Page #1
--------------------------------------------------------------------------
________________
PORNAs of conn
BENARES SANSKRIT SERIES;
A
COLLECTION OF SANSKṚIT WORKS
EDITED BY THE
PANDITS OF THE BENARES SANSKRIT COLLEGE, UNDER THE SUPERINTENDENCE OF
R. T. H. GRIFFITH, M. A., C. I. E..
AND
G. THIBAUT, PH. D.
No. 51.
(बृहत् ) वैयाकरणभूषणं सर्वतन्तस्वतन्त्रश्रीमत्कौण्डभट्टविरचितम् ॥
(BRIHAT) VAIYÂKARANA BHÛSHANA,
A Treatise on Sanskrit Grammar, BY PANDIT KAUNDA BHATTA.
EDITED BY
PANDIT RÁMA KRISHNA SÁSTRÍ,
Alias TATYA SASTRÍ PATAVARDHANA,
PROFESSOR, GOVERNMENT SANSKRIT COLLEGE, BENARES.
FASCICULUS 1.
BENARES.
PUBLISHED BY THE PROPRIETORS Messrs. BRAJ B. DAS & Co. AND SOLD BY H. D. GUPTA, SECRETARY, CHOWKHAMBA SANSKRIT BOOK DEPOT.
-:0:
PRINTED AT THE RAJ RAJESHWARI PRESS & THE TARA PRINTING WORKS,
BENARES.
1899.
Page #2
--------------------------------------------------------------------------
Page #3
--------------------------------------------------------------------------
________________
BENARES SANSKRIT SERIES; COLLECTION OF SANSKRIT WORKS
A
EDITED BY THE PANDITS OF THE BENARES SANSKRIT COLLEGE,
UNDER THE SUPERINTENDENCE OF R. T. H. GRIFFITH, M, A., C. I. E.
AND
G. THIBAUT, Ph. D
Nos. 51, 52, 53 & 5451 (बृहत् ) वैयाकरणभूषणे
पदार्थदीपिका व अद्वितम सर्वतन्त्रस्वतन्त्रश्रीमत्कौंण्डभद्दविरचितम् ॥ (BRIHAT) VAIYÂKARANA BHÚSHANA,
A Treatise on Sanskrit Grammar,
BY PANDIT KAUNDA BHATTA: ALSO PADÀRTHA DIPIKÀ BY THE SAME AUTHOR.
EDITED BY PANDIT RÁMA KRISHNA SÁSTRÍ, Alias TÁTYĂ SASTRI PATAVARDHANA, PROFESSOR, GOVERNMENT SANSKRIT COLLEGE, BENARES.
BENARES. PUBLISHED BY THE PROPRIETORS Messrs. BRAJ B. DAS & CO.
AND SOLD BY H. D. GUPTA, SECRETARY, CHOWKHAMBA SANSKRIT BOOK DEPÔT.
:0:PRINTED AT THE RAJ RAJESHWARI PRESS & THE TARA PRINTING WORKS.
BENARES.
1900. REGISTERED ACCORDING TO ACT XXV. OF 1867.
Page #4
--------------------------------------------------------------------------
Page #5
--------------------------------------------------------------------------
________________
॥ श्रीः ॥
भूमिका ।
अथैतेषु दिवसेषु सत्स्वपि परमप्राचीनेषु भाष्यकैयटाद्याकरग्रन्थेष्वर्वाचीनेषु शब्देन्दुशेखरशब्दरत्नमनोरमादिषु विविधवादग्रन्थेष्वतिविस्तृतेष्वखिलवैयाकरणसिद्धान्तप्रतिपादकेषु त ज्जिज्ञासूनां पुरुषायुषेणाप्यशेषतस्तज्ज्ञानासम्भवादनायासतस्तत्प्रतिपत्तये स्वपितृव्येण श्री भट्टोजिदीक्षितेन विनिर्मितकारिकाया व्याख्यानमिषेण वैयाकरणभूषणं नाम निबन्धं निबबन्ध श्रीकोण्डभट्टाभिधमहासुधीः ।
स चायं निबन्धो वैयाकरणप्राचीनमतसिद्धान्तानामुपपादकतया तार्किकमीमांसकादिबहुतरदुस्तर्काणां निरासकतया च विद्वज्जनानां महोपकारमापादयन्नपि केवलं पुस्तकालाभेन पठनपाउनादिव्यवहारागोचरीभूतो ऽभूत्सांप्रतिकानामध्ये तृणामध्यापकानां च । ते चाद्यावधि केवलमल्पधियां सुबोधायैतद्ग्रन्थकृता निर्मितं वैयाकरणभूषणसारनामकमेतत्पुस्तक स्थिताल्पविषयविभूषितमेव व्यवहारविषयीभूतं व्यतन्वन् । तदेवं विद्यावतामनल्पमपकारमपाकुर्वता हरिदासति यथार्थनामश्रेष्ठि सद्वितीयेन ब्रजभूषणदासनाम्ना श्रेष्ठवरेण वाराणसेय संस्कृतसेरिजाख्यस्वीयपुस्तकावल्यामेतत्मचिकाशयिषुणा वारंवारं प्रोक्तचरपुस्तकमुद्रणाय समभ्यर्थितो ऽहं शेषोपाख्यप्राचीनतर वैयाकरणमन्दिरान्महामहोपाध्यायभारद्वाजदामोदरशास्त्रिमित्रवरमन्दिराच्चानीतैतत्पुस्तकद्वय सहायेन परमपरिश्रमेण चैतत्संशोध्यामुद्रयम् ।
Page #6
--------------------------------------------------------------------------
________________
(२) परितुष्यन्तु च तदेनदतिप्राचीनवैयाकरणसिद्धान्तमतनिधानालभ्यलाभेन पठनपाठनादिपचारगोचरीकुर्वन्तोऽपिशुना मामकीनं सीसकाक्षरयोजनजनिञ्चाशुद्धिगणमगणयन्तो ऽगण्यगुणगणमण्डिताः सर्वे पण्डिताः । प्रसीदतु चानेनादिप्रवर्तको व्याकरणादिविविधविद्याया भगवान् श्रीविश्वनाथोऽस्मानिति मुहु. मुहुरम्यर्थयते। मार्गे वदि ६ रवी ) काशीस्थराजकीयसंस्कृत
पाठशालाध्यापकः पटव___सं० १९५६ ) धनोपनामको
रामकृष्णशास्त्री।
Page #7
--------------------------------------------------------------------------
________________
॥ श्रीः॥
भूमिका।
सन्त्यनेके तर्कशास्त्रेषु चिन्तामणिगादाधरीमायुरीजागदीशीसिद्धान्तमुक्तावलीमभृतय उत्तमाधिकारिणां वर्कसंग्रहमभृतयो मन्दाधिकारिमामुपकाराय बहुतरास्तत्तत्तार्किकैनिर्मिता निवन्धास्तथापि मध्यमाधिकारिकल्पानामल्पधियामध्येतृणां सुबोधाय विविधमतान्तरीयविषयविभूषितस्तर्कशास्त्रीयबहुविधपदार्थोपपादको न कोयद्यावधि कैश्विनिर्मितो निबन्ध इत्यालोच्य तथाविधविद्यार्थिनामुपयोगाय श्रीकोण्डभट्टविदुषा तर्कदीपिका नाम . मुप्रबन्धो निबन्धो ऽयं निरमायि । अयं च निबन्धकारो महामहोपाध्यायभट्टोजिदीक्षितभातुष्पुत्र इति "भट्टोजिदीक्षितमहं पितृव्यं नौमि सिद्धये' इत्येतत्कृतवैयाकरणभूषणस्थलेखतो ऽवगत्या सुव्यक्त एवं प्रसिद्धतरतत्कालनिर्णयेनैतत्कालनिर्णयोपि । एतत्पुस्तकमतीवालभ्यं केवलं काशीस्थराजकीयसंस्कृतपाठशालास्थपुस्तकागारात्पुरातनमेकमन्ते कीटादिभक्षितकतिपयाक्षरकमशुद्धमासाद्य श्रेष्टिवरहरिदासमहोदयार्यानिवायप्रार्थनया परमपरिश्रमेण च परिशोध्य निस्सार्य च सुबहूनि स्खलिताति संयोज्य च सुविचारेण तत्रतत्रोपयुक्तान्यक्षराणि वाराणसेयसंस्कृतसेरिजाख्यपुस्तकावल्या विद्यारसिकाना
Page #8
--------------------------------------------------------------------------
________________
.
मुपकारायैकककत्वादैयाकरणभूषणेन सहैव चैकस्मिन् पुटके संमुद्रये । संघर्थिये च सर्वान्तामेरकं परमेश्वरं विश्वनाथं सदा पठनपाठनादिपचारेण मामकीनं संशोधनादिकं मुद्रणायासं विद्वज्जनः सफलयतादिति । माघ वदि १३ सोमे काशीस्थराजकीयसंस्कृत
पाठशालाध्यापकः पट. सं० १९५६
वर्धनोपनामको
रामकृष्णशास्त्री।
Page #9
--------------------------------------------------------------------------
________________
॥ श्रीः ॥
॥ वैयाकरणभूषणम् ॥
श्रीलक्ष्मीरमणं नौमि गौरीरमणरूपिणम् । स्फोटरूपं यतः सर्व जगदेतद्विवर्तते ॥ १ ॥ अशेषफलदातारं भवाब्धितरणे तरिम् । शेषाशेषार्थलाभार्थं प्रार्थये शेषभूषणम् ॥ २ ॥ वाग्देवी यस्य जिह्वाग्रे नरीनर्ति सदा मुदा । भट्टोजिदीक्षितमहं पितृव्यं नौमि सिद्धये ॥ ३ ॥ पाणिन्यादिमुनीन्प्रणम्य पितरं रगोजिभट्टाभिधम् द्वैतध्वान्तनिवारणादिफलिकां पुम्भाववाग्देवताम् ।। दुण्ढि गौतमजैमिनीयवचनव्याख्यातभिर्दूषितान् सिद्धान्तानुपपत्तिभिः प्रकटये तेषां वचो दूषयेय ।। ४ ।। नत्वा गणेशपादाब्जं गुरूनथ सरस्वतीम् । श्रीकोण्डभट्टः कुर्वेहं वैयाकरणभूषणम् ॥ ५ ॥
पारिप्सितप्रतिबन्धकव्यूहोपशमनाय विरचितं श्रीपतजलिस्मरणरूपं मङ्गलं शिष्यशिक्षार्थ निबध्नन् चिकीर्षितं प्रतिजा. नीवे ॥ फणिभाषितभाष्याब्धेः शब्दकौस्तुभ उद्धृतः। तत्र निर्णीत एवार्थः संक्षेपेणेह कथ्यते ॥ १ ॥
देवतान्तर त्यक्त्वा फणिन एव स्मरणं तु तस्य प्रकृतशास्त्रनिर्मात्रभ्यर्हितत्वेनेष्टतमत्वादित्याहुः । उद्धृत इत्यत्रास्माभि
Page #10
--------------------------------------------------------------------------
________________
धात्वर्थनिर्णयः। रिति शेषः। भाष्याब्यः शब्दकौस्तुभ उद्धृत इत्युपादानं च तप्रत्यकथनस्याधुनिककल्पितत्वेन पाणिनीयानामश्रद्धेयत्वव्युदासाय । तस्याश्रद्धेयत्वे च तन्मूलकत्वादेतस्याप्यश्रद्धेयत्वं स्यादिति भावः । तत्र निर्णीत इत्याधुपादानं चेतोप्पधिकजिज्ञासुभिरस्मत्कृताच्छब्दकौस्तुभादवधेयमिति ध्वनयितुम् ॥ ____ अत्रभवद्भिर्भाष्यकारादिभिः सप्रमाणमुपपादितान् श्री. भर्तृहरिगुरुचरणप्रभृतिभिरतितरां विशदीकृतानपि वैयाकरणाभिमतपदार्थान् विकल्पग्रस्तचित्तत्वान्न सम्यगधिगन्तुर्माशते दू. षयन्ति चातस्तानेव निपुणतरमुपपादयन्नाह ॥ फलव्यापारयो तुराश्रये तु तिङःस्मृताः । फले प्रधानं व्यापारस्तिङर्थस्तु विशेषणम् ॥२॥
तत्रापि प्रायशो वाक्यस्य सुप्तिङन्तसमुदायत्वात् मुबन्तानां च प्रायः क्रियाविशेषणत्वाद्धातोश्च क्रियावाचकत्वेन पुरस्फूर्तिकत्वादिच्छावशाद्वा - प्रथमतो धात्वर्थनिरूपणमिति बोध्यम् । धातुः स्मृत इत्यन्वयः । वाचकत्वेनेति शेषः । फलं विक्लित्त्यादि तत्तद्रूपेण वाच्यम् । तद्वाचकतापि तत्त. द्रूपेण । फलविशिष्टव्यापारे एकशक्तौ चैकदेशत्वात्फलस्य तत्र पदार्थान्तरान्वयो न स्यादित्यादि वक्ष्यते । फलव्यापारयोः साध्यसाधनभावस्तु संसर्गः । अतो जनकत्वांशे शक्तिं विनापि फलजनकत्वं व्यापारे सुलभम् । एकपदोपस्थाप्ययोरपि कृतीष्टसाधनत्वयोः कृतिवर्तमानत्वयोर्वा यथा परेषामन्वयस्तथास्माकमपीति न कश्चिद्दोषः। अथ कोयं व्यापारः । न तावत्फलप्रयोजकक्रिया । आत्माश्रयात् । क्रियात्वस्यैव तत्त्वात् । दण्डादिव्यापारस्यापि धात्वर्थत्वापत्तश्च । न चे.
Page #11
--------------------------------------------------------------------------
________________
चैयाकरणभूषणे पत्तिः । धातूपातव्यापाराश्रयत्वेन दण्डादेः कर्तृत्वापत्तः । तथा च दण्डेन देवदत्तः पचतीत्यादौ प्रथमापत्तेः । न चेयमनभिहिते करणे एव तृतीयेति वाच्यम् । दण्डादेः कर्तृत्वे करणत्वस्यैवासम्भवात् । आकडारादेकासंज्ञेति नियमनात् । भन्यथा दण्डेन दण्डः करोतीत्यपि स्यात् । न चा“त्मानमास्मना वेत्सि सृजस्यात्मानमात्मना । आत्मानमात्मना हंसी"त्यादिवदिष्टापत्तिः। औपाधिकभेदमादायैवात्र कर्तृत्वकर्मत्वाद्युपपादनस्य कर्मवत्कर्मणातुल्यक्रिय इति सूत्रे भाष्ये कृतत्वात् । न चागत्या निरवकाशा करणसंज्ञा कर्तृसंज्ञा बाधिष्यतइति वाच्यम् । गतेर्वक्ष्यमाणत्वात् । नापि यदनन्तरमव्यवधानेन फलोत्पादः सा किया । यथौदनं पचतीत्यत्र विक्लेदनम् । अधिश्रयणादीनां तज्जनकतया क्रियात्वमौपचारिकम् । उक्तं च । अनन्तरं फलं यस्याः कल्पते तो क्रियां विदुः । प्रधानभूतां तादादन्यासां तु तदाख्ययेति वाच्यम् । सम्भवति मुख्यत्वे गौणताया अन्याय्यत्वात्, काष्ठादिक्रियाया अप्यव्यवहितपूर्ववर्तित्वेनोक्तदोषाच । आरब्धेपि पाके क्रियाया भावित्वात्पक्ष्यतीति प्रयोगापत्तेश्च । अथ पचतीत्यनुगतव्य. वहारादस्ति पचिखं जातिः सैव क्रिया । न च क्रियायाः साध्यत्वं न स्यात् । नास्त्येव । किं तु तदाश्रयाणामेव सा. ध्यत्वम् । उक्तं च । जातिमन्ये क्रियामाहुरनेकव्यक्तिवत्ति। नीम् । असाध्या व्यक्तिरूपेण सा साध्येवोपलक्ष्यतइति चे. म । दण्डादिव्यापारस्यापि फलानुकूलत्वेनोक्तदोषात् । तत्र जातिर्नास्तीति चे, तार्ह दण्डः पचतीत्यपि न स्यात् । एतेन चरमव्यापारवर्तिनी जातिः क्रियेति निरस्तम् । तस्मात् त. द्वार्तरूपमेव क्रियात्वमिति चेन । भावनाभिधः साध्यत्वेना
Page #12
--------------------------------------------------------------------------
________________
धात्वर्थनिर्णयः। भिधीयमानो व्यापारविशेषः क्रिया । उक्तं च वाक्यपदीये । यावत्सिद्धमसिद्धं वा साध्यत्वेनाभिधीयते । आश्रितक्रमरूपवात्सा क्रियेत्यभिधीयते इति । वक्ष्यति ग्रन्थकारोपि । व्यापारो भावना सैवोत्पादना सैव च क्रियेति । न च साध्यत्वेनाभिधाने मानाभावः । पचति पाकः करोति कृतिरित्यादौ धात्वर्थावगमाविशेषपि क्रियान्तराकाङ्क्षानाकाङ्क्षयोर्दर्शनस्यैव मानत्वात् । तथा च क्रियान्तराकाङ्क्षानुत्थापकतावच्छे. दकं रूपं साध्यत्वन्तदेवासवभूतत्वम्भावनायाः प्रत्ययार्थतावादेपि पचति पाकभावनेत्यादौ तथादर्शनेनास्यास्तथात्वावश्यकत्वात् । अत एव वक्ष्यति 'साध्यत्वेन क्रियातो 'त्यादि। व्युत्पादयिष्यते चैतदुपरिष्टात् । स च व्यापार आत्मनिष्ठः प्रयना शरीरादीनां च फूत्कारादिः, तद्वत्येव पचतीति व्यवहारात्। अथैवमपि सर्वैतत्साधारणधर्मस्याभावाच्छक्यतावच्छेदका. भावे कथं स शक्यः । न च तत्त्वमेवावच्छेदकम् । नानार्थत्वापत्तेः नानाशक्त्यापत्तेश्च । ननु शक्यतावच्छेदकतयैवानुगतस्य तस्य सिद्धिः । यथा कारणतावच्छेदकत्वादिना, अत एव जलशब्दशक्यतावच्छेदकतया जलत्वसिद्धिरिति लीलावत्युपाये उक्तम् । द्रव्यानुगतबुद्धया द्रव्यत्वस्य गुणपदशक्यता. वच्छे दकतया गुणत्वस्य च सिद्धिरित्यपरे । तच्च जातिरुपाधित्यन्यदेतदिति चेन्न । येन रूपेण बोधस्तस्यैव शक्यतावच्छेदकत्वात् । कल्प्यमानधर्मपुरस्कारेण च न शाब्दबोधः । न च कारणतावच्छेदकत्वादिनापि जातिन सिध्येत् । येन रूपेण कारणताबोधस्तस्यैव कारणतावच्छेदकत्वौचित्यादिति वाच्यम् । कल्प्यमानलघुरूपेण कारणत्वे सम्भवति गुरुरूपेण तदस्वीकारेण तत्र क्षत्यभावात् । अत्र च सिद्धरूपेण बोधस्या
Page #13
--------------------------------------------------------------------------
________________
वैयाकरणभूषणे
नुभवसिद्धत्वात्तथाकार्यकारणभावावश्यकत्वे कल्प्यमानधर्मेणापि कार्यकारणभावान्तरकल्पने गौरवमिति न तत्कल्पनं युक्तम् । अन्यथा सैन्धवादिपदवाच्यतावच्छेदकत्वेनाप्यश्वादिवृत्तिधर्मान्तरकल्पनापत्तेः । अश्वत्वादिनैव प्रतीतेस्तत्कल्पना न युज्यतइति चेत्, समैवात्रापि फूत्कारत्वयुत्नत्वादिनैव प्रतीतिरिति दिक् । इदं च तार्किकरीतिमनुरुध्य । वस्तुतः कारणतावच्छेदकत्वादिनापि न जातिसिद्धिरिति व्यापारो भा वनेति कारिकायां वक्ष्यते इति कथमेतदिति चेन्न । तचद्रूपेजैव तस्य शक्यत्वात् । अत एव पचतीत्यादौ फूत्कारत्वाधः - सन्तापनत्वयत्नत्वादिभिर्बोधः सर्वसिद्धः सङ्गच्छते । न च नानार्थता | बुद्धिस्थत्वादेः शक्यतावच्छेदकानां तदादावि वानुगमकस्य सत्वात् । उक्तं च हरिणा । गुणभूतैरवयवैः समूहः क्रमजन्मनाम् । बुद्धया प्रकल्पिताऽभेदः क्रियेति व्यपदिश्यते इति । क्रमजन्मनामेषां व्यापाराणां समूह एकस्वबुद्धया संकलनात्मकया प्रकल्पितो ऽभेदो यस्य स च स मूहः स्वभावतो गुणभूतैरवयवैर्युक्त इत्यर्थः । एवं च सर्वेषां कारकाणां व्यापारा वाच्याः । यो यदा यस्य बुद्धिस्थस्तदा सोभिधीयते तदैव तदाश्रयः कर्त्ता । अत एव काष्ठं पचति स्थाली पचतीति सङ्गच्छते । एवं च काष्ठेन पचतीत्यपि नानृपपन्नम् । तदा तद्वयापारस्य धात्वर्थत्वाविवक्षणात् । एतेन काष्ठक्रियाया वाच्यत्वे तृतीया न स्यात् । अवाच्यत्वे प्रथमा न स्यादित्यादिकमपास्तमिति न कश्चिद्दोष इति ध्येयम् । एतस्य धातुवाच्यत्वे मानं तु वक्ष्यते । अयं प्रत्ययवाच्य एवेतिमीमांसकाः । अयं न वाच्यः किं त्वेतद्विशेषः कृतिरिति नैयायिकाः । तत्रापि वक्ष्यते । आख्यातस्य न कर्त्ता वा
9
Page #14
--------------------------------------------------------------------------
________________
धात्वर्थनिर्णयः। च्यः । कृतिमतो व्यापारवतो वा कर्तृत्वेन तच्छतावनन्तकृत्यादौ शक्यतावच्छेदकत्वे गौरवादिति नैयायिकायुक्तं दू. पणमस्मन्मताज्ञानादिति ध्वनयनेव स्वमतमाह । आश्रये विति । आश्रये. फलाश्रये व्यापाराश्रये च । फलव्यापारयोर्षातुलभ्यत्वादाश्रयमात्रमर्थः । अनन्यलभ्यस्य शब्दार्थत्वात् । तथा चाश्रयत्वमेव शक्यतावच्छेदकमनो नोक्तदोषावकाश इति भावः । अत एव कृतिविशिष्टकर्तृवाचितृचः कृतिवाचककृधातुयोगे कर्तेत्यत्राश्रयपरत्वमिति नैयायिकाः । एवं कृत्यत्ययस्थले भावनांशस्यालेपलभ्यत्वादाश्रयमात्रमर्थ इति मीमांसका मन्यन्ते । अथाश्रय आख्यातार्थ इत्यत्र मानाभावः । त. प्रतीतिश्चाक्षेपाल्लक्षणया वोपपद्यते । प्रथमान्त पदेन तदुप. स्थितिसत्वाद्देवदत्तः पाकानुकूलकृतिमान् एकदेवदत्ताश्रयको वर्तमानो व्यापार इति बोधोपपत्तावन्यलभ्यत्वेन शक्तिकल्पनाऽयोगाचेति चेत् । अत्र वदन्ति । कर्मदेवाच्यत्व युष्मदि समानाधिकरणे मध्यम इति पुरुषव्यवस्था न स्यात् ।। कर्तुरवाच्यत्वेन सामानाधिकरण्याभावात् । देवदत्तः पच. तीत्यादौ कर्तरि तृतीया पच्यते तण्डुल इत्यादौ द्वितीया च स्यात् । काधनभिधानेन तयोर्दुर्वारत्वात् । ननु तनिष्ठसंख्याभिधानात्तदभिधानम्, एवं युष्मदस्तिकुपात्तसंख्यावयिवाचकत्वं सामानाधिकरण्यमपीति चेन्न । तिवाच्यसंख्याया कुत्रान्वय इत्यनिश्चयात् । तथा च कर्तृप्रत्ययपि संख्या. या उभयत्रान्वये उपभोरप्यभिधेयत्वं स्यात् । न च कर्जकत्वेनैव संख्याभिधीयतइति शङ्क्षयम् । तथा शक्तरबोधना
। विशेषणतया कर्तुच्यत्वसिद्धश्च शक्यतावच्छेदकोपि गौरवानि । किं च कृत्तद्धितसमासैः संख्यानभिधानात्तत्रैव क
Page #15
--------------------------------------------------------------------------
________________
वैयाकरणभूषणे तुरनभिधाने देवदत्तः पाचकः इत्यादौ तृतीयाद्यापत्तः । वस्तुत. स्तिस्थले कर्तुरवाच्यत्वे पचमान इत्यादौ कृत्यपि तन्न स्यात् । युक्तेस्तुल्यत्वात् । लकारस्य वाचकस्योभयत्रैकत्वात् । आदेशानां वाचकत्वे हरेव विष्णोव राममित्यादौ सर्वे सर्वपदादेशा इति न्यायेन वाक्यपदस्फोटयोः सिद्धयापत्तेः, अपसिद्धान्ता. च । न च कृति कर्तुरवाच्यत्वे इष्टापत्तिः । समानाधिकरणपातिपदिकार्थयोरभेदान्वयव्युत्पत्तिभङ्गापत्तेः । जञ्जभ्यमानाधिकरणोच्छेदप्रसङ्गाच्च । शानचा कर्तुरुक्तत्वाच्छक्त्या पुरुषार्थत्वमिति सिद्धान्तस्यैव सम्भवात् । तस्मादवश्यं कर्तकर्मगोर्वाच्यत्वमुपेयमिति । अत्र नैयायिकाः, कर्तृसंख्याभिधानादेव तदभिधानं वाच्यम् । न च तदन्वयनियमे मानाभावः । भावनान्वयिन्येव तदन्वयात् । संख्याभावनयोः स. मानपदोपात्तत्वेनैकान्वयित्वस्योचितत्वात् । भावनायाश्चेतराविशेषणीभूतप्रथमान्तपदोपस्थाप्यएवान्वयः । तथैवाकाङ्. क्षितत्वात् । एवं कृदादावपि कर्नाद्यभिधानादेवाभिधानव्यवस्था, अन्यतरानभिधाने तृतीयेति सूत्रार्थः । तम्मानोक्तानुपपत्तिः । कृत्प्रत्ययस्थले च कर्तुरवाच्यत्वे अभिधानव्यवस्थानापत्तेः । न च कृत्यभिधानादभिधानम् । कर्मप्रत्ययस्थलेप्यापत्तेः मित्रापकीगतं पुरमिति -लिङ्गविशेषेण सामानाधिकरण्यानापत्तेर्वा तत्र वाच्यतास्वीकारः समानाधिकरणस्यैव वि. शेषणस्य समानलिङ्गत्वात् । अन्यथा राज्ञः स्त्री इत्यादावपि प्रसङ्गात् । एवमाख्यातार्थस्य प्रथमान्तार्थे एवान्वयव्युत्पत्तेः । पक्ता तृप्यतीत्यत्र पाकानुकूला कृतिस्तृप्यतीति वोधः स्यात्तथा चानन्वयः । अतः कृति कविश्यं वाच्यः । लकारस्यैकस्य वाचकत्येपि शानजादौ कर्तरि लक्षणा न शक्तिः, येनानेकर्थता
Page #16
--------------------------------------------------------------------------
________________
धात्वर्थनिर्णयः। स्यात् । तृनादेः परं शक्तिरिति न दोषः । आदेशानां वाचक स्वेपि न दोषः । हरवत्यादौ च प्रत्येकं पदानामधूनशक्ति कानां तत्तदर्थोपस्थापनद्वारा वाक्यार्थबोधकत्वसम्भवाम वा. क्यस्फोटादिः । अत्र त्वनुपपत्त्या कर्तर्येव शक्तिरित्याहुः । भावनान्वयिनि संख्यान्वय इत्यसङ्गतम् । न पचतीत्यत्र भा. घनानन्वयिन्येव कर्तरि तदन्वयेन व्यभिचारात् । संख्यायाः प्रत्ययार्थत्वाद्भावनायाश्च धात्वर्थत्वस्य वक्ष्यमाणत्वात्समानपदोपात्तत्वस्याभावाच्च । विशेष्यतयाख्यातजन्यसंख्या. बोधं प्रति तेनैव सम्बन्धेन भावनाप्रकारकबोधसामग्रीत्वेन हे. तुत्वपर्यवसानेन गौरवाच । समानपदोपस्थितान्वयित्वमपेक्ष्य समानपदोपात्तत्वस्यैव लाघवेन संख्यान्वयनियामकत्वौचित्या. छ । भावनान्वयनियामकस्यैव तद्धेतोरिति न्यायेन संख्यावयनियामकत्वौचित्याच्च । भावनान्वयिनि संख्यान्वय इ. तिवत्संख्यान्वयिन्येव भावनान्वय इत्यस्यापि मुवचत्वाच्च । तस्मात् प्रथमान्तपदोपस्थाप्यएव संख्यान्वयः, प्रथमान्तपदोपस्थाप्यत्वमेव नियामकम् । किञ्चैवं सति विशेष्यतासम्बन्धे. नाख्यातार्थसंख्याप्रकारकबोधं प्रति इतराविशेषणप्रथमान्तपदजन्योपस्थितिविषयतया कारणमिति लघुभूतः कार्यकारणभावः फलितः । ' नारायण इव नरो हन्ति ' ' चन्द्र इव मुखं हु. श्यते' इत्यत्र नारायणे चन्द्र च संख्यान्वयवारणायेतराविशेष. णति । चैत्रेण सुप्यत इत्यत्र चैत्रनिष्ठस्वाप इति बोधाद्विशेष्ये स्वापे तद्वारणाय प्रथमान्तेति । वस्तुतस्तु तवापि कुत्र कर्ता वाच्यः, कुत्र कर्मेत्यत्र नियामकाभावाच्छवादिकं द्योतकं पाच्यम्, तथा च ममापि कुत संख्यावय इत्यत्रापि तदेव द्योतकमिति न काप्यनुपपत्तिः । एवं कुदादिसाधारण्याय मुख्य
Page #17
--------------------------------------------------------------------------
________________
चैयाकरणभूषणे भाक्तसाधारणकृत्यनभिधानात्कर्तुरनभिधानमिति . व्यवस्था; माश्रयणीया। कर्मप्रत्यये च फलमेवार्थः कृतेस्तृतीयया लाभात्। एवं च फलानभिधानमेव कर्मानभिधानम् । यद्यप्येवं कत्मत्ययेः प्रागुक्तरीत्या ऽनभिधानव्यवस्था कर्तृवाच्यत्वसाधिका न भ.. पति । तथापि देवदत्तः पाचक इत्यादिसामानाधिकरण्यानुपपन्त्यायेव तत्साधकं द्रष्टव्यम् । शेष प्राग्वदेवेति पुनस्तमबीनाः॥
अत्रोच्यते ।। विशेष्यतासम्बन्धेनाख्यातार्थसंख्यामकारकघोघं प्रत्याख्यातजन्याश्रयोपस्थितेर्हेतुत्वं लाघवादिति कर्टकमणोस्तिवाच्यत्वमावश्यकम् । न तु त्वदुक्तरीत्या प्रथमान्तपदजन्यज्ञानं तथा । एतादृशाकांक्षायाः पदद्वयघटितत्वेन गुरुत्वात् । इतराविशेषणत्वघटितत्वेन सुतरां गौरवाच्च । न घाख्यातस्य भावनामात्रवाचकत्वग्रहवतस्तादृशबोधानुरोधेनोक्तकार्यकारणभावस्तवाप्यावश्यक इनि वाच्यम् । एवं हि पं. त्नस्य धातुवाच्यत्वग्रहवतः पाकानुकूलहत्तिमानिति बोधानुरोधेन धात्वर्थप्रकारकशाब्दबोधे प्रथमान्तपदजन्योपस्थितिहेतुरित्यस्यावश्यकत्वेन रथो गच्छति जानाति करोतीत्यादौ धात्वर्थस्य साक्षाद्रथादौ भानसंभवेनाख्यातस्याश्रयत्वलक्षणाभ्युपगमानापत्तेः । रथेन ग्रामो गम्यते इत्यादौ धात्वर्थफलस्यैव साक्षाकर्मणि भानसंभवात्कर्माख्यातानां फलवाचकत्वाभ्युपगमवैय.
पित्तेश्च । विवेचयिष्यते चैतदुपरिष्टात् । न च तत्सदुपत्त त्तिग्रहशालिपुरुषशाब्दबोधानुरोधेनादाहतकार्यकारणभावंद्वयमप्यावश्यकं पातु आख्यातस्य कर्तरि शक्तावनन्तवृत्त्यादावन च्छेदकत्वापत्तावतिगौरवं परमतिरिच्यतइति वाच्यम् । भान पनाश्रयत्वस्यैवाखण्डशक्तिरूपस्यावच्छेदकनायाः प्रागुक्तत्वे
Page #18
--------------------------------------------------------------------------
________________
भात्पर्यनिर्णयः ।
1
Angioवस्य स्ववासनामात्रकल्पितत्वादिति । अपि चैव कृतामपि कर्तृवाचकत्वं न स्यात् । गौरवस्य साम्यात् । अथ चैत्रो गन्तेत्यत्राभेदान्वयादवश्यं कर्त्ता वाच्यस्तत्राभ्युपगन्तव्यः । न च चैत्रो गच्छतीति गम्श्यत्राप्याश्रयतया कृतेश्चैत्रान्वयादेत्वसिद्धिः । समानाधिकरणप्रातिपदिकार्थयोरभेदान्वयव्युत्पत्तेः । reasure एकपदोत्तरविभक्तिविरुद्ध विभक्तिमत्पदजन्योपस्थितेर्हेतुत्वाच्च । चैत्रो गन्तेतिवच्चैत्रे गन्तेत्यापत्तेश्चेति चेत्, अत्रोच्यते । घटो न राज्ञः सूतस्य धनं पचतितरां चैत्रः पचतिकल्पं मैल इत्यादावभेदबोधाद्भेदेन बोधदर्शनाच्चोक्तकार्यका रणभावद्वयस्यापि व्यभिचारः । न चात्रायोग्यत्वान्नान्वयः । कृत्यपि तथा सुवचत्वात् । एवं पचतिकल्पं मैत्र इत्यादावपि नामात्वयाश्रयाश्रयिभावेनान्वयः संभवत्येव । न चात्राख्यातस्य कर्तरि लक्षणा । एवं हि पक्ता गच्छतीतिवत्पचतिकल्पं गच्छ तीत्यापसे । किं चात्रैव नानाख्यातार्थयोरभेदान्वयस्य क्लृप्तत्वात्तदनुरोधाञ्चैत्रः पचतीत्यत्राभेदानुभवाच्चाख्यातस्य कर्तृवाचकत्वापची सिद्धं नः समीहितम् । न च कल्पवादेरेव कर्तरि लक्षणा, तथासत्याचार्यकल्पावाचार्यकल्पा इतिवद् द्विवचनादेरपि कर्तृत्वादिविवक्षायामापतेः । न च सुविरुद्ध तिङन्तोपस्थाप्यत्वेन कृते देवान्वय इति वाच्यम् । स्तोकं पचतीत्यादौ स्तोक पाकयोरभेदबोधानापत्तेः । तस्माद्भेदेन नामार्थप्रकारकोघे सार्थकमुनिपातजभ्यैवोपस्थितिर्हेतुरिति हेतुहेतुमद्भावादाख्यातार्थेनाभेदबोध दुर्वार इति वक्ष्यामः । यन्तु चेत्रे गन्तेति स्यादिति । तन्न | चैत्रे गच्छतीत्यस्याप्यापत्तेः । यदि चाख्यातार्थस्य प्र. थमान्तोपस्थाप्यएवान्वयस्तदात्रापि कृदर्यप्रकार कशाब्दबोधं प्रति समानाधिकरणपदजन्योपस्थितिर्विषयतया हेतुरिति कार्य
Page #19
--------------------------------------------------------------------------
________________
वैयाकरणभूरक कारणभारोस्तु । कार्यकारणभाअन्तरकल्पनागौरव चाख्याता थभावनान्वयाय प्रथमान्तपदनम्योपस्थितिहेतुस्वकल्पने ऽपि तुं ल्पम् । दर्थवदभेदनोधे वक्ष्यमाणसिदकार्यकारणभावेन मि.. वाहोपपत्तोरति दिक् । पक्तत्यादौ तृजकतेने नामार्थत्वमापि, तृजन्तस्यैव नामत्वात् । पाकायनुकूला तिरेव हि नामार्य: न नु शुद्धा । तथा च नामार्थस्य विशेष्ये विशेषणमिसिन्यायेनैवः चैत्रादावन्वय इत्यपि कश्चित् । अधैवमपि मित्रापक्रीति लिङ्गेन सामानाधिकरण्यात्तत्र कर्ता वाच्य इति चेन्न । तस्य साधुत्वाथमप्युपपत्तेर्वस्त्वष्यवस्थापकत्वात् । एतादृशानां विशेष्यनिघ्नत्वस्य सर्वसिद्धत्वात् । अन्यथा शुक्लादिपदानां द्रव्योप शसयापत्तेः । रूपमात्रे शक्ती शक्यतावच्छेदकलाघवस्य नीलं रूपमित्यादौ केवलरूपे प्रयोगस्य च पक्ता जातः पाठको जात इत्यादौ कृतां केवल कृतौ शक्तिसाधकेनाविशेषात् । अत एव सामानाधिकरण्यं नैकविभक्तिनिश्वत्थामर्थसाधकम् . योगस्थ वस्त्वव्यवस्थापकस्वादिति द्वित्वप्रत्यक्षविचारे गुणोपायेप्युक्तम् । किं चैवं समानाधिकरणस्य विशेषणस्प विशेष्यसमानलिङ्गत्वनियमवत्तादृशस्यैव विशेषणस्य विशेष्यसमानवचनत्वनियमादाख्यातस्यापि कर्तृकर्मवाचकता दुारा । अन्यथा देवदत्ताः पचतीत्यादरप्यापत्तेः । न च चैत्रो मैत्रश्च गच्छतः सुन्दरावित्यादौ व्यभिचारान्नायं नियमः । क्षुदुपहन्तुं शक्यं शैत्यं हि यत्सा प्रकृतिर्जलस्त्यादौ तस्यापि तुल्यत्वात् । भोक्ता तृप्यतीत्यादौ च कृतः कृतिमावायकत्वेषि नानुपपत्तिः । न पचति चैत्र इत्यत्र प्रतियोगितासम्बन्धेन न. अर्थइस सामानाधिकरण्यसम्बन्धेन दर्थकृतारप्याख्यातायात सन्वयसम्भवात् । न चाधारतया तिर्थकतिबारे प्रथमानना
Page #20
--------------------------------------------------------------------------
________________
भास्वनिर्णयः ।
दजन्योपस्थितेर्हेतुत्वं सुवचम् । न पचति चैत्र इत्यादावनन्वयापतेः । अस्तु वा तत्र कृतः कर्त्तरि लक्षणा । अतो नानुपपत्तिः । न च केवलकृतौ प्रयोगातत्र शक्तिनिर्णये सत्यव तद्वति लक्षया युज्यतइति वाच्यम् । पक्ता जात इत्यादौ परेषां पचतीस्बो केवलकृति बोधवत्केवलं पक्तेत्येवोक्ते च केवलकृतौ मयोगात् । अन्यथा ssख्यातस्यापि कर्तृवाचकतापतेः । वस्तुतस्तु पश्य मृगो धावति, पश्य नृत्यति भवति, पचति भवतीत्यादौ धावनादिभावनाया दर्शनादौ विशेषणतया ऽन्वयबोधानुरोधाक्तुरपि तथैव तात्पर्याद्भाष्यकारैरपि तथैवाभ्युपगमेनैतादृशेकवाक्यताप्रतिपादनाच्च नाख्यातार्थभावनाप्रकारकबोधं प्रति प्रथमान्तपदजन्योपस्थितेः कारणत्वं व्यभिचारात् । चैत्रः पचतीत्यत्र नैयायिकानां तथान्वयबोधस्तु तादृशव्युत्पत्त्यनुरोधास् । अत एव मीमांसकादयश्चैत्रनिष्ठा भावनेति भावनाविशेष्यकमेव बोधमादुः । तस्मान तथा कार्यकारणभावमूलिका कृतां कर्त्तरि शक्तिर्युक्ता, किं तु चैत्रः पाचक इत्यभेदान्वयानुरोधारस चाख्यातेपि सम इति स्यादेव तत्रापि कर्तादिवाचकत्वमिति विभावयामः ॥
1
के चि कर्तुरवाच्यत्वे पचतीत्यत्र पाककर्मानस एकस्वसंशयः स्यात् । ननु कर्तुरनुपस्थितौ धर्मिज्ञानाद्यभावात्कथं संशयः । लक्षणया तदुपस्थितौ चैकत्वविशिष्टे लक्षणाभ्युपगमाम संशय इति चेन्न । मनसा तदुपस्थितिसम्भवात् । न चोपस्थितत्वात्संख्यान्वयोपि स्यादिति कथं संशय इति वाच्यम् । शब्दोपस्थितस्यैव नैयायिकैः शाब्दे ऽन्वयाङ्गीकारात् । न च लक्षणयोपस्थितेः संख्यान्वयस्य सुवचत्वान्न संशय इति वाच्यम् । म्यापनये सर्वत्र लक्षणायां बीजाभावात् । प्रथमान्तपदादनु
.
*
Page #21
--------------------------------------------------------------------------
________________
वैयाकरणपणे पस्थितेस्तदन्वमसम्भवावेति चदन्ति । अधिकं वक्ष्यमाणरी. त्यावधेयमिति दिक् ।। - मीमांसकास्त्वनभिहितइत्यस्याबोधिते इत्यर्थः । बोधश्च शक्त्या आक्षेपारा । स चाख्याते आक्षेपात् । कृति तु शक्त्या । अत एव कत्रषिकरणे-भट्टैरुक्तम् । “यादृशस्तु गुणभूतः कर्मात्रावगः म्यते न तादृशेन विना भावनोपपद्यत इति अर्थापत्त्यानुमानेनं वा शक्ताऽनुगमयितु" मित्यादिना। ननु कृति आक्षेपात आख्याते शक्त्येति वैपरीत्यं किं न स्यात् इति चेन्न । प्रधानीमूतया मा. वनया कप्तुराक्षेपस्य युक्तत्वात् । भावनाया आक्षेपलभ्यत्वे च प्राधान्यानुपपत्तेः । एवं कृत्यपि प्राधान्यात् कर्तुर्वाच्यत्व. मावश्यकमिति युक्तस्तेनाक्षेपः । उक्तं च । यदि क; धात्वर्थेन घा भावनावगम्येत ततः पाचकपाठकादिपदेष्विव तिरोहितस्वरूपा ऽवगम्येत । प्राधान्यात्तु शब्दार्थत्वाध्यवसानमिति । पदा दनुपस्थितस्य कर्तुः कथं शाब्दबोधविषयत्वमिति चेत् । अत्र नामार्थनिर्णये वक्ष्यते । तस्मामाख्यातस्थले कर्तृकर्मणी वाच्ये । अभिधानव्यवस्थायाः प्रकारान्तरेणोपपत्तरिति वदन्ति ॥
__ अत्रोच्यते । यथाकथञ्चिद्भावनाक्षेपमात्रेण प्रत्यायितत्वमा भिधानव्यवस्थायां नोपपादकम् । कर्मप्रत्ययेपि भावनाया विना आश्रयमनुपपत्तेः। कर्तुराक्षेपात्कत्रंभिवाने तृतीयानापत्ते आ. ख्याते शक्तया कृत्याक्षेपादिति वैपरीत्यस्य दुर्वारत्वाच्च यन्तु सथा सति प्राधान्येन भामं न स्यादिति । तन्न । आक्षेपलभ्यः स्यापि प्राधान्येन भाने बाधकाभावात् । अन्यथा प्राधान्या: नुरोधाद्वयक्तेर्वाच्यत्वस्वीकारापत्तावाकृत्याधिकरणं दत्तजलाना लि स्यादिति । नमु का स्वस्वरूपनिरूपकत्वेन मानवाया भाक्षेपात् गुणत्वम् । जात्या तु लोके परिच्छेचतपावगतं इतकं
Page #22
--------------------------------------------------------------------------
________________
पारपर्धनिर्मा सवैवामिप्यतइति न गुणत्वामिति चेक । एतादृशविशेषस्यामयोजकत्वेन गुणत्वादावनियामकत्वात् । भवद्रीत्या व्यक्तरिव कर्तुः परिच्छेग्रत्वादाक्षिप्तस्यापि व्यक्तिवद्विशेष्यत्वापत्तेश्च । किन देवदत्तादिः शक्तिविशेषरूपो वा कर्ता न भावनानिरू. प्या। घटत्ववदखण्डत्वात् । कर्तृत्वं तटितमिति चेत् । घटस्वमपि घटघटितमेवेति विशेषोपपादनन्दन्ध्रणम् । अथ घट इ. स्वतापि नास्त्येव घटादोर्वशेष्यत्वप्रतीतिः किं तु घटत्वादरिति बेद । सत्यम् । एवं हि व्यक्तौ पदार्थान्तरान्वयो न स्यात् । विशेष्यतयानुपस्थितत्वेनाकांक्षाविरहात् । किं च न भवत्प्रतीखैव वस्तुसिध्यसिद्धी किं तु सकलसाधारणया। तादृशी च न ध्यापारेपि, नैयायिकैः कर्तृविशेष्यकबोधाभ्युपगमात् । एवं घ. टपदादिस्थलपि । तस्माद्विशेष्यत्वादिबोधो भवतामेव तादृशव्युत्पत्तिवशाजायमानो न वस्तुव्यवस्थापक इति स्फुटतरं भा. वार्थाधिकरणदूषणे वक्ष्यते । अथ भावनया कर्तुराक्षेपो युक्तः न तु की भावनायाः कर्मप्रत्ययस्थले भावनाप्रत्ययानुपपत्तेरिति चेन्मैवम् । कर्टकोमाभ्यामाक्षेपसम्भवात् । न चोभयोराक्षेपकत्वकल्पने गौरवं, तवाप्युभयोराक्षेप्यत्वकल्पने गौरवात् । कर्मकर्तृकत्सु तदाक्षेपाय त्वयाप्येवं स्वीकर्तव्यत्वाच्चेति । यन्नु कर्तरिकदिति व्याकरणस्य कृत्प्रत्ययस्थले कर्तरि शक्तिपरिच्छेदकस्य सत्वाकर्तृवाच्यत्वावश्यकत्वात्तेन कृत्मत्ययस्थ:
के भावनाक्षेपो युक्तः । तिस्थले च तदभावान कर्तुर्वाच्य• स्वमायातीति । तदापाततः । तिस्थलेपि लः कर्मणीति सूत्रस्य करि पक्तिपरिच्छेदकस्य सत्त्वात् । कर्तरिकदिति कर्तृग्रह
हवामानुवृत्तेः । अनन्यलभ्यत्वादेश्चोभयत्रापि तुल्यत्वात् । .. कनिषभावेषाकर्मकेभ्यः, तिप्तमि, कयोर्दिक
Page #23
--------------------------------------------------------------------------
________________
पैसाकरणभूषणे पनैकवचने इत्येतेषामेकवाक्यतया विधानेन क रेकरवेभिषेक लकारैकवचनं तिवादि प्रयोक्तव्यमित्यर्थपर्यवसानाकर्तृवाच्या त्वं न सूत्रादायाति, किंतु तत्संख्याया एवेति चेन्मैवम् । द्विवचनादिसंज्ञा ह्यादेशनिष्ठा, ततश्च तद्विधिना द्वयेकयोरित्यस्यैकवाक्यता। न च तत्र कर्तरीत्यस्ति यद द्वित्वादिविशेषणतया कथं चिद्योज्येत । ननु लविधितिबादिविध्योरप्येकवाक्यतास्तीति चेत्, तर्हि इयं वाक्यैकवाक्यता न तु पदैकवाक्यता । आ. देशविधेर्लविधिलभ्यलकारानुवादेन प्रवृत्तेः । लविधी कर्वग्रहणम् । स च द्विवचनादिसंज्ञाविनिर्मुक्त एवेति । तस्माद्वाक्यनिष्पत्त्यनन्तरं तेनैकवाक्यता । लः कर्मणीति वाक्यं चार्य वि. ना ऽनिष्पन्न यमर्थमादाय निष्पद्यते स एव वाच्य इति कर्तु। चीच्यत्वं दुष्परिहरमिति वदन्ति । स्फुटमन्यन्मनोरमायाम् । वस्तुतस्तु लः कर्मणीत्यस्य द्वयकयोरित्यनेनैकवाक्यत्वे लकार: सङ्ख्यावाचको निरर्थको वा स्यात् । न चैवं युक्तम् । एवं हि तिबादिवच्छानचोपि कर्तृसङ्ख्या वाच्या स्थान स्याच्य की, तिबादिवच्छानजादीनामपि लादेशत्वात् । अथ करेंरिकृदित्यत एव तत्र कर्ता वाच्य इति चेन्न । तेन शग्यमाने आस्यमाने चायं गत इत्यादौ भावे क्रियमाण इति कर्मणि शानचो दौर्लभ्यापत्तेः । विधायकाभावात् । अथ कतैव वारयः, कर्मभावादौ च शानचो लक्षणेति चेन्न । कर्तरीति व्याकरण: स्थार्थनियामकस्यातिक्रमेण स्वेच्छामात्रेण लक्षणायामसाधुता. पत्तेर्वक्ष्यमाणत्वात् । न च लटः शतृशानचावित्यस्यात्मनेपद विधायकैः सममेकवाक्यतया भावकर्मणोरित्यनेनेष्टसिद्धिः । सकर्मकेभ्योप्येवं सति भावे शानजापतेः । अस्माकं पुनर्भावे चाकर्मकेभ्य इत्युक्तत्वान्न दोषः ।' किं चैकवाक्यतया. कर्मका
Page #24
--------------------------------------------------------------------------
________________
पात्वर्थनिर्णयः । वरूपार्थलाभेन निराकाक्षतया करिकदित्यस्याविषयतया कर्तरि स न स्यात् । तथात्वे वा घनादिरपि कर्तरि स्यात् । अपि च भावकर्मणोरित्यस्य भावकर्मणो यो लकारस्तस्यात्मनेपदमेवादेश इत्यर्थों न त्वया वक्तुं शक्यः । लकारस्यानर्थक. त्वात् । यदात्मनेपदं तद्भावकर्मणोरेवेत्यपि न । कर्तरि आत्मनेपदाभावापत्तेः । भावकर्मणोरर्थयोरात्मनेपदं स्यादित्यर्थे चोक्तसूत्रादेव तडादेः कर्मवाचकता शेषात्क-रिपरस्मैपदमित्यस्माच्च कर्तृवाचकता तिडादेः स्यात् । सकर्मकेभ्योपि भावे शानजापत्तिश्चति दिक् । तस्मादापातत एवैकवाक्यतया भा. वकर्मार्थलाभ इति । तस्मात्कर्तृकर्मशानचो योगेनानूध विधीय. मानं कर्तृकर्मसंस्कारकमिति जञ्जभ्यमानाधिकरणे स्थितमसम्भवदुक्तिकतामापयेत इति ध्येयम् । यदपि भट्टैरुक्तम् । कर्तृवि. विष्टसंख्याभिधानाकर्तुरभिधानम् । न च विशेषणतया कक्षुरप्यभिधेयत्वं स्यादिति वाच्यम् । विशिष्टग्रहणं नेष्टमगृहीत. विशेषणम् । अभिधानभिधाने तु न केन चिदिहाश्रिते। तथा व भावनया प्रत्यापितस्य कर्तुविशेषणत्वसम्भवान्न दोषः । न च भावनाक्षेप्यत्वस्याविशेषात्पचतीत्यत्र कत्तैव पच्यते इत्यत्र कमैंव सख्यायां विशेषणमिति नियमो न स्यादिति शङ्कयम् । यतो यस्यापि कारकं वाच्यं तस्याप्येतत्प्रसज्यते । न चोभयाश्रयं दोषमेकश्चोयो विचारयनिति । ननु शब्दोपस्थितस्यैव शा. ब्दबोधे भानाङ्गीकाराद्भावनयाक्षिप्तस्यैव कर्तुः कथं शान्दबोधविषयत्वामीति चेन्न । तद्वाचक शब्दस्यैव भावनयाक्षेपात् । अर्थाक्षेपकस्यैव शब्दाक्षेपकत्वात् । अनुपपत्तेस्तुल्यत्वाम् । तथा च सद्वाचकशब्दादेव कर्तृकर्मणोर्बोधः । तदुक्तम् । सर्वाख्यातेषु कादरिष्टा नैवाभिधेयता । या तु सेभ्यः प्रतीतिः सा संयो.
Page #25
--------------------------------------------------------------------------
________________
धात्वनिर्णयः। गान्तरतो भवेदिति ॥ लक्षणैव वा आक्षेपशब्दार्थः । सा चाश्रयत्वादिना । अत एव नामजात्यादिभिः प्रश्नोत्तरभावः कर्टकर्मणोः सङ्गच्छते । तस्मानाभिधानव्यवस्थानुपपत्तेः कषुर्वाच्यत्वमिति । कृदादौ चाभिधानयुक्तिरेव तत्साधिका । अतोन्यलभ्यत्वसम्भवेप्यगत्या तद्वाच्यत्वस्वीकार इति न प्रागुक्ता प्रतिबन्दिरपि । कर्तृतत्सङ्ख्यान्यतरानाभधाने वाच्यत्वे तृतीयेत्याश्रीयतइति । अत्रेदं प्रतिभाति । देवदत्तः पचति पच्यते तण्डुल इ. त्यादिसामानाधिकरण्यादाख्यातस्य कर्तृकर्मवाचकत्वम् । म चेदमसिद्धम् । अन्यस्मिन्पचति देवदत्तः पचतीत्यप्रयोगेण तस्यानुभवसिद्धस्य विना हेतुं कर्तृवाच्यत्वभीत्यैवापलापायोगात् । त्वं पचसीत्यादौ युष्मच्छब्दसामानाधिकरण्यस्यानुभवमनुसरता सूत्रकृतानूद्य तदनुसारेण पुरुषव्यवस्थाया युष्पधुपपदेसमानाधिकरणेस्थानिन्यपिमध्यम इत्यादिना कृतत्वाच । अन्य. था नीलो घटः, देवदत्तः पक्का, ऐन्द्रं दधि, चित्रगुर्देवदत्तः, पिनाक्षी गौः, स्तोकं पचति, ज्योतिष्टोमेन यजेते, त्यादावपि तदपला. पापत्तौ बहुव्याकुली स्यात् । न च पदार्थानामभेदबोधे समानविभक्तिमत्पदोपस्थाप्यत्वं तन्त्रं, तच्चात्र नास्तीति कारणबाधान्न सामानाधिकरण्यामीति वाच्यम् । राज्ञः सुतस्य धनमित्यादावतिप्रसक्तवेन राजपुरुषःधान्येन धनी स्तोकंपचति ज्योतिष्टोमेन यजेतेत्यादावप्रसक्तेश्चास्यतन्त्रत्वात् । अथ विरुद्धार्थकविभक्तिराहित्यं तन्त्रम् ।सुप्तिकोश्च न विरोधः। एवं च विशेष्यतासंबंधेनाभेदसंबंध: कतन्नामार्थप्रकारकशाब्दबोधं प्रति तन्नामोत्तरसार्थकविभक्त्युपस्थित्यकालिकतनामसमभिव्याहृतपदजन्योपस्थितिः कारणमिति कार्यकारणभावः फलितः । स्तोकमित्यादौ द्वितीया त्वभेदाथी साधुत्वमात्रार्था वा । यद्वा विरुद्धरूपेणानुपस्थितिस्तत्र तममि
Page #26
--------------------------------------------------------------------------
________________
१८
वैयाकरणभूषणे
ति चेतर्हि, देवदचः पचतीत्यत्राप्यभेदबोधो दुर्वार इति सिद्धं नः समीहितम् । आख्यातस्य शक्तिकल्पना च कृतां कर्तृशक्त्या तुल्या, परं त्वाख्यातार्थ भावनाप्रकारकबोधे प्रथमान्तपदजन्योपस्थितिः कारणमिति नैयायिकोक्तकार्यकारणभावान्तरस्य भावनाविशेष्यक कर्तृविशेषणकबोधाय मीमांसकीयस्य च तस्याकल्पनालाघवमस्माकमतिरिच्यते । एतेन भिन्नाभ्यां धर्माभ्या मेकधर्मिबोधकत्वलक्षणं सामानाधिकरण्यमसिद्धम् । सम्भवदम्यादृशन्तु न वार्यतइति मन्दमतारणमपास्तम् । अथास्तु सा1 मानाधिकरण्यं किं तु भावनाक्षिप्तकर्त्रा भविष्यतीत्यसकृद्वातिकएवोद्घोषितमितिचेन्न । आक्षेपो हि यद्याख्यातार्थभावनयानुमानं तर्हि, धूपोयं ज्वलतीत्यादाविव तदसम्भव एव । मैत्रादिपदयोगे तदसम्भवाच्च । लक्षणा चेत्तार्ह, पिङ्गाक्ष्यादियोंगिकेष्वपि द्रव्यवाचित्वं न स्यात् । मूलयुक्तेः सामानाधिकरण्यस्योक्तरीत्यैवोपपत्तेः । द्रव्यवाचकत्वसाधकान्तरस्य चाभावात् । प्रत्युत सम्बन्धादिगुणवाचित्त्वे एव साधकमुपलभ्यते । तथाहि । घटपदात् घटत्वमकारक घटविशेष्यकबोधवद्दण्डी इत्यादौ दण्डसम्बन्धवानिति प्रतीतिः सर्वसिद्धा । तत्राकृत्यधिकरणन्यायेन निष्कृष्टघटत्ववत्सम्बन्धमात्रं वाच्यं स्यात् । किं च तदस्यास्त्यस्मिन्निति मतुप् सास्यदेवतेत्यादावस्येत्यर्थे मतुवादिविधानम् । अस्त्येत्यत्र प्रत्ययार्थत्वात् संसर्गः प्रधानमिति तत्रैव तेषां विधिः स्यात् । तथा च मतुबर्थे विहितबहुव्रीहेरापे स एव वाच्यः स्यात् । उक्तं चारुणाधिकरणवार्त्तिके "बहुवीहिः समासोयं मतुवर्थे विधीयते । अस्यात्रेति च सम्बन्धे मत्वर्थीयः प्रवर्तते " इति । युक्तं चैतत् । अत एव देवदत्तस्य गोमत्त्वामित्यत्र स्वप्रत्ययस्य संसर्गबोधकत्वं सङ्गच्छते । घटत्वमित्या
Page #27
--------------------------------------------------------------------------
________________
धात्वर्थनिर्णयः ।
दौ पदार्थीभूत घटत्वबोधकत्ववत् । न च प्रकृतिजन्यवोधप्रकारस्त्वप्रत्ययार्थः संसर्गस्तु विशेष्यः तथा च कथं स्वार्थ इति वाच्यम् । आकृत्यधिकरणन्यायेन घटत्वस्यैव वाच्यत्वात्तत्रैवोपपत्तेः । आक्षेपितव्यक्तौ तस्य प्रकारकत्वं चात्रापि सम् । उक्तं च । यदि मतुपा सम्बन्धोभिहितस्ततः प्रकृतिप्रत्ययौ स हार्थं ब्रूते इति गोमत्प्रातिपदिकादुत्पन्नो भावप्रत्ययः सम्बन्धमभिधातुमर्हति नान्यथेत्यादिना । प्रतीयते च सर्वत्र सम्बन्धः पाचकत्वं पाठकत्वमौपगवत्वमित्यादिष्विति । किं च एकहायन्यादिशब्दविग्रहेप्येकं हायनमस्याः, चित्रा गावो यस्य, विश्वे देवा देवता अस्ये, त्यादौ प्रत्ययार्थ सम्बन्धप्राधान्येन विवरणदर्शनात्तस्यैव वृत्तिवाच्यत्वमवसीयते । उक्तं च । यस्मिन्नन्यपदार्थे च बहुवीहिर्विधीयते । तत्रापि प्रत्ययार्थत्वात्सम्बन्धस्व प्रधानतेति । न च गोमानित्यादौ सम्बन्धिप्रतीतिर्न स्यादिति शङ्कयम् । उभयाश्रितेन सम्बन्धेनाक्षेपात्तदुपपत्तेः । तत्र कर्तृवत्सम्बन्धवच्चेति । यत्तु मतुवादेर्न सम्बन्धसामान्यं वाच्यम् । पर्यायतापत्तेः । न विशेषः । स हि सम्बन्धिरूप एव । सोप नानभिहितः शक्नोति तं व्यावर्त्तयितुमतः सोप्यभिधातव्यः । तथा च गोरूपस्यैकस्य सम्बन्धिनः प्रातिपदिकादुक्तत्वेपि स म्बन्धस्योभयनिरूप्यत्वात्सोप्यभिधातव्यः सम्बन्धश्चेति शक्तिद्वयकल्पनापत्तिरित्यतिगौरवम् । आवश्यकसम्बन्धिनैवाक्षेपातद्बोधोपपत्तावन्यलभ्यत्वं च । उक्तं च सर्वत्र यौगिकैः शब्दैर्द्रव्यमेवाभिधायते । नहि सम्बन्धवाच्यत्वं सम्भवत्यतिगौस्वात् ॥ किं च । सम्बन्धिनैव सम्बन्धः प्रत्येतुं यदि शक्यते । पुनस्तस्याभिधाशक्तिं कः श्रुतेः परिकल्पयेदिति । किं च । विभक्तिवाच्यरूपेण सम्बन्धो नावगम्यते । रूपान्तरेण वक्तव्य
१९
-
Page #28
--------------------------------------------------------------------------
________________
२०
वैयाकरणभूषणे इति नास्ति च लक्षणम् । षष्ठयादिभिर्वसत्त्वभूतः सम्बन्धोभिधीयले न तथा मत्वर्थीयेन, सत्त्वभूतसम्बन्धवाच्यत्वे च न प्रमाणम् । तस्मादनुशासनत्यागावश्यकत्वे त्वक्षिप्त एव स इति । यतु भावप्रत्ययः सम्बन्धं न वदेदिति । तम । यदा स्वसमवेतोत्र वाच्यो नास्ति गुणो ऽपरः। तदा गत्यन्तराभावात्सम्बधो पाच्य आश्रितः॥ गोमत्पदे हि गावो मतुबर्थे विशेषणम् । तासां पुरुषावृत्तित्वान्न त्वप्रत्ययेन ग्रहणम् ॥ तस्य सम. वेतगुणाभिधायकत्वात् । तथा चागत्यार्थप्राप्तसम्बन्धाभिधाय - कस्त्वप्रत्यय इत्याश्रीयते । यदप्येकं हायनमस्या इति विग्रहे सम्बन्धप्राधान्यदर्शनात्तस्य समासार्थतेति । तत्रोच्यते । अभिधेयो बहुव्रीहेर्यद्यप्यस्येति कथ्यते । तथापि प्रथमान्तेन तुल्योसौ सम्पतीयते ॥ तथाचार्थदर्शनानुसारेण चित्राणां गवामयमित्येव विग्रहो द्रष्टव्य इति स्थितं वार्तिके । तचिन्त्यम् । द्रव्यमपि न सामान्यतोभिधेयम् । पर्यायतापत्तेस्तुल्यत्वात् । न विशेषतः । स हि संसर्गः, प्रातिपदिकार्थो वा । आधे अप्रतीतस्यानभिहितस्य विशेषकत्वासम्भवाद्वाच्यत्वापत्तिः । द्वितीय पक्षः संसर्गवादिनोपि तुल्यः । संसर्गेपि गवां व्यावर्तकतया विशेषणत्वसम्भवात् । तथा च गोविशिष्ट इतिवद्गोसम्बन्ध इति बोधः संभवत्येव । उभयनिरूप्यः सम्बन्ध उभयबोध वि. ना कथं बुध्यतामिति चेन्न । सम्बन्धप्रत्यक्षे हि यावत्सम्बन्धिप्रत्यक्षं कारणम् । नतु शाब्दे, गोसम्बन्ध इति वाक्याबोधानापत्तेः । तर्हि गोसम्बन्ध इतिवाक्यवदाश्रयाक्षेपनियमो न स्यात् इति चेन्न । षष्ठयर्थे विहितमतुवादसत्वभूत एव स. म्बन्धोभिधेयः । अत एव सम्बन्धानामनेकत्वे तुल्यलिङ्गत्वपि च दण्डीसेकवचनम् । दण्डी दण्डि दण्डिनीत्यादिलिङ्गभेद
Page #29
--------------------------------------------------------------------------
________________
धात्वर्थनिर्णयः ।
प्रयोगश्चोपपद्यते सम्बन्धिनां तथाविधत्वे एव तादृशप्रयोगाणां दर्शनात् । एवं च सम्बन्धे लिङ्गसङ्ख्यान्वयासम्भवादन्यथानुपपन्नलिङ्गसङ्ख्यादिभिरेवाक्षेपः सम्बन्धिन आख्यातसङ्रूपयेव कर्त्रादेः । यद्वा भावनाशब्दोपात्त भावनायाः कर्त्रनाक्षेपकत्वेप्याख्यातोपात्ताया असन्त्वभूतत्वेन तदाक्षेपेकत्ववत्सम्बन्धपदोपात्तसम्बन्धस्य सम्बन्ध्यनाक्षेपकत्वेपि मतुबुपात्तस्य सम्बन्धस्यापि तत्स्यात् । अत एव विभक्तिवाच्यरूपणोति प्रागुक्तमपास्तम् । तथाअनवगत्य सिद्धेः । किं च लिङ्गसङ्ख्यानन्वयित्वमसत्त्वंभूतत्वं षष्ठयादावर्थसिद्धम् । प्रत्ययार्थलिसङ्ख्यादेः प्रत्ययार्थएवान्वयसम्भवात् । सुपां प्रकृत्यर्थान्वित - स्वार्थबोधकत्वव्युत्पत्तेश्च । एवं च नासत्त्वभूतत्वं षष्ठया वाच्यामिति विभक्तिवाच्यरूपेणेति रिक्तं वचः । तस्मात्सम्बन्धवाच्यत्वे दोषाभावादनुशासनाद्यनुरोधेन तस्य वाच्यत्वासद्धेः । सम्बन्धेनैव सम्बन्धी प्रत्येतुं यदि शक्यते । पुनस्तस्याभिधाशक्ति कः श्रुतेः परिकल्पयेदिति गाथा मयापि सुपठा । यत्तु भावप्रत्ययस्य समवेतगुणग्राहकत्वनियम इत्यादि । तन । घटादिपदेपि घटत्वस्यैवाकृत्यधिकरणन्यायेन वाच्यत्व स्वीकारेण तदनुरोधेन भावप्रत्ययस्य प्रकृत्यर्थवाचकत्व स्वीकारस्यैव लाघवादुचितत्वात्सम्बन्धस्य प्रकृत्यर्थतानङ्गीकारे त्वार्थत्वानापत्तेरपरिहारात् । प्रकृत्यर्थसमवेतवाचकत्वस्वीकारेतिगौरवापत्तेः । उक्तन्यायेन घटत्वत्वस्यैव घटपदोत्तरत्वार्थतापतेश्च । ननु प्रकृत्यर्थमात्रवाचकत्वे वैयर्थ्यापत्तिः प्रकृत्यैवार्थोपस्थितिसिद्धेरिति चेन्न । प्रकृत्याभिधानेोपे घटत्वादेराक्षिप्तद्रव्ये विशेषणस्वेनैव तत उपस्थितत्वेन प्राधान्येन बोधार्थं पुनरुच्यतइत्युपपचेः, प्रकृतिप्रत्ययौ सहार्थमिति न्यायेन त्वार्थत्वे विशेष्य
२१
:
Page #30
--------------------------------------------------------------------------
________________
वैयाकरणभूषणे त्वस्या न्यायसिद्धत्वात् । किं चैवं घटादिपदे द्रव्यत्वादेर्दण्डीत्यादौ पुरुषगतरूपादेश्च तदुत्तरत्वाद्यर्थतापतिः द्रव्यत्वादिकं घटपदजन्यप्रतीतौ न प्रकार इति चे, दाक्षेपपक्षे संसगोपि न प्रकार इति तुल्यम् । वक्ष्यते चैतदुपरिष्टात् । चित्राणां गवा. मयामिति विग्रह इत्यादिकं च स्फुटतरं समासशक्तौ निराकरिव्यते । तस्मादुक्तयुक्तिभिः संसर्ग एव वाच्यो मतुवादेः स्यादिति तदर्थविहितबहुव्रीहेरपि तन्मात्रवाचकत्वे अरुणाधिकरगं दत्तजलाञ्जलि स्यात् पूर्वपक्षस्यैवासम्भवादिति समासशक्तौ वक्ष्यामः । प्रस्थितं च गुणाधिकरणेन । तद्धितस्य द्रव्यानभिधायकत्वे वाजिनामिक्षयोर्वाक्यविनियोज्यत्वसाम्यात् । न च तद्धितार्थसम्बन्धाक्षिप्तद्रव्यविधिरेव श्रौतः वाजिनं चन तथेति वाच्यम् । एवं ह्याख्याते कर्तुराक्षेपावश्यकत्वेन नानृतमिति निषेधस्यापि श्रुत्या पुरुषार्थत्वसम्भवेन कर्तुरवाच्यत्वसाधनायासवैयापत्तेः सिद्धान्तसिद्धयसम्भवेन कधिकरणोच्छेदप्रसङ्गाच्च । यत्तु प्राधान्येन प्रतीयमामत्वमेव शब्दवाच्यत्वे बीजम् । तच्चाख्यातेषु भावनाया यौगिकेषु द्रव्याणामेवास्ति न तु कर्टसम्बन्धादेः । घटारुणादिपदेषु च जातिगुणयोरपि तदस्त्येव । सत्त्वप्रधानानि नामानीति निरुक्तस्मृतेररुणाधिकरणएव तृतीयार्थसङ्ख्यादेर्गुणेन्वयप्रतिपादनेन तुल्य: तया जातिगुणयोः सङ्ख्यान्वयित्वरूपसत्वभूतत्वात्माधान्यसिद्धः तृतीयान्तपदेषु जातावेव लिङ्गसङ्ख्यान्वयाभ्युपगमात् । तथा च तादृशेष्वेव प्राधान्यसाम्ये आकृत्यधिकरणं शक्यविशेपनियामकमावश्यकमेवेति न तद्धानिरपीति । तन्तुच्छम् । तृतीयान्ते यौगिकार्यसम्बन्धस्यापि सत्त्वभूतताया गुणतुल्यतया दुर्वारत्वात् प्राधान्यादाकृत्यधिकरणन्यायेन वाच्यतापत्तरिति ।
Page #31
--------------------------------------------------------------------------
________________
धात्वर्थनिर्णयः ।
२३
तस्माद्वैश्वदेव्यामिक्षा पिङ्गाक्षी गौः दण्डी देवदत्त इति सामानाधिकरण्यस्य विनैवानुपपत्तिप्रतिसन्धानं शब्दादेव प्रतीतेस्तदनु! सारेण द्रव्यवाचित्वसास्थेयम् । तच्च सममाख्यातेपीति कर्तृकर्मवाचकत्वमवर्जनीयमेवेति । अत एव चित्रा गावो यस्येति सम्बन्धप्राधान्यदर्शनेपि चित्रगुर्देवदत्त इति समासे सामानाधिकरण्यानुरोधात् द्रव्यवाचित्वं विग्रहसमासयोरेतदंशे वैलक्षण्यं चाश्रीयतइति वक्ष्यते । अथैवं नीलो घट इति सामानाधिकरण्यानुरोधात् घटादिपदानामपि द्रव्यवाचकत्वे आकृत्याधिकरणविरोधः । मैवम् । घटादिपदे हि घटत्वस्य वृत्त्याविषयत्वे शाब्दे भानायोगात् घटत्वांशे वृत्तिकल्पनावश्यकत्वेनागृहीतविशेपणन्यायेन जातिमात्रवाचित्वसिद्धौ द्रव्यमाक्षिप्यतइति युक्तम् । प्रकृते च प्रकृत्यर्थतावच्छेदकस्यैव प्रकृतिशक्तयोपस्थितत्वात्तदुपलक्षणीकृत्य शक्तौ दोषाभावाद् द्रव्यवाचित्वमास्थीयते । उक्तं च, आनन्त्येपि हि भावानामेकं कृत्वोपलक्षणम् । शब्दः सुकरसम्बन्धो न च व्यभिचरिष्यतीति । यदि च घटादिपदेप्युपलंक्षणत्वमभ्युपेयते तदा केवलव्यक्तिवाच्यत्वमपि सुसङ्गतमेवेति वक्ष्यते । एवं च केवलव्यक्तिवाच्यत्वपक्षमाश्रित्य सामानाधि करण्यं नानुपपन्नामिति सिद्धान्तरीत्यापि द्रष्टव्यम् । वस्तुतो गोमानित्यत्र गोसम्बन्धीति बोधात्सम्बन्धी वाच्यः । वाच्यतावच्छेदकः संसर्गः सम्बन्धत्वं परम्परयोपलक्षणं तदादौ बुद्धिविशेषवत् । न च तच्छाब्दे विषयो येन घटत्वप्रतिबन्दी स्यात् सम्बन्धप्रकारक बोधस्यैवानुभवसिद्धत्वात् । अत एव दण्डि स्वमित्यादौ त्वप्रत्ययस्य सम्बन्धबोधकत्वं सङ्गच्छतइति । न च कर्तृकर्मादिवाचकशब्दानां शक्तिवाचकत्वाद्देवदत्तादिपदैः सामानाधिकरण्यासम्भव एवेत्यसिद्धो हेतुरिति वाच्यम् । शक्ति
,
Page #32
--------------------------------------------------------------------------
________________
वैयाकरणभूषणे
मत्कारकमिति पक्षाश्रयणेन शक्तिमतामेव कर्त्रादिपदवाच्यत्वात् । अत एव देवदत्तः कर्त्ता कारकः कर्म इति सामानाधिकरण्यं संगच्छते । उक्तं च साक्षान्सूत्रकृतैव युष्मदस्मदादिशब्दसामानाधिकरण्यमुट्टाङ्कितं सूत्रादिषु । तथोक्तं च भाष्ये । सुपां कर्मादयोप्यर्थाः सङ्ख्या चैव तथा तिङामिति अत एवाश्रमे स्विति मूलमपि न ल:कर्मणीति सूत्रविरुद्धम् । अन्यथा कर्त्तरिकदित्यनुशासनाच्छानजादेः शक्तिमात्रवाचकत्वे सामानाधिकरण्यापलापापत्तेश्च । नित्याः षड् व्यक्तयोन्येषामिति वाक्यपदीये ऽन्यमतत्वेनैव शक्तिपक्षोत्थापनात्तत्पक्षस्य सिद्धान्तासम्मतत्वाच्च । धातुनोक्तक्रिये नित्यमित्यादिवक्ष्यमाणवाक्यपदीयादिभिर्भावनाश्रवत्वस्य कर्तृत्वेन फलाश्रयत्वस्य कर्मत्वेन प्रतीतेः स्वातन्त्र्येण शक्तिमत्ययस्यैवासिद्धेश्च । न चैवमाश्रयेत्विति मूलं सूत्रविरुद्धं स्यात् । सूत्रे कर्तृत्वकर्मत्वाभ्यां वाच्यत्वावगमात् । न च भावनांशस्य धातुलभ्यत्वादाश्रय इत्येव सूत्रस्य भावार्थ इति वाच्यम् । अन्यवाच्यस्यापि तथात्वस्य स्वयैवोपपादनात् । अवाच्यत्वेपि वाच्यतावच्छेदकत्वस्याकारणत्वेपि कारणतावच्छेदकत्ववदलक्ष्यत्वेपि लक्ष्यतावच्छेदकत्ववत् सुलभस्वाच्चेति शङ्कयम् । भावनाया वाच्यतावच्छेदकत्वेनानन्तपदार्थेषु शक्यतावच्छेदकत्वापत्तौ गौरवात् । आश्रयत्वस्य चाखण्डशतिरूपत्वात् । तस्मादेवदत्तः पचति पच्यते तण्डुल इति सा - मानाधिकरण्यात्कर्तृकर्मणी वाच्ये एवेति सिद्धम् । अपिच पचतीत्यत्र व्यापारस्येव कर्त्तुरपि प्रतीतिः सर्वानुभवसिद्धा । अत एव पचतीत्येव श्रुते कः कीदृशः किंजातीय इति प्रश्नश्चैत्रो घनश्यामो ब्राह्मण इत्युत्तरं च सङ्गच्छते । तथा च प्रतीतेः पा कानुकूलकृतिमान् पचतीति पाचक इति विवरणाच्च शक्तिपरि
२४
Page #33
--------------------------------------------------------------------------
________________
धात्वर्थनिर्णयः।
२५ च्छेदात् कर्तृकर्मणी वाच्ये एव । अन्यथा भावनापि पाच्या न स्यात् । कर्तृकर्मणोर्भावनयैवाक्षेपसम्भवनान्यलभ्यत्वान्न त. योर्वाच्यत्वमिति चेन्न । कर्वकर्मभ्यां कुदादाविव भावनाया एवाक्षेपसम्भवादस्तु तयोरेव वाच्यत्वं, मास्तु च भावनाया इत्यस्याप्यापत्तेः । विवेचितं चैतदधस्तात् । एतेन कर्तृकर्मणोविवरणं तात्पर्यार्थविवरणम् । बोधविवरणयोर्युत्पत्त्यनुसारित्वेनानिर्णायकत्वं वा पाकामत्यशब्दार्थकर्मत्वविवरणवदुपपद्यसएवैतदपीति वा इतरेतरद्वन्द्वे साहित्यविवरणबद्वा नार्थनिर्णायकतेत्यादिकमपास्तम् । एवं च तुल्ययुक्त्या कर्तृकर्मणोर्याच्यत्वमावश्यकमेवेति दिगिति विभावयामः । लाकर्मणीत्यस्य कालसंख्याभावनापुरस्कारेण प्रवृत्तौ विध्यादौ कदादौ तद्वाच्यत्वापतेर्भावनाया धातुलभ्यत्वाच्चेत्यत: कादिपुरस्कारेण प्रवृत्ती तदादेशत्वाच्छानजादिवत्तिङस्तदर्थकत्वं दुर्वासमित्यपि वदन्ति । भावतिहां धात्वर्थानुवादकमात्रत्वान्न तदर्थोत्र वर्णितः ॥ अ. येवं लडादिभिस्तत्र वर्तमानत्वं न बोध्येतेति चेन्न । तस्य धात्वर्थव्यापारविशेषणतया तिङो द्योतकत्वात् । वाचकस्वपक्षेप्यगत्यानुभवानुरोधेन विधायकवचनेन च तथास्वीकारात् । अथैवं कथं तत्र संख्याप्रत्ययोपीति चेन । तस्या उत्स. गलभ्यत्वात् । तथाहि । भावलकारे हि संख्यान्वयिकर्तृकर्मणोरमतीतेस्तत्रत्या संख्या ऽनन्वितैव । न च भावनायामेव तदन्वयोस्त्विति शक्यम् । तस्या लिङ्गसंख्यान्वयायोग्यत्वेनैव धा. तुनोपस्थापनात् । एतदेवास-त्वभूतत्वम् । न च भावतिर्थसं. ख्याभावनयोर्धात्वर्थएवान्वय इति कुसुमाञ्जलावुक्तं युक्तम् । धास्वर्थबहुत्वे मैत्रेण स्थीयते सुप्यते इत्यायनापत्तेः बहुवचनापतेश्च । बहुषुबहुवचनमित्यनुशासनस्यावर्जनीयत्वात् । अन्यथै
Page #34
--------------------------------------------------------------------------
________________
२६
वैयाकरणभूषणे कवचनमपि न स्यात् । तथा च 'संख्यानन्वये साधुत्वमात्राय प्रत्ययाभिधाने प्राप्त प्रथमोपस्थितत्वादेकवचनमेव कल्प्यते अव्ययानामसंख्यत्वेन तदनुरोधेन भाष्ये तथैव व्यवस्थितेः । अथ वा द्विवव्होद्विवचनबहुवचने इत्येव सूत्रं कर्त्तव्यं द्वित्वविवक्षायां बहुत्वविवक्षायां च द्विवचनबहुवचने भवत इत्यर्थः । यत्र च न तयोविवक्षा तत्र साधुत्वार्थमेकवचनं भवति न त्वेकत्वादिविवक्षापेक्षा । एवं च प्रकृतेष्येकत्वादिविवक्षाविरहेपि साधुत्वार्थमेकचचनमुपपद्यते इति न कश्चिद्दोषः । उष्ट्रासिका आस्यन्ते हतशायिकाः शय्यन्ते इत्यत्र भावे बहुवचनश्रवणं कथमिति चे, त्पत्यम् । भाष्यकारवचनादत्रैव बहुवचनं साध्विति हि प्रामाणिकाः ॥ तिङ इति । आदेशिनोर्थेनार्थवत्वमादायेदं बोधकत्वं शक्तिरित्यभिप्रायेण धा । निरूपितस्थले विशेषणविशेष्यभावं व्युत्पादयति । फले इत्यादि । फले, विक्लित्यादौ । प्रधानं विशेष्यः । विक्लितिव्यापार विशेषणमित्यर्थः । तिर्थाः कर्तृकर्मसंख्याकालाः । तत्रापि कर्तृकर्मणी व्यापारफलयोविशेषणे संख्या तु अनयोः । कालस्तु व्यापारे एव तथैवानुभवात् । कर्तकर्मणोः समानपदोपात्तत्वेनान्तरङ्गत्वेनान्वये तु पचतीत्यादौ तयोरेव वर्तमानत्वात्ययः स्यात्, न च तथा कस्य चिदनुभव इति वदन्ति । वस्तुतो वर्तमानेलडित्यत्राधिकाराद्धातोरित्येव लभ्यते तत्र धातोर्वर्तमानत्वं न तदानीं विवक्षितमिति तदर्थस्य वाच्यम्, तदर्थोपि प्राधान्यावयापार एव गृह्यते इति न कर्टकमैफलेषु तदन्वयः । जानातीत्यत्रापि ज्ञानस्यैव फलानुकूलव्या. पारत्वेन तत्रैव तदन्वयः । कर्तृकर्मणोरन्वये चातीतक्रिये कर्तरि पचतीत्यापत्तेः । अपाक्षीदित्यनापत्तेश्च । इतोपि व्यापारवर्तमानतादशायां विक्लित्यादिरूपफलस्य भावित्वात्पक्ष्यतीति
Page #35
--------------------------------------------------------------------------
________________
धात्वर्थनिर्णयः । प्रयोगापत्तेः पचतीत्यनापतेश्च न फलेप्यन्वयः । एतेन थात्वर्थे एव वर्तमानत्वात्वयो न तु व्यापारे आमवावजडीकृतकलेवरस्योत्थानानुकूलयत्नसत्वेनोचिष्ठतीतिप्रयोगापचेरिति सिद्धान्तलेशोत्तापपास्तम् । धात्वर्थफलान्वये बाधकामामुक्तत्वात् । यदि च फलव्यापारयोर्धात्वर्यत्वं स्वीकय व्यापारे तदवयोभ्युपेयते तदास्मन्मतमेव सिद्धम् । एवमापिचिरविनष्टेपि घटे नाशस्य विद्यमानत्वेन नश्यतीति प्रयोगापत्तिरित्युपक्रान्तासि
यापत्तेश्च । व्यापारस्याविद्यमानत्वेन तथा प्रयोमासम्भवाः त् । पचतीत्यादौ पाकानुकूलकृतौ वर्तमानत्वान्वयानुभवविरो. धाच्च । आमवातमडीययत्नश्च नोत्थानप्रयोजकः किं नु त. दुद्देश्यक इति नातिप्रसङ्गः । अत एव तत्रोत्थानाय यतते नोत्तिष्ठतीत्येव प्रयोगः । न चोत्थानं करोतीति प्रयोगः । मतान्तरे ऽपि यागपाकोद्देश्यककुण्डमण्डपतण्डुलक्रयणादियत्नव्यापारावादाय यागाद्यर्थ यततइतिवत्पाकयागादि करोतीति वा यजति पचतीति वा प्रयोगवारणायाधःसन्तापनयत्नसाधारण्याय च प्रयोजकताविशेषस्यैव सम्बन्धस्याभ्युपेयत्वात् । अतिप्रसक्तव्यापारादिव्यावृत्तमाख्यातशक्यतावच्छेदकमेव वदिष्याम इति चे, त्तर्हि तदेवामवातीययत्नव्यावृत्तमस्त्विति दिक् । एवं गच्छत्यादेरप्युत्तरदेशसंयोगानुकूल: क्रियारूपो व्यापार एव धात्वर्थ इति तत्रैव वर्तमानत्वान्वयः । एवं त्यजादेरप्यवधेयम् । इत्थं च पचात पच्यतइत्यत्रैकाश्रयकः पाकानुकूलो वर्तमानो व्यापार इति बोधः । एकायिका या विक्लित्तिस्तदनुकूला साम्पतिकी भावनेति च । अत्र कर्मणः फलद्वारा व्यापारेन्वयः, क. मवाचकतण्डुलादिपदसमभिन्याहारस्थले. चाख्यातोपस्थापितकर्मणस्तण्डुलादिभिः सममभेदान्वयः । एवं कर्तृप्रत्ययस्थले
Page #36
--------------------------------------------------------------------------
________________
वैयाकरणभूषणे कर्तर्यपि बोध्यम् । तथा च तण्डुलं पचति चैत्र इत्यत्रैकतण्डुला. श्रयिका या विक्लित्तिस्तदनुकूलैकचैत्रामिनायिका वर्चमाना भावना। तण्डुलः पच्यते चैत्रणेत्यत्र चैकचैत्राश्रयिका एकतण्डु. लाभिन्नायिका या विक्लित्तिस्तदनुकूला साम्प्रतिकी भावनेति बोधः । नश्यतीत्यत्रापि व्यापारएव तदन्वयः, स च प्र. तियोगितासहितनाशसामग्री, अतस्तस्यां सत्यां नश्यति अतीतायां नष्ट इत्याधुपपद्यते । जायते इत्यादिषड्भावविकारेषु नाशस्यापि मणितत्वादुत्पत्तिवत्सोपि चरमक्षणसम्बन्ध एव, त. इशायां नश्यति तदत्यये नष्ट इत्यप्यत एवं सङ्गच्छतइत्यप्पय्यदीक्षिताः । नश्यति नक्ष्यति नष्ट इत्यादिप्रत्ययेन य. थायथं वर्तमाना भविष्यत्यतीता चोत्पत्तिः प्रतियोगित्वं च लक्ष्यते । तथा च तादृशोत्पत्तिमनाशप्रतियोगीति बोधः । अत एव नाशस्य नित्यत्वात्सर्वदा नश्यति श्वो नश्यति पटादौ पर. श्वो नक्ष्यति प्रपूर्वदिने नष्ट परेधुनष्ट इत्यापत्तिनिरस्तेति नैयायिकनव्याः । आकाशोस्तीत्यादौ चैकाकाशाभिमाश्रयका स्वस्वरूपधारणानुकूलो वर्तमानो व्यापार इत्यादि स्वयमूह्यम् । नन्वत्र फलं न भावनानां विशेषणं विशष्यतासम्बन्धेन प्रकृत्यर्थप्रकारकशाब्दषो प्रति प्रत्ययजन्योपस्थितेर्हेतुताया अन्यत्र क्लप्तत्वात् । भावनायाश्च प्रत्ययार्थत्वाभावादिति चेत्, मैवम् । धातुभिन्नप्रकृत्यर्थप्रकारकबोधे एव तस्या हेतुत्वात् । फलव्यापारयोभिन्नशक्तित्रादिभिर्नैयायिकनव्यादिभिरप्येवमेवाभ्युपेयत्वात् । तथापि धात्वर्थप्राधान्ये किं मानमिति चेत् । भावप्रधानमाख्यातमिति निरुक्तवचनमेव ॥ वस्तुतो बोधे व्युत्पत्तिग्रहः कारणं तथा च व्युत्पत्त्यनुसारेणैव बोधः । एवं चाख्यातार्थकालकtधात्वर्थफलप्रकारकशाब्दबोधे धातुजन्यभावनोपस्थितिविषयत
Page #37
--------------------------------------------------------------------------
________________
धात्वर्थनिर्णयः ।
२९
या हेतुरिति कार्यकारणभावरूपाकांक्षा वाच्येति न कविदोषः ॥ ननु भावना फलांशविशेष्यास्तु प्रथमान्तार्थविशेषणं तु कुतो न स्यात् भावनामकारकशाब्दबोधं प्रति प्रथमान्तपद जम्योपस्थितिर्हेतुरिति कार्यकारणभावस्य सुवचत्वात् । न च भावप्रधानमाख्यातमिति वचनविरोधः । आख्यातार्थभावनाया धात्वर्थे प्राधान्यमात्रस्य तदर्थत्वात् । अन्यथा सत्वप्रधानानि नामानीति शेषवचनविरोधात् । एवं च पचतीत्यत्र पाकानुकूलकृतिमान् देवदत्त इति शाब्दबोध इति नैयायिकाभ्युपगतमेव कथं नाभ्युपेयतइति चेत् । मैवम् । एवं शाख्यातार्थ कर्तुरनन्वयापत्तेः । आख्यातप्रथमान्तार्थयोरभेदाभ्युपगमेपि पक्ता गच्छतीतिवत्पचतिकल्पं गच्छतीत्यापत्तेः । ईषदसमाप्तपाककर्त्ता गच्छतीत्यन्वयसम्भवात् । सिद्धान्ते च क्रिययोः परस्परानन्वयानातिप्रसङ्गः । किं च पचतिकल्पं पचतः कल्पं पचन्तिकल्पमि - त्यपि न स्यात् । सुबर्थसङ्ख्यायाः प्रकृत्यर्थे प्रधाने कर्त्तय्यैवावर्षात् । द्वित्वबहुत्वाभ्यां द्विवचनाद्यापत्तेः । आचार्यकल्पावाचार्य्यकल्पा इतिवत् । सिद्धान्ते च भावनायाः सङ्ख्यान्वयायोग्यत्वात्सङ्ख्याया अप्राप्तावौत्सर्गिकमेकवचनमेवोपपद्यते । अपि च नृत्यक्रियां पश्येत्यभिप्रायेण पश्य नृत्यतीति प्रयुज्यमानं वाक्यमपि न सिद्धयेत् । किं च मुख्यतः प्रथमान्तार्थस्य विशेष्यत्वाभ्युपगमे पश्य मृमो धावतीति भाष्याद्यभ्युपेतमेकवाक्यं न स्यात् । प्रथमान्तार्थमृगस्य धावनक्रियाविशेष्यवाभ्युपगमे तस्यैव दृशिक्रियायामन्त्रये कर्म्मत्वाद् द्वितीयापत्तेः । च च सत्यां द्वितीयायामप्रथमासमानाधिकरणत्वाच्छता दुर्गार इति वाच्यम् । एवमपि द्वितीयाया दुर्वारत्वात् । एवं चैता - दशवाक्याभाव एव स्यात् । किं चापाक्षीदेवदत्तो वेहीत्यत्र
·
Page #38
--------------------------------------------------------------------------
________________
वैयाकरणभूषणे शत्रादेः प्रसमाभावाबदसमिति, द्वितीया दुरव । न चात्र प्राक् तमिति काध्यादर्सव्यम् । उत्कदावनक्रियाविशेषस्यैव दर्शनकर्मतयान्वयस्य प्रतिपिपादयिपितत्वात् कर्माध्याहारे तदसम्भवापत्तेः, तं पश्यति वाक्यभेदापत्तश्च । एकवाक्यत्वे भा. षयकारादिभिः साधुत्वकथनात् । तस्माक्रियाया एव. कर्मत्वे. नान्वयः तदायकश्च धातुर्न प्रातिपदिकमतो न द्वितीया, तथा च धात्वर्थभावनाप्रकारकशाब्दबोधं प्रति कृज्जन्योपस्थितिवद्धातुजन्यभावनोपस्थितिरपि कारणं कल्प्यते । अत एव पक्त्वा व्रजतीत्यादौ पाकक्रिया जनक्रियायां सामानाधिकरण्योत्तरकालादिसम्बन्धेन विशेषणमतस्तल्लाभे क्त्वादेर्भावे विधानं सनउछतइति वक्ष्यते इति दिक् ॥२॥ ..तत्राश्रयस्य क फले ऽन्वयः च व्यापारइत्युपो
द्वातसङ्गत्या निरूपयति ॥ फलव्यापारयोस्तत्र फले तङ्यचिणादयः। व्यापारेशपश्नमाद्यास्तु द्योतयन्त्याश्रयान्वयम ३
तादयः फले आश्रयान्वयं द्योतयन्ति शबादयस्तु व्यापारे । अथ शवादयो न द्योतकाः किं तु वाचका एव लकारविधानस्य तत्तदर्थपुरस्कारेणेव कर्तरिशविति शपोपि तत्तदर्थपुरस्कारेणैव विधानात् । तस्माच्छवेव वाचकः लकारस्तु घोतक इति वैपरीत्यं किं न स्यादिति । यत्त्वाशीलिङि लिटि चादादिषु जुहोत्यादिषु च अबाधभावात्तत्मतीतिन स्यादतो लकार एव वाचको युक्त इति । सम । तिनमभावे ऽपि शबादिसमिधानमात्रादशम्यकारि गच्छेत्यादौ तत्प्रतीतेस्तवाप्युक्तदोषतादवस्थ्यादिति चेन् । मैवम् । अत्र लुसं स्मृतं बोधक
Page #39
--------------------------------------------------------------------------
________________
धात्वर्थनिर्णयः ।
३१ मिति परमते शिष्यमाणं लुप्यमानार्थाभिधायीत्यस्मन्मते च स. माधानस्य सुकरत्वात् । यहा कसरिशषित्यत्र सार्वधातुकइत्यनुवर्त्य कथै सार्वधातुके परे धातोः शप् स्यात् इत्यर्थः, तथा च सार्वधातुकस्य कर्थत्वावश्यकत्व शबादीनां द्योतकत्वमा कल्प्यते लाघवादिति । एवं यगादावयूखम् । तङ् परस्मैपदिभ्य एवोत्पन्न उपसर्गादिप्रयुक्तो न चेत् । अत एव एधते निवि. शते इत्यादिव्यावृत्तिः । आदिना चिवदिट्, यथा कारिष्यते घट इत्यादौ । कुषिरम्जोः पाचांश्यमिति इयन्परस्मैपदे च योतके । तथा कर्मस्थभावकेषु रक्ष्यति घटः स्वयमेवेत्यादौ । लिडा. दावप्येवरीत्या प्रकरणाघेव द्योतकमिति । एतेनाख्यातस्य क. तृकर्मभावेषु शक्तौ पचतीत्यादौ सर्वत्रैव भावनावकर्तृकर्मभा. वानां प्रत्ययापत्तिः शक्तिसत्त्वादिति निरस्तम् । यगादेस्तात्रयग्राहकत्त्वकथनादिति ध्येयम् ॥
नन्वेवं “पच्यते ओदनः स्वयमेवे" त्यादौ "क्रमादमुं नारद इत्यबोधि स" इत्यादौ व्यभिचारः कविवक्षायां कर्तरि लकारे सति कर्मवत्कर्मणातुल्यक्रिय इत्यनेन यगात्मनेपदचिचिण्वदिटामतिदेशेन यगादिसत्वेप्याश्रयस्य फलेनन्वयात् । अबोधीत्यत्रापि मुध्यतेः कर्तरि लुङ् दीपजनेत्यादिना चिण चिणोलुगिति तस्य लुक् इत्यभ्युपगमपि फलेनन्वयादित्याशङ्कयाह ॥ उत्सर्गोयं कर्मकतृविषयादौ विपर्ययात् । तस्माद्यथोचितं ज्ञेयं द्योतकत्वं यथागमम् ॥ ४॥
कर्मकर्तृविषयादौ क्रियते घटः स्वयमेवेत्यादौ पच्यते ओ. दनः स्वयमेवेत्यादौ क्रमादित्याचादिपदग्राह्यम् । शाब्दबोधस्तु पूर्वोक्तसामान्यविशेषज्ञानहेतुकैकनारदाभिनविषयकं यज्ज्ञानं
Page #40
--------------------------------------------------------------------------
________________
१२ वैयाकरणभूषणे तदनुकूला एककृष्णाभिनाधायिका तीता भावनेति । पच्यते
ओदनः सयमेवेत्यत्र चैकीदनामिनाथयिका पाकानुकूला भावनति बोधः । इत्थमन्यत्राप्यूयम् । यथोचितमिति । अननु । गतमेव तत्तद्वचनानुसारेणेयः । वस्तुत: सकर्मकधातुसमभिव्याहृतभावसाधारणविधिविधेययचिण्त्वेन कर्मयोतकसेति बोध्यम् ॥ ४॥ ... अथ सूचीकटाइन्यायेन सोपपत्तिकं वाक्यार्थमुपवये फलव्यापारयोरिति प्रतिज्ञातं धातोापारवाचकत्वं व्यवस्थापयति ॥ व्यापारो भावना सेवोत्पादना सैव च किया । कत्रो ऽकर्मकतापत्तेन हि यत्नोर्थ इष्यते ॥५॥
पचति पाकमुत्पादयति पाकानुकूला भावनेत्यादिभावना. वाचकपदविवरणात्सा वाच्यैवेति भावः । व्यापारपदं फूत्कारादीनामयत्नानामपि वाच्यतां बोधयितुम् । अत्र नैयायिकाः। व्यापारो वाच्य इत्ययुक्तम् । व्यापारत्वस्योपाधित्वेन शक्यतावच्छेदके गौरवात् । फूत्कारत्वादेरपि गुरुत्वादननुगतत्वाच नावच्छेदकत्वम् । किं तु कृतित्वस्यैव जातिरूपतया लाघवेन शक्यतावच्छेदकत्वौचित्यात्कृतिरेव वाच्या वक्तव्या । किं च । करोतेयत्नार्थकत्वं तावदावश्यकम् । यत्नजन्यत्वाजन्यत्वप्रतिसन्धानात्पटाछुरयोः कृताकृतव्यवहारात् । तदुक्तमाचार्यैः । कृताकृतविभागेन कर्तृरूपव्यवस्थया । यत्न एक कृतिः पूर्वा परस्मिन्सैव भावनेति ॥ कृतित्वस्यैव लाघवेन शक्यतावच्छेदकत्वौचित्याच्च । व्यापारस्य कृर्यत्वे च कारकमात्रं कर्तपदार्थः स्यात् । करोत्यर्थभूताश्रयस्यैव कपदार्थत्वात् । इत्थं च
Page #41
--------------------------------------------------------------------------
________________
धात्वर्थनिर्णयः। यत्नार्थककरोतिना विवरणात किं करोतीति यत्नप्रश्ने पचती. त्युत्तरस्य यत्नार्थकत्वं विनानुपपत्तेश्च यत्न एवार्थः । अत एवं पचतीत्यत्र यत्नानुभवः सर्वसिद्धः सङ्गच्छते । नन्वेवं कथं रथो गच्छतीत्यादि प्रयोगः । तत्र यत्नस्य बाधादिति चेन्न । अनु.. कूलव्यापारे लक्षणया प्रयोगात् । विद्यते इत्यायनुरोधादाश्रयत्वे एव वा लक्षणा । तथा च गमनाश्रयबोध एव तत्र । अत एवान्यदीयगमनानुकूलनोदनादिमति न गच्छतीति प्रयोग इति । तस्मायापारो वाच्य इति मतं न सम्यगित्याहुः । अत्र वदन्ति । लक्ष्यतावच्छेदकत्वस्येव शक्यतावच्छेदकत्वस्यापि गुरुणि स्वी. कारे बाधकाभावः । तयोर्वैषम्ये बीजाभावात् । अथ कारणतावच्छेदकत्वप्रतियोगितावच्छेदकत्ववच्छक्यतावच्छेदकत्वं स्व. रूपसम्बन्धविशेषः स च सम्भवति लघौ गुरौ न कल्प्यते । अत एव लघुर्धर्म एव कारणतावच्छेदका कल्प्यते । शक्यतावच्छेदकत्वं च स्वरूपसम्बन्धविशेषो न लक्ष्यतावच्छेदकत्वमिति चेन। स्वरूपसम्बन्धो यदि तत्तत्स्वरूपं तदा गुरुधर्मस्वरूपाणामपि सत्त्वात्किमनुपपन्नम् । अथातिरिक्त, स्तदापि तद्वल्ल. क्ष्यतावच्छेदकत्वमपि स्वरूपसम्बन्धविशेष इति कथं गुरुधर्मेषु तत्स्वीकारः । वृत्तिज्ञानकार्यतावच्छेदकत्वस्योभयत्रापि तुल्यस्वात् । किंच, गुरुधर्मेष्ववच्छेदकत्वास्वीकर्ता तदभावः स्वीकार्यः, तद्वरमवच्छेदकत्वस्वीकार एव । भावकल्पनायां लाघवात् । अन्यत्र क्लुप्ताभावस्य सम्बन्धमात्रं कल्प्यते लाघवादिति चेत् । अन्यत्र कल्प्यमानावच्छेदकत्वस्यैव सम्बन्धः स्वीक्रियता ला. घवाद । वस्तुतस्तादृशस्वरूपसम्बधस्यातिरिक्तस्य स्वीकारे प्र. माणं सुधीभिश्चिन्तनीयम् । अत एवावच्छेदकत्वमन्यूनानतिरिक्तवृत्तित्वमिति बदन्ति । तदपि. गुरुधर्मे निर्वाधम् ।
Page #42
--------------------------------------------------------------------------
________________
३४
वैयाकरणभूषणे
एवं नानार्थस्थळे लघुधर्मावच्छिने एवं शक्तिरपरत्र नि ढा लक्षणा इत्यप्यपास्तम् । एवं प्रतियोयितावच्छेदकत्वमपि स्वरूपसम्बन्धविशेष इत्यपि निरस्तम् । गौरवमतिसन्धानदशायामपि कम्बुग्रीवादिमानास्तीति प्रतीतेर्गुरुषः मप्यवच्छेदक इत्यन्ये । तचिन्त्यम् । कम्बुग्रीवादिमान्नास्तीत्यादाववच्छेदकस्वस्य संसर्गतया प्रवेशात् । तदवगाहिज्ञानस्य चाप्रतिबध्यत्वात् । किं चैवं धर्मितावच्छेदकशालिज्ञानं प्रतिबध्यम् । प्रकृते च धर्मितावच्छेदकानवगाहनाम दोष इति । किं चकम्बुग्रीवादिमत्त्वस्य प्रतियोगितावच्छेदकतया भानमप्यसिद्धम् । किं तु प्रमेयो घटो नास्तीत्यादौ प्रमेयत्वादिवत्मातयोगिविशेषणत्वेन भानमात्रम् । न चैवं कम्बुग्रीवादिमत्प्रतियो गिकाभाववत्ताबोधस्यैव पर्यवसानाथत्किश्चिद्घटवत्यपि तथा प्रयोगापत्तिः । कम्बुग्रीवादिमत्त्वसमव्याप्तधर्मावच्छिन्नप्रतियोगिताकत्वसम्बन्धेन कम्बुग्रीवादिमत्यतियोगि का भावस्यैवावंगाह : नात् । अत एव न यत्किञ्चित्कम्बुग्रीवादिमति कम्बुग्रीवादिमानास्तीति शब्दः प्रमाणम् । प्रमाणं च घटसामान्यशून्ये इति रामकृष्ण भट्टाचार्याः । एवं कारणतावच्छेदकत्वं स्वरूपसम्ब न्धविशेष इत्यपि निष्प्रमाण, मतो न तदवच्छेदकत्वेनापि जातिसिद्धिः । तस्मान्नोक्तलाघवानुरोधात् कृतित्वमेव वाच्यतावच्छेदकमिति युक्तम् । वक्ष्यते चान्यदुपरिष्टात् । नन्वस्तु तर्हि धातोः केवलव्यापारवाचकता फलं कर्मप्रत्ययार्थः । संयोगरूपफलभाने गमधातोर्विभागभाने त्यजधातोः समभिव्याहारस्य नियामकत्वाच्च न ग्रामं गच्छति त्यजतीत्यनयोर्विभागसंयोगबोधनदोषप्रसङ्ग इति नैयायिकप्राचां मतमपि । यद्यपि त्यजिगहिन्दीनां पर्यायतापत्तिः । एकस्या एक क्रियायाः संयोग
Page #43
--------------------------------------------------------------------------
________________
वात्पर्यनिर्णयः ।
विभागजनकत्वात् । तथा च गमनं त्याग इत्यनयोरविशेषापतिः । एवं गच्छतित्यजतीत्यनयोरपि । न्यायरीत्या फलस्य भानाभ्युपगमेन विशेषोपपादने तु घटादिपदे घटत्वस्यापि तथैव भानोपपत्तेरवाच्यतापत्ताचा कृत्यधिकरणोच्छेदापत्तिः । तस्माच्च पच्यते तण्डुलः स्वयमेवेत्यादिकं कर्मस्थभावकानामेव कर्मकर्त्तरि यगादिविधानात् । न चाग्निसंयोगरूपव्यापारस्य धात्वर्थस्य कर्मनिष्ठत्वान्नानुपपत्तिरिति वाच्यम् । तथा सति पच्यते ऽग्निः स्वयमेवेत्यस्याप्यापत्तेः । न च कर्मवत्कर्मणातुल्यक्रिय इत्यनेन धात्वर्थजन्यफलाश्रयाणामेव कर्मवद्भावविधानातण्डुलानां ताहशविक्लित्तिमत्वाद्भवति तथा प्रयोगोग्नेस्तु तदाश्रयत्वाभावानातिप्रसङ्ग इति वाच्यम् । एवं हि प्रावरणाद्यर्थं पटमुत्पादयति चैत्रे प्रावरणाय पटे यततइतिवचतते पटः स्वयमेवेत्यस्याप्यापत्तेः यत्नजन्योत्पत्तेः पटे सत्वात् । अन्यथा क्रियते पटः स्वयमेवेत्यपि न स्यात् । सकर्मकत्वाभावादत्रातिदेशो न प्रवर्त्तत - इति चेचदेव तु भवन्मते दुर्वचम् | स्वार्थव्यापारजन्यफलकत्वं फलजनकव्यापारवाचकत्वं वात्रापि कर्त्रादिवदक्षतं स्पन्द्यादिसाधारणं चेत्यादि वक्ष्यते । कुतो वातिदेशाप्रवृत्तिः स्वकर्मचिरहेण कर्मणातुल्यक्रियत्वाभावादिति चेन्न । कर्मत्वस्यापि त्वन्मते दुर्वचत्वात् । धात्वर्थजन्यफलशालित्वस्य गमेः पूर्वस्मिन्देशे स्यजेरुत्तरस्मि, रस्पन्देः पूर्वपरयोर्यत्यादेर्विषये चातिमसत्वाद । यतु स्वार्थान्वितप्रत्ययार्थ फळव्यधिकरणव्यापारवाचकत्वमेव सकर्मकत्वं कर्मत्वमपि धात्वन्वितप्रत्ययबोध्यफलवत्वमेव । प्रत्ययजन्यसंयोगबोधे गम्यादेविभागबोधे त्यज्यादेः समभिव्याहारस्य हेतुत्वाच्च नोक्तदोष इति । तन 1 एवं अन्वयव्यतिरेकाभ्यां गम्पादेरेव संयोगादिफले शक्तिसि
३५
Page #44
--------------------------------------------------------------------------
________________
३६
वैयाकरणभूषणे
देः । अन्यथा सुपामेव घटादौ शक्तिः घटादिबोधे तत्तत्प्रकृतिसमभिव्याहारस्य हेतुत्वान्नातिप्रसङ्ग इत्यस्यापि दुर्वारत्वापत्तेः स्पन्दत्यागो गमनमित्यादेरविशेषापतेरुक्तत्वाचेत्यादिभिर्दूषितप्रायं तथाप्युक्तोपपत्त्यैव कृणादेरपि फलवाचकत्वं साधयन्केवलवाचकत्वं सर्वनैयायिकाभ्युगतं निरस्यति । कम इति । सविषयमात्रार्थोपलक्षणमिदम् । यत्नः यत्नमात्रं, किन्तूत्पत्यादि फलमपीत्यर्थः । भयं भावः, यती प्रयत्नइतिवत् यत्नार्थकतायां कृञोकर्मकता स्यात् । अन्यथा वायुर्विकुरुते सैन्धवा विकुर्वते इत्यादिप्रयोगदर्शनाद्यथाश्रुते ऽसङ्गतिः । अत एव " धातोरर्थान्तरे वृत्तेर्धा वर्थेनोपसंग्रहादि" त्याद्यर्थविशेषान्तर्भावेणाकर्मकत्वसकर्मकत्व विवरणं साधु सङ्गच्छतइति । नन्वेवं व्यापारार्थकत्वस्येव यत्नार्थकत्वस्याप्य प्रयोजकतया नेदमकर्मकतायां प्रयोजकं किं तु फलसमानाधिकरणव्यापारवाचित्वमेव । न चेह तदस्तीति नातिप्रसङ्ग इति चेन्न । एवं हि यतेरप्यकर्मकत्वानापत्तेः । यत्किञ्चिदुत्पत्तिजनक यत्नवाचकत्वस्योत्पत्त्यादिफलावाचकत्वस्य चोभयोरप्याविशेषात् । स्वार्थफलसमानाधिकरणव्यापारवाचकत्वरूपाकर्मकत्वस्यास्माभिरभ्युपगमेपि केवलव्यापारवाचकत्वरूपस्य तस्य भवद्भिरभ्युपगमा त् । यद्वा । अकर्मकतापत्तेः । सकर्मकतानापत्तेरित्यर्थः । तथाहि । अस्मद्रीत्या स्वार्थफलव्यधिकरणव्यापारवाचित्वं भवद्रीत्या फळविशिष्टव्यापारवाचकत्वं हि सकर्मकत्वम् । अन्यथा स्पन्देरपि तदापत्तेः । तच्च कृञादेर्न स्यात् । त्वन्मते द्विष्यादेर्देषज्ञानेच्छाकृतिमात्रवाचकत्वात् । अत एव पटं जानाति इच्छति कुरुते चैत्रो मैत्रेण ज्ञायते इष्यते क्रियते वा घट इत्यव कर्मप्रत्ययेन यथायथं विषयित्वं विषयत्वं चोच्यते
Page #45
--------------------------------------------------------------------------
________________
धात्वर्थनिर्णयः ।
फलाभावेन धात्वर्थतावच्छेदकफलाश्रयत्वरूपकर्मत्वासम्भवादिति निरूपितमाख्यातवादशिरोमणौ । एवं च फलमात्रार्थकत्वात्सकर्मकत्वाभावे कर्मणि लकाराद्यनापत्तिः । यतु जानात्यादौ सकर्मकत्वव्यवहारो भाक्त इति । तन्न । व्यवहारस्य भाक्तत्वेपि कर्मणि प्रत्ययासम्भवात् । फलावच्छिन्नव्यापारवाचके - भ्य एव कर्मप्रत्यय इति तत्रैवांक्तेः । न च वैयाकरणानां यत्र सः कर्मकत्वव्यवहारस्तेभ्य एव कर्मप्रत्यय इति नियम इति वाच्यम् । भाष्यकारादिव्यवहारस्य विशिष्य सर्वत्राभावात् । अस्मद्वयवड़ारस्यातिप्रसक्तत्वात् । तच्च सविषयार्थकानां विषयतयान्त्रयवतामेव सकर्मकत्वं यत्यादिधातूपस्थापितयत्ने न विषयत्वेनान्वयः किं तूद्देश्यत्वेन अत एवाभुञ्जानेपि भोजनाय यततइति प्रयोग इति । तन्न । एवं हि कर्मणि प्रत्ययोत्पत्तावनुगतनियामकालाभप्रसङ्गात् । विष्णुं यजते विष्णुर्यष्टव्य इत्यादौ चतुर्थ्यर्ध्यविहितद्वितीयादेरुद्देश्यत्वेनैवान्वयबोधकत्वाद्यजधातोरप्य कर्मकत्वापत्तेश्च । उद्देश्यताख्यविषयतया विष्णुयोगविषय एवेति चेद्भोजनमपि यत्यर्थस्य तथैवेति स्यादेव यजिवद्यत्यादेः सकर्मकत्वात्कर्मणि प्रत्ययः येन च सविषयार्थकेषु विषयितयान्वयबोधकद्वितीयार्थे जाततृतीयया तस्यैव बोधनात्पश्वादिद्रव्यस्य तथान्वयसत्वा त्स्यादेव सकर्मकत्वमिति वाच्यम् । एवमपि विष्णोर्धात्वर्थकमत्वाभावेन तस्मिन् द्वितीयातव्ययकाराणामभावापत्तेः । अन्यथा भोजनाय क्रियतओदन इत्यत्र भोजनं, मोक्षाय हरं भजे इत्यत्र मोक्षमित्यापत्तर्युर्वारत्वात् । न चैवमपि कर्मसम्प्रदानयोः करणकर्मत्वे वाच्ये इति संज्ञाविधानसामर्थ्यादसत्यपि कर्मत्वे द्वितीयादिकं स्यादिति वाच्यम् । कर्मसंज्ञाविधानान्यथानुपपच्या कर्मप्रत्ययसिद्धावपि धातोस्तदर्थे सकर्मकत्वाभावेन तस्मि
३७
-
Page #46
--------------------------------------------------------------------------
________________
३८
वैयाकरणभूषणे न्सकर्मकत्वसम्बद्धकर्मलकारसिद्धयनापत्तो इज्यते विष्णुरित्यायभावापत्तेः । न च कालभावाध्वगन्तव्यानामकर्मधातुयोगे कमसंज्ञाविधानेपि धातोरकर्मकत्वाद्देवदत्तेनास्यते मास इत्यादिकं तवापि न स्यादिति वाच्यम् । कालादिकर्मणा सर्वे सकर्मकाः । तयतिरिक्तकाभावएवाकर्मकत्वमित्यग्रे व्युत्पादयिष्यमाणत्वाव । किं च पशुना रुद्रं यनते देवदत्ताय क्रुध्यति द्रुह्यति ईष्यति असूयति इत्यादौ पशुदेवदत्तादेरिच्छाद्वेषादिविशेषविषयस्य तथान्वयातः कर्मत्वात्तेन कर्मणा सकर्मकत्वमादाय तस्मिन् क.
णि लकाराद्वितीयाकृदायापत्तिर्दुवारा । भवन्मते संज्ञायाः द्विसीयादावश्योजकत्वस्य सुवर्थनिर्णये वक्ष्यमाणत्वात् । अस्मन्म: ते कर्मसंक्षेत्र तत्र प्रयोजिकेति तदभावाभातिप्रसङ्ग इति व्युत्पादयिष्यामः । अपि चैवमपि देवदत्तस्य योभिलाषस्तद्विषयं इत्य
के देवदत्ताय रोचते स्वदते वा मोदक इत्यत्र मोदकस्य कर्मस्वापत्तो तस्मिन्कर्मणि लकाराद्वितीवाकदादिप्रसो दुरिः । अस्मद्रीत्या यतिवन्नायं दोष इति व्युत्पादयिष्याम इति दिक् । न च त्वदीत्यापि सर्वेषामेव धातूनां यत्किञ्चित्फलव्यधिकरणव्यापारवाचित्वेन सकर्मकत्वापत्या स्वार्थफलव्यधिकरणव्यापारवाचित्वं तद्वाच्यमित्यननुगमापत्या कर्मकभिन्नत्वं तद्वाच्यम् । तत्र च प्रयोगानुरोधानानात्यादिभेदोन प्रवेशनीय इति न कश्चिद्दोष इति शंक्यम् । सकर्मकाणामप्यर्थान्तरे ऽकर्मकत्वेनासम्भवापत्तेः। अकर्मकत्वस्याप्येकस्याभावेन सुल्ययुक्त्या सकर्मकान्यत्वस्यापि सत्त्व अन्योन्याश्रयणापच्या ल:कर्मणीत्यादेोधकत्वानापत्तेश्च । मनु सवापि स्वत्वाननुगमादननुगतमेव सकर्मकत्वादीति कथं लाकर्मणीत्यादेरनतिप्रसक्तयोधकत्वमिति चेन्न । स्वपितृभ्यः पिता दयाद, ऋतौ स्वदारान्
Page #47
--------------------------------------------------------------------------
________________
धात्वर्थनिर्णयः। गच्छेदित्यादौ स्वत्वपितृत्वदारत्वाननुगमपि विशिष्य सर्वानतिप्रसक्तबोधकत्वदुपपत्तेरिति समासशक्तौ वक्ष्यामः । ननु फलावच्छिन्नल्यापारवाचित्वादेव धातूनां सकर्मकत्वमिति वददिराप केवलव्यापारवाचकत्वमकर्मकत्वं सूचितमेवेति चेन । एवं हि केवलव्यापारवाचकनाआदेरकर्मकता स्यान्न स्थाच्च सकर्मकत्वमिति । ननु प्रत्ययार्थफलव्यधिकरणव्यापारवाचित्वमेव सकर्मकत्वमस्तु प्रत्ययार्थफलाश्रयत्वमेव च कर्मत्वमतो न कश्चिद्दोष इति चेन्न । घटं भावयति एधयतीत्यादिहेतुमण्णिजन्तसकर्मकेषु तत्कीण चाव्याप्तेः । तत्र फलस्यान्वयव्यतिरेकाभ्यां धातुलभ्यत्वेनान्यलभ्यत्वान्मानाभावागौरवाच्च प्रत्ययार्थत्वासम्भवादिति दिक् ॥५॥
अर्थप्रकाशनपुरः सरं केवलयत्नार्थकतायां दूषणान्तरमाह। किन्तूत्पादनमेवातः कर्मवत् स्याद्यगाद्यपि । कर्मकर्तर्यन्यथा तु न भवेत्तद् दृशेखि ॥ ६ ॥
उत्पादनम् । उत्पतिरूपफलसहितम् । न तु केवलयत्नमात्रं व्यापारमानं वा । अत्र ओर्थ इत्यनुषज्यते । ननूत्पादर्यतीत्यस्योत्पत्तिं करोतीति विवरणमनन्वितं स्यात् । उत्पत्तेरुत्पत्त्यभावात् इति चेन्न । यत उत्पत्तिराद्यक्षणसम्बन्धः स च क्षणरूप इति तस्योत्पत्तेः सुलभत्वादुत्पादना मुलभैव । तवापि यतते यत्नं करोतीत्यादावनुपपत्तितादवस्थ्याच्च । न. न्वेवं जानात्यादेः सकर्मकत्वाय ज्ञानफलाउनुकूलव्यापारवाचकत्वं वाच्यं तथा च चक्षुरादिकं जानातीति स्यात् । उत्पादनाया आत्मनीव चक्षुष्यपि सत्वादिति चेन । मनो जानातीति प्रयोगोपपत्तये जनकव्यापारे लक्षणाभ्युपगमे तवापि व्यापारव.
Page #48
--------------------------------------------------------------------------
________________
४०
वैयाकरणभूषणे
तया तथा प्रयोगस्य दुष्परिहरत्वादिति समाधिरुभयेषां तुल्य एव । स्थाली पचतीतिवदिष्टापत्तेश्च । ज्ञाधातोः फलं विषयगतावरणनिवृत्तिस्तदनुकूलोत्पादना ज्ञप्तिरेव । अतः सैव धात्वर्थः । तथा च चैत्रो जानातीत्यत्र चैत्राभिन्नाश्रयिका आवरणभङ्गानुकूला ज्ञानक्रियेति बोध इति पक्षे च न शङ्कापि । अतः | यतः कृञो यत्नमात्रमर्थो नेष्यते अत इत्यर्थः । कर्मवत्स्यादितिपदेन कर्मवत्कर्मणा तुल्यक्रिय इति सूत्रं लक्ष्यते । अयं भावः । यत एतस्योत्पादनार्थकता अतः क्रियते ओदनः स्वयमेवेति यगादयोप्युपपद्यन्ते । अन्यथा यत्नस्य कर्तृनिष्टत्वेन कर्मस्थभावकत्वाभावाद्यगादयो न स्युः । अन्यथा यत्यते घटः स्वयमेवेत्यपि स्यादिति । यद्वा । ननु जानातीच्छत्यादिवत्कारकानिर्णये वक्ष्यमाणरीत्या विषयत्वादिफळवाचित्वेन सकर्मकत्वसम्भवात्कृञ उत्पत्तिवाचकत्वाभ्युपगमो मुधैनेत्याशङ्कां मनसि निधायाह । अत इति । यत उत्पत्तिरपि कृतोर्थ एवेत्यर्थः । अपिभिन्नक्रमः कर्मकर्त्तर्यपि यगादि स्यादित्यर्थः । अन्यथा | उत्पत्त्यवाचकत्वे । ज्ञायते दृश्यते इतिवत् कर्मणि तत्सम्भar कर्मकर्त्तरि तन स्यादिति भावः । तदेवाह । दृशे - रिति । इदं च ज्ञानादिवाचकोपलक्षणम् । तथा क्रियते घटः स्वयमेवेत्यपि न स्यात् । कर्तृस्थभावकत्वाविशेषादिति दिक् ॥ ६ ॥
नन्वेवं कुमादेवि जानात्यादेरपि विषयावच्छिन्नावरणभङ्गादिफलवाचकत्वमभ्युपगन्तव्यम् । अन्यथोक्तदोषापत्ते, स्तथा च ज्ञायते घटः स्वयमेवेत्यपि स्यादेव स्याच्च ग्रामो गम्यते स्वयमेवेत्यादिकम् । कर्मस्थभावकत्वाविशेषादित्याशङ्कां मनसि कृत्वाह ।
Page #49
--------------------------------------------------------------------------
________________
पावर्षनिर्णयः। निर्वये च विकार्ये च कर्मवद्धाव इष्यते । न तु प्राप्ये कर्मणीति सिद्धान्तो हि व्यवस्थितः ७
कर्म त्रिविधम् । निवर्त्य विकार्य प्राप्यं च । आचं घटं करोति, द्वितीयं सोम सुनोति बीहीनवहन्तीत्यादि । तृतीयं रूपं पश्यतीत्यादि । प्राप्यत्वं च क्रियाकृतविशेषानुपलभ्यमानत्वामति वक्ष्यते । तच्च ज्ञादृश्यादेर्गम्यादश्चास्तीति नातिप्रसङ्ग इति भावः । नायं ग्रामः केन चिद्गतो, घटोयं केन चित् ज्ञात इति ज्ञातुं शक्यम् । तस्मादावश्यकं फलवाचकत्वम् । अत एव व्यथः पचिरिति भाष्यमपि फलव्यापारयोः शक्तिद्वयाभ्युपगमएव सङ्गच्छते । तण्डुलानोदनं पचतीत्यत्र तण्डुलानां विकार्यकर्मत्वमोदनस्य निर्वय॑कर्मत्वं चोपपादितम् । पचेविक्लत्त्यु. त्पत्तिद्व्यर्थत्वस्य भाष्यकारैरुक्तस्य धातोः . फलावाचकत्वे ऽसम्भवात् । एकस्यैव व्यापारस्योभयफलत्वे हेतुत्वसम्भवे तयापारद्वयार्थवर्णनस्याप्यसम्भवात् । उपलक्षणं चैतत् कुत्र इति धातुसामान्यस्य । उक्तवक्ष्यमाणयुक्तिभिः सर्वेषामेवोभयवाचकत्वात् । यतु कुयो यत्नत्वं न वाच्यतावच्छेदकम् । अकर्मकता. पत्तेः यत्यादिवत् । तथा च यत्नत्वेन विवरणप्रश्नोत्तरभावयोरेवाभावान तेनैव रूपेण वाच्यतति नैयायिकोक्तं युक्तमिति भाव इत्यादि व्याचक्षते । तन्न । यतो यद्यपि केवळयत्नमात्रवाच्यतावादे प्रागुक्तरीत्यायं दोषो युक्तस्तथापि कुलो यत्नत्वं वाच्यतावच्छेदकमित्यत्र न सकर्मकत्वानुपपत्तिनवा कर्मकर्तरि यगनुपपत्तिर्वाधिका । उत्पत्तिरूपफळबाचकत्वसिद्धयैव फलव्याधिकरणव्यापारवाचित्वरूपसकर्मकत्वासिद्धेः । तवाप्युत्पादनामाबाचकत्वसिदचापि न सकर्मकत्वासादिः फलवाचकत्वसिदि
Page #50
--------------------------------------------------------------------------
________________
४२
वैयाकरणभूषणे
|
विना स्वार्थफलव्यधिकरणव्यापारवाचित्वस्यैव तत्त्वात् । यती प्रयत्नइत्यस्य फलं नार्थ इति नानुपपत्तिः । घटं करोतीत्यत्रापि निर्वत्यकर्मत्वान्न यगादेः कर्मकर्त्तर्यनुपपत्तिरिति । तस्मात्कृणो यत्नत्वमेव वाच्यतावच्छेदकामित्यत्र मानाभावः । लाघवस्य पूर्वमेव निरस्तत्वात् । न च कर्तृजन्यत्वाजन्यत्वप्रतिसन्धानात्पटाङ्कुरयोः कृताकृतव्यवहारानुपपत्तिरेव मानम् । बीजादिना अङ्कुरः कृत इति तत्रापि व्यवहारदर्शनात् । रथो गमनं करोतीति विवरणस्याचेतनेपि दर्शनाच्च । यत्तु व्यापारमात्रस्य कृवर्थत्वे कारकमात्रं कृर्तृपदार्थः स्यादिति । तचुच्छम् । स्वतन्त्रः कर्तेति सूत्रो क्तरीत्या धातूत्पात्तव्यापाराश्रयत्वरूपं स्वातन्त्र्यमेव कर्तृत्वमिति वक्ष्यमाणत्वेन शास्त्रे कर्तृपदार्थत्वस्य प्रायेण सर्वकारकाणामिष्टत्वात् । लौकिकप्रयोगे च कर्त्तेत्यत्र कृञो यत्ने निरूढलक्षणेति वदन्ति । तस्मात् कृञो विवरणानुरोधान्नाख्यातस्य यत्नमावाचकत्वसिद्धिः किंच कृणो यत्नमात्रशक्तिग्रहवत एव तादृशविवरणप्रश्नो न तु व्यापारशक्तिग्रहवत इति न तौ कृतित्वेन वाच्यतायां प्रमाणम् । प्रयोज्य प्रयोजकदृद्धयोस्तादृशमनादिविवरणं कृञ एव च प्रश्नोत्तरभावं शृण्वतां बालानां कृतावेव शक्ति. ग्रहो भवतीत्यपि विना प्रमाणं शपथमात्रपर्यवसन्नमेवेति द्रष्टव्यम् । कथं तार्ह पचतीत्यत्र यत्नत्वप्रकारकः पाकानुकूलयत्नानुभव इति चेत् । अत्र प्राञ्चः । धातुत्वमेव जातिः शक्ततावच्छेदिका । संज्ञाशब्दानां जातिवाचकत्वात् । व्यापारत्वं च वाच्यतावच्छेदकम् । क चिद्यन्नत्वप्रकारक बोधस्तु शक्तिभ्रमाल्लक्षजया वा । ननु तवाप्येतादृशस्थले लक्षणावश्यकत्वे किं विनिगमकं व्यापारत्वं वाच्यतावच्छेदकमित्यत्रेति चे, त्सत्यम् । व्यापारत्वस्याधिक संग्राहकत्वेन तस्यैवावच्छेदकताया न्याय्यत्वा
Page #51
--------------------------------------------------------------------------
________________
भास्वर्थनिर्णयः ।
छ । अत एव कर्तृजन्यतावच्छेदकं लध्वपि घटत्वादिकमपहाय कार्यत्वं कल्प्यते । किं चास्माकं यत्नस्यापि व्यापारावशेषत्वेन तलक्षणा सर्वथा श्रुत्यर्थात्यागाद्वरं भवतां रथादिव्यापारे लक्षणा सर्वथा श्रुत्यर्थत्यागाज्जघन्या । अपि च दावाभिर्वनं दइतीत्यादौ यत्नसम्बन्धग्रहं विनापि व्यापारबोधान्न भवद्रीत्या लक्षणा युज्यते । अगृहीताया वृत्तेरनुपयोगात् । अन्यथा अगृही शक्त्यादिभ्योपि बोधप्रसङ्गादिति वदन्ति । वस्तुतस्तु कृतित्वमपि शक्यतावच्छेदकं तेन रूपेणापि बोधात् । तथा फूत्कारत्वादिकमपि । अत एव तत्तद्रूपेणैव शक्तिरिति प्रागुक्तम् । वक्ष्यते च । एवं च व्यापारो भावनेति पूर्वोक्तमपि व्यापारोपि वाच्य इत्यभिप्रायकं न तु कृतित्वं नावच्छेदकामित्याभिप्रायकामीति भूमितव्यम् । तथापि च यथा न नानार्थत्वं तथोक्तं प्राक् । एवं च बोधस्य व्युत्पन्त्यनुसारित्वात्तथाव्युत्पन्नस्य कृतित्वरूपेणैव बोधो जायतइति न कश्चिद्दोष इति विभावनीयं सूरिभिः । तस्मात्फळव्यापारयोरिति प्रतिज्ञातफलवाचकत्वसाधनायैव कृञोकर्मकतापत्तेरिति ग्रन्थ इति विभावयामः । अथ वा व्यापारोभावनासवेत्यादिना साधितमपि विवरणानुरोधेन व्यापारवाचकत्वं केवलफलवाचकतावादिनिरासेन समर्थयितुं तन्मतनिरासनायायं ग्रन्थः । तथाहि । लडादौ भावना वाच्यैव न, तत्मकारकशाब्दबोधस्य विवादग्रस्तत्वात् । यत्वाख्यातस्य यत्नो वाच्यः यत्नार्थककरोतिना विवरणात् व्यवहारादिवद्वाधकं विना विवरणादपि व्युत्पत्तेः किंकरोतीति यत्नप्रश्ने पचतीत्युसरस्य यत्नार्थकत्वं विनानुपपत्तेश्च । किं च फलमात्रस्य धात्वर्थत्वे तस्यैव नामार्थेन्वयः स्यात् । न चेष्टापत्तिः धात्वर्थप्रातिपदिकार्थेयोर्भेदेन साक्षादन्वयस्यान्युस्यमत्वात् । अन्यथा
PN
**
४३
Page #52
--------------------------------------------------------------------------
________________
वैयाकरणभूषणे तण्डुलः पचति चैत्र इत्यादावप्यन्वयो भवेदिति । तम । विव. रणस्य पाकमित्यशब्दार्थकर्मत्वविवरणवदुपपत्तेः । तथाहि । चैत्रः पचतीत्यत्र स्वजनककृतिसम्बन्धेन पाकश्चैत्रे विशेषणम् । तथा च चैत्र: पाकं करोतीत्यत्र द्वितीयाख्यातयोरिव कुमोपि संसर्ग एवार्थः । अन्यथा द्वितीयया आख्यातेन च कर्मत्वाथयत्वयोरपि विवरणात्तयोरपि वाच्यतापत्तेः। कृतित्वादिप्रकारकबोधस्तु मानस एवोत्तरकालिकः । प्रश्नोपि किं करोति इत्यत्र यदि किंशब्दस्य क्रियाविशेषणत्वमादाय कीदृशो यत्न इत्येवंरूपः । यदि वा कर्ममात्रविषयः । उभयथापि न तदुत्तरं यत्नस्याख्यातार्थत्वसाधकम् । पाकवाचकस्यैव धातोस्तद्विषयकयत्ने लक्षणया पाकविषयक इति बोधोपपत्तेः स्वातन्येण शक्तिसिद्धचसम्भवात् । एवंविधप्रश्नस्यासार्वत्रिकत्वात् कर्मप्रश्नइच पाकमात्रबोधनेनोपपन्नः । अत एव पाकमित्यपि कादाचिकमुत्तरं सङ्गच्छते । तण्डुलः पचतीत्यादौ तण्डुलपकारकपाकविशेष्यकबोधापत्तिरूपं बाधकं विशेष्यतासम्बन्धेनाभेदातिरितसंसर्गकप्रातिपदिकार्थप्रकारकबोधे निपातसुवादिजोपस्थिते. विषयतया हेतुत्वकल्पनेनैव नास्तीति कतिसंसर्गकचैत्रादिविशेव्यकबोधे न दोषः । न च धात्वर्थप्रकारकबोधस्य कर्मादिरूप. नामार्थे ऽभावाद्धात्वर्थप्रकारकबोधे तिडादिजन्योपस्थितेहेतुत्वं कल्पनीयं, तथा च न चैत्रे तदन्वय इति वाच्यम् । धात्वर्थप्रकारकबोधे प्रथमान्तजन्योपस्थितेरेव लाघवेन हेतुत्वात् । अन्यथा धात्वर्थप्रकारकबोधे तिबादिजन्योपस्थितिविषयतया हेतुः । आख्यातार्थभावनामकारकबोधे प्रथमान्तपदजन्यापस्थितिहेतुरिति कार्यकारणभावद्यमाख्यातस्य शक्तिश्च कल्प्येत्यतिगौरवं स्यात् । तस्मान काख्यातस्य कृतिः कर्माख्यातस्य फलं या
Page #53
--------------------------------------------------------------------------
________________
धात्वर्थनिर्णयः। व्यम् । जानातीत्सादावाश्रयत्वं वक्ष्यामिति युक्तम् । न च पचतीत्यादावारूयातस्य भावनावाचकत्वग्रहवतः पाकानुकूलकतिमानिति बोधाद्धात्वर्थप्रकारकबोधे तिलाद्युपस्थितिहेतु : क्लप्तेत्याख्यातार्थः कृतिरिति वाच्यम् । एवं शाख्यातार्थः कर्तेति अहवत आख्यातार्थसंख्याप्रकारको प्रत्याख्यातजन्योपस्थितेर्हेतुत्वस्य क्लप्सत्वेन कर्तृकर्मणोरप्याख्यातवाच्यताङ्गीकारापत्तेः । कर्वकर्मणोः शक्तिकरपनागौरवमिति चेत् । कृतिफलयोः शक्तिकल्पनागौरवं तवाप्यधिकमिति तुल्यमिति दिक् । यत्तु पार्थसारथिमिश्राः, भावनायाः सर्वत्रावाच्यत्वे वाजपेयाधिकरणमसङ्गतं स्यात् । तथाहि । वाजपेयेन स्वाराज्यकामो यजेत, उद्भिदा यजेत पशुकाम इत्यादिसर्वेषु वाक्येषु गुणविधिः कर्मनामधेयता वेति संशये यजेतेत्याख्यातं गुणफलाभ्यां तन्त्रे. ण सम्बन्धुं क्षमते नातो मत्वर्थलक्षणादि नामधेयत्वसाधकमतो गुणविधित्वमेव । तथाहि । यजेतेत्यत्र यागस्य भावनायां यदि कर्मत्वेन सम्बन्धस्तदा साध्यद्वयासमवायान फलं सम्बध्यते । यदि करणत्वेन तदा करणद्वयासमवायान गुणः सम्बध्येत । न चाख्यातेन कर्मत्वं करणत्वं चोच्यते । तद्वाचकपदाभावात् । तथा च यथा भावना कर्मत्वकरणत्वादिरूपभेदमन्तरेण साध्यादिभिः सम्बध्यते इदमनेनेत्थं कुदिति तथा यागोपि करणत्वादिरूपमनादृत्यैव गुणफलाभ्यां सम्बध्यतइति न मत्वर्थलक्षणेति शका । रादान्तस्तु, भावना हि क्रियारूपा करणत्वादिकमनाहत्य सम्बध्यतां यागस्त्वक्रियारूपः कथमिव कारकरूपैर्गुणादिभिः सम्बध्येत । तस्मादसौ भावनाद्वारेणैव गुणफलाभ्यां सम्बध्यतइति वक्तव्यं तथासति फलस्य साधनापेक्षत्वाद् गुणस्य साध्यापेक्षत्वाचदवाचिनभावनान्वचाय कर्मात्मना करणात्मता
Page #54
--------------------------------------------------------------------------
________________
वैयाकरणभूषणे या यागः प्रतिपादनीय इत्यादृत्त्यापत्तिः । एवं गुणत्वप्रधान
खविधेयत्वानुवाचत्वापादानवोद्देश्यत्वकृतमपि वैरूप्यं वारयितुं तदापतिः । तस्मात् गुणविधिपक्षे मत्वर्थलक्षणा आवृत्ति स्यात्तद्वरं वाजपेयं सुराद्रव्यमास्मानिति मुराद्रव्यविधानात्तत्मख्यन्यायेन नामधेयतेति स्थितम् । भवन्मते च काष्ठः पनती. त्यादिषु भावनाभावाद्धात्वर्थनव कारकाणां सम्बन्धाक्रियारूपत्वं धात्वर्थस्याभ्युपेयम् । तथा च स्वरूपेणैव धात्वर्थः कारकसम्बन्धमहतीति विनवान्त्या यज्यमिाहतेनैव रूपेण सा. ध्यसाधनाभ्यां सम्बध्यतइत्यधिकरणमिदमनुपपन्नं स्यात् । न चोद्देश्योपादानादिकृतमपि वैरूप्यं, गुणविशिश्यागविधानात् । नापि मत्वर्थलक्षणा, कारकर्षिभक्तथैव श्रुत्या क्रियारूपधात्वर्थसम्बन्धसिद्धेः । किं च धात्वर्थएव कारकाणामन्वये काष्ठैः पचतीतिवकाठः पाक इत्यपि स्यात् । अपि च । लडादिभिरपि कर्मनामधेयानां करणार्थतया समभिव्याहारो दृश्यतेनुवादवाक्ये । वाजं वा एषोवरुरुत्सते यो वाजपेयेन यजते इति । यो राजसूयेन यजते योश्वमेधेन यजते इति च । इदं च धात्वथस्यैव करणाद्यन्वये न युज्यते । नहि स्वस्यैव स्वं प्रति क. रणत्वमिति यथा वैदिकवाक्यालोचनेनापूर्व शब्दार्थ इत्यभ्युपेयस्तथैवाभ्युपगम्यतां भावनापि सर्वाख्यातवाच्यैवेति माहुः। अत्रेदमवधेयम् । भावनाया अवाच्यत्वमते फलमात्रमर्थ इति फलितम् । तत्रैव च करणादीनामन्वयः । तथा च काष्ठैः फ्यतीत्यादौ काष्ठजन्यः पाक इति बोधः । इदमेव च धात्वर्थस्य क्रियात्वं यत्कारकान्वयित्वम् । एवं च धात्वर्थनिरूपितं सा. ध्यत्वं कापि विध्यतिरिक्तवाक्ये न बोध्यते । तण्डुलं पचतीत्यत्रापि वक्ष्यमाणरीत्या कर्मशक्तिद्वितीयार्थो न तु साध्यवामिति
Page #55
--------------------------------------------------------------------------
________________
पास्वनिर्णयः।। न धात्वर्थसाध्यत्वं प्रतीयते । एवं च विधिवाक्याथै कार्ये विशेषणीभूतकृत्तौ यागस्य विषयितयान्वयात्तत्रान्वयितावच्छेदकतया करणत्वमौपादानिकप्रमाणादुपस्थितं शाब्दबोधे भासते वा. जपेयादिगुणनिरूपितं साध्यत्वं चेति वैरूप्यं स्यादिति तत्परीहारायावृत्तिर्मत्वर्थलक्षणा वा स्यादेवेति सममेव नामघयत्वसा. धकम् । यच काष्ठैः पाक इति स्यादिति । तत्रेष्टापत्तिरेवेति व. क्ष्यामः । तवापि काष्ठ वनेत्यापत्तिश्च । यदि चाख्यातोपात्त. भावनायामेव तदन्वयस्तदा लडाधन्तोपात्तधात्वर्थे तदन्वय इति मयापि सुवचमेव । वाजपेयेन यजतइत्यादौ सामानाधिकर• ण्यानुपपत्तिस्तवापि तुल्या । विधिवाक्ये एवोत्सर्गप्राप्तं धात्वर्थस्य साध्यत्वं त्यज्यते नान्यत्रापि । यदि तदनुवादत्वादत्रापि धात्वर्थः करणं तर्हि ममापि प्रागुक्तरीत्या तथात्वमक्षतमिति दिक् । तस्मानाधिकरणानुपपतिर्भावनावाच्यत्वसाधिका नापि तस्या अवाच्यत्वे कारकान्वयानुपपत्तिः, फळे एवैषामन्वयात् । नापि पचतीत्याख्यातार्थकालान्वयानुपपत्तिः । जानातीत्यादौ धात्वर्थएवान्वयात् । क चितु आक्षिप्तभावनायामन्वयः । पकवानित्यादौ भावनावाच्यत्वविरहवादिभिर्भपदिरपि तथाभ्युपगमादिति । एवं च भावनाया वाच्यत्वस्यैवाभावात् क्व कृतित्वेन व्यापारत्वेन वा वाच्यत्वे विवादः । कथं वा धात्वाख्यातार्थत्वविवाद इति केचिन्मन्यते । तानिराचष्टे । कृष इत्यादिना । अयं भावः । व्यापारावाच्यत्वमते फलमात्रमर्थ इति फलितं तथा च करोतीत्यादौ यत्नप्रतीतिः स एव धात्वर्थ इति वाच्यं, तथा च यत्नमात्रार्थकत्वायतीप्रयत्नइत्यादिवत्मागुक्तरीत्या ऽकर्मकतापत्तिः । विना व्यापारान्तर्भावं तद्विभागासम्भवात् । किं चैवं कर्मस्थक्रियत्वाभावेन कर्मकर्तरि य..
Page #56
--------------------------------------------------------------------------
________________
४८
কলমুখী गादिकस्यादित्यायुक्तरीत्योयम् । ननूत्पतिरेव वोर्थोस्तु । तथा च कर्मस्थभावकत्वाधगादिकं स्यादेवेति चे,त्तथाप्युत्पद्यतइतिवदकमकतापत्तिरेव दुर्वारा उत्पन्त्यर्थभवतेभूयते घटः स्वयमेवेत्यस्येव क्रियते घटः स्वयमेवेत्यस्याप्यसम्भवापत्तेदुर्वारत्वाच्च । अस्तु वा कुयर्थः कृतिमात्रमुत्पत्तिमात्र वा। तथापिधातूनां फलमात्रार्थकस्वे सकर्मकत्वाकर्मकत्वविभागोच्छेदापतिः । स्वार्थफलव्यधिकरणव्यापारवाचकत्वं स्वार्थव्यापारव्यधिकरणफलवाचकत्वं वा तत्त्वमित्यस्य त्वद्रीत्या असम्भवात् । न चैवमननुगमाप-त्यान्य. तमत्वमेव तद्वाच्यं तथा च नोक्तदोष इति वाच्यम् । एकस्यैवार्थभेदेनाकर्मकत्वसकर्मत्वयोर्दर्शनेन कदा का सकर्मक इत्यननुगतस्यैव लक्ष्यत्वेन लक्षणाननुगमस्येष्टत्वात् । अन्यतमत्वमिति पक्षे सर्वत्र वार्थे सकर्मकत्वापत्तिरिति । अथ वा, कर्मणा सहितत्वं सकमकवं बदभावापत्तेरित्यर्थः । अस्मिन्मते कर्मत्वस्य दुर्वचत्वात् । न च धात्वर्थाश्रयत्वं कर्मत्वं तथा सति तण्डुलं पचति घटं भा. वयतीत्यत्रेव घटो भवतीत्यत्रापि घटस्य कर्मत्वं दुर्यारमिति द्वितीया स्यात् । परसमवेतक्रियाजन्यधात्वर्थफलशालित्वस्यापि कुलालनिष्ठकृतिजन्योत्पत्याश्रयत्वेन सत्त्वात् । अथ संझैव द्वितीयोत्पत्तौ प्रयोजिकेति घटो भवतीत्यत्र घटस्य कर्तृत्वेन तत्संज्ञया कर्मसंज्ञाया वाधान द्वितीयेति चेन्न । त्वन्मते घटस्य कर्वत्वासम्भवात् । अनुगतकर्तृत्वस्य त्वन्मते दुर्वचत्वात् । कृत्याश्रयत्वं कारकचक्रप्रयोक्तत्वं वा तत्त्वमिति चेत्तर्हि घटोस्तीत्यत्रापि तव स्यात् । धात्वर्थानुकूलव्यापाराश्रयत्वं च कारकमात्रेतिप्र. सक्तम् । एतेन स्वार्थफलव्यधिकरणव्यापारवाचित्वं सकर्मकत्वं नार्थसाधकम् । यद्धातूच्चारणे कर्माकांक्षा नियता स सकर्मको ऽन्योकर्मक इत्येव लक्षणसम्भवात् । तस्य च केवलव्यापा
Page #57
--------------------------------------------------------------------------
________________
धात्वर्थनिर्णयः ।
४९
रवाचित्वे केवलफलवाचित्वे चासम्भवादित्यपास्तम् । कर्मत्वस्य दुर्वचत्वेन तदाकांक्षावत्वरूपस्यापि तस्यासम्भवात् । न च द्वितीयान्तपदोपस्थाप्यत्वं तत्त्वम् । स्तोकं भवतीत्यपि दर्शनेनातिव्याप्तेः । न च कर्तृत्वकर्मत्वादिकमखण्डमेव । व्यासज्यवृत्तिकर्तृत्वदेवतात्वादेः शास्त्रे ऽदर्शनादिति वाच्यम् । तस्य धात्वर्थफलाश्रयत्वव्यापकतया तत्सत्वेन सत्वात् । न च सकर्मकधात्वर्थाश्रयत्वं कर्मत्वम् । अन्योन्याश्रयेण सकर्मकत्वादेर्दग्रहत्वापत्तेः । निरसिष्यते चोक्तसकर्मकत्वं फलव्यापारयोरेकनिष्ठतायामित्यत्र । किं चैवं फलमात्रस्य धात्वर्थत्वे ग्रामो गमनवा - निति प्रतीत्यापत्तिः, पाकानुकूलव्यापारारम्भेपि फलानुत्पाददशायां पाको भवतीत्यनापत्तिः, ग्राम चैत्रयार्मिथः संयोग इतिवन्मिथो गमनमित्यापत्तिर्व्यापारावेगमे फलसत्वे पाको विद्यते इत्यापत्तिः, पाकोभूदित्यनापत्तिश्चेति दिक् । मण्डनमिश्रमतानुयायिनस्तु फलमेव धात्वर्थः । व्यापारः प्रत्ययार्थः । प्रत्ययार्थव्यापारव्यधिकरणफळवाचकत्वं सकर्मकत्वम् । प्रत्ययार्थव्यापार समानाधिकरणफलवाचित्वं चाकर्मकत्वम् । कत्वमपि प्रत्ययार्थव्यापारव्यधिकरणधात्वर्थाश्रयत्वमेव । घटं भावयतीत्यादौ णिच्प्रत्ययार्थव्या पारव्यधिकरणोत्पत्याश्रयत्वसत्वात् । न चाण्यन्ते ऽप्यन्तर्भावितण्यर्थे शम्भुर्घटं भवतीत्यादौ प्रत्ययार्थसमानाधिकरणव्यापारार्थकत्वादकर्मकत्वलक्षणातिव्याप्तिरिति शङ्कयम् । भ्वादोर्णजर्थावाचकतया लक्षणावश्यकत्वे प्रत्ययस्यैव णिजर्थ लक्षणाभ्युपगमेन सर्वनिर्वाहात् । एवं प्रत्य यार्थव्यपाश्रयत्वमेव कर्तृत्वं यथा मैत्रः पचतीत्यादौ मैत्रादेः, देवदत्तेन चैत्रः पाचयतीत्यादौ णिजर्थाख्यातार्थयोराश्रयत्वादु· भयोः कर्तृता । अत एव शत्रूनगमयत्स्वर्गमित्यादौ शत्रूणां कर्तृ
Page #58
--------------------------------------------------------------------------
________________
६०
वैयाकरणभूषणे
त्वात्कर्मसंज्ञा । कर्तुरेव कर्मसंज्ञाविधानात् । एवमाख्याताना स्वार्थव्यापारान्वितकालबोधकत्वमेव । जानातीत्यादावपि ज्ञानाश्रयत्वरूपे तज्जनकमनः संयोगरूपे वा व्यापारएव तदन्वयो न तु धात्वर्थे । एवं चैकस्यैव धातोः फलव्यापारीभयवाचकत्वे नानार्थतादोषोपि परास्तः । भावे विहिसंघवादीनामपि व्यापारवाचकत्वस्वीकारादेव न ग्रामो ग मनवानित्याद्यापत्तिरपि । अत एव ववर्थभावनान्वयादोदनस्य पाक इत्यत्र कर्तृकर्मणोः कृतीति विहिता कर्मणि षष्ठी सङ्गच्छते एवं कर्तुकर्मकृतामपि कारकभावनोभयवाचकत्वादोदनस्य पतेत्याद्यपि नानुपपन्नम् । न चैवं कृतां नानार्थतापत्तौ गौरवापत्तिः धातुभ्यः कृतामल्पतया त्वद्रीत्या बहूनां धातूनां तरकल्पनातो लाघवाक्षतेः । नन्वेवं कृजानात्यादेरकर्मकतापत्तिः धात्वर्थयत्नज्ञानादिव्यधिकरणव्यापारस्य देवदत्तादौ बाधादिति चेन्न । फलतावच्छेदकविषयतासम्बन्धेन यत्नाद्यनधिकरणवृत्तित्वरूपस्य व्यधिकरणत्वस्य तदाश्रयत्वरूपे व्यापारे सत्वात् । यथाश्रुते सकर्मकाणामपि कालिकादिसम्बन्धेन फलसमानाधिकरणव्यापारवाचित्वादकर्मकाणां च सम्बन्धान्तरेण फलव्यधिकरणव्यापारवाचित्व सन्वेनालनकतापत्तेरित्याहुः । तन्न । क्रियते घटः स्वयमेवेत्यनापत्तेः । ज्ञायते घटः स्वयमेवेत्यापत्तेर्वा । विषयतया यत्नस्येव ज्ञानेच्छयोरपि तत्र सस्वात् । घटनिष्टोत्पत्तेरपि कुलालज्ञानेच्छाकृतिजन्यत्वस्याविशिष्टत्वात् । किं च पचति पक्ष्यति पकवानित्यादौ फूस्कारादीनां प्रतीतयेने कप्रत्ययानां तत्र शक्तिर्वाच्येति शक्ततावच्छेदकानन्त्यादनेकशक्तिकल्पनागौरवापत्तिः । अस्माकं पचधातोरैक्यच्छक्येन लाघवम् । किं च फूत्कारादेः प्रत्ययार्थ
1
Page #59
--------------------------------------------------------------------------
________________
धात्वनिर्णयः।
५१ : वे गच्छतीत्यादावपि तत्प्रतीत्यापत्तेस्तबोधे पचधातुसमभिव्याहारः कारणं वाच्य इति पचेरेव शक्तिर्युक्ता । अन्यथा पूर्वापरीभूतं भावमाख्यातमाचष्टे यथा पचति व्रजतीत्युपक्रमप्रभृत्यपवर्गपर्यन्तमिति निरुक्तविरोधश्च । अत्राख्यातशब्दस्य धातुपरताया वक्ष्यमाणत्वात् । अपि चास्त्यादौ सत्ताधव व्यापारः। अवच्छेदकवारूपा व्याप्तिः फलम् । अत एव मासं भवतीत्यादौ मासादेः कर्मतेति वक्ष्यते । तथा. चात्र भवादिः प्रत्ययाना सत्तादौ पृथक् शक्तिः कल्प्या धातूनां च सा त्याज्यति महगौरवं स्यात् । ननु तवापि भवतीत्यादौ सत्तावद्वयानेनिं कु. तिरित्यादौ विषयत्वोत्पत्त्यादेश्च वोधापत्तिर्दुवारा फलेपि श. क्तिसत्त्वादिति चेन्न । “एकदेशे समूहे वा व्यापाराणां पचादयः। स्वभावतः प्रवर्तन्ते तुल्यरूपं समाश्रिता" इति वाक्यपदीयोक्तरीत्या निरस्तत्वात् । गवादिपदानां गोवागिन्द्रियपृथिव्याघनेकार्थत्वेपि प्रसिद्धितदभावाभ्यां शीघ्रं वागायबोधगोबोध योरिवोपपत्तेश्च । अपि च गुरुः शिष्येण पाचयतीत्यत्र गुरुव्यापारस्य प्रयोजकव्यापारत्वेन णिजर्थत्वे स्थिते तस्याख्यातार्थप्रयोज्यव्यापार प्रति प्रकृत्यर्थत्वादप्राधान्यापत्तिः । आ. ख्यातार्थव्यापारानन्वयिनि सम्यान्वयासम्भवात्तदनभिधानेन गुरौ प्रथमानापत्तेः शिष्ये प्रथमापत्तेश्चेत्यादि स्पष्टं चैत. द्विवेचयिष्यामः । अथ फलमात्रं न धात्वर्थः । किं तु व्यापा. रोपि तथा च धात्वर्थव्यापाराश्रयत्वमेव कर्तृत्वं तदर्थफलाश्रयत्वं च कर्मत्वम् । एवं च न सकर्मकत्वाकर्मकत्वाविभागोच्छेदोपि । भावे विहितघनादीनां च धात्वर्थव्यापारानुवादकस्वान पाको भवति अभूदित्यनयोरेनापत्तिः । स्वीकृतं च धात्वर्थतावच्छेदकफलशालित्वं कर्मत्वम् । फलावच्छिमब्यापा
Page #60
--------------------------------------------------------------------------
________________
वैयाकरणभूषणे रबोधकत्वादेव धातूनां सकर्मकत्वाकर्मकत्वविभाग इति वदद्भिर्नैयायिकैरपि तथेति चेत्तर्हि सिद्धमस्मन्मतम् । धातोापारशक्तावेव यत्नस्याप्यनुप्रवेशेन विक्लिन्त्यनुकूलयत्नप्रत्ययसिधेराख्यातस्य स्वातन्येण यत्ने शर्मानाभावाद्वौरवाच सिदयसम्भवात् । नहि पचतीत्यादौ विक्लिन्त्यनुकूलव्यापारानुकूलयत्नवानिति प्रत्यय आनुभविकानां येन तदनुरोधेनाख्यातस्य पृथक्शक्तिः स्यात् । न चैवं यत्नत्वरूपेण बोधो न स्याछ । धात्वर्थव्यापारे फलस्यैवावच्छेदकत्वात् इति शक्यम् । पचतीत्यादावधःसन्तापनफूत्कारादोर्वशिष्यबोधानुरोधेन विशिष्यैव तद्वाच्यत्वकल्पनात् । फूत्कारत्वयत्नत्वादिभिः शक्ती धातो नार्थतापत्तिरिति चेत् । किं कुर्मः, यत्नमात्रांशत्यागेप्यध:सन्तापनत्वफूत्कारत्वचुल्ल्युपरिधारणत्वरूपेण बोधानुरोधेनास्य दुष्परिहार्यत्वात् । नैयायिकनवीनानामाख्यातस्य फलवाच. कत्वपि तदादिन्यायेन नानार्थत्वपरीहारवद्वा अस्याप्युपपत्तेः । एवं च करोतिरपि धात्वंशस्यैव विवरणम् । अत एव पक्ते. सादावपि कृतिबोधाय पृथक् शक्तिर्न कल्प्येत्यतिलाघवं स्यात्। न च पचति पाकं करोतीति विवरणं न स्यात् । कृत्यनुकूलकत्यभावादिति शङ्कयम् । तत्र पाकशब्दस्य विक्लित्तिमात्राभिमायकत्वात् । अत एव फलानुत्पाददशायां पाको जातो नवेति प्रश्ने भविष्यतीत्यपि प्रत्युत्तरं दृश्यते । व्यापारान्तर्भावेण प्रश्न जायतइत्यपि दृश्यते । अत एवोदनस्य पाक इति कर्मकारकान्वयः । अन्यथा भावनाया अनुक्तावनन्वयापत्तेः । कारकाणां क्रियायामेवान्वयस्य वाजपेयाधिकरणसिद्धान्तमूलत्वात् । न चाक्षिप्ततिर्थान्वय इति भ्रमितव्यम् । लादेशयोगे षष्ठया असम्भवस्य वक्ष्यमाणत्वात् । यतते यत्नं करोतीतिवद्विवरणो;
Page #61
--------------------------------------------------------------------------
________________
धात्वर्थनिर्णयः। ५३ पपत्तेश्च । न च फलजनकन्यापारस्यैव धात्वर्थत्वात् यत्नस्य चेष्टादिभिरन्यथासिद्धस्य कयं धात्वर्यतेति भ्रमितव्यम् । कुलालयत्नादेर्घटादिजनकत्वानापत्या व्यापारेणान्यथासिद्धत्व स्य सर्वशास्त्रे निराकृतत्वादिति । वक्ष्यते चान्यदुपरिष्टादि. त्यादि सर्वमभिप्रेत्याह ॥ तस्मात्करोतिधीतोः स्यादयाख्यानं न त्वसौ तिङाम पकवान कृतवान्पाकं किं कृतं पक्वमित्यपि ॥८॥ .. तस्मात् । आभिप्रायिकादुक्तहेतोः । धातोरित्यादि । अत्र मीमांसकाः । आख्यातवाच्यैव भावना । भावनार्थककरोतिना विवरणात् । यतूक्तं धातोरेवैतद्विवरणमिति । तन्न । विनिगमकाभावात् । अस्मन्मते व्यापारविशेष्यकबोधानुपपत्तिरेव मानम् । प्रकृतिप्रत्ययौ सहाथ ब्रूतस्तयोः प्रत्ययार्थप्राधान्यस्यान्यत्र क्लप्तत्वात् । तदागमे हि दृश्यतइति न्यायेनाख्यातवाच्यत्वपरिच्छेदाच्च । तदुक्तम् । प्रत्ययार्थ सह ब्रूतः प्रकृतिप्रत्ययौ सदा । प्राधान्याद्भावना तेन प्रत्ययार्थोवधार्यते ॥ तथाक्रमवतोनित्यं प्रकृतिप्रत्ययांशयोः । प्रत्ययश्रुतिवेलायां भावनात्माधगम्यतइति ॥ न चायमुत्सर्गः प्र. प्रकृते नादरणीयः । बाधकामावेन त्यागायोगात् । तदुक्तम् । धात्वर्थस्य प्रधानत्वं न तावदिह जन्मनि । औत्सर्गिको न च न्यायो मत्पक्षे हि निवय॑तीति ॥ अथ भावनाया आख्यातवाच्यत्वे कृत्प्रत्ययस्थले तत्पतीतिर्न स्यात् । वाचकामाचादिति चेन्न। धात्वर्थकारकैर्गम्यमानत्वादेव तस्यास्तत्र प्रतीते। अत एवोक्तम् । धात्वर्थकारकैरेव गुणभूतोवगम्यते । भावना. त्या कृदन्तेषु तस्मात्रैवाभिधीयते ॥ यथैव भावनाप्रधानत्वादा
Page #62
--------------------------------------------------------------------------
________________
५४
वैयाकरणभूषणे ख्यातेषु तत्सम्बन्धादेव गुणभूतकारकमतीतिसिद्धर्म कर्तृकर्मणोरभिधानम् । एवं कत्रोद्यभिधानादेव तदनुपपल्या भावनाया: सिद्धेरनभिधानम् । करोतिसामानाधिकरण्यमपि गम्यमानापे. क्षयैव, यथा पचतिशब्दस्य देवदत्तशब्देन, तथाभूतयैव च कारकसम्बन्धोप्युपपद्यतइति । न च पक्वान् पत्तेत्यादौ कारकयोधीतुकदर्थयोररुणाविकरणन्यायेन परस्परमन्वयास्त्रीकारा. प्रकृतिप्रत्ययार्थयोरन्वयस्यैवाभावे क्व प्राधान्यनियमः सहाथ ब्रूतइति वचश्चेति शंक्यम् । “सम्बन्धमात्रयुक्तं च श्रुत्या धात्वर्थभावयो" रिति वार्तिकोक्तरीत्या सम्बन्धसामान्येनान्वयेन प्राथमिकबोधे च प्राधान्यस्योक्तत्वात् । तस्मादानुवाच्या भावनेति वै. याकरणमतं न साधीय इत्याहुस्तत्र बाधकमाह । न वित्यादिना। नासौ तिडा व्याख्यानं, पक्ववानित्यादावनन्वयापत्तेरित्यर्थः । अयं भावः । प्रकृतिप्रत्ययौ सहाथ ब्रूत इत्यस्य हि विशेष्यतया प्रकृत्यर्थप्रकारको प्रति तदुत्तरप्रत्ययजन्योपस्थितिहेतुरिति कार्यकारणभावः फलितः । एवं च पकवानित्यत्र पांकः कमकारकं क्तवत्वर्थः कर्तृकारकं तयोश्च वक्ष्यमाणरीत्यान्वयासम्भवात्प्रकृतिप्रत्ययार्थयोरन्वयनियमस्यैवाभावे क प्राधान्यवो. धक उक्तो नियमः । न च सम्बन्धसामान्येनान्वयः शङ्कयः । योग्यताविरहात् । क्रियात्वमेव हि कारकान्वयितावच्छेदकमिति वक्ष्यते । तदेतदाविष्कर्तु धात्वर्थक्तवत्वर्थयोः कर्मत्वकर्तृत्वे वि. वरणेन दर्शयति । कृतवान्पाकमिति । वस्तुतः प्रत्ययार्थः प्रधानमित्यत्र या प्रधानं स प्रत्ययार्थ एक । यः प्रत्ययार्थः स प्रधानमेवेति वा न नियमः । अजा छागी पाचिकेत्यादौ व्यभिचारात् । नहि पाचिकेत्यादौ स्त्रीत्वविशेष्यको बोधः कस्प चित् । ननु जातिव्यक्तयोरभेदस्वीकारात्त्रीत्वविशेष्यक
Page #63
--------------------------------------------------------------------------
________________
धात्वनिर्णयः । चोधे इष्टापत्तिरिति चेन । एवं बाकृत्यधिकरणोच्छदापत्तिरित्येकं विकमित्यादौ वक्ष्यामः । वस्तुतो विशेष्यत्वादिबोधस्य तादृशव्युत्पत्यनुसारित्वेन न प्रत्ययार्थत्वादौ प्रमाणता । तथाहि । बोधो व्युत्पत्त्यनुसारी, न च बोधानुसारिणी व्युत्पत्तिः । तथा च तव तादृशव्युत्पत्तिसत्त्वात्तथैव बोधः । अत एव नैयायिकस्य प्रथमान्तविशेष्यक एव बोधः । अत एव लक्षणायां लक्ष्यतावच्छेदकं शक्यतावच्छेदकमेवति स्वीकुर्वन्तो गायां घोषः, "जाता लता हि शैले जातु लतायां न जायते शैलः । सम्प्रति तद्विपरीतं कनकलतायां गिरिद्वयं जातमि" त्यादौ गङ्गात्वलतात्वशैलत्वादिना तीरादेवोंधोत एव चमत्कारोपि । अ.' न्यथा वैपरीत्यं च न स्यात् इत्याहुरालङ्कारिकाः ॥ नैयायिकादयस्तु “कचतस्त्रस्यति वदनं वदनात्कुचमण्डलं त्रसति । मध्यातिभेति नयनं नयनादधरः समुद्विजती" ति ॥ अत्र कचत्वादिना बोधो न वासकर इत्यतोन्यदेव तद्वाच्यम् । अत एव गङ्गापदात्तीरत्वादिनैव बोध इत्याहुः । तस्माद्युत्पत्तिग्रह एवात्र शरणं न नियमः । अत एव भगवान्पाणिनिराह । प्रधानप्रत्ययार्थवचनमर्थस्यान्यप्रमाणत्वादिति । अत्र तदशिष्यमित्यनुवर्त्य वचनमित्यत्र योज्यम् । तत्र हेतुरर्थस्येत्यादिः। अन्यप्र. माणत्वात्, लोकत एव व्युत्पत्त्यनुसारेण विशेषणविशेष्यभावेन बोघोपपत्तेरित्यर्थ इति । किं च । यदि नियामकापेक्षा, गृह्यता तार्ह भावधानमाख्यातं सत्त्वप्रधानानि नामानीति निरुक्तवचनम् । इदं हि नामाख्यातोपसर्गनिपातानां चतुर्णा पदानां मध्ये नामाख्यातयोलेक्षणत्वेन प्रवृत्तम् । अत्राख्यायते सर्व. प्रधानभूतो. ऽर्थोननति व्युत्पत्त्या धातुराख्यातपदेनोच्यते । नामादिप्रकृतीनामेवोद्देशात् । अग्रेपि तत्र नामान्याख्यातजानी
Page #64
--------------------------------------------------------------------------
________________
५६
वैयाकरणभूषणे
ति शाकटायनो नैरुक्तसमयश्च न सर्वाणति गार्ग्यो वैयाकरणानां चैके इत्युक्तत्वाच्च । नह्याख्यातप्रत्ययजं नाम सम्भाव्यते किं तु धातुजम् । अत एवैतत्समानार्थकं वाक्यं सर्वे नाम धातुजमाह निरुक्ते व्याकरणे शकटस्य च तोकमिति महाभाष्ये पठितम् । तथा च धातोर्भावप्रधानबोधजनकत्वं लक्षणम् । नमन्त्याख्यातशब्दे गुणभावेन, नमयन्ति वा स्वार्थ भावनां प्रतीति नामानि । तल्लक्षणं सत्वप्रधानानीति । एवं चाख्यातस्य भा - aratवोक्त्वथ भावनेति निरुक्तविरुद्धम् । अन्यथा भा प्रधानो धातुरित्येव वावक्ष्यदिति निरस्तम् । तस्मान्न प्रत्ययार्थप्राधान्यनियम इति ध्येयम् । यच्च तदागमे हीत्यादि, तत्राह । किं कृतं पकमिति । कुवा विवरणं प्रतीतिश्च पक्ववान् पक्वमित्यादावपि इति तत्रापि भावना वाच्या स्यादिति भा वः । नन्वस्तु तिङामिव कृतामपि भावना वाच्येत्यत आह । अपीति । तथा चोभयत्रापि प्रतीतेरुभयसाधारणो धातुरेव वाचकास्त्विति भावः । भवद्रीत्या प्रत्ययार्थत्वात्प्राधान्यापाचश्चेति द्रष्टव्यम् । यदप्युक्तम् । पक्ववानित्यादौ धात्वर्थकारकैरेव तदाक्षेप इति । तदपि न । आख्यातस्थलेप्याक्षेपापत्त्या तत्रापि भावनाया वाच्यत्वं न स्यात् । आक्षेपलभ्यस्य प्राधान्याभावनियमस्य निरस्तत्वात् । वैपरीत्यापत्तेश्च । कृत्यपि भावनाया एव वाच्यतापत्तेः । अथ कृदुपस्थाप्ये लिङ्गसङ्ख्यान्वयित्वदर्शनात्कर्तुर्वाच्यत्वमावश्यकमिति चे, तार्ह कालान्वयाय भावनाया अपि तदावश्यकमवेोति तुल्यम् । किं च । एवं हि सङ्ख्यान्वयोपपत्तेराख्यातेोपि कर्त्ता वाच्यः स्यात् । आक्षेपलभ्ये कर्त्तरि सङ्ख्यान्वयो न विरुद्ध इति चेन्तुल्यं प्रकृतेपीति दिक् ॥ ८ ॥
1
Page #65
--------------------------------------------------------------------------
________________
धात्वर्थनिर्णयः। अपि च धातोर्भावनावाचकत्वसिद्धावेव कहकर्मकरणादौ कुत्पत्ययास्सगच्छन्ते नान्यथेत्यभिप्रेत्य तदेवोदाहरन्नाह ॥ किं कार्य पचनीयं चेत्यादि दृष्टं हि कृत्स्वपि । किं च क्रियावाचकतां विना धातुत्वमेव न ॥९॥
अयं भावः । कार्यमित्यादौ ऋहलोमेदिति कर्माण प्रत्ययः । पचनीयमित्यादौ चानीयर्मत्ययः कर्मणि, एवमादिना ज्योतिष्टोमयाजीत्यादौ करणेयज इति णिनिः, पक्वामित्यादौ क्तादिश्चोक्तः । एते च क्रियायोगं विना ऽसम्भावितास्तद्वाच्यतां बोधयन्ति । विना क्रिया कारकाणामसम्भवात् । नापि ते. षां कारकत्वसम्भावनाप्यन्यथा क्रियान्वायत्वस्यैव तत्वात् । यन्त्वाक्षेपलब्धक्रियासम्बन्धात् कारकार्थकः प्रत्ययः कारकत्वं चेति । तदुक्तोत्तरम् । किं चैवं नर्भिनो नखभिन्नो, हरिणा त्रातो हरित्रात इत्यादौ कटकरणेकृताबहुलामिति समासो न स्यात् । पुरुषो राज्ञो भाया देवदत्तस्येत्यादिवदसामर्थ्यात् । अथाध्याहृतक्रियाद्वारा सामर्थ्यमस्त्येव । अन्यथा दध्योदनः गुडधाना इत्यादावप्यनेन व्यञ्जनं, भक्ष्येण मिश्रीकरणामत्यनेन समासो न स्यात् । अध्याहृतापसेकामश्रणाक्रियां विना ऽन्ययासम्भवादिति चेन्न । तत्र विध्यानर्थक्यादगत्या तथास्वीकारोपि हरिकृतं जगत्, रामबाणकृतो वधः इत्यादौ साक्षादात्वथेभावनान्वयेनोपपद्यमानस्याक्षेपेण परम्परासम्बन्धे प्रवृत्त्यसम्भवात् । न चैकस्यां क्रियायां कर्मादिभावेनान्वयित्वमेवात्र सामर्थ्यामिति वाच्यम् । असूर्यपश्या इत्यादौ सर्वचर्मणः कृतः खखसाविति सूत्रे सर्वचर्मण इत्यंशेपि च तथात्वसत्त्वेनासमर्थसमासत्वानापत्तेः । इष्टापत्ती, कृतः सर्वो मृत्तिकयेत्यर्थे कृतः
Page #66
--------------------------------------------------------------------------
________________
५८
वैयाकरणभूषणे
सर्वमृत्तिक इत्यापत्तेः । न चात्र समासविधायकाभावः । सहमुपेत्यस्यैव सभ्वात् । अन्यथोक्तसूत्रेपि तव स न स्यात् इति दिक । अस्मन्मते च धातूपात्तां भावनां प्रत्यन्वयादनुपपत्तिगन्धोपि नेति । अपिः प्रागुक्तदूषणसमुच्चयार्थः । अथवा दोषान्तरमप्यर्थः । तथाहि । भावयति घटामतिवत्परमते भवति घटमित्यपि स्यात् । तुल्यार्यत्वात् । दृष्टान्ते हि कर्तुः कुम्भकारस्य व्यापारं णिजाचष्टे, दार्शन्तिके त्वाख्यातप्रत्ययः । तथा च भावनाकर्मत्वात् घटस्य कर्मणि द्वितीया स्यादेव । नतु प्रयोजकव्यापारो णिजर्थः कर्त्तृव्यापारस्त्वाख्यातार्थ इति वैषम्यमिति घटो भवतीत्यत्र कर्तृव्यापारवत्त्वात् घटः कर्तेव । तथा च कर्तृसंज्ञया कर्मसंज्ञाया बाधान द्वितीया किं तु प्रथमेवेति चेन्न । स्वन्मते कारकचक्रमयोक्तुरेव कर्तृत्वेन घटस्यातथात्वात् । भावनायाः प्रत्ययार्थतावादिनामन्यादृशकतृत्वस्य दुर्वचत्वाच्च | यन्तु बाघलक्षणे क्रत्वर्थाभ्युच्चयाधिकरणे यस्यैवान्यापेक्षयाख्यातापात्तव्यापारसमवायः स कंर्तेत्युक्तत्वादचेतनघटादे - रपि कर्तृत्वामेति । तच । करोतिः क्रियमाणेन न कश्चित्कर्मणा विना । भवत्यर्थस्य कर्त्ता च करोतेः कर्म जायते ।। करोत्यर्थस्य यः कर्ता भवितुः स प्रयोजकः । भविता तमपेक्ष्याथ प्रयोज्यत्वं प्रपद्यते ॥ प्रयोज्यकर्तृकैकान्तव्यापारप्रतिपादकाः । व्यन्तादावप्रयुज्यन्ते तत्प्रयोजककर्तृषु ।। इत्यारभ्य " तेन भूतिषु कर्तृत्वं प्र. तिपन्नस्य वस्तुनः । प्रयोजक क्रियामाहुर्भावनां भावनाविद" इति भावार्थाधिकरणे भट्टपादैराख्यातार्थ भावनानिरूपितत्वात् घटस्य तदाश्रयत्वाभावेन कर्तृत्वासम्भवात् । किं च क चित्त्रयोगे काष्ठादेः कर्तृत्वे क चिच्चाकर्तृत्वामिति व्यवस्थार्थ तस्मि प्रयोगे य आख्यात इत्यस्यावश्यकत्वे शत्रूनगमयत्स्वर्गमि
Page #67
--------------------------------------------------------------------------
________________
५९
धात्वर्थनिर्णयः। त्यादौ स्वर्गकर्तृता प्रयोज्यकर्तुर्न स्यात् । आख्यातार्थव्यापारानाश्रयत्वात् । न चेष्टापत्तिः । तथा सति स्वर्गस्य कर्मत्वानापत्तेः । कर्तुरीप्सिततमत्वस्य कर्मत्वात् । न च प्रयोजककतकर्मत्वमेव स्वर्गस्यास्तां,तथा सति णिजर्थकर्मत्वापत्तौ गमिकमतानापत्तेः। तथा च गत्यर्थकर्मणिद्वितीयाचतुर्थीचेष्टायामनध्वनीति स्वर्गायेति चतुर्थ्यनापत्तेः, पाचयति देवदत्तो विष्णुमित्रेणेत्यत्र विष्णुमित्रस्य कर्तृत्वविरहेण तृतीयानापत्तेश्च । न चेयं करणतृतीयैवेति शक्यम् । तथासति देवत्तस्याहेतुतापत्ती णिजत्पत्त्यसम्भवापत्तेः । तत्प्रयोजकोहेतुश्चति कर्तृप्रयोजकस्यैव हेतुत्वात् । एवं शत्रूणामकर्तृत्वप्यूह्यम् । ण्यन्ते कर्तुः कर्मण इति भाष्यविरोधापत्तेश्च । अकर्तुः कर्मण एव कर्तृपदव्यावत्यत्वात् । न च कर्तुः कर्मण इति भाष्यमसङ्गतमेव संज्ञान्तरानाविष्टे कर्तृपदसङ्केतेनात्रापि प्रयोज्यस्य गतिबुद्धीतिसूत्रेण कर्मसंज्ञाविधानेन कर्तृत्वासम्भवादिति वाच्यम् । शुद्धधात्वर्थव्यापारे कर्तृत्वेपि प्रयोजकव्यापारे कर्मत्वात् । क्रियाभेदेन तयोरविरोधात् । किं च देवदत्तः पाचक इत्यत्राख्याताभावाद्देवदत्तादेः कर्तृत्वं न स्यादित्यायूह्यम् । किं च । फलप्रकारकव्यापारविशेष्यकानुकूलत्वसंसर्गकशाब्दवोधे त्वया धात्वाख्यातयोर्धातुकृतोर्वा आनुपूर्वीहेतुरभ्युपेया । मया च धातोरेवानुपूर्वी तथा वाच्येति लाघवम् । न च तवापि यदाख्यातस्य व्यापारवाचकत्वभूमस्तदा तद्धेतुरभ्युपेयः । धातुशक्तिज्ञानस्यापि कारणत्वे कारणतारूपायां शक्ती व्याकरणस्यैव निर्णायकत्वात् । अन्यथा घटपदस्यापि शक्तिभ्र. मात्पटबोधकत्वेन पटशक्तत्वापत्तेरिति । साधुत्वनिर्णायकं व्याकरणमिति चेत् । शक्तत्वस्यैव साधुत्वस्य व्याकरणाधिकरणे
Page #68
--------------------------------------------------------------------------
________________
वैयाकरणभूषणे न्यायसुधायामभिधानात् । प्रत्ययस्यैवमप्यसाधुतापत्तेश्चेति ध्येयम् । धातुत्वमेव नेति । अयं भावः। धातुसंज्ञाविधायकं तावद्भवादयोधातव इति सूत्रम् । तत्र च भूश्च वाश्चेति द्वन्द्वः । आदिशब्दयोर्व्यवस्थामकारवाचिनोरेकशेषः।ततो भूवौ आदी येषामिति बहुव्रीहिः । तथा च भूप्रभृतयो वासदृशा धातव इत्यर्थः पर्यवसितः । सादृश्यं च क्रियावाचकत्वेन । अन्यथा वाशब्दानर्थक्यं स्यात् । इत्थं च क्रियावाचकत्वे सति गणपठितत्वं धा. तुत्वं पर्यवसितम् । अत्र क्रियावाचित्वमात्रोक्तौ वर्जनादिरूपक्रियावाचके हिरुक् नानेत्यादावतिव्याप्तिरिति गणपठितत्वमुक्तम् ॥९॥
ननु गणपठितत्वमेव धातुत्वमास्तां न तु क्रियावाचकत्वमपि । न च वाशब्दानर्थक्य, भूवादीनां वाकारोयं मङ्गलार्थः प्रयुज्यते इति वार्तिककारैरेव तत्पयोजनस्योक्तत्वादित्यत आह ॥
सर्वनामाव्ययादीनां यावादीनां प्रसङ्गतः। रा नहि तत्पाठमात्रेण युक्तमित्याकरे स्फुटम् ॥ १०॥
बन गणपठितत्वमात्रोक्तौ सर्वनामा यो या तस्यापि धातुत्वं स्यात् ।। तथा च याः पश्यसीत्यादावातोधातोरित्याकारलोप: स्यात् । ३त्यं चोक्तास्वरसादेव मङ्गलार्थत्वं परित्यज्य “ भुवो वार्थ वदन्ती ति भ्वर्था भूवादयः स्मृता" इति पक्षान्तरं तैरे. वोक्तमिति ध्येय सम् । ननु लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणान्न सर्वनाम्नयो ग्रहणं, तस्य लाक्षणिकत्वादत आह । वेति । अव्ययं या ए तत्रातिप्रसङ्गः । तथा च विकल्पार्थको वातीत्यादिप्रयोगः स्वादिति भावः । आदिना सु इत्यु
Page #69
--------------------------------------------------------------------------
________________
धात्वर्थनिर्णयः। पसर्गस्य माङ् मा इति खरायोश्च संग्रहः । न च षत्व. पाठादुपसर्गव्यावृत्तिः । साधसंसिद्धावित्यस्य मूर्धन्यादित्वाय पोपदेशलक्षणवत्वं तत्त्वमित्यन्यत्र निर्णीतत्वात् । तथा च समीचीनवर्जनाद्यर्थे सवति मिमीते मातीत्यापत्तिः पु प्रसवे माङ् माने मा माने इति धातूनां सत्त्वानिर्णयासम्भवात् । न च वेत्याद्यव्ययानां वा गतिगन्धनयोरत्यादिधातुभ्यः किवादिभियुत्पादनं शक्यम् । गमनादिकर्तेत्याद्यर्थत्वापत्तेरीतरत्वानापत्तेश्च । कृदन्तत्वात्सिद्धौ, निपातस्यानर्थकस्योति वार्तिकस्यानुक्तिसम्भवापचेश्चेत्यादि ध्येयम् । न च गतिगन्धनाद्यर्थनिदेशो नियामक इति वाच्यम् । तस्याधुनिकभीमसेनादिभिनिक्षिप्तत्वात् । भीमसेनादयो ह्यर्थ निर्दिदिशुः । पाणिनिस्तु भवेध इत्याद्यपाठीदिति भाष्यवार्तिकयोः स्पष्टम् । के चित्तु उद्दिष्टार्थविशिष्टस्य धातुत्वेलंक्रियते गुरुरित्यादावर्थान्तरे धातुत्वं न स्यात् । तदर्थस्यानुद्देशात् । निपातानां वाचकत्वात्सोर्थों निपातवाच्य इति चेन्न । उपसर्गाणां द्योतकत्वात्तत्रानुपपत्ति. तादवस्थ्यात् । वस्तुतो निपातानामाप द्योतकत्वमेवोत तत्राप्यनुपपत्तिरवति वदन्ति । ननु प्रयोगानुसारतोर्थानां क. ल्प्यत्वे सर्वत्रोद्दिष्टोर्थो व्यर्थ इति चेन्न । क्रियावा. चित्वबोधार्थं तदुद्देशात् । तदुक्तम् । “क्रियावाचित्वमा. ख्यातुमेकैकोर्थः प्रदर्शितः । प्रयोगतोनुसतव्या अनेकार्था हि धातव " इति । कुर्दखुर्दगुर्दगुदक्रीडायामेवेत्येवकारोप्यत्र मानम् । अन्यथा व्यर्थत्वापत्तेः । ननु क्रियावाचकत्वे सति मणपठितत्वस्यैव धातुत्वे सौत्राणां स्तम्भ्वादीनां लौकिकानां च चुलुम्पादीनां धातुत्वं न स्यादिति चेन्न । स्तम्भवादिदित्करणेनैव ज्ञापकबलाचत्सिद्धेः चुलुम्पादीनां च कास्य
Page #70
--------------------------------------------------------------------------
________________
वैयाकरणभूषणे नेकाजितिं वार्तिकवचनात्तसिद्धेः । वस्तुतश्चुराधन्ते बहुलमेतनिदर्शनामिति पठितगणसूत्रेण सर्वेषां संग्रहः । तत्र धातुवृत्तिकारादिभिरेतत्मदर्शनं दिक्मदर्शनमात्र प्रयोगानुसारेणान्यपि ज्ञेया इति व्याख्यातत्वात् । तस्मात् क्रियावाचको धातुरिति सिद्धम् ॥ १०॥ - ननु क्रियावाचकत्वे सति गणपठितत्वं तत्त्वमस्तु । क्रिया च न व्यापारः किं तु धात्वर्थ इत्यत आह ॥ धात्वर्थत्वं क्रियात्वं चेद्धातुत्वं च कियार्थता । अन्योन्यसंश्रयः स्पष्टस्तस्मादस्तु यथाकरम् ११
धातुत्वग्रहे च धात्वर्थरूपक्रियात्वग्रहस्तगहे च तद्वाचकत्व. रूपधातुत्वग्रह इत्यन्योन्याश्रय इत्यर्थः । ननु धात्वर्थक्रियेत्यत्र प्रविष्टमन्यदेव धातुत्वं वाच्यं तथा च नान्योन्याश्रय इति चेन्न । मानाभावात् । तदपेक्षया यथाश्रुतस्यैव लघुत्वात् । तदेव धातुत्वमादाय लडाधुपपत्तौ भूवादय इत्यस्य वैयाचेत्याशयेनाह । तस्मादिति । व्यापारसन्तानः क्रिया तद्वाचको धातुरिति यथाकरमित्यर्थः । के चित्तु मीमांसको वैयाकरणं प्रति दोषमाह । धात्वर्थत्वमिति । धात्वर्थत्वं क्रियात्वं यदि ब्रूयास्तदान्योन्याश्रयः स्पष्ट इत्यर्थः । तस्मादिति । आख्यातार्थः क्रिये. त्यध्याहारः । वैयाकरणः समाधत्ते । अस्त्विति । व्यापारस. न्तानः क्रिया तद्वाषको धातुरित्यर्थः । तथा च नान्योन्याश्रय इति व्याचक्षते । वस्तुतस्तु न क्रियावाचकत्वे सति गणपठितत्वं लडादिप्रयोजकम् । क्रियात्वस्यैकस्याभावेनाननुगमात् । किं तु संज्ञाविशेषः संज्ञाशब्दानां जातिवाचित्वपक्षे जातिविशेषो वा तनियामकः । सूत्रं च तत्परिचायकम् । तत्रोक्ताग्रिमकारिकाभिः
Page #71
--------------------------------------------------------------------------
________________
धात्वनिर्णयः। परिचायकाव्याप्यतिव्याप्ती विचार्यते । तत्रापि क्रियाशब्दस्य साध्यत्वेनाभिधीयमानण्यापारे एव साङ्केतिकशक्तः स एव गृह्यते सूत्रे वाशब्दसूचनयोति, न सूत्रं धातोः क्रियार्थत्वसाधनावाभिहितम् । किं तूक्तयुक्तिभिः साधितार्थस्य स्वोत्मेक्षितत्व. निराससूचनायति तत्त्वम् । एतेन वाद्यन्यतमत्वमेवास्तु धा. तुत्वं न क्रियार्थत्वगर्भम् । अथ चा गणपठितत्वे सति सत्ताधर्थकत्वमेव भूधातो_तुत्वमास्ताम् । इत्थमन्यत्राप्यूह्यम् । अत. एव तत्तदर्थव्यापारयोरुभयोधौतुवाच्यत्वे धातोर्नानार्थत्वकल्पनादोषोपि परास्तः । अर्थस्य तत्तत्पुरस्कारेणोपादानाच्च ना. न्योन्याश्रयोोपि । यद्वा सर्वफलान्यन्यतमत्वेन धृत्वा तद्वाचकत्वे सति गणपठितत्वमेव मूत्रार्थः कल्प्यतामित्यपास्तम् । किं चान्यतमत्वेन सर्वेषां धातूनां तेतेा धर्तव्याः । अन्यथार्थान्तरे धातुत्वं न स्यात् । तथा चाव्यये वा इत्यादावतिप्रसङ्गस्तस्याप्युक्तरीत्या गणपठितत्वाद्विकल्पार्थत्वाच । अन्यतममध्ये विकलस्यापि धृतत्वात् । कपू सामर्थे इत्यस्य विकल्पयतीति प्रयोगदर्शनाद्विकल्पार्थत्वादिति ॥ ११ ॥
नन्वेवं गणपठितत्वे सति क्रियावाचकत्वस्यैव धातुत्वे भवतीत्यादौ क्रियानुपलम्भाद् भ्वादीनां धातुत्वं न स्यादित्यवाह ॥
अस्त्यादावपि धयंशे भाव्येस्त्येव हि भावना । अन्यत्राशेषभावात्तु सा तथा न प्रकाशते ॥१२॥
अस्त्यादौ, अस भुवीत्यादौ। धर्म्यशे, धम्मिभागे। भाव्ये, भाव्यताविवक्षायाम् । भावनास्त्येव । अयं भावः । अस्तिभवतीत्यादौ धौशे भावनास्त्येव । भूधातोः स्थित्युत्पत्तिरूपन्य
Page #72
--------------------------------------------------------------------------
________________
६४
वैयाकरणभूषणे
·
1
र्थत्वात् । प्रमाणं च " धान्यानां भवने क्षेत्रे, तत्र जातः, तत्र भव" इति भेदेन निर्देश एव । रोहितो लोहितादासीद्धन्धुस्तस्य सुताऽभवत् इति प्रयोगश्च । अत एव घटो भवति स्वस्वरूपं लभते इति सत्कार्यवादिनां विवरणमप्युपपद्यते । इत्थं च सर्वत्र भावना निराबाधैव । किं च । यद्यत्र क्रिया नास्ति कथं तर्हि भविष्यति अभूत्, भवति, अस्तीत्यादौ कालसम्बन्धः । कालस्य क्रियात्मकत्वात् । वर्त्तमाने लडित्यत्र वर्तमानक्रियावृत्तेरिति व्याख्यातत्वात् । उक्तं हि वाक्यपदीये । क्रियाभेदाय कालस्तु सङ्ख्या सर्वस्य भेदिकेति । कालानुपाति यद्रूपं तदस्तीति प्रतीयतइति च । तस्माद्यदि क्रियात्र नास्ति तार्ह लडादिकमपि न स्यादिति द्रष्टव्यम् । नन्वेवं भावनाया उभयतुल्यत्वात् घटं करोतीत्यत्रेव घटो भवति अस्तीत्यत्रापि प्रतीयेतेत्यत आह ! अन्यत्रेत्यादि । अशेषभावात् । भावनाफलयोरेकनिष्ठत्वात् । सा भावना । तथा, स्पष्टम् । भावनाफळयेोरेकनिष्ठत्वाद्भावना स्पष्टं न प्रकाशतइत्यर्थः । अथ सर्वेषां धातूनां क्रियावाचकत्वे किं करोतीति प्रश्ने पचतीत्युत्तरस्येवास्तीत्युत्तरमपि स्यात् तुल्यत्वादिति चेत् । मैवम् । आसन्नविनाशं कं चिदुद्दिश्य किं करोतीति प्रश्ने अस्तीत्युत्तरस्य सर्वसम्मतत्वात् । इतरत्र तु सुस्थतया निश्चिते किं करोतीति प्रश्नः पाकादिविशेषगोचर एवेत्यवधारणादस्तीति नोत्तरमिति । अथैवमपि दिगस्ति भवति आत्मास्तीत्यादौ तेषामुत्पत्तेर्वाधिततयां कथं भावनीं वाच्येति चेत् । अत्राहुः । पूर्वापरीभावापन्नानेकक्षणविशिष्टस्यात्मन उत्पत्तेरत्रापि सुलभत्वान्नातिप्रसङ्गः । यद्वा । स्वस्वरूपधारणमेवास्त्यादौ फलं पच्यते तण्डुलः स्वयमेवेत्यादाविवं तदाश्रयतैव साध्यत्वेनाभिघीय
Page #73
--------------------------------------------------------------------------
________________
धात्वर्थनिर्णयः। मानो व्यापारः । तथा चात्मादिः स्वस्वरूपधारणं करोतीत्य. र्थः । तदुक्तं निरुक्ते । अस्तीत्युत्पन्नस्यात्मधारणमुच्यतइति । नन्वेवमात्मानं धत्तइतिवदात्मानमस्तीत्यपि स्यादविशेषादिति चेत् । अत्र वक्ष्यामः । उक्तं च वाक्यपदीये । आत्मानमात्मना विभूदस्तीति व्यपदिश्यतइति । वस्तुतः किञ्चेत्याधुक्तयुक्त्यनुरोधेनात्राप्याकाशोस्ति आकाश आत्मा वा आसीदिति प्रयोगाद्भावनाया वाच्यत्वमावश्यकम् । किं चास्त्यादावस्तित्वमेव व्यापारः । अवच्छेदकतारूपा व्याप्तिः फलम् । सा च मासादावस्तीति मासमास्ते गोदोहमास्ते क्रोशमास्ते कुरून्त्स्वपिती. त्यादौ मासादेर्धात्वर्थतावच्छेदकफलशालित्वं कर्मत्वं सङ्गच्छते । तथा च मासाद्यवच्छिन्ना स्थितिरित्यर्थः । अत एव द्वितीये भाष्ये "प्राकृतमेवेदं कालादि कर्म यथा घटं करोती" त्याद्युक्तम् । वाक्यपदीये च, कालभावाध्वदेशानामन्तर्भूतक्रियान्तरैः । सर्वैरकर्मकैोगे कर्मत्वमुपजायते इति ॥ प्रधानास्तित्वक्रियापेक्षया धात्वर्थत्वाव्याप्त्यादिकमन्तर्भूतं क्रियान्तरं येषां तेषां सर्वेषां योगे कालादीनां कर्मत्वं भवतीत्यर्थः । मासं पचतीत्यादिसंग्र. हाय सर्वैरिति वार्तिके । अकर्मकैरिति कैमुतिकन्यायेन । मासमास्ते कटे इत्यत्र कटस्य न व्यापनकर्मत्वमिति न ततो द्वितीयेति हेलाराजः । अधिशीङ्स्थासामिति ज्ञापनात्कालभासाध्वगन्तव्याः कर्मसंज्ञा ह्यकर्मणां, देशश्चेत्यस्य नियमार्थत्वाद्वा नातिप्रसङ्ग इति तत्त्वम् । न चास्यते मास इतिवत्पच्यते मास इत्यापत्तिः । अस्त्यादेः सकर्मकत्वात्पच्यादेरिव भावे लश्च न स्यादिति वाच्यम् । प्रधानकर्मण्याख्येये लादीनाहुर्द्विकर्मणामिति । न के चित्कालभावाध्याभिरकर्मकास्तदेवं विज्ञास्यामः । कचिद्यकर्मका इति च भाष्येणैव दत्तोत्तरत्वात् । उक्तं च वा
Page #74
--------------------------------------------------------------------------
________________
वैयाकरणभूषणे क्यपदीये । आधारत्वमिव प्राप्तास्ते पुनद्रव्यकर्मसु । कालादयो भिन्नकक्ष्यं यान्ति कर्मत्वमुत्तरम् ॥ अतस्तैः कर्मभिर्धातुर्युक्तो द्रव्यैरकर्मकः । लस्य कर्मणि भावे च निमित्तत्वाय कल्पतइति ।। तात्पर्यविरहाच केवलमस्तीत्यादौ न तद्बोधकत्वमिति ध्येयम् । गवादिपदानां वागायनेकार्थत्वाविशेषेपि गौरस्ति गान्दद्यादि. त्यादौ प्रसिद्धयप्रसिद्धिभ्यामुत्सर्गतः शीघ्रं सास्नादिमद्वयक्तिबोधवागायबोधवत्पचति अस्तीत्यादौ विक्लित्तिसत्तादिबोधव्याप्त्यबोधयोरुपपत्तेश्च । वस्तुतो धातुसंज्ञाविध्यनुरोधादातूनां क्रियावाचकत्वावश्यकत्वेपि फलवाचकत्वं नावश्यकम् । अतोस्त्यादौ सत्तादिरेव क्रिया । अत एव पश्यति भवः स्वयमेव, द. शयते भव इत्यादौ निवृत्तप्रेषणेपि विषयतारूपफलस्यैव क्रियात्वं धात्वर्थत्वं चाभ्युपगतम् । पच्यते ओदनः स्वयमेवेत्यादौ वि. क्लित्तिमात्रं धात्वर्थोतस्तद्रूपक्रियाश्रयत्वादोदनस्य कति एकदेशे समूहे वा व्यापाराणां पचादयः । स्वभावतः प्रवर्तन्ते तुल्यरूपं समाश्रिता इति वाक्यपदीयव्याख्यायां हेलाराजीयेप्युक्तम् । नन्वेवं घटं भावयति तण्डुलं पचति भवं पश्यतीत्यादावपि धातूपातक्रियाश्रयत्वात् घटादेः कर्तृतापत्तौ द्वितीयानापत्तिः । कर्तृसंज्ञया कर्मसंज्ञाया बाधात् । न च निरवकाशत्वात्कर्मसंज्ञैव, देवदत्तः पचतीत्यादौ देवदत्ते सावकाशां कर्तृसंज्ञां बाधिष्यतइति वाच्यम् । एवं हि चैत्रो ग्रामं गच्छतीत्यादौ धातूपात्तफलाश्रये चैत्रेपि कर्मसंज्ञाद्वितीययोरापत्तेः । एवं पश्यति भव इत्यादावपीति । नापि प्रत्ययार्थान्याविशेषणत्वविशिष्टविषयतया धातुजन्यशाब्दबोधविषयत्वमेव क्रियात्वं निर्वाच्यं तच फलोपधानं तण्डुलं पचतीत्यादौ फले नास्तीति तस्मिन्मयोगे फलस्याक्रियात्वपि कर्मकर्तरि तदस्त्येवेति तत्र तस्य क्रियात्वं
Page #75
--------------------------------------------------------------------------
________________
धास्वनिर्णयः। तदाश्रयत्वेनोदनभवादेः कर्तृत्वं चोपपद्यते । पाचयति शिष्ये. ण गुरुः पाचक इत्यादौ प्रत्ययाविशेष्यकभावनाविशेषणकशाब्दबोधस्य धातुप्रत्ययाभ्यामुत्पत्तेरव्याप्तिवारणाय प्रत्ययार्थान्येतीति युक्तम् । एवमपि पश्य मृगो धावति पश्य नृत्यति पचति भवतीत्यादौ धात्वर्थविशेष्यकनृत्यादिभावनाविशेषणकशाब्दबोधाभ्युपगमादव्याप्त्यवारणादिति चेन्न । तद्धात्वर्थाविशेषणत्वविशिष्टविषयतया तद्धातुजन्यशाब्दबोधविषयताफलोपधानस्यैव तद्धात्वर्थभावनात्वात् । न चैवं घटम्भावयतीत्यादौ भवनस्य णिजन्तधात्वर्थविशेषणत्वेपि भवाविशेषणत्वाद् भ्वर्थक्रियात्वमस्त्येवेति तदाश्रयत्वात्कर्तृत्वापत्तिः। इष्टापत्तेः । अत एव गतिबुद्धीति सूत्रेण कर्तुरेव कर्मसंज्ञा विधीयते । अत एव क्रियाभेदादुभयमप्यस्तीति ण्यन्ते कर्तुश्च कर्मण इति भाष्ये उभयथापि व्यवहारः कृतः । न चैवमपि क्रियात्वस्य धातुत्वगर्भतया तस्य क्रियावाचकत्वगर्भस्यान्योन्याश्रयादग्रहणप्रसङ्गः । क्रियात्वघटकधातुत्वस्य जात्यादिरूपत्वात् । भूवादिसूत्रं तु तत्परिचायकमिति प्रागेवोक्तम् । फलत्वमपि तद्धात्वर्थविशेषणत्वे सति तदात्वर्थत्वम् । अतः प्रयोज्यव्यापारस्याणिजन्तधात्वर्थाफलत्वेपि णिजन्तधात्वर्थफलत्वात्तदाश्रयस्य तत्र कर्मत्वमपपद्यते । पश्य मृगो धावतीत्यत्र धावनक्रियाया दृशिफलत्ववारणाय प्रथमं तद्धात्विति तत्पदम् । दृशिफलत्वे च तदाश्रयत्वान्मृगस्य कर्मतापत्तौ द्वितीया दुर्वारा । न च तस्य धात्वर्थभावनाश्रयतया कर्तृत्वात्तत्संज्ञया बाधान कर्मसंज्ञाद्वितीये इति वाच्यम् । पक्त्वोदनो भुज्यते देवदत्तेनेत्यत्रेव प्रधानानुरोधेन कार्यप्रवृत्तेः। प्रधानदृश्यर्थक्रियानुरोधिकर्मसंज्ञाया दुरित्वात् । किं च । स्वकारकविशिष्टा क्रिया दृशिकर्म । तथा च धावनकर्तृत्वानन्तरंह.
Page #76
--------------------------------------------------------------------------
________________
६८
वैयाकरणभूषणे शिकर्मत्वसम्पत्तयेननाप्राप्तिन्यायरीत्या पश्चात्मवृत्तं कर्मत्वं कर्तृत्वबाधेनैव प्रवतति न बाध्यत्वं युज्यते । अत एव घटं भावयतीत्यादौ प्रधानानुरोधात्कर्मत्वं सिद्धयत्येवेति गतिबुद्धिसूत्रं निय. मार्थ तेन पाचयति गुरुः शिष्येणेत्यत्र न कर्मत्वमिति सर्व सं. प्रतिपन्नम् । एवं च पच्यते ओदनः स्वयमेव घटो भवतीत्यादौ व्यापारआश्रयत्वादिकं प्रकल्प्य फलव्यापारोभयार्थत्वकल्पनं तत्रतत्रोक्तमनादेयम् । भावयतीत्यादौ भवनानुकूलप्रेरणाप्रतीतिवद्भवनाश्रयत्वानुकूलव्यापारवानिति प्रतीतेरनुभवविरोधाच्च कर्तव्यापारानुकूलव्यापारस्यैव णिजर्थत्वात् । एवं च धात्वर्थः सर्वोपि प्रयोगविवक्षाभेदेन भावना भवतीति का पुनर्धात्वर्थातिरेकिणी भावनेति मीमांसकैरेतन्मतं शंकितं भावार्थाधिकरणे । तथा चैतन्मते केवलव्यापारवाचकत्वमकर्मकत्वं फलव्यापारोभयवाचकत्वं सकर्मकत्वं द्रष्टव्यम् । अत एव जीवत्यादे. रकर्मकलं सूपपन्नम् । जीव प्राणधारणे, नृती गात्रविक्षेपे, स्रंसु ध्वंसु अधःपतने इत्याद्यनुशासनेनैतादृशानां प्राणादिविशिष्टधारकसंयोगगात्रविशिष्टविक्षपादिक्रियामात्रवाचकत्वेनोभयवाचकत्वाभावात् विशिष्टस्यैव क्रियात्वात् । अत एवात्र न प्राणगात्रयोः कर्मत्वम् । दधत्यादेस्तु धारणक्रियासंयोगोभयवाचकत्वात्पात्रं धत्ते प्राणान् धत्ते इत्यादिसर्वप्रयोगाः सकर्मकत्वं चोपपन्नमेव। पत गतौ पत्ल गतावित्येतयोश्च गम्ल गतावितिवसंयोगक्रियोभयशक्तत्वात्तद्वदेव सकर्मत्वम् । अत एवो पतत्यधः पतति इतस्ततः पततीत्यादयो गच्छतिवत्प्रयोगाः। द्वितीयाश्रितातीतेति सूत्रे नरकपतित इति वृत्तिकारोदाहरणं चोपपद्यते । अस्तीत्युत्पन्नस्यात्मधारणमुच्यतइति निरुक्तकारोक्या अस्तेरप्यात्मविशिष्टधारणवाचकत्वे च जीवत्यादिवदेवा
Page #77
--------------------------------------------------------------------------
________________
धात्वर्थनिर्णयः ।
६९
1
कर्मकत्वं द्रष्टव्यम् । आत्मविशिष्टधारणादिकमेव व्यापारः । तदेवादाय भूवादय इति लक्षणसङ्गतिः । अस्तु वा तदतिरिक्ततत्फलसमानाधिकरणव्यापारवाचकत्वमस्त्यादेः । न चैवं तत्प्रतीत्यापत्तिः । बाधानवतारदशायामिष्टत्वात् । तदवतारे तेनैव प्रतिबन्धान तथेति न काप्यनुपपत्तिरिति साम्प्रदायिकाः । स्वतन्त्रास्तु, अस्तु तत्र वाघनिश्चयस्तथापि प्रत्ययो नानुपपनः । अत्यन्तासत्यपि शब्दाद्वोघे बाधकाभावात् । तथा च भगवान् पतञ्जलिः। "शब्दज्ञानानुपाती वस्तुशून्यो विकल्प" इति । तदुक्तं विवरणे ऽध्यासलक्षणशेषे “नाप्यध्यस्तमसदेव तथात्वे प्रतिभासायोगादिति टीकाप्रतीकमादाय प्रत्यक्षप्रतिभासो न स्यादित्यर्थः । प्रतिभासमात्र निराकरणे शून्यं न भासतइति वाक्यस्याबोधकत्वप्रसङ्गा" दिति । तथा खण्डनकारोप्याह । अत्यन्तासत्यपि ह्यर्थे ज्ञानं शब्दः करोति हि । अत एव शशशृङ्गादिशब्दाद्वाधितो ऽपि संसर्गे भासतएवेत्यर्थः । प्रतीतिजनकत्वरूपार्थवत्वात्प्रातिपदिकत्वसिद्धेः समासग्रहणं नियमार्थमित्यत्र नानुपपत्तिः । इत्थं च क्रियावाचकत्वं तद्बोधकत्वमात्रम् । वक्ष्यते च बोधकत्वमेव शक्तिरपि । यत्तु वन्हिना सिञ्चेदित्यत्र बोधादर्शनादयोग्यतानिश्चयः शाब्दबोधे प्रतिबन्धकः स च प्रकृते ऽस्त्येवेति न बोध इति नैयायिकमीमांसकादिभिः परिशीलितः पन्थाः । एकपदार्थ संसर्गे ऽपरपदार्थनिष्ठात्यन्ताभावप्रतियोगित्वाभावादिनानायोग्यताज्ञानं न शाब्दबोध सामान्ये स्वातन्त्र्येण कारणम् । न वा स्वातन्त्र्येण शाब्दबोधे एवैतादृशयोग्यताविरहरूपायोग्यत्वनिश्चयः प्रतिबन्धकः । किं त्वनुमित्यादिसाधारण्येनैव क्लृप्तप्रतिबन्धकीभूतबाधज्ञानादेव न वन्हिनेत्यादौ बोधः । न चैवं शाब्दममायां गुणत्वानुरोधेन योग्यताप्रमा कारणं कल्प्य -
Page #78
--------------------------------------------------------------------------
________________
वैयाकरणभूषणे म् । अतो यद्विशेषयोरिति न्यायेन शाब्दबोधसामान्यएक योग्यताज्ञानं कारणमिति वाच्यम् । संशयत्वादिवन्नीलघटत्वा. दिवच्चार्थसमाजासिद्धतया प्रमात्वस्य कार्यतानवच्छेदकत्वात् । एवं च प्रकृतपि बाधज्ञानसत्त्वान्न बोधः। यत्तु घटो घट इत्यत्रापि बोधापत्या योग्यताज्ञानं कारणं तत्र बाधस्य प्रतिबन्धकत्वास म्भवात् । घटत्वधर्मितावच्छेदकघटभेदज्ञानस्य प्रतिबध्यस्यानाहायस्याप्रसिद्धेरिति । तत्तुच्छम् । तादृशोपनीतभानस्यानाहार्यस्य तवापि दुवारत्वात्तादृशज्ञाने इच्छाविशेषस्यैव हेतुत्वात् । किं चैवं योग्यतायाः सर्वत्रैक्यासम्भवाद्विशिष्य हेतुहेतुमद्भावावश्यकत्वे प्रकृते तादृशशाब्दबोधाप्रसिद्धया हेतुत्वकल्पनाया असम्भवात् । अन्यत्र कल्पनायां मानाभावाचति । किं चात्यन्तासतेन्द्रिय सनिकर्षाभावेन प्रत्यक्षासम्भवाद्व्याप्तिज्ञानासम्भवेनानुमित्याधभावात्तत्र शक्तिग्रहस्यैवासम्भवान्न बोध इत्यपरे वदन्ति । तच्चिन्त्यम् । बाधनिश्चयादेः सत्त्वेप्य"स्य क्षोणिपतेः परार्धपरया लक्षीकृताः सङ्ख्यया प्रज्ञाचक्षुरवेक्ष्यमाणबधिराव्याः कीलाकीर्तयः । गीयन्ते स्वरमष्टमं क. लयता जातेन बन्थ्योदरान्मूकानां प्रकरण कूर्मरमणीदुग्धोदधे रोधसी" इत्यादे "रेष बन्ध्यासुतो याति खपुष्पकृतशेखरः। मृ. गतृष्णाम्भास स्नातः शशशृङ्गधनुर्द्धर,, इत्यादितश्च बोधदर्शनेनास्याप्रतिबन्धकत्वात् । न चात्र न शाब्दबोधः किं तु पदार्थोपस्थितिमात्रमिति शङ्कयम् । अन्यत्रापि तथात्वापत्तेः । श. ब्दप्रामाण्योच्छेदप्रसङ्गात् । अन्यथा चमत्कारानापत्तेश्च । नः च प्रवृत्ति प्रति विशिष्टज्ञानस्य हेतुत्वानुरोधाच्छब्दविशिष्टज्ञानसिद्धिः । दुःखद्वेषेच्छासुखादावपि तद्रीत्या तद्धेतृत्वेन मिथ्याभिशापगालिदानरूपकादिकाव्यजदुःखसुखाद्यनुरोधेन सत्यफि
Page #79
--------------------------------------------------------------------------
________________
धात्वर्थानर्णयः ।
७१
बाधे तत्सिद्धेर्दुवरत्वात् । न चैवं वह्निना सिञ्चेदित्यत्र बोधे प्रवृत्तिरपि स्यादिति शङ्कथम् । प्राक्तनबाधेनाप्रामाण्यशङ्काया एव जायमानज्ञाने जननात्तच्छून्यज्ञानस्य प्रवृत्तावुपयोगिनो सत्वेनासम्भवात् । एवं शक्तिग्रहोपि न शाब्दबोधविषयी भूतपदार्थमात्रे अपेक्षितः किं तु क्व चिच्छक्यतावच्छेदकावच्छिन्ने । स च प्रकृते घटोस्तीत्यादौ वृत्तएव शशशृङ्गादिपदे तु पदमकाRaatara । तत्र चेदं पदं क चिच्छक्तं साधुपदत्वादित्यकारो दशरथादिपदेष्विव तद्रहो हेतुः स च शक्यानुपस्थितावपि भवतीति व्युत्पादयिष्याम इति न द्वितीयो पीत्याहुः ।। १२ ।।
ननु भावनायाः फलनियतत्वात्फलवतः कर्मत्वाद्धातोस्तद्वाचकत्वे सर्वे सकर्मकाः स्युस्तत्राह ॥ फलव्यापारयोरेकनिष्ठतायामकर्मकः । धातुस्तयोर्धर्मिभेदे सकर्मक उदाहृतः ॥ १३ ॥
एकनिष्ठतायां, एकमात्रनिष्ठतायां भिन्नाधिकरणावृत्तितायामिति यावत् । तेन गम्यादौ नातिव्याप्तिः । अकर्मको यथा भ्वादि:, धातुरित्यन्तेनान्वयः । तयोरित्यादि । यत्रानयोभिन्ननिष्ठतेत्यर्थः । यथा पच्यादिः । इत्थं चाकर्मके क्रियासवेपि तयोरेकनिष्ठत्वान्न सकर्मकत्वमिति भावः । अत्रेदमवधेयम् । एवं हि जीवतिनृत्यत्यादेः सकर्मकत्वापत्तिः । प्राणधारणगावावक्षेपादिरूपफलस्य व्यापारव्यधिकरणत्वसत्त्वात् । तस्मात्फलाश्रयावाचकत्वे सति तद्वयधिकरणव्यापारवाचकत्वं सकर्मकत्वं वाच्यम् । अविवक्षितकर्मणामलक्ष्यत्वे चाविवक्षाविरहविशिष्टेत्यपि निवेशनीयम् । एवं चास्तेरात्मधारणरूपफलवाचकत्वे
Page #80
--------------------------------------------------------------------------
________________
वैयाकरणभूषणे
निरुक्तकारोक्तेरप्यात्मांशस्य धात्वर्थत्वान्न सकर्मकत्वम् । दधातेस्तु धारणमात्रमर्थो न तु तदाश्रयोपीति सकर्मकत्वं सङ्गच्छते । एवं शंसु ध्वंसु अधः पतनइत्यादेरेप्यधोदेशरूपफलाश्रयवाचकत्वादकर्मकत्वम् । पत्ल गतावित्यादेर्गम्यादिवत्संयोगमात्रार्थत्वात्सकर्मकत्वान्नरकपतित इत्यादिद्वितीयासमासोपपत्तिः । तदुक्तं वाक्यपदीये | अन्तर्भावाच्च तेनासौ कर्मणा न सकर्मक इति ॥ तेन । आत्मानमात्मनेतिपूर्वार्धेनोक्तकर्मणा । असौ । अस्तिः कर्म्मको न | अन्तर्भावात् । अस्त्यर्थेन क्रोडीकृतत्वादित्यर्थः । अथैवं जानातीच्छत्यादेः सकर्मकत्वं न स्यात् । धात्वर्थज्ञानजन्यफलस्य घटादावसत्त्वात् । आत्मानं जानातीत्यादौ फलव्यापारयोरेकनिष्ठत्वाच्चेति चेत् । सत्यम् । ज्ञानजन्यफलस्य घटादौ कारकार्थनिरूपणे वक्ष्यमाणत्वात् । आत्मानं जानातीत्यादौ चात्मभेदः कल्प्यते । एकः शरीरावच्छिन्नो ऽपरस्त्वन्तःकरणावच्छिन्नस्तत्रान्तःकरणावच्छिन्नः कर्ता चेच्छरीरावच्छिन्नः कर्म । तथा च फलव्यापारयोर्भिन्ननिष्ठत्वाक्षतेः सकर्मकत्वं नासिद्धम् । एव "मात्मानमात्मना हन्ति सृजत्यात्मानमात्मने" त्यत्रापि शरीरात्मभेदसत्वाल्लक्षणं द्रष्टव्यम् । उक्तं च कर्मवत्कर्मणेति सूत्रे भाष्ये । द्वावात्मानौ शरीरात्मा अन्तरात्मा च । शरीरात्मा तत्कर्म करोति येनान्तरात्मा सुखदुःखे अनुभवति । अन्तरात्मा तत्कर्म करोति येन शरीरात्मा सुखदुःखे अनुभवति इति । मीमांसकास्तूक्तातिप्रसङ्गभियैव प्रकारान्तरे'णाकर्मकत्वसकर्मकत्वविभागं वदन्ति । तथा च भावार्थाधिकर
७२
भट्टपादैरुक्तम् | साक्षादव्यभिचारेण धात्वर्थो यत्र कर्मभाक् । सकर्मकः स धातुः स्यात्पारम्पर्ये त्वकर्मकः । आसनशयनादौ हि आनन्तर्येण नियमेन कर्मविशेषो न निरूप्यतइत्यकर्मकत्वं
Page #81
--------------------------------------------------------------------------
________________
धात्वर्थनिर्णयः ।
पचिगम्यादीनां तु विक्लिद्यत्संयुज्यमान साक्षात्सम्बन्धिकर्माव्यभिचारात्सकर्मकत्वं न तु भावनाविशेषणत्वेन कश्चिद्विशेष इति । तच्चिन्त्यम् । भवतिघटमित्याद्यापत्तेः । न चात्र कर्म न निरूप्यतइत्यकर्मकत्वम् । कर्मनिरूपणस्यैवापाद्यत्वात् । अन्योन्याश्रयापाताच्च । कर्मनिरूपणे हि सकर्मकत्वम् सकर्मकत्वे च कर्मनिरूपणामिति । न च तवाप्येतादृशस्थळे फलव्यापारयोभि• ननिष्ठव किं न स्यादिति वाच्यम् । तथैव वस्तुनः स्वभावात् । निरूपणं तु प्रयोगः स चापादयितुं शक्य एवेति । नन्वत्र निरूपणमाकांक्षा तथा च यद्धातूच्चारणे कर्माकांक्षा नियता स सकर्मकः । यत्र नास्ति स्रोकर्मकः । एवं च कृञोपि यतेरिव यत्नमात्रार्थकत्वेपि नानुपपत्तिः । कर्मत्वादिपदोपस्थाप्य कर्मत्वस्य क्रियाकांक्षत्वाभावेपि द्वितीयोपस्थाप्यस्य तत्साकांक्षत्ववत्कृप स्थाप्यस्य यत्नस्य कर्माकांक्षत्वोपपतेः । एवं च सकर्मकत्वानुरोधेन कुल उत्पत्तिवाचकत्वव्यवस्थापनमप्ययुक्तम् । अविवक्षितकर्मणां सकर्मकत्वस्य वारणीयत्वे चाविवक्षाभाववैशिष्ट्यमपि लक्षणे निवेश्यताम् । एवमेकस्यैवार्थभेदेनाकर्मकत्व सकर्मकत्वमपि नानुपपन्नम् । यदर्थे' अविवक्षाविरहाविशिष्टकर्माकांक्षाजनकत्वं यस्य स तत्रार्थे सकर्मक इत्यननुगतस्यैव त्वद्रीत्या लक्षणत्वसम्भवादिति चेन्न । गच्छतिपततीत्यादिषु कर्मा कांक्षाविरहेणाव्याप्तेः । अत्रत्यकुत्रकिमित्याकांक्षायाः यतते भवतीत्यादिषु कुल किमित्याकांक्षातुल्यत्वात् । द्वितीयाश्रितातीतपतितति सूत्रे पंतितशब्दस्य कर्मद्वितीयासमासविधानेन यतेः सकर्मकत्वनिर्ण-: यात् । कृञ उत्पत्त्यर्थकतायाः प्रागेव निर्णीतत्वाच्चेति दिक् ।। १३ ।।
ननु क्रियाया धातुवाच्यत्वे पाक इत्यादिघवन्तस्थले त - स्मतीतिः स्यात् । वाचकस्य धातोराख्यातइवात्रापि तुल्यत्वा
ܙ
७३
Page #82
--------------------------------------------------------------------------
________________
वैयाकरणभूषणे । न चेष्टापत्तिः । सत्वरूपाया एव प्रतीतेः । कदाभिहितो भावो द्रव्यवत्प्रकाशतइति भाष्यवचनविरोधापत्तेश्च । तस्माबासन्त्वरूपा क्रिया धातुवाच्येत्यत आह ।।
आख्यातशब्दे भागाभ्यां साध्यसाधनवर्तिता। प्रकल्पिता यथा शास्त्रे स घत्रादिष्वपि क्रमः॥१४॥
आख्यातशब्दे, पश्य मृगो धावतीत्यादौ । मृगो धावति पश्येति साध्यसाधनरूपतेत्यनुपदमेव वाक्यपदीयेभिधानात् । भागाभ्यां, तिङन्ताभ्याम् । प्रकृतिप्रत्ययभागाभ्यामिति त्वपव्याख्यानम् । पचतीत्यत्रापि भागद्वयसत्त्वेन सिद्धावस्थक्रियाप्रतीत्यापत्तेः । साध्यसाधनवर्तिता, यथाक्रमं पश्यभागेन साध्यवर्तिता । धावतिभागेर्ने साधनवर्तिता यथा शास्त्रे प्रकलिपता । अयमर्थः । पश्येत्यत्र क्रियायाः साध्यत्वं स्वस्मिन् कारकाणामन्वयः स्वस्य वा कारकत्वेनान्यान्वयित्वाभावः। घावतीत्यस्याः साधनत्वं तुकारकत्वेनान्यस्मिन्स्वस्यान्वयः । इत्वं च पचति भवतीत्यत्राप्येककर्तृका वर्तमाना या पचिक्रिया एकतस्कतका वर्तमाना भवनक्रियेति बोधात्तत्राप्यूह्यम् ।एवं च पश्यमृगो धावतीत्यादौ एकमृगाभिन्नायिका या वर्तमाना धावनक्रिया तद्विषयकं यदिष्टसाधनीभूतं दर्शनं तदनुकूला भावनेति बोधः । अयाख्यातान्तवाच्यस्य भावस्यासत्त्वावस्थापन्नतति सिद्धान्तः । तत्कथङ्कर्मीभूता आख्यातस्थलेर्थः । उक्तं हि वाक्यपदीये ॥ अ. सत्चभूतो भावश्च तिड्पदैराभिधीयते, इति चेत् । मैवम् । करणत्वादिनान्यानन्वपित्वं लिङ्गानन्वयित्वं वा तदिति भावात्। एतदन्यादृशत्वं द्रव्यत्वमित्याहुः । तत्त्वं पुनरनुपदं वक्ष्यामः । पश्य मृगो धावतीत्यादौ वाक्यार्थभूतापि क्रिया क्रियान्वरं प्रति
Page #83
--------------------------------------------------------------------------
________________
धात्वनिर्णयः। कर्तृत्वकर्मत्वाभ्यां खाभाव्यादन्वेतीति हि निर्णीतं सरूपसूत्रे सार्वधातुकेयगिति सूत्रे च भाष्यादौ । धादिषु । पाक इ. त्यादौ । अत्र भागाभ्याम् । प्रकृतिप्रत्ययभागाभ्याम् । तत्र प्रकृत्याः सन्त्वरूपाया एवोपस्थितिः । न चात्र मानाभावः ।
ओदनस्य पाक इत्यादिकर्तृकर्मप्रत्ययानां मानत्वात् । अन्यथा विना क्रियां कारकाणामनन्वयेन तद्वाचकप्रत्ययासम्भवात् । न चाध्याहृततिङन्तार्थक्रियायामेव कारकान्वयः कर्तृकर्मणोः कृतीति कुद्योगषष्ठयभावापत्तेः, नलोकाव्ययनिछाखलर्थतनामिति निषेधेनाध्याहृतक्रियान्वये षष्ठयसम्भवाच । ओदनपाक इत्यादिषष्ठीसमासानापत्तश्च । कुद्योगा च षष्ठी समस्यतइति पाक्यविहितस्यापि षष्ठयसम्भवात्षष्ठयन्तस्य उत्तरपदार्थेनानन्वये भार्या राज्ञः पुत्रो देवदत्तस्येत्यादाविवासामर्थ्याच्चासम्भवात् । समर्थः पदविधिरिति परिभाषणात् । विषेर्वस्त्रकृतिरित्यादौ सावकाशत्वेनानर्थक्यस्याप्यभावात् । न चौदनस्य पाक इत्यादिशेषषष्ठयैव भवेत् । समासोपि तयैवास्त्विति वाच्यम् । नलपाकः शुण्ठीपाक इत्यादिषु कर्तृत्वादिप्रकारकबो. धानुभवानापत्तेः । आश्चर्य गवां दोहो ऽगोपेनेत्यादेसिद्धया. पत्तेश्च । उभयप्राप्तीकर्मणीत्यस्य कर्तृकर्मणोः कृतीति प्राप्तनियमार्थत्वात् । अनन्तरस्यति न्यायात् । उभयपदलिङ्गाच्च । शेषषष्ठयाः सर्वत्राविशेषात् । किं च । शेषषष्ठयैव निर्वाहाभ्युपगमे कर्तृकर्मणोः कृतीति विधिवैयर्थ्यं स्यात् । गतिकारको पपदाकदित्यादिविहितस्वरलाभार्थ तदारम्भ इति चे, चोदनस्य पाक इत्यादावपि स्वरार्थ कारकषष्ठयभ्युपगमो दुर्वारः । एवं रीत्या काष्ठैः पाक इत्यत्रापीष्टापत्तिरेव । एवं चोक्तपूर्वपक्षे इष्टापत्तिरिति भावः । अनया च रीत्या फलमप्यसत्त्वाव
Page #84
--------------------------------------------------------------------------
________________
७६
वैयाकरणभूषणे स्थापनमेवोच्यते धातुना । अन्यथा शोभनं पचति स्तोकं पचतीतिवच्छोभनं पाक इत्यनापत्तेः । धात्वर्थे साध्यत्वेनोपस्थिते सामानाधिकरण्येनान्वयएव नियमस्तत्र द्वितीया स्यानान्यथा । नन्वेवं द्वितीयां बाधित्वा कर्तृकर्मणोः कृतीति षष्ठी स्यादिति चे, मात्र कर्मणि द्वितीया किं तु विशेषणविभक्तिवदभेदार्था साधुत्वमात्रार्था वा । तत्र स्तोकं पचतीत्यादौ क्लसत्वादन्यस्या ऽनभिधानाच्च द्वितीयैव कल्प्यते । अत एव स्तोकार्थों विना भावनां फलएवान्वेति । कारकत्वे तदसम्भवात् । भवतु वा कर्मत्वमर्थः । अस्तु च षष्ठी । अत एव यत्र करणतया धात्वर्थान्वयस्तत्र सामानाधिकरण्येनान्वये तृतीयैव ज्योतिष्टोमेन यजेतेत्यादौ । इयान्वरं भेदः । फलांशे साध्यत्वेमसत्त्वं च लिङ्गानन्वयित्वमात्रम् । क्रियायां तु करणत्वादिनानन्वयित्वमपीति दिक् ॥ १४ ॥
एतदेव स्पष्टयति ॥ साध्यत्वेन क्रिया तत्र धातुरूपनिबन्धना। सिद्धभावस्तु यस्तस्याः स घनादिनिबन्धनः १५
तत्र, घनाद्यन्ते । अत्र प्रतीयतइति शेषः । बोधकमाह । धातुरूपति । क्रियति फलव्यापारोभयसाधारण्येन. साध्यत्वान्वयाय साधारणशब्देन निर्देशः । तान्त्रिकैरनेनोभयोर्व्यवडूियमाणत्वात् । सिद्धभावास्त्विति । न च घत्रादिभिर्व्यापारफलयोः सिद्धत्वेन बोधने मानाभावः । पाकपदात्तथाप्रतीतेरेष मानत्वात् । अन्यथा फलानुत्पाददशायां व्यापाराभिमायण पाको भवति नष्टो वेत्यादिक्रियान्तराकांक्षानापत्तेः । स्तोकः पाक इत्यनापत्तेश्च । तस्मादात्वर्थफलान्वये स्तोकादिशब्देभ्यो द्वि
Page #85
--------------------------------------------------------------------------
________________
धात्वनिर्णयः ।
'तीया नपुंसकलिङ्गता च । धात्वर्थभावनायामन्वये ज्योतिष्टोमेन भक्तिपूर्व यजेतेतिवत्प्रथमासम्भवेपि नपुंसकलिङ्गमात्रम् । सामान्ये नपुंसकमित्यस्य दुर्वारत्वात् । घवर्थान्वये तु प्रथमा पुलिङ्गता चेति तद्विभागाय शक्तयन्तरमावश्यकमिति भावः । एतदभिप्रायेणैव कृदभिहितो भावो द्रव्यवत्प्रकाशतइति भाष्यम् । तथा च न भाष्यविरोध इति भावः । उक्तं च वाक्यपदीये, "क्रियायाः सिद्धतावस्था साध्यावस्था च कीर्त्तिता । सिद्धतां द्रव्यमिच्छन्ति तत्रैवेच्छन्ति घन्विधि" मिति । एतेन सङ्ख्यावर्तमानत्वाद्यबोधकानां घनादीनां प्रयोगसाधुतामात्रमिति नैया - यिकनबीनोक्तमपास्तम् । स्तोकः पाक इति सिद्धये तस्यापि शक्तिकल्पनावश्यकत्वात् । यच्च पाक इत्यादिघञन्तशक्त्योपस्थितेन्वये स्तोकः पाक इति । तन्न । समुदायशक्तावुभयोरानुपूर्व्याः शक्ततावच्छेदकत्वापत्तौ गौरवात् । लाघवादनुशासनाच्चास्मदुक्तस्यैव युक्तत्वाच्चेति । ननु साध्यत्वं लिङ्गाद्यनन्वयित्वं तदन्वयित्वं सिद्धत्वम् । तत् त्वदुक्तरीत्यैकस्यां विरुद्धं कथं धातुघञ्स्थले भवेदिति चे, न ब्रूमस्तस्यां लिङ्गाद्यनन्वयम् । किं तु धातूपस्थाप्यायां तदन्वयो न घनाद्युपस्थाप्ये तु स इति । अत एव भावनाशब्दोपस्थाप्ये तदन्वयः सर्वसिद्धः । अत एवं भटपादैरुक्तम् । “ यादृशो भावनाख्याते घात्वर्थश्चापि यादृशः । नासौ तेनैव रूपेण कथ्यते ऽन्यैः पदैः कचि" दिति । वस्तुतस्तु साध्यत्वं च लिङ्गाद्यनन्वायत्वमत्र सम्मतं साध्यत्वेन क्रिया तत्यादौ तृतीया तस्य प्रतीयमानत्वप्रदर्शनात् । " यावत्सिद्धसिद्धं वा साध्यत्वेनाभिधीयत" इति वाक्यपदीये, “यादृशी "भावने" ति भट्टकारिकायां वाच्यत्वेन प्रदर्शनाच्च । नहि लिङ्गानन्वयित्वं वाच्यं प्रतीयते वा किं तु तदन्वयहेत्वभावादार्थिक
Page #86
--------------------------------------------------------------------------
________________
७८
वैयाकरणभूषणे म् । यच्च भाष्ये क्रियया क्रिया समवायं न गच्छतीत्यादिना क्रियान्तरसाधनस्वेनानन्वयित्वं साध्यत्वमुक्तम् । साधनत्वेनेत्युपादानात्पस्क्वा गच्छतीत्यादौ सामानाधिकरण्योत्तरकालमादसम्बन्धेनान्वयोप न क्षति रिति। तन्न। कृष्णं नमेच्चत्सुखं यायादित्यादिहेतुहेतुमतोलिङि भुक्त्वा तृप्यति मानिनी, नत्वा मण्डयति स्तुत्वा मादयतीत्यादौ च भोजनादिजन्यवृप्तिबोधाच क्रिययोः साध्यसाधनभावेनान्वयादव्याः । पश्य मृगोधावति पचति भवः ती त्यादौ कर्तृत्वकर्मत्वेनाप्यन्वयाच्च । असाधनस्य कारकत्वानुपपत्तेः । यन्तु घटो भवति घटं करोतीत्यादावसिद्धस्यापि कर्टत्वकर्मत्वदर्शनादसतः साधनत्वस्य चासम्भवान्मुख्यं साधनत्वं करणादरेवे असिद्धस्य करणत्वाघदर्शनात् । कर्तृकर्मणोस्तुक चिन्मुख्यं क चिद् बुद्धिपरिकल्पितसिद्धत्वमादाय गौणं साधनत्वम् । तथा च भाष्ये कारकान्तर्गतमुख्यसाधनत्वपरिग्रहात्करणादिकारकत्वेनानन्वयित्वं विवक्षितमिति नोक्तदोषाघकाशः । नहि परकीयपाकक्रियाचातुर्य दृष्ट्वा. म. सरिणः पाकेन वैरं कृतं पाकाय कालो नीत इत्यादिप्रयोगवत्पचति वैरं कृतमित्यादि प्रयुञ्जतीति कैयटे ध्वनितम् । तदपि भाष्योक्तलिङ्गानन्वयित्वपक्षवदुक्तवाक्यपदीयाद्युक्तवाच्यत्वप्रतीयमानत्वयोः पथं नावतरति । एतेन भाष्ये अन्वय आकांक्षारूपो विवक्षितः । सोपि शब्दान्तरसमभिव्याहारभावप्रयुक्तः । तथा च शब्दान्तरसमभिव्याहाराभावे सत्सपि स्वसाध्यक्रिया न्तराकांक्षोत्थापकज्ञानविषयत्वं सिद्धत्वम् । तादृशाकांक्षानुत्थापकज्ञानविषयत्वं साध्यत्वम् । भवति च पाक इत्यादिश्रवणे धात्वर्थयार्थक्रिययोरभेदान्वये सत्यपि कर्त्तव्यो वा नाशनीयो का तिष्ठति वा जायते वा नश्यति चेत्यादिपावसाध्यक्रियान्त
Page #87
--------------------------------------------------------------------------
________________
धात्वनिर्णयः। राकांक्षा न तु पचतीत्यादौ पचति भवतीत्यादौ च भवतिक्रियायाः कर्बपेक्षत्वाद्योग्यतापशादन्यतराकांक्षयैवान्वयबोधः । यः कृष्णं नमेदित्यादौ तु यच्छन्दचेच्छब्दादिसमभिव्याहारमयुक्तमेवाकांक्षोत्थानम् । अन्यथा कृष्णं नमेदित्यत्रापि स्यात् । एवं भुक्त्वेत्यत्रापि किमित्यादिक्रियान्तराकांक्षा धातुसम्बन्धार्थकक्वादियोगमयुक्ता न तु धातूपस्थापननिबन्धना । पचतीत्य.. त्राप्यापत्तेः । न चैवं घबादिसमभिव्याहारप्रयुका धात्वर्थस्यैव पाक इत्यत्राप्याकांक्षा स्यादिति वाच्यम् । घनादेः स्वातन्ये. ण भावनावाचकताया व्यवस्थापितत्वेन स्वार्थान्वयाकांक्षयैवो. पपत्तौ तथा कल्पने गौरवप्रसङ्गात् । क्त्वादीनां तु न तद्वाचकत्वे मानमस्तीति वक्ष्याम इत्यपास्तम् । अस्यापि लक्षणमात्र. त्वेपि वाच्यत्वप्रतीयमानन्त्वयोरभावात् । किं च धातूपस्थाप्यभावनायाः करणत्वादिना नान्वयः क्रियान्तराकांक्षानुत्थापकता चा कुत इति विभाव्यताम् । धातूपस्थापननिबन्धन एवेति चेन्न। साध्यत्वेनाभिधानविळयापत्तेः । साध्यत्वेनोपस्थापननिमित्त इति चेत्तर्हि तथान्वयविरोधि स्वतन्त्रमेव किञ्चित् रूपं वक्त. व्यम् । तदेव साध्यत्वं भाष्यादिग्रन्थाभिप्रेतमिति प्रतीमः । तचोत्पाबत्वमेव । तथा च पचति गच्छतीत्यादौ विक्लिन्त्यनुकूलयत्नादिकमुत्पादयति, उत्तरसंयोगानुकूलक्रियामुत्पादयति इ. त्याधुत्पाद्यत्वं प्रतीयते । एतदेव च कारकान्वयितावच्छेदकम् । अत एव पचतीत्येवोक्ते केन कस्मात् कस्मै कुत्र किमित्याचाकांक्षा तत्समर्पककारकाणां तस्यामेवान्वयश्च सङ्गच्छते। उत्पत्तिमन्त्वेनोपस्थितस्यैव कारकाकांक्षत्वात् । तस्याः स्वयमुत्पाद्यत. यावगमेनासिद्धत्वादन्यक्रियासाधनत्वेनानन्वयश्च भाष्योक्तो युज्यते सिदस्यैव क्रियासाधनत्वात् । नन्वेवं पचति भवतीत्य
Page #88
--------------------------------------------------------------------------
________________
वैयाकरणभूषणे पि न स्यादिति चेन्न । उत्पद्यमानस्यासिद्धस्यैव सर्वत्र भवन कर्तृत्वदर्शनेन तस्यात्रानुकूलत्वात् । अत एव पचति नश्यती. त्यादि न भवति । उक्तं च कैयटेन, "भवतिक्रियापेक्षमेव तस्याः करीत्वं सर्वश्चार्थः स्वेन रूपेण भवतीति भवने कर्तृत्वमुपपन्नमेवे"ति । न चैवमप्यसिद्धस्य दर्शनकर्मत्वासम्भवात्पश्य मृगोधावतीत्यत्र वाक्यार्थक्रियायाः कर्मता न स्यादिति वाच्यम् । नाहि क्रियासमूहो दर्शनकर्म । पिण्डीभूता न निदर्शयितुं शक्येति भाष्यविरोधात् । किं त्ववयवशः । ते तु यथासम्भवं सिद्धा एव कर्म भवन्ति । उक्तं च वाक्यपदीये । तत्र यं प्रति साध्य त्वमसिद्धा तं प्रति क्रिया । सिद्धा तु यस्मिन्साध्यत्वं न तमेव पुनः प्रति ॥ मृगो धावति पश्येति साध्यसाधनरूपतेति । समुदाये कारकान्वयोपयोग्यसिद्धत्वं, प्रत्येकं दर्शनोपयोगि सिद्धत्व. मस्तीत्यर्थः । नन्वेवं यः कृष्णं नमेत्स सुखं यायात् भुक्त्वा तृ. प्यतीत्यादौ नमनभोजनादिक्रियायाः सुखप्राप्तितृप्तिक्रियासापनत्वेनान्वयो न स्यादिति चेन्न । शाब्दं प्राधान्यमादाय वि. शेषणान्वयस्यौत्सर्गिकत्वेपि क्व चिदश्धेन जिगमिषतीत्यादावार्थिकमाधान्यमादाय कारकान्वयवद्यच्छब्दोपस्थाप्योद्देश्यतावशादार्थिकं सिद्धत्वमादाय लिङर्थसाधनत्वान्वयसम्भवात् । एतद्वोधनायैव यच्छब्दादिप्रयोगनैयत्यं तं विना बोधाभावश्च सङ्गच्छते । भुक्त्वेत्यादावपि क्त्वादिद्योत्यधात्वन्तरसम्बन्धस्य पूर्वोत्तरकालादेश्चानुरोधादार्थिकसिद्धत्वमादायैव साधनत्वबोधः । असिद्धस्य पूर्ववृत्तित्वासम्भवात् । भोजनक्रियामुत्पाद्य तृप्यतीति बोधात्तात्पर्यमर्यादया तद्बोधसम्भवात् । क्त्वादौ कि. यान्तराकांक्षोत्थानमप्येतन्मूलकमेवेत्युक्तमायम् । तस्मादुत्पाथत्वमेव करणादिकारकत्वेनानन्वयितावच्छेदकं क्रियान्तराका
Page #89
--------------------------------------------------------------------------
________________
पात्पर्यनिर्णया।
सानुत्यापकतावच्छेदकं च । तत्पतीतिश्चोदाहृतवाक्यपदीय भट्टपादकारिकोदाहृतानुभवादगीकार्या । तथा च क्रियातराकांक्षानुत्थापकतावच्छेदकरूपवत्वं वा कारकान्वयितावच्छेदकरूपवत्वं वा असत्वभूतत्वम् । क्रियान्तराकांक्षोत्थापकतावच्छेदकरूपवत्त्वं वा कारकानन्वयितावच्छेदकरूपवत्वं वा सत्वरूपत्वम् । एवं चासत्वभूता साध्यावस्थेत्यादयो व्यवहारा: प्रसिद्धार्थी एव परन्तु धावतीत्यादौ सिद्धत्वं पश्येत्याखालोचनेन प्रागुक्तरीत्यैवेति मुधीभिरुह्यम् ॥ १५॥ __नन्वस्तु धात्वर्थे एव कारकाणामन्वयो न तु भावनायामेवेति नियमस्तथा च न तदनुरोधेन भावनाया वाच्यत्वं घबादौ सिध्यतीत्याशङ्कां निरसितुमाह ॥ सम्बोधनान्तं कृत्वोर्थाः कारकं प्रथमो वतिः। धातुसम्बन्धाधिकारनिष्पन्नमसमस्तनम् ॥१६॥
सम्बोधनान्तस्य क्रियायामन्वयः। तथा च समर्थसूत्रे वा. तिकम् । एकतिङ् वाक्यामिति । अत्र भाष्यम् । ब्रूहिब्रूहि देवदत्तेति । अत्र वाक्यत्वादामन्त्रितनिघातः सिध्यतीति कैयरः। समानवाक्ये निघातयुष्मदस्मदादेशा इत्यनेन समानवाक्ये एव तद्विधानात् । उक्तं च वाक्यपदीये । सम्बोधनपदं यच्च तत् क्रियाया विशेषणम् । व्रजानि देवदत्तेति निघातोत्र तथा सतीति ॥ के चिन्तु न्यायसिद्धोयमर्थः । तथाहि । सम्बोधनविभक्तेरनुवाद्यविषयत्वादनुवाद्यस्य विधेयसाकांक्षत्वाद्विधेयस्य च क्रियारूपत्वात् क्रियान्वयोर्थायातः । हे देवदत्त त्वं सुन्दर इत्यादौ गुणापि विधेय इति चेत्तथापि क्रियाकांक्षाशान्तये तदध्याहारावश्यकत्वेन तदन्वयसम्भवादित्याहुः । इदं च वार्स
Page #90
--------------------------------------------------------------------------
________________
८१
वैयाकरणभूषणे
करीत्या | भाष्यकारानुयायिमस्तु पचति भवतीतस्व शय्यन्ते हतशायिकाः, पश्य मृगो धावती, त्यादावेकसिङभावात्कथमेकवाक्यता कथं वा तिङतिङ इति सूत्रे अतिङन्तात्परस्य पर्युदासः । तिङन्तात्परस्य तिङन्तस्य वाक्यान्तरप्रविष्टतया निघाताप्रवृत्तेः । उक्तं हि वाक्यपदीये । बहुष्वपि तिङन्तेषु साकांक्षेष्वेकवाक्यता । तिङन्तेभ्यो निघातस्य पर्युदासस्तथार्थ - वानिति । तस्मादेकतिविशेष्यकं वाक्यमिति वार्त्तिकमतमभ्युपेयम् । तत्रैकविशेष्यकं वाक्यमित्येवास्तु । तथा च यत्र न निघातस्तत्र तिङ विनाप्युपपत्तेर्न तदध्याहारो युक्तः । अत एव प्रकृतिसिद्धमिदं हि महात्मनामिति शुद्धसुबन्तम् । पचति भवतीिति शुद्धतिङन्तम् । ज्योतिष्टोमेन स्वर्गकाम इति तदुभयसमुदायरूपमिति तत्त्रैविध्यं सङ्गच्छतइति हि वदन्ति । कृत्वोर्थाः । क्रियाभ्यावृतिगणने कृत्वसच इत्यनेन क्रियायोगएव तत्साधुत्वावगमात् । तथा सकृत्पचति द्विः पचतीत्यादि । अत एव
घटवत्यादिवद् द्विर्घट इत्यादिकं न भवति । कारकम् । कारके | इत्यधिकृत्य तेषां प्रक्रान्तत्वात् । तत्र च करोतीति कारकमिति योगाश्रयणात्क्रियानन्वयिनो न कारकत्वम् । अत एव ब्राह्मणस्य पुत्रं कृष्णं पृच्छतीत्यत्र ब्राह्मणस्य न कारकत्वमिति स्पशृमाकरे । यद्वा कारकशब्दः क्रियावचनः करोति कर्तृकर्मादिव्यपदेशानिति व्युत्पत्तेः । तथा चाग्रिमेष्वपादानादिसंज्ञाविधिषु क्रियार्यककारकशब्दानुवृत्या क्रियान्वायनामेव संज्ञेति भाव्यादौ स्पष्टम् | प्रथमो वतिः । तेन तुल्यं क्रिया चेद्वतिरित्यनेन विहितः । तत्र यतुल्यं सा क्रिया चेदित्युक्तत्वात् । यथा देवद
पतीत्यादि । एवं च चैत्रवरसुन्दर इत्यादौ भवतीत्याद्यध्याहार्यम् । अन्यथा सूत्रे क्रिया चेदित्यनर्थकमेव स्यात् । पा
Page #91
--------------------------------------------------------------------------
________________
भावनिर्णयः ।
सम्बन्धाधिकारे । धातुसम्बन्धेप्रत्यया इत्यधिकृत्य तेषां विहितत्वात् । यथा भोक्तुं पचतीति । पातुं जकमित्यादौ चानेयमित्याद्यध्याहार्यमेवेत्युक्तप्रायम् । असमस्तनम् । अयं भावः । न त्वं पचसि न युवां पचथः चैत्रो न पचति घटो न जायते इत्यादौ क्रियाया एव निषेधो नया बोध्यते । अत एव विधमानेपि घटे तथा प्रयोगः । तथा च घटो नास्तीत्यादावप्यस्तिस्वाभाव एव बोध्यते । तथा च प्रकारतासम्बन्धेन मयर्थविशेouकबोधे भावनोपस्थितिर्हेतुरिति कार्यकारणभावः । तथा च भूतळे न घट इत्यत्राप्यस्तीत्यध्याहृतक्रियायामेवान्वयः । न तु भूतळाधेयत्वाभाववान्घट इति बोधः । कारकाणां क्रियातिरिक्ते ऽन्वयाभावात् । अत एव अहं नास्मि घटो नास्तीत्यादौ पुरुषव्यवस्था घटा न सन्ति घटौ न स्त इत्यादौ वचननियमचोपपद्यते । युष्मदादेस्तिसामानाधिकरण्यात् । घटाभावस्तीत्यन्वये च स न स्यात् । अत एव सुडनपुंसकस्येत्यत्र नपुंसकस्प नेत्यर्थे न हि नपुंसकेन सामर्थ्य, केन तर्हि, भवतिना । इदं च परैरप्यङ्गीकर्त्तव्यं प्रसव्यपर्युदासयोर्भेदार्थमिति भाष्ये सङ्गच्छतइति । समासे त्वब्राह्मण इतिवद्भवति क्रियायोगं विनापि सात्वमतो ऽसमस्तेति । समासायोग्य इत्यर्थः । प्रसज्यप्रतिषेने इति यावत् । एतेन यजतिषु ये यजामहं करोति नानुयाजेष्टित्यत्र प्रसज्यप्रतिषेधः पर्युदासो वेति संशये अनुपात्तशब्दसम्मन्धे समासापत्तिः । वावचनानर्थक्यं मन्यमानो वार्त्तिककारो न समासादेर्नित्यतां विग्रहेण सह भिन्नार्थतां च मेने । सति हि वाक्यसमासयोरेकार्थ्यं समासनियमाद्वाक्यं निवर्तेतेति तदर्थं विभाषेति सूत्रं कार्य स्यादेव । तस्मादनुयाजपदान्वये सामर्थ्याविद्यातात्समासापत्तिरिति न पर्युदास इति
Page #92
--------------------------------------------------------------------------
________________
वैयाकरणभपणे प्राप्त. ब्रूमः । प्रतिषेधस्य प्राप्तिपूर्वकतानियमात्मामेष यजतिषु ये यजामहमिति शास्त्रादन्यतोसम्भवाच्छास्त्रीयविहितमतिषिदत्वाद्विकल्पापल्या पर्युदास एव । तत्र सामथ्र्यसस्वेपि विभाषाध्ययनान समासः । तच्चावश्यकं वाक्यसमासयोरैकार्थ्यात्समासनियमप्रयुक्तवाक्यनिवृत्तिवारणाय । यद्यपि समासे राजपदं. विशेषणान्वयासहिष्णुवाक्ये तु सहिष्णु इत्यस्ति विशेषस्तथाप्यर्थावलक्षण्यमेव । अन्यथा विभाषावपनात्मागविहितेनोपकुम्भादिसमासेनापि वाक्यानिवृत्तिप्रसाः। उपपदसमासेन च कुम्भकारादिना । न चैवमिष्टम् । तस्मादनर्थकं तदानर्थक्यवच इति वाधलक्षणे सिद्धान्तितत्वानासमस्तनमः क्रियान्वयनियमः । यद्यप्यत्र वावचनानर्थक्यं स्वभा. पसिदत्वादिति वदन्वार्तिककारो न समासनित्यतां मेने । एकार्थीभावसामर्थे समासो व्यपेक्षायांच नेति भाष्यपर्यालोचनया तदर्थलाभात् । एतनियमार्थमेव समर्थसूत्रारम्भः । अन्यथा म्यर्थताया भाष्यएव स्पष्टत्वात् । तस्मात्प्रकारान्तरेण विकल्पसिद्धेयर्थः सूत्रारम्भ इत्यभिप्रायः । एवमुपकुम्भादावबोधकत्वादेव वाक्यस्यासाधुत्वम् । तस्माद्धेतोः ब्रूमो ऽगमकत्वादिति न बमो ऽपशब्दः स्यादिति भाष्यकैयटाभ्यां तथा लाभात् । व्युत्पादयिष्यते चैतदुपरिष्टादितीदमसङ्गतम् । तथाप्यसमस्तनः क्रियायामनन्वयः सिद्ध एवेति निरस्तम् । तस्माद्वायौ रूपं नास्तीत्यादिप्रसज्यप्रतिषेधस्थळे रूपप्रतियोगिकाभावादिवर्णनं न युक्तम् । अपर्युदासस्थले क्रियान्वयनियमस्योक्तभाण्यादावश्यकत्वादिति भावो द्रष्टव्य इति दिक् ॥ १६ ॥ ; तथा यस्य.च.भावेन षष्ठी चेत्युदितं दयम् ।
Page #93
--------------------------------------------------------------------------
________________
धारवर्षानर्णयः ।
Lek
साधुत्वमष्टकस्यास्य क्रिययैवावधार्यताम् ||१७||
यस्य चेत्येकदेशेन यस्यचभावेनभावलक्षणमिति सूत्रं लक्ष्यते । तत्र भावेनेत्युक्तत्वाद्भावस्य च क्रियात्मकत्वाक्रियायोगं बिना न साधुत्वमित्यर्थः । यथा गोषु दुह्यमानासु गत इति । षष्ठी चेत्यत्रापि षष्ठीचानादरइति सूत्रं लक्ष्यते । अत्रापि चकारात्पूर्वसूत्रस्थं भावेनेत्यायातीत्यर्थः । यथा रुदति रुदतो वा प्रावाजीदिति । साधुत्वमिति । एतत्स्वरूपं त्वसाधुरनुमानेनेत्यत्र वक्ष्यामः । क्रिययैत्रेत्येवकारो ऽयोगव्यवच्छेदार्थः । तथा चैतदष्टकस्य क्रियायोगएव साधुत्वं नान्यथेत्यर्थः । ननु क्रियाशब्दस्य धात्वर्थमात्रे प्रसिद्धेः फलयोगे भवतु साधुत्वलाभः न तु भावनान्वयनियमो लभ्यतइति न तदनुरोधेन पाक इत्यभावनावाच्यत्वं सिध्यतीति चेन्न । भूवादिसूत्रादौ क्रियाशव्दस्य भावनायामेव मसिद्धेः साङ्केतिकी तस्याः शक्तिः फले तु क्रियते इति यौगिकः प्रयोगः । तथा च नावमिकाधिकरणन्यायेनं भावनान्वयएव साधुत्वाख्यानं लभ्यते । रथन्तरं हि यद्यन्यां तदुत्तरयोगयतीति वचनाद्रथन्तरयोनेः परतो बृहद्योनेः पठितत्वात्तस्यां गेयमुतोत्तराग्रन्थे न त्वानां अन्य इत्यस्याः पठितत्वाचस्यामिति संशये विशेषाभावादनियमं प्रापय्योत्तरां ग्रन्थे संज्ञारूपेण प्रसिद्धिः संज्ञाशब्दश्चानपेक्षमवृत्तिर्बलवानिति तत्रैव ग्रेयमित्यूहलक्षणे निरूपितम् । किं च । फलांशोपि भावनायां विशेषणं कारकाण्यपि क्व चित्तथाभूतान्येवेति गुणानां च परार्थत्वादसम्बन्धः समत्वात्स्यादिति न्यायेन भावनामेव विशेष्यतयाङ्गीकुर्वते न गुणभूतं फलांशमिति न तत्रान्वयः । अपि ऋ । कारकाणां चित्यपरन्तत्राणां विशेष्याकांक्षायां धात्वर्थक
Page #94
--------------------------------------------------------------------------
________________
वैयाकरणभूषणे छांशस्य तथान्वययोग्यतायामपि तस्यापि परतन्यस्य विशेष्याकांक्षापूरणसमर्थायां भावनायामेव विशेषातिदेशाध्यायाधिकरणन्यायेनान्वयः। नहि भिक्षुको भिक्षुकान्तरं याचितुमईति सत्यन्यस्मिन्नभिक्षुके इति न्याये ह्याकांक्षाशामकत्वक्सतिरेव बीजम् । ततुल्यमत्रापि । एवं च विशेष्यतासम्बन्धेन कारकप्रकारकशाब्दबोधं प्रति धातुजन्यभावनोपस्थितिः कारणमिति का. र्यकारणभावस्य क्लप्सत्वायत्रापि पक्ता पाचक इत्यादी भावना गुणभूता तत्रापि क्लुप्तकार्यकारणभावानुरोधात्तस्यामेचान्वय: करप्यतइति न फळांशे तदन्वयः । फलांशोपस्थितिरेवास्तु कार
काष्ठेनोदनस्य पक्तेत्यादौ क्लुप्तत्वादिति चेन्न । कारकीभूतधात्वर्थस्य भावनायामनन्वयापत्तेः । नहि स्वयमेव स्वकारकम् । विधिवाक्ये धात्वर्थफलांशस्य करणतयान्वयेन तत्र कारकान्वये वाजपेयाधिकरणभापत्या करणान्तरोपसंग्रहेण प्रयोगविघरबोधकतापचेश्च । क्रियान्वयित्वं विना कारकत्वस्यैव दु. पंचत्वाच्च । फलान्वयित्वस्य तत्रैवाव्यानरयोगादित्यादि कारकार्थनिर्णये वक्ष्यते । तस्मात् पाक इत्यादावोदनस्येत्यादिकारकान्वयाय भावनाया वाच्यत्वमावश्यकमिति सिद्धम् । के चित्तु भूतले घटा देवदत्तो घटदेवदत्तेनौदन इत्यादौ क्रियावाचकतत्तत्पदं विना शाब्दबोधस्याकांक्षानिवृत्तेश्चादर्शनानक्रियायोगं विनासाधुत्वम्। न च क्रियारूषार्थाध्याहारेणापि शाब्दबोधाकांक्षानिवृत्त्योः सम्भवान तद्वाचकपदभयोगावश्यकत्वम् । पदजन्यपदार्थोपस्थिसेरेव शाब्दबोधोपयोगित्वात् । पदानां सम्भूयान्वयबोधकत्वव्युत्पत्तेश्चेत्याहुः । एतन्मते पाका सुन्दर इत्यादावयाकांक्षास. स्वाक्रियायोग-विना असाधुतापत्तेः । इष्टापचिर्भाष्यविरुद्धति सहिदां पटर। फलशान्वयलामेनोपपत्तौ भावनान्वयागी
Page #95
--------------------------------------------------------------------------
________________
घास्वनिर्णयः। इति तु चिन्त्यम् ।। १७॥.. ............ .. ____ यसु भूतले न घट इत्यत्र भूतलाधेयत्वाभाववान्घट इति बोधान्न क्रियाध्याहारापेक्षा । एवं पर्वतो वन्हिमान् भवितुमई. ति धूमात् महानसवदिति वेदान्तिकृतप्रयोगे प्रतिज्ञायां क्रिया'पदप्रयोगो पृथेति क्य चिचर्के क्षितम् । तदनूध दूषयति ॥ यदि पक्षेपि वत्यर्थः कारकं च नादिषु ।
अन्वेति त्यज्यतां तर्हि चतुर्थ्या स्पृहिकल्पना॥१०॥ __ आदिना सप्तम्यादेर्घटादावन्वयो गृह्यते । अत एव भूतले घट इत्यत्र भूतलाधेयो घट इति नैयायिका व्याकुर्वते । चतुर्थ्या स्पृहिकल्पना त्यज्यतामित्यन्वयः ॥ पुष्येभ्य इति चतुर्थी श्रुतायां स्पृहयतीत्यध्याव्हियते । न पदान्तरमर्थमात्रं चेति त्यज्यतामित्यर्थः । विधायकनियमस्तु समान एवेति भावः ॥१९॥ - एवं कर्तरि विहितानामित्यादीनां किययैषान्वय इत्याह ।।
अविग्रहा गतादिस्था यथा प्रामादिकर्मभिः । क्रिया सम्बध्यते तद्वत्कृतपूर्व्यादिषु स्थिता १९ .
न विविच्य ग्रहो ग्रहणं यस्याः सा तया । गत इत्यादावविग्रहापि क्रिया प्रामादिकर्मभिर्यया सम्बध्यते तथा कृतपूर्ध्यादिष्वपीत्यर्थः । ननु वृत्रेकार्थीभावरूपत्वागत इत्यादी पदाएँकदेशे कृतौ कयं ग्रामाचन्वय इति चेन्न । देवदत्तस्य गुरुकुलमित्यादावन्वयाप समासे वक्ष्यमाणरीत्योपपत्र के चिकनुकरणेताबहुलं द्वितीयाश्रितातीवेत्यादिज्ञापकान दोष इत्याहुः । संत्रा एकदेशान्वयस्थले च शान्दबोधोपयुक्ताकांक्षाविरहो पीज शहाया। बचनपलाच तदुदाराभावात् । कवपूर्षी कमिस्व
Page #96
--------------------------------------------------------------------------
________________
वैपाकरणभूषणे. ककटाभिनायिका योत्पत्तिस्तदनुकूलव्यापारवानिति पो. धः । तस्मात्पाक इत्यादौ धात्वंशार्थमादाय कर्मकरणादिवि. भक्तिवत्कृतपूर्वी कटमित्यादावपि कर्ताधर्थकाः प्रत्यया इति स्थितम् ॥ १९॥ __ अथ यदि घमादिप्रकृत्युपस्थाप्यक्रियामादाय प्रत्ययस्तुमुनादिस्तकः पाकः द्वौ त्रयश्चत्वारो वेत्यादौ द्वित्रिचतुर्य इति सुन्, पञ्चेत्यत्र कृत्वसुच् स्यात् । तुमुनादितुल्यत्वादित्याशंक्य समाधिमाह ॥ कृत्वोर्थाःक्त्वातुमुन् वत्स्युरिति चेत्सन्ति हि कचित् । अतिप्रसङ्गो नोद्भाव्याभिधानस्य समाश्रयात् ॥२०॥
‘क्त्वादयो यथा धात्वंशक्रिया निमित्तीकृत्य जायन्ते भोक्तुं पाक मुक्त्वा गन्तेत्यादौ । तथा कृत्वोर्था अपीति चेदिष्टापत्तिः । द्विवचनमित्यादौ दृष्टत्वात् । सकृत्पाक इत्यादिकं चानभिधानादेव न भवतीत्याह । अतीत्यादि । अभिधानं तत्तत्प्रयोगाः। तथा च यत्र तादृशमर्थमभिधातुं कृत्वोर्थास्समर्थास्तत्र स्युरेव । यथा द्विवचनं द्विरणविधिरित्यादौ । न चैवं प्रकृते, अतो नेत्यर्थः । के नितु क्रियाभ्यावृत्तिगणने कृत्वसुच् इत्यत्र क्रियाग्रहणं व्यर्थ तस्या एवाभ्यावृत्तिसम्भवात् । तथा च व्यर्थ सत्तदेव ज्ञापयति । यदिह सूत्रे साध्यस्वभावैव क्रियोपादीयतइति न दोषस्ताई द्वि. वचनमित्यपि न स्या, त्सत्यम् । द्विवचनेचीति ज्ञापकात्तत्सिदेरित्याहुः। तस्मादातुवाच्या भावनति निर्दोषमिति दिक् ॥२०॥
वस्तुतो धातो वनानभिधायकत्वे आख्यातस्य कर्तुरनभिधायकत्वे चासाधुत्वं स्यादित्याह । भेद्येतीति सम्प्रदायः । वस्तुतस्तु पक्ष्यमाणरीत्या धातोरिवाख्यातस्यापि भावनाबोध
Page #97
--------------------------------------------------------------------------
________________
धात्वर्थनिर्णयः ।
कत्वज्ञानाच्छाब्दबोधदर्शनादाख्यातस्यापि भावनायां शक्तिरि
त्याशङ्कायामाह ॥
भेद्यभेदकसम्बन्धोपाधिभेदानिबन्धनम् ।
साधुत्वं तदभावेपि बोधो नेह निवार्यते ॥ २१ ॥
भेद्यं विशेष्यम् । भेदकं विशेषणम् । तयोर्यः सम्बन्धस्तस्य यो भेदस्तन्निबन्धनं साधुत्वमित्यर्थः । अयं भावः । यस्मिविशेष्ये यादृशविशेषणान्विते यादृगानुपूर्व्या सूत्रवार्त्तिकभाष्यकाराद्यन्यतमेन साधुत्वमुक्तं स शब्दस्तत्र साघुरन्यत्रा - साधुरेव । अत एव दन्त्यमध्यो ऽस्वशब्दो ऽश्वे साधुर्न किं तु दरिद्रे साधुः । एवं तालव्यमध्यो ऽश्वशब्दोश्वे साधुर्न दरिद्रे । एवमाख्यातस्य कर्तुरनभिधायकत्वे धातोश्च भावनानभिषायकत्वेऽसाधुत्वमेव स्यात् । व्याकरणेन तथैव साधुत्वबोधनादिति । एवं चास्तु तिङस्तत्र शक्तिः सर्वे सर्वार्था इत्यस्यैव स्वीकारात् । परं तु तत्रार्थे ऽसाधुत्वं स्यादिति । नन्वेतदर्थस्य जैमिनिप्रभृतिभिराचार्यैः साभिनिवेशमुपपादितत्वात्कथं तद्वचसामसाधुतां ब्रूषे इति चेन्न । तेषामत्र तात्पर्याभावात् । व्याकरणस्य च कोशादिवच्छक्तिपरिच्छेदकत्वात् । तथा च पठन्ति । शक्तिग्रहं व्याकरणोपमान कोशाप्तवाक्याद्वयवहारतश्च । वाक्यस्य शेषाद्विवृत्तेर्वदन्ति सान्निध्यतः सिद्धपदस्य वृद्धा इति ॥ तस्मादेतदर्थे व्याकरणं बलीय इति दर्शनान्तराणां पन्थाः । व्याकरणस्य तचदर्थपुरस्कारेण तेषान्तेषां पदानां साधुत्वबोधनार्थमेव मवृत्तिः । तदुक्तं वाक्यपदीये । साधुत्वज्ञानविषया सैषा व्याकरणस्मृतिः ॥ तथा च श्लोकमध्यस्थव्याकरणपदमर्थसिद्धाकथनं, न तु कोशादिवच्छक्तिग्रहार्थमेवं प्रवृत्तिरस्येत्यादिकः
१२
Page #98
--------------------------------------------------------------------------
________________
वैपाकरणभूषणे सैद्धान्तिकः पन्थाः । नन्वेचंविधः शब्दो पद्यसाधुस्तीतो वो धो न स्यात् । शाब्दबोधे साधुत्वज्ञानस्य कारणत्वात्तदभावनिश्चयस्य प्रतिषन्धकत्वादिति चेन्न । वस्तुतोसाधुत्वपि कारणीभूतसाधुत्वज्ञानसम्भवादित्याभिप्रेत्याह । बोध इति । बोधोस्तु नाम, असाधुत्वं तु स्यादेवेत्यर्थः । अत एव सिद्धे शन्दार्थसम्बन्धे इत्यत्र भाष्यकृतो वदन्ति, "समानायामावगतो साधुभिश्चासाधुभिश्च गम्यागम्योतिवनियमः क्रियत" इति । वस्तुतः साधुत्वज्ञानं न कारणं तदभावनिश्चयश्च न प्रतिबन्धक इत्यसाधुरनुमानेनेत्यत्र वक्ष्यामः । इदं पुनरिहावधेयम् । उक्तरीत्या कर्तुराख्यातार्थत्वे व्याकरणसिद्धान्तसङ्गतावपि दर्शपूर्णमासप्रकरणपठित "नानृतंवददि" तिनिषेधवाक्यस्य क्रत्वर्थ- . त्वं न सिद्धयेत् । तथा च ऋतावपभाषणे क्रतुवैगुण्यनिवारणार्थ प्रायश्चित्तानुष्ठानादिसकलयाजकमीमांसकाादीशष्टाचारविरोधः । तथाहि । नानृतमित्यस्य प्रकरणात्वर्थत्वम् । आख्यातेन कर्तुरुक्तत्वाच्छुत्या च पुरुषार्थत्वम् । तत्र "श्रुतिलिअवाक्यप्रकारणस्थानसमाख्यानां समवाये पारदौर्बल्यमर्यावप्रषांदि" ति न्यायाच्छुतेर्बलवत्त्वात्पुरुषार्थत्वमेव स्यात् । किं च सर्वत्रैव यो यदर्थ प्रवृत्तः सन् निवार्यते स तदर्थमेव प्रतिषिद्धो भवति । आख्यातस्य कर्बर्थत्वे च पदश्रुत्यानृतवदननिषेधः पुरुषार्थ एव स्यादिति नाख्यातार्थः कर्ता । न च कर्तुरवाच्यत्वे लाकर्मणीति सूत्राप्रामाण्यम् । यथा वृद्धिगुणशब्दौ लोकवेदयोरादैजदेडा वाचकत्वेनादृष्टावपि वैयाकरणैः स्वशास्त्रे परिभाषितौ । यथा वासन्नैव लकार उत्पेक्षितस्तथैव कर्वकर्मादिवाचकत्वस्यापि सम्भवात् । यत्र तु न्यायानुगतिस्तत्र लोकवेदयारेपि न तदुक्तार्थपरिग्रहः । न चैतावता स्मृतेरमामा- .
Page #99
--------------------------------------------------------------------------
________________
धात्वनिर्णयः। पम् । अर्थवादवतात्पर्यविषये प्रामाण्यात् । एवं कृत्प्रत्ययस्थले "जजभ्यमानोनुब्रूयान्मयि दक्षकतू" इत्यादौ वाक्यात्पुरुषार्थत्वसिदये कर्नुर्वाच्यत्वमावश्यकमिति नोक्ता प्रतिबन्दिरपीति मी. मांसकानामुत्तरमवशिष्यते । अत्रेदं वक्तव्यम् । कर्तृवाच्यत्वापाच्यत्वाभ्यामुक्तसिद्धान्तसङ्गमस्तस्माच तसिद्धिरित्यन्योन्याअयादसङ्गतमेतत् । किं च । कर्तुराख्यातार्थत्वेषि श्रुतिप्रकरणाभ्यामस्तु ऋतुयुक्तपुरुषधर्मोयं प्रतिषेधः । न च प्रकारणाच्छुतिः कल्प्या तया च विनियोगः कार्यस्तथा च प्रथमत एव श्रुत्या पुरुषार्थत्वनिर्णयेन तावप्यन्वय आकांक्षाविरहादिति वाच्यम् । एवं हि जञ्जभ्यमानवाक्यस्य वाक्यप्रकारणाभ्यां पुरुषसंस्कारमुखेन क्रत्वर्थत्त्वसिद्धान्तः प्रस्थितः स्यात् । यन्तु पुरुषसंस्कारमुखेनानृतवदनस्य क्रत्वर्थत्वे पुरुषांशे ऽनुवादः स्वीकार्यः । ततश्चाविशेषात्विजामप्याध्वर्यवादिसमाख्यया मा. सानां निषेधः स्यादिति । तज्जजभ्यमानवाक्योप समानम् । तत्ष्टापत्ती, प्रकृतपिता को वारयिता। एवं च क्रतुयुक्तपुरुषधर्मतैव । अत एव यदर्था प्रवृत्तिस्तदर्थः प्रतिषेध इत्यपि सङ्गच्छते । वस्तुतः स्युपायमांसभक्षादि पुरुषार्थमपि श्रितः प्रतिषेधः क्रतोरङ्गमिष्टः प्रकरणाश्रयादित्यत्रोक्तनियमे व्यभिचारो भहपादैरेवोक्त इति ध्येयम् । वस्तुतः कर्तृवाच्यत्वेपि क्रियाया एव प्राधान्यात्कर्तुर्गुणभूतत्वाच्चानृतवदननिषेधभावनाया न पुरुषार्थत्वम् । एवं च भावनायाः कैमर्थ्याकाङ्क्षायां प्रकरणाद्भवतामिव शुदं क्रत्वर्थत्वमिति । कृत्प्रत्ययस्थले पुनः कर्तुविशेष्यस्वात्तत्संस्कारमुखेनैव ऋत्वर्थतेति सहृदयराकलनीयमिगत । इदं पुनरिहावशिष्यते । नानृतं वदेोदित्यनारभ्याधीतवचबाहय दर्शपूर्णमासमकरणपवितस्य तानृतं घदेदित्यस्यापि च
Page #100
--------------------------------------------------------------------------
________________
वैयाकरणभूषणे विनिगमनाविरहाच्छब्दान्तमर्थानृतं चेत्युभयमपि निषेध्यमित्यन्यत्र निर्णीतम् । तथा च साधुत्वनिर्णायकसूत्रवार्तिकभाध्यकारैस्तिकां कर्तर्येव साधुत्वकथनात्तदुल्लघनेन याज्ञे कर्मणि भावनारूपेर्थे प्रयुञ्जाना मीमांसकादयश्चतुर्थीमिव षष्ठयाद्यर्थे कथं न प्रत्यवयन्तु । तथा च साङ्गानुष्ठानपि तेषामेव प्रायश्चित्तानुष्ठानापत्तिः । न च निर्मूलत्वादेतदनुशासनमनादरणीयम् । तस्माद "ब्राह्मणेन निष्कारणो धर्मः षडङ्गो वेदोऽध्येयो ज्ञेय" थे. ति श्रुतेः, "पाणिनीयं महाशास्त्रं पदसाधुत्वलक्षणम् । सर्वोपकारक ग्राह्यं कृत्स्नं त्याज्यं न किं चने" ति पराशरोपपुराणादेश्चानेकशो दर्शनात् । न च लकारवत्क द्यर्थकत्वमपि कल्पितम् । सर्वत्र कल्पितप्रकृतिप्रत्ययविभागमादायैव पर्यवसितानामर्थविशेषे साधुत्वबोधकत्वस्वीकारात् । तस्मादेतद्दोषनिरासार्थ कर्टकर्मणोर्वाच्यत्वमावश्यकामिति सिद्धम् ॥ २१ ॥ इति वैयाकरणभूषणे धात्वाख्यातसामा
न्यायोर्निरूपणं समाप्तम् ॥ एवं प्रत्येकं दशलकाराणामर्थं निरूपयति ।। वर्तमाने परोक्षे श्वो भाविन्यर्थे भविष्यति । विध्यादौ प्रार्थनादौ च क्रमात् ज्ञेया लडादयः २२
तत्र वर्तमानेर्थे लट् वर्तमानेलडिति सूत्रात् । वर्तमानत्वं च प्रारब्धापरिसमाप्तक्रियोपलक्षितत्वं, भूतभविष्यद्भिन्नकालत्वं वा लोकप्रसिद्धमेव । तच्च पचतीत्यादावधिश्रयणाघधाश्रयणान्तव्यापारेस्तीति तमादाय लट्मयोगः। अथायं कालः किं द्यो. त्यो वा वाच्यो.वा । नायः । तस्य धात्वर्थत्वाभावात् । यो
Page #101
--------------------------------------------------------------------------
________________
लकारार्थनिर्णयः। तकत्वं च शक्तयाधायकत्वं, न चैतद्धातोः शक्तयभावे सम्भवति । न च स शक्त एव । बहूनां धातूनां तत्र शक्तत्वे गौरवात् । एकस्य लट एव वाचकत्वौचित्याच्च । किं च वर्तमानेलाडिति विशिष्य विधानपि लटस्तत्राशक्तत्वे कापि वाच्यो न स्यात् । स्याच्च द्योत्य एव । अविशेषात् । अत एव धातोर्वर्तमानत्वे लक्षणा तात्पर्यग्राहकस्तु लट् तात्पर्यग्राहकत्वमेव च द्योतकत्वमित्यापि निरस्तम् । न द्वितीयः । लटः सामान्यतो लकारार्थेन निराकांक्षतया तत्रैतस्याप्रवृत्तेः । तथापि प्रवृत्तौ च विशेषेण सामान्यस्य तक्रकौण्डिन्यन्यायाद्वाधाकर्तुंर्वाच्यत्वा. नापत्तेरिति चेन्मैवम् । पक्षद्वयस्याकरेभिहितत्वाद्युक्तिसिद्धत्वाच्च । तथाहि । वर्तमानकालो लडद्योत्यः । वर्तमानकालस्य धात्वर्थत्वात् तस्य लटं विना चामतीतेः शक्तयाधायकत्वमेव वाच्यम् । न च तस्य धातुवाच्यत्वे उक्तदोषः स्यादिति वाच्यम् । व्यापारसन्तानातिरिक्तकालस्यानभ्युपगमात्तस्य च धातुवाच्यत्त्वस्योपपादितत्वाच्च । तथाहि । कालो न व्यापारसन्तानातिरिक्तः मानाभावात् । अतिरिक्तकल्पने च तच्छक्तत्वस्यापि कल्पनापत्तौ गौरवापत्तेश्च । किं च अतिरिक्तकालस्यैव वाच्यत्वे आत्मास्तीत्यादौ तत्तत्कालिकसूर्यादीनां कियाया निराबाधात्तामादायैवोपपत्तौ कथं पर्वतास्तिष्ठन्ति आत्मास्तीत्यादी लडादिप्रयोग इत्यर्थकशङ्काभाष्यमसङ्गतं स्यात् । स्याच्च तत्तत्कालिकराज्ञां क्रियामादायोपपत्तिरिति सिद्धान्तभाष्यमपि तथा । तावत्पर्यन्तं दूरे धावनानुपपत्तेः । अस्मत्पक्षे चात्मधारणानुकूलव्यापारस्य प्रारब्धत्वाभावात्मारब्धापरि. समाप्तत्वरूपवर्त्तमानत्वस्यासम्भवादाशङ्कासङ्गतेः । सिद्धान्तस्थापि तत्त्कालिकानां राज्ञां क्रियामादायात्मधारणानुकूल
Page #102
--------------------------------------------------------------------------
________________
वैयाकरणभूषणे
व्यापारस्यापि विशिष्टोत्पत्तिमादाय सुपपत्तिरेव । एवमेव सिद्धान्तभाष्यं कैटोपि व्याचष्टे । इह भूतभविष्यद्वर्त्तमानानां राज्ञां याः क्रियास्तास्तिष्ठतेरधिकरणमिति प्रतीकमादाय तत्र राहां स्थितिर्भूतादिभेदेन भिन्ना पर्वतादिस्थित्यादेर्भेदिकेति क्रियारूपत्वं कालत्रययोगश्चोपपद्यतइत्यर्थ इति । तस्माद्विशिष्टभेदमादायैव भाष्यम् । उक्तं हि वाक्यपदीये । परतो भिद्यते सर्वमात्मा तु न विकल्प्यते । पर्वतादिस्थितिस्तस्मात्पररूपेण भिद्यत - इति ॥ विशिष्टभेदाद्भेद इत्येतद्वयाख्यायां हेलाराजीये स्पष्टम् । अत "एवैको ह वै नारायण आसीदि" त्यादौ विशिष्टभेदमादायैवोपपत्तिरिति शब्दकौस्तुभेप्युक्तम् । तस्माद्वर्तमानकाळो व्यापारात्मक एव । तन्निष्ठवर्त्तमानत्वस्य चान्वयव्यतिरेकाभ्यां द्योत्यत्वं सुसङ्गतमेव । एवं तस्यैवानुत्पत्तिर्भविष्यत्त्वं निष्पत्तिश्च भूतत्वम् । तस्मिन् द्योत्ये लढादय इति तत्रतत्रावधेयम् । तस्माद्द्योतकत्वमेवेति निरूढः पन्थाः । एवं वाचकत्वेपि नानुपपत्तिः । तथाहि । वर्त्तमानकालो लड्वाच्य एव वर्त्तमानेल डिति सूत्रस्वरसात् । "क्रियाभेदाय कालस्तु सङ्ख्या सर्वस्य भेदिके" ति वाक्यपदीयेन कालस्य क्रियापरिच्छेदकत्वाभिधानाश्च । न च स्वपरिच्छेदकत्वं स्वस्यैवेत्युपपद्यते । किं च । क्रियाया लटं विनापि प्रतीतेस्तभिष्ठं वर्त्तमानत्वमेव योत्यम् । तथा च तदपि धातुशक्यं वाच्यम् । तथा च बहूनां धातूनां तत्र शक्तिकल्पनामपेक्ष्यैकस्यैव क्रटो वर्त्तमानत्वे शक्तिरित्युच्यताम् । लाघवात् । अपि च वर्त्तमानत्वविशिष्टक्रियाबोधं प्रति लट्समभिव्याहारः कारणमिति त्वया वाच्यं तथा च तुल्यत्वाल्लुटो बाचकत्वमेोच्यताम् । अथैवं तत्र कर्ता वाच्यो न स्यात् । विशेषेण सामान्यस्य बाधादिति चेत् । मैवम् । अर्थद्वयस्वा
Page #103
--------------------------------------------------------------------------
________________
लकारार्थनिर्णयः ।
पि सम्भवेन बाध्यबाधकभावायोगात् । तदुक्तम् । अस्ति चसम्भवो यदुभयं स्यादिति । किं च । एवं हि लः कर्मणीति निरकाशमेव स्यात् । स्थळान्तरेपि विध्याद्यर्थैर्वाघापत्तेः । तथा चा" नर्थक्यप्रतिहतानां विपरीतं बलाबलमि" ति न्यायाद्भवति सामान्यप्रवृत्तिः । अथातिरिक्तकालस्य वाच्यत्वे पूर्वमुदाहृतं भा व्यमलग्नकं स्यादिति चेन्न । द्योतकत्वपक्षमादाय तदभिधानात् । वस्तुतस्तु कालस्यातिरिक्तत्वेपि वर्त्तमानत्वं तत्र प्रारब्धापरिसमाप्तक्रियोपलाक्षतत्वम् । तच्चात्मास्तीत्यादौ क्रियायाः प्रारब्धत्वाभावान्न सम्भवतीति कथं वर्त्तमानत्वमिति शङ्काशयः । क्रियाया अमारब्धत्वे ऽपि किञ्चिद्विशिष्टायाः प्रारब्धत्वात्तदुपलक्षितत्वस्य सम्भवाद्भवति वर्त्तमानत्वादिकमिति सिद्धान्ताशय इति ध्येयम् । वस्तुतः कालो नातिरिक्तः किं तु क्रियैव । तंगतं प्रारब्धापरिसमाप्तत्वादिरूपं वर्त्तमानत्वादिकं लढर्य इति परमार्थः । तस्माद्वर्त्तमानत्वं वाच्यमेव । इत्थं चात्मास्ति पर्व - तास्तिष्ठन्तीत्यादावपि वर्त्तमानत्वं " तम आसीत्" “तुच्छेनाभ्वपिहितं यदासीत्” “एको ह वै नारायण आसी” दित्यादौ भूतत्वमपि सङ्गच्छते । लिडर्थमाह । परोक्षे इति । परोक्षेलिडिति सूत्रात् । काळस्तावदद्यतनानद्यतनभेदेन द्विविधः । द्विवि धोपि भूतभविष्यद्रूपः । तत्रानद्यतने भूते परोक्षे लिडिति भावः । तेनाद्यतने भूते ऽनद्यतने भविष्यति भूतेप्यपरोक्षे च न लिट्प्रयोगः 1 परोक्षत्वं प्रयोक्तृवृत्तिसाक्षात्करोमीत्येतादृशाविषयताशालिज्ञानाविषयत्वम् । ननु परोक्षत्वं स्वव्यावर्त्तकं सर्वस्या अपि क्रियायाः परोक्षत्वात् । तदुक्तं भाष्ये । क्रिया नामेयमत्यन्ताः परिदृष्टा पूर्वापरीभूतावयवा न शक्या पिण्डीभूता निदर्शयितुमितीति चेन्न । तदनुकूलशक्तिमतां व्यापाराविष्टानां साधना
1
Page #104
--------------------------------------------------------------------------
________________
वैयाकरणभूषणे नां पारोक्ष्यस्येह विवक्षितत्वात् । तेन क्रियानाविष्टसाधनमात्र प्रत्यक्षोप लिट् भवत्येव । यथायं पपाचेत्यादौ । एवं स्वव्यापारस्यापि वर्तमानतादशायां व्यासङ्गादिना स्वयमप्रतिसन्धानेपि ततः कार्येणानुमितौ भवत्येव लिट् । यथा “बहु जगद पुरस्तात्त. स्य मत्ता किलाह" मिति वदन्ति । "व्यातेने किरणावामुदयन" इति त्वयुक्तमेव । उक्तरीत्या यथाकथंचित्परोक्षत्वोपपादनेप्यनद्यतनत्वातीतत्वयोर्बहुतरमनःप्रणिधानसाध्यशास्त्रार्थनिर्णयजनकशब्दरचनात्मकग्रन्थे विस्तारक्रियायामसत्वेन लिटो ऽयोगात् । इदं त्ववधेयम् । क्रियाया एव पारोक्ष्ये लिडित्यर्थो लाघवा. त् । यतो धातोरित्यधिकारस्य धात्वर्थे लक्षणायां स्ववाच्यत्वं सम्बन्धः साधनलक्षणायां स्ववाच्यसाधनत्वं सम्बन्ध इति गौरवम् । न च सर्वा क्रिया परोक्षेत्यव्यावतकं तत् । समुदायस्य परोक्षत्वेपि प्रत्येकमपरोक्षत्वात् । अत एव पिण्डीभूता न निद. शयितुं शक्येति भाष्यपि । अत एव पश्य मृगो धावतीत्यत्र धावनक्रियाया एव पश्येत्यत्र कर्मत्वं सर्वसिद्धमेव । न च प्रत्येक न क्रियात्वमिति वाच्यम् । तावतापि धात्वर्थत्वाक्षतेः । परोक्षत्वमपि भाष्योक्तं क्रियायां सङ्गच्छतइति प्रतिभातीति दिक् । लुडर्थमाह । श्वो भाविन्यर्थे इति । अनद्यतने भाविनीत्यर्यः । अनद्यतने लुडिति सूत्रात् । यथा श्वो भवितेत्यादौ । लुडर्यमाह । भविष्यतीति । भविष्यत्सामान्यइत्यर्थः । लदोषेचेति सूत्रात् । यथा घटो भविष्यतीत्यादौ । तत्त्वं च वर्तमानप्रागभा. वप्रतियोगिसमयोत्पत्तिमत्त्वम् । लेटोर्थमाह । विध्यादाविति । लिउथैलेडिति सूत्रात् । आदिना निमन्त्राणामन्त्राणाधीष्टादयो गृह्यन्ते । विधिर्नाम प्रेरणम् । भृत्यादनिकृष्टस्य प्रवर्त्तनमिति यावत् । निमन्त्रणं नियोगकरणम् । आवश्यके श्राद्धभोजनादौ दौहित्रा.
Page #105
--------------------------------------------------------------------------
________________
बनारस संस्कृतसीरीज़
भर्यात् वाराणसीसंस्कृतपुस्तकावली।
तत्र मुद्रिता ग्रन्थाः ।
सिद्धान्ततत्त्वविवेकः खण्ड ५ अर्थसङ्ग्रहः अंग्रेजीभाषानुवादसहितः तन्त्रवार्तिकम् खण्ड १० कात्यायनमहर्षिप्रणीतं शुक्लयजुःप्रातिशाख्यं स.
भाष्यं खण्ड ६ सांख्यकारिका चन्द्रिकाटीकागौडपाद.
भाष्यसहिता वाक्यपदीयं खण्ड ३ रसगङ्गाधरः खण्ड ८ परिभाषावृत्तिः खण्ड २ वैशेषिकदर्शनं किरणावलीटीकासवलितप्रशस्तपा
दप्रणीतभाष्यसहितम् खण्ड २ शिक्षासङ्ग्रहः खण्ड ५ नैष्कर्म्यसिद्धिः खण्ड ३ महर्षिकात्यायनप्रणीतं शुक्लयजुस्सानुक्रमसूत्रः
म् सभाष्यं खण्ड ३ ऋग्वेदीयौनकप्रातिशाख्यं सभाध्यम (बृहत) वैयाकरणभूषणम् खण्ड १ न्यायलीलावती (यन्त्रस्था)
इन से अधिक अनेक प्रकारकी संस्कृत हिन्दी और अंग्रेजी आदि पुस्तकें हमारे यहां मिलती हैं जिनको अपेक्षित हो नीचे लिखेहुए पतेपर पत्र भेजें।
ब्रजभूषण दास और कम्पनी चांदनीचौक के उत्तर नई सड़क बनारस।
Rao - orar vaar mm or
.
.
.
Page #106
--------------------------------------------------------------------------
________________
विज्ञापनम् ।
बनारससंस्कृतसीरीज़नाम्नी वाराणसेय संस्कृत पुस्तकावली ।
1
इयं पुस्तकावली खण्डशो मुद्रिता भवति । अस्यां संस्कृतभाषानिबद्धा बहवः प्रचीना दुर्लभा उत्तमोत्तमाः केचिदङ्गलभाषानुवा दसहिताश्च ग्रन्था मुद्रिता भवन्ति । तांश्च ग्रन्थान् काशिकराजकीयसस्कृतपाठशालीयपण्डिता अन्ये ऽपि विद्वांसः शोधयन्ति । येषां - । हकमहाशयैरियं पुस्तकावली नियमेनाविच्छेदेन संग्राह्या तैस्तदेकैकस्य खण्डस्य कृते ||I) मूल्यं प्रापणव्ययश्च = ) देयः । अन्यैर्महाशयेयैः कानिचित् खण्डानि संग्राह्याणि तैश्च प्रत्येकं खण्डानां कृते १) मूल्यं प्रापणव्ययश्च = ) देय इति ॥
और कम्पनी,
व्रजभूषणदास
चांदनी चौक के उत्तर नई सड़क
बनारस ।
Page #107
--------------------------------------------------------------------------
________________
BENARES SANSKRIT SERIES; COLLECTION OF SANSKĶIT WORKS
EDITED BY THE PANDITS OF THE BENARES SANSKRIT COLLEGE,
UNDER THE SUPERINTENDENCE OF R. T. H. GRIFFITH, M. A., C. I. E.
AND G. THIBAUT, Ph. D.
No. 52.
(बृहत् ) वैयाकरणभूषणं सर्वतन्त्रस्वतन्त्रश्रीमत्कौण्डभट्टविरचितम् ॥ : (BRIHAT) VAIYÂKARANA BHÛSHANA,
A Treatise on Sanskrit Grammar, BY PANDIT KAUNDA BHATTA.
EDITED BY PANDIT RÁMA KRISHNA SÁSTRÍ, Alias TÁTYÁ SÁSTRÍ PATAVARDHANA, PROFESSOR, GOVERNMENT SANSKRIT COLLEGE, BENARES.
FASCICULUS II.
BY PAND
BENARES. PUBLISHED BY THE PROPRIETORS Messrs. BRAJ B. DAS & Co.
AND SOLD BY H. D. GUPTA, • SECRETARY, CHOWKHAMBA SANSKRIT BOOK DEPÔT.
:o: PRINTED AT THE RAJ RAJESHWARI PRESS & THE TARA PRINTING WORKS,
BENARES.
1899.
AN
Page #108
--------------------------------------------------------------------------
Page #109
--------------------------------------------------------------------------
________________
लकारार्थनिर्णयः ।
देः प्रवचनमिति यावत् । आमन्त्रणं कामचारानुज्ञा । अभीष्ट सत्कारपूर्वको व्यापारः । प्रवर्तनायां लिङिति तु निष्कर्षः || चतुर्णा पृथगुपादानं प्रपञ्चार्थम् । तदाहुः । अस्ति प्रवर्तनारूपमनुस्यूतं चतुर्ष्वपि । तत्रैव लिङ् विधातव्यः किं भेदस्य विवक्षया || न्यायव्युत्पादनार्थ वा प्रपञ्चार्थमथापि वा । विध्यादीनामुपादानंचतुर्णामादितः कृतमिति । अत एवैतत्सिद्धान्तकौमु द्यामप्युक्तम् । तत्र प्रवर्त्तना प्रवृत्त्यनुकूलो धर्म इष्टसाधनत्वम् । इष्टसाधनताज्ञानस्य प्रवृत्तिसामान्ये हेतुत्वावधारणेन तस्यैव वाच्यवौचित्यात् । तथा च जैमिनीयं सूत्रम् । “शास्त्रफलं प्रयोक्तरि तलक्षणत्वादि" ति । शास्त्रसम्बन्धि फलं स्वर्गादि प्रयोक्तरि कर्त्तरि प्रयोक्तृफलसाधनतालक्षणत्वाद्विधेः कर्त्रपेक्षितोपायता हि विधिारीत “कर्ता शास्त्रार्थवत्त्वा" दित्यधिकरणं भामत्यां व्याख्यातम् । अत एव मण्डनमिश्रैरुक्तम् । पुसां नेष्टाभ्युपायत्वात् क्रियास्वन्यः म वर्त्तकः । प्रवृत्तिहेतुं धर्मे च प्रवदन्ति प्रवर्तनामिति ॥ नन्विष्टसाधन-स्वस्पेव कृतिसाध्यत्वस्यापि प्रवर्तकतया शक्यत्वं स्यादिति चेत् । अत्रोक्तं प्रथमाध्यायप्रथमापादेनुव्याख्याने । कार्यता च न का चित्स्यादिष्टसाधनतां विना । कार्य नहि क्रियाव्याप्यं निषिदस्य समत्वतः । न भविष्यक्रियाकार्यं स्रक्ष्यतीश इति वपि । कार्य स्थान्नैव चाकर्तुमशक्यं कार्यमिष्यते । साम्यादेव निषिद्धस्य तदिष्टं साधनं तथेति । विवृतञ्चैतन्न्यायसुधायाम् । कार्यत्वविशिष्टबोधकत्वेनैव वाक्यपर्यवसानाद्वृद्धव्यवहारात्कार्यान्विते एव व्युत्पत्तेश्च सिद्धार्थानामबोधकत्वात्कथं वेदान्तैः शुद्धं ब्रह्म प्रतिपाद्यतइत्याशङ्कां निराकर्तुं तामेव निर्धारयति । कार्यता वेति । इष्टसाधनतामित्यत्रेष्टत्वं च विनेति शेषः । उपसंहारे तथाभिधानात् । कार्यमिति ।
·
त्यति
AAAAAA
તપા
•
Page #110
--------------------------------------------------------------------------
________________
वैयाकरणभूषणे षिद्धस्य ब्रह्महननादेः क्रियाजन्यत्वेन समत्वान्नैतत्कार्यमित्यथः । नेदं मया कृतं न वा क्रियते किं तु कार्यमिति व्यवहारा. द्भविष्यक्रियाकार्य क्रियानिष्ठभविष्यत्वं वा तदित्येतन्निराचहै । न भविष्यदिति । स्रक्ष्यतीति । हिशब्दो हेतौ यतः स्रक्ष्यतीत्यत्र सर्जनानुकूलक्रियाया भविष्यत्वेपि कार्यत्वाभाव इत्यर्थः । न चैतत्कार्यमेव । लिवाच्यताङ्गीकारात् । कत्याश्चेत्यावश्यकाथे कृत्या भवन्ति । तच्चाकर्तुमशक्यमिति तदेव कार्यमित्याशङ्कय निषेधति । कार्यमिति । परनारीगमनादरेकतुमशक्यत्वात्कार्यत्वापत्तिरित्याह । साम्यादेवेति । तादति । तस्मादित्यर्थः । इष्टं तत्साधनं कार्यत्वमित्याह । इष्टमित्यादि । तथा चेष्टत्वस्येष्टसाधनत्वस्य वा ब्रह्मण्यबाधात्कार्यत्वविशिष्टपतिपादकत्वपि नास्माकं क्षातरिति भाव इति । नन्विष्टसाधनत्वस्य चन्द्रमण्डलादिसाधारणत्वात्तत्र प्रवृत्तिः स्यादिति चेन्न । अतीतकार्ये कार्यतायास्त्वदभ्युपेतायाः सत्त्वात्तवापि प्रवृत्त्यापत्तेः । इदानी कार्यताझानं तथेति चेत् । इदानीमिष्टसापनताज्ञानं तथेति समानम् । तस्मादिष्टसाधनत्वान्यकार्यत्वस्य निर्वक्तुमशक्यत्वाद्वाच्यत्वे मानाभावाच्च न तद्विध्यर्थ इति । ततुच्छम् । चन्द्रमण्डलादौ प्रवृत्त्यापत्त्या कृतिसाध्यताज्ञानस्य प्रवर्तकत्वात् । न चेदानीमिष्टसाधनताज्ञानं प्रवर्तकं तच्च तत्र नास्तीति वाच्यम् । इदानींतनत्वमिच्छायास्तद्विषयस्य वा विशेषणम् । आये, चन्द्रमण्डलफले इच्छाया इदानीं सर्वसिद्धत्वादोषानिवृत्तिः । अत एव न साधने साधनत्वे वा । अन्त्ये, यागादी प्रवृत्तिर्न स्यात् । वर्गस्येदानीन्तनत्वाभावात् । अ. स्माकं पुनः कृताविदानीन्तनत्वं विशेषणमिति न दोषः । किं च कार्यत्वं न क्रियाजन्यत्वरूपमिति मध्वखण्डनं कार्यतायाः
Page #111
--------------------------------------------------------------------------
________________
लकारार्थनिर्णयः। प्रवर्तकत्वे विध्यर्थत्वे वा।आधे, इष्टसाधनत्वं विना प्रवृत्त्ययोगात. स्थापि परदारगमनादौ सन्त्वेन तस्य तुल्यत्वात् । निषिदे प्रवृत्तेः सर्वसिद्धतया प्रवर्तकस्य तत्रातिप्रसक्तरदूषणतया तहूषणासतेश्च । अन्त्ये, निषेधसाधारण्ये निषेधान्वयो न स्यादित्येव बाधकं फलितम् । तच वक्ष्यमाणरीत्या तवापि समानमित्य. लं शिष्यधन्धकदूषणेनेति दिक् ॥ नृसिंहाश्रमास्तु, लिर्थस्तु हितसाधनत्वमेव । न तु कृतिसाध्यत्वांशोपि । तस्यान्यलभ्यत्वेनाशब्दार्थत्वात् । आख्यातान्तधातुसामर्थ्यात्तत्सिः । लिकादेहि तित्वसामान्याकारेणास्ति लडादिवत्कृतौ शक्तिः । सा च सविषयासमभिव्याहृतभावार्थ विषयीकरोतांति प्रवृत्तिविषयस्य कतिसाध्यत्वं लभ्यतएव । न चैवं साध्यत्वादि संस
तया भायान्न प्रकारतयोति चिकीर्षानुपपत्तिः । ज्ञानेच्छयोः समानप्रकारकत्वेन हेतुहेतुमद्भावस्यान्यत्रोपपादनात् । किं च । पचतीत्यत्रेवात्रापि यागानुकूला कृतिरित्यन्वयबोधो भवेन तु यागविशेष्यकः । तथा च चिकीर्षानुपपत्तिरेव । विधिकृदादेः कुतौ शक्त्यभावेनानुपपत्तश्चेति वाच्यम् । मनसैव पश्चात्ता. दृशबोपसम्भवात् । यद्वा यागो मत्कृतिसाध्यः मत्कृतिसाध्यत्वविरोधिधर्मानधिकरणत्वादित्यनुमानात्तगह इति पाहुः । तेषामयमाशयः । कृतिसाध्यत्वमाने वेदादवगतेपि न तन्मात्रं प्र. वर्तकम् । अशक्तस्यापि प्रवृत्त्यापत्तेः, किं तु मदंशविशिष्टं तच्च लौकिकममाणेनापि सम्भवतीति न विधेस्तत्र शक्तिरन्यलभ्यत्वात् । मदंशाधन्तर्भावेणं वेदेन बोधयितुमशक्यत्वाञ्चेति । वस्तुतः कतिसाध्यताज्ञानं न प्रवर्तकं कृत्यसाध्ये प्रवृत्त्य. भावश्च तत इष्टाभावेन वृथाश्रमजनकत्वेन द्वेषात, नातस्तच्छक्यम् । न च चिकीर्षानुरोधेन तच्छक्यम् । लोकतस्तदवग.
Page #112
--------------------------------------------------------------------------
________________
वैयाकरणभूषणे माच्चिकीर्षासम्भवात् । न चेष्टसाधनताशानस्यापि प्रवर्तकर्व न स्यात् । अंनिष्टसाधने उदासीने च कष्ट कर्मेति न्यायेन वृथाश्रमजनकत्वेन द्वेषान्न प्रवृत्तिरिति वाच्यम् । इटाजनके आन्तरालिकश्रमे द्वेषाभावदशायामप्रवृत्तेः सर्वसिद्धाया अनुरोधेन तस्य प्रवर्तकत्वावश्यकत्वात् । किं चेष्टसाधनत्वामिच्छाविषयसाधनत्वं तत्र शक्यत्वं स्वादिसाधनत्वादिना तेन रूपेण ज्ञानस्यैव प्रवर्तकत्वात् । न त्विष्टत्वेन । इच्छाज्ञानानपेक्षणात् । तस्याः स्वरूपत एव हेतुत्वात् । यद्यपि लोके बलाद् गुरुपवर्तनया प्रवृत्तिस्थले किञ्चिदिष्टं ज्ञात्वा मां प्रवर्तयतांति ज्ञात्वा प्र. वर्ततएव तथापि बहुवित्तव्ययायाससाध्ये आमुष्मिके च विशिव्य तज्ज्ञानं विना न प्रवृत्तिरिति विशिष्यैव विधिना बोपनीयमिति विशिष्यैव तस्य शक्तिरुपेया । अत एव लोके फलसन्देहात्मवृत्तावप्येतादृशस्थले तनिश्नयोपेक्ष्यते तत्र चेच्छा नानार्थत्वपरिहाराय तदादाविव शक्यतावच्छेदकानामनुगामिकति तस्वम् । एवं च स्वर्गादिसाधनत्वमनन्यलभ्यत्वाच्छक्यमेव । न चेदमपि स्वर्गकामादिपदसमभिव्याहाराल्लभ्यतइत्यन्यलभ्यत्वम् । कामान्तपदात्स्वर्गाद्युपस्थितावपि साधनत्वबोधकामापात् । विश्वजिदादौ स्वर्गकामादिसमभिव्याहारस्याप्यभावाचेति ध्येम् । अथ मधुविषसम्पृक्तान्नभोजनादौ प्रवृत्तिवारणाय बलवदनिष्टाननुबन्धित्वज्ञानस्य प्रवृत्त्यौपयिकतया शक्यत्वं स्यादिति चेन । बहायाससाध्ये प्रवृत्त्यनापत्तेः । तत्र बहुतरदुःखस्यापि जायमानत्वात् । अल्पदुःखस्यापि कुतश्चिबलवत्त्वात् । अनुगतबलवत्वस्य दुर्वचत्वाच । तस्मात्तचद्विषयको बलवान्वेषः स्वातन्त्र्येण प्रतिबन्धक इति न सत्कल्पनं युक्तम् । अत एवान्तरालिकश्रमे पलबद्वेषवान ज्योतिष्टोमादौ प्रवर्तते अन्यस्तु तयति ध्येयम्। नृसिं
Page #113
--------------------------------------------------------------------------
________________
लकारार्थनिर्णयः। हाश्रमाः पुनर्न बलवदनिधाननुबन्धित्वं विध्यर्थः । पलवदनिष्टसाधनत्वज्ञानस्य प्रतिबन्धकतया तदभावस्यैवापेक्षणात् । न तु तत्साधनत्वाभावज्ञानस्याप्यपेक्षा । अन्वयव्यतिरेकाभ्यां जनकाविघटकस्यापि ज्ञानस्य प्रतिबन्धकत्वात् । अन्यथा कारणाभावादेव कार्यानुदये तस्य प्रतिबन्धकत्वायोगादित्याहुः । तच्चि. न्त्यम् । बलवदनिष्टजनकमिति ज्ञानेपि तत्र द्वेषाभावदशायां प. रदारगमनादौ प्रवृत्तेः सर्वसिद्धत्वात् । तत्रैवं सति देषे प्रवृत्ति प्रतिबन्धात्मतिबन्धकत्वेनाभ्युपगतद्वेषादेवाप्रवृत्त्युपपत्ते नस्य प्र. तिषन्धकत्वे मानाभावाच्चेति तस्मादिष्टसाधनत्वमेव शक्यम् । पतु मामाकराः । नेष्टसाधनत्वं विध्यर्थः यागे क्षणिकतयावगते तस्य बोधयितुमशक्यत्वात् । परम्परासाधनत्वस्यापि द्वा. रानुपस्थितौ बोधयितुमशक्यत्वात् योग्यताज्ञानस्य शाब्दबोधे हेतुत्वात् । अन्वयप्रयोजकरूपवन्त्वस्यैव च योग्यतात्वात् । न चैवमपि साधनत्वं सामान्यरूपेण बोध्यतामिति वाच्यम् । एकविशेषवाघे सामान्यज्ञानस्य तदितरमकारत्वेन नियतत्वात् । किं च । यागः कर्तव्यतया नावगम्यते । काम्यादन्यत्काम्याव्यवहितपूर्वसाधनमेव कामी कर्तव्यतया ऽवैतीत्यस्यान्यत्र क्लुप्तत्वा. छ । तथा च द्वारीभूतं काम्याव्यवहितपूर्वसाधनमपूर्वमेव शक्यं कार्यत्वरूपेण । कार्यत्वं च कृत्युद्देश्यत्वं तत्र विशेषणीभूतकृतेराश्रयविषयाकांक्षायां विषयतया यागआश्रयतया स्वर्गकाम: सम्बध्यते । सुखदुःखाभावादेर्लोकादिवापूर्वस्यापि चेदेन कृत्युदेश्यत्वबोधनात् । अपौरुषेये वेदे ऽप्रामाण्यशङ्काया अप्यसम्भवात् । उद्देश्यत्वं च धर्मान्तरमेव तथा च कार्ये तस्मिन्स्वर्गकामस्य प्रथमान्तस्यान्वयासम्भवादुपादानप्रमाणेन तद्विधिशक्त्यैव विज्या स्वर्गकामस्येति सम्बन्धः कार्यते । तदुक्तम् । नयाविवे
Page #114
--------------------------------------------------------------------------
________________
१०२
वैयाकरणभूषणे कटीकायां वरदराजीये। “मुख्यार्थमभिदधतः शब्दस्य यस्मिन्नर्थे तात्पर्य तस्य तत्र मुख्यैव वृत्तिः यथा स्वर्गकामस्य कक्षान्तरि. तनियोज्यपरस्ये"ति । तथा च स्वर्गकामस्य मम यागविषयको नियोग इति बोधः । अत्रापूर्वस्य यागविषयकृत्युद्देश्यत्वमेव यागविषयत्वम् । यागस्य तादृशकृतिविषयत्वे पुरुषस्याश्रत्वे चान्वयितावच्छेदकमपूर्वकरणत्वं तत्कर्तृत्वं च । तदेव च योग्यता । यथा घटेन जलमाहरेत्यत्र छिद्रेतरत्वम् । योग्यतावच्छेदकोपस्थितिश्च घटेनेत्यादावाध्याहारात्मकते चौपादानिकप्रमाणवशाच्छक्त्यैव । नन्वशक्यमपि तयैव शक्त्योपस्थाप्यते चेत्तर्हि लक्षणो. च्छेदः स्यादिति चेन्न । स्वशक्यान्वयबोधकस्यैव स्वोपपादकसकलार्थबोधकत्वाभ्युपगमात् । गङ्गायां घोष इत्यादौ स्वशक्यान्व. पबोधकत्वाभावेनोपादानप्रमाणानवकाशात् । काकेभ्यो दधि र. क्ष्यतामित्याधजहत्स्वार्थलक्षणा तु नास्त्येवेति क्व दोषः । एवं च या कार्य स्वकीयत्वेन बुध्यते स नियोज्यः फलकामश्च कार्य स्वकीयत्वेन बुध्यते अतः काम्ये स्वर्गकामो नियोज्यः । एवं च वेदबोधितमपूर्वमुद्दिश्य पुरुषप्रवृत्तिरुपपद्यतइति स्वनिष्पत्तिादुपपद्यतइति नेष्टसाधनत्वं विध्यर्थः । किं च । इच्छाविषयसाधनत्वेन स्वर्गसाधनत्वेन वा शक्तिः। नायः । तज्ज्ञानस्यामवर्त. कत्वात् । प्रवर्तकज्ञानविषयस्यैव च विध्यर्थत्वात् । नान्त्यः । अनेकार्थतापत्तेः । तदादाविवेच्छा शक्यतावच्छेदकानामनुगमिकास्तीति चेन्न । तत्र बोध्यबुद्धेरवच्छेदकत्वात् । प्रकृतेपि बोध्येच्छा तथेत्यभ्युपगमे संन्यासिनामिच्छाविरहिणां बोधानापत्तेः । स्वर्गादेः प्रागनुपस्थितत्वेन शक्त्यग्रहाचेति । अपि च । नित्यनै मित्तिकस्थले राहूपरागे स्नायादिति शुचिविहितकालजीविनश्च मम स्नानसन्ध्यावन्दनविषयको नियोग इति बोधानफ
Page #115
--------------------------------------------------------------------------
________________
लकारार्थनिर्णयः। लापेक्षा विधिवाक्ये फलाश्रवणाच्च तत्र फलाभावः । वैदिककर्मण्युद्देश्यत्वेन बोधितमपूर्वमुद्दिश्यैव हि प्रवर्तन्ते । तस्यव च वेदेन स्वतः पुरुषार्थत्वबोधनात् । तथा च काम्ये फ. लावाप्तिरानुषङ्गिकी । नित्येप्यपूर्वस्योद्देश्यस्य सत्त्वात्मत्तिः । तस्मात्कृत्युद्देश्यमपूर्वमेव शक्यामति माहुः । अत्रेदं चिन्त्यम् । अपूर्वस्य वाच्यत्वमयुक्तम् । प्रमाणाभावात् । प्रवृत्तिकारणीभूतस्वर्गसाधनताज्ञानस्य तेन विनाप्युपपत्तेः । क्षणिकत्वनिश्चयात्साधनत्वज्ञानासम्भवेपि साधनत्वसामान्य. बोधे बाधकाभावात् । एकविशेषबाधे सामान्यज्ञानं तदितरप्रकारतानियतम् । यथा छिद्रबाधे घटेन जलमाहरेत्यत्र छिद्रीत रत्वेनेति चेत् । न । प्रकृतेपि साक्षात्साधनत्वबाधे तदितरसा. धनत्वेन बोधसम्भवात् । तादृशबोधे च परम्पराघटकानपेक्षणा. व । एतादृशसाधनत्वे च योग्यतावच्छेदकं, परम्पराघटकंतचात्रापूर्वम् । तथा च स्वर्गसाधनत्वशक्त्यैव त्वत्सिदौपादानिकममाणादपूर्वोपस्थितौ न तद्वाच्यम् । अन्यथा सर्वत्रापि योग्यतावच्छेदकस्य वाच्यत्वापत्तेश्चेत्यनवस्थेति । किं च । वेदात्साधनत्वबोधो जायमानः परम्परासाधनत्वरूपणापि तद्विषयक एवास्तां कुतस्तदर्थमपूर्व वाच्यम् । न चापूर्वानुपस्थिती परम्परासाधनत्वमपि दुर्बोधम् । वाच्यत्वपक्षेपि प्रागनुपस्थिती शक्त्यग्रहाच्छब्दादप्युपस्थित्यसम्भवात् । कार्यत्वरूपेण लिङ्. पदशक्तिग्रहान्यथानुपपत्त्या वा यथाकथञ्चित्तदुपस्थित्या निर्वा. हे परम्परासाधनत्वेन तदुपस्थितेस्त्वदुक्तरीत्योपस्थित्या च ममापि निर्वाहः सुकर इति ध्येयम् । एवं काम्यादन्यत्काम्याव्यवहितपूर्वसाधनमेव कर्त्तव्यतयावतीत्यपि न युक्तम् । काम्यसाधनताज्ञानस्य लाघवात्मवर्तकत्वात् । न त्वव्यवाहतत्वांशशा
Page #116
--------------------------------------------------------------------------
________________
१०४
वैयाकरणभूषणे
नं तथा गौरवात् । मानाभावाच्च । किं च । काम्याव्यवहितपूर्व साधनं हि मुख्यतत्साधनं, गौणतत्साधनमपीति वा । आद्यपि तत्वेन ज्ञानं स्वरूपत एव वा । नाद्यः । अपूर्वस्यापि प्रागनुपस्थितत्वेन तत्वेन ज्ञानासम्भवाच्च कार्यतयावगमानापतेः । न द्वितीयः । अपूर्वस्य कार्यतयावगमानन्तरमपि यागस्य कायतयावगमो न स्यात् । मुख्यफले साक्षात्साधनत्वाभावात् । नान्त्यः । यागस्यैव साक्षात्कार्यतयावगमसम्भवाद पूर्ववाच्यत्वहानापतेः । नापि कार्यमिति ज्ञानस्य लोके प्रवर्तकत्वदर्शनातदेव विध्यर्थ इति युक्तम् । कृतिजन्यत्वरूपस्य तस्य धात्वर्थनिष्ठस्य प्रवर्तकत्वात् । न चापूर्वस्य तथात्वसम्भावनापि । तादृशस्य लोकत एव सम्भवाच्चेत्याद्युक्तमेव । एवमिष्टसाधनस्त्वस्य निर्वक्तुमशक्यत्वान्न तच्छक्यमित्यप्ययुक्तम् । तदादेर्घटत्वाद्यवच्छिन्नवाचित्ववत्सम्भवात् । तथाहि । बुद्धिविषयत्वरूपेणोपस्थितघटत्व पटत्वादिशालिषु बुद्धिविषयतावच्छेदकवति शक्तं तदादिपदमित्येव तदादेः शक्तिग्रहः । बुद्धिविषयत्वमुपस्थितावनुगमकमात्रं न तु तदंशे शक्तिः । एवमत्रापि लिङादिरिच्छाविषयतावच्छेदकस्वर्गत्वादिवत्साधनत्ववाचक इति तत्र शक्तिग्रहः । न चात्र तदादौ वा बोध्यबुद्धिरिच्छा वा प्रविष्टा, तेन विनापि बुद्धिविषयतावच्छेदकवति इच्छाविषयतावच्छेदकवति शक्तमिति शक्तिग्रहसम्भवात् । पदार्थोपस्थितिकालेपि तदादी प्रकरणादिवशाद्वक्बुद्धि विषयतावच्छेदकावच्छिन्नबोधवत्समभिव्याहृतस्वर्गादिपदमाहम्ना स्वर्गसाधनमित्येवं बोधसम्भवात् । ननु दुःखस्यापि ईश्वरेच्छाविषयत्वसम्भवात्तFaraaraat शक्यं स्यादिति चेत्, न । इष्टापत्तेर्वक्ष्यमा - णत्वात् । तस्मादिष्टसाधनताज्ञानस्य प्रवर्तकत्वेनावश्यकत्वा
·
Page #117
--------------------------------------------------------------------------
________________
लकारार्थनिर्णयः। चदेव विध्यर्थों, नापूर्वम् । लौकिकानां तदनुद्देशात् । यन्तु निष्फले सन्ध्यावन्दनादौ विध्यर्थबाधापत्तेन तद्विध्यर्थ इति । तम । तथा सति तत्र प्रवृत्त्यनापत्ते, निष्फलत्वात्, दुःखैकफल. स्वाच्च । प्रवृत्तिमात्रे इष्टसाधनताज्ञानस्य हेतुत्वाच्च । न चा. पूर्वोद्देशेन प्रवृत्तिः । तावतापि तदेवेष्टमादायेष्टसाधनत्वस्य वि. ध्यर्थत्वोपपत्तेः । वस्तुतः प्रवृत्तिविषयसाध्यत्वे सतीच्छावि. पयत्वमेव फले उद्देश्यत्वं, न च तदपूर्वस्य । न चान्यदेव तत्क. ल्यम् ।मानाभावात् । पदार्थान्तररूपोद्देश्यत्वस्य प्रवृत्तावनपयोगाच्च । न च वेदबोधितत्वानिष्फलोप प्रवृत्तिः । वेदसहस्रैरपि बोधिते निष्फलत्वज्ञानदशायां पामरादेरप्यप्रवृत्तेः । न चा "फलाकांक्षिभिर्यज्ञो विधिदृष्टो य इज्यते । यष्टव्यमेवेति मनः समाधाय स सात्विक" इतिभगवद्वचनविरोधः । “यज्ञदानतपःकर्म न त्याज्यं कार्यमेव तत् । यज्ञो दानं तपः कर्म पावनानि मनीषिणाम् ॥ एतान्यपि तु कर्माणि सङ्गं त्यक्त्वा फलानि च । कर्त्तव्यानीति मे पार्थ निश्चितं मतमुत्तम" मित्य: धादशे भगवतैव पावनत्वोक्तः । तथा चानुद्दिष्टोपि प्रत्यवायपरहारः फलमिति फलं त्यक्त्वापि क्रियमाणस्य पावनत्वं भवतीति भावः । अत एव नित्यज्योतिष्टोमादौ स्वर्गाद्यर्थमनुष्ठानेपि नित्यप्रयोगसिद्धिरिति सिद्धान्तः । किं च । सन्ध्याव. न्दनादोर्नष्फलत्वे 'एतत्सन्ध्यात्रयं प्रोक्तं ब्राह्मण्यं यदधिष्ठितम् । यस्य नास्त्यादरस्तत्र न स ब्राह्मण उच्यते' इत्यस्य 'सन्ध्यामुपासते ये तु सततं शंसितव्रताः । विधूतपापास्ते यान्ति ब्र. ह्मलोक सनातन' मित्यस्य च वैयापत्तिः । स्तावकत्वेनोपयोग इति चे, त्तर्हि सर्वेभ्यः कामेभ्यो दर्शपूर्णमासौ सर्वेभ्यः का. मेभ्यो ज्योतिष्टोम इत्येतयोरपि तथात्वापत्तिः । दर्शपूर्णमासा
Page #118
--------------------------------------------------------------------------
________________
वैयाकरणभूषणे भ्यां स्वर्गकामो यजेत, ज्योतिष्टोमेन स्वर्गकामो यतेत्यतः फ. काकाक्षानिवृत्यैतयोरनुपयोगात् । न च सर्वेभ्य इति चतुर्थ्या सस्वात्फलसमर्पकत्वमिति वाच्यम् । ऊर्जावरुध्य इत्यत्रेधार्यवादत्वमात्रत्वेन चतुर्युपपत्तेः । किं च । स्तावकत्वेनोपयोगेपि स्तुतिरेव वृथेति वैयर्थ्य दुर्वारम् । प्ररोचनार्थ स्तुतिरित चेत् । न । तस्या अपि व्यर्थत्वात् । पुरुषप्रवृत्तिस्तत्फलामति चेत् । न । अर्थवादामामाण्यं जानतस्तदनुपपत्तेः । बहुदुग्धेयं गौरिति वाक्याप्रामाण्यं जानतस्तद्वाक्यादिवति । अथ स्वर्गाध. र्थकतायामप्रामाण्योप माशस्त्यबोधकत्वद्वारा स्तावकत्वमित्यभ्युपगतेर्थे प्रामाण्यमिति चेन्न । तत्तत्फलजनकत्वातिरिक्तमाशस्त्यस्य काप्यकल्पनात् । धर्मान्तरप्राशस्त्यज्ञानस्य प्रवर्तकत्वाभावाच्च तत्तत्फलाजनकस्यापि तद्बोधनद्वारा प्राशस्त्यमात्रळक्षणायां कुकविषाक्यवदश्रद्धेयता च वेदस्य स्यात् । तस्मारस्थार्थएवैषां प्रामाण्यम् । एवं च सन्ध्यामुपासीतेत्यादौ विधित इष्टावगमेपि तस्यावान्तररूपेण बोधनद्वारा शीघोत्पत्तिज्ञापनद्वा. रा पा प्रवृत्तिविशेषार्थमर्थवाद इति ध्येयम् । अत एव "सर्वशतो प्रवृत्तिः स्यात्तथाभूतोपदेशादि" ति सर्वशक्त्यधिकरणपूर्वपक्षसूत्रे पुरुषार्थस्य भाव्यस्योभयत्रापि तुल्यत्वादित्युक्तं भट्टाचा8ः । व्याख्यातं च, "काम्यं यथा फलायोपदिष्टं तथा नित्यमपीति सूत्रार्थ" इति । एवं चेष्टसाधनत्वमेव विध्यर्थ इति मते नायं दोषः । अथेष्टसाधनत्वस्य विध्यर्थत्वे ज्योतिष्टोमेन स्व. र्गकामो यजेतेत्यादौ तृतीया न स्यात् । करणानभिधाने एवं तद्विधानादिति चेत् । अत्रोच्यते । आश्रयोवधिरुद्देश्यः सम्बन्धः शक्तिरेव वेति वक्ष्यमाणरीत्या आश्रयस्य शक्तेश्चानभिधाने तृतीयादय इति स्थिते ऽत्रापि साधनत्वाभिधानेपि तदनभिधा.
Page #119
--------------------------------------------------------------------------
________________
लकारार्थनिर्णयः।
१०७ नामानुपपचिरिति । वन्तु पाधवाचार्याः । लिडादिनान्तर अस्वकृतियज्यर्थमात्रगतेष्टसाधनत्त्वे ऽभिहितेपि यागविशेषरूप. ज्योतिष्टोमादिमातिपदिकार्थगतस्यानभिधानेन तृतीया नानुपपस्रोत समाधानमाहुः । तन्न ज्योतिष्टोमयज्यर्थयोरभेदेनाभिः धानस्यावारणात् । अन्यथा देवदत्तः पचतीत्यत्रापि सामान्यतस्तिका कर्मभिधानपि विशेषरूपेणानभिधानात्कर्तरि तृतीयापचरिति । अन्ये तु कर्तृत्वादिकमाख्यातवाच्यं स्वीकुर्वन्तोनभिहितइत्यस्यापि कर्तृत्वाचनभिहितइत्यर्थ वर्णयन्तोऽत्र साधनक. मात्राभिधानेषि तद्विशेषकरणत्वानभिधानान दोषः । प्रथमवर्षकान्ते विवरणेप्येतत्स्पष्टमित्याहुः । यत्तु अनभिहितइत्यस्यानभिहितसङ्ख्याके इत्यर्थः कर्नादेराख्यातावाच्यत्वात् । तथा चाल सख्यायाः कर्तर्येवान्वयात्तदभिधानोप न करणाभिधानमिति । तत्तुच्छम् । पचनो ऽग्निना, पचनी स्था. स्य इत्यादिकदादेवारणाय करणतत्सङ्ख्याद्यन्यतराममि. थाने इवि स्वीकारेत्रापि संख्यानभिधानेपि करणाद्यभिधानात् तृतीयाया दुरुपपादत्वात् । न च कृत्साधारण्याथं यत्र कतबि. शेष्यको बोधो यत्र वा कर्तृविशेष्यकबोधे तात्पर्य तत्र कर्माभिहित इत्यभ्युपगमादत्रापि करणविशेष्यकबोधे तात्पर्यायावा. न करणाभिधानमिति वाच्यम् । बोधस्य तत्तव्युत्पत्त्यनुसारित्वेनानियतत्वाचात्पर्यस्यापीच्छाविशेषरूपद्विष्टत्वमिष्टत्वयपव्यवस्थमिति प्रसिद्धरनुभवाच्चानियतत्वादेवं सति शास्त्रापामाण्यप्रसङ्गादिति दिक् । अथ साधनत्वं ज्योतिष्टोमे बोधनीयं न च तत्सम्भवति । वाजपेयादपि स्वर्गोत्पत्तेयभिचारात् । न च विजातीयतत्साधनत्वं बोधनीयम् । जातरुत्तरकालं कल्पः नीयत्वादिति चेत् । अयोच्यते । विजातीयतत्साधनत्वं विधि
Page #120
--------------------------------------------------------------------------
________________
१०८
वैयाकरणभूषणे मा बोध्यते । न च तत्रं व्यभिचारशक्षापि । तब वैजात्यं वि. घेस्तथा शक्तिस्वीकारादुपस्थितम् । एतदर्थमेव तत्तत्साधनत्वे विधिशक्तिरिति मागवोचाम इति । कम्बुग्रीवादिमानास्तीत्यादौ गुरुधर्मानवच्छेदकत्वपक्षे घटत्वावच्छिन्नप्रतियोगिताया एव स. म्वन्धत्ववदत्रापि विजातीयस्वर्गसमानाधिकरणात्यन्ताभावप्र. तियोगितावच्छेदकावच्छिन्नप्रतियोगिताकत्वसम्बन्धेन स्वर्गसमानाधिकरणाभावप्रतियोगितावच्छेदकत्वीयो ऽभावः प्रतीय. सइति नानुपपत्तिः । अन्वयितावच्छेदकावच्छिन्नप्रतियोगिताकत्वव्युत्पत्तिश्च नञ्समाभिव्याहारस्थलएवति न तद्विरोध इति समादधिरे रामकृष्णभट्टाचार्याः । यन्तु स्वर्गकाम इत्याविना न स्वर्गत्वावच्छेदेन ज्योतिष्टोमसाध्यत्वं बोध्यते । अवच्छेदकत्वांशबोधनासामर्थ्यात् असम्भवाच । स्वर्गत्वस्य तदजन्यवृत्तित्वादतिप्रसक्तत्वात् । किं तु स्वर्गत्वाश्वमेधजन्यत्वसामानाधिकरण्यमानं श्रुत्या बोध्यते । न चात्र व्यभिचारज्ञानं प्रतिबन्धकम् । समानप्रकारकं हि व्यभिचारज्ञानं समानप्रकारकाव्यभिचारज्ञानविरोधि । तथा च स्वर्गत्वावच्छेदेन व्याभिचारग्रहात्तदवच्छेदेन नियतपूर्ववर्तित्वं मायाहि । तदाश्रये ध. मिणि हेतुताग्रहे च न बाधकम् । अथ वा व्यभिचारसन्देहोत्र न प्रतिबन्धकः किं तु योग्यतासंशयपर्यवसन्नत्वेन सोत्रानुकूल एव । तादृशजातिसन्देहात्तव्यतिरेकनिश्चयश्च नास्त्येव । तथापि कार्यतावच्छेदकाग्रहे कथं कारणता ग्राह्योति चेत् । न । सामानाधिकरण्यज्ञानाद्यभावपि शब्दाव्याप्तिग्रहवत्फलबलेन त. था स्वीकारात् । अत एव तद्राहकसन्त्वे प्रत्यक्षस्थलेपिक चित्तदभ्युपेयते । तथा तृणारणिमाणस्थले । अत एव व्याप्यतावच्छेदकाग्रहेपि फलबलाद्वयाप्तिग्रहो धूमालोकान्यान्यत्वेनोप
Page #121
--------------------------------------------------------------------------
________________
लकारार्थनिर्णयः। स्थिते धूमादौ सर्वसिद्धः सङ्गच्छते । सहचारदर्शनादिव्याप्तिधीसामग्रीसन्त्वे तद्वयतिरेकेण कार्यव्यतिरेकादर्शनात् । तस्मा. मानुपपत्तिरिति । अतेदं चिन्त्यम् । जन्यत्वं हि तदवच्छेद. कधर्मवन्त्वं कथमवच्छेदकग्रहं विना ग्राह्यम् । व्यभिचारज्ञानरूपविरोधिनः सत्वे तद्रहासम्भवाच्च । न च शाब्दे न स दोषः । अयोग्यतानिश्चयरूपस्य तस्याप्रतिबन्धकताया अनुक्तिसम्भावितत्वात् । न च तनिश्चयो नास्त्येव संशयश्च न विरोधीत्युक्तमिति वाच्यम् । प्रथमं ज्योतिष्टोमं विनाप्यमिहोत्रात्स्वर्गश्रवणे तनिश्चयाभावस्यासम्भवात् । तव मते वैजात्यस्यापाततोपि पूर्वमनुपस्थितत्वात् । तृणादीनामपि वैनात्यो पस्थितौ विजातीयान्वयव्यतिरेकाभ्यां वा तद्ग्रहः । वक्ष्यते च दूषणान्तरमपीत्यादि ध्येयम् । ज्योतिष्टोमेनेत्यत्र ज्योतिष्टोमवदन्यावृत्तिः स्वर्ग इत्येव बोध्यते । न च तदपि स्वर्गत्वावच्छे. देन बाधितमिति कथमवगन्तव्यम् । अधिकरणतावच्छेदकस्य सामानाधिकरण्यनाप्यन्वयबोधसम्भवात् । अन्यथा गङ्गायां न मत्स्य इत्यादीनां विलयप्रसङ्गात् । एवं च साध्येष्टकत्वमेव विध्यर्थः, साध्यत्वं च यस्मिन्सत्यग्रिमक्षणे यत्सत्वं यद्वयतिरेके चासत्त्वमित्येवंरूपम् । अत एव दुःखानुत्पादाथितया प्रा. यच्छित्तादौ प्रवृत्तिः सङ्गच्छते । साधनत्वं शक्यमिति मते च तत्माकालस्थायित्वरूपसाधनत्वज्ञानासम्भवात्तत्र प्रवृत्तिने स्यात् । न च साधनत्वज्ञानात्मवृत्तिर्न स्यादिति वाच्यम् । समा. नसंविसंवेद्यतया तल्लाभादिति तु नैयायिकनव्याः। अत्रेदमवधेयम् । धूमे रासभव्याभिचारग्रहदशायां रासभवदन्यावृत्तिः कश्चिभ्रूम इति ज्ञानेपि प्रवन्त्यभावस्य सर्वसिद्धत्वेनैतस्याप्रवर्त. कत्वान्न विध्यर्थता । किं चैवं सत्यपि वैजात्यकल्पनं न स्या
Page #122
--------------------------------------------------------------------------
________________
वैयाकरणभूषणे त् । प्रथमत एर प्रवर्तकज्ञानसिदौ तत्र मानाभावात् । न च पूर्व गृहीतकारणतानिर्वाहार्थ तत्कल्पनम् । जाति विनापि स्वर्गस्य यागजन्यत्वे बाधकाभावात् । कारणतास्वरूपे तस्यानुः पजीव्यत्वात् । नापि तद्ग्रहे तदुपयोगः । अत्रैवाभावात् । कारणतावत्कार्यतापि सावच्छिन्नति व्याप्तिश्चाप्रयोजिका । एवं सति ज्योतिष्टोमादश्वमेधजन्यः स्वर्गः किं न स्यादिति चेत्र । कल्पितपि वैजात्ये ज्योतिष्टोमान्तराज्ज्योतिष्टोमान्तरीयस्तवापि किं न स्यात् । स्वभावात्तत्स्वर्गव्यक्तिं प्रति तत्तद्वयक्तेहैतुत्वाद्वेति चेत् । तार्ह प्रथमत एव सोनुस्रियतां किं जात्या ऽव. च्छेदिकया । तस्मात्कार्यतावच्छेदकधर्मवन्त्वरूपं कार्यत्वमिसेव वाच्यम् । तच्चावच्छेदकाग्रहे दुर्ग्रहमेव । अस्तु वा स्वर्गस्वमवच्छेदकम् । यथा चातिप्रसक्तस्यावच्छेदकत्वं साधु तथोक्तमस्मपितृचरणैरद्वैतसारोद्धारे । नन्वद्वैतसारोद्धारे द्रव्यत्वजातिखण्डने कार्यमात्रसमवायिकारणतावच्छेदकत्वेन द्रव्यत्वासदिमाशङ्कय सत्तैव तदवच्छेदिका । न चैवं गुणादावपि रूपाद्यापत्तिः । तत्तद्रूपे तत्तव्यस्य समवायिकारणताया आरश्यकत्वेन विशेषसामग्रयभावादेव कार्याभावोपपत्तेरित्युक्तं यु. ज्यताम् । त्वया तु कार्यतावच्छेदकमातप्रसक्तमुक्तम् । तन्त्वपुक्तम् । तथा सति स्वर्गत्वावच्छिन्नस्याग्निहोत्राज्ज्योतिष्टोमरूपकारणाभावादनुत्पत्यापत्तेरिति । तथाप्युत्पत्तौ च घटादौ रा. सभवव्यभिचारादग्निहोत्रादेरकारणत्वप्रसङ्ग इति चेत् । अ. बोच्यते । नीहिभिर्यजेत यवैर्यजेतति दर्शपूर्णमासोद्देशन दि. हितयो/हियवयोः परस्परव्यतिरेकेपि प्रत्येकं फलजनकत्वा. स्परस्परविरहे कार्योत्पत्तावप्यव्यभिचारवच्चात्रापि तथास्तु । न च वक्रशक्तिमत्वेनान्यतरत्वादिना चोभयोः
Page #123
--------------------------------------------------------------------------
________________
सकारार्थनिर्णयः। तुता । एवमपि "स्योनं ते सदनं करोमि घृतस्य धारया सुशेवं कल्पयामि । तस्मिन्सीदामृते प्रतितिष्ठ बीहीणां मेध सुमनस्यमान" इतिपुरोडाशसदनसादनप्रकाशकमंत्रयोर्वीहीणां मेधेति मंत्रलिङ्गाद् वीहिप्रयोगएवाङ्गत्वं न तु यवप्रयोमे इति सिद्धान्तहान्यापत्तेः । तत्रैवापूर्वारब्धकार्यानुत्पत्तिव्यभिचारान्यतरापत्तेः । अपूर्वे वैजात्यकल्पने विकल्पमंत्रव्यवस्थोपपा. दने च वीहिधर्माणां यवेष्वप्राप्तिप्रसङ्गः ग्रहधर्माणां सम्मादीनां चमसेष्विव । प्रकृतापूर्वसाधनत्वलक्षणायाः सोमापूर्वमादाय चम. ससाधारण्यात् । अवान्तरापूर्वस्य ग्रहपदादन्तरगतयाशीयोपस्थितेश्चमसासंग्रहे च वीहिपदादपि वीहिसाध्यापूर्वविशेषोपस्थित्या यवेषु प्रोक्षणाद्यप्राप्तिारा । तस्मादेकजातीयापूर्वे एव हेतुत्ता । एवं लोके तृणारणिमणीनां वन्हावपि द्रष्टव्यम् । न चैवं रासभस्यापि घटहेतुतापत्तिः, व्यभिचारातत्यागे तृणादेरपि तदापत्तिरिति वाच्यम् । तत्र हेतुतायां मानाभावात् । यवादेः श्रुत्या तृणादेररणिमण्यभाववति स्तोमे तृणसत्त्वे वन्हिसत्त्वं तदभावे ऽनुत्पः त्तिरित्यन्वयव्यतिरेकसहकृताध्यक्षात्तत्सिद्धः । रासभे तु नोभयम् । किं त्ववश्यकल्प्यदण्डादिभिरन्यथासिद्धिरेवति न हेतुत्वसम्भावनापि । तथापि कारणं विना कार्यासम्भवाद्वीह्मभा. वे कथं यवेभ्यः कार्यमिति चेत्सत्यम् । वीहिभिर्यक्ष्यइति सङ्कस्पावच्छिन्नसमयसम्बन्धस्यैव वाहिकार्यतावच्छेदकसम्बन्धत्वे. नादोषात् । तेन सम्बन्धेनाग्नेयापूर्वस्य यवैरनुत्पत्तेः। एवमुक्तमं. त्रलिङ्गानुरोधात्तत्रैव हेतुत्वान व्यभिचारः । सङ्कल्पापूर्व च फ. लापूर्वोत्पत्तौ नष्टमिति प्रयोगान्तरे यवादीनामुपादानं नानुपपमम् । एवं तृणादेरपि तृणत्वावच्छिन्नसंयोमसम्बन्धेन वन्हित्वा. बच्छिन्नं प्रति तादात्म्येन तृणत्वेन हेतुतेत्यादि द्रष्टव्यम् । अ:
Page #124
--------------------------------------------------------------------------
________________
धेयाकरणभूषणे ग्निहोत्रादेः स्वर्गे तु अग्रिहोत्रजन्मापूर्वविशिष्टसमवायसम्बन्धेन स्वगत्वमवच्छेदकमतः समानजातीयएवं स्वर्गौग्निहोत्रादिभ्यो दुर्वार एवेति । श्रूयते च तैत्तिरीयश्रुतौ । “य एवं विद्वानग्निहोत्रं जुहोति यावदग्निष्टोमेनोपाप्नोति तावदुपाप्नोति य एवं विद्वान् पौर्णमासी यजते यावदुक्थेनोपाप्नोति तावदुपाप्नोति य एवं विद्वानमावास्यायजते यावदतिरात्रेणोपाप्नोति तावदुपाप्नोती" ति सुधियो विभावयन्तु । अत एव धूमपरामर्शादिकार्यतावच्छे. दकं धूमलिकत्वादिकमेव न तु तत्रानुमितौ वैजात्यकल्पनेत्यभियुक्तोक्तं सङ्गच्छते । यस्तु विधिलभ्यार्थविचारकाले वैजात्यास्वीकारे ज्योतिप्टोमाग्निहोत्रयोः फलसाम्यापत्ती अल्पवित्तव्ययायाससाध्येनाग्निहोत्रेण समीहितसिद्धौ श्रममात्रायाधिक्ये. न द्वेषादप्रवृत्त्यापत्तौ ज्योतिष्टोमाश्वमेधादिविधीनामननुष्ठानलक्षणमप्रामाण्यमापद्यतइति तत्कल्पनमिति मीमांसकादिभिः परिशीलितः पन्थाः । अत्रोच्यते । इष्टसाधनताज्ञानस्य प्रवर्तकस्य ज्योतिष्टोमादावपि सत्त्वान्न प्रवृत्त्यनुपपतिः । द्वेषोपि न सर्वस्यति यस्यैव न तस्यैवानुष्ठानसम्भवः । अन्यथा त. वापि ज्योतिष्टोमेत्यन्तमालस्यवतो ऽप्रवृत्त्या दोषापत्तेः । वस्तुतः शक्तस्याननुष्ठाने कीर्तरुत्पत्तेस्तन्निवृत्यर्थ लौकिकप्रतिष्ठारूपाधिकफलार्थ वा महती प्रवृत्तिर्नानुपपन्ना । अत एव गीता. या "मकीर्ति चापि भूतानि कथयिष्यन्ति तेव्ययाम् । सम्भावि. तस्य चाकीर्तिमरणादातरिच्यते । ततः स्वकीर्ति धर्म चे'त्यत्र लौकिकप्रतिष्ठादिकं प्रवर्तकत्वेनोक्तम् । अत एव सकलशास्त्र विदां युधिष्ठिरादीनां स्वल्पतरफलकराज्यार्थ गोत्रजब्राह्मणादिहनने प्रवृत्तिः सङ्गच्छते । तस्मात्प्रतिष्ठाधुपाधिक्शाज्जायमानोत्कटेच्छैच प्रवृत्तौ प्रयोजिकति नोक्तदोषः । अत एवाधुनि.
Page #125
--------------------------------------------------------------------------
________________
लकासनिर्णयः। कानां कर्माऽसात्वं जानतामपि नौकिकप्रतिष्ठार्थ बहुवितव्यथायाससाध्ये प्रवृत्तिश्यतेपि । प्रतिष्ठादौ रागात्कटयाबहुवित्त ध्ययायासादौ न देषा । अतस्तद्भानपि न निवृत्तिः । वस्तुत: स्तु सर्वेभ्यः कामेभ्यो दर्शपौर्णमासावित्यतः सर्वफलेषु दर्शपौ. णमासयोः प्रास्तवापि पुष्टयादीनामानर्थक्यं दुर्वारम् । द. शंपौर्णमासप्रयोगस्य नित्यतया आवश्यकस्य पुत्रादिकापनये. वानुष्ठाने प्रसान्नित्यसिदिसम्भवेन प्रयुक्तिलाघवलोभास्पुत्रे ध्यादौ प्रवृत्त्यसम्भवात् । नन्वेतदर्थमेव पुत्रष्टयादिफले पुत्र उत्कर्षः कल्प्यते । न चोत्कृष्टस्यापि तस्य सर्वेभ्यः कामेभ्यो ज्योतिष्टोम इतिवाक्यात्तस्यापि पुत्राद्यर्थ विधानेन तस्मादेव सम्भवात्पुनरावृत्त्या आनर्थक्यं दुर्वारमिति वाच्यम् । फळे त्रैविध्यं प्रकल्प्य मध्यविषफलार्थतया तत्र प्रवृत्त्युपपसे। यद्वा । सर्वकामवाक्यं दर्शपौर्णमासयोः काम्यसकले. ष्टिमात्रफळे ज्योतिष्टोमस्य च काम्यसोमयागफळएव वि. नियोग विधचे इति न पुत्रष्ट्यादिफलस्य ज्योतिष्टोमालाभसम्भवोपि न पा फलत्रैविध्यकल्पनापीति चेन्न । कृताधानस्य पुत्रीदिलोलुपस्य दर्शपौर्णिमासात्मागपि पुत्रष्ट्याउनुष्ठान. सम्भवेनानर्थक्यपरिहारे फलवैजात्यकल्पनाया एव गौरवेणास. म्भवात् । न च दर्शपौर्णमासाभ्यामिष्ट्वा सोमेन यजेतेति वा. क्यात्सोमस्य दर्शोत्तरं वावदिष्टयन्तरस्य तथात्वे मानमस्ति । नन्नस्त्वेवमेव न नः किं चिदनिष्टं, परं तु तवैव पुढेष्टयाद्यानर्थक्यप्रतिबन्दी लब्धोत्तरेति चे, चयापि समारब्धदर्शपौर्णमासा. नां काम्योष्टिमवृत्तिविलोपो दुरि इति वदामः । वस्तुतस्तु वित्तचित्तादीनां क्षणिकतामालोच्याव्यवधानेन सोमं तत्फलं च चिकीर्पोरनग्निकस्याग्निफलकत्वेन काम्यस्यायाधानस्य न
Page #126
--------------------------------------------------------------------------
________________
११४
वैयाकरणभूषणे
काळप्रतीक्षा नापि तदीये सोमयागे दर्शपौर्णमासोन्तरता प्रतीक्षेति सोमेन यक्ष्यमाणोग्निमादधीत नतु पृच्छेन नक्षत्रमित्यादिश्रुतिप्रामाण्यादग्निष्टोमे सिद्धान्तितम् । तथा च माससा - ध्यदर्शपौर्णमासयोः स्वर्गोत्कटेच्छावतस्तावत्काळविलम्बमसहिष्णोर्धनिकस्य तत्स्वर्गार्थमेव सोमानुष्ठानस्याप्युपपतेरानर्थक्यपरिहारादर्श पौर्णमासात्सोमे स्वर्गफलभूमाकल्पनं कथं सिध्येत् । काळादिविलम्बेन स्वल्पवित्तव्ययायासादिलभ्यस्याप्यर्थस्योत्क टशीघ्रलाभेच्छायां बहुवित्तव्ययायासादिभिः सम्पादनस्य लोके प्रायशः सर्वानुभवसिद्धत्वात् । सर्वश्चादधानः सोमेन यक्ष्य - माणो भवत्येवेति अग्निसाध्यकर्माव्यवधानेन यक्ष्यमाणत्वलाभादग्निहोत्रानन्तर्यमपि तदीये सोमे नास्तीत्यपि द्रष्टव्यम् । अपि च । यावज्जीवमग्निहोत्रं जुहोति यावज्जीवं दर्शपौर्णमासाभ्यां यजतत विहितनित्यप्रयोगस्यैव फळसमर्पकं सन्निधानात्स्वर्गकामवाक्यमतो नित्यप्रयोगेन प्रत्यवायाभावः फलं क रूप्यः प्रत्यवायोपस्थितित द्वेषतत्प्रयुक्ततद भावकामनानां कल्पनामपेक्ष्य स्वर्गेच्छाया एव लाघवेन "स स्वर्गः स्यात्सर्वान्प्रत्यविशिष्टत्वादि" ति न्यायाच्च कल्पनाचित्यात् । वस्तुतस्तु वैजात्याभावेपि भूयस्त्वाल्पत्वाभ्यामेव ज्योतिष्टोमाग्निहोत्रफलयोविंशेषोपपत्तौ प्रवृत्तिसम्भवान्नैकस्याप्यप्रामाण्यं कथमन्यथा सर्वेभ्यो दर्शपौर्णमासावित्यतः सर्व फलेषु दर्शपूर्णमासयोः प्राप्ताaft नानर्थक्यम् । वस्तुतस्तु फलाधिक्यादिकल्पनमपि न युक्तं मानाभावाद्गौरवाच्च । किं तु समानफलानामपि कर्मणां शक्ताशक्तभेदेन व्यवस्थैवोचिता । अत एव " सहस्रशक्तिश्व शतं शतशक्तिर्दशापि च । दद्यादपश्च यः शक्तया सर्वे तुल्यफकाः स्मृता " इति महाभारतं सङ्गच्छते । विसशाठ्यं न का
•
Page #127
--------------------------------------------------------------------------
________________
लकाराधीनर्णयः।
११५ रोदित्यादितचद्वतप्रकरणपठितवाक्यभ्य इष्टान्यतापीयं मर्यादा सर्वेषामपि । न चैवं सोमाधिकारिणां दर्शपौर्णमासयोस्तदधिकारिणामग्निहोत्रे चामवृत्त्यापत्तिः । यावज्जीवविषिफलार्थ प्रस्युपपरित्यलं पल्लवितेन । अपि च । अस्तु प्रवृ. स्पनुरोधेन वैजात्यं तथापि त्वदुक्तरीत्यैवैतत्फलितं यदीष्टसाधनत्वस्येव सामान्यतः स्वर्गसाधनत्वज्ञानमपि न प्रवर्तकम् । किं तु तत्फळसाधनताज्ञानमेवेति । तथा च स्वर्गत्वसामानाधिका रण्येनावमेधादिजन्यत्वग्रहोपि अश्वमेधवदन्यातत्तित्वग्रहोपि र न प्रवृत्तिरिति विधिना ताशज्ञानजननमप्यफलं प्रवर्तकज्ञानविषयस्यैव विध्यर्थत्वादिति न किं चिदेतत् । यतु न साक्षाद्विषिजन्यं ज्ञानं प्रवर्तकं किं तु तत्प्रयोज्यमपरम् । अत एव विधिजन्यमानजन्यज्ञानं प्रवर्तकमिति चिन्तामणिकताप्युक्तमिति । तत्तुच्छम् । कल्पनाया विना बाधकं साक्षादुपपादकविषयत्वनियमेन साक्षात्मवर्तकज्ञानविषयएव विषिशक्तेरुचितत्वा. छ । अन्यथा "विधिवक्तुरभिप्रायः प्रवृत्त्यादौ लिङादिभिः । अभिधेयोनुमेया तु कर्तुरिष्टाभ्युपायते" त्युदयनाचार्योक्तरीत्या वभिप्राये एव च विधिशक्तिः सिध्येत् । इच्छात्वजातेशक्यतावच्छेदकत्वलाभेन लाघवात् । तथा च गतमिष्टसाधनत्वशक्तचा । साक्षात्मवर्तकज्ञानविषयस्यैव शक्यत्वमित्याग्रहे च विजातीयस्वर्गसाधनत्वएव शक्तिरुचिता। अस्मद्रीत्या विधिजन्यज्ञानादेव मवृत्तिसम्भवेन तादृशधाराकल्पने मानाभावाद्रौरपाचेत्यादि मुधीभिर्येयम् । अथैवमपि न कळजमिति निषेधानुपपतिः । कलञ्जभक्षणादेस्तृप्त्यादिरूपेष्टजनकत्वेन तदभावस्य बाधितत्वात् । एतेन श्रुतेष्टसाधनत्वाभावोपपत्तये गुरुतरानिष्टसाधनत्वं कल्प्यतइति परास्ता कल्पतरुकारागुक्तिः । य.
Page #128
--------------------------------------------------------------------------
________________
बैयाकरणभूषणे तु परिमळे गुरुतरानिष्टसाधमत्वे कल्पिते तत्पतिसन्धाने सां. रष्टिकफलाभिवत । तभिवृत्तौ च तस्येष्टत्वं नास्तीतीष्टसाधनत्वाभावस्य नहन्यादित्येतदर्थतायां न कश्चिद्दोष इति प्रपश्चितम् । तत्तु आस्तिककामुकस्य रागान्धस्य सत्यपि भाषिनरकदुःखावश्यम्भावावगमे तात्कालिकफलेच्छा नापैतीति तं प्रतीसापनत्वामावबोधकस्य निषेधवाक्यस्याप्रामाण्यापत्तिः । सन्मति प्रमाणभूतस्य च वेदस्य पुरुषभेदेन प्रामाण्यामामाण्ये न युक्तइति स्वयमेव निरस्य बलवदनिष्टाननुबन्धित्वमपि लि.
पः । तथा च विशेषणाभावापनो विशिष्टाभावो नया पतिः पापतइति न दोष इत्युक्तम् तत्मागुक्तरीत्या परास्तमेव । त. स्मात्कयमेतदिति चेत् । अत्र वदन्ति । यागादाविष्टसाधन स्वसम्बन्धित्वेनावगतस्य बलवदनिष्टाननुबन्धित्वस्य लक्षणया वा अनूदितस्य भ्रान्त्या वा प्रसक्तस्यैव निषेध इति विरोधिलभणयां ऽसुराविद्यादिवदत्राप्यनिष्टहेतुत्वमेव वागम्यतइसन्ये । न चैवमसुरा अविधेत्यत्रेव समासापत्तिः । विभाषावचनेन तस्य वैकल्पिकत्वात् । अत एव नानुयाजेषिति पयुदासे न स इति प्रागुक्तम् । तत्तत्साधनत्वं विध्यर्थ इति पक्षे स्वर्गादिपदं तरफळतात्पर्यग्राहकामिति स्वीकारादनिष्टसापनत्वं लिज्यों, नञ् तात्पर्यग्राहक इत्यन्ये । तत्साधनत्वं विध्यर्थ इति पक्षेनकलम्जामित्यत्र प्रत्यवायपरीहारसाधनत्वं विध्यर्थः । साधनस्वं चात्र तत्सत्वे नियमतः प्रत्यवायाभावस्सदभावे नियमतः प्रत्यवाय इत्यन्वयव्यतिरेकवत्त्वम् । प्रत्यवायोपि न ब्राह्मणं हन्यादित्ति विधिभेदाद्विलक्षणो ग्रामः । एवं च विध्यर्थनिषेध एक नवा क्रियते । एवं चार्यात्तद्भक्षणादौ सति प्रत्यवायः सि. ध्यति । तस्मान का चिदनुपपत्तिरित्यपरे । कलजभक्षणाभा
Page #129
--------------------------------------------------------------------------
________________
लकारार्थनिर्णयः।
११७ व प्रत्यवायपरिहारसाधनमित्येव बोध्यते । न च प्रत्ययानां म. कृत्यर्थगतेत्यादिव्युत्पत्तेः कथमप्रकृत्यर्थे ऽभावे इष्टसाधनत्वाम्वय इति वाच्यम् । अभावद्वारकमन्वयमादायोपपत्तेः। नस्थळे भिन्नव्युत्पत्तिकल्पनाद्वा । एवं चातिराने पोडशिनं गृह्णाति नातिरात्रे षोडशिनं गृहातीत्यत्रापि ग्रहणे ग्रहणाभावे चेष्टसाधनत्वं बोध्यते । फलबैलक्षण्याच्च नदोषः । अत एव कलजभक्षणा. भावविषयकं कार्यमिति गुरव इत्यपि के चित् । अथैवं सस्यग्नीषोमीयपश्वालम्भने पापापत्तिः । न हिंस्यादिति निषेधात् । प्रकृते च तत्सकोचकाभावात् । तथाहि । अग्नीषोमीयमित्यादिना बालम्बनमिष्टहेतुरवगम्यते । न हिंस्यादित्यनेन चानिष्टहेतुतोदिता । न चानयोर्विरोधः मधुविषसम्पृक्तानभोजने परकीय. मुन्दरीगमनादौ च समावेशदर्शनात् । वस्तुतस्तु पश्मालभेतेत्यपालम्भतिर्यागलक्षणार्थः । अमाप्तस्यैव तस्यात्र द्रव्यदेवतास: म्बन्धविशिस्य विधेयत्वात् । अस्तु वा पालम्भनमत्र स्पर्धनमात्रम् । विषये पायदर्शनादित्याधिकरणे वत्समालभेतेत्यग्निहोत्रप्रकरणपठितवाक्यावत्सहिंसाविधानापोरिति पूर्वपक्षे स्पश्रमात्रं तदर्य इति सिदान्तितत्वात् । तथा च त्रिवचर्वधिकरणन्यायेनं सर्वत्र स्पर्थिकत्वं सिध्यति । तत्र हि त्रिवृहहिष्पकमानमित्युक्त्वा स्तोत्रीयानवकस्य घेदेनुकान्तत्वाचदेवार्थः । कोके भिवृद्रज्जुरितिप्रयोगात् त्रैगुण्यं, चरुशब्दस्य लोके स्थाली, वेदे त्वादित्यश्चरित्युक्त्वा अदितिमोदनेनेस्युक्तत्वादोदनोर्थ इति निर्णयपि या वाक्यशेषो नास्ति तत्र निदग्निष्टुदग्निष्टोप: सौर्य चकै निर्वपदित्यादौ तत्राविशेषावुभयं प्राचं वाक्यशेषवत्यपि विकल्पेन पदार्थबोधकत्वांशे लोकदयोस्तौल्यादित्याशंक्य विध्येकवाक्यतया बलत्वाद्वाक्यशेषस्य तदुक्त एवार्थो प्रायः ।
Page #130
--------------------------------------------------------------------------
________________
११८
वैयाकरणभूषणे अन्यत्रापि वैदिकत्वादिसिद्ध एवार्यों ग्राम इति दस वक्ष्यतइत्युक्तम् । एवमत्रापि पायदर्शनात्स्पर्शार्थत्वनिर्णयादन्यत्रापि स एव ग्राह्य इति सिध्यति । एवं च विधिनिषेधयोः समानाथत्वस्यैवाभावे क बाध्यबाधकभावः । हिंसा त्वयागाच्चाक्षेपलभ्या । न प पत्नीसंयाजानां जाघनीवदन्यतः सिद्धारेव यागसिद्धेः प्रयोगात्तहि सा न कभ्यतइति वाच्यम् । प्राचीन पशुसंस्काराणां यशीयपशुद्वारा यागार्थत्वनिर्वाहायावघातादि. बदन्तरनुष्ठानसम्भवात् । अन्यथाग्नीषोमीयत्वसिद्धयभावापतेश्च । विशसनप्रकारविधायकवाक्याद्विशसनं लभ्यते । अन्यथा शस्त्रादिना हननेपि यागसिदयापत्तिरिति चेन्न । अखण्डिततत्तद.
लाभानुरोधेन मायुकरणादिदोषनिवृत्तये च विशसनप्रकारस्याप्यर्थमाप्तत्वेन विध्यनपेक्षत्वादिति तत्त्वम् । न च निन्दार्थवादमा. यश्चित्तोपदेशाधसमभिव्याहृतविधिविधेयत्वस्यानिष्टाननुवन्धिस्वव्याप्ततया पर्यवस्यद्विध्यर्थेन समं विरोधान निषेधप्रवृत्तिरिति रीतिः साध्वी । शब्दार्थयोविरोधे अन्यतरस्याप्रामाण्यभीत्या सोचकल्पना । पर्यवस्यद्विध्यर्थेन सह विरोधे न न वेदस्यामामाण्यामिति सङ्कोचकाभावात् । नाप्यशुद्धमिति चेन्नशब्दादिति सूत्रीयाहिंसारूपत्वात्पापसम्भवात् दुःखम्भवत्विति पेन । शब्दविहितत्वात् । 'हिंसा त्ववैदिकी या तु तयानर्थो ध्रुवं भवेत् । वेदोक्तया हिंसया तु नैवानर्थः कथं चने ति भाष्यस्थाहिंसात्वेन वैदिकहिंसाया अपि पापहेतुत्वात् दु:खं भवविति शहते । भशुदामिति । नहि हिंसाया पापहेतुत्वे हिंसात्वं प्रयोजकम् । किं तु निषिद्धत्वम् । तात्र नास्ति । प्रत्युत वायव्यं श्वेतमित्यादिशन्दैविहितत्वादित्याह । शन्दति । सोपाधित्वेन दूषितानुमानस्य स्मृतिविरोधं चाह । हिंसेतीति। तत्रत्यटीकास्या
Page #131
--------------------------------------------------------------------------
________________
कारार्थनिर्णयः। माध्वी साध्वी । पूर्वपक्ष्याशयानवबोधनिबन्धनत्वात् । नहि पूर्वपक्षिणो हिंसात्वेन पापमापादयन्ति । किंतु निषिद्धत्वेन । इषसाधनत्वं विधिरित्यभ्युपगन्तुस्तवापि तस्य तुल्यत्वात् । स्मूतिरप्यनन्तकमठादिश्रुतिकल्पकमध्यकरिपतैवेति न प्रमाणपथमबतरतीति ध्येयम् । एवं च वेणीप्रवेशनसहगमनादिसर्वविकोपा. पत्तिः। एवं वाजपेयेपि सुराग्रहजन्यपापापत्तिर्दुरिव । तथा चोक्तं प्रथमस्कन्धे । 'यथा पङ्केन पकाम्भः सुरया वा सुराकृतम् । भू. तहत्यां तथैवैकां न यज्ञैर्माष्टुमर्हतीति चेत् । अत्रोच्यते । “नेष्यस्यन्यान्वध्यजनान् हिंसा नैषां च धर्मतः । स्वधर्मेण च हिंसैव महाकरुणया समे" ति कर्कटुथपाख्यानस्थवासिष्ठात् । “क्षत्रधर्मर तोपि त्वं वृथा हिंसां परित्यजे' ति ब्रह्मोत्तरखण्डस्थऋषभोपदेशात् । 'या वेदविहिता हिंसा सान हिंसोत कीर्त्यत' इति श्रीधर. स्वाम्युदाहृतवाक्यात् । 'यद्घाणभक्षो विहितः सुरायास्तथा पशोराळभनं न हिंसे' ति भागवतात् । 'यहाथ पशवः सृष्टाः स्वयमेव स्वयम्भुवा । यज्ञोस्य भूत्यै सर्वस्य तस्माद्यज्ञे वो ऽवध' इति या वेदविहिता हिंसा नियता ऽस्मिश्चराचरे । अहिंसामेव तांविद्याद्वेदाद्धर्मो हि निर्वभा' विति पञ्चमाध्यायस्थमनुवाक्याभ्यां च पापाभावसिदेने दोषः । अत्र हिंसान हिंसा। आलम्बनं न हिंसा । बधो ऽवध इत्यस्याग्रिमहिंसावधशन्दयोविनां पापजनकार्थकत्वमसङ्गतः । यतु वैधाहंसायां यत्किश्चिधभेदसतेनेदं तत्र साधकामिति । तन्न । व्यर्थहिसासाम्योदा. रासङ्गतेः । अन्वयितावच्छेदकावच्छिन्नमतियोगिताकत्वस्य व्युत्पत्तिसिदत्वाच्च । अन्यथा यज्ञीयहिंसायामपि तथाप्रयोगापत्तेः । न च शुद्धपापजनिका नेति तदर्थः । तथासतीष्यनिष्टोभयजनिकेत्येवपर्यवसानेन वैयापत्तेः । विधिनिषेपवा
Page #132
--------------------------------------------------------------------------
________________
१२० । वैयाकरणभूषणे क्याभ्यां तरोधात् ॥ अत एवेजनकत्वाभावो बोभ्यतइत्यपा. स्तम् । न चैतान्यनुवादकान्येव सन्त्विति वाच्यम् । सति सार्यकत्वे तथासम्भवात् । अन्यथा तत्मख्याधिकरणोच्छेदप्रसङ्गात् । वस्मादाचनिक एवं पापाभावः प्रतिभाति । अत एव स्कान्दे दशपापमणनायां "हिंसा चैवाविधानत" इत्यविधानेन हिंसैव पापजनकत्वेनोक्ता । अत एव भगवता व्यासेन मत्रितम् । “अशुदमितिचेनशन्दादि" ति । अत एव धर्मत्वाधर्मत्वयोः शब्दैकगम्यत्वाद्वैधहिंसाया धर्मत्वेनैवोक्तत्वान्न सा धर्म इति सूत्रार्थ इत्यस्मरिपतचरणकृत्तौ व्याख्यातम् । एवं वेदाधर्मो हि निर्वभावित्यादौ वेदविहितत्वमेव धर्मत्वे धर्मासंवलने तात्पर्यार्थे च हेतुरुक्त इति सामान्यत एवैतदर्थकवचनकल्पनाच्च सुराग्रहादाव. पि पापमसक्तिः । अस्तु वै तस्य सुराग्रहस्थळे इष्टापत्तिरेव । बलोकभागवतादिना घाणभक्षविधानेन तस्य चा"नृतं मगन्धं च दिवामैथुनमेव च । पुनाति वृषलस्यान्नं बहिः सन्ध्यायापसिते"त्यादिना ऽतिस्वल्पप्रायश्चित्तविधानेन भतिविरहादिति सुधीभिावभाव्यम् । परे पुनरस्त्येव पशुहिंसादिभिर्यागादावपि प्र. त्यवायः । तथा च भगवता व्यासेन पातजले पञ्चशिखाचार्यवचनमुदाहृत्य निर्णीतम् । वचनं च "स्यात्स्वल्पः सङ्करस्सुपरिहारः सपत्यवमर्षः कुशलस्य नापकर्षानालं कस्मात्कुशलं अव बन्यदस्ती" त्यादिः । अस्यार्थः । स्वल्पः सङ्करः पशुहिंसाजन्यः प्रत्यवायः स्यादित्यन्वयः । ननु मधुविषसम्पृक्तान भोजनइवात्र प्रवृत्तिर्न स्यादिति चेन्न । बहुतरसुखानुविद्धतया तदुःखस्य श्रयादिवदायोजकत्वादिसभिप्रेत्याह । स्वल्प इति । स्वल्पत्वं च तस्माद्यज्ञे ऽवधइति शास्त्रात् । अनुदरा कन्येतिव. नबोल्पार्थकत्वात् । न चाघट इति वदभावार्थमादायास्मादेव
Page #133
--------------------------------------------------------------------------
________________
लकारार्थनिर्णयः। ... १२१ हेतोस्तत्र न प्रत्यवाय इत्येत्रोच्यतामिति शङ्कयम् । सामान न्यतः प्रवृत्तनिषेधस्य सत्यां गतौ सर्वथा सङ्कोचासम्भवात् । अत एवाह । सुपरिहरः । अल्पीयसा प्रायश्चित्तेन परिहर्नु शक्यः । अथ प्रमादतः प्रायश्चित्वं नाचरितं तथापि सप्रत्यवमर्षः क्षन्तुमर्हः । मृष्यन्ते हि महत्फलं कामयमानास्तदनुनिपादिक्षुद्रदुःखम् । अत एवाह कुशलस्येत्यादि । पृच्छति । कस्मादिति । उत्तरयति । कुशलं होत्यादि । न च हिंसाजन्यपापापेक्षया यदि स्वर्गस्याधिक्यं तदेदं सङ्गच्छताम् । तत्रैव किं मानमिति वाच्यम् । उक्तोत्तरत्वात् । पशुहिंसाजन्यपापप्रायश्चित्तस्य स्वल्पवित्तव्ययायाससाध्यतया तन्नाश्यपापस्यापि स्वल्पन्वानुमानाच्च । यागस्य च बहुवित्तव्ययायाससाध्यतया तज्जन्यस्वर्गस्य बहुत्वकल्पनात् । अत एवाश्वमेधशतकफलभोगस. मयेपीन्द्रादेरनेको रावणमहिषासुरादिभ्यो दुःखधाराश्रुतिपुराणादिषूपवार्णता सङ्गच्छते । यज्ञान्तर्गतहिंसादिजन्यपाफ्फलस्य तस्य यज्ञफलान्तरुत्पत्तेरुपपत्तिसिद्धत्वात् । अत एव पऽचशिखाचार्यवचनशेषे पठितम् । स्वर्गेप्यपकर्षमल्पमनुभविष्यतीति । अस्तु वा सुखदुःखयोस्तुल्यता । तथा ऽपि तादृशेच्छावशात्मवृत्तिर्नानुपपन्ना । निषिद्धप्रवृत्तिवत् । अत एव विशेषदर्शिनो नैतस्योत्तमत्वं स्वीचक्रुः । अतएवोक्तमेकादशे भागवते "यद् घाणभक्षो विहितः सुरायास्तथा पशोरालभनं न हिंसा । एवं व्यवायः प्रजया न रत्यै इमं विशुद्धं न विदुःखधर्म" मिति । आलम्बनमेव प्रागुक्तरीत्या यागः स्पर्शनं वा विहितं न तु हिंसति स्वधर्म न विदुः । किं तु हिंसैव विहितेत्ये. वमेव विदुः । अत एवेमं स्वधर्ममपि विशुद्धं न विदुः । दुःखप्र. योजकत्वादिति भावः । अत एवैतदनानतो निन्दा । ये त्व
Page #134
--------------------------------------------------------------------------
________________
१२२
वैयाकरणभूषणे नेवंविदो ऽसन्तस्तब्धाः सदभिमानिनः पशून्द्रुह्यन्ति विश्रब्धाः प्रेत्य खादन्ति ते च तानित्यग्रेषि सङ्गच्छते । नैवमशुद्धं विदुः । असन्तो भोगमात्ररताः । अत एव तदुपसंहारे वासुदेवपराङ्मुखा इति वक्ष्यति । विश्रब्धाः । अनेन मनोरथो भविष्यतीति विश्वस्ता इत्यर्थ इति ध्येयम् । यत्त्वेवं सानयागाननुष्ठानं स्या. दिति । तत्र वक्तव्यं, पापेन पुरुषः प्रत्यवैतु । यागस्य साङ्ग. त्वे को विरोधः । तथा च कत्रधिकरणे भट्टैरुक्तम् । “यो ना. म ऋतुमध्यस्थः कलजादीनि भक्षयेत् । न क्रतोस्तत्र वैगुण्यं यथाचोदितसिद्धित" इति । यन्तु विध्यपेक्षितप्राशस्त्यबोधकत्वमर्थवादानां सर्वसिद्धम् । तच बलवदनिष्टाननुवन्धित्वमेव । अन्यस्यासम्भवात् । अत एवान्यलभ्यत्वान्नात्र विधेः शक्तिन वा विधिनिषेधयोः साङ्कयमिति । तन्न । बलवद्वेषेण त. स्यान्यथासिद्धरक्तत्वात् । शीघूफलदातृत्वादेरेवाननुगतमाशस्त्यस्य सुवचत्वाच्चति साङ्ख्यपातम्जलानुयायिनः । तचिन्त्यम् । उक्तवचनेभ्यो निषेधाप्रवृत्तेरुक्तत्वात् । न च ततः पापस्य स्वल्पत्वकल्पनं युक्तम् । सकृत्प्रवृत्तायाः किमवगुण्ठनेनेति न्यायेन निषेधकल्प्यपापस्य साम्यांशे एव सङ्कोचकत्वासम्भचात् । सङ्कोचस्याप्येकदेशबाधत्वात् । यन्त्वनयैवानुपपत्त्या इष्टोत्पत्तिान्तरीयकदुःखाधिकत्वमपि विधिशक्तौ प्रवेशयन्त इष्टसाधनत्वं कृतिसाध्यत्वमिष्टोत्पत्तीत्यादिवयं शक्यमित्या
हुः । तथा च निषेधस्थले तादृशानिष्टजनकत्वमुच्यते । विधिना च तादृशानिष्टाजनकत्वमिति विहित निषेधः प्रवर्ततइति न ज्योतिष्टोमे पश्वालम्भनं पापजनकमिति । श्येनस्थले चेष्टसाधनत्वकृतिसाध्यत्वयोरेवान्वयान विध्यर्थबाध इति वदन्ति । अत्रेदं चिन्त्यम् । नान्तरीयकत्व
Page #135
--------------------------------------------------------------------------
________________
लकारार्थनिर्णयः। १२३ स्य दुर्वचत्वात्कथं तच्छक्यम् । इष्टजनकजन्यत्वं तद्वाच्यमिति चेन्न । ब्रह्महत्यादिसकलजन्यनरकस्य नान्तरीयकत्वापतेः। इष्टव्याप्यत्वं तदिति चेन्न । तद्यदि कालिकं तन्तिरालिकश्रमादेरप्यनान्तरीयकत्वापत्तेर्विध्यर्थबाध एव । यदि दैशिकं, तदोक्तदोषः । इष्टपूर्ववर्तित्वं तदिति चेन्न । एतस्य प्रवृत्यनु. पयुक्तत्वेन विध्यर्थत्वायोगात् । एतस्य प्रवर्तकत्वे च बहुवित्त. व्ययायाससाध्ये किञ्चिदिष्टजनके प्रवृत्त्यापत्तिः । तदानीन्तन. बलवद्वेषविषयदुःखाजनकत्वमिष्टोत्पत्तीत्यस्यार्थ इति चेन्न । ता. दृशयत्किञ्चित्पुरुषीयद्वेषविषयदुःखाजनकत्वस्य कलजभक्षणे. पि सत्त्वाद्विध्यर्थनिषेधबाधापत्तेः । सकलद्वेषविषयाजनकत्वं च न ज्योतिष्टोमेपीति विध्यर्थबाधः स्यात् । विजातीयदुःखाजनकत्वं तनिष्कर्ष इति चेन्न । ज्योतिष्टोमादिदुःखस्यापि कुतश्वि द्विजातीयत्वेन विध्यर्थबाधापत्तेः । नरकाजनकत्वं तत्त्वमिति चेन्न । ज्वरितो न भुञ्जीत नेत्ररोगे न स्त्रियमुपेयादित्यादिवैद्यकशास्त्रोक्तनिषेधानुपपत्तितादवस्थ्यात् । न कलजमित्यादिन. यो नरकाजनकत्वाभावबोधकत्वसम्भवेपि तादृशेषु दृष्टार्थकनिषेधेषु तदभावासम्भवेन बाधितार्थकतापत्तेः । वस्तुतस्तु वेदेन तथा बोधनेपि यस्य न तथा द्वेषः स एव प्रवर्तते नान्य इति विधेस्तथा शक्तिकल्पनं निष्फलम् । न चैवं ज्योतिष्टोमादौ पशुहिंसाजन्यपापापत्त्या शिष्टानामप्रवृत्त्यापत्तेस्तद्वारणाय इष्टोत्प. तीत्यादौ शक्तिः कल्प्यतइति वाच्यम् । मरणादिरूपमहानिष्टसाधनेपि सहगमनवेणीप्रवेशनादावात्माहुत्यङ्गके सर्वस्वारयज्ञे चो. स्कटफलेच्छावशादिव महतामपि प्रवृत्त्युपपत्तेर्बहुधोपवर्णितत्वा. है। किं चैवमपि न निषेधसङ्कोचलाभः । श्येनादिवनिषेधानुरो. धेनेष्टसाधनत्वकृतिसाध्यत्वमात्रबोधनेनापि विधिप्रवृत्त्युपपत्तेः ।
Page #136
--------------------------------------------------------------------------
________________
१२४ वैयाकरणभूषणे वैधहिंसायां विध्यर्थैकदेशवाधस्तु निषेधस्य सर्वथैवामवृत्तिरूपबाधान्नाधिक इत्यादिसूरिभिर्विभाव्यम् । लोडर्थमाह । प्रार्थनेति । आदिना विध्यावाशिषो गृह्यन्ते ।आशिषिलिलोटी, लोचेति सूत्राभ्यां तदवगमात् ॥ २२ ॥
लङादिक्रमेण ङितामर्थमाह ॥ ह्यो भूते प्रेरणादौ च भूतमात्रे लङादयः। सत्यां कियातिपत्तौ च भूते भाविनि लुङ् स्मृतः२३ . ह्योभूतइति । अनद्यतने भूतइत्यर्थः । अनद्यतनेलङितिसू. त्रात् । लिङर्थमाह । प्रेरणादाविति । विधिनिमन्त्रणेति सूत्रात् । आदिना आशिषिलिङ्लोटाविति विहित आशीरों गृह्यते । लुङर्थमाह । भूतमात्रे इति । भूतइत्यधिकारे लुङितिसूत्रात् । यथा अभूदित्यादि । अत्र विद्यमानध्वंसप्रतियोगित्वं भूतत्वम् । तच्च क्रियायां निर्बाधमिति विद्यमानेपि घटे घटोभूदिती प्रयोगः । लुडर्थमाह । सत्यामित्यादिना । भूते भाविनीति । हेतुहेतुमद्भावादि स्थलइत्यर्थः । तथाच हेतुहेतुमद्भावे क्रियाया अनिष्पत्तौगम्यमानायां लूडिति भावः । नन्वेवं कथमेतेष्वेवार्थेषु निर्भरः। अर्थान्तराणामपि दर्शनात् । लक्षणा तत्रेति चेन्न । वैपरीत्यापत्तेः । वक्ष्यमाणरीत्या तस्या अप्यभावाच्चेति चेन्न। सर्वेसर्वार्था इत्यभ्युपग. मात् । तत्तदर्थेषु साधुत्वाख्यापकं व्याकरणम् । न तु शक्तिपरि इछेदकमिति वक्ष्यते । तथा चार्थान्तरे सत्यनुशासने साधुत्वमि टमेव । मूलं त्वेतद्दिमदर्शनमात्रम् । सर्वे सर्वार्था इत्यनभ्युपगमे च लक्षणैव । प्रसिद्धयासिद्धिभ्यां तनिर्णयात् । परं त्वनुशासनविरुद्धा नैयायिकमीमांसकादिभिरुक्ता । तत्रतत्र लक्षणा न साधु.. स्वसम्पादिकति तत्रतत्र स्फुटीकुर्मः । वक्ष्यते चाधिकं सुवनि
Page #137
--------------------------------------------------------------------------
________________
मुबर्थनिर्णयः।
१२५ ये इत्यलमतिपल्लवितेनेति । एतेषां क्रमनियामकश्चानुवन्धक्रम एव । अत एव पञ्चमो लकार इत्यनेन मीमांसकादिभिर्लेट एवं व्यवन्हियते इति ॥ २३ ॥
इति वैयाकरणभूषणे लडाद्यर्थनिर्णयः ॥ मुपामानिरूपयति ॥ आश्रयो ऽवधिरुद्देश्यः सम्बन्धः शक्तिरेव वा । यथायथं विभक्त्यर्थाः सुपां कर्मेति भाष्यतः॥२४॥
द्वितीयातृतीयासप्तमीनामाश्रयोर्थः । अयं भावः । कर्मणि द्वितीयोति सूत्रात्कर्मरूपेर्थे द्वितीया भवति । तच्च कर्तुरीप्सि. ततममिति सूत्राद्धातूपात्तफलाश्रयः । क्रियाजन्यफलवन्त्वेन क. मेण एव कर्तुरीप्सिततमत्वात् । अत एव सिद्धे तस्मिनिच्छानिवृत्तिर्नान्यथा । एवञ्च फलाश्रयः कर्म । तत्र फलांशस्यान्यलभ्यत्वादाश्रयमात्रमर्थः । तन्त्वमेशाखण्डशक्तिरूपमवच्छेदकमिति बोध्यम् । अथ चैत्रों ग्रामं गच्छतीत्यादौ ग्रामसंयोगादिरूपफलाश्रयचैत्रादेः कर्मत्वं स्यादिति चेत् । इष्टापत्तिः । ताह द्वितीया स्यादिति चेन्न । नह्येतदेव द्वितीयाप्रयोजकं, किंतु संज्ञान्तराभावविशिष्टे नायमाना कर्मसंज्ञैव । इह च परया कतेसंज्ञया बाधेन कर्मसंज्ञाया अप्रवृत्तेने द्वितीया । एकसंझाधिकारात्समावेशस्याप्यसम्भवात् । अत एवात्मानमात्मना हन्तीत्वत्र कर्मसंज्ञोपपादनं शरीरमनोरूपमवच्छेदकभेदमादाय कृतं भाष्ये । कर्मसंज्ञायास्तु घट करोतीत्यादौ धातूपातव्यापारवत्वरूपकर्तृत्वविरहिणो घटादेरेव विषयत्वामानवकाशता । न चापासंयोगरूपधात्वर्थफलाश्रयभूभ्यादेः वृक्षाब्रूमौ पततीत्यत्रापि कर्मतापत्तिः । साक्षात्तदाश्रयताविवक्षायामिष्टत्वात् । क
Page #138
--------------------------------------------------------------------------
________________
१२६ वैयाकरणभूषणे
कर्मद्वारा तद्विवक्षायामेवाधारसंज्ञाविधानात् । अत एव द्वितीयाश्रितातीतपतितगतात्यस्तप्राप्तापनौरत्यत्र भूमि पतित इत्युदाहृतम् । न चैवमाप घटं करोतीति न स्यात्फलवन्त्वाभावादिति शङ्कयम् । उत्पत्तिरूपधात्वर्थफलाश्रयत्वात् । घटं जानातीत्यपि ज्ञानजन्यविषयावच्छिन्नाज्ञानभङ्गरूपफलशालित्वस. स्वादुपपन्नम् । न चैवमपि नष्टे तं जानातीत्यनुपपत्रम् । तत्रा. पि सूक्ष्मरूपेण स्थित्यभ्युपगमात् । उक्तं हि वाक्यपदीये । "तिरोभावाभ्युपगमे भावानां सैव नास्तिता । लब्धक्रमे तिरोभावे नश्यतीति प्रतीतय" इति । अतीतादावपि ज्ञानादविषः यतासम्बन्धेन वृत्तिस्वीकारे च तद्वदेवावरणतद्भङ्गयोरपि वृत्तिः सुवचैवेति सत्कार्यवादानालम्बेप्यदोषाचेति । वस्तुतस्तु जानातीच्छति द्वेष्टि सन्देग्धीत्याद्यनुरोधाज्ञानेच्छाद्यनुकूलो व्यापारी धात्वर्थः । स च ज्ञानजनकमनश्चक्षुःसंयोगादिरेव । अत एवं मनो जानाति चक्षुः पश्यतीति प्रयोगाः सङ्गच्छन्ते । इच्छत्यादेश्वेच्छाधनुकूलज्ञानादिरेवव्यापारः फलश्वेच्छादि । तथा च त. दाश्रयत्वाद् घटादेः कर्मत्वम् । जानात्यादेः सकर्मकत्वमप्येवमेवोपपादनीयम् । उक्तरीत्यादरे चेच्छादेस्तन्न स्यात् । न चैवमपि फलव्यापारयोः सामानाधिकरण्यात्तदसम्भव इति वाच्यम् । पचत्यादेरपि कालिकसम्बन्धेन फलसमानाधिकरणव्यापारवाचकत्वेनाकर्मकतापत्तेः फलतावच्छेदकसम्बन्धेन वैयधिकरण्यस्यावश्यंप्रवेशनीयत्वात् । प्रकृते च फलतावच्छेदका सम्बन्धो विषयता व्यापारतावच्छेदकः समवायादिरिति तेन वैयधिकरण्यमस्त्येव । फलव्यापारविशिष्टबोधककर्मकर्टमत्ययैर्यो यत्र बोध्यते स एव हि तदवच्छेदकः । स च घटादिः ज्ञानेच्छादेषमादाय घटो ज्ञायते इष्यते द्विष्यते. सन्दिखते जात
Page #139
--------------------------------------------------------------------------
________________
मुबर्थनिर्णयः। १२७ इष्टो द्विष्टः सन्दिग्ध इतिवदात्मा ज्ञात इष्टो द्विष्टः सन्दिग्धोशायते इष्यते द्विष्यतइत्यप्रयोगादात्मा जानाति इच्छति द्वेष्टि सन्दिग्धे ज्ञाता एष्टा द्वेष्टा इतिवद् घटो जानाति इच्छति द्वेष्टि सन्दिग्धे ज्ञाता एष्टा द्वेष्टेति चाप्रयोगादुक्तरीत्या विशिष्यवाभ्युपेय इति विभावयामः । अथ वा सविषयाकेषु ज्ञानेच्छाप्रयत्नसन्देहादिरेव धात्वर्थव्यापारः । विषयतैवातिरिक्ता तज्जन्या फलम् । न च तस्यां विषयज्ञानातिरिक्तायां ज्ञानजन्यायां माना. भावः । विषयो घट इति विलक्षणप्रतीतेर्मानत्वात् । विलक्षणमतीतिार्ह पदार्थभेदे मानम् । अन्यथा घटपटभेदोपि न सिध्येत् । न च भावकार्यस्य ससमवायिकारणकत्वनियमाद्भतभावि. स्थले तदभावात्फलाभावः । ध्वंसस्य प्रामाणिकत्वे भावत्वस्य व्याप्यतावच्छेदककोटिप्रवेशवद्विषयताया अपि प्रामाणिकत्वे लघुत्वात्समवेतत्वेनैव कार्यत्वस्य विशेषणात् । अतश्च ध्वंसवदेव विषयताया अपि निमित्तकारणमात्रजन्यत्वम् । अतीतानागतज्ञानादेविषयरूपविषयताविरहेण निर्विषयत्वप्रसङ्गा
च । घटत्वादिना निर्णयेपि विषयो न चेति स. न्देहाच्च । अत एव न ज्ञानस्वरूपापि । एवं ज्ञानायजन्यत्वे ततः पूर्वमपि ज्ञात इति प्रतीत्यापत्तेः तदा ज्ञानविषये इच्छाविषय इत्यव्यवहाराच्च । तथा च तदाश्रयत्वा
घटादेः कर्मत्त्वं धातोः सकर्मकत्वं च नानुपपन्नम् । अतीतादौ निवाहश्च प्राग्वदेवेति वृद्धसम्मतः पन्थाः । एवं च कुजाना. त्सादेरनुपदोक्तरीतिद्वयं उत्पत्तिसावरणभङ्गं चादाय त्रेधा तदुपपादनं शक्यम् । इच्छत्यादेरुक्तरीतिद्वये नेति विशेषः । उत्प. त्तिमादायैव च क्रियते घटः स्वयमेवेत्युपपद्यतइति दिक् । नैयायिकास्तु क्रियाजन्यफलाश्रयत्वमात्र न कर्मप्रत्ययार्थः । किं
Page #140
--------------------------------------------------------------------------
________________
१२८
मकरणभूषणे तु परसमवेतत्वमपि । तेन " भूमि श्रयावि विहगो विजहाति महीरुहम् । न तु स्वात्मान" मित्यादिप्रयोगोप्युपपद्यते । अत एव चैत्रेण ग्रामो गम्यतइति प्रयोगो न चैत्रेण चैत्र इत्यादिः । द्वितीयाकाख्यातयोस्तुल्यार्थत्वात् । इयांस्तु भेदः। द्वितीयया स्वप्रकृत्योंपेक्षया परत्वम् । आख्यातेन च स्वार्थफलाश्रयापेक्षया स्वार्थसंख्यान्वयापेक्षया वा बोध्यते । तच्च धात्वर्थक्रिया. यामन्चेति चैत्रो ग्रामं गच्छतीत्यत्र च ग्रामस्य चैत्ररूपपरनिष्ठक्रियाजन्यसंयोगरूपफलवत्त्वात्कर्मता । घटं करोतीत्यत्र च घ. टपदस्य कपाले निरूढलक्षणा । तस्य घटरूपफलशालित्वात्कर्मलं नानुपपन्नम् । कपालस्य सिद्धत्वेपि घटवन्त्वेनासिद्धत्वाक. तिविषयत्वं नानुपपन्नम् । घटं जानातीत्यादौ तद्वयवहारो भाक्त इति नेयमप्यनुपपत्तिरित्याहुः । नव्याः पुनर्न क्रियाजन्यफलशालित्वमित्याधेव कर्मत्वम् । गमेः कर्मत्वस्य पूर्वस्मिन्देशे त्यजेश्चोत्तरस्मिन् स्यन्देश्च पूर्वापरयोः प्रसङ्गात् । किं तु फलस्य पात्वर्थतावच्छेदकेत्यपि विशेषणम् । एवं च गमेः संयोवस्त्य. विभागः स्यन्देश्च न किञ्चित्फलं तथेति न दोषः । ननु प्रामं गमयति देवदत्तो यज्ञदत्तमित्यत्र प्रयोज्यकर्त्तर्यव्याप्तिः । उत्तरदेशसंयोगरूपफलस्य प्रयोजकक्रियाफलत्वाभावात् । त. दनुकूलक्रियायाः कलत्वेप्यवच्छेदकत्वाभावात् । ननु शुद्धगमधात्वर्थेवच्छेदकत्वविरहेपि सनाद्यन्तधात्वर्थप्रयोजकव्यापारं प्रति फलत्वमवच्छेदकत्वं च प्रयोज्यव्यापारस्याक्षतमेवेति चेत्, तर्हि पाचयति देवदत्तो विष्णुमित्रेणेत्यत्रापि प्रयोज्यकर्तः कर्मतापत्तौ द्वितीयापत्तरिति चेन्मैवम् । धात्वर्थफलशालित्वमिति स्वीकर्तृणां वैयाकरणानामप्येतदोषस्य दुष्परिहरत्वात् । गतिदिनत्यवसानार्थेति सूत्रेण गत्याद्यर्थानामेवेति नियमानान्येषां
Page #141
--------------------------------------------------------------------------
________________
१२९
सुवर्षनिर्णय प्रयोज्यव्यापारवत्वेन कर्मत्वामति चे, चाह, समं ममापीति ध्येयम् । एवं परसमवेतत्वघटितमप्युभंयकर्मजसंयोगस्थले ऽन्यः दीयकर्मणः स्वापेक्षिकपरसमवेतत्वात्स्वस्य च तज्जन्यसंयोगादिरूपफलशालित्वाच्चैत्रे कर्मलक्षणमतिप्रसक्तम् । चैत्र स्वात्मानं गच्छतीति प्रयोगापत्तिश्च । तस्मात्परसमवेतक्रियाजन्यफलशालित्वमपि क्रियाभेदेन भिमं वाच्यम् । एवं च परसमवेतयक्रिपाजन्यफलशालित्वं यस्य तस्य तत्क्रियाकर्मत्वं, चैत्रस्य च स्वक्रियायाः परसमवेतत्वाभावात्तामादाय नातिप्रसङ्गशङ्कापि । मैत्रक्रियामादाय च कर्मत्वमिष्टमेव । तत्रैव मैत्रश्चैत्रं गच्छतीति प्रयोगात् । एतेन प्रयोगप्रसङ्गोपि वारितः। चैत्रनिष्ठसंयोगजनकचैत्रान्यवृत्तिक्रियाश्रयस्तादृशक्रियानुकूलकृत्याश्रय इति बाशाब्दपोषासम्भवात् । स्वनिष्ठाक्रयायाः परसमवेतत्वबाधात् परसमवेतक्रियायाश्च स्वस्मिन्नसत्त्वादिति । घटं करोतीत्यत्र घटपदस्य कपाललक्षकत्वे कपालं घटं करोतीति न स्यात् । कपालनिष्ठक्रियाजन्यफलशालित्वात् । तस्माद्वह्निमनुमिनोमीत्यत्रेव घटं करोति जानातीत्यादौ विषयतायां द्वितीयाया लक्षणा रथेन ग. म्यतइत्यादाविर्व तृतीयादेः। न च द्वितीयायास्तदर्थे ऽविधानाकथमत्रार्थे द्वितीयेति वाच्यम् । द्वितीया कर्मणि शक्तेत्येवमादितत्तदनुशासनानामर्थादर्थान्तरे लक्षणयोत्पत्तिसम्भवात् । न च ज्ञानजन्यज्ञाततावत्वादस्तु कर्मतेति भाट्टी रीतिः साध्वी । ध्वस्ते घटे जानातीत्यनापत्ते, रितीदं मतं परिष्कुर्वन्ति । अत्रे. दमवधेयम् । परसमवेतत्वांशे शक्तिश्चैत्रश्चैत्रमित्यत्र शान्दबोधवारणाय साधुत्ववारणाय वा कल्प्यते । नाघः। चैत्रश्चैत्रमि. त्यादिशब्दाच्छान्दबोधस्य फलाश्रयशक्तद्वितीयायाः परसमवेतत्वादिविशिष्टे लक्षणयापि वारणात् । तार्ह शुद्ध फले का
Page #142
--------------------------------------------------------------------------
________________
१३०
वैयाकरणभूषणे
प्रयोग इति चेत् । चैत्रस्तण्डुलं पचतीत्ययमेव । अथ वा, परंसमवेतत्वस्य शक्यत्वेपि चैत्रः स्वात्मानमित्यत्र बाघान्नैतस्यान्व - योस्तु | अन्यांशमादाय तवाप्यन्वयबोधः किं न स्यात् । श्येनेनाभिचरन् यजेतेत्यादिवदिष्टापत्तौ च गतं शक्यत्वेन । अत एव तत्त्वज्ञानान्निःश्रेयसाधिगम इति न्यायसूत्रे कारणत्वार्थकपञ्चम्या नियतपूर्ववत्तित्वमात्रं योग्यताबलाद्बोध्यतइति न्यायतात्पर्यटीकायां प्रपञ्चितं सङ्गच्छते । यद्वा परसमवेतत्वस्य शक्यत्वेपि परत्वस्य केवलान्वयितया आवश्यके कार्यकारणभावान्तरे द्वितीयार्थफलमकारकबोधं प्रति द्वितीयान्तार्थावृत्तिस्तदन्यवृत्तिर्वा यो व्यापारस्तदुपस्थितिर्विषयतया हेतुरिति कार्यकारणभाव एवोच्यताम् । कुतः परसमवेतत्वमपि तदर्थः कल्प्यते । उभयकल्पने 1 गौरवतरत्वात् । परसमवेतत्वस्यान्यत्रान्वयवारणाय कार्यका रणभावान्तर कल्पनेतिगौरवाच । न च चैत्रमैत्रौ परस्परं गच्छत इत्यत्र व्यापारस्य द्वितीयान्तार्थवृत्तित्वाद्वयभिचा रः । द्वितीयान्तार्थवृत्त्यन्योन्याभावप्रतियोगितावच्छेदकण्यापारोपस्थितोर्विवक्षितत्वात् । परस्परव्यापारेपि परस्परवृत्तिभेदप्रतियोगितावच्छेदकत्वाबाधान्न दोषः । परसमवेतत्वे शक्तिग्रहशून्यस्य देवदत्तः स्वात्मानं गच्छतीत्यत्रापि बोभान्नैवं कार्यकारणभाव इति चेत्, प्रस्थितं ताईं तच्छक्यत्वेन । कृष्णः स्वात्मानं गच्छतीत्यत्र बोधस्येष्टत्वात् । परसमवेतत्वशक्तिग्रहवतस्त्वनन्वयादेव बोधासम्भवात् । नहि घटपदस्य पटे शक्तिग्रहवतः पटवोधाद् घटपदं पटे शक्तं भवति । तादृशस्य साधुत्वं स्यादिति चेन्न । प्रानिरासात् । संज्ञयोर्वाध्यबाधकभावस्य प्रागभिधानात् । नहि परसमवेतक्रियाजन्यधात्वर्थतावच्छेदकफलशालित्वं परिष्कृतमपि द्वितीयोत्पत्तौ तत्सा
Page #143
--------------------------------------------------------------------------
________________
सुवनिर्णयः ।
१३१
वे वा नियामकम् । ग्रामं गमयति देवदत्तं विष्णुमित्र इत्यत्रेव पाचयति देवदत्तेन विष्णुमित्र इत्यत्रापि द्वितीयापत्तेर्दुर्वारस्वापत्तेः । घटं जानातीच्छति करोति पश्यति शब्दं शृणोति गन्धं जिघ्रतीत्यादौ नियामकाभावेन द्वितीयानुत्पत्तिप्रसङ्गाच्च । न च सर्विषयान्यस्मिन्नेतत् । तत्र तु विषयतयान्वय एव तथेति वाच्यम् । देवदत्ताय क्रुध्यति द्रुह्यति ईर्ष्यति असूयति कृष्णाय रोचते स्वदते मोदकः । पुष्येभ्यः स्पृहयतीत्यादौ सम्प्रदानादिष्वापत्तेः । अन्यथा देवदत्तमभिक्रुध्यतीत्यपि न स्यात् । अथ संज्ञैव तन्नियामिका तर्हि तावद्वाच्यकथनं निष्फलम् | शाब्दबोधातिप्रसङ्गस्याप्युक्तरीत्यैव निरस्तत्वात् । तस्माम परसमवेतत्वमर्थः कल्प्यः । एवमवच्छेद केत्यपि व्यर्थम् । धात्वर्थफलशालित्वस्यैव तथात्वे लाघवात् । नैयायिकनवीनैः फळव्यापारयोः पृथक शक्तचभ्युपगमेन तथा वक्तुमशक्यत्वाच्च । न च घटो भवतीत्यादौ धात्वर्थाश्रये कर्मत्ववारणाय तत्कल्प्यतइति वाच्यम् । तत्रापि कर्तृसंज्ञया कर्मसंज्ञाया बाधेनादोषात् । व्याप्तिरेव भवत्यादौ फलामेति प्रागभिहितपक्षे aerat शङ्काया अध्यभावाच्च । नैयायिकादीनामकर्मकेषु फलस्याभावाच्च । यत्तु द्वितीयादिवाच्यं फलमिति । तन्न । धातोः फलवाचकतायाः कृषकर्मकता पत्तेरित्यत्र व्युत्पादितत्वेनान्यलभ्यतया द्वितीयायास्तत्र शक्तिकल्पनाऽयोगादिति सुधीभिम् । यस्तु कर्मत्वत्वादिना बोधात्तत्तद्रूपेणैव शक्तिः । किं चाश्रयत्वरूपस्य तस्य संसर्गत्वेन भानमभ्युपेयम् । तथा च संति तण्डुलः पचतीत्यत्रापि तथा बोधापत्तिः । न च द्वितीयांसमभिव्याहार एव तादृशबोधे कारणम् । प्रथमायाः कर्मत्वे शक्तिग्रहदशायां तण्डुलः पचतीत्यत्रापि तथा बोधेन व्यभिचा
A
-
Page #144
--------------------------------------------------------------------------
________________
१३२
वैयाकरणभूषणे रादित्याहुः । सञ्चिन्त्यम् । कर्मत्वत्वादिना बोधस्य ता. दृशव्युत्पत्यधीनत्वेनाप्रमाणत्वात् । सर्वेषां तथाननुमवात् । फलांशस्य धातुना आश्रयत्वांशस्य संसर्गतयापि लाभे विशिष्टशक्यत्वस्यान्याय्यत्वाच्च । आश्रयत्वरूपकर्मत्वस्य शक्यत्वे आश्रयत्वत्वस्यावच्छेदकत्वापत्तौ गौरवाच्च । तण्डुलः पचतीत्यायतिप्रसङ्गः परेषामपि समानः । तण्डुलपदोत्तराम्पदज्ञानत्वेन हेतुता, तण्डुलः पचतीत्यत्र तदभावानास्माकमतिमसङ्ग इति चेन्न । तण्डुलान् पचतीत्यत्राम्पदाभावेपि बोधेन व्यभिचारात्तथा हेतुहेतुमद्भावासिद्धेः । तण्डुलपदोत्तरद्वितीयाज्ञानत्वेन हेतुत्वमिति चेन्न । तण्डुलवाचकपर्यायान्तरस्थलोप बोधेन व्यभिचारात् । तण्डुलार्थकपदोत्तरकर्मत्वार्थकपदजन्योपस्थितित्वेन हेतुत्वमित्यत्र यदा तण्डुलपदान तण्डलोपास्थितिः द्वितीया च कमत्वस्य वृत्ता । एवं सोस्तीत्यत्र तण्डुलार्यकाचत्पदाचण्डुलोपस्थितिश्च वृत्ता तत्रापि त्वदुक्तसामग्रीसत्वादोधापत्तेः । नन्वेतदर्थ कर्मताविशेष्यकशान्दबुद्धित्वावच्छिवं प्रति कर्मत्ववाचकविभक्तिमाग्वार्तिपदजन्यज्ञानत्वेन हेतुत्वम् । घटं पटमित्यादिसाधारण्यात् । एवं स्वाधेयतासंसर्गावच्छिनघटमकारकशाब्दबुद्धित्वावच्छिमं प्रति घटवाचकपदोत्तरविभक्तिज्ञानत्वेन हेतुत्वं वाच्यं, घटं घटेनेत्यादिसाधारण्यात्तथा च न दोष इति चेन्न । यत्र तच्छन्दादेव घटकर्मत्वोपस्थितिस्तत्र वि. भक्तिं विनापि बोधेन व्यभिचारात् । कर्मत्वधार्मिकघटविधेयकशाब्दबोधे एव तहेतुरित चेन्न । प्रथमायाः कर्मत्वे शक्तिभ्रमदशायां बोधेन त्वदुक्तरीत्यैव व्यभिचारात् । पटपदस्य घटे शक्तिभ्रमपि बोधाच्च । अथ तारशबोधं प्रति कर्मत्वोपस्थापकविभक्तिमारवर्तिपदजन्यज्ञानत्वेन हेतुत्वं वाच्यम् । एवं ताह
Page #145
--------------------------------------------------------------------------
________________
मुबर्थनिर्णयः। शवोधे घटोपस्थापकपदोत्तरविभक्तिजन्योपस्थितित्वेन हेतुत्वमिति चेन्न । व्यभिचारात् । घटः कर्मत्वमित्यत्रापि तथा व्युत्पत्तिसत्त्वे बोधस्य सर्वसिद्धत्वात् । अथ कर्मत्ववोषकपदप्राग्वचिपदज्ञानत्वेन हेतुत्वं वाच्यम् । एवं परत्रापि घटोपस्थापकपदोत्तरपदजन्यज्ञानत्वेन हेतुत्वं वाच्यमिति चेन । पदमात्रे व्युत्पन्नानां तादृशानुपूर्वीज्ञानतात्पर्यज्ञानादिमतामपि बोधापत्तेः। सामग्रीसत्त्वात् । घटः कर्मत्वमित्यत्रापि विपरीतव्युत्पत्तिरहितस्य बोधापत्तेश्च । अथ घटप्रकारककर्मत्वविशेष्यकशाब्द.. बुद्धिं प्रति घटोपस्थापकपदोत्तरकर्मत्वार्थकपदजन्यज्ञानत्वेन हे. तुत्वमिति कार्यकारणभावग्रहोपि हेतुरभ्युपेयः । तथा च नौदनः पचतीत्यत्रातिप्रसङ्गः । अनयैव रीत्या विभक्तयन्तरोपि का. र्यकारणभाव ऊहनीय इति चेत् । समानं तस्माकमपि । क. मणि शक्तयभ्युपगमात् । एतावांस्तु विशेषो यत्परेषां कर्मत्वबोधकपदघटितानुपूर्वीत्वेन प्रवेशोस्माकं पुनः कर्मबोधकपदवेन. तत्रास्माकमेव लाघवम् । न च भवन्मते आश्रयमात्रमर्थः । त.. था चाश्रयवाचकपदप्रवेश कार्यस्तथा चौदनेन पचतीत्यत्रापि कर्मविशेष्यकबोधापत्तिरिति वाच्यम् । आश्रयशब्दस्यैक्येपि, कर्मकरणादौ शक्यतावच्छेदकीभूताश्रयत्वस्य तत्तच्छक्तिरूपस्य . भिन्नस्याभ्युपगमात् अन्यथा द्वितीयादेः पर्यायतापत्तेः । अ.. स्तु वा फलाश्रयत्वरूपकर्मत्वेन कार्यकारणभावे प्रवेशो । नैता-. वता फलांशस्य द्वितीयार्थता । अशक्यत्वेपि फलस्य तनिष्ठत्वा.. नपायादित्यायुधम् । तस्मात्सिद्धमात्रं द्वितीयार्थ इति । एतच्च सम- : विमित्युक्तं वाक्यपदीये। “निर्वत्यै च विकार्य च प्राप्यं चति त्रिधामतम् । तेच्चेप्सिततमंकमं चतुर्धान्यच कल्पितम् ॥औदासीन्येन यत्माप्यं यच्च कर्तुरनीप्सितम् । संज्ञान्तरैरनाख्यातं यद्यच्चाप्य: .
Page #146
--------------------------------------------------------------------------
________________
. वैयाकरणभूषणे न्यपूर्वकामति ॥ निवादित्रितयस्य लक्षणमप्युक्तम् । सती वा ऽविद्यमाना वा प्रकृतिः परिणामिनी । यस्य नाश्रीयते तस्य नित्यत्वं प्रचक्षते ॥ प्रकृतेस्तु विवक्षायां विकार्य कैश्चिदन्यथा। निर्वयं च विकार्य च कर्म शास्त्रे प्रदर्शितम् । यदसज्जायते सद्वा जन्मना यत्प्रकाशते । तन्निवयं विकार्य तु द्वेषा कर्म व्यवस्थितम् ॥ प्रकृत्युच्छेदसम्भूतं किं चित्काष्ठादिभस्मवव । किं चिद् गुणान्तरोत्पत्त्या सुवर्णादिविकारवत् ॥ क्रियाक. तविशेषाणां सिद्धिर्यत्र न गम्यते । दर्शनादनुमानाद्वा तत्माप्य. मिति कथ्यते इति ॥ तत्र निर्वय॑म् घटं करोति । अत्र घटस्य प्रकृतिः सत्यपि न परिणामित्वेन विवक्षिता । भस्म करोतीत्यत्रापि काष्ठादिप्रकृतेरविद्यमानाया अविवक्षायां निर्वय॑तैव । एवं घटं करोतीत्यत्रापि प्रकृतेः परिणामित्वेनविवक्षायांविकार्यतैवे ति केचित् । अन्ये तु घटं करोतीति निर्वयमेव । घटादि चासदेव नैयायिकादिनये । सदिति स्वरीत्या सांख्यादिमते च । अत एष वक्ष्यति । उत्पत्तेः प्रागसद्भावो बुद्धयवस्थानिबन्धनः । अविशिष्टः सतान्येन कर्ता भवति जन्मनः ॥ कारणं कार्यभावेन यदा वा व्यवतिष्ठते । कार्यशब्दं तदा लब्ध्वा कार्यत्वेनोपजायते ॥ ययाः कुटिलीभावो व्यग्राणां वा समग्रता । तथैव ज. न्मरूपत्वं सतामेके प्रचक्षत इति ॥ विकार्य च द्विविधम् । प्रकृत्यु. च्छेदसम्भूतम् । प्रकृतिभूतस्यात्मन उच्छेदसम्भूतं प्राप्तम् । काष्टं भस्म करोति । गुणान्तरोत्पत्या। सुवर्ण कुण्डकं करोति । अत्र काष्ठसुवर्णयोः परिणामित्वविवक्षाविवक्षयोरपि भस्मकुण्डलरूपकमणोनित्यतैव । काष्ठसुवर्णयोस्तु विकार्यत्वमित्यवधेयम् । प्रा. प्यम् । रूपं पश्यतीति । अत्र क्रियाकृतो विशेष आवरणभङ्गरूपोस्त्येव प्रतिपत्तृगम्यश्चेति यद्यपि, तथापि प्रतिपत्तृव्यतिरि
Page #147
--------------------------------------------------------------------------
________________
मुबर्थनिर्णयः।
१३५ तपुरुषापेक्षया विशेषो न गम्यतइति क्रियाकृतेत्यस्यार्थो बोध्यः। औदासीन्येन । ग्रामं गच्छन् तृणं स्पृशति । कर्तुरनीप्सितम् । विषं भुङ्क्ते । संज्ञान्तरैरनाख्यातम् । अकथितमित्यर्थः । गां दोग्धि । अन्यपूर्वकम् । संज्ञान्तरमसले इत्यर्थः । क्रूरमभिक्रुध्यतीत्यादि सुधीभिरूह्यम् । ननु काष्ठं विकार्य कर्मेत्युक्तमयुक्तम् । क्रियाजन्यफलाश्रयत्वाभावादिति चेत् । अत्राहुः । प्रकृतिवि. कृत्योरभेदविवक्ष या निरूढयोत्पत्याश्रयता । यद्वा । काष्ठानि विकुर्वन्भस्म करोतीत्यर्थः । तण्डुलात् विक्लेदयनोदनं निवर्तयतीतिवत् । एतच्च द्वयर्थः पचिरिति प्रक्रम्य भाष्ये व्युत्पा. दितमिति ग्रन्थकृतः ॥ तृतीयाया अप्याश्रयोर्थः । तथाहि । करीकरणयोस्तृतीया। तत्र स्वतन्त्रः कर्ता। स्वातन्त्र्यं च धातूपातव्यापारवत्त्वम् । धातुनोक्तक्रिये नित्यम् कारके कर्तृतेष्यतइति वाक्यपदीयात् । अत एव स्थाल्यादिव्यापारस्यापिधातुनाभिधाने स्थाल्यादेः कर्तृत्वम् । स्थाली पचतीति दर्शनात् । उक्तं हि वाक्यपदीये । 'धमैरभ्युद्यतैः शब्दे नियमो न तु व. स्तुनि । कर्तृधर्मविवक्षायां शब्दात्कर्ता प्रतीयते ॥ एकस्य बु. ध्यवस्थाभिर्भेदेन परिकल्पने । कर्मत्वं करणत्वं च कर्तृत्वं चोपजायते' इति । नन्वेवं "कर्मकर्तृव्यपदेशाच्चे"ति सूत्रे 'मनोमयः प्राणशरीर' इति वाक्यस्थमनोमयस्याब्रह्मत्वे 'एतमितः प्रेत्याभिसम्भवितास्मीति प्राप्तिकर्मत्वकर्तृत्वव्यपदेशो विरुद्ध इति भगवता व्यासेन निर्णीतं कथं सगच्छताम् । एव 'मधिकं तु भेदनिर्देशादि' ति सूत्रे जगत्कारणं ब्रह्म शरीरादधिकम् । 'आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्य' इत्यादिषु कर्तृकर्मभावभेदेन व्यपदेशादिति निर्णीतम् 'भेदव्यपदेशाच्चे' ति सूत्रे मुमुक्षोः । प्राणभृतः सकाशाद्तव्यस्य धुभ्वाद्यायतनस्य 'तमेवैकं जा..
Page #148
--------------------------------------------------------------------------
________________
१३६
वैयाकरणभूषणे नष आत्मान' मित्यत्र बातृशेयभावेन भेदेन व्यपदेशाद्भेद इतिनि गीतमितिचेत् उच्यते। जीवस्यैव शेयत्वे प्राप्तिकर्मत्वषपि वाच्यम् । कर्तृत्वं च तस्याख्यातेनोक्तम् । न चैकस्यैकदा संबाद्वयं युक्तम् । कर्तृसंज्ञया कर्मसंज्ञायों बाधात् । तथा चैतमिति द्वितीया न स्यात् । कर्मकर्तृतायां च यगाद्यापत्तिः । किं चैवमपि कर्तृसंजया कर्मसंज्ञाया वाधात् द्वितीयानुपपचिरिति भवति शब्दविरोधद्वारा स भेदहेतुरिति । अत एव व्यपदेशानिर्देशादित्यापि सअच्छते । अन्यथा कर्तृत्वकर्मत्वाभ्यामित्यायेवावक्ष्यत् । एवमन्यत्राप्यवधेयम् । अत एव घटो भवतीत्यत्र घटव्यापारस्य धातूपात्तत्वात्तत्रास्य कर्तृत्वमुपपद्यतइति भामत्याम् । धातूपात्तव्यापाराश्रयः कति कर्त्तलक्षणयोगाद् घट एवोत्पत्तिक
ति कल्पतरौ चोक्तं सङ्गच्छते । अत एव 'यज्ज्वलन्ति हि काटानि तकि पाकं न कुर्वतइत्याहुः । अत एव बाधलक्षणे ऽस्थियज्ञे ऋत्वर्थ तु क्रियते गुणभूतत्वादिति क्रत्वाभ्युच्चयाधिकरणे । न चैतन्यायापेक्षं कर्तृत्वं काष्टादीनामपि ज्वलना. दौ कर्तृत्वात् । यस्यैवान्यापेक्षया आख्यातोपात्तव्यापारसमवा. यः स कर्ता । तस्माच्छुक्रान्वारम्भणादिकास्थिभिः कर्तव्यमिति सिद्धान्तितम् । स च व्यापार आख्यातार्थो धात्वर्थो वे. त्यन्यदेतत् । एवं चात्रापि व्यापारांशस्य धातुलभ्यत्वादाश्रयमात्रमर्थः । यथा च स्थाल्यादिव्यापारस्याभिधानेपि देवदत्तः चास्थाल्या पचति स्थाल्यां वेति नासङ्गतं तथोक्तमवस्तात् । या कृत्याश्रयः कर्ता। कर्तेत्यत्र कृधातोः कृतिवाचकत्वावर श्रयवाचकत्वादिति योगार्थबलात्तत्राश्रयांशस्य प्रकृत्यैव लाभास्कृतिरेवार्थ इति । तन्न । कृतेरपि धातुलभ्यताया अस्माभिव्युपादनात् । यन्तु सामग्रीसाध्ययां क्रियायां सर्वेषां स्वस्वव्या
Page #149
--------------------------------------------------------------------------
________________
सुवर्थनिर्णयः। पारे स्वातन्त्र्यात्स्वतन्त्र इत्यव्यावर्तकामति । तम । धातूपात्त. व्यापारवत्त्वरूपं स्वातन्त्र्यं पारिभाषिकं नैकदा सर्वेषामिति प्रा. गुक्तत्वात् । माधवाचार्याः पुनातुवृत्तौ " प्रागन्यतः शक्तिलाभान्न्यग्भावापादनादपि । तदधीनप्रवृत्तित्वात्मत्तानां नि. वर्तनात् ॥ अष्टत्वात्मतिनिधेः प्रविवेके च दर्शनात् । आरादप्युपकारित्वात्स्वातन्त्र्यं कर्तुरुच्यते" इति वाक्यपदीयेन स. मादधिरे । तदर्थस्तु करणादितः प्रागेव परस्मादार्यतादेरेव निमित्ताकर्ता प्रवर्त्तते । करणादि तु तदधीनप्रवृत्ति । तथाहि । अर्थी हि कता तत्प्रयुङ्क्ते न तदेनम् । किं च तस्य प्रतिनिधिईश्यते ब्रीह्यभावे नीवारिज्यते । कत्र्तः स नास्ति । तद्भदे क्रियान्तरमेवेति प्रसिद्धिः । किश्च । कारकान्तरानुपादानेप्यसौ दृश्यते भवत्यादिष्वित्यादिरिति च वदन्ति । अत्राचेतने दण्डः करोतीत्यादौ कथं कर्तृत्वम् । लक्षणाया अपि स्वेच्छामात्रेण बहुशो निराकृतत्वादिति चिन्त्यम् । अयं च त्रिविधः । शुद्धः प्रयोजको हेतुः कर्मकर्ता च । देवदत्तेन हरिः सेव्यते । कायते हरिणा । गमयति कृष्णं गोकुलम् । अत्र देवदत्ताभिमाश्रयको हरिकर्मकः सेवनानुकूलो व्यापारः । हर्यभिन्नाश्रयक उ. त्पादनानुकूलो व्यापारः । गोकुलकर्मकगमनानुकूलकृष्णाश्रयकताहशव्यापारानुकूलो व्यापार इत्यायूह्यम् । यतु कारकपरीक्षायाम् । तत्र पञ्चविधः कर्तेति प्रतिज्ञायाभिहितकर्ताऽनभिहिकर्ता चेति भेदद्वयमुक्तम् । तद् भ्रान्त्यैव । उक्तत्रयस्यैवाभिधानमनभिधानं चेति तदतिरिक्तभेदाभावात् । अन्यथा प्रयाणामप्यभिधानानभिधानाभ्यां भेदषट्काप्रत्तिरिति पश्वविधत्वासङ्गतिश्च । अन्यथा कर्म सप्तविधमित्यप्यसङ्गतं स्यात् । नवविधत्वापत्तेरित्यवधेयम् । करणतृतीयाया अप्या
Page #150
--------------------------------------------------------------------------
________________
१३८
वैयाकरणभूषणे भयो व्यापारश्चार्थः । तथाहि । साधकतपकरणम् । तमपर्यः प्रकर्षः । प्रकृष्ट कारणमित्यर्थः । प्रकर्षश्च यम्मापारानन्तरमव्य. षधानेन फलोत्पत्तिस्तत्वम् । एवं च सर्वावपि कारकाणि विवक्षया करणानि । उक्तं च वाक्यपदीये । "क्रियाया परि. निष्पत्तिर्यव्यापारादनन्तरम् । विवक्ष्यते यदा यत्र करणं तत्त. दा स्मृतम् ॥ वस्तुतस्तदनिर्देश्यं नहि वस्तु व्यवस्थितम् । स्थाल्या पच्यतइत्येषा विवक्षा दृश्यते यत" इति । एवं चाश्रयांशो मूळे उपलक्षणमिति बोध्यम् । अथैवं सर्वेषां कारकाणां करणस्वे सर्वत्र तृतीया स्यादिति चेन्न । विवक्ष्यते पदा यत्रेत्यत एव तद्वारणात् । न चैकदा सर्वेषां विवक्षति । नन्वेवं "कर्ता शा. स्वार्थवावा"दित्युत्तरमीमांसाधिकरणे "शक्तिविपर्ययादि"तिसू. प्रेणान्तः करणस्य कर्तृत्वे करणशक्तिविपर्ययापत्तिरुक्ता न यु. ज्यतेति चेत् । सत्यम् । अभ्युच्चयमावं तदिति यथा च तक्षोभयत्यधिकरणे भाष्यादौ स्पष्टत्वादिति । अधिकरणसप्तम्या अप्याभयमात्रमर्थः । तथाहि । आधारोधिकरणम् । तच्चाश्रयत्वम् । तत्राश्रयोथैः । भाश्रयत्वं चाखण्डशक्तिरूपमवच्छेदकम् । न चाश्रयत्वमात्रेण कर्तृकर्मकरणानामाधारसंज्ञा स्याछ । स्यादेव यदि तत्संज्ञाभिः स्वविषये ऽस्या न बाधा स्यात् । नन्वेवमपि द्वितीयातृतीयासप्तमीना पर्यायवापचिरिति चेन । फलाश्रये द्वितीयायाः व्यापाराश्रये तृतीयायाः कर्त. कर्माश्रये सप्तम्या विधानात् । यद्यपि कारके इत्यधिकृत्योक्तापाः सप्तम्याः क्रियाधारे इत्यर्थो कभ्यते । तथापि कर्तृकर्मदास तदाश्रयत्वमक्षतमेवेति न दोषः । उक्तं हि वाक्यपदीये "कतृकर्मव्यवहितामसाक्षादारयस्त्रियाम् । उपकुर्वत् क्रियासिद्धौ शास्त्रधिकरणं स्मृत"मिति । एतच त्रिविधम् । औपश्लेषिक
Page #151
--------------------------------------------------------------------------
________________
मुबर्थनिर्णयः। धैषयिकमभिव्यापकं चेति । कटे आस्ते । गुरौ वसति । मोक्षे इच्छास्ति । तिलेषु तैलमिति । एतच्च संहिता. यामिति सूत्रे महाभाष्ये स्पष्टम् । अवधिः पञ्चम्यर्थः । अपादानेपञ्चमीति सूत्रात् । सच्च रुवमपायपादानमिति सूत्रादपायो विश्लेषस्तद्वत्त्वे सति तज्जनकक्रियावधिभूतमपादानमित्यर्थकादवधिभूतमिति भावः । उक्तं च पाक्यपदीये । "अपाये यदुदासीनं चलं वा याद वाचलम् । ध्रुवमेवातदाघेशात्तदपादानमुच्यते ॥ पततो रुव एवाश्चो यस्मादश्चात्पत. त्यसौ । तस्याप्यश्वस्य पतने कुड्यादि रुवामिष्यते ॥ उभावप्यध्रुवौ मेषौ यद्यप्युभयकर्मके । विभागे प्रविभक्ते तु क्रिये तत्र विवक्षिते ॥ मेषान्तरक्रियापेक्षमवधित्वं पृथक्पृथक् । मेष. योः स्वक्रियापेक्षं कर्तृत्वं च पृथक्पृथगि,,ति । अस्यार्थः । अपाये इति सतिसप्तमी । तथा च विश्लेषवन्त्वे सति तदेतुक्रियायामुदासीनमनाश्रयः । अतदावेशात् । विश्लेषहेतुक्रियानाश्रयत्वादो एवं च विश्लेषहेतुक्रियानाश्रयत्वे सति विश्लेषाश्रयत्वं कलितम् । वृक्षात्पर्ण पत्तीत्यत्र पर्णस्य तद्वारणाय सत्यन्तम् । धावतोश्वात्पततीत्यत्राश्वस्य क्रियाश्रयत्वाद्विश्लेषहेविति । कु. ड्यात्पततो ऽश्चात्पवतीत्यत्राश्वस्य तादृशक्रियाश्रयत्वोपि तत्र विरुद्धमित्याह । यस्मादश्वादिति । तद्विश्लेषहेतुक्रियानाश्रय सतीति विशेषणीयम् । तथा च पुरुषपतनहेतुक्रियानाश्रयत्वं विरुदमिति भावः । एचमश्वनिष्ठक्रियानाश्रयत्वात्कुड्यादेखि ध्रुवस्वमित्याह । तस्यापीति । ननूभयकर्मजविभागस्थले परस्स. रस्मान्मेषावपसरत इत्यादौ विभागस्यैक्याचदिश्लेषजनकक्रियानाश्रयत्वाभावादपादानत्वं न स्यादित्यत आह। उभावपीति । मेपान्तरइति । यथा निश्चलमेषादपसरदद्वितीयमेषस्थळे पसर- .
Page #152
--------------------------------------------------------------------------
________________
१४०
वैयाकरणभूषणे दाद्वितीयमषक्रियामादयापरस्य ध्रुवत्वम् । तथात्रापि विभागस्यैक्योपि क्रियाभेदादेकनिष्ठक्रियामादायापरस्य ध्रुवत्वामित्यर्थः । तथा च विश्लेषाश्रयस्वे सति तजनकतक्रियानाश्रयत्वं तक्रियायामपादानत्वमिति भावः । न चैत्रमपि उक्षात्स्यन्दतइति स्यादिति शङ्कथम् । आसनाच्चलित इ. तिवदिष्टत्वात् । न चैवमपि वृक्षात्त्यजतीति दुष्परिहरम् ।
सस्य धात्वर्थफलाश्रयत्वेन कर्मसंज्ञया अपादानसंज्ञाया बाधेन पञ्चम्ययोगात् । तस्मादुक्तावपित्वान्तर्गतव्यापारांशस्य धातुनैव लाभादाश्रयो विभागश्चार्थ इत्याद्यवधेयम् । नैयायिकाः पुनः परसमवेतत्वं विभागश्च पञ्चम्यर्थः । विभागमानार्थकत्वे पर्णात्पर्ण पततीति स्यात् । न च धात्वर्थतावच्छेदकफलानाश्रयत्वे सतीत्यपि विशेषणम् । अघोदेशे वृक्षे एव लग्ने पर्णे वृक्षात्पततीत्यनापत्तेः । न च विभागार्थकपञ्चम्याः परसमवेतत्वविशिष्टे लक्षणा तस्य च धात्वर्थेन्वयः । परत्वं च त्वद्रीत्येव स्वमकत्यापेक्षयेति वाच्यम् । शुद्धशक्तया प्रयोगस्थलाभावाव । अन्यथैवकारस्य व्यवच्छेदमात्रे शक्तिः पार्थान्यत्वादिविशिष्टे लक्षणा फलमेव द्वितीयार्थः परसमवेतत्वे लक्षणेत्यपि स्यात् । एवं च परसमवेतत्वं शक्यमेव । तथा च वृक्षात्पर्ण प. ततीत्यादौ वृक्षनिष्ठविभागानुकूलवृक्षान्यसमवेतपतनानुकूलव्यापारवदिति बोधः । परस्परस्मान्मेषावपसरत इत्यादौ एतन्मेषनिष्ठविभागजनकैतन्मेषान्यनिष्ठापसरणाश्रय इति रीत्या स्वयंमूहनीयमित्याहुः ॥ इदं पुनरिहावधेयम् । विभागाश्रयत्वमात्रमर्थः । न त्वस्मद्रीत्या विश्लेषजनकक्रियाविशेषानाश्रयत्वमर्थः । पररीत्या च परसमवेतत्वमिति युक्तम् । व्यर्थत्वात् । पर्णात्पर्णामति प्रयोगस्यैकदा कत्रपादानसंज्ञयोर्बाध्यबाधकभावेना.
Page #153
--------------------------------------------------------------------------
________________
मुबर्थनिर्णयः।
१४१ सम्भवात् । अन्यथा ग्रामं त्यजतीत्यादौ त्यजिकर्मण्यातव्याभर्दुरित्वापत्तेः । शाब्दबोधस्यापि द्वितीयार्थनिर्णये निरस्तत्वादिति दिक् । बलाहकाविद्योततइत्यादौ निःसृत्येत्यध्याहृत्यावधित्वं द्रष्टव्यम् । रूपं रसात्पृथगित्यादावपि बुद्धिपरिकल्पितमपादानत्वं नानुपपन्नम् । इदं च "निर्दिष्टविषयं किं चिदुपात्तविषयं तथा । अपेक्षितक्रियं चेति त्रिधापादानमुच्यते" इति पाक्यपदीयात्रिविषम् । यत्र साक्षादातुना गतिनिर्दिश्यते तनि. दिष्टविषयम् । यथाश्चात्पतति । यत्र तु धात्वन्तरार्थाङ्ग स्वार्थ धातुराह, तदुपात्तविषयम् । यथा बलाहकाद्विद्योततइति । नि:सरणारे विद्योतने द्युतिर्वर्तते । यथा वा कुसूलात्पचतीति । आदानाङ्गे पाकेत्र पचिर्वर्तते । यत्र प्रत्यक्षासद्धमागमनं मनसि निधाय पृच्छति तदपोक्षितक्रियम् । यथा कुतो भवानिति पृच्छति । पाटलिपुत्रादिति चोत्तरयति । अत्रागमनमर्थमध्याहत्यान्वयः कार्य इत्याह्यम् ॥ उद्देश्यः सम्प्रदानचतुर्थ्यथः । तथाहि । चतुर्थीसम्पदाने इति सूत्रात्सम्प्रदाने चतुर्थी । तच कर्मणायमभितिससम्पदानमिति सूत्रात्कर्मणा करणभूतेन क; यमभिप्रैति ईप्सति तत् कारकं सम्पदानं स्यादित्यर्थकादुद्देश्यविशेषः । सम्यक् प्रदीयते यस्मै तत्सम्प्रदानमित्यन्वर्थसंहां स्वीकृत्य स्वस्वत्वत्यागपूर्वकत्यागोद्देश्यत्वं चतुर्थ्यर्थ इति तु वृत्त्यनुसारिणः । भाष्यकारास्तु खण्डिकोपाध्यायस्तस्मै चपेटां ददाति, न शूद्राय मतिं दद्यादित्यादिप्रयोगान्नैतावत्पर्यन्तमर्थः । रजकस्य वस्त्रं ददातीत्यादितु शेषत्वमानविवक्षायां षष्ठीत्याहुः । नन्वेवमजा नयति ग्राममिति नयतिक्रियाकर्मभिरजैः सम्बध्यमानस्य ग्रामस्यात्र सम्प्रदानत्वं स्यादिति चेन । यमभिप्रैतीत्युक्त्या हि यमिति निर्दिष्टस्योद्देश्यत्वलक्षणं शेषित्वं कर्मणेति निर्दिष्ट
Page #154
--------------------------------------------------------------------------
________________
१४२ वैयाकरणभूषणे स्य गवादेः शेषत्वं च प्रतीयते । न चेह ग्रामं प्रत्यजा शेषभूता। अत एवं प्रयोजकलक्षणे पासनवन्मत्रावरुणाय दण्डप्रदानमित्यधिकरणे क्रीवे सोमे मैत्रावरुणाय दण्डं प्रयच्छतीति वि. हितं दण्डमदानं न प्रतिपत्तिः किं तु द्वितीयापेक्षया बलीयस्या चतुर्थीश्रुत्या अर्थकर्मेत्युक्तमिति पन्चितं शब्दकौस्तुथे । इदं चा "निराकरणात्कर्तुस्त्यागार कर्मणेप्सितम् । प्रेरणानुमविम्या च लभते सम्पदानता" मिति वाक्यपदीयात्त्रिविधम् । आचं सूर्यायायं ददाति । नात्र मूर्यः प्रार्थयते न चानुमन्यते न च निराकरोति । प्रेरकं यथा । विप्राय गां ददाति । अनुपन्त यथा । उपाध्यायाय गां ददाति । ननु दानस्य तदर्थत्वात्तादर्थ्यचतुर्थैव सिदौ सम्पदानचतुर्थ्यारम्भो व्यर्थ एवेति चेन्न । दानक्रियार्थ हि सम्पदानं न तु दानक्रिया तदर्था । कारकाणां क्रियार्थत्वात् । सम्पदानार्थ तु दीयमानं कर्मेति वाक्यार्थभूताया दानक्रियाया अतादातादर्थ्यचतुर्थ्यप्रवृतेः । तदेतत्सूत्रयति । त्यागावं कर्मणेप्सितमिति हेकाराजीपादौ सम् । अब सर्वत्र प्रकृतिप्रत्ययार्ययोरभेदं एव संसर्गः। विभक्तीनां धर्मियाचकत्वात् । न च धर्मवाचकतैव किं न स्यादिति वाच्यम् । आ. श्रयत्वरूपस्य वाच्यत्वे आश्रयत्वत्वस्यावच्छेदेकत्वापत्तौ गौरवात् । तस्य संसर्गतयापि लाभेनान्यसभ्यत्वाच्च । फलव्यापारयोर्धातुनैव लापात् । कर्मणिद्वितीयेत्यादिसूत्रस्वरसभापोश्च । पञ्चम्यावर्थकसमासाना धर्मिपरतामा निर्विवाइलेनान्यापि तथैव न्याय्यत्वाच्च । सर्वेषां कर्मप्रत्यपानां कार्यकत्वाच्च । अत एव कृतः कट इति सामानाधिकरम साच्यते । अत एव सुपा कर्मादयोप्पर्थाः संख्या चैवेति सच्छते । न प कळदिपदान्यत्र सर्वत्र त.
Page #155
--------------------------------------------------------------------------
________________
मुबर्थनिर्णयः।
१४३ त्वपराणि कृतः कट इति सामानाषिकरण्याभावप्रसङ्गादित्या. हुः । न च प्रकृतिप्रत्ययार्ययोरमेदान्वयबोधो ऽव्युत्पन्नः । ऐन्द्र वैश्वदेवीत्यादौ देवतादिविशिष्टामिक्षादिवाचकेषु तथा दर्शनेना. व्युत्पत्तेरभावात् । न चाश्रयमात्रार्यकत्वे प्रातिपदिकस्यापि तद. र्यकत्वात्मातिपदिकमात्रार्थकप्रथमया सह विकल्पापत्तिः। प्रातिपदिकार्थयात्रइति मात्रग्रहणाचदतिरिक्तार्थाभावे एष प्रथमावि. पानात् । द्वितीयादीनां पुनराश्रयत्वादिरूपकर्मवक्तेरपि वाच्यतापच्छेदिकाया वाच्यत्वादिति ॥ सम्बन्धः षष्ठयर्थः । षष्ठीशेषइति सूत्रात् । शेषे, सम्बन्धमात्रविवक्षायामिति व्याख्यानाद । ओदनस्य पाक इति कर्मतायां षष्ठीत्यादिकं कथमिति चेत् । अत्र वक्ष्यामः । नन्वाश्रयोपि न विभक्त्यर्थः। घटादिरूपस्य तस्य प्रकृत्यैव लाभात् । एवमवाधिरपि वृक्षादिरूपो न विभक्त्यर्थः । उद्देश्योपि ब्राह्मणादिर्नार्थः । तथा चाश्रयत्वादिकमेवार्थः । अनन्यलभ्यत्वात् । तब निरूपकत्वादिना धात्वर्थवे. ति । तस्मकारकबोधस्य सर्वसिदस्य संसर्गतयापि लाभ इत्या. दिहेतुकतामालम्ब्य खण्डयितुमशक्यत्वात् । कर्मणिद्वितीयेत्यादेः शक्तितद्वतोस्तादात्म्याभ्युपगमेनोपपत्तेः । अन्यथा दयेकयोर्द्विपचने इत्यायनुरोधादेकवचनादेः संख्याविशिष्टाश्रयवाचकतापचेर्दुरित्वापत्तः । तिङ्कदादेस्तु पचति पक्ता पक्व इत्यादिमयोगेष्वाश्रयबाधानुरोधात् । कृतः कटा देवदत्तः पचति इति सामानाधिकरण्यप्रतीतेयुष्मधुपपदे समानाधिकरणे स्थानिन्यपि मध्यम इति व्यवहारस्योपपत्तथानुरोधायुक्तं कर्तृकर्मादिवाचकत्वम् । सुपां च प्रकृत्यैवाश्रयलाभान तथात्वसम्भवः । पञ्चम्याधर्थकबाबीयादीनामप्युक्तरीत्यैव तत्तद्विभक्तिप्रकृत्पर्थकत्वस्वीकारेण धर्मिपरत्त्वनिर्वाहेण धर्मिवाचकत्वासापकत्वात्। अन्य
Page #156
--------------------------------------------------------------------------
________________
१४४
वैयाकरणभूषणे था षष्ठयर्थबही हेरपि सम्बन्धिवाचकता न स्यात् । आश्रयत्वस्य वाच्यत्वे तत्त्वस्यावच्छेदकत्वापत्तौ गौरवमिति चेन्न। तस्यैव ता. दात्म्येनावच्छेदकत्वसम्भवात् । प्रामाणिकगौरवस्यादोषत्वाच्च। व्यापकत्वरूपस्यावच्छेदकत्वस्य शक्तिसिद्धावदोषत्वाच्च । तथात्वे शक्यत्वं तस्यापि स्यादिति चेन्न । अशक्यत्वेप्यवच्छेदकत्वस्य वक्ष्यमाणरीत्या सम्भवात् । एवं चाश्रयत्वादेरेव वाच्यत्वे रुवे तदेवाखण्डं शक्तिशब्देनोच्यते इति मनसि निधाय शक्तिविभक्तयर्थ इति सप्तमीपञ्चम्यौकारकमध्यइत्यादौ भाष्यादौ व्यव. व्हियतइति तदेवाभिप्रेत्याह । शक्तिरेव वेति । षण्णां कारकविभ. क्तीनामिति शेषः । शेषषष्ठयास्तु प्रागुक्तं सम्बन्धसामान्यमर्थः । शक्तीनां प्रवृत्तिनिमित्तं स शब्द एक । संज्ञाशब्दत्वात् । उक्तं च हरिणा । "नित्याः षड व्यक्तयोन्येषां भेदाभेदसमन्विताः । क्रियासंसिद्धयेर्थेषु जातिवत्समवस्थिताः ॥ द्रव्याकारादिभेदेन ताश्चापरिमिता इव । दृश्यन्ते तत्वमासां तु षड् शक्तीनातिवर्तते ॥ निमित्तभेदादैकैव भिन्ना शक्तिः प्रतीयते । पोढा कर्तृत्वमे. वास्तत्पत्तिनिबन्धन"मिति । एतन्मते ऽनभिहितइत्यत्र तत्त
छक्तचनभिधानइत्यर्थः । भाख्यातार्थेप्यवच्छेदकत्वेन शक्तिरस्त्येवेति कार्यव्यवस्था । एवं च देवदत्तेन पुत्रस्य गौईस्तेन ब्राह्मणाय गेहागङ्गायां दीयते इत्यादौ पुत्रसम्बन्धिनी यैका गौस्तत्कर्मकदानानुकूलो देवदत्तकर्तृको हस्तकरणको ब्राह्मणस म्पदानको गेहावधिको गङ्गाधिकरणको वर्तमानो व्यापार इति बोधः । इत्थमन्यदप्यूह्यम् । पक्षद्वयेपि कारकाणां यथासम्भवं क्रियानिवर्तकत्वं संसर्गतया लभ्यामत्यायूह्यम् । यत्तु मीमांसकाः, सक्त्वधिकरणे कर्तुरीप्सिततमं कर्म, तथायुक्तं चानीप्सितमिति सूत्रानुरोधादुभयसाधारणं साध्यत्वं द्वितीयार्थः । उ.
Page #157
--------------------------------------------------------------------------
________________
सुपर्थनिर्णयः। कंपशाखदीपिकायाम् । "श्रुत्या साध्याभिधायित्वं द्वितीया. याः प्रतीयते । कर्तुर्यदीप्सितं यच्च तथायुक्तमनीप्सितम् ।।त. स्कर्म तत् द्वितीया इत्ये पाणिनेः स्मृतिः । बलीयसी च साचारात्मयोगश्चास्ति ताश" इति ॥ सक्तून् जुहोतीत्यत्र च भूतभाव्यनुपयुक्तत्वेन सक्तूनां साध्यस्वासम्भवेन सक्तुकरणकहोमानुकूलव्यापारमतीतये तृतीयार्थः करणत्वं द्वितीयया लक्ष्यते । उक्तं च भट्टपादैः । “भूतभाव्युपयोगं हि संस्कार्य द्रव्यामिभ्यते । सक्तवो नोपयोक्ष्यन्ते नोपयुक्ताश्च ते क चित् ॥ प्राधा. न्यमेव तत्रापि द्वितीयावदिति स्वतः । विरोधात्तेन सम्बन्धी गुगभावस्तु लक्ष्यते" इति ॥ एवं च ब्रीहीनवहन्तीत्यत्रावहनेन बीहीन भावयेदित्यर्थः । यद्यपि ब्रीहयः सिद्धा एव क्रियाया: साधनानि च । तथा ऽपि संस्कार्यत्वमेव तदत्र बोध्यम् । एवं सक्तून् जुहोतीत्यत्र सक्तुभिर्भावयेदित्यर्थः। अनयैव रीत्या "त. मरूयं चान्यशास्त्र" मिति न्यायात्स एष यज्ञः पञ्चविधः । भमिहोत्रं दर्शपूर्णमासावित्यादितश्चाग्निहोत्रशब्दस्य नामत्वसिदावमिहोत्रं जुहुयात्स्वर्गकाम इति वाक्ये ऽमिहोत्रामति द्वितीया सापनत्वं लक्षयति । तथा चामिहोत्रेण स्वर्ग भावयदिति पाक्यार्थ इत्याहुः । तत्र यद्यपि साध्यत्वे शक्तिविशेष एवाभ्युपेय इति कर्मशक्तिर्वाच्यति न विरुध्यते । वक्ष्यमाणरीत्या द्वितीया कर्मण्येवेति नियमाभ्युपगमेपि सुपांसुलुक, छदसिबहुलमित्यादिभिश्छन्दस्यर्थान्तरोप साधुता लभ्यते । तथापि घटं जानाति रथेन गम्यतइत्यादौ सुपो तिङ च लक्षणेत्येवमादि स्वेच्छया न्यायानुरोधेन नैयायिकमीमांसकायुक्तां विभक्तो लक्षणां पूर्वोक्ते प्रमाणोपदर्शनव्याजेन निराचिकीर्षुराह । मुपाकर्मवीति । अयमभिप्रायः । "मुपा कर्मादयोप्यर्थाः सख्या
Page #158
--------------------------------------------------------------------------
________________
बैयाकरणभूषणे चैव तथा तिकाम् । प्रसिद्धो नियमस्तत्र नियमः प्रकृतेषु चे". ति वार्तिकात्कर्मादेवाच्यतायास्तनियमस्य च लाभः । तथाहि । स्वौजसमौट, कणिद्वितीया, दधेकयोरित्यादेः तिप्तसाझ, ल:कर्माण, व्यंकयोः, तान्येकवचन द्विवचनबहुवचनान्येकश, इत्यादेश्चैकवाक्यतया कर्मादेः सङ्ख्यायाश्च वाच्यतालाभः । तथा तत्र नियमश्च शास्त्रे प्रसिद्धः। कर्मणि द्वितीयैव, करणे तृतीयैव, अ. भिहिते प्रथमैव, एकत्वे एकवचनमेव, नान्यदित्यर्थनियम इत्य
यः। यद्वा । प्रकृतेषु नियमः । प्रकृतार्थापेक्षो नियमः, द्वितीया । कर्मण्येव तृतीया करणएव, प्रथमाऽभिहिते एवेत्यादिरित्यर्थः । उभयथापि व्याकरणस्य "सिद्धे शब्दार्थसम्बन्धे लोकतीर्थप्रयु. ते शब्दप्रयोगे शास्त्रेण धर्मनियम" इतिवार्तिकात् । “समानापामर्थावगती साधुभिश्चासाधुभिश्च गम्यागम्यतिवनियमः क्रियते" इति भाष्यादिभ्यश्च द्वितीया कर्मण्येव साधुतीयैव कर्मणि साधुरित्यादेः सर्वत्र पर्यवसानाद् द्वितीया करणादौ लक्षणयाप्यसाधुः स्यात् । एवं शास्त्रेणेति वार्तिकादौ सामान्यशन्दोपादानाव्याकरणस्थाः सर्वे विधयो नियमविधय इति ध्व. नितत्वात्तत्ताद्विधिविरुद्धाः स्वेच्छया कं चित् न्यायाभासमङ्गीकृत्य स्वीकृता मीमांसकनैयायिकायुक्ता लक्षणा न साव्य इति दिक् । यद्यपि सुपा कर्मादय इति वार्तिकं तथापि इति इत्य. स्येत्यर्थः । तथा चोभयसिद्धतापीति भावः । व्याख्यानव्या. ख्येययोरभेदाभिमायेणेदमुक्तमित्यन्ये ॥ २४ ॥ इति वैयाकरणभूषणे कारकार्थनिर्णयः समाप्तः ॥
____नामार्थानाह ॥ एकं दिकं त्रिकं चाथ चतुष्कं पञ्चकं तथा ।
.
.
Page #159
--------------------------------------------------------------------------
________________
नांमार्थनिर्णयः।
१४७ नामार्थ इति सर्वेमी पक्षाः शास्त्रे निरूपिताः २५
एकम् । जातिः । दिकम् । जातिव्यक्ती । त्रिकम् । सलिने ते । चतुष्कम् । ससङ्ख्यानि तानि । पञ्चकम् । सकारकााण तानि । तत्र पूर्वपूर्वस्य प्रातिपदिकार्थत्वे उत्तरमुत्तरं विभक्तप. यो विना द्रव्यं चरमपक्षे विभक्तिोतिकैवेति द्रष्टव्यम् । तत्रमा थमपक्षे इत्थमुपपात्तः । जातिरेव पदार्थो लाघवात् नानाव्यक्तीनां शक्यत्वे गौरवात् । न च प्रत्येक व्यक्तिभिर्विनिगमनाविरहः । एवं व्यक्त यन्तरे लक्षणायां स्वसमवेतसमवायित्वं संसर्ग इति गौरवम् । जातिशक्तिपक्षे च स्वसमवायित्वं तथेति लाघवात् । कि च। "अन्वयव्यतिरेकाभ्यामेकरूपप्रतीतितः। आकृतेः प्रथमज्ञानातस्या एवाभिधेयता"। येनापि व्यक्तिर्वाच्याभ्युपेयते तेनापिजातिर्वाच्याभ्युपेयतएव । अन्यथा शुद्धव्यक्तेः शक्यतापत्तेस्तथाचानन्यायभिचाराच तत्र शक्तिग्रहानुपपत्तिः । एवं चावश्यकत्वात्सैव वाच्यास्तु । एकाकारमतीतिश्च शुद्धव्यक्तिवाच्यत्वे न स्यात् खण्डत्वादेरेव शक्यतावच्छेदकत्वात् । प्रथमत आकृतेरेवो. पस्थितेश्च । एवं च नागृहीतविशेषणान्यायेन जातेर्वाच्यत्वावश्यकत्वादास्तां सैवार्थ इति । नन्वेवं गां दद्याद्वीहीनपहन्तीति स्थले कथमन्वयः । जातौ तदयोगात् । कथं वा दानकमता गौत्वादोरति चेत् । अत्राक्षपितव्यक्तौ दानाद्यन्वयः कमतापि तस्या एवेत्याहुः । तन्न । प्रत्ययानां प्रकृत्यान्वितेत्या. दिव्युत्पत्तेः कर्मत्वान्वयस्यासम्भवात् । पदार्थान्तरान्वयश्चाक्षे. पिते न स्यात् । उक्तं हि तद्भूताधिकरणे “गम्यमानस्य चार्थस्य नैव दृष्टं विशेषणम् । शब्दान्त भक्त्या वा धूमोयं ज्वलतीतिव" दिति । कश्चाक्षपपदार्थः । अापत्तिाति चेन ।
Page #160
--------------------------------------------------------------------------
________________
१४८
वैयाकरणभूषणे अनुपपत्तिज्ञानमन्तरेणापि गां दद्यादित्यादितो घोषदर्शनाद । उक्तदोषानतिरेकाच । समानवित्तिवेद्यत्वमिति चेन्ना द्रव्यमित्या. दिघटज्ञाने घटत्वभानाभावात् । लक्षणयोपस्थितव्यक्तौ तदन्वया. भानुपपचिरित्यन्ये । तन्न । लक्षणायाः शक्यान्वयानुपपत्तिज्ञानाधीनत्वेनोक्तदोषादिति । अत्र वदन्ति । निरूढलक्षणया जातिध्यक्त्योर्भदाता व्यक्तभिः । तदुक्तं भट्टैः, "तेन तल्लक्षितव्यक्तेः क्रियासम्बन्धचोदना । व्यक्याकृत्योरभेदो वा वाक्यार्थेषु विव. क्षित" इति । नन्वेवं व्यक्तौ संख्याकारकानन्वयमसङ्गः प्रत्ययानामिति व्युत्पत्तेरिति चेन्न । प्रकृत्यर्थत्वं हि वृत्या प्रकृत्युपस्थाप्यत्वम् । अन्यथा गङ्गायां घोष इत्यत्र तीरेधिकरणत्वान्वयानापत्तेः । तथा च लक्षणयोपस्थितव्यक्तौ तदन्वयो न विरुद्धः । नन्वेवं 'स्वार्थादन्येन रूपेण शाते भवाति लक्षणे' ति नियमात्कथं घटत्वरूपेणोपस्थिते लक्षणेति चेन्न । एतनिपमे मानाभावात् । नीलमानयेत्यादौ नीलपदस्य नीलरूपवति लक्षणाभ्युपगमाद्वय भिचाराच्चेति । तदेतदभिप्रेत्यैव 'सवर्णेणग्रहणमपरिभाष्यमा. कृतिग्रहणादिति वार्तिकं सङ्गच्छतइति । अथ वा । व्यक्तिमात्र. मेकशब्दार्थः । केवलव्यक्तिपक्षस्यापि शास्त्रे बहशो दर्शनात् । युक्तं चैतत् । व्यवहारेण शक्तिपरिच्छेदकशिरोमणिना व्यक्तायेव त. परिच्छेदात् । परिच्छिन्नापि लाघवादने बाध्यतइति चेत् । एवं हि परिच्छिनोपि कर्मधारयोग्रे ऽपूर्वविद्याकरपनभिया बाध्येतेति निषादस्थपत्यधिकरणविरोधः । अपि च । गां दयादित्यत्रानुः पपत्तिः । गोत्वादेर्दानाद्यसम्भवात् शक्यसम्बन्धरूपलक्षणाया अग्रहात् । व्यक्त्यन्तरे सम्बन्धज्ञानस्य व्यक्त्यन्तरबोधाहेतुत्वात् । तथात्वे वा हस्तिपकव्यक्त्यन्तरे तत्त्वं धर्मितावच्छेदकीकृत्यापि हस्तिसम्बन्धप्रहाथा हस्तिपके स न गृहीतस्तस्यापि हस्तिदर्श
Page #161
--------------------------------------------------------------------------
________________
नामानिर्णय नारस्मरणापत्तेः । सर्वेष गां नयेत्यादिजातिविशिष्टबोधकवाक्येषु वृत्तिद्वयकरपनायां गौरवाच्च । युगपत्तियाविरोधस्यादूषणतापत्तेध । अत एव 'जातेरस्तित्वनास्तित्वे नहि कश्चि. द्विवक्ष्यति । नित्यत्वाल्लक्षणीयाया व्यक्तस्ते हि विशेषणे, इति मण्डनमिश्राः परास्ताः । जातिव्यक्त्योरभेदादानान्वय इति चे. म । तथा सति व्यक्तर्वाच्यत्वमायातमेव । आनन्त्यायुक्ताकृत्यधिकरणीयदोषतादवस्थ्याच्च । यत्तु तैरुक्तम् । व्यक्तिर्रिरूपा सा. मान्यात्मिका विशेषात्मिका च । तत्र सामान्यरूपेण वाच्यतान विशेषात्मनेति। तम। विशेषरूपेणावाच्यताया अस्माभिरपि स्त्रीकारात् । यन्तु मीमांसकादिभिरुक्तम् । “आनन्त्यव्यभिचा. राभ्यां शक्त्यनेकत्वदोषतः । सन्देहाच्चरमज्ञानाच्चित्रबुदेरभावतः" । केवलव्यक्तेर्वाच्यत्वे तासां बहुत्वाद्गौरवम् । अन. न्तव्यक्तीनामेकपदोपस्थित्यभावेन सङ्केतग्रहासम्भवश्च । ननु पत्र क चिदेव व्यक्ती शक्तिग्रहोस्तु कारणम, शान्दबोधे स्वगृहीतशक्तिकैच व्यक्ति सतइत्यङ्गीकार्यमिति ने, तर्हि व्यभिचाराच्छक्तिग्रहः कारणमेव न स्यात् । शक्तिमहाविषयस्यापि शान्दबोधविषयत्वात् । गोपदादचादेरपि भानप्रसङ्गश्च । शक्त पदार्थान्तररूपत्वात्तस्याश्च सम्बन्धिकपदार्थस्य सम्बन्धिभेदेन भिन्नत्वात्तत्तद्वयक्तिभेदेन भेदप्रसङ्गाच्च । गोपदादियं सा ति सन्देहप्रसङ्गाच्च । चरमं व्यक्त्युपस्थितेश्च । गोपदात्खहत्त्वादिरूपेण बोधप्रसाच्चति । यदपि काव्यप्रकाशकारेणोक्तं गौः शुक्लश्चलो डिस्थ इत्यादीनां जातिगुणक्रियासंबाशब्दस्वेन विषयविभागः शुद्धव्यक्तिवाच्यत्वे न स्यादिति । तच्चिन्स्यम् । येन रूणोपस्थिते शक्तिग्रहस्तेन रूपेण पदार्थोपस्थितिः सच धर्मो ऽशक्योपि तदवच्छेदकत्वात् पदास्मतः शान्दचोः
Page #162
--------------------------------------------------------------------------
________________
वैयाकरणभूषणे घे भासते अतो जातिप्रकारकबोषजनकस्तदवच्छिन्नशक्तिमावा जातिशब्द इति व्यवस्थावशात् न कश्चिदोषः । उक्त च भट्टपादैररुणाधिकरणे । “आनन्त्यपि हि भावानामेकं कुत्वोपलक्षणम् । शब्दः सुकरसम्बन्धो न च व्यभिचरिष्यतीति। एवं चाव्यापकस्यापि व्यापकतावच्छेदकत्ववदलक्ष्यस्य च न्या. यनये लक्ष्यतावच्छेदकत्ववदकारणत्वेपि कारणतावच्छेदकत्वबदशक्यत्वेपि शक्यतावच्छेदकत्वं सम्भवत्येव । तत्पकारक. भानमपि हस्तिमात्रादौ हस्तिपकादिसम्बन्धग्रहणात्तद्रूपेणोपस्थितिवत्ससम्बन्धिकपदार्थमात्रएव सम्बन्धग्रहणस्य विशिष्टोपस्थापकत्वात् । न्यायनयेप्याकाशादिपदानां शब्दाश्रयत्ववि. शिष्टे अशक्तत्वस्वीकारात्तस्माग्छब्दाश्रयत्वरूपेण, गङ्गायां घोष इत्यादौ तीरत्वादिना, दण्डात् घटत्वेन घटाद्दण्डत्वेन चोपस्थि. त्यर्थ तथानियमावश्यकत्वादिति सुधीभिरूह्यम् ॥ द्विकमिति । जातिव्यक्ती इत्यर्थः। अयं भावः।जातिविशिष्ट व्यक्तिः शब्दाथः सङ्केतस्य बोधकत्वस्य वा विशिष्टे एव ग्रहात् । घटत्वप्रकारकघटविशष्यकबोधे घटशक्तिज्ञानत्वेन कारणतेत्यपि न । द्रव्या. दिपदानामप्येवमापत्तौ घटपदात् द्रव्यत्वप्रकारकबोधप्रसङ्गात् । न च द्रव्यपदोपस्थितित्वेनापि तत्र हेतुत्वामति वाच्यम् । तत्पर्यायान्तरात्तथाबोधानापत्तेः । नापि द्रव्यत्वार्थकपदज्ञानत्वेन हेतुता । द्रव्यादिपदानामतथात्वेन ततोपि तथा बोधानापत्तेः । न च पदज्ञानस्य सम्बन्धिज्ञानत्वेन हेतुता । तत्र च येन रूपेणोपस्थितयोः सम्बन्धग्रहस्तेन रूपेणोपस्थापकत्वनियमाद्वादिपदानां गोत्वरूपेणोपस्थिते तद्रहागोत्वायंशे शक्त्यग्रहेपि ते. नैव रूपेणोपस्थिति न्यथेति वाच्यम् । पदानियमेनोपस्थितावपि गोत्वादेः शान्दे विषयत्वासम्भवात् । तदंशे शक्त्य
Page #163
--------------------------------------------------------------------------
________________
नामार्थनिर्णयः ।
१५१
भावात् । अन्यथा गोपदस्य शक्तिग्रहसमये गोत्वस्येव धर्मान्तरस्याप्युपस्थितौ ततस्तत्पदात्तद्धर्मस्याशक्यस्याप्युपस्थितौ शाब्दबोधे भानप्रसङ्गः । घटादिपदादुपस्थितस्याकाशादेरपि शाब्देन्वयापत्तेश्चति । तस्माद्विशिष्टं शक्यम् । एकामति पक्षस्य चैकमेवान्तर्भाव्य कार्यकारणभाव इत्यभिप्रायः । तथाहि । घट इत्येताव घटत्वशक्तिज्ञानत्वेन कारणता । लाघवात् । न तु घटत्वविशिष्टशक्तिज्ञानत्वेन । शक्तिज्ञानकारणत्वे वैशिष्ट्यघटयोरवच्छेदकत्वमपेक्ष्य घटत्वमात्रस्यैव तत्त्वौचित्यात् । तथा च त्वया तत्कारणतायामवच्छेदकतया घटस्तद्वैशिष्ट्यं चाधिकं प्रवेश्यते इति गौरवम् । अयं च जातिशक्तिवादो गुरूणामपि सम्मतः ॥ अन्यथा केवलजातावेव शक्त्यभ्युपगमे कार्यान्विते पदशक्तिवादस्तेषां न सिध्येत् | व्यक्तीनामेव कार्यान्वितत्वात् । यत्तु घटवशक्तिज्ञानत्वेन घट इत्येतादृशबोधे कारणतायां घटोस्तीत्यत्रेव घटत्वमस्तीत्यत्रापि तथा बोधापत्तिरिति विशिष्टशक्तिज्ञानत्वेन हेतुतेति । तन्तुच्छम् । घटत्वप्रकारक घटविशेष्यकशाब्दबोधं प्र ति घटत्वांशे ऽन्यामकारकघटत्वशक्तिज्ञानत्वेन हेतुत्वाभ्युगमात् । तत्र शुद्धस्याभिलापासम्भवात् घटत्वशब्देनाभिधानं कृतम् । अत एव घटत्वशक्तिज्ञानत्वेन हेतुत्वमते घटत्वत्वप्रवेशा गौरवमिति प्रत्युक्तम् । वस्तुतो निरवच्छिन्नप्रकारतासम्बन्धेन घटत्वशक्तिज्ञानत्वेनैव तत्र हेतुत्वम् । घटत्वमस्तीत्यत्र च न घटत्वं प्रकार इति दोषः । तस्माच्छक्तिर्विशिष्टएव । कार्यकारणभावः पुनरुपदर्शितरीत्यैवेत्यवधेयम् । उक्तं हि भाष्ये । नाकृतिपदार्थस्य द्रव्यं न पदार्थ इति । अत एव द्विकमिति पक्षेणाविरोधः । अन्यथान्यतरस्याप्रामाण्यापत्तेः । विरोधात् । तदाहुः । 'कोहि मीमांसको ब्रूयाद्विरोधे वाक्ययोर्मिंथः । एकं प्रमाणमित
Page #164
--------------------------------------------------------------------------
________________
वैयाकरणभूषणे रदप्रमाणमितीशामिति । तथा च द्विकमित्यादेरपि द्विकं शक्य. मित्येवार्थो न तथा कार्यकारणभाव इति पेयम् । नन्वत्र पक्षद्वये सर्वशन्दानां त्रैलिंग्यं स्यात् । लिङ्गावाचकत्वस्य सर्वत्र तु. ल्यत्वादिति चेत्, न । पुल्लिङ्गाभिधायिप्रत्ययस्वं तन्त्वमित्युपप
।। अत्र छुक्तपक्षयेपि लिङ्गस्य प्रत्ययार्थत्वात् । प्रकृतिवर्जिते केवलमत्ययादेव स्त्री ईयतीत्यादौ तत्पतीतेस्तथैव न्याय्यत्वात् । इदम्मन्दास्किपिदम्भ्यां वोघ इति वतुपो वकारस्य घकारादेशे भायनेयीनीयीयः फढखच्छयां प्रत्ययादीनामित्यनेन पकारस्येयादेशे इदम ईशि यस्येति चेति प्रकृतीकारलोपे उगितश्चेति मीपि ईयतीति हि रूपम् । अन्वयव्यतिरेकाभ्यां प्रत्ययस्यैव शक्तिसिदेश्च । स्त्रियामित्यधिकृत्यैवाजाधतष्टावित्यादिना टाब्डीकादेविधानात् । तस्माच्छसोनः पुंसीत्यादेरनुशासनस्यानुरोधाच । एवं संख्यादावपि द्रष्टव्यम् ॥ त्रिकमिति ॥ जातिव्यस्तिलिङ्गानीत्यर्थः । अयं भावः । स्तनकेशवती स्त्री स्यादित्यादिना विवक्षितमवयवसंस्थानविशेषत्त्वमेव स्त्रीत्वपुंस्त्वादिकम् । न चैतच्छास्त्रीयव्यवहारहेतुः दारानित्यादौ नत्वाभावप्रसङ्गात् । तटः तटी तटमित्यादौ यथायथं लिङ्गत्रितयनिबन्धन कार्याणामसिदिमसगाच्चेति वाच्यम् । आरोपादेव निर्वाहसम्भवात् । लिकानुशासनस्य रातान्हाहाः पुंसीत्यादेश्च तत्र मानत्वादित्ये. के । भाष्यकारास्तूक्तानुपपत्त्यैव तन्मतभिरस्य स्त्रियामिति सूत्रे सवरजस्तमसा प्राकृतगुणानां वृद्धिः पुंस्त्वमपचयः स्त्रीत्वं स्थितिमात्र नपुंसकत्वम् । अत. एवोत्कर्षापकर्षसन्वेपि स्थितिमात्रविवक्षायां नपुंसकमिति शास्त्रमुपपद्यते । उत्कर्षापकर्षसाम्यावस्थात्रयसाधारणस्थितिमात्रविवक्षायां नपुंसकं भवती'ति तदर्थात् । तच्च केवलान्वयर्थनिष्ठं च । अयं पदार्थ इयं
Page #165
--------------------------------------------------------------------------
________________
नामार्थनिर्णयः ।
1
१५१ व्यक्तिरिदं वस्त्विति सर्वत्र व्यवहारात् । पुल्लिङ्गः शब्द इत्यादिप्रयोगस्तूपचारात् । पुमान् लिङ्गमस्मात्प्रतीयतइति वा अस्य श क्यमिति वा यौगिको वा । आङोनास्त्रियां, तस्माच्छसोनः पुंसीत्यादिशास्त्रीये शाब्दे लौकिके च व्यवहारेष्येतान्येव निमित्तानीत्याहुः । अन्ये तूपचयापचयादोर्विरुद्धस्यैकत्र समावेशा योगात्कथं तटः तटी तटमित्यादपो व्यवहाराः । गुणानां क्षणिकत्वाभ्युपगमेपि युगपत्तथाव्यवहारानापत्तिः । आत्मा ब्रह्मेत्या दावविकारिण्यसम्भवश्च । आरोपादिकं च पूर्ववादिनापि सुवचमेवेति न तन्मतदूषणाभिनिवेशः सङ्गच्छते । तस्मा "त्तिस्रो जातय एचैताः केषां चित्समवस्थिताः । अविरुद्धा विरुद्धाभिर्गोमनुष्यादिजातिभि" रिति वाक्यपदीयाज्जातिरेव स्त्रीत्वादिकमि त्याहुः । नन्वेवमपि समनियतानां जातीनां सर्वत्र प्रतीतेः केव लान्वयित्वं वाच्यम् । तथा चात्र मते भाष्यमते च पशुना यजेतेत्यत्र पशुस्त्रिया यागप्रसङ्गः विवक्षितेपि पुंस्त्वे तस्य केवलान्वयित्वेनाव्यावर्त्तकत्वादिति चेन्न । "छागो वा मन्त्रवर्णा" दिति
त्याधिकरणन्यायेनैव निर्वाहात् । किं च । उक्तमतद्वयेपि कुमारब्राह्मणच्छागादिशब्दानां पुंस्येव प्रयोगव्यवस्थित्यनुरोधेन लौकिकपुंस्त्वत्रिशिष्टे शास्त्रीयपुंस्त्वे शक्तिस्त्रीकारात्तद्विवक्षयैवानतिप्रसङ्गात् । एवं कुमार्यादिशब्दा लौकिकस्त्रीत्वविशिष्टे शास्त्रीयस्त्रीत्वे शक्ताः । अस्तु वा कुमारशब्द एवोभयत्र शक्तः । ङीबादि स्त्रियां नादि च पुंस्त्वे द्योतकमित्यवधेयम् । एतच्च लिङ्गं केषां चिदुभयं केषां चिदेकं केषां चित्त्रयमपीत्यत्र लिङ्गानुशास नं प्रमाणमिति स्थितं शब्द कौस्तुभे । अत्र प्रथमपक्षे लौकिकलिङ्गे पृथक्ाक्तिर्न कल्प्यति लाघवम् । आरोपश्च खट्वेत्यादावभ्युपेयः । चरमे गौरवमनारोपश्च । भाष्यमते तूभयं करण्यमिति
-
Page #166
--------------------------------------------------------------------------
________________
१५४
वैयाकरणभूषणे विवेकः । वस्तुतस्तु भाष्यमते लिङ्ग शब्दनिष्ठमेव ।पुल्लिङ्गः शब्द इत्यादिव्यवहारात् । पुल्लिङ्गवाचकत्वात्तथेति चेत् । तार्ह घटः शब्दे इत्यपि स्यात् । आरोपे सति निमित्तानुसरणमित्यादेरतिगौरवात् । अर्थनिष्ठत्वे तटस्तटीतटमित्यादेरात्माब्रह्मेत्यादेरनुपपत्तेरुक्तत्वाच्च । छाग्या यागप्रसङ्गाच्च । यत्तु छागादिशब्दा. नां पुंस्येव नियतप्रयोगानुरोधेन लौकिकपुंस्त्वविशिष्टे शास्त्रीये शक्तेस्तद्विवक्षयानतिप्रसङ्ग इति । तन । एवमप्यचेतनवाचकानां मध्वादिशब्दानां माक्षिकादौ पुन्नपुंसकत्वं वसन्तादौ शुद्धपुंस्त्वमिति व्यवस्था न स्यात् । एवं "स्त्रो ज्ञातावात्मनि स्वन्त्रिष्वा. त्मीये स्वोस्त्रियां धन" इत्यादिलिङ्गनियमोच्छेदापत्तिः । अत्र प्रकारान्तरानुसरणे तेनैवोपपत्तेलौकिकलिङ्गे वाच्यत्वकल्पनं मुधैः च, शब्दनिष्ठत्वे च नानुपपत्तिलेशोपि । तथाहि । हस्वत्वदीर्घत्वोदात्तत्वानुदात्तत्ववत् । स्त्रीत्वपुंस्त्वादिविरुद्धधर्मवत्त्वाच्छब्दा भियन्ते । आनुपूर्वीसाम्यस्यापि तद्वदेवार्थभेदाच्छब्दभेदवादिनो मतइव चोपपत्तेः । केषां चिल्लिङ्गानुशासनेनैकलिङ्गत्वव्यवहारश्च समानानुपूर्वीकत्वेन तेषां तन्त्रेणानुकरणादुपपद्यते । एवं च तटादिशब्देषु समानानुपूर्वी केषु लिङ्गत्रयं छागादिषभयं पदार्थादिष्वेकमस्तीति सर्वत्र मुख्य एव लिङ्गप्रयोगः । तत्र पुंस्त्वे नाभावः स्त्रीत्वादौ टाबादि द्योतकम् । तच्च शब्दनिष्ठमपि शब्दवाच्यमर्थपरिच्छेदकत्वेनान्वेति । लिङ्गविशेषविशिष्टस्यैपार्थविशेषवाचकताया लिङ्गानुशासनशास्त्रसिद्धत्वात्स्वाश्रयवाच्यत्वसम्बन्धेन लिङ्गस्यार्थव्यावर्तकत्वोपपत्तेः । अत एव प्रयोगनियमोपपत्तिः । यद्वा । शब्दनिष्ठमेवार्थविशेषनिर्णायकमस्तु बहुव्रीवादिस्वर इवान्यपदार्थादेः । एवं च पशुनेत्यत्रापि पुंस्त्वस्य परिच्छेदकत्वान्न पशुस्त्रिया यागप्रसङ्गः । न वा तेषां विरु
Page #167
--------------------------------------------------------------------------
________________
नामार्थनिर्णयः । .. १५५ दत्वेन क्व चिदारोप इत्यभ्युपगमः । न च पशुशब्दस्य नित्यपुंस्त्वात्पदार्थादिशब्दोदितलिङ्गवत्साधारण्यात्कथं स्त्रीपशुन्यावृत्तिरिति वाच्यम् । पश्वा न तायुं गुहा चरन्तमिति ऋग्वेदे दर्शनात्पशुनेति पुंस्त्वस्य परिच्छेदकत्वान्न पशुस्त्रिया याग इति मीमांसायां निर्णीतत्वाच्च तस्य नित्यपुंस्त्वाभावनिर्णयात् । तथा निर्णयेपि वा नानुपपत्तिः। छागोवा मन्त्रवर्णादिति षष्ठान्त्याधिकरणन्यायेन छागव्यक्तिविशेषस्येव पुंस्त्वस्यापि मन्त्रवर्णत एव लाभात् । छागस्य वपाया इति मन्त्रे छागस्यति पठितस्य डा. गभिन्नइव स्त्रियामसम्भवात् । यत्र तु विधौ सन्दिग्धं तत्रापि सन्दिग्धे तु वाक्यशेषादित्यधिकरणेन निर्णयः । सङ्ख्यादिवत् । यथा “सारस्वतौ मेषौ भवत" इत्यत्र तद्धितप्रकृतिः स्त्रीलिङ्गः पुल्लिङ्गो वेति सरस्वत्यै चरुं सरस्वते चरुमिति द्वयोरपि दर्शनात्सन्देहे " एतद्वै दैव्यं मिथुन" मित्यर्थवादादेकशेषेण द्वयोहणमवधार्यते । आग्नेयोटाकपालो ऽमावास्यायो पौर्णमास्यां वेति वाक्ये तद्धितप्रकृतिरेकवचनान्तो बहुवचनान्तो वेति अग्नये कृत्तिकाभ्यस्ते अस्मा अग्नयो द्रविणं द. वेत्यादौ द्वयोरपि दर्शनात्सन्देहे सोनये ध्रियस्वति वा. क्यशेषादेकवचननिर्णयः । नन्वस्तु तावदेव, तथापि सर्व नामनिष्ठलिङ्गस्य चेतनाचेतनस्त्रीपुंससाधारणत्वात्मास्मा अनि भरतति अध्रिगुऔषस्य सारस्वत्यां मेष्यामपि प्रवृत्तिः स्यात् । न चेष्टापत्तिः । लिङ्गविशेषनिर्देशात्समानविधानेष्वप्राप्ता सारस्वती स्त्रीत्वादित्यूहलक्षणाधिकरणे पशूनां समानविधानत्वेपि पुंलिङ्गनिर्देशान्न तत्र मन्त्र इत्युक्तेः । लौकिकलिङ्गवाच्यत्वपक्षे च नानुपपत्तिः मुख्यत्वे गौणताया अन्याय्यत्वेनारोपस्याप्यसम्भवानियमसम्भवात् । न च सामान्ये नपुंसकमित्यनुशिष्टम
Page #168
--------------------------------------------------------------------------
________________
१५६
वैयाकरणभूषणे स्मै इति नपुंसकमेव मेषीसाधारणमस्विति वाच्यम् । अन्वेनं माता मन्यतामनु पितेत्यन्वादेशेन पुंस्त्वनिर्णयात् । अन्वादेशे नपुंसके एनद्वक्तव्य इति वार्तिकादेनदित्यापत्तरिति चेत् । उच्यते । पूर्वोपस्थिततत्तद्रूपेणोपस्थापकादस्मै एनमित्यादिपदा
छागत्वादिनेव पुंस्त्वेनापि व्यावृत्तपशूनामेव परामर्शान मेष्या प्रवृत्तिः । तत्रापि वहनुग्रहाय पुंस्त्वमेवानूयते । युक्तं चैतत् । अन्यथा मतान्तरेपि पुमानस्त्रियति सूत्रात् त्यदादितः शेषे पुनपुंसकतो लिङ्गवचनानीति वार्तिकाद्वैकशेषेण मेष्यां प्रवृत्तिः किं न स्यात् । एकवचनादेकशेषाभावो निर्णीयतइति चेत् । तहि बहुपशुकेषूक्थादिष्वपि मन्त्रो न स्यात् । तथा चाध्रिगुप्रैपश्च तद्वत्समानविधानाश्चेदित्यधिकरणोच्छेदापत्तिः समानविधाना अपि पशवश्चेत्तथाप्यनेकपशुषु अध्रिगुप्रैषो भवति द्विबहुपलीकेप्येकवचनान्तपलीमन्त्रवदिति तदर्थात् । यत्तु प्रतिव्य. क्तिगतैकत्वान्वयेनैकवचनोपपत्तिरिति । तन्न । प्रत्येक व्यक्ती. नामुपस्थितये एकशेषाभ्युपगमे एकवचनस्यैवासम्भवात् । सम्भवे वोक्तरीत्या मेष्याः सग्रहो दुर्वारः । जात्याख्यायां तदिति तु एकशेषणानेकसङ्ग्रहस्यैव साधकम् । अन्यथा बहुष्वेकवचनविधानवैयापत्तेः । कृत्वाचिन्तयाधिकरणप्रवृत्तिस्तूभयत्र समेति । अत एव गुणिपराणां शुक्लादिशब्दानां गुणांशस्याधिकस्य बोधनपि विशेष्यपदोदितलिङ्गसङ्ख्यांशेनुवादत्वेन विशेध्यनिघतोपपत्तिः। अत एव पदार्थमात्रविवक्षायां गुणोत्कर्षापकर्षरूपलिङ्गस्याविवक्षितत्वादवर्जनीयसाम्यावस्थया प्रयोगमाभिप्रेत्य सामान्येनपुंसकमिति विधानं सङ्गच्छते । औत्सार्गकवचनन्यायात् । अजहलिङ्गानां तु दारादिशब्दानां नित्यबहुवचनान्तानामेकस्मिनिवागत्या तथा प्रयोम इति ध्येयम् । एवं
Page #169
--------------------------------------------------------------------------
________________
नामार्थनिर्णयः ।
१५७
च समनियत जात्यभ्युपगावदोषापि न । लौकिक पुंस्त्वादौ पृथ:क् शक्तयस्वीकारेण लाघवं चेति युक्तः पन्थाः प्रतिभाति । चतुष्कमिति । सङ्ख्यासहितं त्रिकमित्यर्थः । पञ्चकं कारकसहितं चतुष्कमित्यर्थः । यद्यपि लिङ्गादीनां त्रयाणामन्वयव्यतिरेकादिभ्यः प्रत्ययवाच्यता युक्ता । तथापि प्रत्ययवर्जिते दधि पश्येत्यादौ तत्प्रतीतेर्लिङ्गानुशासनस्य प्रकृतावेव दर्शनाश्च प्रकृतेरपि तत्र शक्तिः कल्प्यते । तथा च यस्यैव वाचकताग्रहस्तत एव तेषामुपस्थितिः । सम्भेदे चोभयतोपि । अत एव "वाचिका द्योतिवा वा स्युर्द्वित्वादीनां विभक्तय" इति वाक्यपदी यं सङ्गच्छते । नन्वेवं नामार्थप्रकार कशाब्दबोधं प्रति सुबादिजन्योपस्थितेर्हेतुत्वमित्यादिकं विलीयेतेति चेन्न । विभक्तिद्योत्यार्थमादायोपपत्तेः । नैतत्रिमुनिसम्मतमिति भ्रमं निराचष्टे । शास्त्रेइति । सरूपसूत्रादौ ।। २५ ।।
स्थलविशेषे षोढापि प्रातिपदिकार्थ इत्याह ॥ शब्दोपि यदि भेदेन विवक्षा स्यात्तदा तथा । नोचेच्छ्रोत्रादिभिः सिद्धोप्य सावर्थेव भासते २६
शब्दस्ता वच्छाब्दज्ञानविषय इत्यनुभवसिद्धम् । “विषयस्वमनादृत्य शब्दैनार्थः प्रकाश्यत" इति वाक्यपदीयेनुभवप्रदर्शनात् । गामुच्चारयेत्यादावर्थोच्चारणासम्भवेन विना शब्दविषयं शाब्दबोधासङ्गतिश्चेति तत्रापि वृत्तिर्वाच्या । न च लक्षणया निर्वाहः । निरूढलक्षणायाः शक्तयनतिरेकात् । जबगडद शित्यादौ शक्याग्रहेण तत्सम्बन्धरूपलक्षणाया अग्रहाच ! अगृहीतायाश्च वृत्तेरनुपयोगात् । शक्तिभ्रमस्यापि वक्ष्यमा - परीत्यैवासम्भवात् । एवं भाषाशब्दानामप्यनुकरणे प्रतीयमान
Page #170
--------------------------------------------------------------------------
________________
१५८ बयाकरणभूषणे स्वात्तेषां शक्तयभावेन लक्षणाविरहानुपपत्तिश्चेति शक्तिरेव पाच्या । तथा च शन्दोपि यपनुकार्यानुकरणयोर्भेदेन विवक्षा तदा तथेति । अनुकार्य प्रातिपदिकशक्य इत्यर्थः । अयं माषः । पटदिति कुवित्यापनुकरणस्थलेनुकार्यध्वनीनामनुकरणानेदो ध्वनिमयत्ववर्णमयत्वादिविरुद्धधर्मवत्त्वसिद्धः । तथा च तदुपस्थित्यर्थमुपस्थितस्य तस्य शाब्दज्ञानविषयत्वनिर्वाहार्य च शक्तिरवश्यमभ्युपेयेति । नो चेद्भेदविवक्षा । तदा श्रोत्रादिभिः । सिद्धः । उपस्थितः । अर्थेव । अर्थवद्भासते न तु तत्र स्वतन्त्रवृत्तिकल्पनेत्यर्थः । अयं भावः । वृत्तिविषय एव च शा. दबोधविषय इति नियमोतिप्रसङ्गनिरासाय कल्यते । स च निरूपकताश्रयतान्यतरसम्बन्धेन वृत्तिमान् तद्विषय इति निय. मपि नेति, भवति तस्य शाब्दबोधविषयतोत । ननु वृत्तिमत एव शाब्दबोधविषयत्वे प्रत्यक्षादिनोपस्थितघटादेरपि शाब्दबोपविषयतापत्तिरिति विषयतया शान्दबोधमात्रं प्रति वृत्तिसं. स्कारज्ञानान्यतरजन्यपदार्थोपस्थितिहेतुरिति निर्णीतमन्यत्र । तथा चात्र वृत्तिमरखे श्रोत्रादुपस्थितौ च सत्यामपि तादृशोप. स्थित्यविषयत्वात्कथं शाब्दबोधविषयतेति चेत् । उच्यते । अ. कारादयःक चिच्छक्ताः वर्णत्वात् नलादिपदं क चिच्छक्तं साधुपदत्वादिति सामान्यतः शक्तिग्रह एव तत्पदवाच्यः कश्चिदर्थोस्तीत्याकारके वाच्यत्वसम्बन्धेन पदप्रकारकबोधे हेतुरित्यनुभवासिद्धम् । अत एवाज्ञातार्यकेष्विदमेकं पदामिति ज्ञातेषु चै. जगवयनलादिपदेषु श्रुतेषु क एतदर्थ इति प्रश्न उपमानतल्लक्षण. कथनादिना तत्पतिवचनानि दृश्यन्ते । अत एव सादृश्यापायेन तद्बोधकत्वेनोपमानादेः प्रसिद्धपदसामानाधिकरण्यादिना तमोधकत्वेन कोशादेश्च प्रामाण्यं व्युत्पादयन्ति । अन्यथा न
Page #171
--------------------------------------------------------------------------
________________
नामार्थनिर्णयः। लादिपदानामस्मदादीन् प्रत्यकोषकत्त्वमसाश्च । नलत्वादिल. पेण शक्तिग्राहकभावात्तेन रूपेण बोधकत्वासम्भवात् । न चातीतनलादिभाविचैत्रादिवर्तमानप्रसिद्धासनिकृष्टवस्तुगोचराःसं. स्कारा अनादयो धारारूपेण विशिष्य बोधान्यथानुपपच्या करुप्यन्तइति नैयायिकनव्यकल्पनं युक्तम् । हेत्वसिद्धः । अन्ययोक्तप्रश्नायुच्छेदप्रसङ्गात् । किं च देशान्तरगतं प्रसिद्ध चैत्र काश्यां शृण्वतां विशिष्यागृहीतसङ्गतिकानामपि नलयुधिष्ठिरादिपदादिवरोधानुभवात्तदनुरोधेनानादिसंस्काराद्विशिष्य शक्तिग्रहसत्त्वाभ्युपगमे तेषामेव कालान्तरे विश्वेश्वरमन्दिरे तं पश्यतां चैत्रोत्र नास्तीति वाक्याबोधो न स्यात् । स्याद्वा विशिष्य गृहीतसङ्गातिकानां तत्र पश्यतामन्येषाम् । विश्वेश्वरदेवालयत्वं धर्मितावच्छेदकीकृत्य चैत्रत्वावच्छिन्नप्रतियोगिताकाभाववत्ताज्ञानं प्रति तदेव धर्मितावच्छेदकीकृत्त्य चैत्रत्वप्रकारकतद्वत्ता. धियः प्रतिबन्धकत्वाभ्युपगमस्य सर्वसिद्धत्वात् । विशिष्य गृहीतसङ्गतिकानामिव तदर्शनात्पदस्मरणं च स्यात् । तदुक्तम् । “यत्संज्ञास्मरणं तत्र न तदप्यन्यहेतुकम् । पिण्ड एव हि दृष्टः सन्संज्ञा स्मारयितुं क्षम" इति । चैत्रोस्ति न वे. तिसंशयश्च न स्यादित्यादि भावप्रत्ययार्थनिरूपणे वक्ष्यते । तथा च विशेषरूपेण बोधाभावादेव सर्वसङ्गम इति सिद्धा हेत्व. सिद्धिः । तथा च घटचैत्रादिपदानां घटत्वचैत्रत्वादिजातिवच्छक्तिसम्बन्धेन पदमपि शक्यतावच्छेदकत्वाच्छाब्दबोधे भासते । तत्र घटत्वादिजातिवच्छब्दांशे न वृत्तिविषयत्वं कल्प्यम् । मानाभावात् । आश्रयत्वेनैव तत्कार्यसिद्धेः। तथा च सम्बन्धस्योभयनिरूप्यत्वेन सम्बन्धिद्वयोपस्थापकत्वाविशेषाद्धटत्वाधव. च्छिन्नशक्तयैव घटादिवच्छब्दस्यापि तयैव वृत्त्योपस्थिती स.
Page #172
--------------------------------------------------------------------------
________________
वैयाकरणभूषणे स्यामर्थबोधनतात्पर्ये सति तब विशेषणतया स शब्दो भासते तत्रापि घटत्वादिरूपेण विशिष्य शक्तिहवतां पदजात्युभयमकारको बोधो ऽन्येषां पूर्वोक्तमकारेणोपस्थितकेवलव्यक्तौ शक्तिप्रहाच्छुद्धतव्यक्तिविशेष्यकः केवलपदप्रकारको घटपदवाच्या कश्चिदर्य इत्याकारको बोध इति विशेषः । यदा तु न गिरागिरेति ब्रूयात् कबतीषु रथन्तरं गायति अच्छावाकीयं साम गायति रषाभ्यानोणः, ससजुषोरुः, गवित्ययमाहेत्यादौ ब्रूयात् गा. यति आहेत्यादिभिः स्थान्यर्थकषष्ठयादिभिश्चान्वययोग्यताकाक्षादिवशाच्छन्दमात्रे तात्पर्य गृह्यते तदा घटो नित्यः स्वर्गी ध्वस्त इत्यादौ विशेषणांशवच्छब्दस्वरूपमात्रं प्राधान्येन तया शक्तथा प्रतिपाद्यते । वृत्तिसत्त्वेपि तात्पर्यविरहाद शो न बो. ध्यते । लवणमात्रतात्पर्यदशायां सैन्धवशब्दादश्ववत् बुद्धो वा त्यज्यते । यत्र तूक्तानन्यथासिद्धतात्पर्यग्राहकाभावस्तत्र विशिष्योपदेशेन तथातात्पर्यमाचार्योध्यते । यया स्वरूपंशब्दस्याशब्दसंज्ञेति सूत्रेण भूसत्तायाम् अग्नेर्डक् इत्यादौ । न चार्थशक्तयैव तात्पर्यवशात्प्राधान्येन शब्दस्यापि प्रतिपादनमित्ययु. क्तम् । तत्प्रकारकव्यक्तिविशेष्यकबोधत्वस्यैव तद्वत्तिज्ञानकार्यतावच्छेदकत्वात् । अन्यथा घटो नित्य इत्यादेर्घटत्वे लक्षणा न स्यात् । प्राधान्येन बोधार्थ खलु तत्र लक्षणाश्रयणमिति वाच्यम् । तत्र घटत्वत्वादिरूपेण बोधानुरोधेन लक्षणाभ्युपगमाव । अन्यथा घटत्वनिर्विकल्पकापत्तेश्च । अत्रानुपूर्वी विशिष्टवर्णानां पदरूपतया केवलतदुपस्थितावपि आनुपूर्व्या अवच्छेदकत्वेन भानामोक्तदोषः विशेष्यव्यक्तयंशाभानात्पदस्य विशेषणत्वं नास्तीति प्राधान्यमप्यायातम् । मोषवादिभिर्नैयायिकैः प्रमेयत्वप्रकारकसकलानुभवात्समुष्टाविशेषणकव्यक्तिमात्रस्मरणा
Page #173
--------------------------------------------------------------------------
________________
नामार्थनिर्णयः। भ्युपगमवत्ममुग्धविशेष्यकानन्दस्मरणान्युपंगवात् । उचारवेस्यादिसमभिव्याहारस्य मोषे एवोपयोगात् । वस्तुतो व पदमकारकबोधस्वमर्थशक्तिज्ञानकार्यतावच्छेदकं किंतु प्रथमोपस्थितस्वात्सामान्यसामग्रीवशाद्विशेषणत्वेन भानम् । न चैवं कदा चिद्विशेष्यताया अप्यापत्तिः। निर्विकल्पकोचरपत्य जातरिबोपपतेरिति तत्त्वम् । तदेतत्सर्वमभिप्रेत्योक्तं वाक्यपदीये । "ग्राह्यत्वं ग्राहकत्वं च द्वे शक्ती तेजसो यथा । तथैव सर्वशब्दा. नामेते पृथमवस्थिते" इति । अस्यार्थः । द्रव्यचाक्षुषमाचे आ. कोकसंयोगो हेतुः । अन्यथान्धकारपि चक्षुःसंयोगमात्राइटचाशुषापत्तेरित्यविवादम् । तथा चालोकप्रत्यक्षपि स्वस्मादेवोपपत्तिाच्या। तथा च यथा घटालोकसंयोगादेव घटस्येवालोकस्यापि प्रत्यक्ष तथार्थगोचरशब्दनिष्ठशक्तथैव शब्दस्यार्थस्य च भानम् । यथा वा घटचक्षुःसंयोगाभावे तस्मादेवालोकसंयोगादालोकस्यैव भानं तथार्थे तात्पर्यविरहे तद्वत्यैर सति शब्दे तात्पर्य तस्यैव बोध इति । एवं च श्रोत्रादिभिरिति मूलपि थोत्रमादिर्यस्यति व्युत्पत्त्या शक्तिज्ञानतत्संस्कारा गृह्यन्ते ।श्रो. वेणोपस्थिते शक्तिग्रहादित्यवधेयम् । अत एत गापुच्चारयेत्युक्ते विकृतस्यैवोच्चारणापत्तिः । तादृशस्यैव प्रत्यक्षोपस्थितत्वात् । शब्दस्याप्रकत्यर्थत्वात्तत्र द्वितीयार्थादेरनन्वयापत्तेश्च । प्रत्ययानां प्रकृत्यर्थगतस्वार्थबोधकत्वव्युत्पत्तेः । स्वस्यैव प्रत्यक्षेण शीघ्रमुपस्थितत्वागौरस्तीत्यादावपि स्वपरत्वापत्तश्चेत्यादिदूषणाभासाः परास्ताः । उक्ततात्पर्यवशात्त्यैवाविकृतस्यैव शब्दादुपस्थित्तत्वात् । अन्यथार्थपरत्वस्यैव न्याय्यस्वात् । त. स्मादुक्ततात्पर्यनिर्णये सति शन्द एव प्राधान्येन भासते सहभाचे त्वर्थविशेषणत्वेनैवेति सिदय । अत एवो "जिंदा बजेत
Page #174
--------------------------------------------------------------------------
________________
१६२
वैयाकरणभूषणे
पशुकामः " " अग्निहोत्रं जुहोती" त्यादौ नामधेयत्वं व्यवस्थाप्य तस्यापि विशेषणत्वेनान्वयादुद्भिनामकेन यागेन भावयेदिति वाक्यार्थः सम्पन्न इत्युद्भिदधिकरणे मीमांसकैरुक्तं सङ्गच्छ ते । यतु मीमांसकमते ऽपि नाम्नि लक्षणैव । अन्यथा वृत्त्या Sनुपस्थितत्वेन शाब्दबोधविषयता न स्यात् । अत एव वाक्यामें भट्टपादलक्षणाभ्युपगम्यते परं तु नामनामिसम्बन्धे सर्वत्रैव सेति निरूढेति न दोष इति समादधिरे । तन्न साधीयः । उकरीत्या क्लसशक्त्यैवोपपत्तौ गौरवग्रस्तलक्षणाकल्पनानौचित्यात् । लक्षणया सर्वत्रा निर्वाहस्य प्रागुक्तत्वाच्च । किश्च । एवं हि नामतोच्छेदापतेर्द्वद्धिमिच्छतो मूलनाशन्यायापातः । गुणविधित्वे हि 'मत्वर्थलक्षणापतेर्नामधेयत्वमास्थितम् । विशिष्टविधिपक्षे हि भवेन्मत्वर्थकक्षणा || सोमादौ गत्यभावात्सा न त्वत्र गतिसम्भवा' दित्युक्तेः सा च नामधेयत्वेपि समा चेत्कुतो गुणविधित्यागः सामानाधिकरण्यानुपपत्तेर्गुणविधाविवात्रापि बीजत्वेनापेक्षणात् । नहि विना बीजं लक्षणा । साध्यत्वं द्वितीयार्थ इतिसक्त्वधिकरणे व्यवस्थापितत्वेन वाजपेयाधिकरणोक्तन्यायेनैकस्यां क्रियायां साध्यद्वया समवायात्काष्ठैस्तण्डुलं पचतीत्यादावपि मत्वर्थलक्षणाया भावश्यकत्वाभिरूढत्वानिरूढत्वे अपि समे । गुणविधौ सर्वत्र मत्वर्यलक्षणाभ्युपगमस्य मीमांसकप्रसिदेश्च । अस्मन्मते च नाम्नः शक्यतावच्छेदकत्वेन विनैव लक्षणां यागत्वादिवदुपस्थितेर्नामधेयत्वं सुसङ्गतमिति विभावयामः । अत एव च कथितपदत्वं न क्व चिद्दोष इत्यत्रो " देति सबिता ताम्रस्तान एवास्तमेति च । संपतौ च विपत्तौ च महतामेकरूपता" । अत्र ताम्रपदान्तरं विना न तादृशो बोध इति काव्यप्रकाशकारण चोक्तं छते । अत्र घटकलशपदाभ्यां
•
·
·
Page #175
--------------------------------------------------------------------------
________________
नामार्थनिर्णयः। घटबोषे विशेषाभावात्ताम्रार्थकेन रक्तादिपदेन तादृशबोधसम्म.. वाच्छब्दांतरात्ताबापासम्भप इत्यादेरलमकतापतेः । अस्मद्रीत्या पुनस्ताम्रपदरूपविषयवैलक्षण्याद्वैलक्षण्यमित्यवधेयमिति । यदा ज्ञानमात्रे शब्दभानमतेन व्याचक्ष्महे । अनुकार्यानुकरणयो दे अनुकार्यस्तथा प्रातिपदिकार्थः । नो चेद्भेदविवक्षा तथापि श्रो. त्रेण गृहीतसङ्गतिकघटादिभिर्वोपस्थितेर्थे पदार्थे घटादौ व इव अर्थो विशेषणीभूतघटत्वादिवदासते विशेषणत्वेनैव भासते इत्यर्थः । डित्थोयं ब्राह्मणोयमिति प्रत्यक्षहन शाब्देपि स विषयः "न सोस्ति प्रत्ययो लोके यः शन्दानुगमाइते । अनुविद्धमिव ज्ञानं सर्व शब्देन भासते" इति प्रसिद्धः। तथा च घटपदवाच्यमानयति शाब्दबोध इति भावः । अनुकरणे तु स्वातन्त्र्येणैव भानमिति विशेष इति । अत्रेदं तत्त्वम् । अनियमेन घटादेरपि प्रकारान्तरेणोपस्थितिसम्भवाच्छाब्दबोषविषयतापत्तिवारणाय वृत्त्या शब्दादुपस्थितमेव शाब्दबोधविषय इति कल्पनीयम् । शब्दस्य च नियमेन तदानीमुपस्थितिसत्त्वात्तस्यास्ताहशतया न शाब्दबोधविषयत्वानुपपत्तिः । एवं च यथाभिहितान्वयवादिनां मते वृत्तिं विनैवाकांक्षादिवशाद्वाक्यार्थस्य शान्दबोधे भानं कुब्जशक्तिवादिनां वा वृत्त्या ऽनुपस्थितस्यैव भानम् । तथा तृस्यविषयशब्दस्यापि ज्ञानसामान्यसामग्या तात्पर्याकांक्षादिव. शागौनित्या गौरनित्येत्यादौ गोत्वादेरिव स्वातन्त्र्येण विशेषणत्वेन वा भानं भवेत् । पर्वतो वन्हिमानिति शान्दानुमित्यादितस्तदैव वन्यर्थिप्रवृत्तिदर्शनासानसामान्यसामग्या एवार्थविशेषणतया . वर्तमानकालभासकपकल्पनवत्मत्यक्षशाब्दादी सर्वत्र बन्दभानानुभवाजमानसामान्यसामग्याः शब्दभासकत्व. कल्पनात् । तत्रापि विशिष्य गृहीतशक्तिकेभ्यः पदेभ्योर्थविशे
Page #176
--------------------------------------------------------------------------
________________
वैयाकरणभूषणे
स्वाच्छन्दविशेषस्य मानम् । अन्यत्र नळपदवाच्यः क श्चिदर्थ इति पदविशेषणकवस्तु सामान्य बोधनदर्यदर्शनादप्येतद्वाचकं किमिदमिति पदस्यापि सामान्यत एव बोधः । अत एव तदुत्तरं विशेषजिज्ञासया किमस्य नाम इत्यादिप्रश्नम तिवचनान्युपपद्यन्ते । अत एव वृत्त्यविषयवद घटादिपदैः समवायादिसम्बन्धेन सम्बन्धिन आकाशादेरप्युपस्थितस्यान्वयभोधप्रसङ्गः । किं च । गामुच्चारयेत्युक्ते विकृतस्यैवाच्चारणापत्तिः । तादृशस्यैव प्रत्यक्षोपस्थितत्वात् । शब्दस्यामकृत्यर्थत्वाद् द्वितीयार्थादेरनन्वयापत्तेश्च । प्रत्ययानां प्रकृत्यर्थगतस्वार्थबोधकत्वव्युत्पत्तेः । स्वस्यैव प्रत्यक्षेण शीघ्रमुपस्थितत्वाद्गौरस्तीत्यत्रापि स्वपरत्वापत्तेश्चेति निरस्तम् । घटादिपदादुपस्थितस्याप्याकाशादेः शाब्दज्ञानविषयत्वाभावस्तनियामकाभावात् । विकृतादेरपि तात्पर्याभावात् । सति च तस्मिन् लक्षणादिना त्वयापि तथा वाच्यत्वात् । न च तात्पर्येणैव सर्वनिर्वाहे वृत्तिमात्रोछेदः । तस्य शाब्दसामान्ये हेतुत्वानभ्युपगमात् । अननुगमात् । शब्दादमुमर्थं प्रत्येमि वक्तुस्तात्पर्य तु न जानामीति सकछानुभवसिद्धत्वाच्च । किं तु क चिच्छन्दजन्यबोधममात्वे नियामकं तद्विषयकतात्पर्यज्ञानं तदन्यगोचरज्ञाने प्रतिबन्धकं वा नातो नानार्थानुपपत्तिः । इत्थं च पदादनेकेषामर्थानामुपस्थितावेकस्यैव वानेकसम्बन्धसम्भवे पदार्थविशेषसम्बन्धविशेषयोरध्यबसानाय तात्पर्य नियामक कल्प्यतइति न वृत्तिं विना निर्वाह इत्यादिकमूह्यम् ।। २६ ।
नम्वनु कार्यानुकरणयोर्भेद एव युक्तः । अभेदेप्यस्तु स्वस्मिन्स्वस्य शक्तिः । अन्यथानुकरणशब्दानां वृत्तिविषयाप्रति पादकत्वेनार्थवत्त्वाभावात्प्रातिपदिकसंज्ञा न स्यात् । तथा च
१६४
Page #177
--------------------------------------------------------------------------
________________
नामानिर्णया। "वाघ्मी पौर्णमास्यां करती रथन्तरं गायति" "ऐरं कृत्वो द्रेय" मित्यादिश्रुतयः, एका, एचोयवायावः, पाभ्यानोण इ. त्यादिसूत्राणि च विरुष्येरन् । प्रातिपदिकात्सुबन्ताद्वा तद्धितो. त्पतेः सिद्धान्तितत्वात् । न चैवं धातूपसर्गादिगणपठितानामनुकरणानामनुकार्यधात्वाधर्थवस्वात्मातिपदिकत्वापत्तौ विभ. क्तिश्रवणापत्तिः । अविषक्षायैव अइउणित्यादौ स्वरसन्ध्यकरणवत्सम्भवात् । तत्रेकारोकारादेस्तत्तत्संधास्वसन्देहसिदोरिव सत्यां विभक्तौ नलोपजश्त्वादेरप्यापत्तावदन्तवनान्तत्वधान्त त्वदान्तस्वादिनिर्णयानुरोधस्य सत्वात् । णोपदेशत्वषोपदेशस्वनिर्णयायेव यत्नान्तरापत्तिगौरवापत्तेश्चानुरोधसत्त्वादित्या. शङ्को मनसिकृत्याह॥
अत एव गवित्याह भूसत्तायामितीदृशम् । न प्रातिपदिकं नापि पदं साधु तु तत्स्मृतम् २७
अत एव यतो न भेद उत्तरीत्योपस्थित्तस्यैव का भानमत एव गवित्ययमाह भूसचायामित्यत्र वृत्तिविषयबोधकत्वरू. . पार्थवत्त्वाभावादर्थवदधातुरिस्यप्रवृत्तेः प्रातिपदिकत्वाभाचे गौः भूरिति विभक्तयनुत्पत्तिः । तथा च न प्रातिपदिकं नाषि पद, मेतत्साधु तु भवत्येवेत्यर्थः । अयं भारः । भूसत्तायामित्याधर्थ: निर्देशसहितेष्वसन्दिग्धेषु विभक्तपसंचलिवनिर्देशः परम्परापग्नादिसिद्धो भाष्यकारायभ्युपमतश्च तस्य चोक्तावानुः गृहीताभेदपक्षे एवोपपत्तौ नि नाविवक्षयोपपादनमयुक्तम् । सन्दिग्पस्थले तदकरणेप्यत्र विभकिविवक्षाया दुरित्वात् । प्र. लया परश्चेति नियमाच्च । उमाविषु च वृत्तावक्यवाना जा इन्सार्थवाभ्युपममादनुपपचिरस्त्येवमाश्रयणषि । मा
Page #178
--------------------------------------------------------------------------
________________
वैयाकरणभूषणे चावयव्यर्थमवयवे आरोप्य समाधेयेति वृत्तिनिर्णये वक्ष्यते । उक्तसूत्रेष्वप्पनुकार्यान्दानां स्थानित्यादेशत्वबोधनाय षष्ठीस्थानेयोगेत्यायनुरोधादसमर्थसमासवद्वक्ष्यमाणरीत्या प्रातिपदिकत्वविभक्तयादिकं सौत्रमेव । भुवोबुग्लुङ्लिटोरित्याधंप्येवमेव । तस्मायुक्ततरमभेदपक्षं प्रतीमः । अथ भू सत्तायामित्यादावधातुरितिपर्युदासादेव न प्रातिपदिकत्वं न वा पदत्वम् । अन्यथा पर्युदासययापत्तिः । किं चाधातुरितिपयुदासादर्थवन्त्वलाभादर्थवद्रहणमुत्तरार्थमिति ग्रन्थानामेवमसामञ्जस्यापत्तिः । भूसत्तायामित्यादेरनर्यकत्वात् । अनर्थकत्वादत्र विभक्तिर्नेत्यादिकृत्तद्धितसमासाश्चेति सूत्रे मनोरमायां स्पष्टत्वात् । अपि च धातुरनर्थक इति व्याहतमित्यर्थवत्सूत्रे मतान्तरदूषणाय मनोरमापि स्ववचनविरुदैव स्यात् । न च भूसत्तायामित्य. नुकरणस्य न धातुत्वं किं त्वेतदनुकार्यस्य भवतीत्यादौ प्रयुज्य. मानस्यैव तत्रैव नामत्वसुबुत्पत्यो रणाय पर्युदासोपीति वा. च्यम् । एवं हि भूकादयोधातव इति सूत्रस्यानुकरणस्यानर्थकत्वेनानुकार्यस्य गणपाठाभावेनाधातुतापत्तावसम्भावित्वापत्तेः । तस्य गणपठितत्वगर्भतायाः प्राग्व्युत्पादनात् । घटाभिन्नस्याघटत्ववद्धात्वभिन्नस्याधातुताया असम्भवाच्च । किं च । प्रक. तिवदनुकरणमित्यतिदेशादेव धातुत्वप्रयुक्तपर्युदासलाभात्यातिपदिकत्वाभावसम्भवे कुतस्तत्पक्षाभ्युपगमः । कथमन्यथा ऋतइदातोरितीत्वं कीरित्यायनुकरणे लभ्येत । न चैवं धातुत्वनयुक्तपकृतित्वलाभेन न केवला प्रकृतिः प्रयोज्योति निषेधलाभापत्तिः यत्तदेवेभ्यः परिमाणेवतुबिति ज्ञापन यावत्कार्याप्रवृत्ते.
पितत्वात् । अत. एव कीरित्यनुकरणे प्रातिपदिकत्वं सहच्छते। तस्माद्भूसत्तायामित्य मेदपक्षसाधकमयुक्तम्.। किं चानुकार्यत्वानु
Page #179
--------------------------------------------------------------------------
________________
नामार्थनिर्णयः ।
करणत्वधातुत्वाधातुत्वध्वनिमयत्ववर्णमयत्वरूपविरुद्ध धर्माध्यासादभेदपक्ष एवानयोर्न युक्तः । भेदपक्षोपि न युक्तः । भूवादय इति सूत्रविरोधात् । गणपठितत्वे सति क्रियाबाचित्वं धातुत्वमिति हि तदर्थः । स चास्मिन सम्भावि तः । अनुकार्यस्य गणे पाठाभावात् । अनुकरणस्यार्थवश्वेपि क्रियावाचकत्वाभावात् । समानानुपूर्वीक शब्दमात्रतात्पर्यकत्वं तादृशशब्दमात्रवाचकत्वं वा ऽत्र मते ऽनुकरणत्वम् । शब्दशब्दवारणाय मात्रपदम् । तस्माद्धसत्तायामित्युदाहरणं पक्षद्वयं चासङ्गतमेवेति चेत् । अत्रोच्यते । आनुपूर्वीभेद एव शब्दभेदे तन्त्रम् । अत एव नानार्थत्वव्यवस्था । तथा च स्वाभिन्नशब्दमात्र तात्पर्य कोचारणविषयत्वार्थ तात्पर्य कोच्चारणविषयत्वरूपे अनुकार्यत्वानुकरणत्वे कथं विरुद्धे । कथं बा भूसत्तायामिति शब्दमात्र तात्पर्यकस्य क्रियावाचकत्वरूपं धातुत्वम् । तथा च न पर्युदासत्ववार्त्तापि । किं स्वनर्थकत्वाभ नामत्वमित्यव युक्तम् । प्रकृतिवदनुकरणमित्यतिदेशेप्यधातुत्वप्रयुक्ता संज्ञा दुर्वारैव । छांदसत्वं त्वगतिकगतिः ज्ञापकमात्रोच्छेदकरं चेति बोध्यम् । एवं च न धातुत्वा धातुत्वयोविरोधोपि । वर्णनित्यतावादिनामानुपूर्व्याः ध्वनिमात्रनिष्ठत्वात्तस्योमयत्र तुल्यत्वात् । अव्यक्तानुकरणस्थळे व्यक्तिभेदेपि भेदप्रयोज कानुपूर्वी भेदाभावाद्युक्त एवाभेद इत्यभेदवादिनां मतम् । अन्ये वित एवार्थभेदाच्छन्दभेदं च मन्वानाः शब्दार्थवाचकत्वाभ्यामनयोर्भेदमिच्छन्ति । अत्र मते गणपठितशब्दवाच्यत्वं गण-. पठितत्वमतो न भूवादिसूत्रविरोधः । अस्मिन्मते भूसत्तायामित्यत्र विभक्तिर्दुर्वारेत्यभिप्रेत्य पक्षद्वयं लक्ष्यानुसारेण स्वीकृतमाकरे इति न कश्चिद्दोष इति ध्येमम् ॥ २७ ॥
i
·
Page #180
--------------------------------------------------------------------------
________________
१६४ सवासवक्तिनिर्णयः । इति श्रीवैयाकरणभूषणे नामापरिच्छेदः समातः॥
__समासान्विभजते ॥ सुपा सुपा तिका नाम्ना धातुनाथ तिडांतिका। सुबन्तेनेति च ज्ञेयः समासः षविधो बुधैः २८
मुपा सुपा । पदद्वयमपि सुबन्तम् । यथा राजपुरुषः। पधीति समासः । मुपां तिला । पूर्वपदं सुबन्तमुत्तरं तु तिस्तम्। यथा पर्यभूषत् । अनुव्यचलत् । गतिमतोदात्तवता तिलापि समास इति वातिकात् । सुपां नाम्ना । कुम्भकार इत्यादि । उपपदमतिङिति समासः । स च गतिकारकोपपदानां कृद्भिः सह समासवचनं पाक सुबुत्पचेरिति वचनाद्भवति सुबुत्पत्तेः प्राक् अत्रोचरपदे सबुत्पत्तेः प्रागित्यर्थात् । अन्यथा चर्मक्रीती. त्यादौ नळापामापत्तेः । सुपा पातुना । उत्तरपदं भा. तुमात्रं न मुप्तिङन्तम् । यथा कटपूः। आयतस्तूः । व. चिप्रच्छयायतस्तुकटप्पुजुश्रीणां दीर्घश्चेति वार्तिकोक्तनिपातनाब । अत एव नमो धातुमात्रेण समास इत्यनुदातम्पदमित्यत्र कैयटः । तिङ तिडा । पिबतखादता । पचसभृजतेत्यादि । “आख्यातमाख्यातेन क्रियासातत्य" इति मयूरव्यंसकाधन्तर्गणसूत्रात्समासः । सुबन्तेनेति चेति । चकारात्तिामित्यर्थः । जहिस्तम्ब इत्यादिः । "जहिकर्मणा बहुलमाभीक्ष्ण्ये कारं चाभिदधाती"ति पयूरव्यंसकाधन्तर्गणसूत्रात् । स्पष्ट चैतच्छन्दकौस्तुभे ॥ २८ ॥ .. स्वयं भाष्यादिसिद्रं तद्धेदं व्युत्पाद्य प्राचीनवैयाकरणोक्तविभागस्य सळक्षणस्याव्याप्सतिन्याप्लादिभिः प्रायिकत्वं
Page #181
--------------------------------------------------------------------------
________________
समासशक्तिनिर्णयः ।
१६९
दर्शयति ॥
समासस्तु चतुर्वेति प्रायोवादस्तथा परः ।
योयं पूर्वपदार्थादिप्राधान्यविषयः स च ॥ २९ ॥
群
भौतपूर्व्यात्सोपि रेखागवयादिवदास्थितः ।
9
चतुर्धा । अव्ययीभाव तत्पुरुष द्वन्द्वबहुवीहिभेदात् । अयं प्रायो-बादः । भूतपूर्वः । दृन्भूः । काराभूः । आयतस्तूः । कटप्रूः । वागर्थाविव। विस्पष्टपटुरित्याद्यसंग्रहात् । तथापरः प्रायोवाद इत्यन्वयः । परं दर्शयति । योयमिति । पूर्वपदार्थप्रधानो ऽव्ययीभावः । उत्तरपदार्थप्रधानस्तत्पुरुषः । उभयपदार्थप्रधानो द्वन्द्वः । अन्यपदार्थप्रधानो बहुव्रीहिरिति लक्षणरूपः । उन्मत्तग। ङ्गं, सूपप्रति । अर्धपिप्पली, द्वित्रः शशकुशपलाशमित्यादौ परस्परव्यभिचारात् । तथाहि । उन्मत्तगङ्गमित्यव्ययीभावे पूर्वपदार्थप्राधान्याभावादव्ययी भावलक्षणाव्याप्तिरन्यपदार्थप्राधान्याद्बहुव्रीहिलक्षणातिव्याप्तिश्च । अन्यपदार्थे च संज्ञायामिति समासात् । सुपमतीत्यव्ययीभावे उत्तरपदार्थप्राधान्यात्तत्पुरुपलक्षणातिव्याप्तिरव्ययीभावलक्षणाव्याप्तिश्च । सुपप्रतिनामात्रार्थइति समासात् । अर्धपिप्पलीति तत्पुरुषे पूर्वपदार्थमाधान्यसत्त्वादव्ययभावलक्षणातिव्याप्तिस्तत्पुरुषलक्षणाव्याप्तिश्च । “अर्धेनपुंसक” मिति समासात् । एवं पूर्वकाय इत्यादितत्पुरुषेपि द्रष्टव्यम् । द्वित्रा इति बहुवीहावुभयपदार्थमाधान्याद् द्वन्द्वलक्षणातिव्याप्तिर्बहुव्रीहिलक्षणाव्यातिश्च । “सङ्ख्ययाव्ययासन्नादूराधिकसङ्ख्याः सङ्ख्येय" इति समासात् । शशकुशपलाशामिति समाहारद्वन्द्वे समाहारान्यपदार्थप्राधान्याद्बहुव्रीहिलक्षणाव्याप्तिश्च । तस्मान्नैतानि 'लक्षणानि । किं
२२
Page #182
--------------------------------------------------------------------------
________________
१७.
वैयाकरणभूषणे स्वव्ययीभावाधिकारपठितत्वमव्ययीभावत्वं, तत्पुरुषाधिकारपठितत्वं तत्त्वमित्यादि द्रष्टव्यमिति भाषः ॥ असम्भवचैषां लक्षणानामिति ध्वनयन्नुक्तिसम्भवमाह । भौतपूयादिति । स्वार्थे ध्यन् । पूर्व भूतो भौतपूर्व्यस्तस्मात् । उत्स. गोंपि, सोपि । रेखागवयादिवदिति । तथा च रेखागवयादिनिछलांगूलादेवस्तिवपश्वलक्षणत्ववदेतेषामपि न समासलक्षणत्व. म् । तत्र विशिष्टशक्त्यभ्युपगमेन पदानामनर्थकत्वात् । किंतु पोषकत्वमा स्यात् । रेखागवयवदिति भावः ॥ २९ ॥
ननु व्यपेक्षा सामर्थ्यमेकइति भाष्यकारैः प्रदर्शितानां व्यपेक्षावादिनां प्राचां मतएतानि लक्षणानि साधून्येव । तथाहि ।
समर्थःपदविधिरिति परिभाषायां सामर्थ्य व्यपेक्षारूपमेव सूत्र: भाष्यसिद्धम् । एकार्थीभाव समासस्यार्थवत्सूत्रेणैव प्रातिपदिकत्वसम्भवेन समासग्रहणं न कुर्यात् । परागवद्भावे एका भाषाभावेन तस्यासंग्रहापत्तेश्च । न चेष्टापत्तिः। तथा सति सुबामन्त्रिते परागवत्स्वरे' इत्यनन्तरमेव समर्थसूत्रं कुर्यात् । किंचैवं यत्ते दिवो दुहितर्मत भोजनमित्यादौ दिवःशब्दस्यामन्त्रितनिघातफलकपराङ्गवद्भाववदयमग्नेजरिता, ऋतेन मित्रावरुणावृता. वृधावृतस्पृशा इत्यादावयम्ऋतेनेत्यादेः सुबामन्त्रितइति पराजपद्भावापत्तिः । सम्बोधनप्रथमान्तस्यामन्त्रितस्याग्निमित्रावरुणादिपदस्य सत्त्वात् । ननु तन्निमित्तग्रहणं कर्त्तव्यमिति वार्तिकातस्यामन्त्रितस्य यनिमित्तं तदेव पराङ्गवत्स्यादित्यर्थकानायं दोष इति चेम । एवं सति मित्रावरुणावित्यस्यापि पराङ्गवद्भापानापत्तेः । ऋतस्य वर्धयितारावित्यर्थेन्तर्भावितण्याद्वधेः क्विपि ऋतावृधाविति रूपम् । न च मित्रावरुणौ तन्निमित्तम् । न चमा भूत्परागवद्भाव इति वाच्यम् । ऋताधावित्यस्य निघाताना
Page #183
--------------------------------------------------------------------------
________________
समासशक्तिनिर्णयः ।
पत्तेः । द्वितीयपादादित्वेयानुदात्तं सर्वमपादादाविति पर्युदस्तत्वात् । अन्यथेमं मे गङ्गे यमुने सरस्वति शुतुद्धि स्तोममिति मन्त्रे पूपूर्वामन्त्रितस्याविद्वयमानवद्भावान्मे शब्दात्परतामुपजीव्य कृतोपि निघातो गङ्गे इत्यादित्रयस्येच शुतंद्रीत्यस्यापि स्यात् । तथा च पादादित्वेपि पराङ्गवद्भावादामन्त्रितस्य चेत्याद्युदाचता ऋतेनत्यादेर्दुर्वारा। न च मित्रावरुणावित्यस्य पराङ्गवद्भावो न सम्भवस्येव आमन्त्रितं पूर्वमविद्यमानवदित्यविद्यमानवद्भावादिति वाच्यम् । परस्य कार्ये ह्यसावतिदेशः पूर्वग्रहणात् ज्ञापकात् । न च पराङ्गयद्भावः परस्य कार्य किं तु स्वस्य । अस्तु वा मित्रावरुणावित्यामंत्रितं सामान्यवचनम् । तद्विशेषणमृतावधाविति । तथा च नामंत्रिते समानाधिकरणे सामान्यवचनमित्यविद्यमानवद्भावनिषेधान्न दोषः । तस्मात्तन्निमित्तग्रहणे कृते ऋतेनेत्यत्रेव मित्रावरुणावित्यत्रापिस न स्यात्तस्मात्समर्थपरिभाषयैव निर्वाहमभ्युपेत्य तन्निमिग्रहणं त्याज्यमिति वेदभाष्यशब्द कौस्तुभयोः स्पष्टम् । तथा च परस्परान्वयरूपा व्यपेक्षेव सामर्थ्यम् । तच्च कारकाणां क्रियायामेवान्वयाहतेनेत्यस्याशाथे इत्यनेनैव सहान्वयान्न मित्रा वरुणाभ्यामन्त्रय इति सामर्थ्याभावान्न पराङ्गवद्भावः । मित्रावरुणावृत्तावृधावित्येतयोस्तु पाणिकाभेदान्वयात्सामथ्यसत्त्वाद्भवति स इत्युपपद्यते । एवमेव च भार्या राज्ञः पुरुषो देवदतस्य पश्य देवदत्त कृष्णं श्रितो विष्णुमित्रो गुरुकुलमित्यादौ न समास इत्युपपद्यते । उपपद्यते चाधिहरि राजपुरुषश्चित्रगुरित्यादिषु समासः । पदार्थानां परस्परमन्वयरूपसामर्थ्यसत्त्वात् । अत एव रामकृष्णावित्यादौ परस्परमनन्वयात्सामर्थ्याभावेन समासो न स्यात् । एवं धवखदिरौ छिन्धीत्यादावपि । न चैकस्यां क्रियायामन्वयित्वमेव सामथ्र्यमत्रास्तीति कैयटोक्त
"
ܕܐ
•
•
Page #184
--------------------------------------------------------------------------
________________
१७२
वैयाकरणभूषणे युक्तम् । एवं हि कृतः सर्वो मृत्तिकयेत्यादौ कृतः सर्वमृत्तिकइति समासापत्तेः । असूर्यम्पश्या इत्यादरसमर्थसमासत्वोच्छेदनसङ्गाच । न चैकस्यां क्रियायां कर्मत्वाघेकरूपेणान्वयित्वमेव सामर्थ्य वाच्यम् । अथ वा चार्थेद्वन्द्व इति विध्यवयायासामर्थ्यपि स स्यादिति वाच्यम् । एवं हि बटो भिक्षामट गां चानयेत्यादा "वहरहर्नयमानो गामश्व पुरुषं पशुम् । वैवस्वतो न तृप्यति सुराया इच दुर्मद" इत्यादौ चातिप्रसङ्ग इत्याशङ्कय युगपदधिकरणवचने द्वन्द्व इति व्युत्पादितं भाष्ये । तथा च परस्परमभेदान्वयरूपं सामर्थ्य मेवातिप्रसङ्गपरीहारव्याजेन भा. ज्यकारैः समर्थितम् । एकार्थीभावपक्षे च तस्मिन्नेव समास. इति समर्थसूत्राल्लब्धत्वादहरहरित्यादौ समासाप्रसङ्गायुगपदधिकरणवचनताव्युत्पादनवैयापत्तेः । अधिकरणं वर्तिपदार्थों रामकृष्णौ, तयोयुगपद्वचने पदद्वयेनाभिधाने द्वन्दो भवतीति तदर्थः । ननु सेयं युगपदधिकरणवचनता दुःखा च दुरुपपादा चेति भाष्यएव सा दूषितेति चेत् । सत्यम् । विग्रहे सा दुरुपपादेति तदभिप्रायस्य शब्दकौस्तुभादौ व्युत्पादितत्वात् । विग्रहे खल्वपि युगपदधिकरणवचनता दृश्यते धवौ च खदिरौ चेत्सेर विग्रह इत्यादि, ततः पूर्व भाष्ये व्युत्पादितत्वात्तथैव युक्तत्वाव । अत एव धवौ च खदिरौ चेति न विग्रहः । प्रक्रियादशायां प्रथमप्रवृत्तस्यैकवचनस्य त्यागायोगात् । अन्यथा समासदर्शनानुरोधेन विग्रहकरणे षष्ठीतत्पुरुषोच्छेदः स्यात् । तथा च षष्ट्या अलुग्विधायकानां तत्स्वरादीनां चोच्छेदापत्तिरित्येवोक्तं शब्दकौस्तुभे । अत एव तद्राजस्य बहुषु तेनैवास्त्रियामित्यनेनापत्यकृतबहुत्वाविवक्षायां तद्राजस्य लुग्विधीयमानो ऽङ्गवकालिका इत्यादौ सिम्यति । नहि विना युगपदधिकरणतात
Page #185
--------------------------------------------------------------------------
________________
समासशक्तिनिर्णयः । १७३ द्राजार्थस्य बहुत्वान्वयः । तस्य व्यासज्यवृत्तित्वात् । न चं तद्राजान्तेन बहुत्वोक्तौ लुगित्येवार्थोस्त्विति शङ्कयम् । प्रियो वाङ्गो येषामित्यर्थे प्रियवाना इत्यत्रापि प्रसङ्गादिति । न च कर्मधारयेप्यभेदान्वयरूपसामर्थ्यसत्त्वाद् द्वन्द्वाविशेषस्तस्य स्यादिति वाच्यम् । समस्यमानपदैरेकविषयताशालिबोधजनने द्वन्द्वस्तदर्थमेव युगपदधिकरणवचनतास्वीकारादिति विशेषसम्भवात् । न चैवमपि रामकृष्णावित्यादौ विरूपाणामपि समानार्थानामित्येकशेषापत्तिः । विभक्त्युत्पत्तेः पूर्व समानार्थतायामिष्टत्वात । तदुत्तरमेकशेषाप्रसङ्गात् । पूर्वमेवैकशेष इति सिद्धान्तात् । तथा च विवक्षयोभयथापि प्रयोगो युक्त एव । पितरावित्यादौ ता. त्पर्यानुरोधेनवार्थविशेषनिर्णयस्य वाच्यत्वात् । तथा च विव. क्षया व्यवस्था आश्रयणीया चार्थे द्वन्द्व इति न्यासपक्षेपि विभक्त्युत्पत्तेः पूर्व सहभावविवक्षणे एकशेषस्तदुत्तरं विवक्षणे च द्वन्द्र इति वाच्यमेव । नन्वेवं सति एकशेषे द्विवचनबहुवचना. न्तेन विग्रहप्रदर्शनमपि शक्यं वक्तुम् । परं त्वेकवचनान्तेनैव त. त्प्रदर्शनमयुक्तम् । प्रागुक्तन्यायेन द्विवचनादेरपि न्यायमाप्तत्वादिति कथं द्विवचनान्तेन तत्पदर्शनं निषिद्धमिति चेत । उच्यते । नहि येषामेकशेषस्तेषामेव तथाविधानां विग्रहे प्रवेशः तस्य नित्यत्वात् । किं तु यदा युगपद्वाचित्वाविवक्षणाकशेषस्तदा तद्बोधकचकारमादाय सः। तथा च तत्र न द्विवचनप्राप्तिरिति वित्रियमाणे तथा दर्शनादेव तत्रापि युगपद्वाचिताविवक्षां कृत्वा तथा विग्रहो वाच्यस्तत्र चोक्तदोषो युक्त इति । अथ विभक्त्युत्पत्तेः प्राक् सहभावविवक्षायामेवैकशेष इत्यभ्युपगमे तदा सहभावाविवक्षणात्प्रत्येकं विभक्त्युत्पत्तौ ततस्तद्विवक्षणे द्वन्द्वापत्ती घटघटौ घटघटघटा इत्यापत्तिदुर्वारा। न चाकृतव्यूहपरिभाषया
Page #186
--------------------------------------------------------------------------
________________
वैयाकरणभूषणे
:
भाविद्विबहुवचनादिविरुद्धतया वा न माविभक्त्युत्पत्तिरिति शंक्यम् । इतरेतरयोगादावप्यनापतेः । भय यदि घटत्वादिरूपेणैकशक्त्या विभीतकत्वाद्यनेकतात्पर्यवशाद्युगपदनेकशक्त्या विशिष्टलक्षणया वा मातृत्वपितृत्व स्त्रीत्व पुंस्त्वश्वरत्वाद्यनेक रूपे - कस्मादेव पदादुपस्थितौ घटा अक्षाः पितरौ ब्राह्मणौ त्ररावित्यादिप्रयोगाणां सम्भवान्नैतत्साधनायैकशे पमकरणं किं तु घटो घटोयमिति धारावाहिकाभिलापवरसाहित्याविवक्षणात्म-: त्येकव्यक्तिजातिक्षितिक्षमामात्रे मातृमात्रोः सहभावे च तात्प र्याद्विभक्त्युत्पत्त्यनन्तरं सहभावविक्षणाद्वा प्राप्तस्य घटघटौ अक्षाक्षी क्षमाक्षमा मातृभ्यामित्याद्यनिष्टरूपस्यासाधुत्वबोधनायेति नोक्तदोषः । एवं च साहित्यविवक्षाचिकीर्षायामेवैकशेषः बहुबीहिचिकीर्षायामिव नबहुवीहावित्यादिवत्प्रवर्त्ततइति कल्प्य - ते । प्रत्ययोत्पत्तेर्व्यर्थ गौरव भयात्मक्रियादोषप्रसङ्गाच्च नान्तरा कल्पना युक्ता । समासादौ तूपजीव्यत्वात्तदादर इति । उक्तं च शब्दकौस्तुभे । 'घटकुम्भौ कुम्भकुम्भौ मातृभ्यां चेति पा क्षिकम् । अनिष्टत्रितयं प्राप्तं सूत्रेणानेन वार्यते ॥ घटावित्यादिसिद्धिस्तु स्यादेवैतद्विनापि हि । जातिपक्षे व्यक्तिपक्षेपीति निष्कर्ष संग्रह' इति ।। अत्रापि पक्षे पितामात्रेत्यादिद्वयं व्यर्थ मातापितरौमातरपितरावित्यादेरिष्टत्वेन नियमार्थताया असम्भवात् । मातराविति तदर्थे निवारयितुं सूत्रमिति चेन्न । एकस्य मातृशब्दस्य पितर्य परस्य मातरि तात्पर्ये सरूपैकशेषेणापि विशिष्टलक्षणया युगपद्वृत्तिद्वयेन वा मातरावित्यस्य दुर्वार्यत्वेन वानर्थक्यावारणादिति विभाव्यते । तम । तथापि घटकुम्भावितिवद्रामकष्णावित्यस्यासाधुतापत्तेरिति चेत् । मैवम् सहविवक्षातः प्राक् समानार्थतायामेवैकशेषात् । अन्यथा द्वन्द्वे प्राप्ते एकशेषा
१७४
Page #187
--------------------------------------------------------------------------
________________
.
.
समासशक्तिनिर्णयः। १७५ सदा युगपदधिकरणवचनताया अव्यभिचारात्समानार्थानामित्यस्यानर्थक्यापत्तेः । द्वन्द्वविधानवैयापत्तेश्चेति दिक् ॥ न. न्वेवमप्यनेकमन्यपर्व इत्यनेनानेकसुबन्तानामन्यपदार्थप्रतिपादकत्वे बहुव्रीहिविधानाचित्रग्वादिपदानां सर्वेषां तदभिधायकत्वे युगपदधिकरणवचनतासत्त्वाद् द्वन्द्वापत्तिः । न चोत्सर्गापवादन्यायेनान्यपदार्थमादाय तस्यां बहुव्रीहिः समस्यमानपदार्थमादाय तस्यां च द्वन्द्व इत्यभ्युपेयमिति वाच्यम् । एवं हि समाहारद्वन्द्वासम्भवापत्तेः तस्यान्यपदार्थत्वादिति चेन्न ।न तावत्समाहारवाचकत्वेन समाहारद्वन्द्व इति व्यवहारः । रामकृष्णावानय पाणिपादं वादयेत्यनयोर्बोधपदार्थान्वययो(लक्षण्यादर्शनात् । किं तु द्वन्द्वश्च प्राणितूर्येत्यादिप्रकरणेन प्राण्याद्विद्वन्द्वे एकवचनविधानात्समाहार इव समाहारः एकवचनानिमित्तत्वादिति गौणो व्यवहारः । एतदेवादाय द्वन्द्वाच्चुदषहान्तात्समाहारे इत्यादिसौत्रव्यवहारा अप्युपपद्यन्तइति ध्येयम् । न च परस्परान्वयसामर्थ्यपक्षे ऋदस्य राजपुरुष इत्यादिविशेषणाद्यन्वयापत्तिरिति वाच्यम् । सविशेषणानां वृत्तिने त्तस्य वा विशेषणयोगो नेति वार्तिकेन विशेषणयोगे समासा. साधुत्वज्ञापनात् । एकार्थीभावपक्षोप राज्ञः पदार्थैकदेशत्वानान्वय आकाङ्क्षाविरहादियुक्तावपि ऋदस्य राजपुरुष इत्यादेः साधुतावारणाय वार्तिकस्यावश्यकत्वात् । अत एव देवदत्तस्य गुरुकुलमित्यादौ साधुत्वज्ञापनाय भवति वै नित्यसापेक्षस्यापि समास इति वार्षिक सङ्गच्छते । न च राजपुरुष इ. त्यादौ पदार्थयोरुपस्थिताय यन्वयः कस्थार्थ इति वाच्यम् ।त. स्य संसर्गमर्यादयैवोपस्थितः । न च नामार्थयोर्भेदेनान्वयासम्भवः । समासेन्यष म्युत्पचेरिति व्यपेक्षागादिनां मतम् ।
Page #188
--------------------------------------------------------------------------
________________
१७६
वैयाकरणभूषणे तस्माद्वयपेक्षापले पूर्वोत्तरपदयोरर्थसत्वात्पूर्वपदार्थप्रधान इत्यादिव्यवस्था अव्याप्त्यतिव्याप्त्यादिदोषदुष्टापि नासम्भविनीत्याशङ्कां मनसिकृत्याह ॥
जहत्त्वार्थाजहत्स्वार्थे वे वृत्ती ते पुनास्त्रिधा । भेदः संसर्ग उभयं चेति वाच्यव्यवस्थितेः॥३०॥
यद्यप्यत्र महाभाष्ये नाना पक्षा निरूपिताः । तथाप्यत्रैव विश्रान्तिस्तेषामिति विभाव्यते ॥ कैयटो हरदत्तश्च यां व्यवस्यां प्रचक्रतुः । सा न्यायभाष्यानुगुणा नेत्युपेक्ष्येति विद्महे ।। तथाहि । यद्यपि समर्थसूत्रे भाष्यकारैरनेके पक्षा निरूपिता इति भाति । तथापि तद्विवेके सति जहत्स्वार्थाजहत्स्वार्थपक्षयोरेव पर्यवसानं लभ्यते । तद्यथा । इथं तावद्भाष्ये पक्षसृष्टिः प्रतीयते । समासादावेकार्थीभावः विग्रहवाक्ये च व्यपेक्षेत्येकः पक्षः । अथ ये वृत्तिं वर्तयन्ति इत्यारभ्य जहत्स्वार्थाऽजहत्स्वार्थी चेति पक्षभेदेन मतान्तरम् । समासादावपि वाक्यवद्वयपेक्षैव सामयमिति चापरं मतमिति । तत्रेत्थं कैयटेन निर्णीतम् । नित्यशाब्दिकमते राजपुरुषादीनि वाक्यविषयपदसरूपावयवानि वर्णवदनर्थकोपलभ्यमानावयवानि तत्त्वतो निरवयवान्येव केवलमसत्यप्रक्रियाश्रयेणावाख्यायन्ते नातस्तत्र जहदजहत्पक्षावतारः । अतस्तत्रैका भाव एव । वाक्ये तु व्यपेक्षा । परस्पराकाङ्क्षा च व्यपेक्षेति प्रथमः पक्षः । कार्यशान्दिकानां वाक्याद्वि कल्पेन वृत्तिनिष्पत्तिं मन्यमानानां मते जहत्स्वार्थाजहत्स्वार्थपक्षविकल्पः । अथ ये वृत्तिं वर्तयन्ति किं तआहुरित्यादिना भाष्यात्तथैव स्पष्टत्वात् । तत्र जहत्स्वार्था नाम राज्ञो विशेषणान्वयसहिष्णुतारूपमाधान्यत्याग एव । तद्यथा । तक्षा राज
Page #189
--------------------------------------------------------------------------
________________
समासशक्तिनिर्णयः ।
·
कर्मणि प्रवर्त्तमानः स्वं तक्षकर्म जहाति न हिक्तिश्वासतेस्थादिना दृष्टान्तेन तथैव भाष्ये व्युत्पादितत्वात् । एकार्थीभावस्त्वत्र पक्षे राजपदेन राजपुरुषयोरुपादान सिध्यर्थमङ्गीक्रियते । तदनभ्युपगमे राज्ञि विशेषणान्वयापत्तेः । अजहत्स्वार्था च राज्ञांशस्यापरित्यागमात्रात् । भिक्षुकोयं द्वितीयां भिक्षां लब्ध्वा पूर्वी न जहाति सञ्चयाय प्रवर्त्तते इत्यादिभाष्येण तथैव लाभात् । अथ वा पुरुषव्यावर्त्तकत्वमात्रेण राजांशस्योपयोगाद्रान: पदं स्वार्थ जहात्येव । न चैतावता तन्निमित्तं विशेषदर्शनं निव चैते पुरुषे । नाग्निसम्बन्धजनितपाकजरूपादिनिवृत्तिर्घटेोसंयोगे निवृत्ते भवति । अथ वान्वयाद्विशेषणं भवति घृतघटश्वम्पकपुट इतीत्यादिना भाष्ये तथैव स्पष्टत्वात् । तस्माद्वृत्तिनिष्पत्तिवादिमते जहत्स्वार्थाजहस्वार्थान्तर्भावेण पक्षद्वयं स्थिम् । व्यपेक्षावादस्तु स्वतन्त्र एवेति । हरदत्तस्तु एकार्थी भावस्तावद्राज: पदेन राजपुरुषोपस्थापनाय पुरुषपदेनाप्युभयोपस्थापनायावश्यकः । अन्यथा राज्ञः पुरुषश्वश्चतिवद्राजपुरुषोश्वश्वेति राज्ञः पुरुषो देवदत्तस्य चेति वापतेः । नपुनर्जहत्स्वार्थवृत्तौ राजपदानर्थक्यं युक्तं पश्यामः । तथा सति राज्ञो बोजासम्भवेन राजपुरुषमानयेत्यत्र पुरुषपात्रस्यानयनप्रसङ्गः । न च राज्ञः प्रतीतये समासे शक्तिः कल्प्या, मानाभावात् नापि राजपदं वाक्ये व्युत्पन्नं पुनः समासे व्युत्पत्तिमपेक्षते । न वा राजबोधाय समासे व्युत्पत्तिग्रहोपेक्ष्यते । तस्मादजहत्स्वार्थेव वृत्तिः । अर्थाभिधानप्रकार भेद इत्येव साम्प्रतम् । एवं चैकार्थीभाववद्वयपेक्षापि समासादौ । अन्यथैकार्थीभावमात्रमाश्रित्य द्रष्टुं गतः कृष्णं श्रितो गुरुकुलं विष्णुमित्र इत्यादौ समासप्रसङ्गः । तस्मादेकार्थी भावो, व्यपेक्षा, अजहत्स्वार्था, चेति श्रयं समुच्चितं परिभाषावृत्तिहेतुः । न
२३
Page #190
--------------------------------------------------------------------------
________________
वैयाकरणभूषणे चाप्येतस्मिन्व्यपेक्षायां सामर्थे योसावेकार्थीभावकृतो विशेष: स वक्तव्य इति व्यपेक्षापक्षदूषणार्थक भाष्यविरोध इति वाच्यम्। व्यपेक्षामात्रवादे तदूषणाभिधानात् । न चैवमप्येका भावबून्ये पराङ्गवद्भावे विभक्तिविधाने च सा न प्रवर्त्ततेति वाच्यम् । पराङ्गवद्भावे तनिमित्तग्रहणात् । विभक्तौ क्रियाकारकसम्बन्धाविनाभावात्व चिदन्तरान्तरेणयुक्तइत्यादौ युक्तग्रहणाच सर्ववादोषेण एकार्थीभावशून्ये परिभाषामवृत्यभावेप्यक्षतेः । अत एव संसृष्टार्थानां सम्बद्धार्थानामित्यादिना सामर्थ्यद्वयसमुच्चयो वृत्तौ ध्वनित इति व्युत्पादयांबभूव । अत्रेदं प्रतिभाति। न तावदाद्यएका भावोखण्डं समासमभ्युपेत्येति कैयटोक्तियुक्ता । अथ क्रियमाणेपि समर्थग्रहणे किं सामर्थ्य नाम । पृथगानामेकार्थीभावः सामर्थ्यम् । क्व पृथगानि क्व वा एकार्थानि, वाक्ये पृथगानि समासे एकार्थानि इत्येकार्थीभावोपपादकभाष्यविरोधात् । न वा ऽखण्डे पदानि सन्ति । येनैतत्स्यात् । तुल्ययुक्त्या वाक्यस्याप्यखण्डत्वापत्तेश्च । अन्यथार्षजरतीयतापत्तेः । ननु नित्यशाब्दिकास्तु वृत्तिवाक्ये नित्ये विविक्तविषये मन्यन्तइति तत्रैव कैयटेनोक्तत्वादत्रेष्टापत्तिरिति चेत् । तार्ह वाक्येप्येकार्थीभाव एव स्यात् । तथा च वाक्ये व्यपेक्षेति भाष्यमसङ्गतं स्यात् । एवं वावचनानर्थक्यमप्यनर्थक स्यात् । व्यपेक्षायां समासो न, एका भावे वाक्यं नेति वि. विक्तविषयत्वादनयोर्बाध्यबाधकभावो न भवति । एकार्थानां विकल्पनादिति कैयटेनैव तद्भावार्थस्योपवर्णितत्वात् । नाख.
ण्डे वाक्ये परस्पराकांक्षारूपव्यपेक्षासम्भवः । किंबहुना वा- क्यपदयोरखण्डत्वे तुल्ययुक्त्या स्थिते व्याकरणस्थविधिमात्रस्याः संलग्नकतापत्तिः । प्रकृतिप्रत्ययागमादेरसत्त्वात् । अ पञको.
Page #191
--------------------------------------------------------------------------
________________
समासशक्तिनिर्णयः । शकल्पनान्यायेन शास्त्रमवृत्तिः प्रकृत्यादिकल्पनयेत्युच्यते । स. मर्थः पदविधिः सहसुपेत्याद्यपि शास्त्रान्तर्गतत्वात्तद्दशायामवेति कथमखण्डमभ्युपेत्य प्रवर्तताम् । तस्मानाखण्डपक्षाश्रयणेन प्रथमः पक्ष इति स्यादेव तत्रापि जहदजहद्विचारप्रवृत्तिः । एतेन यद्यपि शब्दान्तरमेव वृत्तिरवयवा वर्णवदनर्थकास्तथापि सा. दृश्यात्तत्वाध्यवसानं पदानामाश्रित्य पृथगर्यानामेका भाव इ. त्युक्तमिति पूर्वमुदाहृतभाष्यावतारः कैयटोक्तो विद्वद्भिर्नादरणीयः । अपि चोक्तरीत्या समासवद्वाक्येप्येकार्थीभावाभ्युपगमे व्यपेक्षायां सामर्थे परिभाषायां च सत्यां यावान् व्याकरणे पदगन्धो नाम स सर्वः संगृहीतः समासस्त्वेको ऽसंगृहीतः ।। एका भावसामर्थे च समासस्त्वेक एव संगृहीत इति भाण्य. म् । समासएवैकार्थीभावो ऽन्यत्र व्यपेक्षेति स्ववचनं च विरुद्धं स्यात् । वृत्ताविव वाक्यपि विशेषणयोगानापत्तेश्च । एतेन समासादौ व्यपेक्षका भावयोः समुच्चयोपि हरदत्तोक्तो ऽपा. स्तः। किं च । जहत्स्वार्थाजहत्स्वार्थयोः समुच्चयोपि विकल्पमुखेनैव भाष्ये पक्षद्वयावतारात्तद्विरोधाचादरणीयः । अपि च हरदत्तपक्षे राजपुरुषयोरप्युभयार्थत्वकल्पना व्यर्था । विशेषणान्वयनिरासस्य राजपदे तथाकल्पनेनैव वारणात् । राजपुरुषो देवदत्तस्य चेति वारणार्थ तथा कल्प्यतइति चेन । एवमपि राजपुरुषो गौर इत्यादिवत्तथा प्रयोगापत्तेर्दष्परिहरत्वात् । अन्यथा राजपुरुषो गौर इतिवद्गौरस्य राजपुरुष इत्यपि स्यात् । भेदः संसर्ग इत्यादिना मूलएव निरसिष्यमाणत्वाच्च । तथा च न पुरुषपदस्योभयार्थतोक्तियुक्ता । नापि राजपदमात्रस्योति कैयटोक्तिरपि तथा । एकार्थीभावस्य पूर्वपदमात्रनिष्ठतापत्तेः समासनिष्ठतानापत्तेः । समासत्वस्य व्यासज्यवृत्तित्वात् । उ
Page #192
--------------------------------------------------------------------------
________________
१८. वैयाकरणभूषणे भयनिष्ठत्वस्य चोक्तरीत्या सम्भवात् । अपि चैवं पुरुषपदस्याप्युभयार्थले राजपदे जहत्वार्थता किंन स्यात् राज. प्रतीतेः पुरुषपदादेवोपपत्तेः । राजपदस्य च तात्पर्यग्रहणार्थमुपयोगेनानर्थक्याभावात् । चम्पकपुट इत्यादिभाष्येणैवमेव लाभाच्च । अन्यथा तद्भाष्यांसामञ्जस्यात् । सम्भवन्त्यामुपपसौ क्लिष्टकल्पनानवकाशात् । वक्ष्यते चान्यदुपरिष्टात् । तथाच तस्मादजहत्स्वार्थैव वृत्तिरिति हरदत्तमौढिस्तद्रीत्यैवायुक्तोत परिभाव्यता सूरिभिः । तस्मान कैयटहरदत्तादिभिरुक्तं युक्तम् । तस्मादेकार्थीभावो व्यपेक्षा चेति यत्पक्षद्वयं भाष्ये व्युत्पादितं तदेवाभिप्रेत्य जहत्स्वार्थाजहत्स्वार्थविचारः। एकार्थीभावे जहत्स्वा. र्था, व्यपेक्षायामजहत्स्वार्था । एकार्थीभावश्च समासादौ । पृथगानामेकार्थीभावः सामर्थ्य मिति भाष्यस्वरसादिति व्यवस्था षयं विभावयामः । अत एवैका भावव्यपेक्षयोमतान्तरत्वेपि संशये कोटितयोल्लेखवज्जहत्स्वार्थानहत्स्वार्थयोस्तदन्तर्गतयोरपि विकल्पेनोल्लेखः सङ्गच्छते । कथं तर्हात्र पक्षे अथ ये वृत्ति व
यन्ति किं ते आहुरिति मतान्तरमवतार्य जहत्स्वार्थादिविचारो भाष्ये सङ्गच्छतइति चेत् । उच्यते । नैतन्मतान्तराभिमायं भाष्ये, विना समुदायशक्तिं जहत्स्वार्थाया विना व्यपेक्षामजहत्स्वार्यायाश्च दुर्वचत्वात् । किंतु वृत्तिलक्षणाभिधानाय प्रश्नरूपम् । अत एव पराभिधानं वृत्तिमाहुरिति तल्लक्षणकधनं समच्छते । भन्यथा मतान्तरे लक्षणनिर्वचनमेतदित्यभ्यु.. गमे उक्तका भानवक्ष्यमाणव्यपेक्षापक्षयोवृत्तिलक्षणानभिधा. विकल्पनाः । तथा च ये एका भाववादिनो व्यपेक्षावाण्डे वाक्ये परस्पतिकशेषसमाससनाद्यन्तधातुरूपां पदवि क्यपदयोरखण्डत्वे व वयन्ति किं ते वृत्तिलक्षणमाइ संलग्नकतापत्तिः । प्रकृति
Page #193
--------------------------------------------------------------------------
________________
समासशक्तिनिर्णयः। १८१ ति प्रश्नग्रन्धाः । उत्तरयति । परार्थाभिधानमिति । परो वि. शिष्टो योर्थस्तदभिधानं शकपा सक्षणया आकांक्षादिवशात्सं. सर्गमर्यादया वा यत्र सा वृत्तिः । एकार्थीभावे शक्तया व्यपे. भायां लक्षणया तदभिधानमस्त्येवेति भावः । तस्मादुक्तंव व्यघस्था भाष्यसिदेत्यभिप्रेत्य तथैव स्पष्टयति । द्वे वृत्तीति । के. पटादिरीत्यादरे च भेदाधिक्यस्यापि भावादरदनरीत्या जह स्वार्थाविरहाच दे इत्ययुक्तं स्यादिति द्रष्टव्यम् । तत्रैकार्थीभावपक्षेपि जहत्स्वार्थता न युक्ता । राजादिपदानां क्लप्तशक्तित्यागायोगादित्याशङ्कायामाह । जहत्स्वार्थेति । जहति पदानि स्वार्थ यस्यां सा जहत्त्स्वार्था । पदे वर्णबद्वृत्तौ पदानामानर्थक्यमित्यर्थः । अयं भावः । समासादाववश्यकल्प्यातिरिक्तशतथैव राजविशिष्टपुरुषबोधसम्भवेन राजपुरुषपदयोरपि पुनस्तबोधकत्वं कल्प्यं वृषभयावकादिपदेषु वृषादिपदानामित्र । भन्यथा रामादिपदेष्वपि द्रव्यचतुर्मुखनारायणादीनामवयवार्थानां पदार्थोपस्थितिशाब्दबोधयोरापत्तेः । क्तवत्वन्तर्गतक्तस्य जातीयान्तर्गततीयस्य वयपयचयतयणयान्तर्गताऽयस्य यनन्तर्गताबोप्यर्थवत्त्वापत्तेश्च । तथा च प्रौढ इत्यत्रेव मोढवानि. त्यत्र प्रादूहोढोव्येषैष्येष्विति वृदेः पटुजातीयायेत्या तीयस्य डिन्त्सु सर्वनामता वाच्येति सर्वनामतायाः धवये पेये चेये इ. त्यादीनां लिटि दयायासश्चेत्यामः, बहिषष्टिलोपो यञ्च, दे. पाययबाविति सिद्धयोर्वाह्या देव्या इत्यनयोष्टिड्ढाणबित्यअन्त. वान्डीबापत्तौ प्रौढवान् पटुजातीयस्मै वयाचक्रे पेयाञ्चक्रे चपाञ्चके नयाञ्चक्रे वाहीका दैवीत्याद्यनिष्टापत्तेः । इत्थमन्यत्राप्यनेकशो दोषापत्तिर्दुर्वारा अस्माकमर्थवद्रहणेनानर्थकस्योत प. रिभाषकदेशानामनर्थकानामग्रहणात्र दोषः । न च यमाचे
Page #194
--------------------------------------------------------------------------
________________
१८२ . वैयाकरणभूषणे त्यनेन बाह्या इत्यादौ डीवापत्तिस्तवापि समा । तस्यापत्याधि. कारे एव प्रवृत्तेराकरे स्पष्टत्वात् । इत्थं चानेकशः प्रयोगेष्व. तिप्रसङ्गापत्त्या स्वव्यापकशक्ततावच्छेदकानुपूर्वीविरहविशिष्टानुपूर्वी शक्ततावच्छेदिका वाच्या । एवं च क्तवतुजातीयाद्य. न्तर्गतक्ततीयाद्यानुपूर्वी न साहशीति नोक्तदोषः । अर्थवद्ग्रहणे नानर्थकस्येति परिभाषोपपत्तिश्च । अन्यथा समुदायान्तर्गते. कदेशस्यापि स्वातन्त्र्येण व चिच्छक्ते परिभाषाया विषयालाभेनासम्भवापत्तेः । ए च समासान्तर्गतराजादिपदानामपि मागर्थवत्त्वं समुदायानुपूर्वीवतो ऽनर्थकत्वं वृषपदस्य केवलस्यार्थवन्त्वं न वृषभान्तर्गतस्येत्याग्रुपपत्तौ नीलोत्पलं राजपुरुष इत्यादौ प्रत्येकपदजन्योपस्थितिमादाय नोद्देश्यविधेयभावान्व. यो विशेषणान्वयापत्तिर्बोधावृत्त्यापतिर्वा । न चैवं निमित्तापायन्यायेनार्थवन्त्वनिमित्तकमातिपदिकत्वपदत्वयोरपि हान्यापत्तिरिति वाच्यम् । अकृतव्यूहाः पाणिनीया इति परिभाषातिरिक्ततन्न्यायास्वीकारात् । तस्याश्च निमित्तं विनाशोन्मु. खं दृष्ट्वा तन्निमित्तं शास्त्रं न कुर्वन्तीत्यर्थः । प्रकृते च समाससंज्ञायां तयोरुपजीव्यतया आवश्यकत्वेन कारणस्यावश्यकत्वात् । अत एव समाससंज्ञानिमित्तसुपो लुक्यपि सा न निवर्तते। न चैवमपि कृतमपि शास्त्रं निवर्तयन्तीति परिभाषान्तरबलात्कृतस्यापि निवृत्तिर्दुवारा । प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वरामिति न्यायेनाकरणस्यैव लाघवोपष्टब्धतया युक्तत्वेन ततोपि गुळः राजा इत्यादौ नकोपे सति तन्निमित्तको. पधादीर्घहान्यापत्या चैतस्याः सिद्धान्तासमतत्वात् । अथैवमर्थवद्हणपरिभाषया नलोपसूत्रमापि राजेत्याधर्थवत्मातिपदिके चरितार्थ समासान्तर्गतेनर्थके न प्रवर्तेत । अपि च । वृति
Page #195
--------------------------------------------------------------------------
________________
समासशक्तिनिर्णयः। मात्रेतिरिक्तशक्तेर्भवसिद्धान्तसिद्धत्वाद्यवस्थापयिष्यमाणत्वाच कृत्तद्धितान्तर्गते धातुपत्यययोरप्यनर्थकतापत्तिः । तथा च कर्तरि कृत् सास्यदेवतेत्यादेरनर्थकतापत्तिः । "प्रयोगोपाधिमाश्रित्य प्रकृत्यर्थप्रकारताम् । धर्ममात्रं वाच्य"मिति । यद्वा 'शब्दपरादमी' इत्यादिवक्ष्यमाणं मूलं च विरुद्धं स्यात् । केवलक्त. क्तवत्वोरनर्थकत्वाविशेषात्प्रौढ इत्यत्रेव प्रोढवानित्यत्रापि वृद्धेः तीयजातीययोरुभयोरनर्थकत्वात्पटुजातीयस्मा इति सर्वनामत्वस्य यत्रोरनर्थकत्वाट्टिड्ढाणनिति ङीपा द्वैपीदैवीबाहीतिप्रयोगस्य तवाप्यापत्तिश्च तुल्या । राजादिपदशक्ताववच्छेदकगौरवं च तवातिरिच्यते । सार्वधातुकार्धधातुकयोरिति गुणः मृजेर्वृद्धिरिति वृद्धिः पानाध्मास्थानादाणदृश्यर्तिसर्तिशदसदा पिबजिघ्रधमतिष्ठमनयच्छपश्यर्छधौशीयसीदा इत्याद्यादेशविधानादिकं चार्थवति तिङन्ते धातौ चरितार्थ कृदादौ न प्रवर्तेते. ति च तवाधिकमनिष्टम् । तथा च जय जय भवन् मायः पिबः धम इत्यादिकं न सिध्येत् । यत्तु वृषण्वस्वश्वयोरिति वार्तिकेन वृषणश्च वृषण्वसुरित्यत्र भसंज्ञाविधानाज्ज्ञापकानलोपविधावर्थवद्हणपरिभाषाप्रवृत्त्यसम्भवः । अनेन हि भत्वं सम्पाद्यते न पदत्वं व्युदस्य पदान्तत्वाभावाबलोपो वार्यते । सोयमर्थवत्परिभाषयैव निर्वाहे व्यर्थः स्यात् । तथा च न समासे नलोपा. प्रसक्तिः । वृत्तिमात्रे ऽतिरिक्तशक्तावपि प्रत्ययानां विधानाय कल्पितमर्थमादायानुशासनमग्रिमत्वाद्यर्थविचारोर्थवत्परिभाषामवृत्त्या वृध्यायतिप्रसङ्गश्च न दुर्वारः । शक्ततावच्छेदकगौरवं चागत्या पक्षतावदाश्रयणीयम् । त्रसिधिधृषिक्षिपेः क्नुरिति क्नोः कित्करणाज्ज्ञापकादानर्थक्येपि धातुकार्यस्य ज्ञापनान गुणवदिपिवाद्यादेशानामप्रवृत्तिः । गुणनिषेधार्थ हि कित्करणं गुणा
Page #196
--------------------------------------------------------------------------
________________
१८४ . वैयाकरणभूषणे प्राप्तावनर्थकं स्यात् । तस्मादच्यवानर्धक्ये न दोष इति । चिन्त्यम् । शापकेन निर्वाहाभ्युपगमे रिहाणदयसन्नश्मात्र. च्तयप्ठक्क करपः, दयायासच, वश्वभ्रस्जसृजमृजयजराजभ्राजच्छशांप इत्यादौ उदयभ्राजग्रहणं व्यर्थम् । अअयाग्रहगैनैव तेषां कामादित्येकदेशग्रहणे समुदाया न गृह्यन्तइति ज्ञापना4 तेषां पृथग्रहणमित्यपि वक्तुं शक्यत्वेनैकदेशानामर्थवत्त्वेपि वृध्यायतिप्रसङ्गपारहारसम्भवात् क्लुप्तार्थवत्त्वत्यागायोगात् । एवं च धातुकार्यार्थ न ज्ञापकाश्रयणम् । युक्तं चैतत् । अन्यथा के. वलपत्ययानां प्रयोगाभावेन समुदायशक्तिव्यतिरेकेण स्वत. क्तया प्रत्ययैः क्वाप्याप्रत्यायनादर्थवत्वकल्पनाया अपि निरा. लम्बनत्वादुक्तरीत्या जातीयादौ तीयादिकार्यस्य दुर्वारत्वापत्तेः । न च भाजिग्रहणं न ज्ञापकम् । राजिसहचरितफणादेरेव ग्रहणसिद्धये तदुपादानात् । विभाक विभाद् इतिरूपदयसाधकत्वेन सार्थ'क्यादिति वाच्यम् । एवं हि षत्वस्य गणकार्यत्वापत्तौ यङ्लुक्यभावापत्तेः । साहचर्यस्य नियामकस्य व्याख्यातृभिरनुक्ते श्च । एवं सत्यपि रूपद्वयेप्याग्रहश्चेत् सूत्र राजपदं ऋकारान्ते पठ्यताम् । गणान्तरीयभाजेरकारान्तत्वमस्तु । नथा सति ना. ग्लोपिशास्वृदितामिति चपरे णावुपधाहूस्वाभावस्य, ऋकारकार्यस्य गणान्तरीये ऽकारान्ते प्रवृत्त्यसम्भवेन तस्य गौचङ्. युपधायाहस्व इत्यनेन ह्रस्वरूपस्यापि सिद्धौ तसिध्यर्थं भाजभासभाषदीपजीवमीलपीडामन्यतरस्यामित्यत्र भाजिग्रहणं न कार्यमित्यतिलाघवमपि लभ्यते । अस्तु वा गणान्तरीयभाजे. रादावृकारः । तावतापि सूत्रे ऋकारान्तग्रहणेन केवलाग्रहणसम्भवात् । सूत्रे राजपदमेव वा तन्त्रावृत्त्या राजिद्वयपरमस्तु । साहचर्यादेकदेशेन तस्यैव ग्रहणसम्भवात् । एवं च शक्तताब
Page #197
--------------------------------------------------------------------------
________________
समासशक्तिनिर्णयो। १८६ च्छेदकलाघवानुरोधेनैकदेशोथैवानेव । अत एव कृत्तद्धितवि. घिसूत्रेष्वर्थग्रहणं प्रकृतिप्रत्यययोः प्रत्ययार्थप्राधान्यामिति कृदादौ सकलासिद्धौ व्युत्पत्तिः । राजादिपदे समासात्पूर्व नामत्वाधर्थमर्थवत्वं समासोत्तरमनर्थकत्वमिति पक्तेत्यादौ प्रत्ययोत्पत्तये धातुत्वमानेतुं क्रियावाचकत्वरूपार्थवत्त्वम् । प्रत्ययोत्पत्तौ वृत्तावनर्थकत्वमिति च विरुद्धकल्पनाभावः। पङ्कजपदादौ योगरूढिभ्यां तत्तच्छक्तिग्रहशालिनांबोधः "सत्यासक्तमनाः प्रवृद्धनरकच्छेदी द्विजेन्द्राश्रयो यश्चानेकमुखोद्भवाश्रयतनुः श्रीयंत्र संराजते । योगगां च सदा बिभर्ति स शिवो यः कामदेहाश्रयः सद्यः साम्यमयं भयातु भवतां कृष्णेन रुद्रेण वे"ति श्लेषप्राणकाव्ये बोधः ।ओं कारे अकारोकारमका वैष्णुत्वशिवत्वब्रह्मत्वादिना बोधस्तदर्थकाथर्वशिखाद्युपनिषत्पुराणादीनां प्रामाण्यं च सङ्गच्छते। अन्यथा सकलैतद्विप्लवो योगरूदुयच्छेदश्च स्यात् । नन्वेवं पाचयति देवदत्त इत्यादिणिजन्ते णिचः पूर्वभागस्यार्थवत्त्वे तदर्थभावनायाः वर्तमानत्वादिविवक्षायां मध्ये तिबादिकं स्यात् । भस्माकमा. नर्थक्यादधातुत्वान्न प्रसङ्ग इति चेन्न । प्रत्ययः परश्चति सूत्राभ्यां प्रत्ययः पर एव न केवलो व्यस्तो मध्ये वा भवतीति नियमान्मध्ये तिकुत्पत्तौ णिचः परत्वहान्यापत्या तदसम्भवात् । विधानसमये धात्वव्यवधानसत्वेप्यग्रे तद्वाधे ऽकृतव्यूहपरिभाष- . या पूर्वमेवाप्रवृत्तेः । विशिष्य विधानात्तु बहुचः पुरस्तादकचः प्रकृतिमध्ये शबादेः प्रकृतिप्रत्यययोर्मध्यउत्पत्तिर्नान्यत्र । अत एव पक्तत्यादौ धातुत्वसत्वेपि मध्ये न तिङ् । किं च । कोः कित्करणाज्ज्ञापकादानर्थक्येपि कदादाविवात्रापि धातुकार्य तवापि दुबारमेव । शमादिपदे च प्रत्येकवर्णशक्तिग्रहवतां पदार्थोपस्थितिस्तात्पर्ये सति वाक्यार्थबोधश्चेष्ट एवेति न कश्चि
Page #198
--------------------------------------------------------------------------
________________
वैयाकरणभूषणे त्मत्येकार्थत्वे दोषः साधकं च लाघवाद्युक्तमेवेति चेत् । अत्रे प्रतिभाति । अक्धृतशक्तिकानां पदैकदेशानामर्थवत्त्वे तेषामर्थवत्सूत्रेण प्रातिपदिकसंज्ञाविभक्त्युत्पत्यादिकं दुर्वारम् । अत एवार्थवत्पदं प्रत्येकवर्णवारणायेति प्राचां ग्रन्थाः कालापे दुर्गसिंहश्च सङ्गच्छते । न चेष्टापत्तिः । तन्मध्यपतितस्तद्रहणेन एहते इति न्यायेन प्रत्येकोत्तरसुपः प्रातिपदिकावयवत्वाल्लोपसम्भवादिति वाच्यम् । धनं वनमित्यादौ झलाजशोन्ते नलोपप्रातिपदिकान्तस्यति चापत्तेः। भामृदीप्तौ, यासूराम वाश शब्दे, दास दाने इत्यादावन्तर्गतभायारावादाइत्यादेरपि भा दीप्तौ या मापणे रा आदाने वा गतिगन्धनयोः दाण दानइत्यादौ कियावाचित्वदर्शनादर्थवरत्वाद्धातुत्वापत्तौ मध्ये तिकुत्पत्यापत्तेश्च । न चैकाचद्विवचनन्यायेन धातुसंज्ञासमुदायएव भवे. भावयवइति वाच्यम् । समुदायद्वित्वेप्यवयवानां द्वित्वं सम्पन्न मेवेति तत्र तथास्तु । समुदायस्य धातुसंज्ञायामपि प्रत्येकमवयवानां पर्याप्त्या तदभावादत्र सा स्यादेवेति वक्ष्यमाणत्वात् । पङ्कजं पीताम्बरः चित्रगुः अणुधनः महागृहः एकाक्षः पण्डितपुत्रः पुत्रवान् इत्यादौ शङ्कादिभिरन्यपदार्थस्याभेदान्वयापत्तेश्च । न च सति तात्पर्य इष्टापत्तिः । शान्दव्युत्पत्तिमात्रोच्छेदापतेः। सर्वत्रैवं सम्भवात् । स्वस्वशक्त्युपस्थापितयोर्विरुद्धविभकचनवरुद्धनामार्थयोरभेदान्वयस्य च सति तात्पर्ये दुर्वारत्वात् । समुदायेवयवानर्थक्ये चार्थवत्त्व क्रियावाचित्वयोरभावान प्रातिपदिकधातुसंज्ञे इति न विभक्त्युत्पत्तिरभेदान्वयो वा । ठ.
ब्दयादिग्रहणेनैकदेशे समुदाया न गृह्यन्तइति ज्ञापनेनैव निर्वाहे . अर्थवद्ग्रहणे नानर्थकस्यति पृथक् परिभाषाया व्यर्थत्वेनास्वीकाराम राजपुरुष इत्यादौ नलोपाप्रसङ्गो न वा तीयादिग्रहणे
Page #199
--------------------------------------------------------------------------
________________
समासशक्तिनिर्णयः। १८० जातीयादिग्रहणमित्यायतिमसः । न चावत्परिभाषाया: पृथगस्वीकारे काशे कुशइत्यत्र शे इति प्रगृह्यत्वापत्तिः स्पष्टइचात्रार्थवत्परिभाषयैव निर्वाहो भाष्यइति वाच्यम् । लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणामिति न्यायेनैवानतिप्रसङ्गे . तदारम्भस्यान्याय्यत्वात् । सास्यदेवतेत्यायपि वैश्वदेवीलादिवोधकपदार्थानुशासनमवयवद्वारा लाघवोपायतया लः कर्मणिचभावेचाकर्मकेभ्यः, अन्हः खः क्रतुसमूहे माचांष्फतद्धितः,वृद्धाच्छः, दनष्ठा, काला, कलेढेक् इत्यादिवन विरुध्यते । नहि लकारठगादिभ्यः कदापि बोधः किं तु तिबीनायनीयादिभिः। एतदेवादाय प्रयोगोपाधीत्याद्याग्रिमादिविचारोपि प्रकृतिप्र. त्यययोः प्रत्ययार्थप्राधान्यमिति व्युत्पत्तिरप्येवमेव । समानानुपूर्वीकस्य तस्यैव राजपदस्य धातोश्च वृत्तेः प्रागानुपूर्वीशक्तता. वच्छेदिका आसीदित्यर्थवन्त्वम् । तद्दशायां च तदभावानायेवत्वमिति को विरोधः । यथैकस्यैव मणे: सिद्धेश्चोत्तेजकोषधसिषाधयिषादशायां न प्रतिबन्धकत्वं तदभावदशायां च प्र. तिबन्धकत्वं सर्वसिद्धम् । पङ्कजपदपि समासशक्तिवादिभिश्चित्रगुः राजपुरुष इत्यादिवद्योगार्थमन्तर्भाव्यैव साभ्युपेयतइति न योगार्थबोधानुपपत्तियोगरूट्युच्छेदो वा । वृक्षविशेषे शक्त अश्वकर्णपदे पुनर्योगार्थस्य शक्तावननुप्रवशात्केवलरूढतैव । अत एव सत्यासक्तमना इत्यादावप्यनेकार्थशक्तसमासादनेकार्थबोधान्नानुपपत्तिगन्धोपि । न चैवमपि व्युत्पन्नानां श्वेतो धावतीत्यादौ कुक्चुर इतो धावति शुभ्रो वा तथेत्यर्थद्वयवोधो न स्यादिति वाच्यम् । प्रत्यहं विश्वेश्वरो दृश्यते इत्यत्र काका प्र. नादर्शनोपहासानां तथात्ववत् "द्वारोपान्तनिरन्तरे माय तया सौन्दर्यसारश्रिया प्रोल्लास्योरुयुगं परस्परसमासक्तं समासादि.
Page #200
--------------------------------------------------------------------------
________________
१८८
वैयाकरणभूषणे तम् । आनीतं पुरतः शिरोंशुकमधः क्षिप्ते चले लोचने वाचस्तच निवारितं प्रसरणं सोचिते दोलते" इत्यादौ प्रच्छनकान्तविषयाकृतविशेषबोधवच्चोपपत्तेः । ओंकारस्थले चोमित्येकाक्षरं • ब्रह्मति भगवद्वचनात्समुदायशक्तिवदक्षरगतैकत्वस्यापि सिः । प्रत्येकवर्णानामेवाभावात्क्वानर्थक्यापादनशङ्का । न च समुदायैक्यमादायैकत्वं तापिनीयाथर्वशिखादिश्रुतौ "ततोभूत्रवृदोङ्कारो योव्यक्तप्रभवः स्वराडि" त्युपक्रम्य "तस्य ह्यासंस्त्रयो वर्णा अकाराया भृगूदह । धार्यन्ते यैस्त्रयो भावा गुणनामार्थवृत्तय" इति भागवताबनेकपुराणादौ च वर्णत्रयस्य प्रतिपादितत्वादिति वाच्यम् । वर्णसमाम्नायादौ ऋषिभिर्यजनस्यार्धमात्रिकत्वाभिधानान्मकारेण प्रश्नोपनिषदुक्तमात्रात्रयस्यार्थर्वशिखोक्तसा. र्धमात्रात्रयस्य प्रणवस्यार्धमातायामपि नादविन्दुकलाविकलेति भेदस्य चानेकपुराणायुक्तस्यैवमप्यनुपपत्तेस्तुल्यतयोपासनार्थमेवार्धमात्रादेरिव वर्णत्रयस्यापि कल्पनपैव श्रुत्यादौ तथा वर्णनस्योपपादनीयत्वात् । तथाप्यकारोकारमकारध्वनिभिः ना. रायणशिवब्रह्ममायावच्छिन्नमेकमेवेश्वरचैतन्यमुच्यतइति न वि. रोधः । “त्रयीं तिस्रो वृत्तीस्त्रिभुवनमथो त्रीनपि सुरानकाराद्यैः वर्गस्त्रिभिरपि दधत्तीर्णविकृति । तुरीयं ते धाम ध्वनिभिरवरुन्धानमणुभिः समस्तं व्यस्तं त्वां शरणद गृणा त्योमिति पद" मित्यप्यत एव सङ्गच्छते । तस्मान कश्चिदवयवानर्थक्ये दोषः। . यद्रा । अर्थव-त्वं क्रियावाचकत्वं च फलोपधानात्मकमेववक्तव्यम् । अत एवार्थवत्सूत्रेथवत्पदमुन्मत्तवाक्यतिव्याप्तिवारणायोति दुर्गसिंहः सङ्गच्छते । तथा च समासांतर्गतराजपदादेरस्त्वानुपूर्वी शक्ततावच्छेदिकेति न गौरवम् । समुदायशक्तिज्ञानस्यावयवशक्तिमानजन्यबोधप्रतिबन्धकत्वस्योक्तावयवे. धातुसंज्ञायतिप्र
Page #201
--------------------------------------------------------------------------
________________
समासशक्तिनिर्णयः। सङ्गवारणायावश्यकत्वात्स्वार्थबोधफलोपधानाभावरूपाजहत्स्वा. यता सूपपादैव । अस्मिन्मपि पक्षे मागुक्तरत्यिार्थवत्परिभाषाया अस्वीकारान्नातिप्रसङ्गादित्यवधेयम् । एवं च जहत्स्वार्थतावशादेव नीलोत्पलं . अक्ष इत्यादौ नोद्देश्यविधेः यभावान्वयो न वान्यपदार्थे त्रित्वस्य सत्यपि तात्पर्ये ऽन्व: यबोध इत्यादिकं सङ्गच्छते । ननु समुदायशक्तिनिबन्धनेयं नहत्स्वार्थता तादृशशक्तिमति समासे एव भवेत् । तत्कथं वृत्तिमात्रे जहत्स्वार्थतेति सिद्धान्तो मूलं वा सामान्यतः सङ्गच्छताम् । न च वृत्तिमात्रे एवातिरिक्तशक्तिः सिद्धान्तसिद्धति तनिबन्धनेयमपि स्यादिति वाच्यम् । व्यपेक्षायां सामर्थ्य परिभाषायां च सत्यां यावान् व्याकरण पदगन्धः स सर्वः संगृहीतः समासस्त्वेको ऽसंगृहीत इति भाष्यविरोधादिति चेन्न । भाष्ये समा. सग्रहणस्योपलक्षणत्वात् । एकार्थीभावे वृत्तिरन्यथा वाक्यमिति सिद्धेः समर्थानांप्रथमावत्यत्र समर्थग्रहणमकर्तव्यं क्रियतइति स. मर्थसूत्रे भाष्यात् । समर्थपदं कृतसन्धित्वार्थकमन्यथा व्यर्थत्वादिति तत्रापि भाष्योक्तेश्च । पदविधिरिति लिङ्गाच्च । पदमुद्दिश्य यो विधिः प्रवर्तते तस्यैव पदविधित्वात् । एवं च कृत्सु ये प. दमुद्दिश्य विहितास्तत्रैव जहत्स्वार्थता नान्यत्रेति द्रष्टव्यम् । यथाश्रुते व्याकरणस्थसर्व विधीनां पदसंबन्धित्वाविशेषादव्या. वर्तकतापत्तौ पदवैयर्थ्यांपत्तेरिति दिक् । तथा चैकार्थीभावे एव जहत्वार्थता सूपपादेति स एव जहत्स्वार्थपक्षः । नन्वस्मिन्पक्षे द्वन्द्वादौ युगपदधिकरणवचनता व्यर्था स्यात् । अहरहरित्यादौ एकार्थीभावाभावेन समासामसङ्गादिति चेत् । इष्टापत्तिः । समर्थसूत्रे कथितव्यपेक्षावादिमते परं तदिति द्रष्टव्यम् । अत एव सेयं युगपदधिकरणवचनता दुःखा च दुरुप
Page #202
--------------------------------------------------------------------------
________________
पाकरणभूषणे पादा चेति भाष्यएव स्वमतमभिप्रेत्योक्तम् । ननु विग्रहे सा नास्तीत्येवमाभिप्रायं तदित्युक्तमिति चेन्न । समासे तस्याः साधकस्य भाष्यकारैरन्यथासिद्भुयपवर्णनविरोधापत्तेः । तथा चायमर्थः । सेयं पूर्व व्युत्पादिता युगपदधिकरणवचनता दुःखा समर्थसूत्रे दूषितव्यपेक्षावादस्मारकत्वात् । दुरुपपादा दुष्टं नि:सारमुपपादनं प्रमाणं यस्याः सा तथा । निष्प्रमाणेत्यर्थः । तथाहि । न तावत् द्यावा तामेति व्यासे दर्शनात्समासे सा स्वीकार्या । चावा क्षामेत्यस्य छान्दसत्वात् । नाप्यहरहरित्यादौ समासप्रसङ्गवारणाय सा स्वीकार्यो । समर्थः पदविधिरिति प. रिभाषयैव तद्वारणात् । धवखदिरावितीतरेतरयोगे भेरीपटहमिति समाहारे च पुष्पवन्तौ पश्येत्यादाविवैकपदोपात्तो मिलितावेवान्वियातां न तु प्रत्येकम् । अन्यथा पश्य धवं खदिरं छिन्धीत्यादाविव पश्य धवखदिरौ छिन्धीत्यादावपि प्रत्येकान्वयषोधापत्तिः। तथा च साहित्यरूपेणोपस्थित्यर्थ शक्त्यभ्युपगमे. नैका भावसामर्थ्यसत्वाद्भवति समासः। अहरहरिति समु. चये प्रत्येकं गवादेः क्रियान्वयेन विशिष्टशक्त्यस्वीकारेणासामर्थ्यान्न सः । एवमन्वाचयेपि द्रष्टव्यम् । भाष्यकारास्तु चार्थेद्वन्दू इति सूत्रेथवद्रहणसामोदेव तद्वारणमाहुः । अन्यथा च द्वन्दू इत्येवावक्ष्यत् । तथा च समुच्चयान्वाचयेतरेतरयोगसमाहारेषु समुच्चयान्वाचययोरर्थग्रहणसामर्थ्याल्लभ्यस्य चैनेव यः प्रकाशितोर्थस्तत्र विद्यमानमने सुबन्तं समस्यतइत्यर्थस्याभावाम समासः। प्रतीयते च गामश्वमित्यत्र समुच्चयो विनापि चकारम् । भिक्षामट गां चानयेत्यन्वाचये चानुषङ्गि पदं चार्थे वर्तते न प्रधानाभिधायीत्यनेकं चार्थे न वर्तते अतस्तयोः स.. मासाभावेपि इतरेतरयोगसमाहारयोश्वार्थयोर्विवक्षायां समास ..
Page #203
--------------------------------------------------------------------------
________________
समासशक्तिनिर्णयः। इति चार्थेद्वन्द्व इति सूत्रादेष लाभानिष्पमाणा सेति विभाव्यता सूरिभिः । उक्तं च कैयटेनापि । दुःखेतिप्रतीतावनुपरोधात् । दुरुपपादति प्रमाणाभावात् । वृद्धव्यवहाराद्धि शब्दार्थाध्यवसायो न च प्लक्षशब्दस्य न्यग्रोधाभिधायित्वं दृश्यते । न च गौणार्थत्वं प्लक्षशब्दस्य । न्यग्रोधशब्देनैव न्यग्रोधस्य प्रतिपादितत्वात् । न च प्लक्षन्यग्रोधारित्युक्तेर्थद्वयप्रतीतेरावृत्तिः । समासस्य चानेकार्थाभिधानात्ततः परयोविवचनबहुवचनयोरुपपत्तिरिति द्विवचनबहुवचनान्यथानुपपत्यापि नास्ति युगपद्वाचितामतिपत्तिरिति । तद्राजस्य बहुष्वित्यस्य बहुवचनान्तस्य त. द्राजस्य लुक् स्यात्तेनैव तद्राजार्थेनैव बहुत्वान्वयश्चेदित्यर्थः । स च प्रत्येकं बहुत्वसमवायादुपपद्यते । अस्मित्पक्षे सुबामन्त्रित. इति सूत्रे समर्थःपदविधिरिति शब्दाधिकारमाश्रित्यानुवर्त्य व्यपेक्षारूपमर्थमादायोपपादनीयम् । व्यपेक्षावादमाभिप्रेत्याह । अजहदिति । न जहति पदानि स्वार्थ यस्यां सा तथा । अस्याभिप्रायः प्राक् प्रपञ्चितः । नव्यास्त्वन्यथैवोपपादयन्ति । तथा. हि। परस्परान्वयरूपाव्यपेक्षव सामर्थ्य सूत्रसिद्धम् । इसुसोः सामWइत्यादौ समर्थपदस्य तथार्थकत्वक्लप्तेः पराङ्गवद्भावानुरोधा. च्च । अन्यथा पराङ्गवद्भावे एतत्समासादावेकार्थीभाव इत्युपगमे सूत्रस्यार्थभेदाद्वाक्यभेदापत्तेः । पुरुषो राज्ञो भार्या देवदत्तस्ये. त्यादौ राजभार्येति समासोप्यत एव न । न चात्रानभिधानान समास इति भाप्योक्तं युक्तम् । इसुसोः सामर्थ्य इत्यादावपि त. द्वैयर्थ्यापत्तेः । तिष्ठतु सर्पिः पिब त्वमुदकमित्यत्र षत्वाभावस्थानभिधानादुपपत्तेः । किं चैवमिकोयणचीत्यनाजग्रहणानर्थक्यं स्यात् । हलि परे यणभावस्यानभिधानादुपपत्तोति । धवखदिरावित्यादौ चानेकमन्यपदार्थे चार्थेदन्द इति विध्यवैयाया
Page #204
--------------------------------------------------------------------------
________________
१९२
वैयाकरणभूषणे सामर्थ्यपि समासः दध्योदन इतिवत् । अन्वाचयसमुच्चययो. स्त्वर्थग्रहणसापादेव नातिप्रसङ्ग इति भाष्यसिद्धं प्रागवोचाम । नन्वत्र पक्षे ऋदस्य राज्ञः पुरुष इत्यत्रापि समासापत्तिः । न च सविशेषणानामिति वार्तिकानिस्ताएँ । एवंविधानेकनचनकल्पने गौरवापत्तेः । अत एव व्यपेक्षापक्षमुद्घाट्य अर्थतस्मिन्व्यपेक्षायां सामर्थ्य योसावेका भावकृतो विशेषः स व. कव्य इति तन्मतदूषणाय भाष्यम् । विवृतं चैतत् कैयटेन । यदि वृत्तावेकार्थीभावो नाभ्युपगम्येत तर्हि वाक्यवत्सख्याविशेषोपसर्जनविशेषणादीनां प्रसङ्गात्तदभावो वचनेन प्रतिपायः । वावचनं च कर्तव्यम् । समानार्थस्य वाक्यस्यानिवृत्त्यर्थम् । एवं निष्कौशाम्बिोरथो घृतघटो गुडधानाः सुवर्णालङ्कारो द्विदशाः सप्तपर्ण इत्यादिषु क्रान्तयुक्तपूर्णमिश्राविकारसुचप्रत्ययलोपवीप्साजातिविशेषाभिधायित्वं वचनप्रतिपाद्यं स्यादिति गौरवप्रसङ्ग इति तस्मादयुक्तोयं व्यपेक्षापक्ष इति चेन्न । अस्माकमपि रा. जपदस्य राजसम्बन्धिनि निरादीनां निष्क्रान्त्यादी लक्षणाभ्यु. पगमेन पदार्थंकदेशत्वाद्विशेषणलिङ्गसङ्ख्याधनन्वयस्य लक्षणयोक्तार्थत्वाकान्ताद्यप्रयोगस्य च सम्भवात् । सा च निरूढलक्षणाकरणे तथाप्रयोगापत्तिः। लक्षणया तथा प्रतिपादने समासोऽन्य था विग्रह इत्यपि स्वभावत एव स्यादिति वाचनारम्भगौरवमपि नाशङ्कनीयम् । अत एवोक्तभाष्यकैयटार्थ मनसिनिधाय "बहूनां वत्तिधर्माणां वचनैरेव साधने । स्यान्महद्गौरवं तस्मादेकार्थीभाव माश्रित" इति व्यपेक्षावाददूषणैका भावयोः साधनाय वक्ष्यमा. णं मूलमपास्तमिति वक्ष्यते । तस्मादथैतस्मिन्नितिभाष्यं न तद् दूषणाय तदभावात् । किं तु भूषणाय । अस्मिन्व्यपेक्षासामर्थ्यपक्षे योयमेकार्थीभावकृतोतिरिक्तशक्तिकतो विशेषः स लक्षणया
Page #205
--------------------------------------------------------------------------
________________
बनारस संस्कृतसीरीज़ भर्थात्
वाराणसीसंस्कृतपुस्तकावली ।
तंत्र मुद्रिता ग्रन्थाः ।
सिद्धान्ततत्त्वविवेकः : खण्ड ५ अर्धसङ्ग्रहः अंग्रेजीभाषानुवाद सहितः तन्त्रवार्त्तिकम् खण्ड १०
कात्यायनमहर्षिप्रणीतं शुक्लयजुः प्रातिशाख्यं स
भाष्यं खण्ड ६ सांख्यकारिका चन्द्रिकाटीकागौडपादभाष्यसहिता
वाक्यपदीयं खण्ड ३ रसगङ्गाधरः खण्ड ८
परिभाषावृत्तिः खण्ड २
वैशेषिकदर्शनं किरणावलीटीका स्वलितप्रशस्तपादप्रणीत भाष्यसहितम् खण्ड २
शिक्षासङ्ग्रहः खण्ड ५
नैष्कर्म्यसिद्धिः खण्ड ३
महर्षि कात्यायनप्रणीतं शुक्लयजुस्सर्वानुक्रमसूत्र
म् सभाष्यं खण्ड ३
ऋग्वेदीय शौनकप्रातिशाख्यं सभाष्यम् (बृहत्) वैयाकरणभूषणम् खण्ड २ न्यायलीलावती ( यन्त्रस्था)
रु० आ०
१
१०
My V
N
०
००००
0 0 0
इन से अधिक अनेक प्रकारकी संस्कृत हिन्दी और अंग्रेजी आदि पुस्तकें हमारे यहां मिलती हैं जिनको अपेक्षित हो नीचे लिखेहुए पतेपर पत्र भेजें ॥
व्रजभूषण दास और कम्पनी चांदनी चौक के उत्तर नई सड़क बनारस ।
Page #206
--------------------------------------------------------------------------
________________
विज्ञापनम् ।
बनारसंसंस्कृतसीरीज नाम्नीवाराणसेय संस्कृत पुस्तकावली ।
:0:
इयं पुस्तकावली खण्डशो मुद्रिता भवति । अस्यां संस्कृतभाषानिबद्धा बहवः प्रचीना दुर्लभा उत्तमोत्तमाः केचिदङ्गलभाषानुवादसहिताश्च ग्रन्था मुद्रिता भवन्ति । तांश्च ग्रन्थान् काशिकराजकीयसंस्कृतपाठशालीयपण्डिता अन्ये ऽपि विद्वांसः शोधयन्ति । यैर्याहकमहाशयैरियं पुस्तकावली नियमेनाविच्छेदेन संग्राह्या तैस्तदेकैकस्य खण्डस्य कृते ||) मूल्यं प्रापणव्ययश्च =) देयः । अन्यैर्महाशयैर्यैः कानिचित् खण्डानि संग्राह्याणि तैश्च प्रत्येकं खण्डानां कृतें १) मूल्यं प्रापणव्ययश्च = ) देय इति ॥
व्रजभूषणदास और कम्पनी, चांदनी चौक के उत्तर नई सड़क
बनारस ।
Page #207
--------------------------------------------------------------------------
________________
BENARES SANSKRIT SERIES; COLLECTION OF SAŅSKAİT WORKS
SA
EDITED BY THE PANDITS OF THE BENARES SANSKRIT COLLÈGE :
UNDER THE SUPERIŠTENDENCE OF Ř. T. H. GRIFFITH, M. A.; C. I. E. 3. AND.
. G. THIBAUT, PH. D.
No. 53. (TTT) TORRECTOR सर्वतन्त्रस्वतन्तश्रीमत्कौण्डभदृविरचितम् ॥ (BRIHAT) VAIYÂKARANA BHÛSHANA,
A Treatise on Sanskrit Grammer, B Y PANDIT KAUNDA BHATTA...
EDITED BY PANDIT RÁMA KRISHNA SÁSTRÍ; Alias TATYA SASTRÍ PATÅVARDHANÁ, PROFESSOR, GOVERNMENTMANSKRIT COLLEGE, BEN ARES. . .. FASCICULUS III.
; BỀNÄRES. PUBLISHED BY THE PROPRIETORS Messrs. BŘAJ B. DAS & Co.
AND SOLD BY H.D. GUPTA SECRETARY, CHOWKHAMBA SANSKRIT BOOK DEPÔT.
- - :0:PRINTED AT THE RAJ RAJESHWARI PRESS & THE TARA PRINTING WORK,
BENARES
:
1899.
Page #208
--------------------------------------------------------------------------
Page #209
--------------------------------------------------------------------------
________________
समासशकिनिर्णया। स्वयं विभाव्य वक्तव्यः । म तु मया पृथगुच्यते पर्वगौरवमः यादिति भावात् । एवं च दूषणपरतया व्याख्यन् कैयर उपेक्ष्यो विद्वद्भिः। अथ व्यपेक्षापक्षे समासस्यार्थवस्वाभावेन मातिप.. दिकत्वं न स्यादिति माण्याशय इति चेन । समासग्रहणस्यासमर्थसमासे संज्ञाविधानाय विध्यर्थत्वावश्यकत्वेन तत एवं समाससामान्यस्यापि तत्सम्भवात् । न चासूर्य ललाटयोरिति ज्ञापकादसमर्थसमासस्य सा स्यादसूर्यललाटयोरित्यनेम प्रसूर्यशन्दे उपपदे खश विधीयते । उपोच्चारितं पदमुपपदम् । पदं च सुप्तिङन्तमिति स्वीकारादिति वाच्यम् । एवं हि कृत्तद्धितान्तयोरपि ज्ञापकादेव तत्सिद्धौ कृत्तद्धितसमासाश्चेति सूत्रवैयापत्तेः । तथाहि । आतोधातोरित्यनेनाकारान्तो यो धातुस्तदन्तस्य भस्याङ्गस्य लोपो विधीयमानो धातोः साक्षात्मा. तिपदिकसंज्ञाविरहेण सुबन्तत्वाभावायचिमिचि भसंसाया भप्रवृत्तेरनुपपन्न इति क्विबादिमत्ययान्तस्य लापाक्षिपत्सामान्यात्कृदन्तमात्रस्य तज्ज्ञापयति । एवं तद्धितश्चासर्वविभक्तिरिति केवलतद्धितस्य धातुवत्पर्युदासेन प्रातिपदिकवाभावेन विभा क्त्यन्तत्वविरहादसर्वविभक्तिरिति विशेषणवैयापत्तेः । सर्वस्य तद्धितस्याव्ययत्वापत्तेश्च तद्विशिष्टस्य तामाक्षिपत्सामान्यात्तद्धितान्तमात्रस्य तज्ज्ञापयति । ज्ञापकसिद्धं न सर्वत्रेति न्याया-, स्कृत्तद्धितान्तमात्रस्य सा न स्यादिति चेत्चीश्राद्ध भोजी. ब्राह्मणः अनचिच, सर्यचर्मणः कृतःखखबा,वित्लादेरप्यसाधुतापतेः । अर्यललाटयोरिति ज्ञापकसिद्धस्यासार्वत्रिकत्वात् । अथ मूलकेनोपदंशमित्यादौ प्रातिपदिकत्वापत्तिः कुद्रहणे गतिकार:कपूर्वस्यापि ग्रहणमिति परिभाषया तस्य कृदन्तत्वात् । तथा च.. तद्वारणाय जन्मवानिति संग्रहाय च यत्र संघाते पूर्वो भागः: .
Page #210
--------------------------------------------------------------------------
________________
वैयाकरणभूषणे पदमुत्सरश्च न प्रत्ययस्तस्य नेत्यपि वचनं कर्तव्यमिति गौरवं स्यादिति समासग्रहणमेव तदर्थमस्तु । एकार्थीभावमभ्युपेत्यार्थवत्सूत्रेण समासस्य संज्ञास्त्विति चेन्न । अधातुरिति पर्युदासबलादेव पूर्वसूत्रेथवत्त्वलाभसम्भवेन व्यर्थस्यार्थवत्पदस्यैवैवंविधनियमा. र्थस्वसम्भवे पृथक् समासे शक्तिकल्पने गौरवात् । न चोत्तरसूत्रे तदन्तत्वसिद्ध्यर्थमावश्यकस्यानर्थक्यविरहात्कथं नियामकत्वमिति वाच्यम् । उत्तरार्थस्यापीह किञ्चित्रपो इति न्यायेन नियमार्थताया वक्तुं शक्यत्वात् । विनापि तदन्तत्वस्य केवलानां कृत्तद्धितानां संज्ञाया निष्प्रयोजनत्वेन डतरडतमान्तयोरिव लाभसम्भवाच्च । अन्यथा केवलडतरडतपयोरपि सर्वनामसंज्ञापत्तेः केवलप्रयोगाभावेन सा निष्फलेति चेत्तुल्यम् । किञ्चार्थवद्रहणानुवन्त्या कथं तदन्तत्वसिद्धिः । केवलकृत्तद्धितयोरपि तत्तद्विध्यनुरोधेनार्थवन्त्वाक्षतेः अन्यथा प्रादूहोढोढ्येषैष्येष्वित्यत्र प्रौढ इति तान्तवत्योढवानिति क्तवत्वन्तग्रहणस्य तीयस्य ङित्सु सर्वनामताया द्वितीयस्माइत्यादाविव पटुजातीयायेत्यत्राप्यापतेश्च । अर्थवद्ग्रहणे नानर्थकस्यति परिभाषाप्रवृत्तेरुभयोरनर्थकत्वादसम्भवात् । अथ डतरडतमयोः संज्ञा व्यथेति तदन्तत्वासिदिरस्तु । इह च केवलकृत्तद्धितयोः संज्ञायाः फिषोन्तउदात्त इति स्वर एव प्रयोजनम् । न च प्रत्ययस्वरेण बाधान तत्संम्भवः । येन नाप्राप्तिन्यायेन प्रातिपदिकस्वरस्य सुब्धातौ धातुस्वरवत्मबलत्वात् । एवं प्रक्रियादशायां कल्पितमर्थवत्वमादायार्थवद्ग्रहणपरिभाषा सूपपादा । कृत्तद्धितौ यावर्थवन्तावित्यन्वये प्राशस्त्यार्थकमतुपा प्रशस्तार्थवत्वं लभ्यते । तच्च प्रत्ययाज्ञानेपि समुदायव्युत्पन्नानां बोधात्तस्यैवेति सिध्यत्यर्थवत्पदेन तदन्तत्वमिति चेत्तथैवदप्रत्ययः प्रातिपदिकमित्येवोपपत्ता
Page #211
--------------------------------------------------------------------------
________________
समासशक्तिनिर्णयः। १९६धातुरिति धातुपत्ययपर्युदासवैयापतिः। तयोः प्रशस्तार्यपवाभावात् । सुबन्तानामेव प्रशस्तार्थवन्स्वादाम इत्यादेरना. पत्तेश्च । अन्वयव्यतिरेकाभ्यामर्थवत्त्वं च केवलपत्ययपि समम् । नातस्तेन तदन्तत्वसिदिः । वस्तुतस्तु शशशु नास्तीत्यादौ शशशृङ्गशब्दस्य संज्ञासिदये समासग्रहणं विध्यर्थमेवोचितम् । अन्यथा सा न स्यात् । अर्थाभावेनार्थवन्त्वाभावाद । किं च यदि वृत्त्यार्थप्रतिपादकत्वमर्थवत्वं सूत्रे गृह्यते तःकार्थी- . भावस्य त्वया वृत्तिमात्रे स्वीकरात्कृत्तद्धितान्तयोरपि तेनैव सं. प्रहात्सुबन्ततिङन्तयोरेकार्थीभावाभावेनासंग्रहादर्थवत्सूत्रे प्रत्ययान्तपर्युदासस्य कृत्तद्धितसूत्रवैयर्थ्यस्य चापत्तिारा । कुद्नहणाभावेन च मूलकमित्यादिष्वतिप्रसङ्गासम्भवान्न नियमार्थमपि समासग्रहणावश्यकत्वमिति विभावयामः । तस्मान कश्चिद्वयपेक्षापले दोषः । अयमेव पक्षो नैयायिकाद्यङ्गीकृत इति स्फुटीकरिष्यामः। एतन्मते एव वाप्यश्व इत्यादावीदूतौचसप्तम्यर्थ इत्यत्राथग्रहणसामर्थ्यादीदुदन्तस्य सप्तम्यर्थमात्रपर्यवसन्नत्वलाभाचदभावान प्रगृह्यसंज्ञेति भाष्ये स्थितं सङ्गच्छते । तस्मात्परस्परान्वये योग्यतारूपा व्यपेक्षैव सामर्थ्यम् । तच्च पदानां स्वार्थत्यागे न सम्भवतीति भजहत्स्वार्थी व्यपेक्षा चैकैव । तथा चात्र मते ल. क्षणानि नासम्भवीनीत्याशङ्का सुदृढोत भावः । नन्वत्र पक्षद्वयोपि पुरुषांशमाधान्यसत्त्वाद्राजपुरुषः सुन्दर इतिवद्राजपुरुषो देवदत्तस्य चेत्यपि स्यादित्याशङ्कां निरसितुमाह । ते पुनरिति । वृत्तिद्वयमपीत्यर्थः । तत्र हेतुं प्रदर्शयन्नेव विभजते । भेद इत्या. दि । वाच्यत्रविध्यादेव वैविध्यमिति भावः । भेदः। अ. न्योन्याभावः । तथा च । राजपुरुष इत्यादावराजकीयमित्रः पु. रुषहतियोषः। तथा चैतद्विरोधामोक्तप्रयोगापादनामिति भावः। .
Page #212
--------------------------------------------------------------------------
________________
• १९६. पाकरणभूषणे सम्बन्धमात्रभानामति पो साह । संसर्ग इति । तथा च रा. जसम्बन्धी इति बोका । अत्र पक्षे भेदस्य पूर्वमते संसर्गस्य भानमानुमानिकं तद्विरोधानातिप्रसङ्ग इति भावः । भेदसम्बन्ध योरुभयोरपि शाब्दं भानमिति मते त्वाह । उभयं चेति । तथा चाराजकीयभिन्न राजसम्बन्धी व पुरुष इति औपगव इत्य. त्रानुपरवपत्यभिन्नस्तदपत्यं चेति बोधः । यद्यपि संसर्गमपेक्ष्य भेदो गुरुः तहोयश्च मानसोपि सम्भवति । तथापि बोधकत्वं शक्तिस्सा चैतबोधस्यौचरकालिकत्वे मानाभावाच्छाब्दयामी. त्यनुव्यवसायान्मानसत्वे नियतनिर्णयासम्भवाच्च गौरवस्य प्रामाणिकत्वाद्वयापारोभावनेति कारिकोक्तरीत्या प्रयोजकत्वाच्च निर्बाधेति द्रष्टव्यम् । पक्षत्रयमप्येतत्समर्थसूत्रे स्पष्टमाकरे । नन्वेतद्वाच्यरूपं त्रिविधं सामर्थ्य वाक्यमात्रएवेति वाक्ये तावत् त्रेधा सामर्थ्यमित्यादिना शब्दकौस्तुभे सूचितत्वाद्वत्तेस्वैविध्यं कथमत्र सङ्गच्छतामिति चेत्सत्यम् । अथ वा समाधिकारोयं वृत्तौ क्रियते सामर्थ्य भेदः संसर्गो वेत्यादिना आहत्य भाष्ये वृत्तावेव त्रिविधसामर्थ्यलाभेनादोषात् । वस्तुतस्तु वृत्तावेव तत्रितयं युक्तम् । न तु वाक्ये । तथा सति राजपुरुषो देवदत्तस्य चैतिवद्राज्ञः पुरुषो देवदत्तस्य चेत्यपि न स्यात् । शब्दकौस्तुभपि वाक्ये वृत्तिवाक्ये इति व्याख्येयमिति दिक । परे पुनर्जहत्स्वार्थाजहत्स्वार्थयोर्लक्षणावृत्तिविशेषत्वं मन्यमाना पत्र शक्याशक्योपसंग्राहकं रूपं लक्ष्यतावच्छेदकं सा ऽजहत्स्वार्था । यथा काकेभ्यो दधि रक्ष्यतां भूवा. दयो धातवः लम्बकर्णमानयेत्यादौ दध्युपघातकत्वक्रियावा. चित्वसमवायादिसबन्धादिकमादाय लक्षणायाम् । अन्यत्र जात्स्वाति । अन्ये तु नायं विभागः । तथा स
Page #213
--------------------------------------------------------------------------
________________
समासशक्तिनिर्णवः । त्येकस्य लक्ष्यतावच्छेदकत्ते शक्यस्य कार्यादेविशेष्यतापत्तेः । किं तु यत्र विषयविशेषणमा शक्यस्याम्यवस्तवाजहास्वार्या । पत्रोपलक्षणतया तत्र जहत्स्त्रार्या चित्रगुरित्यत्र चित्रगोसम्बर धित्वेनोपस्थितावप्युपलक्षणतया महस्वार्थेति । पत्रै नाफचिच्छक्यान्वयस्तत्राजहत्स्वान्याच न कथं चिदपि तत्र जहत्स्वार्थत्यपि के चित् ॥३०॥
एकार्थीभाव समास एकः संगृहीतो व्यपेक्षायामिति भाष्यादेकार्थीभाव एव सिद्धान्तसम्मतः । राज्ञः पुरुष इति का. क्यप्रतिपाद्यार्थस्य विशिष्टरूपेण शक्त्या प्रतिपादनं च तन्त्वम् । इयपेक्षावादिमतं च युक्तिभाष्यविरोधादयुक्तमेवेति तन्मूलको लक्षणानामुक्तिसम्भवोप्ययुक्त इति समाधि हादि निधाय पा. व्यकारमतं समासतिरिक्तां शक्तिं साधयन् समर्थयते । . समासे खलु भिन्नैव शक्तिः पङ्कजशब्दवत् । बहूनां वृत्तिधर्माणां वचनैरेव साधने ॥ ३१ ॥ स्यान्महगौरवं तस्मादेकार्थीभाव आश्रितः॥
तथाहि । चित्रगुरित्यत्र चित्रगोस्वामिनी राजपुरुष इत्यत्र राजसम्बन्धिनः सम्बन्धस्य वा । उपकुम्भमित्यत्र कुम्भसामीप्यस्य । थवखदिरावितीतरेतरद्वन्द्व साहित्यस्य पाणिपादमित्ति समाहारे पदार्थानां बहुत्वादेकवचनान्वयार्थ समाहारस्य प्रतीतये शक्तिरुपेयैवेति भावः । अत्र व्यपेक्षावादिनो - यायिकादयः। न तावद्वहुवीही शक्तिः । सक्षणयैवोपपत्तेः । यद्यपि चित्रगुरित्यादौ चित्रपदलक्षणापों गोः चित्रान्वयानुपपतिः । चित्रपदस्य तत्स्वाम्यर्थकत्वेन तस्थ पदार्थकदेशत्वात् । गोपदलक्षणायां गवि चित्रान्वयों च स्यादिति लक्षणा न युक्ता
Page #214
--------------------------------------------------------------------------
________________
१९८
पाकरणभूषणे तथापि पदद्वयमपि बक्षकम् । परस्परं तात्पर्यग्राहकत्वाच्च ना. न्यंतरवैययमिति सम्भदायः । वस्तुतस्तूत्तरपदे एव लक्षणा । प्रत्ययानां समिहितपदार्थगतस्त्रार्थबोधकत्वव्युत्पत्तेः । ननु तथा. प्यन्यपदार्थे नियततात्पर्याच्छक्तिरेव । तस्य शक्तिमात्रनिर्वाचत्वात् । न च तदेवासिद्धम् । अत एव लोहितोष्णीषा ऋत्विजः प्रचरन्तीत्यत्र नान्यपदार्थे तात्पर्य प्राप्तत्वादिति पूर्वमीमांसायांनिरूढमिति वाच्यम् । ताह तत्र तात्पर्याभावात्तव लक्षणापि न स्यादिति चेन्न । निरूढलक्षणयापि तनिर्वाहादिति नव्याः । तथा तत्पुरुषेपि राजपुरुष इत्यादौ राजपदस्य सम्बन्धिनि लक्षणयो. पपत्तौ न शक्तिः । नन्वनुपपत्तिं विना कथं लक्षणेति चेत् । यदि न लक्षणा तार्ह राजपुरुषयोरभेदान्वयबोधः स्यात् । तथा राजवाहनमित्यत्रापि । किं चैवं राजसम्बन्ध्यभिन्नः पुरुष इति बोधो न स्यात् । तस्माद्राजपदस्य तत्सम्बन्धिनि निरू. ढलक्षणा । नियततात्पर्यानुरोधात् । न तु षष्ठयर्थलक्षणा । राजसम्बन्धरूपः पुरुष इति बोधापत्तेः । समानाधिकरणइति व्यु. पत्तेरिति के चित् । राजसम्बन्धे एव लक्षणा षष्ठया सम्बम्धमात्रस्य विवरणात् । न चोक्तरीत्या ऽभेदान्वयापत्तिः । घटो नेत्यत्र व्यभिचारेण तथा व्युत्पत्तेरसिद्धेः । नमः स्थले भित्रैक व्युत्पत्तिरिति चेन्न । समासपि तथा सम्भवादित्यन्ये । कर्मधारये च न शक्तिर्न वा लक्षणा पदार्थयोः पदाभ्यामभेदस्य च संसर्गतया लाभात् । अत एव षष्ठीतत्पुरुषापेक्षया कर्मधारयो लघीयानिति निषादस्थपत्यधिकरणे स्थितम् । उपकुम्भमि. त्यत्रापि सामीप्ये लक्षणयोपपत्तौ न शक्तिः । पाणिपादमिति समाहारोपि समाहारे लक्षणयोपपत्तौ न शक्तिः। स चैकबुध्यवच्छिमत्वं सेनावनादिवत, तुल्यवदेकक्रियान्वयित्वं चेति चोभ.
Page #215
--------------------------------------------------------------------------
________________
समासशक्ति निर्णयः ।
१९९
योः सममिति वदन्ति । अपरे तु पाणिपादमित्यादौ पदार्थमाप्रतीतेर्न समाहारे शक्तिलक्षणा वा । तदप्रतीतेः । न च पाणिपादयोरनेकत्वाद् द्विवचनापतिः । अनुशासनादत्त द्विवचनादेरसाधुत्वादित्याहुः । धवखदिरा वितीतरेतरद्वन्द्वादावपि कक्षणयैवोपपत्तौ न शक्तिः । न च साहित्यलक्षणायां चैतमैश्रौ गच्छत इति द्वित्वगमनादेरन्वयो न स्यात्साहित्ये तदभा वादिति वाच्यम् । इतरेतरद्वन्द्वे सहितस्य पदार्थस्यैव विशेष्यत्वात् । तस्य च द्वित्वादौ योग्यत्वात् । अत एवेतरेतरद्वन्द्वसमाहारयोर्भेदः । तत्र साहित्यस्य विशेष्यत्वात् । अत एव तस्यैकत्वादेकवचनम् । अत्रापि पूर्वपदे लक्षणा । प्राथम्यात् । न चैवं तस्यामकृतित्वाल्लक्ष्ये विभक्तयर्थान्वयो न स्यादिति वायम् । समस्यमानपदार्थगतस्वार्थबोधकत्वस्यैव स्वीकारात् । सर्वसाधारण्यात्पूर्वोक्तरीत्यादरे चोत्तरपदे एवं सास्त्विति सम्प्रदायः । नात्र शक्तिर्न वा लक्षणा । एकस्मृत्यारूढपदद्वयास्वस्वशक्त पार्थयोरेकदा स्मृतिसम्भवादुपस्थिते तत्र द्वित्वान्वयसम्भवाच्च | साहित्यमप्येकक्रियान्वयित्वमग्रे एवावगम्यते इति न तदर्थमपि शक्तिलक्षणे । विभक्त्यर्थान्वयस्यापि त्वदुक्तरीत्यैवोपपत्तेः । न च विभक्तेरेकमात्रपदार्थगतस्वार्थबोधकत्वादुभयत्र द्वित्वान्वयो न स्यादिति वाच्यम् । मात्रपदान्तर्भावेण मानाभावाद्गौरवाच्च व्युत्पत्तेरसिद्धेः । न चैवमपि योग्यतावच्छेदकं साहित्यमन्तरेण द्वित्वान्वयासम्भवात्साहित्यलक्षणा । योग्यतावच्छेदकोपस्थितेरनपेक्षणात् । उपस्थिते योग्ये एव तदम्बयनियमात् । अत एव घटेन जलमाहरेत्यत्र छिद्रेतरस्यैव योम्यतावकादन्ययः । किं च द्वित्वादिरूपप्रत्ययार्थान्वये प्रकृत्ययेतावच्छेदकमेव योग्यतावच्छेदकम् । अव्यभिचारात् । छे.
Page #216
--------------------------------------------------------------------------
________________
२००
বামুণ दमादिपदार्थान्तराम्बयेपि तदेव तथा । नन्ने सौमे वसानावग्निमादषीयातामिस्पत्र समुचितपोरधिकारो न स्यात् । तेन रूपेणानुपस्थितेरिति चेन्न । उक्तरीत्या आदधीयातानित्यनेन पश्चात्साहित्ये बुद्ध साहितयोरधिकारबोधसिद्धः । यस्कर्तव्य तदनया सहेस्यनेन सिद्धत्वाति नव्याः । एवमन्यत्रापि क. क्षणयोपपत्तौ न शक्तिरित्याहुः । तानिराचष्टे । पङ्कजपदवदिति । पङ्कजशब्दस्थडेप्रत्ययस्यापि पनत्वरूपेण पने लक्षणयोपपत्तौ न रूढिः सिद्धयेदिति भावः । न च पङ्कजपदानियमेनोपस्थितेः प्रामाणिकानां शक्तिव्यवहाराच्च शक्तिरिति वाच्यम् । तुल्यत्वात् । कथमन्यथा निरूडलक्षणेति सङ्गच्छते । यतुः पङ्कनपदे न रूढिरिति दृष्टान्तासिदिमाहुः प्राभाकराः । तत्र स्थकारवत्सम्भवात् । तत्रापि रूट्यस्वीकारे रथकाराधिकरणहानिरिति ॥ ११ ॥ • ननु पङ्कनपदस्थले ऽवयंघममानतोपि बोधादवयवशक्तिम. विदुषोपि बोधाच न लक्षणया निर्वाहः । नचैवं चित्रगुरित्यादौ रंथकारादावपि प्रकारान्तरबलात्तथेत्यतः समाध्यन्तरमाह । बहनामिति । अथात्र वृत्तेधर्मा विशेषणलिङ्गसङ्ख्याद्ययोगादयः । तेषां वचनैः साधने गौरवम् । तदर्थ वचनारम्भे गौरवं, तस्मादेकार्थीभावः । अखण्डशक्तिरूप इत्यर्थः । अयं भावः । यदि लक्षणाभ्युषेयते तदा शोभनायां गङ्गायामित्यादौ लाक्षणिकेपि सङ्ख्यालिङ्गविशेषणान्वयवद्राजपुरुष इत्यत्र राज्ञः, चि.
गुरित्यत्र चित्रे गवि च, उपकुम्भमित्यत्र कुम्भे, पाणिपादमित्यंत्र पाण्यादौ, औषगव इत्यत्रोपगोः, पक्तत्यत्र पाके, इत्येव. मादिषु शोभन इत्यादि विशेषणानां लिङ्गसङ्ख्याकारकाणां च यथायथमन्वयमसङ्गादिति । अथ सविशेषणानां चिर्न वृत्त
Page #217
--------------------------------------------------------------------------
________________
समासशक्तिनिर्णयः ।
-२०१
स् वा विशेषणयोगो नेति वार्त्तिकाभायं दोष इत्यत आह । वचनैरिति । गौरवमित्यन्तेनान्वयः । न्यायेनैवार्थसिद्धौ वा T त्तिकवैयर्थ्यादिति भावः । अत एव मत्याख्यातमेतद्भाष्ये इति व्याचक्षते । तच्चिन्त्यम् । लक्षणापक्षेपि राज्ञः पदार्थैकदेशत्वसस्वेनान्वयासम्भवात् । शोभनायां गङ्गायामित्यत्र च गङ्गापदस्यैव शोभनगङ्गातीरलक्षकत्वं पदान्तरं तात्पर्यग्राहकमिति ल | क्षणावादिनां मतमिति न दोष इति दिक् । तस्माद्राजपुरुष इस्यादौ लक्षणां विना प्रथममुपपादितं सन्निधानात्संसर्गलाभ इति भाष्यसिद्धं मतमनेन दुष्यतइति भावार्थो वर्णनीयः । एतन्मते राज्ञः पदार्थैकदेशत्वाभावेन विशेषणाद्यन्वयो दुर्वार एवेति भावः । एवं चाथैतस्मिन्व्यपेक्षायां सामर्थ्ये योसावेकार्थीभावकृतो विशेषः स वक्तव्य इति भाष्यं, यदि वृत्तावेकार्थीभावो नाभ्युपगम्यते तदा वाक्यवत्सङ्ख्याविशेषोपसर्जनविशेषणान्वयः स्यादिति तदभावो वचनेन प्रतिपाद्यः चावचनं च कर्त्तव्यं समानार्थक वाक्यस्यानिवृत्त्यर्थमिति तद्व्याख्यायां कैयटच भाष्योदाहृतानां लक्षणामस्वीकुर्वाणानां व्यपेक्षावादिनां मते इति बोध्यम् । स्पष्टं चैततद्विदां तत्र तथैव । वचनैरित्यादि प्राग्वत् । न च ऋद्धस्य राजपुरुष इत्यादेः साधुतावारणाय वार्त्तिकं तवाप्यावश्यकमिति वाच्यम् । तप्ता सुन्दरः घटो नि1 त्यः जातिरित्यादिः विना लक्षणां पुत्रे घटत्वे चान्वयमादाय साधुतावारणाय पदार्थैकदेशान्वये वाक्यस्यासाधुत्वस्य सामान्यत एव निर्णीतत्वादिति भावः । इदमुपलक्षणम् । वार्त्ति कात्तादृशप्रयोगसाधुत्वनिराकरणेपि शाब्दबोधस्तादृशप्रयोगात् दुर्निवार इति शक्तिस्वीकार आवश्यक इत्यपि द्रष्टव्यम् । अथातिरिक्तशक्तिपक्षे कथं तदनन्वय इति चेत् । उच्यते । एक
२६
·
·
Page #218
--------------------------------------------------------------------------
________________
२०२
पाकरणभूषणे देश निराकांक्षल्याम बाबय इति । तथाहि । राजपुरुष इस्वत्र राजा, चित्रगुरित्यत्र चित्रादि, उपकुम्भमिखा कुम्भः, पाणि. पादमित्यादौ पाण्यादि पदार्यैकदेशः । तत्र प मान्वया पदायः पदार्थेन सम्बध्यते न तु तदेकदेशेनेति व्युत्पत्तेः । अय चै. अस्य नप्ता क्षेत्रादन्यः देवदत्तस्य गुरुकुलपित्यत्र विशेषणेप्य. वयवदत्रापि किं न स्यादिति चेन्न । तप्तवं स्वजन्यजन्यस्वम् । तत्र स्वमन्यपुत्रसम्बन्धन नप्तर्येव चैत्रादेरन्वयः । अत एवं घटादन्य इत्यत्रापि स्वप्रतियोगिभेदसंसर्गेणैवान्यष इति दृष्टाम्तासिद्धेः । उक्तं हि वाक्यपदीये "समुदायेन सम्बन्धो येषां गुरुकुलादिना । संस्पृश्यावयवांस्ते तु युज्यन्ते तद्वता सहे" ति । मत एव समाहारे पाणिपादमित्यत्र समासे शक्तिसिद्धौ पाणि पादं पादयेत्यादौ समाहारे विशेष्ये वादनकर्मत्वान्वयासम्भ. वात्परम्परया तत्रान्वय इति न दोषः । यद्वा ससम्बन्धिकपदार्थस्थले एवैकदेशान्धयः । तथैव व्युत्पत्तेः । तथा च वाक्यपदीयेप्युक्तम् । “सम्बन्धिशब्दः सापेक्षो नित्यं सर्वः समस्यते । वाक्यवत्सा व्यपेक्षास्य वृत्तावपि न हीयत" इति । पक्षदयमप्येतत्समर्थसूत्रे भाष्ये स्पष्टम् । यन्तु स्वीकृतायामपि चौ राजपदाधुपस्थापिते तदन्वयस्तवापि दुर्वार इति, तज्जहत्स्वाबेति कारिकायां निरस्तम् । तस्मान क्लुप्तशक्त्योपपतिरिति शक्तया लक्षणया वा विशिष्टार्थबोधकत्वरूप एकार्थीभाव भावश्यक इति भावार्थ इति विभावयामः । यद्वा न प्राचीनवै. याकरणोक्तरीत्या क्लमशक्तयोपपतिर्न वा नैयायिकादिरीत्या पक्षणयोति सर्वत्र समासादौ शक्तिः स्वीकार्येत्यभिप्रेत्यावं अन्य इति व्याचक्ष्महे । तथा च वृत्तधर्माः प्रातिपदिकसंज्ञा प्राची. नमुवृत्तिरपरतदुत्पतिरूपा बहवस्तोषां वचनैः सापने गौरव
Page #219
--------------------------------------------------------------------------
________________
समासक्तिनिर्णयः ।
२०
पित्वर्थः । तथाहि । राजपुरुषश्चित्रमुरित्यादौ प्रातिपदिकसंशासुनुत्पत्यादिकं सर्वसिद्धम् । तच्च शक्तिलक्षणान्यतरसम्ब म्वेनार्थवत्त्वाभावादर्थवदधातुरित्यस्याप्रवृत्तेर्न सम्भवति । न कसद्धितसमासाश्चेत्यतस्तेषां प्रातिपदिकसंज्ञेति वाच्यम् । त त्राप्यर्थवद्धहणानुवृत्तेरावश्यकत्वात् । अधातुरिति पर्युदासादेव पूर्वसूत्रेर्ववत्त्वसिद्धावर्थवद्भहणानर्थक्यात् । उत्तरसूत्रे तदन्यग्रहणार्थ तदावश्यकत्वाच्च । न चैवमनुवृत्तस्यार्थवद्ग्रहणस्य ब्र दन्तत्वसिद्धचर्य कृत्तद्वितयोरेवान्वयोस्तु न समासेपि फलाभावादिति वाच्यम् । निराकांक्षतया तयोरेवान्वयासम्भवात् । एकपदार्थतावच्छेदकावच्छिन्नएवापरपदार्थान्वयस्य साकांक्षत्वात् । अन्ययैतौ देवदत्तयज्ञदत्त पण्डितौ इत्यस्यान्यतरस्मिनपण्डिते पळाशे छेदनानन्वये धवखदिरपलाशांच्छिन्धीत्यादेव निराकांक्षस्वानापत्तेः । न चैवमप्यसूर्यपश्मा इत्यादाव समर्थस मासे ऽर्थवत्वाभावात्प्रातिपदिकसंज्ञा न स्यादिति वाच्यम् । तत्र तस्य समासस्य तावदर्थे शक्तावनुपपत्त्यभावेनार्थवत्सूत्रेणैव तत्सम्भवात् । उक्तं च समर्थसूत्रे कैयटेन । “असमर्थ समासेपि क्रियायामुभयोः सन्निपातादेकार्थीभावस्तद् द्वारकोस्त्येचे" ति शशशृङ्गादिपदे पुनर्विशकलित प्रसिद्धं शशशृङ्गादिकमारोपितसम्बन्धे शक्यमतोर्थवत्सूत्रादेव सेति ध्येयम् । तस्मान्न समासग्रहणात्सा । किं चैवं कृतद्धितपदयोः समासग्रहणस्य च विध्यर्थत्वे मूलकोनोपदंशमित्यादौ प्रातिपदिकत्वापतिः । न च समुदायोत्तरं न कत्मत्यागमो ऽवो न तत्कृदन्तमिति वाच्यम् । कृद्रग्रहणे गतिकारकपूर्वस्यापि ग्रहणमिति परिभाषया विशिष्ठग्रहणसम्भवात् । किं च वक्ष्यमाणरीत्या वाक्यस्याप्पर्थवत्त्वे प्रातिपदिकसंज्ञापचेः । न च तत्प्रत्ययान्तमवेति वाच्यम् । मत्ययग्रहणे
1
Page #220
--------------------------------------------------------------------------
________________
२०४
यांकरणभूषणे यस्मात्स विहितस्तदादेस्तदन्तस्य ग्रहणमिति परिभाषया तस्याप्रत्ययान्तत्वात् । तथापि चैतदुभयवारणार्थ वाक्पस्य नेत्यपि वचनं कर्तव्यम् । किं च कृत्तदितपदाभ्यां तदन्तस्यैव प्रातिप. दिकसंत्रा विधीयते न तद्विशिष्टमात्रस्य । पचतकीतिमध्यस्थिततद्धितस्याप्यापत्तेः । औपगव इत्यादिसुबन्तानामापत्तेश्च । पूर्वसूत्रे प्रत्ययान्तस्य पर्युदासे प्राप्त तद्विशिष्टस्य प्रतिप्रसव इ. त्यस्यैव पर्यवसनत्वात् । तथा च बहुपटव इत्यादौ तदितान्तस्वाभावात्सा न स्यात् । न च पूर्व विद्यमानजसैत्र रूपसि. हेर्नैव पुनः प्रातिपदिकसंज्ञेति वाच्यम् । स्वरभेदार्थ तत्स्वीकारात्। तस्मात्तत्सिद्धयर्थं वचनान्तरारम्भापत्तिरिति भावः । तस्मादिति । तथा च समासस्य बहुपटव इत्यादेश्वार्थवत्त्वादर्थवसूत्रेणैव सेति मूलकेनोपदंशमित्यादौ संज्ञावारणार्थ समासग्रहणं वाक्यस्य चेतहि समासस्यैवेति नियमार्थकमिति भावः । यत्तु वृत्तिमात्रे एवैकार्थीभावात्सुबन्ततिङन्तयोस्तदभावादर्थवत्सूत्रे प्र. त्ययान्तपर्युदासस्य कृत्तद्धितसमासाश्चेति सूत्रस्य चारम्भ एवा. युक्त इत्युक्तम् । यच्चार्थवत्सूत्रेर्थवत्वमर्थप्रतीत्यनुकूलवृत्तिमत्त्व. मात्रम् । तच समासादेविशिष्टस्यातिरिक्तत्वाभावात्पदसमुदायरूपत्वाच्च पदनिष्ठवृत्याश्रयत्वमादायैव शक्तसमुदायस्यापि मुलभमेव । तथा च धातुप्रत्ययार्थमादायैव कृदन्तादेरप्यर्थवसूत्रेणैव प्रातिपदिकसंज्ञासिद्धिः । न चैवं पचति रामः अजा छागी गामानयेत्यादेरपि प्रकृतिप्रत्ययार्थमादायार्थवत्त्वात्प्राति. पदिकत्वापत्तिः । कृत्तद्धितसमासाश्चेति सम्पूर्णसूत्रस्य नियमार्थतया सर्वधारणात् । तथाहि । यदि प्रकृतिप्रत्ययान्तसमुदा. यस्य संज्ञा तार्ह कृत्तद्धितान्तयोरेव । पदसमुदायस्य चेत्ताई स. मासस्यवेत्येवं नियमः कल्पनीयः । एवं चार्थवत्सूत्रे धातुपत्लयप.
Page #221
--------------------------------------------------------------------------
________________
समासशक्तिनिर्णयः।
२०५ युदासनवोपपत्तौ प्रत्ययपदमावर्त्य प्रत्ययान्तपयुदासोपि नका.. यः । उक्तनियमेनैव सर्वातिप्रसङ्गवारणादिति वदन्ति । तन्न । किपन्तधातूनां किलोपे सत्यधातुरिति पर्युदासात् इयान् इयदित्यादावप्रत्यय इति पर्युदासात्पातिपदिकसंज्ञानापत्तेः। विधायकाभावात् । तदर्थ कृत्तद्धितग्रहणस्य विध्यर्थत्वे प्रागुक्तष्वतिमा सङ्गो दुर्वारः। अथ तिप्तमझीत्यारभ्य ब्योः सुबिति तिप्प्रत्याहारो भाष्यसिद्धस्तमादायातिप्प्रातिपदिकमित्येव सूज्यतां कृतं प्रत्ययतदन्तमात्रपर्युदासं विधाय कृत्तद्धितग्रहणेन । समासग्रहहणं च नियामार्थमास्तां, तथा न समासस्यापि संज्ञा नानुपपन्नेति चेन्न । एवमपि प्रत्येकं वर्णानां केवलकृत्तादितधातूनां घ संज्ञावारणायार्थवत्त्वादेरवश्यं प्रवेश्यत्वेन समासासंग्रहस्य । गौरवस्य च त्वन्मते दुष्परिहरत्वात्। यत्तु समासान्तर्गतप्रत्येकपदानामर्थवन्त्वमादाय समुदायस्य संज्ञा स्यादेव । अन्यथा टिघुमादिषु समुदायशक्तयस्वीकारेण समुदायस्य सा न स्यात् । तत्रापि शक्तिस्वीकारे साधुत्वापत्तौ तेषां साध्वसाधुबहिष्कारा. सम्भवादिति । तन्तुच्छम् । तथा सति गौरवः पुरुषो हस्तीत्या. दौ समुदाये धनं वनमित्यादौ च प्रत्येकं प्रातिपदिकत्वापत्तिः । तथा च सुपोधातुप्रातिपदिकयोरिति विभक्तिलापस्य नलोपः प्रातिपदिकान्तस्यति नलोपस्य चापत्तेः । देवदत्तादिसंज्ञाशब्देष्विव टिघुभादिष्वपि सांकेतिकशक्तयार्थवन्त्वास्मातिपदिकत्वसम्भवाद् दृष्टान्तासिद्धेश्च । अनादित्वरूपसाधुत्वमपि टिघुमादीनां सादित्वपक्षे नेति तत्पक्ष एव तेपां साध्वसाधुबहिष्कारस्तेषापनादित्वपक्षे अनपभ्रष्टत्वादिलक्षणान्तरपक्षे वा तेषामामि साधुत्वं माध्यादिसिद्धमेवेत्यलं दन्ध्रणेन। अधार्थप्रतीतिजनकज्ञानविषयशन्दत्वमर्थवत्त्वं वाच्यम्, त.
Page #222
--------------------------------------------------------------------------
________________
देगाकरणभूषणे कस्य पदस्य लक्षणया अपरस्य तात्पर्यवाहकत्वादिना वेत्येवं समूहस्य निर्वाधम् । प्रत्येकं तत्र विभक्तयनुत्पत्तिरेकाचाद्विर्वचनन्यायात् । सङ्घातस्यैकार्थ्यात्सुबभावो वर्णादिति वार्तिकादेति निपातानां द्योतकत्वादिनिर्णये वक्ष्यमाणरीत्या द्रष्टव्यमिति चेन्न । अवयवानां द्वित्वे समुदायो नानुगृहीतः समुदायस्य द्विल्वेवयचो ऽनुगृहीत इति हि स न्यायः । न चात्र तथा समुदायात्मकुत्पत्ताचापि पूर्वावयवानामसुबन्तत्वात् । तथा च वर्णोत्तर विभक्त्युत्पत्तो बहुतरदोषप्रसङ्गात् । विनिगमनाविरहएकाच. दिवचनन्यायबीजामति चेत्तथाप्यत्र विभक्त्युत्पत्तितत्कादिकं प्रकृते विनिगमकम् । सङ्घातस्यैकार्थे तु सिद्धा समुदायशकि । सङ्घातार्थे एवैकत्वान्वयात्सवाते विभक्तिरित्येव त. दादिति ध्येयम् । अथ समासे उत्तरपदस्पैव प्रातिपदिकसंज्ञा न समुदायस्योति, तत्रानुपदं वक्ष्यामः । अथ समासवाक्यस्य विशिष्टार्थक्षणायामर्थवत्वाबाधात्मातिपदिकसंज्ञा नानुपपन्ना। न च शल्यसम्बन्धरूपा सा तत्रासम्भविनी । ज्ञाप्यसम्बन्धस्यैव लक्षणात्वात् तस्याश्चात्राविरोधात् । गम्भीरायां नयां घोष इत्यनुरोधेनास्या एवोचितत्वाच्च । तत्र प्रत्येकं पदेषु तदसम्भवाद । तथाहि । न तावद्गम्भीरपदं तीरलक्षकम् । नद्यामि त्यनन्क्यापत्तेः । नहि तीरं नदी । अत एव न नदीपदोपः । न च पदद्वये, प्रत्येकं विशिष्टनदीतीराप्राप्तिप्रसङ्गात् । न च गभीरनछोरन्वयबोधोचरं विशिष्टनयास्तीरं लक्ष्यते नदीपदेन । साक्षात्सम्बन्धात् । नदीपदस्य जनितान्वयबोधकेन निसाकाअवारकथं पुनर्लक्षास्वमिति चे, त्सत्यम् । ताल्पविषयीभूतबोधाजमनादाकांक्षासत्वात् । अन्यथा ऽवान्तस्वाक्यार्थबोधजननमात्रेण निसकांक्षस्वप्रसङ्गादित्यादिकं साविति पाध्यम्।
Page #223
--------------------------------------------------------------------------
________________
समासकिनिर्णयः। २०७ निन्न गभीरं गम्भीरमिति कोशागम्भीरादिषदानामपि द्रव्यवाचित्वेन तुस्यत्वात् । वस्तुतः शूरोदारपदानामिवैषामपि गुणमात्र प्रयोगादर्शनात् द्रष्टष्पाचित्वमेव । अन्यथा नीलादि. पदानामिव गुणे प्रयोगप्रसङ्गादिति ध्येयम् । नापि प्रत्ययानां मकृत्यर्थगनेत्यादिव्युत्पत्तेर्नदीपदे एव सा न मभीरपदे, तदुखए। विभक्त साधुत्वमात्रार्थत्वादिति वाच्यम् । अभेदार्थकताया नैयायिकैररुणान्यायान्मीमांसकैश्चार्थवत्त्वस्वीकारात् । अर्थसा. धुत्वे सम्भत्रति शन्दसाधुत्वस्यान्याय्यत्वाच । गभीरपदे ल. क्षणायां तस्यैव विशेष्यत्वसम्भवाच्च । नापि विनिममनाविरहास्पदद्वयोपि विशिष्टलक्षणा । वाक्ये एकलक्षणायां तस्मात्समु. दायएव सा । अत एव सर्वत्र वाक्येन वाक्यार्थो लक्ष्यतहति भट्टपादवाचस्पतिमिश्रकल्पतरुप्रभृतिभिर्निर्णीतम् । उक्तं च "वाक्यार्थो लक्ष्यमाणो हि सर्वत्रैवेह च स्थित"मित्ति । अत्त एव पाभाकरा अप्यर्थवादवाक्ये प्राशस्त्यलक्षणां मेनिरे । - दुक्तं मयविवेकटीकायां वरदराजेन । यद्यप्येकैकपदसम्बन्धिता पाशस्त्ये नास्ति एकैकपदादप्रतीतेः । तथापि समुदायसम्बन्धितास्त्येव । न च समुदायसम्बन्धिनि लक्षणा न युक्ता । स. म्बन्धानुपपत्योर्लक्षणाहेत्वोः समत्वादिति । अत एवाथातो ब्रह्मजिज्ञासेत्यत्र जिज्ञासेत्यत्र जिज्ञासाशन्दनान्ततिं विचारमुपलक्ष्यति विवरणाचार्यैरुक्तम् । अत एव यज्ञायुधिशब्देन यजमानो लक्ष्यतइति संक्षेपश्शारीरककृतोक्तम् । यज्ञायुपिशम्दानशासाशब्दयोः मुबन्तत्वलक्षणपदत्वपि शक्तत्वलक्षणापदत्वामाबेन शक्यसम्बन्धरूपलक्षणाया असम्भवात् । अत एव सत्सं बानमनन्तं ब्रह्मेत्यत्र वाक्ये एव लक्षणेति वेदान्तैकदेशिनः । अत एव तद् ब्रह्म विजिज्ञासखति श्रुतौ जिज्ञासाशन्देन विचारो
Page #224
--------------------------------------------------------------------------
________________
२०८
वैयाकरणभूषणे
लक्ष्यते । सा च छत्रिण इतिवत्संवृदाये एवेति वेदान्त भूषण केतः । एवं च वाक्यलक्षणापक्षे एवैतत्सङ्गच्छतइति स एव न्याव्यस्तथा सति प्रकृतेपि लक्षणयार्थवत्वात्प्रातिपदिकत्वं नानुपपद्ममिति चेन्न । शक्यसम्बन्धस्यैव लक्षणात्वात् । अन्यथा ऽपभ्रंशेषि लक्षणापतेः । तज्ज्ञाप्यस्य सप्त्वात् । किं चैवमपि प्रत्येकं पद निगमकाभावात् पदेषु भिन्ना लक्षणा वाक्ये चापरति गौरवं स्यात् । शक्यसम्बन्धपक्षेणाविरहाल्लाघवमिति । वस्तुतस्त्वेवं सति पदघटितपदानां चानुपूर्वी लक्षकतावच्छेदिका वाच्यति गौरवम् । अस्मन्मते च वाक्ये तद्विरहात्पदानां सा नावच्छेदिकति लाघवम् । किं च । ज्ञाप्यसम्बन्धइत्यत्र तु त्या ज्ञापकत्वमर्थबोधजनकज्ञानविषयत्वमात्रं वा प्रविष्टम् । आधे न वाक्यलक्षणा शक्तयभावात् । अन्त्ये प्रत्येकं वर्णनामपर्थ वापत विभक्तयाद्युत्पत्तिः स्यात् । अपि चैवमेतज्ञ ज्ञाप्यसम्बन्धीदमिति ज्ञानजन्योपस्थितिरेव लक्षणाजन्यति पर्यवसितम् । तथा च समवायादिना घटपदज्ञाप्याकासम्बन्धिनोप्युपस्थितस्य शाब्दबोधविषयतापत्तिरिति ध्येयम् । एवं चैतन्मूलकाः पूर्वोक्ता ग्रन्थाः श्लथा एव । एवं च तद्ब्रह्म विजिज्ञासस्वेत्यत्रापि न समुदायलक्षणा । यसु छत्रिण इत्यत्रेव समुदायलक्षणेति । तदश्रद्धेयम् । विषमत्वादुपन्यासस्य । तथाहि । युगपद्धतियाभ्युपगमे छत्राभावे लक्षणया छत्रिणस्तदभाववन्तश्च गच्छन्तीति बोधोपपत्तेः । तदस्वीकारे च छत्रविशिष्टछत्राभावे लक्षणासम्भवात् । अत एaterतो ब्रह्मजिज्ञासेत्यत्र ज्ञाधातोः साध्यावस्थापनज्ञाने लक्षणा सनश्च विचारे इति स्वीकृत्य श्रोतव्य इत्यादिश्रुतिसमानार्थत्वाय कर्त्तव्येतिपदं वाध्याहृत्य ज्ञानाय विचारः कर्त्तव्य इति सू
Page #225
--------------------------------------------------------------------------
________________
समासशक्ति निर्णयः ।
२०९.
प्रार्थ इति नृसिंहाश्रमैर्विवरण टिप्पणतत्त्वविवेक योनिर्णीतम् । इदं पुनरिहाबधेयम् । ज्योतिष्टोमः स्वर्गसाधनमित्यत्र साध्यत्वेनोपस्थितिं विनापि यथा साध्यसाधनभावबोधस्तथात्राप्यनुवादादिदोषपरीहारायाध्याहृतेन कर्तव्येतिपदेनेष्टसाधनत्वार्थकेन साध्यसाधनभावबोधसम्भवान्मास्तु साध्यावस्थज्ञाने लक्षणा । तच्च साघनत्वं ज्ञाननिरूपितमेत्र । धातोर्लक्षणाकल्पकस्यैव तत्र मानत्वात् । कर्त्तव्य इत्यत्र तव्यप्रत्ययो ऽर्हार्थे भविष्यतीति चेचार्हं श्रुतिसमानार्थत्वहानिः स्यात् । अत एव प्रत्ययानां प्रकृत्यर्थगतेत्यादि व्युत्पत्तेस्तव्यार्थः साधनत्वमपि कृतावन्वियान विचारइति परास्तम् । तथा च श्रुतिसमानार्थत्वायेति वा अस ङ्गतं स्यादिति दिक् । तस्मादविद्यानिवर्तकतावच्छेदकधर्मविशिष्टज्ञानस्यैव विचाररूपश्रवणसाध्यत्वात्तादृगर्थकं साध्यावस्थपदमिति तत्त्वमित्यास्तां प्रकृतानुपयुक्त विचार इति दिक् । तथा च प्रातिपदिकसंज्ञारूपं कार्यमेव शक्ति साधयति धूम इव बन्हि मिति तात्पर्यार्थ इति युक्तं पश्यामः । अथ वा वृत्तिधर्माणामुद्देइयविषयभावेनान्वयाभावादीनामित्यर्थः । अयं भावः । नीळमुश्पलं पण्डितो ब्राह्मण इत्यसमासइव नीलोत्पलं पण्डितब्राह्मण इत्यादौ नोद्देश्यविधेयभावेनान्वय इति सर्वसिद्धम् । तथा वषकर्तुः प्रथमभक्ष इत्यत्र भक्षानुवादेन प्राप्यविधानापत्तिमाशङ्क्य प्रथमभक्ष इति समस्तमेकं पदं तत्र चैकप्रसरत्वान्नैकांशेन भक्षणमुद्दिश्य प्राथम्यविधानं युक्तमिति भक्षान्तरविधिरिति वषट्काराच्च भक्षयेदिति शेषलक्षणे । अङ्गैः स्विष्टकृतं यजतीत्यत्र पशौ चोदकमाप्तः स्विष्टकृत्प्रधान हवियों हृदयादिभ्य एकादशभ्योपि कर्त्तव्यत्वेन प्राप्त इति व्यङ्गैरिति वचनमङ्गानुवादेन त्रित्वविधानार्थमित्याशङ्क्य एक हीदं समासपदं तत्सर्वमुदेशकमुपादा
२७
Page #226
--------------------------------------------------------------------------
________________
२१० वैयाकरणभूषणे यकं वा युक्तम् । उत्तरार्दन्तूदिश्य पूर्वाः विधीयमाने प्रसरभे. दात्सामर्थ्यविघातात्समासो न स्यादिति त्रित्वविशिष्टानान्तरविधिरिति बाधलक्षणे च व्यवस्थितमेकार्थीभावानभ्युपगमे ऽसतं स्यात् । सति च तस्मिन् घटपदे घटघटत्वयोरिच विशिष्टशक्त्यैव त्रित्वविशिष्टांगोपस्थितौ न वाक्यार्थरूप उद्देश्यविधेयभावादिना ऽन्बयो युज्यते । न चान्यतरपदे विशिष्टार्थलक्षणयेव नायं दोष इति वाच्यम् । अग्रिमकारिकायां तदसम्भवस्य व्युत्पादयिष्यमाणत्वात् । न च यत्तियोगप्राथम्याधुद्देश्यताबोधकस्य तद्वत्तयोगपाश्चात्यादिविधेयताबोधकस्य चाभावान तथे. ति वाच्यम् । प्रथमो भक्षः पण्डितो ब्राह्मण इत्यत्रापि सति तात्पर्य भक्षब्राह्मणाधुद्देश्यकप्राथम्यपाण्डित्यादिविधेयकबोध. दर्शनेन तस्य व्यभिचारित्वात् । किं तु भक्षब्राह्मणायुद्देश्यकमा. थम्यपाण्डित्यादिविधेयकशाब्दबोधे भक्षायुपस्थापकपदसमभिव्याहतप्राथम्यवाचकपदोपस्थितिरेव नियामिका । इत्यमेव सर्व त्रोद्देश्यविधेयभावस्थले व्यवस्था । सा च निर्बाधैव । न च तवाप्येवं तथान्वयबोधापत्तिः । इत एव जहत्स्वार्थतास्वीकारात् । न च ममापि तथैव निस्तारः । तथासति राजादिबोधाय समुदायशक्ति विना तस्या ऽसम्भवेन तदुपपादकत्वेन च शक्तिीकारापत्ताविष्टसिद्धेः । न चोद्देश्यविधेयभावावच्छि. भविषयतया शाब्दबोधं प्रत्यसमस्तपदजन्योपस्थितिहेतुरित्येव कार्यकारणभावोस्त्विति वाच्यम् । दामोदरः पूज्यः राजपुरुषः सुन्दरः प्रथमभक्षः कर्तव्यः पीतवासाश्चतुर्भुजः गंगाधरः स. घेश्वरः राजपुरुषश्चित्रगुः 'यदि रथन्तरसामा सोमः स्यादैन्द्रवापवाग्रान् गृह्णीया' दित्यादौ तथा बोधानापत्तेः । प्रकारान्तरस्य
चत्वात् । न च भक्षस्याङ्गनां चोद्देश्यताबोधकद्वितीयादेः प्रा.
Page #227
--------------------------------------------------------------------------
________________
२११
समासशक्तिनिर्णयः। थम्पत्रित्वादेविधेयताबोधकस्तृतीयादेवाभाव एवैकप्रसरताभगशब्दार्य इति वाच्यम् । पण्डिनो ब्राह्मणः भक्षा प्रथम इत्यादावुद्देश्यविधेयभावयोरिव स्वर्गकामो यजेतेत्यादौ कर्मत्वकर. णत्वयोरिव च बोधसम्भवात् । तयोलाक्षणिकत्वोक्तिस्तु वाक्यार्थलक्षणाभ्युपगमान्नानुपपन्ना । न च विधेयवाचकपदस्य परतन्त्रोपस्थापकत्वम्, उद्देश्यवाचकपदस्य प्रधानापस्थापकत्वम्, तादृशोपस्थितिविषयत्वं चार्थस्योद्देश्यत्वम् । तच्चैकपदे अव्युतपन्नं कल्प्यतेत्येकप्रसरतामङ्गशब्दार्थ इति वाच्यम् । अतिरिक्तभक्षमप्राकृतकार्यतां चापेक्ष्य तथाकल्पनस्यैव युक्तत्वात् । प्रथमो भक्ष इत्यत्रेव समासेपि पदद्वयसत्वाच्च । पदभेदे चोद्देश्यविधेयभावप्रवृत्तेदुवारत्वात् । अवान्तरविभक्तथभावस्य दधि मधुरमित्युद्देश्यविधेयभावे ऽपि सत्वेनाप्रयोजकत्वात् । समासा. तिरेकेणैकनामार्थयोः परस्परानन्वयोपि तत्रैव एकपदोपस्थाप्यानां परस्परमन्वयकल्पनवत्तथापि कल्पनासम्भवाच्च । न चा. जानुवादेन त्रित्वं भक्षानुवादेन प्राथम्यं च नात्र विधातुं युक्तम् । अङ्गानां बहुत्वेन बाधात् । अध्वर्यादिभक्षाणामपि प्राथम्यापचे. श्व । तथा च विष्टकृत्साधनत्वविशिष्टांग वषट्कर्टविशिष्टं भक्षणं चान्द्यतइति स्वीकार्य तथा च नैरपेक्ष्यत्याग एवं बीजमि. ति शङ्कयम् । प्रथमभक्षपदे भक्षाणां व्यङ्गैरित्यत्राङ्गानां च वि. शेष्यत्तया तद्विशेषणविवक्षायामपि राजपुरुषः सुन्दर इत्यत्रेव नैरपेक्ष्यहान्यभावात् । न च विशिष्टोद्देशे वाक्यभेदापत्तिरेव तबी. जम् । केवलाङ्गानाम्भक्षस्य चोद्देष्टुमशक्यतया हविराधिकरणन्यायेन तादृशोद्देश्यलाभादिति विभावयामः । अथैवं सप्तदशारनिर्वाजपेयस्य यूयः, एकं साम तृचे क्रियते, लोहितोष्णीषा ऋविजः प्रचरन्ती, त्यादौ वाजपेयसम्बन्धियूपारलिम् ऋ
Page #228
--------------------------------------------------------------------------
________________
२१२ वैयाकरणभूषणे चमुष्णीषं चोदिश्य साप्तदश्यत्रित्वलौहित्यानां विधिन स्यात् । समासे उद्देश्यविधेयभावाभावादिति चेन्न । "विधाने चानुवादे च यागः करणमिष्यते । तत्समीपे तृतीयान्तस्तद्वाचित्वं न मु. ऽवतीतिस्वीकारेपि वीहिभिर्यजेतेत्यादौ द्रव्यावधिवद्यागस्योद्दे. श्यत्ववदुपपत्तेः । अत एव यद्यपि चतुरवत्ती यजमानः पञ्चावत्व वपा कार्येत्यत्रावत्तानुवादेन पञ्चत्वविधानं व्याख्यातम् । अनया च रीत्या वषट्कर्तुः प्रथमभक्ष इत्यत्रापि भक्षानुवादेन प्राथम्यविधानं कुतो नेति तु समं समासेप्युद्देश्यविधेयभावस्वीकारे। तचे क्रियतइत्यादौ भाग्नानुवादेनैव त्रित्वविधानम् । तच्च ऋगाश्रितमेवोपस्थितमिति तथैव लभ्यते । एवमन्यत्रेत्यपि समम्भक्षान्तरविधानायापि विध्यध्याहारेण भावनोद्देशसं. भवादिति दिक । एतेन कर्मधारये तु न शक्तिर्न वा लक्षणति परास्तम् ॥ १२ ॥
यत्तु द्वन्द्वे ऽपि न शक्तिर्न वा लक्षणति । तदापि नेत्याह ।। चकारादिनिषेधोथ बहुव्युत्पत्तिभञ्जनम् । कर्तव्यं ते न्यायसिद्धं त्वस्माकं तदिति स्थितिः३३
निषेध इत्यन्तेनान्वयः । आदिर्दूषणान्तरार्थो भिषक्रमश्च । चकारोनिषेधादिरित्यर्थः । अयं भावः । रामकृष्णावानयति द्वन्द्वस्य विवरणे नकारादिः प्रयुज्यते न समासे । न च . तौ चकाराद्यर्थो नास्तीति वक्तुं शक्यम् । तथा सति तस्य विवरणत्वं न स्यात् । समानार्थकसमस्यमानपदसमूहस्यैव वि. ‘प्रहत्वात् । चकाराद्यर्थबोधस्य सर्वसिद्धत्वाच्च । चार्थेद्वन्द्व इत्यादिना तत्तदर्थएव समासानुशासनाच्च । न च वस्तुतश्चार्षे सति द्वन्द इत्यादिस्तदर्थः । भू सत्तायामित्यत्रापि तथात्वाप
Page #229
--------------------------------------------------------------------------
________________
समासशक्तिनिर्णयः। तेः । क्याप्यनुशासनादर्थ निर्णयो न स्यात् । किं चैवं सहविवक्षाविरहेपि भेरीपटहं वादयोति स्यात् । वस्तुतश्चास्याव्यावर्तकतया चार्थ इत्यस्य वैयापत्तेश्च । न च कर्मधारयवारणार्थ तत् । एवमपि त्वदुक्तरीत्या ग्रामं गत इत्यादिद्वितीया. तत्पुरुषादौ द्वन्दप्रसङ्गस्य दुर्वारत्वात् । न च द्वितत्यातत्पुरुषेग बाधः । कर्मधारयेपि तथात्वाविरोधात् । चार्थस्य वाच्यत्वे च तदविवक्षणान द्वन्द्व इति तद्वाचित्वमवश्यं वाच्यम् । अतो न त. द्वाचकचकारप्रयोगः । उक्तार्थानामप्रयोग इति भाष्यात् । किं च धवप्रकारकशब्दबुद्धिं प्रति तदुपस्थापकपदाव्यवहितोत्तरवत्ति विभक्तिजन्योपस्थितिहेतुरित्यावश्यकम् । अन्यथा धववन्तमानयेत्यादौ धवादेः कर्मत्वादिप्रत्ययापत्तेः । तथा च धवखदिरौ छिन्धीत्यादौ न धवे तदन्वयः स्यादिति । नन्वस्तु द्वन्द्वादी लक्षणा समासान्तरवत् । परं तूत्तरपदस्यैवेति नायं दोषः । तस्यैव सर्वत्र प्रातिपदिकसंज्ञाप्यस्तु । नातः प्रागुक्तोपि दोषः । विशिष्टस्याप्रातिपदिकत्वपि समासोत्तरं प्रत्ययसम्भवात् । विशिष्टलक्षणयार्थोपस्थितावुद्देश्यविधेयभावेनान्वयासम्भवाचति चे. त् । अत्रोच्यते । उत्तरपदमात्रस्य प्रत्ययान्तत्वेन प्रातिपदिकसंज्ञाया एवासम्भवः, । न च तल्लोपोत्तरं पुनः सेति वाच्यम् । पूर्व प्रातिपदिकसंज्ञां विना लोपासम्भवात् । न च राजन् ङस् पुरुष सु इत्यत्र सत्यां समाससंज्ञायां प्रातिपदिकसंज्ञोत्तरं पू. वंसुन्निवृत्तौ पुनरुत्तरपदमात्रस्य सा संशति वाच्यम् । विशिष्टस्य समाससंज्ञायामप्यर्थवत्वाभावेन प्रातिपदिकत्वासम्भवात् । उत्तरपदस्य संज्ञायाः प्रागेव सिद्धत्वेन पुनस्तस्या व्यर्थत्वाच्च । पुनःप्रातिपदिकसंज्ञायाःप्रत्ययान्तत्वेनासम्भवाच्च । लुप्तेपि पूर्वतने प्रत्यये प्रत्ययलक्षणस्य दुर्वारत्वात् । अत एव प्रथमत एवात्तर
Page #230
--------------------------------------------------------------------------
________________
वैयाकरणभूषणे त्वात् । अथ प्रकृतित्वं न प्रकृतितापर्याप्त्यधिकरणत्वम् । कि तु तदाश्रयत्वमात्रम् । तत्समूहे प्रत्येकमवयवेष्वपीति चेन्न । प
जमानय दण्डिनं छिन्धि । शूलिनं पश्येत्यादौ सत्यपि तात्पये विना लक्षणां पदण्डशूलानामानयनच्छेदनदर्शनकर्मतयान्वयबोधप्रसङ्गात् । अपटानानयेत्यत्र पटे कर्मत्वाद्यन्वयापत्तेश्च । न च दण्डादीनां विशेषणतया न तत्रान्वयः । वन्हिमान्धूमादि. त्यत्र पञ्चम्यर्थज्ञानज्ञाप्यत्वस्य वन्हावनन्वयापत्तेः । ऋदस्य राज्ञः पुरुषः तण्डुलं पचतीत्यादौ राजादीनामिव स्वातन्त्र्याबाधाच्च । यन्तु प्रत्ययाव्यवहितपूर्वपदत्वमेव प्रकृतित्वम् । तद. न्वितस्वार्थबोधकत्वं च पूर्वपदार्थप्रधानादव्ययीभावादुभयपदा. र्थप्रधानद्वन्द्वादपिप्परयादितत्पुरुषाच्चान्यत्र नियतमिति तदनुरोधादुत्तरपदे एव बहुग्रीही लक्षणा । अस्तु वा सर्वत्रैवायं नियमः । भव्ययीभावद्वन्द्वादावुत्तरपदलक्षणयैव शक्यानिर्वाहत्वादिति । तत्तुच्छम् । अव्यवहितपूर्वपदत्वस्य बहुपटुः सर्वक इत्यादौ पद्धसर्वादिशब्देष्वव्याप्त्या दधी इयति ददातीति बहुप१र्ददातीत्यादौ दम्यादावतिव्याप्त्या च प्रकृतिस्वासम्भवात् । विभाषासुपोबहुचपुरस्तात्तु अव्ययसर्वनानामकच्याकटोति सूत्राभ्यां तयोरादौ मध्ये च विधानेनान्ते तद. सम्भवात् । एवं व्यतिसे इत्यादावुपसर्गस्यापि तिप्रकृतित्वापतिः । किं , नव्यरीत्या द्वन्द्वन्यायेन लक्षणाविरहिणि द्विका इति बहुव्रीही पूर्वपदार्थे विभक्तयर्यान्वयो दुरुपपाद एव । तस्मात्मत्ययविधानावधित्वमेव प्रकृतित्वम् । तच्च न समासादावुत्तरपदमावस्यति तल्लक्षणयामपि प्रत्ययार्थान्वयानुपपत्ति. वारेति । यदपि प्रकृत्यर्थत्वं तजन्यज्ञानविषयत्वमात्रं तचात्राविरुद्धामिति । तम । पङ्कजमित्यादौ पङ्केतिप्रसङ्गात् । किं च ।
Page #231
--------------------------------------------------------------------------
________________
समासशक्तिनिर्णयः ।
२१७
एवं हि गामुच्चारयेत्यादौ शब्दस्य स्वपरतायां ळक्षणेति सिंदाम्तहान्यापतेः । घटं पश्येत्यादौ शब्दात्समवायेनाकाशोपस्थितौ विभक्त्यर्थाभ्वयापतेश्च । न च सति तात्पर्ये इष्टापत्तिः । वृत्त्युच्छेदापत्तेः । तस्माद्वत्या प्रकृत्युपस्थाप्यत्वं वक्तव्यम् । तः था चावश्यिकैन समूहशक्तिः । अथ प्रत्ययप्राग्वर्तिपदजन्योप स्थितिविशेष्यत्वं प्रकृत्यर्थत्वम् । तच्च द्वन्द्वादावुभयो, व्ययीभावे पूर्वपदस्येति चेन्न । चक्रिणं पश्येत्यादौ चक्रेतिप्रसङ्गात् । गा मानयति कृष्णो दण्डेनेत्यत्र कृष्णे करणत्वान्वयापत्तेश्च । बपटुः सर्वक इत्यादावव्याप्तेः । इयद्दधीयती स्त्री ददातीत्यादावतिप्रसङ्गश्च । यदुत्तरं प्रत्ययो विहितस्तस्त्वे सतीति वाच्य मिति चे, दिहापि तदभावस्योक्तत्वात् । अथ समस्यमानपदागतस्वार्थबोधकत्वमेव वाच्यं तथैव व्युत्पत्यन्तरकल्पनादिति । मैबम् । पङ्कजं पश्य राजपुरुषमानयेत्यादौ पङ्कादौ कर्मत्वायन्वयापत्तेः । अथ प्रकृत्यर्थप्रकार कशाब्दबोधं प्रति प्रत्ययजन्योपस्थितिर्हेतुरिति सामान्यतो न हेतुहेतुमद्भावः । मानाभावात् । घटः कर्मत्वमित्यादौ बोधस्य तथा व्युत्पत्तिग्रहशालिनामिष्टत्वात् । अनिष्टत्वपि घटप्रकारककर्मत्वविशेष्यकशाब्दबुद्धिं प्रति घटार्थकपदोत्तर कर्मत्ववाचकविभक्तिजन्योपस्थितिर्हेतुरिति बि शिष्यैव सोस्तु न तु सामान्यतः तत्प्रत्ययविधानावाधित्वरूपस्य प्रकृतित्वस्य कार्यतावच्छेदककोटिप्रविष्टस्याननुगतत्त्वात् । अनुगमे च दण्डेन गामभ्याजेत्यत्र दण्डे कर्मत्वस्य गवि करणत्व - स्यान्वयस्य दुर्वारत्वापत्तेः । अस्मद्रीत्या तु नायं दोषः । एवं च समासे उत्तरपदलक्षणायां न विभक्तयर्थान्वयानुपपतिः । पुरुषमानयेत्यत्र पुरुषपदस्य राजावशिष्टपुरुषे तात्पर्ये सति विशिष्टकर्मत्वबोधेन तादृशबोधे पुरुषपदो तरकर्मत्वबोधकविभक्त्युपस्थि
·
4
Page #232
--------------------------------------------------------------------------
________________
वैयाकरणभूषणे
•
तेर्हेतुत्वकल्पनात् । एवं चित्रगुः धवखदिरौ छिन्धीत्यादावपि द्रष्टव्यम् । तथा च क्लृप्त कार्यकारणभावादेवोपपत्तिरस्माकमिति लाघवम् । विशिष्टशक्तिपक्षे च तादृशबोधे राजपुरुषपदोत्तर विभक्त्युपस्थितिर्हेतुरिति कार्यकारणभावान्तर कल्पनायामतिगौरवापत्तेः । किं च । सामान्यतो हेतुहेतुमद्भावाभ्युपगमे स्तोकं पचति शोभनं पचतीत्यादौ नामार्थस्य साक्षाद्धात्वर्थेन्वयानापतिः । तस्याप्रत्ययार्थत्वात् । अपि च । प्रकृतित्वाननुगमेन सामान्यतो हेतुहेतुमद्भावग्रहासम्भव इति चेत् । उच्यते । सामान्यतो हेतुहेतुमद्भावानभ्युपगमे चक्रिणमहं पूजयामीत्यादौ चक्रस्येन्यर्थइवान्यत्राप्याकाङ्क्षासत्त्वादन्वयापत्तिः । न चानासन - त्वान्नान्यत्रान्वयः । नहि पदाव्यवधानमासात्तः । गिरिरभिमान् भुक्तं देवदत्तेनेति तात्पर्यग्रहवतो गिरिर्भुक्तमग्निमान् देवदत्तेनेत्यत्राबोधप्रसङ्गात् । किं तु पदजन्यपदार्थापस्थितिमात्रम् । स च समूहालम्बनादिरूपा तुल्यैव । कथमन्यथा वज्रांकुशध्वज सरोरुहाञ्छनाढ्यं भगवतश्चरणारविन्दं भजेतेस्यादावासत्तिः । किं चैवं हेतुहेतुमद्भावानुपगमे का तण्डुलः पचति रामो वाणो हतो वालीत्यादौ करणत्वकर्मस्वकर्तृत्वादिसम्बन्धेन काष्ठबाणतण्डुल रामादेः पाकहननादिक्रियास्वन्वयप्रसङ्गः । कर्मत्वादिविशेष्यकबोधे एव द्वितीयादिजन्योपस्थितेर्हेतुत्वात् । अत्र कर्मत्वादेरविशेष्यतया द्वितीयाद्यभावेप्यक्षतेः । अत एव स्तोकं पचतीत्यादौ तव तदन्वयोप्युपपद्यते । अस्मन्मते चाभेदे कर्मग्रेव चेयं द्वितीयेति धात्वर्थनिर्णये प्रपञ्चितम् । नन्वभेदातिरिक्तसंसर्गेण नामार्थप्रकार कशाब्दबोधं प्रति तदुत्तरसार्थकविभक्तिजन्योपस्थितिर्हेतुरिति कार्यकारणभावादेव नायं दोष इति चैन | दण्डिनं चक्रिणं पश्येत्यादौ व्यभिचारात् । इनादेरवि
२१८
Page #233
--------------------------------------------------------------------------
________________
समासशक्तिनिर्णयः। भकित्वात् । प्रत्ययजन्योपस्थितिरेव हेतुरस्त्विति चेन्न । दधीयती ददातीत्यादौ दधो मतुबर्थे ऽन्वयापत्तेः । विहितत्वेन प्रत्ययो विशेषणीय इति चेन्न । समासेपि प्रत्येकपदोत्तरमविधानासल्लक्षणायामपि विभक्तचानन्वयापत्तेः । किं न । पङ्कजं प. श्वेत्यादौ पवादेः कर्मस्वप्रत्ययाय सा तथा हेतुहेतुमद्भावस्यैवासम्भवात् । अव्यवाहितोत्तरवर्तित्वं विभक्तिविशेषणं वाच्यमिति वेन । तां पश्य, आचार्यकल्पं पूजय, भक्ततरं शिवतमं प्रार्थये. त्यादी टाबादिव्यवहितविभक्त्यर्थानन्वयप्रसङ्गात् । प्रत्ययातिरिक्ताव्यवहितत्वं विशेषणमिति चेन्न । दण्डिमन्तमानयेत्यादौ दण्डादेः कर्मत्वान्वयावारणापत्तेः । गौरवाच्च । तथा च यथो. क्तमेव युक्तम् । प्रकृतित्वं तत्पर्याप्त्यधिकरणत्वमिति न दोष इ. स्युक्तम् । यदपि ताशकार्यकारणभावग्रहासम्भव इति । तम । यथा पितृत्वपुत्रत्वादरेननुगतत्वेपि स्वपितृभ्यः पिता दद्यादित्यादौ चैत्रपितृभ्यश्चैत्रो दद्यान्मैत्रपितृभ्यो मैत्रो दद्यादित्यादिसर्वोपसंहारेणान्वयबोधः । यथा वा दारत्वस्वत्वयत्वादेरननुगतत्वपि ऋतौ स्वदारान् गच्छेदेव, “ऋतौ नोपैति यो भार्यामनृतौ यश्च गच्छती"त्यादौ चैत्रीयतहारसम्बन्धितदृतौ चैत्रस्तान् दारानभिगच्छेत् चैत्रस्तहारीयतदनुकालीनगमनमकुर्वन्प्रत्यवतीत्यादिस्तथा बोधस्तथा तत्तनिरूपितप्रकृतित्वाननुगमपि प्रकृत्यर्थप्रकारकबोधं प्रतीत्यादिशब्दात्सवोपसंहारेण कार्यकारणभावाग्रहसम्भवात् । स्वत्वत्वपितृत्ववादीनामनुगमनेन तदेव स्वरूपसदुपलभणीकृत्य तदादिवच्छक्तिप्रहाद्, आकाङ्क्षावशाच्च विशिष्य पदार्थबोध इत्यपि तुल्यम्।प्रकृतित्वं स्वरूपसदनुगमकमादाय शक्तिग्रहः भाकांक्षावशात्कार्यकारणभावबोधकवाक्याद्विशिष्य तद्रह इत्यस्य सवचत्वात् । न चैवं धात्वर्थफलस्य तदर्थे एवान्वय एवं क
Page #234
--------------------------------------------------------------------------
________________
२२.
वैयाकरणभूषणे थं स्यादिति वाच्यम् । पात्वर्यान्वये तथात्वेनादोषात् । मत एव पश्य नृत्यतितरां पचतिकल्पमित्यादौ समुदायशक्त्यभा. वेपि धात्वर्थभावनया सह धात्वाख्यातार्थइव तरबायर्थोप्यन्वेतीति दिक् । यच्च पुरुषपदमात्रस्य विशिष्टार्थक्षणास्थ का. र्यकारणभावः क्लुप्त इत्यादि । तम । समासे शक्तिग्रहादोधस्थले ऽन्वयानुरोधेनास्यापि क्लुप्तत्वादित्यास्तां विस्तरः । तस्मादुत्तरपदमात्रस्याप्रकृतित्वाम कर्मधारयद्वन्द्वयोस्तल्लक्षणायामपि विभक्त्यान्वयसम्भव इति दुवारा शक्तिः । एवं बहुव्रीहा. वपीति वयं विभावयामः । यद्वा । साधकान्तरमाह। अयेत्यादिना । व्युत्पत्तिः । अन्वयनियामकं तद्भङ्गो लक्षणापले स्यादित्यर्थः । अयं भावः । राजपुरुष इत्यादौ लक्षणायामपि न निहिः । तथाहि । राजपदादेः किंसम्बन्धिान लक्षणा सम्मन्धे था । नान्त्यः । ओदनः पचतीत्यत्रान्वयबोधापत्तिवारणायाभे. दातिरिक्तसंसर्गकप्रातिपदिकार्थप्रकारकबोधे विभक्तिजन्योपस्थितेहेतुत्वकल्पनात् । ओदनस्य च पाके द्वितीयादिविभक्त्यभावेन भेदेनान्वयासम्भवात् । एवमभेदसंसर्गकपातिपदिकार्थप्रकारको धे प्रातिपदिकादिजन्यैवोपस्थितिहेतुरभ्युपेया । नीलो घट इ. त्यादौ च विभक्तिः साधुत्वार्था । उक्तं बनभिहितसूत्रे भाष्ये । अथवा कट एवं कर्म तत्सामानाधिकरण्याद्रीष्मादिभ्यो द्वितीया भविष्यतीति । भीष्मादीनां स्वयमकर्मत्वेपि विशेष्यसम्बन्धि. न्यैव विभक्त्या भवितव्यम् । तदेकयोगक्षेमत्वात् । केवलानां च प्रातिपदिकानां परश्चेति नियमादप्रयोगाईत्वात् । ततो यथेश्वरसुहृदः स्वयं निर्धना भपि तदीयेनैव धनेन फलभाजः । एवं गुणा अपीति तु कैयटः । अथ देवदत्तो घटमानयतीत्यत्र देवदतघटयोः सत्यपि तात्पर्ये ऽभेदान्वयः कथं न जायते कारणस
Page #235
--------------------------------------------------------------------------
________________
समासशक्तिनिर्णयः ।
२२१
·
स्वात् । न च विरुद्धविभक्तिरहित पदजन्योपस्थितिर्हे तुरिति वाच्य म् । चैत्रस्य सुतस्य धनमित्यत्रातिप्रसङ्गतादवस्थ्यादिति चेन्न । भक्त्यर्थमनन्तर्भाव्य नामार्थम्बयएवोक्तव्युत्पत्तेः कल्पनात् । एतदेवाभिप्रेत्य राज्ञः सुतस्य धनमित्यत्र दूषणमभिधाय दूषणांतरं प्रागवोचामेति दिक् । एवं च समानाधिकर प्रातिपदिकायोरभेदान्वयव्युत्पत्तेः राजसम्बन्धरूपः पुरुष इति बोधापत्तेः । समासे भिचैव व्युत्पत्तिरिति चेत् । स्वीकृतैव तार्ह शक्तिः । नवः स्थलेपि सम्बन्ध कक्षणयैवोपपत्तिर्निपातानां द्योतकत्वाद्वा नानुपपत्तिरिति वक्ष्यते । नाद्यः । राजपुरुष इत्यादेः कर्मधारयत्वापत्तेः । समानाधिकरणतत्पुरुषस्यैव, कर्मधारयत्वात् । यत्तु समासपूर्वदशायां यत्राभेदान्वयस्तत्रैव कर्मधारयः यत्र भेदेन तत्र तत्पुरुषमात्रमिति । तम । नित्यसमासे विग्रहशून्यत्वेन तादृशकर्मधारय तत्पुरुषयोरव्याप्तेः । तत्राप्यलौकिक विग्रहसत्वेपि राम सु इत्यादेर्निराकांक्षतया तादृगन्वयबोधस्वरूपायोग्यत्वात् । यच्च किचिद्विशिष्टद्वितीयादिविभक्त्यर्थतावच्छेदकविशि ष्टवतो यत्र नाभेदान्वयस्तत्रैव कर्मधारयः । अन्यत्र तत्पुरुषः । राजपुरुष इत्यादी राजत्वादिविशिष्टषष्ठयर्थ सम्बन्धत्वविशिष्टं लक्ष्यतावच्छेदकमिति न कर्मधारयत्वम् । केवलं सम्बन्धित्वेन लक्षणाय राजरूपेणैव लक्षणायां च कर्मधारयत्वमेवेति करपनम् । तन्न श्रद्धेयम् । राज सम्बन्धिपद योश्चैत्रस्व शब्दयोर्धनस्वामिशन्दयोश्च षष्ठीसमासोत्तरं पुरुषसुवर्णराजशब्दैः सह कर्मधारयस्वीकारेण तत्राव्याप्तेः । सम्बन्धस्वत्वस्वामित्वादेः षष्ठ र्यत्वाभ्युपगमात् । न च समासात्पूर्व यत्र पदयोस्तुल्यविभक्तिमएवं तत्रैव कर्मधारयो नान्यत्रेति वाच्यम् । पूर्वावस्थाया अपि समासार्थविवक्षानुसारणैव करण्यतया भवदीरया समासवाक्ये तत्पु
Page #236
--------------------------------------------------------------------------
________________
२२१
খুবণ रुषकर्मधारययोगोंधविशेषाभावेनं षष्ठयाधन्तर्भावेण पूर्वावस्था कल्पनस्याप्यसम्भवात् । अत एव च न विवियमाणसमानार्थ विवरणमिति व्युत्पतिभशोपि । अन्यथा असमानार्थत्वे विवरणत्वं न स्यात् । तथात्वे वा शक्तिपरिच्छेदकत्वं न स्यात् । तस्माल्ल. क्षणाया असम्भवादावश्यिकैव समूहशक्तिरिति दिक् ॥ अथ घा ओदनः पचनीत्यादिवारणाय प्रातिपदिकार्थप्रकारकबोधमानं प्रति सुबजन्योपस्थितिहेतुर्याच्या । नीलं घटमानयेत्यादौ च प्रत्येकं विशेषणविशेष्ययोर्भावनायामेवान्वयः। पाणिको ऽभेदा. न्वयस्तु न शाब्दः । उक्तं हि भाष्ये । अथ वा कटोपि कर्म भीष्मादयोपि कर्माणीत्येव सिद्धमिति । एतदेवारुणाधिकरणे जैमिनीयैः परिष्कृतम् । अस्तु वा विशेषणविभक्तिरभेदार्या तद. प्युक्तम्भाष्ये । न चान्या उत्पद्यमाना तत्सम्बन्धमुत्सहते ववतुमिति कृत्वा द्वितीया भविष्यतीति । भिष्मादियुक्तकटसम्बधिकर्मत्वं प्रतिपाद्यम् । तत्र यथा कटशन्देन भीष्मत्वादीनामनभिधानात्तदभिधानाय भीष्मादिशब्दप्रयोगस्तथा द्वितीयापि तेभ्यो भविष्यति । नबन्यथा तद्विशिष्टत्वं कटस्य प्रतिपादयितुं शक्यते इति कैयटः । युक्तं चैतत् । एककार्यकारणभावकल्पने साघवात् । चैत्रो नास्तीत्यत्रापि प्रतियोगिताकपथमाद्वारैवा. न्वयः । तथा च चैत्र: पचति नीलो घटः स्तोकं पचतीत्यादौ प्रथमादेरभेदोर्थः । एवं च विभक्त्यर्थमद्वारीकृत्य प्रातिपदिकार्थस्यान्वयायोगात् । राजपुरुषः नीलोत्पलमित्यादावन्वयाय विशिष्टशक्तिः व्युत्पत्त्यन्तरं वा आदर्तव्यमिति दिक् ।। तदेतदभिप्रेत्योक्तम् । बहुव्युत्पत्तीति विभावयामः । अन्ये तु माप्तमुदकं यं, जा* यया प्रतिग्राहिते गन्धमाल्ये ययेति विग्रहे यत्कर्मकमाप्तिकर्बुदक.
म् । जायानिष्ठप्रेरणाविषयीभूतयत्कर्तृकप्रतिग्रहकर्मणी गन्धमाल्ये
Page #237
--------------------------------------------------------------------------
________________
समासशक्लिनिर्णयः।
१२३ इति बोधः । प्राप्तोदका जायामतिग्राहितगन्धमाल्यामिति वृत्ती सूदकककप्राप्तिकर्म जागानिष्ठप्रेरणाविषयीभूतगन्धमारयकर्मकग्रहणकीमिति बोधः । तथा च विशेषणविशेष्यभावव्यत्यासाय वाक्ये क्लुप्तं व्युत्पत्तिभजनं समासे स्यास्परेषाम् । अस्माकं त. द्भजनमेकार्थीभावकृतविशेषात्मकत्वान्यायसिदामित्यथेत्यादेरर्थः । एवमूढो रयो येन, उपहतः पषुयस्मै, उद्धृत भोदनो यस्याः, बहवः पाचका यस्यां शालायामित्यायषष्ठयर्थबहुव्रीहि. विग्रहे यदनदुहादिकर्तृकोदहनकर्म रथः, यदुद्रायुदेश्यकोपहरणक, पशुः, यत्स्थाल्याचवधिकोदरणकर्म ओदनः, यच्छालायधिकरणकभावनाश्रया बहव इत्यादिः रथपशुश्चोदनपाचकादितत्तत्पदार्थविशेष्यक एव बोधः । समासे तु ऊहरयः उपहृतपशुरुद्धृतोदना बहुपाचिकेत्यादौ स्थकर्मकोद्वहनकर्चा, प. शुकर्मकोपहरणोद्देश्यः, ओदनकर्मकोद्धरणावधिः, बहुपाककर्वधिकरणमित्यायन्यपदार्थविशेष्यक एवं बोषः । एवं च भिन्नभिभव्युत्पत्तिकल्पनमपेक्ष्य शक्तिकल्पनमेव बरं किं न रोचये। एकार्थीभावकृतविशेषात्मकत्वादस्योपपत्तेः । तथा च क्लुप्तशक्स्योपपत्तावतिरिक्तशक्तिकल्पने गौरवमिति शब्दमावमेवास्ति भवताम् । व्युत्पत्यादिनामान्तरेण तस्याः स्वीकारादित्यधिमेत्याह । अषष्ठयर्थेतीत्यप्येवमेव व्याचक्षते । तच्चिन्त्यम् । पौनरुक्त्यापत्तेः । व्युत्पत्तिभञ्जनानुवाद एव स इत्युक्तावपि नैतघुक्तिसहम् । परैरपि समासे विशिष्टान्यपदार्थे उक्षणाभ्युपगमेन तद्विशेष्यकबोधसम्भवादिति दिक् ॥ ३३ ॥
साधकान्तरमाह ॥ अषष्ठययर्थबहुव्रीहौ व्युत्पत्त्यन्तरकल्पना ।
Page #238
--------------------------------------------------------------------------
________________
२२४ वैयाकरणभूषणे क्लप्तत्यागश्वास्ति तव तरिक शक्ति न कल्पयेः३४
अषष्टयर्थबहुव्रीहिद्वितीयान्तार्थकबहुव्रीहिस्तत्र व्युत्पत्त्यन्तरकल्पना क्लसत्यागश्चास्तीति वरं शक्तिकल्पनेत्यर्थः । अयमाशयः । चित्रगुरित्यादौ स्वाम्यादिप्रतीतये शक्तिरावश्यकी । न च लक्षणया निर्वाहः । सा हि न चित्रपदस्य पित्रस्वामिनि चित्रा गौरिति बोधानापत्तेः स्वामी गौरित्यापत्तेश्च । पदार्थः पदार्थेन सम्बध्यते न तु तदेकदेशेनेति न्यायात् । अत एव गोपदे गोस्वामिलक्षणेत्यपास्तम् । न च चित्रा गौरिति शक्त्युपस्थाप्ययोरन्वयबोधोत्तरं गोपदेन चित्रपदेनेव बोभाभ्यां वा उपस्थितविशिष्टस्वार्थसम्बन्धी लक्ष्यतइति वाच्यम् । एवमपि प्राप्तोदक इत्यायषष्ठयर्थबहुदीहौ तदसम्भवात् । प्राप्ति कर्षभित्रमुदकमिति बोधोत्तरं तत्सम्बन्धिग्रामलक्षणायामप्युदकककमाप्तिकर्म ग्राम इत्यालामात् । प्राति क्तप्रत्ययस्यैव कर्थकस्य कणि लक्षणेति चे, ताई समानाधिकरणप्रातिपदिकार्थयोरभेदान्वयव्युत्पत्तेरुदकाभिनं प्राप्तिकर्मेति स्यात् । अ. न्यथा तदुयत्पत्तिभङ्गापत्तेः । प्राप्तेर्धात्वर्थतया कर्तृतासम्बन्धेन भेदेनोदकस्य तत्रान्वयासम्भवाच्च । अन्यथा देवदत्तः पच्यतइत्यत्रानन्वयानापत्तेः । अथोदकाभिन्नकर्तृका प्राप्तिरिति बोधो. तरं तत्कर्म ग्रामो लक्ष्यतइति चेन । प्राप्तेर्धात्वर्थतया कार्य प्रति विशेष्यत्वासम्भवात् । प्रकृतिप्रत्ययार्थयोः प्रत्ययार्थप्राधान्यनियमात् । प्राप्तपदे प्राप्तेविशेष्यतया तस्या एव नामार्थत्वेनोदकेन सममभेदान्वयापत्तेश्च । एवमूढरथ इत्यादावपि द्रष्टव्यम् । अत एव चित्रगुरित्यादौ गोपदस्यैव लक्षणा साक्षात्सम्बधात्, चित्रपदस्य रूपवाचकतया तल्लक्षणायाः परम्परासम्बन्धरूपत
Page #239
--------------------------------------------------------------------------
________________
समासशक्तिनिर्णयः। यो गुरुत्वादिस्यपास्तम् । अपष्टयर्थबहुवीशचन्तर्गतप्राप्तादिपदानामपि कादिवाचकत्वेन साक्षात्सम्बन्धसत्वेन विनिगमनाविरहतादवस्थ्वात् । अतः एवाषष्ठयथेति विशेषणमुपात्तम् । नेचं प्राप्तादिपदानां योगिकत्वात्तल्लक्षणाया धातुमत्ययतदर्थज्ञानसाध्यतया मोरवादुत्तरपदे एव सा कल्प्यति वाच्यम् । तद्ज्ञानं विना तात्पर्यनिर्णयासम्भवेनोत्तरपदेपि तस्या असम्भवात् । भूरादिपदानां द्रव्यवाचकतया शूरगुरित्यादी विनिगमनाविरहाच्च । न च प्रत्ययसन्निधानलाभायोत्तरपदे एक सेति नवीनोक्तं युक्तम् । तथा सति बहीहेरेवासम्भवापत्तेः । अनेकमन्यपदार्थे इत्यनेनानेकसुबन्तानामन्यपदार्थप्रतिपादकत्वे तद्विधानात् । कथं चिदनेकेषामन्यपदार्थप्रतीत्युपयोगित्वेन तत्सम्भवपि घटादिपदेष्वपि समुदायशक्तिविलोपाप-त्या दुर्वचम् । तथाहि । चरमपदस्यैवान्यपदार्थलक्षणया समुदायशक्त्यस्वीकारे घंटमोस्तम्भादिपदेष्वपि घट चेष्टायां गम्लु गतौ स्तम्भु रोपने इत्यादिधातुभ्यः पचायजादिभिर्युत्पादनसत्त्वेनान्तर्गतप्रत्यये जातिविशेषलक्षणया नियतबोधः सम्भवत्येव । नन्वेवं पाचका. दिपदवघटादिपदमपि यौगिकमेवास्तु । न च रूढालाभः । भूवादिपदानामेव तादृशत्वात् । अत एवैतदव्युत्पन्न प्रातिपदिकमिति मुकुटः । अर्थवत्सूत्रारम्भसामर्थेन तादृशस्य कस्य चिदवश्यकल्प्यत्वादिति चेन्न । एवं सति रूढ्या निर्णयः क्वापि न स्यात् । सर्वेषां यौगिकत्वापत्तेः । मूकपदेपि मूं कायतीति योगसम्भवात् । के गैरै शब्दे इति धातूनां स्पष्टत्वात् । अर्थवत्सूत्रारम्भस्य बहुपटव इत्यादिसाधकत्वेन चरितार्थत्वात् । झापकत्वे वा त्वद्रीत्या ज्ञाप्यालाभादनुपपत्तिरेव । एतेनाषष्ठपर्यवहुवी ही विनिगमनाविरहादुभयत्रापि लक्षणास्त्वित्यपा
२६
Page #240
--------------------------------------------------------------------------
________________
२२६ वैयाकरणभूषणे स्तम् । घटादिपदेष्वपि धातुमत्यययोस्तत्सम्भवात् । तस्मादा. वश्यिकैव समुदायशक्तिरिति समुदायार्थ इति विभाव्यतां सू. रिभिः । वस्तुतस्तु अवयवानां शक्तिं लक्षणां वा ऽजानतामपि बालानां समुदायव्युत्पादने बोधः सर्वानुभवसिद्धः। अत एव तेषां समुदायार्थबोधेपि विना व्याकरणादिव्युत्पत्तिं पदविभागसामर्थ्याभावोपीत्यप्यनुभवसिद्धम् । न चैतेषां शक्तिभ्रमाद्बोध इवियुक्तम् । बोधकत्वस्याबाधेन तज्ज्ञानस्याभूमत्वात् । पदत. दो टितशक्तेभूमासम्भवस्यासकृदावेदितत्वात् । न चाज्ञातैव प्र. सेकपदलक्षणोपयुज्यतइति शंक्यम् । अगृहीतशक्तिकादप्यर्थोपस्थित्यापत्तेः । तीरादौ गङ्गासम्बन्धाग्रहवतो गङ्गायां घोष इ. त्यादौ बोधापत्तेश्च । तथा च प्रत्येकत्यज्ञानेपि बोधादावश्यिका समुदायशक्तिः । घटादिपदेष्वपीदमेव तत्साधकम् । अत एवं पङ्कजपदेपीत एव तत्स्वीकारः प्रकारान्तरासम्भवादित्युक्तपायम्। न च समुदायशक्त्यज्ञानदशायां लक्षणयापि बोधान्न शक्तिः। गङ्गादिपदानामपि तीरादौ शक्तिग्रहदशायां लक्षणया प्रवाहबोधकत्वाच्छक्तिसिध्यनापत्तेः । अत्रावयवेभ्य इव तीरादिपदेभ्योपि लक्षणया गङ्गाबोधदर्शनाच्च । अपि च । भाषासु संस्कृते च व्यवहारसाम्येपि शक्तत्वाशक्तत्वनिर्णयो विना व्याकरणकोशादिकमसम्भावित इति गृहीतप्रामाण्यात्तस्मात्समर्थः प. दविधिरिति सूत्रतद्भाष्यादि सामान्यरूपादनेकमन्यपदार्थे त्यादि विशेषाच्च समासशक्तिनिर्णयो दुर्वार एव । उक्तं च पराशरीयपुराणे । पाणिनीयं महाशास्त्रं पदसाधुत्वलक्षणम् । सर्वोपकारकं ग्राह्य कृत्स्नं त्याज्यं न किञ्चनेति ॥ न च साधुत्वमात्रपरिच्छेदकत्वं शास्त्रस्योक्तं न तु शक्तिनिर्णायकत्वमिति वाच्यम् । भवद्रीत्या शक्तत्वस्यैव साधुत्वपर्य
Page #241
--------------------------------------------------------------------------
________________
समासशक्तिनिर्णयः।
२३७ वसानादित्यायन्यत्र प्राक् प्रपञ्चितम् । वक्ष्यते च अत एवार
णाधिकणारम्भोप्युपपद्यते । अन्यथा पूर्वपक्षस्यैवासम्भवात्तद- सम्भवापत्तेः । तथाहि । किमरुणिमा वाक्यानित्वा प्रकरणे निवेश्यः किं वा क्रीणातिना सम्बध्य तदङ्गमेकहायन्यामिति संशये क्रीणातिना सम्बध्यमानस्तृतीयासंयोगात्करणकारकं स्यात् । न चामूर्तस्य तद्युक्तमिति नास्य क्रयसम्बन्ध इति ततः पृथग्भूतः प्रकरणे निविशतइति हि पूर्वः पक्षः । स चानुक्तिसम्भवः । समासशक्त्यस्वीकारे पिङ्गाक्ष्येकहायनीशब्दयोरपि पित्वाक्षित्वैकत्वहायनत्वादेर्वाच्यतया तेषामप्यमूर्तत्वात् क्रीणातौ करणत्वासम्भवेन क्रीणातिकरणस्यैतद्वाक्यादलाभादारुण्यस्य वाक्यभेदशङ्काया एवासम्भवात् । त्रिष्वपि लक्षितद्रव्यविध्यु. पपत्तो वाक्यभेदशङ्काया निर्बीजत्वाच । बहुव्रीह्योररुणशब्दस्य च लाक्षणिकद्रव्याभिधायकताया अविशिष्टत्वेन बहुव्रीह्योरेव द्र. व्यविधायकत्वं नारुणपदस्येत्यत्र विनिगमकासम्भवात् । वाक्यभेदेन प्रकरणे निवेशस्याप्यसम्भावितत्वाच्च । तथाहि । प्रकरणेप्यमूर्त्तत्वाक्रियाभिः कारकत्वाच द्रव्यैरपि : सम्बन्धोऽसं. म्भवी । अनुपात्तानि च द्रव्याणि कथं गुणेनानेन सम्बध्येरन् । न च तृतीयया प्राकरणिकानि करणद्रव्याण्यन्द्य गुणस्तस्परिच्छेदकत्वेन विधीयते न तु गुणस्यात्र तृतीयया करणत्वं येन द्रव्यसम्बन्धो न स्यात् । तृतीयया द्रव्याणामुपादानाच्च नानुपादानदोषोपीति वाच्यम् । नहि तृतीया करणद्रव्याभिधायिनी येन तया तेषामनुवादः स्यात् । शक्तय एवं निष्कृष्टा वि. भक्तिवाच्या इति मीमांसकसिद्धान्तात् । अथ प्रातिपदिकमेव गुणवचनमपि लक्षणया द्रव्यपरं तच्च तृतीयासंयोगात्करणम् । तथा च गुणविशिष्टं करणं प्रतीयते । तत्र करणतयावगतानि प्रक
Page #242
--------------------------------------------------------------------------
________________
२२०
वैयाकरणभूषणे . रणमतानि विशेष्यतयानूध विशेषणभूतो गुणः परिच्छेदकत्वेन न विधीयते । येन द्रव्येण किं चित्क्रियते तेनारुणगुणकेनोति पूर्वपक्षाशय इति चेन्न । एवं हि लक्षितद्रव्यस्य कयएव करणत्वसम्भवाद्वाक्यभेदायोगात् । अथ श्रोतकहायन्यवरुद्ध लामाणकद्रव्यनिवेशो न युक्त इत्युक्तमेवेति चेन्न । पिङ्गाक्ष्यकहायनीशब्दयोरपि समासत्वाल्लक्षणयैव द्रव्यप्रतिपादकत्वेनकहायन्याः श्रौत. त्वासम्भवात् । तस्मात्पूर्वपक्षासम्भवादरुणाधिकरणोच्छेदापत्ते, बहुव्रीही शक्तिरावश्यकी । अन्यथा यौगिकानां द्रव्यवाचकस्वसाधनं वार्तिकोक्तं च व्यर्थ स्यात् । अथ त्रयाणामपि गुणवाचकत्वे अमूर्तत्वात्कीणातौ करणत्वासम्भवात्रिभिरपि प्राकरणिकद्रव्यानुवादेन गुणा विधीयन्ते इति पूर्वपक्षरचनेति चेन्न । अनुवादाय त्रयाणामपि द्रव्ये लक्षणाभ्युपगमेन तत्रयविशिक्रयभावनाया अपि विधिसम्भवे क्रीणात्यनन्वयस्यामाप्तानुवादेनानेकविधाने वाक्यभेदस्य च पौर्णमास्यधिकरणन्यायेन निरस्त तया पुनः शक्तुिमप्यशक्यत्वात् । अथैकत्वे द्रव्यगुणयोरैककानियमः स्यादिति सूत्रविरोधाच्च । द्रव्यगुणयोः सपावेशे एव सूत्रप्रवृत्तेः स्पष्टत्वात् । तस्मादरुणाधिकरणारम्भाय स्वयापि बहुव्रीडादौ शक्तिः स्वीकार्येत्युनयामः । बहुव्रीहौ ल. क्षणायाः समस्यमानानेकपदतत्सामानाधिकरण्यालोचनापेक्षाधिक्येन विलम्बितत्वान तेन द्रव्यविधिः स्यात् । किं तु गुणशन्देनैवेति ऋयसाधनद्रव्यनिवेशस्य पूर्वोत्तरपक्षयोः साम्याचदाक्षेपपूर्वपक्षस्य वाक्यीयद्रव्यनिवेशसिदान्तस्य घायोगादहुवीही शक्तयस्वीकारे अरुणाधिकरणारम्भासम्भव इत्यप्याहुः । अथैवं निषादस्थपत्याधिकरणोच्छेदापत्तिः । निषादः स्थपतिर्यस्येति बहुव्रीहिणा निषादस्वामके श्रुतिवृत्तः शन्दः क
Page #243
--------------------------------------------------------------------------
________________
समासशक्तिनिर्णयः ।
२२९
र्मधारये वाक्यवृत्त इति न्यायेन बहुव्रीहेरेवापत्तेः । यन्तु कः र्मधारये ग्रावन्तः श्रुतपदार्थास्तावतां वाक्यार्थे ऽन्वय इति मा बल्यम् । बहुवीहितत्पुरुषयोस्त्वकस्यैवेति ततस्तयोदौर्बल्यम् । पष्ठीतत्पुरुषादौ बहुव्रीहौ चैकस्यैवान्वय इति तयोर्यद्यपि साम्यं तथापि तत्पुरुषे एकपदार्थत्यागो बहुब्रीहौ द्वयोरिति बहुव्रीहेर्वरयमित्याहुः । तच्चिन्त्यम् । बहुव्रीहौ शक्तिपक्षे बहुव्रीहौ श्रुतिवृत्तता । कर्मधारयतत्पुरुषयोर्वाक्यवृत्ततेति श्रुतिि ङ्गाधिकरणन्यायेन बहुवी हे रे बापत्तेर्निषादस्थपत्यधिकरणाद्युच्छेदावारणात् । न च बहुव्रीहावपि विनियोजकं वाक्यमेवेति न तत्र तन्न्यायप्रवृत्तिरिति वाच्यम् । नहि विनियोजिकां श्रुतिं ब्रूमः । किं तु अभिधात्रीम् । अत एव रथकाराधिकरणे योगादूढेः प्राबल्यं सिद्धान्तितम् । तथा च तादृशस्थळे वाक्याच्छुतेः प्राबल्ये यच्छीघ्रप्रवृत्तत्वादि बीजं तन्न्यायेन कर्मधारयादिकं पराभूय बहुबीहिरेव स्पादिति वदाम इति चेन्न । बहुधास्माभिर्न्यायेन कर्मधारयेपि शक्तेः प्राग्व्यवस्थापनात द्वयोरपि श्रुतित्वेन विरोधाधिकरणन्यायस्यात्रावृत्तेः । कर्मधारयनिर्णयस्य तत्पुरुषस्वरेणैव सम्भवाच्च । अत एव स्वरस्य षष्ठीतत्पुरुषे साम्यात्स एवाशङ्कय निरस्तः । नन्वेवमपि इन्द्रपतिाधिकरणे स्वरत एव बहुव्रीहिनिर्णयसम्भवात्तत्पुरुषाशङ्का नावतरेदिति चे, तवापि स्वराद्बहुव्रीहिनिर्णयस्य स्थूलपृषतमिनड्वाहीमा लभेतेत्यादिवत् सम्भवात्तदवतारासम्भवस्य तुल्यत्वात् । उक्तं हि शब्द कौस्तुभे मूलकता । एवमेकेन्द्रपीतस्योपहूतो भक्षयामीत्यत्रापि स्वरेणैव निर्णये इन्द्रपीताधिकरणमवैयाकरणान्प्रति कृत्वाचिन्तया वा नेयमिति । नन्वेतदसङ्गतं तृतीयाकर्मणीत्यनेन कर्मणि क्तान्ते परे पूर्वपदं तृतीयान्तं प्रकृत्येति पूर्वपदप्रकृतिस्वर विधानेन बहु
Page #244
--------------------------------------------------------------------------
________________
२३०
वैयाकरणभूषणे
व्रीहौ प्रकृत्या पूर्वपदमिति बहुव्रीहिस्वरस्यैव सम्भवात्तस्मानिर्णयासम्भवात् । अन्यथा नखनिर्भिन्नम्भवतीत्यत्रापि तत्पुरुषत्वं न स्यादिति चेत् । अत्रोच्यते । अचेतनदेवतायाः यानास - म्भवात् पिबतिर्दानलक्षणार्थ इति वार्त्तिके स्पष्टमेव । उक्तं च शास्त्रदीपिकायामपि । तत्पुरुषे इन्द्रपीतशब्द इन्द्राय दत्तस्येत्येवं विशेषणं स्यात् । न चासाविन्द्राय दत्तः पूर्वसङ्कल्पितो हि हुताहुतसमुदायस्तस्मै दत्तस्तदवयवस्त्वयमित्यादिना । अपि चैवं इन्द्राग्निभ्यां पीतेपीन्द्रपीतत्वस्य डित्थडपित्थयोर्मातरि डिस्थमातेतिवद्वक्तुं शक्यत्वादैन्द्रापि मन्त्रलिङ्गाबाधान्मन्त्रप्रवृत्तावैन्द्राग्ने तु लिङ्गभावात्स्यादित्यधिकरणोच्छेदापत्तिः । तस्मात्पीतशब्दो दानार्थक इति स्वीकार्यम् । तथा चन्द्रोद्देश्यके दाने इन्द्र. स्य कर्त्तृत्वकरणत्वयोरसम्भवान्न ततस्तृतीयेति तृतीयाकर्मणीत्यस्य प्रहृत्तिः सम्भावितैव न । अथ कर्तृकरणतृतीयाया अ. सम्भवेपि हेतुतृतीया स्यात् । न चोपपदविभक्तेः कारकविभतिर्बलीयसीति न्यायान हेतुतृतीया सम्भवतीति वाच्यम् । एवं हि त्वया सम्प्रदान चतुर्थी वाच्या तथा च समासो न स्यात् । तादर्थ्य समासस्य बलिरक्षितग्रहणात् ज्ञापकात्मकृतिविकारमात्रविषयताया व्युत्पादितत्वादिति चे, तर्हि तृतीयापक्षेपि समासासम्भवात्सापि न युक्ता । तृतीया तत्कृतार्थेत्यादितद्विधायकेषु हेतुतृतीयायाः समासानभिधानात् । तृतीयेति योगविभागचतुर्थीति योगविभागेन तुल्यः । बळिरक्षितग्रहणानर्थक्यं च तृतीयासमा सविधाय कान्तरानर्थक्यापत्त्या तुल्यम् । तस्मात्समासश्छान्दसः षष्ठीसमासो वेति वाच्यम् । तत्र स्वरान्निर्णय इति सुष्टूक्तम् । अथ चेतनदेवतापक्षे इदमधिकरणम् । तत्र पानसम्भवात्कतृतृतीया स्यादिति चे, चन्द्राग्ने तु लिङ्गभावात् स्यादित्यधिकरण
•
Page #245
--------------------------------------------------------------------------
________________
समासक्तिनिर्णयः ।
२३१ विरोधः स्पष्टः । किं च चेतनत्ववदनेकत्वस्यापि युक्तिसाम्यादापत्ताविन्द्रादिशब्दानां जातिशब्दतापत्तिः । स्वीकृतं च तथोत्तरमीमांसायां देवताधिकरणे, तथा च जातिकालसुखादिभ्योनाच्छादनात कृतमितप्रतिपन्ना इति विधानादन्तोदात्ततापतौस्वरविरोधः सिद्धान्ते स्यात् । तस्माद्युक्तः स्वरान्निर्णयः । वस्तुतस्तु पीतशब्दस्य दानार्थकत्वे तत्पुरुषापतिर्दुर्वारा । समुदायदानवयवानामपि दानात् । अन्यथा धान्यराशिदाने प्येकदेशस्वीकारो न प्रत्यवेयात् । अत एव सर्वप्रदानाधिकरणे "नन्वग्न्यादिभ्यो दत्तं कथं स्विष्टकृते दीयते त्यक्तस्य पुनः स्वीकारे शिष्टाचारविरोधादित्याशङ्कय प्रत्यक्षवचनविहितत्वान दोष" इति परिहृतं सङ्गच्छते । अन्ययोर्वरितस्यैकदेशस्य त्यागविरहाच्छङ्काया एवाभावादलग्नकतापत्तेः । न चात्र समुदायदानमेव नास्तीति वाच्यम् । पूर्वसङ्कल्पितो हि समुदायस्तस्मै दत्तः तदवयवस्त्वयमित्यादिग्रन्थानामुक्त्यसम्भवापत्तेः । "तस्मातत्पुरुषे स्वार्थलाभः स्यादुत्तरपदे बहुव्रीहौ द्वयोरन्यपरत्वात् दुर्बलत्वधी" रिति पूर्वपक्षे पीतशब्दे लक्षणेति सिद्धान्तवचः शिव्यधन्धनमात्रमिति विभावयामः । किं तु स्वराद्बहुव्रीहौ समुदायशक्ति स्वीकृत्य श्रुत्या वा निर्णय इत्येव तप्त्वं भट्टपादैरभ्युपे. यमिति परिभाव्यतां सूरिभिः । ग्रन्यस्त्वित्थं योज्यः । अपष्ठयर्थ बहुवीहिर्द्वितीयाद्यन्तार्थक बहुव्रीहिः । षष्ठ्यर्थ बहुव्रीहौदामोदरं इत्यादी रूढेरपि स्वीकारात् केवलं यौगिकत्वसूचनायेदं तत्रापि व्युत्पत्त्यन्तरस्य शक्तेः कल्पनात् क्लृप्तस्यानन्यलभ्यार्थन्यायस्य त्यागश्च तव मीमांसकम्मन्यस्यास्ति । तत्कि - मन्येष्वपि समासेषु शक्ति न कल्पयेरिति । अषष्ठ्यन्तेति पाठे स्वरूपसद्विशेषणं परमतनिराससूचकम् । तद्यथा । इत्थं ह्याहु
Page #246
--------------------------------------------------------------------------
________________
२३२
वैयाकरणभूषणे मीमांसकाः । चित्रगुरेकहायनी पिलाक्षी इत्यादौ चित्रा गावी यस्येति न विवरणम् । किंतु चित्राणां गवामयमिति । उक्तं ह्यरुणाधिकरणवार्तिके । यदि वन्यपदार्थः षष्ठयन्त एव स्याततो यथा रामः पुरुष इत्यत्र षष्ठयन्तत्वाद्राजा पुरुषविशेषणं भवति प्रथमान्तत्वाच्च पुरुष प्रधानत्वरूपेण समासार्थों भवति । एवमेव चित्रग्वादिपदैरपि देवदत्तादिविशिष्टा गाव एक प्रतीयेस्न् न चित्रगोविशिष्टदेवदत्तादिः । तस्माच्चित्राणां गवामयमितीहशेर्थे बहुव्रीहिर्वर्तते । यद्यप्यन्यथाविग्रहस्तथाप्युत्तरकालमी दशार्थदर्शनादेवमेव विग्रहोपि वक्तव्यः । अतश्च सम्बन्धविशिष्टाभिगोभिर्देवदत्तादिविशिष्ट इति समासार्थो विज्ञायतइति । यद्यप्येवमपि चित्राणां गवां राज्ञः पुरुष इत्यादौ षष्ठयर्थप्राधान्यद. र्शनात्समासेपि तथात्वापत्तिः । न चेष्टापत्तिः । यथैव राज्ञः पुरुष इत्यत्रं षष्ठयां प्रयुज्यमानायां सम्बन्धः प्रधानभूतो विज्ञायते कृते तु समासे निवृत्तायां विभक्तौ पूर्वोत्तरपदयोः प्रत्येकप्रयोगदृष्टार्थात्यागात्सम्बन्धाधिक्यस्य च सामीप्यावगतविशिटार्थप्रत्ययादेव सिद्धेन सम्बन्धपरः समासो भवति एवमेव ब. हुव्रीहावपि न सम्बन्धप्राधान्यमित्युत्तरग्रन्थविरोधात् । तथापि चित्रमोसम्बन्धी राजसम्बन्धवांश्च समासार्थ इत्येव युक्तम् । सम्बन्धविशिष्टाभिगोभिरिति पूर्वग्रन्थस्वरसात् । सामीप्यासंम्बन्धमानमिति त्वयुक्तमेव । निषादस्थपत्यधिकरणभङ्गप्रसङ्गात् । षष्ठीतत्पुरुषेपि लक्षणाविरहेण गौरवविर हात् । अस्मद्री
खा च सम्बन्धविशिष्टे लक्षणायां गौरवं स्फुटमेव । तथा च राजसम्बन्धविशिष्टाभिन्नः पुरुष इति बोधः । न चैवमपि तत्पुरूषे विग्रहसमासयोः समानार्थत्वहानिर्णोद्धृतेति वाच्यम् । राजा चासौ पुरुषश्चेत्येव विग्रहस्य तन्त्ररत्नात्प्रतीतः । अत एव द्व
Page #247
--------------------------------------------------------------------------
________________
समासञ्चतिनिर्णयः । २३३ म्दे युगपदधिकरणवचनखदर्शनाद्वामौ च कृष्णौ चेत्येव विन.. ह इति महाभाष्ये स्थितामित्याहुः । तत्र यद्यपि षष्ठयन्तेन समासे विग्रहेण समानार्थत्वहानिर्नोद्धृतैव तत्पुरुषे प्रथमान्तानामेव समासे षष्ठीति समासविधायकस्य षष्ठया आक्रोशाव समासषष्ठया अलुम्विधायकानां षष्ठीमत्पेनसीति स्वरबैकमण्यस्य चोकदापत्तिरिति विग्रहसमासयोरतिसमानार्षवनियमो ना. स्त्येव । अथ षष्ठयन्तेनैव विग्रहोस्तु । परं तु समासवद्यासपि राजपदं सम्बन्धिलक्ष षष्ठी चाभेदा!ति स्वीकार्यमतोत्र स. मानार्थत्वहानिरिति चेत्तथापि षष्ठयर्थस्याभेदस्य विग्रहे प्रा. धान्यात्समासे तदापत्तेरवारणादिति दूषणमस्त्येव तथापि स्फु. टत्वात्तदुपेक्ष्याह । अषष्ठयन्तति । दूषणबीजप्रदर्शनम् । भ. प्रथमाविभक्तथर्थ इति वार्तिकेन प्रथमान्तार्थे तदसम्भवस्य कण्ठत एवं प्रतिपादितत्वान्न चित्राणां गवामयामिति विग्रहप्रदर्शनं युज्यते । अषष्ठयर्थबहुवी हायेवमप्यर्थसाम्यालाभाच्चेति भावः । तथाहि । प्राप्तोदक इत्यादावुदकक कप्राप्तिकर्मेवि बोधः सर्वसिद्धः । अत एव समासेनाभिहितत्वाम द्वितीयेत्यनभिहितइयादौ स्पष्टम् । एवमूढरथ इत्यादावपि द्रष्टव्यम् । अत्र समा
मानार्थको विग्रहो ऽसम्भावित एव । द्वितीयान्तान्यपदार्थस्य विग्रहे धात्वर्थक्रियाविशेषणत्वात् । नन्वत्रापि प्राप्तस्योदकस्यायं, कृतस्य विश्वस्यायम्, उढस्य रथस्यायम्, उपहृतस्य पशोरय, मुद्धतस्यौदनस्येय, मित्यादिविग्रहः कार्य इति चेता एवं हि ग्रामकर्मकमाप्तिकर्तृत्वमुदके उदककर्तृकप्राप्तिकर्मत्वं च ग्रामे न लभ्येतेति गृहं प्राप्तस्योदकस्याश्रयो ग्राम इति वत्माप्तोदकं ग्रा. म इत्यपि स्यात् । अपि च । समासे पूर्वोत्तरपदार्थयोर्विशेषणत्वाग्रिहेपि तथैव वाच्यत्वे ह्यलौकिकप्रक्रियावाक्यं प्रथमान्तेन
Page #248
--------------------------------------------------------------------------
________________
२३४
वैयाकरणभूषणे षष्ठयन्तेन वा । नायः । अलौकिके प्रविष्टानामेव पक्षान्तरे परिनिष्ठितेपि प्रयोगसम्भवे उपस्थितपरित्यागस्यान्याय्यत्वात्पष्ठचन्तत्वेन विग्रहप्रदर्शनायोगात् । तथा ऽसम्भवाच्च । त. थाहि । कतसु विश्वसु इत्यादि सर्वत्र स्थितौ विभाषा समाससंज्ञायां यदा सा जाता तदा प्रातिपदिकसंज्ञा । ततः सुपोषातुमातिपदिकयोरिति विभक्तिलोपो भवति । यदा तु सा न भवति तदा तस्या विभक्तेः को निवारयितेति विभाव्यताम् । तथा च तस्या एवोत्तरं प्रवृत्तानुशासनाच्छ्रवणं स्यात् । इत्थमन्यत्राप्यूखम् । न द्वितीयः । शेषोबहुव्रीहिरित्यत्र यस्यैव त्रिकस्य न स. मास उक्तस्तस्यैवोक्तादन्यत्वात्तन्मात्रगत एवात्र शेषो विवक्षिःत इति प्रथमान्तानामेव स इति भाष्यकारैव्यवस्थापिका तस्मानोक्तविग्रहसम्भवः । एतेनाग्निहोत्रं जुहोता विधिवाक्ये ऽग्नये होत्रमास्मिन्निति यौगिकमग्निहोत्रनामोति वदन्तो मीमांसकाः परास्ताः । यत्तूक्तं परिमले नात्यन्तं व्यधिकरणब. हुचीहेरसम्भवः । सप्तमीविशेषणेबहुव्रीहाविति ज्ञापन कण्ठेकाल इत्यादौ तदभ्युपगमात् । तदेवं व्याप्तिन्यायेन सच्छास्त्रजन्मा हि विवेकलाम इत्यादिपञ्चम्यन्तोप्यवज्र्यो बहुव्रीहिरिति वामनेनोक्तत्वाच्च । परं त्वेकज्ञापकसिदोप्यसौ न सर्वत्र यु. क्तः। शेषोबहुव्रीहिरित्यनुशासनवैयापत्तेः । किं तु प्रामाणिकप्रयोगात्व चिदेवेति । तच्चिन्त्यम् । सप्तमीविशेषणबहुव्री. हाविति ज्ञापकसिद्धस्यापि ज्ञापकसिद्धं न सर्वत्रेति परिभाषाविरोधेन सर्वत्र प्रवृत्त्ययोगात् । अन्यथा शेषोबहुव्रीहिरिति सूत्रानर्थक्यं च स्यात् । किं चैवं वैयाकरणाख्यायां चतुर्थ्या - इति ज्ञापकात्मकृतिविकारभावाभावपि चतुर्थीसमासस्वीकारा. . पत्तौ तन्निरासकत्वोक्तिविरोधापत्तिः । तथा "अथातो धर्मजिज्ञा
Page #249
--------------------------------------------------------------------------
________________
समासशक्तिनिर्णयः । २३५ सा" "अथातो ब्रह्मजिज्ञासे"त्यादौ धर्माय जिज्ञासा, ब्रह्मणे च जिज्ञासेत्यादि व्याचक्षाणाः शबरस्वामिनः प्राचीनवृत्तिकृतश्च भट्टपादैर्वाचस्पतिमिश्रप्रभृतिभिश्च पर्यवसितार्थपरतया व्याख्ये. याः पर्यनुयोज्याश्च न स्युः । नहि ज्ञापकसिद्धत्वस्य तुल्यत्वेपि तएव प्रामाणिका विपरीताश्च शक्यन्ते वक्तुम् । यन्तु परिमले प्रकृतिविकारभावाभावपि चतुर्थीसमासस्वीकारे चतुर्थीतदर्थेति सूत्रे बलिरक्षितग्रहणवैयापत्चिरित्युक्तम् । तत्त्विहापि समम् । वस्तुतस्तु अग्निहोत्रपदमन्तोदात्तं पश्यते । तच्च समासस्येत्यनेन तत्पुरुषादावुपपद्यते । बहुव्रीहौ तु बहुव्रीहौ प्रकृत्या पूर्वपदमिति विशिष्य स्वरान्तरविधानादत्र तदभावादयुक्त एव बहुव्रीहिरिति सद्गर्भ यौगिकामिदं नामेत्याधयुक्तमेव । तस्माद्यादि यौ. गिकं नामेत्याग्रहस्तदा हूयतेस्मिन्निति होत्रम् । ताभ्यामन्यत्रोणादय इत्यधिकरणे नः । तत अग्नेर्होत्रमग्निहोत्रमिति तत्पुरुष एव । एवं स्वरो न विरुद्ध इत्यादि सुधीभिर्जेयम् । तस्मात्पष्ठचन्तादिना विग्रहासम्भवादगत्यात्र विग्रहवाक्ययोर्विशेषणविशेष्य साम्यत्याग इति स्थितम् ॥ ३५ ॥
वस्तु प्रथमान्तानामेव बहुव्रीहिः पक्षे चित्रा गावो यत्यपि वाक्यमस्तु । परं तु विग्रहत्वं चित्राणां गवामित्यस्यैव अतिसमानार्थत्वात् । अन्यथा विग्रहाच्छक्तिनिर्णयो न स्यात् । एवं प्राप्तोदक इत्यत्रापि प्राप्तमुदकं यमित्यस्य न विवरणत्वं किं तूदकर्तृकप्राप्तिकर्म ग्राम इत्यस्यैव । न चैवं समस्यमानपदविवरणविरहाहहुवीहेनित्यसमासतापत्तिः । समासार्थबोधकवाक्यासम्भावन एव नित्यसमासत्वात् । यथोन्मत्तगङ्गं लोहितगङ्गमित्यादेः । अत्रान्यपदार्थे च संज्ञायां समासः। संज्ञा चोन्मत्ता गङ्गा यस्मिन्नित्यनेन न बोध्यतइति न लौकिको वि.
Page #250
--------------------------------------------------------------------------
________________
१६
वैयाकरणभूषणे ग्रह इति स्पष्टमन्यत्रोत चेन । उन्मन्तगति गङ्गाद्वारसंक्षेति वाक्यस्य तत्रापि विग्रहत्वसम्भवात् । नित्यसमासोच्छेदापत्तेः । अधिहरीत्यत्रापि हरिनिष्ठतेति वाक्यसम्भवात् । अत एव यत्र न गकिको विग्रहः स नित्यसमास इति सिद्धान्तकामुयां प्र. न्यकृतैव व्युत्पादितम् । एवं च चित्रा गायो यस्यति न वि. वरणम् । बहुवीहेनित्यसमासत्वादिति मणिकारोक्तिरप्यपास्तति दूपर्ण स्फुटत्वादुपेक्ष्य दूषणान्तरमाह ॥
आख्यातं तद्धितकृतोर्यत्किञ्चिदुपदर्शकम् । गुणप्रधानभावादौ तत्र दृष्टो विपर्ययः ॥ ३५॥
तद्धितकृतोर्यत्किञ्चिदर्थबोधकं विवरणमाख्यातं तत्रापि विपर्ययो दृष्टः । तथाहि । भाक्षिकः कुम्भकार इत्यत्रासकरणकक्रियाश्रयः कुम्भानुकूलव्यापाराश्रय इति बोधः । तद्विवरणे ऽभव्यतीत्यादावक्षनिष्ठव्यापारजन्या भावना । कुम्भ करोतीत्यत्र कुम्भनिष्ठोत्पत्त्यनुकूला भावनेति बोधः । तथा च विशेषणविशेष्यभावांशे समानार्थत्वविरहेप्यन्यांशे विवरणत्वं शक्तिनिर्णायकत्वं च समानार्थत्वात्स्यादिति भावः ॥ ३५ ॥ ___ नन्वेवं सर्वत्र समासे शक्तिस्वीकारे कर्मधारयतत्पुरुषयोस्तुल्यत्वापत्तिस्तथा च लाघवात्कर्मधारय इति निषादस्थपत्यधिकरणविरोधः । स्वरादेरपि साधकान्तरस्याभावात्सिदान्तासङ्गतिश्चेत्यत आह ॥ पर्यवस्यच्छाब्दबोधाविदूरपाक्क्षणस्थिते । शक्तिग्रहेन्तरङ्गत्वबहिरङ्गत्वचिन्तनम् ॥ ३६ ॥ पर्यवस्यंश्चासौ शाब्दबोधश्च तस्मादविदूरश्चासौ प्राक्क्ष
Page #251
--------------------------------------------------------------------------
________________
समासशक्तिनिर्णयः। णश्च । तदानींतनलाघवमादायाधिकरणाविरोध इत्यर्थः । अयं भावः । निषादस्थपतिपदे समासशक्तिपक्षे निषादरूपे स्थपतौ, निषादानां स्थपतौ, निषादस्वामिके पुरुषान्तरे चेत्येवं सर्वत्र शक्तत्वान्नानार्थम् । तथा च नानार्थे तात्पर्यवशाद्विशेषावगतिरिति निषादस्थपतिपदस्य निषादरूपे स्थपतौ निषादानां स्थपतो वा तत्करप्यमिति सन्देहे उपस्थित्यादिलाघवानिषादरूपे तत्रैव तत्कल्प्यते । परेषामपि सति तात्पर्य यष्टीः प्रवेशयेतिबल्लक्षणाया दुर्वारत्वासात्पर्यमेव कल्प्यकोटाववशिष्यते इति न कश्चिदोष इति । यत्तु परिमळे, षष्ठीसमासेपि कर्मधारयवत्पदाथयोः पदैरुक्तत्वादभेदस्यैव षष्ठयर्थस्यापि संसर्गमर्यादया ला. भान्न लक्षणा युज्यते । न च विग्रहवाक्ये विभक्त्यर्थस्य संसर्गतया प्रतीतेः समासेपि तत्प्रकारकबोधार्थ लक्षणापेक्षेति वाच्यम् । पर्वतो वन्हिमानित्यत्र मतुबर्थस्य पक्षसाध्यसम्बन्धस्येव विभक्त्यर्थसंसर्गस्यापि संसर्गतया प्रतीत्युपपत्तेरित्याशंक्य ऐक्ये लाघवं सम्बन्धे भेदकल्पनागौरवमिति सार्वत्रिकः कर्मधारयबकीयस्त्वे हेतुः । रामः पुरुष इत्यादौ तु भेदनियतषष्ठयाद्यनुरोधादैक्यत्याग इत्यब्रुवन् । तन्न श्रदेयम् । विरुद्धविभक्त्यनवरुदप्रातिपदिकार्थयोरभेदस्यैवोक्तरीत्या युक्तत्वेन षष्ठयर्थद्वारा भेदेनान्वयस्यासम्भवात् । एतेन षष्ठयों लक्षणीय इति कल्पतरुकाराद्यक्तिरयुक्ता । तथा च सम्बन्धिन्येव लक्षणा । अत एव "निषादपदमेवं तु स्थपतो लक्षणां वजेदि"ति पार्थसारथिमिश्रेणोक्तम् । अत एव राजा चासौ पुरुषश्चेत्येव ते विगृह्णन्ति । एवं भेदे गौरवामिति सिद्धान्तोप्ययुक्तः । वस्तुतो भेदाभेदयोः सत्त्वेन गौरवाद्यभावात् । तत्र तात्पर्य कल्पनीयामिति चेन । तस्य पदापतिपाद्यतया तत्कल्पनायोगात् । एवं मतुवर्थः
Page #252
--------------------------------------------------------------------------
________________
२१८
वैयाकरणभूषणे सम्बन्धः संसर्ग इत्यप्ययुक्तम् । नैयायिकमीमांसकैः सम्बन्धि पाचकत्वस्यैव स्वीकारात् । 'भूमनिन्दाप्रशंसासु नित्ययोगतिबायने । सम्बन्धेस्तिविवक्षायां भवन्ति मतुबादय' इति भाष्ये तु विशेष्यत्वेनैव वाच्यत्वस्वीकारादिति ध्येयम् । चिन्तनमित्यत्र नासक्तमिति शेषः ॥ १६ ॥ इति वैयाकरणभूषणे समासशक्तिनिर्णयः ॥
शक्तिप्रसङ्गात्पदमात्रे एवातिरिक्तां शक्तिं समर्थयते ॥ इन्द्रियाणांस्वविषयेष्वनादिर्योग्यता यथा । अनादिरथैः शब्दानां सम्बन्धो योग्यता तथा ॥३७॥
इन्द्रियाणां चक्षुरादीनां स्वविषयेषु चाक्षुषप्रत्यक्षादिषु यथा ऽनादिर्योग्यता बोधकारणता तथा शब्दानामपि सैर योग्यतेत्यर्थः । इयं च पदार्थान्तरम् । ननु क्लुप्तेश्वरेच्छेवास्तु पदार्थान्तरत्वे चातिगौरवमिति चेन्न । ईश्वरेच्छाज्ञानप्रयत्नानामन्यतमपरिशेषे मानाभावात्सर्वेषां च तथात्वे गौरवम् । किं चेश्वरेच्छा अपभ्रंशलाक्षणिकसाधारणीति तेषामपि शक्तत्वापत्तिः। अपि चेश्वरेच्छाया भतिप्रसङ्गाद्विशिष्य शक्तित्वासम्भव इति वदन्ति । अत्रोच्यते । विनिगमकाभावे चास्त्वीश्वरना. नस्य शक्तित्वम् । अत एव लीलावत्युपाये प्रथमत एवेश्वरज्ञानं वक्तिरित्युक्तम् । वस्तुतस्तु कल्प्यमानपदार्थेनापि प्रत्येकं विनि. गमकाभावान्नातिरिक्ततत्सिदिः । न चेच्छाया अतिप्रसक्तत्वात्तत्तदुपाधिवशिष्ट्यापेक्षणानपेक्षे एव विनिगमकम् । घ. टपदाद घटो बोद्धव्य इत्येतादृशविलक्षणविषयतासम्बन्धेनेयं घटपदस्य शक्तिरित्यभ्युपगमेनोक्तदोषाभावात् । नन्वेवं विनिगम नाविरहात्पदार्थ सिद्धिर्न स्यादिति चे,म स्यादेव । भपभ्रं.
Page #253
--------------------------------------------------------------------------
________________
शक्तिनिर्णयः।
शादावपि तेन सम्बन्धनाभावामातिप्रसा इति । यद्वा । घटपदात् घटो बोद्धव्य इत्येतावविलक्षणतत्तत्पदार्थसम्बन्धत्वं शक्तित्वम् । अपभ्रंशलाक्षणिकादौ च न तस्याः सम्बन्धत्वम् । संस्कृते तस्याः सम्बन्धत्वस्यावश्यकत्वादन्यत्र चारोपादेवोपपत्तेस्तत्कल्पकाभावात् । तथा च नातिप्रसङ्गादिदोष इति । न सापेक्षत्वानपेक्षत्वे इति । मिश्रास्तु, अस्माच्छन्दादयमों बोदव्य इतीच्छयोचरितत्वं शक्तिरतो न लाक्षणिकायतिप्रसमन चाधुनिकमैत्रपदाव्याप्तिः । द्वादशेन्हि पितत्यादितो ना. मत्वेन तेषामीश्वरोच्चरितत्वात् । न च नाप शितवै इत्यादिनापभ्रंशस्यापि तदुच्चारितत्वम् । तत्र तदिच्छयोचारणाभावात् । इह तु नामपदार्थालोचनयैव तथा तात्पर्योन्नयनादित्याहुः । तम । वैदिकलाक्षणिके शक्त्यापत्तेः । किं च नामपदस्येश्वरोच्चरितत्वेपि चैत्रादिपदं तेनानुच्चारितमेवेति कयं तेषां तत्र शक्तिः । न च नामशब्देन तद्वाचकः शब्दस्तं प्रयुजीतेति तदथपर्यालोचने तद्वाचकत्वरूपेण तत्तत्पदानामीश्वरोच्चरितत्वमस्त्येवेति वाच्यम् । तद्वाचकत्वं यदि तच्छक्तत्वं तदा शक्त्यनिर्णये दुर्जेयं, यदि च तद्बोधकत्वमात्रं तदा यकिञ्चित्सङ्केतिते द्वादशेन्हि पितृपयुक्ते शक्त्यापचेरिति दूषणमत्राहुः । तस्मादीसरसङ्केतः शक्तिरिति स्थितम् । अत्र माध्वाः । शन्दार्थयोः स्वाभाविक एव सम्बन्धः । तथा च प्रथमाध्याये प्रथमचरणेनुव्याख्याने । प्रत्यक्षवच्च प्रामाण्यं स्वत एवागमस्य हति । वि. वृतं चैतत्सुधायां जयतीर्थेन । शब्दस्यार्थेन सह सम्बन्धः स्वा. भाविकः सङ्केत एव वेति संशये सिद्धान्तयति । स्वतएचेति । स्वाभाविकेनैव सम्बन्धेनेत्यर्थः । तदुक्तं जैमिनिना, औत्पत्तिकस्तु शब्दस्यार्थेन सम्बन्ध इति । ननु. सति स्वा.
Page #254
--------------------------------------------------------------------------
________________
२४०
वैयाकरणभूषणे भाविके सम्बन्धे म्युलपमजदयूत्पमायापि शेषः स्यात् । नहाग्निरविदिशक्तिर्न दहतीपत्र प्रत्यक्षादेः स्वाभाविक प्रत्यायकवे सत्यपि सन्द्रिप्रसात्रिकर्षापेक्षा तथात्रापि सङ्केतग्राहसचिवस्यैव बोधकत्वमित्याह । प्रत्यक्षवच्चेति । अथापि स्वाभाविकः सम्ब
का सर्वेषां शब्दानां सर्वैरथैः समास्थीयते कस्य चित्केन चिदेव समं वा । नायः । शब्दार्थव्यवस्थानुपपत्तेः । अन्त्ये, आर्यम्लेच्छानामनियमाभावप्रसाः । तथाहि । आर्या हि यशब्द दीर्घके प्रयुम्जते दीर्घशूकमेव च बुध्यन्ते म्लेच्छास्तु प्रियको प्रयुञ्जते प्रियगुं च बुभ्यन्ते इत्येवं नियमः स्वाभाविक्यां शक्ती न स्यात् । नहि प्रदीपो रूपप्रकाशनशक्ती रसमपि प्रकाशयति । सङ्केतपक्षे सङ्केतानियमादनियमो युज्यतइति चे,न्न वयं क्वचिद-पि शब्दस्य सङ्केतारोधकत्वं नास्तीति ब्रूमः । किं तु कव चि.
स्वाभाविकया शक्त्या बोधः क्व चित्सङ्केतादित्यनियमो यु. -ज्यते । यद्वा । स्वाभाविकी शक्तिरेकत्रैवास्ति । व्युत्पत्तिवना
यवहारनियमसम्भवात् । यथा खलु शुक्तिसत्रिकर्षेण चक्षुषा कश्चिच्छुक्तिको प्रतिपद्यते कश्चिद्रनतम् । न चैतावता चक्षुषो ऽर्थप्रत्यायकत्वं न स्वाभाविकम् । तथा शब्दस्यापि शक्त्यनुसायेननुसारिव्युत्पत्तिलक्षणसहकारिवशादनियमपि स्वाभाविकश. क्तिसद्भावः सम्भवतीति । तदिदमाह । प्रत्यक्षवच्चेति । इया. विशेषः । शब्दः सङ्केतेनापि बोधको न प्रत्यक्षमिति । ननु स्वा. भाविक्रसम्बन्धग्राहकत्वेन सङ्केतावश्यकत्वे किं स्वाभाविकया शक्त्या । अथासति स्वाभाविके सम्बन्धे सङ्केतनियम एवं कथं स्यात् । सत्यम् । सर्गादिभुवा हि महर्षिदेवतानां परमेश्वरानुग्रहवतां परमेश्वरात्सङ्केतस्य मुशकत्वात् । तद्वयवहाराच्चान्येषामित्यमत्पर्यन्तं मुग्रहः सङ्केतः । न चैवं साध्वसाधुविभा
Page #255
--------------------------------------------------------------------------
________________
शक्तिनिर्णया। गो न स्यादिति वाच्यम् । यत परमेश्वरसङ्केतः स साधुरित्यभ्युपगमादिति चेत् । अत्र ब्रूमः । परमतेपीश्वरसङ्केतएवाङ्गमस्मदादीनामपि वा । आये कथमार्यम्लेच्छानामनियमो बोधकता. याम् । तत्रेश्वरसङ्केतस्याभावात् । किं वैश्वरसङ्केतोपि गृहीत एवाङ्गम् । अन्यथा व्युत्पन्नानां बोधापत्तेः । ग्रहश्चास्मदादिव्य. वहारात्तया चास्मदाद्यपदेश एवं शक्तिः, किमीश्वरसङ्केतकल्पनया । इदानीन्तनसङ्केनेनेश्वरसङ्केतो ज्ञाप्यतइति चे, त. स्मिन्मतेपि स्वाभाविकः सम्बधो ज्ञाप्यतइति तुल्यम् । द्वितीये, पदार्थोपस्थितिमात्रस्य प्रयोजनत्वात्साध्वसाधुविभागार्थकं व्याकरणादि व्यमिति । औत्पत्तिकसम्बन्धे एव किं मानमिति चेत् । अधुनातनो न सङ्केतयिता । लोकोत्तरे च न मानमित्यतोन्यथानुपपत्तिरेव । तस्मादीश्वरसङ्केतो न शक्तिरिति वद. न्ति । तन्तुच्छम् । क चित्सङ्केतस्य क चिच्छतानं कारणमि. ति व्यभिचारादेकस्यापि तत्तथा न स्यात् । अस्माकं पुनः स.. बेतत्वरूपेणैव तद् ज्ञानं हेतुः। तच्चेश्वरसङ्केतसाधारणम् ।न चास्मदादीनामेव स तथास्तु । नियतशक्तिसाधुत्वाद्यनुरोधेन भ. गवत एव तत्कल्पनात् । सृष्टयादिव्यवहारे त्वयापि तस्य सक्तिग्राहकत्वेनाभ्युपेतव्यत्वात् । उभयासिद्धेश्वरेच्छां त्यत्कातिरिक्तकल्पने गौरवाच्च । तादृशेश्वरसङ्केतितत्वं च साधुत्वम् । तत्परिच्छेदकं च व्याकरणकोशादिकमिति न तद्वैयर्यम् । एवं च सर्वथाप्यतिरिक्तपदार्थान्तरकल्पनमयुक्तमिति संक्षेपः । तस्मादीश्वरेच्छैच शक्तिरिति नैयायिकानुसारिणः । रादान्तस्तु न तावत्सङ्केतः शक्तिः। ईश्वरादेः सङ्केतमज्ञात्वापि मीमांसकादीनामर्थप्रत्ययेन तद्भानकारणतायां व्यभिचारात् । स्वरूपसने व स हेतुरिति चेन्न । अगृहीतशक्तिकादपि बोधापत्तेः । अप
Page #256
--------------------------------------------------------------------------
________________
२४२
वैयाकरणभूषणे भ्रंशादपि बोधेन व्याभिचाराच्च । न च शक्तिभ्रमात्साधुश. ब्दस्मरणाद्वा तत्र बोधः । अनुपदमेव खण्डयिष्यमाणत्वात् । एवं लौकिकानां गवादिपदे तत्तदर्थबोधजनकत्वग्रहानन्तरमेव बोधदर्शनात्सङ्केतत्वादिरूपेणापि तज्ज्ञानकारणतायां व्यभिचार एव । एवं चार्थधीजनकत्वमेव पदस्य शक्तिः । यन्तु धीजनकत्वं तद्योग्यता । सा च तदवच्छेदकधर्मवन्त्वम् । स च क्लप्तत्वा. दीश्वरसङ्केत एव । अक्लृप्तकल्पनायां गौरवात् । तथापि पदस्यार्थधीजनकत्वं ज्ञाप्यसम्बन्धं विनानुपपन्नं सम्बन्धत्वेन क्लृप्तत्वात्तामेव कल्पयति । यद्यपि सङ्केतत्वेन तज्ज्ञानं न कारणं व्यभिचारात् । तथापि तद्धीजनकतावच्छेदकत्वेनैव वाच्यम्। न चेतोपि लाघवात्तद्धीजनकत्वेनैव तज्ज्ञानं कारणम् । आधुनिके देवदत्तादौ सङ्केतज्ञानादेव बोधेन व्यभिचारात् । न चात्रापि विशेषणतया तद्धीजनकत्वमवगाहतएवेति वाच्यम् । स्वातन्त्र्येण तज्ज्ञानस्यावश्यकत्वात् । अन्यथा नेदं तद्धीजनकमिति जा. नतो ऽस्माच्छब्दादयमों बुद्धानेनेति जानतस्तद्ग्रहापत्तेरिति । तत्तुच्छम् । तद्धीजनकतावच्छेदकत्वेन ज्ञानस्यार्थप्रतीतिहेतुत्वे गौरवात् । आधुनिकदेवदत्तापदिपदे इदं पदमेनमर्थ बोधयत्विति सङ्केताबोधस्थलेवच्छेदकत्वेन ज्ञानस्य व्यभिचाराच्च । ननु तवाप्यत्र व्यभिचार इत्युक्तामति चेत् । भ्रान्तोसि । विशेषणतया तद्धीजनकत्वस्य तत्रावगाहनात् । न च नेदामिति पूर्वोक्तदोषः । तत्र बाधेन तद्धीजनकत्वस्यानवगाहनात् । अन्यथा नेदं रजतमिति जानतो भ्रान्तिज्ञस्य पुरोवानि तुल्ययुक्तया र. जतत्वभाने भान्तत्वापत्तेरिति । के चित्त्वाधुनिकदेवदत्तादिपदस्थले तद्धीजनकत्वज्ञानमग्रे मानसं करप्यते ततो बोधः । ला. घवानुरोधात् । अत एव परमते परामर्शान्यथाख्यात्योः सिद्धि
Page #257
--------------------------------------------------------------------------
________________
२४३
शक्तिनिर्णयः। रिति बदन्ति । नम्वस्तु तावबोधकत्वज्ञानमेवार्थस्मरणहेतुः परं तु सर्वेषां पदानां लक्षणया शक्तिभूमाद्वा सकलबोधकत्वात्सर्वत्र सर्वेषां शक्त्यापत्तेरीश्वरेच्छा शक्तिरुच्यते । कारणं पुनरेतद् ज्ञानं न ब्रूम इति चेत्तथापि ईश्वरसङ्केतः शाब्दबोधहेतुपदार्थ. स्मरणहेतुज्ञानविषय इति सिद्धान्तोसङ्गत एव । शेषमुपरिष्टाद्वक्ष्यामः । तस्माद्बोधकत्वमेव शक्तिः । तच्च बोधजनकत्वामिन्द्रियादिवत् । अत एव कारणत्वं शक्तिरिति सिद्धान्तं स्फुटीकतुमेवेन्द्रियाणामिति वाक्यपदीयकारिकामुदाजहार ग्रन्थकारः । तथा स्मरणाभिमानप्रमोषखण्डने विवरणेप्युक्तम् । बोधजननसामर्थ्यमेव शब्दस्यार्थेन सम्बन्ध इति । एवमपभूशानां वाचकत्वविचारे शब्दकौस्तुभेप्युक्तम् । घटबोधजननसामर्थ्यमेव घटादिपदानां शक्तिरिति । तच्चातिरिक्तमनतिरिक्तं वेत्यन्यदेतत् । अथैवं लक्षणोच्छेदः । एवं व्यञ्जनावादे तदुच्छेदश्चोत चेत् । अत्रोच्यते । लाक्षणिकपि शक्तिरेव । शक्तिग्राहकस्य व्यवहा. रस्य मुख्यलाक्षणिकसाधारणत्वात् । अत एवं प्रायः सर्वे सर्वाC इति सिद्धान्तप्रवादः पदेन सति तात्पर्ये प्रायः सर्वेषां बो. धनात् । युक्तं चैतत् । अन्यथा प्रत्यक्षादिजन्योपस्थितेः शाब्दबोधानङ्गत्वाच्छाब्दबोध प्रति शक्तिजन्योपस्थितेलक्षणाजन्योपस्थितेश्च कारणत्वं वाच्यम् । तथा च कार्यकारणाभावद्वयकल्पने गौरवं स्यात् । अस्माकं पुनः शक्तिजन्योपस्थितित्वेनैव कार• णतेत्येक एव स इति लाघवम् । अपि च लक्षणात्तिस्वीकारे कार्यकारणभावस्य प्रत्येकं व्यभिचारः शक्तिजन्योपस्थिति वि. नापि लक्षणाजन्योपस्थितितः शाब्दबोधात् । न चाव्यवहितो. चरत्वसम्बन्धन तत्तदुपस्थितिमत्त्वं कार्यतावच्छेदकम् । तत्तदुपस्थितित्वं च कारणतावच्छेदकम् । अनन्तकार्यकारणभावप्रस
Page #258
--------------------------------------------------------------------------
________________
२४४
वैयाकरणभूषणे कात् । किं च । पदार्थोपस्थिति प्रत्यापि शक्तिज्ञानत्वेन लक्षणा ज्ञानत्वेन च हेतुतति व्यभिचारो गौरवं च पूर्ववदेवोति द्रष्टव्यम्। न चेदं पदमेतदर्थबोधजनकमित्यादिशक्तिज्ञानकार्यकारणभावकल्पनेपि पदतदर्थभेदेनानन्तकार्यकारणभावकल्पनं तवापि समानम् । परस्परं व्यभिचारवारणायाव्यवहितोत्तरत्वघटितत्वे च सुतरामिति वाच्यम् । शक्तिभ्रमानुरोधेन तत्तत्पदतत्तदर्थभे. देन तादृशकार्यकारणभावकल्पनागौरवस्य तवापि तुल्यत्वात् । लक्षणाज्ञानकार्यकारणभावकल्पनागौरवं पुनर्भवतामतिरिच्यते । अथ वृत्तिजन्योपस्थितित्वेनैव शाब्दबोधहेतुता वृत्तिज्ञानत्वेन च पदार्थोपस्थितिकारणतति नानेकतत्कल्पनागौरवमिति चेत् । वृत्तित्वं हि शक्तिलक्षणान्यतरत्वं शाब्दबोधहेतुपदार्थोपस्थित्यनुकूलपदपदार्थसम्बन्धत्वं वा न कारणतावच्छेदकं शक्तित्वमपेक्ष्य गौरवात् । शाब्दबोधहेतुतावच्छेदकस्य पदार्थोपस्थिति तेरज्ञानं तद्घाटितकार्यकारणभावग्रहस्याप्यसम्भवात् । किं च कार्यमेव कुत्र जायतां क नेत्यतिप्रसङ्गवारणार्थं तदवच्छेदकादरः तच्च कार्यस्यावच्छेदकत्वे न सङ्गच्छतइति । यत्तु शक्यसम्बन्धरूपलक्षणायां शक्तरपिप्रवेशान्ममापि पदार्थोपस्थितौ शक्तिज्ञानत्वेन शाब्दबोधे च शक्तिजन्योपस्थितित्वेनैव हेतुतति । तदश्रद्धेयम् । श. क्तिज्ञानपदार्थोपस्थित्योस्तत्कार्यकारणभावे समानविषयत्वस्याघश्यकत्वात् । अन्यथा घटमानयति वाक्यं हस्तिनं च समूहालम्बनविधया स्मरतो घटपदादिभ्यो घटादेः गजादस्तिपकस्य समूहालम्बनस्मरणे सति घटानयनवद्धस्तिपकस्यापि शाब्दबोधविषयतापत्तिः । समूहालम्बनरूपायां पदार्थोपस्थितौ वृ. तिजन्यत्वसत्त्वात् । किं चेह सहकारतरौ मधुरं पिको रौतीत्यादिप्रसिद्धपदसामानाधिकरण्याद्वयवहाराद्वा शक्तिग्रहस्थले प्रत्य
Page #259
--------------------------------------------------------------------------
________________
शक्तिनिर्णयः ।
शादिना जातिरूपाधिकरणानामपि शक्यग्रहे ग्रहात्पदात्स्मृतेस्ते. षां कदा चित्सर्वानुभवसिद्धौ तदा शाब्दबोधविषयतापत्तिः । इष्टापत्तौ घटत्वादेरप्यशक्यतापत्तिः सम्बन्धितावच्छेदकत्वेन नियतोपस्थितस्य नृत्यविषयत्वेपि शाब्दबोधविषयत्वोपपत्तेः; घटपदं घटे शक्तमिति जानतस्तादृशघटात्पदोपस्थितौ ततस्तादृशपदवानाकाश इति परम्परया आकाशोपस्थितेः शाब्दबोधावापत्तेश्च । नन्वेवं नाकाशस्य पदजन्योपस्थितौ शक्तिज्ञानोपयोगः पुत्रात्पितुरिव एकसम्बन्धिज्ञानाद परसम्बन्धिस्मरणमित्यन्यसाधारण्येनैव तदुपयोगादिति चे, चाहे गङ्गायामित्यत्रापि गङ्गापदाङ्गोपस्थितौ तया च तीरोपस्थितेः प्रत्यक्षादिसाधारण्यान शक्तिज्ञानोपयोग इति तुल्यम् । न च पदाच्छक्योपस्थितिस्ततो लक्ष्यबोध इति न ब्रूमः । किं त्वाहत्य पदमेव स्वशक्यसम्बन्धेन लक्ष्य बोधयतीति तत्र शक्तेः साक्षादेवोपयोग इति वाच्यम् । एवं हि स्वशक्ताश्रयत्वसम्बन्धेन पदादध्याकाशोपस्थितावतिप्रसङ्गाप सेरवारणादिति ध्येयम् । ननु शक्यसम्बन्धग्रहादेव तीरं यत्रोपस्थितं तत्र बोधस्य सर्वसिद्धत्वाल्लक्षणाज्ञानकार्यकारणभावकल्पने तवापि समानमिति न प्राक्तनगौरवाबकाशो, न वा शक्योपस्थितिपूर्वकतानियम इतिचे, न्मैवंम् । अस्मन्मते गङ्गापदाचीरंबोद्धव्यमिति वक्तुस्तात्पर्यज्ञाने एव ग वापदे तीरबोधकत्वस्य ग्रहात्तस्यैव चोक्तरीत्या शक्तित्वात्समानविषयक शक्तिज्ञानस्याबाधेनादोषात् । अथ वा तत्राप्यो बोधकत्वज्ञानम्, तत एव बोध इत्यस्तु । न च ज्ञानव्यत्रत्यन्तरकल्पना दोषाय । फलमुखत्वात् । वस्तुतः सुषुप्त्यपगमक्षणमारभ्य पुनस्तदुत्पत्तिक्षणपर्यन्तं प्रत्यक्षात्माविशेषगुणोत्पादोवश्यं वाच्यः भत एव सुषुप्त्यभिन्नमत्यात्मविशेषगुणशून्यः काल एव मू
२४५
Page #260
--------------------------------------------------------------------------
________________
२४६
वैपाकरणभूषणे छेत्युच्यते । तथा च तावत्कालमन्तराज्ञानाद्यावश्यकतया ज्ञानान्तरमपेक्ष्येदमेव करम्यते इति क्व गौरवामिति हि वदन्ति । ननु तवापि बोधकत्वरूपशक्त्यन्तरकल्पनागौरवं स्यादिति चे. मैवम् । गङ्गापदात्तीरोपस्थिती तत्र तद्बोधकत्वस्यावश्यकल्प्यत्वात् । किं च गङ्गापदं तीरे शक्तमिति ज्ञाने सति विना लक्ष: णाज्ञानं ततस्तीरोपस्थितिः सर्वसिद्धा । न चात्र तद्भमः । पदतदर्थघटितशक्तेमासम्भवात् । तस्माल्लाक्षणिके शक्तिस्वीकार आवश्यकः। एतेन शक्यसम्बन्धरूपा लक्षणा क्लृप्ता, तस्यां सम्बन्ध्यन्तरबोधजनकत्वमप्येकसम्बन्धीति न्यायात् क्लृप्तम् । तज्जन्यस्मृतेः शाब्दबोधोपयोगित्वमात्रं कल्प्यते त्वया तु श. क्तिवर्मी कल्पनीय इति गौरवम् । किं च । गङ्गापदजा तीरस्मृतिः शाब्दबोधोपयोगिनीति तवापि मतम् । तज्जनकत्वं शक्यसम्बन्धस्यैव कल्प्यते क्लप्तत्वात् । न च क्लप्सशक्तरिति निरस्तम् । उक्तरीत्या शक्तेरापि तत्रतत्र क्लप्तत्वात् । कार्यकारणभावकल्पनागौरवाच । यदि च शक्तिप्रयोज्यैवोपस्थितिहेतुरिति न लक्षणाज्ञानकार्यकारणभावान्तरं कल्प्यतइत्युच्यते तदा भवः तैव लक्षणा निरस्तेति सिद्ध नः समीहितम् । नहि शक्यसम्ब. न्धमेव लक्षणाखण्डकः खण्ड यति, न वा तस्य सम्बन्धत्वम् । किं तु पदपदार्थसम्बन्धत्वं तज्ज्ञानकार्यकारणभावं चेत्याद्यवधेयम् । ननु लक्षणाया अकल्पने सर्वेषां पदानां नानार्थत्वादक्षादि. पदवदर्थसन्देहः स्यात् । किं च । एवं हि लक्षणायां सर्वसि. द्धानुपपत्तिज्ञानवैयर्थ्यम् । अन्यायश्चानेकार्थत्वमिति न्यायविरोधश्चति चेन्न । यस्य नानार्थत्वज्ञानं नास्ति न तस्य सः । अपरस्य संशय इष्ट एव । अत एवाक्षादिपदस्थळे एकत्रैव श.. क्तिग्रहवतो न सन्देहः । अत एव गङ्गापदं तीरशक्तमिति व्यव
Page #261
--------------------------------------------------------------------------
________________
२४७
शक्तिनिर्णयः। हारापत्तिरित्यपास्तम् । परमतेपि लक्षणादिनार्थान्तरपातिपादनसंशयात्स्यादेव सः । प्रसिद्धयादिकं च समानम् । अन्वयानुपपसेस्तात्पर्यज्ञाने एवोपयोगः सर्वेषां नानार्थत्वाच्च तदावश्यकत्वात् । अन्यायश्चानेकार्थत्वं च लाघवमूलकम् । तच्च नेति प्रागेवोक्तम् । यत्तु अपभ्रंशे शक्तिनिरासार्थ पदार्थसम्बन्धत्व. रूपं प्रागुक्तरीत्या शक्तित्वं, एवं च लाक्षणिकस्थलेपीश्वरेच्छा. याः सम्बन्धत्वं कल्पनीयं शक्यसम्बन्धस्य च सम्बन्धत्वं क्लसमिति गौरवमेव तवेत्याहुः । तच्चिन्त्यम् । परमते शक्यसम्बन्ध रूपलक्षणाया इवेश्वरेच्छायाः क्लप्तत्वेन कल्पनीयत्वाभावात् । न च शक्तिः सम्बन्धिभेदाद्भिन्नेति गौरवम् । तवापि सम्बन्धानां नानात्वात् । न च क्लप्तेश्वरेच्छा अस्माच्छब्दादयमों बो. द्धव्य इत्येवंरूपा न क्लुप्तेति वाच्यम् । सन्मात्रविषयिण्यास्तस्यास्तादृश्या अप्यावश्यकत्वात् । न चेच्छायाः क्लृप्तत्वपि स. म्बन्धकत्वं कल्पनीयमिति गौरवमेवेति वाच्यम् । अपभ्रंशेपि शक्तिग्रहादोधानुरोधेन तथा कल्पनावश्यकत्वात् । वक्ष्यते चैतदुपरिधात् । अस्मद्रीत्या चेच्छायाः शक्तित्वमेव नेति प्रागुक्त. रीत्येदमसङ्गतमेवेत्यादि सुधीभिर्येयम् । तस्मायनान्यत्र साधोस्तद्वृत्तिगुणसजातीयगुणवोधनायाप्रसिद्ध तत्प्रयोगस्तत्र लक्षणे. ति व्यवहार इति ध्येयम् । उक्तं हि वाक्यपदीये । “एकमा. हुरनेकार्थ शब्दमन्ये परीक्षकाः । निमित्तभेदात्सर्वत्र सार्थ्य तस्य भिद्यते ॥ योगपद्यमतिक्रम्य पर्यायेष्ववतिष्ठते । अर्थप्रकरणाभ्यां वा योगाच्छन्दान्तरेण वा ॥ यथा सास्नादिमान्पिण्डो गोशब्देनाभिधीयते । तथा स एव गोशब्दो वाहीकेपि व्यव. स्थितः ॥ सर्वशक्तेस्तु तस्यैव शब्दस्यानेकर्मिणः । प्रसिद्धिः त्यागागौणत्वं मुख्यत्वं वोपजायते” इति ॥ तस्माद्बोधकत्वं श
Page #262
--------------------------------------------------------------------------
________________
वैयाकरणपणे क्तिरिति मते न कश्चिदोष इति सिद्धम् ॥ ३७॥ :
नन्वेवं भाषादितोषि बोधदर्शनात्तत्रापि शक्तिस्वीकार आवश्यकः । न च शक्तिभूमात्ततो बोधो, मानाभावात् । न च तस्परिच्छेदककोशायभाव एक बाधकः। कोशस्येव वृद्धव्यवहारस्य सर्वेषामुपजीव्यत्वेन मुख्यस्य तत्र सत्वात् । कोशादीनां व्याकरणसिद्धसाधुत्वमात्रबोधकताया वक्ष्यमाणत्वाच । तथा च शक्तिमत्त्वाविशेषागाव्यादिशब्दानां साधुतापत्तिरिति चेत् । अत्र नैयायिकादीनां समाधिमाह प्रथमार्धेन ॥ असाधुरनुमानेन वाचकः कैश्विदिष्यते । वाचकत्वाविशेषे वा नियमः पुण्यपापयोः ॥३०॥ असाधुर्गाव्यादिः । अनुमानेन, साधुस्मरणाच्छक्तिभूमादा । कैश्चिन्नैयायिकादिभि, रुच्यते नातः साधुरिति शेषः । अयं भावः । संस्कृते एत्र शक्तिः कल्पकस्य व्यवहारादेस्तुल्यस्वेपि भाषाणां तत्तदेशभेदेन नानासान शक्तिः । न च नानार्थन्यायेनैकस्याप्यनेके वाचकाः स्युः । अन्यथा पर्यायो. च्छेदश्च स्यादिति वाच्यम् । तत्र क शक्तिः क लक्षणेत्यत्र विनिगमकाभावात् । अन्यत्राप्यशक्तत्वेन लक्षणाया अप्यसम्भवात् । अत्र च संस्कृतस्य सर्वदेशे एकत्वात्तत्रैव शक्तिः । भाषाणां च प्रतिदेशं भिन्नत्वात्संस्कृतैः सह पर्यायतापत्तेश्च न शक्तिः । न चापभूशाबोधो न स्यादिति वाच्यम् । व्युत्पन्न स्य साधशब्दस्मरणाद्वोधोपपत्तेः । उक्तं हि वाक्यपदीये आ. गमसमुच्चयकाण्डशेषे । “ ते साधुष्वनुमानेन प्रत्ययोत्पत्तिहेतकः । तादात्म्यमुपगम्येव शब्दार्थस्य प्रकाशकाः ॥ न शिष्टैरनुः गम्यन्ते पर्याया इव साधकः । न यतः स्मृतिशास्त्रेण तस्मात्सा
Page #263
--------------------------------------------------------------------------
________________
शक्तिनिर्णयः। क्षादवाचकाः ॥ अम्बाम्बोति यदा बालः शिक्ष्यमाणः प्रभाषते । अव्यक्तं तद्विदां तेन व्यक्ते भवति निर्णयः॥ एवं साधौ प्रयोक्तव्ये योपभ्रंशः प्रयुज्यते। तेन साधुव्यवहितः कश्चिदर्थोभिधीयते " इति ॥ अव्युत्पन्नस्य शक्तिभूमादेव बोधः । न च पामराणां शक्त्यग्रहे कथं तद्भूमः । पूर्वपूर्वभूमादुत्तरोत्तरभूमोपपतेः । प्रथमतस्तु व्युत्पमोपभ्रंशात्साधुशब्दं बुध्वा व्यवहृतवान् । तन्मूलकः शक्तिभूमोन्येषामिति । इत्थं च संस्कृते एव शक्तिसिदौ शक्यसम्बन्धरूपत्तेरपि तत्रैव भावात्तत्वं साधुत्वम् । तद्विषया एव साधुभिर्भाषितव्यमित्यादयो विधयः । तथा च नातिप्रसङ्ग इति । एतज्ज्ञानं शाब्दबोधकारणम् । ग्राम गाम इत्यादावन्वयाबोधादिति सम्प्रदायः । वस्तुतो वृत्तिमत्त्वं न साधुत्वम् । सङ्केतत्वाद्यज्ञानपि साधुत्वव्यवहारात् । समासादौ सा. धुशब्दे सङ्केतादिसत्त्वे सङ्केतस्यैव शक्तित्वेन शक्त्यापत्तेश्च । प्रकृतिप्रत्ययसमुदायस्यासङ्केतितत्वेनासाधुत्वापत्तेश्च । सङ्केतितत्त्वे च शक्त्यापत्तेः । प्रत्येकशक्तिमादाय साधुत्वे च बाधत. इत्यादिवद्वापतीत्यस्यापि साधुतापत्तेः । तस्मान्न सङ्केतितत्व. घटितं साधुत्वम् । किं तु व्याकरणनिष्पाद्यत्वम् । यत्र यः शब्दो व्याकरणे व्युत्पादितः स तत्र साधुः डित्थादिनाम्नामप्युणादयोबहुलंमित्यनेन व्युत्पादनसम्भवान्नानुपपन्नम् । एवं नान्तरीयकादिशब्दानामपि । एवं साधुत्वज्ञानकारणमित्यप्ययुक्तम् । अवयवादिव्युत्पन्नेन पूर्वप्रयोगमज्ञात्वापि ननकादिप्रयोगात् । कि त्वसाधुत्वनिश्चयः प्रतिबन्धकः । नातो ग्राम गामादावन्वयबोधः । अत एव साधोरप्यसाधुत्वनिश्चयेन बो. धः । एवं च गाव्यादेरसाधुत्वज्ञानरूपप्रतिबन्धकसत्त्वान्न बोधकत्वमिति साधुस्मरणाच्छक्तिभूमाद्वा तद्वाच्यामिति तु नवीनाः ।
Page #264
--------------------------------------------------------------------------
________________
२५०
वैयाकरणभूषणे अत्रोच्यते । अपभ्रंशानामबोधकत्वे ततो बोध एव न स्यात् । न च साधुस्मरणाद्वोधः । तमविदुषां जायमानत्वात् । तस्मादज्ञायमानत्वाच्च । उक्तं हि वाक्यपदीये । “ पारम्पर्यादपभ्रंशा विगुणेष्वभिधातृषु । प्रसिद्धिमागता येन तेषां साधुरवाचकः॥ दैवी वाग्व्यवीर्णयमशक्तैरभिधाताभिः॥अनित्यदर्शिनां त्वस्मिन्वादे बुद्धिविपर्यय" इति ॥ अवाचकः । अबोधकः । बोधकस्वस्यवोक्तरीत्या शक्तित्वादिति भावः । भनित्यदार्शनां बुद्धिविपर्ययः । एते एव वाचकाः नान्ये इति विपर्यय इत्यर्थः । नापि शक्तिभूमात्ततो बोधः । बोधकत्वस्याबाधेन तज्ज्ञानस्याभूमत्वात् । ईश्वरेच्छावादेप्युक्तरीत्या पदपदार्थघटितं तद्वाच्यं तच्च विशेषदर्शनान भ्रमयोग्यम् । अत एव तत्तत्पदार्थघटितव्याप्तेन भूम इति तत्रतत्रोक्तम् । न च गगरीशब्दावटो बोध्य इत्ये. ताशेच्छायाः क्लुप्माया अपि न सम्बन्धत्वमिति तदंशे भूमो वा. च्य इति वाच्यम् । तादृशेच्छायाः सत्त्वे तेन सम्बन्धेन स. म्बन्धित्वादपरोपस्थितौ तस्याः सम्बन्धत्वस्य दुवारत्वात् । अ. न्यत्र क्लप्तसम्बन्धत्वस्य तस्मिन्नपि सत्त्वात् । किं च । वि. निगमनाविरहाद्भाषायामपि शक्तिः । न चोक्तं गौरवं संस्कृतवन्म: हाराष्ट्रभाषायां शक्तेर्दुष्परिहरत्वात् । तस्याः सर्वदेशे एवैकत्वात् । एतेन भाषान्तरैर्विनिगमनाविरहानैकत्र शक्तिरिति परा. स्तम् । संस्कृतपि प्रत्येकं विनिगमनाविरहात् । किं च न सं. स्कृतत्वं न वा भाषात्वं शक्तयवच्छेदकं किं त्वानुपूर्वी सा च भिन्नभिन्नैव सर्वत्रेति घटकलशादिपर्यायेष्विव नैकेनापरान्यथासिद्धिरिति भाषायां शक्तिरेव । अत एव काव्यप्रकाशकारेण पाच्यस्य व्यञ्जकत्वे प्राकृतोदाहरणमलेखीत्यपि वदन्ति । ए. , सदाभप्रायेणेव भाषाशब्दाना शक्तिरिति शब्दकौस्तुभे निर्णी.
Page #265
--------------------------------------------------------------------------
________________
शक्तिनिर्णयः ।
1
तम् । अम्लेच्छाधिकरणे भद्वैरप्युक्तम् । " प्रतिपादकतामात्रं म्लेच्छेष्वप्यवगम्यते" इति । एवं नासाधुत्वनिश्चयः प्रतिबन्धकः । तत्सत्वेपि संस्कृतमविदुषां प्राकृतादेर्बोधात् । न चात्र मानसो बोधः । अन्यत्रापि तथात्वापचेः । शब्दप्रामाण्योच्छेदप्रस ङ्गात् । तस्मात्परोक्तसमाधिर्न युक्त इत्याशयेनाह । वाचकत्वाविशेषे बेत्यादि । अथैवं भाषाशब्दानामर्थवत्त्वात्माविपदिकसंज्ञा किं न स्यात् । स्यादेव, को दोषः इति चे, तथा सति प्रातिप दिकत्वात्सुबुत्पत्तौ व्याकरणव्युत्पाद्यत्वात्साधुत्वप्रसङ्ग इति चेत् । वार्त्तमेतत् । "सिद्धे शब्दार्थसम्बन्धे लोकतोर्थप्रयुक्ते शब्दमयोगे शास्त्रेण धर्मनियमो यथा लौकिकवैदिकेषु" इति वार्त्तिकेनैव निरस्तत्वात् । लोकतोर्थबोधार्थ प्रयुक्ते शब्दे इति व्याख्यानात् । नहि प्रकृतिप्रत्ययसमूहरूपेण वचन्तीत्यादिवद्भाषाशब्दानां प्र योगः । एतन्मूलकमवानभिधान भवतीत्यादिकम् । किं चैवं भाषाशब्दानां तसर्थे व्युत्पादनविरहान साधुत्वमित्यादि सर्वमभिप्रेत्याह । नियम इति । अत्रेदं तत्वम् । यः शब्दो यत्रार्थे व्याकरणे व्युत्पमः स तत्र साधुः । अपभूशास्तु न तत्तदर्थे व्युत्पनाः नातः साधवः, देवदत्तादिनाम्नामप्युणादयो बहुलमित्यनेन द्वयक्षरं चतुरक्षरं स्पर्शमध्यमिति भाष्येण वा साधुत्वबोधनात् । अत एवार्थच्छक्तिपरिच्छेदः पररीत्या, एतद्बोधार्थमेव कोशादिप्रणयनम् । न च लाक्षणिकानां तत्तदर्थे व्युत्पादनविरहात्तेषामसाधुतापत्तिः । गुणवाचकानां गुणे व्युत्पादनाद् गौणस्थळे त त्पुरस्कारेण प्रवृत्तावनुपपत्यभावात् । एवं च विशिष्टवाचकानामेकदेशपुरस्कारेण प्रवृत्तौ लक्षणापरिभाषा, आधुनिकानां त्वसाधुत्वमिष्टमेव । अन्यथा न गृहीतमित्यर्थे लक्षणया गृहीतमित्युक्ते कूटसाक्ष्यत्वानापतेः । अत एव गाव्यादीनामनुकरणे व्युत्पाद
२५१
Page #266
--------------------------------------------------------------------------
________________
२५२
वैयाकरणभूषणे नात्तत्र साधुत्वमेव । यदि च यत्र व चिद्वयत्पादितस्य सर्वत्र साधुता स्यात्तर्हि सर्वेषामनुकरणे तथात्वात्सर्वत्र साधुत्वे साध्वसाधुविभागोच्छेदः स्यात् । पररीत्या गाच्यादीनामशक्तत्वालक्षणायभावेनुकरणेपि तन्न स्यात् । तत्रैव शक्तो लक्षणया ग. वादौ साधुः स्यादिति तत्तदर्थविशेष एव तद्वाच्यम् । उक्तं हि वाक्यपदीये । शब्दसंस्कारहीनो यो गौरिति प्रयुयुक्षते । तमपभुशमिच्छन्ति विशिष्टार्थनिवेशिनः ॥ यथा गोण्यादयः शब्दाः साधवो विषयान्तरे । निमित्तभेदात्सर्वत्र साधुत्वं च व्यवस्थित". मिति ॥ ननु व्याकरणव्युत्पाद्यत्वमस्तु साधुत्वं तथापि तज्ज्ञानस्य शाब्दबुद्धिहेतुत्वस्य तद्व्यतिरेकनिश्चयस्य शाब्दप्रतिबन्धकत्वस्य वा पूर्व भवतैव निरस्तत्वाव्यर्थस्तद्विचार इत्यत आह । नियम इति । 'साधुभिर्भाषितव्यम्' 'नापyशितवै न म्लच्छितवै' इत्यादौ पुण्यपापजननात्साध्वसाधुविधिप्रतिषेधविषयज्ञापनमेव तज्ज्ञापनफलमिति भावः । एतच्च याझे कर्माण। न म्ळेच्छितवा इत्यस्य ऋतुप्रकरणे पाठादिति भाष्यकाराः । नन्वेवं सति दर्शपूर्णमासप्रकरणे नानृतं वदेदिति निषेधात्तत्र तद्विकृतिषु च न म्लेच्छितवै इत्यतः सोमादौ च तन्निषधप्राप्तेरनारभ्याधीतनिषेधान्तरानर्थक्यं स्यादिति चेन्न । पुरुषार्थक्रत्वर्थ भेदे. नोभयोरुपपत्तेः । ननु किमत्र पुण्यजनकतावच्छेदकं जातिरिति चे,त्तहि गोशब्दोश्वपि साधुः स्यात् । नहि गौः कं चित्प्रत्येव गौरिति चेन्न । राजसूयादेब्राह्मणफलाजनकत्ववदेतस्याविशेषे प्रयुक्तस्यैव पुण्यजनकत्वात् । एतनिर्णायकं च व्याकरणकोशादिकमिति संक्षेप इति प्रतिभातीति दिक् ॥ ३८ ॥
अतिरिक्त शक्तर्ग्रहोपायमाह ॥ सम्बन्धिशब्दे सम्बन्धो योग्यतां प्रति योग्यता ।
Page #267
--------------------------------------------------------------------------
________________
नअर्थनिर्णयः।
२५३ समयाद्योग्यतासंविन्मातापित्रादियोग्यवत् ३९
सम्बन्धो विषयः। योग्यता प्रति योग्यताशन्दं प्रति योग्यता विषयः, इति समयात् व्यवहारात् । योग्यतासंवित्, शक्तिग्रहः । अयं भावः । सा शक्तिरयं शब्द एतदर्थसम्बन्धी एतद्बोधनयोग्य इत्यादिव्यवहाराद्राशा । प्राथमिकशक्तिय. हस्य व्यवहाराधीनत्वात् । प्राथमिकयोग्यतादिपदानां तद्रहे सति स्थलान्तरे अनेन प्रकारेण सा ग्राह्येति । तत्र दृष्टान्तमाह । मातापित्रादीति । तद्यथा लोकव्यवहारात्तथेदमपि इति भावः ॥ ३९ ॥ इति वैयाकरणभूषणे शक्तिनिर्णयः समाप्तः ।
नबर्थमाह ॥ नभ्समासे चापरस्य प्राधान्यात्सर्वनामता । आरोपितत्वं तन्धोत्यं नासोप्यतिसर्ववत् ॥४०॥
नसमासे । अब्राह्मण इत्यादौ । अपरस्य उत्तरपदार्थस्य प्राधान्यात्सर्वनामता । असर्व इत्यादौ । अत भारोपितत्वं न. ब्योत्यम् । द्योत्यत्वोक्तिनिपातानां द्योतकत्वाभिप्रायेण । आरोपितत्वमारोपविषयत्वम् । आरोपमात्रमर्थो विषयत्वं च संसर्ग इति नव्याः । इदमुक्तं भवति । आरोपितत्वमेव नयर्थः । अ. भावस्य तदर्थत्वे च तस्य विशेष्यत्वेनैव भानस्य सर्वसिद्धत्वाअनर्थस्य विशेष्यत्वं स्यात् । तथा चासर्वस्मै इत्यादौ सर्वनामकार्यानापत्तिः । गौणत्वे तनिषेधात् । इतरपदार्थविशेषणत्वेनोपस्थापितार्थकत्वं हि गौणत्वम् । तच्च तत्रायातं, अभावे प्रतियोगिनो विशेषणत्वात् । आरोपितत्वं च विशेषणमेवेति न
Page #268
--------------------------------------------------------------------------
________________
१५
वैयाकरणभूषणे
दोषः । किं चाभावार्थकत्वे अविध्वमित्यादौ परत्वादव्ययीभावं बाधित्वा तत्पुरुषत्वमेव स्यात् । नन्वस्तु गौणत्वेपि सर्वनामकार्यमत आह । नहि इति । तथा चातिसर्वपदे सर्वनामका - र्यापत्तिरिति भावः । सर्वादीनि सर्वनामानीति महासंज्ञाकरणमिह लिङ्गम् । इत्थं च वायौ रूपं नास्तीत्यत्र रूपाश्रिता आरोपिता सत्ता बायौ इति बोधः । पीतः शंखो नास्तीत्यत्र चारोपिता पीतशंख सत्तेत्यादि । ननु विशिष्टसत्ताया अप्रसिद्धेः कथमारोप इति चेन्न । घटादिस्थसत्तायास्तदधिकरणस्य रूपाणां च प्रसिद्धेः । विशिष्टमप्रसिद्धमिति चेन्न । विशिष्टं तावन्तः पदार्था एव ते च प्रसिद्धाः । मेलनाप्रसिद्धिश्वामयोजिका । अत एव तत्र शक्तिग्रहासम्भवेन बोधाभावापत्तिः परास्ता । अस्तु वा विशिष्टमप्रसिद्धम् । तथाप्याहार्या प्रतियोगिप्रसिद्धिः सम्भवत्येव । प्रतियोगिज्ञानस्याभावधी हेतुत्वेनाहर्यत्वं न प्रवेश्यते । गौरवात् । ससम्बन्धिकपदार्थप्रत्यक्षेपि सम्बन्धितावच्छेदकमकारका हानाहार्यसाधारणज्ञानत्वेनैव हेतुता । आहार्यज्ञानादाहार्य एव स इत्यनेनैवातिप्रसङ्गभङ्गात् । विशेषणतावच्छेदकप्रकारकज्ञानकारणतैव प्रतियोगिज्ञानकारणतेति पक्षेप्याहार्यज्ञानादप्याहार्यविशिष्टवैशिष्ट्यबोधः । तथा चात्र प्रतियोगिज्ञानसम्भवान्नानुपपत्तिः । न चैवमपि तत्र शक्तिग्रहाभावे कथं शा ब्दबोध इति शक्यम् । आरोपितत्वं शक्यमिति मते तत्र श क्तिग्रहस्यान्यत्रेव सम्भवात् । अत एव शशविषाणजन्यं कार्मु कं नास्तीत्यादौ शशविषाणजन्यकार्मुकनिरूपिता आरोपिता सत्ता इत्यादिबोधः । एतन्मते चार्थिकं घटो नास्तीत्यभावज्ञानमादाय नञर्थविशेष्यको बोध इति व्यवहारः प्रतियोगिज्ञानप्रतिबन्धादिकं च सङ्गमनीयम् ॥ ४० ॥
1
Page #269
--------------------------------------------------------------------------
________________
नयर्थनिर्णयः। अथाभावस्य नजवाच्यत्वे घटो नास्तीति शब्दादभावबुद्धि. ने स्यात्तथा च घटवत्ताज्ञानप्रतिबन्धादिकं न स्यात् । न चाग्रे तज्ज्ञानं जायतइति वाच्यम् । नियमतस्तज्ज्ञापकाभावात् । आ. रोपितत्वज्ञानमेव तथेति चेन्न । प्रत्यक्ष व्यभिचारेण तज्ज्ञानस्य तत्राजनकत्वात् । न चारोपितत्वज्ञानमप्यारोप एव प्रतियोग्यपिकरणसंसर्गज्ञानस्यैव तत्वात् । तथा च स एव हेतुः प्रत्यक्षान्तरेष्विवेति वाच्यम् । आरोपस्याभावबुद्धावहेतुत्वात् । न चेदमिदं न, नेदमिहेत्यनुभवसिद्धं तदिति वाच्यम् । द्वितीयेदमः सर्वत्रा. भावेनैव सहान्वयात् । अथ कदाचिदत्यन्ताभावस्य कदाचिदन्यो. न्याभावस्य बोधात्तत्र नियामकः संसर्गारोपस्तादात्म्यारोपश्च वा. च्य इति चेन्न। संसर्गारोपनियामकस्यैवात्यन्ताभावबोधनियामक त्वसम्भवात् सर्वदाप्यभावद्वयं बुध्यतएव । व्यवजिहीर्षावशात् व्यवहारकादाचित्कत्वमित्युपपत्तश्च । अत एवारोपितरजतत्वायामेबशुक्तौ नेदं रजतमिति रजतत्वाभावः प्रतीयतइति लीलावत्युपायोक्तमपास्तम् । यतु प्रतियोग्यारोपस्याभावप्रमायां गुणत्वेन हेतुत्वात्सर्वत्रैव स हेतुरिति । तन्न । प्रमाया गुणजन्यत्वे मा. नाभावात् । भावे वा, अभावसत्रिकर्षादेरेव तथावाद । प्रमात्वस्य कार्यतानवच्छेदकत्वाच्च । अथ नेत्येव प्रत्यक्षापत्तिः। सभिकर्षसत्वादिति तनिवृत्तये तद्ज्ञानं हेतुः । न च प्रतियोगितावच्छेदकसम्बन्धन प्रतियोगितावच्छेदकावच्छिन्नप्रतियोगिता कारकाभावविषय चाक्षुषे स्वप्रतियोगितावच्छेदकप्रकारको निथयः कारणमित्यस्य निर्विकल्पकात् घटाभावधीवारणार्थमावश्यकत्वे तत एवोक्तदोषापगम इति वाच्यम् । एतन्मते तत्का. र्यकारणभावास्वीकारात् । आरोपे सति तद्वयतिरेकेण कार्यव्यतिरेकादर्शनादिति चेन । भवतां निःप्रकारकघट इतिमत्य ..
Page #270
--------------------------------------------------------------------------
________________
२५६ ।
बैयाकरणभूषणे क्षस्येव तस्याप्यभ्युपगमे बाधकाभावात् । इदं त्वादिना तमआदेर्भानस्य सर्वसिदत्वाच्च । वस्तुतो निष्प्रकारकमभावप्रत्यक्ष यदि नानुभवसिद्धम्, अस्तु तर्हि तत्र सप्रकारकज्ञानत्वेनैव कारणता । इत्थं च सर्वत्र विशिष्टबुद्धिसामग्री मुलभैवेति न नेति प्रत्यक्षम् । संशयोत्तराभावप्रत्यक्षे च धर्मितावच्छेदकावच्छिन्नाभावविषयकत्वम् । यदि चोपस्थितविशेषणस्यासंसर्गग्रहस्तदापि धर्मितावच्छेदकानियन्त्रिततद्विशिष्टबोधे न बाधकम् । एवं च नोक्तो गुरुः कार्यकरणभाव इति त्वस्मद्गुरवः । तस्मानारोपः कारणम् । अस्तु वा तथापि न शब्दे । केवलं न नेत्यत्राभावबोधस्य भाष्यकारैरुक्तत्वात् । निषेधपदादिना त. द्वोधाच । अस्तु वा शाब्दे स हेतुस्तथापि न तद्वोधोनुभविकानाम् । अभावबोधस्यैव सर्वसिद्धत्वात् । न चोक्ता युक्तियुक्ता । सर्वनामसंज्ञाया एतत्तदोरति ज्ञापकादेव सिद्धेः। अन्यथा ऽस: शिव इत्यादौ प्राप्तरेवाभावात् । अकोरित्यकसहितव्यावृत्त्या सर्वनाम्न एव प्राप्तेः । अविघ्नमित्यादावव्ययीभावस्तु तत्पुरुषा. व्ययीभावयोर्वैकल्पिकत्वान्नानुपपन्नः। “रक्षोहागमलध्वसन्देहाः प्रयोजनम्" "अद्भुतायामसंहित" मिति भाष्यवार्तिकाभ्यां विकल्पाभ्युपगमात् । तस्मादभाव एव नअर्थ इत्याशयवान्स्वमतमाह ॥
अभावो वा तदर्थोस्तु भाष्यस्य हि तदाशयात् । विशेषणं विशेष्यो वा न्यायतस्त्ववधार्यताम् ४१ __ भाष्यस्य हीति । तथा च नसूत्रे भाष्यम् । निवृत्तपदार्थक इति । निवृत्तः पदार्थो मुख्यं ब्राह्मण्यं यस्मिन्स क्षत्रिया+दिरर्थः । सादृश्यादिनाध्यारोपितब्राह्मण्या नन्द्योतिततदवस्थ
Page #271
--------------------------------------------------------------------------
________________
नबर्थनिर्णयः।
२५७ इत्यर्थ इति कैयटो न्याचख्यौ । तम साधीयः । आरोपितबा. ह्मण्यस्य क्षत्रियादेनश्वाच्यत्वात् । अन्यथा सादृश्यादेरपि वाच्यतापत्तेः । तस्मानिवृत्तं पदार्थो यस्य नपुंसकेभावक्तइति भावे क्तः । अभावार्थक इत्ययः । विशेषणमिति । प्रतियोगिनीति शेषः । अन्यथा अत्वं भवसि अनहं भवामीत्यादौ पुरुषव्यवस्था न स्यात् । त्वदभावो मदभाव इतिवदभावांशे युष्मदस्मदोरन्वयेन तिक्षु युष्मत्सामानाधिकरण्याभावात् । अस्मन्मते च भेदप्रतियोगित्वदभिन्नाश्रय इत्याधुष्मत्सामानाधिकरण्यम् । अपि चैवं सेव्यतेनेकया सन्नतापाङ्गया अनेकमन्यपदार्थे इत्यादावेकवचननियमः । अब्राह्मण इत्यादावुत्तरपदार्थप्राधान्यात्तत्पुरुषत्वं चोपपद्यतइति भावः । विशेष्यो वेति । अयं भावः । घटो नास्तीत्यत्र घटाभिन्नाश्रयकास्तित्वाभाव इति बो. धस्यानुभवसिद्धत्वात्तस्य विशेष्यतैत्र युक्ता । अत्वं भवसीत्या. दौ च युष्मदस्तद्भिन्ने लक्षणा, नन्द्योतकः । तथा च भिन्नेन युष्मदर्थेन तिङः सामानाधिकरण्यात्पुरुषव्यवस्था । त्वद्भिन्नायिका भवनक्रियति शाब्दबोधः । एवं न पचसीत्यत्र त्वद्भिन्नाश्रायकपाकानुकूलभावना भाव इति बोधः । असमस्तनः क्रियान्वयात् । अनेकमन्यपदार्थे इत्यत्रैक. वचनं विशेष्यानुरोधात् । सुबामन्त्रितइत्यतोनुवर्तमानं सुग्रहणं विशेष्यमेकवचनान्तमेव । किं चानेकशब्दाद् द्विवचनोपादाने बहूनां बहुवचनोपादाने द्वयोर्बहुव्रीहिर्न सिद्धयेदित्युभयसंग्रहायकवचनं जात्यभिप्रायमौत्सर्गिकं वा । सेव्यते ऽनेकयेत्यत्रापि योषयेति विशेष्यानुरोधात्प्रत्येक सेवनान्वयानुरोधाच्चैकवचनम् । अत एव पतन्त्यनेकेजलधेरिवोर्मय इत्यादि सूपपादमिति सं. क्षेपः ॥ ४१ ॥
Page #272
--------------------------------------------------------------------------
________________
२५८ वैयाकरणभूषणे _इति वैयाकगरभूषणे नअर्थनिर्णयः ॥
प्रादयो द्योतकाश्चादयस्तु वाचका इति न्यायमते स्थितं वै. षम्यमयुक्तं युक्तिसाम्यादिति ध्वनयन् निपातानां द्योतकत्वं समर्थयते ॥
योतकाः प्रादयो येन निपाताश्चादयस्तथा । उपास्येते हारहरौ लकारो दृश्यते यथा ॥ ४२ ॥
परेण उपसर्गाणां द्योतकत्वस्वीकारात्तत्सम्मतं दृष्टान्तमाह। तयेति । अयं भावः। प्रजयतीत्यत्र प्रकृष्टो जयः प्रतीयते । सच नोपसर्गवाच्यः। एवं हि तस्याप्रकृत्यर्थत्वापत्तौ तत्राख्यातार्थकत्यन्वयो न स्यात् । प्रत्ययानां प्रकृत्यान्वितस्वार्थबोधकत्वव्यु. पत्तेः । न च जयमात्रं धात्वर्थः प्रकर्षः प्रशब्दार्थ इति वाच्यमें । तथापि तस्य धात्वर्थेन्वपासम्भवात् । अभेदातिरिक्तसम्बधेन प्रकृत्यर्थप्रकारकशाब्दबोधं प्रति प्रत्ययजन्योपस्थिने हेतुत्वा है। अन्यथौदनः पचतीत्यत्र कर्मतासम्बन्धेन पाके नामा - न्वयापत्तेः । किं च प्रतिष्ठतइत्यत्र गमनत्वरूपेण बोधो न स्वात् । धातोतिनिवृत्त्यर्थकत्वे ऽभावस्य प्रशब्दार्थत्वेपि गत्यमावो नास्तीत्येव प्रत्ययः स्यात् । न चात्र तथा बोधसम्भावनापि । गत्यभावसम्बन्धित्वेमानुपस्थितेः । अन्यथा घटः अभाव इत्यत्रापि तथा बोधापत्तेः । नन्समभिव्याहारस्थले चानादिसिद्धतथाव्युत्पत्तिस्वीकारान्न दोषः । न वा विशिष्टो जयो पा. त्वर्थः । अर्थान्तरस्येवोपसर्ग विनाप्येतदर्थप्रत्ययापत्तेः । न वा विशिष्टार्थः । प्रत्येकातिरिक्तविशिष्टाभावात् । तथा चोभयोर्गचकत्वं कल्प्यम् । तद्वरं धातोर्जये क्लुप्तशक्तेरुपसर्गस्य शक्त्यवः
Page #273
--------------------------------------------------------------------------
________________
निपातार्थनिर्णयः। .२५९ सछेदकत्वम् । शक्यन्तरकल्पनमपेक्ष्य क्लमशक्तविशेषणविषयत्वमात्रकल्पने लाघवात् । तथा च प्रोत्तरजितेनैव प्रकृष्टजये शक्तिः । न च जिपूर्वपत्वेनैव शक्तिरस्त्विति वाच्यम् । शक्त्यन्तरकल्पनापत्तेः । आख्यातानिन्वयमसङ्गाच । तस्मादुपसर्गाणां शक्ततारच्छेदकत्वमेव । तदेव च द्योतकत्वमपीति । यद्वा । प्रतिष्ठतइत्यादौ विरोधिलक्षणया धातोर्गमनार्थकता न शक्तिः । अ. नन्यलभ्यस्य शब्दार्थत्वात् । प्रशब्दस्तु तात्पर्यग्राहकः । एतदेव च द्योतकत्वम् । कथं तर्हि व्यतिसइत्यादौ बोधः, लुप्तस्मरणादित्यवेहि । दधि पश्येत्यादौ विभक्त्यर्थवत् । तमजानतस्तु बोधो ऽसिद्ध एवेति हि नैयायिकाः । तच्चादिष्वपि तुल्यम् । चैत्रमिव पश्यतीत्यादौ चैत्रसादृश्यविशिष्टं चैत्रपदलक्ष्यमिवशब्दस्तात्पर्यग्राहक इत्यस्य सुवचत्वादिति द्रष्टव्यम् । स्वयं युक्त्वन्तरमाह । उपास्यते इति । दृश्यतइत्यत्र कर्मणीति शेषः । अयं भावः । उपास्येते इत्यादावुपासना किमुपसर्गार्थो विशिएस्य भानुमानस्य वा । नायः । उपसर्गस्यैव सकर्मकत्वादासधातोरकर्मकत्वात्ततः कर्मणि लकारो न स्यात् । फलावच्छिअन्यापारबाचित्वं सकर्मकत्वमत्र सिद्धमिति चेन्न । फलावच्छि. नत्वं यदि फलविशिष्टत्वं तह्युपासनादिफलस्य धातुवाच्यत्वमायातम् । यदि च फलवैयधिकरण्यं, तदपि सर्वेषां व्यापाराणां यत्किञ्चित्फलवैयधिकरण्यात्स्वार्थफलवयोमर गयपर्यन्तं वा. च्यम् । तथा च स्वार्थफलव्यधिकरणच्यापारवाचवं पर्यवसि. तं भवति फलस्य धात्वर्थत्वसाधकम् । न द्वितीयः । विशिष्टस्य गणपाठाभोवन धातुत्वालाभेन लकारानुपपत्तेः । गणपाजो दिमात्रामति चे, सयापि विशिष्टस्य धातुत्वे लिडादौ सति तन्निमित्तकं द्वित्वमजादेर्द्वितीयस्यति नियामकादुप
Page #274
--------------------------------------------------------------------------
________________
२६०
वैयाकरणभूषणे सर्गनिपातावयवस्य स्यात् । अनादिकमुपसर्गापाक् च स्यात् । उक्तं च वाक्यपदीये 'अडादीनां व्यवस्थार्थ पृथक्त्वे. न प्रकल्पनम् । धातूपसर्गयोः शास्त्रे धातुरेव तु तादृशः ॥ तथा. हि संग्रामयतेः सोपसर्गाद्विधिः स्मृत' इति ॥ अथ क्रियावाच. कत्वं शुद्धधातोः फलपाचकत्वं तु विशिष्टस्य तथा च शुद्धस्य धातुत्वात्ततः प्रागेवाडादिकं भविष्यतीतिचे,त्तथापि निपातानां शक्ततावच्छेदकत्वपर्यवसानादिष्टसिद्धिरेव । तृतीये त्वागतमेवो. पसर्गस्य तत्त्वम् । धातोस्तदर्थकत्वात् । तस्मादुपसर्गाणां द्योतकत्वमेवेति ॥ ४२ ॥ । एतच्च निपातेपि सममित्याह ॥ तथान्यत्र निपातेपि लकारः कर्मवाचकः । विशेषणाद्ययोगोपि प्रादिवच्चादिके समः॥४३॥ - अन्यत्र । साक्षास्क्रियते अलंक्रियते नमस्क्रियते उरीक्रियते, गुरुरित्यादौ । अत्रापि तत्तदर्थे धातोः कर्माण लकारसिद्धयर्थ तत्तदर्थवाचकत्वं वाच्यमेवेत्युपसर्गवदेव द्योतकत्वममीषामपीति भावः । यद्यपि डुकुल करणे इत्यस्य सकर्मकत्वात्कर्मणि ल. कारो नानुपपन्नस्तथापि साक्षात्काराद्यर्थे स न स्यात् । अन्यथा वायुर्विकुरुतइत्यादावपि स्यादिति ध्येयम् । इदमुपलक्षणम् । साक्षात्कारादेरधात्वर्थत्वे तत्कर्मत्वेन गुर्वादेराभिधानं न स्यात् । धात्वर्थाश्रयरूपकर्मण एव तदुत्तराख्यातेनाभिधानात् । न वा तस्य कर्मत्वमपि, धात्वर्थफलाश्रयत्वस्य तन्त्वादिति । अथ साक्षाक्रियते इत्यादी तत्तत्फलवाचकमेव साक्षात्पदादिकमस्तु तदुत्पत्त्यनुकूलस्तु व्यापारो धात्वर्थः । तथा च साक्षास्क्रियते गुरुरित्यादौ गुवभिन्नाश्रयनिष्ठो यो विषयतासम्ब
Page #275
--------------------------------------------------------------------------
________________
निपातार्थनिर्णयः ।
-
२६१ न्धेन साक्षात्कारस्तदुत्पत्त्यनुकूलो व्यापार इत्यादिबोधः । न च साक्षात्पदस्य साक्षात्काराद्यर्थवत्वे न मानामिति शङ्कयम् । 'साक्षात्प्रत्यक्ष तुल्ययोरिति' 'अलं भूषणपर्याप्तिशक्तिवारणवाचक' मिति, 'उर्दूरी चोररी च विस्तारेङ्गीकृतौ त्रय' मिति चामरात् । नमः पदस्य नमस्काराद्यर्थकत्वस्य लोके च प्रसिद्धत्वात् । नन्वर्थाविशेषान्तर्भावेणाकर्मकत्वादिविभजनादत्रालङ्काराद्यर्थे कथं कर्मणि लकार इति चेन्न । फळव्यधिकरणव्यापारवाचकत्वस्यैव सकर्मकत्वात् । सर्वस्य व्यापारस्य यत्किञ्चित्फलस1 मानाधिकरणत्वात्स्वार्थफलव्यधिकरणव्यापारवाचित्वं तत्त्वम् । तथा चोपासनादेर्धात्वर्थत्वे ऽर्थादेषां द्योतकत्वमिति चेन्न । स्वस्वयुक्तनिपातान्यतरार्थफलव्यधिकरणव्यापारवाचित्वस्य स - कर्मकत्वात् । कर्मत्वमप्येतादृशफलाश्रयत्वमेव । इत्थं च क र्मणि लकारसम्भवान्नानयोपपत्त्या द्योतकत्वासिद्धिः । एवं दृष्टान्तेप्युपपदस्योपासनार्थकत्वान्नानुपपत्तिरिति चे, न्मैवम् । साक्षात्पदायर्थ साक्षात्कारस्य धात्वर्थे साक्षादन्वयायोगात् । अभेदातिरिक्तसम्बन्धेन नामार्थप्रकार कशाब्दबोधं प्रति प्रत्ययजन्योपस्थितेर्हेतुताया ओदनः पचतीत्यत्र कर्मत्व संसर्गेणान्वयवारणाय वाच्यत्वात् । स्तोकं पचतीत्यत्रेवाभेदान्वयस्तु यदि साक्षात्कारादेर्धात्वर्थत्वं तदा स्यात् । तथा सति च साक्षापदस्यापि तद्वाचकत्वे मानाभावाद् द्योतकत्वमेव वाच्यम् । अनुशासनं च योत्यार्थवत्वमादाय नानुपपन्नमिति ध्येयम् । अपि च । प्रादीनां वाचकत्वे भूयान्प्रकशो निश्चय इतिवद्भूयान् कीदृशो निरित्यपि स्यात् । अस्मन्मते च प्रादेरनर्थकत्वान्न तदन्वय इत्यत एव प्रादयो द्योतका भविष्यन्तीत्यपि चादिषु सममित्याह । विशेषणेत्यादि । शोभनः समुचयो द्रष्ट
Page #276
--------------------------------------------------------------------------
________________
२६९ वैयाकरणभूषणे । व्य इतिवच्छोमनश्च द्रष्टव्य इत्यस्याप्यापत्तरिति भावः । अथ वृक्षावित्यत्र द्वित्वं ब्रुवन् प्रत्ययो यथा परविशेषणत्वेनैव ब्रूते त. द्वनचकारादिः समुच्चयं वदन्परविशेषणत्वेनैव ब्रूते इति न वि. शेषणान्वय इति चेत्र । प्रत्ययानां प्रकृत्यर्थगतस्वार्थबोधकव्यु. त्पत्तेस्तत्र तथास्तु अन च स्वातन्त्र्येण पदादुपस्थितिसत्त्वाद्विवेषणान्वयो दुार एवेति भावादिति । किं च । निपातानां वाचकत्वे विना षष्ठीमनम्बयप्रसङ्गः प्रातिपदिकार्थयोर्विना विभ. क्तर्य भेदेनान्वयायोगात् । अन्यथा राजा पुरुष इत्यत्रापि राज्ञः पुरुष इतिवदन्वयापत्तरित्यभिप्रेत्य तदेवाह । आदीति । धवखदिरयोः समुच्चय इतिवद्धवस्य च खदिरस्य चेत्येव स्यादन्यथान्वयायोगादिति भावः । यतु चादीनां समुच्चिताभिधा. यकत्वमेव नातो भेदनिवन्धना षष्ठी। तथा च यः समुचितः स घट इति मभेदेनैवान्वयः। न चैवं सत्त्वार्थत्वाद्विभाक्तिश्रवणापत्तिः । स्वभावात्समुचितपदाभिधेयस्य सन्त्वरूपत्वं न चायुपस्थाप्यस्येति सम्भवात् । यथा धातूपस्थाप्याया असत्यार्थत्वं घायुपस्थाप्यायाश्च सन्त्वार्थत्वमिति समाधिमाहुः । तन्न । समुच्चिते धयंशेन्यलभ्यत्वाच्चकारशक्तिकल्पनायोगात् । ष. टीवारणाय तथा कल्प्यतइति चेन्न । द्योतकत्वेनापि तदुपपत्तेः। एतेन समुच्चयस्यैकदेशत्वात्पदार्थः पदार्थेन सम्बध्यते इति न्यायान भूयानित्यादिविशेषणान्वयापत्तिरिति पूर्वोक्तं दूषणमलनकमिति निरस्तम् ॥ ४३ ॥
ननु प्रातिपदिकार्थयोर्भेदेनान्वयबोधे विभक्तिजन्योपस्थितिहेतुरिति व्युत्पत्तिनिपानातिरिक्तविषयैवेति नोक्तदोष इत्याशङ्कयाह ॥ पदार्थः सदृशान्वेति विभागेन कदापि न ।
Page #277
--------------------------------------------------------------------------
________________
निपाता निर्णयः। १६३ निपातेतरसङ्कोचे प्रमाणे किं विभावय ॥४४॥
सदृशा सहशेन समानाधिकरणेनेति यावत् । अन्वति । अभेदेनेति शेषः । विभागेन, असदृशेन । असमाना. धिकरणेनेति यावत् । अयमभिप्रायः । अभेदसम्बन्धन प्रातिपदिकार्थप्रकारकशाब्दबोध प्रति विरुद्धविभक्तयनबरुद्धमातिपदिकधात्वन्यतरजन्योपस्थिाततारीत कार्यकारणभावस्य राज्ञः पुरुष इत्यत्राभेदबोधापत्या ऽवश्यं वाच्यत्वादत्रापि चाद्यर्थसमुच्चयेन सह घरादीनामभेदान्वयः स्यात् । अत्र च निपातातिरिक्तति विशेषणे गौरवापतिर्मानाभावश्च । अत एव घटो नास्तीत्यादौ घटपदं घटप्रतियोगिके लाक्षणिकमिति परे पाहुः । नन्वत एवाभेदान्वये इष्टापत्तिरिति नायं दोष इति चेन। तथा सत्यभावत्वरूपेणापि लक्षणयोपपत्तौ नत्रः शक्तिकल्पनागौरवात् तात्पर्यग्राहकत्वनैवैषामुपयोगात् । एवमन्यत्राप्यूह्यम् । मथाभावोघट ओदनः पचतीत्यत्राभावघटयोरोदनपाकयोरभेदाबयः किं न स्यात् सामग्रीसत्त्वादिति चेन्न । योग्यताज्ञानरूपकारणविरहात् । न चात्राप्ययमेव निस्तारः । एवमपि भेदेनान्वयसिद्धये षष्ठयापत्तेदुष्परिहारात् । अन्यथा घट अभाव इतिचदनन्वयापतिः । तथा च घटश्चेति वाक्यं मूकमेव स्यात् । किं च निपातानां वाचकत्वसिद्धौ हि तथा कल्पना, न च त. युक्त, गौरवात् । प्रकर्षादिप्रतीतौ तदन्वयाद्यनुविधानं च द्योतकत्वेनान्यथासिद्धमेवोत द्योतकत्वमेवैषामिति दिक् ॥ ४४ ॥
अपि - काव्यादावन्वयानुपपत्तिमपि मानमाह ॥ शरैरुरिवादीच्यानुद्धरिष्यन रसानिव । इत्यादावन्वयो न स्यात्सुपा च श्रवणं ततः॥४५॥
Page #278
--------------------------------------------------------------------------
________________
२६४
वैयाकरणभूषणे - अत्रोत्रसदृशैः शरैरससहशानुदीच्यानुदरिष्यमित्यर्थः । अयं चोस्रादिशब्दानां तत्सदृशपरत्वे इवशब्दस्य च द्योतकत्वे सङ्गच्छते । तथाहि । उप्रेरिति तृतीयया प्रकृत्यर्थगतं करणत्व मुच्यते, न चोस्रोत्र करणं तथा चेवशब्दस्य सदृशार्थकत्वेपि सदृशगतमेव करणत्वं तया तृतीयया प्रतिपादनीयम् । तथा च प्रत्ययानां प्रकृत्यर्थगतस्वार्थबोधकत्वव्युत्पत्तिमङ्गप्रसङ्गः इवस्य त. दप्रकृतित्वात् । न चेवोत्तरतृतीययैव सद्बोधनम् । असत्वार्थकतया कारकविभक्त्ययोगात् तथात्वे वा श्रूयतेत्याह । सुपा चेति । सुपा श्रवणं चेत्यर्थः । चकारेणेव शब्दात तृतीयास्वीकारेपि उस्रपदोत्तरायास्तस्या अनन्वय एव बोध्यते । इत्यादावि. त्यादिपदाद्वागर्थाविव पार्वतीपरमेश्वरौ वन्दे इत्यादौ वागर्थयोर्वन्दिकर्मवाभावात् द्वितीयानन्वयापत्तिः सदृशार्थवे च वागर्थपदयोस्तदर्थपार्वतीपरमेश्वररूपे कर्मवं सुसङ्गतमिति भावः । यदि च विशेषणविभक्तिर्न कर्मत्वाद्यर्थेत्युच्यते तदापीत्थं योजनीयम् । तथाहि। उनशब्दस्योस्रोथस्तृतीया विशेषणविभक्तिः साधु. त्वार्थाऽभेदार्था वा, इवशब्दार्थः सादृश्यं शरशब्दार्थः शरः तृतीयार्थः करणमिति हि पदार्थाः। तत्रोत्रशरयोरयोग्यत्वादभेदेन निः राकांक्षत्वाच्च भेदेनान्वयायोगादनन्वय एव स्यात् । न चोस्रानष्ठं यत् सादृश्यं निरूपकतया तद्वान्यः शर इति इवार्थे एवोत्रान्वयो न तयोरपि परस्परमन्वय इति वाच्यम् । तत्राप्युक्तरीत्यैवान्वयायोगात् । एवं शरेणापि समं नेवार्थान्वयसम्भवः । द्योतकत्वपक्षे चोस्रसदृशार्थकमुस्रपदं तथा च तदभिन्नो यः शर इति युक्तो ऽन्वय इति न दोष इति भावः । इत्थमुत्तरदलेप्यवधेयम् । ननु इवार्थः सदृशमस्तु तस्य चाभेदेनान्वयो नानुपपन्न इत्याह । सुपा चेति । चकारो भिन्नक्रमः । मुपां श्रवणं चेत्यर्थः । अयमाश.
Page #279
--------------------------------------------------------------------------
________________
निपातार्थनिर्णयः।
२६५ । यः। सदृशधर्नार्थकत्वे सत्वार्थत्वं स्यात् तथा चानिपातत्या. द्विभक्तिलोपाप्रसक्तेः श्रवणं तस्या भवेदिति । अथ धर्मार्थकवेपि लिङ्गाधनन्वयायसन्त्वरूपत्वं नानुपपन्नम् । किं च इवशब्दस्य स्वरादौ पाठात्सत्वार्थत्वेपि नानुपपत्तिः । अत एव पृथिव्यामेव गन्ध इत्यत्र पृथिव्यां गन्धस्तदन्यत्र नेति बोधार्थमेवकारस्य समभिव्याहृतप्रातिपदिकसमानविभक्तिकत्वं, तच्छ्वणमपि लुका लुप्तत्वानेत्यपरे वदन्ति, इत्यत आह । चेति । तथा चोस्राभिन्नं यत् सदृशं तदभिन्ना ये शरा इत्यादिरन्वयो वाच्यः . विरुद्धविभक्तचनवरुद्धार्थयोरुनसदृशयोरिवसदृशयोरपि भेदेनान्वयायोगात् । तथा चानन्वय एव नहि शराभिन्नाभिन्न उम्र इति भावः ॥ ४ ॥
ननु त्वन्मते तावदुपसर्गादिभ्यो विभक्तिरेव न स्यात्, ते. षामर्थवत्त्वाभावेन प्रातिपदिकसंज्ञाया एवाभावात् । किं च नसमासादावृत्तरपदार्थः प्रधानमिति व्यवस्था न स्यात् पूर्वपदस्य नबादेरनर्थकत्वादित्यत आह ॥ नङ्समासे चापरस्य द्योत्यं प्रत्येव मुख्यता । धोत्यमेवार्थमादाय जायन्ते नामतः सुपः ४६
नबसमासादौ योत्तरपदार्थप्रधानता सा द्योत्यमर्थमादायैव तमेवार्थमादायार्थवत्वात्प्रातिपदिकत्वं ततः सुबुत्पत्तिरित्यर्थः । अयं भावः । अर्थवन्त्वमर्थप्रतीतिजनकज्ञानविषयशब्दत्वं न तु शक्तिलक्षणान्यतरसम्बन्धेनार्थवत्त्वं तत्र विवक्षितं येनोक्तस्थले ऽनुपपत्तिः सम्भाव्येत । तथा च प्रतिष्ठते विजयते घटश्चेत्यादौ निपातानां तादृशार्थवत्त्वस्याभावाद्भवति नामत्वम् । न चैवं राम . इत्यत्र राम इत्यतोपि विभक्तयापत्तिः ।
Page #280
--------------------------------------------------------------------------
________________
वैयाकरणभूषणे स्वौजसमौद् द्वयेकयोरित्येतेषामेकवाक्यतया विधानस्य ततओपपादितत्वाद्राइत्यादेश्च सहयावाचकत्वाभावेन विभक्त्यनुत्पत्तेः । उक्तं हि. हयवरट सूत्रे भाष्यकारण, “सङ्घातस्यैकत्वमर्थस्तेन वाद सुबुत्पत्तिन भविष्यतीति । अथ. वा प्रत्येक वर्णेषु विभक्त्यनुत्पत्तिरेकाजाद्ववचनन्यायात् । तथाहि । एकाचोद्वे प्रथमस्येत्यतं एकान्समुदायस्यैव द्वित्वं न: प्रत्येकामिति यथा तद्वत्समुदायादेव विभक्तिरिति कैयटादयः । यद्वा प्रत्येक वर्णेषु विभक्त्युत्पत्तावपि न श्रवणं लुका लुप्तत्वात् अस्तु वा समस्तमे कं रामपदम् । तत्र च राजपुरुष इत्यत्र राजपदादिव विभक्त्य श्रवणं भविष्यतीति । अत्रेदं चिन्त्यम् । प्रथमपक्षे च निपाताना मपि संख्यानभिषायकत्वाद्विभक्तिर्न स्यात् । एकवचनमुत्सर्गत: करिष्यतइति भाष्यसिद्धमेकवचनं भविष्यतीति चेत् । राम इ. त्यादौ प्रत्येकं वर्णेष्वप्येकवचनापत्तिरिति । एकाजाविषचनन्यायस्य च नावावकाश इति समासशक्तायुक्तम् । तृतीयपक्षे च प्रा. तिपदिकानवयवत्वात् सुपो लोपाप्रसक्तविभक्तिश्रवणं स्याद । धनं वनमित्यादौ नलोपः प्रातिपदिकान्तस्येत्यनेन नलोपापत्तिव झलाजशोन्तइति जश्त्वापत्तिश्च । इतोपि न चतुर्थः। किं च । पन्थानौ इत्यत्रापि ऋक्पूरब्धूःपथामानक्षे इति समासान्तविधानात्पन्थावित्यापत्तिः पुरावित्यत्र पुरे इत्याद्यापत्तिश्चति दिक् । तस्मादव्ययादाप्सुप इति ज्ञापकादेव निपातेभ्यो विभक्तिरिति के चित् । निपातस्यानर्थकस्येत्येतस्मादेव सेत्यन्यो । अस्यापित परीत्येतज्ज्ञापकमादाय प्रत्याख्यानपक्षे तस्यैव सामान्यापेक्ष ज्ञापकत्वमभ्युपेत्य चादीनामापः ज्ञापकादेव नामत्वसिद्धिरिति सिद्धे तस्मिन् सुवन्तत्वमपीत्यपरे । कुत्तद्धितसमासाश्चेत्यनुक्तसमुच्चयार्थकचकारेणैषां संग्रह इति मूलग्रन्थकृतः । अथानन्तपा
Page #281
--------------------------------------------------------------------------
________________
निपातार्थनिर्णयः। तूनी नानार्थकत्वमपेक्ष्य निपातानामेव वाचकत्वं युक्तमिति चै. का धातोः प्रकर्षादौ लक्षणा तात्पर्यग्राहकः प्रादिः। अत एव नीपसर्गादिक विना प्रकर्षादिप्रतीतिरिति स्वीकारात् । भनेकश. क्तिकल्पमा हि नानार्थे दूषकताबीजम् । न चात्र तदिति ध्येयम् । अत एवं न केवलानी तेषां प्रयोगः । वाचकत्वे चातिरिक्तशक्तिकल्पनापत्तिरिति युक्तो निपातानां द्योतकत्वपक्षः । उक्त चांकृत्याधिकरण भट्टैः। 'चतुर्विधे पदे चात्र द्विविधस्यार्थ। निर्णयः । क्रियते संशयोत्पत्तेोपसर्गनिपातयोः ॥ तयारीमिधाने हिं व्यापारो नैव विद्यते । यदर्थयोतकौं तौ तु वाचक सं विचार्यत' इति 'उपसर्गेण धात्वर्थो बलादन्यत्र नीयते । महाराहारसंहारविहारपरिहारवदिति' चान्यैः । तस्मान्नैयायिककल्पितमादिचायोर्वैषम्यमयुक्तम् । यत्तु निपातानां सर्वेषाँ वाचकत्वे निपातस्यानर्थकस्येति विधियर्थ्यम् । अर्थवत्सूत्रणव पातिपदिकविल्लामात् । सर्वेषां द्योतकत्वेपि निपातस्येत्यनेनवोपपत्तेरनर्थकस्येति व्यर्थत्वमापद्यते । तस्मात्के चिदेवार्थवन्त इति वाच्यम् । तथा चौपसी एव द्योतकाश्चादयस्तु बाचका इति । तत्तुच्छम् । सर्वथा अनर्थकानां 'तु हि च स्म ह वै पादपूरणे' इत्यमरात् । कीमिद्विति पादपूरणे इति निरुक्तात् अधिपरी अनथकाचिति सूत्राच्चावगतानां संग्रहार्थत्वस्य कैयटादौ स्पष्टत्वाहै। के वाचका इत्यत्र विनिगमकामावाच्चादीनामेव द्योतकस्वं प्रदियो बाचका इस्यस्याप्यापत्तेश्च । वस्तुतो वार्तिकमेतत् प्र. त्याख्यातमेव भाष्यकारैरिति तन्मूलमेतदश्रदेयमेवेति सर्व चतु: रत्रम् ॥ ४६ ॥
अथ सिद्धान्ते किमत्र द्योतकस्वम् । नैयायिकमतोक्तरीत्या जतातावच्छेदकत्वं तत्त्वम् । उक्तं हि वाक्यपदीये । 'वक्त्याधा
Page #282
--------------------------------------------------------------------------
________________
.२६८
वैयाकरणभूषणे
नाय धातोर्वा सहकारी प्रयुज्यते ' इतीति चेन्न । निपातधात्वादीनामानुपूर्व्याः शक्ततावच्छेदकत्वे गौरवात् । विशिष्टस्य शक्त्यन्तरकल्पनावश्यकत्वे विशिष्टस्य तत्स्वीकारमपेक्ष्य शुद्धनिपाते एव तत्स्वीकारौचित्याच्च । जयादिमात्रवाचकस्य प्रकर्षादि विशिष्टे लक्षणयोपपत्तौ गौरवग्रस्तोक्तकल्पनायोगाच्च । अस्तु ता लक्षणायां तात्पर्यग्राहकत्वमेव द्योतकत्त्वमिति द्वितीयः पक्ष इति चेन्न । तथा सति सुप्तिङामपि द्योतकतापत्तेः । धात्वादेः कर्तृकर्मादिविशिष्ट लक्षणायां तिद्वितीयादेस्तात्पर्यग्राहकत्वसम्भवात् । न चैवं घटादिपदानामेव कर्मत्वादिविशिष्टार्थकत्वे नामार्थधात्वर्थयोः साक्षादन्वयापत्तौ अभेदातिरिक्तसम्बन्धेन नामार्थप्रकार शाब्दबोधे विभक्तिजन्योपस्थितेः कारणत्वविकोपापत्तौ घटः पश्यतीत्यत्र कर्मत्वसम्बन्धेनान्वयाच्छाब्दबोधापत्तिः । घटादिपदानां घटकर्मके लक्षणया स्तोकं पचतीत्यत्रैवाभेदबोधस्यैव सम्भवात् । भेदसम्बन्धेन बोधो ऽनुभूयतइति चेन्न । राजपुरुष इत्यत्रापि तथानुभवाच्छक्त्यापत्तेः । नामार्थनिर्णयकथितरीत्याप्युपपत्तेश्च । न चैवं गङ्गायां द्विरेफ इत्यत्र तीरगतभूमराननुभवापत्तिः । विभक्तेरनर्थकत्वात् प्रकृतेश्च लाक्षणिकत्वेनाननुभावकत्वादिति वाच्यम् । वृत्तिमत्वेनैवानुभावक`त्वात् । यत्तु लाघवाच्छक्तत्वेनैवानुभावकत्वमिति । तन्न । लाक्षणिकस्यापि शक्तत्वात् । तत्र शक्तं तमनुभावयतीति नियम इति चे, तर्हि गङ्गायां घोष इत्यत्र तीरानुभवोन स्यादेव । स्वशक्तयान्वयबोधकमेवानुभावकं गङ्गायां घोष इत्यत्र गङ्गापदस्य तथात्वेपि सप्तम्यादेस्तथात्वात्तदेव तीरानुभावकं भविष्यतीति चेन्न । अपभ्रंशादननुभवापत्तेः । गौरवाच्च । बोधकत्वेनैवानुभावकतायामतिलाघवाच्चेति । अपि च यत्र पदद्वयमपि लाक्ष
·
Page #283
--------------------------------------------------------------------------
________________
२६९
निपातार्थनिर्णयः। णिक रूपे इत्यादौ तत्राननुभवापत्तिः । किं चानुमितिशाब्दयोरनुभवामीति प्रतीत्यभावादनुभवत्वं प्रत्यक्षत्वमेव । तथा च शान्दवोधाजनकत्वं पर्यवसितम् । तदपि साक्षात्पदानां तज्ज्ञानस्य वा शान्दबोधाजनकत्वात्पदार्थस्मरणद्वारकमपि तमा. स्तीति वाच्यम् । तच्चायुक्तम् । लक्षणाज्ञानजन्यपदार्थोपस्थिते शाब्दबोधजनकत्वेन तद्वारकस्य तस्य दुष्परिहारात् । अन्यथा लक्षणाकल्पनमेवोच्छिद्यतेति दिक । अपि च धातोर्लक्षणयाप्युपपत्तो पातानामवाचकत्वे घटादिपदस्थचरमवर्णस्यैकाक्षरनिघण्टुवशात्तत्तदर्थकस्य घटत्वादिविशिष्टे लक्षणया बोधोपपत्तौ घ. टादिपदानामप्यवाचकत्वप्रसङ्गः । न चावयवशक्तिमविदुषोपि समुदायशक्तिज्ञानात्तथा बोधात्तेषां शक्तिकल्पनम् । धातोः श. क्तिमविदुषोपि उपसर्गस्य तद्रहवतो बोधात्तथात्वस्य तुल्यत्वात् । न च प्रकारतासम्बन्धेनाख्यातार्थविशेष्यकबोधं प्रति धातुज. न्योपस्थितिहेतुरित्यादिकार्यकरणभावरूपाकांक्षाविरहादुपसर्गस्य शक्तिग्रहेपि न बोध इति वाच्यम् । तादृशकार्यकारणभावग्रहशालिपुरुषीयचान्दे एव तस्य हेतुत्वादिह चान्यस्य तत्सम्भवात् । किं चाख्यातार्थविशेष्यकतादृशबोधं प्रति निपातजन्याप्युः पस्थितिः कारणं कल्प्यतां व्यतिसे इत्यनुरोधात् । अन्वयव्यतिरेकाभ्यां तेषां घटादिपदवच्छक्तिसिद्धौ तथाकल्पनस्य यु. तत्वाच्च । एतेन प्रतिष्ठते इत्यत्र गमनत्वरूपेष प्रतीतेर्धातोरेव लक्षणा प्रशब्दस्य तदर्थत्वे च तत्राख्यातार्यान्वयो न स्यादित्यपास्तम् । तस्मादन्वयव्यतिरेकाभ्यां प्रकर्षादिस्तेषां वाच्य एव । एवं चप्रकारतासम्बन्धेन धात्वविशेष्यकबोधं प्रति कारकविभक्तिवनिपातजन्याप्युपस्थितिहेतुर्वाच्या तथा च न प्रथमः पूर्वो. क्तोत्र दोषः। एवं नामार्थयार्भेदेनान्वयबोधे षष्ठयादिजन्योपस्थि
Page #284
--------------------------------------------------------------------------
________________
वैयाकरणभूषणे तिहेतुरित्यपि निपातातिरिक्तविषयं वाच्यमतो नान्यपि दोषाः । वस्तुतो नेत्येवोक्ते अभावशाब्दस्य सर्वसिद्धत्वान्न तत्र पदान्तरसमाभिव्याहाराभागत् द्योतकत्वसम्भवः । अत एव नसूत्रे महाभाष्येपि ननेत्यत्र अभावो नास्तीत्यर्थदर्शनं कृतं सङ्गच्छते । म च क्रियायोगं विना ऽसमस्तनमो ऽसाधुत्वादिदमनुपपनामिति वाच्यम् । गम्यमानाया अपि क्रियायाः कस्मात्त्वं नद्या इत्यत्रेव निमित्तत्वमालम्ब्य नबसम्भवात् । अस्तु वा प्रकृष्टो धर्मी प्राद्य. थः तथा च स्तोकं पचतीति वदभेदेनैवान्वयान व्युत्पत्तिविरो. धः । ननु निपातानां वाचकत्वे केवलानामपि प्रयोगः स्यादिति चेन्न । केषां चित्तेपारधातोरिति नियमितत्वात् । केषां चि. पत्रप्रभृतीनां तथात्वस्येष्टत्वात् । अन्येषां वाचकत्वेपि केवलं प्रत्ययप्रकृत्योरप्रयोगवदुपपत्तेः । उक्तं हि वाक्यपदीये । 'प्र. त्ययो वाचकत्वपि केवलो न प्रयुज्यते । समुच्चयाभिधानपि व्यतिरको न विद्यत, इति ॥ यद्यपि प्रत्ययवदेषां परत्वं न स्मयते तथापि तैर्बोध्यप्रकर्षादेविना सम्बन्धिनमनन्वयात्केक्लमयोगासम्भवः । समुच्चिताभिधायकत्वेपि विशेषतस्तयोरुपस्थिति विना प्रतीतेरपर्यवसानाभित्यपरतन्त्रतैवेति न प्रयोगः । उक्तं हि वाक्यपदीये । "समुचिताभिधानेपि विशिष्टार्थाभिः धायिनाम् । गुणैः पदानां सम्बन्ध परतन्त्रास्तु चादय" इति ॥ त. स्मान्निपातानां वाचकत्वे न दोषः । अत एवं समुच्चयाधिकरणे मीसांसकैरुक्तम् । केवलक्षशब्दात् समुच्चयाबोधाच्चकार एव तद्वाचको न द्योतकः । किं न द्योतकत्वे पदान्तराणां तत्र शक्तिः कल्प्या चकारस्य च द्योतकत्वशक्तिः कल्पनीयति गौरवं स्यादिति । अत एव मीमांसाद्वयपि नः पर्युदासे लक्षणेत्यादयो व्यवहाराः सङ्गच्छन्ते, साच्छन्ते च तत्रतत्र प्राचीन
Page #285
--------------------------------------------------------------------------
________________
निवासानर्णयः। व्यवहाराः । वस्माधिपता का केसभिवत्य पक्षास्तरमाह ॥ निपातानां वाचकत्वमन्वयव्यतिरेक्यो । युक्तं वा न तु तद्युक्तं परेषां मतमेव नः ॥ १७॥ - अस्मन्मते निपाताना शक्तिग्रहानात्वादेलक्षणाचमहादेव च बोधात्तच्छक्तिकाचा कार्यकारणभाव आवश्यक बोरकरवरूपा शक्तिश्च निर्बाधाः । क्षणापक्षेपि तत्कार्यकारणभाव आकश्यक एवेति कि गौरवम् । तस्मान्छक्तिज्ञानलक्षणाज्ञानयो कार्यकारणभावदयस्यापि वासतया शक्यत्वं द्योतका वेत्यु. भयमप्युपपन्नम् । अत एक विभक्तेरपि समानन्यायता मनसि निधाय 'वाचिका द्योतिका का स्युईित्यादीनां विभक्तय' इत्युक्तं वाक्यपदीये । अत एक का चित्सम्भविनो भेदा केवले निदर्शिताः ॥ उपसर्गेण सम्बन्धे व्यज्यन्ते अपरादिनाः। सवाचको विशेषाणां सम्भवाद्योतकोपि के ति काक्यपदीयषि पसदरमुक्तमिति भावः । मीमांसकास्तु वाचका एचैते न द्योत्तका इत्याहुः । तदयुक्तम् । अन्यलभ्ये शक्तिकल्पनायोगात् । अस्म. दुक्तरीत्या तथाकल्पने च गङ्गादिपदानामपि तीरादौ शक्तिकल्पनापत्तेः , न वा तेषामुपपत्तियुक्ता । अन्वयव्यतिरेकयोस्तात्पर्यग्राहकत्वनान्यथासिद्धेः । न च शक्तिद्वयकल्पने द्वितीयपदस्य लक्षणाङ्गीकारान्निपातानां तात्पर्यग्राहकत्वादित्याभिप्रेत्याह। न त्वित्यादि । तत्, समुच्चाधिकरणे स्थितं, परेषां मीमांसकानां, मतं, वाचकत्वरूपं, तदेव नः । किं तु द्योतकत्वमपीति भावः ॥ ४७ ॥
उपसर्गा द्योतका निपाता वाचका इत्ति नैयायिकमतं न युक्तं वैषम्ये बीजाभावादिति पर्यवसितमुपसंहरबाहः ।।
Page #286
--------------------------------------------------------------------------
________________
वैयाकरणभूषणे
निपातत्वं परेषां यत्तदस्माकमिति स्थितिः । व्यापकत्वाच्छक्ततायास्त्ववच्छेदकमिष्यते ||१८||
૧૯૩
परेषां मते यदेव निपातत्वम् । असत्त्वार्थत्वे सति चादिगणपठितत्वं शक्तिसम्बन्धेन निपातपदवत्त्वमित्याद्युपाधिरूपं वा जातिर्वास्तु उभयथापि सामान्ये प्रमाणानां पक्षपातात्तदेव द्योतकतायाःशक्तताया वावच्छेदकं युक्तमित्यर्थः । व्यापकत्वात् । सामान्यत्वात् । शक्तताया इत्युपलक्षणं द्योतकताया इत्यपि द्रष्टव्यम् । एतेन चादयः सन्तु द्योतकाः उक्तयुक्तेः । अथशब्दस्तु वाचक एव । अन्यथा प्रकरणतुल्यतया मङ्गलानन्तरारम्भप्रश्नकार्येष्वथोsथेति कोशासङ्गतिः स्यात् । अथशब्दानुशासनमित्यत्र वाचकपदासमभिव्याहाराच्च । द्योतकानां वाचकपदसमभिव्या होरनियमात् । तस्मादथशब्दः प्रस्तावद्योतक इति चिन्त्यमित्यपास्तम् । चकारादावपि समुच्चयादेः कोशाद्युक्तस्य चार्थेद्वन्द्व इति सूत्राच्च वाच्यत्वापत्तेरर्द्धजरतीयतादवस्थ्यात् । अथशब्दानुशासनमित्यत्राप्यनुशासनशब्द एव तद्वाचकः । न च श्रवणादेरपि द्योतनापत्तिः । घटश्चेत्यत्राप्यापत्तेरित्यास्तामतिक्षुद्रधन्धनयेति दिकू ।। ४८ ।
इति वैयाकरणभूषणे निपातानां द्योतकत्ववा चकत्वनिर्णयः समाप्तः ॥
भावप्रत्ययार्थं निरूपपति ॥
कृत्तद्धितसमासेभ्यो मतभेदनिबन्धनम् । त्वतलोरर्थकथनं टीकायां हरिणा कृतम् ॥ ४९ ॥
Page #287
--------------------------------------------------------------------------
________________
भावप्रत्ययार्थनिर्णयः । कत्तद्धितसमासेभ्यः सम्बन्धाभिधानं भावमत्ययेनान्यत्र रू. व्यभिन्नरूपान्यभिचरितसम्बन्धेम्य इति वचनं वार्तिककारीयमिति भूमं मीमांसकानां निराकुर्वन्नाह । टीकायामित्यादि । त्वतलोरिति भावप्रत्ययमात्रोपलक्षण,मुक्तवचनानुरोधात् । अयमर्थः । राजपुरुष औपगवा पाचक इत्यादौ यद्यपि केवल सम्बन्धो नाभिधेयः । तथापि समासादौ शक्तिः करप्यमाना विग्रहमविष्टषष्ठयार्थान्तर्भावणैव कल्प्यते । अत एव तयोः स. मानार्थत्वम् । तथा च राजपुरुषत्वं पक्तृत्वं औपगवत्वमित्यादौ स्वस्वामिभावः क्रियाकारकसम्बन्धोपत्यापत्यवत्सम्बन्ध इति बोधादेतेभ्यो भावप्रत्ययाः सम्बन्धमभिदधति । औपगवादावव्यभिचरितसम्बन्धे त्वर्थान्तरवृतिस्तद्धित उदाहार्यः । दामोदैरत्वं कृष्णसर्पत्वमित्यादौ जातिविशेषेणैव बोधादाह । अन्यत्रेत्यादि । रूढः, अभिन्नरूपात, अव्यमिचरितसम्बन्धेभ्य, श्वा. न्यत्र सम्बन्धे एवार्थ इत्यर्थः । रूविरुक्ता । द्वितीयं यथा । शुक्ल इत्यादौ तदस्यास्त्यस्मिनिति मतुपो.गुणवचनेभ्यो मतुपो लुगिष्ट इत्यनेन लुप्तत्वात्तद्धितान्तत्वेपि घटः शुक्ल इति प्रतीत्या गुणगुणिनोर्भेदसम्बन्धस्य न्यग्भावाच्छुक्लत्वमित्यादि । अत्र गु. णस्यैव प्रकारत्वं न सम्बन्धस्य । तृतीये सतो भावः सत्तेत्यादि । अत्र तु जातावेव प्रत्ययः । राजपुरुषयोस्त्वव्यभिचरि. तसम्बन्धाद्यभावाद्भवति सम्बन्धाभिधानमिति रीत्या द्रष्टव्यम् । एतच्च सम्बन्धो वृत्तावर्थ इति भेदः । संसर्ग उभयं चेति पूर्वोक्तमतमाश्रित्येत्यभिप्रेत्याह । मतभेदनिबन्धनमिति । तथा च राजपुरुषत्वमित्यस्यापि वृत्तित्वात्तदीय एव शक्तथा निर्वाह इति भावः ॥ ४९ ॥
मीमांसकास्तु दण्डीत्यादौ मतुपः प्रकृत्यर्थविशिष्टद्रव्यमा.
Page #288
--------------------------------------------------------------------------
________________
२७४
वैयाकरणभूषणे प्रवाचित्वमेव सम्बन्धस्य वाक्यार्थविधया विशेषणविशेष्यभा. वबोधोत्तरमर्थाद्वा प्रतीत्युपपत्तेः । अत एव पाचक इत्यादानपि न सोर्थः । उक्तं च । “पाकंतु पचिरेवाह कर्तारं प्रत्ययोप्यकः । पाकयुक्तः पुनः कर्ती वाच्यो नैकस्य कस्य चि"दिति । न चानन्तद्रव्येषु शक्तिग्रहासम्भवः । एकमुपलक्षणीकृत्य सम्भवात् । न चोपलक्षणीभूता दण्डादयोपि नाना । तद्वत्तिजात्यानुगमात् । न च तदपि दण्डत्वकुण्डलत्वरूपमनेकम् । प्रकृत्यर्थत्वेन तदनुगमादित्यरुणाधिकरणोक्तरीत्या द्रष्टव्यमित्याहुः । तदर्दजरतीयत्वा. दुपेक्ष्यमित्याह ॥
तत्रार्द्धजरतीयं स्याद्दर्शनान्तरगामिनाम् । सिद्धान्ते तु स्थितं पक्षद्वयं त्वादिषुतशृणु॥५०॥ - अत्र कदादौ । अयं भावः । दण्डीत्यादौ सम्बन्धावाच्यस्बे दण्डित्वमित्यत्रापि न स्यात् । प्रतीतेस्तथैवोपपत्तेः । न च त्वप्रत्ययवैयर्यभीत्या तत्कल्प्यते । घटत्वमित्यादौ क्लुप्तप्रकत्यर्थतावच्छेदकशक्तयैवोपपत्तेः । कत्तद्धितसमासभ्य इति वचनात्तथा कल्प्यतइत्यप्ययुक्तम् । तस्य हरिवचनत्वात् । अस्तु तर्वानुभवानुरोधाच्छक्तिकल्पनमिति चेन्न । शक्तयन्तरकल्पनामपेक्ष्येन्यादीनां क्लुप्तशक्तावेव धर्मिवत्सम्बन्धविषयत्वकल्पनयोपपत्तौ पृथक्शक्तिल्पनासम्भवात् । तथा च सति क्लप्तप्रकत्यर्थतावच्छेदकशक्त्यैव तदानसम्भवादेः प्राक् विवोचितत्वादिति दिक् ॥ ५० ॥
सिद्धान्तनिष्कर्षमाह ॥ प्रयोगोपाधिमाश्रित्य प्रकृत्यर्थप्रकारताम् ।
Page #289
--------------------------------------------------------------------------
________________
भावमत्ययार्थनिर्णयः । २७५ धर्ममात्रं वाच्यमिति यदा शब्दपरादमी ॥५१॥ जायन्ते तजन्यबोधप्रकारे भावसंज्ञिते ॥
प्रयोगे कर्तव्ये, प्रकृत्यर्थे त्वप्रत्ययप्रकृत्यर्थे, प्रकारतामापनमिति शेषः । तमुपाधिमाश्रित्य । शक्यतयोति शेषः । प्रकृतिजन्यबोधे प्रकारो भावप्रत्ययशक्य इत्यर्थः । ननु घटत्वमित्यादिपदजन्यबोधप्रकारो घटत्वत्वादिकमपि भावप्रत्ययोत्तरभावप्रत्ययस्य शक्यं स्यादित्यत्र इष्टापत्तिमाह । धर्ममात्रमिति । न च गौरवाल्लक्षणैव न तत्र शक्तिरिति वाच्यम् । शक्तावेव तदादरो न लक्षणायामित्यत्र विनिगमकाभावादिति भावः । तथा च तस्य भावस्त्वतलाविति मूत्रे भगवान् वार्तिककारः। यस्य गुणस्य भा. वाद् द्रव्ये शब्दनिवेशस्तदभिधाने त्वतलाविति व्याख्यातं च कैयटेन । गुणशब्देन यावान् कश्चित्पराश्रयो भेदको जात्यादिः स सर्व इह गृह्यते । यस्यभावादित्येतावत्युच्यमाने पुत्रस्य भावात्पितरि पितृशब्दप्रयोगापितृत्वमिति पुत्रे भावप्रत्ययः स्यात् । पुत्रत्वमिति च पितरीति गुणग्रहणम् । भावाद्विद्यमानत्वादित्यर्थः । द्रव्यशब्देन विशेष्यभूतः सत्त्वभावापन्नोर्थ उच्यते तस्मिन् द्रव्ये शन्दनिवेशः शब्दस्य प्रवृत्तिर्यस्य गुणस्य भावात्स त्वतलाद्यभिधेय इत्यर्थः । तत्र रूपादयः गुणमात्रप्र. वृत्तयस्तेभ्यो गुणवृत्तिजात्यभिधायी प्रत्ययो रूपत्वमिति यथा । ये तु शुक्लादयो गुणिपरा अभेदोपचारादिना तेभ्यो गुणे प्रत्ययः । गुणपरेभ्यस्तु जातादेव । अणुमहद्दीर्घादयो ये नित्यं परिमाणिनि वर्तन्ते न तु परिमाणमात्रे तेभ्यो गुणे भावप्रत्ययः । पाचक इत्यत्र क्रियाविशेषणकबोधात्तदुत्तरभावप्रत्य. येन विशेष्यतया सैवाभिधीयते, घटत्वमित्यादौ जातिरिति यथानुभवं द्रष्टव्यम् । तत्र घटत्वत्वादिकं जाताववच्छेदकमुक्तं त.
Page #290
--------------------------------------------------------------------------
________________
२७६
वैयाकरणभूषणे च यद्यपि परेषां घटेतरावृत्तित्वे सति सकळघटसमवेतत्वरूपं त. थाप्यस्मन्मते अविद्या आविद्यको धर्मविशेषो ब्रह्मसत्तैव वा जातिरिति स्वीकारादखण्डमेव वाच्यम् । स्ववृत्तित्वादिसम्बन्धेन व्यक्तिरेव वा प्रकारः । यद्यप्यत्रापि जातेरेकत्वे स्ववृत्तित्वस. त्वात् । घटत्वमित्यत्र घटस्यापि प्रकारतापत्तिस्तथापि घटादिरेव च तत्रोपस्थित इति स एव प्रकारः । पटादेः शब्दादनुपस्थितौ शाब्दबोधे भानासम्भवात् । अस्तु वा तत्तत्मकतिसमभिव्याहारस्य तादृशबोधत्वं कार्यतावच्छेदकमतो न दोषः । एवञ्च " सम्बन्धिभेदात्सत्तैव भिद्यमाना गवादिषु । जातिरित्युच्यते तस्यां सर्वे शब्दा व्यवस्थिताः ॥ तां प्रातिपदिकार्थ च धात्वर्थ च प्रचक्षते । सा नित्या सा महानात्मा तामाहुस्त्वतलादय" इति वाक्यपदीयं सङ्गच्छतइति दिक् । कैयटस्तु गवादयो यदि जातिमात्रवाचिनस्तदा तेभ्यः शब्दस्वरूपे प्रत्ययः । तथाहि । अर्थे जातो शब्दस्वरूपमध्यस्यते यो गोशन्दः स एवार्थ इति । ततः शब्दस्वरूपमेव प्रवृत्तिनिमित्तं ना. न्यदित्याह । के चित्तु धर्ममात्रं धर्मत्वेनैव शक्यं भावप्रत्ययस्य न तु तत्तद्रूपेण, नानार्थतापत्तेः । ननु गुरुत्वं घटत्वमित्यादौ गुरुत्वत्वादिना प्रतीतिः सर्वसिद्धा न स्यादित्यत आह । प्रयो. गोपाधीति । प्रयोगे उपाधिः नियमेन भासते संस्कारमात्राम तु तत्रापि शक्तिः । तं प्रकारतया आश्रित्यानुपपन्त्यभाव इत्य. थः । न चैवं धर्मत्वस्य शक्यत्वे न मानमिति वाच्यम् । शक्तेरवच्छेद्यत्वनियमाते । अन्यथा मास्तु तदवच्छेदकमत एक प. ङ्कजपदे पद्मत्वं प्रयोगोपाधिरिति परे मन्यन्तइति व्याचक्षते । तच्चिन्त्यम् । एवं हि घटत्वमित्यादौ धर्मत्वेनैव बोधे प्रतीतिवैचिव्यं न स्यात् । संस्कारवशाद्विशेषरूपभानमिति चे,तथासति
Page #291
--------------------------------------------------------------------------
________________
२७७
भावप्रत्ययार्थनिर्णयः । तस्य वृन्त्यविषयत्वे. शान्दबोषविषयत्वं न स्यादिति ध्येयम् । नव्यास्तु जातिगुणक्रियासाधारण्येनैकशक्तौ सम्भवन्त्यामनेकतकल्पने गौरवादस्तु धर्मत्वेन तेषां वाच्यता परं तु तत्र प्रकृत्यों व्यक्तिरेव प्रकार इत्युक्तम् । सा च स्वेतरात्तित्वावच्छिन्ननिखिलस्ववृत्तित्वसम्बन्धेन प्रकार इति स्वीकारेणानतिमस
। अत एव क्व चित्स्वसमवेतत्वमात्रमेव सम्बन्धो यथा स. स्वमित्यत्र, नियामकं चात्राकांक्षामात्रमिति तत्त्वमिति वैयाकरणमतं समर्थयन्ते । तन्न। उक्तसम्बन्धस्प वैयाकरणमते घटत्वे बाधितत्वात् । महत्त्वं गुरुन्त्वमित्यादौ महत्वत्वगुरुत्वत्वादिषकारकबोधस्यानुभवसिदत्वाच्चेति दिक् । एवं च घटत्वादिजा. तिरभिधेया तत्र प्रकारः पुनर्व्यक्तिरिति प्रथमः पक्षः । अय वा जातौ शन्द एवावच्छेदकः । अक्या तु मागुक्ता जात्यादि. रेवेति पक्षान्तरमाह । यद्वेति । यद्वाशन्दो वार्तिकोक्त एवं त. सूचनाय पठितः । तथा च तत्रैव वार्तिकं 'यदा सर्वे भावा: खेनार्थेन भवन्ति स तेषां भाव, इति ।. भवन्ति वाचकत्वेन प्र. वर्तते इति भावाः शब्दाः ते स्वस्य वाच्यो योर्थस्तेन भवन्ति तत्र वाचकत्वेन प्रवर्तन्ते । अर्थप्रत्यायनार्थमेव शब्दप्रयोगाच्चब्दभवनेर्थस्य करणत्वविवक्षया तृतीयादिप्रयोगः । स चार्यों द्विविधः । वाच्यः प्रवृत्तिनिमित्तं च, वाच्यं च द्रव्यं शन्दोवा, प्रवृत्तिनिमित्तं च घटत्वादिजातिर्जातिशन्देषु, पाचकादिशन्देषु क्रिया, राजपुरुषादिशब्देषु सम्बन्धः, डित्यादिषु सोत्यादिस
मनुभवानुरोधादवधेयम् । स प्रवृत्तिनिमित्तरूपोर्थः तदनुरोधेनैव शब्दानां प्रवृत्तेस्तेषां शन्दानां भावोर्थ इति समुदायार्थः । ननु शक्यतावच्छेदकमेव भावमत्यय शक्यं चेत्तहिं को विशेष पूर्वपक्षादिति चेत् । पूर्वपक्षे व्यक्तिरेवावच्छेदिका । अत्र मते
Page #292
--------------------------------------------------------------------------
________________
वैयाकरणभूषणे
शब्दवावच्छेदक इत्येव । एवं चात्र पक्षे गोत्वं पाचकत्वं श्र क्त्वमित्यादौ गोशब्दप्रवृत्तिनिमित्तं पाचकशब्दप्रवृत्तिनिमित्तं शुक्लशब्दप्रवृत्तिनिमित्तमित्यादिर्बोधो द्रष्टव्य इति कैयटाद्यनुसारेण वार्त्तिकार्थं वर्णयन्तो व्याचक्षते । वस्तुतस्तु सर्वे भावाः शब्दाः स्वेन स्वस्वरूपेणार्थेन भवन्ति प्रवर्त्तन्ते अतः स तेषां भावः प्रवृत्तिनिमित्तमित्यर्थः । अयमभिप्रायः । भर्थवच्छन्दोपि द्रव्ये शक्यतावच्छेदकः । नलेक्ष्वाकृपृथुयुधिष्ठिर रामकृष्णादिपदेभ्यस्तस्पदवाच्यो यः कश्विदासीदित्येव वोधात् । एवमेवाप्रसिद्धार्थकपदेष्वनुभवः सर्वसिद्धः । न तु घटादिपदेष्विव तज्जात्यादिरूपेण | असम्भावितश्च तथा बोधः तत्तद्रूपेणानुपस्थितौ तथा शक्तिग्रहस्यैवासम्भवात् । शब्दादन्येन तदुपस्थितेश्चासम्भवातूं । न च तत्तत्प्रकाराः संस्कारा अनादय एव सन्तीति सांप्रतम् । अजन्यसंस्कारानङ्गीकारात् । जन्यस्य कारणाभावेनायोगात् । न चानादिरेव भाविगोचर संस्कारज्ञानयोर्धारा । अनेकजन्मसु तथाकरपने मानाभावात् । फलान्यथानुपपत्तेरपि ततद्रूपेण बोधरूपफलस्यैवाननुभवादभावात् । विनैव तत्तद्वाचकपदश्रवणं तेषां स्मरणापत्तेश्व । उद्बोधकाधीनव्यवस्थाया ज्ञानसंस्कारयोः कारणत्वासिद्धयापत्तेश्च । एतेन प्रमेयत्वादिरूपेण सकलानुभवोत्तरप्रमेयत्वांशे मोष इति प्रथमस्ततज्जातिनिर्विक ल्पकं स्मरणं तत्तद्रूपेण तत्तत्पदार्थोपस्थितिमादाय शक्तिग्रहः । न चैवं सर्वेषामर्थानामेवं बोधापसौ सार्वज्ञत्वापत्तिः फलवलकल्प्योद्बोधकवशादेव स्मृतेः कादाचित्कत्वनियमादित्यादिकमपास्तम् । तादृशस्मरणस्यानुभवविरुद्धस्य कल्पने मानाभावात् फलस्याप्यभावादित्युक्तम् । सर्वेषामेव पदानामेवं शक्तिग्रहापत्तौ
1
शक्तिकानामिव संशयानापत्तेश्च । एतेनाभिमान्यधिकरणे
२७८
•
·
Page #293
--------------------------------------------------------------------------
________________
भावप्रत्ययार्यनिर्णयः ।
२७९
मृदब्रवीत् आपोब्रुवन्नित्यादौ देवतायां मृदादिशब्दानां शक्तिग्रहासम्भवात्तत्परत्वे ऽप्रामाण्यमाशङ्कय पाशहस्तादिपदादुपस्थिते शक्तिग्रहः । न च तस्यापि शक्तिग्रहासम्भवादनुपपत्तिः । यौगिकेषु समुदायशक्तिग्रहानपेक्षणात् । अवयवानां च पाशादिपदानां लोके शक्तिग्रहात् । एवमदृष्टादिपदेष्वप्यूह्यमित्यादिमाध्वीया न्यायसुधा परास्ता । जातिविशेषरूपेण पाशहस्तादिपदादुपस्थित्यसम्भवातेन रूपेण शक्त्यग्रहात् । अन्यथा प्रत्यक्षेणोपस्थिते वरुणे वरुणादिपदानां शक्तिग्रहवतामिव त्वदुक्तरीत्या तद्भवतामपि पाशाद्यदर्शनेपि व्यक्तिमात्रदर्शनाद्वरुणोपमित्यादिप्रत्ययापत्तेः । अस्माकं पदरूपेणोपस्थितौ रामादिपदं कचिच्छक्तं साधुशब्दत्वात् घटपदादिवत्, हकारादयो वर्णाः क चिच्छक्ताः वर्णत्वात् अकारोकारादिवदिति शक्तिग्रहो - स्त्येव । अत एव रामादिपदवाच्यः कश्चित्पदार्थ इत्येव बोधः । जवगडदशित्युच्चारयेत्यादौ च घटो नित्य इत्यादिवयोग्यतावशा द्विशेषणांशान्वय इत्युक्तम् । सम्बन्धितावच्छेदकरूपेणोपस्थितसम्बन्धिन एव सम्बन्ध्यन्तरस्मारकत्वान्न प्रत्यक्षेणोपस्थितवरुणेन पदस्मरणं, तत्र पदस्यैवावच्छेदेकत्वात् । तस्मादनुभ वानुरोधाच्छन्द एवावच्छेदकः । अत एव विष्णुर्नारायणः कृष्ण इत्यत्र सामानाधिकरण्यं सङ्गच्छते । अन्यथा घटो घट इत्यत्रेव तन्न स्यात् । तस्मात्पदप्रकारकबोधं एव सर्वसम्मत इति । 1 तथा जातिविशेषोप्यवच्छेदकः । शक्तिग्रहवैलक्षण्याच्च बोधवैलक्षण्यम् । अत एवेक्ष्वाकादिपदेषु तत्तत्पिण्डदर्शनाच्छाक्तिग्रहशाकिनां तद्वृत्तिजातिमकारक एव बोधः । अस्मदादीनां च नेति सङ्गच्छते । स च शब्दः शक्तिसम्बन्धेनैवावच्छेदकः शक्तिश्च शब्देक्येपि नानैवेति न नानार्थोच्छेदो न वा ब्राह्मणादिनाम्नः
Page #294
--------------------------------------------------------------------------
________________
२८०
वैयाकरणभूषणे शूद्रस्य हननाघोषः । अस्तु चैका सा तथापि नानार्थोच्छेदः सर्वनामकक्षतया सर्वसमाधेयः । तथाहि । अनुभवानुरोधात्सर्वनाम्नां विशिष्योपस्थापकत्वमिति सर्वसिद्धम् । तच्च यदि बुद्धिविषयत्वरूपेणोपस्थापितघटत्वपटत्वादिशालिषु बुद्धिविषयवति शक्तं तत्पदमित्येव शक्तिग्रहो बुद्धिविषयत्वं तूपस्थितावनुग. मकमात्रं न तु शक्यमिति न तच्छान्दबोधे भासते किं तु घटत्वादिकमेवेत्युच्यते तदात्रापि बुद्धिविषयत्वरूपेणोपस्थितपाशत्वविभी. तकत्वादिशालिषु बुदिविषयवति शक्तमक्षपदमिति शक्तिग्रहस्य सुवचत्वात् । यदि वा बुद्धिविषये तदादिपदं शक्तमित्यतिदेशवाक्यार्थज्ञानसहकृतेन मनसा प्रकरणादिवशात्तदादिशब्दश्रवणान न्तरं विशेषरूपेणोपस्थिते शक्तिग्रह इत्युच्यते तदा ऽत्रापि बु. द्धिविषये ऽक्षादिपदं शक्तमित्याधतिदेशवाक्यार्थज्ञानसहकृतेन मनसा प्रकरणादिवशादक्षपदश्रवणानन्तरं विशेषरूपेण उपस्थिते शक्तिग्रह इति तुल्यमेवेति । वस्तुतः शक्यतावच्छेदकनानात्वे. न नानार्थतेति सर्वसिद्धत्वादत्र जातेरनेकस्या अवच्छेदकत्वा. भानार्थत्वं दुष्पारहरम् । ब्राह्मणं न इन्यादित्यत्रापि जातिविशेषावच्छिन्नहननं पापजनकमिति स्वीकारान दोष इति ध्येय. म् । तस्माच्छन्दो ऽवच्छेदकः स एव त्वप्रत्ययवाच्यः । एतच्च वृद्धिरादैजित्यत्र शब्दकौस्तुभे स्पष्टम् । उक्तं च हरिणा । सामान्यान्यभिधीयन्ते सत्ता वा तैर्विशोषिता । संज्ञाशब्दस्वरूपं वा प्रत्ययैस्त्वतलादिभिरिति । एतदेवाभिप्रेत्य यद्वति वार्तिकं भाष्यं च सङ्गच्छते । अन्यथा सूत्रोक्तभावशब्दार्थविचारे पक्षद्वयेपि तदैक्यादसङ्गत्यापत्तेः । अत एनाये धर्मविशेषः प्रत्ययार्थो द्वितीये बोधप्रकार इति मनोरमायां पक्षद्वयोपन्यासः सङ्गच्छते । अन्यथा धर्मविशेषस्य पक्षद्वयेपि समानत्वादसङ्गत्यापत्तेः । एतेन
Page #295
--------------------------------------------------------------------------
________________
देवताद्यर्थकतद्धितार्थनिर्णयः । २८१ पूर्वत्र लक्षणे जातिगुणद्रव्यलक्षणार्थाभिधायिभ्यो गवादिभ्यः शब्दस्वरूपसामान्यादिषु प्रत्ययः । इह तु शब्दाभिधायिभ्यः पूर्वोक्तेष्वेवार्थेष्विति प्रकृत्यर्थभेदेषि प्रधानप्रत्ययार्थाभेदापेक्षो विकल्प इति कैयटोक्तिः परास्ता । तस्मात्संज्ञाशब्देष्विव शब्द एवावच्छेदकस्त्वप्रत्ययेन कुत्वमित्यवाभिधीयतइति प्रतिभातीति दिक् । पक्षद्वयोपि तैः प्रकृतिभूतैर्जन्यो यो बोधस्तत्र यः प्र. कारस्तत्र त्वादयो जायन्ते । कीडशे प्रकारे । भावसंज्ञिते । तस्य भाव इति सूत्रे शब्दस्य प्रवृत्तिनिमित्तं भाव इति प्रसिद्धौ च भावशब्दवाच्ये इत्यर्थः॥ इति वैयाकरणभूषणे भावप्रत्ययार्थनिर्णयः समाप्तः। - सास्य देवतेत्यत्र देवताविशिष्टं देयं प्रत्ययार्थः । ऐंद्रं वैश्वदेवीत्यादौ इन्द्रादेर्देवतात्वोपस्थापकाभावात्तेन रूपेणोपस्थितये पृथक् शक्तिकल्पनावश्यकत्वात् । अत एवा मिक्षां देवतायुक्तां वदत्येवैष तद्धितः । आमिक्षापदसानिध्यात्तस्यैव विषयार्पण' मिति । 'केवलादेवतावाची तद्धितोग्नेः समुच्चरन् । नान्ययुक्ता. ग्निदेवत्यं प्रतिपादयितुं क्षम' इति च मीमांसकैरप्युक्तमित्याशयेनाह ॥ प्रत्ययार्थस्यैकदेशे प्रकृत्यर्थो विशेषणम् ॥ ५२ ॥ अभेदश्चात्र संसर्ग आग्नेयादावियं स्थितिः। देवतायां प्रदेये च खण्डशः शक्तिरस्तु वा ॥५३॥
एकदेशे देवतारूपे तच्चाभेदेनेत्याह । अभेदश्चेति । व. स्तुतस्तु चतुर्थ्यादौ प्रकृत्यर्थस्य तथैव लब्धस्य चतुर्थ्या देवतात्वमात्रमुच्यतइति तद्वत्मकृत्युपातेंन्द्रादेर्दैवतारूपत्वमेव इहाथैः ।
Page #296
--------------------------------------------------------------------------
________________
१८२
वैयाकरणभूषणे
मूलं तु न्यायसुधायामामिक्षाधिकरणे तथाभिधानादुद्देश्यश्चतुध्यर्थ इति मतेन । ननु ' तद्धितेन चतुर्थ्या वा मन्त्रवर्णेन वा पुनः । देवप्रसङ्गतिस्तत्र दुर्बलं तु परं पर' मिति मीमांसकोक्तं तद्धिताच्चतुर्थी दौर्बल्यं कथमिति चेत् । इत्थम् । चतुर्थ्यां वाक्यादेवतात्वसम्बन्धलाभस्तद्धिते समानपदोपादानश्रुत्येति श्रुतिवाक्यबलाबलाधीनं तदिति ध्येयम् । नन्वग्न्यादेः प्रत्ययार्थदेवतायां नाभेदेनाप्यन्वय सम्भवः । पदार्थैकदेशत्वादन्वयस्यैवाभावादित्यत आह । देवतायामिति । तथा च पदार्थैकदेशतैव नास्तीति भावः ॥ ५३ ॥
;
नम्बग्ने पादावग्नेर्देवस्य प्रकृत्या लाभान्न शक्तिः कल्प्या । न च देवतात्वरूपेणोपस्थितये सा कल्प्यते । तेन रूपेणोपस्थितेलक्षणयाप्युपपत्तेः । उपसर्गीणां द्योतकत्वमते प्रजयतीत्यत्र प्रकृष्टजयमतीतिवदित्याभिप्रेत्याह ॥
प्रदेयएव वा शक्तिः प्रकृतत्वस्तु लक्षणा । देवतायां निरूढेति सर्वे पक्षा अमी स्थिताः ५४
ऐन्द्रमित्यनेन्द्र विशिष्टं प्रतीयते । तत्रेन्द्रो देवता प्रकृत्यर्थः देय द्रव्यं प्रत्ययार्थस्तयोः सम्बन्धः संसर्गः । न चानन्यलभ्यः शब्दार्थ इति न संसर्गदेवते तदर्थः । न च द्रव्यमपि दध्यादिपदलभ्यं न शक्यम् । तदश्रवणेप्यैन्द्रपदमात्राद्देयमालप्रतीतेः । ऐन्द्रं दधीति सामानाधिकरण्याच्च, सास्यदेवतेत्यनुशासनाच्च । मीमांसकानां पुनः कर्तृकर्मणोराख्यातावाच्यत्वं स्वीकुर्वतां तुल्ययुक्तचा ऽत्रापि द्रव्यवाच्यत्वं न सिध्योदति प्रपञ्चितं प्रागिति ध्येयम् । देवतायामिति । देवतात्वरूपेणेत्यर्थः । निरूढे - ति । अनादिप्रयोगावच्छिन्नलक्षणाया एव तत्त्वादिति भावः ।
Page #297
--------------------------------------------------------------------------
________________
२८३
____ अभेदैकत्वसंख्यानिर्णयः। यत्वग्निप्रभृतिभ्यो माणवकादिसङ्केतितेभ्यः प्रत्ययापरया निरूदेत्युक्तामति। तन्न। "अभिव्यक्तपदार्था ये स्वतन्त्रा लोकविश्रुताः। शास्त्रार्थस्तेषु कर्तव्या शब्दषु न तदुक्तिषु" इति वाक्यपदीयेनैव नि. रस्तत्वात । युक्तं चैतत् । पुराणादिप्रसिद्धनिरूढार्थकै शास्त्रस्य निराकांक्षाकरणेनाधुनिकेष्वप्रवृत्तेः। अत एव क्षत्रियादिभिः स्वपुत्र. स्य ब्राह्मण इति नाम्नि कृतेपि न तदननं "न ब्राह्मणं हन्या" दिति वाक्यविषय इति बोध्यम् ॥ ५४॥
अनयैव रीत्या ऽन्यत्राप्यवधेयमित्याह । क्रीडायां णस्तदस्यास्तीत्यादावेषैव दिक् स्मृता । वस्तुतो वृत्तिरेवेति नात्रातीव प्रयत्यते ॥ ५५ ॥
तदस्यांपहरणमिति क्रिडायां ण इत्यत्र प्रहरणविशिष्टा क्री. डा प्रहरणक्रीडे क्रीडामात्रं वेति दिगर्थः । आदिना सोस्यनिबासः सास्मिन्पौर्णमासीति ग्राह्यम् । निरूढलक्षणायाः शक्त्य. नतिरेकात्पूर्वानुशयाच्चाह । वस्तुत इति ॥ इति वैयाकरणभूषणे देवताप्रत्ययार्थनिर्णयः॥
वृत्तौ विशेषणे अभेदैकत्वसळ्या प्रतीयते इति सिद्धान्तं निरूपयमाह ॥
अभेदैकत्वसङ्ख्याया वृत्तौ भानमिति स्थितिः । कपिञ्जलालम्भवाक्ये त्रित्वं न्यायाद्यथोच्यते॥५६॥
सङ्ख्याविशेषाणामविभागेनावस्थानमभेदकत्वसङ्ख्या । उक्तं हि वाक्यपदीये । “ययौषधिरसाः सर्वे मधुन्याहितशत्तायः । अविभागेन बर्तन्ते तां सड़यां वाहशी विदु" रिति ।
Page #298
--------------------------------------------------------------------------
________________
२८४
वैयाकरणभूषणे
परीत्यक्तविशेषं वा सङ्ख्या सामान्यमभेदैकत्वसङ्ख्या । उक्तं च | "भेदानां वा परित्यागात्सङ्ख्यात्मा स तथाविधः । व्यापाराज्जाविभागस्य भेदापोहेन वर्त्तते । अगृहीतविशेषेण यथा रूपेण रूपवान् । प्रख्यायते न शुक्लादिभेदापोहस्तु गम्यते " इति । अस्या, वृत्तौ समासादौ भानं न्यायसिद्धमिति शेषः । अयमर्थः । राजपुरुष इत्यादौ राज्ञो राज्ञोः राज्ञां वेति जिज्ञासानुभवाद्विशेषजिज्ञासायाः सामान्यज्ञान पूर्वकत्वनियमात्तद्रूपेण बोधाय शक्तिरावश्यकी । बुध्यते च क्व चिद्विशेषतोपि । यथा द्विपुत्रः पञ्चपुत्र इत्यादौ । एवं तावकीन इत्यादावेकत्वं तवकव्यंग्यम् । विशेषतस्तद्बोधकाभावे चाभेदैकत्वं प्रतीयते । एकत्वत्वरूपेणैव प्रतीयत इत्यत्र न्याये एव बीजमित्याह । कपिञ्जलेति । कपिञ्जलानालभतेत्यत्र बहुवचनेन त्रय एव गृह्यन्ते । गणनायां त्रित्वस्य प्रथमोपस्थितत्वात् । प्रथमोपस्थितत्यागे च मानाभावात् । एवं प्रकृतोपि विशेषतः सङ्ख्याबोधकाभावस्थले प्रथमोपस्थितैकत्वत्यागे मानाभाव इति भावः । अत्र वदन्ति । त्रित्वत्वेन प्रथमोपस्थितौ न नियमः । दशत्वत्वादीनामपि प्रथमोपस्थितत्वात् । गणनायाश्चानियमात् । विपरीतगणनायामपि कस्य चिदुत्पन्नत्वाच्च । अन्यथा पश्येकत्वविवक्षापि न स्यात् । एकत्वस्य गणनायां प्रथमोपस्थितत्वेन न्यायेनैव तदुपस्थितिसम्भवात् । एकवचनं त्वौत्सर्गिकम् | सत्रादुदवसाय - ज्योतिष्टोमेन पृष्ठशमनीयेन यजेरन्नित्यत्र बहुवचनदन्न्यायप्राप्तानुवा दो वा । नन्वेवं सति सङ्ख्याया अङ्गत्वं न स्यात् । तथा च द्वयोरनुष्ठानापत्तिः । एकत्वस्य न्यायेनोपस्थितावपि द्वयोरालम्भने साङ्गयागानुष्ठानापत्तिरिति चेन्न । पशुना यजेतेत्यत्र पशुत्वस्य यागसाधनतोच्यते तच्चैकालम्भनेपि सम्पन्नमिति नाधिकाल -
Page #299
--------------------------------------------------------------------------
________________
अभेदैकत्वसंख्यानिर्णयः । २८५ म्भनं व्यर्थत्वात् । तावतैवार्थसिद्धेमध्ये पश्वन्तरालम्भने प्रयोगमांशुभावरूपं पदार्थानां सानिधानं च बाध्येत । उक्तं हि वाक्यपदीये । “प्रत्याश्रयं समाप्तायां जातावेकेन चेक्रिया । पशुना न प्रकल्प्येत तत्स्यादेतत्मकल्पना ॥ एकेन तु प्रासिद्धायां क्रियायां यदि सम्भवात् । पश्वन्तरमुपादेयमुपादानमनर्थकम् ॥ यथैवाहितगर्भायां गर्भाधानमनर्थकम् । तथैकेन प्रसिद्धायां पश्वन्तरमनर्थकम् ॥ तावतार्थस्य सिद्धत्वादेकस्याप्यनतिक्रमम् । के चि. दिच्छन्ति न त्वत्र सख्यां गत्वेन गृह्यते" इति । कपिजलानालभेतेत्यादौ बहुत्वान्वयानुरोधानकालम्भनेन निर्वाह इति विशेषः । अथोच्येत । न हिंस्यादिति निषेधस्य यावता विना विधेरेनुपपत्तिस्तत्रैव सङ्कोच इति कपिजलात्रयव्यतिरिक्त तत्सको विनापि शास्त्रार्थोपपत्तेस्तत्र सङ्कोचाकल्पनात्तस्य निषेधविषयत्वाविरोधान्न तत्र विधिप्रवृत्तिरिति । तन्न । न हिंस्येत्यस्यैकवाक्यतया वैधहिंसाभिन्ना सा न कर्त्तव्योति शास्त्रार्थः न तु कपिजलत्रयव्यतिरिक्ता सा न कर्त्तव्योत न निषेधानुसारेण विधिसङ्कोचः । किं तु विपरीतं, विशेषानाक्रान्ते सामान्यप्रवृत्ते.
ाय्यत्वात् । यदि च विधिनिषेधविध्योर्न विरोधस्तदा नैवं शङ्कापि । वस्तुतस्तान् पर्यग्निकृतानारण्यानुत्सृजतीति वाक्यात्ते. षां हननमेव नास्तीति किं वृथा विचारेण । अस्तु वा तथा, तथापि प्रकृतासङ्गतिरेव । नोकत्वादिप्रतीतिरुक्तन्यायेन सम्भवति । अत एव कपिजलानालभेतेत्यत्रापि व्यक्तित्रयालम्भनस्यैव कारणतोच्यते । अन्यथान्येषामपि तत्कल्पने गौरवापत्तिः । ब्रा. ह्मणान्भोजयेदित्यत्रापि व्यक्तित्रयभोजने उक्तविधिनिष्पन्न एव । अधिकभोजनं च फलविशेषार्थः । न चात्रापि चतुष्टयाद्याल. म्भने फलविशेषापत्तिः । कल्पकाभावात् । ब्रह्मणभोजनादौ च
Page #300
--------------------------------------------------------------------------
________________
२४६
वैयाकरणभषणे स श्रुत एव । न चैवमप्येषां त्रयाणामेषां वेति विनिगमनाविरहादहूनामालम्भनापत्तिः । अयं पशुः स वेत्यनुरोधेन पशुनेत्यत्राप्यतिप्रसङ्गात् । न चैकवचनेन पर्याप्त्या द्वित्वानाश्रयस्य साधनतोच्यते इति नातिप्रसङ्ग इति वाच्यम् । एकवचनस्य वथा शक्त्यभावेन लक्षणाभ्युपगमे त्रित्वविशिष्टे तस्याः सम्भवातुल्यमेवेति परास्तम् । विधिनिषेधयोर्विरोधवादिनां कपिञ्जलात्रयातिरिक्तालम्भनस्य पापजनकत्वकल्पनापत्तौ गौरवस्य तुल्यत्वाच । तस्मान्नैकत्वत्वेन तत्पतीतिः किं तु सङ्ख्यात्वसामान्यरूपेण । अन्यथा राजपुरुष इत्यादौ राज्ञो राज्ञोर्वेत्यादिजिज्ञासानापत्तेः । इष्टापत्तौ वृद्धिमिच्छतो मूलमपि नष्टमिति न्यायापातः । अनुभवश्च नास्त्येव तथा । तस्मादभेदैकत्वशब्देनैव व्यवहारः कुतः । अभेदद्वित्वादिशब्देनापि तदौचित्यादित्याशङ्कायां कपि
जलान्याय उदाहृतः । प्राथम्यात्तथा व्यवहार इति भाव इति दिक । नव्यास्तु पदार्थैकदेशत्वाद्राजपुरुष इत्यत्र राज्ञस्तत्र सङ्ख्यात्वरूपेणापि न तदन्वय इत्याहुः । समासादौ शक्तिः कल्प्यमाना सङ्ख्याविशिष्टे एव सा करप्येत्यभ्युपगमे तु नायं दोषः । परंत्वनुभवाविरहाज्जिज्ञासानुरोधेन शक्तौ तु ज्ञानेच्छयोः समानप्रकारकत्वेन हेतुहेतुमद्भावाद्विशिष्यैव वाच्यतापत्तेरिष्टापचौ जिज्ञासोच्छेदापत्तेर्मूलोच्छेदाच्छक्तिकल्पनमेवानर्थकमिति वि. भावयाम इति दिक् ॥ ५६ ॥
इति वैयाकरणभूषणे अभेदैकत्व
संख्यानिरूपणं समाप्तम् ॥ संख्याप्रसादुद्देश्यविधेययोः संख्याविवक्षाविवक्षे निरूपयति ॥
Page #301
--------------------------------------------------------------------------
________________
संख्याविवक्षा निर्णयः ।
लक्ष्यानुरोधात्संख्या च तन्त्रातन्त्रे मते यतः । पश्वेकत्वादिहेतूनामाश्रयणमनाकरम् ॥ ५७ ॥
ग्रहं समाष्टत्यत्र वाक्ये उद्देश्य ग्रहगतमेकत्वमविवक्षितमितिवन्नास्माकमुद्देश्यविशेषणाविवक्षानियमः । आर्धधातुकस्येड्वलादेरित्यादावनुवाद्यार्धधातुकविशेषणस्प वलादित्वस्य विवक्षितस्वात् । एवं पशुना यजेतेतिवद् द्विषेयविशेषणं विवक्षितमित्यपि न । रदाभ्यां निष्ठा तो नः पूर्वस्य च द इत्यत्रैकत्वाविवक्षणा त् । तथात्वे वा भिन्न इत्यत्र नकारद्वय लाभो न स्यात् । न च वाक्यभेदात्तलाभः । तत्कल्पनएव गौरवात् । एवमेव चकाराकरणे लाघवतरत्वात् । एवमेतयोरविवक्षैव विवक्षैव वेत्यपि न । उपेयिवाननाश्वाननूचानश्चेत्यत्र नव्प्रभृतोर्विवक्षाया उपेत्य - स्याविवक्षायाश्च स्वीकारात् । इकोयणचीत्यत्राने कयकारापत्तेः । एकत्वस्य विवक्षितत्वादित्यर्थः । पश्वेकत्वादीत्यादिना ग्रहैकस्व संग्रहः । अथ समानप्रत्ययोपान्तेन प्रातिपदिकादपि सन्निहि तेन प्रधानभूतेन च कारकेणावरुद्धमेकत्वं प्रातिपदिकार्थमनाहत्य कियाङ्गमवगम्यमानं वाक्यसमर्पितेन क्रियाविशेषेण सम्बध्य पश्चादरुणैकहायनीन्यायेन पशुनार्थात्सम्बध्यते तादर्ध्य तु यज्ञ प्रत्येवेत्ति पश्वेकत्वाधिकरणोक्तरीत्यात्रापि नकारादिविधायकेषु नकारस्यैकत्वादिविशिष्टस्यैवान्बयोस्तु । युक्तं चैतत् । अन्यथानन्तनकारापत्तेर्दुर्वारत्वात् ॥ ५७ ॥
न च प्रागुदाहृतवाक्यपदीयरीत्येकेन चरितार्थत्वान बहूनामापतिरिति शंक्यम् । भिन्न इत्यत्रापि नकारद्वयानापत्तेः । उभयोरेकेनोपपत्तेः । सवर्णदीर्घगुणादिवत् । एकः पूर्वपरयोरित्ये कग्रहणस्थाने चकारसत्त्वादिति सर्वमभिप्रेत्याह ॥
·
Page #302
--------------------------------------------------------------------------
________________
२८८
वैयाकरणभूषणे विधेये भेदकं तन्त्रमन्यतो नियमो नहि । ग्रहैकत्वादिहेतूनामाश्रयणमनाकरम् ॥ ५८॥
भेदकम् । विशेषणम् । तन्त्रम् । विवक्षितम् । अन्यतः । अनुवाद्यस्य । नियमो नहि । क्व चितन्त्रं क्वचिन्नेत्यर्थः । नवेवं ग्रहं समा त्यत्रोद्देश्यग्रहगतमेकत्वमविवक्षितम् । वाक्यभेदापत्तेः । तथाहि । प्राजापत्या नव ग्रहा इत्यत्र विहितग्रहोद्देशेन सम्मार्गो विधीयते । तथा च सम्मार्गविधायकेप्येकत्वविवक्षायां ग्रहं सम्मार्टि तच्चैकमित्यर्थः स्यात् । उक्तं हि पाक्यपदीये । 'ग्रहास्त्वन्यत्र विहिता भिन्नसंख्याः पृथक्पृथक् । प्राजापत्या नवेत्येवमादिभेदसमन्विताः॥ अङ्गत्वेन प्रतीतानां सम्मार्गे त्व. गिनां पुनः । निर्देशं प्रति या संख्या सा कथं स्याद्विवक्षिता' इति । किं च । ग्रहमिति द्वितीयया ग्रहस्य प्राधान्यं प्रतीयते एवमेकत्वस्यापि । तथा च ग्रहस्वरूपवदेकत्वविवक्षायामपि प्र. तिप्रधानं गुणावृत्तिरिति न्यायात्सर्वत्र ग्रहे सम्मार्गसिद्धर्व्यर्थे व तद्विवक्षा । एवमेव तकारदकारयोभिन्न इत्यत्र नकारद्वयला. भः । यदि च पशुवद्ग्रहाणां गुणत्वं भवेत्तदा येन केनापि सिदेर्यावद्गुणं प्रधानावृत्तेरभावाच्च परिच्छेदकत्वेन पशुवत्सं. ख्याविवक्षा स्यात् । न चैवम् । अथ संख्याविशिष्टपश्वादिविधिवदेकत्वाविशिष्टग्रहानुवादेन सम्माविधिः स्यादिति चेत्तथापि सर्वषां प्रत्येकमेकत्वात्स्यादेव प्रसङ्गः । न चैकत्वविशिष्टसमार्गविधिः । तथापि द्वितीयोक्तप्राधान्यानुरोधेन प्रतिप्रधानं गुणावृत्तिरिति न्यायात्सर्वत्र सम्मार्गप्रसङ्गात् । न च सक्तुवल्लक्षणा । ग्रहाणामपि प्राधान्यानापत्तेरिति ग्रहाधिकरणन्यायविरोधादसङ्गतमेवान्यत इत्यादीत्यत आह । ग्रहैकत्वादीति । अयमा
Page #303
--------------------------------------------------------------------------
________________
बनारस संस्कृतसीरीज़ अर्थात्
वाराणसीसंस्कृतपुस्तकावली ।
तत्र मुद्रिता ग्रन्थाः ।
सिद्धान्ततत्त्वविवेकः खण्ड ५ अर्थसङ्ग्रहः अंग्रेजीभाषानुवाद सहितः तन्त्रवार्त्तिकम् खण्ड १०
कात्यायनमहर्षिप्रणीतं शुक्लयजुः प्रातिशाख्यं स
भाष्यं खण्ड ६ सांख्यकारिका चन्द्रिकाटीकागौडपादभाष्यसहिता
वाक्यपदीयं खण्ड ३
रसगङ्गाधरः खण्ड ८ परिभाषावृत्तिः खण्ड २
वैशेषिकदर्शनं किरणावलीटीकासंवलितप्रशस्तपा
दप्रणीत भाष्यसहितम् खण्ड २ शिक्षासङ्ग्रहः खण्ड ५
नैष्कर्म्यसिद्धिः खण्ड ३
महर्षि कात्यायनप्रणीतं शुक्लयजुस्सर्वानुक्रमसूत्र
म सभाष्यं खण्ड ३ ऋग्वेदीय शौनकप्रातिशाख्यं सभाष्यम् (बृहत्) वैयाकरणभूषणम् खण्ड ३ न्यायलीलावती ( यन्त्रस्था)
रु०
५
१
m
आ०
०
इन से अधिक अनेक प्रकारकी संस्कृत हिन्दी और अंग्रेजी आदि पुस्तकें हमारे यहां मिलती हैं जिनको अपेक्षित हो नीचे लिखे हुए पतेपर पत्र भेजें ॥
व्रजभूषण दास और कम्पनी चांदनी चौक के उत्तर नई सड़क बनारस ।
Page #304
--------------------------------------------------------------------------
________________
विज्ञापनम् ।
बनारससंस्कृतसीरीज़नाम्नी वाराणसेयसंस्कृतपुस्तकावली।
इयं पुस्तकावली. खण्डशो मुद्रिता भवति । अस्यां संस्कृतभाषानिबद्धा बहवः प्रचीना दुर्लभा उत्तमोत्तमाः केचिदङ्गलभाषानुवादसहिताक्षअन्या मुद्रिता भवन्ति । तांश्च ग्रन्थान् काशिकराजकीयसाकृतपाठशालीयपण्डिता अव्ये ऽपि विद्वांसः शोधयन्ति । यैाहकमहाशयैरियं पुस्तकावली नियमेनाविच्छेदेन संग्राह्या तैस्तदेकैकस्य खण्डस्य कृते ॥ मूल्यं प्रापणव्ययश्च :) देयः । अन्यमहाशयैर्यैः कानिचित् खण्डानि संग्राह्याणि तैश्च प्रत्येक खण्डानां कृते १) मूल्यं प्रापणव्ययश्च ) देय इति ॥
ब्रजभूषणदास और कम्पनी, चांदनीचौक के उत्तर नई सड़क
: बनारस ।
Page #305
--------------------------------------------------------------------------
________________
REGISTERED ACCORDING TO ACT XXV. OF 1867.
BENARES SANSKRIT SERIES;
COLLECTION OF SANSKRIT WORKS
EDITED BY THE
PANDITS OF THE BENARES SANSKRIT COLLEGE, UNDER THE SUPERINTENDENCE OF
R. T. H. GRIFFITH, M. A., C.-I. E.
AND
G. THIBAUT, PH. D.
No. 54.
( बृहत् ) वैयाकरणभूषणं
पदार्थदीपिका च सहितम् सर्वतन्त्र स्वतन्त्रश्रीमत्कौण्डभट्टविरचितम् ॥ (BRIHAT) VAIYAKARANA BHUSHANA,
A Treatise on Sanskrit Grammar,
BY PANDIT KAUNDA BHATTA:
ALSO PADARTHA DIPIKA BY THE SAME AUTHOR.
EDITED BY
PANDIT RÁMA KRISHNA ŚÁSTRÍ,
Alias TATYA SÁSTRÍ PATAVARDHANA, PROFESSOR, GOVERNMENT SANSKRIT COLLEGE, BENARES.
FASCICULUS IV.
BENARES.
PUBLISHED BY THE PROPRIETORS Messrs. BRAJ B. DAS & Co. AND SOLD BY H. D. GUPTA,
SECRETARY, CHOWKHAMBA SANSKRIT BOOK DEPOT.
-:0:
PRINTED AT THE RAJ RAJESHWARI PRESS & THE TARA PRINTING WORKS,
BENARES.
1900.
Page #306
--------------------------------------------------------------------------
Page #307
--------------------------------------------------------------------------
________________
क्त्वादिमत्ययार्थनिर्णयः। १४६ भन्यः । अस्तु तारग्रहस्थले सान स्माकमयं दोषः । आधधातुकस्येवलादेरियन बलादित्वविशिष्टमार्धधातुकमनूछविधानसम्भवात् । न चैवं रीत्या ग्रहेष्वपि दोषः । तत्राकांक्षाविरहादिति दिक् ॥ ५८ ॥
नन्वेवं रदाभ्यामित्यतो नकारद्वयलाभो भिन्न इत्यत्र न स्थादित्यत आह ॥ रदाभ्यां वाक्यभेदेन नकारद्वयलाभतः । क्षति वास्ति तन्त्रत्वे विधेये भेदकस्य तु ॥१९॥
चशब्दानुरोधाभाष्यादिसिद्धवाक्यभेदानकारद्वयलाभ इ. त्यर्थः । न च वाक्यभेदे गौरवम् । उक्तरीत्या एकत्वस्यातन्त्रवे तस्यावश्यकत्वादिति भावः । नन्वेवं वृद्धिरेचिं आद्गुण इ. त्यादौ विधेयगतसङ्ख्याविवक्षयैवेष्टसिद्धावेकः पूर्वपरयोरित्यत्रैकग्रहणानर्थक्यामिति चेत् । को दोषः । मात्रालांघवेन हि वैयाकरणाः पुत्रोत्सवं मन्यन्ते । प्रत्याख्यातं चैतद्भाष्यकारादिभिरपीत्यलं पल्लवेन । एवं चास्यच्चावित्यादावनुवाद्यविशेषणत्वान व्यक्तिर्विवक्ष्यते, ग्रहैकत्ववदिति कैयटश्चिन्तनीय इति भावः ॥ ५९॥
इति वैयाकरणभूषणे सङ्ख्याविवक्षा.
निरूपणं समाप्तम् ॥ क्त्वाप्रत्ययादीनामर्थं निरूपयति ॥ अव्ययकृत इत्युक्तेः प्रकृत्यर्थे तुमादयः । । समानकर्तृकत्वादि द्योत्यमेषामिति स्थितिः ६०
Page #308
--------------------------------------------------------------------------
________________
२९०
वैयाकरणभूषणे
- तुमादयः, तुमुनादयः । प्रकृत्यर्थे, भावे । आदिना क्त्वादेः संग्रहः । भाव इत्यत्र मानमाह । अव्ययकृत इति । अव्ययकृतो भाव इति वार्त्तिकादित्यर्थः । भाष्यकारास्तु तुमर्थसूत्रे तु. मर्थो भाव इति व्यवस्थाप्याने तदनुत्तिं स्वीकृत्य च तुमुन: समानाधिकरणे अव्ययकृतो भाव इत्यादि वार्तिकं प्रत्याचक्षाणाः क्त्वादीन्भावएवेच्छन्ति । अत एव समानकर्टकयोरिति सूत्रे स्वशब्देनोपासत्वान्नेति भाष्यप्रतीकमादाय पौर्वापर्यकाले घोसे क्त्वादिविधीयते न तु विषय इति भाव इति कैयटः । यन्तु समानकर्तृकयोः पूर्वकाले इति स्मरणात्कर्ता कायर्थः । अन्यथेष्टकाः पक्त्वाई भोक्ष्ये इत्यत्र मयेति तृतीयाप्रसङ्गात् । न चाख्यातेन कर्तुरभिधानान सेति वाच्यम् । भोजनक्रियाकर्तु रुक्तत्वपि पाकक्रियाकर्तुस्तदभावात् । मनभिहिते भवतीति प. युदासलक्षणाश्रयणात् । न त्वभिहितस्य नेति निषेधस्य । अत एव प्रासादआस्ते इत्यत्र प्रसादनक्रियाधिकरणस्याभिधाने व्याप्तिक्रियाधिकरणस्यानभिधानात्सप्तमीति भाष्यवार्तिकयोः स्पटम् । तस्मात् क्त्वाप्रत्ययेन कत्रभिधानमाश्रित्य तृतीयाभाव उ. पपादनीयः इति परिमले अप्पय्यदीक्षितैरुक्तं, तन्निराचष्टे । समा. नकर्तकत्वादीति । आदिना पूर्वकालिकत्वादिसंग्रहः । द्योतकत्वं च प्रकृत्यर्थयोः संसर्गे तात्पर्यग्राहकत्वम् । अयं भावः । भावो ऽत्र साध्यावस्थापन एव स च धातुनैव लब्धः । तत्र च क्वाप्रकृत्यर्थभूता क्रियान्तरविशेषणम् । तयोः सम्बन्धः सामानाधिकरण्यं तथोत्तरकालिकत्वं पूर्वकालिकत्वं जन्यत्वं व्याप्यत्वं वा । तत्र च तत्तत्सम्बन्धस्य तात्पर्यग्राहकाः क्त्वातुमुनादयः । तथा च भुक्त्वा जति भुक्त्वैवाहं तृप्तो न तु पीत्वा अधीत्य तिष्ठति ईश्वरो ज्ञात्वा तिष्ठतीत्यादौ परेषामिवास्माकमपि बोधः।
Page #309
--------------------------------------------------------------------------
________________
क्वादिप्रत्ययार्थनिर्णयः । एवञ्च सति भुक्त्वा व्रजती दौ समानकर्तृता पूर्वकालता च प्रतीयते इति देवताधिकरणे भामत्यामभिमनादनुभवाच्च समानकर्तृकत्वं पूर्वकालीनत्वं च क्त्वावाच्यम् । अत एव बा. पलक्षणे एकैकाधिकरणे ऋत्विगभ्युच्चयाधिकरणे च समा. नकर्तृकत्वमर्थमादाय पूर्वपक्षसिद्धान्तौ कृतौ । न चैवं दर्शपूर्ण: मासाभ्यामिष्टवा सोमेन यजेतेति वाक्याद्दर्शपूर्णमासोत्तरका सोमाङ्गत्वेन विधीयते इति राद्धान्तासङ्गतिः । तत्रोत्तरकाळे क. क्षणया तथा लाभात् । सा च प्रकरणबाघभयात् । यद्वा. भा. विनि प्रमाणाभावेन तत्पागभावघटितपूर्वकालत्वस्यानिश्चयास्प्रवृत्तिर्न स्यादतो लक्षणादरः । अत एव प्रकरणबाधमपेक्ष्प श्रुतिबाधः प्रबल इत्यपास्तम् । अत एव सेयं देवतैक्षत हन्ता. हमिमास्तिस्रो देवता अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरणवाणीत्यत्र देवताया एव व्याकर्तृत्वे ऽनुपविश्यति क्त्वा. श्रुतिर्जीवपरा भेदमादाय सिद्धान्तिता भाष्यभामत्यादौ । तस्मात्समानकर्तृकत्वं क्त्वावाच्यामिति मीमांसकाः । अत्र वदन्ति । कृतिवाचकाभ्यां कृत्तिभ्यां सामानाधिकरण्येन. संसर्गेण तयोर्बोधनेनैव समानकर्तृकत्वलाभान तच्छक्यम् । तत्पकारकबोधस्तु नास्त्येव । किं तु पूर्वकालिकत्वमेव । न चैवं मुखं व्यादाय स्वपितीति न स्यात् । व्यादानस्य स्वापपूर्वकालीनत्वाभावादिति वाच्यम् । व्यादानोत्तरमपि स्वापानुवृत्तेस्तमाभिप्रेत्यैव तथा प्रयोगात् । भामत्यां च प्रतीतिमात्रमुक्तम् । तन्तु संसर्गतयापि तत्सत्त्वानानुपपन्नम् । अत एव ज्योतिर्दर्शनादित्यधिकरणे क्त्वाश्रुतेः पूर्वकालायाः पीडनप्रसङ्गादित्युक्तिस्तस्यैव वाच्यतां ध्वनयति । तथापि पूर्वकालिकत्वमा न शकयम् । वर्षान्तरीयं भोजनमादाय तथा प्रयोगापत्तेः । कि
Page #310
--------------------------------------------------------------------------
________________
११२
वैयाकरणभूषणे त्वयाहितामपि । तरच योग्य । सा च तात्पर्यादिभिः ण्डमासमुहूर्तादिरवसीयते । तथा च । भुस्वा नति, अय भुक्त्वा वो 'वूनति इत्यादौ यथाययं व्यवानपि न दोषः । क्योपस्थाप्यकालस्यायेत्यनेमाभेदान्वयादिति नैयायिकाः । पूर्वकालिकत्वं न शक्यम् । भुक्त्वा व्रजतीत्यादौ भोजनोत्तरं जतीत्यन्वयवोधात् । जनपूर्वकाले भोजनामित्यबोधाच्च । एव नाव्यवधानमपि । वर्षान्तरीयं भोजनमादाय तथाश्योगः सति • तात्पर्य इष्ट एव । तदा योग्यताया अपि दुवारत्वात् । असति च वारपर्ये तदभावादेव न बोधः । औत्सर्गिकं पुनरव्यक्थानमाद्रियतएवं । तस्मादानन्तर्यमेव शक्यम् । अत एव दर्शपूर्णमा. साभ्यामिष्ट्वा सामेन यजेतेति सोमप्रकरणस्थमपि वाक्यं निरावाचं दर्शोत्तरकालं सोमाङ्गत्वेन विधत्ते । अन्यथा क्त्वाश्रुतेः पू. वकालायाः प्रकरणानुरोपाहावापत्तेरिति तत्सिद्धान्तासङ्गतिः स्यात् । एवमेव च तिङन्तक्रियायाः प्राधान्यमपि सिद्धयति । एतदेव हि तस्याः प्राधान्यं यक्रियान्तराविशेषणत्वम् । भवसि हि गच्छम्पश्यतीत्यादौ गमनकर्तृताविशिष्टे दर्शनकर्तृताधीन तु विपरीता । तथा च भुक्त्वा वूजतीत्यादौ भोजनविशेषणिका बूजनविशेष्यिका धीः। भोजनस्यापि विशेष्यत्वे भुंक्ते वूजतीतिकद्वाक्यभेदीपत्तेः । तस्मादानन्तर्य क्त्वाद्यर्थ इति नवीनाः । कृ. त्यानन्तर्य विशिष्टं शक्यम् । कृतिरानन्तर्यमिति प्रत्येकं वा त. थानाधः। कृतेः पदार्थैकदेशतया तस्यां क्रियाया अनन्यया. त्तेः। रथः स्थित्वा गच्छतीत्यादावभावाच्च । अत एव न द्वि. तीयः। क्रियानिरूपितमानन्तर्य शक्यामिति चेन्न । स्थित्वा प. श्यतीत्यादावभावात् । स्थितर्दर्शनकालेपि सत्त्वेन तद्धसंरूपानन्तर्यस्य पाधात् । अत एव रथ इत्यादौ कृत्यानन्तर्यस्य शक्य
Page #311
--------------------------------------------------------------------------
________________
क्वादिप्रत्ययार्थनिर्णयः। १९१ स्वेप्यानन्तर्यमात्रे लक्षणति परास्तम् । तस्मातत्कालीनमा गभावप्रतियोगित्वरूपं तदधिकरणसमयसाधिकरणसमयो. स्पत्तिम स्वरूपं वा आनन्तर्य शक्यमिति ततोपि न. वीनाः परिष्कुर्वन्ति । रामकृष्ण भट्टाचार्यास्त्वाहुः । मान. न्तर्य वा पूर्वकालत्वं वा यत्किञ्चिच्छक्यमस्तु । सर्वथा मुखज्यादानोत्तरं तदभावकाले मुखं ज्यादाय स्वपितीत्यावर योगः । कथं बोभयानन्तर्याविशेषेपि मुक्त्वैवाहं तृप्तो न तु पी. स्वेत्यपि । कथं वेश्वरो ज्ञात्वा तिष्ठतीत्यादिकम् । तस्माज्जन्यत्वव्याप्यत्वादिकमपि क्त्वायर्थः । तथा च मुखं ज्यादायेत्या. दौ कालिकादिसम्बन्धेन व्याप्यत्वाभिप्रायेणैव प्रयोगादन्यदा. तननिद्रायास्तथास्वाभावात्र प्रयोगः । अत एवाध्ययनका. लीनस्थितिमादायैवाधीत्य तिष्ठतीति प्रयोगो नाध्ययनाभावका लीनस्थितिमादायेत्युपपद्यते । अत एवैष सम्प्रसादोस्माच्छ, रीरात्समुत्थाय परं ज्योतीरुपसम्पद्य स्वेन रूपेणाभिनिष्पयतइति श्रुतौ ज्योतिदर्शनादिति न्यायेन ज्योति:पदस्य ब्रह्मपरस्वे स्थिते उपसम्पद्यति त्वाश्रुतेरुपपत्तिः कालिकव्याप्तनि: बांधत्वादिति । इत्यादि सर्वमनादेयम् । उक्तरीत्या सम्बन्ध विधयैवैषां भानोपपत्तौ वाच्यत्वस्यायुक्तत्वात् । अत एव । वाक्यार्थीभूत एव । सम्बन्ध इह द्योत्यो न पदार्थभूत इति कर्मप्रवचनीयेभ्यो वैलक्षण्यम् । तस्मात्समानकर्तृकत्ववज्जन्यत्वव्या. प्यत्वपूर्वकालिकत्वानन्तर्यादयः संसर्गतयान्यलभ्या वाक्या
भूता न शक्याः । तथात्वे वा सर्वत्र वाक्यार्थस्य शक्यत्वाप. त्तिरिति तात्पर्यग्राहकाः क्त्वादयः । परिमलोत्तं तृतीयापादनमप्ययुक्तम् । स्वामिणमल् इति सूत्र अव्ययकृतो भावे इति भाज्यमादाय पक्त्वोदनं भुके देवदत्त इत्यत्र तृतीयामाशंक्या.
Page #312
--------------------------------------------------------------------------
________________
२९४
वैयाकरणभूषणे
"
ख्यातान्तार्थः क्रिया प्रधानम् । क्त्वान्तार्थो गुणीभूतः । तत्र मधानशक्त्यभिधाने गुणक्रियाशक्तिरभिहितैव । प्रधानानुरोधागुणानां तद्विरुद्धस्वकार्यारम्भकत्वाभावात् इति कैयटेनैव निरस्तत्वात् । उक्तं च हरिणा । 'प्रधानेतरयोर्यत्र द्रव्यस्य क्रिययोः पृथक् । शक्तिर्गुणाश्रया तत्र प्रधानमनुरुध्यते । प्रधानविषया शक्तिः प्रत्ययेनाभिधीयते । यदा गुणे तदा तदनुक्तापि प्रतीयते इति ॥ कथं वान्यथा तेषां पक्त्वौदनो भुज्यते देवदत्तेनेत्यत्र न द्वितीया । पाकक्रियाकर्मणोन भिहितत्वात् । अपि च । वाचकत्वे कर्तुः समाने कर्त्तरीति ब्रूयात् । अत एव च क्त्वादीनां नानार्थत्वमप्ययास्तम् । किं च पूर्वकालजन्यत्वादेवच्य स्वे कृत्प्रत्ययस्थले प्रत्ययार्थविशेष्यत्वनियमात्तस्यैव विशेष्यत्वापत्तेः । न चेष्टापत्तिः । क्रियाप्राधान्यविरहेणाभीक्ष्ण्यद्वित्वाभा वापत्तेः । न च गुणीभूतक्रियामाश्रित्य तदिति वाच्यम् । पा चक्कादावतिप्रसङ्गात् । धातुसम्बन्धइत्यस्य वाघापत्तिश्च । न च परम्परासम्बन्धस्तदर्थः । गौरवात् । यथाविध्यनुप्रयोग इत्यादौ साक्षात्सम्बन्ध परताया एव दर्शनात् । तथात्वे लाघवात् । भावे विधायकानुशासनविरोधाच्चेति दिक् ।। ६० ।। इति वैयाकरणभूषणे क्त्वादिप्रत्ययार्थनिरूपणं समाप्तम् ॥
प्रागुक्तस्य विचारस्यावास्तवत्वं ध्वनयितुं स्फोटस्यैव वाचकत्वसिद्धान्तमाह || वाक्यस्फोटो तिनिष्कर्षे तिष्ठतीति मतस्थितिः । साधुशब्देन्तर्गता हि बोधका न तु तत्स्मृताः ॥ ६१ ॥
·
·
Page #313
--------------------------------------------------------------------------
________________
स्फोटनिर्णयः । २९५ - यद्यपि वर्णस्फोटः पदस्फोटो वाक्यस्फोटो ऽखण्डपदवाक्यस्फोटौ वर्णपदवाक्यभेदेन त्रयो जातिस्फोटा इत्यष्टौ पक्षा: सिद्धान्तसिद्धा इति वाक्यग्रहणमनर्थकं दुरर्थकं च । तथापि वाक्यस्फोटातिरिक्तानामन्येषामप्यवास्तवत्व बोधनाय तदुपादानम् । अत एवाह । अतिनिष्कर्षइति । मतस्थितिर्वैयाकरणाना. म् । स्फुटति प्रकाशते ऽर्थो ऽस्मादिति स्फोटो वाचक इति यावत् । तथा च वर्णस्फोटादिपदानां वर्णादयो वाचका इत्यर्थः । तत्र क्रमेण सर्वान् तानिरूपयन्वर्णस्फोटं प्रथमत. आह । साधुशब्दइति । साधुशब्दे । निष्कृष्टपदे रामः भवतीत्यादौ । अन्तर्गताः विसर्गतिवादयः । बोधकाः वाचकाः । बोधकत्वमेव शक्तिरित्यधस्ताद्विवेचितत्वात् । न तु तैः स्मृताः स्वादयो लादयश्चेत्ययः । प्रयुज्यमानपदसमभिव्याहारानन्तर्गता वर्णा वाचका न वा इत्येवात्र विप्रतिपत्तिशरीरमिति भावः । अत्र विधिकोटिः परेषां निषेधकोटिरस्माकम् ॥ ६१ ॥
___ अत्र दर्शनान्तराभिनिवेशिनः प्रयोगसमवायिनस्तिबादयो न वाचकास्तेषां बहुत्वादनन्तशक्तिकल्पनापत्तेः । शक्ततावच्छेदकत्वकल्पनाप्यनेकेषु स्यादिति गौरवं च । किं तु तैः स्मृत आदेशिनो लकारा वाचका लत्वस्य जातिरूपतयाँ तस्याएव शक्ततावच्छेदकत्वौचित्यात् । न चैवं भूल इत्यत्तोपि बोधः स्यात् इति वाच्यम् । तादृशबोधे पंचंतीत्यादिसमभिव्याहारस्यापि कारणत्वात् । अन्यथा भतिवेत्यतोपि बोधापत्तेः। न चैवमपि तानजानतां बोधो न स्यादिति वाच्यम् । तेषां तिब्वेव शक्तिभूमावोधात् । अपभ्रंशाबोधस्थले कल्पनात् । अथवं श. . त्रादिस्थले कर्तृकर्मणोर्वाच्यत्वं न स्यात् । स्याच्च कृतिमात्रं तथा
Page #314
--------------------------------------------------------------------------
________________
२९६
वैयाकरणभूषणे
वाचकस्य स्थानिनो लकारस्य विपदाविव तुल्यत्वादिति चेन्न । तत्र लकारस्य कृतिमात्रपर्थः कर्त्ता च श्वानजाद्यर्थः कर्त्तरिकृदित्यनुशासनात् । तथा च नोक्तदोषः । नामार्थयोरभेदानुरोधादस्तु वा तत्र कर्तेवार्थस्तस्मान श्रूयमाणानां वाचकतेति न वर्णस्फोटो युक्त इति वदन्ति । तान्स्वोक्तं व्यवस्थापयन् निराचष्टे
व्यवस्थितेर्व्यवहृतेस्तद्धेतुन्यायतस्तथा ।
१
किं चाख्यातेन शत्राद्यैर्लेडेव स्मार्यते यदि ||६२ शा कथं कर्तुरवाच्यत्ववाच्यत्वे तद्विभावय ।
स्मृतानां वाचकत्वे व्यवस्था । तथाहि । राम इत्यत्र विसर्गेण किं सिःस्मर्तव्यः किं सः वा रुः । कालापिनां सिः । आस्माकीनैः सुः । अपरैश्च रुः । तथा च येनेदानीं सर्वमधीतं तस्य विनिगमनाविरहेण प्रतिबन्धः स्यादिति सम्प्रदायविदः । तच्चिन्त्यम् । तेषां लिपिवदननुगमेपि क्षत्यभावात् । अत एव घटपदात्कलशपदाद्वा बोधे न कश्चिद्विशेषः । अत एव पलादिस्थले तिबादिस्मरणद्वारा लकारस्मरणम् । लडादौ साक्षादित्यव्यवस्थेति परास्तम् । अप्रयोजकत्वादिति । तस्माल्लकारस्य वाचकत्वे लकारमविदुषो बोधो न स्यात् । वाचकाज्ञानात् । न च तिष्वेव शक्तिभ्रमात्ततो बोधः । तस्य भ्रमत्वे मानाभावात् । बहूनामानुपूर्व्याः शक्ततावच्छेदकत्वादिकल्पनापत्तिमनिमिति चेन्न । तवापि पूर्वोक्तक्रमेणादेशिनां नाः नात्वेन गौरवस्य तुल्यत्वात् । पदतदर्थघटितश के भ्रमस्य, ब्रह्मणाप्युपपादयितुमशक्यत्वाच्चेत्यव्यवस्था । यद्वा । राम इत्यादौ वादिभेदेनाशिनां नानात्वात्कः शक्यः को वा नेति
Page #315
--------------------------------------------------------------------------
________________
स्फोइनिर्णयः।
२९७ नियामकाभाव एवाव्यवस्था । आदेशानां तु नियतत्वान्नायदो. प इति सुधियां पन्थाः । साधकान्तरमाह । व्यवहृतेरिति । व्य. वहारस्तावच्छक्तिग्राहकशिरोमणित्वेन सर्वैमन्यते । स च भूयमाणतिडादिष्वेवेति तएव शक्तास्तथा च गौरवं प्रामाणिकमिति भावः । किं च तदेतुन्यायत इति । अयं भावः । लकारस्य बोधकत्वे भूल इत्यतोपि बोधः स्यात् । तादृशबोधे पचतीति समभिव्याहारोपि कारणमिति चेत् । अस्तु तावश्यक त्वात्समभिव्याहारस्यैव वाचकत्वशक्तिः । तत्रापि ताशवर्णस. मभिव्याहारो वा समभिव्याहृना वर्णा चा वाचका इत्यत्र विनिगमनाभावात्प्रत्येकावृत्तिनः समुदायावृत्तित्वाच्च समभिव्याहता वर्णा एव वाचकाः । न च द्वित्ववत्प्रत्येकात्तित्वेपि तत्स. म्भवः । तत्रापि प्रत्येकं समवायेन वृत्तित्वस्वीकारात् इति । के चिन्तु आदेशेनादेशी स्मार्यते तेनार्थो बोध्यतइति मते येस्मन्मते वाचकतावच्छेदकास्ते तन्मते स्मारकतावच्छेदका वाच्यास्तथा च तदेतुरिति न्यायेन तएव वाचकावच्छेदका इति भावः । न च येन केन चिद्रूपेण स्मारकत्वमिति शङ्कयम् । अतिप्रसङ्गादित्याहुः । अत एवोक्तलाघवाल्लकारो वाचक इति निरस्तम् । लकारस्योभयत्रापि साम्यात्कृत्तिकोः कर्तृभावनावाचकत्वनियमो भवसिद्ध एव न स्यादित्याह । किं चेति । आदेशानां वाचकत्वे तु तेषा नानात्वादुपपद्यते ऽयं विभाग इति भावः । यत्तु शानजादिभिभिन्नया शक्त्या कर्ता उपस्थाप्यतइति । तच्चिन्त्यम् । तेषां कर्तरि भिन्नशक्तेरसिद्भः। कर्तरिकृदिति च नात्र प्रवर्तते इति विवेचितं द्वितीयका. रिकायाम् ॥
ननु नामार्थयोर्भेदेनान्वयायोगाचैत्रः पचमान इत्यादावन.
Page #316
--------------------------------------------------------------------------
________________
२९८
वैयाकरणभूषणे न्वयवारणाय कर्ता वाच्यः स्यादित्यत आह ॥ तरखाद्यन्ततिक्ष्वस्ति नामता कृत्स्विव स्फुटा ॥३॥ नामार्थयोरभेदोपि तस्मान्तुल्योवधार्यताम् । अथादेशा वाचकाश्चेत्पदस्फोटस्ततः स्फुटः ॥६॥
पचतितरां मैत्रः पचतिकल्पं मैत्र इत्यादिग्रहणाल्लभ्यते । अत्रातिशयपाकानुकूलभावनाया, ईषदसमाप्तपाकानुकूलभावनायाश्च समं मैत्रस्याभेदासम्भवात्तदर्थ कर्ता वाच्यस्तिडामपि स्यात् । नामार्थत्वस्याविशेषादित्यर्थः । अथ तरबन्तं नाम न तरबेवोत चेत्तर्हि पचमान इत्यत्र शानजन्तं नाम न शानज्मात्रमिति तुल्यम् । न च पचतिकल्पमित्यादौ कर्तरि लक्षणा । पच. मान इत्यत्राप्यापत्तेः । न च शानच्प्रत्ययस्यान्यन शक्तयनिर्णयः । भावनायामेवाख्यातबन्छुद्धपचमानइतिप्रयोगस्थले क्लप्तत्वात् तस्य तिवादिवाचक त्वेन लकारस्यैवोभयत्र लाक्षणिकत्वचेति । तस्मात्समभिव्याहृतवर्णानामेवोक्तलाघवादन्यथाबाधकाच्च वाचकत्वमिति सिद्धम् । अथ लः कर्मणीत्यनेन लकारस्यैव वाचकत्वकवनात्तिङो ऽवाचकत्वस्य केनाप्यबोधनाच्च ल. कार एव वानको न तिङ् तिङां लादेशत्वेनैव काद्यर्थकत्वस्य प्राक् व्युत्पादितत्वाचेति चेत्सत्यम् । बोधकत्वरूपायाः श. क्तर्वस्तुतस्तिङादिनिष्ठाया एवानुशासनलाघवाय कल्पिते लकारे कल्पितत्वात्तदादायैव प्राचीनव्युत्पादनमप्यविरुदमि. ति दिक् ॥
इति वर्णस्फोटनिरूपणम् ॥ एवं सिद्धे समभिव्याहृतवर्णस्य वाचकत्वे पदस्फोटोपि सि.
Page #317
--------------------------------------------------------------------------
________________
स्फोटनिर्णयः ।
२९९
द एवेत्याह । अथेति । भादेशाः तिब्विसर्गणलादयः । पद. स्फोटः, पदं वाचकमित्यर्थः । अयमाभप्रायः । अर्थबोधानुकूला शक्तिवर्णसमूहे एव न प्रत्येकं, तथा सति धनं वनमित्यादौ नलोपापत्तेः । प्रत्येकं वर्णानामर्थवत्त्वेन प्रातिपदिकत्वे सिद्धे नलोप: प्रातिपदिकान्तस्येति नस्य तदन्तपदत्वात् । तथा प्रत्येकं सुबुत्प. तौ श्रवणापात्तः । किं च प्रत्येकं शक्तिमत्त्वे प्रत्येकं वर्णादर्थवोधापत्तिः । सर्वेषां वाचकशक्तिमत्वात् । घटकलशपदाभ्यामि. व । तथा द्वितीयादिवर्णोच्चारणानर्थक्यमपि स्यात् । अथ प्र. त्यकं वर्णैरर्थस्मरणं जन्यते । चरमेण पुनः स्पष्टं जन्यतइति वाच्यम् । न च प्रत्यक्ष वैनात्यं सम्भवति न स्मरणइति वाच्यम् । बाधकाभावेन तत्राप्यभ्युपगमात् । अत एव निर्विकल्पकं स्मरणं मेनिरे इति चेन्न । प्रतिवर्णमर्थस्मरणस्यानुभवविरुदत्वात् मा. नाभावागौरवाच्च । तस्मात्प्रकृतिप्रत्ययादौ तत्तत्समूहे शक्तिासज्यवृत्तिनं तु प्रत्येकवर्णपर्याप्तति । एतच्चादेशानामवाचकत्वे न सिद्धयतीत्युक्तमथेतीति दिक् ॥ ६४ ॥ ___ सुप्तिङन्तं पदमिति स्वशास्त्रपरिभाषितपदस्यापि वाचकस्वमिति स्वीकर्तृगां मतमाह ॥ घटेनेत्यादिषु नहि प्रकृत्यादिभिदा स्फुटा । वस्नसादाविवेहापि सम्प्रमोहो हि दृश्यते ॥६५॥
प्रकृत्यादिभिदा प्रकृतिप्रत्ययभेदो नातो न प्रत्येकं ताभ्यामर्थावगमोत्तरं विशिष्टबोधस्तथा चावश्यकैव समूहशक्तिरिति शेषः । अयमर्थः । घटेनेत्यत्र घट इति प्रकृतिः। एनोति प्रत्यय इति वा । घटे इति प्रकृतिर्नेति च प्रत्यय इति वेत्यत्र नियामकाभाव इति । नन्वत्र टाङसिङसां नात्स्या इत्येव भाष्ये कथितत्वात् .
Page #318
--------------------------------------------------------------------------
________________
३००
वैयाकरणभूषणे घटेनेत्यादौ नेत्येव प्रत्यय इत्यस्य सुवचत्वात् नोक्तानुपपत्तिः, वैयाकरणैः सुखेन ज्ञातुं शक्यत्वाच्चेत्याशयेनाह। वस्नसादावि. ति । बहुवचनस्य वस्नसावित्यतः समुदायस्यैव तद्विधानान्न त. द्विभागा ज्ञातुं शक्य इत्यर्थः । वस्तुतो ऽवैयाकरणानां प्रत्येक तदज्ञानेपि समुदाये व्युत्पन्नानां बोधदर्शनात् घटेनेत्यादावप्यनुः पपत्तितादवस्थ्यम् । न च तेषां शक्तिभूमसम्भव इत्यसकृदावदि. तमित्याशयेनाह । इवेत्यादि ॥६५॥
एवंरीत्या वाक्यस्फोटमप्याह । हरेवेत्यादि दृष्ट्वा च वाक्यस्फोटं विनिश्चिनु । अर्थे विशिष्य सम्बन्धाग्रहणं चेत्समं पदे ॥६६॥ लक्षणादधुना घेत्तत्पदेर्थेप्यस्तु तत्तथा ।
अत्रादिना विष्णोवेत्यादि गृह्यते । अत्र पदयोः स्पष्टपज्ञानेपि समुदायव्युत्पत्त्या बोधादावश्यिकैव समुदायशक्तिरिति भावः । ननु वाक्यस्य प्राक्छक्तिग्रहासम्भवो वाक्यार्थस्यापूर्वत्वादित्याशंक्य समाधत्ते । अर्थइति । पदनिष्ठैर वाक्यार्थबो. धानुकूला वृत्तिरिति पक्षेपि सममेतदित्यर्थः । अयमाशयः । येषां मते वाक्यार्थो लक्ष्यो येषां वान्विते शक्तिस्तेषामती प्राक् तदनुपस्थितेत्तिग्रहासम्भवात्कथं निस्तारः । अथ पदैः पदा.
नामुपस्थितावाकांक्षाज्ञानसाचिव्यात्तत एव वाक्यार्थोपस्थितावपि वृत्त्यानुपस्थितत्वान स बोधः शान्द इति मध्ये लक्षणानहः। प्रागविज्ञातहरिद्रानामकनदीविशेषेण हरिद्रायां नयांघोष इति श्रुते वाक्ये नदीपदसमभिच्याहारेण तदानीमेव हरिद्राशब्दस्य नदीविशेषशक्तिग्रहणेन नदीलिङ्गात्तत्सम्बन्धित्वेनावगततीरम
Page #319
--------------------------------------------------------------------------
________________
स्फोटनिर्णयः। ३०१ त्ययवदिति परिमलोक्तरीत्या वाच्यम् । समं तब स्माकमपीति । यदि चान्विते शक्तिः परं वन्वयांशे सेवाज्ञाता पदार्थाशे च सैव ज्ञातोपयुज्यतइति कुब्जशक्तिवाद इत्यभ्युपगमस्तास्मा. कमपि वाक्यशक्तिरज्ञाता पदशक्तिस्तु ज्ञातैव तयेति । नन्वाकांसादिसहकारेण जानबुद्धरेव शाब्दत्वात्तदतिरिक्तशाब्दाभावादा. या पक्षो न युक्तः । आकांक्षादिजन्यातिरिक्तशाब्दबोधे प्रमाणाभावात् । किं चैवमनधिगतार्थगन्तृता वेदस्य मीमांसाद्वयसि दोच्छिद्येत । अथ प्राथमिकबोधस्य वृत्तिजन्यत्वाभावाच्छान्द. त्वं न सम्भवतीति तज्जातिप्रकारकानुभवादेव बोधान्तरं क. ल्प्यते । पदजन्यपदार्थोपस्थित्याकांक्षायसहकृतप्रमाणबोध्यबो. धकत्वं चाधिगतार्थगन्तृत्वमिति चेत्स्यादेवं यदि बोधद्वयमनुभवसिद्धं स्यात् । अन्यथानुपपत्तेरभावाच्च । किं च वृत्तिजन्यत्वा. नुरोधेन बोधान्तरकल्पनेन्वितशक्तिरेव सिध्येत् । लक्षणाज्ञानका. र्यकारणभावान्तरस्य आकांक्षादिनम्योपस्थित्यन्तरस्य चाकल्पनेन लाघवात् । एवमज्ञाताया वृत्तेरनुपयोगात्र द्वितीयः प्रकारः साधुरित्याशयेन प्रकारान्तरमाह । लक्षणादिति । लक्ष्यते त. क्यते अनेनेति लक्षणं मनस्तस्मात् । अयमाशयः । वृद्धव्य. वहारात्प्राथमिकशक्तिनिर्णयो यथा मनसा । तथा ऽत्रापि पदैः पदार्थोपस्थितौ सत्यां मनसा तदुपस्थिति नुपपन्ना परं तु मानसं ज्ञानं संशय प्रायो दुर्वारमिति शाब्दादरः । शक्तिग्रहे - तु लिङ्गादनिर्णायकस्य सन्त्वान्न संशय इति । वस्तुतस्तात्पर्यज्ञानरूपामेवोपास्थतिमादायान्वयांशशक्तिहस्तात्कालिक एव । अत एवाकांक्षादिसहकृतमनसः संशयाजनकत्वेपि न दोष इति ध्येयम् ॥ ६६ ॥
इयमेव मीमांसकानां तदनुयाथिनां च गतिरित्यारं ॥
Page #320
--------------------------------------------------------------------------
________________
३०२
वैयाकरणभूषणे सर्वत्रैवहि वाक्यार्थो लक्ष्य एवेति ये विदुः ॥१७॥ भाट्टास्तेपीत्थमेवाहुर्लक्षणाया ग्रहे गतिम् ॥
स्पष्टमेत् । अथ गामानयेत्यादौ पदैः पदार्थानामुपस्थितौ वा. क्यार्थज्ञानसम्भवान्मास्तु शक्तिः। म चात्र पदशक्त्यज्ञानोप समु. दायशक्त्या बोधोनुभविकानाम् । यन्तु वाक्यमखण्डमेव न पद. समुदाय इति नायं दोष इति । तन्न । अखण्डस्य पक्षान्तरत्वात् । तस्माद्धरेवेत्यत्रैव समुदायशक्तिरिति मतं व्याख्येयम् । वस्तु. तस्तु सर्वत्रैव पदैः पदार्थी उच्यन्ते वाक्येन वाक्यार्थ इति सिद्धान्तमर्यादा । अत एव समासग्रहणं वाक्येतिव्याप्तिवारणायेति ग्रन्थाः सङ्गच्छन्ते । तथा च पदैः पदार्थानामुपस्थितावपि वाक्यार्थे विना वृतिं न शान्दबोधविषयत्वसम्भव इति समुदायशक्निराद्रियते । नन्वाकांक्षादिसहकारेण पदान्येव वाक्यार्थबोधकानि भविष्यन्तीति चेन्न । गुरुभूताकांक्षायोग्यतादिज्ञानकारणत्वे मानाभावात् । नन्वेवं घटः कर्मत्वमित्यत्रापि बोधापत्तिः । अयमेति पुत्रो राज्ञः पुरुषोपसार्यतामित्यादौ राजपदस्य पुरुषेण सममन्वयानुभवे आकांक्षायां पुत्रेणान्वयापत्तिश्चेति चेन्न । घटः कर्मत्वमित्यादौ शक्तिग्रहसत्त्वे इष्ट एव बोधः । स एव विपरीतव्युत्पन्नः । अन्यस्य तदभावादेव नेति सम्भवा. त् । अयमेतीत्यादौ तात्पर्यज्ञानाभावान्न बोधः । तस्य तवाप्यावश्यकत्वात् । तदघटिताया आकांक्षाया दुर्वचत्वात् । अथ घटमानयेत्यादौ घटेपदाम्पदयोः प्रत्येकं गृहीतशक्तिकस्य ता. दृशानुपूर्वीज्ञानतात्पर्यज्ञानादिमतश्च घटकर्मकानयनमिति बोधाभावात्तादृशबोधे घटपदोत्तरं द्वितीयायास्ततो धातोस्तत आ. ख्यातस्येत्यादिसमभिव्याहारः कारणमित्यादिकार्यकारणभा.
Page #321
--------------------------------------------------------------------------
________________
स्फोटनिर्णयः ।
३०३
-
वग्रहवतश्च बोधात्तादृशबाने तादृशकार्यकारणभावस्य हेतुत्वावश्यकत्वात्स एवाकांक्षा । एवं चायमेतीत्यादिवारणाय तात्पर्यज्ञानमपि हेतुरिति चेत्तथापि सिद्धो वाक्यस्फोटः । पदज्ञानकार्यकारणभावरूपपदशक्तिज्ञानस्येव तत्समुदायरूपवाक्यज्ञानकार्यकारणभावरूपवाक्यशक्तिज्ञानस्यापि शाब्दे हेतुतायास्त्वयाप्यभ्युपगमात् । एवं च वाक्यशक्तिरेवाकांक्षेति परपरिभाषामात्रमवारीच्यते तदपि तस्यावृत्तित्वेन विरुद्धम् । एवं चैतदनुरोधेनान्वयांशस्य शक्यत्वानिरसनमयुक्तम् । न चैवं समासग्रहणं नियमार्यमित्य सङ्गतम् । गमानयेत्यादिसमुदाये त्वया शक्तयनभ्युपगमात् । सुबन्ततिङन्तयोश्च प्रत्ययान्तत्वेनैव वारणादिति वाच्यम् । द्वितीयादेर्धातुविशिष्टस्य प्रादिपदिकत्वापत्तेः । तयोरुक्तरीत्या शक्तिसत्वात् । न च धातोः प्रत्ययान्तत्वादप्रत्यय इति पर्युदासापत्तिः । प्रत्ययग्रहणे यस्मात्स विहितस्तदादेस्तदन्तस्य ग्रहणमिति परिभाषया दोषविरहात् । अथ वा गामानयति वा क्ये एका समुदायशक्तिरस्तु । तथा च नोक्तदोषसम्भावनापि । न च तदज्ञाने ऽपि प्रागुक्तशक्तिज्ञानादेव बोधात्तस्य व्यभिचारः । विशिष्टशक्तिग्रहमात्रेणापि त्वदुक्ततदग्रहे बोधात् । विशिष्टशक्तिग्राहकस्य तदादिवत्कारकविभक्तिविशिष्टपदयोर्विशिष्टयोस्तत्कारक विशिष्टक्रियाबोधकत्वमिति सामान्यतः शक्तिग्रहो ऽनन्तरं पदविशेषसमभिव्याहारे सति तात्पर्यवशात्पदार्थविशेषविशिष्टक्रियाविशेषबोध इत्यभ्युपगमात् । स्वयापि सामान्यतः कार्यकारणभावस्वीकारात्तत्कार्य कारणभावग्राहकस्यैव समुदायशक्तिग्राहकत्वमिति स्वीकारेणैव व्यभिचाराभावाच्च । न चैवमपि तत्तत्समभिव्याहारानन्त्याच्छक्तयानन्त्यं तवापि तुस्यत्वात् । यदि घटप्रकारकशाब्दबोधमात्रे घटार्थक पदोत्तरविभ
P
Page #322
--------------------------------------------------------------------------
________________
वैयाकरणभूषणे कयादिजन्योपस्थितितुः । एवं विशेष्यतासम्बन्धेन कर्मत्वमा कारकशाब्दबोधे कर्मत्वार्यकपदमारवर्तिपजन्योपस्थितिहेतुरित्यादिसामान्यत एव सर्वत्र कार्यकारणभाव इत्यभ्युपेयते तदात्र पक्षे तत्रतत्र वाक्येनन्तशक्तिकल्पने गौरवमातिरिच्यते चेत्। अस्माकमपि घटमानय पटमानयेत्यादिवाक्येषु सर्वत्रौका शक्ति क्यार्थविषयिण्यस्तु । निरूपितत्वादेः कर्मवादीनां सम्बन्धस्यैकत्वात् । घटमानयेत्यादौ पटकर्मकवोधाभावः पटस पदादनुपस्थितत्वा. दुपपद्यते । अस्तु तावदेवं तथापि वाक्यनिष्ठबोधकतायाः शक्तिले कि मानमिति चेत् । उच्यते । विषयतासम्बन्धेन शाब्दबु. द्वित्त्वावच्छिन्न प्रति तेनैव सम्बन्धेन वृत्तिजन्योपस्थितेततैव मानम् । अन्यथा घटमानयेत्यत्र घटपदशक्तयज्ञानवतोपि त. ज्ज्ञानवत इत्र बोधापत्त्या घटशाब्दबोधे घटार्थकपदवृत्तिजन्यज्ञानत्वेन कारणतावाच्येत्यर्थभेदेनानेककोटिकार्यकारणभावकल्पनापत्तावतिगौरवं स्यात् अस्माद्रीत्या घटे विषयतया वृत्तिजन्योपस्थितिरूपकारणाभावान शाब्दबोध इति वरमेककार्यकारणभावकल्पनम् । ननु घटत्वविशिष्टघटप्रकारकशाबोधे वृत्तिजन्यघटत्वविशिष्टज्ञानत्वेन हेतुनाया घटत्वमानयेत्यत्र घटत्वयोविशेषणविशेष्यभावव्यत्यासेन बुद्धस्थले बोधवारणाय वाच्यतया तत एव नोक्तातिप्रसङ्गः । न च न्यायनये पटमानयोति वाक्यसमभिव्याहृना विभक्तिकघटपदस्थले बोधवारणायावश्यकेन घटत्वविशिष्टघटप्रकारकशाब्दबोधत्वावच्छिन्न घटार्थकपदोत्तरसार्थकविभक्तिनिपातादिजन्योपस्थितेहेतुता रू. पाकांक्षाकार्यकारणभावेनैवानतिप्रसङ्ग इतिवाच्यम् । घटार्थकत्वं हि घटबोधफलोपहितत्वं, अन्यथा लाक्षणिकघटपदाद्घटबोधापत्तेः, तथाच वृत्या तद्बोधकपदजन्य ज्ञानत्वेन कारणलेनैवान
Page #323
--------------------------------------------------------------------------
________________
स्फोटनिर्णयः।
२०५ तिप्रसङ्गात्पृथकवत्तिज्ञानस्य हेतुत्वे मानाभावादिति चेन्न । अनन्तकार्यकारणमावे वृत्तिप्रवेशे गौरवमपेक्ष्याकांक्षायां पदजन्यज्ञानत्वेनैव प्रवेशस्योचितत्वात् । तथा च घटपदादाकाशस्य समबायेन देवदत्तयज्ञदत्तादेश्व जनकतयोपस्थितस्य शाब्दबोधविषपतापत्तेवारणाय विषयतया शान्दबोधत्वावच्छिन्ने वृत्तिजन्योपस्थितेस्तथाहेतुत्वमावश्यकम् । अस्माकं पदैः पदार्थानां वाक्याद्वाक्यार्थस्य बोधाभ्युपगमाविशेषणविशेष्यभावव्यत्यासासम्भपाच । यथोपस्थितानामेव वाक्यशक्त्या संसर्गबोधात् । यन्तु घटशक्तं पदं घटान्वयबोध जनयतीत्येव नियमस्वीकारामानुपपत्तिरिति । तन्न। एवमपि वृत्तिज्ञानकार्यकारणभावानुरोधेन शक्ति. कल्पनावश्यकत्वात् । उक्तरीत्यैवोपपत्तौ घटान्वयबोधं प्रति घट. शक्तपदज्ञानत्वेन हेतुतेत्यनेककार्यकारणभावान्तरकल्पने गौरवाच्च । न चैवमपि पदार्थशाब्दत्वमेव वृत्तिज्ञानकार्यतावच्छेदक वाच्यमिति वाच्यम् । संसर्गस्यापि वाक्यार्थसंसर्गादिपदार्थत्वात् । तत्तत्समभिव्याहतपदार्थबोधत्वमवच्छेदकमित्यपि न । अनन्तकार्यकारणभावप्रसङ्गात् । अथ विशेष्यत्वप्रकारत्वादिसम्ब. न्धेन शाब्दबोधत्वमेव वृत्तिज्ञानकार्यतावच्छेदकमस्तु । तेन च सम्बन्धेन न शाब्दत्ववाक्यार्थी अतो न तत्र वृत्तिः कल्प्या। तत्र लाघवाद्विषयतैव तत्कार्यतावच्छेदिका । तस्या एकस्यास्त्रितयसाधारणाया अभावात् । विशेष्यत्वादित्रय्येव सामान्यश. ब्देनाभिधीयते । विशेष्यादित्रितयव्यवहारानुरोधेन विषयतात्रयस्यावश्यकत्वात् इति चेत्, मैवम् । ज्ञानातिरिक्तविषयताया मानाभावात्तज्ज्ञानसम्बन्धेन शाब्दत्वस्यैव कार्यतावच्छेदकत्वा. त् । तत्तद्विषयविशिष्टज्ञानस्यैव विशेष्यत्वादिरूपत्वात् । अतिरिक्तविषयतापक्षेप्येवमेव व्यवहारलक्षण्योपपत्तौ त्रैविध्यानौचि
Page #324
--------------------------------------------------------------------------
________________
२०६
वैयाकरणभूषणे
त्यात् । एवं च तत्रैव विशेष्यप्रकार विशिष्टविषयतायाः सम्बधत्वे विपरीत गौरवं स्यात् । दण्डीति बोधोत्तरं दण्डिमानिति बोधात्तज्ञ्जनकतावच्छेदिका नायं दण्डीत्यादिज्ञानप्रतिबन्धकताबच्छेदिका च दण्डीत्यत्र दण्ड पुरुषसंयोग साधारण्येका विषयता बाच्यां । सैव शक्तिज्ञानकार्यतावच्छेदिकास्ताम् । अत्र दण्ड इतिशब्दादयं दडीत्यादिवारणं तु वाक्यशक्त्यैवेत्यपि वदन्ति । एवं सत्यपि यद्यशब्दार्थ एव वाक्यार्थस्तर्हि पदार्थोपि तथैव स्यात् । उक्तं हि वाक्यपदीये । “ अशाब्दो यदि वाक्यार्थः पदार्थोपि तथा भवेत् । एवं सति च सम्बन्धः शब्दस्यार्थेन दीयत" इति ॥ तस्माद्वाक्यार्थवाचकं वाक्यमिति सिद्धम् । अत एव तस्य वा क्यार्थत्व किंवदन्ती सङ्गच्छतइति विभावयामः । माध्वास्तु, न वाक्यार्थबोधकतया वाक्यस्फोटसिद्धिः पदानामेवान्विताभिधायकत्वात् । पदैरेवार्थप्रतीत्युपपत्तौ तत्र मानाभावात् । तदेतस्तृतीयाध्याय द्वितीय चरणसमाप्तायुक्तमनुव्याख्याने । " कर्तृकर्मक्रियाणां तु पूर्ती कोन्योन्यो भवेत् । अपूर्तिश्चेत्पदैरुक्तैः किं नृशृङ्गेण पूर्यत " इति । अत्र जयतीर्थः । कर्मेत्युपलक्षणं जिज्ञासितानां पदार्थानामित्यर्थः । भवेत् । प्रतिपादनीय इति शेषः । स्फोटमन्वयप्रतिपादकं बदता तत्र प्रमाणं वाच्यम् । तच्च न । अन्वयबोधस्य पदैरुपपत्तेरिति भावः । एवमनङ्गीकारे बाधकमाह । अपूर्तिरिति । अन्वयस्येत्यादि । नृगृङ्गेण | स्फोटेन । अप्रमाणकत्वात्तत्सादृश्यम् । पदादन्वयबोधवादिनो लाघवं पदानामावश्यकत्वात्, स्फोटवादिना गौरवं निष्प्रमाणकस्फोटस्य तस्यान्वयबोधकत्वस्य च कल्पनीयत्वादितिं भाव इति व्याच ख्यौ । तस्माद्वाक्यार्थप्रतीत्यर्थ न स्फोट इत्याहुः । तदेततुच्छम् | पदानामेवान्विताभिधायकत्वं घटादिपदमितरान्वितघटे
1
Page #325
--------------------------------------------------------------------------
________________
स्फोटनिर्णयः ।
३०७ अक्तमिति व्युत्पन्नस्यापि घटमित्यानुपूर्वीज्ञानतात्पर्यज्ञानादिमते. पि च घटकर्मकानयनमिति बोधः प्रागुक्तकार्यकारणभावग्रहाभाववतोपि भवेत् । न चेष्टापत्तिः । विशेषणविशेष्यभावे विनि. गमनाविरहात्सामान्यत एव शक्त्या चेतरान्वितो घटा, इतरान्वितं कर्मत्वमित्येवापत्तेः । न घटीयं कर्मत्वमिति । तथा शक्त्यनङ्गीकारात् । घटः कर्मत्वमानयनं कृतिरित्त्यत्रेतरान्विते कर्मत्वे तादृशे मानयने इत्यादिशक्तिग्रहवतो बोधापत्तेश्च । अत एव तत्रैवानुव्याख्याने “ यदा शेषविशेषाणामुक्तिः सामान्यतो भवेत् । पदैकेनाप्युत्तरेण विशेषावगतिर्भवेत् । अतः सामान्यतो ज्ञातः प. दान्तरवशात्पुनः । भवेद्विशेषतो ज्ञातस्तेन स्यादन्वितोक्तिते". ति प्रथमाध्याये चोक्तं सुधायाम् । शक्तिश्चैवान्विते स्वार्थे इति कारिकाव्याख्यायां विशेषान्वयप्रतिपत्त्यर्थं पदान्तरसमभिव्याहारोपयोग इति, पदान्तरसमभिव्याहाराद्विशेषप्रतिपत्त्युपपत्तेरिति चेति । तस्मात्ताशसमभिव्याहारकार्यकारणभावावश्यकत्वे मास्तु पदानामन्विते शक्तिरिति सिद्धम् । किं च । सखण्डवाक्यस्फोटखण्डनमेतदखण्डस्य वा । नायः । पदसमूहरूपस्य तस्य नृशृङ्गतुल्यताक्तिविरोधापत्तेः । नान्त्य इति तु वक्ष्यते । तस्मा. त्स्फोटपदश्रवणमात्रात्खण्डनं तन्मताज्ञानविजृम्भितमेवेति ध्येयम्। एतेन कार्यान्विते शक्तिरपास्ता । के चिन्तु पदानामन्विताभिधायकत्वे घटमानयेत्यत्र बोधचतुष्टयापत्तिः । इतरान्त्रितो घटः, तथा कर्मत्वं, तथैवानयनं, तथैव कृति,रिति । न च तवापि चैत्रो घटमानयतीत्यादौ घटीयं कर्मत्वं तदीयमानयनं तदीया कृतिस्तद्वाक्षेत्र इति विशेष्यभेदप्रयुक्तवाक्यभेदापत्तिः। अस्माकं सशक्योभवतां पुनरवक्योप्याकांक्षादिलभ्य इत्यत्रैव विशेषादिति वाच्यम् । नहि विशेष्यभेदादावृत्तिमापादयामः किं तु शक्तिभेदात् । मम तु
Page #326
--------------------------------------------------------------------------
________________
३०८
वैयाकरणभूषणे
घटप्रकारक कर्मत्वाविशेष्यकशाब्दबोधे घटपदोत्तरं द्वितीया इत्यादिकार्यकारण भावनानात्वविरहान्न दोष इत्याहुः । एतेन यन्नृसिं हाश्रमैस्तत्त्वविवेकादायुक्तम् । वृत्तिं विना शाब्दबोधविषयत्वासम्भवाद्वृत्तिर्वाक्यार्थविषयिणी स्वीकार्या । सा चातिरिक्ता गौरवान्नेति क्लृप्तपदार्थशक्तिरेव तद्विषयिणी कल्प्यते । पदानामन्वयसामान्ये शक्तौ तु विंशेषमविषयीकृत्य सामान्यबुद्धेरपर्यन सानात्तत्तत्पदसामान्यशक्तिभिरेव समभिव्याहृतपदोपस्थापितपदार्थविशेषनिरूपितान्वयविशेषः सेत्स्यतीत्येक शक्तिलाघवम् । किं चैकपदप्रयोगेष्यन्वयविशेषस्य नियमेन जिज्ञासादर्शनात्तस्याचान्वयसामान्यज्ञानपूवर्कत्वात्तज्ज्ञानस्य च शब्दादन्यतो ऽसम्भवाच्छन्द एवान्वितमभिधतइति वाच्यम् । दृष्टे जम्बीरफलादौ रसविशेषजिज्ञासावद्भविष्यतीति चेन्न । तत्र नियमेन तदभावात् । अन्यथा वैशेषिकमतइन व्याप्तिप्रतिसन्धानदशायामेव शब्दादर्थसंसर्गः प्रतीयतइति शब्दोप्यप्रमाणं स्यात् इति । यदप्यपरे, अन्वयांशे शक्त्यनभ्युपगमे घटः कर्मत्वमानयनं कृ तिरिति पदजातादन्वयधीः स्याद्योग्यतादेः सत्त्वात् । न चैताहशं पदजातं शिलाशकलमिवांकुर स्वरूपायोग्यम् । एवं सति विपरीतव्युत्पन्नस्यापि बोधानापत्तेः । न च शक्तिभ्रमात्तस्यान्वयधीः । स्वरूपायोग्यस्य सहकारिशतकेनापि कार्याजनकत्वात् । तस्मात्स्वरूप योग्य मेवान्वर्याशे शक्तिज्ञानरूपसहकारिसच्त्वाद्विपरीतन्युत्पन्नं प्रत्यन्वयबोधकम् । अन्यं प्रति तद्रहितत्वानेत्यन्वयांशे शक्तिरवश्यमुपेयेति विवरणाचार्यानुयायिनो वदन्ति । तदप्यपास्तम् । बोधकतारूपायाः शक्तेरन्वयबोधस्यापि जायमानत्वात्तदंशे स्वीकार आवश्यक इति सत्यम् । परं तु सा वाक्ये एव स्वीकर्तव्या न तु पदे । तथा सति समभिव्याहारोपि कारणमि
·
Page #327
--------------------------------------------------------------------------
________________
स्फोटनिर्णयः। तितज्ज्ञानस्य हेतुत्वे गौरवापत्तिरित्युक्तम् । घटः कर्मत्वमित्यादा. वाकांक्षाज्ञानविरहाद्वोपविरहः । अन्वयांशे शक्तिज्ञानवतोप्यबोधाच्चेत्युक्तम् । एवं जिज्ञासानुरोधादन्वय सामान्ये शक्तिरित्यप्यसङ्गतम् । दृष्टे समीचीनफले रसादिजिज्ञासावदुपपत्तेः । ताई तदेवानापि जिज्ञासानियमो न स्यादिति चे, दिष्टापत्तेः। किं चैवं बन्यो विशेषरूपेण शक्यः स्यात् । जिज्ञासायास्तथात्वात् । ज्ञानेच्छयोः समानप्रकारकत्वेन हेतुहेतुमद्भावात् । अन्यथा द्रव्यत्वादिना ज्ञाते सुवर्णत्वादिना ऽज्ञाते तेन रूपेणेच्छा. पत्तेः । नन्वेवं सति जिज्ञासोच्छेदः । येन रूपेण ज्ञानं वृत्तं तेन रूपेण सिद्धिसत्वादिच्छाया असंभवात् । येन च रूपेण न ज्ञातमेव तेन रूपेण कारणाभावेनासम्भवादिति चेन्न । सिद्धत्व. ज्ञानस्यैव सर्वत्र प्रतिबन्धकत्वात् तदभावादेव मित्रासोपपत्तेः । घटो मेस्त्वितीच्छायामसिद्धेपि तस्मिन् तत्सिदत्वाज्ञानादिनेच्छानिवृत्तदर्शनात् । न च येन रूपेण यत्रेच्छा तेन रूपेणं सि. दत्वधीरेव प्रतिबन्धिकेत्यपरत्रास्तु । अत्र तु सा सिदिरेव प्र. तिबन्धिका कल्प्यता लाघवात् । घटज्ञानं मे जायतामितीच्छा. यां जाते तस्मिंस्तत्सिद्धत्वप्रतिसन्धानमन्तरेणैवेच्छानिवृत्तेरानुभविकत्वादन्यथा गौरवाचेति वाच्यम् । चैत्रस्य ज्ञानं भववितीच्छा. यामजाते च तस्य ज्ञानं जातमिति सिद्धत्वज्ञानादिच्छानिवृत्तेः स. वानुभवसिद्धाया अपलापापत्तेः । सिद्धेळधिकरणत्वेन प्रतिबभकत्वासम्भवाच्च । तदानी मे ज्ञानं भववितीच्छायां तदानीं मे जातमित्यादिकालान्तरीयज्ञानविषयकसिद्धत्वज्ञानेनापि प्रतिबन्धाच्च । तस्मान जिज्ञासानुपपत्तिः । अथ वा पूर्व विशेपतः संसर्गावगमपि स आपातरूप एव । कथमन्यथा ब्रह्माजज्ञासा स्यात् । प्रपञ्चितं चैतद्विवरणतन्त्वविवेकादावेवेति ध्ये.
Page #328
--------------------------------------------------------------------------
________________
वैयाकरणभूषणे यम् । एतेन सामान्यतो ज्ञाते विशेषतो जिज्ञासेति वदन्तः सर्वेप्यपास्ताः । तथा च सामान्यतोन्वयः शक्य इत्यसङ्गतम् । अथ सामान्यतोन्वयः शक्यस्तेनानुमिते विशेषे जिज्ञासेति नोक्तदोष इति चेन । तथासत्यनुमानेन संसर्गोपस्थित्यैवोपपत्तेः श. न्दप्रामाण्योच्छेदप्रसङ्गात् । अन्यथा वैशेषिकमतइवेति स्वो. क्तिविरोधश्च । पदार्थैरेनानुमिते विशेषे जिज्ञासासम्भवाच सामान्यतोप्यन्वयस्याशक्यत्वं स्यात् । अपि च पदार्थवाक्यार्थयोनियमस्य पूर्व ग्रहात्फलविशेषदर्शनाद्रसविशेषस्येव जिज्ञासा नानुपपन्ना । न चैवं शब्दस्यापि भवद्रीत्येव प्रमाणत्वं न स्यादित्युक्तामति वाच्यम् । न भवेदेव यदि नानुमितं न साक्षात्कृतं किं तु शान्दादेवावगतमित्यनुभवो न स्यात् । तथा चैतादृशानु, भवादाकांक्षाज्ञाननिर्वाह्यविशेषणविशेष्यभावाचनुरोधाच्च शब्दः प्रमाणान्तरम् । न त्वत्र भवद्रीतिः साध्वी । पठितविस्मृतशात्रस्य बोधादर्शनाच्छक्तिस्मरणमुद्बुद्धः शक्तिसंस्कारो वा हेतुरिति मतद्वयपि भवन्मते स्वातन्त्र्येण तत्मामाण्यासिद्धः । तथाहि बोधकत्वं हि शक्तिरिति विवरणाचार्यादिभिरुक्तम् । तच्च बो. धकारणत्वन्तच्च शब्दस्य खज्ञानद्वारा लिङ्गस्यैवानुमितौ । तथा च कारणताया व्याप्तित्वातज्ज्ञानं व्याप्तिज्ञानमेवेति कथं नानुमानविधया प्रामाण्यम् । उद्बुदो व्याप्तिसंस्कार एक हेतरिति स्वीकर्तृणां भवतां परं सुतरां दोषः । तस्मात्प्रमाणान्तरेण संसर्गोपस्थित्यसम्भवात्सत्र शक्तिरित्ययुक्तमेवेति दिक् । पत्तु पदार्थास्तत्स्मृतिर्वा शाब्दबोधे हेतुर्न तु पदज्ञानं वाक्यज्ञानं वा । व्यभिचारात् । उक्तं हि । “ पश्यतः श्वेतमारूपं हेषाश. ब्दं च शृण्वतः । खुरविक्षेपशब्दं च श्वेतोश्वो धावतीति धीरिति ॥ तन्न । तथा सति चक्षुरादिना पदार्थोपस्थितौ शाब्दबोधा
Page #329
--------------------------------------------------------------------------
________________
स्फोटनिर्णयः ।
३११ पत्तेः । शब्देनायमर्थो बुद्ध इत्यनुभवाच्च । पश्यत इत्यादावशाब्दत्वानुभवादनुमानेनैव निर्वाहाच्चेति दिक् । तस्माद्वाक्यार्थवाचकं वाक्यमिति सिद्धो वाक्यस्फोटः । नन्वेवं पदार्थबद्वाक्यार्थोपि नानुभूयेतेति चेन्न । न तावद्वाक्यार्थप्रतीतिरनुभवः । स्वर्ग नरकादिकं शृण्वतोपि स्वर्ग नरकं वानुभवामीत्यप्रतीतेः किं तुस्मृतित्वादिव्याप्यमन्यथा वा शाब्दत्वादिकं जातिरनुभववलात् । तत्कारणं पुनरुक्तरीत्या वाक्यज्ञानमिति । नन्वेवमपि न पदज्ञानवाक्यज्ञानयोः सम्भवः । उत्पत्तिपक्षे एकदा तदभावात् । अभिव्यक्तिपक्षेप्येकदा तदभावात् । तथा च न वर्णसमूहरूपपदप्रत्यक्षं सुतरां तत्समूहरूपस्य वाक्यस्येति चेन्न । दर्शनान्तरेप्युक्तदोषतादवस्थ्यात् । अथ प्रत्येकवर्णानुभवजनित संस्कारसहकृतेनान्त्यवर्णप्रत्यक्ष समये सदसदनेकविषया पदप्रतीतिरेवं वाक्यप्रतीतिश्चोपपद्यतइति मतम् । तच्चिन्त्यम् । एवं हि गिरिर्भुक्तमग्निमान् देवदत्तेनेत्यत्रेव वाक्यज्ञाने समूहालम्बनरूपे विशेषाभावाद्बोधापत्तेः । सरो रसः नदी दीन जरा राजेत्यादावप्युपस्थितेस्तुल्यत्वाद्बोधाविशेषापत्तेश्चेति । यस्तु जयतीर्थेनोक्तम् । अनुभवक्रमोपहितानामेव तेषां स्मृत्यावगाहनान्न क्रमव्युत्क्रमयोरविशेष इति । तत्तच्छम् । अनुभवस्मृत्योः क्रमे निय माभावात् । दृश्यते च प्रपूर्वेद्युरनुभूतस्य स्मरणम् । किं च संस्कारस्मरणयोः समानविषयत्वात्क्रमस्य च संस्काराविषयत्वेन न स्मरणविषयत्वम् । एवं च समूहालम्बनरूपं स्मरणमपि घ काराकारटकारा इति भवेन तु घट इत्येतादृशमिति । अथोत्तरवर्णप्रत्यक्षकाळे ऽव्यवहितोत्तरत्वसम्बन्धेन पूर्वपूर्ववर्णवत्त्वमुत्तरोत्तरवर्णे, एवं तदुत्तरवर्णप्रत्यक्षकाले उपस्थित विशिष्टतद्वर्णवत्वमुत्तरवर्णे सुग्रहमिति तादृशानुपूर्वीघटितं पदत्वं सुग्रहमेवं वा
Page #330
--------------------------------------------------------------------------
________________
३१२
वैयाकरणभूषणे क्येपीति मतम् । सममेतदस्माकमपीति एतेनैतदनुपपत्या ऽख.. ण्डस्फोटाभ्युपगमः कैयटोक्तो न श्रद्धेयः ॥
इदानीमखण्डपक्षमाह ॥ पदे न वर्णा विद्यन्ते वर्णेष्ववयवा न च ॥६॥ वाक्यात्पदानामत्यन्तं प्रविवेको न कश्चन । ___ पदे पचतीत्यादौ न वर्णाः । तत्र दृष्टान्तव्याजेनाह । वर्णेविति । यथा न वर्णेष्ववयवास्तथेत्यर्थः । इति पाठः सुगमः। एवं वाक्येप्याह । वाक्यादिति । अत्यन्तं विवेको नास्ति । अयं भावः । वाक्यं पदं चाखण्डमेव । अनन्तवर्णकल्पने मानाभावात् । ककारादिकं शृणोमीतिप्रतीतिर्मानामति चेन्न । तस्याखण्डपदार्थविषयत्वात् । तत्तद्वोत्पादकत्वेनाभिमतवायुसंयोगविशेषाभिव्यक्ताखण्डपदार्थस्यैव कत्वादिना प्रतीत्युपपत्तेः । अथाखण्डपदार्थस्यैव व्यञ्जकवैचित्र्यात्कत्वादिना प्रतीतौ ककार उत्पन्न इति न स्यात् । स्फोटस्योत्पत्त्यभावात् । व्यञ्ज. कनिष्ठाया उत्पत्तेस्तत्रारोपाभ्युपगमे ज्ञानादीनामपि नित्यतापत्तिः । किं च घटादेरपि कपालसंयोगविशिष्टस्फोटरूपत्वापत्तिनित्यत्वापत्तिश्चति चेन्न । सत्कार्यवादिना नित्यताया ज्ञानादिगताया इष्टत्वस्य वक्ष्यमाणत्वात् । घटादिकं चाविद्याकल्पितो मृद एवावस्थाविशेषः । आविद्यकजलाहरणादिकार्यानु. रोधेन स्वीकरावश्यकत्वात् । उत्पत्यादिप्रतीतिरपि वक्ष्यमाणरीत्या नानुपपन्नेति । नन्वेवं विलक्षणो वायुसंयोग एव तहेतु. रिति न्यायावाचकोपि स्यादिति चेन्न । प्रत्यक्षोपलभ्यमानककारादेरेव वाचकत्वस्यानुभवसिद्धत्वात् । स्फोटस्य च शृणोमीत्यनुभवादावश्यकत्वात् । तस्माद्वायुसंयोगनिष्ठं तत्तद्वर्णजनक
Page #331
--------------------------------------------------------------------------
________________
स्फोटनिर्णयः। सावच्छेदकं वैजात्यमादायैव ककार इत्यादिप्रत्ययस्तार इत्या. दिवत् । स्पष्ट हि भामत्यां तारत्वादि वायुनिष्ठ वर्णेष्वारोप्य. तइति देवताधिकरणोभिहितम् । असिंश्च पक्षद्वये वर्णाप्यना. . वश्यका इति चोक्तं शब्दकौस्तुभे । तथा च प्रत्यक्षाद्वाचकत्वान्यथानुपपत्त्या तदेवेदं पदं तदेवेदं वाक्यमिति प्रतीत्या चाखण्डस्फोटः सिध्यतीति ध्येयम् । यन्तु प्रथमाध्यायप्रथमचरणे उ. क्तमनुव्याख्याने । 'शक्तिश्चैवान्विते स्वार्थे शन्दानामनुभूयते । अतोन्विताभिधायित्वं गौरवं कल्पनेन्यथेति । व्यवहारेणान्विते एव शक्तिरनुभूयते । पदानामिति त्यक्त्वा शब्दानामित्युक्तिः प्रकृतिप्रत्ययोरप्यन्विताभिधानमिति बोधयितुम् । परमतं दूषय. ति । गौरवमिति । अन्यथाकल्पने वाक्यं वाक्यार्थबोधकमिति कल्पने गौरवमिति वाक्यमेवाखण्डं कल्पनीयम् । तस्यार्थप्रत्यायनशक्तिश्च कल्पनीयेति गौरवमिति भाव इति जयतीर्थः । तत्तुच्छम् । अर्थप्रतीत्यायन्यथानुपपत्त्या तस्यावश्यकल्प्यत्वात् । अन्वितशक्तेश्च स्फुटतरं प्रानिषिद्धत्वात् । किं च गौरवं तवैव विपरीतम् । अनन्तवर्णादेः कल्पनात् । यत्त्ववाह जयती. र्थो नार्थप्रतीत्यन्यथानुपपत्त्या तत्सिद्धिः । तथाहि । किमयं स्वरूपतोर्थप्रत्यायकः प्रतीतो वा । नाद्यः । सर्वदार्थबोधापत्तेः । अन्त्ये किमनयानुपप त्या तत्प्रतीतिरुत प्रमाणांतरेण नाद्यः । अन्योन्याश्रयात् । प्रतीते स्फोटे अर्थप्रतीतिस्तया च तत्कल्पनमिति । नान्त्यः । प्रमाणान्तराभावात् । एकं पदमेकं वाक्यं शृणोमीति प्रत्यक्षेण तद्रह इति चेन्न । विचार्यतां ताई किमयं प्रत्ययो वर्णानदगाहते न वेति । आधे ऽस्तु तेषामेव वाचकता । आवश्यकत्वात् । अन्त्ये प्रतीतिबाध एवेति । तदशु- ' द्धम । एक पदमित्यादेवर्णविषयस्यापि तत्रोक्तरीत्या मानत्वोप
४
.
Page #332
--------------------------------------------------------------------------
________________
वैयाकरणभूषणे पत्तेरिति । अत एव ध्वनिरुभयसिद्ध एव । तथा च ध्वनिस्फो. टयोर्मध्ये नित्यवर्णाङ्गीकारे गौरवात् । मानाभावाच्च । ध्व. नीनामेव गत्वादिमन्त्वं तएव च वर्णाः । एवं च सा वर्णावली तत्तदर्थविशेषेणागृहीतसम्बन्धा स्फोटतदेकत्वाद्यभिव्यजिका । गृहीतसम्बन्धो वा । नाघः । काव्यादिश्रवणे तत्तदर्थैरगृहीतसम्बन्धस्यापि इदमेकं पदमिदमेकं वाक्यमित्यादिस्फोटस्य तत्सं. ख्यायाश्च प्रतीत्यापत्तेः । न द्वितीयः । एवं हि स्फोटाभावेप्येकार्थाभिव्यञ्जकत्वरूपमेकं धर्ममादायवेक पदमित्युपपत्तेनानयोपपत्त्या तत्सि द्धिः। उक्तं च । 'यस्त्वेकप्रत्ययः सोपि बाधकेन बलीयसा। औपाधिकतया नीतस्तस्मात्स्फोटो न मानभागि,ति । एवं वा. चकत्वमपि तादृशस्यैव स्यादिति न साप्यनुपपत्तिः । नापि त. देवेदं पदं तदेवेदं वाक्यमिति प्रतीत्या तत्सादिः । तदेवेदं नखं तएते केशा सोयं समुद्र इतिवदुपपत्तेः । अतिरिक्तकेशादिकमनुभवानारूढमिति चेन्न । गौरित्यत्रापि गकारौकारविसर्गातिरिक्तस्फोटानुभवस्य कस्याप्यभावात् । किं च । पर्यायशब्देष्वेक एव स्फोटो नाना वा । घटकलशादिपर्यायाभिव्यक्ते स्फोटे गृहीतशक्तिकस्य पुंसो ऽप्रसिद्धपर्यायश्रवणपि प्रागगृहीतशक्तिकस्यैव स्फोटस्य तेनाभिव्यक्त्यार्थप्रतीत्यापत्तेः । न च त पर्यायाभिव्यक्ते स्फोटे शक्तिहस्तत्पर्यायश्रवणेधीहेतुरिति वाच्यम् । एवं हि प्रतिपर्यायं शक्तिग्रहावश्यम्भावे तत्तत्पर्यायगतशक्तिग्रहहेतुताया एवोचितत्वात् । तथा सति भक्तिग्रहत्वेनैव हेतुत्वे लाघवाच्च । अन्यथा तत्पर्यायाभिव्यक्तगतशक्तिग्रहत्वेन सत्त्वेवच्छेदकगौरवात । न द्वितीयः । अनन्तपदार्थानां तेषां शक्तिं चापेक्ष्य क्लप्तवर्णेष्वेव शक्तिकल्पनस्य लघुत्वात् । तस्मात्स्फोटवादो ऽयुक्त एवेति न्यायरक्षापणिपरिमलयोनिष्कर्षो
Page #333
--------------------------------------------------------------------------
________________
स्फोटनिर्णयः । प्यपास्तः । वर्णप्रत्यक्षस्यापि तत्र मानताया स्वीकारात् । प
यस्थलोप एकैव शक्तिः परं त्वानुपूर्येवावच्छोदिका । वर्णानामपि तदतिरिक्तानामभावेनोक्तबाधकाभावादित्युक्तम् । ये तु वर्णानां तदतिरिक्तध्वनीनां वा स्वीकारपक्षेपि स्फोटस्य बाच. कत्वं समर्थयन्ते । वर्णातिरिक्तः स्फोट एस वाचकत्वान्यथानु.. पपस्या कल्प्यते । न च वर्णा वाचका इति युकम् । अनभि. ध्यक्तानां वाचकत्वेतिप्रसङ्गादभिव्यक्तेश्चासम्भवात् । प्रत्यक्षे विषयस्यापि हेतुत्वात् । न च स्मरणं सम्भवति । एवमपि व.
नामतीतत्वेन करणत्वायोगात् । तज्ज्ञानं करणमिति पक्षेपि पदार्थस्मरणोपयोगिनस्तस्यासम्भवात् । न च पूर्ववर्णानुभवजन्यसंस्कारसहकारेण श्रोत्रणैकदा स्मरंणं युक्तम् । तदेकमने वा । आधे क्रमाभानात् सरो रस इत्यादौ विशेषो न स्यात् । अन्त्ये ज्ञानयोगपद्यापत्तिः। एवमेकं पदमेकं वाक्यमिति प्रतीतिरपि तत्र मानम् । न चैकं वनमितिवत्सा । वनसश्यादेरप्यति. रिक्तत्वात् । किं च तत्रैकदेशावच्छिन्नत्वोपाधेरेकत्वेन सोपाधि. रेव प्रतीतिः स्यात् । प्रकृते चोपाधेरसभंवेन तदसम्भवात् । न चैकार्थबोधहेतुत्वं तथा । व्याससमासयोरपि प्रसङ्गात् । ना. प्यविशिष्टैकार्थप्रत्ययजनकत्वम् । समासेष्वव्याप्तः । अपद इत्यत्र प्रकृत्यंशेतिव्याप्तेश्च । अस्मन्मते चाखण्डं वाचकमकं स्फोटमादायकत्वात्ययः, तद्वयञ्जकाश्च वर्णाः । तदस्वीकारे ध्वनयः । प्रतीतिवैलक्षण्यमपि ध्वनिकृतम् । तदुक्तं वाक्यपदीये । 'यथा मणिकृपाणादौ रूपमेकमनेकधा । तथैव ध्वनिषु स्फोट एक एव विभिद्यत' इति । सादृश्यादिप्रतीतिरपि व्यञ्जकध्वनिनिवन्धनैव । आहचैवं कैयटोपीत्याहुः । स्यादयं प्रागुक्तस्तेषां दोषः। किं च । तवैवार्थबोधानुपपत्तिः । वर्णानां प्रत्येक व्यञ्जकत्वं
Page #334
--------------------------------------------------------------------------
________________
बैयाकरणभूषणे समुदिनानां वा । नायः । प्रत्येकास्फोटप्रतीतौ तावतैवार्थबोधा. पत्तेः । नान्यः । त्वदुक्तरीत्यैवासम्भवात् । सम्भवे वा तदेतो. रिति न्यायेनार्थबोधस्यापि तत एवोपपत्तेने वाचकत्वान्यथानुपपत्तिरपि । अथ त्वन्मतेप्येष दोषः । तत्तद्वर्णोत्पादकत्वाभिमतवायुसंयोगानां प्रत्येकमभिव्यञ्जकत्वं समुदितानां वेति विकल्पगणग्रासादिति चेत् । अत्रोच्यते । प्रत्येकमेव संयोगा अभिव्यन्जकाः परं तु के चन कत्वेन के चन हत्वेनेत्यनेकैः प्रकारैः । अत एव वर्णानां तदतिरेकास्वीकारोप्युपपद्यते । तच्च वायुसंयोगादिनिष्ठमेव तत्रारोप्यते । एवं चाव्यवहितोत्तरत्वस म्बन्धेन धवत्त्वं टकारे गृह्यते । एतादृशपदज्ञानिकारणतायाँ अविवादात् । परं त्वव्यवहितोत्तरत्वं स्वज्ञानाधिकारणोत्पतिकज्ञानविषयत्वं वाच्यम् । अत एव घज्ञानानंतरज्ञानविषयत्वरूपानुपूर्वीज्ञानमित्यादिनैयायिकद्धानां व्यवहारः । एवं च ने कश्चिद्दोषः । यत्तु श्रूयमाणशब्दे किमयं हालाहलशब्दः किं वा हलाहल किमयं मरकतशब्दः मकरतशन्दो वा । किमयं कु. शशब्दः कुशशब्दो वेति सन्देहे यथा तथास्तु विषरत्नदर्भवाचकोभवत्येवेत्यादि निश्चिन्वतो बोधो न स्यात् । स्फोगभि व्यक्तौ स्पष्टाभिव्यक्त्यापत्तेः । अनभिव्यक्ती बोधकाभागादिति न्यायरक्षामणावुक्तम् । तचिन्त्यम् । वर्णसमूहरूपपदज्ञानं कारणमिति स्वीकर्तृणां दर्शनान्तराणामपि तुल्यत्वात् । तदर्थज्ञापकत्वज्ञानं च ममापि सममिति । यद्वा । किञ्चित्किञ्चित्मत्येक मेव स्फोटाभिव्याक्तायते । अग्रे अग्रे विशदा जायते । पूर्व जातापि नार्थबोधोपयोगिनी । गथा रत्नतत्त्वस्यैकदा दर्शनेपि नाभिव्यक्तिः, वारंवारं दर्शने तु भवति । उक्तं च । सामस्त्येन तु तद्वयक्तिः सर्वान्ते मणितत्ववदिति । ननु भतिवेत्यादावर्थ
Page #335
--------------------------------------------------------------------------
________________
स्फोटनिर्णयः। बोधापत्तिरिति चे, तवापि वाचकसत्वादश्वोषापत्तिः । पर्णा नुपूर्वीनियामकनियम्याभिव्यक्तेरर्थबोधोपयुक्तत्वात् । न च ह. शान्तो विषमः । एतादृशजातिमानमुकशन्दवाच्य इत्यत्रैव द. शनान्तराणामपेक्षणादिति षाच्यम् । प्रथमदर्शने जातेरवगमे एतादृशजातिमानसुकशब्दवाच्य इत्यस्यापि ग्रहणापतेः । म. स्माकं पुनर्जात्यग्रहादेव विलंबः । तथा च विजातीयप्रत्यक्षाज्जातिग्रहवाद्विजातीयाभिव्यक्त्यार्थबोध इति । अथ प्रथमदर्शने एव जातिगृह्यते पदं पुनस्तज्जात्यवच्छिन्नवाचकं न स्मर्यतइति चेन्न । ममापि स्फोटो व्यज्यते । अर्थस्मरणं पुन र्जायतइत्युपपत्तेः । पदतदर्थयोः शक्तिलक्षणसंम्बन्धस्य परस्परस्मारकत्वाविशेषात् । विजातीयाभिव्यक्तेः पदस्मारकत्व वद्विजातीयाभिव्यक्तरर्थस्मारकत्वादिति दिक। यत्तु वर्णानां व्य. जकत्वेप्येवमेवोपपत्तिरिति तन्तुच्छम् । एवं हि स्फोटासिदेतत्वात् । अत एव च घकारविशिष्टष्टकार एव व्यञ्जकः पूर्वपूर वैवर्णविशेषितोत्तरवर्णविषयकप्रत्यक्षाभ्युपगमात् । एतेन प्रथमादिवर्णैरविशदस्फोटाभिव्यक्तिर्नानुभवसिद्धोति निरस्तम् । स. माध्यन्तरसत्त्वादिति न्यायरक्षामणिस्थः स्फोटवादमङ्गीकृत्य स. माधिः प्रत्युक्तः । ग्रन्थकृतस्त्वाहुः । वर्णमालायां पदमिति प्रतीतेवर्णातिरिक्त एव स्फोटः । अन्यथा कपालातिरिक्त घटासिद्धिप्रसङ्गश्चेति दिक् इति सुधीभिर्विभावनीयम् ॥६॥
नन्वेवं शास्त्राप्रामाण्यप्रसङ्गः पदवाक्ययोरखण्डत्वात् । शास्त्रस्य च प्रकृतिप्रत्ययाभ्यां पदव्युत्पादनमात्रार्थत्वादित्याशका समाधत्ते ।। पञ्चकोशादिवत्तस्मात्कल्पनैषा समाश्रिता ॥६९॥
Page #336
--------------------------------------------------------------------------
________________
११८
वैयाकरणभूषणे उपेयप्रातिपत्त्या उपाया अव्यवस्थिताः ।
उपेयप्रतिपत्त्यर्थेत्यन्तेनान्वयः । तथाहि । भृगुरुणिवरुणं पितरं ब्रह्म पृष्टवान् । स उवाच । भनामति । पुनरस्योत्पत्त्यादिकं समीक्ष्य पृथ्वान् । पुनः प्राणो ब्रह्मोत । तस्यापि तथा. त्वं बुध्वा पृष्टवान् । ततो मन इति । तस्याप्यशितमन्नं त्रेधा भवति यत्स्थूलं तत्पुरीषं यन्मध्यमन्तन्मांसं यदणीयस्तन्मन इति श्रुतावुत्पत्तिश्रवणात्पृष्टवान् । ततो विज्ञानमय इति । तस्यापि वृत्युपहितत्वेन तथात्वं बुध्वा पृष्टवान् । तत आनन्दो ब्रह्मे. ति । पुनर्वस्तुतस्त्वं प्राप्य स्थितइति तु के चिद्वयाचक्षते । तन्न। पश्चमस्य तत्रानुपायत्वात् । अकोशत्वाच्च । तस्य ब्रह्मखा
तमान भूगवल्लीहोदाहर्तव्या । कित्त्वानन्दवल्ली । तत्रत्या हि पञ्चापि कोशा उपाया एव । तत्र हि ब्रह्मपुच्छं प्रतिष्ठेत्यत्र श्रूयमाणमेव ब्रह्मपदं मुख्यब्रह्मसमर्पकम् । अत एवाधारत्वा. थकः पुग्छशब्दोप्युपपद्यते । लांगूलासम्भवेन मुख्यार्थस्य वा. धितत्वात् । कथं तानन्दमयोभ्यासादिति वैयासिक सूत्रमिति चेत् । भानन्दमयशन्दस्य तद्वाक्यशेषे श्रूयमाणब्रह्मपदे तात्प. र्यादित्यादि शङ्करभगवत्पादप्रभृतिभिः प्रपञ्चितम् । एवञ्च यथा पञ्चकोशा भपि सर्वाधारब्रह्मबोधनायैवोक्ताः न तु वास्तवमेषां ब्रह्मत्वं तथैव प्रकृतिप्रत्ययादिभिर्विचारोप्यखण्डस्फो. टबोधनोपाय इति भावः । ननु प्रत्यक्षस्य स्फोटस्य श्रवणादितोपि बोधसम्भवान शास्त्रं तदुपाय इति चेत्तत्राह । उपाया इति । उपायस्योपायान्तरादूषकत्वादिति भावः । अत एव के. चित्सुप्रत्ययं केचित्सिप्रत्ययं के चित् रुपत्ययं च विदधाति त. देतदभिप्रेत्याह वाक्यपदीये । “उपायाः शिक्ष्यमाणानां बाला
Page #337
--------------------------------------------------------------------------
________________
स्फोरनिर्णयः। नामुपलालनाः । भसत्ये पर्मनि स्थित्वा ततः सत्यं समीहत" इति । मात्र वदन्ति । नैतन्छास्त्रं स्फोटज्ञानार्थ पञ्चकोशबदुपायः शास्त्रज्ञानं विनापि गामानयति वाक्यमात्रव्युत्पभस्य पाम. रादेरपि शाब्दबोधात् । तस्य स्फोटज्ञानं विना बोधानुपपत्तेस्तज्ज्ञानं च शास्त्रमन्तरेणेति व्यभिचारात् । शास्त्रस्योपयान्तरले च शास्त्रजन्यस्फोटज्ञाने तृणजायतावच्छेदकमिव बन्हो वैनालं वाच्यं तच्च न, प्रमाणाभावात । किं च प्रकृतिप्रत्ययादेः का: .ल्पनिकत्वेन शशविषाणकल्पतया तेन न स्फोटात्मकवस्तुमानसभावः । पञ्चकोशादेश्च सदसद्विलक्षणताया अद्वैतशास्त्रे व्युः पादितत्वादिति । अत्रोच्यते । भाषासंस्कृतसाधारणः स्फोट एव वाचकः तज्ज्ञानं च श्रौत्रप्रत्यक्षादिरूपमपीति सत्यम् । किं तु वर्णवत्प्रकृतिप्रत्ययापनोपि स एव । एवं च प्रकृतिप्रत्ययादिभियुत्पादनपूर्वकं तज्ज्ञानं तत्पूर्वप्रयोगद्वारा शारीरश्रुद्धिहेतुर्यशादिरिवान्तः करणस्य । तथा च "तत् द्वारमपवर्गस्य वाङ्मलानां चिकित्सितम् । पवित्र सर्वविद्यानामधिविधं प्रकाशते" इति । " इदमाचं पदस्थानं सिद्धिसोमानपर्वणाम् । इयं सा मोक्षमाणानामजिव्हा रानपद्धतिः ॥ अत्रातीतविपर्यासः केवलामनुपश्यति" इति च वाक्यपदीय सङ्गच्छते । एवं च विजातीयज्ञानएव शास्त्रस्योपयोग इति न तृणादिवद्व्यभिचारः । यत्तु अलीका प्रकृतिप्रत्ययकल्पनति । तन्न । पञ्चकोशादिवदस्यापि सदसद्विलक्षणाया एव दिप्रदर्शनमात्रेणोपपादयिष्यमाण. स्वादिति दिक । एवं रेखागवयन्यायेनापि शास्त्रमुपाय इत्यप्याहुः ॥ ६९ ॥
ननु वर्णानां स्फोटात्मकत्वे कत्वगत्वादिकं तानिष्ठं व्यञ्जकवायुनिष्ठं वा । नायः । तस्य नित्यत्वेन ककार उत्पन्न इति न
Page #338
--------------------------------------------------------------------------
________________
वैयाकरणभूषणे स्यात् । अनित्यत्वे ऽनुगतः ककार इति प्रत्ययो न स्यात् क. त्वस्य ककाररुपनाममात्रत्वापचेश्च । अन्त्ये भ्रमत्वं कादिप्रतीतीनां स्यादित्यत आह॥
कल्पितानामुपाधित्वं स्वीकृतं हि परैरपि । स्वरदैाद्यपि ह्यन्ये वर्णेभ्यो ऽन्यस्य मन्वते ७०
कुत्र स्वीकृतं तदाह । स्वरेत्यादि । उदात्तत्वादिकं ध्वनि निष्ठमिति स्वीकारादिति भावः । एवं दीर्घत्वादिकमपि । आदिना इस्वत्वादिकमपि गृह्यते । अयं तेषामभिप्रायः । गकारादयो वर्णास्तावदेकैका एव, प्रहरात्पूर्वमनुभूयमानस्य सोयमिति प्रत्यभिज्ञानात् । न च गत्वावच्छिनप्रतियोगिताकभेदाभावस्तद्विषयः । व्यक्तयतिरिक्तगत्वानङ्गीकारात् । अयं गकार इति चेदं रूपमितिबदुपपद्यते । न.च गत्ववानाकार इत्यनयोरविषापतिः । सह प्रयोगश्च न स्यादिति शङ्यम् । प्रतीतो गत्वत्वस्यापि भानाद्विशेषसम्भवात् । सहप्रयोगस्यापि घटत्ववान्घट इतिवदुपपत्तेः । भिन्नेषु घटादिषु घटत्वावच्छिन्नप्रतियोगिताकभेदाभावसत्वात्सो यमिति प्रतीत्यापत्त्या व्यक्त्यभेदस्यैव तत्र विषयत्वावश्यकत्वाच्च । प्रत्यभिज्ञाया व्यक्तिविषयत्वे बाधकामावाच्च । न च गकार उत्पन्न इति प्रतीतिरेव बाधिका । तस्याः व्यञ्जकध्वनिनिष्ठोत्पत्त्यादेः परम्परासम्बन्धेन वर्णनिष्ठत्वविषयत्वे. नाप्युपपत्तेरतिरिक्तवर्णासाधकत्वात् । परम्परया वर्णनिष्ठत्वाभ्युपगमाच्च न भ्रमत्वम् । साक्षात्सम्बन्धाशे भूम इत्यवशिष्यते । तदपि सोयमित्यत्र व्यक्तयभेदांशे तव भूमत्ववत्तुल्यं परंतु ममातिरिक्तवर्णतत्मागभावध्वंसकल्पनागौरवापत्तिनैति लाघवमतिरिच्यते । तव तु तत्स्यादिति महदनिष्टम् । किं च । प्राग
Page #339
--------------------------------------------------------------------------
________________
स्फोटनिर्णयः।
३२१
सत्त्वे सति सत्त्वरूपाया उत्पत्तेन वर्णेषु ग्रहणमानुभविकम् । अत एव वर्णमुच्चारयतीति प्रत्ययो न तूत्पादयतीति प्रत्ययो व्यवहारश्च । उच्चारितत्वं च ताल्वोष्ठसंयोगादिजन्याभिव्य. क्तिविशिष्टत्वम् । तस्य चेदानींतनता सूपपादा । तथा च प्रागनुभूतेनेदानींतनानुभूतस्याभेदसिद्धौ तापत्कालं स्थिरं चैनं का पश्चानाशयिष्यतीति न्यायेन नित्यतैव । नन्वेवं स्त्रीप्रभवोयं शुकप्रभवोयमिति प्रतीतिस्तच्छ्रवणात्स्त्रीशुकाधनुमानं च न स्यात् । न च वैजात्यं वायुनिष्ठम् । तदग्रहेपि वैजात्यबोधात् । नापि ध्वनिनिष्ठम् । तत्र तस्मिन्मानाभावात् । तदुत्पादकशखाद्य. भावाच । किं च । सेयं गुर्जरी सेयं दीपकलिका इत्यादापि नाशो न स्यादिति चेन्न । स्त्रीशुकादिजन्यतावच्छेदकं ताल्वोष्ठसंयोगे तदभिघातजवायौ वा विद्यमानवैजात्यं वर्णेष्वारोप्यतइत्यभ्युपगमात् । अत एव तारत्वादिरूपविरुद्धधर्माध्यासादि इति निरस्तम् । न च वायत्रग्रहे ताम्निष्ठ जात्यायग्रहः । येन यस्य धर्मो गृह्यते तेन तदपीति नियमादिति वाच्यम् । बहिरिन्द्रियेषु व्यभिचारेण नियमाभावात् । चक्षुषः प्रभायाः स्पर्शनस्य वायोः रूपस्पर्शमात्रस्य रसनादेश्च रसादिमात्रस्य ग्राहकताया नैयायिकैः स्वीकारात् । अस्तु वा स्त्रीशुकादिव्यंग्यस्तारत्वादिश्च वर्णनिष्ठो जातिविशेषः । न च तेषां कश्चिद्विरोधः । योयं रा. मेणोक्तः स एवेदानी कृष्णेनोच्यतइति । योयं तारो मया श्रुतः स एवेदानी मन्द इति च प्रतीतेः । गुर्जरीदीपादिस्थलपि मानान्तरेण नाशसिद्धौ सोयामित्यस्य भ्रमत्वं अन्यथा तत्रापीष्ट एव नाशाद्यभावः । न चैवं वायुताल्वोष्ठसंयोगादर्गत्वं कायतावच्छेदकमपेक्ष्य तत्सत्यक्षत्वं त्वया वाच्यम् । तथा च गौरवामिति वाच्यम् । प्रत्यक्षत्वावच्छिन्नविषयितया गत्वस्यैव कार्य
Page #340
--------------------------------------------------------------------------
________________
३२२
वैयाकरणभूषणे
तावच्छेदकत्वात् । नन्वेवं घटीपि नित्य एव कपालसंयोगादिकं व्यञ्जकं भविष्यतीति चेन्न । प्रागसत्वे सति सत्वरूपाया उत्पत्तेस्तत्र गृहीताया विना बाधकं त्यागायोगात् । अत्र तदग्रहविपरीतग्रहयोः सत्वेन तदयोगात् । सत्कार्यवादाभ्युपगमे त्विष्टापत्तेश्च । न च गकारादेर्विना व्यञ्जकमननु भवेन्धकारस्थ घटवत्सन्देहापत्तिः । दोषाद्यभावादुपपत्तेः । अन्यथोत्पन्नत्वादिसन्देहोषि किं न स्यात् । एवं च वीचीतरङ्गादिन्यायेनानेकवर्णकल्पनायां गौरवमपास्तम् । तस्मान्नित्या एव वर्णाः । तस्माद्यथा गकारादिप्रतीतिस्तथा स्फोटमतीतिरपि गत्वादिरूपे णोपपन्नेति नोक्तशङ्केति भाव इति सुधीभिर्येयम् ॥ ७० ॥ इति व्यक्तिस्फोटनिरूपणम् ॥
•
बोपदेवोक्तयुक्तया जातिस्फोटमाह || शक्यत्वइव शक्तत्वे जातेर्लाघवमीक्ष्यताम् । औपाधिको वा भेदस्तु वर्णानां तारमंदवत् ७१
अयमभिप्रायः । गकारादिव्यक्तयस्तावदवश्याभ्युपेतव्याः । न चोक्ता रीतिः साध्वी । तथा सति सोयं गकार इतिवद्यो मया इकारः श्रुतः सोयं गकार इत्यापत्तिः । एकस्यैवाखण्ड पदार्थस्य सकलवर्णरूपत्वात् । णकारोयं न गकार इत्यनापत्तेश्च । किं च स्फोटे गत्वाद्यतिरिक्तमभ्युपेयं न वा । आधे तदेव गकारोस्तुवर्णातिरिक्तगत्वाभावस्य वर्णनित्यतावादे शङ्करभगवत्पाद - प्रभृतिभिः सिद्धान्तितत्वात् । तथा चातिरिक्तस्फोटकल्पन एव गौरवम् । वर्णानामेव वाचकत्वोपपत्तौ तत्र मानाभावश्च । अन्त्ये यकारादिप्रतीतिविरोधः । वायुसंयोगादिवृतिवैजात्यमेव तत्तद्रूपेण प्रतीयतइति चेन्न । प्रतीतेर्विना बाधकं भूमत्वायोगात् ।
1
Page #341
--------------------------------------------------------------------------
________________
स्फोटनिर्णयः । अस्तु वा वायुसंयोग एवं गकारोपि तस्यातीन्द्रियत्वं दोष इति चेन । तद्गतधर्मवदेवोपपत्तरिति गतमतिरिक्तस्फोटकल्पनया । तस्मान्सन्त्येव वर्णाः । तथा च यया शक्या जातिरेव । तथा श. क्तापि । अन्यथा बहूनां वर्णानां वाचकत्वे गौरवं स्यात् बलबद्वाधकवशात्प्रत्येकं वाचकत्वस्य चाखीकारात् । इदं घटपदमिति प्रतीत्या घटपदज्ञानकारणतावच्छेदककोटिप्रविष्टतया च जातिविशेषस्यावश्यकत्वात् । न च वर्णानुपूर्यैव प्रतीतिकारणत्वयोनिर्वाहः । घटत्वादेरपि संयोगविशेषविशिष्टमृदैवान्यथासिद्ध्यापत्तेः । तस्मात्सा जातिरेव शक्ता तादात्म्येन तदवच्छेदिका चेति । ननु सरो रस इत्यादौ जात्योः सन्त्वाविशेषाद. थबोधभेदो न स्यादित्यत आह । औपाधिको वेति । वा त्वर्थे । उपाधिरानुपूर्वी भेदः कारणीभूत ज्ञानस्य । उपाधिप्रयुक्तज्ञानवैलभण्ये दृष्टांतमाह । वर्णानामित्यादिना । आनुपूर्वीविशेष एव जातिविशेषाभिव्यंजक आकारविशेष इव घटत्वादे, स्तथा च नोक्तदोष इति भावः ॥ ७१ ॥
ननु जाते. प्रत्येकवर्णेष्वपि सत्त्वात्प्रत्येकादर्थबोधापत्तिस्तुल्यैवेति प्रत्येकं वर्णा एव वाचकाः किं न स्युरित्यत भाह ॥
अनेकव्यक्त्यभिव्यंग्या जातिःस्फोट इति स्मृता । कैश्चिद्धयक्तय एवास्याः ध्वनित्वेन प्रकल्पिता७२
अयं भावः । त्रिविधजातिस्फोटेषु वर्णपक्षे यद्यप्ययं दोषस्तथापि पदवाक्यपक्षे नायम् । वर्णेषु तस्या व्यासज्यवृत्तित्वात् । तत्रापि पूर्ववत्पदार्थवाक्यार्थयोर्वाक्यपदस्फोटौ वाचक. त्वेन स्वीक्रियेते । तथा चानेकाभिक्तिभिर्वर्णव्यक्तिभिर. भिव्यंग्या जातिः स्फोट इति स्मृता, योगार्थतया । एतेन
Page #342
--------------------------------------------------------------------------
________________
१२४
बैयाकरणभूषणे स्फोटस्य सदातनत्वात्सर्वदार्थबोधापत्तिरित्यपास्तम् । कैश्चि. द्वयक्तय एव ध्वनय इत्यभ्युपेयतइति समुदायार्थः । उक्तं हि काव्यप्रकाशे । बुधैयाकरणैः प्रधानीभूतस्फोटव्यंग्यव्यजकस्य शब्दस्य ध्वनिरिति व्यवहारः कृत इति ॥ ७२ ॥
ननु का सा जातिस्तत्राह ॥ सत्यासत्यौ तुयौ भागौप्रतिभावं व्यवस्थितौ ॥ सत्यं यत्तत्र सा जातिरसत्या व्यक्तयो मताः ७३
प्रतिभावम् । प्रतिपदार्थम् । एतच्च 'सम्बन्धिभेदात्सत्तैव भिद्यमाना गवादिषु । जातिरित्युच्यते तस्यां सर्वे शब्दा व्यवस्थिताः॥ता प्रातिपदिकार्थ च धात्वर्थ च प्रचक्षते । सा नित्या सा महानात्मा तामाहुस्त्वतकादय' इति वाक्यपदीये । नित्यं द्रव्यमिति, प्रतीकमादायासत्योपाध्यवच्छिन्नं ब्रह्मतत्वं द्रव्यशब्द वाच्यमित्यर्थः । ब्रह्मराशिरित्यादाय ब्रह्मतत्त्वमेव शब्दस्वरूपतया भातीति कैयटे च स्पष्टम् । एवं वाच्यं वाचकं च ब्रीवेति भावः ॥ ७ ॥
ननु प्रकृता जातिरेव नास्ति । पदंपदमित्यानुगतबुद्धवर्णानुपूयवोपपत्तेस्तस्या अपि नानात्वे तु परम्परया वर्णस्तज्जातिवा नियामिकास्तु । न च घटायपि न सिध्येदिति शङ्कचम् । इष्टापत्तेः । मृदएवावस्थाविशेषरूपत्वात्तस्य, अत एव वाचारम्भणं विकारोनामधेयं मृत्तिकेत्येव सत्यमिति श्रूयते । व्युत्पादितं चैततदनन्त्यत्वमारम्भणशब्दादिभ्यः पटवच्चेत्यादिना ऋषिपुंगवेन भगवता व्यासेन, अतएवाकृतिरित्यादाय ब्रह्मदर्शने गोत्वादिजातेरप्यसत्वादनित्यत्वम् । आत्मैवेदं सर्वमिति श्रुतिवचनादिति कैयटः । शास्त्रेषु प्रक्रियाभेदरविद्यैवोपवयेते, समारम्भस्तु
Page #343
--------------------------------------------------------------------------
________________
स्फोटनिर्णयः।
३२५ भावानामनादिब्रह्मशाश्वतमिति वाक्यपदीयेपि । तदेतन्मनसि निधायाह ।
इत्थं निष्कृष्यमाणं यच्छब्दतत्त्वं निरञ्जनम् । ब्रह्मैवेत्यक्षरं प्राहुस्तस्मै पूर्णात्मने नमः ॥ ७४ ॥
नामरूपे व्याकरणवाणीति श्रुतिप्रसिद्धा द्वयी सृष्टिः तत्र रूपस्येव नाम्नोपि तदेवतत्त्वं, जन्ममरणादिकं तद्वत्मपं. चश्च तत्राविद्या कल्पितइति वेदान्ततत्त्वमस्मा कमपीष्टमेव । उक्तंहि वाक्यपदीये । “मजन्मनि तथा नित्ये पौर्वापर्यवि. वर्जिते । तत्त्वे जन्मादिरूपत्वं विरुद्धमुपलभ्यते" इति । तस्मादविद्यादशायामुक्तरीत्या जातिरेव स्फोटः । निष्कर्षे तु ब्रह्मव स्फोट इति भावः । परन्तु अविद्यादशायामपि वर्णानां वाचकत्वमभ्युपेत्य स्फोटखण्डनमयुक्तमिति ध्येम् । ब्रह्मैवेत्यनेनात्राय पुरुषः स्वयं ज्योतिः तमेव भान्तमनुभाति सर्व तस्य भासा सर्वमिदं विभातीति श्रुतिसिद्धं स्वपरप्रकाशत्वं सूचयन् स्फुटत्यर्थोस्मादिति स्फोट इति यौगिकं स्फोटशब्दाभिधेयत्वं सूचयतीति सिद्धम्॥७४॥
विद्याधीशवढेरुसंज्ञकमतिश्रीमाध्वभट्टारकं जित्वा केवलवङ्कटय्यसविधेप्यान्दोलिकां प्राप्तवान् । यश्चक्रे मुनिवर्यसूत्रविवृति सिद्धान्तभङ्गन्तथा माध्वानां तमहं गुरूपम गुरुं रणोजिभट्ट भजे ॥१॥ पाणिनीयवचसां खलु मूलं चन्द्रशेखरभवानिनिरूढम् ॥ तेन भूषणमिदं हि तवैव प्रीतये भवतु साम्बशिवस्य ॥ ३॥ इति श्रीमदत्पदवाक्यप्रमाणपारावारीणधूरीणरङ्गोजी. भट्टात्मजकोण्ड भट्टकते वैयाकरणभूषणे
चरमः स्फोटः समाप्तः ॥
Page #344
--------------------------------------------------------------------------
________________
漿
Page #345
--------------------------------------------------------------------------
________________
श्रीगणेशाय नमः ।. . पदार्थदीपिका प्रारभ्यते। श्रीमत्सिद्धिकरं कान्तं रमोमारमणात्मकम् । दयासिन्धुं चिदानन्दं सितासितमुपास्महे ।। १॥
इह खलु चतुर्थपुरुषार्थहेतुभूतमात्मतत्त्वज्ञानमामनन्ति । तच्च पदार्थतत्त्वनिर्णयाधीनमिति पदार्थतन्त्वमत्र विविच्यते ॥ तत्र
प्रमितिविषयः पदार्थः ॥
स द्विधा भावो ऽभावश्च । भावाः षडेव द्रव्यगुणकर्मसामान्यविशेषसमवायभेदात् । तत्र
द्रव्यत्वजातिमद्, गुणाश्रयो वा द्रव्यम् ॥
तच्च पृथिव्यप्तेजोवाय्वाकाशकालदिगात्ममनोभेदानवधा। तत्र---
पृथिवीत्वजातिमती गन्धवती वा पृथिवी ॥ .
मणिमुक्तावादादप्यनुद्भूतगन्धोस्त्येवेति न तत्राव्याप्तिः । तद्भस्मनि गन्धोपलम्भेन तत्रापि गन्धकल्पनात् । मण्यादयः गन्धवन्तः गन्धवद्भूम्यारम्भकावयवारब्धत्वात् महापटवत् । अथ वा गन्धवत्वं गन्धसमानाधिकरणजलावृत्तिजातिमत्वम् । ग. न्धसमानाधिकरणद्रव्यत्वादिकमादाय जलादावतिव्याप्तिवारणाय जलाऽवृत्तीति । एतेन नानागन्धवदारब्धपदार्थस्य निर्गन्धत्वपक्षेपि न तत्राव्याप्तिस्तादृशपृथिवीत्वसत्वात् । सा च
Page #346
--------------------------------------------------------------------------
________________
पदार्थदीपिका । पृथिवी द्विधा । नित्या नित्या च । परमाणुरूपा नित्या । का. यरूपा त्वनित्या । यदिदं जालसूर्यमरीचिस्थं सर्वतः सूक्ष्ममुपलभ्यते । तञ्च व्यणुकं तस्य षष्ठोंशः परमाणुः । तत्रिभिर्यणुकैरारभ्यते । द्वाभ्यां परमाणुभ्यां च द्यणुकामति स्वीकारात् । कार्यरूपा च त्रिविधा शरीरेन्द्रियविषयभेदात् । शरीरं त्वन्या. वयवि भोगायतनम् । भोगनियामकमिति यावत् । तत्पञ्चधा शुक्रशोणिताभ्यां विनवादृष्टविशेषोपगृहातपृथिवीजन्यं जरायुजमण्डजं स्वेदजमुद्भिदं च । आचं वशिष्ठादेः । गर्भावरकश्चर्मविशेषो जरायुस्तज्जं मनुष्यादि । अण्डजं पक्ष्यादि । स्वेदजं यूकालिक्षादि । पृथिवीं भित्वाजायमानमुद्भिदं वृक्षादि । इन्द्रियं घ्राणम् । तच्च गन्धतज्जातितदभावानामेव ग्राहकम् नासा. प्रबार्स तत्पार्थिवमेव, रूपादिषु पञ्चसु गन्धस्यैवाभिव्यञ्जकत्वात् । कुंकुमगन्धाभिव्यञ्जकतैलवत् । सक्तुरसनवशरावगन्धाभिव्यञ्जकजलेतिव्याप्तिवारणाय एक्कारः । विषयाः पु. पादयः॥
अप्वजातिमत्यः शीतस्पर्शवत्यो वा आपः ।।
ता अपि द्विधा नित्या अनित्याश्च । परमाणुरूपा नित्या कार्यरूपा अनित्याः । ता अपि शरीरेन्द्रियविषयभेदात् विधा। शरीरं वरुणलोके । तन्तु पार्थिवावयवमिलनात् करकावत् अहटविशेषाद्वा घनीभूतं दृढं सद्भोगोपयोगि इन्द्रियं रसनम् तच्च रसतज्जातितदभावानामेव ग्राहकम् जिव्हागवत्ति तदाप्यमेव । रूपादिषु पञ्चसु रसस्यैवाभिव्यञ्जकत्वात् लालावत् । जलमाधुर्यव्यञ्जकहरीतक्यामलकादौ व्यभिचारवारणायैवकारः । तयोः कषायाम्लरसवत्तया पटरञ्जकद्रव्यरूपविशेषाभिव्यञ्ज. कत्वात् । विषया नद्याद्याः॥
Page #347
--------------------------------------------------------------------------
________________
पदार्थदीपिका । तेजस्वजातिमदुष्णस्पर्शवद्वा परप्रकाशरूपवदा तेजः॥
नित्यमनित्यं च । परमाणुरूपं नित्यं कार्यरूपमानित्यम् । तदपि त्रिधा शरीरेन्द्रियविषयभेदात् । शरीरमादित्यलोके । इन्द्रियं चक्षुः रूपतज्जातितद्वद्रव्यतद्वतजातिगुणकर्मणां ग्राहकं कृष्णताराप्रवति । तत्तैजसमेव, रूपादिषु पञ्चसु रूपस्यैः वाभिव्यञ्जकत्वात् आलोकवत् । पूर्ववद्धरीतक्यामलकादौ व्यभिचारवारणायैवकारः ॥ ___ ननु रूपवान् परमाणुश्चक्षुषा कुतो न गृह्यते । चाक्षुषप्रत्यक्षे विषयद्रव्यगतं रूपं महत्त्वं हेतुः परमाणौ तन्नास्तीति चे, त्ताकाशात्मादयः कुतो न गृह्यन्ते । विषयगतं रूपं महत्व चेति द्वयमपि हेतुरिति चे,त्तार्ह तप्तवारिस्थं तेज उष्मा वा कुतो न गृह्यते । उच्यते । द्रव्यचाक्षुषप्रत्यक्षे विषयगतमुद्भतरूपं महत्त्वं च कारणं, परमाणुन महानाकाशो न रूपवान् तप्तवारिस्थं तेजश्च नोद्भूतरूपवत् । तद्रूपस्यानुद्भतत्वात् । एवं चा. क्षुषप्रत्यक्ष विषयगत उद्भूतस्पोंपि हेतुः । पहिरिन्द्रियजन्यद्र. व्यप्रत्यक्षमात्रएव महत्वरूपस्पर्शाणां लाघवाद्धेतुत्वात् । तथा च प्रदीपादिमभाया रूपमात्र गृह्यते तेन तदाश्रयद्रव्यमनुमीय. तइति सिद्धान्तः । प्रभाशब्दोपि तद्रूपवाचक एवेत्याहुः ॥ - नन्वेवमपि अन्धकारस्थो घटो ऽपि गृह्येत द्रव्यचाक्षुषे आ. लोकसंयोगोपि हेतुरिति चेत्, न, चतूरूपस्य सुवर्णरूपस्य वा अंधकारोप संयोगसत्त्वादिति चेन्न । द्रव्यप्रत्यक्ष उद्भूतानभिभूतरू पालोकसंयोगस्य हेतुत्वात् । चतूरूपस्योद्भूतत्काभावात् मुवर्णरू. पस्याभिभूतत्वात्तत्संयोगेपि न प्रत्यक्षम् । विषयश्चतुर्दा भौम दिव्यमौदर्यमाकरजंच । पार्थिवमात्रेन्धनं तेजो भौममग्न्यादि । अ. बिन्धनं तेजो दिव्यं विद्युदादि । उभयेन्धनमौदर्य भाक्षितान्नस्य
Page #348
--------------------------------------------------------------------------
________________
पदार्थदीपिका। पीतजलस्य च पाचनात् । खनिजमाकरजं सुवर्णादि ॥ __ननु सवर्ण न तेजः परप्रकाशकरूपविरहात उष्णस्पर्शाभावाच्चेति चेन्न । अभिभूतरूपस्पर्शयोस्तत्र स्वीकारात् । पीतरूपबन्तः पार्थवभागास्तत्र मिलताः संतीति तदीयरूपस्पर्शभ्यां तयोरभिभवस्सम्भवत्येव । बलवत्सजातीयग्रहणकृतमग्रहणं ह्य. भिभवस्तारशब्दान्मन्दस्येव ॥
ममिांसकास्तु पीतरूपवत् द्रव्यान्तरमेव सुवर्णमूचिरे । तन्न । द्रव्यान्तरकल्पने गौरवात् ॥
अन्ये तु हरिद्रादिवत्पीतरूपवत्वात्पृथिव्येव सुवर्णमित्याहुः । तन्न । अत्यन्तानलसंयोगाद्भस्मापत्तेः ॥
वायुत्ववान्नीरूपस्पर्शवान्वा वायुः ॥
सोपि द्विधा नित्यो ऽनित्यश्च । परमाणुरूपो नित्यः कायरूपो ऽनित्यः । सोपि शरीरेन्द्रियविषयप्राणभेदात् चतुर्था । शरीरं वायुलोके पिशाचांदीनां च । इन्द्रियं त्वक् सकलशरीर व्यापकम् । मिद्धानाड्यां तत्सत्वेपि तन्मनोयोगस्य स्वप्नजन. कत्वात् तदा स्वाप्नज्ञानमेव न त्वाचादि पुरीत त्येवं परं नास्ति अतस्तस्यां मनःप्रवेशे ज्ञानशून्या सुषुप्तिर्भवति, ज्ञानमात्रे त्व. ङ्मनोयोगस्य हेतुत्वेन तदानीं तदभावाज्ज्ञानाभावोपपत्तेः । तनु वायवीयमेव रूपादिषु पञ्चमु स्पर्शस्यैवाभिव्यञ्जकत्वात् अङ्गसङ्गिसलिलशैत्याभिव्यजकव्यजनपवनवत् । एलादौ न. लस्पर्शाभिव्यञ्जके व्यभिचारवारणायैवकारः । तच्चोद्भूतस्पशतज्जातितदभावोद्भूरूपस्पर्शवव्यतद्गतगुणतज्जातितदभावा नां ग्राहकम् । अत उद्भतरूपाभावात्तप्तवारिस्थं तेजो, रूपाभावाद्वायुश्च त्वचा न गृह्यते, किं तु तत्स्पर्शमात्रं गृह्यते तदाश्रः यस्नेन वायुरनुमीयते इति सिद्धान्तः । एवं प्रदीपवनचन्द्रा
Page #349
--------------------------------------------------------------------------
________________
पदार्थदीपिका। दिप्रभापि न त्वचा गृह्यते उद्धृतस्पर्शाभावात् ॥.. .
मीमांसकस्तु सद्भूतस्पर्शवद् द्रव्यं स्वचो योग्यं लाघवात् न तु रूपमपि तत्र प्रवेश्यं गौरवात् । अतो वायुरपि स्पार्शनप्र. त्यक्ष एव । अत एव वायुं स्पृशामीत्यनुभवः । अन्यथा घटादेः स्पर्शी, गृह्यते तेन तद् द्रव्यमनुमीयते इति वक्तुं शक्यत्वात् किमपि द्रव्यं स्पार्शनप्रत्यक्षं न स्यात् । किं च चक्षुषा रूपं गृह्यते. घटादि तदाश्रयत्वेनानुमीयतइत्यपि स्यात् । तथा च द्रव्यमतीन्द्रियमेव स्यात् । एवं महदुद्भतरूपवयं चक्षुर्योग्यम् । अतः प्रदीपचन्द्रादिप्रभापि चक्षुपायैवेत्याहुः । विषयस्तु वृ. क्षादिकम्पजनकः । प्राणः पञ्चधा प्राणापानव्यानोदानस. मानभेदात् ॥
शब्दाश्रय आकाशः॥
स च तत्कार्यस्य शब्दस्य सर्वत्रोपसम्भाव विभुः, लाघचादेको नित्यश्च श्रोत्रं तदीयमिन्द्रियम् । अदृष्टविशेषोपगृही. तकर्णशष्कुल्यवच्छिन्नं नमः श्रोत्रम् । बधिरस्याविशेषाभावान्न श्रोत्रमस्ति ।।
कालिकपरत्वापरत्वानमेयः कालः ॥ .. .
स चैकोपि वर्तमानातीतभविष्यक्रियोपाधिवशाद्वर्तमाना दिसंज्ञा लभते । पाकपठनादिक्रियावशात् पाचकपाठकादिव्य. पदेशवत् ॥ दिगेका नित्या दैशिकपरत्वापरत्वासाधारणकारणम् ॥
सा चेन्द्रयमाग्निनिऋतिवरुणवायुकुबेरेशानब्रह्मानन्तरूपोपाधिवशाद पूर्वादिभेदेन दशं संज्ञा लभते । एतौ दिक्काली जगदाधारौ जगद्धेतू च । इहेदानी करोपीति सर्वानुभवात् ।। ।
आत्मत्वसामान्यवान् ज्ञानाश्रयो वा आत्मा विभुनित्य
Page #350
--------------------------------------------------------------------------
________________
पदार्थदीपिका ।
श्चति ॥
S स द्विधा जीवेश्वरभेदात् । सुखाद्याश्रयोहम्प्रत्यय वेद्यो जीवः ॥
नन्वहं गौरो ऽहं जानामीति सामानाधिकरण्योपलम्भा गौरत्वादिरूपवति ज्ञानसुखाद्याश्रयता सिद्ध्यतीति देह एव आत्मा स्यात् । न च शरीरं नात्मा ज्ञानशून्यत्वात् । तदपि शरीरं ज्ञानशून्यं पार्थिवत्त्वात् घटवदित्यनुमानात् सिद्ध्यतीति वाच्यम् । घटस्य केवलपार्थिवत्वाज्ज्ञानशून्यत्वेपि भूतसमुदायात्मकत्वात् शरीरस्य ज्ञानवत्त्वसम्भवात् । केवलचूर्णादौ रागाभावेपि चूर्णपर्णादिसमुदाये ताम्बूले रागोत्पत्तिवत् । अहं ज्ञानवानिति प्रत्यक्षबाधेनानुमानस्य शरीरे ज्ञानाभावाऽसाधकत्वाच्च वन्हिरनुष्णः कृतकत्वात घुटवदित्यनुमानवत् । स्वीचक्रुश्च देह एवात्मेति चार्वाकाः । एवं काणोहं बधिरोहमिति इन्द्रियधर्मसामानाधिकरण्यादिन्द्रि याण्येवात्मेत्यपरे वदन्ति, तत्कथं नित्यो विभुरात्मति सङ्गच्छेत इति चेन्न । शरीरेन्द्रियाणामनित्यत्वेनात्मत्वासम्भवात् । न चात्माप्यनित्य एवास्तु कृतहानाकृताभ्यागमप्रसङ्गात् । ध मधर्मशास्त्रवयवापत्तेः । किं च कश्चिदुत्पत्तिमारभ्यैव रूपभाग्यादिमान् नान्य इति नियमायाऽदृष्टविशेषो हेतुर्वाच्यः स चै. तज्जन्मनि न सम्पादित इति तत्सम्पादकजन्मान्तरयोग्यात्मसिद्धिः । अनेकजन्मयोगिनथ नित्यतैव नाशकाभावात् । न च स्वतन्त्र ईश्वर एव स्वेच्छावशात् स्वसृष्टप्राणिष्वेकं करोति कुलाल इवं स्वनिर्मितघटेषु क्व चित् दुग्धयोगं क्वचित् मूत्रपुरपयोगमिति वाच्यम् । अचेतनइव चेतने तथा व्यवहारे वैषम्यनैर्घृण्यप्रसङ्गात् । दृश्यते च कुलालादेरेव घटादिवत्पुत्रेषु निर्निमितकतया व्यवहारे वैषम्यादिप्रयुक्ता नि.
!
Page #351
--------------------------------------------------------------------------
________________
पदार्थदीपिका। न्देति । न चायं नित्यः परमाणुरूप एवास्तु, सकलशरीरव्यापि-. मुखदुःखाननुभवप्रसङ्गात् । परमाणुरूपवज् ज्ञानादेस्तद्धर्मस्याप्रत्यक्षत्वापतेश्च । स च प्रतिशरीरं भिन्नः सुखदुःखाद्ययोगपद्यावचिच्याच्च । अन्यथा परकीयसुखदुःखानुसन्धानप्रसङ्गाच्च हस्तपादादिभेदस्येव शरीरभेदस्याप्रयोजकतयाननुसन्धाना: ऽप्रयोजकत्वात् जातिस्मराणां जन्मान्तरीयार्थस्मरणानापत्तश्चेति दिक् । दुःखासमानाधिकरणज्ञानवाभित्यज्ञानाश्रयो वाई. श्वरः। स च सकलकार्यकर्तृत्वेन सिद्धचतीति वक्ष्यते ॥ ...
आत्मतद्गुणादिप्रत्यक्षकरणं मनः ॥..... .
तच्च परमाणुगरिमाणं प्रतिपुरुषं भिन्नं यत्रयन्द्रिये संमुज्यते ततस्ततो ज्ञानमुत्पयते । अतो युगपदने केन्द्रियैर्ज्ञानाभावोपपत्तिः । अन्यथा युगपवूपशब्दादिग्रहणापत्ती व्यासान ज्ञातमित्यनुभवानापत्तेः । तथा च गौतमसूत्रं . "युगपजज्ञानानुन पतिर्मनसो लिङ्ग" मिति । अत एव मनो विभुः निःस्पर्शद्रव्यत्वात् आकाशवदिति मीमांसकोक्तमपास्तम् । अवधानिनां तु अभ्यासविशेषापेरगया झटिति मनास क्रियया तत्तदिन्द्रियैर्योगाजज्ञानक्रमिकवेपि योगपघाभिमानमात्रम् ॥ ___ नन्वन्धकारोपि नि:स्पर्शवस्वात् क्रियावत्वादिलक्षणरूपवत्त्वाच्च पृथिव्यादिभ्यो भित्रं दशमं द्रव्यमस्तीति कथं नवैव द्रव्याणि इति चेत् । मैवम् । सस्य रूपबद्र्व्यत्वे चक्षुषा ग्रहणं न स्यात् । द्रव्यचाक्षुषमात्रे उद्भूतानभिभूतरूपवदालोकसंयोगः स्य हेतुत्वात् । न च चक्षुर्गोलकवृत्तितामसेन्द्रियान्तरादन्धकारप्रहः । इन्द्रियान्तरकल्पने गौरवात् । किं चान्धकारसमनियत आलोकाभावो ऽवश्यमभ्युपेयः । तथा च तेनैवारोपितनीलरू. पेणान्धकार इति व्यवहारसम्भवान द्रव्यान्तरं तमः । अति
Page #352
--------------------------------------------------------------------------
________________
पदार्थदीपिका |
गौरवात् । तस्मादुद्भूतानभिभूतरूपवदा लो का भाव समूहस्तमः ॥ गुणत्वजातिमन्तो गुणाः ॥
ते च रूपरसगन्धस्पर्श सङ्ख्यापरिमाणपृथक्त्वसंयोगविभा
गपरत्वापरत्वगुरुत्वद्रवत्वस्नेहबुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधिर्मसंस्कारशब्दाश्चतुर्विंशतिरेव ||
तत्र वस्त्वजातिमद्रूपम् ॥
·
पृथिव्यादित्रवृत्ति । शुक्लपीतहरित रक्तकृष्ण कपिल चित्र भेदात्सतधा । तदवान्तरजातयस्तु असङ्ख्याताः । तत्र शुक्लभास्वरं तेजसि । परप्रकाशकतावच्छेदकजातिविशेषो भास्वरत्वं तद्वद् भास्वरम् । शुक्लमेवाभास्वरमपाकजमप्सु षड्विधमचित्रम् | पाकजं पृथिवीपरमाणौ सप्तविधमपि अपाकजमेव पृथिवीद्व्यणुकादौ । तत्राक्यविरूपं कारणम् । एवं रसादावपि । मीमांसकास्का एव नीलपीतारुणादिव्यक्तयो नित्याश्च । ताश्चोपद्यमानघटाद घटत्वादिवत्संसृज्यन्ते इति रूपवान् घट इत्यादिप्रतीतिः । घटादिनाशे च व्यक्तयन्तरे घटत्वादिवदेव वर्त्तन्तइत्याहुः । तन्न । एवं हि घटत्वादिवज्जातित्वापत्तेः । नित्यमेकमनेकसमवेतं सामान्यमिति तल्लक्षणयोगात् । इष्टापत्तौ नीलनीकतरादिव्यवहारानापत्तेः । नहि भवति गोव्वतरो गोत्वतम इति । किं नीलद्रव्यस्य पाकेन रक्तताया दर्शनस्थळे पूर्वनाशस्याऽकामेनाप्यभ्युपेयत्वान्न किं चिदेतत् ॥
रसत्वजातिमान् रसः ॥
·
पृथिवीजलवृत्तिः । मधुराम्लकटुतिक्तकषायलवणभेदात् घोढा । मधुरो पाकजो sप्सु षड्विधोपि । पाकजः पृथिवीपरमाणौ द्वयणुकादावपाकजः ॥
गन्धत्वजातिमान् गन्धः ॥
Page #353
--------------------------------------------------------------------------
________________
पदार्थदीपिका। पृथिवीमात्रवृत्तिः । जलादो तूपष्टम्भकभागगत एव लोहितस्फटिक इतिवत् प्रतीयते । अत एव पुष्पाद्युपरिसमागतवायुना पुष्पायवयवा एक नीयन्ते इति सिद्धान्तः॥ ___नन्वेवं पुष्पादेः सच्छिद्रता, कस्तूर्यादेः परिमाणन्यूनता च स्यादिति चेन्न । भोजकाऽदृष्टवशात् पुनर्भागानां पूरणाभ्युपगमात् । क्व चित्कर्पूरादौ तथात्वस्येष्टत्वात् । सुरभिरसुरभिश्चेति द्विधा, सोपि पाकजः परमाणौ व्यणुकादावपाकजः ।
स्पर्शस्वजातिमान् स्पर्शः ॥ ____ पृथिव्यादिचतुष्टयवृत्तिः शीतोष्णानुष्णाशीतभेदात्रिधा । शीतो ऽप्सु । उष्णस्तेजसि । अनुष्णाशीतः पृथिवीवास्वोः । वायावपाकज एव पृथिवीपरमाणौ पाकजः पृथिवीद्वयणुकादावपा. कजः। कोमलकठिनचित्रभेदात् अनेकधा ॥
ननु कथं रूपस्पर्शावेव चित्रावुदाहृतो रसगन्धयोरपि ह. रीतक्यादौ विचित्रयोर्दर्शनात् । न च तत्र नानारससमुदाय एव भासते षडूसा हरीतकीति व्यवहारादिति वाच्यम् । रूपस्पर्शयोरप्यवमापत्तः । चित्ररूपवति अत्र श्याममत्र रक्तमित्यापनुभवाव्यवहाराच्चेति चेत् । उच्यते । न तावनीलपितारब्धे नीलं सम्भवति, समवायेन नीलं प्रति स्वाश्रयसमवेतत्वसम्बन्धेन नीलेतरस्य प्रतिबन्धकत्वात् । अन्यथा पीतावच्छेदेनापि नीलापत्तेः । नापि परस्परप्रतिबन्धादुभयोरसम्भवेन नीरूपत्वमेवास्त्विति वाच्यम् । अतीन्द्रियतापत्तेः । विषयगतोद्भूतरूपस्य प्रत्यक्षहेतुतायाः प्रागभिहतत्वात् । तस्मानीलपीतादिविलक्षणमेव चित्रं तत्र जन्यतइति वक्तुं शक्यत्वात् । एवं स्पर्शेप्यवधेयः म् । गन्धरसयोस्त्वस्वीकारेपि न क्षतिः । तयोः प्रत्यक्षाहेतुत्वात् । के चिन्तु चित्ररसगन्धावपीच्छन्ति । तन्तु वर्द्धमानादिष्व
Page #354
--------------------------------------------------------------------------
________________
पदार्थदीपिका।
नाहतम् ॥
ननु रूपादयः पृथिवीपरमाणावेव पाकजा इति कथं सङ्गच्छताम् । आमपाकनिक्षिप्तघटादावपि पूर्वरूपनाशपरोत्पत्त्योर नुभवसिद्धत्वादिति चे,त्सत्यम् । घटमध्येपि पाकजरूपाद्यनुभव. सिद्धं तच्च तत्राग्निसंयोग ज्ञापयति अग्निसंयोगस्यैव पाकजनकत्वात् । तथा च वन्यभिघातात् तत्र परमाणुपर्यन्तं घटाव. यवतदवयवानां विभागः । ततः परस्परसंयोगनाशः । ततो वि. शकलितेषु तन्तुषु पटनाशवदसमवायिकारणनाशात द्रव्यनाशे स्वतन्त्राः परमाणवः पच्यन्ते तत्र कदाचित्समानाग्निसंयोगादेकजातीयं, विलक्षणाच्च परस्परविलक्षणं रूपमुत्पद्यते, पुनर्भो. जकादृष्टसहकृत ईश्वर एव सृष्टयादाविय व्यणुकादिक्रमेण पूर्वव. देव तादृशरेखोपरेखासंस्थानवत करोति । तथा च परमाणुरू. पाद द्वयणुके ततः व्यणुके इति क्रमेण पूर्वकुलालनिर्मितघटइव तत्रापि रूपाद्युत्पतिरिति भवति परमाणावेव पाकजरूपरसगन्धस्पर्शाः न द्वयणुकादाविति । घटादावेव पाकाभ्युपगमे कठिनघ. टादिमध्यभागे वन्यप्रवेशान्मध्येपि पूर्वरूपादिनाशनवीनोत्पत्ती न स्यातामिति काणादाः॥
नैयायिकास्तु घटादयः सच्छिद्राण्येव द्रव्याणि, कथमन्य. था भाण्डान्तर्गतौदनादिपाकः कथं वा तन्मध्यवर्तिजलस्यन्दनप्रस्रवणे । तथा च तद्वारा प्रविष्टवन्हिना मध्येपि पाकसम्भबागौरवग्रस्तनिष्प्रमाणकपूर्वनाशनवीनोत्पत्तिकल्पनां तदुत्पादनायेश्वरे भारं च न सहन्ते । तथा च तन्मते घटादावपि पाकः सिध्यति ॥
ननु संयोगस्योभयनिष्ठत्वाद् घटादाविव वन्ह्यादावपि रूपादयः कुतो न भवन्तीति चेत, सत्यम् । समवायेन पाकजरूपं
Page #355
--------------------------------------------------------------------------
________________
पदार्थदीपिका। प्रति पृथिवीत्वेन हेतुत्वात् वन्हेस्तेजस्त्वात् । इदमेव च पृथिवीस्वजातौ प्रमाणम् ॥
ननु मतद्वयेप्यग्निसंयोगादेकस्माद्विलक्षणा भिन्नाश्च रूपादयः कथं भागभावभेदादिति चेन्न । तस्य वैलक्षण्याप्रयोजक स्वात् । अन्यथा घटादीनामपि पटादिवत्परस्परवलक्षण्यापत्तिरिति चेन्न । रूपवति घटे रूपान्तरानुत्पत्तेः रूपं प्रति रूपं पतिबन्धकमिति सर्वसिद्धम् । एवं रसादावपि । तथा च प्रतिबन्धकाभावरूपतत्तद्भावकारणभेदवलक्षण्याभ्यां भेदवैलक्षण्ये द्वित्वत्रित्वादिजद्वयणुकत्र्यणुकाणुत्वहूस्वत्वदीर्घत्वमहत्वेष्वप्येव भेदादि । के चित्तु अग्निसंयोगभेदादेव भेदमाहुस्तेषामणुत्वादी गतिश्चित्या ॥
ननु स्पर्शस्य पाकजत्वे किं मानम् । नहि रूपरसादिवत्पाकोत्तरं स्पर्शान्तरमनुभूयते । न च चांडालस्पर्शनिषेधगोब्राह्मणस्पशविध्यनुपपत्त्या तसिद्धिरित्याचारुक्तं युक्तम् । तत्र स्पर्शपदस्य संयोगपरत्वात् । अन्यथा गङ्गास्पर्शविधिकर्मनाशाजलस्पर्शनिषेधानुरोधाज्जले ऽपि दीपाग्निस्पर्शनिषेधपरमेश्वरार्तिक्यदीपस्पर्शविधेरनुरोधात्तेजसि तसिव्यापत्तेरिति चेन्न । पूर्व काठनस्य पाकेन कोमलतायाः पूर्व कोमलस्य पाकन काठिन्यस्य वा. नुभवसिद्धत्वेन रुपादिवत्पाकजत्वसिद्धेः । न च काठिन्यकोमलत्वे संयोगविशेषौ । चाक्षुषत्वापत्तेः । एते रूपरसगन्धस्पर्शाउ. द्भतानुद्भता द्विधा । उद्भूतत्वं जातिस्तदभावो ऽनुद्भतत्वामति पाञ्चः । अनुद्भूतत्वं जातिस्तदभाव उद्भूतत्वमिति . माणकाराः॥
संख्यात्वजातिमती संख्या ॥ एकत्वाद्वित्वबहुत्वभेदात्रिधा । सकलद्रव्यवृत्तिः । तत्रावयर
Page #356
--------------------------------------------------------------------------
________________
पदार्थदीपिका ।
गतैकत्वेनावयविन्येकत्वं जन्यते द्वित्वादौ तु विशेषः । घटद्वये चक्षुरादिसंयोगे सति तत्रायमेको ऽयमेक इत्यपेक्षा बुध्या द्वित्वोत्पत्तिरनन्तरं द्वित्वद्वित्वत्वनिर्विकल्पकं ततः सविकल्पकमनन्तरमिमौ द्वाविति प्रतीतिर्भवति । तत्र घटद्वयवृत्त्येकत्वद्वयमसमवायिकारणम् । अपेक्षाबुद्धिर्निमित्तकारणम् । द्वौ घटौ समवायिकारणम् । एवं बहुत्वेपि । अपेक्षा बुद्धिनाशात् द्वित्वादिनाशः । अत एव अपेक्षा बुद्धिः क्षणचतुष्टयस्थायिनी । अन्यथा द्वित्वविशिष्टद्रव्यप्रत्यक्षायोगात् । तद्भिन्नज्ञानेच्छा प्रयत्नादयस्तु द्विक्षणस्थायि - न एवेति सिद्धान्तः । द्व्यणु कत्र्यणु कादिगत द्वित्वत्रित्वादेर्भगवदपेक्षा बुध्योत्पन्नस्य च निमित्तकारणादृष्टनाशान्नाशः । नन्वयमेकोयमेक इत्यादिद्वयत्रयादिविषयापेक्षा बुध्या द्वयोर्द्वित्वं त्रिषु त्रित्व - मित्यादिनियमः कुतः, वैपरीत्यस्य दुर्वारत्वात् । समवायिकारणादिसाम्ये कार्यवैलक्षण्यं वा कथम् । न चैकत्वद्वयं द्वित्वे त्रयं त्रिवे हेतुरिति वाच्यम् । एकत्वं द्वित्वाद्यभावात् द्वित्वोत्पचेः प्राग् द्रव्येपि तदभावात् द्वित्वे द्रव्यद्वयं हेतुरित्यस्याप्यसम्भवात् । न च प्रागभावादेतदुत्पतिरित्याचार्योक्तं युक्तम् । तस्य वैलक्षण्याप्रयोजकत्वात् । अन्यथा कार्यवैलक्षण्यात्कारणवैजात्यकल्पना च्छेदापचिरिति चेत् । उच्यते । केवलापेक्षा बुध्या द्वित्वं द्वित्वसहितया त्रित्वं तत्सहितया चतुष्ट्वमित्यभ्युपगमात् । द्वित्वं द्वयोरेव कुत इति तत्रैव तत्प्रागभावसत्वादिति गृहाण ||
१२
परिमाणत्ववत् परिमाणम् ॥
सकलद्रव्यवृत्ति । तच्चतुर्विधम् । अणुमहद्दीर्घद्रस्वभेदात् । तत्रोत्कृष्टणुत्वस्वत्वे परमाणुमनसोर्नित्ये । अपकृष्टे द्वयणुके । एवं महत्वदीर्घत्वे उत्कृष्टे नित्ये आकाशादौ विभुत्वशब्दवाच्ये । अपकृष्टे जन्ये तरतमभावेन त्र्यणुकादौ स्तः । बिनादामलकम
Page #357
--------------------------------------------------------------------------
________________
पदार्थदीपिका । ण्विति व्यवहारस्तु अपशिष्टमहलाहोगः । एवं मांशोसिनो स्व इत्यपि अपकृष्टदीर्घत्माद्वौणः । तत्र द्वयणुकपरिमाणं परमाणुद्वित्वसंख्यायोनिः । द्वयणुकगतबहुत्वात व्यणुके महत्वम् । घटादौ च कपालमहत्वम् । क्वचित् क्वचिबहुत्वसंख्या विलक्षणमहत्वे हेतुः । तूलपिण्डपरिमाणविशेषे अवयवचय: कारणम् । स च प्रशिथिलः संयोगः ॥
घटा पटापृथगित्यनुभवसिद्धपृथक्त्वनातिमत्पृथक्त्वम् ॥
सदपि संख्वावदेव सर्वद्रव्यवृत्ति एकपृथक्त्वद्विषयक्त्वत्रिपृथक्त्वादिभेदेन अनेकधा । अवयवगतकपृथक्त्वादवयविन्येकपृथक्त्वमुत्पद्यते । रूपं रसात्पृथक् इति तु भिन्नत्वात्गौणः प्रयो. गः । ननु भेदेनैव घटः पटात्पृथगिति व्यवहारोपपत्तौ पृथक्त्वाख्यगुणे किं मानमिति चेत् । अत्राचार्याः । अन्यारादित्तरसेदिकशब्दांचूत्तरपदाजाहियु के इति व्याकरणसूत्रेण पृथक्त्व. वाचकपदयोगे विधीयमानपञ्चम्यनुरोधेन तस्वीकारस। महाभाष्ये ऽन्येत्यर्थग्रहणमभ्युपेत्य तदर्थवाचकतरादिपदयोगेषि पञ्चमीसिद्धस्तस्य सूत्रे प्रत्याख्यात्तत्वात् । भेदस्य अन्यपदार्थत्वेन विवक्षणे च सद्वाचकपदयोगाविशेषात् पादन्यो विलक्षणे इत्यादाविव घटो नेत्यत्रापि पञ्चम्यापत्तेः ॥
संयुक्तावित्यनुभवसिद्धसंयोगत्वजातिमान्संयोगः॥
सर्वद्रव्यवृत्तिः । सत्रिविधः । अन्यतरकर्मज उभयकर्मजः संयोगजश्च । निष्क्रियस्य स्थाणोः क्रियावता पक्षिणा सहायः । मल्लयोर्मेषयोर्चा द्वितीयः । अङ्गुलीतरूसंयोगात्कायतरुसंयोगोन्त्यः । सोयं संयोगो द्विमिष्ठः घटपटौ संयुक्तौ इतिपत्ययात् । घटे पटस्य पटे घटस्यान्य एव संयोगः । अन्यथा घटः पटसंयुक्तइतिवत् घटो घटसंयुक्त इत्यपि प्रतीत्यापतेः । तथा
Page #358
--------------------------------------------------------------------------
________________
पदार्थदीपिका। चैकद्रव्यवत्येव संयोग इति मीमांसकाः ॥
घटपटौ विभक्ताविति प्रतीतिसिद्धविभागवजातिमान् वि. भागः ॥
सर्वद्रव्यवृत्तिः संयोगजः । हिमवाध्यौ । विभक्ताविति प्र. योगस्तु संयोगाभावयोगात् मौणः । शेषं पूर्ववत् ॥
परत्वत्वजातिमत् परत्वम् ।।
तत् द्विविधं कालिकं दैशिकं चेति । आचं जन्यद्रव्ये एव । द्वितीयं मूर्ते एव । इयत्तावच्छिन्नपरिमाणं मूर्तत्वमुच्यते तदा. श्रयो मूर्तम् । तथाहि । युवस्थविरपिण्डयोरयमस्माद्बहुतरतपन - परिस्पन्दाश्रयो ऽयमस्मादल्पतरतपनपरिस्यन्दाश्रय इति बु. दया परत्वापरत्वे जन्येते । तदीयैव अयमस्मात्पर इति अय. मस्मादपर इति धीरुत्पद्यते । एतदेव ज्येष्ठत्वं कनिष्ठत्वं च । तत्र तपनक्रियायाः पुरुषे सम्बन्धघटको महाकालोभ्युपेयते । एवं व्यवहितसनिकृष्टयोः पिण्डयोरयमस्मात्स्वल्पतरसंयुक्तसंयोगवा. न् अयमस्माद्बहुतरसंयुक्तसंयोगवानिति ज्ञानात् दैशिकपरत्वा. परत्वे जन्येते तयोरेवायमपरोयं पर इति धीरुत्पद्यते । तत्र तावन देशसंयोगसक्रामिका महादिगभ्युपेयते ॥
गुरुत्वत्वजातिमद्गुरुत्वम् । आद्यपतनासाधारणकारणम् ॥
पृथिवीजलवृत्ति । अतीन्द्रियं पतनानुमेयमित्युदयनाचायोः। अधोदेशावच्छेदेन प्रत्यक्षमेव तदिति लीलावतीकारः ॥
द्रवत्वत्वजातिमत् द्रवत्वम् ॥
पृथिव्यादित्रयति । द्विविधं सांसिदकं नैमित्तकं च । तत्र स्वाभाविकं जले करकादौ चादृष्टवशात् घनीभावात्मतिबन्धकमात्रं वस्तुतोस्त्येव क्षणोत्तरमुपलम्भात् । लाक्षासुवर्णादावग्निसंयोगनिमित्ताज्जायमानमन्त्यम् ।।
Page #359
--------------------------------------------------------------------------
________________
पदार्थदीपिका। स्नेहः सङ्ग्रहरूपकार्यानुमेयो गुणः ॥ जलमात्रवृत्तिः । घृततेलादावुपष्टम्भकजलभागतः ॥
बुद्धित्वजातिमती बुद्धिः ॥ • सा द्विधा स्मृतिरनुभवश्च ॥ स्मरामीत्यनुभवसिद्धस्मृतित्वजातिमती स्मृतिः ।। सा च पूर्वानुभवजन्यसंस्कारजा इति वक्ष्यते ॥
अनुभवामीत्यनुभवसिद्धजातिविशेषोनुभवत्वमित्येके ॥ अ. नुमित्यादी अनुभवामीत्यप्रतीतेः प्रत्यक्ष एव । तथानुभवा. च्चानुभवसिदमनुभवत्वं प्रत्यक्षममेवेत्यपरे । प्रकृते तु स्मृ. तिभिन्नज्ञानत्वमेवानुभवत्वमिति ॥ सेयं बुदिधा मिथ्या प्रमा च ॥
असद्विषयणी मिथ्या ॥
शुक्ताविदं रनतमिति बुद्धौ शुक्तिरजतत्वयोः प्रसिद्धयोरलीकस्यैव समवायस्य विषयीकरणादिति वाचस्पतिमिश्राः । आचार्यादयस्तु । असतो भानासम्भवाच्छुक्तौ प्रसिद्धरजतत्व: स्येव तत्समवायस्याप्यारोप एव । अलीकं न भासतइत्यादि. वाक्येष्वपि सचेतसा मूकतैवोचितत्याहुः । तन्मते विशेष्याऽसम्बद्धविशेषणविषयकत्वं मिथ्यात्वम् ॥ घटे रूपमित्यस्य वारणाय विशेष्यावृत्तीति नोक्तम् । असम्बद्धत्वं तु तत्र नास्तीति नातिव्याप्तिः । सा त्रिधा संशयविपर्ययतर्कभेदात् । एकस्मिधर्मिणि विरुद्धनानाविमर्शः संशयः । यथा स्थाणी स्थाणुर्वा पुरुषो वायामिति । अत्र पुरुषत्वं तत्सम्बन्धश्च तत्र नास्तीति भवत्यसविषयत्वम् । स चायं त्रिधासाधारणधर्मदर्शनजो ऽसाधारणधर्मदर्शनजो विप्रतिपत्तिजश्च । स्थाणुपुरुषसाधा- . रणोचत्वदर्शनज आद्य उक्तः । नित्या ऽनित्येभ्यो व्यावत्तशब्द.
Page #360
--------------------------------------------------------------------------
________________
पदार्थदीपिका। स्वादिदर्शन: शब्दो नित्यो नित्यो मति द्वितीयः । वादिवि. रुद्धार्थकवाक्याज्जायमानस्तमो द्रव्यं न वेत्यादिस्तृतीयः॥
प्रतियोगिव्यधिकरणतदभाववति सत्प्रकारको निर्णयो वि. पर्ययः ॥ ___ यथा शुक्ताविदं रजतमिति रजतत्वाभाववत्या शुक्तौ त. निर्णयोयं भवत्येव । अयं सः कपिसंयोगीति मूलावच्छेदेन कपिसंयोगाभाववति वृक्षे कपिसंयोगप्रकारकस्य निश्चयस्य सत्त्वादयमपि विपर्ययः स्यात्तद्वारणाय प्रतियोगिव्यधिकरणे. ति । संयोगाभावो हि प्रतियोगिसमानाधिकरणो न प्रतियोगिव्यधिकरणः, साखावच्छेदेन कपिसंयोगस त्वेपि मूलावच्छेदेन कपिसंयोगाभावस्य विद्यमानत्वात् ॥
व्याप्यारोपप्रयुक्तो व्यापकारोपस्तर्कः ॥ ... यथा यदि निर्वन्हिः स्यानिधूमः स्यादिति । वन्ह्यभावो व्याप्यस्तदारोपपयुक्तो व्यापकधूमाऽभावारोपोत्रास्ति । स्वप्न स्तु संशयविपर्ययात्मकं स्मरणमेव दोषवशात्तदिति स्थाने इदमिति नैयायिकाः । वैशेषिकास्तु तर्कस्याहार्यविपर्ययात्मकत्वान्न पृथक् गणयन्तः संशयाविपर्ययस्वप्नानध्यवसायभे. देनाविद्या चतुर्दैत्याहुः । मिद्धामनःसंयोगजं ज्ञानं स्वप्नः । अविदितचरपदार्थदर्शनारिकमेतदितिधीरनध्यवसायः । न चायं संशयः, नानाकोव्यनुल्लेखात् ॥
प्रमा च यथार्थानुभवः ॥ अबाधितार्थविषयं ज्ञानं यथा. थम् ॥ स्वविषयसम्बन्धेन विशेषणवद् विशेष्यविषयकमित्यर्थः । तथा च रक्तः पट इति परम्परया प्रमा, न समवायेन । सा च प्रमा प्रत्यक्षात्मिकैवेति चार्वाकाः । अनुमितिरपीति कणादसुगतौ । उपामितिरपीति न्यायैकदेशिनः । शब्दोपीति नैयायि
Page #361
--------------------------------------------------------------------------
________________
पदार्थदीपिका । काः । अर्थापत्तिरपति प्रमाकरः । अनुपलब्धिरपीति भाटा वेदान्तिनश्च । सम्भवैतिह्यरूपापीति पौराणिकाः । चेष्टापीति तान्त्रिकाः ॥
एतादृशप्रमाकरणं च प्रमाणम् ॥
करणत्वं चासाधारणकारणतम् ॥ असाधारणत्वं च व्यापारवत्वम् । तथा च चक्षुरादिकमेव प्रत्यक्ष करणमित्येके । आचार्यास्तु अव्यवधानेन कार्योत्पादकत्वमसाधारणत्व. म् । तथाच चक्षुःसंयोगादिकमेव प्रत्यक्षे करणं, लिङ्गपरामर्श रूपं तृतीय ज्ञानमेवानुमितावित्याहुः ॥
कारणत्वं चानन्यथासिद्धनियतपूर्ववृत्तित्वम् ।। - यथा घटे पदडादेः । दैवादागतस्य रासभस्य तन्तुरूपस्य च वारणाय क्रमेण पदद्वयमिति प्राचः । वस्तुतस्तु नियतपद न देयमेव रूपवद्रासभस्याप्यन्यथासिद्धत्वेनैव वारणात् । अन्यथासिद्धत्वं चावश्यकल्प्यमानपूर्ववर्तिन एवं कार्यसम्म सः सहचरितत्वं; रासभसत्वेपि दण्डचक्रादेरावश्यकत्वात्तैरयमन्यथासिद्ध एवेति तत्त्वम् । तथा च प्रमाकरणं चार्वाकमते एक; वैशेषिकाणां द्वयमित्यादि सिध्यति । तथाहि । साक्षात्करोमीति प्रतीतिसाक्षिकजातिविशेषवज ज्ञानं प्रत्यक्षन्तत् द्विधा नित्यमनित्यं च । नित्यं भगवतः तत्सर्वविषयं प्रमा च । अनित्यं च जीवानाम् । तत् द्विधा सविकल्पकं निर्विकल्पकं च ॥ ___ अयं घटोऽयं दण्डीत्यादिशब्दाभिलापयोग्यं विशेषणविशेष्यवैशिष्टयावमाहि वा सविकल्पकम् ॥ तस्कारणत्वेन कल्प्यमतीन्द्रियं विशिष्टशब्दाभिलापयोग्यं वि. शेषणविशेष्यवैशिष्टयानवगाह्यन्त्यम् ।
तद्यथा । दण्डी पुरुष इति ज्ञाने दण्डो विशेषणं पुरुषो
Page #362
--------------------------------------------------------------------------
________________
पदार्थदीपिका। विशेष्यः संयोगः सम्बन्ध इति तदवगाहि तत् ज्ञानं सविकरूपकम् । तद्दण्डज्ञानमन्तरेण नोत्पद्यते ऽतो दण्डज्ञानजन्यम् । यथा सुप्तोत्थितस्य जायमाने घट इति ज्ञाने घटत्वं विशेषणं घटो विशेष्यः समवायः सम्बन्ध इति तदवगाहि तत्सविकल्पक घटत्वज्ञानजन्यं वाच्यम् । तत्कारणीभूतं ज्ञानं चानुभवानास्पदत्वादतीन्द्रियं निर्विकल्पकमभिधीयतइति । नास्तिकास्तु निविकल्पकमेव प्रमा सुलक्षणवस्तुविषयत्वात् । तच्च सूर्यादिवत्स्वप्रकाशं न तु घटादिवत्परप्रकाश्यम् । सविकल्पकं तु न प्रमा, अलीकघटत्वाद्यऽवगाहित्वात् । वन्ध्यापुत्रज्ञानवदित्याहुः । तन्नेति वक्ष्यते । तच्च प्रत्यक्षं पश्यामि जिघ्रामि आस्वादे स्पृशामि शृणोमि मनसा सुखं साक्षात्करोमीति प्रतीतिसाक्षिकचाक्षुपत्वादिजातिषड्कभेदात्पोढा । तत्करणं चक्षुरादि, तैर्विषये गृह्यमाणे विषयेण सह सनिकों अवान्तरव्यापाराः । ते च संयोगः संयुक्तसमवायः संयुक्तसमवेतसमवायः समवायः समवेतसमवायः विशेषणता ज्ञानलक्षणा योगजधर्मलक्षणा सामान्यलक्षणा चेति नव । षडाद्या लौकिका अन्ये त्रयो ऽलौकिकाः। तत्र मनसा जायमाने अहमित्यात्मप्रत्यक्षे मनः करणम् । आत्मप्रत्यक्षं फलम् । आत्ममनः संयोगो ऽवान्तरव्यापारः । सम्बन्ध इति या. वत् । अन्ये तु तज्जन्यस्तज्जन्यजनकोवान्तरव्यापारः । भवति चात्ममनः संयोगो मनोजन्यस्तज्जन्यज्ञानजनकश्चति व्यापा. रः । न चा ऽजन्ये शब्दसमवाये अव्याप्तिः । तस्य व्यापारस्वास्वीकारात् शब्दस्यैव स्वप्रत्यक्षे व्यापारत्वात् । यद्वा श्रोत्रमनः संयोग एव शब्दस्य तदत्यन्ताभावादेश्च प्रत्यक्षे व्यापा. रः । तस्य श्रोत्रजन्यत्वात्मत्यक्षजनकत्वाच्चेति वदन्ति । सुखादिग्रहे संयुक्तसमवायः । मनः संयुक्त आत्मनि सुखस्य समवा.
Page #363
--------------------------------------------------------------------------
________________
पदार्थदीपिका। यात् सुखसमवेतसुखत्वादिग्रहे संयुक्तसमवेतसमवायः । एवं घटादिग्रहे चक्षुषः स्पार्शनस्य वा संयोगः । रूपादौ संयुक्तसमवायः । रूपत्वादी संयुक्तसमवेतसमवायः द्रष्टव्यः । द्रव्यप्रत्यक्षमात्रे इन्द्रियसंयोगस्य शब्देतरद्रव्यसमवेतग्रहे संयुक्तसमवायस्य तत्समवेतग्रहे तृतीयस्य हेतुत्वस्य सामान्यतः स्वीकारात् । ननु चक्षुषो गोलकविशेषरूपस्य घटादिसंयोगः प्रत्यक्षबाधितः कथमासत्तिरिति चेन्न । तत्तद् गोलकाधिष्ठितानामिन्द्रियाणामतीन्द्रियाणामप्युपगमाव गोलकादिरूपवत्त्वे चा ऽसम्बद्धग्राहकत्वमम्युपेयम् । तथा च पृष्ठभागीयाः पुरोतिनो भित्यादिव्यत्रहिताश्च पदार्था गृह्येरन् । व्यवधानं प्रतिबन्धकामिति चेन्न । मित्यादिपरभागास्थतानां परावृत्य दर्शने पृष्ठदेशे स्वस्य च प्र. त्यक्षं न स्यात् । तत्पुरुषीयतत्कालीनप्रत्यक्षं प्रत्येव तस्कालपतिवन्धकत्वकल्पने चातिगौरवात् । तस्मादावश्यकमतीन्द्रियमिन्द्रियम् । नन्वेवं शाखाचन्द्रमसोस्तुल्यकालग्रहणं न स्यात् । किं च नेत्रोन्मीलने प्रहरायवधिसूर्यचन्द्रग्रहणार्थे विलम्बापत्तिः। चक्षुषस्तावत् दूरगमनकल्पनात इति चेन । अतिलाघवादतिशीचूं तावत् दूरगमनाद्विशेषाऽग्रहणस्याशु तदुत्पादकप्रतीतेश्चोपपत्तेः । तदुक्तम् । अचिन्त्यो हि तेजसो लाघवातिशयेन वेगा. तिशयो यत्माचीनाचलचूडावलम्बिन्येव भगवति मयूखमालिनि भुवनोदरेष्वालोकइत्यभिमानो लौकिकानामिति दिक ॥ सम. वायेन शब्दग्रहः श्रोत्रे शब्दसमवायस्य सत्वात् । शब्दत्वादि. ग्रहे समवेतसमवायः । विशेषणतया आभावग्रहः । शब्दो ना. स्तीति श्रोत्रे शब्दाभावस्य विशेषणतास्त्येव । भूतले रूपादौ च घटाभावग्रहे चक्षुःसंयुक्तविशेषणता चक्षुःसंयुक्त समवेतविशेषणता चेत्यादि द्रष्टव्यम् ॥ कवेः काव्यरचनामूलभूते विशिष्टज्ञाने
Page #364
--------------------------------------------------------------------------
________________
पदार्थदीपिका। मनसा जायमाने विशकालतपदार्थस्मरणरूपं जाने सत्रिकर्षः । अन्यथा तत्र सन्निकर्षाभावेनातीन्द्रियातीतानागतपदार्थवशिष्टयाज्ञानासम्भवात् । घटत्वसामान्यलक्षणप्रत्यासत्या ऽनागतव्यवाहितसकलज्ञानोत्पत्ती सामान्यं प्रत्यासत्तिः । अन्यथा एता. दृशो घटपदवाच्य इत्येकत्र बोधिते सर्वत्र घटे तद्ग्रहो न स्यात् । क्षणमात्रमृषिस्तस्थौ सुप्तमीन इव हृदइत्याभियुक्तोक्त्या योगिभिः सर्वसाक्षात्कारे तत्रात्यन्तयोगाभ्यासेन जातो ऽदृष्टविशेष एव योगजधर्म इत्युच्यते ॥ ... अथानुमाननिरूप्यते ॥ .. अनुमिनोमीत्यनुभवसाक्षिकजातिविशेषवत्यनुमितिः॥ ..
तत्करणमनुमानम् ॥ तच्च ज्ञायमानं लिङ्गमिति प्राञ्चः । तथाहि । यद्धर्मावच्छिन्नसमानाधिकरणा यावन्तो यत्साध्यतावच्छेदकविशिष्टसमानाधिकरणास्तत्साध्यसामानाधिकरण्यव्याप्तिः। तदाश्रयो धूमादि लिङ्गं तस्मिन् लिङ्गे यत्र धूमस्तत्र सर्वत्र क्निहरिति भूयो दर्शनात् धूमत्वावच्छिन्नधूमसमानाधिकरणाः सर्वे महानसत्वादयो वन्हित्वावच्छिन्नवन्हिसमानाधिकरणास्ताह. शवन्हिसमानाधिकरणे धूम इति व्याप्तिज्ञानं प्रथमं जायते ततो ऽपूर्वपर्वतादौ धूमदर्शनात् द्वितीय ज्ञानं जायते ततो वन्हिव्याप्यधूमवानयमिति तृतीयं ज्ञानमुत्पद्यते तदेव लिङ्गपरामर्शः । तत्र लिङ्गपरामर्शत्वेन परामृष्यमाणलिङ्गत्वेन वा करणतेत्यत्र विनिगमकाभावादुभयमपि द्वारद्वारिभावेन हेतुः । लिङ्गं करणं परामर्शो द्वारं व्याप्रिज्ञानं तु परामर्श विशेषणज्ञानत्वेनोपयुज्य. ते । ततोयं पर्वतो वन्हिमानिति साध्यवन्हिविशिष्टज्ञानरूपानुमितिर्भवतीति । मणिकारास्तु अतीतानागतलिङ्गेनाप्यनुः मितिदर्शनात् न लिङ्गस्य करणत्वं किं तु व्याप्तिज्ञानं करणं
Page #365
--------------------------------------------------------------------------
________________
पदार्थदीपिका। परामर्शो व्यापार इत्याहुः । स्मरणात्मकपरामर्शदसनिकृष्टहे. तुकेप्यनुमितौ तत्र व्याग्निज्ञानस्य पूर्वपरामर्शतजन्यसंस्कारैर्यवधानान्न करणत्वं सम्भवतीति व्याप्तिज्ञानस्य संस्कारसाधारण परामर्शजनकत्वेनैवानामितिकरणतेति नव्या जनकत्वं हि कार णत्वं तच्चानन्यथासिदनियतपूर्ववृत्तित्वं च प्रागभावावच्छिन्नसमवायित्तित्वमतिगौरवास्तमितिन तेन रूपेण कर णता किंतु मन एवानुमितिकरणं परामर्थो व्यापारः । उक्तं च अमेयभाष्ये स्मृत्यनुमित्यादिकरणत्वेन मनः साधितमिति नव्यतराः । ज्ञानत्वेनैवानुमितिकरणता परापर्टी विशेषकारणमिति नातिम्सङ्ग इत्यपि के चित् । न च व्याप्तिग्रहे सति महानसएवानुमी. यताम् वन्हिव्याप्यधूमवानयमिति परामर्शस्य तत्रापि सम्भवादिति वाच्यम् । पक्षताया अप्यनुमितिहेतुत्वात् ।। .. अनुमितीच्छाभावविशिष्टसाध्यनिर्णयाभावो हि पक्षवा ॥ - महानसादौ चानुमितीच्छाविरहसहित एव साध्यनिर्णयोस्तीति न पक्षता । तत्रैवानुमितिर्भवयितीच्छायां पक्षतासम्म त्तये अनुमतीच्छाभावविशिष्टेति विशेषणम् । तथा च पुरुषे सत्यपि दण्डाभावादण्डिपुरुषाभाववत्सादयनिर्णये सत्यपि इच्छाविरहरूपविशेषणाभावाचाश्ननिर्णयाभावरूपा पक्षता भवति । साध्यसन्देहः पक्षता । तदुक्तं भाष्ये । नानुपलब्धे ऽर्थे निर्णीते ऽर्थे न्यायः प्रवर्तते अपि तु सन्दिग्धे इति मते च तत्रानुमितिर्न स्यादिति । तन्न युक्तम् । अकस्माद् घन. गर्जितेन मेघानुमानात्सन्देहाभावपि अनुमितिदर्शनात् । न च धूमो वन्हिव्याप्यो धूमवान् पर्वत इति ज्ञानद्वयमेव हेतुरस्तु कुतः परामर्शोपीति मीमांसककन्दलीकारयोर्मतं युक्तम् । धूमो वन्हिव्याप्य आलोकवान्पर्वते इति ज्ञानादप्यनुमित्यापत्तेः ।
Page #366
--------------------------------------------------------------------------
________________
२२
पदार्थदीपिका |
धूमे व्याप्तेरालो के पक्षधर्मतायाश्च ज्ञानस्य सत्वात् । न चैकtat भगावगाहि ज्ञानं कारणमिति वाच्यम् । धूमो वन्हिव्याप्यो द्रव्यवान् पर्वत इति ज्ञानादप्यनुमित्यापत्तेः । द्रव्यत्वेन धूमस्यैव पक्षवृत्तित्वभानात् । न चैकेन धूमत्वरूपेण व्याप्तिपक्षधर्मताज्ञाने हेतू । वन्हिव्याप्यधूमवान् पर्वत इत्याप्तवाक्यजपरामर्शात् अनुमित्यनापत्तेः । तस्मात्परामर्श एवावश्यकः । सोयं परामर्शो व्याप्तिज्ञानकपेण यत्र स्वस्यैवोत्पन्नस्तत्रानुमितिरपि स्वस्यैव भवति, तदेव स्वार्थानुमानम् । यत्र तु स्वयं बुध्वा शब्देन परं बोधयति, तत्परार्थानुमानम् । तत्र प्रतिज्ञाहेतूदाहरणोपनयनिगमनाख्याः पञ्चावयवाः । तत्र पर्वतो व हिमानिति साध्यविशिष्टपक्षबोधकं वचनं प्रतिज्ञा कुत इत्याकां क्षाशमकं धूमादिति पञ्चम्यन्तं लिङ्गवचनं हेतुः धुमो ऽस्तु वन्हिर्मास्त्वित्याशङ्काशमकं यत्र धूमस्तत्राग्निर्यथा महानस इत्यादि सव्याप्तिकं दृष्टान्तवचनमुदाहरणं, हेतूदाहरणाभ्यां प र्यवसितव्याप्तिविशिष्टपरामर्शजनकं तथा चार्य, वन्हिव्याप्यधूमवानयमिति वा उपनयः । पक्षे साध्योपसंहाररूपं तस्मात्तथेति वाक्यं निगमनम् । एतएव प्रतिज्ञापदेश निदर्शनानुसन्धा नमत्याम्नायशब्देन वैशेषिकैरुच्यन्ते । अपदेशो हेतुः । शेष क्रमेण ज्ञेयम् । मीमांसकास्तु त्रय एवावयवाः प्रयोज्या उदाहरणान्तास्तदाया वा इत्याहुः । न च परार्थानुमाने शाब्दवोधात्मक एव साध्यनिर्णयो नानुमितिरिति वाच्यम् । वादिवाक्यस्याप्रामाण्याशङ्कास्कन्दितखेन निर्णयाजनकत्वात् पञ्चावयवपूर्त्यनन्तरं मनसा बाधकाभावप्रतिसन्धाने सति वादिकारितव्याप्तिज्ञानादिवशान्मानसपरामर्शोत्तरमनुमित्यभ्युपगमात् इति दिक् । तदिदं - लिङ्गं त्रिधा केवलान्वयिकेवलव्यतिरेक्यग्वय
Page #367
--------------------------------------------------------------------------
________________
पदार्थदीपिका। व्यतिरेकिभेदात् । तत्र वृत्तिमदरसन्ताभावाप्रतियोगिसाध्यसाधको हेतुः केवलान्वयी । ययेदं वाच्यं शेयत्वात् द्रव्यवदित्यादि । अनवगतसाध्यसाधनसहचारो हेतुः केवलव्यतिरेकी । यथा आकाशः पृथिव्यादिसर्वेभ्यो भियते शब्दवत्वादिति । अत्र शब्दस्य पृथिव्यादिसाहचर्य न स्वापि हळू किं तु यत्रेतरत्वं तत्र शन्दो नास्तीतीतरभेदाभावशन्दाभावयोरेव सामानाधिकरण्यमवगतमतो व्यतिरेकयोः साध्याभावहेत्वभावयोरेव न्या. प्तिग्रहात् केवलव्यतिरेकी । न च शन्दे हेतौ व्याप्त्यग्रहादितरभेदव्याप्यशब्दवानयमिति परामर्शासम्भवेन कथमत्रानुमितिरिति शंक्यम् । ययोरभावयोर्याप्तिविना बाधकं तयोरपीति तर्कसहकृतमनसा हेतावपि साध्यव्याप्तिग्रहेण परामर्शसम्भवात् । यद्वा साध्याभावव्यापकीभताभावप्रतियोगिहेतुमानयमित्येव व्यतिरेकिणि परामर्शस्ततोनुमिनिरिति । यत्र साध्यहेत्वोस्तदभावयोश्वव्याप्तिगृह्यते सोन्वयव्यतिरेकी । यथा यत्र धूमस्तत्रामिः यत्र व. न्ह्यभावस्तत्र धूमाभाव इति उभयत्र सहचारग्रहाद्भूमसहचरिताः सर्वे वन्हिसहचरिता वन्यभावसहचरिताः सर्वे धूमाभावसहच. रिता इति ग्रहाद्भूमादेः तत् । व्याप्तिबोधनप्रकारस्तु प्राचीनरुक्तः । 'अन्वयेन साधनं व्याप्यं साध्यं व्यापकमिष्यते । साध्याभावो ऽन्यथाव्याप्यो व्यापकः साधनात्ययः ॥ व्याप्यस्य वचनं पूर्व व्यापकस्य ततः परम् । एवं परीक्षिता व्याप्तिः स्फुटीभवति तत्त्वत' इति । तत्रान्वयव्यातरोकीण पक्षधर्मत्वं सपक्षे सत्वं वि. पक्षाव्यावृत्तिरबाधित विषयत्वमसत्प्रतिपक्षत्वं चेति पञ्च रूपाणि अपेक्षितानि । केवलव्यतिरेकिणि सपक्षाभावात्तद्भिधानि चस्वारि । केवलान्वयिनि विपक्षाभावाद्विपक्षव्यावृत्तिभिन्नानि च. त्वारि । तत्र पक्षतावान् पक्षः पर्वतादिः । निर्णीतसाध्यहेतुसह
Page #368
--------------------------------------------------------------------------
________________
२४
पदार्थदीपिका । चारिका सपक्षः । यथा महानसः। निर्णीतसाध्याभावको वि. पक्षः । यथा जलहूदः । विषयः साध्यं तस्यावापितवं बाधाभावः यस्य हेतोस्तत्त्वम् । सत्पतिपक्षः साध्यामासाधको हेतुस्तदभावो ऽसत्प्रतिपक्षत्वम् ॥ - एतादृशरूपशून्या हेतुवदामासमानत्वादेत्याभासाः ॥ - ते चासिद्धविरुद्धानकान्तिकप्रकरणसमवाधिताः पञ्च । तत्रासिद्धस्विधा । आश्रयासिद्धः स्वरूपासिद्धो व्याप्यत्वासि. दश्च । यत्र पक्षतावच्छेकं पक्षे नास्ति स आद्यः । यथा नग. नारविन्दं सुरामि अरविन्दत्वात् सरोजारविन्दवत् । अत्र पक्ष. तावच्छेदकं गगनीयत्वं प्रसिद्ध अरविन्दे पक्षे नास्तीत्याश्रयासिद्धत्वम् । पक्षे हेतुस्वरूपाभावः स्वरूपासिद्धः। यथा जलं र. सबत् गन्धवस्वादिति । व्याप्त्यभाववान् व्याप्त्यत्वासिद्धः । यथा पर्वतो वन्हिमान् नीलधूमात् । अत्र नीलत्वस्य व्यर्थत्वेन व्यर्थविशेषणत्वात्तदवच्छेदेन व्याप्त्यभावाद्वयाप्यत्वासिद्धः॥ - साध्यव्यापकाभावप्रतियोगी हेतुर्विरुद्धः । वन्हिमान् इदत्वात् गगनत्वावति ॥ ... व्यभिचार्यनैकान्तिकः । प्रतियोगिव्यधिकरणसाध्याभाव. वदत्तित्वं साध्यासमानाधिकरणधर्मसमानाधिकरणत्वं वा व्यभिचारः । तद्वान व्यभिचारी । स त्रिधा साधारणो ऽसाधार• णो ऽनुपसंहारी च ॥ .. ...
. - विपक्षवृत्तिः साधारणः । यथा पर्वतो धूमवान् वन्हेरिति, विपक्षे ऽयापिण्डे चन्हिरस्त्येव ।।..... -: सपक्षविपक्षव्यावृत्तो ऽसाधारणः । यथा शब्दो नित्यः शब्दत्वादीत, सपक्षे गगने विपक्षे घटादौ हेतु स्त्येव । अ. तो व्यतिरेकच्याप्त्या साध्यतदभावसाधकत्वाविशेषात्सन्देहा
Page #369
--------------------------------------------------------------------------
________________
पदार्थदीपिका ।
२५
पादकत्वाद दूषणमयम् ॥
अवृत्तिसाध्य कोनुपसंहारी । आकाशवान् धूमादिति
यथा ॥
तुल्यबलसाध्याभावसाधक हेत्वन्तरसहितः सत्प्रतिपक्षः । यथा शब्दो ऽनित्यः कृतकत्वात् घटवत् । शब्दो नित्यः व्योमैकगुणत्वात् तत्परिमाणवदिति ॥
1
पक्षे साध्याभावनिर्णयो बाघ, स्तथाविधो बाधितः । यथा उत्पत्तिकालीनो घंटो गन्धवान् पृथिवीत्वादिति । तत्र प्रमाणान्तरेण गन्धाभावनिर्णयाद्वाधितः । एतेषां सत्प्रतिपक्षासाधारणौ विशेषाग्रहणदशायामेव हेतोराभासत्वापादकत्वादनित्यदोषौ साक्षादनुमितिप्रतिबन्धकौ च । यदा तु तर्कादिना मानान्तरेण व्याप्त्याद्येकत्र निर्णीतं बाधाभावश्चास्तितदा दोषाज्ञापनाच्च । शेषास्तु नित्यदोषाः, बाधादन्ये व्याप्त्यादिविघटकाश्चेति जनकज्ञानविघटकत्वेन दोषा इति नैयायिकाः । वैशेषकास्तु विरुद्धासिद्धसन्दिग्धास्त्रयो हेत्वाभासाः | 'विरुद्धासिद्धसन्दिग्धमलिङ्गङ्काश्यपोब्रवीत्' इति माष्यात् । अनेनासिद्धविरुद्धसन्दिग्धानध्यवसितानामनपदेशत्वमुक्तं भवति इत्यपि भाष्याच्चत्वारो वा । तत्रासिद्धश्चतुर्द्धा उभयासिद्धो ऽन्यतरासिद्धः स्वरूपासिद्धो ऽनुमेयासिद्धश्च । शब्दो नित्यः सावयवत्वादित्याद्यः । कार्यत्वादिति द्वितीयः । पक्षे हेत्वभावस्तृतीयः स्वरूपा सिद्धः | बाधितस्तुरीयः । विरुद्धः प्रागुक्त एव । साधारणो ऽनैकान्तिकः । साध्यतदभाव सहचारेणोभयसन्देहजनकत्वात्संन्दिग्धः । शब्दो नित्यः शब्दत्वादित्यनध्यवसितः । साधारणधर्मदर्शनविप्रतिपश्योरेव संशयजनकत्वेनास्य प्राचीने ऽनन्तर्भा व इत्याहु: । हेत्वाभासानामेकज्ञाने ऽन्यस्याज्ञानेनुपानदूषणस
Page #370
--------------------------------------------------------------------------
________________
पदार्थदीपिका। म्भवात् सर्वेपि स्वातन्त्र्येण दूषणानि । तेन कचिव क चित्स. म्मिलनेपि नैकेनापराऽन्यथासिद्धिः शङ्कथा । व्यभिचारो. नायकत्वेन परम्परोपयोगान हेत्वाभासान्तरम् उपाधिः । यद्धर्मविशिष्टसाध्यव्यापकत्वं तद्धर्मविशिष्टसाधनाव्यापकत्वं च तल्लक्षणम् । अस्तीदं धूमवान् वन्हेरित्यत्रा न्धने । भवति हि द्रव्यत्वविशिष्टो यत्र यत्र धूमस्तत्र तत्रोन्धनम्, द्रव्यत्वाविशिष्टो यत्र यत्र वन्हिस्तत्र तत्र तन्नास्तीति द्रव्य. त्वविशिष्टसाध्यव्यापकं तद्विशिष्टसाधनाव्यापकं च । एवं गर्भस्थो मित्रातनयः श्यामः मित्रातनयत्वात् पूर्वोत्पन्नवदित्यत्र शाकपाकजत्वमुपाधिः । अत्रापि मनुष्यत्वावच्छिन्नं यत्र यत्र श्यामत्वं तत्र तत्र शाकपाकजत्वम् । मनुष्यत्वावच्छिन्नं यत्र यत्र मित्रातनयत्वं तत्र तत्र शाकपाकजत्वं नास्तीति भवति लक्षणसमन्वयः । एवं वायुः प्रत्यक्षः प्रमेयत्वादित्यत्रापि बहिद्रव्य. त्वावच्छिन्नसाध्यव्यापकं तदवच्छिन्नसाधनाव्यापकमुद्भूतरूपवत्वमुपाधिरित्यत्रालं पल्लवेन । नन्वनुमानं न प्रमाणं नाप्यनुमितिः प्रमान्तरम् । यत्र धूमस्तत्राग्निरिति बहुशो दर्शनात् धूमवतानेन पर्वतेन परायेण वन्हिमता भाव्यामिति सम्भावना एवानुमितिकार्यनिर्वाहादिति चेन्न । वन्हिमनुमिनोमीत्यनुभूयमा. नजातिविशेषस्य तदाश्रयानुमितेस्तत्कारणत्वेनानुभूयमानपरामर्श स्य चापलपितुमशक्यत्वादिति तत्रैव प्रवृत्या विषयलाभे सति जातं ज्ञाने प्रमति प्रमात्वग्रहाच विना बाधकं तदन्यथा. त्वस्य कल्पयितुमशक्यत्वादिति दिक् ॥ इत्यनुमानम् ॥
उपमिनोमीत्यनुभवसिद्धजातिविशेषवत्युपमिति, स्तत्करणमुपमानम् ॥
तत्रिधा । सादृश्यविशिपिण्डज्ञानं वैधय॑विशिष्टपिण्डज्ञा.
Page #371
--------------------------------------------------------------------------
________________
पदार्थदीपिका।
२७ नमसाधारणधर्मविशिष्टपिण्डज्ञानं च । तद्यथा । गवयादिशब्दाः क्वचिच्छक्का इति जानता कीदृग्गवय इत्यारण्यके पृष्टे, गोसदृशो गवय इति तेन निवेदिते कालान्तरे ऽरण्यं गतस्य तत्पिण्ड. दर्शनागोसदृशोयं पिण्ड एतादृशश्च गवयशब्दार्थ इत्याप्तेनोक्तं स्मरतस्तस्मादयं गवयशब्दवाच्य इति उपामितिर्जायते । तत्र गोसहशोयं पिण्ड इति सादृश्यविशिष्टपिण्डज्ञानं करणम् । वाक्यार्थस्मरणमवान्तरव्यापारः । उपमितिः फलम् । एवं कीदृशो ऽश्व इति पृष्टे गवादिवद् द्विशफः स्वल्पपुच्छश्च ने.. त्याप्तोक्तयनन्तरं तत्पिण्डदर्शनादयं द्विशफः स्वल्पपुच्छश्च नेति ज्ञानादाप्तव्याक्यार्थस्मरणोत्तरमयमश्वशब्दवाच्य इत्युपमि. तिज्ञानमुत्पद्यते । तत्र वैधय॑विशिष्टपिण्ड ज्ञानं करणं, वाक्यार्थस्मरणं व्यापारः, शक्तिज्ञानं फलम् । एवं कीदृश उष्ट्र इति प्रश्ने कण्टकाशी अतिदीर्घग्रीव इत्याप्तवाक्यश्रवणानन्तरं कालान्तरे तद्धर्मविशिष्टपिण्डदर्शनाद्वाक्यार्थस्मरणे सति उष्ट्रशब्दवाच्योयमिति वाच्यवाचकभावग्रहो भवति सोपमितिः फलम् । असाधारणधर्मविशिष्टधर्मिप्रत्यक्षं करणं वाक्यार्थस्मरणं व्यापार इति चाच्यम् । एवं कीदृश्यौषधी सर्पविषहन्त्रीति प्रश्ने नकुलदंष्ट्राधृ. तेत्यायुत्तरिते कालान्तरे नकुलदंष्ट्रायामौषधिविशेषदर्शने सति एतादृशी सर्पविषहन्त्रीति ज्ञानमुत्पद्यते । तत्रैतादृशी विषहन्त्रीति ज्ञानं फलम् । वाव्यार्थस्परणमवान्तरव्यापारः । नकुलदंष्ट्राधरणरूपाऽसाधारणधर्मविशिष्टपिण्डज्ञानं करणमित्यूह्यम् । एवं चोपमानत्त्वावच्छेदेन न शक्तिग्राहकत्वामति प्रतारणं परास्तम् । न चाप्तवाक्यस्मरणाच्छाब्दबोध एवास्तु कुतः पृथगुपमानाभ्युपगम इति वाच्यम् । शरीरवृत्त्यश्वत्वोष्ट्रत्वादिजातिविशेषरूपेण शब्दाच्छाब्दबोधाऽसम्भवात् सादृश्यमवच्छेदकी
Page #372
--------------------------------------------------------------------------
________________
૨૮
पदार्थदीपिका ।
कृत्यैव बोधकत्वात् उपमिनोमीत्यनुव्यवसायाच्चोत नैयायिकाः । वैशेषिकास्तु | अयं गवयशब्दवाच्यः गोसदृशत्वात् इत्यनुमा नात्तद्ग्रहः । आप्तवचनाच्च तथाव्याप्तिग्रहात् । उपमिनोमीत्यनुव्यवसायश्च सन्दिग्धः, सत्वे वा ऽनुमितित्वव्याप्तमेव तदस्तु । तथा च न पृथक् प्रमाणमित्याहुः ॥
शब्दात्मत्येमीत्यनुभवसिद्धा शाब्दत्वजातमिती शाब्दी, तत्करणं शब्दः प्रमाणम् । तथाहि । घटं नय पटमानयेत्यादिप्रयोज्यप्रयोजकवाक्यं शृण्वतो बालस्यावापोद्वापाभ्यां घटपटादिव्यवहारं पश्यतस्तद्वयवहारेण तदीयं ज्ञानमनुमिनुतस्तज्जनकत्वेनान्वयव्यतिरेकाभ्यां शब्दमवगच्छतो ऽसम्बद्धस्याबोधकत्वात्सम्बन्धोस्तीति अनुमितिर्भवति । स च सम्बन्धः शक्तिरुच्यते । एवमुपमानात्कोशादिभ्यस्तदनन्तरमन्यत्रापि तद्ग्रहः । एवं घटादिपदशक्तिग्रहे सति गृहीतशक्तिकपदात् पदार्थोपस्थितावाकांक्षा योग्यतादिसहकारिवशाच्छाब्दप्रमा जायते । सा फलम् । यदान्येव ज्ञायमानानि करणानि पदज्ञानं वा करणं पूर्ववत् पदजन्य पदार्थोपस्थितिरवान्तरव्यापार इत्यूह्यम् । ननु गवादिपदानां वृद्धव्यवहारेण सन्निहिते गवि शक्तिग्रहेपि देशान्तरीया पूर्वगोबोधः कथं तत्र शक्त्यग्रहात् । अन्यथा गोशब्दादश्वबोधापत्तिरिति चेन्न । सामान्यलक्षणप्रत्यासत्त्या सकलगोव्यक्तेः शक्तिग्रहसमये चोपस्थितौ सर्वत्रैकजात्यादिविशिष्टे तद्रहेणा दोषात् । तथा च न्यायसूत्रम् । व्यक्तयाकृतिजातयस्तु पदार्थ इति । एकवचनेन जात्यादिविशिष्टे शक्त्यैक्यं सूचयति । मीमांसकास्तृ गोत्वे एव शक्तिः तदाश्रयत्वेन लक्षणया व्यक्तिबोध इत्याहुः । गव्येव शक्तिने तु गोपि गौरवात् नापि गोवे एव शक्तिर्गवि लक्षणेति युक्तम् । गामानयेत्यत्रैव वृत्तिद्वयकल्पने गौ
-
Page #373
--------------------------------------------------------------------------
________________
पदार्थदीपिका। रवात् । न चैवं गोपदाइ गोत्वबोधो न स्यादिति वाच्यम् । अकार्यत्वपि घटत्वस्य कार्यतावच्छेदकत्तात् कार्यत्वसम्बन्धेन दण्डात् घटोपस्थितौ घटत्वभानवदशक्तयत्वोपि शक्यतावच्छेदकत्वात् शब्दादुपस्थितिसम्भवादिति वैयाकरणाः। नन्वेवमपि गौ शुक्लेत्यादौ पदार्थयोरभेदरूपान्वयो न बुद्धयेत तत्र शक्त्य : भावात् अशक्यस्याप्युपस्थितौ घटादिरपि तत्र बुध्येतेति चेत्सत्यम् । अशक्यस्यान्वयस्याकांक्षायोग्यतावशात् भानसम्भवात् । तथाहि । यत्पदं यत्पदार्थेन सह यादृशान्वयबोधजनकम् तत्पदस्य तेन समभिव्याहारस्तादृशबोधे आकांक्षा | घटादिपदं विरुद्धविभक्तिरहितं मातिपदिकार्थेन सहाभेदान्वयमेव बोधयति द्वितीयाद्यर्थकर्मत्वादिभिः सह निरूप्यानिरूपकत्वमाश्रयाश्रायभा वा अतस्तादृशपदसमभिव्याहारो भवत्याकांक्षा । एतज्ज्ञानञ्च कारणं घटपदं द्वितीयाद्यर्थेन सह स्वार्थाभेदान्वयबोधकमिति ज्ञानवतो वैयाकरणस्य तथा च बोधात् अन्यस्याभावाच। एवम् ॥ .. ... ... . . ... .
योग्यता एकपदाथै अपरपदार्थस्य प्रकृतसंसर्गक्त्वम् । तेन पयसा सिञ्चतीति योग्यम् । पयसि सेककरणतासत्त्वात् व. निहना सिञ्चतीति न योग्यं तत्र सेककरणत्वाभावात् । देवदत्तो गौरित्यत्र देवदत्ते स्वस्वामित्वरूपसम्बन्धसत्वाद्योग्यतापत्तेः प्रकृतेत्युक्तम् । तथा च प्रकृतवाक्ये यः प्रतिपयः सम्बन्ध स्तद्वत्त्वमित्यर्थः । स चात्राभेदः स च नास्तीति न तयोग्यम् । एवमासत्तिः पदजन्यपदार्थोपस्थितिरेव । अतः प्रत्यक्षेण तन्दुलदर्शनात् पचतीत्येवोक्ते तण्डुलं पचतांति न बोधः । पदाव्यवधानमासत्तिरिति प्राचीनमतं न युक्तम् । गिरि(क्तमग्निमान् देवदत्तेने त्यत्र : योजनयान्वयबोधानापत्तेः । योजनावाक्यादेवा.
Page #374
--------------------------------------------------------------------------
________________
३०
पदार्थदीपिका । न्वयबोध इति चेन्न । प्रथमवाक्यस्याबोधकत्वप्रसङ्गात् । योजनावाक्यं च तात्पर्यग्राहकत्वेन प्रकरणादिवदुपयुज्यते । एवं चा. कांक्षायोग्यतासत्तिवशात् पदार्थानां परस्परविशेषणविशेष्याव. गाहिविशिष्टशब्दबोधसम्भवान्नानुपपत्तिरिति दिक ।। ... मीमांसकास्तु कार्यान्विते पदानां शक्तिः। तथाहि । प्रयोज्य. प्रयोजकयोरानयनानयनादिव्यवहारौ पश्यतो बालस्यानयननयनादि कार्यत्वेन ज्ञात्वा ऽहं प्रवसे एवमयमपि तथात्वेन ज्ञात्वा प्रवृत्तस्तज्ज्ञानं च शब्दादिति शब्दस्तद्विशिष्टे शक्त इति प्रथमश. क्तिग्रहात् । तथा च कार्यतासामान्यस्य सर्वशब्दादवगमपि वि. शेषतस्तदुपस्थिति विना बोधार्यवसानाभावादबोधकत्वमेव त. च्छून्यानामर्थवादवाक्येवदान्तवाक्यानामित्याहुः ॥ .. वेदान्तिनस्तु । अन्विते पदानां शक्तिरित्यन्वयांशबोधोपपतिर्न तु कार्यत्वांशे सर्वपदानां शक्तिस्तस्य विशेषतस्तद्वोधकपदादेवोपस्थितिसम्भवेन व्यर्थगौरवग्रासात् । अतः कार्यत्वांश विनापि मोक्षरूपमहाप्रयोजनवदात्मस्वरूपबोधकत्वाद्वेदान्ताः प्र. माणमित्याहुः ॥ ___ पदानां पदार्थेष्विव वाक्यस्य संसर्गरूपे ऽन्वये शाक्तः । अत एव तस्य वाक्यार्थ इति किंवदन्ती सङ्गच्छतइति वैयाकरणाः ।। व्युत्पादितं चास्माभिर्मतान्तरनिराकरणपूर्वकमेतन्मतं वैयाकरणभूषणे । नन्वेवमपि गङ्गायां घोष इत्यत्र गङ्गापदात्तीरमत्ययः कथं, तत्र गङ्गापदशक्तेरभावादिति चेत् । सत्यम् । लक्षणारूपवृ. स्यन्तरात्तदुपस्थितेः ॥
अथ केय लक्षणा । उच्यते । शक्यसम्बन्धो लक्षणा । गङ्गा पदशक्यो गङ्गाप्रवाहस्वत्सम्बन्धस्तीरेस्त्येव । तथा च स्वशक्यप्रवाहसंयोगरूपसम्बन्धेन गङ्गापदात्तरािपस्थितिः । स्वशक्येन
Page #375
--------------------------------------------------------------------------
________________
पदार्थदीपिका। सह नियमरूपाच्याप्तिरेव लक्षणा ॥ तदुक्तम् । अभिषयाविनाभूते प्रवृत्तिलक्षणाच्यते' इति मीमांसकाः । तम । मञ्चा क्रोश. न्तीत्यत्र मञ्चपदस्य मञ्चस्थपुरुषे लक्षणा न स्यात् । मञ्चपुरुषयोाप्त्यभावात् । एवं यष्टी प्रवेशयेत्यत्रापि द्रष्टव्यम् ।।
वैयाकरणास्तु गङ्गादिपदानां तीरादौ शक्तिरेव । सर्वेषां पदानां प्रायः सर्वत्रैव शक्तिः लक्षणा च स्वतन्त्रवृत्ति भ्युपेयेत्या. हुः । प्रपञ्चितञ्चतद्वैयाकरणभूषणे । ननु केयं शक्तिः ॥ आभिधानामकं पदार्थान्तरं सङ्केतग्राह्यामिति मीमांसकाः ॥ सिद्धान्त. स्तु घटपटात् घटो बोद्धव्य इतीश्वरेच्छारूपसङ्केतः शक्तिः । सा च पूर्वोक्तरीत्या वृद्धव्यवहाराद् ग्राह्या, वृद्धानां तद्वद्धभ्य इति सृष्टयादौ ईश्वरात्तद् ग्रह इति । आधुनिकपुत्रादिषु सङ्केतितदेवदत्तादिपदे च पित्रादिसङ्केताद् ग्राह्या । द्वादशेन्हि पिता नाम कुर्यात् इति शास्त्रसिद्धत्वात् तत्रापि सास्त्येवेति दिक ॥ एवं शब्दाच्छाब्दबोधे तात्पर्यज्ञानमपि हेतुः । अन्यथा सैन्धवमानये. त्यत्र भोजनप्रकरणे लवणतात्पर्यग्रहे सति अश्वबोधप्रसङ्गात् । न च शुकवालादीनां तात्पर्याभावेन तत्तदुच्चरितशब्दादोधो न स्यादिति वाच्यम् । तत्रापि ईश्वरतात्पर्यसत्त्वात् । तच्च तात्पर्य वेदे मीमांसान्यायगम्यं नियतम् । लोके तु वक्तुरिच्छाधीनमनियतमत एकस्मादेव शब्दात् श्लेषादिवाक्येष्वनेकार्थबोधः । यथा श्वेतो धावतीत्यादौ । नन्वेवमपि 'गच्छ गच्छसि चेत्कान्त पन्थानः सन्तु ते शिवा । ममापि जन्म तत्रैव भूयाद्यत्र गतो भवानि' त्यत्र त्वद्गमने सति वियोगान्मे प्राणहानिरिति प्रतीतिः कथमिति चेत् । सत्यम् । व्यञ्जनाख्यन्त्यन्तरा. तन्दोध इत्यालङ्कारिकाः । एवं गतोस्तमर्क इत्युदासीनवाक्येपि नानाविधास्तु तत्पुरुषायबोधा एव सङ्गच्छन्तइति । दा;
Page #376
--------------------------------------------------------------------------
________________
३२
पदार्थदीपिका ।
शनिकास्तु अनुमितिरूपाः लक्षणया शब्दाद्वा ते बोधाः सम्भवन्ति व्यञ्जनाख्यवृत्त्यन्तरकल्पनां न सहन्ते । नन्वेवमपि भापाशब्देभ्यः कथं बोधः तत्र शक्तिलक्षणयोरभावादिति चेन । तैः संस्कृतस्मरणं ततो बोध इत्यभ्युपगमात् इति के चित् । संस्कृतकथामप्यविदुषां बोधानैवं, किं तु तेष्वेव शक्तिभ्रमाद्बोध इति नव्याः । संस्कृतवद्भाषाशब्दा वाचका एवेति वैयाकरणमतं तु भूषणे ऽस्माभिः प्रपश्चितम् । एवं च भाषाव्यावृत्तं वृत्तिमत्त्वमेव साधुत्वमिति मीमांसकादिमतम् । अर्थविशेषे व्याकरणव्युत्पाद्यत्वं तदिति तु नैयायिकाः । साघूनेन प्रयुञ्जीतेति वचनसिद्धं पुण्यजनकत्वं तदिति वैयाकरणा इत्यलं पल्लवेन । नन्वेवमपि पदज्ञानमेव न सम्भवति वर्णसमूहः पदम् । वर्णाश्च क्रमिकाद्विलक्षणाश्च । तथा च द्वितीवर्णोच्चारणसमये पूर्वो नष्ट इति कथं समुदायज्ञानय् । यत्त प्रत्येकं तत्तद्वर्णानुभवोत्तरमन्ते समूहालम्बनरूपं सकलवर्णस्मरणमेव पदज्ञानमिति । तन्न । एवं सति तत्र क्रमाभावात्सरो रसः जरा राज नदी दीनेत्यादावविशेषप्रसङ्गादिति चेत् । उच्यते । प्रथमं घकारज्ञाने सति तदुत्तरमकारज्ञाने जायमाने स्वाव्यवहितोतरत्वसम्बन्धेन पूर्वो वर्णो विशेषणतया भासते ततटकारे घकारविशिष्टो ऽकारो विशेषणं सोपि पूर्वद्वयविशिष्टः स्त्रोत्तरस्मिन्निति भवति पदज्ञानं तस्मात्पदार्थोपस्थितिस्तत उक्तप्रका रेण पुनः पदान्तरज्ञानं ततस्तदर्थोपस्थितौ तयोः परस्परमन्वयबोधः । पुनः पदान्तरज्ञानं ततः पदार्थोपस्थितौ तस्याप्यन्वयबोध इत्येवं क्रमेण अवान्तरवाक्यार्थज्ञानपूर्वको महाबाक्यार्थबोध इति राजपुरप्रवेशन्यायेन के चिदाहुः । तदुक्तम् । 'यद्यदाकांक्षितं योग्यं सन्निधानं प्रपद्यते । तेन तेनान्वितः स्वार्थः
Page #377
--------------------------------------------------------------------------
________________
पदार्थदीपिका। पदैरेवावधार्यते' इति । अन्ये तु सर्वेषां पदानां प्रथम प्रत्यक्षज्ञानात् सर्वपदानां समूहालम्बनं स्मरणं ततस्तदर्थानामपि समूहालम्बनरूपोपस्थितौ सत्याम्पुनः प्रथममेव महावाक्यार्थबोध: खले कपोतन्यायेनेत्याहुः ॥ सोयं शाब्दबोधश्चतुर्विधः । विशेष्ये विशेषणं तत्र विशेषणान्तरमित्येकः । रक्तदण्डवानिति यथा । पुरुषे दण्डः तत्र रूपं विशेषणम् । विशिष्टवैशिटयावगाहन्यः । यथा रक्तदण्डवानित्यनैव रक्तत्वविशिष्ठदण्डस्य वैशिष्टयबोधः । एकत्र द्वयमिति न्यायेनाऽन्यः । दण्डी कुण्डली देवदत्त इति यथा। एकविशेषणविशिष्टे विशेषणान्तरवै. शिष्टयावगाह्यपरः । खड्गी शूर इति यथेति । विस्तरस्तु ग्रन्थान्तरादवधेयः ॥ .. अर्थापयामीत्यनुभवसिद्धजातिविशेषवन्त्यापत्ति, स्तत्करणमर्थापत्तिप्रमाणम् । तच्चानुपपत्तिज्ञानम् । तथाहि । देवदत्ते पीनत्वं दिवा भोजनामावं च जानतो रात्रिभोजनज्ञानं जायते । तन्न प्रत्यक्षात्, सत्रिकर्षायभावेनानुपलम्भात् । नानुमानात, त. स्यासम्भवात् । अयं रात्रिभोजी पीनत्वादित्यस्य दिवामात्रभु.
जानेपि व्यभिचारित्वात् । दिवा अभुजानत्वे सति पीनत्वादित्यत्र दृष्टान्ताभावेन व्याप्त्यऽग्रहादनुमित्ययोगात् । तस्मादिवा ऽभुजानस्य पीनत्वान्यथानुपपत्या रात्रिभोजनज्ञानं जायते । सेयमापत्तिरिति प्राभाकराः ॥
देवदत्तो रात्रिभोजी दिवा अभुजानत्वे सति पीनत्वात् । यत्र रात्रिभोजनाभावस्तत्र दिवा अभुजानत्वे सति पीनत्वाभाव इति व्यतिरोकिणैच निर्वाहाव, न पृथगपत्तिः प्रमाणमिति वैशेषिकनैयायिकादयः॥
अनुपलब्धं जानामीत्यनुभवसिद्धजातिविशेषवत्यनुपल
Page #378
--------------------------------------------------------------------------
________________
पदार्थदीपिका । ब्धिः । तत्करणमनुपलब्धिः । स चोपलब्धनिर्णयात्मकज्ञानस्याभावः । तथाहि । वस्तुतो घटाभाववति घटो ऽस्तीति भ्रमसमये घटाभावेन सह सन्निकर्षे सत्यपि तज्ज्ञानं चोत्पद्येत अतस्तत्र घटानुपलब्धिः करणं तदभावान्न तत्र ज्ञानम् । चक्षुरादिकं चाधिकरणादिग्रहणार्थमनुपलब्धेर्योग्यतासम्पादनार्थ चोपयुज्यते । योग्यता च यद्यत्र घटः स्यात् उपलभ्यतेति तर्कसम्पत्तिरेवेति भाडाः । एतादृश्यनुपलब्धिः प्रत्यक्षसहकारिण्येवातो नानुपलब्धिः प्रमाणम् । प्रमाणान्तरकल्पने गौरवादिति नैयायिकादयः । वस्तुतो घटवति घटाभावनिर्णये सति चक्षुःसंयोगे सत्यपि घटज्ञानानुत्पत्तेरभावानुपलब्धेरपि भावग्रहे हेतुतापत्तिः । न चे. टापत्तिः । अपसिद्धान्तात् प्रमाणाभावाच्च । विवेचितं चैतदन्यत्र । तस्मानानुपलब्धिः सहकारिणी न च प्रमाणान्तरमिति तत्त्वम् ॥ .. ___ सम्भावनया जानामीति प्रतीतिसिद्धजातिमती साम्भवी ॥ तत्करणं सम्भवः । यथा ब्राह्मण इति श्रुते विद्यायाः शतमित्युक्ते दशादिसख्यायाः प्रतीतौ ॥ . अज्ञातकर्तृकं प्रसिद्धवाक्यमैतिह्यम् ॥ गङ्गेयं मथुरेयं वेदोयमिति ज्ञानमतिह्यादेव । अन्यस्याप्रसरादिति पौराणिकाः । ब्राह्मणे विद्या भविष्यतीति चोक्तकोटिकः संशय एव । शते दशेति त्वनुमानम् । तथा व्याप्तिज्ञानवतामेव ज्ञायमानत्वात् । ऐतिर्खा चेप्रमाणं चेच्छब्द एव । अन्यथा प्रमाणमेव नेति दाशनिकाः ॥ एतादृशचेष्टयेत्थमाँ बोद्धव्य इति सङ्केततच्चेष्टातो बोधस्थले च तया शब्दोपस्थितिस्ततो बोधः शाब्द एव । अ. न्यथा त्वेतादृश्या चेष्टया ऽनुमानमेवोत न हस्तनेत्रादिचेष्टातो बोधानुरोधाच्चेष्टायाः पृथक् प्रमाणत्वमपीति तान्त्रिकाः ॥ त.
Page #379
--------------------------------------------------------------------------
________________
पदार्थदीपिका । देतैः प्रमाणैर्जायमाना बुद्धिरनित्यैव मानसप्रत्यक्षम च, जानामीति पनसानुभवात् ।।
प्राभाकरास्तु सर्वा बुद्धिः स्वप्रकाशा त्रितयविषयिणी च । आत्मस्वात्माविषयश्चेति त्रयम् । घटमहं जानामीति सर्वज्ञानानु. भवात्, ज्ञानस्य परप्रकाश्यत्वे तदपि परप्रकाश्यमित्यज्ञायमानस्वीकारात् अन्धपरम्परया निद्राद्यभावो वा स्यादित्याहुः ॥
भाडास्तु ज्ञानेन विषये शातता जन्यते ज्ञातो घट इत्यनु. भवात् धात्वर्थक्रियाजन्यफलशालित्वेन घटं जानामीत्यादौ कर्मत्वमप्येवं सङ्गच्छते । तथा च तया ज्ञाततया ज्ञानमनुमीयते । घटो ज्ञानविषयो ज्ञाततावत्वादिति । एवं चातीन्द्रियं ज्ञानमित्याहुः । एवं स्वप्रकाशविधया ज्ञाततया वा ज्ञाने गृह्यमाणे तद्तं याथार्थ्यरूपं प्रामाण्यमपि गृह्यते ज्ञानग्राहकसामग्रीग्राह्यत्वरूपस्वतस्त्वस्य तत्राभ्युपगमादिति मीमांसकाः ॥ .. ..नैयायिकास्तु एवं सति जातं ज्ञानं प्रमा नवेति संशयानुपपत्तेर्नेदं युक्तम् । किं तु मनसा ज्ञानं गृह्यते । पुनर्विषयलाभोत्तरं जातं ज्ञानं प्रमा, फलवत्प्रवृत्तिजनकत्वादित्यनुमानात्तद्ग्रहः । मीमांसकानामविसंवादिप्रयुक्ताऽप्रामाण्यग्रहवत् । अन्यथा त. स्यापि स्वतो ग्राह्यत्वापत्तिश्च इति ज्ञानग्राहकविशेषाग्राह्यत्वरूपं परतो ग्राह्यं प्रामाण्यमाहुः ॥
भक्तिश्रद्धादयोपि बुद्धिभेदाः। तत्राराध्यत्वेन ज्ञानं भक्तिः, वेदवोधितफलावश्यम्भावनिर्णयः श्रद्धेत्यन्यत्र विस्तरः ॥
मुखत्वजातिमद्धर्ममात्रजन्यतावच्छेदकजातिमद्वा निरुपाविषमास्पदं वा सुखम् ॥ ...तच्चतुर्विधं वैषयिकं मानोरथिकमाभ्यासकमाभिमानिक च । विषयसाक्षात्कारजमाद्यम् । विषयध्यानजं मानोरथिकम् ।
Page #380
--------------------------------------------------------------------------
________________
पदार्थदीपिका। सूर्यनमस्काराद्यभ्यासाजायमानं शरीरलाघवादि तृतीयम् । द्रव्यपाण्डित्यगर्वजमन्त्यम् । एवं दुःखेपि द्रष्टव्यम् ॥
दुःखत्वजातिमनिरुपाधि द्वेषास्पदं वा दुःखम् ॥ . इच्छामीत्यनुभवसिद्धेच्छात्वजातिमतीच्छा ॥
सा च सुखमोक्षयोः सुखदुःखाभाववन्त्वप्रकारकज्ञानादत्प द्यते । तत्साधने मुखदुःखाभावसाधनताज्ञानादेव स्त्रीपुत्रादौ सं. न्यासादौ च तथा ॥
द्वेष्मीत्यनुभवसिद्धजातिमान् क्रोधापरपर्यायको द्वेषः ॥ . यते इत्यनुभवसिद्धयत्नत्वजातिमान् यत्नः॥
स द्विधा जीवनयोनिरन्यश्च । जीवनादृष्टं योनिः कारण यस्य स आद्यः सर्वदा प्राणसञ्चारकारी । गुरुभारोत्तोलनधावनादौ प्रयत्नविशेषाच्छ्वासाक्रियाविशेषदर्शना द्यद्विशेषयोः का: र्यकारणभावो बाधकं विना तत्सामान्ययोरपी' ति न्यायेन मा: णक्रियासामान्ये यत्नसामान्यजन्यत्वदर्शनान्निद्रादिसकलकालिकस्य तस्यावश्यकत्वात स चातीन्द्रियः । द्वितीयो द्विधा । एको द्वेषजः सर्पादिभ्यो निवृत्तिलक्षणः । शत्रुवधादौ प्रवृत्तिरूपस्तु न द्वेषजः किं तु तन्मरणेच्छाजः । इच्छाजन्यो ऽन्यः । एतौ प्रत्यक्षौ । एते बुद्धीच्छाप्रयत्ना ईश्वरीया नित्याः जीवानामनित्याः॥
विहितयज्ञादिजन्यतावच्छेदकजातिमान धर्मः ॥
ताश्च ज्योतिष्टोमयज्ञादिजन्यतावच्छेदिका विलक्षणाः, स्वर्गादिजनकतावच्छेदिकाश्च । तत्तददृष्टे विलक्षणा न तु धर्मत्वमेका जातिर्मानाभावात्, धर्मत्वेन मुखत्वेन कार्यकारणभावाभावादिति । अत एव बांधकाभावात् विज्ञानमानन्दं ब्रह्मेति श्रुतेश्चेश्वरे नित्यसुखमस्तीति घेदान्तिनः ॥
Page #381
--------------------------------------------------------------------------
________________
पदार्थदीपिका। निषिद्धपरदारगमनादिजन्यतावच्छेदकजातिमानधर्मः ॥
धर्मत्ववदेव ता अपि नाना तत्तदुःखजनकतावच्छेदिकाश्च । ननु यज्ञादिजन्यालीन्द्रियधर्माधर्मयो कि मानम् । उच्चते । इष्टसाधनत्ववाचिना विधिना अनिष्टसाधनत्वबोधकनिषेधेन यागपरदारगमनादेस्तथात्वं बोध्यते । न च चिरविनिष्टस्य कालान्तरभाविस्वर्गादिसाधनत्वं साक्षायु कमतो व्यापारत्वेन तावभ्युपेयौ । न च यागादिध्वंस एव व्यापारोस्त्विति वाच्यम् । एवं हि कारणीभूताभावप्रतियोगित्वेन यागादेः मतिबन्धकत्वापत्तेः । किं च कीर्तितधर्मादपि फलापत्ति व्यापारसत्वात् । अकीर्तितयागत्वेन कारणतति न कीर्तितात्फलामति चेन्न । फलोत्तरकीर्तितादपि फलानापत्तेरिति दिक । एतौ धर्माधौ त्रिविधी सञ्चिता क्रियमाणो प्रारब्धसञ्जौ च । तत्र तच्छरीरारम्भकं प्रारब्धं कर्म तद्भोमैकनाश्यं जीवन्मुक्तिशास्त्रानुरोधा. व । आचं ज्ञानना 'ज्ञानानि सर्वकर्माणि भस्मसात्कुरुते तथे ति शास्त्रादिति वेदान्तिनः । सिद्धान्तिनस्तु 'नाभुक्तं क्षीयते कर्म कल्पकोटिशतैरपि । अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभ' मिति वचनस्य प्रायश्चित्तनाशाव्यतिरेकेण सङ्कोचे प्रमाणाभावाद, सञ्चितस्यापि कायव्यूहेन भोगादेव नाशः । भस्म सात्पदं तु लाक्षणिकं शीघ्रमेव भोगानाशं लक्षयतीति दिक । कि. यमाणं ज्ञानिनि'नोत्पद्यते । 'लिप्यते न स पापेन पद्मपत्रमिवाम्भसेति' वचनात् । नन्वेवं योगिभिः क्रियमाणकर्मणो वैयर्यापत्तिरिति चेत् न । तस्य लोकसङ्ग्रहमात्रार्थत्वात् । वस्तुत-. स्तु तस्य पुत्रा दायमुपयन्ति सुहृदः साधु कृत्यां द्विः पन्तः पापकृत्या' मितिः श्रुतौ तस्य परार्थत्वं स्फुटमित्यर्वेधेयम् ॥ .
. ... ..
Page #382
--------------------------------------------------------------------------
________________
पदार्थदीपिका । संस्कारत्वजातिमान्संस्कारः॥
स विधा, वेगो भावना स्थितिस्थापकश्च ॥ वेगेन गच्छ. तीति प्रत्यक्षसिद्धवेगत्वजातिमान्वेगः ॥ मूर्तमात्रवृत्तिः॥ भा. वना च स्मृतिजनकः स्वजन्यस्मृतिनाश्यश्च संस्कार आत्म. तिरतीन्द्रियः पूर्वज्ञानजन्यः । तत्र ज्ञानस्यानुभवत्वेनैव कारणते. ति प्राञ्चः । नव्यास्तु सकृदनुभूतस्य स्मरणोत्तरं संस्कारनाशेन पुनर्विनानुभवमस्मरणप्रसङ्गात् पुनः पुनः स्मरणात् दृढतरसंस्कारोस्पत्तेरनुभवसिद्धत्वात् । अनुमितौ शाब्दबोधे च सत्यपि स्वर्ग नरकं चानुभवामीत्यऽप्रतीतेः । अनुभवत्वे जातौ प्रमाणाभावेन स्मृत्यन्यज्ञानत्वरूपस्यानुभवत्वस्य कारणतावच्छेदकत्वे गौरवा. पत्तेस्ततोपि लाघवाच्च ज्ञानत्वेनैव तत्कारणत्याहुः। तथा च पुनः पुनः स्मरणस्थले स्मरणादेव दृढतरसंस्कारात्पत्तिरिति । एतेषां पूर्वानुभवतजन्यसंस्कारतज्जन्यस्मृतीनां समानविषयत्वमतो न घटज्ञानात्पटस्मृतिः॥
स्थितिस्थापकश्च यथास्थितवस्तुस्थित्यानुमेय: । पृथिवीवृत्तिरतीन्द्रियश्च ॥
शब्दं शृणोपीत्यनुभवसिद्धशब्दत्वजातिमान् शब्दः ॥
स द्विधा ध्वनिवर्णश्च । तत्र ध्वनिः सङ्गीतशास्त्रसिद्धानेकभेदवान् तत्करणं मुखवीणादिवर्ण: ककारादिः । उभयत्रापि आकाशः समायिकारणम् । भेर्याकाशसंयोगवंशदलाकाशविभागादि रसमवायिकारणम् । जिव्हाताल्वादिसंयोगवंशदलवि. भागादिनिमित्तकारणम् । क चिच्छन्दोपि शन्दासमवायिकार• णम्, दूरभेरीताडनस्थले । तत्र भेर्याकाशसंयोगादुत्पन्नस्तारतरो न दूरस्थपुरुषीयश्रवणगोचरः । तस्य मन्दत्वनानुभवात् । किं तु भेरीशब्दा.वीचितरङ्गन्यायेन कदम्बमुकुलन्यायेन वार
Page #383
--------------------------------------------------------------------------
________________
पदार्थदीपिका। ब्दाच्छन्दस्तस्मादन्य इत्येवं मन्दादिभावेन जायमानेषु स्वश्रोत्रावच्छिन्नोत्पन्नः खयं गृह्यते । तेषु पूर्वशब्दो ऽसमवायिकार: णम् । स च स्वत्तिभेादिप्रयोज्यजातिमन्तं जनयतीति भेरीशब्दो मया श्रुत इति धीन विरुध्यते । तथा चासमवायिकार: णत्रैविध्याद् द्विविधोपि विधति फलितामति । उक्तं च । 'संयोगाद्विभागाच्छन्दाच्च शब्दनिष्पत्ति' रिति । सोय शन्दो द्विक्षणस्थायी क्षणोत्तरमनुपलम्भात् नाशकानुरोधाच्च । स्वज. न्यः शब्द एव नाशकः । स चोत्पत्तिद्वितीयक्षणे पूर्व नाशयतीति सर्वे द्विक्षणस्थायिनः । अन्त्यस्य च जनकशब्दोनाशकः मुन्दोपसुन्दन्यायेनेत्यतः क्षणिक एवान्तशब्द इत्येके । अन्त्यशब्द उपान्त्यनाशकनाश्य इति सोपि द्विक्षणस्थाय्यवेत्यन्ये । सर्वसाधारण्यानिमित्तवायुसंयोगनाश एव शब्दनाशकः। तथा च वायुसंयोगस्ततः पूर्वक्रियानाशशब्दोत्पत्ती ततः क्रियापूर्वदेशविभागसंयोगनाशशब्दनाशा इति क्रमेण नाशाच्छन्दश्चतुक्षणस्थायीति नव्याः । सोयं शब्दो नित्य एव, योयं गकारः शिवेनोक्तः स एव विष्णुनोच्यते, प्रहरात्पूर्वमुक्त इदानीमुच्यते इति प्रत्यभिज्ञानात् । विभुश्च, योयं काश्यां हकारः श्रुतः स एव स. ता वने चोच्यते इति प्रतीतेः सर्वदेशव्यापिनस्तस्यानुभवात् । विभुत्वाच्च द्रव्यमेव सः । योयं तारो मया श्रुतः स एव मन्दः श्रूयते इति प्रतीतेस्तारत्वादिकमपि तत्र न विरुध्यते इति मी. मांसकाः । उत्पनो गकारो नष्टो गकार इति प्रतीतेरुत्पत्तिना. शवानेव शब्दः । सोयमिति तु तज्जातीयोयमिति भासते इति नैयायिकाः । तन्त्वं वैयाकरणभूषणे ऽस्माभिः प्रपञ्चितम् ॥ .
संयोगविभागयोरनपेक्षकारणं कर्म । स्वोत्तरभाविभावाऽजन्यसंयोगविभागजनकमित्यर्थः । तेन
Page #384
--------------------------------------------------------------------------
________________
५०
पदार्थदीपिका। कर्मणा संयोगे जननीये स्वोत्तरमुत्पद्यमानस्य विभागस्य वि. भागप्रतिबन्धकीभूतपूर्वसंयोगध्वंसस्य चापेक्षायामपि न क्षतिः। विभागस्य प्रतिबन्धकाभावसम्पादकत्वेनान्यथासिद्धत्वेनाजनकत्वात् संयोगधंसस्य भावत्वाभावात् । न चासमवायिकारणादेश्च पूर्वोत्पन्नास्यापेक्षितत्वेन दोषः । संयोगजसंयोगे पू.
संयोगस्य विभागजविभागे पूर्व विभागस्य तथा प्रत्येकं जनकत्वसत्त्वात्संयोगविभागेत्युभयमुपात्तम् । उभयजनकत्वं कर्मण एव न संयोगादेरिति नातिव्याप्तिः । तच्चोत्क्षेपणापक्षेपणाकु
चनप्रसारणगमन भेदात् पञ्चधा । भूमणादयस्तु गमनभेदा एव । तच्च मूर्तमात्रवृत्ति मूर्तत्वेनैव तत्कारणत्वात् । अत एव कर्मसमवायिकारणावच्छेदकतया मूर्त्तत्वं जातिरेवेति नव्याः । इयचावच्छिन्नमाणवत्त्वमुमाधिरेवेति प्राञ्चः । तच्च संयोगवेगप्रयत्नगुरुत्वद्वत्वस्थितिस्थापकाऽसमवायिकारणकम् ।धनुःसंयो. गादिषौ प्रथम कर्म । ततो वेगजं कर्म द्वितीयम् । माणिगमनं तृतीयम् । पतनं चतुर्थम् । स्पन्दनं पञ्चमम् । पर्णादौ विगुण्ठिते यथावस्थानहेतुः षष्ठम् । तत् स्वजन्यसंयोगनाश्यम् । अत एव क्षणचतुष्टयस्थायि व्याप्यवृत्त्येवेति प्रपञ्चितमन्यत्र ॥ , नित्यमेकमने कसमवेतं सामान्यम् ।। ... . यथा घटस्वादिः । घटत्वं नित्यमेकमनेकघटेषु समवेतं चेति
लक्षणसमन्वयः । समानानां भावः सामान्यम् । अनेकानुगतो धर्म इति यावत् । शब्दवत्वादिकं च समवायेन शब्दाद्येवेति न सामान्यान्तरम् । तद् द्विविधं जातिरुपाधिश्च । तत्र जातिः समवायनव वर्तते उपाधिरनेकपदार्थघटितो धर्मः । यथा कारणत्वान्यथासिद्धत्वादिः । अन्यथासिद्धत्वं चावश्यकल्यमानपूर्ववर्तिना कार्यसम्भव तत्सहभवत्वम्। निष्कृष्टं प्रागुक्तम् । पाञ्च
Page #385
--------------------------------------------------------------------------
________________
पदार्थदीपिका ।
,
स्त्वन्यथाप्याहुः । यथान्यत्रक्लृप्तनियतपूर्ववर्तिन एव कार्यस म्भवे तत्सहभूतत्वं यथा रासभादेः । अन्यं प्रति पूर्ववसिखेहोते एवान्यं प्रति पूर्ववर्त्तितया गृह्यमाणत्वं च । यथाकाशकुलापित्रादेः । एवं भावत्वाभावत्वेन्द्रियत्वविषयत्वादिकमपि । तत्र समवायैकार्थसमवायान्यतरसम्बन्धेन सत्तावत्त्वं भावत्वम् । उक्तसम्बन्धेन सत्ताऽभाव एवाभावत्वम् । ज्ञानजनकमनः संयोगाश्रयातीन्द्रियत्वमिन्द्रियत्वम् । इन्द्रियमनोयोगस्य ज्ञानजनकत्वालक्षणसमन्वयः । आत्ममनोयोगस्य ज्ञानहेतुत्वादात्मन्यतिव्याशिवारणायान्तीन्द्रियमिति । विषयताख्यसम्बन्धेन साक्षात्कारवत्वं विषयत्वम् । शरीरादौ तत्सत्वेपि न दोषः । उपधेयसङ्करेपि उपाधेरसङ्करत्वात् । एवं कारणत्वावान्तरं समवायिकारणत्वमसमवायिकारणत्वं निमित्तकारणत्वं च । समवायेन कार्याधारत्वमाद्यम् । तच्च द्रव्यमात्रवृत्ति, द्रव्यत्वस्यैव कार्यसमर्वायिकारणतावच्छेदकत्वात् । समवायैकार्थसमवाय प्रत्यास"त्या कारणत्वमसमवायिकारणत्वम् । एवं रूपरसगन्धस्पर्श स्नेहसांसिद्धिकद्रवत्वबुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मशब्देषु विशेषगुणत्वम् । तच्च स्वाश्रयव्यादृश्यौपायिकावान्तर सामान्यवन्त्वम् । पृथिवी जलादिभ्यो भिद्यते पाकजरूपात् । तेज इतरेभ्यो भिद्यते शुक्लभाखररूपात् उष्णस्पर्शाद्वा इत्यादि, स्वाश्रयस्य व्यावर्तकतावच्छेदकत्वेनोपयुक्तमवान्तरजातिमत्वमस्तीति लक्षणसमन्वयः । एवं निरुच्यमानं व्याप्त्याद्यपीहोदाहरणम् । नन्वेवं पृथुबुध्नादराकारवत्वगन्धवत्त्वगुणाश्रयत्त्वसास्नादिमत्त्वाद्युपाधिभिरेव घटः पृथिवी द्रव्यं गौरित्यादिप्रतीत्युपपत्ते
स्वादिजातौ किं मानमिति चेत् । उच्यते । कारणत्वकार्यत्वादयस्तावत्सावच्छिन्नास्तथा च चक्रकार्यतावच्छेदकतया गं
Page #386
--------------------------------------------------------------------------
________________
४२
पदार्थदीपिका ।
न्यस्य कार्यमात्रस्य च कारणतावच्छेदकतया दानहननादिभिः पुण्यपापोत्पतेस्तत्कारणतावच्छेदककोटिप्रविष्टतया च घटत्वपृथिवीत्वद्रव्यत्वगोत्वादिकमावश्यकम् । उपाधेः क्लृप्तत्वेपि गौरवेणावच्छेदकत्वासम्भवाद्वाधकाभावे ऽवच्छेदकत्वं लघुधर्मएव प्रवर्त्तते इति सिद्धान्तात् । एवं बाधकाभावे ऽनुगते प्रतीत्यापि तत्सिद्धिः । स च बाधकसंग्रहः प्राचीनैरुक्तः । 'व्यक्तेरभेदस्तुल्यत्वं सङ्करो थानवस्थितिः । रूपहानिरसम्बन्धो जातिबाधकसङ्ग्रह ' इति । घटत्वात्कलशत्वं न पृथक् जातिः तद्व्यक्तयभेदात् । द्रव्यत्वाद् गुणाश्रयत्वं न पृथक् जातिः, तुल्यव्यक्तिकत्वात् । शरीरत्वं न जातिः पृथिवीत्वादिना सङ्करमसङ्गात् । परस्परात्यन्ताभावसमानाधिकरणयोर्धर्मयोरेकत्र समावेशः सङ्करः । पृथिवीत्वं विना तैजसादिशरीरे शरीरत्वं वर्तते, शरीरत्वं विना च घटादौ पृथिवीत्वं तदुभयमस्मदादिशरीरे । सामान्यत्वं न जातिस्तत्रापि सामान्यस्वीकारे ऽनवस्थाऽऽत्माश्रयान्यतरापत्तेः । आकाशत्वं घटो वा न जाति, नित्यमेकमनेकसमवेतं सामान्यमिति रूपहानात् । अत एवाभावसास्नादिमत्वं च न जातिः । समवाय उक्तलक्षणाक्रान्तोपि न जातिः सम्बन्धविरहात् । सम्बन्धिभिन्नत्वे सति संबन्ध्याश्रयत्वस्यैव सम्बन्धत्वेन स्वरूपे सम्बन्धत्वव्यवहारस्य गौणत्वात्स्वरूपसमवाययोर्वृत्तित्वाभ्युपगमेपि न क्षतिः । तच्च सामान्यं त्रिविधं परमपरं परापरं च । सकलसामान्यव्यापकं परम् । सत्ता यथा । सामान्यान्तराSव्यापकमपरम् । परिमाणभेदेन भिन्नेषु बाल्यकौमारादियुक्तशरीरेषु देवदत्तत्वादि । यस्य कस्य चित्सामान्यस्य व्यापकं कस्य चित् व्याप्यं चान्त्यम् । द्रव्यत्वादि यथा । पृथिवीत्वादेघटत्वादेर्व्यापकं सत्ताव्याप्यं च तदित्यन्यत्र विस्तरः ॥
Page #387
--------------------------------------------------------------------------
________________
पदार्थदीपिका 1
नित्यद्रव्यवृत्तयो ऽन्त्या विशेषाः ॥
समानजातीयरूपरसादिमत्परमाण्वादीनां परस्परभेदकं विना भेदनिर्णयासम्भवाद्भेदकत्वेन विशेषा अनुमीयन्ते । अनित्यद्रव्येषु स्वाश्रयेणैव भेदसम्भवात् । ते ऽत्र नेष्टा प्रमाणाभावात् । नित्यद्रव्यवृत्तित्वं तेषां व्यावर्त्तकान्तराभावे सत्यन्ते व्यावर्त्तकत्वेन स्वीक्रियमाणत्वादन्त्यचं चेति लक्षणसमन्वयः । यथा प्रजारक्षकत्वेन महाराज आवश्यकः स च स्वत एव स्वरक्षणसमर्थः । एवं विशेषाः स्वत एव व्यावृत्ता इति नानवस्था | शब्दसमवायिकारणतावच्छेदकतया चाकाशे तत्सिद्धिः । अष्टद्रव्यातिरिक्तद्रव्यत्वादेराकाशमात्रवृत्तित्वेपि गौरवेण कारणतावच्छेदकत्वासम्भवेन द्रव्यत्वादिजातिवत्तस्यावश्यकत्वादिति दिक् ॥
अयुतसिद्धानां सम्बन्धः समवायः ॥
. विशेषणतान्यसम्बन्धेन यावदुभयसत्त्वं ययोराश्रयाश्रायेभावस्तावयुतसिद्धौ । यथा गुणगुणिनौ । पटोत्पत्तेः पूर्व तन्तुसत्वादव्याप्तेर्वारणायोभयेति । वायुरूपाभावकालघटादेरयुतसिद्धत्ववारणाय विशेषणतान्येति । अभावस्य न विशेषणतैव सम्बन्ध इत्युक्तम् । कालो ऽपि विशेषणतयैव जगदाधार इति स्पष्टमन्यत्र । प्राञ्चस्तु विनाशक्षणपर्यन्तं ययोराश्रयाश्रयिभावस्तावयुतसिद्धौ । तावेवायुतसिद्धौ द्वौ विज्ञातव्यौ, ययोर्द्वयोरनश्यदेकमपराश्रितमेवावतिष्ठते । ते चावयवावयविनौ गुणगुणिनौ क्रियाक्रियावन्तौ जातिव्यक्ती विशेषनित्यद्रव्ये चेति । तन्तुपटादयो ऽवयवावयविनः । आ. श्रयनाशजन्यघटादिनाशस्थळे नाशसमये घटादेरनाश्रितत्वाभ्युपगमो विनाशक्षणपर्यन्तमिति । तन्न । नित्यगुणतदाश्रययोरा
Page #388
--------------------------------------------------------------------------
________________
पदार्थदीपिका। स्मात्मस्वजात्योविशेषनित्यद्रव्ययोरव्याप्तेः । अयं समवायः तन्तुषु पटः समवेत इत्यादिप्रत्यक्षसिद्ध इति नैयायिकाः । वैशिषिकास्तु समवायो न प्रत्यक्षः यावदाश्रयप्रत्यक्ष विना स. म्बन्धप्रत्यक्षासम्भवात् सम्बन्धपत्यक्षे यावदाश्रयप्रत्यक्षस्य हे. तुत्वात् । अन्यथा घटौ संयुक्तो इतिवत् सम्बन्धत्वं संयोगसमवायान्यतरत्वं तच्च संयोगसमवायभिन्नभिन्नत्वं, घटे रूपसम. वाय इतिवत् आकाशे शब्दसमवाय इत्यपि प्रत्यक्षापत्तेः । एते. न संयोगप्रत्यक्ष एव यावदाश्रयप्रत्यक्ष हेतुाघवात्, न तु सम्बन्धप्रत्यक्षमात्रे संयोगसमवायान्यतरत्वरूपसम्बन्धत्त्वस्य का. यतावच्छेदककोटिप्रवेश गौरवादीत निरस्तम् । उक्तप्रत्यक्षा. पत्तेवारणाय तस्यावश्यकत्वात् । किं तु रूपादि घटादिसम्बन्धवद् तदाश्रितत्वादित्यायनुमानात्तत्सिद्धिः । न चाधाराधेय. भाषादिरेव रूपघटयोः सम्बन्धोस्त्विति शङ्कयम् । घटनाशात् घटवृत्तिरूपरसादिनाशवत्तद्वृत्तिपटादेरभावस्य च नाशप्रसङ्गात् । घ. टध्वंसकालिकघटवृत्तिनाशत्वस्य घटनाशकार्यतावच्छेदकत्वपर्यः वसानात् । समवायाभ्युपगमे च घटसमवेतनाशत्वमेवावच्छे. दकमतो न दोषः । न च तनापि घटनाशाद् घटत्वनाशापतिः । मावनाशं प्रति जन्यत्वेन कारणत्वात् । एतेम सम्बन्धतया समवायकल्पने भूतलघटाभावादेरपि वैशिष्टयाख्यसम्बन्धस्वीकारापत्तिरित्यपास्तम् । तत्रं भावकार्यादिति रूपवान् घट इत्यादिविशिष्टप्रत्यक्षं तु सम्ब. न्धविषयत्वेपि तारतम्यमात्रेण सङ्गच्छते । अहं शरीरीत्यापादनाच्च दृष्टसंसर्गकप्रत्ययवदित्याहुः । मीमांसकास्तु गुणगुण्यादीनां तादात्म्यमेव नीलो घटश्चञ्चलः पृथक मृदुर्घट इत्यभेदानुभवादतः समवायो निष्प्रमाणक इत्याहुः ॥ ननु शक्तिसाह
Page #389
--------------------------------------------------------------------------
________________
पदार्थदीपिका। श्यादयोपिपदार्यान्तरमाणे सन्तीति कथं षडेव भावाइति । मैवम् । अविद्यारूपा वाचकत्वशक्तिस्ताचदीश्वरेच्छारूपेत्युक्तम् । पन्ही दाहानुकूला शक्तिस्तु कारणतारूपसामान्यमेव । न च मण्यादिप्रतिबन्धकसन्त्वे दाहापतिवारणाय प्रतिबन्धकापनोयशक्तिस्वी. कार आवश्यक इति वाच्यम् । मण्यमावादेरापि कारणत्वकल्पनया तमिरासात् । नानृतं वददिति विधेयस्यानृतवचननिषेधरूपस्याभावस्य ऋत्वस्य पूर्वमीमांसायां ऋत्वधिकरणे व्युत्पादि. तत्वात् । सादृश्यं च तद्भिन्नत्वे सति तद्तभूयोधर्मवत्त्वरूपं सा. मान्यमेवोत दिक् ॥
अभावो द्विधा संसर्गाभावो भेदश्च । संसर्गारोपजन्यप्रती. तिविषयाभाव आधः। भूतले घटो नेत्यारोप्यैव निषेधप्रतीतेः । स विधा प्रागभावो ध्वंसो ऽत्यन्ताभावश्च । भविष्यतीति प्र. तीतिविषयो विनाश्यभावः मागभागः । तस्य ध्वंसः प्रतियोगी। तद्ध्वंसश्च उभयकाले घटनागभावो नष्ट इति प्रतीतेः ॥ उत्प. 'त्तिमानभावो ध्वंसः । घटध्वंसो जात इति प्रतीतेः । तत्मागभावश्च । घटस्तत्पागभावश्च उभयत्रापि ध्वंसो भविष्यतीति प्र. तीतेः । स च न विनाशी, ध्वंसो नष्ट इति प्रतीत्यभावात् । व्ययध्वंसधाराकल्पनायां प्रमाणाभावाच्च । उत्पत्तिविनाशशून्यः संसर्गाभावो ऽस्यन्ताभावः । इदे वन्हिर्नास्ति इति भूतलादौ घ. टापसरणोत्तरं तदानयनात्पूर्व च प्रतीतस्य तस्य घटकाले सस्वेपि न प्रतीतिः। घटज्ञानेन प्रतिबन्धात् । प्रतियोगिदेशान्य. देशत्वस्यानतिप्रसजकसम्बन्धवादित्याचार्याः । उत्पत्तिवि. नाशशीलः प्रतियोगिसमानाधिकरणस्तदीय एव तत्र संसर्गाभाव इत्यन्ये । स द्विधा एकपर्मिमात्रपर्याप्तधर्मावच्छिन्नप्रतियोगिताको ऽन्यश्च । घटत्वादि प्रत्येकपर्याप्तमेकस्मिन्नपि घट इति
Page #390
--------------------------------------------------------------------------
________________
पदार्थदीपिका । प्रतीतेः । तदवच्छिन्न आय: । द्वित्वादि अनेकपर्याप्तम् । घटी द्वावितिवदेको द्वावित्यप्रतीतेः । तदवच्छिन्न एकघटवति घटौ न स्त इति प्रतीतिविषयो ऽन्त्यः । न च प्रतियोगिमति कथम. भाव इति वाच्यम् । पुरुषमात्रवति दण्डी पुरुषो नास्तीति प्र. सीतेर्दण्डविशिष्टपुरुषाभावस्वीकारेण प्रतियोगितावच्छेदकविशिष्टस्यैवाभावविरोधित्वात् । न चेयं प्रतीतिर्दण्डाभावं पुरुषाभावं वा ऽवगाहते । केवलदण्डपुरुषवति तत्संयोगवति पुरुषे दण्डे च दण्डी पुरुषो नास्तीति अनुगतप्रतीतेरिति दिक् ॥ तादात्म्यारोपज. न्यप्रतीतिविषयाभावो भेदः । घटः पटो नेत्यारोप्यैव तनिरोधात् । सोपि घटः पटो न, पटो न घटपटाविति प्रतीतेः पूर्ववद् द्विधा । न च घटवति घटाभावो नास्ति घटो न घटभिन्न इति प्रतीतेरभावाभावोपि सिद्धयेत् । एवं सोपि नास्तांति प्रतात्या तदभावोपीत्यनवस्थेति शङ्कयम् । अत्यन्ताभावाभावः प्रतियोग्येव घटादिः। अन्योन्याभावाभावः प्रतियोगितावच्छेदकघटत्वादिरूप इति स्वीकारात् । ततोतिरेके प्रमाणाभावादिति प्राञ्चः । नव्यास्त्वभावत्वेन प्रतीघटादिप्रतियोगितदवच्छेदकयोः समानवृत्तिको ऽतिरिक्त एवात्यन्ताभावभेदयोरभावः । तदभावस्तु घटाभाव एवेति नानवस्था । एवं सस्य पागभावः प्रागभावस्य ध्वंसश्चातिरिक्त एवेत्याहुः । नन्वधिकरणमेवास्तु कुतस्तदतिरिक्ततत्स्वीकारः कुतो वा तद्ग्रहणाय विशेषणतास्वीकारः । भूतले घटो नास्तीत्याधाराधेयभावस्याभेदे. पि घटाभावे घटो नास्ति इतिवदुपपत्तेः । अत्यन्ताभावस्य नित्यत्ववादिना घटभून्यभूतले घटानयनोत्तरं तत्सम्बन्धाभावमात्र. स्वीकारवदस्माभिस्तदा तदधिकरणे घटाभावत्वसम्बन्धो नास्तीत्यभ्युपेयम् । एतेन तदपिकरणे घटाभावो न वा।आधे घट
Page #391
--------------------------------------------------------------------------
________________
पदार्थदीपिका ।
कालेपि घटो नास्ति इत्यापत्तिः । अन्त्ये घटानयनात्मानास्तीत्यनापत्तिरिति परास्तम् । तनातिरिक्ताभावे प्रमाणमिति चेत् । उच्यते । तत्त्वज्ञानिनां क्रियमाणकर्मभिर्धर्माधर्मौ नोत्पयेते इति सर्वसिद्धम् । तत्कस्य हेतोः । मिथ्याज्ञानवासनारूप, कारणाभावादिति चेन्न । अनन्तमिथ्याज्ञानवासनानां हेतुतामपेक्ष्य प्राथमिकतत्त्वज्ञान व्यक्तिमागभावस्यैव हेतुत्वकल्पने लाघवात् । तथा च लाघवात् कारणत्वेन प्रागभावसिद्धिः । किं चान्यतरकमैजसंयोगे कर्मणः संयोगं प्रति न समवायेन हेतुता, कर्मशून्ये तदुत्पत्तेर्व्यभिचारात् । नापि कालिकसम्बन्धेन, घटकर्मणा स्तम्भाका - शसंयोगापचेः । तस्मात्स्वजन्य संयोगप्रागभाववता संसर्गेण कर्मणः कारणता वाच्येति प्रागभावसिद्धिः । एवमनेकतन्तुकपटादिस्थले तत्तत्तन्तु संयोगानामपि न समवायेन हेतुता संयोगेभ्यो द्विमात्रानेष्टेभ्यः पटस्याधिकेषूत्पत्तेर्व्यभिचारात् । कालिकेन हेतुत्वे तूक्तातिप्रसङ्ग इत्युक्तरीत्या स्वजन्यपटप्रागभाववता संसर्गेण हेतुता वाच्येति तत्सिद्धिः । एवं दाहे मण्यभावः प्रतिबन्धकाभावतया कारणम् । तस्याधिकरणस्वरूपत्वे तावदधिकरणानां कारणत्वे गौरवात् । अभावव्यतिरेकेण कारणतावच्छेदकतयाधिकरणे दुवचत्वेन तदयोगाच्चात्यन्ताभावोपि लाघवाद् भिन्न आवश्य कः । एवमतिरिक्तध्वंसमन्तरेण मोक्षस्यैव दुर्वचत्वात् ध्वंसोप्यावश्यकः । तथाहि । न तावन्नित्यसुखाभिव्यक्तिर्मुक्तिः । सुखवदभिव्यक्तर्नित्यत्वे इदानीमपि सखेन मुक्तिसंसारयोरविशेषणसङ्गात् । न च नित्यसुखाभिव्यक्तिर्मुक्तिसमये जायते मनसेति मतं साधु । जन्यभावस्य विनाशित्च्त्वनियमेनैकज्ञानव्यक्तिनाशे मुक्तिहानापत्तेः । अभिव्यक्तिपरम्परा च जन्यज्ञानत्वावच्छिन्ने शरीरस्य हेतुत्वेन तदभावान युक्ता । तस्मादात्यन्तिको दुःख
४७.
Page #392
--------------------------------------------------------------------------
________________
५४
पदार्थदीपिका। ध्वंसो मुक्तिः। आत्यन्तिकत्वं च समानाधिकरणदुःखतत्मागमावाऽसपानकालिकत्वम् । इदानीं सुखदुःखध्वंसस्यास्मदीयदुःखभागभावसमानकालिकत्वात्स्वेत्यादि । इदानीमस्मदीयदुःखध्वंसस्य सुषुप्तिकाले दुःखसमानकालिकत्वसत्त्वात्मागभावेति । उपान्त्यदुःखध्वंसस्य तत्मागभावासमानकालिकत्वाद् दुःखति । ताशश्च मोक्षस्तत्त्वज्ञानेनात्मान जन्यते । तद्यथा । तत्वज्ञानेन मिथ्याज्ञानवासनानिवृत्तौ रागद्वेषमोहानां निवन्त्या कर्मान्तरेषु प्रवृत्तिरेव न, पूर्वसंस्कारात् प्रवृत्त्या कर्मोत्पत्तावपि नादृष्टोत्पत्तिः । अदृष्टहेतुमिथ्याज्ञानस्य तत्त्वज्ञानप्रागभावस्य वा अभावात् । त. था चोक्तं वाचस्पतिमित्रैः । मिथ्याज्ञानसलिलावसिक्तायामात्मभूमौ धर्माधर्मावरं जनयत इत्यादिना । प्राचीनादृष्टं च सानाग्निसहकृतयोगवशात्कायव्यूहेन युगपत् सर्वभोगानश्यति । तथा च पूर्वकर्मसमाप्तौ भोक्तव्यकर्मान्तराभावाग्जन्माभावे सिद्धे वर्तमानशरीरभोग्यसुखदुःखनाशसिद्धौ चात्यन्तिकदुःखनि. त्तिरिति । तथा चाक्षपादीयं सूत्रम् । 'दुःखजन्मप्रवृत्तिदोषमिध्याज्ञानानामुत्तरोत्तरापाये तदनन्तरापायादपवर्ग' इति । ननु किं तत्तत्त्वज्ञानं किंवा मिथ्याज्ञानं कथं वा तयोनिवर्त्तनिवर्तकभावः । उच्यते । देहेन्द्रियादावनात्मन्यात्मत्वबुद्धिरेव मिथ्याज्ञानम् । तन्तु संसारिणामनादिप्रवाहागतं दुर्बुद्धिकल्पितकुतर्कात् दृढतरं जायते । तथा लौकायतिकोक्तयुक्तया देहात्मवादे, नित्यात्मवा. दसाधकयुक्तिभिनित्याणुमनएवात्मति पक्षे, सकलशरीरव्यापिदुःखाद्युपलब्धिहेतुभिः सकलदेहव्यापकत्वगादीन्द्रियसमुदायात्मपक्षे, इन्द्रियोपघातपि बुद्धिसत्त्वमात्रेण सुखाद्युपलब्धेर्बुद्धयात्मवादे, तदभावपि सुषुप्तौ सात्मकत्वव्यवहारात प्राणात्मवादे । ततश्च तमिरासार्थ पञ्चानां तेषामात्मतन्त्वे युगपदेव कस्य
Page #393
--------------------------------------------------------------------------
________________
४९
पदार्थदीपिका । चिदिष्टार्थ परस्य तद्विरोधात्तनाशाय च प्रवृत्त्यापत्या प्रवृत्तिनिवृत्त्योः सङ्करापत्तिरित्यादिको देहाद्वयतिरिक्तव्यापकात्मनिर्णायक इतरेषां पक्षाणामाभासत्वनिर्णायकः श्रुतिस्मृतीतहासानां तागात्मप्रतिपादकानां ताहगात्मप्रतिपादने तात्पर्यनिर्णायकश्च न्यायसमूहो ऽनुसंधेयः । तदनुसन्धानमेव च विचारः । स द्विधा श्रवणमननभेदात् । तत्र न्यायनिर्णीततात्पर्यकश्श्रुत्यादिाभरात्मनिर्णयः श्रवणम् । ततोप्युक्तवादिदुस्तकंजालैरसम्भावना. विपरीतभावनोत्पत्तेस्तनिवारकन्यायानुसन्धानं मननम् । ततश्च व्यासत्यागेन देहाद्वयतिरिक्तात्माकारमनोनुसन्धान निदिध्यासनम् । ततो यथा भूतदेहावयतिरिक्तात्मसाक्षात्कारस्तत्त्वज्ञानात्मको जायते ऽयं समूलं मिथ्याजानमुन्मूलयति । विशेपदर्शनजन्यलौकिकसाक्षात्कारत्वेन भ्रमनिषर्तकत्वदर्शनात् । श्रुतिरप्येवमाह । 'तरति शोकमात्मवित्' 'आत्मा वा अरे दृष्टव्य: श्रोतव्यो मन्तव्यो निदिध्यासितव्य' इति मिथ्याज्ञाननाशः शोकतरणं तद्धेवरात्मदर्शनं तद्धेतूनि श्रवणादीनि त्रीण इति वि. वेकः । नन्वात्मतत्वसाक्षात्कारस्यैव मिध्याज्ञाननाशकत्वे द्रव्यादिसर्वपदार्थप्रतिपादनं व्यमिति चेन । तत्त्वज्ञानमन्तरेण तद्भिन्नत्वेनात्मज्ञानासम्भवात्परम्परोपयोगेन सार्थक्यात् । न्या. यव्युत्पादकत्वेनाप्युपयोगाच । तचात्मज्ञानं भगवत्प्रसादमन्तरण न भवतीति सोपि तत्वतो ज्ञेय उपास्यश्च । तथा च श्रुतिः । ' यदा चर्मवदाकाशं वेष्टयिष्यन्ति मानवाः। तथा शिवमविज्ञाय दुःखस्यान्तो भविष्यती 'ति । आचारप्युक्तम् । स हि तत्वतो ज्ञात आत्मसाक्षात्कारस्योपकरोती' ति । नन्वीश्वरे किम्मानम् । न प्रत्यक्षम् । तस्य परोक्षत्वात् । नापि क्षितिः सकर्तृका कार्यत्वात् घटवदिति अनुमानम्मानम् । परमाणावंशतो बाधा.
Page #394
--------------------------------------------------------------------------
________________
५०
पदार्थदीपिका ।
त् घटादावंशतः सिद्धसाधनाच्च अदृष्टद्वारा जीवकर्तृकत्वेन सिद्धसाधनाच्च उपादानगोचरा परोक्षज्ञानचिकीर्षाकृतिमत्वरूपकर्तृत्वेन कुलालादेर्हेतुतायाः सिद्धेश्च अनेकज्ञानादौ कारणतावच्छेदककल्पने गौरवापतेश्च कृतिमन्वस्यैव कर्तृपदार्थत्वाच्च कृधातूत्तरतृचस्तदर्थाश्रयवाचकत्वात् । अस्तु तर्हि कृतिमत्वेनैव हेतुतेति चेन । अनेककृतिषु कारणतावच्छेदकत्वेन गौरवात् तेन रूपेणापि हेतुत्वाऽसिद्धेः । किं चैवमीश्वरे ज्ञानेच्छयोरसंसिदयापत्तिः । श्रुतेस्तत्सिद्धिरिति चेत् । सुखस्यापि स्वीकारापतेः । आनन्दं ब्रह्मणो विद्वानिति श्रुतेः । न च वेदकर्तृत्वेनेश्वरसिद्धिः । तस्यानादित्वात् । 'शिवाचा ऋषिपर्यन्ताः स्मर्तारो ऽस्य न कारका' इति स्मृतेरिति चेत् । अत्रोच्यते । कुलालादिना ऽसंवलितमृदादिभिर्घटाद्यजननाचत्र कुलालादेर्हेतुतेति सर्वसिद्धम् । तत्र कारणतावच्छेदकं नकुलालत्वादि जातिः । कुशलब्राह्मणादिभिरपि तज्जननात् । तत्र तत्सश्वेपि सङ्करापत्तेः । नोपाधिरपि, दुर्वचनात् । घटजनकस्य च दण्डादिसाधारणत्वात् । घटजनकत्वेन घटहेतुताया असम्भवाच्च । कृतिमत्त्वेन हेतुतायाश्च प्रागेव निरासात् । तस्मादात्मत्वमेव कारणतावच्छेदकं परं तु अनेनेदमेतदर्थमहं करिष्यामीत्याद्यालोचनरूपज्ञानतादृशच्छा प्रयत्नास्तद्व्यापारा अन्वयव्यतिरेकसिद्धाः । तान्विना कुलालादेर्घटाद्यनुत्पत्तेः । अतो द्वयकाद्युपादानगोचरपरमाणुभिद्वर्यणुकं करिष्यामि इत्यादिकज्ञानादिमानात्मा तत्कर्त्ता वाच्यः । स च सृष्ट्यादौ शरीराद्यभावात्तादृशजन्यज्ञानाऽसम्भवान्नित्यज्ञानवान् सिद्धयतीश्वर इत्युच्यते । एवं च कार्यमात्रकारणतावच्छेदकत्वेनैव जीवेश्वरसाधारणात्मत्वजातिसिद्धिरिति वयं विभावयामः । तथा च जन्य
.
Page #395
--------------------------------------------------------------------------
________________
पदार्यदीपिका। कृत्यजन्यकार्यमात्मजन्य कार्यत्वात् घटवदित्यनुमानमेव तत्र प्रमाणम् । घटादावंशतः सिद्धसाधनवारणायाजन्यान्तं पक्षे विशेषणम् । पक्षतावच्छेदकावच्छेदेन साध्यसिद्धाबुद्देश्यायामस्यादृष. णत्वे च तनोपादेयम् । एवं चेश्वरस्य सर्वज्ञतापि सिध्यति । केषां चित्पदार्थानां फलत्वेन केषां चित्सृज्यत्वेन केषां चिद्धे. तुत्वेन केषां चिदवच्छेदकत्वेन विषयीकरणादिति निरूपितमस्माभिस्तर्करत्ने । एवं वेदकर्तृत्वेनापि तसिद्धिः । तस्माद्यज्ञा. सर्वहुत ऋचः सामानि जज्ञिरे 'इति श्रुतेः । वेदः सकनुक वाक्यत्वात् भारतादिवदित्यनुमानाच्च वेदस्य सकर्तकत्वावगमाव । स्मार इतिस्मृतिरप्युक्तार्थपरा, स्मृतिर्यथा स्वसमानाविषयवाक्यापेक्षा तथा वेदः कल्पान्तरीयानुपूर्वीसदृशानुपूर्वीमानित्यन्यत्र निर्णीतत्वादित्यलं विस्तरः । तस्य चेश्वरस्योपासना श्रुतिस्मृत्यायनुसारेणानेकधा महभ्योवगन्तव्येति पल्लवे
बालबुद्धिप्रकाशार्थ पदार्थानां प्रदीपिका ॥ रङ्गोजिभट्टपुत्रेण कोण्डभट्टेन निर्मिता ॥१॥ इति श्रीमत्पदवाक्यप्रमाणपारावारपारीणरङ्गोजिमहात्मज
कोण्डभट्टकता पदार्थदीपिका समाता ॥
Page #396
--------------------------------------------------------------------------
Page #397
--------------------------------------------------------------------------
________________
बनारस संस्कृतसीरीज़
अर्थात् वाराणसीसंस्कृतपुस्तकावली। तत्र मुद्रिता ग्रन्थाः।
रु० आ० सिद्धान्ततत्त्वविवेकः खण्डानि ५ अर्थसङ्ग्रहः अंग्रेजीभाषानुवादसहितः तन्त्रवार्त्तिकम् खण्डानि १० कात्यायनमहर्षिप्रणीतं शुक्लयजुःप्रातिशाख्य स
भाष्यं खण्डानि ६ सांख्यकारिका चन्द्रिकाटीकागौडपाद- .
भाष्यसहिता वाक्यपदीयं खण्डानि ३ रसगङ्गाधरः खण्डानि ८ परिभाषावृत्तिः खण्डे २ शेषिकदर्शनं किरणावलीटीकासंवलितप्रशस्तपा
दप्रणीतभाष्यसहितम् खण्डे २ शिक्षासङ्ग्रहः खण्डानि ५ नैष्कर्म्यसिद्धिः खण्डानि ३ महर्षिकात्यायनप्रणीतं शुक्लयजुस्सानुक्रमसूत्र. म् सभाष्यं खण्डानि ३ ऋग्वेदीयशौनकप्रातिशाख्यं सभाष्यम् (बृहत) वैयाकरणभूषणम् पदार्थदीपिका च सहितम्
खण्डानि ४ विवरणोपन्यासः (यन्त्रस्थः) त्यायलीलावती (यन्त्रस्था)
इनसे अधिक अनेक प्रकारकी संस्कृत हिन्दी और अंग्रेजी आदि पुस्तक हमारे यहां मिलती हैं जिनको अपेक्षित हो नीचे लिखेहुए पतेपर पत्र भेजै ॥
व्रजभूषण दास और कम्पनी चांदनीचौक के उत्तर नई सड़क बनारस ।
Prore : 2m vrxm ma.
Page #398
--------------------------------------------------------------------------
________________ विज्ञापनम् / बनारससंस्कृतसीरीज़नाम्नी वाराणसेयसंस्कृतपुस्तकावली। इयं पुस्तकावली खण्डशो मुद्रिता भवति / अस्यां संस्कृतभाषानिबद्धा बहवः प्रचीना दुर्लभा उत्तमोत्तमाः केचिदङ्गलभाषानुवादसहिताश्च ग्रन्था मुद्रिता भवन्ति / तांश्च ग्रन्थान् काशिकराजकीयसंस्कृतपाठशालीयपण्डिता अन्ये ऽपि विद्वांसः शोधयान्ति / र्यग्रीहकमहाशयैरियं पुस्तकावली नियमेनाविच्छेदेन संग्राह्या. तैस्तदेकैकस्य खण्डस्य // मूल्यं प्रापणव्ययश्च =) देयः / अन्यैर्महाशयैः कानिचित् खण्डानि संग्राह्याणि तैश्च प्रत्येकं खण्डानां 1) मूल्यं प्रापणव्ययश्च :) देय इति // ब्रजभूषणदास और कम्पनी चांदनीचौक के उत्तर नई सड़क बनारस /