च प्रदातृषु ॥' इति स्मरणात् । इहच सर्वत्र देशकालपात्र विशेषाद्देय विशेषादातृविशेषात्-'दाने फलं मया प्रोक्तं हिंसायां तद्वदेव हि' इति प्रतिगृहीतृवृत्तिविशेषाच्च दातृप्रतिग्रहीत्रोः फलतारतम्यं द्रष्टव्यम् ॥ २११ ॥ दानात्फलमुक्तमिदानी दानव्यतिरेकेणापि दानफलावाप्तिहेतूनाह
सर्वधर्ममयं ब्रह्म प्रदानेभ्योऽधिकं यतः।
तद्ददत्समवाप्नोति ब्रह्मलोकमविच्युतम् ॥ २१२ ॥ यस्मात्सर्वधर्ममयं ब्रह्म अवबोधकत्वेन तस्मात्तद्दानं सर्वदानेभ्योऽप्यधिकं अतस्तद्दददध्यापनादिद्वारेण ब्रह्मलोकमवाप्नोति । अविच्युतं विच्युतिर्यथा न भवति । आ भूतसंप्लवं ब्रह्मलोकेऽवतिष्ठत इत्यर्थः। अनच ब्रह्मदाने परस्वत्वापादनमात्रं दानं, स्वत्वनिवृत्तेः कर्तुमशक्यत्वात् ॥ २१२ ॥ दातुः फलमुक्तं । इदानीं दानव्यतिरेकेणापि दानफलावाप्तेर्हेतुमाह
प्रतिग्रहसमर्थोऽपि नादत्ते यः प्रतिग्रहम् ।
ये लोका दानशीलानां स तानाप्नोति पुष्कलान् ॥२१३।। यः पात्रभूतोऽपि प्राप्त प्रतिग्रहं सुवर्णादिकं नादत्ते न स्वीकरोति असौ यद्यप्राप्तं नोपादत्ते तत्तद्दानशीलानां ये लोकास्तान्समग्रानाप्नोति ॥ २१३ ॥ इदानीं सर्वप्रतिग्रहनिवृत्तिप्रसङ्गेऽपवादमाह
कुशाः शाकं पयो मत्स्या गन्धाः पुष्पं दधि क्षितिः।
मांसं शय्यासनं धानाः प्रत्याख्येयं न वारि च ॥ २१४॥ धानाः भ्रष्टयवाः । क्षितिर्मृत्तिका । शेषं प्रसिद्धम् । एतच्च कुशादिकं स्वयमुपानीतं न प्रत्याख्येयम् । चकारागृहादि । (मनुः ४।२५०)-'शय्यां गृहान्कुशान्गन्धानपः पुष्पं मणीन्दधि । धाना मत्स्यान्पयो मांसं शाकं चैव न निर्णदेत् ॥' तथा-'एधोदकं मूलफलमन्नमभ्युद्यतं च यत् । सर्वतः प्रतिगृह्णीयान्मध्वथाभयदक्षिणाम् ॥' इति (४।२४७) मनुस्मरणात् ॥ २१४ ॥ किमिति न प्रत्याख्येयमित्याह -
अयाचिताहृतं ग्राह्यमपि दुष्कृतकर्मणः। . अन्यत्र कुलटाषण्डपतितेभ्यस्तथा द्विजः॥२१५॥
१ दानेन क. २ प्रबलं ज्ञात्वा ग. ३ भ्रष्टतन्दुलाः क. ग. ४.मध्वाज्याभय ग.
For Private And Personal Use Only
Page #99
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
श्राद्धप्रकरणम् १० ]
मिताक्षरासहिता !
६७
यस्मादयाचिताहृतमेतत्कुशादि दुष्कृतकारिणोऽपि संबन्धि प्रानं किमुत यथोक्तकारिणः । तस्मान प्रत्याख्येयम् । अन्यत्र कुलटाषण्डपतितेभ्यः शत्रोश्च । कुलाकुलमटतीति कुकटाः स्वैरिण्यादिकाः । षण्ठस्तृतीयाप्रकृतिः ॥ २१५ ॥
प्रतिग्रहनिवृत्तेरपवादान्तरमाह
देवातिथ्यर्चनकृते गुरुभृत्यार्थमेव वा ।
सर्वतः प्रतिगृह्णीयादात्मवृत्त्यर्थमेव च ॥ २१६ ॥
Acharya Shri Kailassagarsuri Gyanmandir
'देवातिथ्यर्चनादेरावश्यकत्वात्तदर्थमनात्मकारणात् पतिताद्यत्यन्तकुत्सितवर्जे सर्वतः प्रतिगृह्णीयात् । गुरवो मातापित्रादयः । भृत्याः भरणीयाः भार्यापु
श्रादयः ॥ २१६ ॥
इति दानप्रकरणम् -4
अथ श्राद्धप्रकरणम् ।
इदानीं श्राद्धप्रकरणमारभ्यते । श्राद्धं नामादनीयस्य तत्स्थानीयस्य वा द्रव्यस्य प्रेतोद्देशेन श्रद्धया त्यागः । तच्च द्विविधं पार्वणमेकोद्दिष्टमिति । तत्र त्रिपुरुषोद्देशेन यत्क्रियते तत्पार्वणम् । एकपुरुषोद्देशेन क्रियमाणमेकोद्दिष्टम् । पुनश्च त्रिविधं नित्यं नैमित्तिकं काभ्यं चेति । तत्र नित्यं नियतनिमित्तोपाधौ चोदितमहरहरमावस्याष्टकादिषु । अनियत निमित्तोपाधौ चोदितं नैमित्तिकं यथा पुत्रसम्मादिषु । फलकामनोपाधः विहितें काम्यं यथा स्वर्गादिकामनाथां कृत्तिका - दिनक्षत्रेषु तिथिषु च । पुनश्क्ष पत्रविधं - 'अहरहः श्राद्धं पार्वणं वृद्धिश्राद्धमेकोद्दिष्टं सपिण्डीकरणं चे 'ति । तत्राहरहः श्राद्धं - 'अन्नं पितृमनुष्येभ्यः' इत्यादिनोक्तम् । तथाच मनुः - 'दद्यादहरहः श्राद्धमन्नाद्येनोदकेन वा । पयोमूलफलैर्वापि पि - तृभ्यः प्रीतिमक्षयाम् ॥' इति ॥
अधुना पार्वणं वृद्धिश्राद्धं च दर्शयिष्यंस्तयोः कालानाह
अमावास्याऽष्टका वृद्धिः कृष्णपक्षोऽयनद्वयम् । द्रव्यं ब्राह्मणसंपत्तिर्विषुवत्सूर्य संक्रमः ॥ २१७ ॥ व्यतीपातो गजच्छाया ग्रहणं चन्द्रसूर्ययोः ।
श्राद्धं प्रति रुचिचैव श्राद्धकालाः प्रकीर्तिताः ।। २१८ ॥
,
यत्र दिने चन्द्रमा न दृश्यते सा अमावास्या तस्यामहर्द्वयव्यापिन्यामपराह्न - व्यापिनी ग्राह्या । — 'अपराह्नः पितॄणाम्' इति वचनात् । अपराह्नश्च पञ्चधाविभक्ते दिने चतुर्थो भागत्रिमुहूर्तः । अष्टकाश्चतस्रः 'हेमन्त शिशिरयोश्चतुर्णामपरपक्षाणामष्टमीष्वष्टकाः' इत्याश्वलायनोक्ताः । वृद्धिः पुत्रजन्मादिः । कृष्णपक्षोऽपरपक्षः । ·
१ मनापत्करणात् क. या० ९
२ चोदितं क. ३ विषुवः क.
For Private And Personal Use Only
Page #100
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
૬૮
याज्ञवल्क्यस्मृतिः ।
[ आचाराध्यायः
अयनद्वयं दक्षिणोत्तरसंज्ञकम् । द्रव्यं कृसरमांसादिकम् । ब्राह्मणसंपत्तिर्वक्ष्यमाणा । विषुवडूयं मेषतुलयोः सूर्यगमनम् । सूर्यसंक्रम आदित्यस्य राशेः राश्यन्तरगमनम् । अयनविषुवतो: संक्रान्तित्वे सिद्धेऽपि पृथगुपादानं फलातिशयप्रतिपादनार्थम् । व्यतीपातो योगविशेषः । गजच्छाया - 'यदेन्दुः पितृदैवत्ये हंसश्चैव करे स्थितः । येस्यां तिथिर्भवेत्सा हि गजच्छाया प्रकीर्तिता ॥' इति परिभाषिता । हस्तिच्छायेति केचित् । सेह न गृह्यते कालप्रक्रमात् । ग्रहणं सोमसूर्ययोरुपरागः । यदा च कर्तुः श्राद्धं प्रति रुचिर्भवति तदापि । चशब्दाचुगादिप्रभृतयः । एते श्राद्धकालाः । यद्यपि – 'चन्द्रसूर्यग्रहे नाद्यात्' इति ग्रहणे भोजननिषेधस्तथापि भोक्तुर्दोषो दातुरभ्युदयः ॥ २१७ ॥ २१८ ॥
1
अहरहः श्राद्धव्यतिरिक्तवक्ष्यमाणचतुर्विधश्राद्धेषु ब्राह्मणसंपत्तिमाहअय्याः सर्वेषु वेदेषु श्रोत्रियो ब्रह्मविद्युवा । वेदार्थविज्ज्येष्ठसामा त्रिमधुत्रिसुपर्णिकः ।। २१९ ॥
सर्वेषु वेदेषु ऋग्वेदादिषु अन्यमनस्कतयाप्यजस्त्रास्खलिताध्ययनक्षमा अध्याः । श्रोन्नियः श्रुताध्ययनसंपन्नः । वक्ष्यमाणं ब्रह्म यो वेत्ति असौ ब्रह्मवित् । युवा मध्यमवयस्कः । सर्वस्येदं विशेषणम् । मन्त्रब्राह्मणयोरर्थं वेत्तीति वेदार्थचित् । ज्येष्ठसाम सामविशेषस्तदध्ययनाङ्गवतं च तद्रताचरणेन यस्तदधीते स ज्येष्ठसामा । त्रिमधुः ऋग्वेदैकदेशस्तद्रतं च तद्रताचरणेन तदधीते इति त्रिमधुः । त्रिसुपर्ण ऋग्यजुषोरेकदेशस्तद्रतं च तद्रताचरणेन यस्तदधीते स त्रिसुपर्णिकः । ते ब्राह्मणाः श्राद्धसंपद इति र्वेक्ष्यमाणेन संबन्धः ॥ २१९ ॥ स्वस्रीयऋत्विग्जामातृयाज्यश्वशुरमातुलाः ।
त्रिणाचिकेतदौहित्र शिष्यसंबन्धिबान्धवाः ॥ २२० ॥
स्वस्त्रीय भागिनेयः । ऋत्विगुक्तलक्षणः । जामाता दुहितुर्भर्ता । त्रिणाचिकेतं यजुर्वेदैकदेशः तद्व्रतं च तद्रताचरणेन यस्तदध्यायी स त्रिणाचिकेतः । अप्रसिद्धम् । एते च पूर्वोक्ताम्य श्रोत्रियाद्यभावे वेदितव्याः – 'एष वै प्रथमः कल्पः प्रदाने हव्यकव्ययोः । अनुकल्पस्त्वयं प्रोक्तः सदा सद्भिरगर्हितः ॥' इत्यभिधाय ( ३।१४७ ) मनुना स्वस्त्रीयादीनामभिहितत्वात् ॥ २२० ॥ कर्मनिष्ठास्तपोनिष्ठाः पञ्चानिर्ब्रह्मचारिणः ।
पितृमातृपराचैव ब्राह्मणाः श्राद्धसंपदः ।। २२९ ॥
कर्मनिष्ठा विहितानुष्ठानतत्पराः । तपो तिष्ठास्तपःशीलाः । सभ्यावसथ्यौ त्रेताश् यस्य सन्ति स पञ्चाग्निः पञ्चाग्निविद्याध्यायी च । ब्रह्मचारी उपकुर्वाणको नैष्ठिकश्च । पितृमातृपरास्तत्पूजापराः । चकारात् ज्ञाननिष्ठादयः । ब्राह्मणाः न क्षत्रियादयः । श्राद्धसंपदः । श्राद्धेष्वक्षय्यफलसंपत्तिहेतवः ॥ २२१ ॥
१ कृष्णसार मांसादि ख. २ याम्या तिथिः ख. ग. ३ तदध्यायी क. ग. ४ वक्ष्यमाणक्रियासंबन्धः ख. ग. ५ श्रादसंपदे क. ग.
For Private And Personal Use Only
Page #101
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
मिताक्षरासहिता ।
Acharya Shri Kailassagarsuri Gyanmandir
श्राद्धप्रकरणम् १० ]
चर्यानाह-
रोगी हीनातिरिक्ताङ्गः काणः पौनर्भवस्तथा । अवकीर्णी कुण्डगोलौ कुनखी श्यावदन्तकः ॥ २२२ ॥
६९
रोगी महारोगोपसृष्टः । हीनमतिरिक्तं वा यस्यासौ हीनातिरिक्ताङ्गः । एकेनाक्ष्णा यः पश्यति स काणः । एतस्मादेवान्धबधिरविद्धं प्रजननखलेति दुश्चर्मप्रभृतयो निरस्ताः । पुनर्भूरुक्तलक्षणा तस्यां जातः पौनर्भवः । अवकीर्णी ब्रह्मचर्य एव स्खलितब्रह्मचर्यः । कुण्डगोली - ' परदारेषु जायेते द्वौ सुतौ कुण्डगोpat | पत्यौ जीवति कुण्डः स्यान्मृते भर्तरि गोलकः ॥' (मनुः ३ । १७४ ) इत्येवमुक्तलक्षणको । कुनखी कुत्सितनखः । श्यावदन्तकः स्वभावात्कृष्णदशनः । एते श्राद्धे निन्दिता इति वक्ष्यमाणेन संबन्धः ॥ २२२ ॥
भृतकाध्यापकः क्लीवः कन्यादूष्यभिशस्तकः । मित्रध्रुक् पिशुनः सोमविक्रयी परिविन्दकः ॥ २२३ ॥
1
वेतनग्रहणेन योऽध्यापयति स भृतकाध्यापकः । वेतनदानेन च योऽधीते सोऽपि । क्लीबो नपुंसकः । असद्भिः सद्भिर्वा दोषैर्यः कन्यां दूषयति स कन्यादूषी । असता सता वा ब्रह्महत्यादिनाभियुक्तोऽभिशस्तः । मित्रध्रुक् मित्रद्रोही । परदोषसंकीर्तनशीलः पिशुनः । सोमविक्रयी यज्ञे सोमस्य विक्रेता । परिविन्दकः परिवेत्ता | ज्येष्ठेऽकृतदारेऽकृताभिपरिग्रहे वा यः कनीयान्दारपरिग्रहमनिपरिग्रह
कुर्यात्स परिवेत्ता । ज्येष्ठस्तु परिवित्तिः । यथाह मनुः (३।१७१ ) - 'दाराग्निहोत्रसंयोगं यैः करोत्यग्रजे स्थिते । परिवेत्ता स विज्ञेयः परिवित्तिस्तु पूर्वजः ॥ * इति । एवं दातृयाजकावपि - 'परिवित्तिः परिवेत्ता यथा च परिविद्यते । सर्वे ते नरकं यान्ति दातृयाजकपञ्चमाः ॥ इति ( ३।१७२ ) मैनुवचनात् ॥ २२३ ॥ मातापितृ गुरुत्यागी कुण्डाशी वृषलात्मजः । परपूर्वापतिः स्तेनः कर्मदुष्टाच निन्दिताः ॥ २२४ ॥
विना कारणेन मातापितृगुरून्यस्त्यजति स मातापितृगुरुत्यागी । एवं भार्यापुत्रत्याग्यपि - ' वृद्धौ च मातापितरौ साध्वी भार्या सुतः शिशुः । अप्यकार्यशतं कृत्वा भर्तव्या मनुरब्रवीत् ॥' इति समान निर्देशात् । कुण्डस्यान्नं योऽश्नात्यसौ कुण्डाशी । एवं गोलकस्यापि – 'यस्तयोरन्नमश्नाति स कुण्डाशी प्रकीर्तितः ' इति वचनात् । वृषलो निर्धर्मस्तत्सुतो वृषलात्मजः । परपूर्वा पुनर्भूः तस्याः पतिः । अदत्तादायी स्तेनः । कर्मदुष्टाः शास्त्रविरुद्धकारिणः । चकारात्कित व देवलकप्रभृतयः । एते श्राद्धे निन्दिताः प्रतिषिद्धाः । 'अधाः सर्वेषु वेदेवि 'त्यादिना श्राद्धयोग्यब्राह्मणप्रतिपादनेनैव तद्व्यतिरिक्तानामयोग्यत्वे सिद्धेऽपि पुनः केषां -
१ वृद्धप्रजनन ख. २ खलतिर्निष्केशशिराः खल्वाटः. ३ संकुचितनखः ख ४ कुरुते स्थिते क. ५ इति समानदोषश्रवणात् ग. ६ मातृपितृ ग.
यो
For Private And Personal Use Only
Page #102
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
याज्ञवल्क्यस्मृतिः।
[आचाराध्याय:
विद्रोग्यादीनां प्रतिषेधवचनमुक्तलक्षणब्राह्मणासंभवे प्रतिषेधरहितानां प्रा. त्यर्थम् ॥ २२४ ॥ ..... एवं श्राद्धकालान्ब्राह्मणांश्चोक्त्वाऽधुना पार्वणप्रयोगमाह
निमन्त्रयेत पूर्वेधुर्ब्राह्मणानात्मवाशुचिः। .. तैश्चापि संयतैर्भाव्यं मनोवाकायकर्मभिः ॥ २२५ ॥
पूर्वोक्तान्ब्राह्मणान् श्राद्ध क्षणः क्रियतामिति पूर्वेधुनिमन्त्रयेत प्रार्थनया झणमभ्युपगमयेत् । अपरेधुर्वा । 'पूर्वेधुरपरेधुर्वा श्राद्धकर्मण्युपस्थिते । निमन्त्रयेत ध्यवरान्सम्यग्विप्रान्यथोदितान् ॥' इति (३।१८७) मनुस्मरणात् । आत्मवान् शोकोमादादिरहितः सन् दोषवास भवति । यद्वा आत्मवासियतेन्द्रियो भवेत्। शुचिः प्रयतश्च । तैरपि निमत्रितैाह्मणैर्मनोवाकायव्यापारैः संयतैर्नियतैर्भवितव्यम् ॥ २२५॥
अपराह्ने समभ्यर्च्य स्वागतेनागतांस्तु तान् ।
पवित्रपाणिराचान्तानासनेधूपवेशयेत् ।। २२६ ॥ अपराह्ने उक्तलक्षणे समभ्यर्च्य तान्निमन्त्रितान्ब्राह्मणानाहूय स्वागतवचनेन पूजयित्वा कृतपादधावनानाचान्तान् क्लोष्वासनेषु पवित्रपाणिः पवित्रपाणीनुपवेशयेत् । यद्यप्यत्र सामान्येनापराह्ने इत्युक्तं तथापि कुतपे प्रारभ्य तदादि पञ्चसु मुहूर्तेषु परिसमापनं श्रेयस्करम् ।-'अहो मुहूर्ता विख्याता दश पञ्च च सर्वदा । तत्राष्टमो मुहूर्तो यः स कालः कुतपः स्मृतः ॥ मज्याझे सर्वदा यस्मान्मन्दीभवति भास्करः। तस्मादनन्तफलदस्तत्रारम्भो विशिष्यते ॥ ऊर्व मुहूर्तात्कुतपाद्यन्मुहूर्तचतुष्टयम् । मुहूर्तपञ्चकं ह्येतत्स्वधाभवनमिष्यते ॥' इति वचनात् । तथान्यदपि श्राद्धोपयोगि कुतपसंज्ञकमुक्तम् । -'मध्याह्नः खड्गपात्रं च तथा नेपालकम्बलः । रौप्यं दर्भास्तिला गावो दौहित्रश्चाष्टमः स्मृतः॥ पापं कुत्सितमित्याहुस्तस्य संतापकारिणः । अष्टावेते यतस्तस्मात्कुतपा इति विश्रुताः ॥' इति ॥ २२६॥
युग्मान्दैवे यथाशक्ति पित्र्येऽयुग्मांस्तथैव च ।
परिस्तुते शुचौ देशे दक्षिणाप्रवणे तथा ॥२२७॥ दैवे आभ्युदयिके श्राद्धे युग्मान्समान्ब्राह्मणानुपवेशयेत् । कथम् यथाशक्ति शक्तिमनतिक्रम्य । तत्र वैश्वदेवे द्वौ मात्रादीनां तिसृणामेकैकस्या द्वौ द्वौ तिसृणां वा द्वौ । एवं पित्रादीनामेकैकस्य द्वौ द्वौ त्रयाणां वा द्वौ । एवं मातामहादीनां च वर्गत्रये वैश्वदेवं पृथक् तत्रं वा । पित्र्ये पार्वणश्राद्धे अयुग्मान्विषमानुपवेशयेदिति संबध्यते । एतच्च परिस्तृते सर्वतः प्रच्छादिते शुचौ गोमयादिनोपलिसे दक्षिणाप्रवणे दक्षिणतोऽवनते देशे कार्यम् ॥ २२७॥ १ अवसर उत्सवो वा क्षणः ग. २ विज्ञेया क.
For Private And Personal Use Only
Page #103
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
श्राद्धप्रकरणम् १०]
मिताक्षरासहिता ।
अयुग्मापिभ्य इति पार्वणश्राद्धाङ्गभूते वैश्वदेवेप्ययुग्मप्रसङ्गे इदमारभ्यतेद्वौ दैवे प्राक् त्रयः पित्र्य उदगेकैकमेव वा । मातामहानामप्येवं तत्रं वा वैश्वदेविकम् ॥ २२८ ॥
Acharya Shri Kailassagarsuri Gyanmandir
द्वौ दैव इति । दैवे वैश्वदेवे द्वौ ब्राह्मणौ प्राङ्मुखावुपवेश्यौ । पित्र्ये अयुग्मानित्य विशेषप्रसङ्गे विशेष उच्यते - त्रयः पित्र्ये इति । पित्र्ये पित्रादिस्थाने त्रय उदच्खा उपवेश्याः । पक्षान्तरमाह - एकैकमेव वा । वैश्वदेवे पित्र्ये च एकमेकमुपवेशयेत् । संभवतो विकल्पः । मातामहानामप्येवं श्राद्धे निमन्त्रणादि । द्वौ दैवे प्राक् श्रयः पश्ये उदगेकैकमेव वेत्वेव मतं पितृश्राद्धवत्कर्तव्यम् । पितृश्राद्धं मातामह श्राद्धे च वैश्वदेविकं पृथक् तत्रेण वा कर्तव्यम् । तत्रशब्दः समुदायवाचकः । यदा तु द्वावेव ब्राह्मणौ लब्धौ तदा वैश्वदेवे पात्रं प्रकरूप्य उभयत्रैकैकं ब्राह्मणं नियुज्यात् । यथाह वसिष्ठः - 'यद्येकं भोजयेच्छ्राद्धे दैवं तत्र कथं भवेत् । अनं पात्रे समुद्धृत्य सर्वस्य प्रकृतस्य च ॥ देवतायतने कृत्वा ततः श्राद्धं प्रवर्तयेत् । प्रास्येदनं तदभौ तु दद्याद्वा ब्रह्मचारिणे ॥' इति ॥ २२८ ॥
पाणिप्रक्षालनं दत्त्वा विष्टरार्थ कुशानपि । आवाहयेदनुज्ञातो विश्वेदेवास इत्यृचा ।। २२९ ॥
तदनन्तरं वैश्वदेवार्थब्राह्मणहस्ते जलं दत्त्वा विष्टरार्थ कुशांश्च युग्मान् द्विगुपितानासने दक्षिणतो दत्वा विश्वान्देवानावाहयिष्ये इति ब्राह्मणान् पृष्ट्वा तैरावाहयेत्यनुज्ञातो 'विश्वेदेवास आगत' इत्यनयच 'आगच्छन्तु महाभागाः ' इत्यनेन च स्मार्तेन मन्त्रेण तानावाहयेत् । एतच यज्ञोपवीतिना प्रदक्षिणं च कार्यम् - 'अपसव्यं ततः कृत्वा पितॄणामप्रदक्षिणम्' इति पित्र्ये विशेषस्मरणात् ॥
वैरन्ववकीर्याथ भाजने सपवित्रके ।
शंनोदेव्या पयः क्षिष्वा यवोसीति यवांस्तथा ॥ २३० ॥ या दिव्या इति मन्त्रेण हस्तेष्वर्ध्य विनिक्षिपेत् ।
१ भीतिना सव्येन च ख.
ततो वैश्वदेवार्थब्राह्मणसमीपे भूमिं प्रादक्षिण्येन यवैरन्ववकीर्य अनन्तरं तैजसादिभाजने सपवित्रके कुशयुग्मान्तर्हिते 'शं नो देवीरभिष्टय' इत्यनयचपः शिवा 'यवोसि धान्यराजो वा' इत्यादिना मन्त्रेण यवान् ततो गन्धपुष्पाणि च क्षित्वाऽनन्तरं अर्घ्यपात्र पवित्रान्तर्हितेषु ब्राह्मणहस्तेषु 'या दिव्या आपः पयसा' इत्यादिना मन्त्रेण विश्वेदेवा इदं वोऽर्घ्यं इत्यर्थ्योदकं विनिक्षिपेत् ॥ २३० ॥ दत्त्वोदकं गन्धमाल्यं धूपदानं सदीपकम् ॥ २३९ ॥ तथाच्छादनदानं च करशौचार्थमम्बु च ।
अथ करशौचार्थमुदकं दत्वा यथाक्रमं गन्धपुष्पभूपदीपदानं कुर्यात् तथा
२ विश्वेदेवार्थ - ख.
For Private And Personal Use Only
Page #104
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७२
याज्ञवल्क्यस्मृतिः।
[आचाराध्यायः
च्छादनदानं च । गन्धादीनां स्मृत्यन्तरोक्तो विशेषो द्रष्टव्यः-'चन्दनकुङ्कुमकपूरागरुपद्मकान्युपलेपनार्थम्' इति विष्णुनोक्तम् । पुष्पाणिच-'श्राद्धे जात्यः प्रशस्ताः, स्युर्मल्लिका श्वेतयूथिका । जलोद्भवानि सर्वाणि कुसुमानि च चम्पकम् ॥' इत्युक्तानि । वानि च-'उग्रगन्धीन्यगन्धीनि चैत्यवृक्षोद्भवानि च । पुष्पाणि वर्जनीयानि रक्तवर्णानि यानि च ॥' न कण्टकिजम् । कण्टकिजमपि शुक्वं सुगन्धि यत्तदद्यात् । न रक्तं दद्यात् । रक्तमपि कुङमजं जलजं च दद्यात् इत्यादीनि द्रष्टव्यानि । धूपे च विशेषो विष्णुनोक्तः-'प्राण्यङ्गं सर्व धूपार्थे न दद्यात् । घृतमधुसंयुक्तं गुग्गुलश्रीखण्डागरुदेवदारुसरलादि दद्यात्' इति । दीपे च विशेषः शङ्खनोक्तः-'घृतेन दीपो दातव्यस्तिलतैलेन वा पुनः । वसामेदोद्भवं दीपं प्रयत्नेन विवर्जयेत् ॥' इति आच्छादनं च शुभ्रं नवमहतं सदशं दद्यादिति। एतच्च सर्व वैश्वदेवानुष्टानकाण्डमुदङ्मुखः कुर्यात् । पित्यं काण्डं दक्षिणामुखः । पथाह वृद्धशातातपः-'उदङ्मुखस्तु देवानां पितॄणां दक्षिणामुखः । प्रदद्या. पार्वणे सर्व देवपूर्व विधानतः ॥' इति ॥ २३ ॥
अपसव्यं ततः कृत्वा पितॄणामप्रदक्षिणम् ॥ २३२ ॥ द्विगुणांस्तु कुशान्देवा ह्युशन्तस्त्वेत्यूचा पितॄन् ।
आवाह्य तदनुज्ञातो जपेदायन्तुनस्ततः ॥ २३३ ॥ ततो वैश्वदेवकाण्डानन्तरमपसव्यं यज्ञोपवीतं प्राचीनावीतं कृत्वा । अत्र तत इति वदता काण्डानुसमयो दर्शितः । पित्रादीनां त्रयाणामयुग्मान्कुशान्द्विगुणभुग्नान् अप्रदक्षिणं वामतो विष्टरार्थमासनेषूदकपूर्वकं दत्वा पुनरुदकं दद्यात् । 'अपः प्रदाय दुर्भान्द्विगुणभुनानासनं प्रदायापः प्रदाय' इत्याश्वलायनस्सरणात् । एतच्चाद्यन्तयोरुदकदानं वैश्वदेवे पित्र्ये च प्रतिपदार्थ प्रतिपादनार्थ द्रष्टव्यम् । अथ पितॄन् पितामहान् प्रपितामहानावाहयिष्य इति ब्राह्मणान्पृष्ट्वा आवाहयेति तैरनुज्ञातः 'उशन्तस्त्वा निधीमहि' इत्यनयर्चा पित्रादीनावाह्य 'आयन्तु नः पितरः' इत्यादिना मन्त्रेणोपतिष्ठेत ॥ २३२ ॥ २३३ ॥
अपहता इति तिलान्विकीर्य च समन्ततः । यवार्थास्तु तिलैः कार्याः कुर्यादादि पूर्ववत् ।। २३४ ॥ दत्त्वाऱ्या संस्रवांस्तेषां पात्रे कृत्वा विधानतः। पितृभ्यः स्थानमसीति न्युजं पात्रं करोत्यधः ॥ २३५ ॥ यवार्थाः यवसाध्यानि कार्याण्यवकिरणादीनि तिलैः कर्तव्यानि । ततोऽर्थ्यपात्रासादनाच्छादनान्तं पूर्ववत्कुर्यात् । तत्रायं विशेषः-तिलान् 'अपहता अ. सुरारक्षांसि' इत्यादिना मन्त्रेण ब्राह्मणान्परितोऽप्रदक्षिणमन्ववकीर्य राजतादिषु पात्रेषु विष्वयुग्मकुशनिर्मितकूर्चान्तर्हितेषु 'शं नो देवीः' इति मन्त्रेणापः शिवा
१ अकण्टकिजं ख. २ कुशान्कृत्वा क. ३ दिगुणभुमान्कुशान्दत्वाफा-ख. ग.
For Private And Personal Use Only
Page #105
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्राद्धप्रकरणम्-१०] मिताक्षरासहिता।। 'तिलोसि सोमदैवत्य' इत्यादिमन्त्रेण तिलान् गन्धपुष्पाणि च क्षित्वा स्वधायाः इति ब्राह्मणानां पुरतोऽयपात्राणि स्थापयित्वा 'यादिन्या' इति मन्त्रान्ते पितरिद तेऽस्य पितामहेदं तेऽध्य प्रपितामहेदं तेऽय॑मिति ब्राह्मणानां हस्तेष्वयं दद्यात् । एकैकमुभयन्त्र वेत्यस्मिन्नपि पक्षे पात्रत्रयं कार्यम् । एवमयं दत्त्वा तेषामध्याणां संत्रवान्ब्राह्मणहस्तगलिता|दकानि पितॄपाने गृहीत्वा दक्षिणायं कुशस्तम्ब भूमौ निधाय तस्योपरि 'पितृभ्यः स्थानमसि' इत्यनेन मन्त्रेण तत्पात्रं न्युनमधोमुखं कुर्यात् । तस्योपरि अर्घ्यपात्रवित्राणि निदध्यात् । अनन्तरं गन्धपुष्पधूपदीपाच्छादनानि पितरयं ते गन्धः पितरिदं ते पुष्पमित्यादिना प्रयोगेण दद्यात् ॥ २३४ ॥ २३५ ॥ - अग्नौकरणमाह द्वाभ्याम्
अनौकरिष्यन्नादाय पृच्छत्यन्नं घृतप्लुतम् । कुरुष्वेत्यभ्यनुज्ञातो हुखाग्नौ पितृयज्ञवत् ॥ २३६ ॥ हुतशेषं प्रदद्यात्तु भाजनेषु समाहितः ।।
यथालाभोपपन्नेषु रौप्येषु च विशेषतः ॥ २३७ ॥ अनन्तरमग्नौकरिष्यन्घृतप्लुतं घृताक्तमन्नमादाय ब्राह्मणान् पृच्छेदग्नौकरिष्ये इति । धृतग्रहणं सूपशाकादिनिवृत्त्यर्थम् । ततस्तैः कुरुष्वेत्यभ्यनुज्ञातः प्राचीनावीती शुद्धमन्नमुपसमाधाय मेक्षणेनादायावदानसंपदा जुहुयात् ‘सोमायपितृमते स्वधानमः । अग्नये कव्यवाहनाय स्वधानमः' इति पिण्डपितृयज्ञकल्पेनानौ हुत्वा मेक्षणमनुप्रहृत्य. हुतशेष मृन्मयवर्ज यथालाभोपपत्रेषु विशेषतो रौप्येषु पित्रादिभाजनेषु दद्यात् न वैश्वदेवभाजनेषु । समाहितोऽनन्यमनस्कः । अत्र यद्यप्यग्नावित्यविशेषेणोक्तं तथाप्याहिताग्नेः सर्वाधानपक्षे औपासनानेरभावात् पिण्डपितृयज्ञानन्तरभाविनि पार्वणश्राद्धे विहृतदक्षिणाग्नेः संनिधानाक्षिणानौ होमः-'कर्म मातं विवाहानौ' इत्यस्यापवाददर्शनात् । यथाह मार्कण्डेयः'आहिताग्निस्तु जुहुयादक्षिणाग्नौ समाहितः । अनाहिताग्निस्त्वौपसथेऽन्यभावे द्विजेऽप्सु वा ॥' इति । अर्धाधानपक्षे त्वौपासनाग्निसद्भावादाहिताग्नेरनाहितानेरिवौपासनाग्नावेवाग्नौकरणहोमः । एवमन्वष्टकादिषु विष्वपि पिण्डपितृयज्ञकल्पातिदेशात् । काम्यादिषु चतुर्यु ब्राह्मणपाणावेव होमः। यथाहुगुह्यकाराः'भान्वष्टक्यं च पूर्वेधुर्मासिमास्यथ पार्वणम् । काम्यमभ्युदयेऽष्टम्यामेकोद्दिष्टमथाष्टमम् ॥ चतुझ्येषु साग्नीनां वह्नौ होमो विधीयते । पिठ्यब्राह्मणहस्ते स्यादुत्तरेषु चतुर्वपि ॥' अस्यार्थ:-'हेमन्तशिशिरयोश्चतुर्णामपरपक्षाणामष्टमीध्वष्टकाः' इत्यष्टका विहिताः । तत्र नवम्यां यत्क्रियते तदन्वष्टक्यम् । सप्तम्यां क्रियमाणं पूर्वेयुः । मासिमासि कृष्णपक्षे पञ्चमीप्रभृतिषु यस्यां कस्यांचित्ति
१.पात्रे प्रथमे गृहीत्वा ग. २ वीतीध्ममुप-क. वीत्यग्निमुप-ख. ३ विहित ख. ४ स्त्वौ. पासनेऽश्यभावे ग. ५ नेरप्यौपासना ख. ग. ६ कल्पेनेतिनिदेशात् क.
For Private And Personal Use Only
Page #106
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
याज्ञवल्क्यस्मृतिः। . [आचाराध्यायः
भावन्वष्टक्यातिदेशेन यद्विहितम् । अमावास्यास्यां पिण्डपितृयज्ञानन्तरं यद्विहितं तस्पार्वणम् । स्वर्गादिकामनायां कृत्तिकादिनक्षत्रेषु यद्विहितं तत्काम्यम् । भभ्युदवे पुत्रोत्पत्त्यादिषु तडागारामदेवताप्रतिष्ठादिषु च यद्विहितं तदाभ्युदयम् । अष्टम्यां अष्टका विहिताः । एकोद्दिष्टम् । अत्रैकोद्दिष्टशब्देन सपिण्डीकरणं लक्षयति, तत्रैकोद्दिष्टस्यापि सद्भावात्, साक्षादेकोद्दिष्टे तदभावात् । अथवा गृह्यभाष्यकारमते साक्षादेकोद्दिष्टेऽपि पाणिहोमस्य सद्भावात्सोक्षादेकोहिष्टमेव । एतेषामष्टानामाग्रेषु चतुषु साग्निकस्यानो होमः । उत्तरेषु चतुषु पिण्यब्राह्मणहस्ते । निरग्निकस्यापि प्रमीतपितृकस्य द्विजस्य पार्वणं नित्यमिति तस्यापि पाणावेव होमः-'न निर्वपति यः श्राद्धं प्रमीतपितृको द्विजः । इन्दुक्षये मासि मासि प्रायश्चित्तीयते तु सः ॥' इति वचनात् । एवं काम्याभ्युदयिकाष्टकैकोद्दिष्टेषु पाणावेव होमः-'अन्यभावे तु विप्रस्य पाणावेवोपपादयेत्' इति मनुमरणात् । पाणिदत्तस्य पृथग्यासप्रतिषेधै उच्यते । यथाहुाकारा:-'भनं पाणितले दत्तं पृथगनन्त्यबुद्धयः। पितरस्तेन तृप्यन्ति. शेषावं न लभन्ति ते ॥ यच्च पाणितले दचं यच्चान्यदुपकल्पितम् । एकीभावेन भोक्तव्यं पृथग्भावो न विद्यते' इति ॥ २३६ ॥ २३७ ॥ अन्ननिवेदनम्
दत्त्वान्नं पृथिवीपात्रमिति पात्राभिमत्रणम् । कृदंविष्णुरित्यने द्विजाङ्गुष्ठं निवेशयेत् ।। २३८ ॥ अनमोदनसूपपायसघृतादिकं भाजनेषु देखा पृथिवीते पानमित्यादिना म. श्रेण पात्रामिमन्त्रणं कृत्वा 'इदं विष्णुर्विचक्रमे' इत्यनयर्चा अने द्विजाङ्गुष्ठं निवेशयेत् । तत्रच वैश्वदेवे यज्ञोपवीती विष्णो हव्यं रक्षेति । पित्र्ये प्राचीनावीती विष्णो कव्यं रक्षेति । -'विष्णो हव्यं च कव्यं च ब्रूयाद्रक्षेति वै क्रमात्' इति मनुस्मरणात् ॥ २३८ ॥
सव्याहृतिकां गायत्री मधुवाता इति ज्यूचम् ।
जस्वा यथासुखं वाच्यं भुञ्जीरंस्तेऽपि वाग्यताः ॥ २३९ ॥ अनन्तरं विश्वेभ्योदेवेभ्य इदमझ परिविष्टं परिवेक्ष्यमाणं चातृसेरिति यवोदकेन दैवे निवेद्य, तथा पित्रे अमुकगोत्रायामुकशर्मणे इदमनं परिविष्टं परिवेक्ष्यमाणं चातृप्तेरिति तिलोदकप्रदानेन पित्रे निवेद्य, एवं पितामहाय प्रपितामहाय च निवेद्यानन्तरमापोशनं दत्त्वा पूर्वोक्तामिाहृतिमिः सहितां गायत्री 'मधुवाता' इति तृचं मधुमधुमध्विति त्रिवारं जहवा यथासुखं जुषध्वमिति ब्रूयात् ।-'संकल्प्य पितृदेवेभ्यः सावित्री मधुमजपः । श्राद्धं निवेद्यापोशानं जुषश्रेषोऽथ भोजनम् ॥' तथा--'गायत्री त्रिः सकद्वापि जपेयाहृतिपूर्विकाम् । म
१ लक्ष्यते ख. २ सद्भावादेको क. ३ प्रतिषेधश्च दृश्यते ग. ४ पूर्वमन्वन्त्यबु. ग. ५ कृत्वा ग.
--
For Private And Personal Use Only
Page #107
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
.
www. kobatirth.org
श्रद्धप्रकरणम् १०]
मिताक्षरासहिता ।
Ge
धुवाता इति तृचं मध्वित्येतत्रिकं तथा ॥' इति पारस्करादिवचनात् । भुञ्जीरस्तेऽपि वाग्यताः । तेऽपि ब्राह्मणा वाग्यता मौनिनो भुञ्जीरन् ॥ २३९ ॥
Acharya Shri Kailassagarsuri Gyanmandir
अन्नमिष्टं हविष्यं च दद्यादक्रोधनोऽत्वरः । आतृप्तेस्तु पवित्राणि जत्वा पूर्वजपं तथा ॥ २४० ॥
भनं भक्ष्यभोज्यलेचोष्यपेयात्मकं पञ्चविधं इष्टं यद्राह्मणाय प्रेताय कर्त्रे वा रोचते । हविष्यं श्राद्धहविर्योग्यं ब्रीहिशालियवगोधूममुद्गमाषमुन्यनकालशाकमहाशल्कैलाशुण्ठीमरीचहिङ्गुगुडशर्कराकर्पूर सैन्धवसांभरपनसनालिकेर कदलीबदरगव्यपयोदधिघृतपाय समधुमांसप्रभृति स्मृत्यन्तरप्रसिद्धं वेदितव्यम् । हविष्य - मित्यनेनैवायोग्यस्य स्मृत्यन्तरप्रतिषिद्धस्य कोद्रवमसूरचणककुलित्थपुलाकनिष्पावराजमाषकूष्माण्ड वार्ताकबृहतीयोपोदकी वंशाङ्कुरपिप्पलीवचाशतपुष्पोषेधविडखचणमाहिषचामरक्षीरदधिघृतपायसादीनां निवृतिः । अक्रोधनः क्रोधहेतुसंभवेऽपि । अस्वरोऽव्यग्रः । भ्रातृप्तेर्दद्यादिति संबन्धः । तुशब्दाद्यथा किंचिदुच्छिष्यते तथा दद्यात् । उच्छेषणस्य दासवर्ग भागधेयत्वात् । 'उच्छेषणं भूमिगतमजिझस्याशस्य च । दासवर्गस्य तत्पित्र्ये भागधेयं प्रचक्षते ॥' इति ( ३।२४६) मनुस्मरणात् । तथा आतृप्तेः पवित्राणि पुरुषसूक्तपावमानी प्रभृतीनि जहवा तृप्तान् ज्ञात्वा पूर्वोक्तं जपं च सव्याहृतिका मित्युक्तं जपेत् ॥ २४० ॥
अन्नमादाय तृप्ताः स्थ शेषं चैवानुमान्य च । तदनं विकिरेद्भूमौ दद्याच्चापः सकृत्सकृत् ॥
पिण्डप्रदानम् -
२४१ ॥
अनन्तरं सर्वर्मेनमादाय तृप्ताः स्थेति तान्पृष्ट्वा तृप्ताः स्म इति तैरुक्तः शेषमप्यस्ति किं क्रियतामिति पृष्ट्वा इष्टैः सहोपभुज्यतामित्यभ्युपगम्य तदनं पितृस्थानब्राह्मणस्य पुरस्तादुच्छिष्टसंनिधौ दक्षिणा प्रदर्भान्तरितायां भूमौ' तिलोदकप्रक्षेपपूर्वकं - 'ये अग्निदग्धा' इत्यनयच निक्षिप्य पुनस्तिलोदकं निक्षिपेत् । सदनन्तरं ब्राह्मणहस्तेषु गण्डूषार्थ सकृत्सकृदपो दद्यात् ॥ २४१ ॥
सर्वमन्नमुपादाय सतिलं दक्षिणामुखः ।
उच्छिष्टसंनिधौ पिण्डान्दद्याद्वै पितृयज्ञवत् ॥ २४२ ॥
पिण्डपितृयज्ञकल्पातिदेशेन चरुश्रपणसद्भावे अग्नौकरणशिष्टचरुशेषेण सह सर्वमन्नमुपादायाभिसंनिधौ पिण्डान्दद्यात् । तदभावे ब्राह्मणार्थं कृतमन्नं सर्वमुपादाय सतिलं तिलमिश्रं दक्षिणामुख उच्छिष्टसंनिधौ पिण्डपितृयज्ञकल्पेन पिण्डान्दद्यात् ॥ २४२ ॥
१ वृन्ताकबृहती क. २ पुष्पोषधिविट - क. पुष्पोषर बिड - ख. ३ प्रकिरेत् क. ४ सार्ववर्णिकमश्न-क. ग. ५ सार्ववर्णिकमन्नमुपादायक.
For Private And Personal Use Only
Page #108
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७६
। याज्ञवल्क्यस्मृतिः।
[आचाराध्यायः
अक्षय्योदकदानम्
मातामहानामप्येवं दद्यादाचमनं ततः।।
स्वस्तिवाच्यं ततः कुर्यादक्षय्योदकमेव च ॥ २४३ ॥ मातामहानामपि विश्वेदेवावाहनादिपिण्डप्रदानपर्यन्तं कमैवमेव कर्तव्यम् । अनन्तरं ब्राह्मणानामाचमनं दद्यात् । स्वस्तिवाच्यं ततः कुर्यात् स्वस्ति ब्रूतेति ब्राह्मणान्स्वस्ति वाचयेत् । तैश्च स्वस्तीत्युक्ते अक्षय्यमस्त्विति ब्रूतेति ब्राह्मणहस्ते. पूदकदानं कुर्यात् । तैश्चाक्षय्यमस्त्विति वक्तव्यम् ॥ २४३ ॥ स्वधावाचनम्
दत्त्वा तु दक्षिणां शक्त्या स्वधाकारमुदाहरेत् ।
वाच्यतामित्यनुज्ञातः प्रकृतेभ्यः स्वधोच्यताम् ॥ २४४ ॥ अनन्तरं यथाशक्ति हिरण्यरजतादिदक्षिणां दत्त्वा स्वधा वाचयिष्य इत्युक्त्वा तैाह्मणैर्वाच्यतामित्यनुज्ञातः प्रकृतेभ्यः पित्रादिभ्यो मातामहादिभ्यश्च स्वधोच्यतामिति स्वधाकारमुदाहरेत् ॥ २४४ ॥
ब्रूयुरस्तु वधेत्युक्ते भूमौ सिश्चेत्ततो जलम् ।
विश्वेदेवाश्च श्रीयन्तां विप्रैश्वोक्त इदं जपेत् ।। २४५॥ . ते च ब्राह्मणा अस्तु स्वधेति ब्रूयुः । तैरेवमुक्ते अनन्तरं कमण्डलुना उदकं भूमौ सिञ्चेत् । ततो विश्वेदेवाः प्रीयन्तामिति श्रूयात् । ब्राह्मणैश्च प्रीयन्तां वि. श्वेदेवा इत्युक्त इदमनन्तरोच्यमानं जपेत् ॥ २४५॥
. ब्राह्मणप्रार्थना
दातारो नोऽभिवर्धन्तां वेदाः संततिरेव च ।
श्रद्धा च नो मागमद्भहुदेयं च नोऽस्त्विति ॥ २४६ ॥ दातारो हिरण्यादेः नोऽस्माकं कुलेऽभिवर्धन्तां बहवो भवन्तु । वेदाश्च व. धन्तां अध्ययनाध्यापनतदर्थज्ञानानुष्ठानद्वारेण । संततिश्च पुत्रपौत्रादिपरम्परया । श्रद्धा च पित्र्ये कर्मण्यास्था नोऽस्माकं मागमत् मा गच्छतु । 'न माङ्योगे' इत्यडभावः । देयं च हिरण्यादि बहु अपर्यन्तं अस्माकं भवत्विति जपेदित्यर्थः ॥ २४६ ॥
इत्युक्त्वोक्त्वा प्रिया वाचः प्रणिपत्य विसर्जयेत् ।
वाजेवाज इति प्रीतः पितृपूर्व विसर्जनम् ॥ २४७ ॥ एवं पूर्वोक्तं प्रार्थनामनं जप्त्वा, उक्त्वा च प्रिया वाचः धन्या वयं भवञ्चरणयुगलरजःपवित्रीकृतमस्मन्मन्दिरं शाकाद्यशनक्लेशमविगणय्य भवद्भिरनुगृहीता वयमित्येवंरूपाः । प्रणिपत्य प्रदक्षिणापूर्व नमस्कृत्य विसर्जयेत् । कथं विसर्जये१ कमैवं कर्तव्यं ग. २ रेव नः ग. ३ विसर्जयेत् ख.
For Private And Personal Use Only
Page #109
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्राद्धप्रकरणम् १०]
मिताक्षरासहिता ।
७७
दित्याह-वाजे वाजेवत वाजिनो नः' इत्यमयर्चा पितृपूर्व प्रपितामहादि विश्वेदेवान्तं दर्भान्वारम्भेण उत्तिष्ठन्तु पितर इति प्रीतः सुप्रीतमना विसर्जनं कुर्यात् ॥
यसिंस्तु संञवाः पूर्वमर्घ्यपात्रे निवेशिताः।
पितृपात्रं तदुत्तानं कृत्वा विप्रान्विसर्जयेत् ॥ २४८॥ .. ___ यस्मिन्नर्घ्यपान्ने पूर्वमयंदानान्ते संम्रवा ब्राह्मणहस्तगलितार्योदकानि निवे. शिताः स्थापितास्तदर्घ्यपात्रं न्युनं तदुत्तानमूर्ध्वमुखं कृत्वा विप्रान्विसर्जयेत् । एतन्नाशीर्मत्रजपादूर्ध्वं वाजेवाजे इत्यतः प्राग्द्रष्टव्यम् । कृत्वा विसर्जयेदिति स्वाप्रत्ययश्रवणात् ॥ २४८ ॥
प्रदक्षिणमनुव्रज्य भुञ्जीत पितृसेवितम् ।
ब्रह्मचारी भवेत्तां तु रजनी ब्राह्मणैः सह ॥ २४९ ॥ . भनन्तरमासीमान्तं ब्राह्मणाननुव्रज्य तैरास्यतामित्यनुज्ञातस्तान्प्रदक्षिणीकृत्य प्रतिनिवृत्तः पितृसेवितं श्राद्धशिष्टमिष्टैः संह भुञ्जीतं । नियम एवायं न परिसंख्या। मांसे तु यथारचीति द्विजकाम्ययेत्यत्रोक्तम् । यस्मिन्दिने श्राद्धं कृतं तत्संबन्धिनी रात्रि भोक्तृभिर्ब्राह्मणैः सह कर्ता ब्रह्मचारी भवेत् । तुशब्दात्पुनर्भोजनादिरहितोऽपि भवेत् । 'दन्तधावनताम्बूलं स्निग्धस्नानमभोजनम् । रत्यौपपरामानि श्राद्धकृत्सप्त वर्जयेत् ॥ पुनर्भोजनमध्वानं भाराध्ययनमैथुनम् । दानं प्रतिग्रहं होमं श्राद्धभुक्त्वष्ट वर्जयेत् ॥' इति वचनात् ॥ २४९ ॥ . एवं पार्षणश्राद्धमुक्त्वेदानी वृद्धिश्राद्धमाह:--...
एवं प्रदक्षिणावृत्को वृद्धौ नान्दीमुखान्पिढन् । __ यजेत दधिकर्कन्धमिश्रान्पिण्डान्यवैः क्रियाः ॥२५० ॥ वृद्धौ पुत्रजन्मादिनिमित्ते श्राद्धे एवमुक्तेन प्रकारेण पितॄन्यनेत् पूजयेत् । तत्र विशेषमाह-प्रदक्षिणावृत्क इति । प्रदक्षिणा मावृत् अनुष्ठानपद्धतिर्यस्यासौ प्रदक्षिणावृत्कः प्रदक्षिणप्रचार इति यावत् । नान्दीमुखानिति पितॄणां विशेषणम् । अतश्चावाहनादौ नान्दीमुखान्पितॄनावाहयिष्ये नान्दीमुखाम्पितामहानित्यादिप्रयोगो द्रष्टव्यः । कथं यजेतेत्याह-दधिकर्कन्धूमिश्रान् । कर्कन्धूबंदरीफलम् । दना बदरीफलैश्च मिश्रापिण्डान्दत्त्वा यजेतेति संबध्यते । तिलसाध्याः सर्वाः क्रिया यवैः कर्तव्याः । अत्रच ब्राह्मणसंख्या दर्शातैव 'युग्मान्दैवे यथाशक्ति' इत्यत्र । प्रदक्षिणावृत्कत्वादिपरिगणनमन्येषामपि स्मृत्यन्तरोक्तानां विशेषधर्माणां प्रदर्शनार्थम्। यथाहाश्वलायन:-'अथाभ्युदयिके युग्मा प्रा. ह्मणा अमूला दर्भाः प्रामुखो यज्ञोपवीती' स्यात्प्रदक्षिणमुपचारो यवैस्तिलार्थो गन्धादिदानं द्विर्द्विः ऋजुदर्भानासने दद्यात् । यवोसि सोमदेवत्यो गोसवे दे. वनिर्मितः । प्रनवद्भिः प्रत्तः पुष्ट्या नान्दीमुखापितॄनिमाल्लोकान्प्रीणयाहि नः
१ यस्मिंस्ते संस्रवाः पूर्वं ख. २ पितृपात्रे क. ३ दानानन्तरं ते संत्रवा ग.
For Private And Personal Use Only
Page #110
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
७८
www. kobatirth.org
याज्ञवल्क्यस्मृतिः ।
[ आचाराध्यायः
स्वाहा' इति यवावपनम् । विश्वेदेवा इदं वोर्घ्य, नान्दीमुखाः पितर इदं वोमिति यथालिङ्गमर्घ्यदानम् । पाणौ होमोमये कव्यवाहनाय स्वाहा सोमाय पितृमते स्वाहेति । 'मधुवाता ऋतायत' इति तृचस्थाने 'उपामै गायत' इति पच मधुमतीः श्रावयेत् । 'अक्षन्नमीमदन्त' इति षष्ठीम् । भवान्तेषु भुक्ताशयान्गोमयेनोपलिप्य प्राचीनाग्रान्दर्भान्संस्तीर्य तेषु पृषदाज्यमिश्रेण भुक्तशेषेणैकैकस्य
पिण्डौ दद्यादित्यादि । यद्यपि पितृम्यजेतेति सामान्येनोकं तथापि श्राद्धश्रयं क्रमश्च स्मृत्यन्तरादवगन्तव्यः । यथाह शातातपः - 'मातुः श्राद्धं तु पूर्वस्वात्पितॄणां तदनन्तरम् । ततो मातामहानां व वृद्धौ श्राद्धत्रयं स्मृतम् ॥' इति ॥ २५० ॥
एकोद्दिष्टमाह
Acharya Shri Kailassagarsuri Gyanmandir
एकोद्दिष्टं देवहीन मे कार्यैकपवित्रकम् । आवाहनानौकरणरहितं ह्यपसव्यवत् ।। २५१ ॥
एकोद्दिष्टं एक उद्दिष्टो यस्मिन् श्राद्धे तदेकोद्दिष्टमिति कर्मनामधेयम् । शेषं पूर्ववदाचरेदित्युपसंहारात् । पार्वणसकलधर्मप्राप्तौ विशेषोऽभिधीयते । देवहीनं विश्वेदेवरहितं एकार्घ्यपात्रमेकदर्भपवित्रकं च आवाहनेनानौकरणहोमेन च रहितम् । अपसव्यवत् प्राचीनावीतब्रह्मसूत्रवत् । अनेनानन्तरोक्ताभ्युदयिके यज्ञोपवीतित्वं सूचयति ॥ २५१ ॥
उपतिष्ठतामक्षय्यस्थाने वित्रविसर्जने ।
अभिरम्यतामिति वदेद्रूयुस्तेऽभिरताः स ह ॥ २५२ ॥
---
किंच । यदुक्तं- 'स्वस्तिवाच्यं ततः कुर्यादक्षय्योदकमेव च' इति तत्राक्षययस्थाने उपतिष्ठतामिति वदेत् । विप्रविसर्जने कर्तव्ये 'वाजेवाजे' इति जपान्ते दर्भान्वारम्भेणाभिरम्यतामिति ब्रूयात् । ते चाभिरताः स्म इति ब्रूयुः । इ प्रसिद्धम् । शेषं पूर्ववदिति यावत् । एतच्च मध्याह्ने कर्तव्यम् । यथाह देवलः'पूर्वाह्णे दैविकं कर्म अपराह्णे तु पैतृकम् । एकोद्दिष्टं तु मध्याह्ने प्रातर्वृद्धिनिमितकम् ॥' इति । भुञ्जीत पितृसेवितमित्यस्यैकोद्दिष्टविशेषे निषेधो दृश्यते'नवश्राद्धेषु यच्छिष्टं गृहे पर्युषितं च यत् । दंपत्योर्भुक्तशिष्टं च न भुञ्जीत कदाचन ॥' इति । नवश्राद्धं च दर्शितम् — 'प्रथमेऽह्नि तृतीयेऽह्नि पचमे सप्तमे तथा । नवमैकादशे चैव तन्नवश्राद्धमुच्यते ॥' इति ॥ २५२ ॥
सपिण्डीकरणमाह
१ दैवहीनं क. २ प्रसिञ्चयेत् ख.
गन्धोदकतिलैर्युक्तं कुर्यात्पात्रचतुष्टयम् । अर्ध्यार्थं पितृपात्रेषु प्रेतपात्रं प्रेसेचयेत् ॥ २५३ ॥
For Private And Personal Use Only
Page #111
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्राद्धप्रकरणम् १० ] मिताक्षरासहिता।
ये समाना इति द्वाभ्यां शेषं पूर्ववदाचरेत् । - एतत्सपिण्डीकरणमेकोद्दिष्टं स्त्रिया अपि ।। २५४ ॥ .
गन्धोदकतिलैर्युक्तं पात्रचतुष्टयं अयंसिद्ध्यर्थं पूर्वोक्तविधिना कुर्यात् । तिलयुक्तं पात्रचतुष्टयमिति वदता पितृवर्गे चत्वारो ब्राह्मणा दर्शिताः । वैश्वदेवे द्वौ स्थितावेव । अत्र प्रेतपात्रोदकं किंचिदवशेषंत्रिधा विभज्य पितृपात्रेषु सेचयेत् 'ये समानाः समनसः' इति द्वाभ्यां मन्त्राभ्याम् । शेषं विश्वेदेवावाहनादिविसर्जनान्तं पूर्ववत्पार्वणवदाचरेत् । प्रेताय॑पात्रावशिष्टोदकेन प्रेतस्थानब्राह्मणहस्तेऽयं दत्त्वा शेषमेकोद्दिष्टवत्समापयेत् । पित्र्येषु त्रिषु पार्वणवत् । एतत्सपिण्डीकरणमनन्तरोक्तमेकोद्दिष्टं च ततः प्रागुक्तं स्त्रिया अपि मातुरपि कर्तव्यं । एवं वदता पार्वणे मातुःश्राद्धं पृथक्कर्तव्यमित्युक्तं भवति । अत्र प्रेतशब्दं पितुः प्रपितामह विषयं केचिद्वर्णयन्ति । तस्य विष्वन्तर्भावेन सपिण्डीकरणोत्तरकालं पिण्डदानादिनिवृ. युपपत्तेः। समनन्तरमृतस्योत्तरत्र पिण्डोदकदानानुवृत्तेरन्तर्भावो न युक्तः। अतएवाह यमः-'यः सपिण्डीकृतं प्रेतं पृथपिण्डे नियोजयेत् । विधिनस्तेन भवति पितृहा चोपजायते ॥' इति । प्रकर्षण इतः प्रेत इति चतुर्थेऽपि प्रेतशब्दोपपत्तेः। 'प्रेतेभ्य एव निपृणीयात्' इति च प्रयोगदर्शनात् । अपिच-'सपिण्डीकरणं श्राद्धं देवपूर्व नियोजयेत् । पितॄनेवाशयेत्तत्र पुनः प्रेतं न निर्दिशेत् ॥' इति सपिण्डीकरणोत्तरकालं प्रेतस्य श्राद्धादिप्रतिषेधो दृश्यते स चानन्तरमृतस्य न संभवति । अमावास्यादौ श्राद्धविधानात् । 'सपिण्डता तु पुरुषे सप्तमे विनिवर्तते' इत्येतदपि वचनं चतुर्थस्य त्रिष्वन्तर्भाव एव घटते 'चतुर्थस्य पिण्डत्रयच्या. पित्वं पञ्चमस्य पिण्डद्वयव्यापित्वं षष्ठस्यैकपिण्डव्यापित्वं सप्तमे विनिवृत्तिः' इति । पितृपात्रेष्वित्येतदपि पितृमुख्यत्वादस्मिन्नेव पक्षे घटते नान्यथा, प्रपितामहप्रमुखत्वात् । तस्मारिपतृपात्रेषु तत्प्रेतपानं प्रसेचयेदिति, पितुः प्रपितामहपानं पित्रादिपात्रेषु प्रसेचयेदिति तदयुक्तम् । नह्यत्र पिण्डसंयोजनमुत्तरत्र पिण्डदानादिनिवृत्तिप्रयोजकम् , अपितु पितुः प्रेतत्वानिवृत्त्या पितृत्वप्राप्यर्थम् । प्रेतत्वं च क्षुत्तृष्णोपजनितात्यन्तदुःखानुभवावस्था। यथाह मार्कण्डेयः-प्रेतलोके तु वसतिर्नृणां वर्ष प्रकीर्तिता । क्षुत्तृष्णे प्रत्यहं तत्र भवेतां भृगुनन्दन ॥' इति । पितृत्वप्राप्तिश्च वस्वादिश्राद्धदेवतासंबन्धः। प्राक्तनैकोद्दिष्टसहितेन सपिण्डीकरणेन प्रेतत्वनिवृत्त्या पितृत्वं प्रामोतीत्यवगम्यते-'यस्यैतानि न दत्तानि प्रेतश्राद्धानि षोडश । प्रेतत्वं सुस्थिरं तस्य दत्तैः श्राद्धशतैरपि ॥' इति । तथा-'चतुरो निर्वपेत्पिण्डान्पूर्व तेषु समावपेत् । ततःप्रभृति वै प्रेतः पितृसामान्यमश्नुते ॥' इ. त्यादिवचनात् । 'यः सपिण्डीकृतं प्रेतम्' इत्यनेनापि पृथगेकोद्दिष्टविधानेन पि. ण्डदान निषेधात्पार्वणविधानेन सहपिण्डदानमवगम्यते । तैच्च सांवत्सरिकपाक्षिकैकोद्दिष्टविधानेनापोद्यते । यदपि पुनः प्रेतं न निर्दिशेदिति, तदपि प्रेतशब्दं
१ मृतस्य पिण्डोदक क. २ समानयेत् क., समापयेत् ख. ३ एतच्च ख. ४ विधानेनोपपद्यते क. विधानायोपपाद्यते ख.
या० १०
For Private And Personal Use Only
Page #112
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८०
याज्ञवल्क्यस्मृतिः। [आचाराध्यायः नोच्चारयेत् अपितु पितृशब्दमेवेत्येवमर्थम् । नच प्रकर्षगमनात्तत्रैव प्रेतशब्दः । यतो विशिष्टदुःखानुभवावस्था प्रेतशब्देन रूढ्याभिधीयत इत्युक्तम् । योऽपि प्रमीतमात्रे प्रेतशब्दप्रयोगः सोऽपि भूतपूर्वगत्या । 'सपिण्डता तु पुरुषे सप्तमे विनिवर्तते' इति च प्रथमस्य पिण्डस्य चतुर्थव्यापित्वात् द्वितीयस्य पञ्चमव्यापिस्वात् तृतीयस्य षष्ठव्यापित्वात् सप्तमे विनिवर्तत इत्येवमपि घटते । अपिच नि. वाप्यपिण्डान्वयेन न सापिण्ड्यं अव्यापकत्वात् अपित्वेकशरीरावयवान्वयेनेत्युक्तम् । पितृशब्दश्च प्रेतत्वनिवृत्त्या श्राद्धदेवताभूयंगतेषु वर्तत इति पितृपात्रेस्वित्यविरुद्धम् । तस्मादनन्तराचार्येण पूर्वपक्षद्वारेण परमतं दर्शितमित्यर्थः । मृतपात्रोदकस्य तत्पिण्डस्य च पितृपात्रेषु तत्पिण्डेषु च संसर्जनमिति स्थितम् । आचार्यस्तु परमतमेवोपन्यस्तवान् । एतच्च पितुःसपिण्डीकरणं पितामहादिषु त्रिषु प्रमीतेषु वेदितव्यम् । पितरि प्रेते पितामहे वा जीवति सपिण्डीकरणं नास्त्येव । 'व्युत्क्रमाच प्रमीतानां नैव कार्या सपिण्डता' इति वचनात् । यत्तु मनुवचनं (३।२२१)-'पिता यस्य निवृत्तः स्याज्जीवेञ्चापि पितामहः। पितुः स नाम संकीर्त्य कीर्तयेत्प्रपितामहम् ॥' इति, तदपि पितृशब्दप्रयोगनियमाय न पिण्डद्वयदानार्थम् । कथम् –'ध्रियमाणे तु पितरि पूर्वेषामेव निर्वपेत् । पिता यस्य तु वृत्तः स्थाजीवेच्चापि पितामहः ॥' सोऽपि पूर्वेषामेव निर्वपेदित्यन्वयः। पक्षद्वयेऽपि कथं निर्वपेदित्याह--'पितुः स नाम संकीर्त्य कीर्तयेत्प्रपितामहम्' इत्याद्यन्तग्रहणेन सर्वत्र पितृभ्यः पितामहेभ्यः प्रपितामहेभ्य इत्येवं प्रयोगो न पुनः कदाचिदपि पितामहस्य प्रपितामहस्य वाऽऽदित्वं वृद्धप्रपितामहस्य तत्पितुर्वान्तत्वम् । अतश्च पितादिशब्दानां संबन्धिवचनत्वात् ध्रियमाणेऽपि पितरि पितुः पितृभ्यः पितामहेभ्यः प्रपितामहेभ्य इति । पितामहे ध्रियमाणे पितामहस्य पितृभ्यः पितामहेभ्यः प्रपितामहेभ्य इति । अतश्च पिण्डपितृयज्ञे शुन्धन्तां पितर इत्यादि. मन्त्राणामूहो न भवति । यदपि विष्णुवचनं- 'यस्य पिता प्रेतः स्यात्स पि. तृपिण्डं निधाय पितामहात्पराभ्यां द्वाभ्यां दद्यात्' इति । तस्यायमर्थः । पितामहे ध्रियमाणे प्रेते च पितरि पितुरेकं पिण्डमेकोद्दिष्टविधानेन निधाय पितुर्यः पितामहस्ततः पराभ्यां द्वाभ्यां दद्यात् । पितामहस्त्वात्मनः प्रपितामहः संप्रदा. नभूतः स्थित एवेति प्रपितामहाय ततः पराभ्यां द्वाभ्यां च दद्यादिति । शब्दप्रयोगनियमस्तु पूर्वोक्त एव । एवं गोब्राह्मणादिहतस्यापि सपिण्डीकरणाभावो वेदितव्यः । यथाह कात्यायन:-'ब्राह्मणादिहते ताते पतिते संगवर्जिते । ब्युत्क्रमाच्च मृते देयं येभ्य एव ददात्यसौ ॥' इति । गोब्राह्मणहतस्य पितुः सपिण्डीकरणसंभवे तमुलंध्य पितामहादिभ्यः पार्वणविधानमनुपपन्नमिति सपिण्डीकरणाभावोऽवगम्यते । स्मृत्यन्तरेऽपि—'ये नराः संततिच्छिन्ना नास्ति तेषां सपिण्डता । न चैतैः सह कर्तव्यान्येकोद्दिष्टानि षोडश ॥' इति । मातुः पिण्डदानादौ गोत्रे विप्रतिपत्तिः । भर्तृगोत्रेण पितृगोत्रेण वा दातव्यमिति उभ१ अव्यापित्वादपि तु क. २ देवतामुपगतेषु ख.
-
For Private And Personal Use Only
Page #113
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भाद्धप्रकरणम् १०] मिताक्षरासहिता । यत्र वचनदर्शनात् । -'स्वगोत्राश्यते नारी विवाहात्सप्तमे पदे। स्वामिगोत्रेण कर्तव्या तस्याः पिण्डोदकक्रिया ॥' इत्यादिभर्तृगोत्रविषयं वचनम् ।–'पितृगोत्रं समुत्सृज्य न कुर्याद्भर्तृगोत्रतः । जन्मन्येव विपत्तौ च नारीणां पैतृक कुलम् ॥' इत्यादिपितृगोत्रविषयम् । एवं विप्रतिपत्तावासुरादिविवाहेषु पुत्रिकाकरणे च पितृगोत्रमेव । तत्र तत्र विशेषवचनात् दानस्यानिवृत्तेश्च । ब्राह्मा दिविवाहेषु व्रीहियववत् बृहद्रथन्तरसामवत् विकल्प एव । तत्रच-'येनास्य पितरो याता येन याताः पितामहाः । तेन यायात्सतां मार्ग तेन गच्छन्न दुष्यति ॥' इति वचनात् वंशपरम्परायातसमाचरणेन व्यवस्था । एवंविधविषयव्यतिरेकेणास्य वचनस्य विषयान्तराभावात् । यत्र पुनः शास्त्रतो न व्यवस्था नाप्याचारस्तत्र 'आत्मनस्तुष्टिरेव वा' इति वचनादात्मनस्तुष्टिरेव व्यवस्थापिका, यथा'गर्भाष्टमेऽष्टमे वान्दे' इति । मातुः सपिण्डीकरणेऽपि विरुद्धानि वाक्यानि दृश्यन्ते तत्र-'पितामह्यादिभिः सार्ध सपिण्डीकरणं स्मृतम्' । तथा भापि भार्यायाः स्वमात्रादिभिः सह सपिण्डीकरणं कर्तव्यमिति पैठीनसिराह--'अपुत्रायां मृतायां तु पतिः कुर्यात्सपिण्डताम् । श्वश्वादिभिः सहैवास्याः सपिण्डीकरणं भवेत् ॥' इति । पत्या सह सपिण्डीकरणं यम आह–'पत्या चैकेन कर्तव्यं सपिण्डीकरणं स्त्रियाः। सा मतापि हि तेनैक्यं गता मन्त्राहुतिव्रतैः ॥' इति । उशनसा तु मातामहेन सह सपिण्डीकरणमुक्तम्-'पितुः पितामहे यद्वत्पूर्णे संवत्सरे सुतैः । मातुर्मातामहे तद्वदेषा कार्या सपिण्डता ॥' तथा-पिता पितामहे योज्यः पूर्ण संवत्सरे सुतैः । माता मातामहे तद्वदित्याह भगवान्छिवः ॥' इत्येवं विविधेषु वचनेषु सत्सु अपुत्रायां भार्यायां प्रमीतायां भर्ता स्वमात्रैव सापिण्ड्यं कुर्यात् । अन्वारोहणे तु पुत्रः स्वपित्रैव मातुः सापिण्ड्यं कुर्यात् । आसुरादिविवाहोत्पन्नः पुत्रिकासुतश्च मातामहेनैव । ब्राह्मादिविवाहोत्पन्नः पित्रा मातामहेन पितामह्या वा विकल्पेन कुर्यात् । अत्रापि यदि नियतो वंशसमाचारस्तदानीं तथैव कुर्यात् । वंशसमाचारोऽप्यनियतश्चेत्तदा 'आत्मनस्तुष्टिरेव च' इति यथारुचि कुर्यात् । तत्र च येन केनापि मातुः सापिण्ड्येऽपि यत्रान्वष्टकादिषु मातृश्राद्धं पृथग्विहितं-'अन्वष्टकासु वृद्धौ च गयायां च क्षयेऽहनि । मातुः श्राद्धं पृथक्कुर्यादन्यत्र पतिना सह ॥' इति, तत्र पितामह्यादिभिरेव पार्वणश्राद्धं कर्तव्यम् । अन्यत्र पतिना सहेति पतिसापिण्ड्ये तदंशभागित्वात् । मातामहसापिण्ड्ये तदंशभागित्वात्तेनैव सह । यथाह शातातप:--'एकमूर्तिस्वमायाति सपिण्डीकरणे कृते । पत्नी पतिपितॄणां च तस्मादंशेन भागिनी ॥' इति । एवं सति मातामहेन मातुः सापिण्ड्येमातामहश्राद्धं पितृश्राद्धवन्नित्यमेव । पत्या पितामह्या वा मातुः सापिण्ड्ये मातामहश्राद्धं न नित्यम् । कृते अभ्युदयः अकृते न प्रत्यवाय इति निर्णयः ॥ २५३ ॥ २५४ ॥
१ विरुद्धानीव ख. २ मृता यदि तेनैक्यं क.
For Private And Personal Use Only
Page #114
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८२
याज्ञवल्क्यस्मृतिः।
[आचाराध्यायः
अक्सिपिण्डीकरणं यस संवत्सराद्भवेत् ।।
तस्याप्यन्नं सोदकुम्भं दद्यात्संवत्सरं द्विजे ॥ २५५ ॥ __ संवत्सरादक्सिपिण्डीकरणं यस्य कृतं तस्य तदुद्देशेन प्रतिदिवसं प्रतिमासं वा यावत्संवत्सरं शक्त्यनुसारेणान्नमुदकुम्भसहितं ब्राह्मणाय दद्यात् । अक्सिंवत्सरादिति वदता सपिण्डीकरणं संवत्सरे पूर्णे प्राग्वेति दर्शितम् । यथाहाश्वलायन:-'अथ सपिण्डीकरणं संवत्सरान्ते द्वादशाहे वा' इति । कात्यायनोऽप्याह-'ततः संवत्सरे पूर्णे सपिण्डीकरणं त्रिपक्षे वा यदाचार्वाग्वृद्धिरापद्यते' इति । द्वादशाहे त्रिपक्षे वृद्धिप्राप्तौ संवत्सरे वेति चत्वारः पक्षा दर्शिताः । तत्र द्वादशाहे पितुः सपिण्डीकरणं साग्निकेन कार्यम् । सपिण्डीकरणं विना पिण्डपितृयज्ञासिद्धेः-'साग्निकस्तु यदा कर्ता प्रेतो वाप्यग्निमान्भवेत् । द्वादशाहे तदा कार्य सपिण्डीकरणं पितुः ॥' इति वचनात् । निरनिकस्तु त्रिपक्षे वृद्धिप्राप्तौ संवत्सरे वा कुर्यात् । यदा प्राक्संवत्सरात्सपिण्डीकरणं तदा षोडशश्राद्धानि कृत्वा सपिण्डीकरणं कार्यम् , उत सपिण्डीकरणं कृत्वा स्वस्वकाले तानि कर्तव्यानीति संशयः । उभयथा वचनदर्शनात् । -'श्राद्धानि षोडशादत्त्वा नैव कुत्सिपिण्डताम् । श्राद्धानि षोडशापाद्य विदधीत सपिण्डताम् ॥' इति । षोडशश्राद्धानि च-'द्वादशाहे त्रिपक्षे च षण्मासे मासि चाब्दिके । श्राद्धानि पोडशैतानि संस्मृतानि मनीषिभिः ॥' इति दर्शितानि । तथा-'यस्यापि वत्सरादक्सिपिण्डीकरणं भवेत् । मासिकं चोदकुम्भं च देयं तस्यापि वत्सरम् ॥' इति । तत्र सपिण्डीकरणं कृत्वा स्वकाल एवैतानि कर्तव्यानीति प्रथमः कल्पः । अप्राप्तकालत्वेन प्रागनधिकारात् । यदपि वचनं 'षोडशश्राद्धानि कृत्वैव स. पिण्डीकरणं संवत्सरात्प्रागपि कर्तव्यम्' इति सोऽयमापत्कल्पः । यदा त्वापत्क. ल्पत्वेन प्राक्सपिण्डीकरणात् प्रेतश्राद्धानि करोति तदैकोद्दिष्टविधानेन कुर्यात् । यदा तु मुख्यकल्पेन स्वकाल एवं करोति तदाब्दिकं श्राद्धं यो यथा करोति पार्वणमेकोद्दिष्टं वा तथा मासिकानि कुर्यात् । 'सपिण्डीकरणादाक्कुर्वन् श्राद्धानि षोडश । एकोद्दिष्टविधानेन कुर्यात्सर्वाणि तानि तु ॥ सपिण्डीकरणादूर्ध्वं यदा कुर्यात्तदा पुनः । प्रत्यब्दं यो यथा कुर्यात्तथा कुर्यात्स तान्यपि ॥' इति स्मरणात् । एतच्च प्रेतश्राद्धसहितं सपिण्डीकरणं संविभक्तधनेषु बहुषु भ्रातृषु सत्स्वप्येकेनैव कृतेनालं न सर्वैः कर्तव्यम् ।-'नवश्राद्धं सपिण्डत्वं श्राद्धान्यपि च षोडश । एकेनैव तु कार्याणि संविभक्तधनेष्वपि ॥' इति सरणात् । इदं च प्रेतश्राद्धसहितं सपिण्डीकरणं असंन्यासिनां पुत्रादिभिर्नियमेन कर्तव्यम् । प्रेतत्वविमोक्षार्थत्वात् । संन्यासिनां तु न कर्तव्यम् । यथाहोशना-‘एकोद्दिष्टं न कुर्वीत य. तीनां चैव सर्वदा । अहन्येकादशे प्राप्ते पार्वणं तु विधीयते ॥ सपिण्डीकरणं तेषां न कर्तव्यं सुतादिभिः। त्रिदण्डग्रहणादेव प्रेतत्वं नैव जायते ॥' इति । १ करणं भवेत् ख. २ द्यते तदेति ख.
For Private And Personal Use Only
Page #115
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्राद्धप्रकरणम् १० ]
मिताक्षरासहिता |
८३
1
पुत्रासंनिधाने येन सगोत्रादिना दाहसंस्कारः कृतस्तेनैवादशाहान्तं तप्रेतकर्म कर्तव्यम् — 'असगोत्रः सगोत्रो वा स्त्री दद्याद्यदि वा पुमान् । प्रथमेऽहनि यो दद्यात्स दशाहं समापयेत् ॥' इति स्मरणात् । शूद्राणामप्येतत्कर्तव्यममन्त्रकं द्वादशेऽह्नि – ' एवं सपिण्डीकरणं मन्त्रव शूद्राणां द्वादशेऽह्नि' इति विष्णुस्मरणात् । सपिण्डीकरणादूर्ध्वं सांवत्सरिकपार्वणादीनि पुत्रस्य नियमेनैव कार्याणि अन्येषामनियतानि ॥ २५५ ॥
-
एकोद्दिष्टकालानाह
मृतेऽहनि कर्तव्यं प्रतिमासं तु वत्सरम् । प्रतिसंवत्सरं चैवमाद्यमेकादशेऽहनि ।। २५६ ॥
मृतेऽहनि प्रतिमासं संवत्सरं यावदेकोद्दिष्टं कार्यम् । सपिण्डीकरणादूर्ध्वं प्र तिसंवत्सरमेकोद्दिष्टमेव कर्तव्यम् । आद्यं सर्वैकोद्दिष्टप्रकृतिभूतमेकोद्दिष्टमेकादशेऽहनि । मृत दिवसापरिज्ञाने तच्छ्रवणदिवसे अमावास्यायां वा कार्यम् । 'अपरिज्ञाते मृतेऽहनि अमावास्यायां श्रवणदिवसे वा' इति स्मरणात् । अमावास्यायामिति गमनमास संबन्धिन्याममावास्यायाम् - "प्रवासदिवसे देयं तन्मासेन्दुक्षयेsपि वा' इति स्मरणात् । मृतेऽहनीत्यत्राहिताग्नेर्विशेषो जातूकर्येनोक्त:'ऊर्ध्व त्रिपक्षाद्यच्छ्राद्धं मृतेऽहन्येव तद्भवेत् । अधस्तु कारयेद्दाहादा हितानेजन्मनः ॥' इति । तत्र त्रिपक्षादर्वाग्यत्प्रेतकर्म तदाहदिवसादारभ्याहिताग्नेः कार्यम् । त्रिपक्षादूर्ध्वं यच्छ्राद्धं तन्मरणदिवस एवेत्यर्थः । अनाहिताग्नेस्तु सर्व मृताह एव । आद्यमेकादशेऽहनीत्याशौचोपलक्षणमिति केचित् । 'शुचिना कर्म कर्तव्यं' इति शुद्धेरङ्गस्यात्, अथाशौचापगम इति सामान्येन सर्वेषां वर्णानामुपक्रम्यैकोद्दिष्टस्य विष्णुना विहितत्वाच्च । तदयुक्तम्- 'एकादशेऽह्नि यच्छ्राद्धं तत्सामान्यमुदाहृतम् । चतुर्णामपि वर्णानां सूतकं च पृथक्पृथक् ॥' इति पैठीनसिस्मरणविरोधात् - 'आयं श्राद्धमशुद्धोऽपि कुर्यादेकादशेऽहनि । कर्तुस्तात्कालिकी शुद्धिरशुद्धः पुनरेव सः ॥' इति शङ्खवचनविरोधाच्च । सामान्योपक्रमं विष्णुवचनं दशाहाशैौचविषयमपि घटते इति । प्रतिसंवत्सरं चैवम् इति प्रतिसंवत्सरं मृतेऽहन्ये कोद्दिष्टमुपदिष्टं योगीश्वरेण । तथाच स्मृत्यन्तरम् - 'वर्षे वर्षे च कर्तव्या मातापित्रोस्तु सत्क्रिया । अदैवं भोजयेच्छ्राद्धं पिण्डमेकं च निर्वपेत् ॥' इति । यमोऽप्याह - 'सपिण्डीकरणादूर्ध्वं प्रतिसंवरसरं सुतैः । मातापित्रोः पृथक्कार्य मे कोद्दिष्टं मृतेऽहनि ॥' इति । व्यासस्तु पार्वणं प्रतिषेधति - एकोद्दिष्टं परित्यज्य पार्वणं कुरुते नरः । अकृतं तद्विजानीयासें भवेत्पितृघातकः ॥' इति । जमदग्निस्तु पार्वणमाह - 'आपाद्य च सपिण्डत्वमौरसो विधिवत्सुतः । कुर्वीत दर्शवच्छ्राद्धं मातापित्रोः क्षयेऽहनि ||' इति । शातातपोऽप्याह – 'सपिण्डीकरणं कृत्वा कुर्यात्पार्वणवत्सदा । प्रतिसंवत्सरं
1
१ तु कर्तव्यं क. ग. २ हनीति स्वाशौचोप क. ३ पृथक्कुर्यात् ख. ४ जानीयाद्भवेच्च ख.
For Private And Personal Use Only
Page #116
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
याज्ञवल्क्यस्मृतिः। [आचाराध्यायः विद्वांश्छागलेयोदितो विधिः ॥' इत्येवंवचनविप्रतिपत्तौ दाक्षिणात्या ह्येवं व्यवस्थामाहुः- 'औरसक्षेत्रजाभ्यां मातापित्रोः क्षयाहे पार्वणमेव कर्तव्यं दत्तकादिमिरेकोद्दिष्टम्' इति जातूकर्ण्यवचनात् ,-'प्रत्यब्दं पार्वणेनैव विधिना क्षेत्रजौरसौ । कुर्यातामितरे कुर्युरेकोद्दिष्टं सुता दश ॥' इति । तदसत् । नपत्र क्षयाहवचनमस्ति अपितु प्रत्यब्दमिति । सन्ति च क्षयाहव्यतिरिक्तानि प्रत्यन्दनाद्वान्यक्षय्यतृतीयामाधीवैशाखीप्रभृतिषु । अतो न क्षयाहविषयपार्वणैकोद्दिष्टव्यवस्थापनयालम् । यत्तु पराशरवचनम् -'पितुर्गतस्य देवत्वमौरसस्य त्रिपौरुषम् । सर्वत्रानेकगोत्राणामेकस्यैव मृतेऽहनि ॥' इति । तदपि न व्यवस्थापकम् । यस्मादस्यायमर्थः । देवत्वं गतस्य सपिण्डीकृतस्य पितुः सर्वत्रौरसेन त्रिपौरुषं पार्वणं कार्यम् । अनेकगोत्राणां भिन्नगोत्राणां मातुलादीनां क्षयेऽहनि यच्छ्राद्धं तदेकस्यैवैकोद्दिष्टमेवेति । किंच-'सपिण्डीकरणादूर्वमप्येकोद्दिष्टमेव कर्तव्यमौरसेनापि' इत्युक्तं पैठीनसिना- एकोद्दिष्टं हि कर्तव्यमौरसेन मृतेऽहनि । सपिण्डीकरणादूर्ध्वं मातापित्रो पार्वणम् ॥' इति ॥ उदीच्याः पुनरेवं व्यवस्थापयन्ति-अमावास्यायां भाद्रपदकृष्णपक्षे वा मृताहे पार्वणमन्यत्र मृताह एकोद्दिष्टमेवेति-'अमावास्याक्षयो यस्य प्रेतपक्षेऽथवा पुनः । पार्वणं तत्र कर्तव्यं नैकोद्दिष्टं कदाचन ॥' इति स्मरणात् । तदपि नाद्रियन्ते वृद्धाः। अनिश्चितमूलेनानेन वचनेन निश्चितमूलानां बहूनां क्षयाहमात्रपार्वणविषयाणां वचनानाममावास्याप्रेतपक्षमृताहविषयत्वेनातिसंकोचस्यायुक्तत्वात् । सामान्यवचनानर्थक्याच्च । तत्र हि सामान्यवचनस्य विशेषवचनेनोपसंहारो यत्र सामान्यविशेषसंबन्धज्ञानेन वचनद्वयमर्थवत् । यथा सप्तदश सामिधेनीरनुया. दित्यनारभ्याधीतस्य विकृतिमात्रविषयस्य सप्तदशवाक्यस्य सामिधेनीलक्षणद्वारसंबन्धबोधेनार्थवतो मित्रविन्दादिप्रकरणपठितेन सप्तदशवाक्येन मित्रविन्दाद्यधिकारापूर्वसंबन्धबोधेनार्थवता उपसंहारः । इह तु द्वयोम॑ताहमात्रविषयत्वान्नार्थवत्तेति । अतोऽत्र पाक्षिकैकोद्दिष्टनिवृत्तिफलकतया पार्वणनियमविधानं युक्तम् । नचैकोद्दिष्टवचनानां मातापितृक्षयाहविषयत्वेन पार्वणवचनानां च तदन्यक्षयाहविषयत्वेन व्यवस्था युक्ता । उभयत्रापि मातापितृसुतग्रहणस्य विद्यमानत्वात्-'सपिण्डीकरणादूर्व प्रतिसंवत्सरं सुतैः। मातापित्रोः पृथक्कार्यमेकोद्दिष्टं मृतेऽहनि ॥' इति । तथा-'आपाद्य सहपिण्डत्वमौरसो विधिवत्सुतः । कुर्वीत दर्शवच्छ्राद्धं मातापिनोः क्षयेऽहनि ॥' इति । यदपि कैश्चिदुच्यते-'मातापित्रोः क्षयाहे साग्निः पार्वणं कुर्यान्निरग्निरेकोद्दिष्ट' मिति-'वर्षे वर्षे सुतः कुर्यात्पार्वणं योऽग्निमान्द्विजः । पित्रोरनग्निमान्धीर एकोद्दिष्टं मृतेऽहनि ॥' इति सुमन्तुस्मरणादिति । तदपि सत्प्रतिपक्षत्वादुपेक्षणीयम् - 'बमयस्तु ये विप्रा ये चैकामय एव च । तेषां सपिण्डनादूर्ध्वमेको. द्दिष्टं न पार्वणम् ॥' इति स्मरणात् । तत्रैव निर्णयः-संन्यासिनां क्षयाहे
-
-
-
१ संकोचः स्यादित्युक्तत्वात् ग. २ सप्तदशपदस्य क.
For Private And Personal Use Only
Page #117
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्राद्धप्रकरणम् १०] मिताक्षरासहिता।
सुतेन पार्वणमेव कर्तव्यम्-'एकोद्दिष्टं यतेनास्ति त्रिदण्डग्रहणादिह । सपिण्डीकरणाभावात्पार्वणं तस्य सर्वदा ॥' इति प्रचेतःस्मरणात् । अमावास्याक्षयाहे प्रेतपक्षक्षयाहे च पार्वणमेव-'अमावास्याक्षयो यस्य प्रेतपक्षेऽथवा पुनः' इत्यादिवचनस्योक्तरीत्या नियमपरत्वात् । अन्यत्र क्षयाहे पार्वणैकोद्दिष्टयोत्रीहियववद्विकल्प एव । तथापि वंशसमाचारव्यवस्थायां सत्यां व्यवस्थितो विकल्पोऽसत्यामैच्छिक इत्यलमतिप्रसंगेन ॥ २५६ ॥ नित्यश्राद्धव्यतिरिक्तसर्वश्राद्धशेषमिदमभिधीयते
पिण्डांस्तु गोजविप्रेभ्यो दद्यादग्नौ जलेऽपि वा।
प्रक्षिपेत्सत्सु विप्रेषु द्विजोच्छिष्टं न मार्जयेत् ॥ २५७ ॥ पूर्वदत्तानां पिण्डानां पिण्डस्य वा प्रतिपत्तिरियं गवे अजाय ब्राह्मणाय वा तदर्थने पिण्डान्दद्यात् । अग्नावगाधे जलेऽपि वा प्रक्षिपेत् । किंच सत्सु विप्रेषु भोजनदेशावस्थितेषु द्विजोच्छिष्टं न मार्जयेनोद्वासयेत् ॥ २५७ ॥ भोज्यविशेषेण फलविशेषमाह
हविष्यानेन वै मासं पायसेन तु वत्सरम् । मात्स्यहारिणकौरभ्रशाकुनच्छागपार्षतैः ॥ २५८ ॥ ऐणरौरववाराहशाशैर्मासैर्यथाक्रमम् ।
मासवृद्धाभितृप्यन्ति दत्तैरिह पितामहाः ॥ २५९ ॥ हविष्यं हविर्योग्यं तिलबीह्यादि । यथाह मनुः (१२६७)-'तिलैबाहियवैर्मारैरनिर्मूलफलेन वा । दत्तेन मासं तृप्यन्ति विधिवत्पितरो नृणाम् ॥' इति । तदनं हविष्यानं तेन मासं पितरस्तृप्यन्तीत्यनागतेनान्वयः । पायसेन गव्यपयःसिद्धेन संवत्सरम्- 'संवत्सरं तु गव्येन पयसा पायसेन वा' इति (मनुः ३।२७१) स्मरणात् । मत्स्यो भक्ष्यः पाठीनादिस्तस्येदं मात्स्यम् । हरिणस्ताम्रमृगः । एणः कृष्णः।-'एणः कृष्णमृगो ज्ञेयस्ताम्रो हरिण उच्यते' इत्यायुर्वेदस्मरणात् । तस्येदं हारिणकम् । अविरुरभ्रस्तत्संबन्धि औरभ्रम् । शकुनिस्तित्तिरिस्तत्संबन्धि शाकुनं । छागोऽजस्तदीयं छागम् । पृषञ्चित्रमृगस्तन्मांसं पार्षतम् । एणः कृष्णमृगस्तपिशितमैणम् । रुरुः शंबरस्तत्प्रभवं रौरवम् । वराह आरण्यसूकरस्तजं वाराहम् । शशस्येदं शाशम् । एभिर्मासैः पितृभ्यो दत्तैर्ह विष्यानेन वैमासमित्युक्तत्वात्तत ऊर्ध्वं यथाक्रममेकैकमासवृद्ध्या पितरस्तृप्यन्ति॥ २५८ ॥ २५९ ॥
खगामिषं महाशल्कं मधु मुन्यन्नमेव वा । लौहामिषं महाशाकं मांसं वांर्कीणसस्य च ॥ २६० ॥ .
१ फलैस्तथा ग. २ मासं प्रीयन्ते ख. ३ अनागतत्वेना. ग. ४ शाकुनं भक्ष्यपक्षिसंबन्धि क. ख.५ वाध्रीणसस्य क. ग.
For Private And Personal Use Only
Page #118
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
८६
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
याज्ञवल्क्यस्मृतिः ।
[ आचाराध्यायः
यद्ददाति गयास्थश्च सर्वमानन्त्यमश्नुते । तथा वर्षात्रयोदश्यां मघासु च विशेषतः ॥ २६९ ॥
किंच । खड्गो गण्डकस्तस्य मांसम् । महाशल्को मत्स्यभेदः । मधु माक्षिकम् । मुन्यन्नं सर्वमारण्यं नीवारादि । लोहो रक्तश्छागस्तदामिषं लौहामिषम् । महाशाकं कालशाकम् । वार्षीणसो वृद्धः श्वेतच्छागः -- ' त्रिपिबं त्विन्द्रियक्षीणं वृद्धं श्वेर्तमजापतिम् । वार्षीणसं तु तं प्राहुर्याज्ञिकाः श्राद्धकर्मणि ॥' इति याज्ञिकप्रसिद्धः । त्रिपिबः पिबतः कर्णौ जिह्वा च यस्य जलं स्पृशन्ति सः त्रिभिः पिवतीति त्रिपिब: तस्य वार्षीणसस्य मांसम् । यद्ददाति गयास्थश्व यत्किंचिच्छाकादिकमपि गयास्थो ददाति । चशब्दाद्गङ्गाद्वारादिषु च — 'गङ्गाद्वारे प्रयागे च नैमिषे पुष्करेऽर्बुदे । संनिहत्यां गयायां च श्राद्धमक्षय्यतां व्रजेत् ॥' आनन्त्यमक्षुते इति अनन्तफलहेतुत्वं प्राप्नोति । आनन्त्यमश्रुत इति प्रत्येकमभिसंबध्यते । तथा वर्षात्रयोदश्यां भाद्रपदकृष्णत्रयोदश्यां विशेषतो मघायुकायां यत्किंचिद्दीयते तत्सर्वमानन्त्यमश्रुत इति गतेन संबन्धः ॥ - अत्र यद्यपि मुन्यन्नमांसमध्वादीनि सर्ववर्णानां सामान्येन श्राद्धे योग्यानि दर्शितानि तथापि पुलस्त्योक्ता व्यवस्थादरणीया । - ' मुन्यन्नं ब्राह्मणस्योक्तं मांसं क्षत्रियवैश्ययोः । मधुप्रदानं शूद्रस्य सर्वेषां चाविरोधि यत् ॥' इति । अस्यार्थः— सुन्यन्नं नीवारादि यच्छ्राद्धयोग्यमुक्तं तद्ब्राह्मणस्य प्रधानं समग्रफलदम् । यच्च मांसमुक्तं तत्क्षत्रियवैश्ययोः प्रधानम् । यत्क्षौद्रमुक्तं तच्छूद्रस्य । एतत्रितयव्यतिरिक्तं यदविरोधि यदप्रतिषिद्धं वास्तुकादि, यश्च विहितं हविष्यं कालशाकादि तत्सर्वेषां समग्रफलदमिति ॥ २६० ॥ २६१ ॥
तिथिविशेषात्फलविशेषमाह
कन्यां कन्यावेदन पशून्वै सत्सुतानपि ।
द्यूतं कृषि वणिज्यां च द्विशफैकशफांस्तथा ॥ २६२ ॥ ब्रह्मवर्चखिनः पुत्रान्स्वर्णरूप्ये सकुप्यके । ज्ञातिश्रेष्ठयं सर्वकामानाप्नोति श्राद्धदः सदा ॥ २६३ ॥ प्रतिपत्प्रभृतिष्वेकां वर्जयित्वा चतुर्दशीम् ।
शस्त्रेण तु हता ये वै तेभ्यस्तत्र प्रदीयते ॥ २६४ ॥
कन्यां रूपलक्षणशीलवतीम् । कन्यावेदिनो जामातरो बुद्धिरूपलक्षणसंपन्नाः । पशवः क्षुद्रा अजादयः । सत्सुताः सन्मार्गवर्तिनः । द्यूतं द्यूतविजयः । कृषिः कृषिफलम् । वणिज्या वाणिज्यलाभः । द्विशफा गवादयः । एकशफा अश्वादयः । ब्रह्मवर्चखिनः पुत्राः वेदाध्ययनतदर्थानुष्ठानजनितं तेजो ब्रह्मवर्चसं
१ श्वेतं वृद्धमजापतिं ख. २ आनन्त्यफलं ख. ३ कृषि च वाणिज्यं द्विशफैकशर्फ तथा ख. ४ सन्मार्गगाः ग.
For Private And Personal Use Only
Page #119
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्राद्धप्रकरणम् १०] मिताक्षरासहिता। तद्वन्तः । स्वर्णरूप्ये हेमरजते । तव्यतिरिक्तं पुसीसकादि कुप्यकम् । ज्ञातिश्रेष्ध्यं ज्ञातिषूत्कृष्टत्वम् । सर्वकामाः काम्यन्त इति कामाः स्वर्गपुत्रपश्वादयः । एतानि कन्यादीनि चतुर्दशफलानि कृष्णपक्षप्रतिपत्प्रभृतिष्वमावास्यापर्यन्तासु चतुर्दशीवर्जितासु चतुर्दशसु तिथिषु श्राद्ध दो यथाक्रममामोति। ये केचन शस्त्रहतास्तेभ्यः कृष्णचतुर्दश्यामेकोद्दिष्टविधिना श्राद्धं दद्याद्यदि ब्राह्मणादिहता न भवन्ति'समत्वमागतस्यापि पितुः शस्त्रहतस्य वै । एकोद्दिष्टं सुतैः कार्य चतुर्दश्यां महालयः ॥' इति स्मरणात् । समत्वमागतस्य सपिण्डीकृतस्य महालये भाद्रपदकब्णचतुर्दश्यां शस्त्रहतस्यैव श्राद्धं नान्यस्येति नियम्यते न पुनः शस्त्रहतस्य चतुदश्यामेवेति । अतश्च क्षयाहादौ शस्त्रहतस्यापि यथाप्राप्तमेव श्राद्धम् । नच भाद्रपदकृष्णपक्ष एवायं श्राद्धविधिरिति मन्तव्यम् –'प्रौष्ठपद्यामपरपक्षे मासि मासि चैवम्' इति शौनकस्मरणात् ॥ २६२ ॥ २६३ ॥ २६४ ॥ नक्षत्रविशेषात्फलविशेषमाह
स्वर्ग ह्यपत्यमोजश्च शौर्य क्षेत्रं बलं तथा । पुत्रं श्रेष्ठयं च सौभाग्यं समृद्धिं मुख्यतां शुभाम् ॥२६५॥ प्रवृत्तचक्रतां चैव वाणिज्यप्रभृतीनपि । अरोगित्वं यशो वीतशोकतां परमां गतिम् ॥ २६६ ॥ धनं वेदान्भिषक्सिद्धिं कुप्यं गा अप्यजाविकम् । अश्वानायुश्च विधिवद्यः श्राद्धं संप्रयच्छति ॥ २६७ ॥ कृत्तिकादिभरण्यन्तं स कामानाप्नुयादिमान् । . .
आस्तिकः श्रद्दधानश्च व्यपेतमदमत्सरः ॥ २६८॥ कृत्तिकामादिं कृत्वा भरण्यन्तं प्रतिनक्षत्रं यः श्राद्धं ददाति स यथाक्रम स्वर्गादीनायुःपर्यन्तान्कामानवाप्नोति, यद्यास्तिकः श्रद्दधानो व्यपेतमदमत्सरश्च भवति । आस्तिको विश्वासवान् । श्रद्दधान आदरातिशययुक्तः । व्यपेतमदमत्सरः मदो गर्वः मत्सर ईर्ष्या ताभ्यां रहितः । स्वर्ग निरतिशयसुखम् । अपत्यमविशेषेण । ओज आत्मशत्यतिशयः । शौर्य निर्भयत्वम् । क्षेत्रं फलवत् । बलं शारीरम् । पुत्रो गुणवान् । श्रेष्ठ्यं ज्ञातिषु । सौभाग्यं जनप्रियता । समृद्विर्धनादेः । मुख्यता अध्यता । शुभं सामान्येन । प्रवृत्तचक्रता अप्रतिहता. ज्ञता । वाणिज्यप्रभृतयो वाणिज्यकुसीदकृषिगोरक्षाः। अरोगित्वं अनामययोगित्वम् । यशः प्रख्यातिः। वीतशोकता इष्टवियोगादिजनितदुःखाभावः । परमा गतिर्ब्रह्मलोकप्राप्तिः । धनं सुवर्णादि । वेदा ऋग्वेदादयः। भिषक्सिद्धिरौषधफलावाप्तिः । कुप्यं सुवर्णरजतव्यतिरिक्त ताम्रादि । गावः प्रसिद्धाः। अजाश्च अवयश्च अश्वाश्च । आयुर्दीर्घजीवनम् ॥ २६५॥२६६ ॥२६७ ॥२६॥
१ ससौभाग्यं क. २ श्रद्दधानश्चेत् ख. ३ स्वर्गोऽतिशयसुखं क. ४ अनामयित्वं ग.
For Private And Personal Use Only
Page #120
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
८८
Acharya Shri Kailassagarsuri Gyanmandir
याज्ञवल्क्यस्मृतिः
[ आचाराध्यायः
'मासवृद्ध्याभितृष्यन्ति दत्तैरिह पितामहाः' इत्यनेन पितॄणां श्राद्धेन तृप्तिर्भवतीत्युक्तं तदनुपपन्नम् । प्रातिस्त्रिकशुभाशुभकर्मवशेन स्वर्गनरकादिगतानां मनुष्याणां पुत्रादिभिर्दत्तैरन्नपानादिभिस्तृत्यसंभवात् । संभवेऽपि स्वयमात्मनाप्यनीशाः कथं स्वर्गादिफलं प्रयच्छन्तीत्यत आह
वसुरुद्रादितिसुता पितरः श्राद्धदेवताः । प्रीणयन्ति मनुष्याणां पितॄन्श्राद्धेन तर्पिताः ।। २६९ ॥ आयुः प्रजां धनं विद्यां स्वर्ग मोक्षं सुखानि च । प्रयच्छन्ति तथा राज्यं प्रीता नृणां पितामहाः ॥ २७० ॥ नत्र देवदत्तादय एव श्राद्धकर्मणि संप्रदानभूताः पित्रादिशब्दैरुच्यन्ते किंत्वधिष्ठातृवस्वादिदेवतासहिता एव । यथा देवदत्तादिशब्दैर्न शरीरमात्रं नाप्यात्ममात्रं किंतु शरीर विशिष्टा आत्मान उच्यन्ते । एवमधिष्ठातृदेवता सहिता एव देवदत्तादयः पित्रादिशब्दैरुच्यन्ते । अतश्चाधिष्ठातृदेवता वस्वादयः पुत्रादिभिर्दत्तेनान्नपानादिना तृप्ताः सन्तस्तानपि देवदत्तादींस्तर्पयन्ति कर्तृश्च पुत्रादीन्फलेन संयोजयन्ति । यथा माता गर्भपोषणायान्यदत्तेन दोहदान्नपानादिना स्वयमुपभुक्तेन तृप्ता सती स्वजठरगतमप्यपत्यं तर्पयति दोहदान्नादिप्रदायिनश्च प्रत्युपकारफलेन संयोजयति तद्वद्वसवो रुद्रा अदितिसुताः आदित्या एव ये पितरः पितृपितामहप्रपितामहशब्दवाच्याः न केवलं देवदत्तादय एव श्राद्धदेवता: श्राद्धकर्मणि संप्रदानभूताः । किंतु मनुष्याणां पितॄन्देवदत्तादीन्स्वयं श्राद्धेन तर्पितास्तर्पयन्ति ज्ञानशक्त्यतिशययोगेन । किंच न केवलं पितॄंस्तर्पयन्ति अपितु श्राद्धकारिभ्यः आयुः प्रजां धनं विद्यां स्वर्ग मोक्षं सुखानि राज्यं च । चकारात्तत्र तत्र शास्त्रोक्तमन्यदपि फलं स्वयं प्रीताः पितामहा वस्वादयः प्रयच्छन्तीति ॥ २६९ ॥ २७० ॥
इति श्राद्धप्रकरणम् ।
अथ गणपतिकल्पप्रकरणम् ११
दृष्टादृष्टफलसाधनानि कर्माण्यभिहितान्यप्यभिधास्यन्ते च तेषां स्वरूपनिष्पत्तिः फलसाधनत्वं चाविघ्नेन भवतीत्यविघ्नार्थं कर्म विधास्यन् विघ्नस्य कारक - ज्ञापक हेतूनाह
विनायकः कर्मविघ्नसिद्ध्यर्थं विनियोजितः ।
गणानामाधिपत्ये च रुद्रेण ब्रह्मणा तथा ।। २७१ ॥
. विनायकः कर्मविघ्नसिद्ध्यर्थमित्यादिनोभयविघ्नहेतुपरिज्ञानाद्विघ्नस्य प्राग्भावपरिपालनायोपस्थितस्य प्रध्वंसाय वा प्रेक्षापूर्वकारिणः प्रवर्तन्ते । रोगस्येवोभ
१ शुभाशुभफलकर्मविशेषेण ग. २ गर्भधारणपोषणाय ग.
For Private And Personal Use Only
Page #121
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
गणपति कल्पप्रक० ११ ]
मिताक्षरासहिता ।
८९
यविधहेतुपरिज्ञानात् । विनायको विघ्नेश्वरः पुरुषार्थसाधनानां कर्मणां विघ्नसिद्ध्यर्थं स्वरूपफलसाधनत्यविधात सिद्धये विनियोजितः नियुक्तः रुद्रेण ब्रह्मणा चकाराद्विष्णुना च गणानां पुष्पदन्तप्रभृतीनामाधिपत्ये स्वाम्ये ॥ २७१ ॥ एवं विघ्नस्य कारकहेतुमुक्त्वा ज्ञापकहेतुप्रदर्शनार्थमाह
तेनोपसृष्टो यस्तस्य लक्षणानि निबोधत । स्वप्नेऽवगाहतेऽत्यर्थं जलं मुण्डांश्च पश्यति ।। २७२ ॥ काषायवाससचैव क्रव्यादांश्चाधिरोहति । अन्त्यजैर्गर्दभैरूष्ट्रैः सहैकत्रावतिष्ठते ॥ २७३ ॥ व्रजन्नपि तथात्मानं मन्यतेऽनुगतं परैः ।
तेन विनायकेनोपसृष्टो गृहीतो यस्तस्य लक्षणानि ज्ञापकानि निबोधत जानीध्वं हे मुनयः । पुनर्मुनीनां प्रत्यवमर्शः शान्तिप्रकरणप्रारम्भार्थः । स्वप्ने स्वप्नावस्थायां जलमत्यर्थमवगाहते स्रोतसा हियते निमज्जति वा । मुण्डितशिरसः पुरुषान्पश्यति । काषायवाससो रक्तनीलादिवस्त्रप्रावरणांश्च । क्रव्यादा नाम मांसाशिनः पक्षिणः गृध्रादीन्मृगांश्च व्याघ्रादीनधिरोहति । तथान्त्यजैश्चण्डालादिभिः गर्दभैः खरैरुद्रैः क्रमेलकैः सह परिवृतस्तिष्ठति । व्रजन्गच्छन्नात्मानं परैः शत्रुभिः पृष्ठतो धावद्भिरनुगतमभिभूयमानं मन्यते ॥ २७२ ॥ २७३ ॥ एवं स्वप्नदर्शनान्युक्त्वा प्रत्यक्ष लिङ्गान्याह
विमना विफलारम्भः संसीदत्यनिमित्ततः ॥ २७४ ॥ तेनोपसृष्टो लभते न राज्यं राजनन्दनः । कुमारी च न भर्तारमपत्यं गर्भमङ्गना ॥ २७५ ॥ आचार्यत्वं श्रोत्रियश्च न शिष्योऽध्ययनं तथा । वणिग्लाभं न चाप्नोति कृषिं चापि कृषीवलः ॥ २७६ ॥
विमना विक्षिप्तचित्तः । विफलारम्भः विफला आरम्भा यस्य स तथोक्तः न क्वचित्फलमाप्नोति । संसीदत्यनिमित्ततः विना कारणेन दीनमनस्को भवति । राजनन्दनो राजकुले जातः श्रुतशौर्यधैर्यादिगुणयुक्तोऽपि राज्यं न लभते । कुमारी रूपलक्षणाभिजनादिसंपन्नापीप्सितं भर्तारम् । अङ्गना गर्भिण्यपत्यम् । ऋतुमती गर्भम् । अध्ययनतदर्थज्ञाने सत्यपि आचार्यत्वं श्रोत्रियः । विनयाचारादियुकोsपि शिष्योऽध्ययनं श्रवणं वा । न लभत इति सर्वत्र संबध्यते । वणिकू वाणिज्योपजीवी तत्र कुशलोऽपि धान्यादिक्रयविक्रयादिषु लाभम् । कृषीवलः कर्षकस्तत्राभियुक्तोऽपि कृषिफलं नामोति । एवं यो यया वृत्या जीवति स तत्र निष्फलारम्भश्चेत्ते नोपसृष्टो वेदितव्यः ॥ २७४ ॥ २७५ ॥ २७६ ॥
१ विधानसिद्धये . २ अनुमन्यते ग.
For Private And Personal Use Only
Page #122
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
९०
याज्ञवल्क्यस्मृतिः। [आचाराध्यायः एवं कारकज्ञापकहेतूनभिधाय विघ्नोपशान्त्यर्थ कर्मविधानमाह
सपनं तस्य कर्तव्यं पुण्येऽह्नि विधिपूर्वकम् । तस्य विनायकोपसृष्टस्याऽनागतविनायकोपसर्गपरिहारार्थिनो वा नपनमभिषेचनं कर्तव्यम् । पुण्ये स्वानुकूलनक्षत्रादियुक्ते । अह्नि दिवसे न रात्रौ । विधिपूर्वकं शास्त्रोक्तेतिकर्तव्यतासहितम् ॥ सपनविधिमाह
गौरसर्षपकल्केन साज्येनोत्सादितस्य च ॥ २७७ ॥
सर्वोषधैः सर्वगन्धैर्विलिप्तशिरसस्तथा । .. भद्रासनोपविष्टस्य स्वस्तिवाच्या द्विजाः शुभाः ॥ २७८ ॥
गौरसर्षपकल्केन सिद्धार्थपिष्टेन साज्येन घृतलोलीकृतेनोत्सादितस्योद्वर्तिताङ्गस्य तथा सवौषधैः प्रियङ्गुनागकेसरादिभिः सर्वगन्धैश्चन्दनागुरुकस्तूरिकादिभिर्विलिप्तशिरसो वक्ष्यमाणभद्रासनोपविष्टस्य पुरुषस्य द्विजा ब्राह्मणाः शुभाः श्रुताध्ययनवृत्तसंपन्नाः शोभनाकृतयश्चत्वारोऽस्य स्वस्ति भवन्तो ब्रुवन्त्वि'ति वाच्याः । अस्मिन्समये गृह्योक्तमार्गेण पुण्याहवाचनं कुर्यादित्यर्थः ॥२७७॥२७८॥
अश्वस्थानाद्गजस्थानाद्वल्मीकात्संगमाद्दात् । मृत्तिका रोचनां गन्धान्गुग्गुलं चाऽप्सु निक्षिपेत् ॥२७९॥ या आहृता ह्येकवर्णैश्चतुर्भिः कलशैईदात् ।
चर्मण्यानडुहे रक्ते स्थाप्यं भद्रासनं ततः ॥ २८० ॥ किंच । अश्वस्थानगजस्थानवल्मीकसरित्संगमाशोऽयहूदेभ्य आहृतां पञ्चविधां मृदं गोरोचनं गन्धान् चन्दनकुङ्कुमागुरुप्रभृतीन् गुग्गुलं च तास्वप्सु विनिक्षिपेत् । या आप आहृता एकवर्णैः समानवणैश्चतुर्भिः कुम्भैरव्रणास्फुटिताकालकैः इदादशोष्यात् संगमाद्वा । ततश्चानडुहे चर्मणि रक्ते लोहितवर्णे उत्तरलोमनि प्राचीन ग्रीवे भद्रं मनोरममासनं श्रीपर्णीनिर्मितं स्थाप्यम् । तत उक्तोदकमृत्तिकागन्धादिसहितांश्शूतादिपल्लवोपैशोभिताननान्स्रग्दामवेष्टितकण्ठांश्चन्दनचर्चितानवाहतवस्त्रविभूषितांश्चतसृषु पूर्वादिदिक्षु स्थापयित्वा शुचौ सुलिप्ते स्थण्डिले रचितपञ्चवर्णस्वस्तिके लोहितमानडुहं चर्मोत्तरलोम प्राचीन ग्रीवमास्तीर्य तस्योपरि श्वेतवस्त्रमच्छादितमासनं स्थापयेदित्येतद्भद्रासनम् । तस्मिन्नुपविष्टस्य स्वस्तिवाच्याः द्विजाः ॥ २७९ ॥ २८०॥
सहस्राक्षं शतधारमृषिभिः पावनं कृतम् ।
तेन खामभिषिञ्चामि पावमान्यः पुनन्तु ते ॥ २८१॥ १ घृतमिश्रेण. २ कुम्भैः शुभैरव्रणा. ख. ३ शोमितान् नानास्रग्दाम ख. ४ ताननाहत ग.
For Private And Personal Use Only
Page #123
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गणपतिकल्पप्रक० ११] मिताक्षरासहिता।
९१
किंच । स्वस्तिवाचनानन्तरं जीवस्पतिपुत्राभिः रूपगुणशालिनीभिः सुवेषाभिः कृतमङ्गलं पूर्वदिग्देशावस्थितं कलशमादायानेन मश्रेणाभिषिञ्चेद्गुरुः । सहनाक्षमनेकशक्तिकं शतधारं बहुप्रवाहमृषिभिर्मन्वादिभिर्यदुदकं पावनं पवित्रं कृतं उत्पादितं तेनोदकेन त्वां विनायकोपसृष्टं विनायकोपसर्गशान्तये अभिषिचामि । पावमान्यश्चैता आपस्त्वां पुनन्तु ॥ २८१ ॥
भगं ते वरुणो राजा भगं सूर्यों बृहस्पतिः।।
भगमिन्द्रश्च वायुश्च भगं सप्तर्षयो ददुः ॥ २८२ ॥ तदनन्तरं दक्षिणदेशावस्थितं द्वितीयं कलशमादायानेन मन्त्रेणाभिषिञ्चेत् । भगं कल्याणं ते तुभ्यं वरुणो राजा भगं सूर्यो भगं बृहस्पतिः भगमिन्द्रश्च वायुश्च भगं सप्तर्षयश्च ददुरिति ॥ २८२ ॥
यत्ते केशेषु दौर्भाग्यं सीमन्ते यच्च मूर्धनि ।
ललाटे कर्णयोरक्ष्णोरापस्तद् नन्तु सर्वदा ॥ २८३ ।। ततस्तृतीयं कलशमादायानेन मन्त्रेणाभिषिञ्चेत् । ते तव केशेषु यद्दौ - ग्यमकल्याणं सीमन्ते मूर्धनि च ललाटे कर्णयोरक्ष्णोश्च तत्सर्वमापोदेव्यो नन्तु उपशमयन्तु सर्वदेति ॥ २८३ ॥
स्नातस्य सार्षपं तैलं सुवेणोदुम्बरेण तु ।
जुहुयान्मूर्धनि कुशान्सव्येन परिगृह्य च ।। २८४ ॥ ततश्चतुर्थ कलशमादाय पूर्वोक्तस्मिभिर्मत्रैरभिषिञ्चेत् । 'सर्वमन्त्रैश्चतुर्थम्' इति मैत्रलिङ्गात् । उक्तेन प्रकारेण कृताभिषेकस्य मूर्धनि सव्यपाणिगृहीतकुशान्तहिते सार्षपं तैलं उदुम्बरवृक्षोभवेन वेण वक्ष्यमाणैर्मत्रैर्जुहुयादाचार्यः ॥२४॥
मितश्च संमितश्चैव तथा शालकटङ्कटौ।। कूष्माण्डो राजपुत्रश्चेत्यन्ते स्वाहासमन्वितैः॥ २८५ ॥
नामभिर्बलिमन्त्रैश्च नमस्कारसमन्वितैः।। मितसंमितादिभिर्विनायकस्य नामभिः स्वाहाकारान्तः प्रणवादिभिर्जुहुया. दिति गतेन सबन्धः । स्वाहाकारयोगाच्चतुर्थी विभक्तिः । अतश्च ॐमितायस्वाहा असंमितायस्वाहा ॐशालायस्वाहा ॐकटङ्कटायस्वाहा ॐकूष्माण्डायस्वाहा ॐराजपुत्रायस्वाहेति षद मन्त्रा भवन्ति । अनन्तरं लौकिकेऽनौ स्थालीपाकविधिमा चरुं श्रपयित्वा एतैरेव षद्भिर्मन्त्रैस्तस्मिन्नेवाग्नौ हुत्वा तच्छेषं बलिमन्नरिद्राग्नियमनिर्ऋतिवरुणवायुसोमेशानब्रह्मानन्तानां नामभिश्चतुर्थ्यन्तै मोन्वितैस्तेभ्यो बलिं दद्यात् ॥ २८५ ॥ भनन्तरं किं कुर्यादित्याहे
दद्याचतुष्पथे शूर्पे कुशानास्तीर्य सर्वतः ॥ २८६ ॥
१ स्मृतिलिङ्गात्. ग. २ दित्याह दद्यादित्यादिचतुर्भिः. ग.
या० ११
For Private And Personal Use Only
Page #124
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
९२
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
याज्ञवल्क्यस्मृतिः
[ आचाराध्यायः
कृताकृतांस्तन्दुलांश्च पललौदनमेव च । मत्स्यान्पकांस्तथैवामान्मांसमेतावदेव तु ॥ २८७ ॥ पुष्पं चित्रं सुगन्धं च सुरां च त्रिविधामपि । मूलकं पूरिकांपूपांस्तथैवोण्डेरकस्रजः ॥ २८८ ॥ दध्यन्नं पायसं चैव गुडपिष्टं समोदकम् । एतान्सर्वान्समाहृत्य भूमौ कृत्वा ततः शिरः ॥ २८९ ॥ विनायकस्य जननीमुपतिष्ठेत्ततोऽम्बिकाम् ।
कृताकृताद्युपहारद्रव्यजातं विनायकस्योपाहृत्य संनिधानात्तज्जनन्याश्च शिरसा भूमिं गत्वा - ' तत्पुरुषाय विद्महे वक्रतुण्डाय धीमहि । तन्नो दन्ती प्रचोदयात् ' इत्यनेन मन्त्रेण विनायकं, – ' सुभगायै विद्महे काममालिन्यै धीमहि । तनो गौरी प्रचोदयात्' इत्यनेनाम्बिकां च नमस्कुर्यात् । तत उपहारशेषमास्तीर्ण कुशे शूर्पे निधाय चतुष्पथे निदध्यात् - 'बलिं गृह्णन्त्विमं देवा आदित्या वसवस्तथा । मरुतश्चाश्विनौ रुद्राः सुपर्णाः पन्नगा ग्रहाः ॥ असुरा यातुधानाश्च पिशाचोरगमातरः । शाकिन्यो यक्षवेताला योगिन्यः पूतनाः शिवाः ॥ जृम्भकाः सिद्धगन्धर्वा मायविद्याधरा नराः । दिक्पाला लोकपालाश्च ये च विघ्नविनायकाः ॥ जगतां शान्तिकर्तारो ब्रह्माद्याश्च महर्षयः । मा विघ्नो मा च मे पापं मा सन्तु परिपन्थिनः ॥ सौम्या भवन्तु तृप्ताश्च भूतप्रेताः सुखावहाः ॥' इत्येतैर्मन्त्रैः ॥ कृताकृताः सकृदवहतास्तन्दुलाः । पलैलं तिलपिष्टं तम्मिश्र ओदनः पललौदनः । मत्स्याः पक्का अपक्काश्च । मांसमेतावदेव पक्कमपक्कं च । पुष्पं चित्रं रक्तपीतादिनानावर्णम् । चन्दनादि सुगन्धिद्रव्यम् । सुरा त्रिविधा गौडी माध्वी पैष्टी च । मूलकं मूलकः कन्दाकारो भक्ष्यविशेषः । पूरिका प्रसिद्धा । अपूपोऽस्नेहपको गोधूमविकारः । उण्डेरकस्रजः उण्डेरैकाः पिष्टादिमय्यस्ताः प्रोताः स्रजः । दध्यन्नं दधिमिश्रमन्नं । पायसं क्षैरेयी । गुडपिष्टं गुडमिश्रं शाल्यादिपिष्टम् । मोदकाः लड्डुकाः । अनन्तरं विनायकं तज्जननी मम्बिकां वक्ष्यमाणमन्त्रेणोपतिष्ठेत् ॥ २८६—२८९ ॥ किं कृत्वेत्याह
1
दूर्वासर्षपपुष्पाणां दत्त्वार्ध्य पूर्णमञ्जलिम् ॥ २९० ॥ सकुसुमोदकेनायै दत्त्वा दुर्वासर्षपपुष्पाणां पूर्णमञ्जलिं दस्वोपतिष्ठेदिति गतेन संबन्धः ॥ २९० ॥
-
उपस्थान मन्त्र माह
रूपं देहि यशो देहि भगं भगवन् देहि मे ।
पुत्रान्देहि धनं देहि सर्वकामांश्च देहि मे ।। २९१ ॥
१ पूष्पं तथैव ख. २ पिशाचा मातरोरगाः क. ३ माला विद्या. क. ४ पललं पिष्टं. क. ५ उण्डेरकाः क्षुद्रापूपा इति कौस्तुमे. ६ जयं देहि . ग. ७ भगवति. ख.
For Private And Personal Use Only
Page #125
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गणपतिकल्पप्रक० ११] मिताक्षरासहिता ।
ततः शुक्लाम्बरधरः शुक्लमाल्यानुलेपनः ।
ब्राह्मणान्भोजयेद्दद्याद्वस्त्रयुग्मं गुरोरपि ॥ २९२॥ अम्बिकोपस्थाने भगवतीत्यूहः । ततोऽभिषेकानन्तरं यजमानः शुक्लाम्बरधरः शुझमाल्यानुलेपनो ब्राह्मणान्भोजयेद्यथाशक्ति । गुरवे श्रुताध्ययनवृत्तसंपन्नाय विनायकस्नपनविधिज्ञाय वस्त्रयुग्मं दद्यात् । अपिशब्दाद्यथाशक्ति दक्षिणां विनायकोद्देशेन ब्राह्मणेभ्यश्च । तत्रायं प्रयोगक्रमः-चतुर्भिाह्मणैः सार्धमुक्तलक्षणो गुरुमंत्रज्ञो भद्रासनरचनानन्तरं तत्संनिधौ विनायकं तजननी चोक्तमः नाभ्यां गन्धपुष्पादिभिः समभ्यय॑ चरुं श्रपयित्वा भद्रासनोपविष्टस्य यजमानस्य पुण्याहवाचनं कृत्वा चतुर्भिः कलशैरभिषिच्य सार्षपं तैलं शिरसि हुत्वा चरुहोमं विधायाभिषेकशालायां चतुर्दिक्षु इन्द्रादिलोकपालेभ्यो बलिं दद्यात् । पजमानस्तु स्नानानन्तरं शुक्लमाल्याम्बरधरो गुरुणा सहितो विनायकाम्बिकाभ्यामुपहारं दवा शिरसा भूमि नरवा कुसुमोदकेनायं दत्वा दूसर्षपपुष्पाआलिं च दत्वा विनायकमम्बिका चोपतिष्ठेत् । गुरुरुपहारशेषं शूर्पे कृत्वा चत्वरे निदध्यात् । अनन्तरं वस्त्रयुग्मं दक्षिणां ब्राह्मणभोजनं च दद्यादिति ॥ इति विनापकसपनविधिः ॥ २९॥ ॥ २९२ ॥ भस्यैव विनायकस्नपनस्योक्तोपसंहारेण संयोगान्तरं दर्शयितुमाह
एवं विनायकं पूज्य ग्रहांश्चैक विधानतः।
कर्मणां फलमाप्नोति श्रियं चामोत्यनुत्तमाम् ॥ २९३ ॥ एषमुक्तेन प्रकारेण विनायकं संपूज्य कर्मणां फलमविघ्नेमामोतीस्युक्तोपसंहारः। संयोगान्तरमाह-श्रियं चोरकृष्टतमामामोतीति। श्रीकामश्चानेनैव विधानेन विना. यकं पूजयेदित्यर्थः । आदित्यादिग्रहपीडाशान्तिकामस्य लक्ष्म्यादिकामस्य च ग्रहपू. जादिकल्पं विधास्यन् ग्रहपूजामुपक्षिपति-ग्रहांश्चैव विधानत इति । ग्रहानादित्यादीन्वक्ष्यमाणेन विधिना संपूज्य कर्मणां सिद्धिमानोति श्रियं चाप्नोति ॥ २९३ ॥ नित्यकाम्यसंयोगानाह
आदित्यस्य सदा पूजां तिलकं स्वामिनस्तथा ।
महागणपतेश्चैव कुर्वन्सिद्धिमवाप्नुयात् ।। २९४ ॥ .. - आदित्यस्य भगवतः सदा प्रतिदिवसं रक्तचन्दनकुङ्कुमकुसुमादिभिः पूजां कुर्वन् स्कन्दस्य महागणपतेश्च नित्यं पूजां कुर्वन् सिद्धिं मोक्षमात्मज्ञानद्वारेण प्रामोतीति निस्यसंयोगः । आदित्यस्कन्दगणपतीनामन्यतमस्य सर्वेषां वा तिलकं स्वर्णाविनिर्मितं रूप्यनिर्मितं वा कुर्वन् सिद्धिमभिलषितामामोति । तथा चक्षुषी अति काम्यसंयोगः ॥ २९४ ॥
इति महागणपतिकल्पः।
१ विनायकोपस्थाने भवन्नित्यूहः. क. ख. २ ग्रहपूजां लक्षपति. ग.
For Private And Personal Use Only
Page #126
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
याज्ञवल्क्यस्मृतिः। [आचाराध्याय:
अथ ग्रहशान्तिप्रकरणम् १२ 'ग्रहांश्चैव विधानतः । कर्मणां फलमामोति श्रियं चामोत्यनुत्तमाम्' इत्यनेन ग्रहपूजया कर्मणामविलेन फलसिद्धिः श्रीश्च फलमित्युक्तम् । इदानीं फलान्तराण्याह
श्रीकामः शान्तिकामो वा ग्रहयज्ञं समाचरेत् ।
वृष्ट्यायुःपुष्टिकामो वा तथैवाऽभिचरन्नपि ॥ २९५॥ श्रीकाम इति पूर्वोक्तस्यानुवादः । शान्तिकाम आपदुपशान्तिकामः । सस्यादिवृद्ध्यर्थं प्रवर्षणं वृष्टिः । आयुरपमृत्युजयेन दीर्घकालजीवनम् । पुष्टिरनवद्यशरीरस्वं एताः कामयत इति वृष्ट्यायुःपुष्टिकामः । एते श्रीकामादयो ग्रहयज्ञं ग्रहपूजा समाचरेयुः। तथाभिचरनपि अदृष्टोपायेन परपीडा अभिचारस्तत्कामश्च ग्रहयज्ञं समाचरेत् ॥ २९५ ॥ ग्रहानाह
सूर्यः सोमो महीपुत्रः सोमपुत्रो बृहस्पतिः।
शुक्रः शनैश्वरो राहुः केतुश्चेति ग्रहाः स्मृताः ॥ २९६ ॥ एते सूर्यादयो नवग्रहाः ॥ २९६ ॥ प्रहाः पूज्या इत्युक्तं, किं कृत्वेत्याह
ताम्रकात्स्फटिकाद्रक्तचन्दनात्स्वर्णकादुभौ । राजतादयसः सीसात्कांस्यात्कायों ग्रहाः क्रमात् ॥२९७॥
स्ववर्णैर्वा पटे लेख्या गन्धैर्मण्डलकेषु वा। सूर्यादीनां मूर्तयस्ताम्रादिभिर्यथाक्रम कार्याः । तदलामे स्ववर्णैर्वर्णकैः पटे लेख्याः । गन्धैर्मण्डलकेषु वा । गन्धैः रक्तचन्दनादिभिर्यथावर्ण लेख्या इत्यन्वयः । द्विभुजत्वादिविशेषस्तु मत्स्यपुराणोक्तो द्रष्टव्यः । यथा-'पद्मासनः पनकरः पद्मगर्भसमद्युतिः । संप्ताश्वरथसंस्थश्च द्विभुजः स्यात्सदा रविः ॥ श्वेतः श्वेताम्बरधरो दशाश्वः श्वेतभूषणः । गदापाणिर्द्विबाहुश्च कर्तव्यो वरदः शशी ॥ रक्तमाल्याम्बरधरः शक्तिशूलगदाधरः । चतुर्भुजो मेषगमो वरदः स्याद्धरासुतः॥ पीतमाल्याम्बरधरः कर्णिकारसमधुतिः । खड्गचर्मगदापाणिः सिंहस्थो वरदो बुधः ॥ देवदैत्यगुरू तद्वत्पीतश्वेतौ चतुर्भुजौ । दण्डिनौ वरदौ कायौँ साक्षसूत्रकमण्डलू ॥ इन्द्रनीलद्युतिः शूली वरदो गृध्रवाहनः । बाणबाणासनधरः कर्त. व्योऽर्कसुतः सदा ॥ करालवदनः खगचर्मशूली वरप्रदः । नीलेः सिंहासनस्थश्च राहुरत्र प्रशस्यते ॥ धूम्रा द्विबाहवः सर्वे गदिनो विकृताननाः । गृध्रासनगता १ सप्ताश्वः सप्तरज्जुश्व.क. २ नीलसिंहासनः क. ग.
For Private And Personal Use Only
Page #127
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ग्रहशान्तिप्र० ९२ ]
मिताक्षरासहिता ।
९५
नित्यं केतवः स्युर्वरप्रदाः ॥ सर्वे किरीटिनः कार्या ग्रहा लोकहितावहाः । स्वाझुलेनोच्छ्रिताः सर्वे शतमष्टोत्तरं सदे 'ति ॥ एतेषां स्थापनदेशश्च तत्रैवोक्तः -- 'मध्ये तु भास्करं विद्याल्लोहितं दक्षिणेन तु । उत्तरेण गुरुं विद्यादुधं पूर्वोत्तरेण तु ॥ पूर्वेण भार्गवं विद्यात्सोमं दक्षिणपूर्वके । पश्चिमेन शनिं विद्याद्राहुं पश्चिमदक्षिणे ॥ पश्चिमोत्तरतः केतुं स्थाप्या वै शुकृतण्डुलैः ॥' इति ॥ २९७ ॥
ग्रहपूजाविधिमाह
यथावर्ण प्रदेयानि वासांसि कुसुमानि च ।। २९८ ॥ गन्धश्च वलयश्चैव धूपो देयश्च गुग्गुलुः ।
कर्तव्या मन्त्रवन्तश्च चरवः प्रतिदैवतम् ।। २९९ ॥
यथावर्ण यस्य ग्रहस्य यो वर्णस्तद्वर्णानि वस्त्रगन्धपुष्पाणि देयानि । बलयश्च धूपश्च सर्वेभ्यो गुग्गुलुर्देयः । चरवश्च प्रतिदैवतमग्निप्रतिष्ठापनान्वाधानादिपूर्वकं 'चतुरश्चतुरो मुष्टी निर्वपत्यमुष्मै त्वा जुष्टं निर्वपामी' त्यादिविधिना कार्याः । अनतरं सुसमिद्धेऽग्नविध्माधानाद्याघारान्तं कर्म कृत्वा आदित्याद्युद्देशेन यथाक्रमं वक्ष्यमाणमन्त्रैर्वक्ष्यमाणाः समिधो वक्ष्यमाणप्रकारेण हुत्वा चरवो होतव्याः १९९
ग्रहमन्त्रानाह
आकृष्णेन इमंदेवा अग्निर्मूर्धा दिवः ककुत् । उद्बुध्यखेति च ऋचो यथासंख्यं प्रकीर्तिताः ॥ ३०० ॥ बृहस्पते अतियदर्यस्तथैवान्नात्परिस्रुतः । शंनोदेवीस्तथा काण्डात्केतुं कृण्वनिमांस्तथा ॥ ३०१ ॥
आकृष्णेन रजसा वर्तमान इत्यादयो नव मन्त्राः यथाक्रममादित्यादीनां वेदितव्याः ॥ ३०० ॥ ३०१ ॥
इदानीं समिध आह
अर्कः पलाशः खदिर अपामार्गोऽथ पिप्पलः ।
उदुम्बरः शमी दूर्वा कुशाश्च समिधः क्रमात् ।। ३०२ ॥ अर्क पलाशादयो यथाक्रमं सूर्यादीनां समिधो भवन्ति । ताश्चार्द्रा अभग्नाः सत्वच: प्रादेशमात्राः कर्तव्याः ॥ ३०२ ॥
एकैकस्योत्राष्टशतमष्टाविंशतिरेव वा ।
होतव्या मधुसर्पिर्भ्यां दा क्षीरेण वा युताः ।। ३०३ ॥
किंच | आदित्यादीनामेकैकस्याष्टशतसंख्या अष्टाविंशतिसंख्या वा यथासंभवं मधुना सर्पिषा दना क्षीरेण वा युता अक्ता अर्कादिसमिधो होतव्याः ॥ ३०३ ॥
१ मावन्वाधानादनन्तरं कर्म कृत्वा क. २ औदुम्बरः ख ३ कस्य त्वष्टशतं स्व.
For Private And Personal Use Only
Page #128
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
याज्ञवल्क्यस्मृतिः। . [आचाराध्यायः इदानी भोजनान्याह
गुडौदनं पायसं च हविष्यं क्षीरषाष्टिकम् । दध्योदनं हविचूर्ण मांसं चित्रानमेव च ॥ ३०४ ॥ दद्याद्रहक्रमादेवं द्विजेभ्यो भोजनं बुधः।
शक्तितो वा यथालाभं सत्कृत्य विधिपूर्वकम् ॥ ३०५॥ गुडमिश्र ओदनो गुडौदनः । पायसम् । हविष्यं मुन्यन्नादि। क्षीरपाष्टिकं क्षीरमिश्रः षाष्टिकौदनः । दना मिश्र ओदनो दध्योदनः । हविधूतौदनः । चूर्ण तिलचूर्णमिश्र ओदनः । मांसं भक्ष्यमांसमिश्र ओदनः । चित्रौदनो नानावौँदनः । एतानि गुडौदनादीनि यथाक्रममादित्याधुद्देशेन भोजनार्थ द्विजेभ्यो ब्राह्मणेभ्यो दद्यात् । ब्राह्मणसंख्या यथाविभवं द्रष्टव्या। गुडौदनाद्यभावे तु यथालाभमोदनादि पादप्रक्षालनादिविधिपूर्वकं सत्कृत्य संमानपुरःसरं दद्यात् ॥३०४॥३०५॥ दक्षिणामाह
धेनुः शङ्खस्तथानड्वान्हेम वासो हयः क्रमात् ।
कृष्णा गौरायसं छाग एता वै दक्षिणाः स्मृताः॥३०६॥ धेनुर्दोग्ध्री । शङ्खः प्रसिद्धः । अनड्वान्भारसेहो बलीवर्दः । हेम सुवर्ण । वासः पीतम् । हयः पाण्डुरः । कृष्णा गौः । आयसं शस्त्रादि । छागः प्रसिद्धः। एता धेन्वादयो यथाक्रममादित्याद्युद्देशेन ब्राह्मणानां दक्षिणाः स्मृताः । उक्ता मन्वादिभिः । एतच्च संभवे सति । असंभवे तु यथालाभं शक्तितोऽन्यदेव यत्किचिद्देयम् ॥ ३०६ ॥ शान्तिकामेनाविशेषेण सर्वे ग्रहाः पूजयितव्या इत्युक्तं तत्र विशेषमाह
यस्य यस्य यदा दुःस्थः स तं यत्नेन पूजयेत् ।
ब्रह्मणैषां वरो दत्तः पूजिताः पूजयिष्यथ ॥ ३०७॥ यस्य पुरुषस्य यो ग्रहो यदा दुःस्थोऽष्टमादिदुष्टस्थानस्थितः स तं ग्रहं तदा यत्नेन विशेषेण पूजयेत् । यस्मादेषां ग्रहाणां ब्रह्मणा पूर्व वरो दत्तः पूजिताः सन्तो यूयमिष्टप्रापणेनानिष्टनिरसनेन च पूजयितारं पूजयिष्यथेति ॥ ३०७ ॥
अविशेषेण द्विजानधिकृत्य शान्तिकपौष्टिकादीनि कर्माण्यनुक्रान्तानि तत्राभिषेकगुणयुक्तस्य राज्ञो विशेषेणाधिकार इत्याह
ग्रहाधीना नरेन्द्राणामुच्छ्रायाः पतनापि च । भावाभावौ च जगतस्तस्मात्पूज्यतमा ग्रहाः ॥ ३०८॥ [ग्रहाणामिदमातिथ्यं कुर्यात्संवत्सरादपि ।
आरोग्यबलसंपन्नो जीवेत्स शरदः शतम् ।।] १ द्विनः ख. २ भारवाहो क. ग.३ भायसमस्त्रादि, आयसं ताम्रादि क. ४ भिषेकयुक्तस्य ख.
For Private And Personal Use Only
Page #129
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
पधर्मानाह
Acharya Shri Kailassagarsuri Gyanmandir
राजधर्मप्रकरणम् १३ ] मिताक्षरासहिता ।
९७
नरेन्द्राणामभिषिक्तक्षत्रियाणां ग्रहाः पूज्यतमाः । अनेनान्येषामपि पूज्या इति गम्यते । उभयत्र कारणमाह - प्राणिनामभ्युदय विनिपाता ग्रहाधीना: यस्मात्तस्मादधिकारिभिः पूज्याः । किंच । जगतः स्थावरजङ्गमात्मकस्य भावाभावावुत्पत्तिनिरोध ग्रहाधीनौ । तत्र यद्येते पूजितास्तदा स्वकाल एवोत्पत्तिनिरोधौ भवतः । अन्यथा उत्पत्तिसमये नोत्पादः अकाले निरोधश्च । जगदीश्वरत्वाच्च नरेन्द्राणां तद्योगक्षेमकारिणां पूज्यतमा ग्रहा इति तेषां विशेषेण शान्तिकादिष्वधिकारः । तथाच गौतमेन - 'राजा सर्वस्येष्टे ब्राह्मणवर्ज्यम् ' इति राजानमधिकृत्य 'वर्णानाश्रमांश्च न्यायतोऽभिरक्षेच्च । ततश्चैतान्स्वधर्मे स्थापयेत्' इत्यादी कांश्चिद्धर्मानुक्त्वा - 'यानि च दैवोत्पातचिन्तकाः प्रब्रूयुस्तान्याद्वियेत तदधीनमपि के योगक्षेमं प्रतिजानते' इति । शान्तिकपौष्टिकाद्यनुष्ठानहेतुमभिधाय शान्तिकपुण्याह स्वस्त्ययनायुष्य मङ्गलसंयुक्तान्याभ्युदयिकानि विद्वेषिणः स्तम्भनाभिचारद्विषदृद्धियुक्तानि च शालाग्नौ कुर्यादिति शान्तिकादीनि दर्शितानि ॥ ३०८ ॥
इति ग्रहशान्तिप्रकरणम् ।
अथ राजधर्मप्रकरणम् १३
साधारणान्गृहस्थधर्मानुक्त्वेदानीं राज्याभिषेकादिगुणयुक्तस्य गृहस्थस्य विशे
महोत्साहः स्थूललक्षः कृतज्ञो वृद्धसेवकः ।
विनीतः सत्वसंपन्नः कुलीनः सत्यवाक्शुचिः ॥ ३०९ ॥ अदीर्घ सूत्रः स्मृतिमानक्षुद्रोऽपरुषस्तथा । धार्मिकोऽव्यसनश्चैव प्राज्ञः शूरो रहस्यवित् ॥ ३१० ॥ स्वरन्ध्रगोप्ताऽऽन्वीक्षिक्यां दण्डनीत्यां तथैव च ।
विनीतस्त्वथवार्तायां त्रय्यां चैव नराधिपः ।। ३११ ॥ पुरुषार्थसाधनकर्मारम्भाध्यवसाय उत्साहः महानुत्साहो यस्यासौ महोत्साहः । बहुदेयार्थदर्शी स्थूललक्षः । परकृतोपकारापकारौ न विस्मरतीति कृतज्ञः । तपोज्ञानादिवृद्धानां सेवकः । विनयेन युक्तो विनीतः । विनयशब्देनाविरुद्धः पूर्वोक्तखातकधर्मकलाप उच्यते- 'न संशयं प्रपद्येत नाकस्मादप्रियं व देत्' इत्यादिनोक्तः । सत्वसंपन्नः संपदापदोर्हर्षविषादरहितः । मातृतः पितृतश्वाभिजनवान्कुलीनः । सत्यवाक्सत्यवचनशीलः । शुचिर्बाह्याभ्यन्तरशौचयुक्तः भवश्यकार्याणां कर्मणामारम्भे प्रारब्धानां च समापने यो न विलम्बतेऽसावदीर्घसूत्रः । अधिगतार्थाऽविस्मरणशीलः स्मृतिमान् । अक्षुद्रोऽसगुणद्वेषी ।
१ अथ चान्येषामपि ख. २ स्वकालादुत्पत्ति ग. ३ तस्य नोत्पादो न काले क. ४ संवननामिचार ग. ५ अदीर्घसूत्री ग. ६ सत्यवादन ग.
For Private And Personal Use Only
Page #130
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
९८
याज्ञवल्क्यस्मृतिः ।
[ आचाराध्यायः
अपरुषः परदोषा कीर्तनः । धार्मिको वर्णाश्रमधर्मान्वितः । न विद्यन्ते व्यसनानि यस्यासावत्र्यसनः । व्यसनानि चाष्टादश । यथाह मनुः (७/४७-४८ ) - 'मृगersक्षा दिवा स्वप्नः परिवादः स्त्रियो मदः । तौर्यत्रिकं वृथाट्या च कामजो दशको गणः ॥ पैशुन्यं साहसं द्रोह ईर्ष्यासूयार्थदूषणम् । वाग्दण्डजं च पारुष्यं क्रोधजोऽपि गणोऽष्टकः ॥' इति । तत्र च सप्त कष्टतमानि । यथाह (मनुः
७/५०- ० - ५१ ) - ( पानमक्षाः स्त्रियश्चैव मृगया च यथाक्रमम् । एतत्कष्टतमं विद्याच्चतुष्कं कामजे गणे ॥ दण्डस्य पातनं चैव वाक्पारुष्यार्थदूषणे । क्रोधजेऽपि गणे विद्यात्कष्टमेतत्रिकं सदा ॥' इति । प्राज्ञो गम्भीरार्थावधारणक्षमः । शूरो निर्भयः । रहस्यवित् गोपनीयार्थगोपनचतुरः । स्वरन्ध्रगोप्ता स्वस्य सप्तसु राज्याङ्गेषु यत्परप्रवेशद्वार शैथिल्यं तत्स्वरन्धं तस्य गोप्ता प्रच्छादयिता । आन्वीक्षिक्यामात्मविद्यायां दण्डनीत्यामर्थयोगक्षेमोपयोगिन्यां, वार्तायां कृषिवाणिज्यपशुपालनरूपायां धनोपचय हेतुभूतायां, त्रय्यां ऋग्यजुः सामाख्यायां च विनीतस्तत्तदभिज्ञैः प्रावीण्यं नीतः । यथाह मनुः (७१४३ ) - ' त्रैविद्येभ्यस्त्रयीं विद्यां दण्डनीतिं च शाश्वतीम् । आन्वीक्षिकीं चात्मविद्यो वार्तारम्भांव लोकतः ॥ ' इति । नराधिपो राज्याभिषिक्तः स्यादिति सर्वत्र संबन्धः ॥ ३०९ ॥३१०॥३११॥ एवमभिषेकयुक्तस्यान्तरङ्गान्धर्मानभिधायेदानीं बहिरङ्गानाह
समत्रिणः प्रकुर्वीत प्राज्ञान्मौलान्स्थिराञ्शुचीन् । तैः सार्धं चिन्तयेद्राज्यं विप्रेणाथ ततः स्वयम् ॥ ३१२ ॥
महोत्साहादिगुणैर्युक्तो राजा मन्त्रिणः कुर्वीत । कथंभूतान् । प्राज्ञान्हिताहितविवेककुशलान् । मौलान्स्ववंशपरम्परायातान् । स्थिरान्महत्यपि ईर्षविषादस्थाने विकाररहितान् । शुचीन्धर्मार्थकाम भयोपधाशुद्धान् । तेच सप्ताष्टौ वा कार्याः । यथाह मनुः (७।५४ ) -- ' मौलशास्त्र विदः शूरान्लैब्धलक्षान्कुलोद्भवान् । सचिवान्सप्त चाष्टौ वा कुर्वीत सुपरीक्षितान् ॥' इति । एवं मन्त्रिणः पूर्वं कृत्वा तैः सार्धं राज्यं संधिविग्रहादिलक्षणं कार्यं चिन्तयेत् समस्तैर्व्यस्तैश्च । अनन्तरं तेषामभिप्रायं ज्ञात्वा सकलशास्त्रार्थविचारकुशलेन ब्राह्मणेन पुरोहितेन सह कार्यं विचिन्त्य ततः स्वयं बुद्ध्या कार्य चिन्तयेत् ॥ ३१२ ॥
१ आखेटकाख्यो मृगवधो मृगया, अक्षादिक्रीडा, दिवानिद्रा, परदोषकथनं, स्त्रीसंभोगः, मद्यपानजनितो मदः, नृत्यगीतवादित्राणि त्रीणि, वृथाभ्रमणं, इति दश. २ पैशुन्यमविज्ञातदोषाविष्करणं, साहसं साधोर्बन्धनिग्रहः, द्रोहरछद्मवधः, ईर्ष्यान्यगुणासहिष्णुता, असूया परगुणेषु दोषाविष्करणं, अर्थदूषणमर्थानामपहरणं देयानामदानं च, वाक्पारुष्यमाक्रोशादि, दण्डपारुष्यं ताडनादि, इत्यष्टौ . ३ साममय्यां ख. ४ च तद्विदः ख. ५ ततः परम् ख. ६ हर्षविकारस्थाने विषादरहितान् क. ७ मौलान्पितृपितामइक्रमेण सेवकान्. ८ लब्धलक्षान् लक्ष्यादप्रच्युतशरादीन्.
For Private And Personal Use Only
Page #131
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
राजधर्मप्रकरणम् १३ ] मिताक्षरासहिता ।
९९ कीदृशं पुरोहितं कुर्यादित्याह
पुरोहितं प्रकुर्वीत दैवज्ञमुदितोदितम् ।
दण्डनीत्यां च कुशलमथवाङ्गिरसे तथा ॥३१३॥ पुरोहितं च सर्वेषु दृष्टादृष्टार्थेषु कर्मसु पुरतो हितं दानमानसत्कारैरारमसंबद्धं कुर्यात् । कथंभूतम् । दैवज्ञं ग्रहोस्पाततच्छमनादेर्वेदितारम् । उदितोदितं विद्याभिजनानुष्ठानादिमिरुदितैः शास्त्रोक्तैरुदितं समृद्धम् । दण्डनीत्यामर्थशास्त्रे कुशलम् । अथर्वाङ्गिरसे च शान्त्यादिकर्मणि ॥ ३१३ ॥
श्रौतस्मार्तक्रियाहेतोवृणुयादेव चविजः।
यज्ञांश्चैव प्रकुर्वीत विधिवद्भरिदक्षिणान् ।। ३१४ ॥ श्रौताग्निहोत्रादि-स्मार्तोपासनादिक्रियानुष्ठानसिद्ध्यर्थे ऋत्विजो वृणुयात् । यज्ञांश्च राजसूयादीन्विधिवद्यथाविधानं भूरिदक्षिणान्बहुदक्षिणानेव कुर्यात् ३१४
भोगांश्च देद्याद्विप्रेभ्यो वसनि विविधानि च ।
अक्षयोऽयं निधी राज्ञां यद्विप्रेषूपपादितम् ॥३१५ ॥ - किंच । ब्राह्मणेभ्यो भोगान् सुखानि तरसाधनदानद्वारेण दद्यात् । वसूनि च सुवर्णरूप्यभूप्रभृतीनि विविधानि नानाप्रकाराणि । यस्मादेष राज्ञामक्षयो निधिः शेवधियब्राह्मणेभ्यो दीयते । साधारणधर्मत्वेन दानप्राप्तौ सत्यां राज्ञां दानप्राधान्यप्रतिपादनार्थ पुनर्वचनम् ॥ ३१५॥
अस्कन्नमव्यथं चैव प्रायश्चित्तैरदूषितम् ।
अग्नेः सकाशाद्विप्राग्नौ हुतं श्रेष्ठमिहोच्यते ॥ ३१६ ॥ किंच । अग्नेः सकाशादग्निसाध्याभूरिदक्षिणादाजसूयादेरपि विप्राग्नौ हुतं श्रेष्ठमिहोच्यते । एतदस्कन्नं क्षरणरहितं अव्यथं पशुहिंसारहितं प्रायश्चित्तैरदूपितं प्रायश्चित्तरहितम् ॥ ३१६ ॥ वसूनि विप्रेभ्यो दद्यादित्युक्तं, कया परिपाट्या दद्यादित्याह
अलब्धमीहेद्धर्मेण लब्धं यत्नेन पालयेत् ।
पालितं वर्धयेन्नीत्या वृद्धं पात्रेषु निक्षिपेत् ॥ ३१७॥ अलब्धलाभाय धर्मशास्त्रानुसारेण यतेत । यत्नेन लब्धं तस्परिपालयेत् स्वयमवेक्षया रक्षेत् । पालितं तत्परतया रक्षितं नीत्या वणिक्पथादिकया वृद्धि नयेत् । वृद्धं च पात्रेषु त्रिविधेषु धर्मार्थकामपात्रेषु निक्षिपेद्दद्यात् ॥ ३१७ ॥
-
१ कर्मसु पुरो निहितं क. २ दत्त्वा विप्रेभ्यो ख. ३ अव्ययं ख. ४ प्रायश्चित्तायासरहितं ख. ५ वाणिज्यादिकया ग.
For Private And Personal Use Only
Page #132
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१००
__ याज्ञवल्क्यस्मृतिः।
[आचाराध्यायः
पाने निक्षिप्य किं कुर्यादित्याह
दत्त्वा भूमि निबन्धं वा कृत्वा लेख्यं तु कारयेत् ।
आगामिभद्रनृपतिपरिज्ञानाय पार्थिवः ॥ ३१८ ॥ यथोक्तविधिना भूमि दत्त्वा स्वस्वनिवृत्तिं कृत्वा निबन्धं वा एकस्य भाण्डभरकस्येयन्तो रूपकाः, एकस्य पर्णभरकस्येयन्ति पर्णानीति वा निबन्धं कृत्वा लेख्यं कारयेत् । किमर्थम् । आगामिनः एण्यन्तो ये भद्राः साधवो नृपतयो भूपास्ते. षामनेन दत्तमनेन प्रतिगृहीतमिति परिज्ञानाय । पार्थिवो भूपतिः । अनेन भूपतेरेव भूमिदाने निबन्धेदाने वाऽधिकारो न भोगपतेरिति दर्शितम् ॥ ३१८ ॥ लेख्यं कारयेदियुक्तं कथं कारयेदित्याह
पटे वा ताम्रपट्टे वा स्वमुद्रोपरिचिहितम् । अभिलेख्यात्मनो वंश्यानात्मानं च महीपतिः॥३१९ ॥ प्रतिग्रहपरीमाणं दानच्छेदोपवर्णनम् ।
स्वहस्तकालसंपन्नं शासनं कारयेस्थिरम् ॥ ३२०॥ कार्यासिके पटे ताम्रपट्टे फैलके वा आत्मनो वंश्यान्प्रपितामहपितामहपितृन् । बहुवचनस्यार्थवत्वाय वंशवीर्यश्रुतादिगुणोपवर्णनपूर्वकमभिलेख्य आत्मानं चशब्दारप्रतिग्रहीतारं प्रतिग्रहपरिमाणं दानच्छेदोपवर्णनं चाभिलेख्य । प्रतिगृ. यत इति प्रतिग्रहो निबन्धस्तस्य रूपकादिपरिमाणम् । दीयत इति दानं क्षेत्रादि तस्य छेदः छिद्यतेऽनेनेति छेदः नद्यावाटौ निवर्तनं सस्परिमाणं च तस्योपवर्णनं, अमुकनद्या दक्षिणतोऽयं ग्रामः क्षेत्रं वा, पूर्वतोऽमुकग्रामस्यैतावन्निवर्तनमित्यादिनिवर्तनपरिमाणं च लेख्यम् । एवं आवाटस्य नदीनगरवादेः संचारित्वेन भूमेन्यूनाधिकभावसंभवात्तन्निवृत्त्यर्थम् , स्वहस्तेन स्वहस्तलिखितेन मतं मे अ. मुकनाम्नः अमुकपुत्रस्य यदनोपरि लेखितमित्यनेन संपन्नं युक्तं, कालेन च द्विविधेन शकनृपातीतरूपेण संवत्सररूपेण च कालेन चन्द्रसूर्योपरागादिना संपन्न स्वमुद्रया गरुडवाराहादिरूपयोपरि बहिश्चिह्नितमङ्कितं स्थिरं दृढं शासनं शिज्यन्ते भविष्यन्तो नृपतयोऽनेन दानाच्छ्रेयोऽनुपालनमिति शासनं कारयेत् । महीपतिनं भोगपतिः । संधिविग्रहादिकारिणा न येन केनचित् । ---'संधिविग्रहकारी तु भवेद्यस्तस्य लेखकः । स्वयं राज्ञा समादिष्टः स लिखेद्राजशासनम् ॥' इति स्मरणात् । दानमात्रेणैव दानफले सिद्धे शासनकरणं भोगाभिवृद्ध्या फलातिशयार्थम् ॥ ३१९ ॥ ३२० ॥ इदानीं राज्ञो निवासस्थानमाह
रम्यं पशव्यमाजीव्यं जाङ्गलं देशमावसेत् ।।
तत्र दुर्गाणि कुर्वीत जनकोशात्मगुप्तये ॥ ३२१ ॥ १ भस्मिन्ग्रामे प्रतिक्षेत्रं क्षेत्रस्वामिनैतद्धनमस्मै प्रत्यब्द प्रतिमासं वा देयमित्येवमादिनियमो निवन्धः अपरार्कः. २ ताम्रफलके वा. ग. ३ नयाघाटौ ग. ४ निवर्तनपरिमाणं च क. ५ शास्यन्ते ग. ६ नान्येन ग.
For Private And Personal Use Only
Page #133
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
राजधर्मप्रकरणम् १३ ] मिताक्षरासहिता ।
१०१
रम्यं रमणीयं अशोकचम्पकादिभिः । पशव्यं पशुभ्यो हितं पशुवृद्धिकरम् । आजीव्यमुपजीयं कन्दमूलपुष्पफलादिभिः । जाङ्गलं यद्यप्यहपोदकतरुपर्वतोद्देशो जाङ्गलस्तथाप्यत्र सेजलतरुपर्वतो देशो जाङ्गलशब्देनाभिधीयते तं देशमावसेदधिवसेत् । तत्रैवंविधे देशे जनानां कोशस्य सुवर्णादेरात्मनश्च रक्षणार्थं दुर्गं कुर्वीत । तच्च षड्विधम् । यथाह मनुः (७।७० ) - ' धेन्वदुर्ग मही. दुर्गम दुर्गं वार्क्षमेव वा । नृदुर्गे गिरिदुर्गं वा समाश्रित्य वसेत्पुरम् ॥' इति ३२१
तत्र तत्र च निष्णातानध्यक्षान्कुशलाञ्शुचीन् । प्रकुर्यादाय कर्मान्तव्ययकर्मसु चोद्यतान् ॥ ३२२ ॥
किंच । तत्र तत्र धैर्मार्थकामादिषु अध्यक्षान् योग्यानधिकारिणः प्रकुर्यान्नियुञ्जीत । यथाहुः 'धर्मकृत्येषु धर्मज्ञानर्थकृत्येषु पण्डितान् । स्त्रीषु क्कीबान्नियुञ्जीत नीचान्निन्द्येषु कर्मसु ॥' इति । कीदृशान् । निष्णाताननन्यव्यापारान् । कुशलान् तत्तद्व्यापारचतुरान् । शुचीन् चतुर्विधोपधाशुद्धान् । आयकर्मसु सुवर्णाद्युत्पत्तिस्थानेषु व्ययकर्मसु सुवर्णादिदानस्थानेषु च उद्यताननलसान् । चशब्दात्प्राज्ञत्वादिगुणयुक्तान् । उक्तंच - 'प्राज्ञत्वमुपधाशुद्धिरप्रमादोऽभियुक्तता । कार्येषु व्यसनाभावः स्वामिभक्तिश्च योग्यता ॥' इति ॥ ३२२ ॥
'भोगांश्च दद्याद्विप्रेभ्यो वसूनि विविधानि च' इति सामान्येन स्वस्वदानमुक्तम्, इदानीं नृपाणां विक्रमार्जितस्य दाने फलातिशयमाह -
नातः परतरो धर्मो नृपाणां यद्रणार्जितम् ।
विप्रेभ्यो दीयते द्रव्यं प्रजाभ्यश्चाभयं सदा ॥ ३२३ ॥ विप्रेभ्यो दीयते ।
अस्मादुत्कृष्टतमो धर्मो नृपाणां न विद्यते यद्वणार्जितं द्रव्यं यच्च प्रजाभ्योऽभयदानम् ॥ ३२३ ॥
9
1
रणार्जितं देयमित्युक्तं द्रव्यार्जनाय रणे प्रवृत्तस्य विपत्तिरपि संभवतीति न धर्मो नाप्यर्थ इति ततो निवृत्तिरेव श्रेयसीत्यत आह
य आहवेषु वध्यन्ते भूम्यर्थमपराङ्मुखाः । अकूटैरायुधैर्यान्ति ते स्वर्गं योगिनो यथा ॥ ३२४ ॥
ये भूम्याद्यर्थमाहवेषु प्रवृत्ता अपराङ्मुखा अभिमुखा वध्यन्ते मार्यन्ते ते
१ समजल क. २ धन्वदुर्ग असंवेष्टितं चतुर्दिशं पञ्चयोजनमनुदकम् । महीदुर्ग पाषाणेष्टकायुतद्वादशहस्तोच्छ्रितेन युद्धार्थमुपरिभ्रमणयोग्येन सावरणगवाक्षादियुक्तेन प्राकारेण समन्ताद्वेष्टितं सद्वारम् । जलदुर्गमगाधोदकेन समन्ततो वेष्टितम् । वार्क्ष वहिः सर्वतो योजनमात्रं व्याप्य तिष्ठन्महावृक्षकण्टकिगुल्मलताद्याचितम् । नृदुर्गे चतुर्दिगवस्थायिहस्त्यश्वरथयुक्त बहुपादातरक्षितम् । गिरिदुर्ग सर्वतः पृष्ठमतिदुरारोहं संकोचैकमागोंपेतं अन्तर्नदीप्रस्रवणाद्युदकयुक्तं बहुसस्योत्पन्नक्षेत्र वृक्षान्वितम् ३ धर्मादियादिषु ग. ४ ज्यायसी ग.
For Private And Personal Use Only
Page #134
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०२
याज्ञवल्क्यस्मृतिः ।
[ आचाराध्यायः
स्वर्ग यान्ति । योगाभ्यासरता यथा । यद्यकूटैरविषदिग्धादिभिरायुधैर्योद्धारो
भवन्ति ॥ ३२४ ॥
पदानि ऋतुतुल्यानि भग्नेष्वविनिवर्तिनाम् ।
राजा सुकृतमादत्ते हतानां विपलायिनाम् ॥ ३२५ ॥
किंच । स्वबलेषु करितुरगरथपदातिषु भग्नेष्वविनिवर्तिनां परबलाभिमुखयायिनां पदानि ऋतुतुल्यान्यश्वमेध तुल्यानि । विपर्यये दोषमाह - विपलायिनां पराङ्मुखानां हतानां राजा सुकृतमादत्ते ॥ ३२५ ॥
तवाहंवादिनं क्लीबं निर्हेतिं परसंगतम् ।
न हन्याद्विनिवृत्तं च युद्धप्रेक्षणकादिकम् ॥ ३२६ ॥
I
अपिच । तवाहमिति यो वदति तं क्लीबं नपुंसकं निर्हेतिं निरायुधं परसंगतमन्येन सह युध्यमानं विनिवृत्तं युद्धाद्विनिवृत्तं युद्धप्रेक्षणकं युद्धदर्शिनं । न हन्यादिति सर्वत्र संबन्धः । आदिग्रहणादश्वसारथ्यादीनां ग्रहणम् । यथाह गौतमः - 'न दोषो हिंसायामाहवेऽन्यत्र व्यश्वसारथ्यानायुधकृताञ्जलिप्रकीर्णकेशपराङ्मुखोपविष्टस्थलवृक्षारूढोन्मत्तदूतगोब्राह्मणादिभ्यः' इति । शङ्खो - प्याह - 'न पानीयं पिबन्तं न भुञ्जानं नोपानहौ मुञ्चन्तं नावर्माणं सवर्मा न स्त्रियं न करेणुं न वाजिनं न सारथिनं न सूतं न दूतं न ब्राह्मणं न राजानमराजा हन्यात्' इति ॥ ३२६ ॥
कृतरक्षः समुत्थाय पश्येदायव्ययौ स्वयम् ।
व्यवहारांस्ततो दृष्ट्रा स्नात्वा भुञ्जीत कामतः ॥ ३२७ ॥
कृतरक्षः पुरस्यात्मनश्च रक्षां विधाय प्रतिदिनं प्रातःकाल उत्थाय स्वयमेवाव्ययौ पश्येत् । ततो व्यवहारान् दृष्ट्वा मध्याह्नकाले स्नात्वा कामतो यथाकालं भुञ्जीत ॥ ३२७ ॥
1
हिरण्यं व्यापृतानीतं भाण्डागारेषु निक्षिपेत् । पश्येच्चारांस्ततो दूतान्प्रेषयेन्मन्त्रिसंगतः ॥ ३२८ ॥
तदन तरं हिरण्यं व्यापृतैर्हिरण्याद्यानयन नियुक्तैरानीतं स्वयमेव निरीक्ष्य भाण्डागारेषु निक्षिपेत् । ततश्चारान्स्पशान्प्रत्यागतान्पश्येत् । ये परराज्ये वृत्तान्तपरिज्ञानाय परिव्राजकतापसादिरूपेण गूढचारिणः प्रेषितास्तांश्चारान्दृष्ट्वा क्वचिन्निवेशयेत् । तदनन्तरं दूतांश्च पश्येत् । दूताश्च ये प्रकटमेव राजान्तरंप्रति गतागतमाचरन्ति । ते च त्रिविधाः निसृष्टार्थाः संदिष्टार्थाः शासनैहराश्चेति । तत्र निसृष्टार्था राजकार्याणि देशकालोचितानि स्वयमेव कथयितुं क्षमाः । उक्तमात्रं ये परस्मै निवेदयन्ति ते संदिष्टार्थाः । शासनहरास्तु राजलेखहारिणः ता.
1
१ हिरण्यादिकं ख २ श्वारान्विश्वस्तान् ख. ३ चासनहस्ताश्चेति क.
For Private And Personal Use Only
Page #135
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
राजधर्मप्रकरणम् १३ ] मिताक्षरासहिता।
१०३ पूर्वप्रेषितानागतान्मन्निसंगतः पश्येत् । दृष्ट्वा तद्वार्तामाकलय्य पुनः पुनः प्रेषयेत् ॥ ३२८॥
ततः स्वैरविहारी स्यान्मबिभिर्वा समागतः।
बलानां दर्शनं कृत्वा सेनान्या सह चिन्तयेत् ॥ ३२९ ॥ तदनन्तरमपराहे स्वैरं यथेष्टमेकोऽन्तःपुरविहारी स्यात् । मन्त्रिभिर्वा विश्वासिमिः कलाकुशलैः परिहासवेदिभिः परिवृतः स्त्रीभिश्च रूपयौवनवैदग्ध्यशालिनीभिः-'भुक्तवान्विहरेञ्चैव स्त्रीभिरन्तःपुरे सह । विहृत्य तु यथाकामं पुनः कार्याणि चिन्तयेत् ॥' इति (७।२२१) मनुस्मरणात् । ततो विशिष्टैर्वस्त्रकुसुमविलेपनालंकारैरलंकृतः हस्त्यश्वरथपदातिबलानि दृष्ट्वा सेनान्या सेनापतिना सह तद्रक्षणादि देशकालोचितं चिन्तयेत् ॥ ३२९ ॥
संध्यामुपास्य शृणुयाचाराणां गूढभाषितम् ।
गीतनृत्यैश्च भुञ्जीत पठेत्स्वाध्यायमेव च ॥३३०॥ ततः सायंकाले संध्यामुपास्य । सामान्येन प्राप्तस्यापि पुनर्वचनं कार्याकुलत्वादविस्मरणार्थम् । अनन्तरं ये पूर्वदृष्टाः क्वचित्स्थाने निवेशितास्तेषां चाराणां गूढभाषितमन्तर्वेश्मनि शस्त्रपाणिः शृणुयात् । उक्तंच मनुना (८।२२३)-'संध्यां चोपास्य शृणुयादन्तर्वेश्मनि शस्त्रभृत् । रहस्याख्यायिनां चैव प्रणिधीनां च चेष्टितम् ॥' इति । ततो नृत्यगीतादिभिः कंचित्कालं क्रीडित्वा कक्षान्तरं प्रविश्य मुजीत-'गत्वा कक्षान्तरं त्वन्यत्समनुज्ञाप्य तं जनम् । प्रविशेगोजनार्थ च स्त्रीभिरन्तःपुरं सह ॥' इति (मनुः ८१२२४) स्मरणात् । ततोऽविस्मरणार्थ यथाशक्ति स्वाध्यायं पठेत् ॥ ३३० ॥
संविशेत्तूर्यघोषेण प्रतिबुद्ध्येत्तथैव च ।
शास्त्राणि चिन्तयेद्बुद्ध्या सर्वकर्तव्यतास्तथा ॥३३१ ॥ तदनन्तरं तूर्यशङ्खघोषेण संविशेत्स्वप्यात् । तथैव तूर्यादिघोषेण प्रतिबुद्ध्येत्। प्रतिबुद्ध च शास्त्रविद्भिर्विश्वासिभिः सह एकाकी वा पश्चिमे यामे शास्त्राणि चिन्तयेत् सर्वकर्तव्यताश्च सर्वकार्याणि च । एतच्च स्वस्थं प्रत्युच्यते । अस्वस्थः पुनः सर्वकार्येष्वन्यं नियोजयेत् । यथाह मनु:-'एतद्वृत्तं समातिष्ठेदरोगः पृथिवीपतिः । अस्वस्थः सर्वमेवैतन्मत्रिमुख्ये निवेशयेत् ॥' इति ॥ ३३ ॥
प्रेषयेच्च ततश्चारान्स्वेष्वन्येषु च सादरान् । ऋत्विक्पुरोहिताचार्यैराशीभिरभिनन्दितः॥ ३३२ ॥ दृष्ट्वा ज्योतिर्विदो वैद्यान्दद्याद्वां काञ्चनं महीम् ।..
नैवेशिकानि च ततः श्रोत्रियेभ्यो गृहाणि च ॥ ३३३ ॥ अनन्तरं तत्रस्थ एव विश्वस्तान्स्वान् चारान् दानमानसत्कारैः पूजितान्तेषु
या० १२
For Private And Personal Use Only
Page #136
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
याज्ञवल्क्यस्मृतिः। [आचाराध्यायः सामन्तबधिकारिषु अन्येषु च महीपतिषु प्रेषयेत्तचिकीर्षितपरिज्ञानाय । ततः प्रातःसंध्यामुपास्याऽग्निहोत्रं हुत्वा पुरोहितविंगाचार्यादिभिराशीभिरभिनन्दितो ज्योतिर्विदो दृष्ट्वा तेभ्यश्च ग्रहादिस्थितिं विदित्वा शान्तिकादीनि च पुरोहितानादिश्य वैद्यांश्च दृष्ट्वा तेभ्यश्च स्वशरीरस्थिति निवेद्य प्रतिविधानं चादिश्य गां दोग्धों काञ्चनं महीं च नैवेशिकानि विवाहोपयोगीनि कन्यालंकारादीनि गृहाणि च सुधाधवलितादीनि श्रोत्रियेभ्योऽधीतवेदेभ्यो ब्राह्मणेभ्यः । दद्यादिति प्रत्येकं संबध्यते ॥ ३३२ ॥ ३३३ ॥
ब्राह्मणेषु क्षमी स्निग्धेष्वजिह्मः क्रोधनोऽरिषु ।
स्याद्राजा भृत्यवर्गेषु प्रजासु च यथा पिता ॥ ३३४ ॥ किंच । ब्राह्मणेष्वधिक्षिपस्वपि क्षमी क्षमावान् । स्निग्धेषु स्नेहवत्सु मित्रादिष्वजिह्मः अवक्रः । अरिषु क्रोधनः । भृत्यवर्गेषु प्रजासु च हिताचरणेनाहित. निवर्तनेन च पितेव दयावान् । स्यादिति प्रत्येकं संबध्यते ॥ ३३४ ॥ प्रजापालनफलमाह
पुण्यात्षड्भागमादत्ते न्यायेन परिपालयन् ।
सर्वदानाधिकं यस्मात्प्रजानां परिपालनम् ॥ ३३५॥ यसाच्यायेन शास्त्रोक्तमार्गेण प्रजाः परिपालयन् परिपालितप्रजोपहितपुण्यात् षड्भागं षष्ठं भागमादत्ते । यस्माञ्च सर्वेभ्यो भूम्यादिदानेभ्यः प्रजानां परिपालनमधिकफलम् । तस्मात्प्रजासु यथा पिता तथैव स्यादिति गतेन संबन्धः ॥ ३३५॥
चाटतस्करदुर्वृत्तमहासाहसिकादिभिः।
पीड्यमानाः प्रजा रक्षेत्कायस्थैश्च विशेषतः ॥ ३३६ ॥ चाटाः प्रतारकाः विश्वास्य ये परधनमपहरन्ति । प्रच्छन्नापहारिणस्तस्कराः । दुर्वृत्ता इन्द्रजालिककितवादयः । सहो बलं सहसा बलेन कृतं साहसं महञ्च तस्साहसं च महासाहसं तेन वर्तन्त इति महासाहसिकाः प्रसह्यापहारिणः । आदिशब्दान्मौलिककुहकदुर्वृत्तयः । एतैः पीड्यमाना बाध्यमानाः प्रजा रक्षेत् । कायस्था लेखका गणकाश्च तैः पीड्यमाना विशेषतो रक्षेत् । तेषां राजवल्लभतयातिमायाविस्वाञ्च दुर्निवारत्वात् ॥ ३३६ ॥
अरक्ष्यमाणाः कुर्वन्ति यत्किंचित्किल्बिषं प्रजाः।
तसात्तु नृपतेरधैं यसाहात्यसौ करान् ॥ ३३७॥ अरक्ष्यमाणाः प्रजाः यत्किंचित्किल्बिषं चौर्यपरदारगमनादि कुर्वन्ति तस्मात्पापादधैं नृपतेर्भवति । यस्मादसौ राजा रक्षणार्थ प्रजाभ्यः करान् गृहाति ॥ ३३७ ॥ १ धर्मशास्त्रोक्तेन. ग. २ ऐद्न्जालिक. ग. ३ अपकारिणः ग.
For Private And Personal Use Only
Page #137
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
राजधर्मप्रकरणम् १३ ] मिताक्षरासहिता।
ये राष्ट्राधिकृतास्तेषां चारैख़त्वा विचेष्टितम् । साधुन्संमानयेद्राजा विपरीतांश्च घातयेत् ॥ ३३८ ॥ उत्कोचजीविनो द्रव्यहीनान्कृत्वा विवासयेत् ।
संदानमानसत्काराश्रोत्रियान्वासयेत्सदा ॥ ३३९॥ राष्ट्रे राष्ट्राधिकारेषु ये नियुक्तास्तेषां विचेष्टितं चरितं चारैरुक्तलक्षणैः सम्यक् ज्ञात्वा साधून्सुचरितान् संमानयेत् दानमानसत्कारैः पूजयेत् । विपरीतान्दुष्टचरितान्सम्यग्विदित्वा घातयेत् अपराधानुसारेण । ये पुनरुत्कोचजीविनस्तान्द्रव्यरहितान्कृत्वा स्वराष्ट्रात्प्रवासयेत् । श्रोत्रियान्सद्दानमानसत्कारैः सहिताम्कृत्वा स्वराष्ट्रे स्वदेशे सदैव वासयेत् ॥ ३३८ ॥ ३३९ ॥
अन्यायेन नृपो राष्ट्रात्स्वकोशं योऽभिवर्धयेत् ।
सोचिराद्विगतश्रीको नाशमेति सबान्धवः ॥ ३४० ॥ योऽसौ राजा स्वराष्ट्रादन्यायेन द्रव्यमादाय स्वकोशं अभिवर्धयेत् सोऽचिराच्छीघ्रमेव विगतश्रीको विनष्टलक्ष्मीको बन्धुभिः सह नाशं प्रामोति ॥ ३४० ॥
प्रजापीडनसंतापात्समुद्भूतो हुताशनः ।
राज्ञः कुलं श्रियं प्राणांचाऽदग्ध्वा न निवर्तते ॥ ३४१॥ प्रजानां तस्करादिकृतपीडनेन यः संतापस्तस्मादुद्भूतो हुताशन इव संतापकारित्वादपुण्यराशिटुंताशनशब्देनोच्यते । स राज्ञः कुलं श्रियं प्राणांचाइया नाशमनीया न निवर्तते नोपशाम्यति ॥ ३४॥
य एव नृपतेधर्मः स्वराष्ट्रपरिपालने ।
तमेव कृत्स्नमाप्नोति परराष्ट्रं वशं नयन् ॥ ३४२ ॥ न्यायतः स्वराष्ट्रपरिपालने राज्ञो यो धर्मस्तं सकलं वक्ष्यमाणन्यायेन परराष्ट्र वशं नयन् आत्मसात्कुर्वनामोति धर्मषड्भागं च ॥ ३४२ ॥
यस्सिन्देशे य आचारो व्यवहारः कुलस्थितिः।।
तथैव परिपाल्योऽसौ यदा वशमुपागतः ॥ ३४३ ॥ किंच यदा परदेशो वशमुपागतस्तदा न स्वदेशाचारादिसंकरः कार्यः किं तु यमिन्देशे य आचारः कुलस्थितिर्व्यवहारो वा यथैव प्रागासीत्तथैवासौ परिपालनीयो यदि शास्त्रविरुद्धो न भवति । यदा वशमुपागत इत्यनेन वशोपगमनाआगनियम इति दर्शितम् । यथोक्तम् (मनुः ७।१९५)-'उपरुध्यारिमासीत राष्ट्रं चास्योपपीडयेत् । दूषयेच्चास्य सततं यवसाशोदकेन्धनम् ॥' इति ॥३४३॥
१ सदानमान ख. २ प्राणानदग्ध्वा क.
For Private And Personal Use Only
Page #138
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
याज्ञवल्क्यस्मृतिः। [आचाराध्यायः मत्रमूलं यतो राज्यं तस्मान्मत्रं सुरक्षितम् ।।
कुर्याद्यथास्य न विदुः कर्मणामाफलोदयात् ॥ ३४४ ॥ यस्मात्तैः सार्धं चिन्तयेद्वाज्यमित्याधुक्तं मन्त्रमूलं राज्यं तस्मान्मत्रं यत्नेन तथा सुरक्षितं कुर्यात्, यथास्य राज्ञः कर्मणां संधिविग्रहादीनामाफलोदयात् फलनिष्पत्तेः प्रोगन्ये मन्त्रं न जानन्ति ॥ ३४४ ॥
अरिमित्रमुदासीनोऽनन्तरस्तत्परः परः।
क्रमशो मण्डलं चिन्त्यं सामादिभिरुपक्रमैः ॥ ३४५ ॥ किंच । अरिः शत्रुः । मित्रं सुहृत् । उभयविलक्षण उदासीनश्च । ते च त्रयस्त्रिविधाः सहजाः कृत्रिमाः प्राकृताश्चेति । तत्र सहजोऽरिः सापत्नपितृव्यतत्पुत्रादिः । कृत्रिमोऽरिः यस्यापकृतं येन चापकृतम् । प्राकृतस्त्वनन्तरदेशाधिपतिः । सहजं मित्रं भागिनेयपैतृष्वस्त्रीयमातृष्वस्त्रीयादि । कृत्रिमं मित्रं येनोपकृतं यस्य चोपकृतम् । प्राकृत मित्रमेकान्तरितदेशाधिपतिः । सहजकृत्रिममिप्रशत्रुलक्षणरहितौ सहजकृत्रिमोदासीनौ । प्राकृतोदासीनो चैन्तरितदेशाधिपतिः । अरिः पुनश्चतुर्विधः यातव्योच्छेत्तव्यपीडनीयकर्शनीयभेदेन । तत्र या. तव्योऽनन्तरभूमिपतिर्व्यसनी हीनबलो विरक्तप्रकृतिः । विदुर्गो मित्रहीनो दुर्बलश्चोच्छेत्तव्यः । पीडनीयो मन्त्रबलहीनः । प्रबलमन्त्रबलयुक्तः कर्शनीयः।'निर्मूलनात्समुच्छेदं पीडनं बलनिग्रहम् । कर्शनं तु पुनः प्राहुः कोशदण्डापकेर्शनात् ॥' इति । मित्रं द्विविधं बृंहणीयं कर्शनीयमिति । कोशबलहीनं बृंहणीयम् । कोशबलाधिकं कर्शनीयम् । अनन्तरस्तत्परः पर इति प्राकृतारिमित्रोदासीनानाह । अनन्तरः प्राकृतोऽरिः, तत्परः प्राकृतं मित्रं, तस्मात्परः प्राकृत उदासीनः शेषाः पुनः प्रसिद्धत्वान्नोक्ताः । एतद्राजमण्डलं क्रमशः पूर्वादिदिकूमेण चिन्त्यं तेषां चेष्टितं ज्ञातव्यम् । ज्ञात्वा च सामादिमिरुपायैर्वक्ष्यमाणैरनुसंधेयम् । एवं पुरतः पृष्ठतः पार्श्वतश्च त्रयस्त्रय आत्मा चैक इति त्रयोदशराजकमिदं राजमण्डलं पद्माकारम् । पाणिग्राहाक्रन्दासारादयस्त्वरिमित्रोदासीनेब्वेवान्तर्भवन्ति संज्ञाभेदमानं ग्रन्थान्तरे दर्शितमिति योगीश्वरेण न पृथगुक्ताः ॥३४५॥ सामादिमिरुपक्रमैरित्युक्तं, इदानी तानुपायानाह
उपाया: साम दानं च भेदो दण्डस्तथैव च ।।
सम्यक्प्रयुक्ताः सिध्येयुदण्डस्त्वगतिका गतिः ॥ ३४६ ॥ साम प्रियभाषणम् । दानं सुवर्णादेः । भेदो भेदकरणं तत्सामन्तादीनां पर. स्परतो वैरस्योत्पादनेन । दण्ड उपांशुप्रकाशाभ्यां धनापहारादिवधपर्यन्तो. - १ राज्यमतो मत्रं क. ग. २ प्राग्यावदन्ये ख. ३ घनन्तरदेशा क. मध्यन्तरदेशा ग. ४ व्योच्छेदनीय क. ५ पकर्षणात् ख. ६ रभिसंधेयं क. ७न पृथगुक्तम् ख. ८ स्यो त्पादनम् ख.
For Private And Personal Use Only
Page #139
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
राजधर्मप्रकरणम् १३ ] मिताक्षरासहिता।
१०७
ऽपकारः । एते सामादयः परिपन्थ्यादिसाधनोपायाः। एते च देशकालाद्यनुसारेण सम्यक्प्रयुक्ताः सिद्ध्येयुः । तेषां च मध्ये दण्डस्त्वगतिका गतिः, उपायान्तरसंभवे सति न प्रयोक्तव्यः । एतच्च पीडनीयकर्शनीयाभिप्रायेण । यातव्योच्छेत्तव्ययोस्तु दण्ड एव मुख्यः । एते सामादयो न केवलं राज्यव्यवहारविषयाः अपितु सकललोकव्यवहारविषयाः। यथा-'अधीष्व पुत्रकाधीष्व दास्यामि तव मोदकान् । यद्वान्यस्मै प्रदास्यामि कर्णमुत्पाटयामि ते ॥' इति ॥ ३४६ ॥
संधि च विग्रह यानमासनं संश्रयं तथा ।
द्वैधीभावं गुणानेतान्यथावत्परिकल्पयेत् ॥ ३४७ ॥ किंच। संधिर्व्यवस्थाकरणम् । विग्रहोऽपकारः। यानं परंप्रति यात्रा । आसनमुपेक्षा । संश्रयो बलवदाश्रयणम् । द्वैधीभावः स्वबलस्य द्विधाकरणम् । एतान्संधिप्रभृतीन्गुणान्यथावद्देशकालशक्तिमित्रादिवशेन कल्पयेत् ॥ ३४७ ॥ यानकालानाह
यदा सस्यगुणोपेतं परराष्ट्रं तदा व्रजेत् ।
परश्च हीन आत्मा च हृष्टवाहनपूरुषः॥ ३४८॥ यदा परराष्ट्र सस्यैर्वीह्यादिभिर्गुणैश्च समजलेन्धनतृणादिभिरुपेतं संपन्नं, शत्रुश्च हीनो बलादिभिः, आत्मा च हृष्टवाहनपूरुषः वाहनानि हस्त्यश्वादीनि तानि च पूरुषाश्च वाहनपूरुषाः हृष्टा वाहनपूरुषा यस्य स तथोक्तः । तदा परराष्ट्रमात्मसास्कर्तुं व्रजेत् ॥ ३४८ ॥
प्राणिनामभ्युदयविनिपातानां देवायत्तत्वाद्यदि देवमस्ति तदा स्वयमेव परराष्ट्रादि वशीभविष्यति, अथ नास्ति कृतेऽपि पौरुषे न भविष्यति अतो व्यर्थ एवायं यात्राप्रयास इत्यत आह
दैवे पुरुषकारे च कर्मसिद्धिर्व्यवस्थिता ।
तत्र दैवमभिव्यक्तं पौरुष पौर्वदेहिकम् ॥ ३४९ ॥ कर्मसिद्धिः फलप्राप्ति:रिष्टानिष्टलक्षणा । सा न केवलं दैवे व्यवस्थिता । अपितु पुरुषकारेऽपि । लोके तथादर्शनात् , चिकित्सकादिशास्त्रवैयर्थ्याच्च । अपिच पुरुषकाराभावे दैवमेव नास्तीत्याह-तत्र देवमिति । यतः पूर्वदेहार्जितं पौरुषमेव दैवमुच्यते । अल्पपुरुषकारानन्तरं महाफलोदयाभिव्यक्तं पौरुषं पौर्वदेहिकं कर्म । तस्मात्पुरुषकाराभावे न दैवमस्तीति पुरुषकारे यत्नो विधातव्यः ॥३४९॥ इदानी मतान्तराण्याह
केचिदैवात्स्वभावाद्वा कालात्पुरुषकारतः ।
संयोगे केचिदिच्छन्ति फलं कुशलबुद्धयः ॥ ३५० ॥ १ विग्रहं चैव यानमासनसंश्रयौ ख. २ कारेऽपि क.
For Private And Personal Use Only
Page #140
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
१०८
याज्ञवल्क्यस्मृतिः ।
[ आचाराध्यायः
केचिदिष्टानिष्टलक्षणं फलं देवादेवेच्छन्ति । केचित्स्वभावात्स्वयमेव भवति न कारणमपेक्षत इति । केचित्कालात् । केचित्पुरुषकारत एवेति । स्वमतमाहदेवादीनां संयोगे समुच्चये फलं भवतीति कुशलबुद्धयो मन्वादयो मन्यन्ते ३५०
Acharya Shri Kailassagarsuri Gyanmandir
एकैकस्मात्फलं न भवतीत्यत्र दृष्टान्तमाह
यथा ह्येकेन चक्रेण रथस्य न गतिर्भवेत् ।
एवं पुरुषकारेण विना दैवं न सिद्ध्यति ॥ ३५१ ॥
नात्र तिरोहितमस्ति ॥ ३५१ ॥
लाभाय परराष्ट्रं गन्तव्यमित्युक्तं । लाभश्च त्रिविधः हिरण्यलाभो मूललाभो मित्रलाभश्चेति । तेषु मित्रलाभो ज्यायान् । ततस्तत्प्रायुपाये यत्त्रो विधातव्यः । तु प्रायुपायश्च सत्यवचनमित्याह
हिरण्यभूमिलाभेभ्यो मित्रलब्धिर्वरा यतः ।
अतो यतेत तत्प्राप्यै रक्षेत्सत्यं समाहितः ।। ३५२ ॥
यस्मात् हिरण्यभूमिलाभेभ्यो मित्रलब्धिर्वरा उत्कृष्टा तस्मात्तत्प्राप्यै यतेत यत्नं कुर्यात् सामादिभिः । सत्यं च रक्षेत् । समाहितः सावधानः । सत्यमूलत्वामित्रलाभस्य || ३५२ ॥
इदानीं राज्याङ्गान्याह -
स्वाम्यमात्या जनो दुर्गं कोशो दण्डस्तथैव च ।
मित्राण्येताः प्रकृतयो राज्यं सप्ताङ्गमुच्यते ॥ ३५३ ॥
महोत्साह इत्याद्युक्तलक्षणो महीपतिः स्वामी । अमात्या मत्रिपुरोहितादयः । जनो ब्राह्मणादिप्रजाः । दुर्गे धन्वंदुर्गादि । कोशः सुवर्णादिधनराशिः । दण्डो हस्त्यश्वरथपत्तिलक्षणं चतुरङ्गबलम् । मित्राणि सहजकृत्रिमप्राकृतानि । एताः स्वाम्याद्या: राज्यस्य प्रकृतयो मूलकारणानि । एवं राज्यं सप्ताङ्गमुच्यते ॥ ३५३ ॥ तदवाप्य नृपो दण्डं दुर्वृत्तेषु निपातयेत् ।
धर्मो हि दण्डरूपेण ब्रह्मणा निर्मितः पुरा ॥ ३५४ ॥
तदेवंविधं राज्यं प्राप्य दुर्वृत्तेषु वञ्चकशठधूर्तपरदारपरद्रव्यापहारिहिंसकादिषु नृपो दण्डं पातयेत्प्रयोजयेत् । हि यस्माद्धर्म एव दण्डरूपेण पूर्व ब्रह्मणा निर्मितः । तस्य च दण्ड इति यौगिकी संज्ञा - ' दण्डो दमनादित्याहुस्तेनादान्तान्दमयेत्' इत्यादिगौतमस्मरणात् ॥ ३५४ ॥
स नेतुं न्यायतोऽशक्यो लुब्धेनाकृतबुद्धिना । सत्यसंधेन शुचिना सुसहायेन धीमता ॥ ३५५ ॥
१ विवृतमेतत्सविस्तरं ३२१ तमपद्यटिप्पन्याम्.
For Private And Personal Use Only
Page #141
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
राजधर्मप्रकरणम् १३ ] मिताक्षरासहिता ।
स पूर्वोक्तो दण्डो लुब्धेन कृपणेनाकृतबुद्धिना चञ्चलबुद्धिना न्यायतो न्यायानुसारेण नेतुं प्रयोक्तुं शक्यो न भवति । कीदृशेन तर्हि शक्य इत्याह-सत्यसंधेनाप्रतारकेण । शुचिना जितारिषड्वर्गेण । सुसहायेन पूर्वोक्तसहायसहितेन । धीमता नयानयकुशलेन स दण्डो न्यायतो धर्मानुसारेण नेतुं शक्यः३५५
यथाशास्त्रं प्रयुक्तः सन् सदेवासुरमानवम् ।
जगदानन्दयेत्सर्वमन्यथा तत्प्रकोपयेत् ॥ ३५६ ॥ स दण्डः शास्त्रोक्तमार्गेण प्रयुज्यमानः सन् देवासुरमानवैः सहितं इदं सर्व जगदानन्दयेत् हर्षयेत् । अन्यथा शास्त्रातिक्रमेण प्रयुक्तश्चेजगत्प्रकोपयेत् ॥३५६॥ न केवलमधर्मदण्डेन जगत्प्रकोपः अपितु प्रयोक्तुदृष्टादृष्टहानिरपीत्याह
अधर्मदण्डनं स्वर्गकीर्तिलोकविनाशनम् ।
सम्यक्तु दण्डनं राज्ञः स्वर्गकीर्तिजयावहम् ॥ ३५७ ॥ यः पुनः शास्त्रातिक्रमेण लोभादिना दण्डः कृतः स पापहेतुत्वात्स्वर्ग कीर्ति लोकांश्च विनाशयति । शास्त्रोक्तमार्गेण तु कृतो धर्महेतुत्वात्स्वर्गकीर्तिजयानां हेतुर्भवति ॥ ३५७ ॥
अपि भ्राता सुतोऽर्यो वा श्वशुरो मातुलोपि वा। नादण्ड्यो नाम राज्ञोऽस्ति धर्माद्विचलितः स्वकात् ॥३५८॥ अोऽर्धार्हः आचार्यादिः । शेषः प्रसिद्धः । एते भ्रातृसुतादयोऽपि स्वधर्माचलिता दण्ड्याः किमुतान्ये । यतः स्वधर्माचलितः अदण्ड्यो नाम राज्ञः कोऽपि नास्ति । एतच मातापित्रादिव्यतिरेकेण । तथाच स्मृत्यन्तरम्-'अदण्ड्यौ मातापितरौ स्नातकेंपुरोहितपरिव्राजकवानप्रस्थाः श्रुतशीलशौचाचारवन्तस्ते हि धर्माधिकारिणः' इति ॥ ३५८ ॥
यो दण्ड्यान्दण्डयेद्राजा सम्यग्वध्यांश्च घातयेत् ।
इष्टं स्यात्क्रतुभिस्तेन समाप्तवरदक्षिणैः ॥ ३५९ ॥ किंच । यस्तु दण्ड्यान्स्वधर्मचलनादिना दण्डयोग्यान्सम्यक् शास्त्रदृष्टेन मार्गेण धिग्धनदण्डादिना दण्डयति, वध्यान्वधाहन्धिातयति तेन राज्ञा भूरिदक्षिणैः ऋतुमिरिष्टं भवति । बहुदक्षिणऋतुफलं प्राप्नोतीत्यर्थः । नच फलश्रवणाहण्यप्रणयनं काम्यमिति मन्तव्यम् । अकरणे प्रायश्चित्तस्मरणात् । यथाह वसिष्ठः-'दण्डोत्सर्गे राजैकरात्रमुपवसेत्रिरात्रं पुरोहितः कृच्छ्रमदण्ड्यदण्डने पुरोहितस्त्रिरात्रं राजा' इति ॥ ३५९ ॥
दुष्टे सम्यग्दण्डः प्रयोक्तव्य इत्युक्तं, दुष्टपरिज्ञानं च व्यवहारदर्शनमन्तरेण न भवतीति तत्परिज्ञानाय व्यवहारदर्शनमहरहः स्वयं कर्तव्यमित्याह
इति संचिन्त्य नृपतिः क्रतुतुल्यफलं पृथक् । १ऽसुरमानुषम् क. २ प्रकोपनमपितु क. ३ स्वर्ग कीर्ति लोकांश्च नाशयेत् क. ४ कृतः सोऽपापहेतुत्वात् क. ग. ५ परिव्राजकपुरोहित ख.
For Private And Personal Use Only
Page #142
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
याज्ञवल्क्यस्मृतिः
[आचाराध्यायः
व्यवहारान्स्वयं पश्येत्सभ्यैः परिवृतोऽन्वहम् ॥ ३६० ॥ - इत्येवमुक्तप्रकारेण ऋतुतुल्यं फलं दण्ड्यदण्डेन, स्वर्गादिनाशं चादण्ड्यदण्डेन सम्यग्विचिन्त्य पृथक्पृथग्वर्णादिक्रमेण सभ्यैर्वक्ष्यमाणलक्षणैः परिवृतः प्रतिदिनं व्यवहारान्वक्ष्यमाणमार्गेण दुष्टादुष्टपरिज्ञानार्थ राजा स्वयं पश्येत् ॥३६०
कुलानि जातिः श्रेणीश्च गणाञ्जानपदानपि ।
स्वधर्माच्चलितानाजा विनीय स्थापयेत्पथि ॥ ३६१ ॥ कुलानि ब्राह्मणादीनाम् । जातयो मूर्धावसिक्तप्रभृतयः । श्रेणयस्ताम्बूलिकादीनाम् । गणा हेलावुक्कादीनाम् । जानपदाः कारुकादयः । एतान्स्वधर्माच्चलितान्प्रच्युतान् राजा यथापराधं विनीय दण्डयित्वा पथि स्वधर्म स्थापयेत् । दण्डं दुर्वृत्तेषु निपातयेदित्युक्तं सच दण्डो द्विविधः शारीरोऽर्थदण्डश्चेति । यथाह नारदः-'शारीरश्वार्थदण्डश्च दण्डो हि द्विविधः स्मृतः । शारीरस्ताडनादिस्तु मरणान्तः प्रकीर्तितः ॥ काठिन्यादिस्त्वर्थदण्डः सर्वस्वान्तस्तथैव च ॥' इति । द्विविधोऽप्यपराधानुसारेणानेकधा भवति । आह स-'शारीरो दशधा प्रोक्तो ह्यर्थदण्डस्त्वनेकधा' इति ॥ ३६१ ॥
तत्र कृष्णलमाषसुवर्णपलादिशब्दैरर्थदण्डा वक्तव्यास्ते च प्रतिदेशं भिन्नपरिमाणार्था इत्येकरूपापराधेऽपि देशभेदेन न्यूनाधिकदण्डो माभूदिति कृष्णलादिशब्दानां नियतपरिमाणविषयत्वं दण्डव्यवहारे दर्शयितुमाह
जालसूर्यमरीचिस्थं त्रसरेण रजः स्मृतम् । तेष्टौ लिक्षा तु तास्तिस्रो राजसर्षप उच्यते ॥ ३६२ ।। गौरस्तु ते त्रयः षट् ते यवो मध्यस्तु ते त्रयः । कृष्णलः पञ्च ते माषस्ते सुवर्णस्तु षोडश ॥ ३६३ ॥
पलं सुवर्णाश्चत्वारः पञ्च वापि प्रकीर्तितम् ।। जालकान्तरप्रविष्टादित्यरश्मिस्थितं यद्रजस्तत् ब्रसरेणुरित्युक्तं योगीश्वरादिभिस्तत्वदर्शिभिः । तेच सरेणवोऽष्टौ लिक्षा स्वेदजयूकाण्डम् । ता लिक्षास्तिस्त्रो राजसर्षपो राजिका । ते राजसर्षपास्त्रयो गौरसर्षपः सिद्धार्थः। गौरसपपाः षट् यवो मध्यः । मध्यमो न स्थूलो न सूक्ष्मः । एतेन गौरसर्षपा अपि मध्यमा इति गम्यते । तथा राजसर्षपा अपि मध्यमशब्दादेव सर्षपादिशब्दाः न केवलमुन्मानवचनाः किंतु तदुन्मितगव्यवचना इति गम्यते । यथा प्रस्थपरिमिता यवाः प्रस्थ उच्यते । एवं सर्षपाधुन्मितं द्रव्यं सर्षपादिशब्दैः । सर्षपादिशब्दानां च केवलोन्मानवचनत्वे त्रसरेणूंनुपसंहृत्योन्मातुमशक्यत्वात्तद्वारेण कृष्णलादिव्यवहारो न स्यात् । तत्र स्थूलस्थूलतरस्थूलतमसूक्ष्मसूक्ष्मतरसूक्ष्मतममध्यसर्षपाद्युन्मानभेदेन प्रतिदेशं व्यवहारभेदे स्थिते दण्डव्यवहारे मध्य इति नियम्यते । ते मध्यमा यवास्त्रय एकः कृष्णलः । ते कृष्णला: १ वक्ष्यमाणधर्मेण क. २ हेलावुक्का अश्वव्यवहारिणः. ३ रेणूनामुपसंहृत्य क.
For Private And Personal Use Only
Page #143
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
राजधर्मप्रकरणम् १३ ] मिताक्षरासहिता।
१११ पञ्चैको माषः । ते माषाः षोडशैकः सुवर्णः। ते सुवर्णाश्चत्वारः पलमिति संज्ञाः कथिता इति । पञ्च वापि पलं प्रकीर्तितं नारदादिभिः । तत्र स्थूलैस्त्रिभिर्यवैः कृष्णलपरिकल्पनायां व्यावहारिकनिष्कस्य षोडशांशः कृष्णलो भवति । तैः पञ्चभिर्माषः माषैः षोडशभिः सुवर्णः । सच व्यावहारिकैः पञ्चमिनिष्कैरेका सुवर्णों भवति । ते चत्वारः पलमिति । निष्काणां विंशतिः पलम् । यदा तु सूक्ष्मैस्त्रिभिर्यवैः कृष्णलः परिकल्प्यते तदा व्यावहारिकनिष्कस्य द्वात्रिंशत्तमो भागः कृष्णलो भवति । तस्मिन्पक्षे सुवर्णः साधै निष्कद्वयं भवति । पलं च दशनिष्कम् । यदा तु मध्यमयवैः कृष्णलपरिकल्पना तदा निष्कस्य विंशतितमो भागः कृष्णलः, सुवर्णश्चतुनिष्कः, षोडशनिष्कं पलम् । एवं पञ्चसुवर्ण पलमिति । पक्षे विंशतिनिष्कं पलम् । एवमन्यदपि निष्कस्य चत्वारिंशो भागः कृष्णलः द्विनिष्कः सुवर्णोऽष्टनिष्कं पलमित्यादिलोकव्यवहारानुसारेणास्मादेष सूत्रादूहनीयम् ॥ ३६२ ॥ ३६३ ॥ एवं सुवर्णस्योन्मानं प्रतिपाद्येदानी रजतस्याह
द्वे कृष्णले रूप्यमाषो धरणं षोडशैव ते ॥ ३६४ ॥ शतमानं तु दशभिर्धरणैः पलमेव तु । निष्कं सुवर्णाश्वखारः द्वे कृष्णले पूर्वोक्ते रूप्यमाषो रूप्यसंबन्धी माषः । ते रूप्यमाषाः षोडश धरणम् । पुराण इत्यस्यैव संज्ञान्तरम् । —'ते षोडश स्याद्धरणं पुराणश्चैव राजतः' इति (१९३६) मनुस्मरणात् । दशभिर्धरणैः शतमानं पलमिति चाभिधीयते । पूर्वोक्ताश्चस्वारः सुवर्णा एको राजतो निको भवति ॥ ३६४ ॥ इदानीं ताम्रस्योन्मानमाह
कार्षिकस्तानिका पणः ॥ ३६५॥ - पलस्य चतुर्थोऽशः कर्ष इति लोकप्रसिद्धः । कर्षेणोन्मितः कार्षिकः । ताम्रस्य विकारस्तानिकः । कर्षसंमितस्ताम्रविकारः पणसंज्ञो भवति कार्षापणसंज्ञकश्च'कार्षापणस्तु विज्ञेयस्तानिकः कार्षिकः पणः' इति (३६) मनुवचनात् । पञ्चसुवर्णपलपक्षे विंशतिमाषः पणो भवति । तथा सति-'माषो विंशतिमो भागः पणस्य परिकीर्तितः' इत्यादिव्यवहारः सिद्धो भवति । चतुःसुवर्णपलपक्षे तु षोडशमाषः पणो भवति । असिंश्च पक्षे सुवर्णकार्षापणपणशब्दानां समा. नार्थत्वेऽपि पणकार्षापणशब्दौ ताम्रविषयावेव । एवं तावद्धेमरूप्यताम्राणामुन्मानमुक्तम् । दण्डव्यवहारोपयोगित्वात् । कांस्यरीतिकादीनामपि लोकव्यव. हाराङ्गभूतानामेवोन्मानं द्रष्टव्यम् ॥ ३६५॥ स्वशास्त्रपरिभाषामाह
साशीतिपणसाहस्रो दण्ड उत्तमसाहसः।
तदर्ध मध्यमः प्रोक्तस्तदर्धमधमः स्मृतः॥ ३६६ ॥ पणानां सहस्रं पणसहस्रं तत्परिमाणमस्येति पणसाहस्रः। अशीत्या सह
For Private And Personal Use Only
Page #144
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११२
याज्ञवल्क्यस्मृतिः ।
[ आचाराध्यायः
वर्तत इति साशीतिः । अशीत्यधिकपणसहस्रपरिमितो यो दण्डः स उत्तम साहससंज्ञो वेदितव्यः । तदर्धे मध्यमः तस्य साशीतिपणसहस्रस्याधं चत्वारिंशदधिकपणपञ्चशतपरिमितो दण्डो मध्यमसाहससंज्ञः । तदर्धमधमः तस्य चत्वारिंशदधिकपञ्चशतपणस्यार्धं सप्तत्यधिकपणशतद्वयपरिमितो दण्डोऽधमसाहससंज्ञः स्मृत उक्तो मन्वादिभिः । यत्तु – 'पणानां द्वे शते सार्धे प्रथमः साहसः स्मृतः । मध्यमः पञ्च विज्ञेयः सहस्रं त्वेव चोत्तमः' इति ( ८१३८ ) मनुनोक्तं तत्पक्षान्तरम मतिपूर्वापराधविषयं द्रष्टव्यम् ॥ ३६६ ॥
दण्डभेदानाह
धिग्दण्डस्त्वथ वाग्दण्डो धनदण्डो वधस्तथा ।
योज्या व्यस्ताः समस्ता वा ह्यपराधवशादिमे ॥ ३६७ ॥ धिग्दण्डो धिग्धिगिति कुत्सनम् । वाग्दण्डस्तु परुषशापवचनात्मकः । धनदण्डो धनापहारात्मकः । वधदण्डः शारीरोऽवरोधादिजीवितान्तः । एते चतुविधा दण्डाः व्यस्ता एकैकशः, समस्ताः द्वित्राः त्रिचतुरो वाऽपराधानुसारेण प्रयोक्तव्याः । उक्तक्रमेण पूर्वपूर्वासाध्ये उत्तर उत्तरः प्रयोक्तव्यः । यथाह मनुः'धिग्दण्डं प्रथमं कुर्याद्वाग्दण्डं तदनन्तरम् । तृतीयं धनदण्डं तु वधदण्डमतःपरम् ॥' इति ॥ ३६७ ॥
दण्डव्यवस्था निमित्तान्याह
d
ज्ञात्वाऽपराधं देशं च कालं बलमथापि वा ।
वयः कर्म च वित्तं च दण्डं दण्ड्येषु पातयेत् ॥ ३६८ ॥ यथापराधं ज्ञात्वा तदनुसारेण दण्डप्रणयनमेवं देशकालवयः कर्मवित्तानि ज्ञात्वा तदनुसारेण दण्ड्येषु दण्डार्हेषु दण्डप्रणयनं कुर्यात् । तथा बुद्धिपूर्वाद्धिपूर्व सकृदावृत्त्यनुसारेण च । यद्यपि राजानमधिकृत्यायं राजधर्मकलाप उक्तस्तथापि वर्णान्तरस्यापि विषयमण्डलादिपरिपालनाधिकृतस्यायं धर्मो वेदितव्यः । 'राजधर्मान्प्रवक्ष्यामि यथावृत्तो भवेनृपः' इत्यत्र पृथक्नृपग्रहणात्करग्रहणस्य रक्षार्थत्वाच्च रक्षणस्य दण्डप्रणयनायत्तत्वादिति ॥ ३६८ ॥ इति श्रीपद्मनाभ भट्टोपाध्यायात्मजस्य श्रीमत्परमहंस परिव्राजकविज्ञानेश्वरभट्टारकस्य कृतौ ऋजुमिताक्षरायां याज्ञवल्क्यधर्मशास्त्रविवृतौ सदाचारः प्रथमाध्यायः उत्तमोपपदस्येयं शिष्यस्य कृतिरात्मनः । धर्मशास्त्रस्य विवृतिर्विज्ञानेश्वरयोगिनः ॥
अस्मिन्नध्याये प्रकरणानि । १ उपोद्घातप्रकरणम् । २ ब्रह्मचारिप्रकरणम् । ३ विवाहप्रकरणम् । ४ जातिविवेकप्रकरणम् । ५ गृहस्थधर्मप्रकरणम् । ६ स्त्रा तकप्रकरणम् । ७ भक्ष्याभक्ष्यप्रकरणम् । ८ द्रव्यशुद्धिप्रकरणम् । ९ दानधर्मप्रकरणम् । १० श्राद्धप्रकरणम् । ११ गणपतिकल्पप्रकरणम् । १२ ग्रहशान्तिप्रकरणम् । १३ राजधर्मप्रकरणम् । एवं त्रयोदश प्रकरणानि ॥
याज्ञवल्क्यमुनिशास्त्रगतेयं विवृतिर्न कस्य विहिता विदुषः । प्रमिताक्षरापि विपुलार्थवती परिषिञ्चति श्रवणयोरमृतम् ॥ १ ॥
For Private And Personal Use Only
Page #145
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहाराध्यायः।
साधारणव्यवहारमातृकाप्रकरणम् १ अभिषेकादिगुणयुक्तस्य राज्ञः प्रजापालनं परमो धर्मः । तच्च दुष्टनिग्रहमन्तरेण न संभवति । दुष्टपरिज्ञानं च न व्यवहारदेर्शनमन्तरेण संभवति । तब्यहारदर्शनमहरहः कर्तव्यमित्युक्तं-'व्यवहारान्स्वयं पश्येत्सभ्यैः परिवृतोऽन्वहम्' इति । स च व्यवहारः कीदृशः कतिविधः कथं चेतीतिकर्तव्यताकलापो नाभिहितस्तदभिधानाय द्वितीयोऽध्याय आरभ्यते
व्यवहारान्नृपः पश्येद्विद्वद्भिाह्मणैः सह ।
धर्मशास्त्रानुसारेण क्रोधलोभविवर्जितः॥१॥ व्यवहारानिति । अन्यविरोधेन स्वात्मसंबन्धितया कथनं व्यवहारः । यथा कश्चिदिदं क्षेत्रादि मदीयमिति कथयति, अन्योपि तद्विरोधेन मदीयमिति । तस्थानेकविधत्वं दर्शयति बहुवचनेन । नृप इति न क्षत्रियमात्रस्यायं धर्मः किंतु प्रजापालनाधिकृतस्यान्यस्यापीति दर्शयति । पश्येदिति पूर्वोक्तस्यानुवादो धर्मविशेषविधानार्थः । विद्वद्भिर्वेदव्याकरणादिधर्मशास्त्राभिज्ञैः। ब्राह्मणैर्न क्षत्रियादिमिः । ब्राह्मणैः सहेति तृतीयानिर्देशादेवामप्राधान्यम् । 'सहयुक्तेऽप्रधाने' इति स्मरणात् । अतश्चादर्शनेऽन्यथादर्शने वा राज्ञो दोषो न ब्राह्मणानाम् । यथाह मनुः ( ८1१२८)-'अदण्ड्यान्दण्डयनराजा दण्ड्यांश्चैवाप्यदण्डयन् । अयशो महदाप्नोति नरकं चैवं गच्छति ॥' इति । कथम् । धर्मशास्त्रानुसारेण नार्थशास्त्रानुसारेण । देशादिसमयधर्मस्यापि धर्मशास्त्राविरुद्धस्य धर्मशास्त्रविषयत्वान्न पृथगुपादानम् । तथाच वक्ष्यति-'निजधर्माविरोधेन यस्तु सामयिको भवेत् । सोऽपि यत्नेन संरक्ष्यो धर्मो राजकृतश्च यः ॥' इति । क्रोधलोभविवर्जित इति । धर्मशास्त्रानुसारेणेति सिद्धे 'क्रोधलोभविवर्जितः' इति वचनमादरार्थम् । क्रोधोऽमर्षः । लोभो लिप्सातिशयः ॥ १ ॥
१ दर्शनेन विनेति व्यवहारदर्शनं ग. २ 'विप्रतिपद्यमाननरान्तरगताशाताधर्मज्ञापनानुकूलो व्यापारो व्यवहारः । वादिप्रतिवादिकर्तृकः संभवद्भोगसाक्षिप्रमाणको विरोधकोटिव्यवस्थापनानुकूलो व्यापारो वा सः । संप्रतिपत्त्युत्तरे तु व्यवहारपदप्रयोगो भाक्त इति मदनरत्ने' इति न्य. म.-'वि नानार्थेऽव संदेहे हरणं हार उच्यते । नाना संदेहहरणाद्व्यवहार इति स्मृतः ॥ इति कातीयम्. ३ चाधिगच्छति ख. ४ अर्थशास्त्रं नीतिशास्त्रं औशनसादिकम्. ५ देशेति । आदिना देवगृहादिपरिग्रहः । पारिभाषिकधर्मेण व्यवस्थानं समयः. ६ वक्ष्यति अग्रे संविधतिक्रमप्रकरणे. (लो. १८६). ७ सामयिको धमों यावत्पथिकं भोजनं देयमसदरातिमण्डलं तुरकादयो न प्रस्थापनीया इत्येवंरूपः.
For Private And Personal Use Only
Page #146
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
याज्ञवल्क्यस्मृतिः।
[व्यवहाराध्यायः
सभ्यांश्वाह
श्रुताध्ययनसंपन्ना धर्मज्ञाः सत्यवादिनः।
राज्ञा सभासदः कार्या रिपौ मित्रे च ये समाः ॥२॥ किंच श्रुताध्ययनसंपन्नाः श्रुतेन मीमांसाव्याकरणादिश्रवणेन अध्ययनेन च वेदाध्ययनेन संपन्नाः । धर्मज्ञाः धर्मशास्त्रज्ञाः। सत्यवादिनः सत्यवचनशीलाः। रिपौ मित्रे च ये समाः रागद्वेषादिरहिताः । एवंभूताः सभासदः सभायां संसदि यथा सीदन्त्युपविशन्ति तथा दानमानसत्कारे राज्ञा कर्तव्याः। यद्यपि श्रुताध्ययनसंपन्ना इत्यविशेषेणोक्तं तथापि ब्राह्मणा एव । यथाह कात्यायनः'स तु सभ्यैः स्थिरैर्युक्तः प्राजौंलैर्द्विजोत्तमैः । धर्मशास्त्रार्थकुशलैरर्थशास्त्रवि. शारदैः ॥' इति । ते च त्रयः कर्तव्याः बहुवचनस्यार्थवस्वात्–'यस्मिन्देशे निषीदन्ति विप्रा वेदविदस्त्रयः' इति (११) मनुस्मरणाच । बृहस्पतिस्तु सप्त पञ्च त्रयो वा सभासदो भवन्तीत्याह-'लोकवेदज्ञधर्मज्ञाः सप्त पञ्च योऽपि वा । यत्रोपविष्टा विप्राः स्युः सा यज्ञसदृशी सभा ॥' इति । नच ब्राह्मणैः सहेति पूर्वश्लोकोक्तानां ब्राह्मणानां श्रुताध्ययनसंपन्नाः इत्यादि विशेषणमिति मन्तव्यम् । तृतीयाप्रथमान्तनिर्दिष्टानां विशेषणविशेष्यभावासंभवात् । विद्वद्भिरित्यनेन पुनरुक्तिप्रसङ्गाच्च । तथाच कात्यायनेन ब्राह्मणानां सभासदां च स्पष्टं भेदो दर्शितः-'सप्राशिवाकः सामात्यः सब्राह्मणपुरोहितः । ससभ्यः प्रेक्षको राजा स्वर्गे तिष्ठति धर्मतः ॥' इति । तत्र ब्राह्मणा अनियुक्ताः सभासदस्तु नियुक्ता इति भेदः । अतएवोक्तम्-'नियुक्तो वाऽनियुक्तो वा धर्मज्ञो वक्तुमर्हति' इति । तत्र नियुक्तानां यथावस्थितार्थकथनेऽपि यदि राजाऽन्यथा करोति तदाऽसौ निवारणीयोऽन्यथा दोषः । उक्तंच कात्यायनेन-'अन्यायेनापि तं यान्तं येऽनुयान्ति सभासदः। तेऽपि तदागिनस्तस्माद्बोधनीयः स तैनृपः ॥' इति । अनियुक्तानां पुनरन्यथाभिधानेऽनभिधाने वा दोषो नतु राक्षोऽनिवारणे-'संभा वा न प्रवेष्टव्या वक्तव्यं वा समञ्जसम् । अब्रुवन्विब्रुवन्वापि नरो भवति किल्बिषी ॥' इति (८।१३) मनुस्मरणात् । रिपो मित्रे चेति चकाराल्लोकरञ्जनार्थ कतिपयैर्वणिम्भिरप्यधिष्ठितं सदः कर्तव्यम् । यथाह कात्यायनः-'कुलशीलवयोवृत्तवित्तवद्भिरमत्सरैः । वणिग्भिः स्यात्कतिपयैः कुलभूतैरधिष्ठितम् ॥' इति ॥ २ ॥ व्यवहारानृपः पश्येदित्युक्तं तत्रानुकल्पमाह
अपश्यता कार्यवशाद्व्यवहारान्नृपेण तु ।
सभ्यैः सह नियोक्तव्यो ब्राह्मणः सर्वधर्मवित् ॥ ३ ॥ १ मौलैः सेवकत्वेन पितृपितामहादिपरम्परायातैः. २ च भेदः स्पष्टो ग. ३ सभा वा न प्रवेष्टन्यं ग.
For Private And Personal Use Only
Page #147
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
साधारणव्य०मा०प्र० १ 1 मिताक्षरासहिता ।
११५ कार्यान्तरव्याकुलतया व्यवहारानपश्यता नृपेण पूर्वोक्तैः सभ्यैः सह सर्वधर्मवित् सर्वान्धर्मशास्त्रोक्तान्सामयिकांश्च धर्मान्वेत्ति विचारयतीति सर्वधर्मवित् ब्राह्मणो न क्षत्रियादिनियोक्तव्यो व्यवहारदर्शने । तं च कात्यायनोक्तगुणविशिष्टं कुर्यात् । यथाहदान्तं कुलीनं मध्यस्थमनुद्वेगकरं स्थिरम् । परत्र भीरु धर्मिष्ठमुद्युक्तं क्रोधवर्जितम् ॥' इति । एवंभूतब्राह्मणासंभवे क्षत्रियं वैश्य वा नियुञ्जीत न शूद्रम् । यथाह कात्यायन:-'ब्राह्मणो यत्र न स्यात्तु क्षत्रिय तत्र योजयेत् । वैश्यं वा धर्मशास्त्रज्ञं शूद्रं यत्नेन वर्जयेत् ॥' इति । नारदेन त्वयमेव मुख्यो दर्शितः-'धर्मशास्त्रं पुरस्कृत्य प्राविवाकमते स्थितः । समाहितमतिः पश्येयवहाराननुक्रमात् ॥' इति । प्राड्दिवाकमते स्थितो न स्वमते स्थितः । राजा चारचक्षुषा परसैन्यं पश्यतीतिवत् । तस्य चेयं यौगिकी संज्ञा । अर्थिप्रत्यर्थिनौ पृच्छतीति प्राद तयोर्वचनं विरुद्धमविरुद्धं च सभ्यैः सह विविनक्ति विवेचंयति वेति विवाकः । प्राद चासौ विवाकश्च प्राविवाकः । उक्तंच-'विवादानुगतं पृष्ट्वा ससभ्यस्तत्प्रयत्नतः । विचारयति येनासौ प्राडिवाकस्ततः स्मृतः ॥' इति ॥ ३ ॥
प्राडिवाकादयः सभ्या यदि रागादिना स्मृत्यपेतं व्यवहारं विचारयन्ति तदा राज्ञा किं कर्तव्यमित्यत आह
रागाल्लोभाद्भयाद्वापि स्मृत्यपेतादिकारिणः ।
सभ्याः पृथक्पृथग्दण्ड्या विवादाद्द्विगुणं दमम् ॥ ४॥.. अपिच । पूर्वोक्ताः सभ्या रजसो निङ्कुरशत्वेन तदभिभूता रागात्स्नेहातिश. याल्लोभाल्लिप्सातिशयानयात्संत्रासात्स्मृत्यपेतं स्मृतिविरुद्धं आदिशब्दादाचारापेतं कुर्वन्तः पृथक्पृथगेकैकशो विवादाद्विवादपराजयनिमित्ताहमाद्विगुणं दम दण्ड्याः न पुनर्विवादास्पदीभूताव्यात् । तथा सति स्त्रीसंग्रहणादिषु दण्डाभावप्रसङ्गः। रागलोभभयानामुपादानं रागादिष्वेव द्विगुणो दमो नाज्ञानमोहादिष्विति नियमार्थम् ॥ नच 'राजा सर्वस्येष्टे ब्राह्मणवर्जम्' इति गौतमवचनान्न ब्राह्मणा दण्ड्या इति मन्तव्यम् । तस्य प्रशंसार्थत्वात् ॥ यत्तु षभिः परिहार्यो राज्ञाऽवध्यश्चाबन्ध्यश्चादण्ड्यश्चाबहिष्कार्यश्चापरिवाद्यश्चापरिहार्यश्चेति तदपि स एष बहुश्रुतो भवति लोकवेदवेदाङ्गविद्वांकोवाक्येतिहासपुराणकुशलस्तदपेक्षस्तद्वृत्तिश्चाष्टचत्वारिंशत्संस्कारैः संस्कृतस्त्रिषु कर्मस्वभिरतः षट्सु वा समयाचारिकेष्वभिविनीत इति प्रतिपादितबहुश्रुतविषयं न ब्राह्मणमात्रविषयम् ॥४॥
१ व्यग्रतया ख. ग. २ धर्मान् शास्त्रोक्तान् ग. ३ ब्राह्मण एव. ४ विवक्तीति वा ग. ५ बृहस्पतिस्तु-'विवादे पृच्छति प्रश्नं प्रतिप्रश्नं तथैव च । नयपूर्व प्राग्वदति प्राडिवाक स्ततः स्मृतः ॥' इति व्य. म. ६ न ब्राह्मणो दण्ड्य इति क. ग. ७ राज्ञा वध्यश्वावध्यश्च. ग. ८ वेदाङ्गविद्वाक्येतिहास ग. ९ वाकोवाक्यं उक्तिप्रत्युक्तिमद्वावयम्.
या. १३
For Private And Personal Use Only
Page #148
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
याज्ञवल्क्यस्मृतिः।
[व्यवहाराध्यायः
व्यवहारविषयमाह
स्मृत्याचारव्यपेतेन मार्गेणाधर्षितः परैः।
आवेदयति चेद्राज्ञे व्यवहारपदं हि तत् ॥५॥ धर्मशास्त्रसमयाचारविरुद्धेन मार्गेण परैराधर्षितोऽभिभूतो यदाज्ञे प्राडिवाकाय वा आवेदयति विज्ञापयति चेद्यदि तदावेद्यमानं व्यवहारपदं प्रतिज्ञोत्तरसंशयहेतुपरामर्शप्रमाणनिर्णयप्रयोजनात्मको व्यवहारस्तस्य पदं विषयस्तस्य चेदं सामान्यलक्षणम् । स च द्विविधः शङ्काभियोगस्तत्वाभियोगश्चेति । यथाह नारद:--'व्यभियोगस्तु विज्ञेयः शङ्कातत्त्वाभियोगतः । शङ्काऽसतां तु संसर्गातत्त्वं होढाऽभिदर्शनात् ॥' इति । होढा लोप्वं । लिङ्गमिति यावत् । तेन दर्शनं, साक्षाद्वा दर्शनं होढाभिदर्शनं तस्मात् । तत्त्वाभियोगोऽपि द्विविधः । प्रतिषेधास्मको विध्यात्मकश्चेति । यथा मत्तो हिरण्यादिकं गृहीत्वा न प्रयच्छति । क्षेत्रादिकं ममायमपहरतीति च । उक्तंच कात्यायनेन-'न्याय्यं स्त्रं नेच्छते कर्तुमन्याय्यं वा करोति यः' इति । स पुनश्चाष्टादशधा भिद्यते । यथाह मनः (८४-७)-'तेषामायमृणादानं निक्षेपोऽस्वामिविक्रयः । संभूय च समुत्थानं दत्तस्यानपकर्म च ॥ वेतनस्यैव चाऽदानं संविदश्च व्यतिक्रमः। क्रयविक्रयानु. शयो विवादः स्वामिपालयोः ॥ सीमाविवादधर्मश्च पारुष्ये दण्डवाचिके । स्तेयं च साहसं चैव स्त्रीसंग्रहणमेव च ॥ स्त्रीपुंधर्मो विभागश्च द्यूतमाह्वय एव च । 'पदान्यष्टादशैतानि व्यवहारस्थिताविह ॥ इति ॥ एतान्यपि साध्यभेदेन पुनर्बहुत्वं गतानि । यथाह नारदः-'एषामेव प्रभेदोऽन्यः शतमष्टोत्तरं भवेत् । क्रियाभेदान्मनुष्याणां शतशाखो निगद्यते ॥' इति ॥ आवेदयति चेद्राज्ञे इत्यनेन स्वयमेवागत्यावेदयति, न राजप्रेरितस्तत्पुरुषप्रेरितो वेति दर्शयति । यथाह मनुः (८४३)-'नोत्पादयेत्स्वयं कार्य राजा नाप्यस्य पूरुषः । नच प्रापित. मन्येन ग्रसेतार्थ कथंचन ॥' इति ॥ परैरिति परेण पराभ्यां परैरित्येकस्यैकेन द्वाभ्यां बहुभिर्वा व्यवहारो भवतीति दर्शयति ॥ यत्पुनः- एकस्य बहुभिः सार्ध स्त्रीणां प्रेष्यजनस्य च । अनादेयो भवेद्वादो धर्मविद्भिरुदाहृतः ॥' इति नारदवचनं तद्भिन्नसाध्यद्वयविषयम् । आवेदयति चेद्राक्षे इत्यनेनैव राज्ञा पृष्टो
१ लुप्यत इति लोप्नं चौर्यधनम्. २ लिङ्गं अव्यभिचरितं चिह्नमित्यर्थः. ३ ऋणादानं ऋणस्य न दानमदानम्, निक्षेपः स्वधनस्यान्यस्मिन्नर्पणम् , अस्वामिना कृतो विक्रयः, संभूयसमुत्थानं अनेकैमिलित्वा यत्र धनार्थ वाणिज्याधुदमः क्रियते. दत्तस्यानपकर्म अप्रत्यर्पणम्. ४ कर्मकरस्य भृतेरदानम् , संविदः कृतव्यवस्थाया अतिक्रमः, अनुशयः क्रयविक्रये च कृते पश्चात्तापाद्विप्रतिपत्तिः, स्वामिपशुपालयोर्विवादः. ५ ग्रामसीमाविप्रतिपत्तिः, वाक्पारुष्यमाक्रोशनादि, दण्डपारुष्यं ताडनादि, स्तेयं निवेन धनग्रहणम् , साहसं प्रसाधनहरणादि, स्त्रियश्च परपुरुषसंपर्कः. ६ स्त्रीसहितस्य पुंसो धर्मे व्यवस्था, विभागः पैतृकादिधनस्य, द्यूतं मक्षादिक्रीडा, पणव्यवस्थापनपूर्वकं पक्षिमेषादिप्राणियोधनं, समायस्य प्राणिद्यूतरूपत्वेन द्यूतावान्तरविशेषत्वादष्टादशसंख्योपपत्तिः. ७ स्मृतम् घ.
For Private And Personal Use Only
Page #149
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
साधारणव्य०मा०प्र० १] मिताक्षरासहिता । विनीतवेष आवेदयेत्। आवेदितं च युक्तं चेन्मुद्रादिना प्रत्यर्थ्याह्वानमकल्पोदीनां चानाह्वानमित्याद्यर्थसिद्धमिति नोक्तम् । स्मृत्यन्तरे तु स्पष्टार्थमुक्तम् । यथा 'काले कार्यार्थिनं पृच्छेद्गुणन्तं पुरतः स्थितम् । किं कार्य का च ते पीडा मा भैषीब्रूहि मानव ॥ केन कस्मिन्कदा कस्मात्पृच्छेदेवं सभागतम् । एवं पृष्टः स यद्यात्स सभ्यैाह्मणैः सह ॥ विमृश्य कार्य न्याय्यं चेदाह्वानार्थमतः परम् । मुद्रां वा निक्षिपेत्तस्मिन्पुरुषं वा समादिशेत् ॥ अकल्पबालस्थविरविषमस्थक्रियाकुलान् । कार्यातिपातिव्यसनिनृपकार्योत्सवाकुलान् । मत्तोन्मत्तप्रमत्तान्भूित्यानाह्वानयेन्नृपः ॥ न हीनपक्षां युवतिं कुले जातां प्रसूतिकाम् । सर्ववर्णोत्तमा कन्यां ता ज्ञातिप्रभुकाः स्मृताः ॥ तदधीनकुटुम्बिन्यः स्वैरिण्यो गणिकाश्च याः । निकुला याश्च पतितास्तासामाह्वानमिष्यते ॥ कालं देशं स विज्ञाय कार्याणां च बलाबले । अकल्पादीनपि शनैर्यानैराह्वानयेन्नृपः ॥ ज्ञात्वाभियोगं येऽपि स्युर्वने प्रव्रजितादयः । तानप्याह्वानयेद्वाजा गुरुकार्येष्वकोपयन् ॥' इति । आसेधव्यवस्थाप्यर्थसिद्धव नारदेनोक्ता-वक्तव्येऽर्थे यतिष्ठन्तमुत्क्रामन्तं च तद्वचः। आसेधयेद्विवादार्थी यावदाह्वानदर्शनम् ॥ स्थानासेधः कालकृतः प्रवासात्कर्मणस्तथा । चतुर्विधः स्यादासेधो नासिद्धस्तं विलयेत् ॥ आसेधकाल आसिद्ध आसेधं योतिऽवर्तते । स विनेयोऽन्याकुर्वन्नासेद्धा दण्डभाग्भवेत् ॥ नदीसन्तारकान्तारदर्देशोपप्लवादिषु । आसिद्धस्तं परासेधमुत्क्रामन्नापरानयात् ॥ निवेष्टुकामो रोगा? यियक्षुर्व्यसने स्थितः । अभियुक्तस्तथान्येन राजकार्योद्यत. स्तथा ॥ गवां प्रचारे गोपालाः सस्यावापे कृषीवलाः । शिल्पिनश्चापि तत्कालमायुधीयोश्च विद्महे ॥' इति । भासेधो राजाज्ञयाऽवरोधः । अकल्पादयः पुत्रादिकमन्यं वा सुहृदं प्रेषयेयुः नच ते परार्थवादिनः।-'यो न भ्राता नच पिता न पुत्रो न नियोगकृत् । परार्थवादी दण्ड्यः स्याम्यवहारेषु विब्रुवन् ॥' इति नारदवचनात् ॥ ५॥
१ 'शिक्का परपर्यायगरुडादिचिह्वेन. २ आधिव्याधिसहितादीनाम्. ३ पृच्छेत्प्रणतं इति पाठः. ४ अकल्पो व्याध्याद्यमिभूतः, विषमस्थ उत्पन्नसंकटः. ५ कार्यातिपाती कार्योल्लंघी. ६ मत्तो मादकद्रव्येण, उन्मत्तः उन्मादेन पञ्चविधेन वातपित्तश्लेष्मसन्निपातग्रहसंभवेनोपसृष्टः, प्रमत्तः सर्वदावधानहीन. ७ ता हीनपक्षादयः ज्ञातिस्वामिका इत्यर्थः. ८ मिष्कुलाः कुलहीनाः. ९ एतत्प्रसङ्गादकल्पाद्याहाने पूर्वनिषिद्धेऽपि प्रतिप्रसवमाह कालमिति । तत्र प्रकारद्वयं शनैर्यानैरिति. १० अभियोगोऽभिग्रहः आरोपस्तम्. ११ आसेधो राजाधिकारिभिनिरोधः. १२ विवादार्थी वादी, आसेधयेत्प्रत्यर्थिनं निरोधयेत्. १३ आसेध इति । स चतुर्विधः-१ प्रकृते अस्मात्प्रदेशान्न गन्तव्यमिति स्थानासेधः, २ आसन्ध्यं न गन्तव्यमिति कालासेधः, ३ देशान्तरं प्रति न गन्तव्यमिति प्रवासासेधः, ४ असो व्यापारो न कर्तव्य इति कर्मासेधः. १४ आसिद्धो निरुद्धः. १५ विनयः शिक्षणीयः. १६ अन्यथा कुर्वन् अनासेधकाले आसेधं कुर्वन्. १७ आसेद्धा आसेधकर्ता राजाधिकारी. १८ नासिद्धं विलंघयेदित्यस्य प्रतिप्रवसवमाह नदीति. १९ निर्वेष्टुकाम आश्रमान्तरं गन्तुकामः, विवाहादावुद्यत इति यावत्. २० यियक्षुर्यष्टुमिच्छुः. २१ अभियुक्तो नियोजितः. २२ तत्कालं शिल्पकाले आयुधीया आयुधजीविनो योद्धारः. २३ विग्रहे संग्रामे. २४ प्रेषयन्ति. ख. २५ नियोगकृदाज्ञाकारी. २६ विब्रुवन् व्यवहारेषु विरुद्धं विविधं विशेषेण वा ब्रुवन्.
For Private And Personal Use Only
Page #150
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११८
याज्ञवल्क्यस्मृतिः [व्यवहाराध्यायः प्रत्यर्थिनि मुद्रालेख्यपुरुषाणामन्यतमेनानीते किं कुर्यादित्यत आह
प्रत्यार्थनोऽग्रतो लेख्यं यथावेदितमर्थिना।
समामासतदर्धाहर्नामजात्यादिचिह्नितम् ॥ ६॥ अर्थते इत्यर्थः साध्यः सोऽस्यास्तीत्यर्थी तत्प्रतिपक्षः प्रत्यर्थी तस्याग्रतः पुरतो लेख्यं लेखनीयम् । यथा येन प्रकारेण पूर्वमावेदनकाले आवेदितं तथा । न पुनरन्यथा । अन्यथावादित्वेन व्यवहारस्य भङ्गप्रसङ्गात्। -'अन्यवादी क्रियाद्वेषी नोपस्थाता निरुत्तरः । आहूतः प्रपलायी च हीनः पञ्चविधः स्मृतः ॥' इति । आवेदनकाल एवार्तिवचनस्य लिखितत्वात्पुनर्लेखनमनर्थकमित्यत आह -समामासेत्यादि । संवत्सरमासपक्षतिथिवारादिना-अर्थिप्रत्यर्थिनाम ब्राह्मणजात्यादिचिह्नितम् । आदिशब्देन द्रव्यतत्संख्यास्थानवेलाक्षमालिङ्गादीनि गृह्यन्ते ॥ यथोक्तम्- 'अर्थवद्धर्मसंयुक्तं परिपूर्णमनाकुलम् । साध्यवद्वाचकपदं प्रकृतार्थानुबन्धि च ॥ प्रसिद्धमविरुद्धं च निश्चितं साधनक्षमम् । संक्षिप्तं नि. खिलार्थ च देशकालाविरोधि च ॥ वर्षर्तुमासपक्षाहोवेलादेशप्रदेशवत् । स्थानावसथसाध्याख्याजात्याकारवयोयुतम् ॥ साध्यप्रमाणसंख्यावदात्मप्रत्यर्थिनामवत् । परात्मपूर्वजानेकराजनामभिरक्षितम् ॥ क्षमालिङ्गात्मपीडावत्कथिताहर्तृदायकम् । यदावेदयते राज्ञे तद्भाषेत्यभिधीयते ॥' इति । भाषा प्रतिज्ञा पक्ष इति नार्थान्तरम् । आवेदनसमये कार्यमानं लिखितं प्रत्यर्थिनोऽग्रतः समामा. सादिविशिष्टं लिख्यत इति विशेषः । संवत्सरविशेषणं यद्यपि सर्वव्यवहारेषु नोपयुज्यते तथाप्याधिप्रतिग्रहक्रयेषु निर्णयार्थमुपयुज्यते ।-आधौ प्रतिग्रहे क्रीते पूर्वा तु बलवत्तरा इति वचनात् । अर्थव्यवहारेऽपि एकस्मिन्संवत्सरे यसंख्याकं यद्रव्यं यतो येन गृहीतं प्रत्यर्पितं च पुनरन्यस्मिन्वत्सरे तद्रव्यं तसंख्याकं ततस्तेन गृहीतं याच्यमानो यदि ब्रूयात्सत्यं गृहीतं प्रत्यर्पितं चेति । वत्सरान्तरे गृहीतं प्रत्यर्पितं नास्सिन्वत्सरे इत्युपयुज्यते । एवं मासाद्यपि यो.ज्यम् । देशस्थानादयः पुनः स्थावरेष्वेवोपयुज्यन्ते-'देशश्चैव तथा स्थानं सं. निवेशस्तथैव च । जातिः संज्ञाऽधिवासश्च प्रमाणं क्षेत्रनाम च ॥ पितृपैतामहं चैव पूर्वराजानुकीर्तनम् । स्थावरेषु विवादेषु दशैतानि निवेशयेत् ॥ इति स्मरणात् । देशो मध्यदेशादिः । स्थानं वाराणस्यादि । संनिवेशस्तत्रैव पूर्वापरदिग्विभागपरिच्छिन्नः सम्यङ्गिविष्टो गृहक्षेत्रादिः । जातिरर्थिप्रत्यर्थिनोर्ब्राह्मण
१ क्रियाद्वेषी कार्यद्वेषी. २ नोपस्थाता समीपे न तिष्ठन्. ३ आइतव्यपलापी ग. ४ वेलेति दिनमध्येऽपि प्रातरादिमुहूर्तरूपो वा कालविशेष इत्यर्थः. ५ अर्थवदिति । अर्थवत्प्र. योजनवत्, धर्मसंयुक्तं धर्मो गुणः अल्पाक्षरत्वप्रभूतार्थवत्त्वादिकस्तेन युक्तं, परिपूर्णमध्याहा. रानपेक्षं, अनाकुलमसंदिग्धाक्षरं, साध्यवत् सिषाधयिषितार्थसहितम्, वाचकपरं बहुव्रीहिगौ. णलाक्षणिकादिरहितं, प्राकृतार्थानुबन्धि पूर्वावेदितार्थानुरोधि. ६ साधने क्षमम् ख. ७ नियतार्थ ग. ८ इदमग्रे स्फुटीभविष्यत्यसाधारणव्यवहारमातृकाप्रकरणे. ९ पितृ इति लुप्तषष्ठीकं पृथक्पदं, पितुरिति पाठो वा.
For Private And Personal Use Only
Page #151
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
साधारणव्य०मा०प्र० १] मिताक्षरासहिता ।
११९
स्वादिः । संज्ञा च देवदत्तादिः । अधिवासः समीपदेशनिवासी जनः । प्रमाणं निवर्तनादि भूपरिमाणम् । क्षेत्रनाम शालिक्षेत्रं क्रमुकक्षेत्रं कृष्णभूमः पाण्डुभूमः इति । पितुः पितामहस्य च नामार्थिप्रत्यर्थिनोः पूर्वेषां त्रयाणाम् । राज्ञां नामकीर्तनं चेति । समामासादीनां यस्मिन्व्यवहारे यावदुपयुज्यते तत्र तावलेखनीयमिति तात्पर्यार्थः ॥ एवं पक्षलक्षणे स्थिते पक्षलक्षणरहितानां पक्षवदवभासमानानां पक्षाभासत्वं सिद्धमेवेति योगीश्वरेण न पृथक्पक्षाभासा उक्ताः । अन्यैस्तु विस्पष्टार्थमुक्ताः । - ' अप्रसिद्धं निरौबाधं निरर्थं निष्प्रयोजनम् । असाध्यं वा विरुद्धं वा पक्षाभासं विवर्जयेत् ॥' इति । अप्रसिद्धं मदीयं शशविषाणं गृहीत्वा न प्रयच्छतीत्यादि । निराबाधं अस्मद्गृहदीपप्रकाशेनायं स्वगृहे व्यवहरतीत्यादि । निरर्थं अभिधेयरहितं कचटतपगजडदवेत्यादि । निप्रयोजनं यथायं देवदत्तोऽस्मद्गृहसंनिधौ सुस्वरमधीत इत्यादि । असाध्यं यथाहं देवदत्तेन सभ्रूभङ्गमुपहसित इत्यादि । एतत्साधनासंभवादसाध्यम् । अल्पकालत्वान्न साक्षिसंभवो लिखितं दूरतोऽल्पत्वान्न दिव्यमिति । विरुद्धं यथाहं मूकेन शप्त इत्यादि । रराष्ट्रादिविरुद्धं वा - ' राज्ञा विवर्जितो यश्च यश्च पौरविरोधकृत् । राष्ट्रस्य वा समस्तस्य प्रकृतीनां तथैव च ॥ अन्ये वा ये पुरग्राममहाजन विरोधकाः । अनादेयास्तु ते सर्वे व्यवहाराः प्रकीर्तिताः ॥' इति ॥ यँत्तु – 'अनेकपदसंकीर्णः पूर्वपक्षो न सिद्ध्यति' इति, तंत्र यद्यनेकवस्तुसंकीर्ण इत्युच्यते तदा न दोषः । मदीयमनेन हिरण्यं वासो रूपकादि वापहृतमित्येवंविधस्यादुष्टत्वात् । ऋणादानादिपदसंकरे पक्षाभास इति चेत्तदपि न । मदीया रूपका भनेन वृद्ध्या गृहीताः सुवर्ण चास्य हस्ते निक्षिप्तम्, मदीयं क्षेत्रमयमपहरतीत्यादीनां पक्षत्वमिष्यत एव। किंतु क्रियाभेदात्क्रमेण व्यवहारो न युगपदित्येतावत् ॥ यथाह कात्यायनः - 'बेहुप्रतिज्ञं यत्कार्यं व्यवहारे सुनिश्चि तम् । कामं तदपि गृह्णीयाद्राजा तत्त्वबुभुत्सया ॥' इति । तस्मादनेकपदसंकीर्णः पूर्वपक्षो युगपन सिद्ध्यतीति तस्यार्थः । अर्थिग्रहणात्पुत्रपित्रादिग्रहणं तेपामेकार्थत्वात् । नियुक्तस्यापि नियोगेनैव तदेकार्थत्वाक्षेपात् ॥ - 'अर्थिना संनियुक्तो वा प्रत्यर्थिप्रहितोऽपि वा । यो यस्यार्थे विवदते तयोर्जयपराजयौ ॥' इति स्मरणात् नियुक्तजयपराजयौ मूलस्वामिनोरेव । ऐतश्च भूमौ फलके वा
१ कृष्णोदक्पाण्डित्यच्प्रत्ययो बहुव्रीहेः २ अत्र अप्रसिद्धादेः साधयितुमशक्यत्वादनिराकरणम् इति ख. पुस्तके विशेष: ३ पीडारहितमित्यर्थः ४ विनिगमनाभावादाह पुरेति. ५ अत्र 'एतेषां स्वभावेनैव निराकरणमिति न निराक्रियते । तत्र च अप्रसिद्धादीनां व्युत्पत्त्यर्धमुपादानं तदप्यनेकपदसंकीर्णस्य निराकरणं न क्रियते' इति ख. पुस्तके विशेषः ६ प्रकृari जनानां नगरस्थानाम् ७ अप्रसिद्धादीनां पक्षाभासत्वमिवानेकपदसंकीर्णपूर्वपक्षस्यापि तत्त्वमेव । अनेकैः पदैः संकीर्णो यः पूर्वपक्ष: प्रतिज्ञा सा न सिध्यति आभासरूपा भवतीति तदर्थप्रतीतेस्तन्निराकरोति यत्त्वित्यादिना. ८ तत्र पदशब्दः पद्यते ज्ञायते इति व्युत्पत्त्या किं वस्तुपर उत ऋणादानादिरूपव्यवहार विषयपरः । तत्र न तावदाद्ये पक्षाभा• सत्वमित्याह तत्रेति. ९ बहुप्रतिज्ञं बहुपूर्वपक्षम् १० पुत्रपौत्रादीनां क. ११ अर्थिवेदितमित्यर्थः.
For Private And Personal Use Only
Page #152
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२०
याज्ञवल्क्यस्मृतिः। [व्यवहाराध्यायः पाण्डुलेखेन लिखित्वा ओवापोद्धारेण विशोधितं पश्चात्पत्रे निवेशयेत् । -'पूर्वपक्षं स्वभावोक्तं प्राविवाकोऽमिलेखयेत् । पाण्डुलेखेन फलके ततः पत्रे विशोधितम् ॥' इति कात्यायनस्मरणात् । शोधनं च यावदुत्तरदर्शनं कर्तव्यं नातः परम् । अनवस्थाप्रसङ्गात् । अतएव नारदेनोक्तम्-'शोधयेत्पूर्ववादं तु यावनोत्तरदर्शनम् । अवष्टब्धस्योत्तरेण निवृत्तं शोधनं भवेत् ॥' इति । पूर्वपक्षमशो. धयित्वैव यदोत्तरं दापयन्ति सभ्यास्तदा रागाल्लोभादित्युक्तदण्डेन सभ्यान्दण्डयित्वा पुनः प्रतिज्ञापूर्वकं व्यवहारः प्रवर्तनीयो राज्ञेति ॥ ६ ॥ एवं शोधितपत्रारूढे पूर्वपक्षे किं कर्तव्यमित्यत आह
श्रुतार्थस्योत्तरं लेख्यं पूर्वावेदकसंनिधौ । श्रुतो भाषार्थो येन प्रत्यर्थिनाऽसौ श्रुतार्थः तस्योत्तरं पूर्वपक्षादुत्तरत्र भवतीत्युत्तरं लेख्यं लेखनीयम् । पूर्वावेदकस्यार्थिनः संनिधौ समीपे उत्तरं च यत्पूर्वोक्तस्य निराकरणं तदुच्यते । यथाह-'पक्षस्य व्यापकं सारमसंदिग्धमनाकुलम् । अव्याख्यागम्यमित्येतदुत्तरं तद्विदो विदुः ॥' इति । पक्षस्य व्यापकं निराकरणसमर्थम् । सारं न्याय्यं न्यायादनपेतम् । असंदिग्धं संदेहरहितम् । अनाकुलं पूर्वापराविरुद्धम् । अव्याख्यागम्यं अप्रसिद्धपदप्रयोगेण दुःश्लिष्टवि. भक्तिसमाससाध्याँहाराभिधानेन वा अन्य देशभाषाभिधानेन वा यत् व्याख्येयार्थं न भवति तत्सदुत्तरम् ॥ तश्च चतुर्विधम्-संप्रतिपत्तिर्मिथ्या अंत्यवस्कन्दनं पूर्वन्यायश्चेति । यथाह कात्यायन:-'सत्यं मिथ्योत्तरं चैव प्रत्यवस्कन्दनं तथा । पूर्वन्यायविधिश्चैवमुत्तरं स्याच्चतुर्विधम् ॥' इति । तत्र सत्योत्तरं यथा । रूपकशतं मह्यं धारयतीत्युक्ते सत्यं धारयामीति । यथाह-'साध्यस्य सत्यवचनं प्रतिपत्तिरुदाहृता'इति । मिथ्योत्तरं तु नाहं धारयामीति । तथाच कात्यायन:-'अभियुक्तोऽभियोगस्य यदि कुर्यादपतवम् । मिथ्या तत्तु विजानीयादुत्तरं व्यवहारतः ॥' इति ॥ तच्च मिथ्योत्तरं चतुर्विधम्-'मिथ्यैः तमाभिजानामि तदा तत्र न संनिधिः । अजातश्चास्मि तत्काल इति मिथ्या चतुर्विधम् ॥' इति । प्रत्यवस्कन्दनं नाम सत्यं गृहीतं प्रतिदत्तं प्रतिग्रहेण लब्धमिति वा । यथाह नारद:-'अर्थिना लेखिनो योऽर्थः प्रत्यर्थी यदि तं तथा--प्रपद्य कारणं ब्रूयात्प्रत्यवस्कन्दनं स्मृतम् ॥' इति । प्रात्यायोत्तरं तु यत्राभियुक्त एवं ब्रूयादस्मिन्नर्थेऽनेनाहमभियुक्तस्तत्र चायं व्यवहारमार्गेण
१ पाण्ड्विति खडीति भाषाप्रसिद्धः. २ आवापेति न्यूनाधिक्यपरिहाराय प्रक्षेपनिष्कासनाभ्यामित्यर्थः. ३ सहजोक्तं न तु छलादिना. ४ उत्तरेणावष्टब्धस्य प्रतिबद्धस्य पूर्ववादस्य शोधनं भवेदित्यर्थः. ५ उत्तरत्र अग्रे. ६ दुःश्लिष्टमसंबद्धम् , अश्लिष्टमिति पाठः. ७ अध्याहारेण सहितं साध्याहारम्. ८ अदेशभाषेति पाठः. ९ प्रत्यवस्कन्दनं कारणोत्तरम्. १० प्रतिपत्तिः संप्रतिपत्तिः सत्योत्तरमित्यनन्तरम्. ११ अभियुक्तस्य ग. १२ ण्यन्तस्येदं रूपम्. १३ तथाप्रपद्य तथैवाङ्गीकृत्येत्यर्थः.
For Private And Personal Use Only
Page #153
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
साधारणव्य०मा०प्र० १ ] मिताक्षरासहिता।
१२१ पराजित इति । उक्तंच कात्यायनेन- आचारेणावसनोऽपि पुनर्लेखयते यदि । सोऽभिधेयो जितः पूर्वं प्राङ्न्यायस्तु स उच्यते ॥' इति । एवमुत्तरलक्षणे स्थिते उत्तरलक्षणरहितानामुत्तरवदवभासमानानामुत्तराभासस्वमर्थसिद्धम् । स्पष्टीकृतं च स्मृत्यन्तरे-'संदिग्धमन्यत्प्रकृतादत्यल्पमतिभूरि च । पक्षकदेशव्याप्यन्यत्तथा नैवोत्तरं भवेत् ॥ यद्व्यस्तपदमव्यापि निगूढार्थ तथाकुलम् । व्याख्यागम्यमसारं च नोत्तरं स्वार्थसिद्धये ॥' इति । तत्र संदिग्धंसुवर्णशतमनेन गृहीतमित्युक्ते सत्यं गृहीतं सुवर्णशतं माषशतं वेति । प्रकृतादन्यत्-यथा सुवर्णशताभियोगे पणशतं धारयामीति । अत्यल्पं-सुवर्णशता. भियोगे पञ्चशतं धारयामीति । अतिभूरि-सुवर्णशताभियोगे द्विशतं धारयामीति । पक्षकदेशव्यापि-हिरण्यवस्वाधभियोगे हिरण्यं गृहीतं नान्यदिति । व्यस्तपदं-ऋणादानाभियोगे पदान्तरेणोत्तरम् , यथा सुवर्णशताभियोगे अ. नेनाहं ताडित इति । अव्यापि-देशस्थानादिविशेषणाव्यापि, यथा मध्यदेशे वाराणत्यां पूर्वस्यां दिशि क्षेत्रमनेनापहृतमिति पूर्वपक्षे लिखिते, क्षेत्रमपहृत. मिति । निगूढार्थ-यथा सुवर्णशताभियोगे किमहमेवास्मै धारयामीत्यत्र ध्वनिना प्राशिवाकः सभ्यो वा अर्थी वा अन्यस्मै धारयतीति सूचयतीति निगूढार्थम् । आकुलं पूर्वापरविरुद्धम्-यथा सुवर्णशताभियोगे कृते सत्यं गृहीतं न धारयामीति । व्याख्यागम्यं-दुःश्लिष्टविभक्तिसमाससाध्याहाराभिधानेन व्याख्यागम्यम्, भदेशभाषाभिधानेन वा । यथा सुवर्णशतविषये पितृऋणाभियोगे गृहीतशतवचनात् सुवर्णानां पितुर्न जानामीति । अत्र गृहीतशतस्य पितुर्वचनारसुवर्णानां शतं गृहीतमिति न जानामीति । असारं-न्यायविरुद्धम्, यथा सुवर्णशतमनेन वृद्ध्या गृहीतं वृद्धिरेव दत्ता न मूलमित्यभियोगे सत्यं वृद्धिदत्ता न मूलं गृहीतमिति । उत्तरमित्येकवचननिर्देशादुत्तराणां संकरो निरस्तः । यथाह कात्यायनः–'पक्षकदेशे यत्सत्यमेकदेशे च कारणम् । मिथ्या चैवैकदेशे च संकरात्तदनुत्तरम् ॥' इति । अनुत्तरत्वे च कारणं तेनैवोक्तम्'नचैकस्मिन्विवादे तु क्रिया स्थाद्वादिनोयोः । नचार्थसिद्धिरुभयोर्न चैकत्र क्रियाद्वयम् ॥' इति । मिथ्याकारणोत्तरयोः संकरे अर्थिप्रत्यर्थिनोईयोरपि क्रिया प्रामोति–'
मिर्ध्या क्रिया पूर्ववादे कारणे प्रतिवादिनि' इति स्मरणात् । तदुभयमेकस्मिन्व्यवहारे विरुद्धम् । यथा सुवर्ण रूपकशतं चानेन गृहीतमित्यभियोगे सुवर्णं न गृहीतं रूपकशतं गृहीतं प्रतिदत्तं चेति । कारणप्राङ्न्यायसंकरे तु प्रत्यर्थिन एव क्रियाद्वयम्-'नन्यायकारणोक्तौ तु प्रत्यर्थी निर्दिशेक्रियाम्'
१ व्यवहारेण पराजितोऽपि. २ अर्धन्यूनतयात्यल्पत्वमस्य. ३ अन्यत् पक्षकदेशव्यापि चेत्यर्थः. ४ व्यस्तपदं असंबद्धपदकम्. ५ विन्ध्यहिमाचलयोर्मध्यं मध्यदेशः. ६ अन्तर्भावितण्यर्थमिदम्. ७ ध्वनिना किमादिबोध्येन. ८ न वादिद्वयपरत्वमिति सूचयितुं मिथ्येति । मिथ्योत्तरे इत्यर्थः । पूर्ववादे कर्मण्यणं पूर्ववादिनीत्यर्थः. ९ कारणे कारणोत्तरे. १० तयो. मिथः संकरे वित्यर्थः. ११ तयोरुकावित्यर्थः । नेदं प्रत्येकपरम् । करणांशे 'कारणे प्रति. वादिनि' इत्यनेन सिद्धत्वात् । तस्मात्सांकर्यपरमेवेदम् । अतएव समासनिर्देशसंगतिरपि.
For Private And Personal Use Only
Page #154
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२२
याज्ञवल्क्यस्मृतिः। [व्यवहाराध्यायः इति । यथा सुवर्ण गृहीतं प्रतिदत्तं रूपके व्यवहारमार्गेण पराजित इति । अत्र च प्राङ्न्याये जयपत्रेण वा प्राङ्न्यायदर्शिभिर्वा भावयितव्यम् । कारणोक्तौ तु साक्षिलेख्यादिभिर्भावयितव्यमिति विरोधः । एवमुत्तरत्रयसंकरेऽपि द्रष्टव्यम् । यथानेन सुवर्ण रूपकशतं वस्त्राणि च गृहीतानीत्यभियोगे सत्यं सुवर्ण गृहीतं प्रतिदत्तं रूपकशतं न गृहीतं, वस्त्र विषये तु पूर्वन्यायेन पराजित इति । एवं चतुःसंकरेपि । एतेषां चानुत्तरत्वं यौगपद्येन तस्यांशस्य तेन तेन विनाऽसिद्धेः क्रमेणोत्तरत्वमेव । मचार्थिनः प्रत्यर्थिनः सभ्यानां चेच्छया भवति । यत्र पुनरुभयोः संकरस्तत्र यस्य प्रभूतार्थविषयत्वं तक्रियोपादानेन पूर्व व्यवहारः प्रवर्तयितव्यः पश्चादल्पविषयोत्तरोपादानेन च व्यवहारो द्रष्टव्यः । यत्र च संप्रतिपत्तेरुत्तरान्तरस्य च संकरस्तत्रोत्तरान्तरोपादानेन व्यवहारो द्रष्टव्यः । संप्रतिपत्तौ क्रियाभावात् ॥ यथा हारीतेन-'मिथ्योत्तरं कारणं च स्यातामेकत्र चेदुभे । सत्यं वापि सहान्येन तत्र ग्राह्यं किमुत्तरम् ॥' इत्युक्त्वोक्तम्-'यत्प्रभूतार्थविषयं यत्र वा स्याक्रियाफलम् । उत्तरं तत्र तज्ज्ञेयमसंकीर्णमतोऽन्यथा ॥' संकीर्णं भवतीति शेषः । शेर्षांपेक्षया ऐच्छिकक्रम भवतीत्यर्थः । तत्र प्रभूतार्थ -यथा अनेन सुवर्ण रूपकशतं वस्त्राणि च गृहीतानीत्यभियोगे सुवर्ण रूपकशतं च न गृहीतं वस्त्राणि तु गृहीतानि प्रतिदत्तानि चेति । अत्र मिथ्योत्तरस्य प्रभूतविषयत्वादर्थिनः क्रियामादाय प्रथमं व्यवहारः प्रवर्तयितव्यः पश्चाद्वस्त्रविषयो व्यवहारः। एवं मिथ्याप्रान्यायसंकरे कारणप्राइन्यायसंकरे च योजनीयम् । तथा तस्मिन्नेवाभियोगे सत्यं सुवर्ण रूपकशतं च गृहीतं प्रति दास्यामि वस्त्राणि तु न गृहीतानि गृहीतानि प्रतिदत्तानीति वा वनविषये पूर्व पराजित इति चोत्तरे संप्रतिपत्तेभूरिविषयत्वेऽपि तत्र क्रियाभावान्मिथ्याद्युत्तरक्रियामादाय व्यवहारः प्रवर्तयितव्यः । यत्रतु मिथ्याकारणोत्तरयोः कृत्स्नपक्षव्यापित्वमय था-ङ्गमा. हिकया कश्चिद्वंदति इयं गौर्मदीया अमुकस्मिन्काले नष्टा भद्यास्य गृहे दृष्टेति ।
अन्यस्तु मिथ्यैतत्, प्रदर्शितकालात्पूर्वमेवासगृहे स्थिता मम गृहे जाता चेति वदति । इदं तावत्पक्ष निराकरणसमर्थत्वान्नानुत्तरम् । नापि मिथ्यैव, कारणोपन्यासात् । नापि कारणम् , एकदेशस्याप्यभ्युपगमाभावात् । तस्मात्सैका
१ रूपकशते ग. २ द्वितीयसंकरे त्वित्यर्थः. ३ साधयितव्यमेतैः कृत्वा. ४ कारणोत्तरे तु ग. ५ आदिना दिव्यपरिग्रहः. ६ उत्तरत्रयेति मिथ्या-कारण-प्राङ्न्यायरूपे. ७ प्रतिदास्यामि ग. ८ चतुःसंकरेति । यथा अनेन सुवर्ण रूप्यकशतं वस्त्राणि धान्यं च गृहीत. तमित्यभियोगे-सुवर्ण धारयामि रूपकशतं न गृहीतं वस्त्राणि प्रतिग्रहेण लब्धानि धान्यविषये पूर्वन्यायेन पराजित इति । एवं मिथ्याप्राङ्न्यायसंकरेऽपि द्रष्टव्यम्. ९ क्रमेण त्वित्यर्थः, १० चेन प्राडिवाकादेः समुच्चयः. २१ यत्र वित्यर्थः. १२ मिथ्याकारणोत्तरयोः. १३ तत्साधकक्रियाग्रहणेन. १४ सत्योत्तरसंकरस्य पूर्वमनुपन्यासे बीजं ध्वनयन् तत्र निया मकान्तरमाह यत्रचेति. १५ यत् उत्तरम्. १६ अपेक्षाक्रमं भवतीत्यर्थः ग. १७ ऐच्छिकः क्रमो भवतीत्यर्थः ख. १८ संकीर्णोत्तरस्य योगपचेन सर्वथाऽनुत्तरत्वे प्राप्ते कचित्प्रतिप्रसवमाह यत्रत्विति. १९ तन्न्यायेनेत्यर्थः. २० कश्चित् वादी. २१ अन्यः प्रतिवादी. २२ एत. प्रदर्शित. ख. २३ अत्र कारणस्याप्राधान्यं मिथ्योत्तरस्य प्राधान्यं तस्य तदुपपादकस्यापि संभवात् । अतएव तत्र सहयोगे तृतीया कृता.
For Private And Personal Use Only
Page #155
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
साधारणव्य०मा०प्र० १] मिताक्षरासहिता |
१२३
रणं मिथ्योत्तरमिदम् । अत्रच प्रतिवादिनः क्रिया, 'कारणे प्रतिवादिनि' इति वचनात् ॥ ननु 'मिथ्या क्रिया पूर्ववादे' इति पूर्ववादिनः कस्मात्क्रिया न भवति । तस्य शुद्धमिथ्याविषयत्वात् । कारणे प्रतिवादिनीत्येतदपि कस्माच्छुद्धकारणविषयं न भवति । नैतत् । सर्वस्यापि कारणोत्तरस्य मिथ्यासह - चरितरूपत्वाच्छुद्धकारणोत्तरस्याभावात् ॥ प्रसिद्धे कारणोत्तरे प्रतिज्ञातार्थैकदेशस्याभ्युपगमेनैकदेशस्य मिथ्यात्वम् - यथा सत्यं रूपकशतं गृहीतं न धारयामि प्रतिदत्तत्वादिति । प्रकृतोदाहरणे तु प्रतिज्ञातार्थैकदेशस्याप्यभ्युपगमो नास्तीति विशेषः ॥ एतच्च हारीतेन स्पष्टमुक्तम् — 'मिथ्या कारणयोर्वापि ग्राह्यं कारणमुत्तरम्' इति । यत्र मिथ्याप्राङ्न्याययोः पक्षव्यापित्वम् - यथा रूपकशतं धारयतीत्यभियोगे मिथ्यैतदस्मिन्नर्थे पूर्वमयं पराजित इति । अत्रापि प्रतिवादिन एव क्रिया - 'प्राङ्न्यायकारणोक्तौ तु प्रत्यर्थी निर्दिशेत्क्रियाम्' इति वचनात्, शुद्धस्य प्राङ्न्यायस्याभावादनुत्तरत्वप्रसङ्गात् संप्रतिपत्तेरपि साध्यत्वेनोपदिष्टस्य पक्षस्य सिद्धत्वोपन्यासेन साध्यत्वनिराकरणत्वादेवोत्तरत्वम् । यदातु कारणप्राङ्न्यायसंकरः- यथा शतमनेन गृहीतमित्यभियुक्तः प्रतिवदति सत्यं गृहीतं प्रतिदत्तं चेत्यस्मिन्नेवार्थे प्राङ्न्यायेनायं पराजित इति । तत्र प्रतिवादि - नो यथास्वीति न क्वचिद्वादिप्रतिवादिनोरेकस्मिन्व्यवहारे क्रियाद्वयप्रसङ्ग इति निर्णयः ॥
,
एवमुत्तरे पत्रे निवेशिते साध्यसिद्धेः साधनायत्तत्वात्साधननिर्देशं कः कुर्या - दित्यपेक्षित आह
ततोऽर्थी लेखयेत्सद्यः प्रतिज्ञातार्थसाधनम् ॥ ७ ॥
तत उत्तरानन्तरंमर्थी साध्यवान् सद्यएवानन्तरमेव लेखयेत् । प्रतिज्ञातः साध्यः स चासावर्थश्चेति प्रतिज्ञातार्थः तस्य साधनं साध्यतेऽनेनेति साधनं प्रमाणम् । अत्र सद्यो लेखयेदिति वदतोत्तराभिधाने कालविलम्बनमप्यङ्गीकृतमिति गम्यते । तच्चोत्तरत्र विवेचयिष्यते । अर्थी प्रतिज्ञातार्थसाधनं लेखयेदिति वदता यस्य साध्यमस्ति स प्रतिज्ञातार्थसाधनं लेखयेदित्युक्तं, अतश्च प्राङ्न्यायोत्तरे प्राङ्न्यायस्यैव साध्यत्वात्प्रत्ययैवार्थी जात इति सएव साधनं लेखयेत् । कारणोत्तरेsपि कारणस्यैव साध्वात्कारणवाद्येवार्थीति सएव लेखयेत् । मिथ्योत्तरे तु पूर्ववाद्येवार्थी सएव साधनं निर्दिशेत् । ततोऽर्थी लेखयति वदता अयैव लेखयेनान्य इत्युक्तम् । अतश्च संप्रतिपत्युत्तरे साध्याभावेन भाषोत्तत्वादिनोर्द्वयोरप्यर्थित्वाभावात्साधन निर्देश एव नास्तीति तावतैव व्यवहारः परिसमाप्यत इति गम्यते । एतदेव हारीतेन स्पष्टमुक्तम् — 'प्राङ्न्याय कारणोक्तौ
१ प्रतिवादिना तस्यैवोक्तत्वमभिप्रेत्य प्राधान्यादरेण शङ्कते नन्विति २ सत्यं गृहीतं प्रतिदत्तं चेत्येवंरूपे प्रागुक्त. ३ सत्यस्यापि ४ निवेशिते लेखिते. ५ अर्थ्यत इत्यर्थः साध्यं स यस्यास्तीत्यर्थी. ६ प्रमाणं लिखितादि वक्ष्यमाणम् ७ निर्दिशे लेखयेत्' ८ अर्थ्येवेति आक्षेपादेव कर्तृलाभे तदुक्तिर्नियमार्थेति भावः . ९ तादृशोत्तरदानेनैव.
For Private And Personal Use Only
Page #156
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२४
याज्ञवल्क्यस्मृतिः।
[व्यवहाराध्यायः
तु प्रत्यर्थी निर्दिशेत्क्रियाम् । मिथ्योक्तौ पूर्ववादी तु प्रतिपत्तौ न सा भवेत् ॥' इति ॥ ७ ॥ ततः किमित्यत आह
तसिद्धौ सिद्धिमाप्नोति विपरीतमतोऽन्यथा । तस्य साधनस्य प्रमाणस्य वक्ष्यमाणलिखितसाक्ष्यादिलक्षणस्य सिद्धौ निवृत्तौ सिद्धिं साध्यस्य जयलक्षणां प्राप्नोति । अतोऽस्मात्प्रकारादन्यथा प्रकारान्तरेण साधनासिद्धौ विपरीतं साध्यस्यासिद्धिं पराजयलक्षणमामोतीति संबन्धः ॥ एवं व्यवहाररूपमभिधायोपसंहरति
चतुष्पाब्यवहारोज्यं विवादेषूपदर्शितः ॥ ८॥ व्यवहारान्नृपः पश्येदियुक्तो व्यवहारः सोऽयमित्थं चतुष्पाच्चतुरंशकल्पनया विवादेषु ऋणादानादिषूपदर्शितो वर्णितः । तत्र प्रत्यर्थिनोऽग्रतो लेख्यं इति भाषापादः प्रथमः। श्रुतार्थस्योत्तरं लेख्यमित्युत्तरपादो द्वितीयः । ततोऽर्थी लेखयेत्सद्य इति क्रियापादस्तृतीयः । तसिद्धौ सिद्धिमामोतीति साध्यसिद्विपादश्चतुर्थः । यथोक्तम्-'परस्परं मनुष्याणां स्वार्थविप्रतिपत्तिषु । वाक्यन्या. याब्यवस्थानं व्यवहार उदाहृतः ॥ भाषोत्तरक्रियासाध्यसिद्धिभिः क्रमवृत्तिभिः । भाक्षिप्तचतुरंशस्तु चतुष्पादभिधीयते॥'इति। संप्रतिपत्त्युत्तरे तु साधनानिर्देशाद्भा. पार्थस्यासाध्यत्वाञ्च न साध्यसिद्धिलक्षणः पादोऽस्तीति द्विपात्वमेव । उत्तराभिधानानन्तरं सभ्यानामर्थिप्रत्यर्थिनोः कस्य क्रिया स्यादिति परामर्शलक्षणस्य प्रत्याकलितस्य योगीश्वरेण व्यवहारपादत्वेनानभिधानात् व्यवहर्तुः संबन्धाभावाच न व्यवहारपादत्वमिति स्थितम् ॥ ८ ॥
इति साधारणव्यवहारमातृकाप्रकरणम् ।
असाधारणव्यवहारमातृकाप्रकरणम् २ एवं सर्वव्यवहारोपयोगिनीं व्यवहारमातृकामभिधायाधुना कचिब्यवहारविशेषे कंचिद्विशेष दर्शयितुमाह
अभियोगमनिस्तीर्य नैनं प्रत्यभियोजयेत् । अभियुज्यत इति अभियोगोऽपराधः तमभियोगमनिस्तीर्यापरिहृत्य एनमभियोक्तारं न प्रत्यमियोजयेत् अपराधेन न संयोजयेत् । यद्यपि प्रत्यवस्कन्दनं प्र.
१ ततः साधनलेखनोत्तरम्. २ मुख्यपादत्वासंभवादाह चतुरंशेति. ३ अभिधीयते ऋणादानादिषु वक्ष्यमाणेषु. ४ लक्षणोपि इति पाठः. ५ प्रत्याकलितस्य पौनःपुन्येन विचारणस्येत्यर्थः. ६ अभियुज्यते दोषविषयीक्रियतेऽनेनेति शेषः. ७ सत्यं गृहीतं प्रति. दत्तं चेति कारणोत्तरस्य अनेन दत्तं स्थितं मया पुनर्दत्तमित्येवं प्रत्यभियोगरूपत्वमित्यर्थः
For Private And Personal Use Only
Page #157
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
असाधारणव्य०मा०प्र०२] मिताक्षरासहिता ।
१२५ .
त्यभियोगरूपं तथापि स्वापराधपरिहारात्मकत्वान्नास्य प्रतिषेधविषयत्वम् । अतः स्वाभियोगानुपमर्दनरूपस्य प्रत्यभियोगस्यायं निषेधः । इदं प्रत्यर्थिनमधिकृत्योक्तम्-
अथ अर्थिनं प्रत्याह
अभियुक्तं च नान्येन नोक्तं विप्रकृतिं नयेत् ॥ ९ ॥
1
अभियुक्तं च नान्येनेति । अन्येनाभियुक्तमनिस्तीर्णाभियोगमन्योऽर्थी नामियोजयेत् । किंच । उक्तमावेदनसमये यदुक्तं तद्विप्रकृतिं विरुद्धभावं न नयेन प्रापयेत् । एतदुक्तं भवति - यद्वस्तु येन रूपेणावेदनसमये निवेदितं तद्वस्तु तेथैव भाषाकालेऽपि लेखनीयं नान्यथेति ॥ ननु - 'प्रत्यर्थिनोऽग्रतो लेख्यं यथावेदितमर्थिना' इत्यत्रैवेदमुक्तं किमर्थं पुनरुच्यते नोक्तं विप्रकृतिं नयेदिति । उच्यते- 'यथाssवेदितमर्थिना' इत्यनेनाssवेदनसमये यद्वस्तु निवेदितं तदेव भाषासमयेऽपि तथैव लेखनीयं । ऐकस्मिन्नपि पैदे न वस्त्वन्तरमित्युक्तम् । यथानेन रूपकशतं वृद्ध्या गृहीतमित्यावेदनसमये प्रतिपाद्य प्रत्यर्थिसंनिधौ भाषासमये वस्त्रशतं वृद्ध्या गृहीतमिति न वक्तव्यम् । तथा सति पैदान्तरागमनेऽपि वस्त्वन्तरगमनाद्धीनवादी दण्ड्यः स्यादिति । नोक्तं विप्रकृतिं नयेदित्यनेनैकवस्तुत्वेऽपि पदान्तरगमनं निषिध्यते । यथा रूपकशतं वृद्ध्या गृहीत्वाऽयं न प्रयच्छतीत्यावेदनकालेऽभिधाय भाषाकाले रूपकशतं बलादपहृतवानिति वदतीति । तत्र वस्त्वन्तरगमनं निषिद्धमिह तु पदान्तरगमनं निषिध्यत इति न पौनरुक्त्यम् । एतदेव स्पष्टीकृतं नारदेन - 'पूर्वपादं परित्यज्य योऽन्यमालम्बते पुनः । पैदसंक्रमणाज्ज्ञेयो हीनवादी स वै नरः ॥' इति । हीनवादी दण्ड्यो भवति न प्रकृतादर्थाद्धीयते । अतः प्रत्यर्थिनोऽर्थिनश्च प्रमादपरिहारार्थमेवायमभियोगमनिस्तीर्येत्याद्युपदेशो न प्रकृतार्थसिद्ध्यसिद्धिविषयः । अतएव वक्ष्यति - 'छलं निरस्य भूतेन व्यवहारान्नयेनृपः' इति । एतच्चार्थव्यवहारे द्रष्टव्यम् । मन्युकृते तु व्यवहारे प्रमादाभिधाने प्रकृतादपि व्यवहाराद्धीयत एव । यथाह नारदः - 'सर्वेष्वर्थविवादेषु वाक्छले नावसीदति । परस्त्री भूम्यृणादाने शास्योऽप्यर्थान्न हीयते ॥' इति । अस्यार्थः - सर्वेष्वर्थविवादेषु न मन्युकृतेषु वाक्छले प्रमादाभिधानेऽपि नावसीदति न पराजीयते । न प्रकृतादर्थाद्धीयत इत्यर्थः । अत्रोदाहरणं परस्त्रीत्यादि । परस्त्रीभूम्यृणादाने प्रमादाभिधानेन दण्डयोsपि यथा प्रकृतादर्थान हीयते एवं सर्वेष्वर्थविवादेष्विति । अर्थविचादग्रहणान्मन्युकृतविवादेषु प्रमादाभिधाने प्रकृतादप्यर्थाद्धीयत इति ग•
१ तथैवेति । अन्यथाऽन्यथावादित्वेन भङ्गप्रसङ्गात् . २ ऋणादानादिव्यवहारविषये. ३ अत्र प्रकरणे पदशब्दो विषयवाची. ४ विषयान्तरं प्रत्यगमनेऽपीत्यर्थः ५ पदान्तरं प्रति गमनाद्वस्त्वन्तरगमनाचेत्यर्थः ६ सिद्ध्यसिद्धीति । हीनवादित्वे प्रकृतार्थासिद्धिस्तथात्वे तत्सिद्धिरित्यर्थः ७ पूर्वभूतेन सत्येन व्यवहारेण. ८ हीनवादी दण्ड्य एव, न प्रकृताश्रद्धीयत इत्येतत् ९ मन्युकृते वाक्पारुष्यदण्डपारुष्यादिव्यवहारे. १० एवं शाब्दमामुक्त्वा द्वितीयमसंपदध्वनितमाह अर्थेति.
For Private And Personal Use Only
Page #158
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२६
याज्ञवल्क्यस्मृतिः। [व्यवहाराध्यायः म्यते । यथाऽहमनेन शिरसि पादेन ताडित इत्यावेदनसमयेऽभिधाय भाषाकाले हस्तेन पादेन वा ताडित इति वदन्नै केवलं दण्ड्यः । पराजीयते च ॥९॥ 'अभियोगमनिस्तीर्य नैनं प्रत्यभियोजये'दित्यस्यापवादमाह
कुर्यात्प्रत्यभियोगं च कलहे साहसेषु च । कलहे वाग्दण्डपारुष्यात्मके साहसेषु विषशस्त्रादिनिमित्तप्राणव्यापादनादिषु प्रत्यभियोगसंभवे स्वाभियोगमनिस्तीर्याप्यभियोक्तारं प्रत्यभियोजयेत् । . नन्वत्रापि पूर्वपक्षानुपमर्दनरूपत्वेनानुत्तरत्वात्प्रत्यभियोगस्य प्रतिज्ञान्तरत्वे यु
गपद्व्यवहारासंभवः समानः । सत्यम् । नात्र युगपद्व्यवहाराय प्रत्यभियोगोपदेशः, अपितु न्यूनदण्डप्राप्तये अधिकदण्डनिवृत्तये वा । तथाहि । अनेना ताडितः शप्तो वेत्यभियोगे पूर्वमहमनेन ताडितः शतो वेति प्रत्यभियोगे देण्डा. रूपत्वम् । यथाह नारद:-'पूर्वमाक्षारयेद्यस्तु नियतं स्यात्स दोषभाक् । पवाद्यः सोऽप्यसत्कारी पूर्वे तु विनयो गुरुः ॥' इति । यदा पुनर्द्वयोर्युगपत्ताडनादिप्रवृत्तिस्तत्राधिकदण्डनिवृत्तिः-'पारुष्ये साहसे वापि युगपत्संप्रवृत्तयोः । विशेषश्चेन्न लभ्येत विनयः स्यात्समस्तयोः ॥' इति । एवं युगपब्यवहारप्रवृत्त्य. संभवेऽपि कलहादौ प्रत्यभियोगोऽर्थवानृणादानादिषु तु निरर्थक एवं ॥ अर्थिप्रत्यर्थिनोविधिमुक्त्वा ससभ्यस्य सभापतेः कर्तव्यमाह
उभयः प्रतिभूयाह्यः समर्थः कार्यनिर्णये ॥१०॥ उभयोरर्थिप्रत्यर्थिनोः सर्वेषु विवादेषु निर्णयस्य कार्य कार्यनिर्णयः । आहिताम्यादिषु पाठात्कार्यशब्दस्य पूर्व निपातः । निर्णयस्य यस्कार्यं च साधितधनदानं दण्डदानं च तस्मिन्समर्थः प्रतिभूः प्रतिभवति तत्कार्य तद्वद्भवतीति प्रतिभूग्राह्यः ससभ्येन सभापतिना । तेस्थासंभवेऽर्थिप्रत्यर्थिनो रक्षणे पुरुषा नियो. कन्याः । तेभ्यश्च ताभ्यां प्रतिदिनं वेतनं देयम् । तथाह कात्यायन:'अथ चेत्प्रतिभूर्नास्ति कार्ययोगस्तु वादिनः । स रक्षितो दिनस्यान्ते दद्यादृत्याय वेतनम् ॥' इति ॥ १० ॥ __ अर्थिप्रत्यर्थिनोनिर्णय कार्ये ससभ्येन सभापतिना प्रतिभूर्णाह्य इत्युक्तम् , किं तन्निर्णयकार्य यस्मिन्प्रतिभूगुह्यत इत्यपेक्षित आह
निह्नवे भावितो दद्याद्धनं राज्ञे च तत्समम् ।
मिथ्याभियोगी द्विगुणमभियोगाद्धनं वहेत् ॥ ११ ॥ अर्थिना निवेदितस्याभियोगस्य प्रत्यर्थिनापह्नवे कृते यद्यर्थिना साक्ष्यादिभि
१ वदन्केवलं. ग. २ दण्डेति प्रत्यभियोकुरिति भावः. ३ आक्षारयेत् कायेन वाचा वाक्षीणं कुर्यात्. ४ विनयो दण्डः. ५ पारुष्यं वाग्दण्डादि. ६ एवं उक्तप्रकारद्वयेन. एवं सतीति पाठः. ७ निर्णयस्य कार्य च ख. ८ प्रतिभूः 'जामिन' इति भाषाप्रसिद्धो. ऽयम्. ९ तस्य प्रतिभुवः. १० वादिन इति द्वयोरेकशेषः, जातावार्ष वा एकवचनम् . तेनार्थिप्रत्यर्थिनीः समासेन ग्रहणम् . ११ प्रांतेभूर्णाह्य इत्यत आह ग.
For Private And Personal Use Only
Page #159
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
असाधारणव्य०मा०प्र०२] मिताक्षरासहिता । .
१२७
र्भावितोऽङ्गीकारितः प्रत्यर्थी तदा दद्याद्धनं प्रकृतमर्थिने राज्ञे च तत्सममपला. पदण्डम् । अथार्थी भावयितुं न शक्नोति तदा स एव मिथ्याभियोगी जात इत्यभियोगादभियुक्तधनाद्विगुणं धेनं राज्ञे दद्यात् । प्राङ्न्याये प्रत्यवस्कन्दने चेदमेव योजनीयम् । तत्रार्थ्यवाऽपह्नववादीति प्रत्यर्थिना भावितो राज्ञे प्रकृ. तधनसमं दण्डं दद्यात् । अथ प्रत्यर्थी प्राङ्न्यायं कारणं वा भावयितुं न शक्नोति तदा स एव मिथ्याभियोगीति राज्ञे द्विगुणं धनं दद्यात् । अर्थिने च प्रकृतं धनम् । संप्रतिपत्युत्तरे तु दण्डाभाव एव । एतच्च ऋणादानविषयमेव । पंदान्तरेषु तत्र तत्र दण्डाभिधानादधनव्यवहारेष्वस्थासंभवाञ्च न सर्वविषयम् । 'राज्ञाऽधमर्णिको दाप्यः' इत्यस्य ऋणादानविषयत्वेऽपि तत्रैव विशेषं वक्ष्यामः । यद्वैतदेव सर्वव्यवहारविषयत्वेनापि योजनीयम् । कथम् । अभियोगस्य निह्नवेऽभियुक्तेन कृते यद्यभियोक्रा साक्ष्यादिभिर्भावितोऽभियुक्तस्तदा तत्सम तत्र तत्र प्रतिपदोक्त मेव । चशब्दोऽवधारणे । धनं दण्डं दद्याद्राज्ञ इत्यनुवादः। अथाभियोक्ता अभियोगं वक्तुं न शक्नोति तदा मिथ्याभियोगीति प्रतिपदोक्तं धनं दण्डं द्विगुणं दद्यादिति विधीयते । अत्रापि प्राङ्न्याये प्रत्यवस्कन्दने च पूर्ववदेव योजनीयम् ॥ ११ ॥
ततोऽर्थी लेखयेत्सद्यः प्रतिज्ञातार्थसाधनमिति वदतोत्तरपादलेखने कालप्रतीक्षणं दर्शितं तत्रापवादमाह
साहसस्तेयपारुष्यगोभिशापात्यये स्त्रियाम् ।
विवादयेत्सद्य एव कालोऽन्यत्रेच्छया स्मृतः॥ १२ ॥ साहसं विषशस्त्रादिनिमित्तं प्राणव्यापादनादि । स्तेयं चौर्यम् । पारुष्यं वाग्दण्डपारुष्यं वक्ष्यमाणलक्षणम् । गौर्दोग्ध्री । अभिशापः पातकाभियोगः । अत्ययः प्राणधनातिपातस्तस्मिन् । द्वन्द्वैकवद्भावादेकवचनम् । स्त्रियां कुलस्त्रियां दास्यां च कुलस्त्रियां चारित्रविवादे, दास्यां स्वत्वविवादे । विवादयेदुत्तरं दापयेत् । सद्य एव न कालप्रतीक्षणं कुर्यात् । अन्यत्र विवादान्तरेषु काल उत्तरदानकालः इच्छयार्थिप्रत्यर्थिसभ्यसभापतीनां स्मृत उक्तः ॥ १२ ॥
१ प्रकृतधनसममपलापनिमित्तकदण्डम् . २ भावयितुं समर्थयितुम् . ३ धनं दद्याद्राक्षे ख. ४ तत्राप्यर्थेऽपह्नववादी प्रत्य. ख. ५ अस्मिन्नर्थेऽयं पूर्व पराजित इति प्राङ्न्यायो त्तरे गृहीतं प्रतिदत्तमिति कारणोत्तरे च दत्ते पूर्वन्यायं प्रतिदानं च प्रतिज्ञावाद्येवापलपतीति सएवापलापवादीत्यर्थः. ६ भावितः जयपराजयरूपप्राङ्न्यायस्य प्रतिदानस्य च साधनादङ्गीकारितो वादी. ७ मिथ्यावादी. ८ निह्नवे भावितो दद्यादित्येतत्. ९ पदान्तराणि द्विविधानि सधनानि अधनानि च । तत्र सधनेष्वाह पदान्तरेष्विति. १० अधनेति । वाग्दण्डपारुष्यादिव्यवहारेषु प्रकृतधनसमदण्डदानस्य तद्द्विगुणदानस्य चासंभवाच्चत्यर्थः. ११ तत्समं व्यवहारतुल्यम् . १२ अनुवाद इति । तद्यवहारे दण्डस्य विशिष्यविहितत्वेन प्राप्तत्वाद्विध्यसंभवेन पूर्वार्धेन तस्य सर्वस्य सामान्येनानुवाद इत्यर्थः. १३ प्रागुक्तनिमित्तान्यनिमित्तकोऽत्र प्राणनाशो ग्राह्यः.
या० १४
For Private And Personal Use Only
Page #160
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२८
. याज्ञवल्क्यस्मृतिः।
[व्यवहाराध्यायः
दुष्टलक्षणमाह
देशाद्देशान्तरं याति सृकिणी परिलेढि च । ललाटं विद्यते चास्य मुखं वैवर्ण्यमेति च ॥१३॥ परिशुष्यत्स्खलद्वाक्यो विरुद्धं बहु भाषते । वाकक्षुः पूजयति नो तथोष्ठौ निर्भुजत्यपि ॥ १४ ॥ स्वभावाद्विकृतिं गच्छेन्मनोवाकायकर्मभिः।
अभियोगे च साक्ष्ये वा दुष्टः स परिकीर्तितः ॥ १५ ॥ मनोवाकायकर्मभिर्यः स्वभावादेव न भयादिनिमित्ताद्विकृति विकारं याति गच्छति असावभियोगे साक्ष्ये वो दुष्टः परिकीर्तितः । तां विकृति विभज्य दर्शयति । देशाद्देशान्तरं याति न कचिदवतिष्ठते । सृकिणी ओष्ठपैयन्तौ परिलेडि जिह्वाग्रेण स्पर्शयति घयतीति कर्मणो विकृतिः । अस्य ललाटं विद्यते स्वेदबिन्द्वङ्कितं भवति, मुखं च वैवयं विवर्णत्वं पाण्डुस्वं कृष्णत्वं वा एति गच्छतीति कायस्य विकृतिः । परिशुष्यरस्खलद्वाक्यः परिशुष्यत्सगद्गदं स्खलद्व्यत्यस्तं वाक्यं यस्य स तथोक्तः । विरुद्धं पूर्वापरविरुद्धं बहु च भाषत इति वाचोविकृतिः । परोक्तां वाचं प्रतिवचनदानेन न पूजयति, चक्षुर्वा प्रतिवीक्षणेन न पूजयतीति मनसो विकृतेर्लिङ्गम् । तथा ओष्ठौ निर्भुजति वक्रयतीत्यपि कायस्य विकृतिः। एतच्च दोषसंभावनामात्रमुच्यते न दोषनिश्चयाय । स्वाभाविकनैमित्तिकविकारयोविवेकस्य दुर्जेयत्वात् । अथ कश्चिनिपुणमतिर्विवेकं प्रतिपधेत तथापि न पराजयनिमित्तं कार्यं भवति । नहि मरिष्यतो लिङ्गदर्शनेन मृतकार्य कुर्वन्ति । एवमस्य पराजयो भविष्यतीति लिङ्गादवगतेऽपि न पराजयनिमित्तकार्यप्रसङ्गः ॥ १३ ॥ १४ ॥ १५॥
संदिग्धार्थ स्वतत्रो यः साधयेद्यश्च निष्पतेत् ।
न चाहूतो वदेत्किचिद्धीनो दण्ड्यश्च स स्मृतः ॥ १६ ॥ किंच । संदिग्धमर्थमधुमणेनानङ्गीकृतमेव यः स्वतन्त्रः साधननिरपेक्षः साधयत्यासेधादिना स हीनो दण्ड्यश्च भवति । यश्च स्वयं संप्रतिपन्न साधनेन वा साधितं याच्यमानो निष्पतेत्पलायते, यश्चाभियुक्तो राज्ञा चाहूतः सदसि न किंचिद्वदति सोपि हीनो दण्ड्यश्च स्मृत इति संबध्यते । 'अभियोगे च साक्ष्ये वा दुष्टः स परिकीर्तितः' इति प्रस्तुतत्वाद्धीनपरिज्ञानमात्रमेव माभूदिति द. ण्ड्यग्रहणम् । दण्ड्यश्चापि 'शास्योऽप्यन्न हीयत' इत्यर्थादहीनत्वदर्शनादन तन्माभूदिति हीनग्रहणम् ॥ १६ ॥
१ याति गच्छति गच्छति यातीत्यर्थः । श्लोके गच्छेदित्यस्य लिङर्थाविवक्षायां तस्य पूर्व विवरणं प्रदर्य ततो यातीति प्रदर्शनीयम् . २ वा चार्थे. ३ पर्यन्तौ प्रान्तौ. ४ तथा वैवा दिवत्. ५ विवेकस्य भेदस्य. ६ दुर्शानत्वात् ग. ७ यत्किचिद्विकारात्. ८ ऋणग्राहिणा. ९ द्विविधोपीत्यर्थः
For Private And Personal Use Only
Page #161
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
असाधारणव्य०मा०प्र०२] मिताक्षरासहिता ।
१२९ • अथ यत्र द्वावपि युगपद्धर्माधिकारिणं प्राप्तौ भाषावादिनौ । तद्यथा । कश्चिप्रतिग्रहेण क्षेत्रं लब्ध्वा कंचित्कालमुपभुज्य कार्यवशात्सकुटुम्बो देशान्तरं गतः । भन्योऽपि तदेव क्षेत्रं प्रतिग्रहेण लब्ध्वा कंचित्कालमुपभुज्य देशान्तरं गतः। ततो द्वावपि युगपदागत्य मदीयमिदं क्षेत्रं मदीयमिदं क्षेत्रमिति परस्परं विवदमानौ धर्माधिकारिणं प्राप्तौ तत्र कस्य 'क्रियेत्याकाङ्क्षित आह
साक्षिषूभयतः सत्सु साक्षिणः पूर्ववादिनः।
पूर्वपक्षेऽधरीभूते भवन्त्युत्तरवादिनः ॥१७॥ उभयतः उभयोरपि वादिनोः साक्षिषु संभवत्सु साक्षिणः पूर्ववादिनः पूर्वस्मिन्काले मया प्रतिग्रहीतमुपभुक्तं चेति यो वदत्यसौ पूर्ववादी न पुनर्यः पूर्व निवेदयति तस्य साक्षिणः प्रष्टव्याः । यदा वन्य एवं वदति सत्यमनेन पूर्व प्रतिगृहीतमुपभुक्तं च किंतु राज्ञेदमेव क्षेत्रमस्मादेव क्रयेण लब्ध्वा मह्यं दत्तमिति, अनेन वा प्रतिग्रहेण लब्ध्वा मह्यं दत्तमिति तत्र पूर्वपक्षोऽसाध्यतयाऽधरीभूतस्तस्मिन्पूर्वपक्षेऽधरीभूते उत्तरकालं प्रतिगृहीतमुपभुक्तं चेति वादिनः साक्षिणः प्रष्टव्या भवन्ति ॥ इदमेव व्याख्यानं युक्ततरम् । मिथ्योत्तरे पूर्ववादिनः साक्षिणो भवन्ति ॥ प्राङ्न्यायकारणोक्तौ पूर्वपक्षेऽधरीभूते उत्तरवादिनः साक्षिणो भवन्तीति व्याख्यानमयुक्तम् । अस्यार्थस्य–'ततोऽर्थी लेखयेत्सद्यः प्रतिज्ञातार्थसाधनम्' इत्यनेनैवोक्तत्वात्पुनरुक्तिप्रसङ्गात् । पूर्वव्याख्यानमेव स्पष्टीकृतं नारदेन-'मिथ्या क्रिया पूर्ववादे कारणे प्रतिवादिनि । प्राङ्न्यायविघिसिद्धौ तु जयपत्रं क्रिया भवेत् ॥' इत्युक्त्वा-'द्वयोर्विवदतोरथै द्वयोः सत्सु च साक्षिषु । पूर्वपक्षो भवेद्यस्य भवेयुस्तस्य साक्षिणः ॥' इति वदता । एतस्य च पूर्वव्यवहारविलक्षणत्वा देनोपन्यासः ॥ १७ ॥
सपणश्चेद्विवादः स्यात्तत्र हीनं तु दापयेत् ।
दण्डं च स्वपणं चैव धनिने धनमेव च ॥ १८ ॥ . अपिच । यदि विवादो व्यवहारः सपणः पैणनं पणस्तेन सह वर्तत इति सपणः स्यात्तदा तत्र तस्मिन्सपणे व्यवहारे हीनं पराजितं पूर्वोक्तं दण्डं स्वकृतं पणं रौजे, अर्थिने च विवादास्पदीभूतं धनं दापयेद्राजा । यत्र पुनरेकः कोपावेशवशाद्यद्यहमत्र पराजितो भवामि तदा पणशतं दास्यामीति प्रतिजानीते, अन्यस्तु न किंचित्प्रतिजानीते तत्रापि व्यवहारः प्रवर्तते । तस्मिंश्च प्रवृत्ते पणप्रतिज्ञावादी यदि हीयते तदा स एव सपणं दण्डं दाप्यः । अन्यस्तु पराजितो
१ क्रिया साधनम्. २ साक्षिषु सत्सु ग. ३ उक्तपूर्ववादिभिन्नः ४ स्तस्मिन्पक्षे ग. ५ अर्थी साध्यवान्. ६ मिथ्या मिथ्योत्तरे. ७ पूर्वन्यायकरणनिश्चये तु. ८ पूर्वत्र काले गृहीतमुपभुक्तं चेतीत्यर्थः. ९ सर्वव्यवहार इति पाठस्तत्र प्रागुक्तसर्वेत्यर्थः. १० पणनं व्यवहरणं । स्वोक्तिसत्यतासूचनाय यथासंभवद्रव्यदानाङ्गीकरणमिति यावत्. ११ प्रकृतार्थसममिति निह्नवे भावित इत्यत्रोक्तम्. १२ प्राडिवाकादिरिति शेषः. १३ तत्र निमित्तसत्वादप्रवृत्तौ मानाभावाच्चेति भावः.
For Private And Personal Use Only
Page #162
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३०
याज्ञवल्क्यस्मृतिः। [व्यवहाराध्यायः दण्डं दाप्यः न पणम् । स्वपणं चेति विशेषोपादानात् । यत्र त्वेकः शतं अन्यस्तु पञ्चशतं प्रतिजानीते तत्रापि पराजये स्वकृतमेव पणं दाप्यो । सपणश्चेद्विवादः स्यादिति वदता पणरहितोऽपि विवादो दर्शित इति ॥ १८ ॥
छलं निरस्य भूतेन व्यवहारान्नयेन्नृपः।
भूतमप्यनुपन्यस्तं हीयते व्यवहारतः ॥१९॥ किंच । छलं प्रमादाभिहितं निरस्य परित्यज्य भूतेन वस्तुतत्वानुसारेण व्यवहारान्नयेदन्तं नृपः । यस्माद्भूतमपि वस्तुतत्त्वमपि अनुपन्यस्तमनभिहितं हीयते हानिमुपगच्छति व्यवहारतो व्यवहारेण साक्ष्यादिभिः । तस्माद्भूतानुसरणं कतेव्यम् । यथार्थिप्रत्यर्थिनौ सत्यमेव वदतस्तथा ससभ्येन सभापतिना यतितव्यं सामादिभिरुपायैः । तथासति साक्ष्यादिनरपेक्ष्येणैव निर्णयो भवति ॥ अथ स.
थापि भूतानुसरणं न शक्यते कर्तुं तथासति साक्ष्यादिभिर्निर्णयः कार्य इत्यनुकल्पः । यथोक्तम्-'भूतच्छलानुसारित्वाद्विगतिः समुदाहृतः । भूतं तत्त्वार्थसंयुक्तं प्रमादाभिहितं छलम् ॥' इति । तत्र भूतानुसारी व्यवहारो मुख्यः छलानुसारी त्वनुकल्पः। साक्षिलेख्यादिभिर्व्यवहारनिर्णये कदाचिद्वस्त्वनुसरणं भवति कदाचिन भवति । साक्ष्यादीनां व्यभिचारस्यापि संभवात् ॥ १९ ॥ . भूतमप्यनुपन्यस्तं हीयते व्यवहारत इत्यत्रोदाहरणमाह• निहते लिखितं नैकमेकदेशे विभावितः। - दाप्यः सर्व नृपेणार्थ न ग्राह्यस्त्वनिवेदितः॥२०॥ . नैकमने सुवर्णरजतवस्त्रादि लिखितमभियुक्तमर्थिना प्रत्यर्थी यदि सर्व मेव निहुतेऽपजानीते तदार्थिनैकदेशे हिरण्ये साक्ष्यादिभिः प्रत्यर्थी भावितो. गीकारितः सर्वं रजताद्यर्थं पूर्वलिखितं दाप्योऽर्थिने नृपेण । न ग्राह्यस्त्वनिवेदितः पूर्व भाषाकाले अनिवेदितः पश्चादर्थिना पूर्व मया विस्मृत इति निवेद्यमानो न ग्राह्यो न दापयितव्यो नृपेण । एतच्च न केवलं वाचनिकम् । एकदेशे प्रत्यर्थिनो मिथ्यावादित्वनिश्चयादेकदेशान्तरेऽपि मिथ्यावादित्वसंभवात् । अर्थिनश्चैकदेशे सत्यवादित्वनिश्चयादेकदेशान्तरेऽपि सत्यवादित्वसंभवात् । एवं तर्कापरनामसंभावनाप्रत्ययानुगृहीतादस्मादेव योगीश्वरवचनात्सर्वं दापनीयं नृपेणेति निर्णयः । एवंच तर्कवाक्यानुसारेण निर्णये क्रियमाणे वस्तुनोऽन्यथात्वेऽपि व्यवहारदार्शनां न दोषः । तथाच गौतमः-न्यायाधिगमे तर्कोऽभ्युपायस्ते
१ सपणं ख. २ तस्मात् ख. ३ अनभिहितं अर्थिप्रत्यर्थ्यन्तरेण. ४ व्यवहारतः हीयमानपापयोगाच्चेति करणतृतीयान्तात्तसिः ५ भूतछले अनुसरति तच्छीलस्तत्त्वात् द्विगतिढिप्रकारः. ६ तत्त्वार्थयुक्तं यत्प्रमादाभि. ख. ७ व्यभिचारस्य अयथार्थवादित्वस्यापि. ८ प्रतिज्ञाकालेऽर्थिनाऽभियोगत्वेनामिहितम्. ९ पूर्वोक्तार्थंकदेशहिरण्य विषये. १० किंतु युक्तिसिद्धमपीति भावः, ११ तर्कापरनामिका या संभावना सैव यः प्रत्ययो ज्ञानं तत्सहकृतात् 'निहते' इति योगीश्वरवचनादित्यर्थः. १२ अस्य तदनुगृहीतते च. १३ न्यायशाने तर्क उपायस्तेन तर्केण न्यायमभ्युह्य निश्चित्य. नाभ्युपेत्य ख.
For Private And Personal Use Only
Page #163
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
असाधारणव्य०मा०प्र०२] मिताक्षरासहिता ।
१३१
नाभ्युह्य यथास्थानं गमयेत्' इत्युक्त्वा, 'तस्माद्वाजाचार्यावनिन्द्यौ' इत्युपसंहरति । नचैकदेशभावितोऽनुपादेयवचनः प्रत्यर्थीत्येतावदिह गम्यते । - 'एकदेशविभावितो नृपेण सर्वं दाप्यः' इति वचनात् ॥ यत्तु कात्यायनेनोक्तम्- 'अनेकार्थाभियोगेऽपि यावत्संसाधयेद्धनी । साक्षिभिस्तावदेवासौ लभते साधितं धनम् ॥' इति तत्पुत्रादिदेय पित्राद्यणविषयम् । तत्र हि बहूनर्थानभियुक्तः पुत्रादिर्न जानामीति प्रतिवदन्निह्नववादी नैं भवतीत्येकदेशविभावितोऽपि न कचिदसत्यवादीति 'निहृते लिखितं नैकम्' इति शास्त्रं तत्र न प्रवर्तते । निवाभावादपेक्षित तर्काभावाच्च । - ' अनेकार्थाभियोगेऽपि' इति कात्यायनवचनं तु सामान्यविषयं, विशेषशास्त्रस्य विषयं निहवोत्तरं परिहृत्याऽज्ञानोत्तरे प्रवर्तते ॥ ननु ऋणादिषु विवादेषु स्थिरप्रायेषु निश्चितम् । ऊने वाप्यधिके वार्थे प्रोक्ते साध्यं न सिद्ध्यति ॥ इतिवदता कात्यायनेनानेकार्थाभियोगे साक्षिभिरेकदेशे भावितेऽधिके वा भाविते साध्यं सर्वमेव न सिद्ध्यतीत्युक्तम् । तथासत्येकदेशे भाविते अभावितैकदेशसिद्धिः कुतस्त्या । उच्यते । लिखितसर्वार्थसाधनतयोपन्यस्तैः साक्षिभिरेकदेशाभिधाने ऽधिकाभिधाने वा कृत्स्नमेव साध्यं न सिद्ध्यतीति तस्यार्थः । तत्रापि निश्चितं न सिद्ध्यतीति वचनात्पूर्ववत्संशय एवेति प्रमाणान्तरस्याचसरोऽस्त्येव । छलं निरस्येति नियमात् । साहसादौ तु सकलसाध्यसाधनतयोद्दिष्टैः साक्षिभिरेकदेशेऽपि साधिते कृत्स्नसाध्यसिद्धिर्भवत्येव । तावतैव साहसादेः सिद्धत्वात्, कात्यायनवचनाच्च - 'संध्याशेऽपि गदिते साक्षिभिः सकलं भवेत् । स्त्रीसंगे साहसे चौर्ये यत्साध्यं परिकीर्तितम् ॥' इति ॥ २० ॥
I
ननु 'निह्नुते लिखितं नैक' मितीयं स्मृतिस्तथा 'अनेकार्थाभियोगेपी' तीयमपि स्मृतिरेव तत्रानयोः स्मृत्योः परस्परविरोधे सतीतरेतरबाधनादप्रामाण्यं कस्मान्न भवति, विषयव्यवस्था किमित्याश्रीयत इत्यत आह
स्मृत्योर्विरोधे न्यायस्तु बलवान्व्यवहारतः ।
यत्र स्मृत्योः परस्परतो विरोधस्तत्र विरोधपरिहाराय विषयव्यवस्थापनादावुत्सर्गापवादादिलक्षणो न्यायो बलवान्समर्थः । सत्र न्यायः कुतः प्रत्येतव्य
१ एवं निश्चितेऽर्थे प्रसक्तविरोधं परिहरति यत्त्विति २ तत्पुत्राद्यण ख. ३ मीतिवदन् ग. ४ न भवतीति । ऋणस्यान्यकृत्वेनाज्ञानस्यापि तत्र संभवेनापलापाभावात् ५ 'निहृते' इत्यस्य. ६ निह्नवोत्तरं ज्ञात्वापलापो निह्नवस्तद्रूपमुत्तरं परिहृत्य परित्यज्य अज्ञानोउत्तरे ज्ञानाभावेनोत्तरे प्रवर्तते. ७ स्थिरेति । लिङ्गदर्शनमात्रेणादृढहेतुनापि स्त्रीसंग्रहणादिरूपसाध्यस्य सिद्धिर्भवतीति तादृशानामस्थिरत्वम्, ऋणादानादिरूपस्य साध्यस्य तु दृढसाधनेनैव सिद्धिस्तेषां स्थिरत्वम् तदपि नाकाशादिवदिति स्थिरप्रायत्वमित्यर्थः ८ स्थिरप्रायेष्वित्यस्य प्रत्युदाहरणमाह साहसादौ त्विति. ९ 'उपदिष्टैः' इति पाठः १० साध्येति स्त्रीसंग्रहादिके विवादपदत्रये भाषावादिना यदेकार्थरूपं साध्यत्वेन कथितं तत्रानेकसाध्यसाधनतयाभिहितैः साक्षिभिः साध्यार्थजातस्यैकदेशेपि साधिते सकलं भवेत्सिध्येदित्यर्थः. ११ परस्परविरोध ग.
For Private And Personal Use Only
Page #164
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३२
याज्ञवल्क्यस्मृतिः।
[व्यवहाराध्यायः
इत्यत आह-व्यवहारत इति । व्यवहारादृद्धव्यवहारादन्वयध्यतिरेकलक्षणादवगम्यते । अतश्व प्रकृतोदाहरणेऽपि विषयव्यवस्थैव युक्ता । एवमन्यत्रापि विषयव्यवस्थाविकल्पादि यथासंभवं योज्यम् ॥ एवं सर्वत्र प्रसङ्गेऽपवादमाह
अर्थशास्त्रात्तु बलद्धर्मशास्त्रमिति स्थितिः ॥ २१ ॥ __ 'धर्मशास्त्रानुसारेणे'त्यनेनैवोशनसाद्यर्थशास्त्रस्य निरस्तत्वात् धर्मशास्त्रान्तगैतमेव राजनीतिलक्षणमर्थशास्त्रमिह विवक्षितम् । अर्थशास्त्रधर्मशास्त्रस्मृत्योविरोधे अर्थशास्त्राद्धर्मशास्त्रं बलवदिति स्थितिर्मर्यादा । यद्यपि समानकर्तृकतया अर्थशास्त्रधर्मशास्त्रयोः स्वरूपगतो विशेषो नास्ति तथापि प्रमेयस्य धर्मस्य प्राधान्यादर्थस्य चाप्राधान्याद्धर्मशास्त्रं बलवदित्यभिप्रायः। धर्मस्य च प्राधान्यं शास्त्रादौ दर्शितम् । तस्माद्धर्मशास्त्रार्थशास्त्रयोविरोधेऽर्थशास्त्रस्य बाध एव, न विषयव्यवस्था नापि विकल्पः । किमत्रोदाहरणम् । न तावत्-'गुरुं वा बालवृद्धौ वा ब्राह्मणं वा बहुश्रुतम् । आततायिनमायान्तं हन्यादेवाविचारयन् ॥ नाततायिवधे दोषो हन्तुर्भवति कश्चन । प्रच्छन्नं वा प्रकाशं वा मन्युस्तं मन्युमृच्छति ॥' (मनुः ८।३५०।५१)तथा-'आततायिनमायान्तमपि वेदान्तगं रणे। जिघांसन्तं जिघांसीयान्न तेन ब्रह्महा भवेत् ।' इत्याद्यर्थशास्त्रम् । --'इयं विशुद्धिरुदिता प्रमाप्यांकामतो द्विजम् । कामतो ब्राह्मणवधे निष्कृतिर्न विधीयते ॥' (मनुः १११८९)इत्यादि धर्मशास्त्रं तयोर्विरोधे धर्मशास्त्रं बलवदिति युक्तम् ॥ 'अनयोरेकविषयत्वासंभवेन विरोधाभावान बलाबलचिन्तावतरति । तथाहि
द्विजातिभिह्यं धर्मो यत्रोपरुध्यते' (मनुः ८।३४८) इत्युपक्रम्य-'आ
परित्राणे दक्षिणानां च संगरे । स्त्रीविप्राभ्युपपत्तौ च नन्धर्मेण न दण्डभानुः ८३३४९) इत्यात्मरक्षणे दक्षिणादीनां यज्ञोपकरणानां च रक्षणे मनमोबाणहिंसायांच-'आततायिनमकूटशस्त्रेण नन् दण्डभाक्' इत्युक्त्वा
वावमुच्यते 'गुरुं वा बालवृद्धौ वेत्यादि । गुर्वादीनत्यन्तावध्यानाप्याततायिनो हन्यक्किमुतान्यानिति । वाशब्दश्रवणादपि वेदान्तगमित्यत्रापिशब्दश्रवणान गुर्वादीने वध्यत्वप्रतीतिः ।-'नाततायिवधे दोषोऽन्यत्र गोब्राह्मणवधात्' इति सुमन्दवचनाच्च ।-'आचार्य च प्रवक्तारं मातरं पितरं
१ औशनसादि केवलं नीतिशास्त्र. २ एकविषययोर्विरुद्धार्थयोर्हि स्मृत्योमिथो विरोधो नतु भिन्न विषययोरविरुद्धार्थयो । सो च विरोधे प्रबलदुर्बलभावचिन्ता । एवंच पूर्वमेव धर्मशास्त्रानुसारेणैव व्यवहारानुदर्शनस्य रहितत्वादोशनसादिनीतिशास्त्रस्य न व्यवहारविषये प्रवृत्तिरत एकविषयत्वाभावादर्थशास्त्रर्धशास्त्रयोः सुतरां विरोधाभावादनयोः प्रबलदुः बलभावचिन्तनमेव तावदयुक्तमिति शङ्काशयः. ३ मन्वादिरूपैककर्तृनिष्पन्नत्वेन. ४ आ. चाराध्यायस्यादौ. ५ अन्योक्तमुदाहरणमनूद्य खव्यति-न तावदित्यादि युक्तमित्यन्तेन । न तावदुदाहरणं युक्तमिति व्यवहितेनान्वयः. ६ से मन्युरेव प्रकाशमप्रकाशं वा तं मन्यु हिनस्तीत्यर्थः. प्रकाशं वाऽप्रकाशं वा क. ७ वेदतपारगम्. पाठः. ८ अकामतो ब्राह्मणं हिंसित्वा स्थितस्य. ९ न दुष्यति क.
For Private And Personal Use Only
Page #165
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
असाधारणव्य०मा०प्र०२] मिताक्षरासहिता।
१३३
गुरुम् । न हिंस्याब्राह्मणान्गाश्च सर्वांश्चैव तपस्विनः ॥' इति (४।१६२) मनुवचनाच्च । आचार्यादीनामाततायिनां हिंसाप्रतिषेधेनेदं वचनमर्थवनान्यथा । हिंसामात्रप्रतिषेधस्य सामान्यशास्त्रेणैव सिद्धत्वात् । 'नाततायिवधे दोषो ह. न्तुर्भवति कश्चन' इत्येतदपि ब्राह्मणादिव्यतिरिक्तविषयमेव । यतः- 'अग्निदो गरदश्चैव शस्त्रपाणिर्धनापहः । क्षेत्रदारहरश्चैव षडेते ह्याततायिनः ॥' तथा'उद्यतासिर्विषाग्निश्च शापोद्यतकरस्तथा । ऑथर्वणेन हन्ता च पिशुनश्चापि राजनि ॥ भार्यातिक्रमकारी च रन्ध्रान्वेषणतत्परः । एवमाद्यान्विजानीयात्सर्वानेवाततायिनः ॥' इति सामान्येनाततायिनो दर्शिताः । अतश्च ब्राह्मणादय आततायिनश्च आत्मादित्राणार्थ हिंसानभिसंधिना निवार्यमाणाः प्रमादाद्यदि विपघेरंस्तन लघुप्रायश्चित्तं राजदण्डाभावश्चेति निश्चयः । तस्मादन्यदिहोदाहरणं वक्तव्यम् । उच्यते-'हिरण्यभूमिलाभेभ्यो मित्रलब्धिर्वरा यतः । अतो यतेत तत्प्राप्तौ' इत्यर्थशास्त्रम् । -'धर्मशास्त्रानुसारेण क्रोधलोभविवर्जितः' इति धर्मशास्त्रम् । तयोः कचिद्विषये विरोधो भवति । यथा-'चतुष्पाध्यवहारे प्रवर्तमाने एकस्य जयेऽवधार्यमाणे मित्रलब्धिर्भवति न धर्मशास्त्रमनुसृतं भवति । अन्यस्य जयेऽवधार्यमाणे धर्मशास्त्रमनुसृतं भवति मित्रलब्धिर्विपरीता । तत्रार्थशास्त्राद्धर्मशास्त्रं बलवत् । अतएव-धर्मार्थसंनिपाते अर्थग्राहिण एतदेव' इति प्रायश्चित्तस्य गुरुत्वं दर्शितमापस्तम्बेन । एतदेवेति द्वादशवार्षिकं प्रायश्चित्तं परामृश्यते ॥ २१ ॥
ततोऽर्थी लेखयेत्सद्यः प्रतिज्ञातार्थसाधनमित्युक्तं, किं तत्साधनमित्यपेक्षित आह
प्रमाणं लिखितं भुक्तिः साक्षिणश्चेति कीर्तितम् ।
एषामन्यतमाभावे दिव्यान्यतममुच्यते ॥ २२॥ प्रमीयते परिच्छिद्यतेऽनेनेति प्रमाणम् । तच्च द्विविधं मानुषं दैविकं चेति । तत्र मानुषं त्रिविधं लिखितं भुक्तिः साक्षिणश्चेति । कीर्तितं महर्षिभिः। तत्र लिखितं द्विविधं शासनं चीरकं चेति । शासनमुक्तलक्षणम् । चीरकं तु वक्ष्यमाणलक्षणम् । भुक्तिरुपभोगः । साक्षिणो वक्ष्यमाणस्वरूपप्रकाराः । ननु लिखितस्य साक्षिणां च शब्दाभिव्यक्तिद्वारेण शब्देऽन्तर्भावाद्युक्तं प्रामाण्यम् । भुक्तेस्तु कथं प्रामाण्यम् । उच्यते-भुक्तिरपि कैश्चिद्विशेषणैर्युक्ता स्वत्वहेतुभूतक्रिया
१ न हिंस्यादित्यादिवचनेनैवेत्यर्थः. २ उद्यतेत्यत्र असिविषाग्नीनां द्वन्द्वं कृत्वोद्यतशब्देन बहुव्रीहिः. ३ अथर्ववेदप्रतिपादिताभिचारादिकर्मणा. ४ मृत्युमाप्नयुः. ५ अयमस्मिन्नेवा. ध्यायेऽष्टमश्लोके पूर्व दर्शितः. चतुर्धाव्य. घ. ६ मानवं ख. ७ वक्ष्यमाणमये लेख्यप्रकरणे. ८ स्वरूपं च प्रकारश्च वक्ष्यमाणी येषाम् . तत्र प्रकारो भेदः सच दृष्टसाक्षिणः श्रुतसाक्षिण इत्येवमादिः. ९ लिपेः स्फोटकव्यजकत्ववत्साक्षिणी ध्वनिद्वारा तदभिव्यञ्जकत्वात्स्वरूपतस्तेषामतत्वेऽपि तत्त्वातत्त्वमिति भावः. १० आसेधरहितत्वादिविशेषणैः.
For Private And Personal Use Only
Page #166
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३४
याज्ञवल्क्यस्मृतिः।
[व्यवहाराध्यायः
दिकमव्यभिचारादनुमापयन्त्यनुपपद्यमाना वा कल्पयन्तीत्यनुमानेऽर्थापत्तौ चान्तर्भवतीति प्रमाणमेव । एषां लिखितादीनां त्रयाणामन्यतमस्याप्यभावे दि. व्यानां वक्ष्यमाणस्वरूपभेदानामन्यतमं जातिदेशकालद्रव्याद्यपेक्षया प्रमाणमुच्यते । मानुषाभाव एव दिव्यस्य प्रामाण्यममादेव वचनादवगम्यते । दिव्यस्य स्वरूपप्रामाण्ययोरागमगम्यत्वात् । अतश्च यत्र परस्परविवादेन युगपद्धर्माधिकारिणं प्राप्तयोरेको मानुषी क्रियामपरस्तु दैवीमवलम्बते तत्र मानुष्येव ग्राह्या । यथाह कात्यायनः-'ययेको मानुषीं ब्रूयादन्यो ब्रूयात्तु दैविकीम् । मानुषी तत्र गृह्णीयान्नतु दैवीं क्रियां नृपः ॥' इति । यत्रापि प्रधानैकदेशसाधनं मानुष संभवति तत्रापि न देवमाश्रयणीयम् । यथा रूपकशतमनया वृद्ध्या गृहीत्वार्य न प्रयच्छतीत्यभियोगापह्नवे---ग्रहणे साक्षिणः सन्ति नो संख्यायां वृद्धि विशेषे वा, अतो दिव्येन भावयामीत्युक्ते तत्रैकदेशविभावितन्यायेनापि संख्यावृद्धिविशेषसिद्धेनं दिव्यस्थावकाशः । उक्तंच-कात्यायनेन-'ययेकदेशव्याप्तापि क्रिया विद्येत मानुषी । सा ग्राह्या नतु पूर्णापि दैविकी वदतां नृणाम् ॥' इति । यत्तु-'गूढसाहसिकानां तु प्राप्तं दिव्यैः परीक्षणम्' इति तदपि मानुषासंभवकृतनियमार्थम् । यदपि नारदेनोक्तम्-'अरण्ये निर्जने रात्रावन्तर्वेश्मनि साहसे । न्यासस्यापह्नवे चैव दिव्या संभवति क्रिया ॥' इति । तदपि मानुषासंभव एव । तस्मान्मानुषाभाव एव दिव्येन निर्णय इत्यौत्सर्गिकम् । अस्य चाप. वादो दृश्यते-'प्रक्रान्ते साहसे वादे पारुष्ये दण्डवाचिके । बलोद्भूतेषु कार्येषु साक्षिणो दिव्यमेव च ॥' इति । तथा लेख्यादीनामपि कचिनियमो दृश्यते। यथा-'पूंगश्रेणीगणादीनां या स्थितिः परिकीर्तिता । तस्यास्तु साधनं लेख्यं न दिव्यं न च साक्षिणः ॥' तथा-'द्वारमार्गक्रियाभोगजलवाहादिषु क्रिया। भुक्तिरेव तु गुर्वी स्यान्न दिव्यं न च साक्षिणः ॥' तथा-'दत्तादत्तेऽथ भृत्यानां स्वामिनां निर्णये सति । विक्रयादानसंबन्धे क्रीत्वा धनमनिच्छति ॥ द्यूते सैमाह्वये चैव विवादे समुपस्थिते । साक्षिणः साधनं प्रोक्तं न दिव्यं न च लेख्यकम् ॥' इति ॥ २२॥
उभयत्र प्रमाणसद्भावे प्रमाणगतबलाबलविवेके चासति पूर्वापरयोः कार्ययोः कस्य बलीयस्त्वमित्यत आह
सर्वेष्वर्थविवादेषु बलवत्युत्तरा क्रिया। ऋणादिषु सर्वेष्वर्थविवादेषु उत्तरा क्रिया क्रियत इति क्रिया कार्य बलवती। १ अनुमाने इति-क्षेत्रादिकमस्य क्रयादिप्राप्तम् आसेधरहितत्वेसति चिरकालोपभुक्तत्वात् तदीयगृहादिवत् इत्यनुमानप्रयोगः. २ तादृशी भुक्तिः स्वतोऽनुपपद्यमाना तादृशं तत्कल्पयतीत्यर्थापत्तिर्बोध्या. ३ अत्र समस्तस्यः प्रधानैकदेश इति विग्रहः. ४ इति योऽभियोगस्तस्यापह्नवे परेण कृते सति. ५ संख्यावृद्धिविशेषयोः सिद्धेः. ६ पूर्वापि ग. ७ वदतां वादिनां. दैवी विवदतां ख. ८ मानुषसंभवकृतनियमार्थमिति पाठः. ९ पूगादीनां विवरणमग्रे ३० तमे पये स्फुटम्. १० आभोगः परिणाहः । तेनच परिणाहवदङ्गणादिकं लक्ष्यते. जलवाहो जलनिर्गममार्गः. ११ दत्तति बहुवचनान्तयोर्द्वन्द्वः दत्तादत्तं विद्यते येषु दत्ताप्रदानिकाख्यविवादपदेषु. १२ विक्रीयासंप्रदानाख्ये. १३ समायः प्राणिद्यूतम्. १४ वादिप्रतिवाद्युक्तयोः.
For Private And Personal Use Only
Page #167
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
असाधारणव्य०मा०प्र०२] मिताक्षरासहिता ।
१३५
उत्तरकार्ये साधिते तद्वादी विजयी भवति । पूर्वकार्ये सिद्धेऽपि तद्वादी पराजीयते । तद्यथा - कश्चिग्रहणेन धारणं साधयति कश्चित्प्रतिदानेनाधारणं तत्र ग्रहणप्रतिपादनयोः प्रमाणसिद्धयोः प्रतिदानं बलवदिति प्रतिदानवादी जेयी भवति । तथा पूर्व द्विकं शतं गृहीत्वा कालान्तरे त्रिकं शतमङ्गीकृतवान् तत्रोभयत्र प्रमाणसद्भावेऽपि त्रिकशतग्रहणं बलवत् । पश्चाद्भावित्वात्पूर्वाबाधेनानुत्पत्तेः । उक्तंच - 'पूर्वाबाधेन नोत्पत्तिरुत्तरस्य हि सेत्स्यति' इति ॥
1
अस्यापवादमाह
आधौ प्रतिग्रहे कीते पूर्वा तु बलवत्तरा ।। २३ ।।
आध्यादिषु त्रिषु पूर्वमेव कार्य बलवत् । तद्यथा— एकमेव क्षेत्रमन्यस्याधिं कृत्वा किमपि गृहीत्वा पुनरन्यस्याप्याधाय किमपि गृह्णाति तत्र पूर्वस्यैव तद्भवति नोत्तरस्य । एवं प्रतिग्रहे क्रये च ॥ नन्वाहितस्य तदानीमस्वत्वात्पुनराधा 'नमेव न संभवति । एवं दत्तस्य क्रीतस्य च दानकयौ नोपपद्येते तस्मादिदं वचनमनर्थकम् । उच्यते - अस्वत्वेऽपि यदि मोहात्कचिल्लोभाद्वा पुनराधानादिकं करोति तत्र पूर्व बलवदिति न्यायमूलमेवेदं वचनमित्यचोद्यम् ॥ २३ ॥ भुक्तेः कैश्विद्विशेषणैर्युक्ताया प्रामाण्यं दर्शयिष्यन् कस्याश्चिद्भुक्तेः कार्या
न्तरमाह
पश्यतोऽब्रुवतो भूमेर्हानिर्विशतिवार्षिकी ।
परेण भुज्यमानाया धनस्य दशवार्षिकी ॥ २४ ॥ परेणासंबन्धेन भुज्यमानां भुवं धनं वा पश्यतः अनुवतः मदीयेयं भूः न त्वया भोक्तन्येत्यप्रतिषेधयतः तस्या भूमेर्विंशतिवार्षिकी अप्रतिरवं विंशतिवर्षो - पभोगनिमित्ता हानिर्भवति । धनस्य तु हस्त्यश्वादेर्दशवार्षिकी हानिः । नन्वेतदनुपपन्नम् । नह्यप्रतिषेधात्स्वत्वमपगच्छति अप्रतिषेद्धस्य दानविक्रयादिवस्वत्वनिवृत्तिहेतुत्वस्य लोकशास्त्रयोर प्रसिद्धत्वात् । नापि विंशतिवर्षोपभोगात्स्वत्वम् । उपभोगस्य स्वत्वे प्रमाणत्वात्, प्रेमाणस्य च प्रमेयंप्रत्यनुत्पादकत्वात्, रिक्थक्रयादिषु स्वत्वकारकहेतुष्वपाठाच्च । तथाहि - 'स्वामी रिक्थक्रय संविभागपरिग्रहाधिगमेषु ब्राह्मणस्यादिकं लब्धं, क्षत्रियस्य विनिर्जितम्, निर्विष्टं वैश्यशूद्रयोः इत्यष्टावेव स्वत्वकारक हेतून गौतमः पठति न भोगम् । नचेदमेव
१ जयति ख. २ द्वे वृद्धिर्यस्य तद्विकम् 'तदस्मिन्' इति कन्. ३ कैश्चित् आसेधरहितत्वचि - रकालत्वादिभिः. ४ असंबद्धेनेति पाठः. ५ पश्यतः वादिनः ६ अशब्दं यथातथेत्यर्थः. ७ अप्रतिषिद्धस्य ख. ८ स्वत्वम् । उत्पयत इतिशेषः ९ तस्य स्वत्वविषयकप्रमितिजनकत्वादित्यर्थः . १० प्रमाणस्य - उपभोगस्य प्रमेयं स्वत्वंप्रति ११ स्वामीति रिक्थादिषु पञ्चसु सत्सु स्वामी भवति । अप्रतिबन्धो दायो रिक्थं, सप्रतिबन्धः सविभागः, क्रयः प्रसिद्धः, अरण्यादिष्वनन्यपरिगृहीततृणकाष्ठादिस्वीकरणं परिग्रहः, निध्यादिप्राप्तिरधिगमः, इमे सर्वसाधारण स्वत्वकारक - हेतवः । असाधारणास्तु ब्राह्मणस्य प्रतिग्रहादिना लब्धं, क्षत्रस्य परपराजयेन लब्धं, वैश्यशूद्रयोः निर्विष्टं=भोगरूपेण भृतिरूपेण वा लब्धं तदधिकं - असाधारणं स्वत्वजनकम्. १२ विजितं घ. १३ नचेदं वचनं ग.
For Private And Personal Use Only
Page #168
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
याज्ञवल्क्यस्मृतिः। [व्यवहाराध्यायः वचनं विंशतिवर्षोपभोगस्य स्वत्वोत्पत्तिहेतुत्वं प्रतिपादयतीति युक्तम् । स्वत्वस्य स्वत्वहेतूनां च लोकप्रसिद्धत्वेन शास्त्रैकसमधिगम्यत्वाभावात् । एतच्च विभागप्रकरणे निपुणतरमुपपादयिष्यते । गौतमवचनं तु नियमार्थम् ॥ .अपिच'भनागमं तु यो मुझे बहून्यब्दशतान्यपि । चौरदण्डेन तं पापं दण्डयेत्पृथिवीपतिः ॥' इत्येतदनागमोपभोगस्य स्वत्व हेतुत्वे विरुध्यते । नच-'अनागमं तु यो भुते' इत्येतत्परोक्षभोगविषयम् । पश्यतोऽब्रुवत इति प्रत्यक्षभोगविषयमिति युक्तं वक्तुम् । अनागमं तु यो मुझे इत्यविशेषाभिधानात्-'नोपभोगे बलं कार्यमाहा तत्सुतेन वा । पशुस्त्रीपुरुषादीनामिति धर्मो व्यवस्थितः ॥' इति कात्यायनवचनाच्च । समक्षभोगे च हानिकारणाभावेन हानेरसंभवात् । नचैतन्मन्तव्यम्-आधिप्रतिग्रहक्रयेषु पूर्वस्याः क्रियायाः प्राबल्यादपवादेन भूविषये विंशतिवर्षोपभोगयुक्तायाः, धनविषये दशवर्षोपभोगयुक्ताया उत्तरस्याः क्रियायाः प्राबल्यमनेनोच्यत इति । यतस्तेषूत्तरैव क्रिया तत्वतो नोपपद्यते स्वमेव ह्याधेयं देयं विक्रेयं च भवति । नचाहितस्य दत्तस्य विक्रीतस्य वा स्वत्वमस्ति । अस्वस्य दाने प्रतिग्रहे च दण्डः मर्यते-'अदेयं यश्च गृह्णाति यश्चादेयं प्रयच्छति । उभौ तौ चौरवच्छास्यौ दाप्यौ चोत्तमसाहसम् ॥' इति । तथाध्यादीनां त्रयाणामपवादत्वेऽस्य श्लोकस्याधिसीमादीनामुत्तरश्लोकेऽपवादो नोपपद्यते । तस्माद्भूम्यादीनां हानिरनुपपन्नैव । नापि व्यवहारहानिः । यतः–'उपेक्षां कुर्वतस्तस्य तूष्णीभूतस्य तिष्टतः । काले विपन्ने पूर्वोक्ते व्यवहारो न सिध्यति ॥' इति नारदेनोपेक्षालिङ्गाभावकृता व्यवहारहानिरुक्ता नतु वस्त्वभावकृता । तथा मनुनापि--'अजडश्चेदपोगण्डो विषेयश्चास्य भुज्यते । भग्नं तव्यवहारेण भोक्ता तद्धनमर्हति ॥' इति व्यवहारतो भङ्गो दर्शितो न वस्तुतः । व्यवहारभङ्गश्चैवम्-भोक्ता किल वदति 'अजडोऽयमपोगण्डोऽवालोऽयमस्य संनिधौ विंशतिवर्षाण्यप्रतिरवं मया भुक्तं तत्र बहवः साक्षिणः सन्ति । यद्यस्य स्वमन्यायेन मया भुज्यते तदायं किमित्येतावन्तं कालमुदास्ते' इति, तत्र चायं निरुत्तरो भवतीति । एवं निरुत्तरस्यापि वास्तवो व्यवहारो भवत्येव । 'छलं निरस्य भूतेन व्यवहाराबयेन्नृपः' इति नियमात् ॥ अथ मतम् । यद्यपि न वस्तुहानिनापि व्यवहारहानिस्तथापि पश्यतोऽप्रतिषेधतो व्यवहारहानिशङ्का भव. तीति तन्निवृत्तये तूष्णीं न स्थातव्यमित्युपदिश्यत इति । तच्च न स्मार्तकालाया भुक्तेहानिशङ्काकारणत्वाभावात्, तूष्णीं न स्थातव्यमित्येतावन्मात्रामिधित्सायां विंशतिग्रहणमविवक्षितं स्यात् । अथोच्यते-'विंशतिग्रहणमूर्व पत्रदोषोद्भावननिराकरणार्थम् ।' यथाह कात्यायन:-'शक्तस्य संनिधावर्थो यस्य लेल्येन भुज्यते । विंशतिवर्षाण्यन्तिकान्तं तत्पत्रं दोषवर्जितम् ॥' इति । तदपि न ।
१ उत्तरविषयक्रियायाः ख. २ तेषु आध्यादिषु. ३ स्वत्वविशिष्टमेव-स्वयमेव घ. ४ अस्वत्वस्य ख. ५ अपवादोऽपवादत्वम्. ६ स्वत्वहान्या स्वरूपहानिः.७ तस्य वादिनः. ८ उपेक्षायां यानि लिङ्गानि जडत्वबालत्वादीनि तेषां योऽभावस्तत्कृता. ९ विषयो देशः, अस्य धनिनः विषये चास्य भुजते इति घ. पाठः, १० अथमतमित्यन्यथाव्याख्यानं. ११ स्मरणविषयतायोग्यकालिकायाः.
For Private And Personal Use Only
Page #169
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
असाधारणव्य०मा०प्र०२] मिताक्षरासहिता। आध्यादिष्वपि विंशतेरूर्व पत्रदोषोद्भावननिराकरणस्य सैमत्वेनाधिसीमेत्याधुपवादासंभवात् । यथाह कात्यायन:-'अथ विंशतिवर्षाणि आधिर्भुक्तः सुनिश्चितः। तेन लेख्येन तसिद्धिर्लेख्यदोषविवर्जिता॥' तथा-'सीमाविवादे निर्णीते सीमापत्रं विधीयते । तस्य दोषाः प्रवक्तव्या यावद्वर्षाणि विंशतिः ॥' इति । ए. तेन धनस्य दशवार्षिकीत्येतदपि प्रत्युक्तम् । तस्मादस्य श्लोकस्य सैत्योऽर्थो वक्तव्यः । उच्यते-भूमेधनस्य च फलहानिरिहै विवक्षिता न वस्तुहानिर्नापि व्यवहारहानिः । तथाहि-निराक्रोशं विंशतिवर्षोपभोगादूर्ध्व यद्यपि स्वामी न्यायतः क्षेत्रं लभते तथापि फैलानुसरणं न लभते । अप्रतिषेधलक्षणात्स्वापराधादस्माच्च वचनात् । परोक्षभोगे तु विंशतेरूर्ध्वमपि फलानुसरणं लभत एव, पश्यत इति वचनात् । प्रत्यक्षभोगे च साक्रोशे, अब्रुवत इति वचनात् । विंशतेः प्राक् प्रत्यक्षे निराक्रोशे च लभते विंशतिग्रहणात् । ननु तदुत्पन्नस्यापि फलस्य स्वत्वात्तद्धानिरनुपपन्नैव बाढम् । तस्य स्वरूपाविनाशेन तथैवावस्थाने यथा तदुत्पन्नपूगपनसवृक्षादीनां यत्पुनस्तदुत्पन्नमुपभोगानष्टं तत्र स्वरूपनाशादेव स्वत्वनाशे-'अनागमं तु यो मुझे बहून्यब्दशतान्यपि । चौरदण्डेन तं पापं दण्डयेत्पृथिवीपतिः ॥' इत्यनेन वचनेन निष्क्रयरूपेण गणयित्वा चौरवत्तत्समं द्रव्यदानं प्राप्त, हानिर्विशतिवार्षिकीत्यनेनापोद्यते । राजदण्डः पुनरस्त्येव विंशतेरूर्वमपि, अनागमोपभोगादपवादाभावाच्च । तस्मात्स्वाम्युपेक्षालक्षण
वापराधादसाच्च वचनाद्विशतेरूवं फलं नष्टं न लभत इति स्थितम् । एतेन धनस्य दशवार्षिकीत्येतदपि व्याख्यातम् ॥ २४ ॥ अस्थापवादमाह
आधिसीमोपनिक्षेपजडबालधनैर्विना ।
तथोपनिधिराजस्त्रीश्रोत्रियाणां धनैरपि ॥ २५ ॥ आधिश्च सीमा च उपनिक्षेपश्च आधिसीमोपनिक्षेपाः। जडश्च बालश्च जडबालौ तयोर्धने जडबालधने आधिसीमोपनिक्षेपाच जडबालधने च आधिसीमोपनिक्षेपजडबालधनानि तैर्विना। उपनिक्षेपो नाम रूपसंख्याप्रदर्शनेन रक्ष. णार्थं परस्य हस्ते निहितं द्रव्यम् । यथाह नारदः- स्वं द्रव्यं यत्र विस्त्रम्भासिक्षिपत्यविशङ्कितः । निक्षेपो नाम तत्प्रोक्तं व्यवहारपदं बुधैः ॥' इति । उपनिधानमुपनिधिः । आध्यादिषु पश्यतोऽब्रुवतोऽपि भूमेशितेरूवं धनस्य च दशभ्यो वर्षेभ्य अर्ध्वमप्युपचयहानिर्न भवति । पुरुषापराधस्य तथाविधस्याभावात् , उपेक्षाकारणस्य तत्र तत्र संभवात् । तथाहि-आधेराधित्वोपाधिक
१ समत्वेनापवादासंभवान् ख. २ सत्योऽर्थों निर्दुष्टोऽर्थः. सभ्योन्योर्थों ग. पाठः. ३ इह पश्यत इत्यत्र वचने. ४ तावत्पर्यन्तं ततस्तेन लब्धेत्यादिः. ५ प्राप्तं, तत् द्रव्यदानम्. ६ अपोचते बाध्यते. ७ स्वत्वहेतुः प्रतिग्रहक्रयादिरागमः. ८ तस्योपनिधि ग. ९ यत् स्वं द्रव्यं यत्र परहस्ते विस्रम्भाद्विश्वासान्निक्षिपति. १० उपचयहानिः फलहानिः. ११ तत्र तत्र आध्यादिषु. १२ आधित्वनिमित्तकः. इति पाठः,
For Private And Personal Use Only
Page #170
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३८
याज्ञवल्क्यस्मृतिः । [ व्यवहाराध्यायः
एव भोग इत्युपेक्षायामपि न पुरुषापराधः । सीम्नश्विरकृततुषाङ्गारादि चिह्नः सुसाध्यत्वादुपेक्षा संभवति । उपनिक्षेपोपनिध्योर्भुक्तेः प्रतिषिद्धत्वात् प्रतिवैधातिक्रमोपभोगे च सोदेयफललाभादुपेक्षोपपत्तिः । जडवालयोर्जडत्वाद्वालस्वादुपेक्षा युक्तैव । राज्ञो बहुकार्यव्याकुलत्वात् । स्त्रीणामज्ञानादप्रागल्भ्याश्च । श्रोत्रियस्याध्ययनाध्यापनतदर्थविचारानुष्ठानव्याकुलत्वादुपेक्षा युक्तैव । तस्मादाध्यादिषु सर्वत्रोपेक्षाकारणसंभवात्समक्ष भोगे निराक्रोशे च न कदाचिदपि फलहानिः ॥ २५ ॥
आध्यादिषु दण्डविशेषप्रतिपादनार्थमाहआध्यादीनां विहर्तारं धनिने दापयेद्धनम् ।
दण्डं च तत्समं राज्ञे शक्त्यपेक्षमथापि वा ॥ २६ ॥
3
अध्यादीनां श्रोत्रियद्रव्यपर्यन्तानां चिरकालोपभोगबलेनापहर्तारं विवादास्पदीभूतं धनं स्वामिने दापयेदित्यनुवादः । दण्डं च तत्समं विवादास्पदीभूतद्रव्यसमं राज्ञे दापयेदिति विधिः । यद्यपि गृहक्षेत्रादिषु तत्समो दण्डो न संभवति तथापि - 'मर्यादायाः प्रभेदे च सीमातिक्रमणे तथा' इत्यादिर्वक्ष्यमाणो दण्डो द्रष्टव्यः । अथ तत्समदण्डेनापहर्तुर्दमनं न भवति बहुधनत्वेन, तदा शक्त्यपेक्षं धनं दापयेत् । यावता तस्य दर्पोपशमो भवति तावद्दापयेत् । 'दण्डो दमनादित्याहुस्तेनादान्तान्दमयेत्' इति दण्डग्रहणस्य दमनार्थत्वात् । यस्य तु तत्सममपि द्रव्यं नास्ति सोऽपि यावता पीड्यते तावद्दाप्यः । यस्य पुनः किमपि धनं नास्ति असौ धिग्दण्डादिना दमनीयः । तथाच मनुः - ' धिग्दण्डं प्रथमं कुर्याद्वाग्दण्डं तदनन्तरम् । तृतीयं धनदण्डं तु वधदण्डमतः परम् ।' इति । वधदण्डोऽपि शारीरो ब्राह्मणव्यतिरिक्तानां देशधा दर्शितः । तथाह मनुः ( ८ / १२५ ) - 'दश स्थानानि दण्डस्य मनुः स्वायंभुवोऽब्रवीत् । त्रिषु वर्णेषु यानि स्युरर्क्षतो ब्राह्मणो व्रजेत् ॥ उपस्थमुदरं जिह्वा हस्तौ पादौ च पञ्चमम् । चक्षुर्मासाच कर्णौ च धनं देहस्तथैव च ॥' इति । एतेषां यन्निमित्तापराधस्त
वोपस्थादौ निग्रहः कार्य इति द्रष्टव्यम् । कर्म वा कारयितव्यो बन्धनागारं वा प्रवेशयितव्यः । यथोक्तं कात्यायनेन - 'धनदानासहं बुद्धा स्वाधीनं कर्म कारयेत् । अशक्तौ बन्धनागारं प्रवेश्यो ब्राह्मणाहते || ' इति । ब्राह्मणस्य पुनर्द्रव्याभावे कर्मवियोगादीनि प्रयोज्यानि । यथाह गोतमः - 'कर्मवियोगविख्यापन निर्वासनाङ्ककरणादीन्यवृत्तौ ।' इति । नारदेनापि - 'वर्धः सर्वस्यहरणं पुरान्निर्वासनाङ्कने । तदङ्गच्छेद इत्युक्तो दण्ड उत्तमसाहसः ॥ अविशेषेण
१ सोदयफलभावात् ध. २ विधिः प्राडिवाकादेरिति शेषः ३ धिग्दण्डो धिगिति कुत्सनम्, वाग्दण्डः परुषवाक्यवचनात्मकः, धनदण्डो धनापहारः वधदण्डः शारीरो बन्धरोधादिजीवितयोगान्तः ४ व्यतिरिक्तानां तु इति पाठः ५ नवधा इतिक्वचित्पाठः. ६ अक्षतः शारीर सकलवधदण्डरहितः ७ अवृत्तौ दुराचारे स्वव्यापारनिरोधान्यायप्रख्या नादीनि. ८ वधः प्राणवियोगानुकूलो व्यापारः ९ यदङ्गकृतोऽपराधस्तच्छेदः.
For Private And Personal Use Only
Page #171
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
साधारणव्य०मा०प्र० २] मिताक्षरासहिता।
१३९
सर्वेषामेव दण्डविधिः स्मृतः ॥' इत्युक्त्वोक्तम्-'वधाहते ब्राह्मणस्य न वधं ब्राह्मणोऽहति ॥' इति ।-'शिरसो मुण्डनं दण्डस्तस्य निर्वासनं पुरात् । ललाटे चाभिशस्ताङ्कः प्रयाणं गर्दभेन च ॥' इति ॥ अङ्कने च व्यवस्था दर्शिता-'गुरुतल्पे भगः कार्यः सुरापाने सुराध्वजः । स्तेये तु श्वपदं कार्य ब्रह्महण्यशिराः पुमान् ॥' इति । यत्तु-'चक्षुनिरोधो ब्राह्मणस्य' इत्यापस्तम्बवचनं, ब्राह्मणस्य पुरान्निर्वासनसमये वस्त्रादिना चक्षुनिरोधः कर्तव्य इति तस्थार्थो न तु चक्षुरुद्धरणम् । –'अक्षतो ब्राह्मणो ब्रजेत्' 'न शारीरो ब्राह्मणे दण्डः' इत्यादिमनुगौतमादिवचनविरोधादित्यलं प्रसङ्गेन ॥ २६ ॥
स्वत्वाव्यभिचारित्वेन भोगस्य स्वरवे प्रामाण्यमुक्तम् । भोगमात्रस्य स्वत्वव्यभिचारित्वाकीदृशो भोगः प्रमाणमित्यत आह
आगमोऽभ्यधिको भोगाद्विना पूर्वक्रमागतात् । स्वत्वहेतुः प्रतिग्रहक्रयादिः आगमः । स भोगादप्यधिको बलीयान् । स्वत्वबोधने भोगस्यागमसापेक्षत्वात्। यथाह नारदः-'आगमेन विशुद्धेन भोगो याति प्रमाणताम् । अविशुद्धागमो भोगः प्रामाण्यं नैव गच्छति ॥' इति । नच भोगमात्रात्स्वत्वागमः । परकीयस्याप्यपहारादिनोपभोगसंभवात् । अतएव-'भोग केवैलतो यस्तु कीर्तयेन्नागमं कचित् । भोगच्छलापदेशेन विज्ञेयः स तु तस्करः ॥' इति स्मर्यते । अतश्च सागमो दीर्घकालो निरन्तरो निराकोशः प्रत्यर्थिप्रत्यक्षश्चेति पञ्चविशेषणयुक्तो भोगः प्रमाणमित्युक्तं भवति । तथाच मर्यते- 'सागमो दीर्घकालश्चाविच्छेदोऽपरवोज्झितः । प्रत्यर्थिसंनिधानोऽपि परिभोगोऽपि पञ्चधा ॥' इति । कचिच्चागमननिरपेक्षस्यापि भोगस्य प्रामाण्यमित्याह-विना पूर्वक्रमागतादिति । पूर्वेषां पित्रादीनां त्रयाणां क्रमः पूर्वक्रमः तेनागतो यो भोगस्तम्माद्विना आगमोऽभ्यधिक इति संबन्धः । से पुनरागमादभ्यधिकः आगमनिरपेक्षः प्रमाणमित्यर्थः। तत्राप्यागमोज्ञातनिरपेक्षो न सत्तानिरपेक्षः । सत्ता तु तेनैवावगम्यत इति बोद्धव्यम् । विना पूर्वक्रमागतादित्येतच्चाऽस्मार्तकालप्रदर्शनार्थम् । आगमोऽभ्यधिको भोगादिति च स्मातकालविषयम् । अतश्च स्मरणयोग्ये काले योग्यानुपलब्ध्या आगमाभावनिश्चयसंभवादागमज्ञानसापेक्षस्यैव भोगस्य प्रामाण्यम् । अस्मार्ते तु काले यो. ग्यानुपलब्ध्यभावेनागमाभावनिश्चयासंभवादागमज्ञाननिरपेक्ष एव संततो भोगः प्रमाणम् । एतदेव स्पष्टीकृतं कात्यायनेन-मार्तकाले क्रिया भूमेः सागमा भुक्तिरिष्यते । अस्मार्तेऽनुगमाभावारक्रमात्रिपुरुषागता ॥' इति । स्मार्तश्च कालो
१ उक्तं पूर्व २४ श्लोके पश्यतोऽब्रुवत इत्यत्र. २ कापट्यरहितेन. ३ केवलम्. ४ सागमो विशुद्धागमसहितः, अविच्छेदो निरन्तरः, अपरवोज्झितो निरनुक्रोशः. ५ अपरिवर्जित इति पाठः. ६ सः पूर्वक्रमागतो भोगः. ७ विशिष्टेनोपभोगेनैव. ८ स्मार्तः स्मरणयोग्यकालः. ९ योग्यत्वे सत्यनुपलब्धिर्योग्यानुपलब्धिस्तस्या अभावे न. १० क्रिया प्रमाणम्.
था. १५
For Private And Personal Use Only
Page #172
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४०
याज्ञवल्क्यस्मृतिः। [व्यवहाराध्यायः वर्षशतपर्यन्तः-'शतायुर्वं पुरुषः' इति श्रुतेः। अनुगमाभावादिति योग्यानुपलब्ध्यभावेनागमाभावनिश्चयाभावादिस्यर्थः । अतश्च वर्षशताधिको भोगः सं. ततोऽप्रेतिरवः प्रत्यर्थिप्रत्यक्षश्चागमाभावे चाऽनिश्चितेऽव्यभिचारादाक्षिप्तागमः स्वत्वं गमयति । असार्तेऽपि कालेऽनागमस्मृतिपरम्परायां सत्यां न भोगः प्रमाणम् । अतएव-'अनागमं तु यो मुझे बहून्यब्दशतान्यपि । चौरदण्डेन तं पापं दण्डयेत्पृथिवीपतिः ॥' इत्युक्तम् । नच 'अनागमं तु यो भुते' इत्येकवचननिर्देशात् 'बहून्यब्दशतान्यपि' इत्यपिशब्दप्रयोगात्प्रथमस्यैव पुरुषस्य निरागमे चिरकालोपभोगेऽपि दण्डविधानमिति मन्तव्यम्, द्वितीये तृतीये वा पुरुषे निरागमस्य भोगस्य प्रामाण्यप्रसङ्गात् । न चैतदिष्यते--'आदौ तु कारणं दानं मध्ये भुक्तिस्तु सागमा' इति नारदस्मरणात् । तस्मात्सर्वत्र निरागमोपभोगे--'अनागमं तु यो भुङ्के' इत्येतद्रष्टव्यम् । यदपि-'अन्यायेनापि यद्भुक्तं पित्रा पूवंतरैत्रिभिः । न तच्छक्यमपाहतु क्रमात्रिपुरुषागतम् ॥' इति, तदपि पित्रा सह पूर्वतरैस्त्रिभिरिति योज्यम् । तत्रापि क्रमात्रिपुरुषागतमित्यस्मातकालोपभोगलक्षणम् । त्रिपुरुषविवक्षायामेकवर्षाभ्यन्तरेऽपि पुरुषत्रयातिक्रमसंभवात् द्वितीये वर्षे निरागमस्य भोगस्य प्रामाण्यप्रसंगः । तथा सति--'स्मार्तकाले क्रिया भूमेः सागमा भुक्तिरिष्यते' इति स्मृतिविरोधः । 'अन्यायेनापि यद्भुक्तम्' इत्येतान्यायेनापि भुक्तमपहर्तुं न शक्यं किंपुनरन्यायानिश्चये इति व्याख्येयमपिशब्दश्रवणात् । यञ्चोक्तं हारीतेन-'यद्विनागममत्यन्तं भुक्तं पूर्वैस्त्रिभिर्भवेत् । न तच्छक्यमपाहतु क्रमात्रिपुरुषागतम् ॥' इति । तत्राप्यस्यन्तमागमं विनेति । अत्यन्तमुपलभ्यमानमागमं विनेति व्याख्येयं, न पुनरागमस्वरूपं विनेति । आगमस्वरूपाभावे भोगशतेनापि न स्वत्वं भवतीत्युक्तम् । मात्रिपुरुषागतमित्येतदुक्तार्थम् । ननु स्मरणयोग्ये काले भोगस्यागमसापेक्षस्य प्रामाण्यमनुपपनम् । तथाहि-यद्यागमः प्रमाणान्तरेणावगतस्तदा तेनैव स्वत्वावगमान भोगस्य स्वत्वे आगमे वा प्रामाण्यम् । अथ प्रमाणान्तरेणागमो नावगतः कथं तद्विशिष्टो भोगः प्रमाणम् । उच्यते-प्रमाणान्तरेणावगतामसहित एव निरन्तरो भोगः कालान्तरे स्वत्वं गमयति । अवगतोऽप्यागमो भोगरहितो न का. लान्तरे स्वत्वं गमयितुमलम् । मध्ये दानविक्रयादिना स्वत्वापगमसंभवादिति सर्वमनवद्यम् ॥
आगमसापेक्षो भोगः प्रमाणमित्युक्तं, भागमस्तर्हि भोगनिरपेक्ष एव प्रमाणमित्यत आह
आगमेऽपि बलं नैव भुक्तिः स्तोकापि यत्र नो ॥ २७॥ यस्मिन्नागमे स्वल्पापि भुक्ति गो नास्ति तस्मिन्नागमे बलं संपूर्ण नैवास्ति ।
१ निरनुक्रोशः. २ प्रथमस्य पुरुषस्य. ख. ३ कारणं क्रिया प्रमाणमिति यावत्. ४ भुक्तं पूर्वतरैत्रिभिः. इति पाठः. ५ अस्मार्तकालोपलक्षकत्वेनोक्तार्धकम्. ६ भोगान्येन प्रत्यक्षादिना. ७ अलं समर्थः.
For Private And Personal Use Only
Page #173
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
साधाणरव्य०मा०प्र० ] मिताक्षरासहिता ।
१४१
अयमभिसंधिः । स्वस्वत्व निवृत्तिः परस्वत्वापादनं च दानम् । परस्वत्वापादनं च परो यदि स्वीकरोति तदा संपद्यते नान्यथा । स्वीकारश्च त्रिविधः । मानसो वाचिकः कायिकश्चेति । तत्र मानसो ममेदमिति संकल्परूपः । वाचिकस्तु ममेदमित्याद्यभिव्याहारोल्लेखी सविकल्पकः प्रत्ययः । कायिकः पुनरुपादानाभिमर्शनादिरूपोऽनेकविधः । तत्र च नियमः स्मर्यते - 'दद्यात्कृष्णाजिनं पृष्ठे गां पुच्छे करिणं करे | केसरेषु तथैवाश्वं दासीं शिरसि दापयेत् ॥' इति । आश्वलायनोऽप्याह - 'अनुमन्येत प्राण्यभिमृशेद्वप्राणि कन्यां च' इति । तत्र हिरण्यवस्त्रादावुदकदानानन्तरमेवोपादानादिसंभवात् त्रिविधोऽपि स्वीकारः संपद्यते । क्षेत्रादौ पुनः फलोपभोगव्यतिरेकेण कायिकस्वीकारासंभवात्स्वल्पेनाप्युपभोगेन भवितव्यमन्यथा दानक्रयादेः संपूर्णता न भवतीति फलोपभोगलक्षणकायिकस्वीकारविकल आगमो दुर्बलो भवति तत्सहितादागमात् । एतच्च द्वयोः पूर्वापरकालापरिज्ञाने, पूर्वापरकालपरिज्ञाने तु चिगुणोऽपि पूर्वकालागम एव बलीयानिति । अथवा--' लिखितं साक्षिणो भुक्तिः प्रमाणं त्रिचिधम्' इत्युक्तं एतेषां समवाये कुत्र कस्य वा प्राबल्यमित्यत्रेदमुपतिष्ठते -- 'आगमोऽभ्यधिको भोगाद्विना पूर्वक्रमागतात् । आगमेऽपि बलं नैव भुक्तिः स्तोकापि यत्र नो ॥' इति । अयमर्थः -- आद्ये पुरुषे साक्षिभिर्भावित आगमो भोगादयधिक बलवान् । पूर्वक्रमागताद्भोगाद्विना । स पुनः पूर्वक्रमागतो भोगश्चतुर्थपुरुषे लिखितेन भावितादागमाद्बलवान् । मध्यमे तु भोगरहितादागमात्तोकभोगसहितोऽप्यागमो बलवानिति । एतदेव नारदेन स्पष्टीकृतम्'भादौ तु कारणं दानं मध्ये भुक्तिस्तु सागमा । कारणं भुक्तिरेवैका संतता या - चिरन्तनी ॥' इति ॥ २७ ॥
पश्यतोऽब्रुवत इत्यत्र विंशतिवर्षोपभोगादूर्ध्वं भूमेर्धनस्यापि दशवर्षोपभोगादूर्ध्वं फलानुसरणं न भवतीत्युक्तम्, तत्र फलानुसरणवद्दण्डानुसरणमपि न भविष्यतीत्याशङ्क्य पुरुषव्यवस्थया प्रामाण्यव्यवस्थाया च दण्डव्यवस्थां दर्शयितुमाह
आगमस्तु कृतो येन सोऽभियुक्तस्तमुद्धरेत् ।
न तत्सुतस्तत्सुतो वा भुक्तिस्तत्र गरीयसी ॥ २८ ॥
येन पुरुषेण भूम्यादेरागमः स्वीकारः कृतः पुरुषः कुतस्ते क्षेत्रादिकमित्यभियुक्तस्तस्यागमं प्रतिग्रहादिकं लिखितादिभिरुद्धरेत् भावयेत् । अनेन चाद्यस्य पुरुषस्यागममनुद्धरतो दण्ड इत्युक्तं भवति । तत्सुतो द्वितीयोऽभियुक्तो नागममुद्धरेत्, किंतु अविच्छिन्ना - ऽप्रतिरव- समक्ष - भोगम् । अनेन चागममनुद्धरतो द्वितीयस्य न दण्डोsपितु विशिष्टं भोगमनुद्धरतो दण्ड इति प्रतिपादितम् ।
१ कायिकस्तु. ख. २ करे शुण्डादण्डे ३ प्रतिग्राह्यो यदा प्राणी बलवान् वक्तुं समर्थस्तदा तं प्रतिग्राहं प्रतिग्रहीता अनुमन्त्रयेत ४ सहितादागमाभावात् ख. घ. ५ केवलभोगस्य स्मार्तकालत्वात् स्वत्वे अप्रामाण्यात्. ६ प्रतिग्रहादेरिति ख. ७ प्रतिपादयेत्.
For Private And Personal Use Only
Page #174
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४२
याज्ञवल्क्यस्मृतिः।
[व्यवहाराध्यायः
तरसुतस्तृतीयो नागमं नापि विशिष्टं भोगमुद्धरेदपितु क्रमागतं भोगमात्रम् । अनेनापि तृतीयस्य क्रमायातभोगानुद्धरणे दण्डो नागमानुद्धरणे न विशिष्टभो. गानुद्धरणे चेत्यभिहितम् । तत्र तयोद्धितीयतृतीययोर्भुक्तिरेव गरीयसी । तत्रापि द्वितीये गुरुस्तृतीये गरीयसीति विवेक्तव्यम् । त्रिष्वपयागमानुद्धरणेऽर्थहानिः समानैव, दण्डे तु विशेष इति तात्पर्यार्थः । उक्तंच हारीतेन--'आगमस्तु कृतो येन स दण्ड्यस्तमनुद्धरन् । न तत्सुतस्तत्सुतो वा भोग्यहानिस्तयोरपि ॥' इति ॥२८॥
अस्मार्तकालोपभोगस्यागमज्ञाननिरपेक्षस्य प्रामाण्यमुक्तं विनापूर्वक्रमागतादित्यत्र तस्यापवादमाह
योऽभियुक्तः परेतः स्यात्तस्य रिक्थी तमुद्धरेत् ।
न तत्र कारणं भुक्तिरागमेन विना कृता ॥ २९ ॥ यदा पुनराहादिरमियुक्तोऽकृतव्यवहारनिर्णय एव परेतः स्यात् परलोकं गतो भवेत्तदा तस्य रिक्थी पुत्रादिस्तमागममुद्धरेत् । यस्मात्तत्र तस्मिन्व्यवहारे भुक्तिरागमरहिता साक्ष्यादिमिः साधितापि न प्रमाणम् । पूर्वाभियोगेन भोगस्य सापवादत्वात् । नारदेनाप्युक्तम्-'तथारूढविवादस्य प्रेतस्य व्यवहारिणः । पुत्रेण सोऽर्थः संशोध्यो न त भोगो निवर्तयेत् ॥' इति ॥ २९ ॥
अनिर्णीतव्यवहारे व्यवहर्तरि प्रेते व्यवहारो न निवर्तत इति स्थितम् । निणीतेऽपि व्यवहारे स्थिते च व्यवहर्तरि व्यवहारः कचित्प्रवर्तते कचिन्न प्रवर्तत इति व्यवस्थासिद्धये व्यवहारदर्शिनां बलाबलमाह
नृपेणाधिकृताः पूगाः श्रेणयोऽथ कुलानि च ।
पूर्व पूर्व गुरु ज्ञेयं व्यवहारविधौ नृणाम् ॥ ३०॥ नृपेण राज्ञा अधिकृताः व्यवहारदर्शने नियुक्ताः----'राज्ञा सभासदः कार्याः' इत्यादिनोक्ताः पूगाः समूहाः । मिनजातीनां भिन्नवृत्तीनां एकस्थाननिवासिनां यथा ग्रामनगरादयः । श्रेणयो नानाजातीनामेकजातीयकर्मोपजीविनां संघाताः । यथा हेडाबुकादीनां ताम्बूलिक/विन्दचर्मकारादीनां च । कुलानि ज्ञातिसंबन्धिबन्धूनां समूहाः । एतेषां नृपाधिकृतादीनां चतुणां पूर्व पूर्वं यद्यत्पूर्व पठितं तत्तद्गुरु बलवज्ज्ञेयं वेदितव्यम् । नृणां व्यवहर्तृणां व्यवहारविधौ व्यवहारदर्शनकार्ये एतदुक्तं भवति । नृपाधिकृतैर्निर्णीते व्यवहारे पराजितस्य यद्य. प्यसंतोषः कुदृष्टिबुद्ध्या भवति तथापि न पूगादिषु पुनर्व्यवहारो भवति । एवं पूगनिर्णीतेऽपि न श्रेण्यादिगमनम् । तथा श्रेणिनिर्णीते कुलगमनं न भवति । कुलनिर्णीते तु श्रेण्यादिगमनं भवति । श्रेणीनिर्णीते पूगादिगमनम् । पूगनिर्णीते
१ भोग्येति । भोग्यहानिरर्थहानिस्तदनुद्धरणे तयोद्वितीयतृतीययोरित्यर्थः. २ तथाशब्दः पूर्वसमुच्चये । नवारूढः. ख. ग. ३ निवारयेत्. घ. ४ अधिकृताः प्राड्विवाकादयः ५ देशान्तरं गत्वा प्रस्थाप्य वाऽश्वविक्रेतारो हेडाबुकाः, ६ कुविन्दस्तन्तुवायः.
For Private And Personal Use Only
Page #175
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
असाधारणव्य०मा०प्र०२] मिताक्षरासहिता।
१४३ नृपाधिकृतगमनं भवतीति । नारदेन पुनपाधिकृतैर्निर्णीतेऽपि व्यवहारे नृपगमनं भवतीत्युक्तम्-'कुलानि श्रेणयश्चैव गणाश्वाधिकृता नेपः । प्रतिष्ठा व्यवहाराणां गुर्वेषामुत्तरोत्तरम्' इति । तत्रच नृपगमने सोत्तरसभ्येन राज्ञा पूर्वैः सभ्यैः संपणे व्यवहारे निर्णीयमाने यद्यसौ कुदृष्टवादी पराजितस्तदासौ दण्ड्यः । अथासौ जयति तदाधिकृताः सभ्या दण्ड्याः ॥ ३०॥
दुर्बलैर्व्यवहारदर्शिमिदृष्टो व्यवहारः परावर्तते प्रबलदृष्टस्तु न निवर्तत इत्युक्तम् । इदानीं प्रबलदृष्टोऽपि व्यवहारः कश्चिन्निवर्तत इत्याह
बलोपाधिविनिर्वृत्तान्व्यवहारानिवर्तयेत्।
स्त्रीनक्तमन्तरागारबहिःशत्रुकृतांस्तथा ॥३१॥ बलेन बलात्कारेण उँपाधिना भयादिना विनिर्वृत्तानिष्पन्नान्व्यवहाराशिवतयेत् । तथा स्त्रीभिः । नक्तं रात्रावस्त्रीभिरपि । अन्तरागारे गृहाभ्यन्तरे बहिग्रामादिभ्यः । शत्रुभिश्च कृतान्व्यवहाराभिवर्तयेदिति संबन्धः ॥३१॥ असिद्धव्यवहारिण आह
मत्तोन्मत्तार्तव्यसनिबालभीतादियोजितः।
अँसंबद्धकृतश्चैव व्यवहारो न सिद्ध्यति ॥ ३२ ॥ अपिच । मत्तो मदनीयद्रव्येण । उन्मत्त उन्मादेन पञ्चविधेन वातपित्तश्लेप्मनिपातग्रहसंभवेनोपसृष्टः । भाव्याध्यादिना । व्यसनमिष्टवियोगाऽनिटप्राप्तिजनितं दुःखं तद्वान्व्यसनी । बालो व्यवहारायोग्यः। भीतोऽरातिभ्यः । आदिग्रहणात्पुरराष्ट्रादिविरुद्धः ।-'पुरराष्ट्रविरुद्धश्च यश्च राज्ञा विसर्जितः । अनादेयो भवेद्वादो धर्मविनिरुदाहृतः ॥' इति मनुस्मरणात् । एतैयोजितः कृतो व्यवहारो न सिद्ध्यतीति । अनियुक्तासंबद्धकृतोऽपि व्यवहारो न सिङ्ख्यतीति संबन्धः । यत्तु स्मरणात्–'गुरोः शिष्ये पितुः पुत्रे दम्पत्योः स्वामिभृत्ययोः । विरोधे तु मिथस्तेषां व्यवहारो न सिद्ध्यति ॥' इति, तदपि गुरुशिव्यादीनामात्यन्तिकव्यवहारप्रतिषेधपरं न भवति । तेषामपि कथंचियवहारस्येटत्वात् । तथाहि-शिष्यशिष्टिरवधेमाशक्तौ रज्जुवेणुविदलाभ्यां तनुभ्यामन्येन नन् राज्ञा शास्यः' इति गौतमस्मरणात् । नोत्तमाओं कथंचनेति मनुस्मरणाच्च । यदि गुरुः कोपावेशवशान्महता दण्डेनोत्तमाङ्गे ताडयति तदा स्मृतिव्यपेतेन मार्गेणाधर्षितः शिष्यो यदि राजे निवेदयति तदा भवत्येव व्यवहारपदम् ॥ तथा-'भूर्या पितामहोपात्ता' इत्यादिवचनापितामहोपात्ते भूम्यादौ
१ हीनवर्णानां संघातो गणः. २ नृपैः ग. ३ सोत्तरेति उत्तरश्चासौ सभ्यश्चेति तत्सहितेन. स्वोत्तर ख. ४ सपणे उभयकारितपणसहिते. ५ बलोपधि घ. तत्रोपधिः कैतवं. ६ उपधिना भयेन घ. ७ असंबन्धकृतः ख. ८ वियोगोऽनिष्टप्राप्तिस्तज्जनितं ख. ग. ९ अनियुक्तत्वेनाप्रेषितत्वेन प्रकृतव्यवहारासंबद्धो यस्तत्कृतः. १० शिष्टिः शिक्षा, अवधेन अताडनेन. ११ भूर्येति प्रकृताध्यायस्य १२२ तमः श्लोकः.
For Private And Personal Use Only
Page #176
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४४
याज्ञवल्क्यस्मृतिः । [व्यवहाराध्यायः पितापुत्रयोः स्वाम्ये समाने यदि पिता विक्रयादिना पितामहोपात्तं भृम्पादि नाशयति तदा पुत्रो यदि धर्माधिकारिणं प्रविशति तदा पितापुत्रयोरपि भवत्येव व्यवहारः ॥ तथा-'दुर्भिक्षे धर्मकार्ये च व्याधौ संप्रेतिरोधके । गृहीतं स्त्रीधनं भर्ता नाकामो दातुमर्हति ॥' इति सरणादुर्भिक्षादिव्यतिरेकेण यदि स्त्रीधनं भता व्ययीकृत्य विद्यमानधनोऽपि याच्यमानो न ददाति तदा दम्पत्योरपीप्यत एव व्यवहारः । तथा भक्तदासस्य स्वामिना सह व्यवहारं वक्ष्यति । गर्भदासस्थापि, गर्भदासादीनधिकृत्य-'यश्चैषां स्वामिनं कश्चिन्मोचयेत्प्राणसंशयात् । दासरवात्स विमुच्येत पुत्रभागं लभेत च ॥' इति नारदोक्तत्वात् तदमोचने पुत्रभागादाने च स्वामिना सह व्यवहारः केन वार्यते । तस्मादृष्टादृष्टयोः श्रेयस्करो न भवति गुर्वादिभिर्व्यवहार इति प्रथमं शिष्यादयो निवारणीयाः राज्ञा ससभ्येनेति 'गुरोः शिष्ये' इत्यादिश्लोकस्य तात्पर्यार्थः । अस्यन्तनिबन्धे तु शिध्यादीनामप्युक्तरीत्या प्रवर्तनीयो व्यवहारः। यदपि-'एकस्य बहुभिः सार्ध स्त्रीणां प्रेण्यजनस्य च । अनादेयो भवेद्वादो धर्मविनिरुदाहृतः ॥' इति नारदवचनम् , तत्रैकस्यापि-'गणद्रव्यं हरेधस्तु संविदं लङ्घयेच्च यः' । तथा-'एक घन्तं बहूनां च' इत्यादिस्सरणादेकार्थैर्बहुभिः सार्धं व्यवहार इष्यत एवेति, भिन्नार्थैर्बहुभिरेकस्य युगपद्ध्यवहारो न भवतीति द्रष्टव्यम् । स्त्रीणामित्यपि गोपशौण्डिकादिस्त्रीणां स्वातघ्यायवहारो भवत्येवेति' तदन्यासां सकलस्त्रीणां पतिषु जीवेत्सु तत्पारतच्यादनादेयो व्यवहार इति व्याख्येयम् । प्रेष्यजनस्य चेत्येतदपि प्रेष्यजनस्य स्वामिपारतच्यात्स्वार्थव्यवहारेऽपि स्वाम्यनुज्ञयैव व्यवहारो नाम्यथेति व्याख्येयम् ॥ ३२ ॥ 'परावर्त्य व्यवहारमुक्त्वा इदानीं परावयं द्रव्यमाह
प्रनष्टाधिगतं देयं नृपेण धनिने धनम् । विभावयेन चेल्लिङ्गस्तत्सम दण्डमहति ।। ३३॥
प्रनष्टं हिरण्यादि शौकिकस्थानपालादिभिरधिगतं राज्ञे समर्पितं यत्तद्राज्ञा धनिने दातव्यम् । यदि धनी रूपसंख्यादिमिलिङ्गैर्भावयति । यदि न भावयति तदा तत्सम दण्ड्यः। असत्यवादित्वात् । अधिगमस्य स्वत्वनिमित्तत्वात्स्वत्वे प्राप्ते तत्परावृत्तिरनेनोक्ता । अत्र च कालावधिं वक्ष्यति-शौल्किकैः स्थानपालैर्वा नष्टापहृतमाहृतम् । अक्सिंवत्सरात्स्वामी हरेत परतो नृपः ॥' इति । मनुना पुनः संवत्सरत्रयमवधित्वेन निर्दिष्टम् -'प्रनष्टस्वामिकं रिक्थं राजा व्यब्दं निधापयेत् । अर्वाक्यब्दाद्धरेत्स्वामी परतो नृपतिहरेत् ॥' इति । तत्र वर्षत्रयपर्यन्तमवश्यं रक्षणीयम् । तत्र यदि संवत्सरादर्वाक् स्वाम्यागच्छेत्तदा
१ प्रवेशयति ख. २ संप्रतिरोधकं नाम सर्वस्वहरणं कृत्वा दुर्गादौ परवलैनिरोधकरम्. ३ भक्तमन्नम्. तेनानार्थीदास इति गम्यते. ४ म्यवहारान्. ख. व्यवहारपदं घ. ५ जीव. त्सु सत्सु घ. ६ योजनीयम् ख. ७ दाप्यम्. ८ रूपकसंख्या ग.
For Private And Personal Use Only
Page #177
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
असाधारणव्य०मा०प्र०२ ] मिताक्षरासहिता ।
१४५
कृस्त्रमेव दद्यात् । यदा पुनः संवत्सरादृर्ध्वमागच्छति तदा षड्भागं रक्षणमूल्यं गृहीत्वा शेषं स्वामिने दद्यात् । यथाह-'आददीताथ षड्भागं प्रनष्टाधिगताअपः । दशमं द्वादशं वापि सतां धर्ममनुस्मरन् ।' इति । तत्र प्रथमे वर्षे कृरस्नमेव दद्यात् , द्वितीये द्वादशं भागं, तृतीये दशमं चतुर्थादिषु षष्ठं भागं गृहीत्वा शेष दद्यात् । राजभागस्य चतुर्थोऽशोऽधिगन्ने दातव्यः । स्वाम्यनागमे तु कृत्स्नस्य धनस्य चतुर्थमंशमधिगन्ने दत्त्वा शेष राजा गृह्णीयात् । तथाह गौतमः-'प्रनष्टस्वामिकमधिगम्य संवत्सरं राज्ञा रक्ष्यमूर्ध्वमधिगन्तुश्चतुर्थोंऽशो राज्ञः शेषम्' इति । अत्र संवत्सरमित्येकवचनमविवक्षितम् । 'राजा ज्यब्द निधापयेत्' इति स्मरणात्-'हरेत परतो नृपः' इत्येतदपि स्वामिन्यनागते त्र्यब्दादूर्ध्व व्ययीकरणाभ्यनुज्ञापरम् । ततः परमागते तु स्वामिनि व्ययीभूतेऽपि द्रव्ये राजा स्वांशमवतार्य तत्सम दद्यात् । एतच्च हिरण्यादिविषयम् । गवादिविषये वक्ष्यति-'पणानेकशफे दद्यात्' इत्यादिना ॥ ३३ ॥
रथ्याशुल्कशालादिनिपतितस्य सुवर्णादेर्नष्टस्याधिगमे विधिमुक्त्वा अधुना भूमौ चिरनिखातस्य सुवर्णादेनिधिशब्दवाच्यस्याधिगमे विधिमाह
राजा लब्ध्वा निधिं दद्याविजेभ्योऽध द्विजः पुनः । विद्वानशेषमादद्यात्स सर्वस्य प्रभुर्यतः ॥ ३४ ॥ इतरेण निधौ लब्धे राजा षष्ठांशमाहरेत् ।
अनिवेदितविज्ञातो दाप्यस्तं दण्डमेव च ॥ ३५ ॥ उक्तलक्षणं निधि राजा लब्ध्वा अर्धं ब्राह्मणेभ्यो दत्त्वा शेषं कोशे निवेशयेत् । ब्राह्मणस्तु विद्वान् श्रुताध्ययनसंपन्नः सदाचारो यदि निधिं लभेत तदा सर्वमेव गृह्णीयात् । यस्मादसौ सर्वस्य जगतः प्रभुः । इतरेण तु राजविद्वद्राह्मगव्यतिरिक्तेन अविद्वद्राह्मणक्षत्रियादिना निधौ लब्धे राजा षष्ठांशमधिगत्रे दत्त्वा शेष निधिं स्वयमाहरेत् । यथाह वसिष्ठः-'अप्रज्ञायमानं वित्तं योऽधिगच्छेद्राजा तद्धरेत् षष्ठमंशमधिगन्ने दद्यात्' इति । गौतमोऽपि-निध्यधिगमो राजधनं भवति न ब्राह्मणस्याभिरूपस्य, अब्राह्मणो व्याख्याता षष्ठमंशं लभेतेत्येके' इति । अनिवेदित इति कर्तरि निष्ठा । अनिवेदितश्चासौ विज्ञातश्च राजेऽप्यनिवेदितविज्ञातः यः कश्चिन्निधिं लब्ध्वा राज्ञे न निवेदितवान् विज्ञातश्च राज्ञा स सर्व निधि दाप्यो दण्डं च शत्यपेक्षया । अथ निधेरपि स्वाम्यागत्य रूपसंख्यादिभिः स्वत्वं भावयति तदा तस्मै राजा निधिं दत्त्वा षष्ठं द्वादशं वांशं स्वयमाहरेत् । यथाह मनुः (१३५)-'ममायमिति यो ब्रूयान्निधिं स. त्येन मानवः । तस्याददीत षड्भागं राजा द्वादशमेव वा ॥' इति । अंशविकपस्तु वर्णकालाद्यपेक्षया वेदितव्यः ॥ ३४ ॥ ३५ ॥
१ किंचिद्भागं ख. २ चतुर्थो भागः शेष राज्ञ इति घ. ३ दद्याद्विप्रेभ्योऽधं घ. ४ तद्धरेदघिगत्रे षष्ठांशं दद्यात्. ५ राजधनं न ब्राह्मणस्य ग. घ. ६ रूपकसंख्यादिभिः ख. ग.
For Private And Personal Use Only
Page #178
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४६
याज्ञवल्क्यस्मृतिः।
[व्यवहाराध्यायः
चौरहृतं प्रत्याह
देयं चौरहतं द्रव्यं राज्ञा जानपदाय तु ।
अददद्धि समाप्नोति किल्बिषं यस्य तस्य तत् ॥ ३६॥ चौरैर्हतं द्रव्यं चौरेभ्यो विजित्य जानपदाय स्वदेशनिवासिने यस्य तत् व्यं तस्मै राज्ञा दातव्यम् । हि यस्मात् अददत् अप्रयच्छन् यस्य तदपहृतं द्रव्यं तस्य किल्बिषमामोति । तस्य चौरस्य च । यथाह मनु:--'दातव्यं सर्ववर्णेभ्यो राज्ञा चौरैर्हतं धनम् । राजा तदुपयुञ्जानश्चौरस्याप्नोति किल्बिषम् ॥' इति । यदि चौरहस्तादादाय स्वयमुपभुङ्क्ते तदा चौरस्य किल्बिषमाप्नोति । अथ चौरहृतमुपेक्षते तदा जानपदस्य किल्बिषम् । अथ चौरहृताहरणाय यतमानोपि न शक्नुयादाहर्तुं तदा तावद्धनं स्वकोशाद्दद्यात् । यथाह गौतमः-चौरहतमवजित्य यथास्थानं गमयेत्कोशाद्वा दद्यात्' इति । कृष्णद्वैपायनोऽपि-प्रत्याहर्तुं न शक्तस्तु धनं चौरैहृतं यदि । स्वकोशात्तद्धि देयं स्थादशक्तेन महीक्षिता ॥' इति ॥ ३६॥
इति असाधारणव्यवहारमातृकाप्रकरणम् ।
अथ ऋणादानप्रकरणम् ३ साधारणासाधारणरूपां व्यवहारमातृकामभिधायाधुनाष्टादशानां व्यवहारपदानामाद्यमृणादानपदं दर्शयति-'अशीतिभागो वृद्धिः स्यात्' इत्यादिना, 'मोच्य आधिस्तदुत्पन्ने प्रविष्टे द्विगुणे धने' इत्येवमन्तेन । तच्च ऋणादानं सप्तविधम् । ईदृशमृणं देयं, ईदृशमदेयं, अनेनाधिकारिणा देयं, अस्मिन् समये देयं, अनेन प्रकारेण देयमित्यधर्मेण पञ्चविधम् । उत्तमणे दानविधिः, आदानविधिश्चेति द्विविधमिति । एतच्च नारदेन स्पष्टीकृतम्-'ऋणं देयमदेयं च येन यत्र यया च यत् । दानग्रहणधर्माभ्यामृणादानमिति स्मृतम् ॥' इति । तत्र प्रथममुत्तमर्णस्य दानविधिमाह, तत्पूर्वकत्वादितरेषाम्
अशीतिभागो वृद्धिः स्यान्मासि मासि सबन्धके ।
वर्णक्रमाच्छतं द्वित्रिचतुःपञ्चकमन्यथा ॥ ३७॥ मासि मासि प्रतिमासं बन्धकं विश्वासार्थं यदाधीयते आधिरिति यावत् । बन्धकेन सह वर्तत इति सबन्धकः प्रयोगस्तस्मिन्सबन्धके प्रयोगे प्रयुक्तस्य द्रव्यस्य अशीतितमो भागो वृद्धिर्धा भवति । अन्यथा बन्धकरहिते प्रयोगे वर्णानां ब्राह्मणादीनां क्रमेण द्वित्रिचतुःपञ्चकं शतं धयं भवति । ब्राह्मणेऽधमणे द्विकं शतं, क्षत्रिये त्रिक, वैश्ये चतुष्कं, शूद्रे पञ्चकं, मासिमासीत्येव द्वौ वा
१ तदुपभुजानः ग. घ. २ व्यवहाराणामाद्य घ. ३ इदं पद्यमग्रे ६४ तमं द्रष्टव्यम्. ४ धर्माश्च ऋणादान. ख. ग.
For Private And Personal Use Only
Page #179
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ऋणादानप्रकरणम् ३] मिताक्षरासहिता।
१४७ त्रयो वा चत्वारो वा पञ्च वा द्वित्रिचतुःपञ्चा अस्मिन् शते वृद्धिर्दीयते इति द्वित्रिचतुःपञ्चकं शतम् । 'संख्याया अतिशदन्तायाः कन्' (५।१।२२) इत्यनुवृत्तौ 'तदस्मिन्वृद्ध्यायलाभशुल्कोपदादीयते' (५।१।१७) इति कन् । (वृद्धवृद्धिश्चक्रवृद्धिः प्रतिमासं तु कालिका । इच्छाकृता कारिता स्यात्कायिका कायकर्मणा ॥) इयं च वृद्धिर्मासि मासि गृह्यत इति कालिका । इयमेव वृद्धिर्दिवसगणनया विभज्य प्रतिदिवसं गृह्यमाणा कायिका भवति । तथाच नारदेन–'कायिका कालिका चैव कारिता च तथा परा। चक्रवृद्धिश्च शास्त्रेषु तस्य वृद्धिश्चतुविधा ॥' इत्युक्त्वोक्तम्- 'कायाविरोधिनी शश्वत्पणपादादिकायिका ॥ प्रतिमासं स्रवन्ती या वृद्धिः सा कालिका मता। वृद्धिः सा कारिता नामाधमणेन स्वयं कृता । वृद्धेरपि पुनर्वृद्धिश्चक्रवृद्धिरुदाहृता ॥' इति ॥ ३७ ॥ ग्रहीतृविशेषेण प्रकारान्तरमाह
कान्तारणास्तु दशकं सामुद्रा विंशकं शतम् । कान्तारमरण्यं तत्र गच्छन्तीति कान्तारगाः । ये वृद्ध्या धनं गृहीत्वाधिकलाभार्थमतिगहनं प्राणधनविनाशशङ्कास्थानं प्रविशन्ति ते दशकं शतं दधुः । ये च समुद्रगास्ते विशैकं शतं मासि मासीत्येव । एतदुक्तं भवति-कान्तारगेभ्यो दशकं शतं सामुद्रेभ्यश्च विंशकं उत्तमर्ण आदद्यान्मूलविनाशस्यापि शङ्कितत्वादिति ॥ इदानी कारितां वृद्धिमाह
दधुर्वा स्वकृतां वृद्धिं सर्वे सर्वासु जातिषु ॥ ३८ ॥ सर्वे वा ब्राह्मणादयोऽधमर्णाः अबन्धके सबन्धके वा स्वकृतां स्वाभ्युपगत वृद्धिं सर्वासु जातिषु दधुः । कचिदकृतापि वृद्धिर्भवति । तथाह नारदः'न वृद्धिः प्रीतिदत्तानां स्यादनाकारिता क्वचित् । अनकारितमप्यूवं वत्सरा
र्धाद्विवर्धते ॥' इति । यस्तु याचितकं गृहीत्वा देशान्तरं गतस्तं प्रति कात्यायनेनोक्तम्-'यो याचितकमादाय तमदत्त्वा दिशं व्रजेत् । ऊर्ध्व संवत्सरात्तस्य तद्धनं वृद्धिमाप्नुयात् ॥' इति । यश्च याचितकमादाय याचितोऽप्यदत्वा देशान्तरं बेजति तं प्रति तेनैवोक्तम्-'कृतोद्धारमदत्त्वा यो याचितस्तु दिशं व्रजेत् । ऊर्ध्वं मासत्रयात्तस्य तद्धनं वृद्धिमाप्नुयात् ॥' इति । यः पुनः स्वदेशे स्थित एव याचितो याचितकं न ददाति तं याचनकालादारभ्याकारितां वृद्धिं दापयेद्राजा । यथाह-'स्वदेशेऽपि स्थितो यस्तु न दद्याद्याचितः क्वचित् । तं ततोऽकारितां वृद्धिमनिच्छन्तं च दापयेत् ॥' इति । अनाकारितवृद्धेरपवादो नारदेनोक्तः–'पण्यमूल्यं भृतिया॑सो दण्डो यश्च प्रकल्पितः । वृथादानाक्षिकपणा वर्धन्ते नाविवक्षिताः ॥' इति । अविवक्षिता अनाकारिता इति ॥ ३८॥
१ धनुश्चिहगभितोऽत्यत्र श्लोकः ख. पुस्तकएवास्ति. २ विंशतिकं ख. ३ याति घ. ४ तेन कात्यायनेनैव. ५ याचित ख. ६ रभ्य वृद्धि ख. ग. ७ आक्षिकपणाक्षक्रीडासंबन्धिनः.
For Private And Personal Use Only
Page #180
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४८
याज्ञवल्क्यस्मृतिः।
[व्यवहाराध्यायः
अधुना द्रव्यविशेषे वृद्धिविशेषमाह
सन्ततिस्तु पशुस्त्रीणां पशुस्त्रीणां सन्ततिरेव वृद्धिः । पशूनां स्त्रीणां पोषणासमर्थस्य तत्पुष्टिसन्ततिकामस्य प्रयोगः संभवति । ग्रहणं च क्षीरपरिचर्यार्थिनः ॥
अधुना प्रयुक्तस्य द्रव्यस्य वृद्धिग्रहणमन्तरेणापि चिरकालावस्थितस्य कस्य द्रव्यस्य कियती परा वृद्धिरित्यपेक्षित आह
रसस्याष्टगुणा परा । वस्नधान्यहिरण्यानां चतुस्त्रिद्विगुणा परा ॥ ३९ ॥ रसस्य तैलघृतादेवृद्धिग्रहणमन्तरेण चिरकालावस्थितस्य स्वकृतया वृद्ध्या वर्धमानस्याष्टगुणा वृद्धिः परा । नातः परं वर्धते । तथा वस्त्रधान्यहिरण्यानां यथासंख्यं चतुर्गुणा त्रिगुणा द्विगुणा वृद्धिः परा । वसिष्ठेन तु रसस्य त्रैगुण्यमुक्तम् 'द्विगुणं हिरण्यं त्रिगुणं धान्यं । धान्येनैव रसा व्याख्याताः पुष्पमूलफलानि च । तुलातेमष्टगुणम्' इति । मनुना तु धान्यस्य पुष्पमूलफलादीनां च पञ्चगुणत्वमुक्तम्-'धान्ये शदे लवे वाह्ये नातिकामति पञ्चताम्' इति । शदः क्षेत्रफलं पुष्पमूलफलादि। लवो मेषोर्णाचमरीकेशादिः। वाह्यो बलीवर्दतुरगादिः। धान्यशदलववाह्यविषया वृद्धिः पञ्चगुणत्वं नातिक्रामतीति । तत्राधमर्णयोग्यतावशेन दुर्भिक्षादिकालवशेन च व्यवस्था द्रष्टव्या । एतच्च सकृत्प्रयोगे सकृदाहरणे च वेदितव्यम् । पुरुषान्तरसंक्रमणेन प्रयोगान्तरकरणे तस्मिन्नेव वा पुरुषे रेकसेकाभ्यां अनेकशः प्रयोगान्तरकरणे सुवर्णादिकं द्वैगुण्याद्यतिक्रम्य पूर्ववद्वर्धते । सकृत्प्रयोगेऽपि प्रतिदिनं प्रतिमासं प्रतिसंवत्सरं वा वृद्ध्याहरणेऽधमर्णदेयस्य द्वैगुण्यासंभवात्पूर्वाहृतवृद्ध्या सह द्वैगुण्यमतिक्रम्य वर्धत एव । यथाह मनुः (८1१५१)-'कुसीदवृद्धिद्वैगुण्यं नात्येति सकृदाहृता।' इति । सकृदाहितेत्यपि पाठोऽस्ति । उपचयार्थ प्रयुक्त द्रव्यं कुसीदं तस्य वृद्धिः कुसीदवृद्धिः सा द्वैगुण्यं नात्येति नातिक्रॉमति । यदि सकृदाहिता सकृत्प्रयुक्ता। पुरुषान्तरसंक्रमणादिना प्रयोगान्तरकरणे द्वैगुण्यमत्येति । सकृदाहृतेति पाठे तु शनैः शनैः प्रतिदिनं प्रतिमासं प्रतिसंवत्सरं वाधमदाहृता द्वैगुण्यमत्येतीति व्याख्येयम् । तथा गौतमेनाप्युक्तम्-'चिरस्थाने द्वैगुण्यं प्रयोगस्य' इति । प्रयोगस्येत्येकवचननिर्देशात्प्रयोगान्तरकरणे द्वैगुण्यातिक्रमोऽभिप्रेतः । चिरस्थान इति निर्देशात् शनैः शनैर्वृद्धिग्रहणे द्वैगुण्यातिक्रमो दर्शितः ॥ ३९॥ ऋणप्रयोगधर्मा उक्ताः । सांप्रतं प्रयुक्तस्य धनस्य ग्रहणधर्मा उच्यन्ते
प्रपन्नं साधयन्नर्थ न वाच्यो नृपतेभवेत् ।
साध्यमानो नृपं गच्छेद्दण्ड्यो दाप्यश्च तद्धनम् ॥ ४०॥ १ विशेषेण ख. ग. २ तुलधृतं त्रितय ख. ग. तृतीयमष्ट घ. ३ वृक्षफलं घ. ४ गान्तरीकरणे घ. ५ किंतु मूलवृद्धिर्द्विगुणैव भवतीति कुल्लकः. ६ गच्छन् व.
For Private And Personal Use Only
Page #181
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ऋणादानप्रकरणम् ३] मिताक्षरासहिता ।
१४९
प्रपन्नमभ्युपगतमधमणेन धनं साक्ष्यादिभिर्भावितं वा साधयन्प्रत्याहरन् धर्मादिमिरुपायैरुत्तमो नृपतेनं वाच्यो निवारणीयो न भवति ॥ धर्मादयश्चोपाया मनुना दर्शिताः (मनुः ८।४९)-'धर्मेण व्यवहारेण छलेनाचरितेन च । प्रेयुक्तं साधयेदर्थ पञ्चमेन बलेन च ॥' इति । धर्मेण प्रीतियुक्तेन सत्यवचनेन । व्यवहारेण साक्षिलेख्याधुपायेन । छलेन उत्सवादिव्याजेन भूषणादिग्रहणेन । आचरितेन अभोजनेन । पञ्चमेनोपायेन बलेन निगडबन्धनादिना उपचयार्थ प्रयुक्तं द्रव्यमेतैरुपायैरात्मसारकुर्यादिति । प्रपत्वं साधयन्नर्थ न वाच्य इति वदन् अप्रतिपन्नं साधयन् राज्ञा निवारणीय इति दर्शयति । एतदेव स्पष्टीकृतं कात्यायनेन-'पीडयेद्यो धनी कश्चिदृणिकं न्यायवादिनम् । तस्माद
र्थात्स हीयेत तत्सम चौमुयामम् ॥' इति । यस्तु धर्मादिभिरुपायैः प्रपन्नमर्थ साध्यमानो याच्यमानो नृपं गच्छेद्राजानममिगम्य साधयन्तमभियुझे स दण्ख्यो भवति, शक्त्यनुसारेण धनिने तद्धनं दाप्यश्च । राज्ञा दापने च प्रकारा दर्शिताः-'राजा तु स्वामिने विप्रं सान्त्वेनैव प्रदापयेत् । देशाचारेण चान्यांस्तु दुष्टान्संपीड्य दापयेत् ॥ रिक्थिनं सुहृदं वापि छलेनैव प्रदापयेत् ॥' इति । साध्यमानो नृपं गच्छन्नित्येतत्स्मृत्याचारव्यपेतेनेत्यस्य प्रत्युदाहरणं बोद्धव्यम् ॥ ४० ॥
बहुघूत्तमणिकेषु युगपत्प्राप्तेष्वेकोऽधमर्णिकः केन क्रमेण दाप्यो राज्ञेत्यपेक्षित आह
गृहीतानुक्रमादाप्यो धनिनामधमर्णिकः ।
दत्त्वा तु ब्राह्मणायैव नृपतेस्तदनन्तरम् ॥४१॥ समानजातीयेषु धनिषु येनैव क्रमेण धनं गृहीतं तेनैव क्रमेणाधर्णिको राज्ञा दाप्यः । भिन्नजातीयेषु तु ब्राह्मणादिक्रमेण ॥ ४१ ॥
यदा पुनरुत्तमो दुर्बलः प्रतिपन्नमर्थं धर्मादिभिरुपायैः साधयितुमशक्नुवराज्ञा साधितार्थो भवति तदाऽधमर्णस्य दण्डमुत्तमर्णस्य च भृतिदानमाह
राज्ञाधमर्णिको दाप्यः साधिताद्दशकं शतम् ।
पञ्चकं च शतं दाप्यः प्राप्तार्थो ह्युत्तमर्णिकः ॥ ४२ ॥ अधमर्णिको राज्ञा प्रतिपन्नार्थात्साधिताद्दशकं शतं दाप्यः । प्रतिपन्नस्य साधितार्थस्य दशममंशं राजाऽधमर्णिकाद्दण्डरूपेण गृह्णीयादित्यर्थः । उत्तमर्णस्तु प्राप्तार्थः पञ्चकं शतं भृतिरूपेण दाप्यः । साधितार्थस्य विंशतितमं भागमुत्तम
दाजा भृत्यथं गृह्णीयादित्यर्थः । अप्रतिपन्नार्थसाधने तु दण्डविभागो दर्शितः-'निलवे भावितो दद्यात्' इत्यादिना ॥ ४२ ॥ सधनमधमणिकं प्रत्युक्तम् , अधुना निर्धनमधमणिकं प्रत्याह
हीनजाति परिक्षीणमृणार्थ कर्म कारयेत् । १ प्रपन्नं साधयन्नर्थ घ. २ लेखायुपन्यासेन घ. ३ प्राप्नुयात् घ.
For Private And Personal Use Only
Page #182
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५०
याज्ञवल्क्यस्मृतिः। [व्यवहाराध्यायः ब्राह्मणस्तु परिक्षीणः शनैर्दाप्यो यथोदयम् ।। ४३ ॥ ब्राह्मणादिरुत्तमों हीनजाति क्षत्रियादिजाति परिक्षीणं निर्धनमणार्थ ऋणनिवृत्यर्थ कर्म स्वकर्म स्वजात्यनुरूपं कारयेत् तत्कुटुम्बाविरोधन । ब्राह्मणस्तु पुनः परिक्षीणो निर्धनः शनैः शनैः यथोदयं यथासंभवमृणं दाप्यः । अत्र च हीनजातिग्रहणं समानजातेरप्युपलक्षणम् । अतश्च समानजातिमपि परिक्षीणं यथोचितं कर्म कारयेत् । ब्राह्मणग्रहणं च श्रेयोजातेरुपलक्षणम् । अतश्च क्षत्रियादिरपि परिक्षीणो वैश्यादेः शनैः शनैर्दाप्यो यथोदयम् । एतदेव मनुना स्पष्टीकृतम् (८१७७)--'कर्मणापि समं कुर्याद्ध निकेनाधर्णिकः । समोऽपकष्टजातिश्च दद्याच्छ्रेयांस्तु तच्छनैः ॥' इति । उत्तमर्णेन समं निवृत्तोत्तमर्णाधमर्णव्यपदेशमात्मानमधमणः कर्मणा कुर्यादित्यर्थः ॥ १३ ॥ मध्यस्थस्थापितं न वर्धते
दीयमानं न गृह्णाति प्रयुक्तं यः स्वकं धनम् ।
मध्यस्थस्थापितं चेत्स्याद्वर्धते न ततः परम् ॥४४॥ किंच । उपचयार्थ प्रयुक्तं धनं अधमर्णेन दीयमानमुत्तमो वृद्धिलोभाद्यदि न गृह्णाति तदाधमणेन मध्यमहस्ते स्थापितं यदि स्यात्तदा ततः स्थापनादूर्व न वर्धते । अथ स्थापितमपि याच्यमानो न ददाति ततः पूर्ववद्वर्धत एव ॥४४॥ इदानी देयमृणं यदा येन च देयं तदाह
अविभक्तैः कुटुम्बार्थे यदृणं तु कृतं भवेत् ।।
दास्तद्रिक्थिनः प्रेते प्रोषिते वा कुटुम्बिनि ॥४५॥ अविभक्तबहुभिः कुटुम्बार्थमेकैकेन वा यदृणं कृतं तदृणं कुटुम्बी दद्यात् । तस्मिन्प्रेते प्रोषिते वा तद्विक्थिनः सर्वे दद्युः ॥ ४५ ॥ येन देयमित्यत्र प्रत्युदाहरणमाह
न योषित्पतिपुत्राभ्यां न पुत्रेण कृतं पिता ।
दद्याहते कुटुम्बार्थान्न पतिः स्त्रीकृतं तथा ॥४६॥ पत्या कृतमृणं योषिद्भार्या नैव दद्यात् । पुत्रेण कृतं योषिन्माता न दद्यात् । तथा पुत्रेण कृतं पिता न दद्यात् । तथा भार्याकृतं पतिर्न दद्यात् । कुटुम्बार्थादृत इति सर्वशेषः । अतश्च कुटुम्बार्थ येन केनापि कृतं तत् कुटुम्बिना देयम् । तदभावे तदायहरैयमित्युक्तमेव ॥ ४६ ॥ पुत्रपौत्रैर्ऋणं देयमिति वक्ष्यति तस्य पुरस्तादपवादमाह
सुराकामद्यूतकृतं दण्डशुल्कावशिष्टकम् ।
वृथादानं तथैवेह पुत्रो दद्यान्न पैतृकम् ॥४७॥ १ मृणार्थ कर्म घ. २ द्धनिकायाधमर्णिकः. ३ पितं यत्स्यात् घ. ४ पूर्व धर्धत एव ग. घ. ५ सर्वविशेषणं ख.
For Private And Personal Use Only
Page #183
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ऋणादानप्रकरणम् ३] मिताक्षरासहिता।
१५१ सुरापानेन यत्कृतमृणं कामकृतं स्त्रीव्यसनंनिमित्तं घूते पराजयनिमित्तं दण्ड. शुल्कयोरवशिष्टं वृथादानं धूर्तबन्दिमल्लादिभ्यो . यत्प्रतिज्ञातम्-'धूर्ते बन्दिनि मल्ले च कुवैद्ये कितवे शठे । चाटचारणचौरेषु दत्तं भवति निष्फलम् ॥' इति स्मरणात् । एतद्दणं पित्रा कृतं पुत्रादिः शौण्डिकादिभ्यो न दद्यात् । अत्र दण्डशुल्कावशिष्टकमित्यवशिष्टग्रहणात्सर्व दातव्यमिति न मन्तव्यम् । - दण्डं वा दण्डशेषं वा शुल्कं तच्छेषमेव वा । न दातव्यं तु पुत्रेण यच्च न व्यावहारिकम् ॥' इत्यौशनसस्मरणात् । गौतमेनाप्युक्तम्-'मद्यशुल्कयूतकामदण्डान्पुत्रानाध्यावहेयुः' इति । न पुत्रस्योपरि भवन्तीत्यर्थः । अनेनादेयमृणमुक्तम् ॥ ४७ ॥ 'न पतिः स्त्रीकृतं तथे'त्यस्यापवादमाह
गोपशौण्डिकशैलूपरजकव्याधयोषिताम् ।
ऋणं दद्यात्पतिस्तासां यसात्तिस्तदाश्रया ॥४८॥ गोपो गोपालः । शौण्डिकः सुराकारः । शैलूषो नटः । रजको वस्त्राणां रक्षकः । व्याधो मृगयुः । एतेषां योषिद्भिर्यदृणं कृतं तत्तत्पतिभिर्देयम् । यस्मात्तेषां वृत्तिर्जीवनं तदाश्रया योषिदधीना । यस्मादृत्तिस्तदाश्रयेति हेतुव्यपदेशादन्येऽपि ये योषिदधीनजीवनास्तेऽपि योषित्कृतमृणं दधुरिति गम्यते ॥ ४ ॥ पतिकृतं भार्या न दद्यादित्यस्यापवादमाह
प्रतिपन्नं स्त्रिया देयं पत्या वा सह यत्कृतम् ।
स्वयं कृतं वा यणं नान्यत्स्त्री दातुमर्हति ॥ ४९ ॥ मुमूर्षुणा प्रवत्स्यता वा पत्या नियुक्तया ऋणदाने यत्प्रतिपन्नं तत्पतिकृतमृणं देयम् । यच्च पत्या सह भार्यया ऋणं कृतं तदपि भर्तीभावे भार्यया अपुत्रया देयम् । यच्च स्वयं कृतं ऋणं तदपि देयम् । ननु प्रतिपन्नादि त्रयं स्त्रिया देयमिति न वक्तव्यम् , संदेहाभावात् । उच्यते-'भार्या पुत्रश्च दासश्च त्रय एवाधनाः स्मृताः । यत्ते समधिगच्छन्ति यस्यैते तस्य तद्धनम् ॥' इति वचनान्निर्धनत्वेन प्रतिपन्नादिष्वदानाशङ्कायामिदमुच्यते प्रतिपझं स्त्रिया देयमित्यादि । नचानेन वचनेन स्यादीनां निर्धनत्वमभिधीयते । पारतध्यमात्रप्रतिपादनपरत्वात् । एतच्च विभागप्रकरणे स्पष्टीकरिष्यते । नान्यस्त्री दातुमर्हतीत्येतत्तर्हि न वक्तव्यम् , विधानेनैवान्यत्र प्रतिषेधसिद्धेः । उच्यते-'प्रतिपन्नं स्त्रिया देयं पत्या वा सह यत्कृतम्' इत्येतयोरपवादार्थमुच्यते । अन्यत्सुराकामादिवचनोपात्तं प्रतिपन्नमपि पत्या सह कृतमपि न देयमिति ॥ ४९ ॥ पुनरपि यदृणं दातव्यं येन च दातव्यं यन्न च काले दातव्यं तत्रितयमाह
पितरि प्रोषिते प्रेते व्यसनाभिप्लुतेऽपि वा। १ निर्वृत्तं ख. ग. २ पुत्रानध्यावहे युःख. ग. ३ स्तेषां घ.४ स्वयमेव ख. ५ शंकयेदमुच्यते घ.
या० १६
For Private And Personal Use Only
Page #184
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५२
याज्ञवल्क्यस्मृतिः। [व्यवहाराध्यायः पुत्रपौत्रैर्ऋणं देयं निह्नवे साक्षिभावितम् ॥ ५० ॥ पिता यदि दातव्यमृणमदत्वा प्रेतो दूरदेशं गतोऽचिकित्सनीयव्याध्यायमि. भूतो वा तदा तस्कृतमुणमाख्यापनेऽवश्यं देयं पुत्रेण पौत्रेण वा पितृधनाभावेऽपि पुत्रत्वेन पौत्रत्वेन च, तत्र क्रमोऽप्ययमेव-'पित्रभावे पुत्रः पुत्राभावे पौत्र' इति पुत्रेण पौत्रेण वा निह्नवे कृते आर्थिना साक्ष्यादिभिर्भावितमृणं देयं पुत्रपौरित्यन्वयः । अत्र पितरि प्रोषित इत्येतावदुक्तम् , कालविशेषस्तु नारदेनोक्तो द्रष्टव्यः-'नाक्सिंवत्सरादिशापितरि प्रोषिते सुतः । ऋणं दद्यापितृव्ये वा ज्येष्ठे भ्रातर्यथापि वा ॥' इति । प्रेतेऽप्यप्राप्तव्यवहारकालो न दद्यात् । प्राप्तव्यवहारकालस्तु दद्यात् । सच कालस्तेनैव दर्शितः --'गर्भस्थैः सदृशो ज्ञेय आष्टमद्वित्सराच्छिशुः । बाल आषोडशाद्वर्षात्पौगण्डश्चेति सब्द्यते ॥ परतो व्यवहारज्ञः स्वतन्त्रः पितरावृते ॥' इति । यद्यपि पितृमरणादूर्ध्व बालोऽपि स्वतन्त्रो जातस्तथापि नर्णभाग्भवति । यथाह-'अप्राप्तव्यवहारश्चेत्स्वतन्त्रोऽपि हि नर्णभाक् । स्वातन्यं हि स्मृतं ज्येष्ठे ज्यैष्ठ्यं गुणवयःकृतम् ॥' इति । तथा आसेधाह्वाननिषेधश्च दृश्यते-'अप्राप्तव्यवहारश्च दूतो दानोन्मुखो व्रती। विषमस्थाश्च नासेध्या न चैतानाह्वयेन्नृपः ॥' इति । तस्मात्- 'अतः पुत्रेण जातेन स्वार्थमुत्सृज्य यत्नतः । ऋणात्पिता मोचनीयो यथा नो नरकं व्रजेत् ॥' इति । पुत्रेण व्यवहाराज्ञतया जातेन निष्पन्नेनेति व्याख्येयम् । श्राद्धे तु बालस्थाप्यधिकारः-'न ब्रह्माभिव्याहारयेदन्यत्र स्वधानिनयनात्' इति गौतमस्मरणात् । पुत्रपौत्रैरिति बहुवचन निर्देशाद्वहवः पुत्रा यदि विभक्ताः स्वांशानुरूपेण ऋणं दधुः । अविभक्ताश्चेत्संभूयसमुत्थानेन गुणप्रधानभावेन वर्तमानानां प्रधानभूत एव वा दद्यादिति गम्यते । यथाह नारदः-'अत उर्व पितुः पुत्रा ऋणं दधुर्यथांशतः । अविभक्ता विभक्ता वा यस्तां चोद्वहते धुरम् ॥' इति । अत्र च यद्यपि पुत्रपौत्रैर्ऋणं देयमित्यविशेषेणोक्तं तथापि पुत्रेण यथा पिता सवृद्धिक ददाति तथैव देयम् । पौत्रेण तु समं मूलमेव दातव्यं न वृद्धिरिति विशेषोऽवगन्तव्यः । 'ऋणमात्मीयवस्पियं देयं पुत्रैर्विभावितम् । पैतामहं समं देयमदेयं तत्सुतस्य तु ॥' इति बृहस्पतिस्मरणात् । अत्र विभावितमित्यविशेषोपादानात्साक्षिविभावितमित्यत्र साक्षिग्रहणं प्रमाणोपलक्षणम् । समं यावद्गृहीतं तावदेव देयं न वृद्धिः । तत्सुतस्य प्रपौत्रस्यादेयमगृहीतधनस्य । एतच्चोत्तरश्लोके स्पष्टीक्रियते ॥ ५० ॥
ऋणापाकरणे ऋणी तत्पुत्रः पौत्र इति त्रयः कर्तारो दर्शितास्तेषां च समवाये क्रमोऽपि दर्शितः । इदानीं कत्रन्तरसमवाये च क्रममाह
रिक्थग्राह ऋणं दाप्यो योषिद्धाहस्तथैव च ।
पुत्रोऽनन्याश्रितद्रव्यः पुत्रहीनस्य रिक्थिनः ॥५१॥ अन्यदीयं द्रव्यमन्यस्य क्रयादिव्यतिरेकेण यत्स्वीयं भवति तद्रिक्थम् । वि१ कृतमृणमवश्यं घ. २ अष्टमात् ख. ग. ३ व्याहरेदन्यत्र ख. ४ यस्तावद्वहते ख. ५ तथैव ऋणं ख. ग. ६ स्पष्टयिष्यते ख. ग.
For Private And Personal Use Only
Page #185
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ऋणादानप्रकरणम् ३]
मिताक्षरासहिता ।
१५३
-
भागद्वारेण रिक्थं गृह्णातीति रिक्थग्राहः स ऋणं दाप्यः । एतदुक्तं भवति - 'यो यदीयं द्रव्यं रिक्थरूपेण गृह्णाति स तत्कृतमृणं दाप्यो न चौरादिः । योषितं भार्यां गृह्णातीति योषिड्राहः स तथैवर्णे दाप्यः । यो यदीयां योषितं गृह्णाति स तत्कृतमृणं दाप्यः । योषितोऽविभाज्यद्रव्यत्वेन रिक्थव्यपदेशानर्हत्वाद्भेदेन निर्देशः । पुत्रश्चानन्याश्रितद्रव्य ऋणं दाप्यः । अन्यमाश्रितमन्याश्रितं मातृपितृसंबन्धिद्रव्यं यस्यासावन्याश्रितद्रव्यः न अन्याश्रितद्रव्योऽनन्याश्रितद्रव्यः पुत्रहीनस्य रिक्थिन ऋणं दाप्य इति संबन्धः । एतेषां समवाये क्रमश्च पाठक्रम एव 'रिक्थग्राह ऋणं दाप्यस्तदभावे योषिद्राहस्तदभावे पुत्र' इति । नन्वेतेषां समवाय एव नोपपद्यते - ' न भ्रातरो न पितरः पुत्रा रिक्थहराः पितुः' इति पुत्रे सत्यन्यस्य रिक्थग्रहणासंभवात् । योषिद्धा होऽपि नोपपद्यते, (मनुः ५/१६२ ) - 'न द्वितीयश्च साध्वीनां क्वचिद्धर्तोपदिश्यते' इति स्मरणात् । तथा तदृणं पुत्रो दाप्य इत्यप्ययुक्तम् । 'पुत्रपौत्रैर्ऋणं देयम्' इत्युक्तत्वात् । अनन्याश्रितद्रव्य इति विशेषणमप्यनर्थकम् पुत्रे सति द्रव्यस्यान्याश्रयणासंभवात्, संभवे च रिक्थग्राह इत्यनेनैव गतार्थत्वात् । पुत्रहीनस्य रिक्थिन इत्येतदपि न वक्तव्यम् । पुत्रे सत्यपि रिक्थग्राह ऋणं दाप्य इति स्थितम् । असति पुत्रे रिक्थग्राहः सुतरां दाप्य इति सिद्धमेवेति । अत्रोच्यते – पुत्रे सत्यप्यन्यो रिक्थग्राही संभवति । क्लीबान्धबधिरादीनां पुत्रत्वेऽपि रिक्थहरत्वाभावात् । तथाच क्लीवादीननुक्रम्य भर्तव्याः स्युर्निरंशकाः' इति वक्ष्यति । तथा - ' सवर्णापुत्रीऽप्यन्यायवृत्तिर्न लभेतैकेषाम्' इति गौतमस्मरणात् । अतश्च कृीबादिषु पुत्रेषु सत्सु अन्यायवृत्ते च सवर्णापुत्रे सति रिक्थग्राही पितृव्यतत्पुत्रादिः । योषिहो यद्यपि शास्त्राविरोधेन न संभवति तथाप्यतिक्रान्तनिषेधः पूर्वपतिकृतपाकरणाधिकारी भवत्येव । योषिद्वाहो यश्चतसृणां स्वैरिणीनामन्तिमां गृह्णाति यश्च पुनर्भुवां तिसृणां प्रथमाम् । यथाह नारदः - 'परपूर्वाः स्त्रिय. स्त्वन्याः सप्त प्रोक्ता यथाक्रमम् । पुनर्भूस्त्रिविधा तासां स्वैरिणी तु चतुर्विधा ॥ कन्यैवाक्षतयोनिर्या पाणिग्रहणदूषिता । पुनर्भूः प्रथमा प्रोक्ता पुनः संस्कारक - र्मणा ॥ देशधर्मानवेक्ष्य स्त्री गुरुभिर्या प्रदीयते । उत्पन्नसाहसान्यस्मै सा द्विater प्रकीर्तिता ॥' उत्पन्नसाहसा उत्पन्नव्यभिचारा । – 'असत्सु देवरेषु स्त्रीबान्धवैर्या प्रदीयते । सवर्णाय सपिण्डाय सा तृतीया प्रकीर्तिता ॥ स्त्रीप्रसूताऽप्रसूता वा पत्यावेव तु जीवति । कामात्समाश्रयेदन्यं प्रथमा स्वैरिणी तु सा ॥ कौमारं पतिमुत्सृज्य या त्वन्यं पुरुषं श्रिता । पुनः पत्युर्ब्रहं यायात्सा द्वितीया प्रकीर्तिता ॥ मृते भर्तरि तु प्राप्तान्देवरादीनपास्य या । उपगच्छेत्परं कामात्सा तृतीया प्रकीर्तिता ॥ प्रप्ता देशाद्धनक्रीता क्षुत्पिपासातुरा च या । तवाहमि - त्युपगता सा चतुर्थी प्रकीर्तिता ॥ अन्तिमा स्वैरिणीनां या प्रथमा च पुनर्भु
१ समवाय एककालावच्छेदेन प्राप्तिः २ रिक्थग्राहाभावात् ख. ३ भर्तव्यास्तु ख. भर्तव्याश्च घ. ४ अन्यायवृत्तो न. ५ प्रथमा नाम ख. ग. ६ प्राप्तादेशाद्वरात्क्रीता ग.
For Private And Personal Use Only
Page #186
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५४
याज्ञवल्क्यस्मृतिः। [व्यवहाराध्यायः वाम् । ऋणं तयोः पतिकृतं दद्यायस्तामुपाश्रितः ॥' इति । तथान्योऽपि योषि. द्वाह ऋणापाकरणेऽधिकारी तेनैव दर्शितः-'या तु सप्रधनैव स्त्री सापत्या वा. न्यमाश्रयेत् । सोऽस्या दद्याहणं भर्तुरुत्सनेद्वा तथैव ताम् ॥' प्रकृष्टेन धनेन सह वर्तत इति सप्रधना । बहुधनेति यावत् । तथा-'अधनस्य ह्यपुत्रस्य मृतस्योपैति यः स्त्रियम् । ऋणं वोढः स भजते सैव चास्य धनं स्मृतम् ॥' इति । पुत्रस्य पुनर्वचनं फ्रमार्थम् । अनन्याश्रितद्रव्य इति बहुषु पुत्रेषु रिक्थाभावेऽप्यंशग्रहणयोग्यस्यैवर्णापाकरणेऽधिकारो नायोग्यस्यान्धादेरित्येवमर्थम् । पुत्रही. नस्य रिक्थिन इत्येतदपि पुत्रपौत्रहीनस्य प्रपौत्रादयो यदि रिक्थं गृह्णन्ति तदा ऋणं दाप्या नान्यथेत्येवमर्थम् । पुत्रपौत्रौ च रिक्थग्रहणाभावेऽपि दाप्यावित्युक्तम् । यथाह नारदः-'क्रमादव्याहतं प्राप्तं पुत्रैर्यवर्णमुद्धृतम् । दधुः पैतामहं पौत्रास्तचतुर्थाशिवर्तते ॥' इति सर्व निरवचम् ॥ यद्वा योषिदाहाभावे पुत्रो दाप्य इत्युक्तम् । पुत्राभावे योषिद्धाहो दाप्य इत्युच्यते । पुत्रहीनस्य रिक्थिन इति रिक्थशब्देन योषिदेवोच्यते। 'सैव चास्य धनं स्मृतम्' इति स्मरणात्, 'यो यस्य हरते दारान्स तस्य हरते धनम्' इति च ॥ ननु योषिद्राहा. भावे पुत्र ऋणं दाप्यः पुत्राभावे योषिद्वाह इति परस्परविरुद्धम् । उभयसनावे न कश्चिद्दाप्य इति । नैषः दोषः । अन्तिमस्वैरिणीग्राहिणः प्रथमपुनर्भूग्राहिणः सप्रधनस्त्रीहारिणश्चाभावे पुत्रो दाप्यः। पुत्राभावे तु निर्धन निरपत्ययोषिद्राही दाप्य इति । एतदेवोक्तं नारदेन-'धनस्त्रीहारिपुत्राणामृणभाग्यो धनं हरेत् । पुत्रोऽसतोः स्त्रीधनिनोः स्त्रीहारी धनिपुत्रयोः ॥' इति । धनस्त्रीहारिपुत्राणां समवाये यो धनं हरेस ऋणभाक् । पुत्रोऽसतोः स्त्रीधनिनोः स्त्री च धनं च स्त्रीधने ते विद्येते ययोस्तौ स्त्रीधनिनौ तयोः स्त्रीधनिनोरसतोः पुत्र एव ऋणभाक् भवति । धनिपुप्रयोरसतोः स्त्रीहार्येवर्णभाक् । स्त्रीहार्यभावे पुत्र ऋणभाक् पुत्राभावे स्त्रीहारीति विरोधाभासपरिहारः पूर्ववत् । पुत्रहीनस्य रिक्थिन इत्यस्यान्या व्याख्या-एते धनस्त्रीहारिपुत्रा ऋणं कस्य दाप्या इत्यपेक्षायां उत्तमर्णस्य दाप्यास्तदभावे तत्पुत्रादेः, पुत्रायभावे कस्य दाप्या इत्यपेक्षायामिदमुपतिष्ठते पुत्रहीनस्य रिक्थिन इति । पुत्राधन्वयहीनस्योत्तमर्णस्य यो रिक्थी रिक्थग्रहणयोग्यः सपिण्डादिस्तस्य रिक्थिनो दाप्याः । तथाच नारदेन–'ब्राह्मणस्य तु यद्देयं सान्वयस्य चे नास्ति चेत् । निर्वपेत्तत्सकुल्येषु तदभावेऽस्य बन्धुषु।' इत्यभिहितम्-'यदा तु न सकुल्याः स्युनं च संबन्धिवान्धवाः । तदा दद्याविजेभ्यस्तु तेष्वसत्स्वप्सु निक्षिपेत् ॥' इति ॥ ५१ ॥ अधुना पुरुषविशेषे ऋणग्रहणं प्रतिषेधयन्प्रसङ्गादन्यदपि प्रतिषेधति
भ्रातॄणामथ दम्पत्योः पितुः पुत्रस्य चैव हि । प्रातिभाव्यमृणं साक्ष्यमविभक्ते न तु स्मृतम् ॥५२॥
१ ऋणमोदुः घ. २ विरोधप्रतिभासः ख. ३ इति विवक्षायां ख. ४ तत्स्त्रीपुत्रादेः घ. ५ नचास्ति चेत् घ. ६ भावे स्वबन्धुषु ख.
For Private And Personal Use Only
Page #187
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ऋणादानप्रकरणम् ३ ] मिताक्षरासहिता ।
१५५
प्रतिभुवो भावः प्रातिभाव्यं । भ्रातॄणां दम्पत्योः पितापुत्रयोश्वाविभक्ते द्रव्ये द्रव्यविभागात्प्राक्प्रातिभाव्यमृणं साक्ष्यं च न स्मृतं मन्वादिभिः । अपितु प्रतिषिद्धं, साधारणधनत्वात् । प्रातिभाव्यसाक्षित्वयोः पक्षे द्रव्यव्ययावसानत्वात् , ऋणस्य चावश्यप्रतिदेयत्वात् । एतच्च परस्परानुमतिव्यतिरेकेण, परस्परानुमत्या त्वविभक्तानामपि प्रातिभाव्यादि भवत्येव । विभागादूर्व तु परस्परानुमतिव्यतिरेकेणापि भवति ॥ ननु दम्पत्योर्विभागात्प्राक्प्रातिभाव्यादिप्रतिषेधो न युज्यते । तयोविभागाभावेन विशेषणानर्थक्यात् । विभागाभावश्चापस्तम्बेन दर्शितः-'जायापत्योर्न विभागो विद्यत इति' । सत्यम् । श्रौतस्माग्निसाध्येषु कर्मसु तत्फलेषु च विभागाभावो न पुनः सर्वकर्मसु द्रव्येषु वा । तथाहि-'जायापत्योर्न निभागो विद्यते' इत्युक्त्वा किमिति न विद्यते इत्यपेक्षायां हेतुमुक्तवान्-'पाणिग्रहणाद्धि सहत्वं कर्मसु तथा पुण्यफलेषु च' इति । हि यस्मात्पाणिग्रहणादारभ्य कर्मसु सहत्वं श्रूयते-'जायापती अभिमादधीयाताम्' इति । तस्मादाधाने सहाधिकारादाधानसिद्धाग्निसाध्येषु कर्मसु सहाधिकारः । तथा 'कर्म स्मात विवाहानौ' इत्यादिस्मरणाद्विवाहसिद्धाग्निसाध्येष्वपि कर्मसु सहाधिकार एव । अतश्चोभयविधाग्निनिरपेक्षेषु कर्मसु पूर्तेषु जायापत्योः पृथगेवाधिकारः संपद्यते । तथा पुण्यानां फलेषु स्वर्गादिषु जायापत्योः सहत्वं श्रूयते-'दिविज्योतिरजरमारभेताम्' इत्यादि । येषु पुण्यकर्मसु सहा. धिकारस्तेषां फलेषु सहत्वमिति बोद्धव्यं, न पुनः पूर्तानां भत्रनुज्ञयानुष्ठि• तानां फलेष्वपि ॥ ननु द्रव्यस्वामित्वेऽपि सहत्वमुक्तम्-'द्रव्यपरिग्रहेषु च नहि भर्तुर्विप्रवासे नैमित्तिके दाने स्तेयमुपदिशन्ति' इति । सत्यम् । द्रव्यस्खा. मित्वं पत्या दर्शितमनेन न पुनर्विभागाभावः । यस्माइन्यपरिग्रहेषु चेत्युक्त्वा तत्र कारणमुक्तम्-'भर्तुर्विप्रवासे नैमित्तिकेऽवश्यकर्तव्ये दानेऽतिथिभोजनभिक्षाप्रदानादौ हि यस्मान्न स्तेयमुपदिशन्ति मन्वादयस्तस्माद्भार्याया अपि द्रव्य.. स्वामित्वमस्ति अन्यथा स्तेयं स्यात्' इति । तस्माद्भर्तुरिच्छया भार्याया अपि द्रव्यविभागो भवत्येव न स्वेच्छया । यथा वक्ष्यति--'यदि कुर्यात्समानंशान्पत्यः कार्याः समांशिकाः' इति ॥ ५२ ॥ अधुना प्रातिभाव्यं निरूपयितुमाह
दर्शने प्रत्यये दाने प्रातिभाव्यं विधीयते ।
आद्यौ तु वितथे दाप्यावितरस्य सुता अपि ॥५३॥ प्रातिभाव्यं नाम विश्वासार्थ पुरुषान्तरेण सह समयः। तच्च विषयभेदात्रिधा भिद्यते । यथा-दर्शने दर्शनापेक्षायां एनं दर्शयिष्यामीति । प्रत्यये विश्वासे मत्प्रत्ययेनास्य धनं प्रयच्छ नायं स्वां वञ्चयिष्यते, यतोऽमुकस्य पुत्रोऽयं उर्वरा. प्रायभूरस्य ग्रामवैरो वास्तीति । दाने यद्ययं न ददाति तदानीमहमेव दास्या
१ भार्यायामपि ख. २ प्रकृताध्यायस्य ११५ तमे पये. ३ वरोऽस्तीति वा. घ.
For Private And Personal Use Only
Page #188
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
याज्ञवल्क्यस्मृतिः। [व्यवहाराध्यायः मीति । प्रातिभाव्यं विधीयत इति प्रत्येकं संबंध्यते । आद्यौ तु दर्शनप्रत्ययप्रतिभुवौ वितथे अन्यथाभावे अदर्शने विश्वासव्यभिचारे च दाप्यौ राज्ञा प्रस्तुतं धनमुत्तमर्णस्य । इतरस्य दानप्रतिभुवःसुता अपि दाप्याः॥ वितैथ इत्येव शाठ्येन निर्धनत्वेन वाऽधमणेऽप्रतिकुर्वति इतरस्य सुता अपीति वदता पूर्वयोः सुता न दाप्या इत्युक्तम् । सुता इति वदता न पौत्रा दाप्या इति दर्शितम् ॥ ५३ ॥ एतदेव स्पष्टीकर्तुमाह
दर्शनप्रतिभूर्यत्र मृतः प्रात्ययिकोऽपि वा ।
न तत्पुत्रा ऋणं दद्युर्दद्युर्दानाय यः स्थितः ॥५४ ॥ पदा तु दर्शनप्रतिभूः प्रात्ययिको वा प्रतिभूदिवं गतस्तदा तयोः पुत्राः प्रातिभाज्यायातं पैतृकमृणं न दधुः । यस्तु दानाय स्थितः प्रतिभूदिवं गतस्तस्य पुत्रा दधुन पौत्राः । ते च मूलमेव दथुन वृद्धिम् । --'ऋणं पैतामहं पौत्रः प्रातिभाव्यागतं सुतः । समं दद्यात्तत्सुतौ तु न दाप्याविति निश्चयः ॥' इति व्यासवचनात् । प्रातिभाव्यव्यतिरिक्तं पैतामहमृणं पौत्रः समं यावद्गृहीतं तावदेव दद्यान्न वृद्धिम् । तथा तत्सुतोऽपि प्रातिभाव्यागतं पित्र्यमणं सममेव दद्यात् । तयोः पौत्रपुत्रयोः सुतौ पौत्रप्रपौत्रौ च प्रातिभाव्यायातं अप्रातिभाव्यं च ऋणं यथाक्रममगृहीतधनौ न दाप्याविति । यदपि स्मरणम्-'खादको वित्तहीनः स्याल्लमको वित्तवान्यदि । मूलं तस्य भवेद्देयं न वृद्धि दातुमर्हति ॥' इति । तदपि लग्नकः प्रतिभूः । खादकोऽधमणः । लग्नको यदि वित्तवान्मृतस्तदा तस्य पुत्रेण मूलमेव दातव्यं न वृद्धिरिति व्याख्येयम् । यत्र दर्शनप्रतिभूः प्रत्ययप्र. तिभूर्वा बन्धकं पर्याप्तं गृहीत्वा प्रतिभूर्जातस्तत्र तत्पुत्रा अपि तस्मादेव बन्धकात् प्रातिभाव्यायातमृणं दधुरेव । यथाह कात्यायन:-'गृहीत्वा बन्धक यत्र दर्शनेऽस्य स्थितो भवेत् । विना पित्रा धनात्तस्माद्दाप्यः स्यात्तदृणं सुतः ॥' इति । दर्शनग्रहणं प्रत्ययस्योपलक्षणम् । विना पित्रा पितरि प्रेते दूरदेशं गते वेति ॥ ५४॥ यस्मिन्ननेकप्रतिभूसंभवस्तत्र कथं दाप्यस्तत्राह
बहवः स्युर्यदि खांशैर्दधुः प्रतिभुवो धनम् ।
एकच्छायाश्रितेष्वेषु धनिकस्य यथारुचि ॥ ५५ ॥ यद्येकस्मिन्प्रयोगे द्वौ बहवो वा प्रतिभुवः स्युस्तदर्ण संविभज्य स्वांशेन दद्युः । एकच्छायाश्रितेषु प्रतिभूषु एकस्याधमर्णस्य छाया सादृश्यं तमाश्रिता एक. च्छायाश्रिताः । अधमर्णो यथा कृत्स्नद्रव्यदानाय स्थितस्तथा दाने प्रतिभुवोऽपि प्रत्येकं कृत्स्नद्रव्यदानाय स्थिताः एवं दर्शने प्रत्यये च ते वेकच्छायाश्रितेषु प्रति.
१ संबन्धः ख. २ वितथेऽन्यथाभावे. ३ दानप्रतिभुवः. ४ दर्शनप्रत्ययप्रतिभुवोः. ५ दिष्टं गतःघ. ६ प्रपौत्रपौत्रौ च. घ. ७ दातव्यमित्याह ख. ८ दाने प्रतिभुवः घ. ९ तथैकच्छाया ख.
For Private And Personal Use Only
Page #189
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ऋणादानप्रकरणम् ३ ]
मिताक्षरासहिता।
१५७
भूषु सत्सु धनिकस्योत्तमर्णस्य यथारुचि यथाकामम् । अतश्च धनिको वित्ताधपेक्षायां स्वार्थं यं प्रार्थयते स एव कृत्स्नं दाप्यो नांशतः । एकच्छार्याश्रितेषु यदि कश्चिद्देशान्तरं गतस्तत्पुत्रश्च संनिहितस्तदा धनिकेच्छया सर्व दाप्यः । मृते तु कस्मिंश्चित्तत्सुतः स्वपित्रंशमवृद्धिकं दाप्यः । यथाह कात्यायन:'एकच्छायाप्रविष्टानां दाप्यो यस्तत्र दृश्यते । प्रोषिते तत्सुतः सर्वं पित्रंशं तु मृते समम् ॥' इति ॥ ५५ ॥ प्रातिभाव्यर्णदानविधिमुक्त्वा प्रतिभूदत्तस्य प्रतिक्रियाविधिमाह
प्रतिभू पितो यत्तु प्रकाशं धनिनो धनम् ।
द्विगुणं प्रतिदातव्यमृणिकैस्तस्य तद्भवेत् ॥ ५६ ॥ यद्रव्यं प्रतिभूस्तत्पुत्रो वा धनिकेनोपपीडितः प्रकाशं सर्वजनसमक्षं राज्ञा धनिनो दापितो न पुनद्वैगुण्यलोभेन स्वयमुपैत्य दत्तम् । यथाह नारदः-'यं चार्थ प्रतिभूर्दद्याद्धनिकेनोपपीडितः । ऋणिकस्तं प्रतिभुवे द्विगुणं प्रतिपादयेत् ॥' इति । ऋणिकैरधमर्गस्तस्य प्रतिभुवस्तद्र्व्यं द्विगुणं प्रतिदातव्यं स्यात्। तच्च कालविशेषमनपेक्ष्य सद्य एव द्विगुणं दातव्यम् । वचनारम्भसामर्थ्यात् । एतच्च हिरण्यविषयम् ॥ ननु इदं प्रतिभूरिति वचनं द्वैगुण्यमानं प्रतिपादयति तच्च पूर्वो. क्तकालकल्पक्रमाबाधेनाप्युपपद्यते । यथा जातेष्टिविधानं शुचित्वाबाधेन । अपिच सद्यः सवृद्धिकदानपक्षे पशुस्त्रीणां सद्यः संतत्यभावान्मूल्यदानमेव प्राप्नोतीति । तदसत्- 'वस्नधान्यहिरण्यानां चतुस्विद्विगुणा परा' इत्यनेनैव कालकल्पक्रमेण द्वैगुण्यादिसिद्धेः । द्वैगुण्यमात्रविधाने चेदं वचनमनर्थकं स्यात् । पशुस्त्रीणां तु कालक्रमपक्षेऽपि संतत्यभावे स्वरूपदानमेव । यदा प्रतिभूरपि द्रव्यदानानन्तरं कियतापि कालेनाधमणेन संघटते तदा "संततिरपि संभवत्येव। यद्वा पूर्वसिद्धसंतत्या सह पशुस्त्रियो दास्यन्तीति न किंचिदेतत् । अथ प्रातिभाव्यं प्रीतिकृतं । अतश्च प्रतिभुवा दत्तं प्रीतिदत्तमेव । नच प्रीतिदत्तस्य याच. नात्प्राग्वृद्धिरस्ति । यथाह–'प्रीतिदत्तं तु यत्किंचिद्वर्धते न त्वयाचितम् । याच्यमानमदत्तं चेद्वर्धते पञ्चकं शतम् ॥' इति । अतश्चाप्रीतिदत्तस्यायाचितस्यापि दानदिवसादारभ्य यावद्विगुणं कालक्रमेण वृद्धिरित्यनेन वचनेनोच्यत इति । तदप्यसत् । अस्यार्थस्यास्माद्वचनादप्रतीतेर्द्विगुणं प्रतिदातव्यमित्येतावदिह प्रतीयते । यस्मात्कालक्रममनपेक्ष्यैव द्विगुणं प्रतिदातव्यं वचनारम्भसामर्थ्यादिति सुष्टूक्तम् ॥ ५६ ॥ प्रतिभूदत्तस्य सर्वत्र द्वैगुण्ये प्राप्तेऽपवादमाह
संततिः स्त्रीपशुष्वेव धान्यं त्रिगुणमेव च ।
वस्त्रं चतुर्गुणं प्रोक्तं रसश्चाष्टगुणस्तथा ॥ ५७॥ १ वित्ताद्यपेक्षया घ. २ यः प्रार्थयते ख. ३ दद्यान्नांशतः ख. ४ तेष्वेकछाया ख. ५ मृते सति घ. ६ धनिनां घ. ७ ऋणिकं तं ग. ८ प्रतिदापयेत् ग. ९ इदं वचनं ग. घ. १० नतु कालकलाक्रमादिकम्. ११ वस्त्रदान ख. १२ संततिरेवं ख. १३ प्रीतिकृतं च ख.
For Private And Personal Use Only
Page #190
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५८
याज्ञवल्क्यस्मृतिः।
[व्यवहाराध्यायः
हिरण्यद्वैगुण्यवत्कालानादरेणैव स्त्रीपश्चादयः प्रतिपादितवृद्ध्या दाप्याः । श्लोकस्तु व्याख्यात एव । यस्य द्रव्यस्य यावती वृद्धिः पराकाष्ठोक्ता तद्रव्यं प्र. तिभूदत्तं खादकेन तया वृद्ध्या सह कालविशेषमनपेक्ष्यैव सद्यो दातव्यमिति तात्पर्यार्थः । यदा तु दर्शनप्रतिभूः संप्रतिपने काले अधमणं दर्शयितुमसमर्थ. स्तदा तेद्वेषगाय तस्य पक्षत्रयं दातव्यम् । तत्र यदि तं दर्शयति तदा भोक्तव्योऽन्यथा प्रस्तुतं धनं दाप्यः । -'नष्टस्यान्वेषणार्थं तु दाप्यं पक्षत्रयं परम् । यद्यसौ दर्शयेत्तत्र मोक्तव्यः प्रतिभूर्भवेत् ॥ काले व्यतीते प्रतिभूर्यदि तं नैव दर्शयेत् । निबन्धं दापयेत्तं तु प्रेते चैष विधिः स्मृतः ॥' इति कात्यायनवचनात् । लेग्नके विशेषनिषेधश्च तेनैवोक्तः-'न स्वामी न च वै शत्रुः स्वामिनाधिकृतस्तथा । निरुद्धो दण्डितश्चैव संदिग्धश्चैव न कचित् ॥ नैव रिक्थी न मित्रं च न चैवात्यन्तवासिनः । राजकार्यनियुक्ताश्च ये च प्रव्रजिता नराः ॥ न शक्तो धनिने दातुं दण्डं राज्ञे च तत्समम् । जीवन्वापि पिता यस्य तथैवेच्छा. प्रवर्तकः ॥ नाविज्ञातो ग्रहीतव्यः प्रतिभूः स्वक्रियां प्रति ॥' इति । संदिधो. ऽभिशस्तः । अत्यन्तवासिनो नैष्ठिकब्रह्मचारिणः ॥ इति प्रतिभूविधिः ॥ ५७ ॥ धनप्रयोगे विश्वासहेतू द्वौ प्रतिभूराधिश्व यथाह नारदः-'
विम्भहेतू द्वा. वत्र प्रतिभूराधिरेव च' इति । तत्र प्रतिभूनिरूपितः । इदानीमाधिर्निरूप्यते । आधिर्नाम गृहीतस्य द्रव्यस्योपरि विश्वासार्थमधमणेनोत्तमोऽधिक्रियते आधीयत इत्याधिः । सच द्विविधः कृतकालोऽकृतकालश्च । पुनश्चैकैकशो द्विविधः गोप्यो भोग्यश्च । यथाह नारदः–'अधिक्रियत इत्याधिः स विज्ञेयो द्विलक्षणः । कृतकालेऽपनेयश्च यावद्देयोद्यतस्तथा ॥ स पुनर्द्विविधः प्रोक्तो गोप्यो भोग्यस्तथैव च ॥' इति । कृतकाले आधानकाल एवामुष्मिन्काले दीपोत्सवादौ मयायमाधिर्मोक्तव्योऽन्यथा तवैवाधिर्भविष्यतीत्येवं निश्चिते काले उपनेय आत्मसमीपं नेतव्यः । मोचनीय इत्यर्थः। देयं दानम् । देयमनतिक्रम्य यावद्देयम् । उद्यतः नियतः, स्थापित इत्यर्थः। यावद्देयमुद्यतो यावद्देयोद्यतः गृहीतधनप्रत्यर्पणावधिरनिरूपितकाल इत्यर्थः । गोप्यो रक्षणीयः । एवं चतुर्विधस्याधेर्विशेषमाह
आधिः प्रणश्येद्विगुणे धने यदि न मोक्ष्यते ।
काले कालकृतो नश्येत्फलभोग्यो न नश्यति ॥ ५८॥ प्रयुक्ते धने स्वकृतया वृद्ध्या कालक्रमेण द्विगुणीभूते यद्याधिरधमणेन द्रव्यदानेन न मोक्ष्यते तदा नश्यति । अधमर्णस्य धनं प्रयोक्तुः स्वं भवति । कालकृतः कृतकालः आहिताझ्यादिषु पाठात्कालशब्दस्य पूर्व निपातः । स तु काले निरूपिते प्राप्ते नश्येत् द्वैगुण्यात्मागूर्वं वा । फलभोग्यः फलं भोग्यं यस्यासौ फलभोग्यः क्षेत्रारामादिः स कदाचिदपि न नश्यति । कृतकालस्य गोप्यस्य
१ खादकेनाधमणेन. २ तदन्वेषणाय ग. ३ मोक्तव्यो नान्यथा ग. ४ दापयेत्तत्तु प्रेते चैव ख. ५ लग्नकः प्रतिभूः.६ प्रयुक्तास्तु घ.७ विश्रम्भो विश्वास. ८ निरूपिते ख. ग.
For Private And Personal Use Only
Page #191
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ऋणादानप्रकरणम् ३]
मिताक्षरासहिता ।
१५९
भोग्यस्य च तत्कालातिक्रमे नाश उक्तः - - काले 'कालकृतो नश्ये 'दिति । अकृतCareer भोग्यस्य नाशाभाव उक्तः-- -' फलभोग्यो न नश्यती 'ति । पारिशेष्यादाधिः प्रणश्येदित्येतदकृत कालगोप्याधिविषयमवतिष्ठते । द्वैगुण्यातिक्रमेण निरूपितकालातिक्रमेण च विनाशे चतुर्दशदिवसप्रतीक्षणं कर्तव्यं बृहस्पतिवचनात् - 'हिरण्ये द्विगुणीभूते पूर्णे काले कृतावधेः । बन्धकस्य धनी स्वामी द्विसप्ताहं प्रतीक्ष्य च ॥ तदन्तरा धनं दत्त्वा ऋणी बन्धुमवाप्नुयात् ॥' इति ॥ नन्वाधिः प्रणश्येदित्यनुपपन्नम् । अधमर्णस्य स्वत्वनिवृत्तिहेतोर्दानविक्रयादेरभावात् । धनिनश्च स्वत्वहेतोः प्रतिग्रहक्रयादेरभावात् । मनुवचनविरोधाच्च ( ८1१४३ )'न चाधेः कालसंरोधान्निसर्गोऽस्ति न विक्रयः' इति । कालेन संरोधः कालसंरोधश्चिरकालमवस्थानं तस्मात्कालसंरोधाचिरकालावस्थानादाधेर्न निसर्गोऽस्ति नान्यत्राधीकरणमस्ति नच विक्रयः । एवामाधीकरणविक्रयप्रतिषेधाद्धनिनः स्वस्वाभावोऽवगम्यत इति । उच्यते - आधीकरणमेव लोके सोपाधिक स्वत्वनिवृत्तिहेतुः । अधिस्वीकारश्च सोपाधिकस्वत्वापत्तिहेतुः प्रसिद्धः । तत्र धनद्वैगुण्ये निरूपितका प्राप्तौ च द्रव्यदानस्यात्यन्तनिवृत्तेरनेन वचनेनाधमर्णस्यात्यन्तिकी स्वस्वनिवृत्तिः उत्तमर्णस्य चात्यन्तिकं स्वस्वं भवति । नच मनुवचनविरोधः । यतः (मनुः ८।१४३ ) -- 'नत्वेवाधी सोपकारे कौसीद वृद्धिमाप्नुयात् ' इति । भोग्याधिं प्रस्तुत्येदमुच्यते - 'न चाधेः कालसंरोधान्निसर्गोऽस्ति न विक्रयः' इति । भोग्यस्याधेश्चिरैकालावस्थानेऽप्याधीकरणविक्रयनिषेधेन धनिनः स्वत्वं नास्तीति । इहाप्युक्तं फलभोग्यो न नश्यतीति । गोप्याधौ तु पृथगारब्धं मनुना ( ८1१४४ ) - ' न भोक्तव्यो बलादाधिर्भुआनो वृद्धिमुत्सृजेत्' इति । इहापि वक्ष्यते - गोप्याधिभोगे नो वृद्धिरिति । आधिः प्रणश्येद्विगुणे इति तु गोयाधिं प्रत्युच्यत इति सर्वमविरुद्धम् ॥ ५८ ॥
:
गोप्याधिभोगे नो वृद्धिः सोपकारे चे हापिते । नष्टो देयो विनष्टश्च दैवराजकृताद्यते ।। ५९ ।।
किंच । गोप्याधेस्ताम्रकटाहादेरुपभोगेन वृद्धिर्भवति । अल्पेऽप्युपभोगे महत्यपि वृद्धिर्ज्ञातव्या । समयातिक्रमात् । तथा सोपकारे उपकारकारिणि बलीवताम्रकटाहादौ भोग्याधौ सवृद्धिके हापिते हानिं व्यवहाराक्षमखं गमिते नो वृद्धिरिति संबन्धः । नष्टो विकृतिं गतः ताम्रकटाहादिश्चिद्रभेदनादिना पूर्ववत्कृत्वा देयः । तत्र गोप्याधिर्नष्टश्रेत्पूर्ववत्कृत्वा देयः । उपभुक्तोऽपि चेद्वृद्धिरपि हातव्या । भोग्याधिर्यदि नष्टस्तदा पूर्ववत्कृत्वा देयः । वृद्धिसद्भावे वृद्धिरपि हातव्या । विनिष्ट आत्यन्तिकं नाशं प्राप्तः सोऽपि देयो मूल्यादिद्वारेण । तद्दाने सवृद्धिकं मूल्यं लभते । यदा न ददाति तदा मूलनाश: - ' विनष्टे मूलनाशः स्याद्वैवराजकृतादृते' इति नारदवचनात् । दैवराजकृताहते । दैवमभ्युदकदेशो
१ कृतावधौ घ. २ काले प्राप्ते च ख. ३ श्चिरन्तनकाला घ. ४ स्वत्वं न भवति ख. ५ Sथ हापिते ख. ६ नष्टश्चेत्तदा घ. ७ वृद्धिर्ज्ञातव्या ख.
For Private And Personal Use Only
Page #192
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
याज्ञवल्क्यस्मृतिः। [व्यवहाराध्यायः पप्लवादि । दैवकृताद्विनाशाद्विना । तथा स्वापराधरहिताद्राजकृतात् । देवराजकृते तु विनाशे सवृद्धिकं मूल्यं दातव्यमधमणेनाध्यन्तरं वा । यथाह-'स्रोतसापहृते क्षेत्रे राज्ञा चैवापहारिते । आधिरन्योऽथ कर्तव्यो देयं वा धनिने धनम् ॥' इति । तत्र स्रोतसापहृत इति दैवकृतोपलक्षणम् ॥ ५९॥
आधेः स्वीकरणात्सिद्धी रक्ष्यमाणोऽप्यसारताम् ।
यातश्चेदन्य आधेयो धनभाग्वा धनी भवेत् ॥ ६० ॥ अपिच । आधेर्नोग्यस्य कोऽप्यस्य च स्वीकरणादुपभोगादाधिग्रहणसिद्धिर्भवति न साक्षिलेख्यमात्रेण नाप्युद्देशमात्रेण । यथाह नारदः-'माधिस्तु द्विविधः प्रोक्तो जङ्गमः स्थावरस्तथा । सिद्धिरस्योभयस्यापि भोगो यद्यस्ति नान्यथा ॥' इति । अस्य च फलं-'आधौ प्रतिग्रहे क्रीते पूर्वा तु बलवत्तरा' इति । या स्वीकारान्ता क्रिया सा पूर्वा बलवती । स्वीकाररहिता तु पूर्वापि न बलवतीति । स चाधिः प्रयत्नेन रक्ष्यमाणोऽपि कालवशेन यद्यसारतामविकृत एवं सवृद्धिकमूल्यद्रव्यापर्याप्ततां गतस्तदाधिरन्यः कर्तव्यो धनिने धनं वा देयम् । रक्ष्यमाणोऽप्यसारतामिति वदता आधिः प्रयत्नेन रक्षणीयो धनिनेति ज्ञापितम् ॥ ६ ॥ आधिः प्रणश्येद्विगुणे इत्यस्यापवादमाह---
चरित्रबन्धककृतं सवृद्ध्या दापयेद्धनम् ।।
सत्यंकारकृतं द्रव्यं द्विगुणं प्रैतिदापयेत् ॥ ६१॥ चरित्रं शोभनचरितं चरित्रेण बन्धकं चरित्रबन्धकं तेन यद्रव्यमात्मसात्कृतं पराधीनं वा कृतम् । एतदुक्तं भवति-धनिनः स्वच्छाशयत्वेन बहुमूल्यमपि द्व्यमाधीकृत्याधमणेनाल्पमेव द्रव्यमात्मसात्कृतम् । यदि वाधमर्णस्य स्वच्छाशयत्वेनाल्पमुल्यमाधि गृहीत्वा बहुद्रव्यमेव धनिनाधमर्णाधीनं कृतमिति । तद्धनं स नृपो वृद्ध्या सह दापयेत् । अयमाशयः-एवंबन्धकं द्विगुणीभूतेऽपि द्रव्ये न नश्यति किंतु द्रव्यमेव द्विगुणं दातव्यमिति । तथा सत्यंकारकृतं । करणं कारः । भावे घञ् । सत्यस्य कारः सत्यंकारः-'कारे सत्यागदस्य' इति मुम् । सत्यंकारेण कृतं सत्यंकारकृतम् । अयमभिसन्धिः -यदा बन्धकापंणसमय एवेत्थं परिभाषितं द्विगुणीभूतेऽपि द्रव्ये मया द्विगुणं द्रव्यमेव दा. तव्यं नाधिनाश इति तदा तद्विगुणं दापयेदिति । अन्योऽर्थः। चरित्रमेव बन्धकं चरित्रबन्धकं । चरित्रशब्देन गङ्गास्नानाग्निहोत्रादिजनितमपूर्वमुच्यते । यत्र तदेवाधीकृत्य यद्रव्यमात्मसारकृतं तत्र तदेव द्विगुणीभूतं दातन्यं नाधि. नाश इति । आधिप्रसङ्गादन्यदुच्यते सत्यकारककृतमिति । क्रयविक्रयादिव्यव. स्थानिहाय यदङ्गुलीयकादि परहस्ते कृतं तद्यवस्थातिक्रमे द्विगुणं दातव्यम् ।
१ गोप्यस्य भोग्यस्य च. २ स्वीकारान्तक्रिया पूर्वा ख. ३ प्रतिपादयेत् घ. ४ एवंविधं घ. ५ द्विगुणीभूतमेव द्रव्यं घ.६ कृतं तदा तत्र ख.
For Private And Personal Use Only
Page #193
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ऋणादानप्रकरणम् ३] मिताक्षरासहिता।
१६१ तत्रापि येनाङ्गुलीयकार्पितं स एव चेयवस्थातिवर्ती तेन तदेव दातव्यम् । इतरश्चेद्यवस्थातिवर्ती तदा तदेवाङ्गुलीयकादि द्विगुणं प्रतिदापयेदिति ॥ ६१ ॥
उपस्थितस्य मोक्तव्य आधिः स्तेनोऽन्यथा भवेत् ।
प्रयोजकेऽसति धनं कुलेऽन्यस्याधिमाप्नुयात् ॥ ६२॥ किंच । धनदानेनाधिमोक्षणायोपस्थितस्याधिर्मोक्तव्यो धनिनो न वृद्धिलोभेन स्थापयितव्यः। अन्यथा अमोक्षणे स्तेनश्चौरवद्दण्ड्यः स्यात् । असंनिहिते पुनः प्रयोक्तरि कुले तदाप्तहस्ते सवृद्धिकं धनं विधायाधमर्णकः स्वीयं बन्धकं गृह्णीयात् ॥ ६२ ॥
अथ प्रयोक्ताप्यसंनिहितस्तदाप्ताश्च धनस्य ग्रहीतारो न सन्ति यदि वा असंनिहिते प्रयोक्तर्याधिविक्रयेण धनदित्साधमर्णस्य तत्र किं कर्तव्यमित्यपेक्षित आह
तत्कालकृतमूल्यो वा तत्र तिष्ठेदवृद्धिकः । तस्मिन्काले यत्तस्याघेर्मूल्यं तत्परिकल्प्य तत्रैव धनिनि तमाधि वृद्धिरहितं स्थापयेन तत ऊँवं विवर्धते । यावद्धनी धनं गृहीत्वा तमाधि मुञ्चति, यावद्वा तन्मूल्यद्रव्यमृणे प्रवेशयति ॥ __ यदा तु द्विगुणीभूतेऽपि धने द्विगुणं धनमेव ग्रहीतव्यं न त्वाधिनाश इति विचारितमृणग्रहणकाल एव तदा द्विगुणीभूते द्रव्ये असंनिहिते वाऽधमणे धनिना किं कर्तव्यमित्यत आह
विना धारणकाद्वापि विक्रीणीत ससाक्षिकम् ॥ ६३॥ धारणकादधमर्णाद्विना अधमणेऽसंनिहिते साक्षिभिस्तदाप्तैश्च सह तमाधि विक्रीय तद्धनं गृह्णीयाद्धनी । वाशब्दो व्यवस्थितविकल्पार्थः । यदर्णग्रहणकाले द्विगुणीभूतेऽपि धने धनमेव ग्रहीतव्यं न स्वाधिनाश इति न विचारितं तदा 'आधिः प्रणश्येविगुणे' इत्याधिनाशः । विचारिते त्वयं पक्ष इति ॥ ६३ ॥ भोग्याधौ विशेषमाह
यदा तु द्विगुणीभूतमृणमाधौ तदा खलु ।
मोच्य आधिस्तदुत्पन्ने प्रविष्टे द्विगुणे धने ॥ ६४ ॥ यदा प्रयुक्तं धनं स्वकृतया वृद्ध्या द्विगुणीभूतं तदाधौ कृते तदुत्पन्ने आध्युत्पन्ने द्रव्ये द्विगुणे धनिनः प्रविष्टे धनिनाधिर्मोक्तव्यः । यदि वादावेवाधौ दत्ते द्विगुणीभूते द्रव्ये त्वयाधिर्मोक्तव्य इति परिभाषया, कारणान्तरेण वा भोगाभावेन यदा द्विगुणीभूतमृणं तदा, आधौ भोगार्थ धनिनि प्रविष्टे तदुत्पन्ने द्रव्ये द्विगुणे सत्याधिर्मोक्तव्यः । अधिकोपभोगे तदपि देयम् । सर्वथा सवृद्धिकमूलापाकरणार्थाध्युपभोगविषयमिदं वचनम् । तमेनं क्षयाधिमाचक्षते लौकिकाः ।
१ इतरं चेत् ख. २ दण्ड्यो भवति ख. ३ कल्पते तत्रेव ख. ४ ऊर्ध्वं धनं वर्धते ग. ५ मृणिने ख.६ धारणिकात् ख. ७ मूल्यापाकरणार्थ ख.
For Private And Personal Use Only
Page #194
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६२
याज्ञवल्क्यस्मृतिः
[ व्यवहाराध्यायः
यत्र तु वृद्ध्यर्थ एवाध्युपभोग इति परिभाषा तत्र द्वैगुण्यातिक्रमेऽपि यावन्मूलदानं तावदुपभुङ्क्त एवाधिम् । एतदेव स्पष्टीकृतं बृहस्पतिना - 'ऋणी बन्धमवाप्नुयात् । फलभोग्यं पूर्णकालं दत्त्वा द्रव्यं तु सामकम् ॥ यदि प्रकर्षितं तत्स्यात्तदा न धनभाग्धनी । ऋणी च न लभेद्वन्धं परस्परमतं विना ॥' इति । अस्यार्थः -- फलं भोग्यं यस्यासौ फलभोग्यः बेन्ध आधिः । सच द्विविधः सवृद्धिकमूला पाकरणार्थो वृद्धिमात्रापाकरणार्थश्च । तत्र च सवृद्धिमूलापाकरणार्थ बन्धं पूर्णकालं पूर्णः कालो यस्यासौ पूर्णकालस्तमामुयाडणी । यदा सवृद्धिकं मूलं फलद्वारेण धनिनः प्रविष्टं तदा बन्धमाप्नुयादित्यर्थः । वृद्धिमात्रापाकरणार्थे तु बन्धकं सामकं दत्त्वामुयाद्दणी । समं मूलं सममेव सामकम् ॥ अस्यापवादमाह - यदि प्रकर्षितं तत्स्यात् । तत् बन्धकं प्रकर्षितमतिशयितं वृद्धेरप्यधिकफलं यदि स्यात्तदा न धनभाग्धनी सामकं न लभते धनी । मूलमदत्वैव ऋणी बन्धमवाप्नुयादिति यावत् । अथ त्वप्रकर्षितं तद्वन्धकं वृद्धयेऽप्यपर्याप्तं तदा सामकं दत्वापि बन्धं न लमेताधमर्णः । वृद्धिशेमपि दत्वैव लभेतेत्यर्थः । पुनरुभयत्रापवादमाह । परस्परमतंविना उत्तमर्णाधमर्णयोः परस्परानुमत्यभावे 'यदि प्रकर्षितम्' इत्याद्युक्तम् । परस्परानुमतौ तूस्कृटमपि बन्धकं यावन्मूलदानं तावदुपभुङ्क्ते धनी निकृष्टमपि मूलमात्रदानेने वाधमर्णो लभत इति ॥ ६४ ॥
इति ऋणादानप्रकरणम् ।
अथ उपनिधिप्रकरणम् ४
-
उपनिधिं प्रत्याह
वासनस्थमनाख्याय हस्तेऽन्यस्य यदयते । द्रव्यं तदौपनिधिकं प्रतिदेयं तथैव तत् ॥ ६५ ॥
निक्षेप द्रव्यस्याधारभूतं द्रव्यान्तरं वासनं करण्डादि तत्स्थं वासनस्थं यद्रव्यं रूपसंख्यादिविशेषमनाख्याय अकथयित्वा मुद्रितमन्यस्य हस्ते रक्षणार्थं विस्रभादयते स्थापयते तद्द्रव्यमौपनिधिकमुच्यते । यथाह नारदः - 'असंख्यात -
ज्ञातं समुत्रं निधीयते । तज्जानीयादुपनिधिं निक्षेपं गणितं विदुः ॥ ' इति । प्रतिदेयं तथैव तत् । यस्मिन्स्थापितं तेन यथैव पूर्वमुद्रादिचिह्नितमर्पितं तथैव स्थापकाय प्रतिदेयं प्रत्यर्पणीयम् ॥ ६५ ॥
प्रतिदेयमित्यस्यापवादमाह -
न दाप्योपहृतं तं तु राजदैविकतस्करैः ।
१ मूल्यदानं ख. २ बन्धकः आधिः ख ३ मूल्यापाकरणार्थे ख. ४ मूल्य मदत्त्वैव ख. ५ वृद्धिशेषमदत्त्वैव ख.
For Private And Personal Use Only
Page #195
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उपनिधिप्रकरणम् ४] मिताक्षरासहिता ।
तमुपनिधिं राज्ञा देवेनोदकादिना तस्करैर्वापहृतं नष्टं न दाप्योऽसौ यस्मिनुपहितं । धनिन एव तद्रव्यं नष्टं यदि जिह्मकारितं न भवति । यथाह नारदः'प्रहीतुः सह योऽर्थेन नष्टो नष्टः स दायिनः । देवराजकृते तद्वन्न चेत्तजिह्मकारितम् ॥' इति ॥ अस्यापवादमाह
भ्रेषश्वेन्मानितेऽदत्ते दाप्यो दण्डं च तत्समम् ॥६६॥ स्वामिना मागिते याचिते यदि न ददाति तदा तदुत्तरकालं यद्यपि राजादिभिभ्रषो नाशः संजातस्तथापि तद्रव्यं मूल्यकल्पनया धनिने ग्रहीता दाप्यो राज्ञे च तत्समं दण्डम् ॥ ६६ ॥ भोक्तारं प्रति दण्डमाह
आजीवन्स्वेच्छया दण्ड्यो दाप्यस्तं चापि सोदयम् । यः स्वेच्छया स्वाम्यननुज्ञयोपनिहितं द्रव्यमाजीअपभुले व्यवहरति वा प्रयोगादिना लाभार्थमसावुपभोगानुसारेण लाभानुसारेण च दण्ड्यस्तं चोपनिधि सोदयमुपभोगे सवृद्धिकं व्यवहारे सलाभं धनिने दाप्यः । वृद्धिप्रमाणं च कात्यायनेनोक्तम्-'निक्षेपं वृद्धिशेषं च क्रय विक्रयमेव च । याच्यमानो न चेद्दद्याद्वर्धते पञ्चकं शतम् ॥' इति । एतच्च भक्षिते द्रष्टव्यम् । उपेक्षाशाननष्टे तु तेनैव विशेषो दर्शितः-'भक्षितं सोदयं दाप्यः समं दाप्य उपेक्षितम् । किंचियूनं प्रदाप्यः स्याद्रव्यमज्ञाननाशितम् ॥' इति । किंचिन्यूनमिति चतुर्थीशहीनम् ॥ उपनिधेर्धर्मान्याचितादिष्वतिदिशति
याचितावाहितन्यासनिपेक्षादिष्वयं विधिः ॥ ६७ ॥ विवाहाद्युत्सवेषु वस्त्रालंकारादि याचित्वानीतं याचितम् । यदेकस्य हस्ते निहितं द्रव्यं तेनाप्यनु पश्चादन्यहस्ते स्वामिने देहीति निहितं तदन्वाहितम् । न्यासो नाम गृहस्वामिनेऽदर्शयित्वा तत्परोक्षमेव गृहजनहस्ते प्रक्षेपो गृहस्वामिने समर्पणीयमिति । समक्षं तु समर्पणं निक्षेपः। आदिशब्देन सुवर्णकारादिहस्ते कटकादिनिर्माणाय न्यस्तस्य सुवर्णादेः, प्रतिन्यासस्य च परस्परप्रयोज॑नापेक्षया त्वयेदं मदीयं रक्षणीयं मयेदं त्वदीयं रक्ष्यते इति न्यस्तस्य ग्रहणम् । यथाह नारदः-'एष एव विधिदृष्टो याचितान्वाहितादिषु । शिल्पिषूपनिधौ न्यासे प्रतिन्यासे तथैव च ॥' इति । एतेषु याचितान्वाहितादिष्वयं विधिः । उपनिधेर्यः प्रतिदानादिविधिः स एव वेदितव्यः ॥ ६७ ॥
इति उपनिधिप्रकरणम् ।
१ तद्भवेत्तज्जिा ख. तद्वद्भवेदाजिह्मेत्यपि पाठः. २ आजीवत्युप ख. आजीवन्फलं भुंक्ते ग. ३ याच्यमानं ग. ४ पेक्षायां त्वयेदं ख.
या. १७
For Private And Personal Use Only
Page #196
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६४
याज्ञवल्क्यस्मृतिः।
[व्यवहाराध्यायः
अथ साक्षिप्रकरणम् ५ 'प्रमाणं लिखितं भुक्तिः साक्षिणश्चेति कीर्तितम्' इत्युक्तं तत्र भुक्तिनिरूपिता । सांप्रतं साक्षिस्वरूपं निरूप्यते । साक्षी च साक्षाद्दर्शनाच्छ्रवणाञ्च भवति । यथाह मनुः (७४)-'समक्षदर्शनात्साक्ष्यं श्रवणाच्चैव सिख्यति' इति । स च द्विविधः कृतोऽकृतश्चेति । साक्षित्वेन निरूपितः कृतः । अनिरूपितोऽकृतः । तत्र कृतः पञ्चविधोऽकृतश्च षड्विध इत्येकादशविधः । यथाह नारदः-'एकादशविधः साक्षी शास्त्रे दृष्टो मनीषिभिः। कृतः पञ्चविधो ज्ञेयः षड्विधोऽकृत उच्यते ॥' इति ॥ तेषां च भेदस्तेनैव दर्शितः"लिखितः सारितश्चैव यदृच्छाभिज्ञ एव च । गूढश्चोत्तरसाक्षी च साक्षी पञ्चविधः स्मृतः ॥' इति ॥ लिखितादीनां च स्वरूपं कात्यायनेनोक्तम्'अर्थिना स्वयमानीतो यो लेख्ये संनिवेश्यते । स साक्षी लिखितो नाम स्मारितः पत्रकाहते ॥' इति । स्मारितः पत्रकात इत्यस्य विवरणं तेनैव कृतम्'यस्तु कार्यप्रसिद्ध्यर्थं दृष्ट्वा कार्य पुनः पुनः । स्मार्यते ह्यार्थिना साक्षी स स्मारित इहोच्यते ॥' इति । यस्तु यदृच्छयागतः साक्षी क्रियते स यदृच्छाभिज्ञः। अनयोः पनानारूढत्वेऽपि भेदस्तेनैव दर्शितः-'प्रयोजनार्थमानीतः प्रसङ्गादागतश्च यः । द्वौ साक्षिणौ त्वलिखितौ पूर्वपक्षस्य साधकौ ॥' इति । तथा-'अ. र्थिना स्वार्थसिद्ध्यर्थ प्रत्यर्थिवचनं स्फुटम् । यः श्राव्यते स्थितो गूढो गूढसाक्षी स उच्यते ॥ इति । तथा-'साक्षिणामपि यः साक्ष्यमुपर्युपरि भाषते । श्रवणाच्छ्रावणाद्वापि स साक्ष्युत्तरसंज्ञितः ॥' इति । षड्विधस्थाप्यकृतस्य भेदो नारदेन दर्शितः-'ग्रामश्च प्राड्विाकश्च राजा च व्यवहारिणाम् । कार्येष्वधिकृतो यः स्यादर्थिना प्रहितश्च यः ॥ कुल्याः कुलविवादेषु विज्ञेयास्तेऽपि साक्षिणः ॥' इति । प्राडिवाकग्रहणं लेखकसभ्योपलक्षणार्थम् ।-लेखकः प्राडिवाकश्च संभ्याश्चैवानुपूर्वशः । नृपे पश्यति तत्कार्य साक्षिणः समुदाहृताः ॥' इति ॥ तेऽपि साक्षिणः कीदृशाः कियन्तश्च भवन्तीत्यत आह
तपखिनो दानशीलाः कुलीनाः सत्यवादिनः । धर्मप्रधाना ऋजवः पुत्रवन्तो धनान्विताः ॥ ६८॥ त्र्यवराः साक्षिणो ज्ञेयाः श्रौतसार्तक्रियापराः ।
यथाजाति यथावणे सर्वे सर्वेषु वा स्मृताः ॥ ६९ ॥ तपस्विनस्तपःशीलाः । दानशीला दाननिरताः। कुलीना महाकुलप्रसूताः । सत्यवादिनः सत्यवदनशीलाः । धर्मप्रधाना नार्थकामप्रधानाः । ऋजवोऽकुटिलाः। पुत्रवन्तो विद्यमानपुत्राः। धनान्विता बहसुवर्णादिधनयुक्ताः । श्रीमार्तक्रियापराः नित्यनैमित्तिकानुष्ठानरताः। एवंभूताः पुरुषास्यवराः साक्षिणो भवन्ति । त्रयः अवरा न्यूना येषां ते त्र्यवराः त्रिभ्योऽर्वाक् न भवन्ति । पर१ श्रावितः ख. २ सभ्यैश्चैव. ग. ३ सत्यवादन ख. ४ ष्ठानपराः ग.
For Private And Personal Use Only
Page #197
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६५
साक्षिप्रकरणम् ५] मिताक्षरासहिता। तस्तु यथाकामं भवन्तीत्यर्थः । जातिमनतिक्रम्य यथाजाति । जातयो मूर्धावसिक्ताद्याः अनुलोमजाः प्रतिलोमजाश्च । तत्र मूर्धावसिक्तानां मूर्धावसिक्ताः साक्षिणो भवन्ति । एवमम्बष्ठादिष्वपि द्रष्टव्यम् । वर्णमनतिक्रम्य यथावर्णम् । वर्णा ब्राह्मणादयः। तत्र ब्राह्मणानां ब्राह्मणा एवोक्तलक्षणा उक्तसंख्याकाः साक्षिणो भवन्ति । एवं क्षत्रियादिष्वपि द्रष्टव्यम् । तथा स्त्रीणां साक्ष्यं स्त्रिय एवं कुर्युः। यथाह मनुः (८।६८)-'स्त्रीणां साक्ष्यं स्त्रियः कुर्युः' इति । सजातिसवर्णासंभवे सर्वे मूर्धावसिक्कादयो ब्राह्मणादयश्च सर्वेषु मूर्धावसिक्तादिषु ब्राह्मणादिषु च यथासंभवं साक्षिणो भवन्ति । उक्तलक्षणानां साक्षिणामसंभवे प्रतिषेधरहितानामन्येषामपि साक्षित्वप्रतिपादनार्थमसाक्षिणो वक्तव्याः । ते च पञ्चविधा नारदेन दर्शिता:--'असाक्ष्यपि हि शास्त्रेषु दृष्टः पञ्चविधो बुधैः । वचनाद्दोषतो भेदात्स्वयमुक्तिर्मतान्तरः॥' इति । के पुनर्वचनात् असाक्षिण इत्यत आह'श्रोत्रियास्तापसा वृद्धा ये च प्रव्रजितादयः । असाक्षिणस्ते वचनामात्र हेतुरुदाहृतः॥' इति । तापसा वानप्रस्थाः। आदिशब्देन पित्रा विवदमानादीनां ग्रहणम् । यथाह शङ्ख:-'पित्रा विवदमानगुरुकुलवासिपरिव्राजकवानप्रेस्थनिम्रन्था असाक्षिणः' इति । दोषादसाक्षिणो दर्शिताः-स्तेनाः साहसिकाश्चण्डाः कितवा वञ्चकास्तथा । असाक्षिणस्ते दुष्टत्वात्तेषु सत्यं न विद्यते ॥' इति । चण्डाः कोपनाः । कितवा द्यूतकृतः। भेदादसाक्षिणां च स्वरूपं तेनैव दर्शितम्-'साक्षिणां लिखितानां च निर्दिष्टानां च वादिना । तेषामेकोऽन्यथावादी भेदात्सर्वे ने साक्षिणः ॥' इति । तथा स्वयमुक्तिस्वरूपं चोक्तम्-'स्वयमुक्तिरनिर्दिष्टः खयमेवैत्य यो वदेत् । सूचीत्युक्तः स शास्त्रेषु न स साक्षित्वमर्हति ॥' इति । मृतान्तरस्यापि लक्षणमुक्तम्-'योऽर्थः श्रावयितव्यः स्यात्तस्मिन्नसति चार्थिनि । क तद्वदतु साक्षित्वमित्यसाक्षी मृतान्तरः॥' इति । येनार्थिना प्रत्यर्थिना वा साक्षिणां योऽर्थः श्रावयितव्यो भवेधूयमत्रार्थ साक्षिण इति तस्मिन्नार्थनि प्रत्य. र्थिनि वा असति मृतेऽर्थे चानिवेदिते, साक्षी के कस्मिन्नर्थे कस्य वा कृते साक्ष्यं वदत्विति मृतान्तरः साक्षी न भवति । यत्र तु मुमूर्षुणा स्वस्थेन वा पित्रा पुत्रादयः श्राविता अस्मिन्नर्थेऽमी साक्षिण इति तत्र मृतान्तरोऽपि साक्षी । यथाह नारदः-'मृतान्तरोऽर्थिनि प्रेते मुमूर्षुश्राविताहते' । तथा-. 'श्रावितोऽनातुरेणापि यस्त्वर्थो धर्मसंहितः । मृतेऽपि तत्र साक्षी स्यात्षट्सु चान्वाहितादिषु ॥' इति ॥ ६८ ॥ ६९ ॥ तानेतानसाक्षिणो दर्शयति
स्त्रीवालवृद्धकितवमत्तोन्मत्ताभिशस्तकाः।
रङ्गावतारिपाखण्डिकूटकृद्विकलेन्द्रियाः॥ ७० ॥ . १ स्वयमुक्तिम॒तान्तरम् घ. स्वयमुक्तेः ख. २ वानप्रस्था निर्ग्रन्थाश्चासा ख. निर्ग्रन्था निगडस्थाः ग. ३ वधकास्तथा ग. ४ वादिनां इति सर्वत्र पाठः. ५ सर्वे असाक्षिणः घ. ६ मुक्तिर्हि निर्दिष्टः ग.७ साक्षित्वं कस्मिन्नर्थे ख.८ साक्षात्स्यात् ख. ९ वतारपाखण्डकूट घ.
For Private And Personal Use Only
Page #198
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
याज्ञवल्क्यस्मृतिः। [व्यवहाराध्यायः पतिताप्तार्थसंबन्धिसहायरिपुतस्कराः ।
साहसी दृष्टदोषश्च निधूताद्यास्त्वसाक्षिणः ॥ ७१ ॥ स्त्री प्रसिद्धा । बालोऽप्राप्तव्यवहारः । वृद्धोऽशीतिकावरः । वृद्धग्रहणं वचननिषिद्धानामन्येषामपि श्रोत्रियादीनामुपलक्षणार्थम् । कितवोऽक्षदेवी । मत्तः पानादिना । उन्मत्तो ग्रेहाविष्टः । अभिशस्तोऽभियुक्तो ब्रह्महत्यादिना। रङ्गावतारी चारणः । पाखण्डिनो निर्ग्रन्थप्रभृतयः । कूटकृत्कपटलेख्यादिकारी । विकलेन्द्रियः श्रोत्रादिरहितः । पतितो ब्रह्महादिः । आप्तः सुहृत् । अर्थसंबन्धी विप्रतिपद्यमानार्थसंबन्धी । सहाय एककार्यः । रिपुः शत्रुः । तस्करः स्तेनः । साहसी बैलावष्टम्भकारी । दृष्टदोषो दृष्टविरुद्धवचनः । निर्धूतो बन्धुभिस्त्यक्तः । आद्यशब्दादन्येषामपि स्मृत्यन्तरोक्तानां दोषादसाक्षिणां भेदादसाक्षिणां स्वयमुक्तेम॒तान्तरस्य च ग्रहणम् । एते स्त्रीवालादयः साक्षिणो न भवन्ति ॥ ७० ॥ ७ ॥ ज्यवराः साक्षिणो ज्ञेया इत्यस्यापवादमाह
उभयानुमतः साक्षी भवत्येकोऽपि धर्मवित । ज्ञानपूर्वकनित्यनैमित्तिककर्मानुष्ठायी धर्मवित् स एकोऽप्युभयानुमतश्चेत्साक्षी भवति । अपिशब्दबलावावपि । यद्यपि 'श्रौतस्मार्तक्रियापराः' इति ध्यवराणामपि धर्मवित्त्वं समानं तथापि तेषामुभयानुमत्यभावेऽपि साक्षित्वं भवति । एकस्य द्वयोर्वोभयानुमत्यैव साक्षित्वं भवतीत्यर्थवत् व्यवरग्रहणम् ॥ 'तपस्विनो दानशीला' इत्यस्यापवादमाह
सर्वः साक्षी संग्रहणे चौर्यपारुष्यसाहसे ॥७२॥ संग्रहणादीनि वक्ष्यमाणलक्षणानि तेषु सर्वे वचननिषिद्धास्तपःप्रभृतिगुणरहिताश्च साक्षिणो भवन्ति । दोषादसाक्षिणो भेदादसाक्षिणः स्वयमुक्तिश्चात्रापि साक्षिणो भवन्ति सत्याभावादिति हेतोरत्रापि विद्यमानत्वात् । -'मनुष्यमारणं चौर्य परदाराभिमर्शनम् । पारुष्यमुभयं चेति साहसं स्याच्चतुर्विधम् ॥' इति वचनाद्यद्यपि स्त्रीसंग्रहणचौर्यपारुष्याणां साहसत्वं तथापि तेषां स्वबलावष्टम्भेन जनसमक्षं क्रियमाणानां साहसत्वम् । रहसि क्रियमाणानां तु संग्रहणादिशब्दवाच्यत्वमिति तेषां साहसात्पृथगुपादानम् ॥ ७२ ॥ साक्षिश्रावणमाह
साक्षिणः श्रावयेद्वादिप्रतिवादिसमीपगान् । अर्थिप्रत्यर्थिसंनिधौ साक्षिणः समवेतान्-'नासमवेताः पृष्टाः प्रबू युः' इति गौतमवचनात् । वक्ष्यमाणं श्रावयेत् । तत्रापि कात्यायनेन विशेषो दर्शितः -'सभान्तः साक्षिणः सर्वानार्थप्रत्यर्थिसंनिधौ। प्राडिवाको नियुञ्जीत विधि
१ भूताविष्टः. ग. २ स्वबला ख. ३ दृष्टवितथवचनः. ख. ४ अपिशब्दावावपि ग. घ. ५ त्यर्थं च त्र्यवर ग. ६ सत्यवादित्वहेतोःख. ७ पृथगपृष्टाः ग.
For Private And Personal Use Only
Page #199
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
साक्षिप्रकरणम् ५]
मिताक्षरासहिता।
१६७
नानेन सान्त्वयन । देवब्राह्मणसांनिध्ये साक्ष्यं पृच्छेदृतं द्विजान् । उदङ्मुखान्प्रा. अखावा पूर्वाह्ने वै शुचिः शुचीन् ॥ आहृय साक्षिणः पृच्छेनियम्य शपथै - शम् । समस्तान्विदिताचारान्विज्ञातार्थान्पृथक्पृथक् ॥' इति । तथा ब्राह्मणादिषु श्रावणे मनुना नियमो दर्शितः (८1११३)-'सत्येन शापयेद्विप्रं क्षत्रियं वाहनायुधैः । गोबीजकाञ्चनैवैश्यं शूद्रं सर्वैस्तु पातकैः ॥' इति । ब्राह्मणमन्यथा ब्रुवतः सत्यं ते नश्यतीति शापयेत् । क्षत्रियं वाहनायुधानि तव विफलानीति । गोबीजकाञ्चनादीनि तव विफलानि भविष्यन्तीति वैश्यम् । शूद्रमन्यथा ब्रुवतस्तव सर्वाणि पातकानि भविष्यन्तीति शापयेत् । अत्र चापवादस्तेनैव दर्शितः (१०२)-'गोरक्षकान्वाणिजकांस्तथा कारुकुशीलवान् । प्रेष्यान्वाधूषिकांश्चैव विप्रान्शूद्रवदाचरेत् ॥' इति । विप्रग्रहणं क्षत्रियवैश्ययोरुपलक्षणार्थम् । कुशीलवा गायकाः । प्रतिवादिना साक्षिदूषणे दत्ते प्रत्यक्षयोग्यदूषणेषु बाल्यादिषु तथैव निर्णयः । अयोग्येषु तु तद्वचनाल्लोकतश्च निर्णयो न साक्ष्यन्तरेणेति नानवस्था । यदि साक्षिदोषमुद्भाव्य साधयितुं न शक्नोति प्रतिवादी तदासौ सारानुसारेण दण्ड्यः । अथ साधयति तदा न साक्षिणः । यथाह'असाधैयन्दमं दाप्यो दूषणं साक्षिणां स्फुटम् । भाविते साक्षिणो वाः साक्षिधर्मनिराकृताः ॥' इति । उद्दिष्टेषु च सर्वेषु साक्षिषु दुष्टेष्वर्थी यदा क्रियान्तरनिरपेक्षस्तदा पराजितो भवति । –'जितः स विनयं दाप्यः शास्त्रदृष्टेन कर्मणा । यदि वादी निराकाङ्क्षः साक्षिसत्ये व्यवस्थितः ॥' इति स्मरणात् । साकाङ्क्षश्चेस्क्रियान्तरमवलम्बेतेत्यभिप्रायः ॥ कथं श्रावयेदित्यत आह
ये पातककृतां लोका महापातकिनां तथा ॥ ७३ ॥ अग्निदानां च ये लोका ये च स्त्रीवालघातिनाम् । स तान्सर्वानवामोति यः साक्ष्यमनृतं वदेत् ॥ ७४ ॥ सुकृतं यत्त्वया किंचिजन्मान्तरशतैः कृतम् ।
तत्सर्व तस्य जानीहि यं पराजयसे षा ॥ ७५ ॥ पातकोपपातकमहापातककारिणामग्निदानां स्त्रीबालधातिनां च ये लोकास्तान्सर्वानसावामोति यः साक्ष्यमनृतं वदति । तथा जन्मान्तरशतैर्यत्सुकृतं कृतं तत्सर्वं तस्य भवति यस्तेऽनृतवदनेन पराजितो भवतीति श्रावयेदिति संबन्धः । एतच्च शूद्रविषयं द्रष्टव्यम्- 'शूद्रं सर्वैस्तु पातकैः' इति शूद्धे सर्वपा. तकश्रावणस्य विहितत्वात् । गोरक्षकादिद्विजातिविषयं च । 'गोरक्षकान्वाणिजकान्'इत्युक्तत्वात् । अन्यस्यानेकजन्मार्जितसुकृतसंक्रमणस्य महापातकादिफलप्राप्तेश्चानृतवचनमात्रेणानुपपत्तेः साक्षिसंत्रासार्थमिदमुच्यते । यथाह नारदः
१ जुवन्तं घ. २ दोषानुसारेण ख. ३ असाधयन् अभावयन्. ४ वृथा ख. ५ यस्तेऽनृतवचनेन ग. यस्तेनोऽनृतवदनेन घ. ६ श्रवणस्य घ. ७ विहितं च घ. ८ अन्यानेक. ख.
For Private And Personal Use Only
Page #200
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
याज्ञवल्क्यस्मृतिः। [व्यवहाराध्यायः 'पुराणैर्धर्मवचनैः सत्यमाहात्म्यकीर्तनैः । अनृतस्यापवादैश्च भृशमुत्रासयेदिमान्॥' इति ॥ ७३ ॥ ७४ ॥ ७५ ॥ ... .यदा तु श्राविताः साक्षिणः कथंचिन्न युस्तदा किं कर्तव्यमित्यत आह- अब्रुवन्हि नरः साक्ष्यमृणं सदशबन्धकम् । - राज्ञा सर्व प्रदाप्यः स्यात्षट्चत्वारिंशकेऽहनि ॥ ७६ ॥
यः साक्ष्यमङ्गीकृत्य श्रावितः सन् कथंचिन्न वदति स राज्ञा सर्व सवृद्धिकमृणं धनिने दाप्यः सदशबन्धकं दशमांशसहितम् । दशमांशश्च राज्ञो भवति ।
-'राज्ञाधमर्णिको दाप्यः साधितादशकं शतम्' इत्युक्तत्वात् । एतच्च पदचत्वारिंशकेऽहनि प्राप्ते वेदितव्यम् । ततोऽर्वाग्वदग्न दाप्यः । इदं च व्याध्याधुपल्लवरहितस्य । यथाह मनुः (८1१०७)-'त्रिपक्षादब्रुवन्साक्ष्यमृणादिषु नरोऽगदः । तहणं प्रामुयात्सर्वं दशबन्धं च सर्वशः ॥' इति । अगद इति राजदैवोपप्लवविरहोपलक्षणम् ॥ ७६ ॥ यस्तु जानन्नपि साक्ष्यमेव नाङ्गीकरोति दौरात्म्यात्तं प्रत्याह
न ददाति हि यः साक्ष्यं जाननपि नराधमः ।
स कूटसाक्षिणां पापस्तुल्यो दण्डेन चैव हि ॥ ७७॥ यः पुनर्नराधमो विप्रतिपन्नमर्थ विशेषतो जाननपि साक्ष्यं न ददाति नाङ्गीकरोति स कूटसाक्षिणां तुल्यः पापैः कृत्वा दण्डेन च । कूटसाक्षिणां च दण्डं वक्ष्यति । कूटसाक्षिणश्च दण्डयित्वा पुनर्व्यवहारः प्रवर्तनीयः । कृतोऽपि वा कौटसाक्ष्ये विदिते निवर्तनीयः । यथाह मनुः (८1११७)-'यस्मिन्यस्सिविवादे तु कौटसाक्ष्यं कृतं भवेत् । तत्तत्कार्य निवर्तेत कृतं चाप्यकृतं भवेत् ॥' इति ॥ ७७ ॥ साक्षिविप्रतिपत्तौ कथं निर्णय इत्यत आह
द्वैधे बहूनां वचनं समेषु गुणिनां तथा ।
गुणिद्वैधे तु वचनं ग्राह्यं ये गुणवत्तमाः ॥ ७८॥ साक्षिणां द्वैधे विप्रतिपत्तौ बहूनां वचनं ग्राह्यम् । समेषु समसंख्येषु द्वैधे ये गुणिनस्तेषां वचनं प्रमाणम् । यदा पुनर्गुणिनां विप्रतिपत्तिस्तदा ये गुणवत्तमाः श्रुताध्ययनतदर्थानुष्ठानधनपुत्रादिगुणसंपन्नास्तेषां वचनं ग्राह्यम् । यत्र तु गुणिनः कतिपये इतरे च बहवस्तत्रापि गुणिनामेव वचनं ग्राह्यम् ।-'उभयानुमतः साक्षी भवत्येकोऽपि धर्मवित्' इति गुणातिशयस्य मुख्यत्वात् । यत्तु भेदादसाक्षिण इत्युक्तं तत्सर्वसाम्येनागृह्यमाणविशेषविषयम् ॥ ७० ॥ साक्षिमिश्च कथमुक्ते जयः कथं वा पराजय इत्यत आह
यस्योचुः साक्षिणः सत्यां प्रतिज्ञां स जयी भवेत् । १ भृशं संत्रासयेत् ग. २ कृतेऽपि कौटसाक्ष्ये घ. ३ यत्र गुणिनः घ.
For Private And Personal Use Only
Page #201
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
साक्षिप्रकरणम् ५] मिताक्षरासहिता।।
अन्यथावादिनो यस्य ध्रुवस्तस्य पराजयः ॥ ७९ ॥ यस्य वादिनः प्रतिज्ञां द्रव्यजातिसंख्यादिविशिष्टां साक्षिणः सत्यां वदन्ति सत्यमेवं जानीमो वयमिति स जयी भवति । यस्य पुनर्वादिनः प्रतिज्ञामन्यथा वैपरीत्येन मिथ्यैतदिति वदन्ति तस्य पराजयो ध्रुवो निश्चितः। यत्र तु प्रतिज्ञातार्थस्य विस्मरणादिना भावाभावी साक्षिणो न प्रतिपादयन्ति तत्र प्रमाणान्तरेण निर्णयः कार्यः । नच राज्ञा साक्षिणः पुनः पुनः प्रष्टव्याः । स्वभावोक्तमेव वचनं ग्राह्यम् । यथाह-'स्वभावोक्तं वचस्तेषां ग्राह्यं यद्दोषवर्जितम् । उक्ते तु साक्षिणो राज्ञा न प्रष्टव्याः पुनः पुनः ॥' इति ॥ ७९ ॥ 'अन्यथावादिनो यस्य ध्रुवस्तस्य पराजयः' इत्यस्यापवादमाह
उक्तेऽपि साक्षिभिः साक्ष्ये यद्यन्ये गुणवत्तमाः। द्विगुणा वान्यथा ब्रूयुः कूटाः स्युः पूर्वसाक्षिणः ॥ ८० ॥ पूर्वोक्तलक्षणैः साक्षिभिः साक्ष्ये स्वाभिप्राये प्रतिज्ञातार्थवैपरीत्येनाभिहिते यद्यन्ये पूर्वेभ्यो गुणवत्तमाः द्विगुणा वा अन्यथा प्रतिज्ञातार्थाननुगुण्येन साक्ष्यं ब्रूयुस्तदा पूर्वे साक्षिणः कूटा मिथ्यावादिनो भवेयुः। नन्वेतदनुपपन्नम् । अ. र्थिप्रत्यर्थिसभ्यसभापतिभिः परीक्षितैः प्रमाणभूतैः साक्षिभिर्निगदिते प्रमाणान्तरान्वेषणेऽनवस्थादोषप्रसङ्गात्-'निर्णिक्ते व्यवहारे तु प्रमाणमफलं भवेत् । लिखितं साक्षिणो वापि पूर्वमावेदितं न चेत् ॥ यथा पक्केषु धान्येषु निष्फलाः प्रावृषो गुणाः । निर्णिक्तव्यवहाराणां प्रमाणमफलं तथा ॥' इति नारदवचनाच । उच्यते। यदार्थी प्रतिज्ञातार्थस्यान्तरात्मसाक्षित्वेनानाविष्कृतदोषाणामपि साक्षिणां वचनमर्थविसंवादित्वेनाप्रमाणं मन्यमानः साक्षिष्वपि दोषं कल्पयति तदा प्रमाणान्तरान्वेषणं केन वार्यते। उक्तंच-'यस्य च दुष्टं करणं यत्र च मिथ्येति प्रत्ययः स एवासमीचीनः' इति । यथा चक्षुरादिकरणदोषानध्यवसायेऽप्यर्थविसंवादात्तजनितस्य ज्ञानस्याप्रामाण्येन करणदोषकल्पना तथेहापि । साक्षिपरीक्षातिरेकेण वाक्यपरीक्षोपदेशाच्च ।-'साक्षिभिर्भाषितं वाक्यं सह सभ्यैः परीक्षयेत्' इति । कात्यायनेनाप्युक्तम्-'यदा शुद्धा क्रिया न्यायात्तदा तद्वाक्यशोधनम् । शुद्धाच्च वाक्याद्यः शुद्धः स शुद्धोऽर्थ इति स्थितिः ॥' इति । क्रिया साक्षिलक्षणा 'नार्थसंबन्धिनो नाप्ताः' इति न्या. याद्यदा शुद्धा तदा तद्वाक्यशोधनं साक्षिवाक्यशोधनं कर्तव्यम् । वाक्यशुद्धिश्च सत्यार्थप्रतिपादनेन-'सत्येन शुध्यते वाक्यम्' इति स्मरणात् । एवं शुद्धायाः क्रियायाः शुद्धवाक्याच यः शुद्धोऽवगतोऽर्थः स शुद्धस्तथाभूत इति स्थितिरीदृशी मर्यादा न्यायविदाम् । कारणदोषबाधकप्रत्ययाभावे सत्यवितथ एवार्थ इत्यर्थः । ननु स्वयमर्थिना प्रमाणीकृतान्साक्षिणोऽतिक्रम्य कथं क्रियान्तरं प्रमा
१ स्वाभिप्रायेण प्रतिज्ञा घ. २ मिथ्यासाक्षिणो घ. ३ करणं दुष्टं घ. ४ शानस्य प्रामाण्य ख. ५ वाक्परीक्षोप घ. ६ शुद्धाच्च वाक्याधः शुद्धो घ. ७ कृताः साक्षिणो ख.
For Private And Personal Use Only
Page #202
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७०
याज्ञवल्क्यस्मृतिः। [व्यवहाराध्यायः णीक्रियते । नैष दोषः। यतः-'क्रियां बलवती मुक्त्वा दुर्बलां योऽवल म्बते । स जयेऽवरते सभ्यैः पुनस्तां नामुयाक्रियाम् ॥' इति कात्यायनेन जयावधारणोत्तरकालं क्रियान्तरपरिग्रहनिषेधाजयावधारणात्प्राक् क्रियान्तरपरिग्रहो दर्शितः । नारदेनापि-'निर्णिक्ते व्यवहारे तु प्रमाणमफलं भवेत्' इति वदता जयावधारणोत्तरकालमेव प्रमाणान्तरं निषिद्धं न प्रागपि । तस्मादुक्तेऽपि साक्षिभिः साक्ष्येऽपरितुष्यता क्रियान्तरमङ्गीकर्तव्यमिति स्थितम् । एवं स्थिते यद्यभिहितवचनेभ्यः साक्षिभ्यो गुणवत्तमाः द्विगुणा वा पूर्वनिर्दिष्टा असन्निहिताः साक्षिणः सन्ति तदा तएव प्रमाणीकर्तव्याः-'स्वभावेनैव यहू. युस्तद्राचं व्यावहारिकम्' इत्यस्य सर्वव्यवहारशेषत्वात्-'निर्णिक्ते व्यवहारे तु प्रमाणमफलं भवेत् । लिखितं साक्षिणो वापि पूर्वमावेदितं न चेत् ॥' इति नारदवचनाच । पूर्व निर्दिष्टानामसंभवे त्वनिर्दिष्टा अपि तथाविधाः साक्षिण एव ग्राह्या न दिव्यम् ।-'संभवे साक्षिणां प्राज्ञो वर्जये विकी क्रियाम्' इति स्मरणात् । तेषामसंभवे दिव्यं प्रेमाणीकर्तव्यम् । अतःपरमपरितुष्यताप्यर्थिना न प्रमाणान्तरमन्वेषणीयमवचनादिति परिसमापनीयो व्यवहारः । यत्र तु प्रत्यर्थिनः स्वप्रत्ययविसंवादित्वेन साक्षिवचनस्याप्रामाण्यं मन्यमानस्य साक्षिषु दोषारोपणेनापरितोषस्तत्र प्रत्यर्थिनः क्रियोपन्यासावसराभावात्सप्ताहावधिकदैविकराजिकव्यसनोद्भवेन साक्षिपरीक्षणं कर्तव्यम् । तत्रच दोषावधारणे विवादास्पदीभूतमृणं दाप्याः, सारानुसारेण दण्डनीयाश्च । अथ दोषानवधारणं तदा प्रत्यर्थिना तावता संतोष्टव्यम् । यथाह मनुः (१०८)-'यस्य दृश्येत सप्ताहादुक्तवाक्यस्य साक्षिणः । रोगोऽग्निातिमरणमृणं दाप्यो दमं च. सः ॥ इति । एतच्च-'यस्योचुः साक्षिणः सत्यां प्रतिज्ञां स जयी भवेत्' इत्यस्यापरितुष्यत्प्रत्यर्थिविषयेऽपवादो द्रष्टव्यः । केचित्तु 'उक्तेऽपि साक्षिभिः साक्ष्ये' इत्येतद्वचनमर्थिना निर्दिष्टेषु साक्षिष्वर्थ्यनुकूलमभिहितवत्सु यदि प्रत्यर्थी गुणवत्तमान्द्विगुणान्वान्यान्साक्षिणः पूर्वोक्तविपरीतं संवादयति तदा पूर्ववादिनः साक्षिणः कूटा इति व्याचक्षते । तदसत् । प्रत्यर्थिनः क्रियानुपपत्तेः । तथाहि । अर्थी नाम साध्यस्यार्थस्य निर्देष्टा, तत्प्रतिपक्षतदभाववादी प्रत्यर्थी पत्राभावस्य भावसिद्धिसापेक्षसिद्धिवाद्भावस्य चाभावसिद्धिनिरपेक्षसिद्धित्वाद्धावस्यैव साध्यत्वं युक्तम् । अभावर्य स्वरूपेण साक्ष्यादिप्रमेयत्वाभावात् । अतश्चार्थिन एवं क्रिया युक्ता । अपिचोत्तरानुसारेण सर्वत्रैव क्रिया नियता मर्यते-'प्राङ्न्यायकारणोक्तौ तु प्रत्यर्थी निर्दिशेक्रियाम् । मिथ्योक्ती पूर्ववादी तु प्रतिपत्तौ न सा भवेत् ॥' इति । न चैकस्मिन्व्यवहारे द्वयोः क्रिया ।-'नचैकस्मिन्विवादे तु क्रिया स्याद्वादिनोईयोः' इति स्मरणात् । तस्मात्प्रतिवादिनः साक्षिणो गुणवत्तमा द्विगुणा वान्यथा युरित्यनुपपन्नम् ॥ अथ मतम् । यत्र द्वावपि भाव
१ तथाविधा एव साक्षिणो ग्राह्याः ख. २ प्रमाणं कर्तव्यं ख. ३ मनुवचनात् ख. यमवचनात् घ. ४ दोषावधारणं ख. ५ वाभावनिरपेक्ष ख. ६ अभावस्वरूपेण ख. ७ कस्मिन्विवादे घ.
For Private And Personal Use Only
Page #203
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
साक्षिप्रकरणम् ५] मिताक्षरासहिता।
१७१ तिज्ञावादिनौ मदीयमिदं दायादप्राप्तं मदीयमिदं दायादप्राप्तमिति प्रतिज्ञावा. दिनोः पूर्वापरकालविभागानाकलितमेव वदतस्तत्र द्वयोः साक्षिषु सत्सु कस्य साक्षिणो ग्राह्या इत्याकाङ्क्षायां-'द्वयोर्विवदतोरर्थे द्वयोः सत्सु च साक्षिषु । पूर्वपक्षो भवेद्यस्य भवेयुस्तस्य साक्षिणः ॥' इति वचनेन यः पूर्व निवेदयति तस्य साक्षिणो ग्राह्या इति स्थिते तस्यार्पवादः 'उक्तेऽपि साक्षिमिः साक्ष्ये' इति । अतश्च पूर्वोत्तरयोऽदिनोः समसंख्येषु समगुणेषु साक्षिषु सत्सु पूर्ववा. दिन एव साक्षिणः प्रष्टव्याः । यदा तु उत्तरवादिनः साक्षिणो गुणवत्तमा द्विगुणा वा तदा प्रतिवादिनः साक्षिणः प्रष्टव्याः। एवंच नाभावस्य साध्यता। उभयोरपि भाववादित्वात्, चतुर्विधोत्तरविलक्षणत्वाच्च प्रकृतोदाहरणे न क्रियाव्यवस्था । एकस्मिन्व्यवहारे तु यथैकस्यार्थिनः क्रियाद्वयं परमते तथा वादिप्रतिवादिनोः क्रियाद्वयेऽप्यविरोध इति । तदप्याचार्यों नानुमन्यते-'उक्तेऽपि साक्षिमिः साक्ष्ये' इत्यपिशब्दादर्थात्प्रकरणाद्वास्यार्थस्यानवगमादित्यलं प्रसङ्गेन ॥ कूटसाक्षिणो दर्शितास्तेषां दण्डमाह
पृथक्पृथग्दण्डनीयाः कूटकृत्साक्षिणस्तथा ।
विवादाद्विगुणं दण्डं विवास्यो ब्राह्मणः स्मृतः ॥ ८१॥ यो धनदानादिना कूटान्साक्षिणः करोतीति स कूटकृत् साक्षिणश्च ये तथा कूटास्ते विवादानाम विवादपराजयात्पराजये यो दण्डस्तत्र तत्रोक्तस्तं दण्डं द्विगुणं पृथक्पृथगेकैकशो दण्डनीयाः। ब्राह्मणस्तु विवास्यो राष्ट्रान्निास्यो ने दण्डनीयः। एतच्च लोभादिकारणविशेषापरिज्ञाने अनभ्यासे च वेदितव्यम् । लोभादिकारणविशेषपरिज्ञानेऽभ्यासे च मनुनोक्तम् ( ८1१२०।२१)-'लोभात्सहस्त्रं दण्ड्यः स्यान्मोहात्पूर्वं तु साहसम् । भयावौ मध्यमौ दण्डौ मैत्र्या. त्पूर्व चतुर्गुणम् ॥ कामाद्दशगुणं पूर्व क्रोधात्तु त्रिगुणं परम् । अज्ञानाद्वेशते पूर्णे बालिश्याच्छतमेव तु ॥' इति । तत्र लोभोऽर्थलिप्सा । मोहो विपर्ययज्ञानम् । भयं संत्रासः । मैत्री स्नेहातिशयः । कामः स्त्रीव्यतिकराभिलाषः । क्रोधोऽमर्षः। अज्ञानमस्फुटज्ञानम् । बालिश्यं ज्ञानानुत्पादः । सहस्रादिषु ताम्रिकाः पणा गृह्यन्ते । तथा ( मनुः ८११२३)-'कौटसाक्ष्यं तु कुर्वाणांस्त्रीन्वर्णान्धार्मिको नृपः । प्रवासयेद्दण्डयित्वा ब्राह्मणं तु विवासयेत् ॥' इति । एतच्चाभ्यासविषयम् । कुर्वाणानिति वर्तमान निर्देशात् । बीन्वर्णान्क्षत्रियादीन् पूर्वोक्तं दण्डयित्वा प्रवासयेन्मारयेत् । अर्थशास्त्रे प्रवासशब्दस्य मारणे प्रयोगात्, अस्य चार्थशास्त्ररूपत्वात् । तत्रापि प्रवासनमोष्ठच्छेदनं जिह्वाच्छेदनं प्राणवियोजनं च कौटसा. क्ष्यविषयानुसारेण द्रष्टव्यम् । ब्राह्मणं तु दण्डयित्वा विवासयेत् स्वराष्ट्रान्निष्का
१ पवादमाह ख. २ प्याचार्या नानुमन्यन्ते घ. ३ विवादाद्विवादपराजये ख. विवादा. त्पराजये ग. ४ न दण्ड्याः ग-घ. ५ द्रष्टव्यम् खग. ६ लोभाल्लोमेन मिथ्याभिधाने. ७ भयादौ मध्यमो दण्डो ख. ८ पूर्व प्रथमसाहसमेव. ९ स्त्रीव्यतिरेकाभि ख. १० वर्तमानकाल ख. ११ शास्त्रस्वरूप ख.
For Private And Personal Use Only
Page #204
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७२
याज्ञवल्क्यस्मृतिः ।
[ व्यवहाराध्यायः
सयेत् । यद्वा विवासयेत् वाससो विगतो विवासाः । विवाससं करोतीति णिचि कृते ' णाविष्ठवत्प्रातिपदिकस्य' इति टिलोपे रूपम् । नग्नीकुर्यादित्यर्थः । अथवा वसत्यस्मिन्निति वासो गृहम् । विवासयेत् भग्नगृहं कुर्यादित्यर्थः । ब्राह्मणस्यापि लोभादिकारणविशेषापरिज्ञानेऽनभ्यासे च तत्रतत्रोक्तो दण्ड एव । अभ्यासे स्वर्थदण्डो विवासनं च । तत्रापि जातिद्रव्यानुबन्धाद्यपेक्षया विवासनं नमीकरणं गृहभङ्गो देशान्निर्वासनं चेति व्यवस्था द्रष्टव्या । लोभादिकारणविशेषापरिज्ञानेऽनभ्यासे चाल्पविषये कौटसाक्ष्ये ब्राह्मणस्यापि क्षत्रिया दिवदर्थदण्ड एव । महाविषये तु देशान्निर्वासनमेव । अत्राप्यभ्यासे सर्वेषामेव मनूक्तं द्रष्टव्यम् । नच ब्राह्मणस्यार्थदण्डो नास्तीति मन्तव्यम् । अर्थदण्डाभावे शारीरदण्डे च निषिद्धे स्वल्पेऽप्यपराधे नझीकरणगृहभङ्गाङ्ककरणविप्रवासनं दण्डाभावो वा प्रसज्येत - 'चतुर्णामपि वर्णानां प्रायश्चित्तमकुर्वताम् । शारीरं धनसंयुक्तं दण्डं धर्म्य प्रकल्पयेत् ॥' इति स्मरणाश्च । तथा ( मनुः ८|३७८) - 'सहस्रं ब्राह्मणो दण्ड्यो गुप्तां विप्रां बलाद्रजन्' इति स्मरणात् । यत्तु शङ्खवचनम् —'त्रयाणां वर्णानां धनापहारवधबन्धक्रिया विवासनाङ्ककरणं ब्राह्मणस्य' इति, तत्र धनापहारः सर्वस्वापहारो विवक्षितो वधसाहचर्यात् - 'शारीरस्ववरोधादिर्जीवितान्तः प्रकीर्तितः । काकिण्यादिस्त्वर्थदण्डः सर्वस्वान्तस्तथैव 'च ॥' इति वधसर्वस्वहरणयोः सहपाठात् । यदप्युक्तम्- 'राष्ट्रादेनं बहिः कुर्यात्समग्रधनमक्षतम्' इति तत्प्रथमकृत साहसविषयं न सर्वविषयम् । शारीरस्तु ब्राह्मणस्य न कदाचिद्भवति । ( मनुः ८१३८० ) - 'न जातु ब्राह्मणं हन्यात्सर्वपापेष्वपि स्थितम्' इति सामान्येन मनुस्मरणात् । तथा ( मनुः ८ ३८१ ) - 'न ब्राह्मणवधाद्भूयानधर्मो विद्यते भुवि । तस्मादस्य वधं राजा मनसापि न चिन्तयेत् ॥' इति ॥ ८१ ॥
जानतः साक्ष्यानङ्गीकारे आह
यः साक्ष्यं श्रावितोऽन्येभ्यो निहुते तत्तमोवृतः । सदाप्योऽष्टगुणं दण्डं ब्राह्मणं तु विवासयेत् ॥ ८२ ॥
अपिच । यस्तु साक्षित्वमङ्गीकृत्यान्यैः साक्षिभिः सह साक्ष्यं श्रावितः सन्निगदनकाले तमोवृतो रागाद्याक्रान्तचित्तस्तत्साक्ष्यमन्येभ्यः साक्षिभ्यो निहुते नाहमत्र साक्षी भवामीति स विवादपराजये यो दण्डस्तं दण्डमष्टगुणं दाप्यः । ब्राह्मणं पुनरष्टगुणद्रव्यदण्डदानासमर्थ विवासयेत् । विवासनं च नग्नीकरणगृहभङ्गदेशनिर्वासनलक्षणं विषयानुसारेण दृष्टव्यम् । इतरेषां त्वष्टगुणद्रव्येदण्डदानासंभवे स्वजात्युचितकर्मकरण निगडबन्धनकारागृहप्रवेशादि द्रष्टव्यम् । एतच्च पूर्वश्लोकेऽप्यनुसर्तव्यम् । यदा सर्वे साक्ष्यं निहुवते तदा सर्वे समानदोषाः । यदा तु साक्ष्यमुक्त्वा पुनरन्यथा वदन्ति तदानुबन्धाद्यपेक्षया दण्ड्याः । यथाह कात्यायनः – 'उक्त्वान्यथा बुवाणाश्च दण्ड्याः स्युर्वाक्छलान्विताः' १ दण्डासंभवे ख. २ अनुबन्धो दोषोत्पादः.
For Private And Personal Use Only
Page #205
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
साक्षिप्रकरणम् ५] मिताक्षरासहिता।
१७३ इति । न चान्येनोक्ताः साक्षिणोऽन्येन रहस्यनुसतव्याः । यथाह नारदः'न परेण समुद्दिष्टमुपेयात्साक्षिणं रहः । भेदयेनैव चान्येन 'हीयेतैवं समाच. रन् ॥' इति ॥ ८२ ॥ साक्षिणामवचनमसत्यवचनं च सर्वत्र प्रतिषिद्धं तदपवादार्थमाह
वर्णिनां हि वधो यत्र तंत्र साक्ष्यनृतं वदेत् । .. यत्र वर्णिनां शूद्रविदक्षत्रविप्राणां सत्यवचनेन वधः संभाव्यते तत्र साक्ष्यनृतं वदेत् सत्यं न वदेत् । अनेन च सत्यवचनप्रतिषेधेन साक्षिणः पूर्वप्रतिषिखुमसत्यवचनमवचनं चाभ्यनुज्ञायते । यत्र शङ्काभियोगादौ सत्यवचने वर्णिनो वधोऽनृतवचने न कस्यापि वधस्तत्रानृतवचनमभ्यनुज्ञायते । यत्र तु सत्यवचनेऽर्थिप्रत्यर्थिनोरन्यतरस्य वधोऽसत्यवचने चान्यतरस्य वधस्तत्र तूष्णीभावाभ्यनुज्ञा राजा यद्यनुमन्यते । अथ राजा कथमप्यकथने न मुञ्चति तदा भेदादसाक्षित्वं कर्तव्यम् । तस्याप्यसंभवे सत्यमेव वदितव्यम् । असत्यवचने वर्णिवधदोषोऽसत्यवचनदोषश्च । सत्यवचने तु वर्णिवधदोष एव । तत्र च यथाशास्त्रं प्रायश्चित्तं कर्तव्यम् ॥ तीसत्यवचने तूष्णींभावे च शास्त्राभ्यनुज्ञानात्प्रत्यवायाभाव इत्यत आह
तत्पावनाय निवोप्यश्वरुः सारवतो द्विजैः ॥ ८३ ॥ तत्पावनाय अनृतवचनावचन निमित्तप्रत्यवायपरिहाराय सारस्वतश्वरुर्द्विजैरेकैकशो निर्वाप्यः कर्तव्यः । सरस्वती देवता अस्येति सारस्वतः। अनवनावितान्तरूष्मपक्कीदने चरशन्दः प्रसिद्धः । इहायमभिसन्धिः-साक्षिणामनृतवचनमवचनं च यनिषिद्धं तदिहाभ्यनुज्ञातम् । यत्तु-'नानृतं वदेत् । अब्रुवन्विब्रुवन्वापि नरो भवति किल्बिषी' इति सामान्येनानृतवचनमवचनं च प्रतिषिद्धं तदतिक्रमनिमित्तमिदं प्रायश्चित्तम् । नच मन्तव्यं साक्षिणामनृतवचनावचनाभ्यनुज्ञानेऽपि साधारणानृतवचनावचनप्रतिषेधातिक्रमनिमित्तप्रत्यवायस्य तादवस्थ्यादभ्यनुज्ञावचनमनर्थकमिति । यतः साक्ष्यनृतवचनावचनयोभूयान्प्रत्यवायः साधारणानृतवचनावचनयोरल्पीयानित्यर्थवदभ्यनुज्ञावचनम् । यद्यपि भूयसः प्रत्यवायस्य निवृत्त्या आनुपङ्गिकस्याल्पीयसः प्रत्यवायस्य निवृत्तिरन्यत्र तथापीहाभ्यनुज्ञावचनात्प्रायश्चित्तविधानाच्च भूयसो निवृत्त्याल्पीयानप्यानुषङ्गिकोऽपि प्रत्यवायो न निवर्तत इति गम्यते । एतदेवान्यत्र प्रश्नेषु वर्णिवधाशङ्कायां पान्थादीनामनृतवचनावचनाभ्यनुज्ञानं वेदितव्यम् । नच तत्र प्रायश्चित्तमस्ति प्रतिषेधान्तराभावात् । निमित्तान्तरेण कालान्तरेऽर्थतत्त्वावगमेऽपि साक्षिणामन्येषां च दण्डाभावोऽस्मादेव वचनादवगम्यत इति ॥ ८३ ॥
इति साक्षिप्रकरणम् ।
१ हीयेच्चैवं घ. २ साक्ष्यं तत्रानृतं. ३ वदेत् घ. साक्ष्यमनृतम् घ. ४ वचनेन. ५ भ्यनुज्ञया ख. ६ निषिद्धं ख. ७ स्थ्यादवचनाभ्यनुशा ख. ८ साक्षिणामसत्यवचनावचनप्रतिषेधातिक्रमथोः ख.
For Private And Personal Use Only
Page #206
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
A
१७४
याज्ञवल्क्यस्मृतिः।
[व्यवहाराध्यायः
K AR
अथ लेख्यप्रकरणम् ६ भुक्तिसाक्षिणौ निरूपितौ । सांप्रतं लेख्यं निरूप्यते । तत्र लेख्यं द्विविधं शासनं जानपदं चेति । शासनं निरूपितम् । जानपदमभिधीयते । तच्च द्विविधम् स्वहस्तकृतमंन्यकृतं चेति । तत्र स्वहस्तकृतमसाक्षिकं अन्यकृतं ससाक्षिकम् । अनयोश्च देशाचारानुसारेण प्रामाण्यम् । यथाह नारदः-'लेख्यं तु द्विविधं ज्ञेयं स्वहस्ताऽन्यकृतं तथा । असाक्षिमत्साक्षिमञ्च सिद्धिर्देशस्थितेस्तयोः ॥ इति तत्रान्यकृतमाह
यः कश्चिदर्थो निष्णातः स्वरुच्या तु परस्परम् ।
लेख्यं तु साक्षिमत्कार्य तस्मिन्धनिकपूर्वकम् ॥ ८४ ॥ धनिकाधमर्णयोर्योऽर्थो हिरण्यादिः परस्परं स्वरुच्या इयता कालेनैतावद्देयमियती च प्रतिमासं वृद्धिरिति निष्णातो व्यवस्थितः तस्मिन्नर्थे कालान्तरे विप्रतिपत्तौ वस्तुतत्त्वनिर्णयार्थ लेख्यं साक्षिमदुक्तलक्षणसाक्षियुक्तं धनिकपूर्वकं धनिकः पूर्वो यस्मिंस्तद्धनिकपूर्वकम् । धनिकनामलेखनपूर्वकमितियावत् । कार्य कर्तव्यम् । उक्तलक्षणाः साक्षिणो वा कर्तव्याः-'कर्ता तु यत्कृतं कार्य सिख्यथै तस्य साक्षिणः । प्रवर्तन्ते विवादेषु स्वकृतं वाथ लेख्यकम् ॥' इति स्मरणात् ॥ ८४ ॥
समामासतदर्धाहर्नामजातिखगोत्रकैः ।
सब्रह्मचारिकात्मीयपितृनामादिचिनितम् ॥ ८५ ॥ अपिच । समा संवत्सरः । मासश्चैत्रादिः। तदधैं पक्षः शुक्लः कृष्णो वा । अहस्तिथिः प्रतिपदादिः । नाम धनिकर्णिकयोः । जातिर्ब्राह्मणत्वादिः । स्वगोत्रं वासिष्ठादिगोत्रम् । एतैः समादिभिश्चिह्नितम् । तथा सब्रह्मचारिकं बढ़चादिशाखाप्रयुक्तं गुणनाम बढ़चः कठ इति । आत्मीयपितृनाम धनिकर्णिकपितृनाम । आदिग्रहणाद्व्यजातिसंख्याचारादेर्ग्रहणम् । एतैश्च चिह्नित लेख्यं कार्यमिति गतेन संबन्धः ॥ ५॥
समाप्तेऽर्थे ऋणी नाम स्वहस्तेन निवेशयेत् ।
मतं मेऽमुकपुत्रस्य यदत्रोपरि लेखितम् ॥ ८६ ॥ किंच। धनिकाधमर्णयोर्योऽर्थः स्वरुच्या व्यवस्थितस्तस्मिन्नर्थे समाप्ते लिखिते ऋणी अधमर्णो नामात्मीयं स्वहस्तेनास्मिल्लेख्ये यदुपरि लेखितं तन्ममामुकपुत्रस्य मतमभिप्रेतमिति निवेशयेत्पत्रे विलिखेत् ॥ ८६ ॥
PANCHERaranasamanarmahilaomimansenilenewalremUMEROLAWresumptsuureactitolearchnasaitanianimalAasamanartTAHANIHARRANASANNARIMANSHI
१ मन्यहस्तकृतं ग. २ धनिकाधमर्णिकयोः ख. ३ संख्यावारादेः ख. ग.
For Private And Personal Use Only
Page #207
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
लेख्यप्रकरणम् ६ ]
Acharya Shri Kailassagarsuri Gyanmandir
मिताक्षरासहिता ।
साक्षिणश्च स्वहस्तेन पितृनामकपूर्वकम् । अत्राहममुकः साक्षी लिखेयुरिति ते समाः ॥ ८७ ॥
१७५
तथा । तस्मिंल्लेख्ये ये साक्षिणो लिखितास्तेऽप्यात्मीयपितृनाम लेखनपूर्वकं अस्मिन्नर्थेऽयममुको देवदत्तः साक्षीति स्वहस्तेनैकैकशो लिखेयुः । तेच समाः संख्यातो गुणतश्च कर्तव्याः । यद्यधमर्णः साक्षी वा लिपिज्ञो न भवति तदाधमर्णोऽन्येन साक्षी च साक्ष्यन्तरेण सर्वसाक्षिसंनिधौ स्वमतं लेखयेत् । यथाह नारदः - - ' अलिपिज्ञ ऋणी यः स्यात्स्वमतं तु स लेखयेत् । साक्षी वा साक्षिणान्येन सर्वसाक्षिसमीपतः ॥ इति ॥ ८७ ॥
उभयाभ्यर्थितेनैतन्मया ामुकसूनुना ।
लिखितं मुकेनेति लेखकोऽन्ते ततो लिखेत् ॥ ८८ ॥ अपिच । ततो लेखक उभाभ्यां धनिकाधमर्णिकाभ्यां प्रार्थितेन मयासुकेन देवदत्तेन विष्णुमित्रसूनुना एतल्लेख्यं लिखितमित्यन्ते लिखेत् ॥ ८८ ॥ सांप्रतं स्वकृतं लेख्यमाह
विनापि साक्षिभिर्लेख्यं स्वहस्तलिखितं तु यत् । तत्प्रमाणं स्मृतं लेख्यं बलोपधिकृतादृते ॥ ८९ ॥
''
यल्लेख्यं स्वहस्तेन लिखितमधमर्णेन तत्साक्षिभिर्विनापि प्रमाणं स्मृतं मन्वादिभिः । बलोपधिकृतादृते बलेन बलात्कारेण उपधिना छललोभक्रोधभयमदादिलक्षणेन यत्कृतं तस्माद्विना । नारदोऽप्याह -- ' मत्ताभियुक्त स्त्रीबालबलात्कारकृतं च यत् । तदप्रमाणं लिखितं भयोपधिकृतं तथा ॥' इति । तचैतत्स्वहस्तर्कृतं कृतं च यल्लेख्यं देशाचारानुसारेण सबैन्धकव्यवहारेऽबन्धकव्यवहारे च युक्तमर्थक्रमापरिलोपेन लिप्यक्षरापरिलोपेन च लेख्यमित्येतावत् न पुनः साधुशब्दैरेव, प्रातिस्विक देशभाषयापि लेखनीयम् । यथाह नारदः - 'देशाचाराविरुद्धं यद्व्यक्ताधिविधिलक्षणम् । तत्प्रमाणं स्मृतं लेख्यमविलुप्तक्रमाक्षरम् ॥' इति । विधानं विधिः आधेर्विधिराधिविधिराधीकरणं तस्य लक्षणं गोप्याधिभोग्याधिकालकृतमित्यादि तद्व्यक्तं विस्पष्टं यस्मिंस्तद्व्यक्त्ताधिविधिलक्षणम् । अविलुप्त क्रमाक्षरं । अक्षराणां क्रमः क्रमश्चाक्षराणि च क्रमाक्षराणि भविलुप्तानि क्रमाक्षराणि यस्मिंस्तदविलुप्तक्रमाक्षरं । तदेवंभूतं लेख्यं प्रमाणम् । राजशासनवन साधुशब्द नियमो ऽत्रेत्यभिप्रायः ॥ ८९ ॥
लेख्यप्रसङ्गेन लेख्यारूढमप्यृणं त्रिभिरेव देयमित्याहऋणं लेख्यकृतं देयं पुरुषैस्त्रिभिरेव तु ।
यथा साक्ष्यादिकृतमृणं त्रिभिरेव देयं तथा लेख्यकृतमप्याहर्तृर्तत्पुत्रतत्पुत्रै
१ काभ्यामुभाभ्यां ख. २ विना तु ख. ३ तत्रैतत् ष. ४ कृतं च लेख्यं ग. ५ सबन्धव्यवहारे च ख. ६ तत्पुत्रपौत्रैः.
या० १८
For Private And Personal Use Only
Page #208
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७६
याज्ञवल्क्यस्मृतिः। [व्यवहाराध्यायः स्त्रिभिरेव देयं न चतुर्थादिभिरिति नियम्यते । ननु पुत्रपौत्रैणं देयमित्यविशेषेण ऋणमात्रं त्रिभिरेव देयमिति नियतमेव । बाढम् । अस्यैवोत्सर्गस्य पत्रारूढणविषये स्मृत्यन्तरप्रभवामपवादशङ्कामपनेतुमिदं वचनमारब्धम् । तथाहि-पत्रलक्षणमभिधाय कात्यायनेनाभिहितम् - 'एवं कालमतिक्रान्तं पितॄणां दाप्यते ऋणम्' इति । इत्थं पत्रारूढमृणमतिकान्तकालमपि पितॄणां संबन्धि दाप्यते । अन्न पितॄणामिति बहुवचन निर्देशात्कालमतिक्रान्तमिति वचनाच्चतुर्थादिर्दाप्य इति प्रतीयते । तथा हारीतेनापि-'लेख्यं यस्य भवेद्धस्ते लाभं तस्य विनिर्दिशेत्' इति । अत्रापि यस्य हस्ते लेख्य (पत्र) मस्ति तस्यर्णलाभे इति सामान्येन चतुर्थादिभ्योऽप्यणलाभोऽस्तीति प्रतीयते । अतश्चैतदाशङ्कानिवृत्त्यर्थमेतद्वचनमित्युक्तम् । वचनद्वयं च योगीश्वरवचनानुसारेण योजनीयम् ॥ अस्थापवादमाह
आधिस्तु भुज्यते तावद्यावत्तन्न प्रदीयते ॥ ९० ॥ सबन्धकेऽपि पैत्रारूढं ऋणं त्रिभिरेव देयमिति नियमादृणापाकरणानधिकारेणाध्याहरणेऽप्यनधिकारप्राप्ताविदमुच्यते । यावञ्चतुर्थेन पञ्चमेन वा ऋणं न दीयते तावदेवाधिर्भुज्यत इति वदता सबन्धकर्णापाकरणे चतुर्थादेरप्यधिकारो दर्शितः । नन्वेतदप्युक्तमेव 'फलभोग्यो न नश्यतीति । सत्यम् । तदप्येतस्मिअसत्यवादवचने पुरुषत्रयविषयमेव स्यादिति सर्वमनवद्यम् ॥ ९० ॥ प्रासङ्गिक परिसमाप्य प्रकृतमेवानुसरति
देशान्तरस्थे दुर्लेख्ये नष्टोन्मृष्टे हृते तथा ।
भिन्ने दग्धेऽथवा छिन्ने लेख्यमन्यत्तु कारयेत् ॥ ९१ ॥ व्यवहाराक्षमे पत्रे पत्रान्तरं कुर्यादिति विधीयते । व्यवहाराक्षमत्वं चात्यन्तव्यवहितदेशान्तरस्थे पत्रे दुर्लेख्ये दुष्टानि संदिह्यमानानि अवाचकानि वा लेख्यानि लिप्यक्षराणि पदानि वा यसिंस्तत् दुर्लेख्यं तस्मिन्दुर्लेख्ये, नष्टे कालवशेन, उन्मृष्टे मषीदौर्बल्यादिना मृदितलिप्यक्षरे, हृते तस्करादिभिः, भिन्ने विदलिते, दग्धे प्रज्वलिते, छिन्ने द्विधाभूते सति पत्रं द्विर्भवति । एतच्चार्थिप्रत्यर्थिनोः परस्परानुमतौ सत्याम् । विमत्यां तु व्यवहारप्राप्ती देशान्तरस्थपत्रानयनीयाध्वापेक्षया कालो दातव्यः । दुर्देशावस्थिते नष्टे वा पत्रे साक्षिमिरेव व्यवहारनिर्णयः कार्यः । यथाह नारदः–'लेख्ये देशान्तरन्यस्ते शीर्णे दुर्लिखिते हृते । सतस्तत्कालकरणमसतो ष्ट्रदर्शनम् ॥' इति । सतो विद्यमानस्य पत्रस्य देशान्तरस्थस्यानयनाय कालकरणं कालावधितव्यः । असतां पुनरवि
१ वचनाच्च चतुर्थादिः ख. २ पत्रारूढे ऋणे ख. ग. ३ कारेणापहरणे ख. ४ तस्करादिना ग. घ. ५ द्वितीयपत्रं भवति ग. ६ नाय दुर्गाध्वापेक्षया ख. ७ दुर्गदेशावस्थिते ख ८ दृष्टदर्शनं घ.
For Private And Personal Use Only
Page #209
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लेख्यप्रकरणम् ६ ]
मिताक्षरासहिता ।
१७७
द्यमानस्य पत्रस्य पूर्व ये द्रष्टारः साक्षिणस्तैर्दर्शनं व्यवहारपरिसमापनं कार्यम् । यदा तु साक्षिणो न सन्ति तदा दिव्येन निर्णयः कार्यः – 'अलेख्यसाक्षिके दैवीं व्यवहारे विनिर्दिशेत्' इति स्मरणात् । एतच्च जानपदं व्यवस्थापत्रम् | राजhtraप व्यवस्थापनमीदृशमेव भवति । इयांस्तु विशेषः 'राज्ञः स्वहस्तसंयुक्तं स्वमुद्राचिह्नितं तथा । राजकीयं स्मृतं लेख्यं सर्वेष्वर्थेषु साक्षिमत् ॥' इति । तथान्यदपि राजकीयं जयपत्रकं वृद्धवसिष्ठेनोक्तम्- 'यथोपन्यस्तसाध्यार्थसंयुक्तं सोत्तरक्रियम् । सावधारणकं चैव जयपत्रकमिष्यते ॥ प्राड़िवाकादिहस्ता मुद्रितं राजमुद्रा | सिद्धेऽर्थे वादिने दद्याज्जयिने जयपत्रकम् ॥ इति । तथा सभासदोऽपि मेतं मेऽमुकपुत्रस्येति स्वहस्तं दद्युः । - ' सभासदश्व ये तत्र स्मृतिशास्त्रविदः स्थिताः । यथालेख्यविधौ तद्वत्स्वहस्तं दद्युरेव ते ॥ इति स्मरणात् । सभासदां च परस्परानुमतिव्यतिरेकेण न व्यवहारो निःशल्यो भवति । यथाह नारदः - 'यत्र सभ्यो जनः सर्वः साध्वेतदिति मन्यते । स निःशल्यो विवादः स्यात्सशल्यस्त्वन्यथा भवेत् ॥' इति । एतच्चतुष्पाद्व्यवहार एव । - ' साधयेत्साध्यमर्थे यच्चतुष्पादान्वितं च यत् । राजमुद्रान्वितं चैव जयपत्रकमिष्यते ॥' इति स्मरणात् । यत्र तु हीनता । यथा - 'अन्यवादी क्रियाद्वेषी नोपस्थाता निरुत्तरः । आहूतप्रपैलायी च हीनः पञ्चविधः स्मृतः ॥' इति । तत्र न जयपत्रकमस्ति अपितु हीनपत्रकमेव । तच्च कालान्तरे दण्डप्राध्यर्थं जयपत्रं तु प्राङ्न्यायविधिसिद्ध्यर्थमिति विशेषः ॥ ९१ ॥
लेख्यसंदेहे निर्णयनिमित्तान्याह --
संदिग्धलेख्यशुद्धिः स्यात्स्वहस्त लिखितादिभिः । युक्तिप्राप्तिक्रियाचिह्नसंबन्धागमहेतुभिः ॥ ९२ ॥
शुद्धमशुद्धं वेति संदिग्धस्य लेख्यस्य शुद्धिः स्वहस्तलिखितादिभिः स्यात् । स्वहस्तेन लिखितं यल्लेख्यान्तरं तेन शुद्धिः । यदि सदृशान्यक्षराणि भवन्ति तदा शुद्धिः स्यादित्यर्थः । आदिशब्दात्साक्षि लेखक स्वहस्तलिखितान्तरसंवादाच्छुद्धिरिति । युक्तया प्राप्तिर्युक्तिप्राप्तिः । देशकालपुरुषाणां द्रव्येण सह संबन्धः प्राप्तिः । अस्मिन्देशेऽस्मिन्कालेऽस्य पुरुषस्येदं द्रव्यं घटत इति युक्तिप्राप्तिः । क्रिया तत्साक्ष्युपन्यासः । चिह्नमसाधरणं श्रीकारादि । संबन्धोऽर्थिप्रत्यर्थिनोः पूर्वमपि परस्परविश्वासेन दानग्रहणादिसंबन्धः । आगमोऽस्यैतावतोऽर्थस्य संभावितः प्रायुपायः । एते एव हेतवः । एभिर्हेतुभिः संदिग्धलेख्यस्य शुद्धिः स्यादित्यन्वयः । यदा तु लेख्यसंदेहे निर्णयो न जायते तदा साक्षिभिर्निर्णयः कार्यः । यथाह कात्यायनः - 'दूषिते पत्रके वादी तदारूढांस्तु निर्दिशेत्' इति । साक्षिसंभव विषयमिदं वचनम् । साक्ष्यसंभवविषयं तु हारीतवचनम् - ' न मयैतत्कृतं पत्रं कूटमेतेन कारितम् । अधरीकृत्य तत्पन्नमथो दिव्येन निर्णयः ॥ ' इति ॥ ९२ ॥
१ व्यवहारे ख. २ दत्तं मे ख. ३ मुद्राङ्कितं ग. ४ व्यपलापी ग. ५ संबन्धप्राप्तिः ख. घ.
For Private And Personal Use Only
Page #210
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
याज्ञवल्क्यस्मृतिः। [व्यवहाराध्यायः एवं शोधिते पत्रे ऋणे च दातव्ये प्राप्ते यदा कृत्स्नमेव ऋणं दातुमसमर्थस्तदा किं कर्तव्यमित्यत आह
लेख्यस्य पृष्ठेऽभिलिखेदत्वा दत्त्वर्णिको धनम् । - धनी वोपंगतं दद्यात्वहस्तपरिचिह्नितम् ॥ ९३ ॥ .. यदाधमर्णिकः सकलमृणं दातुमसमर्थस्तदा शक्त्यनुसारेण दत्त्वा पूर्वकृतस्य लेख्यस्य पृष्ठेऽभिलिखेत् एतावन्मया दत्तमिति । उत्तमर्णो वा उपगतं प्राप्तं धनं तस्यैव लेख्यस्य पृष्ठे दद्यादभिलिखेत् एतावन्मया लब्धमिति । कथम् । स्वहस्तपरिचिह्नितं स्वहस्तलिखिताक्षरचिह्नितम् । यद्वोपगतं प्रवेशपत्रं स्वहस्तलिखितचिह्नितमधमायोत्तमर्णो दद्यात् ॥ ९ ॥ ऋणे तु कृत्स्ने दत्ते लेख्यं किं कर्तव्यमित्यत आह
दत्त्वर्ण पाटयेल्लेख्यं शुद्ध्यै वान्यत्तु कारयेत् । क्रमेण सकृदेव वा कृत्स्नमृणं दत्त्वा पूर्वकृतं लेख्यं पाटयेत् । यदा तु दुर्गदेशावस्थितं लेख्यं नष्टं वा तदा शुद्ध्यै अधमर्णत्वनिवृत्त्यर्थमन्यल्लेख्यं कारयेद्दुत्तमणेनाधमर्णः । पूर्वोक्तक्रमेणोत्तमो विशुद्धिपत्रमधमर्णाय दद्यादित्यर्थः ॥ ससाक्षिके ऋणे कृत्स्ने दातव्ये किं कर्तव्यमित्यत आह
साक्षिमच भवेद्यद्वा तद्दातव्यं ससाक्षिकम् ॥ ९४ ॥ यत्तु ससाक्षिकमृणं तत्पूर्वसाक्षिसमक्षमेव दयात् ॥ २४ ॥
इति लेख्यप्रकरणम् ।
अथ दिव्यप्रकरणम् । लिखितसाक्षिभुक्तिलक्षणं त्रिविधं मानुषं प्रमाणमुक्तम् । अथावसरप्राप्त दिव्यं प्रमाणमभिधास्यन् तुलाम्याप इत्यादिभिराचैः पञ्चभिः श्लोकैर्दिव्यमातृकां कथयति । तत्र तावद्दिव्यान्युपदिशति
तुलाम्यापो विषं कोशो दिव्यानीह विशुद्धये । तुलादीनि कोशान्तानि पञ्च दिव्यानीह धर्मशास्त्रे विशुद्धये संदिग्धस्यार्थस्य संदेहेनिवृत्तये दातव्यानीति ॥
नन्वन्यत्रान्यान्यपि तण्डुलादीनि दिव्यानि सन्ति-'धटोऽग्निरुदकं चैव विषं कोशस्तथैव च । तण्डुलाश्चैव दिव्यानि सप्तमस्तप्तमाषकः ॥' इति पितामहस्मरणात् । अतः कथमेतावन्त्येवेत्यत आह
महाभियोगेष्वेतानि . १ चोपगतं घ. २ लिखितपरिचिह्नित ग. ३ उत्तमणे अध ख. ४ दिभिरारभ्य घ. ५ संदिग्ध. ६ अन्यत्रान्या ख.
For Private And Personal Use Only
Page #211
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दिव्यप्रकरणम् ७ ]
मिताक्षरासहिता ।
१७९
एतानि महाभियोगेष्वेव नान्यत्रेति नियम्यते न पुनरिमान्येव दिव्यानीति । महत्वावधिं च वक्ष्यति । नन्वल्पाभियोगेऽपि कोशे इष्यते-कोशमल्पेऽपि दापयेत्' इति स्मरणात् । सत्यम् । कोशस्य तुलादिषु पाठो न महाभियोगेष्वेवेति नियमार्थः, किंतु सावष्टम्भाभियोगेऽपि प्रात्यर्थः । अन्यथा शङ्काभियोगे एव स्यात्-'अवष्टम्भाभियुक्तानां धटादीनि विनिर्दिशेत् । तण्डुलाश्चैव कोशश्च शङ्कास्वेव न संशयः ॥' इति स्मरणात् ॥ महाभियोगेषु शकितेषु सावष्टम्भेषु चाविशेषेण प्राप्तावपवादमाह
शीर्षकस्थेभियोक्तरि ॥९५ ॥ एतानि तुलादीन्यभियोक्तरि शीर्षकस्थेऽभियुक्तस्य भवन्ति । शीर्षकं शिरोव्यवहारस्य चतुर्थः पादो जयपराजयलक्षणस्तेन च दण्डो लक्ष्यते तत्र तिष्ठतीति शीर्षकस्थः तत्प्रयुक्कंदण्डभागित्यर्थः ॥ ९५॥
'ततोऽर्थी लेखयेत्सथः प्रतिज्ञातार्थसाधन मिति भावप्रतिज्ञावादिन एव क्रियेति व्यवस्था दर्शिता तदपवादार्थमाह
रुच्या वान्यतरः कुर्यादितरो वर्तयेच्छिरः। रुच्याभियोऋभियुक्तयोः परस्परसंप्रतिपत्त्यान्यतरोऽभियुक्तोऽभियोक्ता वा दिव्यं कुर्यात् । इतरोऽमियुक्तोऽभियोक्ता वा शिरः शारीरमर्थदण्डं वा वर्तयेदङ्गीकुयात् । अयमभिसन्धिः -न मानुषप्रमाणवद्दिव्यं प्रमाणं भावैकगोचरं अपितु भावाभावावविशेषेण गोचरयति । अतश्च मिथ्योत्तरे प्रत्यवस्कन्दने प्राङ्न्याये वार्थिप्रत्यर्थिनोरन्यतरस्येच्छया दिव्यं भवतीति ॥ __ अल्पाभियोगे महामियोगे शङ्कासावष्टम्भयोरप्यविशेषेण कोशो भवतीत्युक्तं, तुलादीनि विषान्तानि तु महाभियोगेष्वेव सावष्टम्भेष्वेवेति च नियमो दर्शितः। तत्रावष्टम्भाभियोगेष्वेवेत्यस्यापवादमाह
विनापि शीर्षकात्कुर्यान्नृपद्रोहेऽथ पातके ॥ ९६ ॥ राजद्रोहाभिशङ्कायां ब्रह्महत्यादिपातकाभिशङ्कायां च शिरःस्थायिना विनापि तुलादीनि कुर्यात् महाचौर्याभिशङ्कायां च । यथाह-'राजभिः शङ्कितानां च निर्दिष्टानां च दस्युभिः । आत्मशुद्धिपराणां च दिव्यं देयं शिरो चिना ॥' इति । तण्डुलाः पुनरल्पचौर्यशङ्कायामेव ।-चौर्ये तु तण्डुला देया नान्यत्रेति विनिश्चयः' इति पितामहवचनात् । तप्तमाषस्तु महाचौर्याभिशङ्कायामेव ।'चौर्यशङ्काभियुक्तानां तप्तमाषो विधीयते' इति स्मरणात् । अन्ये पुनः शपथा अल्पार्थविषयाः।-'सत्यं वाहनशस्त्राणि गोबीजकनकानि च । देवतापितृपादांश्च दत्तानि सुकृतानि च ॥ स्पृशेच्छिरांसि पुत्राणां दाराणां सुहृदां तथा ।
१ कोशोऽऽस्त्येव ग.२ क्रियाव्यवस्था ख.३भावाभावविशेषेणेतिसर्वत्र पाठः. ४ भवतीति युक्तं घ.
For Private And Personal Use Only
Page #212
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८०
याज्ञवल्क्यस्मृतिः। [व्यवहाराध्यायः अभियोगेषु सर्वेषु कोशपानमथापि वा । इत्येते शपथाः प्रोक्ता मनुना स्वल्पकारणे ॥' इति नारदस्मरणात् ॥ यद्यपि मानुषप्रमाणानिर्णेयस्य निर्णायकं यत्तदिव्यमिति लोकप्रसिद्ध्या शपथानामपि दिव्यत्वं तथापि कालान्तरनिर्णयनि
मित्तत्वेन समनन्तरनिर्णयनिमित्तेभ्यो घटादिभ्यो दिव्येभ्यो भेदत्वव्यपदेशो . ब्राह्मणपरिव्राजकवत् । कोशस्य तु शपथत्वेऽपि धटादिषु पाठो महाभियोगवि
षयत्वेनावष्टम्भाभियोगविषयत्वेन च धटादिसाम्यानतु समनन्तरनिर्णयनिमित्तत्वेन । तण्डुलानां तप्तमाषस्य च समनन्तरनिर्णयनिमित्तत्वेऽप्यल्पविषयत्वेन शङ्काविषयत्वेन च घटादिवलक्षण्यात्तेष्वपाठ इति संतोष्टव्यम् । एतानि च दिव्यानि शपथाश्च यथासंभवमृणादिषु विवादेषु प्रयोक्तव्यानि । यत्तु पितामहवचनम्-'स्थावरेषु विवादेषु दिव्यानि परिवर्जयेत्' इति, तदपि लिखितसामन्तादिसद्भावे दिव्यानि परिवर्जयेदिति व्याख्येयम् । ननु विवादान्तरेष्वपि प्रमाणान्तरसंभवे दिव्यानामनवकाश एव । सत्यम् । ऋणादिषु विवादेषु उक्तलक्षणसाक्ष्युपन्यासेऽर्थिना कृतेऽपि प्रत्यर्थी यदि दण्डाभ्युपगमावष्टम्भेन दिव्यमवलम्बते तदा दिव्यमपि भवति । साक्षिणामाशयदोषसंभवाद्दिव्यस्य च निदर्दोषत्वेन वस्तुतत्त्वविषयत्वात्तल्लक्षणत्वाच्च धर्मस्य । यथाह नारदः-तत्र सत्ये स्थितो धर्मो व्यवहारस्तु साक्षिणि । दैवसाध्ये पौरुषेयीं न लेख्यं वा प्रयोजयेत् ॥' इति । स्थावरेषु च विवादेषु प्रत्यर्थिना दण्डावष्टम्भेन दिव्यावलम्बने कृतेऽपि सामन्तादिदृष्टप्रमाणसद्भावे न दिव्यं ग्राह्यमिति विकल्पनिराकरणाथै 'स्थावरेषु विवादेषु' इत्यादिपितामहवचनं नात्यन्तिकदिव्यनिराकरणार्थम् । लिखितसामन्तायभावे स्थावरविवादेष्वनिर्णयप्रसङ्गात् ॥ ९६ ॥ दिव्ये साधारणविधिः
सचैल स्नातमाहूय सूर्योदय उपोषितम् ।
कारयेत्सर्वदिव्यानि नृपब्राह्मणसंनिधौ ॥ ९७ ॥ किंच । पूर्वेधुरुपोषितमुदिते सूर्ये सचैलं स्नातं दिव्यप्राहिणमाहूय नृपस्य सभ्यानां ब्राह्मणानां च संनिधौ सर्वाणि दिव्यानि कारयेत्प्राविवाक:-'विरात्रोपोषिताय स्युरेकरात्रोषिताय वा। नित्यं दिव्यानि देयानि शुचये चावाससे ॥' इत्युपवासविकल्पः पितामहेनोक्तो बलवदबलवन्महाकार्याल्पकार्यविषयत्वेन व्यवस्थितो द्रष्टव्यः । उपवासनियमश्च कारयितुःप्राविवाकस्यापि'दिव्येषु सर्वकार्याणि प्राड्विवाकः समाचरेत् । अध्वरेषु यथाध्वर्युः सोपवासो नृपाज्ञया ॥' इति पितामहवचनात् ॥ अत्र यद्यपि सूर्योदय इत्यविशेषेणोक्तं तथापि शिष्टसमाचारागानुवासरे दिव्यानि देयानि । तत्रापि–'पूर्वाह्नेऽग्निपरीक्षा स्यात्पूर्वाह्ने च धटो भवेत् । मध्याह्ने तु जलं देयं धर्मतत्त्वमभीप्सता ॥
१ साध्येषु ग. सर्वेषु कोशयान घ. २ नारदादि ख-ग. ३ नन्तरनिमित्तनिर्णयेभ्यो घ. ४ न्तरसद्भावे घ. ५ उक्तलक्षणे घ. ६ माशयेद्दोष घ.
For Private And Personal Use Only
Page #213
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दिव्यप्रकरणम् ७]
मिताक्षरासहिता।
१८१
दिवसस्य तु पूर्वाह्ने कोशशुद्धिर्विधीयते । रात्रौ तु पश्चिमे यामे विषं देयं सुशीतलम् ॥' इति पितामहोक्तो विशेषो द्रष्टव्यः ॥ अनुक्तकोलविशेषाणां तण्डुलतप्तमाषप्रभृतीनां पूर्वाह्न एव प्रदानम् । -'पूर्वाह्ने सर्वदिव्यानां प्रदानं परिकीर्तितम्' इति सामान्येन नारदस्मरणात् । अहनि त्रिधा विभक्ते पूर्वो भागः पूर्वाह्नो मध्यमो मध्याह्नः उत्तरोऽपराह्नः । तथापरोऽपि कालविशेषो विधिप्रतिषेधमुखेन दर्शितः। विधिमुखस्तावत्-'अग्नेः शिशिरहेमन्तौ वर्षाश्चैव प्रकीतिताः । शरीष्मेषु सलिलं हेमन्ते शिशिरे विषम् ॥ चैत्रो मार्गशिरश्चैव वैशाखश्च तथैव च । एते साधारणा मासा दिव्यानामविरोधिनः ॥ कोशस्तु सर्वदा देयस्तुला स्यात्सार्वकालिकी ॥' इति । कोशग्रहणं सर्वशपथानामुपलक्षणम् । तण्डुलानां पुनर्विशेषानमिधानात्सार्वकालिकत्वम् । प्रतिषेधमुखोऽपि-'न . शीते तोयशुद्धिः स्थानोष्णकालेऽग्निशोधनम् । न प्रावृषि विषं दद्यात्प्रवाते न सुला तथा.॥ नापराह्ने न सन्ध्यायां न मध्याह्ने कदाचन ॥' इति । न शीते तोयशुद्धिः स्यादिस्यत्र शीतशब्देन हेमन्तशिशिरवर्षाणां ग्रहणम् । 'नोष्णकालेऽग्निशोधन'मित्यत्रोष्णकालशब्देन ग्रीष्मशरदोः विधानलब्धस्यापि पुनर्निषेध आदरार्थः । प्रयोजनं तु वक्ष्यते ॥ ९७ ॥ अधिकारिव्यवस्थामाह
तुलास्त्रीबालवृद्धान्धपङ्गुब्राह्मणरोगिणाम् ।
अग्निजेलं वा शूद्रस्य यवाः सप्त विषस्य वा ॥९८॥ स्त्री स्त्रीमात्रं जातिवयोवस्थाविशेषानादरेण । बाल आषोडशाद्वर्षाजातिविशेषानादरेण । वृद्धोऽशीतिकावरः । अन्धो नेत्रविकलः । पङ्गुः पादविकलः । ब्राह्मणो जातिमात्रम् । रोगी व्याधितः । एतेषां शोधनार्थं तुलैवेति नियम्यते । अग्निः फालस्तप्तमाषश्च क्षत्रियस्य । जलमेव वैश्यस्य । वाशब्दोऽवधारणे। विषस्य यवा उक्तपरिमाणाः सप्तैव शूद्रस्य शोधनार्थं भवन्ति । ब्राह्मणस्य तुलाविधानात् 'शूद्रस्य यवाः सप्त विषस्य वा' इति विषविधानादग्निर्जलं वेति क्षत्रियवैश्यविषयमुक्तम् । एतदेव स्पष्टीकृतं पितामहेन-'ब्राह्मणस्य धटो देयः क्षत्रियस्य हुताशनः । वैश्यस्य सलिलं प्रोक्तं विषं शूद्रस्य दापयेत् ॥' इति । यत्तु ख्यादीनां दिव्याभावस्मरणम्-'सव्रतानां भृशार्तानां व्याधितानां तपस्विनाम्। स्त्रीणां च न भवेदिव्यं यदि धर्मस्त्वपेक्षितः ॥' इति, तत् 'रुच्या वान्यतरः कुर्यात्' इति विकल्पनिवृत्त्यर्थम् । एतदुक्तं भवति–'अवष्टम्भाभियोगेषु स्यादीनामभियोक्तृत्वेऽभियोज्यानामेव दिव्यं, एतेषाममियोज्यत्वेऽप्यभियोक्तणामेव दिव्यम् । परस्पराभियोगे तु विकल्प एव । तत्रापि तुलैवेति कात्यायनवचनेन नियम्यते । तथा महापातकादिशङ्काभियोगे स्यादीनां तुलैवेति एतच्च वचनं सर्वदिव्यसाधारणेषु मार्गशिरश्चैत्रवैशाखेषु स्यादीनां सर्वदिव्यसम
१ कोशसिद्धिः ख. २ अनुक्तवेला ग. घ. ३ प्रथमो भागः. घ. ४ उत्तमो घ. ५ तोयसिद्धिः स्यात् ख.
For Private And Personal Use Only
Page #214
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८२
याज्ञवल्क्यस्मृतिः। [व्यवहाराध्यायः वधाने नियामकतयार्थवत् । नच सर्वकालं स्त्रीणां तुलैवेति ।-स्त्रीणां तु न विषं प्रोक्तं न चापि सलिलं स्मृतम् । धटकोशादिभिस्तासामन्तस्तत्त्वं विचारयेत् ॥' इति विषसलिलव्यतिरिक्तधटकोशाग्यादिभिः शुद्धिविधानात् । एवं बालादिष्वपि योजनीयम् । तथा ब्राह्मणादीनामपि न सार्वकालिकस्तुलादिनियमः-सर्वेषामेव वर्णानां कोशशुद्धिर्विधीयते । सर्वाण्येतानि सर्वेषां ब्राह्मणस्य विषं विना ॥' इति पितामहस्मरणात् । तस्मात्साधारणे काले बहुदिव्यसमवधाने तुलादिनियमार्थमेवेदं वचनम् । कालान्तरे तु तत्तत्कालविहितं सर्वेषाम् । तथाहि-वर्षास्वग्निरेव सर्वेषाम् । हेमन्त शिशिरयोस्तु क्षत्रियादित्रयाणामग्निविषयोर्विकल्पः । ब्राह्मणस्य त्वग्निरेव न कदाचिद्विषम् । 'ब्राह्मणस्य विषं विना' इति प्रतिषेधात् । ग्रीष्मशरदोस्तु सलिलमेव । येषां तु व्याधिविशेषेणाम्यादिनिषेधः-'कुष्ठिनां वर्जयेदग्निं सलिलं श्वासकासिनाम् । पित्तश्लेष्मवतां नित्यं विषं तु परिवर्जयेत् ॥' इति तेषामन्यादिकालेऽपि साधारणं तुलायेव दिव्यं भवति । तथा-'तोयमग्निर्विषं चैव दातव्यं बलिनां नृणाम्' इति वैचनादुर्बलानामपि सर्वथा विधिप्रतिषेधाहतुकालानतिक्रमेण जातिवयोवस्थाश्रितानि दिव्यानि देयानि ॥ ९८ ॥ 'महाभियोगेष्वेतानी'त्युक्तं तत्राभियोगस्य यदपेक्षं महत्त्वं तदिदानीमाह
नासहस्राद्धरेत्कालं न विषं न तुलां तथा ।। पणसहस्रादाक् फालं विषं तुलां वा न कारयेत् । मध्यवर्ति जलमपि । यथोक्तम्-'तुलादीनि विषान्तानि गुरुष्वर्थेषु दापयेत्' इति । अत्र कोशस्याग्रहणं 'कोशमल्पेऽपि दापयेत्' इत्यल्पाभियोगेऽपि तस्य सरणात् । एतानि चत्वारि दिव्यानि पणसहस्रादूर्ध्वमेव भवन्ति नार्वागित्यर्थः ॥ नन्वर्वागप्यन्यादीनि पितामहेन दर्शितानि-सहस्रे तु धटं दद्यात्सहस्रार्ध तथायसम् । अर्धस्यार्धे तु सलिलं तस्यार्धे तु विषं स्मृतम् ॥' इति । सत्यम् । तत्रेत्थं व्यवस्था । यद्रव्यापहारे पातित्यं भवति तद्विषयं पितामहवचनं, इतरद्रव्यविषयं योगीश्वरवचनमिति । एतच्च वचनद्वयं स्तेयसाहसविषयम् । अपह्नवे तु विशेषो दर्शितः कात्यायनेन-दत्तस्यापह्ववो यत्र प्रमाणं तत्र कल्पयेत् । तेयसाहसयोर्दिव्यं स्वल्पेऽप्यर्थे प्रदापयेत् ॥ सर्वद्रव्यप्रमाणं तु ज्ञात्वा हेम प्रकरुपयेत् । हेमप्रमाणयुक्तं तु तदा दिव्यं नियोजयेत् ॥ ज्ञात्वा संख्यां सुवर्णानां शतनाशे विषं स्मृतम् । अशीतेस्तु विनाशे वै दंद्याचैव हुताशनम् ॥ पष्ट्या नाशे जलं देयं चत्वारिंशति वै धटम् । विशंदशविनाशे तु कोशपानं विधीयते ॥ पञ्चाधिकस्य वा नाशे ततोऽर्धार्धस्य तण्डुलाः। ततोऽर्धाधविनाशे हि
१ सार्वकालं ख. २ यथा ख. ३ तुला दिव्यं ग. ४ दुर्बलानामिति सर्वदा घ. ५ प्रतिषे. थादृते उक्तकालानति ग. ६ वस्थानाश्रितानि ख. ७ यदपेक्ष्य खग. ८ तत्रैवं व्यवस्था प. ९ दद्यादेव ख. १० दद्यात्रिंशद्विनाशे तु ग.
For Private And Personal Use Only
Page #215
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दिव्यप्रकरणम् ७ ]
मिताक्षरासहिता ।
१८३
स्पृशेत्पुत्रादिमस्तकान् ॥ ततोऽर्धार्धविनाशे हि लौकिक्यश्च क्रियाः स्मृताः । एवं विचारयन्राजा धर्मार्थाभ्यां न हीयते ॥' इति । ज्ञात्वा संख्या सुवर्णानामित्यत्र सुवर्णशब्दः ' षोडश माषाः सुवर्ण:' इत्युक्तपरिमाणवचनः । नाशशब्दश्चात्रापह्नववचनः । 'नासहस्राद्धरेत्फाल मित्यत्र तु तात्रिकपणसहस्रं बोद्धव्यम् ॥
ननु नृपद्रोहे महापातके चैतानि दिव्यान्युक्तानि तत्कथं नासहस्राद्धरेत्फालमित्यत्राह -
नृपार्थेष्वभिंशापे च वहेयुः शुचयः सदा ॥ ९९ ॥
नृपद्रोहे महापातकाभियोगे च सदा द्रव्यसंख्यामनपेक्ष्यैवैतानि दिव्यानि वदेयुः कुर्युरुपवासादिना शुचयः सन्तः । तथा देशविशेषोऽपि नारदेनोक्तः'सभाराजकुलद्वारदेवायतनचत्वरे । निधेयो निश्चलः पूज्यो धूपमाल्यानुलेपनैः ॥' इति । निधेयो घटः । व्यवस्था च कात्यायनेनोक्ता - 'इन्द्रस्थानेऽभिशस्तानां महापातकिनां नृणाम् । नृपद्रोहे प्रवृत्तानां राजद्वारे प्रयोजयेत् ॥ प्रातिलोम्यप्रसूतानां दिव्यं देयं चतुष्पथे । अतोऽन्येषु सभामध्ये दिव्यं देयं विदुर्बुधाः ॥ अस्पृश्याधमदासानां म्लेच्छानां पापकारिणाम् । प्रातिलोम्यप्रसूतानां निश्चयो न तु राजनि । तत्प्रसिद्धानि दिव्यानि संशये तेषु निर्दिशेत् ॥' इति ॥ ९९ ॥ इति दिव्यमातृका ॥
एवं सर्वदिव्योपयोगिनीं दिव्यमातृकाममिधायेदानीं घटादिदिव्यानां प्रयो
गमाह
तुलाधारणविद्वद्भिरभियुक्तस्तुलाश्रितः । प्रतिमानसमीभूतो रेखां कृत्वावतारितः ॥ १०० ॥ त्वं तु सत्यधामास पुरा देवैर्विनिर्मिता । तत्सत्यं वद कल्याणि संशयान्मां विमोचय ॥ १०१ ॥ यद्यपि पापकृन्मातस्ततो मां त्वमधो नय । शुद्धमयोर्ध्व मां तुलामित्यभिमन्त्रयेत् ॥ १०२ ॥
तुलाया धारणं तोलनं ये विदन्ति सुवर्णकारप्रभृतयस्तैः प्रतिमानेन मृदादिना समीभूतः समीकृतस्तु लामाश्रितोऽधिरूढोऽभियुक्तोऽभियोक्ता वा दिव्यकारी रेखां कृत्वा येन संनिवेशेन प्रतिमानसमीकरणदशायां शिक्यतलेऽवस्थितस्तस्मिन्पाण्डु लेखेनाङ्कयित्वा वतारितस्तु लामभिमन्त्रयेत्प्रार्थये तानेन मन्त्रेण । हे तुले, त्वं सत्यस्य स्थानमसि । पुरा आदिसृष्टौ देवैर्हिरण्यगर्भप्रभृतिभिर्विनिर्मितोत्पादिता । तत्तस्मात्सत्यं संदिग्धस्यार्थस्य स्वरूपं वद दर्शय । कल्याणि शो
१ अभिशापेषु ग. २ नृपद्रोहेषु ख. ३ ततोऽन्येषु तु कार्येषु सभामध्ये विदुर्बुधाः ग. ४ म्लेच्छानामपकारिणां ग. ५ दापयेत् ग. ६ विशोधय घ. ७ पाण्डुलेख्येन ख. पाण्डुलेखः खडू इति प्रसिद्धः.
For Private And Personal Use Only
Page #216
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
DECinema
।
१८४
याज्ञवल्क्यस्मृतिः। [व्यवहाराध्यायः भने, अस्मात्संशयान्मां विमोचय । हे मातः, यद्यहं पापकृदसत्यवाद्यस्मि ततो मां त्वमधो नय । अथ शुद्धः सत्यवाद्यसि ततो मामूवं गमयेति ॥ प्राविवाकस्य तुलामिमन्त्रणमन्त्रेः स्मृत्यन्तरोक्तः । अयं तु दिव्यकारिणः । जयपराजयलक्षणं तु मन्त्रलिङ्गादेवावगम्यत इति न पृथगुक्तम् ॥ धटनिर्माणं पुनरारोहणाद्यर्थसिद्धमेव पितामहनारदादिभिः स्पष्टीकृतम् । तद्यथा-'छित्त्वा तु यज्ञियं वृक्षं यूपवन्मन्त्रपूर्वकम् । प्रणम्य लोकपालेभ्यस्तुला कार्या मनीषिभिः । मन्त्रः सौम्यो वानस्पत्यश्छेदने जप्य एव च । चतुरस्रा तुला कार्या दृढा ऋज्वी तथैव च ॥ कटकानि च देयानि त्रिषु स्थानेषु चार्थवत् । चतुर्हस्ता तुला कार्या पादौ चोपरि तत्समौ ॥ अन्तरं तु तयोर्हस्तौ भवेदध्यर्धमेव च । हस्तद्वयं निखेयं तु पादयोरुभयोरपि ॥ तोरणे च तथा कार्ये पार्श्वयोरुभयोरपि । धटादुच्चतरे स्यातां नित्यं दशभिरकुलैः ॥ अवलम्बौ च कर्तव्यौ तोरणाभ्यामधोमुखौ। मृन्मयौ सूत्रसंबद्धौ धटमस्तकचुम्बिनौ ॥ प्राङ्मुखो निश्चलः कार्यः शुचौ देशे धटस्तथा । शिक्यद्वयं समासज्य पार्श्वयोरुभयोरपि ॥ प्राङ्मुखान्कल्पयेह शि. क्ययोरुभयोरपि । पश्चिमे तोलयेत्कर्तृनन्यस्मिन्मृत्तिका शुभाम् ॥ पिटकं पूरयेत्तस्मिन्निष्टकानावपांसुभिः । अत्र च मृत्तिकेष्टकानावपांसूनां विकल्पः । परीक्षका नियोक्तव्यास्तुलामानविशारदाः ॥ वणिजो हेमकाराश्च कांस्यकारास्तथैव च । कार्यः परीक्षकैर्नित्यमवलम्बसमो घटः ॥ उदकं च प्रदातव्यं घटस्योपरि पण्डितैः । यस्मिन्न प्लवते तोयं स विज्ञेयः समो धटः ॥ तोलयित्वा नरं पूर्व पश्चात्तमवतार्य तु । धटं तु कारयेन्नित्यं पताकाध्वजशोभितम् ॥ तत आवाहयेद्देवान्विधिनानेन मन्त्रवित् । वादिवर्यघोषैश्च गन्धमाल्यानुलेपनैः ॥ प्रामुखः प्राञ्जलिर्भूत्वा प्राविवाकस्ततो वदेत् । एह्येहि भगवन्धर्म अस्मिन्दिव्ये समाविश ॥ सहितो लोकपालैश्च वस्त्रादित्यमरुद्गणैः। आवाह्य तु धटे धर्म पश्चादङ्गानि विन्यसेत् ॥ इन्द्रं पूर्वे तु संस्थाप्य प्रेतेशं दक्षिणे तथा। वरुणं पश्चिमे भागे कुबेरं चोत्तरे तथा ॥ अग्यादिलोकपालांश्च कोणभागेषु विन्यसेत् । इन्द्रः पीतो यमः श्यामो वरुणः स्फटिकप्रभः॥ कुबेरस्तु सुवर्णाभो वह्निश्वापि सुव
भः । तथैव निर्ऋतिः श्यामो वायुधूम्रः प्रशस्यते ॥ ईशानस्तु भवेद्रक्त एवं ध्यायेत्क्रमादिमान् । इन्द्रस्य दक्षिणे पार्थे वसूनाराधयेद्बुधः ॥ धरो ध्रुवस्तथा सोम आपश्चैवानिलोऽनलः । प्रत्यूषश्च प्रभासश्च वसवोऽष्टौ प्रकीर्तिताः ॥ देवेशेशानयोर्मध्य आदित्यानां तथा गणम् । धातार्यमा च मित्रश्च वरुणोंऽशुभंगस्तथा ॥ इन्द्रो विवस्वान्पूषा च पर्जन्यो दशमः स्मृतः। ततस्त्वष्टा ततो विष्णुरजघन्यो जघन्यजः ॥ इत्येते द्वादशादित्या नामभिः परिकीर्तिताः। अग्नेः प. श्चिमभागे तु रुद्राणामयनं विदुः ॥ वीरभद्रश्च शम्भुश्च गिरिशश्च महायशाः।
१ मत्राः स्मृत्यन्तरोक्ताः गध. २ प्रान्तरं ख. ३ निधेयं इति पाठः. ४ पिटकं वंशभाण्डविशेषः. ५ हेमकारश्च कांस्यकारः. घ. ६ प्राञ्जलिः प्राङ्मखो भूत्वा घ. ७ ध्रुवोऽध्वरस्तथा सोमः ख. धरो ध्रुवश्च सोमश्च घ. ८ आदित्यानां तथायनं ग. आदित्याराधनं तथा घ. ९ वरुणोंऽशो भग गघ १० अग्नेः पश्चिमदिग्भागे रुद्राणां स्थापनं विदुः ग.
For Private And Personal Use Only
Page #217
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दिव्यप्रकरणम् ७] मिताक्षरासहिता।
१८५ अजैकपादहिर्बुध्न्यः पिनाकी चापराजितः ॥ भुवनाधीश्वरश्चैव कपाली च विशा पतिः । स्थाणुर्भवश्च भगवान् रुद्रास्त्वेकादश स्मृताः ॥ प्रेतेशरक्षोमध्ये तु मातृस्थानं प्रकल्पयेत् । ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा ॥ वाराही चैव माहेन्द्री चामुण्डा गणसंयुता । नितेरुत्तरे भागे गणेशायतनं विदुः ॥ वरुणस्योत्तरे भागे मरुतां स्थानमुच्यते । पवनः स्पर्शनो वायुरनिलो मारुतस्तथा ॥ प्राणः प्राणेशजीवौ च मरुतोऽष्टौ प्रकीर्तिताः । धटस्योत्तरभागे तु दुर्गामावाहयेहुधः ॥ एतासां देवतानां तु स्वनाम्ना पूजनं विदुः । भूषावसानं धर्माय दत्त्वा चार्ष्यादिकं क्रमात् ॥ अादिपश्चादङ्गानां भूषान्तमुपकल्पयेत् । गन्धादिकां नैवेद्यान्तां परिचर्या प्रकल्पयेत् ॥' इति । अत्र च तुलां पताकाध्वजालंकृतां विधाय तस्यामेोहीति मन्त्रेण धर्ममावाह्य धर्मायाय कल्पयामि नम इत्यादिना प्रयोगेणार्घ्यपाद्याचमनीयमधुपर्काचमनीयस्नानवस्त्रयज्ञोपवीताचमनीयमुकुटकटकादिभूषान्तं दत्वा इन्द्रादीनां दुर्गान्तानां प्रणवाद्यैः स्वनामभिश्चतुर्थ्यन्तै मोन्तरादिभूषान्तं पदार्थानुसमयेन दत्त्वा धर्माय गन्धपुष्पधूपदीपनैवेद्यादि दत्त्वा इन्द्रादीनां गन्धादीनि पूर्ववद्दयात् । गन्धपुष्पाणि च धटपूजायां रक्तानि कार्याणि । यथाह नारदः-'रक्तैर्गन्धैश्च माल्यैश्च दध्यपूपाक्षतादिभिः । अर्चयेत्तु धटं पूर्वं ततः शिष्टांस्तु पूजयेत् ॥' इति । इन्द्रादीनां तु विशेषानभिधानाद्यथालाभं रक्तैरन्यैर्वा पूजनमिति पूजाक्रमः ॥ एतच्च सर्व प्राड्विवाकः कुर्यात् । यथोक्तम्-'प्राविवाकस्ततो विप्रो वेदवेदाङ्गपारगः । श्रुतवृत्तोपसंपन्नः शान्तचित्तो विमत्सरः ॥ सत्यसंधः शुचिर्दक्षः सर्वप्राणिहिते रतः । उपोषितः शुद्धवासाः कृतदन्तानुधावनः ॥ सर्वासां देवतानां च पूजां कुर्याद्यथाविधि ॥' तथा । ऋत्विग्भिश्चतुर्भिश्चतसृषु दिक्षु लौकिकाग्नौ होमः कार्यः । यथाह'चतुर्दिक्षु तथा होमः कर्तव्यो वेदपारगैः । आज्येन हविषा चैव समिनि)मसाधनैः ॥ सावित्र्या प्रणवेनाथ स्वाहान्तेनैव होमयेत् ॥' प्रणवादिकां गायत्रीमुच्चार्य पुनः स्वाहाकारान्तं प्रणवमुच्चार्य समिदाज्यचरून्प्रत्येकमष्टोत्तरशतं जुहुयादित्यर्थः । एवं हवनान्तां देवपूजां विधायानन्तरमभियुक्तमर्थं वक्ष्यमाणमबसहितं पत्रे लिखित्वा तत्पत्रं शोध्य शिरोगतं कुर्यात् । यथाह-'येदर्थमभियुक्तः स्याल्लिखित्वा तं तु पत्रके । मन्त्रेणानेन सहितं तत्कार्यं तु शिरोगतम् ॥' मन्त्रश्चायम्-'आदित्यचन्द्रावनिलोऽनलश्च द्यौर्भूमिरापो हृदयं यमश्च । अहश्च रात्रिश्च उभे च संध्ये धर्मश्च जानाति नरस्य वृत्तम् ॥' इति । एतच्च धर्मावाहनादि शिरसि पत्रारोपणान्तमनुष्ठानकाण्डं सर्वदिव्यसाधारणम् । यथोक्तम् -'इमं मन्त्रविधिं कृत्स्नं सर्वदिव्येषु योजयेत् । आवाहनं च देवानां तथैव परिकल्पयेत् ॥' इति । अनन्तरं प्राविवाको धटमामन्त्रयेत् -'धटमामन्त्रयेच्चैव विधिनानेन शास्त्रवित्' इति स्मरणात् । मन्त्राश्च दर्शिताः-'वं धट ब्रह्मणा सृष्टः परीक्षार्थ दुरात्मनाम् । धकाराद्धर्ममूर्तिस्त्वं टकारात्कुटिलं नरम् ॥ तो
१ निवेद्यान्तां परिचर्या ग-ध. २ यं चार्थमभियुक्तः स्यात् घ.
For Private And Personal Use Only
-
LE.Lamal
Page #218
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८६
याज्ञवल्क्यस्मृतिः ।
[ व्यवहाराध्यायः
I
1
भावसे यस्माद्धस्तेनाभिधीयसे । त्वं वेत्सि सर्वजन्तूनां पापानि सुकृतानि च ॥ त्वमेव देव जानीषे न विदुर्यानि मानवाः । व्यवहाराभिशस्तोऽयं मानुषः शुद्धिमिच्छति ॥ तदेनं संशयादस्माद्धर्मतस्त्रातुमर्हसि ॥' इति । शोध्यस्तु 'वं तुले' इत्यादिना पूर्वोक्तेन मन्त्रेण तुलामामन्त्रयेत् । अनन्तरं प्राङ्गिवाकः शिरोगतपत्रकं शोध्य यथास्थानं निवेश्य च घटमारोपयति - 'पुनरारोपयेत्तस्मिञ्छिरोवस्थित पत्रकम्' इति स्मरणात् । आरोपितं च विनाडीपञ्चकं यावत्तथैवावस्थापयेत् । तत्कालपरीक्षां च ज्योतिःशास्त्राभिज्ञः कुर्यात् – 'ज्योतिर्विद्राह्मणः श्रेष्ठः कुर्यात्कालपरीक्षणम् । विनाड्यः पञ्च विज्ञेयाः परीक्षाकालकोविदैः ॥' इति स्मरणात् । दशगुर्वक्षरोच्चारणकालः प्राणः षट्प्राणा विनाडी । उक्तंच - 'दशगुरुवर्णः प्राणः षट् प्राणाः स्याद्विनाडिका तासामू । षष्ट्या घटी घटीनां ष्ट्याहः खाग्निभिर्दिनैर्मासः ॥' इति । तस्मिंश्च काले शुद्ध्यशुद्धिपरीक्षणार्थं शुचयः पुरुषा राज्ञा नियोक्तव्याः । ते च शुद्ध्यशुद्धी कथयन्ति । यथोक्तं पितामहेन - 'साक्षिणो ब्राह्मणाः श्रेष्ठा यथादृष्टार्थवादिनः । ज्ञानिनः शुचयोऽलुब्धा नियोक्तव्या नृपेण तु ॥ शंसन्ति साक्षिणः श्रेष्ठः शुच्यशुद्धी नृपे तदा ॥' इति । शुद्ध्यशुद्धिनिर्णयकारणं चोक्तम्- 'तुलितो यदि वर्धेत स शुद्धः स्यान्न संशयः । समो वा हीयमानो वा न सँ शुद्धो भवेन्नरः ॥' इति । यत्तु पितामहवचनम् -'अल्पदोषः समो ज्ञेयो बहुदोषस्तु हीयते' इति, तत्र यद्यप्यभियुक्तस्यार्थस्याल्पत्वं बहुत्वं च न दिव्येनावधारयितुं शक्यते तथापि सकृदमतिपूर्वत्वेनाल्पत्वमसकृन्मति पूर्वश्वेन च महत्त्वमिति दण्डप्रायश्चित्ताल्पत्वमहत्त्वमवधार्यते । यदा चानुपलक्ष्यमाणदृष्टकारण एव कक्षादीनां छेदो भङ्गो वा भवति तदाप्यशुद्धिरेव - ' कक्षच्छेदे तुलाभङ्गे घटकर्कटयोस्तथा । रज्जुच्छेदेऽक्षभङ्गे वा तथैवाशुद्धिमादिशेत् ॥' इति स्मरणात् । कथं शिक्यतलम् । कर्कटो तुलान्तयोः शिक्याधारावीषद्वक्रावायसकीलको कर्कटशृङ्गसंनिभौ । अक्षः पादस्तम्भयोरुपरि निविष्टस्तुलाधारपट्टः । यदा तु दृश्यमानकारणक एषां भङ्गस्तदा पुनरारोपयेत् - 'शिक्यादिच्छेदंभङ्गेषु पुनरारोपयेश्वरम्' इति स्मरणात् । ततश्च — 'ऋत्विक्पुरोहिताचार्यान्दक्षिणा मिश्च तोषयेत् । एवं कारयिता राजा भुक्त्वा भोगान्मनोरमान् ॥ महतीं कीर्तिमाप्नोति ब्रह्मभूयाय कल्पते ॥' यदा तूक्तलक्षणं धटं तथैव स्थापयितुमिच्छति तदा वायसाद्युपघातनिरासार्थ कपाटादिसहितां शालां कुर्यात् – 'विशालामुन्नेतां शुभ्रां घटशालां तु कारयेत् । यवस्था नोपहन्येत श्वमिश्चण्डालवायसैः ॥ तत्रैव लोकपालादीन्सर्वान्दिक्षु 'निवेशयेत् । त्रिसन्ध्यं पूजयेदेतान्गन्धमाल्यानुलेपनैः ॥ कपाटबीजसंयुक्तां परिचारकरक्षिताम् । मृत्पानीयामिसंयुक्तामशून्यां कारयेन्नृपः ॥' इति स्मरणात् । बीजानि यवत्रीह्यादीनि ॥ १०० ॥ १०१ ॥ १०२ ॥ इति घटविधिः ॥
१ सर्वभूतानां घ. २ त्वमेव सर्वे घ. ३ यथानिवेशं च घ. ४ षष्ट्याहोरात्र उक्तश्च ख. ५ शोध्यशुद्धि ग. ६ सर्वे घ. ७ न विशुद्धो घ. ८ छेदे च भङ्गे च घ. ९ भङ्गे तु घ. १० मुच्छ्रितां घ.
For Private And Personal Use Only
Page #219
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दिव्यप्रकरणम् ७] मिताक्षरासहिता। १८७ इदानी क्रमप्राप्तमग्निदिव्यमाह
करौ विमृदितव्रीहेर्लक्षयित्वा ततो न्यसेत् ।
ससाश्वत्थस्य पत्राणि तावत्सूत्रेण वेष्टयेत् ॥ १०३॥ दिव्यमातृकोक्तसाधारणधर्मेषु सत्सु तुलाविधानोक्तधर्मावाहनादिशिरस्पनारोपणान्ते च विध्यन्ते सत्ययमग्निविधौ विशेषः । विमृदितव्रीहेर्विमृदिता विषर्षिता ब्रीहयः कराभ्यां येनासौ विमृदितव्रीहिस्तस्य करौ लक्षयित्वा तिलकालकवणकिणादिस्थानेष्वलतकरसादिनाकयित्वा । यथाह नारद:--'हस्तक्षतेषु सर्वेषु कुर्याद्धंसपदानि तु' इति । अनन्तरं सप्ताश्वत्थस्य पैर्णानि हस्तयोरजलीकृतयोयसेत् -'पत्रैरअलिमापूर्य आश्वत्थैः सप्तभिः समैः' इति स्मरणात् । तानि च हैस्तसहितानि सूत्रेण तावद्वेष्टयेत् । यावन्त्यश्वत्थपर्णानि सप्तकृत्वो वेश्येदित्यर्थः । सूत्राणि च सत शुक्कानि भवन्ति-वेष्टयीत सितैर्हस्तौ सप्तभिः सूत्रतन्तुभिः' इति नारदवचनात् । तथा सप्त शमीपत्राणि सप्तवं दूर्वापत्राणि चाक्षतांश्च दध्यक्तानक्षतांश्चाश्वस्थपत्राणामुपरि विन्यसेत्–'सप्त पिप्पलपत्राणि शमीपत्राण्यथाक्षतान् । दूर्वायाः सप्त पत्राणि दध्यक्तांश्चाक्षताभ्यसेत् ॥' इति स्मरणात् । तथा कुसुमानि च विन्यसेत्-'सप्त पिप्पलपत्राणि अक्षतान्सुमनो दधि । हस्तयोनिक्षिपेत्तत्र सूत्रेणावेष्टनं तथा ॥' इति पितामहवचनात् । सुमनसः पुष्पाणि । यदपि स्मरणम्-'अयस्तप्तं तु पाणिभ्यामर्कपत्रैस्तु सप्तभिः । अन्तर्हितं हरन् शुद्धस्त्वदग्धः सप्तमे पदे ॥' इति तदश्वत्थपत्राभावेऽर्कपत्रविषयं वेदितव्यम् । अश्वत्थपत्राणां पितामहप्रशंसावचनेन मुख्यस्वावगमात्-'पिप्पलाजायते वह्निः पिप्पलो वृक्षराट् स्मृतः। अतस्तस्य तु पत्राणि हस्तयोविन्यसेदुधः ॥' इति ॥ १०३ ॥ कर्तुरग्यभिमन्नगमाह
त्वमने सर्वभूतानामन्तश्चरसि पावक । . साक्षिवत्पुण्यपापेभ्यो ब्रूहि सत्यं कवे मम ॥ १०४ ॥
हे अग्ने, त्वं सर्वभूतानां जरायुजाण्डजस्वेदजोद्भिजानामन्तः शरीराभ्यन्तरे चरसि उपभुक्तानपानादीनां पाचकत्वेन वर्तसे । पावक शुद्धिहेतो, कवे क्रान्तदर्शिन् , साक्षिवत्पुण्यपापेभ्यः सत्यं ब्रूहि । पुण्यपापेभ्य इति ल्यब्लोपे पञ्चमी । पुण्यपापान्यवेक्ष्य सत्यं ब्रूहि दर्शयेत्यर्थः । अयःपिण्डे त्रिभिस्तापैः संतप्ते संदंशेन पुरत मानीते कर्ता पश्चिममण्डले प्रामुखस्तिष्ठन् भनेन मन्त्रेणाग्निं अभिमन्त्रयेत् । यथाह नारदः-'अग्निवर्णमयःपिण्डं सस्फुलिङ्गं सुरक्षितम् । तापे तृतीये संताप्य ब्रूयात्सत्यपुरस्कृतम् ॥' इति । अस्यार्थः-लोहशुद्ध्यर्थे सुतप्तं लोहपिण्ड
१ अग्निविधि ग. अग्निविधानं घ. २ तावत्सूत्रेण तावतां सूत्राणां समाहारस्तावत्सूत्रं तेन । सप्तसत्र्या सकृदेव वेष्टयेदित्यर्थः. तावत्सूत्राणि वेष्टयेत् ख. ३ पत्राणि घ. ४ स्वहस्तसहितानि घ. ५ अन्तर्हितं रहःशुद्धं ख. अन्तर्हितैर्हरन् ग.
या० १९
For Private And Personal Use Only
Page #220
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८८
याज्ञवल्क्यस्मृतिः। व्यवहाराध्यायः मुदके निक्षिप्य पुनः संताप्योदके निक्षिप्य तृतीये तापे संताप्य संदशेन गृहीत्वा पुरत आनीते सत्यपुरस्कृतं सत्यशब्दयुकं स्वममे सर्वभूताना' मित्यादिमनं कर्ता ब्रूयादिति ॥ प्राशिवाकस्तु मण्डलभूभागाइक्षिणप्रदेशे लौकिकमग्निमुपसमाधाय अग्नये पावकाय स्वाहेत्याज्येनाष्टोत्तरशतवारं जुहुयात्। 'शान्त्यर्थ बहुयादमौ घृतमष्टोत्तरं शतम्' इति स्मरणात् । हुत्वा च तस्मिन्नमवायःपिण्डं प्रक्षिप्य तस्मिंस्ताप्यमाने धर्मावाहनादिहवनान्तं पूर्वोक्त विधि विधाय तृतीये तापे वर्तमाने अयापिण्डमप्रिमेभिर्मन्त्रैरभिमत्रयेत्-स्वममे वेदाश्त्वारस्त्वं यज्ञेषु हूयसे । त्वं मुखं सर्वदेवानां त्वं मुखं ब्रह्मवादिनाम् ॥ जठरस्थो हि भूतानां ततो वेस्सि शुभाशुभम् । पापं पुनासि वै यस्मात्तसात्पावक उच्यते ॥ पापेषु दर्शयात्मानमर्चिष्मान्भव पावक । अथवा शुद्धभावेषु शीतो भव हुता. बनावमझे सर्वदेवानामन्तश्वरसि साक्षिवत् । स्वमेव देव जानीषे न विदुयोनि मानवाः ॥ व्यवहारामिशस्खोऽयं मानुषः शुद्धिमिछति । तदेनं संभाला दमाद्धर्मतस्त्रातुमर्हसि ॥ इति ॥ १० ॥ • तस्येत्युक्तवतो लौहं पञ्चाशत्पलिकं समम् ।
___ अग्निवर्ण न्यसेत्पिण्डं हस्तयोरुभयोरपि ॥ १०५॥
अपिच । तस्य कर्तुरित्युक्तवतः 'त्वमग्ने सर्वभूतानामि' त्यादिभिर्मन्त्रैरभिमन्त्रणं कृतवतो लौहं लोहविकारं पिण्डं पञ्चाशत्पलिकं पञ्चाशत्पलसंमितं सममनर. हितम् । सर्वतश्च समं वृत्तं वक्ष्णं तथाष्टाहुलायामम्-'भस्रहीनं समं कृत्वा भष्टाङ्गुलमयोमयम् । पिण्डं तु तापयेदनौ पञ्चाशत्पलिकं समम् ॥' इति पितामहस्मरणात् । अग्निवर्णमग्निसदृशमुभयोईस्तयोरश्वत्थपत्रदधिदूर्वाधन्तरितयो. यंसेनिक्षिपेत्याशिवाकः ॥ १०५॥ ततः किं कुर्यादित्यत आह
स तमादाय सप्तैव मण्डलानि शनैव्रजेत् । स पुरुषस्तं तप्तलोहपिण्डं अञ्जलिना गृहीत्वा सप्त मण्डलानि शनैर्बजेत् । एवकारेण मण्डलेष्वेव पदन्यासं मण्डलानतिक्रमणं च दर्शयति । यथाह पितामहः-'न मण्डलमतिकामेनाप्याक् स्थापयेत्पदम्' इति ॥
सप्तैव मण्डलानि शनैर्बजेदित्युकं तत्रैकैकं मण्डलं किंप्रमाणकं मण्डलयोरन्तरं च कियत्प्रमाणकमित्यत आह
षोडशाङ्गुलकं ज्ञेयं मण्डलं तावदन्तरम् ॥ १०६॥ षोडश अङ्गुलानि यस्य तत्षोडशाङ्गुलकम् । षोडशाङ्गुलप्रमाणं मण्डलं बोद्धव्यम् । मण्डलयोरन्तरं मध्यं च तावदेव षोडशाङ्गुलकमेव । -सप्त मण्डलानि ब्रजेदिति वदता प्रथममवस्थानमण्डलमेकमुक्तं । अतश्चाष्टमण्डलानि षोडशाङ्गुलकानि मण्डलानामन्तराणि मध्यानीत्यर्थः । मण्डलान्तराणि तु सप्त तावत्प्रमागानि ॥ एतदेव नारदेन परिसंख्यायोक्तम्-'द्वात्रिंशदङ्गुलं प्राहुर्मण्डला१ परिसंख्ययोक्तम् ख. ग.
For Private And Personal Use Only
Page #221
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दिव्यप्रकरणम् ७ ]
मिताक्षरासहिता।
मण्डलान्तरम् । भष्टामिमण्डलैरेवमालानां शतद्वयम् । चत्वारिंशसमविक भूमेरगुलमानतः ॥' इति । अयमर्थः अवस्थानमण्डलाषोडशाङ्गुलान्मकलान्तरमन्यन्मण्डलम् । द्वितीयाचेकमेकं द्वात्रिंशदगुलं सान्तरालं तदेवमवस्थाममण्डलं षोडशाकुलम् । गन्तव्यानि च सप्त मण्डलानि सान्तरालानि द्वात्रिंशदगुलानि । एवमद्यनिर्मण्डलेश्चत्वारिंदशधिकं शतद्वयं भूमेरङ्गुलमानतोऽहुलमा. नमिति सम्बनिनक्तिकससिः । असिस्तु पक्षेऽवस्थानमण्डलं षोडशाङ्गुलं विधाय होशिशुलप्रमाणानां सप्तामा सान्तरालमण्डलमूभागानामेकमेकं भूभागं द्विधा विभज्यान्तरालभूभागाषोडशाङ्गुलप्रमाणान्विहाय मण्डलभूभागेषु षोड. शाङ्गुलप्रमाणेषु गन्तृपदप्रमाणानि सप्त मण्डलानि कार्याणि । यथा तेनैवोक्तम्-'मण्डलस्य प्रमाणं तु कुर्यात्तत्पदसंमितम्' इति । यत्तु पितामहेनो. तम्-'कारयेन्मण्डलान्यष्टौ पुरस्तात्रवमं तथा । भाग्नेयं मण्डलं चायं द्वितीय बासगं स्मृतम् ॥ तृतीय वायुदेवत्यं चतुर्थ यमदैवतम् । पशम विन्दैवयं पई कौबेरमुच्यते । सहमं सोमदैवत्यं सावित्रं त्वष्टमं तथा । नवमं सर्वदैवत्यमिति दिव्यविदो विदुः ॥ द्वात्रिंशदडलं प्रादुर्मण्डलामण्डलान्तरम् । अष्टाभिर्मण्डलैरेवमलानां शतद्वयम् ॥ षट्पञ्चाशत्समधिकं भूमेस्तु परिकल्पना । कर्तुः पदसमं कार्य मण्डलं तु प्रमाणतः ॥ मण्डले मण्डले देयाः कुशाः शास्त्रप्रचोदिताः।' इति ।-'तत्रै नवमं सर्वदैवत्यमपरिमिताङ्गुलप्रमाणं मण्डलं विहायाष्टाभिर्मण्ड. लैरष्टाभिश्चान्तरालैः प्रत्येकं षोडशाङ्गुलप्रमाणैरङ्गुलानां षट्पञ्चाशदधिकं शतद्वयं संपद्यते । तत्रापि गन्तव्यानि सौव मण्डलानि । यतः प्रथमे तिष्ठति. नवमे क्षिपतीति न बिरुध्यते। अङ्गलप्रमाणं च-'तिर्यग्यवोदराण्यष्टावूवा का बीहपनयः । प्रमाणमझुलस्यो विसस्तिहादेशाला । हस्तो वितरितहिवयं दण्डो हस्तचतुष्टयम् । तत्सहस्त्रद्वयं क्रोशो योजनं तश्चतुष्टयम् ॥' इति बोडव्यम् ॥ १०६॥ सप्त मण्डलानि गत्वा किं कर्तव्यमित्यत माह
मुक्खाग्निं मृदितव्रीहिरदग्धः शुद्धिमाप्नुयात् । __ अष्टमे मण्डले स्थित्वा नवमे मण्डलेऽमिततमकःपिण्डं वक्त्वा नीहीकराम्बा मर्दयित्वाऽदग्धहस्तश्वेच्छुद्धिमामुयात् । दन्बहखश्चदशुद्ध इत्यर्थसिद्धम् । यस्तु, . संत्रासात्प्रस्खलन्हस्ताभ्यामन्यत्र दह्यते तथाप्यशुद्धो न भवति । यथाह कात्यायन:-'प्रस्खलबमिशस्तश्चेत्स्थानादन्यत्र दाते । अदग्धं तं विदुर्देवा. स्तस्य भूयोऽपि दापयेत् ॥' इति ॥
अन्तरा पतिते पिण्डे संदेहे वा पुनहरेत् ॥ १०७ ॥ यदा गच्छतोऽन्तराष्टममण्डलादागेव पिण्डः पतति दग्धादग्धत्वे वा
१ द्वादशाङ्गुलप्रमाणानां घ. २ तनवमं ख. ग. ३ द्वादशाङ्गुलः ख. ४ कराभ्यां ब्रीहीन ख.
For Private And Personal Use Only
Page #222
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१९०
याज्ञवल्क्यस्मृतिः । [ व्यवहाराध्यायः
संशयस्तदा पुनर्हरेदित्यर्थप्राप्तमुक्तम् । तत्र चायमनुष्ठानक्रमः । पूर्वेद्युर्भूशुद्धिं विधायापरेद्युर्मण्डलानि यथाशास्त्रं निर्माय मण्डलाधिदेवताश्च मन्त्रैस्तत्र तत्र संपूज्यानिमुपसमाधाय शान्तिहोमं निर्वर्थ्यानावयः पिण्डं निधाय धर्मावाहनादिसर्व देवतापूजां हवनान्तां निर्वर्त्य उपोषितस्य स्नातस्यार्द्रवाससः पश्चिमे मण्डले तिष्ठतो व्रीहिमर्दनादिकरसंस्कारं विधाय प्रतिज्ञापत्रं समग्रकं कर्तुः शिरसि बवा प्राड्विवाकस्तृतीये तापेऽग्निमभिमन्य तप्तमयः पिण्डं संदेशेन गृहीत्वा कर्त्रभिमन्त्रितं तस्याञ्जलौ निदध्यात् । सोऽपि मण्डलानि सप्त गत्वा नवमे मण्डले प्रक्षिप्यादग्धः शुद्धो भवतीति ॥ १०७ ॥ इत्यग्निविधिः ।
संप्रत्युदकविधिमाह -
सत्येन माऽभिरक्ष त्वं वरुणेत्यभिशाप्य कम् । नाभिदनोदकस्थस्य गृहीत्वोरू जलं विशेत् ॥ १०८ ॥
हे वरुण, सत्येन माममिरक्ष त्वमित्यनेन मन्त्रेण कमुदकमभिशाप्यामिमन्त्रय नाभिदनोदकस्थस्य नाभिप्रमाणोदकस्थितस्य पुरुषस्योरू गृहीत्वा शोध्यो जलं प्रविशेत् जले निमज्जेत् । एतच्च वरुणपूजायां सत्याम् । - ' गन्धमाल्यैः सुरभिभिर्मधुक्षीरघृतादिभिः । वरुणाय प्रकुर्वीत पूजामादौ समाहितः ॥' इति नारदस्मरणात् । तथा साधारणधर्मेषु धर्मावाहनादिसकलदेवता पूजाहोमसमकप्रतिज्ञापत्रशिरोनिवेशनान्तेषु सत्सु च । तथा - 'तोय त्वं प्राणिनां प्राणः सृष्टेराद्यं तु निर्मितम् । शुद्धेश्च कारणं प्रोक्तं द्रव्याणां देहिनां तथा ॥ अतस्त्वं दर्शयात्मानं शुभाशुभपरीक्षणे ॥' इति प्राड्रिवाकेनोदकाभिमन्त्रणे कृते शोध्यः 'सत्येन माऽभिरक्ष त्वं वरुण' ईति जलं प्रार्थयेत् । उदकस्थानानि च नारदेनोकान - 'नदीषु तनुवेगासु सागरेषु वहेषु च । हदेषु देवखातेषु तडागेषु सरःसु च' इति । तथा पितामहेनापि - 'स्थिरतोये निमँजेत न ग्राहिणि न चाल्पके । तृणशैवालरहिते जलौकामत्स्यवर्जिते ॥ देवखातेषु यत्तोयं तस्मिन्कुर्याद्विशोधनम् । आहार्य वर्जयेन्नित्यं शीघ्रगासु नदीषु च ॥ आविशेत्सलिले नित्यमूर्मिपङ्कविवर्जिते ॥' इति । आहार्य तडागादिभ्य आहृतं ताम्रकटाहादिक्षितं जलम् । नाभिप्रमाणोदकस्थश्च यज्ञियवृक्षोद्भवां धर्मस्थूणामवष्टभ्य प्राङ्मुखस्तिष्ठेत् । - ' उदके प्राङ्मुखस्तिष्ठेद्धर्मस्थूणां प्रगृह्य च ।' इति स्मरणात् ॥ १०८ ॥ ततः किं कर्तव्यमित्यत आह
1
-
समकालमिषु मुक्तमानीयान्यो जवी नरः ।
गते तस्मिन्निमग्नाङ्गं पश्येच्चेच्छुद्धिमाप्नुयात् ॥ १०९ ॥ निमज्जनसमकालं गते तस्मिन् जविन्येकस्मिन्पुरुषे भन्यो जवी शरपातस्था
१ भूतशुद्धिं ख. २ पश्चिममण्डले ख. ग. ३ संदंश केन घ. ४ अभिशय्य ग. अभिशाय्य घ. ५ देवपजा घ. ६ इत्युक्तं प्रार्थयते ख. ग. ७ निमज्जेत्तु ख. ८ जलूका ध.
For Private And Personal Use Only
Page #223
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दिव्यप्रकरणम् ७ ] मिताक्षरासहिता।' नस्थितः पूर्वमुक्तमिषुमानीय जले निमनाङ्गं यदि पश्यति तदा स शुद्धो भवति । एतदुक्तं भवति-त्रिषु शरेषु मुक्तेष्वेको वेगवान्मध्यमशरपात. स्थानं गत्वा तमादाय तत्रैव तिष्ठति । अन्यस्तु पुरुषो वेगवान् शरमोक्षस्थाने तोरणमूले तिष्ठति । एवं स्थितयोस्तृतीयस्यां करतालिकायां शोध्यो निमजति । तत्समकालमेव तोरणमूलस्थितोऽपि द्रुततरं मध्यशरपातस्थानं गच्छति । शरग्राही च तस्मिन्प्राप्ते द्रुततरं तोरणमूलं प्राप्यान्त लगतं यदि न पश्यति तदा शुद्धो भवतीति । एतदेव स्पष्टीकृतं पितामहेन-गन्तुश्चापि च कर्तुश्च समं गमनमजनम् । गच्छेत्तोरणमूलात्तु लक्ष्यस्थानं जवी नरः ॥ तस्मिन्गते द्वितीयोऽपि वेगादादाय सायकम् । गच्छेत्तोरणमूलं तु यतः स पुरुषो गतः ॥ आगतस्तु शरमाही न पश्यति यदा जले । अन्तर्जलगतं सम्यक्तदा शुद्धं विनिर्दिशेत् ॥' इति ॥ जविनोश्च पुरुषयोर्निर्धारणं कृतं नारदेन-'पञ्चाशतो धावकानां यो सातामधिको जवे । तौ च तत्र नियोकव्यौ शरानयनकारणात् ॥' इति । तोरणं च निमजनसमीपस्थाने समे शोध्यकर्णप्रमाणोच्छ्रितं कार्यम् ।'गत्वा तु तजलस्थानं तटे तोरणमुच्छ्रितम् । कुर्वीत कर्णमात्रं तु भूमिभागे समे शुचौ ॥' इति नारदस्मरणात् । शरत्रयं वैणवं च धनुर्मङ्गलद्रव्यैः श्वेतपुष्पादिमिः प्रथमं संपूजयेत् । -'शरान्संपूजयेत्पूर्व वैणवं च धनुस्तथा। मङ्गलैधूपपुष्पैश्च ततः कर्म समाचरेत् ॥' इति पितामहवचनात् । धनुषः प्रमाणं लक्ष्यस्थानं च नारदेनोक्तम्-'क्रूरं धनुः सप्तशतं मध्यमं षट्शतं स्मृतम् । मन्दं पञ्चशतं ज्ञेयमेष शेयो धनुर्विधिः ॥ मध्यमेन तु चापेन प्रक्षिपेच शरत्रयम् । हस्तानां तु पते सार्धे लक्ष्यं कृत्वा विचक्षणः ॥ न्यूनाधिके तु दोषः स्याक्षिपतः सायकांस्तथा ॥' इति । मङ्गलानां सताधिकं शतं सप्तशतं क्रूरं धनुः। एवं षट्शतं पञ्चशतं । एवं चैकादशाङ्गुलाधिकं हस्तचतुष्टयं क्रूरस्य धनुषः प्रमाणम् , मध्यमस्य दशाङ्गुलाधिकम् , मन्दस्य नवाङ्गुलाधिकमित्युक्तं भवति । शराश्वानायसामा वैणवाः कार्याः।-शरांश्चानायसानांस्तु प्रकुर्वीत विशुद्धये । वेणुकाण्डमयांश्चैव क्षेप्ता तु सुदृढं क्षिपेत् ॥' इति स्मरणात् । क्षेप्ता क्षत्रियस्तबृत्तिर्वा ब्राह्मणः सोपवासो नियोक्तव्यः । यथाह-क्षेता च क्षत्रियः प्रोक्तस्त. दृत्तिाह्मणोऽपि वा । अक्रूरहृदयः शान्तः सोपवासस्ततः क्षिपेत् ॥' इति । त्रिषु मुक्तेषु मध्यमः शरो ग्राह्यः-'तेषां च प्रोषितानां च शराणां शास्त्रचोद. नात् । मध्यमस्तु शरो ग्राह्यः पुरुषेण बलीयसा ॥' इति वचनात् । तत्रापि पतनस्थानादानेतव्यो न सर्पणस्थानात् । 'शरस्य पतनं ग्राह्यं सर्पणं तु विवर्जयेत् । सर्पन्सर्पन्शरो यायाराहरतरं यतः॥' इति वचनात् । वाते च प्रवायति विषमादिदेशे च शरमोक्षो न कर्तव्यः।-'इषु न प्रक्षिपेद्विद्वान्मारुते चातिवायति । विषमे भूप्रदेशे च वृक्षस्थानसमाकुले ॥ तृणगुल्मलतावल्लीपङ्कपाषाण
१ तदा शुद्धो ग. घ. २ स्थितयोस्तयोस्तृतीय ख. ३ मध्यमशर ग. ४ तदा शुद्धि ख. ५ प्रक्षिप्तानां च ग. ६ च प्रवायति ग.
For Private And Personal Use Only
Page #224
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
१९२
याज्ञवल्क्यस्मृतिः ।
[ व्यवहाराध्यायः
संयुते ॥ इति पितामहवचनात् । निमझानं पश्येच्चेच्छुद्धिमामुयादेति वदता उन्मज्जिताङ्गस्याशुद्धिर्दर्शिता । स्थानान्तरगमने चाशुद्धिः पितामहेनोका- 'अन्यथा न विशुद्धिः स्यादेकाङ्गस्यापि दर्शनात् ॥' इति 'स्थानाद्वान्यत्र गमनाद्यस्मिन्पूर्व निवेशितः ॥' इति । एकाङ्गस्यापि दर्शनादिति च कर्णाद्यमिप्रायेण । 'शिरोमात्रं तु दृश्येत न कर्णौ नापि नासिका । अप्सु प्रवेशने यस्य शुद्धं तमपि निर्दिशेत् ॥' इति विशेषाभिधानात् । अयमत्र प्रयोगक्रमः 'उक्तलक्षणजलाशय संनिधावुक्तलक्षणं तोरणं विधाय उक्तप्रमाणे देशे लक्ष्यं निधाय तोरणसंनिधौ सशरं धनुः संपूज्य जलाशये वरुणमावाह्य पूजयित्वा तत्तीरे धर्मादींश्च देवान्हवनान्तमिष्ट्वा शोध्यस्य शिरसि प्रतिज्ञापत्रमाबध्य प्राड्विवाको 'जलमभिमन्त्रयते 'तोय त्वं प्राणिनां प्राणः' इत्यादिना मन्त्रेण । अथ शोध्यः
- 'सत्येन' इत्यादिना मन्त्रेण जलममिमन्त्रय गृहीतस्थूणस्य नामिमात्रोदका-वस्थितस्य बलीयसः पुरुषस्य समीपमुपसंपति । अथ शरेषु त्रिषु मुक्तेषु मध्यमशरपातस्थाने मध्यमं शरं गृहीत्वा जविन्येकस्मिन्पुरुषे स्थिते अन्यस्मिंश्च तोरमूले स्थिते प्राङ्गिवाकेन तालत्रये दत्ते युगपद्रुमनमज्जनमथ शरानयनमिति ॥ १०९ ॥ इत्युदकविधिः ।
इदानीं विषविधानमाह
त्वं विष ब्रह्मणः पुत्रः सत्यधर्मे व्यवस्थितः । त्रायस्वास्मादभीचापात्सत्येन भव मेऽमृतम् ॥ ११० ॥ एवमुक्त्वा विषं शार्ङ्गं भक्षयेद्धिमशैलजम् ।
१ समीपे सशरं घ.
Acharya Shri Kailassagarsuri Gyanmandir
२
यस्य वेगैर्विना जीर्येच्छुद्धिं तस्य विनिर्दिशेत् ॥ १११ ॥ एवं विषेत्यादिमन्त्रेण विषमभिमन्य कर्ता विषं हिमशैलजं शृङ्गभवं भक्षयेत् । तच्च भक्षितं सत् यस्य विषवेगैर्विना जीर्यति स शुद्धो भवति । विषगो नाम धातोर्धात्वन्तरप्राप्तिः । - ' धातोर्धात्वन्तरप्राप्तिर्विषवेग इति स्मृतिः' इति वचनात् । धातवश्च त्वगसृङ्यांसमेदोस्थिमज्जाशुक्राणीति सप्त । एवंच सबैव विषवेगा भवन्ति । तेषां च लक्षणानि पृथगेव विषतत्रे कथितानि – 'वेगो रोमामाद्यो रचयति विषजः स्वेदवक्रोपशोषौ तस्योर्ध्वस्तत्परौ द्वौ वपुषि जनयतो वर्णभेदप्रवेपौ । यो वेगः पञ्चमोऽसौ नयति विवशतां कण्ठभङ्गं च हिक्कां षष्ठो निःश्वासमोहौ वितरति च मृर्ति सप्तमो भक्षकस्य ॥' इति । अत्र च महादेवस्य पूजा कर्तव्या । यथाह नारदः - 'दद्याद्विषं सोपवासो देवब्राह्मणसंनिधौ धूपोपहारमत्रैश्च पूजयित्वा महेश्वरम् ॥' इति । प्राङ्गिवाकः कृतोपवासो महादेवं पूजयित्वा तस्य पुरतो विषं व्यवस्थाप्य धर्मादिपूजां हवनान्तां विधाय प्रतिज्ञापत्रं शोध्यस्य शिरसि निधाय विषमभिमन्त्रयते—'त्वं विष ब्रह्मणा सृष्टं परीक्षार्थ दुरात्मनाम् । पापानां दर्शयात्मानं शुद्धानाममृतं भव ॥ मृत्युमूर्ते
I
पूजा कार्या.
ख.
-
For Private And Personal Use Only
Page #225
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दिव्यप्रकरणम् ७ ]
मिताक्षरासहिता ।
१९३
विष त्वं हि ब्रह्मणा परिनिर्मितम् । त्रायस्वैनं नरं पापात्सत्येनास्यामृतं भव ॥" इति । एवमभिमन्त्र्य दक्षिणाभिमुखावस्थिताय दद्यात् । - ' द्विजानां संनिधावेव दक्षिणाभिमुखे स्थिते । उदङ्मुखः प्राङ्मुखो वा विषं दद्यात्समाहितः ॥' इति नारदवचनात् । विषं च वत्सनाभादि ग्राह्यम् । - ' शृङ्गिणो वत्सनाभस्य हिमजस्य विषय वा ॥' इति पितामहवचनात् । वर्ज्यानि च तेनैवोक्तानि - 'चारितानि च जीर्णानि कृत्रिमाणि तथैव च । भूमिजानि च सर्वाणि विषाणि परिवर्जयेत् ॥' इति । तथा च चारितं चैव धूपितं मिश्रितं तथा । कालकूटमलाबुं च विषं येलेन वर्जयेत् ॥' इति । कालश्च नारदेनोक्तः - 'तोलयित्वेप्सितं काले देयं तद्धि हिमागमे । नापराह्णे न मध्याह्ने न संध्यायां तु धर्मवित् ॥' इति । कालान्तरे दूक्तप्रमाणादल्पं देयम् । - ' वर्षे चतुर्यवा मात्रा ग्रीने पञ्चचा स्मृता । हेमन्ते सा सप्तयवा शरद्यल्पा ततोऽपि हि ॥' इति स्मरणात् । अल्पेति षढ्यवेत्यर्थः । हेमन्तग्रहणेन शिशिरस्यापि ग्रहणम् । 'हेमन्त्रशिशिरयोः समासेन' इति श्रुतेः । वसन्तस्य च सर्वदिव्यसाधारणत्वात्तत्रापि सप्त यवा विषं च घृतप्लुतं देयं नारदवचनात् । 'विषस्य पलषङ्गागाद्भागो विंशतिमस्तु यः । तमष्टभागहीनं तु शोध्ये दद्याद्धृततम् ॥' इति । पलं चात्र चतुःसुवर्णकम् । तस्य षष्ठो भागो दश माषाः दश यवाश्च भवन्ति । 'त्रियवं त्वेककृष्णलम् । पञ्चकृष्णलको माषः' इत्येको माषः पञ्चदश यवा भवन्ति । एवं दशानां भाषाणां यवाः सार्धशतं भवन्ति । पूर्वे च दश यवा इति षष्ट्यधिकं शतं यवाः पलस्य षष्ठो भागस्तस्माद्विंशतितमो भागोऽष्टौ यवास्तस्याष्टभाग एकयवः तेन हीनं विंशतिमं भागं सप्तयवं घृतलतं शोध्ये दद्यात् । घृतं च विषात्रिंशगुणं प्राह्यम् । - ' पूर्वाह्णे शीतले देशे विषं देयं तु देहिनाम् । घृते नियोजितं श्लक्ष्णं पिष्टं त्रिंशद्गुणान्वितम् ॥' इति कात्यायनवचनात् । त्रिंशद्गुणेन घृतेनान्वितं विषम् | शोध्यश्च कुहकादिभ्यो रक्षणीयः । - ' त्रिरात्रं पञ्चरात्रं वा पुरुषैः स्वैरधिष्ठितम् । कुहकादिभयाद्राजा रक्षये दिव्यकारिणम् ॥ ओषधीर्मत्रयोगांश्च मगीनथ विषापहान् । कर्तुः शरीरसंस्थांस्तु गूढोत्पन्नान्परीक्षयेत् ॥' इति पितामहस्मरणात् । तथा विषमपि रक्षणीयम् - 'शार्ङ्ग हैमवतं शस्तं गन्धवर्णरसान्वितम् । अकृत्रिममसंमूढममत्रोपहतं च यत् ॥' इति नारदस्मरणात् । तथा विषे पीते यावत्करतालिका शतपञ्चकं तावत्प्रतीक्षणीयोऽनन्तरं चिकित्सनीयः । यथाह नारदः - ' पञ्चतालशतं कालं निर्विकारो यदा भवेत् । तदा भवति संशुद्धस्ततः कुर्याांचिकित्सितम् ॥' इति । पितामहेन तु दिनान्तोऽवधिरुक्तोऽल्पमात्राविषयः - 'भक्षिते तु यदा स्वस्थो मूर्च्छाच्छर्दिविवर्जितः । निर्विकारो दिनस्यान्ते शुद्धं तमपि निर्दिशेत् ॥' इति । अत्र च प्राङ्गिवाकः सोपबासो महादेवं संपूज्य तत्पुरतो विषं स्थापयित्वा धर्मादीनिष्ट्वा शोध्यस्य शिरसि
-
१ तथैवोक्तानि ख २ यत्वेन परिवर्जयेदिति ग. ३ परीक्षणीयं ग. ४ तथापि घ.
For Private And Personal Use Only
Page #226
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१९४
याज्ञवल्क्यस्मृतिः। [व्यवहाराध्यायः प्रतिज्ञापत्रं निधाय विषमभिमन्य दक्षिणाभिमुखस्थिताय विषं प्रयच्छति । स च शोध्यो विषममिमध्य भक्षयतीति क्रमः ॥ ११०॥ १११॥ इति विषविधानम् ॥ अथ कोशविधिमाह
देवानुग्रान्समभ्यर्च्य तत्स्वानोदकमाहरेत् ।
संस्राव्य पाययेत्तस्माजलं तु प्रसृतित्रयम् ॥ ११२॥ उग्रान्देवान्दुर्गादित्यादीन्समभ्यर्च्य गन्धपुष्पादिभिः पूजयित्वा संत्राप्य तस्नानोदकमाहरेत् । आहृत्य च 'तोय त्वं प्राणिनां प्राणः' इत्यादिना' तत्तोयं प्राड्डिवाकः संस्राव्य शोध्येन च तत्तोयं पात्रान्तरे कृत्वा 'सत्येन माभिरक्ष वं वरुण' इत्यनेनाभिमन्त्रितं पाययेप्रसृतित्रयम् । एतच्च साधारणधर्मेषु धर्मावाहनादिसकलदेवतापूजाहोमसमन्त्रकप्रतिज्ञापत्रशिरोनिवेशनान्तेषु सत्सु । अत्र च नाप्यदेवनियमः कार्यनियमोऽधिकारिनियमश्च पितामहादिभिरुक्तः-'भक्तो यो यस्य देवस्य पाययेत्तस्य तजलम् । समभावे तु देवानामादित्यस्य च पाययेत् ॥ दुर्गायाः पाययेच्चौरान्ये च शस्त्रोपजीविनः । भास्करस्य तु यत्तोयं ब्राह्मणं तन पाययेत् ॥ दुर्गायाः स्नापयेच्छूलमादित्यस्य तु मण्डलम् । अन्येषामपि देवानां सापयेदायुधानि तु ॥' इति देवतानियमः।-'विटॅम्भे सर्वशङ्कासु संधिकार्ये तथैव च । एषु कोशः प्रदातव्यो नित्यं चित्तविशुद्धये ॥' इति कार्यनियमः । 'पूर्वाह्ने सोपवासस्य सातस्याद्रपटस्य च । सशूकस्याव्यसनिनः कोशपान विधीयते ॥' सशूक आस्तिकः । 'मद्यपस्त्रीव्यसनिनां कितवानां तथैव च। कोशः प्राज्ञैर्न दातव्यो ये च नास्तिकवृत्तयः ॥ महापराधे निर्धर्मे कृतघ्ने क्लीबकुत्सिते। नास्तिकवायदाशेषु कोशपानं विवर्जयेत् ॥' इति । महापराधो महापातकम् । निर्धर्मो वर्णाश्रमधर्मरहितः पाखण्डी । कुत्सितः प्रतिलोमजः । दाशाः कैवर्ताः इत्यधिकारिनियमः । तथा गोमयेन मण्डलं कृत्वा तत्र शोध्यमादित्याभिमुखं स्थापयित्वा पाययेदिति नारदवचनाद्वगन्तव्यम् । यथाह-'तमाहृयाभिशस्तं तु मण्डलाभ्यन्तरे स्थितम् । आदित्याभिमुखं कृत्वा पाययेत्प्रसृतित्रयम् ॥' इति ॥ ११२॥ - ननु तुलादिषु विषान्तेषु समनन्तरमेव शुद्ध्यशुद्धिभावना, कोशे तु कथमिस्थत आह
अर्वाक् चतुर्दशादह्रो यस्य नो राजदैविकम् ।
व्यसनं जायते घोरं स शुद्धः स्थान संशयः ॥१३॥ चतुर्दशादह्नः पूर्वं यस्य राजिकं राजनिमित्तं दैविकं देवप्रभवं व्यसनं दुःखं घोरं महत् नो नैव जायते अल्पस्य देहिनामपरिहार्यत्वात्स शुद्धो वेदितव्यः ।
१ भिमुखाय स्थिताय ख. मुखाय विष घ. २ पितामहनारदादिभिः घ. ३ दापयेत् घ. ४ विभेदे घ. ५दासेषु ख.
For Private And Personal Use Only
Page #227
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दिव्यप्रकरणम् ७] मिताक्षरासहिता।
१९५ अचं पुनरवधेर्न दोषः । यथाह नारदः- 'ऊर्ध्वं यस्य द्विसप्ताहाद्वैकृतं तु महद्भवेत् । नाभियोज्यः स विदुषा कृतकालव्यतिक्रमात् ॥' इत्यर्थसिद्धमेवो. कम् । 'अर्वाक् चतुर्दशादह्नः' इत्येतन्महाभियोगविषयम्-'महाभियोगेष्वेतानि' इति प्रस्तुत्याभिधानात् । अवध्यन्तराणि पितामहेनोक्तान्यल्पविषयाणि । 'कोशमस्पेऽपि दापयेत्' इति स्मरणात् । तानिच-'त्रिरात्रात्सप्तरात्राद्वा द्वादशाहाडिसप्तकात् । वैकृतं यस्य दृश्येत पापकृत्स उदाहृतः ॥' इति । महाभियो. गोक्तद्न्यादर्वाचीनं द्रव्यं त्रिधा विभज्य त्रिरात्राद्यपि पक्षत्रयं व्यवस्थापनीयम् ॥ ११३ ॥ इति कोशविधिः ॥ .
तुलादीनि कोशान्तानि पञ्च महादिव्यानि यथोद्देशं योगीश्वरेण व्याख्यातानि । स्मृत्यन्तरे त्वल्पाभियोगविषयाण्यन्यान्यपि दिव्यानि कथितानि । यथाह पितामहः-'तण्डुलानां प्रवक्ष्यामि विधिं भक्षणनोदितम् । चौरे तु तण्डुला देया नान्यस्येति विनिश्चयः ॥ तण्डुलान्कारयेच्छुक्काम्छाले न्यस्य कस्यचित् । मृन्मये भाजने कृत्वा आदित्यस्याग्रतः शुचिः ॥ नानोदकेन संमिश्रान्राटी तत्रैव वासयेत् । प्राङ्मुखोपोषितं स्नातं शिरोरोपितपत्रकम् ॥ तण्डुलान्भक्षयित्वा तु पत्रे निष्ठीवयेत्ततः। पिप्पलस्य तु नान्यस्य अभावे भूर्ज एव तु ॥ लोहितं यस्य दृश्येत हनुस्तालु च शीर्यते । गात्रं च कैम्पते यस्य तमशुद्धं विनिर्दिवोत् ॥' इति । शिरोरोपितपत्रकं तण्डुलान्भक्षयित्वा निष्ठीवयेत्प्राविवाकः ॥ भक्षयित्वेति च ण्यन्ताण्णिचि रूपम् । सर्वदिव्यसाधारणं च धर्मावाहनादि पूर्ववदिहापि कर्तव्यम् ॥ इति तण्डुलविधिः ॥
तप्तमाषविधिः पितामहेनोक्तः। तथाहि-'सौवर्ण राजतं वापि तानं वा षोडशालम् । चतुरङ्गुलखातं तु मृन्मयं वाथ मण्डलम् ॥' वर्तुलमित्यर्थः । 'पूरअद्भुततैलाभ्यां विंशत्या तु पलैस्तु तत् । सुवर्णमाषकं तस्मिन्सुतप्ते निक्षिपेत्ततः ॥ अङ्गुष्टाङ्गुलियोगेन उद्वरेत्तप्तमाषकम् । कराग्रं यो न धुनुयाद्विस्फोटो वा न जायते । शुद्धो भवति धर्मेण निर्विकारकराङ्गुलिः ॥' उद्धरेदिति वचनात्पात्रादुरक्षेपणमात्रं ने बहिः प्रक्षेपणमादरणीयम् ॥
अपरः कल्पः-'सौवर्णे राजते ताने भायसे मृन्मयेऽपि वा।गव्यं धृतमुपादाय तदग्नौ तापयेच्छुचिः ॥ सौवर्णी राजती ताम्रीमायसीं वा सुशोधिताम् । सलिलेन सकृद्धौता प्रक्षिपेत्तत्र मुद्रिकाम् ॥ भ्रमद्वीचितरङ्गाढ्ये ह्यनखस्पर्शगोचरे । परीक्षेतापर्णेन चुरुकार (2) सुघोषकम् ॥ ततश्चानेन मन्त्रेण सकृत्तदभिमन्त्रयेत् ॥ परं पवित्रममृतं घृत त्वं यज्ञकर्मसु । दह पावक पापं त्वं हिमशीतं शुचौ भव ॥ उपोषितं ततः सातमावाससमागतम् । ग्राहयेन्मुद्रिकां तां तु घृतमध्यगतां तथा ॥ प्रदेशिनों च तस्याथ परीक्षेयुः परीक्षकाः । यस्य विस्फोटका न स्युः शुद्धोऽसा. वन्यथाशुचिः ॥' इति । अत्रापि धर्मावाहनाद्यनुसंधातव्यम् ॥ घृतानुमन्त्रणं प्रा
१ कम्पयेद्यस्य. ख. २ न प्रक्षेपणं ख. ३ माहरणीयं ग. ४ चरुकारं ख.
For Private And Personal Use Only
Page #228
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
।
याज्ञवल्क्यस्मृतिः। [व्यवहाराध्यायः दिवाकस्य । 'स्वमग्ने सर्वभूतानाम्' इति शोध्यस्यान्यमिमन्त्रणमन्त्रः। 'प्रदेशिनी परीक्षेयुः' इतिवचनात् प्रदेशिन्यैव मुद्रिकोद्धरणम् ॥ इति तप्तमाषविधिः।
धर्माधर्माख्यदिव्यविधिश्च पितामहेनोक्तः। तथाच-'अधुना संप्रवक्ष्यामि धर्माधर्मपरीक्षणम् । हन्तॄणां याचमानानां प्रायश्चित्तार्थिनां नृणाम् ॥' इति । हन्तॄणामिति साहसाभियोगेषु, याचमानानामिति अर्थाभियोगेषु, प्रायश्चित्तार्थिनामिति पातकाभियोगेषु । -'राजतं कारयेद्धर्ममधर्म सीसकायसम्' इति प्रतिमाविधानं सीसकं वा आयसं वेति ॥ पक्षान्तरमाह-लिखेद्भूर्जे पटे वापि धर्माधौं सितासितौ । अन्युक्ष्य पञ्चगव्येन गन्धमाल्यैः समर्चयेत् ॥ सितपुपस्तु धर्मः स्यादधर्मोऽसितपुष्पवृक् । एवंविधायोपलिख्य पिण्डयोस्तौ निधापयेत् ॥ गोमयेन मृदा वापि पिण्डौ कार्यों समंततः । मृद्भाण्डकेऽनुपहते स्थाप्यो चानुपलक्षितौ ॥ उपलिले शुचौ देशे देवब्राह्मणसंनिधौ । आवाहयेत्ततो देवॉल्लोकपालांश्च पूर्ववत् ॥ धर्मावाहनपूर्व तु प्रतिज्ञापत्रकं लिखेत् ॥' ततः-- 'यदि पापविमुक्तोऽहं धर्मस्त्वायातु मे करे । अशुद्धश्चेन्मम करे पाप आयातु धर्मतः ॥' इति ॥ अभिशस्तोऽभिमन्त्रयते-'अभियुक्तस्तयोश्चैकं प्रगृह्णीताविलम्बितः । धर्मे गृहीते शुद्धः स्यादधर्मे तु स हीयते ॥ एवं समासतः प्रोक्तं धर्माधर्मपरीक्षणम् ॥' इति ॥ इति धर्माधर्मदिव्यविधिः॥ __अन्ये च शपथा द्रव्याल्पस्वमहत्त्वविषया जातिविशेषविषयाश्च मन्वादिमिरुक्ताः । ते यथा-'निष्के तु सत्यवचनं द्विनिष्के पादलम्भनम् । त्रिकादवाक्तु पुण्यं स्यात्कोशपानमतः परम् ॥' (मनुः ८११३) 'सल्येन शापयेद्विप्रं क्षत्रियं वाहनायुधैः । गोबीजकाञ्चनर्वैश्यं शूद्रं सर्वैस्तु पातकैः ॥' इत्यादयः। अन च शुद्धि विभावना मनुनोक्ता (८1११५)-'न चौर्तिमृच्छांते क्षिप्रं स ज्ञेयः शपथे शुचिः' इति । आर्तिरपि 'यस्य नो राजदैविकं व्यसनं जायते घोरम्' इत्युक्कैव । कालनियमश्च एकरात्रमारभ्य त्रिरात्रपर्यन्तं त्रिरात्रमारभ्य पञ्चरात्रपर्यन्तम् । एकरात्रप्रभृतित्वं कार्यलाघवगौरवपर्यालोचनया द्रष्टव्यम् ॥ एवं दिव्यैर्जयपराजयावधारणे दण्डविशेषोऽपि दर्शितः कात्यायने-'शतार्ध दापयेच्छुद्धमशुद्धो दण्डभाग्भवेत्' इति । तं दण्डमाह-'विष तोये हुताशे च तुलाकोशे च तण्डुले । तप्तमाषकदिव्ये च क्रमाद्दण्डं प्रकल्पयेत् ॥ सहस्रं षट्शतं चैव तथा पञ्चशतानि च । चतुस्त्रियेकमेवं च हीनं हीनेषु कल्पयेत् ॥' इति ॥ निह्नवे भावितो दद्यादित्युक्तदण्डेनायं दिव्यनिबन्धनो दण्डः समुच्चीयते ॥ इति दिव्यप्रकरणम् ॥
१ पापमायातु ख. २ अस्य पूर्वार्ध-'यमिद्धो न दहत्यग्निरापो नोन्मजयन्ति च' इति मनुस्मृतावालोचनीयम्
For Private And Personal Use Only
Page #229
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
mam
दायविभागप्रकरणम् ८ ] मिताक्षरासहिता । १९७
अथ दायविभागप्रकरणम् ८ प्रमाणं मानुषं दैवमिति भेदेन वर्णितम् ।
अधुना वर्ण्यते दायविभागो योगमूर्तिना ॥ तत्र दायशब्देन यद्धनं स्वामिसंबन्धादेव निमित्तादन्यस्य स्वं भवति तदुच्यते। स च द्विविधः अप्रतिबन्धःसप्रतिबन्धश्च । तत्र पुत्राणां पौत्राणां च पुत्रस्वेन पौत्रत्वेन च पितृधनं पितामहधनं च स्वं भवतीत्यप्रतिबन्धो दायः। पितृव्यभ्रात्रादीनां तु पुत्राभावे स्वाम्यभावे च स्वं भवतीति सप्रतिबन्धो दायः। एवं तत्पुत्रा. दिष्वप्यूहनीयः । विभागो नाम द्रव्यसमुदायविषयाणामनेकस्वाम्यानां तदेक. देशेषु व्यवस्थापनम् । एतदेवाभिप्रेत्योक्तं नारदेन-विभागोऽर्थस्य पित्र्यस्य तनयैर्यन कल्प्यते । दायभाग इति प्रोक्तं व्यवहारपदं बुधैः ॥' इति । पित्र्यस्येति स्वत्वानिमित्तसंबन्धोपलक्षणम् । तनयरित्यपि प्रत्यासझोपलक्षणम् । इदमिह निरूपणीयम्। कस्मिन्काले कस्य कथं कैश्च विभागः कर्तव्य इति। तत्र कस्सिन्काले कथं कैश्वेति तत्र तत्र श्लोकव्याख्यान एव वक्ष्यते । कस्य विभाग इत्येतावदिह चिन्त्यते । किं विभागात्स्वत्वमुत स्वस्य सतो विभाग इति । तत्र स्वत्वमेव तावनिरूप्यते । किं शास्त्रैकसमधिगम्यं स्वत्वमुत प्रमाणान्तरसमधिगम्यमिति । तत्र शास्त्रैकसमधिगम्य मिति तावद्युक्तं गौतमवचनात्-'स्वामी रिक्थक्रयसंविभागपरिग्रहाधिगमेषु ब्राह्मणस्याधिकं लब्धं क्षत्रियस्य विजितं निर्विष्टं वै. श्यशूद्रगोः ॥' इति । प्रमाणान्तरगम्ये स्वत्वे नेदं वचनमर्थवत्स्यात् । तथा स्तेनातिदेशे मनुः (८॥३४०)-'योऽदत्तादायिनो हस्ताल्लिप्सेत ब्राह्मणो धनम् । याजनाध्यापनेनापि यथा स्तेनस्तथैव सः ॥' इति । अदत्तादायिनः सकाशाद्याजनादिद्वारेणापि द्रव्यमर्जयतां दण्डविधानमनुपपनं स्यात्स्वत्वस्य लौकिकत्वे । अपिच'। लौकिकं चेत्स्वत्वं मम स्वमनेनापहृतमिति न ब्रूयादपहर्तुरेव स्व. त्वात् । अन्यथान्यस्य स्खं तेनापहृतमिति नापहर्तुः स्वम् । एवं तर्हि सुवर्णरजतादिस्वरूपवदस्य वा स्वमन्यस्य वा स्वमिति संशयो न स्यात् । तसाच्छास्त्रैकसमधिगम्यं स्वत्वमिति । अत्रोच्यते-'लौकिकमेव स्वत्वं लौकिकार्थक्रियासाधनत्वात् ब्रीह्यादिवत् । आहवनीयादीनां हि शास्त्रगम्यानां न लौकिकक्रियासा. धनत्वमस्ति ॥ नन्वाहवनीयादीनामपि पाकादिसाधनस्वमस्त्येव । नैतत् । नहि तबाहवनीयादिरूपेण पाकादिसाधनत्वम् । किं तर्हि प्रत्यक्षादिपरिदृश्यमानान्यादिरूपेण । इह तु सुवर्णादिरूपेण न कयादिसाधनत्वमपि तु स्वत्वेनैव । नहि यस्य यत्स्वं न भवति तत्तस्य ऋयाद्यर्थक्रियां साधयति ॥ अपिच । प्रत्यन्तवासिनामप्यदृष्टशास्त्रव्यवहाराणां स्वत्वव्यवहारो दृश्यते । क्रयविक्रयादिदर्शन त् । किंच। नियतोपायकं स्वत्वं लोकसिद्धमेवेति न्यायविदो मन्य
१ अन पुत्रसद्भावः स्वामिसद्भावश्च प्रतिबन्धः तदभावे पितृव्यत्वेन भ्रातृत्वेन च स्वं भवतीति विशेषः ख. घ. पुस्तकयोः. २ द्रव्यस्य व्यवस्थापनं ख. ३ पैत्रस्य ग. घ. ४ अदत्त दायिनश्चौरस्य. ५ याजनाध्यापनादापि ख. ६ अन्यथास्वं ख. ७ नियतोपाधिकं घ.
For Private And Personal Use Only
Page #230
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
TOPINIONITAMR.M meJALA.....
१९८
याज्ञवल्क्यस्मृतिः [व्यवहाराध्यायः न्ते । तथाहि-लिप्सासूने तृतीये वर्णके द्रव्यार्जननियमानां क्रत्वर्थत्वे स्वत्वमेव न स्यात् स्वत्वस्यालौकिकत्वादिति पूर्वपक्षासंभवमाशङ्कय दव्यार्जनस्य प्रतिग्रहादिना स्वत्वसाधनत्वं लोकसिद्धमिति पूर्वपक्षः समर्थितो गुरुणा'ननु च द्रव्यार्जनस्य क्रत्वर्थत्वे स्वत्वमेव न भवतीति' याग एव न संवर्तेत, प्रलपितमिदं केनापि 'अर्जनं स्वत्वं नापादयतीति विप्रतिषिद्धम्' इति वदता । तथा सिद्धान्तेऽपि स्वत्वस्य लौकिकत्वमङ्गीकृत्यैव विचारप्रयोजनमुक्तम् 'अतो नियमातिक्रमः पुरुषस्य न तोः' इति । अस्य चार्थ एवं विवृतः-यदा द्रव्याजननियमानां क्रत्वर्थत्वं तदा नियमार्जितेनैव द्रव्येण ऋतुसिद्धिर्न नियमातिक्रमार्जितेन द्रव्येणेति न पुरुषस्य नियमातिक्रमदोषः पूर्वपक्षे । राद्धान्ते स्वर्जन नियमस्य पुरुषार्थत्वात्तदतिक्रमेणार्जितेनापि द्रव्येण ऋतुसिद्धिर्भवति, पुरुषस्यैव नियमातिकमदोष इति नियमातिकमार्जितस्यापि स्वत्वमङ्गीकृतम् । अन्यथा क्रतुसियभावात् नचैतावता चौर्यादिप्राप्तस्यापि स्वत्वं स्यादिति मन्तव्यम् । लोके तत्र स्वत्वप्रसिद्ध्यभावात् व्यवहारविसंवादाच्च । एवं प्रतिग्रहाद्युपायके स्वत्वे लौकिके स्थिते-'ब्राह्मणस्य प्रतिग्रहादय गयाः, क्षत्रियस्य विजितादयः, वैश्यस्य कृष्यादयः, शूद्रस्य शुश्रूषादयः' इत्यदृष्टार्था नियमाः । रिक्थादयस्तु सर्वसाधारणाः-'स्वामी रिक्थक्रयसंविभागपरिग्रहाधिगमेषु' इत्युक्ताः । तत्राप्रतिबन्धो दायो रिक्थम् । क्रयः प्रमेनाः । संविभागः सप्रतिबन्धो दायः। परिग्रहोऽनन्यपूर्वस्य जल णकाष्ठा देः स्वीकारः। अधिगमो निध्यादेः प्राप्तिः । एतेषु निमित्तषु सत्सु स्वामी भवति । ज्ञातेषु ज्ञायते स्वामी । 'ब्राह्मणस्याधिकं लब्धम्' इति ब्राह्मणस्य प्रतिग्रहादिना यल्लब्धं तदधिकमसाधारणम् । 'क्षत्रियस्य विजितम्' इत्यत्राधिकमित्यनुवर्तते । क्षत्रियस्य विजयदण्डादिलब्धमसाधारणम् । 'निर्विष्टं वश्यशूदयोः' इत्यत्राप्यधिकमित्यनुवर्तते । वैश्यस्य कृषिगोरक्षादिलब्धं निर्विष्टं तदसाधारणम् । शूद्रस्य द्विजशुश्रूषादिना भृतिरूपेण यल्लब्धं तदसाधारणम् । एवमनुलोमजानां प्रतिलोमजानां च लोकप्रसिद्धेषु स्वत्वहेतुषु यद्यदसाधारणमुक्तं 'सूतानामश्वसारध्यम्' इत्यादि तत्तत्सर्वं निर्विष्टशब्देनोच्यते । सर्वस्यापि भृतिरूपत्वात् ॥ 'निर्वेशो भृतिभोगयोः' इति त्रिकाण्डीस्मरणात् । तत्तदसाधारणं वेदितव्यम् । यदपि 'पत्नी दुहितरश्चैव' इत्यादिस्सरणं तत्रापि स्वामिसंबन्धितया बहुषु दायविभागितया प्राप्तेषु लोकप्रसिद्धेऽपि स्वत्वे व्यामोहनिवृत्यर्थं स्मरणमिति सर्वमनवद्यम् ॥ यदपि मम स्वमनेनापहृतमिति न ब्रूयात्स्वत्वस्य लौकिकत्व इति तदप्यसत्स्वत्वहेतुभूतक्रयादिसंदेहात्स्वत्वसंदेहोपपत्तेः । विचारप्रयोजनं तु-'पद्गर्हितेनाजयन्ति कर्मणा ब्राह्मणा धनम् । तस्योत्सर्गेण शुद्ध्यन्ति जप्येन तपसेव च ॥' इति । शास्त्रैकसमधिगम्ये स्वत्वे गर्हितेनासत्प्रतिग्रहवाणिज्यादिना लब्धस्य स्वत्वमेव नास्तीति तत्पुत्राणां तदविभाज्यमेव । यदा तु लाकिकं स्वत्वं तदाऽसत्प्रति
१ सिद्धिनियमातिक्रमाजतेन द्रव्येण न क्रतुसिद्धिरिति घ. २ दोष इति पूर्वपक्षे घ. ३ कृतेषु ख. ४ न विभाज्यमेव ग. ५ स्वत्वं लौकिकं तदा ग.
For Private And Personal Use Only
Page #231
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
"
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दायविभागप्रकरणम् ८ ] मिताक्षरासहिता ।
१९९
ग्रहादिलब्धस्यापि स्वत्वात्तत्पुत्राणां तद्विभाज्यमेव । ' तस्योत्सर्गेण शुद्धयन्ति' इति प्रायश्चित्तमर्जयितुरेव तत्पुत्रादीनां तु दायत्वेन स्वत्वमिति न तेषां दोषसंबन्धः ॥ – 'सप्त वित्तागमा धर्म्या दायो लाभः क्रयो जयः । प्रयोगः कर्मयोगश्च सत्प्रतिग्रह एव च ॥' इति ( १०।१५ ) मनुस्मरणात् ॥
---
1
इदानीमिदं संदिह्यते - किं विभागात्स्वत्वमुत स्वस्य सतो विभाग इति । तत्र विभागास्वत्वमिति तावद्युक्तम् । जातपुत्रस्याधानविधानात् । यदि जन्मनैव स्वत्वं स्यात्तदोत्पन्नस्य पुत्रस्यापि तत्स्वं साधारणमिति द्रव्यसाध्येय्वाधानादिषु पितुरनधिकारः स्यात् । तथा विभागात्प्रापितृप्रसादलब्धस्य विभागप्रतिषेधो नोपपद्यते । सर्वानुमता दत्तत्वाद्विभागप्रात्यभावात् । यथाह - 'शौर्य भार्याधने चोभे यच्च विद्याधनं भवेत् । त्रीण्येतान्यविभाज्यानि प्रसादो यश्च पैतृकः ॥' इति ॥ तथा — 'भर्ना प्रीतेन यद्दत्तं स्त्रियै तस्मिन्मृतेऽपि तत् । सा यथाकाममश्नीयाद्दद्याद्वा स्थावराते ॥' इति प्रीतिदानवचनं च नोपपद्यते जन्मनैव स्वत्वे । नच स्थावराहते यत्तमिति संबन्धो युक्तो व्यवहितयोजनाप्रसङ्गात् । यदपि - 'मणिमुक्ताप्रवालानां सर्वस्यैव पिता प्रभुः । स्थावरस्य तु सर्वस्य न पिता न पितामहः ॥' तथा--' - 'पितृप्रसादाद्भुज्यन्ते वस्त्राण्याभरणानि च । स्थावरं तु न भुज्येत प्रसादे सति पैतृके ||' इति स्थावरस्य प्रसादेदाने प्रतिषेधवचनं तत्पितामहोपात्तस्थावरविषयम् । अतीते पितामहे तद्धनं पितापुत्रयोः साधारणमपि मणिमुक्तादि पितुरेव । स्थावरं तु साधारणमित्यस्मादेव वचनादवगम्यते । तस्मान्न जन्मना स्वत्वं किंतु स्वामिनाशाद्विभागाद्वा स्वत्वम् । अतएव पितुरूर्ध्व विभागात्प्राद्रव्यस्वत्वस्य प्रहीणत्वादन्येन गृह्यमाणं न निवार्यत इति चोद्यस्यानवकाशः । तथैकपुत्रस्यापि पितृप्रयाणादेव पुत्रस्य स्वमिति न विभागमपेक्षत इति । अत्रोच्यते- लोकप्रसिद्धमेव स्वत्वमित्युक्तम् । लोके च पुत्रादीनां जन्मनैव स्वत्वं प्रसिद्धतरं नापह्नवमर्हति । विभागशब्दश्च बहुस्वामिकधनविर्षेयो लोकप्रसिद्धो नान्यदीयविषयो न प्रहीणविषयः । - तथोत्पत्स्यैवार्थ स्वामित्वं लभेतेत्याचार्याः' इति गौतमवचनाच्च । 'मणिमुक्ताप्रवालानाम्' इत्यादिवचनं च जन्मना स्वत्वपक्ष एवोपपद्यते । नच पितामहोपात्तस्थावरविषयमिति युक्तम् । 'न पिता न पितामहः' इति वचनात् । पितामहस्य हि स्वार्जितमपि पुत्रे पौत्रे सत्यदेयमिति वचनं जन्मना स्वत्वं गमयति । यथा परमते मणिमुक्ताप्रवालवस्वाभरणादीनां पैतामहानामपि पितुरेव स्वत्वं वचनात्, एवमस्मन्मतेsपि पित्रार्जितानामप्येतेषां पितुर्दानाधिकारो वचनादित्यविशेषः ॥ यत्तु भर्त्रा प्रीतेन' इत्यादिविष्णुवचनं स्थावरस्य प्रीतिदानज्ञापनं तत्स्वोपार्जितस्यापि पुत्राद्यभ्यनुज्ञयैवेति व्याख्येयम् । पूर्वोक्तैर्मणिमुक्तादिवचनैः स्थावरव्यतिरिक्त
च
८ मुक्ता
१ त्वमुत. घ. २ प्रसादादिह न प्रति ख. प्रसाददाने प्रति घ. ३ समानमपि घ. ४ विषयः प्रसिद्ध ग. ५ न्यदीयधनविषयो घ. ६ तं तथोत्पत्येव ख. ७ पितृपितामहस्य घ. वस्त्राभरणा बघ. ९ एतेषां मणिमुक्तादीनां.
पा० २०
For Private And Personal Use Only
Page #232
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२००
याज्ञवल्क्यस्मृतिः।
[व्यवहाराध्यायः
स्यैव प्रीतिदानयोग्यत्वनिश्चयात् ॥ यदप्यर्थसाध्येषु वैदिकेषु कर्मस्वनधिकार इति, तत्र तद्विधानबलादेवाधिकारो गम्यते । तस्मात्पैतृके पैतामहे च द्रव्ये जन्मनैव स्वत्वम् , तथापि पितुरावश्यकेषु धर्मकृत्येषु वाचनिकेषु प्रसाददानकुटुम्बभरणापद्विमोक्षादिषु च स्थावरव्यतिरिक्तद्रव्यविनियोगे स्वासायमिति स्थितम् । स्थावरे तु स्वार्जिते पित्रादिप्राप्ते च पुत्रादिपारतत्रयमेव ।-थावरं द्विपदं चैव यद्यपि स्वयमर्जितम् । असंभूय सुतान्सर्वान्न दानं न च विक्रयः ॥ ये जाता येऽप्यजाताश्च ये च गर्ने व्यवस्थिताः । वृत्तिं च तेऽमिकाङ्क्षन्ति न दानं न च विक्रयः ॥' इत्यादिस्मरणात् । अस्यापवादः-‘एकोऽपि स्थावरे कुर्याद्दानाधमनविक्रयम् । आपत्काले कुटुम्बार्थे धर्मार्थे च विशेषतः ॥' इति । अस्यार्थः
-अप्राप्तव्यवहारेषु पुत्रेषु पौत्रेषु वाऽनुज्ञानादावसमर्थेषु भ्रातृपु वा तथाविधेप्वविभक्तेष्वपि सकल कुटुम्बव्यापिन्यामापदि तत्पोषणे वावश्यकर्तव्येषु च पितृश्राद्धादिषु स्थावरस्य दानाधमनविक्रयमेकोऽपि समर्थः कुर्यादिति । यतु वचनम--'अविभक्ता विभक्ता वा सपिण्डाः स्थावरे समाः । एको हनीशः सर्वत्र दानाधमनविक्रये ॥' इति, तदप्यविभक्तेषु द्रव्यस्य मध्यस्थत्वादेकस्थानीश्वरत्वात् सर्वाभ्यनुज्ञावश्यं कार्या । विभक्तेषु तूत्तरकालं विभक्ताविभक्तसंतायव्युदासेन व्यवहारसौकर्याय सर्वाभ्यनुज्ञा न पुनरेकस्यानीश्वरत्वेन । अतो विभक्तानुमतिव्यतिरेकेणापि व्यवहारः सिद्ध्यत्येवेति व्याख्येयम् । यदपि-सग्रामज्ञातिसामन्तदायादानुमतेन च । हिरण्योदकदानेन षड्भिर्गच्छति मेदिनी ॥' इति, तत्रापि ग्रामानुमतिः। 'प्रतिग्रहः प्रकाशः स्यात्स्थावराय विशेषतः' इति स्मरणात् व्यवहारप्रकाशनार्थमेवापेक्ष्यते न पुनामानुमत्या विना व्यवहारासिद्धिः। सामन्तानुमतिस्तु सीमावितिपत्तिनिरासाय । ज्ञातिदायादानुमतेस्तु प्रयोजनमुक्तमेव 'हिरण्योदकदानेन' इति ।—'स्थावरे विक्रयो नास्ति कुर्यादाधिमनुज्ञया' इति स्थावरस्य विक्रयप्रतिषेधात् ।—'भूमिं यः प्रतिगृह्णाति यश्च भूमि प्रयच्छति । उभौ तौ पुण्यकर्माणौ नियतौ स्वर्गगामिनौ ॥' इति दानप्रशंसादर्शनाच्च । विक्रयेऽपि कर्तव्ये सहिरण्यमुदकं दत्त्वा दानरूपेण स्थावरविक्रयं कुर्यादित्यर्थः । पैतृके पैतामहे च धने जन्मनैव स्वत्वेऽपि विशेष भूर्या पितामहोपात्ता' इत्यत्र वक्ष्यामः ॥ १३ ॥ इदानीं यत्र काले येन च यथा विभागः कर्तव्यस्तद्दर्शयन्नाह
विभागं चेत्पिता कुर्यादिच्छंया विभजेत्सुतान् ।
ज्येष्ठं वा श्रेष्ठभागेन सर्वे वा स्युः समांशिनः ॥ ११४ ॥ यदा विभागं पिता चिकीर्षति तदा इच्छया विभजेत् पुत्राना मनः सका
१ विमोक्षणादिषु घ. २ वा अनुज्ञादा ख. ३ अनीशकत्वात् घ. ४ सीमाप्रातपत्ति ख-ग. ५ इच्छयेति ऐच्छिकविभाग एव विवृत उत्तरार्धेन । इच्छायाः संभवति उकपक्षद्वयाबलम्बनत्वे स्वातत्र्यायोगाद्वाक्यभेदापत्तेः, एकस्मै लक्षं कस्मैचित्कपर्दिकमन्यस्मै न किमपीत्यव्यवस्थापत्तेश्च व्य. म.
For Private And Personal Use Only
Page #233
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दायविभागप्रकरणम् ८ ] मिताक्षरासहिता ।
२०१ शात् पुत्रं पुत्रौ पुत्रान् । इच्छाया निरङ्कुशत्वादनियमप्राप्तौ नियमार्थमाहज्येष्ठं वा श्रेष्ठभागेनेति । ज्येष्ठं श्रेष्ठभागेन, मध्यम मध्यभागेन, कनिष्ठं कनिष्ठभागेन विभजेदित्यनुवर्तते श्रेष्ठादिविभागश्च मनुनोक्तः (९।११२)-ज्येष्ठस्य विंश उद्वारः सर्वद्रव्याच्च यद्वरम् । ततोऽर्धे मध्यमस्य स्यात्तुरीयं तु यवीयसः॥' इति । पाशब्दो वक्ष्यमाणपक्षापेक्षः । सर्वे वा स्युः समांशिन इति । सर्वे वा ज्येष्ठादयः समांशभाजः कर्तव्याः । अयं च विषमो विभागः स्वार्जितद्रव्यविषयः । पितृकमायाते तु समस्वाम्यस्य वक्ष्यमाणत्वानेच्छया विषमो विभागो युक्तः । विभागं चेत्पिता कुर्यादिति यदा पितुर्विभागेच्छा स तावदेकः कालः । अपरोऽपि कालो जीवत्यपि पितरि द्रव्यनिःस्पृहे निवृत्तरमणे मातरि च, निवृत्तरजस्कायां पितुरनिच्छायामपि पुत्रेच्छयैव विभागो भवति । यथोक्तं नारदेन-'अत ऊर्ध्वं पितुः पुत्रा विभजेयुर्धनं समम्' इति पित्रोरूर्व विभाग प्रतिपाद्य-'मातुर्निवृत्ते रजसि प्रत्तासु भगिनीषु च । निवृत्ते चापि रमणे पितर्युपरतस्मृहे ॥' इति दर्शितः । अत्र पुत्रा धनं समं विभजेयुरित्यनुषज्यते । गौतमेनापि-'ऊर्ध्वं पितुः पुना रिक्थं विभजेरन्' इत्युक्त्वा निवृत्ते चापि रजसि' इति द्वितीयः कालो दर्शितः । जीवति चेच्छतीति तृतीयः कालः । तथा सरजस्कायामपि मातर्यनिच्छत्यपि पितर्यधर्मवर्तिनि दीर्घरोगग्रस्ते च पुत्रा. णामिच्छया भवति विभागः । यथाह शङ्खः-'अकामे पितरि रिक्थविभागो वृद्धे विपरीतचेतसि रोगिणि च' इति ॥ ११४ ॥
पितुरिच्छया विभागो द्विधा दर्शितः समो विषमश्चेति, तत्र समविभागे विशेषमाह
यदि कुर्यात्समानंशान्पत्यः कार्याः समांशिकाः ।
न दत्तं स्त्रीधनं यासां भा वा श्वशुरेण वा ॥ ११५ ॥ यदा स्वेच्छया पिता सर्वानेव सुतान्समविभागिनः करोति तदा पल्यश्व पुत्रसमांशभाजः कर्तव्याः यासां पत्नीनां भा श्वशुरेण वा स्त्रीधनं न दत्तम् । दत्ते तु स्त्रीधने अर्धाशं वक्ष्यति-'दत्ते त्वधं प्रकल्पयेत्' इति ॥ यदा तु श्रेष्ठभागादिना ज्येष्ठादीन् विभजति तदा पत्यः श्रेष्ठादिभागान लभन्ते किंतूद्धृतोद्धारात्समुदायात्समानेवांशान्लभन्ते खोद्धारं च । यथाहापस्तम्ब:-'परीभाण्डं व गृहेऽलंकारो भार्यायाः' इति ॥ ११५ ॥
१ मध्यमभागेन घ. २ उद्धियत इत्युद्धारः । ज्येष्ठस्याविभक्तसाधारणधनादुद्धत्य विश. तितमो भागः सर्वद्रव्येभ्यश्च यच्छ्रेष्ठं तद्दातव्यमित्यादि । अयं चोद्धार विभागः कलौ नेष्टः कविज्येषु पाठात् व्य. म. ३ मातुरिति । रमणः कामः । उपरतस्पृहो विरक्तः । प्रत्तासु भगिनीपु चेति काकाक्षिवद्रजोरमणनिवृत्त्योर्विशेषणम् व्य. म. ४ इच्छाय'मुक्तं । तदिच्छा विनापि वेभागमाह बृहस्पतिः–'क्रमागते गृहक्षेत्रे पिता पुत्राः समाशिनः ॥ पैतृकेन वि. भागार्हाः सुताः पितुरनिच्छया ॥' अर्थापितामहाद्यर्जिते धने तदनिच्छयापि पुत्रा विभागार्हा इत्यर्थः न. म.
For Private And Personal Use Only
Page #234
--------------------------------------------------------------------------
________________
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
२०२
याज्ञवल्क्यस्मृतिः। [व्यवहाराध्यायः 'ज्येष्ठं वा श्रेष्ठभागेन सर्वे वा स्युः समांशिन' इति पक्षद्वयेऽप्यपदमाह
शक्तस्यानीहमानस्य किंचिद्दत्त्वा पृथक् क्रिया । स्वयमेव द्रव्यार्जनसमर्थस्य पितृद्रव्यमनीहमानस्यानिच्छतोपि यत्किंचिदसारमपि दत्त्वा पृथक् क्रिया विभागः कार्यः पित्रा । तत्पुत्रादीनां हायजिघृक्षा माभूदिति ॥
ज्येष्ठं वा श्रेष्ठभागेनेति न्यूनाधिको विभागो दर्शितः । तत्र शासोक्तोद्धारादिविषमविभागव्यतिरेकेणान्यथाविषमविभागनिषेधार्थमाह
न्यूनाधिकविभक्तानां धर्म्यः पितृकृतः स्मृतः ॥ ११६ ॥ न्यूनाधिकविभागेन विभक्तानां पुत्राणामसौ न्यूनाधिकविभागो यदि धर्म्यः शास्त्रोक्तो भवति तदासौ पितृकृतः कृत एव न निवर्तत इति मन्वादिभिः स्मृतः । अन्यथा तु पितृकृतोऽपि निवर्तत इत्यभिप्रायः। यथाह नारदः'व्याधितः कुपितश्चैव विषयासक्तमानसः । अन्यथाशास्त्रकारी च न विभागे पिता प्रभुः ॥' इति ॥ ११६ ॥ इदानी विभागस्य कालान्तरं करृन्तरं प्रकारनियमं चाह
विभजेरन्सुताः पित्रोरूर्व रिक्थमृणं समम् । पित्रोर्मातापिनोरूर्व प्रायणादिति कालो दर्शितः । सुता इति' कर्तारो दर्शिताः । सममिति प्रकारनियमः । सममेवेति रिक्थमृणं च विभजेरन् । ननु --'ऊर्ध्वं पितुश्च मातुश्च' (मनुः ९।१०४) इत्युपक्रम्य (मनुः ९।१०५)'ज्येष्ठ एव तु गृह्णीयात्पित्र्यं धनमशेषतः । शेषास्तमुपजीवेयुर्यथैव पितरं तथा ॥' इत्युक्त्वोक्तम् (मनुः ९।११२)-'ज्येष्ठस्य विंश उद्धारः सर्वव्याञ्च यद्वरम् । ततोऽध मध्यमस्य स्यात्तुरीयं तु यवीयसः ॥' इति । सर्वस्माद्रव्यसमुदायाविंशतितमो भागः सर्वद्रव्येभ्यश्च यच्छ्रेष्ठं तज्येष्ठाय दातव्यम् । तदर्धे चत्वारिंशत्तमो भागो मध्यमं च द्रव्यं मध्यमाय दातव्यम् । तुरीयमशीतितमो भागो हीनं द्रव्यं च कनिष्ठाय दातव्यमिति मातापित्रोरूर्व विमजतामुद्धारविभागो मनुना दर्शितः । तथा (मनुः ९।११६।११७)-'उद्धारेऽनुद्धृते त्वेषामियं स्यादंशकल्पना । एकाधिकं हरेज्येष्ठः पुत्रोऽध्यधं ततोऽनुजः ॥ अंशमंशं यवीयांस इति धर्मो व्यवस्थितः ॥' इति । ज्येष्ठस्य द्वौ भागौ तदनन्तरजातस्य साधं एको भागः ततोऽनुजानामेकैको विभाग इत्युद्धारव्यतिरेकेणापि विषमो विभागो दर्शितः पित्रोचं विभजताम् । जीवद्विभागे च स्वयमेव विषमो विभागो दर्शितो 'ज्येष्ठं वा श्रेष्ठभागेन' इति । अतः सर्वस्मिन्नपि काले विषमी विभागोऽस्तीति कथं सममेव विभजेरनिति नियम्यते ॥ अत्रोच्यते । सत्यम् । अयं
१ छतो यत्किचिदसारमपृथक् ख. ग. २ रूव॑मृणं घ. ३ प्रयाणात् ख-ग. ४ तदर्ध मध्यमस्य स्यात्तदर्धं तु कनीयस इति व्य-म-पाठः, ५ समुच्चयात् घ. ६ दर्शितो गनुना ग. ७ कथं विभजेरन्निति सममेव नियम्यते घ.
For Private And Personal Use Only
Page #235
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दायविभागप्रकरणम् ८] मिताक्षरासहिता।
२०३ विषमो विभागः शास्त्रदृष्टस्तथापि लोकविद्विष्टत्वान्नानुष्ठेयः।-'अस्वयं लोकविद्विष्टं धर्म्यमप्याचरेन्न तु' इति निषेधात् । यथा-'महोक्षं वा महाजं वा श्रोत्रियायोपकल्पयेत्' इति विधानेऽपि लोकविद्विष्टत्वादननुष्ठानम् । यथावा -'मैत्रावरुणीं गां शामनुवन्ध्यामालभेत' इति गवालम्भनविधानेऽपि लोकविद्विष्टत्वादननुष्ठानम् । उक्तंच-'यथा नियोगधर्मो नो नानुवन्ध्यावधोऽपि वा । तथोद्धारविभागोऽपि नैव संप्रति वर्तते ॥' इति । (नियोगमेनतिक्रम्य यथा नियोग, नियोगाधीनो यो धर्मों 'देवराच सुतोत्पत्ति' रित्यादिः स नो भवति) आपस्तम्बोऽपि-'जीवन्पुत्रेभ्यो दायं विभजेत्समम्' इति समतामुक्त्वा'ज्येष्ठो दायाद इत्येक' इति कृत्स्नधनग्रहणं ज्येष्ठस्यैकीयमतेनोपन्यस्य देशविशेषेण सुवर्ण कृष्णा गावः कृष्णभौमः ज्येष्टस्य रथः पितुः परीभाण्डं च गृहेऽलंकारो माया ज्ञातिधनं चेत्येके' इत्येकीयमतेनैवोद्धारविभागं दर्शयित्वा तच्छास्त्रविप्रतिषिद्धमिति निराकृतवान् । तं च शास्त्रविप॑तिषेधं स्वयमेव दर्शयतिस्म मनुः--'पुत्रेभ्यो दायं विभजेदित्यविशेषेण श्रूयते' इति । तस्माद्विषमो विभागः शास्त्रदृष्टोऽपि लोकविरोधाच्छृतिविरोधाच्च नानुष्ठेय इति सममेव विभजेरनिति नियम्यते ॥ मानापित्रोधनं सुता विभजेरन्नित्युक्तं तत्र मातृधनेऽपवादमाह
मातुर्दुहितरः शेषमृणात् मातुर्धनं दुहितरो विभजेरन् । ऋणाच्छेषं मातृकृतांपाकरणावशिष्टं अतश्वर्णसनं न्यूनं वा मातृधनं सुता विभजेरन्नित्यस्य विषयः । एतदुक्तं भवति -~-मातृकृतमणं पुत्रैरेवापाकरणीयं न दुहितृभिः । ऋणावशिष्टं तु धनं दुहितरो गृह्णीयुरेति । युक्तं चैतत् ।-'पुमान्पुंसोऽधिके शुक्रे स्त्री भवत्यधिके स्त्रियाः' इति स्यवयवानां दुहितृषु बाहुल्यात् स्त्रीधनं दुहितृगामि । पितृधनं पुत्रगामि पित्रवर वानां पुत्रेषु बाहुल्यादिति । तत्र च गौतमेन विशेषो दर्शितः- 'स्त्रीधनं दुहितॄणामप्रत्तानामप्रतिष्टितानां च' इति । अस्यार्थः-प्रत्ताऽप्रत्तासमवायेऽप्रत्तानामेव स्त्रीधनम् । प्रत्तासु चाप्रतिष्ठिताप्रतिष्ठितासमवायेऽप्रतिष्टितानामेवेति । अप्रतिष्ठिता निर्धनाः ॥ दुहिनभावे मातृधनमृणावशिष्टं को गृह्णीयादित्यत आह
ताम्य ऋतेन्वयः ॥ ११७॥ ताग्यो दुहितृभ्यो विना दुहितॄणामभावे अन्वयः पुत्रादिर्गृह्णीयात् । एतच्च -'विभजेरन्सुताः पित्रोरूर्ध्वम्' इत्यनेनैव सिद्धं स्पष्टार्थमुक्तम् ॥ ११७ ॥
१ शस्त्रदृष्टोस्ति ग. २ धनुश्चिह्नान्तर्गतो भाग ख. पुस्तकेऽधिकः. ३ स्वमतमुक्त्वा ख. घ. ४ विशेषेषु घ. ५ उत्कृष्टोंऽशो ज्येष्ठस्य पितुः. ६ परिभाण्डं ग. ७ विप्रतिषिद्धं घ. ८ कृतर्ण. ९ दुहितन्वय इत्यपरार्कः
For Private And Personal Use Only
Page #236
--------------------------------------------------------------------------
________________
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
२०४
याज्ञवल्क्यस्मृतिः। [व्यवहाराध्यायः अविभाज्यमाह
पितृद्रव्याविरोधेन यदन्यत्स्वयमर्जितम् । मैत्रमौद्वाहिकं चैव दायादानां न तद्भवेत् ॥ ११८॥ क्रमादभ्यागतं द्रव्यं हृतमप्युद्धरेत्तु यः।
दायादेभ्यो न तद्दद्याद्विद्यया लब्धमेव च ॥ ११९ ॥ मातापित्रोद्रव्याविनाशेन यत्स्वयमर्जितं, मैत्रं मित्रसकाशाद्यल्लब्धं, औद्वाहिकं विवाहाचल्लब्धं दायादानां भ्रातृणां तन्न भवेत् । क्रमात्पित्तक्रमादायातं यत्किंचिद्रव्यं अन्यैर्हतमसामर्थ्यादिना पित्रादिभिरनुद्धृतं यः पुत्राणां मध्य इतराभ्यनुज्ञयोद्धरति तदायादेभ्यो भ्रात्रादिभ्यो न दद्यादुद्ध व गृह्णीयात् । 'तत्र क्षेत्रे तुरीयांशमुद्धर्ता लभते शेषं तु सर्वेषां सममेव । यथाहः शङ्ख:'पूर्व नष्टां तु यो भूमिमेकश्चेदुद्धरेत्क्रमात् । यथाभागं लभन्तेऽन्ये दत्त्वांशं तु तुरीयकम् ॥' इति । क्रमादभ्यागतमिति शेषः । तथा विद्यया वेदाध्ययनेनाध्यापनेन वेदार्थव्याख्यानेन वा यल्लब्धं तदपि दायादेभ्यो न दद्यात् । अर्जक एव गृह्णीयात् । अत्र च 'पितृद्रव्याविरोधेन यत्किंचित्स्वय मर्जितम् ॥' इति सर्वशेषः । अतश्च पितृद्रव्याविरोधेन यन्मैत्रमर्जितं, पितृद्र याविरोधेन यदौवाहिकं, पितृद्रव्याविरोधेन यत्नमायातमुद्धृतं, पितृद्रव्यविरोधेन विद्यया यल्लब्धमिति प्रत्येकमभिसंबध्यते । तथाच पितृद्रव्याविरोधेन प्रत्युपकारेण यन्मैत्रम् , आसुरादिविवाहेषु यल्लब्धम् , तथा पितृद्रव्यव्ययेन यत्क्रमायातमुद्धृतं तथा पितृगव्यव्ययेन लब्धया विद्यया यल्लब्धं, तत्सर्वं सर्वैतृभिः पित्रा च विभैजनीयम् । तथा पितृगव्याविरोधेनेत्यस्य सर्वशेषत्वादेव पितृद्रव्यविरोधेन प्रतिग्रहलब्धमपि विभजनीयम् । अस्य च सर्वशेषत्वाभावे मैत्रमौ द्वाहिकमित्यादि नारब्धव्यम् । अथ पितृद्रव्यविरोधेनापि यन्मैत्रादिलब्धं तस्याविभाज्यत्वाय मैत्रादिवचनमर्थवदित्युच्यते । तथा सति समाचारविरोधः, विद्यालब्धे नारदवचनविरोधश्च ।-'कुटुम्बं बिभृयाद्रातुर्यो विद्यामधिगच्छतः । भागं विद्याधनात्तस्मात्स लभेताश्रुतोऽपि सन् ॥' इति । तथा विद्याधनस्याविभाज्यस्य लक्षणमुक्तं कात्यायनेन-'परभक्तोपयोगेन विद्या प्राप्तान्यतस्तु या । तया लब्धं धनं यत्तु विद्याप्राप्तं तदुच्यते ॥' इति । तथा पितृगव्याविरोधेनेत्यस्य भिन्नवाक्यत्वे प्रतिग्रहलब्धस्याविभाज्यत्वमाचारविरुद्धमापद्येत । एतदेव स्पष्टीकृतं मनुना (९।२०८)-'अनुपनन्पितृद्रव्यं श्रमेण यदुपार्जितम् । दायादेभ्यो न तद्दद्याद्विद्यया लब्धमेव च ॥' इति श्रमेण सेवायुद्वादिना । ननु पितृगव्याविरोधेन यन्मैत्रादिलब्धं द्रव्यं तदविभाज्यमिति न बक्तव्यम् ।
१ सर्वत्र शेषः ख. २ क्रमादायातं ख. ३ समं विभजनीयं ग. ४ विरोधशापयेत घ. ५ दायादेभ्य इत्यस्य स्थाने 'स्वयमीहितलब्धं तन्नाकामो दातुमर्हति' इत्युत्तरार्ध मनुः स्मृतावुपलभ्यते.
For Private And Personal Use Only
Page #237
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दायविभागप्रकरणम् ८ ] मिताक्षरासहिता।
विभागाध्यभावात् । यद्येन लब्धं तत्तस्यैव नान्यस्येति प्रसिद्धतरम् । प्राप्तिपूर्वकश्च प्रतिषेधः । अत्र कश्चिदित्थं प्राप्तिमाह–'यत्किचित्पितरि प्रेते धनं ज्येष्ठोऽधिगच्छति । भागो यवीयसां तत्र यदि विद्यानुपालिनः ॥' इति । ज्येष्ठो वा कनिष्टो वा मध्यमो वा पितरि प्रेते अप्रेते वा यवीयसां वर्षीयसां चेनि व्याख्यानेन पितरि सत्यसति च मैत्रादीनां विभाज्यत्वं प्राप्तं प्रतिषिध्यत इति । तदसत् । नात्र प्राप्तस्य प्रतिषेधः किंतु सिद्धस्यैवानुवादोऽयम् । लोकसिद्धस्यैवानुवादकान्येव प्रायेणास्मिन्प्रकरणे वचनानि । अथवा 'समवेतैस्तु यत्प्राप्त सर्वे तन समांशिनः।' इति प्राप्तस्यापवाद इति संतप्यतु भवान् । अतश्च 'यत्किंविल्पितरि प्रेते' इत्यस्मिन्वचने ज्येष्ठादिपदाविवक्षया प्राप्तिरिति व्यामोहमात्रं । अतो मैत्रादिवचनैः पितुः प्रागूर्व वा विभाज्यत्वेनोक्तस्य 'यत्किंचिपितरि प्रेते' इत्यैपवाद इति व्याख्येयम् । तथान्यदप्यविभाज्यमुक्तं मनुना (९।२१९)-'वस्त्रं पत्रमलंकारं कृतान्नमुदकं स्त्रियः। योगक्षेमं प्रचारं च न विभाज्यं प्रचक्षते ॥' इति । तानामेव वस्त्राणामविभाज्यत्वं, यद्येन वृतं तत्तस्यैव । पितृतवस्त्राणि तु पितुरूज़ विभजतां श्राद्धभोके दातव्यानि । यथाह वृहस्पतिः-'वस्त्रालंकारशय्यादि पितुर्यद्वाहनादिकम् । गन्धमाल्यैः समभ्यर्च्य श्राद्धभोके समर्पयेत् ॥' इति । अभिनवानि तु वस्त्राणि विभाज्यान्येव । पत्रं वाहनमश्चशिबिकादि तदपि यद्येनारूढं तत्तस्यैव । पित्र्यं तु वस्त्रवदेव । अश्वादीनां बहुत्वे तु तद्विक्रयोपजीविनां विभाज्यत्वमेव । वैषम्येण विभाज्यत्वे ज्येष्ठस्य (मनुः ९।११९)—'अजाविकं सैकशर्फ न जातु विषमं भजेत् । अजाविक सैकशर्फ ज्येष्ठस्यैव विधीयते ॥' इति मनुस्मरणात् । अलंकारोऽपि यो येन पृतः स तस्यैव । अतः साधारणो विभाज्य एव । ( मनुः ९।२००) -पत्यो जीवति यः स्त्रीभिरलंकारो तो भवेत् । न तं भजेरन्दायादा भजमानाः पतन्ति ते॥' इति । अलंकारो धृतो भवेदिति विशेषेणोपादानादधतानां विभाज्य वं गम्यते । कृतान्नं तण्डुलमोदकादि तदप्यविभाज्यं यथासंभवं भोक्तव्यम् । उदकं उदकाधारः कूपादिः, तच्च विषमं मूल्यद्वारेण न विभाज्यं पर्यायेण पभोक्तव्यम् । स्त्रियश्च दास्यो विषमाः न मूल्यद्वारेण विभाज्याः पर्यायेण कर्म कारयितव्याः । अवरुद्धास्तु पित्रा स्वैरिण्याद्याः समा अपि पुत्रैर्न विभाज्याः । 'स्त्रीषु च संयुक्तास्त्र विभागः' इति गौतमस्मरणात् । योगश्च क्षेमं च योगक्षेमम् । योगशब्देनालब्धलाभकारणं श्रौतस्मार्ताग्निसाध्यं इष्टं कर्म लक्ष्यते । क्षेमशब्देन लब्धपरिरक्षणहेतुभूतं बहिर्वेदिदानतडागारामनिर्माणादि पूर्त कर्म लक्ष्यते । तदुभयं पैतृकमपि पितृद्रव्यविरोधार्जितमप्यविभाज्यम् । यथाह लौगाक्षिः-'क्षेमं पूर्त योगमिष्टमित्याहुस्तत्त्वदर्शिनः । अविभाज्ये च ते प्रोक्ते शयनासनमेव च ॥' इति । योगक्षेमशब्देन योगक्षेमकारिणो राजमन्त्रिपुरोहितादय उच्यन्ते इति केचित् । छत्रचामरशस्त्रोपानत्प्रभृतय इत्यन्ये ।
१ निषेयः घ. २ चाविभाज्य घ. ३ इत्यस्यापवाद ख. ४ पितृधृतानि ख. ५ पतन्त्यधः ग. ६ विशेषस्योपादाना ग. ७ करणं ख.
For Private And Personal Use Only
Page #238
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०६
याज्ञवल्क्यस्मृतिः ।
[ व्यवहाराध्यायः
।
प्रचारो गृहारामादिषु प्रवेश निर्गममार्गः सोऽप्यविभाज्यः । यत्तशनसा - क्षेत्रस्याविभाज्यत्वमुक्तम् – 'अविभाज्यं सगोत्राणामासहस्त्रकुलादपि । याज्यं क्षेत्र च पत्रं च कृतान्नमुदकं स्त्रियः ॥' इति, तद्ब्राह्मणोत्पन्न क्षत्रियादिपुत्रविषयम् । 'न प्रतिग्रहभूदैया क्षत्रियादिसुताय वै । यद्यप्येषां पिता दद्यान्मृते विप्रासुतो हरेत् ॥' इति स्मरणात् । याज्यं याजनकर्मलब्धम् । पितृप्रसादलब्धस्याविभाज्यत्वं वक्ष्यते । नियमातिक्रमस्याविभाज्यत्वमनन्तरमेव निरासि । पितृद्रव्यविरोधेन यदर्जितं तद्विभजनीयमिति स्थितं तत्रार्जकस्य भागद्वयं, वसिष्ठवचनात् । येन चैषां स्वयमुपार्जितं स्यात्स व्यंशमेव लभेतेति ॥ ११८ ॥ ११९ ॥ अस्यापवादमाह -
सामान्यार्थसमुत्थाने विभागस्तु समः स्मृतः ।
अविभक्तानां भ्रातॄणां सामान्यस्यार्थस्य कृषिवाणिज्यादिना संभूय समुत्थाने सम्यग्वर्धने केनचित्कृते सम एव विभागो नार्जयितुरंशद्वयम् ॥
पित्र्ये द्रव्ये पुत्राणां विभागो दर्शितः । इदानीं पैतामहे पौत्राणां विभागे विशेषमाह -
अनेक पितृकाणां तु पितृतो भागकल्पना ।। १२० ।।
यद्यपि पैतामहे द्रव्ये पौत्राणां जन्मना स्वत्वं पुत्रैरविशिष्टं तथापि तेषां पितृद्वारेणैव पैतामहैद्रव्यविभागकल्पना न स्वरूपापेक्षया । एतदुक्तं भवति । यदाऽविभक्ता भ्रातरः पुत्रानुत्पाद्य दिष्टं गतास्तदैकस्य द्वौ पुत्रान्यस्य त्रयोsपरस्य चत्वार इति पुत्राणां वैषम्ये तत्र द्वावेकं स्वपित्र्यमंशं लभेते, अन्ये त्रयोऽप्येकमंशं पित्र्यं चत्वारोऽप्येकमेवांशं पित्र्यं लभन्त इति । तथा केषुचित्पुत्रेषु धियमाषु केषुचित्पुत्रानुत्पाद्य विनष्टेष्वप्ययमेव न्यायो ध्रियमाणाः स्वानंशानेव लभन्ते, नष्टानामपि पुत्राः पित्र्याने वांशालभन्त इति वाचनिकी व्यवस्था ॥ १२०॥
,
अधुना विभक्ते पितर्यविद्यमान भ्रातृके वा पौत्रस्य पैतामहे द्रव्ये विभागो नास्ति । अध्रियमाणे पितरि 'पितृतो भागकल्पना' इत्युक्तत्वात् । भवतु वा स्वार्जितवत्पितुरिच्छ्यैवेत्याशङ्कित आह
भूर्या पितामहोपात्ता निबन्धो द्रव्यमेव वा ।
तत्र स्यात्सदृशं स्वाम्यं पितुः पुत्रस्य चैव हि ॥ १२१ ॥
भूः शालिक्षेत्रादिका । निबन्ध एकस्य पर्णभरकस्येयन्ति पर्णानि, तथा एकस्य क्रमुकफलभैरस्येयन्ति क्रमुकफलानीत्यायुक्तलक्षणः । द्रव्यं सुवर्णरजतादि यत्पितामहेन प्रतिग्रहविजयादिना लब्धं तत्र पितुः पुत्रस्य च स्वाम्यं लोकप्रसिद्धमिति कृत्वा विभागोऽस्ति । हि यस्मात्तत्सदृशं समानं तस्मान्न
१ साधारणार्थस्य गन्ध २ भागद्वयम् ध. ३ द्रव्ये विभाग ख ४ पित्रंशं घ. ५ ष्वयमेव खग. ६ प्रियमाणे तु पितरि ग. ७ भारकस्य ख. ८ स्वाम्यमर्थसिद्धमिति.
For Private And Personal Use Only
Page #239
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दायविभागप्रकरणम् ८ ] मिताक्षरासहिता ।
२०७ पितुरिच्छयैव विभागो नापि पितुर्भागद्वयम् । अतश्च पितृतो भागकल्पनेत्येतस्वाम्ये समेऽपि वाचनिकम् । 'विभागं चेत्पिता कुर्यात्' इत्येतत्स्वार्जितविषयम् । तथा-'द्वावंशौ प्रतिपद्येत विभजन्नात्मनः पिता' इत्येतदपि वार्जिदविषयम् ।-'जीवतोरस्वतन्त्रः स्याजरयापि समन्वितः' इत्येतदपि पारतव्यं मातापित्रर्जितद्रव्यविषयम् । तथा-'अनीशास्ते हि जीवतोः' इत्येतदपि । तथा सरजस्कायां मातरि सस्पृहे च पितरि विभागमनिच्छत्यपि पुत्रेच्छया पैतामहद्रव्यविभागो भवति । तथाऽविभक्तेन पित्रा पैतामहे द्रव्ये दीयमाने विक्रीयमाणे वा पौत्रस्य निषेधेऽप्यधिकारः । पिवर्जिते न तु निषेधाधिकारः। तत्परतत्रत्वात् । अनुमतिस्तु कर्तव्या । तथाहि-पैतृके पैतामहे च स्वाम्यं यद्यपि जन्मनैव, तथापि पैतृके पितृपरतन्त्रत्वात् पितुश्चार्जकत्वेन प्राधान्यात् पित्रा विनियुज्यमाने स्वार्जिते द्रव्ये पुत्रेणानुमतिः कर्तव्या । पैतामहे तु द्वयोः स्वाम्यमविशिष्टमिति निषेधाधिकारोऽस्तीति विशेषः । मनुरपि (९।२०९)'पैतृकं तु पिता द्रव्यमनवाप्तं यदामुयात् । न तत्पुत्रैर्भजेत्सार्धमकामः स्वयमर्जितम् ॥' इति । यत्पितामहार्जितं केनाप्यपहृतं पितामहेनानुद्धृतं यदि पितो. द्धरति तत्स्वार्जितमिव पुत्रैः सार्धमकामः स्वयं न विभजेदिति वदन् पितामहार्जितमकामोऽपि पुत्रेच्छया पुत्रैः सह विभजेदिति दर्शयति ॥ १२ ॥ विभागोत्तरकालमुत्पन्नस्य पुत्रस्य कथं विभागकल्पनेत्यत आह
विभक्तेषु सुतो जातः सवर्णायां विभागभाक् । विभक्तेषु पुत्रेषु पश्चात्सवर्णायां भर्यायामुत्पन्नो विभागभाक् । विभज्यत इति विभागः । पित्रोविभागस्तं भजतीति विभागभाक् । पित्रोरूर्व तयोरंशं लभत इत्यर्थः । मातृभागं चासत्यां दुहितरि । 'मातुर्दुहितरः शेषम्' इत्युक्तत्वात् । असवर्णायामुत्पन्नस्तु स्वांशमेव पित्र्यालभते । मातृकं तु सर्वमेव । एतदेव मनुनोक्तम् (९।२१६)--'ऊर्ध्वं विभागाजातस्तु पित्र्यमेव हरेद्धनम्' इति । पित्रोरिदं पित्र्यमिति व्याख्येयम् ।-'अनीशः पूर्वजः पित्रोतुर्भागे विभक्तजः' इति स्मरणात् । विभक्तयोर्मातापित्रोविभागे विभागात्पूर्वमुत्पन्नो न स्वामी विभक्तजश्च भ्रातुर्भागे न स्वामीत्यर्थः । तथा विभागोत्तरकालं पित्रा यत्किंचिदर्जितं तत्सर्वं विभक्तजस्यैव । -'पुत्रैः सह विभक्तेन पित्रा यत्स्वयमर्जितम् । विभक्तजस्य तत्सर्वमनीशाः पूर्वजाः स्मृताः ॥' इति स्मरणात् । ये च विभक्ताः पित्रा सह संसृष्टाः तैः सार्धं पितुरूवं विभक्तजो विभजेत् । यथाह मनुः (९।२१६)-'संसृष्टास्तेन वा ये स्युर्विभजेत स तैः सह' इति ॥ पितुरूवं पुत्रेषु विभक्तेषु पश्चादुत्पन्नस्य कथं विभागकल्पनेत्यत आह
दृश्यावा तद्विभागः स्यादायव्ययविशोधितात् ॥ १२२ ॥ तस्य पितरि प्रेते भ्रातृविभागसमयेऽस्पष्टगर्भायां मातरि भ्रातृविभागोत्तर१ पितुः स्वार्जकत्वेन ख. २ कारोप्यस्तीति ख. ३ मातुर्भागं तु सर्वमेव ग-ध.
For Private And Personal Use Only
Page #240
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
२०८
Acharya Shri Kailassagarsuri Gyanmandir
याज्ञवल्क्यस्मृतिः ।
[ व्यवहाराध्यायः
कालमुत्पन्नस्यापि विभागः । तद्विभागः कुत इत्यत आह । दृश्याद्रातृभिगृहीताद्धनात् । कीदृशात् आयव्यय विशोधितात् । आयः प्रतिदिवस प्रतिमासं प्रत्यब्दं वा यदुत्पद्यते, व्ययः पितृकृतर्णापाकरणं, ताभ्यामायव्ययाभ्यां यच्छोधितं तत्तस्मादुद्धृत्य तद्भागो दातव्यः स्यात् । एतदुक्तं भवति । प्रातिस्विकेषु भागेषु तदुत्थमायं प्रवेश्य पितृकृतं चर्णमपनीयावशिष्टेभ्यः स्वेभ्यः स्वेभ्यो भागेभ्यः किंचित्किंचिदुद्धृत्य विभक्तजस्य भागः स्वभागसमः कर्तव्य इति । एतच्च वि भागसमयेऽप्रजस्य भ्रातुर्भार्यायामस्पष्टगर्भायां विभागादूर्ध्वमुत्पन्नस्यापि वेदितव्यम् । स्पष्टगर्भायां तु प्रसवं प्रतीक्ष्य विभागः कर्तव्यः । यथाह वसिष्ठः'अथ भ्रातृणां दायविभागो याश्चानपत्याः स्त्रियस्तासामापुत्रलाभात्' इति । गृहीतगर्भाणामाप्रसवात्प्रतीक्षणमिति योजनीयम् ॥ १२२ ॥
—
विभक्तजः पित्र्यं मातृकं च सर्व धनं गृह्णातीत्युक्तं तत्र यदि विभक्तः पिता माता वा विभक्ताय पुत्राय स्नेहवशादाभरणादिकं प्रयच्छति तदा विभक्तजेन दानप्रतिषेधो न कर्तव्यो नापि दत्तं प्रत्याहर्तव्यमित्याह
पितृभ्यां यस्य यद्दत्तं तत्तस्यैव धनं भवेत् ।
मातापितृभ्यां विभक्ताभ्यां पूर्वं विभक्तस्य पुत्रस्य यद्दत्तमलंकारादि तत्तस्यैर्वे न विभक्तजस्य स्वं भवति । न्यायसाम्याद्विभागात्प्रागपि यस्य यत्तं तत्तस्यैव । तथा असति विभक्तजे विभक्तयोः पित्रोरंशं तदूर्ध्वं विभजतां यस्य यद्दत्तं तत्तस्यैव नान्यस्येति वेदितव्यम् ॥
जीवद्विभागे स्वपुत्रसमांशित्वं पत्नीनामुक्तं 'यदि कुर्यात्समानंशान्' इत्यादिना । पितुरूर्ध्वं विभागेऽपि पैलीनां स्वपुत्रसमांशित्वं दर्शयितुमाह--.
पितुरूर्ध्वं विभजतां माताप्यंशं समं हरेत् ॥ १२३ ॥
पितुरूध्वं पितुः श्रीयणादूर्ध्वं विभजतां मातापि स्वपुत्रांशसममंशं हरेत् यदि स्त्रीधनं न दत्तम् । दत्ते त्वर्धाशहारिणीति वक्ष्यते ॥ १२३ ॥
पितरि प्रेते यद्यसंस्कृता भ्रातरः सन्ति तदा तत्संस्कारे कोऽधिक्रियत इत्यत आह
असंस्कृतास्तु संस्कार्या भ्रातृभिः पूर्वसंस्कृतैः ।
पितुरूर्ध्वं विभजद्भिर्भ्रातृभिरसंस्कृता भ्रातरः समुदायद्रव्येण संस्कर्तव्याः असंस्कृतासु भगिनीषु विशेषमाह
भगिन्यश्च निजादंशाद्दत्वांशं तु तुरीयकम् ॥ १२४ ॥ अस्यार्थः । भगिन्यश्चासंस्कृताः संस्कर्तव्या भ्रातृभिः । किंकृत्वा । निजादं
१ कृतमृणं घ. २ भागेभ्यो यत्किंचिदुद्धृत्य घ. ३ समये भ्रातुर्भार्यायामप्रजाया म स्पष्टगर्भायां स्वभागाग, समये भ्रातृभार्यायामप्रजस्य स्पष्टगर्भायां विभागादूर्ध्वं घ. ४ तस्यैव पुत्रस्य ख. ५ मातुः स्वपुत्र ख. ६ प्रयाणा ख. घ. ७ वक्ष्यति ग. ८ संस्कार्याः ग.
For Private And Personal Use Only
Page #241
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दायविभागप्रकरणम् ८] मिताक्षरासहिता ।
२०९
शाच्चतुर्थमंशं दत्त्वा । अनेन दुहितरोऽपि पितुरूर्ध्वमंशभागिन्य इति गम्यते । तत्र निजादंशादिति प्रत्येकं परिकल्पितादेशादुद्धृत्य चतुर्थांशो दातव्य इत्ययमर्थो न भवति, किंतु यज्जातीया कन्या तज्जातीयपुत्रभागाच्चतुर्थांशभागिनी सा कर्तव्या । एतदुक्तं भवति । यदि ब्राह्मणी सा कन्या तदा ब्राह्मणीपुत्रस्य यावानंशो भवति तस्य चतुर्थीशस्तस्या भवति । तद्यथा । यदि कस्यचिद्राह्मणस्यैका पत्नी पुत्रश्चैकः कन्या चैका तत्र पित्र्यं सर्वमेव द्रव्यं द्विधा विभज्य तत्रैकं भागं चतुर्धा विभज्य तुरीयमंशं कन्यायै दत्त्वा शेषं पुत्रो गृह्णीयात् । यदा तु द्वौ पुत्रौ एका च कन्या तदा पितृधनं सर्वं त्रिधा विभज्य एकं भागं चतुर्धा विभज्य तुरीयमंशं कन्यायै दत्त्वा शेषं द्वौ पुत्रौ विभज्य गृह्णीतः ॥ अथ वेकः पुत्र कन्ये तदा पित्र्यं धनं त्रिधा विभज्य एकं भागं चतुर्धा विभज्य तत्र द्वौ भागौ द्वाभ्यां कन्याभ्यां दत्त्वावशिष्टं सर्व पुत्रो गृह्णातीत्येवं समानजातीयेषु समविषमेषु भ्रातृषु भगिनीषु च योजनीयम् । यदा तु ब्राह्मणीपुत्र एकः क्षत्रियाकन्या चैका तत्र पितृधनं सप्तधा विभज्य क्षत्रियापुत्रभागांस्त्रींश्चतुर्धा विभज्य तुरीयांशं क्षत्रियाकन्यायै दत्त्वा शेषं ब्राह्मणीपुत्र गृह्णाति । यत्र तु द्वौ ब्राह्मणीपुत्रौ क्षत्रियाकन्या चैका तत्र पित्र्यं धनमेकादशधा विभज्य तेषु श्रीनंशान् क्षत्रियापुत्रभागांश्चतुर्धा विभज्य चतुर्थमंशं क्षत्रियाकन्यायै दत्त्वा शेषं सर्व ब्राह्मणीपुत्रौ विभज्य गृह्णीतः ॥ एवं जातिवैपम्ये भ्रातॄणां भगिनीनां च संख्यायाः साम्ये वैषम्ये च सर्वत्रोहनीयम् । नच 'निजादंशाद्दत्त्वांशं तु तुरीयक' मिति तुरीयांशाविवक्षया संस्कारमात्रोपयोगि द्रव्यं दत्त्वेति व्याख्यानं युक्तम् । मनुवचनविरोधात् (९।११८) —'स्वेभ्योऽशेभ्यस्तु कन्याभ्यः प्रदद्युर्भ्रातरः पृथक् । स्वात्स्वादंशाच्चतुर्भागं पतिताः स्युरदित्सवः ॥' इति । अस्यार्थः । ब्राह्मणादयो भ्रातरो ब्राह्मणीप्रभृतिभ्यो भगिनीभ्यः स्वेभ्यः स्वजातिविहितेभ्योऽशेभ्यः 'चतुरोऽशान्हरेद्विप्र' इत्यादिवक्ष्यमाणेभ्यः स्वात्स्वादशादात्मीयादात्मीयाद्भागाच्चतुर्थं चतुर्थ भागं दद्युः । नचात्रामीयभागादुद्धृत्य चतुर्थांशो देय इत्युच्यते किंतु स्वजातिविहितादेकस्मादेकस्सादेशात्पृथक् पृथकस्याप्येकस्यै कन्यायै चतुर्थोऽशो देय इति जातिवैषम्ये संख्यावैषम्ये च विभागक्लृप्तिरुक्तैव । 'पतिताः स्युरदित्सव' इत्यकरणे प्रत्यवायश्रवणादariदातव्यता प्रतीयते । अत्रापि चतुर्थभागवचनमविवक्षितं संस्कारमात्रोपयोगिद्रव्यदानमेव विवक्षितमिति चेन्न । स्मृतिद्वयेऽपि चतुर्थांशदानाविवक्षायां प्रमाणाभावाददाने प्रत्यवायश्रवणाच्चेति । यदपि कैश्चिदुच्यते । अंशदानविवक्षायां बहुभ्रातृकायाः बहुधनत्वं बहुभगिनीकस्य च निर्धनता प्राप्नोतीति तदुक्तरीत्या परिहृतमेव । नह्यत्रात्मीयाद्भागादुद्धृत्य चतुर्थांशस्य दानमुच्यते येन तथा स्वात् । अतोऽस्मत्सहायमेधातिथिप्रभृतीनां व्याख्यानमेव चैतुरस्रं न भारुचेः ।
१ इत्येवमर्थो ख. इत्यर्थो ग. २ कस्यचिद्राह्मण्येवैका ख. ३ अथतु ग. घ. ४ गृह्णीयात् एवं ग. ५ पित्र्यं धनं घ. ६ गृह्णीयात् ग. ७ गृह्णीयाताम् ग. ८ नच दत्वांशं तु ग. घ. ९ संस्कारोपयोगि ख. १० बहुधनकत्वं घ. ११ वरिष्ठं न भागुरेः ख.
For Private And Personal Use Only
1
Page #242
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१०
याज्ञवल्क्यस्मृतिः।
व्यवहाराध्यायः
तस्मापितुरूवं कन्याप्यंशभागिनी पूर्व चेद्यत्किंचित्पिता ददाति तदेव लभते विशेषवचनाभावादिति सर्वमनवद्यम् ॥ १२४ ॥
एवं विभागं चेपिता कुर्या'दित्यादिना प्रबन्धेन समानजातीयानां भ्रातॄणां परस्परं पित्रा सह विभागक्लप्तिरुक्ता । अधुना भिन्नजातीयानां विभागमाह
चतुस्त्रियेकभागाः स्युर्वर्णशो ब्राह्मणात्मजाः।
क्षत्रजास्त्रियेकभागा विड्जास्तु येकभागिनः॥ १२५ ॥ 'तिस्रो वर्णानुपूर्येण' इति ब्राह्मणस्य चतस्रः क्षत्रियस्य तिस्रो वैश्यस्य द्वे शूद्रस्यैकेति भार्या दर्शिताः। तत्र ब्राह्मणात्मजा ब्राह्मणोत्पन्ना वर्णशः-वर्णशब्देन ब्राह्मणादिवर्णाः स्त्रिय उच्यते । 'संख्यैकवचनाञ्च वीप्सायाम्' इत्यधिकरण कारकादेकवचनाद्वीप्सायां शस् । अतश्च वर्णे वर्णे ब्राह्मणोत्पन्नाः यथाक्रमं चतुस्बियेकभागाः स्युर्भवेयुः । एतदुक्तं भवति। ब्राह्मणेन ब्राह्मण्यामुत्पन्ना एकैकशश्चतुरश्चतुरो भागाँल्लभन्ते । तेनैव क्षत्रियायामुत्पन्नाः प्रत्येकं त्रीस्त्रीन् वैश्यायां द्वौ द्वौ शूद्रायामेकमेकमिति । क्षत्रजाः क्षत्रियेणोत्पन्नाः वर्णशः इत्यनुवर्तते यथाक्रम त्रिव्येकभागाः । क्षत्रियेण क्षत्रियायामुत्पन्नाः प्रत्येकं ब्रीस्त्रीन्, वैश्यायां द्वौ द्वौ, शूद्रायामेकमेकम् । विड्जाः वैश्येनोत्पन्नाः । अत्रापि वर्णश इत्यनुवर्तते यथाक्रम येकभागिनः। वैश्येन वैश्यायामुत्पन्नाः प्रत्येकं द्वौ द्वौ भागौ लभन्ते।शूद्रायामेकमेकम् । शूद्रस्यैकैव भार्येति भिन्नजातीयपुत्राभावात्तत्पुत्राणां पूर्वोक्त एव विभागः। यद्यपि चतुस्त्रियेकभागा इत्यविशेषेणोक्तं तथापि प्रतिग्रहप्राप्तभूव्यतिरिक्तविषयमिदं द्रष्टव्यम् । यतः स्मरन्ति-'न प्रतिग्रहभूर्दया क्षत्रियादिसुताय वै । यद्यप्येषा पिता दद्यान्मृते विप्रासुतो हरेत् ॥' इति । प्रतिग्रहणात्क्रयादिना लब्धा भूः क्षत्रियादिसुतानामपि भवत्येव । शूद्रापुत्रस्य विशेषप्रतिषेधाञ्च । 'शूयां द्विजातिभिर्जातो न भूमे गमर्हति' इति । यदि क्रयादिप्राप्ता भूः क्षत्रियादिसुतानां न भवेत्तदा शूद्रापुत्रस्य विशेषप्रतिषेधो नोपपद्यते । यत्पुनः (मनुः ९।१५५)-'ब्राह्मणक्षत्रियविशां शूद्रापुत्रो न रिक्थभाक् । यदेवास्य पिता दद्यात्तदेवास्य धनं भवेत् ॥' इति, तदपि जीवता पित्रा यदि शूद्रापुत्राय किमपि प्रदत्तं स्यात्तद्विषयम् । यदा तु प्रसाददानं नास्ति तदैकांशभागित्यविरुद्धम् ॥ १२५ ॥ अथ सर्वविभागशेष किंचिदुच्यते
अन्योन्यापहृतं द्रव्यं विभक्ते यत्तु दृश्यते ।
तत्पुनस्ते समैरंशैविभजेरनिति स्थितिः ॥ १२६ ॥ परस्परापहृतं समुदायद्व्यं विभागकाले चाज्ञातं विभक्ते पितृधने यदृश्यते तत्समैरंशैविभजेरनित्येवं स्थितिः शास्त्रमर्यादा । अत्र समैरंगैरिति वदतोद्धार
१ वर्णास्त्रय उच्यन्ते ग. घ. २ त्पन्ना एकैकशश्चतुस्त्रि ग. ३ प्रत्तं ग. ४ वा ज्ञातं ख. च ज्ञातं ग.
For Private And Personal Use Only
Page #243
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
HONEY
दायविभागप्रकरणम् ८ ] मिताक्षरासहिता।
२११ विभागो निषिद्धः । विभजेरनिति वदता येन दृश्यते तेनैव न ग्राह्यमिति दर्शितम् । एवं च वचनस्यार्थवत्त्वान्न समुदायद्व्यापहारे दोपाभावपरत्वम् । ननु मनुना ज्येष्ठस्यैव समुदायद्व्यापहारे दोषो दर्शितो न कनीयसाम् (मनुः ९।२१३) यो ज्येष्ठो विनिकुर्वीत लोभाद्रातॄन्यवीयसः । सोऽज्येष्ठः स्यादभागश्च नियन्तव्यश्च राजभिः।' इति वचनात् । नैतत् । यतः संभावितस्वातच्यस्य पितृस्थानीयस्य ज्येष्ठस्यापि दोपं वदता ज्येष्ठपरतन्त्राणां कनीयसां पुत्रस्थानीयानां दण्डापूपिकनीत्या सुतरां दोषो दर्शित एव । तथा चाविशेषेणैव दोषः । श्रूयते । गौतमः-'यो वै भागिनं भागानुदते चयते चैनं स यदि वैनं न चयतेऽथ पुत्रमथ पौत्रं चयत' इति । यो भागिनं भागार्ह भागानुदते भागादपाकरोति भागं तस्मै न प्रयच्छति स भागानुन्न एनं चोत्तारं चयते नाशयति दोषिणं करोति । यदि तं न नाशयति तदा तस्य पुत्रं पौत्रं वा नाशयतीति ज्येष्ठविशेषमन्तरेणैव साधारणद्रव्यापहारिणो दोषः श्रुतः । अथ साधारणं द्रव्यमात्मनोऽपि स्वं भवतीति स्वबुद्ध्या गृह्यमाणं न दोषमावहतीति मृतम् । तदसत् । स्वबुद्ध्या गृहीतेऽप्यवर्जनीयतया परस्त्रमपि गृहीतमेवेति निषेधानुप्रवेशाद्दोपमावहत्येव । यथा मौद्रो चरौ विपन्ने सदृशतया माषेषु गृह्यमाणेषु 'अयज्ञिया वै माषाः' इति निषेधो न प्रविशति, मुद्गावयवबुद्ध्या गृह्यमाणत्वादिति पूर्वपक्षिणोक्त मुद्दावयवेपु गृह्यमाणेष्ववर्जनीयतया माषावयवा अपि गृह्यन्त एवेति निषेधः प्रविशत्येवेति राद्धान्तिनोक्तम् । तस्माद्वचनतो न्यायतश्च साधारणद्रव्यापहारे दोषोऽस्त्येवेति सिद्धम् ॥ १२६ ॥ नामुष्यायणस्य भागविशेषं दर्शयंस्तस्य स्वरूपमाह
अपुत्रेण परक्षेत्रे नियोगोत्पादितः सुतः।
उभयोरप्यसौ रिक्थी पिण्डदाता च धर्मतः ॥ १२७ ॥ अपुत्रां गुर्वनुज्ञात इत्यायुक्तविधिना अपुत्रेण देवरादिना परक्षेत्रे परभार्यायां गुरुनियोगेनोत्पादितः पुत्र उभयो/जिक्षेत्रिणोरसौ रिक्थी रिक्थहारी पिण्डदाता च धर्मत इति । अस्यार्थः । यदासौ नियुक्तो देवरादिः स्वयमप्यपुत्रोऽपुत्रस्य क्षेत्रे स्वपरपुत्रार्थ प्रवृत्तो यं जनयति स द्विपितृको ब्यामुष्यायणो द्वयोरपि रिक्थहारी पिण्डदाता च । यदा तु नियुक्तः पुत्रवान् केवलं क्षेत्रिणः पुत्रार्थ प्रयतते तदा तदुत्पन्नः क्षेत्रिण एव पुत्रो भवति न बीजिनः । सच न नियमेन बीजिनो रिक्थहारी पिण्डदो वेति । यथोक्तं मनुना (९।५३)-'क्रियाभ्युपगमाक्षेत्रं बीजार्थं यत्प्रदीयते । तस्येह भागिनौ दृष्टौ बीजी क्षेत्रिक एव च ॥' इति । क्रियाभ्युपगमादिति अत्रोत्पन्नमपत्यमावयोरुभयोरपि भवत्विति संविदङ्गीकरणाचक्षेत्रं क्षेत्रस्वामिना बीजीवपनार्थ बीजिने दीयते तत्र तस्मिन्क्षेत्रे उत्प
१ यो लोभाद्विनिकुर्वीतेति पाठः. २ नोत्तारं ख. ३ श्रूयते घ. ४ अपरस्य घ. ५ प्रवर्तते घ. ६ पिण्डदाता चेति ग. ७ करणेन यत्क्षेत्रं. ८ वीजवापनार्थ ग.
या०२१
For Private And Personal Use Only
Page #244
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
१ तथानियोगो. घ.
२१२
याज्ञवल्क्यस्मृतिः ।
[ व्यवहाराध्यायः
न्नस्यापत्यस्य बीजिक्षेत्रिणौ भागिनौ स्वामिनौ दृष्टौ महर्षिभिः । तथा ( मनुः ९/५२ ) - फलं त्वनभिसंधाय क्षेत्रिणा बीजिना तथा । प्रत्यक्षं क्षेत्रिणामर्थो बीजाद्यो निर्बलीयसी ॥' इति । फलं त्वनभिसंधायेति अत्रोत्पन्नमपत्यमावयोरुभयोरस्त्वित्येवमनभिसंधाय परक्षेत्रे यदपत्यमुत्पाद्यते तदपत्यं क्षेत्रिण एव । यतो बीजाद्योनिर्बलीयसी । गवाश्वादिषु तथा दर्शनात् । अत्रापि नियोगो वादत्ताविषय एव । इतरस्य नियोगस्य मनुना निषिद्धत्वात् ( ९१५९/६० ) - 'देवा सपिण्डाद्वा स्त्रिया सम्यङ्गियुक्तया । प्रजेप्सिताऽधिगन्तव्या सन्तानस्य परिक्षये ॥ विधवायां नियुक्तस्तु घृताक्तो वाग्यतो निशि । एकमुत्पादयेत्पुत्रं न द्वितीयं कथंचन ॥' इत्येवं नियोगमुपन्यस्य मनुः स्वयमेव निषेधति ( ९।६४। ६८ ) – 'नान्यस्मिन्विधवा नारी नियोक्तव्या द्विजातिभिः । अन्यस्मिन्हि नियुञ्जाना धर्मं हन्युः सनातनम् ॥ नोद्वाहिकेषु मन्त्रेषु नियोगः कीर्त्यते क्वचित् । न विवाहविधावुक्तं विधवावेदनं पुनः ॥ अयं द्विजैर्हि विद्वद्भिः पशुधर्मो विगर्हितः । मनुष्याणामपि प्रोक्तो वेने राज्यं प्रशासति ॥ स महीमखिलां भुञ्जन् राजर्षिप्रवरः पुरा । वर्णानां संकरं चक्रे कामोपहतचेतनः ॥ ततः प्रभृति यो मोहात्प्रमीतपतिकां स्त्रियम् । नियोजयत्यपत्यार्थे गर्हन्ते तं हि साधवः ॥' इति ॥ नच विहितप्रतिषिद्धत्वाद्विकल्प इति मन्तव्यम् । नियोक्तॄणां निन्दाश्रवणात् । स्त्रीधर्मेषु व्यभिचारस्य बहुदोषश्रवणात्, संयमस्य प्रशस्तत्वाच्च । यथाह मनुरेव (५/१५७ ) कामं तु क्षपयेद्देहं पुष्पमूलफलैः शुभैः । नतु नामापि गृह्णीयात्पत्य प्रेते परस्य तु ॥ ' इति जीवनार्थं पुरुषान्तराश्रयणं प्रतिषिध्य ( मनुः ५ | १५८ । १६१ ) - 'आसीता मरणात्क्षान्ता नियता ब्रह्मचारिणी । यो धर्म एकपतीनां काङ्क्षन्ती तमनुत्तमम् ॥ अनेकानि सहस्राणि कौमारब्रह्मचारिणाम् । दिवं गतानि विप्राणामकृत्वा कुलसंततिम् ॥ मृते भर्तरि साध्वी at ब्रह्मचर्ये व्यवस्थिता । स्वर्गं गच्छत्यपुत्रापि यथा ते ब्रह्मचारिणः ॥ अपत्यलोभाद्या तु स्त्री भर्तारमतिवर्तते । सेह निन्दामवाप्नोति परलोकाच्च हीयते ॥' इति पुत्रार्थमपि पुरुषान्तराश्रयणं निषेधति । तस्माद्विहितप्रतिषिद्धत्वाद्विकल्प इति न युक्तम् ॥ एवं विवाहसंस्कृतानियोगे प्रतिषिद्धे कस्तर्हि धर्म्यं नियोग इत्यत आह (मनुः ९/६९/७० ) - 'यस्या नियेत कन्याया वाचा सत्ये कृते पतिः । तामनेन विधानेन निजो विन्देत देवरः ॥ यथाविध्येधिगम्यैनां yari शुचिव्रताम् । मिथो भजेताप्रसवात्सकृत्सकृतावृतौ ॥' इति । यस्मै वाग्दत्ता कन्या स प्रतिग्रहमन्तरेणैव तस्याः पतिरित्यस्मादेव वचनादवगम्यते । तस्मिन्प्रेते देवरस्तस्य ज्येष्ठः कनिष्ठो वा निजः सोदरो विन्देत परिणयेत् । यथाविधि यथाशास्त्रमधिगम्य परिणीय अनेन विधानेन घृताभ्यङ्गवानियमादिना शुक्रवस्त्रां शुचिव्रतां मनोवाक्कायसंयतां मिथो रहस्यागर्भग्रहणात्प्रत्यृत्वेकवारं गच्छेत् । अयं च विवाहो वाचनिको घृताभ्यङ्गादिनिय -
Acharya Shri Kailassagarsuri Gyanmandir
२ विध्यभिगम्यैनां ख.
For Private And Personal Use Only
Page #245
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दायविभागप्रकरणम् ८] मिताक्षरासहिता ।
२१३ मवनियुक्ताभिगमनाङ्गमिति न देवरस्य भार्यात्वमापादयति । अतस्तदुत्पन्नमपत्वं क्षेत्रस्वामिन एव भवति न देवरस्य । संविदा तूभयोरपि ॥ १२७ ॥
समानासमानजातीयानां पुत्राणां विभागक्लप्तिरुक्ता । अधुना मुख्यगौणपुत्राणां दायग्रहणव्यवस्था दर्शयिष्यंस्तेषां स्वरूपं तावदाह
औरसो धर्मपत्नीजस्तत्समः पुत्रिकासुतः।।
क्षेत्रजः क्षेत्रजातस्तु सगोत्रेणेतरेण वा ॥ १२८ ॥ उरसो जात औरसः पुत्रः सच धर्मपत्नीजः सवर्णा धर्मविवाहोढा धर्मपत्नी तस्यां जातः औरसः पुत्रो मुख्यः । तत्सम औरससमः पुत्रिकायाः सुतः पुत्रिकासुतः। अतएवौरससमः । यथाह वसिष्ठः-'अभ्रातृकां प्रदास्यामि तुभ्यं कन्यामलंकृताम् । अस्यां यो जायते पुत्रः स मे पुत्रो भवेदिति ॥' इति । अथवा पुत्रिकैव सुतः पुत्रिकासुतः सोऽप्यौरससम एव पित्रवयवानामल्पत्वात् मात्रवयवानां बाहुल्याच । यथाह वसिष्ठः-'द्वितीयः पुत्रिकैव' इति । द्वितीयः पुत्रः पुत्रिकैवेत्यर्थः । ब्यामुष्यायणस्तु जनकस्यौरसादपकृष्टोऽन्यक्षेत्रोत्पन्नत्वात् । क्षेत्रजः क्षेत्रजातस्तु सगोत्रेणेतरेण वा । इतरेण सपिण्डेन देवरेण वोत्पन्नः पुत्रः क्षेत्रजः॥
गृहे प्रच्छन्न उत्पन्नो गूढजस्तु सुतः स्मृतः ।
कानीनः कन्यकाजातो मातामहसुतो मतः ॥ १२९ ॥ गूढजः पुत्रो भर्तृगृहे प्रच्छन्न उत्पन्नो हीनाधिकजातीय पुरुषजत्वपरिहारेण पुरुषविशेषजत्वनिश्चयाभावेऽपि सवर्णजत्वनिश्चये सति बोद्धव्यः । कानीनस्तु कन्यकायामुत्पन्नः पूर्ववत्सवर्णासु मातामहस्य पुत्रः । यद्यनूढा सा भवेत्तथा पितृगृह एव संस्थिता । अथोढा तदा वोदुरेव पुत्रः । यथाह मनुः (९।१७२) -'पितृवेश्मनि कन्या तु यं पुत्रं जनयेद्गहः । तं कानीनं वदेन्नान्ना वोढुः कन्यासमुद्भवम् ॥' इति ॥ १२९ ॥
अक्षतायां क्षतायां वा जातः पौनर्भवः सुतः ।
दद्यान्माता पिता वायं स पुत्रो दत्तको भवेत् ॥ १३० ॥ पौन वस्तु पुत्रोऽक्षतायां क्षतायां वा पुनवां सवर्णादुत्पन्नः । मात्रा भज्रनुज्ञया प्रोषिते प्रेते वा भर्तरि पित्रा वोभाभ्यां वा सवर्णाय यसै दीयते स तस्य दत्तकः पुत्रः । यथाह मनुः (९।१६८)-'माता पिता वा दद्यात्तां यमद्भिः पुत्रमापदि । सदृशं प्रीतिसंयुक्तं स ज्ञेयो दत्रिमः सुतः ॥' इति । आपद्रहणादनापदि न देयः । दातुरयं प्रतिषेधः । तथा एकपुत्रो न देयः । 'न
१ स्यौरसान्निकृष्टो घ. २ रहः अप्रकाशम्. ३ वोढुः कन्यापरिणेतुः. ४ वाशब्दान्मात्रभावे पितैव दद्यात् । पित्रभावे मातैव । उभयसत्वे तु उभावपीति मदनः. ५ सदृशं कुलगुणादिमिन जात्येति मेधातिथिः सदृशं जात्येति कुल्लूकः.
For Private And Personal Use Only
Page #246
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
२१४
याज्ञवल्क्यस्मृतिः ।
[ व्यवहाराध्यायः
त्वेवैकं पुत्रं दद्यात्प्रतिगृह्णीयाद्वा' इति वसिष्ठस्मरणात् । तथाऽनेकपुत्र सद्भावेऽपि . ज्येष्ठो न देयः । (मनुः ९/१०६ ) – ज्येष्ठेन जातमात्रेण पुत्री भवति मानवः' इति तस्यैव पुत्रकार्यकरणे मुख्यत्वात् । पुत्रप्रतिग्रहप्रकारच पुत्रं प्रतिमहीष्यन्बन्धूनाहूय राजनि चावेद्य निवेशनमध्ये व्याहृतिभिर्हुत्वा अदूरबान्धवं बन्धुसंनिकृष्ट एव प्रतिगृह्णीयात्' इति वसिष्ठेनोक्तः । अदूरबान्धवमित्यत्यन्तदेशभाषाविप्रकृष्टस्य प्रेतिषेधः । एवं क्रीतस्वयं दत्तकृत्रिमेष्वपि योजनीयम् । समानन्यायत्वात् ॥ १३० ॥
क्रीतच ताभ्यां विक्रीतः कृत्रिमः स्यात्स्वयंकृतः । दत्तात्मा तु स्वयंदत्तो गर्ने विन्नः सहोढजः ॥ १३१ ॥
क्रीतस्तु पुत्रस्ताभ्यां मातापितृभ्यां मात्रा पित्रा वा विक्रीतः पूर्ववत् तथैकं पुत्रं ज्येष्ठं च वर्जयित्वा आपदि सवर्ण इत्येव । यत्तु मनुनोक्तम् (९।१७४ ) -' क्रीणीयाद्यस्त्वपत्यार्थं मातापित्रोर्यमन्तिकात् । स क्रीतकः सुतस्तस्य सदृशोसदृशोऽपि वा ॥' इति, तद्गुणैः सदृशोऽसदृशो वेति व्याख्येयं न जात्या | 'स जातीयेष्वयं प्रोक्तस्तनयेषु' इत्युपसंहारात् । कृत्रिमः स्यात्स्वयंकृतः । कृत्रिमस्तु पुत्रः स्वयं पुत्रार्थिना धनक्षेत्रप्रदर्शनादिप्रलोभेनैव पुत्रीकृतो मातापितृ विहीनः तत्सद्भावे तत्परतन्त्रत्वात् । दत्तात्मा तु पुत्रो यो मातापितृविहीनस्ताभ्यां त्यक्तो वा तवाहं पुत्रो भवामीति स्वयं दैत्तत्वमुपगतः । सहोदजस्तु गर्भे स्थितो गर्भिण्यां परिणीतायां यः परिणीतः स वोढुः पुत्रः ॥ १३१ ॥
उत्सृष्ट गृह्यते यस्तु सोऽपविद्धो भवेत्सुतः ।
अपविद्धो मातापितृभ्यामुत्सृष्टो यो गृह्यते स ग्रहीतुः पुत्रः सर्वत्र सवर्ण इत्येव ॥
एवं मुख्या मुख्यपुत्राननुक्रम्यैतेषां दायग्रहणे क्रममाह
पिण्डदोंऽशहरचैषां पूर्वाभावे परः परः ।। १३२ ।।
एतेषां पूर्वोक्तानां पुत्राणां द्वादशानां पूर्वस्य पूर्वस्याभावे उत्तर उत्तरः raised धनहरो वेदितव्यः । औरसपौत्रिकेयसमवाये औरसस्यैव धनग्रहणे प्राप्ते मनुरपवादमाह ( ९।१३४ ) - 'पुत्रिकायां कृतायां तु यदि पुत्रो - sनु जायते । समस्तत्र विभागः स्याज्येष्ठता नास्ति हि स्त्रियाः ॥' इति । तथा अन्येषामपि पूर्वस्मिन्पूर्वस्मिन्सत्यप्युत्तरेषां पुत्राणां चतुर्थांशभागित्वमुक्तं वसिष्ठेन । तस्मिंश्चेत्प्रतिगृहीते औरस उत्पद्येत चतुर्थभागभागी स्याद्दत्तक इति । दत्तक ग्रहणं क्रीतकृत्रिमादीनां प्रदर्शनार्थम् । पुत्रीकरणाविशेषात् । तथाच कात्यायनः - ' उत्पन्ने त्वौर से पुत्रे चतुर्थांशहराः सुताः । सवर्णा असवर्णास्तु १ निषेधः घ. २ गर्भे भिन्नः ख. घ. ३ प्रलोभनैः घ. ४ स्वयं दत्त उपनतः ग. घ. ५ चतुर्थांश. ग. घ. ६ तृतीयांशहरा इति तु कल्पतरौ पाठः
For Private And Personal Use Only
·
Page #247
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दायविभागप्रकरणम् ८] मिताक्षरासहिता ।
२१५
प्रासाच्छादनभाजनाः ॥' इति । सवर्णा दत्तक क्षेत्रजादयस्ते सत्यौरसे चतुर्थांशह'राः । असवर्णाः कानीनगूढोत्पन्नसहोढ जपौनर्भवास्ते त्वौरसे सति न चतुर्थीशहराः किंतु ग्रासाच्छादनभाजनाः । यदपि विष्णुवचनम् - 'अप्रशस्तास्तु कानीनगूढोत्पन्नसहोढजाः । पौनर्भवश्च नैवैते पिण्डरिक्थांशभागिनः ॥' इति । तदप्यरसे सति चतुर्थांशनिषेधपरमेव । औरसाद्यभावे तु कानीनादीनामपि I सकलपित्र्यधनग्रहणमस्त्येव । ' पूर्वाभावे परः परः' इति वचनात् ॥ यदपि मनुवचनम् (९।१६३ ) – ' एक एवौरसः पुत्रः पित्र्यस्य वसुनः प्रभुः । शेषाणामानृशंस्यार्थ प्रदद्यात्तु प्रजीवनम् ॥' इति, तदपि दत्तकादीनामौरसप्रतिकूलत्वे निर्गुणत्वे च वेदितव्यम् । तत्र क्षेत्रजस्य विशेषो दर्शितस्तेनैव (मनुः ९।१६४ ) - 'पष्टं तु क्षेत्रजस्यांशं प्रदद्यात्पैतृकाद्धनात् । औरसो विभजन्दायं पित्र्यं पञ्चममेव वा ॥' इति । प्रतिकूलत्व निर्गुणत्वसमुच्चये षष्ठमंशम्, एकतरसद्भावे पञ्चममिति विवेक्तव्यम् ॥ यदपि मनुना पुत्राणां षट्कद्वयमुपन्यस्य पूर्वषट्कस्य दायादबान्धवत्वं, उत्तरषट्कस्यादायादबान्धवत्वमुक्तम् (मनुः ९ | १५९/१६० ) - 'औरसः क्षेत्रजश्चैव दत्तः कृत्रिम एव च । गूढोत्पन्नोऽपविद्धश्च दायादा बान्धवाश्च षट् ॥ कानीनश्च सहोदश्च क्रीतः पौनर्भवस्तथा । स्वयंदत्तश्च शौद्रश्च षडदायादबान्धवाः ॥' इति, तदपि स्वपितृसपिण्डसमानोदकानां संनिहितरिक्थहरान्तराभावे पूर्वस्य तद्विक्थहरत्वमुत्तरषङ्कस्य तु तन्नास्ति । बान्धवत्वं पुनः समानगोत्रत्वेन सपिण्डत्वेन चोदकप्रदानादिकार्यकरत्वं वर्गद्वयस्यापि सममेवेति व्याख्येयम् ॥ ( मनुः ९११४२ ) - ' गोत्ररिक्थे जनयितुर्न भजेद्दत्रिमः सुतः । गोनेरिक्थानुगः पिण्डो व्यपैति ददतः स्वधाम् ॥' इत्यत्र दत्रिमग्रहणस्य 'पुत्र प्रतिनिधिप्रदर्शनार्थत्वात् । पितृधनहारित्वं तु पूर्वस्य पूर्वस्याभावे सर्वेषामविशिष्टम् । (मनुः ९।१८५ ) -- ' न भ्रातरो न पितरः पुत्रा रिक्थहराः पितुः । ' इत्यौरसव्यतिरिक्तानां पुत्रप्रतिनिधीनां सर्वेषां रिक्थहारित्वप्रतिपादनपरत्वात् । औरसस्य तु (मनुः ९।१६३ ) – एक एवैौरसः पुत्रः पित्र्यस्य वसुनः प्रभुः ।' इत्यनेनैव रिक्थभाक्त्वस्योक्तत्वात् । दायादशब्दस्य 'दायादानपि दापयेत्' इस्यादौ पुत्रव्यतिरिक्तरिक्थभाग्विषयत्वेन प्रसिद्धत्वाच्च । वासिष्ठादिषु वर्गद्वयेऽपि कस्यचिद्व्यत्ययेन पाठो गुणवदगुणवद्विषयो वेदितव्यः । गौतमीये तु 'पौत्रिकेयस्य दशमत्वेन पाठो विजातीयविषयः । तस्मात्स्थितमेतत्पूर्वपूर्वाभावे परः परों
भाग 'ति ॥ यत्तु (९।१८२ ) - ' भ्रातृणामेकजातानामे कश्चेत्पुत्रवान्भवेत् । सर्वे ते तेन पुत्रेण पुत्रिणो मनुरब्रवीत् ॥' इति । तदपि भ्रातृपुत्रस्य पुत्रीकरणसंभवेऽन्येषां पुत्रीकरणनिषेधार्थम्, न पुनः पुत्रत्वप्रतिपादनाय । 'तत्सुता गोत्रजा बन्धु: -' इत्यनेन विरोधात् ॥ १३२ ॥
१ गोत्रेति गोत्ररिवधे अनुगच्छतीति गोत्ररिक्थानुगः प्रायस्तत्समनियत इति यावत् । दत्रिमः केवलः द्वयामुष्यायणे गोत्राद्यनुवृत्तेः । पिण्डः श्राद्धमौर्ध्वदेहिकादीति मेधातिथिकुहूकभट्टादयः । पिण्डः सापिण्ड्यं, स्वधौर्ध्वदेहिक श्राद्धादीत्यपरे व्य. म. २ ( मनुः ८/१६०) 'दानप्रतिभुवि प्रेते' इति पूर्वार्धमस्य. दानप्रतिभुवि तु पितरि मृते पुत्रं ऋणं दापयेदिति तस्यार्थः.
For Private And Personal Use Only
+
Page #248
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१६
याज्ञवल्क्यस्मृतिः।
[व्यवहाराध्यायः
इदानीमुक्तोपसंहारव्याजेन तत्रैव नियममाह
सजातीयेष्वयं प्रोक्तस्तनयेषु मया विधिः । समानजातीयेष्वेव पुत्रेषु अयं पूर्वाभावे परः पर इत्युक्तो विधिः न मिनजातीयेषु । तन्त्र च कानीनगूढोत्पन्नसहोढजपौनर्भवाणां सवर्णत्वं जनकद्वारेण न वरूपेण । तेषां वर्णजातिलक्षणाभावस्योक्तत्वात् । तथानुलोमजानां मूर्धावसिक्तादीनामौरसेप्वन्तर्भावात्तेषामप्यभावे क्षेत्रजादीनां दायहरत्वं बोद्धव्यम् । शूदापुत्रस्त्वौरसोऽपि कृत्स्नं भागमन्याभावेऽपि न लभते । यथाह मनुः (९।१५४)-'यद्यपि स्यात्तु सत्पुत्रो यद्यपुत्रोऽपि वा भवेत् । नाधिकं दशमाहद्याच्छूदापुत्राय धर्मतः ॥' इति । यदि सत्पुत्रो विद्यमानद्विजातिपुत्रो यद्यपुत्रोऽविद्यमानद्विजातिपुत्रो वा स्यात्तस्मिन्मृते क्षेत्रजादिर्वान्यो वा सपिण्डः शूद्रापुत्राय तद्धनाद्दशमांशादधिकं न दद्यादित्यस्मादेव क्षत्रियावैश्यापुत्रयोः सवर्णापुत्राभावे सकलधनग्रहणं गम्यते ॥ अधुना शूद्रधनविभौगे विशेषमाह
जातोऽपि दास्यां शूद्रेण कामतोंऽशहरो भवेत् ॥ १३३ ॥ मृते पितरि कुर्युस्तं भ्रातरस्त्वर्धभागिकम् ।
अभ्रातृको हरेत्सर्वं दुहितॄणां सुताहते ॥ १३४ ॥ शूद्रेण दास्थामुत्पन्नः पुत्रः कामतः पितुरिच्छया भागं लभते । पितुरुवं तु यदि परिणीतापुत्राः सन्ति तदा ते भातरस्तं दासीपुत्रं अर्धभागिनं कुर्युः । स्वभागादधैं दधुरित्यर्थः । अथ परिणीतापुत्रा न सन्ति तदा कृत्यं धनं दासीपुत्रो गृह्णीयात् यदि परिणीतादुहितरस्तत्पुत्रा वा न सन्ति । सत्सद्भावे त्वर्धभागिक एव दासीपुत्रः । अत्र च शूदग्रहणाद्विजातिना दास्यामुत्पन्नः पितुरिच्छयाप्यंशं न लभते नाप्यर्धे, दूरत एव कृत्स्नम् । किंत्वनुकूलश्चेजीवनमानं लभते ॥ १३३ ॥ १३४ ॥
मुख्यगौणसुता दायं गृह्णन्तीति निरूपितम् । तेषामभावे सर्वेषां दायादक्रम उच्यते
पत्नी दुहितरश्चैव पितरौ भ्रातरस्तथा । तत्सुता गोत्रजा बैन्धुशिष्यसब्रह्मचारिणः ॥ १३५॥ एपामभावे पूर्वस्य धनभागुत्तरोत्तरः।
वर्यातस्य ह्यपुत्रस्य सर्ववर्णेष्वयं विधिः ॥ १३६ ॥ पूर्वोक्ता द्वादशपुत्रा यस्य न सन्ति असावपुत्रः तस्यापुत्रस्य स्वर्यातस्य परलोकं गतस्य धनभाक् धनग्राही एषां पत्न्यादीनामनुक्रान्तानां मध्ये पूर्वस्य
१ स्वरूपद्वारेण. ग. २ प्यसत्पुत्रोऽपि वा भवेदिति पाठः. ३ विभागेपि ग. ४ धनं गृह्णीयात् ग. घ. ५ कृत्स्नं धनं ग. ६ बन्धुः शिष्यः सब्रह्म ख.
For Private And Personal Use Only
Page #249
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दायविभागप्रकरणम् ८] मिताक्षरासहिता।
२१७ पूर्वस्याभाव उत्तर उत्तरो धनभागिति संबन्धः । सर्वेषु मूर्धावसिक्तादिषु अनुलोमजेपु प्रतिलोमजेषु वर्णेषु च ब्राह्मणादिषु अयं दायग्रहणविधियग्रहणक्रमो वेदितव्यः । तत्र प्रथमं पत्नी धनभाक् । पत्नी विवाहसंस्कृता 'पत्युनों यज्ञसंयोगे' इति स्मरणात् । एकवचनं च जात्यभिप्रायेण । ताश्च बह्वयश्चेत्सजातीया विजातीयाश्च तदा यथांशं विभज्य धनं गृह्णन्ति । वृद्धमनुरपि पत्याः समग्रधनसंबन्धं वक्ति-'अपुत्रा शयनं भर्तुः पालयन्ती व्रते स्थिता । पल्येव दद्यात्तत्पिण्डं कृत्स्नमंशं लभेत च ॥' इति । वृद्धविष्णुरपि-'अपुत्रधनं पत्यभिगामि तदभावे दुहितृगामि तदभावे पितृगामि तदभावे मातृगामि' इति । कात्यायनोऽपि-पत्नी पत्युर्धनहरी या स्यादव्यभिचारिणी । तदभावे तु दुहिता यद्यनूढा भवेत्तदा ॥' इति । तथा 'अपुत्रस्यार्यकुलजा पत्नी दुहितरोऽपि वा । तदभावे पिता माता भ्राता पुत्राश्च कीर्तिताः ॥' इति । बृहस्पतिरपि–'कुल्येषु विद्यमानेषु पितृभ्रातृसनाभिषु । असुतस्य प्रमीतस्य पत्नी तद्भागहारिणी ॥' एतद्विरुद्धानीवं वाक्यानि लक्ष्यन्ते-'भ्रातृणामप्रजाः प्रेयात्कश्चिच्चेत्प्रव्रजेत वा । विभजेरन्धनं तस्य शेषास्ते स्त्रीधनं विना ॥ भरणं चास्य कुर्वीरन्स्त्रीणामाजीवनक्षयात् । रक्षन्ति शय्यां भर्तुश्चेदाच्छिद्युरितरासु तु ॥' इति पत्रीसद्भावेऽपि भ्रातॄणां धनग्रहणं पत्नीनां च भरणमात्रं नारदेनोक्तम् । मनुना तु (९।१८५)--'पिता हरेदपुत्रस्य रिक्थं भ्रातर एव वा' इत्यपुत्रस्य धनं पितुओतुति दर्शितम् । तथा (मनुः ९१२१७)-'अनपत्यस्य पुत्रस्य माता दायमवाप्नुयात् । मातर्यपि च वृत्तायां पितुर्माता हरेद्धनम् ॥' इति मातुः पितामह्याश्च धनसंबन्धो दर्शितः । शङ्खनापि-'स्वर्यातस्य ह्यपुत्रस्य भ्रातृगामि द्रव्यं तदभावे पितरौ हरेयातां ज्येष्ठा वा पत्नी' इति भ्रातॄणां पित्रोयेष्ठायाश्च पत्याः क्रमेण धनसंबन्धो दर्शितः । कात्यायनेनापि-विभक्ते संस्थिते द्रव्यं पुत्राभावे पिता हरेत् । भ्राता वा जननी वाथ माता वा तत्पितुः क्रमात् ॥' इत्येवमादीनां विरुद्धार्थानां वाक्यानां योगीश्वरेण व्यवस्था दर्शिता'पती गृह्णीयात्' इत्येतद्वचनजातं विभक्तभ्रातृस्त्रीविषयम् । सा च यदि नियो. गार्थिनी भवति । कुत एतत् नियोगसव्यपेक्षायाः पन्या धनहरणं न स्वतन्त्रायां इनि । 'पिता हरेदपुत्रस्य' इत्यादिवचनात्तत्र व्यवस्थाकारणं वक्तव्यम् । नान्यव्यवस्थाकारणमस्ति इति गौतमवचनाच 'पिण्डगोत्रपिंसंबन्धा रिक्थं भजेरन् स्त्री वानपत्यस्य बीजं लिप्सेत' इति । अस्यार्थ:-पिण्डगोत्रर्षिसंबन्धा अनपत्यस्य रिक्थं भजेरन्स्त्री वा रिक्थं भजेत् यदि बीजं लिप्सेतेति । मनुरपि (९।१३६)-'धनं यो बिभृयाद्रातुर्मतस्य स्त्रियमेव वा । सोऽपत्यं भ्रातुरुत्पाद्य दद्यात्तस्यैव तद्धनम् ॥' इति । अनेनैतद्दर्शयति विभक्तधनेऽपि भातर्युपरतेऽपत्यद्वारेणैव पन्या धनसंबन्धो नान्यथेति । यथाऽविभक्तधनेऽपि (मनुः ९।३२०)-'कनीयाज्येष्ठभार्यायां पुत्रमुत्पादयेद्यदि । समस्तत्र विभागः
१ दिष्वनुलोमजेपु सूतादिषु प्रतिलोमजेषु ब्राह्मणादिषु अयं ग. २ भाक् विवाह ग.घ. ३ गृह्णन्ति यथा ख. ४ धनग्रहणं घ. ५ स्याथ कुलजा ग. घ. ६ विरुद्धानिच वाक्यानीह ग.
For Private And Personal Use Only
Page #250
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१८
याज्ञवल्क्यस्मृतिः।
[व्यवहाराध्यायः
स्थादिति धर्मो व्यवस्थितः ॥' इति । तथा वसिष्ठोऽपि 'रिक्थलोभानास्ति नियोगः' इति रिक्थलोभान्नियोगं प्रतिषेधयन् नियोगद्वारक एव पत्याः धनसंबन्धो नान्यथेति दर्शयति । नियोगाभावेऽपि पल्या भरणमात्रमेव नारदवचनात् 'भरणं चास्य कुर्वीरन्स्त्रीणामाजीवनक्षयात्' इति । योगीश्वरेणापि किल वक्ष्यते-'अपुत्रा योषितश्चैषां भर्तव्याः साधुवृत्तयः । निर्वास्या व्यभिचारिण्यः प्रतिकूलास्तथैव च ॥' इति अपिच । द्विजातिधनस्य यथार्थत्वात्स्त्रीणां च यज्ञेऽनधिकाराद्धनग्रहणमयुक्तम् । तथाच केनापि स्मृतम्-'यज्ञार्थे द्रव्यमुस्पन्नं तत्रानधिकृतास्तु ये । अरिक्थभाजस्ते सर्वे ग्रासाच्छादनभाजनाः ॥ यज्ञार्थ विहितं वित्तं तस्मात्तद्विनियोजयेत् । स्थानेषु धर्मजुष्टेषु न स्त्रीमूर्खविधर्मिषु ॥' इति । तदनुपपन्नम् । 'पनी दुहितरः' इत्यत्र नियोगस्याप्रतीतेरप्रस्तुतत्वाच्च । अपिचेदमत्र वक्तव्यम् । पत्नयाः धनग्रहणे नियोगो वा निमित्तं तदुत्पन्नमपत्यं वा । तत्र नियोगस्यैव निमित्तत्वे अनुत्पादितपुत्राया अपि धनसंबन्धः प्राप्नोति । उत्पन्नस्य च पुत्रस्य धनसंबन्धो न प्राप्नोति । अथ तदपत्यस्यैव निमित्तत्वं, तथा सति पुनस्यैव धनसंबन्धात्पनीति नारब्धव्यम् ॥
अथ स्त्रीणां पतिद्वारको धनसंबन्धः पुत्रद्वारको वा नान्यथेति मतम् । तदप्यसत् । (मनुः ९।१९४)–'अध्यग्न्यध्यावह निकं दत्तं च प्रीतिकर्मणि । भ्रातृमातृपितृप्राप्त पड्डिधं स्त्रीधनं स्मृतम् ॥' इत्यादिविरोधात् । किंत्र । सर्वथा पुत्राभावे 'पत्नी दुहितरः' इत्यारब्धम् । तत्र नियुक्ताया धनसंबन्धं वदता क्षेत्रजस्यैव धनसंबन्ध उक्तो भवति । सच प्रागेवाभिहित इति 'अपुनप्रकरणे पत्नीति नारब्धव्यम् । 'अथ पिण्डगोत्रर्षिसंबन्धा रिक्थं भजेरन्स्त्री वानपत्यस्य बीजं वा लिप्सेत्' इति गौतमवचनान्नियुक्ताया धनसंबन्ध इति । तदप्यसत् । नहि यदि बीजं लिप्सेत तदाऽनपत्यस्य स्त्री धनं गृह्णीयादित्ययमर्थोऽस्मात्प्रतीयते । किंतु 'अनपत्यस्य धनं पिण्डगोत्रर्षिसंबन्धा भजेरन्स्त्री वा सो स्त्री बीजं वा लिप्सेत संयता वा भवेत्' इति तस्या धर्मान्तरोपदेशः । वाशब्दस्य पक्षान्तरवचनत्वेन यद्यप्रितीतेः। अपिच संयताया एव धनग्रहणं युक्तं न नियुक्तायाः स्मृतिलोकनिन्दितायाः । 'अपुत्रा शयनं भर्तुः पालयन्ती व्रते स्थिता । पत्त्येव दद्यात्तत्पिण्डं कृत्स्नमंशं लभेत च ॥' इति संयताया एव धनग्रहणमुक्तम् ॥
तथा नियोगश्च निन्दितो मनुना (९।६४)-'नान्यस्मिन्विधवा ! नारी नियोक्तव्या द्विजातिभिः। अन्यस्मिन् हि नियुञ्जाना धर्म हन्युः सनातनम् ॥' इत्यादिना । यत्तु वसिष्ठवचनम् 'रिक्थलोभानास्ति नियोगः' इति, तदविभक्ते संसृष्टिनि वा भर्तरि प्रेते तस्या धनसंबन्धो नास्तीति स्वापत्यस्य धनसंबन्धार्थ नियोगो न कर्तव्य इति व्याख्येयम् । यदपि नारद. वचनम्-'भरणं चास्य कुरिन्स्त्रीणामाजीवनक्षयात्' इति, तदपि 'संस.
१ संबन्धो युक्तो घ. २ सा बीजं वा घ. ३ संसृष्टिनां तु. घ.
For Private And Personal Use Only
Page #251
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दायविभागप्रकरणम् ८ ] मिताक्षरासहिता ।
२१९
टानां तु यो भागस्तेषामेव स इष्यते' इति संसृष्टानां प्रस्तुतत्वात्तत्स्त्रीणामनपत्यानां भरणमात्रप्रतिपादनपरम् । नच 'भ्रातॄणामप्रजाः प्रेया' दित्येतस्य संसृष्टिविषयत्वे 'संसृष्टानां तु यो भाग' इत्यनेन पौनरुक्त्यमाशङ्कनीयम् । यतः पूर्वोक्तिविवरणेन स्त्रीधनस्याविभाज्यत्वं तत्स्त्रीणां च भरणमात्रं विधीयते । यदपि 'अपुत्रा योषितश्चैषाम्' इत्यादिवचनं तत् क्लीबादिस्त्रीविषयमिति वैक्ष्यते । यत्तु द्विजातिधनस्य यज्ञार्थत्वात्स्त्रीणां च यज्ञेऽनधिकाराद्धनग्रहणमयुक्त' मिति,तदसत् । सर्वस्य द्रव्यजातस्य यज्ञार्थत्वे दानहोमाद्यसिद्धेः । अथ यज्ञशब्दस्य धर्मोपलक्षणत्वादानहोमादीनामपि धर्मत्वात्तदर्थत्वमविरुद्धमिति मतम् । एवं तयर्थकामयोर्धनसाध्ययोरसिद्धिरेव स्यात् । तथा सति 'धर्ममथं च कामं च यथाशक्ति न हापयेत्' । तथा 'न पूर्वाह्नमध्यन्दिनापराह्लानफलान्कुर्याद्यथाशक्ति धर्मार्थकामेभ्यः' । तथा 'न तथैतानि शक्यन्ते संनियन्तुमसेवया' इत्यादियाज्ञवल्क्यगौतममनुवचनविरोधः । अपिच धनस्य यज्ञार्थत्वे हिरण्यं धार्य: मिति हिरण्यसाधारणस्य क्रत्वर्थतानिराकरणेन पुरुषार्थत्वमुक्तं तत्प्रत्युद्धृतं स्यात् । किंच यज्ञशब्दस्य धर्मोपलक्षणपरत्वे स्त्रीणामपि पूर्तधर्माधिका. राद्धनग्रहणं युक्ततरम् । यत्तु पारतन्त्र्यवचनं 'न स्त्री स्वातन्त्र्यमर्हति' इत्यादि तदस्तु पारतत्र्यं, धनस्वीकारे तु को विरोधः ॥ कथं तर्हि 'यज्ञार्थ द्रव्यमुत्पनम्' इत्यादिवचनम् , उच्यते---'यज्ञार्थमेवार्जितं यद्धनं तद्यज्ञ एव नियोक्तव्यं पुत्रादिभिरपी' त्येवंपरं तत् । --'यज्ञार्थं लब्धमददद्भासः काकोपि वा भवेत्' इति दोषश्रवणस्य पुत्रादिष्वविशेषात् । यदपि कात्यायनेनोक्तम्'अदायिकं राजगामि योषिद्धृत्यौवंदेहिकम् । अपास्य श्रोत्रियद्रव्यं श्रोत्रियेभ्यस्तदर्पयेत् ॥' इति । अदायिकं दायादरहितं यद्धनं तद्राजगामि राज्ञो भवति, योषिद्धृत्योर्ध्वदेहिकमपास्य, तत्स्त्रीणामशनाच्छादनोपयुक्तं और्ध्वदेहिकं धनिनः श्राद्धाधुपयुक्तं चापरस्य परिहृत्य राजगामि भवतीति संबन्धः । अस्यापवाद उत्तरार्धे । श्रोत्रियद्रव्यं च योषिद्धृत्योर्ध्वदेहिकमपास्य श्रोत्रियायोपपादये दिति तदप्यवरुद्धस्त्रीविषयम् । योषिद्हणात् । नारदवचनं च-'अन्यत्र ब्राह्मणा. किंतु राजा धर्मपरायणः । तत्स्त्रीणां जीवनं दद्यादेष दायविधिः स्मृतः ॥' इत्यवरुद्धस्त्रीविषयमेव । स्त्रीशब्दग्रहणात् । इह तु पत्नीशब्दादूढायाः संयताया धनग्रहणमविरुद्धम् । तस्माद्विभक्तासंसृष्टिन्यपुत्रे स्वर्याते पत्नी धनं प्रथमं गृह्णातीत्ययमर्थः सिद्धो भवती । विभागस्योक्तत्वात्संसृष्टिनां तु वक्ष्यमाणत्वात् । एतेनाल्पधनविषयत्वं श्रीरादिभिरुक्तं निरस्तं वेदितव्यम् । तथा ह्यौरसेषु पुत्रेषु सरस्वपि जीवद्विभागे अजीवद्विभागे च पल्याः पुत्रसमांशग्रहणमुक्तम्-'यदि कुर्यात्समानंशान् पत्यः कार्याः समांशिकाः' इति । तथा—'पितुरूवं विभजतां माताप्यंशं समं हरेत्' इति च, तथासत्यपुत्रस्य स्वर्यातस्य धनं पत्नी भरणादतिरिक्तं न लभत इति व्यामोहमात्रम् । अथ 'पत्यः कार्याः समांशिकाः' इत्यत्र
१ संसृष्टिनां तु घ. २ वक्ष्यति घ. दिष्वप्यविशेषात् घ. ४ आदायकं घ. ५ ऽपवादः । श्रोत्रिय ख. घ. ६ श्रीकरादिभिः घ. ७ तथा पत्त्यः घ.
For Private And Personal Use Only
Page #252
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२०
याज्ञवल्क्यस्मृतिः।
[व्यवहाराध्यायः
'माताप्यंशं समं हरेत्' इत्यत्र च जीवनोपयुक्तमेव धनं स्त्री हरतीति मतं, तदसत् । अंशशब्दस्य समशब्दस्य चानर्थक्यप्रसङ्गात् । स्यान्मतम् । बहुधने जीवनोपयुक्तं धनं गृह्णाति अल्पे तु पुत्रांशसमांशं गृह्णातीति । तच्च न विधिवैषम्यप्रसङ्गात् । तथाहि 'पत्न्यः कार्याः समांशिकाः' 'माताप्यंशं समं हरेत्' इति च बहुधने जीवनमात्रोपयुक्तं वाक्यान्तरमपेक्ष्य प्रतिपादयति, अल्पधने तु पुत्रांशसममशं प्रतिपादयतीति । यथा चातुर्मास्येषु 'ट्ठयोः प्रणयन्ति' इत्यत्र पूर्वपक्षिणा सौमिकप्रणयनातिदेशे हेतुत्वेन प्राप्ताया उत्तरवेद्या 'न वैश्वदेवे उत्तरवेदिमुपकिरन्ति न शुनासीरीये' इत्युत्तरवेदिप्रतिषेधे दर्शिते राद्धान्तक. देशिना 'न सौभिकप्रणयनातिदेशप्राप्ताया उत्तरवेद्याः प्रथमोत्तमयोः पर्वणोरयं प्रतिषेधः किंतूपात्र वपन्तीति प्राकरणिकेन वचनेन प्राप्ताया उत्तरवेद्याः प्रतिषेधोऽयमित्यभिहिते पुनः पूर्वपक्षिणोपात्र वपन्तीति प्रथमोत्तमयोः पर्वणोः प्रतिषेधमपेक्ष्य पाक्षिकीमुत्तरवेदिं प्रापयति मध्यमयोस्तु निरपेक्षमेव नित्यवदुतरवेदिं प्रापयती'ति विधिवैषम्यं दर्शितम् । राद्धान्तेऽपि विधिवैषम्यभयात्प्रथमोत्तमयोः पर्वणोरुत्तरवेदिप्रतिषेधो नित्यानुवादो द्वयोः प्रणयन्तीत्याद्यर्थवादपर्यालोचनयोपान वपन्तीति मध्यमयोरेव वरुणप्रघाससाकमेधपर्वणोरुत्तरवेदि विधत्त इति दर्शितम् । यदपि मतम् (मनुः ९।१८५)-पिता हरेदपुत्रस्य रिक्थं भ्रातर एव वा' इति मनुस्मरणात्, तथा–स्वर्यातस्य स्यपुत्रस्य भ्रातृगामि द्रव्यं तदभावे पितरौ हरेयौता ज्येष्ठा वा पत्नी' इति शङ्खस्मरणाच अँपुत्रस्य धनं भ्रातृगामीति प्राप्तं, 'भरणं चास्य कु.रस्त्रीणामाजीवनक्षयात्' इत्यादिवचनाच्च भरणोपयुक्तं धनं पत्नी लभत इत्यपि स्थितम् । एवं स्थिते बहुधने अपुत्रे स्वर्याते भरणोपयुक्तं पत्नी गृह्णाति शेषं च भ्रातरः । यदा तु पत्नीभरणमात्रोपयुक्तमेव द्रव्यमस्ति ततो न्यूनं वा तदा किं पत्त्येव गृह्णात्युत भातरोऽपीति विरोधे पूर्वबलीयस्त्वज्ञापनार्थ पत्नी दुहितर इत्यारब्धमिति । तदप्यत्र भगवानाचार्यों न मृष्यति । यतः (मनुः ९।१८५)-'पिता हरेदपुत्रस्य रिक्थं भ्रातर एव वा' इति विकल्पस्मरणान्नेदं क्रमपरं वचनमपि तु धनग्रहणेऽधिकारप्रदर्शनमात्रपरम् । तच्चासत्यपि पन्यादिगणे घटत इति व्याच. चक्षे । शववचनमपि संसृष्टंभ्रातृविषयमिति । अपिचाल्पविषयत्वमस्माद्वचनात्प्रकरणाद्वा नावगम्यते । 'धनभागुत्तरोत्तरः' इत्यस्य च पत्नी दुहितर इति विषयद्वये वाक्यान्तरमपेक्ष्याल्पधनविषयत्वम् , पित्रादिषु तु धनमात्रविषयत्वमिति पूर्वोक्तं विधिवैषम्यं तदवस्थमेवेति यत्किंचिदेतत् । यत्तु हारीतवचनम्'विधवा यौवनस्था चेन्नारी भवति कर्कशा । आयुषः क्षपणार्थ तु दातव्यं जीवनं तदा ॥' इति, तदपि शङ्कितव्यभिचारायाः सकलधनग्रहणनिषेधपरम् । अस्मादेव
।
१ स्त्रीधनमिति मतं घ. २ तथा ख. ३ द्वयोर्वरुणप्रघाससाकमेधपर्वणोः. ४ तूपात्त ख. तूपात्र घ. तूपात्रमित्येकस्मिन्प्रचीनपुस्तके. ५ प्रतिपादयति. ग. घ. ६ हरेतां घ. ७ अपुत्रधनं घ. ८ श्रवणात् घ. ९धिकारमात्रप्रदर्शनपरं घ. १० संसृष्टविषयं घ.
For Private And Personal Use Only
Page #253
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir_
दायविभागप्रकरणम् ८ ] मिताक्षरासहिता ।
२२१ वंचनादनाशङ्कितव्यभिचारायाः सकलधनग्रहणं गम्यते । एतदेवाभिप्रेत्योक्तं शछैन 'ज्येष्ठा वा पत्नी' इति । ज्येष्टा गुणज्येष्ठा अनाशङ्कितव्यभिचारा, सा सकलं धनं गृहीत्वान्यां कर्कशामपि मातृवत्पालयतीति सर्वमनवद्यम् । तस्मादपुत्रस्य स्वर्यातस्य विभक्तस्यासंसृष्टिनो धनं परिणीता स्त्री संयता सकलमेव गृह्णातीति स्थितम् ।
तदभावे दुहितरः। दुहितर इति बहुवचनं समानजातीयानामसमानजातीयानां च समविषमांशप्राप्त्यर्थम् । तथाच कात्यायन:-'पत्नी भर्तुर्धनहरी या स्यादव्यभिचारिणी । तदभावे तु दुहिता यद्यनूढा भवेत्तदा ॥' इति । वृहस्पतिरपि-'भर्तुर्धनहरी पत्नी तां विना दुहिता स्मृता । अङ्गादङ्गारसंभवति पुत्रवहुहिता नृणाम् ॥ तस्मात्पितृधनं त्वन्यः कथं गृह्णीत मानवः ॥' इति । तत्र चोढानूढासमवायेऽनूढैव गृह्णाति । 'तदभावे तु दुहिता यद्यनूढा भवेत्तदा' इति विशेषस्मरणात् । तथा प्रतिष्ठिताप्रतिष्ठितानां समवाये अप्रतिष्ठितैव तदभावे प्रतिष्ठिता।-स्त्रीधेनं दुहितॄणामप्रत्तानामप्रतिष्टितानां च' इति गौतमवचनस्य पितृधनेऽपि समानत्वात् । न चैतत्पुत्रिकाविषयमिति मन्तव्यम् । तत्समः पुत्रिकासुत इति पुत्रिकायास्तत्सुतस्य चौरससमत्वेन पुत्रप्रकरणेऽभिधानात् । चशब्दादुहिनभावे दौहित्रो धनभाक् । यथाह विष्णुः-- 'अपुत्रपौत्रसंताने दौहित्रा धनमामुयुः । पूर्वेषां तु स्वधाकारे पौत्रा दौहित्रिका मताः ॥' इति मनुरपि (९।१३६)-'अकृता वा कृता वापि
यं विन्देत्सदृशात्सुतम् । पौत्री मातामहस्तेन दद्यापिण्डं हरेद्धनम् ॥' इति ॥ . तदभावे पितरौ मातापितरौ धनभाजौ । यद्यपि युगपदधिकरणवचनतायां द्वन्द्वस्मरणात् तदपवादत्वादेकशेषस्य धनग्रहणे पित्रोः क्रमो न प्रतीयते तथापि विग्रहवाक्ये मातृशब्दस्य पूर्वनिपातादेकोषाभावपक्षे च मातापितराविति मा. तृशब्दस्य पूर्व श्रवणात् पाठक्रमादेवार्थक्रमावगमाद्धनसंबन्धेऽपि क्रमापेक्षायां
१ वचनादशङ्कित ख. २ अप्रतिष्ठिता अनपत्या निर्धना वा. ३ स्त्रीपदं पितुरप्युपलक्षकमिति संप्रदायविदः. ४ अकृतेति । अकृता वा कृता वेति पुत्रिकाया एव द्वैविध्यं, तत्र 'यदपत्यं भवेदस्यां तन्मम स्यात्स्वधाकरं' इत्यभिधाय कन्यादानकाले वरानुमत्या या क्रियते सा कृता, अभिसंधिमात्रकृता वाग्व्यवहारेण न कृता अकृता इत्यादि कुळूकः. अक्षता वा क्षता वापि ग. ५ व्यवहारमयूखे-दौहित्राभावे पिता तदभावे माता । तथाच कात्यायनः-'अपुत्रस्याप्यकुलजा पत्नी दुहितरोऽपि वा । तदभावे पिता माता भ्राता पुत्राः प्रकीर्तिताः' । विष्णुश्च-'अ. पुत्र धनं पत्यभिगामि, तदभावे दुहितृगामि, तदभावे दौहित्रगामि, तदभावे पितृगामि, तदभावे मातृगामि, तदभावे भ्रातृगामि, तदभावे भ्रातपुत्रगामि, तदभावे सकुल्यगामि, इति । यत्तु विज्ञानेश्वरः-'द्वन्द्वापवादके पितरावित्येकशेषे क्रमाप्रतीतावपि तदर्थबोधके विग्रहवाक्ये मातृशब्दस्य पूर्वनिपातात् अपवाद्यद्वन्द्वात्क्रमानुसारात् पितुः पुत्रान्तरसाधारण्यात् मातुस्त्वसाधारण्याच्चादौ मातुस्तदभावे पितुर्धनग्रहणमूचे तदेतद्वचोविरोधादपास्तम् । विग्रहवाक्ये मातृशब्दस्य पूर्वनिपात एकशेपस्य द्वन्द्ववैकल्पिकत्वेन तदपवादत्वे साधारण्यासाधारण्ययोः क्रमनियामकत्वे मानाभावाच्च.
For Private And Personal Use Only
Page #254
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२२
- याज्ञवल्क्यस्मृतिः। [व्यवहाराध्यायः प्रतीतक्रमानुरोधेनैव प्रथमं माता धनभाक् तदभावे पितेति गम्यते । किंच पिता पुत्रान्तरेष्वपि साधारणो माता तु न साधारणीति प्रत्यासत्त्यतिशयात् 'अनन्तरः सपिण्डाद्यस्तस्य तस्य धनं भवेत्' इति वचनान्मातुरेव प्रथमं धन ग्रहणं युक्तम् । नच सपिण्डेष्वेव प्रत्यासत्तिर्नियामिका अपितु समानोदकादिप्वप्यविशेषेण धनग्रहणे प्राप्ते प्रत्यासत्तिरेव नियामिकेत्यस्मादेव वचनादवगम्यत इति । मातापित्रोर्मातुरेव प्रत्यासत्त्यतिशयाद्धनग्रहणं युक्ततरम् । तदभावे . पिता धनभाक् ।
पित्रभावे भ्रातरो धनभाजः। तथाच मनुः (९।१८५)-'पिता हरेदपुत्रस्य रिक्थं भ्रातर एव वा' इति । यत्पुनर्धारेश्वरेणोक्तम् (९।२१७)'अनपत्यस्य पुत्रस्य माता दायमवाप्नुयात् । मातर्यपि च वृत्तायां पितुर्माता हरेद्धनम् ॥' इति मनुवचनाजीवत्यपि पितरि मातरि वृत्तायां पितुर्माता पितामही धनं हरेन पिता । यतः पितृगृहीतं धनं विजातीयेष्वपि पुत्रेषु गच्छति, पितामहीगृहीतं तु सजातीयेष्वेव गच्छतीति पितामह्येव गृह्णातीति । तदप्याचार्यों नानुमन्यते । विजातीयपुत्राणामपि धनग्रहणस्योक्तत्वात् 'चतुस्त्रियेकभागाः स्युः' (मनुः ९।१८९) इत्यादिनेति । यत्पुनः–'अहार्यं ब्राह्मणद्व्यं राज्ञा नित्यमिति स्थितिः' इति मनुस्मरणं तधुपाभिप्रायं नतु पुत्राभिप्रायम् । भ्रातृष्वपि सोदराः प्रथमं गृह्णीयुः भिन्नोदराणां मात्रा विप्रकर्षात् । 'अनन्तरः सपिण्डाद्यस्तस्य तस्य धनं भवेत्' इति स्मरणात् ।
सोदराणामभावे भिन्नोदरा धनभाजः। भ्रातृणामप्यभावे तत्पुत्राः पितृक्रमेण धनभाजः । भ्रातृभ्रातृपुत्रसमवाये भ्रातृपुत्राणामनधिकारः। भ्रात्रभावे भ्रातृपुत्राणामधिकारवचनात् ॥ यदा स्वपुत्रे भ्रातरि स्वर्याते तद्भातॄणामवि. शेषेण धनसंबन्धे जाते भ्रातृधनविभागात्यागेव यदि कश्चिद्धाता मृतस्तदा तत्पुत्राणां पितृतोऽधिकारे प्राप्ते तेषां भ्रातॄणां च विभज्य धनग्रहणे पितृतो भागकल्पनेति युक्तम् ॥
भ्रातृपुत्राणामप्यभावे गोत्रजा धनभाजः । गोत्रजाः पितामही सपिण्डाः समानोदकाश्च । तत्र पितामही प्रथमं धनभाक् । ( मनुः ९।२१७)-'मात- ' यपि च वृत्तायां पितुर्माता धनं हरेत्' इति मात्रनन्तरं पितामह्या धनग्रहणे प्राप्ते पित्रादीनां भ्रातृसुतपर्यन्तानां बद्धक्रमत्वेन मध्येऽनुप्रवेशाभावात् 'पितुर्माता धनं हरेत्' इत्यस्य वचनस्य धनग्रहणाधिकारप्राप्तिमानपरत्वादुत्कर्षे तत्सुतान
१ अत्र केचन-सोदराभावे भिन्नोदरास्तदभावे सोदरसुता इत्याहुस्तन्न । २ भ्रातृपदस्य सोदरे शक्त्या भिन्नोदरे च गौण्या वृत्तिद्वयविरोधात् केचित्तु भ्रातर इत्यत्र 'भ्रातृपुत्री स्वसूदु. हितृभ्याम्' इत्यनुशासनात् भ्रातरश्च स्वसारश्च भ्रातर इति विरूपकैकशेषेण भ्रात्रभावे भगिन्य इत्याहुस्तन्न । विरूपैकशेपे मानाभावात्.
For Private And Personal Use Only
Page #255
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
। दायविभागप्रकरणम् ८ ] मिताक्षरासहिता।
२२३
न्तरं पितामही गृह्णातीत्यविरोधः ॥ पितामह्याश्चाभावे समानगोत्रजाः सपिण्डाः पितामहादयो धनभाजः भिन्नगोत्राणां सपिण्डानां बन्धुशब्देन ग्रहणात् । तत्र च पितृसन्तानाभावे पितामही पितामहः पितृव्यास्तत्पुत्राश्च क्रमेण धनभाजः । पितामहसन्तानाभावे प्रपितामही प्रपितामहस्तत्पुत्रास्तत्सूनवश्वेत्येवमासप्तमात्समानगोत्राणां सपिण्डानां धनग्रहणं वेदितव्यम् । तेषामभावे समा. नोदकानां धनसंबन्धः । ते च सपिण्डानामुपरि सप्त वेदितव्याः । जन्मनामज्ञानावधिका वा । यथाह बृहन्मनुः–'सपिण्डता तु पुरुष सप्तमे विनिवतते । समानोदकभावस्तु निवर्तेताचतुर्दशात् ॥ जन्मनाम्नोः स्मृतेरेके तत्परं गोत्रमुच्यते ॥' इति । ___ गोत्रजाभावे वन्धवो धनभाजः । बन्धवश्च त्रिविधाः आत्मबन्धवः पितृ बैन्धवो मातृबन्धवश्चेति । यथोक्तम्-'आत्मपितृष्वसुः पुत्रा आत्ममातृष्वसुः सुताः । आत्मसातुलपुत्राश्च विज्ञेया आत्मबान्धवाः ॥ पितुः पितृष्वसुः पुत्राः पितुमातृप्वसुः सुताः । पितुर्मातुलपुत्राश्च विज्ञेयाः पितृबान्धवाः ॥ मातुः पितृध्वसुः पुत्रा मातुर्मातृष्वसुः सुताः । मातुर्मातुलपुत्राश्च विज्ञेयाः मातृबान्धवाः॥'
इति ॥ तत्र चान्तरङ्गत्वात्प्रथममात्मबन्धवो धनभाजस्तदभावे पितृबन्धवस्त.:. दभावे मातृबन्धव इति क्रमो वेदितव्यः । बन्धूनामभावे आचार्यः । तदभावे शिष्यः। पुत्राभावे यः प्रत्यासन्नः सपिण्डस्तदभावे आचार्यः । आचार्याभावेऽन्तेवासीत्यापस्तम्बस्मरणात् ॥
शिष्याभावे सब्रह्मचारी धनभाक् । येन सहैकरमादाचार्यादुपनयनाध्य. यनतदर्थज्ञानप्राप्तिः स सब्रह्मचारी । तदभावे ब्राह्मणद्रव्यं यः कश्चित् श्रोत्रियो गृह्णीयात् । 'श्रोत्रिया ब्राह्मणस्यानपत्यस्य रिक्थं भजेरन्' इति गौतमस्मरणात् । तदभावे ब्राह्मणमात्रम् । यथाह मनुः (९।१८८)-'सर्वेषामप्यभावे तु ब्राह्मणा रिक्थभागिनः । त्रैविद्याः शुचयो दान्तास्तथा धर्मों न हीयते ॥' इति ॥ न कदाचिदपि ब्राह्मणद्रव्यं राजा गृह्णीयात् (९।१८९)-'अहार्य
१ तदभावे भगिनी 'अनन्तरः सपिण्डाद्यस्तस्य तस्य धनं भवेत्' इति मनूक्तः। बहवो ज्ञातयो यत्र सकुल्या बान्धवास्तथा । यस्त्वासन्नस्तरस्तेषां सोऽनपत्यधनं हरेत् ॥' इति बृहस्पत्युक्तेः । तस्या अपि भ्रातृगोत्रोत्पन्नत्वेन गोत्रजत्वाविशेषाच्च । सगोत्रता परं नास्ति नच सात्र धनग्रहणप्रयोजकत्वेनोक्ता इति व्य० मयूखः. २ मनुस्मृतौ तदभावे सकुल्यः स्यादाचार्यः शिष्य एव वा' इत्यत्र सकुल्यशब्देन सगोत्रसमानोदकानां मातुलादीनां बन्धुत्रयस्य ग्रहणम् । योगीश्वरवचनेऽपि बन्धुपदेन मातुललक्षणमन्यथा मातुलादीनामग्रणमेव प्रसज्येतेति तत्पुत्राणां धनाधिकारस्ततः प्रत्यासन्नानां तेषां स नेति महदनौचित्यमापयेत. ३ ननु पत्यादीनां सर्वेषां मृतनिरूपितानामेव धनभाक्त्वं बान्धवानामपि तथैवास्तु अतः कथं पितुर्मातुश्च बान्धवानां धनसंवन्धः, 'पितुः पितृष्वसुः पुत्राः' इत्यादि तु संज्ञासंज्ञिसंवन्धमात्रार्थ न धनसंबन्धार्थमिति चेदुच्यते । विनाप्येतद्वचनं पितृमातुल पितृव्यादिष्विव पितृमातृबान्धवेष्वपि योगेनैव तच्छन्नप्रवृत्तिसंभवे संज्ञासंज्ञिसंबन्धबोधनानर्थक्यापत्तेः । तेन बन्धूनुद्दिश्य धनसं. बन्धविधौ पितृमातृबन्धुप्रापणेनैव वचोर्थवत्ता । बन्धूद्देशेनाशौचादिविधावप्येवमेवेति दिक.
या० २२
For Private And Personal Use Only
Page #256
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२४
याज्ञवल्क्यस्मृतिः।
[व्यवहाराध्यायः
ब्राह्मणद्रव्यं राज्ञा नित्यमिति स्थितिः' इति मनुवचनात्।नारदेनाप्युक्तम्'ब्राह्मणार्थस्य तन्नाशे दायादश्वेन्न कश्चन । ब्राह्मणायैव दातव्यमेनस्वी स्यान्न पोऽन्यथा ॥' इति ॥ क्षत्रियादिधनं सब्रह्मचारिपर्यन्तानामभावे राजा हरेत् । न ब्राह्मणः । यथाह मनुः (९।१८९)-'इतरेषां तु वर्णानां सर्वाभावे हरेन्नृपः' इति ॥ १३५ ॥ १३६ ॥
पुत्राः पौत्राश्च दायं गृह्णन्ति तदभावे पत्यादय इत्युक्तं, इदानीं तदुभयापवादमाह
वानप्रस्थयतिब्रह्मचारिणां रिक्थभागिनः ।
१ वीरमित्रोदये तु-अत्रायं मृतपुंधनाधिकारक्रमः । तत्र प्रथमं पुत्रः तदभावे पौत्रः तदभावे प्रपौत्रः। मृतपितृकपौत्रमृतपितृपितामहकप्रपौत्रयोस्तु पुत्रेण सह युगपदधिकारः। प्रपौ. त्रपर्यन्ताभावे पत्नी । सा च प्राप्तभर्तृदाया भर्तृकुलं तदभावे पितृकुलं वा समाश्रिता सती शरीररक्षार्थ भर्तृदायं भुञ्जीत । तथा भत्रुपकारार्थ यथाकथंचिद्दानादिकमपि कुर्वीत । नतु स्त्रीधनवत्स्वच्छन्दं विनियुञ्जीत । तदभावे दुहिता । तत्र प्रथमं कुमारी तदभावे वाग्दत्ता तद. भावे चोढा । सा च पुत्रवती संभावितपुत्रा च द्वे युगपदेवाधिकारिण्यौ । वन्ध्या विधवा च पुत्रहीना नधिकारिणी । ऊढाया अभावे दौहित्रः । तदभावे पिता तदभारे भ्राता । तत्रापि प्रथमं सोदरः तदभावे वैमात्रेयः । मृतस्य भ्रातृसंसृष्टत्वे तु सोदरमात्रविपये प्रथमं संसृष्टसो. दर एवाधिकारी तदभावे चासंसृष्टसोदरः । एवं वैमात्रेयमात्रविषये प्रथम संसष्टवैमात्रेयः तदभावे चासंसृष्टवैमात्रेयः । यदा तु संसृष्टो वैमात्रेयः सोदरश्च संसृष्टः तदा तावुभौ तुल्यवदधिकारिणौ । भ्रातृणामभावे भ्रातुः पुत्रः । तत्रापि प्रथमं सोदरभ्रातृपुत्रः तदभावे वैमात्रेय भ्रातृपुत्रः । संसर्गे तु सोदरभ्रातृपुत्रमात्रविषये प्रथमं संसृष्टसोदरभ्रातृपुत्रः तदभावे चासंस्: ष्टसोदरभ्रातूपुत्रः । वैमात्रेयभ्रातृपुत्रमात्रविषये प्रथमं संसृष्टवैमात्रेयभ्रातृपुत्रः । तदभावे चासं. सृष्टवैमात्रयभ्रातृपुत्रः । यदा तु सोदरभ्रातृपुत्रोऽसंसृष्टो वैमात्रेयभ्रातृपुत्रश्च संसृष्टः तदा दौ भ्रातृवत्तुल्याधिकारिणौ । भ्रातृपुत्राभाचे तु भ्रातृपौत्रः । तत्रापि भ्रातुः सोदरासोदरक्रमः सं. सर्गासंसर्गक्रमश्च बोध्यः । तदभावे पितृदौहित्रः । स च सोदरभगिनीपुत्रः तदभावे वैमात्रेय. भगिनीपुत्रश्च । तदभावे पितुः सहोदरः । तदभावे पितुर्वैमात्रेयः । तदभावे पितृसोदरपुत्रपितृवैमात्रेयपुत्रपितृसोदरपौत्रपितृवैमात्रेयपौत्राणां क्रमेणाधिकारः । तदभावे पितामहदौहित्रः। तत्रापि पितृसोदरभगिनीपुत्रः वैमात्रेयभगिनीपुत्रश्च । वक्ष्यमाणप्रपितामहदौहित्राधिकारेप्ये. वम् । तदभावे पितामहः । तदभावे पितामही । तदभावे पितामहसोदरभ्रातृवैमात्रयभ्रातृतत्पुत्रपौत्रप्रपितामहदौहित्राः क्रमेणाधिकारिणः । एतावत्पर्यन्तानां धनिभोग्यपिण्डदातॄणां त्वभावे धनिदेयपिण्डभोक्तॄणां मातुलादीनामधिकारस्तदभावे धनिमातृष्वस्त्रीयस्याधिकारः। तदभावे मातुलपुत्रपौत्राणां क्रमेणाधिकारः । तदभावे चाधस्तनसकुल्यानां धनिभोग्यलेपदातॄणां प्रतिणप्तप्रभृतिपुरुषत्रयाणां क्रमेणाधिकारः। तदभावे पुनरूर्वतनसकुल्यानां धनिदेयलेपभोक्तॄणां वृद्धप्रपितामहादिसन्ततीनामासत्तिक्रमेणाधिकारः । तदभावे समानोदकानामधिकारः । तेषामभावे चाचार्यस्य तदभावे शिष्यस्य तदभावे सहवेदाध्यायिब्रह्मचारिणोऽधिकारः । तदभावे चैकग्रामस्थ सगोत्रसमानप्रवरयोः क्रमेणाधिकारः । उक्तपर्यन्तानां सर्वेषां संबन्धिनामभावे ब्राह्मणधनवर्ज राजा गृह्णीयात् । ब्राह्मणधनं तु
विद्यादिगुणयुक्ता ब्राह्मणा गृह्णीयुः । एवं वानप्रस्थधनं भ्रातृत्वेनानुमतोऽपरो वानप्रस्थं एकतीर्थ सेवी गृह्णीयात् । तथा यतिधनं सच्छिध्यः । नैष्ठिकब्रह्मचारिणो धनमाचार्यः । उपकु. णिस्य तु ब्रह्मचारिणो धनं पित्रादिगृह्णीयादिति ज्ञेयम्.
For Private And Personal Use Only
Page #257
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
#
www. kobatirth.org
दायविभागप्रकरणम् ८] मिताक्षरासहिता ।
Acharya Shri Kailassagarsuri Gyanmandir
क्रमेणाचार्य सच्छिष्यधर्म भ्रात्रेकतीर्थिनः ॥ १३७ ॥
वानप्रस्थस्य यतेर्ब्रह्मचारिणश्च क्रमेण प्रतिलोमक्रमेणाचार्य: सच्छिष्यो धर्मतीर्थी च रिक्थस्य धनस्य भागिनः । ब्रह्मचारी नैष्ठिकः उपकुर्वाणस्य तु धनं मात्रादय एव गृह्णन्ति । नैष्ठिकस्य तु धनं तदपवादत्वेनाचार्यों गृह्णातीत्युच्यते । यतेस्तु धनं सच्छिष्यो गृह्णाति । सच्छिष्यः पुनरध्यात्मशास्त्रश्रवणधारणतदर्थानुष्ठानक्षमः । दुर्वृत्तस्याचार्यादेरपि भागानर्हत्वात् । वानप्रस्थस्य धनं धर्म
कतीर्थी गृह्णाति । धर्मभ्राता प्रतिपन्नो भ्राता, एकतीर्थी एकाश्रमी, धर्मभ्राता चासावेकतीर्थी च धर्मभ्रात्रेकतीर्थी । एतेषामाचार्यादीनामभावे पुत्रादिषु सत्स्वप्येकती गृह्णाति । ननु 'अनंशास्त्वाश्रमान्तरगताः' इति वसिष्ठस्मरणादाश्रमान्तरगतानां रिक्थसंबन्ध एव नास्ति कुतस्तद्विभागः । नच नैष्ठिकस्य स्वार्जितधनसंबन्धो युक्तः । प्रतिग्रहादिनिषेधात् । 'अनिचयो भिक्षुः " इतिगौतमस्मरणात् भिक्षोरपि न स्वार्जितधनसंबन्धसंभवः । उच्यते । वानप्रस्थस्य तावत् - 'अहो मासस्य पण्णां वा तथा संवत्सरस्य वा । अर्थस्य निचयं कुर्यात्कृतमाश्वयुजि त्यजेत् ॥' इति वचनाद्धनसंबन्धोऽस्त्येव । यतेरपि - 'कौपीनाच्छादनार्थ वा वासोऽपि बिभृयाच्च सः । योगसंभारभेदांश्च गृह्णीयात्पादुके तथा ॥' इत्यादिवचनाद्वस्त्रपुस्तकसंबन्धोऽस्त्येव । नैष्टिकस्यापि शरीरयात्रार्थं वस्त्रादिसंबन्धोऽस्त्येवेति तद्विभागकथनं युक्तमेव ॥ १३७ ॥
I
इदानीं स्वर्यातस्य पुत्रस्य पत्यादयो धनभाज इत्यस्यापवादमाह -
संसृष्टिनस्तु संसृष्टी
विभक्तं धनं पुनर्मिश्रीकृतं संसृष्टं तदस्यास्तीति संसृष्टी । संसृष्टत्वं च न येन केनापि किंतु पित्रा भ्रात्रा पितृव्येण वा । यथाह बृहस्पतिः - 'विभक्तो यः पुनः पित्रा भ्रात्रा वैकत्र संस्थितः । पितृव्येणाथवा प्रीत्या स तत्संसृष्ट उच्यते ॥' इति । तस्य संसृष्टिनो मृतस्यांशं विभागं विभागकाले भविज्ञातगर्भायां भार्यायां पश्चादुत्पन्नस्य पुत्रस्य संसृष्टी दद्यात् । पुत्राभावे संसृष्ट्येवापहरेगृह्णीयान्न पत्यादिः ॥
संसृष्टिनस्तु संसृष्टीत्यस्यापवादमाह
सोदरस्य तु सोदरः ।
दद्यादपहरेच्चांश जातस्य च मृतस्य च ॥ १३८ ॥
२२५
४ अत्र
१ संबन्धः प्रतिग्रहादिः घ. २ धनसंभवः घ. ३ हि वासोऽपि विभृयात्तथा क. वाक्ये पितृभ्रातृपितृव्यैरेव सह संसृष्टता नान्येन । वचनेऽनुपादानादिति मिताक्षरादिषु विभागकर्तृसामानाधिकरण्येनैव सेति युक्तम् । पित्रादिपदानि तु विभागकर्तृमात्रोपलक्षकाण 'अर्धमन्तर्वेदी मिनोत्यर्थं बहिर्वेदी 'तिवत् । अन्यथा वाक्यभेदात् । तेन पत्नीपितामह - भातृपौत्र पितृव्य पुत्रादिभिरपि सह संसृष्टता भवति । विभक्तो य एकत्र स्थितः स संसृष्ट इति सामानाधिकरण्याद्विभक्तभ्रात्रोः पुत्रादीनां न संसर्गः । विद्यमानं भावि वा धनमा वयोः पुनर्विभागावधि साधारणमित्याकारिका बुद्धिरिच्छा वा संसर्गः । व्यवहारमयूखः.
For Private And Personal Use Only
Page #258
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२६
याज्ञवल्क्यस्मृतिः
[ व्यवहाराध्यायः
संसृष्टिनः संसृष्टीत्यनुवर्तते । अतश्च सोदरस्य संसृष्टिनो मृतस्यांशं सोदरः संसृष्ट संसृष्टानुजातस्य सुतस्य दद्यात् । तदभावे अपहरेदिति पूर्ववत् संबन्धः । एवंच सोदरासोदरसंसर्गे सोदरसंसृष्टिनो धनं सोदर एवं संसृष्टी गृह्णाति न भिन्नोदरः संसृष्ट्यपीति पूर्वोक्तस्यापवादः ॥ १३८ ॥
इदानीं संसृष्टिन्यपुत्रे स्वर्याते संसृष्टिनो भिन्नोदरस्य सोदरस्य चासंसृष्टिनः सद्भावे कस्य धनग्रहणमिति विवक्षायां द्वयोर्विभज्य ग्रहणे कारणमाहअन्योदर्यस्तु संसृष्टी नान्योदर्यो धनं हरेत् । असंसृष्टयपि वाऽऽदद्यात्संसृष्टो नान्यमातृजः ॥ १३९ ॥
अन्योदर्यः सापवो भ्राता संसृष्टी धनं हरेत् न पुनरन्योदर्यो धनं हरेदसंसृष्टी । अनेनान्वयव्यतिरेकाभ्यामन्योदर्यस्य संसृष्टित्वं धनग्रहणे कारणमुक्कं भवति । असंसृष्टीत्येतदुत्तरेणापि संबध्यते । अतश्वासंसृष्ट्यपि संसृष्टिनो धनमाददीत । कोऽसावित्यत आह- संसृष्ट इति । संसृष्टः एकोदर संसृष्टः । सोदर इति यावत् । अनेनासंसृष्टस्यापि सोदरस्य धनग्रहणे सोदरत्वं कारणमुक्तं, संसृष्ट इत्युत्तरेणापि संबध्यते । तत्र च संसृष्टः संसृष्टीत्यर्थः । नान्यमातृजः । अत्रैवशब्दाध्याहारेण व्याख्यानं कार्यम्, संसृष्ट्यप्यन्यमातृज एव संसृष्टिनो धनं नाददीतेति । एवं चासंसृष्ट्यपि वाऽऽदद्यादित्यपिशब्दश्रवणात् संसृष्टो नान्यमातृज एवेत्यवधारणनिषेधाच्चासंसृष्टसोदरस्य संसृष्टभिन्नोदरस्य च विभज्य ग्रहणं कर्तव्यमित्युक्तं भवति । द्वयोरपि धनग्रहणकारणस्यैकैकस्य सद्भावात् । एतदेव स्पष्टीकृतं मनुना ( ९/२१० ) - 'विभक्ताः सहजीवन्तो विभजेरन्पुनर्यदि' इति संसृष्टिविभागं प्रक्रस्य ( ९।२११।२१२ ) -- ' येषां ज्येष्ठः कनिष्ठो वा हीयेतांशप्रदानतः । म्रियेतान्यतरो वापि तस्य भागो न लुप्यते ॥ सोदर्या विभजेयुस्तं समेत्य सहिताः समम् । भ्रातरो ये च संसृष्टा भगिन्यश्च सनाभयः ॥ इति वदता । येषां भ्रातॄणां संसृष्टिनां मध्ये ज्येष्ठः कनिष्ठो वा मध्यमो वांशप्रदानतोऽशप्रदाने । सार्वविभक्तिकस्तसिः । विभागकाल इति यावत् । हीयेत स्वांशात् भ्रश्येत आश्रमान्तरपरिग्रहेण ब्रह्महत्यादिना वा म्रियेत वा तस्य भागो न लुप्यते । अतः पृथगुद्धरणीयो न संसृष्टिन एव गृह्णीयुरित्यर्थः । तस्योद्धृतस्य विनियोगमाह - सोदर्या विभजेयुस्तमिति । तमुद्धृतं भागं सोदर्याः सहोदरा असंसृष्टा अपि समेत्य देशान्तरगता अपि समागम्य सहिताः संभूय समं न न्यूनाधिकभावेन । ये च भ्रातरो भिन्नोदराः संसृष्टास्ते च सनाभयो भगिन्यश्च विभजेयुः । समं विभज्य गृह्णीयुरिति स्पष्टोऽर्थः ॥ १३९ ॥ पुत्रपत्त्रयादिसंसृष्टिनां यद्दायग्रहणमुक्तं तस्यापवादमाह -
क्लीवोऽथ पतितस्तज्जः पङ्गुरुन्मत्तको जडः ।
१ संसृष्टिनो धनं घ. २ दिति संबन्धः घ. ३ भिन्नोदरस्यासंसृष्टिनः सोदरस्य च ध. ४ मुक्तं । असंसृष्टी घ. ५ निषेधादसंसृष्ट ग. ६ संसृष्टिनो भिन्नोदरस्य च. घ. ७ संसृष्टाः सहजीवन्त इत्यपि पाठान्तरम्. . ८ सममन्यूनाधिक. घ. ९ समं विभजेयुः ख.
For Private And Personal Use Only
--
.
Page #259
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दायविभागप्रकरणम् ८] मिताक्षरासहिता। २२७
अन्धोऽचिकित्स्यरोगाद्या भर्तव्याः स्युनिरंशकाः ॥१४॥ क्लीबस्तृतीया प्रकृतिः । पतितो ब्रह्महादिः । तज्जः पतितोत्पनः । पङ्गुः पादविकलः । उन्मत्तकः वातिकपैत्तिकश्लैष्मिकसांनिपातिकग्रहावेशलक्षणैरुन्मादैरभिभूतः । जडो विकलान्तःकरणः । हिताहितावधारणाऽक्षम इति यावत् । अन्धो नेत्रेन्द्रियविकलः । अचिकित्स्यरोगोऽप्रतिसमाधेयर्यक्ष्मादिरोगग्रस्तः । आद्यशब्देनाश्रमान्तरगतपितृद्वेष्युपपातकिबधिरमूकनिरिन्द्रियाणां ग्रहणम् । यथाह वसिष्टः-- 'अनंशास्त्वाश्रमान्तरगताः' इति । नारदेनापि-'पितृद्विद पतितः षण्ढो यश्च स्यादीपपातिकः । औरसा अपि नैतेऽशं लभेरन्क्षेत्रजः कुतः ॥' इति । मनुरपि (९।२०१)-'अनंशौ क्लीबपतितौ जात्यन्धबधिरौ तथा । उन्मत्तजडमूकाश्च ये च केचिन्निरिन्द्रियाः ॥' इति । निरिन्द्रियो निर्गतमिन्द्रियं यसाब्याध्यादिना स निरिन्द्रियः । एते क्लीबादयोऽनंशाः रिक्थभाजो न भवन्ति । केवलमशनाच्छादनदानेन पोषणीया भवेयुः । अभरणे तु पतितत्वदोषः । ( ९।२०२)-'सर्वेषामपि तु न्याय्यं दातुं शक्त्या मनीषिणा । ग्रासाच्छादनमत्यन्तं पतितो ह्यददद्भवेत् ॥' इति मनुस्मरणात् । अत्यन्तं यावजीवमित्यर्थः । एतेषां विभागात्प्रागेव दोषप्राप्तावनंशत्वमुपपन्नं न पुनर्विभक्तस्य । विभागोत्तरकालमप्यौषधादिना दोषनिहरणे भागप्राप्तिरस्त्येव । -'विभक्तेषु सुतो जातः सवर्णायां विभागभाक्' इत्यस्य समानन्यायत्वात् । पतितादिषु तु पुंलिङ्गत्वमविवक्षितम् । अतश्च पत्नीदुहितृमात्रादीनामप्युक्तदोषदुष्टानामनंशित्वं वेदितव्यम् ॥ १४० ॥ क्लीबादीनामनंशित्वात्तत्पुत्राणामप्यनंशित्वे प्राप्ते इदमाह
औरसाः क्षेत्रजास्त्वेषां निर्दोषा भागहारिणः। एतेषां क्लीबादीनामौरसाः क्षेत्रजा वा पुत्रा निर्दोषा अंशग्रहणविरोधिकैब्यादिदोषरहिता भागहारिणोंऽशग्राहिणो भवन्ति । तत्र क्लीबस्य क्षेत्रजः पुत्रः संभवत्यन्येषामौरसा अपि । औरसक्षेत्रजयोर्ग्रहणमितरपुत्रव्युदासार्थम् ॥ कीबादिदुहितॄणां विशेषमाह
सुताश्चैषां प्रभतव्या यावद्वै भर्तृसात्कृताः ॥ १४१॥ एषां क्कीबादीनां सुता दुहितरो यावद्विवाहसंस्कृता भवन्ति तावदरणीयाः चशब्दात्संस्कार्याश्च ॥ १४१ ॥
१ संन्पिातग्रहा ख. २ क्षयादिरोग. घ. ३ स्यादपयात्रितः इति पाठः । अपयात्रितो राजद्रोहाधुपरोधेन बन्धुभिर्घटस्फोटादिना बहिष्कृत इति मदनः । व्यवसायार्थ नावादिना समुद्रमध्ये द्वीपान्तरं गत इति युक्तम् । 'द्विजस्याब्धौ तु नौयातुः शोधितस्याप्यसंग्रहः' इति तस्य कलौ संसर्गनिषेधात् । राजद्रोहादौ घटस्फोटबहिष्कारयोरविधानाच्च । व्य. म. ४ दोषाणामनंशित्वं घ.
For Private And Personal Use Only
Page #260
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
२२८
www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
याज्ञवल्क्यस्मृतिः ।
बादिपतीनां विशेषमाह
अपुत्रा योषितथैषां भर्तव्याः साधुवृत्तयः । निर्वास्या व्यभिचारिण्यः प्रतिकूलस्तथैव च ॥ १४२ ॥
―――
[ व्यवहाराध्यायः
एषां क्लीवादीनामपुत्राः पत्यः साधुवृत्तयः सदाचाराचेद्भर्तव्या भरणीयाः । व्यभिचारिण्यस्तु निर्वास्याः । प्रतिकूलास्तथैव च निर्वास्या भवन्ति । भरणीयाश्वाव्यभिचारिण्यश्चेत् न पुनः प्रातिकूल्यमात्रेण भरणमपि न कर्तव्यम् ॥ १४२ ॥
1
विभजेरन्सुताः पित्रोरित्यत्र स्त्रीपुंधनविभागं संक्षेपेणाभिधाय पुरुषधनविभागो विस्तरेणाभिहितः । इदानीं स्त्रीधनविभागं विस्तरेणाभिधः स्यंस्तत्स्वरूपं तावदाह
पितृमातृपतिभ्रातृदत्तमध्यभ्युपागतम् ।
आधिवेदनिकाद्यं च स्त्रीधनं परिकीर्तितम् ॥ १४३ ॥
पित्रा मात्रा पत्या भ्रात्रा च यद्दत्तं यच्च विवाहकालेऽग्नावधिकृत्य मातुलादिभिर्दत्तं आधिवेदनिकं अधिवेदन निमित्तं ' अधिविन्नस्त्रियै दद्यात्' इति वक्ष्यमाणं । आद्यशब्देन रिक्थक्रय संविभागपरिग्रहाधिगमप्राप्तं एतत्स्त्रीधनं मन्वादिभिरुक्तम् । स्त्रीधनशब्दश्च यौगिको न पारिभाषिकः । योगसंभवे परिभाषाया अयुक्तत्वात् । यत्पुनर्मनुनोक्तम् ( ९११९४ ) - 'अध्ययध्यावाहनिकं दत्तं च श्रीतिकर्मणि । भ्रातृमातृपितृप्राप्तं षड्विधं स्त्रीधनं स्मृतम् ॥' इति स्त्रीधनस्य
त्वं यूनसंख्याव्यवच्छेदार्थं नाधिकसंख्या व्यवच्छेदाय ॥ अध्यकयादिस्वरूपं च कात्यायनेनाभिहितम् – 'विवाहकाले यत्स्त्रीभ्यो दीयते ह्यग्निसंनिधौ । तदध्यग्निकृतं सद्भिः स्त्रीधनं परिकीर्तितम् ॥ यत्पुनर्लभते नारी नीयमाना पितुर्गृहात् । अध्यावहनिकं नाम स्त्रीधनं तदुदाहृतम् ॥ प्रीत्या दत्तं तु यत्किंचिच्छूश्वा वा श्वशुरेण वा । पादवन्दनिकं चैव प्रीतिदत्तं तदुच्यते । कढया कन्यया वापि पत्युः पितृगृहेऽपि वा । भ्रातुः सकाशात्पित्रोर्वा लब्धं सौदायिकं स्मृतम् ॥' इति ॥ १४३ ॥
बन्धुदत्तं तथा शुल्कं मन्वाधेयकमेव च ।
1
किंच । बन्धुभिः कन्याया मातृबन्धुभिः पितृबन्धुभिश्च यद्दत्तं शुल्कं यद्गृहीत्वा कन्या दीयते । अन्वाधेयकं परिणयनादनु पश्चादाहितं दत्तम् । उक्तंच का न्यायनेन – 'विवाहात्परतो यच्च लब्धं भर्तृकुलात्स्त्रिया । अन्वाधेयं तु तद्रव्यं लब्धं पितृकुलात्तथा ॥' इति स्त्रीधनं परिकीर्तितमिति गतेन संबन्धः ॥
१ भर्तुः सकाशादिति पाठः २ वीरमित्रोदयस्त्वेवमव्याख्यत् - गृहोपस्कारणादीनां यन्मू. ल्यं कन्यार्पणोपाधित्वेन वरादिभ्यः कन्याभरणरूपेण गृह्यते तच्छुल्कमिति मदनरले व्याख्यातुम्। उभयत्रापि पित्रादीनां कन्याया इदमित्युद्देशो विवक्षितः । 'यदानेतं भर्तृगृहे शुल्कं - तत्परिकीर्तितम्' इति व्यासोक्तं वा भर्तृगृहगमनार्थमुत्कोचादि यद्दतं तच्छुल्कमित्यर्थ इति । अन्यथा तत्सत्वाभावेन स्त्रीधनत्वव्यपदेशानुपपत्तेः.
For Private And Personal Use Only
Page #261
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दायविभागप्रकरणम् ८ ] मिताक्षरासहिता। . २२९ एवं स्त्रीधनमुक्तं तद्विभागमाह
अतीतायामप्रजसि बान्धवास्तदवानुयुः ॥ १४४ ॥ तत्पूर्वोक्तं स्त्रीधनमप्रजसि अनपत्यायां दुहितृदौहित्रीदौहित्रपुत्रपौत्ररहितायां स्त्रियामतीतायां बान्धवा भादयो वक्ष्यमाणा गृह्णन्ति ॥ १४४ ॥
सामान्येन बान्धवा धनग्रहणाधिकारिणो दर्शिताः । इदानी विवाहभेदेनाधिकारिभेदमाह
अप्रजस्त्रीधनं भर्तुर्ब्राह्मादिषु चतुर्वपि ।
दुहितॄणां प्रसूता चेच्छेपेषु पितृगामि तत् ॥ १४५ ॥ अप्रजस्त्रियाः पूर्वोक्तायाः ब्राह्मदैवार्षप्राजापत्येषु चतुर्पु विवाहेषु भार्यात्वं प्राशाया अतीतायाः पूर्वोक्तं धनं प्रथमं भर्तुर्भवति । तदभावे तत्प्रत्यासन्नानां सपिण्डानां भवति । शेषेष्वासुरगान्धर्वराक्षसपैशाचेषु विवाहेषु तदप्रजस्त्रीधनं पितृगामि । माता च पिता च पितरौ तौ गच्छतीति पितृगामि । एकशेषनिर्दिष्टाया अपि मातुः प्रथमं धनग्रहणं पूर्वमेवोक्तम् । तदभावे तत्प्रत्यासन्नानां धनग्रहणम् । सर्वेष्वेव विवाहेषु प्रसूतापत्यवती चेद्दुहितॄणां तद्धनं भवति । अन्न दुहितृशब्देन दुहितृदुहितर उच्यन्ते । साक्षाद्दुहितॄणां 'मातुर्दुहितरः शेषम्' इत्यत्रोक्तत्वात् । अतश्च मातृधनं मातरि वृत्तायां प्रथमं दुहितरो गृह्णन्ति । तत्र चोढानूढासमवायेऽनूदैव गृह्णाति । तदभावे च परिणीता । तत्रापि प्रतिष्ठिताऽप्रतिष्ठितासमवायेऽप्रतिष्ठिता गृह्णाति । तदभावे प्रतिष्ठिता । यथाह गौतमः- 'स्त्रीधनं दुहितॄणामप्रत्तानामप्रतिष्ठितानां च' इति । तत्र चशब्दात्प्र. तिष्ठितानां च । अप्रतिष्ठिता अनपत्या निर्धना वा । एतच्च शुल्कव्यतिरेकेण । शुल्कं तु सोदर्याणामेव । --'भगिनीशुल्कं सोदर्याणामूर्ध्व मातुः' इति गौतमवचनात् ॥ सर्वासां दुहितॄणामभावे दुहितृदुहितरो गृह्णन्ति । 'दुहितॄणां प्रसूता चेत्' इत्यस्माद्वचनात् । तासां भिन्नमातृकाणां विषमाणां समवाये मातृद्वारेण भागकल्पना । 'प्रतिमातृतो वा स्ववर्गेण भागविशेषः' इति गौतमस्मरणात् ॥ दुहितृदौहित्रीणां समवाये दौहित्रीणां किंचिदेव दातव्यं । यथाह मनुः(१।१९३) -'यास्तासां स्युर्दुहितरस्तासामपि यथार्हतः । मातामह्या धनास्किंचित्प्रदेयं .. प्रीतिपूर्वकम् ॥' इति ॥ दौहित्रीणामप्यभावे दौहित्रा धनहारिणः । यथाह नारदः-'मातुर्दुहितरोऽभावे दुहितॄणां तदन्वयः' इसि । तच्छब्देन संनिहितदुहितृपरामर्शात् ॥ दौहित्राणामभावे पुत्रा गृह्णन्ति । ताभ्य ऋतेऽन्वय इत्युक्तत्वात् । मनुरपि दुहितॄणां पुत्राणां च मातृधनसंबन्धं दर्शयति (९।१९२)
१ चतुर्वपीत्यपिशब्दाद्गान्धर्वग्रहणम् । यद्वा अतद्गुणसंविज्ञानबहुव्रीहिणा ब्राह्मभिन्ना दैवार्पप्राजापत्यगान्धर्वाश्चत्वारः । तेन 'श्रामदैवार्षगान्धर्वप्राजापत्येषु यद्धनम् । अप्रजायामतीतायां भर्तुरेव तदिष्यते ॥' इति न मनुवचनविसंवादः. २ अप्रजसः स्त्रियाः घ. ३ भर्तीभावे नत्प्रत्यासन्नानां सपिण्डानां पित्रभावे च तत्प्रत्यासन्नानां सपिण्डानामिति तत्रापि तेनास्याः प्रत्यासन्नास्तत्प्रत्यासन्नाः । तद्द्वारा तत्कुले प्रत्यासन्ना इति यावत्. ४ स्ववर्गे भाग ग. स्वस्ववर्गेण घ.
For Private And Personal Use Only
Page #262
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३०
याज्ञवल्क्यस्मृतिः। [व्यवहाराध्यायः
-'जनन्यां संस्थितायां तु समं सर्वे सहोदराः । भजेरन्मातृकं रिक्थं भगिन्यश्च सनाभयः ॥' इति । मातृकं रिक्थं सर्वे सहोदराः समं भजेरन् सनाभयो भगिन्यश्च समं भजेर निति संबन्धः । न पुनः सहोदराः समं भजेरन् सनाभयो भगि. न्यश्च समं भजेरनिति संबन्धः । न पुनः सहोदरा भगिन्यश्च संभूय भजेरनिति इतरेतरयोगस्य द्वन्द्वैकशेषाभावादप्रतीतेः । विभागकर्तृत्वान्वयेनापि चशब्दोपपत्तेः । यथा देवदत्तः कृषि कुर्याद्यज्ञदत्तश्चेति । समग्रहणमुद्धारविभागनिवृत्त्यर्थम् । सोदरग्रहणं भिन्नोदरनिवृत्यर्थम् । अनपत्यहीनजातिस्त्रीधनं तु भिन्नोदराप्युत्तमजातीयसपत्नीदुहिता गृह्णाति । तदभावे तदपत्यम् । यथाह मनुः (९।१९८)-'स्त्रियास्तु यद्भवेद्वित्तं पित्रा दत्तं कथंचन । ब्राह्मणी तद्धरेत्कन्या तदपत्यस्य वा भवेत् ॥' इति । ब्राह्मणीग्रहणमुत्तमजात्युपलक्षणम् । अतश्चानपत्यवैश्याधनं क्षत्रियाकन्या गृह्णाति । पुत्राणामभावे पौत्राः पितामहीधनहारिणः । 'रिक्थभाज ऋणं प्रतिकुर्युः' इति गौतमस्मरणात् । 'पुत्रपौत्रैर्ऋणं देयम्' इति पौत्राणामपि पितामह्मणापाकरणेऽधिकारात् । पौत्राणाम. प्यभावे पूर्वोक्ता भर्नादयो बान्धवा धनहारिणः ॥ १४५ ॥ स्त्रीधनप्रसङ्गेन वाग्दत्ताविषयं किंचिदाह
दत्त्वा कन्या हरन्दण्ड्यो व्ययं दद्याच सोदयम् । कन्यां वाचा दत्वापहरन्द्रव्यानुबन्धाद्यनुसारेण राज्ञा दण्डनीयः । एतच्चापहारकारणाभावे । सति तु करणे 'दत्तामपि हरेत्कन्यां श्रेयांश्चेद्वर आव्रजेत्' इत्यपहाराभ्यनुज्ञानान्न दण्ड्यः । यच्च वाग्दाननिमित्तं वरेण स्वसंबन्धिनां कन्यासंबन्धिनां वोपचारार्थं धनं व्ययीकृतं तत्सर्वं सोदयं सवृद्धिकं कन्यादाता वराय दद्यात् ॥ अथ कथंचिद्वाग्दत्ता संस्कारात्प्राङ् म्रियते तदा किं कर्तव्यमित्यत आह
मृतायां दत्तमादद्यात्परिशोध्योभयव्ययम् ॥ १४६॥ यदि वाग्दत्ता मृता यत्पूर्वमङ्गुलीयकादि शुल्कं वरेण दत्तं तद्वर आददीत । परिशोध्योभयव्ययम् । उभयोरात्मनः कन्यादातुश्च यो व्ययस्तं परिशोध्य विगणय्यावशिष्टमाददीत । यत्तु कन्याय मातामहादिभिर्दत्तं शिरोभूषणादिकं वा क्रमायातं तत्सहोदरा भ्रातरो गृह्णीयुः।-'रिक्थं मृतायाः कन्याया गृह्णीयुः सोदरास्तदभावे मातुस्तदभावे पितुः' इति बौधायनस्मरणात् ॥ १४६ ॥ मृतप्रजास्त्रीधनं भर्तृगामीत्युक्तम् । इदानीं जीवन्त्याः सप्रजाया अपि स्त्रियाः धनग्रहणे क्वचिद्भर्तुरभ्यनुज्ञामाह
दुर्भिक्षे धर्मकार्ये च व्याधौ संप्रतिरोधके । गृहीतं स्त्रीधनं भैंर्ता न स्त्रियै दातुमर्हति ॥ १४७ ॥
१ कर्तृत्वेनान्वयेनापि घ. २ पितामह्या पाकरणाधिकारात् ख. ३ म्रियेत तदा ग. घ. ४ शुल्कं बा वरेण ख. ५ क्रमागतं ख. ६ भा घ.
For Private And Personal Use Only
Page #263
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दायविभागप्रकरणम् ८ ] मिताक्षरासहिता।
२३१
दुर्भिक्षे कुटुम्बभरणार्थ, धर्मकायें अवश्यकर्तव्ये, व्याधौ च, संप्रेतिरोधके वन्दिग्रहणनिग्रहादौ द्रव्यान्तररहितः स्त्रीधनं गृहन्भर्ता न पुनातुमर्हति । प्रकारान्तरेणापहरन्दद्यात् । भर्तृव्यतिरेकेण जीवन्त्याः स्त्रिया धनं केनापि दायादेन न ग्रहीतव्यम् । (मनुः ८।२९)-'जीवन्तीनां तु तासां ये तद्धरेयुः खबान्धवाः । ताञ्छिष्याचौरदण्डेन धार्मिकः पृथिवीपतिः ॥' इति दण्डविधानात् । तथा ( मनुः ९।२००)-पत्यौ जीवति यः स्त्रीभिरलंकारो तो भवेत् । न तं भजेरन्दायादा भजमानाः पतन्ति ते ॥' इति दोषश्रवणाच्च ॥१४७॥ आधिवेदनिकं स्त्रीधनमुक्तं तदाह
अधिविनस्त्रियै दद्यादाधिवेदनिकं समम् ।
न दत्तं स्त्रीधनं यस्यै दत्ते त्वध प्रकीर्तितम् ॥ १४८॥ यस्या उपरि विवाहः साधिविना साचासौ स्त्री चेत्यधिविन्नस्त्री तस्यै अधि. विन्नस्त्रियै आधिवेदनिकमधिवेदननिमित्तं धनं समं यावदधिवेदनार्थं व्ययीकृतं तावद्दद्यात् । यस्य भर्ना श्वशुरेण वा स्त्रीधनं न दत्तम् । दत्ते पुनः स्त्रीधने आधिवेदनिकद्रव्यस्यार्धं दद्यात् । अर्धशब्दश्चात्र समविभागवचनो न भवति । अतश्च यावता तत्पूर्वदत्तमाधिवेदनिकसमं भवति तावद्देयमित्यर्थः ॥ १४८ ॥ एवं विभागमुक्त्वा इदानीं तत्संदेहे निर्णयहेतूनाह
विभागनिह्नवे ज्ञातिबन्धुसाक्ष्यभिलेखितैः।
विभागभावना ज्ञेया गृहक्षेत्रैश्च यौतकैः ॥ १४९ ॥ -विभागस्य निहवे अपलापे ज्ञातिभिः पितृबन्धुभिर्मातृबन्धुभिः मातुलादिभिः साक्षिभिः पूर्वोक्तलक्षणेलेख्येन च विभागपत्रेण विभागभावना विभागनिर्णयो ज्ञातव्यः । तथा यौतकैः पृथकृतैर्गृहक्षेत्रैश्च । पृथक्ष्यादिकार्यप्रवर्तनं पृथक्पञ्चमहायज्ञादिधर्मानुष्ठानं च नारदेन विभागलिङ्गमुक्तम्-'विभागधर्मसंदेहे दा. यादानां विनिर्णयः । ज्ञातिभिर्भागलेख्येन पृथक्कार्यप्रवर्तनात् ॥ भ्रातृणामविभ. . कानामेको धर्मः प्रवर्तते। विभागे सति धर्मोऽपि भवेत्तेषां पृथक् पृथक् ॥' इति । तथाऽपराण्यपि विभागलिङ्गानि तेनैवोक्तानि-'साक्षित्वं प्रातिभाव्यं च दानं ग्रहणमेव च । विभक्ता भ्रातरः कुर्युर्नाविभक्ताः कथंचन ॥' इति ॥१९॥
इति रिक्थविभागप्रकरणम् ।
१ संप्रतिरोधक इति व्याधिविशेषणं कार्यानुष्ठानबाधक इति च तदर्थ इत्याह वाचस्पतिः. २ णापहृतं दद्यात् घ. ३ धृतो भादिना तस्यै दत्तः स तया धृत इत्यर्थः. ४ श्वशुरेण भर्ना वा ख. ५ यौतकैः पृथकत्तैगृहक्षेत्ररिति विशेषणविशेष्यभावः व्य. म. ६ इदं पद्यं घ. पुस्तकेऽधिकं. ७ तेनैव नारदेन.
For Private And Personal Use Only
Page #264
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३२
याज्ञवल्क्यस्मृतिः
[व्यवहाराध्यायः
अथ सीमाविवादप्रकरणम् ९ अधुना सीमाविवाद निर्णय उच्यते
सीनो विवादे क्षेत्रस्य सामन्ताः स्थविरादयः । गोपाः सीमाकृपाणां ये सर्वे च वनगोचराः ॥ १५० ॥ नयेयुरेते सीमानं स्थलाङ्गारतुषद्रुमैः।।
सेतुवल्मीकनिम्नास्थिचैत्याद्यैरुपलक्षिताम् ॥ १५१॥ ग्रामद्वयसंबन्धिनः क्षेत्रस्य सीम्रो विवादे तथैकग्रामान्तर्वतिक्षेत्रमर्यादावि. वादे च सामन्तादयः स्थलाङ्गारादिभिः पूर्वकृतैः सीमालक्षणैरुपलक्षितां चि. ह्नितां सीमां नयेयुर्निश्चिनुयुः । सीमा क्षेत्रादिमर्यादा । सा चतुर्विधा जनपदसीमा ग्रामसीमा क्षेत्रसीमा गृहसीमा चेति । सा च यथासंभवं पञ्चल. क्षणा । तदुक्तं नारदेन-ध्वजिनी मत्स्यिनी चैव नैधानी भयवर्जिता । राजशासननीता च सीमा पञ्चविधा स्मृता ॥' इति ॥ ध्वजिनी वृक्षादिलक्षिता, वृक्षादीनां प्रकाशकत्वेन ध्वजतुल्यत्वात् । मत्स्यिनी सलिलवती, मत्स्यशब्दस्य स्वाधारजललक्षकत्वात् । नैधानी निखाततुपाङ्गारादिमती, तेषां नि. खातत्वेन निधानतुल्यत्वात् । भयवर्जिता अर्थिप्रत्यर्थिपरस्परसंप्रतिपत्तिनि. मिता । राजशासननीता ज्ञातृचिह्नाभावे राजेच्छया निर्मिता । एवंभूतायां घोढा विवादः संभवति । यथाह कात्यायन:-'आधिक्यं न्यूनता चांशे अस्तिनास्तित्वमेव च । अभोगभुक्तिः सीमा च षड् भूवादस्य हेतवः ॥' इति ॥ तथाहि । ममात्र पञ्चनिवर्तनाया भूमेरधिका भूरस्तीति केनचिदके पञ्चनिवतेनैव नाधिकेत्याधिक्ये विवादः । पञ्चनिवर्तना मदीया भूमिरित्युक्तेन ततो न्यूनैवेति न्यूनतायाम् । पञ्चनिवर्तनो ममांश इत्युक्ते अंश एव नास्तीत्यस्तिनास्तित्वविवादः संभवति । मदीया भूः प्रागविद्यमानभोगैव भुज्यते इत्युक्तेन संतता चिरंतन्येव मे भुक्तिरित्यभोगमुक्तौ विवादः । इयं मर्यादेयं वेति सीमाविवाद इति षट्प्रकार एव विवादः संभवति । षट्प्रकारेऽपि भूविवादे श्रुत्य
र्थाभ्यां सीमाया अपि निर्णीयमानत्वात्सीमानिर्णयप्रकरणे तस्यान्तर्भावः । समन्ताद्भवाः सामन्ताः । चतसृषु दिक्ष्वनन्तरग्रामादयस्ते च प्रतिसीमं व्यवस्थि. ताः।-'ग्रामो ग्रामस्य सामन्तः क्षेत्रं क्षेत्रस्य कीर्तितम् । गृहं गृहस्य निर्दिष्टं समन्तात्परिरभ्य हि ॥' इति कात्यायनवचनात् । ग्रामादिशब्देन तत्स्थाः पुरुषा लक्ष्यन्ते। ग्रामः पलायित इति यथा। सामन्तग्रहणं च तत्संसक्ताधुपलक्षणार्थम् । उक्तंच कात्यायनेन-'संसक्तकास्तु सामन्तास्तत्संसक्तास्तथोतराः । संसक्तसक्तसंसक्ताः पैनकाराः प्रकीर्तिताः ॥' इति ॥ स्थविरा वृद्धाः । आदिग्रहणेन मौलोद्धृतयोर्ग्रहणम् । वृद्धादिलक्षणं च तेनैवोक्तम्-'निष्पा
१ कृपाणाश्च ग. २ अनन्तरा ग्रामादयः. ३ पद्माकाराः ग.
For Private And Personal Use Only
Page #265
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सीमाविवादप्रकरणम् ९ ] मिताक्षरासहिता ।
२३३
धमानं पैदष्टं तत्कार्य तद्गुणान्वितैः । वृद्धा वा यदि वाऽवृद्धास्ते तु वृद्धाः प्रकीर्तिताः ॥ ये तत्र पूर्व सामन्ताः पश्चाद्देशान्तरं गताः । तन्मूलत्वात्तु ते मौला ऋषिभिः परिकीर्तिताः ॥ उपश्रवणसंभोगकार्याख्यानोपचिह्निताः । उद्धरन्ति पुनर्यस्मादुद्धृतास्ते ततः स्मृताः ॥' इति ॥ गोपाः गोचारकाः । सीमाकृषाणाः सीमासंनिहितक्षेत्रकर्षकाः । सर्वे च वनगोचरा वनचारिणो व्याधादयः । ते च मनुनोक्ताः (८२६०)-'व्याधान्शाकुनिकान्गोपान्कैवान्मूलखातकान् । व्यालग्राहोनुन्छवृत्तीनन्यांश्च वनगोचरान् ॥' इति ॥ स्थलमुन्नतो भूप्रदेशः । अङ्गारोऽग्नेरुच्छिष्टम् । तुपा धान्यत्वचः । द्रुमा न्यग्रोधादयः । सेतुर्जलप्रवाहबन्धः । चैत्यं पाषाणादिबन्धः । आदिशब्देन वेणुवालुकादीनां ग्रहणम् । एतानि च प्रकाशाप्रकाशभेदेन द्विप्रकाराणि । यथाह मनुः (८१२४६-२४८) 'सीमावृक्षांश्च कुर्वीत न्यग्रोधाश्वत्थकिंशुकान् । शाल्मलीशालतालांश्च क्षीरिणश्चैव पादपान् ॥ गुल्मान्वेणूंश्च विविधान्शमीवल्लीस्थलानि च । शरान्कुञ्जकगुल्मांश्च यथा सीमा न नश्यति ॥ तडागान्युदपानानि वाप्यः प्रस्रवणानि च । सीमासंधिषु कार्याणि देवतायतनानि च ॥' इति प्रकाशरूपाणि । (मनुः ८१२४९-२५२)-'उपच्छन्नानि चान्यानि सीमालिङ्गानि कारयेत् । सीमाज्ञाने नृणां वीक्ष्य नित्यं लोके विपर्ययम् ॥ अश्मनोऽस्थीनि गोवालांस्तुपान्भस कपालिकाः । करीषमिष्टकाङ्गारशर्करावालुकास्तथा ॥ यानि चैवंप्रकाराणि कालाभूमिर्न भक्षयेत् । तानि संधिषु सीमायामप्रकाशानि कारयेत् ॥ एतैलिऑनयेसीमां राजा विवदमानयोः ॥' इति प्रच्छन्नलिङ्गानि ॥ एतैः प्रकाशाप्रकाशरूपैर्लिङ्गैः सामन्तादिप्रदर्शितैः सीमांप्रति विवदमानयोः सीमानिर्णयं कुर्याद्राजा ॥ १५० ॥ १५१ ॥
यदा पुनश्चिह्नानि न सन्ति विद्यमानानि वा लिङ्गालिङ्गतया संदिग्धानि तदा निर्णयोपायमाह
सामन्ता वा समग्रामाश्चत्वारोष्टौ दशापि वा ।
रक्तस्रग्वसनाः सीमां नयेयुः क्षितिधारिणः ॥ १५२ ॥ सामन्ताः पूर्वोक्तलक्षणाः । समग्रामाश्चत्वारोऽष्टौ दशापि वेत्येवं समसंख्याः प्रत्यासन्नग्रामीणाः । रक्तस्रग्विणो रक्ताम्बरधराः मूर्त्यारोपितक्षितिखण्डाः सीमानं नयेयुः प्रदर्शयेयुः। सामन्ता वेति विकल्पाभिधानं स्मृत्यन्तरोक्तसाक्ष्यभिप्रायम् । यथाह मनुः (८।२५३)-'साक्षिप्रत्यय एव स्यात्सीमावादविनिर्णये' इति ॥ तत्र च साक्षिणां निर्णेतृत्वं मुख्यम् । तदभावे सामन्तानाम् । तदुक्तम् (मनुः ८१२५८)-'साक्ष्यभावे तु चत्वारो ग्राम्याः सीमान्तवासिनः । सीमाविनिर्णयं कुर्युः प्रयता राजसंनिधौ ॥' इति । तदभावे तत्संसक्तादीनां
१ ग्राहारतूच्छवृत्तीन् ग. २ कुब्जकगुल्मांश्च ग. घ. ३ प्रकाशितैः घ.
For Private And Personal Use Only
Page #266
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३४
याज्ञवल्क्यस्मृतिः। [व्यवहाराध्यायः निर्णेतृत्वम् । यथाह कात्यायन:-'स्वार्थसिद्धौ प्रदुष्टेषु सामन्तेष्वर्थगौरवात् । तत्संसक्तैस्तु कर्तव्य उद्धारो नात्र संशयः ॥ संसक्तसक्तदोषे तु तत्संसकाः प्रकीर्तिताः । कर्तव्या न प्रदुष्टास्तु राज्ञा धर्म विजानता ॥' इति । सामन्ताद्यभावे मौलादयो ग्राह्याः । 'तेषामभावे सामन्तमौलवृद्धोद्धृतादयः ॥ स्थावरे पप्रकारेऽपि कार्या नात्र विचारणा ॥' इति कात्यायनेन क्रमविधानात् । एते च सामन्तादयः संख्यागुणातिरेकेण संभवन्ति । 'सामन्ताः साधनं पूर्व निर्दोषाः स्युर्गुणान्विताः । द्विगुणास्तूत्तरा ज्ञेयास्ततोऽन्ये त्रिगुणा मताः ॥' इति स्मरणात् ॥ तेच साक्षिणः सामन्तादयश्च स्वैः स्वैः शपथैः शापिताः सन्तः सीमां नयेयुः । (मनुः८।२५६)-'शिरोमिस्ते गृहीत्वोवर्वी स्रग्विणो रक्तवाससः । सुकृतैः शापिताः स्वैः स्वैर्नयेयुस्ते समंजसम् ॥' इति स्मरणात् । नयेयुरिति बहुवचनं द्वयोनिरासाथै नैकस्य । 'एकश्चेदुन्नयेत्सीमां सोपवासः समुन्नयेत् । रक्तमाल्याम्बरधरो भूमिमादाय मूर्धनि ॥' इति नारदेनैकस्याभ्यनुज्ञानात् ॥ योऽयं -'नैकः समुन्न येत्सीमां नरः प्रत्ययवानपि । गुरुत्वादस्य कार्यस्य क्रियैषां बहुषु स्थिता ॥' इत्येकस्य निषेधः स उभयानुमतधर्मविद्ध्यतिरिक्तविषय इत्यविरोधः ॥ स्थलादिचिह्नाभावेऽपि साक्षिसामन्तादीनां सीमाज्ञाने उपायविशेषो नारदेनोक्तः-'निम्नगापहृतोत्सृष्टनष्टचिह्नासु भूमिषु । तत्प्रदेशानुमानाच्च प्रमाणा. भोगदर्शनात् ॥' इति । निम्नगया नद्या अपहृतेनापहरणेनोत्सृष्टानि स्वस्थानात्प्रच्युतानि नष्टानि वा लिङ्गानि यासु मर्यादाभूमिषु तत्र तत्प्रदेशानुमानादुत्सृष्टनष्टचिह्नानां प्राचीनप्रदेशानुमानात् ग्रामादारभ्य सहस्रदण्डपरिमितं क्षेत्रमस्य ग्रामस्य पश्चिमे भागे इत्येवंविधात्प्रमाणाद्वा प्रत्यर्थिसमक्षविप्रतिपन्नाया असा. तकालोपलेक्षितभुक्तेर्वा निश्चिनुयुः ॥ बृहस्पतिना चात्र विशेषो दर्शितः'आगमं च प्रमाणं च भोगकालं च नाम च । भूभागलक्षणं चैव ये विदुस्तेऽत्र साक्षिणः ॥' इति ॥ एते च साक्षिसामन्तादयः शपथैः श्राविताः सन्तः कुलादिसमक्षं राज्ञा प्रष्टव्याः । यथाह मनुः (८२५४)- 'ग्रामेयककुलानां तु समक्षं सीन्नि साक्षिणः । प्रष्टव्याः सीमलिङ्गानि तयोश्चैव विवादिनोः ॥' इति । तेच पृष्टाः साक्ष्यादयः ऐकमत्येन समस्ताः सीम्नि निर्णयं ब्रूयुः । तैर्निर्णीतां सीमी तत्प्रदर्शितसकललिङ्गयुक्तां साक्ष्यादिनामान्वितां चाविस्मरणार्थ पन्ने समारोपयेत् । उक्तंच मनुना ( ८१२६१)-'ते पृष्टास्तु यथा ब्रूयुः समस्ताः सीम्नि निर्णयम् । निबन्नीयात्तथा सीमां सर्वांस्तांश्चैव नामतः ॥ इति ॥ एतेषां साक्षिसामन्तप्रभृतीनां सीमाचङ्गमणदिनादारभ्य यावत्रिपक्षं राजदैविकव्यसनाव्यसनं चेन्नोत्पद्यते तदा तत्प्रदर्शनात्सीमानिर्णयः । अयं च राजदैविकव्यसनावधिः कात्यायनेनोक्तः–'सीमाचङ्क्रमणे कोशे पादस्पर्शे तथैव च । त्रिपक्षपक्षसप्ताहं दैवराजिकमिष्यते ॥' इति ॥ १५२ ॥
-..-1053IHITNIOS
...
..
LanvermaANDUSTE
R
NEPAL
a niasirain..
१ कुर्वीत घ. २ दोषेषु ग. ३ क्रमाभिधानात् घ. ४ पलक्षितैर्भुक्तेर्वा घ. ५ साक्षिणः सामन्तादयः घ. ६ सीमानं ख.
Mastisewithlaantereampaith
For Private And Personal Use Only
Page #267
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सीमाविवादप्रकरणम् ९] मिताक्षरासहिता ।
२३५
यदा त्वमीषामुक्तसाक्ष्यवचसां त्रिपक्षाभ्यन्तरे रोगादि दृश्यते अथवा प्रतिवादिनिर्दिष्टाभ्यधिकसंख्यागुणसाक्ष्यन्तरविरुद्धवचनता तदा ते मृषाभाषितया दण्डनीयास्तदाह
अनृते तु पृथग्दण्ड्या राज्ञा मध्यमसाहसम् । अनृते मिथ्यावादने निमित्तभूते सति सर्वे सामन्ताः प्रत्येकं मध्यमसाहसेन चत्वारिंशदधिकेन पणपञ्चशतेन दण्डनीयाः। सामन्तविषयता चास्य साक्षिमौलादीनां स्मृत्यन्तरे दण्डान्तरविधानादवगम्यते । यथाह मनुः (१२५७) --'यथोक्तेन नयन्तस्ते पूयन्ते सत्यसाक्षिणः । विपरीतं नयन्तस्तु दाप्याः स्युद्विशतं दमम् ॥' इति ॥ नारदोऽपि-अथ चेदनृतं ब्रूयुः सामन्ताः सीमनिर्णये । सर्वे पृथक्पृथग्दण्ड्या राज्ञा मध्यमसाहसम् ॥' इति सामन्तानां मध्यमसाहसं दण्डमभिधाय—शेषाश्चेदनृतं ब्रूयुर्नियुक्ता भूमिकर्मणि । प्रत्येकं तु जघन्यास्ते विनेयाः पूर्वसाहसम् ॥' इति तत्संसक्तादिषु प्रथमं साहसमुक्तवान् ॥ मौलादीनामपि तमेव दण्डमाह-'मौलवृद्धादयस्त्वन्ये दण्डगत्या पृथक् पृथक् । विनेयाः प्रथमेनैव साहसेनानृते स्थिताः ॥' इति । आदिशब्देन गोपशाकुनिकव्याधवनगोचराणां ग्रहणम् । यद्यपि शाकुनिकादीनां पापरतत्वाल्लिङ्गप्रदर्शन एवोपयोगो न साक्षात्सीमानिर्णये तथापि लिङ्गदर्शन एव मृषाभापित्वसंभवाइण्डविधानमुपपद्यत एव । अनृते तु पृथक् दण्ड्या इत्येतद्दण्डवि. धानमज्ञानविषयम् ॥-'बहूनां तु गृहीतानां न सर्वे निर्णयं यदि । कुर्युर्भयाद्वा लोभावा दण्ड्यास्तूत्तमसाहसम् ॥' इति ज्ञानविषये साक्ष्यादीनां कात्यायनेन दण्डान्तरविधानात् ॥ तथा साक्षिवचनभेदेऽप्ययमेव दण्डस्तेनैवोका-'कीर्तिते यदि भेदः स्याद्दण्ड्यास्तूत्तमसाहसम्' इति । एवमज्ञानादिनानृतवदने साक्ष्यादीन्दण्डयित्वा पुनः सीमाविचारः प्रवर्तयितव्यः । 'अज्ञानोको दण्ड यित्वा पुनः सीमां विचारयेत्' इत्युक्त्वा । 'त्यक्त्वा दुष्टांस्तु सामन्तानन्यान्मौलादिभिः सह । संमिश्य कारयेत्सीमामेवं धर्मविदो विदुः ॥' इति निर्णयप्रकारस्तेनैवोक्तः ॥
यदा पुनः सामन्तप्रभृतयो ज्ञातारश्चिह्नानि च न सन्ति तदा कथं निर्णय इत्यत आहर अभावे ज्ञातृचिह्नानां राजा सीम्नः प्रवर्तिता ॥ १५३ ॥
ज्ञातॄणां सामन्तादीनां लिङ्गादीनां च वृक्षादीनामभावे राजैव सीम्नः प्रवतिता प्रवर्तयिता । अन्तर्भावितोऽन्न ण्यर्थः । ग्रामद्वयमध्यवर्तिनी विवादास्पदीभूतां भुवं समं प्रविभज्य अस्येयं भूरस्येयमित्युभयोः समयं तन्मध्ये सीमालिङ्गानि कुर्यात् । यदा तस्यां भूमावन्यतरस्योपकारातिशयो दृश्यते तदा
. १ मिथ्यावदते ग. २ साक्ष्यमौलत्वादीनां घ.
या० २३
For Private And Personal Use Only
Page #268
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३६
याज्ञवल्क्यस्मृतिः। [व्यवहाराध्यायः तस्यैव ग्रामस्य सकला भूः समर्पणीया । यथाह मनुः (८१२६५)-'सीमायामविषयायां स्वयं राजैव धर्मवित् । प्रदिशेद्भूमिमेकेषामुपकारादिति स्थितिः॥' इति ॥ १५३ ॥ असत्यामप्यतद्भावाशङ्कायामस्याः स्मृतेायमूलता दर्शयितुमतिदेशमाह
आरामायतनग्रामनिपानोद्यानवेश्मसु ।
एष एव विधिज्ञेयो वर्षाम्बुप्रवहादिषु ॥ १५४ ॥ आरामः पुष्पफलोपचयहेतुर्भूभागः। आयतनं निवेशनं पलालकूटाद्यर्थं विभक्तो भूप्रदेशः । ग्रामः प्रसिद्धः । ग्रामग्रहणं च नगराधुपलक्षणार्थम् । निपानं पानीयस्थानं वापीकूपप्रभृतिकम् । उद्यानं क्रीडावनम् । वेश्म गृहम् । एतेष्वारामादिष्वयमेव सामन्तसाक्ष्यादिलक्षणो विधिर्ज्ञातव्यः । तथा प्रवर्षणोद्भूतजलप्रवाहेषु अनयोहयोर्मध्येन जलौघः प्रवहति अनयोर्वेत्येवंप्रकारे विवादे आदिग्रहणात्प्रासादादिष्वपि प्राचीन एव विधिर्वेदितव्यः। तथाच कात्यायन:-क्षेत्रकूपतडागानां केदारारामयोरपि । गृहप्रासादावसथनृपदेवगृहेषु च॥ इति ॥ १५४ ॥ सीमानिर्णयमुक्त्वा तत्प्रसङ्गेन मर्यादाप्रभेदनादौ दण्डमाहमर्यादायाः प्रभेदे च सीमातिक्रमणे तथा ।
क्षेत्रस्य हरणे दण्डा अधमोत्तममध्यमाः ॥१५५ ॥ अनेकक्षेत्रव्यवच्छेदिका साधारणा भूर्मर्यादा तस्याः प्रकर्षेण भेदने सीमातिक्रमणे सीमामतिलय कर्षणे क्षेत्रस्य च भयादिप्रदर्शनेन हरणे यथाक्रमेण अधमोत्तममध्यमसाहसा दण्डा वेदितव्याः । क्षेत्रग्रहणं चात्र गृहारामाधुपलक्षणार्थम् । यदा पुनः स्वीयभ्रान्त्या क्षेत्रादिकमपहरति तदा द्विशतो दमो वेदितव्यः । यथाह मनुः (८१६४ )-'गृहं तडागमारामं क्षेत्रं वा भीषया हरन् । शतानि पञ्च दण्ड्यः स्यादज्ञानाविशतो दमः ॥' इति । अपहियमाणक्षेत्रादिभूयस्त्वपर्यालोचनया कदाचिदुत्तमोऽपि दण्डः प्रयोक्तव्यः । अतएवाह-वधः सर्वस्वहरणं पुरान्निर्वासनाङ्कने । तदङ्गच्छेद इत्युक्तो दण्ड उत्तमसाहसः॥' इति ॥ १५५ ॥
यः पुनः परक्षेत्रे सेतुकूपादिकं प्रार्थनयार्थदानेन वा लब्धानुज्ञो निर्मातुमिच्छति तनिषेधतः क्षेत्रस्वामिन एव दण्ड इत्याह
न निषेध्योऽल्पयाधस्तु सेतुः कल्याणकारकः ।
परभूमि हरन्कूपः स्वल्पक्षेत्रो बहूदकः ॥ १५६॥ परकीयां भूमिमपहरन्नाशयन्नपि सेतुर्जलप्रवाहबन्धः क्षेत्रस्वामिना न प्रतिषेध्यः स चेदीषत्पीडाकरो बहूपकारकश्च भवति । कूपश्चाल्पक्षेत्रव्यापित्वेना.
ritainamainanimuanianimarsinnar
a
१ पलालादिकूटाद्यर्थ घ. २ साधारणी ग. ३ सीमामनतिलङ्घय ख.
ASHURNENaauruNTwiw
For Private And Personal Use Only
Page #269
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
खामिपालविवादप्र० १०] मिताक्षरासहिता ।
२३७ रूपबाधो बहूदकत्वेन कल्याणकारकश्वेतो बहूदको नैव निवारणीयः। कूपनहणं च वापीपुष्करिण्याधुपलक्षणार्थम् । यदा पुनरसौ सर्व क्षेत्रवर्तितया बहुबाधो नद्यादिसमीपक्षेत्रवर्तितया वाल्पोपकारकस्तदासौ निषेध्य इत्यर्थादुक्तं भवति ॥ सेतोश्च द्वैविध्यमुक्तं नारदेन 'सेतुश्च द्विविधो ज्ञेयः खेयो बन्ध्यस्तथैव च । तोयप्रवर्तनात्खेयो बन्ध्यः स्यात्तन्निवर्तनात् ॥' इति ॥ यदा वन्यनिर्मितं सेतुं भेदनादिना नष्टं स्वयं संस्करोति तदा पूर्वस्वामिनं तद्वंश्य नृपं वा पृष्ट्वैव संस्कुर्यात् । यथाह नारद:-'पूर्वप्रवृत्तमुत्सन्नमपृष्ट्वा स्वामिनं तु यः । सेतुं प्रवर्तयेत्कश्चिन स तत्फलभाग्भवेत् ॥ मृते तु स्वामिनि पुनस्तद्वंश्ये वापि मानवे । राजानमामन्य ततः कुर्यात्सेतुप्रवर्तनम् ॥' इति १५६ क्षेत्रस्वामिनं प्रत्युपदिष्टम् । इदानी सेतोः प्रवर्तयितारं प्रत्याह
स्वामिने योनिवेद्यैव क्षेत्रे सेतुं प्रवर्तयेत् ।
उत्पन्ने खामिनो भोगस्तदभावे महीपतेः ॥ १५७ ॥ क्षेत्रस्वामिनमनभ्युपगम्य तदभावे राजानं वा यः परक्षेने सेतुं प्रवर्तयत्यसौ फलभाङ् न भवत्यपितु तदुत्पन्ने फले क्षेत्रस्वामिनो भोगस्तदभावे राज्ञः । तस्मात्प्रार्थनया अर्थदानेन वा क्षेत्रस्वामिनं तदभावे राजानं वानुज्ञाप्यैव पर. क्षेत्रे सेतुः प्रवर्तनीय इति तात्पर्यार्थः ॥ १५७ ॥
क्षेत्रस्वामिना सेतुर्न प्रतिषेध्य इत्युक्तम् । इदानीं तस्यैव प्रसक्तानुप्रसत्त्या कचिद्विध्यन्तरमाह
फालाहतमपि क्षेत्रं न कुर्याद्यो न कारयेत् ।
स प्रदाप्यः कृष्टफलं क्षेत्रमन्येन कारयेत् ॥ १५८ ॥ यः पुनः क्षेत्रस्वामिपाधै अहमिदं क्षेत्रं कृषामीत्यङ्गीकृत्य पश्चादुत्सृजति न चान्येन कर्षयति तच्च क्षेत्रं यद्यपि फालाहतं ईपद्धलेन विदारितं न सम्यग्बीजावापाई तथापि तस्याकृष्टस्य फलं यावत्तत्रोत्पत्त्यह सामन्तादिकल्पितं तावदसौ कर्षको दापनीयः । तच्च क्षेत्रं पूर्वकर्षकादाच्छिद्यान्येन कारयेत् ॥ १५८ ॥
इति सीमाविवादप्रकरणम् ।
अथ स्वामिपालविवादप्रकरणम् १० व्यवहारपदानां परस्परहेतुहेतुमद्भावाभावात् 'तेषामाद्यमृणादानम्' इत्यादिपाठक्रमो न विवक्षित इति व्युत्क्रमेण स्वामिपालविवादोऽभिधीयते
माषानष्टौ तु महिपी सस्थघातस्य कारिणी। - दण्डनीया तदर्थं तु गौस्तदर्धमजाविकम् ।। १५९ ॥ १ बहूपकारको नैव घ. २ समग्रक्षेत्र घ. ३ भ्युपगमय्य घ. ४ हेतुमद्भावात घ.
For Private And Personal Use Only
Page #270
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३८
याज्ञवल्क्यस्मृतिः।
[व्यवहाराध्यायः
परसस्यविनाशकारिणी महिषी अष्टौ माषान्दण्डनीया । गौस्तदधै चतुरो माषान् । अजा मेषाश्च माषद्वयं दण्डनीयाः। महिष्यादीनां धनसंबन्धभावात्तत्स्वामी पुरुषो लक्ष्यते। माषश्चात्र ताम्रिकपणस्य विंशतितमो भागः। 'माषो विंशतिमो भागः पणस्य परिकीर्तितः' इति नारदस्मरणात् । एतच्चाज्ञानविषयम् । ज्ञानपूर्वे तु 'पणस्य पादौ द्वौ गां तु द्विगुणं महिषी तथा । तथाऽजाविकवत्सानां पादो दण्डः प्रकीर्तितः ॥' इति स्मृत्यन्तरोक्तं द्रष्टव्यम् । यत्पुनर्नारदेनोक्तम्-'माषं गां दापयेद्दण्डं द्वौ माषौ महिषीं तथा । तथाजाविकवत्सानां दण्डः स्यादर्धमाषिकः ॥' इति तत्पुनःप्ररोहयोग्यमूलावशेषभक्षणविषयम् ॥ १५९॥ अपराधातिशयेन कचिद्दण्डद्वैगुण्यमाह
भक्षयित्वोपविष्टानां यथोक्ताद्विगुणो दमः । यदि पशवः परक्षेत्रे सस्यं भक्षयित्वा तत्रैवानिवारिताः शेरते तदा यथोताद्दण्डाविगुणो दण्डो वेदितव्यः। सवत्सानां पुनर्भक्षयित्वोपविष्टानां यथोक्तदण्डाच्चतुर्गुणो दण्डो वेदितव्यः । 'वसतां द्विगुणः प्रोक्तः सवत्सानां चतुर्गुणः' इति वचनात् ॥
क्षेत्रान्तरे पश्वन्तरे चातिदेशमाह___सममेषां विवीतेऽपि खरोष्ट्रं महिषीसमम् ॥ १६० ॥ विवीतः प्रचुरतृणकाष्ठो रक्ष्यमाणः परिगृहीतो भूप्रदेशः । तदुपघातेऽपीतरक्षेत्रदण्डेन समं दण्डमेषां महिण्यादीनां विद्यात् । खराश्च उष्ट्राश्व खरोष्ट्रं तन्महिषीसमम् । महिषी यत्र यादृशेन दण्डेन दण्ड्यते तत्र तादृशेनैव दण्डेन खरोष्ट्रमपि प्रत्येकं दण्डनीयम् । सस्योपरोधकत्वेन खरोष्ट्रयोः प्रत्येकं महिषीतुल्यत्वाद्दण्डस्य चापराधानुसारित्वात्खरोष्ट्रमिति समाहारो न विवक्षितः॥१६०॥
परसस्यविनाशे गोस्वामिनो दण्ड उक्तः । इदानी क्षेत्रस्वामिने फलमप्यसौ दापनीय इत्याह
यावत्सस्यं विनश्येत्तु तावत्स्यात्क्षेत्रिणः फलम् ।
गोपस्ताड्यश्च गोमी तु पूर्वोक्तं दण्डमर्हति ॥ १६१ ॥ सस्यग्रहणं क्षेत्रोपचयोपलक्षणार्थम् । यसिन्क्षेत्रे यावत्पलालधान्यादिकं गवादिभिर्विनाशितं तावत्क्षेत्रफलमेतावति क्षेत्रे एतावद्भवतीति सामन्तैः परिकल्पितं तत्क्षेत्रस्वामिने गोमी दापनीयः । गोपस्तु ताडनीय एव न फलं दापनीयः । गोपस्य च ताडनं पूर्वोक्तधनदण्डसहितमेव पालदोषेण सस्यनाशे द्रष्टव्यम् । 'या नष्टा पालदोषेण गौस्तु सस्यानि नाशयेत् । न तत्र गोमिनो दण्डः पालस्तं दण्डमर्हति ॥' इति वचनात् ॥ गोमी पुनः स्वापराधेन सस्यनाशे १ गां तद्विगुणं घ. २ गोमिनां दण्डः ख.
For Private And Personal Use Only
Page #271
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
खामिपालविवादप्र० १०] मिताक्षरासहिता।
२३९
पूर्वोक्तं दण्डमेवाहति न ताडनम् । फलदानं पुनः सर्वत्र गोस्वामिन एव । तत्फलपुष्टमहिष्यादिक्षीरेणोपभोगद्वारेण तत्क्षेत्रफलभागित्वात् । गवादिभक्षितावशिष्टं पलालादिकं गोमिनैव ग्रहीतव्यम् । मध्यस्थकल्पितैमूल्यदानेन क्रीतप्रायत्वात् । अतएव नारदः-गोभिस्तु भक्षितं सस्यं यो नरः प्रतियाचते । सामन्तानुमतं देयं धान्यं यत्तत्र वापितम् ॥ पलालं गोमिने देयं धान्यं वै कर्षकस्य तु ॥' इति ॥ १६१ ॥ क्षेत्रविशेषे अपवादमाह
पथि ग्रामविवीतान्ते क्षेत्रे दोषो न विद्यते ।।
अकामतः कामचारे चौरवद्दण्डमहति ॥ १६२ ॥ पथि ग्रामसमीपवर्तिनि क्षेत्रे ग्रामविवीतसमीपवर्तिनि च क्षेत्रे अकामतो गोमिक्षिते गोपगोमिनोईयोरप्यदोषः। दोषाभावप्रतिपादनं च दण्डाभावार्थ विनष्टसस्यमूल्यदानप्रतिषेधार्थ च । कामचारे कामतश्चारणे चौरवत् चौरस्य यादृशो दण्डस्तादृशं दण्डमर्हति । एतच्चानावृतक्षेत्रविषयम् । (मनुः ८३२३८) -'यत्रापरिवृतं धान्यं विहिंस्युः पशवो यदि । न तत्र प्रणयेद्दण्डं नृपतिः पशुरक्षिणाम् ॥' इति दण्डाभावस्थानावृतक्षेत्रविषयत्वेन मनुनोक्तत्वात् ॥ आवृते पुनर्मार्गादिक्षेत्रेऽपि दोषोऽस्त्येव । वृतिकरणं च तेनैवोक्तम् । (मनुः । २३९)-'वृतिं च तत्र कुर्वीत यामुष्ट्रो नावलोकयेत् । छिद्रं निवारयेत्सर्व श्वसूकरमुखानुगम् ॥' इति ॥ १६२ ॥ पशुविशेषेऽपि दण्डाभावमाह
महोशोत्सृष्टपशवः सूतिकागन्तुकादयः ।
पालो येषां न ते मोच्या दैवराजपरिप्लुताः ॥१६३ ॥ महांश्वासावुक्षा च महोक्षो वृषः सेक्ता। उत्सृष्टपशवः वृषोत्सर्गादिविधानेन देवतोद्देशेन वा त्यक्ताः । सूतिका प्रसूता अनिर्दशाहा । आगन्तुकः स्वयूथात्परिभ्रष्टो देशान्तरागतः । एते मोच्याः परसस्यभक्षणेऽपि न दण्ड्याः । येषां च पालो न विद्यते तेऽपि देवराजपरिप्लुताः दैवराजोपहताः सस्यविनाशकारिणो
न दण्ड्याः । आदिशब्दग्रहणाद्धस्त्यश्वादयो गृह्यन्ते । ते चोशनसोक्ताः–'अद• ण्ड्या हस्तिनो ह्यश्वाः प्रजापाला हि ते स्मृताः । अंदण्ड्यौ काणकुब्जौ च ये
शश्वत्कृतलक्षणाः ॥ अदण्ड्यागन्तुकी गौश्च सूतिका वाभिसारिणी । अदण्ड्याश्चोत्सवे गावः श्राद्धकाले तथैव च ॥' इति । अत्रोत्सृष्टपशूनामस्वामिकरवेन दण्डयत्वासंभवात् दृष्टान्तार्थमुपादानम् । यथोत्सृष्टपशवो न दण्ड्या एवं महोशादय इति ॥ १६३ ॥
१ गोमिन एव ग. २ मूल्यद्वारेण घ. ३ गोमिनो देयं ख. ४ अदण्ड्याः काणकूटाश्च वृताश्च कृतलक्षणाः इति पाठः । कूटः एकशंगः । कृतलक्षणः प्रतप्तायसेन कृतलाञ्छनः. ५ अमिसारिणी स्वयूथात्प्रच्युता पुनः स्वयूथगामिनी.
For Private And Personal Use Only
Page #272
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-
-
२४०
याज्ञवल्क्यस्मृतिः। [व्यवहाराध्यायः गोस्वामिना उक्तम् । इदानीं गोपं प्रत्युपदिश्यते
यथार्पितान्पशून्गोपः सायं प्रत्यर्पयेत्तथा।
प्रमादमृतनष्टांश्च प्रदाप्यः कृतवेतनः ॥१६४ ॥ गोस्वामिना प्रातःकाले गणयित्वा यथा समर्पिताः पशवस्तथैव सायंकाले गोपो गोस्वामिने पशून् विगणय्य प्रत्यर्पयेत् । प्रमादेन स्वापराधेन मृतानष्टांश्च पशून् कृतवेतनः कल्पितवेतनो गोपः स्वामिने दाष्यः । वेतनकल्पना च नारदेनोक्ता-गवां शताद्वत्सतरी धेनुः स्याविशताभृतिः । प्रतिसंवत्सरं गोपे संदोहश्वाष्टमेऽहनि ॥' इति । प्रमादनाशश्च मनुना स्पष्टीकृतः ( २३२)–'नष्टं जग्धं च कृमिभिः श्वहतं विषमे मृतम् । हीनं पुरुषकारेण प्रदद्यात्पाल एव तु ॥' इति ॥ प्रसह्य चौरैरैपहृतं न दाप्यः । यथाह मनुः (१२३३)-'विक्रम्य तु हृतं चौरैर्न पालो दातुमर्हति । यदि देशे च काले च स्वामिनः स्वस्य शंसति ॥' इति । दैवमृतानां पुनः कर्णादि प्रदर्शनीयम् । (१२३४) 'कौं चर्म च वालांश्च बस्ति स्नायुं च रोचनाम् । पंशुषु स्वामिनां दद्यान्मृतेष्वङ्गानि दर्शयन् ॥' इति मनुस्मरणात् ॥ १६४ ॥
पालदोषविनाशे तु पाले दण्डो विधीयते ।
अंधत्रयोदशपणः स्वामिनो द्रव्यमेव च ॥ १६५ ।। किंच पालदोषेणैव पशुविनाशे अंर्धाधिकत्रयोदशपणं दण्डं पालो दाप्यः। वामिनश्च द्रव्यं विनष्टपशुमूल्यं मध्यस्थकल्पितम् । दण्डपरिमाणार्थः श्लोकोऽन्यत्पूर्वोक्तमेव ॥ १६५ ॥ गोप्रसङ्गात् गोप्रचारमाह
ग्राम्येच्छया गोप्रचारो भूमी राजवशेन वा ।
द्विजस्तृणैधःपुष्पाणि सर्वतः सर्वदा हरेत् ॥ १६६ ॥ ग्राम्येच्छया ग्राम्यजनेच्छया भूम्यल्पत्वमहत्त्वापेक्षया राजेच्छया वा गोप्रचारः कर्तव्यः । गवादीनां चरणार्थ कियानपि भूभागोऽकृष्टः परिकल्पनीय इत्यथैः । द्विजस्तृणेन्धनाद्यभावे गवाग्निदेवतार्थ तृणकाष्ठकुसुमानि सर्वतः स्ववदनिवारित आहरेत् । फलानि त्वंपवृतादेव । 'गोप्यर्थ तृणमेधांसि वीरुद्वनस्प
१ द्विशतामृतिः घ. २ अपहृतान् ख. ३ विघुष्यत्विति पाठान्तरम्. ४ दैवराजमृतानां ख. ५ लायूनि रोचनाम्।६ पशुस्वामिषु दद्यात्तु मृतेष्वङ्गानि घ. पशुस्वामिषु दद्यात्तु मृतेष्वङ्गा ग. ७ अङ्कादि दर्शयेत् इति पाठः. ८ अर्धत्रयोदशपण इति अर्धरहितत्रयोदशपणः सार्धद्वादशपण इति यावत् । 'तास्तृतीयपूर्वपदाः समानाधिकरणेन समस्यन्त उत्तरपदलोपश्च' इति वार्तिकादुत्तरपदलोपी कर्मधारयः। यत्तु विज्ञानेश्वरेणार्धाषिकत्रयोदशपणो दण्ड इति व्याख्यातं तत् सार्धद्विमात्रादिषु अर्धत्रिमात्रादीति महाभाष्यकारशब्दप्रयोगदर्शनादुपेक्ष्यम्. ९ दोषेण पशु घ. १० ग्रामेच्छया ख. ११ प्रचारणार्थ ख. १२ त्वपरिवृतादेव ख.
For Private And Personal Use Only
Page #273
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अस्वामिविक्रयप्र० ११ ] मिताक्षरासहिता।
२४१
तीनां च पुष्पाणि स्ववदाददीत फलानि चापरिवृतानाम्' इति गौतममरणात् । एतच्च परिगृहीतविषयम् । अपरिगृहीते तु द्विजव्यतिरिक्तस्यापि परिग्रहादेव खत्वसिद्धेः । यथा तेनैवोक्तम्-'स्वामी रिक्थक्रयसंविभागपरिग्रहाधिगमेषु' इति । यत्पुनरुक्तम्-'तृणं वा यदि वा काष्ठं पुष्पं वा यदि वा फलम् । अनापृच्छन्हि गृह्णानो हस्तच्छेदनमर्हति ॥' इति, तविजव्यतिरिक्तविषयमनापद्विषयं वा गवादिव्यतिरिक्तविषयं वेति ॥ १६६ ॥ इदमपरं गवादीनां स्थानासनसौकर्यार्थमुच्यते
धनुःशतं परीणाहो ग्रामे क्षेत्रान्तरं भवेत् ।
द्वे शते खर्वटस्य सान्नगरस्य चतुःशतम् ॥ १६७ ॥ ग्रामक्षेत्रयोरन्तरं धनुःशतपरिमितं परिणाहः । सर्वतोदिशेमनुप्तसस्य कार्यम् । खर्वटस्य प्रचुरकण्टकसन्तानस्य ग्रामस्य द्वे शतं परिणाहः । नगरस्य .. बहुजनसंकीर्णस्य धनुषां चतुःशतपरिमितमन्तरं कार्यम् ॥ १६७ ॥
इति स्वामिपालविवादप्रकरणम् ।
अथावामिविक्रयप्रकरणम् ११ संप्रत्यस्वामिविक्रयाख्यं व्यवहारपदमुपक्रमते । तस्य च लक्षणं नारदेनोक्तम्-'निक्षिप्तं वा परद्रव्यं नष्टं लब्ध्वापहृत्य वा । विक्रीयते समक्षं यत्स ज्ञेयोऽस्वामिविक्रयः ॥' इति, तत्र किमित्याह
खं लभेतान्यविक्रीतं ऋतुर्दोषोऽप्रकाशिते ।
हीनाद्रहो हीनमूल्ये वेलाहीने च तस्करः ॥ १६८ ॥ स्वमात्मसंबन्धि द्रव्यं अन्यविक्रीतमस्वामिविक्रीत यदि पश्यति तदा लभेत गृह्णीयात् । अस्वामिविक्रयस्य स्वत्वहेतुत्वाभावात् । विक्रीतग्रहणं दत्ताहितयोरुपलक्षणार्थम् । अस्वामिविक्रीतत्वेन तुल्यत्वात् । अतएवोक्तम्-'अस्वामिविक्रय दानमाधिं च विनिवर्तयेत्' इति । केतुः पुनरप्रकाशिते गोपिते केंय्ये दोषो भवति । तथा हीनात्तत्तद्रव्यागमोपायहीनाद्रहसि चैकान्ते संभाव्यद्रव्यादपि हीनमूल्येनाल्पतरेण च मूल्येन क्रये वेलाहीने वेलया हीनो वेलाहीनः क्रयो राज्यादौ कृतस्तत्र च क्रेता तस्करो भवति । तस्करवद्दण्डादिभाग्भवतीत्यर्थः । यथोक्तम्-'द्रव्यमस्वामिविक्रीतं प्राप्य स्वामी तदाप्नुयात् । प्रकाशे क्रयतः शुद्धिः केतुः स्तेयं रहःक्रयात् ॥' इति ॥ १६८ ॥
१ दिक्ष्वनुप्तसस्यं घ. २ परीणाहः ख. ३ अस्वामिक्रीन ख. ४ क्रये घ.
For Private And Personal Use Only
Page #274
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४२
याज्ञवल्क्यस्मृतिः। [व्यवहाराध्यायः स्वाम्यभियुक्तेन क्रेत्रा किं कर्तव्यमित्यत आह
नष्टापहृतमासाद्य हतारं ग्राहयेनरम् ।
देशकालातिपत्तौ च गृहीत्वा स्वयमर्पयेत् ॥ १६९ ॥ नष्टमवहृतं वान्यदीयं क्रयादिना प्राप्य हर्तारं विक्रेतीरं नरं ग्राहयेत् चौरोद्धरणकादिभिः आत्मविशुद्ध्यर्थं राजदण्डाप्राप्त्यर्थं च । अथाविदितदेशान्तरं गतः कालान्तरे वा विपन्नस्तदा मूलसमाहरणाशक्तेविक्रेतारमदर्शयित्वैव स्वयमेव तद्धनं नाष्टिकस्य समर्पयेत् । तावतैवासौ शुद्धो भवतीति श्रीकराचार्येण व्याख्यातं तदिदमनुपपन्नम्। 'विक्रेतुर्दर्शनाच्छुद्धिः' इत्यनेन पौनरुक्त्यप्रसङ्गात् । अतोन्यथा व्याख्यायते । नष्टापहृतमिति नाष्टिकं प्रत्ययमुपदेशः । नष्टमपहृतं वात्मीयद्रव्यमासाद्य केतुर्हस्तस्थं ज्ञात्वा तं हारं क्रेतारं स्थानपालादिभिहियेत् । देशकालातिपत्तौ देशकालातिकमे स्थानपालाद्यसंनिधाने तद्विज्ञोपनकालाप्राक् पलायनशङ्कायां स्वयमेव गृहीत्वा तेभ्यः समर्पयेत् ॥ १६९ ॥ ग्राहिते हर्तरि किं कर्तव्यमित्यत आह
विक्रेतुर्दर्शनाच्छुद्धिः स्वामी द्रव्यं नृपो दमम् ।
क्रेता मूल्यमवाप्नोति तस्माद्यस्तस्य विक्रयी ॥ १७० ॥ यद्यसौ गृहीतः क्रेता न मयेदमपहृतमन्यसकशात्क्रीतमिति वक्ति तदा तस्य केतुर्विक्रेतुर्दर्शनमात्रेण शुद्धिर्भवति । न पुनरसाघभियोज्यः । किंतु तस्प्रदर्शितेन विक्रेत्रा सह नाष्टिकस्य विवादः ॥ यथाह बृहस्पतिः-'मूले समाहृते क्रेता नाभियोज्यः कथंचन । मूलेन सह वादस्तु नाष्टिकस्य विधीयते ॥' इति ॥ तस्मिन् विवादे यद्यस्वामिविक्रयनिश्चयो भवति तदा तस्य नष्टापहृतस्य गवादिद्रव्यस्य यो विक्रयी विक्रेता तस्य सकाशात्स्वामी नाष्टिकः। खीयं द्रव्यमवाप्नोति, नृपश्चापराधानुरूपं दण्डं, क्रेता चमूल्यमवाप्नोति। नाष्टिकः अथासौ देशान्तरगतस्तदा योजनसंख्यया आनयनाथ कालो देयः। -'प्रकाशं वा कयं कुर्यान्मूलं वापि समर्पयेत् । मूलानयनकालश्च देयस्तत्राध्वसंख्यया ॥' इति स्मरणात् ॥ अथाविज्ञातदेशतया मूलमाहर्तुं न शक्नोति तदा क्रयं शोधयित्वैव शुद्धो भवति ।-'असमाहार्यमूलस्तु क्रयमेव विशोधयेत्' इति वचनात् ॥ 'यदा पुनः साक्ष्यादिभिर्दिव्येन वा क्रयं न शोधयति मूलं च न प्रदशर्यति तदा सएव दण्डभाग्भवति ॥' इति । -'अनुपस्थापयन्मूलं क्रयं वाप्यविशोधयन् । यथाभियोगं धनिने धनं दाप्यो दमं च सः' ॥ इति मनुस्मरणात् ॥ १७ ॥ खं लभेतान्यविक्रीतमित्युक्तं तल्लिप्सुना किं कर्तव्यमित्यत आह
आगमेनोपभोगेन नष्टं भाव्यमतोऽन्यथा ।
पञ्चबन्धो दमस्तस्य राज्ञे तेनाविभाविते ॥ १७१ ॥ - १ विक्रेतारं ग्राहयेत् ग. २ तद्विज्ञापकात्प्राक् घ.
For Private And Personal Use Only
Page #275
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अस्वामिविक्रयप्र० ११] मिताक्षरासहिता।
२४३
आगमेन रिक्थक्रयादिना उपभोगेन च मदीयमिदं द्रव्यं तचैवं नष्टमपहृत वेत्यपि भाव्यं साधनीयं तत्स्वामिना । अतोऽन्यथा तेन स्वामिना अविभाविते पञ्चबन्धो नष्टद्रव्यस्य पञ्चमांशो दमो नाष्टिकेन राज्ञे देयः । अत्र चायं क्रमः । पूर्वस्वामी नष्टमात्मीयं साधयेत् । ततः क्रेता चौर्यपरिहारार्थ मूल्यलाभाय च विक्रेतारमानयेत् । अथानेतुं न शक्नोति तदात्मदोषपरिहाराय कयं शोधयित्वा द्रव्यं नाष्टिकस्य समर्पयेदिति ॥ १७१ ॥ तस्करस्य प्रच्छादकं प्रत्याह
हृतं प्रनष्टं यो द्रव्यं परहस्तादवाप्नुयात् ।
अनिवेद्य नृपे दण्ड्यः स तु षण्णवतिं पणान् ॥ १७२ ॥ हृतं प्रनष्टं वा चौरादिहस्तस्थं द्रव्यं अनेन मदीयं द्रव्यमपहृतमिति नृपस्यानिवेचैव दर्पादिना यो गृह्णाति असौ षडुत्तरानवतिं पणान्दण्डनीयः । तस्करप्रच्छादकत्वेन दुष्टत्वात् ॥ १७२ ॥ राजपुरुषानीतं प्रत्याह
शौल्किकैः स्थानपालैर्वा नष्टापहृतमाहृतम् ।
अक्सिंवत्सरात्स्वामी हरेत परतो नृपः ॥ १७३ ॥ यदा तु शुल्काधिकारिभिः स्थानरक्षिभिर्वा नष्टमपहृतं द्रव्यं राजपा प्रत्यानीतं तदा संवत्सरादाक् प्राप्तश्चेत् नाष्टिकस्तद्रव्यमवाप्नुयात् । अर्वं पुनः संवत्सरागाजा गृह्णीयात् । स्वपुरुषानीतं च द्रव्यं जनसमूहेद्धोष्य यावरसंवत्सरं राज्ञा रक्षणीयम् । यथाह गौतमः-'प्रनष्टस्वामिकमधिगम्य राजे प्रब्रूयुर्विख्यातं संवत्सरं राज्ञा रक्ष्यम्' इति । यत्पुनर्मनुना विध्यन्तरमुक्तम् (८३०)-'प्रनष्टस्वामिकं द्रव्यं राजा ज्यब्दं निधापयेत् । अर्वांक व्यब्दाद्धरेत्स्वामी परतो नृपतिहरेत् ॥' इति तच्छुतवृत्तसंपन्नब्राह्मणविषयम् । रक्षणनिमित्तपनागादिग्रहणं च तेनैवोक्तम् ( मनुः ८।३३ )-'आददीताथ षड्भागं प्रनष्टाधिगतान्नृपः । दशमं द्वादशं वापि सतां धर्ममनुस्मरन् ॥' इति ॥ तृतीयद्वितीयप्रथमसंवत्सरेषु यथाक्रमं षष्ठादयो भागा वेदितव्याः। प्रपश्चितं चैतत्पुरस्तात् ॥ १७३ ॥ मनूक्तषड्भागादिग्रहणस्य द्रव्यविशेषेऽपवादमाहपणानेकशफे दद्याचतुरः पञ्च मानुषे ।
महिपोष्ट्रगवां द्वौ द्वौ पादं पादमजाविक ॥ १७४ ॥ एकशफे अश्वादौ प्रनष्टाधिगते तत्स्वामी राजे रक्षणनिमित्तं चतुरः पणान्दचात् । मानुषे मनुष्यजातीये द्रव्ये पञ्च पणान् । महिषोष्ट्रगवां रक्षणनिमित्तं
१ वेति भाव्यं घ. २ साधयित्वा ग. ३ माहिषोष्ट ग.
For Private And Personal Use Only
Page #276
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४४
याज्ञवल्क्यस्मृतिः।
[व्यवहाराध्यायः
प्रत्येकं द्वौ द्वौ पणौ अजाविके पुनः प्रत्येकं पादं पादम् । दद्यादिति सर्वत्रानुपज्यते । अजाविकमिति समासनिर्देशेऽपि पादं पादमिति वीप्साबलात्प्रत्येक संबन्धोऽवगम्यते ॥ १७४ ॥
इति अस्वामिविक्रयप्रकरणम् ।
अथ दत्ताप्रदानिकप्रकरणम् १२ अधुना विहिताविहितमार्गद्वयाश्रयतया दत्तानपकर्म दत्ताप्रदानिकमिति च लब्धाभिधानद्वयं दानाख्यं व्यवहारपदमभिधीयते । तत्स्वरूपं च नारदेनोकम्-'दत्वा द्रव्यमसम्यग्यः पुनरदातुमिच्छति । दत्ताप्रदानिकं नाम व्यवहारपदं हि तत् ॥' इति ॥ असम्यगविहितमार्गाश्रयेण द्रव्यं दत्त्वा पुनरादातुमिच्छति यस्मिन्विवादपदे तद्दत्ताप्रदानिकं दत्तस्याप्रदानं पुनर्हरणं यस्मिन्दानाख्ये तद्दत्ताप्रदानिक नाम व्यवहारपदम् । विहितमार्गाश्रयत्वेन तत्प्रति. पक्षभूतं तदेव व्यवहारपदं दत्तानंपकर्मेत्यर्थादुक्तं भवति । दत्तस्थानपकर्म अपुनरादौनाख्यं यत्र दानाख्ये विवादपदे तहत्तानपकर्म । तच्च देयादेयादिभेदेन चतुर्विधम् । यथाह नारद:--'अथ देयमदेयं च दत्तं वाऽदत्तमेव च । व्यवहारेषु विज्ञेयो दानमार्गश्चतुर्विधः ॥' इति । तत्र देयमित्यनिषिद्धदानक्रियायोग्यमुच्यते । अदेयमस्वतया निषिद्धतया वा दानानहम् । यत्पुनः प्रकृतिस्थेन दत्तमव्यावर्तनीयं तद्दत्तमुच्यते । अदत्तं तु यत्प्रत्याहरणीयं तस्कथ्यते । तदेतत्संक्षेपतो निरूपयितुमाह
खं कुटुम्बाविरोधेन देयं स्वमात्मीयं कुटुम्बाविरोधेन कुटुम्बानुपरोधेन । कुटुम्बभरणावशिष्टमिति यावत् । तद्दद्यात् । तदरणस्यावश्यकत्वात् । यथाह मनुः ( ८।३५)-'वृद्धौ च मातापितरौ साध्वी भार्या सुतः शिशुः । अप्यकार्यशतं कृत्वा भर्तव्या मनुरब्रवीत् ॥' इति । स्वं कुटुम्बाविरोधेनेत्यनेनादेयमेकविधं दर्शयति । स्वं दद्यादित्यनेन चास्वभूतानामन्वाहितयाचितकाधिसाधारणनिक्षेपाणां पञ्चानामप्यदे यत्वं व्यतिरेकतो दर्शितम् ॥ यत्पुनर्नारदेनाष्टविधत्वमदेयानामुक्तम्-'अन्वाहितं याचितकमाधिः साधारणं च यत् । निक्षेपः पुत्रदारांश्च सर्वस्वं चान्वये सति ॥ आपत्स्वपि हि कष्टासु वर्तमानेन देहिना । अदेयान्याहुराचार्या यच्चान्यस्मै प्रतिश्रुतम् ॥' इति ॥ एतददेयत्वमात्राभिप्रायेण न पुनः स्वत्वाभावाभिप्रायेण । पुत्रदारसर्वस्वप्रतिश्रुतेषु स्वत्वस्य सद्भावात् । अन्वाहितादीनां खरूपं प्रागेव प्रपञ्चितम् ॥
१ दत्तानपाकर्म ख. २ व्यवहारपदे ग. ३ रादानं ग. ४ पुत्रदारं च ग.
For Private And Personal Use Only
Page #277
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दत्ताप्रदानिकप्र० १२ ] मिताक्षरासहिता ।
२४५
खं दद्यादित्यनेन दारसुतादेरपि स्वत्वाविशेषेण देयत्वप्रसङ्गे प्रतिषेधमाह
दारसुताहते। नान्वये सति सर्वस्वं यच्चान्यसै प्रतिश्रुतम् ॥ १७५ ॥ दारसुताहते दारसुतव्यतिरिक्तं खं दद्यान्न दारसुतमित्यर्थः । तथा पुत्रपौत्रायन्वये विद्यमाने सर्व धनं न दद्यात् । 'पुत्रानुत्पाद्य संस्कृत्य वृत्तिं चैषां प्रकल्पयेत्' इति स्मरणात् । तथा हिरण्यादिकमन्यस्मै प्रतिश्रुतमन्यस्मै न देयम् ॥ १७५ ॥
एवं दारसुताव्यतिरिक्तं देयमुक्त्वा प्रसङ्गाददेयधनग्रहणं च प्रतिगृहीत्रा प्रकाशमेव कर्तव्यमित्याह
प्रतिग्रहः प्रकाशः स्यात्स्थावरस्य विशेषतः । प्रतिग्रहणं प्रतिग्रहः सः प्रकाशः कर्तव्यो विवादनिराकरणार्थम् । स्थावरस्य च विशेषतः प्रकाशमेव ग्रहणं कार्यम् । तस्य सुवर्णादिवदात्मनि स्थितस्य दर्शयितुमशक्यत्वात् ॥ एवं प्रासङ्गिकमुक्त्वा प्रकृतमनुसरन्नाह
देयं प्रतिश्रुतं चैव दत्त्वा नापहरेत्पुनः ॥ १७६ ॥ देयं प्रतिश्रुतं चैव यद्यस्मै धर्मार्थ प्रतिश्रुतं तत्तस्मै देयमेव यद्यसौ धा. त्प्रच्युतो न भवति । प्रच्युते न पुनर्दातव्यम् । 'प्रतिश्रुत्याप्यधर्मसंयुक्ताय न दद्यात्' इति गौतमस्मरणात् । दत्त्वा नापहरेत्पुनः । न्यायमार्गेण यद्दत्तं तत्सप्तविधमपि पुनर्नापहर्तव्यम्, किंतु तथैवानुमन्तव्यम् । यत्पुनरन्यायेन दत्तं तददत्तं पोडशप्रकारमपि प्रत्याहर्तव्यमेवेत्यर्थादुक्तं भवति । नारदेन च-'दत्तं सप्तविधं प्रोक्तमदत्तं पोडशात्मकम्' इति प्रतिपाद्य दत्तादत्तयोः स्वरूपं विवृतम् --'पण्यमूल्यं भृतिस्तुष्ट्या स्नेहात्प्रत्युपकारतः । स्त्रीशुल्कानुग्रहार्थं च दत्तं दानविदो विदुः ॥ अदत्तं तु भयक्रोधशोकवेगरुगन्वितैः । तथोत्कोचपरीहासव्यत्यासच्छलयोगतः ॥ बालमूढास्वतन्त्रातमत्तोन्मत्तापवर्जितम् । कर्ता ममेदं कर्मेति प्रतिलाभेच्छया च यत् ॥ अपात्रे पात्रमित्युक्त कार्ये वा धर्मसंहिते । यद्दत्तं स्यादविज्ञानाददत्तमिति तत्स्मृतम् ॥' इति ॥ अयमर्थः-पण्यस्य क्रीतद्रव्यस्य यन्मूल्यं दत्तम्, भृतिवेतनं कृतकर्मणे दत्तम्, तुष्ट्या बन्दिचारणादिभ्यो दत्तम् , स्नेहाद्दुहितृपुत्रादिभ्यो दत्तम्, प्रत्युपकारतः उपकृतवते प्रत्युपकाररूपेण दत्तम्, स्त्रीशुल्कं परिणयनार्थं कन्याज्ञातिभ्यो यद्दत्तम्, यच्चानुग्रहार्थमदृष्टार्थ दत्तं तदेतत्सप्तविधमपि दत्तमेव न प्रत्याहरणीयम् । भयेन बन्दिग्राहादिभ्यो दत्तम् , क्रोधेन पुत्रादिभ्यो वैरनिर्यातनायान्यसै दत्तम् , पुत्रवियोगादिनिमित्तशोकावेशेन दत्तम्, उत्कोचेन कार्यप्रतिबन्धनिरासार्थमधिकृतेभ्यो दत्तम्,
१ धर्मप्रच्युतो घ. २ धर्मसंयुते ख. ३ उपकृते घ. ४ पुत्रादिवैर घ.
For Private And Personal Use Only
Page #278
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४६
याज्ञवल्क्यस्मृतिः।
[व्यवहाराध्यायः
परिहासेनोपहासेन दत्तम् । एकः स्वं द्रव्यमन्यस्मै ददात्यन्योऽपि तस्मै ददातीति दानव्यत्यासः । छलयोगतः शतदानमभिसंधाय सहस्रमिति परिभाष्य ददाति । बालेनोप्राप्तपोडशवर्षेण । मूढेन लोकवादानभिज्ञेन । अस्वतन्त्रेण पुत्रदासादिना । आर्तेन रोगाभिभूतेन । मत्तेन मदनीयमत्तेन । उन्मत्तेन वातिकाधुन्मादग्रस्तेन अपवर्जितं दत्तम् , यथायं मंदीयमिदं कर्म करिष्यतीति प्रतिलाभेच्छया दत्तम् , अचतुर्वेदाय चतुर्वेदोऽहमित्युक्तवते दत्तम्, यज्ञं करिष्या. मीति धनं लब्ध्वा द्यूतादौ विनियुञ्जानाय दत्तमित्येवं पोडशप्रकारमपि दत्त. मदत्तमित्युच्यते । प्रत्याहरणीयत्वात् । आदित्तस्यादत्तत्वं धर्मकार्यव्यतिरिक्तविषयम् । 'स्वस्थेनार्तेन वा दत्तं श्रावितं धर्मकारणात् । अदत्त्वा तु मृते दाप्यस्तत्सुतो नात्र संशयः ॥' कात्यायनस्मरणात् ॥ तथेदमपरं । संक्षिप्तार्थवचनं सर्वविवादसाधारणम् ॥ (मनुः ८।१६५)-'योगाधमनविक्रीतं योगदानप्रतिग्रहम् । यस्य वाप्युपधिं पश्येत्तत्सर्वं विनिवर्तयेत् ॥' इति ॥ योग उपाधिः । येनागामिनोपाधिविशेषेणाधिविक्रयदानप्रतिग्रहाः कृतास्तदुपाधिविगॅमे तान् ऋयादीन्विनिवर्तयेदित्यस्यार्थः । यः पुनः षोडशप्रकारमपि अदत्तं गृह्णाति यश्चादेयं प्रयच्छति तयोर्दण्डो नारदेनोक्तः–'गृह्णात्यदत्तं यो लोभाघश्चादेयं प्रयच्छति । अदेयदायको दण्ड्यस्तथा दत्तप्रतीच्छकः ॥' इति ॥१७६॥
इति दत्ताप्रदानिकं नाम प्रकरणम् ।
अथ क्रीतानुशयप्रकरणम् १३ अथ क्रीतानुशयः कथ्यते । तत्स्वरूपं नारदेनोक्तम्-'क्रीत्वा मूल्येन यः पण्यं क्रेता न बहु मन्यते । क्रीतानुशय इत्येतद्विवादपदमुच्यते ॥' इति ॥ तत्र च यस्मिन्नहनि पण्यं क्रीतं तस्मिन्नेवाह्नि तदविकृतं प्रत्यर्पणीयमिति तेनैवोक्तम् -'क्रीत्वा मूल्येन यत्पण्यं दुःक्रीतं मन्यते कयी। विक्रेतुः प्रतिदेयं तत्तर्सिन्नेवाह्वयविक्षतम् ॥' इति । द्वितीयादिदिने तु प्रत्यर्पणे विशेषस्तेनैवोक्तः-द्वितीयेह्नि ददरक्रेता मूल्यात्रिंशांशमाहरेत् । द्विगुणं तु तृतीयेऽह्नि परतः केतुरेव तत् ॥' इति ॥ परतोऽनुशयो न कर्तव्य इत्यर्थः । एतच्च बीजातिरिक्तोपभोगादिविनश्वरवस्तुविषयम्बीजादिक्रये पुनरन्य एव प्रत्यर्पणविधिरित्याह
दशैकपञ्चसप्ताहमासव्यहार्धमासिकम् ।
बीजायोवाह्यरत्नस्त्रीदोह्यपुंसां परीक्षणम् ॥ १७७ ॥ बीजं ब्रीह्यादिबीजम् । अयो लोहंम् । वाह्यो बलीवर्दादिः । रत्नं मुक्तामवा.
१ एकोऽपि स्वं द्रव्य ख. २ अप्राप्तव्यवहारेण ग. ३ लोकवेदा घ. ४ मदीयं कर्म ख. ५ धिगमे क्रयादीन् घ. ६ तस्मिन्नेवाह्नि वीक्षितमिति पाठः ७ मावहेत् ख. ८ लोहादि ख.
For Private And Personal Use Only
Page #279
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्रीतानुशयप्र० १३] मिताक्षरासहिता ।
लादि । स्त्री दासी । दोह्यं महिष्यादि । पुमान् दासः । एषां बीजादीनां यथाक्रमेण दशाहादिकः परीक्षाकालो विज्ञेयः । परीक्ष्यमाणे च बीजादौ यद्यसम्यक्वबुद्ध्यानुशयो भवति तदा दशाहाद्यभ्यन्तर एव क्रयनिवृत्ति पुनरूर्वमित्युपदेशप्रयोजनम् ॥ यत्तु मनुवचनम् (८२२२)-'क्रीत्वा विक्रीय वा किंचिद्यस्येहानुशयो भवेत् । सोऽन्तर्दशाहात्तद्र्व्यं दद्यान्चैवाददीत च ॥' इति, तदुक्तलोहादिव्यतिरिक्तोपभोगाविनश्वरगृहक्षेत्रयानशयनासनादिविषयम् । सर्वं चैतदपरीक्षितक्रीतविषयम् । यत्पुनः परीक्ष्य न पुनः प्रत्यर्पणीयमिति समयं कृत्वा क्रीतं तद्विक्रेत्रे न प्रत्यर्पणीयम् । तदुक्तम्-'क्रेता पण्यं परीक्षेत प्राक् स्वयं गुणदोषतः । परीक्ष्याभिमतं क्रीतं विक्रेतुर्न भवेत्पुनः ॥' इति ॥ १७७ ॥ दोह्यादिपरीक्षाप्रसन्नेन स्वर्णादेरपि परीक्षामाह
अग्नौ सुवर्णमक्षीणं रजते द्विपलं शते । __ अष्टौ त्रपुणि सीसे च ताने पञ्च दशायसि ॥ १७८ ॥
वह्नौ प्रताप्यमानं सुवर्णं न क्षीयते । अतः कटकादिनिर्माणार्थ यावत्स्वर्णकारहस्ते प्रक्षिप्तं तावत्तुलितं तैः प्रत्यर्पणीयम् । इतरथा क्षयं दाप्या दण्ड्याश्च । रजते तु शतपले प्रताप्यमाने पलद्वयं क्षीयते। अष्टौ पुणि सीसे च । शते इत्यनुवर्तते । त्रपुणि सीसे च शतपले प्रताप्यमानेऽष्टौ पलानि क्षीयन्ते । ताने पञ्चदशायसि ताने शतपले पञ्चपलानि । अयसि दशपलानि क्षीयन्ते । अत्रापि शत इत्येव । कांस्यस्य तु अपुताम्रयोनित्वात्तदनुसारेण क्षयः कल्पनीयः । वतोऽधिकक्षयकारिणः शिल्पिनो दण्ड्याः ॥ १७ ॥ कचित्कम्बलादौ वृद्धिमाह
शते दशपला वृद्धिरौर्णे कार्याससौत्रिके।
मध्ये पश्चपला वृद्धिः सूक्ष्मे तु त्रिपला मता ॥ १७९ ॥ स्थूलेनौर्णसूत्रेण यत्कम्बलादिकं क्रियते तस्मिन् शतपले दशपला वृद्धिर्वेदितव्या । एवं कार्पाससूत्रनिर्मिते पटादौ वेदितव्यम् । मध्ये अनतिसूक्ष्मसूत्रनिमिते पटादौ पञ्चपला वृद्धिः। सुसूक्ष्मसूत्ररचिते शते त्रिपला वृद्धिर्वेदितव्या । एतच्चाप्रक्षालितवासोविषयम् ॥ १७९ ॥ द्रव्यान्तरे विशेषमाह
कार्मिके रोमबद्धे च त्रिंशद्भागः क्षयो मतः।
न क्षयो न च वृद्धिश्च कौशेये वाल्कलेषु च ॥ १८० ॥ कार्मिकं कर्मणा चित्रेण निर्मितम् । यत्र निष्पन्ने पटे चक्रस्वस्तिकादिकं चित्रं सूत्रैः क्रियते तत्कार्मिकमित्युच्यते । यत्र प्रावारादौ रोमाणि बध्यन्ते स रोमबद्धः
marriaumatEAUSNESकालापर
---
-me
.
VEN sammtarantee ANAME
:
१ माहिष्यादि ख. २ पभोगविनश्वर ख. ३ परीक्षितं घ. ४ त्तदंशानुसारेण घ.५ इतो. ऽधिक ख. ६ वल्कलेपु. ७ चित्रं सूत्रैः ख. ८ प्रान्तादौ ग. ९ रोमबन्धः घ.
या०२४
anihari m ionlin
k
* Agarkon Narenmu
For Private And Personal Use Only
Page #280
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
T
-3
२४८
याज्ञवल्क्यस्मृतिः । [व्यवहाराध्यायः तत्र त्रिंशत्तमो भागः क्षयो वेदितव्यः। कौशेये कोशप्रभवे वाल्कलेषु वृक्षत्वङ्गिमितेषु वसनेषु वृद्धिहासौ न स्तः किंतु यावद्वयनाथ कुविन्दादिभ्यो दत्तं तावदेव प्रत्यादेयम् ॥ १८ ॥
द्रव्यानन्त्यात्प्रतिद्रव्यं क्षयवृद्धिप्रतिपादनाशक्तेः सामान्येन हासवृद्धिज्ञानोपायमाह
देशं कालं च भोगं च ज्ञात्वा नष्टे बलाबलम् ।
द्रव्याणां कुशला ब्रूयुर्यचद्दाप्यमसंशयम् ॥ १८१ ॥ शाणक्षौमादौ द्रव्ये नष्टे हासमुपगते द्रव्याणां कुशलाः द्रव्यवृद्धिक्षयाभिज्ञाः देशं कालमुपभोगं तथा नष्टद्रव्यस्य बलाबलं सारासारतां च परीक्ष्य यत्कल्पयन्ति तदसंशयं शिल्पिनो दाप्याः ॥ १८१॥
इति क्रीनुताशयप्रकरणम् ॥
अथाभ्युपेत्याशुश्रूषाप्रकरणम् १४ सांप्रतमभ्युपेत्याशुश्रूषाख्यमपरं विवादपदमभिधातुमुपक्रमते । तत्स्वरूपं च नारदेनोक्तम्-'अभ्युपेत्य तु शुश्रूषां यस्तां न प्रतिपद्यते । अशुश्रूषाभ्युपेत्यैतद्विवादपदमुच्यते ॥' इति । आज्ञाकरणं शुश्रूषा तामङ्गीकृत्य पश्चाद्यो न संपादयति तद्विवादपदमभ्युपेत्याशुश्रूषाख्यम् । शुश्रूषकश्च पञ्चविधः। शिष्योऽन्तेवासी भृतकोऽधिकर्मकृद्दास इति। तेषामाद्याश्चत्वारः कर्मकरा इत्युच्यन्ते ते च शुभकर्मकारिणः । दासाः पुनर्गृहजातादयः पञ्चदशप्रकाराः । गृहद्वाराशुचिस्थानरथ्यावस्करशोधनाघशुभकर्मकारिणः । तदिदं नारदेन स्पष्टीकृतम्-'शुश्रूषकः पञ्चविधः शास्त्रे दृष्टो मनीषिभिः। चतुर्विधाः कर्मकरास्तेषां दासास्त्रिपञ्चकाः ॥ शिष्यान्तेवासिप्रभृतकाश्चतुर्थस्त्वधिकर्मकृत् । एते कर्मकरा ज्ञेया दासास्तु गृहजादयः ॥ सामान्यमस्वतन्त्रत्वमेषामाहुर्मनीषिणः । जातिकर्मकृतस्तूक्तो विशेषो वृत्तिरेव च ॥ कर्मापि द्विविधं ज्ञेयमशुभं शुभमेव च । अशुभं दासकर्मोक्तं शुभं कर्मकृतां स्मृतम् ॥ गृहद्वाराशुचिस्थानरथ्यावस्करशोधनम् । गुह्याङ्गस्पर्शनोच्छिष्टविण्मूत्रग्रहणोज्झनम् ॥ इच्छतः स्वामिनश्वाङ्गैरुपस्थानमथान्ततः । अशुभं कर्म विज्ञेयं शुभमन्यदतः परम् ॥' इति ॥ तत्र शिष्यो वेदविद्यार्थी । अन्तेवासी शिल्पशिक्षार्थी । मूल्येन यः कर्म करोति स भृतकः । कर्मकुर्वतामधिष्ठाताधिकर्मकृत् । अशुचिस्थानमुच्छिष्टप्रक्षेपार्थे गादिकम् । अवस्करो गृहमार्जितपस्वादिनिचयस्थानम् । उज्झनं त्यागः । भृतकश्चात्र त्रिविधः । तदुक्तम्-'उत्तमस्त्वायुधीयोऽत्र मध्यमस्तु कृषीवलः । अधमो भारवाही स्यादित्येवं विविधो भृतः ॥' इति ॥ दासाः पुन:
१ यावद्वानार्थ घ. २ आज्ञाकारणं ख. ३ श्चाधिकर्मकृत् घ. ४ कर्मकरस्तूतो ख. ५ स्वामिनः स्वाङ्गै घ. ६ निर्वापस्थानम् घ.
For Private And Personal Use Only
Page #281
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अभ्युपेत्याशुश्रूषाप्र० १४ ] मिताक्षरासहिता ।
२४९
'गृहजातस्तथा क्रीतो लब्धो दायादुपागतः । अनाकालभृंतस्तद्वदाहितः स्वामिना च यः ॥ मोक्षितो महतश्चर्णायुद्धप्राप्तः पणे जितः । तवाहमित्युपगतः प्रव्रज्यावसितः ः कृतः ॥ भक्तदासश्च विज्ञेयस्तथैव वडवाहृतः । विक्रेता चात्मनः शास्त्रे दासाः पञ्चदश स्मृताः ॥ गृहे दास्यां जातो गृहजातः । क्रीतो मूल्येन लब्धः प्रतिग्रहादिना । दायादुपागतः पित्रादिदासः । अनाकालभृतो दुर्भिक्षे यो दासत्वाय मरणाद्वक्षितः । आहितः स्वामिना धनग्रहणेनाधितां नीतः । ऋणमोचनेन दासत्वमभ्युपगतो ऋणदासः । युद्धप्राप्तः समरे विजित्य गृहीतः । पणे जितो यद्यस्मिन्विवादे पराजितोऽहं तदा त्वद्दासो भवामीति परिभाष्य जितः । तवाहमित्युपगतः तवाहं दास इति स्वयं संप्रतिपन्नः । प्रव्रज्यावसितः प्रव्रज्यात युतः । कृतः एतावत्कालं त्वद्दास इत्यभ्युपगमितः । भक्तदासः सर्वकालं भक्तार्थमेव दासत्वमभ्युपगम्य यः प्रविष्टः । वडवाहृतः वडवा गृहदासी तयाहृतः तलोभेन तामुद्वाह्य दासत्वेन प्रविष्टः । य आत्मानं विक्रीणीतेऽसावात्मविक्रेतेत्येवं पञ्चदश प्रकाराः ॥ यत्तु मनुना ( ८ ४१५ ) - 'ध्वजा हृतो भक्तदासो गृहजः क्रीतदत्रिमौ । पैतृको दण्डदासश्च सप्तैते दासयोनयः ॥' इति सप्तविधत्वमुक्तं तत्तेषां दासत्वप्रतिपादनार्थे नतु परिसंख्यार्थम् । तत्रैषां शिव्यान्तेवासिभृतकाधिकर्मकृद्दासानां मध्ये शिष्यवृत्तिः प्रागेव प्रतिपादिता । --' आहूतश्चाप्यधीयीत लब्धं चास्मै निवेदयेत्' इत्यादिना । अधिकर्मकृद्भुतकानां तु भृतिं वेतनादानप्रकरणे वक्ष्यते । – 'यो यावत्कुरुते कर्म तावत्तस्य तु वेतनम्' इत्यादिना ॥
मासान्तेवासिनोस्तु धर्म विशेषं वक्तुमाह
बलाद्दासीकृतश्चोरैर्विक्रीतश्चापि मुच्यते । स्वामिप्राणप्रदो भक्तत्यागात्तन्निष्क्रयादपि ।। १८२ ॥
बलात् बलावष्टम्भेन यो दासीकृतः । यचैौरैरपहृत्य विक्रीतः । अपिशब्दादाहितो दत्तश्च स मुच्यते । यदि स्वामी न मुञ्चति तर्हि राज्ञा मोचयितव्यः । उक्तंच नारदेन - 'चौरापहृतविक्रीता ये च दासीकृता बलात् । राज्ञा मोचयितव्यास्ते दास्यं तेषु हि नेष्यते ॥' इति ॥ चैौरव्याघ्रायवरुद्धस्य स्वामिनः प्राणान्यः प्रददाति रक्षत्यसावपि मोर्चयितव्यः । तदिदं सर्वदासानां साधारणं दास्यनिवृत्तिकारणम् । - - ' यो वैषां स्वामिनं कश्चिन्मोचयेत्प्राणसंशयात् । दासत्वात्स विमुच्येत पुत्रभागं लभेत च ॥' इति नारदस्मरणात् ॥ भक्तदासादीनां प्रातिस्त्रिकमपि मोक्षकरणमुच्यते । अनाकालभृतभक्तदासौ भक्तस्य त्यागादासभावादारभ्य स्वामिद्रव्यं यावदुपभुक्तं तावद्दत्त्वा मुच्येते । आहितर्णदासौ तु तन्निष्क्रयाद्यद्गृहीत्वा स्वामिना आहितो यच्च दत्त्वा धनिनोत्तमर्णान्मोचितस्तस्य निष्क्रयात्सवृद्धिकस्य प्रत्यर्पणान्मुच्यते । नारदेन विशेपोऽप्युक्तः-
२ भृतश्चैव व २ मोचितो घ. ३ प्रतिपादनपरम् ख. ४ मोचनीयः घ.
For Private And Personal Use Only
Page #282
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५०
याज्ञवल्क्यस्मृतिः। [व्यवहाराध्यायः 'अनाकालभृतो दास्थान्मुच्यते गोयुगं ददत् । संभक्षितं यहुर्भिक्षे न तच्छुद्ध्येत कर्मणा ॥ भक्तस्योत्क्षेपणात्सद्यो भक्तदासः प्रमुच्यते । आहितोऽपि धनं दत्त्वा स्वामी यद्येनमुद्धरेत् ॥ ऋणं तु सोदयं दत्त्वा ऋणी दास्यात्प्रमुच्यते ॥' इति ।। तथा तवाहमित्युपगतयुद्धप्राप्तपणजिततकवडवाहतानां च प्रातिस्विकं मोच. नकारणं च तेनैवोक्तम् । यथा-'तवाहमित्युपगतो युद्धप्राप्तः पणे जितः। प्रेतिशीर्षप्रदानेन मुच्येरंस्तुल्यकर्मणा ॥ कृतकालव्यपगमात्कृतकोऽपि विमुच्यते । निग्रहाद्वडवायास्तु मुच्यते वडवाहृतः ॥' इति । दासेन सह संभोगनिरोधादित्यर्थः ॥ तदेवं गृहजातक्रीतलब्धदायप्राप्तात्मविक्रयिणां स्वामिप्राणप्रैदानतत्प्रसादरूपसाधारणकारणव्यतिरेकेण मोक्षो नास्ति । विशेषकारणानभिधानात् । दासमोक्षश्चानेन क्रमेण कर्तव्यः-'स्वं दासमिच्छेद्यः कर्तुमदासं प्रीतमानसः। स्कन्धादादाय तस्यासौ भिन्द्यात्कुम्भं सहाम्भसा ॥ साक्षताभिः सपुष्पाभिमूर्धन्यद्भिरवाकिरेत् । अदास इत्यथोक्त्वा निः प्राङ्मुखं तमवासृजेत् ॥' इति तेनैवोक्तम् ॥ १४२ ॥ प्रवज्यावसितस्य तु मोक्षो नास्तीत्याह
प्रव्रज्यावसितो राज्ञो दास आमरणान्तिकम् । प्रव्रज्या संन्यासस्ततोऽवसितः प्रच्युतः । अनभ्युपगतप्रायश्चित्तश्चेद्राज्ञ एव दासो भवति मरणमेव तद्दासत्वस्यान्तोऽन्यस्मिन्काले न मोक्षोऽस्ति ॥ वर्णापेक्षया दास्यव्यवस्थामाह
वर्णानामानुलोम्येन दास्यं तु प्रतिलोमतः ॥ १८३ ॥ ब्राह्मणादीनां वर्णानामानुलोम्योन दास्यम् । ब्राह्मणस्य क्षत्रियादयः । क्षत्रि. यस्य वैश्यशूद्रौ। वैश्यस्य शूद्र इत्येवमानुलोम्येन दासभावो भवति न प्राति. लोम्येन । स्वधर्मत्यागिनः पुनः परिव्राजकस्य प्रातिलोम्येनापि दासत्वमिष्यत एव । यथाह नारदः-वर्णानां प्रातिलोम्येन दासत्वं न विधीयते । स्वधर्मत्यागिनोऽन्यत्र दारवद्दासता मता ॥' इति ॥ १८३ ॥ भन्तेवासिधर्मानाह
कृतशिल्पोऽपि निवत्सेत्कृतकालं गुरोर्गृहे ।
अन्तेवासी गुरुप्राप्तभोजनस्तत्फलप्रदः॥१८४ ॥ अन्तेवासी गुरोर्गृहे कृतकालं वर्षचतुष्टयमायुर्वेदादिशिल्पशिक्षार्थ त्वद्हे वसामीति यावदङ्गीकृतं तावत्कालं वसेत् । यद्यपि वर्षचतुष्टयादगेव लब्धापेक्षितशिल्पविद्यः। कथं निवसेत् । गुरुप्राप्तभोजनः गुरोः सकाशात्प्राप्तं भोजनं येन स तथोक्तः । तत्फलप्रदः तस्य शिल्पस्य फलमाचार्याय प्रददातीति तत्फलप्रदः। एवंभूतो वसेत् । नारदेन विशेषोऽप्यत्र दर्शितः-स्वशिल्पमि
१ कृतवडवा घ. २ नारदेनैव. ३ प्रतिशीर्षः प्रतिनिधिः. ४ प्रदानात्तत्प्रसाद घ. ५ स्यान्तो नान्तरा प्रतिमोक्षोस्ति घ.
For Private And Personal Use Only
Page #283
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५१
संविब्यतिक्रमप्रकरणम् १५ ] मिताक्षरासहिता । च्छन्नाहर्तुं बान्धवानामनुज्ञया । आचार्यस्य वसेदन्ते कृत्वा कालं सुनिश्चितम् ॥ भाचार्यः शिक्षयेदेनं स्वगृहे दत्तभोजनम् । न चान्यत्कारयेत्कर्म पुनवचैनमाचरेत् ॥ शिक्षयन्तमसंदुष्टं य आचार्य परित्यजेत् । बलाद्वासयितव्यः स्याद्वधबन्धौ च सोऽहति ॥ शिक्षितोऽपि कृतं कालमन्तेवासी समाप्नुयात् । तत्र कर्म च यत्कुर्यादाचार्यस्यैव तत्फलम् ॥ गृहीतशिल्पः समये कृत्वाचार्य प्रदक्षिणम् । शिक्षितश्चानुमान्यैनमन्तेवासी निवर्तते ॥' इति ॥ वधशब्दोऽत्र ताडनार्थः दोषस्याल्पत्वात् ॥ १८४ ॥
इत्यभ्युपेत्याशुश्रूषाख्यं विवादप्रकरणम् ।
HTRIANDER
अथ संविधतिक्रमप्रकरणम् १५ संप्रति संविधतिक्रमः कथ्यते । तस्य च लक्षणं नारदेन व्यतिरेकमुखेन दर्शितम्-'पाखण्डिनैगमादीनां स्थितिः समय उच्यते। समयस्थानपाकर्म तद्विवादपदं स्मृतम् ॥' इति पारिभाषिकधर्मेण व्यवस्थानं समयस्तस्यानपाकमांव्यतिक्रमः परिपालनं तब्यतिक्रम्यमाणं विवादपदं भवतीत्यर्थः ॥ तदुपक्रमार्थ किंचिदाह
राजा कृत्वा पुरे स्थानं ब्राह्मणान्यस्य तत्र तु ।
विद्यं वृत्तिमद्यात्स्वधर्मः पाल्यतामिति ॥ १८५ ॥ राजा स्वपुरे दुर्गादौ स्थानं धवलगृहादिकं कृत्वा तत्र ब्राह्मणाच्यस्य स्थापयित्वा तद्राणिजातं त्रैविधं वेदत्रयसंपन्नं वृत्तिमद्भूहिरण्यादिसंपन्नं च कृत्वा स्वधर्मो वर्णाश्रमनिमित्तः श्रुतिस्मृतिविहितो भवद्भिरनुष्ठीयतामिति तान्ब्राह्मणान्बूयात् ॥ १८५॥ एवं नियुक्तैस्तैर्यत्कर्म कर्तव्यं तदाह
निजधर्माविरोधेन यस्तु सामायिको भवेत् ।
सोऽपि यत्नेन संरक्ष्यो धर्मो राजकृतश्च यः ॥१८६ ॥ श्रौतस्मार्तधर्मानुपमर्दैन समयानिष्पन्नो यो धर्मो गोप्रचारोदकरक्षणदेवगृहपालनादिरूपः सोऽपि यत्नेन पालनीयः । तथा राज्ञा च निजधर्माविरोधेनैव यः सामयिको धर्मो यावत्पथिकं भोजनं देयमस्मदरातिमण्डलं तुरङ्गादयो न प्रस्थापनीया इत्येवंरूपः कृतः सोऽपि रक्षणीयः ॥ १८६ ॥ एवं समयधर्मः परिपालनीय इत्युक्त्वा तदतिक्रमादौ दण्डमाह
गणद्रव्यं हरेद्यस्तु संविदं लङ्घयेच्च यः।
सर्वस्वहरणं कृत्वा तं राष्ट्राद्विप्रवासयेत् ॥ १८७॥ १ पाखण्डिनो वेदमार्गविरोधिनो वाणिज्यादिकराः । नैगमास्तदविरोधिनः । आदिपदेन विद्यानां ग्रहणम्. २ व्यवहारपदं घ. ३ तद्राह्मणवातं ख. ४ मण्डले घ.
For Private And Personal Use Only
Page #284
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५२
याज्ञवल्क्यस्मृतिः। [व्यवहाराध्यायः यः पुनर्गणस्य प्रामादिजनसमूहस्य संबन्धि साधारणं द्रव्यमपहरति । संवित् समयस्ता समूहकृतां राजकृतां वा यो लङ्घयेदतिकामेत्तदीयं सर्व धनमपहृत्य स्वराष्ट्राद्विप्रवासयेन्निष्कासयेत् ॥ अयं च दण्डोऽनुबन्धाद्यतिशये द्रष्टव्यः ॥ अनुबन्धाल्पत्वे तु (मनुः ८।२१९।२२०)-'यो ग्रामदेशसंघानां कृत्वा सत्वेन संविदम् । विसंवदेनरो लोभात्तं राष्ट्राद्विप्रवासयेत् ॥ निगृह्य दापयेदेनं समयव्यभिचारिणम् । चतुःसुवर्ण षनिष्कं शतमानं च राजतम् ॥' इति मनुप्रतिपादितदण्डानां निर्वासनचतुःसुवर्णषनिष्कशतमानानां चतुर्णामन्यतमो जातिशक्त्याद्यपेक्षया कल्पनीयः ॥ १८७ ॥
इदं च तैः कर्तव्यमित्याह__कर्तव्यं वचनं सर्वैः समूहहितवादिनाम् ।
गणिनां मध्ये ये समूहहितवादनशीलास्तद्वचनमितरैर्गणानामन्तर्गतैरनुसरणीयम् ॥ अन्यथा दण्ड इत्याह
यस्तत्र विपरीतः स्यात्स दाप्यः प्रथमं दमम् १८८ ॥ यस्तु गणिनां मध्ये समूहहितवादिवचनप्रतिबन्धकारी स राज्ञा प्रथमसाहसं दण्डनीयः ॥ १८८ ॥ राज्ञा चैत्थं गणिषु वर्तनीयमित्याह
समूहकार्य आयातान्कृतकार्यान्विसर्जयेत् ।
सदानमानसत्कारैः पूजयित्वा महीपतिः ॥ १८९ ॥ समूहकार्यनिवृत्त्यर्थं स्वपार्श्व प्राप्तान्गणिनो निर्वर्तितात्मीयप्रयोजनान्दानमानसत्कारैः स राजा परितोष्य विसर्जयेत् ॥ १८९ ॥ समूहदत्तापहारिणं प्रत्याह
समूहकार्यप्रहितो यल्लभेत तदर्पयेत् ।
एकादशगुणं दाप्यो यद्यसौ नार्पयेखत्यम् ॥ १९० ॥ समूहकार्यार्थ महाजनैः प्रेरितो राजपाधै यद्धिरण्यवस्त्रादिकं लभते तदप्रार्थित एव महाजनेभ्यो निवेदयेत्। अन्यथा लब्धादेकादशगुणं दण्डं दापनीयः ॥१९०॥ एवंप्रकाराश्च कार्यचिन्तकाः कार्या इत्याह
धर्मज्ञाः शुचयोऽलुब्धा भवेयुः कार्यचिन्तकाः ।
कर्तव्यं वचनं तेषां समूहहितवादिनाम् ॥ १९१ ॥ श्रौतस्मातधर्मज्ञा बाह्याभ्यन्तरशौचयुक्ता अर्थेष्वलुब्धाः कार्यविचारकाः कर्तव्याः । तेषां वचनमितरैः कार्यमित्येतदादराथं पुनर्वचनम् ॥ १९१ ॥ १ राज्ञा कृतां ग. २ हितवदन घ. ३ चैवंगणिपु वर्तितव्यं घ. ४ यद्यस्मै ख.
For Private And Personal Use Only
Page #285
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वेतनादानप्रकरणम् १६] मिताक्षरासहिता । २५३ इदानीं त्रैविद्यानां प्रतिपादितं धर्म श्रेण्यादिष्यतिदिशन्नाह
श्रेणिनैगमपाखण्डिगणानामप्ययं विधिः ।
भेदं चैषां नृपो रक्षेत्पूर्ववृत्तिं च पालयेत् ॥ १९२ ॥ __एकपण्यशिल्पोपजीविनः श्रेणयः । नैगमाः ये वेदस्याप्तप्रणीतत्वेन प्रामाण्यमिच्छन्ति पाशुपतादयः । पाखण्डिनो ये वेदस्य प्रामाण्यमेव नेच्छन्ति । नग्नाः सौगतादयः । गणो व्रातः आयुधीयादीनामेककर्मोपजीविनां । एपां चतुर्विधानामप्ययमेव विधियों निजधर्माविरोधेनेत्यादिना प्रतिपादितः । एतेषां च श्रेण्यादीनां भेदं धर्मव्यवस्थानं नृपो रक्षेत् । पूर्वोपात्तां वृत्तिं च पालयेत् ॥ १९२ ॥
इति संविद्यतिक्रमप्रकरणम् ।
अथ वेतनादानप्रकरणम् १६ संग्रति वेतनस्यानपाकर्माख्यं व्यवहारपदं प्रस्तूयते । तत्स्वरूपं च नारदेनोक्तम्- त्यानां वेतनस्योक्तो दानादानविधिक्रमः । वेतनस्यानपाकर्म तद्विवादपदं स्मृतम् ॥' इति । अस्यार्थः-भृत्यानां वेतनस्य वक्ष्यमाणश्लोकैरुक्तो दानादानविधिक्रमो यत्र विवादपदे तद्वेतनस्यानपाकर्मेत्युच्यते । तत्र निर्णयमाह
गृहीतवेतनः कर्म त्यजन्द्विगुणमावहेत।
अगृहीते समं दाप्यो भृत्यै रक्ष्य उपस्करः ॥ १९३ ॥ गृहीतं वेतनं येनासौ स्वाङ्गीकृतं कर्म त्यजन् अकुर्वन् द्विगुणां भृति स्वामिने दद्यात् । यदा पुनरभ्युपगतं कर्म अगृहीते एव वेतने त्यजति तदा समं यावद्वतनमभ्युपगतं तावद्दाप्यो न द्विगुणम् । यद्वाङ्गीकृतां भृतिं दत्त्वा बलात्कारयितव्यः ।-'कर्माकुर्वन्प्रतिश्रुत्य कार्यों दत्त्वा भृतिं बलात्' इति नारदवचनात् ॥ भृतिरपि तेनैवोक्ता-'भृत्याय वेतनं दद्यात्कर्मस्वामी यथाक्रमम् । आदौ मध्येऽवसाने वा कर्मणो यद्विनिश्चितम् ॥' इति । तैश्च भृत्यैरुपस्कर उपस्करणं लाङ्गलादीनां प्रग्रहयोकादिकं यथाशक्त्या रक्षणीयम् । इतरथा कृष्यादिनिष्पत्यनुपपत्तेः ॥ १९३ ॥ भृतिमपरिच्छिद्यः यः कर्म कारयति तं प्रत्याह
दाप्यस्तु दशमं भागं वाणिज्यपशुसस्थतः । अनिश्चित्य भृति यस्तु कारयेत्स महीक्षिता ॥१९४ ॥
-----
-----
१ भूतानां घ. २ भृताय घ. ३ उपकरणं घ. ४ दाप्य इत्येतदल्पायासपरम् । आयासबहुत्वे तु बृहस्पतिः-'त्रिभागं पञ्चभागं वा गृह्णीयात्सीरवाहकः । भक्ताच्छादभृतः सीराद्भागं गृह्णीत पञ्चमम् ॥ जातसस्यात्रिभागं तु प्रगृह्णीयादथाभृतः ॥ भक्ताच्छादभृता ह्यन्नवस्त्रदानेन योषितः ॥ इति
For Private And Personal Use Only
Page #286
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५४
याज्ञवल्क्यस्मृतिः। [व्यवहाराध्यायः यस्तु स्वामी वणिक् गोमी क्षेत्रिको वा अपरिच्छिन्नवेतनमेव भृत्यं कर्म का. रयति स तस्माद्वाणिज्यपशुसस्यलक्षणाकर्मणो यल्लब्धं तस्य दशमं भागं भृत्याय महीक्षिता राज्ञा दापनीयः ॥ १९४ ॥ अनाज्ञप्तकारिणं प्रत्याह
देशं कालं च योऽतीयाल्लाभं कुर्याच्च योऽन्यथा ।
तत्र स्यात्स्वामिनश्छन्दोऽधिकं देयं कृतेऽधिके ॥ १९५॥ यस्तु भृत्यः पण्यविक्रयाधुचितं देशं कालं च पण्यविक्रयाद्यकुर्वन्देर्पादिनोल्लङ्घयेत्तस्मिन्नेव वा देशे काले च लाभमन्यथा व्ययाचतिशयसाध्यतया हीनं करोति तस्मिन्भृतके भृतिदानंप्रति स्वामिनश्छन्द इच्छा भवेत् । यावदिच्छति तावद्दद्यान पुनः सर्वामेव भृतिमित्यर्थः। यदा पुनर्देशकालाभिज्ञतयाऽधिको लाभः कृतस्तदा पूर्वपरिच्छन्नाय भृतेरधिकमपि धनं स्वामिना भृत्याय दातव्यम् ॥ १९५॥ . अनेकभृत्यसाध्यकर्मणि भृतिदानप्रकारमाह
यो यावत्कुरुते कर्म तावत्तस्य तु वेतनम् ।
उभयोरप्यसाध्यं चेत्साध्ये कुर्याद्यथाश्रुतम् ॥ १९६ ॥ यदा पुनरेकमेव कर्म नियतवेतनमुभाभ्यां क्रियमाणं उभयोरप्यसाध्यं चेव्याध्याद्यभिभवादुभाभ्यामपिशब्दाबहुभिरपि यदि न परिसमापितं तदा यो भृत्यो यावत्कर्म करोति तावत्तस्मै तत्कृतकर्मानुसारेण मध्यस्थकल्पितं वेतनं देयं न पुनः समम् । नचावयवशः कर्मणि वेतनस्यापरिभाषितत्वाददानमिति मन्तव्यम् । साध्ये तूभाभ्यां कर्मणि निर्वर्तिते यथाश्रुतं यावत्परिभाषितं ताबदुभाभ्यां देयं न पुनः प्रत्येकं कृत्स्नं वेतनं नापि कर्मानुरूपं परिकल्प्य देयम् १९६ आयुधीयभारवाहको प्रत्याह
अराजदैविकं नष्टं भाण्डं दाप्यस्तु वाहकः ।
प्रस्थानविनकृच्चैव प्रदाप्यो द्विगुणां भृतिम् ॥ १९७ ॥ न विद्यते राजदैविकं यस्य भाण्डस्य तत्तथोक्तम् । तद्यदि प्रज्ञाहीनतया वाहकेन नाशितं तदा नाशानुसारेणासौ तद्भाण्डं दापनीयः। तदाह नारदः'भाण्डं व्यसनमागच्छेद्यदि वाहकदोषतः । दाप्यो यत्तत्र नश्येत्तु दैवराजकृताहते ॥' इति ॥ यः पुनर्विवाहाद्यर्थ मङ्गलवति वासरे प्रतिष्ठमानस्य तत्प्रस्थानौपयिकं कर्म प्रागङ्गीकृत्य तदानीं न करिष्यामीति प्रस्थानविनमाचरति त. दासौ द्विगुणां भृतिं दाप्यः । अत्यन्तोत्कर्षहेतुकर्मनिरोधात् ॥ १९७ ॥
प्रक्रान्ते सप्तमं भागं चतुर्थ पथि संत्यजन् ।
भृतिमर्धपथे सर्वा प्रदाप्यस्त्याजकोऽपि च ॥ १९८ ॥ १ भृत्यकर्म ग. घ. २ दर्पादिनमुल्लङ्घयेत् घ. ३ भृतेरपि किमपि धनमधिकं ख.
For Private And Personal Use Only
Page #287
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चूतसमाह्वयप्रकरणम् १७] मिताक्षरासहिता ।
२५५
किंच । प्रक्रान्ते अध्यवसिते प्रस्थाने स्वाङ्गीकृतं कर्म यस्त्यजति असौ भृतेः सप्तमं भागं दाप्यः । नन्वत्रैव विषये प्रस्थानविघ्नकृदित्यादिना द्विगुणभृतिदानमुक्तं, इदानी सप्तमो भाग इति विरोधः । उच्यते । भृत्यान्तरोपादानावसरसं. भवे स्वाङ्गीकृतं कर्म यस्त्यजति तस्य सप्तमो विभागः । यत्तु प्रस्थानलग्नसमय एव त्यजति तस्य द्विगुणभृतिदानमित्यविरोधः। यः पुनः पथि प्रक्रान्ते गमने वर्तमाने सति कर्म त्यजति स भृतेश्चतुर्थ भागं दाप्यः । अर्धपथे पुनः सर्वा भृति दाप्यः । यस्तु त्याजकः कर्मात्यजन्तं त्याजयति स्वामी पूर्वोक्तप्रदेशेष्वसा. वपि पूर्वोक्तसप्तमभागादिकं भृत्याय दापनीयः । एतच्चाव्याधितादिविषयम् । (मनुः ८।२१५)-'भृत्योऽनातॊ न कुर्याद्यो दत्किर्म यथोचितम् । स दण्ड्यः कृष्णलान्यष्टौ न देयं तस्य वेतनम् ॥' इति मनुवचनात् । यदा पुनर्व्याधाव. पगतेऽन्तरितदिवसान्परिगणय्य पूरयति तदा लभत एव वेतनम् ( ।२१६) -'आर्तस्तु कुर्यात्स्वस्थः सन्यथाभाषितमादितः । स दीर्घस्यापि कालस्य स्वं लभेतैव वेतनम् ॥' इति मनुस्मरणात् ॥ यस्त्वपगतव्याधिः स्वस्थ एव वाऽलस्यादिना स्वारब्धं काल्पोनं न करोति परेण वा न समापयति तस्मै वेतनं न देयमिति । यथाह मनुः (८।२१७)-'यथोक्तमातः स्वस्थो वा यस्तकर्म न कारयेत् । न तस्य वेतनं देयमल्पोनस्यापि कर्मणः ॥' इति ॥ १९ ॥
इति वेतनादानप्रकरणम् ।
अथ द्यूतसमाहृयप्रकरणम् १७ अधुना द्यूतसमाहृयाख्यं विवादपदमधिक्रियते । तत्स्वरूपं च नारदेनामि. हितम्-'अक्षवध्रशलाकाद्यैर्देवनं जिह्मकारितम् । पणक्रीडावयोभिश्च पदं द्यूत. समाह्वयम् ॥' इति । अक्षाः पाशकाः । वध्रश्चर्मपट्टिका । शलाका दन्तादिमय्यो दीर्घचतुरस्राः। आद्यग्रहणाच्च तुरङ्गादिक्रीडासाधनं करितुरङ्गरथादिकं गृह्यते । तैरप्राणिभिर्यदेवनं क्रीडा पणपूर्विका क्रियते । तथा वयोभिः पक्षभिः कुक्कुटपारावतादिभिः चशब्दान्मल्लमेषमहिषादिभिश्च प्राणिभिर्या पणपूर्विका क्रीडा क्रियते तदुभयं यथाक्रमेण चूतसमाह्वयाख्यं विवादपदम् । द्यूतं च समाह्वयश्च द्यूतसमाह्वयम् । तदुक्तं मनुना (९।२२३)-'अप्राणिमियक्रियते तल्लोके द्यूतमुच्यते । प्राणिभिः क्रियमाणस्तु स विज्ञेयः समाह्वयः ॥' इति ॥ तत्र यूतसमाधिकारिणो वृत्तिमाह
ग्लहे शतिकवृद्धस्तु सभिकः पञ्चकं शतम् । गृह्णीयाद्भूर्तकितवादितराद्दशकं शतम् ॥ १९९ ॥
१ वाध्याद्यपगमे ग. २ व्यवहारपदमघि घ. ३ अक्षवन्ध ख.
For Private And Personal Use Only
Page #288
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५६
याज्ञवल्क्यस्मृतिः।
[व्यवहाराध्यायः
परस्परसंप्रतिपत्त्या कितवपरिकल्पितः पणो ग्लह इत्युच्यते । तत्र ग्लहे तदाश्रया शतिका शतपरिमिता तदधिकपरिमाणा वा वृद्धिर्यस्यासौ शतिकवृद्धितस्माद्भूर्तकितवात्पञ्चकं शतमात्मवृत्त्यर्थं सभिको गृह्णीयात् । पञ्चपणा आयो यस्मिन् शते तत्पञ्चकं शतम् । तदस्मिन्वृद्ध्यायलाभ-' इत्यादिना कन् । जित. ग्लहस्य विंशतितम भागं गृह्णीयादित्यर्थः । सभा कितवनिवासार्था यस्यास्त्यसौ सभिकः । कल्पिताक्षादिनिखिलक्रीडोपकरणस्तदुपचितद्रव्योपजीवी सभापतिरुच्यते। इतरसात्पुनरपि पूर्णशतिकवृद्धेः कितवाद्दशकं शतं जितद्रव्यस्य दशर्म भागं गृह्णीयादिति यावत् ॥ १९९ ॥ एवं क्लृप्तवृत्तिना सभिकेन किं कर्तव्यमित्याह
स सम्यक्पालितो दद्याद्राज्ञे भागं यथाकृतम् ।
जितमुद्राहयजेत्रे दद्यात्सत्यं वचः क्षमी ॥ २०० ॥ य एवं क्लुप्तवृत्ति ताधिकारी स राज्ञा धूर्तकितवेभ्यो रक्षितस्तस्मै राज्ञे यथा संप्रतिपन्नमंशं दद्यात् । तथा जितं यद्रव्यं तदुद्दाहयेत् बन्धकग्रहणेनासेधादिना च पराजितसकाशादुद्धरेत् । उद्धृत्य च तद्धनं जेने जयिने समिको दद्यात् । तथा क्षमी भूत्वा सत्यं वचो विश्वासार्थं द्यूतकारिणां दद्यात् । तदुक्तं नारदेन -समिकः कारयेत् द्यूतं देयं दद्याच्च तत्कृतम्' इति ॥ २०० ॥ यदा पुनः सभिको दापयितुं न शक्नोति तदा राजा दापयेदित्याह
प्राप्ते नृपतिना भागे प्रसिद्ध धूर्तमण्डले।
जितं ससभिके स्थाने दापयेदन्यथा न तु ॥२०१॥ प्रसिद्ध अप्रच्छन्ने राजाध्यक्षसमन्विते ससभिके समिकसहिते कितवसमाजे सभिकेन च राजभागे दत्ते राजा धूर्तकितवमविप्रतिपन्नं जितं पणं दापयेत् । अन्यथा प्रच्छन्ने सभिकरहिते अदत्तराजभागे छूते जितपणं जेने न दापयेत् ॥२०१॥ जयपराजयविप्रतिपत्तौ निर्णयोपायमाह
द्रष्टारो व्यवहाराणां साक्षिणश्च त एव हि। धूतव्यवहाराणां द्रष्टारः सभ्यास्त एव कितवा एव राज्ञा नियोक्तव्याः ! न तत्र श्रुताध्ययनसंपन्ना इत्यादिनियमोऽस्ति । साक्षिणश्च द्यूते द्यूतकारा एवं कार्याः । न तत्र स्त्रीबालवृद्धकितवेत्यादिनिषेधोऽस्ति ॥ क्वचित् द्यूतं निषेधुं दण्डमाह__ रांज्ञा सचिह्न निर्वास्याः कूटाक्षोपधिदेविनः ॥२०२ ॥
कूटैरक्षादिभिरुपधिना च मतिवञ्चनहेतुना मणिमन्त्रौषधादिना ये दीव्यन्ति तान् श्वपदादिनाङ्कयित्वा राजा स्वराष्ट्रान्निर्वासयेत् । नारदेन तु निर्वासने वि. शेष उक्तः–'कूटाक्षदेविनः पापान् राजा राष्ट्राद्विवासयेत् । कण्ठेऽक्षमाला१ जितं द्रव्यमुद्राहयेत् ख. २ युते पणं जेत्रे ख.
For Private And Personal Use Only
Page #289
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वाक्पारुष्यप्रकरणम् १८ ] मिताक्षरासहिता ।
२५७
मासज्य स ह्येषां विनयः स्मृतः ॥' इति ॥ यानि च मनुवचनानि द्यूतनिषेधपराणि ( मनुः ९ । २२४ ) - ' द्यूतं समाह्वयं चैव यः कुर्यात् कारयेत वा । तासर्वान्धातयेद्राजा शूद्रांश्च द्विजलिङ्गिनः ॥' इत्यादीनि तान्यपि कूटाक्षदेवनविषयतया राजाध्यक्षसभिकरहितद्यूतविषयतया च योज्यानि ॥ २०२ ॥ द्यूतमेकमुखं कार्य तस्करज्ञानकारणात् ।
किंच । यत्पूर्वोक्तं द्यूतं तदेकमुखं एकं मुखं प्राधानं यस्य द्यूतस्य तत्तथोक्तं कार्यम् । राजाध्यक्षाधिष्टितं राज्ञा कारयितव्यमित्यर्थः । तस्कर ज्ञानकारणात् । तस्करज्ञानरूपं प्रयोजनं पर्यालोच्य प्रायशश्चौर्यार्जितधना एव कितवा भवन्त्यतश्चरविज्ञानार्थमेकमुखं कार्यम् ॥
द्यूतधर्म समाह्वयेऽतिदिशन्नाह
एष एव विधिर्ज्ञेयः प्राणिद्यूते समाये || २०३ ||
ग्लहे शतिकवृद्धेरित्यादिना यो द्यूतधर्म उक्तः स एव प्राणिद्यूते मलमेषमहिषादिनिर्वयै समाह्वयसंज्ञके ज्ञातव्यः ॥ २०३ ॥
इति द्यूतसमाह्वयाख्यं प्रकरणम् ।
अथ वाक्पारुष्यप्रकरणम् १८
2
इदानीं वाक्पारुष्यं प्रस्तूयते । तलक्षणं चोक्तं नारदेन - ' देशजातिकुला - दीनामाक्रोशं न्यङ्गसंयुतम् । यद्वचः प्रतिकूलार्थं वाक्पारुष्यं तदुच्यते ॥' इति । देशादीनामाक्रोशं न्यङ्गसंयुतम् । उच्चैर्भाषणमाक्रोशः न्यङ्गमवयं तदुभययुक्तं यत्प्रतिकूलार्थमुद्वेगजननार्थं वाक्यं तद्वाक्पारुष्यं कथ्यते । तत्र कलहप्रियाः खलु गौडा इति देशाक्रोशः । नितान्तं लोलुपाः खलु विप्रा इति जात्याक्रोशः । क्रूरचरिता ननु वैश्वामित्रा इति कुलाक्षेपः । आदिग्रहणात्स्व विद्याशिल्पादिनिन्दया विद्वच्छिंपादिपरुषाक्षेपो गृह्यते । तस्य च दण्डतारतम्यार्थे निष्ठुरादिभेदेन त्रैविध्यमभिधाय तलक्षणं तेनैवोक्तम्– 'निष्ठुराश्लीलतीयत्वादपि तत्रिविधं स्मृतम् । गौरवानुक्रमात्तस्य दण्डोऽपि स्यात्क्रमाद्गुरुः । साक्षेपं निष्ठुरं ज्ञेयमश्लीलं न्यङ्गसंयुतम् । पतनीयैरुपाक्रोशैस्तीक्रमाहुर्मनीषिणः ॥' इति । तत्र धियूर्खजाल्ममित्यादि साक्षेपम् । अत्र न्यङ्गमित्य सभ्यम् । अवयं भगिन्यादिगमनं तद्युक्तमश्लीलम् । सुरापोऽसीत्यादिमहापातकाद्याक्रोशैर्युक्तं वचस्तीव्रम् ॥
तत्र निष्ठुराक्रोशे सवर्णविषये दण्डमाहसत्यासत्यान्यथास्तोत्रैर्न्यूनाङ्गेन्द्रियरोगिणाम् । क्षेपं करोति चेद्दण्ड्यः पणानर्धत्रयोदशान् ॥ २०४ ॥
१ खलु लोलुपाः ख. २ शिल्पादि ख. घ. ३ धिर्ख जात्मस्त्वमित्यादि ग.
For Private And Personal Use Only
Page #290
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५८
याज्ञवल्क्यस्मृतिः। [व्यवहाराध्यायः न्यूनाङ्गाः करचरणादिविकलाः । न्यूनेन्द्रिया नेत्रश्रोत्रादिरहिताः। रोगिणो दुश्चर्मप्रभृतयः। तेषां सत्येनासत्येनान्यथास्तोत्रेण च निन्दार्थया स्तुत्या । यत्र नेत्रयुगलहीन एषोऽन्ध इत्युच्यते तत्सत्यम् । यत्र पुनश्चक्षुष्मानेवान्ध इत्युच्यते तदसत्यम् । यत्र विकृताकृतिरेव दर्शनीयस्त्वमसीत्युच्यते तदन्यथास्तोत्रम् । एवंविधैर्यःक्षेपं निर्भर्त्सनं करोत्यसौ अर्धाधिकत्रयोदशपणान्दण्डनीयः । (मनुः ८।२७४)-'काणं वाप्यथवा खामन्यं वापि तथाविधम् । तथ्येनापि ब्रुवन्दाप्यो दण्डं कार्षापणावरम् ॥' इति यन्मनुवचनं तदतिदुर्वृत्तवर्णविषयम् । यदा पुनः पुत्रादयो मात्रादीन् शान्ति तदा शतं दण्डनीया इति तेनैचोक्तम् । (मनुः ८।२७५)-'मातरं पितरं जायां भ्रातरं श्वशुरं गुरुम् । आक्षारयन्शतं दाप्यः पन्थानं चाददद्गुरोः ॥' इति । एतच्च सापराधेषु मात्रादिषु गुरुषु निरपराधायां च जायायां द्रष्टव्यम् ॥ २०४॥ अश्लीलाक्षेपे दण्डमाह
अभिगन्तासि भगिनीं मातरं वा तवेति ह ।
शपन्तं दापयेद्राजा पञ्चविंशतिकं दमम् ॥ २०५॥ स्वदीयां भगिनी मातरं वा अभिगन्तास्मीति शपन्तं अन्यां वा स्वजायामभिगन्तेत्येवं शपन्तं राजा पञ्चविंशतिकं पणानां पञ्चाधिका विंशतिर्यस्मिन्दण्डे स तथोक्तस्तं दमं दापयेत् ॥ २०५ ॥
एवं समानगुणेषु वर्णिषु दण्डममिधाय विषमगुणेषु दण्डं प्रतिपादयितुमाह
अर्थोऽधमेषु द्विगुणः परस्त्रीपूत्तमेषु च । अधमेष्वाक्षेत्रापेक्षया न्यूनवृत्तादिगुणेष्व| दण्डः । पूर्ववाक्ये पञ्चविंशतेः प्रकृतस्वात्तदपेक्षयार्धः सार्धद्वादशपणात्मको द्रष्टव्यः । परभार्यासु पुनरविशेषेण द्विगुणः पञ्चविंशत्यपेक्षयैव पञ्चाशत्पणात्मको वेदितव्यः ॥ तथोत्तमेषु च स्वापे. क्षयाधिकश्रुतवृत्तेषु दण्डः पञ्चाशत्पणात्मक एव ॥ वर्णानां मूर्धावसिक्तादीनां च परस्पराक्षेपे दण्डकल्पनामाह
दण्डप्रणयनं कार्य वर्णजात्युत्तराधरैः ॥ २०६॥ वर्णा ब्राह्मणादयः । जातयो मूर्धावसिक्ताद्याः । वर्णाश्च जातयश्च वर्णजातयः । उत्तराश्च अधराश्च उत्तराधराः वर्णजातयश्च ते उत्तराधराश्च वर्णजात्युत्तराधराः तैः वर्णजात्युत्तराधरैः परस्परमार्केपे क्रियमाणे दण्डस्य प्रणयनं प्रकर्षेण नयनमूहनं वेदितव्यम् । तच्च दण्डकल्पनमुत्तराधरैरिति विशेषेणोपादानादुत्तराधरभावापेक्षयैव कर्तव्यमित्यवगम्यते । यथा मूर्धावसिक्तं ब्राह्मणाद्धीनं क्षत्रियादुत्कृष्टं चाक्रुश्य ब्राह्मणः क्षत्रियाक्षेपनिमित्तात्पञ्चाशत्पणदण्डाकिंचिदधिकं पञ्च सप्तत्यात्मकं दण्डमर्हति । क्षत्रियोऽपि तमाक्रुश्य ब्राह्मणाक्षेपनिमित्ताच्छतदण्डौं
१ नेषोऽन्ध इति ख. २ द्रष्टव्यः घ. ३ विशेषोपादानात् ख. ४ दण्डादूनं ख.
For Private And Personal Use Only
Page #291
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वाक्पारुष्यप्रकरणम् १८] मिताक्षरासहिता ।
२५९ द्धीनं पञ्चसप्ततिमेव दण्डमहति । मूर्धावसिक्तोऽपि तावाश्य तमेव दण्डमहति । मूर्धावसिक्ताम्बष्ठयोः परस्पराक्षेपे ब्राह्मणक्षत्रिययोः परस्पराक्रोशनिमित्तकौ यथाक्रमेण दण्डौ वेदितव्यौ । एवमन्यत्राप्यूहनीयम् ॥ २०६॥
एवं संवर्णविषये दण्डमभिधाय वर्णानामेव प्रातिलोमानुलोमाक्षेपे दण्डमाह
प्रातिलोम्यापवादेषु द्विगुणत्रिगुणा दमाः। वर्णानामानुलोम्येन तस्मादर्धाधहानितः ॥ २०७॥ अपवादा अधिक्षेपाः । प्रातिलोम्येनापवादाः प्रातिलोम्यापवादास्तेषु ब्राह्मणाक्रोशकारिणोः क्षत्रियवैश्ययोर्यथाक्रमेण पूर्ववाक्याट्विगुणपदोपात्तपञ्चाशत्पणापेक्षया द्विगुणाः शतपणाः, त्रिगुणाः सार्धशतपणा दण्डा वेदितव्याः । शूद्रस्य ब्राह्मणाकोशे तानं जिह्वाच्छेदनं वा भवति । यथाह मनुः (१२६७)'शतं ब्राह्मणमाक्रुश्य क्षत्रियो दण्डमहति । वैश्योऽध्यर्धशतं द्वे वा शूद्रस्तु वधमर्हति ॥ इति । विशूद्वयोरपि क्षत्रियादनन्तरैकान्तरयोस्तुल्यन्यायतया श. तमध्यर्धशतं च यथाक्रमेण क्षत्रियाक्रोशे वेदितव्यम् । शूद्रस्य च वैश्याक्रोशे शतम् । आनुलोम्येन तु वर्णानां क्षत्रियविदशूद्राणां ब्राह्मणेनाक्रोशे कृते तस्माड्राह्मणाक्रोशनिमित्ताच्छतपरिमिताक्षत्रियदण्डात्प्रतिवर्णमर्धस्यार्धस्य हानि कृत्वावशिष्टं पञ्चाशत्पञ्चविंशतिसार्धद्वादशपणात्मकं यथाक्रमं ब्राह्मणो दण्डनीयः । तदुक्तं मनुना (८1१६८)-'पञ्चाशद्राह्मणो दण्ड्यः क्षत्रियस्याभिशंसने । वैईये स्यादर्धपञ्चाशच्छूद्रे द्वादशको दमः ॥” इति ॥ क्षत्रियेण वैश्ये शूद्रे वाक्रुष्टे यथाक्रमं पञ्चाशत्पञ्चविंशतिको दमौ । वैश्यस्य च शूद्राक्रोशे पञ्चाशदित्यूहनी. यम् । -'ब्राह्मणराजन्यवत्क्षत्रियवैश्ययोः' इति गौतमस्मरणात् ।-विदशूद्रयोरेवमेव स्वजातिप्रति तत्वतः' इति (८।२७७) मनुस्मरणाच ॥ २०७॥ पुनर्निष्ठुराक्षेपमधिकृत्याह
बाहुग्रीवानेत्रसक्थिविनाशे वाचिके दमः ।
शत्यस्तदर्धिकः पादनासाकर्णकरादिषु ॥२०८ ॥ बाह्वादीनां प्रत्येकं विनाशे वाचिके वाचा प्रतिपादिते तव बाहू छिनमीत्ये. वरूपे शत्यः शतपरिमितो दण्डो वेदितव्यः । पादनासाकर्णकरादिषु आदिग्रहणास्फिगादिषु वाचिके विनाशे तदर्धिकः तस्य शतस्यार्धं तदर्धं तद्यस्यास्त्यसौ तदर्धिकः पञ्चाशत्पणिको दण्डो वेदितव्यः ॥ २०८ ॥
अशक्तस्तु वदन्नेवं दण्डनीयः पणान्दश ।
तथा शक्तः प्रतिभुवं दाप्यः क्षेमाय तस्य तु ॥ २०९ ॥ किंच । यः पुनवरादिना क्षीणशक्तिस्त्वद्वाह्याद्यङ्गभङ्गं करोमीत्येवं शपत्यसो १ सर्ववर्ण ग. २ पञ्चविंशत्यर्धद्वादश घ. ३ वैश्यस्य चार्धपञ्चाशत् घ.
या० २५
For Private And Personal Use Only
Page #292
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६०
याज्ञवल्क्यस्मृतिः। [व्यवहाराध्यायः दशपणान्दण्डनीयः । यः पुनः समर्थः क्षीणशक्तिं पूर्ववदाक्षिपत्यसौ पूर्वोक्तशतादिदण्डोत्तरकालं तस्याशक्तस्य क्षेमार्थ प्रतिभुवं दापनीयः ॥ २०९ ॥ तीनाक्रोशे दण्डमाह
पतनीयकृते क्षेपे दण्डो मध्यमसाहसः ।
उपपातकयुक्ते तु दाप्यः प्रथमसाहसम् ॥२१० ।। पातित्यहेतुभिर्ब्रह्महत्यादिभिर्वर्णिनामाक्षेपे कृते मध्यमसाहसं दण्डः । उपपातसंयुक्ते पुनर्गोघ्नस्त्वमसीत्येवमादिरूपे क्षेपे प्रथममाहसं दण्डनीयः ॥२१०॥
विद्यनृपदेवानां क्षेप उत्तमसाहसः।।
मध्यमो जातिपूगानां प्रथमो ग्रामदेशयोः ॥ २११ ॥ किंच। त्रैविद्याः वेदत्रयसंपन्नास्तेषां राज्ञां देवानां च क्षेपे उत्तमसाहसो दण्डः । ये पुनर्ब्राह्मणमूर्धावसिक्तादिजातीनां पूगाः संघास्तेषामाक्षेपे मध्यमसाहसो दण्डः । ग्रामदेशयोः प्रत्येकमाक्षेपे प्रथमसाहसो दण्डो वेदितव्यः ॥२११॥
इति वाक्पारुष्यं नाम विवादपदप्रकरणम् ।
अथ दण्डपारुष्यप्रकरणम् १९ संप्रति दण्डपारुष्यं प्रस्तूयते । तत्स्वरूपं च नारदेनोक्तम्-'परगानेष्वभिदोहो हस्तपादायुधादिभिः । भस्मादिभिश्चोपघातो दण्डपारुष्यमुच्यते ॥' इति । परगानेषु स्थावरजङ्गमात्मकद्रव्येषु हस्तपादायुधैरादिग्रहणादावादिभिर्योऽभिदोहो हिंसनं दुःखोत्पादन तथा भस्मना आदिग्रहणाद्रजःपङ्कपुरीपाद्यैश्च य उपघातः संस्पर्शनरूपं मनोदुःखोत्पादनं तदुभयं दण्डपारुष्यम् । दण्ड्यतेऽनेनेति दण्डो देयस्तेन यत्पारुष्यं विरुद्धाचरणं जङ्गमादेव्यस्य तद्दण्डपारुष्यम् । तस्य चावगोरणादिकारणभेदेन त्रैविध्यमभिधाय हीनमध्यमोत्तमद्रव्यरूपकर्म त्रैविध्यात्पुनस्पैविध्यं तेनैवोक्तम्--तस्यापि दृष्टं त्रैविध्यं हीनमध्योत्तमक्रमात् । अवगोरणनिःसङ्गपातनक्षतदर्शनैः ॥ हीनमध्योत्तमानां च द्रव्याणां समतिक्रमात् । त्रीण्येव साहसान्याहुस्तत्र कण्टकशोधनम् ॥' इति । निःसङ्गपातनं निःशङ्कप्रहरणम् । त्रीण्येव साहसानि त्रिप्रकाराण्येव । सहसा कृतानि दण्डपारुष्याणीत्यर्थः ॥ तथा वाग्दण्डपारुष्ययोरुभयोरपि द्वयोः प्रवृत्तकलहयोर्मध्ये यः क्षमते तस्य न केवलं दण्डाभावः किंतु पूज्य एव । तथा पूर्व कलहे प्रवृत्तस्य दण्डगुरुत्वम् । कलहे च बद्धवैरानुसन्धातुरेव दण्डभाक्त्वम् । तथा तयोर्द्वयोरपराधविशेषापरिज्ञाने दण्डः समः। तथा श्वपचादिभिरार्याणामपराधे कृते सजना एव दण्डदापनेऽधिकारिणस्तेषामशक्यत्वे तानू राजा घातयेदेव नार्थ
१ क्षेमाय घ. २ प्रथमसाहसः घ. ३ वर्णानामाक्षेपे ग. ४ संबन्धे तु घ. ५ करणभेदेन ख. ६ तस्योपदृष्टं ख. ७ निःशङ्कपातन घ.
For Private And Personal Use Only
Page #293
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दण्डपारुष्यप्रकरणम् १९] मिताक्षरासहिता।
२६१
गृह्णीयादित्येवं पञ्च प्रकारा विधयस्तेनैवोक्ताः-'विधिः पञ्चविधस्तूक्त एतयोरुभयोरपि । पारुष्ये सति संरम्भादुत्पन्ने कुद्वयोर्द्वयोः ॥ स मन्यते यः क्षमते दण्डभाग्योऽति वर्तते । पूर्वमाक्षारयेद्यस्तु नियतं स्यात्स दोषभाक् ॥ पश्चाद्यः सोऽप्यसत्कारी पूर्वे तु विनयो गुरुः । द्वयोरापन्नयोस्तुल्यमनुबध्नाति यः पुनः ॥ स तयोर्दण्डमामोति पूर्वो वा यदि वेतरः । पारुष्यदोषावृतयोयुगपत्संप्रवृ. त्तयोः ॥ विशेषश्वेन लक्ष्येत विनयः स्यात्समस्तयोः । श्वपाकषण्डचण्डालव्यङ्गेषु वधवृत्तिषु ॥ हस्तिपत्रात्यदासेषु गुर्वाचार्य नृपेषु च । मर्यादातिक्रमे सद्यो घात एवानुशासनम् ॥ यमेव ह्यतिवर्तेरन्नेते सन्तं जनं नृषु । स एव विनयं कुर्याननं विनयभाङ्नृपः ॥ मला ह्येते मनुष्याणां धनमेषां मलात्मकम् । अतस्तान्धातयेदाजा नार्थदण्डेन दण्डयेत् ॥' इति ॥
एवंभूतदण्डपारुष्यनिर्णयपूर्वकत्वाद्दण्डप्रणयनस्य तत्स्वरूपसंदेहे निर्णयहेतुमाह
असाक्षिकहते चिरैयुक्तिभिश्चागमेन च ।
द्रष्टव्यो व्यवहारस्तु कूटचिह्नकृतो भयात् ॥ २१२ ॥ यदा कश्चिद्वहस्यहमनेन हत इति राजे निवेदयति तदा चिद्वैवर्णादिस्वरूपगतैर्लिङ्गैर्युक्त्या कारणप्रयोजनपालोचनात्मिकया आगमेन जनप्रवादेन चशब्दा. हिव्येन वा कूटचिह्नकृतसंभावनाभयात्परीक्षा कार्या ॥ २१२ ॥ एवं निश्चिते साधनविशेषेण दण्डविशेषमाह
भस्मपङ्करजःस्पर्शे दण्डो दशपणः स्मृतः। अमेध्यपाणिनिष्ठयूतस्पर्शने द्विगुणस्ततः ॥ २१३ ॥ समेष्वेव परस्त्रीषु द्विगुणस्तूत्तमेषु च ।
हीनेष्वर्धदमो मोहमदादिभिरदण्डनम् ॥ २१४ ॥ भस्मना पकेन रेणुना वा यः परं स्पर्शयत्यसौ दशपर्ण दण्डं दाप्यः । अमेध्यमिति अश्रुश्लेष्मनखकेशकर्णविदूषिकाभुक्तोच्छिष्टादिकं च गृह्यते । पाणि: पादस्य पश्चिमो भागः । निष्ठ्यूतं मुखनिःसारितं जलम् । तैः स्पर्शने ततः पूर्वादशपणाद्विगुणो विंशतिपणो दण्डो वेदितव्यः ॥ पुरीषादिस्पर्शने पुनः कात्यायनेन विशेष उक्तः–'छर्दिमूत्रपुरीषायेरापाद्यः स चतुगुणः। षड्गुणः काय. मध्ये स्यान्मूर्ध्नि त्वष्टगुणः स्मृतः ॥' इति । आद्यग्रहणाद्वसाशुक्रासृङ्मज्जानो गृ. ह्यन्ते । एवंभूतः पूर्वोक्तो दण्डः सवर्णविषये द्रष्टव्यः । परभार्यासु चाविशेषेण । तथोत्तमेषु स्वापेक्षयाऽधिकश्रुतवृत्तेषु पूर्वोक्ताद्दशपणाविंशतिपणाच्च दण्डाद्विगुणो दण्डो वेदितव्यः। हीनेषु स्वापेक्षया न्यूनवृत्तश्रुतादिषु पूर्वोक्तस्यार्धदमः १ कुर्यान्न तद्विनयभाक् ख. २ चिहैर्ऋणादि ख. ३ द्विगुणः स्मृतः ख. ४ न्यूनश्रुतादिषु ख.
Ramtev
For Private And Personal Use Only
Page #294
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६२
याज्ञवल्क्यस्मृतिः। [व्यवहाराध्यायः पञ्चपणो दशपणश्च वेदितव्यः । मोहश्चित्तवैकल्यम् । मदो मद्यपानजन्योऽवस्थाविशेषः । आदिग्रहणाद्रहावेशादिकम् । एतैर्युक्तेन भस्मादिस्पर्शने कृतेऽपि दण्डो न कर्तव्यः॥ २१३ ॥ २१४॥ प्रातिलोम्यापराधे दण्डमाह
विप्रपीडाकरं छेद्यमङ्गमब्राह्मणस्य तु ।
उद्गणे प्रथमो दण्डः संस्पर्शे तु तदर्धिकः ॥ २१५ ॥ ब्राह्मणानां पीडाकरमब्राह्मणस्य क्षत्रियादेर्यदङ्ग करचरणादिकं तच्छेत्तव्यम् । क्षत्रियवैश्ययोरपि पीडां कुर्वतः शूद्रस्याङ्गच्छेदनमेव । (मनुः ८।२७९)'येन केनचिदङ्गेन हिंस्याच्छ्रेयांसमन्त्यजः । छेत्तव्यं तत्तदेवास्य तन्मनोरनुशासनम् ॥' इति । द्विजातिमात्रस्यापराधे शूद्रस्याङ्गच्छेदविधानाद्वैश्यस्यापि क्षत्रियापकारिणोऽयमेव दण्डस्तुल्यन्यायत्वात् । उद्गणे वधार्थमुद्यते शस्त्रादिके प्रथमसाहसो दण्डो वेदितव्यः। शूद्रस्य पुनरुद्र्णेऽपि हस्तादिच्छेदनमेव (८।२०८) --'पाणिमुद्यम्य दण्डं वा पाणिच्छेदनमर्हति' इति मनुस्मरणात् ॥ उद्गुरणार्थ शस्त्रादिस्पर्शने तु तदर्धिकः प्रथमसाहसादर्धदण्डो वेदितव्यः ॥ भस्मादिसंस्पर्श पुनः क्षत्रियवैश्ययोः प्रातिलोम्यापवादेषु द्विगुणत्रिगुणा दमा इति वाक्पारुष्योकन्यायेन कल्प्यम् । शूद्रस्य तत्रापि हस्तच्छेद एव । ( ८।२८२).-'अवनिठीवतो दर्पाद्वावोष्ठौ छेदयेन्नृपः । अवमूत्रयतो मेढ़मवशर्धयतो गुदम् ॥' इति मनुस्मरणात् ॥ २१५॥ एवं प्रातिलोम्यापराधे दण्डमभिधाय पुनः सजातिमधिकृत्याह
उद्गणे हस्तपादे तु दशविंशतिको दमौ ।
परस्परं तु सर्वेषां शस्त्रे मध्यमसाहसः ॥ २१६ ॥ हस्ते पादे वा ताडनार्थमुद्गुणे यथाक्रमं दशपणो विंशतिपणश्च दण्डो वेदितव्यः । परस्परवधार्थ शस्त्रे उद्गुणे सर्वेषां वर्णिनां मध्यमसाहसो दण्डः ॥२१६॥
पादकेशांशुककरोल्लुश्चनेषु पणान्दश ।
पीडाकर्षांशुकावेष्टपादाध्यासे शतं दमः ॥ २१७ ।। किंच। पादकेशवस्त्रकराणामन्यतमं गृहीत्वा य उलुञ्चति झटित्याकर्षयति असौ दशपणान्दण्ड्यः। पीडा च कर्षश्वांशुकावेष्टश्च पादाध्यासश्च पीडाकर्षाशुकावेष्टपादाध्यासं तस्मिन्समुच्चिते शतं दण्ड्यः । एतदुक्तं भवति । अंशुकेनावेष्ट्य गाढमापीड्याकृष्य च यः पादेन घट्टयति तं शतं पणान्दापयेदिति ॥२१७॥
शोणितेन विना दुःखं कुर्वन्काष्ठादिभिर्नरः ।
द्वात्रिंशतं पणान्दण्ड्यो द्विगुणं दर्शनेऽसृजः ॥ २१८ ।। किंच। यः पुनः शोणितं यथा न दृश्यते तथा मृदुताडनं काष्ठलोष्टादिभिः १ वर्णानां घ. २ दमयेति ग.
For Private And Personal Use Only
Page #295
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दण्डपारुण्यप्रकरणम् १९] मिताक्षरासहिता ।
२६३ करोत्यसौ द्वात्रिंशतं पणान्दण्ड्यः ॥ यदा पुनर्गाढताडनेन लोहितं दृश्यते तदा द्वात्रिंशतो द्विगुणं चतुःषष्टिपणान्दण्डनीयः । त्वङ्मांसास्थिभेदे पुनर्विशेषो मनुना दर्शितः ( ८।२८४)-त्वग्भेदकः शतं दण्ड्यो लोहितस्य च दर्शकः । मांसभेत्ता च षनिष्कान्प्रवास्यस्त्वस्थिभेदकः ॥' इति ॥ २१ ॥
करपाददतो भङ्गे छेदने कर्णनासयोः ।
मध्यो दण्डो व्रणोद्भेदे मृतकल्पहते तथा ॥ २१९ ॥ किंच । करपाददन्तस्य प्रत्येकं भङ्गे कर्णनासस्य च प्रत्येकं छेदने रूढवणस्योअदने मृतकल्पो यथा भवति तथा हते ताडिते मध्यमसाहसो वेदितव्यः । अनुबन्धादिना विषयस्य साम्यमत्रापादनीयम् ॥ २१९ ॥
चेष्टाभोजनवाग्रोधे नेत्रादिप्रतिभेदने ।
कन्धराबाहुसक्श्नां च भङ्गे मध्यमसाहसः ॥ २२० ॥ किंच । गमनभोजनभाषणनिरोधे नेत्रस्य आदिग्रहणाजिह्वायाश्च प्रतिभेदने । कन्धरा ग्रीवा, बाहुः प्रसिद्धः, सक्थि उरुस्तेषां प्रत्येकं भञ्जने मध्यमसाहसो दण्डः ॥ २२० ॥
एकं नतां बहूनां च यथोक्ताद्विगुणो दमः । अपिच । यदा पुनर्बहवो मिलिता एकस्याङ्गभङ्गादिकं कुर्वन्ति तदा यस्मिन्यस्मिन् अपराधे यो यो दण्ड उक्तस्तत्र तस्माद्विगुणो दण्डः प्रत्येक वेदितव्यः । अतिक्रूरत्वात्तेषां प्रातिलोम्यानुलोम्यापरोधयोरप्येतस्यैव सवर्णविषयेऽभिहितस्य दएडजातस्य वाक्पारुष्योक्तक्रमेण हानि वृद्धिं च कल्पयेत् । -'वाक्पारुष्ये य एवोक्तः प्रातिलोम्यानुलोमतः । स एव दण्डपारुष्ये दाप्यो राज्ञा यथाक्रमम् ॥' इति स्मरणात् ॥
कलहापहृतं देयं दण्डश्च द्विगुणस्ततः ॥ २२१ ॥ किंच । कलहे वर्तमाने यद्येनापहृतं तत्तेन प्रत्यर्पणीयम् । अपहृतद्रव्याविगुगाश्चापहारनिमित्तो दण्डो देयः ॥ २२१ ॥
दुःखमुत्पादयेद्यस्तु स समुत्थानजं व्ययम् ।
दाप्यो दण्डं च यो यस्मिन्कलहे समुदाहृतः ॥ २२२ ॥ किंच । यो यस्य ताडनादुःखमुत्पादयेत्स तस्य व्रणरोपणादौ औषधार्थ पथ्यार्थं च यो व्ययः क्रियते तं दद्यात् । समुत्थानं व्रणरोपणम् । यस्मिन्कलहे यो दण्डस्तं च दद्यान्न पुनः समुत्थानजव्ययमात्रम् ॥ २२२ ॥
१ मांसास्थिविभेदे ख. २ पराधेप्येतस्येव घ. ३ य एवोक्तः प्रतिलोमानुलोमतः । स एव दण्डपारुष्ये राज्ञा कार्यों यथाक्रमम् घ.
For Private And Personal Use Only
Page #296
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६४
याज्ञवल्क्यस्मृतिः।
[व्यवहाराध्यायः
परगात्राभिद्रोहे दण्डमुक्त्वानन्तरं बहिरङ्गार्थनाशे दण्डमाह
अभिघाते तथा छेदे भेदे कुड्यावपातने ।
पणान्दाप्यः पञ्चदश विंशति तद्ययं तथा ॥ २२३ ।। मुद्गरादिना कुड्यस्याभिघाते विदारणे द्विधाकरणे च यथाक्रम पञ्चपणो दशपणो विंशतिपणश्व दण्डो वेदितव्यः । अवपातने पुनः कुड्यस्यैते त्रयो दण्डाः समुच्चिता ग्राह्याः । पुनः कुड्यसंपादनार्थ च धनं स्वामिने दद्यात् ॥ २२३ ॥
दुःखोत्पादि गृहे द्रव्यं क्षिपन्प्राणहरं तथा ।
पोडशायः पणान्दाप्यो द्वितीयो मध्यमं दमम् ॥ २२४ ॥ अपिच । परगृहे दुःखजनकं कण्टकादि द्रव्यं प्रक्षिपन्पोडशपणान्दण्ड्यः । प्राणहरं पुनर्विषभुजङ्गादिकं प्रक्षिपन्मध्यमसाहसं दण्ड्यः ॥ २२४ ॥ पश्वभिदोहे दण्डमाह
दुःखे च शोणितोत्पादे शाखाङ्गच्छेदने तथा।
दण्डः क्षुद्रपशूनां तु द्विपणप्रभृतिः क्रमात् ॥ २२५ ॥ क्षुद्राणां पशूनां अजाविकहरिणप्रायाणां ताडनेन दुःखोत्पादने असृक्नावणे शाखाङ्गच्छेदने । शाखाशब्देन चात्र प्राणसंचाररहितं शृङ्गादिकं लक्ष्यते । अङ्गानि करचरणप्रभृतीनि । शाखा चाङ्गं च शाखाङ्गं तस्य छेदने द्विपणप्रभृतिदण्डः । द्वौ पणौ यस्य दण्डस्य स द्विपणः । द्विपणः प्रभृतिरादिर्यस्य दण्डगणस्यासौ द्विपणप्रभृतिः । स च दण्डगणो द्विपणश्चतुःपणः षट्पणोऽष्टपण इत्येवं. रूपो न पुनरिणस्त्रिपणश्चतुष्पणः पञ्चपण इति । कथमिति चेदुच्यते । अपरा. धगुरुत्वात्तावत्प्रथमदण्डाद्गुरुतरमुपरितनं दण्डत्रितयमवगम्यते । तत्र चाश्रुत. त्रित्वादिसंख्याश्रयणाद्वरं श्रुतद्विसंख्याया एवाभ्यासाश्रयणेन गुरुत्वसंपादनमिति निरवद्यम् ॥ २२५ ॥
लिङ्गस्य छेदने मृत्यौ मध्यमो मूल्यमेव च ।
महापशूनामेतेषु स्थानेषु द्विगुणो दमः ॥ २२६ ॥ किंच तेषां क्षुद्रपशूनां लिङ्गच्छेदने मरणे च मध्यमसाहसो दण्डः । स्वामिने च मूल्यं दद्यात् । महापशूनां पुनर्गोगजवाजिप्रभृतीनामेतेषु स्थानेषु ताडनलोहितस्रावणादिषु निमित्तेषु पूर्वोक्ताहण्डाद्द्विगुणो दण्डो वेदितव्यः ॥ २२६ ॥ स्थावराभिद्रोहे दण्डमाह
प्ररोहिशाखिनां शाखास्कन्धसर्व विदारणे । उपजीव्यद्रुमाणां च विंशतेर्द्विगुणो दमः ॥ २२७ ॥
१ द्वैधीकरणे घ. २ समन्विताः घ. ३ अजाविहरिणानां घ. ४ स्त्रिश्चतुःप ख. ५ स्रावणादिनिमित्तेषु ख.
For Private And Personal Use Only
Page #297
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
साहसप्रकरणम् २० ] मिताक्षरासहिता।
२६५
प्ररोहा अडरास्तद्वन्त्यः शाखाः प्ररोहिण्यः यश्छिन्नाः पुनरुताः प्रतिकाण्ड प्ररोहन्ति ताः शाखा येषां वटादीनां ते प्ररोहिशाखिनस्तेषां शाखाच्छेदने । यतो मूलशाखा निर्गच्छन्ति स स्कन्धस्तस्य छेदने समूलवृक्षच्छेदने च यथाक्रमं विंशतिपणदण्डादारभ्य पूर्वस्मात्पूर्वस्मादुत्तरोत्तरो दण्डो द्विगुणः। एतदुक्तं भवति । विंशतिपणश्चत्वारिंशत्पणोऽशीतिपण इत्येवं त्रयो दण्डा यथाक्रम शाखाच्छेदनादिष्वपराधेषु भवन्तीति । भप्ररोहिशाखिनामप्युपजीव्यवृक्षाणामाम्रादीनां पूर्वोक्तेषु स्थानेषु पूर्वोक्ता एव दण्डाः अनुपजीव्यानरोहिशाखिषु पुनवृक्षेषु कल्प्याः ॥ २२७ ॥ वृक्षविशेष प्रत्याह
चैत्यश्मशानसीमासु पुण्यस्थाने सुरालये ।
जातद्रुमाणां द्विगुणो दमो वृक्षे च विश्रुते ॥ २२८ ॥ चैत्यादिषु जातानां वृक्षाणां शाखाच्छेदनादिषु पूर्वोक्ताद्दण्डाद्विगुणः । वितेश्रु च पिप्पलपलाशादिके द्विगुणो दण्डः ॥ २२८ ॥ गुल्मादीन्प्रत्याह
गुल्मगुच्छापलताप्रतानौषधिवीरुधाम् ।
पूर्वस्मृतादर्धदण्डः स्थानेषूक्तेषु कर्तने ॥ २२९ ॥ गुल्मा अनतिदीर्घनिबिडलता मालत्यादयः। गुच्छा अवल्लीरूपाः असरलप्रायाः कुरण्टकादयः । क्षुपाः करवीरादयः सरलप्रायाः । लता दीर्घयायिन्यो द्राक्षातिमुक्ताप्रभृतयः । प्रतानाः काण्डप्ररोहरहिताः सरलयायिन्यः सारिवाप्रभृतयः। ओषध्यः फलपाकावसानाः शालिप्रभृतयः । वीरुधः छिन्ना अपि या विविधं प्ररोहन्ति ताः गुडूचीप्रभृतयः । एतेषां पूर्वोक्तेषु स्थानेषु विकर्तने छेदने पूर्वोक्ताद्दण्डादर्धदण्डो वेदितव्यः ॥ २२९ ॥
इति दण्डपारुष्यप्रकरणम् ।
माया
अथ साहसप्रकरणम् २० संप्रति साहसं नाम विवादपदं व्याचिख्यासुस्तल्लक्षणं तावदाह
सामान्यद्रव्यप्रसभहरणात्साहसं स्मृतम् । सामान्यस्य साधारणस्य यथेष्टं विनियोगानहत्वाविशेषेण परकीयस्य वा द्रव्यस्यापहरणं साहसम् । कुतः। प्रसभहरणात् प्रसह्य हरणात् । बलावष्टम्भेन हरणादिति यावत् ॥ एतदुक्तं भवति । राजदण्डं जनक्रोशं चोल्लङ्घय राजपुरुषेतरजनसमक्षं यत्किचिन्मारणहरणपरदारप्रधर्षणादिकं क्रियते तत्सर्वं साहस
१ पणाद्दण्डादारभ्य घ. २ वृक्षेऽथ विश्रुते ख. ३ शिखायायिन्यः इति पाठः. ४ यथेष्टविनियोगा ग. घ. ५ त्वाद्विशेषेण ग.
For Private And Personal Use Only
Page #298
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
याज्ञवल्क्यस्मृतिः। [व्यवहाराध्यायः मिति साहसलक्षणम् । अतः साधारणधनपरधनयोर्हरणस्यापि बलावष्टम्भेन क्रियमाणत्वात्साहसत्वमिति । नारदेनापि साहसस्य स्वरूपं विवृतम्-'सहसा क्रियते कर्म यत्किंचिद्वलदर्पितैः। तत्साहसमिति प्रोक्तं सहो बलमिहोच्यते ॥' इति । तदिदं साहसं चौर्यवाग्दण्डपारुष्यस्त्रीसंग्रहणेषु व्यासक्तमपि बलदर्पावष्टम्भोपाधितो भिद्यते इति दण्डातिरेकार्थं पृथगमिधानम् । तस्य च दण्डवैचित्र्यप्रतिपादनाथ प्रथमादिभेदेन त्रैविध्यमभिधाय तल्लक्षणं तेनैव विवृतम्-'तत्पुनस्त्रिविधं ज्ञेयं प्रथमं मध्यमं तथा । उत्तमं चेति शास्त्रेषु तस्योक्तं लक्षणं पृथक् ॥ फलमूलोदकादीनां क्षेत्रोपकरणस्य च । भङ्गाक्षेपोपमर्दाद्यैः प्रथमं साहसं स्मृतम् ॥ वासःपश्वन्नपानानां गृहोपकरणस्य च । एतेनैव प्रकारेण भध्यमं साहसं स्मृतम् ॥ व्यापादो विपशस्त्रायैः परदाराभिमर्शनम् । प्राणोपरोधि यच्चान्यदुक्तमुत्तमसाहसम् ॥ तस्य दण्डः क्रियाक्षेपः प्रथमस्य शतावरः । मध्यमस्य तु शास्त्रज्ञैदृष्टः पञ्चशतावरः ॥ उत्तमे साहसे दण्डः सहस्रावर इप्यते । वधः सर्वस्वहरणं पुरान्निर्वासनाङ्कने । तदङ्गच्छेद इत्युक्तो दण्ड उत्तमसाहसे ॥' इति ॥ वधादयश्चापराधतारतम्यादुत्तमसाहसे समस्ता व्यस्ता वा योज्याः॥ तत्र परद्रव्यापहरणरूपे साहसे दण्डमाह
तन्मूल्याट्विगुणो दण्डो निह्नवे तु चतुर्गुणः ॥ २३०॥ तस्यापहृतद्रव्यस्य मूल्यात् द्विगुणो दण्डः । यः पुनः साहसं कृत्वा नाहमकार्षमिति निहते तस्य मूल्याच्चतुर्गुणो दण्डो भवति । एतस्मादेव विशेषदण्डविधानात्प्रथमसाहसादिसामान्यदण्डविधानमपहारव्यतिरिक्तविषयं गम्यते ॥२३०॥ साहसस्य प्रयोजयितारं प्रत्याह
यः साहसं कारयति स दाप्यो द्विगुणं दमम् ।
यश्चैवमुक्त्वाहं दाता कारयेत्स चतुर्गुणम् ॥ २३१ ॥ यस्तु साहसं कुर्वित्येवमुक्त्वा कारयत्यसौ साहसिकाद्दण्डाद्विगुणं दण्डं दाप्यः । यः पुनरहं तुभ्यं धनं दास्यामि त्वं कुर्वित्येवमुक्त्वा साहसं कारयति स चतुर्गुणं दण्डं दाप्योऽनुबन्धातिशयात् ॥ २३१ ॥ साहसिकविशेष प्रत्याह
अर्ध्याक्षेपातिक्रमकद्धातृभार्याप्रहारकः । संदिष्टस्याप्रदाता च समुद्रगृहभेदकृत् ।। २३२ ॥ सामन्तकुलिकादीनामपकारस्य कारकः।
पञ्चाशत्पणिको दण्ड एपामिति विनिश्चयः ॥ २३३ ॥ अर्थ्यांर्धार्हस्याचार्यादेराक्षेपमाज्ञातिक्रमं च यः करोति यश्च भ्रातृभार्या १ पाधिना भियते घ. २ कुर्वित्येवं वाचैव कारयति घ. ३ अाक्रोशाति ख.
For Private And Personal Use Only
Page #299
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६७
साहसप्रकरणम् २०] मिताक्षरासहिता ।
ताडयति तथा संदिष्टस्य प्रतिश्रुतस्यार्थस्याप्रदाता यश्च मुद्रितं गृहसुद्घाटयति तथा स्वगृहे क्षेत्रादिसंसक्तगृह क्षेत्रादिस्वामिनां कुलिकानां स्वकुलोद्भवानां आदिग्रहणात्स्व ग्राम्य स्वदेशीयानां च योऽपकर्ता ते सर्वे पञ्चाशत्पणपरिमितेन दण्डनीयाः ॥ २३२ ॥ २३३ ॥
स्वच्छन्दं विधवागामी विक्रुष्टे नाभिधावकः । अकारणे च विक्रोष्टा चण्डालवोत्तमान्स्पृशेत् ॥ २३४ ॥ शूद्रः प्रव्रजितानां च दैवे पित्र्ये च भोजकः । अयुक्तं शपथं कुर्वन्नयोग्यो योग्यकर्मकृत् ॥ २३५ ॥ वृपक्षुद्रपशूनां च पुंस्त्वस्य प्रतिघातकृत् । साधारणस्यापलापी दासीगर्भविनाशकृत् ।। २३६ ॥ पितृपुत्रस्वभ्रातृदम्पत्याचार्यशिष्यकाः ।
एषामपतितान्योन्यत्यागी च शतदण्डभाक् || २३७ ॥
किंच | नियोगं विना यः स्वेच्छया विधवां गच्छति । चौरादिभयाकुलैर्विकुष्टे च यः शक्तोsपि नाभिधावति । यश्च वृथाकोशं करोति । यश्च चण्डालो ब्राह्मणादीन्स्पृशति । यश्च शूदाः प्रव्रजितादिगम्बरादीन्दैवे पित्र्ये च कर्मणि भोजयति । यश्चायुक्तं मातरं गमिष्यामीत्येवं शपथं करोति । तथा यश्च अयोग्य एव शूद्रादियोग्यकर्माध्ययनादि करोति । वृषो बलीवर्दः क्षुद्रपशवोऽजादयस्तेषां पुंस्त्वस्य प्रजननशक्तेर्विनाशकः । वृक्षक्षुद्रपशूनामिति पाठे हिंग्वाद्यौषधयोगेन वृक्षादेः फलप्रसूनानां पातयिता । साधारणमपलपति साधारणद्रव्यस्य च वञ्चकः । दासीगर्भस्य च पातयिता । ये च पित्रादयोऽपतिता एव सन्तोऽन्योन्यं त्यजन्ति ते सर्वे प्रत्येकं पणशतं दण्डार्हा भवन्ति ॥ २३४ ॥ ॥ २३५ ॥ २३६ ॥ २३७ ॥ इति साहसप्रकरणम् ॥ साहसप्रसङ्गात्तत्सदृशापराधेषु निर्णेजकादीनां दण्डमाहवसानस्त्रीन्पणान्दण्ड्यो नेजकस्तु परांशुकम् । विक्रयावक्रयाधानयाचितेषु पणान्दश || २३८ ॥
जको वस्त्रस्य धावकः स यदि निर्णेजनार्थं समर्पितानि वासांसि स्वयमाच्छादयति तदासौ पणत्रयं दण्ड्यः । यः पुनस्तानि विक्रीणीते अवक्रयं वा एतावत्कालमुपभोगार्थं वस्त्रं दीयते मह्यमेतावद्धनं देयमित्येवं भाटकेन यो ददाति आधित्वं वा नयति स्वसुहृयो याचितं वा ददात्यसौ प्रत्यपराधं दशपणान्दण्डनीयः । तानि च वस्त्राणि श्लक्ष्णशाल्मलीफलके क्षालनीयानि न पाषाणे, नच व्यत्यसनीयानि, नच स्वगृहे वासयितव्यानि इतरथा दण्ड्यः ।
१ शूद्रप्रत्रजितानां ख. २ ग्रहीष्यामीत्येवं ख. ३ शाल्मले फलके ख.
For Private And Personal Use Only
Page #300
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६८
याज्ञवल्क्यस्मृतिः
[ व्यवहाराध्यायः
( ८/३९६ ) - ' शाल्मलीफलके लक्षणे निज्याद्वासांसि नेजकः । नच वासांसि वासोभिर्निर्हरेन्न च वासयेत् ॥' इति मनुस्मरणात् ॥ यदा पुनः प्रमादात्तानि नाशयति तदा नारदेनोक्तं द्रष्टव्यम्- 'मूल्याष्टभागो हीयेत सकृद्धौतस्य वाससः । द्विःपादस्त्रिस्तृतीयांशश्चतुधतेऽर्धमेव च ॥ अर्धक्षयात्तु परतः पादांशापचयः क्रमात् । यावत्क्षीणदशं जीर्ण जीर्णस्थानियमः क्षयः ॥' इति । अष्टपण
तस्य सकृद्धौतस्य वस्त्रस्य नाशितस्याष्टमभागपणानं मूल्यं देयम् । द्विधतस्य तु पादोनं पणद्वयोनं त्रिर्धीतस्य पुनस्तृतीयांशन्यूनम् । चतुधतस्यार्धं पणचतुष्टयं देयम् । ततः परं प्रति निर्णेजनमवशिष्टं मूल्यं पादपादापचयेन देयम् । यावज्जीर्णस्य पुनर्नाशितस्येच्छातो मूल्यदानकल्पनम् ॥ २३८ ॥
पितापुत्रविरोधे तु साक्षिणां त्रिपणो दमः ।
अन्तरे च तयोर्यः स्यात्तस्याप्यष्टगुणो दमः ॥ २३९ ॥
पितापुत्रयोः कलहे यः साक्ष्यमङ्गीकरोति न पुनः कलहं निवारयति असौ पणन्त्रयं दण्ड्यः । यश्च तयोः सपणे विवादे पणदाने प्रतिभूर्भवत्यसौ चकारात्तयोर्यः कलहं वर्धयति सोऽपि त्रिपणादष्टगुणं चतुर्विंशतिपणान्दण्डनीयः । दम्प त्यादिष्वयमेव दण्डोऽनुसरणीयः ॥ २३९ ॥
तुलाशासनमानानां कूटकृन्नाणकस्य च ।
एभिश्च व्यवहर्ता यः स दाप्यो दममुत्तमम् ॥ २४० ॥
तुला तोलनदण्डः । शासनं पूर्वोक्तम् । मानं प्रस्थद्रोणादि । नाणकं मुद्रादिचिह्नितं द्रम्मनिष्कादि । एतेषां यः कूटकृत् देशप्रसिद्ध परिमाणादन्यथा न्यूनवमाधिक्यं वा द्रम्मादेरव्यवहारिकमुद्रात्वं ताम्रादिगर्भत्वं वा करोति यश्च तैः कूटैर्जानन्नपि व्यवहरति तावुभौ प्रत्येकमुत्तमसाहसं दण्डनीयौ ॥ २४० ॥ नाणकपरीक्षिणं प्रत्याह
अकूटं कूटकं ब्रूते कूटं यथाप्यकूटकम् ।
स नाणकपरीक्षी तु दाप्य उत्तमसाहसम् || २४१ ॥ यः पुनर्नाणकपरीक्षी ताम्रादिगर्भमेव द्रम्मादिकं सम्यगिति ब्रूते सम्यक् वा कूटकमिति असावुत्तमसाहसं दण्ड्यः ॥ २४१ ॥
चिकित्सकं प्रत्याह
भिषग्मिथ्याचरन्दण्ड्यस्तिर्यक्षु प्रथमं दमम् ।
मानुषे मध्यमं राजपुरुषेषूत्तमं दमम् ॥ २४२ ॥
यः पुनर्भिषक् मिथ्या आयुर्वेदानभिज्ञ एव जीवनार्थं चिकित्सितज्ञोऽहमिति तिर्यानुध्यराजपुरुषेषु चिकित्सामाचरत्यसौ यथाक्रमेण प्रथममध्यमोत्तमसाह
१ अष्टमभागोनं पणं मूल्यं खध. २ पादाद्यपचयेन ख. ३ व्यावहारिकमुद्रितत्वं व. ४ चरन्दाप्यः घ. ५ राजमानुषे तूत्तमं व.
For Private And Personal Use Only
Page #301
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
------enerancistant
साहसप्रकरणम् २०] मिताक्षरासहिता।
२६९ सान्दण्डनीयः । तत्रापि तिर्यगादिषु मूल्यविशेषेण वर्णविशेषेण राजप्रत्यासत्तिविशेषेण दण्डानां लघुगुरुभावः कल्पनीयः ॥ २४२ ॥
अवध्यं यश्च. बध्नाति बद्धं यश्च प्रमुञ्चति ।
अप्राप्तव्यवहारं च स दाप्यो दममुत्तमम् ॥ २४३ ॥ - यः पुनर्बन्धनानहमनपराधिनं राजाज्ञयाविना बध्नाति । यश्च बद्धं ध्यवहा. रार्थमाहूतं अनिवृत्तव्यवहारं चोत्सृजत्यसौ उत्तमसाहसं दाप्यः ॥ २४३ ॥
मानेन तुलया वापि योंऽशमष्टमकं हरेत् ।
दण्डं स दाप्यो द्विशतं वृद्धौ हानौ च कल्पितम् ॥२४४॥ यः पुनर्वणिक् वीहिकार्पासादेः पण्यस्यामष्टममंशं कूटमानेन कूटतुलया वा अन्यथाऽपहरति असौ पणानां द्विशतं दण्डनीयः । अपहृतस्य द्रव्यस्य पुनर्वृद्धौ हानौ च दण्डस्यापि वृद्धिहानी कल्प्ये ॥ २४४ ॥
भेषजस्नेहलवणगन्धधान्यगुडादिषु ।
पण्येषु प्रक्षिपन्हीनं पणान्दाप्यस्तु षोडश ॥ २४५ ॥ भेषजमौषधद्रव्यम् । स्नेहो घृतादिः । लवणं प्रसिद्धम् । गन्धद्रव्यमुशीरादि । धान्यगुडी प्रसिद्धौ । आदिशब्दाद्धिगुमरीचादि । एतेष्वसारद्रव्यं विक्रयार्थ मिश्रयतः पोडशपणो दण्डः ॥ २४५ ॥
मृचर्ममणिसूत्रायःकाष्ठवल्कलवाससाम् ।
अजातौ जातिकरणे विक्रेयाष्टगुणो दमः ॥ २४६ ॥ किंच । न विद्यते बहुमूल्या जातियस्मिन्मृचर्मादिके तदजाति तस्मिन् जाति. करणे विक्रयार्थ गन्धवर्णरसान्तरसंचारणेन बहूमूल्यजातीयसादृश्यसंपादनेन । यथा मल्लिकामोदसंचारेण मृत्तिकायां सुगन्धामलकमिति । मार्जारचर्मणि वोत्कर्षापादनेन व्याघ्रचर्मेति स्फटिकमणौ वर्णान्तरकरणेन पद्मराग इति । कापीसिके सूत्रे गुणोत्कर्षाधानेन पट्टसूत्रमिति । कोलायसे वर्णोत्कर्षाधानेन रजत. मिति । बिल्वकाष्ठे चन्दनामोदसंचारेण चन्दनमिति । कङ्कोले त्वगाख्यं लवमिति । कार्यासिके वाससि गुणोत्कर्षाधानेन कौशेयमिति । विक्रेयस्यापादितसादृश्यमृचर्मादेः पण्यस्याष्टगुणो दण्डो वेदितव्यः ॥ २४६ ॥
समुद्गपरिवर्त च सारभाण्डं च कृत्रिमम् । आधानं विक्रयं वापि नयतो दण्डकल्पना ॥ २४७ ॥ भिन्ने पणे च पञ्चाशत्पणे तु शतमुच्यते ।
द्विपणे द्विशतो दण्डो मूल्यवृद्धौ च वृद्धिमान् ॥ २४८ ॥ मुद्र पिधानं मुद्रेन सहवर्तत इति समुद्रं करण्डकं परिवर्तनं व्यत्यासः । १ दण्डस्य. २ काष्र्णायसे च घ. ३ समुद्रशब्दः ख. पुस्तके सर्वत्र.
-
-
-
For Private And Personal Use Only
Page #302
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७०
याज्ञवल्क्यस्मृतिः। [व्यवहाराध्यायः योऽन्यदेवमुक्तानां पूर्ण करण्डकं दर्शयित्वा हस्तलाघवेनान्यदेव स्फटिकानां पूर्ण करण्डकं समर्पयति यश्च सारभाण्डं कस्तूरिकादिकं कृत्रिमं कृत्वा विक्रयमाधि वा नयति तस्य दण्डकल्पना वक्ष्यमाणा वेदितव्या । कृत्रिमकस्तूरिकादेमूल्यभूते पणे भिन्ने न्यूने । न्यूनपणमूल्य इति यावत् । तस्मिन् कृत्रिमे विक्रीते पञ्चाशत्पणो दण्डः । पणमूल्ये पुनःशतम् । द्विपणमूल्ये द्विशतो दण्ड इत्येवं मूल्यवृद्धौ दण्डवृद्धिरुन्नेया ॥ २४७ ॥ २४८ ॥ वणिजः प्रत्याह
संभूय कुर्वतामधं सबाधं कारुशिल्पिनाम् ।
अर्घस्य हासं वृद्धि वा जानतो दम उत्तमः ॥ २४९ ॥ राजनिरूपितार्घस्य हासं वृद्धिं वा जानन्तोऽपि वणिजः संभूय मिलित्वा कारूणां रजकादीनां शिल्पिनां चित्रकारादीनां सबाधं पीडाकरमर्घान्तरं लाभलोभात्कुर्वन्तः पणसहस्रं दण्डनीयाः ॥ २४९ ॥
संभूय वणिजां पण्यमन'णोपरुन्धताम् ।
विक्रीणतां वा विहितो दण्ड उत्तमसाहसः ॥ २५० ॥ किंच । ये पुनर्वणिजो मिलित्वा देशान्तरादागतं पण्यमनर्धेण हीनमूल्येन प्रार्थयमाना उपरुन्धन्ति महाभ्रुण वा विक्रीणते तेषामुत्तमसाहसो दण्डो विहितो मन्वादिभिः ॥ २५० ॥ केन पुनरर्पण पणितव्यमित्यत आह
राजनि स्थाप्यते योऽर्घः प्रत्यहं तेन विक्रयः।
क्रयो वा निःस्रवस्तस्माद्वणिजां लाभकृत्स्मृतः ॥ २५१ ॥ राजनि संनिहिते सति यस्तेनार्घः स्थाप्यते निरूप्यते तेनार्पण प्रतिदिनं क्रयो विक्रयो वा कार्यः । निर्गतः सवो निःस्रवो विशेषस्तस्माद्राजनिरूपिता_द्यो निस्रवः स एव वणिजां लाभकारी न पुनः स्वच्छन्दपरिकल्पितात् । मनुना चार्घकरणे विशेषो दर्शितः (८१४०२)-'पञ्चराने पञ्चरात्रे पक्षे मासे तथा गते । कुर्वीत चैषां प्रत्यक्षमर्घसंस्थापनं नृपः ॥' इति ॥ २५१ ॥
स्वदेशपण्ये तु शतं वणिग्गृह्णीत पञ्चकम् ।
दशकं पारदेश्ये तु यः सद्यः क्रयविक्रयी ॥ २५२ ॥ किंच स्वदेशप्राप्तं पण्यं गृहीत्वा यो विक्रीणीते असौ पञ्चकं शतं पणशते पणपञ्चकं लाभं गृह्णीयात् । परदेशात्प्राप्ते पुनः पण्ये शतपणमूल्ये दशपणान्लाभं गृह्णीयात् । यस्य पणस्य ग्रहणदिवस एव विक्रयः संपद्यते । यः पुनः काला. न्तरे विक्रीणीते तस्य कालोत्कर्षवशाल्लाभोत्कर्षः कल्प्यः । एवं च यथार्धे निरू
१ भिन्ने भिन्नमूल्ये घ. २ जानतां घ. ३ अवशेषः घ. ४ वशाल्लाभः कल्प्य ग.
For Private And Personal Use Only
Page #303
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विक्रीयासंप्रदानप्र ० २१ ] मिताक्षरासहिता ।
२७१
पिते year पञ्चपण लाभो भवति तथैवार्घो राज्ञा स्वदेशपण्यविषये स्थाप
नीयः ॥ २५२ ॥
पारदेश्य पण्येऽर्धनिरूपणप्रकारमाह
पण्यस्योपरि संस्थाप्य व्ययं पण्यसमुद्भवम् । अर्धोऽनुग्रहकृत्कार्यः क्रेतुर्विक्रेतुरेव च ॥ २५३ ॥
देशान्तरादागते पण्ये देशान्तरगमनप्रत्यागमनभाण्डग्रहणशुल्कादिस्थानेषु यावानुपयुक्तोऽर्थस्तावन्तमर्थ परिगणय्य पण्यमूल्येन सह मेलयित्वा यथा पणशते दशपणो लाभः संपद्यते तथा क्रेतृविक्रेत्रोरनुग्रहकार्यर्घो राज्ञा स्थापनीयः ॥ इति साहसप्रकरणम् ।
अथ विक्रीया संप्रदानप्रकरणम् २१
प्रासङ्गिकं परिसमाप्याधुना विक्रीयासंप्रदानं प्रक्रमते । तत्स्वरूपं च नारदेनाभिहितम् - विक्रीय पण्यं मूल्येन क्रेतुर्यच प्रदीयते । विक्रीयासंप्रदानं तद्विवादपदमुच्यते ॥' इति । तत्र विक्रेयद्रव्यस्य चराचरभेदेन द्वैविध्यमभिधाय पुनः पविधत्वं तेनैव प्रत्यपादि - 'लोकेऽस्मिन्द्विविधं पण्यं जङ्गमं स्थावरं तथा । पविधस्तस्य तु बुधैर्दानादानविधिः स्मृतः ॥ गणितं तुलितं मेयं क्रिया रूपतः श्रिया ॥' इति । गणितं क्रमुकफलादि । तुलितं कनककस्तूरीकुकुमादि । मेयं शाल्यादि । क्रियया वाहदोहा दिरूपयोपलक्षितमश्वमहिष्यादि । रूपतः पण्याङ्गनादि । श्रिया दीहया मरकतपद्मरागादीति ॥
एतत् कारकमपि पण्यं विक्रीयाऽसंप्रयच्छतो दण्डमाहगृहीतमूल्यं यः पण्यं क्रेतुर्नैव प्रयच्छति ।
सोदयं तस्य दाप्यisit दिग्लाभं वा दिगागते ।। २५४ ॥ गृहीतं मूल्यं यस्य पणस्य विक्रेत्रा तद्गृहीतमूल्यं तद्यदि विक्रेता प्रार्थयमा नाय स्वदेशवाणिजे त्रे न समर्पयति तच्च पण्यं यदि क्रयकाले बहुमूल्यं सत्कालान्तरेऽल्पमूल्येनैव लभ्यते तदार्धह्रासकृतो य उदयो वृद्धिः पण्यस्य स्थावरजङ्गमात्मकस्य ते सहितं पण्यं विक्रेता क्रेत्रे दापनीयः । यदा मूल्यह्रासकृतः पण्ययोदयो नास्ति किं तु क्रयकाले यावदेव यतो मूल्यस्येयत्पण्यमिति प्रतिपन्नं तावदेव तदा तत्पण्यमादाय तस्मिन्देशे विक्रीणानस्य यो लाभस्तेनोदयेन सहितं द्विकं त्रिकमित्यादिप्रतिपादितवृद्धिरूपोदयेन वा सहितं तृवाञ्छावशाद्दापनीयः । यथाह नारदः - 'अर्धश्वेदेवहीयेत सोदयं पण्यमावहेत् । स्थानिनामेष नियमो दिग्लाभं दिग्विचारिणाम् ॥' इति । यदा त्वर्धमहत्त्वेन पण्यस्य न्यून भावस्तदा तस्मिन्पण्ये वस्त्रगृहादिके य उपभोगस्तदाच्छादनसुख
१ गणिमं क्रमुकफलादि, तुलिमं कर्पूरादि . ग. घ. २ 'श्वेदत्र' ख.
या० २६
For Private And Personal Use Only
Page #304
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७२
याज्ञवल्क्यस्मृतिः। [व्यवहाराध्यायः निवासादिरूपो विक्रेतुस्तत्सहितं पण्यमसौ दाप्यः। यथाह नारदः-'विक्रीय पण्यं मूल्येन यः केतुर्न प्रयच्छति । स्थावरस्य क्षयं दाप्यो जङ्गमस्य क्रियाफलम् ॥' इति । विक्रेतुरुपभोगः क्षय उच्यते । केतृसंबन्धित्वेन क्षीयमाणत्वात् । न पुनः कुड्यपातसस्यघातादिरूपः। तस्य तु-'उपहन्येत वा पण्यं दह्येतापहियेत वा । विक्रेतुरेव सोऽनर्थो चिक्रीयासंप्रयच्छतः॥' इत्यत्रोक्तत्वात् ॥ यदा त्वसौ क्रेता देशान्तरात्पण्यग्रहणार्थमागतस्तदा तत्पण्यमादाय देशान्तरे विक्रीणानस्य यो लाभस्तेन सहितं पण्यं विक्रेता क्रेने दापयितव्यः । अयं च क्रीतपण्यसमर्पणनियमोऽनुशयाभावे द्रष्टव्यः ॥ सति त्वनुशये 'क्रीत्वा विक्रीय वा किंचिदि'त्यादि मनूक्तं वेदितव्यम् ॥ २५४ ॥
विक्रीतमपि विक्रेयं पूर्वक्रेतर्यगृह्णति ।
हानिश्चेत्क्रेतदोषेण ऋतुरेव हि सा भवेत् ॥ २५५ ।। किंच । यदा पुनर्जातानुशयः केता पण्यं न जिघृक्षति तदा विक्रीतमपि पण्यमन्यत्र विक्रेयम् । यदा पुनर्विक्रेत्रा दीयमानं क्रेता न गृह्णाति तच्च पण्यं राजदैविकेनोपहतं तदा क्रेतुरेवासौ हानिर्भवेत् । पण्याग्रहणरूपेण क्रेतृदोषेण नाशितत्वात् ॥ २५५ ॥
राजदैवोपघातेन पण्ये दोषमुपागते ।
हानिर्विक्रेतुरेवासौ याचितस्याप्रयच्छतः ॥ २५६ ॥ अपिच । यदा पुनः क्रेत्रा प्रार्थ्यमानमपि पण्यं विक्रेता न समर्पयत्यजातानुशयोऽपि तच्च राजदैविकेनोपहतं भवति तदासौ हानिर्विक्रेतुरेव । अतोऽन्यददुष्टं पण्यं विनष्टसदृशं क्रेत्रे देयम् ॥ २५६ ॥
अन्यहस्ते च विक्रीय दुष्टं वाऽदुष्टवद्यदि ।
विक्रीणीते दमस्तत्र मूल्यात्तु द्विगुणो भवेत् ॥ २५७ ॥ किंच। यः पुनर्विनैवानुशयमेकस्य हस्ते विक्रीतं पुनरन्यस्य हस्ते विक्रीणीते सदोषं वा पण्यं प्रच्छादितदोषं विक्रीणीते तदा तत्पण्यमूल्याट्विगुणो दमो वेद्वितव्यः। नारदेनाप्यत्र विशेषो दर्शितः-'अन्यहस्ते विक्रीय योऽन्यस्मै तत्प्रयच्छति । द्रव्यं तद्विगुणं दाप्यो विनयस्तावदेव तु ॥ निर्दोषं दर्शयित्वा तु सदोषं यः प्रयच्छति । स मूल्याद्द्विगुणं दाप्यो विनयं तावदेव तु ॥' इति ॥ सर्वश्वायं विधिर्दत्तमूल्ये पण्ये द्रष्टव्यः । अदत्तमूल्ये पुनः पण्ये वाङ्मात्रक्रये क्रेतृविक्रेत्रोर्नियमकारिणः समयादृते प्रवृत्तौ निवृत्तौ वा न कश्चिद्दोषः । यथाह नारदः-'दत्तमूल्यस्य पण्यस्य विधिरेष प्रकीर्तितः । अदत्तेऽन्यत्र समयान्न विक्रेतुरविक्रयः ॥' इति ॥ २५७ ॥
१ कुड्यपास्यघातादि ख. २ सदृक्षं घ.
For Private And Personal Use Only
Page #305
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
संभूयसमुत्थानप्र ० २२ ] मिताक्षरासहिता ।
२७३
विक्रयानुशयोऽभिहितः । क्रीतानुशयस्वरूपं तु प्राक् प्रपञ्चितम्। अधुना तदुभयसाधारणं धर्ममाह -
क्षयं वृद्धिं च वणिजा पण्यानामविजानता ।
क्रीत्वा नानुशयः कार्यः कुर्वन्पागदण्डभाक् ॥ २५८ ।। परीक्षितक्रीतपण्यानां ऋयोत्तरकालं क्रयकालपरिमाणतोऽर्घकृतां वृद्धिमपइयता त्रा अनुशयो न कार्यः । विक्रेत्रा च महार्घनिबन्धनं पण्यक्षयमपश्यता नानुशयतिव्यम् । वृद्धिक्षयपरिज्ञाने पुनः क्रेतृ विक्रेत्रोरनुशयो भवतीति व्यतिरेकादुक्तं भवति । अनुशयकालावधिस्तु नारदेनोक्तः - ' क्रीत्वा मूल्येन यः पण्यं दुःक्रीतं मन्यते क्रयी । विक्रेतुः प्रतिदेयं तत्तस्मिन्नेवाह्वयविक्षतम् ॥ द्वितीयेऽह्नि ददत्ता मूल्यात्रिंशांशमावहेत् । द्विगुणं तु तृतीयेऽह्नि परतः क्रेतुरेव तत् ॥' इति । अपरीक्षितक्रयविक्रये पुनः पण्यवैगुण्य निबन्धनानुशयावधि 'देशैकपञ्चससाहे' त्यादिना दर्शित एव । तदनया वाचोयुक्त्या वृद्धिक्षयपरिज्ञानस्यानुशयकारणत्वमगम्यते । यथा गण्यपरीक्षाविधिबलात्पण्यदोषाणामनुशयकारणत्वं अतः पण्यदोषतदृद्धिक्षयकारणत्रितयाभावेऽनुशयकालाभ्यन्तरेऽपि यद्यनुशयं करोति तदा पण्यषङ्कागं दण्डनीयः । अनुशयकारणसद्भावेऽप्यनुशयका लातिक्रमेणानुशयं कुर्वतोऽप्ययमेव दण्डः । उपभोगेनाविनश्वरेषु स्थिरार्घेष्वनुशयकालातिक्रमेणानुशयं कुर्वतो मनूको दण्डो द्रष्टव्यः ( ८।२२३ ) – 'परेण तु दशाहस्य न दद्यान्नापि दापयेत् । आददानो ददचैव राज्ञा दण्ड्यः शतानि षट् ॥' इति ॥ २५८ ॥
इति विक्रीया संप्रदानं नाम प्रकरणम् ।
अथ संभूयसमुत्थानप्रकरणम् २२ संभूयसमुत्थानं नाम विवादेपदमिदानीमभिधीयतेसमवायेन वणिजां लाभार्थं कर्म कुर्वताम् । लाभालाभौ यथाद्रव्यं यथा वा संविदा कृतौ ॥ २५९ ॥ सर्वे वयमिदं कर्म मिलिताः कुर्म इत्येवंरूपा संप्रतिपत्तिः समवायः तेन ये वणिङ्गटनर्तकप्रभृतयो लाभ लिप्सवः प्रातिस्त्रिकं कर्म कुर्वते तेषां लाभालाभावुपचयापचयौ यथाद्रव्यं येन यावद्धनं पण्यग्रहणाद्यर्थं दत्तं तदनुसारेणावसेयौ । यद्वा । प्रधानगुणभावपर्यालोचनयास्य भागद्वयमस्यैको भाग इत्येवंरूपया संविदा समयेन यथा संप्रतिपन्नौ तथा वेदितव्यौ ॥ २५९ ॥
प्रतिषिद्धमनादिष्टं प्रमादाद्यच्च नाशितम् ।
स तद्दद्याद्विवाच्च रक्षिताद्दशमांशभाक् ॥ २६० ॥ किंच । तेषां संभूय प्रचरतां मध्ये पण्यमिदमित्थं न व्यवहर्तव्यमिति प्रति
१ यत्पण्यं दुष्क्रीतं ख.
२ पदमधुना समभिदधाति घ.
For Private And Personal Use Only
Page #306
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७४
याज्ञवल्क्यस्मृतिः ।
[ व्यवहाराध्यायः
षिद्धमाचरता यन्नाशितमनादिष्टमननुज्ञातं वा कुर्वाणेन तथा प्रमादात्प्रज्ञाहीतया वा येन यन्नाशितं स तत्पण्यं वणिग्भ्यो दद्यात् । यः पुनस्तेषां मध्ये चौरराजादिजनिताद्व्यसनात्पण्यं पालयति स तस्माद्वक्षितात्पण्याद्दशममंशं लभते ॥ २६० ॥
अर्धप्रक्षेपणाद्विशं भागं शुल्कं नृपो हरेत् ।
व्यासिद्धं राजयोग्यं च विक्रीतं राजगामि तत् ।। २६१ ॥
इयतः पण्यस्येयन्मूल्यमित्यर्धस्तस्य प्रक्षेपणात् राजतो निरूपणाद्धेतोरसी मूल्याद्विंशतितममंशं शुल्कार्थं गृह्णीयात् । यत्पुनर्व्यासिद्धमन्यत्र न विक्रेयमिति राज्ञा प्रतिषिद्धं यच्चे राजयोग्यं मणिमाणिक्याद्यप्रतिषिद्धमपि तद्भाज्ञेऽनिवेद्य लाभलोभेन विक्रीतं चेद्राजगामि मूल्यदाननिरपेक्षं तत्सर्वं पण्यं राजापहरेदित्यर्थः ॥ २६१ ॥
मिथ्यावदन्परीमाणं शुल्कस्थानादपासरन् ।
दाप्यस्त्वष्टगुणं यच स व्याजक्रयविक्रयी ॥ २६२ ॥
यः पुनर्वणिक शुल्कवञ्चनार्थं पण्यपरिमाणं निहते शुल्कग्रहणस्थानाद्वापसरति यश्चास्येदमस्येदं वेत्येवं विवादास्पदीभूतं पण्यं क्रीणाति विक्रीणीते वा ते सर्वे पण्यष्टगुणं दण्डनीयाः ॥ २६२ ॥
तरिकः स्थलजं शुल्कं गृह्णन्दाप्यः पणान्दश । ब्राह्मणप्रातिवेश्यानामेतदेवानिमन्त्रणे ।। २६३ ।।
अपिच । शुल्कं हि द्विविधं स्थलजं जलजं च । तत्र स्थलजमर्घप्रक्षेपणाद्विशं भागं शुल्कं नृपो हरेदित्यत्रोक्तम् । जलजं तु मानवेऽभिहितम् ( ८२४०४/५/७ । ) - 'पणं यानं तरे दाप्यः पुरुषोऽर्धपणं तरे । पादं पशुश्च योषिच्च पादार्ध रिक्तकः पुमान् ॥ भाण्डपूर्णानि यानानि तार्य दाप्यानि सारतः । रिक्तभाण्डानि यत्किंचित्पुमांसश्चापरिच्छदाः ॥ गर्भिणी तु द्विमासादिस्तथा प्रत्रजितो मुनिः । ब्राह्मणा लिङ्गिनश्चैव न दाप्यास्तारिकं नराः ॥' इति ॥ शुल्कद्वयेऽप्ययमपरो विशेषः - 'न भिन्नकार्षापणमस्ति शुल्कं न शिल्पवृत्तौ न शिशौ न दूते । न भैक्षलब्धे न हृतावशेषे न श्रोत्रिये प्रव्रजिते न यज्ञे ॥' इति ॥ तीर्थतेऽनेनेति तैरिः नावादिः तज्जन्यशुल्केऽधिकृतस्तरिकः । स यदा स्थetad शुल्कं गृह्णाति तदा दशपणान्दण्डनीयः । वेशो वेश्म । प्रतिवेश इति स्ववेश्माभिमुखं स्ववेश्मपार्श्वस्थं चोच्यते । तत्र भवाः प्रातिवेश्याः ब्राह्मणाश्च ते प्रातिवेश्याश्च ब्राह्मणप्रातिवेश्याः तेषां श्रुतवृत्तसंपैन्नानां श्राद्धादिषु विभवे सत्यनिमन्त्रणे एतदेव दशपणात्मकं दण्डनं वेदितव्यम् ॥ २६३ ॥
१ यद्राजयोग्यं ख. २ तरो नावादिः ६. ३ संपूर्णानां. ख.
For Private And Personal Use Only
Page #307
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
संभूयसमुत्थानप्र० २२ ] मिताक्षरासहिता ।
२७५ देशान्तरमृतवणिनिक्थं प्रत्याह
देशान्तरगते प्रेते द्रव्यं दायादबान्धवाः ।
ज्ञातयो वा हरेयुस्तदागतास्तैर्विना नृपः ॥ २६४ ॥ यदा संभूयकारिणां मध्ये यः कश्चिद्देशान्तरगतो मृतस्तदा तदीयमंशं दायादाः पुत्राद्यपत्यवर्गो बान्धवाः मातृपक्षा मातुलाद्याः ज्ञातयोऽपत्यवर्गव्यतिरिक्ताः सपिण्डा वा आगताः संभूय व्यवहारिणो ये देशान्तरादागतास्ते वा गृह्णीयुः । तैर्विना दायादाद्यभावे राजा गृह्णीयात् । वाशब्देन च दायादादीनां वैकल्पिकमधिकारं दर्शयति । पौर्वापर्यनियमश्च 'पत्नी दुहितर' इत्यादिना प्रतिपादित एवात्रापि वेदितव्यः । शिष्यसब्रह्मचारिब्राह्मणनिषेधो वणिक्प्राप्तिश्च वचनप्रयोजनम् । वणिजामपि मध्ये यः पिण्डदानर्णदानादिसमर्थः स गृह्णीयात् । साम
र्थ्याविशेषे पुनः सर्वे वणिजः संसृष्टिनो विभज्य गृह्णीयुः । तेषामप्यभावे दशवर्षे दायादाद्यागमनं प्रतीक्ष्यानागतेषु स्वयमेव राजा गृह्णीयात् । तदिदं नारदेन स्पष्टीकृतम्-'एकस्य चेत्स्यान्मरणं दायादोऽस्य तदाप्नुयात् । अन्यो वाऽसति दायादे शक्ताश्चेत्सर्व एव ते ॥ तदभावे तु गुप्तं तत्कारयेद्दशवत्सरान् । अस्वामिकमदायादं दशवर्षस्थितं ततः ॥ राजा तदात्मसात्कुर्यादेवं धर्मो न हीयते ॥' इति ॥ २६४॥
जिलं त्यजेयुर्निर्लाभमशक्तोऽन्येन कारयेत् ।। किंच । जिह्मो वञ्चकः तं निर्लाभं निर्गतलाभं लाभमाच्छिद्य त्यजेयुर्बहिः कुर्युः । यश्च संभूयकारिणां मध्ये भाण्डप्रत्यवेक्षणादिकं कर्तुमसमर्थोऽसावन्येन स्वं कर्म भाण्डभारवाहनं तदायव्ययपरीक्षणादिकं कारयेत् ॥ प्रागुपदिष्टं वणिग्धर्ममृत्विगादिष्वतिदिशति
अनेन विधिराख्यात ऋत्विकर्षककर्मिणाम् ।। २६५ ॥ अनेन लाभालाभौ यथाव्यमित्यादिवणिग्धर्मकथनेन ऋत्विजां होत्रादीनां कृषीवलानां नटनर्तककक्षादीनां च शिल्पकर्मोपजीविनां विधिर्वर्तनप्रकार आख्यातः । तत्र च ऋत्विजां धनविभागे विशेषो मनुना दर्शितः (१२१०) 'सर्वेषामर्धिनो मुख्यास्तदर्धनाधिनोऽपरे । तृतीयिनस्तृतीयांशाश्चतुर्थांशाश्च पादिनः ॥' इति ॥ अस्यायमर्थः । 'ज्योतिष्टोमेन शतेन दीक्षयन्तीति वैचनेन गवां शतमृत्विगानतिरूपे दक्षिणाकार्ये विनियुक्तम् । ऋत्विजश्च होत्रादयः षोडश । तत्र कस्य कियानंश इत्यपेक्षायामिदमुच्यते । सर्वेषां होत्रादीनां पोडशर्विजां मध्ये ये मुख्याश्चत्वारो होत्रध्वर्युब्रह्मोद्गातारः ते गोशतस्यार्धिनः सर्वेषां भागपूरणोपपत्तिवशादष्टाचत्वारिंशद्रूपार्धनार्धभाजः । अपरे मैत्रावरुणप्रतिप्रस्थातृब्राह्मणाच्छंसिप्रस्तोतारस्तदर्धेन तस्य मुख्यांशस्यार्धेन चतुर्विशतिरूपेणार्धभाजः । ये पुनस्तृतीयिनः अच्छावाकनेष्ट्राग्नीध्रप्रतिहारस्ते तृतीयिनो १ विशेयः घ. २ तद्धारयेत् घ. ३ वचने गवा घ.
For Private And Personal Use Only
Page #308
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७६
याज्ञवल्क्यस्मृतिः।
[व्यवहाराध्यायः
मुख्यस्यांशस्य षोडशगोरूपेण तृतीयांशेन तृतीयांशभाजः । ये तु पादिनः ग्रावस्तुदुन्नेतृपोतृसुब्रह्मण्यास्ते मुख्यभागस्य यश्चतुर्थांशो द्वादशगोरूपस्तद्वाजः ॥ ननु कथमयमंशनियमो घटते, न तावदन समयो नापि द्रव्यसमवायो नापि वचनं यद्वशादीदृग्भागनियमः स्यादतः 'समं स्यादश्रुतत्वादिति न्यायेन सर्वेषां समांशभाक्त्वं कर्मानुरूपेण चांशभाक्त्वमिति युक्तम् ॥ अत्रोच्यते । ज्योतिष्टोमप्र. कृतिके द्वादशाहेऽधिनस्तृतीयिनः पादिनः इति सिद्धवदनुवादो न घटते, यदि तत्प्रकृतिभूते ज्योतिष्टोमे अर्धतृतीयचतुर्थांशभाक्त्वं मैत्रावरुणादीनां न स्यात् , अतो वैदिकर्द्धिप्रभृतिसमाख्याबलात्प्रागुक्तोंऽशनियमोऽवकल्प्यत इति निरवद्यम् ॥
इति संभूयसमुत्थानप्रकरणम् ।
अथ स्तेयप्रकरणम् २३ इदानी स्तेयं प्रस्तूयते । तल्लक्षणं च मनुनाभिहितम् (१३३२)'स्यात्साहसं त्वन्वयवत्प्रसभं कर्म यत्कृतम् । निरन्वयं भवेत्स्तेयं कृत्वोपट्ठवते च यत्' इति । अन्वयवत् द्रव्यरक्षिराजाध्यक्षादिसमक्षम् । प्रसभं बलावष्टम्भेन यत्परधनहरणादिकं क्रियते तत्साहसम् । स्तेयं तु तद्विलक्षणं निरन्वयं द्रव्यस्वाम्याद्यसमक्षं वञ्चयित्वा यत्परधनहरणं तदुच्यते । यच्च सान्वयमपि कृत्वा न मयेदं कृतमिति भयान्निद्भुते तदपि स्तेयम् ॥ नारदेनाप्युक्तम्-'उपायैर्विविधैरेषां छलयित्वापकर्षणम् । सुप्तमत्तप्रमत्तेभ्यः स्तेयमाहुर्मनीषिणः ॥' इति ॥
तत्र तस्करग्रहणपूर्वकत्वाद्दण्डस्य ग्रहणस्य ज्ञानपूर्वकत्वात् ज्ञानोपायं तावदाह
ग्राहकैर्गृह्यते चौरो लोप्त्रेणाथ पदेन वा ।
पूर्वकर्मापराधी च तथा चाशुधवासकः ॥ २६६ ॥ यश्चौरोऽयमिति जनैर्विख्याप्यते असौ ग्राहकै राजपुरुषैः स्थानपालप्रभृतिमिर्ग्रहीतव्यः । लोप्त्रेणापहृतभाजनादिना वा चौर्यचिह्नेन नाशदिवसादारभ्य चौर्यपदानुसारेण वा प्रायः। यश्च पूर्वकर्मापराधी प्राकू प्रख्यातचौर्यः। अशु. द्धोऽप्रज्ञातो वासः स्थानं यस्यासावशुद्धवासकः सोऽपि प्रायः २६६ ॥
अन्येऽपि शङ्कया ग्राह्या जातिनामादिनिह्नवैः । द्यूतस्त्रीपानसक्ताश्च शुष्कभिन्नमुखखराः ॥ २६७ ॥
१ नियमो घ. २ पढूयतेच यत् घ. ३ ग्रहणं घ.
For Private And Personal Use Only
Page #309
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
स्तेयप्रकरणम् २३]
www. kobatirth.org
मिताक्षरासहिता ।
परद्रव्यगृहाणां च प्रच्छका गूढचारिणः । निराया व्ययवन्तश्च विनष्टद्रव्यविक्रयाः || २६८ ॥
Acharya Shri Kailassagarsuri Gyanmandir
1
किंच । न केवलं पूर्वोक्ता ग्राह्याः किंत्वन्येऽपि वक्ष्यमाणैलिङ्गैः शङ्कया ग्राह्याः । जातिनिह्नवेन नाहं शुद्ध इत्येवंरूपेण, नामनिह्नवेन नाहं लेपित्थ इत्येवरूपेण, आदिग्रहणात्स्वदेशग्रामकुलाद्यपलापेन च लक्षिता ग्राह्याः । द्यूतपण्याङ्गनामद्यपानादिव्यसनेष्वतिप्रसक्तास्तथा कुतस्त्योऽसि त्वमिति चौरग्राहिभिः दृष्टो यदि शुकमुखो भिन्नस्वरो वा भवति तर्ह्यसावपि ग्राह्यः । बहुवचनात्स्विन्नललाटादीनां ग्रहणम् । तथा ये निष्कारणं कियदस्य धनं किं वास्य गृहमिति पृच्छन्ति ये च वेषान्तरधारणेनात्मानं गृहयित्वा चरन्ति ये चायाभावेऽपि बहुव्ययकारिणः ये वा विनष्टद्रव्याणां जीर्णवस्त्रभिन्नभाजनादीनामविज्ञातस्वामिकानां विक्रायकास्ते सर्वे चौरसंभावनया ग्राह्याः । एवं नानाविधचौर्यलिङ्गापुरुषान्गृहीत्वा एते चौराः किंवा साधव इति सम्यक्परीक्षेत न पुनर्लिङ्गदर्शनमात्रेण चौर्यनिर्णयं कुर्यात् । अचौरस्यापि लोप्त्रादिचौर्य लिङ्गसंबन्धसंभवात् । यथाह नारदः - 'अन्यहस्तात्परिभ्रष्टमकामादुत्थितं भुवि । चौरेण वा पैरिक्षिप्तं लोप्त्रं यत्नात्परीक्षयेत् ॥' तथा 'असत्याः सत्यसंकाशाः सत्याश्चासत्यसंनिभाः । दृश्यन्ते विविधा भावास्तस्मादुक्तं परीक्षणम् ॥' इति ॥ २६७ ॥ २६८ ॥ एवं चौर्यशङ्कया गृहीतेनात्मा संशोधनीय इत्याह
चौरे दण्डमाह
गृहीतः शङ्कया चौर्ये नात्मानं चेद्विशोधयेत् । दापयित्वा गतं द्रव्यं चौरदण्डेन दण्डयेत् ॥ २६९ ॥
२७७
यदि चौर्यशङ्कया गृहीतस्तन्निस्तरणार्थमात्मानं न शोधयति तर्हि वक्ष्यमा - णधनदापनवधादिदण्डभाग्भवेत् । अतो मानुषेण तदभावे दिव्येन वा आत्मा शोधनीयः ॥ ननु नाहं चौर इति मिथ्योत्तरे कथं प्रमाणं संभवति । तस्याभावरूपत्वात् । उच्यते । दिव्यस्य तावद्भावाभावगोचरत्वं 'रुच्याऽवान्यतरः कुर्यादित्यत्र प्रतिपादितम् । मानुषं पुनर्यद्यपि साक्षाच्छुद्धमिथ्योत्तरे न संभवति तथापि कारणेन संसृष्टभावरूपमिथ्याकारणसाधनमुखेनाभावमपि गोचरयत्येव । यथा नाशापहारकाले अहं देशान्तरस्थ इत्यभियुक्तैर्भाविते चौर्याभावस्याप्यर्थासिद्धेः सिद्धिर्भवत्येव ॥ २६९ ॥
चौरं प्रदाप्यापहृतं घातयेद्विविधैर्वधैः ।
यस्तु प्रागुक्तपरीक्षया तन्निरपेक्षं वा निश्चितचौर्यस्तं स्वामिने अपहृतं धनं स्वरूपेण मूल्यकल्पनया वा दापयित्वा विविधैर्वधैर्घातैर्घातयेत् । एतञ्चोत्तमसाह
१ गूढवासिनः घ. २ डित्थ इत्येवं घ. ३ गृहमित्येवंविधं पृच्छन्ति घ. ४ प्रतिक्षिप्तं च
For Private And Personal Use Only
Page #310
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७८
याज्ञवल्क्यस्मृतिः। [व्यवहाराध्यायः सदण्डप्राप्तियोग्योत्तमद्रव्यविषयम् । न पुनः पुष्पवस्त्रादिक्षुद्रमध्यमद्रव्यापहारविषयम् । 'साहसेषु य एवोक्तस्त्रिपु दण्डो मनीषिभिः । स एव दण्डः स्तेयेऽपि द्रव्येषु विष्वनुक्रमात् ॥' इति नारदवचनेन वधरूपस्योत्तमसाहसस्योत्तमद्रव्यविषये व्यवस्थापितत्वात् ॥ यत्पुनर्वृद्धमनुवचनम्-'अन्यायोपात्तवित्तत्वाद्धनमेषां मलात्मकम् । अतस्तान्धातयेगाजा नार्थदण्डेन दण्डयेत् ॥' इति तदपि महापराधविषयम् ॥ चौरविशेषेऽपवादमाह
सचिह्न ब्राह्मणं कृत्वा स्वराष्ट्राद्विप्रवासयेत् ॥ २७० ॥ ब्राह्मणं पुनश्चौरं महत्यप्यपराधे न घातयेदपि तु ललाटेऽङ्कयित्वा स्वदेशानिकासयेत् । अङ्कनं च श्वपदाकारं कार्यम् । तथाच मनुः (९।२३७)-गुरुतल्पे भगः कार्यः सुरापाने सुराध्वजः । स्तेये च श्वपदं कार्य ब्रह्महण्यशिराः पुमान् ॥' इति । एतच्च दण्डोत्तरकालं प्रायश्चित्तमचिकीर्षतो द्रष्टव्यम् ॥ यथाह मनुः (९।२४०)-'प्रायश्चित्तं तु कुर्वाणाः सर्वे वर्णा यथोदितम् । नाकया राज्ञा ललाटे तु दाप्यास्तूत्तमसाहसम् ॥' इति ॥ २७० ॥ चौरादर्शने अपहृतद्रव्यप्राप्त्युपायमाह
घातितेऽपहृते दोषो ग्रामभर्तुरनिर्गते ।
विवीतभर्तस्तु पथि चौरोद्धर्तुरवीतके ॥ २७१॥ यदि ग्राममध्ये मनुष्यादिप्राणिवधो धनापहरणं वा जायते तदा ग्रामपतेरेव चौरोपेक्षादोषस्तत्परिहारार्थं स एव चौरं गृहीत्वा राज्ञेऽर्पयेत् । तदशक्तौ हृतं धनं धनिने दद्याद्यदि चौरस्य पदं स्वनामान्निर्गतं न दर्शयति । दर्शिते पुनस्तत्पदं यत्र प्रविशति तद्विषयाधिपतिरेव चौरं धनं चार्पयेत् । तथाच नारदः-'गोचरे यस्य लुप्येत तेन चौरः प्रयत्नतः । प्राह्यो दाप्योऽथवा शेषं पदं यदि न निर्गतम् ॥ निर्गते पुनरेतस्मान्न चेदन्यत्र पातितम् । सामन्तान्मार्गपालांच दिक्पालांश्चैव दापयेत् ॥' इति ॥ विवीते त्वपहारे विवीतस्वामिन एव दोषः । यदा त्वध्वन्येव तद्धृतं भवत्यवीतके वा विवीतादन्यत्र क्षेत्रे तदा चौरोद्धर्तुर्मार्गपालस्य दिक्पालस्य वा दोषः ॥ २१ ॥
स्वसीनि दद्याद्रामस्तु पदं वा यत्र गच्छति ।
पञ्चग्रामी बहिः क्रोशाद्दशग्राम्यथवा पुनः ॥ २७२ ॥ किंच यदा पुनामावहिः सीमापर्यन्ते क्षेत्रे मोषादिकं भवति तदा तद्वा. मवासिन एव दधुः, यदि सीनो बहिश्चौरपदं न निर्गतम् । निर्गते पुनर्यत्र
१ तावर्तयेत् घ. २ विवीतः प्रचुरतृणकाष्ठो रक्ष्यमाणत्वेन परिगृहीतो भूप्रदेश इति पूर्व १६० पद्ये विवृतमेव. ३ चौरपदं ख. ४ मुष्येत ख, मुच्येत ग. ५ वापराधः घ.
For Private And Personal Use Only
Page #311
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स्तेयप्रकरणम् २३ ] मिताक्षरासहिता। ग्रामादिके चौरपदं प्रविशति स एव चौरार्पणादिकं कुर्यात् । यदा त्वनेकग्राममध्ये क्रोशमात्रावहिः प्रदेशे घातितो मुपितो वा चौरपदं च जनसंमर्दादिना भनं तदा पञ्चानां ग्रामाणां समाहारः पञ्चग्रामी दशग्रामसमाहारो वा दद्यात् । विकल्पवचनं तु यथा तत्प्रत्यासत्यपहृतधनप्रत्यर्पणादिकं कुर्यादित्येवमर्थम् । यदा त्वन्यतोऽपहृतं द्रव्यं दापयितुं न शक्नोति तदा स्वकोशादेव राजा दद्यात् । 'चौरहतमवजित्य यथास्थानं गमयेत्स्वकोशाद्वा दद्यात्' इति गौतमस्मरणात्॥ मुषितामुषितसन्देहे मानुषेण दिव्येन वा निर्णयः कार्यः। 'यदि तस्मिन्दाप्यमाने भवेन्मोपे तु संशयः। मुषितः शपथं दाप्यो बन्धुभिर्वापि साधयेत् ॥' इति वृद्धमनुस्मरणात् ॥ २७२ ॥ अपराधविशेषेण दण्डविशेषमाह
बन्दिग्राहांस्तथा वाजिकुञ्जराणां च हारिणः।
प्रसह्य घातिनश्चैव शूलानारोपयेनरान् ॥ २७३॥ बन्दिप्राहादीन्बलावष्टम्बेन घातकांश्च नरान्शूलानारोपयेत् । अयं च वधप्रकारविशेषोपदेशः । ( ९।३८०)--कोष्ठागारायुधागारदेवतागारभेदकान् । हस्त्यश्वरथहर्तृश्च हन्यादेवाविचारयन् ॥' इति मनुस्मरणात् ॥ २७३ ॥
उत्क्षेपकग्रन्थिभेदो करसन्देशहीनको ।
कार्यों द्वितीयापराधे करपादैकहीनकौ ॥ २७४ ॥ किंच । वस्त्राद्युरिक्षपत्यपहरतीत्युत्क्षेपकः । वस्त्रादिबद्धं स्वर्णादिकं विस्रस्योस्कृत्य वा योपहरत्यसौ ग्रन्थिभेदः । तौ यथाक्रमं करेण सन्दंशसदृशेन तर्जन्याङ्गुष्ठेन च हीनौ कार्यों । द्वितीयापराधे पुनः करश्च पादश्च करपादं तच्च तदेकं च करपादैकं तद्धीनं ययोस्तौ करपादैकहीनको कायौं । उत्क्षेपकग्रन्थिभेदकयोरेकमेकं करं पादं च छिन्द्यादित्यर्थः। एतदप्युत्तमसाहसप्राप्तियोग्यद्रव्यविषयम् । तदङ्गच्छेद इत्युक्तो दण्ड उत्तमसाहसः' इति नारदवचनात् ॥ तृतीयापराधे तु वध एव । तथाच मनुः (९।२७७)-'अङ्गुलीग्रन्थिभेदस्य छेदयेप्रथमे ग्रहे । द्वितीये हस्तंचरणौ तृतीये वधमर्हति ॥' इति । जातिव्यपरिमाणतो मूल्याद्यनुसारतो दण्डः कल्पनीय इति ॥ २७४ ॥
जातिद्रव्यपरिमाणपरिग्रह विनियोगवयःशक्तिगुणदेशकालादीनां दण्डगुरुलघुभावकारणानामानन्त्यात्प्रतिद्रव्यं वक्तुमशक्तेः सामान्येन दण्डकल्पनो. पायमाह
क्षुद्रमध्यमहाद्रव्यहरणे सारतो दमः।
देशकालवय शक्ति संचिन्त्यं दण्डकर्मणि ॥ २७५ ॥ क्षुद्राणां मध्यमानामुत्तमानां च द्रव्याणां हरणे सारतो मूल्याद्यनुसारतो १ चौर्यार्पणादिकं घ. २ समाहारो दशग्रामी वा घ. ३ अन्यागारा ग. ४ हस्तपादौ तु घ.
For Private And Personal Use Only
Page #312
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८०
याज्ञवल्क्यस्मृतिः ।
[ व्यवहाराध्यायः
evaः कल्पनीयः । क्षुद्रादिद्रव्यस्वरूपं च नारदेनोक्तम् । 'मृद्भाण्डासनखड्डास्थिदारुर्मतृणादि यत् । शमीधान्यं कृतान्नं च क्षुद्रं द्रव्यमुदाहृतम् ॥ वासः कौशेयवर्ज्य च गोवर्ज्यं पशवस्तथा । हिरण्यवयै लोहं च मध्यं व्रीहियवा अपि ॥ हिरण्यरत्रकौशेयस्त्रीपुङ्गोगजवाजिनः । देवब्राह्मणराज्ञां च द्रव्यं विज्ञेयमुत्तमम् ||' त्रिप्रकारेष्वपि द्रव्येष्वौत्सर्गिकः प्रथममध्यमोत्तमसाहसरूपो दण्डनियमस्तेनैव दर्शितः— 'साहसेषु य एवोक्तस्त्रिपु दण्डो मनीषिभिः । स एव दण्डः स्तेयेऽपि द्रव्येषु त्रिष्वनुक्रमात् ॥' इति ॥ मृन्मयेषु मणिकमल्लिकादिषु गोवाजिव्यतिरिक्तेषु च महिषमेषादिपशुषु ब्राह्मणसंबन्धिपु च कनकधान्यादिषु तरतमभावोऽस्तीति उच्चावचदण्डविशेषाकाङ्क्षायां मूल्याद्यनुसारेण दण्डः कल्पनीयः । तत्र च दण्डकर्मणि दण्डकल्पनायां तद्धेतुभूतं देशकालवयःशक्तीति सम्यक् चिन्तनीयम् । एतच्च जातिद्रव्यपरिमाणपरिग्रहादीनामुपलक्षणम् । तथाहि । 'अष्टपाद्यं स्तेय किल्बिषं शूद्रस्य द्विगुणोत्तराणीतरेषां प्रतिवर्णं विदुषोऽतिक्रमे दण्डभूयस्त्वम्' इति । अयमर्थः - किल्बिषशब्देनात्र दण्डो लक्ष्यते । यस्मिन्नपहारे यो दण्ड उक्तः स विद्वच्छूद्रकर्तृकेऽपहारेऽष्टगुण आपादनीयः । इतरेषां पुनर्विक्षत्रब्राह्मणादीनां विदुषां स्तेये द्विगुणोत्तराणि किल्बिषाणि षोडशद्वात्रिंशचतुःषष्टिगुणा दण्डा आपादनीयाः । यस्माद्विद्वच्छ्रद्वादिकर्तृकेध्वपहारेषु दण्डभूयस्त्वम् । मनुनाप्ययमेवार्थो दर्शितः ( ८/३३७।३३८ ) - 'अष्टापाद्यं तु शूद्रस्य स्तेये भवति किल्बिषम् । षोडशैव तु वैश्यस्य द्वात्रिंशत्क्षत्रियस्य तु ॥ ब्राह्मणस्य चतुःषष्टिः पूर्ण वापि शतं भवेत् । द्विगुणा वा चतुःषष्टिस्तद्दोषगुणवेदिनः ॥' इति ॥ तथा परिमाणकृतमपि दण्डगुरुत्वं दृश्यते । यथाह मनुः ( ८1३२० ) - 'धान्यं दशभ्यः कुम्भेभ्यो हरतोऽभ्यधिकं वधः । शेषेष्वेकादशगुणं दाप्यस्तस्य च तद्धनम् ॥' इति ॥ विंशतिद्रोणकः कुम्भः । हर्तुर्हियमाणस्वामिगुणापेक्षया सुभिक्षदुर्भिक्षकालाद्यपेक्षया ताडनाङ्गच्छेदनवधरूपा दण्डा योज्याः ॥ तथा संख्याविशेषादपि दण्डविशेषो रत्नादिषु । (मनुः ८ ३२१।३२२) —' सुवर्णरजतादीनामुत्तमानां च वाससाम् । रत्नानां चैव सर्वेषां शतादभ्यधिके वधः ॥ पञ्चाशतस्त्वभ्यधिके हस्तच्छेदनमिष्यते । शेषेष्वेकादशगुणं मूल्याद्दण्डं प्रकल्पयेत् ॥' इति ॥ तथा द्रव्यविशेषादपि ( ८1३२३ ) - 'पुरुषाणां कुलीनानां नारीणां वा विशेषतः । रत्नानां चैव सर्वेषां हरणे वधमर्हति ॥' अकुलीनानां तु दण्डान्तरम् — 'पुरुषं हरतो दण्डः प्रोक्त उत्तमसाहसः । ख्यपराधे तु सर्वस्वं कन्यां तु हरतो वधः ॥' इति ॥ क्षुद्रद्रव्याणां तु माषतो न्यूनमूल्यानां मूल्यात्पञ्चगुणो दमः । - ' काष्ठभाण्डतृणादीनां मृण्मयानां तथैव च ॥ वेणुवैणवभाण्डानां तथा स्नाय्वस्थिचर्मणाम् ॥ शाकानामाईमूलानां हरणे फलमूलयोः । गोरसेक्षुविकाराणां तथा लवणतैलयोः ॥ पक्वान्नानां कृतान्नानां मेत्स्यानामामिषस्य च । सर्वेषां मूल्यभूतानां मूल्यात्पञ्चगुणो दमः ॥' इति नार
१. गोव्यतिरिक्तेषु घ. २ तारतम्यभावोऽस्तीति घ. ३ मत्स्यानामौषधस्य च । सर्वेषामल्पमूल्यानां घ
For Private And Personal Use Only
Page #313
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स्तेयप्रकरणम् २३] मिताक्षरासहिता ।
२८१ दस्मरणात् ॥ यः पुनः प्रथमसाहसः क्षुद्रव्येषु शतावरः पञ्चशतपर्यन्तोऽसौ माषमूल्ये तदधिकमूल्ये वा यथायोग्य व्यवस्थापनीयः ॥ यत् पुनर्मानवं क्षुद्गद्रव्यगोचरवचनं तन्मूल्याद्विगुणो दम इति तदल्पग्रयोजनशरावादिविषयम् । तथापराधगुरुत्वादपि दण्डत्वम् । यथा--'संधि भित्त्वा तु ये चौर्य रात्री कुर्वति तस्कराः । तेषां छित्त्वा नृपो हस्तौ तीक्ष्णशूले निवेशयेत् ॥' इत्येवं सर्वेषामानन्त्यात्प्रतिद्रव्यं वक्तुमशक्तेर्जातिपरिमाणादिभिः कारणैर्दण्डगुरुलधुभावः कल्पनीयः । पथिकादीनां पुनरल्पापराधे न दण्डः । यथाह मनुः (३४३) -'द्विजोऽध्वगः क्षीणवृत्तिभविष द्वे च मूलके । आददानः परक्षेत्रान्न दण्डं दातुमर्हति ॥' तथा-'चणकबीहिगोधूमयवानां मुद्गमाषयोः । अनिषिद्धगृहीतंव्यो मुष्टिरेकः पथि स्थितैः । तथैव सप्तमे भक्तं भक्तानि पडनश्नता । अश्वस्तनविधानेन हर्तव्यं हीनकर्मणः ॥' इति ॥ २७५ ॥ अचौरस्यापि चौरोपकारिणो दण्डमाह
भक्तावकाशाश्युदकमत्रोपकरणव्ययान् ।
दवा चौरस्य वा हन्तु नतो दम उत्तमः ॥ २७६ ॥ भक्तमशनम् । अवकाशो निवासस्थानम् । अग्निश्चौरस्य शीतापनोदाद्यर्थः । उदकं तृषितस्य । मन्त्रश्चौर्यप्रकारोपदेशः । उपकरणं चौर्यसाधनम् । व्ययः अपहारार्थ देशान्तरं गच्छतः पाथेयम् । एतानि चौरस्य हन्तुर्वा दुष्टत्वं जानन्नपि यः प्रयच्छति तस्योत्तमसाहसो दण्डः । चौरोपेक्षिणामपि दोषः-शक्ताश्च य उपेक्षन्ते तेऽपि तद्दोषभागिनः।' इति नारदस्मरणात् ॥ २७६ ॥
शस्त्रावपाते गर्भस्य पातने चोत्तमो दमः ।
उत्तमो वाधमो वापि पुरुषस्त्रीप्रमापणे ॥ २७७ ॥ किंच । परगात्रेषु शस्त्रस्यावपातने दासीब्राह्मणगर्भव्यतिरेकेण गर्भस्य पातने चोत्तमो दमो दण्डः । दासीगर्भनिपातने तु दासीगर्भविनाशकृदित्यादिना शततदण्डोऽभिहितः । ब्राह्मणगर्भविनाशे तु 'हत्वा गर्भमविज्ञातम्' इत्यत्र ब्रह्महत्यातिदेशं वक्ष्यते । पुरुषस्य स्त्रियाश्च प्रमापणे शीलवृत्ताद्यपेक्षयोत्तमो वाधमो वा दण्डो व्यवस्थितो वेदितव्यः ॥ २७७ ॥
विप्रदुष्टां स्त्रियं चैव पुरुषघ्नीमगर्भिणीम् ।
सेतुभेदकरी चाप्सु शिलां बद्धवा प्रवेशयेत् ॥ २७८ ॥ अपिच । विशेषेण प्रदुष्टा विप्रदुष्टा भ्रूणघ्नी स्वगर्भपातिनी च । या च पुरुपस्य हन्त्री सेतूनां भेत्री च एता गर्भरहिताः स्त्रीर्गले शिलां बवा अप्सु प्रवेशयेत् यथा न प्लवन्ति ॥ २७८ ॥
-
१ गृहीतव्या मुष्टिरेका घ. २ वक्ष्यति ख-ध.
For Private And Personal Use Only
Page #314
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
२८२
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
याज्ञवल्क्यस्मृतिः ।
[ व्यवहाराध्यायः
विषाग्निदां पतिगुरुनिजापत्यप्रमापणीम् । विकर्णकरनासौष्ठीं कृत्वा गोभिः प्रमापयेत् ॥ २७९ ॥
किंच | अगर्भिणीमित्यनुवर्तते । या च परवधार्थमन्नपानादिषु विषं ददाति क्षिपति । याच दाहार्थं ग्रामादिष्वग्निं ददाति । तथा या च निजपतिगुर्वपत्यानि मारयति तां विच्छिन्नकर्णकरनासौष्ठीं कृत्वा अदान्तैर्दुष्टबलीवदैः प्रवाह्य मारयेत् । स्तेयप्रकरणे यदेतत्साहसिकस्य दण्डविधानं तत्प्रासङ्गिकमिति मन्तव्यम् ॥ २७९ ॥
अविज्ञातकर्तृके हनने हन्तृज्ञानोपायमाह
अविज्ञातहतस्याशु कलहं सुतबान्धवाः ।
प्रष्टव्या योषितश्चास्य परपुंसि रताः पृथक् ॥ २८० ॥
अविज्ञातहतस्याविज्ञातपुरुषेण घातितस्य संबन्धिनः सुताः प्रत्यासन्नबान्धवाश्च केनास्य कलहो जात इति कलहमाशु प्रष्टव्याः । तथा मृतस्य संबन्धिन्यो योषितो याश्च परपुंसि रता व्यभिचारिण्यस्ता अपि प्रष्टव्याः ॥ २८० ॥
कथं प्रष्टव्या इत्यत आह
स्त्रीद्रव्यवृत्तिकामो वा केन चायं गतः सह । मृत्युदेश समासनं पृच्छेद्वापि जनं शनैः ॥ २८९ ॥
किमयं स्त्रीकामो द्रव्यकामो वृत्तिकामो वा तथा कस्यां किंसंबन्धिन्यां वा स्त्रियामस्य रतिरासीत्, कस्मिन् वा द्रव्ये प्रीतिः कुतो वा वृत्तिकामः, केन वासह देशान्तरं गत इति नानाप्रकारं व्यभिचारिण्यो योषितः पृथक्पृथक् विश्वास्य प्रष्टव्याः । तथा मरणदेशनिकटवर्तिनो गोपाऽटविकाद्या ये जनास्तेऽपि विश्वासपूर्वकं प्रष्टव्याः । एवं नानाकारैः प्रश्नैर्हन्तारं निश्चित्य तदुचितो दण्डो विधातव्यः ॥ २८१ ॥
क्षेत्रवेश्मवनग्राम विवीतखलदाहकाः ।
राजपत्यभिगामी च दग्धव्यास्तु कटाग्निना ॥ २८२ ॥
१ अविज्ञात पुरुषेण ख.
किंच | क्षेत्रं पक्कफलसत्योपेतम् । वेश्म गृहम् । वनमटवीं क्रीडावनं वा । ग्रामम् । विवीत मुक्तलक्षणम् खलं वा ये दहन्ति ये च राजपलीमभिगच्छन्ति तान्सर्वान्कटैर्वीरणमयैर्वेष्टयित्वा दहेत् । क्षेत्रादेर्दाहकानां मारणदण्डप्रसङ्गाद्दण्डविधानम् ॥ २८२ ॥
इति स्तेयप्रकरणम् ।
For Private And Personal Use Only
Page #315
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स्त्रीसंग्रहप्रकरणम् २४] मिताक्षरासहिता ।
२८३
अथ स्त्रीसंग्रहणप्रकरणम् २४ स्त्रीसंग्रहणाख्यं विवादपदं व्याख्यायते । प्रथमसाहसादिदण्डप्राप्त्यर्थं त्रेधा तत्स्वरूपं व्यासेन विवृतम्-'त्रिविधं तत्समाख्यातं प्रथमं मध्यमोत्तमम् । अदेशकालभाषाभिर्निर्जने च परस्त्रियाः ॥ कटाक्षावेक्षणं हास्यं प्रथमं साहसं स्मृतम् । प्रेषणं गन्धमाल्यानां धूपभूषणवाससाम् ॥ प्रलोभनं चानपानमध्यम साहसं स्मृतम् । सहासनं विविक्तेषु परस्परमुपाश्रयः ॥ केशाकेशिग्रहश्चैव सम्यक् संग्रहणं स्मृतम् ॥' स्त्रीपुंसयोमिथुनीभावः संग्रहणम् ॥ संग्रहणज्ञानपूर्वकत्वात्तत्कर्तुर्दण्डविधानं तज्ज्ञानोपायं तावदाह
शुमान्संग्रहणे ग्राह्यः केशाकेशि परस्त्रियाः। सद्यो वा कामजैश्विकैः प्रतिपत्तौ द्वयोस्तथा ॥ २८३ ॥ संग्रहणे प्रवृत्तः पुमान् केशाकेश्यादिभिर्लिङ्गैात्वा ग्रहीतव्यः। परस्परं केशग्रहणपूर्विका क्रीडा केशाकेशि । 'तत्र तेनेदमिति सरूपे' इति बहुव्रीहौ सति'इच् कर्मव्यतिहारे' इति समासान्त इच्प्रत्ययः । अव्ययत्वाच्च लुप्ततृतीयाविभक्तिः । ततश्चायमर्थः । परभार्यया सह केशाकेशिक्रीडनेनाभिनवैः कररहदशनादिकृतव्रणः रागकृतैलिङ्गद्वयोः संप्रतिपत्त्या वा ज्ञात्वा संग्रहणे प्रवृत्तो ग्रहीतव्यः । परस्त्रीग्रहणं नियुक्तावरुद्धादिव्युदासार्थम् ॥ २८३ ॥
नीवीस्तनपावरणसक्थिकेशावमर्शनम् ।
अदेशकालसंभाष सहकासनमेव च ॥ २८४ ॥ किंच । यः पुनः परदारपरिधानग्रन्थिप्रदेशकुचप्रावरणजघनमूर्धरुहादिस्पर्शनं साभिलाष इवाचरति । तथा अदेशे निर्जने जनताकीर्णे वान्धकाराकुले अकाले संलापनं करोति । परभार्यया वा सहैकमञ्चकादौ रिरंसयेवावतिष्ठते यः सोऽपि संग्रहणे प्रवृत्तो ग्राह्यः। एतच्चाशयमानदोषपुरुषविषयम् । इतरस्य तु न दोषः। यथाह मनुः (८॥३५५)-'यस्त्वनाक्षारितः पूर्वमभिभाषेत कारणात् । न दोषं प्राप्नुयाकिचिन्नहि तस्य व्यतिक्रमः ॥' इति । यः परस्त्रिया स्पृष्टः क्षमतेऽसावपि ग्राह्य इति तेनैवोक्तम् (१३५८)-'स्त्रियं स्पृशेददेशे यः स्पृष्टो वा मर्षयेत्तथा । परस्परस्यानुमते सर्व संग्रहणं स्मृतम् ॥' इति । यश्च मयेयं विदग्धाऽसकृद्रमितेति श्लाघया भुजंगजनसमक्षं ख्यापयत्यसावपि ग्राह्य इति तेनैवोक्तम् । -'दर्पाहा यदि वा मोहाच्छ्राघया वा स्वयं वदेत् । पूर्व मयेयं भुनेति तच्च संग्रहणं स्मृतम् ॥' इति ॥ २८४ ॥ प्रतिषिद्धयोर्द्वयोः स्त्रीपुंसयोः पुनः सल्लापादिकरणे दण्डमाह
स्त्री निषेधे शतं दद्याद्विशतं तु दमं पुमान् ।
.१ संभाषा निर्जने घ. २ समुदाहृतम् ध. ३ मपाश्रयः घ. ४ स्त्री निषेधे शतं दण्ड्या द्विशतं नु दमः घुमान्' इति व्य. मयूखे.
या० २७
For Private And Personal Use Only
Page #316
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८४
याज्ञवल्क्यस्मृतिः। [व्यवहाराध्यायः प्रतिषेधे तयोर्दण्डो यथा संग्रहणे तथा ॥ २८५ ॥ प्रतिषिध्यत इति प्रतिषेधः पतिपित्रादिभिर्येन सह संभाषणादिकं निषिद्धं तत्र प्रवर्तमाना स्त्री शतपणं दण्डं दद्यात् । पुरुषः पुनरेवं निषिद्धे प्रवर्तमानो द्विशतं दद्यात् । द्वयोस्तु स्त्रीपुंसयोः प्रतिषिद्धे प्रवर्तमानयोः संग्रहणे संभोगे वर्णानुसारेण यो दण्डो वक्ष्यते स एव विज्ञेयः । एतच्च चारणादिभार्याव्यतिरेकेण । (८३६२)-'नैप चारणदारेषु विधिर्नात्मोपजीविषु । सजयन्ति हि ते नारी निगूढाश्चारयन्ति च ॥' इति मनुस्मरणात् ॥ २८५ ॥ तदिदानी संग्रहणे दण्डमाह
सजातावुत्तमो दण्ड आनुलोम्ये तु मध्यमः ।
प्रातिलोम्ये वधः पुंसो नार्याः कर्णादिकर्तनम् ॥ २८६ ॥ चतुर्णामपि वर्णानां बलात्कारेण सजातीयगुप्तपरदाराभिगमने साशीतिपणसहस्रं दण्डनीयः । यदा त्वानुलोम्येन हीनवर्णी स्त्रियमगुप्तामभिगच्छति तदा मध्यमसाहसं दण्डनीयः । यदा पुनः सवर्णामगुप्तामानुलोम्येन गुप्तां वा व्रजति तदा मानवे विशेष उक्तः (८-३७८-३८३)-'सहस्रं ब्राह्मणो दण्ड्यो तुप्तां विप्रां बलादजन् । शतानि पञ्च दण्ड्यः स्यादिच्छन्त्या सह संगतः ॥' तथा-'सहस्रं ब्राह्मणो दण्डं दाप्यो गुप्ते तु ते व्रजन् । शूद्रायां क्षत्रियविशोः सहस्रं तु भवेद्दमः ॥' इति ॥ एतच्च गुरुसखिभार्यादिव्यतिरेकेण द्रष्टव्यम् । -'माता मातृष्वसा श्वश्रूर्मातुलानी पितृप्वसा । पितृव्यसखिशिष्यस्त्री भगिनी तत्सखी स्नुषा ॥ दुहिताचार्यभार्या च सगोत्रा शरणागता । राज्ञी प्रव्रजिता धात्री साध्वी वर्णोत्तमा च या ॥ आसामन्यतमां गच्छन्गुरुतल्पग उच्यते । शिश्नस्योत्कर्तनात्तत्र नान्यो दण्डो विधीयते ॥' इति नारदस्मरणात् ॥ प्रातिलोम्ये उत्कृष्टवर्णस्त्रीगमने क्षत्रियादेः पुरुषस्य वधः । एतच्च गुप्ताविषयम् । अन्यत्र तु धनदण्डः । (८।३७६।३७७)-'उभावपि हि तावेव ब्राह्मण्या गुप्तया सह । विप्लुतौ शूद्वद्दण्ड्यौ दग्धव्यौ वा कटाग्निना ॥ ब्राह्मणी यद्यगुप्तां तु सेवेतां वैश्यपार्थिवौ । वैश्यं पञ्चशतं कुर्यात्क्षत्रियं तु सहस्रिणम् ॥' इति मनुस्मरगात् । शूद्रस्य पुनरगुप्तामुत्कृष्टवर्णा स्त्रियं व्रजतो लिङ्गच्छेदनसर्वस्वापहारौ । गुप्तां तु व्रजतस्तस्य वधसर्वस्वापहाराविति तेनैवोक्तम् ॥ (मनुः ८१३७३) ---- 'शूद्रो गुप्तमगुप्तं वा द्वैजातं वर्णमावसन् । अंगुप्तमङ्गसर्वस्वैर्गुप्तं सर्वेण हीयते॥' इति । नार्याः पुनहींनवर्ण व्रजन्त्याः कर्णयोरादिग्रहणान्नासादेश्च कर्तनम् । आनुलोम्येन वा सवर्ण वा व्रजन्त्या दण्डः कल्प्यः । अयं च वधाधुपदेशो राज्ञ एव तस्यैव पालनाधिकारान्न द्विजातिमात्रस्य । तस्य ब्राह्मणः परीक्षार्थमपि शस्त्रं नाददीत' इति शस्त्रग्रहणनिषेधात् । यदा तु राज्ञो निवेदनेन कालविलम्बनेन कार्यातिपाताशङ्का तदा स्वयमेव जारादीन्हन्यात् (मनुः८१३४८)-'शस्त्रं १ अगुप्तकाङ्गसर्वस्वैः घ.
For Private And Personal Use Only
Page #317
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स्त्रीसंग्रहणप्रकरणम् २४ ] मिताक्षरासहिता ।
२८५
द्विजातिभिर्ब्राह्यं धर्मो यत्रोपरुध्यते' । तथा ( मनुः ८ ३५१ ) - ' नाततायिवधे दोषो हन्तुर्भवति कश्चन । प्रकाशं वाऽप्रकाशं वा मन्युस्तं मन्युमृच्छति ॥ ' इति शस्त्रग्रहणाभ्यनुज्ञानाच्च ॥ तथा क्षत्रियवैश्ययोरन्योन्यस्यभिगमने यथाक्रमं सहस्र-पञ्चशतपणात्मकौ दण्डौ वेदितव्यौ । तदाह मनुः ( ८|३८२ ) - 'वैश्यश्चेत्क्षत्रियां गुप्तां वैश्यां वा क्षत्रियो व्रजेत् । यो ब्राह्मण्यामगुप्तायां तावुभौ दण्डमर्हतः ॥' इति ॥ २८६ ॥
-
पारदार्यप्रसङ्गात्कन्यायामपि दण्डमाहअलंकृतां हेरन्कन्यामुत्तमं ह्यन्यथाधमम् । दण्डं दद्यात्सवर्णासु प्रातिलोम्ये वधः स्मृतः ॥ २८७ ॥ विवाहाभिमुखीभूतामलंकृतां सवर्णा कन्यामपहरनुत्तमसाहसं दण्डनीयः । तदनभिमुखीं सवर्णी हरन्प्रथमं साहसम् । उत्कृष्टवर्णजां कन्यामपहरतः पुनः क्षत्रियादेर्वध एव । दण्डविधानाच्चापहर्तृसकाशादाच्छिद्यान्यस्मै देयेति गम्यते ॥ २८७ ॥
आनुलोम्यापहरणे दण्डमाह
सकामाखनुलोमासु न दोषस्त्वन्यथा दमः ।
यदि सानुरागां हीनवर्णी कन्यामपहरति तदा दोषाभावान्न दण्डः । अन्य• था त्वनिच्छन्ती मपहरतः प्रथमसाहसेो दण्डः ॥
कन्यादूषणे दण्डमाह
दूषणे तु करच्छेद उत्तमायां वधस्तथा ॥ २८८ ॥
अनुलोमास्त्रित्यनुवर्तते । यद्यकामां कन्यां बलात्कारेण नखक्षतादिना दूषयति तदा तस्य करश्छेत्तव्यः ॥ यदा पुनस्तामेवाङ्गुलिप्रक्षेपेण योनिक्षतं कुर्वन्दूषयति तदा मनूक्तषट्शत सहितोऽङ्गुलिच्छेदः । ( मनुः ८ ३६७ ) – 'अभिपह्य तु यः कन्यां कुर्याद्दर्पेण मानवः । तस्याशु कयै अङ्गुल्यौ दण्डं चार्हति षट्शतम् ॥' इति ॥ यदा पुनः सानुरागां पूर्ववदूषयति तदापि तेनैव विशेष उक्तः ( मनुः ८३६८ ) - ( सकामां दूषयन्कन्यां नाङ्गुलिच्छेदमर्हति । द्विशतं तु दमं दाप्यः प्रसङ्गविनिवृत्तये ॥' इति ॥ यदा तु कन्यैव कन्यां दूषयति विदग्धा वा तत्रापि विशेषस्तेनैवोक्तः ( मनुः ८१३६९ ) - ' कन्यैव कन्यां या कुर्या - तस्यास्तु द्विशतो दमः । या तु कन्यां प्रकुर्यात्स्त्री सा सद्यो मौण्ड्यमर्हति ॥ अङ्गुल्योरेव वा च्छेदं खरेणोद्वहनं तथा ॥' इति । कन्यां कुर्यादिति कन्यां योनिक्षतवतीं कुर्यादित्यर्थः ॥ यदा पुनरुत्कृष्टजातीयां कन्यामविशेषात्सकामामकामां वाभिगच्छति तदा हीनस्य क्षत्रियादेर्बंध एव । ( ८१३६६ ) - 'उत्तम सेवमानस्तु जघन्यो वधमर्हति' इति मनुस्मरणात् ॥ यदा सवर्णी सकामाम
१ हरेत्कन्याम् घ. २ दूषयंस्तुल्यो ख. ३ विशेषात्सानुरागामकामां ख.
For Private And Personal Use Only
Page #318
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८६
याज्ञवल्क्यस्मृतिः।
[व्यवहाराध्यायः
भिगच्छति तदा गोमिथुनं शुल्कं तपित्रे दद्यात् यदीच्छति ॥ पितरि तु शुल्क. मनिच्छति दण्डरूपेण तदेव राजे दद्यात् । सवर्णामकामां तु गच्छतो वध एव । यथाह मनुः ( ८।३६६)-'शुल्कं दद्यात्सेवमानः समामिच्छेत्पिता यदि' । ( ८।३६४)-'योऽकामां दूपयेत्कन्यां स सद्यो वधमर्हति । सकामां दूषयंस्तुल्यो न वधं प्राप्नुयान्नरः ॥' इति ॥ २२८ ॥
शतं स्त्रीदृषणे दद्यावे तु मिथ्याभिशंसने ।
पशूनाच्छन्शतं दाप्यो हीनां स्त्रीं गां च मध्यमम् ॥२८९।। किंच । स्त्रीशब्देनात्र प्रकृतत्वात्कन्यावमृश्यते । तस्या यदि कश्चिद्विद्यमानानेवापस्मारराजयक्ष्मादिदीर्घकुत्सितरोगसंसृष्टमैथुनत्वादिदोपान्प्रकाश्येयमकन्येति दूषयत्यसौ शतं दाप्यः । मिथ्याभिशंसने तु पुनरविद्यमानदोषाविष्कारेण दूषणे द्वेशते दापनीयः। गोव्यतिरिक्तपशुगमने तु शतं दाप्यः । यः पुनींनां स्त्रियमन्त्यावसायिनीमविशेषासकामामकामां वा गां चाभिगच्छत्य सौ मध्यमसाहसं दण्डनीयः ॥ २८९ ॥ साधारणस्त्रीगमने दण्डमाह
अवरुद्धासु दासीषु भुजिष्यासु तथैव च ।
गम्यास्वपि पुमान्दाप्यः पञ्चाशत्पणिकं दमम् ॥ २९० ॥ गच्छन्नित्यनुवर्तते । उक्तलक्षणा वर्णस्त्रियो दास्यस्ता एवं स्वामिना शुश्रूपाहानिब्युदासाथै गृह एव स्थातव्यमित्येवं पुरुषान्तरोपभोगतो निरुद्धा अव. रुद्धाः । पुरुषनियतपरिग्रहा भुजिष्याः । यदा दास्योऽवरुद्धा भुजिध्या वा भवेयुस्तदा तासु तथा । चशब्दाहेश्यास्वैरिणीनामपि साधारणस्त्रीणां भुजिष्याणां च ग्रहणम् । तासु च सर्वपुरुषसाधारणतया गम्यास्वपि गच्छन् पञ्चाशत्पणान्दण्डनीयः। परपरिगृहीतत्वेन तासां परदारतुल्यत्वात् । एतच्च स्पष्टमुक्तं नारदेन --'स्वैरिण्यब्राहाणी वेश्या दासी निष्कासिनी च या । गम्याः स्युरानुलोम्येन स्त्रियो न प्रतिलोमतः ॥ आस्वेव तु भुजिप्यासु दोषः स्यात्परदारवत् । गम्यास्वपि हि नोपेयोद्यत्ताः परपरिग्रहाः ॥' इति ॥ निष्कासिनी स्वाम्यनवरुद्धा दासी । ननु च स्वैरिण्यादीनां साधारणतया गम्यत्वाभिधानमुक्तम् । नहि जातितः शास्त्रतो वा काश्चन लोके साधारणाः स्त्रिय उपलभ्यन्ते । तथाहि । स्वैरिण्यो दास्यश्च तावद्वर्णस्त्रिय एव । -'स्वैरिणी या पतिं हित्वा सवर्ण कामतः श्रयेत् । वर्णानामानुलोम्येन दास्यं न प्रतिलोमतः ॥' इति मनुस्मरणात् ॥ नच वर्णस्त्रीणां पत्यौ जीवति मृते वा पुरुषान्तरोपभोगो घटते । (मनुः ५] १५४-१५७) 'दुःशीलः कामवृत्तो वा गुणैर्वा परिवर्जितः । परिचार्यः स्त्रिया साव्या सततं देववत्पतिः ॥ कामं तु क्षपये देहं पुष्पमूलफलैः शुभैः । नतु नामापि गृह्णीयात्पत्यो प्रेते परस्य तु ॥' इति निषेधस्मरणात् ॥ नापि कन्याव१ मिथ्याभिशंसिते घ. २ यतस्ताः सपरिग्रहाः ध.
For Private And Personal Use Only
Page #319
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स्त्रीसंग्रहणप्रकरणम् २४ ] मिताक्षरासहिता ।
२८७
स्थायाः साधारणत्वम् । पित्रादिपरिक्षितायाः कन्याया एव दानोपदेशात् । दात्रभावेऽपि तथाविधाया एव स्वयंवरोपदेशात् । नच दासीभावात्स्वधर्माधिकारच्युतिः। पारतत्र्यं हि दास्यं न स्वधर्मपरित्यागः । नापि वेश्या साधारणी वर्णानुलोमजव्यतिरेकेण गम्यजात्यन्तरासंभवात् । तदन्तःपातित्वे च पूर्ववदे. वागम्यत्वम् । प्रतिलोमजत्वे तु तासां नितरामगम्यत्वम् । अतः पुरुषान्तरोपभोगे तासां निन्दितकर्माभ्यासेन पातित्यात् । पतितसंसर्गस्य निषिद्धत्वाच्च न सकलपुरुषोपभोगयोग्यत्वम् । सत्यमेवम् । किं त्वत्र स्वैरिण्याद्युपभोगे पित्रादिरक्षकराजदण्डभयादिदृष्टदोषाभावाद्गम्यत्ववाचोयुक्तिः। दण्डाभावश्चावरुद्धासु दासीविति नियतपुरुषपरिग्रहोपाधितो दण्डविधानात्तदुपाधिरहितास्वर्थादवगम्यते । स्वैरिण्यादीनां पुनर्दण्डाभावो विधानाभावात् ॥ 'कन्यां भजन्तीमुत्कृष्टां न किंचिदपि दापयेत् ॥' इति लिङ्गनिदर्शनाच्चावगम्यते । प्रायश्चित्तं तु स्वधमस्खलननिमित्तं गम्यानां गन्तॄणां चाविशेषाद्भवत्येव । यत्पुनर्वेश्यानां जात्यन्तरासंभवेन वर्णान्तःपातित्वमनुमानादुक्तम्- 'वेश्या वर्णानुलोमाद्यन्तःपा. तिन्यो मनुष्यजात्याश्रयत्वात् ब्राह्मणादिवत्' इति । तन्न । तत्र कुण्डगोलकादिभिरनैकान्तिकत्वात् । अतो वेश्याख्या काचिजातिरनादिर्वेश्यायामुत्कृष्टजातेः समानजातेर्वा पुरुपादुत्पन्ना पुरुषसंभोगवृत्तिर्वेश्येति ब्राह्मण्यादिवल्लोकप्रसिद्धिबलादभ्युपगमनीयम् । नच निर्मूलेयं प्रसिद्धिः । स्मर्यते हि स्कन्दपुराणे-'पञ्चचूडा नाम काश्चनाप्सरसस्तत्सन्ततिर्वेश्याख्या पञ्चमी जातिः' इति । अतस्तासां नियतपुरुषपरिणयन विधिविधुरतया समानोत्कृष्टजातिपुरुषाभिगमने नादृष्टदोषो नापि दण्डः । तासु चानवरुद्धासु गच्छतां पुरुषाणां यद्यपि न दण्डस्तथाप्यदृष्टदोषोऽस्त्येव । 'स्वदारनियतः सदा' इति नियमात् । 'पशुवेश्याभिगमने प्राजापत्यं विधीयते इति प्रायश्चित्तस्मरणाञ्चेति निरवद्यम् ॥२९०॥
'अवरुद्वासु दासीपु' इत्यनेन दासीस्वैरिण्यादिभुजिष्याभिगमने दण्डं विदधतस्तास्त्रभुजिष्यासु दण्डो नास्तीत्यर्थादुक्तं तदपवादमाह
प्रसह्य दास्यभिगमे दण्डो दशपणः स्मृतः।
बहूनां यद्यकामासौ चतुर्विंशतिकः पृथक् ॥ २९१ ॥ पुरुषसंभोगजीविकासु दासीषु स्वैरिण्यादिषु शुल्कदानविरहेण प्रसह्य बलात्कारेणाभिगच्छतो दशपणो दण्डः । यदि बहव एकौमनिच्छन्तीमपि बलात्कारेणाभिगच्छन्ति तर्हि प्रत्येकं चतुर्विंशतिपणपरिमितं दण्डं दण्डनीयाः । यदा पुनस्तदिच्छया भाटिं दत्त्वा पश्चादनिच्छन्तीमपि बलाद्रजन्ति तदा तेषामदोषः । यदि व्याध्याद्यमिभवस्तस्या न स्यात् । -व्याधिता सश्रमा व्यग्रा राजकर्मपरायणा । आमन्त्रिता चेन्नागच्छेददण्ड्या वडवा स्मृता ॥' इति नारदवचनात् ॥
गृहीतवेतना वेश्या नेच्छन्ती द्विगुणं वहेत् । १ स्वर्थाद्गम्यते घ. २ मुत्कृष्टं घ. ३ उपगमनीया घ. ४ मनभिलषन्तीं घ.
For Private And Personal Use Only
Page #320
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८८
याज्ञवल्क्यस्मृतिः। [व्यवहाराध्यायः अगृहीते समं दाप्यः पुमानप्येवमेव हि ॥ २९२ ॥ यदा तु शुल्कं गृहीत्वा स्वस्थापि अर्थपतिं नेच्छति तदा द्विगुणं शुल्क द. द्यात् । तथा शुल्कं दत्त्वा स्वयमनिच्छतः स्वस्थस्य पुंसः शुल्कहानिरेव ।'शुल्कं गृहीत्वा पण्यस्त्री नेच्छन्ती द्विगुणं वहेत् । अनिच्छन्दत्तशुल्कोऽपि शु
कहानिमवाप्नुयात् ॥' इति तेनैवोक्तम् । तथान्योऽपि विशेषस्तेनैव दर्शितः'अप्रयच्छंस्तथा शुल्कमनुभूय पुमान्स्त्रियम् । आक्रमेण च संगच्छन् पाददन्तनखादिभिः ॥ अयोनौ वाभिगच्छेद्यो बहुभिर्वापि वासयेत् । शुल्कमष्टगुणं दाप्यो विनयं तावदेव तु ॥ वेश्याप्रधाना यास्तत्र कामुकास्तद्गृहोषिताः । तसमुत्थेषु कार्येषु निर्णयं संशये विदुः ॥' इति ॥ २९२ ।।
अयोनौ गच्छतो योषां पुरुषं वापि मेहतः।।
चतुर्विंशतिको दण्डस्तथा प्रत्रजितागमे ॥ २९३ ॥ किंच। येस्तु स्वयोषां मुखादावभिगच्छति पुरुषं वाभिमुखो मेहति तथा प्रबजितां वा गच्छत्यसौ चतुर्विंशतिपणान्दण्डनीयः ॥ २९३ ॥
अन्त्याभिगमने त्वक्यः कुबन्धेन प्रवासयेत् ।
शूद्रस्तथान्त्य एव स्यादन्त्यस्यार्यागमे वधः ॥ २९४ ॥ किंच अन्त्या चाण्डाली तद्गमने त्रैवर्णिकान्प्रायश्चित्तानभिमुखान् ‘सहस्रं त्वन्त्यजस्त्रियम्' इति मनुवचनात्पणसहस्रं दण्डयित्वा कुबन्धेन कुत्सितबन्धेन भगाकारेणाङ्कयित्वा स्वराष्ट्रान्निर्वासयेत् । प्रायश्चित्ताभिमुखस्य पुनर्दण्डनमेव । शूद्रः पुनश्चाण्डाल्यभिगमेऽन्त्य एव चाण्डाल एव भवति । अन्त्यजस्य पुनश्वाण्डालादेरुत्कृष्टजातिस्यभिगमे वध एव ॥ २९४ ॥
इति स्त्रीसंग्रहणप्रकरणम् ।
अथ प्रकीर्णकप्रकरणम् २५ व्यवहारप्रकरणमध्ये स्त्रीपुंसयोगाख्यमप्यपरं विवादपदं मनुनारदाभ्यां विवृतम् । तत्र नारदः-'विवाहादिविधिः स्त्रीणां यत्र पुंसां च कीर्त्यते । स्त्री. पुंसयोगसंज्ञं तद्विवादपदमुच्यते ॥' इति ॥ मनुरप्याह (१२)-'अस्वतन्त्राः स्त्रियः कार्याः पुरुषैः स्वैर्दिवानिशम् । विषयेषु च सजन्त्यः संस्थाप्या ह्यात्मनो वशे ॥' इत्यादि । यद्यपि स्त्रीपुंसयोः परस्परमर्थिप्रत्यर्थितया नृपसमक्षं व्यवहारो निषिद्धस्तथापि प्रत्यक्षेण कर्णपरम्परया वा विदिते तयोः परस्परातिचारे दण्डादिना दम्पती निजधर्ममार्गे राज्ञा स्थापनीयौ । इतरथा दोषभाग्भवति व्यवहारप्रकरणे राजधर्ममध्येऽस्य स्त्रीपुंसधर्मजातस्योपदेशः। एतच्च विवाहप्रकरण एव सप्रपञ्चं प्रतिपादितमिति योगीश्वरेण न पुनरत्रोक्तम् ॥ १ धातदन्तनखा खघ. २ स्वेच्छया योषां घ. ३ नृपसमीपं घ.
For Private And Personal Use Only
Page #321
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकीर्णकप्रकरणम् २५] मिताक्षरासहिता ।
२८९ सांप्रतं प्रकीर्णकाख्यं व्यवहारपदं प्रस्तूयते । तल्लक्षणं च कथितं नारदेन'ग्रंकीर्णकेषु विज्ञेया व्यवहारा नृपाश्रयाः । राज्ञामाज्ञाप्रतीघातस्तत्कर्मकरणं तथा ॥ पुरःप्रदानं संभेदैः प्रकृतीनां तथैव च । पाखण्डिनैगमश्रेणीगणधर्मविपर्ययाः । पितापुत्रविवादश्च प्रायश्चित्तव्यतिक्रमः । प्रतिग्रहविलोपश्व कोपश्चा. श्रमिणामपि ॥ वर्णसंकरदोषश्च तत्तिनियमस्तथा । न दृष्टं यच्च पूर्वेषु सर्व तत्स्याप्रकीर्णकम् ॥' इति ॥ प्रकीर्णके विवादपदे ये विवादा राजाज्ञोल्लङ्घनतदाज्ञाकरणादिविषयास्ते नृपसमवायिनः । नृप एव तत्र स्मृत्याचारव्यपेतमार्गे वर्तमानानां प्रतिकूलतामास्थाय व्यवहारनिर्णयं कुर्यात् ॥ एवं च वदता यो नृपाश्रयो व्यवहारस्तत्प्रकीर्णकमित्याल्लक्षितं भवति ॥ २९४ ॥ तत्रापराधविशेषेण दण्डविशेपमाह
ऊंनं वाभ्यधिकं वापि लिखेद्यो राजशासनम् ।
पारदारिकचौरं वा मुश्चतो दण्ड उत्तमः ॥ २९५ ॥ राजदत्तभूमेर्निबन्धस्य वा परिमाणान्यूनत्वमाधिक्यं वा प्रकाशयन् राजशासनं योऽभिलिखति यश्च पारदारिकं चौरं वा गृहीत्वा राज्ञेऽनर्पयित्वा मुञ्चति तावुभावुत्तमसाहसं दण्डनीयौ ॥ २९५ ॥ प्रसङ्गान्नृपाश्रयव्यतिरिक्तव्यवहारविषयमपि दण्डमाह
अभक्ष्येण द्विजं दृष्यो दण्ड उत्तमसाहसम् ।
मध्यमं क्षत्रियं वैश्यं प्रथमं शूद्रमर्धिकम् ॥ २९६ ॥ मूत्रपुरीपादिना अभक्ष्येण भक्ष्यानhण ब्राह्मणं दूष्यानपानादिमिश्रणेन स्व. रूपेण वा दूषयित्वा खादयित्वोत्तमसाहसं दण्ड्यो भवति । क्षत्रियं पुनरेवं दूपयित्वा मध्यमम् । वैश्यं दूषयित्वा प्रथमम् । शूद्रं दूषयित्वा प्रथमसाहसस्याध दण्डयो भवतीति संबन्धः । लशुनायभक्ष्यदूषणे तु दोषतारतम्याद्दण्डतारतम्यमूहनीयम् ॥ २९६ ॥
कूटस्वर्णव्यवहारी विमांसस्य च विक्रयी ।
व्यङ्गहीनस्तु कर्तव्यो दाप्यश्चोत्तमसाहसम् ॥ २९७ ॥ किंच । रसवेधाद्यापादितवर्णोत्कर्षैः कूटैः स्वर्णैर्व्यवहारशीलो यः स्वर्णकारादिः । यश्च विमांसस्य कुत्सितमांसस्य श्वादिसंबद्धस्य विक्रयशीलः सौनिकादिः । चशब्दात्कूटरजतादिव्यवहारी च ते सर्वे प्रत्येकं नासाकर्णकरैस्त्रिभिरहैहीनाः कार्याः । चशब्दांच्यङ्गच्छेदेन समुच्चितमुत्तमसाहसं दण्डं दाप्याः । यत्पुनर्मनुनोक्तम् (९-२९२)-'सर्वकण्टकपापिष्ठं हेमकारं तु पार्थिवः ॥ प्रवतमानमन्याये छेदयेलवशः क्षुरैः ॥ 'इति तदेतद्देवब्राह्मणराजस्वर्णविषयम्२९७ १ र्णके पुनशैंया ख. २ भेदश्च घ. ३ न्यूनं वा घ. ४ द्रव्यरूपेण घ. ५ शब्दादङ्गच्छेदेन ख.
For Private And Personal Use Only
Page #322
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२९०
याज्ञवल्क्यस्मृतिः। [व्यवहाराध्यायः विषयविशेषे दण्डाभावमाह
चतुष्पादकृतो दोषो नापैहीति प्रजल्पतः ।
काष्ठलोष्ठेषुपाषाणवाहुयुग्यकृतस्तथा ॥ २९८ ॥ चतुष्पादोगजादिभिः कृतो यो दोपो मनुष्यमारणादिरूपोऽसौ गवादिस्वामिनो न भवत्यपसरेति प्रकर्षणोच्चैर्भाषमाणस्य । तथा लकुटलोष्ठसायकपाषाणोरक्षेपणेन बाहुना युग्येन च युगं वहताश्वादिना कृतो यः पूर्वोक्तो दोषः सोऽपि काष्टादीन्प्रास्यतो न भवत्यपसरेति प्रजल्पतः । काष्टाद्युत्क्षेपणेन हिंसायां दोपाभावकथनं दण्डाभावप्रतिपादनार्थम् । प्रायश्चित्तं पुनरबुद्धिपूर्वकरणनिमित्तमस्त्येव । काष्ठादिग्रहणं च शक्तितोमरादेरुपलक्षणार्थम् ॥ २९८ ॥
छिन्ननस्येन यानेन तथा भग्नयुगादिना ।
पश्चाच्चैवापसरता हिंसने स्वाम्यदोषभाक् ॥ २९९ ॥ किंच । नसि भवा रज्जुनस्या छिन्ना शकटादियुक्तबलीवर्दनस्या रजुर्यस्मिन्याने तत् छिन्ननस्यं शकटादि तेन । तथा भग्नयुगेन आदिग्रहणानाक्षचक्रा. दिना च यानेन पश्चात्पृष्टतोऽपसरता चशब्दात्तिर्यगपगच्छता प्रतिमुखं चागच्छता च मनुष्यादिहिंसने स्वामी प्राजेको वा दोपभाङ् न भवति । अतत्प्रय. नजनितत्वाद्धिंसनस्य । तथाच मनुः ( २९१।२९२)-'छिन्ननस्ये भग्नयुगे तिर्थक्प्रतिमुखागते । अक्षभङ्गे च यानस्य चक्रभङ्गे तथैव च ॥ छेदने चैव यत्राणां योत्तरश्म्योस्तथैव च । औक्रन्दे सत्यपैहीति न दण्डं मनुरब्रवीत् ॥' उपेक्षायां स्वामिनो दण्डमाह
शक्तोऽप्यमोक्षयन्स्वामी दंष्ट्रिणां शृङ्गिणां तथा ।
प्रथमं साहसं दद्याद्विक्रुष्टे द्विगुणं तथा ॥ ३०० ॥ अप्रवीणप्राजकप्रेरितैर्दष्ट्रिभिर्गजादिभिः शृङ्गिभिर्गवादिभिर्वध्यमानं समर्थोऽपि तत्स्वामी यद्यमोक्षयन्नुपेक्षते तदा अकुशलप्राजकनियोजननिमित्तं प्रथमसाहसं दण्डं दद्यात् । यदा तु मारितोऽहमिति विक्रुष्टेऽपि न मोक्षयति तदा द्विगुणम् । यदा पुनः प्रवीणमेव प्राजकं प्रेरयति तदा प्राजक एव दण्ड्यो न स्वामी । यथाह मनुः (२९४)-'प्राजकश्वेगवेदाप्तः प्राजको दण्डमर्हति' इति ॥ प्राजको यन्ता । आप्तोऽभियुक्तः । प्राणिविशेषाच्च दण्डविशेषः कल्पनीयः। यथाह मनुः (८।२९६-९८)-'मनुष्यमारणे क्षिप्रं चौरवकिल्बिपी भवेत् । प्राणभृत्सु महत्स्वधैं गोगजोष्ट्रहयादिषु ॥ क्षुद्राणां च पशूनां तु हिं. सायां द्विशतो दमः। पञ्चाशत्तु भवेद्दण्डः शुभेषु मृगपक्षिषु ॥ गर्दभाजाविकानां तु ण्डः स्यात्पञ्चमाषकः । माषकस्तु भवेद्दण्डः श्वशूकरनिपातने ॥इति ॥ १ तियेग५.रता घ. २ प्राजकः सारथिः. ३ आक्रन्दनेप्यपैहीति घ. ४ क्षुद्रकाणां पशूनां तु घ.
For Private And Personal Use Only
Page #323
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकीर्णकप्रकरणम् २५] मिताक्षरासहिता। २९१
जारं चौरेत्यभिवदन्दाप्यः पञ्चशतं दमम् ।
उपजीव्य धनं मुञ्चस्तदेवाष्टगुणीकृतम् ॥ ३०१ ॥ किंच । स्ववंशकलङ्कभयाजारं पारदारिकं चौरं निर्गच्छेत्यमिवदन् पञ्चशतं पणानां पञ्च शतानि यस्मिन्दमे स तथोक्तस्तं दमं दप्यः । यः पुनर्जारहस्ताद्धनमुपजीव्य उत्कोचरूपेण गृहीत्वा जारं मुञ्चत्यसौ यावद्गृहीतं तावदष्टगुणीकृतं दण्डं दाप्यः ॥ ३०१ ॥
राज्ञोऽनिष्टप्रवक्तारं तस्यैवाक्रोशकारिणम् ।
तन्मत्रस्य च भेत्तारं छित्त्वा जिह्वां प्रवासयेत् ॥ ३०२॥ किंच । राज्ञोऽनिष्टस्यानभिमतस्यामित्रस्तोत्रादेः प्रकर्षेण भूयोभूयो वक्तारं तस्यैव राज्ञ आक्रोशकारिणं निन्दाकरणशीलं तदीयस्य च मन्त्रस्य स्वराष्ट्रविवृद्विहेतोः परराष्ट्रापक्षयकरस्य वा भेत्तारं अमित्रकर्णेषु जपन्तं तस्य जिह्वामुत्कृत्य स्वराष्ट्रान्निष्कासयेत् । कोशापहरणादौ पुनर्वध एव । (मनुः ९।२७५)'राज्ञः कोशापहर्तुश्च प्रतिकूले पु च स्थितान् । घातयेद्विविधैर्दण्डैररीणां चोपैकारकान् ॥' इति मनुस्मरणात्। विविधैः सर्वस्वापहाराङ्गच्छेदवधरूपैरित्यर्थः ॥ सर्वस्वापहारेऽपि यद्यस्य जीवनोपकरणं तन्नापहर्तव्यम् चौर्योपकरणं विना । यथाह नारदः-'आयुधान्यायुधीयानां बाह्यादीन्बाह्यजीविनाम् । वेश्यास्त्रीणामलंकारान्वाद्यतोद्यादि तद्विदाम् ॥ यच्च यस्योपकरणं येन जीवन्ति कारुकाः । सर्वस्वहरणेऽप्येतन्न राजा हर्तुमर्हति ॥' इति ॥ ब्राह्मणस्य पुनः 'न शा. रीरो ब्राह्मणे दण्डः' इति निषेधाद्वधस्थाने शिरोमुण्डनादिकं कर्तव्यम्-'ब्रा. ह्मणस्य वधो मौण्ड्यं पुरान्निर्वासनाङ्कने । ललाटे चाभिशस्ताकः प्रयाणं गर्दभेन तु ॥' इति मनुस्मरणात् ॥ ३०२ ॥
मृताङ्गलग्नविक्रेतुर्गुरोस्ताडयितुस्तथा ।
राजयानासनारोदुर्दण्ड उत्तमसाहसः ॥ ३०३ ॥ किंच। मृतशरीरसंबन्धिनो वस्त्रपुष्पादेविक्रेतुः गुरोः पित्राचार्यादेस्ताडयितुः तथा राजानुमति विना तद्यानं गजाश्वादि आसनं सिंहासनादि आरोहतश्वोत्त. मसाहसो दण्डः ॥ ३०३ ॥
द्विनेत्रभेदिनो राजद्विष्टादेशकृतस्तथा ।
विप्रत्वेन च शूद्रस्य जीवतोऽष्टशतो दमः ॥ ३०४॥ किंच । यः पुनः क्रोधादिना परस्य नेत्रद्वयं भिनत्ति । यश्च ज्योतिःशास्त्रविद् गुर्वादिहितेच्छंव्यतिरिक्तो राज्ञो द्विष्टमनिष्टं संवत्सरान्ते तव राज्यच्युतिर्भवि. प्यतीत्येवमादिरूपमादेशं करोति । तथा यः शूद्रो भोजनार्थ यज्ञोपवीतादीनि १ मित्रस्तवादेः घ. २ चोपजापकान् घ. ३ न शारीरो दण्डः ख. ४ हितेप्सु ख.
For Private And Personal Use Only
Page #324
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२९२
याज्ञवल्क्यस्मृतिः। [व्यवहाराध्यायः ब्राह्मणलिङ्गानि दर्शयति तेषामष्टशतो दमः । अष्टौ पणशतानि यस्मिन्दमे स तथोक्तः । 'श्राद्धभोजनार्थं पुनः शूद्रस्य विप्रवेषधारिणस्तप्तशलाकया यज्ञोपवीत वद्वपुष्यालिखेत्' इति स्मृत्यन्तरोक्तं द्रष्टव्यम् । वृत्त्यर्थं तु यज्ञोपवीतादिब्राह्मणलिङ्गधारिणो वध एव ।-'द्विजातिलिङ्गिनः शूद्रान्धातयेत्' इति स्मरणात् ३०४ रागलोभादिनाऽन्यथा व्यवहारदर्शने दण्डमाह
दुर्दृष्टांस्तु पुनदृष्ट्वा व्यवहारान्नृपेण तु ।
सभ्याः सजयिनो दण्ड्या विवादाद्विगुणं दमम् ॥३०५॥ दुर्दष्टान्स्मृत्याचारप्राप्तधर्मोल्लङ्घनेन रागलोभादिभिरसम्यग्विचारितत्वेनाशझयमानान्व्यवहारान्पुनः स्वयं राजा सम्यग्विचार्य निश्चितदोपाः पूर्वअभ्याः संजयिनः प्रत्येकं विवादपदे यो दमः पराजितस्य तद्विगुणं दाप्याः । अप्राप्तजेत. दण्डविधिपरत्वाद्वचनस्य रागालोभादित्यादिना श्लोकेनापौनरुक्त्यम् । यदा पुनः साक्षिदोषेण व्यवहारस्य दुईष्टत्वं ज्ञातं तदा साक्षिण एव दण्ड्या न जयी नापि सभ्याः। यदा तु राजानुमत्या व्यवहारस्य दुष्टत्वं ज्ञातं तदा सर्व एव राजसहिताः सभ्यादयो दण्डनीयाः ।-'पादो गच्छति कर्तारं पादः साक्षिणमृच्छति । पादः सभासदः सर्वांन्पादो राजानमृच्छति ॥' इति वचनात् । एतच प्रत्येकं राजादीनां दोषप्रतिपादनपरं न पुनरेकस्यैव पापापूर्वस्य विभागाय । यथोक्तम्'कर्तृसमवायिफलजननस्वभावत्वादपूर्वस्य' इति ॥ ३०५ ॥ न्यायतो निर्णीतव्यवहारस्य प्रत्यावर्तयितुर्दण्डमाह
यो मन्येताजितोऽसीति न्यायेनापि पराजितः।
तमायान्तं पुनर्जित्वा दापयेद्विगुणं दमम् ॥ ३०६ ॥ यः पुनायमार्गेण पराजितोऽपि औद्धत्यान्नाहं पराजितोऽस्मीति मन्यते तमायान्तं कूटलेख्याधुपन्यासेन पुनर्धर्माधिकारिणमधितिष्ठन्तं धर्मेण पुनः पराजयं नीत्वा द्विगुणं दण्डं दापयेत् ॥ नारदेनाप्युक्तम्-'तीरितं चानुशिष्टं वा यो मन्येत विधर्मतः । द्विगुणं दण्डमास्थाय तत्कार्य पुनरुद्धरेत् ॥' इति ॥ तीरितं साक्षिलेख्यादिनिर्णीतमनुद्धृतदण्डम् । अनुशिष्टमुद्धृतदण्डम् । दण्डपर्यन्तं नीतमिति यावत् ॥ यत्पुनर्मनुवचनम् (१।२३३)-'तीरितं चानुशिष्टं च यत्र वचन विद्यते। कृतं तद्धर्मतो ज्ञेयं न तत्प्राज्ञो निवर्तयेत् ॥' इति । तदर्थप्रत्यर्थिनोरन्यतरवचनाद्व्यवहारस्याधर्मतो वृतत्वाशङ्कायां पुनर्द्विगुणदण्डप्रतिज्ञापूर्वकं व्यवहार प्रवर्तयेत् न पुनर्धर्मतो वृत्तत्वनिश्चयेऽपि राज्ञा लोभादिना प्रवर्तयितव्य इत्येवंपरम् । यत्पुनर्नुपान्तरेणापि न्यायापेतं कार्य निवर्तित तदपि सम्यक्परीक्षणेन धर्ये पथि स्थापनीयम् । 'न्यायापेतं यदन्येन राज्ञा ज्ञानकृतं भवेत् । तदप्यन्यायविहितं पुनाये निवेशयेत् ॥' इति स्मरणात्॥३०६॥ १ जयिसहिताः घ. २ दुर्दृष्टता तदा ख. ३ रेकैकस्यैव ख.
For Private And Personal Use Only
Page #325
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकीर्णकप्रकरणम् २५ ] मिताक्षरासहिता ।
अन्यायगृहीतदण्डधनस्य गतिमाह - राज्ञान्यायेन यो दण्डो गृहीतो वरुणाय तम् । निवेद्य दद्याद्विप्रेभ्यः स्वयं त्रिंशद्गुणीकृतम् ॥ ३०७ ॥
अन्यायेन यो दण्डो राज्ञा लोभाद्गृहीतस्तं त्रिंशद्गुणीकृतं वरुणायेदमिति संकल्प्य ब्राह्मणेभ्यः स्वयं दद्यात् । यस्माद्दण्डरूपेण यावद्गृहीतमन्यायेन तावत्तस्मै प्रतिदेयमितरथापहारदोषप्रसङ्गात् । अन्यायदण्डग्रहणे पूर्व स्वामिनः स्वत्वविच्छेदाभावाच्चेति ॥ ३०७ ॥
इति श्रीमत्पद्मनाभ भट्टोपाध्यायात्मजस्य श्रीमत्परमहंसपरिव्राजकाचार्यविज्ञानेश्वरभट्टारकस्य कृतौ ऋजुमिताक्षराख्यायां याज्ञवल्कीयधर्मशास्त्रविवृतौ द्वितीयोsध्यायो व्यवहाराख्यः समाप्तिमगात् ॥
१. अन्यायेन तु यो दण्डो घ.
।
अथास्मिनध्याये प्रकरणानुक्रमणिका कथ्यते । आद्यं साधारणव्यवहारमातृकाप्रकरणम् १ । असाधारणव्यवहारमातृकाप्रकरणम् २ | ऋणादानम् ३ । उपनिधिप्रकरणम् ४ । साक्षिप्रकरणम् ५ । लेख्यप्रकरणम् ६ । दिव्यप्रकरणम् २७ । दायविभागः ८ । सीमाविवादः ९ । स्वामिपालविवादः १० | अस्वामिवि - क्रयः ११ । दत्ताप्रदानिकम् १२ । क्रीतानुशयः १३ | अभ्युपेत्याशुश्रूषा १४ | संविद्यतिक्रमः १५ | वेतनादानम् १६ । द्यूतसमाह्वयाख्यम् १७ । वाक्पारुष्यम् १८ | दण्डपारुष्यम् १९ । साहसम् २० । विक्रीया संप्रदानम् २१ । संभूयसमुत्थानम् २२ । स्तेयप्रकरणम् २३ । स्त्रीसंग्रहणम् २४ | प्रकीर्णकम् २५ । इति पञ्चविंशतिप्रकरणानि ॥
उत्तमोपपदस्येयं शिष्यस्य कृतिरात्मनः । धर्मशास्त्रस्य विवृतिर्विज्ञानेश्वरयोगिनः ॥ १ ॥
२९३
For Private And Personal Use Only
Page #326
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अथ प्रायश्चित्ताध्यायः।
____ अथाशौचप्रकरणम् १ गृहस्थाश्रमिणां नित्यनैमित्तिका धर्मा उक्ताः । अभिषेकादिगुणयुक्तस्य गृहस्थविशेषस्य गुणधर्माश्च प्रदर्शिताः । अधुना तदधिकारसंकोचहेतुभूताशौचप्रतिपादनमुखेन तेपामपवादः प्रतिपाद्यते । आशौचशब्देन च कालस्नानाद्यपनोद्यः पिण्डोदकदानादिविधेः अध्ययनादिपर्युदासस्य च निमित्तभूतः पुरुषगतः कश्चनातिशयः कथ्यते न पुनः कर्मानधिकारमात्रम् । 'अशुद्धा बान्धवाः सर्वे' इत्यादावशुद्धत्वाभिधानात् । अशुद्धशब्दस्य च वृद्धव्यवहारेऽनाहिताग्निदीक्षितादावनधिकारिमाने प्रयोगाभावात् वृद्धव्यवहारव्युत्पत्तिनिबन्धनत्वाच्च शब्दार्थावगतेः । किंच यद्याशौचिनां दानादिनिषेधदर्शनात्तदयोग्यत्वमशौचशब्दाभिधेयं कल्प्यते तर्हि उदकदानादिविधिदर्शनात् तद्योग्यत्वमप्यशौचशब्दाभिधेयं स्यात् तत्रानेकार्थकल्पनादोषप्रसङ्ग इत्युपेक्षणीयोऽयं पक्षः ।। तत्राशौचिभिः सपिण्डाद्यैर्यत्कर्तव्यं तत्तावदाहऊनद्विवर्ष निखनेन कुर्यादुदकं ततः । आश्मशानादनुव्रज्य इतरो ज्ञातिभिर्वृतः ॥१॥ यमसूक्तं तथा गाथा जपद्भिलौकिकामिना ।
स दग्धव्य उपेतश्चेदाहिताश्यावृतार्थवत् ॥ २॥ ऊने अपरिपूर्णे वे वर्षे यस्यासावूनद्विवर्षस्तं प्रेतं निखनेत् भूमाववटं कृत्वा निध्यान पुनदेहेदित्यर्थः । नच सकृत्प्रसिंचन्त्युदकमित्यादिभिः प्रेतोद्देशेन विहितमुदकदानाद्यौर्ध्वदेहिकं कुर्यात् । अयं च गन्धमाल्यानुपलेपनादिभिरलंकृत्य शुचौ भूमौ श्मशानादन्यत्रास्थिनिचयरहितायां बहि मान्निखननीयः । यथाह मनुः (५।६८)-'ऊनद्विवार्षिक प्रेतं निदध्युर्बान्धवा बहिः । अलंकृत्य शुचौ भूमावस्थिसंचयनाहते ॥ नास्य कार्योऽग्निसंस्कारो नौपि कार्योऽदकक्रिया । अरण्ये काष्टवत्यक्त्वा क्षिपेयुस्यहमेव तु ॥' इति । अरण्ये काष्ठवत्त्यक्त्वेत्यस्यायमर्थः । यथारण्ये काष्ठं त्यक्त्वोदासीनास्तद्विषये भवन्ति तथोनद्विवार्षिकमपि खातायां भूमौ परित्यज्य तद्विषये श्राद्धाद्यौर्ध्वदेहिकेपु उदासीनैर्भवितव्यमित्याचारादिप्राप्तश्राद्धाद्यभावोऽनेन दृष्टान्तेन सूच्यते । स च घृतेनाभ्यज्य यमगाथा: पठनिनिधातव्यः । 'ऊनद्विवार्षिकं प्रेतं घृताक्तं निखनेद्भुवि । यमगाथा गायमानो यमसूक्तमनुस्मरन् ॥' इति यमस्मरणात् ॥ ततस्तस्मादूनद्विवार्पिकादितरपूर्णद्विवर्षों यो मृतोऽसौ श्मशानपर्यन्तं ज्ञातिभिः सपिण्डैः समानोदकैश्च ज्येष्ठः १ अत्राशुद्धशब्दस्य च व्यवहारेणाहिताग्नि ख. २ नास्य ङ. ३ शवश्च ङ. ४ गायद्भिः क.
For Private And Personal Use Only
Page #327
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आशौचप्रकरणम् १] मिताक्षरासहिता । पुरःसरैरनुव्रज्योऽनुगन्तव्यः । अस्मादेव वचनादूनद्विवर्षस्यानुगमनमनियतमिति गम्यते ॥ अनुगम्य च 'परेयिवांसम्' इत्यादि यमसूक्तं यमदैवत्या गाथाश्च जपद्भिलौकिकेनासंस्कृतेनाग्निना दग्धव्यो यदि जातारणिनास्ति । तत्सद्भावे तु तन्मथितेन दग्धव्यो न लौकिकेन । तस्याग्निसंपाद्यकार्यमात्रार्थत्वेनोत्पत्तेः । लौकिकाग्निश्च चण्डालादिव्यतिरिक्तो ग्राह्यः ।-'चण्डालाग्निरमेध्याग्निः सूतिकाग्निश्च कर्हि चित् । पतिताग्निश्चिताग्निश्च न शिष्टग्रहणोचिताः ॥' इति देवलस्मरणात् ॥ लौगाक्षिणा चात्र विशेष उक्तः–'तूष्णीमेवोदकं कुर्यातूष्णीं संस्कारमेव च । सर्वेषां कृतचूडानामन्यत्रापीच्छया द्वयम् ॥' इति । अयमर्थः-'चौलकर्मानन्तरकाले नियमेना युदेकदानं कार्यम् । अन्यत्रापि नामकरणादू अकृतचूडेऽपीच्छया प्रेताभ्युदयकामनया द्वयं अग्युदकदानास्मकं तूष्णीं कार्य न नियमेनेति विकल्पः । मनुनाप्यत्र विशेषो दर्शितः (५७०)-'नात्रिवर्षस्य कर्तव्या बान्धवैरुदकक्रिया । जातदन्तस्य वा कुर्यान्नाम्नि वापि कृते सति ॥' इति । उदकग्रहणं साहचर्यादग्निसंस्कारस्याप्युपलक्षणार्थम् । 'नात्रिवर्षस्य' इति वचनात् ॥ कुलधर्मापेक्षया चूडोत्कर्षेऽपि वर्षत्रयादूर्ध्वमन्युदकदानादिनियमोऽवगम्यते । लौगाक्षिवचनाद्वर्षत्रयात्प्रागपि कृतचूडस्य तयोनियम इति विवेचनीयम् । उपेतश्चेद्यापनीतस्तर्हि आहितान्यावृता भाहितानेदाप्रक्रियया स्वगृह्यादिप्रसिद्धया लौकिकाग्निनैव दग्धव्यः । अर्थवत्प्रयोजनवत्। अयमर्थः-यद्यस्य क्लुप्तं दाहद्वारं कार्यरूपं प्रयोजनं संभवति भूमिजोषणप्रोक्षणादि तदुपादेयम् । यस्पुन सप्रयोजनं पात्रयोजनादि तन्निवर्तते । तथा लौकिकाग्निविधानेनोपनीतस्य अनाहिताग्नेगुह्याग्निना दाहविधानेन च अपहृतप्रयोजनस्वादाहवनीयादेरपि निवृत्तिरिति ॥ अग्न्यन्तरविधानं च वृद्धयाशवल्क्येनोक्तम्-'आहिताग्निर्यथान्यायं दग्धव्यस्त्रिभिरग्निभिः । अनाहिताग्निरेकेन लौकिकेनापरो जनः ॥' इति । नच शूद्रेण श्मशानंप्रति अग्निकाष्ठादिनयनं कार्यम्-'यस्याऽऽनयति शूद्रोऽग्निं तृणं काष्ठं हवींषि च । प्रेतत्वं हि सदा तस्य स चाधर्मेण लिप्यते ॥' इति यमस्मरणात् ॥ तथा दाहश्च स्वपनानन्तरं कायः-प्रेतं दहेच्छुभैर्गन्धैः स्नापितं स्रग्विभूषितम्' इति स्मरणात् । प्रचेतसाप्युक्तम् । -स्नानं प्रेतस्य पुत्राद्यैर्वस्त्राद्यैः पूजनं तथा । नग्न देहं दहेन्नैव किंचिहेयं परित्यजेत् ॥' इति । किंचिद्देयमिति शववस्खैकदेशं श्मशानवास्यर्थ देयं परित्यजेदित्यर्थः ॥ तथा प्रेतनिहरणेऽपि मनुना विशेषो दर्शितः (५।३०४) -'न त्रिनं स्वेषु तिष्टत्सु मृतं शूद्रेण हारयेत् । अस्वा ह्याहुतिः सा स्याच्छूसंपर्कदूषिता ॥' अत्र च स्वेषु तिष्ठत्सु इत्यविवक्षितम् । अस्वय॑त्वादिदोषश्रवणात् ॥-'दक्षिणेन मृतं शूदं परद्वारेण निर्हरेत् । पश्चिमोत्तरपूर्वैस्तु यथासंख्यं द्विजातयः ॥' तथा हारीतोऽपि-'न प्रामाभिमुखं प्रेतं हरेयुः' इति ॥ यदा तु प्रोषितमरणे शरीरं न लभ्यते तदास्थिभिः प्रतिकृति कृत्वा तेषामप्य१ उदकदानात्मकं क. २ आहिनाग्नेर्दानप्रक्रियया ङ. ३ आहिताग्नेः स्वगृह्याग्निना ङ.
या०२८
For Private And Personal Use Only
Page #328
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२९६
याज्ञवल्क्यस्मृतिः। [प्रायश्चित्ताध्यायः लाभे पर्णशरैः शौनकादिगृह्योक्तमार्गेण प्रतिकृतिं कृत्वा संस्कारः कार्यः । आशौचं चात्र दशाहादिकमेव । 'आहिताग्निश्चेत्प्रवसन्नियेत पुनःसंस्कारं कृत्वा शववदाशौचम्' इति वसिष्ठस्मरणात् ॥ अनाहिताग्निस्तु त्रिरात्रम्-'सुपिष्टैजलसंमिश्त्रैर्दग्धव्यश्च तथाग्निना । असौ स्वर्गाय लोकाय स्वाहेत्युक्त्वा स बान्धवैः ॥ एवं पर्णशरं दग्ध्वा त्रिरात्रमशुचिर्भवेत् ॥' इति वचनात् ॥ ततश्चायमर्थः - 'नामकरणादर्वाङ्गिखननमेव न चोदकदानादि । तत ऊर्ध्वं यावत्रिवर्ष वैकल्पिकमन्युदकदानम् । ततः परं यावदुपनयनं तूष्णीमेवाग्युदकदानं नियतम् । वर्षत्रयात्प्रागपि कृतचूडस्य । उपनयनादूचं पुनराहिताश्यावृता दाहं कृत्वा सर्वमौर्ध्वदेहिकं कार्यम् । अयंतु विशेषः । उपनीतस्य लौकिकाग्निना दाहः कार्यः । अनाहिताग्नेह्याग्निना दाहो यथासंभवं पात्रयोजनं च कार्यम् ॥१॥२॥ संस्कारानन्तरं किं कर्तव्यमित्यत आह
सप्तमाद्दशमाद्वापि ज्ञातयोऽभ्युपयन्त्यपः।
अपनः शोशुचदघमनेन पितृदिङ्मुखाः ॥३॥ सप्तमादिवसादग्दशमदिवसाद्वा ज्ञातयः समानगोत्राः सपिण्डाः समानो. दकाश्च 'अपनः शोशुचदघम्' इत्यनेन मन्त्रेण दक्षिणामुखाः अपः अभ्युपनयन्ति । अभ्युपगमनेन तत्प्रयोजनभूतोदकदानविशिष्टमभ्युपगमनं लक्ष्यते । एवं मातामहाचार्येष्वि' त्यनन्तरमुदकदानस्यातिदेशदर्शनात् । एतच्चायुग्मासु तिथिषु कार्यम्। 'प्रथमतृतीयपञ्चमसप्तमनवमेषूदकक्रिया' इति गौतमस्मरणात् ॥ एतच्च स्नानानन्तरं कार्यम् । 'शरीरमग्नौ संयोज्यानवेक्षमाणा अपोऽभ्युपयन्ति' इति शातातपस्मरणात् ॥ तथा प्रचेतसाप्यत्र विशेषो दर्शितः-प्रेतस्य बान्धवा यथावृद्धमुदकमवतीर्य नोद्धर्षयेयुरुदकान्ते प्रसिञ्चयुरपसव्ययज्ञोपवीतवाससो दक्षिणाभिमुखा ब्राह्मणस्योदङ्मुखाः प्रत्यङ्मुखाश्च राजन्यवैश्ययोः' इति ॥ स्मृत्यन्तरे तु यावन्त्याशौचदिनानि तावदुदकदानस्यावृत्तिरुक्ता । यथाह विष्णः -'यावदाशौचं तावत्प्रेतस्योदकं पिण्डं च दद्युः' इति ॥ तथा च प्रचेतसाप्युक्तम्-'दिने दिनेऽञ्जलीन्पूर्णान्प्रदद्यात्तकारणात् । तावद्वृद्धिः प्रकर्तव्या यावपिण्डः समाप्यते ॥' इति ॥ प्रतिदिनमञ्जलीनां वृद्धिः कार्या यावद्दशमः पिण्डः समाप्यत इत्यर्थः ॥ यद्यप्यनयोर्गुरुलघुकल्पयोरन्यतरानुष्ठानेनापि शास्त्रार्थः सिद्धस्तथापि बहुक्केशावहत्वेन गुरुतरकल्पे प्रवृत्त्यनुपपत्तेः प्रेतस्योपकारातिशयो भविष्यतीति कल्पनीयम् । अन्यथा गुरुतरकल्पोम्नायस्यानर्थक्यप्रसङ्गात् ॥ वसिनेनापि विशेषोऽभिहितः-'सव्योत्तराभ्यां पाणिभ्यामुदकक्रियां कुर्वी. रन्' इति ॥३॥
वक्ष्यमाणसकृत्प्रसेकस्य नामगोत्रादिभिर्गुणैर्विशिष्टस्योदकदानस्याँसमानगोत्रेषु मातामहादिष्वतिदेशमाह
__एवं मातामहाचार्यप्रेतानामुदकक्रिया । १ प्राङ्मखाश्च ख. २ कल्पनीयस्याः क. ३ स्य समान ङ.
For Private And Personal Use Only
Page #329
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
आशौचप्रकरणम् १ ] मिताक्षरासहिता ।
Acharya Shri Kailassagarsuri Gyanmandir
२९७
कामोदकं सखिप्रत्तास्वस्त्रीयश्वशुरर्त्विजाम् ॥ ४ ॥
यथा सगोत्रसपिण्डानां प्रेतानामुदकं दीयते तथा मातामहानामार्याणां च प्रेतानां नित्यमुदकक्रिया कार्या । सखा मित्रं, प्रत्ताः परिणीता दुहितृभगिन्यादयः, स्वस्त्रीय भागिनेयः, श्वशुरः प्रसिद्धः, ऋत्विजो याजकाः एषां सख्यादीनां प्रेतानां कामोदकं कार्यम् । काम इच्छा | कामेनोदकदानं कामोदकं प्रेताभ्युदयकामनायां सत्यामुदकं देयमसत्यां न देयमिति अकरणे प्रत्यवायो नास्तीत्यर्थः ॥ ४ ॥ उदकदाने गुणविधिमाह -
सकृत्प्रसिञ्चन्त्युदकं नामगोत्रेण वाग्यताः ।
तञ्चोदकदानमित्थं कर्तव्यम् । सपिण्डाः समानोदकाश्च मौनिनो भूत्वा प्रेतस्य नामगोत्रे उच्चार्य अमुकनामा प्रेतोऽमुकगोत्रस्तृप्यत्विति सकृदेवोदकं प्रसिञ्चेयुः त्रिव। 'त्रिः प्रसेकं कुर्युः प्रेतस्तृप्यत्विति' इति प्रचेतसः स्मरणात् ॥ प्रतिदिनमञ्जलिवृद्धिस्तु प्रतिपादितैव । तथा अयमपि विशेषस्तेनैवोक्तः -- ' नदीकूलं ततो गत्वा शौचं कृत्वा यथार्थवत् । वस्त्रं संशोधयेदादौ ततः स्नानं समाचरेत् ॥ सचैलस्तु ततः स्नात्वा शुचिः प्रयतमानसः । पाषाणं तत आदाय विप्रे दद्यादशाञ्जलीन् । द्वादश क्षत्रिये दद्याद्वैइये पञ्चदश स्मृताः । त्रिंशच्छूद्राय दातव्यास्ततः संप्रविशेद्गृहम् ॥ ततः स्नानं पुनः कार्य गृहशौचं च कारयेत् ॥' इति ॥ सपिण्डानां मध्ये केषांचिदुदकदानप्रतिषेधमाह
न ब्रह्मचारिणः कुर्युरुदकं पतितास्तथा ॥ ५ ॥
ज्ञातित्वे सत्यपि ब्रह्मचारिणः समावर्तनपर्यन्तं पतिताश्च प्रच्युतद्विजातिकर्माधिकारा उदकादिदानं न कुर्युः ॥ ब्रह्मचर्योत्तरकालं पूर्वमृतानां सपिण्डादीनां उदकदानमाशौचं च कुर्यादेव । यथाह मनुः ( ५/८८ ) - 'आदिष्टी नोदकं कुर्यादाव्रतस्य समापनात् । समाप्ते तदुकं कृत्वा त्रिरात्रमशुचिर्भवेत् ॥' इति । आदिष्टी 'कस्य ब्रह्मचार्यसि अपोशान कर्म कुरु दिवा मा स्वाप्सीः' इत्यादिव्रतादेशयोगाद्ब्रह्मचार्युच्यते । एतच्च पित्रादिव्यतिरेकेणेति वक्ष्यति | आचार्य पिशुपाध्यायानिति । अत्राचार्यः पुनरेवं मन्यते - आदिष्टीति प्रक्रान्तप्रायश्चित्तः कथ्यते तस्यैवायमुदकदानादिनिषेधः प्रायश्चित्तरूपव्रतस्य समायुत्तरकालमुदकदानाशौचविधिरिति । तथा क्लीबादीनां चोदकदायित्वं निषिद्धम् — 'कीबाद्या नोदकं कुर्युः स्तेना ब्रात्या विधर्मिणः । गर्भभर्तृदुहश्चैव सुराप्यश्चैव योषितः ॥' इति वृद्धमनुस्मरणात् ॥ ५ ॥
एवमुदकदाने कर्तृविशेषप्रतिषेधमुक्त्वा संप्रदानविशेषेण प्रतिषेधमाहपाखण्ड्यनाश्रिताः स्तेना भर्तृभ्यः कामगादिकाः । सुराप्य आत्मत्यागिन्यो नाशौचोदकभाजनाः ॥ ६ ॥
१ प्रत्तस्वस्त्रीय ङ. २ प्रत्येकं कुर्युः ख.
For Private And Personal Use Only
Page #330
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२९८
याज्ञवल्क्यस्मृतिः।
[प्रायश्चित्ताध्यायः।
नरशिरस्कपालादि श्रुतिबाह्यलिङ्गधारणं पाखण्डं तद्विद्यते येषां ते पाखण्डिनः। भनाश्रिताः अधिकारे सत्यप्यकृताश्रमविशेषपरिग्रहाः । स्तेनाः सुवर्णाद्युत्तमद्रव्यहारिणः । भर्तृभ्यः पतिघातिन्यः । कामगाः कुलटाः । आदिग्रहणारस्वगर्भब्राह्मणघातिन्यो गृह्यन्ते । सुराप्यो यासां या सुरा प्रतिषिद्धा तत्पानरताः । आत्मत्यागिन्यः विषाग्युदकोद्वन्धनाचैरात्मानं यास्त्यजन्ति । एते पाखण्ड्यादयः 'त्रिरात्रं दशरानं वा' इति वक्ष्यमाणस्याशौचस्योदकदानाद्यौर्ध्वदेहिकस्य च भाजना न भवन्ति । भाजयन्तीति भाजनाः सपिण्डादीनामाशौचादिनिमित्तभूता न भव. न्ति । अतस्तन्मरणे सपिण्डैरुदकदानादि न कार्यमित्येतत्प्रतिपादनपरं वचनम् । अत्र च सुराप्य इत्यादिषु लिङ्गमविवक्षितम् । -'लिङ्ग च वचनं देशः कालोऽयं कर्मणः फलम् । मीमांसाकुशलाः प्राहुरनुपादेयपञ्चकम् ॥' इत्यनुपादेयगतत्वात् । एतच्च बुद्धिपूर्वविषयम् । यथाह गौतमः-'प्रायोऽनाशकशस्त्राग्निविपोदकोद्वन्धनप्रपतनैश्चेच्छताम्' इति । प्रायो महाप्रस्थानम् । अनाशकमनशनम् । गिरिशिखरादवपातः प्रपतनम् । अत्र चेच्छतामिति विशेषणोपादानात्प्रमादकृत्ये दोषो नास्तीत्यवगन्तव्यम् ।-'अथ कश्चित्प्रमादेन म्रियेतान्युदकादिभिः । तस्याशौचं विधातव्यं कर्तव्या चोदकक्रिया ॥' इति अङ्गिरःस्मरणात् ॥ तथा मृत्युविशेषादपि आशौचादिनिषेधः-'चाण्डालादुदकात्सद्राह्मणाद्वैधुता. दपि । दंष्ट्रिभ्यश्च पशुभ्यश्च मरणं पापकर्मिणाम् ॥ उदकं पिण्डदानं च प्रेतेभ्यो यत्प्रदीयते । नोपतिष्ठति तत्सर्वमन्तरिक्षे विनश्यति ॥' इति । एतदपीच्छापू. र्वमात्महननविषयम् । गौतमवचनेनेच्छापूर्वकमेवोदकेन हतस्याशौचादिनिषेधस्योक्तत्वात् । अत्रापि 'चण्डालादुदकासादिति तत्साहचर्यदर्शनाद्बुद्धिपूर्वविषयत्वनिश्चयः । अतो दर्पादिना चण्डालादीन्हन्तुं गतो यस्तैारितस्तस्यायं सर्वत एवात्मानं गोपायेदिति विध्यतिक्रमनिमित्तः पिण्डदानादिनिषेधः । एवं दुष्टदंष्ट्रयादिग्रहणार्थमाभिमुख्येन दर्पाद्गच्छतो मरणेऽप्ययं निषेध इत्यनुसंधेयम् । अयं चाशौचप्रतिषेधो दशाहादिकालावच्छिन्नस्य । 'हतानां नृपगोविगैरन्वक्षं चात्मघातिनाम्' इति सद्यःशौचस्य वक्ष्यमाणत्वात् । तथा दाहादिकमप्येषां न कार्यम्-'नाशौचं नोदकं नाश्रु न दाहाद्यन्त्यकर्म च । ब्रह्मदण्डहतानां च न कुर्यात्कटधारणम् ॥' इति यमस्मरणात् । ब्रह्मदण्डहता ब्राह्मणदण्डहताः । प्रेतवहनसाधनं खट्टादि कटशब्देनोच्यते । न चाहिताग्निमग्निभिर्दहन्ति यज्ञपात्रैश्चेत्येतत् श्रुतिविहिताग्नियज्ञपात्रादिप्रतिपत्तिलोपप्रसङ्गात् अयं स्मार्तो दाहादिनिषेधो विप्रादिहताहिताग्निविषयं नास्कन्दतीत्याशङ्कनीयम् । यतश्चण्डालादिहताहिताग्निसंबन्धिनामग्मियज्ञपात्राणां स्मृत्यन्तरे प्रतिपत्त्यन्तरं विधीयते। 'वैतानं प्रक्षिपेदप्सु आवसथ्यं चतुष्पथे। पात्राणि तु दहेदग्नौ यजमाने वृथा मृते॥ इति । तथा तच्छरीरस्यापि प्रतिपत्त्यन्तरमुक्तम्-'आत्मनस्त्यागिनां नास्ति पतितानां तथा क्रिया । तेषामपि तथा गङ्गातोये संस्थापनं हितम् ॥' इति स्मरणात् । तस्मादविशेषेण सर्वेषां दहनादिनिषेधः । अतः स्नेहादिना निषेधातिक्रमे प्राय. १ इदं पधं क. ग. पुस्तकयो स्ति.
For Private And Personal Use Only
Page #331
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आशौचप्रकरणम् १] मिताक्षरासहिता ।
२९९
श्चित्तं कर्मव्यम् | 'कृत्वाग्निमुदकं स्नानं स्पर्शनं वहनं कथाम् । रज्जुच्छेदाश्रुपातं च तप्तकृच्छ्रेण शुद्ध्यति ॥' इति स्मरणात् । एतच्च प्रत्येकं बुद्धिपूर्वके वेदितव्यम् । अबुद्धिपूर्वकरणे तु 'एषामन्यतमं प्रेतं यो वहेत दहेत वा । कटोदकक्रियां कृत्वा कृच्छ्रं सान्तपनं चरेत् ॥' इति संवर्तोक्तं द्रष्टव्यम् ॥ यः पुनः 'तच्छवं केवलं स्पृष्टमश्रु वा पातितं यदि । पूर्वोक्तानामकारी चेदेकरात्रमभोजनम् ॥' इति स्पर्शाश्रुपातयोरुपवास उक्तः ॥ असौ कृच्छ्रेष्वशक्तस्य तथा 'बन्धनच्छेदने दहने वा मासं भैक्षाहारस्त्रिषवणं च' इति सुमन्तुना भैक्षाशित्वमुक्तं तदप्यशक्तस्यैव । एवमन्यान्यपि तद्विषयाणि स्मृतिवाक्यानि व्यवस्थापनीयानि । अयं च दाहादिप्रतिषेधो नित्यकर्मानुष्ठानासमर्थजीर्णवानप्रस्थादिव्यतिरिक्तविषयः तेषामभ्यनुज्ञा दर्शनात् । 'वृद्धः शौचस्मृतेर्लुप्तः प्रत्याख्यातभिषक्क्रियः । आत्मानं घातयेद्यस्तु भृग्वश्यनशनाम्बुभिः ॥ तस्य त्रिरात्रमाशौचं द्वितीये वस्थिसंचयः । तृतीये तूदकं कृत्वा चतुर्थे श्राद्धमाचरेत् ॥' इति स्मरणात् ॥
एवं येन येनोपाधिना आत्महननं शास्त्रतोऽभ्यनुज्ञायते तत्तद्व्यतिरिक्तमार्गेणात्महनने श्राद्धाद्यौर्ध्वदेहिकेषु निषिद्धेषु किं पुनस्तेषां कार्यमित्यपेक्षायां वृद्धयाज्ञवल्क्यछागलेयाभ्यामुक्तम्- 'नारायणबलिः कार्यों लोकगर्हाभयान्नरैः । तथा तेषां भवेच्छौचं नान्यथेत्यब्रवीद्यमः ॥ तस्मात्तेभ्योऽपि दातव्यमन्नमेव सदक्षिणम् ॥' इति ॥ व्यासेनाप्युक्तम्- 'नारायणं समुद्दिश्य शिवं वा यत्प्रदीयते । तस्य शुद्धिकरं कर्म तद्भवेनैतदन्यथा' इति ॥' एवं नारायणबलिः प्रेतस्य शुद्ध्यापादनद्वारेण श्राद्धादिसंप्रदानत्वे योग्यतां जनयतीति और्ध्वदेहिकमपि सर्व कार्यमेव । अतएव पटूत्रिंशन्मतेऽपि और्ध्वदेहिकस्याभ्यनुज्ञा दृश्यते - 'गोब्राह्मणहतानां च पतितानां तथैव च । ऊर्ध्वं संवत्सरात्कुर्यात्सर्वमेवौधर्ध्वदेहिकम् ॥' इति । एवं संवत्सरादूर्ध्वमेव नारायणबलिं कृत्वौर्ध्वदेहिकं कार्यम् ॥
नारायणबलिश्चेत्थं कार्यः । कस्यांचिच्छुक्कैकादश्यां विष्णुं वैवस्वतं यमं च यथावदभ्यर्च्य तत्समीपे मधुघृतप्लुतांस्तिलमिश्रान्दश पिण्डान्विष्णुरूपिणं प्रेतमनुस्मरन् प्रेतनामगोत्रे उच्चार्य दक्षिणाग्रेषु दर्भेषु दक्षिणाभिमुखो दत्त्वा गन्धादिभिरभ्यर्च्य पिण्डप्रवाहणान्तं कृत्वा नद्यां क्षिपेत् न पत्यादिभ्यो दद्यात् ॥ ततस्तस्यामेव राज्यामयुग्मान्ब्राह्मणानामन्त्रयोपोषितः श्वोभूते मध्याह्ने विष्ण्वाराधनं कृत्वा एकोद्दिष्टविधिना ब्राह्मणपादप्रक्षालनादितृतिप्रश्नान्तं कृत्वा पिण्डपितृयज्ञावृतोल्लेखनाद्यवनेजनान्तं तूष्णीं कृत्वा विष्णवे ब्रह्मणे शिवाय यमाय च परिवारसहिताय चतुरः पिण्डान्दत्त्वा नामगोत्रसहितं प्रेतं संस्मृत्य विष्णोनाम संकीर्त्य पञ्चमं पिण्डं दद्यात् । ततो विप्रानाचान्तान्दक्षिणाभिस्तो पयित्वा तन्मध्ये चैकं गुणवत्तमं प्रेतबुद्ध्या संस्मरन् गोभूहिरण्यादिभिरतिशयेन संतोष्य ततः पवित्रपाणिमिर्विप्रैः प्रेताय तिलादिसहितमुदकं दापयित्वा स्वजनैः सार्धं भुञ्जीत ॥
सर्पहते त्वयं विशेषः । संवत्सरं यावत्पुराणोक्तविधिना पञ्चम्यां नागपू१ पूर्वेव वेदितव्यम् ख.
For Private And Personal Use Only
Page #332
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३००
याज्ञवल्क्यस्मृतिः।
[प्रायश्चित्ताध्यायः
जां विधाय पूर्ण संवत्सरे नारायणबलिं कृत्वा सौवर्ण नागं दद्यात् गां च प्रत्यक्षाम् । ततः सर्वमौर्ध्वदेहिकं कुर्यात् ।
नारायणवलिस्वरूपं च वैष्णवेऽभिहितं यथा ।-'एकादशी समासाद्य शुक्लपक्षस्य वै तिथिम् । विष्णुं समर्चयेद्देवं यमं वैवस्वतं तथा ॥ दश पिण्डान्धृताभ्यक्तान्दर्भेषु मनुसंयुतान् । तिलमिश्रान्प्रदद्यादै संयतो दक्षिणामुखः ॥ विष्णुं बुद्धौ समासाद्य नद्यम्भसि ततः क्षिपेत् । नामगोत्रग्रहं तत्र पुष्पैरभ्यर्चनं तथा ॥ धूपदीपप्रदानं च भक्ष्यं भोज्यं तथा परम् । निमन्त्रयेत विप्रान्दै पञ्च सप्त नवापि वा ॥ विद्यातपःसमृद्धान्वै कुलोत्पन्नान्समाहितान् । अपरेऽहनि संप्राप्ते मध्याह्ने समुपोषितः ॥ विष्णोरभ्यर्चनं कृत्वा विप्रास्तानुपवेशयेत् । उद. मुखान्यथाज्येष्टं पितृरूपमनुस्मरन् ॥ मनो निवेश्य विष्णौ वै सर्व कुर्यादतन्द्रितः । आवाहनादि यत्प्रोक्तं देवपूर्वं तदाचरेत् ॥ तृप्तान्ज्ञात्वा ततो विनांस्तृप्ति पृष्ट्वा यथाविधि । हविष्यव्यनेनैव तिलादिसहितेन च ॥ पञ्च पिण्डान्प्रदद्याच्च देवेरूपमनुस्मरन् । प्रथमं विष्णवे दद्याद्ब्रह्मणे च शिवाय च ॥ यमाय सानुचराय चतुर्थ पिण्डमुत्सृजेत् । मृतं संकीर्त्य मनसा गोत्रपूर्वमतः परम् । विष्णोर्नाम गृहीत्वैवं पञ्चमं पूर्ववक्षिपेत् ॥ विपानाचम्य विधिवदक्षिणाभिः समर्चयेत् । एक वृद्धतमं विप्रं हिरण्येन समर्चयेत् ॥ गवा वस्त्रेण भूम्या च प्रेतं तं मनसा स्मरन् । ततस्तिलाम्भो विप्रास्तु हस्तैर्दर्भसमन्वितैः ॥ क्षिपेयुर्गोत्रपूर्वं तु नाम बुद्धौ निवेश्य च । हविर्गन्धतिलाम्भस्तु तस्मै दधुः समाहिताः ॥ मित्रभृत्यजनैः सार्धे पश्चाद्भुञ्जीत वाग्यतः ॥ एवं विष्णुमते स्थित्वा यो दद्यादात्मधातिने । समुद्धरति तं क्षिप्रं नात्र कार्या विचारणा ॥' सर्पदंशनिमित्तं सौव
नागदानं प्रतिकृतिरूपेण भविष्यत्पुराणे सुमन्तुनाभिहितम्--'सुवर्णभारनिष्पन्न नागं कृत्वा तथैव गाम् । व्यासाय दत्त्वा विधिवत्पितुरानृण्यमामुयात् ॥' इति ॥ ६ ॥ एवमुदकदानं सापवादमभिधायानन्तरं किं कार्यमित्यत आह
कृतोदकान्समुत्तीर्णान्मृदुशाद्वलसंस्थितान् ।
स्नातानपवदेयुस्तानितिहासैः पुरातनैः ॥ ७ ॥ कृतमुदकदानं यैस्तान्कृतोदकान् स्नातान्सम्यगुदकादुत्तीर्णान्मृदुशाहले नवोगततृणचयावृतभूभागे सम्यस्थितान्पुत्रादीन्कुलवृद्धाः पुरातनैरितिहासैर्वक्ष्यमाणैरपवदेयुः शोकनिरसनसमथैर्वचोभिर्बोधयेयुः ॥ ७ ॥ शोकनिरसनसमर्थेतिहासस्वरूपमाह
मानुष्ये कदलीस्तम्भनिःसारे सारमार्गणम् ।
करोति यः स संमूढो जलबुद्धदसंनिभे ॥ ८॥ मनुष्यशब्देन जरायुजाण्डजादिचतुर्विधभूतजातं लक्ष्यते तस्य भावो मानुष्यं १ अर्चयेदेवदेवेशं क. २ दैवं रूपं ख. ३ सानुचाराय क. ङ. ४ विप्रेणाचम्य क.
For Private And Personal Use Only
Page #333
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आशौचप्रकरणम् १ ]
मिताक्षरासहिता ।
तत्र संसरणधर्मित्वेन कदली स्तम्भवदन्तःसाररहिते जलबुदुदवदचिरविनश्वरे संसारे सारस्य स्थिरस्य मार्गणमन्वेषणं यः करोति स संमूढः अत्यन्त विनष्टचित्तः तस्मात्संसारस्वरूपवेदिभिर्भवद्भिरित्थं न कार्यम् ॥ ८ ॥
३०१
पञ्चधा संभृतः कायो यदि पञ्चत्वमागतः ।
कर्मभिः खशरीरोत्थैस्तत्र का परिदेवना ॥ ९॥
किंच । जन्मान्तरात्मीयशरीरजनितैः कर्मबीजैः स्वफलोपभोगार्थं पञ्चधा पृथिव्यादिपञ्चभूतात्मकतया पञ्चप्रकारं संभृतो निर्मितः कायः स यदि फलोपभोगनिवृत्तौ पञ्चत्वमागतः पुनः पृथिव्यादिरूपतां प्राप्तस्तत्र भवतां किमर्था परिदेवना । निष्प्रयोजनत्वान्नानुशोचनं कर्तव्यम् । वस्तुस्थितेस्तथात्वात् । नहि केनचिद्वस्तुस्थितिरतिक्रमितुं शक्यते ॥ ९ ॥
गत्री वसुमती नाशमुदधिदैवतानि च ।
फेनप्रख्यः कथं नाशं मर्त्यलोको न यास्यति ॥ १० ॥
अपिच । नेदमाश्चर्य मरणं नाम । यतः पृथिव्यादीनि महान्त्यपि भूतानि नाशं गच्छन्ति । तथा समुद्रा अपि जरामरणविरहिणः, अमरा अपि प्रलयसमये अवसानं गच्छन्ति, कथमिवाऽस्थिरतया फेनसंनिभो मरणधर्मा भूतसंघो विनाशं न यास्यति । उचितमेव हि मरणधर्मिणः प्रयाणम् । अतो निष्प्रयोजनः शोकसमावेशः ॥ १० ॥
अनिष्टापादकत्वादप्यनुशोचनं न कार्यमित्याह -
श्लेष्मा बान्धवैर्मुक्तं प्रेतो मुझे यतोऽवशः ।
अतो न रोदितव्यं हि क्रियाः कार्याः स्वशक्तितः ॥ ११ ॥ यस्मादनुशोचद्भिर्बान्धवैर्वदननयन निर्गमितं श्लेष्माश्रु वा यस्मादवशोऽकामोsपि प्रेतो भुङ्क्ते तस्मान्न रोदितव्यं किंतु प्रेतहितेप्सुभिः स्वशक्त्यनुसारेण श्राद्धादिक्रियाः कार्याः ॥ ११ ॥
इति संश्रुत्य गच्छेयुर्गृहं बालपुरःसराः ।
विदश्य निम्बपत्राणि नियता द्वारि वेश्मनः ॥ १२ ॥ आचम्याश्यादि सलिलं गोमयं गौरसर्पपान | प्रविशेयुः समालभ्य कृत्वाश्मनि पदं शनैः ॥ १३ ॥
एवं कुलवृद्धवचांसि सम्यगाकर्ण्य त्यक्तशोकाः सन्तो बालानग्रतः कृत्वा गृहं गच्छेयुः । गत्वा च वेश्मनो द्वारि स्थित्वा नियता । संयतमनस्काः निम्बपत्राणि विदश्य दशनैः खण्डयित्वा खादित्वा आचमनं च कृत्वान्युदकगोमयगौरसर्षपानालभ्य आदिग्रहणाद्दूर्वा प्रवालमनिवृषभौ वेति शङ्खोक्तौ दूर्वाङ्कुरवृषभावपि स्पृष्ट्वा अश्मनि च पदं निधाय शनैरस्खलितं बेश्म प्रविशेयुः ॥ १२ ॥ १३ ॥
For Private And Personal Use Only
Page #334
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३०२
याज्ञवल्क्यस्मृतिः
[प्रायश्चित्ताध्यायः
अतिदेशादाह
प्रवेशनादिकं कर्म प्रेतसंस्पर्शिनामपि ।
इच्छतां तत्क्षणाच्छुद्धिः परेषां स्नानसंयमात् ॥ १४ ॥ यदेतत्पूर्वोक्तं निम्बपत्रदशनादि वेश्मप्रवेशनान्तं कर्म तन्न केवलं ज्ञातीना. मपि तु परेषामपि धर्मार्थ प्रेतालंकारनिर्हरणादिकं कुर्वतां भवति । प्रवेशनादिकमित्यत्र आदिशब्दोऽमाङ्गलिकत्वात्प्रतिलोमक्रमामिप्रायः। तेषां च धर्मार्थ निहरणादौ प्रवृत्तानां तत्क्षणाच्छुद्धिमिच्छतां असपिण्डानां स्नानप्राणायामाभ्यामेव शुद्धिः। यथाह पराशर:-'अनाथं ब्राह्मणं प्रेतं ये वहन्ति द्विजातयः। पदेपदे यज्ञफलमनुपूर्व लभन्ति ते ॥ न तेषामशुभं किंचित्पापं वा शुभकर्मणाम् । जलावगाहनात्तेषां सद्यः शौचं विधीयते ॥' इति ॥ स्नेहादिना निर्हरणे तु मनूक्तो विशेषः (५।१०१।१०२)-'असपिण्डं द्विजं प्रेतं विप्रो निहत्य बन्धुवत् । विशुध्यति त्रिरात्रेण मातुराप्तांश्च बान्धवान् ॥ यद्यन्नमत्ति तेषां तु दशाहेनैव शुध्यति । अनदन्नन्नमहैव न चेत्तस्मिन्गृहे वसेत् ॥' इति ॥ अत्रेयं व्यवस्था-यः स्नेहादिना शवनिहरणं कृत्वा तदीयमेवान्नमश्नाति तद्गृहे च वस. ति तस्य दशाहेनैव शुद्धिः । यस्तु केवलं तद्गृहे वसति न पुनस्तदन्नमश्नाति तस्य त्रिरात्रम् । यः पुनर्निर्हरणमात्रं करोति न तद्हे वसति न च तदन्नमश्नाति तस्यैकाह इति ॥ एतत्सजातीयविषयम् । विजातीयविषये पुनर्यजातीयं प्रेतं निहरति तजातिप्रयुक्तमाशौचं कार्यम् । यथाहगौतमः-'अवरश्चेद्वर्णः पूर्व वर्णमुपस्पृशेत्पूर्वो वाऽवरं तत्र तच्छवोक्तमाशौचम्' इति ॥ उपस्पर्शनं निर्हरणम् । विप्रस्य शूद्रनिर्हरणे मासमाशौचम् । शूद्रस्य तु विप्रनिर्हरणे दशरात्रमित्येवं शववदाशौचं कर्तव्यमित्यर्थः ॥ १४ ॥ ब्रह्मचारिणं प्रत्याह
आचार्यपित्रुपाध्यायानिहत्यापि व्रतीव्रती ।
सकटान्नं च नाश्नीयान च तैः सह संवसेत् ॥ १५ ॥ आचार्य उक्तलक्षणः, माता च पिता च पितरौ, उपाध्यायश्च पूर्वोक्तः, एतानिर्हत्यापि व्रती ब्रह्मचारी व्रत्येव न पुनरस्य व्रतभ्रंशः । कटशब्देनाशौचं लक्ष्यते तत्सहचरितमन्नं सकटान्नं तद्ब्रह्मचारी नाश्नीयात् । न चाशौचिभिः सह संवसेत् । एवं वदता आचार्यादिव्यतिरिक्तप्रेतनिर्हरणे तु ब्रह्मचारिणो व्रतलोप इत्य
र्थादुक्तं भवति । अतएव वसिष्टेनोक्तम्-'ब्रह्मचारिणः शवकर्मिणो व्रतान्नि. वृत्तिरन्यत्र मातापित्रोः' इति ॥ १५॥ आशौचिनां नियमविशेषमाह
क्रीतलब्धाशना भूमौ स्खपेयुस्ते पृथक् क्षितौ । १ तत्क्षणाच्छुद्धिं ङ. २ पृथक्पृथक्. ख.
For Private And Personal Use Only
Page #335
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आशौचप्रकरणम् १]
मिताक्षरासहिता।
पिण्डयज्ञावृता देयं प्रेतायानं दिनत्रयम् ॥ १६ ॥ क्रीतमयाचितलब्धं वा अशनं येषां ते क्रीतलब्धाशनाः । भवेयुरिति शेषः । क्रीतलब्धाशननियमात्तदलाभेऽनशनमात्सिद्धं भवति । अतएव वसिष्ठः'गृहान्वजित्वा अधःप्रस्तरे श्यहमनश्नन्त आसीरन् क्रीतोत्पन्नेन वर्तेरन्' इति । अधःप्रस्तर आशौचिनां शयनासनार्थस्तृणमयः प्रस्तरः । ते च सपिण्डा भूमावेव पृथक्पृथक् शयीरन् न खट्टादौ ॥ मनुनाप्यत्र विशेषो दर्शितः (५।७३) -'भक्षारलवणानाः स्युनिमजेयुश्च ते व्यहम् । मांसाशनं च नाभीयुः शयीरंश्व पृथक् क्षितौ ॥' इति । तथा गौतमेनापि विशेष उक्तः–'अधःशय्याशायिनो ब्रह्मचारिणः शवकर्मिणः' इति । तथा पिण्डपितृयज्ञप्रक्रियया प्राचीनावीतित्वादिरूपया प्रेताय दिनत्रयं पिण्डरूपमन्नं तूष्णीं क्षितौ देयम् । यथाह मरीचिः-'प्रेतपिण्डं बहिर्दद्याद्दर्भमन्त्रविवर्जितम् । प्रागुदीच्यां चरुं कृत्वा नातः प्रय. तमानसः ॥' इति । दर्भमत्रविवर्जितत्वमनुपनीतविषयम् । 'असंस्कृतानां भूमौ पिण्डं दद्यारसंस्कृतानां कुशेषु' इति प्रचेतःस्मरणात् ॥ तथा कर्तृनिय. मश्च गृह्यपरिशिष्टाद्विज्ञेयः-'असगोत्रः सगोत्रो वा यदि स्त्री यदि वा पुमान् । प्रथमेऽहनि यो दद्यात्स दशाहं समापयेत् ॥' इति ॥ तथा द्रव्यविनियमश्च शुनःपुच्छेन दर्शितः- 'शालिना सक्तुभिर्वापि शाकैर्वाप्यथ निर्वपेत् । प्रथमेऽहनि यद्व्यं तदेव स्थाद्दशाहिकम् ॥ तूष्णीं प्रसेकं पुष्पं च दीपं धूपं तथैव च॥ इति ॥ पिण्डश्च पाषाणे देयः । 'भूमौ माल्यं पिण्डं पानीयमुपले वा दद्युः' इति शङ्खस्मरणात् । नच दद्युरिति बहुवचनेनोदकदानवत्सर्वैः पिण्डदानं कार्यमित्याशङ्कनीयं । किंतु पुत्रेणैव कार्यम् । तदभावे प्रत्यासन्नेन सपिण्डानामन्यतमेन तदभावे मातृसपिण्डादिना कार्यम् । 'पुत्राभावे सपिण्डा मातृ. सपिण्डाः शिप्याश्च दद्युस्तदभावे ऋत्विगाचायौं' इति गौतमस्मरणात् । पुत्रबहुत्वे पुनज्येष्ठेनैव कार्यम् । 'सर्वैरनुमतिं कृत्वा ज्येष्ठेनैव तु यत्कृतम् । द्रव्येण चाविभक्तेन सवैरेव कृतं भवेत् ॥' इति मरीचिस्मरणात् ॥ पिण्डसंख्यानि यमश्च-ब्राह्मणस्य दश पिण्डाः क्षत्रियस्य द्वादशैवेति । एवमाशौचदिवससंख्यया विष्णुनाभिहितम्-'यावदाशौचं प्रेतस्योदकं पिण्डमेकं च दद्युः' इति ॥ तथा स्मृत्यन्तरेऽपि-'नवनिर्दिवसर्दद्यान्नव पिण्डान्समाहितः । दशमं पिण्डमुत्सृज्य रात्रिशेषे शुचिर्भवेत् ॥' इति शुचित्ववचनमपरेछुः क्रियमाणश्राद्धार्थब्राह्मणनिमन्त्रणाभिप्रायेण । योगीश्वरेण तु पिण्डत्रयदानमभिहितं अनयोश्च गुरुलघुकल्पयोरुदकदानविषयोक्ता व्यवस्था विज्ञेया । अत्रापरः शातातपीयो विशेष:--'आशौचस्य तु हासेऽपि पिण्डान्दद्याद्दशैव तु' इति ॥ त्रिरात्राशौ• चिनां पुनः पारस्करण विशेषो दर्शितः-'प्रथमे दिवसे देयास्त्रयः पिण्डाः समाहितैः । द्वितीये चतुरो दद्यादस्थिसंचयनं तथा ॥ त्रीस्तु दद्यात्तृतीयेऽह्नि वस्त्रादि क्षालयेत्तथा' इति ॥ १६ ॥ १रिणः सर्व इति क.
For Private And Personal Use Only
Page #336
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
३०४
Acharya Shri Kailassagarsuri Gyanmandir
याज्ञवल्क्यस्मृतिः ।
जलमेकाहमाकाशे स्थाप्यं क्षीरं च मृन्मये ।
किंच । जलं क्षीरं च मृन्मये पात्रद्वये पृथक् पृथगाकाशे शिक्यादावेकाह स्थापनीयम् । अत्र विशेषानुपादानात्प्रथमेऽहनि कार्यम् । तथा पारस्करवचनात् । ' प्रेतात्र स्त्राहीत्युदकं स्थाप्यं पिब चेदमिति क्षीरम्' ॥ तथास्थिसंचयनं च प्रथमादिदिनेषु कार्यम् । तथाह संवर्तः - 'प्रथमेऽह्नि तृतीये वा सप्तमे नवमे तथा । अस्थिसंचयनं कार्य दिने तगोत्रजैः सह ॥' इति । क्वचिद्वितीये स्वस्थि संचय इत्युक्तम् । वैष्णवे तु चतुर्थे दिवसेऽस्थिसंचयनं कुर्यात् तेषां च गङ्गाम्भसि प्रक्षेप इति । अतोऽन्यतमस्मिन्दिने स्वगृह्येोक्तविधिनास्थिसंचयनं कार्यम् । अङ्गिरसा चात्र विशेषो दर्शितः – 'अस्थि संचयने यागो देवानां परिकीर्तितः । प्रतीभूतं तमुद्दिश्य यः शुचिनं करोति चेत् ॥ देवतानां तु यजनं तं शपन्त्यथ देवताः ||' देवताश्चात्र श्मशानवासिन्यः तत्र पूर्वदग्धाः ' श्मशानवासिनो देवाः शवानां परिकीर्तिताः' इति तेनैवोक्तम् । अतस्तान्देवानचिरमृतं च प्रेतमुद्दिश्य धूपदीपादिभिः पिण्डरूपेण चान्नेन तत्र पूजा कार्येत्युक्तं भवति ॥ तथा वपनं च दशमेऽहनि कार्यम् - 'दशमेऽहनि संप्राप्ते स्त्रानं ग्रामाद्वहिर्भवेत् । तत्र त्याज्यानि वासांसि केशश्मश्रुनखानि च ॥' इति देवलस्मरणात् ॥ तथा स्मृत्यन्तरेऽपि –'द्वितीयेऽहनि कर्तव्यं क्षुरकर्म प्रयत्नतः । तृतीये पञ्चमे वापि सप्तमे वा प्रदानतः ॥ ' इति श्राद्धप्रदानादवगनियम इति यावत् । वपनं च केषामित्याकाङ्क्षायामापस्तम्बेनोक्तम्- 'अनुभाविनांच परिवापनम्' इति । अयमर्थः - शावं दुःखमनुभवन्तीत्यनुभाविनः सपिण्डास्तेषां चाविशेषेण वपनमुताल्पवयसामित्यपेक्षायामिदमेवोपतिष्ठते अनुभाविनां च परिवापनमिति । अनु पश्चाद्भवन्तीत्यनुभाविनोऽल्पवयसस्तेषां वपनमिति । अनुभाविनः पुत्रा इति केचिन्मन्यन्ते | ‘गङ्गायां भास्करक्षेत्रे मातापित्रोर्गुरोर्मृती । आधानकाले सोमे च वपनं सप्तसु स्मृतम् ॥' इति नियमदर्शनात् ॥
अशुचित्वेन सकलश्रौतस्मार्तकर्माधिकारनिवृत्तौ प्रसक्तायां केषुचिदभ्यनुज्ञानार्थमाह
[ प्रायश्चित्ताध्यायः
वैतानोपासनाः कार्याः क्रियाच श्रुतिचोदनात् ॥ १७ ॥
वितानोऽनीनां विस्तारस्तत्र भवा वैतानाः त्रेताग्निसाध्या अग्निहोत्रदर्शपूर्णमासाद्याः क्रिया उच्यन्ते । प्रतिदिनमुपास्यत इत्युपासनो गृह्याग्निस्तत्र भवा औपासना: सायंप्रातह मक्रिया उच्यन्ते । ता वैतानोपासना वैदिक्यः क्रियाः कार्याः । कथं वैदिकत्वमिति चेत् श्रुतिचोदनात् । तथाहि - ' यावज्जीवमग्निहोत्रं जुहुयात् ' इत्यादिश्रुतिभिरग्निहोत्रादीनां चोदना स्पष्टैव ॥ तथा 'अहरहः स्वाहा कुर्यादनाभावे केनचिदाकाष्ठात्' इति श्रुत्योपासन होमोऽपि चोद्यते । अत्र च श्रौतत्वविशेषणोपादानात्स्मार्तक्रियाणां दानादीनामननुष्ठानं गम्यते । अतएव वैयाघ्र
१ भूतपूर्वदग्धाः ङ. २ गुरौ मृते क. ३ बध्यते क.
For Private And Personal Use Only
Page #337
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आशौचप्रकरणम् १ ] मिताक्षरासहिता ।
पादेनोक्तम्-'स्मार्तकर्मपरित्यागो राहोरन्यत्र सूतके। श्रौते कर्मणि तत्कालं स्नातः शुद्धिमवामुयात् ॥' इति श्रौतानां च कार्यत्वाभिधानं नित्यनैमित्तिकाभिप्रायेण । यथाह पैठीनसिः-'नित्यानि विनिवर्तेरन्वैतानवजै शालाग्नौ
चैके' इति । नित्यानि विनिवर्तेरन्नित्यविशेषेण आवश्यकानां नित्यनैमित्तिकानां निवृत्तौ प्रसक्तायां वैतानवर्जमित्यग्नित्रयसाध्यावश्यकानां पर्युदासः । 'शालाग्नौ चैक' इति गृह्याग्नौ भवानामप्यावश्यकानां पाक्षिकः पर्युदास उक्तः। अतस्तेष्वाशौचं नास्त्येव । काम्यानां पुनः शौचाभावादननुष्ठानम् । मनुनाप्यनेनैवाभिप्रायेणोक्तम् (५।८४) 'प्रत्यूहेन्नाग्निषु क्रिया' इति । अग्निषु क्रिया न प्रत्यूहेदि. ति अनग्निसाध्यानां पञ्चमहायज्ञादीनां निवृत्तिः । अतएव संवर्तः–'होमं तत्र प्रकुर्वीत शुष्कानेन फलेन वा । पञ्चयज्ञविधानं तु न कुर्यान्मृत्युजन्मनोः ॥' इति । वैश्वदेवस्याग्निसाध्यत्वेऽपि वचनानिवृत्तिः । 'विप्रो दशाहमासीत वैश्वदेवविवर्जितः' इति तेनैवोक्तत्वात् ॥ 'सूतके कर्मणां त्यागः संध्यादीनां विधीयते' इति यद्यपि संध्याया विनिवृत्तिः श्रूयते तथाप्यालिप्रक्षेपादिकं कुर्यात् । सूतके सावित्र्या चाञ्जलिं प्रक्षिप्य प्रदक्षिणं कृत्वा सूर्यं ध्यायनमस्कुर्यात्' इति पैठीनसि स्मरणात् ॥ यद्यपि 'वैतानौपासनाः कार्या' इति सामान्येनोक्तं तथाप्यन्येन कारयितव्यम् । अन्य एतानि कुर्युः' इति पैठीनसिस्मरणात् । वृहस्पतिनाप्युक्तम्- 'सूतके मृतके चैव अशक्ती श्राद्धभोजने । प्रवासादिनिमित्तेषु हावयेन तु हापयेत् ॥' इति । तथा स्मार्तत्वेऽपि पिण्डपितृयज्ञश्रवणाकर्माश्वयुज्यादिकश्च नित्यहोमः कार्य एव । 'सूतके तु समुत्पन्ने स्मार्तं कर्म कथं भवेत् । पिण्डयज्ञं चरुहोममसगोत्रेण कारयेत् ॥' इति जातूकर्ण्यस्मरणात् । यद्यपि साङ्गे कर्मण्यन्यकर्तृत्वं तथापि स्वद्रव्यत्यागात्मकं प्रधानं स्वयं कुर्यात् । तस्यानन्यनिष्पाद्यत्वात् । अतएवोक्तम्-'श्रौते कर्मणि तत्कालं स्नातः शुद्धिमवामुयात्' इति। यत्पुनः 'दानं प्रतिग्रहो होमः स्वाध्यायश्च निवर्तते' इति होमप्रतिषेधः स काम्याभिप्रायो वैश्वदेवाभिप्रायो वा व्यवस्थापनीयः ॥ तथा सूतकान्नभोजनमपि न कार्यम् । 'उभयत्र दशाहानि कुलस्यान्नं न भुज्यते' इति यमस्मरणात् उभयत्र जननमरणयोः । दशाहानित्याशौचकालोपलक्षणम् । कुलस्य सूतकयुक्तस्य संबन्ध्यन्नं असकुल्यैर्न भोक्तव्यं । सकुल्यानां पुनर्न दोषः। 'सूतके तु कुलस्यान्नमदोषं मनुरब्रवीत्' इति तैनेवोक्तत्वात् । अयंच निषेधो दातृभोक्त्रोरन्यतरेण जनने मरणे वा ज्ञाते सति वेदितव्यः । 'उभाभ्यामपरिज्ञाते सूतकं नैव दोषकृत् । एकेनापि परिज्ञाते भोक्तुर्दोषमुपावहेत् ॥' इति षत्रिंशन्मतदशनात् ॥ तथा विवाहादिषु सूतकोत्पत्तेः प्राक् ब्राह्मणार्थ पृथकृतमन्नं भोक्तव्यमेव । 'विवाहोत्सवयज्ञेषु त्वन्तरा मृतसूतके । पूर्वसंकल्पितार्थेषु न दोषः परिकीर्तितः ॥' इति बृहस्पतिस्मरणात् । तथाऽपरोपि विशेषः षट्त्रिंशन्मते दर्शितः-'विवाहोत्सवयज्ञेषु त्वन्तरा मृतसूतके । परैरन्नं प्रदातव्यं भोक्तव्यं च द्विजोत्तमैः ॥ भुञ्जानेषु तु विप्रेषु त्वन्तरा मृतसूतके । अन्यगेहोदकाचान्ताः
For Private And Personal Use Only
Page #338
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
याज्ञवल्क्यस्मृतिः। [प्रायश्चित्ताध्याय:
सर्वे ते शुचयः स्मृताः ॥' इति ॥ तथाशौचपरिग्रहत्वेऽपि केषुचिद्रव्येषु दोषाभावः। यथाह मरीचिः-'लवणे मधुमांसे च पुष्पमूलफलेषु च । शाककाष्ठतृणेष्वप्सु दधिसर्पिःपयस्सु च ॥ तिलौषधाजिने चैव पक्कापक्के स्वयंग्रहः । पण्येषु चैव सर्वेषु नाशौचं मृतसूतके ॥' इति । पक्वं भक्ष्यजातं मोदकादि । अपक्कं तण्डुलादि । स्वयंग्रह इति स्वयमेव स्वाम्यनुज्ञातो गृह्णीयादित्यर्थः । पक्कापक्काभ्यनुज्ञानमन्नसत्रप्रवृत्तविषयम् । अन्नसत्रप्रवृत्तानामाममन्नमगर्हितम् । भुक्त्वा पक्वान्नमेतेषां त्रिरात्रं तु पयः पिबेत् ॥' इत्यङ्गिरःस्मरणात् । अत्र पक्वशब्दो भक्ष्यव्यतिरिक्तौदनादिविषयः ॥ शवसंसर्गनिमित्ताशौचे त्वङ्गिरसा विशेष उक्तः-'आशौचं यस्य संसर्गादापतेद्गहमेधिनः । क्रियास्तम्य न लुप्यन्ते गृह्याणां च न तद्भवेत् ॥' इति । तदाशौचं केवलं गृहमेधिन एव न पुनस्तद्हे भवानां भार्यादीनां तद्रव्यणां च भवेदित्यर्थः । अतिक्रान्ताशौचेऽप्ययमेवार्थः स्मृत्यन्तरे दर्शितः- 'अतिक्रान्ते दशाहे तु पश्चाजानाति चेद्गृही। त्रिरात्रं सूतकं तस्य न तद्रव्यस्य कर्हिचित् ॥' इति ॥ १७ ॥
एवमाशौचिनो विधिप्रतिषेधरूपान्धर्मानमिधायाधुना आशौचनिमित्तं कालनियमं चाह
त्रिरात्रं दशरात्रं वा शावमाशौचमिष्यते ।
ऊनद्विवर्ष उभयोः सूतकं मातुरेव हि ॥ ८॥ शवनिमित्तं शावम् । सूतकशब्देन च जननवाचिना तन्निमित्तमाशौचं लक्ष्यते। एवंच वदता जननमरणयोराशौचनिमित्तस्वमुक्तं भवति । तच्च जननमरणमुत्पन्नज्ञातमेव निमित्तम् । 'निर्दशं ज्ञातिमरणं श्रुत्वा पुत्रस्य जन्म च' इत्यादिलिङ्गदर्शनात् । तथा-'विगतं तु विदेशस्थं शृणुयाद्यो ह्यनिर्दशम् । यच्छेपं दशरात्रस्य तावदेवाशुचिर्भवेत् ॥' इत्यादिवाक्यारम्भसामर्थ्याच्च । उत्पत्तिमात्रापेक्षत्वे ह्याशौचस्य दशाहाद्याशौचकालनियमास्तत्तत्प्रभृतिका एवेति भनिदशज्ञातिमरणश्रवणे दशरात्रशेपमेवाशौचमर्था सिध्यतीति ‘यच्छेषं दशरात्र. स्य' इत्यनारम्भणीयं स्यात् । तस्माज्जातमेव जननं मरणं च निमित्तम् । तच्चोभयनिमित्तमप्याशौचं त्रिरात्रं दशरात्रं चेष्यते मन्वादिभिः ॥ अन्नाशौचप्रकरणे अहर्ग्रहणं रात्रिग्रहणं चाहोरात्रोपलक्षणार्थम् । मन्वादिभिरिष्यत इति वचनं तदुक्तसपिण्डसमानोदकरूपविषयभेदप्रदर्शनार्थम् ॥ तथाहि—'दशाहं शावमाशौचं सपिण्डेषु विधीयते । जननेऽप्येवमेव स्थानिपुणां शुद्धिमिच्छताम् ॥ जन्मन्येकोदकानां तु त्रिरात्राच्छुद्धिरिष्यते । शवस्पृशो विशुध्यन्ति त्र्यहातूदकदायिनः ॥ इत्येतैर्वाक्यस्त्रिरात्रदशरात्रयोः समानोदकसपिण्डविषयत्वेन व्यवस्था कृता । अतः सपिण्डानां सप्तमपुरुषावधिकानामविशेषेण दशरात्रम् । समानोदकानां त्रिरात्रमिति ॥ यत्पुनः स्मृत्यन्तरवचनम्-'चतुर्थे दशरात्रं
-
-
१ अनुज्ञातमन्नं ख.
For Private And Personal Use Only
Page #339
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आशौचप्रकरणम् १] मिताक्षरासहिता।
३०७ स्यात्पण्निशाः पुंसि पञ्चमे । षष्ठे चतुरहाच्छुद्धिः सप्तमे स्वहरेव तु ॥' इति तद्विगीतस्वाचादरणीयम् । यद्यप्यविगीतं तथापि मधुपर्काङ्गपश्वालम्भनवल्लोकविद्विष्टत्वानानुष्टेयम् । 'भस्वयं लोकविद्विष्टं धर्म्यमप्याचरेन तु' इति मनुस्मरणात् । नच सप्तमे प्रत्यासन्ने सपिण्ड एकाहो विप्रकृष्टाष्टमादिषु समानोदकेषु त्र्यहमिति युक्तम् । एवमविशेषेण सपिण्डानामाशौचे प्राप्ते क्वचिनियमार्थमाह। उनद्विवर्षे संस्थिते उभयोरेव मातापित्रोदशरात्रमाशौचं न सर्वेषां सपिण्डानाम् । तेषां तु वक्ष्यति 'आदन्तजननात्सद्यः' इति । तथाच पैङ्गयः-गर्भस्थे प्रेते मातुर्दशाह, जात उभयोः, कृते नाम्नि सोदराणां च' इति । अथवा अयमर्थः-उनद्विवर्षे संस्थिते उभयोर्मातापित्रोरेव अस्पृश्यत्वलक्षणमाशौचं न सपिण्डानाम् । तथा स्मृत्यन्तरे-'ऊनद्विवर्षे प्रेते मातापित्रोरेव नेतरेषाम्' इति अस्पृश्यत्वलक्षणमभिप्रेतम् । इतरस्य पुनः कर्मण्यनधिकारलक्षणस्य सपिण्डेष्वपि 'भादन्तजन्मनः सद्यः' इत्यादिभिर्विहितत्वात् । अत्र दृष्टान्तः-सूतकं मातुरेव हीति । यथा सूतकं जनननिमित्तमस्पृश्यत्वलक्षणमाशौचं मातुरेव केवलं तथो. नद्विवर्षापरमे मातापित्रोरेवास्पृश्यत्वमिति । उनद्विवर्षे सपिण्डानामस्पृश्यत्वं प्रतिषेधताऽन्यत्रास्पृश्यत्वमभ्यनुज्ञातं भवति । तथाच देवल:-'स्वाशौचकालाद्विज्ञेयं स्पर्शनं च त्रिभागतः । शूद्वविदक्षत्रविप्राणां यथाशास्त्रं प्रचोदितम् ॥' इति । एतच्चानुपनीतप्रयाणनिमित्ते अतिक्रान्ताशौचे च त्रिरात्रादौ वेदितव्यम् । उपनीतविषयेऽपि तेनैवोक्तम्-- 'दशाहादित्रिभागेन कृते संचयने क्रमात् । अगस्पर्शनमिच्छन्ति वर्णानां तस्वदर्शिनः ॥ त्रिचतुःपञ्चदशभिः स्पृश्या वर्णाः क्रमेण तु । भोज्यानो दशमिर्विप्रः शेषा द्वित्रिषडुत्तरैः ॥' इति । व्युत्तरैर्दशभिः घ्युत्तरादशभिः षडुत्तरैः पञ्चदशभिरिति द्रष्टव्यम् ॥ १८ ॥ जनननिमित्तमस्पृश्यत्वलक्षणमाशौचमाह
पित्रोस्तु सूतकं मातुस्तदमृग्दर्शनाद्भुवम् ।
तदहर्न प्रदुष्येत पूर्वेषां जन्मकारणात् ॥ १९ ॥ सूतकं जनननिमित्तमस्पृश्यत्वलक्षणमाशौचं पित्रोर्मातापित्रोरेव न सर्वेषां सपिण्डानाम् । तच्चास्पृश्यत्वं मातुर्बुवं दशाहपर्यन्तं स्थिरमित्यर्थः । कुतः । तदसृग्दर्शनात् । तस्याः संबन्धित्वेनासृजो दर्शनात् ॥ अतएव वसिष्ठः-'नाशौचं विद्यते पुंसः संसर्ग चेन्न गच्छति । रजस्तत्राशुचि ज्ञेयं तच्च पुंसि न विद्यते ॥' इति । पितुस्तु ध्रुवं न भवति सानमात्रेणास्पृश्यत्वं निवर्तते । यथाह संवतः-'जाते पुत्रे पितुः स्नानं सचैलं तु विधीयते । माता शुद्ध्येद्दशाहेन स्वानात्तु स्पर्शनं पितुः ॥' इति । माता शुद्ध्येद्दशाहेनेत्येतच्च संव्यवहारयोग्यतामात्रम् । अदृष्टार्थेषु पुनः कर्मसु पैठीनसिना विशेष उक्तः-'सूतिका पुत्रवती विंशतिरात्रेण कर्माणि कारयेत् । मासेन स्त्रीजननीम्' इति ॥ अङ्गिरसा च सपिण्डानामस्पृश्यत्वाभावः स्पष्टीकृतः-'सूतके सूतिकावयं संस्पर्शो न नि. १ इदं वचनं पूर्वमाचाराध्याये आलोचनीयम्. .
या. २९
For Private And Personal Use Only
Page #340
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३०८
याज्ञवल्क्यस्मृतिः। [प्रायश्चित्ताध्यायः विध्यते । संस्पर्श सूतिकायास्तु स्नानमेव विधीयते ॥' इति । यस्मिन्दिवसे कुमारजननं तदहन प्रदुष्येत । तन्निमित्तदानाद्यधिकारापहारकृन्न भवतीत्यर्थः । यसात्तस्मिन्नहनि पूर्वेषां पित्रादीनां पुत्ररूपेण जन्म उत्पत्तिस्तस्मात्तदहर्न प्रदुष्येत ॥ तथाच वृद्धयाज्ञवल्क्येनोक्तम्-'कुमारजन्मदिवसे विप्रैः कार्यः प्रतिग्रहः । हिरण्यभूगवावाजवासःशय्यासनादिषु ॥ तत्र सर्व प्रतिग्राह्यं कृतान्नं नतु भक्षयेत् । भक्षयित्वा तु तन्मोहाद्विजश्वान्द्रायणं चरेत् ॥' इति ॥ व्यासेनाप्यत्र विशेष उक्तः-'सूतिकावासनिलया जन्मदा नाम देवताः । तासां यागनिमित्तं तु शुचिर्जन्मनि कीर्तिता ॥ प्रथमे दिवसे षष्ठे दशमे चैव सर्वदा । त्रिष्वेतेषु न कुर्वीत सूतकं पुत्रजन्मनि ॥' मार्कण्डेयेनाप्युक्तम्-'रक्षणीया तथा षष्ठी निशा तत्र विशेषतः । रात्री जागरणं कार्य जन्मदानां तथा बलिः ॥ पुरुषाः शस्त्रहस्ताश्च नृत्यगीतैश्च योषितः । रात्रौ जागरणं कुर्युर्दशम्यां चैव सूतके ॥' इति ॥ १९ ॥ __ आशौचमध्ये पुनर्जनने मरणे वा जाते 'प्रतिनिमित्तं नैमित्तिकमावर्तते' इति न्यायेन पुनर्दशाहाद्याशौचप्राप्तौ तदपवादमाह
अन्तरा जन्ममरणे शेषाहोभिर्विशुद्ध्यति । वर्णापेक्षया वयोवस्थापेक्षया वा यस्य यावानाशौचकालस्तदन्तरा तत्समस्य ततो न्यूनस्य वाशौचस्य निमित्तभूते जनने मरणे वा जाते पूर्वाशौचावशिष्टैरेवाहोभिर्विशुद्ध्यति । न पुनः पश्चादुत्पन्न जननादिनिमित्तं पृथक्पृथगाशौचं कार्यम् ॥ यदा पुनरल्पाद्वर्तमानाशौचाद्दीर्घकालनाशौचमन्तरा पतति तदा न पूर्वशेषेण शुद्धिः। यथाहोशना-'स्वल्पाशौचस्य मध्ये तु दीर्घाशौचं भवेद्यदि । न पूर्वेण विशुद्धिः स्यात्स्वकालेनैव शुद्ध्यति ॥' इति । यमोऽप्याह-'अधवृद्धिमदाशौचं पश्चिमेन समापयेत्' इति । अत्र चान्तरा जन्ममरणे इति ययप्यविशेषेणाभिहितं तथापि न सूतकान्तर्वर्तिनः शावस्य पूर्वाशौचशेषेण शुद्धिः । यथाहाङ्गिराः-'सूतके मृतकं चेत्स्यान्मृतके त्वथ सूतकम् । तत्राधिकृत्य मृतकं शौचं कुर्यान्न सूतकम् ॥' इति । तथा षट्त्रिंशन्मतेऽपि-'शावाशौचे समुत्पन्ने सूतकं तु यदा भवेत् । शावेन शुद्ध्यते सूतिर्न सूतिः शावशोधिनी ॥' इति । तस्मान सूतकान्तःपातिनः शीवाशौचस्य पूर्वशेषेण शुद्धिः किंतु शा. चान्तःपातिन एव सूतकस्य । तथा सजातीयान्तःपातित्वेऽपि शावस्य कचित्पू. वैशेषेण शुद्धेरपवादः स्मृत्यन्तरे दर्शितः-'मातर्यग्रे प्रमीतायामशुद्धौ म्रियते पिता । पितुः शेषेण शुद्धिः स्थान्मातु कुर्यात्तु पक्षिणीम् ॥' इति । अयमर्थःमातरि पूर्व मृतायां तन्निमित्ताशौचमध्ये यदि पितुरुपरमः स्यात्तदा न पूर्वशे. षेण शुद्धिः किंतु पितुः प्रयाणनिमित्ताशौचकालेनैव शुद्धिः कार्या । तथा पितुः प्रयाणनिमित्ताशौचमध्ये मातरि स्वर्यातायामपि न पूर्वशेषमानाच्छुद्धिः किंतु पूर्वाशौचं समाप्योपरि पक्षिणीं क्षिपेत्' इति ॥ तथाऽऽशौचसन्निपातकालविशेष. १ अहोवृद्धिमत् ख. २ शावस्य ख.
For Private And Personal Use Only
Page #341
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
आशौचप्रकरणम् १ ]
मिताक्षरासहिता ।
३०९
कृतोऽप्यपवादो गौतमेनोक्तः – 'रात्रिशेषे सति द्वाभ्यां प्रभाते सति तिसृभिः' इति । अयमर्थः - रात्रिमात्रावशिष्टे पूर्वाशौचे यद्याशौचान्तरं सन्निपतेत्तर्हि पूर्वाशौचं समाध्यानन्तरं द्वाभ्यां रात्रिभ्यां शुद्धिः । प्रभाते पुनस्तस्या रात्रेः पश्चिमे यामे जननाद्याशौचान्तरसन्निपाते सति तिसृभी रात्रिभिः शुद्धिः नं पुनस्तच्छेषमात्रेण ॥ शातातपेनाप्युक्तम्- 'रात्रिशेषे व्यहाच्छुद्धिर्यामशेष शुचियात्' इति । प्रेतक्रिया पुनः सूतकसन्निपातेऽपि न निवर्तत इति तेनैवोक्तम्— 'अन्तर्दशाहे जननात्पश्चात्स्यान्मरणं यदि । प्रेतमुद्दिश्य कर्तव्यं पिण्डदानं स्वबन्धुभिः ॥ प्रारब्धे प्रेतपिण्डे तु मध्ये चेज्जननं भवेत् । तथैवाशौचपिusing शेषान्दद्याद्यथाविधि ॥' इति ॥ तथा शावाशौचयोः सन्निपातेऽपि प्रेतकृत्यं कार्यम् । तुल्यन्यायत्वात् । तथा जातकर्मादिकमपि पुत्रजन्मनिमित्तकमाशौचान्तरसन्निपातेऽपि कार्यमेव । तथाह प्रजापतिः - 'आशौचे तु समुत्पन्ने पुत्रजन्म यदा भवेत् । कर्तुस्तात्कालिकी शुद्धिः पूर्वांशौचेन शुद्ध्यति ॥' इति ॥ पूर्णप्रसवकालजननाशौचमभिधायाधुना अप्राप्तकाल गर्भनिःसरणनिमित्तमा
शौचमाह
१ पर्यंतं ङ.
Acharya Shri Kailassagarsuri Gyanmandir
गर्भस्रावे मासतुल्या निशाः शुद्धेस्तु कारणम् ॥ २० ॥
स्रवतिर्यद्यपि लोके द्रवद्रव्यकर्तृके परिस्यन्दे प्रयुज्यते तथाप्यत्र द्रवाद्रवद्र व्यसाधारणरूपेऽधःपतने वर्तते । कुतः, द्रवत्वस्य प्रथममास एव संभवात्तत्र च मासतुख्या निशा इति बहुवचनानुपपत्तेः । गर्भस्त्रावे यावन्तो गर्भग्रहणमासातत्सम संख्याका निशाः शुद्धेः कारणम् । एतच्च स्त्रिया एव । -' - 'गर्भस्रावे तुल्या रात्रयः स्त्रीणां स्नानमात्रमेव पुरुषस्य' इति वृद्धवसिष्ठस्मरणात् । यत्पुनगौतमेन त्र्यहं चेति त्रिरात्रमुक्तं तन्मास यादवांग्वेदितव्यम् । - 'गर्भ
मास
त्यां यथामासमचिरे तूत्तमे श्रयः । राजन्ये तु चतूरात्रं वैश्ये पञ्चाहमेव तु ॥ भष्टान तु शूद्रस्य शुद्धिरेषा प्रकीर्तिता ॥' इति मरीचिस्मरणात् । अचिरे मासत्रयादर्वाक् गर्भस्रावे उत्तमे ब्राह्मणजातौ त्रिरात्रमित्यर्थः । एतच्च पण्मासंपर्यन्ते द्रष्टव्यम् । सप्तमादिषु पुनः परिपूर्णमेव प्रसवाशौचं कार्यम् । तत्र परिपूर्णाङ्गगर्भस्य जीवतो निर्गमदर्शनात् । तत्र च लोके प्रसवशब्दप्रयोगात् । - ' षण्मासाभ्यन्तरे यावद्गर्भस्रावो भवेद्यदा । तदा माससमैस्तासां दिवसैः शुद्धिरिष्यते ॥ अत ऊर्ध्वं स्वजात्युक्तं तासामाशौचमिष्यते । सद्य. शौचं सपिण्डानां गर्भस्य पतने सति ॥' इति स्मरणात् ॥ एतच्च सपिण्डानां सद्यः शौचविधानं द्रवभूतगर्भपतने वेदितव्यम् ॥ यत्पुनर्वसिष्ठवचनम् — 'ऊनद्विवार्षिके प्रेते गर्भस्य पतने च सपिण्डानां त्रिरात्रम्' इति तत्पञ्चमषष्ठयोः कठिनगर्भपतनविषयम् ।— 'आचतुर्थाद्भवेत्स्नावः पातः पञ्चमषष्ठयोः । अत ऊर्ध्वं प्रसूतिः स्याद्दशाहं सूतकं भवेत् ॥ स्रावे मातुस्त्रिरात्रं स्यात्सपिण्डाशैौचवर्जनम् । पाते मातुयथामासं पित्रादीनां दिनत्रयम् ॥' इति मरीचिस्मरणात् ॥ सप्तममासप्रभृति
२ अतऊर्ध्वं प्रसवो दशाहं घ.
For Private And Personal Use Only
Page #342
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३१०
याज्ञवल्क्यस्मृतिः। [प्रायश्चित्ताब्यायः
मृतजनने जातमृते वा सपिण्डानां जनननिमित्तं परिपूर्णमाशौचम् । -'जातमृते मृतजाते वा सपिण्डानां दशाहम्' इति हारीतसरणात् । -'अतः सूतके चेदोत्थानाशौचं सूतकवत्' इति पारस्करवचनाच्च । आ उस्थानादासूतिकाया उत्थानाइशाहमिति यावत् । सूतकवदिति शिशूपरमनिमित्तोदकदानरहितमित्यर्थः । बृहन्मनुरपि-'दशाहाभ्यन्तरे बाले प्रमीते तस्य बान्धवैः । शावाशौचं न कर्तव्यं सूत्याशौचं विधीयते ॥' इति । तथाच स्मृत्यन्तरमपि -'अन्तर्दशाहोपरतस्य सूतिकाहोभिरेवाशौचम्' इति । एवमादिवचननिचयपोलोचनया सपिण्डानां जनननिमित्ताशौचसंकोचो नास्तीति गम्यते । यत्पुनबृंहद्विष्णुवचनम्-'जाते मृते मृतजाते वा कुलस्य सद्यःशौचम्' इति तच्छिशूपरमनिमित्तस्याशौचस्य स्नानाच्छुद्धिप्रतिपादनपरं न प्रसवनिमित्तस्य । तथाच पारस्कर:-गर्भे यदि विपत्तिः स्वादशाहं सूतकं भवेत् ।' सपिण्डानां प्रससवनिमित्तस्य विद्यमानत्वात् ।-'जीवजातो यदि प्रेयासघ एव विशुख्यति' इति प्रेताशौचाभिप्रायम् । तथाच शङ्खनोक्तम्-'प्राङ्गामकरणात्सद्यःशौचम्' इति । यत्पुनः कात्यायनवचनम्-'अनिवृत्ते दशाहे तु पञ्चत्वं यदि ग. च्छति । सद्य एव विशुद्धिः स्थान प्रेतं नोदकक्रिया ॥' इति, तदपि वैष्णवेन समानार्थम् । यदातु न प्रेतं नैवसूतकमिति पाठस्तदा सूतकमस्पृश्यत्वं नैव त्रादीनां भवतीत्यर्थः । अथवायमर्थः-अन्तर्दशाहे यदि शिशूपरमस्तदा प्रेताशौचम् । यदि तत्र सपिण्डजननं तदा सूतकमपि नैव कार्य किंतु पूर्वाशौ. चेनैव शुद्धिरिति ॥ यत्तु बृहन्मनुवचनम्-'जीवजातो यदि ततो मृतः सू. तक एव तु । सूतकं सकलं मातुः पित्रादीनां त्रिरात्रकम् ॥' इति । यच्च बृहप्रचेतोवचनम्-'मुहूर्त जीवतो बालः पञ्चत्वं यदि गच्छति । मातुः शुद्धिदशाहेन सैद्यःशुद्धास्तु गोत्रिणः ॥' इति, तत्रेयं व्यवस्था-जननानन्तरं ना. मिवर्धनात्प्राङ्मृतौ पित्रादीनां जनननिमित्तमाशौचं दिनत्रयम् । सद्यःशौचं त्वग्निहोत्राद्यर्थम् । ---'अग्निहोत्रार्थ स्नानोपस्पर्शनात्तरकालं शौचम्' इति शङ्खस्मरणात् । नाभिवर्धनोत्तरकालं तु शिशुप्रयाणेऽपि जनननिमित्तं संपूर्णमाशौचं सपिण्डानाम् । 'यावन्न छिद्यते नालं तावनाप्नोति सूतकम् । छिन्ने नाले ततः पश्चात्सूतकं तु विधीयते ॥' इति जैमिनिस्मरणात् ।
मनुनाप्ययमों दर्शितः ( ५।६६)-रात्रिभिर्मासतुल्यामिर्गर्भस्रावे विशुयति । रजस्युपरते साध्वी मानेन स्त्री रजस्वला ॥' इति । पूर्वभागस्याओं दर्शितः । उत्तरस्य स्वयमर्थः । रजसि निःसरणादुपरते निवृत्ते रजस्वला स्त्री ना. नेन साध्वी देवादिकर्मयोग्या भवति । स्पर्शनादिविषये पुनरनुपरतेऽपि रजसि चतुर्थेऽहनि स्नानाच्छुद्धा भवति । तदुक्तं वृद्धमनुना-'चतुर्थेऽहनि संशुद्धा भवति व्यावहारिकी' इति । तथा स्मृत्यन्तरम्-'शुद्धा भर्तुश्चतुर्थेऽह्नि स्नानेन स्त्री रजस्वला । दैवे कर्मणि पिये च पञ्चमेऽहनि शुद्ध्यति ॥ पञ्चमेऽहनीति रजोनिवृत्तिकालोपलक्षणार्थम् । यदा रजोदर्शनादारभ्य पुनः सप्तदश १ सूतकाहोभिः ख. २ सद्यःशौचास्तु घ.
For Private And Personal Use Only
Page #343
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आशौचप्रकरणम् १]
मिताक्षरासहिता ।
३११.
दिनाभ्यन्तरे रजोदर्शनं तदा अशुचित्वं नास्त्येव । अष्टादशे त्वेकाहाच्छुद्धिः । एकोनविंशे व्हात् । तत उत्तरेषु त्र्यहाच्छुद्धिः । यथाहात्रिः - ' रजस्वला यदि नाता पुनरेव रजस्वला । अष्टादशदिनादवगशुचित्वं न विद्यते ॥ एकोनविंशतेरवगे काहं स्यात्ततो व्यहम् । विंशत्प्रभृत्युत्तरेषु त्रिरात्रमशुचिर्भवेत् ॥' इति । - 'चतुर्दशदिनादवगशुचित्वं न विद्यते' इति स्मृत्यन्तरं तत्र स्नानप्रभृतित्वमभिप्रेतमतो न विरोधः । भयं चाशुचित्वप्रतिषेधो यस्या विंशतिदिनोत्तरकालमेव प्रायशो रजोदर्शनं तद्विषयः । यस्याः पुनरारूढयौवनायाः प्रागेवाष्टादशदिनात्प्राचुर्येण रजोनिर्गमस्तस्यास्त्रिरात्रमेवाशौचम् । तथा च यावत्रिरात्रं स्नानादिरहितया स्थातव्यम् । - रजस्वला त्रिरात्रमशुचिर्भवति सा च नाञ्जीत नाभ्यञ्जीत नासु स्त्रायादधः शयीत न दिवा स्वप्यात् न ग्रहान्वीक्षेत नानिं स्पृशेत् नाश्नीयान्न रज्जुं सृजेत् नच दन्तान्धावयेत् न हसेन्नच किंचिदाचरेत् अखर्वेण पात्रेण पिबेदञ्जलिना वा पात्रेण लोहितायसेन वेति विज्ञायते' इति वसिष्ठस्मरणात् ।
·―
आङ्गिरसेऽपि विशेषः - 'हस्ते श्रीयान्मृन्मये वा हविर्भुक क्षितिशायिनी । रजस्वला चतुर्थेऽह्नि स्नात्वा शुद्धिमवाप्नुयात् ॥' इति । पाराशरेऽपि विशेषः'स्राने नैमित्तिके प्राप्ते नारी यदि रजस्वला । पात्रान्तरिततोयेन स्नानं कृत्वा व्रतं चरेत् । सितगात्रा भवेदद्भिः साङ्गोपाङ्गा कथंचन । न वस्त्रपीडनं कुर्या: नान्यद्वासश्च धारयेत् ॥' इति ॥ उशनसाप्यत्र विशेषो दर्शितः - 'ज्वराभिभूता या नारी रजसा च परिष्ठुता । कथं तस्या भवेच्छौचं शुद्धिः स्यात्केन कर्मणा ॥ चतुर्थेऽहनि संप्राप्ते स्पृशेदन्या तु तां स्त्रियम् । सा सचेलावगाह्यापः स्नात्वा स्नात्वा पुनः स्पृशेत् । दशद्वादशकृत्वो वा आचमेच्च पुनः पुनः ॥ अन्ते च वाससां त्यागस्ततः शुद्धा भवेच्च सा । दद्याच्छत्त्या ततो दानं पुण्याहेन विशुयति ॥ इति ।
1
अयं चातुरमात्रे स्नानप्रकारोऽनुसरणीयः । 'आतुरे स्नान उत्पन्ने दशकृत्वो नातुरः । स्नात्वा स्नात्वा स्पृशेदेनं ततः शुच्येत्स आतुरः ॥' इति पराशरस्मरणात् । यदा तु रजस्वलायाः सूतिकाया वा मृतिर्भवति तदायं स्नानप्रकारः - 'सूतिकायां मृतायां तु कथं कुर्वन्ति याज्ञिकाः । कुम्भे सलिलमादाय पञ्चगव्यं तथैव च ॥ पुण्यग्भिरभिमन्यापो वाचा शुद्धिं लभेत्ततः । तेनैव स्त्रापयित्वा तु दाहं कुर्याद्यथाविधि ॥' रजस्व - लायास्तु – 'पञ्चभिः स्त्रापयित्वा तु गन्यैः प्रेतां रजस्वलाम् । वस्त्रान्तरावृतां कृत्वा दाहयेद्विधिपूर्वकम् ॥' इति ॥ एतच्च रजोदर्शन पुत्रजन्मादि यद्युदयोत्तरकालमुत्पन्नं तदा तद्दिवसप्रभृत्याशौचा होरात्रगणना कार्या । यदा तु रजन्यां रजोदर्शनपुत्रजन्मादि जातं तदार्धरात्रात्प्राकू जननाद्युत्पत्तौ पूर्वदिवसैकदेशव्यापित्वेऽपि आशौचस्य तत्पूर्वदिवसप्रभृत्येव गणना कार्येत्येकः कल्पः । रात्रिं श्रेधा विभज्याद्ये भागद्वये जननादौ जाते पूर्वदिनं ग्राह्यमिति द्वितीयः । प्रागु
-
१ अशौचपूर्वदिनं घ.
For Private And Personal Use Only
Page #344
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३१२
याज्ञवल्क्यस्मृतिः।
[प्रायश्चित्ताध्यायः
दयादित्यपरः । यथाह कश्यपः-'उदिते तु यदा सूर्ये नारीणां दृश्यते रजः । जननं वा विपत्तिा यस्याहस्तस्य शर्वरी ॥ अर्धरात्रावधिः कालः सूतकादौ विधीयते । रात्रिं कुर्यात्रिभागां तु द्वौ भागौ पूर्व एव तु ॥ उत्तरांशः प्रभातेन युज्यते ऋतुसूतके । रानावेव समुत्पन्ने मृते रजसि सूतके ॥ पूर्वमेव दिनं माझं यौवनोदयते रविः ॥' इति ॥ एतेषां च कल्पानां देशाचारतो व्यवस्था विज्ञेया।
इदं चाशौचमाहिताग्नेरुपरमे संस्कारदिवसप्रभृति कर्तव्यम् । अनाहिताग्नस्तु मरणदिवसप्रभृति संचयनं तूभयोरिति संस्कारदिवसप्रभृतीति विवेचनीयम् । यथाहाङ्गिराः-'अनग्निमत उत्क्रान्तेः साग्नेः संस्कारकर्मणः । शुद्धिः संचयनं दाहान्मृताहस्तु यथाविधि ॥' इति ॥ साग्नेः संस्कारकर्मण इति श्रवणादाहितानो पितरि देशान्तरमृते तत्पुत्रादीनामासंस्कारासंध्यादिकर्मलोपो नास्तीत्यनुसंधेयम् । तथाच पैठीनसिः- अनग्निमत उस्क्रान्तेराशौचं हि द्विजातिषु । दाहादग्निमतो विद्याद्विदेशस्थे मृते सति ॥' इति ॥ २० ॥ सपिण्डत्वादिना दशाहादिप्राप्तौ क्वचिन्मृत्युविशेषेणापवादमाह
हतानां नृपगोविप्रैरन्वक्षं चात्मघातिनाम् । नृपोऽभिषिक्तः क्षत्रियादिः । गोग्रहणं शृङ्गिदंष्ट्रयादितिरश्वामुपलक्षणार्थम् । विप्रग्रहणमन्त्यजोपलक्षणम्(!)। एतैर्हतानां संबन्धिनो ये सपिण्डास्तेषाम् । विपोद्वन्धनादिभिः बुद्धिपूर्वमात्मानं ये व्यापादयन्ति ते आत्मघातिनः । आत्मघातिग्रहणं पाखण्ड्यनाश्रिता इत्येकयोगोपात्तपतितमात्रोपलक्षणार्थम् । तत्संबन्धिनां चान्वक्षमनुगतमक्षमन्वक्षं सथःशौचमित्यर्थः । तत्संबन्धिनां च सान्वक्षं यावद्दर्शनमाशौचं न पुनर्दशाहादिकम् । तथाच गौतमः-गोब्राह्मणहतानामन्वक्षं राजक्रोधाच्चायुद्धे प्रायोऽनाशकशस्त्राग्निविषोदकोद्वन्धनप्रपतनैश्वेच्छताम्' इति । क्रोधग्रहणं प्रमादव्यापादितनिरासार्थम् । अयुद्धग्रहणं युद्धहतस्यैकाहमाशौचमस्तीति ज्ञापनार्थम् । -'ब्राह्मणार्थं विपनानां योषितां गोग्रहेऽपि च । आहवेऽपि हतानां च एकरात्रमशौचकम् ॥' इति स्मरणात् । एतच्च युद्धकाल. क्षतेनैव कालान्तरविपन्नस्य । समरमूर्धनि हतस्य पुनः सद्यःशौचम् । यथाह मनुः (५।९०)-'उद्यतैराहवे शस्त्रैः क्षत्रधर्महतस्य च । सद्यः संतिष्ठते यज्ञस्तथाशौचमितिः स्थितिः ॥' इति ॥
ज्ञातस्यैव जननादेराशौचनिमित्तत्वाजन्मदिनादुत्तरकालेऽपि ज्ञाते दशाहा. दिप्राक्षावपवादमाह
प्रोषिते कालशेषः स्यात्पूर्णे दचोदकं शुचिः ॥२१॥ प्रोषिते देशान्तरस्थे यत्रस्थेन प्रथमदिवस एव सपिण्डजननादिकं न ज्ञायते तस्मिन्सपिण्डे कालस्य दशाहाद्यवच्छिन्नस्य यः शेषोऽवशिष्टकालः स एव शुद्धि. हेतुर्भवति । पूर्णे पुनराशौचकाले दशाहादिके प्रेतायोदकं दत्त्वा शुद्धिर्भवति । १ यावन्नाभ्युदितो रविः घ. २ यथातिथीति ख. ३ शौचमित्यर्थः न पुनः ख.
For Private And Personal Use Only
Page #345
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आशौचप्रकरणम् १] मिताक्षरासहिता ।
३१३
उदकदानस्य स्नानपूर्वकत्वात्स्नात्वोदकं दत्वा शुचिर्भवति । तदुक्तं मनुना ( ५/७७ ) - 'निर्दशं ज्ञातिमरणं श्रुत्वा पुत्रस्य जन्म च । सवासा जलमालुत्य शुद्धो भवति मानवः ॥' इति । 'पूर्णे दस्वोदकं शुचिः' इति प्रेतोदकदान सहचरितस्याशौचकालस्य शुद्धिहेतुत्वविधानात् जन्मन्यतिक्रान्ताशौचं सपिण्डानां नास्तीति गम्यते । पितुस्तु निर्दशेऽपि जनने स्नानमस्त्येव । 'श्रुत्वा पुत्रस्य जन्म च' इति वचनात् । एतच्च पुत्रग्रहणं जन्मनि सपिण्डानामतिक्रान्ताशौचं नास्तीति ज्ञापकम् । अन्यथा 'निर्दशं ज्ञातिमरणं श्रुत्वा जन्म च निर्दशम्' इत्येवावक्ष्यत् । न चोक्तम् । तथाच देवलः - 'नाशुद्धिः प्रसवाशौचे व्यतीतेषु दिनेष्वपि ' इति । तस्माद्विपत्तावेवातिक्रान्ताशैौचमिति स्थितम् ॥ केचिदन्यथेमं श्लोकं पठन्ति - 'प्रोषिते कालशेषः स्यादशेषे त्र्यहमेव तु । सर्वेषां वत्सरे पूर्णे प्रेते दच्वोदकं शुचिः ॥' इति । प्रोषिते प्रेते सर्वेषां ब्राह्मणक्षत्रियादीनामविशेषेण कालशेषः शुद्धिहेतुः । अशेषे पुनरतिक्रान्ते दशाहादौ सर्वेषां त्र्यहमेवाशौचम् । संवत्सरे पूर्ण यदि प्रोषितप्रयाणमवगतं स्यात्तदा सर्वो ब्राह्मणादिः स्नात्वोदकं दत्त्वा शुचिः स्यात् । तथाच मनुः ( ५/७६ ) - ' संवत्सरे व्यतीते तु स्पृष्ट्वैवापो विशुध्यति' इति । भयं च त्र्यहो दशाहादूर्ध्वं मासत्रयादर्वाग्द्रष्टव्यः । पूर्वोक्तं तु सद्यः शौचं नवममासादूर्ध्वमर्वाक्संवत्सराद्रष्टव्यम् । यत्पुनर्वासिष्ठं वचनम् 'ऊर्ध्व दशाहाच्छुत्वैकरात्रम्' इति, तदूर्ध्वं षण्मासेभ्यो यावन्नवंमम् । यदपि गौतमवचनम् 'श्रुत्वा चोर्ध्वं दशम्याः पक्षिणी' इति, तन्मासत्रयादूर्ध्वमर्वाक्षष्ठात् । तथाच वृद्धवसिष्ठः - 'मासत्रये त्रिरात्रं स्यात्परमासे पक्षिणी तथा । अहस्तु नवमादर्वागूर्ध्वं स्त्रानेन शुध्यति ॥' इति । एतच्च मातापितृव्यतिरिक्तविषयम् । 'पितरौ चेन्मृतौ स्यातां दूरस्थोऽपि हि पुत्रकः । श्रुत्वा तद्दिनमारभ्य दशाहं सूतकी भवेत् ॥' इति पैठीनसिस्मरणात् । तथाच स्मृत्यन्तरेऽपि - 'महागुरुनिपाते तु आर्द्रवस्त्रोपवासिना । अतीतेऽब्देपि कर्तव्यं प्रेतकार्यं यथाविधि ॥' इति । संवत्सरादूर्ध्वमपि प्रेतकार्यमा शौचोदकदानादिकं कार्य न पुनः स्नानमात्राच्छुद्धिरित्यर्थः । पितृपत्यामपि मातृव्यतिरिक्तायां स्मृत्यन्तरे विशेषो दर्शितः - 'पितृपदयामपेतायां मातृवर्ज द्विजोत्तमः । संवत्सरे व्यतीतेऽपि त्रिरात्रमशुचिर्भवेत् ॥' इति । यस्तु नद्यादिव्यवहिते देशान्तरे मृतस्तत्सपिण्डानां दशाहादूर्ध्वं मासत्रयादर्वागपि सद्यः शौचम् । - ' देशान्तरमृतं श्रुत्वा कीबे वैखानसे यतौ । मृते स्नानेन शुध्यन्ति गर्भस्रावे च गोत्रिणः ॥’ इति । देशान्तरलक्षणं च बृहस्पतिनोक्तम्- 'महानद्यन्तरं यत्र गिरिर्वा व्यवधायकः । वाचो यत्र विभिद्यन्ते तद्देशान्तरमुच्यते ॥ देशान्तरं वदन्त्ये के षष्टियोजनमायतम् । चत्वारिंशद्दन्त्यन्ये त्रिंशदन्ये तथैव च ॥' इति । इदं चातिक्रान्ता शौचमुपनीतो परमविषयम् । न पुनर्वयोवस्थाविशेषाशैौचविषयमपि । तथाचोक्तं व्याघ्रपादेन - 'तुल्यं वयसि सर्वेषामतिक्रान्ते तथैव च । उपनीते तु
-
१ मिति स्थितिः ख. २ प्रोषिते सर्वेषां ख. ३ वैखानसो वानप्रस्थः.
For Private And Personal Use Only
Page #346
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३१४
याज्ञवल्क्यस्मृतिः। [प्रायश्चित्ताध्यायः विषमं तस्मिन्नेवातिकालजम् ॥' इति । अयमर्थः-वयसि त्रिवर्षादिरूपे यदा. शौच मादन्तजन्मनः सद्यः' इत्यादिवाक्यविहितं तत्सर्वेषां ब्राह्मणादिवर्णानां तुल्यमविशिष्टम् । अतिक्रान्ते च दशाहादिके व्यहादि यदाशौचं तदपि सर्वेषामविशिष्टम् । उपनीते पुनरुपरते दशद्वादशपञ्चदशत्रिंशद्दिनानीत्येवं विषममाशौचं ब्राह्मणादीनाम् । तस्मिन्नेवोपनीतोपरम एव अतिकालजमतिक्रान्ताशौचं भवति न वयोवस्थाशौचातिक्रम इति ॥ २१ ॥ क्षत्रियादिषु दशरात्रस्य सपिण्डाशौचस्यापवादमाह
क्षत्रस्य द्वादशाहानि विशः पश्चदशैव तु । त्रिंशदिनानि शूद्रस्य तदर्ध न्यायवर्तिनः ॥ २२ ॥ क्षत्रियवैश्यशूद्राणां सपिण्डजनने तदुपरमे च यथाक्रमेण द्वादशपञ्चदशत्रिं. शदिनान्याशौचं भवति । न्यायवर्तिनः पुनः शूद्रस्य पाकयज्ञविजशुश्रूषादिरतस्य तदर्धं तस्य मासस्याधं पञ्चदशरात्रमाशौचम् । एवं च त्रिरात्रं दशरात्रं वेत्येतद्दशरात्रमाशौचं पारिशेष्याद्राह्मणविषये व्यवतिष्ठते । स्मृत्यन्तरेषु तु क्षत्रियादीनां दशाहादयोऽप्याशौचकल्पा दर्शिताः । यथाह पराशरः-'क्षत्रियस्तु दशाहेन स्वकर्मनिरतः शुचिः । तथैव द्वादशाहेन वैश्यः शुद्धिमवाप्नुयात् ॥' तथाच शातातपः-'एकादशाहाद्राजन्यो वैश्यो द्वादशभिस्तथा । शूदो विंशतिरात्रेण शुध्येत मृतसूतके ॥' वसिष्ठस्तु–'पञ्चदशरात्रेण राजन्यो विंशतिरानेण वैश्य' इति ॥ अङ्गिरास्त्वाह-'सर्वेषामेव वर्णानां सूतके मृतके तथा । दशाहाच्छुद्धिरेतेषामिति शातातपोऽब्रवीत् ॥' इत्येवमनेकोच्चावचाशौचकल्पा दर्शिताः तेषां लोके समाचाराभावान्नातीव व्यवस्थाप्रदर्शनमुपयोगीति नात्र व्यवस्था प्रदयते । यदा पुनर्ब्राह्मणादीनां क्षत्रियादयः सपिण्डा भवन्ति तदा हारीतायुक्ताशौचकल्पोऽनुसरणीयः । 'दशाहाच्छुध्यते विप्रो जन्महानौ स्व. योनिषु । षड्भिस्त्रिभिरथैकेन क्षत्रविदशूद्रयोनिषु ॥' इति । विष्णुरप्याह'क्षत्रियस्य विदशूद्वेषु सपिण्डेषु षड्रावत्रिरात्राभ्यां वैश्यस्य शूद्रे सपिण्डे षड्रा. त्रेण शुद्धिीनवर्णानां तूत्कृष्टेषु सपिण्डेषु जातेषु मृतेषु वा तदाशौचव्यपगमे शुद्धिः' इति । बौधायनेन त्वविशेषेण दशाह इत्युक्तम्-'क्षत्रविदशूद्रजातीया ये स्युर्विप्रस्य बान्धवाः । तेषामाशोचे विप्रस्य दशाहाच्छुद्धिरिष्यते ॥' इति । अनयोश्च पक्षयोरापदनापद्विषयत्वेन व्यवस्था । दास्यादीनां तु स्वामिशौचेन स्पृश्यत्वं, कर्मानधिकारत्वं तु मासावधिरेव । तदाहाङ्गिराः-'दासी दासश्च सर्वो वै यस्य वर्णस्य यो भवेत् । तद्वर्णस्य भवेच्छौचं दास्या मासस्तु सूतकम् ॥' इति । प्रतिलोमानां त्वाशौचाभाव एव-'प्रतिलोमा धर्महीनाः' इति मनुस्मरणात् । केवलं मृतौ प्रसवे च मलापकर्षणार्थ मूत्रपुरीपोत्सर्गवत् शौचं भवत्येव ॥ २२ ॥
१ पुनरुपरमे ख. २ त्रिरात्रं वेति ख. ३ स्वाम्याशौचेन ख. ४ ऽनधिकारस्तु क. ङ.
For Private And Personal Use Only
Page #347
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आशौचप्रकरणम् १] मिताक्षरासहिता ।
३१५ वयोवस्थाविशेषादपि दशाहाचाशौचस्यापवादमाह
आदन्तजन्मनः सद्य आचूडान्नैशिकी स्मृता । त्रिरात्रमावतादेशाद्दशरात्रमतः परम् ॥ २३ ॥ यावता कालेन दन्तानामुत्पत्तिस्तस्मिन्काले अतीतस्य बालस्य तत्संबन्धिनां सद्यःशौचं चूडाकरणादायतस्य संबन्धिनां नैशिकी निशायां भवा अहोरात्र. व्यापिन्यशुद्धिः। व्रतादेश उपनयनं ततोऽवा चूडायाश्चोर्ध्वमतीतस्य व्यहमशुद्धिः । अत्र चादन्तजन्मनः सद्य इति यद्यप्यविशेषेणाभिधानं तथाप्यग्निसंस्काराभावे द्रष्टव्यम् । -'भदन्तजाते बाले प्रेते सद्य एव शुद्धिर्नास्याग्निसंस्कारो नोदनक्रिया' इति वैष्णवे अग्निसंस्काररहितस्य सद्यःशौचविधानात् । सति 'त्वग्निसंस्कारे अहस्त्वदत्तकन्यासु बालेषु च' इति वक्ष्यमाण एकाहः। तथाच यमः-'अदन्तजाते तनये शिशौ गर्भच्युते तथा । सपिण्डानां तु सर्वेषामहोरात्रमशौचकम् ॥' इति ॥ नामकरणात्याक्सद्यःशौचमेव नियतम् । 'प्राङ्गामकरणात्सद्यःशुद्धिः' इति शङ्खस्मरणात् । चूडाकर्म च प्रथमे तृतीये वा वर्षे स्मर्यते--'चूडाकर्म द्विजातीनां सर्वेषामेव धर्मतः। प्रथमेऽब्दे तृतीये वा कतव्यं श्रुतिचोदनात् ॥' इति स्मरणात् ॥ ततश्च दन्तजननादूर्ध्व प्रथमवार्षिकचूडापर्यन्तमेकाहः । तत्र त्वकृतचूडस्य दन्तजनने सत्यपि त्रिवर्ष यावदेकाह एव । तथाच विष्णुः-'दन्तजातेऽप्यकृतचूडेऽहोरात्रेण शुद्धिः' इति । तत अर्व प्रागुपनयात् यहः। यत्तु मनुवचनम् (५।६७)-'नृणामकृतचूडानामशुद्धिनैशिकी स्मृता । निर्वृत्तचूडकानां तु त्रिरात्राच्छुद्धिरिष्यते ॥' इति । तस्याप्ययमेव विषयः । यत्तूनद्विवर्षमधिकृत्य तैनेवोक्तम् (५।६९)-'अरण्ये कावत्यक्त्वा क्षिपेयुस्यहमेव तु' इति । यच्च वसिष्टवचनम्-'उनद्विवर्षे प्रेते गर्भपतने वा सपिण्डानां त्रिरात्रम्' इति, तत्संवत्सरचूडाभिप्रायेण । यत्तु अङ्गिरोवचनम्-'यद्यप्यकृतचूडो वै जातदन्तश्च संस्थितः । तथापि दाहयित्वैनमाशौचं व्यहमाचरेत् ॥' इति, तद्वर्षत्रयादूर्ध्व कुलधर्मापेक्षया चूडोत्कर्षे वेदितव्यम् । विप्रे न्यूनत्रिवर्षे तु मृते शुद्धिस्तु नैशिकी' इति तेनैवामिहितत्वात् । नचायमेकाहो दन्तजननाभाव इति शङ्कनीयम् । नहि न्यूनत्रिवर्षस्य दन्तानुत्पत्तिः संभवति । तथा सत्यपि दन्तजनने अकृतचूडस्यैकाहं विदधता विष्णुवचनेन विरोधश्च दुष्परिहरः स्यात् । तस्मात्प्राचीनैव व्याख्या ज्यायसी। यत्तु कश्यपवचनम्-'बालानामदन्तजातानां त्रिरात्रेण शुद्धिः' इति तन्मातापितृविषयम् । 'निरस्य तु पुमान्शुक्रमुपैस्पर्शाद्विशुध्यति । बैजिकादभिसंबन्धादनुरुन्ध्यादधं व्यहम् ॥' इति जन्यजनकसंबन्धोपाधिकतया त्रिरात्रसारणात् । ततश्चायमर्थ:-'प्राङ्गामकरणात्सद्यः शौचं तदूर्ध्व दन्तजननादयंगमिसंस्कारक्रियायां एकाहः । इतरथा सद्यःशौचम् । जातदन्तस्य च प्रथमवार्षि
१ कर्म द्वितीये ख. २ क्षिपेत्तभ्यहमेव क. ३ कुलवर्णधर्मापेक्षया घ. ४ मुपस्पृश्य इति ग.
For Private And Personal Use Only
Page #348
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
याज्ञवल्क्यस्मृतिः। [प्रायश्चित्ताध्यायः काञ्चौलादागेकाहः । प्रथमवर्षादूचं त्रिवर्षपर्यन्तं कृतचूडस्य व्यहम् । इतरस्य स्वेकाहः । वर्षत्रयादूर्ध्वमकृतचूडस्यापि व्यहम् । उपनयनादूचं सर्वेषां ब्राह्मणादीनां दशरात्रादिकमिति ॥ २३ ॥ इदानीं स्त्रीषु च वयोवस्थाविशेषेणापवादमाह
अहस्त्वदत्तकन्यासु बालेषु च विशोधनम् । अदत्ता अपरिणीता याः कन्यास्तासु कृतचूडासु वाग्दानात्प्रागहोरात्रं विशेषेण शुद्धिकारणम् । सपिण्डानां सापिण्ड्यं च कन्यानां त्रिपुरुषपर्यन्तमेव । 'अप्रत्तानां तु स्त्रीणां त्रिपुरुषी विज्ञायते' इति वसिष्ठस्मरणात् । बालेपु चानुत्पबदन्तेषु अग्निसंस्कारे सत्येकाहो विशोधनम् । अकृतचूडायां तु कन्यायां सद्यःशौचम् । 'अचूडायां तु कन्यायां सद्यःशौचं विधीयते' इत्यापस्तम्बस्मरणात् । वाग्दानादूर्ध्वं तु संस्कारात्प्राक्पतिपक्षे पितृपक्षे च त्र्यहमेव । यथाह मनुः (५।७२) स्त्रीणामसंस्कृतानां तु व्यहाच्छुध्यन्ति बान्धवाः । यथोक्तेनैव कल्पेन शुध्यन्ति तु सनाभयः ॥' इति । बान्धवाः पतिपक्ष्यास्त्रिरात्रेण शुध्यन्ति । सनाभयस्तु पितृपक्ष्याः सपिण्डा यथोक्तेनैव कल्पेन निर्वृत्तचूडकानामित्यादिनोकेन त्रिरात्ररूपेण न पुनर्दशरात्ररूपेण । विवाहात्प्राक् तस्यायुक्तत्वात् । अतएव मरीचिः-'वारिपूर्व प्रदत्ता तु या नैव प्रतिपादिता । असंस्कृता तु सा ज्ञेया त्रिरात्रमुभयोः स्मृतम् ॥' इति । उभयोः पतिपितृपक्षयोः । विवाहादूर्ध्व तु विष्णुना विशेषो दर्शितः-'संस्कृतासु स्त्रीषु नाशौचं पितृपक्षे, तत्प्रसवमरणे चेपितृगृहे स्यातां तदैकरात्रं त्रिरानं वा' इति । तत्र प्रसवे एकाहः प्रयाणे त्रिरात्रमिति व्यवस्था । इदं च वयोवस्थाशौचं सर्ववर्णसाधारणम् । क्षत्रस्य द्वादशाहानीति तद्वर्ण विशेषोपादानेनाभिधानात् । अतएव मनुना अनुपात्तवर्णविशेषाशौचविधेः साधारण्यप्रतिपादनार्थ चातुर्वाधिकारे सत्यपि पुनः 'चतुर्णामपि वर्णानां यथावदनुपूर्वशः' इत्युक्तम् । तथाङ्गिरसायुक्तम्-'भविशेषेण वर्णानामक्सिंस्कारकर्मणः । त्रिरात्रात्तु भवेच्छुद्धिः कन्यास्वह्रा विधीयते ॥' इति व्याघ्रपादवचनं च तुल्यं वयसि सर्वेषामिति प्राक्प्रदर्शितम् । अतो यथा 'पिण्डयज्ञावृता देय'मित्यादिः पिण्डोदकदान विधिः सर्ववर्णसाधारणः । यथा वा समानोदकाशौचविधिः 'अन्तरा जन्ममरणे' इति संनिपाताशौचविधिश्च यद्वच्च 'गर्भसावे मासतुल्या निशा' इति नावाशौचविधिः, 'प्रोषिते कालशेषः स्थादशेषे त्र्यहमेव तु' इति विदेशस्थाशौचविधिश्च, यथा गुर्वाद्याशौचविधिः सर्ववर्णसाधारणः । तथा वयोवस्थानिमित्तमप्याशौचं सर्ववर्णसाधारणमेव भवितुमर्हति । अतएव 'क्षत्रे षभिः कृते चौले वैश्ये नवभिरुच्यते । ऊर्च विवर्षाच्छूद्रे तु द्वादशाहो विधीयते ॥' तथा 'यत्र त्रिरात्रं विप्राणामाशौचं संप्रदृश्यते । तत्र शूद्रे द्वादशाहः षण्नव क्षत्रवैश्ययोः ॥' इत्यादीनि ऋष्यशृङ्गादिवचनानि विगीतत्वबु
१ अकृतचूडायां ख. २ इति वसिष्ठस्मरणात घ. ३ यदूर्ध्व ख.
For Private And Personal Use Only
Page #349
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आशौचप्रकरणम् १] मिताक्षरासहिता ।
३१७ ज्याऽनाद्रियमाणैर्धारेश्वरविश्वरूपमेधातिथिप्रभृतिमिराचार्यैरयमेव साधारणः पक्षोऽङ्गीकृतः । अविगीतानि चार्तानातक्षत्रियादिविषयतया व्याख्येयानि ॥ गुर्वादिष्वतिदेशमाह
गुर्वन्तेवास्यनूचानमातुलश्रोत्रियेषु च ॥२४॥ गुरुरुपाध्यायः, अन्तेवासी शिष्यः, अनूचानोऽङ्गानां प्रवक्ता, मातुलग्रहणेनात्मवन्धवो मातृबन्धवः पितृबन्धवश्च योनिसंबद्धा उपलक्ष्यन्ते । ते च ‘पनीदुहितरः' इत्यत्र दर्शिताः । श्रोत्रिय एकशाखाध्यायी ।-'एकां शाखामधीत्य श्रोत्रियः' इति बौधायनस्मरणात् । एषूपरतेष्वहोरात्रमाशौचम् । यस्तु मुख्यो गुरुः पिता तदुपरमे सपिण्डत्वाद्दशाहमेव । यस्तु पिता पुत्रानुत्पाद्य संस्कृत्य वेदानध्याप्य वेदार्थ ग्राहयित्वा वृत्तिं च विदधाति तस्य महागुरुत्वात्तदुपरमे द्वादशरात्रं वा । 'महागुरुषु दानाध्ययने वर्जयेरन्' इति आश्वलायनेनोक्तं द्रष्टव्यम् । आचार्योपरमे तु त्रिरात्रमेव । यथाह मनुः (५।८०)-'त्रिरात्रमाहुराशौचमाचार्य संस्थिते सति । तस्य पुत्रे च पन्यां च दिवारात्रमिति स्थितिः ॥' इति । यदा त्वाचार्यादेरन्त्येष्टिं करोति तदा दशरात्रमाशौचम् (५।६५)'गुरोः प्रेतस्य शिष्यस्तु पितृमेधं समारभेत् । प्रेताहारैः समं तत्र दशाहेन विशुध्यति ॥' इति तेनैवोक्तत्वात् । श्रोत्रियस्य तु समानग्रामीणस्यैतदाशौचम् । -'एकाहं सब्रह्मचारिणि समानग्रामीणे च श्रोत्रिये' इत्याश्वलायनस्सरणात् । एकाचार्योपनीतः सब्रह्मचारी । एतच्चासंनिधाने द्रष्टव्यम् । संनिहिते तु शिप्यादौ त्रिरात्रादि । यथाह मनुः (५।८१)-'श्रोत्रिये तूपसंपन्ने त्रिरात्रमशुचिर्भवेत् । मातुले पक्षिणी रात्रि शिष्यविंग्बान्धवेषु च ॥' इति । उपसंपन्ने मैत्रीप्रातिवेश्यत्वादिना संबद्धे शीलयुक्ते वा । मातुलग्रहणं मातृष्वस्रादेरुपलक्षणार्थम् । बान्धवा इत्यात्मबन्धवो मातृबन्धवः पितृबन्धवश्वोच्यन्ते । तथाच बृहस्पतिः-'म्यहं मातामहाचार्य श्रोत्रियेष्वशुचिर्भवेत्' इति । तथा प्रचेताः -'मृते चर्विजि याज्ये च त्रिरात्रेण विशुद्ध्यति' इति । तथाच वृद्धवसिष्ठः'संस्थिते पक्षिणीं रात्रि दौहित्रे भगिनीसुते । संस्कृते तु त्रिरात्रं स्यादिति धर्मो व्यवस्थितः ॥ पित्रोरुपरमे स्त्रीणामूढानां तु कथं भवेत् । त्रिरात्रेणैव शुद्धिः स्थादित्याह भगवान्यमः ॥ श्वशुरयोर्भगिन्यां च मातुलान्यां च मातुले । पित्रोः स्वसरि तद्वच्च पक्षिणी क्षपयेन्निशाम् ॥' तथा 'मातुले श्वशुरे मित्रे गुरौ गुर्वङ्गनासु च । आशौचं पक्षिणी रात्रिं मृता मातामही यदि ॥' तथाच गौतमः'पक्षिणीमसपिण्डे योनिसंबद्धे सहाध्यायिनि च' इति । योनिसंबद्धा मातुलमातृष्वस्रीयपितृष्वस्त्रीयादयः । तथा जाबाल:-'एकोदकानां तु व्यहो गो. अजानामहः स्मृतम् । मातृबन्धौ गुरौ मित्रे मण्डलाधिपतौ तथा ॥' इति ॥ विष्णुः-'असपिण्डे स्ववेश्मनि मृत एकरात्रम्' इति । तथा वृद्धः-भ
१ संबन्धा उप. ख. २ समाचरन् घ. ३ त्मादिसंबन्धे ग.
For Private And Personal Use Only
Page #350
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३१८
याज्ञवल्क्यस्मृतिः। [प्रायश्चित्ताध्यायः गिन्यां संस्कृतायां तु भ्रातर्यपि च संस्कृते । मित्रे जामातरि प्रेते दौहित्रे भगिनीसुते ॥ शालके तत्सुते चैव सद्यःनानेन शुध्यति ॥ ग्रामेश्वरे कुलपतौ श्रोत्रिवे वा तपस्विनि । शिष्ये पञ्चत्वमापन्ने शुचिर्नक्षत्रदर्शनात् ॥ ग्राममध्यगतो याव. च्छवस्तिष्ठति कस्यचित् । ग्रामस्य तावदाशौचं निर्गते शुचितामियात् ॥' इत्यादीन्याशौचविशेषप्रतिपादकानि स्मृतिवचनान्यन्वेषणीयानि । ग्रन्थगौरवमयादत्र न लिख्यन्ते । एषु चैकविषयगुरुलध्वाशौचप्रतिपादकतया परस्परविरुद्धेषु संनिधिविदेशस्थापेक्षया व्यवस्थानुसंधातव्या ॥ २४ ॥
अनौरसेषु पुत्रेषु भार्यावन्यगतासु च ।
निवासराजनि प्रेते तदहः शुद्धिकारणम् ॥ २५ ॥ किंच । अहरित्यनुवर्तते । अनौरसाः क्षेत्रजदत्तकादयः तेषु जातेषूपरतेषु वा. होरात्रमाशौचम् । तथा स्वभार्यास्वन्यगतास्वन्यं प्रतिलोमव्यतिरिक्तं आश्रितासु अतीतासु चाहोरात्रमेव न पुनः सत्यपि सापिण्डे दशरात्रम् । प्रतिलोमाश्रितासु चाशौचाभाव एव । पाखण्ड्यनाश्रिताः स्तेना इत्यनेन प्रतिषेधात्। एतच्च भार्यापुत्रत्वशब्दयोः संबन्धिशब्दत्वात् यत्प्रातियौगिकं भार्यात्वं पुत्रत्वं च तस्यैवेदमाशौचं । सपिण्डानां त्वाशौचाभाव एव। अतएव प्रजापतिः–'अन्याश्रितेषु दारेषु परपत्नीसुतेषु च । गोत्रिणः स्नानशुद्धाः स्युस्त्रिरात्रेणैव तत्पिता ॥' इति । स्वैरिण्याद्यास्तु यमाश्रितास्तस्य तु त्रिरात्रमेव । यथाह विष्णुः-'अनौरसेषु पुत्रेषु जातेषु च मृतेषु च । परपूर्वासु भार्यासु प्रसूतासु मृतासु च ॥' इति त्रिरात्रमन प्रकृतम् । अनयोश्च त्रिरात्रैकरात्रयोः संनिधिविदेशस्थापेक्षया व्यवस्था । यदा तु पितुस्विरात्रं तदा सपिण्डानामेकरात्रम् । यथाह मरीचिः'सूतके मृतके चैव त्रिरात्रं परपूर्वयोः । एकाहस्तु सपिण्डानां त्रिरात्रं यत्र वै पितुः ॥' इति । किंच । निवसत्यस्मिन्निति निवासः स्वदेश उच्यते तस्य यो राजा स्वामी विषयाधिपतिः स यस्मिन्नहनि अतीतस्तदहर्मात्रं शुद्धिकारणम् । रात्रौ चेदतीतस्तदा रात्रिमात्रम् । अतएव मनुः (५।८२)-'प्रेते राजनि सज्योतिर्यस्य स्थाद्विषये स्थितः' इति । ज्योतिषा सह वर्तते इति सज्योतिराशौचम् । अह्नि चेद्यावत्सूर्यदर्शनं रात्रौ चेद्यावनक्षत्रदर्शनमित्यर्थः ॥ २५ ॥ अनुगमनाशौचमाह
ब्राह्मणेनानुगन्तव्यो न शूद्रो न द्विजः कचित् ।
अनुगम्याम्भसि लात्वा स्पृष्ट्वाग्निं धृतभुक्शुचिः ॥२६॥ ब्राह्मणेन असपिण्डेन द्विजो विप्रादिः शूद्रो वा प्रेतो नानुगन्तव्यः । यदि स्नेहादिनानुगच्छति तदाम्भसि तडागादिस्थे स्नात्वाग्निं स्पृष्ट्वा घृतं प्राश्य शुचिभवेत् । अस्य च घृतप्राशनस्य भोजनकार्यविधाने प्रमाणाभावान भोजनप्रति
For Private And Personal Use Only
Page #351
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आशौचप्रकरणम् १] मिताक्षरासहिता ।
षेधः । इदं समानोत्कृष्टजातिविषयम् । यथाह मनुः (५.१०३)-'अनुगम्येच्छया प्रेतं ज्ञातिमज्ञातिमेव च । स्नात्वा सचैलः स्पृष्ट्वाग्निं घृतं प्राश्य विशुध्यति ॥' इति । ज्ञातयो मातृसपिण्डाः । इतरेषां तु विहितत्वान्न दोषः । निकृष्टजात्यनुगमने तु स्मृत्यन्तरोक्तं द्रष्टव्यम् । तत्र शूद्रानुगमने-'प्रेतीभूतं तु यः शूद्रं ब्राह्मणो ज्ञानदुर्बलः । अनुगच्छेन्नीयमानं स त्रिरात्रेण शुध्यति ॥ त्रिराने तु ततस्तीर्णे नदीं गत्वा समुद्रगाम् । प्राणायामशतं कृत्वा घृतं प्राश्य विशुध्यति ॥' इति पराशरोक्तम् । क्षत्रियानुगमने त्वहोरात्रम् ।-'मानुषास्थि स्निग्धं स्पृष्ट्वा त्रिरात्रमाशौचं अस्निग्धे त्वहोरात्रं शवानुगमने चैकम्' इति वसिष्ठोक्तम् । वैश्यानुगमने पुनः पक्षिणी । तथा क्षत्रियस्यानन्तरवैश्यानुगमने अहोरात्रमेकान्तरशूद्रानुगमने पक्षिणी वैश्यस्य शूदानुगमने एकाह इत्यूहनी. यम् ॥ तथा रोदनेऽपि पारस्करेणोक्तम्-'मृतस्य बान्धवैः सार्धं कृत्वा तु परिदेवनम् । वर्जयेत्तदहोरात्रं दानं श्राद्धादिकर्म च ॥ इति । तथालंकरणमपि न कार्यम् ।-'कृच्छ्रपादोऽसपिण्डस्य प्रेतालंकरणे कृते । अज्ञानादुपवासः स्यादशक्तौ नानमिष्यते ॥' इति शङ्खन प्रायश्चित्तस्थानातत्वात् ॥ २६ ॥ सपिण्डाशीचे क्वचिदपवादमाह
महीपतीनां नाशौचं हतानां विद्युता तथा ।
गोब्राह्मणार्थ संग्रामे यस्य चेच्छति भूमिपः ॥ २७ ॥ यद्यपि महीशब्देन कृत्स्नं भूगोलकमभिधीयते तथाप्यत्र सकलायाः क्षितेरेकभर्तृकत्वानुपपत्तेः महीपतीनामिति बहुवचनानुरोधाच्च तदेकदेशभूतानि मण्डलानि लक्ष्यन्ते । तत्पालनाधिकृतानां क्षत्रियादीनामभिषिक्तानां नाशौचम् । तैराशौचं न कार्यमित्यर्थः । तथा विद्युद्धतानां गोब्राह्मणरक्षणार्थ विपन्नानां च संबन्धिनो ये सपिण्डास्तैरप्याशौचं न कार्यम् । यस्य च मन्त्रिपुरोहितादेर्भूमिपोऽनन्यसाध्यमन्त्राभिचारादिकर्मसिद्ध्यर्थमाशौचाभावमिच्छति तेनापि न का. र्यम् । अत्र च महीपतीनां यदसाधारणत्वेन विहितं प्रजापरिरक्षणं तद्येन दानमानसरकारव्यवहारदर्शनादिना विना न संभवति तत्रैवाशौचाभावो न पुनः पञ्चमहायज्ञादिष्वपि । तथाच मनुः (५।९५)-'राज्ञो माहात्मिके स्थाने सद्यःशौचं विधीयते । प्रजानां परिरक्षार्थमासनं चात्र कारणम् ॥' इति । गौ. तमेनाप्युक्तम्–'राज्ञां च कार्याविधातार्थम्' इति राजभृत्यादेरप्याशौचं न भवति । यथाह प्रचेताः-'कारवः शिल्पिनो वैद्या दासीदासास्तथैव च । राजानो राजभृत्याश्च सद्यःशौचाः प्रकीर्तिताः ॥' इति । कारवः सूपकारादयः। शिल्पिनश्चित्रकारचैलनिर्णेजकादयः। अयं चाशौचाभावः किंविषय इत्यपेक्षायां कर्मनिमित्तैः शब्दैस्तत्तदसाधारणस्य कर्मणो बुद्धिस्थत्वात्तत्रैव द्रष्टव्यः । अतएव विष्णुः-'न राज्ञां राजकर्मणि न प्रतिनां व्रते न सत्रिणां सत्रे न कारूणां कारुकर्मणि' इति प्रतिनियतविषयमेवाशौचाभावं दर्शयति । शातातपीये१ रक्षार्थ शायनं ग. २ भृत्या वैद्या दासास्तथैव च. घ.
या० ३०
For Private And Personal Use Only
Page #352
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३२०
याज्ञवल्क्यस्मृतिः। [प्रायश्चित्ताध्यायः
ऽप्युक्तम्-'मूल्यकर्मकराः शूदा दासीदासास्तथैवच । स्नाने शरीरसंस्कारे गृहकर्मण्यदूषिताः ॥' इति ॥ इयं च दासादिशुद्धिरपरिहरणीयतया प्राप्तस्पर्शवि. षयेत्यनुसंधेयम् । अतएव स्मृत्यन्तरम्-'सधःस्पृश्यो गर्भदासो भक्तदास. रुयहाच्छुचिः।' तथा 'चिकित्सको यत्कुरुते तदन्येन न शक्यते ॥ तस्माञ्चिकित्सकः स्पर्शे शुद्धो भवति नित्यशः ॥' इति ॥ २७ ॥
ऋत्विजां दीक्षितानां च यज्ञियं कर्म कुर्वताम् । सत्रिव्रतिब्रह्मचारिदातृब्रह्मविदां तथा ॥ २८ ॥
दाने विवाहे यज्ञे च संग्रामे देशविप्लवे । - आपद्यपि हि कष्टायां सद्यःशौचं विधीयते ॥ २९ ॥ किंच । ऋत्विजो वरणसंभृता वैतानोपासनाकर्तृविशेषाः । दीक्षया संस्कृता दीक्षितास्तेषां यज्ञियं यज्ञे भवं कर्म कुर्वतां सद्यःशौचं विधीयत इति सर्वत्रानुषङ्गः । दीक्षितस्य वैतानोपासनाः कार्या' इत्यनेन सिद्धेऽप्यधिकारे पुनर्वचनं यजमाने स्वयंकर्तृत्वविधानार्थ सद्यःस्नानेन विशुद्ध्यर्थं च । सत्रिग्रहणेन संततानुष्ठानतुल्यतयानसत्रप्रवृत्ता लक्ष्यंते । मुख्यानां तु सत्रिणां दीक्षितग्रहणेनैव सिद्धेः । व्रतिशब्देन कृच्छ्रचान्द्रायणादिप्रवृत्ताः स्नातकवतप्रायश्चित्तप्रवृत्ताश्चोच्यन्ते । तथा ब्रह्मचारिग्रहणेन ब्रह्मचर्यादिवतयोगिनः श्राद्धकर्तुर्भोक्तुश्च ग्रहणम् । तथा स्मृत्यन्तरम्-'नित्यमनप्रदस्यापि कृच्छ्रचान्द्रायणादिषु । निर्वृत्ते कृच्छ्रहोमादौ ब्राह्मणादिषु भोजने ॥ गृहीतनियमस्यापि न स्यादन्यस्य कस्यचित् । निमन्त्रितेषु विप्रेषु प्रारब्धे श्राद्धकर्मणि ॥ निमत्रितस्य विप्रस्य स्वाध्यायादिर. तस्य च । देहे पितृषु तिष्ठत्सु नाशौचं विद्यते क्वचित् ॥ प्रायश्चित्तप्रवृत्तानां दा. तृब्रह्मविदां तथा ॥' इति ॥ सत्रिणां व्रतिनां सत्रे व्रते च शुद्धिर्न कर्ममाने सं. व्यवहारे वा । तथाच विष्णुः-'न व्रतिनां व्रते न सत्रिणां सत्रे' इति । ब्रह्मचार्युपकुर्वाणको नैष्ठिकश्च । यस्तु नित्यं दातैव न प्रतिग्रहीता स वैखानसो दातृशब्देनोच्यते । ब्रह्मविद्यतिः । एतेषां च त्रयाणामाश्रमिणां सर्वत्र शुद्धिः । विशेषे प्रमाणाभावात् । दाने च पूर्वसंकल्पितद्रव्यस्य नाशौचम् । 'पूर्वसंकल्पितं द्रव्यं दीयमानं न दुष्यति' इति ऋतुस्मरणात् । स्मृत्यन्तरे चात्र विशेष उक्तः - विवाहोत्सवयज्ञादिष्वन्तरा मृतसूतके। शेषमन्नं परैर्देयं दातृन्भोक्तंश्च न स्पृशेत् ॥' इति । यज्ञे वृषोत्सर्गादौ विवाहे च पूर्वसंभृतसंभारे । तथाच स्मृ. त्यन्तरं-'यज्ञे संभृतसंभारे विवाहे श्राद्धकर्मणि' इति । सद्यःशौचमन्त्र प्रकतम् । विवाहग्रहणं पूर्वप्रवृत्तचौलोपनयनादिसंस्कारकर्मोपलक्षणम् । यज्ञग्रहणं च पूर्वप्रवृत्तदेवप्रतिष्ठारामाधुत्सवमात्रोपलक्षणम् ।-'न देवप्रतिष्ठोत्सर्गविवाहेषु न देशविभ्रमे नापद्यपि च कष्टायामाशौचम्' इति विष्णुस्मरणात्
१ वरणकरणसंगता ग. वरणाभरणसंभृता ङ, २ याजमानेषु ख. ३ स्नानविध्यर्थं ख. स्नानविशुध्यर्थ ग. ४ तस्मादन्यस्य ख. ५ प्रवृत्ते ग. ६ त्रोपलक्षणम् ग. ऊ.
For Private And Personal Use Only
Page #353
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आशौचप्रकरणम् १] मिताक्षरासहिता।
३२१ संग्रामे युद्धे । -'संग्रामे समुपोळ्हे राजानं संनाहयेत्' इत्याश्वलायनायुक्तसं. नहनविधौ प्रास्थानिकशान्तिहोमादौ च सद्यःशुद्धिः । देशस्य विस्फोटादिभिरुपसर्गे राजभयाद्वा विप्लवे तदुपशमनार्थे शान्तिकर्मणि सद्यःशौचम् । विप्लवाभावेऽपि क्वचिद्देशविशेषेण पैठीनसिना शुद्धिरुक्ता-'विवाहदुर्गयज्ञेषु या. त्रायां तीर्थकर्मणि । न तत्र सूतकं तद्वत्कर्म यज्ञादि कारयेत् ॥' इति । तथा कष्टायामप्यापदि व्याध्याभिभवेन मुमूर्षावस्थायां दुरितशमनार्थे दाने । तथा संकुचितवृत्तेश्च क्षुत्परिश्रान्तमातापित्रादिबहुकुटुम्बस्य तदरणोपयोगिनि प्रतिग्रहे सद्यःशुद्धिः। इयं च शुद्धिर्यस्य सद्यःशौचं विनायुपशमो न भवति अश्वस्तनिकस्य तद्विषया। यस्त्वेकाहपर्याप्तसंचितधनस्तस्यैकाहः, यख्यहोपयोगिसंचयी तस्य व्यहः, यस्तु चतुरहार्थमापादितद्रव्यः कुम्भीधान्यस्तस्य चतुरहा, कुसूलधान्यकस्य दशाह इत्येवं यस्य यावत्कालमार्त्यभावस्तस्य तावत्कालमाशोचम् । आपदुपाधिकरवादाशौचसंकोचस्य । अतएव मनुना (४७)-'कुसू. लधान्यको वा स्यात्कुम्भीधान्यक एव वा । व्याहिको वापि च भवेदश्वस्तनिक एव वा ॥' इत्यत्र प्रतिपादितचतुर्विधगृहस्थाभिप्रायेण–'दशाहं शावमाशौचं सपिण्डेषु विधीयते। अक्सिंचयनादस्यां ज्यहमेकाहमेव वा ॥' इति कल्पचतुष्टयं प्रतिपादितम् । समानोदकविषयाश्च संकुचिताशौचकल्पाः पक्षिण्येकाहःसद्यःशौचरूपाः स्मृत्यन्तरे दृष्टाः वृत्तिसंकोचोपाधिकतयैव योज्याः । अयं चाशौचसंकोचो येनैव प्रतिग्रहादिना विनार्तिस्तद्विषयो न सर्वत्रेत्यवगन्तव्यम् ॥ मनु:-'एकाहाहाह्मणः शुध्येद्योऽग्निवेदसमन्वितः । त्र्यहारकेवलवेदस्तु विहीनो दशमिर्दिनैः ॥' इत्यादिस्मृत्यन्तरवचनपर्यालोचनयाध्ययनज्ञानानुष्ठानयोगिनां त्र्येकाहादिभिः सर्वात्मना शुद्धिरित्येवं कमानेष्यते ॥ उच्यते-'द. शाहं शावमाशौचं सपिण्डेषु विधीयते' इति सामान्यप्राप्तदशाहबाधपुरःसरमेव झेकाहाद्राह्मणः शुद्ध्येदिति विधायकं भवति । बाधस्य चानुपपत्तिनिबन्धनत्वात् यावत्यबाधितेऽनुपपत्तिप्रशमो न भवति तावदाधनीयम् । अतः कियदनेन बाध्यमित्यपेक्षायामपेक्षितविशेषसमर्पणक्षमस्याग्निवेदसमन्वित इति वाक्यविशेषस्य दर्शनादग्निवेदविषयेऽग्निहोत्रादिकर्मणि स्वाध्याये च व्यवतिष्ठते न पुनर्दानादावपि । एवं चाग्निवेदपदयोः कार्यान्वयित्वं भवति । इतरथा येनाग्निवेदसाध्यं कर्म कृतं तस्यैकाहाच्छुद्धिरिति पुरुषविशेषोपलक्षणत्वमेव स्यात् । नचैतद्युक्तम्। एवंच सति-'प्रत्यूहेन्नाग्निषु क्रियाः।वैतानोपासनाः कार्याः क्रियाश्च श्रुतिचोदिताः॥' इति । तथा ब्राह्मणस्य च स्वाध्यायादिनिवृत्त्यर्थ सद्यःशौचमित्ये. वमादिभिर्मन्वादिवचनैरेकवाक्यता भवति । तथाच-'उभयत्र दशाहानि कुलस्यान्नं न भुज्यते' इति दशाहपर्यन्तं भोजनादिकं प्रतिषेधयद्भिर्यमादिवचनैरविरोधोऽपि सिध्यति, अतः क्वाचिरकमेवेदमाशौचसंकोचविधानं न पुनः सर्वसं. व्यवहारादिगोचरमित्यलमतिप्रपञ्चेन ॥
१ श्रुतिचोदनात घ. २ क्वचित्कर्मविशेषे इदं ख.
For Private And Personal Use Only
Page #354
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
याज्ञवल्क्यस्मृतिः ।
Acharya Shri Kailassagarsuri Gyanmandir
३२२
इदं च स्वाध्यायविषये सद्यः शौचविधानं बहुवेदस्य ब्रह्मोज्झत्वकृतायामात द्रष्टव्यम् । इतरस्य तु — ' दानं प्रतिग्रहो होमः स्वाध्यायश्च निवर्तते' इति प्रतिषेध एव । एवं ब्राह्मणादिमध्ये यस्य यावत्कालमाशौचमुक्तं स तस्यानन्तरं स्नात्वा शुध्येत् न तत्कालातिक्रममात्रात् । यथाह मनुः ( ५/९९ ) - 'विप्रः शुच्यत्यपः स्पृष्ट्वा क्षत्रियो वाहनायुधम् । वैश्यः प्रतोदं रश्मीन्वा यष्टिं शूद्रः कृतक्रियः ॥' इति । अयमर्थः - कृतक्रिय इति प्रत्येकमभिसंबध्यते । विप्रोऽनु. भूताशौचकालः कृतक्रियः कृतस्त्रानो हस्तेनापः स्पृष्ट्वा शुध्यति । स्पृष्ट्वेति रूपर्शनक्रियैवोच्यते न स्नानमाचमनं वा । वाहनादिषु तस्यैवानुषङ्गात् । अथवा कृतक्रियो यावदाशौचं कृतोदकादिक्रियः तदनन्तरं विप्रादिरुदकादि स्पृष्ट्वा शु. ध्यतीत्याशौचकालानन्तरभाविनानप्रतिनिधित्वेनोच्यत इति । क्षत्रियादिर्वाहनादिकं स्पृष्ट्वा शुध्येदिति ॥ २८ ॥ २९ ॥
कुलव्यापिनीं शुद्धिमभिधायेदानीं प्रसङ्गात्प्रतिपुरुषव्यापिनीं शुद्धिमाहउदक्याशुचिभिः स्त्रायात्संस्पृष्टस्तैरुपस्पृशेत् । अब्लिङ्गानि जपेच्चैव गायत्री मनसा सकृत् ॥ ३० ॥
उदक्या रजस्वला अशुचयः शवचण्डालपतितसूतिकाद्याः शावाशौचिनश्च एतैः संस्पृष्टः स्त्रायात् । तैः पुनरुदक्याशुचिसंस्पृष्टादिभिः संस्पृष्ट उपस्पृशेत् आचामेत् । आचम्याब्लिङ्गानि आपोहिष्ठेत्येवमादीनि श्रीणि मन्त्रवाक्यानि ज. पेत् । त्रिष्वेव बहुवचनस्य चरितार्थत्वात् । तथा गायत्रीं च सकृन्मनसा जपेत् । ननु उदक्या संस्पृष्टः स्नायादित्येकवचननिर्दिष्टस्य कथं तैरिति बहुवैचनपरामर्शः । सत्यमेवम् । किंत्वन उदक्यादिसंस्पृष्टव्यतिरिक्तस्त्रानामात्रस्पर्शेष्वाचमनविधानार्थं तैरिति बहुवचननिर्देश इत्यविरोधः । ते च स्नानार्हाः स्मृत्य - न्तरेऽवगन्तव्याः । यथाह पराशरः - 'दुःस्वप्ने मैथुने वान्ते विरिक्ते क्षुरकर्मणि । चितिपूर्यैश्मशानास्तां स्पर्शने स्नानमाचरेत्' इति । तथाच मनुः (५१४४ ) - 'वान्तो विरिक्तः स्नात्वा तु घृतप्राशनमाचरेत् । आचामेदेव भुक्त्वान्नं स्नानं मैथुनिनः स्मृतम् ॥' इति । मैथुनिनः स्नानमृतुकालविषयम् । - ' अनृतौ तु यदा गच्छेच्छौचं मूत्रपुरीषवत्' इति बृहस्पतिस्मरणात् । अनृतावपि कालविशेषे स्मृत्यन्तरे स्नानमुक्तम्- 'अष्टम्यां च चतुर्दश्यां दिवा पर्वणि मैथुनम् । कृत्वा सचेलं स्नात्वा च वारुणीभिश्च मार्जयेत् ॥' इति । तथाच यमः - 'भजीर्णेऽभ्युदिते वान्ते तथाप्यस्तमिते रवौ । दुःखमे दुर्जनस्पर्शे स्नानमात्रं विधीयते ॥' इति । तथाच बृहस्पतिः - 'मैथुने कटधूमे च सद्यःस्त्रानं विधीयते' इत्येतदसचेलस्पर्शविषयम् । सचेलेन तु चित्यादिस्पर्शे सचेलमेव स्नानम् । यथाह च्यवनः - 'श्वानं श्वपाकं प्रेतधूमं देवद्रव्योपजीविनम् । ग्रामयाजकं सोमविक्रयिणं यं चितिं चितिकाष्ठं च मद्यं सद्यभाण्डं सस्नेहं मानुषास्थि शैव
[ प्रायश्चित्ताध्यायः ।
१ ब्रह्मानध्ययन कृतायां ग. २ शुध्येदिति । इत्या ख. ३ बहुवचनादरः ४ अस्पृश्यवर्गे पूयमित्यत्र यूपमित्येव बहुत्र पुस्तकेषूपलभ्यते . ५ शवस्पृशं घ.
For Private And Personal Use Only
Page #355
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आशौचप्रकरणम् १] मिताक्षरासहिता।' स्पृष्टं रजस्वला महापातकिनं शव स्पृष्ट्वा सचेलमम्भोऽवगायोत्तीर्याग्निमुपस्पृश्य गायत्रीमष्टशतं जपेत् । घृतं प्राश्य पुनः नारवा बिराचामेत्' इति । एतच्च बुद्धिपूर्वविषयम् । अन्यत्र स्नानमात्रम् । 'शवस्पृष्टं दिवाकीति चितिं पूयं रजस्वलाम् । स्पृष्ट्वा त्वकामतो विप्रः स्नानं कृत्वा विशुध्यति ॥' इति बृहस्पतिस्सरणात् । एवमन्यत्रापि वक्ष्यमाणेषु विषयसमीकरणमूहनीयम् ॥ तथाह कश्यपः-'उदयास्तमययोः स्कन्दयित्वा अक्षिस्पन्दने कर्णाक्रोशने चित्यारोहणे यसंस्पर्शने च सलं स्नानं पुनर्मन इति जपेन्महाव्याहृतिभिः सप्ताज्याहुतीर्जुहुयात्' इति । तथाच स्मृत्यन्तरे-'स्पृष्ट्वा देवलकं चैव सवासा जलमाविशेत् । देवार्चनपरो विप्रो वित्तार्थी वत्सरत्रयम् ॥ असो देवलको नाम हव्यकव्येषु गर्हितः ॥ तथा ब्रह्माण्डपुराणे-'शैवान्पाशुपतास्पृष्ट्वा लोकायतिकनास्तिकान् । विकर्मस्थान्द्विजान्शूद्वान्सवासा जलमाविशेत् ॥' इति ॥ तथा
-'भस्वा याहुतिः सा स्थाच्छूद्रसंपर्कदूषिता' इति लिङ्गाच शूद्रस्पर्शने निषेधः ॥ तथाङ्गिराः-'यस्तु छायां श्वपाकस्य ब्राह्मणो ह्यधिरोहति । तत्र स्नानं प्रकुर्वीत घृतं प्राश्य विशुध्यति ॥' तथा व्याघ्रपाद:-'चण्डालं पतितं चैव दूरतः परिवर्जयेत् । गोवालग्यजनादाक्सवासा जलमाविशेत् ॥' इति । एतदतिसंकटस्थलविषयम् । अन्यत्र तु बृहस्पतिनोक्तम्-'युगं च द्वियुगं चैव त्रियुगं च चतुर्युगम् । चण्डालसूतिकोदक्यापतितानामधः क्रमात् ॥' इति ॥ तथा पैठीनसिः-'काकोलूकस्पर्शने सचेलस्नानमनुदकमूत्रपुरीषकरणे सचेलनानं महाव्याहृतिहोमश्च । अनुदकमूत्रपुरीषकरणे इत्येतच्चिरकालमूत्रपुरीषाशौचाकरणपरम्।' तथाङ्गिराः-भासवायसमार्जारखरोष्ट्रं च श्वशूकरान् । अमेध्यानि च संस्पृश्य सचेलो जलमाविशेत् ॥' इति । मार्जारस्पर्श निमित्तं स्नानमुच्छिष्टसमयेऽनुष्ठानसमये च वेदितव्यं समाचारात् । अन्यदा तु--'मार्जारश्चैव दर्वी च मारुतश्च सदा शुचिः' इति नानाभावः । श्वस्पर्श तु स्नानं नाभेरूध्वं वेदितव्यम् । अधस्तात्तु क्षालनमेव ।-नाभेरूज़ करौ मुक्त्वा शुना यधुपहन्यते । तत्र सानमधस्ताचेत्प्रक्षाल्याचम्य शुध्यति ॥' इति तेनैवोक्तत्वात् ॥ तथा पक्षिस्पर्श विशेषो जातूकण्येनोक्तः-'जय नाभेः करौ मुक्त्वा यदङ्गं संस्पृशेत्खगः । स्नानं तत्र.प्रकुर्वीत शेषं प्रक्षाल्य शुध्यति ॥' इति ॥ अमेध्यस्पर्शेऽपि विष्णुना विशेषो दर्शितः-'नाभेरधस्तात्प्रबाहुषु च कायिकैर्मलैः सुराभिर्मद्यैर्वोपहतो मृत्तोयैस्तदङ्गं प्रक्षाल्याचान्तः शुध्येत् । अन्यत्रापइतो मृत्तोयैस्तदङ्गं प्रक्षाल्य स्नायात् । तैरिन्द्रियेषूपहतस्तूपोष्य स्नात्वा पञ्चगव्येन दशनच्छदोपहतश्व' इति । एतच्च परकीयामेध्यस्पर्शविषयम् । आत्मीयमलस्पर्श तु ऊर्ध्वमपि नामेः क्षालनमेव । यथाह देवल:-'मानुषास्थि वसां विष्ठामार्तवं मूत्ररेतसी । मजानं शोणितं वापि परस्य यदि संस्पृशेत् ॥ स्नात्वा प्रमृज्य लेपादीनाचम्य स शुचिर्भवेत् । तान्येव खानि संस्पृश्य पूतः स्यात्परि
१ गायत्रीमष्टवारं जपेत् ख. २ शवस्पृशं ग. ३ यूपं इति पाठः.
For Private And Personal Use Only
Page #356
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३२४
याज्ञवल्क्यस्मृतिः।
[प्रायश्चित्ताध्यायः
मार्जनात् ॥' इति ॥ तथाच शङ्ख:-'रथ्याकर्दमतोयेन ष्टीवनायेन वा तथा । नाभेरूज़ नरः स्पृष्टः सद्यः स्नानेन शुध्यति ॥' इति ॥ यमेनाप्यत्र विशेष उक्तः-'सकर्दमं तु वर्षासु प्रविश्य ग्रामसंकरम् । जङ्घयोर्मृत्तिकास्तिस्रः पादयोर्द्विगुणास्ततः ॥' इति ।ग्रामसंकरं ग्रामसलिलप्रवाहप्रवेशंसकर्दमं प्रविश्येत्यर्थः। मारुतशोषिते तु कर्दमादौ न दोषः । 'रथ्याकर्दमतोयानि स्पृष्टान्यन्त्यश्ववायसैः । मारुतेनैव शुध्यन्ति पक्केष्टकचितानि च ॥' इति प्रागुक्तत्वात् ॥ अस्थनि मनुना विशेष उक्तः (५।८७)-'नारं स्पृष्ट्वास्थि सस्नेहं स्नात्वा विप्रो विशुधति । आचम्यैव तु निःस्नेहं गां स्पृष्ट्वा वीक्ष्य वा रविम् ॥' इति । इदं द्विजातास्थि. विषयम् । अन्यत्र वसिष्ठोक्तम्-'मानुषास्थि स्निग्धं स्पृष्ट्वा त्रिरात्रमाशौचम स्निग्धे त्वहोरात्रम्।' इति । अमानुषे तु विष्णूक्तम्-'भक्ष्यवयं पञ्चनखशवं तदस्थि च सस्नेहं स्पृष्ट्वा स्नातः पूर्ववस्त्रं प्रक्षालितं बिभृयात्' इति ॥ एवमन्येऽपि स्नानाहाः स्मृत्यन्तरतोऽवबोद्धव्याः ॥ एवं स्नानार्हाणां बहुत्वात्तदभिप्राय तैरिति बहुवचनमविरुद्धम् । उदक्याशुचिभिः स्त्रायादित्येतच्च दण्डाद्यचेतनव्यवधानस्पर्श वेदितव्यम् । चेतनव्यवधाने तु मानवम् (म० ५।८५)-'दिवाकीर्तिमुदक्यां च पतितं सूतिकां तथा । शवं तत्स्पृष्टिनं चैव स्पृष्ट्वा स्नानेन शुध्यति ॥' इति ।। तृतीयस्य त्वाचमनमेव । 'तत्स्पृष्टिनं स्पृशेद्यस्तु स्नानं तस्य विधीयते । ऊर्ध्वमाचमनं प्रोक्तं द्रव्याणां प्रोक्षणं तथा ॥' इति संवर्तस्मरणात् । एतच्चाबुद्धिपूर्वकविषयम् । मतिपूर्वे तु तृतीयस्यापि स्नानमेव । यथाह गौतमः-'पतितचण्डालसूतिकोदक्याशवस्पृष्टितत्स्पृष्ट्युपस्पर्शने सचेलमुदकोपस्पर्शनाच्छुध्येत्' इति । चतुर्थस्य त्वाचमनम् 'उपस्पृश्याशुचिस्पृष्टं तृतीयं वापि मानवः । हस्तौ पादौ च तोयेन प्रक्षाल्याचम्य शुध्यति ॥' इति देवलस्मरणात् । अशुचीनां पुनरुइक्यादिस्पर्श देवलेन विशेष उक्तः- 'श्वपाकं पतितं व्यङ्गमुन्मत्तं शवहारकम् । सूतिका साविकां नारी रजसा च परिप्लुताम् ॥ श्वकुक्कटवराहांश्च ग्राम्यान्संस्पृश्य मानवः । सचेलः सशिरः स्नात्वा तदानीमेव शुध्यति ॥' इति । 'अशुद्धान्स्वयमप्येतानशुद्धस्तु यदि स्पृशेत् । विशुध्यत्युपवासेन तथा कृच्छ्रेण वा पुनः ॥' इति । साविका प्रसवस्य कारयित्री । कृच्छ्रः श्वपाकादिविषयः श्वादिषु तूपवास इति व्यवस्था ॥३०॥
अधुना कालशुद्धौ दृष्टान्तत्वेन द्रव्यशुद्धिप्रकरणोक्तांस्तथैवात्र प्रकरणे वक्ष्यमाणांश्च शुद्धिहेतूननुक्रामति
कालोऽग्निः कर्म मृद्वायुर्मनो ज्ञानं तपो जलम् ।
पश्चात्तापो निराहारः सर्वेऽमी शुद्धिहेतवः ॥ ३१ ॥ यथाश्यादयोऽमी सर्वे स्वविषये शुद्धिहेतवस्तथा कालोऽपि दशरात्रादिकः । शास्त्रगम्यत्वाच्छुद्धिहेतुत्वस्य । अग्निस्तावच्छुद्धिहेतुः। यथाभ्यधायि 'पुनःपाकान्म
१ चाण्डालाद्यचेतन ख. २ तमेव तु स्पृशेत् ख. ३ अशुचिनां पुनः ख. ४ शवदाहकं रु.
For Private And Personal Use Only
Page #357
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आशौचप्रकरणम् १] मिताक्षरासहिता ।
"
हीमयम्' इति । कर्म च शुद्धिनिमित्तं यथा वक्ष्यति तथा 'अश्वमेधावभृथस्त्रानात्' इति । तथा मृदपि शुद्धिकारणं, यथा कथितम् -- 'सलिलं भस्म मृद्वापि प्रक्षेतव्यं विशुद्धये' इति । वायुरपि शुद्धिहेतुः यथोदीरितं 'मारुतेनैव शुध्यन्ति' इति । मनोऽपि वाचः शुद्धिसाधनं, यथाम्नायि 'मनसा वा इषिता वाग्वदति' इत्यादि । ज्ञानं चाध्यात्मिकं बुद्धिशुद्धौ निदानं यथाभिधास्यति 'क्षेत्रज्ञस्येश्वरज्ञानात्' इति । तपश्च कृच्छ्रादि, यथा वदिष्यति 'प्राजापत्यं चरेत्कृच्छ्रं समा वा गुरुतल्पगः' इत्यादि । तथा जलमपि शरीरादेः, यथा जल्पिष्यति 'वर्ष्मणो जलम्' इति । पश्चात्तापोऽपि शुद्धिजनकः, यथा गदितं 'ख्यापनेनानुतापेन' इति । निराहारोsपि शुपादानं, यथा व्याहरिष्यति 'त्रिरात्रोपोषितो जेहवा' इत्यादि ॥३१॥
३२५
अकार्यकारिणां दानं वेगो नद्याश्च शुद्धिकृत् । शोध्यस्य मृच्च तोयं च संन्यासो वै द्विजन्मनाम् ॥ ३२ ॥ तपो वेदविदां क्षान्तिर्विदुषां वर्ष्मणो जलम् । जपः प्रच्छन्नपापानां मनसः सत्यमुच्यते ॥ ३३ ॥ भूतात्मनस्तपोविद्ये बुद्धेर्ज्ञानं विशोधनम् । क्षेत्रज्ञसेश्वरज्ञानाद्विशुद्धिः परमा मता ॥ ३४ ॥
1
किंच | अकार्यकारिणां निषिद्धसेविनां दानमेव मुख्यं शुद्धिकारणं, यथा व्याख्यास्यति 'पात्रे धनं वा पर्याप्तं दत्त्वा' इति । नद्याः निदाघादावल्पतोयतया अमेध्योपहततीरायाः कूलंकषवर्षाम्बुप्रवाहवेगः शुद्धिकृत् । शोधनीयस्य द्रव्यस्व मृच्च तोयं च शुद्धिकृत्, यथेह भणितम् 'अमेध्यातस्य मृत्तोयैः शुद्धिर्गन्धापकर्षणात्' इति । संन्यासः प्रव्रज्या द्विजन्मनां मानसापचारे शुद्धिकृत् । तपो वेदाभ्यासो वेदविदां शुद्धिकारणम् । कृच्छ्रादि तु सर्वसाधारणं न वेद विदामेव । क्षान्तिरुपशमो विदुषां वेदार्थविदाम्। वर्ष्मणः शरीरस्य जलम् । प्रच्छन्नपापानामविख्यातदोषाणां अघमर्पणादि सूक्तजपः शुद्धिकारणं शुद्धिसाधनम् । मनः सदसत्संकल्पात्मकं तस्यासत्संकल्पत्वादशुद्धस्य सत्यं साधुसंकल्पः शोधकम् । भूतशब्देन तद्विकारभूतो देहेन्द्रियसंघो लक्ष्यते । तत्र स्थूलोऽहं कृशोऽहं काणोऽहं बधिरोऽहमित्येवं तदभिमानित्वेन योऽयमात्मा वर्तते स भूतात्मा तस्य तपोविद्ये शुद्धिनिमित्ते । तपःशब्देनानेकजन्मस्त्रे कस्मिन्नपि वा जन्मनि जागरस्वमसुषुध्यवस्थास्वात्मनो योsयमन्वयः, शरीरादेश्व व्यतिरेकः सोऽभिधीयते । यथा 'तपसा ब्रह्म विजिज्ञासव' इति पञ्चकोशव्यतिरेकप्रतिपादनपरे वाक्ये | विद्याशब्देन चौपनिषदं 'अस्थूलमनण्वह्रस्वमसङ्गो ह्ययमात्मा' इत्यादि संपदार्थनिरूपणविपयवाक्यजन्यं ज्ञानमुच्यते । एताभ्यामस्य शुद्धिः । शरीरादिव्यतिरेकबुद्धेः संशयविपर्ययरूपत्वेनाशुद्धायाः प्रमाणरूपं ज्ञानं विशोधनं । क्षेत्रस्य तपोविद्याविशुद्धस्य
१ जले इत्यादि. २ शोधनम् ङ. ३ न्द्रियसंबन्धो ङ. ४ जाग्रत्स्वप्न ख.
For Private And Personal Use Only
Page #358
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
३२६
याज्ञवल्क्यस्मृतिः
[प्रायश्चित्ताध्यायः
त्वं पदार्थ भूतस्य तत्त्वमस्यादिवाक्यजन्यात्साक्षात्काररूपादीश्वरज्ञानात् पैरमा विशुद्विर्मुक्तिलक्षणा । यथैताः शुद्धयः परमपुरुषार्थास्तद्वयुक्ततरा कालशुद्धिरपीत्येवं प्रशंसार्थं भूतात्मादिविशुद्ध्यभिधानम् ॥ ३२ ॥ ३३ ॥ ३४ ॥
इत्याशौचप्रकरणम् ।
अथापद्धर्मप्रकरणम् २
'भापद्यपि च कष्टायां सद्यः शौचं विधीयते' इत्यापदि मुख्य शौच कल्पानामनुष्ठानासंभवेन सद्यः शौचाद्यनुकल्पमुक्त्वेदानीं तत्प्रसङ्गादापदि 'प्रतिग्रहोऽधिको विप्रे याजनाध्यापने तथा ' इत्यायुक्तयाजनादिमुख्य वृत्यसंभवेन वृत्यन्तरमाह
क्षात्रेण कर्मणा जीवेद्विशां वाप्यापदि द्विजः । निस्तीर्यतामथात्मानं पावयित्वा न्यसेत्पथि ।। ३५ ॥
fast विप्रो बहुकुटुम्बतया स्ववृत्त्या जीवितुमसमर्थः क्षत्रसंबन्धिना कर्मणा शस्त्रग्रहणादिना आपदि जीवेत् । तेनापि जीवितुमशक्नुवन् वैश्यसंबन्धिना कर्मणा वाणिज्यादिना जीवेत् न शूद्रवृत्या । तथाच मनुः (१०।८२ ) - ' उ. भाभ्यामप्यजीवंस्तु कथं स्यादिति चेद्भवेत् । कृषिगोरक्षमास्थाय जीवेद्वैश्यस्य tar ||" इति । तथा आपद्यपि न हीनवर्णेन ब्राह्मी वृत्तिराश्रयणीया किंतु ब्राह्मणेन क्षात्री, क्षत्रियेण वैश्यसंबन्धिनी, वैश्येन च शौद्रीत्येवं स्वानन्तरहीनवर्णवृत्तिरेव | 'अजीवन्तः स्वधर्मेणानन्तरां पापीयसीं वृत्तिमातिष्टेरन्नतु कदाचिज्यायसीम्' इति वसिष्ठस्मरणात् । ज्यायसी च ब्राह्मी वृत्तिः । तथाच स्मृत्यन्तरम्—उत्कृष्टं वापकृष्टं वा तयोः कर्म न विद्यते । मध्यमे कर्मणी हित्वा सर्वसाधारणे हि ते ॥' इति । शूद्रस्योत्कृष्टं ब्राह्मं कर्म न विद्यते । तथा ब्राह्मणस्यापकृष्टं शौद्रं कर्म । मध्यमे क्षत्रवैश्यकर्मणी पुनरापद्भतसर्ववर्णसाधारणे इति । शूदुश्चापतो वैश्यवृत्या शिल्पैर्वा जीवेत् । 'शूद्रस्य द्विजशुश्रूषा तयाऽजीवन् वणिग्भवेत् । शिल्पैर्वा विविधैजींवेद्विजातिहितमाचरन् ॥' इति प्रागुक्तत्वात् ॥ मनुना चात्र विशेषो दर्शितः (१०।१०० ) - (यैः कर्मभिः प्रचरितैः ः शुश्रूष्यन्ते द्विजातयः । तानि कारुककर्माणि शिल्पानि विविधानि च ॥' इति । अनेनैव न्यायेनानुलोमोत्पन्नानामपि स्वानन्तरा वृत्तिरूहनीया । एवं स्वानन्तरहीनवर्णवृत्त्या आपदं निस्तीर्य प्रायश्चित्ताचरणेनात्मानं पावयित्वा पथि न्यसेत् । स्ववृत्तावात्मानं स्थापयेदित्यर्थः । यद्वायमर्थः । गर्हितवृत्त्यार्जितं धनं पथि न्यसेदुत्सृजेदिति । तथाच मनुः (१०।१११ ) - ' जपहोमैरपैत्येनो याजनाध्यापनैः कृतम् । प्रतिग्रहनिमित्तं तु त्यागेन तपसैव तु ॥' इति ॥ ३५ ॥
1
१ तत्त्वमसीत्यादि ख. २ परमात्मशुद्धिः ख. ३ साधारणे हि ते इति ख.
For Private And Personal Use Only
Page #359
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आपद्धर्मप्रकरणम् २] मिताक्षरासहिता ।
वैश्यवृस्यापि जीवतो ब्राह्मणस्य यदपणनीयं तदाह
फलोपलक्षौमसोममनुष्यापूपवीरुधः । तिलौदनरसक्षारान्दधि क्षीरं घृतं जलम् ॥ ३६ ॥ शस्त्रासवमधूच्छिष्टं मधु लाक्षा च बर्हिषः । मृच्चर्मपुष्पकुंत केशतक्रविषक्षितीः ॥ ३७ ॥ कौशेय नीललवण मांसैकशफसीसकान् । शाकार्दोषधिपिण्याकपशुगन्धांस्तथैव च ॥ ३८ ॥ वैश्यवृत्त्यापि जीवन्नो विक्रीणीत कदाचन ।
३२७
नोविक्रीणीतेति प्रत्येकमभिसंबध्यते । फलानि कदलीफलादीनि बदरेङ्गुदव्यतिरिक्तानि । यथाह नारदः - 'स्वयंशीर्णानि पर्णानि फलानां बदरेहुदे । रज्जुः कार्पासिकं सूत्रं तच्चेदविकृतं भवेत् ॥' इति उपेलं मणिमाणिक्याद्यश्ममात्रम् | क्षौममतसीसूत्रमयं वस्त्रम् । क्षौमग्रहणं तान्तवादेरुपलक्षणम् । यथाह मनुः ( १०1८७ ) – 'सर्वं च तान्तवं रक्तं शाणक्षौमाविकानि च । अपि चेत्स्युररक्तानि फलमूले तथैौषधीः ॥' इति । सोमो लताविशेषः । मनुष्यपदेनाविशेषात्स्त्रीपुंनपुंसकानां ग्रहणम् । अपूपं मण्डकादि भक्ष्यमात्रम् । वीरुधो वेत्रामृतादिलताः । तिलाः प्रसिद्धाः । भदनग्रहणं भोज्यमात्रोपलक्षणम् । रसा गुडेक्षुरसशर्करादयः । तथाच मनुः ( १०1८८ ) - ' क्षीरं क्षौद्रं दधि घृतं तैलं मधु गुडं कुशान्' इति क्षारा यवक्षारादयः । दधिक्षीरयोर्ग्रहणं मस्तुपिण्डकिलटकूर्चिकादीनां तद्विकाराणामुपलक्षणम् । 'क्षीरं सविकारम्' इति गौतमस्मरणात् । घृतग्रहणं तैलादिस्नेहमात्रोपलक्षणम् । जलं प्रसिद्धम् । शस्त्रं खङ्गादि । आसवग्रहणं मद्यमात्रोपलक्षणम् । मधूच्छिष्टं सिक्थकम् । मधु क्षौद्रम् । लाक्षा जतु । बर्हिषः कुशाः । मृत् प्रसिद्धा । चर्माजिनम् । पुष्पं प्रसिद्धम् । अँजलोमकृतः कम्बलः कुतपः । केशाश्चमर्यादिसंबद्धाः । तमुदश्वित् । विषं शृङ्गयादि । क्षितिर्भूमिः । 'नित्यं भूमित्रीहियवाजाव्यश्वर्षभधेन्वनडुहश्चैके' इति सुमन्तुस्मरणात् । कौशेयं कोशप्रभवं वसनम् । नीलं नीलीरसम् । लवणग्रहणेनैव बिडसौवर्चलसैन्धवसामुद्रसोमक कृत्रिमाण्यविशेषेण गृह्यन्ते । मांसं प्रसिद्धम् । एकशफा हयादयः । सीसग्रहणं लोहमात्रोपलक्षणम् । शाकं सर्वमविशेषात् । ओषधयः फलपाकान्ताः । भदौषधय इति विशेषोपादानाच्छुष्केषु न दोषः । पिण्याकः प्रसिद्धः । पशव आरण्याः । ( १०।८९ ) - ' आरण्यांश्च पशून्सर्वान्दष्ट्रिणश्च वयांसि च' इति मनुस्मरणात् । गन्धाश्चन्दनागुरुप्रभृतयः । सर्वानेतावैश्यवृत्त्या जीवन्ब्राह्मणः कदाचिदपि न विक्रीणीत | क्षत्रियादेस्तु न दोषः ।
I
I
1
१ कुतुपकेश ख. २ उपलं माणिक्यादि ख. ३ अजोर्णलोमकृतः ङ. ४ गौतमस्मरणात् क. ङ.
For Private And Personal Use Only
·
Page #360
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
याज्ञवल्क्यस्मृतिः। [प्रायश्चित्ताध्यायः अतएव नारदेन 'वैश्यवृत्तावविक्रेयं ब्राह्मणस्य पयो दधि' इति ब्राह्मणग्रहणं कृतम् ॥ ३६ ॥ ३७ ॥ ३८॥. प्रतिप्रसवमाह
धर्मार्थ विक्रय नेयास्तिला धान्येन तत्समाः ॥ ३९ ॥ यद्यावश्यकाः पाकयज्ञादिधर्माः स्वसाधनव्रीह्यादिधान्याभावे न निष्पद्यन्ते तर्हि धान्येन तिला विक्रयं नेयाः। तत्समाः द्रोणपरिमिता द्रोणपरिमितेनेत्येवं तेन धान्येन समाः। तथाच मनुः (१०१९०)-'काममुत्पाद्य कृष्यात्तु स्व. यमेव कृषीवलः । विक्रीणीत तिलान्शुद्धान्धर्मार्थमचिरस्थितान् ॥' इति । धर्मग्रहणमावश्यकभेषजाधुपलक्षणम् । अतएव नारदः-'अशक्तौ भेषजस्यार्थे यज्ञहेतोस्तथैव च । यद्यवश्यं तु विक्रेयास्तिला धान्येन तस्समाः ॥' इति यद्यन्यथा विक्रीणीते तर्हि दोषः (१०९१)-'भोजनाभ्यानाहानाथदन्यत्कुरुते तिलैः । कृमिभूत्वा श्वविष्ठायां पितृभिः सह मजति ॥' इति मनुस्मरणात् । सजातीयैः पुनर्विनिमयो भवत्येव (मनुः १०।९४)-'रसा रसैनिमातव्या नत्वेव लवणं रसैः । कृतान्नं च कृतान्नेन तिला धान्येन तत्समाः ॥' इति । कृतान्नं सिद्धान्नं तच्च कृतान्नेन परिवर्तनीयम् । 'कृतान्नं चाकृतानेन' इति पाठे तु सिद्धमन्नमकृतान्नेन तण्डुलादिना परिवर्तनीयमिति ॥ ३९ ॥ पूर्वोक्तनिषिद्धातिक्रमे दोषमाह
लाक्षालवणमांसानि पतनीयानि विकये ।
पयो दधि च मद्यं च हीनवर्णकराणि तु ॥४०॥ लाक्षालवणमांसानि विक्रीयमाणानि सद्यःपतनीयानि द्विजातिकर्महानिकराणि । पयःप्रभृतीनि तु हीनवर्णकराणि शूद्रतुल्यत्वापादकानि । एतद्व्यतिरिक्तापण्यविक्रये वैश्यतुल्यता । यथाह मनुः (१० । ९२-९३)-'सद्यः पतति मांसेन लाक्षया लवणेन च । त्र्यहेण शूद्रो भवति ब्राह्मणः क्षीरविक्रयात् ॥ इतरेषामपण्यानां विक्रयादिह कामतः । ब्राह्मणः सप्तरात्रेण वैश्यभावं चें गच्छति ॥' इति ॥ ४० ॥
आपद्गतः संप्रगृह्णन्भुञ्जानो वा यतस्ततः।
न लिप्येतैनसा विप्रो ज्वलनार्कसमो हि सः ॥४१॥ किंच। यस्स्वधनोऽवसन्नकुटुम्बतया आपद्गतोऽपि क्षत्रवृत्ति वैश्यवृत्तिं वा न प्रविविक्षति स यतस्ततो हीनहीनतरहीनतमेभ्यः प्रतिगृह्णस्तदन्नं भुञ्जानोऽपि वा एनसा पापेन न लिप्यते । यतस्तस्यामापदवस्थायामसत्प्रतिग्रहादावधिकारित्वेन ज्वलनार्कसमः, यथा ज्वलनोऽर्कश्च हीन संस्कारेऽपि न दुष्यति तथायमा. पद्गतोऽपि न दुष्यतीत्येतावता तत्साम्यम् । एवंच वदता आपद्गतस्य परधर्मा
२ कृष्यां तु क. ख. २ नत्वेवं लवणं ख. ३ नीयमिति यावत् क. ख. ४ निगच्छति ख. ५ हीनतरस्ततो ख. ६ वा नैवैनसा ख.
For Private And Personal Use Only
Page #361
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आपद्धर्मप्रकरणम् २] मिताक्षरासहिता ।
३२९
श्रयणादिगुणमपि स्वधर्मानुष्ठानमेव मुख्यमिति दर्शितं भवति । तथाच मनुः (१०१९७)-'वरं स्वधर्मो विगुणो न पारक्यः स्वनुष्ठितः। परधर्माश्रयाद्विप्रः सद्यः पतति जातितः ॥' इति ॥ ४ ॥
कृषिः शिल्पं भृतिर्विद्या कुसीदं शकटं गिरिः ।
सेवानूपं नृपो भैक्षमापत्तौ जीवनानि तु ॥ ४२ ॥ किंच आपत्तौ जीवनानीति विशेषणात्कृष्यादीनां मध्ये अनापदवस्थायां यस्य या वृत्तिः प्रतिषिद्धा तस्य सा वृत्तिरनेनाभ्यनुज्ञायते । यथापदि वैश्यवृत्तिः स्वयंकृता कृषिर्विप्रक्षत्रिययोरभ्यनुज्ञायते एवं शिल्पादीन्यप्यस्याभ्यनुज्ञायन्ते । शिल्पं सूपैकरणादि । भृतिः प्रेष्यत्वम् । विद्या भृतकाध्यापकत्वाद्या । कुसीदं वृद्ध्यर्थ द्रव्यप्रयोगः । तत् स्वयंकृतमभ्यनुज्ञायते । शकटं भाटकेन धान्यादिवहनद्वारेण जीवनहेतुः । गिरिस्तद्गततृणेन्धनद्वारेण जीवनम् । सेवा परचित्तानुर्वतनम् । अनूपं प्रचुरतृणवृक्षजलप्रायः प्रदेशः । तथा नृपो नृपयाचनम् । भैक्षं स्नातकस्यापि । एतान्यापत्तौ जीवनानि । तथाच मनुः (१०।११६) -'विद्याः शिल्पं भृतिः सेवा गोरक्षा विपणिः कृषिः । गिरिभैक्षं कुसीदं च दश जीवन हेतवः ॥' इति ॥ ४२ ॥ यदा कृष्यादीनामपि जीवनहेतूनामसंभवस्तदा कथं जीवनमित्यत आह
बुभुक्षितरुयहं स्थित्वा धान्यमब्राह्मणाद्धरेत् ।
प्रतिगृह्य तदाख्येयमभियुक्तेन धर्मतः ॥४३॥ धान्याभावेन बिरानं बुभुक्षितोऽनश्नन् स्थित्वा अब्राह्मणाच्छूद्रात्तदभावे वैश्यात् तदभावे क्षत्रियाद्वा हीनकर्मण एकाहपर्याप्तं धान्यमाहरेत् । यथाह मनुः (६ । ११७)-'तथैव सप्तमे भक्ते भक्तानि षडनश्नता । अश्वस्तनविधानेन हर्तव्यं हीनकर्मणः ॥' इति । तथाच प्रतिग्रहोत्तरकालं यदपहृतं तद्धर्मतो यथावृत्तमाख्येयम् । यदि नास्तिकेन स्वामिना त्वयेदं किं नामापहृतमित्यभियुज्यते । यथाह मनुः-'खलाक्षेत्रादगाराद्वा यतो वाप्युपलभ्यते । आख्यातव्यं तु तत्तस्मै पृच्छते यदि पृच्छति ॥ इति ॥ ४३ ॥ इदमपरमापत्प्रसङ्गादाज्ञो विधीयते
तस्य वृत्तं कुलं शीलं श्रुतमध्ययनं तपः ।
ज्ञात्वा राजा कुटुम्बं च धयों वृत्तिं प्रकल्पयेत् ॥ ४४ ॥ योऽशनायापरीतोऽवसीदति तस्य वृत्तमाचार, कुलमाभिजात्यं, शीलमात्मगुणं, श्रुतं शास्त्र श्रवणं, अध्ययनं वेदाध्ययनं, तपः कृच्छ्रादि च परीक्ष्य
१ भैक्ष्यमापत्तौ ख. २ न्यप्यनुज्ञायन्ते ङ. ३ रूपकरणादि ङ. ४ धान्यं हरेत्. ५ नाष्टिकेन ङ. ६ ममापदतमिति ख. ७ योशतया ख.
For Private And Personal Use Only
Page #362
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३३०
याज्ञवल्क्यस्मृतिः । [ प्रायश्चित्ताध्यायः
राजा धर्मादनपेतां वृत्तिं प्रकल्पयेत् । अन्यथा तस्ये दोषः । तथाच मनुः ( ७ । १३४ ) -- 'यस्य राज्ञस्तु विषये श्रोत्रियः सीदति क्षुधा । तस्य सीदति तद्राष्ट्रं दुर्भिक्षव्याधिपीडितम् ॥' इति ॥ ४४ ॥
इत्यापद्धर्मप्रकरणम् ।
अथ वानप्रस्थधर्मप्रकरणम् ३
चतुर्णामाश्रमिणां मध्ये ब्रह्मचारिगृहस्थयोर्धर्माः प्रतिपादिताः । सांप्रतमवसरप्राप्तान्वानप्रस्थधर्मान्प्रतिपादयितुमाह
सुतविन्यस्तपत्नीकस्तया वानुगतो वनम् ।
वानप्रस्थो ब्रह्मचारी साग्निः सोपासनो व्रजेत् ॥ ४५ ॥
वने प्रकर्षेण नियमेन च तिष्ठति चरतीति वनप्रस्थः वनप्रस्थ एव वानप्रस्थः । संज्ञायां दैर्घ्यम् । भाविनीं वृत्तिमाश्रित्य वनं प्रतिष्ठासुरिति यावत् । असौ सुतविन्यस्तपत्नीकः त्वयेयं भरणीयेत्येवं सुते विन्यस्ता विक्षिप्ता पत्नी येन स तथोक्तः । यदि सा पतिपरिचर्याभिलाषेण स्वयमपि वनं जिगमिषति तदा तयानुगतो वा सहितः । तथा ब्रह्मचारी ऊर्ध्वरेताः साग्निवैतानाग्निसहितः तथा सोपासनो गृह्याग्निसहितश्च वनं व्रजेत् । सुतविन्यस्तपत्नीक इति वदता कृतगाईस्थ्यो वैनवासेऽधिक्रियत इति दर्शितम् । एतच्चाश्रमसमुच्चयपक्षमङ्गीकृत्योक्तम् । इतरथा 'अविलुतब्रह्मचर्यो यमिच्छेत्तु तमावसेत्' इत्यकृतगार्हस्थ्योsपि वनवासेऽधिक्रियत एव । अयं च वनप्रवेशो जराजर्जरकलेवरस्य जातपौत्रस्य वा । यथाह मनुः ( ६।२) 'गृहस्थस्तु यदा पश्येद्वली पलितमात्मनः । अपत्यस्यैव वापत्यं तदारण्यं समाश्रयेत् ॥' इति । अयं च पुत्रेषु पत्नीनिक्षेपो विद्यमानभार्यस्य । मृतभार्यस्याप्यापस्तम्बादिभिः वनवासस्मरणात् । अतो यत् दाहयित्वाग्निहोत्रेणेति पुनराधानविधानं तदपरिपक्ककषायविषयम् । साग्निः सोपासन इत्यत्रापि यैदार्घाधानं कृतं तदा श्रौताग्निभिर्गृह्येण च सहितो वनं व्रजेत् । सर्वाधाने तु श्रीतैरेव केवलम्। यदि कथंचिज्येष्ठ भ्रातुरनाहिताग्नित्यादिना श्रोताग्नयोऽनाहितास्तर्हि केवलं सोपासनो व्रजेदित्येवं विवेचनीयम् । अग्निनयनं च तन्निर्वर्त्यग्निहोत्रादिकर्मसिद्ध्यर्थम् । अतएव मनुः ( ६ । ९ ) 'वैतानिकं च जुहुयादग्निहोत्रं यथाविधि । देर्शमस्कन्दयन्पर्व पौर्णमासं च शक्तितः ॥' इति ॥ ननुच पुत्रनिक्षिप्सपलीकस्य तद्विरहिणः कथमग्निहोत्रादिकर्मानुष्ठानं घटते । पल्या सह यष्टव्यमिति सहाधिकारनियमात् सत्यमेवं, किंत्वन पत्नीनिक्षेपविधि
१ राज्ञोदोषः ङ. २ वानप्रस्थो वनवासे. ख. ३ अर्धाधानं स्मृतं श्रौतस्मार्ता:योस्तु पृथक्कृतिः । सर्वाधानं तयोरैक्यक्कृतिः पूर्वयुगाश्रया । त्रेतापरिग्रहः सर्वाधानम्. ४ दर्शमास्कन्दयन् ग. ङ.
For Private And Personal Use Only
Page #363
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वानप्रस्थधर्मप्रक० ३] मिताक्षरासहिता। . ३३१ बलादेव तौरपेक्ष्येणाधिकारः कल्प्यते । यथाहि रजस्खलायां 'यस्य वेत्येऽहनि पत्यनालग्भुका स्यात्तामपएँध्य यजेते'त्यपरोधविधिबलात्तन्निरपेक्षता । यद्वा वनं प्रतिष्ठमानमेव पति पत्यनुमन्यत इति न विरोधः । नच यथा ब्रह्मचारिणो विधुरस्य वा वनं प्रस्थितस्याग्निहोत्रादिपरिलोपस्तथा निक्षिप्तपत्नीकस्याप्यग्निहोत्राधभाव इति शङ्कनीयम् । अपाक्षिकत्वेन श्रवणात् । नच ब्रह्मचारिविधुरयोरप्यनिसाध्यकर्मस्खनधिकारः । पञ्चममासादूर्ध्वमाहितश्रावणिकाग्नेस्तदधिकारदशनात् । -'वानप्रस्थो जटिलवीराजिनबासा न फालकृष्टमधितिष्ठेत् अकृष्टं मूलफलं संचिन्वीत ऊर्ध्वरेताः क्षमाशयो दद्यादेव न प्रतिगृह्णीयादूर्वं पञ्चभ्यो मासेभ्यः श्रावणिकेनॉनीनाधायाहिताग्निवृक्षमूलको दद्याद्देवपितृमनुष्येभ्यः स गच्छेत्स्वर्गमानन्त्यम्' इति वसिष्ठस्मरणात् । चीरं वस्त्रखण्डो वल्कलं वा । न फालकृष्टमधितिष्ठेत्कृष्टक्षेत्रस्योपरि न निवसेत् । श्रावणिकेन वैदिकेन मार्गेण नं लौकिकेनेत्यर्थः ॥ ४५ ॥
'साग्निः सोपासनो प्रजे'दित्येतदग्निसाध्यश्रौतस्मातकर्मानुष्ठानार्थमित्युक्तं तत्र गुणविधिमाह
अफालकृष्टेनानींश्च पितॄन्देवातिथीनपि ।
भृत्यांश्च तर्पयेच्श्रुजटालोमभृदात्मवान् ॥ ४६॥ फालग्रहणं कर्षणसाधनोपलक्षणम् । अकृष्टक्षेत्रोद्भवेन नीवारवेणुश्यामाका. दिना अग्नीस्तर्पयेदग्निसाध्यानि कर्माण्यनुतिष्ठेत् । चशब्दाद्भिक्षादानमपि तेनैव कुर्यात् । तथा पितॄन्देवानतिथीन् अपिशब्दाद्भूतान्यपि तेनैव तर्पयेत् । तथा भृत्यान् चशब्दादाश्रमप्राप्तानपि । तथाच मनुः (६७)-'यदक्ष्यं स्यात्ततो दद्याद्वलिं मिक्षां च शक्तितः । अम्मूलफलभिक्षाभिरर्चयेदाश्रमागतान् ॥' इति । एवं पञ्चमहायज्ञान्कृत्वा स्वयमपि तच्छेषमेव भुञ्जीत । (६।१२)-'देवताभ्यश्च तद्भुत्वा वन्यं मेध्यतरं हविः । शेषमात्मनि युञ्जीत लवणं च स्वयंकृतम् ॥' इति मनुस्मरणात् । स्वयंकृतमूषरलवणम् । एवं भोजनार्थे यागाद्यर्थे च मुन्यननियमाद्राम्याहारपरित्यागोऽर्थसिद्धः । अतएव मनुः (६३)-'संत्यज्य ग्राम्यमाहारं सर्वं चैव परिच्छदम्' इति । ननु च दर्शपूर्णमासादे!ह्यादिग्राम्यद्रव्यसाध्यत्वात्कथं तत्परित्यागः । नच वचनीयमफालकृष्टेनाप्नींश्चेति विशेषवचनसामर्थ्याद्रीह्यादिबाध इति । विशेषविषयिण्यापि स्मृत्या श्रुतिबाधस्यान्याय्यस्वात् , अफालकृष्टविधेश्च स्मार्ताग्निसाध्यकर्मविषयत्वेनाप्युपपत्तेः । सत्यमेवं किंत्वत्र व्रीह्यादेरप्यफालकृष्टत्वसंभवान्न विरोधः । अतएवोक्तं मनुना (६।११)'वासन्तशारदैमध्यैर्मुन्यन्नैः स्वयमाहृतैः । पुरोडाशांश्चरूंश्चैव विधिवनिर्वपेत्पृ. थक् ॥' इति ॥ नीवारादीनां मुन्यन्नानां स्वयमुत्पन्नानां स्वतो मेध्यत्वे सिद्धेऽपि
१ तन्निरपेक्षणाधिकारः ङ. २ ब्रात्येऽहनि ङ. ३ लम्भिका रु. ४ अवरुध्य यजेतेत्यवरोध. क. ख. ५ नाग्निमाधाय ख. ६ अकालकृष्ट ख.
या० ३१
For Private And Personal Use Only
Page #364
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३३२
याज्ञवल्क्यस्मृतिः। [प्रायश्चित्ताध्यायः पुनर्मेध्यग्रहणं यज्ञाहव्रीह्यादिप्राप्त्यर्थं कृतम् । मेधो यज्ञस्तदह मेध्यमिति । तथा श्मश्रूणि मुखजानि रोमाणि जटारूपांश्च शिरोरुहान्कक्षादीनि च रोमाणि बिभृयात् । रोमग्रहणं नखानामप्युपलक्षणम् । तथाच मनुः-'जटाश्च विभृयानित्यं श्मश्रुलोमनखांस्तथा' इति । तथात्मवानात्मोपासनाभिरतः स्यात् ॥ ४६॥ पूर्वोक्तद्रव्यसंचयनियममाह
अह्नो मासस्य पण्णां वा तथा संवत्सरस्य वा ।
अर्थस्य संचयं कुर्यात्कृतमाश्वयुजे त्यजेत् ॥४७॥ एकस्याह्नः संबन्धि भोजनयजनादिदृष्टादृष्टकर्मणः पर्याप्तस्थार्थस्य संचयं कुर्यात् । मासस्य वा षण्णां मासानां वा संवत्सरस्य वा संबन्धि कर्मपर्याप्तं संचयं कुर्यात् नाधिकम् । यद्येवं क्रियमाणमपि कथंचिदतिरिच्यते तर्हि तदतिरिक्तमा. श्वयुजे मासि त्यजेत् ॥ ४७ ॥
दान्तस्त्रिषवणस्नायी निवृत्तश्च प्रतिग्रहात् ।
स्वाध्यायवान्दानशीलः सर्वसत्वहिते रतः॥४८॥ किंच । दान्तो दर्परहितः । त्रिषु सवनेषु प्रातमध्यदिनापराह्नेषु स्वानशीलः । तथा प्रतिग्रहे पराङ्मुखः । चशब्दाद्याजनादिनिवृत्तश्च । स्वाध्यायवान् वेदाभ्यासरतः । तथा फलमूलमिक्षादिदानशीलः सर्वप्राणिहिताचरणनिरतश्च भवेत् ४८
दन्तोलूखलिकः कालपकाशी वाश्मकुट्टकः।
श्रौत्रं सात फलस्नेहैः कर्म कुर्यात्तथा क्रियाः॥४९॥ किंच । दन्ता एवोलूखलं निस्तुपीकरणसाधनं दन्तोलूखलं तद्यस्यास्ति स दन्तोलूखलिकः। कालेनैव पक्कं कालपकं नीवारवेणुश्यामाकादि बदरेमुदादिफलं च तदशनशीलः कालपक्काशी । वाशब्दः 'अग्निपक्काशनोवा स्यात्कालपक्कभुगेव वा' इति मनूक्ताग्निपक्काशित्वाभिप्रायः। अश्मकुट्टको वा भवेत् । अश्मना कुट्टनमवहननं यस्य स तथोक्तः । तथा श्रौत्रं स्मात च कर्म दृष्टार्थाश्व भोजनाभ्यञ्जनादिक्रियाः लकुचमधूकादिमेध्यतरुफलोद्भवैः स्नेहद्रव्यैः कुर्यान तु घृतादिकैः । तथाच मनुः (६।१३)-'मेध्यवृक्षोद्भवानद्यात्स्नेहांश्च फलसंभवान्' इति ४९ पुरुषार्थतया विहितद्विर्भोजननिवृत्त्यर्थमाह
चान्द्रायणै येत्कालं कृच्छ्रे, वर्तयेत्सदा ।
पक्षे गते वाप्यश्नीयान्मासे वाहनि वा गते ॥ ५० ॥ चान्द्रायणैर्वक्ष्यमाणलक्षणैः कालं नयेत् । कृच्छ्रेर्वा प्राजापत्यादिभिः कालं वर्तयेत् । यद्वा पक्षे पञ्चदशदिनात्मकेऽतीतेऽश्नीयात् । मासे वाऽहनि गते वा नक्तमश्नीयात् । अपिशब्दाचतुर्थकालिकत्वादिनापि । यथाह मनुः ( ६।१९)
For Private And Personal Use Only
Page #365
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वानप्रस्थधर्मप्रक० ३] मिताक्षरासहिता ।
३३३
'नक्तं वान्नं समश्नीयादिवा वाहृत्य शक्तितः । चतुर्थकालिको वा स्थायद्वाप्यष्टमकालिकः ॥' इति । एतेषां च कालनियमानां स्वशक्त्यपेक्षया विकल्पः ॥ ५० ॥
स्वप्याद्भूमौ शुची रात्री दिवा संप्रपदैनयेत् ।
स्थानासनविहारैर्वा योगाभ्यासेन वा तथा ॥५१॥ किंच । आहारविहारावसरवज्यं रात्रौ शुचिः प्रयतः स्वप्यात् नोपविशेनापि तिष्ठेत् । दिवास्वमस्य पुरुषमानार्थतया प्रतिषिद्धत्वान्न तन्निवृतिपरम् । तथा भूमावेव स्वप्यात् । तच्च भूमावेव न शय्यान्तरितायां मञ्चकादौ वा । दिनं तु संप्रपदैरटनैनयेत् । स्थानासनरूपैर्वा विहारैः संचारैः कंचित्कालं स्थानं कंचिच्चो. पवेशनमित्येवं वा दिनं नयेत् । योगाभ्यासेन वा । तथाच मनुः (६।२९) 'विविधाश्चौपनिषदीरात्मसंसिद्धये श्रुतीः' इति । आरमनः संसिद्धये ब्रह्मत्वप्राप्तये । तथाशब्दाक्षितिपरिलोडनाद्वा नयेत् । (२२)-भूमौ विपरिवर्तेत तिष्ठेद्वा प्रपदैर्दिनम्' इति मनुस्मरणात् । प्रपदैः पादाङ्गः ॥५१॥
ग्रीष्मे पञ्चाग्निमध्यस्थो वर्षासु स्थण्डिलेशयः ।
आर्द्रवासास्तु हेमन्ते शक्त्या वापि तपश्चरेत् ॥ ५२ ॥ किंच । 'व्यर्तुः संवत्सरो ग्रीष्मो वर्षा हेमन्तः' इति दर्शनात् ग्रीष्मे चैत्रादिमासचतुष्टये चतसृषु दिक्षु चत्वारोऽग्नयः उपारिष्टादादित्य इत्येवं पञ्चानामग्नीनां मध्ये तिष्ठेत् । तथा वर्षासु श्रावणादिमासचतुष्टये स्थण्डिलेशयः वर्षाधारावि. निवारणविरहिणि भूतले निवसेत् । हेमन्ते मार्गशीर्षादिमासचतुष्टये क्लिन्न वासो वसीत । एवंविधतपश्चरणे असमर्थः स्वशक्त्यनुरूपं वा तपश्चरेत् । यथा शरीरशोषस्तथा यतेत (६।२४)'तपश्चरंश्चोग्रतरं शोषयेद्देहमान्मनः' इति मनुस्मरणात् ॥ ५२ ॥
यः कण्टकैर्वितुदति चन्दनैर्यश्च लिम्पति ।
अक्रुद्धोऽपरितुष्टश्च समस्तस्य च तस्य च ॥५३॥ किंच । यः कश्चित्कण्टकादिमिविविधमङ्गानि तुदति व्यथयति तस्मै न क्रुध्येत्। यश्चन्दनादिभिरुपलिम्पति सुखयति तस्य न परितुष्येत् । किंतु तयोरुभयोरपि समः स्यादुदासीनो भवेत् ॥ ५३ ॥ अग्निपरिचर्याक्षमं प्रत्याह
अग्नीन्वाप्यात्मसात्कृत्वा वृक्षावासो मिताशनः । वानप्रस्थगृहेष्वेव यात्रार्थ भैक्षमाचरेत् ॥ ५४ ॥ अग्नीनात्मनि समारोप्य वृक्षावासो वृक्ष एव आवासः कुटी यस्य स तथोक्तः। मिताशनः स्वल्पाहारः अपिशब्दात्फलमूलाशनश्च भवेत् । यथाह मनुः
For Private And Personal Use Only
Page #366
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३३४
याज्ञवल्क्यस्मृतिः ।
[ प्रायश्चित्ताध्यायः
( ६ । २५ ) - ' अग्नीनात्मनि वैतानान्समारोप्य यथाविधि । अनग्निरनिकेतः स्यान्मुनिर्मूलफलाशनः ॥' इति । मुनिर्मौनव्रतयुक्तः । फलमूलासंभवे च यावत्प्राणधारणं भवति तावन्मात्रं भैक्षं वानप्रस्थगृहेष्वाचरेत् ॥ ५४ ॥
यदा तु तदसंभवो व्याध्यभिभवो वा तदा किं कार्यमित्यत आह
ग्रामादाहृत्य वा ग्रासानष्टौ भुञ्जीत वाग्यतः ।
ग्रामाद्वा भैक्षमाहृत्य वाग्यतो मौनी भूत्वा अष्टौ ग्रासान्भुञ्जीत । ग्राम्यभैक्षविधानान्मुन्यन्ननियमोsर्थलुप्तः । यदा पुनरष्टभिर्मासैः प्राणधारणं न संभवति तदा 'अष्टौ मासामुनेर्भेक्षं वानप्रस्थस्य षोडशे 'ति स्मृत्यन्तरोक्तं द्रष्टव्यम् ॥
१ वीराधानं ङ.
MEZNEGA
सकलानुष्ठानासमर्थं प्रत्याह
वायुभक्षः प्रागुदीचीं गच्छेदा वर्ष्मसंक्षयात् ॥ ५५ ॥
अथवा वायुरेव भक्षो यस्यासौ वायुभक्षः प्रागुदीचीमैशानीं दिशं गच्छेत् । आवर्ष्मसंक्षयात् वर्ष्म वपुस्तस्य निपातपर्यन्तमकुटिलगतिर्गच्छेत् । यथाह मनुः - ( ६।३१ ) - 'अपराजितां वास्थाय गच्छेद्दिशमजिह्यागः' इति । महाप्रस्थानेऽप्यशक्तौ भृगुपतनादिकं वा कुर्यात् । - ' वानप्रस्थो वीराध्वानं ज्वलना
प्रवेशनं भृगुपतनं वानुतिष्ठेत्' इति स्मरणात् । स्नानाचमनादिधर्मा ब्रह्मचारिप्रकरणाद्यभिहिताश्चाविरोधिनोऽस्यापि भवन्ति । - ' उत्तरेषां चैतदविरोधि' इति गौतमस्मरणात् । एवं प्रागुदितेन्दवादिदी शामहाप्रस्थानपर्यन्तं तनुत्यागान्तमनुतिष्ठन् ब्रह्मलोके पूज्यतां प्राप्नोति । यथाह मनुः ( ६।३२ ) - 'आसां महर्षिचर्याणां त्यक्त्वाऽन्यतमया तनुम् । वीतशोकभयो विप्रो ब्रह्मलोके महीयते ॥' इति । ब्रह्मलोकः स्थानविशेषो नतु नित्यं ब्रह्म । तत्र लोकशब्दस्याप्रयोगात् । तुरीयाश्रममन्तरेण मुक्त्यनङ्गीकाराच्च । नच 'योगाभ्यासेन वा पुनः' इति ब्रह्मोपासनविध्यनुपपत्त्या तद्भावापत्तिः परिशङ्कनीया । सालोक्यादिप्राहयर्थत्वेनापि तदुपपत्तेः । अतएव श्रुतौ 'त्रयो धर्मस्कन्धा' इत्युपक्रम्य 'यज्ञोऽध्ययनं दानमिति प्रथमः, तप एवेति द्वितीयः, ब्रह्मचर्याचार्यकुलवासी तृतीयः । अत्यन्तमाचार्यकुल एवमात्मानमवसादयन्निति गार्हस्थ्यवानप्रस्थनैष्ठिकत्व स्वरूपमभिधाय सर्व एते पुण्यलोका भवन्तीति त्रयाणामाश्रमिणां पुण्यलोकप्राप्तिमभिधाय ब्रह्मसंस्थोऽमृतत्वमेति' इति पारिशेष्यात्परिब्राजकस्यैव ब्रह्मसंस्थस्य मुक्तिलक्षणामृतत्वप्राप्तिरभिहिता । यदपि 'श्राद्धकृत्सत्यवादी च गृहस्थोऽपि विमुच्यते' इति गृहस्थस्यापि मोक्षप्रतिपादनं तद्भवान्तरानु भूतपारिव्रज्यस्येत्यवगन्तव्यम् ॥ ५५ ॥
इति वानप्रस्थधर्मप्रकरणम् ।
For Private And Personal Use Only
Page #367
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यतिधर्मप्रकरणम् ४] मिताक्षरासहिता। ३३५
अथ यतिधर्मप्रकरणम् ४ वैखानसधर्माननुक्रम्य क्रमप्राप्तान्परिव्राजकधर्मान्सांप्रतं प्रस्तौतिवनाद्गृहाद्वा कृत्वेष्टिं सार्ववेदसदक्षिणाम् । प्राजापत्यां तदन्ते ताननीनारोप्य चात्मनि ॥५६॥ अधीतवेदो जपकृत्पुत्रवानन्नदोऽग्निमान् ।
शक्त्या च यज्ञकृन्मोक्षे मनः कुर्यात्तु नान्यथा ॥ ५७ ॥ यावता कालेन तीव्रतपःशोषितवपुषो विषयकषायपरिपाको भवति पुनश्च मदोद्भवाशङ्का नोद्भाव्यते तावत्कालं वनवासं कृत्वा तत्समनन्तरं मोक्षे मनः कुर्यात् । वनगृहशब्दाभ्यां तरसंबन्ध्याश्रमो लक्ष्यते । मोक्षशब्देन च मोक्षकफलकश्चतुर्थाश्रमः ॥ अथवा गृहागार्हस्थ्यादनन्तरं मोक्षे मनः कुर्यात् । अनेन च पूर्वोक्तश्चतुराश्रमसमुच्चयपक्षः पाक्षिक इति द्योतयति । तथाच विकल्पो जाबालश्रुतौ श्रूयते-'ब्रह्मचर्य परिसमाप्य गृही भवेत् गृही भूत्वा वनी भवेत् वनी भूत्वा प्रवजेत् । यदि वेतरथा ब्रह्मचर्यादेव प्रवजेत् गृहाद्वा वनाद्वा' इति । तथा गार्हस्थ्योत्तराश्रमबाधश्च गौतमेन दर्शितः-'ऐकाश्रयं त्वाचा. र्याः प्रत्यक्षविधानाद्गार्हस्थ्यस्य' इति । एतेषां च समुच्चयविकल्पबाधपक्षाणां सर्वेषां श्रुतिमूलत्वादिच्छया विकल्पः । अतो यस्कैश्चित्पण्डितंमन्यैरुक्तम्-'स्मार्तत्वान्नैष्टिकरवादीनां गार्हस्थ्येन श्रौतेन बाधः गार्हस्थ्यानधिकृतान्धक्लीवादिविषयता वा' इति तत्स्वाध्यायाध्ययनवैधुर्यनिबन्धनमित्युपेक्षणीयम् । किंच-यथा विष्णुक्रमणाज्यावेक्षणाधक्षमतया पंग्वादीनां श्रौतेष्वनधिकारस्तथा सार्तेष्वप्युदकुम्भाहरणमिक्षाचर्यादिष्वक्षमत्वात्कथं पंग्वादिविषयतया नैष्ठिकत्वाद्याश्रमनिर्वाहः अस्मिंश्वाश्रमे ब्राह्मणस्यैवाधिकारः । मनुः (६२५)-'आस्मन्यनीन्समारो. प्य ब्राह्मणः प्रव्रजेद्गृहात् ।' तथा (६।९७)-'एष वोऽमिहितो धर्मो ब्राह्मणस्य चतुर्विधः' इत्युपक्रमोपसंहाराभ्यां मनुना ब्राह्मणस्याधिकारप्रतिपादनात् । 'ब्राह्मणाः प्रव्रजन्ति' इति श्रुतेश्चाग्रजन्मन एवाधिकारो न द्विजातिमात्र. स्य । अन्ये तु त्रैवर्णिकानां प्रकृतत्वात् 'त्रयाणां वर्णानां वेदमधीय चरवार आश्रमाः' इति सूत्रकारवचनाच द्विजातिमात्रस्याधिकारमाहुः ॥ यदा वनागृहा. द्वा प्रव्रजति तदा सार्ववेदसदक्षिणां सार्ववेदसी सर्ववेदसंबन्धिनी दक्षिणा यस्याः सा तथोक्ता तां प्रजापतिदेवताकामिष्टिं कृत्वा तदन्ते तान्वैतानाननीनात्मनि श्रुत्युक्तविधानेन समारोप्य । चशब्दात् 'उदगयने पौर्णमास्यां पुरश्चरणमादौ कृत्वा शुद्धेन कायेनाष्टौ श्राद्धानि निर्वपेत् द्वादश वा' इति बौधायनायुक्तं पुरश्चरणादिकं च कृत्वा तथापीतवेदो जपपरायणो जातपुत्रो दीनान्धकृपणार्पितार्थों यथाशक्त्यान्नदश्च भूत्वाऽनाहिताग्निज्येष्ठत्वादिना प्रतिबन्धाभावे कृताधानो
१ वानप्रस्थधर्मात् ङ. २ गाईस्थ्योत्तराश्रम. ख.
For Private And Personal Use Only
Page #368
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
याज्ञवल्क्यस्मृतिः।
[प्रायश्चित्ताध्याय:
नित्यनैमित्तिकान्यज्ञान्कृस्वा माझे मनः कुयात्-चतुथाश्रमं प्रविशेनान्यथा । अनेनानपाकृतर्णत्रयस्य गृहस्थस्य प्रव्रज्यायामधिकारं दर्शयति ॥ यथाह मनुः (६३५)-'ऋणानि त्रीण्यपाकृत्य मनो मोक्षे निवेशयेत् । अनपाकृत्य मोक्षं तु सेवमानो व्रजत्यधः ॥ इति ॥ यदा तु ब्रह्मचर्यात्प्रव्रजति तदा न प्रजोत्पादनादिनियमः । अकृतदारपरिग्रहस्य तत्रानधिकारात् रागप्रयुक्तत्वाच्च विवाहस्य । नच ऋणनयापाकरणविधिरेव दारानाक्षिपतीति शङ्कनीयम् । विद्याधनाजननियमवदन्यप्रयुक्तदारसंभवे तस्यानाक्षेपकत्वात् । ननु 'जायमानो वै ब्राह्मण. स्त्रिभिऋणवाञ्जायते ब्रह्मचर्येणर्षिभ्यो यज्ञेन देवेभ्यः प्रजया पितृभ्यः' इति जातमात्रस्यैव प्रजोत्पादनादीन्यावश्यकानीति दर्शयति । मैवम् । नहि जातमात्रः अकृतदाराग्निपरिग्रहो यज्ञादिष्वधिक्रियते तस्मादधिकारी जायमानो ब्राह्मणादिर्यज्ञादीननुतिष्ठेदिति तस्यार्थः । अतश्चोपनीतस्य वेदाध्ययनमेवावश्यकम् । कृतदाराग्निपरिग्रहस्य प्रजोत्पादनमपीति निरवचम् ॥ ५६ ॥ ५७ ॥ एवमधिकारिणं निरूप्य तद्धर्मानाह
सर्वभूतहितः शान्तस्त्रिदण्डी सकमण्डलुः ।
एकारामः परिव्रज्य भिक्षार्थी ग्राममाश्रयेत् ॥ ५८ ॥ . सर्वभूतेभ्यः प्रियाप्रियकारिभ्यो हित उदासीनो न पुनहिताचरणः । 'हिंसानुग्रहयोरनारम्भी' इति गौतममरणात्। शान्तो बाह्यान्तःकरणोपरतः। त्रयो दण्डा अस्य सन्तीति त्रिदण्डी । ते च दण्डा वैणवा ग्राह्याः। 'प्राजापत्येष्टयनन्तरं त्रीन्वै. णवान्दण्डान्मूर्धप्रमाणान्दक्षिणेन पाणिना धारयेत्सव्येन सोदकं कमण्डलुम्'इति स्मृत्यन्तरदर्शनात् । एकं वा दण्डं धारयेत् 'एकदण्डी त्रिदण्डी का' इति बौधा. यनस्सरणात् । 'चतुर्थमाश्रमं गच्छेब्रह्मविद्यापरायणः । एकदण्डी त्रिदण्डी वा सर्वसंगविवर्जितः ॥' इति चतुर्विंशतिमते दर्शनाच्च । तथा शिखाधारणमपि वैकल्पिकम् । 'मुण्डः शिखी वा' इति गौतमस्मरणात् । 'मुण्डोऽममोऽ क्रोधोऽपरिग्रहः' इति वसिष्ठस्मरणात् । तथा यज्ञोपवीतधारणमपि वैकल्पिकमेव । 'सशिखान्केशान्निकृन्त्य विसृज्य यज्ञोपवीतम्' इति काठकश्रुतिदर्शनात्'कुटुम्बं पुत्रदारांश्च वेदाङ्गानि च सर्वशः । केशान्यज्ञोपवीतं च त्यक्त्वा गूढश्वरे. न्मुनिः ॥' इति बाष्कलस्मरणाच्च 'अथ यज्ञोपवीतमप्सु जुहोतिभूःस्वाहेति अथ दण्डमादत्ते सखे मां गोपाय' इति परिशिष्टदर्शनाच्च । यद्यशक्तिस्तदा कन्थापि ग्राह्या । 'काषायी मुण्डस्त्रिदण्डी सकमण्डलुपवित्रपादुकासनकन्थामात्र' इति देवलमरणात् । शौचाद्यर्थं कमण्डलुसहितश्च भवेत् । एकारामः प्रबजितान्तरेणासहायः संन्यासिनीभिः स्त्रीभिश्च । स्त्रीणां चैक इति बौधायनेन स्त्रीणामपि प्रव्रज्यास्मरणात् । तथाच दक्षः-'एको भिक्षुर्यथोक्तश्च द्वावेव मिथुनं स्मृतम् । नयो ग्रामः समाख्यात ऊर्ध्वं तु नगरायते ॥ राजवार्तादि तेषां तु भिक्षावार्ता
१ शान्तः करणोपरतः क. २ मनोपरिग्रह. ङ.
For Private And Personal Use Only
Page #369
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यतिधर्मप्रकरणम् ४] . मिताक्षरासहिता।
३३७ परस्परम् । अपि पैशुन्यमात्सर्य समिकर्षान संशयः ॥' इति । परिव्रज्य परिपूर्वो अजतिस्त्यागे वर्तते । अतश्चाहंममामिमानं तस्कृतं च लौकिकं कर्मनिचयं वैदिक च नित्यकाम्यात्मकं संत्यजेत् । तदुक्तं मनुना (१२६८-९२)-'सुखाभ्युदयिकं चैव नैश्रेयसिकमेव च । प्रवृत्तं च निवृत्तं च द्विविधं कर्म वैदिकम् ॥ इह वामुत्र वा काम्यं प्रवृत्तं कर्म कीर्त्यते। निष्कामं ज्ञानपूर्वं तु निवृत्तमुपदिश्यते ॥ यथोक्तान्यपि कर्माणि परिहाय द्विजोत्तमः । आत्मज्ञाने शमे च स्याद्वेदाभ्यासे च यत्रवान् ॥' इति । अत्र वेदाभ्यासः प्रणवाभ्यासस्तन यलवान् । भिक्षाप्रयोजनार्थ ग्राममाश्रयेत्प्रविशेत् न पुनः सुखनिवासार्थम् । वर्षाकाले तु न दोषः । -'अर्व वार्षिकाभ्यां मासाभ्यां नैकस्थानवासी' इति शङ्खमरणात् । अशक्ती पुनर्मासचतुष्टयपर्यन्तमपि स्थातव्यं न चिरमेकत्र वसेदन्यत्र वर्षाकालात् ।'श्रावणादयश्चत्वारो मासा वर्षाकालः' इति देवलस्मरणात् । --'एकरानं वसे. ड्रामे नगरे रात्रिपञ्चकम् । वर्षाभ्योऽन्यत्र वर्षासु मासांस्तु चतुरो वसेत् ॥' इति काण्वसरणात् ॥ ५४॥ कथं भिक्षाटनं कार्यमित्यत आह
अप्रमत्तश्चरेद्वेक्षं सायाझेऽनभिलक्षितः ।
रहिते भिक्षुकामे यात्रामात्रमलोलुपः ॥ ५९॥ __ अप्रमत्तो वाकक्षुरादिचापलरहितो भैक्षं चरेत् । वसिष्ठेनात्र विशेषो दर्शितः-'ससागाराण्यसंकल्पितानि घरेझैशम्' इति । सायाहे अह्नः पञ्चमे भागे । तथाच मनुः (६५६)-'विधूमे सनमुसले व्यङ्गारे भुक्तवजने । वृत्ते शरावसंपाते नित्यं मिक्षा यतिश्वरेत् ॥' इति । तथा-'एककालं चरेशिक्षा प्रसज्येन तु विस्तरे । भैले प्रसक्तो हि यतिर्विषयेष्वपि सजति ॥' इति । अनभिलक्षितः ज्योतिर्विज्ञानोपदेशादिना अचिह्नितः । मनुः ( ६५०)-'न चोत्पातनिमित्ताभ्यां न नक्षत्राङ्गाविद्यया । नानुशासनवादाभ्यां भिक्षा लिप्सेत कर्हि चित् ॥' इति तेनोक्तत्वादिति ॥ यत्पुनर्वसिष्ठवचनम्-'ब्राह्मणकुले वा यल्लभेत्तद्भुञ्जीत सायंप्रातांसवय॑म्' इति । तदशक्तविषयम् । भिक्षुकैर्भिक्षणशीलैः पाखण्ड्यादिभिर्वर्जिते ग्रामे । मनुनात्र विशेष उक्तः (६५१)'न तापसैाह्मणैर्वा वयोभिरपि वा श्वभिः । आकीर्ण भिक्षुकैरन्यैरगारमुपसंवजेत् ॥' इति । यावता प्राणयात्रा वर्तते तावन्मानं भैक्षं चरेत् । तथाच सं. वर्तः-'अष्टौ भिक्षाः समादाय मुनिः सप्त च पञ्च वा। अद्भिः प्रक्षाल्य ताः सर्वास्ततोऽश्नीयाच वाग्यतः ॥' इति । अलोलुपो मिष्टाचव्यञ्जनादिष्वप्रसक्तः॥ भिक्षाचरणार्थ पात्रमाह
यतिपात्राणि मृद्वेणुदावलाबुमयानि च ।
सलिलं शुद्धिरेतेषां गोवालैश्वावघर्षणम् ॥ ६० ॥ १ नाभिलक्षित ङ, २ प्रसज्जेत् ऊ.
For Private And Personal Use Only
Page #370
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३३८
याज्ञवल्क्यस्मृतिः। [प्रायश्चित्ताध्यायः .... मृदादिप्रकृतिकानि यतीनां पात्राणि भवेयुः। तेषां सलिलं गोवालावधर्षणं च शुद्धिसाधनम् । इयंच शुद्धिभिक्षाचरणादिप्रयोगाङ्गभूता नाऽमेध्याधुपहतिविपया । तदुपधाते द्रव्यशुद्धिप्रकरणोक्ता द्रष्टव्या । अतएव मनुना (६५३)'अतैजसानि पात्राणि तस्य स्युर्निव्रणानि च । तेषामद्भिः स्मृतं शौचं चमसानामिवाध्वरे ॥' इति । चमसदृष्टान्तोपादानेन प्रायोगिकी शुद्धिदर्शिता । पात्रान्तराभावे भोजनमपि तत्रैव कार्यम् । तद्ब्रक्ष्यं गृहीत्वैकान्ते तेन पात्रेणान्येन वा तूष्णीं प्राणमात्रं भुञ्जीतेति देवलस्मरणात् ॥ ६० ॥ एवंभूतस्य यतेरात्मौपासनाङ्गं नियमविषयमाह
संनिरुध्येन्द्रियग्रामं रागद्वेषौ प्रहाय च ।
भयं हित्वा च भूतानाममृतीभवति द्विजः ॥ ६१ ॥ चक्षुरादीन्द्रियसमूहं रूपादिविषयेभ्यः सम्यनिरुध्य विनिवर्त्य रागद्वेषौ प्रियाप्रियविषयौ प्रहाय त्यक्त्वा शब्दादीादीनपि तथा भूतानामपैकारेण भयमकुर्वन् शुद्धान्तःकरणः सनद्वैतसाक्षात्कारेणामृतीभवति मुक्तो भवति ॥ ६ ॥
कर्तव्याऽऽशयशुद्धिस्तु भिक्षुकेण विशेषतः ।
ज्ञानोत्पत्तिनिमित्तत्वात्स्वातयकरणाय च ॥ ६ ॥ किंच । विषयाभिलाषद्वेषजनितदोषकलुषितस्याशयस्यान्तःकरणस्य शुद्धिः कल्मषक्षयः प्राणायामैः कर्तव्या । तस्याः शुद्धरास्माद्वैतसाक्षात्काररूपज्ञानोत्पचिनिमित्तत्वात् । एवंच सति विषयासक्तितजनितदोषात्मकप्रतिबन्धक्षये सत्यामध्यानधारणादौ स्वतन्त्रो भवति । तस्माद्भिक्षुकेण त्वेषा शुद्धिर्विशेषतोऽनुष्ठेया। तस्य मोक्षप्रधानत्वात् । मोक्षस्य च शुद्धान्तःकरणतामन्तरेण दुर्लभत्वात् । यथाह मनुः (६७१)-'दह्यन्ते ध्मायमानानां धातूनां हि यथा मलाः । तथेन्द्रियाणां दह्यन्ते दोषाः प्राणस्य निग्रहात् ॥' इति ॥ ६२॥ इन्द्रियनिरोधोपायतया संसारस्वरूपनिरूपणमाह
आवेक्ष्या गर्भवासाश्च कर्मजा गतयस्तथा । आधयो व्याधयः क्लेशा जरारूपैविपर्ययः ॥ ६३ ॥ भवो जातिसहस्रेषु प्रियाप्रियविपर्ययः । वैराग्यसिद्ध्यर्थं मूत्रपुरीषादिपूर्णनानाविधगर्भवासा आवेक्षणीयाः पर्यालोचनीयाः। चशब्दाजननोपरमावपि । तथा निषिद्धाचरणादिक्रियाजन्या महारौरवादिनिरयपतनरूपा गतयः। तथाधयो मनःपीडाः, व्याधयश्च ज्वरातीसाराद्याः शारीराः, केशाः अविद्यास्मितारागद्वेषाभिनिवेशाः पञ्च, जरा वलीपलिताद्यभिभवः, रूपविपर्ययः खञ्जकुजत्वादिना प्राक्तनस्य रूपस्यान्यथाभावः, तथा
१ भिक्षाहरणप्रयोग ङ. २ अपकारणेन ऊ. ३ मोक्षप्रसाधनत्वात् ङ. ४ रूपविपर्ययाः ङ.
For Private And Personal Use Only
Page #371
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यतिधर्मप्रकरणम् ४ ] मिताक्षरासहिता ।
श्वसूकरखरोरगायनेकजातिषु भव उत्पत्तिः । तथा इष्टस्याप्राप्तिः अनिष्टस्य प्राप्तिरित्यादिबहुतरक्लेशावहं संसारस्वरूपं पर्यालोच्य तत्परिहारार्थमात्मज्ञानोपायभूतेन्द्रियजये प्रयतेत ॥ ६३ ॥ एवमवेक्ष्यानन्तरं किं कार्यमित्यत आह
ध्यानयोगेन संपश्येत्सूक्ष्म आत्मात्मनि स्थितः ॥ ६४॥ योगश्चित्तवृत्तिनिरोधः आस्मैकाग्रता ध्यानं तस्या एव बाह्यविषयत्वोपरमः ध्यानयोगेन निदिध्यासतापरपर्यायेण सूक्ष्मशरीरप्राणादिव्यतिरिक्तः क्षेत्रज्ञ आत्मा आत्मनि ब्रह्मण्यवस्थितः इत्येवं तत्वंपदार्थयोरभेदं सम्यक् पश्येदपरो. क्षीकुर्यात् । अतएव श्रुतौ 'मात्मा वारे द्रष्टव्यः' इति साक्षात्काररूपं दर्शनमनूद्य तत्साधनत्वेन 'श्रोतव्यो मन्तव्यो निदिध्यासितव्यः' इति श्रवणमनन निदिध्यासनानि विहितानि ॥ ६ ॥
नाश्रमः कारणं धर्मे क्रियमाणो भवेद्धि सः ।
अतो यदात्मनोऽपथ्यं परेषां न तदाचरेत् ॥६५॥ किंच । प्राक्तनश्लोकोक्तात्मोपासनाख्ये धर्मे नाश्रमो दण्डकमण्डल्वादिधारण कारणम् । यस्मादसौ क्रियमाणो भवे देव नातिदुष्करः। तस्माद्यदात्मनोऽपथ्यमुद्वेगकरं परुषभाषणादि तत्परेषां न समाचरेत् । अनेन ज्ञानोत्पत्तिहेतुभूतान्त:करणशुद्ध्यापादनत्वेनान्तरङ्गत्वाद्रागद्वेषप्रहाणस्य प्रधानरवेन प्रशंसार्थमाश्रमनिराकरणं न पुनस्तत्परित्यागाय तस्यापि विहितत्वात् । तदुक्तं मनुना (६॥ ६६)-'दूषितोऽपि चरेद्धर्म यत्र तत्राश्रमे वसन् । समः सर्वेषु भूतेषु न लिङ्गं धर्मकारणम् ॥' इति ॥ ३५॥
सत्यमस्तेयमक्रोधो हीः शौचं धीतिर्दमः ।
संयतेन्द्रियता विद्या धर्मः सर्व उदाहृतः॥ ६६ ।। किंच । सत्यं यथार्थप्रियवचनम् । अस्तेयं परद्रव्यानपहारः । अक्रोधोऽपकारिण्यपि क्रोधस्यानुत्पादनम् । हीर्लजा । शौचमाहारादिशुद्धिः । धीहिताहितविवेकः । तिरिष्टवियोगेऽनिष्टप्राप्तौ प्रचलितचित्तस्य यथापूर्वमवस्थापनम् । दमो मद त्यागः । संयतेन्द्रियता अप्रतिषिद्धेष्वपि विषयेष्वनतिसङ्गः । विद्या आत्मज्ञानम् । एतैः सत्यादिभिरनुष्ठितः सर्वो धर्मोऽनुष्ठितो भवति । अनेन द. ण्डकमण्डल्वादिधारणबाह्यलक्षणात्सत्यादीनामारमगुणानामन्तरङ्गतां द्योतयति ॥
ननु ध्यानयोगेनात्मनि स्थितमात्मानं पश्येदित्ययुक्तं जीवपरमात्मनोर्भेदाभावादित्यत आह--
निःसरन्ति यथा लोहपिण्डात्तप्तात्स्फुलिङ्गकाः। सकाशादात्मनस्तद्वदात्मानः प्रभवन्ति हि ॥ ६७ ॥
For Private And Personal Use Only
Page #372
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
याज्ञवल्क्यस्मृतिः ।
Acharya Shri Kailassagarsuri Gyanmandir
३४०
यद्यपि जीवपरमात्मनोः पारमार्थिको भेदो नास्ति तथाप्यात्मनः सकाशादविद्योपाधिभेदभिन्नतया जीवात्मानः प्रभवन्ति हि यस्मात् तस्माद्युज्यत एव जीवपरमात्मनोर्भेदव्यपदेशः । यथाहि तप्ताल्लोहपिण्डादयो गोलकाद्विस्फुलिङ्गकास्तेजोवयवा निःसरन्ति निःसृताश्च स्फुलिङ्गव्यपदेशं लभन्ते तद्वत् । अत उपपनं आत्मात्मनि स्थितो द्रष्टव्य इति । यद्वायमर्थः । ननु सुषुप्तिसमये प्रलये च सकल क्षेत्रज्ञानां ब्रह्मणि प्रलीनत्वात्कस्यायमात्मोपासना विधिरित्यत आहनिःसरन्तीत्यादि । यद्यपि सूक्ष्मरूपेण प्रलयवेलायां प्रलीनास्तथाप्यात्मनः सकाशादविद्योपाधिभेदभिन्नतया जीवात्मानः प्रभवन्ति, पुनः कर्मवशात्स्थूलशराभिमानिनो जायन्ते, तस्मान्नोपासनाविधिविरोधः तैजसस्य पृथग्भावसाम्याल्लोहपिण्डदृष्टान्तः ॥ ६७ ॥
[ प्रायश्चित्ताध्यायः ।
ननु चानुपात्तवपुषां क्षेत्रज्ञानां निष्परिस्पन्दतया कथं तन्निबन्धनो जरायुजाण्डजादिचतुर्विधदेहपरिग्रह इत्यत आह
तत्रात्मा हि स्वयं किंचित्कर्म किंचित्स्वभावतः | करोति किंचिदभ्यासाद्धर्माधर्मोभयात्मकम् ॥ ६८ ॥
यद्यपि तस्यामवस्थायां परिस्पन्दात्मकक्रियाभावस्तथापि धर्माधर्माध्यवसायात्मकं कर्म मानसं भवत्येव । तस्य च विशिष्टशरीरग्रहणहेतुत्वमस्त्येव । ( १२१९ ) - वाचिकैः पक्षिमृगतां मानसैरन्त्यजातिताम्' इति मनुस्मरणात् । एवं गृहीतवपुः स्वयमेवान्वयव्यतिरेक निरपेक्षः, स्तन्यपानादिके कृते तृप्तिर्भवत्यकृते न भवतीत्येवंरूपौ यावन्वयव्यतिरेकौ तत्र निरपेक्षं प्राग्भवीयानुभव भावितभावनानुभावोद्भूतकार्यावबोधः किंचितस्तन्यपानादिकं करोति, किंचित्स्वभावतो यदृच्छया प्रयोजनाभिसंधिनिरपेक्षं पिपीलिकादिभक्षणं करोति, किंचिद्भवान्तराभ्यासवशाद्धर्माधर्मोभयरूपं करोति । तथाच स्मृत्यन्तरम् -' प्रतिजन्म यदभ्यस्तं दानमध्ययनं तपः । तेनैवाभ्यासयोगेन तदेवाभ्यसते पुनः ॥' इति ॥ एवं जीवानां कर्मवैचित्र्यं तत्कृतं जरायुजादिदेहवैचित्र्यं युज्यत एव ॥ ६८ ॥ नन्वेवं सति ब्राह्मण एव कथंचिज्जीवव्यपदेश्यत्वात्तस्य च नित्यत्वादिधर्मत्वात्कथं विष्णुमित्रो जात इति व्यवहार इत्याशङ्कयाह
निमित्तमक्षरः कर्ता बोद्धा ब्रह्म गुणी वशी ।
अजः शरीरग्रहणात्स जात इति कीर्त्यते ॥ ६९ ॥ .
सत्यमात्मा सकलजगत्प्रपञ्चाविर्भावेऽविद्यासमावेशवशात्समवाय्यसमवायिनिमित्तमित्येवं स्वयमेव त्रिविधमपि कारणं न पुनः कार्यकोटिनिविष्टः । यस्मादक्षरोऽविनश्वरः । ननु सत्वादिगुणविकारस्य सुखदुःखमोहात्मकस्य कार्य भूते जगत्प्रपञ्चे दर्शनात्तद्गुणवत्याः प्रकृतेरेव जगत्कर्तृतोचिता न पुनर्निर्गुणस्य ब्रह्मणः । मैवं मंस्थाः । आत्मैव कर्ता । यस्मादसौ जीवोपभोग्यसुखदुःखहेतुं भूतादृष्टा दे
I
१ स्पन्दतया कथं ख. २ हेतुपुण्यापुण्यादेर्बोद्धा ङ.
For Private And Personal Use Only
Page #373
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
यतिधर्मप्रकरणम् ४] मिताक्षरासहिता ।
बौद्धा । नह्यचेतनायाः प्रकृतेर्नामरूपव्याकृत विचित्र भोक्तृवर्गभोगानुकूलभोग्यभोगायतना दियोगिजगत्प्रपञ्च रचना घटते । तस्मादात्मैव कर्ता । तथा स एव ब्रह्म बृंहको विस्तारकः । नचासौ निर्गुणः । यतस्तस्य त्रिगुणशक्तिरविद्या प्रकृतिप्रधानाद्यपरपर्याया विद्यते । अतः स्वतो निर्गुणत्वेऽपि शक्तिमुखेन सत्वादिगुणयोगी कथ्यते । नचैतावता प्रकृतेः कारणता, यस्मादात्मैव वशी स्वतन्त्रः न प्रकृतिर्नाम स्वतन्त्रं तत्त्वान्तरं तादृग्विधवे प्रमाणाभावात् । नच वचनीयं शक्तिरूपापि सैव कर्तृभूतेति । यतः शक्तिमत्कारकं न शक्तिः, तस्मादात्मैव जगतस्त्रिविधमपि कारणम् । तथा अज उत्पत्तिरहितः । अतस्तस्य यद्यपि साक्षाज्जननं नोपपद्यते तथापि शरीरग्रहणमात्रेण जात इत्युच्यते अवस्थान्तरयोगितयोत्पत्तेगृहस्थो जात इतिवत् ॥ ६९ ॥
शरीरग्रहणप्रकारमाह
सर्गादौ स यथाकाशं वायुं ज्योतिर्जलं महीम् । सृजत्येकोत्तरगुणांस्तथादत्ते भवन्नपि ॥ ७० ॥
सृष्टिसमये स परमात्मा यथाकाशादीन् शब्दैकगुणं गगनं, शब्दस्पर्शगुणः पवनः, शब्दस्पर्शरूपगुणं तेजः, शब्दस्पर्शरूपरसगुणवदुदकम्, शब्दस्पर्शरूपरसगन्धगुणा जगतीत्येवमेकोत्तरगुणान् सृजति । तथात्मा जीवभावमापन्नो भवन्नुत्पद्यमानोऽपि स्वशरीरस्यारम्भकत्वेनापि गृह्णाति ॥ ७० ॥
कथं शरीरारम्भकत्वं पृथिव्यादीनामित्यत आह
आहुत्याप्यायते सूर्यः सूर्याद्वृष्टिरथौषधिः ।
३४१
तदन्नं रसरूपेण शुक्रलमधिगच्छति ॥ ७१ ॥
यजमानैः प्रक्षिप्तयाहुत्या पुरोडाशादिरसेनाप्यायते सूर्यः । सूर्याच्च कालवशेन परिपक्वा ज्यादिहवीरसादृष्टिर्भवति । ततो ब्रीह्माद्यौषधिरूपमन्नम् । तच्चान्नं सेवितं सत् रसरुधिरादिक्रमेण शुक्रशोणितभावमापद्यते ॥ ७१ ॥
ततः किमित्यत आह
स्त्रीपुंसयोस्तु संयोगे विशुद्धे शुक्रशोणिते । पञ्चधातून्खयं षष्ठ आदत्ते युगपत्प्रभुः ॥ ७२ ॥
ऋतुवेलायां स्त्रीपुंसयोर्योगे शुक्रं च शोणितं च शुक्रशोणितं तस्मिन्परस्परसंयुक्ते विशुद्धे 'वातपित्तश्लेष्म दुष्टग्रन्थिपूयक्षीण मूत्रपुरीषगन्धरे तांस्य बीजानि ' इति स्मृत्यन्तरोक्तदोषरहिते स्थित्वा पञ्चधातून् पृथिव्यादिपञ्चमहाभूतानि श रीरारम्भकतया स्वयं षष्ठश्रिद्धातुरात्मा प्रभुः शरीरारम्भकारणादृष्टकर्मयोगितया समर्थो युगपदादत्ते योगायतनत्वेन स्वीकरोति' । तथाच शारीरके - 'स्त्रीपुंसयोः संयोगे योनौ रजसामिसंसृष्टं शुकं तत्क्षणमेव सह भूतात्मना गुणैश्च सत्वरजस्तमोभिः सह वायुना प्रेर्यमाणं गर्भाशये तिष्ठति' इति ॥ ७२ ॥
१ रसवदुदकम् ख २ रम्भकरणे दुष्ट ख.
For Private And Personal Use Only
Page #374
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३४२
याज्ञवल्क्यस्मृतिः। [प्रायश्चित्ताध्यायः
इन्द्रियाणि मनः प्राणो ज्ञानमायुः सुखं धृतिः। धारणा प्रेरणं दुःखमिच्छाहंकार एव च ॥ ७३ ॥ प्रयत्न आकृतिर्वर्णः स्वरद्वेषौ भवाभवौ ।
तस्यैतदात्मजं सर्वमनादेरादिमिच्छतः ॥ ७४ ॥ किंच । इन्द्रियाणि ज्ञानकर्मेन्द्रियाणि वक्ष्यमाणानि । मनश्चोभयसाधारणम् । प्राणोऽपानो व्यान उदानः समान इत्येवं पञ्चवृत्तिभेदभिन्नः शारीरो वायुः प्राणः ज्ञानमवगमः । आयुः कालविशेषावच्छिन्नं जीवनम् । सुखं निर्वृतिः। धृतिश्चित्तस्थैर्यम् । धारणा प्रज्ञा मेधा च । प्रेरणं ज्ञानकर्मेन्द्रियाणामधिष्ठातृत्वम् । दुःखमुद्वेगः । इच्छा स्पृहा । अहंकारोऽहंकृतिः । प्रयत्न उद्यमः । आकृतिराकारः । वर्णो गौरिमादिः । स्वरः षड्जगान्धारादिः । द्वेषो वैरम् । भवः पुत्रपश्चादिविभवः । अभवस्तद्विपर्ययः । तस्यानादेरात्मनो नित्यस्यादिमिच्छतः शरीरं जिघृ. क्षमाणस्य सर्वमेतदिन्द्रियादिकमात्मजनितं प्राग्भवीयकर्मबीजजन्यमित्यर्थः ॥ संयुक्तशुक्रशोणितस्य कार्यरूपपरिणतौ क्रममाह
प्रथमे मासि संक्लेदभूतो धातुविमच्छितः ।
मास्यबुदं द्वितीये तु तृतीयेऽङ्गेन्द्रियैर्युतः ॥ ७५ ॥ असौ चेतनः षष्ठो धातुः धातुविमूछितो धातुषु पृथिव्यादिषु विमूच्छितो लोलीभूतः । क्षीरनीरवदेकीभूत इति यावत् । प्रथमे गर्भमासे संक्लेदभूतो
वरूपतां प्राप्त एवावतिष्ठते न कठिनतया परिणमते । द्वितीयेषु मास्यर्बुदमीष. स्कठिनमांसपिण्डरूपं भवति । अयमभिप्रायः-कौठ्यपवनजठरदहनाभ्यां प्रतिदिनमीपदीपच्छोष्यमाणं शुक्रसंपर्क संपादितद्रवीभावं भूतजातं त्रिंशद्भिर्दिनैः काठिन्यमापद्यत इति । तथाच सुश्रुते-'द्वितीये शीतोष्णानिलैरभिपच्यमानो भूतसंघातो घनो जायते' इति । तृतीये तु मास्यङ्गैरिन्द्रियैश्च संयुक्तो भवति ७५
आकाशाल्लाघवं सौम्यं शब्दं श्रोत्रं बलादिकम् । वायोश्च स्पर्शनं चेष्टां व्यूहनं रौक्ष्यमेव च ।। ७६ ।। पित्तात्तु दर्शनं पक्तिमौष्ण्यं रूपं प्रकाशिताम् । रसात्तु रसनं शैत्यं स्नेहं क्लेदं समार्दवम् ॥ ७७ ॥ भूमेर्गन्धं तथा घ्राणं गौरवं मूर्तिमेव च ।
आत्मा गृह्णात्यजः सर्व तृतीये स्पन्दते ततः ॥ ७८ ॥ किंच । आत्मा गृह्णातीति सर्वत्र संबध्यते । गगनालघिमानं लङ्घन क्रियोपयोगिनम् । सौक्ष्म्यं सूक्ष्मेक्षित्वम् । शब्द विषयम् । श्रोत्रं श्रवणेन्द्रिम् । बलं
१ कोठपवन ऊ. २ संपर्का द्रवीभूतं ङ.
For Private And Personal Use Only
Page #375
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यतिधर्मप्रकरणम् ४ ]
मिताक्षरासहिता ।
३४३
दाम् । आदिग्रहणात्सुषिरत्वं विविक्ततां च । - ' आकाशाच्छन्दं श्रोत्रं विविततां सर्वच्छिद्रसमूहांश्च' इति गर्भोपनिषद्दर्शनात् पवनात्स्पर्शेन्द्रियम् । चेष्टां गमनागमनादिकाम् । व्यूहनमङ्गानां विविधं प्रसारणम् । रौक्ष्यं कर्कशत्वं चशब्दात्स्पर्श च । पित्तात्तेजसो दर्शनं चक्षुरिन्द्रियम् । पक्तिं भुक्तस्यान्नस्य पचनम् । औष्ण्यमुष्णस्पर्शत्वमङ्गानाम् । रूपं इयामिकादि । प्रकाशितां भ्राजि - ष्णुतां । तथा संतापामर्षादि च । - ' शौर्यामर्षतैक्ष्ण्यपत्तयौष्ण्य भ्राजिष्णुता संतापवर्णरूपेन्द्रियाणि तैजसानि ' इति गर्भोपनिषद्दर्शनात् । एवं रसादुदकाद्वसनेन्द्रियम् । शैत्यमङ्गानां स्निग्धताम्। मृदुत्वसहितं वेदमाताम् । तथा भूमेगन्धं घ्राणेन्द्रियं गरिमाणं मूर्तिं च । सर्वमेतत्परमार्थतो जन्मरहितोऽप्यात्मा तृतीये मासि गृह्णाति । ततश्चतुर्थे मासि स्पन्दते चलति । तथा शारीरके'तस्माच्चतुर्थे मासि चलनादावभिप्रायं करोति' इति ॥ ७६ ॥ ७७ ॥ ७८ ॥
I
दौहृदस्याप्रदानेन गर्भो दोषमवाप्नुयात् ।
वैरूप्यं मरणं वापि तस्मात्कार्य प्रियं स्त्रियाः ॥ ७९ ॥
किंच । गर्भस्यैकं हृदयं गर्भिण्याश्चापरमित्येवं द्विहृदया तस्याः स्त्रिया यदभिलषितं तत् द्वैौहृदं तस्याप्रदानेन गर्भो विरूपतां मरणरूपं वा दोषं प्राप्नोति । तस्मात्तद्दोषपरिहारार्थ गर्भपुष्ट्यर्थं च गर्भिण्याः स्त्रियाः यत्प्रियमभिलषितं तत्संपादनीयम् । तथाच सुश्रुते - द्विहृदयां नारीं दौहृदिनीमाचक्षते तदभिलषितं दद्यात् वीर्यवन्तं चिरायुषं पुत्रं जनयति' इति । तथाच व्यायामादिकमपि गर्भग्रहणप्रभृति तथा परिहरणीयम् । ततः प्रभृति व्यायामव्यवायातितर्पणदिवास्वमरात्रि जागरणशोकभययानारोहणवेगधारण कुक्कुटासनशोणितमोक्षणानि परिहरेत्' इति तत्रैवाभिधानात् । गर्भग्रहणं च श्रमादिभिर्लिङ्गैरवगन्तव्यम् । 'सद्यो गृहीत गर्भायाः श्रमो ग्लानिः पिपासा सक्थेिंसीदनं शुक्रशोणितयोरेवबन्धः स्फुरणं च योनेः' इत्यादि तत्रैवोक्तम् ॥ ७९ ॥
स्थैर्यं चतुर्थे खङ्गानां पञ्चमे शोणितोद्भवः ।
पठे बलस्य वर्णस्य नखरोम्णां च संभवः ॥ ८० ॥
किंच | तृतीये मासि प्रादुर्भूतस्याङ्गसङ्घस्य चतुर्थे मासि स्थैर्ये स्थेमा भवति । पञ्चमे लोहितस्योद्भव उत्पत्तिः । तथा षष्ठे बलस्य वर्णस्य कररुहरोम्णां च संभवः ॥ ८० ॥
मनश्चैतन्ययुक्तोऽसौ नाडीना युशिरायुतः ।
सप्तमे चाष्टमे चैव त्वमांसस्मृतिमानपि ॥ ८१ ॥
किंच । असौ पूर्वोक्तो गर्भः सप्तमे मासि मनसा चेतसा चेतनया च युक्तो
1
१ दोहदस्याप्रदानेन ङ. २ द्विहृदयायाः स्त्रिया. ङ. २ दोहदम् ङ. ४ सक्थिसादनंः ङ. ५ रनुबन्धः ङ.
या० ३२
For Private And Personal Use Only
Page #376
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
३४४
Acharya Shri Kailassagarsuri Gyanmandir
याज्ञवल्क्यस्मृतिः ।
[ प्रायश्चित्ताध्यायः
नाडीभिर्वायुवाहिनीभिः स्नायुमिरस्थिबन्धनैः शिरामिर्वातपित्तश्लेष्मवाहिनी - भिश्च संयुतः । तथाष्टमे मासि त्वचा मांसेन स्मृत्या च युक्तो भवति ॥ ८१ ॥ पुनर्धात्रीं पुनर्गर्भमोजस्तस्य प्रधावति ।
अष्टमे मास्यतो गर्भो जातः प्राणैर्वियुज्यते ॥ ८२ ॥
।
किंच । तस्याष्टममासिकस्य गर्भस्यौजः कश्चन गुणविशेषो धात्रीं गर्भं च प्रति पुनः पुनरतितरां चञ्चलतया शीघ्रं गच्छति । अतोऽष्टमे मासि जातो गर्भः प्राणैर्वियुज्यते । आनेनौजः स्थितिरेव जीवनहेतुरिति दर्शयति ॥ ओजःस्वरूपं च स्मृत्यन्तरे दर्शितम् - 'हृदि तिष्ठति यच्छुद्धमीषदुष्णं सपीतकम् । ओजः शरीरे संख्यातं तन्नाशान्नाशमृच्छति ॥' इति ॥ ८२ ॥
नवमे दशमे वापि प्रबलैः सूतिमारुतैः ।
निःसार्यते वाण इव यच्छिद्रेण सज्वरः ॥ ८३ ॥
किंच । एवं करचरणचक्षुरादिपरिपूर्णाङ्गेन्द्रियो नवमे दशमे वापि मासे अपिशब्दात्प्रागपि सप्तमेऽष्टमे वा अत्यायासादिदोषवत्प्रबलसूतिहेतुप्रभञ्जनप्रेरितस्त्रायवस्थिचर्मादिनिर्मितवपुर्यत्रस्य छिद्रेण सूक्ष्मसुषिरेण सज्वरो दुःसहदुःखाभिभूयमानो निःसार्यते धनुर्यत्रेण सुधन्वप्रेरितो बाण इवातिवेगेन निर्गम. समनन्तरं च बाह्यपवनस्पृष्टो नष्टप्राचीनस्मृतिर्भवति । 'जातः स वायुना स्पृष्टो न स्मरति पूर्व जन्म मरणं कर्म च शुभाशुभम्' इति निरुक्तस्याष्टादशेऽभिधानात् ॥ ८३॥
कायस्वरूपं विवृण्वन्नाह
तस्य षोढा शरीराणि षट् त्वचो धारयन्ति च ।
षडङ्गानि तथास्थां च सह षष्ट्या शतत्रयम् ॥ ८४ ॥
तस्यात्मनो यानि जरायुजाण्डजशरीराणि तानि प्रत्येकं षट्प्रकाराणि रक्तादिषधातु परिपाक हेतु भूतषडग्निस्थानयोगित्वेन । तथा ह्यन्नरसो जाठराग्निना पच्यमानो रक्ततां प्रतिपद्यते । रक्तं च स्वकोशस्थेनामिना पच्यमानं मांसत्वम् । मांसं च स्वकोशानलपरिपक्कं मेदस्त्वम् । मेदोऽपि स्वकोशवह्निना पक्कमस्थिताम् । अस्थ्यपि स्वकोशशिखिपरिपक्कं मज्जात्वम् । मज्जापि स्वकोशपावकपरिपच्यमानचरमधातुतया परिणमते । चरमधातोस्तु परिणतिर्नास्तीति स एवात्मनः प्रथमः कोशः । इत्येवं षट्कोश | ग्नियोगित्वात् षट्प्रकारत्वं शरीराणाम् । अन्नरसरूपस्य तु प्रथमधातोरनियतत्वान्न तेन प्रकारान्तरत्वम् । तानि च शरीराणि षट् त्वचो धारयन्ति रक्तमांसमेदोस्थिमज्जाशुक्राख्याः षट् धातव एव रम्भास्तम्भत्वगिव बाह्याभ्यन्तररूपेण स्थिताः त्वगिवाच्छ । दकत्वात्वचखाः षट्त्वचो धारयन्ति । तदिदमायुर्वेदप्रसिद्धम् । तथाङ्गानि च षडेव करयुग्मं चरणयुगलमुत्तमाङ्ग
१ तथाष्टम ङ.
For Private And Personal Use Only
Page #377
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यतिधर्मप्रकरणम् ४] मिताक्षरासहिता ।
गात्रमिति । अस्मां तु षष्टिसहितं शतत्रयमुपरितनषद् श्लोक्या वक्ष्यमाणमवगन्तव्यम् ॥ ८४ ॥
स्थालैः सह चतुःषष्टिर्दन्ता वै विंशतिर्नखाः । पाणिपादशलाकाश्च तेषां स्थानचतुष्टयम् ॥ ८५ ॥
किंच | स्थालानि दन्तमूलप्रदेशस्थान्यस्थीनि द्वात्रिंशत्तैः सह द्वात्रिंशद्दन्ताश्चतुःषष्टिर्भवन्ति । नखाः करचरणरुहा विंशतिर्हस्तपादस्थानि शलाकाकाराण्यस्थीनि मणिबन्धस्योपरिवर्तनि अङ्गुलिमूलस्थानि विंशतिरेव । तेषां नखानां शलाकास्तां च स्थानचतुष्टयं द्वौ चरणौ करौ चेत्येवमस्थां चतुरुत्तरं शतम् ॥८५॥ षट्यङ्गुलीनां द्वे पायोर्गुल्फेषु च चतुष्टयम् । चत्वार्यरनिकास्थीनि जङ्घयोस्तावदेव तु ॥ ८६ ॥
I
किंच । विंशतिरकुलयस्तासां एकैकस्यास्त्रीणि त्रीणीत्येवमङ्गुलिसंबन्धीन्यस्थीनि षष्टिर्भवन्ति । पादयोः पश्चिमौ भागौ पाणी तयोरस्थीनि द्वे एकैकस्मिपादे गुल्फौ द्वावित्येवं चतुर्षु गुल्फेषु चत्वार्यस्थीनि, बाहोररतिप्रमाणानि चत्वार्यस्थीनि जङ्घयोस्तावदेव चत्वार्येवेत्येवं चतुःसप्ततिः ॥ ८६ ॥
द्वे जानुकपोलो रुफलकांससमुद्भवे ।
अक्षतालूषक श्रोणीफलके च विनिर्दिशेत् ॥ ८७ ॥
३४५
किंच । जङ्घोरुसन्धिर्जानुः, कपोलो गल्लः, ऊरुः सक्थि तत्फलकं, अंसो भुजशिरः, अक्षः कर्णनेत्रयोर्मध्ये शङ्खादधोभागः, तालूषकं काकुदं श्रोणी ककुद्मती तत्फलकं, तेषामेकैकनास्थीनि द्वेद्वे विनिर्दिशेदित्येवं चतुर्दशास्थीनि भवन्ति ॥ ८७ ॥
भगास्थ्येकं तथा पृष्ठे चत्वारिंशच्च पञ्च च ।
ग्रीवापञ्चदशास्थि: स्यात्र्वेकैकं तथा हनुः ॥ ८८ ॥
किंच | गुह्यास्थ्येकं पृष्ठे पश्चिमभागे पञ्चचत्वारिंशदस्थीनि भवन्ति । ग्रीवा कंधरा सा पञ्चदशास्थि स्यात् भवेत् । वक्षोंसयोः सन्धिर्जत्रु प्रतिजत्रु एकैकम्, हनुश्चिबुकम् तत्राप्येकमस्थीत्येवं चतुःषष्टिः ॥ ८८ ॥
तन्मूले द्वे ललाटाक्षिगण्डे नासाघनास्थिका । पार्श्वकाः स्थालकैः सार्धमर्बुदैश्च द्विसप्ततिः ।। ८९ ।।
किंच । तस्य हनोर्मूलेऽस्थिनी द्वे । ललाटं भालं अक्षि चक्षुः गण्डः कपोलाक्षयोर्मध्यप्रदेशः तेषां समाहारो ललाटाक्षिगण्डं तत्र प्रत्येकमस्थियुगुलम् । नासा घनसंज्ञकास्थिती । पार्श्वकाः कक्षाधः प्रदेश संबद्धान्यस्थीनि तदाधारभूतानि स्थालकानि तैः स्थालकैः अर्बुदैश्वास्थिविशेषैः सह पार्श्वका द्विसप्ततिः । पूर्वोकैश्च नवभिः सार्धमेकाशीतिर्भवन्ति ॥ ८९ ॥
For Private And Personal Use Only
Page #378
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
याज्ञवल्क्यस्मृतिः। [प्रायश्चित्ताध्यायः द्वौ शङ्खको कपालानि चत्वारि शिरसस्तथा ।
उरः सप्तदशास्थीनि पुरुषस्यास्थिसंग्रहः ॥ ९० ॥ किंच । भ्रूकर्णयोर्मध्यप्रदेशावस्थिविशेषौ शङ्खको । शिरसः संबन्धीनि चत्वारि कपालानि । उरो वक्षस्तत्सप्तदशास्थिकमित्येवं त्रयोविंशतिः । पूर्वोक्तैश्च सह षष्ट्यधिकं शतत्रयमित्येवं पुरुषस्यास्थिसंग्रहः कथितः ॥ ९०॥ सविषयाणि ज्ञानेन्द्रियाण्याह
गन्धरूपरसस्पर्शशब्दाश्च विषयाः स्मृताः ।
नासिका लोचने जिह्वा त्वक् श्रोत्रं चेन्द्रियाणि च ॥९॥ एते गन्धादयो विषयाः पुरुषस्य बन्धनहेतवः । विषयशब्दस्य 'षिञ् बन्धने' इत्यस्य धातोर्युत्पन्नत्वात् । एतैश्च गन्धादिभिर्बोध्यरवेन व्यवस्थितैः स्वस्खगोचरसंवित्साधनतयानुमेयानि प्राणादीनि पञ्चेन्द्रियाणि भवन्ति ॥ ९१ ॥ कर्मेन्द्रियाणि दर्शयितुमाह
हस्तौ पायुरुपस्थं च जिह्वा पादौ च पश्च वै ।
कर्मेन्द्रियाणि जानीयान्मनश्चैवोभयात्मकम् ॥ ९२॥ हस्तौ प्रसिद्धौ, पायुर्गुद, उपस्थं रतिसंपाद्यसुखसाधनं, जिह्वा प्रसिद्धा, पादौ च, एतानि हस्तादीनि पञ्च कर्मेन्द्रियाणि आदाननिहारानन्दव्याहारविहारादिकर्मसाधनानि जानीयात् । मनोऽन्तःकरणं युगपत् ज्ञानानुत्पत्तिगम्यं तच्च बुद्धिकर्मेन्द्रियसहकारितयोभयात्मकम् ॥ ९२ ॥ प्राणायतनानि दर्शयितुमाह
नाभिरोजो गुदं शुक्रं शोणितं शङ्खको तथा।
मूर्धा सकण्ठहृदयं प्राणस्यायतनानि तु ॥ ९३ ॥ नाभिप्रभृतीनि दश प्राणस्य स्थानानि । समाननाम्नः पवनस्य सकलाङ्गचा. रित्वेऽपि नाभ्यादिस्थानविशेषवाचोयुक्तिः प्राचुर्याभिप्राया ॥ ९३ ॥ प्राणायतनानि प्रपञ्चयितुमाह
वपा वसावहननं नाभिः क्लोमे यकृत्प्लिहा । क्षुद्रात्रं वृक्कको बस्तिः पुरीषाधानमेव च ॥९४॥ आमाशयोऽथ हृदयं स्थूलात्रं गुद एव च ।
उदरं च गुदौ कौष्ठयौ विस्तारोऽयमुदाहृतः ॥ ९५ ॥ वपा प्रसिद्धा, वसा मांसस्नेहः, अवहननं फुप्फुसः, नाभिः प्रसिद्धा, प्लीहा आयुर्वेदप्रसिद्धा, तौ च मांसपिण्डाकारौ स्तः सव्यकुक्षिगतौ॥ यकृत्कालिका, क्लोम
--- - १ भिप्रायेण ङ. २ क्लोमा. ख.
For Private And Personal Use Only
Page #379
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यतिधर्मप्रकरणम् ४ ] मिताक्षरासहिता। मांसपिण्डस्तौ च दक्षिणकुक्षिगतौ, क्षुद्रानं हृत्स्थानम्, वृक्कको हृदयसमीपस्थौ मांसपिण्डौ, बस्तिर्मूत्राशयः, पुरीषाधानं पुरीषाशयः, आमाशयोऽपक्कानस्थानम् , हृदयं हृत्पुण्डरीकम् , स्थूलागुदोदराणि प्रसिद्धानि, बाह्याद्दवलयादन्तर्गुदवलये द्वे, तौ च गुदौ कौष्यो कोष्टे नाभेरधःप्रदेशे भवौ । अयंच प्राणायतनस्य विस्तार उक्तः । पूर्वश्लोके तु संक्षेपः । अतएव पूर्वश्लोकोक्तानां केषांचिदिह पाठः ॥ ९४ ॥ ९५॥ पुनः प्राणायतनप्रपञ्चार्थमाह
कनीनिके चाक्षिकूटे शकुली कर्णपत्रको । कर्णौ शङ्खौ ध्रुवौ दन्तवेष्टावोष्ठौ ककुन्दरे ॥ ९६ ॥ वसणौ वृषणौ वृकौ श्लेष्मसंघातजौ स्तनौ । उपजिह्वा स्फिजौ बाहू जडोरुषु च पिण्डका ॥ ९७ ॥ तालूदरं बस्तिशीर्ष चिबुके गलशुण्डिके। अवटश्चैवमेतानि स्थानान्यत्र शरीरके ॥ ९८॥ अक्षिकर्णचतुष्कं च पद्धस्तहृदयानि च ।
नव छिद्राणि तान्येव प्राणस्यायतनानि तु ॥९९ ॥ कनीनिके अक्षितारके, अक्षिकूटे अक्षिनासिकयोः सन्धी, शष्कुली कर्णशप्कुली, कर्णपत्रको कर्णपाल्यौ, कौँ प्रसिद्धौ, दन्तवेष्टौ दन्तपाल्यौ, ओष्टौ प्र. सिद्धौ, ककुन्दरे जधनकूपको, वङ्क्षणी जघनोरुसंधी, वृक्को पूर्वोक्ती, स्तनौ च श्लेष्मसंघातजौ, उपजिह्वा घण्टिका, स्फिजौ कटिमोथौ, बाहू प्रसिद्धौ, जङ्घोरषु च पिण्डिका जङ्घयोरूवाश्च पिण्डिका मांसलप्रदेशः, गलशुण्डिके हनुमूलगल्लयोः सन्धी, शीर्ष शिरः, अवटः शरीरे यः कश्चन निम्नो देशः कण्ठमूलकक्षादिः । अवटुरिति पाठे कृकाटिका । तथाक्ष्णोः कनीनिकयोः प्रत्येकं श्वेतं पार्थद्वयमिति वर्णचतुष्टयम् । यद्वा अक्षिपुटचतुष्टयम् । शेषं प्रसिद्धम् । एवमेतानि कुत्सिते शरीरे स्थानानि । तथाक्षियुगलं कर्णयुग्मं- नासाविवरद्वयमास्यं पायुरुपस्थमित्येतानि पूर्वोक्तानि नवच्छिन्द्राणि च प्राणस्यायतनान्येव ॥ ९६-९९ ॥
शिराः शतानि सप्तव नव स्नायुशतानि च ।
धमनीनां शते द्वे तु पञ्च पेशीशतानि च ॥१०॥ किंच। शिरा नाभिसंबद्धाश्चत्वारिंशत्संख्या वातपित्तश्लेष्मवाहिन्यः सकलकलेचरव्यापिन्यो नानाशाखिन्यः सत्यः सप्तशतसंख्या भवन्ति । तथाङ्गप्रत्यङ्गसंधिबन्धनाः स्नायवो नवशतानि । धमन्यो नाम नाभेरुद्भूताश्चतुविशतिसंख्याः प्राणादिवायुवाहिन्यः शाखाभेदेन द्विशतं भवन्ति । पेश्यः पुनौसलाकारा उरुपिण्डकाद्यङ्गप्रत्यङ्गसंधिन्यः पञ्चशतानि भवन्ति ॥ १०॥
For Private And Personal Use Only
Page #380
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
३४८
Acharya Shri Kailassagarsuri Gyanmandir
याज्ञवल्क्यस्मृतिः ।
पुनश्वासामेव शिरादीनां शाखाप्राचुर्येण संख्यान्तरमाहएकोनत्रिंशल्लक्षाणि तथा नव शतानि च । षट्पञ्चाशच्च जानीत शिरा धमनिसंज्ञिताः ॥ १०१ ॥ शिराधमन्यो मिलिताः शाखोपशाखाभेदेन एकोनत्रिंशलक्षाणि नवशतानि षट्पञ्चाशच्च भवन्तीत्येवं हे सामश्रवःप्रभृतयः मुनयो जानीत ॥ १०१ ॥
[ प्रायश्चित्ताध्यायः
यो लक्षास्तु विज्ञेयाः श्मश्रुकेशाः शरीरिणाम् । सप्तोत्तरं मर्मशतं द्वे च संधिशते तथा ।। १०२ ॥
I
किंच । शरीरिणां श्मश्रूणि केशाश्च मिलिताः सन्तस्त्रयो लक्षा विज्ञेयाः । मर्माणि मरणकराणि क्लेशकराणि च स्थानानि तेषां सप्तोत्तरं शतं ज्ञेयम् । अस्मां तु सन्धिते स्नायुशिरादिसन्धयः पुनरनन्ताः ॥ १०२ ॥
सकलशरीरसुषिरादिसंख्यामाह
रोम्णां कोट्यस्तु पञ्चाशच्चतस्रः कोट्य एव च । सप्तषष्टिस्तथा लक्षाः सार्धाः स्वेदायनैः सह ॥ १०३ ॥ वायवीयैर्विगण्यन्ते विभक्ताः परमाणवः ।
यद्यप्येोऽनुवेयेषां भावनां चैव संस्थितिम् ॥ १०४ ॥
पूर्वोदित शिराकेशादिसहितानां रोम्णां परमाणवः सूक्ष्मसूक्ष्मतररूपा भागाः स्वेदस्रवणसुषिरैः सह चतुःपञ्चाशत्कोव्यः तथासप्तोत्तरषष्टिलक्षाः साधः पञ्चाशत्सहस्रसहिताः वायवीयैर्विभक्ताः पवनपरमाणुभिः पृथक्कृता विगण्यन्ते । एतच्च शास्त्रदृष्ट्वाभिहितम् । चक्षुरादिकरणपथगोचरत्वाभावादस्यार्थस्य । इममतिगहनमर्थं शिरादिभावसंस्थानरूपं हे मुनयः, भवतां मध्ये यः कश्चिदनुवेत्ति सोऽपि महान् अग्रयो बुद्धिमताम् । अतो यलतो बुद्धिमता बोद्धव्या भावसंस्थितिः ॥ शारीररसादिपरिमाणमाह
रसस्य नव विज्ञेया जलस्याञ्जलयो दश । सप्तैव तु पुरीषस्य रक्तस्याष्टौ प्रकीर्तिताः ॥ १०५ ॥ षट् श्लेष्मा पञ्च पित्तं च चत्वारो मूत्रमेव च । वसा त्रयो द्वौ तु मेदो मज्जै कोर्ध्व तु मस्तके ॥ १०६ ॥ श्लेष्मौज सस्तावदेव रेतसस्तावदेव तु । इत्येतदस्थिरं वर्ष्म यस्य मोक्षाय कृत्येसौ ॥ १०७ ॥
सम्यक्परिणताहारस्य सारो रसस्तस्य परिमाणं नवाञ्जलयः । पार्थिवपरमाणुसंश्लेषनिमित्तस्य जलस्याञ्जलयो दश विज्ञेयाः । पुरीषस्य वर्चस्कस्य सप्तैव ।
१ एकोनुवेषां ङ. २ कृति असौ इति पदच्छेदः.
For Private And Personal Use Only
Page #381
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यतिधर्मप्रकरणम् ४ ] मिताक्षरासहिताः।
३४९
रक्तस्य जाठरानलपरिपाकापादितलौहित्यस्यामरसस्याष्टावक्षलयः प्रकीर्तिताः । श्लेष्मणः कफस्य षडालयः । पित्तस्य तेजसः पञ्च । भूत्रस्योच्चारणस्य चत्वारः । वसाया मांसस्नेहस्य त्रयः । मेदसो मांसरसस्य द्वावाली । मजा त्वस्थिगतसु. पिरगतस्तस्यैकोऽञ्जलिः । मस्तके पुनरर्धाञ्जलिः मजा श्लेष्मौजसः श्लेष्मसारस्य । तथा रेतसश्चरमधातोस्तावदेवार्धाञ्जलिरेव । एतच्च समधातुपुरुषाभिप्रायेणोक्तम् । विषमधातोस्तु न नियमः।-'वैलक्षण्याच्छरीराणामस्थायित्वात्तथैव च । दोषधातुमलानां च परिमाणं न विद्यते ॥' इत्यायुर्वेदसरणात् । इतीदृशमस्थिस्ना. वाधारब्धमेतदशुचिनिधानं वर्मास्थिरमिति यस्य बुद्धिरसौ कृती पण्डितो मोक्षाय समर्थों भवति । वैराग्यनित्यानित्यविवेकयोर्मोक्षोपायत्वात् , अस्थिमूत्रपुरीपादिप्राचुर्यज्ञानस्य वैराग्यहेतुत्वात् । अतएव व्यासः-'सर्वाशुचिनिधानस्य कृतघ्नस्य विनाशिनः । शरीरकस्यापि कृते मूढाः पापानि कुर्वते ॥ यदि नामास्य कायस्य यदन्तस्तद्वहिर्भवेत् । दण्डमादाय लोकोऽयं शुनः काकांश्च वारयेत् ॥' इति । तस्मादीदृशकुत्सितशरीरस्यात्यन्तिकविनिवृत्त्यर्थमात्मोपासने प्रयतितव्यम् ॥ १०५-१०७ ॥ उपासनीयात्मस्वरूपमाह
द्वासप्ततिसहस्राणि हृदयादभिनिःसृताः। हिताहिता नाम नाड्यस्तासां मध्ये शशिप्रभम् ।।१०८॥ मण्डलं तस्य मध्यस्थ आत्मा दीप इवाचलः।
स ज्ञेयस्तं विदित्वेह पुनराजायते न तु ॥ १०९ ॥ हृदयप्रदेशादभिनिःसृताः कदम्बकुसुमकेसरवत्सर्वतो निर्गता हिताहितकरस्वेन हिताहितेतिसंज्ञा द्वासप्ततिसहस्राणि नाड्यो भवन्ति । अपरास्तिस्रो ना. ड्यस्तासामिडापिङ्गलाख्ये द्वे नाड्यौ सव्यदक्षिणपार्श्वगते हृदि विपर्यस्ते नासा. विवरसंबद्ध प्राणापानायतने । सुषुम्नाख्या पुनस्तृतीया दण्डवन्मध्ये ब्रह्मरन्ध्रविनिर्गता । तासां नाडीनां मध्ये मण्डलं चन्द्रप्रभं तस्मिन्नात्मा निर्वातस्थदीप इवाचलः प्रकाशमान आस्ते स एवंभूतो ज्ञातव्यः । यतस्तत्साक्षात्करणादिह संसारे न पुनः संसरति अमृतत्वं प्राप्नोति ॥ १०८ ॥ १०९॥
ज्ञेयं चारण्यकमहं यदादित्यादवाप्तवान् ।
योगशास्त्रं च मत्प्रोक्तं ज्ञेयं योगमभीप्सता ॥११०॥ किंच । चित्तवृत्तेविषयान्तरतिरस्कारेणात्मनि स्थैर्य योगस्तत्प्राप्त्यर्थं बृहदारण्यकाख्यमादित्याचन्मया प्राप्तं तच्च ज्ञातव्यम् । तथा यन्मयोक्तं योगशास्त्रं तदपि ज्ञातव्यम् ॥ ११०॥ कथं पुनरसावात्मा ध्येय इत्यत आह
अनन्यविषयं कृत्वा मनोबुद्धिस्मृतीन्द्रियम् ।
For Private And Personal Use Only
Page #382
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३५०
याज्ञवल्क्यस्मृतिः। . [प्रायश्चित्ताध्यायः
ध्येय आत्मा स्थितो योऽसौ हृदये दीपवत्प्रभुः ॥१११॥ 'आत्मन्यतिरिक्तविषयेभ्यो मनोबुद्धिस्मृतीन्द्रियाणि प्रत्याहृत आत्मैकविषयाणि कृत्वा आत्मा ध्येयः । योऽसौ प्रभुर्निर्वातस्थप्रदीपवद्दीप्यमानो निष्पकम्पो हृदि तिष्ठति । एतदेव तस्य ध्येयत्वं यच्चित्तवृत्तेर्बहिर्विषयावभासतिरस्कारेणात्मप्रवणतानाम शरावसंपुटनिरुद्धप्रभाप्रतानप्रसरस्येव प्रदीपस्यैकनिष्ठत्वम् १११
यस्य पुनश्चित्तवृत्तिनिराकारालम्बनतया समाधौ नाभिरमते तेन शब्दब्रह्मो. पासनं कार्यमित्याह
यथाविधानेन पठन्सामगायमविच्युतम् ।
सावधानस्तदभ्यासात्परं ब्रह्माधिगच्छति ॥ ११२ ॥ स्वाध्यायावगतमार्गानतिक्रमेण सामगायं सामगानम् । साम्नो गानात्मकस्वेऽपि गायमिति विशेषणं प्रगीतमन्नव्युदासार्थम् । अविच्युतमस्खलितं सावधानः सामध्वन्यनुस्यूतात्मैकाग्रचित्तवृत्तिः पठंस्तदभ्यासवशात् तत्र निष्णातः शब्दाकारशून्योपासनेन परं ब्रह्माधिगच्छति । तदुक्तम्-'शब्दब्रह्मणि नि. ष्णातः परं ब्रह्माधिगच्छति' इति ॥ ११२॥
यस्य पुनर्वैदिक्यां गीतौ चित्तं नाभिरमते तेन लौकिकगीतानुस्मृतात्मोपासनं कार्यमित्याह
अपरान्तकमुल्लोप्यं मद्रकं प्रेकरी तथा। औवेणकं सरोबिन्दुमुत्तरं गीतकानि च ॥ ११३ ॥. ऋग्गाथा पाणिका दक्षविहिता ब्रह्मगीतिका ।
गेयमेतत्तदभ्यासकरणान्मोक्षसंज्ञितम् ॥ ११४ ॥ अपरान्तकोल्लोप्यमदकप्रकौवेणकानि सरोविन्दुसहितं चोत्तरमित्येतानि प्रकराख्यानि सप्त गीतकानि । चशब्दादासारितवर्धमानकादिमहागीतानि गृह्यन्ते । ऋग्गाथाद्याश्चतस्रो गीतिका इत्येतदपरान्तकादिगीतजातमध्यारोपि. वात्मभावं मोक्षसाधनत्वान्मोक्षसंज्ञितं मन्तव्यम् । तदभ्यासस्यैकाग्रतापादनद्वारेणास्मैकाग्रतापत्तिकारणत्वात् ॥ ११३ ॥ ११४ ॥ .
वीणावादनतत्त्वज्ञः श्रुतिजातिविशारदः ।
तालज्ञश्चाप्रयासेन मोक्षमार्ग नियच्छति ॥ ११५ ॥ किंच । भरतादिमुनिप्रतिपादितवीणावादनतत्त्ववेदी । श्रूयत इति श्रुतिः द्वाविंशतिविधा सप्तस्वरेषु । तथाहि । षड्जमध्यमपञ्चमाः प्रत्येकं चतुःश्रुतयः ऋषभधैवतौ प्रत्येकं त्रिश्रुती गान्धारनिषादौ प्रत्येकं द्विश्रुती इति । जातयस्तु षड्डादयः सप्त शुद्धाः संकरजातयस्त्वेकादशेत्येवमष्टादशविधास्तासु विशारदः प्रवीणः । ताल इति गीतैपरिमाणं कथ्यते । तत्स्वरूपज्ञश्च तदनुविद्धब्रह्मोपासन१ अनुस्मृतात्मैक क. . २ मकरी ख. ३ गीतप्रमाणं कल्प्यते ख.
For Private And Personal Use Only
Page #383
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यतिधर्मप्रकरणम् ४] मिताक्षरासहिता ।
३५१
तया तालादिभङ्गभयाच्चित्तवृत्तेरात्मैकाग्रतायाः सुकरस्वादल्पायासेनैव मुक्तिपथं नियच्छति प्राप्नोति ॥ ११५ ॥
चित्तविक्षेपाद्यन्तरायहतस्य गीतज्ञस्य फलान्तरमाहगीतज्ञो यदि योगेन नाप्नोति परमं पदम् । रुद्रस्यानुचरो भूत्वा तेनैव सह मोदते ॥ ११६ ॥
गीतज्ञो यदि कथंचिद्योगेन परमं पदं नामोति तर्हि रुद्रस्य सचिवो भूत्वा तेनैव सह मोदते क्रीडति ॥ ११६ ॥
पूर्वोक्तमुपसंहरति
अनादिरात्मा कथितस्तस्यादिस्तु शरीरकम् ।
आत्मनस्तु जगत्सर्वं जगतश्चात्मसंभवः ॥ ११७ ॥
प्रागुक्तरीत्या अनादिरारमा क्षेत्रज्ञस्तस्य च शरीरग्रहणमेवादिरुद्रवः कथितः 'अजः शरीरग्रहणा' दित्यत्र । परमात्मनश्च सकाशात्पृथिव्यादिसकलभुवनोद्भवः तस्मादुद्भूताच्च पृथिव्यादिभूतसंघाताजीवानां स्थूलशरीरतया संभवश्व कथितः 'सर्गादौ स यथाकाश' मित्यादिना ॥ ११७ ॥
एतदेव प्रश्नपूर्वकं विवृणोति -
कथमेतद्विमुह्यामः सदेवासुरमानवम् ।
जगदुद्भूतमात्मा च कथं तस्मिन्वदस्व नः ।। ११८ ॥
यदेतत्सकलसुरासुरमनुजादिसहितं जगत्तदात्मनः सकाशात्कथमुत्पन्नं, आत्मा च तस्मिन् जगति कथं तिर्यङ्नरसरीसृपादिशरीरभाग्भवतीत्येतस्मिन्नर्थे चिमु ह्यामः । अतो मोहापनुत्यर्थमस्माकं विस्तरशो वदस्व ॥ ११८ ॥
एवं मुनिमि: पृष्टः प्रत्युत्तरमाहमोहजालमपास्येह पुरुषो दृश्यते हि यः । सहस्रकरपनेत्रः सूर्यवर्चाः सहस्रकः ॥ ११९ ॥ स आत्मा चैव यज्ञश्च विश्वरूपः प्रजापतिः । विराजः सोऽनरूपेण यज्ञत्वमुपगच्छति ॥ १२० ॥
१ भूत्वा सह तेनैव कङ.
इह जगति यदिदं स्थूलकलेवरादावनात्मन्यात्माभिमानरूपं मोहजालं तदपास्य तद्व्यतिरिक्तो यः पुरुषोऽनेककरचरणलोचनः सूर्यवर्चाः अनन्तरश्मिः स हस्रक: बहुशिरा दृश्यते । एतच्च तत्तद्गोचरशक्त्याधारतयोच्यते । तस्य साक्षात्कारादि संबन्धाभावात् । स एवात्मा यज्ञः प्रजापतिश्च । यतोऽसौ विश्वरूपः सर्वात्मकः । वैश्वरूयमेव कथमिति चेत्। यस्मादसौ विराजः पुरोडाशाद्यन्न
२ संभूताश्च पृथिव्यादिभूतसंघाताः जीवानां ङ.
For Private And Personal Use Only
Page #384
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३५२
याज्ञवल्क्यस्मृतिः
[प्रायश्चित्ताध्यायः
रूपेण यज्ञत्वमुपगच्छति । यज्ञाच वृष्ट्यादिद्वारेण प्रजासृष्टिरित्येवं वैश्वरूप्यम् ॥ ११९ ॥ १२०॥ एतदेव प्रपञ्चयति
यो द्रव्यदेवतात्यागसंभूतो रस उत्तमः । देवान्संतर्य स रसो यजमानं फलेन च ॥ १२१ ॥ संयोज्य वायुना सोमं नीयते रश्मिभिस्ततः। ऋग्यजुःसामविहितं सौरं धामोपनीयते ॥ १२२ ॥ खमण्डलादसौ सूर्यः सृजत्यमृतमुत्तमम् । यजन्म सर्वभूतानामशनानशनात्मनाम् ॥ १२३ ॥ तसादनात्पुनयज्ञः पुनरनं पुनः क्रतुः।
एवमेतदनाद्यन्तं चक्रं संपरिवर्तते ॥ १२४ ॥ द्रव्यस्य चरुपुरोडाशादेर्दैवतो देशेन त्यागाद्यो रसः अदृष्टरूपमात्मनः परिणत्यन्तरमुत्तमः सकलजगजन्मबीजतयोत्कृष्टतमः संभूतः स देवान्संप्रदानकारकभूतान्सम्यक्प्रीणयित्वा यजमानं चाभिलषितफलेन संयोज्य पवनेन प्रेर्यमाणश्चन्द्रमण्डलं प्रेति नीयते । ततः शशिमण्डलाश्मिभिर्भानुमण्डलम् । सैषा त्रय्येव विद्या तपतीत्यमेदाभिधानात् ऋग्यजुःसाममयं प्रत्युपनीयते। ततश्च स्वमण्डलादसौ सूर्योऽमृतरसं वृष्टिरूपमुत्तमं यत्सकलभूतानामशनानशनात्मनां चराचराणां जनननिमित्तं तत्सृजति । तस्मादृष्टिसंपादितौषधिमयात्प्रजोत्पत्तिहेतोरनापुनर्यज्ञो यज्ञाच्च पूर्वाभिहितैभझ्या पुनरनं अन्नाच पुनः क्रतुरित्येवमेतदखिलं संसारचक्र प्रवाहरूपेणोत्पत्तिविनाशविरहितं सम्यक्परिवर्तत इत्यनेन क्रमेणात्मनः सकाशादखिलजगदुत्पत्तिः। तत्र चात्मनः स्वकर्मानुरूपविग्रहपरिग्रहः ॥ १२१-१२४ ॥ ननु यद्यात्मनः संसरणमनाद्यन्तं ती निर्मुक्तिप्रसङ्ग इत्यत आह
अनादिरात्मा संभूतिर्विद्यते नान्तरात्मनः।
समवायी तु पुरुषो मोहेच्छाद्वेषकर्मजः ॥ १२५ ॥ यद्यप्यात्मनोऽनादित्वात्संभूतिर्न विद्यते अन्तरात्मनः शरीरव्यापिनः तथापि पुरुषः शरीरेण समवायी भवति भोगायतने सुखदुःखात्मकं भोग्यजातमुपभुङ्क्ते इत्येवंभूतेन संबन्धेन संबन्धी भवत्येव । सच समवायो मोहेच्छाद्वेषजनितकर्मनिर्मयो नतु निसर्गजातः। तस्य कार्यत्वेन विनाशोपपत्ते निर्मुक्तिः ॥ १२५ ॥ आत्मनो जगजन्मेत्युक्तं तत्प्रपञ्चयितुमाह
सहस्रात्मा मया यो व आदिदेव उदाहृतः ।
मुखबाहूरुपज्जाः स्युस्तस्य वणों यथाक्रमम् ॥ १२६ ॥ १ प्रत्युपनीयते क. २ भिहितसंज्ञात्पुनरन्नं क.
For Private And Personal Use Only
Page #385
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
यतिधर्मप्रकरणम् ४] मिताक्षरासहिता ।
Acharya Shri Kailassagarsuri Gyanmandir
पृथिवी पादतस्तस्य शिरसो द्यौरजायत । नस्तः प्राणा दिशः श्रोत्रात्स्पर्शाद्वायुर्मुखाच्छिखी ॥ १२७॥ मनसश्चन्द्रमा जातश्चक्षुषश्च दिवाकरः । जघनादन्तरिक्षं च जगच्च सचराचरम् ।। १२८ ॥
योऽसौ सकलजीवात्मकतया प्रपञ्चात्मकतया च सहस्रात्मा बहुरूपस्तथा सकलजगद्धेतुतया आदिदेवो मया युष्माकमुदाहृतः तस्य वदनभुजसक्थिचरणजाता यथाक्रममग्रजन्मादयश्चत्वारो वर्णाः । तथा तस्य पादाद्भूमिर्मस्तकासुरसद्म घ्राणात्प्राणः कर्णात्ककुभः स्पर्शात्पवनो वदनाद्भुतवहः मनसः शशाङ्कः नेत्रा द्भानुः जघनाद्गगनं जङ्गमाजङ्गमात्मकं जगच ॥ १२६-१२८ ॥
अत्र चोदयन्ति -
यद्येवं स कथं ब्रह्मन्पापयोनिषु जायते । ईश्वरः स कथं भावैरनिष्टेः संप्रयुज्यते ॥ १२९ ॥
३५३
हे ब्रह्मन् योगीश्वर, यद्यात्मैव जीवादिभावं भजते तर्हि कथमसौ पापयोनिषु मृगपक्ष्यादिषु जायते । अथ मोहरागद्वेषादिदोषदुष्टत्वात्तत्र जन्मेत्युच्यते । तच्च न । यस्मादीश्वरः स्वतन्त्रः कथमनिष्टैर्मोहरागादिभावैः संयुज्येत ॥ १२९ ॥
तत्र पूर्व चोद्यस्योत्तरमाह
करणैरन्वितस्यापि पूर्वं ज्ञानं कथंचन ।
वेत्ति सर्वगतां कस्मात्सर्वगोऽपि न वेदनाम् ॥ १३० ॥
किंच । तथेदमप्यत्र दूषणम् । मनःप्रभृतिज्ञानोपायैः सहितस्यापि तस्यात्मनः पूर्वज्ञानं जन्मान्तरानुभूतविषयं कस्मान्नोत्पद्यते । तथा सर्वप्राणिगतां वेदनां सुखदुःखादिरूपां स्वयं सर्वगोऽपि सर्वदेहगतोऽपि कस्मान्न वेत्ति | तस्मादात्मैवेश्वरो जीवादिभावं भजत इत्ययुक्तम् ॥ १३० ॥
अन्त्यपक्षिस्थावरतां मनोवाक्कायकर्मजैः ।
दोषैः प्रयाति जीवोऽयं भवयोनिशतेषु च ॥ १३१ ॥
यद्यपीश्वरः स्वरूपेण सत्यज्ञानानन्दलक्षणः तथाप्यविद्यासमावेशवशान्मोहरागादिभावैरभिभूयमानो नानाहीनयोनिजननसाधनं मानसादित्रिविधं कर्मनिचमाचरति । तेन चान्त्यजादिहीनयोनितामापद्यते । अन्त्याश्चण्डालदयः, पक्षिणः काकादयः, स्थावरा वृक्षादयः तेषां भावोऽन्त्यपक्षिस्थावरता तां यथाक्रमेण मनोवाक्कायारब्धकर्म दोषैर्जन्मसहस्रेष्वयं जीवः प्राप्नोति ॥ १३१ ॥
अनन्ताश्च यथा भावाः शरीरेषु शरीरिणाम् ।
१ तत्तज्जन्मेत्युच्यते ङ. २ करणेनान्वितस्य ख. ३ सर्वज्ञोपि ङ.
For Private And Personal Use Only
Page #386
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३५४
याज्ञवल्क्यस्मृतिः। [प्रायश्चित्ताध्यायः
रूपाण्यपि तथैवेह सर्वयोनिषु देहिनाम् ॥ १३२॥ किंच शरीरिणां जीवानां शरीरेषु भावा अभिप्रायविशेषाः सत्वाधुरेकतारतम्याद्यथानन्तास्तथा तत्कार्याण्यपि कुखवामनवादीनि रूपाणि देहिनां सर्वयोनिषु भवन्ति ॥ १३२॥
ननु यदि कर्मजन्यानि कुजत्वादीनि तर्हि कर्मानन्तरमेव तैर्भवितव्यमित्याशक्ष्याह
विपाकः कर्मणां प्रेत्य केषांचिदिह जायते ।
इह वामुत्र वैकेषां भावस्तत्र प्रयोजनम् ॥ १३३ ॥ केषांचिज्योतिष्टोमादिकर्मणां विपाकः फलं प्रेत्य देहान्तरे भवति । केषांचिस्कारीर्यादिकर्मणां वृष्ट्यादिफलमिहैव भवति । केषांचिच्चित्रादीनां फलं पश्चादि. कमिह देहान्तरे वेत्यनियतम् । नानन्तरमेव कर्मफलेन भवितव्यमिति शास्वार्थः । अत्र च कर्मणां शुभाशुभफलजनकत्वे सत्त्वादिभाव एव प्रयोजकभूतस्तदायत्तत्वात्फलतारतम्यस्य ॥ १३३ ॥ मनोवाक्कायकर्मजैरन्त्यादियोनीः प्राप्नोतीत्युक्तं तत्प्रपञ्चयितुमाह
परद्रव्याण्यभिध्यायंस्तथानिष्टानि चिन्तयन् ।
वितथाभिनिवेशी च जायतेऽन्त्यासु योनिषु ॥ १३४ ॥ परधनानि कथमहमपहरेयमित्याभिमुख्येन ध्यायंस्तथाऽनिष्टानि ब्रह्महत्यादीनि हिंसात्मकानि करिष्यामीति चिन्तयन् वितथे असत्यभूते वस्तुनि अभि. निवेशः पुनःपुनः संकल्पस्तद्वांश्च श्वचण्डालाद्यन्त्ययोनिषु जायते ॥ १३४ ॥
पुरुषोऽनृतवादी च पिशुनः परुषस्तथा ।
अनिबद्धप्रलापी च मृगपक्षिषु जायते ॥ १३५ ॥ किंच । यस्त्वनृतवदनशीलः पुरुषः पिशुनः कर्णेजपः पुरुषः परोद्वेगकरभाषी अनिबद्धप्रलापी प्रकृतासङ्गतार्थवादी च बुद्धिपूर्वाबुद्धिपूर्वी दितारतम्याद्धीनोत्कृष्टेषु मृगपक्षिषु जायते ॥ १३५॥
अदत्तादाननिरतः परदारोपसेवकः। हिंसकश्चाविधानेन स्थावरेष्वभिजायते ॥१३६॥ किंच । भदत्तादाननिरतः अदत्तपरधनापहारप्रसक्तः परदारप्रसक्तश्च अविहितमार्गेण प्राणिनां घातकश्च दोषगुरुलघुभावतारतम्यात्तरुलताप्रतानादिस्थावरेषु जायते ॥ १३६ ॥ सत्वादिगुणपरिपाकमाह--
आत्मज्ञः शौचवान्दान्तस्तपस्वी विजितेन्द्रियः। १ योनितां प्राप्नोतीति ङ. २ पूर्वावृत्त्यादि. ख.
For Private And Personal Use Only
Page #387
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यतिधर्मप्रकरणम् ४] मिताक्षरासहिता।
३५५ धर्मद्वेदविद्यावित्सात्विको देवयोनिताम् ॥ १३७॥ आत्मज्ञो विद्याधनाभिजनाद्यमिमानरहितः शौचवान् बाह्याभ्यन्तरशौचयुक्तः दान्त उपशमान्वितः तपस्वी कृच्छ्रादितपोयुक्तः तथेन्द्रियार्थेष्वप्रसक्तः नित्यनैमित्तिकधर्मानुष्ठाननिरतः वेदार्थवेदी च यः सात्विकः स च सत्वोद्रेकतारतम्यवशादुत्कृष्टोस्कृष्टतरसुरयोनितां प्राप्नोति ॥ १३७ ॥
असत्कार्यरतो धीर आरम्भी विषयी च यः।
स राजसो मनुष्येषु मृतो जन्माधिगच्छति ॥ १३८ ॥ किंच । असत्कार्येषु तूर्यवादिननृत्यादिष्वमिरतो यस्तथा अधीरो व्यग्रचित्तः आरम्भी सदा कार्याकुलो विषयेष्वतिप्रसक्तश्च स रजोगुणयुक्तः तद्गुणतारतम्याद्धीनोत्कृष्टमनुष्यजातिषु मरणानन्तरमुत्पत्तिं प्राप्नोति ॥ १३८ ॥
निद्रालुः क्रूरकुल्लुब्धो नास्तिको याचकस्तथा ।
प्रमादवान्भिन्नवृत्तो भवेत्तियक्षु तामसः॥ १३९ ॥ . तथा च यः पुनर्निद्राशीलः प्राणिपीडाकरो लोभयुक्तश्च तथा नास्तिको धर्मादेर्निन्दकः याचनशीलः प्रमादवान् कार्याकार्यविवेकशून्यः विरुद्धाचारश्च असौ तमोगुणयुक्तस्तत्तारतम्याद्धीनहीनतरपश्वादियोनिषु जायते ॥ १३९ ॥ पूर्वोक्तमुपसंहरति
रजसा तमसा चैवं समाविष्टो भ्रमनिह ।
भावरनिष्टैः संयुक्तः संसारं प्रतिपद्यते ॥ १४०॥ एवमविद्याविद्धोऽयमात्मा रजस्तमोभ्यां सम्यगाविष्ट इह संसारे पर्यटन नानाविधदुःखप्रदैर्भावैरभिभूतः पुनः पुनः संसारं देहग्रहणं प्रामोति । इतीश्वरः स कथं भावरनिष्टैः संप्रयुज्यत इत्यस्य चोद्यस्यानवकाशः ॥ १४० ॥ यदपि करणैरन्वितस्यापीति द्वितीयं चोद्यं तस्योत्तरमाह
मलिनो हि यथादर्शो रूपालोकस्य न क्षमः ।
तथाविपककरण आत्मज्ञानस्य न क्षमः ॥१४१॥ यद्यप्यात्मा अन्तःकरणोदिज्ञानसाधनसंपन्नस्तथापि जन्मान्तरानुभूतार्थावबोधे न समर्थः अविपक्वकरणो रागादिमलाक्रान्तचित्तो यस्मात् । यथा दर्पणो मलच्छन्नो रूपज्ञानोत्पादनसमर्थो न भवति ॥ १४ ॥
ननु प्राग्भवीयज्ञानस्याप्यात्मप्रकाशित्वात् तस्य च स्वतःसिद्धत्वान्नानुपलम्भो युक्त इत्याशङ्याह
कट्वारी यथाऽपके मधुरः सनसोऽपि न । प्राप्यते ह्यात्मनि तथा नापककरणे ज्ञता ॥ १४२ ॥
१ तारतम्यादुत्कृष्ट क. २ अन्तःकरणादेर्शान ख.
या० ३३
For Private And Personal Use Only
Page #388
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
याज्ञवल्क्यस्मृतिः। [प्रायश्चित्ताध्यायः
अपक्के कटेर्वारौ तिक्तकर्कटिकायां विद्यमानोऽपि मधुरो रसो यथा नोपलभ्यते तथात्मन्यपक्वकरणे विद्यमानापि ज्ञता ज्ञातृता प्राग्भवीयवस्तुगोचरता न प्राप्यते ॥ १४२ ॥ 'वेत्ति सर्वगतां कस्मात्सर्वगोऽपि न वेदनामि ति यदुक्तं तन्नोत्तरमाह
सर्वाश्रयां निजे देहे देही विन्दति वेदनाम् ।
योगी मुक्तश्च सर्वासां योगमाप्नोति वेदनाम् ॥ १४३ ॥ यः पुनर्देही देहाभिमानयुक्तः स सर्वाश्रयामाध्यामिकादिरूपां वेदनां स्वकर्मोपार्जित एव देहे प्रामोति न देहान्तरगतां भोगायतनारम्भादृष्टवैलक्षण्यादेव । यस्तु योगी मुक्तो मुक्ताहंकारादिः सकलक्षेत्रगतानां सुखदुःखादिसंविदा वेदिता भवति परिपककरणत्वात् ॥ १४३ ॥ नन्वेकस्मिन्नात्मनि सुरनरादिदेहेषु भेदप्रत्ययो न घटत इत्याशङ्कयाह
आकाशमेकं हि यथा घटादिषु पृथग्भवेत् ।
तथात्मैको ह्यनेकश्च जलाधारेष्विवांशुमान् ॥ १४४ ॥ यथैकमेव गगनं कूपकुम्भाधुपाधिभेदभिन्नं नानेवानुभूयते, यथा वा भानुरेकोऽपि भिन्नेषु जलभाजनेषु करकमणिकमल्लिकादिषु नानेवानुभूयते तथैकोप्यात्मा अन्तःकरणोपाधिभेदेन नाना प्रतीयते । द्वितीयदृष्टान्तोपादानमात्मभेदस्यापारमार्थिकत्वद्योतनार्थम् ॥ १४४ ॥ ‘पञ्चधातून्स्वयं षष्ठ आदत्ते युगपत्प्रभु' रित्याद्युक्तमर्थमुपसंहृत्याह
ब्रह्मखानिलतेजांसि जलं भूश्चेति धातवः ।
इमे लोका एष चात्मा तस्साच सचराचरम् ॥ १४५ ॥ ब्रह्म आत्मा खं गगनं अनिलो वायुः तेजोऽग्निः जलं प्रसिद्धं भूश्चेत्येते वातादिधातव एव शरीरं व्याप्य धारयन्तीति धातवोऽभिधीयन्ते । तत्र खादयः पञ्च धातवः लोक्यन्ते दृश्यन्ते इति लोकाः । जडा इति यावत् । एष चिद्धातुरात्मा एतस्माजडाजडसमुदायात्स्थावरजङ्गमात्मकं जगदुत्पद्यते ॥ १४५ ॥ कथमसावात्मा जगत्सृजतीत्याह
मृद्दण्डचक्रसंयोगात्कुम्भकारो यथा घटम् । करोति तृणमृत्काष्ठैगृहं वा गृहकारकः ॥ १४६ ॥ हेममात्रमुपादाय रूपं वा हेमकारकः।
निजलालासमायोगात्कोशं वा कोशकारकः ॥ १४७॥ १ योनवाप्नोति क. २ त्मिकादिबहुरूपां ख.
For Private And Personal Use Only
Page #389
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
यतिधर्मप्रकरणम् ४]
www. kobatirth.org
मिताक्षरासहिता ।
कारणान्येवमादाय तासु ताखिह योनिषु । सृजत्यात्मानमात्मा च संभूय करणानि च ।। १४८ ॥
Acharya Shri Kailassagarsuri Gyanmandir
यथा हि कुलालो मृच्चकचीवरादिकं कारणजातमुपादाय करकशरावादिकं नानाविधकार्यजातं रचयति । यथा वा वर्धकिस्तृणमृत्काष्ठैः परस्परसापेक्षैः एकं गृहाख्यं कार्य करोति । यथा वा हेमकारकः केवलं हेमोपादाय हेमानुगतमेव कटकमुकुटकुण्डलादिकार्यमुत्पादयति । यथा वा कोशकारकः कीटविशेषो निजलालयारब्धमात्मबन्धनं कोशाख्यमारभते, तथात्मापि पृथिव्यादीनि साधनानि परस्परसापेक्षाणि तथा करणान्यपि श्रोत्रादीन्युपादाय अस्मिन्संसारे तासु तासु सुरा दियोनिषु स्वयमेवात्मानं निजकर्मबन्धबद्धं शरीरितया सृजति ॥ १४६-१४८ ॥ किं पुनर्वैषयिकज्ञानेन्द्रियव्यतिरिक्तात्मसद्भावे प्रमाणमित्याशङ्कयाहमहाभूतानि सत्यानि यथात्मापि तथैव हि । कोsन्यथैकेन नेत्रेण दृष्टमन्येन पश्यति ॥ १४९ ॥
वाचं वा को विजानाति पुनः संश्रुत्य संश्रुताम् ।
यथा हि पृथिव्यादिमहाभूतानि सत्यानि प्रमाणगम्यत्वात् तथात्मापि सत्यः । अन्यथा यदि बुद्धीन्द्रियव्यतिरिक्तो ज्ञाता ध्रुवो न स्यात्तर्हि एकेन चक्षुरिन्द्रियेण इष्टं वस्तु अन्येन स्पर्शनेन्द्रियेण को विजानाति यमहमद्राक्षं तमहं स्पृशामीति ॥ १४९ ॥
१ अतीतार्थस्मृतिः ङ.
तथा कस्यचित्पुरुषस्य वाचं पूर्व श्रुत्वा पुनः श्रूयमाणां वाचं तस्य वागियमिति कः प्रत्यभिजानाति । तस्मात् ज्ञानेन्द्रियातिरिक्तो ज्ञाता ध्रुव इति सिद्धम् ॥
३५७
अतीताथ स्मृतिः कस्य को वा स्वप्नस्य कारकः ॥ १५० ॥ जातिरूपवयोवृत्तविद्यादिभिरहंकृतः । शब्दादिविषयोद्योगं कर्मणा मनसा गिरा ॥ १५१ ॥
किंच । यद्यात्मा ध्रुवो न स्यात् तर्ह्यनुभूतार्थगोचरा स्मृतिः पूर्वानुभवभावि - तसंस्कारोद्बोधनिबन्धना कस्य भवेत् । नह्यन्येन दृष्टे वस्तुन्यन्यस्य स्मृतिरुपपद्यते । तथा कः स्वमज्ञानस्य कारकः । नहीन्द्रियाणामुपरतव्यापाराणां तत्कारकत्वम् । तथाहमेवाभिजनत्वादिसंपन्न इत्येवंविधोऽनुसंधानप्रत्ययः कस्य भवति स्थिरात्मव्यतिरिक्तस्य । तथा शब्दस्पर्शादिविषयोपभोगसिद्ध्यर्थमुद्योगं मनोवाक्कायैः कः कुर्यात् । तस्मादपि बुद्धीन्द्रियव्यतिरिक्त आत्मा स्थितः ॥ १५० ॥ १५१ ॥ उपासनाविशेषविध्येर्थ संसारस्य रूपं विवृण्वन्नाह - स संदिग्धमतिः कर्मफलमस्ति न वेति वा ।
२ सिध्यर्थं ङ.
For Private And Personal Use Only
Page #390
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३५८
याज्ञवल्क्यस्मृतिः। [प्रायश्चित्ताध्यायः विप्लुतः सिद्धमात्मानमसिद्धोऽपि हि मन्यते ॥ १५२ ॥ योऽसौ पूर्वोक्त आत्मा विप्लुतोऽहंकारदूषितः स सकलकर्मसु फलमस्ति न वेति संदिग्धमतिर्भवति । तथाऽसिद्धोऽप्यकृतार्थोऽपि सिद्धमेव कृतार्थमात्मानं मन्यते ॥ १५२ ॥
मम दाराः सुतामात्या अहमेषामिति स्थितिः।
हिताहितेषु भावेषु विपरीतमतिः सदा ॥ १५३ ॥ किंच । तस्य विप्लुतमतेर्मम कलत्रपुत्रप्रेष्यादयोऽहमेषामित्यतीव ममताकुलस्थितिर्भवति । तथा हिताहितकरे कार्यप्रकरे स विप्लुतमतिविपरीतमतिः सदा भवेत् ॥ १५३॥
ज्ञेयज्ञे प्रकृतौ चैव विकारे वाऽविशेषवान् । अनाशकानलाघातजलप्रपतनोद्यमी ॥ १५४ ॥ एवंवृत्तोपविनीतात्मा वितथाभिनिवेशवान् ।
कर्मणा द्वेषमोहाभ्यामिच्छया चैव बध्यते ॥ १५५ ॥ किंच । ज्ञेयं जानातीति ज्ञेयज्ञस्तस्मिनात्मनि प्रकृतौ चात्मनो गुणसाम्यावस्थायां विकारे चाहंकारादावविशेषवान् विवेकानभिज्ञो भवति। तथानशनहुताशनाम्बुप्रवेशविषाशनादिषु विप्लववशात्कृतप्रयत्नो भवेत् । एवं नानाप्रकाराकार्यप्रवृत्तोऽविनीतात्माऽसंयतात्मा असत्कार्याभिनिवेशयुक्तः सन् तत्कृतकर्मजातेन रागद्वेषाभ्यां मोहेन च बध्यते ॥ १५४ ॥ १५५ ॥ शरीरग्रहणद्वारेण कथं पुनस्तस्य विनम्भो भवतीत्यत आह
आचार्योपासनं वेदशास्त्रार्थेषु विवेकिता। तत्कर्मणामनुष्ठानं सङ्गः सद्भिर्गिरः शुभाः ॥ १५६ ॥ ख्यालोकालम्भविगमः सर्वभूतात्मदर्शनम् । त्यागः परिग्रहाणां च जीर्णकाषायधारणम् ॥ १५७ ॥ विषयेन्द्रियसंरोधस्तन्द्रालस्यविवर्जनम् । शरीरपरिसंख्यानं प्रवृत्तिष्वघदर्शनम् ॥ १५८ ॥ नीरजस्तमसा सत्वशुद्धिनिःस्पृहता शमः ।
एतैरुपायैः संशुद्धः सत्वयोग्यमृती भवेत् ॥ १५९ ॥ विद्यार्थमाचार्यसेवा । वेदान्तार्थेषु पातञ्जलादियोगशास्त्रार्थेषु च विवेकित्वम् । तत्प्रतिपादितध्यानकर्मणामनुष्ठानम् । सत्पुरुषसङ्गः प्रियहितवचनत्वम् । लल
For Private And Personal Use Only
Page #391
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यतिधर्मप्रकरणम् ४ ] मिताक्षरासहिता।
३५९ नालोकनालम्भयोः परित्यागः । सर्वभूतेष्वात्मवदर्शनं समत्वदर्शनम् । परिग्रहाणां च पुत्रक्षेत्रकलनादीनां त्यागः। जीर्णकाषायधारणम् । तथा शब्दस्पर्शादिविषयेषु श्रोत्रादीन्द्रियाणां प्रवृत्तिनिरोधः । तन्द्रा निद्रानुकारिणी । आलस्यमनुत्साहः तयोर्विशेषेण त्यागः । शरीरस्य परिसंख्यानमस्थिराशुचित्वादिदोषानु. संधानम् । तथा सकलगमनादिषु प्रवृत्तिषु सूक्ष्मप्राणिवधादिदोषपरामर्शः। तथा रजस्तमोविधुरता प्राणायामादिभिर्भावशुद्धिः। निःस्पृहता विषयेष्वनभिलाषः । शमो बाह्यान्तःकरणसंयमः। एतैराचार्योपासनादिभिरुपायैः सम्यक् शुद्धः केवलसत्वयुको ब्रह्मोपासनेनामृती भवेत् मुक्तो भवति ॥ १५६-१५९ ॥ कथममृतत्वप्राप्तिरित्यत आह
तत्त्वस्मृतरुपस्थानात्सत्वयोगात्परिक्षयात् ।
कर्मणां संनिकर्षाच सतां योगः प्रवर्तते ॥ १६०॥ आत्माख्यतत्त्वस्मृतेरात्मनि निश्चलतयोपस्थानात् सत्वशुद्धियोगात्केवलसत्वगुणयोगात्कर्मबीजानां परिक्षयात् सत्पुरुषाणां च संबन्धात् आत्मयोगः प्रवर्तते ॥ १६०॥
शरीरसंक्षये यस्य मनः सत्वस्थमीश्वरम् ।
अविप्लुतमतिः सम्यग्जातिसंस्मरतामियात् ॥ १६१ ॥ किंच । यस्य पुनर्योगिनोऽविप्लुतमतेः शरीरसंक्षयसमये मनः सत्वयुक्तं सम्यगेकाग्रतयेश्वरं प्रति व्याप्रियते स यधुपासनाप्रयोगाप्रवीणतयात्मानं नाधिगच्छति तर्हि विशिष्टसंस्कारपाटववशेन जात्यन्तरानुभूतकृमिकीटादिनानागर्भवासादिसमुद्भूतदुःखस्मरत्वं प्राप्नुयात् । तत्स्मरणेन च जातोद्वेगतस्तद्विच्छेदकारिणि मोक्षे प्रवर्तते ॥ १६१ ॥ यस्त्वंपटुसंस्कारतया पूर्वी जातिं न स्मरति तस्य का गतिरित्यत्राह
यथा हि भरतो वर्णैर्वर्णयत्यात्मनस्तनुम् ।
नानारूपाणि कुर्वाणस्तथात्मा कर्मजास्तनूः ॥ १६२ ॥ भरतो नटः स यथा रामरावणादिनानारूपाणि कुर्वाणः सितासितपीतादिभिवणैरात्मनस्तनुं वर्णयति रचयति तथैवात्मा तत्तत्कर्मफलोपभोगार्थ कुजवामनादिनानारूपाणि कर्मनिमित्तानि कलेवराण्यादत्ते ॥ १६२ ॥
कालकर्मात्मवीजानां दोषैर्मातस्तथैव च ।
गर्भस्य वैकृतं दृष्टमङ्गहीनादि जन्मतः ॥ १६३ ॥ किंच । न केवलं कर्मैव कुलवामनत्वादिनिमित्तं किंतु कालकर्मणि स्वका. रणपितृबीजदोषो मातृदोषश्चेति सर्वमेतत्सहकारिकारणम् । एतेन दृष्टादृष्टस्त्र
१ यत्स्वयं दुःसंस्कार ख. २ स्वपितृकारणबीज ख.
For Private And Personal Use Only
Page #392
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३६०
याज्ञवल्क्यस्मृतिः ।
[ प्रायश्चित्ताध्यायः
रूपेण कारणकलापेन गर्भस्याङ्गहीनत्वादिविकारो जन्मन औरभ्यानियतकालो
दृष्टः ॥ १६३ ॥
ननु प्राकृतिक प्रलयावसरे महदाद्यखिलविकार विनाशे कर्मणो नाशात्कथं तनिबन्धनः प्रथमपिण्डपरिग्रह इत्याशङ्कयाह -
अहंकारेण मनसा गत्या कर्मफलेन च ।
शरीरेण च नात्मायं मुक्तपूर्वः कथंचन ॥ १६४ ॥
मनोहंकारौ प्रसिद्धौ । गतिः संसरणहेतुभूतो दोषराशिः । कर्मफलं धर्माधर्मरूपम् । शरीरं लिङ्गात्मकं एतैरहंकारादिभिरयमात्मा कदाचिदपि न मुच्यते यावन्मोक्षः ॥ १६४ ॥
ननु प्रतिनियतकर्मणां जीवानां प्रतिनियतकालमेवोपरतिर्युक्ता न पुनः संग्रामादौ युगपदकाले प्राणसंक्षय इत्याशङ्कयाह
वर्त्याधारस्नेहयोगाद्यथा दीपस्य संस्थितिः ।
विक्रियापि च दृष्टैवमकाले प्राणसंक्षयः ।। १६५ ॥
यथा हि खलु तैलक्लिन्नानेकेवर्तिवर्तिनीनां नानाज्वालानां युगपत्संस्थितिः तासां च स्थितानां तदुत्तरं दोधूयमानपवनाहतिरूपविपत्तिहेतू पनि पातयौगपद्याद्युगपदुपरतिर्यथा भवति तथैव रथिसारथिवाजिकुञ्जरादिजीवानां युद्धाख्योपरति हेतुयौगपद्यादकालेऽपि प्राणपरिक्षयो नानुपपन्नः । एतदुक्तं भवति । प्रतिनियत कालविपत्तिहेतुभूतादृष्टस्य तद्विरुद्ध कार्यकरदृष्टहेतूप निपातेन प्रतिबन्ध इति ॥ १६५ ॥ मोक्षमार्गमाह
अनन्ता रश्मयस्तस्य दीपवद्यः स्थितो हृदि । सितासिताः कैर्बुरूपाः कपिला नीललोहिताः ॥ १६६ ॥ ऊर्ध्वमेकः स्थितस्तेषां यो भित्त्वा सूर्यमण्डलम् । ब्रह्मलोकमतिक्रम्य तेन याति परां गतिम् ॥ १६७ ॥
योsit हृदि प्रदीपवस्थितो जीवस्तस्यानन्ता रश्मयो नाड्यः सुखदुःख हेतुभूताः 'द्वासप्ततिसहस्राणी' त्यादिनोक्ताः सितासित कर्बुरादिरूपाः सर्वतः स्थिता - स्तेषामेको रश्मिरूर्ध्व व्यवस्थितः योऽसौ मार्तण्डमण्डलं निर्भिद्य हिरण्यगर्भनिलयं चातिक्रम्य वर्तते तेन जीवः परां गतिमपुनरावृत्तिलक्षणां प्राप्नोति ॥ १६७ ॥ स्वर्गमार्गमाह
यदस्यान्यद्रश्मिशतमूर्ध्वमेव व्यवस्थितम् ।
तेन देवशरीराणि सधामानि प्रपद्यते ।। १६८ ॥
१ आरभ्यनियत ङ. २ नेकवर्तिनीनां ङ. ३ स्थितानां पटुतरदोधूयमान ङ. ४ कर्बुनीलाः कपिलाः पीतलोहिताः ङ.
For Private And Personal Use Only
Page #393
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यतिधर्मप्रकरणम् ४ ]
मिताक्षरा सहिता ।
३६१
यदस्यात्मनो मुक्तिमार्गभूताद्रश्मेरन्यद्वश्मिशतमूर्ध्वाकारमेव व्यवस्थितं तेन सुरशरीराणि तैजसानि सुखैकभोगाधिकरणानि सधामानि कनकरजतरत्वरचितामरपुरसहितानि प्रपद्यते ॥ १६८ ॥
संसरणमार्गमाह
येनैकरूपाश्चाधस्ताद्रश्योऽस्य मृदुप्रभाः ।
इह कर्मोपभोगाय तैः संसरति सोऽवशः || १६९ ॥
ये पुनस्तस्याधस्ताद्रश्मयो मृदुप्रभास्तैरिह फलोपभोगार्थं संसारे संसरति अवशः स्वकृतकर्मपरतन्त्रः ॥ १६९ ॥
भूतचैतन्यवादिपक्षं परिजिहीर्षुराह -
वेदैः शास्त्रैः सविज्ञानैर्जन्मना मरणेन च ।
आर्त्या त्या तथागत्या सत्येन ह्यनृतेन च ॥ १७० ॥ श्रेयसा सुखदुःखाभ्यां कर्मभित्र शुभाशुभैः । निमित्तशाकुनज्ञानग्रहसंयोगजैः फलैः ॥ १७१ ॥ तारानक्षत्र संचारैर्जागरैः खमजैरपि । आकाशपवनज्योतिर्जलभूतिमिरैस्तथा ॥ १७२ ॥ मन्वन्तरैर्युगप्राझ्या मन्त्रौषधिफलैरपि ।
वित्तात्मानं वेद्यमानं कारणं जगतस्तथा ॥ १७३ ॥
वेदैः स एष नेति नेत्यात्मे 'ति, 'अस्थूलमनण्वह्रस्वमपाणिपादम्' इत्यादिभिः । शास्त्रैश्च मीमांसान्वीक्षिक्यादिभिः । विज्ञानैश्व ममेदं शरीरमित्यादिदेहव्यतिरिनात्मानुभवैः । तथा जन्ममरणाभ्यां जन्मान्तरानुष्ठितधर्माधर्मनियताभ्यां देहातिरिक्तात्मानुमानम् । आर्त्या जन्मान्तरगतकर्मानुष्ठातृनियतया । तथा गमनागमनाभ्यां ज्ञानेच्छाप्रयत्त्राधारनियताभ्यामपि भौतिक देहातिरिक्तात्मानुमानम् । नहि देहस्य चैतन्यादि संभवति । यतः कारणगुणप्रोक्तक्रमेण कार्यद्रव्ये वैशेषिकगुणारम्भो दृष्टः । नच तत्कारणभूतपार्थिवपरमाण्वादिषु चैतन्यादिसमवायः संभवति तदारब्धस्तम्भ कुम्भादि भौति केष्वनुपलम्भात् । नच मदशक्तिवदुदकादिद्रव्यान्तरसंयोगज इति वाच्यम् । शक्तेः साधारणगुणत्वात् । अतो भौतिकदेहातिरिक्तंश्चैतन्यादिसमवाय्यङ्गीकर्तव्यः । सत्यानृते प्रसिद्धे । श्रेयो हि - तप्राप्तिः । सुखदुःखे आमुष्मिके । तथा शुभकर्मानुष्ठानमशुभकर्मपरित्यागः । एतैश्च ज्ञाननियतैर्देहातिरिक्तात्मानुमानम् । निमित्तं भूकम्पादि । शाकुनज्ञानं पिङ्गलादिपतत्रिचेष्टा लिङ्गकं ज्ञानम् । ग्रहाः सूर्यादयः तत्संयोगजैः फलैः । तारा अश्विन्यादिव्यतिरिक्तानि ज्योतींषि नक्षत्राण्यश्वयुक्प्रभृतीनि एतेषां संचारैः
१ रश्मयश्च ख. २ कारणगुणप्रक्रमेण. ङ. ३ रिक्तचैतन्यादि ख.
For Private And Personal Use Only
Page #394
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
याज्ञवल्क्यस्मृतिः। [प्रायश्चित्ताध्यायः शुभाशुभफलद्योतनैः जागरैर्जागरावस्थाजन्यैश्च सच्छिद्रादित्यादिदर्शनैः तथा स्वमजैः खरवराहयुक्तरथारोहणादिज्ञानैः, तथा आकाशाद्यैश्च जीवोपभोगार्थतया सृष्टैः, तथा मन्वन्तरप्राध्या युगान्तरमाया देहेऽनुपपद्यमानतया, तथा मन्त्रीषधिबलैः प्रेक्षापूर्वकैः क्षुद्रकर्माधैः साक्षात्परम्परया वा देहेऽनुपपद्यमानैवेद्यमानं हे मुनयः, वित्त जानीत ॥ १७०-१७३ ॥
अहंकारः स्मृतिर्मेधा द्वेषो बुद्धिः सुखं धृतिः। इन्द्रियान्तरसंचार इच्छा धारणजीविते ॥ १७४ ॥ वर्गः स्वप्नश्च भावानां प्रेरणं मनसो गतिः। निमेषश्चेतना यत्न आदानं पाश्चभौतिकम् ॥ १७५ ॥ यत एतानि दृश्यन्ते लिङ्गानि परमात्मनः ।
तसादस्ति परो देहादात्मा सर्वग ईश्वरः ॥ १७६ ॥ किंच । अहंकृतिरहंकारः । स्मृतिः प्राग्भवीयानुभवभावितसंस्कारोद्बोधनिबन्धना स्तन्यपानादिगोचरा । सुखमैहिकम् । इतिधैर्यम् । इन्द्रियान्तरेण हि दृष्टेऽर्थे इन्द्रियान्तरस्य संचारो यमहमद्राक्षं तमहं स्पृशामीत्येवमनुसन्धानरूप इन्द्रियान्तरसंचारः । अत्रेच्छाप्रयत्नचैतन्यानां स्वरूपेण लिङ्गत्वम् । पूर्वश्लोके तु गमनसत्यवचनादिहेतुतया आर्थिकं लिङ्गस्वमित्यपौनरुत्यम् । तथा धारणं शरीरस्य । जीवितं प्राणधारणम् । स्वर्गो नियतदेहान्तरोपभोग्यः सुखविशेषः । स्वप्नः प्रसिद्धः । पूर्वश्लोके तु स्वप्नस्य शुभफलद्योतेनाय लिङ्गत्वं अत्र स्वरूपेणेत्यपौनरुक्त्यम् । तथा भावानामिन्द्रियादीनां प्रेरणम् । मनसो गतिश्चेतनाधिष्ठानव्याप्ता । निमेषः प्रसिद्धः । तथा पञ्चभूतानामुपादानम् । यस्मादेतानि लिङ्गानि भूतेष्व. नुपपन्नानि साक्षात्परम्परया वा परमात्मनो द्योतकानि दृश्यन्ते तस्मादस्ति देहातिरिक्त आत्मा सर्वग ईश्वर इति सिद्धम् ॥ १७४-१७६ ॥ क्षेत्रज्ञस्वरूपमाहबुद्धीन्द्रियाणि सार्थानि मनः कर्मेन्द्रियाणि च । अहंकारश्च बुद्धिश्च पृथिव्यादीनि चैव हि ॥ १७७ ॥ अव्यक्तमात्मा क्षेत्रज्ञः क्षेत्रस्यास्य निगद्यते ।
ईश्वरः सर्वभूतस्थः सनसन्सदसच यः॥ १७८ ॥ बुद्धीन्द्रियाणि श्रोत्रादीनि सार्थानि शब्दादिविषयसहितानि मनः कर्मेन्द्रियाणि वागादीनि तथाहंकारो बुद्धिश्च निश्चयात्मिका पृथिव्यादीनि पञ्चभूतानि अव्यक्तं प्रकृतिरित्येतत् क्षेत्रमस्य योऽसावीश्वरः सर्वगतः अतएव सद्रूपः प्रमा
१ श्लोकेऽनुगमन ङ. २ द्योतकतया क.
For Private And Personal Use Only
Page #395
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यतिधर्मप्रकरणम् ४] मिताक्षरासहिता ।
णान्तराग्राह्यत्वात् । असन् अस्पष्टप्रतीतिकत्वात् । सदसद्रूपोऽसावात्मा क्षेत्रज्ञ इति निगद्यते ॥ १७७ ॥ १७८॥ बुद्ध्यादेरुत्पत्तिमाह
बुद्धेरुत्पत्तिरव्यक्तात्ततोऽहंकारसंभवः।
तन्मात्रादीन्यहंकारादेकोत्तरगुणानि च ॥ १७९ ॥ सस्वादिगुणसाम्यमव्यक्तम् । ततस्त्रिप्रकारायाः सत्त्वरजस्तमोमय्या बुद्धेरुत्पत्तिः तस्याश्च वैकारिकस्तैजसो भूतादिरिति त्रिविधोऽहंकार उत्पद्यते। तत्र तामसाद्भूतादिसंज्ञकादहंकारात्तन्मात्राणि आदिग्रहणाद्गगनादीनि तानि चैकोत्तरगुणान्युत्पद्यन्ते । चशब्दाद्वैकारिकतैजसाभ्यां बुद्धिकर्मेन्द्रियाणामुत्पत्तिः ॥३७९॥ गुणस्वरूपमाह
शब्दः स्पर्शश्च रूपं च रसो गन्धश्च तद्गुणः।
यो यसानिःसृतश्चैषां स तस्मिन्नेव लीयते ॥ १८०॥ तेषां गगनादिपञ्चभूतानां एकोत्तरवृद्ध्या पञ्च शब्दादयो गुणा वेदितव्याः । एषां च बुद्ध्यादिविकाराणां मध्ये यो यस्मात्प्रकृत्यादेरुत्पन्नः स तस्मिन्नेव सूक्ष्मरूपेण प्रलयसमये प्रलीयते ॥ १८०॥ प्रकरणार्थमुपसंहरबाह
यथात्मानं सृजत्यात्मा तथा वः कथितो मया। विपाकात्रिप्रकाराणां कर्मणामीश्वरोऽपि सन् ॥१८१॥ सत्वं रजस्तमश्चैव गुणास्तस्यैव कीर्तिताः। रजस्तमोभ्यामाविष्टश्चक्रवद्धाम्यते ह्यसौ ॥ १८२ । अनादिरादिमांश्चैव स एव पुरुषः परः । लिङ्गेन्द्रियग्राह्यरूपः सविकार उदाहृतः॥१८३॥ मानसादित्रिप्रकारकर्मणां विपाकादीश्वरोऽपि सन्नात्मा यथात्मानं सृजति तथा युष्माकं कथितः । सत्वाद्याश्च गुणास्तस्यैवाविद्याविशिष्टस्य कीर्तिताः । तथा स एव रजस्तमोभ्यामाविष्टश्चक्रवदिह संसारे भ्राम्यतीत्यपि कथितम् । स एवानादिः परमपुरुषः शरीरग्रहणेनादिमान् कुजवामनादिविकारसहितस्तथा स्थूलाकारतया परिणतो लिङ्गैरिन्द्रियैश्च ग्राह्यस्वरूप उदाहृतः ॥ १८१-१८३ ॥ स्वर्गमार्गमाह
पिठ्यानोऽजवीथ्याश्च यदगस्त्यस्य चान्तरम् ।
तेनाग्निहोत्रिणो यान्ति वर्गकामा दिवं प्रति ॥ १८४ ॥ १ तद्गुणाः ख. २ तस्यैवाविशिष्टस्य ख.
For Private And Personal Use Only
Page #396
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३६४
याज्ञवल्क्यस्मृतिः। [प्रायश्चित्ताध्यायः अजवीथ्यमरमार्गः तस्यागस्त्यस्य च यदन्तरमसौ पितृयानस्तेनाग्निहोत्रिणः स्वर्गकामाः दिवं यान्ति स्वर्गं प्राप्नुवन्ति ॥ १४ ॥
ये च दानपराः सम्यगष्टाभिश्च गुणैर्युताः।।
तेऽपि तेनैव मार्गेण सत्यव्रतपरायणाः ॥ १८५॥ किंच। ये च दानादिस्मार्तकर्मपराः सम्यग्दम्भरहिताः तथाष्टाभिरात्मगुणैदयाक्षान्तिरनसूयाशौचमनायासो मङ्गलमकार्पण्यमस्पृहेति गौतमादिप्रतिपादितैर्युक्ताः। तथा ये च संत्यवदननिरतास्तेऽपि तेनैव पितृयानेनैव सुरसदनमामुवन्ति ॥ १०५ ॥
ननु नैमित्तिकादिप्रतिसंचरेऽखिलाध्यापकप्रलयादविदितवेदास्तस्योपरितना जनाः कथमग्निहोत्रादिकं कर्म करिष्यन्ति कथंतरां चाकृतकर्माणः स्वर्गमार्गमधिरोक्ष्यन्तीत्यत आह
तत्राष्टाशीतिसाहस्रा मुनयो गृहमेधिनः ।
पुनरावर्तिनो बीजभूता धर्मप्रवर्तकाः ॥ १८६ ॥ तन्त्र पितृयानेऽष्टाशीतिसहस्रसंख्या मुनयो गृहस्थाश्रमिणः पुनरावृत्तिधर्माणः सर्गादौ वेदस्योपदेशकतया धर्मतरुप्रादुर्भावे बीजभूताः सन्तोऽमिहोत्रादिधर्मप्रवर्तकाः, अतो न प्रागुदितदोषसमासङ्गः ॥ १८६ ॥
सप्तर्षिनागवीथ्यन्तर्देवलोकं समाश्रिताः । तावन्त एव मुनयः सर्वारम्भविवर्जिताः ॥ १८७ ॥ तपसा ब्रह्मचर्येण सङ्गत्यागेन मेधया ।
तत्र गत्वावतिष्ठन्ते यावदाभूतसंप्लवम् ॥ १८८ ॥ किंच। सप्तर्षयः प्रसिद्धाः नागवीथी ऐरावतपन्थाः तदन्तराले तावन्त एव अष्टाशीतिसहस्रसंख्या मुनयः सर्वारम्भविवर्जिताः केवलज्ञाननिष्ठाः तपोब्रह्मचर्ययुक्ताः तथा सङ्गत्यागिनो देवलोकं समाश्रिताः आभूतसंप्लवं प्राकृतप्रलयपर्यन्तमवतिष्ठन्ते । तत्र च स्थिताः सृष्टयादावाध्यात्मिकधर्माणां प्रवर्तकाः ॥ १८७ ॥ १८८॥ कथंमूतास्ते मुनय इत्यत आह
यतो वेदाः पुराणानि विद्योपनिषदस्तथा ।
श्लोकाः सूत्राणि भाष्याणि यच्च किंचन वाअयम् ॥१८९॥ यतो द्विविधादपि मुनिसमूहाच्चत्वारो वेदाः पुराणाङ्गविद्योपनिषदश्च नित्यभूता एवाध्येतृपरम्परायाताः प्रवृत्तास्तथा श्लोका इतिहासात्मकाः सूत्राणि च शब्दानुशासनमीमांसागोचराणि भाष्याणि च सूत्रव्याख्यारूपाणि यदन्य
१ सत्यवचन स. २ समागमः ङ.
For Private And Personal Use Only
Page #397
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यतिधर्मप्रकरणम् ४] मिताक्षरासहिता ।
३६५ दायुर्विद्यादिकं वाड्मयं तदपि यत्सकाशात्प्रवृत्तं तथाविधास्ते मुनयो धर्मप्रवतकाः । एवंसति वेदस्यापि नानित्यतादोषप्रसङ्गः ॥ १८९ ॥ ततः किमित्यत आह
वेदानुवचनं यज्ञो ब्रह्मचर्य तपो दमः।
श्रद्धोपवासः स्वातव्यमात्मनो ज्ञानहेतवः ॥ १९० ॥ वेदस्य नित्यत्वे सति तत्प्रामाण्यवलाद्वेदानुवचनादयः सत्वशुद्ध्यापादनद्वारेणात्मज्ञानस्य हेतव इत्युपपन्नं भवति ॥ १९० ॥
स ह्याश्रमैर्विजिज्ञास्यः समस्तैरेवमेव तु । द्रष्टव्यस्त्वथ मन्तव्यः श्रोतव्यश्च द्विजातिभिः ॥ १९१ ॥ य एनमेवं विन्दन्ति ये चारण्यकमाश्रिताः।
उपासते द्विजाः सत्यं श्रद्धया परया युताः ॥ १९२॥ किंच । यस्मान्नित्यतयात्मप्रमाणभूतो वेदस्तस्मादसावुक्तमार्गेण सकलाश्रमिभिर्नानाप्रकारं जिज्ञासितव्यः । तमेव प्रकारं दर्शयति । द्विजातिमिद्रष्टव्योऽपरोक्षीकर्तव्यः । तत्रोपायं दर्शयति-श्रोतव्यो मन्तव्य इति । प्रथमतो वेदान्तश्रवणेन निर्णतव्यः । तदनन्तरं मन्तव्यः युक्तिमिर्विचारयितव्यः। ततोऽसौ ध्यानेनापरोक्षीभवति । ये द्विजातयोऽतिशयश्रद्धायुक्ताः सन्तो निर्जनप्रदेशमाश्रिताः सन्त एवमुक्तेन मार्गेण एनमात्मानं सत्यं परमार्थभूतमुपासते ते आस्मानं विदन्ति लभन्ते प्रामुवन्ति ॥ १९१ ॥ १९२ ॥ प्राप्तिमार्गदेवयानमाह
क्रमात्ते संभवन्त्यर्चिरहः शुक्लं तथोत्तरम् । अयनं देवलोकं च सवितारं सवैद्युतम् ॥ १९३॥ ततस्तान्पुरुषोऽभ्येत्य मानसो ब्रह्मलौकिकान् ।
करोति पुनरावृत्तिस्तेषामिह न विद्यते ॥ १९४ ॥ ते विदितात्मानः क्रमादग्न्याद्यमिमानिदेवतास्थानेषु मुक्तिमार्गभूतेषु विश्राम्य तैः प्रस्थापिताः परमपदं प्राप्नुवन्ति । अचिर्वह्निः, अहर्दिनं, शुक्लपक्षः, तथोत्तरायणं, सुरसम, सविता सूर्यः, वैद्युतं च तेजः, तान् एवं क्रमादर्चिरादिस्थानगतान्मानसः पुरुषो ब्रह्मलोकभाजः करोति । तेषामिह संसारे पुनरावृत्तिर्न विद्यते किंतु प्राकृतप्रतिसंचरावसरे त्यक्तलिङ्गशरीराः परमात्मन्येकीभवन्ति ॥ १९३ ॥ १९४ ॥ पूर्वोक्तपितृयानमाह
यज्ञेन तपसा दानैर्ये हि स्वर्गजितो नराः ।
For Private And Personal Use Only
Page #398
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३६६
याज्ञवल्क्यस्मृतिः। [प्रायश्चित्ताध्यायः धूमं निशां कृष्णपक्षं दक्षिणायनमेव च ॥ १९५ ॥ पितृलोकं चन्द्रमसं वायुं वृष्टिं जलं महीम् । क्रमात्ते संभवन्तीह पुनरेव व्रजन्ति च ॥ १९६ ॥ एतद्यो न विजानाति मार्गद्वितयमात्मवान् ।
दन्दशूकः पतङ्गो वा भवेत्कीटोऽथवा कृमिः ॥ १९७॥ ये पुनर्विहितैर्मागैर्यज्ञदानतपोभिः स्वर्गफलभोक्तारस्ते क्रमामादिचन्द्रपर्यन्तपदार्थाभिमानिनीदेवताः प्राप्य पुनरेव वायुवृष्टिजलभूमीः प्राप्य व्रीह्याद्यन्नरूपेण शुक्रत्वमवाप्य संसारिणो योनिं व्रजन्ति । एतन्मार्गद्वयं प्रमत्तो यो न विजानाति मार्गद्वयोपायभूतधर्मानुष्ठानं न करोति असौ दन्दशूको भुजङ्गः, प. तङ्गः शलभः, कृमिः कीटो वा भवेत् ॥ १९५-१९७ ॥ उपासनाप्रकारमाह
ऊरुस्थोत्तानचरणः सव्ये न्यस्योत्तरं करम् । उत्तानं किंचिदुन्नाम्य मुखं विष्टभ्य चोरसा ॥ १९८॥ निमीलिताक्षः सत्वस्थो दन्तैर्दन्तानसंस्पृशन् । तालुस्थाचलजिहश्च संवृतास्यः सुनिश्चलः ॥ १९९ ॥ संनिरुध्यन्द्रियग्रामं नातिनीचोच्छ्रितासनः । द्विगुणं त्रिगुणं वापि प्राणायाममुपक्रमेत् ॥ २० ॥ ततो ध्येयः स्थितो योऽसौ हृदये दीपवत्प्रभुः ।
धारयेत्तत्र चात्मानं धारणां धारयन्बुधः ॥ २०१॥ उरुस्थावुत्तानौ चरणौ यस्य स तथोक्तः बद्धपद्मासनः । तथोत्ताने सव्यकरे दक्षिणमुत्तानं न्यस्य मुखं किंचिदुन्नाम्योरसा च विष्टभ्य स्तम्भयित्वा तथा निमीलिताक्षः सत्वस्थः कामक्रोधादिरहितो दन्तैर्दन्तानसंस्पृशन् तथा तालुनि स्थिता अचला जिह्वा यस्य स तथोक्तः । तथा संवृतास्यः पिहिताननः सुनिश्चलो निष्प्रकम्पः तथा सम्यगिन्द्रियसमूह विषयेभ्यः प्रत्याहृत्य नातिनीचासनो नात्यच्छितासनो यथा चित्तविक्षेपो न भवति तथोपविष्टः सन् द्विगुणं त्रिगुणं वा प्राणायामाभ्यासमुपक्रमेत् । ततो वशीकृतपवनेन योगिना योऽसौ हृदये दीपवदप्रकम्पः प्रभुः स्थितोऽसौ ध्यातव्यः । तत्र च हृदि आत्मानं मनोगोचरतया धारयेत् । धारणामवधारयन् । धारणास्वरूपं च। जान्वयभ्रमणेन च्छोटिकादानकालो मात्रा । ताभिः पञ्चदशमात्राभिरधमः प्राणायामः। त्रिंशद्भिर्मध्यमः । पञ्चचत्वारिंशशिरुत्तमः । एवं प्राणायामत्रयात्मिकैका धारणा । तास्तिस्रो
१ न्यस्येतरं करम् ङ. पाठः.
For Private And Personal Use Only
Page #399
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्तप्रकरणम् ५ ] मिताक्षरासहिता ।
योगशब्दवाच्यास्ताश्च धारयेत् । यथोक्तमन्यत्र-'संभ्रम्य च्छोटिकां दद्यात्कराग्रं जानुमण्डले । मात्राभिः पञ्चदशभिः प्राणायामोऽधमः स्मृतः ॥ मध्यमो द्विगुणः श्रेष्ठस्त्रिगुणो धारणा तथा। त्रिमिस्त्रिभिः स्मृतैकैका ताभिर्योगस्तथैव च ॥' इति ॥ १९४-२०१॥ धारणात्मकयोगाभ्यासे प्रयोजनमाह
अन्तर्धानं स्मृतिः कान्तिदृष्टिः श्रोत्रज्ञता तथा । निजं शरीरमुत्सृज्य परकायप्रवेशनम् ॥ २०२ ॥ अर्थानां छन्दतः सृष्टियोगसिद्धेश्व लक्षणम् । सिद्ध योगे त्यजन्देहममृतत्वाय कल्पते ॥ २०३ ॥ अणिमप्राप्या परैरदृश्यत्वमन्तर्धानम् । स्मृतिरतीन्द्रियेष्वर्थेषु मन्वादेरिव स्मरणम् । कान्तिः कमनीयता । दृष्टिरतीतानागतेष्वप्यर्थेषु । तथा श्रोत्रज्ञता अतिदवीयसि देशेऽभिव्यज्यमानतया श्रोत्रपथमनासेदुषामपि शब्दानां ज्ञातृता । निजशरीरत्यागेन परशरीरप्रवेशनम् । स्ववान्छावशेनार्थानां कारणनिर. पेक्षतया सृष्टिरित्येतद्योगस्य सिद्धलक्षणं लिङ्गम् । नचैतावदेव प्रयोजनं किंतु सिद्धे योगे त्यजन्देहममृतत्वाय कल्पते ब्रह्मत्वप्राप्तये च प्रभवति ॥२०२॥२०३॥ यज्ञदानाद्यसंभवे सत्वशुद्धावुपायान्तरमाह
अथवाप्यभ्यसन्वेदं न्यस्तकर्मा वने वसन् ।
अयाचिताशी मितभुक्परां सिद्धिमवाप्नुयात् ॥ २०४॥ अथवा त्यक्तकाम्यनिषिद्धकर्मा अन्यतमं वेदमभ्यसन् एकान्तशीलोऽया. चितमिताशनापादितसत्तशुद्धिरात्मोपासनेन परां मुक्तिलक्षणां सिद्धि प्राप्नोति ॥
न्यायागतधनस्तत्त्वज्ञाननिष्ठोऽतिथिप्रियः ।
श्राद्धकृत्सत्यवादी च गृहस्थोऽपि हि मुच्यते ॥ २०५॥ किंच । सत्प्रतिग्रहादिन्यायेनोपार्जितधनः अतिथिपूजातत्परः नित्यनैमित्तिक. श्राद्धानुष्ठान निरतः सत्यवदनशीलः सन्नात्मतत्त्वध्याननिरतो गृहस्थोऽपि हि यस्मान्मुक्तिमवाप्नोति तस्मान्न केवलमैहिकपारिवाज्यपरिग्रह एव मुक्तिसाधनम् ॥
इत्यध्यात्मप्रकरणम् ।
अथ प्रायश्चित्तप्रकरणम् ५ 'वर्णाश्रमेतराणां नो ब्रूहि धर्मानशेषतः' इत्यन्न प्रतिपाद्यतया प्रतिज्ञातषद्धिधधर्ममध्ये पञ्चप्रकारं धर्ममभिधायाधुनाऽवशिष्टं नैमित्तिकं धर्मजातं प्रायश्चित्त
१ सिद्धेर्हि, सिद्धिर्हि ख. २ अणिमाप्राप्त्या ख. ३ करणनिरपेक्ष ख. ४ पारिव्रज्य ख.
या० ३४
For Private And Personal Use Only
Page #400
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३६८
याज्ञवल्क्यस्मृतिः । [ प्रायश्चित्ताध्यायः
पदाभिप्यं प्रारिप्सुः प्रथमतस्तत्प्ररोचनार्थमधिकारिविशेपप्रदर्शनार्थं चार्थवादरूपं कर्म विपाकं तावदाह -
महापातकजान्घोरान्नरकान्प्राप्य दारुणान् । कर्मक्षयात्प्रजायन्ते महापातकिनस्त्विह || २०६ |
ब्रह्महत्यादिपञ्चकस्य महापातकसंज्ञा ब्रह्महा मद्यप इत्यत्र वक्ष्यते तद्योगिनो महापातकिनस्ते महापातकजनितांस्तामिखा दिनरकान्स्वज नितदुष्कृतानुरूपान् घोरानातितीव्र वेदना पादकत्वेनातिभयंकरान्दारुणान्दुः खैकभोगनिलयान्प्राप्य कमैक्षयात् कर्मजन्य नरकदुःखोपभोगक्षयादनन्तरं कर्मशेपात्पुनरिह संसारे दुःखबहुलश्वसृगालादितिर्यग्योनिषु प्रकर्षेण भूयोभूयो जायन्ते । महापातकिग्रहणमितरेषामप्युपपातक्यादीनामुपलक्षणम् । तेषां च तिर्यगादियोनिप्राप्तेर्वक्ष्य
माणत्वात् ॥ २०६ ॥
महापातकिनां संसारप्राप्तिमुक्त्वा तद्विशेषकथनायाह-
मृगaangri ब्रह्मा योनिमृच्छति । खरपुल्कसवेणानां सुरापो नात्र संशयः ॥ २०७ ॥ कृमिकीटपतङ्गत्वं स्वर्णहारी समाप्नुयात् 1 तृणगुल्मलतात्वं च क्रमशो गुरुतल्पगः ॥ २०८ ॥
१ वेनानां ख.
मृगा हरिणादयः श्वसूकरोष्ट्राः प्रसिद्धाः तेषां योनिं ब्रह्मा स्वकर्मशेषेण प्रानोति । खरो रासभः पुल्कसः प्रतिलोम निषादेन शूद्र्यां जातः वैदेहकेनाम्बष्ठयां जातो वेणस्तेषां योनिं सुरापः प्राप्नोति । कृमयः सजातीय संभोगनिरपेक्षा मांसविष्ठा गोमयादिजन्याः, ततः किंचित्स्थूलतराः पक्षास्थिरहिताः पिपीलिकादयः कीटाः पतङ्गाः शलभाः, तेषां योनिं ब्राह्मणस्वर्णहारी प्राप्नुयात् । तृणं काशादि, गुल्मलते प्रागुक्ते, तजातीयतां क्रमेण गुरुतल्पगः प्रामोति । एतच्चाकामकृतविषयम् । कामकारकृते त्वन्यास्वपि दुःखबहुलयोनिपु संसरन्ति । यथाह मनुः ( १२/५५-५८ ) - 'श्वसूकरखरोष्ट्राणां गोवाजिमृगपक्षिणाम् । चाण्डालपुल्कसानां च ब्रह्महा योनिमृच्छति ॥ कृमिकीटपतङ्गानां विड्भुजां चैव पक्षिणाम् । हिंस्राणां चैव सत्वानां सुरापो ब्राह्मणो व्रजेत् ॥ लूताऽहिसरठानां च तिरश्चां चाम्बुचारिणाम् । हिंस्राणां च पिशाचानां स्तेनो विप्रः सहस्रशः ॥ लूतोर्णनाभः । सरठः कृकलासः ।—'तृणगुल्मलतानां च क्रव्यादां दंष्ट्रिणामपि । क्रूरकर्मकृतां चैव शतशो गुरुतल्पगः ॥' इति ॥ २०७ ॥ २०८ ॥
एवं च तिर्यक्त्वादुत्तीर्णानां मानुष्ये रोगादि लक्षणानि भवन्तीत्याहब्रह्महा क्षयरोगी स्यात्सुरापः श्यावदन्तकः ।
२ योनीः ख ३ गोजाविमृगपक्षिणामिति पाठः ४ पुष्कसानां च ङ.
For Private And Personal Use Only
Page #401
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्तप्रकरणम् ५ ] मिताक्षरासहिता ।
हेमहारी तु कुनखी दुश्चर्मा गुरुतल्पगः ॥२०९ ॥
यो येन संवसत्येषां स तल्लिङ्गोऽभिजायते । किंच । एवं रौरवादिनरकेषु श्वसूकरखरादियोनिषु च दारुणं दुःखमनुभूया. नन्तरं दुरितशेषेण जननसमय एव क्षयरोगादिलक्षणयुक्ताः । प्रचुरेषु मानवशरीरेषु संसरन्ति । ब्रह्महा क्षयरोगी राजयक्ष्मी भवेत् । निषिद्धसुरापः स्वभावतः कृष्णदशनः । ब्राह्मणहेम्नो हर्ता कुत्सितनखत्वम् । गुरुदारगामी दुश्चर्मत्वं कुष्टिताम् ॥ २०९ ॥ एतेपां ब्रह्महादीनां मध्ये येन पतितेन यः पुरुषः संवसति स तल्लिङ्गोऽभिजायते ॥
अन्नहतामयावी स्थान्मूको वागपहारकः ॥ २१० ॥ धान्यमिश्रोऽतिरिक्ताङ्गः पिशुनः पूतिनासिकः ।
तैलहत्तैलपायी स्यात्पूतिवस्तु सूचकः ॥ २११ ॥ किंच । अन्नस्यापहर्ता आमयावी अजीर्णान्नः । वागपहारकोऽननुज्ञाताध्यायी पुस्तकापहारी च मूको वागिन्द्रियविकलो भवेत् । धान्यमिश्रोऽतिरिक्ताङ्गः षडङ्गुल्यादिः पिशुनो विद्यमानपरदोपप्रख्यापनशीलः । पूतिनासिकः दुर्गन्धनासिकः तैलस्य हर्ता तैलपायी कीटविशेषो भवति । सूचकोऽसदोषसंकीर्तनो दुर्गन्धिवदनो जायते । एतच्च तिर्यक्त्वप्राप्त्युत्तरकालं मानुषशरीरप्राप्तौ द्रष्टव्यम् (१२६६८)-'यद्वा तद्वा परद्रव्यमपहृत्य बलान्नरः । अवश्यं याति तिर्यक्त्वं जग्ध्वा चैवाहुतं हविः ॥' इति मनुस्मरणात् ॥ २१० ॥ २१ ॥
परस्य योपितं हृत्वा ब्रह्मस्वमपहत्य च।
अरण्ये निजेले देशे भवति ब्रह्मराक्षसः ॥ २१२ ॥ किंच । हीनजातौ हेमकाराख्यायां पक्षिजातौ पररत्नाद्यपहारको जायते । निर्जले देशे ब्रह्मराक्षसो भूतविशेषो जायते ॥ २१२ ॥
हीनजातौ प्रजायेत पररत्नापहारकः ।
पत्रशाकं शिखी हत्वा गन्धाञ्छुच्छुन्दरी शुभान् ॥२१३॥ किंच । हीनजातौ हेमकाराख्यायां पक्षिजातौ पररत्नाद्यपहारको जायते । तथाच मनुः (१२१६१)-'मणिमुक्ताप्रवालानि हृत्वा लोभेन मानवः । विविधानि च रत्नानि जायते हेमकर्तृषु ॥' इति । पत्रात्मकं शाकं हृत्वा मयूरः। शुभान्गन्धानपहृत्य छुच्छन्दरी राजदुहिताख्या मूषिका जायते ॥ २१३ ॥
मूषको धान्यहारी स्याद्यानमुष्ट्रः कपिः फलम् । जलं प्लवः पयः काको गृहकारी घुपस्करम् ॥ २१४ ॥
For Private And Personal Use Only
Page #402
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
याज्ञवल्क्यस्मृतिः। [प्रायश्चित्ताध्यायः मधु दंशः पलं गृध्रो गां गोधाग्निं बकस्तथा ।
वित्री वस्त्रं श्वा रसं तु चीरी लवणहारकः ॥ २१५ ॥ किंच । धान्यहारी आखुः । यानं हृत्वोष्ट्रः । फलं वानरः । जलं प्लवः शकटविलाख्यः पक्षी । पयः क्षीरं । काको ध्वाङ्कः । गृहोपस्करं मुसलादि हृत्वा गृहकारी चेटकाख्यः कीटविशेषः । मधु हृत्वा दंशाख्यः कीटः। पलं मांसं तद्धृत्वा गृध्राख्यः पक्षी । गां हत्वा गोधाख्यः प्राणिविशेषः । अग्निं हृत्वा बकाख्यः पक्षी । वस्त्रं हत्वा श्वित्री । इक्ष्वादिरसं हत्वा सारमेयः । लवणहारी चीर्याख्यः उच्चैःस्वरः कीटः ॥ २१४ ॥ २१५॥
एवं प्रदर्शनार्थ किंचिदुक्त्वा प्रतिद्रव्यं पृष्टाकोटिन्यायेन वक्तुमशक्तरेकोपाधिना कर्मविपाकं दर्शयितुमाह
प्रदर्शनार्थमेतत्तु मयोक्तं स्तेयकर्मणि ।
द्रव्यप्रकारा हि यथा तथैव प्राणिजातयः ॥ २१६ ॥ द्रव्यस्यापहियमाणस्य यादृशाः प्रकारास्तादृशा एव प्राणिजातयः स्तेयकर्मण्यपहारो भवन्ति । यथा कांस्यहारी हंस इति । अथवा यत्फलसाधनं द्रव्यमपहरति तत्साधनविकलो यथा पङ्गुतामश्वहारक इति ॥ शकेन क्वचिद्विशेषो दर्शितः । ब्रह्महा कुष्ठी । तैजसापहारी मण्डली । देवब्राह्मणाक्रोशकः खलतिः । गरदाग्निदावुन्मत्तौ । गुरुं प्रतिहन्तापसारी । गोघ्नश्चान्धः । धर्मपत्री त्यक्त्वान्यत्र प्रवृत्तः शब्दवेधी प्राणिविशेषः । कुण्डाशी भगभक्षो देवब्रह्मस्वहारी । पाण्डुरोगी न्यासापहारी च काणः । स्त्रीपण्योपजीवी पण्डः । कौमारदारत्यागी दुर्भगः । मिष्टकाशी वातगुल्मी । अभक्ष्यभक्षको गण्डमाली । ब्राह्मणीगामी निर्बीजी । क्रूरकर्मा वामनः । वस्त्रापहारी पतंगः । शय्यापहारी क्षपणकः । शङ्खशुक्त्यपहारी कपाली । दीपापहारी कौशिकः । मित्रध्रुक् क्षयी। मातापितोराक्रोशः खञ्जक इति ॥ गौतमोऽपि कचिद्विशेषमाह । अनृतवागुल्बलः मुहुर्मुहुः संलग्नवाक् । दारत्यागी जलोदरी । कूटसाक्षी श्लीपदी उच्छिन्नजङ्घा. चरणः। विवाहविघ्नकर्ता छिन्नोष्ठः। अवगूरणः छिन्नहस्तः। मातृप्तोऽन्धः। स्नुषागामी वातवृषणः । चतुष्पथे विण्मूत्रविसर्जने मूत्रकृच्छ्री। कन्यादूषकः षण्डः । ईर्ष्यालु. मशकः । पित्रा विवदमानोऽपसारी । न्यासापहारी अनपत्यः । रत्नापहारी अत्यन्तदरिद्रः । विद्याविक्रयी पुरुषमृगः । वेदविक्रयी द्वीपी । बहुयाजको जलप्लवः । अयाज्ययाजको वराहः । अनिमत्रितभोजी वायसः । मष्टैकभोजी वानरः । यतस्ततोऽश्नन्मार्जारः । कक्षवनदहनात्खद्योतः । दारकाचार्यो मुखविगन्धिः । पर्युषितभोजी कृमिः। अदत्तादायी बलीवर्दः । मत्सरी भ्रमरः । अग्युत्सादी
१ शकटाविलाख्यः ऊ.२ वरटाख्यः ङ. ३ पृष्टाकोटेन.ख. ४ ब्रह्मस्वहरः ख. ५ मृष्टैकाशी पाठः. ६ खण्डकारः ख. ७ अस्थूलजङ्घ ङ. ८ अवगूरणी ख. ९ मिष्टेकभोजी ङ.
For Private And Personal Use Only
Page #403
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्तप्रकरणम् ५] मिताक्षरासहिता।
३७१ मण्डलकुष्ठी । शूद्राचार्यः श्वपाकः।गोहर्ता सर्पः। नेहापहारी क्षयी। आशापहारी अजीर्णी । ज्ञानापहारीमूकः । चण्डालीपुल्कसीगमने अजगरः। प्रव्रजितागमने मरुपिशाचः। शूद्रीगमने दीर्घकीटः । सवर्णाभिगामी दरिद्रः। जलहारी मत्स्यः। क्षीरहारी बलाकः । वाधुषिकोऽङ्गहीनः । अविक्रेयविक्रयी गृध्रः । राजमहिषीगामी न. पुंसकः। राजाक्रोशको गर्दभः । गोगामी मण्डूकः । अनध्यायाध्ययने सृगालः । परद्रव्यापहारी परप्रेष्यः । मत्स्यवधे गर्भवासी। इत्येतेऽनूर्ध्वगमना इति ॥ स्त्रियोऽप्येतेषु निमित्तेषु पूर्वोक्तास्वेव जातिषु स्त्रीत्वमनुभवन्ति । यथाह मनुः (१२२६९)-'स्त्रियोऽप्येतेन कल्पेन हृत्वा दोषमवामुयुः । एतेषामेव जन्तूनां भार्यात्वमुपयान्ति ताः ॥' इति । एतच्च क्षयित्वादिलक्षणकथनं प्रायश्चित्तोन्मुखीभूतब्रह्महायुद्वेगजननाथै न पुनः क्षयित्वादिलक्षणयुक्तानां द्वादशवार्षिकादिव्रतमाहयर्थ संसर्गनिवृत्त्यर्थं वा । तथाहि । पापक्षयार्थ प्रायश्चित्तम् । नेच प्रायश्चित्तेन प्रारब्धफलपापापूर्व विनाशे किंचन प्रयोजनमस्ति । नहि कार्मुकनिर्मुक्तो बाणो लक्ष्यवेधे वेद्धस्तद्व्यापारस्य वा सत्तान्तरं पुनरपेक्षते । नच तदारब्धफलनाशार्थोऽपूर्वनाशोऽन्वेषणीयः । नहि निमित्तकारणीभूतचक्रचीवरादिविनाशेन तदारब्धकरकादिविनाशः । नच नैसर्गिकं कौनख्यादिकं प्रत्यानेतुं शक्यते । किंच नरकतिर्यग्योन्यादिजन्यदुःखपरम्परामर्नुभूतस्य हि कौनख्यादिको विकारश्वरमं फलम् । तेन चोत्पन्नमात्रेण स्वकारणापूर्वनाशो जन्यते मन्थनजनिताशुशुक्षणिनेवारणिक्षयः । तस्मान्न पापविनाशार्थं व्रतपरिचर्या नापि संव्यवहारार्थम् । नहि शिष्टाः कुनख्यादिभिः सह संबन्धं परिहरन्ति । प्राचीनक्षयापापनाशेन संव्यवहार्यत्वस्यापि सिद्धेर्नार्थो व्रतचर्यया ॥ यत्तु वसिष्ठेनोक्तम्'कुनखी श्यावदन्तश्च कृच्छ्रे द्वादशरानं चरेत्' इति तत्क्षामवत्यादिवन्नैमित्तिकमानं न पुनः पापक्षयार्थं संव्यवहार्यत्वसिद्ध्यर्थं वेति मन्तव्यम् ॥ २१६ ॥
यथाकर्म फलं प्राप्य तिर्यक्त्वं कालपर्ययात् ।
जायन्ते लक्षणभ्रष्टा दरिद्राः पुरुषाधमाः॥२१७॥ किंच । यथाकर्म स्वकृतदुष्कृतानतिक्रमेण तदनुरूपं नरकादि फलं तिर्यक्त्वं च प्राप्य कालक्रमेण क्षीणे कर्मणि दुष्टलक्षणा दरिद्राश्च पुरुषेषु निकृष्टा जायन्ते ॥ २१७ ॥
ततो निष्कल्मपीभूताः कुले महति भोगिनः ।
जायन्ते विद्ययोपेता धनधान्यसमन्विताः ॥ २१८ ॥ किंच । ततो दुर्लक्षणमनुष्यजन्मानन्तरं निष्कल्मषीभूता नरकाद्युपभोगद्वारेण क्षीणपापाः प्राग्भवीयसुकृतशेषेण महाकुले भोगसंपन्नाः विद्याधनधान्यसंपन्ना जायन्ते ॥ २१८॥
१ हत्वा दोषं ख. २ नच प्रारब्ध ख. ३ सत्तां पुनरपेक्षते ख. ४ कारणभूत ख. ग. ५ मनुभूय तस्य ख. ६ प्राचीननयात् क. ख. ७ संव्यवहारार्थत्वस्यापि ख. ८ यया कर्म ख.
For Private And Personal Use Only
Page #404
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३७२
याज्ञवल्क्यस्मृतिः ।
[ प्रायश्चित्ताध्यायः
एवं प्रायश्चित्तेषु प्ररोचनार्थे कर्मविपाकमभिधायाधुना तेष्वेवाधिकारिणं निरूपयितुमाह
विहितस्याननुष्ठानान्निन्दितस्य च सेवनात् । अनिग्रहाचेन्द्रियाणां नरः पतनमृच्छति ॥ २१९ ॥ तस्मात्तेनेह कर्तव्यं प्रायश्चित्तं विशुद्धये । एवमस्यान्तरात्मा च लोकश्चैव प्रसीदति ॥ २२० ॥
स
विहितमिति यदावश्यकं संध्योपासनाग्निहोत्रादिकं नित्यमशुचिस्पर्शादौ नैमित्तिकत्वेन चोदितं स्नानादिकं च तदुभयमुच्यते तस्याकरणात्, निन्दितस्य निषिद्धस्य सुरापानादे: करणात् इन्द्रियाणामनिग्रहाच्च नरः पतनमृच्छति प्राप्नोति । प्रत्यवायी भवतीति यावत् ॥ ननु 'इन्द्रियार्थेषु सर्वेषु न प्रसज्येत कामतः' इतीन्द्रियप्रसक्तेरपि निषिद्धत्वान्निन्दितग्रहणेनैव गतार्थत्वात्किमर्थम निग्रहाचेन्द्रियाणामिति पृथगुपादानम् । अत्रोच्यते - इन्द्रियप्रसक्तिनिषेधस्य नैकान्ततः प्रतिषेधरूपता स्नातकव्रतमध्येऽस्य पाठात्तत्र च ' व्रतानीमानि धारयेत्' इति व्रतशब्दाधिकारान्नञ्श्रवणाच्चेन्द्रियप्रसक्तिप्रतिषेधकः संकल्पो विधीयते । ਬੰ भावरूप इति पृथगुपादानम् ॥ ननु विहिताकरणात् प्रत्यवैतीति कुतो - saसितम् । न तावदग्निहोत्रादिचोदना पुरुषप्रवर्तनात्मिकाऽननुष्ठानस्य प्रत्यवायहेतुतामाक्षिपति । विषयानुष्ठानस्य पुरुषार्थत्वावगतिमात्र पर्यवसायिनी हिसा तावन्मात्रेण प्रवृत्त्युपपत्तेर्न पुनरकरणस्य प्रत्यवायहेतुत्वमपि वक्ति । क्षीणशक्तित्वादनुपपत्तेः । किंच । येद्यनुपपत्युपशमेति प्रवृत्तिसिद्ध्यर्थमर्थान्तरं कल्प्यते तर्हि निषिध्यमानक्रियाजन्यप्रत्यवाय परिहारार्थतयैव तद्वर्जनस्य पुरुषार्थत्वसिद्धावपि फलान्तरं कल्प्येत । नचैतत्कस्यचिदपि संमतम् ॥ ननु यथा निषिद्धेष्ववादावगतप्रत्यवायपरिहारार्थतयैव पुरुषार्थत्वं तथा विहितेष्वप्यर्थवादावगताकरणजन्यप्रत्यवायपरिहारार्थता कस्मान्न स्यात् ॥ मैवम् । नहि सर्वत्राग्निहोत्रादिषु तादृग्विधार्थवादाः सन्ति । नच 'विहितस्याननुष्ठानान्नरः पतनमृच्छति' इतीयं स्मृतिरेव वाक्यशेषस्थानीयेति चतुरस्रम् । नहि वाक्यान्तरप्रमिते कार्ये वाक्यान्तरेणार्थवादः संभवति । भवतु वा कथंचिदेकवाक्यतयार्थवादस्तथापि नाभावरूपं विहिताकरणे कार्यान्तरं जनयितुं क्षमते । ननु 'ज्वरे चैवातिसारे च लङ्घनं परमौषधम्' इत्यायुर्वेदवचनाद्भोजनाभावरूपं लङ्घनं ज्वरशान्ति जनयतीति यथावगम्यते तथात्रापि भवतु । मैवम् । यतो नात्रापि लङ्घनाज्वरशान्तिः किं तर्हि ज्वरनाशप्रतिबन्धकभोजनाभावे सति जठरानलपरिपार्केज निताद्धातुसाम्यादिति मन्तव्यम् । तस्मात् 'विहितस्याननुष्ठानान्नरः पतनमृच्छति' इति कथमस्याः स्मृतेर्गतिरिति वाच्यम् । उच्यते । अग्निहोत्रादिविषयाधिका
१ सचोभय ख. २ यद्यप्यनुप ख. ३ नाभावरूपविहिताकरणं ख. ४ परिपाकजननाद्धातु ख.
For Private And Personal Use Only
Page #405
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्तप्रकरणम् ५] मिताक्षरासहिता ।
३७३ रासिद्धिरूपप्रत्यवायाभिप्रायेणेति न दोषः । ननु (१२।७१।७२)-'वान्ताश्युल्कामुखः प्रेतो विप्रो धर्मात्स्वकाच्युतः । अमेध्यकुणपाशी तु क्षत्रियः कटपूतनः ॥ मैत्राक्षज्योतिकः प्रेतो वैश्यो भवति पूयभुक् । चैलाशकस्तु भवति शूद्रो धर्मात्स्वकाच्युतः ॥' इति । एतानि विहिताकरणप्रत्यवायपराणि मनुवचनानि कथं घटन्ते । उच्यते । यथा वातन्मश्नत उल्कया वा दह्यमानमुखस्य दुःखं तथास्यापि विहितमकुर्वतः पुरुषस्य पुरुषार्थासिद्धरित्यकरणनिन्दनमनुष्टानप्ररोचनार्थमित्यविरोधः। यद्वा प्राग्भवीयनिषिद्धाचरणाक्षिप्तविहितानुष्ठानविरोधिरागालस्यादिजन्यवान्ताश्युल्कामुखप्रेतत्वादिरूपमिति न क्वचिदभावस्य कारणतेति मन्तव्यम् ॥ ननु पुंश्चलीवानरखरदृष्ट(श्वदष्ट)मिथ्याभिशस्तादौ वि. हिताकरणादिनिमित्तानामन्यतमस्याप्यभावात्कथं प्रत्यवायिता, कथं च तदभावे प्रायश्चित्तविधानम्। उच्यते । अस्मादेव पापक्षयार्थप्रायश्चित्तविधानाजन्मान्तराचरितनिषिद्धसेवादिजन्यपापापूर्वं समाक्षिप्तमित्यभिशापादिकं तन्निमित्तप्रायश्चित्तापनोद्यमनेनानुष्टितमिति कल्प्यते । पुरुषप्रयत्ननैरपेक्ष्येण कार्यरूपपापोत्पत्त्यनुपपत्तेः । नच पुंश्चल्यादिगतप्रयत्नेन पुरुषान्तरे पापोत्पत्तिः, कर्तृसमवायिस्वनियमाद्धर्माधर्मयोः, तस्माद्युक्तैव प्रायश्चित्ते निमित्तत्रयपरिगणना । तथाच मनुः (११।४४)-'अकुर्वन्विहितं कर्म निन्दितं च समाचरन् । प्रसतश्चेन्द्रियार्थेषु प्रायश्चित्तीयते नरः ॥' इति । नरग्रहणं प्रतिलोमजातानामपि प्रायश्चित्ताधिकारप्राप्त्यर्थम् । तेपामप्यहिंसादिसाधारणधर्मव्यतिक्रमसंभवात् । यस्मादेवं निषिद्धाचरणादिना प्रत्यवैति तस्मात्तेन कृतनिषिद्धसेवादिना पुरुषेण प्रायश्चित्तं कर्तव्यमिह लोके परत्र च विशुद्ध्यर्थम् । प्रायश्चित्तशब्दश्चायं पापक्षयार्थे नैमित्तिके कर्मविशेष रूढः । एवं प्रायश्चित्ते कृते अस्यान्तरात्मा शुद्धतया प्रसीदति लोकश्च संव्यवहर्तुं प्रसीदति । एवं वदतैतद्दर्शितम् । नैमित्तिकोऽयं प्रायश्चित्ताधिकारः, तत्र चार्थवादगतदुरितक्षयोऽपि जातेष्टिन्यायेन साध्यतया स्वीक्रियते । नच दुरितपरिजिहासुनानुष्टीयत इत्येतावता कामाधिकारोशङ्का कार्या । यस्मात् (मनुः ११॥५३)-'चरितव्यमतो नित्यं प्रायश्चित्तं विशुद्धये । निन्द्यैर्हि लक्षणैर्युक्ता जायन्तेऽनिष्कृतैनसः ॥' इत्य करणे दोषश्रवणेनावश्यकत्वावगमात् ॥ २१९ ॥ २२०॥ प्रायश्चित्ताकरणे दोषमाह
प्रायश्चित्तमकुर्वाणाः पापेषु निरता नराः।
अपश्चात्तापिन: कष्टानरकान्यान्ति दारुणान् ॥ २२१॥ पापेषु शास्त्रार्थव्यतिक्रमजनितेषु प्रसक्ताः पुरुषाः अपश्चात्तापिनो मया दुष्कृतं कृतमित्येवमुद्वेगरहिताः प्रायश्चित्तमकुर्वाणाः दुःसहान्नरकान्प्राप्नुवन्ति ॥ २२१ ॥
___१ विप्रो भवति विच्युतः ग. ङ. २ मित्रदेवताकत्वान्मैत्रः पायुस्तदेवाक्षं कमेंन्द्रियं तत्र ज्योतिर्यस्य. ३ प्रायश्चित्तनिमित्त ङ. ४ लोकश्चायं संव्यव ख. ५धिकारशङ्का उ.६ दुःखदान् ङ.
For Private And Personal Use Only
Page #406
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३७४
याज्ञवल्क्यस्मृतिः। [प्रायश्चित्ताध्यायः नरकस्वरूपं विधृण्वन्नाह
तामित्रं लोहशङ्ख च महानिरयशाल्मली। रौरवं कुड्मलं पूतिमृत्तिकं कालसूत्रकम् ॥ २२२ ॥ संघातं लोहितोदं च सविषं संप्रपातनम् । महानरककाकोलं संजीवनमहापथम् ॥ २२३ ।। अवीचिमन्धतामिस्र कुम्भीपाकं तथैव च । असिपत्रवनं चैव तपनं चैकविंशकम् ।। २२४ ॥ महापातकजै|रैरुपपातकजैस्तथा ।
अन्विता यान्त्यचरितप्रायश्चित्ता नराधमा: ॥ २२५॥ तामिस्रप्रभृतींस्तपनपर्यन्तानेकविंशतिनरकानन्वर्थसंज्ञाद्योतितावान्तरभेदान्महापातकोपपातकजनितभयंकरदुरितैरन्तिता अनाचरितप्रायश्चित्ताः पुरुषाधमाः प्राप्नुवन्ति ॥ २२२-२२५ ॥ उपात्तदुरितनाशार्थ प्रायश्चित्तमित्युक्तं तत्र विशेषमाह
प्रायश्चित्तैरपैत्येनो यदज्ञानकृतं भवेत् ।
कामतो व्यवहार्यस्तु वचनादिह जायते ॥ २२६ ॥ प्रायश्चित्तैर्वक्ष्यमाणलक्षणैरज्ञानाद्यदेनः पापं कृतं तदपैति गच्छति न कामतः कृतम् । किंतु तत्र प्रायश्चित्तविधायकवचनबलादिह लोके व्यवहार्यों जायते । अनच प्रायश्चित्तैरपैत्येनो यदज्ञानकृतमित्युपक्रमात्तत्प्रतियोगितया ज्ञानत इति वक्तव्ये यत्कामत इत्युक्तं तत् ज्ञानकामयोस्तुल्यत्वप्रदर्शनार्थम् । तथाहि 'विहितं यदकामानां कामात्तविगुणं भवेत् ।' तथा अबुद्धिपूर्वक्रियायामधं प्रायश्चित्तम् । तथा 'म्लेच्छेनाधिगतः शूद्रस्त्वज्ञानात्तु कथंचन । कृच्छ्रत्रयं प्रकुर्वीत ज्ञानात्तु द्विगुणं भवेत् ॥' इत्यादिभिर्वचनैनिकामनयोस्तुल्यप्रायश्चित्तदर्शना. तुल्यफलतैव । किंच । स्वतन्त्रप्रवृत्तिर्विषयज्ञानकामनाभ्यां नियता तयोरन्यत
पायेऽपि तस्या असंभवादतः कामत इत्युक्तम् । ज्ञानाज्ञानत इत्युक्तेऽपि कामः प्रामोत्यविनाभावात् । नच चौरादिभिर्बलारप्रवर्त्यमानस्य सत्यपि विषयज्ञाने कामनाभावान्नाविनाभाव इति वाच्यम् । यतोऽन्त्र विद्यमानस्यापि ज्ञानस्य प्रवृत्तिहेतुत्वाभावेनासत्समत्वम् ॥ यत्त शुष्केऽपि पिपतिषोन्त्यिा कर्दमपतनं तत्रापि वास्तवज्ञानाभावात्तद्विषयकामनायाश्चाभाव एव । एवमशानाकामनयोरप्यव्यभिचार एव ॥ ननु प्रायश्चित्तरपैत्येन इति न युक्तम् । फलविनाश्यत्वा
१गिता शूद्रा त्वज्ञानात्तु ख. २ ज्ञानात्तद्विगुणं ग. शाने तु द्विगुणं ङ. ३ इत्याद्यपूर्व वचनैः ङ. ४ अन्यतराभावेपि ग. ५ विद्यमानस्याप्रवृत्ति ङ.
For Private And Personal Use Only
Page #407
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्तप्रकरणम् ५] मिताक्षरासहिता ।
३७५
त्कर्मणः । मैवम् । यथा पापोत्पत्तिः शास्त्रगम्या तथा तत्परिक्षयोऽपीति नात्र प्रमाणान्तरं क्रमते । अतएव गौतमेन पूर्वोत्तरपक्षभञ्ज्या अयमर्थो दर्शितः । तत्र प्रायश्चित्तं कुर्यान्न कुर्यादिति मीमांसन्ते । न कुर्यादित्याहुर्नहि कर्म क्षीयते इति । कुर्यादित्यपरे । 'पुनः स्तोमेनेष्ट्रा पुनः सवनमायान्तीति विज्ञायते । वात्यस्तोमेवा तरति सर्वे पाप्मानं तरति भ्रूणहत्यां योऽश्वमेधेन यजते ' इति पुनः सवनमायान्ति इति सवन संपाद्यज्योतिष्टोमादि द्विजातिकर्मणि योग्यो भवतीत्यर्थः । नचेदमर्थवादमात्रम् | अधिकारिविशेषणाकाङ्क्षायां रात्रिसत्रन्यायेनार्थवादिकफलस्यैव कल्पनाया न्याय्यत्वात्, अतो युक्तं प्रायश्चित्तैरपैत्येन इति ॥ ननु कामकृते प्रायश्चित्ताभावात्कथं व्यवहार्यत्वं तदभावश्च 'अनभिसंधिकृतेऽपराधे प्रायश्चित्तम्' इति वसिष्ठवचनात् 'इयं विशुद्धिरुदिता प्रमाप्याकामतो द्विजम् । कामतो ब्राह्मणवधे निष्कृतिर्न विधीयते ॥' इति मनुवचनाच्चावगम्यते । नैतत् । 'यः कामतो महापापं नरः कुर्यात्कथंचन । न तस्य निष्कृतिर्दृष्टा भृग्वनिपतनादृते ॥' इति । तथा 'विहितं यदकामानां कामात्तद्विगुणं भवेत्' इति च कामकृतेऽपि प्रायश्चित्तदर्शनात् । यत्तु वसिष्ठवचनं तस्याप्यकामकृतेऽपराधे प्रायश्चित्तं शुद्धिकरमित्यभिप्रायो न पुनः कामकृते प्रायश्चित्ताभाव इति ॥ यत्तु मनुवचनं 'इयं विशुद्धिरुदिता' इत्यादि, तदपीयमिति सर्वनामपरामृष्टद्वादशवार्षिकादिव्रतचर्याया एव । 'कामतो ब्राह्मणवधे निष्कृतिर्न विधीयते' इत्यनेन प्रतिषेधो न पुनः प्रायश्चित्तमात्रस्य । मरणान्तिकादेः प्रायश्चित्तस्य दर्शितत्वात् ॥ ननु यदि कामकृतेपि प्रायश्चित्तमस्ति तर्हि पापक्षयोऽपि कस्मान्न स्यादविशेपाद्यदि पापक्षयोऽपि नास्ति तर्हि व्यवहार्यतापि कथं भवति ॥ उच्यते । उभयत्र प्रायश्चित्ताविशेषेऽपि फलविशेषः शास्त्रतोऽवगम्यते । अज्ञातकृते तु सर्वत्र पापक्षयः । यत्र तु 'ब्रह्म हे सुरापगुरुतल्पगमातृपितृ योनि संबद्धांगस्तेन नास्तिकनिन्दितकर्माभ्यासि पतितात्याग्यपतितत्यागिनः पतिताः पातकसंयोजकाच' इति गौतमो महापातकादौ व्यवहार्यत्वं निषिद्धं तस्मिन्पत्तनीये कर्मणि कामतः कृते व्यवहार्यत्वमात्रं न पापक्षय इति । नच पापक्षयाभावे व्यवहार्यत्वमनुपपनम् । द्वे हि पापस्य शक्ती नरकोत्पादिका व्यवहारनिरोधिका चेति । तत्रेतरशतयविनाशेऽपि व्यवहार निरोधिकायाः शक्तेर्विनाशो नानुपपन्नस्तस्मात्पापानपगमेsपि व्यवहार्यत्वं नानुपपन्नम् । यत्तु मनुवचनम् (११ / ४५ ) - ' अकामतः कृते पापे प्रायश्चित्तं विदुर्बुधाः । कामकारकृतेऽप्याहुरेके श्रुतिनिदर्शनात् ॥' इति तदपि कामकृते प्रायश्चित्तप्राप्त्यर्थं न पुनः पार्पेक्षयप्रतिपादनपरम् । अपतनीये पुनः कामकृतेऽपि प्रायश्चित्तेन पापक्षयो भवत्येव । ( ११।४६ ) - ' अकामतः कृतं पापं वेदाभ्यासेन शुद्ध्यति । कामतस्तु कृतं मोहात्प्रायश्चित्तैः पृथग्विधैः ॥' इति मनुस्मरणात् । पतनीयेऽपि कर्मणि कामकृते मरणान्तिकप्रायश्चित्तेषु कल्मष
१ नेट्वा ब्रह्मचर्यं चरेदुपनयनत इति सर्व पाप्मानं ख. २ ब्रह्महा सुरापो गुरुतल्पगो मातृपितृ ख. ३ संबन्धावगम ङ. ४ पापक्षयं प्रति प्रतिपादन ङ.
For Private And Personal Use Only
Page #408
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३७६
याज्ञवल्क्यस्मृतिः । [ प्रायश्चित्ताध्यायः ।
क्षयो भवत्येव । फलान्तराभावात् । 'नास्यास्मिंल्लोके प्रत्यापत्तिर्विद्यते कल्मषं तु निर्हन्यते ' इत्यापस्तम्ब स्मरणात् ॥ २२६ ॥
निषिद्धाचरणादिकं प्रायश्चित्ते निमित्तमित्युक्तं तत्प्रपञ्चयितुमाह
ब्रह्मा मद्यपः स्तेनस्तथैव गुरुतल्पगः ।
एते महापातकिनो यश्च तैः सह संवसेत् ॥ २२७ ॥
हन्तिरयं प्राणवियोगकरे व्यापारे रूढः । यद्व्यापारसमनन्तरं कालान्तरे वा कारणान्तरनिरपेक्षः प्राणवियोगो भवति सः । ब्राह्मणं हतवानिति ब्रह्महा । म द्यपो निषिद्धसुरायाः पाता । स्तेनः ब्राह्मणसुवर्णस्य हर्ता । 'ब्राह्मणसुवर्णापहरणं महापातकं' इत्यापस्तम्ब स्मरणात् । गुरुतल्पगो गुरुभार्यागामी । तल्पशब्देन शयनवाचिना साहचर्याद्भार्या लक्ष्यते । एते ब्रह्महादयो महापातकिनः । पातयन्तीति पातकानि ब्रह्महत्यादीनि । महच्छब्देन तेषां गुरुत्वं ख्याप्यते तद्योगिनो महापातकिन इति । लावदार्थ संज्ञाकरणम् । यश्च तैर्ब्रह्महादिभिः प्रत्येकं सह संवसति 'एभिस्तु संवसेद्यो वै वत्सरं सोऽपि तत्समः' इति वक्ष्यमाणन्यायेन सोऽपि महापातकी । तथाशब्दः प्रकारवचनोऽनुग्राहकप्रयोजकादिकर्तृ संग्रहार्थः । अनुग्राहकश्च यः पलायमानममित्रं उपरुन्धन् परेभ्यश्च हन्तारं परिरक्षन्हन्तुर्दढिमानमुपजनयन्नुपकरोति स उच्यते । अतएव मनुनानुग्राहकस्य हिंसाफलसंबन्धो दर्शितः - ' बहूनामेककार्याणां सर्वेषां शस्त्रधारिणाम् । यद्येको घातयेत्तत्र सर्वे ते घातकाः स्मृताः ॥' इति ॥ तथा प्रयोजकादीनामध्यापस्तम्बेन फलसंबन्ध उक्तः - 'प्रयोजितानुमन्ता कर्ता चेति स्वर्गनरकफलेषु कर्मसु यो भूय आरभते तस्मिन्फलविशेषः' इति । तत्राप्रवृत्तस्य प्रवर्तकः प्रयोजकः । स च त्रिप्रकारः- आज्ञापयिताभ्यर्थयमान उपदेष्टेति । तत्राज्ञापयिता नाम स्वयमुच्चः स नीचं भृत्यादिकं यः प्रेरयति मदीयममित्रं जहीति स उच्यते । अभ्यर्थयमानस्तु यः स्वयमसमर्थः सन् प्रार्थनादिना मच्छत्रं व्यापादयेत्युचं प्रवर्तयति सोऽभिधीयते । अनयोश्च स्वार्थसिद्ध्यर्थमेव प्रयोक्तृत्वम् । उपदेष्टा पुनस्त्वं शत्रुमित्थं व्यापादयेति मर्मोद्घाटनाद्युपदेशपुरःसरं प्रेरयन्कथ्यते । तत्र च प्रयोज्यगतमेव फलमिति तेषां भेदः । अनुमन्ता तु प्रवृत्तस्य प्रवर्तकः । स द्विप्रकारः - कश्चित्स्वार्थसिध्यर्थमनुजानाति कश्चित्परार्थमिति ॥ नन्वनुमननस्य कथं हिंसा हेतुत्वं न तावत्प्राणवियोगोत्पादनेन, तस्य साक्षात्कर्तृव्यापारजन्यत्वात् । नापि प्रयोजकस्येव, साक्षात्कर्तृ प्रवृत्त्युत्पादनद्वारेण प्रवृत्तस्य प्रवर्तकत्वात् । नच साधु त्वयाध्यवसितमिति प्रवृत्तमेवानुमन्यत इति शङ्कनीयम् । तादृशस्यानुमननस्य हिंसां प्रत्यहेतुत्वाद्व्यर्थत्वाच्च । उच्यते । यत्र हि राजादिपारतंत्र्यात्स्वयं मनसा प्रवृत्तोऽपि प्रवृत्ति • विच्छेद भयादागामिदण्डभयाद्वा शिथिलप्रयतो राजाद्यनुमतिमपेक्षते तत्रानुम
--
१ नास्यान्यस्मिल्लोके ख. २ वियोगकरणे ख. ३ समर्थ प्रवर्तयति ङ. ४ तादृशमननस्य ख.
For Private And Personal Use Only
Page #409
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्तप्रकरणम् ५ ] मिताक्षरासहिता ।
३७७
तिर्हन्तुः प्रवृत्तिमुपोद्वलयन्ती हिंसा फलंप्रति हेतुतां प्रतिपद्यते । तथा योऽपि भर्त्सनताढनधनापहारादिना परान्कोपयति सोऽपि मरणहेतुभूतमन्यूत्पादनद्वारेण हिंसा हेतुर्भवत्येव । अतएव विष्णुनोक्तम्- 'आकुष्टस्ताडितो वापि धनैर्वा विप्रयोजितः । यमुद्दिश्य त्यजेत्प्राणांस्तमाहुर्ब्रह्मघातकम् ॥' इति । तथा - 'ज्ञातिमित्रकलत्रार्थं सुहृत्क्षेत्रार्थमेव च । यमुद्दिश्य त्यजेत्प्राणांस्तमा हुर्ब्रह्मधातकम् ॥ इति । नच कृतेष्वप्याक्रोशनादिषु कस्यचिन्मन्यूत्पश्यदर्शनादकारणतेति शङ्कनीयम् । पुरुषस्वभाववैचित्र्यात् । ये अल्पतरेणापि निमित्तेन जातमन्यवो भवन्ति तेष्वव्यभिचार इति नाकारणता । एतेषां चानुग्राहकप्रयोजकादीनां प्रत्यासत्तिव्यवधानापेक्षया व्यापारगतगुरुलाघवापेक्षया च फैलगुरुलाघवात् प्रायश्चित्तगुरुलाघवं बोद्धव्यम् । - ' यो भूय आरभते तस्मिम्फलविशेषः', इति वचनात् । तथा ह्यनुग्राहकस्य तावत्स्वयमेव हिंसायां प्रवृत्तत्वेन स्वतन्त्रकर्तृत्वे सत्यपि साक्षात्प्राणवियोगफलकखड्ग प्रहारादिव्यापारयोगित्वाभावेन साक्षारकर्तृवद्भूयो हिंसारम्भकत्वाभावादल्पफलत्वमल्पप्रायश्चित्तत्वं च । प्रयोजकस्य तु स्वतन्त्रकर्तृप्रवृत्तिजनकत्वेन व्यवहितत्वात्ततोऽल्पफलत्वम् । प्रयोजकानां मध्ये परार्थप्रवृत्तत्वेनोपदेष्टुरल्पफलत्वम् ॥ ननु प्रयोजक हस्तस्थानी - यत्वात्प्रयोज्यस्य न फलसंबन्धो युक्तः । यदि परप्रयुक्त्या प्रवर्तमानस्यापि संबन्धस्तर्हि स्थपतितडागखनितृप्रभृतीनामपि मूल्येन प्रवर्तमानानां स्वर्गादिफलप्राप्तिप्रसङ्गः । उच्यते । शास्त्रोक्तं फलं प्रयोक्तरीति न्यायेनाधिकारिकर्तृगतफलजनका देवैकूपतडाग निर्माणादयः । नच स्थपतितडागखनित्रादयो देवपतडागकरणादिष्वधिकारिणः । अस्वर्गकामित्वात् । अत्र पुनः परप्रयुक्त्या प्रवर्तमानानामप्यहिंसायामधिकारित्वाद्भवत्येव तद्व्यतिक्रमनिबन्धनो दोषः । अनुमन्तुस्तु प्रयोजकादप्यल्पफलत्वं प्रयोजकव्यापाराद्वहिरङ्गत्वा लघुत्वाच्चानुमननस्य । निमित्तकर्तुः पुनराकोशकादेः प्रवृत्तिहेतुभूतमन्युजनकत्वेन व्यवहितत्वान्मरणानुसंधानं विना प्रवृत्तत्वाच्चानुमन्तुः सकाशादप्यल्पफलत्वम् ॥ ननु यदि व्यवहितस्यापि कारणत्वं तर्हि मातापित्रोरपि हन्तृपुरुषोत्पादनद्वारेण हनन कर्तृत्वप्रसङ्गः । उच्यते । नहि पूर्व भावित्वमात्रेण कारणत्वम् कारणकारणतयापि तथाभावित्वोपपत्तेः । यत्खलु स्वरूपातिरिक्तकार्योत्पत्यनुगुणव्यापारयोगि भवति तद्वि कारणम् । यदि रथन्तरसामा सोमः स्यादैन्द्रवायवाग्रान् ग्रहान् गृह्णीयादिति रथन्तरसामतेव ऋतोरैन्द्रवायवाग्रताय कारणं । नहि तत्र सोमयागः स्वरूपेण कारणं व्यभिचारात् । नच पित्रोस्तादृग्विध कारणलक्षणयोगित्वमिति नातिप्रसङ्गः । अनेनैव न्यायेन धर्माभिसंधिना निर्मितकूपवाप्यादौ प्रमादपतितब्राह्मणादिमरणे खानयितुर्दोषाभावः । नहि कूपोऽनेन खानितः अतोऽहमात्मानं व्यापादयामीत्येवं कूपखनन निमित्तं व्यापादनं यथाक्रोशादौ । अतः कूपकर्तुरपि कारणकारणत्वमेव न पुनहिंसाहेतुल्यमिति मातापितृतुल्यतैव । तथा कचित्सत्यपि हिंसानिमित्तयोगित्वे परोप
-
१ तथान्यपि ख. २ फलंगुरु ख ३ देवकुलतडाग. क. ग. ङ. ४ तडागकर्त्रादयो ख. ५ दप्यफलत्वम् ख. ६ यता कारणं ङ. ७ नास्तिप्रतंगः क.
For Private And Personal Use Only
Page #410
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३७८
याज्ञवल्क्यस्मृतिः ।
[ प्रायश्चित्ताध्यायः
कारार्थप्रवृत्तौ वचनाद्दोषाभावः । यथाह संवर्तः - ' बन्धने गोश्चिकित्सार्थे गूGranter | कृते विपत्तिश्चेत्प्रायश्चित्तं न विद्यते ॥ औषधं स्नेहमाहारं
ब्रह्महत्यासमान्याह
गोब्राह्मणादिषु । दीयमाने विपत्तिः स्यान्न स पापेन लिप्यते ॥ दाहच्छेदशिराभेदप्रयतैरुपकुर्वताम् । प्राणसंत्राणसिद्ध्यर्थं प्रायश्चित्तं न विद्यते ॥' इति । एतञ्चादाननिदाननिपुणमिषग्विषयम् । इतरस्य तु 'भिपमिथ्याचर - दाप्यः' इत्यत्र दोषो दर्शितः । यत्रतु मम्युनिमित्ताक्रोशनादिकमकुर्वतोऽपि नाम गृहीत्वोन्मादादिनात्मानं व्यापादयति तत्रापि न दोषः । - ' अकारणं तु यः कश्चिद्विजः प्राणान्परित्यजेत् । तस्यैव तत्र दोषः स्यान्न तु यं परिकीर्तयेत् ॥' इति स्मरणात् ॥ तथा यत्राप्याक्रोशका दिजनित मन्युरात्मानं खड्गादिना प्रहृत्य मरणादवगाक्रोशनादिकन्त्र धनदानादिना संतोषितो यदि जनसमक्षमुचैः श्रावयति नानाशकस्यापराध इति तत्रापि वचनान्न दोषः । यथाह विष्णुः'उद्दिश्य कुपितो हत्वा तोषितः श्रावयेत्पुनः । तस्मिन्मृते न दोषोऽस्ति द्वयोरु. च्छ्रावणे कृते ॥' इति । एतेषां च प्रयोजकादीनां दोषगुरुलघुभावपर्यालोचनया प्रायश्चित्तविशेषं वक्ष्यामः ॥ २२७ ॥
गुरूणामध्यधिक्षेपो वेदनिन्दा सुहृद्वधः ।
ब्रह्महत्यासमं ज्ञेयमधीतस्य च नाशनम् ॥ २२८ ॥
गुरूणामाधिक्येनाधिक्षेपः अनृताभिशंसनम् | 'गुरोरनृता मिशंसनमिति महापातकसमानि' इति गौतमस्मरणात् । एतच्च लोकाविदित दोषाभिशंसनविषयम् । 'दोषं बुद्धा न पूर्वः परेषां समाख्याता स्यात्संव्यवहारे चैनं परिहरेत्' इत्यापस्तम्ब स्मरणात् । नास्तिक्याभिनिवेशेन वेदकुत्सनम् । सुहृन्मित्रं तस्याब्राह्मणस्यापि वधः । अधीतस्य वेदस्यासच्छास्त्रविनोदे नालस्यादिना वा नाशनं विस्मरणम् । एतानि प्रत्येकं ब्रह्महत्यासमानि । यत्पुनः 'स्वाध्यायाग्निसुतत्यागः' इत्यधीत त्यागस्योपपातकमध्ये परिगणनं तत्कथंचित्कुटुम्बभरणाकुलतया सच्छास्त्र श्रवणव्यप्रतया वा विस्मरणे द्रष्टव्यम् ॥ २२८ ॥
सुरापानसमान्याह -
निषिद्धभक्षणं जैयमुत्कर्षे च वचोऽनृतम् । रजस्वलामुखाखादः सुरापानसमानि तु ॥ २२९ ॥
निषिद्धं लशुनादिकं तस्य मतिपूर्वं भक्षणम् । अतएव मनुः ( ५/१९ ) - 'छत्राकं विवराहं च लशुनं ग्रामकुक्कुटम् । पलाण्डुं गृञ्जनं चैव मत्या जग्ध्वा पतेन्नरः ||' इति । अमतिपूर्वे तु प्रायश्चित्तान्तरम् ( ५/३० १) — ' अमत्यैतानि पट् जग्ध्वा कृच्छ्रं सान्तपनं चरेत् । यतिचान्द्रायणं वापि शेषेषूपवसेदहः ॥'
१ मन्युनात्मानं ख. २ कर्ता धनदाना ङ. ३ सतः क. ४ मुत्कर्षे च ङ.
For Private And Personal Use Only
Page #411
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्तप्रकरणम् ५ ] मिताक्षरासहिता ।
३७९ इति तेनैवोक्तत्वात् । जैहयं कौटिल्यं अन्याभिसंधानेनान्यवादित्वमन्यकर्तृत्वं च । अत्र च जैहयमिति यद्यपि सामान्येनोक्तं तथापि प्रायश्चित्तस्य गुरुत्वानिमित्तस्यापि गुरुविषयं जैहयमिति गौरवं गम्यते । अस्ति च नैमित्तिकपर्यालोचनया निमित्तस्य विशेषावगतिः । यथा यस्योभावग्नी अनुगतौ स्यातांदुष्टौ भवेतामभिनिम्लोचेतांवा पुनराधेयं तत्र प्रायश्चित्तिरित्यत्रोभावित्यस्य निमित्तविशेषेणत्वेन हविरुभयत्वादविवक्षितत्वेऽप्यग्निद्वयनिष्पादकपुनराधेयरूपनैमित्तिकविधिबलादग्निद्वयानुगतिरेव निमित्तमिति कल्प्यते तथानापीति युक्तं निमित्तगौरवकल्पनम् । तथा समुत्कर्षनिमित्तं राजकुलादावचतुर्वेद एव चतुर्वेदोऽहमित्यनृतभाषणम् । रजस्वलाया (: कामवशेन) वक्रासवसेवनमेतानि सुरापानसमानि ॥ २२९ ॥ सुवर्णस्तेयसमान्याह
अश्वरत्नमनुष्यस्त्रीभूधेनुहरणं तथा । निक्षेपस्य च सर्व हि सुवर्णस्तेयसंमितम् ॥ २३० ॥ अश्वादीनां ब्राह्मणसंबन्धिनां निक्षेपस्य च सुवर्णव्यतिरिक्तस्यापचरणमेतत्सर्व सुवर्णस्ते यसमं वेदितव्यम् ॥ २३० ॥ गुरुतल्पसमान्याह
सखिभार्याकुमारीषु स्वयोनिष्वन्त्यजासु च ।
सगोत्रासु सुतस्त्रीषु गुरुतल्पसमं स्मृतम् ॥ २३१ ॥ सखा मित्रं तस्य भार्या, कुमार्युत्तमजातीया कन्यका तासु ।-'सकामास्वनुलोमासु न दोषस्स्वन्यथा दमः । दूषणे तु करच्छेद उत्तमायां वधस्तथा ॥' इति तत्रैव दण्डविशेषप्रतिपादनात्प्रायश्चित्तगुरुत्वं युक्तम् । स्वयोनिर्भगिनी । अन्त्यजा चाण्डाली । सगोत्रा समानगोत्रा । सुतस्त्री सुपा । एतासां गमनं प्रत्येक गुरुतल्पसमम् । एतच्च रेतःसेकादूर्ध्व वेदितव्यम् । अर्वानिवृत्तौ तु न गुरुतल्पसमत्वं किंत्वल्पमेव प्रायश्चित्तम् । (१११५८)- रेतःसेकः स्वयोनीषु कुमारीष्वन्त्यजासु च । सख्युः पुत्रस्य च स्त्रीषु गुरुतल्पसमं विदुः ॥' इति मानवे रेतःसेक इति विशेषणोपादानात् । सगोत्राग्रहणेनैव सिद्धे पुनः सुतस्त्रीग्रहणं प्रायश्चित्तगौरवप्रतिपादनार्थम् । अत्र च ब्रह्महत्यादिसमत्ववचनं गुर्वधिक्षेपादेस्तत्तन्निमित्तप्रायश्चित्तोपदेशार्थम् । ननु वेदनिन्दादौ दोषस्य लघुत्वाद्दुरुतरं ब्रह्महत्यादिप्रायश्चित्तं न युज्यते । मैवम् । गुरुप्रायश्चित्तोपदेशबलादेव दोषगुरुत्वावगतेः । नच ब्रह्महत्यादिप्रायश्चित्तातिदेशार्थमेवेदं वचनं न भवति, किंतु दोषगौरवमात्रप्रतिपादनपरमित्याशङ्कनीयम् । यतस्तावन्मात्रप्रतिपादनपरत्वे ब्रह्महत्यासममिदं गुरुतल्पसममित्यादिभेदेन समत्वाभिधानं नोपपद्यते । तच्च प्रायश्चित्तं समशब्देनोपदिश्यमानं ब्रह्महत्यादिप्रायश्चित्तेभ्यः किंचिन्यूनमेवोपदिश्यते । 'लोके राजसमो मन्त्री' त्यादिवाक्येषु समशब्दस्य किंचिद्धीने प्रयोगदर्शनात्, महतः पा
१ विषयं यज्जैयमिति ख. २ विशेषत्वेन ङ. ३ गुरुत्वमवगम्यते ख.
या० ३५
For Private And Personal Use Only
Page #412
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३८०
याज्ञवल्क्यस्मृतिः ।
'प्रायश्चित्ताध्यायः
तकस्येतरस्य च तुल्यत्वस्यायुक्तत्वाच्च । एवंच सति याज्ञवल्क्येन ब्रह्महत्यासdattaraiमपि ब्रह्मज्झत्व वेदनिन्दा सुहृद्वधानां मनुना यत्सुरापानसाम्यम् । ( ११५६ ) - 'ब्रह्मोज्झता वेदनिन्दा कौटसाक्ष्यं सुहृद्वधः । गेहिताचाज्ययोजग्धिः सुरापानसमानि षट् ॥' इत्युक्तं तत्प्रायश्चित्तविकल्पार्थम् । एवमन्ये
वपि वचनेषु विरोधः परिहर्तव्यः । यत्तु वसिष्ठेन - 'गुरोरली कनिर्बन्धे कृच्छ्रं द्वादशरात्रकं चरित्वा सचैलः स्नातो गुरुप्रसादात् पूतो भवति' इति लघुप्रायश्चित्तमुक्तं तदमतिपूर्व सकृदनुष्ठाने च वेदितव्यम् ॥ २३१ ॥
गुरुतल्पातिदेशमाह -
पितुः स्वसारं मातुश्च मातुलानीं सुपामपि । मातुः सपत्नीं भगिनीमाचार्यतनयां तथा ।। २३२ ॥ आचार्यपत्नीं स्वसुतां गच्छंस्तु गुरुतल्पगः । लिङ्गं छिच्चा वर्धस्तस्य सकामायाः स्त्रिया अपि ॥ २३३ ॥
पितृष्वस्रादयः प्रसिद्धास्ताः गच्छन् गुरुतल्पगतस्य लिङ्गं छित्वा राज्ञा वधः कर्तव्यो दण्डार्थं प्रायश्चित्तं च तदेव । चशब्दाद्वाज्ञीप्रव्रजितादीनां ग्रहणम् । यथाह नारदः - 'माता मातृष्वसा श्वश्रूर्मातुलानी पितृष्वसा । पितृव्यसखिशि
1
यत्री भगिनी तत्सखी स्वषा ॥ दुहिताचार्य भार्या च सगोत्रा शरणागता । राज्ञी प्रव्रजिता धात्री साध्वी वर्णोत्तमा च या ॥ आसामन्यतमां गच्छन्गुरुतल्पग उच्यते । शिश्नस्योत्कर्तनात्तत्र नान्यो दण्डो विधीयते ॥' इति । राज्ञी राज्यस्य कर्तुर्भार्या, न क्षत्रियस्यैव । तद्गमने प्रायश्चित्तान्तरोपदेशात् । धात्री मातृव्यतिरिक्ता स्तन्यदानादिना पोषयित्री । साध्वी व्रतचारिणी । वर्णोत्तमा ब्राह्मणी । अत्र मातृग्रहणं दृष्टान्तार्थम् । अयं च लिङ्गच्छेदवधात्मको दण्डो ब्राह्मणव्यतिरिक्तस्य । - - 'न जातु ब्राह्मणं हन्यात्सर्वपापेष्ववस्थितम्' इति तस्य वधनिषेधात् वधयैव प्रायश्चित्तरूपत्वात् । अस्य च विषयं गुरुतल्पप्रायश्चित्तप्रकरणे प्रपञ्चयिव्यामः । अत्र स्नुषाभगिन्योः पूर्वश्लोकेन गुरुतल्पसमीकृतयोः पुनर्ग्रहणं प्रायश्चिविकल्पार्थम् । यदा पुनरेताः स्त्रियः सकामाः सत्य एतानेव पुरुषान्वशीकृत्योपभुञ्जन्ते तदा तासामपि पुरुषवद्वध एव दण्डः प्रायश्चित्तं च । एतानि गुर्वधिक्षेपादितनयागमनपर्यन्तानि महापातकातिदेशविषयाणि सद्यःपतनहेतुत्वात्पातकान्युच्यन्ते । यथाह यमः -- ' मातृष्वसा मातृसखी दुहिता च पितृष्वसा । मातुलानी स्वसा श्वश्रूत्वा सद्यः पतेन्नरः ॥' इति गौतमेन पुनरन्येषामपि पातकत्वमुक्तम् । मातृपितृयोनिसंबद्धाङ्गस्तेन नास्तिकनिन्दितकर्माभ्यासिपतितात्याग्यपतितत्यागिनः पतिताः पातकसंयोजकाश्चेति । तेषां च महापातकोपपातकमध्यपाठान्महापातकान्यूनत्वमुपपातकाच्च गुरुत्वमवगम्यते । तदुक्तम्- 'महापातकतुल्यानि पापान्युक्तानि यानि तु । तानि पातकसंज्ञानि तन्यूनमुपपात
१ गर्हितान्नाद्ययोः इति पाठः. २ वधस्तत्र ख ३ दण्डार्थः ख.
For Private And Personal Use Only
Page #413
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्तप्रकरणम् ५] मिताक्षरासहिता ।
३८१
कम् ॥' इति । तथा चाङ्गिराः - ' पातकेषु सहस्रं स्यान्महस्तु द्विगुणं तथा । उपपापे तुरीयं स्यान्नरकं वर्षसंख्यया ॥' इति ॥ २३२ ॥ २३३ ॥
एवं महापातकानि तत्समानि च पातकानि परिगणय्योपपातकानि परिगणयितुमाह
गोवध व्रात्यता स्तेयमृणानां चीनपक्रिया ।
अनाहिताग्निता पण्यविक्रयः परिवेदनम् ॥ २३४ ॥ भृतादध्ययनादानं भृतकाध्यापनं तथा । पारदार्यं पारिविश्यं वार्धुष्यं लवणक्रिया ।। २३५ ।। स्त्रीशूद्रविट्क्षत्रवधो निन्दितार्थोपजीवनम् । नास्तिक्यं व्रतलोपश्च सुतानां चैव विक्रयः ॥ २३६ ॥ धान्यकुप्यपशु स्तेयमयाज्यानां च याजनम् । पितृमातृसुतत्यागस्तडागारामविक्रयः || २३७ ॥ कन्यादूषणं चैव पैरिविन्दकयाजनम् । कन्याप्रदानं तस्यैव कौटिल्यं व्रतलोपनम् || २३८ ॥ आत्मनोऽर्थे क्रियारम्भो मद्यपस्त्रीनिषेवणम् । स्वाध्यायानितत्यागो बान्धवत्याग एव च ।। २३९ ॥ इन्धनार्थं द्रुमच्छेदः स्त्रीहिंसौषधजीवनम् । हिंस्रयत्रविधानं च व्यसनान्यात्मविक्रयः || २४० ॥ शूद्रप्रेष्यं हीनसख्यं हीनयोनिनिषेवणम् । तथैवानाश्रमे वासः परानपरिपुष्टता ॥ २४९ ॥ असच्छास्त्राधिगमनमाकरेष्वधिकारिता ।
भार्याया विक्रयश्चैषामेकैकमुपपातकम् ॥ २४२ ॥
गोवधो गोपिण्ड व्यापादनम् । कालेऽनुपनीतत्वं व्रात्यता । ब्राह्मणसुवर्णतरसमव्यतिरिक्तपरद्रव्यापहरणं स्तेयम् । गृहीतस्य सुवर्णादेरप्रदानम् । ऋणानामनपाकरणम् । तथा देवर्षिपितॄणां संबैन्ध्यणस्थानपाकरणं च । सत्यधिकारेऽनाहिताग्नित्वम् ॥ ननु ज्योतिष्टोमादिकामश्रुतयः स्वाङ्गभूतानिनिष्पत्त्यर्थमाधानं प्रयुञ्जत इति मीमांसकप्रसिद्धिरतश्च यस्याग्निभिः प्रयोजनं तस्य तदुपायभूtarard प्रवृत्तिद्यार्थिन इव धनार्जने । यस्य पुनरनिभिः प्रयोजनं नास्ति तस्याप्रवृत्तिरिति कथमनाहिताग्नितादोषः । उच्यते । भस्मादेवाधानस्या
१ वर्ष्मसंक्षयात् ङ. २ चानपाक्रिया ख. ३ परिवेदक ङ. ४ संबन्ध्यर्णस्या ख.
For Private And Personal Use Only
Page #414
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३८२
याज्ञवल्क्यस्मृतिः।
[प्रायश्चित्ताध्यायः
वश्यकत्ववचनान्नित्यश्रुतयोऽपि साधिकारित्वाविशेषादाधानस्य प्रयोजिका इति स्मृतिकाराणामभिप्रायो लक्ष्यत इत्यदोषः । तथा अपण्यस्य लवणादेर्विक्रयः । सहोदरस्य ज्येष्ठस्य तिष्ठतः कनीयसो भ्रातुर्दाराग्निसंयोगः परिवेदनम् । पणपू. र्वाध्यापकादध्ययनग्रहणम् । पणपूर्वाध्यापनम् । परदारसेवनं गुरुदारतत्समव्यतिरेकेण । पारिवित्त्यं कनीयसि कृतविवाहे ज्येष्ठस्य विवाहराहित्यम् । वाधुष्यं प्रतिषिद्धवृद्ध्युपजीवनम् । लवणक्रिया लवणस्योत्पादनम् । स्त्रिया वधः अबा. ह्मण्या अप्यात्रेयीव्यतिरेकेण । शूद्रवधः । अदीक्षितविक्षत्रियवधः । निन्दितार्थोपजीवनमराजस्थापितार्थोपजीवनम् । नास्तिक्यं नास्ति परलोक इत्याद्यभिनिवेशः । व्रतलोपो ब्रह्मचारिणः स्त्रीप्रसङ्गः । सुतानामपत्यानां विक्रयः । धान्यं ब्रीह्यादि, कुप्यमसारद्रव्यं पुसीसादि, पशवो गवादयस्तेषामपहरणम् । 'गोवधो व्रात्यता स्तेय'मित्यनेन स्तेयग्रहणेनैव सिद्धे पुनर्धान्यकुप्यादिस्तेयग्रहणं नित्यार्थम् । अतो धान्यादिव्यतिरिक्तद्रव्यस्तेये नावश्यमेतदेव प्रायश्चित्त. मपितु ततो न्यूनमपि भवत्येव । एतेन बान्धवत्यागग्रहणेनैव सिद्धे पुनः पित्रादित्यागग्रहणं व्याख्यातम् । अयाज्यानां जातिकर्मदुष्टानां शूदवात्यादीनां याजनम् । पितृमातृसुतानामपतितानां त्यागो गृहान्निष्कासनम् । तडागस्यारामस्य चोद्यानोपवनादेर्विक्रयः । कन्याया संदूषणमङ्गुल्यादिना योनिविदारणं नतु भोगः । तस्य सखिभार्याकुमारीष्विति गुरुतल्पगसमत्वस्योक्तत्वात् । परिविन्दकयाजनं तस्य च कन्याप्रदानम् । कौटिल्यं गुरोरन्यत्र । गुरुविषयस्य तु कौटिल्यस्य सुरापानसमत्वमुक्तम् । पुनव्रतलोपग्रहणमशिष्टाप्रतिषिद्धेष्वपि श्रीहरिचरणकमलप्रेक्षणात् प्राक् ताम्बूलादिकं न भक्षयामीत्येवंरूपेषु प्राप्त्यर्थं नतु स्नातकव्रतप्रात्यर्थम् । तत्र (११।२०३)-'नातकव्रतलोपे च प्रायश्चित्तमभोजनम्' इति मनुना लघुप्रायश्चित्तस्य प्रतिपादितत्वात् ॥ तथात्मार्थं च पाकलक्षणक्रियारम्भः । (मनुः ३।११८)-'अपं स केवलं भुते यः पचत्यात्मकारणात्' इति तस्यैव प्रतिषिद्धत्वात् । क्रियामानविषयत्वे तु प्रतिषेधकल्पनाया गौरवं स्यात् । मद्यपायाः स्त्रियाः जायाया अपि निषेवणमुपभोगः । स्वाध्यायत्यागो व्याख्यातः । अग्नीनां च श्रौतस्मार्तानां त्यागः । सुतत्याग संस्काराद्यकरणम् । बान्धवानां पितृव्यमातुलादीनां त्यागः सति विभवे अपरिरक्षणम् । पाकादिदृष्टप्रयोजन सिद्ध्यर्थमाद्रुमच्छेदो न त्वाहवनीयपरिरक्षणार्थमपि । स्त्रिया हिंसया औषधेन च वर्तनं जीवनं स्त्रीहिंसौषधजीवनम् । तत्र स्त्रीजीवनं नाम भायाँ पण्यभावेन प्रयोज्य तल्लब्धोपजीवनम्, स्त्रीधनेनोपजीवनं वा । हिंसया जीवनं प्राणिवधेन जीवनम् । औषधजीवनं वशीकरणादिना । हिनयन्त्रस्य तिलेक्षुपीडाकरस्य प्रवर्तनम् । व्यसनानि मृगयादीन्यष्टादश । आत्मविक्रयो
१ साधिकारत्वाविशेषा ङ. २ वृत्युपजीवित्वम् ङ. ३ प्रतिषेधे ङ. ४ करणेन ङ. ५ मृगयादीन्यष्टादश व्यसनानि मनुस्मृतौ (७ श्लो. ४७-५३) 'मृगयाऽक्षा दिवास्वापः परिवादः स्त्रियो मदः । तौर्यत्रिकं वृथाट्या च कामजो दशको गणः ॥ पैशुन्यं साहसं द्रोह ईर्ष्यासूयार्थदूषणम् । वाग्दण्डजं च पारुष्यं क्रोधजोऽपि गणोऽष्टकः ॥ द्वयोरप्येतयोर्मूलं यं सर्वे कवयो
For Private And Personal Use Only
Page #415
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्तप्रकरणम् ५] मिताक्षरासहिता।
३८३
द्रव्यग्रहणेन परदास्यकरणम् । शूद्रसेवनं हीनेषु मैत्रीकरणम् । अनूढसवर्णदारस्य केवलहीनवर्णदारोपयमनं साधारणस्त्रीसंभोगश्च । अनाश्रमवासः अगृहीताश्रमित्वं सत्यधिकारे । परान्नपरिपुष्टता परपाकरतित्वम् । असच्छास्त्रस्य चार्वाकादिनन्यस्याधिगमः । सर्वाकरेषु सुवर्णाद्युत्पत्तिस्थानेषु राजाज्ञयाधिकारित्वम् । भार्याया विक्रयः । चशब्दान्मन्वाद्युक्ताभिचारामतिपूर्वलशुनादिभक्षणादेर्ग्रहणम् । एषां गोवधादीनां प्रत्येकमुपपातकसंज्ञा वेदितव्या । मनुना पुनरन्यान्यपि निमित्तानि जातिभ्रंशकरसंकरीकरणापात्रीकरणमलिनीकरणसंज्ञानि परिगणितानि । (मनुः ११। ६७-७०)-'ब्राह्मणस्य रुजाकृत्या घ्रातिर यमद्ययोः । जैहयं पुंसि च मैथुन्यं जातिभ्रंशकरं स्मृतम् ॥ खराश्वोष्ट्रमृगेभानामजाविकवधस्तथा । संकरीकरणं ज्ञेयं मीनाहिमहिषस्य च ॥ निन्दितेभ्यो धनादानं वाणिज्यं शूद्धसेवनम् । अपात्रीकरणं ज्ञेयमसत्यस्य च भाषणम् ॥ कृमिकीटवयोहत्या मद्यानुगतभोजनम् । फलैधःकुसुमस्तेयमधैर्य च मलावहम् ॥' इति ॥ अतोऽन्यनिमित्तजातं प्रकीर्णकं कथ्यते ॥ ब्रहद्विष्णना च समस्तानि प्रायश्चित्तनिमित्तान्युत्तरोत्तरं लघीयांसि पृथक्संज्ञाभेदभिन्नानि दर्शितानि- 'ब्रह्महत्या सुरापानं ब्राह्मणसुवर्णापहरणं गुरुदारगमनमिति महापातकानि तत्संयोगश्च । मातृगमनं दुहितृगमनं स्नुषागमनमित्यतिपातकानि । यागस्थक्षत्रियवधो वैश्यस्य च रजस्वलायाश्चान्तर्वत्याश्चासगोत्रायाश्चाविज्ञातस्य गर्भस्य शरणागतस्य च घातनं ब्रह्महत्यासमानि । कोटसाक्ष्यं सुहृदूध इत्येतौ सुरापानसमौ । ब्राह्मणस्य भूमिहरणं सुवर्णस्तेयसमम् । पितृव्यमातामहमातुलनृपपत्यभिगमनं गुरुदारगमनसमम् । पितृष्वसमातृष्वसृगमनं श्रोत्रियविंगुपाध्यायमित्रपत्यभिगमनं च । स्वसुः सख्याः सगोत्राया उत्तमवर्णाया रजस्वलायाः शरणागतायाःप्रव्रजितायाः निक्षिप्तायाश्च गमनमित्येतान्यनुपातकानि । अनृतवचनं समुत्कर्षे राजगामि च पैशुनम् । गुरोश्वालीकनिर्बन्धो वेदनिन्दा अधीतस्य त्यागोऽग्निपितृमातृसुतदाराणां च अभोज्यान्नभक्षणं परस्वापहरणं परदारानुगमनमयाज्यानां च याजनं व्रात्यता भृतकाध्यापनं भृतकाध्ययनादानं सर्वाकरेष्वधिकारो महायअप्रवर्तनं दुमगुल्मलतौषधीनां हिंसया जीवनमभिचारमूलकर्मसु च प्रवृत्तिरात्माथक्रियारम्भः अनाहिताग्निता देवर्षिपितॄणामृणयानपक्रिया असच्छास्त्राधिगमनं नास्तिकता कुशीलता मद्यपस्त्रीनिषेवणमित्युपपातकानि । ब्राह्मणस्य रुजःकरणम नेयमद्ययोद्मति हयं पशुषु पुंसि च मैथुनाचरणमित्येतानि जातिभ्रंशकराणि । ग्राम्यारण्यपशूनां हिंसनं संकरीकरणम् । निन्दितेभ्यो धनादानं वाणिज्यं कुसीदजीवनं
विदुः । तं यत्नेन जयेल्लोभं दुष्टावेतावुभौ गणौ ॥ पानमक्षाः स्त्रियश्चैव मृगया च यथाक्रमम् । एतत्कष्टतमं विद्याच्चतुष्कं कामजे गणे ॥ दडस्य पातनं चैव वाक्पारुष्यार्थदूषणे । क्रोधजेऽपि गणे विद्यात्कष्टमेतत्रिकं सदा ॥ सप्तकस्यास्य वर्गस्य सर्वत्रैवानुषङ्गिणः । पूर्वं पूर्व गुरुतर विद्याद्यसनमात्मवान् ॥ व्यसनस्य च मृत्योश्च व्यसनं कष्टमुच्यते । व्यसन्यधोधो व्रजति खर्यात्यव्यसनी मृतः॥ इति ।
१ श्चात्रिगोत्रायाः ख. २ पैशुन्यम् ख. ३ गुल्मवल्लीलतौषधीनां ख. ४ स्यानपाक्रिया ख.
For Private And Personal Use Only
Page #416
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३८४
याज्ञवल्क्यस्मृतिः
[प्रायश्चित्ताध्यायः
असत्यभाषणं शूगसेवनमित्यपात्रीकरणानि । पक्षिणां जलचराणां जलजानां च घातनं कृमिकीटघातनं मद्यानुगतभोजनमिति मलावहानि । यदनुक्तं तत्प्रकीर्णकम्' इति ॥ कात्यायनेन तु महापातकसमानां विष्णुनाप्युपपातकत्वेनोकानां पातकसंज्ञा दर्शिता–'महापापं चातिपापं तथा पातकमेव च । प्रासनिकं चोपपापमित्येवं पञ्चको गणः ॥' इति ॥ ननूपपातकादीनां कथं पातकत्वं पतनहेतुत्वाभावात् । यदि तेषामपि पतनहेतुत्वं तर्हि मातृपितृयोनिसंबद्धाङ्ग इत्यादिपरिगणनमनर्थकम् । अथैवमुच्यते । यद्यपि महापातकतत्समेविव सद्यःपातित्यहेतुत्वं नास्ति तथाप्यभ्यासापेक्षया पातित्यहेतुत्वमविरुद्धम् । निन्दितकर्माभ्यासादिति गौतमवचनादिति । मैवम् । अभ्यासस्थानिरूप्यमाणत्वात् द्विः शतकृत्वो वेति तत्राविशेषेऽङ्गीक्रियमाणे योऽपि द्विर्दिवा स्वपिति यः शतकृत्वो वा गोवधं करोति तयोरविशेषेण पातित्यं स्यात् । अत्रोच्यते । यत्रार्थवादे प्रत्यवायविशेषः श्रूयते प्रायश्चित्तबहुत्वं वा तस्मिन्निन्दितकर्मणि यावत्यभ्यस्यमाने महापातकतुल्यत्वं भवति तावानभ्यासः पातित्यहेतुः । दिवास्वमादौ तु सहस्रकृत्वोऽप्यभ्यस्यमाने न महापातकतुल्यत्वं भवतीति न तत्र पातित्यमतो युक्तमुपपातकादेरभ्यासापेक्षया पतनहेतुत्वम् ॥ २३४-२४२ ॥
एवं व्यवहारार्थं संज्ञाभेदसहितं प्रायश्चित्तनिमित्तपरिगणनं कृत्वा नैमित्तिकानि प्रदर्शयितुमाह
शिरकपाली ध्वजवान्भिक्षाशी कर्म वेदयन् ।
ब्रह्महा द्वादशाब्दानि मितभुक्शुद्धिमाप्नुयात् ॥ २४३ ॥ शिरसः कपालमस्यास्तीति शिरःकपाली । तथा ध्वजवान् (१९७२)'कृत्वा शवशिरोध्वजम्' इति मनुस्मरणात् । अन्यच्छिरःकपालं दण्डाग्रसमा. रोपितं ध्वजशब्दवाच्यं गृह्णीयात् । तञ्च कपालं स्वव्यापादितब्राह्मणशिरःसंबन्धि ग्राह्यम् । 'ब्राह्मणो ब्राह्मणं घातयित्वा तस्यैव शिरःकपालमादाय तीर्थान्यनुसंचरेत्' इति शातातपस्मरणात् । तदलाभेऽन्यस्यैव ब्राह्मणस्य ग्राह्यम् । एतदु. भयं पाणिनैव ग्राह्यम् । 'खट्वाङ्गकपालपाणिः' इति गौतमस्मरणात् । खट्दा.
शब्देन दण्डारोपितशिरःकपालात्मको ध्वजो गृह्यते न पुनः खट्टैकदेशः। 'महोक्षः खट्वाङ्गं परशुः' इत्यादिव्यवहारेषु तस्यैव प्रसिद्धेः । एतच्च कपालधारणं चिह्वार्थ न पुनर्भोजनार्थ मिक्षार्थ वा।-'मृन्मयकपालपाणिर्भिक्षायै ग्राम प्रविशेत्' इति गौतमस्मरणात् । तथा वनवासिना च तेन भवितव्यम् । (११॥ ७२)-'ब्रह्महा द्वादशाब्दानि कुटीं कृत्वा वने वसेत्' इति मनुस्मरणात् । ग्रामसमीपादौ वा । (मनुः १११७८)-'कृतवापनो वा निवसेवामान्ते गोवजेऽपि वा । आश्रमे वृक्षमूले वा गोब्राह्मणहिते रतः ॥' इति तेनैवोक्तत्वात् । कृतवापनो वेति विकल्पामिधानाजटी वेति लक्ष्यते । अतएव संवर्तः–'प्र. रहा द्वादशाब्दानि बालवासा जटी ध्वजी' इति । तथा भिक्षाशनशीलश्व भ.
१ नुपातकत्वेन ख. २ ब्रह्महा द्वादशसमा इति पाठः. ३ सर्वभूतहिते ग. ४ चीरवासा जटी ख.
For Private And Personal Use Only
Page #417
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्तप्रकरणम् ५] मिताक्षरासहिता।
वेत् । भिक्षा च लोहितकेन मृन्मयखण्डशरावेण ग्राह्या । -लोहितकेन खण्डशरावेण ग्रामं भिक्षायै प्रविशेत्' इति आपस्तम्बस्मरणात् । सप्तागाराण्येवा. अमिष्टं लभ्येत वानवेत्येवमसंकल्पितानि भिक्षार्थ प्रविशेत् 'सप्तागाराण्यसंकल्पितानि चरेद्रेक्षम्' इति वसिष्ठमरणात् । तथैककाल एव सा माझा ।'एककालाहारः' इति तेनैवोक्तत्वात् । एतच्च भैक्षं ब्राह्मणादिवर्णेष्वेव कार्यम्'चातुर्वण्र्ये चरेद्वेक्षं खदाङ्गी संयतात्मवान्' इति संवर्तस्मरणात् । तथा ब्रह्महास्मीति स्वकर्म ख्यापयन् द्वारि स्थितो भिक्षा याचेत् ।—'वेश्मनो द्वारि तिष्ठामि भिक्षार्थी ब्रह्मघातकः' इति पराशरस्मरणात् । अयंच भैक्षाशित्वनियमो वन्यैर्जीवनाशक्तौ द्रष्टव्यः।-'भिक्षायै प्रविशेद्रामं वन्यैर्यदि न जीवति' इति संवर्तस्मरणात् । तथा ब्रह्मचर्यादियुक्तेन च तेन भवितव्यम् । खटाङ्गकपालपाणिदिशवत्सरान्ब्रह्मचारी भिक्षायै ग्रामं प्रविशेत्कर्माचक्षाणः । यथोपकामेत्स संदर्शनादार्यस्य ('उस्थितस्तु दिवा तिष्ठेदुपविष्टस्तथा निशि । एतद्वीरासनं नाम सर्वपापप्रणाशनम् ॥')-'स्थानासनाभ्यां विहरेत्सवनेषूदकोपस्पर्शी शुद्ध्येत्' इति गौतमस्मरणात् । ब्रह्मचारिग्रहणं च 'वर्जयेन्मधुमांसगन्धमाल्यादिवास्वप्नाञ्जनाभ्यञ्जनोपानच्छत्रकामक्रोधलोभमोहहर्षनृत्यगीतपरिवादनभयानि' इति ब्रह्मचारिप्रकरणोक्ताविरुद्धधर्मप्राप्त्यर्थम् । अतएव शङ्खः-'स्थानवीरासनी मौनी मौजी दण्डकमण्डलुः । भिक्षाचर्याग्निकार्य च कूष्माण्डीभिः सदा जपः॥' इति । तस्य भवेदिति शेषः ॥ अत्र सवनेषूदकस्पर्शीति स्नानविधानात्तदङ्गभूतमन्त्रादिप्राप्तिरप्यवगम्यते । तथा 'शुचिना कर्म कर्तव्य'मित्यस्य सर्वकर्माधारणावाद्वतचर्याङ्गभूतशौचसंपत्त्यर्थं स्नानवामध्योपासनमपि कार्यम् । तस्यापि शौचापादनद्वारेण सर्वकर्मशेषत्वात् । तथाच दक्षा-'संध्याहीनोऽशुचिनित्यमनहः सर्वकर्मसु । यत्किंचित्कुरुते कर्म न तस्य फलभाग्भवेत् ॥' इति । नच 'द्विजातिकर्मभ्यो हानिः पतनम्' इति वचनात् संध्योपासनायाश्च द्विजातिकर्मत्वादप्राप्तिरिति शङ्कनीयम् । यस्मात्पतितस्यैव व्रतचर्योपदेशात्तदङ्गतयैव संध्योपासनादिप्राप्तिः। अरतो 'द्विजातीनामध्ययनमिज्या दानं ब्राह्मणस्याधिकाःप्रवचनयाजनप्रतिग्रहाः' इत्यादीनामेव द्विजातिकर्मणां व्रतचर्यानङ्गभूतानां हानिर्न सर्वेषाम् । तावन्मात्रबाधेन हानिवचनस्य चरितार्थत्वात् । इयं च मनुयाज्ञवल्क्यगौतमादिप्रतिपादिता द्वादशवार्षिकवतचयकैव न पुनर्भिन्ना। परस्परसापेक्षत्वादविरोधाच्च । तथाहि । भिक्षाशी कर्म वेदयन्नित्युक्ते किं भिक्षापात्रं केषां वा गृहेषु कतिषु वेत्याकाङ्क्षा जायेतैव । तत्र 'लोहितकेन खण्डशरावेण' इत्यापस्तम्बवचनैः परिपूरणमविरुद्धम् । अतः सर्वैरेककल्पोपदेशात्कैश्विदुक्तं मनुगौतमाधुक्तेतिकर्तव्यतायाः परस्परसापेक्षत्वेऽपि विकल्प इति तदनिरूप्यैवोक्तमिति मन्तव्यम् । एवं द्वादशवर्षाणि व्रतचर्यामावर्त्य ब्रह्महा शुद्धिमामुयात् । इयं चा
१ ण्येवात्र मृष्टं लभ्यते नात्रेत्येवमसंकल्पितानि ख. २ तथा सायंकाल एव ख. ३ संयत: पुमान् क. ङ. ४ भिक्षां चरेत् ख. ५ खट्वाङ्गपाणिःख. ६ इदं पचं ङ. पुस्तक एवास्ति. ७ स्थानाशनाभ्यां ऊ. ८ साधारणस्मरणत्वात् ख.
For Private And Personal Use Only
Page #418
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३८६
याज्ञवल्क्यस्मृतिः।
[प्रायश्चित्ताध्यायः
कामकृतब्रह्मवधविषया । (१११८९) इयं विशुद्धिरुदिता प्रमाप्याऽकामतो द्विजम् । कामतो ब्राह्मणवधे निष्कृतिर्न विधीयते ॥' इति मनुस्मरणात्॥ अत्रेदं चिन्तनीयम् । किं द्विब्राह्मणवधे प्रायश्चित्तस्य तन्त्रत्वमुतावृत्तिरिति । तत्र केचिन्मन्यन्ते ब्रह्महा द्वादशाब्दानीत्यत्र ब्रह्मशब्दस्यैकस्मिन्द्वयोर्बहुषु सा. धारणत्वादेकस्मिन्ब्राह्मणवधे यत्प्रायश्चित्तं तदेव द्वितीये तृतीयेऽपि । तत्रैकग्राह्मणवधनिमित्तैकप्रायश्चित्तानुष्ठाने सतीदं कृतमिदं नेति न शक्यते वक्तुम् । देशकालकर्तृणां प्रयोगानुबन्धभूतानामभेदेनागृह्यमाणविशेषत्वात्तन्त्रानुष्ठानेनैव पापक्षयलक्षणकार्यनिष्पत्तिर्युक्ता । यथा तन्त्रानुष्ठितैः प्रयाजादिभिराग्नेयादिषु तन्त्रेणैवानेकोपकारलक्षणकार्याणां निष्पत्तिः । नचैवं वाच्यम् 'द्वित्रंब्राह्मणवधे पापस्य गुरुत्वादेनसि गुरुणि गुरूणि लघुनि लघूनि' इति, गौतमवचनादावृत्तमेव प्रायश्चित्तानुष्ठानं युक्तम् , विलक्षणकार्ययोस्तन्त्रेण निष्पत्त्यनुपपतेरिति । यतो नेदं वचनमावृत्तिविधायकं किंतूपदिष्टानां गुरुलघुकल्पानां व्यवस्थाप्रतिपादनपरम् । नच द्वितीयब्राह्मणवधे पापस्य गुरुत्वं, प्रमाणाभावात् । यच्च मनुदेवलाभ्यामुक्तम्-'विधेः प्राथमिकादस्माद्वितीये द्विगुणं #वेत । तृतीये त्रिगुणं प्रोक्तं चतुर्थे नास्ति निष्कृतिः ॥' इति, तदपि 'प्रतिनिमित्तं नैमित्तिकशास्त्रमावर्तते' इति न्यायेन, द्विब्राह्मणवधगोचरनैमित्तिकशास्त्रावृत्त्यनुवादेन चतुर्थे तदभावविधिपरम्, न पुनर्द्वितीयब्रह्मवधे प्रायश्चितानुष्ठानद्वैगुण्यविधिपरमपि । वाक्यभेदप्रसंगात् । तस्मात् द्विवब्राह्मणवधेऽपि सकृदेव द्वादशवार्षिकाद्यनुष्ठानं युक्तम्, यथा 'अमये क्षामवते पुरोडाशमष्टाकपालं निर्वपे'दित्यादिगृहदाहादिनिमित्तेषु चोदितानां क्षामवत्यादीनां युगपदनेकेष्वपि गृहदाहादिनिमित्तेषु सकृदेवानुष्ठानम् । अत्रोच्यते । नहि वचनविरोधे न्यायः प्रभवति । वचनं च विधेः प्राथमिकादित्यादिकं द्विवब्राह्मणवधे प्रायश्चित्तानुष्टानावृत्तिविधिपरम् । एवं सति न्यायलभ्यतन्त्रानुष्ठानबाधेनावृत्तिविधाविदं वचनं प्रवृत्तिविशेषकरं स्यात् । इतरथा शास्वतः प्राप्त्यनुवादकत्वेनानर्थकं स्यात् । नच वाक्यभेदः । चतुर्थादिब्रह्मवधपर्युदासेनेतरत्रावृतप्रायश्चित्तविधानेनैकार्थत्वात् । किंच । 'चतुर्थे नास्ति निष्कृति'रिति लिङ्गदर्शनाद्धन्यमानब्राह्मणसंख्योत्कर्षे दोषगौरवं गम्यते । तथा देवलादिवचनाच्च यत्स्यादनभिसंधाय पापं कर्म सकृत्कृतम् । तस्येयं निष्कृतिदृष्टा धर्मविद्भिर्मनीषिभिः ॥' इति । नच विलक्षणयोर्गुरुलघुदोषयोः क्षयस्तन्त्रेण निष्पद्यते । अत एवंविधेषु दोषगुरुत्वेन कार्यवैलक्षण्यादपि प्रतिनिमित्तं नैमित्तिकस्यावृत्तियुक्ता । क्षामवत्यादिषु पुनः कार्यस्थावैलक्षण्यायुक्तस्तन्त्रभाव इत्यलं प्रपञ्चन । यच्चेदं 'चतुर्थे नास्ति निष्कृति'रिति तदपि महापातकविषयम् । पापस्यातिगुरुत्वेन प्रायश्चित्ताभावप्रतिपादनपरत्वात् । अतः शूद्रामसेवनादौ बहुशोऽप्यभ्यस्ते तदनुगुणप्रायश्चित्तावृत्तिः कल्पनीया न पुनः प्रायश्चित्ताभावः । अत एवोक्तं मनुना (११३१४०)-'पूर्णे
१ किं तत्र द्वित्रिब्राह्मणवधे ङ. २ द्वित्रिब्राह्मण ख. ३ द्विगुणं चरेत् ख. ४ नैमित्तिकमावर्तते ख. ५ परमिति ख. परमेव ग. ६ वृत्तिप्रायश्चित्त अ.
For Private And Personal Use Only
Page #419
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्तप्रकरणम् ५] मिताक्षरासहिता ।
३८७
चार्नस्यनस्थां तु शूद्रहत्याव्रतं चरेत्' इति । इदं च द्वादशवार्षिकं व्रतं साक्षाद्वन्तुरेव । ब्रह्महेति तस्यैवाभिधानात् । अनुग्राहकप्रयोजकादेस्तु तत्तद्दोषानुसारेण प्रायश्चित्ततारतम्यं कल्पनीयम् । तत्रानुग्राहको यत्प्रायश्चित्तभाजं पुरुषमनुगृह्णाति स तत्प्रायश्चित्तं पादोनं कुर्यात् । अतस्तस्य द्वादशवार्षिकेण पादोनं नववार्षिकं प्रयोजकस्त्वर्धीनं षङ्घार्षिकं कुर्यात् । अनुमन्ता पुनः सार्धपादं सार्धचतुर्वार्षिकं निमित्ती त्वेकपादं त्रिवार्षिकम् । अतएव सुमन्तुः - ' तिरस्कृतो यदा विप्रो हत्वात्मानं मृतो यदि । निर्गुणः साहसात्क्रोधाद्गृहक्षेत्रादिकारणात् ॥ त्रैवार्षिकं व्रतं कुर्यात्प्रतिलोमां सरस्वतीम् । गच्छेद्वापि विशुद्ध्यर्थं तत्पापस्येति निश्चितम् ॥ अत्यर्थं निर्गुणो विप्रो ह्यत्यर्थं निर्गुणोपरि । क्रोधाद्वै म्रियते यस्तु निर्निमित्तं तु भर्सितः ॥ वत्सरत्रितयं कुर्यान्नरः कृच्छ्रं विशुद्धये ॥' इति । यदा पुनर्निमित्यत्यन्तगुणवान् आत्मघाती चात्यन्तनिर्गुणस्तदैकवर्षमेव ब्रह्महत्याव्रतं कुर्यात् । 'केशश्मश्रुनखादीनां कृत्वा तु वपनं वने । ब्रह्मचर्यं चरन्विप्रो वर्षकेन शुध्यति ॥' इति तेनैवोक्तत्वात् ॥ अनयैव दिशानुग्राहकप्रयोजकादीनां येऽनुग्राहकप्रयोजकादयस्तेषामपि प्रायश्चित्तं कल्प्यम् । अस्यां च कल्पनायां प्रयोजयितानुमन्ता कर्ता चेति स्वर्गनरकफलेषु कर्मसु भौगिनो यो भूय आरभते तस्मिन्फलविशेषः' इत्यापस्तम्बीयं वचनं मूलम् । तथा प्रोत्साहकादीनामपि दण्डप्रायश्चित्ते कल्पये । यथाह पैठीनसिः - 'हन्ता मन्तोपदेष्टा च तथा संप्रतिपादकः । प्रोत्साहकः सहायश्च तथा मार्गानुदेशकः ॥ आश्रयः शस्त्रदाता च भक्तदाता विकर्मिणाम् । उपेक्षकः शक्तिमांश्चेदोषवक्तानुमोदकः ॥ अकार्यकारिणस्त्वेषां प्रायश्चित्तं प्रकल्पयेत् । यथाशक्त्यनुरूपं च दण्डं चैषां प्रकल्पयेत् ॥' इति ॥ तथा बालवृद्धादीनां साक्षात्कर्तृत्वेऽप्यर्धमेव ' अशीतिर्यस्य वर्षाणि बालो वाप्यून पोडशः । प्रायश्चित्तार्धमर्हन्ति स्त्रियो रोगिण एव च ॥' इत्यङ्गिरःस्मरणात् ॥ तथ सुमन्तुः - 'अर्वाक्तु द्वादशाद्वर्षादशी तेरूर्ध्वमेव वा । अर्धमेव भवेत्पुंसां तुरीयं तत्र योषिताम् ॥' इति ॥ तथानुपनी तस्यापि बालकस्य पादमामेव प्रायश्चित्तम् । 'स्त्रीणाम प्रदातव्यं वृद्धानां रोगिणां तथा । पादो बालेषु दातव्यः सर्वपापेष्वयं विधिः ॥ ' इति विष्णुस्मरणात् । अतश्च यच्छलेन'ऊनैकादशवर्षस्य पञ्चवर्षात्परस्य च । प्रायश्चित्तं चरेद्राता पिता वान्यः सुहृज्जनः ॥' इति प्रतिपाद्योक्तम्- 'अतो बालतरस्यास्य नापराधो न पातकम् । राजदण्डो न तस्यास्ति प्रायश्चित्तं न विद्यते ॥' इति, तदपि संपूर्णप्रायश्चित्ताभावप्रतिपादनपरं न पुनः सर्वात्मना तदभावप्रतिपादनपरम् । आश्रम विशेष निरपेक्षेण श्रूयमाणेषु ब्राह्मणो न हन्तव्यस्तस्माद्ब्राह्मणराजन्यौ वैश्यश्च न सुरां पिबेदित्येवमादिष्वनपेक्षितवयोविशेषस्यैवाधिकारात् । अतश्च तदीयमपि प्रायश्चित्तं पित्रादिभिरेवाचरणीयम् । - ' पुत्रानुत्पाद्य संस्कृत्य वेदमध्याप्य वृत्तिं विदध्यात् '
•
१ अस्थिरहितानां प्राणिनां शकटपरिमितानां वधे इत्यर्थः . २ गुणवदुपरि आत्मघाती वा. ३ वर्षेकेण विशुद्ध्यति ङ. ४ भागिनो भूय ख. तथार्वा ख.
For Private And Personal Use Only
Page #420
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३८८
याज्ञवल्क्यस्मृतिः। [प्रायश्चित्ताध्यायः इति तस्यैव पुत्रादिहिताचरणेऽधिकृतत्वात् । यत्र पुनः कस्मिंश्चिद्रह्मवधे प्रयोजकभावमापन्नस्यान्यस्मिन्साक्षात्कर्तृत्वे गुरुलघुप्रायश्चित्तसंपातस्तत्र द्वादशवार्षिकादिगुरुप्रायश्चित्तान्तःपातिनः प्रयोजकसंबन्धिलघुप्रायश्चित्तप्रसङ्गात्कार्यसिद्धिः । नचैवं सत्यविशेषाल्लघुकल्पेन महतोऽपि सिद्धिः स्यादित्याशङ्कनीयम् । अत्र यन्तःपातितयानुष्ठाने विशेषानवगमात्प्रसङ्गात्कार्यसिद्धिरेवगम्यते । नच लघ्वन्तःपाती महाकल्प इति कुतः प्रसङ्गा शङ्का । नच चैत्रवधजनितकल्मषक्षयार्थमनुष्ठितेन कथं विष्णुमित्रवधोत्पाद्यपापनिवृत्तिरिति वाच्यम् । चैत्राबुद्देशस्यातन्त्रत्वात् । अतो यथा काम्यनियोगनिष्पत्यर्थं स्वर्गार्थ वानुष्ठितैराग्नेयादिभिर्नित्यनियोगनिष्पत्तिस्तद्वल्लघुप्रायश्चित्तस्यापि कार्यसिद्धिः। यत्पुनर्मध्यमाङ्गिरोवचनम्-'गवां सहस्रं विधिवत्पात्रेभ्यः प्रतिपादयेत् । ब्रह्महा विप्रमुच्येत सर्वपापेभ्य एव च ॥ इति, तत्सवनस्थगुणवद्राह्मणविषयम् । एतच्च 'द्विगुणं सवनस्थे तु ब्राह्मणे व्रतमादिशेत्' इत्येतद्वाक्यविहितद्विगुणद्वादशवार्षिकवतचयांशतस्य वेदितव्यम् । प्रायश्चित्तस्यातिगुरुत्वात् । न त्वनावृत्तद्वादशवार्षिकविषयम् । तत्र हि द्वादशदिनान्येकैकप्राजापत्यमिति गणनायां प्राजापत्यानां षष्ट्यधिकशतत्रयं भवति । यद्यपि प्राजापत्यस्यान्ते त्र्यहमुपवासोऽधिकस्तथाप्यत्र वनवासजटाधारणवन्याहारत्वादिरूपतपोविशेषयुक्तत्वादुपवासाभावेऽप्येकैकस्य द्वादशाहस्य प्राजापत्यतुल्यत्वम् । ततश्च- 'प्राजापत्यक्रियाशक्ती धेनुं दद्याद्विचक्षणः । गवामभावे दातव्यं तन्मूल्यं वा न संशयः ॥' इत्यनेन न्यायेन प्रतिप्राजापत्यमेकैकस्यां धेन्वां दीयमानायां धेनूनामपि षष्ट्यधिकं शतत्रयं भवति न पुनः स. हस्रम् । अतो यथोक्त एव विषयो युक्तः। यदपि शववचनम्-'पूर्ववदमति. पूर्वं चतुर्पु वर्णेषु विप्रं प्रमाप्य द्वादशवत्सरान्पट् त्रीसाधू संवत्सरं च व्रता. न्यादिशेत्तेषामन्ते गोसहस्रं तदर्धं तस्यार्धं तदर्धं च दद्यात्सर्वेषां वर्णानामानुपूणे ति द्वादशवार्षिकगोसहस्त्रयोः समुच्चयविधिपरं तदाचार्यादिहननविषयं द्रष्टव्यम् । तस्यातिगुरुत्वात् । तथाच दक्षः-'सममब्राह्मणे दानं द्विगुणं ब्राह्मणब्रुवे । आचार्ये शतसाहस्रं श्रोत्रिये दत्तमक्षयम् ॥' इति प्रतिपाद्योक्तवान्'समद्विगुणसाहस्रमानन्त्यं च यथाक्रमम् । दाने फलविशेषः स्याद्धिंसायां तद्वदेव हि ॥' इति । तथापस्तम्बेन द्वादशवार्षिकमुक्त्वोकमस्मिन्नेव विषये-'गुरु हत्वा श्रोत्रियं वा एतदेव व्रतमोत्तमादुच्छासाचरेत्' इति, तत्र यावजीवमावर्तमाने व्रते यदा त्रैगुण्यं चातुर्गुण्यं वा संभाव्यते तदा तत्र समर्थस्य बहुधनस्यायं दानतपसोः समुच्चयो द्रष्टव्यः । द्वादशवार्षिकव्यतिरिक्तानां तु सुमन्तुपराशराद्युक्तानां प्रायश्चित्तानामुत्तरत्र व्यवस्थां वक्ष्यामः ॥ ननु द्वादशवार्षिकादिकल्पानां व्यवस्था कुतोऽवसिता । न ताववादशवार्षिकादिविधायकवाक्यैरिति युक्तम् । तत्राप्रतीतेः । नच वाच्यं प्रमाणावगतगुरुल
१ पुत्रहिताचरणे ख. २ प्रयोजकाभावापन्न ङ. ३ सिद्धिरुच्यते ङ. ४ मनुष्ठेयेन ख. ५ रूपतया विशेष. ६ समुच्चयपरं ख. ७ द्योक्तत्वात् ख.
For Private And Personal Use Only
Page #421
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्तप्रकरणम् ५] मिताक्षरासहिता ।
३८९
घुकल्पानां बाधो मा प्रसाङ्क्षीदिति व्यवस्था कल्प्यत इति । विकल्पमुच्चयागाङ्गिभावानामन्यतमाश्रयणेनापि बाधस्य सुपरिहरत्वात् । अत्रोच्यते । न ताववादशवार्पिकसेतुदर्शनादीनां विषमकल्पानां विकल्पोऽवकल्प्यते । विकल्पाश्रयणे गुरुकल्पानामनुष्टानासंभवेनानर्थक्यप्रसङ्गात् । नच पोडशिग्रहणाग्रहणवद्विषमयोरपि विकल्पोपपत्तिरिति वाच्यम् । यतस्तत्रापि सति संभवे ग्रहणमेवेति युक्तं कल्पयितुम् । यद्वा षोडशिग्रहणानुगृहीतेनातिरात्रेण क्षिप्रं स्वर्गादिसिद्धिरतिशयितस्य वा स्वर्गस्येति कल्पनीयम् । इतरथा ग्रहणविधेरानर्थक्यप्रसङ्गात् । नापि समुच्चयः। उपदेशातिदेशप्राप्तिमन्तरेण समुच्चयो न संभवति । उपदेशावगतनैरपेक्ष्यस्य बाधप्रसङ्गात् । नचाङ्गाङ्गिभावः । श्रुत्यादिविनियोजकानामभावात् । श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानानि विनियोजकानि । अतः परस्परोपमर्दपरिहारार्थ विषयव्यवस्थाकल्पनैवोचिता। सा च जातिशक्तिगुणाद्यपेक्षया कल्पनीया ।-'जातिशक्तिगुणापेक्षं सकृगुद्धिकृतं तथा । अनुबन्धादि विज्ञाय प्रायश्चित्तं प्रकल्पयेत् ॥' इति देवलस्मरणात् ॥ २४३ ॥ पूर्वोक्तस्य ब्रह्महत्यादिप्रायश्चित्तस्य नैमित्तिकसमाप्स्यवधिमाह
ब्राह्मणस्य परित्राणाद्वां द्वादशकस्य च ।
तथाश्वमेधावभृथस्नानाद्वा शुद्धिमाप्नुयात् ॥ २४४ ॥ यश्चौरव्याघ्रादिभिर्व्यापाद्यमानस्य ब्राह्मणस्यैकस्याप्यात्मप्राणानन्तरे कृत्वा प्रा. गत्राणं करोति गवां द्वादर्शकस्यासावसंपूर्णेऽपि द्वादशवार्षिके शुद्ध्येत् । यद्यपि प्राणत्राणे प्रवृत्तस्तदकृत्वैव म्रियते तथापि शुद्ध्यत्येव । अतएव मनुना (११॥ ७९)-'ब्राह्मणार्थे गवार्थे वा सद्यः प्राणान्परित्यजन् । मुच्यते ब्रह्महत्याया गोप्ता गोर्ब्राह्मणस्य च ॥' इति । ब्राह्मणरक्षणं तदर्थ मरणं च पृथगुपात्तम् । तथा परकीयाश्वमेधावभृथाख्यकर्माङ्गभूतस्नानसमये स्वयमपि स्नात्वा ब्रह्महत्यायाः शुद्धिं प्राप्नुयात् । सानं च स्वकल्मषं विख्याप्य कुर्यात् । तथाच मनुः (११॥ ८२)-'शिष्ट्वा वा भूमिदेवानां नरदेवसमागमे । स्वमेनोऽवभृथे स्नात्वा हय. मेधे विमुच्यते ॥' इति । भूमिदेवा ब्राह्मणा ऋत्विजस्तेषां नरदेवेन यजमानेन राज्ञा समवाये स्वीयमेनः शिष्ट्वा विख्याप्याऽश्वमेधावभृथे स्नात्वा शुध्यति यदि तैरनुज्ञातो भवति। --'अश्वमेधावभृथं गत्वा तत्रानुज्ञातः स्नातः सद्यः पूतो भवति' इति शङ्खमरणात् ॥ अश्वमेधावभृथग्रहणमग्निष्टुन्मध्यानां पञ्चदशरात्रादिक्रत्वन्तराणामग्निष्टुत्समाप्तिकानां वा सर्वमेधादीनामुपलक्षणम् । 'अश्वमेधावभृथे वान्ययज्ञेऽप्यग्निष्टुदन्तश्चेत्' इति गौतमस्मरणात् । अयंच प्रक्रान्तद्वादशवार्षिकस्य कथंचित् ब्राह्मणप्राणत्राणादिकं कुर्वतो व्रतसमाझ्यवधिरुच्यते । यथा सारस्वते सत्रे प्लाक्षं प्रस्रवणं प्राप्योत्थानमृषभैकशतानां वा गवां सहस्रमभावे सर्वस्वंदानं गृहपतिमरणे चेति । न पुनः स्वतन्त्रं प्रायश्चित्तान्तरम् । तथाच शङ्खः-द्वा
१ समस्यावधि ङ. २ कस्य वाऽसंपूर्णोपि ख. ३ लाने च ख. ४ विशुध्यति ङ. ५ सात्वा शुध्येत् ख. ६ सर्वस्वजान्यां, सर्वस्व-याज्याव्यां ङ.
For Private And Personal Use Only
Page #422
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
याज्ञवल्क्यस्मृतिः। [प्रायश्चित्ताध्यायः
दशे वर्षे शुद्धिं प्राप्नोत्यन्तरा वा ब्राह्मणं मोर्चयित्वा, गवां द्वादशानां परित्राणासद्य एवाश्वमेधावभृथस्नानाद्वा पूतो भवति' इति । अतएव मनुना (११॥ ७८)-'कृतवापनो वा निवसेत्' इति द्वादशवार्षिकस्य गुणविधिं प्रक्रम्य । (११७९)-'ब्राह्मणार्थे गवार्थे वा सद्यः प्राणान्परित्यजेत् । मुच्यते ब्रह्महत्याया गोता गोर्ब्राह्मणस्य च ॥' इत्यादिना मध्ये ब्राह्मणत्राणादिकमभिधाय (११८१)-'एवं दृढव्रतो नित्यं ब्रह्मचारी समाहितः । समाप्ते द्वादशे वर्षे ब्रह्महत्यां व्यपोहति ॥' इति द्वादशवार्षिकमेवोपसंहृतम् ॥ ननु ब्रह्महत्यायाः शुद्धिमानुयादिति ब्राह्मणत्राणादीनां द्वादशवार्षिकेण सहैकफलत्वावगमारस्वातच्यमेव युक्तं न पुनरङ्गत्वम् । किंच प्रधानविरोधित्वादपि नाङ्गत्वम् । प्रधानानुग्राहकं ह्यङ्ग भवति । नच प्रारब्धद्वादशवार्षिकस्येदं विधानम् । येन तत्कार्ये विधानं गम्यते । यथा 'सत्रायावगूर्य विश्वजिता यजेत' इति सत्रप्रयोगप्रवृत्तस्य तत्परिसमापनाक्षमस्य विश्वजिद्विधानमतोऽपि स्वातन्त्र्यमेव युक्तम् । यथाग्निप्र. वेशलक्ष्यभावादीनाम् । नच तेषामपि द्वादशवार्षिकोपक्रमोपसंहारमध्यपठित. स्वेन तदङ्गत्वमिति शङ्कनीयम् । यतः सत्यपि मध्यपाठे नितिप्रयोजनत्वेन प्रयोजनाकाङ्क्षाविरहान्न परस्परमङ्गाङ्गित्वं युक्तम् । यथा सामिधेनीप्रकरणमध्यवैर्तिनां निर्वित्पदानामग्निसमिन्धनप्रकाशत्वेन सामिधेनीभिः सहककार्याणां न सामिधेन्यङ्गत्वम् । नचैकान्ततोऽग्निप्रवेशादीनां द्वादशवार्षिकमध्ये पाठः वसिष्ठगौतमादिभिरेषां द्वादशवार्षिकप्रक्रमात्मागेव पठितत्वात् । इदमेव स्वातत्र्यं प्रकटयितुं मनुना (१११७३)- 'लक्ष्यं शस्त्रभृतां वा स्यात्प्रास्येदात्मानमग्नौ वा' इति प्रतिवाक्यं वाशब्दः पठितः । तथा प्रतिप्रायश्चित्तमेवो. पसंहृतम् (मनुः १११८६)-'अतोऽन्यतममास्थाय विधि विप्रः समाहितः । ब्रह्महत्याकृतं पापं व्यपोहत्यात्मशुद्धये ॥' इति । अतोऽग्निप्रवेशादीनां स्वातच्यमेव युक्तम् । अतश्च ब्राह्मणत्राणा देरप्येकफलत्वान्नाङ्गत्वमिति । उच्यते । “परिहृतमेतत् अन्तरा ब्राह्मणं मोचयित्वे'त्यादिना शङ्कवचनेनाङ्गत्वावगमात् । अङ्गस्यैव सतः प्रधानद्वारेण फलसंबन्धः । नच प्रधानविरोधः यतो ब्राह्मणवाणावधिकस्यैव व्रतानुष्ठानस्य फलसाधनत्वं विधीयत इति न विरोधः ॥ २४४ ॥
दीर्घतीव्रामयग्रस्तं ब्राह्मणं गामथापि वा ।
दृष्ट्वा पथि निरातङ्कं कृत्वा तु ब्रह्महा शुचिः ॥ २४५॥ किंच । दीर्पण बहुकालव्यापिना तीब्रेण दुःसहेनामयेन कुष्टादिव्याधिना अस्तं पीडितं ब्राह्मणं गांवा तथाविधां पथि दृष्ट्वा निरातङ्कं नीरुजं कृत्वा ब्रह्महा शुचिर्भवति । ननु ब्राह्मणस्य परित्राणादित्यत्र यदुक्तं ब्राह्मणरक्षणं तदेव किमर्थं पुनरुच्यते ब्राह्मणं गामथापि वेति । सत्यमेवम् । किंवात्मप्राणपरित्यागेनाधस्तनवाक्ये ब्राह्मणरक्षणमुक्तमधुना पुनरौषधदानादिनेति विशेषः । अमुनवा
१ भोजयित्वा ङ. २ वर्तिनामग्निविदामग्नि ख.
For Private And Personal Use Only
Page #423
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्तप्रकरणम् ५] मिताक्षरासहिता ।
३९१
भिप्रायेणोक्तं मनुना ( ११1८० ) - ' विप्रस्य तन्निमित्ते वा प्राणलाभे विमु'व्यते' इति ॥ २४५ ॥
आनीय विप्रसर्वस्वं हृतं घातित एव वा । तन्निमित्तं क्षतः शस्त्रैर्जीवन्नपि विशुद्ध्यति ॥ २४६ ॥
I
किंच । विप्रस्यापहृतसर्वस्वतयावसीदतः संबन्धि द्रव्यं भूहिरण्यादिकं चौरैहृतं साकल्येनानीय रक्षणं यः करोति स विशुद्ध्यति । आनयने प्रवृत्तः स्वयं चौरैर्घातितो वा यदि वा तन्निमित्तं ब्राह्मणसर्वस्वानयनार्थं तत्र युध्यमानः शस्त्रैः क्षतो मृतकल्पो जीवन्नपि विशुद्ध्यति । शस्त्रैरिति बहुवचनं क्षतबहुत्वप्रात्यर्थम् | अतएव मनुना (११/८० ) - 'ज्येवरं प्रतिरोद्धा वा सर्वस्वमवजित्य वा' इति त्र्यवरग्रहणं कृतम् । एतस्य श्लोकद्वयोक्तकल्पपञ्चकस्य ब्राह्मणरक्षणरूपकत्वेनान्तरा वा ब्राह्मणं मोचयितवेत्यनेन शङ्खवचनेन क्रोडीकृतत्वात् द्वादशवार्षिकसमाहयवधित्वेनेतरग्रहणे विनियोगान्न स्वातन्त्र्यम् ॥ २४६ ॥
प्रायश्चित्तान्तरमाह
लोमभ्यः स्वाहेत्येवं हि लोमप्रभृति वै तनुम् । मज्जान्तां जुहुयाद्वापि मन्त्रैरेभिर्यथाक्रमम् ।। २४७ ॥
लोमभ्यः स्वाहेत्येवमादिभिर्मन्त्रैर्लोमप्रभृति मज्जान्तां तनुं जुहुयात् । इतिशब्दः करणत्व निर्देशार्थः । एवंशब्दः प्रकारसूचनार्थः । हिशब्दः स्मृत्यन्तरप्रसिद्धत्वगादीनां प्रभृतिशब्देनाक्षिप्यमाणानां द्योतनार्थः । ततश्च लोमादीनि होमद्रव्याणि चतुर्थ्यां निर्दिश्यन्ते स्वाहाकारं पठित्वा तैर्मन्त्रैर्जुहुयात् । ते च डूयमानद्रव्याणां लोमत्व ग्लोहित मांसमेदः स्वाय्वस्थिमज्जानामष्टसंख्यत्वादष्टौ मन्त्रा भवन्ति । तथाच वसिष्ठः - 'ब्रह्महानिमुपसमाधाय जुहुयालोमानि मृत्योर्जुहोमि लोमभिर्मृत्युं वाशय इति प्रथमाम् । १ । त्वचं मृत्योर्जुहोमि त्वचा मृत्युं वाशय इति द्वितीयाम् । २ । लोहितं मृत्योर्जुहोमि लोहितेन मृत्युं वाशय इति तृतीयाम् । ३ । मांसानि मृत्योर्जुहोमि मांसैर्मृत्युं वाशय इति चतुर्थीम् | ४ | मेदो मृत्योर्जुहोमि मेदसा मृत्युं वाशय इति पञ्चमीम् । ५ । स्नायूनि मृत्योर्जुहोमि स्नायुभिर्मृत्युं वाशय इति षष्ठीम् । ६ । अस्थीनि मृत्योर्जुहोमि अस्थिभिर्मृत्युं वाशय इति सप्तमीम् । ७ । मज्जां मृत्योर्जुहोमि मज्जाभिर्मृत्युं वाशय इत्यष्टमीम् । ८ ।' इति । अत्रच लोमप्रभृति तनुं जुहुयादिति लोमादीनां होमद्रव्यत्वावगमालोमभ्यः स्वाहेति सत्यपि चतुर्थीनिर्देशे लोमादीनां न देवतात्वं कल्प्यते । द्रव्यप्रकाशनेनैव मन्त्राणां होमसाधनत्वोपपत्तेः । किंतु लोमभिर्मृत्युं वाशय इत्यादिवसिष्ठमन्त्रपर्यालोचनया मृत्योरेव हविः संबन्धावगमाद्देवतास्वं कल्प्यते । अतश्च लोमादीनि सामर्थ्यात्स्वधितिनावदाय मृत्यूद्देशे
१ त्रिवारं क. २ भ्रूणहाग्निमिति पाठान्तरम्. या० ३६
For Private And Personal Use Only
Page #424
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३९२
याज्ञवल्क्यस्मृतिः
1
नाष्टौ होमान्कृत्वान्ते तनुं प्रक्षिपेत् । अतो यत्कैश्चिदुक्तमनादिष्टद्रव्यत्वादाज्यहविष्का होमा इति, तदनिरूप्यैवोक्तमित्युपेक्षणीयम् । जुहुयादित्यनेनानौ सिद्धे भ्रूणहाग्निमुपसमाधायेति पुनरग्निग्रहणं लौकिकाग्निप्रात्यर्थम् । युक्तं चैतत् । पतितानीनां प्रतिपत्तिविधानात् – 'आहिताग्निस्तु यो विप्रो महापातकभाग्भवेत् । प्रायश्चित्तैर्न शुच्येत तदग्नीनां तु का गतिः ॥ वैतानं प्रक्षिपेत्तोये शालाग्निं शमयेदुधः ॥ इत्युशनः स्मरणात् । तथा - 'महापातकसंयुक्तो देवात्स्यादनिमान्यदि । पुत्रादिः पालयेदमीन्युक्तश्चादोषसंक्षयात् ॥ प्रायश्चित्तं न कुर्याद्यः कुर्वन्वा म्रियते यदि । गृह्यं निवार्षयेच्छ्रोतमप्स्वस्येत्सपरिच्छदम् ॥' इति का त्यायनस्मरणात् । तनुप्रक्षेपश्चोत्थायोत्थाय त्रिरधोमुखेन कर्तव्यः । यथाह मनुः ( १११७३ ) - ' प्रास्येदात्मानमभौ वा समिद्धे त्रिरवाशिरा:' इति । गौतमेनाप्यत्र विशेषो दर्शितः - ' प्रायश्चित्तमझौ सक्तिर्ब्रह्मन्नस्त्रिरवच्छातस्य ' इति । अवच्छातस्य अनशनकर्शितकलेवरस्येत्यर्थः । तथाच काठकश्रुतिः - 'अनश
प्रायश्चित्ताध्यायः
कर्शितोऽग्निमारोहेत्' इति । इदं च मरणान्तिकं प्रायश्चित्तं कामकारविषयम् । यथाह मध्यमाङ्गिराः - 'प्राणान्तिकं च यत्प्रोक्तं प्रायश्चित्तं मनीषिभिः । तत्कामकारविषयं विज्ञेयं नात्र संशयः ॥' इति । तथा - 'यः कामतो महापापं नरः कुर्यात्कथंचन । न तस्य शुद्धिर्निर्दिष्टा भृग्वनिपतनादृते ॥' इति । एतच्च प्रायश्चित्तं स्वतन्त्रमेव न ब्राह्मणत्राणादिवत् द्वादशवार्षिकान्तर्भूतमित्युक्तं प्राक् ॥ २४७ ॥
संग्रामे वा हतो लक्ष्यभूतः शुद्धिमवाप्नुयात् ।
मृतकल्पः प्रकारार्तो जीवन्नपि विशुध्यति ।। २४८ ॥
किंच | अथवा संग्रामे युद्धभूमावुभयबलप्रेरितशरसंपातस्थाने लक्ष्यभूतो मृतः शुद्धिमवाप्नुयात् । गाढमर्मप्रहारजनिततीव्रवेदनो मृतकल्पो मूच्छितो जीवनपि विशुद्ध्यति । लक्ष्यभावश्च प्रायश्चित्ती भयमित्येवं विदुषां धनुर्विद्याविदां संग्रामे स्वेच्छया कर्तव्यो नतु राज्ञा बलात्कारयितव्यः । यथाह मनुः ( ११ । १७ ) – 'लक्ष्यं शस्त्रभृतां वा स्याद्विदुषामिच्छयात्मनः' इति । इदंच मरणान्तिकत्वात्साक्षात्कर्तुः क्षत्रियस्य कामकारविषयम् । अपिशब्दादश्वमेधादिनापि विशुद्ध्यति । यथाह मनुः ( ११७४ ) - 'यजेत वाश्वमेधेन स्वर्जिता गोसवेन च । अभिजिद्विश्वजिच्यां वा त्रिवृताग्निष्टुतापि वा ॥' इति । अश्वमेधानुटानं सार्वभौमक्षत्रियस्यैव । - ' यजेत वाश्वमेधेन क्षत्रियस्तु महीपतिः' इति पराशरस्मरणात् । नासार्वभौमो यजेतेत्यसार्वभौमस्य प्रतिषेधदर्शनाच्च । इदं श्चाश्वमेधानुष्ठानं सार्वभौमस्य कामकारकृते मरणान्तिकस्थाने द्रष्टव्यम् । - ' म. हापातककर्तारश्वत्वारो मतिपूर्वकम् । अग्निं प्रविश्य शुद्ध्यन्ति स्थित्वा वा महति ऋतौ ॥' इति यमेन मरणकालाग्निप्रवेशतुल्यतया महाक्रतोरश्वमेधस्य निर्दिष्ट - स्वात् । स्वर्जितादयश्च त्रैवर्णिकस्या हिताप्रेरिष्टप्रथमयज्ञस्य द्वादशवार्षिकेण सह
१ हविष्कामो होम इति ङ. २ गृह्यं वा निर्वपेच्छतं ङ.
For Private And Personal Use Only
Page #425
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्तप्रकरणम् ५] मिताक्षरासहिता ।
३९३
विकल्पन्ते । नच स्वर्जिताद्यर्थमाधानं प्रथमयज्ञानुष्ठानं वा कार्यम् । पतितस्य द्विजातिकर्मस्वनधिकारात् । नच संध्योपासनवदविरोध इति युक्तम् । आधानादेरुत्तरकतुशेषत्वाभावात् । ते च दक्षिणान्यूनाधिक्याश्रयणेन द्वादशवार्षिकाद्यर्हेषु साक्षात्रादिषु व्यवस्थापनीयाः ॥ २४ ॥
अरण्ये नियतो जप्त्वा त्रिर्वै वेदस्य संहिताम् ।
शुद्ध्येत वा मिताशिवात्प्रतिस्रोतःसरस्वतीम् ॥ २४९ ॥ किंच । अरण्ये निर्जनप्रदेशे नियतो नियताहारः (१९७७)-'जपेद्वा नियताहारः' इति मनुस्मरणात् । त्रिवारं मन्त्रब्राह्मणात्मकं वेदं जपित्वा शु. ध्यति । संहिताग्रहणं पदक्रमव्युदासार्थम् । यद्वा मिताशनो भूत्वा प्लाक्षात्प्रत्रवणादारभ्य पश्चिमोदधेः प्रतिस्रोतः स्रोतःस्रोतः प्रति सरस्वती इत्वा गत्वा विशुद्ध्यति । अशनं च हविष्येण कार्यम् (१९७७)-'हविष्यभुग्वानुचरेप्रतिस्रोतःसरस्वतीम्' इति मनुस्मरणात् । अयंच वेदजपो विदुषो हन्तुर्निधनस्यात्यन्तगुणवतो निर्गुणव्यापादने प्रमादकृते द्रष्टव्यः । सरस्वतीगमनं तु तादृश एवं विषये विद्याविरहिणो द्रष्टव्यम् । निमित्तिनश्च-तिरस्कृतो यदा विप्रो निर्गुणो म्रियते यदि' इति सुमन्तुवचनस्य दर्शितत्वात् । यत्पुनर्मनुवचनम् (१९७५)-'जपित्वान्यतमं वेदं योजनानां शतं ब्रजेत्' इति, तदप्यरण्ये नियतो जावेत्येतस्यैव विषयेऽशक्तस्य द्रष्टव्यम् ॥ २४९ ॥
पात्रे धनं वा पर्याप्तं दत्त्वा शुद्धिमवाप्नुयात् ।
आदातुश्च विशुद्ध्यर्थमिष्टिवैश्वानरी स्मृता ॥२५० ॥ किंच । न विद्यया केवलयेत्याधुक्तलक्षणे पात्रे गोभूहिरण्यादिकं जीवनपप्तिं समर्थ धनं दत्त्वा शुद्धिमवाप्नुयात् । तद्धनं यः प्रतिगृह्णाति तस्य वैश्वानरदैवत्येष्टिः शुद्ध्यर्थ कर्तव्या । एतच्चाहिताग्निविषयम् । अनाहिताग्नेस्तु तदैवत्यश्वर्भवति । य एवाहिताग्नेर्धर्मः स एवौपासनिकस्येति गृह्यकारवचनात् । वाशब्दात्सर्वस्वं सपरिच्छदं वा गृहं दद्यात् । यथाह मनुः (१९७६)'सवस्त्रं वा वेदविदे ब्राह्मणायोपपादयेत् । धनं वा जीवनायालं गृहं वा सपरिच्छदम् ॥' इति । इदं च पात्रे धनदानं निर्गुणस्य धनवतो हन्तुर्निर्गुणव्यापादने द्रष्टव्यम् । तत्रैव विषये अविद्यमानान्वयस्य सर्वस्वदानं सान्वयस्य तु सोपस्करगृहदानमिति व्यवस्था । यदपि पराशरेणोक्तम्-'चातुर्विद्योपपन्नस्तु वि. धिवब्रह्मघातके । समुद्रसेतुगमनं प्रायश्चित्तं विनिर्दिशेत् ॥ सेतुबन्धपथे भिक्षा चातुर्वात्समाहरेत् । वर्जयित्वा विकर्मस्थान्छनोपानद्विवर्जितः ॥ अहं दुष्कृतकर्मा वै महापातककारकः । गृहद्वारेषु तिष्ठामि भिक्षार्थी ब्रह्मघातकः ॥ गोकुलेषु च गोष्ठेषु ग्रामेषु नगरेषु च । तपोवनेषु तीर्थेषु नदीप्रस्रवणेषु च ॥ एतेषु ख्याप
१ द्वादशवार्षिकषड्डार्षिकत्रैवार्षिकादिषु साक्षात्रादिषु ऊ.
For Private And Personal Use Only
Page #426
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३९४
याज्ञवल्क्यस्मृतिः ।
[ प्रायश्चित्ताध्यायः
वेदेनः पुण्यं गत्वा तु सागरम् । ब्रह्मापि प्रमुच्येत स्नात्वा तस्मिन्महोदधौ ॥ ततः पूतो गृहं प्राप्य कृत्वा ब्राह्मणभोजनम् । दत्त्वा वस्त्रं पवित्राणि पूतात्मा प्रविशेद्गृहम् ॥ गवां वापि शतं दद्याच्चातुर्विद्याय दक्षिणाम् । एवं शुद्धिमवामोति चातुर्विद्यानुमोदितः ॥' इति । तदपि पात्रे धनं वा पर्याप्तमित्यनेन समानविषयम् । यच्च सुमन्तुवचनम् - 'ब्रह्महा संवत्सरं कृच्छ्रं चरेदधःशायी त्रि
वणी कर्मावेदको भैक्षाहारो दिव्यनदी पुलिन संगमाश्रमगोष्ठपर्वतप्रस्रवणतपोवनविहारी स्य : स्थानवीरोंसनी संवत्सरे पूर्णे हिरण्यमणिगोधान्यतिलभूमिसपौषि ब्राह्मणेभ्यो ददत्पूतो भवति' इति तदपि हन्तुर्मूर्खस्य धनवतो जातिमात्रव्यापादने द्रष्टव्यम् । यत्पुनर्वसिष्ठवचनम् - द्वादशरात्रमव्भक्षो द्वादशरात्रमुपवसेत्' इति तन्मनसाध्यवसितब्रह्महत्यस्य स्वत एवोपरतजिघांसस्य वेदितव्यम् । यत्पुनः - 'घण्टं तु ब्राह्मणं हत्वा शूद्रहत्यावतं चरेत् । चान्द्रायणं वा कुर्वीत पराकद्वयमेव च ॥' इति षटूत्रिंशन्मतवचनं तदप्रत्यानेयपुंस्त्वस्य स - प्रत्ययवधे द्रष्टव्यम् । अत्रैव विषये अप्रत्ययवधे बृहस्पतिराह - ' अरुणायाः सरस्वत्याः संगमे लोकविश्रुते । शुझे त्रिषवणस्त्रायी त्रिरात्रोपोषितो द्विजः ॥' इति । एवमन्यान्यपि स्मृतिवचनान्यन्विष्य विषमाणां व्यवस्था विज्ञेया । समानां तु विकल्पः । एतानि च द्वादशवार्षिकादिधनदानपर्यन्तानि ब्राह्मणस्यैव । क्षत्रियादेस्तु द्विगुणादिकम् । यथाहाङ्गिराः - 'पर्पद्या ब्राह्मणानां तु सा राज्ञां द्विगुणा मता । वैश्यानां त्रिगुणा प्रोक्ता पर्षद्वच्च व्रतं स्मृतम् ॥' इति । एवं च ब्राह्मणानां येन हन्तृहन्यमानगतगुणविशेषेण यः प्रायश्चित्तविशेषो व्यवस्थितः स एव तद्गुणविशिष्टे क्षत्रियादा हन्तरि द्विगुणस्त्रिगुणो वेदितव्यः । अनयैक दिशा क्षत्रियवैश्यादावपि हीनेनोत्कृष्टवधे दोषगौरवात्प्रायश्चित्तस्यापि द्वैगुण्यादि कल्पनीयम् । दोषगौरवं च दण्डगौरवादवगम्यते । यथोक्तम्- 'प्रतिलोमापवादेषु द्विगुणत्रिगुणो दमः । वर्णानामानुलोम्ये च तस्मादर्धार्धहानित: ॥' इति । यत्तु चतुर्विंशतिमतवचनम् - 'प्रायश्चित्तं यदाम्नातं ब्राह्मणस्य महर्षिभिः । पादोनं क्षत्रियः कुर्यादर्घ वैश्यः समाचरेत् ॥ शूद्रः समाचरेत्पादमशेवेष्वपि पाप्मसु ॥' इति तत्प्रतिलोमानुष्ठितचतुर्विध साहसव्यतिरिक्तविषयम् । तथा मूर्धावसिक्तादीनामप्यनुलोमोत्पन्नानां दण्डवत्प्रायश्चित्तमूहनीयम् । दर्शितं दण्डतारतम्यम् -- ' दण्डप्रणयनं कार्य वर्णजात्युत्तराधरैः' इति । ततश्च मूर्द्धावसिक्तस्य ब्राह्मणवधे ब्राह्मणादतिरिक्तं क्षत्रियान्यूनमध्यर्धं द्वादशवार्षिकं भवति । भनयैव दिशा प्रतिलोमोत्पन्नानामपि प्रायश्चित्तगौरवमूहनीयम् । तथा आश्रमिणामपि अङ्गिरसा विशेषो दर्शितः - 'गृहस्थोक्तानि पापानि कुर्वन्त्याश्रमिणो यदि । शौचवच्छोधनं कुर्युरर्वाग्ब्रह्मनिदर्शनात् ॥' इति शौचवदिति —' एतच्छौचं गृहस्थानां द्विगुणं ब्रह्मचारिणां । त्रिगुणं तु वनस्थानां यतीनां तु चतुगुणम् ॥' इति वचनाद्यथा ब्रह्मचार्यादीनां शौचं द्वैगुण्यादिक्रमेण वर्धते तथा शोधनं
1
१ ब्रह्महा विप्रमुच्येत ङ. २ वीरासनेन संवत्सरे ङ.
For Private And Personal Use Only
Page #427
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्तप्रकरणम् ५] मिताक्षरासहिता ।
प्रायश्चित्तमपि भवतीत्यर्थः ॥ ब्रह्मचारिणस्तु प्रायश्चित्तद्वैगुण्यं षोडशवर्षादूर्ध्वमेव । अर्वाक्तु पुनः 'बालो वाप्यूनषोडशः । प्रायश्चित्तार्श्वमर्हन्ति' इति षोडशवर्षादर्वाचीनस्यार्ध प्रायश्चित्ताभिधानात् । नच द्वादशवार्षिके चतुर्गुणे क्रियमाणे मध्ये विपत्तिशङ्कया समाध्यनुपपत्तेः प्रवृत्तिरेव नोपपद्यत इति शङ्कनीयम् । यतः प्रकान्तप्रायश्चित्तस्य मध्ये विपत्तावपि पापक्षयो भवत्येव । यथाह हारीतः'प्रायश्चित्ते व्यवसिते कर्ता यदि विपद्यते । पूतस्तदहरेवासाविह लोके परत्र च ॥' इति । व्यासोऽप्याह - 'धर्मार्थं यतमानस्तु न चेच्छक्नोति मानवः । प्राप्तो भवति तत्पुण्यमत्र वै नास्ति संशयः ॥' इति ॥ २५० ॥
अधुना निमित्तान्तरेषु ब्रह्महत्याप्रायश्चित्तस्यातिदेशमाह - यागस्थक्षत्रविट्याती चरेद्रह्महणि व्रतम् ।
गर्महा च यथावर्ण तथात्रेयीनिषूदकः ॥ २५९ ॥
३९५
दीक्षणीयाद्युदवसानीयापर्यन्ते सोमयागप्रयोगे वर्तमानौ क्षत्रियवैश्यो यो व्यापादयति असौ ब्रह्महणि पुरुषे यद्ब्रह्महत्याव्रतमुपदिष्टं द्वादशवार्षिकादि तच्चरेत् । यद्यपि यागशब्दः सामान्यवचनस्तथाप्यत्र सोमयागमभिधत्ते || 'सवनगतौ च राजन्यवैश्यौ' इति वसिष्ठेन सवनत्रय संपाद्यस्य सोमयागस्यैव निर्दिष्टत्वात् । अत्रच गुरुलघुभूतानां द्वादशवार्षिकादिब्रह्महत्याव्रतानां जातिशतिगुणाद्यपेक्षया प्रागुक्तवद्व्यवस्था वेदितव्या । एवं गर्भवधादिष्वपि । मरणान्तिकं तु नातिदिश्यते । व्रतग्रहणात् । अतः कामतो यागस्थक्षत्रियादिवधे त्रतस्यैव द्वैगुण्यम् । एतच्च व्रतं संपूर्णमेव कर्तव्यम् । पूर्वयोर्वर्णयोर्वेदाध्यायिनं इत्वेति प्रक्रम्यापस्तम्बेन द्वादशवार्षिकाभिधानात् । गर्भ च विन्नासु संभूतं हत्वा यथावर्ण यद्वर्णपुरुषवधे यत्प्रायश्चित्तमुक्तं तद्वर्णगर्भवधे तच्चरेत् । एतच्चानुपजातस्त्रीपुंनपुंसकव्यञ्जनगर्भविषयम् । ( १११८७ ) - ' हत्वा गर्भमविज्ञातम्' इति मानवे विशेषदर्शनात् । अत्रच यद्यपि ब्राह्मणगर्भस्य ब्राह्मणत्वादेव तद्वधनिमित्ततप्राप्तिस्तथापि स्त्रीत्वस्यापि संभवात्स्त्रीशूद्रविट्क्षत्रवध इत्युपपातकत्वेन तत्प्रायश्चित्तप्राप्तिरपि स्यादतः स्त्रीपुंनपुंसकत्वेना विज्ञातेऽपि ब्राह्मणगर्भत्वमात्रप्रयुक्तं ब्रह्महत्याव्रतं कुर्यादित्यर्थवतिदेशवचनम् । उपजाते स्त्रीपुंसादिविशे
व्यञ्जने यथायथमेव प्रायश्चित्तम् । यश्चात्रेय्या निषूदको व्यापादकः सोपि तथा व्रतं चरेत् । हन्यमानाश्रेयीवर्णानुरूपं व्रतं चरेदित्यर्थः । आत्रेयीशब्देनर्तुमत्युच्यते । - ' रजस्वलामृतुस्नातामात्रेयीमाहुर्यत्र ह्येतदपत्यं भवति' इति वसिष्ठ - स्मरणात् । अत्रिगोत्रजा च । -' - 'अत्रिगोत्रां वा नारीम्' इति विष्णुस्मरणात् । एतदुक्तं भवति । ब्राह्मणगर्भवधे ब्राह्मण्यात्रेयीवधे च ब्रह्महत्याव्रतम् । क्षत्रियगर्भवधे क्षत्रियात्रेयीवधे च क्षत्रहत्याव्रतमेवमन्यत्रापीति । चशब्दात्साक्ष्ये अनृतवचनादिष्वपि । तथाह मनुः ( ११1८८ ) - ' उक्त्वा चैवानृतं साक्ष्ये प्रतिरुध्य गुरुं तथा । अपहृत्य च निःक्षेपं कृत्वा च खीसुहृद्वधम् ॥' इति । यत्र
For Private And Personal Use Only
Page #428
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
याज्ञवल्क्यस्मृतिः। [प्रायश्चित्ताध्यायः
व्यवहारे असत्यवचनेन प्राणिनां वधप्राप्तिस्तद्विषयमेतत् । प्रायश्चित्तस्यातिगुरुत्वात् । प्रतिरोधः क्रोधावेशः । निक्षेपश्च ब्राह्मणसंबन्धी । स्त्री चाहिताग्निभार्या पतिव्रतात्वादिगुणयुक्तोच्यते सवनस्था च । यथाहाङ्गिराः-आहितामेर्द्विजायस्य हत्वा पत्नीमनिन्दिताम् । ब्रह्महत्याव्रतं कुर्यादात्रेयीनस्तथैव च ॥' इति । 'सवनस्थां स्त्रियं हत्वा ब्रह्महत्याव्रतं चरेत् ॥' इति पराशरस्मरणात् ॥ एवंच सवनस्थाग्निहोत्रिण्यात्रेयीवधे ब्रह्महत्याप्रायश्चित्तातिदेशात्तव्यतिरिक्तस्त्रीवधस्य स्त्रीशूद्रविदक्षत्रवध इत्युपपातकमध्यपाठादुपपातकत्वमेव ॥ ननु ब्राह्मणो न हन्तव्य इत्यत्र निषेधेऽनुपादेयगतत्वेन लिङ्गवचनयोरविवक्षितत्वाद्राह्मणजातेश्व स्त्रीपुंसयोरविशेषात्तदतिक्रमनिमित्तप्रायश्चित्तविधेब्रह्महा द्वादशाब्दानीत्यस्योभयत्र प्राप्तत्वास्किमर्थं तथात्रेयीनिषूदक इत्यतिदेशवचनम् । उच्यते । सत्यपि ब्राह्मणत्वेऽनात्रेय्या वधस्य च महापातकप्रायश्चित्तनिराकरणार्थमतस्तस्योपपातकमध्य. पाठादुपपातकप्रायश्चित्तमेव । आतिदेशिकेषु च प्रायश्चित्तस्यैवातिदेशो न पातित्यस्य । अतः पतितत्यागादिकार्यमैत्र न भवति ॥ २५ ॥
चरेद्रतमहत्वापि घातार्थ चेत्समागतः।
द्विगुणं सवनस्थे तु ब्राह्मणे व्रतमादिशेत् ॥ २५२ ॥ किंच । यथावर्णमित्यनुवर्तते ब्राह्मणादिहनने कृतनिश्चयस्तद्व्यापादनार्थं स. म्यगागत्य शस्त्रादिप्रहारे कृते कथंचित्प्रतिघातादिप्रबन्धवशादसौ न मृतस्तदा अहत्वापि यथावर्ण ब्रह्महत्यादि व्रतं चरेत् । तथाच गौतमः-'सृष्टश्चेद्राह्मणवधे अहत्वापि' इति ॥ ननु हनने तदभावे चैकप्रायश्चित्तता न युक्ता । सत्यम् । अतएवौपदेशिकेभ्यो न्यूनत्वादातिदेशिकानां पादोनान्येव ब्रह्महत्यादिव्रतानि द्वादशवार्षिकादीनि भवन्ति । एतच्च प्रपञ्चितं प्राक् । किंच । यस्तु स. वनसंपाद्यं सोमयागमनुतिष्ठन्तं ब्राह्मणं व्यापादयति तस्मिन्द्वादशवार्षिकादिवतं द्विगुणं समादिशेत् । तेषां च व्रतानां गुरुलघुभूतानां जातिशक्तिगुणाद्यपेक्षया सत्यपि सवनस्थत्वस्याविशेषे पूर्ववदेव व्यवस्थावगन्तव्या । ब्रह्महत्यासमानां तु गुर्वधिक्षेपादीनामातिदेशिकेभ्योऽपि न्यूनत्वादोनं द्वादशवार्षिकादिप्रायश्चित्तमित्युक्तम् ॥ २५२ ॥
इति ब्रह्महत्याप्रायश्चित्तप्रकरणम् ॥ अथ क्रमप्राप्तं सुरापानप्रायश्चित्तं प्रक्रमते
सुराम्बुघृतगोमूत्रपयसामग्निसंनिभम् ।
सुरापोऽन्यतमं पीत्वा मरणाच्छुद्धिमृच्छति ॥ २५३॥ सुरादीनां मध्येऽन्यतममग्निसंनिभं क्वाथापादिताग्निस्पर्शदाहशक्तिकं कृत्वा पीत्वा सुरापो मरणाच्छुद्धिं प्राप्नोति । गोमूत्रसाहचर्याद्गव्ये एव घृतपयसी ग्राह्ये । घृतपयःसाहचर्याच्च स्त्रैणमेव गोमूत्रम् । एतच्चावाससा कार्यम् । - १ रविपर्ययात् ङ. २ कार्यमानं ङ.
For Private And Personal Use Only
Page #429
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्तप्रकरणम् ५] मिताक्षरासहिता। सुराप आर्द्रवासाश्च अग्निवर्णी सुरां पिबेत्' इति पैठीनसिस्मरणात् । तथा 'लौहेन पात्रेण सुरापोऽग्निवर्णा सुरामायसेन पात्रेण तात्रेण वा पिबेत्' इति प्रचेतःस्मरणात् । एतच्च सकृत्पानमान्ने । 'सुरापानं सकृत्कृत्वाप्यग्निवर्णी सुरां पिबेत्' इत्यङ्गिरःस्मरणात् । यत्तु वसिष्ठवचनम्-'अभ्यासे तु सुरायाश्च अग्निवर्णी पिबेट्विजः' इति, तत्सुराव्यतिरिक्तमद्यपानविषयम् । एतच्च कामकारविषयम् ।-'सुरापाने कामकृते ज्वलन्तीं तां विनिक्षिपेत् । मुखे तया विनिर्दिग्धो मृतः शुद्धिमवामुयात् ॥' इति बृहस्पतिस्मरणात् ॥ यत्तु (११॥ ९०)-'सुरां पीत्वा द्विजो मोहादग्निवर्णा सुरां पिबेत्' इति मनुना मोहनहणं कृतं तच्छास्त्रार्थापरिज्ञानाभिप्रायेण ॥ अत्रेदं चिन्तनीयम्-किं सुराशब्दो मद्यमान्ने रूढ उत तिसृष्वेव गौडीमाध्वीपैष्टीष्वाहोस्वित्पैष्ट्यामेवेति । तन्त्र केचिन्मद्यमाने रूढ इति वर्णयन्ति ।-'अभ्यासे तु सुरायाः' इति वासिष्ठे पैष्ट्यादित्रयव्यतिरिक्तेऽपि मद्यमाने सुराशब्दप्रयोगदर्शनात् । नचासौ गौणः प्र. योग इति शङ्कनीयम् । मदजननशक्तिमत्त्वोपाधिकतया सर्वत्र मुख्यत्वोपपत्तौ गौणत्वकल्पनाया अन्याय्यत्वादिति । तदयुक्तम् । पानसं द्राक्षं माधूकं खाजूंरं तालमैक्षवम् । मधूत्थं सैरमारिष्टं मैरेयं नालिकेरजम् ॥ समानानि विजानीयान्मद्यान्येकादशैव तु । द्वादशं तु सुरामयं सर्वेषामधमं स्मृतम् ॥' इति पुलस्त्येन मद्यविशेषत्वेन सुराया निर्दिष्टत्वात् । अतश्च मद्यमाने सुराशब्दप्र. योगो गौणः । अन्ये पुनः पैष्ट्यादिषु तिसृषु सुराशब्दस्य रूढिं मन्यन्ते । तथा हि । यद्यप्यनेकन सुराशब्दप्रयोगो दृश्यते तथापि कुत्रानादित्वमिति संदेहे (१११९४)-'गौडी माध्वी च पैष्टी च विज्ञेया त्रिविधा सुरा' इति मनुवचनाद्गुडमधुपिष्टविकारेष्वनादित्वनिर्धारणात्तत्रैव मुख्यत्वं युक्तम् । नचानेकत्र शक्तिकल्पना दोषः । मदशक्तरुपाधित्वाश्रयणेन तस्य सुपरिहरत्वात् । नच ता. लादिरसेष्वप्युपांधेर्विद्यमानत्वादतिप्रसङ्गः । पङ्कजादिशब्दवद्योगरूढत्वाश्रयणात्। अतश्व-'यथवैका तथा सर्वा न पातव्या द्विजोत्तमैः' इति तिसृणां सुराणां समानदोपत्वप्रतिपादनपरं न पुनरनयोौडीमाध्व्योः पैष्टीसुरासमत्वप्रतिपादनपरम् । द्विजोत्तमग्रहणं द्विजात्युपलक्षणम् । एतदप्ययुक्तम् । 'द्वादशं तु सुरामद्यं सर्वेपामधमं स्मृतम्' इति पुलस्त्यवचने गौडीमाध्वीभ्यामपि सुरामयेस्यातिरेकदर्शनात् । तथा (मनुः १०९३)- 'सुरा वै मलमन्नानां पाप्मा च मलमुच्यते' इति । अन्नविकारस्यैव सुरात्वनिर्देशादनशब्दस्य च 'भन्नेन व्यञ्जनम्' इत्यादिषु ब्रीह्यादिविकार एव प्रयोगदर्शनाद्गुडमधुनोश्च रसरूपत्वात्तथा सौत्रामणिग्रहेषु चानविकारे एव सुराशब्दस्य श्रुतत्वात् पैष्टयेव सुरा मुख्योच्यते । इतरयोस्तु सुराशब्दो गौणः । यत्तूक्तम्-'गौडी माध्वी' इति मनुवचनात्तिसृष्वप्यौत्पत्तिकत्व निर्धारणेति, तदप्ययुक्तम् । यतो नेदं शब्दानुशासनवच्छब्दार्थसंबन्धानादित्वप्रतिपादनपरं किंतु कार्यप्रतिपादनपरम् । अतो गुरुपाय
१ पाधिकत्वेन ग. २ नेकशक्ति ङ. ३ मद्यस्य व्यतिरेक ङ,
For Private And Personal Use Only
Page #430
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
३.९८
Acharya Shri Kailassagarsuri Gyanmandir
याज्ञवल्क्यस्मृतिः । [ प्रायश्चित्ताध्यायः चित्तनिमित्ततया गौडीमाध्ध्योगणः सुराशब्दप्रयोगः । एवंच नानेकशक्तिक-ल्पनादोषो नाप्युपाध्याश्रयणं कृतम् । नचात्र द्विजोत्तमग्रहणस्योपलक्षणत्वम् । अतश्च (मनुः ११।९३ ) - ' सुरा वै मलमन्नानां पाप्मा च मलमुच्यते । तस्माद्राह्मणराजन्यैौ वैश्यश्व न सुरां पिबेत् ॥' इति पैष्ट्या एव वर्णत्रयसंबन्धित्वेन निषेधः । गौड्यादीनां तु मद्यानां ब्राह्मणसंबन्धित्वेनैव निषेधो न क्षत्रियवैश्ययोः । ( ११।९५ ) - ' यक्षरक्षः पिशाचान्नं मद्यं मांसं सुरासवम् । तद्ब्राह्मन नात्तव्यं देवानामश्नता हविः ॥' इति मानवे ब्राह्मणेनेति विशेषोपादानात् । बृहद्विष्णुनापि ब्राह्मणस्यैव मद्यप्रतिषेधो दर्शितः -- ' माधूकमैक्षवं सैरं तालं खार्जूरपानसम् । मधूत्थं चैव माध्वीकं मैरेयं नालिकेरजम् ॥ अमेध्यानि दशैतानि मद्यानि ब्राह्मणस्य तु ॥' इति ॥ बृहद्याज्ञवल्क्येनापि क्षत्रियवैश्ययोदोषाभावो दर्शितः - 'कामादपि हि राजन्यो वैश्यो वापि कथंचन । मद्यमेव सुरां पीत्वा न दोषं प्रतिपद्यते ॥' इति । व्यासेनापि तयोर्माध्वीपानमनुज्ञातम् - 'उभौ मध्वासवक्षीबावुभौ चन्दनचर्चितौ । एकपर्यङ्करथिनौ दृष्टी मे केशर्वाजुनौ ॥' इति । एवं ब्राह्मणसंबन्धित्वेन मद्यमात्र निषेधे सत्यपि ( मनुः १११९४ ) - 'गौडी माध्वी च पैष्टी च विज्ञेया त्रिविधा सुरा । यथैवैका तथा सर्वा न पातव्या द्विजोत्तमैः ॥' इति गौडीमाध्ध्योः पृथङ्गिषेधवचनं दोषगुरुत्वेन सुरासमत्वप्रतिपादनपरम् । अयंच सुरा निषेधोऽनुपनीतस्यानूढायाश्च कन्याया भवत्येव । (मनुः ११।९३ ) -- ' तस्माद्राह्मणराजन्यौ वैश्यश्च न सुरां पिवेत्' इति जातिमात्रावच्छेदेन निषेधात् । अतश्च ( १११९० ) - 'सुरां पीत्वा द्विजो मोहात्' इति प्रायश्चित्तविधिवाक्ये मनुना यत् द्विजग्रहणं कृतं तद्वर्णत्रयोपलक्षणार्थम् । निमित्तभूत निषेधसापेक्षत्वान्नैमित्तिक विधेर्निषेधे च वर्णमात्रस्यावच्छेदकत्वात् । यथा 'यस्य हविर्निरुतं पुरस्ताच्चन्द्रमा अभ्युदेति' इति निमित्तवाक्ये हविर्मात्राभ्युदयस्य निमित्तश्वावगतौ तत्सापेक्ष नैमित्तिकवाक्ये श्रूयमाणमपि त्रेधातन्दुलान्विभजेदिति तन्दुलग्रहणं तन्दुलादिरूपहविर्मान्रोपलक्षणम् । इयांस्तु विशेष :- ' पादो बालेषु दातव्यः सर्वपापेष्वयं विधिः' इति वचनात्कामकारेऽपि न मरणान्तिकं किंतु पादमेव द्विगुणीकृत्य पड्डार्षिकं देयम् । - ' विहितं यदकामानां कामात्तद्विगुणं चरेत्' इत्यङ्गिरः स्मरणात् । एवं वृद्धातुरादिष्वपि योज्यम् । तथा ( ११९५ ) - ' तद्ब्राह्मणेन नात्तव्यं देवानामश्नता हविः' इति मद्यस्यापि जातिमात्रावच्छेदेन निषिद्धत्वादनुपनीतेनापि न पेयम् ॥ ननु कथमनुपनीतस्य दोषः । - ' प्रागुपनयनात्कामचारकामवादकामभक्षाः' इति गौतमवचनात् । तथा — 'मद्यमूत्रपुरीषाणां भक्षणे नास्ति कश्चन । दोषस्त्वा पञ्चमाद्वर्षादूर्ध्व पित्रोः सुहृद्गुरोः ॥' इति कुमारवचनाच्च दोषाभावावगतेः । उच्यते - सुरामद्ययोनिषेधवाक्ये जातिमानत्वावच्छेदकत्व श्रवणादप्रतिहतैव निषेधप्रवृत्तिः । अतएव स्मृत्यन्तरे निषेधवचनम् -'सुरापान निषेधस्तु जात्या
१ निन्दितत्वावगतौ ङ.
For Private And Personal Use Only
Page #431
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्तप्रकरणम् ५ ] मिताक्षरासहिता ।
३९९ श्रय इति स्थितिः' इति । अतः ‘पादो बालेषु दातव्यः सर्वपापेष्वयं विधिः' इति । 'सर्वपापेषु सुरापानादिष्वपि' इति वचनात्पाद एव सुरापाने प्रायश्चित्तम् । तथा जातूकण्येन मद्यपानेऽपि प्रायश्चित्तमुक्तम्-'अनुपेतस्तु यो बालो मद्यं मोहात्पिबेद्यदि । तस्य कृच्छ्रत्रयं कुर्यान्माता भ्राता तथा पिता ॥' इति । अतो गौतमवचनं सुरादिव्यतिरिक्तशुक्तपर्युषितादिविषयम् । कुमारवचनं तु स्वल्पदोषख्यापनपरम् । अतएव प्रागुपनयनात्कृतदोषस्योपनयनमेव प्रायश्चित्तमित्युक्तं मनुना (२।२७)-'गाभैॉमर्जातकर्मचूडामौञ्जीनिबन्धनैः । बैजिकं गाभिकं चैनो द्विजानामपमृज्यते ॥' इति । अयमत्रार्थः । त्रैवर्णिकानामुत्पत्तिप्रभृति पैष्टीप्रतिषेधः । ब्राह्मणस्य तु मद्यमात्रनिषेधोऽप्युत्पत्तिप्रभृत्येव । राजन्यवैश्ययोस्तु न कदाचिदपि गौड्यादिमद्यप्रतिषेधः । शूद्रस्य न सुराप्रतिषेधो नापि मद्यप्रतिषेधः ॥ २५३ ॥ प्रायश्चित्तान्तरमाह
वालवासा जटी वापि ब्रह्महत्याव्रतं चरेत ।
पिण्याकं वा कणान्वापि भक्षयेत्रिसमा निशि ॥ २५४ ॥ गोछागादिलोमनिर्मितवस्त्रप्रावृतो वालवासाः । वालवालोग्रहणं चीरवल्कलयोरुपलक्षणार्थम् । 'सुरापगुरुतल्पगौ चीरवल्कलवाससौ ब्रह्महत्याव्रतं चरेयाताम्' इति प्रचेतःस्मरणात् । जटिग्रहणं मुण्डित्वनिराकरणार्थम् । ब्रह्महत्याव्रतं चरेदित्यनेनैव सिद्धे यद्वालवसनादिग्रहणं तदन्यत्र संभवि स्वयं मारितशिरःकपालादिनिवृत्यर्थम् । इदमकामतो जलबुङ्या यः सुरां पिबति तद्विषयम् । (मनुः १११८९)-'इयं विशुद्धिरुदिता प्रमाप्याऽकामतो द्विजम्' इत्यकामित्वोपाधित्वेन विहितस्यैव द्वादशवार्षिकस्यातिदेशात् । अत्र च सुरापानस्य महापातकत्वात्सत्यप्यातिदेशिकत्वे संपूर्णमेव द्वादशवार्षिकं कुर्यान्न पादोनम् । अतएव वृद्धहारीतः-'द्वादशभिर्वमहापातकिनः पूयन्ते' इति । अथवा पिण्याकं पिण्डी तं त्रिसमाः वर्षत्रयपर्यन्तं रात्रौ भक्षयेत् । कणास्तन्दुललवास्तान्वा पूर्ववद्भक्षयेत् । एतच्च सकृदेव कार्यम् । (११।९२)-'कणान्या भक्षयेदब्दं पिण्याकं वा सकृन्निशि' इति मनुस्मरणात् । अस्य च पिण्याकादि. भक्षणस्य भोजनकार्ये विहितत्वादशनान्तरपरित्यागः। एतच्चोदकबुद्ध्या सुरापाने छर्दनोत्तरकाले वेदितव्यम् । –'एतदेव व्रतं कुर्यान्मयपश्छर्दने कृते । पञ्चगव्यं च तस्योक्तं प्रत्यहं कायशोधनम् ॥' इति व्यासवचनात् । नच सुरासंसृष्टेषदु. पलभ्यमानतद्गन्धरसोदकपानविषयमिदमिति सुन्दरम् । संसर्गेऽपि सुरात्वस्यानपायात् । यथाज्यत्वस्य पृषदाज्ये । अतएव 'आज्यपा इति निगमाः कार्याः न पृषदाज्यपाः' इत्येवमुक्तं न्यायविद्भिः । यत्पुनरापस्तम्बवचनम्-'स्तेयं कृत्वा सुरां पीत्वा गुरुदारान्गत्वा ब्रह्महत्यां च कृत्वा चतुर्थं कालं मितभोजनो योऽभ्यु
१ संभवे श्रयमाणस्वसंबन्धि स्वयं ख. २ पिण्याकपिण्डान् ङ. ३ तंदुलाणवास्तान्वा ङ.
For Private And Personal Use Only
Page #432
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
४००
Acharya Shri Kailassagarsuri Gyanmandir
याज्ञवल्क्यस्मृतिः ।
[ प्रायश्चित्ताध्यायः
1
पेयात्सवनानुकल्पं स्थानासनाभ्यां विहरंस्त्रिभिर्वर्षैः पापं व्यपनुदति' इति । यत्त्वङ्गिरोवचनम् - 'महापातकसंयुक्ता वर्षैः शुध्यन्ति ते त्रिभिः' इति, तदुभयमपि पिण्याकं वा कणान्वेत्यनेनैकविषयम् । यदपि यमेन प्रायश्चित्तद्वयमुक्तम्— 'बृहस्पतिसवेनेष्ट्रा सुरापो ब्राह्मणः पुनः । समत्वं ब्राह्मणैर्गच्छेदित्ये पा वैदकी श्रुतिः ॥ भूमिप्रदानं यः कुर्यात्सुरां पीत्वा द्विजोत्तमः । पुनर्न च पिबेतां तु संस्कृतः स विशुध्यति ॥' इति, तदुभयमपि पूर्वेण सहेक विषयम् ॥ यद्वा अतिरिक्त दक्षिणाकल्पाश्रयणाद्वादशवार्षिकेण सह विकल्प्यते । अत्रापि बालवृद्धादीनां साधैकवर्षीयमनुपनीतानां तु नवमासिकमित्येवं कल्पना कार्या । यत्तु मनुवचनम् ( १११९२ ) - ' कणान्वा भक्षयेदब्दं पिण्याकं वा सकृन्निशि । सुरापानापनुत्त्यर्थं वालवासा जटी ध्वजी ॥' इति तत्तालुमात्र संयोगे सुराया अबुद्धिपूर्वे द्रष्टव्यम् ॥ ननुच द्रवद्रव्यस्याभ्यवहरणं पानमित्युच्यते । अभ्यवहरणं च कण्ठादधोनयनं न ताल्वादिसंयोगमात्रं, अतः कथं तत्र पाननिमित्तं प्रायश्चित्तम् । उच्यते । येन ताल्वादिसंयोगेन विना पानक्रिया न निर्वर्तते सोऽपि पानक्रियाप्रतिषेधेन प्रतिषिद्धः । अतो यद्यपि मुख्यपानाभावान्न महापातकत्वं तथापि तत्प्रतिषेधेन तदङ्गभूताव्यभिचारिताल्वादिसंयोगस्यापि प्रतिविद्धत्वेन दोषस्य विद्यमानत्वाद्भवत्येव प्रायश्चित्तम् । 'चरेद्रतमहत्वापि घा तार्थ चेत्समागतः ' इति । यथा हननप्रतिषेधेन तदङ्गभूताध्यवसयादेरपि प्रतिषिद्धत्वात्प्रायश्चित्तविधानम् । यत्तु बौधायनीयम् - " त्रैमासिकममत्या सुरापाने कृच्छ्राब्दपादं चरित्वा पुनरुपनयनम्' इति । यश्च याम्यम् - 'सुरां पीत्वा द्विजं हत्वा रुक्मं हत्वा द्विजन्मनः । संयोगं पतितैर्गत्वा द्विजश्वान्द्रायणं चरेत् ॥' इति । यदपि बार्हस्पत्यम्- 'गौडी माध्वीं सुरां पैष्टीं पीत्वा विप्रः समाचरेत् । तप्तकृच्छ्रं पराकं च चान्द्रायणमनुक्रमात् ॥' इति, तत्रितयमप्यनन्यौषधसाध्यव्याध्युपशमार्थे पाने वेदितव्यम् । प्रायश्चित्तस्याल्पत्वात् । यदा तु सुरासंसृष्टं शुष्करसमेवान्नं भक्षयति तदा पुनरुपनयनम् । यथाह मनुः (१ १५० ) - 'अज्ञानात्प्राश्य विण्मूत्रं सुरासंसृष्टमेव च । पुनः संस्कारमर्हन्ति त्रयो वर्णा द्विजातयः ॥ ' इति ॥ यदाच शुष्कसुराभाण्डस्थोदकं पिबति तदा शातातपोक्तं कुर्यात् - 'सुराभाण्डोदकपाने छर्दनं घृतप्राशनमहोरात्रोपवासश्च' इति ॥ यत्तु बौधायनीयम् - 'सुरापानस्य यो भाण्डेष्वपः पर्युषिताः पिबेत् । शङ्खपुपीविपक्कं तु क्षीरं सर्पिः पिबेsयहम् ॥' इति तत्पर्युषितत्वादधिकम् । अकामतोऽभ्यासे पुनर्मनुनोक्तम् ( ११1१४७ ) - ' अपः सुराभाजनस्था मद्यभाण्डस्थितास्तथा । पञ्चरात्रं पिबेत्पीत्वा शङ्खपुष्पीतं पयः ॥' इति ॥ यत्तु विष्णूक्तम्- 'अपः सुराभाजनस्थाः पीत्वा सप्तरात्रं शङ्खपुष्पीशृतं पयः पिबेत्' इति तन्मतिपूर्वक पाने । ज्ञानतोऽभ्यासे तु बृहद्यम आह - सुराभाण्डस्थितं तोयं यदि कश्चित्पिबेद्विजः । स द्वादशाहं क्षीरेण पिबेद्राह्मीं सुवर्चलाम् ॥' इति ॥ सुरापस्य मुखगन्धाघ्राणे तु मानवम् ( ११।१४९ ) - ' ब्राह्मणस्तु सुरापस्य गन्धमाघ्राय सोमपः । प्राणानप्सु त्रिरायम्य घृतं प्राश्य विशुद्ध्यति ॥' इति,
:
For Private And Personal Use Only
Page #433
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्तप्रकरणम् ५] मिताक्षरासहिता।
तत्सोमयाजिन एवामतिपूर्वे । मतिपूर्वे तु द्विगुणम् । अपीतसोमस्य तु कल्प्यम् । साक्षात्सुरागन्धाघ्राणस्य तु 'घ्रातिर यमद्ययोः' इति जातिभ्रंशकरत्वात् (११॥ १२४)-'जातिभ्रंशकरं कर्म कृत्वान्यतममिच्छया । चरेत्सान्तपनं कृच्छ्रे प्राजापत्यमनिच्छया ॥' इति मनूक्तं द्रष्टव्यम् ॥ २५४ ॥ एवं मुख्यसुरापाने प्रायश्चित्तमुक्त्वा मद्यपाने प्रायश्चित्तमाह
अज्ञानात्तु सुरां पीत्वा रेतोविण्मूत्रमेव च ।
पुनःसंस्कारमर्हन्ति त्रयो वर्णा द्विजातयः ॥ २५५ ॥ यः पुनरज्ञानादुदकबुद्ध्या सुरां मद्य ब्राह्मणः पिबति ये च ब्राह्मणादयो रेतो विण्मूत्राणि प्राश्नन्ति ते त्रयोऽपि द्विजातयो वर्णास्तप्तकृच्छ्रपूर्वकं पुनरुपनयनं प्रायश्चित्तमर्हन्ति । अत्र मद्यपाने योऽयं पुनःसंस्कारः स ब्राह्मणस्यैव । क्षत्रियविशोस्तदभ्यनुज्ञानस्य दर्शितस्वात् । सुराशब्दश्चात्र मद्यपरः । प्रायश्चित्तस्यातिलघुत्वात् । अज्ञानतो मुख्यसुरापाने द्वादशवार्षिकस्य विहितत्वाच्च । अतएव गौतमेनात्र मद्यशब्दः प्रयुक्तः । अमत्या मद्यपाने पयो घृतमुदकं वा व्यहं ततानि पिबेत्स तप्तकृच्छ्रस्ततोऽस्य संस्कारो मूत्रपरीषकुणपरेतसां प्राशने चेति । यदप्यस्मिन्नेव विषये मनुनोक्तम् (११११४६)-'अज्ञानाद्वारुणी पीत्वा संस्कारेण विशुद्ध्यति' इति, तदपि तप्तकृच्छ्रपूर्वकमेव गौतमवाक्यानुरोधात् । पुनःसंस्कारश्च पुनरुपनयनम् । तच्चाश्वलायनायुक्तकमेण कर्तव्यम् । यथोतम्-'अथोपेतपूर्वस्य कृताकृतं केशवपनं मेधाजननं चानिरुक्तं परिदानं कालश्च तत्सवितुर्वृणीमह इति सावित्रीम्' इति । मतिपूर्वमद्यपाने वसिष्ठोक्तं द्रष्टव्यम्-'मत्या मद्यपाने त्वसुरायाः सुरायाश्वाज्ञानो कृच्छ्रातिकृच्छ्रौ घृतप्राशनं पुनःसंस्कारश्च' इति । चान्द्रायणं वा शलोक्तम्-'असुरामद्यपायी थान्द्रायणं चरेत्' इति । मुखमात्रप्रवेशे तु मद्यस्यापस्तम्बीयं षडात्रम्-'अभक्ष्याणामपेयानामलेह्यानां च भक्षणे । रेतोमूत्रपुरीषाणां प्रायश्चित्तं कथं भवेत् । पद्मोदुम्बरबिल्वानां पलाशस्य कुशस्य च । एतेषामुदकं पीत्वा षड्रात्रेण विशुद्ध्यति ॥' इति । एतच्च तालादिमद्यविषयम् । गौडीमाव्योः पुनरज्ञानतः पाने 'असुरायाः सुरायाश्चाज्ञानतः' इति वसिष्ठोक्तः कृच्छ्रातिकृच्छ्रसहितः पुनःसंस्कारो घृतप्राशश्च द्रष्टव्यः । तयोर्मतिपूर्वपाने तु 'पिण्याकं वा कणान्वा' इति त्रैवार्षिकम् । कामतस्तु तत्पानाभ्यासे 'अभ्यासे तु सुराया अग्निवर्णी सुरां पिबेन्मरणात्पूतो भवति' इति वासिष्ठं मरणान्तिकं द्रष्टव्यम् । नात्र सुराशब्दः पैष्ट्यभिप्रायः । तस्याः सकृत्पानेऽपि मरणान्तिकस्य दर्शितत्वात् ॥ मद्यवासितशुष्कभाण्डस्थोदकस्याज्ञानतः पाने बृहद्यमोक्तम्-'मद्यभाण्डस्थितं तोयं यदि कश्चित्पिबेट्विजः । कुशमूलविपक्केन त्र्यहं क्षीरेण वर्तयेत् ॥' इति ॥ अज्ञानतोऽभ्यासे तु वसिष्ठेनोक्तम्-'मद्यभाण्डस्थितं तोयं यदि कश्चित्पिवेद्विजः । पद्मोदुम्बरबिल्वानां पलाशस्य कुशस्य च ॥ एतेषामुदकं पीया त्रिरात्रेण विशुध्यति ॥' इति । ज्ञानतः पाने तु विष्णूक्तम्-'मद्यभाण्डस्थितं तोयं पी
For Private And Personal Use Only
Page #434
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४०२
याज्ञवल्क्यस्मृतिः ।
[ प्रायश्चित्ताध्यायः
त्वा पञ्चरात्रं शङ्खपुष्पीशृतं पयः पिवेत्' इति ॥ ज्ञानतोऽभ्यासे तु शङ्खनो - क्तम्— 'मद्यभाण्डस्थितं तोयं पीत्वा सप्तरात्रं गोमूत्रयावकं पिबेत्' इति ॥ अत्यन्ताभ्यासे तु हारीतोक्तम्- 'मद्यभाण्डस्थितं तोयं यदि कश्चित्पिबेद्विजः । द्वादशाहं तु पयसा पिबेद्राह्मीं सुवर्चलाम् ॥' इति । एषु च वाक्येषु द्विजग्रहणं ब्राह्मणाभिप्रायम् । क्षत्रियवैश्ययोरप्रतिषेधादिति दर्शितं प्राकू ॥ इदं च गौडीमाध्वीभाण्डस्थजलपानविषयं गुरुत्वात्प्रायश्चित्तस्य । तालादिमद्यभाण्डोदकपाने तु कहण्यम् ॥ २५५ ॥ द्विजातिभार्या प्रत्याह
पतिलोकं न सा याति ब्राह्मणी या सुरां पिवेत् । sa सा शुनी गृधी सूकरी चोपजायते ।। २५६ ॥
या द्विजातिभार्या सुरां पिबति सा कृतपुण्यापि सती पतिलोकं न याति किंत्विहैव लोके श्रगृध्रसूकरलक्षितां तिर्यग्योनिं क्रमेण प्राप्नोति ॥ ब्राह्मणीग्रहणं चात्र 'तिस्रो वर्णानुपूर्व्येण' इति न्यायेन यस्य द्विजातेर्यावत्यो भार्यास्तासामुपलक्षणम् । अतएव मनुः - ' पतत्यर्धे शरीरस्य यस्य भार्या सुरां पिबेत् । पतितार्धशरीरस्य निष्कृतिर्न विधीयते ॥' इति । धर्मार्थकामेषु सहाधिकाराद्दम्पत्योरेकशरीरत्वमेव, अतो यस्य द्विजातेर्भार्या सुरां पिबति तस्य भार्यारूपमर्ध शरीरं पतति । पतितस्य च भार्यारूपस्यार्धशरीरस्य निष्कृतिर्न विधीयते । तस्माद्विजातिभार्यया ब्राह्मण्याद्यया न सुरा पेया । ' तस्माद्राह्मणराजन्यौ वैश्यश्च न सुरां पिवेत्' इति निषेधविधौ लिङ्गस्याविवक्षितत्वेन वर्णत्रयभार्याणामपि प्रतिषेधे सिद्धे पुनर्वचनं द्विजातिभार्यायाः शूद्राया अपि सुराप्रतिषेधप्रात्यर्थम् । अतो द्विजातिभार्याभिः सुरापाने प्रायश्चित्तस्यार्धं कार्यम् । शूद्रभार्यायास्तु शूद्रायाः शूद्रवदेव न प्रतिषेधः । सुरापानसमेषु तु निषिद्धभक्षणादिषु सुरापानप्रायश्चित्तार्धमित्युक्तं प्राक् ॥ २५६॥ इति सुरापानप्रायश्चित्तप्रकरणम् ।
क्रमप्राप्तं सुवर्णस्तेयप्रायश्रित्तमाह
ब्राह्मणस्वर्णहारी तु राज्ञे मुसलमर्पयेत् ।
स्वकर्म ख्यापयंस्तेन हतो मुक्तोऽपि वा शुचिः ॥ २५७ ॥ ब्राह्मणस्वामिकं सुवर्णं योऽपहरत्यसौ सुवर्णस्तेयं मया कृतमित्येवं स्वकर्म ख्यापयन् राज्ञे मुसलं समर्पयेत् । मुसलसमर्पणस्य दृष्टार्थत्वात्तेन मुसलेन राजा तं हन्यात् । तेन राज्ञा हतो मुक्तो वा शुद्धो भवति । अपहरणशब्देन च समक्षं परोक्षं वा बलाचौर्येण वा क्रयादिस्वत्वहेतुं विना ग्रहणमुच्यते । मुसलं समर्पयेदिति यद्यपि समान्येनोक्तं तथापि तस्य हननार्थत्वात् तत्समर्थस्यायो मयादेर्यहणम् । अतएव मनुनोक्तम् ( ८/३१५ ) – स्कन्धेनादाय मुसलं लकुटं वापि खादिरम् । असि चोभयतस्तीक्ष्णमायसं दण्डमेव वा ॥' इति ॥ शङ्खेना
१ शक्ति चोभयतस्तीक्ष्णामिति पाठः.
For Private And Personal Use Only
Page #435
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्तप्रकरणम् ५] मिताक्षरासहिता।
प्यत्र विशेष उक्तः–'सुवर्णस्तेनः प्रकीर्णकेश आर्द्रवासा आयसं मुसलमादाय राजानमुपतिष्टेदिदं मया पापं कृतमनेन मुसलेन मां घातयस्वेति स राज्ञा शिष्टः सन्पूतो भवति' इति । हननं चावृत्तिविधानाभावात्सकृदेव कार्यम् । अतएव मनुनोक्तम् (११।१००)-'ततो मुसलमादाय सकृद्धन्यात्तु तं स्वयम्' इति । एवं सकृत्ताडनेन राज्ञा हतो मृतः शुद्ध्येत्, मुक्तो वा मरणाजीवग्नपि विशुधे. दिति यावत् ॥ तथाच संवर्तेनोक्तम्-'ततो मुसलमादाय सकृद्धन्यात्तु तं स्वयम् । यदि जीवति स स्तेनस्ततः स्तेयाद्विशुध्यति ॥' इति ॥ यथोक्तं ब्राह्मणवधे-'मृतकल्पः प्रहारा” जीवन्नपि विशुध्यति' इति ॥ नन्वताडित एव राज्ञा मुक्तः स्तेनः शुध्येदित्ययमर्थः कस्मान्नेष्यते। उच्यते। अनघ्नन्नेनस्वी राजेति गौतमीये ताडनमकुर्वतो राज्ञो दोषाभिधानात् । भवतु राज्ञो दोषस्तथाप्यतिक्रान्तनिषेधेन राज्ञा स्नेहादिनामुक्तः स्तनः कथं न शुध्येदिति चेत् । उच्यते। एवंच सति अकारणिका शुद्विरापतेत् । अथोच्यते । मोक्षोत्तरकालं द्वादशवार्षिकाद्यनुष्टानेन शुद्ध्यङ्गीकरणानाकारणिकेति । तदप्यसुन्दरम् । मुक्तः शुचिः रिति मोक्षस्यैव शुद्धि हेतुत्वाभिधानात् । अतः प्राच्येव व्याख्या ज्यायसी । मुक्तो वा मरणाजीवन्नपि विशुध्येदिति यावत् । इदं च मरणान्तिकं सार्ववर्णिकस्यापहर्तुर्न तु ब्राह्मणस्यैव । ब्राह्मणस्वर्णहारीति नैमित्तिकवाक्ये विशेषानुपादानात् क्षत्रियादीनां च महापातकित्वाविशेषात्प्रायश्चित्तान्तरस्यानाम्नानाच्च । यत्पुन. निवे ( १९९९)- 'सुवर्णस्तेयकृद्विप्रः' इति विप्रग्रहणं तन्नरमानोपलक्षणम्। 'प्रायश्चित्तीयते नर' इति तस्यैव प्रकृतत्वात् । (मनुः ११५४)-'ब्रह्महत्या सुरापानं स्तेयं गुर्वङ्गनागमः' इति निमित्तवाक्ये विशेषानुपादानाच्च । तत्सापेक्षनैमित्तिकवाक्ये 'सुवर्णस्तेयकृद्विप्रः' इत्यत्र श्रूयमाणमप्युपलक्षणमेव युक्तम् । यथाभ्युदितेष्ट्यां यस्य हविरिति वाक्ये तन्दुलग्रहणं हविर्मात्रस्य ॥ इदंच राज्ञा हननं ब्राह्मणव्यतिरिक्तस्य । (११३८०)-'न जातु ब्राह्मणं हन्यात्सर्वपापेध्वपि स्थितम्' इति मानवे ब्राह्मणवधस्य निषिद्धत्वात् । यदि कथंचिदतिक्रान्तनिषेधे राज्ञा हन्यते तथापि शुद्धो भवति । ( मनुः ११११००)-'वधेन शुध्यति स्तेनो ब्राह्मणस्तपसैव वा' इति ब्राह्मणस्यापि वधेन शुध्धभिधानात् । नच तपसैव वेत्येवकारेण वधनिषेधः। तस्य केवलतपसापि शुज्यभिधानपरत्वात् । यदि वधो निषिद्धस्तहि तपसैव वेति विकल्पाभिधानमनुपपनम् । नच दण्डाभिप्रायं विकल्पाभिधानम् । तस्या निर्दिष्टत्वात् । किंच 'एकार्थास्तु विकल्पेरन्' इति न्यायेनैकार्थानामेव विकल्पो ब्रीहियवयोरिव । नच दण्डतपसोरेकार्थत्वम् । दण्डस्य दमनार्थत्वात्तपसश्च पापक्षयहेतुत्वात् । नच वधेन शुध्यति स्तेन इति सामान्याविषयेण वधेन ब्राह्मणस्तपसैव वेति विशिष्टविषयस्य तपसो विकल्पोपपत्तिः। नहि भवति ब्राह्मणेभ्यो दधि दीयतां तकं कौण्डिन्याये वेति विकल्पस्तस्माद्वयोरपि सामान्यविषयत्वमेव । यद्वा क्षत्रियस्यापि न निषेधः । मनुना 'सुवर्णस्तेयकृद्विप्र' इत्यभिधाय (११११००)-'गृहीत्वा मुसलं
१ मनुस्मृतौ तु-गृहीत्वा मुसलं राजा सकृद्धन्यात्तु तं स्वयम् । वधेन शुध्यति स्तेनो ब्राह्मणस्तपसैव तु ॥ इति पाठान्तरम् .
या०३७
For Private And Personal Use Only
Page #436
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४०४
याज्ञवल्क्यस्मृतिः।
[प्रायश्चित्ताध्यायः
राजा सकृद्वन्यात्तु त स्वयम् ॥' इति सर्वनाम्ना प्रकृतब्राह्मणपरामर्श व हननवि. धानात् । न जातु ब्राह्मणं हन्यादित्यस्य प्रायश्चित्तव्यतिरिक्तदण्डरूपहननविषयत्वेनाप्युपपत्तेः । एतच्च मरणान्तिकं मतिपूर्वसुवर्णस्तेयविषयम् । 'मरणान्तिकं हि यत्प्रोक्तं प्रायश्चित्तं मनीषिभिः । तत्तु कामकृते पापे विज्ञेयं नात्र संशयः ॥' इति मध्यमाङ्गिरःस्मरणात् । अत्रच सुवर्णशब्दः परिमाणविशिष्टहेमद्रव्यवचनो न जातिमात्रवचनः ॥ 'जालसूर्यमरीचिस्थं त्रसरेणू रजः स्मृतम् । तेऽष्टौ लिक्षा तु तास्तिस्रो राजसर्षप उच्यते ॥ गौरस्तु ते त्रयः षनियंवो माषस्तु ते त्रयः। कृष्णलः पञ्च ते मापस्ते सुवर्णस्तु षोडश ॥' इति षोडशमाषपरिमिते हेमनि सुवर्णशब्दस्य परिभाषितत्वात् । अतो ब्राह्मणसुवर्णापहरणं माहापातकमित्यादिप्रयोगेषु कृतपरिमाणस्यैव सुवर्णस्य ग्रहणं युक्तम् । परिमाणकरणस्य दृष्टार्थत्वात् । नादृष्टार्थपरिमाणमरणम् । नापि लोकव्यवहारार्थम् । अतत्परत्वात्स्मृ. तिकारप्रवृत्तेः । अतएवोक्तं न्यायविद्भिः 'कार्यकाले संज्ञापरिभाषयोरुपस्थानम्' इति । तथा नामापि गुणफलोपबन्धेनार्थवदित्युक्तं पञ्चदशान्याज्यानीत्यत्र । नच दण्डमात्रोपयोगिपरिमाणस्मरणमित्युक्तमिति युक्तम् । तावन्मात्रार्थत्वे प्रमाणाभावात् । अतोऽविशेषात्सर्वशेषत्वमेव युक्तम् । किंच । दण्डस्य दमनार्थत्वाद्दमनस्य च परिमाणविशेषमन्तरेणापि सिद्धे तीव परिमाणस्मरणमुपयुज्यते । शब्दैकसमधिगम्ये तु महापातकित्वादावेकान्ततः स्मरणमुपयु. ज्यते । अतः षोडशमाषात्मकसुवर्णपरिमित हेमहरण एव महातकित्वं तन्निमित्तं मरणान्तिकादिप्रायश्चित्तविधानं च। द्विवादिमाषात्मकहेमहरणं तु क्षत्रियादिहेमहरणवदुपपातकमेवेति युक्तम् । किंच । सुवर्णान्यूनपरिमाणहेमहरणे प्रायश्चित्तान्तरोपदेशात्तत्परिमणस्यैव हेनो हरणे मरणान्तिकादिप्रायश्चित्तमिति युक्तम् । तथाचोक्तं षट्त्रिंशन्मते-'वालाग्रमानेऽपहृते प्राणायाम समाचरेत् । लिक्षामात्रेऽपि च तथा प्राणायामत्रयं बुधः ॥ राजसर्षपमात्रे तु प्राणायामचतुष्टयम् । गायत्र्यष्टसहस्रं च जपेत्पापविशुद्धये ॥ गौरसर्षपमात्रे तु सावित्रीं वै दिनं जपेत् । यवमात्रे सुवर्णस्य प्रायचित्तं दिनद्वयम् ॥ सुवर्णकृष्णलं ह्येकमपहृत्य द्विजोत्तमः । कुर्यात्सान्तपनं कुर्यात्तत्पापस्यापनुत्तये ॥ अपहृत्य सुवर्णस्य माषमात्रं द्विजोत्तमः । गोमूत्रयावकाहारस्त्रिभिर्मासर्विशुध्यति ॥ सुवर्णस्यापहरणे वत्सरं यावकी भवेत्। ऊर्ध्व प्राणान्तिकं ज्ञेयमथवा ब्रह्महव्रतम्॥' इदं च वत्सरं यावकाशनं किंचिन्यूनसुवर्णापहारविषयम् । सुवर्णापहारे मन्वा. दिमहास्मृतिषु द्वादशवार्षिकविधानात् । 'बलाये कामकारेण गृह्णन्ति स्वं नराधमाः। तेषां तु बलहर्तृणां प्राणान्तिकमिहोच्यते ॥ सुवर्णपरिमाणादागपीत्यभिप्रेतम् । इदं च स्तेयप्रायश्चित्तमपहृतधनं तत्स्वामिने दत्त्वैव कार्यम् । स्तेये ब्रह्मस्वभूतस्य सुवर्णादेः कृते पुनः । स्वामिनेऽपहृतं देयं हा त्वेकादशाधिकम् ॥' इति स्मरणात् ॥ तथा (मनुः ११।१६४)-'चरेत्सान्तपनं कृच्छ् तैन्निर्यात्यात्मशुद्धये' इति मनुस्मरणाच्च । दण्डप्रकरणेऽप्युक्तम्-'शेषेष्वेका१ द्विजाधमः. २ 'तन्निर्दाप्यात्मशुद्धये' इति पाठः.
For Private And Personal Use Only
Page #437
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्तप्रकरणम् ५ ] मिताक्षरासहिता ।
४०५
दशगुणं दाप्यस्तस्य च तद्धनम् ॥' इति ॥ यद्वाऽत्यशक्त्या राजा हन्तुमसमर्थस्तदा वसिष्टोक्तं द्रष्टव्यम्-'स्तेनः प्रकीर्णकेशो राजानमभियाचेत् । ततस्तस्मै राजौदुम्बरं शस्त्रं दद्यात्तेनात्मानं प्रमापयेत् । मरणात्पूतो भवतीति विज्ञायते' इति । औदुम्बरं ताम्रमयम् । यदपि द्वितीयं प्रायश्चित्तं तेनोक्तम् –'निष्कालको गोघृताक्तो गोमयाग्निना पादप्रभृत्यात्मानं प्रमापयेन्मरणात्पूतो भवतीति विज्ञायते' इति, तदपि गुरुश्रोत्रिययागस्थादिविप्रद्रव्यापहारविषयं क्षत्रियाद्यपहर्तृविषयं वा । तत्र निष्कालक इति निर्गतकेशश्मश्रुलोमाभिधीयते । तथाश्वमेधाद्यनुष्ठानेन वा । तथा प्रचेतसा मरणान्तिकमभिधायोक्तम्-'इष्ट्वा वाश्वमेधेन गोसवेन वा विशुद्ध्येत्' इति । एतच्च विदक्षत्रियाद्यपहर्तृविषयम् ॥२५७॥ प्रायश्चित्तान्तरमाह
अनिवेद्य नृपे शुध्येत्सुरापव्रतमाचरन् ।
आत्मतुल्यं सुवर्ण वा दद्याद्वा विप्रतुष्टिकृत् ॥ २५८ ॥ - स्वीयं स्तेयं राजन्यनिवेद्य सुरापव्रतं द्वादशवार्पिकमाचरन् शुध्येत् । शव. शिरोध्वजे तत्कपालधारणनिराकरणार्थ सुरापव्रतमित्युक्तम् । एतच्चाकामकारविषयम् । ( मनुः १८९)-'इयं विशुद्धिरुदिता प्रमाप्याकामतो द्विजम्' इत्यकामतो विहितस्यैव द्वादशवार्षिकस्यातिदेशात् ॥ नन्वकामतोऽपहार एव न संभवतीति कथं तद्विषयत्वम् । उच्यते । यदा वस्त्रप्रान्तग्रथितं सुवर्णादिकमज्ञानादपहरति रजतादिद्रव्यान्तरबुद्ध्या वा हृत्वाचानन्तरमेवान्यस्मै दत्तं नाशितं वा न पुनः स्वामिने प्रत्यर्पितं तदा संभवत्येवाकामतोऽपहारः। यस्तु ताम्रादिकस्य रसवेधाद्यापादितसुवर्णरूपस्यापहारो न तत्रेदं प्रायश्चित्तम् । मुख्यजातिसमवायाभावात् । नच मुख्यसादृश्यमात्रेण गौणे मुख्यधर्मा भवन्ति । यद्यपीदृशमेवासुवर्ण सुवर्णभ्रान्त्यापहरति तथापि नेदं प्रायश्चित्तम् । असुवर्णापहारित्वादेव । नच सृष्टश्चेद्राह्मणवधे अहत्वापीतिवदत्रापि दोष इति वाच्यम्, असुवर्णे प्रवृत्तत्वादेव । नाब्राह्मणः सृष्टश्चेदित्यस्य विषयः । यच्चेदं 'मनसा पापं ध्यात्वा प्रणवपूर्वक व्याहृतीर्मनसा जपेत् । व्याहृत्या प्राणायाम बिराचरेत् । प्रवृत्तौ कृच्छ्रे द्वादशरात्रं चरे'दिति, तदपि सम्यगर्थप्रवृत्तिविषयम् । अतो नेदृशमज्ञानतः स्वर्णापहारः प्रायश्चित्तस्य निमित्तं, किंतु रजतादिबुद्ध्या पूर्वोक्त एव स्वर्णापहारः । अस्मिन्नेव विषये यदापहर्तात्यन्तमहाधनः तदात्मतुलितं सुवर्ण दद्यात् । अथ तावद्धनं नास्ति तपश्चर्यायां चाशक्तस्तदा विप्रतुष्टिकृतिप्रस्य यावजीवं कुटुम्बभरणपर्याप्ततया तुष्टिकरं धनं दद्यात् । यदा तु निर्गुणस्वामिक द्रव्यमपहरति तदा 'एतदेव व्रतं स्तेनः पादन्यूनं समाचरेत्' इति व्यासेनोक्तं नववार्षिकं द्रष्टव्यम् । यदा पुनरीदृशमेव क्षुरक्षामकुटुम्बपरिरक्षणार्थमपहरति तदा अत्रिप्रतिपादितं षड्वार्षिकं 'स्वर्जिदादिं वा ऋतुं कुर्यात्तीर्थयात्रां वा' 'षडब्दं वाचरेत्कृच्छ्रे यजेद्वा ऋतुना द्विजः । तीर्थानि वा भ्रमविद्वांस्ततः स्तेयाद्विमुच्यते ॥' इति । यदा त्वपहारसमनन्तरमेव हा कष्टं मया
For Private And Personal Use Only
Page #438
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
याज्ञवल्क्यस्मृतिः। [प्रायश्चित्ताध्यायः
कृतमिति जातानुतापः प्रत्यर्पयति त्यजति वा तदापस्तम्बीयं चतुर्थकालमिताशनेन त्रिवर्षमवस्थानमाङ्गिरसं वा वज्राख्यं त्रैवार्षिकं द्रष्टव्यम् ॥ ननु प्रत्यर्पणे त्यागे वापहारधात्वर्थस्य निष्पन्नत्वात्कथं प्रायश्चित्ताल्पत्वम् । अथानिपन्नस्तदा प्रायश्चित्ताभाव एव स्यानतु प्रायश्चित्ताल्पत्वम् । मैवम् । अपहारस्योपभोगादिफलपर्यन्तत्वादुपभोगात्प्रानिवृत्तौ च पुष्कलस्थापहारार्थस्याभावाद्युक्तमेव प्रायश्चित्तालावं पीतवान्त इवापेय द्रव्ये ॥ नन्वेवं सति चौरहस्ताद्धलादाकृष्य ग्रहणेऽपि तस्योपभोगलक्षणफलाभावात्प्रायश्चित्ताल्पत्वप्रसङ्गः । मैवम् । तस्य त्यागे स्वतःप्रवृत्त्यभावात् फलपर्यन्तेऽपहारे स्वतःप्रवृत्तत्वाच्च । यस्तु रजतताम्रादिसंसृष्टसुवर्णापहारी न तत्रेदं लघुप्रायश्चित्तम् । यतः संसर्गेऽपि सुवर्णत्वं नापैति आज्यत्वमिव पृषदाज्ये । अतस्तत्र द्वादशवार्षिकमेवेति युक्तम् । अथ लघुप्रायश्चित्तादि द्रव्यान्तरमेवेति लघुप्रायश्चित्तमुच्यते । न तर्हि तत्र त्रैवार्षिकादिविषयता असुवर्णत्वादेव, किंतूपपातकप्रायश्चित्तमेव । यदप्यपरमापस्तम्बोक्तम्-'स्तेयं कृत्वा सुरां पीत्वा कृच्छ्रे सांवत्सरं चरेत्' इति तत्सुवर्णपरिमाणादर्वाङ्मापाच्चाधिकपरिमाणद्रव्यविषयम् । यत्तूक्तं सुमन्तुना-'सुवर्णस्तेयी मासं सावित्र्याष्टसहस्रमाज्याहुतीर्जुहुयात् । प्रत्यहं त्रिरात्रमुपवासस्तप्तकृच्छ्रेण च पूतो भवति' इति तत्पूर्वोक्तमाषपरिमाणसुवर्णापहारप्रायश्चित्ते सह विकल्प्यते। यदप्यपरं तेनैवोक्तम्- 'सुवर्णस्तेयी द्वादशरात्रं वायुभक्षः पूतो भवति' इति, तन्मनसापहारे प्रवृत्तस्य स्वतएवोपरतजिहीर्षस्य वेदितव्यम् । अत्रापि स्त्रीबालवृद्धादिष्वप्यर्धमेव प्रायश्चित्त वेदितव्यम् । यानि च 'अश्वरत्नमनुष्यस्त्रीभूधेनुहरणं तथा' इत्यादिना सुवर्णस्तेयसमस्वेन प्रतिपादितानि तेष्वप्यर्धमेव कार्यम् । यत्पुनश्चतुर्विंशतिमतवचनम् –'रूप्यं हृत्वा द्विजो मोहाच्चरेच्चान्द्रायणव्रतम् । गद्याणदशकादूर्ध्वमाशताविगुणं चरेत् ॥ आसहस्त्रात्तु त्रिगुणमूर्ध्व हेमविधिः स्मृतः। सर्वेषां धातुलोहानां पराकं तु समाचरेत् ॥ धान्यानां हरणे कृच्छ्रे तिलानामैन्दवं स्मृतम् ॥ रवानां हरणे विप्रश्चरेच्चान्द्रायणव्रतम् ॥' इति, तदपि गद्याणसहस्राधिकरजतहरणे सुवर्णस्तेयसमप्रायश्चित्तप्रतिपादनार्थ न पुनस्तन्निवृत्त्यर्थम्। यदपि रत्नापहारे चान्द्रायणमुक्तं तदपि गद्याणसहस्राद्धीनमूल्यरत्नापहारे द्रष्टव्यम् । ऊर्ध्वं पुनः सुवर्णस्तेयसमम् ॥ २५८॥
इति सुवर्णस्तेयप्रायश्चित्तप्रकरणम् । उद्देशक्रमप्राप्तं गुरुतल्पिप्रायश्चित्तमाह
तप्तेष्यःशयने सार्धमाय त्या योषिता स्वपेत् ।
गृहीलोत्कृत्य वृषणौ नैऋत्यां चोत्सृजेत्तनुम् ।। २५९ ॥ समा वा गुरुतल्पग इति वक्ष्यमाणश्लोकगतं गुरुतल्पगपदमत्र संबध्यते ।
१ नतीनन्तरं ङ.
२ लोभात् ङ.
३ गुरुतल्पगमन ङ.
For Private And Personal Use Only
Page #439
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्तप्रकरणम् ५ ] मिताक्षरासहिता ।
४०७ तप्तेऽयःशयने यथा मरणक्षमं भवति तथा तप्ते अग्निवर्णे कृते कार्णायसे शयने अयोमय्या स्त्रीप्रतिकृत्या तप्तया सह गुरुतल्पगः स्वप्यात् । एवं सुस्वा तनुं देहं उत्सृजेत् । नियेतेति यावत् । शयनं च गुर्वङ्गनागमनं मया कृतमित्येवं स्वकर्म विख्याप्य कुर्यात् । (१९१०३)-'गुरुतल्प्यभिभाष्यैनः' इति मनुस्मरणात् । तथा स्त्रियमालिङ्गय कार्यम्-'गुरुतल्पगो मृन्मयीमायसी वा स्त्रियः प्रतिकृतिमग्निवर्णी कृत्वा कार्णायसशयने (अयोमय्या स्त्रीप्रतिकृत्या कृत्वा) तामालिङ्गय पूतो भवति' इति वृद्धहारीतसरणात् । तथा मुण्डितलोमकेशेन घृताभ्यक्तेन च कर्तव्यम्-'निष्कालको घृताभ्यक्तस्तप्तां तां सूर्मी मृन्मयीं वा परिष्वज्य मरणात्पूतो भवतीति विज्ञायते' इति वसिष्ठस्मरणात् । नच (११।६०३)-गुरुतल्प्यभिभाष्यैनस्तप्ते स्वप्यादयोमये । सूर्मी ज्वलन्ती स्वाश्लिष्येन्मृत्युना स विशुध्यति ॥' इति मनुवाक्यानुरोधेन तप्तलोहशयनं तप्तलोहयो षिदालिङ्गनं च निरपेक्षं प्रायश्चित्तद्वयमित्याशङ्कनीयम् । मायस्था योपिता स्वपेत् । कुत्रेत्याकाङ्क्षायां तप्तेऽयःशयन इति परस्परसापेक्षतयैकत्वावगमादेककल्पस्वमेव युक्तम् ॥ अथवा वृषगौ सलिङ्गौ स्वयमुत्कृत्य छित्त्वाञ्जलिना गृहीत्वा नैर्ऋत्यां दक्षिणस्यां प्रतीच्यां दिशि देहपातान्तमकुटिलगतिर्गत्वा तनुमुत्सृजेत् । यथाह मनुः (११११०४)-'स्वयं वा शिश्नवृषणावुत्कृत्याधाय चाञ्जलौ । नैऋती दिशमातिष्ठेदानिपातादजिह्मगः ॥' इति । गमनं पृष्ठतोऽनीक्षमाणेन कर्तव्यम् ।-'क्षुरेण शिश्नवृषणावुत्कृत्यानवेक्षमाणो व्रजेत्' इति शङ्खलिखितमरणात् । एवं गच्छन् यत्र कुड्यादिना प्रतिवध्यते तत्रैव मरणान्तं तिष्ठेत् । 'सवृषणं शिश्नमुस्कृत्या अलावाधाय दक्षिणाभिमुखो गच्छेद्यत्रैव प्रतिहतस्तत्रैव तिष्ठेदाप्रलयात्' इति वसिष्ठस्मरणात् । दण्डोऽप्यत्रायमेव । यथाह नारदः-'भासामन्यतमां गच्छन्गुरुतल्पग उच्यते । शिश्नस्योत्कर्तनात्तत्र नान्यो दण्डो विधीयते ॥' एवं दण्डार्थमपि लिङ्गाद्युत्कर्तनं पापक्षयार्थमपि भवति । इदमेव मरणान्तिकं दण्डमभिप्रेत्योक्तं मनुना (११॥३१८)-'राजमिर्धतदण्डास्तु कृत्वा पापानि मानवाः । निर्मलाः स्वर्गमायान्ति सन्तः सुकृतिनो यथा ॥' इति । धनदण्डेन पुनः प्रायश्चित्तं भवत्येव ( ९।२४०)-'प्रायश्चित्तं तु कुर्वाणाः सर्वे वर्णा यथोदितम् । नाक्या राज्ञा ललाटे स्युर्दाप्यास्तूत्तमसाहसम् ॥' इति तेनैवोक्तत्वात् । अनयोश्च मरणान्तिकयोरन्यतरानुष्ठानेन गुरुतल्पगः शुद्येत् । गुरुशब्दश्चात्र मुख्यया वृत्त्या पितरि वर्तते । (२११४२) ---'निषेकादीनि कर्माणि यः करोति यथाविधि । संभावयति चान्नेन स विप्रो गुरुरुच्यते ॥' इति मनुना गुरुत्वप्रतिपादनपरे वाक्ये निषेकादिकर्तुर्जनकस्यैव गुरुस्वाभिधानात्। योगीश्वरेण च निषेकादिकर्माभिप्रायेणोक्तम् । स गुरुयः क्रियां कृत्वा वेदमस्मै प्रयच्छति' इति ॥ ननु गुरुशब्दस्यान्यत्रापि प्रयोगो दृश्यते । उपनीय गुरुः शिष्यमित्यादिनाचार्ये (मनुः २।१४९)-'स्वल्पं वा बहु वा यस्य श्रुतस्यो
१ तल्पोऽभिभाष्यैनः ङ.
For Private And Personal Use Only
Page #440
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४०८
याज्ञवल्क्यस्मृतिः। [प्रायश्चित्ताध्यायः पकरोति यः। तमपीह गुरुं विद्यात्' इत्युपाध्याये । व्यासेनाप्यन्यत्र प्रयोगो दर्शित:--'गुरवो मातृपितृपत्यार्यविद्यादातृज्येष्ठभ्रातर ऋत्विजो भयत्रातानदाता च' इति । नचानेकार्थकल्पनादोषः । गुरुशब्दस्य प्रवृत्तिनिमित्तभूतायाः पूजार्हतायाः सर्वत्रानुस्यूतेः । दर्शितं च तस्याः प्रवृत्तिनिमित्तत्वं योगीश्वरेण'एते मान्या यथापूर्वमेभ्यो माता गरीयसी' इति । मान्या इत्युपक्रम्य गरीयसीत्युपसंहारं कुर्वता । (मनुः २।१४५) नच 'उपाध्यायाद्दशाचार्य आचार्याणां शतं पिता' इत्युपाध्यायादधिकाचार्यापितुरतिशयितत्ववचनात्स एव मुख्य इति वाच्यम् । आचार्येऽप्यतिशयितत्वस्याविशिष्टत्वात् । (मनुः२।१४६) -'उत्पादकब्रह्मदाबोगरीयान्ब्रह्मदः पिता' इति । गौतमेनाप्युक्तम्--'आचार्यः श्रेष्ठो गुरूणाम्' इति । किंच यद्यतिशयितत्वमात्रेण मुख्यत्वमुच्यते तर्हि सहस्रमिति वचनान्मातुरेव गुरुत्वं स्यात् । तस्मात्सर्वे गुरवस्तत्पत्नीगमनं गुर्वङ्गनागमनमिति युक्तम् । उच्यते । निषेकादीनीति मनुवचनं निषेकादिकर्तुर्जनकस्य गुरुत्वप्रतिपादनपरम् , अनन्यपरत्वात् । यत्पुनासगौतमवचनं तत्परिचर्यापूजादिविधिशेषतया स्तुत्यर्थत्वेनान्यपरम् । अतो गुरुत्वप्रतिपादनपरान्निषेकादीति मनुवचनापितुरेव मुख्यं गुरुत्वमिति स्थितम् । अतएव वसिष्ठेनाचार्यपुत्रशिष्यभार्यासु चैवमित्याचार्यदारेष्वातिदेशिकं गुरुतल्पप्रायश्चित्तमुक्तम् । तथा जातूकादिभिरप्युक्तम्-'आचार्यादेस्तु भार्यासु गुरुतल्पव्रतं चरेत्' इत्यादि। आचार्यादेर्मुख्यगुरुत्वे तूपदेशत एव व्रतप्राप्तेरतिदेशोऽनर्थक एव स्यात् । किंच सं. वर्तेन स्पष्टमेव पितृदारग्रहणं कृतम्-'पितृदारान्समारुह्य मातृवयं नराधमः' इति । षट्त्रिंशन्मतेऽपि-'पितृभायाँ तु विज्ञाय सवर्णी योऽधिगच्छति' इति । अतोऽपि निषेकादिकर्ता पितैव मुख्यो गुरुः ॥ तच्च गुरुत्वं वर्णचतुष्टयेऽप्यविशिष्टम् । निषेकादिकर्तृत्वस्याविशेषात् । अतः स विप्रो गुरुरुच्यते इति विप्रग्रहणमुपलक्षणम् । अतः पितृपत्नीगमनमेव महापातकम् । गमनं च चरमधातुविसर्गपर्यन्तं कथ्यते । अतस्ततोऽर्वानिवृत्तौ न महापातकित्वम् । तत्र चेदं 'तप्तेऽयःशयने सार्धमायस्या' इत्याधुक्तं मरणान्तिकं प्रायश्चित्तद्वयम् । तच्च जनन्यामकामकृते । तत्सपत्यां तु सवर्णायामुत्तमवर्णायां च कामकृते द्रष्टव्यम् । 'पितृभायीं तु विज्ञाय सवर्णी योऽधिगच्छति । जननी चाप्यविज्ञाय ना मृतः शुद्धिमानुयात् ॥' इति षत्रिंशन्मतेऽभिधानात् ॥ जनन्यां तु कामकृते वासिष्ठं 'निष्कालको घृताः भ्यक्तो गोमयाग्निना पादप्रभृत्यात्मानमवदाहयेत्' इति द्रष्टव्यम् । अकामतोऽभ्यासेऽप्येतदेव ॥ ननु च 'मातुः सपत्नी भगिनीमाचार्यतनयां तथा । आचार्यपत्री स्वसुतां गच्छंस्तु गुरुतल्पगः ॥' इत्यतिदेशाभिधानान्मातृसपत्नीगमने त्वौपदेशिकं प्रायश्चित्तमयुक्तम् । उच्यते । पितृभार्या सवर्णामित्यस्मादेव वचनासवर्णग्रहणाद्धीनवर्णसपत्नीविषयमिदमातिदेशिकमिति न विरोधः । इदं च मुख्यस्यैव पुत्रस्य । इतरेषां पुनः पुत्रकार्यकरत्वमेव न पुत्रत्वम् । यथाह मनुः (९॥ १८०)-'क्षेत्रजादीन्सुतानेतानेकादश यथोचितान् । पुत्रप्रतिनिधीनाहुः क्रियालोपान्मनीषिणः ॥' इति । तत्रोभयेच्छातः प्रवृत्तौ 'तप्तेऽयःशयने' इति प्रथम
For Private And Personal Use Only
Page #441
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्तप्रकरणम् ५] मिताक्षरासहिताः। प्रायश्चित्तम् । स्वेन प्रोत्साहने तु 'गृहीत्वोत्कृत्य वृषणौ' इति द्वितीयम् । अनुबन्धातिशयेन प्रायश्चित्तगुरुत्वस्योक्तत्वात् । तया प्रोत्साहितस्य तु मानवं तप्तलोहशयनज्वलत्सालिङ्गनयोरन्यतरं द्रष्टव्यम् । यत्तु शङ्खन द्वादशवार्षिकमुक्तम्- 'अधःशायी जटाधारी पर्णमूलफलाशनः। एककालं समश्नीत वर्षे तु द्वादशे गते ॥ रुक्मस्तेयी सुरापश्च ब्रह्महा गुरुतल्पगः । व्रतेनतेन शुध्यन्ति महापातकिनस्त्विमे ॥' इति, तत्समवर्णोत्तमवर्णपितृदारगमने अकामकृते वा द्रष्टव्यम् । तत्रैव कामतः प्रवृत्तस्य रेतःसेकादर्वानिवृत्तौ षड्वार्षिकम् । अकामतस्तु त्रैवार्षिकम् । जनन्यां तु कामतः प्रवृत्तस्य रेतःसेकात्यानिवृत्तौ द्वादशवार्षिकम् । अकामतस्तु पवार्षिक मिति कल्प्यम् । यत्तु संवर्तेन–'पितृदारान्समारुह्य मातृवज्यै नराधमः' इत्यादिना समारोहणमात्रे तप्तकृच्छ्र उक्तः न हीनवर्णगुरुदारेषु रेतःसेकादर्वाग्द्रष्टव्यः ॥ २५९ ॥ प्रायश्चित्तान्तरमाह
प्राजापत्यं चरेत्कृच्छं समा वा गुरुतल्पगः ।
चान्द्रायणं वा त्रीन्मासानभ्यसेद्वेदसंहिताम् ।। २६० ॥ अथवा प्राजापत्यं कृच्छ्रे वक्ष्यमाणलक्षण समाः वर्षत्रयं चरेत् । एतच्च ब्राह्मणीपुत्रस्य शूद्रजातीयगुरुभार्यागमने मतिपूर्वे द्रष्टव्यम् । यदा तु गुरपत्नीं सवर्णा व्यभिचारिणीमबुद्धिपूर्व गच्छति तदा वेदजपसहितं चान्द्रायणत्रयं कुर्यात् । तत्रैव कामतः प्रवृत्तावौशनसं-'गुरुतल्पाभिगामी संवत्सरं ब्रह्मव्रतं षण्मासान्वा तप्तकृच्छं चरेत्' इति । क्षत्रियागमने तु मतिपूर्वे याज्ञवल्कीयं-'मातुः सपत्नी भगिनीमाचार्यतनयां तथा' इति गुरुतल्पव्रतातिदेशानववार्षिकम् । इदं चातिदेशिकं सवर्णगुरुभार्यागमन विषयं न भवति । तत्र कामतो मरणान्तिकस्याकामतो द्वादशवार्षिकस्य विहितत्वात् । अतः क्षत्रियादिविषयमेवेति युक्तम् । तत्रैव कामतोऽभ्यासे मरणान्तिकम् ।-'मत्या गत्वा पुनर्भायां गुरोः क्षत्रसुतां द्विजः । अण्डाभ्यां रहितं लिङ्गमुत्कृत्य स मृतः शुचिः ॥' इति कण्वस्मरणात् । अत्रैव विषये प्रायश्चित्तं यदा न चिकीर्षति तदा 'छित्त्वा लिङ्गं वधस्तस्य सकामायाः स्त्रियास्तथा' इति याज्ञवल्क्यीयो वधदण्डः प्रायश्चित्तस्थाने द्रष्टव्यः । वैश्यायां तु गुरुभार्यायां कामतो गमने षड्वार्षिकम् । अतएव स्मृत्यन्तरम्'ब्राह्मणीपुत्रस्य क्षत्रियायां मातरि गमने पादहान्या द्वादशवार्षिकम् । एवमन्यव
स्वपि । अयमर्थः । ब्राह्मणीपुत्रस्य क्षत्रियायां मातुः सपत्यां गमने पादन्यूनं द्वादशवार्षिकं यावत् । तस्यैव तथाभूतायां वैश्यायां षड्वार्षिकम् । शूद्रायां तु त्रैवार्षिकं प्रायश्चित्तमिति । एवं क्षत्रियापुत्रस्य वैश्यायां मातरि नववार्षिकम् । शूद्रायां तु षड्वार्षिकम् । एवमेव वैश्यापुत्रस्यापीति । वैश्यायां तु कामतोऽभ्यासे मरणान्तिकमेव । -'गुरोर्भार्यां तु यो वैश्यां मत्या गच्छेत्पुनः पुनः । लिङ्गाग्रं
१ गुरुत्वरयेष्टत्वात्. ङ. २ समश्नन्वै ङ.
For Private And Personal Use Only
Page #442
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४१०
याज्ञवल्क्यस्मृतिः। [प्रायश्चित्ताध्यायः
छेदयित्वा तु ततः शुध्येत्स किल्बिषात् ॥' इति लौगाक्षिस्मरणात् । शूद्रायां तु कामतोऽभ्यासे द्वादशवार्षिकम् । 'पुनः शूद्रां गुरोर्गत्वा बुद्ध्या विप्रः समाहितः। ब्र. ह्मचर्यमदुष्टात्मा संचरेद्द्वादशाब्दिकम् ॥' इत्युपमन्युस्मरणात् । क्षत्रियायां तु गुरुभार्यायामबुद्धिपूर्वगमने यमोक्तं त्रैवार्षिकमष्टमकालाशनं द्रष्टव्यम् । 'कालेऽष्टमे वा भुक्षानो ब्रह्मचारी सदा व्रती । स्थानासनाभ्यां विहरंस्बिरह्योऽभ्युपयन्नपः । अधःशायी त्रिभिर्वषैस्तदपोहेत पातकम् ॥' इति । अत्रैवाभ्यासे जातूकोक्तं'गुरोः क्षत्रसुतां भार्या पुनर्गत्वा त्वकामतः । अण्डमानं समुत्कृत्य शुद्ध्येजीवन्मृतोऽपि वा ॥' इति ॥ वैश्यायां त्वकामतो गमने प्राजापत्यं चरेत्कृच्छ्रमित्येतदेव याज्ञवल्क्यीयम् । तथाच वृद्धमनु:-'गमने गुरुभार्यायाः पितृभार्यागमे तथा । अब्दत्रयमकामात्तु कृच्छ्रे नित्यं समाचरेत् ॥' इति । तत्रैवाभ्यासे हारीतोक्तं मरणान्तिकं ब्रह्मचर्यम्-'अभ्यस्य विप्रो वैश्यायां गुरोरज्ञानमोहितः । षडङ्गं ब्रह्मचर्य च स चरेद्यावदायुषम् ॥' इति । गुरुभार्यायां शूद्रायां त्वमतिपूर्वे मानवम् (११।१०५)-'खट्वाङ्गी चीरवासा वा श्मश्रुलो विजने वने । प्राजापत्यं चरेत्कृच्छ्रमब्दमेकं समाहितः ॥' इति ॥ अथवा 'गुरुदाराभिगामी संवत्सरं कण्टकिनी शाखां परिष्वज्याधःशायी विषवणी भैक्षाहारः पूतो भवति' इति सुमन्तूक्तं कुर्यात् । तत्रैवाभ्यासे मानवम् ( ११।१०६)'चान्द्रायणं वा त्रीन्मासानभ्यसेन्नियतेन्द्रियः' इति । क्षत्रियायां कामतः प्रवृत्तस्य रेतःसेकादर्वानिवृत्ती व्याघ्रोक्तम्-'कृच्छ्रे चैवातिकृच्छ्रे च तथा कृच्छ्रातिकृच्छ्रकम् । चरेन्मासत्रय विप्रः क्षत्रियागमने गुरोः॥' इति । अत्रेयं व्यवस्था । तया प्रोत्साहितस्य त्रैमासिकं प्राजापत्यचरणम् । उभयेच्छातः प्रवृत्तस्यातिकच्छ्रचरणं तावदेव । स्वेन प्रोत्साहितायां पुनःकृच्छ्रातिकृच्छ्रानुष्ठानं च तावदे. वेति । तत्रैव कामत प्रवृत्तस्य रेतःसेकात्पूर्व कण्वोतं द्रष्टव्यम्-'चान्द्रायणं तप्तकृच्छ्रमतिकृच्छ्रे तथैव च । सकृद्त्वा गुरोर्भार्यामज्ञानात्क्षत्रियां द्विजः ॥' इति । तया प्रोत्साहितस्यातिकृच्छ्रः । उभयेच्छातः प्रवृत्तस्य तप्तकृच्छ्रः । खेन प्रोत्साहितायां तु चान्द्रायणम् । वैश्यायां कामतःप्रवृत्तस्य रेतःसेकात्पूर्व निवृत्ती कण्वोक्तम्-'तप्तकृच्छ्रे पराकं च तथा सान्तपनं गुरोः । भार्या वैश्यां सकृद्गत्वा बुद्ध्या मासं चरेविजः ॥' इति । अत्रोभयोरिच्छातः प्रवृत्तौ तप्तकृच्छ्रः । स्वेन प्रोत्साहितायां पराकः । तया प्रोत्साहितस्य सान्तपनम् ॥ अत्रैवाकामतः प्रवृत्तस्य प्रजापतिराह-'पञ्चरात्रं तु नाश्नीयात्सप्ताष्टौ वा तथैव च । वैश्यां भार्या गुरोर्गत्वा सकृदज्ञानतो द्विजः ॥' इति । तया प्रोत्साहितस्य तु पञ्चरात्रम् । उभयेच्छातः प्रवृत्तौ सप्तरात्रम् । स्वेन प्रोत्साहितायामष्टरात्रम् ॥ शूदायां तु कामतः प्रवृत्तस्य रेतःसेकात्पूर्व निवृत्तौ जाबालिराह-'अतिकृच्छं तप्तकृच्छ्रे पराकं वा तथैव च । गुरोः शूद्रां सकृद्रवा बुद्ध्या विप्रः समाचरेत् ॥' इति । तया प्रोत्साहितस्यातिकृच्छ्रः । उभयेच्छातः प्रवृत्तौ तप्तकृच्छ्रः । स्वेन प्रोत्साहितायां पराकः । तत्रैवाकामतः प्रवृत्तस्य दैर्घतमसम्–'प्राजापत्यं सान्तपनं सप्तरात्रोपवासकम् । गुरोः शूद्रां सद्गत्वा
For Private And Personal Use Only
Page #443
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्तप्रकरणम् ५] मिताक्षरासहिता ।
४११
चरेद्विप्रः समाहितः ॥' इति । तया प्रोत्साहितस्य प्राजापत्यम् । उभयेच्छातः प्रवृत्तौ सान्तपनम् । स्वेन प्रोत्साहितायां सप्तरात्रोपवास इति । अनयैव दिशान्येषामपि स्मृतिवचसां विषयव्यवस्थोहनीया। पुरुषवच्च स्त्रीणामप्यत्र महापातकित्वमविशिष्टम् । तथाहि कात्ययन:--'एवं दोषश्च शुद्धिश्च पतितानामुदाहृता । स्त्रीणामपि प्रसक्तानामेष एव विधिः स्मृतः ॥' इति । सतस्तस्या अपि कामतः प्रवृत्ती मरणान्तिकमविशिष्टम् । अतएव पुरुषस्य मरणान्तिकमुक्त्वा स्त्रिया अपि योगीश्वरेण मरणान्तिकं दर्शितम्-'छित्त्वा लिङ्गं वधस्तस्य सकामायाः स्त्रियास्तथा' इति । अकामतस्तु मनुनोक्तम्-(११।१८८) 'एतदेव व्रतं कार्य योषित्सु पतितास्वपि' इति । द्वादशवार्षिकमेवार्धकल्पनया कार्यम् । यानि पुनगुरुतल्पसमानि 'सखिभार्याकुमारीषु स्वयोनिष्वन्त्यजासु च। सगोत्रासु सुतस्त्रीषु गुरुतल्पसमं स्मृतम् ॥' इति प्रतिपादितानि, यानि चातिदेशविषयभूतानि 'पितुः स्वसारं मातुश्च मातुलानी स्नुषामपि । मातुः सपनी भगिनीमाचार्यतनयां तथा ॥ आचार्यपत्री स्वसुतां गच्छंस्तु गुरुतल्पगः॥' इति प्रतिपादितानि, तेष्वेकरात्रादूर्ध्वमेकामतोऽभ्यस्तेषु यथाक्रमेण पवार्षिकं नववार्षिकं च प्रायश्चित्तं विज्ञेयम् । अस्मिन्नेव विषये कामतोऽत्यन्ताभ्यासे मरणान्तिकम् । तथाच बृहद्यमः-रेतः सिक्त्वा कुमारीषु स्वयोनिष्वन्त्यजासु च । सपिण्डापत्यदारेषु प्राणत्यागो विधीयते ॥' इति । अन्त्यजाश्चात्र-'चण्डालः श्वपचः क्षत्ता सूतो वैदेहिकस्तथा । मागधायोगवौ चैन सप्तैतेऽन्त्यावसायिनः ॥' इति मध्यमाङ्गिरोदर्शिता ज्ञातव्याः । नतु 'रजकश्चर्मकारश्च' इत्यादिप्रतिपादिताः। तेषु लघुप्रायश्चित्तस्योक्तत्वात् ॥ तथा (११११७५)-'चण्डालान्त्यस्त्रियो गत्वा भुक्त्वा च प्रतिगृह्य च । पतत्यज्ञानतो विप्रो ज्ञानात्साम्यं तु गच्छति ॥' इति चाण्डालादिसाम्यं प्रतिपादयता मनुनापि कामतोऽत्यन्ताभ्यासे मरणान्तिकं दर्शितम् । तथाहि अज्ञानतश्चण्डालीगमनाभ्यासे पतत्यतः पतितप्रायश्चित्तं द्वादशवार्षिकं कुर्यात् । कामतोऽत्यन्ताभ्यासे चण्डालैः साम्यं गच्छति । अतो द्वादशवार्षिकाधिक मरणान्तिकं कुर्यात् । एतच्च बहुकालाभ्यासविषयम् । एकारावाभ्यासे तु वर्षत्रयम् । यथाह मनुः (११।१७८)'यत्करोत्येकरात्रेण वृषलीसेवनाविजः। तद्भेक्षभुग्जपन्नित्यं त्रिभिर्वयंपोहति ॥' . इति । अत्र वृषलीशब्देन चण्डाल्यभिधीयते-चण्डाली बन्धकी वेश्या रजःस्था या च कन्यका। उढा या च सगोत्रा स्यादृषल्यः पञ्च कीर्तिताः॥' इति स्मृत्यन्तरे चण्डाल्यां वृषलीशब्दप्रयोगदर्शनात् । बन्धकी स्वरिणी । कथं पुनरत्राभ्यासावगमः। उच्यते । यत्करोत्येकरात्रेणेत्यत्यन्तसंयोगापवर्गवाचि. न्यास्तृतीयाया दर्शनात् । एकरात्रेण चात्यन्तसंयोगो गमनस्याभ्यासं विनानुपपत्र इति गमनाभ्यासोऽवगम्यते । अतएवैकरावाहुकालाभ्यासविषयं प्रागुक्तं द्वादश. वर्षादिगुरुतल्पवतातिदेशिकं मरणान्तिकं च । यदा पुननितोऽज्ञानतो वा चण्डा.
१ मेवात्र कल्पनया ङ. २ दूधै कामतो ङ. ३धिकारान्मरणा ङ. ४ चण्डालाद्यां ग.
For Private And Personal Use Only
Page #444
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४१२
याज्ञवल्क्यस्मृतिः।
[प्रायश्चित्ताध्यायः
ल्याद्याः सकृद्गच्छति तदा 'चण्डाल पुल्कसानां तु भुक्त्वा गत्वा च योषितम् । कुच्छ्राब्दमाचरेज्ज्ञानादज्ञानादैन्दवद्वयम् ॥' इति यमायुक्तं संवत्सरं कृच्छ्रानुष्ठानं चान्द्रायणद्वयं यथाक्रमेण द्रष्टव्यम् । स्वयोनिष्वन्त्यजासु चेत्येकवाक्यसमभिव्याहाराद्भगिन्यादिष्वपीयमेव व्यवस्था वेदितव्या । मरणान्तिकं चावाग्निप्रवेशनम् । 'जनन्यां च भगिन्यां च स्वसुतायां तथैव च । स्नुषायां गमनं चैव विज्ञेयमतिपातकम् ॥ अतिपातकिनस्त्वेते प्रविशेयुर्हताशनम् ॥' इति कात्यायनस्मरणात् । जनन्यां सकृद्मने भगिन्यादिषु चासकृद्गमने अग्निप्रवेश इति द्रष्टव्यम्। महापातकस्य जननीगमनस्य तदतिदेशविषयभूतातिपातकस्य भगिन्यादिगमनस्य च तुल्यत्वायोगात् । यत्तु बृहद्यमेनोक्तम्-'चाण्डाली पुल्कसी ग्लेच्छी स्नुषां च भगिनी सखीम् । मातापित्रोः स्वसारं च निक्षिप्तां शरणागताम् ॥ मातुलानी प्रव्रजितां स्वगोत्रां नृपयोषितम् । शिष्यभार्या गुरो याँ गत्वा चान्द्रायणं चरेत् ॥' इति, यच्चाङ्गिरोवचनम्-'पतितान्त्यस्त्रियो गत्वा भुक्त्वा च प्रतिगृह्य च । मासोपवासं कुर्वीत चान्द्रायणमथापि वा ॥' इति, तदुभयमपि गुरुतल्पातिदेशविषयेषु कामतः प्रवृत्तस्य रेतःसेकादर्वानिवृत्ती द्रष्टव्यम् । यदपि संवर्तवचनम् -'भगिनीं मातुराप्तां च स्वसारं चान्यमातृजाम् । एता गत्वा स्त्रियो मोहात्तप्तकृच्छं समाचरेत् ॥' इति, तदनन्तरोक्त एव विषये अकामतः प्रवृत्तस्य रेतःसेकादर्वानिवृत्तौ द्रष्टव्यम् । यदा पुनरेता एवात्यन्तव्यभिचारिणीर्गच्छति तदापीदमेव प्रायश्चित्तयुगलं चान्द्रायणतप्तकृच्छ्रास्मकं क्रमेण कामतोऽकामतश्च प्रवृत्तौ द्रष्टव्यम् । साधारणस्त्रीषु तु गुरुणोपभुकास्वपि गमने गुरुतल्पत्वदोषो नास्ति । 'जात्युक्तं पारदार्य च कन्यादूषणमेव च । साधारणस्त्रियां नास्ति गुरुतल्पत्वमेव च ॥' इति व्याघ्रस्मरणात् । एवमन्यान्यपि स्मृतिवचनान्युच्चावचप्रायश्चित्तप्रतिपत्तिपराण्यन्विष्य विषयव्यवस्थोहनीया ग्रन्थगौरवभयान लिख्यन्ते ॥ २६० ॥
इति गुरुतल्पप्रायश्चित्तप्रकरणम् । एवं ब्रह्महादिमहापातकिप्रायश्चित्तान्यभिधायावसरप्राप्तं तत्संसर्गिप्रायश्चित्तमाह. एभिस्तु संवसेद्यो वै वत्सरं सोऽपि तत्समः ।
एभिः पूर्वोक्तैर्ब्रह्महादिभिरेकं संवत्सरं योऽत्यन्तं संवसति सहाचरति सोऽपि तत्समः। यो येन सहाचरति स तदीयमेव प्रायश्चित्तं कुर्यादिति तदीयप्रायश्चित्तातिदेशार्थ तत्समग्रहणम् न पुनः पातकित्वातिदेशार्थम् । तस्य 'यश्च तैः सह संवसेत्' इत्युपदेशत एव सिद्धत्वात् । अत्र च सत्यप्यतिदेशत्वे कृत्स्नमेव द्वादशवार्षिक कार्यम्, साक्षान्महापातकिस्वारसंसर्गिणः । अपिशब्दान्न केवलं महापातकिसंयोगी तत्समः किंत्वतिपातकीपातक्युपपातक्यादीनां मध्ये यो येन सह संसर्ग करोति सोऽपि तत्सम इति तदीयमेव प्रायश्चित्तं कुर्यादिति दर्शयति १ पातकत्वा ख. २ अतिदेशकत्वे ङ.
For Private And Personal Use Only
Page #445
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
१ इति सर्वं निरवद्यं ङ.
Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्तप्रकरणम् ५]
मिताक्षरासहिता ।
४१३
अतएव मनुना सकलं प्रायश्चित्तजातमभिधायाभिहितम् ( ११।१८१ ) - 'यो येन पतितेनैषां संसर्ग याति मानवः । स तस्यैव व्रतं कुर्यात्तत्संसर्गविशुद्धये ॥' इति । विष्णुनापि सामान्येनोपपातक्या देनस्त्रिमात्र संसर्गे तत्प्रायश्चित्तभाक्वं दर्शितम् -- 'पापात्मना येन सह यः संसृज्यते स तस्यैव व्रतं कुर्यात्' इति । अतएव मनुना सामान्येनैन स्विमात्रप्रतिषेधः कृतः ( ११।१८९ ) - ' एनस्विभिरनिर्णिक्तैर्नार्थं कंचित्समाचरेत्' इति । तथा - 'न संसर्ग भजेत्सद्भिः प्रायश्चित्ते कृते सति' इति च । एतच्च द्वादशवार्षिकादिपतितप्रायश्चित्तं बुद्धिपूर्व संसर्गविषयम् । --- 'पतितेन सहोषित्वा जानन्संवत्सरं नरः । मिश्रितस्तेन सोऽब्दान्ते स्वयं च पतितो भवेत् ॥' इति देवलस्मरणात् । अज्ञानतः संसर्गे पुनर्वसिष्टोक्तम्- 'पतितसंप्रयोगे तु ब्राह्मण वा यौनेन वा स्त्रौवेण वा यास्तेभ्यः सकाशान्मात्रा उपलब्धास्तासां परित्यागतस्तैश्च न संवसेदुदीचीं दिशं गत्वाऽनश्न-संहिताध्ययनमधीयानः पूतो भवतीति विज्ञायते' इति । तथा - 'ब्रह्महा म द्यपः स्तेनस्तथैव गुरुतल्पगः । एते महापातकिनो यश्च तैः सह संवसेत् ॥' इति, तैरिति तृतीयया सर्वनामपरामृष्टप्रकृतब्रह्महादिचतुष्टय संसर्गिण एव महापातकित्ववचनात्तत्संसर्गिणो न महापातकित्वम् ॥ ननु महापातकि संसर्ग एव महापातकित्वे हेतुर्न ब्रह्मादिविशेषसंसर्गः । तस्य व्यभिचारात् । अतोऽत्र ब्रह्मादिसंसर्गिमंसर्गिणोऽपि महापातकिसंसर्गो विद्यत इति तस्यापि महापातकित्वं स्यान्न च प्रतिपेध उच्यते । स्यादेवं यदि प्रमाणान्तरगम्यं महापातकित्वं स्यात् । शब्दैकसमधिगम्ये तु तस्मिन्नेव भवितुमर्हतीति । तैरिति प्रकृतविशेषपरामर्शिना सर्वनाम्ना ब्रह्महादिविशेषसंसर्गस्यैव महापात कित्व हेतुत्वस्यावगमितत्वात् । एवंच सति प्रतिषेधाभावोऽप्यहेतुः प्रायभावादेव । अतः संसर्गिसंसर्गिणां द्विजातिकर्मभ्यो हानिर्न भवति प्रायश्चित्तं तु भवत्येव । नच संसर्गिसंसर्गिणः पातित्याभावे कथं प्रायश्चित्तमिति वाच्यम् । ( ११।१८९ ) - 'एनस्विभिरनिर्णिक्तैर्नार्थं कंचित्समाचरेत्' इति सामान्येनैनस्विमात्र संसर्गप्रतिषेधेन महापातकि संसर्गिसंसर्गस्यापि प्रतिषिद्धत्वात्पातित्याभावेsपि युक्तमेव प्रायश्चित्तम् । तच्च पादहीनम् । - ' यो येन संवसेद्वर्ष सोऽपि तत्समतामियात् । पादहीनं चरेत्सोऽपि तस्य तस्य व्रतं द्विजः ॥' इति व्यासोक्तं द्रष्टव्यम् । एवं चतुर्थपञ्चमयोरपि कामतः संसर्गिणोरर्धहीनं त्रिपादोनं च द्रष्टव्यम् । अतः साक्षाद्ब्रह्महादिसंसर्गिण एव तदीयप्रायश्चित्ताधिकारो न संसर्गिसंसर्गिण इति सिद्धम् ॥ अत्र च ब्रह्महादिषु यद्यपि कामतो मरणान्तिकमुपदिष्टं तथापि संसर्गिणस्तन्नातिदिश्यते । स तस्यैव व्रतं कुर्यादिति व्रतस्यैवातिदेशात् । मरणस्य च व्रतशब्दवाच्यत्वाभावात् । अतोऽत्र कामकृतेऽपि संसर्गे द्वादशवार्षिकमकामतस्तु तदर्धम् । संसर्गश्च स्वनिबन्धनकर्मभेदादने कथा भिद्यते । यथाह वृद्धबृहस्पतिः - 'एक शय्यासनं पतिर्भाण्डपङ्कयन्न मिश्रम् । याजनाध्यापने योनिस्तथा च सहभोजनम् ॥ नवधा संकरः प्रोक्तो न
1
२ तैरिति सर्वनाम ख. ३ तस्मान्नैवं ङ..
For Private And Personal Use Only
Page #446
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४१४
याज्ञवल्क्यस्मृतिः ।
[ प्रायश्चित्ताध्यायः
I
कर्तव्योsधमैः सह ॥' इति । देवलोऽपि - 'संलापस्पर्श निःश्वाससहयानासनाशनात् । याजनाध्यापनाद्यौनात्पापं संक्रमते नृणाम् ॥' इति । एकशय्यासनमेकखट्टाशयनमेक पङ्क्तिभोजनमेकभाण्डपचनमन्नेन मिश्रणं संसर्गस्तदीयान्नभोजनमिति यावत् । याजनं पतितस्य स्वस्य वा तेन । अध्यापनं तस्य स्वस्य वा तेन । यौनं तस्मै कन्यादानं तत्सकाशाद्वा कन्यायाः प्रतिग्रहः । सहभोजनमे - कामत्रभोजनम् । संलापः संभाषणम् । स्पर्शो गात्रसंमर्दः । निःश्वासः पतितमुखवायुसंपर्कः । सहयानमेकतुरगाद्यारोहणम् । एतेषां मध्ये केन कर्मणा कियता कालेन पातित्यमित्यपेक्षायां वृहद्विष्णुनोक्तम्- 'संवत्सरेण पतति पतितेन सहाचरन्नेकयानभोजनासनशयनैः, यौनस्त्रवमुख्यैस्तु संबन्धैः सद्य एव इति । अक भोजनमेकपङ्गिभोजनम् । एकामत्रभोजने तु सद्यः पातित्यम् । —— - ' याजनं योनिसंबन्धं स्वाध्यायं सहभोजनम् । कृत्वा सद्यः पतत्येव पतितेन न संशयः ॥' इति देवलस्मरणात् । स्रौवशब्देन याजनमभिधीयते । मुख्यशब्देन मुखभवत्वेनाध्यापनम् । यौनस्त्रौवमुख्यैरिति सत्यपि द्वन्द्वनिर्देशे प्रत्येकमेव तेषां सद्यः पतन हेतुत्वम् |- 'यः पतितैः सह यौनमुख्य स्रौवानां संबन्धानामन्यतमं संबन्धं कुर्यात्तस्याप्येतदेव प्रायश्चित्तम्' इति सुमन्तुस्मरणात् । एकयानादिचतुयस्य तु समुदितस्यैव पतनहेतुत्वम् । - ' एकयानभोजनासनशयनैः' इति इतरेतरयुक्तानां निर्देशात् । प्रत्येकानुष्टानस्य तु पतन हेतुत्वाभावेऽपि दोपहेतुत्वमस्त्येव । —'आसनाच्छयनाद्या नात्संभाषात्सह भोजनात् । संक्रामन्ति हि पापानि तैलबिन्दुरिवाम्भसि ॥' इति पराशरवचनेन निरपेक्षाणामपि पापहेतुत्वावगमात् । संलापस्पर्श निःश्वासानां तु यानादिचतुष्टयेनानुषङ्गिकतया समुच्चितानामेव पतन हेतुत्वं न पृथग्भूतानामल्पत्वात् । पापहेतुत्वं पुनरस्त्येव । - - 'संलापस्पशनिःश्वास' इति देवलवचनस्य दर्शितत्वात् । अतः संलापादिरहिते सहयानादिचतुष्टये कृते पञ्चमभागोनं द्वादशवार्षिकं प्रायश्चित्तं कुर्यात् । तत्सहिते तु पूर्णम् । एवंच सति 'एभिस्तु संवसेद्यो वै वत्सरं सोऽपि तत्समः' इति योगी - श्वरवचनमपि सहयानादिचतुष्टयपरमेव युक्तम् । यतः संलापादीनां पृथक्पातित्यहेतुत्वं नास्ति । अतएव मनुना ( १६/१७० ) - ' संवत्सरेण पतति पतितेन सहाचरन् । याजनाध्यापनाद्यौनान्न तु यानासनाशनात् ॥' इति यानादिचतुष्टयस्यैव संवत्सरेण पातित्यहेतुत्वमुक्तम् । अत्रासनग्रहणं शयनस्याप्युपलक्षणम् । अत्र च ' संवत्सरेण पतति पतितेन सहाचरन् । यानाशनासनात्' इति व्यवहितेन संबन्धः । प्राग्दर्शित विष्णुवचनानुरोधात् । तथा - 'संवत्सरेण पतति पतितेन सहाचरन् । भोजनासनशय्यादि कुर्वाणः सार्वकालिकम् ॥' इति देवलवचनाच्च । नचानन्वयदोषः । यानासनाशनादिहेतोराचरन्नाचारं कुर्वन्निति भेदविवक्षया संबन्धोपपत्तेः । यथा एतया पुनराधेयसंमितयेष्ट्येवेति । यद्वा भाचरनिति शत्रा हेत्वर्थस्य गमितत्वात् । यानाशनासनादिति द्वितीयार्थे पञ्चमी । याजनाध्यापनाद्यौना (त्सहभोजना ) न तु संवत्सरेण पतति किंतु सद्य एव प्राचीनवचननिचयानुरोधादेव | भतो यौनादिचतुष्टयेन सद्यः पतति यानादिचतुष्टयेन
For Private And Personal Use Only
Page #447
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्तप्रकरणम् ५] मिताक्षरासहिता।
४१५
तु संवत्सरं निरन्तराभ्यासेनेति युक्तं 'वत्सरं सोपि तत्समः' इति अत्यन्तसंयो. गवाचिन्या द्वितीयया दर्शनादन्तरितदिवसगणना कार्या । यथा षष्ट्यधिकश. तत्रयदिवसव्यापित्वं संसर्गस्य भवति ततो न्यूने तु न पतितप्रायश्चित्तं किंवन्यदेव । यथाह पराशरः-'संसर्गमाचरन्विप्रः पतितादिष्वकामतः । पञ्चाहं वा दशाहं वा द्वादशाहमथापि वा ॥ मासार्धं मासमेकं वा मासत्रयमथापि वा । अब्दार्धमेकमब्दं वा भवेदूज़ तु तत्समः ॥ त्रिरात्रं प्रथमे पक्ष द्वितीये कृच्छ्रमाचरन् । चरेसान्तपनं कृच्छ्रे तृतीये पक्ष एव तु । चतुर्थे दशरात्रं स्यात्पराकः पञ्चमे ततः । षष्ठे चान्द्रायणं कुर्यात्सप्तमे स्वैन्दवद्वयम् ॥ अष्टमे च तथा पक्षे पण्मासान्कृच्छ्रमाचरेत् ॥' इति ॥ कामतः संसर्गे पुनर्विशेषः स्मृत्यन्तरेऽभिहितः-सुमन्तुः-'पञ्चाहे तु चरेत्कृच्छ्र दशाहे तप्तकृच्छ्रकम् । पराकस्त्वर्धमासे स्यान्मासे चान्द्रायणं चरेत् ॥' इति ॥ 'मासत्रये प्रकुवीत कृच्छ्रे चान्द्रायणोत्तरम् । पाण्मासिके तु संसर्गे कृच्छं त्वब्दार्धमाचरेत् ॥ संसर्गे त्वाब्दिके कुर्यादब्दं चान्द्रायणं नरः ॥' इति । अत्र चाब्दिके संसर्गे इति किंचिन्यून इति द्रष्टव्यम् । पूर्णे तु वत्सरे मन्वादिभिर्दादशवार्षिकस्सरणात् । यत्तु बार्हस्पत्यं वचनम्-'पाण्मासिके तु संसर्गे याजनाध्यापनादिना। एकत्रासनशय्याभिः प्रायश्चित्ताधमाचरेत् ॥' इति । याजनाध्यापनयानैकपात्रभोजनानां षण्मासात्पातित्यवचनमेतदकामतोऽत्यन्तापदि पञ्चमहायज्ञादिप्राये याजनेऽङ्गाध्यापने दुहितृभगिनीव्यतिरिक्ते च योनिसंबन्धे द्रष्टव्यम् । प्रकृष्टयाजनादिभिः सद्यःपातित्यस्योक्तत्वात् । एतद्दिगवलम्बनेनैव दुहितृभगिनीनुषागाम्यतिपातकिसंसर्गिणां कामतो नववार्षिकं अकामतः सार्धचतुर्वार्षिकं कल्पनीयम् । सखिपितृव्यदारादिगामिपातकिसंसर्गिणां कामतः षड्वार्षिकमकामतस्त्रैवार्षिकम् । अथोपपातक्यादिसंसर्गिणामपि कामतस्तदीयमेव त्रैमासिकमकामतोऽर्धमित्यूहनीयम् । पुरुषवत्स्त्रीणामपि महापातक्यादिसंसर्गात्पातित्यमविशिष्टम् । यथाह शौनकः-'पुरुषस्य यानि पतननिमित्तानि स्त्रीणामपि तान्येव ।' ब्राह्मणी हीनवर्णसेवायामधिकं पततीति । अतस्तासामपि महापातकिप्रभृतीनां मध्ये येन सह संसर्गस्तदीयमेव प्रायश्चित्तमर्धकृत्या योजनीयम् । एवं बालवृद्धातुराणामपि कामतोऽर्धमकामतः पादः । तथानुपनीतस्यापि बालस्य कामतः पादोऽकामतस्तदर्धमित्येषा दिक् ॥ पतितसंसर्गप्रतिषेधेन प्रतिषिद्धस्य यौनसंबन्धस्य क्वचित्प्रतिप्रसवमाह
कन्यां समुद्वहेदेषां सोपवासामकिंचनाम् ॥ २६१॥ एषां पतितानां कन्यां पतितावस्थायामुत्पन्नां सोपवासां कृतसंसर्गकालोचितप्रायश्चित्तामकिंचनामगृहीतवस्त्रालंकारादिपितृधनामुद्हेत् । कन्यां समुदहे. दिति वदनस्वयमेव कन्यां त्यांतपतितसंसर्गी समुदहेन्न पुनः पतितहस्तात्पति
१ भ्यस्तेनेति ङ. २ मधकृप्त्या ङ. .
मा० ३८
. ...
..
.
For Private And Personal Use Only
Page #448
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
याज्ञवल्क्यस्मृतिः। [प्रायश्चित्ताध्यायः
गृह्णीयादिति दर्शयति । एवंच सति पतितयौनसंसर्गप्रतिषेधविरोधोऽपि परिहृतो भवति । अयं चार्थो बृहद्धारीतेन स्पष्टीकृतः-'पतितस्य तु कुमारी विवस्त्रामहोरात्रोपोषितां प्रातः शुक्लेनाहतेन वाससाच्छादितां नाहमेतेषां न ममैत इति त्रिरुच्चैरभिदधानां तीर्थे स्वगृहे वोद्वहेत्' इति । तथा एषां कन्यां समुद्रहेदिति वचनात्स्त्रीव्यतिरिक्ततदीयापत्यस्य संसर्गानहतां दर्शयति । अतएव वसिष्ठः--'पतितेनोत्पन्नः पतितो भवति अन्यत्र स्त्रियाः, सा हि परगामिनी तामरिक्थामुद्हेत्' इति ॥ २६१ ॥
इति संसर्गप्रायश्चित्तप्रकरणम् । निषिद्धसंसर्गप्रसङ्गानिषिद्धसंसर्गोत्पन्नप्रतिलोमवधे प्रायश्चित्तमाह
चान्द्रायणं चरेत्सर्वानवकृष्टानिहत्य तु । अवकृष्टाः सूतमागधादयः प्रतिलोमोत्पन्नास्तेषां प्रत्येकं हनने चान्द्रायणम् । तथाच शङ्ख:-'सर्वेषामवकृष्टानां वधे प्रत्येकं चान्द्रायणम्' इति । यद्वाङ्गिरसोक्तम्-'सर्वान्त्यजानां गमने भोजने संप्रमापणे । पराकेण विशुद्धिः स्यादित्याङ्गिरसभाषितम् ॥' इति पराकं कुर्यात् । तत्र कामतः सूतादिवधे चान्द्रायणम् । अकामतस्तु सूतवधे पराकः । वैदेहकवधे पादोनम् । चण्डालवधे द्विपादः । मागधवधे पादोनः पराकः । क्षत्तरि द्विपादः । आयोगवे च पादद्वयम् । अनयैव दिशा चान्द्रायणस्यापि तारतम्यं कल्प्यम् । यत्तु ब्रह्मगर्भवचनम्-'प्रतिलोमप्रसूतानां स्त्रीणां मासावधिः स्मृतः । अन्तरप्रभवानां च सूतादीनां चतुर्द्विषट् ॥' इति तदावृत्तिविषयम् । तत्र सूतवधे षण्मासाः, वैदे. हकवधे चत्वारः, चण्डालवधे द्वाविति योग्यतयान्वयः । तथा मागधवधे ‘चत्वारः, क्षत्तरि द्वैमासिकं, अयोगवे च द्वैमासिकमिति व्यवस्था ॥
नैमित्तिकवतानां जपादिसाध्यत्वाद्विद्याविरहिणां च शूद्रादीनां तदनुपपत्तेराज्यावेक्षणादिसाध्येष्विवान्धानामनधिकारमाशङ्कयाह__ शूद्रोऽधिकारहीनोऽपि कालेनानेन शुध्यति ॥ २६२ ॥
यद्यपि शूदो जपाद्यधिकारहीनस्तथाप्यनेन द्वादशवार्षिकादिकालसंपाद्येन व्रतेन शुध्यति । शूद्रग्रहणं स्त्रीणां प्रतिलोमजानां चोपलक्षणम् । यद्यपि तस्य गायच्यादिजपासंभवस्तथापि नमस्कारमन्त्रजपो भवति । अतएव स्मृत्यन्तरेऽभिहितम्-'उच्छिष्टं चास्य भोजनमनुज्ञातोऽस्य नमस्कारो मन्त्रः' इति । यद्वा वचनबलाजपादिरहितमेव व्रतं कुर्यात्-'तसाच्छूद्रं समासाद्य सदा धर्मपथे स्थितम् । प्रायश्चित्तं प्रदातव्यं जपहोमविवार्जितम् ॥' इत्यङ्गिरःस्मरणात् । तथापरमपि तेनैवोक्तम्-'शूद्रः कालेन शुध्येत गोब्राह्मणहिते रतः । दानाप्युपवासा द्विजशुश्रूषया तथा ॥' इति ॥ यत्तु मानवम् (४८०)-'न चास्योपदिशेद्धमै न चास्य व्रतमादिशेत्' इति शूद्रस्य व्रतोपदेशनिषेधपरं वचनं तदनुपसत्रशूद्राभिप्रायम् । यदपि स्मृत्यन्तरवचनम्-'कृच्छ्राण्येतानि कार्याणि सदा वर्णत्रयेण तु । कृच्छ्रेष्वेतेषु शुदख नाधिकारो विधीयते ॥ इति, तस्का.
For Private And Personal Use Only
Page #449
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्तप्रकरणम् ५ ] मिताक्षरासहिता।
४१७ म्यकृच्छ्राभिप्रायम् । अतः स्त्रीशूद्रयोः प्रतिलोमजानां च त्रैवर्णिकवद्रताधिकार इति सिद्धम् । यत्तु गौतमवचनम्-'प्रतिलोमा धर्महीनाः' इति, तदुपनयनादिविशिष्टधर्माभिप्रायम् ॥ २६२ ॥
इति पञ्चमहापातकप्रायश्चित्तप्रकरणम् । महापातकादिपञ्चकमध्ये महापातकातिपातकानुपपातकप्रायश्चित्तान्युक्त्वाधुनोपपातकप्रायश्चित्तानि व्याचक्षाणः पाठक्रमप्राप्तं गोवधप्रायश्चित्तं तावदाह
पञ्चगव्यं पिबेगोनो मासमासीत संयतः । गोष्ठेशयो गोऽनुगामी गोप्रदानेन शुध्यति ॥ २६३ ॥ कृच्छ्रे चैवातिकृच्छ्रे च चरेद्वापि समाहितः।।
दद्यात्रिरात्रं चोपोष्य वृषभैकादशास्तु गाः ॥ २६४ ॥ गां हन्तीति गोनः । मूलविभुजादित्वात्कप्रत्ययः । असौ मासं समाहित आसीत । किं कुर्वन् । पञ्च च तानि गव्यानि गोमूत्रगोमयक्षीरदधिघृतानि यथाविधि मिश्रितानि पिबन, माहारान्तरपरित्यागेन भोजनकार्ये तस्य विधानात् । तथा गोष्ठेशयः । प्राप्तशयनानुवादेन गोष्ठविधानाद्दिवा च स्वापप्रतिषेधाद्रात्रौ गोशालायां शयानः । गा अनुगच्छति तदस्य व्रतमिति गोऽनुगामी । व्रते णिनिः । अतश्च यासां गोष्ठे शेते सन्निधानात्ता एव गाः प्रातर्वनं विचरन्तीरनुगच्छेत् । अनुगच्छेदिति वचनाद्यदा ता गच्छन्ति तदैव स्वयमनुगच्छेत् । यदातु तिष्ठन्त्यासते वा तदा पश्चाद्वमनस्याशक्यकरणत्वात्स्वयमपि तिष्ठेदासीत वेति गम्यते । अनुगमनविधानादेव ताभिः सायं गोष्ठं व्रजन्तीभिः सह गोष्ठप्रवेशोs. प्यर्थसिद्धः । एवं कुर्वन्मासान्ते गोप्रदानेन एकां गां दत्त्वा तावता शास्त्रार्थस्य संपत्तेर्गोहत्यायाः शुध्यतीत्येकं व्रतम् । मासं गोष्टेशयो गोऽनुगामीत्यनुवर्तते । पञ्चगव्याहारस्य तु निवृत्तिः कृच्छ्रविधानादेव । अतश्च मासं निरन्तरं कृच्छं समाहितश्चरेदित्यपरम् । अतएव जाबालेन मासप्राजापत्यस्य पृथक् प्रायश्चित्तत्वमुक्तम्-'प्राजापत्यं चरेन्मासं गोहन्ता चेदकामतः । गोहितो गोऽनुगामी स्याद्गोप्रदानेन शुध्यति ॥' इति । अतिकृच्छ्रे वा तथैव समाचरेदित्यन्यत् । कृच्छ्रातिकृच्छ्रयोर्लक्षणमुत्तरत्र वक्ष्यते । अथवा त्रिरात्रमुपवासं कृत्वा वृषभ एकादशो यासांगवां ता दद्यादिति व्रतचतुष्टयम् । तत्राकामकृते जातिमात्रब्राह्मणस्वामिकगोमात्रवधे उपवासं कृत्वा वृषभैकादशगोदानसहितस्त्रिरात्रोपवासो द्रष्टव्यः । विशिष्टस्वामिकाया विशिष्टगुणवत्याश्च वधे गुरुप्रायश्चित्तस्य वक्ष्यमाणत्वात् । क्षत्रियसंबन्धिन्यास्तु तादृग्विधे व्यापादने मासं पञ्चगव्याशित्वं प्रथमं प्रायश्चित्तम् । अत्र मासपञ्चगव्याशनस्यातिस्वल्पत्वान्मासोपवासतुल्यत्वम् । ततश्च षड्भिः षड्निरुपवासैरेकैकप्राजापत्यकल्पनया पञ्चकृच्छ्राणां प्रत्याम्नायेन पञ्च धेनवो मासान्ते च दीयमाना गौरेकेति षट् धेनवो भवन्तीति वृषभैकादशगोदानसहितत्रिरात्रव्रताल्लघीयस्त्वम् । कथं पुनर्ब्राह्मणगवीनां गुरुत्वम् । 'देवब्राह्मणराज्ञां तु विज्ञेयं द्रव्यमुत्तमम्' इति नारदेन तव्यस्योत्त
For Private And Personal Use Only
Page #450
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४१८
याज्ञवल्क्यस्मृतिः। [प्रायश्चित्ताध्यायः मत्वाभिधानात् , गोषु ब्राह्मणसंस्थास्थिति दण्डभूयस्त्वदर्शनाच्च । वैश्यसंबन्धिन्यास्तु तादृग्विधे व्यापादने मासमतिकृच्छ्रे कुर्यात् । अतिकृच्छ्रे त्वाद्ये त्रिरात्र.
ये पाणिपूरानभोजनमुक्तम् । अन्त्ये त्रिरात्रेऽनशनम् । अतोऽतिकृच्छ्रधर्मेण मासवते क्रियमाणे पात्रमुपवासो भवति । चतुर्विंशत्यहे च पाणिपूरानभो. जनम् । ततश्च कृच्छ्रप्रत्याम्नायकल्पनया किंचिन्यूनं धेनुपञ्चकं भवतीति पूर्व. सातद्वयालघिष्ठत्वेन वैश्यस्वामिकगोवधविषयता युक्ता । तादृश एवं विषये शूद्रस्वामिकगोहत्यायां मासं प्राजापत्यव्रतं द्वितीयम् । तत्र च सार्धप्राजापत्यद्वयात्मकेन प्रत्याम्नायेन किंचिदधिकं धेनुद्वयं भवतीति पूर्वेभ्यो लघुतमत्वाच्छूद्रविषयतोचिता । अथ चैतत्प्रायश्चित्तचतुष्टयं साक्षात्कनुग्राहकप्रयोजका. नुमन्तृषु गुरुलघुभावतारतम्यापेक्षया पूर्वोक्त एव विषये योजनीयम् । यत्तु वैष्णवं व्रतत्रयम्-'गोध्नस्य पञ्चगव्येन मासमेकं पलत्रयम् । प्रत्यहं स्यात्पराको वा चान्द्रायणमथापि वा ॥ इति, यच्च काश्यपीयम्-'गां हत्वा तच्चर्मणा प्रावृतो मासंगोष्ठेशयस्त्रिषवणस्नायी नित्यं पञ्चगव्याहारः' इति, यञ्च शातातपीयम्'मासं पञ्चगव्याहारः' इति, तत्पञ्चकमपि याज्ञवल्क्यीयपञ्चगव्याहारसमानविष. यम् । यच्च शङ्खप्रचेतोभ्यामुक्तम्-'गोन्नः पञ्चगव्याहारः पञ्चविंशतिरात्रमु. पवसेत्सशिखं वपनं कृत्वा गोचर्मणा प्रावृतो गाश्चानुगच्छन् गोष्ठेशयो गांच दद्यात्' इति । एतच्च याज्ञवल्क्यीयमासातिकृच्छ्रव्रतसमानविषयम् । दद्यात्रिरात्रं चोपोष्य इत्येतद्विषयं वात्यन्तगुणिनो हन्तुर्वेदितव्यम् । अत्रैव विषये पञ्चगव्याशक्तस्य तु द्वितीयं काश्यपीयं 'मासं पञ्चगव्येने' ति प्रतिपाद्य 'षष्ठे काले पयोभक्षो वा गच्छन्तीष्वनुगच्छेत्तासु सुखोपविष्टासु चोपविशेनातिप्लवं गच्छे. नातिविषमेणावतारयेन्नालपोदके पाययेदन्ते ब्राह्मणान्भोजयित्वा तिलधेनुं दयात्' इति द्रष्टव्यम् । अत्राप्यशक्तस्य 'गोनो मासं यवागू प्रसृतितन्दुलशृतं भुजानो गोभ्यः प्रियं कुर्वन् शुध्यति' इति पैठीनसिनोक्तं वेदितव्यम् । यत्तु सौमन्तम्-'गोनस्य गोप्रदानं गोष्टे शयनं द्वादशरात्रं पञ्चगव्याशनं गवानुगमनं च' इति, यच्च संवर्तेनोक्तम्-'सक्तुयावकभैक्षाशी पयो दधि धृतं सकृत् । एतानि क्रमशोऽश्नीयान्मासाधैं सुसमाहितः ॥ ब्राह्मणान्भोजयित्वा तु गां दद्यादात्मशुद्धये ॥' इति, यञ्च बार्हस्पत्यम्-'द्वादशरात्रं पञ्चगव्याहारः' इति, तत्रितयमपि याज्ञवल्क्यीयमासप्राजापत्येन समानविषयं, मृतकल्पगोहत्याविषयं वा, विषमप्रदेशत्रासेन जनितव्याधितो मरणविषयं वा वेदितव्यम् । तदिदं सर्व प्रागुक्तमकामविषयम् । यदा पुनरीदग्विधामविशिष्टविप्रस्वामिकामविशिष्टां गां कामतः प्रमापयति तदा मनुना मासं यवागूपानं, मासद्वयं हवि. व्येण चतुर्थकालभोजनं, मासत्रयं वृषभैकादशगोदानयुक्तं शाकादिना वर्तनमिति व्रतत्रितयमाम्नातम् । यथाह (११११०४-११६)-'उपपातकसंयुक्तो गोनो मासं यवान्पिबेत् । कृतवापो वसेद्गोष्ठे चर्मणाट्टैण संवृत्तः । चतुर्थकाल.
१ प्रदेशाशनजनित ऊ.
For Private And Personal Use Only
Page #451
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्तप्रकरणम् ५] मिताक्षरासहिता ।
४१९
मनीयादक्षारलवणं मितम् । गोमूत्रेण चरेत्नानं द्वौ मासौ नियतेन्द्रियः । दिवानुगच्छेत्ता गास्तु तिष्ठन्नूल रजः पिबेत् । शुश्रूषित्वा नमस्कृत्वा रात्री वीरासनं वसेत् ॥ तिष्ठन्तीष्वनुतिष्ठेत्तु व्रजन्तीष्वप्यनुव्रजेत् । आसीनासु तथासीनो नियतो वीतमत्सरः ॥ आतुरामभिशस्तां वा चौरव्याघ्रादिभिर्भयैः । पतितां पङ्कलनां वा सर्वोपायैर्विमोचयेत् ॥ उष्णे वर्षति शीते वा मारुते वाति वा भृशम् । न कुर्वीतात्मनस्त्राणं गोरकृत्वा तु शक्तितः ॥ आत्मनो यदि वान्येषां गृहे क्षेत्रेऽथवा खले । भक्षयन्ती न कथयेपिबन्तं चैव वत्सकम् ॥ अनेन विधिना यस्तु गोनो गा अनुगच्छति । स गोहत्याकृतं पापं त्रिभिर्मासळपो. हति ॥ वृषभैकादशा गाश्च दद्यात्सुचरितव्रतः । अविद्यमाने सर्वस्वं वेदविन्यो निवेदयेत् ॥' इति । एतत्रितयं याज्ञवल्क्यीयमासप्राजापत्यमासपञ्चगव्याशनवृषभैकादशगोदानयुक्तत्रिरात्रोपवासरूपवतत्रितयविषयं यथाक्रमेण द्रष्टव्यम् ॥ यत्त्वङ्गिरसा मानवेतिकर्तव्यतायुक्तं त्रैमासिकमभिधायाधिकमभिहितम्-'अक्षारलवणं रुक्षं षष्ठे कालेऽस्य भोजनम् । गोमती वा जपेद्विद्यामोङ्कारं वेदमेव च ॥ व्रतवद्धारयेद्दण्डं समन्त्रां चैव मेखलाम् ॥' इति, तन्मानवविषयम् । एवं पुष्टितारुण्यादि किंचिद्गुणातिशययोगिन्यां द्रष्टव्यम् । 'अतिबालामतिकृशामतिवृद्धां च रोगिणीम् । हत्वा पूर्व विधानेन चरेदधैं व्रतं द्विजः ॥' इति पुष्टितारुण्यादिरहितायां गव्यर्धप्रायश्चित्तदर्शनात् । यदा तु याज्ञवल्क्यीयमासातिकृच्छ्रव्रतनिमित्तभूतां गामविशिष्टस्वामिकां जातिमात्रयोगिनी कामतो व्यापादयति तदा 'विहितं यदकामानां कामात्तद्द्विगुणं चरेत्' इति न्यायेन पूर्वोक्तमेवाकामविहितं मासातिकृच्छ्रवतं द्विगुणं कुर्यात् । यत्तु हारीतेन-'गोनस्तचौलवालं परिधाय' इत्यादिना मानवीमितिकर्तव्यतामभिधायोक्तम्-'वृषभैकादशाश्व गा दत्त्वा त्रयोदशे मासे पूतो भवति' इति तत्सवनस्थश्रोत्रियगोवधे अकामकृते दृष्टव्यम् । यत्तु वसिष्ठेन-'गां चेद्धन्यात्तस्याश्चर्मणाईण परिवेष्टितः षण्मासान् कृच्छ्रतप्तकृच्छ्रावातिष्ठेदृषभवेहतौ दद्यात्' इति पाण्मासिकं कृच्छ्रतप्तकच्छ्रानुष्ठानमुक्तम्, यदपि देवलेन-'गोनः पण्मासांस्तचर्मपरिवृतो गोव्रजनिवासी गोभिरेव सह चरन् प्रमुच्यते' इति, तत् द्वयमपि हारीतीयेन समानविषयम् । तत्रैव कामकारकृते कात्यायनीयं त्रैवार्षिकम्-'गोनस्तञ्चर्मसंवीतो वसेद्गोष्ठेऽथवा पुनः । गाश्चानुगच्छेत्सततं मौनी वीरासनादिभिः ॥ वर्षशीतातपक्लेशवह्निपङ्कभयादितः । मोक्षयेत्सर्वयत्नेन पूयते वत्सरैत्रिभिः ॥' इति द्रष्ट. व्यम् । यच्च शाङ्गं त्रैवार्षिकम् – 'पादं तु शूद्रहत्यायामुदक्यागमने तथा । गोवधे च तथा कुर्यात्परस्त्रीगमने तथा ॥' इति, तदपि कात्यायनीयव्रतसमानविषयम् ॥ यत्तु यमेनाङ्गिरसीमितिकर्तव्यतामभिधाय 'गोसहस्रं शतं वापि दद्यात्सुचरितव्रतः । अविद्यमाने सर्वस्वं वेदविन्द्यो निवेदयेत् ॥' इति गोसहस्रयुक्तं गोशतयुक्तं च द्वैमासिकं व्रतद्वयमभिहितम् , तत्र यदा सवनस्थश्रोत्रिया.
१ सर्वप्राणैर्विमोषयेत् ङ.
For Private And Personal Use Only
Page #452
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४२०
याज्ञवल्क्यस्मृतिः। [प्रायश्चित्ताध्यायः दिदुर्गतबहुकुटुम्बिब्राह्मणसंबन्धिनी कपिलां कर्माङ्गभूतां गर्मिणी बहुक्षीरतरुणिमादिगुणशालिनी निर्गुणो धनवान्सप्रयत्नं खगादिना व्यापादयति तदा गोसहस्रयुक्तं त्रैमासिकं कुर्यात् । ---'गर्भिणी कपिलां दोग्ध्री होमधेनुं च सुव्रताम् । खड्गादिना घातयित्वा द्विगुणं व्रतमाचरेत् ॥' इति विशिष्टायां गवि बाहस्पत्ये प्रायश्चित्तविशेषदर्शनात् ॥ अतएव प्रचेतसा- 'स्त्रीगर्भिणीगोगर्भिणीबालवृद्धवधेषु भ्रूणहा भवति' इति । ईदृग्विधमेव गोवधमभिसंधाय ब्रह्महत्यावतमतिदिष्टम् । द्वितीयं तु याम्यं गोशतदानयुक्तं त्रैमासिकं व्रतं कात्यायनीयव्रतविषये धनवतो द्रष्टव्यम् ॥ यत्तु गौतमेन वृषभैकशतगोदानसमुचितं त्रैवार्षिक प्राकृतं ब्रह्मचर्य वैश्यवधेऽभिधाय गोवधेऽतिदिष्टम्-'गां च हत्वा वैश्यवत्' इति । एतञ्च त्रैवार्षिकवतप्रत्याम्नायभूतनवतिधेनुभिः सार्धं वृपभैकशता गावो नवन्यूनं द्विशतं भवतीति गोसहस्रयुक्तत्रैमासिकवतान्यूनत्वात्पूर्वोक्तविषये एव कामतो वधे । यद्वा तत्रैव विषये गर्भरहितायाः कामतो वधे द्रष्टव्यम् । तादृग्विधाया एव गर्भरहितायास्त्वकामतो हननेऽपि कात्यायनीयमेव त्रैवार्षिकं कल्प्यम् ॥ यत्तु यमेनोक्तम्- 'काष्ठकोष्ठाश्मभिर्गावः शस्त्रैर्वा निहता यदि । प्रायश्चित्तं कथं तत्र शस्त्रेऽशस्त्र विधीयते ॥ काष्ठे सान्तपनं कुर्याप्राजापत्यं तु लोष्ठके। तप्तकृच्छ्रे तु पाषाणे शस्त्रे चाप्यतिकृच्छ्रकम् ॥ प्रायश्चित्ते ततश्वीरें कुर्याद्राह्मणभोजनम् । त्रिंशद्वा वृषभं चैकं दद्यात्तेभ्यश्च दक्षिणाम् ॥' इति, तत्पूर्वोक्तगोसहस्रशतादिदानत्रैवार्षिकादिव्रतविषयेष्वेव काष्ठादिसाधनविशेषजनितवधनिमित्तसान्तपनादिपूर्वकत्वप्रतिपादनपरं नतु निरपेक्षं, लघुत्वाद्रतस्य । तथा वयोविशेषादपि प्रायश्चित्तविशेष उक्तः-'अतिवृद्धामतिकृशामतिबालां च रोगिणीम् । हत्वा पूर्व विधानेन चरेदर्धव्रतं द्विजः ॥ ब्राह्मणाभोजयेच्छत्या दद्याद्धेम तिलांस्तथा ॥' इति ॥ नीरोगादिवधे यद्विहितं तस्यार्धम् ॥ बृहत्प्रचेतसाप्यत्र विशेष उक्तः-'एकवर्षे हते वत्से कृच्छ्रपादो विधीयते । अबुद्धिपूर्वे पुंसः स्याविपादस्तु द्विहायने ॥ त्रिहायने त्रिपादः स्याप्राजापत्यमतःपरम् ॥' इति ॥ तथा गर्भिण्या वधे यदा गर्भोऽपि निहतो भवति तदा 'प्रतिनिमित्तं नैमित्तिकमावर्तते' इति न्यायेनाविशेषेण द्विगुणवतप्राप्तौ षत्रिंशन्मते विशेष उक्तः-'पाद उत्पन्नमात्रे तु द्वौ पादौ दृढतां गते । पादोनं व्रतमुद्दिष्टं हत्वा गर्भमचेतनम् ॥ अङ्गप्रत्यङ्गसंपूर्णे गर्भे चेतःसमन्विते । त्रिगुणं गोव्रतं कुर्यादेषा गोनस्य निष्कृतिः ॥' इति ॥ बहुकर्तृके तु हनने संवर्तापस्तम्बौ विशेषमाहतुः—'एका चेद्बहुभिः काचिदैवायापादिता कचित् । पादं पादं तु हत्यायाश्चरेयुस्ते पृथक्पृथक् ॥' इति । यादृग्विधगोहत्यायां यद्रतमुपदिष्टं तत्पादं प्रत्येकं कुर्युर्वचनात् । एका चेदित्युपलक्षणम् । अतो बहुभिर्द्वयोर्बहूनां च व्यापादने प्रतिपुरुषं पादद्वयं पादोनं वा कल्पनीयम् । एतच्चाकामतो वधे द्रष्टव्यम् । देवादिति विशेषणोपादानात् । कामकारे तु
१ सप्रतिशं ङ. २ प्रायश्चित्तं पृथक्तत्र धर्मशास्त्रे विधीयते ङ.
For Private And Personal Use Only
Page #453
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्तप्रकरणम् ५] मिताक्षरासहिता ।
४२१ बहूनामपि प्रत्येकं कृत्स्नदोषसंबन्धारकृत्स्नवतसंबन्धो युक्तः । सत्रिणामिव प्रतिपुरुषं कृत्स्नव्यापारसमवायात् । 'एकं प्रतां बहूनां तु यथोक्ताद्विगुणो दमः' इति प्रत्येकं दण्डे द्वैगुण्यदर्शनाच । यदा त्वेकेनव रोधनादिव्यापारेण बहवो गावो व्यापादितास्तत्र संवर्तापस्तम्बौ विशेषमाहतुः-'ध्यापन्नानां बहूनां तु रोधने बन्धेनेऽपि वा । भिषमिथ्योपचारे च द्विगुणं गोवतं चरेत् ॥' इति । बहुष्वपि व्यापनेषु न प्रतिनिमित्तं नैमित्तिकानुष्ठानं, नापि तन्त्रेण किंतु वचनबलाद्विगुणमेव । तथा भिषगपि विरुद्धौषधदानेनैकस्या अप्यकामतो व्यापादने द्विगुणं गोव्रतं कुर्यात् । भिषग्व्यतिरिक्तस्य केवलं उपकारार्थं प्रवृत्तस्य त्वकामतः प्रतिकूलौषधदाने व्यास आह- औषधं लवणं चैव पुण्यार्थमपि भोजनम् । अति. रिक्तं न दातव्यं काले स्वल्पं तु दापयेत् ॥ अतिरिक्त विपत्तिश्चेत्कृच्छ्रपादो विधीयते ॥' इति ॥ यत्त्वापस्तम्बेनोक्तम्-'पादमेकं चरेद्रोधे द्वौ पादौ बन्धने चरेत् । योजने पादहीनं स्थाचरेत्सर्व निपातने ॥' इति तस्यवहितव्यापारिणो निमित्तकर्तुर्विज्ञेयं, न साक्षारकर्तुः । साक्षात्कर्तृ निमित्तिनोश्च भेदस्तेनैव दर्शितः'पापाणैर्ल कुटेर्वापि शस्त्रेणान्येन वा बलात् । निपातयन्ति ये गास्तु कृत्स्नं कुर्युव्रतं हि ते ॥ तथैव बाहुजङ्घोरुपार्श्वग्रीवाड्रिमोटनैः ॥' इति । एतदुक्तं भवतिपाषाणखगादिभिर्गीवामोटनादिना वा येऽङ्गानि पातयन्ति ते साक्षाद्धन्तारस्तेप्वेव कृत्स्नं प्रायश्चित्तम् । ये तु व्यवहितरोधबन्धादिव्यापारयोगिनस्ते निमित्तिनस्तेषां न कृत्स्नव्रतसंबन्धः किंतु तदवयवैरेव पादद्विपादादिभिरिति । तत्रं च रोधादिना व्यवहितव्यापारत्वाविशेषेऽपि वचनावचित्पादः क्वचिद्द्विपादः पादोनं कचिदिति युक्तम् । अत्राह पराशरः-'गवां बन्धनयोस्तु भवेन्मृत्युरकामतः । अकामकृतपापस्य प्राजापत्यं विनिर्दिशेत् ॥ प्रायश्चित्ते ततश्चीर्णे कुर्याब्राह्मणभोजनम् । अनडुन्सहितां गां च दद्याद्विप्राय दक्षिणाम् ॥' इति ॥ अयं च प्राजापत्यो यदि रोधादिकं कृत्वा तजन्यप्रमादपरिजिहीर्षया प्रत्यवेक्षमाण आस्ते तदा द्रष्टव्यः । अकामकृतपापस्येति विशेषणोपादानात् । यदा तु न प्रमादसंसरणं करोति तदा ‘पादमेकं चरेद्रोधे द्वौ पादौ बन्धने चरेत् । योजने पादहीनं स्थाचरेत्सर्वं निपातने ॥' इत्यङ्गिरसोक्तं त्रैमासिकपादं किंचिदधिकं वा विंशत्यहोवधव्रतं कुर्यात् । आपस्तम्बेनापि विशेष उक्तः–'अतिदाहातिवाहाभ्यां नासिकाच्छेदने तथा । नदीपर्वतसंरोधे मृते पादोनमाचरेत् ॥' इति । लक्षणमात्रोपयोगि ने तु दाहे न दोषः । --'अन्यत्राङ्कनलक्षाभ्यां वाहने मोचने तथा । सायं संगोपनार्थे च न दुष्येद्रोधबन्धने ॥' इति पराशरस्मरणात् । अङ्कनं स्थिरचिह्नकरणम् । लक्षणं सांप्रतोपलक्षणम् । वाहने शास्त्रोक्तमार्गेण रक्षणार्थमपि नालिकेरादिभिर्बन्धने भवत्येव दोषः । 'न नालिकेरेण न शाणवालैर्न चापि मौजेने न बन्धशृङ्खलैः । एतैस्तु गावो न निबन्धनीया बट्टा तु
१ बन्धनादि ख. २ बन्धने तथा ख. ३ लगुडैर्वापि ङ. ४ तत्रावरोधादिना ङ. ५ संरक्षणं ङ. ६ द्वाविंशत्यहः ङ. ७ अविदोहा. ख. ८ मोचनेऽपि वा ङ. ९ मौजैनच शृङ्खलैश्च ङ,
For Private And Personal Use Only
Page #454
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४२२
याज्ञवल्क्यस्मृतिः । [ प्रायश्चित्ताध्यायः
---
तिष्ठेत्परशुं गृहीत्वा ॥ कुशैः काशैश्च बध्नीयात्स्थाने दोषविवर्जिते ॥' इति व्यासस्मरणात् ॥ तथान्योऽपि विशेषस्तेनैवोक्तः - ' घण्टाभरणदोषेण विपत्तिर्यन्त्र गोर्भवेत् । कृच्छ्रांर्धं तु भवेत्तत्र भूषणार्थं हि तत्स्मृतम् ॥ अंतिदाहेतिदमने संघाते चैव योजने । बद्धा शृङ्खलपाशैश्च मृते पादोनमाचरेत् ॥' इति ॥ पालना करणादिनोपेक्षयां कचित्प्रायश्चित्तविशेषस्तेनैवोक्तः, – ' जलौघपल्वले मम्मा मेघविद्यु
तापि वा । श्वभ्रे वा पतिताकस्माच्छापदेनापि भक्षिता ॥ प्राजापत्यं चरेत्कृच्छ्रं गोस्वामी व्रतमुत्तमम् । शीतवाताहता वा स्यादुद्बन्धनहतापि वा ॥ शून्यागार उपेक्षायां प्राजापत्यं विनिर्दिशेत् ॥' इति ॥ इदं तु कार्यान्तरविरहेऽप्युपेक्षायां वेदितव्यम् । कार्यान्तरव्यग्रतयोपेक्षायां त्वर्धम् - 'पल्वलौघमृगव्याघ्रश्वापदादिनिपातने । श्वभ्रप्रपातसर्पाद्यैर्मृते कृच्छ्रार्धमाचरेत् ॥ अपालत्वात्तु कृच्छ्रं स्याच्छून्यागार उपप्लवे ॥' इति विष्णुस्मरणात् ॥ तथा सत्यपि व्यापादने क्वचिदुपकारार्थप्रवृत्तौ वचनाद्दोषाभावः । यथाह संवर्तः - 'यन्त्रणे गोचिकित्सार्थे मूढगर्भविमोचने । यले कृते विपत्तिः स्यान्न स पापेन लिप्यते ॥' इति । यत्रणं व्याघ्रौदिनिर्यातनार्थं संदेशाङ्कुशादिप्रवेशनम् । तथा— 'औषधं स्नेहमाहारं ।
1
ब्राह्मणे द्विजः । दीयमाने विपत्तिश्चेन्न स पापेन लिप्यते ॥ ग्रामघाते शरौघेण वेश्मभङ्गान्निपातने । दाहच्छेदशिराभेदप्रयोगैरुपकुर्वताम् ॥ द्विजानां गोहितार्थं च प्रायश्चित्तं न विद्यते ॥' अत्र पराशरोऽप्याह -- ' ग्रामघाते शरौघेण वेश्मभङ्गान्निपातने । अतिवृष्टिहतानां च प्रायश्चित्तं न विद्यते ॥ ' इति । तथा कूपखाते च धर्मार्थे गृहदाहे च या मृता । ग्रामदाहे तथा घोरे प्रायश्चित्तं न विद्यते ॥' इति । इदं तु बन्धनरहितस्यैव पशोः कथंचिगृहादिदाहेन मृतविषयम् । इतरथा त्वापस्तम्बेनोक्तम्- 'कान्तारेष्वथ दुर्गेषु गृहदाहे खलेषु च । यदि तत्र विपत्तिः स्यात्पाद एको विधीयते ॥' इति । तथाऽस्थ्यादिभङ्गे मरणाभावेऽपि क्वचित्प्रायश्चित्तमुक्तम्- 'अस्थिभङ्गं गवां कृत्वा लाङ्गूलच्छेदनं तथा । पाटनं दन्तशृङ्गाणां मासार्धं तु यवान्पिबेत् ॥' इति । यत्त्वा ङ्गिरसम्— 'शृङ्गदन्तास्थिभङ्गे वा चर्मनिर्मोचनेऽपि वा । दशरात्रं पिबेद्वज्रं स्वस्थापि यदि गौर्भवेत् ॥' इति वज्रशब्दवाच्यं क्षीरादिवर्तनमुक्तं तदशक्तविषयम् । इदं च प्रायश्चित्तं गोस्वामिने व्यापन्नगोसदृर्शी गां दत्वैव कार्यम् यदाह पराशरः - ' प्रमापणे प्राणभृतां दद्यात्तत्प्रतिरूपकम् । तस्यानुरूपं मूल्यं वा दद्यादित्यब्रवीद्यमः ॥' इति । मनुरपि ( ८/२८८ ) – 'यो यस्य हिंस्याद्द्रव्याणि ज्ञानतोऽज्ञानतोऽपि वा । स तस्योत्पादयेत्तुष्टिं राज्ञे दद्याच तत्समम् ॥' इति । एतत्तु पूर्वोक्तं प्रायश्चित्तजातं ब्राह्मणस्यैव हन्तुर्वेदितव्यम् । क्षत्रियादेस्तु हन्तुर्बृहद्विष्णुना विशेषोऽभिहितः - 'विप्रे तु सकलं देयं पादोनं क्षत्रिये स्मृतम् । वैश्येऽर्ध पाद एकस्तु शूद्रजातिषु शस्यते ॥' इति । यत्त्वनिरोवचनम् - 'पर्षद्या ब्राह्मणानां तु सा राज्ञां द्विगुणा मता । वैश्यानां त्रिगुणा
१ गोकृच्छ्रार्धं भवेत् ङ. २ अतिदोहा तिदमने ङ. ३ मृतापि वा ङ. ४ गूढगर्भ ङ. ५ व्याध्यादि ङ. ६ शृङ्गभङ्गेऽस्थिभङ्गे वा ङ.
For Private And Personal Use Only
Page #455
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्तप्रकरणम् ५] मिताक्षरासहिता ।
प्रोक्ता पर्षद्वच्च व्रतं स्मृतम् ॥' इति, तत्प्रातिलोम्येन वाग्दण्डपारुष्यादिविषयम् । तथा स्त्रीबालवृद्धादीनां त्वर्ध, अनुपनीतस्य बालस्य पाद इति च प्रागुक्तमनुसंधेयम् ॥ स्त्रीणां पराशरेण विशेषोऽभिहितः -- ' वपनं नैव नारीणां नानुव्रज्या जपादिकम् । न गोष्ठे शयनं तासां न वसीरन्गवाजिनम् ॥ सर्वान्केशान्समुद्धृत्य छेदयेदङ्गुलद्वयम् । सर्वत्रैवं हि नारीणां शिरसो मुण्डनं स्मृतम् ॥' इति । पुरुषेषु च विशेषः संवर्तेन दर्शितः - 'पादेऽङ्गरोमवपनं द्विपादे श्मश्रुणोऽपि च । त्रिपादे तु शिखावर्ज सशिखं तु निपातने ॥' इति । पादप्रायश्चित्तार्हस्य कण्ठादधस्तनाङ्गरोम्णामेव वपनम् । अर्धप्रायश्चित्तार्हस्य तु श्मश्रूणामपि । पादोनप्रायश्चित्तार्हस्य पुनः शिरोगतानामपि शिखावर्जितानाम् । पादचतुष्टयार्हस्य तु सशिखस्य सकलकेशजातस्येति । एवमेतद्दिगवलम्बने नान्येषामपि स्मृतिवचसां विषयो निरूपणीयः ॥ २६३ ॥ २६४ ॥
इति गोवधप्रायश्चित्तप्रकरणम् ।
अधुनान्येषामुपपातकानां प्रायश्चित्तमाह
उपपातकशुद्धिः स्यादेवं चान्द्रायणेन वा ।
पयसा वापि मासेन पराकेणाथवा पुनः ।। २६५ ॥
४२३
एवमुक्तेन गोवधत्रतेन मासं पञ्चगव्याशनादिनान्येषां व्रात्यतादीनामुपपातकानां शुद्धिर्भवेत् । चान्द्रायणेन वा वक्ष्यमाणलक्षणेन मासं पयोव्रतेन वा पराकेण वा शुद्धिर्भवेत् । अत्रातिदेशसामर्थ्याद्गोचर्मवसनगो परिचर्यादिभिर्गोवधासाधारणैः कतिपयैन्यूनत्वमवगम्यते । एतञ्च व्रतचतुष्टयमकामकारे शक्त्यपेक्षया विकल्पितं द्रष्टव्यम् । कामकारे तु ( मनुः ११/११७ ) - ' एतदेव व्रतं कुर्युरुपपातकिनो द्विजाः । अवकीर्णिवर्जे शुद्ध्यर्थं चान्द्रायणमथापि वा ॥' इति मनूक्तं त्रैमासिकं द्रष्टव्यम् । अतएव वचनादयं प्रायश्चित्तातिदेशः सर्वेषामुपपातकगणपठितानामुक्तप्रायश्चित्तानामनुक्तप्रायश्चित्तानां चावकीर्णिवर्जितानामविशेषेन वेदितव्यः । अवकीर्णिनस्तु प्रतिपदोक्तमेव । नन्वनुक्तप्रायश्चित्तविषयतयैवातिदेशस्य युक्ता । इतरथा प्रतिपदोक्तप्रायश्चित्तबाधसापेक्षत्वप्रसङ्गात् । मैवम् । तथा सत्युक्तनिष्कृती नामुपपातकगणपाठोऽनर्थकः स्यात् । यदि परमुपपातकमध्ये सामान्यतः पठितस्यान्यत्र विशेषतः प्रायश्चित्तान्तरमुच्यते । यथा'भयाज्यानां च याजनं । त्रीन्कृच्छ्रानाचरेद्रात्ययाजकोऽविचरन्नपि ॥' इति स एव विषयः केवलं परिहियेत न पुनर्विशेषतः पठितस्यैवान्यत्रापि विशेषत एव यत्र प्रायश्चित्तमुच्यते सोऽपि यथा 'इन्धनार्थे द्रुमच्छेदः ' 'वृक्षगुल्मलतावीरुच्छेदने जप्यमृक्शतम्' इति । अतो व्रात्यतादिषु अस्मिन् शास्त्रे शास्त्रान्तरे वा दृष्टैः प्रायश्चित्तैः सह 'उपपातकशुद्धिः स्यादेवम्' इत्यादिना प्रतिपादितत्र तचतुष्टयस्य समविtearकल्पनेन विकल्पो विषयविभागो वाश्रयणीयः । तानि च स्मृत्यन्तरदृष्टप्रायश्चित्तानि पाठक्रमेण व्रात्यादिषु योजयिष्यामः । तत्र व्रात्यतायां मनुनेदमुक्तम्
For Private And Personal Use Only
Page #456
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४२४
याज्ञवल्क्यस्मृतिः। [प्रायश्चित्ताध्यायः (११११९१)-'येषां द्विजानां सावित्री नानूच्येत यथाविधि । तांश्वारयित्वा श्रीकृच्छ्रान्यथाविध्युपनाययेत् ॥' इति, यच्च यमेनोक्तम्-'सावित्री पतिता यस्य दशवर्षाणि पञ्च च । सशिखं वपनं कृत्वा व्रतं कुयात्समाहितः ॥ एकविं. शतिरानं च पिबेत्प्रसूतियावकम् । हविषा भोजयेच्चैव ब्राह्मणान्सप्त पञ्च वा ॥ ततो यावकशुद्धस्य तस्योपनयनं स्मृतम् ॥' इति, तदुभयमपि याज्ञवल्क्यीयमासपयोव्रतविषयम् । यत्तु वसिष्ठेनोक्तम्- 'पतितसावित्रीक उद्दालकव्रतं चरेत् द्वौ मासौ यावकेन वर्तयेन्मासं पयसा पक्षमामिक्षयाऽष्ट रात्रं घृतेन षडात्रमयाचितेन त्रिरात्रमब्भक्षोऽहोरात्रमुग्वसेदश्वमेधावभृथं गच्छेद्रात्यस्तोमेन वा यजेत' इति । अत्रेयं व्यवस्था-यस्योपनेत्राद्यभावेन तत्कालातिक्रमस्तस्य याज्ञवल्क्यीयव्रतानामन्यतमं शक्त्यपेक्षया भवति । अनापद्यतिक्रमे तु मानवं त्रैमासिकम् । तत्रैव पञ्चदशवर्षादूर्ध्वमपि कियत्कालातिक्रमे तूहालकवतं व्रात्यस्तोमो वेति । येषां तु पित्रादयोऽप्यनुपनीतास्तेषामापस्तम्बोक्तम्-'यस्य पितापितामहावनुपेतौ स्यातां तस्य संवत्सरं त्रैविद्यकं ब्रह्मचर्यम् । यस्य प्रपितामहादेर्नानुसर्यत उपनयनं तस्य द्वादशवर्षाणि त्रैविद्यकं ब्रह्मचर्यम्' इति व्रात्यता ॥ तथा स्तेयेऽप्युपपातकसाधारणप्राप्तवतचतुष्टयापवादकं प्रायश्चित्तं मनुनोक्तम् (११।१६२)-'धान्यान्नधनचौर्याणि कृत्वा कामाद्विजोत्तमः । सजातीयगृहादेव कृच्छ्रार्धेन विशुध्यति ॥' इति । द्विजोत्तमस्य सजातीयो ब्राह्मण एवातो विप्रपरिग्रहे ब्राह्मणस्य हर्तुरिदम् । क्षत्रियादेस्वल्पं कल्प्यम् । अथाटापाद्यं स्तेयकिल्बिषं शूद्रस्य द्विगुणोत्तराणीतरेषां प्रतिवर्ण विदुषोऽतिक्रमे द. ण्डभूयस्त्वम्' इति क्षत्रियादेरपहर्तुर्दण्डाल्पत्वस्य दर्शनात् । तथा--'विप्रे तु सकलं देयं पादोनं क्षत्रिये स्मृतम्' इति पादपादहान्या प्रायश्चित्तदर्शनात् । तथा क्षत्रियादिपरिग्रहेणापि दण्डानुसारेण प्रायश्चित्ताल्पत्वं कल्प्यम् । अतः क्षत्रियपरिग्रहे चौर्ये पाण्मासिकम् । वैश्यापरिग्रहे त्रैमासिकं गोवधव्रतम् । शूद्रापरिग्रहे चान्द्रायणं कल्प्यम् । एवमुत्तरत्राप्यूहनीयम् । इदं च दशकुम्भधान्यापहारविषयम् । अधिके तु-'धान्यं दशभ्यः कुम्भेभ्यो हरैतो दम उत्तमः । पलसहसादधिके वधः' इति वधदर्शनात् । कुम्भश्च पञ्च पहस्रपलपरिमाणः । धान्यसाहचर्यादनधने चेतावद्धान्यपरिमिते वेदितव्ये । अन्नशब्देन तन्दुलादिकमभिधीयते । धनशब्देन ताम्ररजतादिकम् । इदं तु प्रायश्चित्तं कामकारविषयम् । अकामतस्तु त्रैमासिकं गोवधव्रतम् । तथा-'मनुष्याणां च हरणे स्त्रीणां क्षेत्रगृ. हस्य च । कूपवापीजलानां च शुद्धिश्चान्द्रायणेन तु ॥' इति । सार्धशतद्वयपणलभ्यजलापहार इदं चान्द्रायणं प्राप्तमपीतरगोवधवतनिवृत्त्यर्थ विधीयते ।'तावन्मूल्यजलापहारे पानीयस्य तृणस्य च । तन्मूल्याट्विगुणो दण्डः' इति पञ्च. शतदण्डविधानात्तावत्पणयोर्दण्डचान्द्रायणयोर्गोवधादौ सहचरितत्वात् । तथा 'कृच्छ्रातिकृच्छैन्दवयोः पणपञ्चशतं तथा' इति चान्द्रायणविषये पञ्चशतपण
१ यस्योपनयने आपद्भावेन ङ. २ कृच्छाब्देन विशुध्यतीति पाठान्तरम्. ३ अष्टपादं ङ, ४ हरतोऽभ्यघिको वधः ङ.
For Private And Personal Use Only
Page #457
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्तप्रकरणम् ५] मिताक्षरासहिता ।
४२५
दण्डविधानाञ्च । एतच्च क्षत्रियादिद्रव्यापहारे द्रष्टव्यम् । (ब्राह्मसंबन्धिदव्याप. हारे तु (मनुः १११५७)–'निक्षेपस्यापहरणे नराश्वरजतस्य च । भूमिवज्रमणीनां च रुक्मस्तेयसमं स्मृतम् ॥' इति द्रष्टव्यम्)। तथा (मनुः ११११६४)
-'द्रव्याणामल्पसागणां स्तेयं कृत्वान्यवेश्मतः । चरेत्सान्तपनं कृच्छ्रे तन्निर्यात्यात्मशुद्धये ॥' इत्यनेनाल्पप्रयोजनत्रपुसीसादिद्रव्यापहार विशेषेण स्तेयसामान्योपपातकप्रायश्चित्तापवादः । इदं च चान्द्रायणनिमित्तभूतार्धतृतीयशतमूल्यस्य पञ्चदशांशार्धनपुसीसाद्यपहारे प्रायश्चित्तम् । चान्द्रायणपञ्चदशांशत्वात्तस्य । तथा द्रव्यविशेषेणाप्युपपातकसामान्यप्राप्तव्रतापवादः (मनुः ११११६५)'भक्ष्यभोज्यापहरणे यानशय्यासनस्य च । पुष्पमूलफलानां च पञ्चगव्यं विशोधनम् ॥' इति । एकवारभोजनपर्याप्तभक्षभोज्यापहार इदम् । द्वित्रिवारभोजनपप्तिाहारे त्रिरात्रम् । यथाह पैठीनसिः-'भक्ष्यभोज्यानस्योदरपूरणमात्रहरणे त्रिरानमेकरात्रं वा पञ्चगव्याहारश्च' इति ॥ यानादीनामप्येतत्साहचर्यादेतावन्मूल्यानामेवापहरणे एतत्प्रायश्चित्तम् । सर्वत्रापि ह्रियमाणद्रव्यन्यूनाधिकभावेन प्रायश्चित्तस्यापि लघुगुरुभावः कल्पनीयः । तथा (मनुः ११११६६)-'तृणकाष्ठदुमाणां च शुष्कान्नस्य गुडस्य च । तैलचर्मामिषाणां च त्रिरात्रं स्यादभोजनम् ॥' इति । एषां च तृणादीनां भक्ष्यादित्रिगुणत्रिरात्रप्रायश्चित्तस्य दर्शनात् तत्रिगुणमूल्यार्घाणामेतत्प्रायश्चित्तम् । तथा (मनुः ११११६७)-'मणिमुक्ताप्रवालानां ताम्रस्य रजतस्य च । अयस्कांस्योपलानां च द्वादशाहं कैदन्नता ॥' इति । अत्रापि भक्ष्यादिवत् द्वादशगुणप्रायश्चित्तदर्शनात् तन्मूल्यद्वादशगुणमूल्यमणिमुक्ताद्यपहार एतत्प्रायश्चित्तं द्रष्टव्यम् । तथा (मनुः ११११६८)-कापसकीटजौर्णानां द्विखुरकखुरस्य च । पक्षिगन्धौषधीनां च रज्वाश्चैवं व्यहं पयः॥' इति । अत्रापि भक्ष्यादित्रिगुणप्रायश्चित्तदर्शनात्तत्रिगुणमूल्यानामपहार एवैतत्प्रायश्चित्तं ज्ञेयम् । ह्रियमाणद्व्यन्यूनाधिकभावेन प्रायश्चित्ताल्पत्वमहत्त्वं कल्प्यमेव । इदं च स्तेयप्रायश्चित्तमपहृतद्रव्यदानोत्तरकालमेव द्रष्टव्यम् । यथाह विष्णुः'दत्त्वैवापहृतं द्रव्यं स्वामिने व्रतमाचरेत्' इति । इति स्तेयम् ॥ ऋणापाकरणे च 'पुत्रपौत्रैर्ऋणं देयम्' इति विहितं तस्यानपाकरणे, तथा वैदिकस्य च 'जायमानो वै ब्राह्मणः' इत्येतद्वाक्येनर्णसंस्तुतयज्ञादिकरणे च 'उपपातकशुद्धिः स्यादेवम्' इत्यादिनोपपातकसामान्यविहितं व्रतचतुष्टयं शक्त्यपेक्षया योज्यम्। प्रायश्चित्तान्तरमप्यत्र मनुनोक्तम् (११।२७)-'इष्टिं वैश्वानरी चैव निर्वपेदब्दपर्यये । लुप्तानां पशुसोमानां निष्कृत्यर्थमसंभवे ॥' इति । अब्दपर्यये संवत्सरान्ते। इति ऋणानपाकरणम् ।
तथाधिकृतस्यानाहिताग्नित्वेऽप्येतदेव व्रतचतुष्टयं वत्सरादूर्ध्वमापदि शक्त्यपेक्षया योज्यम् । अनापदि तु मानवं त्रैमासिकम् । अर्वाक्पुनर्वसरात् कामजिनिर्विशेषमाह-काले स्वाधाय कर्माणि कुर्याद्विप्रो विधानतः । तदकुर्वस्त्रिरात्रेण मासि मासि विशुख्यति ॥ अनाहिताप्नौ पित्रादौ यक्ष्यमाणः सुतो १ धनुश्चिह्वान्तर्गतो भागो ङ. पुस्तके नास्ति. २ Cणामेव ङ. ३ कणानता ङ. ४ कमानां ऊ
-
-
For Private And Personal Use Only
Page #458
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४२६
याज्ञवल्क्यस्मृतिः ।
[ प्रायश्चित्ताध्यायः
यदि । स हि व्रात्येन पशुना यजेत्तन्निष्क्रयाय तु ॥ ' इति । एकाग्रपि विशेषस्तेनैवोक्तः -- ' कृतदारो गृहे ज्येष्ठो यो नादध्यादुपासनम् । चान्द्रायणं चरेद्वर्ष प्रतिमासमहोsपि वा ॥' इति । अनाहिताग्निता ॥
( विक्रेये यतं प्रोक्तं हरणे द्विगुणं हि तत् । सुराविक्रये सौम्ये चतुष्टयं लाक्षालवणमांसमध्वाज्यतिलहोमानां चान्द्रायणत्रयं पयः पायसापूपधीक्षुरसगुडख - ust दिस्नेह पक्कादिषु पराकः । सिद्धान्नविक्रये प्राजापत्यं । पनसस्य त्रिदिनं । कदलीनारिकेर जम्बीरबीजपूरकनारङ्गानां पादकृच्छ्रं । कस्तूरिकाविक्रये गन्धानां च कृच्छ्रं । कर्पूरेर्ध हिंग्वादिविक्रये दिनमुपवासः । शुक्लकृष्णपीतवस्त्रविक्रये त्रिदिनं । अजानामैन्दवं । खराश्वतरकरभाणां पराकः । शुनां द्विगुणं । एकाहाद्वेदविक्रये चान्द्रं । अङ्गानां पराकः । स्मृतीनां कृच्छ्रं । इतिहासपुराणानां सांतपनं । रहस्यानां कृच्छ्रं । गाथानां शिशिरातत्वविद्यानां पादं । ) तथा अपण्यानां विक्रये च स्मृत्यन्तरे प्रायश्चित्तविशेष उक्तः । यथाह हारीतः -- 'गुडतिलपुष्पमूलफलपक्कान्नविक्रये सोमपानं सौम्यः कृच्छ्रः । लाक्षालवणमधुमांसतैलक्षीरदधितक्रघृतगन्धचर्मवाससामन्यतमविक्रये चान्द्रायणम् । तथा । ऊर्णाकेश केसरि भूधेनुवेश्माश्मशस्त्रविक्रये च भक्ष्यमांसस्त्रायवस्थिशृङ्गनखशुक्तिविक्रये तप्तकृच्छ्रः । हिङ्गुगुग्गुलुहरितालमनःशिलाञ्जनगैरिकक्षारलवणमणिमुक्ताप्रवालवैणवमृन्मयेषु च तप्तकृच्छ्रः । आरामतडागोदपानपुष्करिणीसुकृतविक्रये त्रिषवणस्नाय्यधः शायी चतुर्थ कालाहारो दशसहस्रं जपन्संवत्सरेण पूतो भवति । हीनमानोन्मानसंकर संकीर्ण विक्रये चेति । एवमन्यैरपि शङ्खविष्ण्वाद्युक्तवचनैर्यत्र प्रायश्चित्तविशेषो नोक्तस्तन्नानापादि मानवमुपपातकसाधारणतः प्राप्तं त्रैमासिकम् । आपदि तु याज्ञवल्क्यीयं व्रतचतुष्टयं शक्त्यपेक्षया योज्यम् ॥ इति अपण्यविक्रयः ॥ तथा परिवेत्तरि च वसिष्ठेन प्रायश्चित्तविशेष उक्तः - ' परिविविदानः कृच्छ्रातिकृच्छ्रौ चरित्वा तस्मै दत्त्वा पुनर्निविशेत तां चैवोपयच्छेत' इति । परिविविदानः परिवेत्तोच्यते । तत्स्वरूपं च प्राग्व्याख्यातम् । असौ कृच्छ्रातिकृच्छ्रौ चरित्वा तस्मै ज्येष्ठाय तां स्वोढां दत्त्वा ब्रह्मचर्याहृतभैक्षवद्गुरुपरिभवपरिहारार्थं निवेद्य पुनरुद्वहेत् । कामित्यपेक्षायामुक्तं तामेवोपयच्छेतेति । तामेव स्वोढां ज्येष्टाय निवेदितां तेन चानुज्ञातामुहेत् । यत्तु हारीतेनोक्तम् — “येष्ठेऽनिविष्टे कनीयान्निविशमानः परिवेत्ता भवति परिवित्तिर्ज्येष्ठः परिवेदनी कन्या परिदायी दाता परियष्टा याजकस्ते सर्वे पतिताः संवत्सरं प्राजापत्येन कृच्छ्रेण पावयेयुः' इति । यदपि शङ्खेनोक्तम्'परिवित्तिः परिवेत्ता च संवत्सरं ब्राह्मणगृहेषु भैक्षं चरेयाताम्' इति तदुभयमपि कामकारेण कन्यापित्राद्यननुज्ञातोद्वाहविषयम् । प्रायश्चित्तस्य गुरुत्वात् । यदा पुनः कामतः कन्यां पित्रादिदत्तामेव परिणयति तदा मानवं त्रैमासिकम् । पूर्वोक्तौ कृच्छ्रातिकृच्छ्रौ याज्ञवल्क्यीयं च व्रतचतुष्टयमज्ञातविषयम् । यमेनाप्यत्र विशेष उक्तः—— -'कृच्छ्रौ द्वयोः पारिवेद्ये कन्यायाः कृच्छ्र एव च । अतिकृच्छ्रं चरेद्दाता होता चान्द्रायणं चरेत् ॥' इति । एतच्च पर्याहिताग्न्यादीनामपि
१ इति पुस्तकेऽधिकम् २ मानोन्नतसंकीर्ण ङ.
For Private And Personal Use Only
Page #459
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्तप्रकरणम् ५] मिताक्षरासहिता ।
•
समानम् । एकयोगनिर्देशात् । यथाह गौतमः - 'परिवित्तिपरिवेत्तृपर्याहितपर्याधात्रग्रेदिधिपूदिधिषूपतीनां संवत्सरं प्राकृतं ब्रह्मचर्यम्' इति । अतएव वसिनाग्रेदिधिषूपत्यादाविदमेव प्रायश्चित्तमुक्तम् 'अग्रेदिधिषूपतिः कृच्छ्रं द्वादशरात्रं चरित्वा निविशेत तां चैवोपयच्छेत । दिधिषूपतिः कृच्छ्रातिकृच्छ्रौ चरित्वा तस्मै दत्तां पुनर्निविशेत' इति । अग्रेदिधिष्वादेर्लक्षणं स्मृत्यन्तरेऽभिहितम् — 'ज्येष्ठायां यद्यनूढायां कन्यायामूह्यतेऽनुजा । या साग्रेदिधिषूज्ञेया पूर्वा तु दिधिषूः स्मृता ॥' इति । तत्राग्रेदिधिषूपतिः प्राजापत्यं कृत्वा तामेव ज्येष्ठां पश्चादन्येनोदामुद्वहेत् । दिधिषूपतिस्तु कृच्छ्रातिकृच्छ्रौ कृत्वा स्वोढां ज्येष्ठां कनीयस्याः पूर्वविवोढे दत्त्वाऽन्यामुद्दहेदिति परिवेदनम् । तथा भृतकाध्यापकभृतकाध्यापितयोश्च पयसा ब्रह्मसुवर्चलां पिवेदित्यधिकृत्य विष्णुनोक्तम्'भृताध्यापनं कृत्वा भृतकाध्यापितस्तथा । अनुयोगप्रदानेन त्रीन्पक्षान्नियतः पिबेत् ॥' इति । उत्कर्ष हेतोरधीयानस्य किं पठसि नाशितं त्वयेत्येवं पर्यनुयोगोऽनुयोगप्रदानम् । अतएव स्मृत्यन्तरे - 'दत्तानुयोगानध्येतुः पतितान्मनुरब्रवीत्' इत्युक्तम् । अत्रापि पूर्वोक्तव्रतैः सहास्य शक्त्यपेक्षया विकल्पः । इति भृतकाध्यापकभृतकाध्यापितप्रकरणम् ॥
४२७
तथा पारदार्येऽप्युपपातकसामान्यप्राप्तमानवत्रैमासिकस्य याज्ञवल्क्यव्रतचतुष्टयस्यापि गुरुदारादावपवाद उक्तः । तथान्यत्रापि गौतमादिभिः पारदार्यविशेषेणापवाद उक्तः । यथाह गौतमः - 'द्वे परदारे त्रीणि श्रोत्रियस्य' इति । तथा वार्षिकं प्राकृतं ब्रह्मचर्यं प्रस्तुत्य तेनैवेदमभिहितम् 'उपपातकेषु चैवम्' इति । तत्रेयं व्यवस्था — ऋतुकाले कामतो जातिमात्रब्राह्मणीगमने वार्षिकं प्राकृतं ब्रह्मचर्यं । तस्मिन्नेव काले कर्मसाधनत्वादिगुणशालिन्या ब्राह्मण्या गमने द्वे वर्षे प्राकृतं ब्रह्मचर्यम् । तादृश्या एव श्रोत्रियभार्याया गमने त्रीणि वर्षाणि प्राकृतं ब्रह्मचर्यम् । यद्वा श्रोत्रियपत्यां गुणवत्यां ब्राह्मण्यां त्रैवार्षिकम् । तादृग्विधायामेव क्षत्रियायां द्वैवार्षिकम् । तादृश्यामेव वैश्यायां वार्षिकमिति व्यवस्था । एतत्समानदृष्ट्या शूद्रायां षाण्मासिकं प्राकृतं ब्रह्मचर्य कल्पनीयम् । अतएव शङ्खन वैश्यामवकीर्णः संवत्सरं ब्रह्मचर्यं त्रिषवणं चानुतिष्ठेत्क्षत्रियायां द्वे वर्षे त्रीणि ब्राह्मण्यां वैश्यायां शूद्रायां ब्राह्मणपरिणीतायामिति वर्णक्रमेण ह्रासो दर्शितः । एवं क्षत्रियस्यापि क्षत्रियादिस्त्रीषु क्रमेण द्विवार्षिके कवार्षिके कषाण्मासिकानि पूर्वोक्त एव विषये योजनीयानि । वैश्यस्य च वैश्याशूयोर्वार्षिकषाण्मासिके । शूद्रस्य शूद्र्यां परभार्यायां षाण्मासिकमेव । यत्त्वापस्तम्बीयम् - 'सवर्णायामनन्यपूर्वायां सकृत्संनिपाते पादः पतत्येवमभ्यासे पादः पादश्चतुर्थे सर्व' मिति गौतमीय त्रिवार्षिकेण समानविषयम् । अनन्यपूर्विकायां तु चतुरभ्यासे द्वादशवार्षिकप्रायश्चित्तविधानादेकस्यामेव गमनाभ्यासे नेदं प्रायश्चित्तं किंतु प्रतिगमनं पादन्यूनं कल्प्यम् । एतत्सर्व कामकारविषयम् । अकामतः पुनरेतदेवार्धकृत्या पूर्वोक्तविषये योजनीयम् । अनृतुकाले तु जातिमात्रब्राह्मण्यां कामतो १ अधीयानस्य नाशितं ख. २ मवकीर्णी ङ. ३ दिवार्षिकवार्षिक षाण्मासिकानि ख.
या० ३९
For Private And Personal Use Only
Page #460
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४२८
याज्ञवल्क्यस्मृतिः। [प्रायश्चित्ताध्यायः
गमने मानवं त्रैमानिकम् । जातिमात्रक्षत्रियादिस्त्रीषु पुनरस्मिन्नेव विषये तदीयान्येव द्वैमासिकचान्द्रायणमासिकानि योजनीयानि । क्षत्रियादीनां च क्षत्रियादिस्त्रीषु द्वैमासिकादीन्येव । अकामतः पुनरेतासु त्रैवर्णिकानां याज्ञवल्क्यमृषभैकादशगोदानं मासं पञ्चगव्याशनं मासं प्राजापत्याचरणं च क्रमेण द्रष्टव्यम् । शूद्रागमने तु कामतो विहितं मासवतमेवार्धक्लल्या योजनीयम् । अतएव संवर्त:--'शूदां तु ब्राह्मणो गत्वा मासं मासार्धमेव वा । गोमूत्रयावकाहारस्तिष्ठेत्तत्पापमुक्तये ॥' इति । अकामतोऽर्धमासिकमित्यभिप्रेतम् । ब्राह्मणश्चेदं प्रेक्षापूर्वकं ब्राह्मणदारानभिगच्छेत्तन्निवृत्तधर्मकर्मणः कृच्छ्रोऽनिवृत्तधर्मकर्मणो. ऽतिकृच्छ्र इति तद्राह्मणभार्यायां शूद्रायां द्रष्टव्यम् । द्विजातिस्त्रीषु वा विनोढासु द्विस्त्रिय॑भिचरितासु अबुद्धि पूर्वगमने वा । तथाच संवर्त:--'विप्रामस्वजनां गत्वा प्राजापत्यं समाचरेत्' इति । कामतस्तु-'राज्ञी प्रव्रजितां धात्री साध्वीं वर्णोत्तमामपि । कृच्छ्रद्वयं प्रकुर्वीत सगोत्रामभिगम्य च ॥' इति यमोक्तं कृच्छ्रद्वयं द्रष्टव्यम् । चतुराद्यम्यासे तु व्यभिचारस्य स्वैरिण्यां वृषल्यामवकीर्णः सचैल स्नात उदकुम्भं दद्याद्राह्मणाय । वैश्यायां च चतुर्थकालाहारो ब्राह्मणान्भो. जयेद्यवसभारं च गोभ्यो दद्यात् । क्षत्रियायां त्रिरात्रोपोषितो घृतपानं दद्यात् । ब्राह्मण्यां पात्रोपोषितो गां दद्यागोष्ववकीर्णः प्राजापत्यं चरेत् । अनूढायामवकीर्णः पलालभरं सीसमाषकं च दद्यात् इति शङ्खोक्तं वेदितव्यम् । चतुराद्यभ्यासविषयत्वं चास्य 'चतुर्थे स्वैरिणी प्रोक्ता पञ्चमे बन्धकी मता' इति स्मृत्यन्तरादवगम्यते । अत्रैव विषये षट्त्रिंशन्मतेऽप्युक्तम्-'ब्राह्मणी बन्धकीं गत्वा किंचिद्दद्याविजातये । राजन्यां चेद्धनुर्दद्याद्वैश्यां गत्वा तु चैलकम् ॥ शूद्रां गत्वा तु वै विप्र उदकुम्भं द्विजातये । दिवसोपोषितो वा स्थाद्दद्याद्विप्राय भोजनम् ॥' इति (अनुलोमव्यवाये गर्भे द्विगुणं, यदि सा अतिदूषिता न प्रतिलो. मगा भवति तदैव । अन्यजातिगमने द्वैगुण्यं, प्रतिलोमदूषितासु भन्त्यावसा. यिस्त्रीषु च चाण्डालीगर्भे यथा गुरुतल्पव्रतं तथा किंचिम्यूनं तारतम्यं कल्प्यम् । चाण्डालीगमने वार्षिकम् । गर्भे गुरुतल्पत्वं तथैव ज्ञेयम् ।) इदं प्रायश्चित्तजातं गर्भानुत्पत्तिविषयम् । तदुत्पत्तौ तु यद्विशेषेण यत्प्रायश्चित्तमुक्तं तदेव तत्र द्विगुणं कुर्यात् । -'गमने तु व्रतं यत्स्याद्गर्भ तद्विगुणं चरेत्' इत्युशनःस्मरणात् । शूद्यां गर्भमादधतश्चतुर्विंशतिमते विशेष उक्त:-'वृषल्यामभिजातस्तु त्रीणि वर्षाणि चतुर्थकालसमये नक्तं भुजीत' इति । यत्तु मनुवचनम् (३॥ १७)-शूद्रां शयनमारोप्य ब्राह्मणो यात्यधोगतिम् । जनयित्वा सुतं तस्यां ब्राह्मण्यादेव हीयते ॥' इति, तत्पापगौरवख्यापनपरम् । प्रातिलोम्य. व्यवाये तु सर्वत्र पुरुषस्य वध एव–'प्रातिलोम्ये वधः पुंसो नार्याः कर्णादिकर्तनम्' इति वचनात् ।। यत्तु वृद्धप्रचेतोवचनम--'शुद्धस्य ब्राह्मणी मोहाद्च्छतः शुद्धिमिच्छतः। पूर्णमेतद्रतं देयं माता यस्माद्धि तस्य सा ॥ पाद.
१ त्रैवार्षिकाणां ख. २ तिष्ठेत्तत्पापमोक्षकः इति ङ. ३ भार्यायां द्रष्टव्यम् ङ. ४ धनुरन्तः पातीभागो ङ. पुस्तके नास्ति.
For Private And Personal Use Only
Page #461
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्तप्रकरणम् ५]
मिताक्षरासहिता।
४२९
हान्यान्यवर्णासु गच्छतः सार्ववर्णिकम् ॥' इति । द्वादशवार्षिकातिदेशकं तत्स्व. भार्याभ्रान्त्या गच्छतो वेदितव्यम् । मोहादिति विशेषणोपादानात् । यत्तु संवर्तवचनम्- 'कथंचिद्राह्मणी गच्छेत्क्षत्रियो वैश्य एव वा । कृच्छ्रे सान्तपनं वा स्यात्प्रायश्चित्तं विशुद्धये ॥ शूद्रस्तु ब्राह्मणी गच्छेत्कथंचित्काममोहितः । गोमूत्रयावकाहारो मासेनैकेन शुद्ध्यति ॥' इति, तदत्यन्तव्यभिचरितब्राह्मणीविषयम् । अन्त्यजागमनेऽपि प्रायश्चित्तं बृहत्संवर्तेनोक्तम्-'रजकव्याधशैलूषवेणुचर्मोपजीविनाम् । एतास्तु ब्राह्मणो गत्वा चरेच्चान्द्रायणद्वयम् ॥' इति । इदं ब्राह्मणस्य कामतः सकृद्गमनविषयम् । क्षत्रियादीनां तु पादपादहीनं कल्प्यम् । अत्रैवापस्तम्बेनोक्तम्-'म्लेच्छी नटी चर्मकारी रजकी वरुडी तथा । एतासु गमनं कृत्वा चरेच्चान्द्रायणद्वयम् ॥' इति । अन्त्यजाश्च तेनैव दर्शिताः--'रजकश्चर्मकारश्च नटो बुरुड एव च । कैवर्तमेदभिल्लाश्च सप्तैते अन्त्यजाः स्मृताः ॥' इति । ये तु चाण्डालादयोऽन्त्यावसायिनस्तत्स्त्रीगमने गुरुतरं प्रायश्चित्तं गुरुतल्पप्रकरणे दर्शितम् । एतासां चान्त्यजस्त्रीणां मध्ये यदेकस्यां व्यवाये प्रायश्चित्तं अभिहितं तत्सर्वासु भवति । सर्वासां सदृशत्वात् । यथाहोशना-'बहूनामेकधर्माणामेकस्यापि यदुच्यते । सर्वेषां तद्भवेत्कार्यमेकरूपा हि ते स्मृताः ॥' इति । अकामतस्तु गमने-'चण्डालमेदश्वपचकपा. लव्रतचारिणाम् । अकामतः स्त्रियो गत्वा पराकवतमाचरेत् ॥' इत्यापस्तम्बोक्तं द्रष्टव्यम् । यच्च संवर्तवचनम्-'रजकव्याधशैलूषवेणुचर्मोपजीविनाम् । स्त्रियो विप्रो यदा गच्छेरकृच्छ्रे चान्द्रायणं चरेत् ॥' इति तदप्यकामविषयम्। यत्तु शातातपेनोक्तम्-'कैवर्ती रजकीं चैव वेणुचर्मोपजीविनीम् । प्राजापत्यविधानेन कृच्छ्रेणैकेन शुद्ध्यति ॥' इति, तद्रेतःसेकात्यानिवृत्तिविषयम् । यत्तूशनसोक्तम्-'कपालिकानभोक्तृणां तन्नारीगामिनां तथा । ज्ञानात्कृच्छ्राब्दमु. द्दिष्टमज्ञानादैन्दवद्वयम् ॥' इति, तदभ्यासविषम् । यदा तु चाण्डाल्यादिषु गच्छतो गर्भो भवति तदा 'चाण्डाल्यां गर्भमारोप्य गुरुतल्पव्रतं चरेत्' इत्युशनसोक्तं द्वादशवार्षिकं द्रष्टव्यम् । यत्तु 'अन्त्यजायां प्रसूतस्य निष्कृतिर्न विधीयते । निर्वासनं कृताङ्कस्य तस्य कार्यमसंशयम् ॥' इत्यापस्तम्बवचनं तत्कामकारविषयम् । स्त्रीणामपि सवर्णानुलोमव्यवाये यत्पुरुषस्योकं त्रैवार्षिकादि तदेव भवति । (मनुः ११११७६)-'यापुंसः परदारेषु तच्चैनां चारयेद्रतम् ॥' इति मनुस्मरणात् । प्रातिलोम्येन व्यवाये एव परस्त्रीपुंसयोः प्रायश्चित्तभेदः । यथाह वसिष्ठः-'शूद्रश्चेद्राह्मणीमभिगच्छेद्वीरणैर्वेष्टयित्वा शूद्रमग्नौ प्रास्येत् ब्राह्मण्याः शिरसि वपनं कारयित्वा सर्पिषाभ्यज्य नग्नां खरमारोप्य महापथमनुव्राजयेत्पूता भवतीति विज्ञायते' इति । तथा—'वैश्यश्चेद्राह्मणीमभिगच्छेल्लो. हितदभैंर्वेष्टयित्वा वैश्यमग्नौ प्रास्येद्राह्मण्याः शिरसि वपनं कारयित्वा सर्पिषा. भ्यज्य नग्न खरमारोप्य महापथमनुव्राजयेत्पूता भवतीति विज्ञायते' इति । तथा 'राजन्यश्चेद्राह्मणीमभिगच्छेच्छरपत्रैर्वेष्टयित्वा राजन्यमग्नौ प्रास्येत् ब्राह्मण्याः शिरसि वपनं कारयित्वा सर्पिषाभ्यज्य नमां गौरखरमारोप्य महापथमनुसंवाज१ वुरुडी तथा ङ. २ 'दैन्दवं स्मृतम्' ख.
For Private And Personal Use Only
Page #462
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४३०
याज्ञवल्क्यस्मृतिः । [ प्रायश्चित्ताध्यायः
येत्पूता भवतीति विज्ञायत' इति । एवं वैश्यो राजन्यां शूद्रश्च राजन्यावैश्ययोरिति । पूता भवतीति वचनाद्राजवीथिपरिवाजनमेव दण्डरूपं प्रायश्चित्तान्तरनिरपेक्षं शुद्धिसाधनमिति दर्शयति ॥
1
ब्राह्मण्याः प्रातिलोम्येन द्विजातिव्यवाये प्रायश्चित्तान्तरमप्युक्तं संवर्तेन'ब्राह्मण्यकामा गच्छेच्चेत्क्षत्रियं वैश्यमेव वा । गोमूत्रयावकैर्मासात्तदर्धाच्च विशुध्यति ॥' इति । कामतस्तु तद्विगुणं कर्तव्यम् । 'कामात्तद्विगुणं भवेत्' इति वचनात् । षटूत्रिंशन्मतेऽपि 'ब्राह्मणी क्षत्रियवैश्यसेवायामतिकृच्छ्रं कृच्छ्रातिकृच्छ्रौ चरेत् । क्षत्रिययोषित् ब्राह्मणराजन्य वैश्यसेवायां कृच्छ्रार्धं प्राजापत्यमतिकृच्छ्रम् । वैश्ययोषिद्ब्राह्मणराजन्यवैश्यसेवायां कृच्छ्रपादं कृच्छ्रार्धं प्राजापत्यम् । शूद्रायाः शुद्धसेवने प्राजापत्यम् । ब्राह्मणराजन्यवैश्यसेवायां त्वहोरात्रं त्रिरात्रं कृच्छ्रार्धम्' इति । शुद्धसेवायां तु विशेषो बृहत्प्रचेतसोक्तः - 'विप्रा शूद्रेण संपृक्ता न चेत्तस्मात्प्रसूयते । प्रायश्चित्तं स्मृतं तस्याः कृच्छ्रं चान्द्रायणत्रयम् ॥' एतदनिच्छन्त्यां स्वपतिभ्रान्त्या वा वेदितव्यम् । ' चान्द्रायणे द्वे कृच्छ्रश्च विप्राया वैश्यसेवने । कृच्छ्रचान्द्रायणे स्यातां तस्याः क्षत्रिय संगमे ॥ क्षत्रिया शूद संपर्के कृच्छ्रं चान्द्रायणद्वयम् । चान्द्रायणं सकृच्छ्रं तु चरेद्वैश्येन संगता ॥ शूद्रं गत्वा चरेद्वैश्या कृच्छ्रं चान्द्रायणोत्तरम् । अनुलोम्ये प्रकुर्वीत कृच्छ्रं पादावरोपितम् ॥' इति । प्रजातायास्तु चतुर्विंशतिमते विशेष उक्तः - - 'विप्रगर्भे पराकः स्यात्क्षत्रियस्य तथैन्दवम् । ऐन्दवश्च पराकश्च वैश्यस्याकामकारतः ॥ शूद्रगर्भे भवेत्त्यागाण्डाल जायते यतः । गर्भस्रावे धातुदोषैश्वरेच्चान्द्रायणत्रयम् ॥' इति । अकामकारत इति विशेषणोपादानात् कामकारे पुनः पराकादिकं द्विगुणं कुर्यात् । यदा त्वनिःसृतगर्भैव दशमासं स्थित्वा प्रजायते तदा प्रायश्चित्ताभावः । ब्राह्मणक्षत्रियविशां भार्याः शूद्रेण संगताः । अप्रजाता विशुध्यन्ति प्रायश्चित्तेन नेतराः ॥ इति वसिष्ठस्मरणात् । यदा स्वाहितगर्भैव पश्चाच्छूद्रादिभिर्व्यभिचरति तदा गर्भपातशङ्कया प्रसवोत्तरकालएव प्रायश्चित्तं कुर्यात् । ' अन्तर्वत्री तु या नारी समेताक्रम्य कामिना । प्रायश्चित्तं न कुर्यात्सा यावद्गर्भो न निःसृतः ॥ जाते गर्भे व्रतं पश्चात्कुर्यान्मासं तु यावकम् । न गर्भदोषस्तस्यास्ति संस्कार्यः स यथाविधि ॥' इति स्मृत्यन्तरदर्शनात् । यदा स्वौद्धत्यात्प्रायश्चित्तं न कुर्वन्ति तदा नार्याः कर्णादिकर्तनमिति द्रष्टव्यम् ॥ अन्त्यजादिगमनेऽपि स्त्रीणां स्मृत्यन्तरे प्रायश्चित्तं दर्शितम्- 'रजकव्याधशैलूषवेणुचर्मोपजीविनः । ब्राह्मण्येतान्यदा गच्छेदेकामादैन्दवत्रयम् ॥' इति । तथा चाण्डाल्याद्यन्त्यजागमनेऽपि - 'चाण्डालं पुल्कसं म्लेच्छं श्वपाकं पतितं तथा । ब्राह्मण्यकामतो गत्वा चान्द्रायणचतुष्टयम् ॥' इति । अकामत इति वचनात्कामतो द्विगुणं कल्प्यम् । तथा'चाण्डालेन तु संपर्क यदि गच्छेत्कथंचन । सशिखं वपनं कुर्याद्भुञ्जीयाद्यावकौदनम् ॥ त्रिरात्रमुपवासः स्यादेकरात्रं जले वसेत् । आत्मना संमिते कूपे गोम
१ वैश्यसंग ङ. २ दामादैन्दवद्वयमिति पाठान्तरम्. ३ संमिते कर्षे ङ.
*
For Private And Personal Use Only
Page #463
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्तप्रकरणम् ५] मिताक्षरासहिता ।
४३१
योदककर्दमे ॥ तत्र स्थित्वा निराहारा सा त्रिरात्रं ततः क्षिपेत् । शङ्खपुष्पील. तामूलं पत्रं वा कुसुमं फलम् । क्षीरं सुवर्णसंमिश्रं काथयित्वा ततः पिबेत् ॥ एकभक्तं चरेत्पश्चाद्यावत्पुष्पवती भवेत् । बहिस्तावच्च निवसेद्यावच्चरति तद्वतम् ॥ प्रायश्चित्ते ततश्वीर्णे कुर्याद्राह्मणभोजनम् । गोद्वयं दक्षिणां दद्याच्छुयै स्वायं. भुवोऽब्रवीत् ॥' इति । एतदप्यकामविषयमेव-'यदि गच्छेत्कथंचन' इति वचनात् ॥ ऋष्यशृङ्गेणाप्यन्त्यजव्यवाये प्रायश्चित्तान्तरमुक्तम्-'संपृक्ता स्यादथान्त्यैर्या सा कृच्छ्राब्दं समाचरेत्' इति । कामतः सकृद्मने इदम् । यदा त्वाहितगर्भाया एव पश्चाचाण्डालादिव्यवायस्तदा तेनैव विशेष उक्तः-'अन्तर्वत्री तु युवतिः संपृक्ता चान्त्ययोनिना । प्रायश्चित्तं न सा कुर्याद्यावद्गों न निःसृतः ॥ न प्रचारं गृहे कुर्यान्न चाङ्गेषु प्रसाधनम् । न शयीत समं भर्ता न वा भुञ्जीत बान्धवैः ॥ प्रायश्चित्तं गतेग विधिं कृच्छ्राब्दिकं चरेत् । हिरण्यमथवा धेनुं दद्याद्विप्राय दक्षिणाम् ॥' इति । यदा तु कामतोऽत्यन्तसंपर्क करोति तदा-'अन्त्यजेन तु संपर्क भोजने मैथुने कृते । प्रविशेत्संप्रदीप्तेऽग्नौ मृत्युना सा विशुद्ध्यति ॥' इत्युशनसोक्तं द्रष्टव्यम् ॥ यदा तूक्तं प्रायश्चित्तं न करोति तदा पुंलिङ्गेनाङ्कनीया वध्या वा भवेत् । 'हीनवर्णोपभुक्ता या साक्ष्या वध्याथवा भवेत्' इति पराशरस्मरणात् ॥ इति पारदार्यप्रकरणम् ॥ ॥ तथा परिवित्तिप्रायश्चित्तानामपि परिवेत्तृप्रायश्चित्तवब्यवस्था विज्ञेया । इयांस्तु विशेषः । परिवेत्तुर्यसिन्विषये कृच्छ्रातिकृच्छ्रौ तत्र परिवित्तेः प्राजापत्यमिति । 'परिवित्तिः कृच्छ्रे द्वादशरानं चरित्वा पुनर्निविशेत तां चैवोपयच्छेत्' इति वसिष्ठसरणात् । इति परिवित्तिप्रकरणम् ॥ ॥ वाधुष्यलवणक्रययोस्तु मनुयोगीश्वरो क्तसामान्योपपातकप्रायश्चित्तानि जातिशक्तिगुणाद्यपेक्षया योज्यानि ॥ २६५ ॥
लवणक्रयानन्तरं स्त्रीशूदविदक्षत्रवध इत्युपपातकमध्ये पठितं तन्त्र प्रायश्चित्तान्तरमप्याह
ऋषभैकसहस्रा गा दद्यात्क्षत्रवधे पुमान् । ब्रह्महत्याव्रतं वापि वत्सरत्रितयं चरेत् ॥ २६६ ॥ वैश्यहाब्दं चरेदेतद्दद्याद्वैकशतं गवाम् ।
षण्मासाच्छूद्रहाप्येतद्धेनूदद्याद्दशाथवा ॥ २६७ ॥ एकमधिकं यस्मिन्सहस्रं तदेकसहस्रं तस्य पूरण एकसहस्रः ऋषभ एकसहस्रो यासां गवां ताः ऋषभैकसहस्रास्ताः क्षत्रवधे दद्यात् । अथवा बृहत्प्रायश्चित्तं ब्रह्महत्याव्रतं वर्षन्त्रयं कुर्यात् । वैश्यघाती पुनरेतत् ब्रह्महत्यावेतमेकवर्ष चरेत् । गवाभृषभैकशतं वा दद्यात् । शूद्रघाती तु ब्रह्महत्याव्रतं षण्मासं चरेत् । यद्वा दशधेनूरचिरप्रसूताः सवत्सा दद्यात् । इदमकातो जातिमात्रक्षत्रियादिवधवि. षयम् । --'अकामतस्तु राजन्यं विनिपात्य' इति प्रक्रम्यैतेषामेव प्रायश्चित्तानां
१ वैश्यहा त्वेतत् ङ. २ व्रतमब्दमेकं ङ.
For Private And Personal Use Only
Page #464
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४३२
याज्ञवल्क्यस्मृतिः। [प्रायश्चित्ताध्यायः
मानवेऽभिधानात् । दानतपसोश्च शक्त्यपेक्षया व्यवस्था । ईपद्वृत्तस्थयोस्तु विट्शूद्रयोः (११२६)–'तुरीयो ब्रह्महत्यायाः क्षत्रियस्य वधे स्मृतः । वैश्येऽष्टमांशो वृत्तस्थे शूद्रे ज्ञेयस्तु षोडशः ॥' इति मनूक्तं द्रष्टव्यम् । वृत्तस्थे क्षत्रिये तु सार्धचतुर्वार्षिकं कल्प्यम् । वृत्तशब्देन चात्र गुणादिकमुच्यते । 'गुरुपूजा घृणा शौचं सत्यमिन्द्रियनिग्रहः । प्रवर्तनं हितानां च तत्सर्वं वृत्तमुच्यते ॥' इति मनुस्मरणात् । यत्तु वृद्धहारीतवचनम्-'ब्राह्मणः क्षत्रियं हत्वा षड्वर्षाणि व्रतं चरेत् । वैश्यं हत्वा चरेदेवं व्रतं त्रैवार्षिक द्विजाः ॥ शूद्रं हत्वा चरेद्वर्ष वृषभैकादशाश्च गाः ॥' इति तत्कामकारविषयम् ॥ श्रोत्रियक्षत्रियादिवधे तु'तुरीयोनं क्षत्रियस्य वधे ब्रह्महणि व्रतम् । अर्ध वैश्यवधे कुर्यात्तुरीयं वृपलस्य तु ॥' इति वृद्धहारीतोक्तं द्रष्टव्यम् । यत्तु वसिष्ठवचनम्-'ब्राह्मणो राजन्यं हत्वाष्टौ वर्षाणि व्रतं चरेत् षट् वैश्यं त्रीणि शूद्रम्' इति तदपि हारीतीयेन समानविषयम् । क्षत्रिये स्वीषद्गुणन्यून इत्येतावान् विशेषः । यदा तु श्रोत्रियो वृत्तस्थश्च भवति तदा पूर्वयोर्वर्णयोर्यो वेदाध्यायिनं हत्वे'त्यापस्तम्बोक्तं द्वादशवार्षिकं द्रष्टव्यम् । प्रारब्धयागे त्वश्रोत्रिये क्षत्रियादौ व्यापादिते 'यागस्थक्षत्रविद्याती चरेब्रह्महणि व्रतम्' इति द्रष्टव्यम् । श्रोत्रिये पुनर्यागस्थे क्षत्रियादौ ब्राह्मणस्य राजन्यवधे षड्वार्षिकं प्राकृतं ब्रह्मचर्यमृपभैकसहस्राश्च गा दद्यात्, वैश्यवधे त्रिवार्षिकमृषभैकशताश्च गा दद्यात् , शूद्ववधे सांवत्सरिकमृषभैकादशाश्व गा दद्यादिति गौतमोक्तो दानतपसोः समुच्चयो द्रष्टव्यः । एतच्चामतिपूर्व विषयम् । पूर्ववदमतिपूर्वं चतुषु वर्णेषु प्रमाप्य द्वादश षट् त्रीन् संवत्सरं च व्रतान्यादिशेत् तेषामन्ते गोसहस्रं च ततोऽधं तस्यार्धमधं च दद्यात् सर्वेषामानुपूयेणेति शङ्खस्मरणात्। इदं च द्वादशवार्षिकं गौतमीयविषयमेव किंचिन्यूनगुणे क्षत्रिये गुणाधिकयोवैश्यशूद्वयोश्च द्रष्टव्यम् । स्त्रीशूद्रविदक्षत्रवध इत्युपपातकमध्ये विशेषत एव पठितत्वेनोत्सर्गापवादन्यायगोचरत्वाभावादुपपातकसामान्यप्राप्तान्यपि प्रायश्चित्तान्यत्र योजनीयानि । तत्र दुर्वृत्तक्षत्रियादौ कामतो व्यापादिते मानवं त्रैमासिकं त्रैवार्षिकं द्वैमासिकं चान्द्रायणं च वर्णक्रमेण योज्यम् । अकामतस्तु योगीश्वरोक्तं त्रिरात्रोपवाससहितमृषभैकादशगोदानं मासं पञ्चगव्याशनं मासिक च पयोव्रतं यथाक्रमेण योज्यम् । एतच्च प्रागुक्तं व्रतजातं ब्राह्मणकर्तृके क्षत्रियादिवधे द्रष्टव्यम् । (११११२७)-'अकामतस्तु राजन्यं विनिपात्य द्विजोत्तमः। तथा ब्राह्मणराजन्यवधे षड्वार्षिकं तथा । ब्राह्मणः क्षत्रियं हत्वे' त्यादिषु मनुगौतमहारीतवसिष्टवाक्येषु ब्राह्मणग्रहणात्क्षत्रियादिकर्तृके तु क्षत्रियादिवधे पादन्यूनं द्रष्टव्यम् ।-'विप्रे तु सकलं देयं पादोनं क्षत्रिये स्मृतम् । वैश्येऽर्धमेकपादस्तु शूद्रजातिषु शस्यते ॥' इति वृद्धविष्णुस्मरणात् । 'यत्तु पर्षद्या ब्राह्मणानां तु सा राज्ञां द्विगुणा मता। वैश्यानां त्रिगुणा प्रोक्ता पर्षद्वच्च व्रतं स्मृतम्॥' इत्यङ्गिरोवचनं तत्प्रातिलोम्येन वाग्दण्डपारुष्यविषयमित्युक्तं गोवधप्रकरणे। मूर्धा
१ बृहद्धारीतोक्तं ङ.
For Private And Personal Use Only
Page #465
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्तप्रकरणम् ५] मिताक्षरासहिता ।
४३३
वसिक्तादीनां वधे एतत्प्रायश्चित्तजातं न भवति । तेषां क्षत्रियादित्वाभावात् । अतो दण्डानुसारेणैव तद्वधे पूर्वोक्तव्रत कदम्बस्य वृद्धि हासौ कल्पनीयौ । दण्डस्य च वृद्धिहासौ दर्शितौ - ' दण्डप्रणयनं कार्य वर्णजात्युत्तराधरे' इत्यत्र ॥ २६६ ॥ २६७ ॥ इति क्षत्रियादिवध प्रायश्चित्तप्रकरणम् ।
स्त्रीवधे प्रायश्चित्तमाह
दुर्वृत्रह्मविदक्षत्रशूद्रयोपाः प्रमाप्य तु । तं धनुस्तमविं क्रमादद्याद्विशुद्धये ॥ २६८ ॥
ब्राह्मणादिभार्या दुर्वृत्ताः स्वैरिणीः प्रमाप्य क्रमेण दृतिं जलाधारचर्मकोशं धनुः कार्मुकं बस्तं छागं अविं मेपं च विशुद्धये दद्यात् । इदं च प्रातिलोम्येनान्त्यजातिप्रसूतानां ब्राह्मण्यादीनामकामतो वधविषयम् । कामतस्तु ब्रह्मगर्भ आह - 'प्रतिलोमप्रसूतानां स्त्रीणां मासावधिः स्मृतः । अन्तरप्रभवानां च सूतादीनां चतुर्द्विषट् ॥' इति । ब्राह्मण्यादिवधे षण्मासाः क्षत्रियायाश्चत्वारो वैश्याया द्वावित्येवं यथार्हतयान्वयः । यदा तु वैश्यकर्मणा जीवन्तीं व्यापादयति तदा किंचिद्देयम् । 'वैशिकेन किंचित्' इति गौतमस्मरणात् । वैशिकेन वैश्यकर्मणा जीवन्त्यां व्यापादितायां किंचिदेव देयं तच्च जलम् । 'कोशं कूपे च विप्रे वा ब्राह्मण्याः प्रतिपादयेत् । वधे धेनुः क्षत्रियाया बस्तो वैश्यावधे स्मृतः ॥ शूद्रायामाविकं वैश्यां हत्वा दद्याज्जलं नरः ॥' इत्यङ्गिरः स्मरणात् । यदा पुनः क्षत्रियादिभिः प्रातिलोम्येन व्यभिचरिता ब्राह्मणाद्या व्यापाद्यन्ते तदा गोवधप्रायश्चित्तानि यथार्ह योज्यानि ॥ २६८ ॥
ईषव्यभिचरितब्राह्मण्यादिवधे विशेषमाह
अप्रदुष्टां स्त्रियं हत्वा शूद्रहत्यात्रतं चरेत् ।
यदा त्वप्रकर्षेण दुष्टामीषव्यभिचारिणीं ब्राह्मण्यादिकां व्यापादयति तदा शूद्रहत्यातं पाण्मासिकं कुर्यात् । यद्वा दशधेनूर्दद्यात् । इदं च षाण्मासिकमकामतो ब्राह्मण्या व्यापादने, क्षत्रियावधे तु कामकृते द्रष्टव्यम् । कामतो वैश्यावधे दशधेनूर्दद्यात् । कामतः शूद्रावधे तु उपपातकसाधारणप्राप्तं मासं पञ्चगव्याशनम् । यदा तु कामतो ब्राह्मणीं व्यापादयति तदा द्वादशमासिकम् । क्षत्रियादीनां त्वकामतो व्यापादने त्रैमासिक सार्धमासिक सार्धद्वाविंशत्यहानि । यथाह प्रचेताः - 'अनृतुमतीं ब्राह्मणीं हत्वा कृच्छ्राब्दं षण्मासान्वेति । क्षत्रियां हत्वा षण्मासान्मासत्रयं वेति । वैश्यां हत्वा मासत्रयं सार्धमासं वेति । शूद्रां हत्वा सार्धमा सार्धद्वाविंशत्यहानि वा इति ॥ यत्तु हारीतेन पद्धर्षाणि राजन्ये प्राकृतं ब्रह्मचर्यं त्रीणि वैश्ये सार्धं शूद्र इति प्रतिपाद्योक्तं 'क्षत्रियवद्राह्मणीषु वैश्यव - क्षत्रियायां शूद्रवद्वैश्यायां शूद्रां हत्वा नवमासानू' इत्युक्तं तदपि कर्मसाधन
१ व्यापादितास्तदा ङ.
For Private And Personal Use Only
-
Page #466
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४३४
याज्ञवल्क्यस्मृतिः। [प्रायश्चित्ताध्यायः स्वादिगुणयोगिनीनां कामतो व्यापादने द्रष्टव्यम् । अकामतस्तु सर्वत्रार्धं कल्प्यम् । आत्रेय्यां तु प्रागुक्तम् ॥
इति स्त्रीवधप्रायश्चित्तप्रकरणम् ॥ हिंसाप्रायश्चित्तप्रसङ्गात्प्रकीर्णकपदाभिधेयानुपपातकप्राणिवधेऽपि प्रायश्चितमाह
अस्थिमतां सहस्रं तु तथानस्थिमतामनः ।। २६९ ॥ अस्थिमतां प्राणिनां कृकलासप्रभृतीनामनुक्तनिष्कृतीनां सहस्रं हत्वा अनस्थिमतां च यूकामत्कुणदंशमशकप्रभृतीनामनः शकटं तत्परिपूर्णमानं दत्वा शूद्रहत्याव्रतं पाण्मासिकं प्राकृतं ब्रह्मचर्य चरेद्दशधेनूर्वा दद्यात् । सहस्रमिति परिमाणनियमात्ततोऽधिकवधे त्वतिरिक्त कल्प्यम् । अर्वाक्पुनःप्रत्येकंवधेतु'किंचित्सास्थिवधे देयं प्राणायामस्त्वनस्थिके' इति वक्ष्यति । तथानस्थिमतामन इत्येतच्च क्षोदिष्टजन्तुविषयम् । स्थविष्ठानस्थिघुणादिजन्तुवधे तु 'कृमिकीटवयो हत्वा' इत्यादिना मलिनीकरणीयान्यभिधाय 'मलिनीकरणीयेषु तप्तः स्याद्यावकस्यहम्' इति मनूक्तं द्रष्टव्यम् ॥ २६९ ॥
मार्जारगोधानकुलमण्डूकांश्च पतत्रिणः।।
हत्वा त्र्यहं पिबेत्क्षीरं कृच्छ्रे वा पादिकं चरेत् ॥ २७० ॥ किंच । मार्जारादयः प्रसिद्धाः पतत्रिणश्चापकाकोलूकास्तान् हत्वा त्रिरात्रं पयः पिबेत् पादकृच्छ्रे वा चरेत् । वाशब्दाद्योजनगमनादिकं वा कुर्यात् ॥ यथाह मनुः (११११३२)-'पयः पिबेत्रिरात्रं वा योजनं वाध्वनो व्रजेत् । अपः स्पृशेसवन्त्यां वा सूक्तं वाब्दैवतं जपेत् ॥' इति । इदं च प्रत्येकवधविषयम् । समुदितवधे तु (११३१३१)-'मार्जारनकुलौ हत्वा चाषं मण्डूकमेव च । श्वगोधोलूककाकांश्च शूद्रहत्याव्रतं चरेत् ॥' इति मनूक्तं पाण्मासिकं द्रष्टव्यम् ॥ यत्पुनर्वसिष्ठेनोक्तम्-'श्वमार्जारनकुलमण्डूकसर्पदहरमूषिकान्हत्वा कृच्छ्रे द्वादशरात्रं चरेकिंचिद्दद्यात्' इति तत्कामतोऽभ्यासविषयं वेदितव्यम् । दहरोऽल्पमूषकश्छुच्छुन्दरी वा ॥ २७ ॥
गजे नीलवृषाः पञ्च शुके वत्सो द्विहायनः।
खराजमेषेषु वृषो देयः क्रौञ्चे त्रिहायनः ॥ २७१ ॥ किंच । दन्तिनि व्यापादिते पञ्च नीलवृषा देयाः । शुके पक्षिणि द्विवर्षो वत्सः । रासभच्छागैडकेषु व्यापादितेषु प्रत्येकमेको वृषः । क्रौञ्च पक्षिणि बिहा. यनो वत्सः। देय इति सर्वत्रानुषङ्गः ॥ मनुनाप्यत्र विशेष उक्तः (११।१३६)'वासो दद्याद्धयं हत्वा पञ्च नीलान्वृषान्गजम् । अजमेषावनड्वाहं खरं हत्वैकहायनम् ॥' इति ॥ २७१ ॥
१ उपस्पृशेत् ङ.
For Private And Personal Use Only
Page #467
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्तप्रकरणम् ५ ] मिताक्षरासहिता ।
हंसश्येन कपिव्याज्जलस्थलशिखण्डिनः ।
भासं च हत्वा दद्याद्गामक्रव्यादस्तु वत्सिकाम् || २७२ ॥ किंच । क्रव्यमपक्कं मांसमत्तीति क्रव्याद्व्याघ्रसृगालादिर्मृगविशेषः वानरसाह - चर्यात् । तथा हंसश्येनसमभिव्याहारात्कङ्कगृधादिः पक्षिविशेषश्च गृह्यते । जलशब्देन जलचरा बकादयो गृह्यन्ते । स्थलशब्देन स्थलचरा बेलाकादयः । शिखण्डी मयूरः । भासः पक्षिविशेषः । शेषाः प्रसिद्धाः । एषां प्रत्येकं वधे गामेकां दद्यात् । अक्रव्यादस्तु हरिणादिमृगान् खञ्जरीटादिपक्षिविशेषान्हत्वा वत्सतरीं दद्यात् । तथाच मनुः ( ११।१३५ - १३७ ) - ' हत्वा हंसं बलाकां च बकं बर्हिणमेव च । वानरं श्येनभासौ च स्पर्शयेद्राह्मणाय गाम् ॥ क्रव्यादस्तु मृगान्हत्वा धेनुं दद्यात्पयस्विनीम् । अक्रव्यादो वत्सतरीमुष्ट्रं हत्वा तु कृष्णलम् ॥' इति ॥ २७२ ॥ उरगेष्वयसो दण्डः पण्डके त्रपु सीसकम् ।
कोले घृतघटो देय उष्ट्रे गुञ्जा हयें शुकम् ।। २७३ ।।
४३५
किंच | सरीसृपेषु व्यापादितेषु भयोमयो दण्डस्तीक्ष्णप्रान्तो देयः । पण्डके नपुंसके व्यापादिते त्रपु सीसकं च माषपरिमितं दद्यात् पलालभारं वा । 'पण्डकं इत्वा पलालभारं त्रपु सीककं वा दद्यात्' इति स्मृत्यन्तरदर्शनात् । यद्यपि 'पण्डको लिङ्गहीनः स्यात्संस्कारार्हश्च नैव सः' इति देवलवचनेन सामान्येनैव स्त्रीपुंलिङ्गरहितो निर्दिष्टस्तथापि न गोब्राह्मणरूपस्येह विवक्षा । गोब्राह्मणवधनिषेधस्य जात्यवच्छेदेन प्रवृत्तेः लिङ्गविरहिणि च पण्डे जातिसमवायाविशेषात्तनिमित्तमेव लघुप्रायश्चित्तमुक्तम् । तस्मान्मृगपक्षिण एव विवक्षिताः । मृगपक्षिसमभिव्याहाराच्च । कोले सूकरे व्यापादिते घृतकुम्भो देयः । उष्ट्रे गुञ्जा देया । वाजिनि विनिपातितेंऽशुकं वस्त्रं देयम् । तथाच मनुः ( ११३१३३ ) - ' काष्णीयसीं दद्यात्सर्प हत्वा द्विजोत्तमः । पलालभारकं षण्ढे सैसकं चैव माषकम् ॥' इति ॥ २७३ ॥
तित्तिरौ तु तिलद्रोणं गजादीनामशक्रुवन् ।
दानं दातुं चरेत्कृच्छ्रमेकैकस्य विशुद्धये ॥ २७४ ॥
किंच । तित्तिरौ पतत्रिणि व्यापादिते तिलद्रोणं दद्यात् । द्रोणशब्दश्च परिमाणविशेषवचनः । 'अष्टमुष्टि भवेत्किंचित्किंचिदष्टौ तु पुष्कलम् । पुष्कलानि तु चत्वारि आढकः परिकीर्तितः ॥ चतुराढको भवेद्रोण इत्येतन्मानलक्षणम् ॥' इति स्मरणात् ॥ पूर्वोक्तानां गजादीनां व्यापादने निर्धनत्वेन नीलवृषपञ्चकादिदानं कर्तुमशक्नुवन् प्रत्येकं कृच्छ्रं चरेद्विशुद्ध्यर्थम् । कृच्छ्रशब्दश्चात्र लक्षणया क्लेशसाध्ये तपोमात्रे द्रष्टव्यः । तपांसि च गौतमेन दर्शितानि - 'संवत्सरः
मासाश्चत्वारस्यो द्वावेकश्चतुर्विंशत्यहो द्वादशाहः षडहरुयहोऽहोरात्र इति कालः । एतान्येवानादेशे विकल्पेन क्रियेरन्नेनसि गुरुणि गुरूणि लघुनि लघूनि'
१ बकादयः ख.
For Private And Personal Use Only
Page #468
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
याज्ञवल्क्यस्मृतिः।
प्रायश्चित्ताध्यायः]
इति । यदि कृच्छ्रशब्देन मुख्योऽर्थो गृह्यते तर्हि गजे शुके वा विशेषेण प्राजापत्य एव स्यात् । नच तद्युक्तम् । तपोमात्रपरत्वे तु दानगुरुलघुभावाकलनया तपसोऽपि गुरुलघुभावो युज्यते । ततश्च गजे द्विमासिकं यावकाशनं शुके तूपवास इति । एवमन्यत्रापि दानानुसारेण प्रायश्चित्तं कल्प्यम् ॥ २७४ ॥
फलपुष्पानरसजसत्त्वधाते घृताशनम् । किंचाह । उदुम्बरादौ फले मधूकादौ च कुसुमे चिरस्थितभक्तसक्त्वाद्यन्ने च रसे गुडादौ च यानि सत्त्वानि प्राणिनो जायन्ते तेषां घाते घृतप्राशनं शुद्धिसाधनम् । इदं च घृतप्राशनं भोजनकार्ये एव विधीयते । प्रायश्चित्तानां तपोरूपत्वात् । दर्शितं च तपोरूपत्वमाङ्गिरसे प्रायश्चित्तपदनिर्वचनव्याजेन'प्रायो नाम तपः प्रोक्तं चित्तं निश्चय उच्यते। तपोनिश्चयसंयुक्तं प्रायश्चित्तं तदुच्यते ॥' इति ॥
प्रतिप्राणिप्रायश्चित्तस्यानन्त्यात् पृष्टाकोटेनापि वक्तुमशक्यत्वात्सामान्येन प्रायश्चित्तमाह
किंचित्सास्थिवधे देयं प्राणायामस्त्वनस्थिके ॥ २७५॥ अस्थिमतां कृकलासादिप्राणिनां न्यूनसहस्रसंख्यानां प्रत्येकं वधे किंचित्स्वल्पं धान्यहिरण्यादि देयम् । अनस्थिके त्वेकः प्राणायामः । तत्र किंचिदिति यदा हिरण्यं दीयते तदा पणमात्रम् 'अस्थिमतां वधे पणो देयः' इति सुमन्तुस्सरणात् । यदा तु धान्यं देयं तदाष्टमुष्टि देयम् 'अष्टमुष्टि भवेत्किंचित्' इति स्मरणात् । एतच्चानुक्तनिष्कृतिप्राणिवधविषयम् । यत्र तु प्रायश्चित्तविशेषः श्रूयते तत्र स एव भवति । यथाह पराशरः-'हंससारसचक्राहक्रौचकुक्कुटघातकः। मयूरमेषौ हत्वा च एकभक्तेन शुध्यति ॥ मटुं च टिट्टिभं चैव शुकं पारावतं तथा। आडिकां च बकं हत्वा शुध्येद्वै नक्तभोजनात् ॥ चाषकाककपोतानां सारीतित्तिरघातकः। अन्तर्जल उभे संध्ये प्राणायामेन शुध्यति ॥ गृध्रश्येनविहङ्गानामुलूकस्य च घातकः। अपक्वाशी दिनं तिष्ठेवौ कालौ मारुताशनः ॥ हत्वा मूषिकमार्जारसजिगरडुण्डुभान् । प्रत्येकं भोजयेद्विप्रांल्लोहदण्डश्च दक्षिणा ॥ सेधाकच्छपगोधानां शशंशल्यकघातकः । वृन्ताकफलगुजाशी अहोरात्रेण शुध्यति ॥ मृगरोहिवराहाणामविकाबस्तघातने । वृकजम्बूकक्षाणां तरक्षूणां च घातकः ॥ तिलप्रस्थं त्वसौ दद्याद्वायुभक्षो दिनत्रयम् । गजमेषतुर. गोष्ट्रगवयानां निपातने ॥ प्रायश्चित्तमहोरात्रं त्रिसंध्यं चावगाहनम् । खरवानरसिंहानां चित्रकव्याघ्रघातकः ॥ शुद्धिमेति त्रिरात्रेण ब्राह्मणानां च भोजनैः॥' इति ॥ एवमन्येषामपि स्मृतिवचसा देशकालाद्यपेक्षया विषयव्यवस्था कल्पनीया ॥ २७५॥
इति हिंसाप्रायश्चित्तप्रकरणम् ।
१ कृसरं भोजयेत् ङ. २ शशशलक ङ.
For Private And Personal Use Only
Page #469
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्तप्रकरणम् ५] मिताक्षरा सहिता ।
४३७
इन्धनार्थं द्रुमच्छेद इत्युपपातकोद्देशे पठितं, हिंसाप्रसङ्गलोभेन तद्व्युत्क्रमपठितमप्यपकृष्य तत्र प्रायश्चित्तमाह-
वृक्षगुल्मलतावीरुच्छेदने जप्यमृक्शतम् । स्यादोषधिवृथाच्छेदे क्षीराशी गोऽनुगो दिनम् ॥ २७६ ॥
फलदानां आम्रपनसादिवृक्षाणां गुल्मादीनां च यज्ञाद्यदृष्टार्थ विना छेदने ऋचां गायत्र्यादीनां शतं जप्तव्यम् । औषधीनां तु ग्राम्यारण्यानां वृथैव छेदने दिनं कृत्स्नमहर्गवां परिचर्यार्थमनुगम्यान्ते क्षीरं पिवेदाहारान्तरपरित्यागेन । पञ्चयज्ञार्थे तु न दोषः । एतच्च फलादिद्वारेणोपयोगिषु द्रष्टव्यम् । (मनु: ११ । १४२ ) - ' फलदानां तु वृक्षाणां छेदने जप्यमृक्शतम् । गुल्मवल्लीलतानां च पुष्पितानां च वीरुधाम् ॥' इति मनुस्मरणात् । दृष्टार्थत्वेऽपि कर्षणाङ्गभूतहलाद्यर्थत्वे न दोषः । 'फलपुष्पोपगान्पादपान्न हिंस्यात्कर्षणकरणार्थं चोपहन्यात्' इति वसिष्ठस्मरणात् । यत्र तु स्थानविशेषाद्दण्डाधिक्यं तत्र प्रायश्चित्ताधिक्यमपि कल्पनीयम् । तदुक्तम्- 'चैत्यश्मशानसीमासु पुण्यस्थाने सुरालये । जातद्रुमाणां द्विगुणो दमो वृक्षेऽथ विश्रुते ॥' इति । अयं च ऋक्शतनपो द्विजातिविषयो न पुनः शूद्रादिविषयः । तेषां जपेऽनधिकारात् । अतस्तेषां दusiनुसारेण द्विरात्रादिकं कल्पनीयम् । उपपातकमध्ये विशेषतः पाठस्थानथैंक्यपरिहारार्थमुपपातकसाधारणप्राप्तं प्रायश्चित्तमप्यन्त्र भवति । तच्च गुरुत्वादभ्यासविषयं कल्प्यम् ॥ २७६ ॥
पुंश्चली वानरादिवध प्रायश्चित्तप्रसङ्गात्तद्देशनिमित्तं प्रायश्चित्तमाह-
पुंश्चलीवानरखरैर्दष्टैश्वोष्ट्रादिवायसैः ।
प्राणायामं जले कृत्वा घृतं प्राश्य विशुध्यति ॥ २७७ ॥
पुंश्चल्यादयः प्रसिद्धाः एतैर्दष्टः पुमानन्तर्जले प्राणायामं कृत्वा घृतं प्राश्य विशुध्यति । आदिग्रहणाच्छृगालादीनां ग्रहणम् । यथाह मनुः ( ११।१९९ ) - 'श्वसृगालखरैर्दष्ट ग्राम्यैः क्रव्याद्भिरेव च । नराश्वोष्ट्रवराहैश्च प्राणायामेन शुध्यति ॥' इति । अयं च घृतप्राशो भोजनप्रत्याम्नायो द्रष्टव्यः प्रायश्चित्तानां तपोरूपत्वेन शरीरसंतापनार्थत्वात् । एतदशक्तविषयम् । - 'श्वसृगालमृगमहिषाजाविकर करभन कुल मार्जारमूषक पुवबकका कपुरुषदष्टानामापोहिष्टेत्यादिभिः स्नानं प्राणायामन्त्रयं च ॥' इति यत्सुमन्तुवचनं तन्नाभेरधः प्रदेश ईपदष्टविषयम् । यत्त्वङ्गिरोवचनम् - 'ब्रह्मचारी शुना दष्टस्यहं सायं पिबेत्पयः । गृहस्थश्वेद्विरात्रं तु एकाहं योऽग्निहोत्रवान् ॥ नाभेरूर्ध्व तु दृष्टस्य तदेव द्विगुणं भवेत् । स्यादेतत्रिगुणं वक्ते मस्तके तु चतुर्गुणम् ॥' इति तत्सम्यग्दष्टविषयम् । क्षत्रियवैश्ययोस्तु पादपादन्यूनं कल्पनीयम् । शुद्रस्य तु — 'शूद्राणां चोपवासेन शुद्धि
१ दण्डानुसारात् ङ. २ साधारणप्रायश्चित्तं ङ. ३ दष्टवादि ख. ४ मूषिकाप्लव ख.
For Private And Personal Use Only
Page #470
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४३८
याज्ञवल्क्यस्मृतिः। [प्रायश्चित्ताध्यायः
दर्दानेन वा पुनः । गां वा दद्यादृषं चैकं ब्राह्मणाय विशुद्धये ॥' इति बृहदङ्गिरसोक्तं द्रष्टव्यम् । यत्तु वसिष्ठवचनम्-'ब्राह्मणस्तु शुना दष्टो नदीं गत्वा समुद्रगाम् । प्राणायामशतं कृत्वा घृतं प्राश्य विशुध्यति ॥' इति तदुत्तमाङ्गदं. शविषयम् ॥ स्त्रीणां तु–'ब्राह्मणी तु नाशु दष्टा जम्बुकेन वृकेण वा । उदितं ग्रहनक्षत्रं दृष्ट्वा सद्यः शुचिर्भवेत् ॥' इति पराशरोक्तं द्रष्टव्यम् । कृच्छ्रादिव्रतस्थायाः पुनस्तेनैव विशेषो दर्शितः-'विरानमेवोपवसेच्छुना दष्टा तु सुवेता। सघृतं यावकं भुक्त्वा व्रतशेषं समापयेत् ॥' इति ॥ रजस्वलायामपि विशेषः पुलस्त्येन दर्शित:--'रजस्वला यदा दष्टा शुना जम्बुकरासभैः। पञ्चरात्रं निराहारा पञ्चगव्येन शुध्यति ॥ ऊर्ध्वं तु द्विगुणं नाभेर्वक्रे तु त्रिगुणं तथा। चतुर्गुणं स्मृतं मूर्ध्नि दष्टेऽन्यत्राप्लुतिर्भवेत् ॥' इति । अन्यत्राऽरजस्वलावस्थायाम् । यस्तु श्वादिभिर्घाणादिनोपहन्यते तस्य शातातपेन विशेष उक्तः-'शुना घ्राणावलीढस्य नखैर्विलिखितस्य च । अनिः प्रक्षालनं शौचमग्निना चोपचूलनम् इति । उपचूलनं तापनम् ॥ यदा तु श्वादिदंशशस्त्रधातादिजनितव्रणे कृमय उत्पद्यन्ते तदा मनुना विशेष उक्तः–'ब्राह्मणस्य व्रणद्वारे पूयशोणितसंभवे । कृमिरुत्पद्यते यस्य प्रायश्चित्तं कथं भवेत् ॥ गवां मूत्रपुरीषेण त्रिसंध्यं स्नानमाचरेत् । त्रिरात्रं पञ्चगव्याशी त्वधोनाभ्या विशुध्यति ॥ नाभिकण्ठान्तरोद्भूते व्रणे चोत्पद्यते कृमिः। षड्राँत्रं तु व्यहं पञ्चगव्याशनमिति स्मृतम् ॥' तत्र श्वादिदंशवणे तदं. शप्रायश्चित्तानन्तरमिदं कर्तव्यम् । शस्त्रादिजनितव्रणे त्वेतदेव, त्र्यहं पञ्चगव्याशनादिकमिति शेषः । क्षत्रियादिषु तु प्रतिवर्ण पादपादह्रासः कल्पनीयः ॥२७७॥
शारीरत्वग्धातुविच्छेदकदंशप्रायश्चित्तप्रसङ्गाच्छारीरचरमधातुविच्छेदकस्कन्दने प्रायश्चित्तमाह
यन्मेऽद्य रेत इत्याभ्यां स्कन्नं रेतोऽभिमत्रयेत् ।
स्तनान्तरं भ्रुवोर्मध्यं तेनानामिकया स्पृशेत् ॥ २७८ ॥ यदि कथंचित्स्त्रीसंभोगमन्तरेणापि हठाच्चरमधातुर्विसृष्टस्तदा तत्स्कन्नं रेतो यन्मेऽद्य रेतः पृथिवीमस्कन् पुनर्मामैत्विन्द्रियमित्याभ्यां मन्त्राभ्यामभिमन्त्रयेत् । तेन चाभिमत्रितेन रेतसा स्तनयोध्रुवोश्च मध्यमुपकनिष्ठिकया स्पृशेत् ॥ अन्ये तु स्कन्नस्य रेतसोऽशुचित्वेन स्पर्शकर्मण्ययोग्यत्वात्तेनेत्यनामिकासाहचर्यास्त्रबु. द्धिस्थाङ्गुष्ठपरत्वेन व्याचक्षते । तेनाङ्गुष्ठेनानामिकया चेति अङ्गुष्ठपदग्रहणे वृत्तभङ्गप्रसङ्गात्तेनेति निर्दिष्टमिति । तदसत् । अङ्गुष्टस्याबुद्धिस्थत्वात् । नच शब्दसंनिहितपरित्यागेनार्थाद्बुद्धिस्थस्यान्वयो युक्तः। तदुक्तम्-'गम्यमानस्य चार्थस्य नैव दृष्टं विशेषणम् । शब्दान्तरैर्विभक्त्या वा धूमोऽयं ज्वलतीति वत् ॥' इति । नच रेतसोऽशुचित्वेन स्पर्शायोग्यत्वम् । विधानादेव प्रायश्चित्तार्थरूपस्पर्शे योग्यत्वमवगम्यते प्रायश्चित्तरूपपान इव सुरायाः। इदं च प्रायश्चित्तं गृहस्थस्यैवा
१ विशुध्यति ङ. २ सव्रता ख. ३ चोपकूलनं. ४ षडात्र च तदा प्रोक्तं प्राजापत्यं विशोधनं ङ.
For Private And Personal Use Only
Page #471
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्तप्रकरणम् ५] मिताक्षरासहिता।
४३९ कामतः स्कन्नविषयम् । ब्रह्मचारिणः स्वमे जागरणावस्थायां च गुरुप्रायश्चित्तस्य दर्शनात् ।। यत्तु मनुवचनम्-'गृहस्थः कामतः कुर्याद्रेतसः स्कन्दनं भुवि । सहस्रं तु जपेद्देव्यः प्राणायामैत्रिभिः सह ॥' इति तत्कामकारविषयम् ॥२७८॥
मयि तेज इति च्छायां स्वां दृष्ट्वाम्बुगतां जपेत् ।
सावित्रीमशुचौ दृष्टे चापल्ये चानृतेऽपि च ॥ २७९ ॥ किंच । स्वीयं प्रतिबिम्बमम्बुगतं दृष्टं चेत् तदा 'मयि तेज इन्द्रियम्' इतीमं मन्त्र जपेत् । अशुचिद्रव्यदर्शने पुनः सावित्री सवितृदैवत्यां तत्सवितुरित्यादिकामृचं जपेत् । तथा वाक्पाणिपादादिचापल्यकरणे तामेव जपेत् , अनृतवचने च । एतकामकारे द्रष्टव्यम् । अकामकृते तु 'सुहवा भुक्त्वा च क्षुत्वा च निष्ठीव्योक्त्वानृतानि च । पीत्वापोऽध्येष्यमाणश्च आचामेत्प्रयतोऽपि सन् ॥' इति मनूक्तमाचमनं द्रष्टव्यम् ॥ यत्तु संवर्तवचनम्-'क्षुते निष्ठीवने चैव दन्तश्लिष्टे तथानृते । पतितानां च संभाषे दक्षिणं श्रवणं स्पृशेत् ॥' इति, तदल्पप्रयोजने जलाभावे वा द्रष्टव्यम् ॥ स्त्रीशूदविदक्षत्रवधानन्तरं निन्दितार्थोपजीवनं पठितं तत्र च मनुयोगीश्वरप्रोक्तान्युपपातकप्रायश्चित्तानि जातिशक्तिगुणाद्यपेक्षया वेदितव्यानि । नास्तिक्येऽपि तानि प्रायश्चित्तानि तथैव प्रयोज्यानि, नास्तिक्यशब्देन च वेदनिन्दनं, तेन जीवनमुच्यते तत्रोभयत्रापि वसिष्ठेन प्रायश्चित्तान्तरमप्युक्तम्'नास्तिकः कृच्छ्रे द्वादशरात्रं चरित्वा विरमेनास्तिक्यान्नास्तिकवृत्तिस्त्वतिकृच्छ्रम्' इति। एतच्च सकृस्करणविषयम् । उपपातकप्रायश्चित्तान्यभ्यासविषयाणि । यच्च शलेनोक्तम्-'नास्तिको नास्तिकवृत्तिः कृतघ्नः कूटव्यवहारी मिथ्याभिशंसी इत्येते पञ्चसंवत्सरं ब्राह्मणगृहे भैक्षं चरेयुः' इति । यच्च हारीतेन-'नास्तिको नास्तिकवृत्तिः' इति प्रक्रम्य 'पञ्चतपोऽभावकाशजलशयनान्यनुतिष्ठेयुर्णीष्मवर्षाहेमन्तेषु' इति तदुभयमप्यन्ताभिनिवेशेन बहुकालाभ्यासविषयम् ॥ २७९ ॥
नास्तिक्यानन्तरं व्रतलोपश्चेत्युक्तं तत्रावकीर्णस्याप्रसिद्धत्वात्तल्लक्षणकथनपूर्वक प्रायश्चित्तमाह
अवकीर्णी भवेद्गता ब्रह्मचारी तु योषितम् ।
गर्दभं पशुमालभ्य नैऋतं स विशुध्यति ॥ २८०॥ ब्रह्माचार्युपकुर्वाणको नैष्ठिकश्चासौ योषितं गत्वाऽवकीर्णी भवति । चरमधातोर्विसर्गोऽवकीर्णं तद्यस्यास्ति सोऽवकीर्णी स नितिदैवत्येन गर्दभपशुना यागं कृत्वा विशुध्यति । गर्दभस्य पशुत्वे सिद्धेऽपि पुनः पशुग्रहणं 'अथ पशुकल्पः'. इत्याश्वलायनादिगृह्योक्तपशुधर्मप्राप्त्यर्थम् । एतच्चारण्ये चतुष्पथे लौकिकेऽग्नौकार्यम् । 'ब्रह्मचारी चेस्त्रियमुपेयादरण्ये चतुष्पथे लौकिकेऽनौ रक्षोदैवतं गर्दभं पशुमालभेत' इति वसिष्ठस्मरणात् ॥ तथा राबावेकाक्षिविकलेन यष्टव्यम् । तथाच मनुः (१११११८)-'अवकीर्णी तु काणेन रासभेन चतुष्पथे ।
-
-
१ वक्ष्यमाणत्वात् ङ. २ निष्ठीविते ङ.
या० ४०
For Private And Personal Use Only
Page #472
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४४०
याज्ञवल्क्यस्मृतिः। [प्रायश्चित्ताध्यायः
पाकयज्ञविधानेन यजेत निति निशि ॥' इति । पशोरभावे चरुणा यष्टव्यम् । 'निर्ऋतिं वा चरुं निर्वपेत् तस्य जुहुयात्-कामाय स्वाहा, कामकामाय स्वाहा, नित्यै स्वाहा, रक्षोदेवताभ्यः स्वाहा' इति वसिष्ठस्मरणात् । एतच्चाशक्तवि. षयम् । शक्तस्य पुनर्गर्दभेनावकीर्णी नितिं चतुष्पथे यजेत् । 'तस्याजिनमूर्ध्व. वालं परिधाय लोहितपात्रः सप्तगृहान् भैक्षं चरेत्कर्माचक्षाणः संवत्सरेण शु. ध्यति' इति गौतमोक्तो वार्षिकतपःसमुचितः पशुयागश्वरुर्वा द्रष्टव्यः। तथा त्रिषवणस्नानमेककालभोजनं च द्रष्टव्यम् । (११।१२२-१२३)-'एतस्मिन्नेनसि प्राप्ते वसित्वा गर्दभाजिनम् । सप्तागारं चरे क्षं स्वकर्म परिकीर्तयन् ॥ तेभ्यो लब्धेन भैक्षेण वर्तयन्नेककालिकम् । उपस्पृशंस्त्रिषवणमब्देन स विशु. ध्यति ॥' इति मनुस्मरणात् ॥ इदं च वार्पिकमश्रोत्रियब्राह्मणपत्यां वैश्यायां श्रोत्रियपत्नयां च द्रष्टव्यम् ॥ यदा तु गुणवत्योाह्मणीक्षत्रिययोः श्रोत्रियभार्ययोरवकिरति तदा त्रिवार्षिकं द्विवार्षिकं च क्रमेण द्रष्टव्यम् ॥ यथाहतुः शङ्ख लिखितौ-'गुप्तायां वैश्यायामवकीर्णः संवत्सरं त्रिषवणमनुतिष्टेत् । क्षत्रियायां तु द्वे वर्षे ब्राह्मण्यां त्रीणि वर्षाणि' इति । यत्त्वगिरोवचनम्-'अवकी
निमित्तं तु ब्रह्महत्याव्रतं चरेत् । चीरवासास्तु षण्मासांस्तथा मुच्येत किल्बिषात् ॥' इति तदकामतो मानवाब्दिकविषयमीषद्ध्यभिचारिणीविषयं वा ॥'अत्यन्तव्यभिचरितासु पुनः स्वैरिण्यां वृपल्यामवकीर्णः सचैलं स्नात उदकुम्भ दद्याद्राह्मणाय । वैश्यायां चतुर्थकालाहारो ब्राह्मणान्भोजयेत् । यवसभारं च गोभ्यो दद्यात् । क्षत्रियायां त्रिरात्रमुपोषितो घृतपानं दद्यात् । ब्राह्मण्यां पड़ा. त्रमुपोषितो गां च दद्यात् । गोष्ववकीर्णः प्राजापत्यं चरेत् । षण्ढायामवकीर्णः पलालभारं सीसमाषकं च दद्यात्' इति शङ्खलिखितोदितं वेदितव्यम् । एतच्चावकीर्णिप्रायश्चित्तं त्रैवर्णिकस्यापि ब्रह्मचारिणः समानम् । अवकीर्णी द्विजो राजा वैश्यश्चापि खरेण तु । इष्ट्वा भैक्षाशिनो नित्यं शुद्ध्यन्त्यब्दात्समाहिताः ॥' इति शाण्डिल्यस्मरणात् । यदा स्त्रीसंभोगमन्तरेण कामतश्चरमधातुं विसृजति दिवा च स्वप्ने वा विसृजति तदा नैर्ऋतयागमानं द्रष्टव्यम् । 'एतदेव रेतसः प्रयत्नोत्सर्गे दिवा स्वमे च' इति वसिष्ठेन यागमात्रस्यातिदिष्टत्वात् । व्रतान्तरेषु कृच्छ्रचान्द्रायणादिष्वतिदिष्टब्रह्मचर्येषु स्कन्दने सत्येतदेव यागमात्रम् । 'व्रतान्तरेषु चैव'मिति तेनैवातिदिष्टत्वात् । स्वमस्कन्दने तु मनूक्तं द्रष्टव्यम् (२।१८१) --'स्वमे सिक्त्वा ब्रह्मचारी द्विजः शुक्रमकामतः । स्नात्वार्कमर्चयित्वा त्रिः पुन. समित्यूचं जपेत् ॥' इति । वानप्रस्थादीनां चेदमेव ब्रह्मचर्यखण्डने अवकीर्णव्रतं कृच्छ्रत्याधिकं भवति । 'वानप्रस्थो यतिश्चैव स्कन्दने सति कामतः । पराकत्रयसंयुक्तमवकीर्णिव्रतं चरेत् ॥ इति शाण्डिल्यस्मरणात् ॥ यदा गार्हस्थ्यपरिग्रहेण संन्यासात्प्रच्युतो भवति तदा संवतॊक्तं द्रष्टव्यम् ।-'संन्यस्य दुर्मतिः कश्चित्प्रत्यापत्तिं व्रजेद्यदि । स कुर्यात्कृच्छ्रमश्रान्तः षण्मासात्प्रत्यनन्तरम् ॥' इति । प्रत्यापत्तिार्हस्थ्यपरिग्रहः । अतएव वसिष्ठः-'यस्तु प्रबजितो भूत्वा
१ गार्हस्थ्यासंभवः परिग्रहश्च ङ.
For Private And Personal Use Only
Page #473
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्तप्रकरणम् ५] मिताक्षरासहिता ।
४४१
पुनः सेवेत मैथुनम् । षष्टिवर्षसहस्राणि विष्ठायां जायते कृमिः॥' इति। तथाच प. राशरः-'यःप्रत्यवसितो विप्रःप्रव्रज्यातो विनिर्गतः। अनाशकनिवृत्तश्च गार्हस्थ्यं चेच्चिकीर्षति ॥ स चरेत्रीणि कृच्छ्राणि त्रीणि चान्द्रायणानि च । जातकर्मादिभिः सर्वैः संस्कृतः शुद्धिमाप्नुयात् ॥' इति, तत्र ब्राह्मणस्य पाण्मासिकः कृच्छ्रः पुनः संन्याससंस्कारश्च । क्षत्रियस्य चान्द्रायणत्रयम् । वैश्यस्य कृच्छ्रत्रयमिति व्यवस्था । अथवा ब्राह्मणस्यैव शक्तिसकृदभ्यासाद्यपेक्षया व्यवस्थितं प्रायश्चित्तत्रयं द्रष्टव्यम् ॥ (चितिभ्रंष्टा तु या नारी मोहाद्विचलिता क्वचित् । प्राजापत्येन शुद्ध्येत्तु तस्मादेवापकर्मणः॥' चितिभ्रष्टा भर्तुरनुगमने आपस्तम्बस्मरणात् क्वचिदित्युक्तम्।) तथा मरणसंन्यासिनामपि यमेन प्रायश्चित्तमुक्तम्-'जलाग्युद्धन्धनभ्रष्टाः प्रवज्यानाशकच्युताः । विषप्रपतनप्रायशस्त्रघातच्युताश्च ये ॥ नवैते प्रत्यवसिताः सर्वलोकबहिष्कृताः । चान्द्रायणेन शुद्ध्यन्ति तप्तकृच्छ्रद्वयेन वा ॥' इति ॥ इदं च चान्द्रायणं तप्तकृच्छ्रद्वयात्मकं प्रायश्चित्तद्वयं शक्त्याद्यपेक्षया व्यवस्थितं विज्ञेयम् । यदा तु 'शस्त्रघातहताश्च' इति पाठः तदात्मत्यागाद्यशास्त्रीयमरणनिमित्तस्तत्पुत्रादेरुपदेशो द्रष्टव्यः ॥ यत्पुनर्वसिष्ठेनोक्तम्-'जीवनात्मत्यागी कृच्छ्रे द्वादशरात्रं चरेत् त्रिरात्रं चोपवसेत्' इति तदप्यध्यवसिताशास्त्रीयमरणस्यैव कथंचिज्जीवने शक्त्यपेक्षया द्रष्टव्यम् । अथवाध्यवसायमात्रे त्रिरात्रं शस्त्रादिक्षतस्य द्वादशरात्रमिति व्यवस्था । इदं चावकीर्णिप्रायश्चित्तं गुरुदारतत्समव्यतिरिक्तागम्यागमनविषयम् । तत्र गुरुतरप्रायश्चित्तस्य दर्शितत्वात् । नच लघुनावकीर्णिव्रतेन द्वादशवार्षिकाद्यपनोद्यमहापातकदोषनिबर्हणमुचितम् । नच ब्रह्मचारित्वोपाधिकं लघुप्रायश्चित्तविधानमिति युक्तम् । आश्रमान्तराणां द्वैगुण्यादिवृद्धेब्रह्महत्याप्रकरणे दर्शितत्वात् । नचानागम्यागमनप्रायश्चित्तं पृथक्कर्तव्यम् । ब्रह्मचारिणो योषिति ब्रह्मचर्यस्खलनस्यागम्यागमनेनान्तरीयकत्वात्, अतोऽन्यत्रापि यस्मिन्निमित्ते यन्निमित्तान्तरं समं न्यूनं वावश्यंभाविनः। तत् पृथक् नैमित्तिकं प्रयुङ्क्ते । यथा (मनुः ११०२०८)-'अवगूर्य चरेत्कृच्छ्रमतिकृच्छ्रे निपातने । कृच्छ्रातिकृच्छ्रोऽमृक्पाते कृच्छ्रोऽभ्यन्तरशोणिते ॥' इत्यत्र शोणितो. त्पादननिमित्तेऽवगूरणनिपातलक्षणं निमित्तद्वयमवश्यंभावित्वेन स्वनैमित्तिकं कृच्छ्रमतिकृच्छ्रे च न प्रयुङ्क्ते एवमन्यत्राप्यूहनीयम् । यत्र पुनर्निमित्तानामन्तीवनियमो नास्ति तत्र पुनर्नैमित्तिकानि पृथक्प्रयुज्यन्ते । निमित्तानि यथा'यदा पर्वणि परभायाँ रजस्वलां तैलाभ्यक्तो दिवा जले गच्छति' इति ॥ ननु ब्रह्मचारिणो योषिति ब्रह्मचर्यस्खलनस्यागम्यागमनान्तरीयकत्वं नास्त्येव । पुत्रिकागमनेऽगम्यागमनदोषाभावात् । तथाहि न तावत्पुत्रिका कन्या अक्षतयोनित्वात्, नापि परभार्या प्रदानाभावात्, नापि वेश्या अतद्वत्तित्वात्, नापि विधवा भर्तृमरणाभावात्, अतः पुत्रिकायाः क्वाप्यनन्तर्भावादप्रतिषिद्धेति तत्रैव विप्लुतस्य केवलमवकीर्णिव्रतम् । अन्यत्र विप्लुतस्य तु निमित्तान्तरसंनिपातादवकीर्णिव्रतं नैमित्तिकान्तरमपि प्रयोक्तव्यमिति । तदसत् । पुत्रिकाया अपि परभार्या१ अयं धनुश्चिह्नगो भागोऽधिकः ङ. २ भाविनस्तत्र ख. ३ अवगोरण ङ. ४ प्रयुक्तं अत एव.
For Private And Personal Use Only
Page #474
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४४२
याज्ञवल्क्यस्मृतिः। [प्रायश्चित्ताध्यायः स्वन्तर्भावात् । प्रदानाभावेऽपि विवाहसंस्कारेण संस्कृतत्वात् गान्धर्वादिविवाहपरिणीतावत् । नच 'यस्यास्तु न भवेदाता न विज्ञायेत वा पिता । नोपयच्छेत्तु तां प्राज्ञः पुत्रिकाधर्मशङ्कया ॥' इति प्रतिषेधात्सगोत्रास्विव भार्यात्वं नोत्पद्यत इति वाच्यम् । दृष्टार्थरवारप्रतिषेधस्य व्यङ्गांग्यादिप्रतिषेधवत् । दृष्टा. र्थत्वं च पुत्रिकाधर्मशङ्कयेति हेतूपादानात् । नच पुत्रार्थमेव परिणयनं अपितु धर्मा. र्थमपि, अतश्चोत्पादितपुत्रस्य मृतभार्यस्य धर्मार्थ पुत्रिकापरिणयने को विरोधः । प्रपञ्चितं चैतत्पुरस्तादित्यलमतिप्रसङ्गेन । तस्माद्ब्रह्मचारिणो योषिति ब्रह्मचर्यस्खलनस्यागम्यागमनानन्तरीयकत्वान्न पृथङ्नैमित्तिकं प्रयोक्तव्यमिति सुष्टक्तम् ॥ २८०॥ ब्रह्मचारिप्रायश्चित्तप्रसङ्गादन्यदप्यनुपातकप्रायश्चित्तमाह
भैक्षाग्निकार्ये त्यक्त्वा तु सप्तरात्रमनातुरः। कामावकीर्ण इत्याभ्यां जुहुयादाहुतिद्वयम् ॥ २८१॥
उपस्थानं ततः कुर्यात्संमासिंचन्त्वनेन तु । यस्त्वनातुर एव ब्रह्मचारी निरन्तरं सप्तरानं भैक्षमग्निकार्य वा त्यजति असौ 'कामावकीर्णोऽस्म्यवकीर्णोऽस्मि कामकामाय स्वाहा । कामावपोस्म्यवपन्नोस्मि कामकामाय स्वाहा' । इत्येताभ्यां मत्राभ्यामाहुती हुत्वा 'संमा सिंचन्तु मरुतः समिन्द्रः संबृहस्पतिः । समायमग्निः सिंचन्तां यशसा ब्रह्मवर्चसेन ॥' इत्यनेन मन्त्रेणाग्निमुपतिष्ठेत् ॥ एतच्च गुरुपरिचर्यादिगुरुतरकार्यव्यग्रतया अकरणे द्रष्टव्यम् । यदा त्वव्यग्र एवोभे भैक्षाग्निकार्ये त्यजति तदा 'अकृत्वा भैक्षचरणमसमिध्य च पावकम् । अनातुरः सप्तरात्रमवकीर्णिव्रतं चरेत् ॥' इति मानवं द्रष्टव्यम् ॥ यज्ञोपवीतविनाशे तु हारीतेन प्रायश्चित्तमुक्तम्-'मनोवतपतीभिश्चतस्र आज्याहुतीर्तुत्वा पुनर्यथार्थ प्रतीयादसट्टैक्षभोजनेऽभ्युदितेऽभिनिर्मुक्के वान्ते दिवा स्वप्ने नग्नस्त्रीदर्शने नमस्त्रापे श्मशानमाक्रम्य हयादींश्चारुह्य पूज्यातिक्रमे चैताभिरेव जुहुयादग्निसमिन्धने स्थावरसरीसृपादीनां वधे यद्देवादेवहेडनमिति कूष्माण्डीभिराज्यं जुहुयात् मणिवासोगवादीनां प्रतिग्रहे सावित्र्यष्टसहस्रं जपेत्' इति । मनोवतपतीभिरिति मनोज्योतिरित्यादिमनोलिङ्गामिस्त्वमग्ने व्रतपा असीत्यादिव्रतलिङ्गामिरित्यर्थः । यथार्थ प्रतीयादिति उपनयनोक्तमार्गेण समअकं गृह्णीयादित्यर्थः । यज्ञोपवीतं विना भोजनादिकरणे तु-'ब्रह्मसूत्रं विना भुङ्क्ते विण्मूत्रं कुरुतेऽथवा । गायत्र्यष्टसहस्रेण प्राणायामेन शुध्यति ॥' इति मरीच्युक्तं द्रष्टव्यम् ॥ २० ॥
मधुमांसाशने कार्यः कुछ्रः शेषव्रतानि च ॥ २८२ ॥
प्रतिकूलं गुरोः कृत्वा प्रसाचैव विशुध्यति । १ समायमद्भिः ख. २ हयादीनारुह्य ख. ३ वासोगृहादीनां ङ.
For Private And Personal Use Only
Page #475
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्तप्रकरणम् ५ ] मिताक्षरासहिता ।
४४३
किंच । ब्रह्मचारिणा अमत्या मधुमांसभक्षणे कृच्छ्रः कार्यः । तदनन्तरमवशिशनि व्रतानि समापयेत् । एतच्च शिष्टभोजनाशशादिमांसभक्षणविषयम् । 'ब्रह्मचारी चेन्मांसमश्नीयाच्छिष्टभोजनीयं कृच्छ्रं द्वादशरात्रं चरित्वा व्रतशेषं समापयेत्' इति वसिष्ठस्मरणात् । द्वादशरात्रग्रहणं तु मतिपूर्वाभ्यासापेक्षयातिकृच्छ्रपराकादेरपि प्रात्यर्थम् । यदा तु मांसैकापनोद्यव्याध्यभिभूतस्तदा मांसं गुरोरुच्छिष्टं कृत्वा भक्षणीयम् । 'स चेद्याधितः कामं गुरोरुच्छिष्टं भैषज्यार्थं सर्व प्राश्नीयात्' इति तेनैवोक्तत्वात् । सर्वग्रहणं मांसलशुनाद्यभक्ष्यमात्र संग्रहार्थम् । तद्भक्षणेन चापगतव्याधिरादित्यमुपतिष्ठेत । तथाच बौधायनः -- 'येनेच्छेत्तु चिकित्सितुं स यदाऽगदो भवति तदोत्थायादित्यमुपतिष्ठेत हंसः शुचिषत्' इति । मधुनोऽप्यज्ञानतः प्राशनोपपत्तौ न दोषः । 'अकामोपनतं मधु वाजसनेयके न दुष्यति' इति वसिष्ठस्मरणात् । अन्तसूतकान्नादिभक्षणप्रायश्चित्तं स्वभक्ष्यप्रायश्चिप्रकरणे वक्ष्यामः । आज्ञाप्रतिघातादिना गुरोः प्रतिकूलमाचरन् पादप्रणिपातादिना गुरुं प्रसाद्य विशुध्यति ॥ २८२ ॥
ब्रह्मचारिप्रायश्चित्तप्रसङ्गाङ्कुरोरपि प्रायश्चित्तमाह
कृच्छ्रत्रयं गुरुः कुर्यान्प्रियते प्रहितो यदि ॥ २८३ ॥
यस्तु गुरुश्चौरोरगव्याघ्रादिभयाकुलप्रदेशे सान्द्रतरान्धकाराकुलितनिशीथावसरे कार्यार्थ शिष्यं प्रेरयति स च गुरुणा प्रेरितो देवान्मृतस्तदा स गुरुः कृच्छ्राणां प्राजापत्यादीनां त्रयं कुर्यात् । न पुनस्त्रयः प्राजापत्याः । तथा सति पृथक्त्वनिवेशिनी संख्यानुपपन्ना स्यात् । नच 'एकादश प्रयाजान्यजति' इतिवदावृत्यपेक्षा संख्येति चतुरस्रम् । स्वरूपपृथक्त्वे संभवत्यावृत्यपेक्षाया अन्या - य्यत्वात् । यदियमुत्पन्नगता संख्या स्यात्तदा स्यादपि कथंचिदावृत्त्यपेक्षा । किंतूत्पत्तिगतेयं, अतस्तिस्र आज्याहुतीर्जुहोती तिवत्स्वरूपपृथक्त्वापेक्षयैव त्रित्वसंख्याघटना युक्ता ॥ २८३ ॥
सकलहिंसाप्रायश्चित्तापवादमाह
क्रियमाणोपकारे तु मृते विप्रे न पातकम् ।
[ विपाके गोवृषाणां तु भेषजाग्निक्रियासु च ॥ ]
आयुर्वेदोपदेशानुसारेणौषधपथ्यान्नप्रदानादिभिश्चिकित्सादिना क्रियमाण उपकारे यस्य ब्राह्मणादेस्तस्मिन्दैवात्कथंचिन्मृतेऽपि पातकं नैव भवति । विप्रग्रहणं प्राणिमात्रोपलक्षणार्थम् । अतएव 'यत्रणे गोचिकित्सार्थे गूढगर्भविमोचने । यत्ने कृते विपत्तिः स्यान्न स पापेन लिप्यते ॥' इत्यादि संवर्ताद्यैरुक्तम् । एतच्च प्रपचितं प्राक् ॥
१ पृथङ्गिवेशिनी ख. २ इदम ङ. पुस्तके एवाधिकमस्ति ३ गोश्चिकित्सार्थे ख.
For Private And Personal Use Only
Page #476
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४४४
याज्ञवल्क्यस्मृतिः। [प्रायश्चित्ताध्यायः मिथ्यामिशंसिनः प्रायश्चित्तविवक्षया तदुपयोग्यर्थवादं तावदाह
मिथ्याभिशंसिनो दोषो द्विः समो भूतवादिनः ॥ २८४ ॥
मिथ्याभिशस्तदोषं च समादत्ते मृषा वदन् । यस्तु परोत्कर्षेाजनितरोषकलुषितान्तःकरणो जनसमक्षं मिथ्यैवाभिशाप ब्रह्महत्यादिकमनेन कृतमित्यारोपयति तस्य तदेव द्विगुणं भवति । यस्तु विद्यमानमेव दोषमलोकविदितं जनसमक्षं प्रकाशयति तस्यापि तत्पातकिसमदोषभाक्त्वम् । तथाचापस्तम्बः-'दोषं बुद्धा न पूर्वः परेभ्यः पतितस्य संमास्याता स्यात् परिहरेच्चैनं धर्मेषु' इति । न केवलं मिथ्याभिशंसी द्विगुणदोषभाक् । अपितु मिथ्याभिशस्तस्य यदन्यहुरितजातं तदपि समादत्त इति वक्ष्यमाणप्रायश्चित्तेऽर्थवादोन पुनः पापद्वैगुण्यादिप्रतिपादनमत्र विवक्षितम् । निमित्तस्य लघुत्वाल्लघुप्रायश्चित्तस्योपदेक्ष्यमाणत्वात् कृतनाशाकृताभ्यागमप्रसङ्गाच्च २८४ तत्र प्रायश्चित्तमाह
महापापोपपापाभ्यां योऽभिशंसेन्मृषा परम् ।
अब्भक्षो मासमासीत स जापी नियतेन्द्रियः ॥२८५॥ यस्तु महापापेन ब्रह्महत्यादिना गोवधाधुपपापेन वा मृषैव परमभिशंसति स मासं यावजलाशनो जपशीलो जितेन्द्रियश्च भवेत् । जपश्च शुद्धवतीनां कार्यः । 'ब्राह्मणमनृतेनाभिशस्य पतनीयेनोपेपातकेन वा मासमभक्षः शुद्धवतीरावर्तयेदश्वमेधावभृथं वा गच्छेत्' इति वसिष्ठस्मरणात् । महापापोपपापग्रहणमन्येषामप्यतिपातकादीनामुपलक्षणम् । एतच्च ब्राह्मणस्यैव ब्राह्मणेनाभिशंसने कृते द्रष्टव्यम् । यदा तु ब्राह्मणः क्षत्रियादेरभिशंसनं करोति क्षत्रियादिर्वा ब्राह्मणस्य तदा-'प्रतिलोमापवादेषु द्विगुणस्त्रिगुणो दमः । वर्णानामानुलोम्येन तस्मादार्धहानितः ॥' इति दण्डानुसारेण प्रायश्चित्तस्य वृद्धिहासौ कल्पनीयौ । भूताभिशंसिनस्तु पूर्वोक्तार्थवादानुसारेण दण्डानुसारेण च तदर्धे कल्पनीयम् । तथातिपातकाभिशंसिन एतदेव व्रतं पादोनम् । पातकाभिशंसिनस्त्वर्धम् । उपपातकाभिशंसिनस्तु पादः । (मनुः ११११२६)-'तुरीयो ब्रह्महत्यायाः क्षत्रियस्य वधे स्मृतः' इत्युपपातकभूतक्षत्रियादिवधे महापातकप्रायश्चिततुरीयांशस्य दर्शनात् । एवं प्रकीर्णाभिशंसिनोऽपि उपपातकाम्यूनं कल्पनीयम् । 'शक्तिं चावेक्ष्य पापं च प्रायश्चित्तं प्रकल्पयेत्' इति स्मरणात् । यत्तु शङ्खलिखिताभ्यां 'नास्तिकः कृतघ्नः कूटव्यवहारी ब्राह्मणवृत्तिनो मिथ्याभि. शंसी चेत्यते षड्वर्षाणि ब्राह्मणगृहेषु भैक्षं चरेयुः संवत्सरं धौतभैक्षमश्नीयुः षण्मासान्वा गा अनुगच्छेयुः' इति गुरुप्रायश्चित्तमुक्तं तदभ्यासतारतम्यापेक्षया योजनीयम् ॥ २८५ ॥ १ समाख्याने इति पाठान्तरम्. २ नोपपतनीयेन वा. ङ. ३ नोपि ततो न्यूनं ङ.
For Private And Personal Use Only
Page #477
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्तप्रकरणम् ५ ] मिताक्षरासहिता ।
अभिशंसिप्रायश्चित्तप्रसङ्गादभिशस्तप्रायश्चित्तमाहअभिशस्तो मृषा कृच्छ्रं चरेदाग्नेयमेव वा । निर्वपेत्तु पुरोडाशं वायव्यं पशुमेव वा ॥ २८६ ॥
यः पुनर्मिथ्याभिशस्तः स कृच्छ्रं प्राजापत्यं चरेत् । अग्निदैवत्येन वा पुरोडाशेन यजेत । वायुदैवत्येन वा पुरोडाशेन यजेत । वायुदैवत्येन वा पशुना । एषां च पक्षाणां शक्तिसंभवापेक्षया व्यवस्था । यत्तु वसिष्ठेन 'मासमन्भक्षणमुक्त - मेतेनैवाभिशस्तो व्याख्यातः' इति, तदभिशस्तस्यैव किंचित्कालमकृतप्रायश्चित्तस्य सतो द्रष्टव्यम् | 'संवत्सराभिशस्तस्य दुष्टस्य द्विगुणो दमः' इति दण्डातिरेकदर्शनात् । यत्तु पैठीनसिनोक्तम् -- 'अनृतेनाभिशस्यमानः कृच्छ्रं चरेन्मासं पातकेषु महापातकेषु द्विमासम्' इति तदपि वासिष्टेन समानविषयम् । यत्तु बौधायनेनोक्तम्- 'पातकाभिशंसिने कृच्छ्रस्तदर्धमभिशस्तस्य' इति, तदुपपातकादिविषयं अशक्तविषयं वा । एवमन्येषामप्युच्चावचप्रायश्चित्तानामभिशस्तविषयाणां कालशक्त्याद्यपेक्षया व्यवस्था विज्ञेया । यथाह मनुः (११।२०० ) - 'पष्टान्नकालता मासं संहिताजप एव वा । होमाश्च शोकला नित्यमपाङ्कानां विशोधनम् ॥' इति । अपाङ्कानां मध्ये अभिशस्तादयः पठिताः । यद्यप्यत्राभिशस्तस्य निषिद्धाचरणं नोपलभ्यते तथापि मिथ्याभिशस्तत्व लिङ्गानुमितप्राग्भवीयनिषिद्धाचरणापूर्वनिबन्धनमिदं प्रायश्चित्तं कृमिदष्टानामिवेति न विरोधः २८६ अनियुक्तो भ्रातृजायां गच्छंश्चान्द्रायणं चरेत् ।
४४५
किंच | यस्तु नियोगं विना भ्रातुर्ज्येष्टस्य कनिष्ठस्य वा भार्यां गच्छति स चान्द्रायणं चरेत् । एतच्च सकृदमतिपूर्वविषयं द्रष्टव्यम् । यत्तु शङ्खवचनम् - 'परिवित्तिः परिवेत्ता च संवत्सरं ब्राह्मणगृहेषु भैक्षं चरेयातां ज्येष्ठभार्यामनियुक्तो गच्छंस्तदेव कनिष्ठभार्या च' इति, तत्कामकारविषयम् ॥
त्रिरात्रान्ते घृतं प्राश्य गत्वोदक्यां विशुध्यति ॥ २८७ ॥
किंचाह । यः पुनरुदक्यां रजस्वलां स्वभार्यामपि गच्छति स त्रिरात्रमुपोष्यान्ते घृतं प्राश्य विशुध्यति । इदमकामतः सकृद्गमनविषयम् । तत्रैवाभ्यासे 'रजस्व - लागमने सप्तरात्रम्' इति शातातपेनोक्तं द्रष्टव्यम् । कामतः सकृद्गमनेऽप्येतदेव । यत्तु बृहत्संवर्तेनोक्तम्- 'रजस्वलां तु यो गच्छेद्गर्भिणीं पतितां तथा । तस्य पापविशुध्यर्थमतिकृच्छ्रं विशोधनम् ॥' इति, तत्कामतोऽभ्यासविषयम् । यत्पुनः शङ्खेन त्रिवार्षिकमुक्तम्- ' पादस्तु शूद्रहत्यायामुदक्यागमने तथा' इति, तत्कामतोऽत्यन्तानवच्छिन्नाभ्यासविषयम् । रजस्वलायास्तु रजस्वलादिस्पर्शे प्रायश्चित्तं स्मृत्यन्तरोक्तं द्रष्टव्यम् । तथाच बृहद्वसिष्ठः'स्पृष्ठे रजस्वलेऽन्योन्यं सेवर्णे त्वेकभर्तृके । कौमादकामतो वापि सद्यः स्नानेन
१ देवकृतस्यै नसोऽवयजनमसीत्यादिकं शाकलशाखायां सूक्तं प्रोक्तं तेन मासपर्यन्तं होमः कार्यः २ सगोत्रे ङ. ३ कामतोऽकामतो वापि ङ.
For Private And Personal Use Only
Page #478
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
याज्ञवल्क्यस्मृतिः ।
४४६
[ प्रायश्चित्ताध्यायः
शुध्यतः ॥' इति । असपत्त्योस्तु सवर्णयोरकामतः स्नानमात्रम् । उदक्या तु सवर्णा या स्पृष्टा चेत्स्यादुदक्यया । तस्मिन्नेवाहनि स्नात्वा शुद्धिमा मोत्यसंश यम् ॥' इति मार्कण्डेयस्मरणात् ॥ यत्तु कश्यपवचनम् — 'रजस्वला तु संस्पृष्टा ब्राह्मण्या ब्राह्मणी यदि । एकरात्रं निराहारा पञ्चगव्येन शुध्यति ॥' इति । तत्कामकारविषयम् । असवर्णास्पर्शे तु बृहद्वसिष्ठेन विशेषो दर्शितः'स्पृष्ट्वा रजस्वलान्योन्यं ब्राह्मणी शूद्रजापि च । कृच्छ्रेण शुध्यते पूर्वा शूद्री दानेन शुध्यति ॥ दानेनेति पादकृच्छ्रप्रत्याम्नाय भूतनिष्कचतुर्थांशदानेन शुध्यतीति । स्पृष्ट्वा रजस्वलान्योन्यं ब्राह्मणी वैश्यजापि च । पादहीनं चरेत्पूर्वा पादकृच्छ्रं तथोत्तरा ॥ स्पृष्ट्वा रजस्वलान्योन्यं ब्राह्मणी क्षत्रिया तथा । कृच्छ्रार्धाच्छुध्यते पूर्वा तूत्तरा च तदर्धतः ॥ स्पृष्ट्वा रजस्वलान्योन्यं क्षत्रिया शूद्रजापि च । उपवासैस्त्रिभिः पूर्वा त्वहोरात्रेण चोत्तरा ॥ स्पृष्ट्वा रजस्वलान्योन्यं क्षत्रिया वैश्यजापि च | त्रिरात्राच्छुध्यते पूर्वा स्वहोरात्रेण चोत्तरा ॥ स्पृष्ट्वा रजस्वलान्योयं वैश्याशूद्रा तथैव च । त्रिरात्राच्छुध्यते पूर्वां दूसरा च दिनद्वयात् ॥ वर्णानां कामतः स्पर्शे शुद्धिरेषा पुरातनी ॥' इति ॥ अकामतस्तु बृहद्विष्णुनोक्तं स्नानमात्रम् - 'रजस्वलां हीनवर्णी रजस्वला स्पृष्ट्वा न तावदश्नीयाथावन्न शुद्धा स्यात् । सवर्णामधिकवर्णा वा स्पृष्ट्वा सद्यः स्नात्वा विशुध्यति' इति ॥ चण्डालादिस्पर्शे तु बृहद्वसिष्ठेन विशेष उक्तः - 'पतितान्त्यश्वपाकेन संस्पृष्टा चेद्रजस्वला । तान्यहानि व्यतिक्रम्य प्रायश्चित्तं समाचरेत् ॥ प्रथमेऽह्नि त्रिरात्रं स्याद्वितीये व्यहमेव तु | अहोरात्रं तृतीयेऽह्नि परतो नक्तमाचरेत् ॥ शूद्रयोच्छिष्टया स्पृष्टा शुना चे
हमाचरेत् ॥' इति । तान्यहानि व्यतिक्रम्य अनाशकेन नीत्वेति यावत् । एतत्कामतः स्पर्शविषयम् । अकामतस्तु - ' रजस्वला तु संस्पृष्टा चाण्डालान्त्यश्ववायसैः । तावत्तिष्ठेनिराहारा यावत्कालेन शुध्यति ॥' इति बौधायनेनोक्तं द्रष्टव्यम् ॥ यत्पुनस्तेनैवोक्तम्- 'रजस्वला तु संस्पृष्टा ग्रामकुक्कुटस्करैः । श्वभिः स्नात्वा क्षिपेत्तावद्यावच्चन्द्रस्य दर्शनम् ॥' इति, तदशक्तविषयम् ॥ यदा तु भुञ्जानायाः श्वादिस्पर्शो भवति तदा स्मृत्यन्तरे विशेष उक्तः - ' रजस्वला तु भुञ्जाना श्वान्त्यजादीन्स्पृशेद्यदि । गोमूत्रयावकाहारा षड्रात्रेण विशुध्यति ॥ अशक्तौ काञ्चनं दद्याद्विप्रेभ्यो वापि भोजनम् ॥' इति ॥ यदा तूच्छिष्टयोः परस्परस्पर्शनं भवति तदा - ' उच्छिष्टोच्छिष्टया स्पृष्टा कदाचित्स्त्री रजस्वला । कृच्छ्रेण शुध्यते पूर्वा शूद्रा दानैरुपोषिता ॥' इत्यत्रिणोक्तं द्रष्टव्यम् ॥ यदा तूच्छिष्टाद्विजान्रजस्वला स्पृशति तदा - 'द्विजान्कथंचिदुच्छिष्टान्रजःस्था यदि संस्पृशेत् । अधोच्छिष्टे खहोरात्रमूर्ध्वोच्छिष्टे त्र्यहं क्षिपेत् ॥' इति मार्कण्डेयोक्तं द्रष्टव्यम् ॥ एवमवकीर्णिप्रायश्चित्तप्रसङ्गात्कानिचिदनुपातकभूतप्रायश्चित्तान्यपि व्याख्याय प्रकृतमनुसरामः । तत्रावकीर्णानन्तरं 'सुतानां चैव विक्रयः' इत्युक्तं तत्र मनुयोगीश्वरोक्तानि त्रैमासिकादीनि कामाकामजातिशक्त्याद्यपेक्षया पूर्ववद्व्यवस्थापनीयानि ॥ यत्तु शङ्खवचनम् - 'देवगृहप्रतिश्रयोद्यानारामसभाप्र
१ चापरा ङ. २ दीनि कामजाति ङ.
For Private And Personal Use Only
Page #479
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्तप्रकरणम् ५] मिताक्षरासहिता । पातडागपुण्यसेतुसुतविक्रयं कृत्वा तप्तकृच्छ्रे चरेत्' इति, यच्च पराशरेणोक्तम्
-'विक्रीय कन्यकां गां च कृच्छ्रे सान्तपनं चरेत्' इति, तदुभयमप्यापद्यकामतो द्रष्टव्यम् ॥ कामतस्तु-'नारीणां विक्रयं कृत्वा चरेच्चान्द्रायणव्रतम् । द्विगुणं पुरुषस्यैव व्रतमाहुर्मनीषिणः ॥' इति चतुर्विंशतिमतोक्तं द्रष्टव्यम् ॥ यत्तु पैठीनसिनोक्तम्-'आरामतडागोदपानपुष्करिणीसुकृतसुतविक्रये त्रिषवणस्नाय्यधःशायी चतुर्थकालाहारः संवत्सरेण पूतो भवति' इति तदेकपुत्रविषयम् । तदनन्तरं 'धान्यकुप्यपशुस्तेयम्' इत्युक्तं, तत्प्रायश्चित्तानि च स्तेयप्रकरणे प्रपञ्चितानि ॥ २८७ ॥ भमन्तरमयाज्यानां च याजनमित्युक्तं तत्र प्रायश्चित्तमाह
जीन्कृच्छ्रानाचरेद्रात्ययाजकोभिचरन्नपि ।
वेदप्लावी यवाश्यब्दं त्यक्त्वा च शरणागतम् ॥ २८८ ॥ यस्तु सावित्रीपतितानां याजनं करोति स प्राजापत्यप्रभृतीस्त्रीन्कृच्छ्रानाचरेत् । एतेषां च गुरुलघुभूतानां कृच्छ्राणां निमित्तं गुरुलघुभावेन कल्पनीयम् ॥ तथा अभिचरमपीदमेव प्रायश्चित्तं कुर्यात् । एतच्चाग्निदाद्याततायिव्यतिरेकेण 'षट्स्वभिचरा पतति' इति वसिष्ठस्मरणात् ॥ अपिशब्दो हीनयाजकान्त्येष्टियाजकयोः संग्रहार्थः । अतएवोक्तं मनुना (११११९७)-'व्रात्यानां याजनं कृत्वा परेषामन्त्यकर्म च । अभिचारमहीनं च त्रिभिः कृच्छै य॑पोहति ॥' इति । परेषामन्त्यकर्मेत्यत्यन्ताभ्यासविषयं शूद्रान्त्यकर्मविषयं वा । प्रायश्चित्तस्य गुरुस्वात् । अहीनो द्विरात्रादिादशाहपर्यन्तोऽहर्गणयागः । यत्तु शातातपेनोक्तम्-'पतितसावित्रीकाझोपनयेनाध्यापयेश याजयेत् य एतानुपनयेदध्यापयेद्याजयेद्वा स उद्दालकव्रतं चरेत्' इति तत्कामकारविषयम् । उद्दालकवतं च प्राग्दर्शितम् । एतच्च कृच्छ्रनयं साधारणोपपातकप्रायश्चित्तस्यापवादकं अत उपपातकसाधारणप्रायश्चित्तं शूद्राद्ययाज्ययाजने व्यवतिष्ठते । तत्र कामतस्त्रैमासिकम् । अकामतस्तु योगीश्वरोक्तं मासव्रतादि । यत्तु प्रचेतसा शूद्रयाजकादीन्पठित्वोक्तम्-'एते पञ्चतपोभ्रावकाशजलशयनान्यनुतिष्ठेयुः । क्रमेण ग्रीष्मवर्षाहेमन्तेषु मासं गोमूत्रयावकमश्नीयुः' इति तत्कामतोऽभ्यासविषयम् । यत्तु यमेनोक्तम्-'पुरोधाः शूद्रवर्णस्य ब्राह्मणो यः प्रवर्तते । स्नेहादर्थप्रसङ्गाद्वा तस्य कृच्छ्रो विशोधनम् ॥' इति, तदशक्तविषयम् । यच्च पैठीनसिनोक्तम्-'शूद्रयाजकः सर्वव्यपरित्यागात्पूतो भवति प्राणायामसहस्रेषु दशकृत्वोभ्यस्तेषु' इति, तदप्यकामतोऽभ्यासविषयम् । यत्तु गौतमेनोक्तम्-'निषिद्धमत्रप्र. योगे सहस्रवागुपतिष्ठेदिति निषिद्धानां पतितादीनां याजनाध्यापनात्मके मन्त्रप्रयोगे बहुशोऽभ्यस्ते प्राकृतं ब्रह्मचर्यमुपदिष्टं तत्कामतोऽभ्यासविषयम् । तथा यः स्ववेदं विप्लावयति यश्च रक्षणक्षणोऽपि तस्करव्यतिरिक्तं शरणागतमुपेक्षते सोऽपि संवत्सरं यवोदनं भुआनः शुध्यति । तत्र विप्लवो नाम पर्वचाण्डालश्रो१ नाध्यापयेद्य एता ख. २ यस्तु वेदं ङ.
-
--
For Private And Personal Use Only
Page #480
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४४८
याज्ञवल्क्यस्मृतिः। [प्रायश्चित्ताध्यायः त्रावकाशाद्यनध्यायेष्वध्ययनम् । उत्कर्षहेतोरधीयानस्य किं पठसि नाशितं त्वये. त्येवं पर्यनुयोगदानं वा विप्लावनमुच्यते । अतएवोक्तं स्मृत्यन्तरे-'दत्तानुयो. गानध्येतुः पतितान्मनुरब्रवीत्' इति । यत्तु वसिष्ठेनोक्तम्-'पतितचाण्डालशवश्रावणे त्रिरात्रं वाग्यता अनश्नन्त आसीरन् सहस्रपरमं वा तदभ्यस्यन्तः पूता भवन्तीति विज्ञायते' इति । 'एतेनैव गर्हिताध्यापकयाजका व्याख्याताः दक्षिणात्यागाच्च पूता भवन्तीति विज्ञायत' इति तद्बुद्धिपूर्वविषयम् । यत्तु षट्त्रिंशन्मतेऽभिहितम्-'चाण्डालश्रोत्रावकाशे श्रुतिस्मृतिपाठे एकरात्रमभो. जनम्' इति, तदबुद्धिपूर्वविषयम् ॥ यदा सर्पाद्यन्तरागमनमानं भवति न पुनस्तत्राधीते तत्रापि प्रायश्चित्तं यमेनोक्तम्-'सर्पस्य नकुलस्याथ अजमार्जारयोस्तथा । मूषकस्य तथोष्ट्रस्य मण्डूकस्य च योषितः ॥ पुरुषस्यैडकस्यापि शुनोऽश्वस्य खरस्य च । अन्तरागमने सद्यः प्रायश्चित्तमिदं शृणु ॥ त्रिरात्रमुपवासश्च त्रिरश्चाभिषेचनम् । ग्रामान्तरं वा गन्तव्यं जानुभ्यां नात्र संशयः ॥' इति ॥ पितृमातृसुतत्यागतडागारामविक्रयेषु मनुयोगीश्वरोक्कोपपातकसाधारणप्रायश्चित्तानि पूर्ववजातिशक्तिगुणाद्यपेक्षया योज्यानि । तत्र पितृमात्रादित्यागस्य 'अकारणपरित्यक्ता मातापित्रोणुरोस्तथा' इत्यपालेयमध्ये पाठात्तन्निमित्तमपि प्रायश्चित्तं भवति । यथाह मनुः (१११२७०)-'षष्ठान्नकालता मासं संहिताजप एव वा । होमाश्च शाकला नित्यमपाङ्गानां विशोधनम् ॥' इति । अ. पाताश्च श्राद्धकाण्डे 'ये स्तेनपतितक्कीबाः' इत्यादिवाक्यैर्दर्शिताः । तडागाराम. विक्रयेषु च कतिचिद्विशेषद्वैमासिकप्रायश्चित्तानि सविषयाणि सुतविक्रयप्रायश्चित्तकथनावसरे कथितानि ॥ अनन्तरं कन्याया दूषणमित्युक्तं तत्र च त्रैमासिकद्वैमासिकचान्द्रायणादीनि वर्णानां सवर्णाविषये योज्यानि । आनुलोम्ये पुनर्मासिकपयोशनं प्राजापत्यं वा ।—'सकामास्वनुलोमासु न दोपस्त्वन्यथा दमः' इति दण्डाल्पत्वदर्शनात् ॥ यत्तु शङ्खनोक्तम्- 'कन्यादूषी सोमविक्रयी च कृच्छ्रेमब्भक्षं चरेयाताम्' इति । यच्च हारीतवचनम्-'कन्यादूषी सोमविऋयी वृषलीपतिः कौमारदारत्यागी सुरामद्यपः शूद्रयाजको गुरोः प्रतिहन्ता नास्तिको नास्तिकवृत्तिः कृतघ्नः कूटव्यवहारी ब्राह्मणवृत्तिन्नो मिथ्याभिशंसी पतितसंव्यवहारी मित्रध्रुक् शरणागतघाती प्रतिरूपकवृत्तिरित्येते पञ्चतपोभ्रावकाशजलशयनान्यनुतिष्ठेयुीष्मवर्षा हेमन्तेषु मासं गोमूत्रयावकमनीयुः' इति । तदुभयमपि क्षत्रियवैश्ययोः प्रातिलोम्येन दूषणे योज्यम् । शूदस्य तु वध एव । 'दूषणे तु करच्छेद उत्तमायां वधस्तथा' इति वधदर्शनात् । परिविन्दैकयाजनकन्याप्रदानयोः कौटिल्ये शिष्टाप्रतिषिद्धव्रतलोपे चात्मार्थपाकक्रियारम्भे मद्यपस्त्रीनिषेवणे च साधारणोपपातकप्रायश्चित्तं प्राग्वद्ध्यवस्थापनीयम् । आद्ययोस्तु विशेषप्रायश्चित्तानि परिवेदनायाज्ययाजनप्रायश्चित्तकथनप्रस्तावे दर्शितानि । अनन्तरं स्वाध्यायत्याग इत्युक्तं तत्र व्यसनाशक्त्या त्यागे अधीतस्य च नाशनमिति ब्रह्महत्यासमप्रायश्चित्तमुक्तम् । शास्त्रश्रवणाद्याकुलतया त्यागे तु त्रैमासि. १ श्राद्धप्रकरणे ङ. २ कृच्छ्रमब्दं ङ. ३ कूटव्यवहारी मित्रध्रुक् ख. ४ परिविन्दकस्य ङ.
For Private And Personal Use Only
Page #481
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्तप्रकरणम् ५ ] मिताक्षरासहिता ।
४४९
काद्युपपातकप्रायश्चित्तानि जातिशक्तिगुणाद्यपेक्षया योज्यानि । यत्तु वसिष्ठेनोक्तम्- 'ब्रह्मोज्झः कृच्छ्रं द्वादशरात्रं चरित्वा पुनरुपयुञ्जीत वेदमाचार्यात्' इति तदत्यन्तापद्विषयम् । अग्नित्यागेऽपि तेनैव विशेषो दर्शितः - 'योऽग्नीनपविध्येत्स कृच्छ्रं द्वादशरात्रं चरित्वा पुनराधेयं कारयेत्' इति । द्वादशरात्रग्रहणमुत्सन्न कालापेक्षया प्राजापत्यादिगुरुलघुकृच्छ्राणां प्रात्यर्थम् । तत्र मासद्वये प्राजापत्यं मासचतुष्टयेऽतिकृच्छ्रः । षण्मासोच्छिन्ने पराकः । पण्मासादूर्ध्वं योगीश्वरोक्तान्युपपातकसामान्यप्रायश्चित्तानि कालाद्यपेक्षया योज्यानि । संवत्सरादूर्ध्वं तु मानवं त्रैमासिकं द्वैमासिकमिति व्यवस्था । एतच्च नास्तिक्येन त्यागविषयम् । तथाच व्याघ्रः - 'योऽग्निं त्यजति नास्तिक्यात्प्राजापत्यं चरेद्विजः' इति । यदा तु प्रमादात्यजति तदा भारद्वाजगृह्ये विशेष उक्तः - 'प्राणायामशतमात्रिरात्रादुपवासः स्यादाविंशतिरात्रात् अतऊर्ध्वमाषष्टिरात्रात्तित्रो रात्रीरुपवसेदत ऊर्ध्वमासंवत्सरात् प्राजापत्यं चरेत् अतऊर्ध्वं कालबहुत्वे दोषगुरुत्वम्' इति । यदा वास्यादिना त्यजति तदपि तेनैव विशेष उक्तः - -'द्वादशाहातिक्रमे त्र्यहमुपवासो मासातिक्रमे द्वादशाह मुपवासः संवत्सरातिक्रमे मासोपवासः पयोभक्षणं वा' इति । संवत्सरादूर्ध्वं तु वृद्धहारीतेन विशेष उक्तः - - 'संवत्सरोत्स
ग्निहोत्रे चान्द्रायणं कृत्वा पुनरादध्यात् । द्विवर्षोत्सन्ने चान्द्रायणं सोमायनं च कुर्यात् । त्रिवर्षोत्सने संवत्सरं कृच्छ्रमभ्यस्य पुनरादध्यात्' इति । सोमायनं कृच्छ्रकाण्डे वक्ष्यते । शङ्खेनापि विशेष उक्तः - 'अभ्युत्सादी संवत्सरं प्राजापत्यं चरेद्रां च दद्यात्' इति ॥ सुतत्यागे बन्धुत्यागे च त्रैमासिकं गोवधव्रतं कामतः । अकामतस्तु योगीश्वरोक्तं व्रतचतुष्टयं शक्त्याद्यपेक्षया योज्यम् ॥ द्रुमच्छेदे प्रायश्चित्तं प्रागुक्तम् । स्त्रीप्राणिवध वशीकरणादिभिर्जीवने तिलेक्षुयत्रप्रवर्तने च तान्येव प्रायश्चित्तानि तथैव योज्यानि । व्यसनेषु च द्यूतमृगयादिषु तान्येव व्रतानि तथैव योज्यानि । यत्तु बौधायनेन - 'अथाशुचिकराणि द्यूतमभिचारोऽनाहिताग्नेरुन्छवृत्तिः समावृत्तस्य च भैक्षचर्या तस्य च गुरुकुले वास ऊर्ध्वं चतुभ्य मासेभ्यो यश्च तमध्यापयति नक्षत्र निर्देशनं चेति द्वादशमासान्द्वादशार्धमासान्द्वादशाहान्द्वादशषडहान्द्वादशत्र्यहांश्च त्र्यहमेकाहमित्यशुचिकर निर्देशः' इति द्यूते वार्षिकतमुक्तं तदद्भ्भ्यासविषयम् । यत्तु प्रचेतसोक्तम्- 'अनृतवाकू तस्करो राजभृत्यो वृक्षारोपकवृत्तिर्गरदोऽग्निदोऽश्वरथगजारोहणवृत्ती रङ्गोपजीवी वागणिकः शूद्रोपाध्यायो वृषलीपतिर्भाण्डिको नक्षत्रोपजीवी श्ववृत्तिर्ब्रह्मजीवी चिकित्सको देवलकः पुरोहितः कितवो मद्यपः कूटकारकोऽपत्यविक्रयी मनुष्यपशुविक्रेता चेति तानुद्धरेत्समेत्य न्यायतो ब्राह्मणव्यवस्थया सर्वद्रव्यत्यागे चतुर्थकालाहाराः संवत्सरं त्रिषवणमुपस्पृशेयुस्तस्यान्ते देवपितृतर्पणं गवाह्निकं चेत्येवं व्यवहार्या ।' इति तदपि बौधायनेन समानविषयम् । श्वागणिको यः श्वगणेन जी - वति । भाण्डको बन्दिव्यतिरिक्तो राज्ञां तूर्यादिस्वनैः प्रबोधयिता । बन्दिनः पृथगुपादानात् । श्ववृत्तिः सेवकः । ब्रह्मजीवी ब्राह्मणकार्येषु मूल्येन परिचारकः
१ शक्त्यपेक्षया ङ. २ व्यवस्थापनीयानि. ३ द्विजकार्येषु ङ.
For Private And Personal Use Only
Page #482
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४५०
याज्ञवल्क्यस्मृतिः।
[प्रायश्चित्ताध्यायः
मनूक्तान्यप्यपाड़ेयप्रायश्चित्तानि 'षष्ठान्नकालता मासम्' इत्यादीन्यपि जात्याद्यपेक्षया योज्यानि । तदुक्तापायमध्येऽपि कितवादिव्यसनिनां पठितत्वात् । आत्मविक्रये शुद्धसेवायां च सामान्यप्रायश्चित्तानि प्राग्वदेव योज्यानि ॥ यत्तु बौधायनेनोक्तम्-'समुद्रयानं ब्राह्मणस्य न्यासापहरणं सर्वपण्यैर्व्यवहरणं भूम्यनृतं शूद्रसेवा यश्च शूदायामभिजायते तेन यदपत्यं च भवति तेषां तु निदेशः 'चतुर्थकालं मितभोजिनः स्युरपोऽभ्युपेयुः सवनानुकल्पम् । स्थानासनाभ्यां विहरन्त एतैस्त्रिभिर्वस्तदपहरन्ति पापम् ॥' इति तद्बहुकालसेवाविषयम् ॥ हीनजातिभिः सख्ये तूपपातकसामान्यप्रायश्चित्तान्येव ॥ यत्तु प्रचेतसोक्तम्'मित्रभेदनकरणादहोरात्रमनश्नन् हुत्वा पयः पिबेत्' इति, तदहीनसख्यभेदनविषयम् ॥ हीनयोनिनिषेवणेऽप्युपपातकसामान्यप्रायश्चित्तानि योज्यानि ॥ यत्तु शातातपेनोक्तम्-'ब्राह्मणो राजकन्यापूर्वी कृच्छ्रे द्वादशरात्रं चरित्वा निविशेत्तां चैवोपयच्छेद्वैश्यापूर्वी तु ततकृच्छ्रे शूद्रापूर्वी तु कृच्छ्रातिकृच्छं राजन्यश्चेद्वैश्यापूर्वी कृच्छं द्वादशरात्रं चरित्वा निविशेत्तां चैवोपयच्छेच्छूद्रापूर्वी त्वतिकृच्छ्रे वैश्यश्वेच्छूदापूर्वी कृच्छ्रे द्वादशरानं चरित्वा तां चोपयच्छेत्' इति, तत्र निविशेतां चोपयच्छेदिति कृच्छ्रानुष्ठानोत्तरकालं सवर्णापरिणयनादूर्ध्वं तां च राजन्यादिकामुपयच्छेदित्यर्थः । इदं चाज्ञानविषयम् । ज्ञानतस्तूपपातकसामान्यप्रायश्चित्तं व्यवस्थितमेव द्रष्टव्यम् । साधारणस्त्रीसंभोगे च हीनयोनिनिषेवणमित्युक्तं तत्रापि 'पशुवेश्याभिगमने प्राजापत्यं विधीयते' इति संवतॊक्तमकामतो द्रष्टव्यम् । कामतस्तु यमेनोक्तं द्रष्टव्यम्-'वेश्यागमनजं पापं व्य. पोहन्ति द्विजातयः। पीत्वा सकृत्सकृत्तप्तं सप्तरात्रं कुशोदकम् ॥' इति । उपपा. तकसामान्यप्रायश्चित्तानि च कामाकामतोऽभ्यासापेक्षया योज्यानि । तत्र मत्याभ्यासे तु 'प्रतिनिमित्तं नैमित्तिकमावर्तते' इति न्यायात्प्रतिनिमित्तं नैमित्तिकावृत्तौ प्रसक्तायां लौगाक्षिणा विशेष उक्तः-अभ्यासेऽहर्गुणा वृद्धिर्मासादाक् वि. धीयते । ततो मासगुणा वृद्धिर्यावत्संवत्सरं भवेत् ॥ ततः संवत्सरगुणा यावत्पा समाचरेत् ॥' इति । इदं मतिपूर्वविषयम् । अमतिपूर्वावृत्तौ चतुर्विंशतिमते विशेष उक्त:-'सकृस्कृते तु यत्प्रोक्तं त्रिगुणं तत्रिभिर्दिनैः। मासात्पञ्चगुणं प्रोकं षण्मासाद्दशधा भवेत् ॥ संवत्सरात्पञ्चदशं व्यब्दादिशगुणं भवेत् । ततोऽप्येवं प्रकल्प्यं स्याच्छातातपवचो यथा ॥' इति ॥ यत्पुनः 'विधेः प्राथमिकादसाव द्वितीये द्विगुणं चरेत्' इति प्रतिनिमित्तमावृत्तिविधायकं तन्महापातकविषयमित्युक्तं प्राक् । यत्तु यमेन साधारणस्त्रीगमनमधिकृत्य गुरुतल्पव्रतमतिदिष्टम्-'गुरुतल्पव्रतं केचित्केचिच्चान्द्रायणव्रतम् । गोतस्येच्छन्ति केचित्तु केचिदेवावकीर्णिनः ॥' इति । एतच्च जन्मप्रभृतिसानुबन्धानवच्छिन्नाभ्यासविषयम् । अनन्तरं तथैवानाश्रमे वास इत्युक्तं तत्र हारीतेन विशेष उक्तः-'अनाश्रमी संव. त्सरं प्राजापत्यं कृच्छ्रे चरित्वाश्रममुपेयात् । द्वितीयेऽतिकृच्छ्रे तृतीये कृच्छ्रातिकृच्छ्रमत ऊर्ध्व चान्द्रायणम्' इति, एतदसंभवविषयम् । संभवे तु सामान्येनो. १ हीनस्त्रीनिषेवण ङ. २ पूर्वाभ्यासे.
For Private And Personal Use Only
Page #483
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्तप्रकरणम् ५ ]
मिताक्षरासहिता ।
४५१
पपातकप्रायश्चित्तानि कामाकामतो व्यवस्थापनीयानि । परपाकरुचित्वा सच्छास्वाधिगमनाकराधिकारभार्याविक्रयेषु च मनुयोगीश्वरप्रतिपादितोपपातकसामान्यप्रायश्चित्तानि जातिशक्तिगुणाद्यपेक्षया व्यवस्थापनीयानि ॥ २८८ ॥
भार्याया विक्रयश्चैषामित्यत्र चशब्दो मन्वाद्युक्तासम्प्रतिग्रहनिन्दितान्नादनादीनामुपलक्षणार्थमित्युक्तम् । तत्रासत्प्रतिग्रहे प्रायश्चित्तविशेषमाह -
गोष्ठे वसन्त्रह्मचारी मासमेकं पयोव्रतः ।
गायत्री प्यनिरतः शुध्यते ऽसत्प्रतिग्रहात् ।। २८९ ॥
3
यस्त्वत्प्रतिग्रहं निषिद्धप्रतिग्रहं करोति स ब्रह्मचर्ययुक्तो गोष्ठे वसन् गायश्री जप्यनिरतो गायत्री जपशीलो मासं पयोव्रतेन शुध्यतीति । प्रतिग्रहस्य चासत्वं दातुर्जातिकर्म निबन्धनं यथा चण्डालादेः पतितादेश्व । तथा देशकालनिबन्धनं च यथा कुरुक्षेत्रोपरागादौ । तथा प्रतिग्राह्यद्रव्यनिबन्धनं च यथा सुरामेषीमृतशय्योभयतो मुख्यादेः ॥ यदा तु पतितादेर्मेध्यादिकं प्रेतिगृह्णाति तदैतद्गुरुप्रायश्चित्तं दृष्टव्यम् । व्यतिक्रमद्वयदर्शनेन निमित्तस्य गुरुत्वात् । तत्र जपे मनुना संख्याविशेष उक्तः ( ११ । १९४ ) – 'जपित्वा त्रीणि सावित्र्याः सहस्त्राणि समाहितः । मासं गोष्ठे पयः पीत्वा मुच्यतेऽसत्प्रतिग्रहात् ॥' इति प्रत्यहं त्रिसहस्रपो दृष्टव्यः । मासमिति द्वितीयया त्रिसहस्रसंख्याकस्य जपत्य प्रतिदिवसव्यापित्वावगमात् । यदा तु न्यायवर्तिब्राह्मणादेः सकाशान्निषिद्धं मेषादिकं गृह्णाति पतितादेव भूम्यादिकमनिषिद्धं तदा पटूत्रिंशन्मतोक्तं द्रष्टव्यम् - 'पवित्रेष्ट्या विशुध्यन्ति सर्वे घोराः प्रतिग्रहाः । ऐन्दवेन मृगारेष्ट्या कदाचिन्मित्रविन्दया || देव्या लक्षजपेनैव शुध्यन्ते दुष्प्रतिग्रहात् ॥' इति । यत्तु बृहद्धारीतवचनम् - ' राज्ञः प्रतिग्रहं कृत्वा मासमप्सु सदा वसेत् । षष्ठे काले पयोभक्ष: पूर्णे मासे विशुध्यति ॥ तर्पयित्वा द्विजान्कामैः सततं नियतव्रतः ॥' इति । तत्पूर्वोक्तविषयेऽभ्यासे द्रष्टव्यम् । अथवा पतितादेः कुरुक्षेत्रोपरागादौ कृष्णाजिनादिप्रतिग्रहविषयम् । तथा प्रतिग्राह्यद्रव्याल्पत्तया प्रायश्चित्ताल्पत्वम् । यथाह हारीतः - 'मणिवासोगवादीनां प्रतिग्रहे सावित्र्यष्टसहस्रं जपेत्' इति । तथा पत्रिंशन्मतेऽपि - भिक्षामात्रे गृहीते तु पुण्यं मन्त्रमुदीरयेत् । प्रतिग्रहेषु सर्वेषु षष्टमंशं प्रकल्पयेत् ॥' इतीदं च प्रायश्चित्तजातं द्रव्यत्यागोत्तरकालं द्रष्टव्यम् । (११।१९३ ) - 'यद्गर्हितेनार्जयन्ति कर्मणा ब्राह्मणा धनम् । तस्योत्सर्गेण शुध्यन्ति जप्येन तपसैव च ॥' इति मनुस्मरणात् । एवमन्यान्यपि स्मृतिवाक्यानि द्रव्यसाराल्पत्व महत्त्वाभ्यां विषयेषु व्यवस्थापनीयानि ॥
इत्युपपातकप्रायश्चित्तप्रकरणम् ॥
१ जाप्यनिरतः ख २ दिकंगृह्णाति ङ. ३ पूर्णमासे प्रमुच्यते इति पाठः ४ मात्रं गृहीत्वा तु ख.
या० ४१
For Private And Personal Use Only
Page #484
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४५२
याज्ञवल्क्यस्मृतिः। [प्रायश्चित्ताध्यायः जात्याश्रयादिदोषेण निन्द्यान्नादेश्व शब्दतः ।
योगीन्द्रोक्तवतव्रातः सांप्रतं तु प्रतन्यते ॥ तत्र जातिदुष्टपलाण्ड्वादिभक्षणे कामतः सकृरकृते 'पलाण्डु विवराहं च' इत्यादिना चान्द्रायणमुक्तम् । कामतोऽभ्यासे तु 'निषिद्धभक्षणं जैहयं' इत्यादि. नोक्तं सुरापानसमप्रायश्चित्तम् । अकामतः सकृद्भक्षणे सान्तपनम् । तत्रैवाभ्यासे यतिचान्द्रायणम् । (५।२०)-'अमत्यैतानि षट् जग्ध्वा कृच्छ्रे सान्तपनं चरेत् । यतिचान्द्रायणं वापि शेषेषूपवसेदहः ॥' इति मनुस्मरणात् । यत्तु बृहद्यमेनोक्तम्-'खट्रवार्ताककुम्भीकत्रश्चनप्रभवाणि च । भूतृणं शिग्रुकं चैव खुखण्डं कवकानि च ॥ एतेषां भक्षणं कृत्वा प्राजापत्यं चरेविजः ॥' इति, तत्कामतोऽभ्यासविषयम् । 'मत्स्यांश्च कामतो जग्ध्वा सोपवासरूयह क्षिपेत्' इति योगीश्वरेण कामतः सकृद्भक्षणे व्यहस्योक्तत्वात् । खट्वाख्यः पक्षी । कुसु. म्भमित्यन्ये । कवकं राजसर्षपाख्य शाकम् । खुखण्डं तद्विशेषो गोबलीवर्दन्यायेन निर्दिष्टः । यत्तु यमेनोक्तम्-'तन्दुलीयककुम्भीकत्रश्चनप्रभवांस्तथा । ना. लिकां नारिकेली च श्लेष्मातकफलानि च ॥ भूतृणं शिकं चैव खवाख्यं कवक तथा । एतेषां भक्षणं कृत्वा प्राजापत्यं व्रतं चरेत् ॥' इति, तदपि मतिपूर्वाभ्या. सविषयम् । नालिका नारिकेली च शाकविशेषौ । खट्वाख्यश्च । अकामतः सवदक्षणे तु 'शेषेपूपवसेदहः' इति मनूक्तं द्रष्टव्यम् । तत्रैवाभ्यासे त्वावृत्तिः कल्प्या। अत्यन्ताभ्यासे तु-संसर्गदुष्टं यच्चान्नं क्रियादुष्टमकामतः । भुक्त्वा स्वभावदुष्टं च तप्तकृच्छ्रे समाचरेत् ॥” इति प्रचेतोभिहितं द्रष्टव्यम् । नील्यास्त्वकामतः सकृद्भक्षणे चान्द्रायणम्-'भक्षयेद्यदि नीली तु प्रमादाद्राह्मणः क्वचित् । चान्द्रायणेन शुद्धिः स्यादापस्तम्बोऽब्रवीन्मुनिः ॥' इति आपस्तबस्मरणात् । कामतोऽभ्यासे चावृत्तिः कल्प्या ॥ यदपि पत्रिंशन्मतेऽभिहितम्-'शणपुष्पं शाल्मलं च-करनिर्मथितं दधि । बहिर्वेदिपुरोडाशं जग्ध्वा नाद्यादहर्निशम् ॥' इति, तदप्यकामविषयम् । यत्तु सुमन्तुनोक्तम्-'लशुनपलाण्डुगृञ्जनकवकभक्षणे सावित्र्यष्टसहस्रेण मूर्ध्नि संपातान्नयेत्' इति, तद्वला. कारेणानिच्छतो भक्षणविषयम् । तदेकसाध्यव्याध्युपशमार्थे वा भक्षणे द्रष्टव्यम् । अतएवानन्तरं तेनैवोक्तम्-'एतान्येव व्याधितस्य भिषक्रियायामप्रतिषिद्धानि भवन्ति । यानि चैवंप्रकाराणि तेवपि न दोषः' इति । संपातान्नये. दुदकबिन्दून्प्रक्षिपेत् ॥ __ अथ जातिदुष्टसंधिन्यादिक्षीरदाने प्रायश्चित्तम् । तत्र चाकामतः सकृत्पाने (५।८-१०)-'अनिर्दशाया गोः क्षीरमौष्ट्रमेकशर्फ तथा । अविकं संधिनीक्षीरं विवत्सायाश्च गोः पयः ॥ आरण्यानां च सर्वेषां मृगाणां महिषी विना । स्त्रीक्षीरं चैव वानि सर्वशुक्तानि चैव हि ॥ दधि भक्ष्यं च शुक्तेषु सर्व च दधिसंभवम्' इत्युक्त्वा 'शेषेषूपवसेदहः' इति मनूक्त उपवासो द्रष्टव्यः । कामतस्तु योगीश्वरोक्तस्त्रिरात्रोपवासो द्रष्टव्यः ॥ यत्तु पैठनसिनोक्तम्-'भविखरोष्ट्रमानुषीक्षीरप्राशने तप्तकृच्छ्रः पुनरुपनयनं च । अनिर्दशाहगोमहिषीक्षी. रनाशने षडानमभोजनम् । सर्वासां द्विस्तनीनां क्षीरपानेऽप्यजावर्जमेतदेव'
For Private And Personal Use Only
Page #485
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्तप्रकरणम् ५]
मिताक्षरासहिता |
४५३
इति । यच्च शङ्खन - ' क्षीराणि यान्यभक्ष्याणि तद्विकाराशने बुधः । सप्तरात्रं व्रतं कुर्यात्प्रयत्नेन समाहितः ॥' इति यावकव्रतमुक्तं तदुभयमपि कामतोऽभ्यासविषयम् । यत्तु शङ्खन - 'संधिन्यमेध्यभक्षेयोः क्षीरप्राशने पक्षव्रतमुक्तम्'संधिन्य मेध्यभक्षेयोर्भुक्त्वा पक्षव्रतं चरेत्' इति, तदप्यभ्यासविषयम् । सकृत्याने गोजामहिषीवर्ज्यं सर्वाणि पयांसि प्राश्योपवसेत् । अनिर्दशाहं तान्यपि संधिनीयमसूस्यन्दिनी विवत्साक्षीरं चामेध्यभुजश्च' इति विष्णुनोपवासस्योक्तत्वात् । तथा वर्णनिबन्धनश्च प्रतिषेधः - 'क्षत्रियश्चापि वृत्तस्थो वैश्यः शूद्रोsथवा पुनः । यः पिबेत्कपिलाक्षीरं न ततोऽन्योऽस्त्यपुण्यकृत् ॥' इत्येवमादौ च यत्र प्रतिपदोक्तं प्रायश्चित्तं न दृश्यते तत्र 'शेषेषूपवसेदहः' इति साधारणप्रायश्चित्तं मनूक्तं दृष्टव्यम् ॥
-'वरा
अथ स्वभावदुष्टमांसादिभक्षणे प्रायश्चित्तमुक्तम् । तन्त्र कामतः सकृद्भक्षणे 'शेषेधूपवसेदहः' इति मनूक्तं साधारणं प्रायश्चित्तं द्रष्टव्यम् । कामतस्तु - 'चाषांश्च रक्तपादांश्च सौनं वल्लूरमेव च । मत्स्यांश्च कामतो जग्ध्वा सोपवासख्यहं वसेत् ॥' इति योगीश्वरोक्तं द्रष्टव्यम् । कामतोऽभ्यासे तु ( ११।१५२ ) -- ' जग्ध्वा मांसमभक्ष्यं तु सप्तैरात्रं यवान्पिवेत्' इति मनूक्तं द्रष्टव्यम् । इदंच विट्सुकरादिमांसव्यतिरिक्तविषयम् ( ११।१५६ ) - 'कव्याद्विदसूकरोष्ट्राणां कुक्कुटानां च भक्षणे । नरकाकखराणां च तप्तकृच्छ्रं विशोधनम् ॥' इति मनुना जातिविशेषेण प्रायश्चित्तविशेषस्योक्तत्वात् । एतन्मूत्रपुरीषप्राशनेऽप्येतदेव | --- हैकशफानां च काककुक्कुटयोस्तथा । क्रव्यादानां च सर्वेषामभक्ष्या ये च कीर्तिताः ॥ मांसमूत्रपुरीषाणि प्राश्य गोमांसमेव च । श्वगोमायुकपीनां च तप्तकृच्छ्रं विधी - यते ॥ उपोष्य वा द्वादशाहं कूष्माण्डैर्जुहुयाद्धृतम् ॥' इति बृहद्यमस्मरणात् । तत्र कामतस्तप्तकृच्छ्रः अभ्यासे तु कूष्माण्डसहितः पराक इति व्यवस्था ॥ तथा प्रचेतसाप्युक्तम्- 'श्वसृगालका ककुक्कुटपात वानर चित्र कचापक्रव्यादखरोष्ट्रग जवाजिविवराहगोमानुषमांसभक्षणे तप्तकृच्छ्रमादिशेदेषां मूत्रपुरीषभक्षणे त्वतिकृच्छ्रम्' इति । इदं च कामकारविषयम् । यत्तूशनसो वचनम् -' नरमांसं श्वमांसं वा गोमांसं वाश्वमेव वा । भुक्त्वा पञ्चनखानां च महासान्तपनं चरेत् ॥' इति, तदकामविषयम् ॥ यत्त्वङ्गिरोवचनम् — 'बलाकाभासगृध्राखुखरवानरसूकरान् । दृष्ट्वा चैषाममेध्यानि स्पृष्ट्वाचम्य विशुध्यति ॥ इच्छयैषाममेध्यानि भक्षयित्वा द्विजातयः । कुर्युः सान्तपनं कृच्छ्रं प्राजापत्यमनिच्छया ॥ इति, तद्भक्षितोद्वारितविषयम् । सान्तपनशब्देन चात्र महासान्तपनमुच्यते । अकामतः प्राजापत्यविधानात् । यत्पुनरङ्गिरोवचनम् -'नरकाकखराश्वानां जग्ध्वा मांसं गजस्य च । एषां मूत्रपुरीषाणि द्विजश्चान्द्रायणं चरेत् ॥' इति । यच्च बृहद्यमेनोक्तम्- 'शुष्क मांसाशने विप्रो व्रतं चान्द्रायणं चरेत्' इति । तदुभयमपि कामतोऽभ्यास विषयम् । यत्पुनः शङ्खेनोक्तम्- 'भुक्त्वा चोभयतोतांस्तथा चैकशफानपि । औष्ट्रं गव्यं तथा जग्ध्वा षण्मासान्यतमाचरेत् ॥'
I
१ भक्षायाः ङ. २ भक्षायाः ङ. ३ सप्तरात्रं पयः पिबेदिति क. ४ खराश्वानां ङ.
For Private And Personal Use Only
Page #486
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४५४
याज्ञवल्क्यस्मृतिः। [प्रायश्चित्ताध्यायः
इति तत्कामतोऽत्यन्ताभ्यासविषयम् । यत्तु स्मृत्यन्तरोक्तम्-'जग्ध्वा मांसं नराणां च विवराह खरं तथा । गवाश्वकुञ्जरोष्ट्राणां सर्वं पाञ्चनखं तथा । क्रव्यादं कुक्कुटं ग्राम्यं कुर्यात्संवत्सरव्रतम् ॥' इति, तदत्यन्तानवच्छिन्नाभ्यासविषयम् । अत्र प्रकरणे मूत्रपुरीषग्रहणं वसाशुक्रासृमजानामुपलक्षणम् । कर्णविप्रभृतिमलषट्के त्वधैं कल्पनीयम् ॥
केशादिषु पुनः षट्त्रिंशन्मते विशेष उक्तः-'अजाविमहिषमृगाणां आममांसभक्षणे केशनखरुधिरप्राशने बुद्धिपूर्वे त्रिरात्रमज्ञानादुपवास इति । यत्तु प्रचेतसोक्तम्-'नखकेशमृल्लोष्टभक्षणेऽहोरात्रमभोजनाच्छुद्धिः' इति तदप्यकामतः सकृत्प्राशनविषयम् । यत्तु स्मृत्यन्तरवचनम्- 'केशकीटनखं प्राश्य मत्स्यकण्टकमेव च । हेमतप्तं घृतं पीत्वा तत्क्षणादेव शुध्यति ॥' इति तन्मुख. मात्रप्रवेशविषयम् ॥ यदा तु भाजनस्थमन्नं केशादिदूषितं भवति तदा-'भन्ने भोजनकाले तु मक्षिकाकेशदूषिते । अनन्तरं स्पृशेदापस्तच्चान्नं भस्सना स्पृशेत्॥' इति प्रचेतसाभिहितं वेदितव्यम् । प्रासङ्गिकोऽयं श्लोकः ॥ सूक्ष्मतरकृमिकीटास्थिभक्षणे पुनर्हारीतेन विशेष उक्तः-'कृमिकीटपिपीलिकाजलौकापतङ्गास्थिप्राशने गोमूत्रगोमयाहारविरात्रेण विशुध्यति' इति । जलौको मत्स्यादिः । एवंच पशुपतन्निजलचरनरमांसादिप्राशने संक्षेपतः प्रायश्चित्तानि प्रदर्शितानि ग्रन्थगौरवभयात्प्रतिव्यक्ति न लिख्यते ॥
अथाशुचिसंस्पृष्टभक्षणे प्रायश्चित्तं तत्र तावदुच्छिष्टाभक्ष्यभक्षणे वक्ष्यते । तत्र मनुः। (११३१५९)-'बिडालकाकाखूच्छिष्टं जग्ध्वा श्वनकुलस्य च । केशकीटावपन्नं च पिबेद्राह्मीं सुवर्चलाम् ॥' इति कालविशेषानुपादानादेकरानं । इदं च कामतो द्रष्टव्यम् । यत्तु विष्णुनोक्तम्-'पक्षिश्वापदजग्धस्य रसस्या. नस्य भूयसः । संस्काररहितस्यापि भोजने कृच्छ्रपादकम् ॥' इति, तत्कामकारविषयम् । संस्कारश्च मानवे देवद्रोण्यामित्यादिना द्रव्यशुद्धिप्रकरणोक्तो द्रष्टव्यः। यत्तु शातातपेनोक्तम्-'श्वकाकाद्यवलीढशूद्रोच्छिष्टभोजने त्वतिकृच्छ्र:' इति, तदकामतोऽभ्यासविषयम् । यत्तु शकेन-'शुनामुच्छिष्टकं भुक्त्वा मासमेकं व्रती भवेत् । काकोच्छिष्टं गवा घ्रातं भुक्त्वा पक्षं व्रती भवेत् ॥' इति यावकव्रतमुक्तं, तत्कामतोऽभ्यासविषयम् । ब्राह्मणाधुच्छिष्टभोजने तु बृहद्विपुणुनोक्तं- 'ब्राह्मणः शूद्रोच्छिष्टाशने सप्तरात्रं पञ्चगव्यं पिबेत् वैश्योच्छिष्टाशने पञ्चरात्रं राजन्योच्छिष्टाशने त्रिरात्रं ब्राह्मणोच्छिष्टाशने त्वेकाहम्' इति, तकामकारविषयम् । यत्तु यमवचनम्-'भुक्त्वा सह ब्राह्मणेन प्राजापत्येन शुध्यति । भूभुजा सह भुक्त्वान्नं तप्तकृच्छ्रेण शुध्यति ॥ वैश्येन सह भुक्त्वानमतिकृच्छ्रेण शुध्यति । शूद्रेण सह भुक्त्वान्नं चान्द्रायणमथाचरेत् ॥' इति तत्कामतोऽभ्यासविषयम् ॥ यत्पुनः शङ्कवचनम-'ब्राह्मणोच्छिष्टाशने महाव्याहृतिभिरभिमन्यापः पिबेरक्षत्रियोच्छिष्टाशने ब्राह्मीरसविपक्वेन व्यहं क्षीरेण
१ गव्यं मांसमिति पाठः. २ संस्कारश्च देवद्रोण्यां ख.
For Private And Personal Use Only
Page #487
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्तप्रकरणम् ५] मिताक्षरासहिता।
४५५
वर्तयेत्, वैश्योच्छिष्टाशने त्रिरात्रोपोषितो ब्राह्मीं सुवर्चलां पिबेत्, शूद्रोच्छिष्टभोजने षडानमभोजनम्' इति तदकामविषयम् । तत्राभ्यासे द्वैगुण्यादिकं कल्प्यम्। एतच्च पित्रादिव्यतिरेकेण । -'पितुर्येष्ठस्य च भ्रातुरुच्छिष्टं भोज्यम्' इत्यापस्तम्बस्मरणात् । यत्तु बृहद्यासवचनम्-'माता वा भगिनी वापि भार्या वान्याश्च योषितः । न ताभिः सह भोक्तव्यं भुक्त्वा चान्द्रायणं चरेत् ॥' इति, तत्सहभोजनविषयम् । उच्छिष्टमात्रभोजने तु 'शूद्रोच्छिष्टभोजने सप्तरात्रमभोजनं स्त्रीणां च' इत्यापस्तम्बोक्तं द्रष्टव्यम् । यत्त्वगिरोवचनम्-'ब्राह्मण्या सह योऽश्नीयादुच्छिष्टं वा कदाचन । तत्र दोषं न मन्यन्ते सर्व एव मनीषिणः ॥' इति, तद्विवाहविषयमापद्विषयं वा । अन्त्योच्छिष्टभोजने तु–'अन्त्यानां भुक्तशेषं तु भक्षयित्वा द्विजातयः । चान्द्रं कृच्छं तदधं च ब्रह्मक्षत्रविशां विधिः ॥' इत्यापस्तम्बोक्तं द्रष्टव्यम् । अत्र चान्द्रं चान्द्रायणम् । अन्त्यावसाय्युच्छिष्टभोजने तु–'चण्डालपतितादीनामुच्छिष्टान्नस्य भक्षणे । चान्द्रायणं चरेद्विप्रः क्षत्रः सान्तपनं चरेत् ॥ षड्रानं च त्रिरात्रं च वर्णयोरनुपूर्वशः ॥' इत्यङ्गिरोभिहितं सान्तपनमत्र महासान्तपनं द्रष्टव्यम् । आपदि तु–'आपत्काले तु विप्रेण भुक्तं शूद्रगृहे यदि । मनस्तापेन शुध्येत्तु द्रुपदानां शतं जपेत् ॥' इति पराशरोक्तं वेदितव्यम् ॥ यत्तु बृहच्छातातपेनोक्तम्- 'पीतशेषं तु यत्किंचिद्भाजने मुखनिःसृतम् । अभोज्यं तद्विजानीयाद्भुक्त्वा चान्द्रायणं चरेत् ॥' इति, तदभ्यासविषयम् । निमित्तस्यातिलघुत्वात् । -'पीतोच्छिष्टं च पानीयं पीत्वा तु ब्राह्मणः क्वचित् । त्रिरात्रं तु व्रतं कुर्याद्वामहस्तेन वा पुनः ॥' इति । एतद्बुद्धिपूर्वविषयम् । अकामतस्त्वधैं कल्प्यम् । दीपोच्छिष्टे तु–'दीपोच्छिष्टं तु यत्तैलं रात्रौ रथ्याहृतं च यत् । अभ्यङ्गाच्चैव यच्छिष्टं भुक्त्वा नक्तेन शुध्यति ॥' इति षत्रिंशन्मतोक्तं द्रष्टव्यम् ॥
अथाशुचिद्रव्यसंस्पृष्टभक्षणे प्रायश्चित्तम् । तत्राह संवर्तः– 'केशकीटावपन्नं च नीलीलाक्षोपघातितम् । स्त्रायवस्थिचर्मसंस्पृष्टं भुक्त्वा तूपवसेदहः॥' इति । तथाह शातातपः- 'केशकीटावपन्नं च रुधिरमांसास्पृश्यस्पृष्टभ्रूणनावेक्षितपतत्र्यवलीढश्वसूकरगवाघ्रात शुक्तपर्युषितवृथापक्कदेवानहविषां भोजने उप. वासः पञ्चगव्याशनं च ॥' इति, एतच्चोभयमपि अकामविषयम् । कामतस्तु 'मृ. द्वारिकुसुमादींश्च फलकन्देक्षुमूलकान् । विण्मूत्रदूषितान्प्राश्य कृच्छ्रपादं समाचरेत् ॥ संनिकृष्टेऽर्धमेव स्यात्कृच्छ्रः स्याच्छुचिशोधनम् ॥' इति विष्णूक्तं वेदितव्यम् । अल्पसंसर्गे पादो महासंसर्गेऽर्धकृच्छ्र इति व्यवस्था । यत्तु व्यासेनोक्तम्-'संसर्गदुष्टं यच्चान्नं क्रियादुष्टं च कामतः । भुक्त्वा स्वभावदुष्टं च तप्तकृच्छ्रे समाचरेत् ॥' इति । एतच्च संसृष्टामेध्यादिरसोपलब्धौ वेदितव्यम् । रजस्वलादिस्पर्श तु शोक्तम्-'अमेध्यपतितचण्डालेपुल्कसरजस्वलावधूतकुणिकुष्टिकुनखिसंस्पृष्टानि भुक्त्वा कृच्छ्रे चरेत्' इति । कुणिर्हस्तविकलः । एतत्कामकारविषयम् । अकामतोऽर्धम् । 'भुक्त्वास्पृश्यैस्तथाशौचिकेशकीटैश्च १ तद्विजस्यादुर्भुक्त्वा ङ. २ शुष्कपर्युषित ङ. ३ शुचिभोजने ङ. ४ पुष्कस ङ,
For Private And Personal Use Only
Page #488
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४५६
याज्ञवल्क्यस्मृतिः। [प्रायश्चित्ताध्यायः दूषितम् । कुशोदुम्बरबिल्वाद्यैः पनसाम्बुजपत्रकैः । शङ्खपुष्पीसुवर्चादिक्वार्थ पीत्वा विशुध्यति ॥' इति यद्विष्णुनोक्तं तदशक्तविषयं रजकादिस्पृष्टविषयं वा । शूद्राद्युपहते तु हारीतोक्तं विज्ञेयम्-'शूद्रेणोपहतं भोज्यं कीटवाऽमेध्य. सेविमिः । भुनानेषु वा यत्र शूद्र उपस्पृशेदनहत्वास पनौ तु भुञ्जानेषु वा यत्रोत्थायोच्छिष्टं प्रयच्छेदाचामेद्वा कुत्सित्वा वा यत्रान्नं दद्युस्तन प्रायश्चित्तमहोरात्रम्' इति । उच्छिष्टपतिभोजनेऽप्येतदेव-'यस्तु भुले द्विजः पङ्गयामुच्छिटायां कदाचन । अहोरात्रोषितो भूत्वा पञ्चगव्येन शुध्यति ॥' इति ऋतुस्मरणात् । वामकरनिर्मुक्तान्नभोजने तु-'समुत्थितस्तु यो भुते यो भुङ्क्ते मुक्तभाजने । एवं वैवस्वतः प्राह भुक्त्वा सान्तपनं चरेत् ॥' इति षत्रिंशन्मतोक्तं वेदितव्यम् ॥ तथा पराशरेणाप्यत्रोक्तम्-'एकपङ्कयुपविष्टानां विप्राणां सह भोजने । योकोऽपि त्यजेत्पात्रं शेषमन्नं न भोजयेत् ॥ मोहाद्भुञ्जीत यस्तत्र पकथामुच्छिष्टभोजनः । प्रायश्चित्तं चरेद्विप्रः कृच्छ्रे सान्तपनं तथा ॥' इति ॥ शवादिसंपृक्तकूपाधुदकपाने तु विष्णुराह–'मृतपञ्चनखात्कृपादत्यन्तोपहता. द्वोदकं पीत्वा ब्राह्मणस्यहमुपवसेत् ब्यहं राजन्य एकाहं वैश्यः शूद्रो नक्तं सर्वे चान्ते पञ्चगव्यं पिबेयुः' इति । अत्यन्तोपहताद्वेति मूत्रपुरीषादिभिर्वेत्यभिप्रेतम् । यदा तु तत्रैव शवमुच्छू तयोद्भिन्नं भवति तदा हारितो विशेषमाह'क्लिन्ने भिन्ने शवे तोयं तत्रस्थं यदि चेत्पिबेत् । शुध्यै चान्द्रायणं कुर्यात्तप्तकच्छ्रमथापि वा ॥ यदि कश्चित्ततः सायात्प्रमादेन द्विजोत्तमः । जपंस्त्रिषवणस्नायी अहोरात्रेण शुध्यति ॥' इति । इदं चान्द्रायणं कामतो मानुषशवोपहतकूपजलपानविषयम् । अकामतस्तु पात्रम्-'क्लिन्नं भिन्नं शवं चैव कूपस्थं यदि दृश्यते । पयः पिबेत्रिरात्रेण मानुषे द्विगुणं स्मृतम् ॥' इति देवलस्मरणात् । यदा चाण्डालकूपादिगतं जलं पिबति तदापस्तम्वोक्तं द्रष्टव्यम् --'चाण्डाल. कूपभाण्डस्थं नरः कामाजलं पिबेत् । प्रायश्चित्तं कथं तत्र वर्णे वर्णे विनिर्दिशेत् ॥ चरेत्सान्तपनं विप्रः प्राजापत्यं च भूमिपः । तदर्धे तु चरेद्वैश्यः शूद्धे पादं विनिर्दिशेत् ॥' इति । इदं च कामकारविषयम् । अकामतस्तु-'चाण्डाल. लूपभाण्डस्थमज्ञानादुदकं पिबेत् । स तु ज्यहेण शुध्येत शूद्रस्त्वेकेन शुद्ध्यति ॥' इति देवलोक्तं द्रष्टव्यम् ॥ चाण्डालादिसंबद्धाल्पजलाशयेष्वपि कूपवच्छुद्धिः -'जलाशयेष्वथाल्पेषु स्थावरेषु महीतले । कूपवत्कथिता शुद्धिर्महत्सु तु न दूषणम् ॥' इति विष्णुस्मरणात् । पुष्करिण्यादिषु पुनः--'म्लेच्छादीनां जलं पीत्वा पुष्करिण्यां हृदेऽपि वा । जानुदघ्नं शुचि ज्ञेयमधस्तादशुचि स्मृतम् ॥ तत्तोयं यः पिबे द्विप्रः कामतोऽकामतोऽपि वा । अकामान्नक्तभोजी स्यादहोरात्रं तु कामतः ॥' इत्यापस्तम्बोक्तं द्रष्टव्यम् ॥ रजकादिभाण्डगततोये तु-'भा. ण्डस्थमन्त्यजानां तु जलं दधि पयः पिबेत् । ब्राह्मणः क्षत्रियो वैश्यः शूद्रश्चैव प्रमादतः ॥ ब्रह्मकूर्चीपवासेन द्विजातीनां तु निष्कृतिः ॥ शूद्रस्य चोपवासेन तथा दानेन शक्तितः ॥' इति पराशरोक्तं वेदितव्यम् । कामतस्तु द्विगुणम् १ द्रष्टव्यं ङ. २ संस्पृष्ट ङ. ३ भिर्वेत्यभिहितं ख. ४ उच्छूनतया भिन्नं ख. ५ जायते ख.
For Private And Personal Use Only
Page #489
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्तप्रकरणम् ५ ] मिताक्षरासहिता ।
४५७ - 'अन्त्यजैः खानिताः कृपास्तडागा वाप्य एव वा । एषु स्नात्वा च पीत्वा च प्राजापत्येन शुध्यति ॥' इति आपस्तम्बोक्तमभ्यासविषयं वेदितव्यम् n यत्त्वापस्तम्बेन चण्डालादितडागकूपादिजलपाने पञ्चगव्यमानं भक्ष्यमुक्तम् -'प्रपास्वरण्ये घटके च सारे द्रोण्यां जलं कोशविनिर्गतं च । श्वपाकचण्डालपरिग्रहेषु पीत्वा जलं पञ्चगव्येन शुध्येत् ॥' इति, तदशक्तविषयम् । 'प्रपांगतो विना तोयं शरीरं यो निषिञ्चति । एकाहक्षपणं कृत्वा सचैलं स्नानमाचरेत् ॥ सुराघटप्रपातोये पीत्वा नाव्यं जलं तथा । अहोरात्रोषितो भूत्वा पञ्चगव्यं जलं पिबेत् ॥' इति ॥
अथ भावदुष्टभक्षणे प्रायश्चित्तम्-'भावदुष्टं च यद्वर्णत आकारतो वा विसदृशतया जुगुप्सितशारीरमलादिवासनां जनयति तदुच्यते । अरिप्रयुक्तगरलादिशङ्कायां वा । तत्र च पराशरः-'वाग्दुष्टं भावदुष्टं च भाजने भावदूषिते । भुक्त्वान्नं ब्राह्मणः पश्चात्रिरात्रेण विशुध्यति ॥' इति । एतत्कामकारविपयम् । यत्तु गौतमेन भावदुष्टं केवलमित्यादि प्राक्पञ्चनखेभ्यः पठित्वा प्रायश्चित्तमुक्तम्-'प्राक् पञ्चनखेभ्यश्छर्दनं घृतप्राशनं च' इति, तदकामविषयम् ॥ शङ्कायां तु-'शङ्कास्थाने समुत्पन्ने अभोज्याभक्ष्यसंज्ञितम् । आहारशुद्धिं वक्ष्यामि तन्मे निगदतः शृणु ॥ अक्षारलवणां रूक्षां पिबेद्राह्मीं सुर्वचलाम् । त्रिरात्रं शङ्खपुष्पी वा ब्राह्मणः पयसा सह ॥ पलाश बिल्वपत्राणि कुशान्पामुदुम्बरम् । अपः पिबेक्वाथयित्वा विरात्रेण विशुध्यति ॥' इति वसिष्ठोक्तं द्रष्टव्यम् । मनुनाप्यभोज्यभोजनशङ्कायामुक्तम् (५।२१)-'संवत्सरस्यैकमपि चरेत्कृच्छ्र द्विजोत्तमः । अज्ञातभुक्तशुध्यर्थं ज्ञातस्य तु विशेषतः ॥' इति ॥
अथ कालदुष्टभक्षणे प्रायश्चित्तम्-'कालदुष्टं च पर्युषितानिर्दशगोक्षीरादि । तत्र चाकामतः 'शेषेपूपवसेदहः' इति मनूक्तं वेदितव्यम् । कामतस्तु - 'केवलानि च शुक्तानि तथा पर्युषितं च यत् । ऋजीषपक्कं भुक्त्वा च त्रिरात्रं तु व्रती भवेत् ॥' इति शङ्खोक्तं वेदितव्यम् । केवलान्यस्नेहोक्तानि । अनिदशगोक्षीरादिपु प्रायश्चित्तं प्राक् प्रदर्शितम् । नवोदकस्य पाने तु पञ्चगव्यप्राशनम्-'शृङ्गास्थिदन्तजैः पात्रैः शङ्खशुक्तिकपर्दकैः । पीत्वा नवोदकं चैव पञ्चगव्येन शुध्यति ॥' इति बृहद्याज्ञवल्क्यस्मरणात् ॥ कामतस्तूपवासः कर्तव्यः-'काले नवोदकं शुद्धं न पिबेच्च व्यहं हि तत् । अकाले तु दशाहं स्यास्पीत्वा नाद्यादहर्निशम् ॥' इति स्मृत्यन्तरदर्शनात् । ग्रहणकालभोजने तु चान्द्रायणम्-'नवश्राद्धग्रामयाजकानसग्रहभोजने । नारीणां प्रथमे गर्भ भुक्त्वा चान्द्रायणं चरेत् ॥ इति शातातपस्मरणात् ॥ यदा तु सग्रहादन्यत्र निषिद्धकाले भुङ्क्ते तदाह मार्कण्डेयः-'चन्द्रस्य यदि वा भानोर्यस्मिन्नहनि भार्गव । ग्रहणं तु भवेत्तस्मिन्न पूर्व भोजनक्रियाम् ॥ नाचरेत्सग्रहे चैव तथैवास्तमुपागते । यावत्स्यान्नोदयस्तस्य नाश्नीयात्तावदेव तु ॥' तथा-'ग्रहणं तु भवे
१ कोशविनिःसृतं वा ङ.
For Private And Personal Use Only
Page #490
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४५८
याज्ञवल्क्यस्मृतिः ।
[ प्रायश्चित्ताध्यायः
दिन्दोः प्रथमादधियामतः । भुञ्जीतावर्तनात्पूर्वे प्रथमे प्रथमादधः ॥' तथा*अपराह्णे न मध्याह्ने सायाह्ने न तु सङ्गवे । भुञ्जीत सङ्गवे चेत्स्यान्न पूर्वं भोजनक्रिया ॥' | इति । यच्च मनुनोक्तम्- 'नाश्नीयात्संधिवेलायां नातिप्रगे नातिसायमित्येवमादि' । यच्च वृहच्छातातपेनोक्तम्- 'धाना दधि च सक्तूंश्च श्रीकामो वर्जयेन्निशि । भोजनं तिलसंबद्धं स्नानं चैव विचक्षणः ॥' इत्येवमादिष्वनादिष्टप्रायश्चित्तेषु - 'प्राणायामशतं कार्यं सर्वपापापनुत्तये । उपपातकजातानामनादिष्टस्य चैव हि ॥' इति योगीश्वरोक्तं प्राणायामशतं द्रष्टव्यम् ॥ अकामतस्तु 'शेषेषूपवसेदहः' इति मनुक्तोपवासो द्रष्टव्यः ॥
अथ गुणदुष्टशुक्तादिभक्षणे प्रायश्चित्तम् । तत्र मनुः ( ११।१५३ ) - 'शुक्तानि च कषायांश्च पीत्वाऽमेध्यान्यपि द्विजः । तावद्भवत्यप्रयतो यावत्तन्न व्रजत्यधः ॥' इति । अत्राकामतः 'शेषेषूपवसेदहः' इत्युपवासो द्रष्टव्यः । कामतस्तु'केवलानि च शुक्तानि तथा पर्युषितं च यत् । ऋजीषपकं भुक्त्वा च त्रिरात्रं तु व्रती भवेत् ॥' इति शङ्खोक्तं द्रष्टव्यम् । एतचामलकादिफलयुक्तकाञ्जिकादिव्यतिरेकेण द्रष्टव्यम् | 'कुण्डिका सफला येषु गृहेषु स्थापिता भवेत् । तस्यास्तु काञ्जिका ग्राह्या नेतरस्याः कदाचन ॥' इति स्मरणात् ॥ उद्धृतस्नेहादिषु तु 'उद्धृतस्नेह विलयन पिण्याकमथितप्रभृतीनि चात्तवीर्याणि नाश्नीयात्' इत्युक्त्वा 'प्राक्पञ्चनखेभ्यश्छर्दनं घृतप्राशनं च' इति गौतमोक्तं द्रष्टव्यम् । विलयनं घृतादिमलम् । अनाहुताद्यन्नभोजने तु लिखित आह- 'यस्य चानौ न क्रियते यस्य चाग्रं न दीयते । न तद्भोज्यं द्विजातीनां भुक्त्वा चोपवसेदहः ॥ वृथा कृसरसंयावपायसापूपशष्कुलीः । आहिताग्निद्वजो भुक्त्वा प्राजापत्यं समाचरेत् ॥ * इति ॥ अनाहिताग्नेस्तु 'शेषेषूपवसेदहः' इत्युपवासो द्रष्टव्यः ॥ मिन्नभाजनादिषु तु भोजने संवर्तेनोक्तम्- 'शूद्राणां भाजने भुक्त्वा भुक्त्वा वा भिन्नभाजने । अहोरात्रोषितो भुक्त्वा पञ्चगव्येन शुध्यति ॥ इति ॥ तथा स्मृत्यन्तरेऽप्युक्तम्- 'वटाकश्वत्थपत्रेषु कुम्भीतिन्दुकपत्रयोः । कोविदारकदम्बेषु भुक्त्वा चान्द्रायणं चरेत् ॥' इति । तथा-- पलाशपद्मपत्रेषु गृही भुक्त्वैन्दवं चरेत् । वानप्रस्थो यतिश्चैव लभते चान्द्रिकं फलम् ॥' इति ॥
1
अथ हस्तदानादिक्रियादुष्टशभोज्यभक्षणे प्रायश्चित्तम् । तत्र पराशरः - 'माक्षिकं फौणितं शाकं गोरसं लवणं घृतम् । हस्तदत्तानि भुक्त्वा तु दिनमेकमभोजनम् ॥' इति । कामतस्तु — 'हस्तदत्तभोजने अब्राह्मणसमीपे भोजने दुष्टपतिभोजने पङ्कयग्रतो भोजनेऽभ्यक्तमूत्रपुरीषकरणे मृतसूतकशूद्रान्नभोजने शूद्वैः सह स्वप्ने त्रिरात्रमभोजनम्' इति हारीतोक्तं विज्ञेयम् । पर्यायान्नदानदुष्टे तु- 'ब्राह्मणान्नं ददच्छूद्रः शूद्रानं ब्राह्मणो ददत् । द्वयमेतदभोज्यं स्याद्भुक्त्वा तूपवसेदहः ॥' इति वृद्धयाज्ञावल्क्योक्तमवगन्तव्यम् । शूद्रहस्तेन भोजने तु - 'शूद्रहस्तेन यो भुङ्क्ते पानीयं वा पिबेत्क्वचित् । अहोरात्रोषितो भूत्वा पञ्च
१ क्षिपते ख. २ चानं ख. ३ दुष्टान्न भोजने ख. ४ फाणितं इक्षुरसविकारः काकवीति लोके प्रसिद्धम् .
For Private And Personal Use Only
Page #491
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्तप्रकरणम् ५] मिताक्षरासहिता ।
४५९ गव्वेन शुध्यति' इति ऋतूक्तं विज्ञेयम् । धमनदुष्टेऽपि-आसनारूढपादो वा वस्त्रार्धप्रावृतोऽपि वा मुखेन धमितं भुक्त्वा कृच्छ्रे सान्तपनं चरेत् ॥' इति तेनैवोक्तम् । पित्राघुद्देशेन त्यक्तामभोजने तु 'भुङ्क्ते चेत्पावर्णश्राद्धे प्राणायामान्षडा. चरेत् । उपवासस्निमासादिवत्सरान्तं प्रकीर्तितः॥ प्राणायामत्रयं वृद्धावहोरात्रं सपिण्डने । असरूपे स्मृतं नक्तं व्रतपारणके तथा ॥ द्विगुणं क्षत्रियस्यैतत्रिगुणं वैश्यभोजने। साक्षाच्चतुर्गुणं ह्येतत्स्मृतं शूद्रस्य भोजने ॥ अतिथौ तिष्ठति द्वारि ह्यपः प्राश्नन्ति ये द्विजाः । रुधिरं तद्भवेद्वारि भुक्त्वा चान्द्रायणं चरेत् ॥' इति भारद्वाजोक्तमवगन्तव्यम्। हारीतेनाप्युक्तम्-'एकादशाहे भुक्त्वान्नं भुक्त्वा संचयने तथा । उपोष्य विधिवत्स्नात्वा कूष्माण्डैर्जुहुयावृतम् ॥' इति । विष्णुनाप्युक्तम्-'प्राजापत्यं नवश्राद्धे पादोनं चाद्यमासिके । त्रैपक्षिके तदर्धे तु पञ्चगव्यं द्विमासिके ॥' इति । इदं चापद्विषयम् । अनापदि तु-'चान्द्रायणं नवश्राद्धे प्राजापत्यं तु मिश्रके । एकाहस्तु पुराणेषु प्राजापत्यं विधीयते ॥' इति हारीतोक्तं द्रष्टव्यम् । प्राजापत्यं तु मिश्रके इत्येतदाद्यमासिकविषयं द्रष्टव्यम् । द्वितीयादिषु तु-'प्राजापत्यं नवश्राद्धे पादोनं चाद्यमासिके । त्रैपक्षिके तदर्ध स्थात्पादो द्वैमासिके तथा । पादोनकृच्छ्रमुद्दिष्टं षण्मासे च तथाब्दिके । त्रिरात्रं चान्यमासेषु प्रत्यहं चेदहः स्मृतम् ॥' इति षट्त्रिंशन्मतोक्तं द्रष्टव्यम् ॥ क्षत्रियादिश्राद्धभोजने त्वनापदि तत्रैव विशेष उक्तः-'चान्द्रायणं नवश्राद्धे पराको मासिके स्मृतः । त्रैपक्षिके सान्तपनं कृच्छ्रो मासद्वये स्मृतः॥ क्षत्रियस्य नवश्राद्धे व्रतमेतदुदाहृतम् । वैश्यस्यार्धाधिकं प्रोक्तं क्षत्रियात्तु मनीषिभिः ॥ शूद्रस्य तु नवश्राद्ध चरेच्चान्द्रायणद्वयम् । सार्धे चान्द्रायणं मासे त्रिपक्षे स्वैन्दवं स्मृतम् ॥ मासद्वये पराकः स्यादूर्व सान्तपनं स्मृतम् ॥' इति । यत्तु शङ्खवचनम्-'चान्द्रायणं नवश्राद्धे पराको मासिके स्मृतः । पक्षत्रयेऽतिकृच्छ्रः स्यास्पण्मासे कृच्छ्र एव तु ॥ आब्दिके पादकृच्छ्रः स्यादेकाहः पुनराब्दिके । अतअर्ध्वं न दोषः स्याच्छङ्घस्य वचनं यथा ॥' इति, तत्सदिहतविषयम् । -'ये स्तेनाः पतिताः क्लीबा' इत्याद्यपालेयविषयं वा ॥--'चण्डालादुदकात्सद्रिाह्मणाद्वैद्युतादपि । दंष्ट्रिभ्यश्च पशुभ्यश्च मरणं पापकर्मणाम् ॥ पतनानाशकैश्चैव विषोद्वन्धनकैस्तथा । भुक्त्वैषां पोडशश्राद्धे कुर्यादिन्दुव्रतं द्विजः ॥' इति । तथा'अपाझेयान्यदुद्दिश्य श्राद्धमेकादशेऽहनि । ब्राह्मणस्तत्र भुक्त्वानं शिशुचान्द्रायणं चरेत् ॥' इति ।-'आमश्राद्धे तथा भुक्त्वा तप्तकृच्छ्रेण शुध्यति । संकल्पिते तथा भुक्त्वा त्रिरात्रं क्षपणं भवेत् ॥' इति भरद्वाजेन गुरुप्रायश्चित्ताभिधानात् ॥
ब्रह्मचारिणस्तु बृहद्यमो विशेषमाह-'मासिकादिषु योऽश्नीयादसमासवतो द्विजः । त्रिरात्रमुपवासोऽस्य प्रायश्चित्तं विधीयते ॥ प्राणायामत्रयं कृत्वा घृतं प्राश्य विशुध्यति ॥' इति । इदमज्ञानविषयम् । कामतोऽपि स एवाह'मधु मांसं तु योऽश्नीयाच्छाद्धे सूतक एव वा । प्राजापत्यं चरेत्कृच्छ्रे व्रतशेष
१ मासिके ङ. २ प्रायश्चित्तं ङ. ३ द्विरात्रमिति पाठान्तरम्.
For Private And Personal Use Only
Page #492
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४६०
याज्ञवल्क्यस्मृतिः ।
[ प्रायश्चित्ताध्यायः
समापयेत् ॥' इति । आमश्राद्धे तु सर्वत्रार्धम् - आमश्रद्धे तदर्थं तु प्राजापत्यं तु सर्वदा' इति षटूत्रिंशन्मतेऽभिधानात् । यत्तूशनसोक्तम्- 'दशकृत्वः पिबेच्चापो गायत्र्या श्राद्धभुग्विजः । ततः संध्यामुपासीत शुद्ध्यन्तु तदनन्तरम् ॥' इति तदनुक्तप्रायश्चित्तश्राद्धविषयम् ॥ संस्काराङ्गभूतश्राद्ध भोजने तु व्यासेन विशेष उक्तः - ' निर्वृत्तचूडाहोमे तु प्राङ्गामकरणात्तथा । चरेत्सान्तपनं भुक्त्वा जातकर्मणि चैव हि ॥ अतोऽन्येषु तु भुक्त्वान्नं संस्कारेषु द्विजोत्तमः । नियोगादुपवासेन शुध्यते निन्द्यभोजने ॥' इति ॥ सीमन्तोन्नयनादिषु पुनधौम्यो विशेषमाह --- ' ब्रह्मौदने च सोमे च सीमन्तोन्नयने तथा । जातश्राद्धे नवश्राद्धे द्विजश्चान्द्रायणं चरेत् ॥' इति । अत्र ब्रह्मौदनाख्यं कर्माधानाङ्गभूतं सोमसाहचर्यात् ॥
अथ परिग्रहाभोज्यभोजने प्रायश्चित्तम् -- ' यत्स्वरूपतोऽनिषिद्ध मपि विशिष्टपुरुषस्वामिकतयाऽभोज्यं भण्यते तत्परिग्रहाशुचि । तत्र योगीश्वरेण'अदत्तान्यग्निहीनस्य नान्नमद्यादनापदि' इत्यारभ्य सार्धपञ्चभिः श्लोकैर भोज्यान्नाः प्रतिपादिताः । मनुनापि त एव किंचिदधिकाः प्रतिपादिताः । ( ४।२०५२१७ ) - ( नाश्रोत्रियतते यज्ञे ग्रामयाजिहुते तथा । स्त्रिया क्लीबेन च हुते भुञ्जीत ब्राह्मणः क्वचित् ॥ मत्तक्रुद्धातुराणां च न भुञ्जीत कदाचन । गणान्नं गणि कान्नं च विदुषां च जुगुप्सितम् ॥ स्तेनगायकयोश्चान्नं तक्ष्णो वार्धुषिकस्य च । दीक्षितस्य कदर्यस्य बद्धस्य निगडस्य च ॥ अभिशस्तस्य पण्ठस्य पुंश्चल्या दाम्भिकस्य च । चिकित्सकस्य मृगयोः क्रूरस्योच्छिष्टभोजिनः ॥ उग्रान्नं सूतिकानं च पर्यायान्नमनिर्दशम् । अनर्चितं वृथामांसमवीरायाश्च योषितः ॥ द्विषदन्नं नगर्यन्नं पतितान्नमवक्षुतम् । पिशुनानृतिनोश्चैव ऋतुविक्रयिणस्तथा ॥ शैलूषतन्तुवायान्नं कृतघ्नस्यान्नमेव च । कर्मारस्य निषादस्य रङ्गावतरणस्य च ॥ सुवर्णकर्तुर्वेणस्य शस्त्रविक्रयिणस्तथा । श्ववतां शौण्डिकानां च चैलनिर्णेजकस्य च ॥ रजकस्य नृशंसस्य यस्य चोपपतिर्गृहे । मृप्यन्ति ये चोपपतिं स्त्रीजितानां च सर्वशः ॥ अनिर्दशं च प्रेतान्नमतुष्टिकरमेव च ॥ इति ॥ अत्र च पदार्था अभक्ष्य - काण्डे श्राद्धकाण्डे च व्याख्याताः । अत्र प्रायश्चित्तमाह ( मनुः ४। २२२ ) - 'भुक्त्वातोऽन्यतमस्यान्नममत्या क्षपणं त्र्यहम् । मत्या भुक्त्वा चरेत्कृच्छ्रं रेतो विण्मूत्रमेव च ॥' इति । पैठीनसिनाप्यकामतस्त्रिरात्रमेवोक्तम्- 'कुनखी श्यावदन्तः पित्रा विवदमानः स्त्रीजितः कुष्ठी पिशुनः सोमविक्रयी वाणिजको ग्रामयाजकोऽभिशस्तो वृषल्यामभिजितः परिवित्तिः परिविन्दानो दिधिषूपतिः पुनर्भूपुत्रश्चौरः काण्डपृष्ठः सेवकश्चेत्यभोज्यान्ना अपाङ्केया अश्राद्धार्हाः एषां भुक्त्वा दत्त्वा वाऽविज्ञानात्रिरात्रम्' इति ॥ शङ्खेन त्वेतानेव किंचिदधिकान्पठित्वा चान्द्रायणमुक्तं तदभ्यासविषयम् ॥ गौतमेन पुनरुच्छिष्टपुंश्चल्यभिशस्तेत्यादिना अभोज्यान्पठित्वा प्राक्पञ्चनखेभ्यश्छर्दनं घृतप्राशनं चेति प्रायश्चित्तमुक्तं तदापद्विषयम् ॥ यस्तु बलात्कारेण भोज्यते तस्यापस्तम्ब्रेन विशेष उक्तः
१ पतितान्नमवेक्षितम् ङ.
For Private And Personal Use Only
Page #493
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्तप्रकरणम् ५] मिताक्षरासहिता ।
४६१
'बलाद्दासीकृता ये तु म्लेच्छचण्डालदस्युभिः । अशुभं कारिताः कर्म गवादिप्राणिहिंसनम् ॥ उच्छिष्टमार्जनं चैव तेथोच्छिष्टस्य भोजनम् । खरोष्ट्रविवराहाणामामिषस्य च भक्षणम् ॥ तत्स्रीणां च तथा सङ्गस्ताभिश्च सह भोजनम् । मासोषिते द्विजातौ तु प्राजापत्यं विशोधनम् ॥ चान्द्रायणं त्वाहिताग्नेः पराकस्त्वथवा भवेत् । चान्द्रायणं पराकं च चरेत्संवत्सरोषितः ॥ संवत्सरोषितः शूद्रो मासा यावकं पिबेत् । मासमात्रोषितः शूद्रः कृच्छ्रपादेन शुध्यति ॥ ऊर्ध्व संवत्सराकल्यं प्रायश्चित्तं द्विजोत्तमैः । संवत्सरैस्त्रिभिश्चैव तद्भावं स निगच्छति' इति ॥
आशौचिपरिगृहीतान्न भोजने तु च्छागलेय आह - 'अज्ञानाद्भुञ्जते विप्राः सूतके मृतके तथा ॥ प्राणायामशतं कृत्वा शुध्यन्ते शूद्रसूतके ॥ वैश्ये पष्टिर्भवेद्राज्ञ विंशतिर्ब्राह्मणे दश । एकाहं च त्र्यहं पञ्च सप्तरात्रमभोजनम् ॥ ततैः शुद्धिर्भवत्येषां पञ्चगव्यं पिबेत्ततः ॥' इति । ब्राह्मणादिक्रमेणैकाहभ्यहादयो योज्याः । इदमकामविषयम् ॥ कामतस्तु मार्कण्डेय आह - 'भुक्त्वा तु ब्राह्मणाशौचे चरेत्सान्तपनं द्विजः । भुक्त्वा तु क्षत्रियाशौचे तप्तकृच्छ्रो वि धीयते ॥ वैश्याशौचे तथा भुक्त्वा महासान्तपनं चरेत् । शूद्रस्यैव तथा भुक्त्वा त्रिमासान्व्रतमाचरेत् ॥' यत्तु शङ्खेनोक्तम्– 'शूद्रस्य सूतके भुक्त्वा षण्मासाव्रतमाचरेत् । वैश्यस्य तु तथा भुक्त्वा त्रीन्मासान्व्रतमाचरेत् ॥ क्षत्रियस्य तथा भुक्त्वा द्वौ मासौ व्रतमाचरेत् । ब्राह्मणस्य तथाऽशौचे भुक्त्वा मासव्रती भवेत् ॥' इति । इदमभ्यासविषयम् । एतच्च प्रायश्चित्तमाशौचानन्तरं वेदितव्यम् । ब्राह्मणादीनामाशौचे यः सकृदेवान्नमश्नाति तस्य तावदाशौचं यावत् तेषामाशौ - चव्यपगमे तु प्रायश्चित्तं कुर्यात्' इति विष्णुस्मरणात् ॥
I
अपुत्राद्यन्नभोजने तु लिखित आह- 'भुक्त्वा वार्धुषिकस्यान्नमव्रतस्यासु तस्य च । शूद्रस्य च तथा भुक्त्वा त्रिरात्रं स्यादभोजनम् ॥' तथा 'परपाकनिवृत्तस्य परपाकरतस्य च । अपचस्य तु भुक्त्वान्नं द्विजश्चान्द्रायणं चरेत् ॥' इति । एतच्चाभ्यासविषयम् ॥ परपाकेन निवृत्तादेर्लक्षणं च तेनैवोक्तम्- 'गृहीत्वाग्निं समारोप्य पञ्चयज्ञान्न निर्वपेत् । परपाकनिवृत्तोऽसौ मुनिभिः परिकीर्तितः ॥ पञ्चयज्ञांस्तु यः कृत्वा परान्नादुपजीवति । सततं प्रातरुत्थाय परपाकरतस्तु सः ॥ गृहस्थधर्मवृत्तौ यो ददाति परिवर्जितः । ऋषिभिर्धर्मतत्त्वज्ञैरपचः संप्रकीर्तितः ॥' इति ॥ यत्तु ब्रह्मचार्याद्यन्नभोजने वृद्धयाज्ञवल्क्य आह - 'यतिश्च ब्रह्मचारी च पक्वान्नस्त्रामिनावुभौ । तयोरनं न भोक्तव्यं भुक्त्वा चान्द्रायणं चरेत् ॥' इति ॥ यच्च पार्वश्राद्धकर्तुरनभोजने भरद्वाज आह- 'पक्षे वा यदि वा मासे यस्य नाश्नन्ति देवताः ॥ भुक्त्वा दुरात्मनस्तस्य द्विजश्चान्द्रायणं चरेत् ॥' इति तदुभयमध्यभ्यासविषयम् ॥ पूर्वपरिगणितातिरिक्ता ये निषिद्धाचरणशीलास्तदन्नभोजने तु —- 'निराचारस्य विप्रस्य निषिद्धाचरणस्य च । अन्नं भुक्त्वा द्विजः कुर्यादिनमेकमभोजनम् ॥' इति षटूत्रिंशन्मतोक्तं द्रष्टव्यम् । अत्रैव संवत्सराभ्या
१ तथा तस्यैव भोजनं ङ. २ अज्ञानाद्भोजने ख. ३ ततः शुचिर्भवेद्विप्रः पञ्चगव्यं पिबेन्नरः इति ङ. ४ द्विजश्चान्द्रायणं चरेदिति ङ. ५ पञ्चयज्ञान्स्वयं कृत्वा परान्नमुपजीवति ङ.
For Private And Personal Use Only
Page #494
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४६२
याज्ञवल्क्यस्मृतिः । [ प्रायश्चित्ताध्यायः
से पत्रिंशन्मत एवोक्तम्- 'उपपातकयुक्तस्य अब्दमेकं निरन्तरम् । अन्नं भुक्त्वा द्विजः कुर्यात्पराकं तु विशोधनम् ॥' इति । इदं चाभक्ष्यभक्षणप्रायश्चित्तकाण्ड गतमविशेषोदितव्रतकदम्बकं हि द्विजाग्र्यस्यैव । क्षत्रियादीनां तु पादपादहान्या भवति । 'विप्रे तु सकलं देयं पादोनं क्षत्रिये स्मृतम् । वैश्येऽधं पादएकस्तु शुद्वजातिषु शस्यते ॥' इति विष्णुस्मरणात् ॥
1
इत्यभक्ष्यभक्षणप्रायश्चित्तप्रकरणम् ॥
निमित्तपरिगणनवेलायामुपपातकानन्तरं जातिभ्रंशकरादीनि परिगणितानि तत्र प्रायश्चित्तान्युच्यन्ते । तत्र मनुः ( ११।१२४ - १२५ ) - ( जातिभ्रंशकरं कर्म कृत्वान्यतममिच्छया । चरेत्सान्तपनं कृच्छ्रं प्राजापत्यमनिच्छया ॥ संकरा - पात्रकृत्यासु मासं शोधनमैन्दवम् । मलिनीकरणीयेषु तप्तः स्याद्यावकख्यहम् ॥' इति । अन्यतममिति सर्वत्र संबध्यते । यमेनाप्यत्र विशेष उक्तः - 'संकरीकरणं कृत्वा मासमश्नाति यावकम् । कृच्छ्रातिकृच्छ्रमथवा प्रायश्चित्तं समाचरेत् ॥ अपात्रीकरणं कृत्वा तप्तकृच्छ्रेण शुध्यति ॥ शीतकृच्छ्रेण वा शुद्धिर्महासान्तपनेन वा । मलिनीकरणीयेषु तप्तकृच्छ्रं विशोधनम् ॥' इति ॥ बृहस्पतिनापि जातिभ्रंशकरे विशेष उक्तः - 'ब्राह्मणस्य रुजः कृत्वा रासभादिप्रमापणम् । निन्दितेभ्यो धनादानं कृच्छ्रार्धं व्रतमाचरेत् ॥' इति । एतेषां च जाति अंशकरादिप्रायश्चित्तानां मन्वाद्युक्तानां जातिशक्त्याद्यपेक्षया विषयो विभजनीयः । एवं योगीन्द्रहृद्गतम भक्ष्यभक्षणादिप्रायश्चित्तं संक्षेपतो दर्शितम् ॥ २८९ ॥
अधुना प्रकृतमनुसरामः - 'महापातकमतिपातकमनुपातकमुपपातकं प्रकीर्णकमिति पञ्चविधं पापजातमुक्तम् । तत्र चतुर्विधप्रायश्चित्तमभिधाय क्रमप्राप्ते प्रकीर्णके प्रायश्चित्तमाह
प्राणायामी जले स्नात्वा खरयानोष्ट्रयानगः ।
नग्नः स्नात्वा च भुक्त्वा च गत्वा चैव दिवा स्त्रियम् ॥ २९० ॥
खरयुक्तं यानं खरयानम् । उष्ट्रयुक्तं यानमुष्ट्रयानं रथगत्र्यादि तेनाध्वगमनं कृत्वा दिगम्बरः arत्वाभ्यवहृत्य दिवा वासरे च निजाङ्गनासंभोगं कृत्वा च तडागतरङ्गिण्यादाववगाह्य कृतप्राणायामः शुध्यति । इदं च कामकारविषयम् । ( ११२०१ ) - ' उष्ट्रयानं समारुह्य खरयानं तु कामतः । सेवासा जलमालुत्य प्राणायामेन शुध्यति ॥' इति मनुस्मरणात् । अकामतः स्नानमात्रं कल्प्यम् । - साक्षात्खरारोहणे तु द्विगुणावृत्तिः कल्पनीया । तस्य गुरुत्वात् ॥ २९० ॥
गुरुं हुंकृत्य त्वंकृत्य विप्रं निर्जित्य वादतः ।
बध्वा वा वाससा क्षिप्रं प्रसाद्योपवसेद्दिनम् ॥ २९९ ॥ किंच । गुरुं जनकादिकं त्वं कृत्य त्वमेवमात्थ त्वयैवं कृतमित्येकवचनान्तयुष्म१ स्नात्वा तु विप्रो दिग्वासा इति पाठः.
For Private And Personal Use Only
Page #495
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्तप्रकरणम् ५] मिताक्षरासहिता । च्छब्दोच्चारणेन निर्भय विप्रं वा ज्यायांसं समं कनीयांसं वा सक्रोधं हुं तूष्णीमास्त्र, हुं मा बहुवादीः, इत्येवमाक्षिप्य जल्पवितण्डाभ्यां जयफलाभ्यां विप्रं निर्जित्य कण्ठे वाससा मृदुस्पर्शनापि बध्वा क्षिप्रं पादप्रणिपातादिना प्रसाद्य क्रोधं त्याजयित्वा दिनमुपवसेत् । अनश्नन्कृत्स्नं वासरं नयेत् ॥ यत्तु यमेनोक्तम्'वादेन ब्राह्मणं जित्वा प्रायश्चित्तविधित्सया। त्रिरात्रोपोषितः स्नात्वा प्रणिपत्य प्रसादयेत् ॥' इति तदभ्यासविषयम् ॥ २९१ ॥
विप्रदण्डोद्यमे कृच्छ्रस्त्वतिकृच्छ्रो निपातने।
कृच्छातिकृच्छ्रोऽसृक्पाते कुच्छ्रोऽभ्यन्तरशोणिते ॥२९२॥ विप्रजिघांसया दण्डाद्युद्यमे कृच्छ्रः शुद्धिहेतुः । निपातने ताडने अतिकृच्छ्रः । असृक्पाते रुधिरस्रावणे पुनः कृच्छ्रातिकृच्छ्रः । अभ्यन्तरशोणितेऽपि कृच्छ्रः शुद्धि हेतुः ॥ बृहस्पतिनाप्यत्र विशेष उक्त:--'काष्ठादिना ताडयित्वा त्वभेदे कृच्छ्रमाचरेत् । अस्थिभेदेऽतिकृच्छ्रः स्यात्पराकस्त्वङ्गकर्तने ॥' इति । पादप्रहारे तु यम आह-पादेन ब्राह्मणं स्पृष्ठा प्रायश्चित्तविधित्सया। दिवसोपोषितः स्नात्वा प्रणिपत्य प्रसादयेत् ॥' इति ॥ मनुना त्वन्यानि प्रकीर्णकप्रायश्चित्तानि दर्शितानि (१११२०२)-'विनाद्भिरप्सु वाप्यातः शारीरं संनिषेव्य तु । सचैलो बहिराप्लुत्य गामालभ्य विशुध्यति ॥' इति । विनाद्भिरित्यसंनिहितास्वपीत्यर्थः । शारीरं मूत्रपुरीषादि । इदमकामविषयम् । कामतस्तु-'आपद्गतो विना तोयं शारीरं यो निषेवते । एकाहं क्षपणं कृत्वा सैचैलो जलमाविशेत् ॥' इति यमोक्तं वेदितव्यम् ॥ यत्तु सुमन्तुवचनम्-'अपस्वग्नौ वा मेहतस्तप्तकृच्छ्रम्' इति तदनात विषयमभ्यासविषयं वा ॥ नित्यश्रीतादिकर्मलोपे तु मनुराह (११२०३)-'वेदोदितानां नित्यानां कर्मणां समतिक्रमे । स्नातकव्रतलोपे च प्रायश्चित्तमभोजनम् ॥' इति । श्रौतेषु दर्शपौर्णमासादिकर्मषु स्मातेषु चानित्यहोमादिपु प्रतिपदोक्तेष्ट्यादिप्रायश्चित्तैरुपवासस्य समुच्चयः । स्नातकत्रतानि च-'न जीर्णमलवद्वासा भवेच्च विभवे सति' इत्येवमादीनि प्रागुक्तानि । स्नातकव्रतमधिकृत्य ऋतुनाप्युक्तम्-'एतेषामाचाराणामेकैकस्य व्यतिक्रमे गायत्र्यष्टशतं जप्यं कृत्वा पूतो भवति' इति ॥ पञ्चमहायज्ञाकरणे तु बृहस्पतिराह–'अनिवर्त्य महायज्ञान्यो भुङ्क्ते प्रत्यहं गृही । अनातुरः सति धने कृच्छ्रार्धेन विशुध्यति ॥ आहिताग्निरुपस्थानं न कुर्याद्यस्तु पर्वणि । ऋतौ न गच्छेद्भायाँ वा सोऽपि कृच्छ्रार्धमाचरेत् ॥' इति ॥ द्वितीयादिभार्योपरमे तु देवल आह-'मृतां द्वितीयां यो भायाँ दहेद्वैतानिकाग्निभिः । जीवन्त्यां प्रथमायां तु सुरापानसमं हि तत् ॥' इति । स्वभार्याभिशंसने तु यम आह-'स्वभार्यां तु यदा क्रोधादगम्येति नरो वदेत् । प्राजापत्यं चरेद्विप्रः । क्षत्रियो दिवसानव ॥ षडानं तु चरेद्वैश्यस्त्रिरात्रं शूद्र आचरेत् ॥' इति ॥
१ 'कृच्छोऽल्पतरशोणिते' इति पाठान्तरेऽल्पतरशोणितेऽपि कृच्छ्रः शुद्धिहेतुरिति ज्ञेयम्. २ 'सचेल स्लानमाचरेत्' ङ.
या० ४२
For Private And Personal Use Only
Page #496
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४६४
याज्ञवल्क्यस्मृतिः। [प्रायश्चित्ताध्यायः
अस्त्रानभोजनादौ हारीत आह—'वहन्कमण्डलुं रिक्तमस्नातोऽश्नंश्च भोजनम् । अहोरात्रेण शुद्धिः स्मादिनजप्येन चैव हि ॥' इति ॥ एकपतयुपविष्टानां स्नेहादिना वैषम्येण दानादौ यम आह-'न पतयां विषमं दद्यान्न या. चेत न जापयेत् । याचको दापको दाता न वै स्वर्गस्य गामिनः ॥ प्राजापत्येन कृच्छ्रेण मुच्यते कर्मणस्ततः ॥ नदीसंक्रमहन्तुश्च कन्याविघ्नकरस्य च ॥ समे विषमकर्तुश्च निष्कृतिर्नोपपद्यते ॥ त्रयाणामपि चैतेषां प्रत्यापैत्तिं च मार्गताम् । भैक्षलब्धेन चान्नेन द्विजश्चान्द्रायणं चरेत् ॥' इति । संक्रम उदकावतरणमार्गः । समे विषमकर्ता पूजादौ ॥ इन्द्रधनुर्दर्शनादावृष्यशृङ्ग आह-'इन्द्रचापं पलाशाग्निं यदन्यस्य प्रदर्शयेत् । प्रायश्चित्तमहोरात्रं धनुर्दण्डश्व दक्षिणा ॥' पतितादिसंभाषणे तु गौतम आह-'न म्लेच्छाशुच्यधार्मिकैः सह संभाषेत संभाष्य पुण्यकृतो मनसा ध्यायेत् । ब्राह्मणेन सह वा संभाषेत तल्पानधनला. भवधे पृथग्वर्षाणि' इति । भार्यानधनानां लाभस्य वधे विघ्नकरणे प्रत्येकं संवत्सरं प्राकृतं ब्रह्मचर्यम् ॥ तथा-'ब्रह्मसूत्रं विना विण्मूत्रोत्सर्गादौ स्मृत्यन्तरे प्रायश्चित्तमुक्तम्'-'विना यज्ञोपवीतेन यधुच्छिष्टो भवेद्द्विजः। प्रायश्चित्तमहोरात्रं गायत्र्यष्टशतं तु वा ॥' तत्र ऊोच्छिष्टे उपवासः अधरोच्छिष्टस्योदकपानादिषु गायत्रीजप इति व्यवस्था । अकामतस्तु–'पिबतो मेहतश्चैव भुञ्जतोऽनुपवीतिनः । प्राणायामत्रिकं पवं नक्तं च त्रितयं क्रमात् ॥' इति स्मृत्यन्तरोक्तं द्रष्टव्यम् ॥ भुक्त्वा शौचाचमनमकृत्वोत्थाने तु– 'यद्युत्तिष्ठत्यनाचान्तो भुक्त्वा वानशनात्ततः । सद्यः स्नानं प्रकुर्वीत सोऽन्यथा पतितो भवेत् ॥' इति स्मृत्यन्तरोक्तं द्रष्टव्यम् ॥ चौराद्युत्सर्गादौ वसिष्ठ आह-'दण्डोत्सर्गे राजैकरात्रमुपवसेत्रिरात्रं पुरोहितः कृच्छ्रमदण्ड्यदण्डने पुरोहितस्विरानं राजा कुनखी श्यावदन्तश्च कृच्छ्रे द्वादशरात्रं चरित्वोद्धरेयाताम्' इति । उद्धरेयातां कुत्सितानां दन्तानां नखानां चोद्धरणं कुर्यातामित्यर्थः । स्तेनपतितादिपतिभोजने तु मार्कण्डेय आह–'अपातेयस्य यः कश्चित्पतौ भुते द्विजोत्तमः । अहोरात्रोपितो भूत्वा पञ्चगव्येन शुद्ध्यति ॥' इति ॥
नीलीविषये त्वापस्तम्ब आह-'नीलीरक्तं यदा वस्त्रं ब्राह्मणोऽङ्गेषु धारयेत् । अहोरात्रोषितो भूत्वा पञ्चगव्येन शुद्ध्यति ॥ रोमकूपैर्यदा गच्छेद्रसो नील्यास्तु कस्यचित् । त्रिषु वर्णेषु सामान्यं तप्तकृच्छ्रे विशोधनम् ॥ पालनं विक्रयश्चैव तद्वृत्या चोपजीवनम् । पातनं च भवेद्विप्रस्त्रिभिः कृच्छ्रेय॑पोहति ॥ नीलीदारु यदा भिन्द्याद्राह्मणस्य शरीरतः । शोणितं दृश्यते यत्र द्विजश्चान्द्रायणं चरेत् ॥ स्त्रीणां क्रीडार्थसंभोगे शयनीये न दुष्यति ॥' इति । भृगुणाप्युक्तम्-'स्त्रीयता शयने नीली ब्राह्मणस्य न दुष्यति । नृपस्य वृद्धौ वैश्यस्य पर्ववज्यं विधारणम्' इति ॥ तथा वस्त्रविशेषकृतश्च प्रतिप्रसवः–'कम्बले पट्टसूत्रे च नीलीरागो न दुष्यति ॥' इति स्मरणात् ॥ ब्रह्मतरुनिर्मितखट्वाधारोहणे शङ्ख आह
१ निष्कृतिन विधीयते इति पाठः. २ प्राजापत्यं तु मार्गणमिति पाठः. ३ त्रिवर्णेषु च सामान्यं ङ. ४ भवेद्विप्रे त्रिभिः ङ,
For Private And Personal Use Only
Page #497
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्तप्रकरणम् ५ ] मिताक्षरासहिता । 'अध्यस्य शयनं यानमासनं पादुके तथा । द्विजः पलाशवृक्षस्य त्रिरात्रं तु व्रती भवेत् ॥ क्षत्रियस्तु रणे पृष्ठं दत्त्वा प्राणपरायणः । संवत्सरं व्रतं कुर्याच्छित्वा वृक्षं फलप्रदम् ॥ द्वौ विप्रो ब्राह्मणाग्नी वा दम्पती गोद्विजोत्तमौ । अन्तरेण यदा गच्छेत्कृच्छ्रे सान्तपनं चरेत् ॥ होमकाले तथा दोहे स्वाध्याये दारसंग्रहे । अन्तरेण यदा गच्छेटिजश्चान्द्रायणं चरेत् ॥' इति । दोहे सान्नाय्याद्यङ्गभूते । एतच्चाभ्यासविषयम् । सच्छिद्रादित्याद्यरिष्टदर्शनादौ शङ्ख आह-'दुःस्वमारिष्टदर्शनादौ घृतं सुवर्णं च दद्यात्' इति ॥ __ क्वचिद्देशविशेषगमनेऽपि देवल आह-सिन्धुसौवीरसौराष्ट्रांस्तथा प्रत्यन्तवासिनः । अङ्गवङ्गकलिङ्गान्ध्रान् गत्वा संस्कारमर्हति ॥' एतच तीर्थयात्राव्यतिरेकेण द्रष्टव्यम् ॥ स्वपुरीषदर्शनादौ यम आह-'प्रत्यादित्यं न मेहेत न पश्येदात्मनः शकृत् । दृष्ट्वा सूर्य निरीक्षेत गामग्निं ब्राह्मणं तथा ॥' इति । शङ्खोऽप्याह-पादप्रतपनं कृत्वा कृत्वा वह्निमधस्तथा । कुशैः प्रमृज्य पादौ तु दिनमेकं व्रती भवेत् ॥' इति ॥ क्षत्रियाद्युपसंग्रहणे हारीत आह-'क्षत्रियाभिवादनेऽहोरात्रमुपवसेत्, वैश्याभिवादने द्विरात्रम्, शूद्रस्याभिवादने त्रिरात्रमुपवासः' इति ॥ तथा 'शय्यारूढे पादुकोपानहारोपितपादोच्छिष्टान्धकारस्थश्राद्धकृजपदेवपूजानिरताभिवादने त्रिरात्रमुपवासः स्यादन्यत्र निमत्रितेनान्यत्र भोजनेऽपि त्रिरात्रम्' इति ॥
समित्पुष्पादिहस्तस्याभिवादनेऽप्येतदेव-'समित्पुष्पकुशाज्याम्बुमृदनाक्षतपाणिकम् । जपं होमं च कुर्वाणं नाभिवादेत वै द्विजम् ॥' इत्यापस्तम्बीये जपादिभिः समभिव्याहारात् । अभिवादकस्यापीदमेव प्रायश्चित्तम्-'नोदकुम्भहस्तोऽभिवादयेत् न भैक्षं चरन पुष्पाज्यादिहस्तो नाशुचिर्न जपन्न देवपितृकार्य कुर्वन्न शयानः' इति तस्यापि शङ्खन प्रतिषेधात् । एवमन्यान्यपि वचांसि स्मृत्यन्तरतोऽन्वेष्याणि ग्रन्थगौरवभयादत्र न लिख्यन्ते ॥ २९२ ॥
इति प्रकीर्णकप्रायश्चित्तप्रकरणम् । निमित्तानामानन्त्यात्प्रतिव्यक्तिप्रायश्चित्तस्य वक्तुमशक्यत्वात्सामान्येनोपदिष्टानुपदिष्टविषये प्रायश्चित्तविशेषज्ञानार्थमिदमाह
देशं कालं वयः शक्तिं पापं चावेक्ष्य यत्नतः।
प्रायश्चित्तं प्रकल्प्यं स्याद्यत्र चोक्ता न निष्कृतिः ॥ २९३ ॥ यदुक्तं प्रायश्चित्तजातं वक्ष्यमाणं वा तद्देशादिकमवेक्ष्य यथा कर्तुः प्राणविपत्तिर्न भवति तथा विषयविशेषे कल्पनीयम् । इतरथा प्रधाननिवृत्तिप्रसङ्गात् । तथाच वक्ष्यति-'वायुभक्षो दिवा तिष्ठन्त्रात्रिं नीत्वाप्सु सूर्यदृक्' इति, तत्र यदि हिमवगिरिनिकटवर्तिनामुर्दकवास उपदिश्यते अतिशीताकुलिते वा शिशिरादिकाले तदा प्राणवियोगो भवेदिति तद्देशकालपरिहारेणोदेकवासः कल्पनी. यः। तथा वयोविशेषादपि यदि नवतिवार्षिकादेरपूर्णद्वादशवार्षिकस्य वा द्वाद१ अङ्गवङ्गकलिङ्गांश्च. २ प्रायश्चित्तनिमित्तस्य ख. ३ उदवास ङ. ४ द्वादशवार्षिकादिकं ङ.
For Private And Personal Use Only
Page #498
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
याज्ञवल्क्यस्मृतिः। [प्रायश्चित्ताध्यायः
शाब्दिकं प्रायश्चित्तमुपदिश्यते तदा प्राणा विपद्येरनिति ततोऽन्यवयस्के तत्प्रायश्चित्तं कल्प्यम् । अतएव स्मृत्यन्तरे 'क्वचिदधैं क्वचित्पादः' इति वृद्धादिषु प्रायश्चित्तस्य हासोऽभिहितः तच्च प्राक्प्रपञ्चितम् । तथा धनदानतपश्चरणादिशक्यपेक्षया च नहि निर्धनस्य पात्रे धनं वा पर्याप्तमित्याद्युपपद्यते । तथोद्रिक्तपि. त्तादेर्वा पराकादिकं नापि स्त्रीशूद्रादेजपादिकं । अतएव 'गजादीनामशक्नुवन् । दानं दातुं चरेत्कृच्छ्रमेकैकस्य विशुद्धये' इत्युक्तम् । तथा 'प्रायश्चित्ताधमर्हन्ति स्त्रियो रोगिण एव च' इति तपस्यशक्तस्य स्मृत्यन्तरे प्रायश्चित्तस्य हासोऽभिहितः । तथा पापं च महापातकादिरूपेण सप्रत्ययाप्रत्ययसकृदभ्यासादिरूपेण चावेक्ष्य यत्नतः सकलधर्मशास्त्रपर्यालोचनया प्रायश्चित्तं कल्पनीयम् । तत्राकामतो यद्विहितं तदेव कामकृते द्विगुणं कामतोऽभ्यासे चतुर्गुणमित्येवं स्मृत्यन्तरानुसारेण कल्पनीयम् । तथा-'महापापोपपापाभ्यां योऽभिशंसेन्मृषा परम् । अब्भक्षो मासमासीत' इत्युक्तं, तत्र महापापोपपापयोस्तुल्यप्रायश्चित्तस्यायुक्तत्वान्महापापापेक्षयोपपातके मासिकव्रतस्य हासः कल्पनीयः । यत्र च हसितजृम्भिताकन्दितास्फालनादिनाकस्मात्कुर्यात्तथा । 'नोदन्वतोऽम्भसि नायान्न च श्मश्वादि कर्तयेत् । अन्तर्वत्याः पतिः कुर्वन्नप्रजा भवति ध्रुवम् ॥' इत्यादौ प्रायश्चित्तं नोपदिष्टं तत्रापि देशाद्यपेक्षया प्रायश्चित्तं कल्प्यम् ॥ ननु किंचिदपि निमित्त जातमनुक्तनिष्कृतिकमुपलभ्यते-'प्राणायामशतं कार्य सर्वपापापनुत्तये । उपपातकजातानामनादिष्टस्य चैव हि ॥' इत्यनुक्तनिप्कृतिप्वपि प्रायश्चित्तस्य वक्ष्य. माणत्वात् ॥ गौतमेनाप्येतान्येवानादेशे विकल्पेन क्रियेरन्नित्येकाहादयः प्रतिपादिताः । उच्यते । सत्यमस्त्येव सामान्यतः प्रायश्चित्तोपदेशस्तथापि सर्वत्र देशकालादीनामपेक्षितत्वादस्त्येव कल्पनावसरः । नच हसितादिषु सर्वत्र प्रा. णायामशतं युक्तम् । निमित्तस्य लघुत्वात् । अतः पापापेक्षया हासः कल्पनीयः प्रायश्चित्तान्तरं वा । ननु कथं पापस्य लघुत्वं येन प्रायश्चित्तस्य ह्रासकल्पना स्यात् । नच प्रायश्चित्ताल्पत्वादिति वाच्यम् । अनुक्तनिष्कृतित्वादेव । सत्यम् । किंतु अर्थवादसंकीर्तनाद्बुद्धिपूर्वाबुद्धिपूर्वानुबन्धाद्यपेक्षया च सुबोध एव दोषस्य गुरुलघुभावः। तथा दण्डहासवृद्ध्यपेक्षया च प्रायश्चित्तगुरुलघुभावः । यथा ब्राह्मणावगोरणादौ स. जातीयविषये प्राजापत्यादिकमुक्तम्, तत्र यदाचानुलोम्येन प्रातिलोम्येन वावगोरणादि क्रियते, यदा वा मूर्धावसिक्तादिभिस्तदा दण्डस्य तारतम्यदर्शनादेव दोषाल्पत्वमहत्त्वावगमात्प्रायश्चित्तस्यापि गुरुलधुभावः कल्पनीयः । दर्शितश्च दण्डस्य गुरुलघुभावः 'प्रातिलोम्यापवादेषु द्विगुणस्त्रिगुणो दमः' इत्यादिना ॥ २९३ ॥ ___ एवं महापातकादिभिः पतितस्य प्रायश्चित्तमुक्तं, यस्त्वौद्धत्यादेतन्न चिकीर्षति तस्य किं कार्यमित्यत आह
दासीकुम्भं बहिर्गामानिनयेरन्स्ववान्धवाः ।
पतितस्य बहिः कुर्युः सर्वकार्येषु चैव तम् ॥ २९४ ॥ १ जृम्भितास्फोटनानि ङ, २ दर्शनाघोषाल्पत्व ख.
For Private And Personal Use Only
Page #499
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्तप्रकरणम् ५] मिताक्षरासहिता ।
४६७
जीवत एव पतितस्य ये स्वा ज्ञातयो बान्धवाः पितृमातृपक्षास्ते सर्वे संनिपत्य दासी प्रेष्या तया सपिण्डादिप्रेषितया आनीतमपा पूर्ण कुम्भं घटं मामावहिनिनयेयुः। एतच्चतुर्थ्यादिरिक्तातिथिष्वह्नः पञ्चमे भागे गुर्वादिसंनिधौ कार्यम् । ( ११११८२ )-'पतितस्योदकं कार्य सपिण्डैबर्बान्धवैर्बहिः । निन्दितेऽहनि सायाह्ने ज्ञात्य॒त्विग्गुरुसन्निधौ ॥' इति मनुस्मरणात् ॥ अथवा दास्येव सपिण्डादिप्रयुक्ता निनयेत् यथाह मनुः (११११८३ )-'दासी घटमपां पूर्ण पर्यस्येत्प्रेतवत्पदा । अहोरात्रमुपासीरनाशौचं बान्धवैः सह ॥' इति । प्रेतवदिति दक्षिणामुखापसव्ययोः प्रात्यर्थम् । तच्च निनयनमुदकपिण्डदानादिप्रेतक्रियोत्तरकालं द्रष्टव्यम् । तस्य विद्यागुरुयोनिसंबन्धाश्च संनिपत्य सर्वाण्युदकादीनि प्रेतकर्माणि कुर्युः पात्रं चास्य विपर्यस्येयुः । दासः कर्मकरो वाऽवकरात् पात्रमानीय दासीघटात् पूरयित्वा दक्षिणाभिमुखः पदा विपर्यस्येत् अमुमनुदकं करोमि इति नामग्राहं तं सर्वेऽन्वालभेरन् प्राचीनावीतिनो मुक्तशिखा विद्यागुरवो योनिसंबन्धाश्च वीरन् अप उपस्पृश्य ग्रामं प्रविशेयुः' इति गौतमस्मरणात् । अयं च त्यागो यदि बन्धुभिः प्रेर्यमाणोऽपि प्रायश्चित्तं न करोति तदा द्रष्टव्यः । तस्य गुरोर्बान्धवानां राज्ञश्च समक्षं दोषानभिख्याप्यानुभाष्य पुनः पुनराचारं लभस्वेति, स यद्येवमप्यनवस्थितमतिः स्यात्ततोऽस्य पात्रं विपर्यस्येदिति शङ्खस्मरणात् । ततस्तं लब्धोदकं पतितं सर्वकार्येषु संभाषणसहासनादिषु बहिः कुर्युर्वर्जयेयुः । तथाच मनुः (११।१८४)-'निवर्तेरंस्ततस्तस्मात्संभाषणस. हासने । दायाधस्य प्रदानं च यात्रामेव च लौकिकीम् ॥' इति ॥ यदि स्नेहादिना संभाषणं करोति तदा प्रायश्चित्तं कार्यम् । अत अर्ध्वं तेन संभाष्य तिष्ठेदेकरानं जपन्सावित्रीमज्ञानपूर्व ज्ञानपूर्व चेत्रिरात्रमि' ति ॥ २९४ ॥
यदा तु बन्धुत्यागादन्यथा वा जातवैराग्यः प्रायश्चित्तं च कृतं तदा किं कार्यमित्यत आह
चरितव्रत आयाते निनयेरनवं घटम् ।।
जुगुप्सेरन चाप्येनं संवसेयुश्च सर्वशः ॥२९५॥ कृतप्रायश्चित्ते बन्धुसमीपं पुनरायाते तत्सपिण्डाधास्तेन सहिता नवं अनुपहतं घटं उदकपूर्ण निनयेयुः । एतच्च निनयनं पुण्यहूदादिस्नानोत्तरकालं द्रष्टव्यम्। ( १११८६ )-'प्रायश्चित्ते तु चरिते पूर्ण कुम्भमपां नवम् । तेनैव सार्धं प्रा. स्येयुः स्नात्वा पुण्ये जलाशये ॥' इति मनुस्मरणात् ।गौतमेन तु विशेष उक्तः'यस्तु प्रायश्चित्तेन शुद्ध्येत्तस्मिन् शुद्ध शातकुम्भमयं पात्रं पुण्यतमात् इदात्पूरयित्वा स्रवन्तीभ्यो वा तत एनमप उपस्पर्शयेयुरथास्मै तत्पात्रं दधुस्तरसंप्रतिगृह्य जपेत् 'शान्ता द्यौः शान्ता पृथिवी शान्तं शिवमन्तरिक्षं यो रोचनस्तमिह गृहामि' इत्येतैर्यजुर्भिः पावमानीभिस्तरसमन्दीभिः कूष्माण्डैश्चाज्यं जुहुयाद्धिरण्यं दधानां चाचार्याय । यस्य तु प्राणान्तिकं प्रायश्चित्तं स मृतःशुद्ध्येदेतदेव शान्त्यु१ बान्धवैः सह ङ. २ विपरिषिंचेयुः ङ.
For Private And Personal Use Only
Page #500
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
याज्ञवल्क्यस्मृतिः। [प्रायश्चित्ताध्यायः दकं सर्वेषूपपातकेषु' इति ॥ तत एनं कृतप्रायश्चित्तं ते नैव कुत्सयेयुः । तथा सर्वकार्येषु क्रयविक्रयादिषु तेन सह संव्यवहरेयुः ॥ २९५ ॥ पूर्वोक्तस्य पतितपरित्यागादिविधरतिदेशमाह
पतितानामेष एव विधिः स्त्रीणां प्रकीर्तितः । .वासो गृहान्तिके देयमन्नं वासः सरक्षणम् ॥ २९६ ॥ य एव पुरुषाणां परित्यागे पिण्डोदकदानविधिः कृतप्रायश्चित्तानां परिग्रह विधिश्च स एव स्त्रीणामपि पतितानां वेदितव्यः । इयांस्तु विशेषः । पतिताभ्योऽपि ताभ्यः स्त्रीभ्यः कृतोदकादिकर्मभ्यो वासस्तृणपर्णमयं कुटीगृहकं प्रधानगृहसमीपे देयम् । तथा प्राणधारणमात्रमन्नं मलिनं च वस्त्रं पुनः पुरुपान्तरोएसोगनिवारणसहितं देयम् ॥ २९६ ॥ ननु काः पतितास्ता यासामयं परित्यागविधिरित्यत आह
नीचाभिगमनं गर्भपातनं भर्तहिंसनम् ।
विशेषपतनीयानि स्त्रीणामेतान्यपि ध्रुवम् ॥ २९७ ॥ हीनवर्णगमनं गर्भपातनमब्राह्मण्या अपि भर्तुः अब्राह्मणस्यापि हिंसनमित्येतानि स्त्रीणामसाधारणानि पतननिमित्तानि । अपिशब्दात्पुरुषस्य यानि पतननिमित्तानि महापातकातिपातकानुपातकान्यभ्यस्तानि चोपपातकादीनि तान्यपि स्त्रीणां ध्रुवं निश्चितं पतनकारणानि भवन्ति । अतएव शौनकः-'पुरुषस्य यानि पतननिमित्तानि स्त्रीणामपि तान्येव ब्राह्मणी हीनवर्णसेवायामधिकं पतति' इति ॥ यत्तु वसिष्ठेमोक्तम्-'त्रीणि स्त्रियाः पातकानि लोके धर्मविदो विदुः । भर्तुर्वधो भ्रूणहत्या स्वस्य गर्भस्य पातनम् ॥' इति भ्रूणहत्याग्रहणं कृतं तत् दृष्टान्तार्थं न पुनरितरेषां महापातकादीनां पतनहेतुत्वनिरासार्थम् । यदपि तेनैव'चतवस्तु परित्याज्याः शिष्यगा गुरुगा च या। पतिघ्नी च विशेषेण जुङ्गितोपगता च या ॥' इति । चतसृणामेव परित्याग इत्युक्तं तस्यापि तासां प्रायश्चित्तमचिकीर्षन्तीनां मध्ये चतसृणामेव शिष्यगादीनां चैलानगृहवासादिजीवनहेतुत्वाद्युच्छेदेन त्यागं कुर्यान्चान्यासामित्यभिप्रायः । अतश्चान्यासां पतितानां प्रायश्चित्तमकुर्वतीनामपि 'वासो गृहान्तिके देय'मित्यादिकं कर्तव्यमित्यवगम्यते ॥ २९७ ॥ 'जुगुप्सेरन्न चाप्येनं संविशेयुश्च सर्वश' इत्यस्यापवादमाह
शरणागतबालस्त्रीहिंसकान्संवसेन तु ।
चीर्णव्रतानपि सतः कृतघ्नसहितानिमान् ॥ २९८ ॥ शरणागतादिव्यापादनकारिणः कृतघ्नसहितान्प्रायश्चित्तेन क्षीणदोषानपि न संव्यवहरेदिति वाचनिकोऽयं प्रतिषेधः, किमिति वचनं न कुर्यात्, नहि वचनस्यातिभारोऽस्ति, अतश्च यद्यपि व्यभिचारिणीनां वधेऽल्पीय एव प्रायश्चित्तं तथापि वाचनिकोऽयं संव्यवहारप्रतिषेधः ॥ २९८ ।।
For Private And Personal Use Only
Page #501
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्तप्रकरणम् ५] मिताक्षरासहिता। एवं प्रसङ्गेन स्त्रीषु विशेषमभिधाय प्रकृत एव चरितव्रतविधी विशेषमाह
घटेऽपवर्जिते ज्ञातिमध्यस्थो यवसं गवाम् ।
प्रदद्यात्प्रथमं गोभिः सत्कृतस्य हि सक्रिया ॥२९९ ॥ घटेऽपवर्जिते ह्रदादुद्धृत्य पूर्णे कुम्भेऽवनिनीतेऽसौ चरितव्रतः सपिण्डादिमध्यस्थो गोभ्यो यवसं दद्यात् । ताभिः प्रथमं सत्कृतस्य पूजितस्य पश्चाज्ज्ञातिभिः सक्रिया कार्या। गोभिश्च तस्य सत्कारस्तहत्तयवसभक्षणमेव । यदि गावस्तद्दत्तं यवसं न गृह्णीयुस्तर्हि पुनः प्रायश्चित्तमनुतिष्ठेत् । यदाह हारीतः-'स्वशिरसा यवसमादाय गोभ्यो दद्याद्यदि ताः प्रतिगृह्णीयुरथैनं प्रवर्तयेयुः' इतरथा नेत्यभिप्रेतम् ॥ २९९ ॥
महापातकादिपञ्चविधेऽपि दोषगणे प्रातिस्विकवतसंदोहमभिधायाधुना सकलवतसाधारणं धर्ममाह
विख्यातदोषः कुर्वीत पर्षदोऽनुमतं व्रतम् ।। यो दोषो यावत्कर्तृसंपाधस्ततोऽन्यैर्विख्यातो विज्ञातो दोषो यस्यासौ पर्षदुपदिष्टं व्रतं कुर्यात् । यद्यपि स्वयं सकलशास्त्रार्थविचारचतुरस्तथापि पर्षसमीपमुपगम्य तया सह विचार्य तदनुमतमेव कुर्यात् । तदुपगमने चाङ्गिरसा विशेष उक्त:--'कृते निःसंशये पापे न भुजीतानुपस्थितः । भुञ्जानो वर्धयेत्पापं यावन्नाख्याति पर्षदि ॥ सचैलं वाग्यतः स्नात्वा क्लिन्नवासाः समाहितः। पर्षदानुमतस्तत्त्वं सर्व विख्यापयेन्नरः । व्रतमादाय भूयोपि तथा स्नात्वा व्रतं चरेत् ॥' इति ॥ विख्यापनं च पर्षदक्षिणादानानन्तरं कार्यम् । यथाह पराशरः-पापं विख्यापयेत्पापी दत्त्वा धेनुं तथा वृपम्' इति । एतच्चोपपातकविषयम् । महापातकादिष्वधिकं कल्प्यम् । यत्तुक्तम्-'तस्माद्विजः प्राप्तपापः सकृदाप्लुत्य वारिणि । विख्याप्य पापं पर्षयः किंचिहत्त्वा व्रतं चरेत् ॥' इति तत्प्रकीर्णकविषयम् । पर्षस्वरूपं च मनुना दर्शितम्–'विद्यो हैतुकस्तर्की नैरुक्तो धर्मपाठकः । त्रयश्चाश्रमिणः पूर्वे पर्षदेषा दशावरा ॥' हैतुको मीमांसार्थादितत्वज्ञः । तर्की न्यायशास्त्रकुशलः । तथान्यदपि पर्षद्वयं तेनैव दर्शितम्-'ऋग्वेदविद्यजुर्विच्च सामवेदविदेव च। अपरा पर्षद्विज्ञेया धर्मसंशयनिर्णये ॥' इति । तथा-'ऐकोऽपि वेदविद्धर्म यं व्यवस्येत्समाहितः । स ज्ञेयः परमो धर्मों नाज्ञानामुदितोऽयुतैः ॥' इति । आसां च पर्षदां संभवापेक्षया व्यवस्था महापातकाद्यपेक्षया वा ॥ यत्तु स्मृत्यन्तरेऽभिहितम्-'पातकेषु शतं पर्षसहस्रं महदादिषु । उपपापेषु पञ्चाशत्स्वल्पं स्वल्पे तथा भवेत् ॥' इति, तदपि महापातकादिदोषानुसारेण पर्षदो गुरुलघुभावप्रतिपादनपरं न पुनः संख्यानियमार्थम् । मन्वादिमहास्मृतिविरोधप्रसङ्गात् ॥ तथा देवलेन चान विशेषो दर्शितः
१ विख्यातपापं वक्तृभ्य इति ङ. २ निरुक्तो ङ. ३ एकोऽपि धर्मविद्धर्ममिति पाठः.
For Private And Personal Use Only
Page #502
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४७०
याज्ञवल्क्यस्मृतिः । [ प्रायश्चित्ताध्यायः
स्वयं तु ब्राह्मणा ब्रूयुरल्पदोषेषु निष्कृतिम् । राजा च ब्राह्मणाश्चैव महत्सु च परीक्षितम् ॥' इति तेया च पर्षदा अवश्यं व्रतमुपदेष्टव्यम् —' भार्तानां मार्गमाणानां प्रायश्चित्तानि ये द्विजाः । जानन्तो न प्रयच्छन्ति ते यान्ति समतां तु तैः ॥' इत्यङ्गिरः स्मरणात् । तया पर्षदा ज्ञास्यैव व्रतमुपदेष्टव्यम् - 'अज्ञात्वा धर्मशास्त्राणि प्रायवित्तं ददाति यः । प्रायश्चित्ती भवेत्पूतः किल्बिषं पर्षदं व्रजेत् ॥' इति वसिष्ठस्मरणात् ॥ क्षत्रियादीनां तु कृतैनसां धर्मोपदेशे विशेषोऽङ्गिरसा दर्शितः — 'न्यायतो ब्राह्मणः क्षिप्रं क्षत्रियादेः कृतैनसः । अन्तरा ब्राह्मणं कृत्वा व्रतं सर्वं समादिशेत् । तथा शूद्रं समासाद्य सदा धर्मपुरःसरम् । प्रायश्चित्तं प्रदातव्यं जपहोमविवर्जितम् ॥' इति । तत्र च यागाद्यनुष्ठानशीलानां जपादिकं वाच्यम् । इतरेषां तु तपः । 'कर्मनिष्ठास्तपोनिष्ठाः कदाचित्पापमागताः । जपहोमादिकं तेभ्यो विशेषेण प्रदीयते ॥ ये नामधारका विप्रा मूर्खा धनविवर्जिताः । कृच्छ्रचान्द्रायणादीनि तेभ्यो दद्याद्विशेषतः ॥'
इति प्रकाशप्रायश्चित्तप्रकरणम् ।
अथ रहस्यप्रायश्चित्तम् ।
'व्याख्याय ख्यातदुरितशातनीं व्रतसंततिम् । रहः कृताघसंदोहहारिणीं व्याहरन्मुनिः ॥' तत्र प्रथमं सकल रहस्यव्रतसाधारणं धर्ममाह -
अनभिख्यातदोषस्तु रहस्यं व्रतमाचरेत् ॥ ३०० ॥
कर्तृव्यतिरिक्तैरनभिख्यातो दोषो यस्यासौ रहस्यमप्रकाशं प्रायश्चित्तमनुतिष्ठेत् । अतः स्त्रीसंभोगादौ तस्या अपि कारकत्वात् तदितरैरविज्ञातदोषस्य रहस्यव्रतमिति मन्तव्यम् । अत्र यदि कर्ता स्वयं धर्मशास्त्रकुशलस्तदा परस्मिन्नविभाव्य स्वनिमित्तोचितं प्रायश्चित्तमनुतिष्ठेत् । यस्तु स्वयमनभिज्ञोऽसौ केनचिद्रहो ब्रह्महत्यादिकं कृतं तत्र किं रहस्यप्रायश्चित्तमित्यन्यव्याजेनावगम्य रहोव्रतमनुतिष्ठेत् । अतएव स्त्रीशूद्रयोरप्यमुनैव मार्गेण रहस्यव्रतज्ञानसिद्धेरधिकारसिद्धिः । नच वाच्यं रहस्यव्रतानां जपादिप्रधानत्वादविद्ययोश्व स्त्रीशूद्रयोस्तदनुपपत्तेरनधिकार इति । यतोऽनैकान्ततो रहस्यव्रतानां जपादिप्रधानत्वम् । दानादेरप्युपदेशात् गौतमोक्तप्राणायामादेरपि संभवाच्च । इतरेषामपि मन्त्रदैवतर्षिच्छन्दःपरिज्ञानमात्रमेवाधिकारोपयोगि न त्वन्यविषयम् । नहि तडागनिर्माणादौ ज्योतिष्टोमादिविषयिणी प्रतिपत्तिरुपयुज्यते । देवतादिपरिज्ञानं त्ववश्यमपेक्षणीयम् । - ' अविदित्वा ऋषिं छन्दो दैवतं योगमेव च । योऽध्यापयेज्जपेद्वापि पापीयाञ्जायते तु सः ॥' इति व्यासस्मरणात् ॥ अत्राप्याहारविशेषानुक्तौ पयःप्रभृतयः, कालविशेषानुक्त्तौ संवत्सरादयः, देशविशेषानुक्तौ शिलोच्चयादयो गौतमाद्यभिहिताः प्रकाशप्रायश्चित्तवदन्वेषणीयाः ॥ ३०० ॥
I
१ तथाच पर्षदा ख. २ तथाच ख.
For Private And Personal Use Only
Page #503
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
मिताक्षरासहिता ।
Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्तप्रकरणम् ५ ]
एवं सकलरहस्यसाधारणधर्ममभिधाय प्रकाशप्रायश्चित्तवद्रह्महत्यादिक्रमेणैव
रहस्यप्रायश्चित्तान्याह -
४७१
त्रिरात्रोपोषितो जल्वा ब्रह्महा लघमर्षणम् । अन्तर्जले विशुध्येत देवा गां च पयस्विनीम् ॥ ३०१ ॥
त्रिरात्रमुपोषितोऽन्तर्जलेऽघमर्षणेन महर्षिणा दृष्टं सूक्तं अघमर्षणं 'ऋतं च सत्यं च' इति तृचमानुष्टुभं भाववृत्तदेवताकं जहवा त्रिरात्रान्ते पयस्विनीं गां दत्त्वा ब्रह्महा विशुध्यति । जपश्चान्तर्जले निमग्नेन त्रिरावर्तनीयः । यथाह सुमन्तुः - 'देवद्विजगुरुहन्ताप्सु निमग्नोऽघमर्पणं सूक्तं त्रिरावर्तयेत् । मातरं भगिनीं गत्वा मातृष्वसारं स्पां सखीं वान्यद्वोऽगम्यागमनं कृत्वाऽघमर्षणमेवान्तर्जले त्रिरावर्त्य तदेतस्मात्पूतो भवति' इति । एतच्चाकामकारविषयम् । यत्तु मनुनोक्तम् (११।२४८ ) - ' सव्याहृतिप्रणवकाः प्राणायामास्तु षोडश । अपि भ्रूणहणं मासात्पुनन्त्यहरहः कृताः ॥' इति, तदप्यस्मिन्नेव विषये गोदानाशक्तस्य वेदितव्यम् । यत्तु गौतमेन पत्रिंशद्रात्रव्रतमुक्त्वोक्तं ' तत एव ब्रह्महत्या सुरापानसुवर्णस्तेयगुरुतल्पेषु प्राणायामैः स्नातोऽघमर्षणं जपेत्' इति तदकामतः सकृद्वधविषयम् । यत्तु बौधायनेनोक्तम् । - ' ग्रामात्याचीं वोदीचीं eिaguests areः शुचिः शुचिवासा उदकान्ते स्थण्डिलमुपलिप्य सकृत्किन्नवासाः गोशकृत्पूतेन पाणिनादित्याभिमुखोऽघमर्षणं स्वाध्यायमधीयीत । प्रातः शतं मध्याह्ने शतमपराह्णे शतं परिमितं चोदितेषु नक्षत्रेषु प्रसृतियावकं प्राश्नीयात् । ज्ञानकृतेभ्योऽज्ञानकृतेभ्यश्चोपपातकेभ्यः सप्तरात्रात्प्रमुच्यते द्वादशरात्रान्महापातकेभ्यो ब्रह्महत्यासुरापानसुवर्णस्तेयानि वर्जयित्वा एकविंशतिरात्रेण तान्यपि तरती'ति तत्कामकारविषयम्, अकामतः श्रोत्रियाचार्यसवनस्थवधविषयं वा । यत्तु मनुनोक्तम् ( १२/२५८ ) -- ' अरण्ये वा त्रिरभ्यस्य प्रयतो वेदसंहिताम् । मुच्यते पातकैः सर्वैः पराकैः शोधितस्त्रिभिः ॥' इति, तत्कामतः श्रोत्रियादिवधविषयमितरत्र कामतोऽभ्यासविषयं वा । यत्तु बृहद्विष्णुनोक्तम् - 'ब्रह्महत्यां कृत्वा ग्रामात्प्राचीमुदीचीं वा दिशमुपनिष्क्रम्य प्रभूतेन्धनेनाग्निं प्रज्वाल्याघमर्पणेनाष्टसहस्रमाज्याहुतीर्जुहुयात्तत एतस्मात्पूतो भवति' इति, तन्निगुणवधविषयमनुग्राहक विषयं वा । यत्तु यमेनोक्तम्- 'यहं तूपवसे युक्तत्रिरह्नोऽभ्युपयन्नपः । मुच्यते पातकैः सर्वैस्त्रिर्जपित्वाघमर्पणम् ॥' इति तद्गुणवतो हन्तुर्निर्गुणवधविषयं प्रयोजकानुमन्तृविषयं वा । यत्तु हारीतेनोक्तम् - 'महापातकातिपातकानुपातकोपपातकानामेकतममेव संनिपाते चाघमर्पणमेव त्रिर्जपेत्' इति तन्निमित्तकर्तृविषयम् । एवमन्यान्यपि स्मृतिवाक्यान्यन्विष्यैवमेव विषयेषु विभजनीयानि ग्रन्थगौरवभयान्न लिख्यन्ते । एतदेव व्रतजातं यागस्थ योषित्क्षत्रविदस्वात्रेय्यामाहिताग्निपल्यां गर्भिण्यामविज्ञाते च गर्भे व्यापादिते तुरीयांशन्यून मनुष्ठेयम् ॥ ३०१ ॥
S
१ गां दत्त्वा च पयः ङ. २ न्यद्वा गमनं ख.
३ कामतो वध ख. ४ वासाः सकृत् ख.
For Private And Personal Use Only
Page #504
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४७२
याज्ञवल्क्यस्मृतिः। [प्रायश्चित्ताध्यायः
प्रायश्चित्तान्तरमाह
लोमभ्यः स्वाहेत्यथवा दिवसं मारुताशनः ।
जले स्थित्वाभिजुहुयाचत्वारिंशद्धताहुतीः ॥ ३०२ ॥ अथवाहोरात्रमुपोषितो रात्रावुदके वासं कृत्वा प्रातर्जलादुत्तीर्य लोमभ्यः स्वाहेत्याद्यैरष्टभिर्मत्रैरेकेन पञ्चपञ्चाहुतय इत्येवं चत्वारिंशद्धृताहुतीर्जुहुयात् । इदं च पूर्वोक्तसमानविषयम् । उदवासस्य केशबाहुल्यात् ॥ ३०२ ॥ क्रमप्रारं सुरापानप्रायश्चित्तमाह
त्रिरात्रोपोषितो हुत्वा कूष्माण्डीभिघृतं शुचिः। सुरापश्चत्वारिंशद्धृताहुतीरित्यनुवर्तते । त्रिरात्रमुपोषितः कूष्माण्डीभिः 'यद्देवादेवहेडनमि'त्याद्याभिः कूष्माण्डदृष्टाभिरनुष्टुब्भिर्मनलिङ्गदेवताभिग्भिश्चत्वारिंशद्धृताहुतीर्तुत्वा शुचिर्भवेत् । तथा बौधायनेनाप्युक्तम्-'अथ कूष्माण्डी. भिर्जुहुयाद्योऽपूत एवात्मानं मन्येत यावदाचीनमेनो भ्रूणहत्यायास्तस्मान्मुच्यते । अयोनौ वा रेतः सिक्त्वान्यत्र स्वमात्' इति । यत्तु मनुना (११॥ २४९)-'कौत्सं जप्त्वाप इत्येतद्वासिष्ठं च प्रतीत्युचम् । माहित्रं शुद्धवत्यश्च सुरापोऽपि विशुध्यति ॥' इति । मासं प्रत्यहं षोडशकृत्वोऽपनःशोशुचदधं प्रतिस्तोमेभिरुषसं वासिष्ठम् । महित्रीणामवोस्त्वेतोन्विन्द्रंस्तवामेत्येतेषामन्यतमस्य जप उक्तः स बिरानोपवासकूष्माण्डहोमाशक्तस्य वेदितव्यः । एतच्चाकामतः पैष्ट्याः सकृत्पाने, गौडीमाध्व्योस्तु पानावृत्तौ च वेदितव्यम् । यच्च मनुना ( ११॥२५६)-'मत्रैः शाकलहोमीयैरब्दं हुत्वा घृतं द्विजः । स गुर्वप्यपहन्त्येनो जप्त्वा नम इत्युचम् ॥' इति । संवत्सरं प्रत्यहं 'देवकृतस्यैनसः' इत्यादिभिरष्टभिर्मोमो 'नम इदुग्रं नम आविवासे' इत्येतस्या ऋचो वा जप उक्तः स कामकारविषयः । यत्तु 'महापातकसंयुक्तोऽनुगच्छेद्गाः समाहितः । अभ्यस्याब्दं पावमानीभैंक्षाहारो विशुध्यति ॥' इति तदभ्यासविषयम्, समुच्चितमहापातकविषयं वा ॥ सुवर्णस्तेयप्रायश्चित्तमाह
ब्राह्मणस्वर्णहारी तु रुद्रजापी जले स्थितः॥ ३०३ ॥ ब्राह्मणस्वर्णहारी पुनस्त्रिरात्रोपोषितः जलमध्यस्थो नमस्ते रुद्र मन्यव इति शतरुद्रियजपयुक्तः शुध्यतीति ॥ शातातपेनात्र विशेष उक्तः–'मद्यं पीत्वा गुरुदारांश्च गत्वा स्तेयं कृत्वा ब्रह्महत्यां च कृत्वा । भस्माच्छन्नो भस्मशय्याशयानो रुद्राध्यायी मुच्यते सर्वपापैः ॥' इति । जपश्चैकादशकृत्वः कार्यः । एकादशगुणान्वापि रुद्रानावर्त्य धर्मवित् । महापापैरपि स्पृष्टो मुच्यते नात्र संशयः ॥' इत्यत्रिस्मरणात् ॥ यत्तु मनुना (२१३२५०)-'सकृजवास्यवामीयं शिवसंकल्पमेव च । सुवर्णमपहृत्यापि क्षणाद्भवति निर्मलः ॥' इति द्विपञ्चाशदृक्१ मासं जप्त्वाप इत्येतद्वासिष्ठं च तृचंप्रति । माहित्र्यं शुद्ध ख.
For Private And Personal Use Only
Page #505
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्तप्रकरणम् ५] मिताक्षरासहिता।
४७३
संख्याकस्य 'अस्यवामस्थपलितस्यहोतुः' इति सूक्तस्य तथा 'यजाप्रतोदूरमुदैतुदैवम्' इति शिवससंकल्पदृष्टस्य पऋचस्य वा सकृजप उक्तः सोऽत्यन्तनिर्गुणस्वामिकस्वर्णहरणे गुणवतोऽपहर्तुष्टव्यः । सुवर्णन्यूनपरिमाणविषयोऽनुग्राहकप्रयोजकविपयो वा । आवृत्तौ तु 'महापातकसंयुक्तोऽनुगच्छेत्' इत्यादिनोक्तं द्रष्टव्यम् ॥ ३०३ ॥ क्रमप्राप्तं गुरुतल्पगप्रायश्चित्तमाह
सहस्रशीर्षाजापी तु मुच्यते गुरुतल्पगः।
गौर्देया कर्मणोऽस्यान्ते पृथगेभिः पयस्विनी ॥३०४॥ गुरुतल्पगस्तु सहस्त्रशीति पोडशर्चसूक्तं नारायणदृष्टं पुरुषदैवत्यमानुष्टुभं त्रिष्टुबन्तं जपंस्तस्मात्पापान्मुच्यते । सहस्रशीर्षाजापीति ताच्छील्यप्रत्ययादावृत्तिर्गम्यते । अतएव यमेनोक्तम्- 'पौरुषं सूक्तमावर्त्य मुच्यते सर्वकिल्बिषात्' इति । आवृत्तौ च संख्यापेक्षायामधस्तनश्लोकगता चत्वारिंशत्संख्यानुमीयते । अत्रापि प्राक्तनश्लोकगतं त्रिरात्रोपोषित इति संबध्यते । अतएव बृहद्विष्णुः'त्रिरात्रोपोषितः पुरुषसूक्तजपहोमाभ्यां गुरुतल्पगः शुध्येत्' इति । एभिश्च सुरापसुवर्णस्तेनगुरुतल्पगैस्त्रिभिः पृथक्पृथगस्य त्रिराबवतस्यान्ते बहुक्षीरा गौर्दया । इदमकामविषयम् । यत्तु मनुना (११।२५१)--'हविष्पान्तीयमभ्यस्य नतमंह इतीति च । जप्त्वा तु पौरुषं सूक्तं मुच्यते गुरुतल्पगः ॥' इति । 'हविष्पान्तमजरंस्वर्विदं', 'नतमंहोनदुरितं', 'इति वा इति मे मनः', 'सहस्रशीर्षे'त्येषामन्यतमस्य मासं प्रत्यहं षोडशषोडशकृत्वो जप उक्तः सोऽप्यकामविषय एव । कामतस्तु 'मन्त्रैः शाकलहोमीयैः' इति मनूक्तं द्रष्टव्यम् । यत्तु षट्त्रिंशन्मतेऽभिहितम्'महाव्याहृतिभिर्होमस्तिलैः कार्यों द्विजन्मना । उपपातकशुद्ध्यर्थं सहस्रपरिसंख्यया ॥ महापातकसंयुक्तो लक्षहोमेन शुध्यति ॥' इति. तदावृत्तिविषयम् । यत्तु यमेनोक्तम्-'जपेद्वाप्यस्य वामीयं पावमानीरथापि वा । कुन्तापं वालखिल्यांश्च निवित्प्रैषान्वृषाकपिम् ॥ होतृरुद्रान्सकृजप्त्वा मुच्यते सर्वपातकैः ॥' इति तब्यभिचारिणीगमनविषयम् ॥ यानि पुनः गुरुतल्पातिदेशविषयाणि तत्समानि वातिपातकोपपातकपदाभिधेयानि तेषु तुरीयांशन्यूनमोनं च क्रमेण वेदितव्यम् । पातकातिपातकोपपातकमहापातकानामेकतमे संनिपाते वा अधम
णमेव त्रिजपेदिति हारीतोक्तं वा द्रष्टव्यम् । महापातकसंसर्गिणश्च स तस्यैव व्रतं कुर्यादिति वचनायेन सह संसर्गस्तदीयमेव प्रायश्चित्तम् । नच वाच्यं अत्राध्यापनादिसंसर्गस्यानेककर्तृकसंपाद्यत्वादहस्यत्वानुपपत्तिरिति । यतः सत्यप्यनेककर्तृत्वे परदारगमनवत् कर्तृव्यतिरिक्ततृतीयाद्यपरिज्ञानमात्रेणैव रहस्यत्वम् । अतो भवत्येव रहस्यप्रायश्चित्तम् । एवमतिपातक्यादिसंसर्गिणोऽपि तदीयमेव प्रायश्चित्तं वेदितव्यम् ॥ ३०४ ॥
॥ इति महापातकरहस्यप्रायश्चित्तप्रकरणम् ॥
१ षोडशऋचां चत्वारिंशत्संख्याकजप उक्तः ख.
For Private And Personal Use Only
Page #506
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४७४
याज्ञवल्क्यस्मृतिः। [प्रायश्चित्ताध्यायः क्रमप्राप्तं गोवधादिषट्पञ्चाशदुपपातकप्रायश्चित्तमाह
प्राणायामशतं कार्य सर्वपापापनुत्तये ।
उपपातकजातानामनादिष्टस्य चैव हि ॥ ३०५ ॥ गोवधादिषट्पञ्चाशदुपपातकजातानामनादिष्टरहस्यव्रतानां च जातिभ्रंशकरादीनां सर्वेषामपनुत्तये प्राणायामानां शतं कार्यम् । तथा सर्वेषां महापातकादीनां प्रकीर्णकान्तानामप्यपनुत्तये प्राणायामाः कार्याः । तत्र च महापातकेषु चतुःशतम् , अतिपातकेषु त्रिशतम् , अनुपातकेषु द्विशतमिति संख्याविवृद्धिः कल्पनीया । प्रकाशप्रायश्चित्तेषु महापातकप्रायश्चित्ततुरीयांशस्योपपातकेषु विधानदर्शनात् प्रकीर्णकेषु च ह्रासः कल्प्यः । अतएवोक्तं यमेन–'दशप्रणवसंयुक्तैः प्राणायामैश्चतुःशतैः । मुच्यते ब्रह्महत्यायाः किं पुनः शेषपातकैः ॥' इति । बौधायनेनाप्यत्र विशेष उक्तः-'अपिवाक्चक्षुःश्रोत्रस्वध्राणमनोव्यतिक्रमेषु त्रिभिः प्राणायामैः शुद्ध्यति । शूद्रस्त्रीगमनान्नभोजनेषु पृथक्पृथक् सप्ताह सप्त प्राणायामान्धारयेत् । अभक्ष्याभोज्यामध्यप्राशनेषु तथा वाऽपण्यविक्रयेषु मधुमांसघृततैललाक्षालवणरसामवर्जितेषु यच्चान्यदप्येवं युक्तं स्थावादशाहं द्वादश द्वादश प्राणायामान्धारयेत् । अथ पातकोपपातकवज्यं यच्चाप्यन्यदप्येवं युक्तं स्यादर्धमासं द्वादश द्वादश प्राणायामान्धारयेत् उपपातकपतनीयवर्ज यच्चाप्यन्यदेवं युक्तं स्यान्मासं द्वादशार्धमासान् द्वादशद्वादश प्राणायामान्धारयेत् । अन्यपातकवयं यच्चान्यदप्येवं युक्तं द्वादश अर्धमासान् द्वादश प्राणायामान् धारयेत् । अथ पातकेषु संवत्सरं द्वादशद्वादश प्राणायामान धारयेदिति । तत्र वाक्चक्षुरित्यादिप्राणायामवयं प्रकीर्णकाभिप्रायम् । शूद्रस्त्रीगमनानभोजनेत्यादिनोक्ता एकोनपञ्चाशत्प्राणायामा उपपातकविशेषाभिप्रायाः । तथा अभक्ष्याभो. ज्येत्यादिनोक्ताश्चतुश्चत्वारिंशदधिकशतप्राणायामा अप्युपपातकविशेषाभिप्राया एव । अथ पातकोपपातकवय॑मित्यादिनोक्ताः साशीतिशतप्राणायामा जातिभ्रंशकराद्यभिप्रायाः। अथ पातकपतनीयवर्ण्यमित्यादिनोक्ताः षष्ट्यधिकशतत्यप्राणायामाः गोवधाधुपपातकाभिप्रायाः । अथ पातकवयमित्यादिनोक्ताः पष्ट्यधिकद्विशतसहितद्विसहस्त्रसंख्याकाःप्राणायामाः अतिपातकानुपपातकाभिप्रायाः। अथ पातकेवित्यादिनोक्ता विंशत्यधिकशतत्रययुक्ताश्चतुःसहस्रप्राणायामा महापातकविषयाः । इदं चाभक्ष्यभोज्येत्यादिनोक्तं प्रायश्चित्तपञ्चकमत्यन्ताभ्यासविपयं, समुच्चितविषयं वा । यत्तु मनुना । (११२२५२)—'एनसां स्थूलसूक्ष्माणां चिकीर्षन्नपनोदनम् । अवेत्युचं जपेदब्दं यत्किंचेदमितीति वा ॥' इत्यब्दं यावत्प्रत्यहमर्थान्तराविरुद्धेषु कालेषु 'अवतेहेळोवरुण' इत्यस्या ऋचो 'यत्किंचेदम्' इत्यस्याः, 'इति वा इतिमेमनः' इत्यस्याश्च जप उक्तः सोऽप्यभ्यासविषयः ॥ ३०५॥
१ अर्धमासद्वादशद्वादश ख. २ पातवय॑मित्यादि ख.
For Private And Personal Use Only
Page #507
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्तप्रकरणम् ५] मिताक्षरासहिता । उपपातकसामान्यप्राप्तस्य प्राणायामशतस्यापवादमाह
ओङ्काराभिष्टुतं सोमसलिलं पावनं पिबेत् ।
कृत्वा हि रेतोविण्मूत्रप्राशनं तु द्विजोत्तमः ॥ ३०६ ॥ द्विजो रेतोविण्मूत्रप्राशनं कृत्वा सोमलतारसमोङ्कारेणाभिमन्त्रितं शुद्धिसाधनं पिबेत् । एतच्चाकामकारविषयम् । कामतस्तु सुमन्तूक्तम्-रेतोविण्मूत्रप्राशनं कृत्वा लशुनपलाण्डुगृञ्जनकुम्भिकादीनामन्येषां चाभक्ष्याणां भक्षणं कृत्वा हंसग्रामकुक्कुटश्वसृगालादिमांसभक्षणं च कृत्वा ततः कण्ठमात्रमुदकमवतीर्य शुद्धवतीभिः प्राणायामं कृत्वा महाव्याहृतिभिरुरोगमुदकं पीत्वा तदेतस्मात्पूतो भवतीति । मनुनापि सप्तविधाभक्ष्यभक्षणे प्रायश्चित्तान्तरमुक्तम् (१११२५३)'प्रतिगृह्याप्रतिग्राह्यं भुक्त्वा चान्नं विगर्हितम् । जपंस्तरत्समन्दीयं पूयते मानवस्यहात् ॥' इति । अप्रतिग्राह्यं विषशस्त्रसुरादि पतितादिद्रव्यं च । यदा त्वप्सु रेतोविण्मूत्रादिशारीरं मलं विसृजति तदापि तेनैवोक्तम्-'भप्रशस्तं तु कृत्वाप्सु मासमासीत भैक्ष्यभुक्' इति ॥ ३०६ ॥ अज्ञानकृते प्रकीर्णके मानसे चोपपातके प्रायश्चित्तमाह
निशायां वा दिवा वापि यदज्ञानकृतं भवेत् ।
त्रैकाल्यसंध्याकरणात्तत्सर्वं विप्रणश्यति ॥ ३०७॥ रजन्यां वासरे वा यत्प्रमादकृतं प्रकीर्णकं मानसं वाचिकं चोपपातकं तत्सर्व प्रातर्मध्याह्नादिकालत्रयविहितनित्यसंध्योपासनया प्रणश्यति । तथाच यमः'यदलात्कुरुते पापं कर्मणा मनसा गिरा । आसीनः पश्चिमां संध्यां प्राणायामैनिहन्ति तत् ॥' इति । शातातपेनाप्युक्तम्-'अनृतं मद्यगन्धं च दिवा मैथुनमेव च । पुनाति वृषलान्नं च संध्या बहिरुपासिता ॥' इति ॥ ३०७ ॥ अथ सकलमहापातकादिसाधारणान्पवित्रमन्त्रानाह--
शुक्रियारण्यकजपो गायत्र्याश्च विशेषतः।
सर्वपापहरा ह्येते रुद्रैकादशिनी तथा ॥ ३०८ ॥ शुक्रियं नाम आरण्यकविशेषः विश्वानि देव सवितः' इत्यादिवाजसनेयके पठ्यते, आरण्यकं च यजुः 'ऋचं वाचं प्रपद्ये मनो यजुः प्रपद्ये' इत्यादि तत्रैव पठ्यते तयोर्जपः सकलमहापातकादिहरः । तथा गायत्र्याश्च महापातकेषु लक्षमतिपातकोपपातकयोर्दशसहस्रमुपपातकेषु सहस्रं प्रकीर्णकेषु शतमित्येवं विशेषतो जपः सर्वपापहरः। तथाच गायत्रीमधिकृत्य श्लोकः शङ्खनोक्तः-'शतं जप्ता तु सावित्री महापातकनाशिनी । सहस्रजप्ता तु तथा पातकेभ्यः प्रमोचिनी ॥ दशसाहस्रजाप्येन सैर्वकिल्बिषनाशिनी । लक्षं जप्ता तु सा देवी महापातकनाशिनी ॥ सुवर्णस्तेयकृद्विप्रो ब्रह्महा गुरुतल्पगः । सुरापश्च विशुध्यन्ति लक्षं जलवा न संशयः ॥' इति ॥ यत्तु १ चाभक्ष्यभक्षणं ख. २ सा देवी ङ. ३ कल्मषनाशिनी ङ.
या०४३
For Private And Personal Use Only
Page #508
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४७६
याज्ञवल्क्यस्मृतिः।
[प्रायश्चित्ताध्यायः
चतुर्विंशतिमते उक्तम्-'गायत्र्यास्तु जपन्कोटिं ब्रह्महत्यां व्यपोहति । लक्षाशीतिं जपेद्यस्तु सुरापानाद्विमुच्यते ॥ पुनाति हेमहर्तारं गायत्र्या लक्षसप्ततिः । गायत्र्या लक्षषष्ट्या तु मुच्यते गुरुतल्पगः ॥' इति, तद्गुरुत्वात्प्रकाशविषयम् । तथा रुद्रैकादशिनी एकादशानां रुद्रानुवाकानां समाहारो रुद्रैकादशिनी । साच विशेषतो जप्ता सर्वपापहरा । 'एकादशगुणान्वापि रुद्रानावर्त्य धर्मवित् । म. हन्यः स तु पापेभ्यो मुच्यते नात्र संशयः ॥' इति महापातकेष्वेकादशगुणावृत्तिदर्शनात् अतिपातकादिषु चतुर्थचतुर्थांशहासो योजनीयः । चशब्दोऽघमर्पणादिसमुच्चयार्थः । यथाह वसिष्टः–'सर्ववेदपवित्राणि वक्ष्याम्यहमतः परम् । येषां जपैश्च होमैश्च पूयन्ते नात्र संशयः ॥ अघमर्षणं देवकृतं शुद्धवत्यस्तरसमाः। कूष्माण्ड्यः पावमान्यश्च र्दुर्गा सावित्र्यथैव च ॥ अभीषङ्गाः पैदस्तोमाः सोमानि व्याहतीस्तथा । भौरदण्डानि सामानि गायत्रं रैवतं ती ॥ पुरुषवतं च भासं च तथा देवव्रतानि च । ऑविगं बोर्हस्पत्यं च वाक्सूक्तं मध्वृचस्तथा ॥ शैतरुद्रियाँथर्वशिरास्त्रिसुपर्ण महानतम् । गोसूक्तं चाश्वसूक्तं च इन्द्रशुद्ध च सामनी ॥ त्रीण्याज्यदोहानि रथेन्तरं च अग्नेक्र्तं वामदेव्यं बृहच्च । एतानि गीतानि पुनन्ति जन्तूनातिस्मरत्वं लभते यदीच्छेत् ॥' इति ॥ ३०८ ॥
यत्र यत्र च संकीर्णमात्मानं मन्यते द्विजः ।।
तत्र तत्र तिलैोमो गायच्या वाचनं तथा ॥ ३०९ ॥ किंच । यत्र यत्र च ब्रह्मवधादौ तजनितकल्मषजातेनात्मानं संकीर्णमभिभूतं द्विजो मन्यते तत्र तत्र गायत्र्या तिलैोमः कार्यः । तत्र महापातकेषु लक्षसंख्यया होमः कार्यः । 'गायच्या लक्षहोमेन मुच्यते सर्वपातकैः' इति यमस्मरणात् । अतिपातकादिषु पादपादहासः कल्पनीयः । तथा तिलैवाचनं दानं कार्यम् ।
१ सर्वदेवपवित्राणीति पाठः. २ अघमर्षणमृतं च सत्यमित्यादि. ३ देवकृतं देवकृतस्यैनस इत्यायक. ४ शुद्धवत्यः एतोन्विन्द्रं स्तवामेत्याद्या ऋचः. ५ तरत्समास्तरत्समन्दीत्याचः. ६ कूष्माण्ड्यः यद्देवादेवहेडनमित्याद्याः ७ पावमान्यः स्वादिष्ठया मदिष्ठयेत्याद्याश्चत्वारोऽध्यायाः. ८ दुर्गा जातवेदसे सुनवामेत्यादिसूक्तम्. ९ सावित्रीर्देवस्यत्वेत्याचः. १० अ. भीषङ्गास्तदाख्या मत्रविशेषाः. ११ पदस्तोमाः उत्सोदेवाहिरण्यया इत्यादयः. १२ सामानि साधारणानि. १३ व्याहृतीः भूरग्नये च पृथिव्यै चेत्यादिकाः. १४ भारदण्डानि सामानि अमआयाहीत्यादीनि. १५ गायत्रं सामविशेषः. १६ रैवतं रेवतीनः सधमाद इत्यादि. १७ पुरुषव्रतं वैश्वानरमित्यादि. १८ भासं अग्नेव्रतपत इत्यादि. १९ देवव्रतं अनृतात्सत्यमुपैमीत्यादि. २० आत्विगं ऋत्विग्भ्रषमत्रा बौधायनीयाः. २१ बार्हस्पत्यं बृहस्पते प्रथमं वाचो इत्यादि. २२ वाक्सूक्तं ओष्ठापिधानेत्यादि. २३ मध्वृचः मधुवाता इत्यादयः. २४ शतरुद्रियं नमस्ते रुद्र मन्यव इत्यादि. २५ अथर्वशिरः देवा ह वै स्वर्गमित्यादि. २६ त्रिसुपर्ण ब्रह्ममेतुमामित्यादि. २७ महाव्रतं अथ महाव्रतमित्यादि. २८ गोसूक्तं आगावो अग्मन्नित्यादि. २९ अश्वसूक्तं अयं ते अस्तु हर्यत इत्यादि. ३० इन्द्राय सामगायतेत्याये इन्द्रशुद्धसामनी. ३१ आज्यदोहमित्यादीनि त्रीण्याज्यदोहानि. ३२ रथन्तरं सामविशेषः. ३३ अग्नेव्रतम्. ३४ वामदेव्यं कयानश्चित्र इत्यादि. ३५ बृहत्साम सामविशेषः. ३६ दोषजातेन ख. ३७ गायत्र्या लक्षहोमः ख. ३८ वाचनं दानं तिलैरित्यत्रापि संबध्यते. तिलदाननित्यर्थः.
For Private And Personal Use Only
Page #509
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्तप्रकरणम् ५] मिताक्षरासहिता ।
४७७
तथाच रहस्याधिकारे वसिष्ठः - 'वैशाख्यां पौर्णमास्यां तु ब्राह्मणान्संप्त पञ्च वा । क्षौद्रयुक्तैस्तिलैः कृष्णैर्वाचयेदथवेतरैः ॥ प्रीयतां धर्मराजेति यद्वा मनसि वर्तते । यावज्जीवकृतं पापं तत्क्षणादेव नश्यति ॥' इति ॥ तथा अनियतकालेऽपि दानं तेनैवोक्तम्- 'कृष्णाजिने तिलान्कृत्वा हिरण्यं मधुसर्पिषी । ददाति यस्तु विप्राय सर्व तरति दुष्कृतम् ॥' इति । तथा व्यासेनाप्युक्तम्- 'तिलधेनुं च यो दद्यात्संयतात्मा द्विजन्मने । ब्रह्महत्यादिभिः पापैर्मुच्यते नात्र संशयः ॥' इति । एवमादि दानजातं रहस्यकाण्डोक्तमविदुषां द्विजानां स्त्रीशूद्रयोश्च वेदितव्यम् । यत्तु यमेनोक्तम्- 'तिलान्ददाति यः प्रातस्तिलान्स्पृशति खादति । तिलस्नायी तिलान्जुह्वन्सर्व तरति दुष्कृतम् ॥' तथा - 'द्वे चाष्टम्यौ तु मासस्य चतुर्दश्यौ तथैव च । अमावास्या पौर्णमासी सप्तमी द्वादशद्वयम् ॥ संवत्सरमभुञ्जानः सततं विजितेन्द्रियः । मुच्यते पातकैः सर्वैः स्वर्गलोकं च गच्छति ॥' इति । यच्चात्रिणोक्तम्- 'क्षीराब्धौ शेषपर्यङ्के त्वाषाढ्यां संविशेद्धरिः। निद्रां त्यजति कार्तिक्यां तयोः संपूजयेद्धरिम् ॥ ब्रह्महत्यादिकं पापं क्षिप्रमेव व्यपोहति ॥ इत्येवमादि तत्सर्वं विद्याविरहिणां कामाकामसकृदसकृदभ्यासविषयतया व्यवस्थापनीयम् ॥ ३०९ ॥
वेदाभ्यासरतं क्षान्तं पञ्चयज्ञक्रियापरम् ।
न स्पृशन्तीह पापानि महापातकजान्यपि ॥ ३१० ॥
किंच | 'वेदस्वीकरणं पूर्व विचारोऽभ्यसनं जपः । तद्दानं चैव शिष्येभ्यो वेदाभ्यासो हि पञ्चधा ॥' इत्युक्तक्रमेण वेदाभ्यासनिरतं तितिक्षायुक्तं पञ्चमहायज्ञानुष्ठाननिरतं महापातकजान्यपि पापानि न स्पृशन्ति । किमुत प्रकीर्णकजानि वाङ्मनसजन्योपपातकानि चेत्यत्र तात्पर्यमपिशब्दालक्ष्यते । एतच्चाकामकारविषयम् । अतएव वसिष्ठेन - ' यद्यकार्यशतं साग्रं कृतं वेदश्व धार्यते । सर्वं तत्तस्य वेदाग्निर्दहत्यग्निरिवेन्धनम् ॥' इति प्रकीर्णकाद्यभिप्रायेणाभिधायाभिहितम् - 'न वेदबलमाश्रित्य पापकर्मरतिर्भवेत् । अज्ञानाच्च प्रमादाच्च दह्यते कर्म नेतरत् ॥' इति ॥ ३१० ॥
वायुभक्षो दिवा तिष्ठन् रात्रिं नीत्वाप्सु सूर्यदृक् ।
जत्वा सहस्रं गायत्र्याः शुद्धह्मवधाते || ३११ ॥
किंच | सोपवासो वासरमुपविशन् उषित्वा सलिले वसन्निशां नीत्वादित्योदयानन्तरं सावित्र्याः सहस्रं जहवा ब्रह्मवधव्यतिरिक्त सकलमहापातकादिपापजातान्मुच्यते । अतश्चोपपातकादिष्वभ्यासेऽनेकदोषसमुच्चये वा वेदितव्यम् । विषमविषयसमीकरणस्यान्याय्यत्वात् । अतएव वृद्धवसिष्ठेन महापातकोपपातकयोः कालविशेषेण व्रतविशेष उक्तः । यथाह - 'यवानां प्रसृतिमञ्जलिं वा श्रप्यमाणं शैतं वाभिमन्त्रयेत् 'यवोऽसि धान्यराजस्त्वं वारुणो मधुसंयुतः ।
१ पञ्चसप्त च ख. २ किल्बिषं ङ. ३ घृतं चाभिमन्त्रयेत् ख.
For Private And Personal Use Only
Page #510
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४७८
याज्ञवल्क्यस्मृतिः ।
[प्रायश्चित्ताध्यायः
निर्णोदः सर्वपापानां पवित्रमृषिभिः स्मृतम् ॥' इत्यनेन । 'घृतं यवा मधुयवाः पवित्रममृतं यवाः । सर्व पुनन्तु मे पापं वाङ्मनः काय संभवम् ॥' इत्यनेन वा । 'अभिकार्य तु कुर्वीत तेन भूतबलिं तथा । नाग्रं न भिक्षां नातिथ्यं न चोच्छिष्टं परित्यजेत् ॥' 'ये देवा मनोजाता मनोयुजः सुदक्षा दक्षपितरस्ते नः पान्तु ते नोऽवन्तु तेभ्यो नमस्तेभ्यः स्वाहा' इत्यात्मनि जुहुयात्रिरात्रं मेधाभिवृद्धये पापक्षयाय त्रिरात्रं ब्रह्महत्यादिषु द्वादशरात्रं पतितोत्पन्नश्चेत्येतद्दिगवलम्बनेनान्यान्यपि स्मृतिवचनानि विवेचनीयानि ॥ ३११ ॥
इति रहस्यप्रायश्चित्तप्रकरणम् । विनियुक्तव्रतव्रातरूपभेदे बुभुत्सिते । areक्षमिति संक्षेपलक्षणं वक्ष्यतेऽधुना ॥
तत्र तावत्सकलप्रकाशरहस्यव्रताङ्गभूतान्धर्मानाह - ब्रह्मचर्य दया क्षान्तिर्दानं सत्यमकल्कता । अहिंसा स्तेयमाधुर्ये दमवेति यमाः स्मृताः ॥ ३१२ ॥ स्नानं मौनोपवासेज्यास्वाध्यायोपस्थनिग्रहाः । नियमा गुरुशुश्रूषा शौचाक्रोधाप्रमादता ।। ३१३ ॥
I
ब्रह्मचर्यं सकलेन्द्रियसंयमः । उपस्थनिग्रहो लिङ्गनिग्रहः गोबलीवर्दन्यायेन निर्दिष्टः । अकल्कता अकुटिलता । शेषं प्रसिद्धम् । यत्पुनर्मनुनोक्तम्- 'अहिंसा सत्यमक्रोधमार्जवं च समाचरेत्' इति तदप्येतेषामुपलक्षणं न परिगणनाय । अत्रच दयाक्षान्त्यादीनां पुरुषार्थतया प्राप्तानामपि पुनर्विधानं प्रायश्चित्ताङ्गत्वार्थम् । क्वचिद्विशेषोऽप्यस्ति । यथा विवाहादिष्वभ्यनुज्ञातस्याप्यनृतवचनस्य निवृत्त्यर्थं सत्यत्वविधानम् । पुत्रशिष्यादिकमपि न ताडनीयमित्येवमर्थमहिंसाविधानमित्येवमादि ॥ ३१२ ॥ ३१३ ॥
तत्र सान्तपनाख्यं व्रतं तावदाह
गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् ।
जग्ध्वा परेह्रयुपवसेत्कृच्छ्रं सान्तपनं चरन् ॥ ३१४ ॥ पूर्वेद्युराहारान्तरपरित्यागेन गोमूत्रादीनि पञ्चगव्यानि पञ्चद्रव्याणि कुशोदकसहितानि संयुज्य पीत्वा अपरेद्युरुपवसेदिति द्वैरात्रिकः सान्तपनः कृच्छ्रः । संयोजनं चोत्तरश्लोके पृथग्विधानादवगम्यते । कृच्छ्र इति चान्वर्थसंज्ञेयम् । तपोरूपत्वेन क्लेशसाध्यत्वात् । गोमूत्रादीनां परिमाणं वक्ष्यते । यदा पुनः पूर्वे -
रुपयापरेद्युः समत्रकं संयुज्य समन्त्रकमेव पञ्चगव्यं पीयते तदा ब्रह्मकूर्च इत्याख्यायते । यथाह पाराशरः - 'गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् । निर्दिष्टं पञ्चगव्यं तु प्रत्येकं कायशोधनम् ॥ गोमूत्रं ताम्रवर्णायाः श्वेताया२ द्वैरात्रः ख. ३ सांतपनं ४ पवित्रं कायशोधनमिति पाठः ङ.
१ परम् ख.
For Private And Personal Use Only
Page #511
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्तप्रकरणम् ५] मिताक्षरासहिता ।
४७९
चापि गोमयम् । पयः काञ्चनवर्णाया नीलायाश्च तथा दधि ॥ घृतं च कृष्णवयाः सर्व कापिलमेव च । अलाभे सर्ववर्णानां पञ्चगव्येष्वयं विधिः ॥ गोमूत्रं arearraष्ट गोमयस्य तु षोडश । क्षीरस्य द्वादश प्रोक्ता दध्नस्तु दश कीर्तिताः ॥ गोमूत्रवद्धृतस्येष्टस्तदर्धे तु कुशोदकम् । गायत्र्यादाय गोमूत्रं गन्धद्वारेति गोमयम् । आप्यायस्वेति च क्षीरं दधिक्राव्णेति वै दधि ॥ तेजोसिशुक्रमित्याज्यं देवस्यत्वा कुशोदकम् । पञ्चगव्यमृचा पूतं होमयेदग्निसंनिधौ ॥ सप्तपत्राश्च ये दर्भा अच्छिन्नानाः शुचित्विषः । एतैरुद्धृत्य होतव्यं पञ्चगव्यं यथाविधि ॥ इरावती इदं विष्णुर्मानस्तोके च शंवतीः । एताभिश्चैव होतव्यं हुतशेषं पिबेद्विजः ॥ प्रणवेन समालोड्य प्रणवेनाभिमत्र्य च । प्रणवेन समुद्धृत्य पिबेत्तत्प्रणवेन तु ॥ मध्यमेन पलाशस्य पद्मपत्रेण वा पिबेत् । स्वर्णपात्रेण रौप्येण ब्राह्मतीर्थेन वा पुनः ॥ यत्त्वगस्थिगतं पापं देहे तिष्ठति मानवे । ब्रह्मकूर्चोपवासस्तु दहत्यग्निरिवेन्धनम् ॥' इति ॥ यदा खेतदेव मिश्रितं पञ्चगव्यं त्रिरात्रमभ्यस्यते तदा यति सान्तपनसंज्ञां लभते - 'एतदेव त्र्यहाभ्यस्तं यतिसान्तपनं स्मृतम्' इति शङ्खस्मरणात् ॥ जाबालेन तु सप्ताहसाध्यं सान्तपनमुक्तम् - गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् । एकैकं प्रत्यहं पीत्वा स्वहोरात्रमभोजनम् । कृच्छ्रं सान्तपनं नाम सर्वपापप्रणाशनम् ॥' इति ॥ एषां च गुरुलघुकृच्छ्राणां शक्त्याद्यपेक्षया व्यवस्था विज्ञेया । एवमुत्तरन्नापि व्यवस्था बोद्धव्या ॥ ३१४ ॥ महासान्तपनाख्यं कृच्छ्रमाह
पर्णकृच्छ्राख्यं व्रतमाह
पृथक्सान्तपनद्रव्यैः षडहः सोपवासकः ।
सप्ताहेन तु कृच्छ्रोऽयं महासान्तपनः स्मृतः ॥ ३१५ ॥ सप्ताहेनापवर्जितो महासान्तपनाख्यः कृच्छ्रो विज्ञेयः । कथमित्यपेक्षायामुक्तं पृथग्भूतैः षद्भिर्गोमूत्रादिभिरेकै केनैकैकमहरतिवाहयेत् सप्तमं चोपवासेनेति । यमेन तु पञ्चदशाह संपाद्येो महासान्तपनोऽभिहितः - 'यहं पिबेत्तु गोमूत्रं त्र्यहं वै गोमयं पिबेत् । त्र्यहं दधि त्र्यहं क्षीरं त्र्यहं सर्पिस्ततः शुचिः ॥ महासान्तपनं ह्येतत्सर्वपापप्रणाशनम् ॥' इति ॥ जाबालेन त्वेकविंशतिरात्रिनिर्वयों महासान्तपन उक्तः – 'पण्णामेकैकमेतेषां त्रिरात्रमुपयोजयेत् । त्र्यहं चोपवसेदन्त्यं महासान्तपनं विदुः ॥' इति ॥ यदा तु षण्णां सान्तपनद्रव्याणामेकैकस्य यहमुपयोगस्तदा अतिसान्तपनम् । यथाह यमः - 'एतान्येव तथा पेयान्येकैकं तु व्यहं व्यहम् । अतिसान्तपनं नाम श्वपाकमपि शोधयेत् ॥' इति । श्वपाकमपि शोधयेदित्यर्थवादः ॥ ३१५ ॥
इति महासांत पनातिसांतपने ।
पर्णोदुम्बरराजीव विल्व पत्रकुशोदकैः ।
प्रत्येकं प्रत्यहं पीतैः पर्णकृच्छ्र उदाहृतः ।। ३१६ ॥
१ अच्छिनायाः कुशाः स्थिता इति पाठः. २ ताम्रेण ख. ३ पेयादेकैकं ख.
For Private And Personal Use Only
Page #512
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
४८०
याज्ञवल्क्यस्मृतिः ।
[ प्रायश्चित्ताध्यायः
पलाशोदुम्बरारविन्द श्रीवृक्षपर्णानामेकैकेन कथितमुदकं प्रत्यहं पिबेत् । कुशोदकं चैकस्मिन्नहनीति पञ्चाहसाध्यः पर्णकृच्छ्रः । यदा तु पर्णादीनामेकी कृतानां काथस्त्रिरात्रान्ते पीयते तदा पर्णकूर्चः । यथाह यमः - ' एतान्येव समस्तानि त्रिरात्रोपोषितः शुचिः । क्वाथयित्वा पिवेदद्भिः पर्णकूचऽभिधीयते ॥' इति । यदा तु बिल्वादिफलानि प्रत्येकं कथितानि मासं पीयन्ते तदा फलकृच्छ्रादिव्यपदेशं लभन्ते । यथाह मार्कण्डेयः - 'फलैर्मासेन क्वथितः फलकृच्छ्रो मनीषिभिः । श्रीकृच्छ्रः श्रीफलैः प्रोक्तः पद्माक्षैरपरस्तथा ॥ मासेनामलकैरेवं श्रीकृच्छ्रमपरं स्मृतम् । पत्रैर्मतः पत्रकृच्छ्रः पुष्पैस्तत्कृच्छ्र उच्यते ॥ मूलकृच्छ्रः स्मृतो मूलैस्तो कृच्छ्रो जलेन तु ॥ ' इति ॥ ३१६ ॥
इति पर्णकृच्छ्र एकादशविधः ।
तप्तकृच्छ्रमाह
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तप्तक्षीरघृताम्बूनामेकैकं प्रत्यहं पिबेत् । एकरात्रोपवासश्च तप्तकृच्छ्र उदाहृतः ॥ ३१७ ॥
पादकृच्छ्रमाह
दुग्धसर्पिरुदकानां तप्तानामेकैकं प्रतिदिवस प्राश्यापरेद्युरुपवसेत् । एष दिवसचतुष्टयसंपाद्यो महातप्तकृच्छ्रः । एभिरेव समस्तैः सोपवासैर्द्विरात्र संपाद्यः सान्तपनवत्तप्तकृच्छ्रः । मनुना तु द्वादशरात्रनिर्वत्यऽभिहितः ( ११२१४ ॥ - 'तप्तकृच्छ्रं चरन्विप्रो जलक्षीरघृतानिलान् । प्रतित्र्यहं पिबेदुष्णान्सकृत्स्नायी स माहिताः ॥ ' इति । क्षीरादिपरिमाणं तु पराशरेणोक्तं द्रष्टव्यम् । 'अपां पिबेत्तु त्रिपलं द्विपलं तु पयः पिबेत् । पलमेकं पिबेत्सर्पिखिरात्रं चोष्णमारुतम् ॥' इति । त्रिरात्रमारुतस्य पूरणे उष्णोदकबाष्पं पिबेदित्यर्थः । यदा तु शीतं क्षीरादि पीयते तदा शीतकृच्छ्रः । - 'यहं शीतं पिबेत्तोयं त्र्यहं शीतं पयः पिबेत् । त्र्यहं शीतं घृतं पीत्वा वायुभक्षः परं त्र्यहम् ॥' इति यमस्मरणात् ॥ ३१७ ॥ इति तप्तकृच्छ्रश्चतुर्विधः ।
एकभक्तेन नक्तेन तथैवायाचितेन च ।
उपवासेन चैवायं पादकृच्छ्रः प्रकीर्तितः ॥ ३१८ ॥
एकभक्तेन सकृद्धोजनेन दिवैव । नक्तेनेति पृथगुपादानात् । अतश्च दिवैवैकवारमेव भोजनेनैवैकमहोरात्रमतिवाहयेदिति । तत्र दिवेति रात्रिव्युदासः । एक. वारमिति द्विवारा दिव्युदासः । भोजनेनेत्यभोजनव्युदासः । एतच्च कृच्छ्रादीनां व्रतरूपत्वात् पुरुषार्थ भोजनपर्युदासेन कृच्छ्राङ्गभूतं भोजनं विधीयते । तथाचापस्तम्बः – 'त्र्यहमनक्ताश्यदिवाशी च ततख्यहं । त्र्यहमयाचितव्रतरुयहं नाश्नाति किंचन' इति । अत्र चानक्ताशीत्यनेन व्रतविहितेन णिनिप्रत्ययेन नक्तपर्युदासेन दिवाभोजननियमं दर्शयति । गौतमेनापीदमेव स्पष्टीकृतम्' हविष्यान्प्रातरा
१ त्रिरात्रस्य मारुतस्य ख.
For Private And Personal Use Only
Page #513
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्तप्रकरणम्'५] मिताक्षरासहिता।
४८१
शान्भुक्त्वा तिस्रो रात्री श्नीयात्' इति । एवं नक्तभोजनविधावपि । न विद्यते याचितं यस्मिन्भोजने तदयाचितम् । तेन कालविशेषानुपादानाद्दिवा रात्रौ वा सकृदित्येव । तपोरूपत्वात्कृच्छ्राणां द्वितीयभोजने तदनुपपत्तेः । अयाचितमिति न केवलं परकीयानयाचनप्रतिषेधोऽपि तु स्वकीयमपि परिचारकभार्यादिभ्यो न याचितव्यम् । प्रेषणाध्येषणयोः साधारणत्वाद्याच्जायाः। अतः स्वगृहेऽपि भृत्यभार्यादयोऽनाज्ञप्ता एव यदि भोजनमुपहरन्ति तर्हि भोक्तव्यं नान्यथा । अमुनैवामिप्रायेणोक्तं गौतमेन-'अथापरं व्यहं न कंचन याचेत' इति । अत्र च ग्राससंख्यानियमः पराशरेण दर्शितः-'सायं तु द्वादश ग्रासाः प्रातः पञ्चदश स्मृताः । चतुर्विंशतिरायाच्याः परं निरशनं स्मृतम् ॥' इति ॥ आपस्तम्बेन त्वन्यथोक्तम्-'सायं द्वाविंशतिसाः प्रातः पड्विंशतिः स्मृताः । चतुर्विंशतिरायाच्याः परं निरशनास्त्रयः । कुक्कुटाण्डप्रमाणास्तु यथा वास्यं विशेत्सुखम् ॥' इति ॥ अनयोश्च कल्पयोः शक्त्यपेक्षया विकल्पः। आपस्तम्बेन तु प्राजापत्यप्रायश्चित्तं चतुर्धा विभज्य चतुरः पादकृच्छ्रान्कृत्वा वर्णानुरूपेण व्यवस्था दर्शिता-'म्यहं निरशनं पादः पादश्चायाचितं व्यहम् । सायं त्र्यहं तथा पादः पादः प्रातस्तथा व्यहम् ॥ प्रातः पादं चरेच्छूद्रः सायं वैश्ये तु दापयेत् । अयाचितं तु राजन्ये त्रिरात्रं ब्राह्मणे स्मृतम् ॥' इति ॥ यदा त्वयाचितोपवासात्मकत्र्यहवयानुष्ठानं तदार्धकृच्छ्रः । सायंव्यतिरिक्तापरत्र्यहनयानुष्ठानं तु पादोनमिति विज्ञेयम् । 'सायंप्रातर्विनाथू स्यात्पादोनं नक्तवर्जितम्' इति तेनैवोक्तत्वात् ॥ अर्धकृच्छ्रस्य प्रकारान्तरमपि तेनैव दर्शितम्-'सायं प्रातस्तथैकैकं दिनद्वयमयाचितम् । दिनद्वयं च नाश्नीयात्कृच्छ्रार्ध तद्विधीयता ॥' इति ॥ ३१८॥ प्राजापत्यं कृच्छ्रमाह
यथाकथंचित्रिगुणः प्राजापत्योऽयमुच्यते । अयमेव पादकृच्छ्रः यथाकथंचिद्दण्डकलितवदावृत्त्या स्वस्थानविवृद्ध्या वा, तत्राप्यानुलोम्येन प्रातिलोम्येन वा तथा वक्ष्यमाणजपादियुक्तं तद्रहितं वा त्रिरभ्यस्तः प्राजापत्योऽभिधीयते । तत्र दण्डकलितवदावृत्तिपक्षो वसिष्ठेन प्रदर्शितः- 'अहः प्रातरहर्नक्तमहरेकमयाचितम् । अहः पराकं तत्रैकमेवं चतु. रहौ परौ ॥ अनुग्रहार्थं विप्राणां मनुर्धर्मभृतां वरः । बालवृद्धातुरेष्वेवं शिशुकृ. च्छ्रमुवाच ह ॥' इति ॥ आनुलोम्येन स्वस्थानविवृद्धिपक्षस्तु मनुना दर्शितः (१११२११)-'यहं प्रातस्यहं सायं त्र्यहमद्यादयाचितम् । परं व्यह च नाश्नीयात्प्राजापत्यं चरन्द्विजः ॥' इति ॥ प्रातिलोम्यावृत्तिस्तु वसिष्ठेन दर्शिता-'प्रातिलोम्यं चरेद्विप्रः कृच्छ्रे चान्द्रायणोत्तरम्' इति । जपादिरहितपक्षस्तु स्त्रीशूद्रादिविषयेऽङ्गिरसा दर्शितः–'तस्माच्छूद्रं समासाद्य सदा ध. र्मपथे स्थितम् । प्रायश्चित्तं प्रदातव्यं जपहोमादिवर्जितम् ॥' इति । जपादियु. क्तपक्षस्तु पारिशेष्याद्योग्यतया च त्रैवर्णिकविषयः । सच गौतमादिभिर्दर्शितः-'अथातः कृच्छ्रान्व्याख्यास्यामो हविष्यान्प्रातराशान्भुक्त्वा तिस्रो रात्री
For Private And Personal Use Only
Page #514
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
४८२
Acharya Shri Kailassagarsuri Gyanmandir
याज्ञवल्क्यस्मृतिः ।
[ प्रायश्चित्ताध्यायः
श्रीयादथापरं त्र्यहं नक्तं भुञ्जीताथापरं त्र्यहं न कंचन याचेताथापरं त्र्यहमुपवसंस्तिष्ठेदहनि रात्रावासीत क्षिप्रकामः सत्यं वदेदनायैः सह न भाषेत रौरव - योधां जपे नित्यं प्रयुञ्जीतानुसवनमुदकोपस्पर्शनमापोहिष्टेति तिसृभिः पवित्रवतीभिर्मार्जीत हिरण्यवर्णाः शुचयः पावका इत्यष्टाभिरथोदकतर्पणम् । नमोहमाय मोहमाय महमाय धन्वने तापसाय पुनर्वसवे नमः मौञ्ज्याय औम्यय वसुविन्दाय सर्वविदाय नमः । पाराय सुपाराय महापाराय पारदाय परपाराय पारयिष्णवे नमः । रुद्राय पशुपतये महते देवाय त्र्यम्बकायैकचरायाधिपतये हराय शर्वायाघनाशनायोप्राय वज्रिणे घृणिने कपर्दिने नमः सूर्यायादित्याय नमः । नीलग्रीवाय शितिकण्ठाय नमः । कृष्णाय पिङ्गलाय नमः । ज्येष्टाय श्रेष्ठाय वृद्धायेन्द्राय हरिकेशायोर्ध्वरेतसे नमः । सत्याय पावकाय पावकवर्णायैकवर्णाय कामाय कामरूपिणे नमः । दीप्ताय दीप्तरूपिणे नमः | तीक्ष्णाय तीक्ष्णरूपिणे नमः | सौम्याय सुपुरुषाय महापुरुषाय मध्यमपुरुषाय उत्तमपुरुषाय ब्रह्मचारिणे नमः । चन्द्रललाटाय कृत्तिवाससे नम इति । एतदेवादित्योपस्थानमेता एवाज्याहुतयो द्वादशरात्रस्यान्ते चरुं श्रपयित्वा एताभ्यो देवताभ्यो जुहुयादनये स्वाहा सोमाय स्वाहाझीपोमाभ्यामिन्द्राग्निभ्यामिन्द्राय विश्वेभ्योदेवेभ्यो ब्रह्मणे प्रजापतये नये स्विष्टकृते इति अन्ते ब्राह्मणभोजनम्' इति । तत्र तिष्ठेदहनि रात्रावासीत क्षिप्रकाम इत्यस्यार्थः । यस्तु महतोऽप्येनसः क्षिप्रमेकेनैव कृच्छ्रेण क्षिप्रं मुच्येयमित्येवं कामयते असावहनि कर्माविरुद्धेषु कालेषु तिटेद्रात्रावासीत । एवं रौरवयोधाख्यसामजपो नमोहमायेत्यादिभिस्तर्पणमादित्योपस्थानादिकं चरुश्रपणादिकं च योगीश्वराद्यनुक्तं क्षिप्रकामः कुर्वीत । अतश्व योगीश्वरायुक्तप्राजापत्यद्वयस्थाने गौतमीयमनेकेतिकर्तव्यतासहितं द्रष्टव्यम् । एवमन्यान्यपि स्मृत्यन्तरोक्तानि विशेषेणान्वेषणीयानि ॥
अतिकृच्छ्रमाह
अयमेवातिकृच्छ्रः स्यात्पाणिपूरान्न भोजनः ॥ ३१९ ॥
एतद्धर्मक एव एकभक्तादिप्राजापत्यधर्मयुक्तोऽतिकृच्छ्रः स्यात् । इयांस्तु विशेषः । आये त्र्यहत्रये पाणिपूरणमात्रमन्नं भुञ्जीत न पुनर्द्वाविंशत्यादिप्रासान् । अत्र च प्राप्तभोजनानुवादेन पाणिपूरान्नविधानादन्त्यत्र्यहेऽति देशप्राप्त उपवासोऽप्रतिपक्ष एव । अत्रापि पादशो व्यवस्था पूर्ववदेव द्रष्टव्या । यत्तु मनुनोक्तम् ( ११।२१३ ) - 'एकैकं प्रासमश्नीयात्र्यहाणि त्रीणि पूर्ववत् । त्र्यहं चोपवसे दन्त्यमतिकृच्छ्रं चरन् द्विजः ॥' इति तत्पाणिपूरा अपरिमितादल्पत्वाच्छक्तविषयम् ॥३१९॥ कृच्छ्रातिकृच्छ्रमाह
कृच्छ्रातिकृच्छ्रः पयसा दिवसानेकविंशतिम् ।
एकविंशतिरात्रं पयसा वर्तनं कृच्छ्रातिकृच्छ्राख्यं व्रतं विज्ञेयम् । गौतमेन तु द्वादशरात्रमुदकेन वर्तनं कृच्छ्रातिकृच्छ्र उक्तः 'अब्भक्षस्तृतीयः स कृच्छ्रातिकृच्छ्रः' इति । अतश्च शक्त्यपेक्षयाऽनयोर्व्यवस्था ||
१ विशेषेणान्तराण्यन्वेषणीयानि ङ. २ परिमितत्वात् ख ३ तिकृच्छ्रमित्युक्तं.
For Private And Personal Use Only
Page #515
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्तप्रकरणम् ५ ] मिताक्षरासहिता । ४८३ पराकमाह
द्वादशाहोपवासेन पराकः परिकीर्तितः॥ ३२० ॥ ऋज्वर्थोऽयमर्धश्लोकः ॥ ३२० ॥ सौम्यकृच्छ्रमाह
पिण्याकाचामतकाम्बुसक्तूनां प्रतिवासरम् ।
एकरात्रोपवासश्च कृच्छ्र: सौम्योऽयमुच्यते ॥ ३२१॥ पिण्याको निःसृततैलस्तिलओदननिस्रावोदश्विदुदकसक्तूनां पञ्चानामेकैकं प्रतिदिवसमुपभुज्य षष्ठेऽह्नि उपवसेदेष सौम्याख्यः कृच्छ्रोऽभिधीयते । द्रव्यपरिमाणं तु प्राणयात्रामात्रनिबन्धनमधिगन्तव्यम् । जाबालेन तु चतुरहापी सौम्यकृच्छ्र उक्तः-'पिण्याकं सक्तवस्तकं चतुर्थेऽहन्यभोजनम् । वासो वै दक्षिणां दद्यात्सौम्योऽयं कृच्छ्र उच्यते ॥' इति ॥ ३२१ ॥ तुलापुरुषाख्यं कृच्छ्रमाह
एषां त्रिरात्रमभ्यासादेकैकस्य यथांक्रमम् ।
तुलापुरुष इत्येष ज्ञेयः पञ्चदशाहिकः ॥ ३२२॥ एषां पिण्याकादीनां पञ्चानां क्रमेणैकैकस्य त्रिरात्राभ्यासेन पञ्चदशाहव्यापी तुलापुरुषाख्यः कृच्छ्रो वेदितव्यः । अत्र च पञ्चदशाहिकत्वविधानादुपवासस्य निवृत्तिः ॥ यमेन त्वेकविंशतिरात्रिकस्तुलापुरुष उक्तः-'आचाममथ पिण्याकं तक्रं चोदकसक्तुकान् । ज्यहं व्यहं प्रयुञ्जानो वायुभक्षी व्यहद्वयम् ॥ एकविंशतिरावस्तु तुलापुरुष उच्यते ॥' इति । अत्र हारीताधुक्तेतिकर्तव्यता ग्रन्थगौरवमयान लिख्यते ॥ ३२२॥ चान्द्रायणमाह
तिथिवृद्ध्या चरेत्पिण्डान् शुक्ले शिख्यण्डसंमितान् ।
एकैकं हासयेत्कृष्णे पिण्डं चान्द्रायणं चरन् ।। ३२३॥ चान्द्रायणाख्यं वैतं कुर्वन् मयूराण्डपरिमितान् पिण्डान् शुक्ले आपूर्यमाणपक्षे तिथिवृद्ध्या चरेत् भक्षयेत् । यथा प्रतिपत्प्रभृतिषु चन्द्रकलानामेकैकशो वृद्धिरर्धमासे तद्वत्पिण्डानपि प्रतिपद्येको द्वितीयायां द्वावित्येवमेकैकशो वर्धयन् भक्षयेद्यावत्पौर्णमासी । ततः पञ्चदश्यां पञ्चदश ग्रासान्भुक्त्वा ततः कृष्णपक्षे चतुर्दश प्रतिपदि द्वितीयायां त्रयोदशेत्येवमेकैकशो ग्रासान् ह्रासयननीयाद्या. वञ्चतुर्दशी । ततश्चतुर्दश्यामेकं प्रासं ग्रसित्वा इन्दुक्षयेऽर्थादुपवसेत् । तथाच वसिष्ठः-'एकैकं वर्धयेत्पिण्डं शुक्ले कृष्णे च ह्रासयेत् । इन्दुक्षये न भुञ्जीत एष चान्द्रायणो विधिः ॥' इति । चन्द्रस्यायनमिवायनं चरणं यस्मिन्कर्मणि हासवृद्धिभ्यां तच्चान्द्रायणम् । संज्ञायां दीर्घः । इदं च यववत्प्रान्तयोरणीयो मध्ये स्थवीय इति यवमध्यमिति कथ्यते । एतदेव व्रतं यदा कृष्णपक्षप्रति१ मुपयुज्य ख. २ यथाविधि ङ. ३ कर्म कुर्वन् ङ.
For Private And Personal Use Only
Page #516
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४८४
याज्ञवल्क्यस्मृतिः।
[प्रायश्चित्ताध्यायः
पदि प्रक्रम्य पूर्वोक्तकमेणानुष्ठीयते तदा पिपीलिकावन्मध्ये हसिष्ठं भवतीति पिपीलिकमध्यमिति कथ्यते । तथाहि । पूर्वोक्तक्रमेण कृष्णप्रतिपदि चतु. र्दश ग्रासान् भुक्त्वा एकैकग्रासापचयेन चतुर्दशी यावद्भुञ्जीत । ततश्चतुर्दश्यामेकं प्रासं ग्रसित्वामावास्यायामुपोष्य शुक्लप्रतिपद्येकमेव ग्रासं प्राश्नीयात् । तत एकैकोपचयभोजनेन पक्षशेषे निर्वय॑माने पौर्णमास्यां पञ्चदश प्रासाः संपद्यन्त इति युक्तैव पिपीलिकामध्यता । तथाच वसिष्ठः-मासस्य कृष्णपक्षादौ ग्रासानद्याच्चतुर्दश । प्रासापचयभोजी सन्पक्षशेषं समापयेत् ॥ तथैव शुक्लपक्षादौ ग्रासं भुञ्जीत चापरम् । ग्रासोपचयभोजी सन्पक्षशेष समापयेत् ॥' इति ॥ यदा त्वेकस्मिन्पक्षे तिथिवृद्धिहासवशात् पोडशदिनानि भवन्ति चतुर्दश वा तदा ग्रासानामपि वृद्धि हासौ वेदितव्यौ । तिथिवृद्ध्या पिण्डांश्चरेदिति नियमात् । गौतमेनात्र विशेषो दर्शितः-'अथातश्चान्द्रायणं तस्योक्तो विधिः कृच्छ्रे वपनं च व्रतं चरेत् श्वोभूतां पौर्णमासीमुपवसेत् आप्यायस्व संतेपयांसि नवो. नव इति चैताभिस्तर्पणमाज्यहोमो हविपश्चाशुमन्त्रणमुपस्थानं च चन्द्रमसः यद्देवादेवहेडनमिति चतसृभिराज्यं जुहुयाद्देवकृतस्येति चान्ते समिद्भिस्त्रिभिः
भूः भुवः स्वः महः जनः तपः सत्यं यशः श्रीः उ इट ओजः तेजः पुरुषः धर्मः शिवः इत्येतै सानुमन्त्रणं प्रतिमन्त्रं मनसा नमः स्वाहेति वा सर्वानेतैरेव ग्रासान्भुञ्जीत । तद्रासप्रमाणमास्याविकारेण चरुभैक्षसक्तुकणयावकशाकपयोदधिघृतमूलफलोदकानि हवींष्युत्तरोत्तरं प्रशस्यानि । पौर्णमास्यां पञ्चदश प्रासान् भुक्त्वा एकैकापचयेनापरपक्षमश्नीयात् । अमावास्यायामुपोप्यैकैकोपचयेन पूर्वपक्षं विपरीतमेकेषामेव चान्द्रायणो मासः' इति । अत्र ग्रासप्रमाणमास्याविकारेणेति यदुक्तं तद्बालाभिप्रायम् । तेषां शिख्यण्डपरिमितिपञ्चदशग्रासभोजनाशक्तेः । क्षीरादिहविष्षु शिख्यण्डपरिमितत्वं तु पर्णपुटकादिना संपादनीयम् । तथा कुकुटाण्डामलकादीनि तु ग्रासपरिमाणानि स्मृत्यन्तरोक्तानि शक्तिविषयाणि शिख्यण्डपरिमाणाल्लघुत्वात्तेषाम् । यत्पुनरत्र श्वोभूतां पौर्णमासीमुपवसेदित्यत्र चतुर्दश्यामुपवासमभिधाय पौर्णमास्यां पञ्चदशनासान्भुक्त्वेत्यादिना द्वात्रिंशदहरात्मकत्वं चान्द्रायणस्योक्तं तत्पक्षान्तरप्रदर्शनार्थ न सार्वत्रिकम् । योगीश्वरवचनानुरोधेन त्रिंशदहरात्मकस्य दर्शितत्वात् । यद्येतत्सार्वत्रिकं स्या. त्तदा नैरन्तर्येण संवत्सरे चान्द्रायणानुष्ठानानुपपत्तिः स्यात् । चन्द्रगत्यनुवर्तनानुपपत्तिश्च ॥ ३२३ ॥ चान्द्रायणान्तरमाह
यथाकथंचित्पिण्डानां चत्वारिंशच्छतद्वयम् ।
मासेनैवोपभुञ्जीत चान्द्रायणमथापरम् ॥ ३२४ ॥ पिण्डानां चत्वारिंशदधिकं शतद्वयं मासेन भुञ्जीत । यथाकथंचित्प्रतिदिनं मध्याह्नेऽष्टौ ग्रासान्, अथवा नक्तंदिनयोश्चतुरश्चतुरो वा, अथवैकस्मिंश्चतुरोऽपरमिन्द्वादश वा तथैकरात्रमुपोष्यापरस्मिन्पोडश वेत्यादिप्रकाराणामन्यतमेन
For Private And Personal Use Only
Page #517
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्तप्रकरणम् ५] मिताक्षरासहिता।
४८५ शत्याद्यपेक्षया भुञ्जीतेत्येतत्पूर्वोक्तचान्द्रायणद्वयादपरं चान्द्रायणम् । अतस्तयो
यं ग्राससंख्या नियमः किंतु पञ्चविंशत्यधिकशतद्वयसंख्यैव । मनुना चैते प्रकारा दर्शिताः (१११२१८-२२०)-'अष्टावष्टौ समश्नीयात्पिण्डान्मध्यन्दिने स्थिते । नियतात्मा हविष्यस्य यतिचान्द्रायणं चरेत् ॥ चतुरः प्रातरश्नीयात्पिण्डान्विप्रः समाहितः । चतुरोऽस्तमिते सूर्ये शिशुचान्द्रायणं चरेत् ॥ यथाकथंचित्पिण्डानां तिस्रोऽशीतीः समाहितः । मासेनानन्हविष्यस्य चन्द्रस्यैति सलोकताम् ॥' इति । तथा चत्वारिंशच्छतद्वयन्यूनसंख्याग्राससंपाद्यस्यापि संग्रहार्थमपरग्रहणम् । यथाह यमः-'त्रीस्वीन्पिण्डान्समश्नीयान्नियतात्मा दृढव्रतः । हविष्यानस्य वै मासमृषिचान्द्रायणं स्मृतम् ॥' इति । एषु च यतिचान्द्रायणप्रभृतिषु न चन्द्रगत्यनुसरणमपेक्षितम् । अतस्त्रिंशदिनात्मकसाधारणेन मासेन नैरन्तर्येण चान्द्रायणानुष्टाने यदि कथंचित्तिथिवृद्धिहासवशात् पञ्चम्यादिष्वारम्भो भवति तथापि न दोषः । यदपि सौमायनाख्यं मासक्तं मार्कण्डेयेनोक्तम्-'गोक्षीरं सप्तरात्रं तु पिबेत्स्तनचतुष्टयात् । स्तनत्रयात्सप्तरात्रं सप्तरात्रं स्तनद्वयात् ॥ स्तनेनैकेन षडानं विरानं वायुभुग्भवेत् । एतत्सोमायनं नाम व्रतं कल्मषनाशनम् ॥' इति । स्मृत्यन्तरे 'सप्ताहं चेत्येतद्दोस्तनमखिलमथ त्रीन्स्तनान्द्वौ तथैकं कुर्यात्स्त्रींश्चोपवासान्यदि भवति तदा मासि सोमायनं तत्' इति । तदपि चान्द्रायणकर्मकमेव । हारीतेनापि 'अथातश्चान्द्रायणमनुक्रमिप्यामः' इत्यादिना सेतिकर्तव्यताकं चान्द्रायणमभिधायैवमेव सोमायनमित्यतिदेशाभिधानात् । यत्पुनस्तेन कृष्णचतुर्थीमारभ्य शुक्लद्वादशीपर्यन्तं सोमायनमुक्तम् । चतुर्थीप्रभृतिचतुःस्तनेन त्रिरात्रं त्रिस्तनेन त्रिरात्रं द्विस्तनेन त्रिरात्रं एकस्तनेन त्रिरात्रमेवमेकस्तनप्रभृति पुनश्चतुःस्तनान्तं 'या ते सोम चतुर्थी तनूस्तया नः पाहि तस्यै नमः स्वाज्ञा, या ते सोम पञ्चमी षष्ठीत्येवं यागार्थास्तिथिहोमा ऐवं स्तुत्वा एनोभ्यः पूतश्चन्द्रमसः समानतां सलोकतां सायुज्यं च गच्छति' इति चतुर्विंशतिदिनात्मकं सोमायनमुक्तं तदशक्तविषयम् ॥ ३२४ ॥ अथ कृच्छ्रचान्द्रायणसाधारणीमितिकर्तव्यतामाह
कुर्यात्रिषवणस्नायी कृच्छं चान्द्रायणं तथा ।
पवित्राणि जपेत्पिण्डान्गायत्र्या चाभिमत्रयेत् ॥ ३२५ ॥ कृच्छं प्राजापत्यादिकं चान्द्रायणं वा विषवणस्नानयुक्तः कुर्यात् । एतच्च तप्तकृच्छ्रव्यतिरेकेण । तत्र 'सकृत्स्नायी समाहितः' इति मनुना विशेषाभिधानात् ।। यत्पुनः शङ्खन कृच्छ्रेषु विषवणस्नानमभिहितम्-त्रिरह्नि त्रिर्निशायां तु सवासा जलमाविशेत्' इति तदशक्तविषयम् । यत्पुनर्वैशम्पायनेन द्वैकालिक स्नानमुक्तम्-'स्नानं द्विकालमेव स्यात्रिकालं वा द्विजन्मनः' इति तत्रिषवणस्नानाशक्तस्य वेदितव्यम् ॥ यत्पुनर्गाग्येणोक्तम्-'एकवासाश्चरेफ्रेक्षं स्नात्वा वासो न पीडयेत्' इति तदपि शक्तस्यैव । -'एकवासावासा वा लघ्वाशी स्थण्डि. १ स्तनान्ते ङ. एकमाप्त्वा ङ.
For Private And Personal Use Only
Page #518
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४८६
याज्ञवल्क्यस्मृतिः ।
[ प्रायश्चित्ताध्यायः
लेशयः' इत्येकवस्त्रताया अपि शङ्खेन पाक्षिकत्वेनाभिधानात् । स्नाने च हारीतेन विशेष उक्तः - 'त्र्यवरं शुद्धवतीभिः स्नात्वाघमर्पणमन्तर्जले जपित्वा धौतमहतं वासः परिधाय साम्ना सौम्येनादित्यमुपतिष्ठेत' इति । स्नानानन्तरं च पवित्राणि जपेत् । पवित्राणि च 'अघमर्षणं देवकृतः शुद्धवत्यस्तरत्समाः ' इत्यादीनि वसिष्ठादिप्रतिपादितानामन्यतमान्यर्थाविरुद्धेषु कालेषु अन्तर्जले जपेत् सावित्रीं वा । ( ११।२२५ ) – 'सावित्रीं च जपेन्नित्यं पवित्राणि च शक्तितः' इति मनुस्मरणात् । यत्तु गौतमेनोक्तम्- 'रौरवयोधां जपे नित्यं प्रयुञ्जीत' इति तदपि पवित्रत्वादेवोक्तं न पुनर्नियमाय । तथा सति श्रुत्यन्तरमूलत्वकल्पनाप्रसङ्गात् । अतोऽनधीतसामवेदेन गायत्र्यादिकमेव जप्तव्यम् । यदपि 'नमो हमाय मोहमाय इत्यादि पठित्वा एता एवाज्याहुतयः' इत्युक्तं तदपि न नैयमिकं किंतु ( ११।२२२ ) - महाव्याहृतिभिर्होमः कर्तव्यः स्वयमन्वहम्' इति मनुना महाव्याहृतिभिर्होमविधानात् ॥ तथा षट्त्रिंशन्मतेऽप्युक्तम्- 'जपहोमादि यत्किचित्कृच्छ्रोक्तं संभवेन्न चेत् । सर्व व्याहृतिभिः कुर्याद्गायत्र्या प्रणवेन च ॥' इति । आदिग्रहणादुदकतर्पणादित्योपस्थानादेर्ग्रहणम् । अतएव वैशम्पायनः -- 'स्नात्वोपतिष्ठेदादित्यं सौरीभिस्तुः कृताञ्जलिः' इति ॥ एवमन्येष्वपि विरोधिपदार्थेषु विकल्प आश्रयणीयः । अविरोधिषु समुच्चयः । शाखान्तराधिकरणन्यायेन सर्वस्मृतिप्रत्ययत्वात्कर्मणः ॥ जपसंख्यायां विशेषस्तेनैव दर्शितः - 'ऋषभं विरजं चैव तथा चैवाघमर्पणम् । गायत्रीं वा जपेदेव पवित्रां वेदमातरम् || शतमष्टशतं वापि सहस्रमथवा परम् । उपांशु मनसा वापि तर्पयेत्पितृदेवताः ॥ मनुष्यांश्चैव भूतानि प्रणम्य शिरसा ततः ॥' इति ॥ तथा पिण्डांश्च प्रत्येकं गायत्र्या चाभिमन्त्रयेत् । तथा यमेनापि विशेष उक्तः -' - 'अङ्गुल्यग्रस्थितं पिण्डं गायत्र्या चाभिमन्त्रितम् । प्राश्याचम्य पुनः कुर्यादन्यस्याप्यभिमन्त्रणम् ॥' इति । अतश्च ॐ भूर्भुवः स्वरित्यादिभिर्गौतमोक्तैरभिमन्त्रणमन्त्रैः ः सहास्य विकल्प उक्तः । यत्पुनराप्यायस्व संतेपयसीत्यादिभिः पिण्डकरणात्पूर्वं हविषोऽभिमन्त्रणमुक्तं तद्भिन्नकार्यश्वात्समुच्चीयते । एतानि च कृच्छ्रादिव्रतानि यदा प्रायश्चित्तार्थमनुष्टिीयन्ते तदा केशादिवपनपूर्वकं परिगृहीतव्यानि । - ' वपनं व्रतं चरेत्' इति गौतमस्मरणात् । अभ्युदयार्थे तु नैव वपनम् । वसिष्ठेनाप्यत्र विशेष उक्तः - 'कृच्छ्राणां व्रतरूपाणां श्मश्रुकेशादि वापयेत् । कुक्षिरोमशिखावर्जम्' इति । कृच्छ्राणां व्रतरूपाणां । व्रतरूपाणि वपनादीन्यङ्गानि वक्ष्यन्त इति शेषः । पर्षदुपदिष्टवतग्रहणं च व्रतानुष्ठानदिवसात्पूर्वेद्युः सायाह्ने कार्यम् । यथाह वसिष्ठः - 'सर्वपापेषु सर्वेषां व्रतानां विधिपूर्वकम् । ग्रहणं संप्रवक्ष्यामि प्रायश्चित्ते चिकीर्षिते ॥ दिनान्ते नखरोमादीप्रवाप्य स्नानमाचरेत् । भस्मगोमयमृद्वारिपञ्चगव्यादिकल्पितैः ॥ मलापकर्षणं कार्य बाह्यशौचोपसिद्धये । दन्तधावनपूर्वेण पञ्चगव्येन संयुतम् ॥ व्रतं निशामुखे ग्राह्यं बहिस्तारकदर्शने । आचम्यातः परं मौनी ध्यायन्दुष्कृतमात्मनः ॥
१ आज्येन वेति पाठान्तरम्.
For Private And Personal Use Only
Page #519
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्तप्रकरणम् ५] मिताक्षरासहिता।
४८७
मनःसंतापनं तीव्रमुद्वहेच्छोकमन्ततः ॥' इति । बहिरिति प्रामाद हिनिष्क्रम्य । स्त्रियाप्येवमेव व्रतपरिग्रहः कार्यः। केशश्मश्रुलोमनखवपनं तु नास्ति । -'चान्द्रायणादिष्वेतदेव स्त्रियाः केशवपनवर्जम्' इति बौधायनस्मरणात् ॥
वपनानिच्छोस्तु हारीतेन विशेष उक्त:--'राजा वा राजपुत्रो वा ब्राह्मणो वा बहुश्रुतः। केशानां वपनं कृत्वा प्रायश्चित्तं समाचरेत् ॥ केशानां रक्षणार्थ तु द्विगुणं व्रतमाचरेत् । द्विगुणे तु व्रते चीर्णे दक्षिणा द्विगुणा भवेत् ॥' इति । एतच्च महापातकादिदोषेविशेषाभिप्रायेण द्रष्टव्यम्-'विद्वद्विप्रनृपस्त्रीणां नेष्यते केशवापनम् । व्रते महापातकिनो गोहन्तुश्चावकीर्णिनः ॥' इति मनुस्मरणात् । जाबालेनाप्यत्र विशेष उक्त:--'भारम्भे सर्वकृच्छ्राणां समाप्तौ च विशेषतः । अन्नेनैव च शालाग्नौ जुहुयाध्याहृतीः पृथक् ॥ श्राद्धं कुर्याद्रतान्ते तु गोहिरण्यादि दक्षिणा ॥' इति ॥ यमेनाप्यत्र विशेषोऽभिहितः- पश्चात्तापो निवृत्तिश्च स्नानं चाङ्गतयोदितम् । नैमित्तिकानां सर्वेषां तथा चैवानुकीर्तनम् ॥' तथा-'गात्राभ्यङ्गशिरोभ्यङ्गी ताम्बूलमनुलेपनम् । व्रतस्थो वर्जयेत्सर्वं यच्चान्यद्बलरागकृत् ॥' इति । एवमादिकर्तव्यताजातं स्मृत्यन्तरादन्वेष्टव्यम् । एवमनेन विधिना व्रतं गृहीत्वावश्यं परिसमापनीयम् । अन्यथा तु प्रत्यवायः। 'पूर्वं व्रतं गृहीत्वा तु नाचरेत्काममोहितः। जीवन्भवति चण्डालो मृतः श्वा चैव जायते ॥' इति छागलेयस्मरणात् । इत्यलं प्रपञ्चेन ॥ ३२५ ॥
इत्थमुक्तविनियोगस्य चान्द्रायणादेः स्वरूपमभिधाय लब्धप्रसङ्गकार्यान्तरेऽपि विनियोगमाह
अनादिष्टेषु पापेषु शुद्धिश्चान्द्रायणेन तु ।
धर्मार्थं यश्वरेदेतचन्द्रस्यैति सलोकताम् ।। ३२६ ॥ आदिश्यत इत्यादिष्टं प्रायश्चित्तं न विद्यते आदिष्टं येषु पापेषु तेषु चान्द्रायः णेन शुद्धिः। चशब्दास्प्राजापत्यादिभिः कृच्छ्रेरैन्दवसहितैस्तन्निरपेक्षैर्वा शुद्धिः । तथाच षट्त्रिंशन्मतेऽभिहितम्-'यानि कानि च पापानि गुरोर्गुरुतराणि च । कृच्छ्रातिकृच्छ्रेचान्द्रयैः शोध्यन्ते मनुरब्रवीत् ॥' इति त्रयाणां समुच्चयः प्रतिपादितः। उशनसा तु द्वयोः समुच्चय उक्तः-'दुरितानां दुरिष्टानां पापानां महतामपि । कृच्छ्रे चान्द्रायणं चैव सर्वपापप्रणाशनम् ॥' इति । दुरितमुपपातकम् । दुरिष्टं पातकम् । गौतमेन तु कृच्छ्रातिकृच्छौ चान्द्रायणमिति सर्वप्रायश्चित्तमिति विसमासकरणेनैन्दवनिरपेक्षता कृच्छ्रातिकृच्छ्रयोः सूचिता । चान्द्रा. यणस्य निरपेक्षता इतिशब्देन च त्रयाणां समुच्चयः । केवलप्राजापत्यस्य तु निरपेक्षं चतुर्विंशतिमतेऽभिहितम्-'लघुदोषे त्वनादिष्टे प्राजापत्यं समाचरेत्' इति । गौतमेनापि प्राजापत्यादे रपेक्षत्वमुक्तम्-'प्रथमं चरित्वा शुचिः पूतः
१ द्विगुणे व्रत आचीणे ङ. २ दोषव्यतिरेकेण ङ. ३ भाज्येनैवेति ङ. ४ चान्द्ररित्वति हु.
या० ४४
For Private And Personal Use Only
Page #520
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४८८
याज्ञवल्क्यस्मृतिः।
[प्रायश्चित्ताध्यायः
कर्मण्यो भवति, द्वितीयं चरित्वा यदन्यन्महापातकेभ्यः पापं कुरुते तस्मात्प्र. मुच्यते, तृतीयं चरित्वा सर्वस्मादेनसो मुच्यते' इति महापातकादपीत्यभिप्रेतम् । मनुनाप्युक्तम् (११२१५)-'पराको नाम कृच्छ्रोऽयं सर्वपापापनोदनः' इति । हारीतेनाप्युक्तम्-'चान्द्रायणं यावकश्च तुलापुरुष एव च। गवां चैवानुगमनं सर्वपापप्रणाशनम् ॥' तथा-'गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् । एकरात्रोपवासश्च श्वपाकमपि शोधयेत् ॥' तथा तप्तकृच्छ्रमधिकृत्यापि तेनैवोक्तम्-'एष कृच्छ्रो द्विरभ्यस्तः पातकेभ्यः प्रमोचयेत् । त्रिरभ्यस्तो यथान्यायं शूद्रहत्यां व्यपोहति ॥' इति । उशनसा चोक्तम्-'यत्रोक्तं यत्र वा नोक्तं महापातकनाशनम् । प्राजापत्येन कृच्छ्रेण शोधयेन्नात्र संशयः ॥' इति । एतानि प्राजापत्यादीन्यनादिष्टेषूपपातकादिषु सकृदभ्यासापेक्षया व्यस्तानि समस्तानि वा योजनीयानि । तथा आदिष्टवतेष्वपि महापातकादिषु अभ्यासापेक्षया योजनीयानि । अतएव यमेनोक्तम्-'यत्रोक्त' मित्यादि । गौतमेनाप्युक्तनिष्कृतीनां संग्रहार्थं सर्वप्रायश्चित्तग्रहणं कृतम् । तथा यदपि तेनैवोक्तम्'द्वितीयं चरित्वा यदन्यन्महापातकेभ्यः पापं कुरुते तस्मात्प्रमुच्यते' इत्युक्त्वा 'तृतीयं चरित्वा सर्वस्मादेनसो मुच्यते' इति, तदपि महापातकाभिप्रायं नतु क्षुद्रपातकाभिप्रायम् । नच महापातकमनुक्तनिष्कृतिक संभवति, तस्मादुक्त. निष्कृतिकेष्वपि प्राजापत्यादयो योजनीयाः । तत्र द्वादशवार्पिकवते द्वादशद्वादशदिनान्येकैकं प्राजापत्यं परिकल्प्य गण्यमाने प्राजापत्यानां षष्ट्यधिकशतत्रयं द्वादशवार्षिके वैकल्पिकमनुष्ठेयं भवति । तदशक्ती तावत्यो वा धेनवो दातव्याः। तदसंभवे निष्काणां षष्ट्यधिकशतत्रयं दातव्यम् । तथा स्मृत्यन्तरम् -'प्राजापत्यक्रियाऽशक्ती धेनुं दद्याद्विचक्षणः। धेनोरभावे दातव्यं मूल्यं तुल्यमसंशयम् ॥ मूल्यार्धमपि निष्कं वा तदर्धे शक्त्यपेक्षया'। गवाम. भावे निष्कः स्यात्तदर्धे पाद एव वा' इति स्मरणात् । मूल्यदानस्याप्यशक्ती तावन्तो वोदवासाः कार्याः । तत्राप्यशक्ती गायत्रीजपः पत्रिंशल्लक्षसंख्याकः कार्यः ।-'कृच्छ्रोऽयुतं तु गायत्र्या उदवासस्तथैव च । धेनुप्रदानं विप्राय सममेतञ्चतुष्टयम् ॥' इति पराशरस्मरणात् । यनु चतुर्विंशतिमतेऽभिहितम्-'गायत्र्यास्तु जपन्कोटिं ब्रह्महत्यां व्यपोहति । लक्षाशीतिं जपेद्यस्तु सुरापानाद्विमुच्यते ॥ पुनाति हेमहर्तारं गायत्र्या लक्षसप्ततिः। गायत्र्याः पष्टिभिलक्षैर्मुच्यते गुरुतल्पगः ॥' इति, तत् द्वादशवार्षिकतुल्यविधानतयोक्तं न पुनरशक्तविषयमिति न विरोधः । एवमन्येऽपि-'कृच्छ्रो देव्ययुतं चैव प्राणायामशतद्वयम् । तिलहोमसहस्रं तु वेदपारायणं तथा ॥' इत्यादयः प्रत्याम्नायाश्चतुर्विंशतिमतादिशास्त्राभिहिताः षष्ट्यधिकत्रिशतगुणिता महापातकेषु बोद्धव्याः । अतिपातकेषु सप्तत्यधिकशतद्वयं प्राजापत्यानां कर्तव्यम् । तावन्तो वा
१ सर्वपातकनाशनं ख. २ तन्मूल्यं वा न संशयः ङ.
For Private And Personal Use Only
Page #521
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्तप्रकरणम् ५] मिताक्षरासहिता ।
४८९
धेन्वादयः प्रत्याम्नायाः। पातकेषु तु साशीतिशतं प्राजापत्याः प्रत्याम्नायाश्च धेन्वादयस्तावन्त एव वा। तथा चतुर्विंशतिमतेऽभिहितम्-'जन्मप्रभृति पापानि बहानि विविधानि च । कृत्वार्वाग् ब्रह्महत्यायाः षडब्दं व्रतमाचरेत् ॥ प्रत्याम्नाये गवां देयं साशीति धनिना शतम् । तथाष्टादशलक्षाणि गायत्र्या वा जपेद्बुधः ॥' इति । इदमेव द्वादशवार्षिके व्रते द्वादशद्वादशदिनैरेकैकप्राजापत्यकल्पनायां लिङ्गम् । एवमुपपातकेषु त्रैवार्षिकप्रायश्चित्तविषयभूतेषु नवतिप्राजापत्यास्तावन्तः प्रत्याम्नायाः। त्रैमासिकविषयेषु पुनः सार्धसप्तप्राजापत्याः प्रत्याम्नायाश्च धेनूदवासादयस्तावन्त एव । मासिकव्रतविषयेषु तु सार्ध प्राजापत्यद्वयं तावानेव वा प्रत्याम्नायः । चान्द्रायणविषयभूतेषु पुनरुपपातकेषु प्राजापत्यत्रयम् । तदशक्तस्य प्रत्याम्नायस्तावानेव । यत्पुनश्चतुर्विंशतिमतेऽभिहितम्-'अष्टौ चान्द्रायणे देयाः प्रत्याम्नायविधौ सदा' इति, तदपि धनिनः पिपीलिकामध्यादिचान्द्रायणप्रत्याम्नायविषयम् । मासातिकृच्छ्रविषयभूतेषु पुनरुपपातकेषु सार्धसप्तप्राजापत्याः प्रत्याम्नायाश्च धेन्वादयस्तावन्त एव । 'प्राजापत्ये तु गामेकां दद्यात्सान्तपने द्वयम् । पराकतप्तातिकृच्छ्रे तिस्रस्तिस्रस्तु गास्तथा ॥' इति चतुर्विंशतिमतेऽभिधानात् । एतच्च 'एकैकं ग्रासमश्नीयादि'त्यामलकपरिमितैकैकग्रासपक्षे वेदितव्यम् । पाणिपूरानभोजनपक्षे पुनर्धेनुद्वयमेव । प्राजापत्यस्य पडुपवासतुल्यत्वात् तद्विगुणत्वाञ्चातिकृच्छ्रस्य । यद्यपि नवसु दिनेषु पाणिपूराबस्य भोजनं तथापि नैरन्तर्येण द्वादशदिवसानुष्टाने क्लेशातिशयात्षडहोपवाससमानप्राजापत्यद्वयतुल्यत्वमेव । प्राजापत्यस्य च पडुपवासतुल्यत्वं युक्तमेव । तथाहि । प्रथमे त्र्यहे सायंतनभोजनत्रयनिवृत्तावेकोपवाससंपत्तिः। द्वितीये व्यहे प्रातःकालभोजनत्रयनिवृत्तिपरस्य । तथाच अयाचितव्यहेऽपि सायंतनभोजनत्रयवर्जनेऽपरस्येत्येवं नवभिर्दिनैरुपवासत्रयम् । घुनश्चान्त्यव्यहे चोपवासत्रयमिति युक्तं घडुपवासतुल्यत्वम् । ऋषभैकादशगोदानसहितत्रिरात्रोपवासात्मकगोवधव्रते तु साधैकादशप्राजापत्यास्तावत्संख्याकाश्चोदवासादयः प्रत्याम्नायाः । मासं पयोव्रते तु साधैं प्राजापत्यद्वयम् । पराकात्मके तूपपातकव्रते प्राजापत्यत्रयं पराकतसातिकृच्छ्रस्थाने कृच्छ्रत्रयं चरेत् । 'सान्तपनस्य वाध्यधमशक्तौ व्रतमाचरेत्' इति पत्रिंशन्मतेऽभिधानात् । चान्द्रायणपराककृच्छ्रातिकृच्छ्रास्तु प्राजापत्यत्रयात्मका द्वादशवार्षिकवतस्थाने विंशत्युत्तरशतसंख्या अनुष्ठेयाः। तत्प्रत्याम्नायास्तु धेन्वादयस्त्रिगुणाः । अतिपातकेषु नवतिसंख्याकाश्चान्द्रायणादयः। तत्समेषु पुनः पातकपदाभिधेयेषु षष्टिसंख्याः। उपपातकेषु त्रैवार्पिकविषयेषु त्रिंशत्संख्याः। त्रैमासिके गोवधव्रतस्थाने गोमूत्रस्नानादीनां कर्तव्यताबाहुल्याच्चान्द्रायणादित्रयम् । मासिकव्रते तु योगीश्वरोक्ते एकमेव चान्द्रायणं धेनूदवासादिप्रत्याम्नायस्तु सर्वत्र त्रिगुण एव । प्रकीर्णकेषु पुनः प्रतिपदोक्तप्रायश्चित्तानुसारेण प्राजापत्यं
१ प्राजापत्यानां प्रत्याम्नायधेन्वादयः ख. २ तदतिधनिनः ङ. ३ पराकतप्तातिकृच्छ्रे तिस्रस्तिस्रस्तु गास्तथेति पाठान्तरम्. ४ तुल्यत्वाविगुणत्वाच्च ङ. ५ त्रयवर्जनपरस्य ङ. ६ भोजनवर्जनेऽन्यस्येति ङ. ७ ततश्चान्त्य व्यहे ङ. ८ लानादीतिकर्तव्यता ङ.
For Private And Personal Use Only
Page #522
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४९०
याज्ञवल्क्यस्मृतिः। [प्रायश्चित्ताध्यायः पादादिक्लह्या योजनीयम् । आवृत्तौ पुनश्चान्द्रायणादिकमिति एतद्दिगवलम्बनेनान्यत्रापि कल्पना कार्या । यत्पुनर्वृहस्पतिनोक्तम्-'जन्मप्रभृति यत्किंचित्पातकं चोपपातकम् । तावदावर्तयेत्कृच्छ्रे यावत्पष्टिगुणं भवेत् ॥' इति । तत् द्वे परदारे इति गौतमोक्तद्विवार्षिकसमानविषयम् । तथा त्रैमासिकादिविषयभू. तोपपातकावृत्तिविषयं वा । पातकपदाभिधेयचाण्डालादिस्त्रीगमने द्विरभ्यासविषयं वा । तत्र 'ज्ञानात्कृच्छ्राब्दमुद्दिष्टमज्ञानादैन्दवद्वयम्' इति सकृहुद्धिपूर्वगमने कृच्छ्राब्दविधानात्तदभ्यासे द्विवर्षतुल्यपष्टिकृच्छ्रविधानं युक्तमेव । यत्तु सुमन्तुनोक्तम्-'यदप्यसकृदभ्यस्तं बुद्धिपूर्वमचं महत् । तच्छुद्ध्यत्यन्दकृच्छ्रेण महतः पातकादृते ॥' इति तदप्युपपातकाद्यावृत्तिविषयं । तथा 'अज्ञानादैन्दवद्धयमिति यमोकैन्दवद्वयविषयभूतपातकावृत्तिविषयं वा । यस्तु तपस्यसमर्थो धान्यसमृद्धश्च स कृच्छ्रादिव्रतानि द्विजाग्यभोजनदानेन संपादयेत् । तथाहि स्मृत्यन्तरम्-'कृच्छ्रे पञ्चातिकृच्छ्रे त्रिगुणमहरहस्त्रिंशदेवं तृतीये चत्वारिंशञ्च तसे त्रिगुणितगुणिता विंशतिः स्यात्पराके । कृच्छ्रे सान्तापनाख्ये भवति षडधिका विंशतिः सैव हीना द्वाभ्यां चान्द्रायणे स्यात्तपसि कृशबलो भोजयेद्विप्रमुख्यान् ।' इति । अहरहरिति सर्वत्र संबन्धनीयम् । तृतीयः कृच्छ्रातिकृच्छ्रः । अत्र प्राजा. पत्यदिवसकल्पनया विद्वद्विप्राणां पष्टिभोजनं भवति । यत्तु चतुर्विंशतिमतेऽ. मिहितम्-'विप्रा द्वादश वा भोज्याः पावकेष्टिस्तथैव च । अन्या वा पावनी काचित्समान्याहुर्मनीषिणः ॥' इति प्राजापत्यस्थाने द्वादशानां विप्राणां भोजनमुक्तं तन्निर्धनविषयम् । यच्चान्द्रायणस्यापि तत्रैव प्रत्याम्नायाधुक्तम्-'चान्द्रायणं मृगारेष्टिः पवित्रेष्टिस्तथैव च । मित्रविन्दापशुश्चैव कृच्छ्रे मासत्रयं तथा ॥ नित्यनैमित्तिकानां च काम्यानां चैव कर्मणाम् । इष्टीनां पशुबन्धानामभावे चरवः स्मृताः ॥' इति तदपि चान्द्रायणाशक्तस्य । यत्तु कृच्छ्रे मासत्रयं तथेति कृच्छ्राष्टकं प्रत्याम्नातं तदपि जरटमूर्खविषयम् । चान्द्रायणं त्रिमिः कृच्छ्रेरिति दर्शित. त्वादित्यलं प्रपञ्चेन । प्रकृतमनुसरामः-यस्त्वभ्युदयकामो धर्मार्थं काम्यनियोगनिष्पत्यर्थमेतच्चान्द्रायणमनुतिष्ठति न पुनः प्रायश्चित्तार्थमसौ चन्द्रसालोक्यं स्वर्गविशेष प्राप्नोति । एतच्च संवत्सरावृत्त्यभिप्रायेण । एकमात्वा विपापो वि. पाप्मा सर्वमेनो हन्ति, द्वितीयमावा दशपूर्वान्दशापरानात्मानं चैकविंशं पङ्गिं च पुनाति, संवत्सरं चाहवा चन्द्रमसः सलोकतामामोती'ति गौतमस्मरणात् ॥
कृच्छ्रकृद्धर्मकामस्तु महतीं श्रियमाप्नुयात् ।
यथा गुरुक्रतुफलं प्राप्नोति सुसमाहितः ॥ ३७॥ किंच । यस्त्वभ्युदयकामः प्राजापत्यादिकृच्छ्राननुतिष्ठति स महती राज्यादिलक्षणां श्रियं विभूतिमनुभवति । यथा गुरुकतूनां राजसूयादीनां कर्ता तत्फलं स्वाराज्यादिलक्षणं महत्फलं लभते तथायमपि सुसमाहितः सकलाङ्गकलापम
१ अन्यद्वा पावनं किंचित्सममाहुर्मनीषिण इत्यपि पाठः.
For Private And Personal Use Only
Page #523
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्तप्रकरणम् ५ ] मिताक्षरासहिता।
४९१
विकलमनुतिष्टनिति फलमहिमप्रकाशनार्थ ऋतुदृष्टान्तकीर्तनम् । सुसमाहित इत्यनेनाविकलशास्त्रानुष्ठानं वदन्काम्यकर्मतयाङ्गवैकल्ये फलासिद्धिं द्योतयति । अतो नात्र प्रायश्चित्तेष्विव यावत्संभवाङ्गानुष्ठानमङ्गीकरणीयमिति दूरोत्सारित प्रत्याम्नायोपादानम् । कृच्छ्राद्यनुष्ठानावृत्तौ तु 'अधिकारिणः फलावृत्तिः कर्मण्यारम्भभाव्यत्वादिति न्यायलभ्या स्थितैवेति नेदमविवक्षितम् ॥ ३२७ ॥
प्रागुदिताखिलार्थोपसंहारव्याजेन धर्मशास्त्रधारणादिविधीन्सार्थवादान्प्रार्थनावरदानरूपेण प्रतिपादयितुमाह
श्रुत्वैतानृषयो धर्मान्याज्ञवल्क्येन भाषितान् ।
इदमूचुर्महात्मानं योगीन्द्रममितौजसम् ।। ३२८ ।। .. अत्र हि वर्णाश्रमादिव्यावृत्ता धर्माः षट्प्रकाराः प्रतिपादिताः तानखिलान् । योगीश्वरभाषितान् ऋषयः श्रुत्वा प्रहर्षोत्फुल्ललोचनास्तं महिमगुणशालिनमचिन्तनीयशक्तिविभवमिदमभिधास्यमानमूचिवांसः ॥ ३२८ ॥
य इदं धारयिष्यन्ति धर्मशास्त्रमतन्द्रिताः। इह लोके यशः प्राप्य ते यास्यन्ति त्रिविष्टपम् ॥ ३२९ ॥ विद्यार्थी प्राप्नुयाद्विद्यां धनकामो धनं तथा । आयुष्कामस्तथैवायुः श्रीकामो महतीं श्रियम् ॥ ३३० ॥ श्लोकत्रयमपि ह्यस्माद्यः श्राद्धे श्रावयिष्यति । पितॄणां तस्य तृप्तिः स्यादक्षय्या नात्र संशयः ॥ ३३१ ॥ ब्राह्मणः पात्रतां याति क्षत्रियो विजयी भवेत् ।
वैश्यश्च धान्यधनवानस्य शास्त्रस्य धारणात् ॥ ३३२ ॥ इत्थमृज्वथैः श्लोकैः सामश्रवःप्रभृतयोऽनेकधा प्रार्थयन्तेस ३२९-३३२ अपरामपि प्रार्थनामाह
य इदं श्रावयेद्विद्वान्द्विजान्पर्वसु पर्वसु ।
अश्वमेधफलं तस्य तद्भवाननुमन्यताम् ॥ ३३३ ॥ यस्त्विदं धर्मशास्त्रं प्रतिपर्व द्विजान् श्रावयेत् तस्याश्वमेधफलं भवेदिति श्रावणविध्यर्थवादः । तदेतदस्मत्प्रार्थितमर्थं सर्वत्र भवाननुमन्यताम् ॥ ३३३ ॥ वरदानमाह
श्रुत्वैतद्याज्ञवल्क्योऽपि प्रीतात्मा मुनिभाषितम् । . एवमस्त्विति होवाच नमस्कृत्य स्वयंभुवे ॥ ३३४ ।। १ श्रुत्वेमामृषयो ङ.
For Private And Personal Use Only
Page #524
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४९२
याज्ञवल्क्यस्मृतिः। [प्रायश्चित्ताध्यायः
एतदृषिभिर्भाषितं श्रुत्वा योगीन्द्रोऽपि स्वनिर्मितधर्मशास्त्रधारणादिफलप्रार्थनोन्मीलितमुखपङ्कजः स्वयंभुवे ब्रह्मणे नमस्कृत्य प्रणम्य भवत्प्रार्थितं सकलमित्थं भवत्वित्येवं किल भगवान्बभाषे ॥ ३३४ ॥
इति श्रीभारद्वाजपद्मनाभभट्टोपाध्यायात्मजस्य श्रीमत्परमहंसपरिव्राजकविज्ञानेश्वरभट्टारकस्य कृतौ ऋजुमिताक्षरायां याज्ञवल्क्यधर्मशास्त्र
विवृतो प्रायश्चित्ताध्यायस्तृतीयः समाप्तः ॥ अथात्राध्यायानुक्रमणिका लिख्यते । तत्राद्यं सूतकप्रकरणम् १ । आपद्धर्मप्रकरणम् २ । वानप्रस्थप्रकरणम् ३ । अध्यात्मप्रकरणम् ४ । ततः प्रायश्चित्तप्रकरणम् ५। तत्रादौ कर्मविपाकः ६। महापातकादि निमित्तपरिगणनम् ७ । महापातकप्रायश्चित्तान्यातिदेशिकसहितानि ८ । उपपातकप्रायश्चित्तानि ९ । प्रकीर्णकप्रायश्चित्तप्रकरणम् १० । पतितत्यागविधिः ११ । व्रतग्रहणविधिः १२। रहस्यप्रायश्चित्ताधिकारः १३ । कृच्छ्रादिलक्षणम् १४ । इति प्रकरणानि ॥
उत्तमोपपदस्येयं शिष्यस्य कृतिरात्मनः।
धर्मशास्त्रस्य विवृतिर्विज्ञानेश्वरयोगिनः ॥ १ ॥ इति याज्ञवल्क्यमुनिशास्त्रगता विवृतिन कस्य विहिता विदुषः । प्रमिताक्षरापि विपुलार्थवती परिषिञ्चति श्रवणयोरमृतम् ॥ २॥
गम्भीराभिः प्रसन्नाभिर्वाग्भिवस्ता मिताक्षरा ।
अनल्पार्थाभिरल्पाभिर्विवृतिर्विहिता मया ॥ ३ ॥ नासीदस्ति भविष्यति क्षितितले कल्याणकल्पं पुरं
नो दृष्टः श्रुत एव वा क्षितिपतिः श्रीविक्रमार्कोपमः । विज्ञानेश्वरपण्डितो न भजते किंचान्यदन्योपम
श्चाकल्पं स्थिरमस्तु कल्पलतिकाकल्पं तदेतत्रयम् ॥ ४ ॥ स्नष्टा वाचां मधुरवपुषां विद्वदाश्चर्यसीनां
दातार्थानामतिशयजुषामर्थिसार्थार्थनायाः। ध्याता मूर्तेर्मुरविजयिनो जीवतादार्कचन्द्र
जेतारीणां तनुसहभुवां तत्वविज्ञाननाथः ॥ ५॥ आ सेतोः कीर्तिराशे रघुकुलतिलकस्या च शैलाधिराजा
दो च प्रत्यक्पयोधेश्चटुलतिमिकुलोत्तुङ्गरिङ्गत्तरङ्गात् । आ च प्राचः समुद्रानतनृपतिशिरोरतभाभासुराभिः
पायादाचन्द्रतारं जगदिदमखिलं विक्रमादित्यदेवः ॥ ६ ॥ अन्तर्मुखानि यदि खानि तपस्ततः किं नान्तर्मुखानि यदि खानि तपस्ततः किम् । अन्तर्बहिर्यदि हरिश्च तपस्ततः किं नान्तर्वहिर्यदि हरिश्च तपस्ततः किम् ॥७॥
समाप्तेयं समिताक्षरा याज्ञवल्क्यस्मृतिः ॥
१ दन्योपमामाकल्पं ऊ. २ मधुलवमुचां ङ. ३ मार्थनामर्थितायाः. ४ यावत्प्रत्यकू. ५ प्राचीसमुद्रादमितनृपशिरोरत्न.
For Private And Personal Use Only
Page #525
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
याज्ञवल्क्यस्मृतिपद्यानां वर्णानुक्रमः ।
श्लोकाः
अकामतः कामचारे
अकारणे च विक्रोष्टा
...
...
अकार्यकारिणां दानं अकूटैरायुधैयन्ति ते अकूटं कूटकं ब्रूते अक्रुद्धोऽपरितुष्टश्च अक्षता च क्षता चैव
अक्षतायां क्षतायां वा अक्षतालूषकोणी अक्षयोऽयं निधी राज्ञां अक्षिकर्णचतुष्कं च अगृहीते समं दाप्यः
अगृहीते समं दाप्यः अग्निकार्यं ततः कुर्यात्... अग्निदानां च ये लोका...
अग्निर्जलं वा शूद्रस्य अग्निवर्णं न्यसेत्पिण्डं अग्नीन्वाप्यात्मसात्कृत्वा अमेः सकाशाद्विप्रानौ
अग्नौ करिष्यन्नादाय अम्मी सुवर्णभक्षीणं अय्याः सर्वेषु वेदेषु अजः शरीरग्रहणात् अजात जातिकरणे अजाश्वयोर्मुखं मेध्यं अज्ञानात्तु सुरां पीत्वा
अत ऊर्ध्वं पतन्त्येते अतिथित्वेन वर्णानां अतिथिं श्रोत्रियं तृप्त अतीताथ स्मृतिः कस्य अतीतायामप्रजसि
...
...
...
...
...
...
...
...
...
...
...
...
...
...
006
...
...
...
...
...
...
...
...
...
GOD
...
...
...
...
...
...
...
...
...
...
...
...
...
www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
...
...
पृष्ठम्
श्लोकाः
२३९ | अतो न रोदितव्यं हि
२६७ | अतो यतेत तत्प्राप्यै ३२५ । अतो यदात्मनोऽपथ्यं १०१ अत्राहममुकः साक्षी २६८ | अथवाप्यभ्यसन्वेदं ३३३ | अदत्तादाननिरतः
११ अनाख्याय ददद्दोषं ३३ अनादिरात्मा कथितः
३५ | अनादिरात्मा संभूतिः ३५७ | अनादिरादिमांश्चैव ••• २२९ | अनादिष्टेषु पापेषु
...
...
१८१ अधीतवेदो जपकृत्
अध्याप्या धर्मतः साधु
१८८
३३३ | | अध्यायानामुपाकर्म ९९ अध्वनीनोऽतिथिज्ञेयः
७३ | अनन्नममृतं चैव
२४७ | अनन्ताश्च यथा भावाः
६८ अनन्ता रश्मयस्तस्य ३४० | अनन्यपूर्विकां कान्तां
२६९ | अनन्यविषयं कृत्वा
६१ अनभिख्यात दोषस्तु
४०१
अनर्चितं वृथामांसं
...
...
१८ | अदत्तान्यग्निहीनस्य २१३ | अददद्धि समाप्नोति ३४५ | अदीर्घसूत्रः स्मृतिमान् ...
...
९९ | अदुष्टां तु यन्दण्ड्यो ३४७ अदेशकालसंभाषं
For Private And Personal Use Only
...
...
...
२५३ | अद्भिस्तु प्रकृतिस्थाभिः ... २८८ | अधर्मदण्डनं स्वर्गः ८ अधिविन्नस्त्रियै दद्यात्
१६७ | अधिविन्ना तु भर्तव्या
...
...
...
...
200
...
...
...
...
...
840
...
...
...
...
...
800
800
...
...
...
...
...
...
...
...
...
...
...
...
...
⠀⠀⠀⠀⠀⠀
...
...
...
...
:
...
000
...
...
...
...
...
...
...
पृष्टम्
३०१
१०८
३३९
१७५
३६७
३५४
४८
१४६
९७
१८
२८३
७
१०९
२३१
२०
३३५
८
४४
३५
३३
३५३
३६०
१३
३४९
४७०
५०
१८
३५१
३५२
३६३
४८७
Page #526
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
याज्ञवल्क्यस्मृतिः।
६६
२७६
७
.. ११४
७२
श्लोकाः पृष्टम् श्लोकाः
पृष्ठम् अनाशकानलापात. ... ... ३५८ अन्यहस्ते च विक्रीय ... ... २७२ अनाहिताग्नितापण्य
अन्यत्र कुलटाषण्ड ... अनिग्रहाच्चेन्द्रियाणां ...
अन्यथावादिनो यस्य ... अनिन्द्येषु विवाहेषु
अन्यायेन नृपो राष्ट्रात् ... अनिबद्धप्रलापी च
अन्येऽपि शङ्कया ग्राह्याः अनियुक्तो भ्रातृजायां
अन्योदर्यस्तु संसृष्टी ... अनिवेदितविज्ञातो
अन्योन्यापहृतं द्रव्यं ... अनिवेद्य नृपे दण्ड्यः ...
अन्विता यान्त्यचरितं ... अनिवेद्य नृपे शुध्येत् ... ... ४०५ | अपनःशोशुचदघम् ... ... २९६ अनिश्चित्य भृतिं यस्तु ... ... २५३ अपरान्तकमुल्लोप्यं ... अनुगम्याम्भसि स्नात्वा
अपराह्ने समभ्यर्च्य अनुपाकृतमांसानि ... ... ५१ अपश्चात्तापिनः कष्टान् ... अनृते तु पृथग्दण्ड्या . ...
अपश्यतः कार्यवशात् ... अनेकपितृकाणां तु ...
अपसव्यं ततः कृत्वा ... अनेन विधिना जातः ...
अपहता इति तिलान् ... अनेन विधिना देहं ...
अपि भ्राता सुतोऽर्यो वा अनेन विधिराख्यातः
अपुत्रां गुर्वनुज्ञातो . १९ अनौरसेषु पुत्रेषु ...
अपुत्रा योषितश्चैषां ... अन्तरा जन्ममरणे ...
अपुत्रेण परक्षेत्रे ... अन्तरा पतिते पिण्डे ...
अपोशनक्रियापूर्व ... अन्तरे च तयोर्यः स्यात् ... २६८ अप्रजस्त्रीधनं भर्तुः ... अन्तर्जले विशुध्येत ...
अप्रणोद्योऽतिथिः सायं अन्तर्जानुः शुचौ देशे ...
अप्रदुष्टां स्त्रियं हत्वा ... ... ४३३ अन्तर्धानं स्मृतिः कान्तिः
अप्रमत्तश्चरेद्रेक्षं ... अन्तेवासी गुरुप्राप्तो ...
अप्रयच्छन्समाप्नोति अन्त्यपक्षिस्थावरतां ... ... ३५३ । अप्राप्तव्यवहारं च अन्त्यजैगर्दभैरुष्ट्रः ...
अफालकृष्टेनानींश्च अन्त्याभिगमने स्वयः ...
अबध्यं यश्च बध्नाति अन्धोऽचिकित्स्यरोगाद्यः
अब्भक्षो मासमासीत अन्नहर्तामयावी स्यात् ...
अब्रुवन्हि नरः साक्ष्यं अन्नमिष्टं हविष्यं च ...
अब्लिङ्गानि जपेञ्चैव ... अन्नमादाय तृप्ताः स्थ ... ... ७५ अभक्ष्येण द्विजं दूष्य ... ... २८९) अन्नं पर्युषितं भोज्यं ...
अभावे ज्ञातयस्तेषां अन्नं भूमौ श्वचाण्डाल ... ... ३२ अभावे ज्ञातृचिह्नानां ... ... २३५ अन्नं पितृमनुष्येभ्यो ... ... ३३ / अमिगन्तास्मि भगिनीं... ...
س
ه ه
ه
ه
... २६९
ه
ه
ه
.. २५८
For Private And Personal Use Only
Page #527
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पद्यानां वर्णानुक्रमः ।
१२५
12.
१२८
. २४०
.. २५८
१००
.. १९४
२१६
2
श्लोकाः पृष्ठम् श्लोकाः
पृष्टम् अभिघाते तथा छेदे ... ... २६४ अर्थशास्त्रात्तु बलवत् ... ... १३२ अभियुक्तं च नान्येन ...
अर्थस्य संचयं कुर्यात् ... अभियोगमनिस्तीर्य ... १२४ अर्थानां छन्दतः सृष्टिं ... अभियोगे च साक्ष्ये वा
अर्धत्रयोदशपणः ... अभिरम्यतामिति वदेत्
अर्थोऽधमेषु द्विगुणः ... अभिलेख्यात्मनो वंश्यान्
अर्वाक् चतुर्दशादह्रो ... अभिशस्तो मृषा कृच्छ्रे ... ... ४४५ अर्वाक्सपिण्डीकरणं ... ... ८२ अभ्रातृको हरेत्सर्वं ...
अक्सिंवत्सरात्स्वामी अमावास्याऽष्टका वृद्धिः
अलंकृतां हरन्कन्यां अमेध्यपाणिनिष्ठश्च ... । अलब्धमीहेद्धर्मेण ... अमेध्यशवशूद्रान्य ... ... ४५ | अवकीर्णी कुण्डगोलौ ... ... ६९ अमेध्याक्तस्य मृत्तोयैः ...
अवकीर्णी भवेद्वा अम्बष्ठः शृयां निषादो ...
अवटश्चैवमेतानि ... अयं तु परमो धर्मः ...
अबरुद्धासु दासीषु ... अयं मे वज्र इत्येवं ... ... | अविज्ञातहतस्याशु अयमेवातिकृच्छ्रः स्यात्
अविप्लुतब्रह्मचर्यः अयनं देवलोकं च ... ... ३६५ अविप्लुतमतिः सम्यक् ... ... ३५९ अयाचिताहृतं ग्राह्यम् ...
अविभक्तैः कुटुम्बार्थे ... अयाचिताशी मितभुक् ...
अवीचिमन्धतामिस्र अयुक्तं शपथं कुर्वन् ... ... २६७ | अवीरास्त्रीवर्णकार ... ... ४९ अयोनौ गच्छतो योषां ...
अव्यक्तमात्मा क्षेत्रज्ञः ... अरक्ष्यमाणाः कुर्वन्ति ...
अशक्तस्तु वदन्नेवं ... अरण्ये निर्जले देशे
अशी तिभागो वृद्धिः स्यात् अरण्ये नियतो जप्त्वा ...
अश्वमेधफलं तस्य ... अराजदैविकं नष्टं
अश्वरत्नमनुष्यस्त्री ... अरिमित्रमुदासीनो. ... ... १०६ | अश्वस्थानाद्गजस्थानात् ... ... ९० अरोगामपरिक्लिष्टां
| अश्वानायुश्च विधिवत् ... अरोगिणीं भ्रातृमती
अष्टमे मास्यतो गर्भो ... अरोगित्वं यशो वीत.
अष्टौ त्रपुणि सीसे च ... २४७ अर्कः पलाशः खदिरः ...
असच्छास्त्राधिगमनं ... अर्घप्रक्षेपणाद्विशं ...
असत्कार्यरतो धीरः ... अर्घस्स ह्रासं वृद्धि वा ...
असत्सन्तस्तु विज्ञेयाः ... अर्घोऽनुग्रहकृत्कार्यः ... ... असंबद्धकृतश्चैव
१४३ अाक्षेपातिक्रमकृत् ... ... २६६ | असंसृष्ट्यपि वाऽदण्ड्यः ... २२६ अाथै पितृपात्रेषु ... ... ७८ | असाक्षिकहते चिह्नः ... ... २६१
:::::::::::::::::::::::::::::::::::
मन
...
३६२
... १०४ ।
२५९
१४६
९
• ३७९
३४४
mmm
३५५
For Private And Personal Use Only
Page #528
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
याज्ञवल्क्यस्मृतिः।
WWW AM
.. १७६
१६०
• १३५
श्लोकाः पृष्टम् श्लोकाः
पृष्टम् असिपत्रवनं चैव ... ... ३७४ आत्मतुल्यं सुवर्ण वा ... ... ४०५ अस्कन्नमव्यथं चैव
आत्मनस्तु जगत्सर्वं ... अस्थिमतां सहस्रं तु
आत्मनोऽर्थे क्रियारम्भो अस्नेहा अपि गोधूम
आत्मा गृह्णात्यजः सर्वं ... अखऱ्या लोकविद्विष्टं ...
आदन्तजन्मनः सद्यः ... अहंकारश्च बुद्धिश्च ...
आदातुश्च विशुद्ध्यर्थं ... अहंकारः स्मृतिर्मेधा ...
आदित्यस्य सदा पूजां ... ... अहंकारेण मनसा
आदिमध्यावसानेषु ... अहःशेष समासीत
| आधयो व्याधयः क्लेशाः ... ३३८ अहन्येकादशे नाम ...
आधानं विक्रयं वापि ... अहस्वदत्तकन्यासु
आधिः प्रणश्येद्विगुणे ... अहिंसा सत्यमस्तेयं ... ... ३७ आधिवेदनिकाद्यं च ... ... २२८ अहिंसा स्तेयमाधुर्ये ...
आधिसीमोपनिक्षेप ... अहो मासस्य षण्णां वा
आधिस्तु भुज्यते तावत् आकाशपवनज्योति. ...
आधेः स्वीकरणात्सिद्धिः । आकाशमेकं हि यथा ...
आधौ प्रतिग्रहे क्रीते ... आकाशालाघवं सौक्ष्म्यं ...
आध्यादीनां विहारं ... आकृष्णेन इमं देवाः ...
आनीय विप्रसर्वखं आगमस्तु कृतो येन ...
आपद्गतः संप्रगृह्णन् आगमेनोपभोगेन ...
आपद्यपि हि कष्टायां आगमेऽपि बलं नैव ...
आपोशनेनोपरिष्टात् आगमोऽभ्यधिको भोगात्
| आमाशयोऽथ हृदयं ... आगर्भसंभवाद्गच्छेत्
आमृत्योः श्रियमाकाङ्क्षन् आगामिभद्रनृपति
आयुः प्रजां धनं विद्यां आचम्याग्न्यादि सलिलं ... ... ३०१ आयुष्कामस्तथैवायुः ... ... ४९१ आचरेत्सदृशीं वृत्तिम् ...
आरामायतनग्रामा ... आचान्तः पुनराचम्य ... ... ६२ आरोग्यबलसंपन्नो ... ... ९६ आचार्यत्वं श्रोत्रियश्च ...
आा गया तथाऽगत्या । आचार्यपत्नी वसुतां
आर्द्रवासास्तु हेमन्ते ... आचार्यपित्रुपाध्याया ...
आवाहनाग्नौकरण ... आचार्योपासनं वेद
आवाहयेदनुज्ञातो ... आजीवन्वेच्छया दण्ड्यः ... १६३ आवाह्य तदनुज्ञातो ... ... ७२ आज्ञासंपादिनी दक्षां ... ... २० आवेक्ष्या गर्भवासाश्च ... आतृप्तेस्तु पवित्राणि ... ... ७५ आवेदयति चेद्राज्ञे ... आत्मज्ञः शौचवान्दान्तः ... ३५४ आशुद्धेः संप्रतीक्ष्यो हि
१३८
३९१
१४१
२४२
.. ३२०
३३
१३९
२३६
..३६१
ww
३
.. ११६
For Private And Personal Use Only
Page #529
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पद्यानां वर्णानुक्रमः।
२९४
m
श्लोकाः पृष्ठम् श्लोकाः
पृष्ठम् आश्मशानादनुव्रज्य ... ... उत्पन्ने खामिनो भोगः ... ... आषोडशादा द्वाविंशात्... ... १० उत्सृष्टो गृह्यते यस्तु ... ... २१४ आसुरो द्रविणादानात् ... | उदक्याशुचिभिः स्नायात् आस्तिकः श्रद्दधानश्च ... ... ८७ उदक्या स्पृष्टसंघुष्टं ... ... ५० आहरेद्विधिवद्दारान् ... ... २७ उदरं च गुदौ कौष्ठ्यौ ... ... ३४६ आहुत्याप्यायते सूर्यः ... ... ३४१ उदुम्बरः शमी दूर्वा ... ... ९५ आहूतश्चाप्यधीयीत ... ... उद्भूर्णे प्रथमो दण्डः ... इच्छतां तत्क्षणाच्छुद्धिः ... ३०२ उद्गणे हस्तपादे तु ... इज्याचारदनाहिंसा ... ... ४ उद्बुध्यस्वेति च ऋचो ... ... इज्याध्ययनदानानि ... ... ३६ उपजिह्वास्फिजौ वाहू ... इतरेण निधौ लब्धे ... ... १४५ उपजीव्यह्रमाणां च ... इति संचिन्त्य नृपतिः ... ... १०९ उपतिष्ठतामक्षय्यस्थाने ... इति संश्रुत्ल गच्छेयुः ...
उपनीय गुरुः शिष्यं इतिहासांस्तथा विद्याः ... ... १२ उपनीय ददद्वेदं ... इत्युक्तोक्त्वा प्रिया वाचः ... ७६, उपपातकजातानाम् ... इत्युक्त्वा धरतां धर्म ... ... १७/ उपपातकयुक्त तु ... इत्येतदस्थिरं वर्म ... | उपपातकशुद्धिः स्यात् ... इदमूचुर्महात्मानं ...
उपवासेन चैवायं ... इन्द्रियाणि मनः प्राणो ...
उपस्थानं ततः कुर्यात् ... ... इन्द्रियान्तरसंचार. ...
उपस्थितस्य मोक्तव्यः ... इन्धनार्थ द्रुमच्छेदः ...
उपाकर्मणि चोत्सर्गे ... ... इमे लोका एष चात्मा ...
उपायाः साम दानं च ... इष्टं स्यात्क्रतुमिस्तेन ...
उपासते द्विजाः सत्यं ... इह कर्मोपभोगाय ...
उपास्य पश्चिमां संध्यां ... इह लोके यशः प्राप्य ...
उपेयादीश्वरं चैव ... इह वामुत्र वैकेषां ... ... ३५४ | उभयानुमतः साक्षी ... ... १६६ इहैव सा शुनी गृध्री ... | उभयाभ्यर्थितेनैतत् ईश्वरः स कथं भावैः ...
उभयोः प्रतिभूग्राह्यः .. १२६ ईश्वरः सर्वभूतस्थः ...
उभयोरप्यसाध्यं चेत् उक्तेऽपि साक्षिभिः साक्ष्ये ... १६९ | उभयोरप्यसौ रिक्थी ... . २११ उच्छिष्टसंनिधौ पिण्डान्
उरगेष्वयसो दण्डः उत्कोचजी विनो द्रव्य. ...
उरः सप्तदशास्थीनि उत्क्षेपकग्रन्थिभेदौ ... ... २७९ ऊनद्विवर्ष निखनेत् ... २९४ उत्तमो वाधमो वापि ... ... २८१ ऊनद्विवर्ष उभयोः ... उत्तानं किंचिदुन्नाम्य ... ... ३६६ / ऊनं वाभ्यधिकं वापि ... ...
x m
m
or mo
or
to
x
m
... २५४
m
o
.. २८९
For Private And Personal Use Only
Page #530
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
याज्ञवल्क्यस्मृतिः।
श्लोकाः
.. १९२
२
..४८३
पृष्टम् | श्लोकाः
पृष्टम् ऊरुस्थोत्तानचरणः ... ३६६ एवं मातामहाचार्य ऊर्ध्वमेकः स्थितस्तेषां ... ... ३६० एवं विनायकं पूज्य ... ... ऋग्गाथा पाणिका दक्ष
एवमस्त्विति होवाच ... ऋग्यजुःसामविहितं ...
एवंवृत्तोऽविनीतात्मा ऋणं दद्यात्पतिस्तासां ...
एवमस्यान्तरात्मा च ऋणं लेख्यकृतं देयं ...
एवमुक्त्वा विषं शाझं ... ऋतुसंधिषु भुक्त्वा वा
एवमेतदनाद्यन्तं ... ऋत्विक्पुरोहिताचार्यैः ...
एवमेनः शमं याति ... ऋत्विक्पुरोहितापत्य. ... ... एष एव विधिर्जेयः ... ऋत्विजां दीक्षितानां च
एष एव विधिज्ञेयः ... ऋषभैकसहस्रा गाः ...
एषां त्रिरात्रमभ्यासात्... एकं घ्नतां बहूनां च ...
एषामन्नं न भोक्तव्यं एकदेशमुपाध्यायः ...
एषामन्यतमाभावे एकभक्तेन नक्तेन
एषामपतितान्योन्य ... एकरात्रोपवासच
एषामभावे पूर्वस्य एकरात्रोपवासश्च
एषामसंभवे कुर्यात् ... एकादशगुणं दाप्यो
ऐणरौरववाराह ... एकारामः परिव्रज्य
ओङ्कारामिष्टुतं सोमं एकैकस्यात्राष्टशतम्
औरसाः क्षेत्रजास्त्वेषां एकैकं ह्रासयेत्कृष्णे
औरसो धर्मपत्नीजः ... एकोद्दिष्टं देवहीनम्
औवेणकं सरोबिन्दुम् ... एकोनत्रिंशल्लक्षाणि
औष्ट्रमैकशर्फ स्त्रैणम् एतद्यो न विजानाति
कटेारौ यथा पक्के एतत्सपिण्डीकरणम् ...
कथमेतद्विमुह्यामः एतान्सर्वान्समाहृत्य ... ... ९२
कदर्यबद्धचौराणां एते महापात किनो
कनिष्टादेशिन्यङ्गुष्ठ एते मान्या यथापूर्व
कनीनिके चाक्षकूटे एतैः प्रभूतैः शूद्रोऽपि
कन्धराबाहुसक्नांच एतैरुपायैः संशुद्धः
कन्यां कन्यावेदिनश्च एतैरेव गुणैर्युक्तः ...
कन्याप्रदः पूर्वनाशे एभिश्च व्यवहर्ता यः ...
कन्याप्रदानं तस्यैव एभिस्तु संवसेद्यो वै ...
कन्यासंदूषणं चैव एवं गच्छन् स्त्रियं क्षामां
कन्यां समुद्वहेदेषां एवं पुरुषकारेण ...
कपिला चेत्तारयति एवं प्रदक्षिणावृत्को ... ... ७७ करणैरन्वितस्यापि ... ...
२५.
... ३५१
कना
...
6
-
5 4
६
4 -
.. २६८
९८१
४१२
• ३८१
१०८
..
६४
For Private And Personal Use Only
Page #531
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
श्लोकाः
करपाददतो भने करोति किंचिदभ्यासात् करोति तृणमृत्काष्ठैः करोति तृप्तिं कुर्याच करोति पुनरावृत्ति करोति यः स संमूढो करो विमृदितव्रीहेः कर्णौ शंखौ भ्रुवौ दन्त.. कर्तव्यं वचनं तेषां कर्तव्यं वचनं सर्वैः कर्तव्याप्रयणेष्टिश्च
...
...
...
...
...
...
...
...
...
कर्तव्या मन्त्रवन्तश्च कर्तव्याशय शुद्धिस्तु कर्मक्षयात्प्रजायन्ते कर्मणा द्वेषमोहाभ्यां कर्मणां फलमाप्नोति कर्मणा मनसा वाचा कर्मणां संनिकर्षाच कर्मनिष्ठास्तपोनिष्ठा कर्मभिः स्वशरीरोत्थैः कर्म स्मार्त विवादमौ कर्मेन्द्रियाणि जानीयात् कलविङ्कं सकाकोलं कलहापहृतं देयं कानीनः कन्यकाजातो...
कान्तारगास्तु दशकं कामतो व्यवहार्यस्तु कामवकीर्ण इत्याभ्यां कामोदकं सखिप्रत्ता कारणान्येवमादाय कारयेत्सर्वदिव्यानि कारुहस्तः शुचिः पण्यं ... कार्मिके रोमबद्धे च कार्यौ द्वितीयापराधे. काल कर्मात्मबीजानां या० ४५
⠀⠀⠀⠀⠀⠀⠀⠀⠀
...
...
...
...
***
...
...
⠀⠀⠀
***
...
***
⠀⠀⠀⠀
0.0
...
...
पद्यानां वर्णानुक्रमः ।
...
...
...
...
...
***
...
...
...
...
...
...
..
...
...
...
***
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
200
www. kobatirth.org
DA
Acharya Shri Kailassagarsuri Gyanmandir
पृष्ठम्
श्लोकाः
२६३ काले कालकृतो नश्येत्
३४० || कालोऽग्निः कर्म मृद्वायुः
३५६ | काषायवाससश्चैव
३२ | काष्ठोष्ठेषुपाषाण ३६५ किंचित्सास्थिवधे देयं ३०० कुमारी च न भर्तारं १८७ | कुरुष्वेत्यभ्यनुज्ञातो ३४७ कुर्याच्छुशुरयोः पाद २५२ | कुर्यात्रिषवणखायी २५२ | कुर्यात्प्रत्यभियोगं च ३८ कुर्यात्प्रदक्षिणं देवम् ९५ | कुर्याद्यथास्य न विदुः ३३८ | कुर्यान्मूत्रपुरीषे च ३६८ कुलानि जाती: श्रेणीश्च ३५८ | कुशाः शाकं पयो मत्स्या ९३ |कुशूलकुम्भीधान्यो वा ...
...
...
...
For Private And Personal Use Only
...
...
...
...
...
...
...
४७ | कुसीदकृषिवाणिज्य ३५९ | कूटस्वर्णव्यवहारी ६८ | कूष्माण्डो राजपुत्रश्च ३०१ | कृच्छ्रक्रुद्धर्मकामस्तु ३१ कृच्छ्रं चैवातिकृच्छ्रं च ३४६ | कृच्छ्रत्रयं गुरुः कुर्यात्... ५२ | कृच्छ्रातिकृच्छ्रः पयसा ... २६३ | कृच्छ्रातिकृच्छ्रोऽसृक्पाते २१३ | कृतज्ञाद्रोहिमेधा वि
...
...
...
...
...
१४७
कृतरक्षः समुत्थाय ३७४ | कृतशिल्पोऽपि निवसेत्
४४२ कृताकृतांस्तन्दुलांश्च २९७ | कृताद्मिकार्यो भुञ्जीत ३५७ | कृतेऽन्तरे त्वहोरात्रं १८० कृतोदकान्समुत्तीर्णान्
५७ कृत्तिकादिभरण्यन्तं
...
***
...
...
...
...
...
::
638
...
...
...
...
...
२४७ कृत्वा हि रेतोविण्मूत्रे.
२७९ | कृत्वेदं विष्णुरित्यने
३५९ ] कृमिकीटपतङ्गत्वं
...
...
...
...
...
...
...
...
...
...
... ४९०
४१७
४४३
૪૮૨
४६३
८
१०२
२५०
९२
९
...
...
...
...
...
600
..
...
....
...
...
...
५००
पृष्टम्
१५८
३२४
८९
२९०
४३६
८९
७३
२४
...
४८५
१२६
४१
१०६
६
११०
६६
३९
३७
२८९
९१
४५
३००
८७
४७५
७४
३६८
Page #532
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पृष्ठम्
...
४३४
...
९
...
१
याज्ञवल्क्यस्मृतिः। श्लोकाः
पृष्ठम् . श्लोकाः कृषिः शिल्पं भृतिर्विद्या ... ३२९ खराजमेषेषु वृषो ... कृष्णलः पञ्च ते माषः... ११० खरोष्ट्रयानहस्त्यश्व कृष्णा गौरायसं छागः ...
गजे नीलवृषाः पञ्च केचिद्देवात्स्वभावाद्वा ... ... १०७ गणद्रव्यं हरेद्यस्तु. ... केशभस्मतुषाङ्गार
४३ गणानामाधिपत्ये च कोऽन्यथैकेन नेत्रेण
गते तस्मिन्निमनाङ्गं कोयष्टिप्लवचक्राह्व ...
गन्त्री वसुमती नाशम् ... कोले घृतघटो देयः
गन्धरूपरसस्पर्श कौशेयनीललवण. ... | गन्धलेपक्षयकर क्रमशो मण्डलं चिन्यं ... ... गन्धश्च बलयश्चैव ... क्रमात्ते संभवन्तीह ... ... गन्धोदकतिलैर्युक्तं ... क्रमात्ते संभवन्यर्चिः ... ... गम्यं त्वभावे दातॄणां क्रमादभ्यागतं द्रव्यं ...
गम्याखपि पुमान्दाप्यः कयो वा निःस्रवस्तस्मात्
| गर्दभं पशुमालभ्य क्रव्यादपक्षिदात्यूह ... ... ५२ गभर्तृवधादौ च ... क्रियमाणोपकारे तु ... ... गर्भस्य वैकृतं दृष्टम् क्रीडां शरीरसंस्कारं ....
गर्भस्रावे मासतुल्या क्रीतलब्धाशना भूमौ ... ... गर्भहा च यथावण क्रीतश्च ताभ्यां विक्रीतः...
गर्भाधानमृतौ पुंसः क्रीत्वा नानुशयः कार्यः
गर्भाष्टमेऽष्टमे वादे क्रूरोगपतितव्रात्य ...
गायत्रीजप्यनिरतः ... क्रेता मूल्यमवाप्नोति ...
गायत्री शिरसा साध क्लीबोऽथ पतितस्तज्जः ...
गीतज्ञो यदि योगेन क्षत्रजात्रियेकभागा ... ... | गीतनृत्यैश्व भुञ्जीत क्षत्रस्य द्वादशाहानि ...
गुडौदनं पायसं च क्षत्रिया मागधं वैश्यात् ... गुणिद्वैधे तु वचनं क्षयं वृद्धिं च वणिजा. ... . ... २७३ | गुरवे तु वरं दत्त्वा . ... क्षात्रेण कर्मणा जीवेत् ...
गुरुं चैवाप्युपासीत ... क्षुद्रमध्यमहाद्रव्य
| गुरुं हुंकृत्य त्वंकृत्य क्षुद्रात्रं वृक्कको बस्तिः ...
गुरूणामध्यधिक्षेपो क्षेत्रजः क्षेत्रजातस्तु ... | गुर्वन्तेवास्यनूचान क्षेत्रज्ञस्येश्वरज्ञान . ...
गुल्मगुच्छचपलता. ... क्षेत्रस्य हरणे दण्डा ... ... गृहधान्याभयोपानत् . .... क्षेपं करोति चेद्दण्ड्यः ... . ... २५७ | गृहीतमूल्यं यः पण्यं ... खरपुल्कसवेणानां ..... ... ३६८ | गृहीतवेतनः कर्मः ...
. १०३
...
For Private And Personal Use Only
Page #533
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
.
.
..
.
०
6. S
पद्यानां वर्णानुक्रमः। श्लोकाः पृष्ठम् ) श्लोकाः
पृष्ठम् गृहीतवेतना वेश्या ... ... २८७ घटेऽपवर्जिते ज्ञाति ... ... गृहीतः शङ्कया चौर्ये
घातितेऽपहृते दोषो गृहीतशिश्नश्चोत्थाय ...
चण्डालो जायते यज्ञ गृहीतं स्त्रीधनं भर्ता
चतुर्दश प्रथमजः ... गृहीतानुक्रमाद्दाप्यो
चतुर्विंशतिको दण्डः ... गृहीत्वोत्कृत्य वृषणौ
चतुष्पादकृतो दोषः ... गृहेऽपि निवसन्विप्रो
। चतुष्पाद्यवहारोऽयं ... गृहे प्रच्छन्न उत्पन्नो
चतुनियेकभागाः स्युः... गृह्णन्प्रदातारमधो
चत्वारो वेदधर्मज्ञाः ... गृह्णीयाभूर्तकितवात् ...
चत्वार्यरनिकास्थीनि ... गेयमेतत्तदभ्यास ...
चरितव्रत आयाते ... गोध्रातेऽने तथा केश ... ... चरित्रबन्धककृत गोघ्रातं शकुनोच्छिष्टं ...
चरुनुक्खुवसस्नेह ... गोपशौण्डिकशैलूष ...
चरेद्रतमहत्वापि ... गोपस्ताव्यस्तु गोमी तु ... चर्मण्यानडुहे रक्ते गोपाः सीमाकृषाणाश्च ... ... चाटतस्करदुर्वृत्त ... गोप्याधिभोगे नो वृद्धिः
चान्द्रायणं चरेत्सर्वा
सवा ... ... ४१६ गोब्राह्मणानलान्नानि ...
चान्द्रायणं वा त्रीन्मासान् गोब्राह्मणार्थ संग्रामे ... ... चान्द्रायणै येत्कालं
... ... ३३२ गोभूतिलहिरण्यादि ... ... ६३ चाषांश्च रक्तपादांश्च ... गोवधो व्रात्यता स्तेय ...
चिकित्सकातुरक्रुद्ध गोष्ठे वसन्ब्रह्मचारी ...
चीर्णव्रतानपि सतः गोष्ठेशयो गोऽनुगामी ...
चेष्टाभोजनवाग्रोधे गौरसर्षपकल्केन ...
चैत्यश्मशानसीमासु ... गौरस्तु ते त्रयः षद ते
चैलधावसुराजीव गौर्देया कर्मणोऽस्यान्ते... ... चौरं प्रदाप्यापहृतं ... ग्रहणान्तिकमित्येके ... ... १०
छलं निरस्य भूतेन ग्रहाणामिदमातिथ्यं ... ... छिन्ननस्येन यानेनः ... ग्रहाधीना नरेन्द्राणां ...
जगदानन्दयेत्सर्वम् प्रामादाहृत्य वा ग्रासान्
जगदुद्भूतमात्मा च ... ग्राम्येच्छया गोप्रचारो ... ... जघनादन्तरिक्षं च ... प्राहकैह्यते चौरो ... ... २७६ जपन्नासीत सावित्री ... प्रीवा पञ्चदशास्थिः स्यात् ... ३४५ जपः प्रच्छन्नपापानां ... ... प्रीष्मे पञ्चाग्निमध्यस्थो... ... ३३३ / जपयज्ञप्रसिद्ध्यर्थ ग्लहे शतिकवृद्धस्तु ... ... २५५ जना यथासुखं वाच्यः ... ७४
१०४
Tr".ir७ ७ms
२६३
For Private And Personal Use Only
Page #534
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
याज्ञवल्क्यस्मृतिः।
श्लोकाः
३५९
पृष्ठम् । श्लोकाः जप्त्वा सहस्रं गायत्र्याः ... ... ४७७ | ततोऽभिवादयेदृद्धान् ... जलं पिबेत्राञ्जलिना ... ... ततोऽर्थी लेखयेत्सद्यः ... जलं प्लवः पयः काको ...
तत्कर्मणामनुष्ठानं ... जलमेकाहमाकाशे ...
तत्कालकृतमूल्यो वा ... जलान्ते छन्दसां कुर्यात्
तत्पुनस्ते समैरंशः ... जले स्थित्वाभिजुहुयात्
तत्प्रमाणं स्मृतं लेख्यं ... जातद्रुमाणां द्विगुणो ... ... तत्र गत्वावतिष्ठन्ते ... जातिरूपवयोवृत्त ... ... ३५७ तत्र तत्र च निष्णाताः ... जातोऽपि दास्यां शूद्रेण
तत्र तत्र तिलैहोमो ... जात्युत्कर्षो युगे ज्ञेयः ... ... तत्र दुर्गाणि कुर्वीत ... जायन्ते लक्षणभ्रष्टाः ...
तत्र देवमभिव्यकं ... जायन्ते विद्ययोपेताः ... ... ३७१ तत्र स्यात्सदृशं खाम्यं ... ... २०६ जालपादान्खजरीटान्
तत्र स्यात्वामिनश्छन्दो जालसूर्यमरीचिस्थं
तत्रात्मा हि खयं किंचित् जितमुद्राहयेज्जेने ... ... २५६ / तत्राष्टाशीतिसाहस्रं ... ... ३६४ जितं ससभिके स्थाने ... | तत्त्वस्मृतेरुपस्थानात् ... जिलं त्यजेयुर्निर्लाभ ...
तत्सत्यं वद कल्याणि ... . १८३ जीवेद्वापि शिलोञ्छेन ...
तत्सर्वं तस्य जानीहि ... जुगुप्सेरन्न चाप्येनं ...
तत्सिद्धौ सिद्धिमाप्नोति ... जुहुयान्मूर्धनि कुशान्
तत्सुता गोत्रजा बन्धुः... ज्येष्ठं वा श्रेष्ठभागेन ... ... २०० तथाच्छादनदानं च ... ज्ञातयो वा हरेयुस्तत् ...
तथात्मैको ह्यनेकश्च ... ज्ञातिश्रेष्ठ्यं सर्वकाम ...
तथा पाठीनराजीव ... ज्ञात्वाऽपराधं देशं च ...
तथा मांसं श्वचण्डाल ... ज्ञात्वा राजा कुटुम्बं च ... ३२९ तथा वर्षत्रयोदश्यां ... ज्ञानोत्पत्तिनिमित्तत्वात् ... ... तथाऽविपक्ककरणः ... झेयं चारण्यकमहं ...
तथा शक्तः प्रतिभुवं ... ज्ञेयज्ञे प्रकृतो चैव ... ... ३५८ तथाश्वमेधावभृथ तक्षणं दारुशृङ्गास्त्रां ...
तथैव परिपाल्योऽसौ तज्जः पुनात्युभयतः ...
तथैवानाश्रमे वासः ... ततः शुक्लाम्बरधरः ... ... ९३ तथोपनिधिराजनी ततस्तान्पुरुषोऽभ्येत्य
तद्ददत्समवाप्नोति ततः स्वैरविहारी स्यात्
तदन्नं रसरूपेण... ... ततो ध्येयः स्थितो योऽसौ ... ३६६ / तदन्नं विकिरेझूमौ । ततो निष्कल्मषीभूताः... ... ३७१ | तदभावेऽस्य तनये ...
१६७
. १२४
. २७५
For Private And Personal Use Only
Page #535
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पद्यानां वर्णानुक्रमः।
mmm Mmm MM
१८३
.. ४८३
.
१२
९०
३६१
श्लोकाः पृष्ठम् श्लोकाः
पृष्ठम् तदर्ध मध्यमः प्रोकः ... ... १११ तावन्त एव मुनयः ... ... ३६४ तदवाप्य नृपो दण्डं ...
तावद्गौः पृथिवी ज्ञेया ... ... तदहर्न प्रदुष्येत ...
तित्तिरौ तु तिलद्रोणं ... ... तनिमित्तं क्षतः शस्त्रैः ...
तिथिवृद्ध्या चरेत्पिण्डान् ... तन्मन्त्रस्य च भेत्तारं ...
तिलौदनरसक्षारान् ... ... तन्मात्रादीन्यहंकारात् ... ... ३६३ | तिस्रो वर्णानुपूर्येण ... ... १६ तन्मूले द्वे ललाटाक्षि
तुलाग्न्यापो विषं कोशो... तन्मूल्यादिगुणो दण्डो... ... २६६
तुलाधारणविद्वद्भिः ... तपसश्च परस्येह... ... ... १२ तुलापुरुष इत्येषः ... तपसा ब्रह्मचर्येण ... ... २६४ तुलाशासनमानानां. ... ... २६८ तपस्तावासृजब्रह्मा ...
तुला स्त्रीबालवृद्धान्ध ... ... १८१ तपखिनो दानशीलाः ...
तूष्णीमेताः क्रियाः स्त्रीणां ... तपो वेदविदां क्षान्तिः ... ३२५ | तृणगुल्मलतात्वं च ... . ... ३६८ तप्तक्षीरघृताम्बूनाम्
तृप्त्यर्थ पितृदेवानां ... तप्तेऽयःशयने सार्धं ...
ते तृप्तास्तर्पयन्त्येनं ... तमायान्तं पुनर्जिला ...
तेन खामभिषिञ्चामि ... तमेव कृत्स्नमाप्नोति
तेन देवशरीराणि, ... तरिकः स्थलज शुल्क
तेनाग्निहोत्रिणो यान्ति... तवाहंवादिनं क्लीबं ...
तेनोपसृष्टो यस्तस्य ... तस्मात्तु नृपतेरधं ...
तेनोपसृष्टो लभते ... तस्मात्तेनेह कर्तव्यं ...
तेऽपि तेनैव मार्गेण ... तस्मादन्नात्पुनर्यज्ञः ...
तेभ्यः क्रियापराः श्रेष्ठाः तस्मादस्ति परो देहात्...
तेऽष्टौ लिक्षा तु तास्तिस्रो तस्य वृत्तं कुलं शीलं
तैलहत्तैलपायी स्यात् ... तस्य षोढा शरीराणि ...
तैश्चापि संयतैर्भाव्यं ... तस्याप्यन्नं सोदकुम्भं ...
तैः साधं चिन्तयेद्राज्यं . ... ९८ तस्येत्युक्तवतो लौहं ...
त्यजन्दाप्यस्तृतीयांशम्... तस्यैतदात्मजं सर्वम् ...
त्यागः परिग्रहाणां च .... तस्योचुः साक्षिणः सत्यां
पुसीसकताम्राणां ... ... ५९ ताम्रकात्स्फटिकाद्रक्त ...
त्रयो लक्षास्तु विज्ञेयाः ... ... तामिस्र लोहशङ्कं च ...
त्रायत्वस्मादमीशापात् ... १९२ तारानक्षत्रसंचारैः
त्रिणाचिकेतदौहित्र सालज्ञश्चाप्रयासेन ...
त्रिःप्राश्यापो द्विरुन्मृज्य तालुस्थाचलजिहश्च ... ... ३६६ त्रिरात्रमाव्रतादेशात् ... ... ३१५ तालूदर बस्तिशीर्ष ... ३४७ त्रिरात्रं दशरात्रं वा .... ...
६३
८९
»
.
.. ११०
..३६९
.
.३०६
For Private And Personal Use Only
Page #536
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
१२
श्लोकाः
त्रिरात्रोपोषितो जवा त्रिरात्रोपोषितो हुत्वा त्रिवित्तपूर्ण पृथिवी त्रिंशद्दिनानि शूद्रस्य त्रीन्कृच्छ्रानाचरेद्रात्यः त्रैकाल्यसंध्याकरणात् त्रैवार्षिकाधिकानो यः चैविद्यनृप देवानां त्रैविद्यं वृत्तिमहूयात् त्र्यहीनस्तु कर्तव्यो यवराः साक्षिणो ज्ञेयाः त्र्यहं प्रेतेष्वनध्यायः
त्वं तुले सत्यधामासि वम सर्वभूतानाम् त्वं विष ब्रह्मणः पुत्रः दण्डः क्षुद्रपशूनां तु दण्डं च तत्समं राज्ञे दण्डं च स्वपणं चैव दण्डं दद्यात्सवर्णा
...
....
...
...
⠀⠀⠀⠀⠀
...
...
...
...
...
...
...
...
...
...
स
दण्डनीत्यां च कुशलम्... दण्डनीया तदतु दण्डप्रणयनं कार्यं दण्डं दाप्यो द्विशतं दण्डाजिनोपवीतानि दत्तात्मा तु स्वयंदत्तो दत्तामपि हरेत्पूर्वात् दत्त्वर्ण पाटयेल्लेख्यं दत्त्वा कन्यां हरन्दण्ड्यो दत्त्वा चौरस्य वा हन्तुः दत्त्वा तु दक्षिणां शतया दत्त्वा तु ब्राह्मणायैव दत्त्वानं पृथिवीपात्र दत्त्वा भूमिं निबन्धं वा दत्त्वा संस्रवस्तेषां दत्त्वोदकं गन्धमाल्यं
...
...
...
...
***
...
...
...
याज्ञवल्क्यस्मृतिः ।
...
पृष्टम्
श्लोकाः
... ४७१ | दद्याच्चतुष्पथे शूर्पे
... ४७२ | दद्यात्रिरात्रं चोपोष्य
१२ | दयाहक्रमादेवं
...
...
...
...
...
३८ | दद्युस्तद्विक्थिनः प्रेते २६० दद्युर्वा स्वकृतां वृद्धिं २५१ दध्यन्नं पायसं चैव ... २८९ | दध्योदनं हविभ्रूणं १६४ दन्तोलूखलिकः काल ४४ दन्दशूकः पतङ्गो वा ... १८३ दम्भिर्हेतुकपाखण्डि १८७ | दशकं पारदेश्ये तु १९२ | दशपूरुष विख्याताः २६४ दशैकपञ्चसप्ताह
...
000
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
***
...
...
www. kobatirth.org
...
...
Acharya Shri Kailassagarsuri Gyanmandir
...
३१४ | दद्यादपद्दरेच्चांश ४४७ दद्यादृते कुटुम्बार्थान्
४७५ दद्यान्मातापिता वा यं...
२००
७४
१००
७२ दिवा संध्यासु कर्णस्थ ७१ | दीयमानं न गृह्णाति
...
For Private And Personal Use Only
...
...
...
...
....
...
...
...
...
१३८ दाक्षायणी ब्रह्मसूत्री १२९ | दातव्यं प्रत्यहं पात्रे २८५ | दातारो नोऽभिवर्धन्तां..
९९
२३७
दातास्याः स्वर्गमाप्नोति दानं दमो दया क्षान्ति २५८ दानं दातुं चरेत्कृच्छ्र २६९ | दाने विवाहे यज्ञे च
दान्त त्रिषवणस्त्रायी
२१४ | दापयित्वा गतं द्रव्यं
...
...
...
...
...
...
...
१७८
१८ दाप्यः सर्व नृपेणार्थ दाप्यस्तु दशमं भागं २३० | दाप्यस्त्वष्टगुणं यश्च २८१ दाप्यो दण्डं च यो यस्मिन् ७६ | दायकालाहते वापि
...
१४९ दायादेभ्यो न तद्दद्यात्....
दासीकुम्भं बहिर्ग्रामात् ... दाहयित्वाग्निहोत्रेण
...
...
...
...
...
...
...
:
...
...
...
...
...
...
...
800
...
...
...
840
...
...
...
...
960
44.
...
...
...
...
...
...
...
...
000
...
...
...
...
...
...
पृष्ठम्
९१
४१७
९६
२९५
१५०
२१३
१५०
१४७
९२
९६
३३२
३६६
४०
२७०
१५
२४६
४१
६३
७६
६४
३७
४३५
३२०
३३२
२७७
१३०
२५३
२७४
२६३
३१
२०४
४६६
२७
६
१५०
Page #537
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पद्यानां वर्णानुक्रमः।
.
पृष्टम्
سر
س
.६७
२६१
श्लोकाः
पृष्टम् | श्लोकाः दीर्घतीव्रामयग्रस्तं ... ... ३९० देशान्तरगते प्रेते ... ... २७५ दुःखमुत्पादयेद्यस्तु ... ... २६३ देशेऽशुचावात्मनि च ... ... ४५ दुःखे च शोणितोत्पादे ... ... २६४ | दैवे पुरुषकारे च ... ... १०७ दुःखोत्पादि गृहे द्रव्यं ... ... २६४ दोषैः प्रयाति जीवोऽयं... ... ३५३ दुर्दष्टांस्तु पुनदृष्ट्वा ।
द्यूतं कृषि वणिज्यां च... दुर्भिक्षे धर्मकार्ये च
। द्यूतमेकमुखं कार्य ... ... २५७ दुष्टा दशगुणं पूर्वात्
द्यूतस्त्रीपानसक्ताश्च ... दुहितॄणां प्रसूता च
द्रव्यं तदोपनिधिकं दूरादुच्छिष्टविण्मूत्र
द्रव्यं ब्राह्मणसंपत्तिः दूर्वा सर्षपपुष्पाणां ... ... ९२ द्रव्याणां कुशला ब्रूयुः ... ... २४८ दुर्वृत्तब्रह्मविदक्षत्र
| द्रष्टव्यस्त्वथ मन्तव्यः ... ... ३६५ दुर्वृत्तब्रह्मविदक्षत्र
द्रष्टव्यो व्यवहारस्तु ... दूषणे तु करच्छेदः ... ... २८५ द्रष्टारो व्यवहाराणां ... ... २५६ दृतिं धनुर्बस्तमविं. ... ... ४३२ द्वात्रिंशतं पणान्दण्ज्यो ... ... २६२ दृतिं धनुर्बस्तमविं ...
द्वादशाहोपवासेन ... ... ४८३ दृश्याद्वा तद्विभागः स्यात् ... २०७] द्वासप्ततिसहस्राणि ... ... ३४९ दृष्ट्वा ज्योतिर्विदो वैद्यान्
द्विगुणं प्रतिदातव्यं ... दृष्ट्वा पथि निरातङ्क ... ... ३९० द्विगुणं सवनस्थे तु ... ... ३९६ देयं प्रतिश्रुतं द्रव्यं
द्विगुणं त्रिगुणं वापि ... देयं चौरहतं द्रव्यं ...
द्विगुणा वान्यथा ब्रूयुः ... देवतार्थ हविः शिग्रं
द्विगुणांस्तु कुशान्दत्त्वा... देवविक्स्नातकाचार्य ...
द्विजस्तृणैधःपुष्पाणि ... - देवातिथ्यर्चनकृते ...
द्विनेत्रभेदिनो राज ... . २९१ देवानुग्रान्समभ्यर्च्य ... ... १९४ / द्विपणे द्विशतो दण्डो ... ... २६९ देवान्पितृन्समभ्यर्च्य
द्वे कृष्णले रूप्यमाषो ... ... देवान्संतl सरसो ... . ... ३५२ द्वेद्वे जानुकपोलोर ... ... ३४५ देवेभ्यश्च हुतादन्नात् ... ... ३२ द्वे शते खर्वटस्य स्यात् ... २४१ देशकालउपायेन . ... ३ | द्वैधीभावं गुणानेतान् ... देशं कालं च योऽतीयात्
द्वैधे बहूनां वचनं ... देशं कालं च भोगं च ... | द्वौ दैवे प्राक् त्रयः पित्र्ये देशं कालं वयः शक्ति ... ... ४६५ द्वौ शङ्खको कपालानि ... देशकालवयःशक्ति .... ... २७९ | द्वौहृदस्याप्रदानेन ... ... देशकालातिपत्तौ च ...
धनं वेदान्भिषक्सिद्धिं ... देशाद्देशान्तर याति ... ... धनी वोपगतं दद्यात् .... देशान्तरस्थे दुर्लेख्ये ... ... १७६ / धनुःशतं परीणाहो ... ...
• २४०
. १११
. १६८
१२८
.. १७८
For Private And Personal Use Only
Page #538
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
याज्ञवल्क्यस्मृतिः।
. श्लोकाः
.. १५०
WWW
४४
६३
..
४०
४
पृष्ठम् श्लोकाः धमनीनां शते द्वे तु ... ... ३४७ नमस्कारेण मन्त्रेण ... धर्मकृद्वेदविद्यावित् ... ... ३५५ | नयेयुरेते सीमानं ... ... २३२ धर्मज्ञाः शुचयोऽलुब्धाः
न योषित्पतिपुत्राभ्यां ... धर्मप्रधाना ऋजवः ...
न राज्ञः प्रतिगृह्णीयात् ... धर्मशास्त्रानुसारेण ... ... न लिप्येतैनसा विप्रो ... धर्मार्थकामान्स्वे काले ...
नव छिद्राणि तान्येव ... धर्मार्थ यश्चरेदेतत् ...
नवमे दशमे वापि ... धर्मार्थ विक्रयं नेयात् ...
न विद्यया केवलया धर्मो हि दण्डरूपेण ...
न विरुद्धप्रसङ्गेन धान्यकुप्यपशुस्तेयं ... ... नष्टापहृतमासाद्य
२४२ धान्यमिश्रोऽतिरिकाङ्गः
नष्टोदयो विनष्टश्च ... धारणप्रेरणं दुःखं . ... ... न संशयं प्रपद्येत
४१ धारयेत्तत्र चात्मानं ...
नस्तः प्राणा दिशः श्रोत्रात् धार्मिकोऽव्यसनश्चैव ...
न स्पृशन्तीह पापानि ... धावतः पूतिगन्धे च ...
न स्वाध्यायविरोध्यर्थ ... धिग्दण्डस्वथ वाग्दडो... ११२ न हन्याद्विनिवृत्तं च ... धूमं निशां कृष्णपक्षं
नाकामेद्रकविण्मूत्र ... धेनुः शङ्खस्तथानड्वान्
नाक्षः क्रीडेन धर्मनैः ... ध्यानयोगेन संपश्येत् ...
नाचक्षीत धयन्ती गां ... न क्षयो न च वृद्धिश्च ...
नातः परतरो धर्मो ... ... नमः नास्वा च भुक्त्वा च
नादण्ड्यो नाम राज्ञोऽस्ति न च मूत्रं पुरीष वा ...
नानारूपाणि कुर्वाणः ... ... न चाहूतो वदेत्किंचित् ... १२८ नान्वये सति सर्वस्वं ... ... २४५ न तत्र कारणं भुक्ति
नापात्रे विदुषा किंचित् न तत्सुतस्तत्सुतो वा
नाभिदन्नोदकस्थस्य ... ... न तु मेहनदीच्छाया ...
नाभिरोजो गुदं शुक्र ... ... न दत्तं स्त्रीधनं यस्यै ...
नामभिर्बलिमन्त्रैश्च ... न दत्तं स्त्रीधनं यासां ... ... २०१ नाश्रमः कारणं धर्मे ... न ददाति हि यः साक्ष्यं ... १६८ नासहस्राद्धरेत्फालं न दाप्योऽपहृतं तं तु ... ... नासिका लोचने जिह्वा ... न निन्दाताडने कुर्यात्
नास्तिक्यं व्रतलोपश्च ... न निषेध्योऽल्पबाधस्तु...
नाहितं नानृतं चैव ... न प्रत्यग्यर्कगोस्रोम ... ... निक्षेपस्य च सर्व हि ... न ब्रह्मचारिणः कुर्युः ... ... निजधर्माविरोधेन ... ... न भार्यादर्शनेऽश्नीयात् ... ४१ । निजलालासमायोगात् ...
३५९
0
९१
. १८२
- 19
३४६
For Private And Personal Use Only
Page #539
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पद्यानां वर्णानुक्रमः।
०
०
३४१
४
१२
श्लोकाः पृष्टम् श्लोकाः
पृष्ठम् निजं शरीरमुत्सृज्य ... ३६७, पक्षे गते वाप्यनीयात्... ... ३३२ निद्रालुः क्रूरकृलुब्धो ... ... ३५५ पञ्चकं च शतं दाप्यः ... ... १४९ निमन्त्रयेत पूर्वेद्युः ...
पञ्चगव्यं पिबेगोनो ... निमित्तमक्षरः कर्ता ...
पश्चग्रामी बहिः क्रोशात् निमित्तशाकुनज्ञान ... ... २६१ पञ्चदश्यां चतुर्दश्यां ... ... ४५ निमीलिताक्षः सत्त्वस्थो
पञ्चधातून्खयं षष्ठः ... ... निमेषश्चेतना यत्नः ... ... ३६२/ पञ्चधा संभृतः कायो ... ... ३०१ नियमा गुरुशुश्रूषा ...
पञ्च पिण्डाननुवृत्य निराया व्ययवन्तश्च ... ... पञ्चबन्धो दमस्तस्य ... निर्वपेत्तु पुरोडाशं ... ... ४४५ | पञ्चमात्सप्तमादूर्ध्व ... निर्वास्या व्यभिचारिण्यः ... २२८ | पञ्चाशत्पणिको दण्डः ... निवासराजनि प्रेते ... ... ३१८ | पटे वा ताम्रपट्टे वा ... निवेद्य दद्याद्विप्रेभ्यः ... ... पणानेकशफे दद्यात् ... निशायां वा दिवा वापि
पणान्दाप्यः पञ्चदश ... निषिद्धभक्षणं जैहयं .... पण्यस्योपरि संस्थाप्य निषेकाद्याः श्मशानान्ताः
पण्येषु प्रक्षिपन्हीनं निष्कं सुवर्णाश्चत्वारः ... ... १११ पतनीयकृते क्षेपे निःसरन्ति यथा लोह ...
पतितस्य बहिः कुर्युः ... निःसार्यते बाण इव ... ... पतिताप्तार्थसंबन्धि निस्तीर्यतामथात्मानं
पतितानामेष एव निहवे भावितो दद्यात्...
पतिप्रियहिते युक्ता ... निहते लिखितं नैकं
पतिलोकं न सा याति ... नीचाभिगमनं गर्भ
पत्नी दुहितरश्चैव ... नीरजस्तमसा सत्व ...
पत्रशाकं शिखी हृत्वा ... नीविस्तनप्रावरण
पदानि ऋतुतुल्यानि ... नृपार्थेष्वभिशापे च ... ... १८३ पथि ग्रामविवीतान्ते ... ... मृपेणाधिकृताः पूगाः ...
पन्था देयो नृपस्तेषां ... नृशंसराजरजक ... | पन्थानश्च विशुध्यन्ति ... नेक्षेतार्क न ननां स्त्री ...
पयसा वापि मासेन ... नैतन्मम मतं यस्मात् ...
पयो दधि च मधं च ... नैवेशिकं स्वर्णधुर्य ...
परद्रव्यगृहाणां च ... नैवेशिकानि च ततः ... ... १०३ | परद्रव्याण्यभिध्यायन् ... ... ३५४ नैष्टिको ब्रह्मचारी तु ... ... | परपाकरुचिर्न स्यात् न्यायागतधनस्तत्व ... ... | परपूर्वापतिः स्तेनः न्यूनाधिकविभक्तानां ... ... २०२ | परभूमि हरन्कूपः ... ...
४०२
For Private And Personal Use Only
Page #540
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
याज्ञवल्क्यस्मृतिः।
.
४८
४८३
..
१८
२६८
३८०
२०४
उत्तान
...
२६७
. श्लोकाः पृष्ठम् । श्लोकाः
पृष्ठम् परशय्यासनोद्यान ... ... ४८ पालो येषां न ते मोच्याः ... २३९ परश्च हीन आत्मा च ... ... पावकः सर्वमेध्यत्वं परस्परं तु सर्वेषां ...
पांसुप्रवर्षे दिग्दाहे ... ... परस्य योषितं हत्वा ...
पिण्डदोंऽशहरश्चैषां ... पराशरव्यासशङ्ख ...
पिण्डयज्ञावृता देयं ... परिभूतामधःशय्यां ... ... १९
पिण्डांस्तु गोऽजविप्रेभ्यो परिशुष्यत्स्खलद्वाक्यो १२८ पिण्याकं वा कणान्वापि ... परिस्तृते शुचौ देशे ...
पिण्याकाचामतकाम्बु ... परेण भुज्यमानायाः ...
पितरि प्रोषिते प्रेते ... ... पर्णोदुम्बरराजीव ... ... ४७९
|पिता पितामहो भ्राता ... ... पलं सुवर्णाश्चत्वारः ... पितापुत्रविरोधे तु ... ... पलाण्डु विड्राहं च ... | पितुरूवं विभजतां ... पवित्रपाणिराचान्तः ... ७० पितुः खसारं मातुश्च ... पवित्राणि जपेत्पिण्डान् ... पितृद्रव्याविरोधेन पशुमण्क नकुल ...
पितृपात्रं तदुत्तानं पशून्गच्छशतं दाप्यो...
पितृपुत्रखसृभ्रातृ ... पश्चाच्चैवापसरता
पितृभ्यः स्थानमसीति ... पश्चात्तापो निराहारः ...
पितृभ्यां यस्य यद्दत्तं ... पश्यतोऽब्रुवतो भूमेः ...
पितृमातृपतिभ्रातृ पश्येचारांस्ततो दूतान् ...
पितृमातृपराश्चैव ... पाखण्ड्यनाश्रिताः स्तेनाः । पितृमातृसुतत्यागः ... पाणिपादशलाकाश्च ...
पितृमातृसुतभ्रातृ पाणिप्रक्षालनं दत्त्वा ...
पितृयानोऽजवीथ्याश्च ... पाणिग्राह्यः सवर्णासु ...
पितृलोकं चन्द्रमसं ... पात्राणां चमसानां च ...
पितॄणां तस्य तृप्तिः स्यात् .. ४९१ पात्रे धनं वा पर्याप्तं ... ... पितृन्मधुघृताभ्यां च ... पात्रे प्रदीयते यत्तत् ...
पितश्च मधुसर्पिभ्ा ... पादकेशांशुककरो ... ... २६२ पित्तात्तु दर्शनं पक्तिः ... ... पादशौचं द्विजोच्छिष्टं ...
पित्रोस्तु सूतकं मातुः... पादौ प्रतापयेन्नाग्नौ ... पिशुनानृतिनोश्चैव ... पारदारिकचौरं वा ...
पीडाकर्षांशुकावेष्ट पारदार्य पारिवित्त्यं ...
पीज्यमानाः प्रजा रक्षेत् पार्श्वकाः स्थालकैः साध
पुण्यात्षड्भागमादत्ते ... ... पालदोषविनाशे तु ... ... २४० पुत्रपौत्रैर्ऋणं देयं ... ... पालितं वर्धयेन्नीत्या ... ... ९९ पुत्रं त्रैष्ठ्यं च सौभाग्यं... ...
:::::::::::::::::::::::::::::::::::
:::::::::::::::::::::::::::::::::::
. २०८
११
. १०४
... १०४
..
८७
For Private And Personal Use Only
Page #541
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
श्लोकाः
पुत्रान्देहि धनं देहि पुत्रोऽनन्याश्रितद्रव्यः पुनरावर्तिनो बीज पुनर्धात्री पुनर्गर्भ पुनः संस्कारमर्हन्ति पुमान्संग्रहणे ग्राह्यः पुराणन्यायमीमांसा पुरुषोऽनृतवादी च पुरोहितं प्रकुर्वीत पुंथली वानरखरैः पुष्पं चित्रं सुगन्धं च पूर्वकर्मापराधी च पूर्वपक्षेऽधरीभूते पूर्वं पूर्वं गुरु ज्ञेयं. पूर्वस्मृतादर्धदण्डः पृथक्पृथग्दण्डनीयाः पृथक्सान्तपनद्रव्यैः पृथिवी पादतस्तस्य पौषमासस्य रोहिण्यां प्रकुर्यादाय कर्मान्तं प्रक्रान्ते सप्तमं भागं प्रक्षिपेत्सत्सु विप्रेषु प्रजापतिपितृब्रह्म. प्रजापीडन संतापात् प्रतिकूलं गुरोः कृत्वा प्रतिगृह्य तदाख्येयम् प्रतिग्रहपरीमाणं
⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀
प्रतिपन्नं स्त्रिया देयं प्रतिप्रणवसंयुक्तां प्रतिभूर्दापितो यत्तु
...
प्रतिग्रहः प्रकाशः स्यात् प्रतिग्रहसमर्थोऽपि प्रतिग्रहे सूनि चकि प्रतिग्रहोऽधिको विप्रे प्रतिपत्प्रभृतिष्वेकां
...
...
⠀⠀⠀⠀
...
...
...
पद्यानां वर्णानुक्रमः ।
...
...
...
३६४
३४४
... ४०१
...
...
...
***
...
...
...
...
...
...
...
...
...
...
१७१
••• ४७९
३५३
४४
***
...
...
www
...
...
...
...
...
...
4.3
www. kobatirth.org
...
...
...
पृष्ठम्
श्लोकाः
९२ | प्रतिमानसमीभूतो
१५२
प्रतिवेदं ब्रह्मचर्यं
प्रतिषिद्धमनादिष्टं
प्रतिसंवत्सरं चैवम् प्रतिसंवत्सरं त्वयः
२८३ | प्रतिसंवत्सरं सोमः
Acharya Shri Kailassagarsuri Gyanmandir
२ प्रत्यर्थिनोऽग्रतो लेख्यं ३५४ | प्रत्येकं प्रत्यहं पीतैः ९९ | प्रथमे मासि संक्लेदः
४३७
प्रथमं साहसं दद्यात्
९२ | प्रदक्षिणमनुव्रज्य
२७६ प्रदद्यात्प्रथमं गोभिः
१२९
प्रधानं क्षत्रिये कर्म
प्रनष्टाधिगतं देयं
१४२
२६५
1
१०१
२५४ | प्रयोजकेऽसति धनं
८५
६
१०५
४४२ प्रवृत्तचकतां चैव
३२९
१००
प्ररोहिशाखिनां शाखा प्रविशेयुः समालभ्य प्रवेशनादिकं कर्म
प्रव्रज्यावसितो राज्ञो
प्रष्टव्या योषितश्चास्य
२४५
प्रसह्य घातिनश्चैव
६६ प्रसह्य दास्यभिगमे
...
...
...
For Private And Personal Use Only
..
...
...
...
...
प्रपन्नं साधयन्नर्थं
प्रमाणं लिखितं भुक्ति प्रमादमृतनष्टांश्च प्रमादवान्भिन्नवृत्तो प्रयच्छन्ति तथा राज्यं ...
"
प्रयत्न आकृतिर्वर्णः
...
...
...
...
...
...
...
...
0.0
...
...
9.0
0.6
...
४४
800
प्रस्थानविघ्नचैव ३६ | प्राक्सौमिकीः क्रियाः कुर्यात्
८६ प्राग्वा ब्राह्मेण तीर्थेन
१५१
...
प्राजापत्यां चरेत्कृच्छ्र प्राजापत्यां तदन्ते तान्
७
१५७ | प्राणात्यये तथा श्राद्धे ..
...
...
...
930
040
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
006
...
१७
पृष्ठम्
૧૮૨
१०
२७३
८३
३४
३८
११८
४७९
३४२
२९०
७७
४६९
३७
१४४
१४८
१३३
२४०
३५५
८८
३४२
१६१
२६४
३०१
३०२
८७
२५०
२८२
२७९
२८७
२५४
३८
६
४०९
३३५
५४
Page #542
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पृष्ठम्
Swami
.
८E
३७७
याज्ञवल्क्यस्मृतिः। श्लोकाः ___पृष्ठम् | श्लोकाः प्राणानायम्य संप्रोक्ष्य ... ... ७ | बुद्धेरुत्पत्तिरव्यक्तात् ... ... ३६३ प्राणायामशतं काय ... ... ४७४ | बुभुक्षितस्यहं स्थित्वा ... ... ३२९ प्राणायाम जले कृत्वा ... ... बृहस्पते अतियदर्यः ... प्राणायामी जले नात्वा
ब्रह्मक्षत्रविशां कालः ... प्रातःसंध्यामुपासीत ...
ब्रह्मक्षत्रियविदशहाः ... प्रातिभाव्यमृणं साक्ष्यं ... ... ब्रह्मचर्य दया क्षान्तिः ... प्रातिलोम्यापवादेषु ... ... २५९ ब्रह्मचर्ये स्थितो नैक ... प्रातिलोम्ये वधः पुंसो...
ब्रह्मचारी भवेत्तां तु प्राप्ते नृपतिना भागे ... ... ब्रह्मचार्येव पर्वाणि प्राप्यते ह्यात्मनि तथा...
| ब्रह्मणैषां वरो दत्तः ... ... ९६ प्रायश्चित्तमकुर्वीत ... ... ३७३ | ब्रह्मलोकमतिक्रम्य ... प्रायश्चित्तैरपैत्येनो ... ... ३७४ ब्रह्मलोकमवाप्नोति प्रायश्चित्तं प्रकल्प्यं स्यात्
ब्रह्मवर्चखिनः पुत्रान् ... प्रियो विवाह्यश्च तथा
| ब्रह्मखानिलतेजांसि ... प्रीणयन्ति मनुष्याणां ...
ब्रह्महत्याव्रतं वापि ... ... ४३१ प्रीणाति देवानाज्येन ... | ब्रह्महत्यासमं ज्ञेयम् ... प्रेषयेच्च ततश्चारान् ...
ब्रह्महा क्षयरोगी स्यात् ... ... ३६८ प्रोक्षणं संहतानां च ...
ब्रह्महा द्वादशान्दानि ... प्रोषिते कालशेषः स्यात्
ब्रह्महा मद्यपः स्तेनः ... ... ३७६ फलपुष्पानरसज ...
ब्राह्मणः काममश्नीयात्... ... ९ फलोपलक्षौमसोम ...
ब्राह्मणक्षत्रियविशः ... फालाहतमपि क्षेत्रं ...
ब्राह्मणक्षत्रियविशां फेनप्रख्यः कथं नाशं ... ... ३०१ ब्राह्मणक्षत्रियविशां ... बध्वा वा वाससा क्षिप्रं... ... ४५२ | ब्राह्मणः पात्रतां याति ... बन्दिग्राहांस्तथा वादि ... ... २७९ ब्राह्मणप्रातिवेश्यानाम् ... ... २७४ बन्धुभिश्च स्त्रियः पूज्याः ... २४ ब्राह्मणस्तु परिक्षीणः ... ... १५० बलाहासीकृतश्चौरैः ... ... २४९ ब्राह्मणस्य परित्राणात् ... ... ३८९ बलानां दर्शनं कृत्वा ...
ब्राह्मणवर्णहारी तु ... ... ४०२ बलिकर्मखधाहोम ...
ब्राह्मणवर्णहारी तु ... बलोपाधिविनिर्वृत्तान्
ब्राह्मणान्भोजयेदद्यात् ... बहूनां यद्यकामासौ ...
ब्राह्मणेनानुगन्तव्यो .... बालखवासिनीवृद्ध ...
ब्राह्मणेषु क्षमी-स्निग्धे ... बाहनीवानेत्रसक्थि ... ... २५९ | ब्राह्मणेषु चरेद्रेक्षं ... बीजायोवाह्य रत्ननी ...
ब्राह्मण्यां क्षत्रियात्सूतो ... बुद्धीन्द्रियाणि सार्थानि... ... ३६२ । ब्राह्मे मुहूर्ते चोत्थाय ... ...
८४
.. १०४
२४६
For Private And Personal Use Only
Page #543
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
श्लोकाः
ब्राह्म विवाह आहूय ब्रूयुरस्तु स्वधेत्युक्ते
भक्तावकाशाग्युदक भक्षयित्वोपविष्टानां
:
भूदीपाश्चान्नवस्त्राम्भः भूमेर्गन्धं तथा घ्राणं भूर्या पितामहोपात्ता भूशुद्धिर्मार्जनाद्दाहात्
...
मृतकाध्यापकः क्लीबः भृतादध्ययनादानं भृतिपथे सर्वां मृत्यांश्च तर्पयेच्छ्मश्रु या० ४६
...
भक्ष्याः पञ्चनखाः सेध...
भगं ते वरुणो राजा
भगमिन्द्रश्च वयुश्च भगास्थ्येकं तथा पृष्ठे भद्रासनोपविष्टस्य
भयं हित्वा च भूतानां भर्तृभ्रातृपितृज्ञाति भवो जातिसहस्रेषु भस्मपङ्करजःस्पर्शे भस्माद्भिः कांस्यलोहानां भार्याया विक्रयश्चैषां भार्यारतिः शुचिर्भृत्यः भावाभावौ च जगतः ...
...
...
...
...
...
...
...
...
...
भावैरनिष्टैः संयुक्तः भासं च हत्वा दद्याद्गां भास्करालोकनाश्लील भिन्ने दग्धेऽथवा छिन्ने भिन्ने पणे च पञ्चाशत् भिषमिथ्याचरन्दण्ड्यः भुक्त्वार्द्रपाणिरम्भोऽन्तः भूतपित्रमर ब्रह्मभूतमप्यनुपन्यस्तं
भूतात्मनस्तपोविद्ये
...
...
...
...
...
...
...
...
000
...
...
...
...
...
...
...
...
...
पद्यानां वर्णानुक्रमः ।
श्लोकाः
भृत्यैः परिवृतो भुक्त्वा .
...
भेदं चैषां नृपो रक्षेत् भेषजस्नेहलवण
...
...
930
000
...
***
...
...
...
...
...
...
...
...
...
...
...
...
...
...
200
...
...
...
...
www. kobatirth.org
...
...
...
Acharya Shri Kailassagarsuri Gyanmandir
पृष्ठम्
१७
७६
२८१
...
२३८ || भैक्षाग्निकार्ये त्यक्त्वा तु
५३ | भोगांश्च दद्याद्विप्रेभ्यो भोजयेचागतान्काले भोज्यान्ना नापितश्चैव
९१
९१
३४५ | भ्रातॄणामथ दम्पत्योः षश्चेन्मार्गदत्ते
९०
३३८ मज्जान्तां जुहुयाद्वापि २४ मण्डलं तस्य मध्यस्थ
३८१
३७
९६
३५५
४३५ मधुमांसाशने कार्यः
१३०
मनसश्चन्द्रमा जातः
३२५ मन्त्रमूलं यतो राज्यं ६५ मन्वत्रिविष्णुहारीत ३४२ | मन्वन्तरैर्युगप्राप्त्या
मम दाराः सुतामत्याः
मयि तेज इति च्छायां
...
२०६
५८
६९
मर्यादायाः प्रभेदे च
३८१ | मलिनो हि यथादर्शो
२५४ | महागणपतेश्चैव ३३१ | महानरककाकोलं
For Private And Personal Use Only
⠀⠀⠀
...
...
000
३३८ मतं मेऽमुकपुत्रस्य २६१ मत्तोन्मत्तार्तव्यसनि
५९ | मत्स्यान्क्कांस्तथैवामान् मत्स्यांश्च कामतो जग्ध्वा
मधु दंशः पलं गृध्रो
मधुना पयसा चैव
मधुमांसानोच्छिष्ट
...
...
...
...
...
...
...
९
मध्यमं क्षत्रियं वैश्यं १७६ | मध्यमो जातिपूगानां २६९ | मध्यस्थस्थापितं चेत्स्यात्
२६८ | मध्ये पञ्चपला वृद्धिः ४६ मध्यो दण्डो व्रणोद्भेदे ३२ | मनश्चैतन्ययुक्तोऽसौ
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
***
...
...
...
...
...
***
...
...
...
...
...
...
१९
पृष्ठम्
३५
२५३
२६९
४४२
९९
३४
४९
१५४
१६३
३९१
३४९
१७४
१४३
९२
५२
३७०
११
९
४४२
२८९
२६०
१५०
२४७
२६३
३४३
३५३
१०६
३
३६१
३५८
४३९
२३६
३५५
९३
३७४
Page #544
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
२०
श्लोकाः
महापशूनामेतेषु महापातकजान्घोरान् महापातकजैर्घोरैः
महापापोपपापाभ्यां महाभियोगेष्वेतानि महाभूतानि सत्यानि -महिषोष्ट्रगवां द्वौ द्वौ महीपतीनां नाशौचं महोक्षं वा महाजं वा महोक्षोत्सृष्टपशवः महोत्साहः स्थूललक्षः मातापितृ गुरुत्यागी
मातामहानामप्येवं
मातामहानामप्येवं मातुर्दुहितरः शेषं मातुर्यदये जायन्ते मातुः सपत्नीं भगिनीं
मातृपित्र तिथिभ्रातृ मारस्य हारिण कौरभ्र मानुषे मध्यमं राज मानुष्ये कदलीस्तम्भ मानेन तुलया वापि मान्यावेतौ गृहस्थस्य मारुतेनैव शुध्यन्ति मार्जनं यज्ञपात्राणां मार्जारगोधान कुल माषानष्टौ तु महिषी मांसक्षीरोदनमधु
: : : :
...
⠀⠀⠀
...
...
200
...
...
...
...
...
...
...
...
...
...
***
...
...
...
...
0.0
मांसवृज्याभितृप्यन्ति मांसं शय्यासनं धानाः मासेनैवोपभुञ्जीत मास्यर्बुदं द्वितीये तु माहिष्येण करण्यांतु मितश्च संमितश्चैव मित्रध्रुक् पिशुनः सोम ...
...
...
...
***
...
०००
याज्ञवल्क्यस्मृतिः ।
:
...
...
...
***
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
www. kobatirth.org
...
...
...
...
...
...
...
Acharya Shri Kailassagarsuri Gyanmandir
पृष्ठम्
श्लोकाः
२६४ मित्राण्येताः प्रकृतयो ३६८ | मिथिलास्थः स योगीन्द्रः ३७४ मिथ्याभियोगी द्विगुणं ४४४ मिथ्याभिशस्तदोषं च
१७८ | मिथ्याभिशंसिनो दोषो ३५७ | मिथ्यावदन्परीमाणं २४३ मुक्लानिं मृदितत्रीहि ३१९ | मुखजा विप्रुषो मेध्याः ३४ मुखबाहूरुपज्जाः स्युः मूर्धांस कण्ठहृदयं
२३९
९७ मूलकं पूरिकापूपान् ६९ | मूषको धान्यहारी स्यात् ७१ मृगश्वसूकरोष्ट्राणां
७६ मृचर्मपुष्पकुतप ... २०३ | मृचर्ममणिसूत्रायः
११ | मृतकल्पः प्रहारार्तो
३८० मृताङ्गलग्न विक्रेतुः
४७
मृतायां दत्तमादद्यात् मृते जीवति वा पत्यौ
...
000
For Private And Personal Use Only
...
...
...
...
...
...
...
...
...
...
450
...
...
८५
२६८ मृते पितरि कुर्युस्तं ३०० | मृतेऽहनि प्रकर्तव्यं
२६९ | मृत्तिकां रोचनां गन्धान्
३५ मृत्यु देशसमासन्नं
***
६२ मृदण्डचक्रसंयोगात् ५६ | मेदसा तर्पयेद्देवान् ४३४ मैत्रमौद्वाहिकं चै २३७ मोच्य आधिस्तदुत्पन्ने
१२ | मोहजालमपास्येह ८५ य आहवेषु बध्यन्ते ६६ | य इदं धारयिष्यन्ति ૪૮૪ य इदं श्रावयेद्विद्वान् ३४२ य एनमेवं विन्दन्ति
२९
य एव नृपतेर्धर्माः
९१ यः कश्चिदर्थो निष्णातः
६९
यः कण्टकैर्विंतुदति
...
...
...
...
...
...
***
...
...
...
...
...
...
...
...
www
...
...
...
...
...
es.
३६९
३६८
३२७
२६९
३९२
... २९१
२३०
२०
२१६
८३
९०
...
***
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
948
...
पृष्ठम्
१०८
...
२
१२६
४४४
४४४
२७४
१८९
६१
३५२
३४६
९२
२८२
३५६
१२
२०४
१६१
३५१
१०१
४९१
४९१
३६५
१०५
१७४
३३३
Page #545
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पद्यानां वर्णानुक्रमः।
२१
पृष्ठम्
MY
MY
३७८
mm
Mr
६६
पर
. १०५
श्लोकाः
पृष्ठम् ) श्लोकाः यजूंषि शक्तितोऽधीते ... ... ११ यद्ददाति गयास्थश्च ... ... ८६ यजेत दधिकर्कन्धू ... ... ७७ / यद्यप्येकोऽनुवेत्त्येषां ... ... ३४८ यजन्म सर्वभूतानाम् ...
यद्यस्मि पापकृन्मातः ... ... १८३ यज्ञस्थऋत्विजे दैवः ...
यद्येवं स कथं ब्रह्मन् ... यज्ञानां तपसां चैव ...
यन्मेऽद्य रेत इत्याभ्यां... यज्ञार्थं लब्धमददत् ... ३९ यमसूक्तं तथा गाथा ... ... यज्ञांश्चैव प्रकुर्वीत
| यमापस्तम्बसंवर्ताः ... ... यत एतानि दृश्यन्ते ...
यं यं ऋतुमधीते च ... ... यतिपात्राणि मृद्वेणु ... | यवार्थास्तु तिलैः कायाः यतो वेदाः पुराणानि ... ३६४ | यवैरन्ववकीर्याथ ... ... यत्ते केशेषु दीर्भाग्यं ... | यः साक्ष्यं श्रावितोऽन्येभ्यो ... यत्नात्परीक्षितः पुंस्त्वे ...
यः साहसं कारयति ... ... यत्र यत्र च संकीर्ण ... ... यश्चैवमुक्त्वाहं दाता ... ... यत्र वृत्तमिमे चोभे ...
यस्तत्र विपरीतः स्यात् ... ... यत्रानुकूल्यं दंपत्योः ...
यस्मात्तस्मात्स्त्रियः सेव्याः यथाकथंचित्रिगुणः ...
यस्मिन्देशे मृगः कृष्णः यथाकथंचिद्दत्त्वा गां ...
यस्मिन्देशे य आचारो... ... यथाकथंचित्पिण्डानां ...
यस्मिंस्तु संस्रवाः पूर्व ... ... यथाकर्म फलं प्राप्य ...
यस्य यस्य यदा दुःस्थः यथाकामी भवेद्वापि
यस्य वेगैर्विना जीर्येत् ... यथा गुरुकतुफलं
या आहृता ह्येकवर्णैः ... यथाजाति यथावर्ण
यागस्थक्षत्रविट्याती ... यथात्मानं सृजत्यात्मा ...
याचितावाहितन्यास ... यथार्पितान्पशून्गोपः
याचितेनापि दातव्यं ... यथालाभोपपत्रेषु
यातश्चेदन्य आधेयः ... यथावणं प्रदेयानि
या दिव्या इति मन्त्रेण... यथाविधानेन पठन् ...
यानं वृक्षं प्रियं शय्यां ... यथाशास्त्रं प्रयुक्तः सन् ...
यावद्वत्सस्य पादौ द्वौ ... यथा हि भरतो वर्णैः ...
यावत्सस्यं विनश्येत्तु ... यथा ह्ये केन चक्रेण ... ... १०८ | युक्तिप्राप्तिक्रियाचिह्न ... ... १७७ यदस्यान्यद्रश्मिशतं ...
युग्मान्दैवे यथाशक्ति ... यदा तु द्विगुणीभूतं ... | ये च दानपराः सम्यक्... यदा सस्यगुणोपेतं ... ... १०७ येनैकरूपाश्चाधस्तात् ... ... यदि कुर्यात्समानंशान् ... ... २०१! ये पातककृतां लोकाः ... ... १६७ यदुच्यते द्विजातीनां ... ... १६ ये राष्ट्राधिकृतास्तेषां ... ...
:::::::::::::::::::::::::::::::::::
पि ...
.. १९२
our or ur
iririr
For Private And Personal Use Only
Page #546
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२
याज्ञवल्क्यस्मृतिः।
.. १४९
arrrror
९२
६९
___श्लोकाः पृष्ठम् । श्लोकाः
पृष्ठम् ये लोका दानशीलानां... ... | राजा लब्ध्वा निधिं दद्यात् ... १४५ ये समाना इति द्वाभ्यां ... ७९ / राजा सुकृतमादत्ते ... ... १०२ योगशास्त्रं च मत्प्रोक्तं ... ... ३४९ राज्ञः कुलं श्रियं प्राणान् ... १०५ योगी मुक्तश्च सर्वासां ...
राज्ञाधमर्णिको दाप्यः ... योगीश्वरं याज्ञवल्क्यं
| राज्ञाऽन्यायेन यो दण्डो ... २९३ योज्या व्यस्ताः समस्ता वा ... ११२ | राज्ञामेकादशे सैके ... ... ५ यो दण्ड्यान्दण्डयेद्राजा... ... १०९ | राज्ञा सचिह्न निर्वास्याः... यो द्रव्यदेवतात्यागः ... ... ३५२ | राज्ञा सभासदः कार्याः... ... ११४ योऽभियुक्तः परेतः स्यात्
राज्ञा सर्व प्रदाप्यः स्यात् यो मन्येताजितोऽस्मीति ... २९२ | राज्ञोऽनिष्टप्रवक्तारं ... ... २९१ यो यस्मानिःसृतश्चैषां ... ... ३६३ | रिक्थप्राह ऋणं दाप्यो... ... १५२ यो यावत्कुरुते कर्म ... ... रुच्या वान्यतरः कुर्यात् यो येन संवसत्येषां ... ... ३६९ रुद्रस्यानुचरो भूखा ... ... ३५१ रक्तस्रग्वसनाः सीमां ...
रूपं देहि यशो देहि ... रक्षेत्कन्यां पिता विनां...
रूपाण्यपि तथैवेह ... रङ्गावतारिपाखण्डि ...
रोगी हीनातिरिक्ताङ्गः ... रजसा तमसा चैवं ... ... ३५५ रोम्णां कोट्यस्तु पञ्चाशत् ... ३४८ रजस्तमोभ्यामाविष्टः ... ३६३ रौरवं कुङ्मलं पूतिम् ... रजखलामुखाखादः ३७८ ललाटं विद्यते चास्य ... रथ्याकर्दमतोयानि
ललाटे कर्णयोरक्ष्णोः रम्यं पशव्यमाजीव्यं
लशुनं गृञ्जनं चैव रश्मिरनी रजश्छाया
लाक्षालवणमांसानि रसस्य नव विज्ञेया
लाभालाभौ यथाद्रव्यं रसस्याष्टगुणा परा
लिखितं ह्यमुकेनेति ... रसात्तु रसनं शैत्यं ...
लिङ्गं छित्त्वा वधस्तस्य ... रहिते भिक्षुकैामे ... ... ३३७ लिङ्गस्य छेदने मृत्यौ ... राक्षसो युद्धहरणात् ...
लिङ्गेन्द्रियग्राह्यरूप ... रागालोभाद्भयाद्वापि ...
लेख्यं तु साक्षिमत्कार्य... राजतादयसः सीसात् ...
लेख्यस्य पृष्टेऽभिलिखेत् राजदैवोपघातेन ...
लोकानन्त्यं दिवःप्राप्तिः... राजनि स्थाप्यते योऽर्थः
लोमभ्यः स्वाहेत्यथवा ... ... ४७२ राजपत्न्यभिगामी च ...
लोमभ्यः स्वाहेत्येवं हि... राजयानासनारोढुः ... ... वकणौ वृषणौ वृक्कौ ... राजा कृत्वा पुरे स्थानं... ... २५१ वणिग्लाभं न चाप्नोति ... ... ८९ राजान्तेवासियाज्येभ्यः ... ४० वनाद्ग्रहाद्वा कृत्वेष्टिं ... ...
१२८
९१
१२८
OM WW WAN
३६३
M
For Private And Personal Use Only
Page #547
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पद्यानां वर्णानुक्रमः।
२३
م
م
م
। २४२
३५४
س
س
WW.
.. ४९१
. १७९
و
. १६१
श्लोकाः पृष्ठम् | श्लोकाः
पृष्ठम् चपावसावहननं ... ... ३४६ विक्रियापि च दृष्टैव ... ... ३६० वयः कर्म च वित्तं च ... ... विक्रीणीते दमस्तत्र वयोबुद्ध्यर्थवाग्वेष
विक्रीणतां चाविहितो ... वर्णक्रमाच्छतं द्वित्रि ...
विक्रीतमपि विक्रेयं वर्णानामानुलोम्येन ...
विक्रेतुर्दर्शनाच्छुद्धिः वर्णानामानुलोम्येन
विख्यातदोषः कुर्वीत .. ४६९ वर्णाश्रमेतराणां नो ...
वितथाभिनिवेशी च ... वर्णिनां हि वधो यत्र ...
वित्तात्मानं वेद्यमानं वाधारस्नेहयोगात् ...
विदश्य निम्बपत्राणि वर्षयप्रावृतो गच्छेत्
विद्याकर्मवयोबन्धु ... वसा त्रयो द्वौ तु मेदो ...
विद्यातपोभ्यां हीनेन ... वसानस्त्रीपणान्दण्ड्यः ...
विद्यार्थी प्राप्नुयाद्विद्यां ... वसुरुदादितिसुताः
| विद्वानशेषमादद्यात् ... वसेत्स नरके घोरे ...
विनापि शीर्षकात्कुर्यात् वस्त्रं चतुर्गुणं प्रोक्तं ... ... १५७ विनापि साक्षिमिर्लेख्यं... वस्त्रधान्यहिरण्यानां ... ... १४८ विनायकः कर्मविघ्न वाकोवाक्यं पुराणं च ...
विना धारणकाद्वापि ... वाक्चक्षुः पूजयति नो ...
विनायकस्य जननी वाक्पाणिपादचापल्यं ...
विनीतः सत्वसंपन्नः वाक्शस्तमम्बुनिर्णितं ...
विनीतस्त्वथ वार्तायां वाचं वा को विजानाति ... ३५७ विपाकः कर्मणां प्रेस वाच्यतामित्यनुज्ञातः ...
विपाकात्रिप्रकाराणां वाजेवाज इति प्रीतः ...
विपाके गोवृषाणां तु वानप्रस्थगृहेष्वेव ... ... ३३३ विप्रत्वेन च शूद्रस्य वानप्रस्थयतिब्रह्म
विप्रदण्डोद्यमे कृच्छ्रः ... वानप्रस्थो ब्रह्मचारी
विप्रदुष्टां स्त्रियं चैव वायवीयैर्विगण्यन्ते ...
विप्रपीडाकर छेद्यम् ... वायुभक्षः प्रागुदीची ...
विप्रान्मूर्धावसिक्तो हि ... वायुभक्षो दिवा तिष्ठन्
विप्रा हि क्षत्रियात्मानो वायोश्च स्पर्शनं चेष्टां ...
विषुषो मक्षिकाः स्पर्श ... वालवासा जटी वापि ... ... ३९९ विप्रेभ्यो दीयते द्रव्यं ... वासनस्थमनाख्याय ... ... १६२ विप्लुतः सिद्धमात्मानं ... .. ३५८ वासो गृहान्तिके देयं ...
विभक्तेषु सुतो जातः ... विकर्णकरनासौष्टी ... ... २८२ विभजेरन्सुताः पित्रोः ... ... २०२ विक्रयावक्रयाधान ... ... २६७ । विभागं चेत्पिता कुर्यात् ... २००
س
و
م
ه
س
م
.. २९१
... ४६३
• २८१
س
و
م
م
م
و
- mm 10
و
س
و
For Private And Personal Use Only
Page #548
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
२४
श्लोकाः
विभागनिह्नवे ज्ञाति विभागभावना ज्ञेया विभावयेन्न चेलिङ्गैः
विमना विफलारम्भः
विराजः सोऽन्नरूपेण विरुद्धं वर्जयेत्कर्म
...
...
...
...
...
विवादयेत्सद्य एव विवादं वर्जयित्वा तु विवादाद्विगुणं दण्डं विवीतभर्तुस्तु पथि विशेषपतनीयानि विश्वेदेवाश्च प्रीयन्तां विषयेन्द्रिय संरोधः विषाग्निदां पतिगुरु विहितस्याननुष्ठानात् वीणावादनतत्त्वज्ञः वृक्षगुल्मलतावीरुत् वृथाक्कसरसंयाव वृथादानं तथैवेह वृद्धबालातुराचार्य
वृद्धभारिनृपस्नात
वृक्षुद्रपशूनां च वायुः पुष्टिकामो वा
वेत्ति सर्वगतां कस्मात् . वेद एव द्विजातीनां वेदलावी यवाश्यब्दं वेदमध्यापयेदेनं वेदं व्रतानि वा पारं वेदाथर्व पुराणानि वेदानुवचनं यज्ञो वेदाभ्यासरतं क्षान्तं वेदार्थविज्ज्येष्ठसामा वेदार्थानधिगच्छेच
वेदाः स्थानानि विद्यानां वेदैः शास्त्रैः सविज्ञानैः
...
...
...
cod
...
...
www
...
...
⠀⠀⠀
...
...
GOO
***
...
...
8
800
...
...
...
...
...
...
...
...
...
याज्ञवल्क्यस्मृतिः ।
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
03.
...
...
...
...
...
...
...
...
...
...
...
...
***
...
...
...
www. kobatirth.org
...
Acharya Shri Kailassagarsuri Gyanmandir
पृष्ठम्
श्लोकाः
२३१ | वैणाभिशस्तवार्धुष्य २३१ । वैतानोपासनाः कार्याः
१४४ | वैरूप्यं मरणं वापि
८९ | वैश्यवृत्त्यापि जीवन्नो ३५१ | वैश्यश्च धान्यधनवान्
४३ | वैश्यहाब्दं चरेदेतत्
१२७ | वैश्यात्तु करणः शयां
४७ वैश्या प्रतोदमादद्यात्
१७१
२७८
...
६८ शरणागतबालस्त्री
३१ शरीरचिन्तां निर्वर्त्य
शरीरपरिसंख्यानं
३६१ शरीरसंक्षये यस्य
...
For Private And Personal Use Only
...
...
...
...
वैश्याशुयोस्तु राजन्य
व्यतीपातो गजच्छाया
४६८
व्यत्यये कर्मणां साम्यं ७६ व्यभिचारादृतौ शुद्धिः ३५८ | व्यवहारान्नृपः पश्येत् २८२ व्यवहारान्स्वयं पश्येत् ... ३७२ | व्यवहारांस्ततो दृष्ट्वा
३५० | व्यसनं जायते घोरं ४३७ | व्यासिद्धं राजयोग्यं च ...
५२ व्रजन्नपि तथात्मानं
१५०
...
शक्तस्यानीहमानस्य शक्तितो वा यथालाभं
४७
३६ शक्तोऽप्यमोक्षयन्स्वामी
...
...
Dea
***
...
...
***
२६७ | शक्त्या च यज्ञकृन्मोक्षे...
९४ शतमानं तु दशभिः
३५३
शते दशपला वृद्धिः
११
४४७
शतं स्त्रीदूषणे दद्यात् शयस्तदर्धिकः पाद ६ शंनोदेवीस्तथा काण्डात् १३ | शंनोदेव्या पयः क्षिप्त्वा ३२ | शपन्तं दापयेद्राजा ३६५ शब्दः स्पर्शश्च रूपं च ४७७ | शब्दादिविषयोद्योगं
...
...
...
...
...
...
...
***
9.0
...
...
...
...
***
...
800
...
660
...
...
...
234
...
***
...
***
***
...
...
...
...
600
...
...
...
***
...
600
800
पृष्टम्
...
४८
३०४
३४३
३२७
४९१
... ७१
२५८
३६३
३५७
४६८
४३१
२९
१७
२९
६७
३०
१९
११३
११०
१०२
१९४
२७४
८९
२०२
९६
२९०
३३५
१११
२४७
२८६
२५९
९५
३१
३५८
३५९
Page #549
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पद्यानां वर्णानुक्रमः ।
श्लोकाः
पृष्टम्
ENo sn GGmWaFG M
११Ex..r
१२०
२
४९१
पृष्टम् । श्लोकाः शरीरेण च नात्मायं ... ... ३६० श्रद्धोपवासः स्वातन्त्र्य ... ... शशश्च मत्स्येष्वपि हि ... ... ५३ श्राद्धकृत्सत्यवादी च ... ... ३६७ शस्त्रविक्रयिकार ...
श्राद्धंग्रति रुचिश्चैव ... ... शस्त्रावपाते गर्दास्य ...
श्रान्तसंवाहनं रोगि ... शस्त्रासवमधूच्छिष्टं ... | श्रीकामः शान्तिकामो वा शस्त्रेण तु हता ये वै ...
श्रुताध्ययनसंपन्ना ... ... शाकरज्जुमूलफल ...
श्रुतार्थस्योत्तरं लेख्यं ... ... शाकाौषधिपिण्याक ...
श्रुतिः स्मृतिः सदाचारः शातातपो वसिष्टश्च
श्रुतिस्मृत्युदितं सम्यक्... शास्त्राणि चिन्तयेद्बुद्ध्या... ... १०३ श्रुत्वैतद्याज्ञवल्क्योऽपि ... ४९१. शिरःकपाली ध्वजवान् ...
श्रुत्वैतानृषयो धर्मान् ... ... • ४९१ शिराः शतानि सप्तव
| श्रेणिनगमपाखण्डि
२५३ शिल्पैर्वा विविधैर्जीवेत्
श्रेयसा सुखदुःखाभ्यां ... शीर्षकस्थेऽभियोक्तरि
| श्रौतं स्मात फलस्ने हैः ... शुक्तं पर्युषितोच्छिष्टं ... ... ५० श्रौतस्मार्तक्रियाहेतोः ... शुक्रः शनैश्चरो राहुः ...
श्लेष्माश्रु बान्धवैर्मुक्तं ... ३०१ शुक्रियारण्यकजपो ...
श्लोकत्रयमपि ह्यस्मात् ... शुक्लाम्बरधरो नीच
श्लोकाः सूत्राणि भाष्याणि शुचि गोतृप्तिकृत्तोयं ...
श्वक्रोष्ट्रगर्दभोलूक ... शुद्धश्चेद्गमयोज़ मां ...
श्वित्री वस्त्रं श्वा रसं तु ... शुध्येत वा मिताशीत्वा ... पट् पञ्चाशञ्च जानीत ... ३४८ शुध्येरंस्त्री च शूद्रश्च ...
| षट् श्लेष्मा पञ्च पित्तं च शूद्रः प्रव्रजितानां च ...
षडङ्गानि तथास्नां च ... शुद्प्रेष्यं हीनसख्यं ... | षण्मासाच्छूद्रहाप्येतत् .... शूद्रस्तथान्य एव स्याद्
षष्ट्यङ्गुलीनां द्वे पार्योः शब्दस्य द्विजशुश्रूषा ... ... ३७ षष्ठेऽन्नप्राशनं मासि ... ... ५ शूद्राज्जातस्तु चण्डालः ...
षष्ठे बलस्य वर्णस्य ... ... शूद्रादायोगवं वैश्यात् ... | षष्टेऽष्टमे वा सीमन्तः ... ... शद्रेषु दासगोपाल ...
षोडशर्तुनिशाः स्त्रीणां ... ... शूद्रोऽधिकारहीनोऽपि ...
षोडशाङ्गुलकं ज्ञेयं ... शोणितेन विना दुःखं ...
षोडशाद्यः पणान्दाप्यो ... २६४ शोध्यस्य मृच्च तोयं च ... ... टीवनासृक्शकृन्मूत्र शौकिकैः स्थानपालैर्वा ... स आत्मा चैव यज्ञश्च ... श्मश्रु चास्यगतं दन्त ... ... ६१ सकटानं च नाश्नीयात् ... ... ३०२ श्रद्धा च नो माव्यगमत् ... ७६ सकामाखनुलोमासु ... ... २८५
प
...
३७०
NMMon <
१४८
0 0 NAWAN
४३१
१८८
mins
४
.
For Private And Personal Use Only
Page #550
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
याज्ञवल्क्यस्मृतिः।
. १२८
• २८३
mr
३६६
-
श्लोकाः पृष्ठम् | श्लोकाः
पृष्ठम् स कायः पावयेत्तज्जः ... ... १७/ संदिग्धलेख्यशुद्धिः ... ... १७७ सकाशादात्मनस्तद्वत् ... ...
संदिग्धार्थ स्वतन्त्रो यः... ... सकांस्यपात्रा दातव्या ...
संदिष्टस्याप्रदाता च ... स कूटसाक्षिणां पापैः ...
सद्दानमानसत्कारान् ... सकृत्प्रदीयते कन्या ... ... सद्यो वा कामजैश्चिह्नः ... सकृत्प्रसिञ्चन्त्युदकं ...
संधिं च विग्रहं यानम् ... १०७ सखिभार्याकुमारीषु ...
संधिन्यनिर्दशावत्सा ... ... स गुरुर्यः क्रियाः कृत्वा... | संध्यागर्जितनिर्धात ... ... ४५ सगोत्रासु सुतस्त्रीषु ...
| संध्यामुपास्य शृणुयात् ... ... १०३ सगौरसर्षपैः क्षौमं ...
संध्यां प्राक्प्रातरेवं हि ... संग्रामे वा हतो लक्ष्य ...
स नाणकपरीक्षी तु ... संघातं लोहितोदं च ...
संनिरुध्येन्द्रियग्रामं ... ... सचिह्न ब्राह्मणं कृत्वा ...
संनिरुध्येन्द्रियग्रामं ... सचैलं स्नातमाहूय ...
स नेतुं न्यायतोऽशक्यो सजातावुत्तमो दण्डः ...
सन्ततिस्तु पशुस्त्रीणां ... ... १४८ सजातीयेष्वयं प्रोक्तः ...
सपणश्चेद्विवादः स्यात् ... ... स ज्ञेयस्तं विदित्वेह ...
सपिण्डो वा सगोत्रो वा... संततिः स्त्रीपशुष्वेव
सप्तत्रिंशदनध्यायाः ... ... ४६ स तद्दद्याद्विप्लवाच्च ...
सप्तमाद्दशमाद्वापि ... स तमादाय सप्तव ...
सप्तमे चाष्टमे चैव ... स तान्सर्वानवाप्नोति ...
सप्तर्षिनागवीथ्यन्तः ... स तु सोमघृतैर्देवान् ...
सप्तषष्टिस्तथा लक्षाः ... सत्कृत्य भिक्षवे भिक्षां...
सप्ताश्वत्थस्य पत्राणि सत्क्रियान्वासनं खादु ...
सप्ताहेन तु कृच्छ्रोऽयं ... सत्यकारकृतं द्रव्यं ... १६० सप्तैव तु पुरीषस्य ... सत्यमस्तेयमक्रोधो ...
सप्तोत्तरं मर्मशतं ... सत्यसंधेन शुचिना
स प्रदाप्यः कृष्टफलं ... सत्यामन्यां सवर्णायां ...
सब्रह्मचारिकात्मीय सत्यासत्यान्यथास्तोत्रैः ...
संभूय कुर्वतामघ सत्येन माभिरक्ष त्वं ...
संभूय वणिजां पण्य ... सत्रिवतिब्रह्मचारि ...
संभोज्यातिथिभृत्यांश्च ... सत्वं रजस्तमश्चैव ... ३६३ सभ्याः पृथक्पृथग्दण्ड्याः स दग्धव्य उपेतश्चेत् ... २९४ सभ्याः सजयिनो दण्ड्याः स दानमानसत्कारैः ... ... २५२ सभ्यैः सह नियोक्तव्यो ... ११४ स दाप्योऽष्टगुणं दण्डं ... ... १७२ समकालमिषू मुक्तं ... ...
४३
m mr
४
१८७
४७९
mm P16"
. ११५
For Private And Personal Use Only
Page #551
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पद्यानां वर्णानुक्रमः।
.. ३३७
For Mr
र ११८
१९४
...
श्लोकाः पृष्ठम् । श्लोकाः
पृष्ठम् स मन्त्रिणः प्रकुर्वीत ... ... ९८ सलिलं भस्म मृद्वापि ... ... सममेषां विवीतेऽपि ...
सलिलं शुद्धिरेतेषां ... ... समवायी तु पुरुषो ... ... ३५२ सवत्सारोमतुल्यानि ... ... ६४ समवायेन वणिजां
सवर्णा विधौ धर्म्य ... समाप्तेऽर्थे ऋणी नाम ...
सवर्णेभ्यः सवर्णासु समाप्य वेदं द्युनिशं ... ... ४५ संविशेत्तूर्यघोषेण ... ... समामासतदर्धाहः
सव्याहृतिकां गायत्री ... ... ७४ समामासतदर्धाहः
संश्राव्य पाययेत्तस्मात् ... संमितानि दुराचारो
सश्रीफलैरंशुपटं ... ... समुद्रपरिवत च
| स सम्यक्पालितो दद्यात् ... समूहकार्य आयाता ... ... २५२ संसृष्टिनस्तु संसृष्टी ... ... २२५ समूहकार्यप्रहितो
स संदिग्धमतिः कर्म ... समेष्वेवं परस्त्रीषु ...
सहस्रकरपन्नेत्रः ... सम्यक्तु दण्डनं राज्ञः ... ... सहस्रशीर्षाजापी तु ... सम्यक्प्रयुक्ताः सिध्येयुः
सहस्राक्षं शतधारं ... सम्यक्संकल्पजः कामो...
सहस्रात्मा मया यो वः... संयतेन्द्रियता विद्या ... ... ३३९ स ह्याश्रमैर्विजिज्ञास्यः ... संयतोपस्करा दक्षा ...
साक्षिणः श्रावयेद्वादि ... संयोगे केचिदिच्छन्ति ...
साक्षिणश्च खहस्तेन . १७५ संयोज्य वायुनः सोमं ... ... ३५२ | साक्षिमच भवेद्यद्वा ... ... १७८ स राजसो मनुष्येषु ... ... ३५५ साक्षिमत्पुण्यपापेभ्यो ... ... १८७ सर्गादौ स यथाकाशं ... ... ३४१ साक्षिषूभयतः सत्सु ... ... १२९ सर्वतः प्रतिगृह्णीयात् ...
साधारणस्यापलापी ... ... २६७ सर्वदानाधिकं यस्मात् ... ... १०४ | साधून्संमानयेद्राजा ... ... १०५ सर्वधर्ममयं ब्रह्म ... | साध्यमानो नृपं गच्छेत् सर्वपापहरा ह्येते
सा ब्रूते यं स धर्मः स्यात् सर्वभूतहितः शान्तः
| सामन्तकुलिकादीनाम् ... सर्वमन्नमुपादाय ... ... ७५ / सामन्ता वा समग्रामा ... ३३ सर्वः साक्षी संग्रहणे १६६ | सामानि तृप्तिं कुर्याच ... सर्वस्य प्रभवो विप्राः
६२ सामान्यद्रव्यप्रसभ ... सर्वखहरणं कृत्वा
२५१ सामान्यार्थसमुत्थाने ... सर्वान्कामानवाप्नोति
| सारसैकशफान्हंसान् ... सर्वाश्रयां निजे देहे ... ... ३५६ / सावधानस्तदभ्यासात् ... सर्वेष्वर्थविवादेषु
१३४ सावित्रीपतिता व्रात्या ... ... सर्वोषधैः सर्वगन्धैः ... ... ९० । सावित्रीमशुचौ दृष्टे ... ... ४३९
१४८
२०६
५२
३५०
For Private And Personal Use Only
Page #552
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८
याज्ञवल्क्यस्मृतिः।
५०
००
श्लोकाः पृष्ठम् | श्लोकाः
पृष्ठम् साशीतिपणसाहस्रो ... ... १११ स्त्रीनिषेधे शतं दद्यात् ... ... २८३ साहसस्तेयपारुष्य
स्त्रीपुंसयोस्तु संयोगे साहसी दृष्टदोषश्च ...
स्त्रीप्रसूश्चाधिवेत्तव्या ... सिद्ध योगे त्यजन्देहं ... | स्त्रीबालवृद्धकितव ... ... १६५ सितासिताः कर्बुरूपाः ... ३६० स्त्रीभिर्भर्तृवचः कार्य ... सीम्नो विवादे क्षेत्रस्य ... ... २३२ | स्त्रीशद्रविट्क्षत्रवधो ... ... ३८१ सुकृतं यत्त्वया किंचित् ...
स्त्यालोकालम्भविगमः ... सुतविन्यस्तपत्नीकः ...
स्थानासनविहारैर्वा ... सुताश्चैषां प्रभर्तव्याः ...
स्थालैः सह चतुःषष्टिः ... सुराकामद्यूतकृतं ...
स्थैर्य चतुर्थे त्वङ्गानां ... सुरापी व्याधिता धूर्ता ... स्नातस्य सार्षपं तैलं ... सुरापोऽन्यतमं पीत्वा ... | स्नातानपवदेयुस्तान् ... सुराप्य आत्मत्यागिन्यो
स्नाला देवान्पिढेश्चैव ... सुराम्बुधृतगोमूत्र ... ... २९६ / स्नात्वा पीला क्षुते सुप्ते... ... ६२ सुस्थ इन्दौ सकृत्पुत्रं ...
स्नानमब्दैवतैर्मन्त्रैः ... सूर्यः सोमो महीपुत्रः ...
| स्नानं मौनोपवासेज्या ... ... ४७८ सूर्यस्य चाप्युपस्थानं ...
स्नपनं तस्य कर्तव्यं ... सृजत्यात्मानमात्मा च
स्नायान्नदीदेवखात ... सृजत्येकोत्तरगुणान् ... ... ३४१ स्फीतादपि न संचारि ... ... १५ सेकादुल्लेखनाल्लेपात् ...
स्फ्यशूजिनधान्यानां सेतुभेदकरी चाप्सु ... ... २८१ स्मृत्याचारव्यपेतेन ... सेतुवल्मीकनिम्नास्थि
स्मृत्योर्विरोधे न्यायस्तु ... सेवानूपं नृपो भैक्षं ...
स्यादोषधिवृथाच्छेदे ... सेह कीर्तिमवाप्नोति ...
स्याद्राजा भृत्यवर्गेषु ... सेह कीर्तिमवाप्नोति ...
वकर्म ख्यापयंस्तेन ... सोऽचिराद्विगतश्रीको ... ... १०५ स्खं कुटुम्बाविरोधेन ... ... २४४ सोदयं तस्य दाप्योऽसौ...
खच्छन्दं विधवागामी ... सोदरस्य तु सोदरः ...
खदारनिरतश्चैव ... सोऽपि यत्नेन संरक्ष्यो ... ... खदेशपण्ये तु शतं सोमः शौचं ददावासां ...
स्वधर्माच्चलितां राजा ... सोषैरुदकगोमूत्रैः ...
स्वप्नेऽवगाहतेऽत्यर्थ ... सौवर्णराजताब्जानाम् ... ... ५५ स्वप्याद्भूमौ शुची रात्रौ ... ३३३ स्तनान्तरं भ्रुवोर्मध्यं ...
खभावाद्विकृतिं गच्छेत् स्त्रीद्रव्यवृत्तिकामो वा ... ... २८२ स्वमण्डलादसौ सूर्यः ... ... ३५२ स्त्रीनक्तमन्तरागार ... ... १४३ खयं कृतं वा यदृणं ... ...
OM०८ ८ .Gm
९०
و
م
। ११६
س
-
س
१
و
و
م
م
و
.. ११०
۱
. १२८
تک
For Private And Personal Use Only
Page #553
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
श्लोकाः
स्वरन्ध्रगोप्ताऽन्वीक्षिक्यां स्वर्गः स्वप्नश्च भावानां
स्वर्ग ह्यपत्यमोजश्च
स्वर्यातस्य ह्यपुत्रस्य स्वं लभेतान्यविक्रीतं
स्वर्णैर्वा पटे लेख्या
...
...
000
...
...
स्वसीनि दद्याद्रामस्तु स्वस्तिवाच्यं ततः कुर्यात्
...
स्वस्त्रीयऋत्विजामातृ स्वहस्तकाल संपन्नं स्वाध्यायवान्दानशीलः स्वाध्यायं सततं कुर्यात् स्वाध्यायाग्निसुतत्यागो स्वामिने यो निवेद्यैव स्वामिप्राणप्रदो भक्तः स्वाम्यमात्या जनो दुर्गं स्वैरिणी या पतिं हित्वा ... हतानां नृपगोविप्रैः हत्वा त्र्यहं पिबेत्क्षीरं हविष्यानेन वै मासं हंसश्येनकपिकव्यात् हस्तेनाषधिभावे वा हस्तौ पायुरुपस्थं च हानिर्विक्रेतुरेवास
...
...
...
...
...
...
...
40
...
...
...
...
पद्यानां वर्णानुक्रमः ।
...
...
...
...
...
...
...
800
...
...
...
...
...
...
...
हिंसकश्चाविधानेन
१००
३३२
...
हिंसयन्त्रविधानं च कल्पं न कुर्वीत हीनजातिं परिक्षीणम् ३३ हीनजातौ प्रजायेत ... ३८१ हीनाद्रहो हीनमूल्ये २३७ | हीना न स्याद्विना भत्र २४९ | हीनेष्वदमो मोहं १०८ हुतशेषं प्रदद्यात्तु १८ हुत्वाभीन्सूर्यदैवत्यान् ३१२ हेममात्रमुपादाय
४३४ | हेमश्टङ्गीशकै रूप्यैः
८५ महारी तु कुनखी ४३५ | होतव्या मधुसर्पिर्भ्यां ४४ हृतं प्रनष्टं यो द्रव्यं ३४६ हृताधिकारां मलिनां २७२ हृत्कण्ठतालुगा भिस्तु
...
...
...
www. kobatirth.org
...
Acharya Shri Kailassagarsuri Gyanmandir
0.0
पृष्ठम्
श्लोकाः
९७ हानिचेत्तृदोषेण
३६२ | हास्यं परगृहे यानं
९४ | हिरण्यभूमिलाभेभ्यो २७८ हिरण्यं व्यापृतानीतं
७६
६८
८७ हितं तस्याचरेन्नित्यं
838
२१६ | हिताहिता नाम नाड्यः ...
२४१ हिताहितेषु भावेषु
...
इति याज्ञवल्क्यस्मृतिपद्यानां वर्णानुक्रमणी ।
000
For Private And Personal Use Only
...
...
...
...
...
...
...
...
...
...
...
...
⠀⠀⠀
...
...
...
***
...
...
...
0.0
...
900
...
...
...
...
900
...
...
...
...
...
...
...
...
...
...
...
२९
पृष्टम्
२७२
२४
८
३४९
३५८
१०८
१०२
३५४
३८१
३९
१४९
३६९
२४१
२५
२६१
७३
३१
३५६
६४
३६९
९५
२४३
१९
Page #554
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Serving JinShasan 093735 gyanmandir@kobatirth.org For Private And Personal Use Only