Page #1
--------------------------------------------------------------------------
________________
अर्हम् ॥ श्रीनेमि विज्ञान- कस्तूर- यशोभद्रसूरिसद्गुरुवरेभ्यो नमः ॥
कलिकालसर्वज्ञ - श्रीहेमचन्द्राचार्यविरचितस्य
त्रिषष्टिशलाकापुरुषचरितस्यगद्यात्मकसारोद्धारः
अष्टमं नवमं च पर्व
कर्ता आ. श्रीविजयशुभङ्करसूरिः सम्पादक: मुनिधर्मकीर्तिविजयः
: प्रकाशक : कलिकालसर्वज्ञ श्रीहेमचन्द्राचार्यनवमजन्मशताब्दीस्मृति- शिक्षणसंस्कारनिधिः अमदावाद
Page #2
--------------------------------------------------------------------------
________________
समर्पणम्
कलिकालसर्वज्ञ-श्रीहेमचन्द्राचार्यविरचितस्य त्रिषष्टिशलाकापुरुषचरितस्य गद्यात्मकसारोद्धारः ५ (अष्टमं नवमं च पर्व) Trishashti-Shalakaa-Purusha-Charitam
© सर्वेऽधिकाराः स्वायत्ताः कर्ता : आ. श्रीविजयशुभङ्करसूरिः सम्पादक : मुनिधर्मकीर्तिविजयः प्रकाशकम् : कलिकालसर्वज्ञ-श्रीहेमचन्द्राचार्यनवमजन्मशताब्दी
स्मृति-शिक्षणसंस्कारनिधि - अमदावाद
द्वितीय संस्करणम् : वि.सं. २०६८ ई०सं० २०१२ प्रतयः
मूल्यम् पृष्ठानि प्राप्तिस्थानम्
: रु. १२५-०० : २२ + २९० = ३१२ १ श्रीविजयनेमिसूरीश्वरजी जैन स्वाध्याय मन्दिर
१२, भगतबाग, आणन्दजी कल्याणजीनी पेढी समीपे, नवा शारदामन्दिर रोड, पालडी, अमदावाद - ३८०००७. फोन : २६६२२४६५
दूरभाष : ०९८०८६३७७१४ २ सरस्वती पुस्तक भण्डार
११२, हाथीखाना, रतनपोल, अमदावाद-३८०००१. फोन : २५३५६६९२
बालानामिव माता च सरितामिव सागरः । दुर्बलानामनाथानां कृते चैकाश्रयास्पद ! ॥ १ ॥ निगूढमत्र-तवज्ञ ! ज्योतिर्विज्ञानकोविद ! ।। मुनिसंमेलनस्तम्भ ! शासनोद्योततत्पर ! ॥ २ ॥ प्रबलसत्त्वसंपन्न ! शिष्योत्थाने कृतोद्यम ! । लब्धनन्दनसूर्याशीः ! प्रवचनकलाधर ! ॥ ३ ॥ शुद्धचारित्रसंनिष्ठ ! सर्वसूरिशिरोमणे ! । तथा वात्सल्यपाथोधे ! निर्मलब्रह्मपालक ! ॥ ४ ॥ सूर्यसदृशतेजस्विन् ! मृगेशोपमनिर्भय ! । चन्द्रसंकाशसंदीप्त ! रत्नाकरगभीर ! च ॥ ५ ॥ सदाग्रह्यपि सत्ये हि सदा नियग्रहिन् ! मुदा । स्व-परमोहदुर्भेद-ग्रन्थिविच्छेदकृत् ! खलु ॥ ६ ॥ नेमि- विज्ञान- कस्तूर- यशोभद्र- शुभङ्कराः । सूरीशा गुरवो यस्य प्रबलमहिमान्विताः ॥ ७ ॥ पठन-पाठनप्राण ! सेवातत्पर ! साधुराट् ! ।
औदार्यादिगुणोपेत ! सूर्योदयगुरो ! अहो ॥ ८ ॥ ज्ञानादिकं मयाऽवाप्तं प्रभावेण प्रभो ! तव ।। सर्वं पुण्यस्मृतौ तत्ते त्वदीयं तुभ्यमर्पये ॥ ९ ॥
मुद्रणम्
: किरीट ग्राफीक्स
४१६, वृन्दावन शोपींग सेन्टर, रतनपोळ, अमदावाद. दूरभाष : ०९८९८४९००९१
- धर्मकीर्तिविजयः
Page #3
--------------------------------------------------------------------------
________________
प्रकाशकीय निवेदन
कलिकालसर्वज्ञ श्रीहेमचन्द्राचार्यनी नवमी जन्मशताब्दी (वि.सं. ११४५ - २०४५) ना मंगल अवसरे पूज्य आचार्य श्रीविजयसूर्योदयसूरीश्वरजी तथा पूज्य आचार्य श्रीविजयशीलचन्द्रसूरीश्वरजीनी शुभप्रेरणाथी अमारा आ ट्रस्टनी स्थापना थई हती. प्राचीन ग्रन्थोनुं संशोधन- सम्पादनपूर्वक प्रकाशन, अनेक विद्वज्जनोनुं सन्मान, 'अनुसंधान 'नामनी शोधपत्रिकानुं प्रकाशन- इत्यादि साहित्यिक प्रवृत्तिओ आ ट्रस्टनो मुख्य उद्देश छे.
ते अनुसार कलिकालसर्वज्ञ श्रीहेमचन्द्राचार्यनी नवमी सूरिपद शताब्दी (वि.सं. १९६६ - २०६६) ना उपलक्ष्यमां तेओना द्वारा विरचित त्रिषष्टिशलाकापुरुषचरितनो पूज्य आ. श्रीविजयशुभंकरसूरिजी रचित गद्यात्मकसारोद्धार प्रगट करतां अमो आनन्द अनुभवीए छीए.
आ गद्यात्मकसारोद्धारनी रचना पूज्य आ. श्रीविजयशुभंकरसूरिजीए पूर्वे वि.सं. २०१६ना वर्षे करी हती. आजे ५० वर्ष पछी पूज्य श्री विजयसूर्योदयसूरीश्वरजीना शिष्य मुनिश्रीधर्मकीर्तिविजयजी द्वारा पुनः सम्पादित-संशोधित करेल आ ग्रन्थना प्रकाशननो लाभ अमारा ट्रस्टने मल्यो, ते बदल अमो तेओना ऋणी छीए.
वि. सं. २०६७
लि. कलिकालसर्वज्ञ - श्री हेमचन्द्राचार्य
नवमजन्मशताब्दीस्मृतिशिक्षणसंस्कारनिधि:
अमदावाद,
5
किञ्चित् प्रास्ताविकम्
सुविदितमेवेदं विदुषां यत् कलिकालसर्वज्ञेतिबिरुदधारिणा परमविदुषा जैनाचार्येण श्रीमता हेमचन्द्राचार्येण भगवता गुर्जरनरेशद्वयं सिद्धराजजयसिंहकुमारपालचौलुक्येति संज्ञं प्रतिबोधितं; गुर्जरराष्ट्रे सुविशालेऽमारिः प्रवर्तिता; अनेकशतसङ्ख्या जिनालया निर्मापिताः सोमनाथमहादेवाभिधशिवतीर्थस्योद्धारकार्ये राजा प्रेरितस्तत्तीर्थपुन:स्थापनावसरे स्वयमुपस्थितं च । युगप्रभावकेनाऽनेन सूरिपादेन सर्वजनताया हितकराणि मूक- पशूनामभयदानि जैनधर्मस्योद्योतकारीणि च नैकानि महान्ति कार्याणि यथा कृतानि तथैव तेन भगवता नानाविधशास्त्रनिर्माणकार्यमपि विद्वश्चेतश्चमत्कृतिकारकं विहितमेव ।
तद्विरचितेषु ग्रन्थेषु सिद्धहेमचन्द्राभिधं शब्दानुशासनं काव्यानुशासनं, छन्दोनुशासनं, लिङ्गानुशासनं, वादानुशासनं, शब्दकोषद्वयं, संस्कृतद्वयाश्रयमहाकाव्यं प्राकृतद्वयाश्रयकाव्यं, स्तुतिकाव्यानि, योगशास्त्रम् इत्यादयो ग्रन्थाः प्रमुखाः प्रसिद्धाश्च विद्याक्षेत्रे ।
तद्विरचित एको महान् ग्रन्थोऽयमप्यस्ति त्रिषष्टिशलाकापुरुषचरितमहाकाव्यम् । प्रायः ३६००० श्लोकमितो ग्रन्थोऽयं जैनपुराणप्रबन्धसन्निभो महाकाव्यलक्षणोपेतश्च । ग्रन्थेऽत्र जैनधर्मस्वीकृततीर्थङ्कर- चक्रवर्ति-वासुदेवबलदेव नारदादीनां शलाकापुरुषाणां चरितवर्णनं विशदं विहितमस्ति । जैनसंघे एतदध्ययनाध्यापनप्रचारोऽविरतं बहुशतवर्षेभ्यः प्रचलति ।
संस्कृताध्ययनकर्तॄणां विद्यार्थिनां बोधवैशद्यार्थमेतस्य काव्यग्रन्थस्या ऽध्ययनं नितरामावश्यकम् । जैनसिद्धान्तानां सुखबोधार्थ जैनेतिहासस्य च ज्ञानार्थमप्येतदध्ययनमतीवोपयोगि । परन्तु महाकाव्यस्याऽस्याऽध्ययने सर्वे जना न समर्था भवेयुः । मन्दबोधानां सारल्योत्सुकानां चाऽभ्यासिनामेतस्याऽध्ययनं बहुधा दुरूहमपि स्यादेव । एतादृग्जनान् मनसि निधाय आचार्यपादश्रीविजयशुभङ्करसूरिवर्येण ग्रन्थस्यैतस्य सरलीकरणाय तदर्थं चास्य
Page #4
--------------------------------------------------------------------------
________________
पद्यात्मकं महाकाव्यप्रौढिसमलङ्कृतं च स्वरूपं गद्यात्मकं वर्णनादिबाहुल्यमुक्तं च निर्मितं कृपापरीतचेतसाऽस्मत्प्रगुरुवरेण ।
ग्रन्थोऽयं पञ्चाशद्वर्षेभ्यः पूर्वं मुद्रित आसीत् । परमस्य न सज्जातस्तादृक् प्रचारो येन सर्वेऽभ्यासोत्सुका जना लाभान्विताः स्युः । सम्प्रति चाऽप्राप्योऽयं ग्रन्थः । अत: श्रीहेमचन्द्राचार्यपादानां सरिपदनवमशताब्द्या वर्ष वि.सं. २०६६तमं यदाऽऽगतं तदा तेषां स्मरणाञ्जलिरूपेण ग्रन्थोऽयं पुनः सम्पादनविषयीकृत्य मुद्रापणीय इति सङ्कल्प उदितोऽस्मश्चित्ते । साधवः प्रेरिता एतदर्थम् । पूज्यपादश्रीगुरुभगवद्भिः श्रीविजयसूर्योदयसूरिभिरपि सानन्दमनुज्ञातमेतदर्थे । ततो मुनिश्रीधर्मकीर्तिविजयेन सम्भालितमेतत्कार्यम् । तस्य भक्तिभावितमानसस्य परिश्रम इदानीं फलान्यावहतीति महानानन्दविषयः ।
ग्रन्थोऽयं संस्कृताध्यासिनो यथोपकारकः, तथैव जैनधर्मविषयकं सम्यग् ज्ञानं प्राप्तुमिच्छुकानां जिनादिमहापुरुषचरितानां जिज्ञासूनां च कृतेऽपि नितान्तमुपयोगी स्यादेवेति निश्चप्रचम् ।
ग्रन्थसम्पादनकार्ये यदि काऽपि स्खलनाऽस्ति तदर्थमस्माकं प्रमाद एवोपालम्भार्हः । श्रीहेमचन्द्राचार्यभगवतां गद्यात्मकसारोद्धारकर्तृणां चाऽऽशयतो विपरीतं चेत् किमप्यागतं स्यादत्र, तदर्थं मिथ्यादुष्कृतं दत्त्वा क्षमाप्राथिनो वयमिति शम्।
Form199
विषयानुक्रमः
अष्टमं पर्व
प्रथमः सर्गः विषयः धनजन्मवृत्तान्तः. धनवत्या धनेऽनुरागवृत्तान्तः .... धनवती-धनयोः परिणयः धनस्य श्रावकत्वप्रतिपत्तिः ..... धनादीनां प्रव्रज्या, स्वर्गगमनं, चित्रगतिजन्म .......... भद्रया प्रदत्तविषस्य सुमित्रस्य चित्रगतिना रक्षणम् ..... सुयशोमुनिदेशनया सुग्रीवस्य प्रव्रज्या, सुमित्रस्य च राज्याप्तिर्भद्राभवकथनं च............... चित्रगतिनाऽनङ्गसिंहखड्गाच्छेदनं, सुमित्रस्य प्रव्रज्यादिकं च............... ११ चित्रगतरुपरि धनकृतपुष्पवृष्टिः .......... चित्रगते रत्नावत्या विवाहादिवृत्तान्तः अपराजितजन्म, अपराजित-विमलबोधयोश्चौररक्षणमपराजितेन कनकमालापरिणयश्च अपराजितेन रत्नमालापरिणयः ..... अपराजितेन कमलिनीकुमुदिनीपरिणयनम् ...... अपराजितेन रम्भापरिणयनम् . अपराजितेन वादे पराजित्य प्रीतिमतीपरिणयनम् ... अपराजितस्य स्वपुरप्राप्तिः. अपराजितादेवैराग्यं, प्रव्रज्या, स्वर्गगमनं च ........... शङ्खन पल्लीपतिनिग्रहः शङ्खन मणिशेखरखेचरनिग्रहो, यशोमतीपरिणयश्च.
सं. २०६७ आश्विन शुदि-१, सुरेन्द्रनगरे
- शीलचन्द्रविजयः
Page #5
--------------------------------------------------------------------------
________________
विषयः
द्वितीयः सर्गः
वंशकथनपूर्वकमुग्रसेन- वसुदेवयोः कुन्ती मद्रयोश्च जन्मकथनम् .......... २८
वसुदेवपूर्वभवकथा....
२८
३१
तापसवृत्तान्तः
जातस्योग्रसेनपुत्रस्य कंसस्य यमुनाप्रक्षेपः, कंसस्य सुभद्रेण
पालनं वसुदेवमैत्री च, कंसेन सिंहरथपराजयः
कंसेन जीवयशः परिणय उग्रसेननिग्रहश्च
कंसस्य धारिण्यादिप्रार्थनास्वीकार: महाजनानुमत्या समुद्रविजयेन वसुदेवस्य स्वगृहनिवासनम्. वसुदेवस्य गृहान्निर्गमनम् .
वसुदेवेन श्यामा-विजयसेनयोः परिणयनं, वसुदेवस्य श्यामया विवाहस्तया ततोऽवियोगवरणवृत्तान्तश्च
वसुदेवस्य गन्धर्वसेनया श्यामा- विजयाभ्यां च विवाह:.
अमितगतिखेचरवृत्तान्तः, चारुदत्तविवाहादिवृत्तान्त: ..
पृ.
देवेन स्वपूर्वभवनिवेदने चारुदत्तोपकारवर्णनं,
सुलसा-याज्ञवल्क्य - पिप्पलादिकथा
चारुदत्तस्य गन्धर्वसेनया स्वनगरप्राप्तिः
वसुदेवस्य नीलयशोदर्शनं वसुदेवेन नीलयशः परिणयः नीलकण्ठवृत्तान्ते नीलयशसः
पित्रादिकथनम् ...
३१
३३
३४
३५
३५
३६
३८
चारुदत्तस्य मन्दभाग्यता, चारुदत्तस्य यानपात्रभङ्गः, परिव्राजकप्राप्तिश्च... ३९
चारुदत्तस्य त्रिदण्डिनाच्छङ्गाद्रसकृपे प्रवेशः
४०
स्वर्णभूमिं गच्छतश्चारुदत्तस्य मुनिदर्शनं, चारुदत्तस्य
परोपकर्तॄणाऽमितगतिमुनिनाऽऽत्मवृत्तान्तनिवेदनम् .
४२
४३
४४
४५
४६
9
विषयः
नीलयशसोऽपहरणं, वसुदेवस्य वेदे जयात् सोमश्रिया विवाह:, ऐन्द्रजालिकदर्शनं च.
वसुदेवस्य शूर्पणखापहतस्य जरासन्धभटैः पर्वतान्निलठितस्य पुनर्वेगवत्या सङ्गमः
वसुदेवप्रभावाद् बालचन्द्राया विद्यासिद्धिस्तया स्ववंशे धरणेन्द्रशापकथनं, तस्या वेगवत्यै विद्यादानार्थं स्वपुरगमनश्च. वसुदेवस्य नृपद्वयधर्मोपदेशः, श्रावस्तीगमनश्च
वसुदेवस्य देवगृहप्रवेशो, विप्रस्य तत्रत्यप्रतिमाकथावर्णने महिषमृत्युर्मृगध्वजस्य केवलोत्पत्तिश्च प्रतिमावृत्तान्तो, वसुदेवेन बन्धुमतीपरिणयनश्च
पृ.
वसुदेवस्यैन्द्रजालिकेनाऽपहृतस्य कथञ्चिद्ग्रामप्राप्तिस्तेन नरमस्तकवधश्च..४७ नरभक्षकवृत्तान्तः, वसुदेवस्य पञ्चशतकन्याभिः सोमश्रिया कपिलया च विवाह:
कपिलाख्यपुत्रजन्म, वसुदेवेन नीलकण्ठखेचरनिग्रहः,
पद्मावत्यश्वसेनयोः पुण्ड्रायाश्च परिणयः, पुण्ड्रनामपुत्रोत्पादनं रत्नवत्याः परिणयश्च.
वसुदेवेन गजं निगृह्य सोमश्रीपरिणयनम्..
वसुदेवेन सोमश्रियाः पाणिग्रहः, सोमश्रीहरणं, वसुदेवेन वेगवतीस्वीकारश्च
वसुदेवस्य मदनवेगापरिणयः, वसुदेवेन मदनवेगायाः पितु: त्रिशिखरं हत्वा परित्राणं, तस्यामनाधृष्टिनामपुत्रजन्म च
वसुदेवस्य भयात् पियङ्गसुन्दरीगृहेऽगमनम्. एणीपुत्रकथा, वसुदेवस्य प्रियङ्गसुन्दर्या विवाहश्च वसुदेवस्य सोमश्रिया सह सङ्गमो, मानसवेगनिग्रहश्च.
४७
४८
४९
५०
५१
५२
५३
५५
५५
५५
५७
५७
५९
Page #6
--------------------------------------------------------------------------
________________
विषयः
विषयः वसुदेवेन नन्दिषेणाया: कार्मणाऽपनयनं केतुमतीपरिणयश्च ......... वसुदेवस्य प्रभावत्या सुकोशलया च परिणय:
तृतीयः सर्गः कनकवत्याश्चन्द्रातपेन हंसरूपेण खेचरेण वसुदेवे प्रेमोत्पादनम् ......... चन्द्रातपप्रेरितस्य वसुदेवस्य पेढारपुरागमनम् ............................ कुबेरस्य पेढारपुरागमनम् ....... वसुदेवस्य कनकवतीपरिणयविषये कुबेरस्य दूत्यकरणं, तुष्टेन कुबेरेण पारितोषिकदानं च . स्वयंवरमण्डपे कुबेरदत्तोर्मिकाधारणेन वसुदेवस्य कुबेराकारः ............ कनकवतीप्रसादितकुबेराज्ञया वसुदेवस्य स्वरूपप्राप्तिः ...................... ६७ कनकवती-वसुदेवयोर्विवाहश्च, वीरमती-मम्मणयोस्तिरस्कृतान्मुनेर्धर्मप्राप्तिः. ६७ वीरमत्या जिनबिम्बललाटे सौवर्णतिलकन्यासो द्वयोर्विपद्य देवत्वं च्युत्वाऽऽभीरत्वं च..
.................. ६८ धूसरी-धन्ययोर्भक्तिर्देवत्वं च, धन्यस्य नलनाम्ना भवग्रहणं च ....... ६९ दवदन्त्या जन्म-कलाग्रहणं, तस्यै देवतायाः शान्तिजिनप्रतिमादानं च ... ७० स्वयंवरे दवदन्त्या नलस्य वरणं, नलेन कृष्णराजस्य पराजयो, नलस्य च दवदन्तीपरिणयप्रस्थानम् .. दवदन्ती-नलयोः कोशलाप्राप्तिमार्गे मुनिवन्दनं च ...................... नलेन कदम्बनृपनिग्रहस्तस्य भरतार्धपतित्वाभिषेकश्च ............. नलस्य कूबरेण द्यूते पराजित्य सर्वस्वहरणं निर्वासनं च ... नलेन हस्तपञ्चशतोन्नतस्तम्भोत्पाटनरोहणं च .... दवदन्त्या हुङ्कारेण भिल्लत्रासनं, नलेन सह वने भ्रमणं च ...... नलस्य दवदन्त्यास्त्यागः दवदन्त्या चौरात्सार्थरक्षणं, सार्थेशगृहनिवासाश्रयणं च..............
त्यक्तसार्थाया दवदन्त्या राक्षसेन संभाषणम् ... दवदन्त्याऽभिग्रहणं, पर्वतगुहानिवासश्च, दवदन्त्या वसन्तसार्थवाहतापसादिप्रतिबोधनं, वसन्तेन पुरीनिर्माणं च, सिंहकेसरिमुनेः केवलाप्तिर्देशना च... कुसुमप्रभदेववृत्तान्तः ........ ................................................८२ सिंहकेसरिमुनेवृत्तान्तो मोक्षो, विमलमतेः प्रव्रज्या च.................... दवदन्त्या गुहात्यागो, राक्षस्या रक्षणं, शुष्कनद्यां जलपानं च .............८४ दवदन्त्याः सार्थप्राप्तिस्तत्र मल्लिजिनपूजकश्रावकपरिचयोऽचलपुरप्राप्तिश्च .. दवदन्त्या अचलपुरे स्वमातृष्वसुश्चन्द्रयशसः सङ्गमस्तस्या दानशालानियोगश्च.
................ दवदन्त्या चौरत्राणं, चौरवृत्तान्तो वसन्तश्रीशेखरवृत्तान्तश्चौरस्य प्रव्रज्या च.. भीमरथेन नल-दवदन्त्योर्वृत्तं ज्ञात्वा तदन्वेषणाय हरिमित्रबटुप्रेषणं, तेन बटुना च ऋतुपर्णगृहे तदवलोकनमृतुपर्णादीनां तस्याः सत्करणं समाश्वासनं च............. पिङ्गलचौरस्य देवत्ववृत्तान्तः ......... वैदा विदर्भगमनं, भीमस्य तदाश्वासनं च ...... नलेन दवानलात्सर्पत्राणं, तद्देशेन नलस्य कुब्जता, देवेन तेन सर्पण विषोपशमकबिल्वफलादिदानं, स्वपरिचयकथनं, नलस्य सुंसुमारपुरप्रापणं च .................. नलस्य स्वपाककौशलेन दधिपर्णनृपाश्रयणम् ..... नलस्य कुब्जस्य दधिपर्णाय स्वमृत्युकथनम् ... भीमेन कुशलद्विजस्य सुंसुमारपुरे नलशुद्ध्यर्थं प्रेषणादिवृत्तान्तः ........... ९४ भीमेन दवदन्तीस्वयंवरच्छलेन दधिपर्णाह्वानं, कुब्जनलसारथ्येन
Page #7
--------------------------------------------------------------------------
________________
12
विषयः दधिपर्णस्य विदर्भाप्राप्तिश्च .. दवदन्त्याः सुस्वप्नदर्शनं भीमेन तत्फलकथनं च......... दवदन्त्याऽभिज्ञानेन ज्ञातस्य नलस्य पूर्वरूपधारणं सङ्गमश्च............... भीमेन धनदेवादीनां सत्करणं, श्रीकेशरदेववृत्तान्तः, नलेन कूबरं द्यूते पराजित्य राज्यादानम् ............ नल-दवदन्त्योव्रतग्रहणं, नलस्य कुबेरत्वं दवदन्त्याः कनकवतीत्वं, कुबेरस्य कथामुपसृत्याऽन्तर्धानं, वसुदेवेन कनकवतीपरिणयनश्च ....... १००
चतुर्थः सर्गः वसुदेवस्य पद्मश्रीप्रभृतिकन्यापरिणयनम् ...... वसुदेवेन रोहिणीपरिणयः, तस्य समुद्रविजयादीनामग्रतो युद्धे प्राकटयं च..........
............१०२ रोहिण्या वसुदेववरणकारणकथनं, वसुदेवेन बालचन्द्रापरिणयनं, वसुदेवस्य शौर्यपुरप्राप्तिः.
..................... १०४
पञ्चमः सर्गः गङ्गदत्तस्य जन्ममात्रा तत्तिरस्कारश्च ............................................ १०६ ललित-गङ्गदत्तयोस्तन्मातुश्च पूर्वभववृत्तान्तो, ललितादीनां देवत्वं च .. १०६ बलरामजन्म, नारदजन्मकथा, वसुदेव-देवकीविवाहवृत्तान्तश्च ............. १०७ मुनेर्देवकीसप्तगर्भान्मृत्युं ज्ञात्वा कंसस्य वसुदेवाद्देवकीसप्तगर्भयाचनम्... देवेन देवकी-सुलसयोः षगर्भपरिवर्तनम् .......... कृष्णजन्मवृत्तान्तः, वसुदेवेन कृष्णस्य नन्दगृहे नयनं, तत्पुत्रीमादाय कंसस्य समर्पणं, कंसेन च च्छिन्ननासापुटां कृत्वा देवक्यै तत्कन्यासमर्पणं च... ........... देवक्या गोपूजाच्छलेन नित्यं कृष्णावलोकनम् ..
विषयः कृष्णसन्निहितदेवताभि: कृष्णं जिघांस्वोः शकुनि-पूतनयोर्वध: ......... ११२ कृष्णसन्निहितदेवतया यमलार्जुनाभ्यां सूर्पकपुत्रवधः कृष्णस्य दामोदरेति नामकरणं च वसुदेवेन रामस्य कृष्णरक्षार्थ नन्द-यशोदयोरर्पणं, कृष्णस्य गोपीभिः क्रीडनम् ..................
.......................११४ कंसस्य नैमित्तिकेन तद्धन्तुः परिचयकथनं, कृष्णेनाऽरिष्टवृषभादिवधः ... ११६ कृष्णेन चापारोपणमनाधृष्टिना तत्स्वकृतत्वेनोपवर्णनमनाधृष्टेः कंसभयात् पलाय्य स्वपुरगमनं च...
.............. ११७ कंसस्य चापोत्सवच्छलेन नपाह्वानं, रामेण कृष्णस्य च स्वपित्रादिकथनं, कृष्णेन कालियसपनाथनं, द्वयोर्धात्रोर्मथुराप्राप्तिश्च ... ......................... ११८ राम-कृष्णाभ्यां पद्योत्तर-चम्पकगजी हत्वाऽक्षवाटागमनं, राम-कृष्णाभ्यां मुष्टिक-चाणूरवधः ..... कंसवधो, वसुदेवादिना समा जीवयशसो राजगृहगमनम्, उग्रसेनस्य मथुराराज्ये स्थापनं, कृष्णेन सत्यभामापरिणयश्च..... .................... १२१ जीवयशसा कंसवधं श्रुत्वा जरासन्धेन दूतप्रेषणेन राम-कृष्णार्पणादेशदानं, समुद्रविजयादिभिस्तदूततिरस्करणं च ......... १२३ समुद्रविजयादिना निवासेच्छया पश्चिमाब्धितटमुद्दिश्य प्रस्थानं, विन्ध्यप्राप्तिश्च. जरासन्धेन यादवाननु कालप्रेषणं, देवताच्छलितस्य कालस्य वह्निप्रवेशः ........ चारणर्षीणां नेम्यादीनां भावितीर्थकरत्वादिकथनं, सत्यभामायाः पुत्रद्वयोत्पत्तिः, कृष्णस्याऽष्टमतपोविधानं शक्राज्ञया..... कुबेरेण द्वारकानगरीनिर्माण, कृष्णादीनां यथोचितं यथास्वं वस्त्रादिदानं, कृष्णादीनां पुरीप्रवेशः, कुबेरेण रत्नादिवर्षणं च.......... १२६
Page #8
--------------------------------------------------------------------------
________________
...........
...............
विषयः कृष्णादीनां द्वारकायां निवास: ..........
षष्ठः सर्गः सत्यभामयाऽनचितस्य नारदस्य कुण्डिनपुरगमनं, रुक्मिण्या: कृष्णस्य च मिथो रागोत्पादनम् ....
................ १२८ रुक्मिणा याचमानं कृष्णं निषिध्य शिशुपालाय रुक्मिणीदानेच्छाप्रकाशनम्.......... कृष्णेन रुक्मिणीहरणं, रामस्य रुक्म्यादिनिरोधायाऽवस्थानं, रुक्मिण्या स्वभ्रातृजीवनरक्षणयाचनं च, रामेण रुक्मिपराजयः ........... १२९ कृष्णेन रुक्मिण्या गान्धर्वेन विवाहो परिणयनं, सत्यभामाया वञ्चनपरिहासश्च ............... कृष्णेन जाम्बवन्तीपरिणयः, कृष्णेन लक्ष्मणापरिणयः .................... १३२ कृष्णेन सुसीमा-गोर्योः परिणयः, कृष्णेन पद्मावतीपरिणय: ......... १३३ कृष्णस्य गान्धारीपरिणयः, रुक्मिणी-सत्यभामयोविवादः, प्रथमं पुत्रविवाहे केशदानपणच. रूक्मिणी-सत्यभामयोर्गर्भधारणं, रूक्मिण्याः पुत्रस्य जन्म, तस्य धूमकेतुसुरेण हरणं, शिलायां त्यागस्तत: कालसंवरेण
...........१३५ प्रद्युम्नहरणदुःखितस्य कृष्णस्य सभायां नारदागमनं, तेन प्रार्थितस्य नारदस्य प्रद्युम्नशुद्ध्यर्थं सीमन्धरजिनसमीपगमनम् ............ १३६ सीमन्धरेण प्रद्युम्नहरणवृत्तान्तकथनं, तत्प्राग्भववर्णने द्विजद्वयवृत्तान्तकथनं च ... सोमदेवा-ऽग्निलयोवृत्तान्तः ... मधुकैटभकथा .. रूक्मिण्याः पुत्रवियोगहेतुभूतपूर्वभववृत्तान्तः .........
विषयः वृषभजिनादारभ्य कौरवपाण्डवान्तं कुरुवंशक्रमादिवर्णनं .. द्रौपद्या पञ्चपाण्डववरणं, तत्प्राग्भववृत्तान्ते नागश्रीदत्तव्यञ्जनभक्षणेन मुनिमरणं च... नागश्रिया भवभ्रमणम् ........................ सुकुमारिकायाः पत्या सागरेण त्यागः .......... सुकुमारिकाया द्रौपदीभवः, द्रौपद्याः पञ्चभिः पाण्डवैविवाहश्च .......... १४७ पाण्डोर्मृत्युर्दुर्योधनेन छूते जित्वा निर्वासितानां पाण्डवानां । द्वारकायां निवासश्च
............... १४७ प्रद्युम्नेन कनकमालायाः प्रणयप्रार्थनास्वीकारः, संवरपराजयो, नारदेन प्रद्युम्नस्य स्वमात्रादिज्ञानं च. प्रद्युम्नेन द्वारिकां प्राप्य भानुकच्छलनादि चमत्कारकरणम्............ प्रद्युम्नेन सत्यभामाया विरूपकरणं प्रद्युम्नस्य रूक्मिण्या: कृष्णमोदकभक्षणेन विस्मापनम्..... ...................................१५१ प्रद्युम्नस्य कृष्ण-सत्यभामादिवञ्चनम् ............................. प्रद्युम्नस्य प्राकट्यम् ............
............ १५३
सप्तमः सर्गः प्रद्युम्नेन दुर्योधनकन्यानयनं, भानुकपरिणयो, नारदविसर्जन.............. १५५ प्रद्युम्नपरिणयश्च, कृष्णेन पुत्रार्थ नैगमेषिदेवाराधनं, जाम्बवत्या गर्भश्च . १५५ कृष्णेन प्रद्युम्नच्छलितायाः सत्यभामाया: संभोगः, शाम्बादीनां जन्म च.... १५६ प्रद्युम्नेन वैदर्भिपरिणयः ........
.................. १५७ शाम्बस्य दुर्विनयो, निर्वासनं, प्रज्ञप्तिविद्याग्रहणं च ..
...................... १५९ प्रद्युम्न-शाम्बयोः श्मशानवासः, शाम्बस्य सत्यभामां छलयित्वा कन्याशतपरिणयनं, पितामहे स्वौद्धत्यक्षामणा च..
............ १३४
स्वगृहनयनं च..
& www
Page #9
--------------------------------------------------------------------------
________________
.........
................ १८६
विषयः जरासन्ध-कृष्णयोमिथो युद्धार्थ प्रयाणं, वसुदेवादीनां खेचरसाधनाय वैताढ्यगमनं च जरासन्धस्य मन्त्रिवचोऽवमाननमुभयोः सैन्ययोश्चक्रव्यूहगरुडव्यूहरचनं च........... नेमिना रुक्मिप्रभृतिनृपाष्टकपराजयः.................. शल्य-शकुनि-कर्ण-दुर्योधनवधः .............. समुद्रविजयात्मजानां भगदत्त-भूरिश्रवा-हिरण्यनाभानां च वधः .......... १६७ शिशुपालस्य सेनापतित्वं, यवनस्य रामपुत्राणामानन्दादीनां च वधो, जरासन्धेन कृष्णसैन्यभङ्गश्च...
............... १६७ शिशुपाल-जरासन्धैकोनशतपुत्रवधो, नेमिना परसैन्यक्षोभणं च, कृष्णेन जरासन्धवधः
अष्टमः सर्गः कृष्णेन जरासन्धपुत्रादीनां यथायथं राज्यप्रदानं, नृपाणां स्वस्वशिबिरगमनं च......
................ १७० खेचरान् साधयित्वा कन्या: परिणीय च वसुदेवादीनामागमनं, जीवयशसोऽग्निप्रवेशः, कृष्णस्याऽर्धचक्रित्वाभिषेकादिकं च............ नेमविवाहप्रस्तावस्थगमनं, राजीमतीजन्म, सागरचन्द्रस्य कमलामेलया विवाहो, नभःसेनस्य तेन वैरं च. .......... अनिरूद्धस्योषया विवाहो, बाणवधश्च ....
नवमः सर्गः कृष्णेन नेमेलपरीक्षणमन्तःपुरे सम्मानप्रदानं च ... कृष्णस्य नेमिनाऽन्तःपुरेण च सह रैवतकोद्यानविलासः, नेमेः परिवारानुरोधाद्विवाहकरणस्वीकारः
१७६ नेमे: परिणयनार्थं सज्जित्वा प्रस्थानं, राजीमत्या अशकुनं च .......... १७८
विषयः नेमेर्वधार्थानीतपशुविमोचनं, दीक्षाग्रहणनिश्चयो निषेधत: कृष्णादीनां समाधानं, कृष्णादीनां शोकादिकं च.. राजीमत्या विलापो, व्रतग्रहणनिश्चयश्च
................ नेमेर्दीक्षाग्रहणं, राजीमत्या विवाहोत्सुकस्य रथनेमेः प्रतिबोधनम् ........ १८० नेमिप्रभोः कैवल्यं धर्मदेशना च.
.............. १८१ वरदत्तादीनां प्रव्रज्या गणधरत्वं च, कृष्णादीनां श्रावकत्वग्रहणं, प्रभोः शासनदेवते.....
दशमः सर्गः असद्कृतनारदप्रपञ्चनेन पोन द्रौपदीहरणम् देवप्रसादादमरकापरिगमनादिवृत्तान्तः, पद्मवशगं विधाय कृष्णादीनां द्रौपद्या सह पश्चाद्वलनम् ....... नारदेन द्रौपदीवृत्तं ज्ञात्वा पाण्डवैः सह कृष्णस्य मुनिसुव्रतात् कपिलप्रश्नः पद्मनिर्वासनादिवृत्तान्तः .................... कृष्णेन गङ्गातरणं, पाण्डवानां निर्वासनं, तेषां पौत्रस्य राज्याभिषेकश्च .... १८८ सुलसा-नागयोः षट्पुत्राणां प्रव्रज्या, देवकन्याः षट्पुत्राणां परिचयः, नेमिना तस्याः पूर्वकर्मवर्णनं च..........
.................. १८९ गजसकमालस्य जन्मादिमोक्षान्तवृत्तान्तः, सोमद्विजमृत्युश्च .................. १९१ यदूनां तत्कुमाराणां तत्पत्नीनां च प्रव्रज्या, कनकवत्या मोक्षः, सागरचन्द्रस्य स्वर्गप्राप्तिश्च देवेन कृष्णस्य परीक्षा, भेरीदानं च.................................. भेरीनैष्फल्यं, भेरीपालवधः, कृष्णेन भेर्यन्तरलाभश्च ................ नेमेर्धन्वन्तरी-वैतरणिवैद्ययोर्गतिकथनम् . कृष्णस्य वर्षाभिग्रहो, वीरस्य कृष्णार्चा च, कृष्णस्याऽभिग्रहः, केतुमचर्या वीरेण परिणयो, दीक्षाग्रहणं च
................१९४
..........
Page #10
--------------------------------------------------------------------------
________________
19
विषयः कृष्णस्य मुनिवन्दनेन तीर्थकृन्नामकर्मोपार्जनम् . ढण्ढणस्याऽन्तरायकर्मक्षयः, कैवल्यं च ................... रथनेमे राजीमतीप्रबोधात् कैवल्यम् .. .............. कृष्णेन पालकस्य निर्वासनं, शाम्बस्य हयदानं च .................
एकादशः सर्गः नेमिप्रभुणा द्वारकादहनादिकथनं, सिद्धार्थस्य प्रव्रज्या, स्वर्गगमनं च.... २०० प्रद्युम्नादीनां रुक्मिण्यादीनां प्रव्रज्या च, नेमिना कृष्णस्य भाविभवकथनम्। द्वैपायनेन द्वारकादहनम्.. द्वारकाया जलधिप्लावनं राम-कृष्णाभ्यामच्छदन्तनिग्रहः ............... जरासुतबाणविद्धस्य कृष्णस्य मृत्युः ...........
द्वादशः सर्गः रामस्य विलापः, कृष्णं मोहात् स्कन्धे समारोप्य भ्रमणं च.............. २०६ सिद्धार्थदेवेन रामप्रबोधनम् ...... रामस्य दीक्षाग्रहणं पुरप्रवेशाभिग्रहणं च बलस्य नरसिंहाख्या ......... राम-रथकार-मृगाणां विपद्य ब्रह्मलोकगमनम् ....... बलरामस्य नरके कृष्णदर्शनादिकं, लोके राम-कृष्णप्रतिमापूजारम्भश्च ..... २०९ पाण्डवानां प्रव्रज्या, नेमिप्रभोः परिवारकथनं ..... ............ नेमिजिनादीनां निर्वाणादिवृत्तान्तः, पाण्डवानां मोक्षः ....................... २११
नवमं पर्व
प्रथमः सर्गः गोपानां चतुण्णां प्रव्रज्या, स्वर्गगमनं च.
................... २१३ गोपद्वय-जीवयोर्दासेरकत्वं हंसत्वं च, चित्र-संभूतयोर्जन्म, नमुचिना तयोः शिक्षणादिकं च ......
विषयः चित्र-संभृतयोर्गानात्तिरस्काराद् दूरगमनं, प्रव्रज्याग्रहणं, हस्तिनापुरगमनं च ... २१४ मुनेस्तेजोलेश्याप्रकटनं, नृपादिभिः सान्त्वनं, मुन्योरनशनं च............. २१६ नमुचेर्मुनिद्वयकृपया नृपात् त्राणं निर्वासनं च .......................... २१६ संभूतमुनेर्निदानकरणं, चित्रसंभूतयोः स्वर्गगमनं च, ब्रह्मदत्तस्य जन्म ... २१७ ब्रह्मनृपमृत्युर्दीर्घस्य तद्राज्यरक्षणं, चुलुन्या नृपभार्यया रमणं च......... २१७ दीर्घ-चुलुन्योः कुमारस्य मारणोपायचिन्तनं, कुमारस्य दास्या विवाहो, लाक्षागृहप्रवेशः, पलायनं च .................. ................ २१८ ब्रह्मदत्त-धनुपुत्रयोर्वेषपरिवर्तनं ब्रह्मदत्तस्य विप्रपुत्र्या विवाहः ........... २२० ब्रह्मदत्त-वरधन्वोर्वनप्राप्तिः, दीर्घपुरुषैर्बन्धनं, ब्रह्मदत्तस्य तापसाश्रमे निवासः, शास्त्राद्यध्ययनं च.................. .................. २२१ ब्रह्मदत्तस्य गजेन युद्ध, विद्यासाधकस्य भ्रमाद्वधश्च ....................... २२१ ब्रह्मदत्तस्य पुष्पवतीपरिणयो, नाट्योन्मत्तविद्याधरवधश्च. ............. पुष्पवतीवचनाद् ब्रह्मदत्तस्याऽन्यत्र गमनं, खण्डा-विशाखयोः खेचरयोर्वृत्तं च ..... ब्रह्मदत्तस्य श्रीकान्तापरिणयः, श्रीकान्ताया ब्रह्मदत्तस्य स्वपितृवृत्तान्तकथनम् ... वरधनोः कुमारेण सह सङ्गमः, स्वस्य वसुभागस्य च वृत्तान्तनिवेदनं च....
..................२२४ ब्रह्मदत्त-वरधन्वोः कुक्कुटयुद्धावलोकनं, सागरदत्त श्रेष्ठिगृहे निवासश्च..... २२५ ब्रह्मदत्तस्य रत्नवत्या सह सङ्गमः, कौशाम्बी विहाय महावनप्राप्तिश्च .. २२६ ब्रह्मदत्तस्य वरधनुमदृष्ट्वा विलापो, रत्नवत्या सह मगधदेशप्राप्तिश्च .. २२७ ब्रह्मदत्तस्य तापसाश्रमे रत्नवतीं मुक्त्वा राजगृहगमनम् . .................. २२८ ब्रह्मदत्तस्य स्वखण्डा-विशाखयो: परिणयस्ताभ्यां स्ववृत्तान्तनिवेदनं च . २२९ ब्रह्मदत्तस्य रत्नावल्या परिणयः, ब्रह्मदत्तस्य वरधनुसङ्गमः.............. २३० ब्रह्मदत्तस्य गजान्मोचिन्या श्रीमत्या नृपकन्याभिश्च
२१०
Page #11
--------------------------------------------------------------------------
________________
20
विषयः वरधनोर्मन्त्रिकन्यया च परिणयः .... ब्रह्मदत्तेन दीर्घवधः, तस्य चक्रित्वं च ..... ब्रह्मदत्तस्य भरतसाधनं, चक्रित्वाभिषेकश्च, ब्रह्मदत्तस्य द्विजेऽनुग्रहः ब्रह्मदत्तस्य जातिस्मरणं, पूर्वजन्मभ्रातुश्चित्रजीवस्य मुनेः सङ्गमो, मुनेनिर्वाणं च ....... ब्रह्मदत्तस्याऽश्वपरीक्षणं, वने नागयोः क्रीडावलोकनं च................ ब्रह्मदत्तस्य नागकुमारकृतवरप्रदानम् . स्त्रीग्रहपतितस्य ब्रह्मदत्तस्य च्छागकृतोपदेशः.. चक्रवर्तिनो भोजनेन ब्राह्मणस्य विगोपना, ब्राह्मणेन चक्रिनेत्रघातश्चक्रिणा सर्वद्विजनेत्रघातश्चक्रिणो रौद्रध्यानार्तस्य मृत्युनरकप्राप्तिश्च ............
द्वितीयः सर्गः विश्वभूतेदेवत्वं, मरूभूति-कमठयोश्चरितं, मरूभूतेर्गजत्वं च .............. २४० अरविन्दनृपस्य व्रतग्रहमष्टापदयात्रायां गजबोधनं च ........................ २४२ कमठस्य सर्पत्वं, नरकच गजयोर्देवत्वं च.................................. २४३ किरणवेगस्य प्रव्रज्या, सर्पदंशेन मृत्युर्देवत्वं, सर्पस्य नारकत्वं च..... २४४ वज्रवीर्यादिनृपस्य वज्रनाभस्य च वृत्तान्तः
................ कुलिशबाहुवृत्तान्तः, सुवर्णबाहुजन्म च, अश्वेन हतस्य सुवर्णबाहोस्तपोवनप्राप्ति: .... स्वर्णबाहुपद्मयोः सङ्गमवृत्तान्तः ................ स्वर्णबाहो: पद्मापरिणयो, वैताढ्यगमनं, विद्याधरकन्यापरिणयनं, चक्रित्वं च स्वर्णबाहोः प्रव्रज्या, सिंहेन मृत्युर्देवत्वं च, सिंहस्य नरकश्च ........... २४९
विषयः
तृतीयः सर्गः कमठस्य जन्म, तापसव्रतग्रहणं च, पार्श्वजिनजन्मवृत्तान्त: ................ अश्वसेनसभायां प्रसेनजिन्नृपदूतागमनं, दूतेन कुशस्थलस्य यवननृपाभिगमवर्णनम् ...
............ २५२ प्रभावतीवर्णनं, पार्श्वप्रभोः प्रस्थानवर्णनं, यवनस्य प्रभोवंशवदता च....... २५२ पार्श्वप्रभोः प्रभावत्या परिणयः ........ कमठवृत्तान्ते प्रभुकृपया नागस्य नागराजत्वं, कमठस्य मेघकुमारत्वं च .. २५६ पार्श्वप्रभोः प्रव्रज्याग्रहणं, धरणेन्द्रेण प्रभोर्मेघमालिकृतोपसर्गनिवारणम् ... २५७ पार्श्वप्रभोः केवलोत्पत्तिर्देशना च
................ २५८ अश्वसेन-वामा-प्रभावतीनां प्रव्रज्या, आर्यदत्तादीनां गणधरत्वं च, शासनदेवतयोः सन्निधानम् ............
चतुर्थः सर्गः सागरदत्तस्य गोकुलिनीजीववणिकपुत्र्या परिणयः सागरदत्तस्य प्रवहणभङ्गो, बालात् प्रतिबोधः, प्रवहणात् क्षिप्तस्य श्वशुरगृहप्राप्तिश्च.............. सागरदत्तस्य पुनर्निजधनप्राप्तिः ........ बन्धुदत्त-प्रियदर्शना-मृगाङ्कलेखानां परिचयः, बन्धुदत्तस्य चन्द्रलेखादिषट्स्त्रीमृत्युः ... ......................................... २६४ बन्धुदत्तस्य सिंहलगमनं, जिनधर्मग्रहणं च, बन्धुदत्तस्य चित्राङ्गदसाहाय्यात्प्रियदर्शनया विवाहः ............. प्रियदर्शनाया गर्भो, बन्धुदत्तस्य तया सह प्रस्थानं, सार्थावस्कन्दश्च..... २६६ चण्डसेनस्योपकारिपुत्र्याः प्रियदर्शनाया गृहनयनं, बन्धुदत्तान्वेषणं च, बन्धुदत्तस्य हंसं दृष्ट्वा मरणाद्विरमणं निजमातुलप्रतीक्षणं च ........... बन्धुदत्तस्य मातुलेन सङ्गमो, धनप्राप्तिरुभयो: काराक्षेपश्च ........... २६८
२६७
Page #12
--------------------------------------------------------------------------
________________
विषयः चण्डसेनस्य बन्धुदत्तान्वेषणप्रतिज्ञा, प्रियदर्शनायाः पुत्रजन्म, देवीबलिपुरुषान्वेषणं च ........ चौरपरिव्राजो बन्धस्तेन स्ववृत्तान्तनिवेदनं च ................ चन्द्रदेवस्य मुनिमुखादसदोषभाषणफलकथनमग्रिमस्ववृत्तान्तकथनं बन्धमुक्तिश्च ....... समातुलस्य बन्धुदत्तस्य चण्डसेनभृत्यैर्देवीबल्यर्थ ग्रहणं, प्रियदर्शनया संगमो, भिल्लानां प्रतिबोधादिकं च ............................ पार्श्वप्रभुणा बन्धुदत्त-प्रियदर्शनयोः पूर्वभववर्णनं प्रव्रज्याग्रहणं च....... २७५ पार्श्वजिनेन नवनिधिस्वामिनः पूर्वभववर्णनं तस्य प्रव्रज्या च ......... २७६ कठिनशब्दार्थः
................. २७९
Page #13
--------------------------------------------------------------------------
________________
॥ अहम् ॥ ॥ श्रीनेमि-विज्ञान-कस्तूर-यशोभद्रसूरिसद्गुरुवरेभ्यो नमः ॥ त्रिषष्टिशलाकापुरुषचरितम्
गद्यात्मकसारोद्धारः श्रीअरिष्टनेमि-कृष्णवासुदेव-बलभद्रादिचरितप्रतिबद्धं
अष्टमं पर्व श्रीअरिष्टनेमिजिनचरितम्
__ प्रथमः सर्गः यस्य सुबाहु शाखायां, हरिर्हरिरिवाऽभवत् ।
तं श्रीनेमिजिनं वन्दे, समस्तजनतायिनम् ॥ १ ॥ अथाऽत्रैव जम्बूद्वीपे भरतक्षेत्रे पृथिवीशिरोमणिभूतेऽचलपुरे विक्रमी शत्रुभयङ्करः सुहृत्प्रियो याचककल्पतरु: कीर्तिमान् समृद्धश्च विक्रमधननामा नृपो बभूव । तस्य शीलवती स्थिरमति: सर्वाङ्ग सुन्दरी धारिणी नाम भार्याऽऽसीत् । सा च श्रीमती पत्युरत्यन्तवल्लभैकदा निशाशेषे कोकिलकूजितं मजरीमञ्जुलं फलभारावनतरसालतरुं स्वप्ने ददर्श । हस्ते कृत: तत्तरुश्चाऽभिरूपः कश्चित् पुरुषस्तामुवाच-'तवाऽङ्गणेऽसौ चूततरुरद्य रोप्यते, कालान्तरे च नववारान्
Page #14
--------------------------------------------------------------------------
________________
शाकापुरुषचरितम् - गद्यात्मकसारोद्धारः
यावत् पुनः पुनरन्यत्राऽन्यत्र रोपितोऽसौ वृक्ष उत्तरोत्तरमुत्कृष्टोत्कृष्टतरं फलं क्रमशो दास्यति' । सा च तं स्वप्नं दृष्ट्वा प्रबुद्धा भर्त्तुराख्यत् ।
२
ततो नृपो निमित्तज्ञं तमपृच्छत् । नैमित्तिकञ्च- 'तव प्रकृष्ट: पुत्रो भावी 'ति प्रहृष्टः फलमुवाच । किन्तु नववारमन्यत्राऽन्यत्र रोपणस्य फलं न जानामि, तत्फलं केवल्येव जानातीत्युवाच । देवी च धारिणी तच्छ्रुत्वा मुदिता तत्प्रभृत्येव पृथ्वी रत्नमिव गर्भं दधार । पूर्ण समये च प्राची सूर्यमिव जगदानन्दकरं मनोहराकारं पुत्रं सुषुवे । नृपेण च समहोत्सवं तस्य जातस्य शुभे दिने धन इति नाम चक्रे । स धनो मातापित्रोरानन्दवर्धनो धात्रीभिर्लाल्यमानः क्रमाद् वर्धमानः सकलाः कला अधिगत्य कामक्रीडावनं यौवनं प्रपन्नवान् ।
इतश्च कुसुमपुरे सिंह इव पराक्रमी रणनिपुणः सिंहो नाम नृपो बभूव । तस्य च चन्द्रिकेव निर्मला विमला नाम पत्नी बभूव । तस्य नृपस्य तस्यां पन्यामनेकपुत्रजन्मानन्तरं धनवती नाम कन्याऽभूत् । सा च रतिरिव रूपवती क्रमशो वर्धमाना सर्वाः कलाः शिशिक्षे । अन्यदा च वसन्तर्तौ सा सखीभिः सहोद्यानमीक्षितुं ययौ । उद्याने च तपोवने सुरीव सा रेमे । विहरमाणा च साऽशोकतरुतले चित्रपट्टिकाहस्तं कञ्चिच्चित्रकरं ददर्श । तस्या: कमलिनी नाम सखी च तां चित्रपट्टिकां तस्माद् नराद् बलाद् गृहीतवती । तत्र च पुरुषाकृतिं ददर्श । तेन रूपेण विस्मिता सा सुरा - ऽसुर-नरेषु कस्येदमद्भुतं रूपं, यद् वा स्वकौशलं दर्शयितुं तव स्वमतिकल्पितमेवेदमिति तं पप्रच्छ ।
चित्रकारस्तां स्मित्वोवाच- 'अत्र चित्रकर्मणि मम मनागपि कौशलं नास्ति, यथा दृष्टमेवेदं लिखितम् । अयं युवाऽचलपुरेशस्य श्रीविक्रमधनस्य पुत्रो धनो नामाऽत्र मया लिखितः । यस्तु तं
अष्टमं पर्व प्रथमः सर्गः
प्रत्यक्षं दृष्ट्वा चित्रं पश्यति, स मां कूटलेखक इति निन्दति । त्वं तु तं न दृष्टवतीति चित्रं दृष्ट्वा विस्मयं यासि । तं दृष्ट्वा तु देव्योऽपि मोहं यान्ति । मया हि स्वनेत्रसुखार्थमेव सोऽत्राऽऽलेखि' । धन्वत्यपि तत्रस्था सर्वं शुश्राव चित्रं ददर्श च तथा तद् दृष्ट्वा कामार्त्ता जाता । कमलिन्युवाच- 'नेत्रसुखार्थं त्वयेदं साधु लिखितम् । त्वं विवेकी कुशलश्चाऽसि । एवमुक्त्वा साऽग्रे जगाम ।
धनवत्यपि चित्रहृतहृदया शून्यमनस्केव विकसितकमलमुखी पुनः पुनः पश्चात् पश्यन्ती पदे पदे स्खलन्ती सखीमनुसरन्ती गृहं ययौ । चित्रस्थधनरूपेणाऽऽकृष्टहृदया च सा विस्मृतक्षुत्तृष्णा क्वाऽपि रतिं न लेभे । निशायां निद्रां च न लेभे । धनरूपं स्मरन्ती, नानाविधा निरर्थिकाश्चेष्टाः कुर्वती, धन ध्यानपरायणा, विस्मृताखिलव्यापारा, त्यक्तस्नानादिनित्यकृत्या योगिनीष्टदेवतामिव धनमेव सदा दध्यौ । अन्यदा च कमलिनी तां पप्रच्छ- 'केन हेतुना पीड्यसे, यदेवमन्येव जाताऽसि ?' ततः कृतकोपाध तामूचे - 'किमन्येव पृच्छसि त्वं किं न जानासि त्वं हि मम द्वितीयं हृदयमिवाऽसि न केवलं सखी । त्वत्प्रश्नेन मे लज्जा जायते । तत: कमलिन्युवाच- 'तवोपालम्भ उचित:, तव मनोदुःखमहं जानामि । त्वं तच्चित्रं दृष्ट्वा धनं कामयसे । मया विनोदायाऽज्ञेव पृष्टाऽसि । तव तत्राऽनुरागं ज्ञात्वा सचिन्ताऽहं प्रागेव ज्ञानिनमपृच्छम्–'यद् मत्सख्या इष्टो वरो भवेदिति ?' स ज्ञानी च भावीत्याचख्यौ । तद् धैर्यमाप्नुहि शीघ्रमेव तव मनोरथ: सेत्स्यति' । तयेत्थमाश्वा सा धनवती धैर्यमाधाय दिव्यनेपथ्या पितरं वन्दितुं जगाम ।
धनवत्याः पिता च तां विसृज्य चिन्तयामास - 'ममेयं सुता विवाहयोग्या जाता । कोऽस्या अनुरूपो वरो भविष्यति' । एवं
Page #15
--------------------------------------------------------------------------
________________
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः तस्मिंश्चिन्तयत्येव तस्य प्राक्प्रेषितो निजो दूतः श्रीविक्रमधननृपपार्श्वत: समाययौ । राजवृत्तमाख्याय तूष्णीकः स दूत: सिंहनृपेण पृष्टः-'किं तत्राऽद्भुतमपश्य:' ? ततः स दूत उवाच-'तत्र विक्रमधननृपपुत्रस्य धनस्य रूपं सुराद्यसाधारणं मनोहरमपश्यम् । तद् दृष्ट्वैव चाऽचिन्तयं यदसौ धनवत्या अनुरूपो वरः, तदनयोः सङ्गमेन विधिविधानसाफल्यं स्यात्' । ततः प्रसन्नो राजा त्वं स्वयं मत्कार्यचिन्तको मम वरचिन्तामपहृत्योपकृतवानसि, तद् गच्छ, विक्रमधनं धनाय धनवतीदानाय मदाज्ञया प्रार्थयस्व । तदैव धनवत्यनुजा चन्द्रवती पितरं वन्दितुं तत्र गता तयोः सर्व वचोऽश्रौषीत् । दूतो निजगृहं जगाम । चन्द्रवत्यपि गृहमेत्य तद्भाग्य प्रशंसन्ती धनवत्यै सर्वं वृत्तान्तं शशंस ।। ___ तच्छ्रुत्वा धनवत्युवाच-नैतद्वचसा मम विश्वासः । अज्ञानेनैषा वदति न तु यथार्थबुद्ध्या । स दूतोऽन्येन कार्येण प्रेषितः स्यात् । इयं मुग्धभावाद् मत्कार्यमेव ज्ञातवती' । तदा कमलिन्युवाच'दूतस्तिष्ठत्येव, तत्तन्मुखादेव सर्वं बुध्यस्व' । एवमुक्त्वा तद्भावं विज्ञाय सा दूतमाहूतवती । ततः सर्वं वृत्तं श्रुत्वा च धनवती नितरां मुमुदे । तथा सा स्वयं पत्रं लिखित्वा धनस्येदं त्वयाऽर्पणीयमित्युक्त्वा दूतस्याऽर्पयामास । स दूतश्च शीघ्रमेवाऽचलपुरं प्राप्य सभामध्यस्थं विक्रमधननृपमुपतस्थे । तदा नृपः शङ्कित उवाच'किं सिंहनृपस्य कुशलं कच्चित् । पुनः शीघ्रमेव त्वदागमनाद् मन्मनः शङ्कते' । ततो दूत उवाच-'सर्वं कुशलं', सिंहनृपः पुनरिह मां प्रेषयामास । तत्र हेतुश्च तव पुत्राय धनाय स्वपुत्र्या धनवत्या दानम् । यथाऽयं धनकुमारो रूपवान् तथा सा धनवत्यपीति द्वयोः
अष्टमं पर्व - प्रथमः सर्गः स्वर्ण-मण्योरिव योगोऽस्तु । पूर्वत एव प्रवृत्तो भवतोः स्नेहोऽनेन सम्बन्धेन दृढोऽस्तु' । ततो नृप आमित्युक्त्वा तं सत्कृत्य विससर्ज ।
स दूतश्च द्वारपालद्वारा निवेद्य धनसमीपं गतवान् । नत्वोपविश्य च धनवत्याऽर्पितं पत्रमार्पयत् । धनकुमारश्च कामाज्ञामिव तत्पत्रं वाचयामास-'कमलिनी शरहतुना यौवनेनेव विशेषशोभिता सूर्यकरग्रहं वाञ्छति' । ततो धनश्चिन्तयामास-'अस्याश्चाटूक्तिरद्भुता, इयं मय्यतिशयं स्नेहं सूचयति' । 'एवं विचार्य सोऽपि पत्रं लिखित्वा दूतस्य करे हारेण सह तदार्पयत् । इतश्च धनेन विसृष्टः शीघ्रमागत्य सिंहनृपं विक्रमधनस्तव प्रार्थनां स्वीकृतवानित्यवोचत् । धनवत्यै च हारं पत्रं च प्रदाय धनेन स्वहस्तेनाऽर्पिताविमावित्युवाच । धनवती च हारं पत्रं च गृहीत्वा पत्रं वाचयामास-'सूर्यः पद्मिनीकरपीडनात् यत् प्रमोदं याति स स्वाभाविक एव, न तत्र प्रार्थनाया: प्रयोजनम्' । तदेवं वाचयित्वा प्रमुदिता सरोमाञ्चा धनवती दध्यौ-'स मम भावमज्ञासीदित्यनेन श्लोकेन ज्ञायते । हारप्रदानेन च ममाऽऽलिङ्गनमेव स्वीकृतं तेन' । एवं विमृश्य हारं स्वकण्ठे निधाय पारितोषिकं दत्त्वा दूतं विसृष्टवती ।
राजा च शुभे दिने वृद्धसचिवैः सहितां तां परमद्धर्याऽचलपुरं प्रेषयामास । यान्तीं च तां माताऽऽशीर्वचनमुदाजहार । पत्याद्यनुरक्ता स्या इत्याद्यनुशिष्य च पुन: पुनरालिङ्गय साश्रुमुखी तां कथञ्चिद् व्यसृजत् । धनवत्यपि मातरं नत्वा शिबिकामारुह्य चलिता पौरैः साश्चर्यं दृश्यमानाऽचलपुरं प्राप्य बहिरुद्याने शिबिरं निवेश्य स्थितवती । शुभे दिने च समहोत्सवं तस्या विवाहोऽभूत् । धनश्च नवयुवा तया नवोढया नवजलधरो विद्युतेव शुशुभे । तया सह रत्या
Page #16
--------------------------------------------------------------------------
________________
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः काम इव स्वैरं रममाणश्च स कियन्तमपि कालं मुहूर्त्तवद् गमयामास।
अन्यदा च सोऽश्वं वाहयन्नुद्यानं ययौ । तत्र च चतुर्ज्ञानधरं वसुन्धरं मुनि देशनां कुर्वन्तं ददर्श । स तं प्रणम्य यथास्थानमुपविश्य च भक्त्या कर्णप्रियां देशनामश्रौषीत् । तत्र च विक्रमधनो धारिणी धनवती चाऽप्यागत्य मुनि नत्वा सर्वे धर्मदेशनां शुश्रुवुः । देशनान्ते च विक्रमधनोऽपृच्छत्-'धने गर्भस्थेऽस्य माता स्वप्ने रसालतरं ददर्श । तत्र कोऽपि पुरुष आख्यत्-'एतस्य नव वारान् पुनः पुनरन्यत्राऽन्यत्र रोपणे उत्तरोत्तरमत्कष्टं फलं भविष्यति' । तत्र नववाररोपणस्य किं फलमिति प्रसद्याऽऽख्याहि' । स मुनिरपि दूरे स्थितं केवलिनं मनसोपयुज्य सम्यग्ज्ञानाय तदपृच्छत् । केवल्यपि तत्प्रश्नं केवलज्ञानेनाऽवधार्याऽरिष्टनेमेनवभवात्मकं चरितमाख्यत् ।
स मुनिश्च मनःपर्यवा-ऽवधिभ्यां तज्ज्ञात्वोवाच-'तव सुतो धन एतद्भवानन्तरं नवभवानुत्कृष्टान् यास्यति । नवमे भवे चाऽरिष्ट नेमिनामा यदुवंशोत्पन्नो द्वाविंशस्तीर्थकरो भविष्यति' । तन्मुनिवचनं श्रुत्वा च सर्वे मुमुदिरे । तदा च सर्वेषां जिनधर्मेऽधिक: सद्भावोऽजायत । विक्रमधनश्च तं नत्वा धनादिभिः सह स्वं गृहं ययौ । मुनिरपि विहारक्रमादन्यतो ययौ । धनश्च धनवत्या सह रममाणो विषयसुखमन्वभूत् ।
एकदा च स जलक्रीडां कर्तुं धनवत्या सह क्रीडासरोऽद्य जगाम । तत्राऽशोकतरुतले शान्तो धर्म-तृषादिभिर्मूच्छितः स्रवद्रुधिराक्तपादो भुवि पतन् कोऽपि मुनिर्धनवत्या धनस्य दर्शितः । तौ च ससम्भ्रमं तन्मुनेरुपचारं चक्रतुः । शिशिरोपचारैश्च मुनिश्चैतन्यं
अष्टमं पर्व - प्रथमः सर्गः प्राप । धनश्च स्वस्थं तं प्रणम्योवाच-'अहं धन्योऽस्मि । यत्पृथिव्यां कल्पदुम इव मया प्राप्तोऽसि । किन्तु मया पृच्छ्यसे यदियमवस्था ते कुत: ? यदि न गोप्यं तर्हि कथय ।
ततो मुनिरुवाच-'अहं मुनिचन्द्रनामैकदा विहरन् सार्थभ्रष्टोऽरण्ये दिग्भ्रमादितस्ततोऽटन्निहाऽगां, क्षुत्-तृष्णार्त्तश्च मूच्छितो भुव्यपतम् । ततः परं भवदुपचारेण लब्धसंज्ञो जातोऽस्मि । तव धर्मलाभोऽस्तु । यथाऽहं क्षणाद् नष्टसंज्ञोऽभूवम्, इहभवे तथा सर्वं तथैव । तस्माच्छुभमिच्छुना धर्म आराधनीयः' । एवमुक्त्वा स मुनिचन्द्रो मुनिः सम्यक्त्वमूलं जिनोदितं गृहिधर्म तस्याऽऽख्यत् । स धनोऽपि च धनवत्या सह तं धर्मं प्रतिपन्नवान् । तथा तं मुनि गृहे नीत्वा भक्त पानाद्यैः प्रत्यलाभयत् । तथा धर्मशिक्षार्थं तं मुनि कञ्चित् कालं स्वगृह एव वासयामास । मुनिश्च धनमनुज्ञाप्य पुनः स्वगच्छेनाऽमिलत् । धनवती-धनौ च श्रावकधर्माणौ जातौ । तदेवमेक धर्मानुरागात् तयोः पूर्वतोऽपि प्रेम ववृधे । पित्रा चाऽन्तकाले राज्येऽभिषिक्तकः स धनः श्रावकधर्मेण सह महीमपालयत् ।
एकदा चोद्यानपाल आगत्योद्यानगह्वरे समागतं वसुन्धरमुनिं धनाय न्यवेदयत् । धनश्च धनवत्या सह सद्यो गत्वा नत्वा देशनामश्रौषीत् । भवोद्विग्नश्च धनो राज्ये धनवतीकुक्षिजं जयन्तं नाम पुत्रं निधाय धनवत्या सह वसुन्धरमुनेव्रतं गृहीतवान् । तमनुसृत्य तभ्रातरावपि धनदत्त-धनदेवौ व्रतं जगृहतुः । धनश्च गुरुं सेवमानो दुस्तपं तपस्तेपे । तथा गीतार्थः सन् गुरुणाऽऽचार्यपदेन योजितः । स च बहून् नृपान् प्रतिबोध्य दीक्षित्वाऽन्ते धनवत्या सहाऽनशनमग्रहीत् । मासान्ते च तौ द्वौ विपद्य सौधर्मे महद्धिकौ शक्र
Page #17
--------------------------------------------------------------------------
________________
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः सामानिकौ देवावजायेताम् । धनभ्रातरौ च धनदत्त-धनदेवौ व्रतं पालयित्वा विपद्य सौधर्मे देवौ जातौ ।
इतश्चाऽत्र भरते वैताढ्योत्तर श्रेण्यां सूरतेजःपुरे सूरनामा विद्याधरेश्वरो बभूव । तस्य मेघस्य विद्युदिव विद्युन्मती नाम भार्याऽतिप्रेमपात्रं बभूव । तस्याः कुक्षौ च धनजीवः सौधर्माच्च्युत्वा समवातरत् । पूर्णे समये च विद्युन्मती शुभलक्षणं सुतं सुषुवे । पिता च तस्य जातस्य समहोत्सवं चित्रगतिरिति नाम चक्रे । क्रमेण वर्धमानश्चित्रगतिराचार्यात् सकला: कलाः प्राप्य यौवनं प्रपन्नवान् ।
इतश्चाऽत्रैव वैताढ्ये दक्षिणश्रेण्यां शिवमन्दिरनगरेऽनङ्गसिंहो नाम नृपोऽभूत् । तस्य शशिमुखीनामपत्न्या उदरे धनवतीजीव: सौधर्माच्च्युत्वाऽवातरत् । सा च शशिमुखी समये रूपवतीं पुत्रीं सुषुवे । सा च बहूनां पुत्राणां पश्चाज्जातेति मातुरत्यन्तप्रियाऽभूत् । पिता च तस्याः शुभेऽहनि समहोत्सवं रलवतीति नाम चक्रे । सा च क्रमेण वर्धमाना स्त्रीजनोचिताः सकला: कला अचिरेणैव गृहीत्वा देहभूषणं यौवनं प्रपन्ना । एकदा चाऽस्या: को योग्यो वर इति पित्रा पृष्टो नैमित्तिक उवाच-'यस्तवाऽसिरत्नमाच्छेत्ता, तथा यस्य सिद्धायतनं वन्दमानस्योपरि देवैः पृष्पवृष्टिः कृता स्यात् स नर श्रेष्ठस्तवेमां पुत्री रत्नवतीं परिणेष्यति' । यो ममाऽपि खड्गरत्नमाच्छेत्ता सोऽद्भुतनिधिर्मम जामाता स्यादिति प्रीतो नृपो नैमित्तिकं विससर्ज।
इतश्चाऽत्रैव भरते चक्रपुरनगरे गुणवान् सुग्रीवो नाम नृपो बभूव । तस्य यशस्वत्यां पन्यां सुमित्राख्यो ज्येष्ठः पुत्रो भद्रायां
अष्टमं पर्व - प्रथमः सर्गः पत्न्यां च पद्मनामा कनिष्ठः सुतश्च बभूवतुः । तयोः सुमित्रो गम्भीरो विनयी नीतिसम्पन्नः कृतज्ञोऽर्हद्धर्मपरायणः, पद्मश्च ततो विपरीतोऽभवत् । भद्रा च 'अस्मिन् सुमित्रे जीवति मम पुत्रस्य राज्यं न भवेदि'ति द्वेषात् सुमित्रस्योग्रं विषं ददौ । विषावेगाच्चमूच्छितः सुमित्रो भुवि पपात । ततश्च ससम्भ्रमं तत्र सुग्रीवो मन्त्रिभिः सह समागत्य मन्त्रतन्त्रैरनेकश उपचारं चकार । किन्तु तस्य विषप्रभावशान्तिर्न जाता । पुरे च 'भद्रा सुमित्रस्य विषं ददा'विति प्रवादो जातः । भद्रा चाऽऽशङ्किता पलाय्य क्वाऽप्यगात् । नृपश्च पुत्रार्थे जिनार्चादिकं शान्तिकं चकार तथा सुतगुणान् स्मारं स्मारमत्यन्तं विललाप ।
अत्राऽवसरे नभसि क्रीडया विचरंश्चित्रगतिविमानेन तत्राऽऽगतः शोकातुरं पुरं दृष्ट्वा तद्विषवृत्तान्तं च ज्ञात्वा विद्याभिमन्त्रितैर्जलैस्तमभ्यषिञ्चत् । तेन च सुमित्रः किमेतदिति पृच्छन् विस्मितनेत्रः सद्य एवोत्तस्थौ । ततो नृप उवाच-'तव मात्रा भद्रया ते विषं ददे । अकारणोपकारिणा चाऽनेन स्वस्थः कृतोऽसि' । ततः कृताञ्जलि: सुमित्रश्चित्रगतिमुवाच-'तव परोपकारबुद्ध्यैव कुलं ज्ञातम् । तथाऽपि स्वकुलमाख्यातुमर्हसि' । ततश्चित्रगतेः पारिपार्श्वका सचिवपुत्रस्तद्वंशादिकं सर्वं शशंस ।
ततो हष्टः सुमित्र उवाच-'विषप्रदया विषेण चाऽद्य ममोपकृतमेव, कथमन्यथा तव सङ्गम: स्यात् ? त्वं मम जीवनप्रद एव नाऽसि, किन्तु प्रत्याख्यानादिहीनदुर्मृत्योरपि रक्षकोऽसि, तवाऽहं किं प्रत्युपकरोमि' । एवमुक्त्वा विरतं सुमित्रं मित्रतामापन्नं निजपुरप्रयाणाय चित्रगतिरापप्रच्छे । तत: सुमित्र उवाच-'अत्र समीपदेशे एव सुयशानामा केवली विहरन्नास्ते । तमिहाऽऽगतं
Page #18
--------------------------------------------------------------------------
________________
त्रिषष्टिशलाकापुरुषचरितम् - गद्यात्मकसारोद्धारः
वन्दित्वा गन्तुमर्हसि । तदागमनकालं यावदत्रैव तिष्ठ' । ततश्चित्रगति: 'आम्' इत्युक्त्वा तेन सह क्रीडन् युग्मजात इव बहून् दिवसान् सुखमनैषीत् ।
१०
अन्यदा च द्वावुद्यानं जग्मतुः । तदा च तत्र सुयशा विहरन् समाययौ । तत्र देवैर्वृतं स्वर्णकमलस्थं मुनिं तौ वन्दित्वोपविविशतुः । सुग्रीवनृपोऽपि श्रुत्वाऽऽगत्य मुनिं वन्दितवान् । मुनिश्च धर्मदेशनां चकार । देशनान्ते च चित्रगतिर्नत्वा मुनिमाह- 'अहं भवता दयालुना साधु धर्मं बोधितः, एष सुमित्रो मम मित्रमसमोपकारी, येन भवद्दर्शनं लब्धम्' । एवमुक्त्वा च चित्रगतिर्मुनेः पुरः सम्यक्त्वपूर्वकं श्रावकत्वं जग्राह । सुग्रीवश्च मुनिं प्रणम्य पप्रच्छ- 'साऽस्य विषं दत्त्वा भद्रा क्व ययौ ?' ततो मुनिरुवाच- 'सा भद्रा नंष्ट्वाऽरण्ये गता तस्करैर्भूषणादिकमाच्छिद्य पल्लीशस्य समर्पिता । पल्लीशेन च वणिक्पार्श्वे विक्रीता ततोऽपि नंष्ट्वा यान्ती दवाग्निना दग्धा । रौद्रध्यानवती च मृत्वा प्रथमं नरकं ययौ । तत उद्वृत्त्य च चण्डालपत्नी भविष्यति । जाते गर्भे च सपत्न्या छुरिकया गले हता तृतीयं नरकं प्राप्य पश्चात् तिर्यक्त्वमाप्स्यति । एवमनन्तसंसारदुःखमनुभविष्यति' ।
ततो नृपः पुनरुवाच-‘मुने ! यस्य कृते सैतत् सर्वं चकार, स तत्पुत्रोऽत्र तिष्ठति, सैका नरकं गता तदेतं संसारं धिक् । अहं प्रव्रज्यां ग्रहीष्यामि' । ततः सुमित्रो नृपं प्रणम्योवाच- 'मां धिक्, यदहं मातुरीदृक् कर्महेतुर्जातः । तन्मामनुजानीहि अहमपि प्रव्रजिष्यामि । ततो नृपस्तं प्रतिषिध्य राज्ये निवेश्य स्वयं व्रतं गृहीतवान् । ततश्च सुग्रीवः केवलिना सह विहृतवान् । सुमित्रश्च चित्रगतिना सह निजवेश्म ययौ । तथा स सुमित्रो भद्रापुत्राय कति
अष्टमं पर्व प्रथमः सर्गः
ग्रामानदत्त । किन्तु दुर्बुद्धिः स तेनाऽप्यसन्तुष्टः क्वाऽप्यगात् । चित्रगतिश्च सुमित्रमापृच्छ्य निजं पुरं जगाम । तथा देवपूजादिभि: कालं गमयामास ।
तमाश्वास्य
इतश्च सुमित्रस्वसारं कलिङ्गनृपपत्नीमनङ्गसिंहपुत्रः कमलो रत्नवतीभ्राता जहार । चित्रगतिश्च भगिनीहरणात् खिन्नं सुमित्रं चरैर्ज्ञात्वा स्वसारमन्विष्याऽचिरादेवाऽऽनयिष्यामीति तदन्वेषणाय चचाल । कमलेन सा हृतेति वार्तामुपलभ्य स सर्वसैन्येन शिवमन्दिरं नगरं ययौ । तत्र च कमलं गजः कमलमिव लीलयैवोन्मूलयामास । ततः पुत्रपराभवेन क्रुद्धोऽनङ्गसिंहः सिंहनादं कुर्वन् दधाव । तयोश्च विद्याबलात् सैन्यबलाच्च चिरं भयङ्करो रणः प्रावृतत् । ततश्चाऽनङ्गस्तं दुर्जयं ज्ञात्वा क्रमागतं देवदत्तं खड्गं सस्मार । पाणौ पतितं चाऽत्युग्रं तत्खड्गमादाय चित्रगतिं भर्त्सयामास । चित्रगतिश्चाऽपि तं निर्भत्स्यऽन्धकारं विकृत्य तत्पाणे: खड्गरत्नमाच्छिदत् । तथा सुमित्रस्य स्वसारं शीघ्रं गृहीत्वा ततो जगाम । अनन्तरमालोके जाते चाऽनङ्गः करे खड्गरत्नं तं शत्रुं चाऽपश्यन् । क्षणं विषादं प्राप्तश्च स ज्ञानिनो वचः स्मृत्वा मुमुदे । सिद्धायतनवन्दने देवैः कुसुमवृष्ट्या स ज्ञास्यते इति विचारश्च स्वगृहं ययौ ।
चित्रगतिश्चाऽखण्डशीलां भगिनीं सुमित्रस्याऽर्पयामास । सुमित्रश्च पुराऽपि भवोद्विग्नो भगिन्यपहारेण सातिशयं विरक्तो राज्ये सुतं न्यस्य सुयशोमुनेश्चित्रगतेः समक्षं व्रतं जग्राह । चित्रगतिश्च स्वपुरमगात् । सुमित्रश्च गुरुमनुसरन् किञ्चिदूनानि नवपूर्वाण्यधीते स्म । तथा गुरोरनुज्ञयैकाकी विहरन् सुमित्रो मगधेषु गतः पुराद् बहि: कायोत्सर्गेण तस्थौ । तस्य वैमात्रेयः पद्मश्च तत्राऽऽगतस्तं
Page #19
--------------------------------------------------------------------------
________________
१२
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः दृष्ट्वा ध्यानस्थं तं बाणेन हृदि जघान । सुमित्रश्च शुभध्यानपरायणः स्मृतनमस्कारमन्त्री विपद्य ब्रह्मलोके सामानिको देवोऽभूत् । पद्मश्च प्रणश्य गच्छन् कृष्णसर्पण दष्टो विपद्य सप्तमे नरके नारको जातः । ___ चित्रगतिश्च सुमित्रमृत्युना चिरं शोकं कृत्वा सिद्धायतने नन्तुं यात्रां कर्तुं जगाम । तत्र च बहवो विद्याधरेश्वरा आययः । अनङ्गसिंहचाऽपि पुत्र्या रत्नवत्या सह तत्र ययौ । चित्रगतिश्च तत्र शाश्वतार्हतां विविधा: पूजाश्चके । सुमित्रो देवश्च तदवधिना ज्ञात्वा तत्राऽऽगतस्तस्योपरि पुष्पवृष्टिं चकार । ततस्तद् दृष्ट्वा सर्वेऽपि खेचरेश्वराश्चित्रगति प्रशशंसुः । अनङ्गसिंहोऽपि तं स्वपुत्रीवरमज्ञासीत् । सुमित्रदेवश्च प्रत्यक्षीभूय मां प्रत्यभिजानासि किमिति चित्रगति पप्रच्छ । त्वं महद्धिर्देव इति कथितवति चित्रगतौ स परिचयाय सुमित्ररूपं चक्रे । चित्रगतिश्च तमालिङ्गयोवाच'महामते ! त्वत्प्रसादाद् मयाऽयं धर्मः प्राप्तः' । ततः सुमित्रोऽपि जगाद-'त्वत्प्रसादेनैव मयेयं महद्धिः प्राप्ता । अन्यथा प्रत्याख्यानादिविहीनो मृतः कां गति प्राप्तः स्याम् ? एवं परस्परं प्रशंशतोस्तयोः श्रीसूरादयो विद्याधरेश्वरा नितरां मुमुदिरे । __ तत्र रलवती च रूपेण चारित्रेण चाऽप्रतिम चित्रगतिं दृष्ट्वा कामार्ता जाता । अनङ्गसिंहश्च पुत्री विमनसां दृष्ट्वाऽचिन्तयत्'ज्ञानिकथितं वचः संवदति । असौ मम खड्गरत्नमाच्छिन्नवान्, इह च पुष्पवृष्टिरपि जाता । मम पुत्र्याश्चाऽनुरागो जातः । अयं रत्नवत्या अनुरूपो वरः । किन्त्वत्र देवस्थाने तत्कथा न युज्यते' । एवं विचार्य स सपरिवारः स्वगृहं ययौ । अनङ्गसिंहेन प्रेषित एको मन्त्री चाऽऽगत्य सूरं प्रणम्य विनयादेवमुवाच-'प्रभो ! तव पुत्रश्चित्रगती
अष्टमं पर्व - प्रथमः सर्गः रूपवान्, अनङ्गसिंहपुत्री रलवती चाऽपि स्त्रीरत्नम् । तदनयोः सम्बन्धो भवदाज्ञया जायताम्' । सूरोऽपि तद्वचः प्रतिपद्य समहोत्सवं तयोविवाहं चकार ।
चित्रगतिश्च तथा रत्नवत्या सह वैषयिकं सुखं बुभुजे । अर्हत्पूजादिकं च तया सह विदधानः सुखं कालं निनाय । धनदेवधनदत्तजीवौ च च्युत्वा मनोगति-चपलगतिनामानौ तस्याऽनुजौ बभूवतुः । चित्रगतिश्च ताभ्यां रत्नवत्या च सह नन्दीश्वरादिषु यात्रां चक्रे । अन्यदा च सूरनृपस्तं राज्ये निवेश्य स्वयं व्रतमग्रहीत्, व्रतं पालयंश्च परमं पदं प्राप । चित्रगतिश्चाऽनेका विद्याः साधयित्वा विद्याधरेश्वरान् शशास। ___ अथाऽन्यदा तस्य सामन्तो मणिचूडो व्यपद्यत । तत्सुतौ च शशि-सूरौ राज्यार्थेऽयुध्येताम् । चित्रगतिश्च तद्राज्यं विभज्य तयोर्दत्त्वा धर्मोपदेशैः सन्मार्गे स्थापयामास । तथाऽपि तौ युद्ध्वा मृतौ । चित्रगतिश्च तच्छ्रुत्वा दध्यौ-'अनित्याया लक्ष्म्या अर्थेऽल्पमतयो युध्यन्ते दुर्गति यान्ति च । तदिमे किं न मोक्षाय यतन्ते ?' एवं विमृश्य विरक्तो रत्नवतीकुक्षिजं ज्येष्ठं पुत्रं पुरन्दरं राज्यं न्यधात् । ततो रत्नवत्या कनिष्ठाभ्यां भातृभ्यां च सह दमधराचार्या दीक्षां गहीतवान् । चिरं व्रतं पालयित्वाऽन्तेऽनशनं प्रपद्य विपद्य माहेन्द्रे परमद्धिको देवश्चाऽभवत् । रत्नवती कनिष्ठौ भ्रातरौ चाऽपि तत्रैव देवोत्तमा अभवन् ।
इतश्च पश्चिमविदेहे पद्मविजये पुरोत्तमे सिंहपुरे हरिणन्दी नाम तेजस्वी नृपो बभूव । तत्पत्नी प्रियदर्शना च सर्वनेत्रानन्ददायिनी
Page #20
--------------------------------------------------------------------------
________________
१४
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः बभूव । चित्रगतेर्जीवश्च च्युत्वा महास्वप्नसूचितस्तस्याः कुक्षाववततार । पूर्णे समये च प्रियदर्शना सुरूपं पुत्रं सुषुवे । महीपतिस्तस्य समहोत्सवमपराजित इति नाम चक्रे । स धात्रीभिलाल्यमानः क्रमेण वर्धमानः सर्वाः कलाः प्राप्य यौवनं प्रपन्नवान् ।
तस्य चाऽमात्यपुत्रो विमलबोधो नाम वयस्यः सहाध्यायी बभूव । तौ चैकदा हयारूढौ रममाणौ पुराद् बहिर्जग्मतुः । अश्वाभ्यां च दुविनीताभ्यां हृत्वा दूरे महारण्ये नीतौ । तत्राऽश्वयोः श्रान्तयोवृक्षमूलेऽवतीर्याऽपराजितो विमलबोधमुवाच-'अश्वाभ्यां दिष्ट्या हृतावावामनेकाश्चर्यपूर्णेयं मही दृष्टा' । अत्रान्तर एव च रक्ष रक्षेति वदन् कोऽपि पुरुषस्तत्राऽऽजगाम । तं च भीतं शरणागतं मा भैषीरिति कुमारो जगाद । ततो मन्त्रिपुत्र उवाच-'नेदं साधुकृतं, यद् एषोऽन्यायी स्यात् तदा शोभनं न भवेत्' ।
ततोऽपराजित उवाच-'शरणागतः कोऽपि वा भवतु, स त्रातव्य इति क्षत्रियधर्मः' एवं कुमारे वदत्येव हत हतेति वादिनः कृष्टखड्गा आरक्षपुरुषास्तत्राऽऽगताः । ते च 'यवां दरमपयातम, एष चौरः, एनं हनिष्यामी'ति दूरतोऽप्यूचुः । ततः कुमारः स्मित्वाऽऽह'मां शरणमुपागतोऽयं मयाऽवश्यं रक्षणीयः' । ततः क्रुद्धा आरक्षा यावत् प्रहारं चक्रुस्तावदेव कुमारः कृष्टासिस्तान् जघान । ते च नंष्ट्वा स्वस्वामिने कोशलराजाय सर्वं वृत्तं शशंसुः । राजाऽपि चौररक्षिणो वधाय सैन्यं प्रेषयामास । अपराजितेन सैन्ये पराजिते च स्वयं नृपः सैन्यैः परिवृतः समागात् । ततोऽपराजितश्चौरं मन्त्रिपुत्राय समर्प्य युधि तत्पर एकस्य दन्ते पदं न्यस्य तत्कुम्भमारुह्य निषादिनं हत्वा तद्गजारूढ एव युयुधे । केनचिद् मन्त्रिणोपलक्ष्य च स नृपाय कथितः ।
अष्टमं पर्व - प्रथमः सर्गः
तत: कोसलेश्वरः सैन्यान् युद्धाद् निषिध्याऽपराजितं 'त्वं मन्मित्रस्य हरिणन्दिनः पुत्रोऽसि, दिष्टयेहाऽऽयातोऽसीत्युक्त्वाऽऽलिलिङ्ग । तथा तं लज्जानम्रमुखं स्वगजे समारोप्य स्वपुत्रमिव निजगृहं निनाय, मन्त्रिपुत्रश्चाऽपि तस्करं विसृज्याऽपराजितमन्वाययौ । उभौ च कोसलेशगृहे सुखं तस्थतुः । कोसलेशश्च कनकमालाख्यां स्वां पुत्रीमपराजिताय सानन्दं ददौ ।
तत्र कतिचिद्दिनानि स्थित्वा चाऽन्यदा समित्रोऽपराजितो गतिविघ्नो मा भूदिति रात्रौ पुर्या निर्ययौ । व्रजंश्च कालिकादेव्यायतनसमीपे 'हा निर्वीरोर्वो जातेति निशि रुदितं शुश्राव । दयालुः स काऽप्येषा स्त्री रोदितीति निश्चित्य रुदितशब्दमनुसरन् ज्वलिताग्निसमीपे स्थितामेकां स्त्रियं कृष्टखड्गं पुरुषं च ददर्श । कोऽप्यस्माद् विद्याधराद् मां पात्विति पुन: सा रुरोद । ततः कुमारस्तमाक्षिपत्-'रे ! रणायोत्तिष्ठ, अबलायां किमेतत् ते पौरुषम् ?' ततः क्रुद्धः स खेचर: कुमारमाक्षिपन् युद्धायोदतिष्ठत् । तौ खड्गाखड्गि युध्यमानावन्योन्यं प्रहारं वञ्चयमानौ चिरमयुध्येताम् । बाहुयुद्धेऽप्यपराजेयमपराजितं मत्वा स नागपाशेन तं बन्ध । कुमारश्च क्रुद्धस्तं नागपाशं बिभेद । ततोऽतिक्रुद्धो विद्याधरो विद्याप्रभावतो विविधैरस्त्रैः कुमारं प्राहरत् । किन्तु पुराकृतसुकृतप्रभावाच्छरीरसामर्थ्याच्च कुमारे मनागपि प्रहारा: सफला न जाताः। अत्राऽन्तरे च सूर्य उदितेऽपराजितः खड्गेन खेचरं मूनि जघान । तेन मूच्छितश्च खेचरो भुवि पपात । सा स्त्री चाऽपराजितं दृष्ट्वा कामार्ता जाता । कुमारश्चोपचारैः खेचरं लब्धसंज्ञं विधाय भूयो रणायाऽऽह्वास्त ।
Page #21
--------------------------------------------------------------------------
________________
anuman
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः तत: खेचर उवाच-'त्वयाऽहं चारु पराजितः, स्त्रीवधाद् नरकाच्च रक्षितः । मम वस्त्राञ्चलग्रन्थौ मणि-मूलिके विद्यते । तस्य मणेर्जलेन मूलिकां घृष्ट्वा मव्रणे लिम्प' । कुमारेण च तथाकृते खेचरः स्वस्थो जातः । कुमारपृष्टश्चैवं कन्यावृत्तान्तमाख्यत्'इयं रथनूपुरेशस्याऽमृतसेनस्य रत्नमाला नाम पुत्री । ज्ञानिना चाऽस्या वरो हरिणन्दिनृपपुत्रोऽपराजितो भावीत्याचख्यौ । एषाऽपि च तत्रैवाऽनुरक्ताऽभूत् । मया दृष्टा च विवाहाय याचिता । इयं च च मम याचनां न स्वीचकार । तथाऽपराजितो मे पाणि गृह्णीयाद् दहनं वा प्रविशेयं नाऽन्या मे गतिरित्युवाच च । तदस्या वचसा क्रुद्धोऽहं श्रीषेणपुत्रः सूरकान्तो नामाऽस्याः पाणिग्रहणार्थ कृतनिश्चयो निर्गत्य दुःसाध्या विद्याः साधयित्वा भूयोऽपि बहभिरुपायैरेनामयाचिषि । यदेयं केनाऽप्युपायेन मां न स्वीचकार, तदा हत्वेयमत्राऽऽनीता मया कामान्धेन खण्डयित्वाऽग्नौ क्षेप्तुं विचारिता । किन्तु त्वयेयं रक्षिता, अहं च दुर्गते रक्षितः । तदेवं त्वं द्वयो रक्षकोऽसि, कोऽसीति कथय । ___ ततो मन्त्रिपुत्र: कुमारस्य कुलादिकमुवाच । रत्नमालाऽपि चेष्टसमागमाद् नितरां मुमुदे । रत्नमालायाः पितरौ च कीर्तिमत्यमृतसेनौ पृष्ठतो धावमानौ तदानीं तत्रेयतुः । मन्त्रिपुत्रेण पृष्टेन सर्व ज्ञात्वा चाऽस्या इष्ट एव रक्षिताऽभूदिति भृशं मुमुदाते । ततस्ताभ्यां दत्तां रत्नमालामपराजितः परिणिन्ये । तयोरेव वचसा च सूरकान्तायाऽभयं ददौ । सूरकान्तश्च कुमाराय निःस्पृहत्वाद् मन्त्रिपुत्रस्य ते मणि-मूलिके वेषपरिवृत्तिकरी गुटिकां च प्रादात् । पश्चादपराजितो 'निजस्थानं मयि गते भवतेयं स्वपुत्री समानेतव्ये'
अष्टमं पर्व - प्रथमः सर्गः त्यमृतसेनमुक्त्वा ततोऽचालीत् । पुत्र्या सहाऽमृतसेनः स सूरकान्तश्च स्वस्थानं जग्मुः । ___ अथ कुमारोऽग्रतो गच्छनटव्यां तृषार्त आम्रतरोस्तले समुपविवेश । मन्त्रिपुत्रश्च जलमानेतुमगात् । दूरं गत्वा जलमादाय मन्त्रिपत्रो यावदागच्छति तावत् तत्राऽपराजितं नाऽ पश्यत् । ततः स दध्यौ-किमिदं न तत् स्थानम् ? अथवा तृषार्त्तः कुमारः स्वयमेव जलार्थं ययौ' । एवं विचार्य कुमारस्याऽन्वेषणायेतस्ततोऽटन् मूच्छितो भुव्यपतत् । लब्धसंज्ञश्चोत्थाय करुणस्वरं रुरोद । पुनश्च कुमारमन्वेषयितुं ग्रामादिषु भ्रमन् स नन्दिपुरं नाम पुरमगात् ।
अथ यावच्च तत्र स बहिरुद्यानेऽस्थात् तावत् तत्र द्वौ खेचरावेत्योचतुः-'खेचरेन्द्रो भुवनभानुर्महावने प्रासादं विकृत्याऽऽस्ते । तस्य च कमलिनी-कुमुदिन्यौ द्वे कन्ये । तयोश्च ज्ञानिना तव मित्रं वर आचख्ये । तस्याऽऽनयनार्थं नियोजितावावां वने युवां दृष्टवन्तौ । तत्र त्वयि जलार्थं गतेऽपराजितं हृत्वा भुवनभानोरन्तिकेऽनयाव । तं च सत्कृत्य स्तुत्वा ताभ्यां पुत्रीभ्यां विवाहार्थं प्रार्थयामास नृपः। किन्तु कुमारस्त्वद्वियोगातः प्रत्युत्तरमपि नाऽदात्। मुनिरिव मौनी त्वामेव ध्यायन्नास्ते । ततः स्वामिनाऽऽज्ञापितावावां त्वामानेतुमितस्ततोऽन्वेषयन्ताविहाऽऽगतौ स्वः, दिष्ट्या दृष्टोऽसि । तदुत्तिष्ठ, शीघ्रं गच्छ, कुमारस्य ताभ्यां विवाहस्त्वदधीनः'। ततो मुदितो मन्त्रिपुत्रस्ताभ्यां सह कुमारसमीपं जगाम । कुमारोऽपि च प्रसन्नस्ते कुमार्यावुपयेमे । तत्र किञ्चित्कालं स्थित्वा पूर्ववदेव ततो निर्जगाम। ___ अथ श्रीमन्दिरपुरं प्राप्य तौ सूरकान्तदत्तमणिमाहात्म्यात् प्राप्तेष्टौ तत्र तस्थतुः । अन्यदा च तस्मिन् पुरे तुमुलध्वनिरुत्तस्थौ । सर्वतश्च सन्नद्धा उद्यतास्त्रा भटा अदृश्यन्त । अपराजितेन
Page #22
--------------------------------------------------------------------------
________________
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः किमेतदिति पृष्टश्च मन्त्रिपुत्रो लोकमुखाज्ज्ञात्वोवाच-'अत्र पुरे सुप्रभो नाम नृपोऽस्ति । स च केनचिद् राजकुले प्रविश्य च्छलाच्छुरिकया हतः, अस्य च राज्यरक्षकः कोऽपि पुत्रादिर्नाऽस्ति । तस्मात् पौरा आत्मरक्षिणो गृहीतायुधाः पुरे भ्राम्यन्ति, तत एव महांस्तुमुलो जायते' । तच्छ्रुत्वा च दुष्टेन केनाऽपि शत्रुणाऽयं हत इत्युक्त्वा सकरुणचेता अपराजितोऽस्थात् । संरोहणौषधैरपि नृपस्य व्रणे वर्धमान एव भवति सति कामलता नाम गणिका मन्त्रिणमाख्यत्'अत्र पुरे कोऽपि देव इव सुरूपो धार्मिक उदारः पुमानस्ति । असौ किञ्चिद्व्यापारमकुर्वन्नपि प्राप्तेष्ट इति महाप्रभावः सम्भाव्यते । ततः किञ्चिद्भेषजमानेतव्यम्'।
ततो मन्त्रिणः कुमारं प्रार्थ्य नृपसमीपं निन्युः । दयालुः कुमारश्च मित्रतो मणि-मूलिके समादाय नृपव्रणं चिकित्सयामास । तेन च स्वस्थो नृपोऽपराजितमुवाच-'त्वमकारणबन्धुरसि । मद्भाग्यादेवेहाऽऽयातोऽसि । तथा मन्त्रिपुत्रात् सर्वं वृत्तान्तं ज्ञात्वा च राजा पुनरुवाच-'अयं मन्मित्रस्य हरिणन्दिनः पुत्रः । महान् प्रमादो यद् मित्रपुत्रमपि नाऽज्ञासिषम्' । एवमुक्त्वा स रम्भा नाम निजकन्यकां साग्रहं तस्मै ददौ । अपराजितश्च तया सह रममाणः कञ्चित्कालं व्यतीत्य मन्त्रिपुत्रेण सह पूर्ववद् निर्ययौ' ।
अथ कुण्डपुरं प्राप्य तत्रोद्याने केवलिनं स्वर्णपद्मस्थं महामुनि दृष्ट्वा सप्रदक्षिणं नत्वोपविश्य च धर्मदेशनां शुश्राव । देशनान्ते च नत्वाऽपृच्छत्-'अहं भव्योऽभव्यो वा ?' तत: केवली जगाद-'त्वं भव्योऽसि, इतः पञ्चमे भवेऽर्हन् भविष्यसि द्वाविंशः । तव मित्रं चाऽयं गणधरो भविष्यति' । तच्छ्रुत्वा मुदितौ तौ तं मुनि सेवमानौ
अष्टमं पर्व - प्रथमः सर्गः धर्मपरायणौ कियन्तं कालं तस्थतुः । मुनौ चाऽन्यत्र विहाँ गते सति तावपि स्थाने स्थाने चैत्यानि वन्दमानौ विचेरतुः ।
इतश्च जनानन्दपुरे जितशत्रुर्नाम नृप आसीत् । तस्य पत्नी च धारिणी नाम । रत्नवती च स्वर्गाच्च्युत्वा तस्या उदरेऽवातरत् । पूर्णे समये सा धारिणी प्रीतिमती नाम पुत्री सुषुवे । सा वर्धमाना सर्वाः कला: प्राप्य यौवनं प्रपन्ना । तस्याश्च कलापण्डितायाः क्वाऽपि पुरुषे दृष्टिर्न प्रीणाति स्म । राजा च येन केनाऽप्यस्या विदग्धाया विवाहो नोचित इति विचार्य तां रहसि कस्ते वर इष्ट इत्यपृच्छत् । सा च यो मां कलासु जेता स मे वरो भवत्वित्युवाच । राज्ञा च तत् स्वीकृतम् । ततस्तस्याः सा प्रतिज्ञा लोके ख्याता ।
जितशत्रुश्च स्वयंवरे बहून् राज्ञो राजपुत्रांश्चाऽजूहवत् । स्वपुत्रवियोगखिन्नं हरिणन्दिनं विना बहवो नृपाः खेचरेन्द्राश्च समागताः, ते सर्वे च मञ्चेषूपाविशन् । अपराजितोऽपि दैवात् तत्राऽऽगतः । स मन्त्रिपुत्रमुवाच-'समये समागताः स्मः, विज्ञानां कलापाण्डित्यां तां कन्यां च द्रक्ष्यामः' । तथाऽस्मान् कोऽपि मा ज्ञासीदिति स गुटिकया प्राकृतजनोचितं रूपं कृतवान् । ततस्तावुभौ विकृताकारौ स्वयंवरमण्डपं जग्मतुः । प्रीतिमती च दिव्यनेपथ्या दासीप्रभृतिभिरूपचर्यमाणा तत्राऽगात् । तस्या मालती नाम सखी चाऽगुल्या निर्दिश्य निर्दिश्य तत्तन्नृपं वर्णयामास । एते च भूचराः खेचराश्च सर्वे कलाविदः, तदेतान् पश्य, परीक्षस्व चे'त्युवाच च । तयेत्थमुक्ता प्रीतिमती चक्षुषा कामबाणेनेव सर्वान् नृपान् सम्भावयन्ती कोकिलकूजितेनेव स्वरेण पूर्वपक्षमकरोत् । किन्तु सर्वेऽपि भूपा बद्धकण्ठा इवोत्तरीतुमसमर्थास्तूष्णीं तस्थुः । तथा
Page #23
--------------------------------------------------------------------------
________________
२०
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः सरस्वत्येवाऽस्या मिषेण पूर्वपक्षं चकारेत्यतो वयमन्यत्राऽनिर्जिता अत्र पराजिता इति लज्जानम्रा विलक्षाः परस्परमूचुः ।
जितशत्रुश्च दध्यौ-'कि विधिरिमां सर्वप्रयत्नेन निर्माय खिन्न इवैतस्याः पति च व्यधात् ? एते एव राजानः सन्ति, एषु च न कोऽपि मत्सुताया योग्यः । यद्यन्योऽपि हीन एव स्यात् तदा का गतिः स्यात्' । ततो भावजस्तत्सचिव उवाच-'नृप ! विषादेनाऽलम् । वसुन्धरा बहुरत्ला । अत्रोत्तमेभ्योऽप्युत्तमाः स्युः । यः कोऽपि वेमां जयेत् सोऽस्या वरो भवेदिति घोष्यताम्' । ततो नृपो बाढमित्युक्त्वा तथैवाऽकरोत् । अपराजितश्च तां घोषणां श्रुत्वा 'स्त्रिया सह विवादे विजयेऽपि नोत्कर्षः । अविवादे सर्वोऽपि पुरुषस्तया विजितः स्यादित्युत्कर्षोऽस्तु मा वा, सा जेतव्यैवे'ति विचार्य तत्क्षणमेव प्रीतिमत्या अग्रेऽभवत् । प्रीतिमती च मेघच्छन्नं सूर्यमिव दुर्नेपथ्यं तं दृष्ट्वा प्राग्जन्मस्नेहवशाद् नितान्तं मुमुदे । तथा तया पूर्ववत् कृतं पूर्वपक्षं च निराकृत्याऽपराजितस्तां पराजितवान् । सा चाऽपि तत्क्षणमेव तस्य गले स्वयंवरमालामक्षिपत् ।।
तेन च क्रुद्धाः सर्वे नृपा 'अस्मासु सत्स्वयं दरिद्रो नैनां परिणेतुमर्हति' इति वदन्तः सैन्यानि सज्जयित्वोदायुधाः ससंरम्भं योद्धुं प्रववृतिरे । अपराजितोऽप्येकं निषादिनं हत्वा तद्गजमारुह्य तद्गजकवचवर्तिभिरस्त्रैर्युयुधे । स एकोऽप्यनेकधा जात इव क्रुधा सर्वनृपसैन्यमभाङ्क्षीत् । ततो नृपाः पुरा स्त्रिया जिता, अधुनैकाकिनाऽनेनेति लज्जिताः सम्भूय योद्धं प्रवृत्ताः । ततोऽपराजितः सोमप्रभस्य गजमारुरोह । सोमप्रभश्च तं लक्षणैस्तिलकेन चोपलक्षितवान् । ततः स कुमारमालिङ्ग्य दिष्ट्या ज्ञातोऽसि भागिनेये
अष्टमं पर्व - प्रथमः सर्गः त्युवाच । तथा सर्वान् नृपांस्तदाख्यच्च । ततश्च सर्वे नृपा युद्धाद् विरता अभूवन् ।
ततो जितशत्रुः शुभे दिने तयोविवाहं चकार । अपराजितश्च स्वं स्वाभाविक रूपं चकार । तस्य पराक्रमेण रूपेण च सर्वो जनो मुमुदे । तथा जितशत्रुः सर्वान् सत्कृत्य व्यसृजत् । अपराजितश्च प्रीतिमत्या रममाणस्तत्रैवाऽस्थात् । तथा जितशत्रुसचिवो निजां रूपवती सुतां विमलबोधाय ददौ । सोऽपि तया सह यथासुखमरंस्त ।
अथाऽन्येद्युः श्रीहरिणन्दिनो दूत: समाययौ । स च कुमारेण दृष्टः प्रमोदादालिङ्गितश्च । तेन पित्रोः कुशलं पृष्टश्च दूतः साश्रुरुवाच'शरीरमात्रधारणमेव तयोः कुशलं, त्वनिष्क्रमणदिवसादेव साश्रुलोचनौ किंवदन्त्या त्वच्चरित्रं श्रावं श्रावं क्षणं सानन्दौ क्षणं च त्वद्वियोगेन मूच्छितौ भवतः । एतं वृत्तान्तं श्रुत्वा ताभ्यां सम्यग्ज्ञातुमत्र प्रेषितोऽस्मि । अतः परं पितरौ खेदयितुं नाऽर्हसि' । तच्छ्रुत्वा कुमारोऽपि साश्रुलोचन: स्वं विनिन्द्य जितशत्रुमापृच्छ्य ततः प्रतस्थे । तदानीं च भुवनभानुः सुताद्वययुतस्तत्राऽऽगात् । अन्येऽपि राजानस्तेन परिणीताः स्वस्वकन्या आनिन्युः । सूरकान्तोऽपि तत्राऽऽगात् । ततोऽपराजितः प्रीतिमत्याऽन्याभिश्च पत्नीभिर्नृपैश्च परिवारितः, सैन्यैर्भुवं व्याप्नुवन् कतिपयैरेव दिनैः सिंहपुरं प्राप । हरिणन्दी चैत्य प्रणमन्तमपराजितमालिङ्ग्य मूनि मुहुर्मुहुथुचुम्ब । माताऽपि च साश्रुनेत्रा तं पृष्ठे कराभ्यां पस्पर्श मूनि चुचुम्ब च । तथा प्रीतिमत्यादयो विमलवध्वो बोधेन नामग्राहं दर्शिताः श्वशुरयोः पादान् प्रणेमुः । अपराजितश्च सर्वान् नृपान् विसृज्य पित्रोरानन्दं वर्धयन् यथासुखं रममाणोऽस्थात् ।
Page #24
--------------------------------------------------------------------------
________________
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः अथ मनोगति-चपलगतिजीवौ माहेन्द्राच्च्युत्वा तस्याऽपराजितस्य सूर-सोमनामानौ कनिष्ठौ भ्रातरौ जातौ । हरिणन्दी चाऽपराजिते राज्यं न्यस्य प्रव्रज्य दुस्तपं तपस्तप्त्वा परमं पदं प्राप। अपराजितस्य च प्रीतिमती महिषी विमलबोधो मन्त्री तौ भ्रातरौ च मण्डलेश्वरावभूताम् । स च सुखं महीं पालयन् यथेष्टं भोगानभुक्त । तथा चैत्यानि रथयात्राश्चाऽनेकशः कारयामास ।
एकदा चोद्यानं गतः सार्थपतेर्महद्धिकं सुतमनङ्गदेवं रमणीभिः क्रीडन्तमर्थिभ्योऽर्थं ददानं, बन्दिभिः स्तूयमानं, गीतासक्तं प्रेक्ष्य कोऽसाविति स्वपुरुषानपृच्छत् । ते चाऽसौ सार्थवाहस्य समुद्रपालस्य पुत्रो महेभ्योऽनङ्गदेवाख्य इत्यचकथन् । ततोऽपराजितो धन्योऽस्मि, यस्य वणिजोऽपीदृशा उदारा' इति स्वं प्रशंसन् निजगृहमगात् । द्वितीयेऽह्नि च बहिर्गच्छन् स मृतकं चतुभिः पुरुषैरुह्यमानं रुदतीभिः स्त्रीभिरनुस्रियमाणं दृष्ट्वा 'कोऽयं मृत' इति पृष्टवान् । पुरुषाश्चऽयमनङ्गदेवो विसूचिकया सद्य एव मृत इत्याख्यत् । तच्छ्रुत्वा च 'अहो असारोऽयं संसार' इत्युत्कटं संवेगं प्राप्तः स्वगृहं जगाम । कतिचिदहानि च विषण्णस्तस्थौ । तत्र च कुण्डपुरे प्राग्दृष्टश्च केवली ज्ञानेन तं योग्यं पश्यन् तदुपकाराय समागतः । अपराजितश्च ततो धर्मं श्रुत्वा प्रीतिमतीकुक्षिजं पुत्रं पद्मं राज्ये निवेश्य प्राव्राजीत् । प्रीतिमती विमलबोधो मन्त्री सूर-सोमौ बन्धू च तमनुप्राव्रजन् । ते सर्वेऽपि च दुस्तपं तपस्तप्त्वा विपद्याऽऽरणे कल्पे इन्द्र-सामानिकाः परस्परं प्रीतिमन्तोऽभूवन् ।
अष्टमं पर्व - प्रथमः सर्गः पूर्णचन्द्रं विशन्तं स्वप्नं दृष्ट्वा प्रभाते पति शशंस । नृपश्च नैमित्तिकैस्तत्फलमपृच्छत् । ते च 'चन्द्रवत् प्रकाशको देव्याः पुत्रो भविष्यतीति स्वप्नफलमाचख्युः । इतश्चाऽपराजितजीवश्च्युत्वा तत्कुक्षावातरत् । पूर्णे समये च सा सर्वलक्षणलक्षितं सुतं सुषुवे। नृपश्च समहोत्सवं तस्य शङ्ख इति नामाऽकरोत् । स च शखो धात्रीभिर्लाल्यमानः क्रमाद् वर्धमानो गुरुं निमित्तीकृत्य सर्वाः कला: शिक्षयामास । विमलबोधजीवश्च श्रीषेणनृपमन्त्रिणो मतिप्रभो नाम पुत्रोऽभूत् । स च शङ्खकुमारस्य वयस्यः सहाध्यायी चाऽभूत् । तथा शङ्खस्तेनाऽन्यैर्नृपकुमारैश्च क्रीडन् यौवनं प्रपन्नवान् । ___अथाऽन्येधुर्जानपदलोकाः उच्चैः पूत्कुर्वन्तो विज्ञापयामासुः'त्वद्देशसीमनि विशालशिखरश्चन्द्रसमानया चन्द्रशिशिराख्यया नद्या युक्तोऽस्ति । तत्र दुर्गे समरकेतुर्नाम पल्लीपतिरस्ति । सोऽस्माकं निःशङ्कं लुण्टति, तत् त्रायस्व' । ततो नृपस्तद्वधाय जिगमिषुर्भम्भामवादयत् । ततः शलो नत्वा सविस्मयमुवाच-'तस्मिन् पल्लीशे भवतो गमनं नोचितं, न हि गजो मशकं सिंहो वा शशकं हन्ति । अहं त्वदाज्ञया तं बद्ध्वाऽऽनेष्ये, स्वयं गमनाद् विरम, मामादिश' । राजाऽपि च तद्वचः श्रुत्वा ससैन्यं तं विसृष्टवान् ।
इतः शखकुमारश्च तां पल्लीं प्राप्तवान् । पल्लीशश्च कुमारमायान्तं श्रुत्वा पल्लीं त्यक्त्वा गिरिगह्वरं शिश्राय । मतिमांश्च शङ्खकुमार एकं सामन्तं श्रेष्ठैः सैनिकैः सह दुर्गं प्रवेशयामास । स्वयं चैकस्मिन् निकुञ्ज ससैनिको निलीय तस्थौ, पल्लीपतिश्च च्छली तं दुर्गं रुरोध । ततः कुमारस्तं सैन्यैरवेष्टयत् । तदेवं मध्ये स्थित: पल्लीश एकतो दुर्गप्राकारस्थै राजसैन्यैरन्यतः कुमारसैन्यैश्चाऽनेकशो हृतः । तत: पल्लीशः कण्ठे कुठारं कृत्वा शङ्ख शरणं
इतश्च जम्बूद्वीपे भरते हस्तिनापुरे श्रीषेणो राजाऽभूत् । तस्य लक्ष्मीरिव नाम्ना श्रीमती महिषी बभूव । सा च निशाशेषे मुखे
Page #25
--------------------------------------------------------------------------
________________
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः
ययौ । तथा मम मायायास्त्वमेव प्रतिकारकोऽसीत्युवाच च । तथा 'स्वामिन् ! तव दास्यं स्वीकरोमि, मम सर्वस्वं गृहाण, प्रसद्य मामनुगृहाण चे 'ति प्रार्थयामास । कुमारश्च लुण्टितं धनं यद् यस्य तत् तस्य दत्त्वा तस्माद् दण्डं च स्वयं गृहीत्वा तं पल्लीपतिमादाय निवृत्य मार्गे सायं शिबिरं निवेश्याऽवात्सीत् ।
२४
निशीथे च शयानः करुणस्वरं शुश्राव । ततोऽसिमादाय तं स्वरमनुसरन्नग्रे रुदतीमर्धजरतीं स्त्रियं दृष्ट्वा पप्रच्छ- 'दु:खस्य कारणं ब्रूहि, मा रोदी:' । ततः सा स्त्री तस्य रूपेण वचसा च विश्वस्तोवाच- 'अङ्गदेशे चम्पापुरे जितारिर्नाम नृपोऽस्ति । तस्य कीर्तिमत्यां पन्यामनेकपुत्रजन्मानन्तरं स्त्रीरत्नं यशोमती नाम पुत्री जाता । तस्याश्च स्वानुरूपं वरं क्वाऽप्यपश्यन्त्याः क्वाऽपि जने मनो न लगत् । कदाचिच्च श्रीषेणपुत्रं शङ्खं श्रुत्वा कामार्त्ता तं हृदि चक्रे । तथा मां शङ्ख एव परिणेष्यतीति प्रतिज्ञां चकार । पिता च स्थानेऽस्याः स्नेह इति हृष्टवान् । नृपश्च तदर्थं यावत् श्रीषेणनृपस्याऽन्तिके दूतं प्रैषीत् तावद् मणिशेखरो नाम खेचरेशस्तां ययाचे । जितारिश्च शङ्खं विनेयमन्यं नेच्छतीति जगाद । ततः सोऽन्येद्युस्तामहार्षीत् । अहं तु तस्या धात्री, तामनुसरन्तीह समागता । किन्तु तेन दुष्टेन खेचरेण बलादिह त्यक्ताऽस्मि । तथा स तां कुत्राऽप्यनयत् । तेनाऽहं विलपामि यत् सा कथं भविष्यति ?'
ततः कुमार उवाच- 'धैर्यं धेहि, एषोऽहं तं विजित्य तामानयामि' । एवमुक्त्वा तामन्वेषयन् कुमारो महाटव्यामाटीत् । अत्राऽवसरे च सूर्योदये जाते कुमारो विशालशृङ्गमद्रिमारुह्यैकस्मिन् गह्वरे यशोमतीं विवाहार्थं प्रार्थयन्तं खेचरमेवं ब्रुवाणां ददर्श
अष्टमं पर्व प्रथमः सर्गः
२५
'शङ्ख एव मे भर्त्ता भवेद् नाऽपरः । मुधा किं मां कदर्थयसि ?" तदा ताभ्यां कुमारोऽपि दृष्टः । ततः खेचरो जगाद - 'कालाकृष्टोऽयं त्वत्प्रिय इहाऽऽयातः । अमुं हत्वा बलादपि त्वां परिणेष्यामि निजगृहं नेष्यामि च' । इत्युक्तवन्तं तं कुमारोऽपि कटुवचोभिर्नितस्याऽसिमाकृष्य युयुधे । दोर्बलात् कुमारं जेतुमशक्तः स खेचरो विद्यया विकृतैरस्त्रैर्युयुधे । किन्तु पुण्यबलात् कुमारे कान्यपि शस्त्राणि न प्रभवन्ति स्म । कुमारश्च खड्गेन तस्य शस्त्रास्त्राणि खण्डयामास । तथा खेदेनोपविष्टस्य तस्य खेचरस्य धनुराच्छिद्य बाणेन तदुरसि जघान । तेन च मूच्छितः स खेचरो भुवि पपात शङ्खश्च व्यजनपवनादिना कथञ्चित् तं लब्धसंज्ञं कृत्वा पुनर्युद्धायाऽऽास्त ।
ततः स खेचर उवाच- 'क्वाऽप्यनिर्जितोऽहं त्वया पराजितोऽस्मि, त्वं सामान्यवीरो नाऽसि । इयं च यशोमती गुणैस्त्वय्यनुरक्तेदानीं पराक्रमेणाऽधिकमनुरक्ता जाताऽस्ति । ममाऽपराधं क्षमस्व' । तत: कुमार उवाच - 'स्वपराक्रमेण विनयेन चाऽनुनीतोऽस्मि, कथय, कि ते करवाणि !' ततः स खेचरः पुनरुवाच- 'यदि प्रसन्नोऽसि तर्हि वैताढ्यं गच्छ । तेन तव सिद्धायतनयात्रा मयि चाऽनुग्रहः स्यात्' । शङ्खश्च तस्य वाचं प्रपन्नवान् । यशोमती चेदृशो वरो मया वृत इति सद्भावाद् मोदं प्राप्तवती । मणिशेखरपत्तयश्च तदा समुपागता वृत्तान्तं ज्ञात्वोपकारिणं कुमारं नमश्चक्रुः । कुमारश्च द्वौ खेचरौ स्ववृत्तान्तं ज्ञापयित्वा सैन्यं हस्तिनापुरं प्रैषयत् । तथा खेचरैस्तां धात्रीमानाय्य शङ्खस्तया यशोमत्या च सहितो वैताढ्यं जगाम । तत्र च यशोमत्या सहैव सिद्धायतनेषु शाश्वतार्हतो ववन्दे । विविधाः पूजाश्च चकार ।
Page #26
--------------------------------------------------------------------------
________________
त्रिषष्टिशलाकापुरुषचरितम् - गद्यात्मकसारोद्धारः
मणिशेखरश्च कुमारं निजपुरं नीत्वा निजगृहे समुपवेश्य देवमिव पूजयामास । वैताढ्यवासिनश्चैत्य भूयो भूयो यशोमतीशङ्खौ ददृशुः । तथा तत्र शत्रुजयादन्येऽपि विद्याधराः कुमारस्य पत्तयोऽभूवन् । तथा निजनिजकन्यास्तस्मै ददुः। कुमारश्च यशोमती परिणीयैताः परिणेष्यामीत्यवोचत् । ततो मणिशेखरादयः खेचराः स्वस्वपुत्रीर्गृहीत्वा यशोमत्या सह शङ्खं चम्पापुरं निन्युः । जितारिश्च सर्वं वृत्तान्तं ज्ञात्वा मुदितो यशोमत्या सहाऽऽगतं शङ्खमभ्याजगाम । तथा नगरे प्रवेश्य समहोत्सवं यशोमत्या परिणाययामास । तथा शङ्खः समायाता अन्या अपि कन्याः परिणिनाय । ततो भक्तिपूर्वकं श्रीवासुपूज्यजिनचैत्ययात्रां चक्रे । तथा विद्याधरान् विसृज्य कतिचिदहानि तत्र स्थित्वा यशोमत्यादिभार्याभिः सह शङ्खो हस्तिनापुरं ययौ । सूर-सोमौ चाऽऽरणाच्च्युत्वा पूर्वजन्मवदेव यशोधर - गुणधरनामानौ तस्याऽनुजावभूताम् । श्रीषेणश्च शङ्खं राज्ये न्यस्य गुणधरगणधरात् प्रव्रज्यां गृहीत्वा दुस्तपं तपस्तेपे । शङ्खश्च महीं शशास ।
२६
अथोत्पन्नकेवलः श्रीषेणमुनिर्विहरन् देवैः परिवृतस्तत्राऽऽययौ । शङ्खश्च गत्वा वन्दित्वा भक्तया धर्मदेशनाम श्रौषीत् । तत्र शङ्खो देशनान्ते पप्रच्छ- 'तव देशनयैतद् वेद्मि यत् संसारे कोऽपि कस्याऽपि सम्बन्धी नाऽस्ति । तथाऽपि यशोमत्यां मेऽधिकः स्नेहः, तत्र किं कारणमिति प्रसद्याऽऽख्याहि' । ततः श्रीषेणमुनिरुवाच- 'इयं यशोमती पुरा धनभवे तव धनवती नाम पत्नी, सौधर्मे मित्रं, चित्रगतिभवे रत्नवती नाम पत्नी, माहेन्द्रे मित्रभार्याऽपराजितभवे च प्रीतिमती नाम पत्न्यारणे च मित्रपत्नी बभूव । अस्मिश्च सप्तमे भवे भूयस्तव भार्या जाता । तेनाऽस्यां तवाऽधिकः स्नेहः । इतश्चाऽपराजितं गत्वा च्युत्वा भारते त्वं
अष्टमं पर्व प्रथमः सर्गः
द्वाविंशस्तीर्थकरो नेमिनाथो भविष्यसि । तत्र चेयं राजीमती त्वयाऽनूढाऽपि त्वय्यनुरागवती त्वत्त एव प्रव्रज्यां गृहीत्वा परं पदं यास्यति । प्राग्भवभ्रातरौ यशोधर - गुणधरौ मतिप्रभो मन्त्री चाऽपि तव गणधरत्वं प्राप्य सेत्स्यन्ति' ।
तच्छ्रुत्वा शङ्खो यशोमतीकुक्षिजं पुण्डरीकं सुतं राज्ये न्यस्य यशोमत्या बन्धुभ्यां मन्त्रिणा च सह तन्मुनेर्व्रतमग्रहीत् । दुस्तपं तपस्तप्त्वा च शङ्खो गीतार्थो बभूव । तथाऽर्हद्भक्त्यादिभिः कतिपयैः स्थानकैस्तीर्थकृन्नामकर्मोपार्जयामास । अन्ते च पादपोपगमनं विधाय शङ्खो मुनिरपराजितं जगाम यशोमत्यादयोऽपि च तेनैव विधिनाऽपराजितं जग्मुः ॥ १ ॥
इति अष्टमे पर्वणि श्रीअरिष्टनेमिपूर्वभववर्णनात्मकः प्रथमः सर्गः ॥ १ ॥
* रू
Page #27
--------------------------------------------------------------------------
________________
द्वितीयः सर्गः अथाऽस्ति भरते मथुरा नाम पुरी यमुनया नद्या शोभिता । तस्यां च पुर्या हरिवंशोद्भववसुपुत्रबृहद्ध्वजाद् बहुषु नृपेषु गतेषु यदुर्नाम नृपो बभूव । तस्य पुत्रः शूरस्तस्य च शौरि-सुवीरौ पुत्रौ बभूवतुः । शूरश्च शौरि राज्ये सुवीरं च यौवराज्ये न्यस्य भवोद्विग्नः प्रव्रज्यां गृहीतवान् । शौरिस्तु सुवीराय मथुराराज्यं दत्त्वा कुशातदेशे गत्वा तत्र शौर्यपुरं नाम नगरं रचयामास । तस्य चाऽन्धकवृष्णिप्रभृतयः पुत्रा जज्ञिरे । सुवीरस्य भोजवृष्ण्यादयः सुता अभवन् । सुवीरश्च भोजवृष्णये मथुराराज्यं दत्त्वा सिन्धुदेशे सौवीरं पुरं निर्माय तत्राऽस्थात् । शौरिश्चाऽन्धकवृष्णिं राज्ये न्यस्य सुप्रतिष्ठमुनेर्दीक्षां गृहीत्वा दुस्तपं तपस्तप्त्वा परमं पदमियाय । भोजवृष्णेश्च मथुरेशस्योग्रसेनो नाम पुत्रोऽभवत् । अन्धकवृष्णेश्च सुभद्रायां समुद्रविजया-ऽक्षोभ्य-स्तिमित-सगर-हिमवद्-अचलधरण-पूरणा-ऽभिचन्द्र-वसुदेवा दशार्हाख्या दशपुत्रा अभूवन् । तेषां च कुन्ती मद्री च द्वे भगिन्यावभूताम् । तत्र कुन्तीं पाण्डवे मद्रीं च दमघोषायाऽदात् ।
एकदा चाऽन्धकवृष्णिरवधिज्ञानिनं सुप्रतिष्ठमुनि प्रणम्य कृताञ्जलि: पप्रच्छ-'प्रभो ! मम दशमो वसुदेवः पुत्रोऽत्यन्तरूपवान् कलावान् पराक्रमी च कुत: ?' ततो मुनिरुवाच-'मगधेषु
अष्टमं पर्व - द्वितीयः सर्गः नन्दिग्रामे रोरो द्विजस्तस्य पत्नी सोमिला चाऽऽस्ताम् । तयोः पुत्रो नन्दिषेणो बभूव । तस्य बालस्यैव मन्दभाग्यात् पितरौ विपेदाते । स चाऽत्यन्तं कुरूप: स्वजनैरपि त्यक्तः ।।
एकदा च स भृतकेन कर्मकर्तुं मातुलेन सह तद्गृहं जगाम । मातुलस्य च सप्तकन्या विवाहयोग्या आसन् । मातुलश्चैकां कन्यां ते दास्यामीत्युक्तवान् । तल्लोभाच्च स तस्य सर्वगृहकार्य चकार । तत्र प्रथमा कन्या तज्ज्ञात्वोवाच-'यदि पिता मामस्मै दास्यति तदाऽहं निश्चितं मरिष्यामि' । तच्छ्रुत्वा विषण्णो नन्दिषेणो द्वितीयां ते दास्यामीत्युक्त्वा मातुलेन समाश्वासितः । किन्तु साऽपि प्रथमावदेव प्रतिज्ञा चकार । अन्या अपि तं क्रमेणाऽस्वीचक्रुः । ततस्तं मातुलोऽवोचत्-‘अन्यस्य कस्याऽपि पुत्रीं याचित्वा ते दास्यामि । मा खिन्नोऽभूः'। ततो नन्दिषेणो दध्यौ-यदि निजा अमूर्मा न स्वीकुर्वन्ति तर्हान्या: कन्या मां कथं स्वीकरिष्यन्ति ?' इति विमृश्य वैराग्यात् ततो निर्गतो रत्नपुरं गत्वा तत्र दम्पती क्रीडन्तौ प्रेक्ष्य स्वं निन्दन् मुमूर्षुरुपवनं गतवान् । ____ तत्र सुस्थितं नाम मुनिं दृष्ट्वा प्रणनाम । मुनिश्च ज्ञानेन तद्भावं ज्ञात्वोवाच-'मर्तुं साहसं मा कार्षीः । आत्महत्याऽधर्माय जायते । धर्म कुरु, प्रव्रज्यया भवान्तरेषु सुखहेतुर्धर्मः साध्यताम्' । एवं श्रुत्वा प्रतिबुद्धः स तन्मुनेतं गृहीत्वा क्रमेण गीतार्थः साधुषु वैयावृत्त्यमभिजग्राह । इन्द्रश्च बालादिसाधूनां वैयावृत्त्यकरं तं सभामध्ये प्रशशंस । तदसहिष्णुश्च कोऽपि सुरो ग्लानमुनिवेषधरो रत्नपुरसमीपस्थमरण्यं जगाम । तथा द्वितीयमुनिवेषं धृत्वा तन्मुनिवसति गत्वा नन्दिषेणे पारणार्थं कवले गृहीते तं जगाद'भो ! वैयावृत्त्यं प्रतिज्ञाय कथं भुक्षे? बहिरतिसाराक्रान्तः साधुः
Page #28
--------------------------------------------------------------------------
________________
अष्टमं पर्व - द्वितीयः सर्गः ऽन्धकवृष्णि: समुद्रविजयं राज्ये न्यस्य स्वयं सुप्रतिष्ठमुनेतं गृहीत्वा सम्यक् परिपाल्य शिवं ययौ ।
३०
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः क्षुत्-तृट्परीतोऽस्ति' । तच्छ्रुत्वा नन्दिषेणोऽन्नं मुक्त्वा पानमन्वेष्टुं निर्ययौ । देवश्च शक्त्या तदनेषणीयं कर्तुं प्रचक्रमे । किन्तु लब्धिमतः तस्य मुनेः प्रभावाद् देवो न प्रबभूव । स नन्दिषेणश्च कुत्राऽपि शुद्धं पानं प्राप । ततो मुनि: स ग्लानस्य मुनेः समीपं गतवान् । मुनिश्च मायया तं परुषाक्षरैर्भर्त्सयामास ।
ततो नन्दिषेणोऽवोचत्-'ममाऽपराध क्षमस्व, त्वां सज्जं करोमि, इदमुचितं पानं तव' । तथा तं पानं पाययित्वोत्तिष्ठेति जगाद । ततो ग्लानो मुनिरुवाच-'धिक् त्वां, मामक्षमं किं न पश्यसि ?' ततो नन्दिषेणस्तं मायामुनि स्कन्धमारोप्य ततः प्रतस्थे। स मुनिश्च तं पदे पदे आचुक्रोश । तथा शनैर्गच्छेत्यादिष्टवान् । ततो नन्दिषेण: शनैर्जगाम । ततः स मायामुनिस्तस्योपरि मलं विससर्ज तथा वेगभङ्गं किं करोषीत्यभर्त्सयच्च । नन्दिषेणश्चाऽयं मुनिः कथं नीरोग: स्यादिति चिन्तयन् तस्य कटून्यपि वचनानि न गणयामास। ततः स देवो मलमपहृत्य तस्योपरि पुष्पवृष्टि चकार । तथा दिव्यरूपस्तं त्रिः प्रदक्षिणीकृत्य प्रणनाम । शक्रकृतां प्रशंसां च तस्मै कथयामास । तथा क्षमयित्वा तुभ्यमहं किं ददामीति पप्रच्छ ।
ततो नन्दिषेण उवाच-'मया परमदुर्लभो धर्मो लब्धः । नाऽत: परं किमपीष्टं मम' । ततः स देवो दिवं जगाम । मुनिश्च स्वाश्रयं गतो मुनिभिः पृष्टः सर्वं यथातथं शशंस । तथा स द्वादशाब्दसहस्राणि दुस्तपं तपस्तेपे । अन्ते चाऽनशनं प्रपद्य निजं दौर्भाग्य स्मरन्ननेन तपसा स्त्रीजनवल्लभः स्यामिति निदानं कृत्वा विपद्य महाशुक्रे देवोऽभवत् । ततश्च्युत्वा च नन्दिषणजीवस्तव वसुदेवनामा पुत्रो जातः । तन्निदानादसौ रमणीनां प्रियोऽस्ति' । ततो
इतश्च भोजवृष्णौ प्रव्रजिते उग्रसेनो मथुरायां नृपोऽभवत् । तस्य पत्नी च धारिणी नाम । अन्यदाच बहिर्गच्छन् स नृपः कमपि तापसं क्वाऽपि विजने मासोपवासिनं ददर्श । तस्य तापसस्य चैकगृहप्राप्तभिक्षया मासोपवासपारणं करिष्ये इत्यभिग्रहोऽभूत् । स मासे मासे एकगृहभिक्षया पारणं कृत्वा स्वस्थानमगात् । न तु गृहान्तरं गच्छति स्म । उग्रसेनश्च पारणार्थं तं निमन्त्र्य गृहं गतः । तापसश्च तमन्वगात् । नृपश्च तद् विस्मृतवान् । ततोऽभुक्त एव स मुनिनिजस्थानं गत्वा पुनस्तथैव मासोपवासं प्रतिपन्नवान् । उग्रसेनश्च कथञ्चित् तत्राऽऽयातस्तं मुनि दृष्ट्वा निमन्त्रणं स्मृत्वा तं क्षमयामास। तथा पुननिमन्त्र्य विसस्मार । स मुनिश्चाऽऽगत्याऽभुक्त एव पुनः स्वस्थानं जगाम । राजा च स्मृत्वा पुनरपि तं क्षमयित्वा निमन्त्र्य विसस्मार । तेन च कपितस्तापसोऽनेन तपसाऽस्य वधाय भूयासमिति निदानं कृत्वाऽनशनेन मृतः ।
अथोग्रसेनपत्नी धारिणी गर्भवती जाता । तस्याश्च पतिमांसभक्षणदोहदो जातः । दिने दिने क्षीयमाणा च सा लज्जिता निजं दुर्दोहदं नृपाय कथयामास । मन्त्रिणश्चाऽन्धकारे स्थितस्य नृपस्योदरे शशामिषं क्षिप्त्वा तच्छित्त्वा छित्त्वा पश्यन्त्यै धारिण्यै ददुः । सा च पूर्णदोहदा पुनः स्वप्रकृति प्राप्तोचे-'किं जीवितव्येन गर्भेण वा पति विना' । एवं मुमूर्षु तां मन्त्रिण ऊचुः-'सप्तरात्रेण प्राप्तजीवितं ते पति दर्शयिष्यामि' । एवं समाश्वासितायास्तस्याः सप्तमेऽहन्युग्रसेनदर्शनं जातम् । ततः सा महोत्सवं चकार । तथा
Page #29
--------------------------------------------------------------------------
________________
त्रिषष्टिशलाकापुरुषचरितम् - गद्यात्मकसारोद्धारः
पौषकृष्णचतुर्दश्यां भद्रायां मूलनक्षत्रे रात्रौ पुत्रं प्रासूत । सा च दोहदेन भीता जातकं पुरैव रचितायां कांस्यपेटिकायां चिक्षेप । ततो नृपस्वनामाङ्कितमुद्राद्वययुक्तां सपत्रिकां रत्नपूर्णां तां यमुनाजले दास्या अक्षेपयत् । तथा राज्ञे जात एव सूनुर्मृत इति शशंस ।
३२
सा च कांस्यपेटिका नदीप्रवाहेण शौर्यपुरद्वारे नीता । प्रातश्च शौचार्थमागतो रसवणिक् सुभद्रस्तां मञ्जूषां दृष्ट्वा विस्मितः पेटादिना सह तं बालं निजगृहं नीत्वा मुदित इन्दोः स्वपत्न्याः पुत्रत्वेनाऽर्पितवान् । तौ दम्पती च तस्य कंस इत्यभिधां चक्रे । तथा मधुक्षीरादिभिस्तं वर्धयामासतुः । स च वर्धमानः कलही बालां - स्ताडयामास । तेन च तयोर्वणिजोः प्रत्यहं लोकोपालम्भा अभवन् । ततो दशवर्ष: स ताभ्यां वसुदेवकुमारस्य सेवकत्वेनाऽर्पितः । स कंसस्तस्य कुमारस्याऽतिप्रियो बभूव । वसुदेवेन सह सोऽपि सकलाः कलाः जग्राह । सममेव च यौवनं प्राप ।
इतश्च शुक्तिमतीपुर्या नवमस्य वसुनन्दनस्य पुरा नंष्ट्वा नागपुरं गतस्य बृहद्रथो नाम पुत्रो बभूव । स च राजगृहं जगाम । तत्सन्ततौ च जयद्रथस्य जरासन्धो नाम पुत्रो बभूव । स च प्रतिविष्णुः प्रचण्डाज्ञो दूतेन समुद्रविजयमाज्ञापयत्- 'वैताढ्यसमीपे सिंहपुरे सिंहरथं नृपं बद्ध्वा समानय । तथाकर्तुश्च जीवयशसं स्वां सुतां किञ्चित्समृद्धं पुरं चैकं दास्यामि' । ततो वसुदेवः समुद्रविजयं नत्वा जरासन्धनिदेशं कर्त्तुमाज्ञामयाचत । समुद्रविजयश्च तं बालं मत्त्वा निषिषेध । किन्तु तस्याऽत्यधिकमाग्रहं दृष्ट्वा सैन्यैः सह तं कथञ्चिद् विससर्ज ।
ततो वसुदेवो द्रुततरं सिंहपुरं गत्वा सिंहरथेन युयुधे । सिंहरथश्च वसुदेवस्य सैन्यं बभञ्ज । ततो वसुदेवः कंस
अष्टमं पर्व द्वितीयः सर्गः
सारथिस्तेन योद्धुं स्वयं दधाव। द्वयोश्च दारुणं युद्धमजनि । कंसश्च सारथिकर्मविहाय परिघेण सिंहरथरथं द्रागेवाऽभाङ्क्षीत् । तदा सिंहरथः कंसं हन्तुं क्रुधाऽसि चकर्ष । वसुदेवेन च मुष्टिदेश एव सोऽसिबाणेन खण्डितः । तदानीं च पराक्रमी कंसश्छागं वृक इवोत्पत्त्य सिंहरथं बद्ध्वा वसुदेवरथेऽक्षैप्सीत् । ततो भग्ने सैन्ये जयी वसुदेवः सिंहरथमादाय स्वपुरं ययौ ।
ततः समुद्रविजयो वसुदेवमेकान्ते जगौ क्रोष्टकी नाम ज्ञानी ममाऽऽचख्यौ यद् जरासन्धस्य कन्या जीवयशाः कुलक्षणा पति- पितृवंशक्षयकारी । जरासन्धश्च सिंहरथानयनपारितोषिके तां तुभ्यं दास्यति, तत्कोऽपि तत्त्यागोपायो विचारय' । ततो वसुदेव ऊचे - कंसो रणे सिंहरथं बद्ध्वाऽनैषीत् । तस्मै सा जीवयशा देया' । ततो नृपः पुनरूचे- 'अयं वणिक्पुत्र इति सा तं न स्वीकरिष्यति । किन्त्वसौ पराक्रमात् क्षत्रिय इव लक्ष्यते' । ततो नृपेण धर्मपूर्वकं पृष्टो रसवणिक् कंसस्य श्रृण्वत एवाऽऽदितस्तद्वृत्तान्तमाख्यत् । तथोग्रसेन-धारिण्योर्मुद्रिके पत्रिकां च सुभद्रो राज्ञे दत्तवान् ।
नृपश्च पत्रिकां वाचयामास- उग्रसेनपल्या धारिण्या दुर्दोहदाद् भीतया स्वपति रक्षितुमेष प्राणप्रियः पुत्रस्त्यक्तः तथा नाम - मुद्रासहित: सर्वालङ्कारभूषितः कांस्यमञ्जूषायां कृत्वा यमुनायां प्रवाहितः । एवं वाचयित्वा नृप उवाच - 'अयं विक्रम्युग्रसेनपुत्रो यादवः । कथमन्यथाऽस्येदृक् पराक्रमः स्यात् ?' ततो नृपः कंसेन सह गत्वा जरासन्धाय सिंहरथमार्पयत् । कंसपराक्रममुपवर्णितवांश्च । जरासन्धः कंसाय स्वसुतां जीवयशसं तथा कंसेन पितृकोपहेतो
Page #30
--------------------------------------------------------------------------
________________
३४
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः चितां मथुरापुरीं च ददौ । ततः कंसो जरासन्धदत्तं सैन्यमादाय मथुरामागत्य पितरं बद्ध्वा पञ्जरे चिक्षेप । उग्रसेनस्याऽतिमुक्तादयोऽपरेऽपि पुत्रा आसन् । तेष्वतिमुक्तः पितृव्यसनाद् विरक्त: प्रव्रज्यामाददे । तथा कंसः शौर्यनगरात् सुभद्रं स्वपोषक माहूय कृतज्ञतया स्वर्णादिदानपूर्वकं सच्चकार ।
अथाऽन्यदा धारिणी कंसं स्वभर्तृमुक्तये याचितवती । किन्तु कंसः कथञ्चिदपि पितरं न मुमोच । ततो धारिणी कंसप्रियाणां गृहं गत्वा जगाद-कंसो मया त्यक्तः, उग्रसेनस्तु तन्न किमपि विवेद। अहमेव तत्र सापराधाऽस्मि न तु मत्पतिरिति स मोच्यताम्' । किन्तु कंस: केषामपि वचसोग्रसेनं पूर्वजन्मकृतनिदानवशाद् दृढाग्रही न मुमोच ।
अष्टमं पर्व - द्वितीयः सर्गः
अन्येद्युश्च तत्र कुब्जिकां गन्धधारिणीमागच्छन्तीं दृष्ट्वा वसुदेवः पप्रच्छ-'अयं गन्धः कस्य कृते' । तत: साऽवोचत्-'इदं गन्धद्रव्यं शिवादेव्या समुद्रविजयाय प्रेषितम्' । ततो वसुदेवो मह्यमप्येतद् रोचते इति वदन् क्रीडया तद्गन्धद्रव्यं जहार । ततः क्रुद्धा सोवाच-'एवमस्त्यत एवाऽत्र रुद्धस्तिष्ठसि' । ततो वसुदेवेन कथमेवं ब्रूषे इति पृष्टा सा भीतेव सर्वं नागरवृत्तमादित एव कथितवती । ___ ततो वसुदेवः पौरीराकर्षयितुं नगरे भ्रमामीत्येवमाक्षेप स्वस्मिन्ननुमाय तत्र वासमनिच्छन् दासी विसृज्य रात्रौ गुटिकया वेषान्तरं विधाय पुराद् निरगात् । बहिर्गत्वा च चितां निर्माय तत्राऽनाथं कञ्चिद् मृतकं ददाह । तथा गुरूणां क्षमणार्थमेकत्र स्तम्भे निजहस्तेन पत्रकं लिखित्वा लम्बयामास । पत्रे च-'जनैर्मे गुणा दोषरूपेण गुरूणामुक्ता इत्यतो जीवन्नेव स्वं मृतं मन्यमानो वसुदेवोऽनलप्रवेशमकरोत् । तस्मात् सन्तमसन्तं मे दोष गुरवः पौराश्च क्षाम्यन्तु' इति लिलेख । अनन्तरं द्विजवेषं विधाय ततोऽचालीत्-तं चाऽमार्गेण भ्राम्यन्तं दृष्ट्वा रथस्था काचिद् नारी पितृगृहं गच्छन्ती श्रान्तमिमं द्विजं रथे आरोपयेति निजमातरं प्रार्थयित्वा रथे नीत्वा ग्राममागमत् । ____ इतश्च वसुदेवः सायं यक्षगृहं गतोऽनलं प्रविष्ट' इति विज्ञाय यादवाः क्रन्दन्तस्तस्य वसुदेवस्य प्रेतकार्याणि चक्रः । तच्छत्वा च निश्चिन्तो वसुदेवो विजयखेटपुरं जगाम । तत्र च सुग्रीवनृपस्य श्यामा-विजयसेनाख्ये कलाविदौ द्वे पुत्र्यावभूताम् । वसुदेवश्च कलया ते जित्वा परिणीय ताभ्यां रममाणो यथासुखमस्थात् । तत्र च तस्य विजयसेनायां पत्न्यामक्रूरो नाम पुत्रोऽभूत् ।
समुद्रविजयश्च जरासन्धेन सत्कृत्य विसृष्टो भ्रातृभिः सह स्वपुरं ययौ । शौर्यपुरे च नगरे भ्रमन्तं वसुदेवं तद्रूपमोहिता नागर्यः सर्वदैवाऽन्वयुः । स च क्रीडयेतस्ततो भ्रमन् कियन्तमपि कालं व्यतीयाय । अन्यदा च महाजनः समेत्य राजानमुवाच-'वसुदेवस्य रूपसौभाग्येन स्त्रीजनो निर्मर्यादो जातः' । ततो युष्माकमीप्सितं करिष्यामीति तमाश्वास्य नृपो व्यसृजत्, तथा परिच्छदं च वसुदेवायैतद्वृत्तं नाऽऽख्येयमित्युपादिशच्च । अन्यदा नमस्कर्तुमुपागतं वसुदेवं समुद्रविजयो जगाद - 'त्वं क्रीडादिना तनुतां प्राप्तोऽसि, तद् बहिर्न गन्तव्यं, मद्गृह एव स्थेयम् । नवाः कलाः शिक्षस्वाऽधीताश्चाऽऽवर्त्तय, कलाविदां गोष्ठ्या मनो विनोदय' । ततो वसुदेवस्तथाऽस्त्वित्युक्त्वा तथैवाऽस्थात् ।
Page #31
--------------------------------------------------------------------------
________________
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः ततोऽपि चलितश्च वसुदेवोऽतिघोरां महाटवीं प्राप्य तृषार्तो जलावर्त सरो जगाम । तत्र च कोऽपि गजः क्रोधात् तमनुदधावे। वसुदेवश्च तं खेदयित्वाऽऽरुरोह । तं गजारूढं दृष्ट्वा चाऽर्चिमालिपवनञ्जयौ खेचरौ तं नीत्वा कुञ्जरावतॊद्याने मुमुचतुः । तत्र चाऽशनिवेगः खेचरेश्वरस्तस्मै श्यामां नाम स्वकन्यकां ददौ, स च तया सह यथासुखमरंस्त । तथा तस्या वीणावाद्येन तुष्टो वसुदेवस्तस्यै स्वेन सह कदाऽप्यवियोगरूपं वरं ददौ । तथा कुत एवं वरं याचसे इति वसुदेवेन पृष्टा च सोवाच-'वैताढ्ये किन्नरगीतपुरेऽचिमाली नृपो बभूव । तस्य ज्वलनवेगा-ऽशनिवेगौ पुत्रावभूताम् । अर्चिमाली च ज्वलनवेगं राज्ये निवेश्य व्रतमाददे। ज्वलनवेगस्य च विमलायां पत्न्यामङ्गारको नाम पुत्रोऽभवत् । अहं चाऽशनिवेगस्य सुप्रभाकुक्षिजा कन्या । ज्वलनवेगोऽप्यशनिवेगं राज्ये न्यस्य स्वर्ग प्राप्तः । अङ्गारकश्चाऽशनिवेगं विद्याबलाद् निर्वास्य राज्यमग्रहीत् । ____ अथ मत्पिता चाऽष्टापदं गत एकं चारणमुनि राज्यं मे पुनर्भावि न वेत्यपृच्छत् । ततो मुनिरुवाच-'तव सुताया: श्यामाया: पत्युः प्रभावात् ते राज्यं भावि । स च जलावर्त्तगजजयादुपलक्षणीयः' । ततो मत्पिता मुनिवाक्यविश्वासात् तत्र पुरी निर्माय तस्थौ । द्वौ खेचरौ च जलावर्ते सरसि सदैव नियुक्तौ । त्वं च जित्वा तद्गजारूढस्ताभ्यां दृष्टोऽत्राऽऽनीतः । मत्पित्रा चाऽशनिवेगेन मयोद्वाहितः । पुरा च नागेन्द्रेण धरणेन्द्रेण विद्याधरैश्च मिलित्वैष सङ्केतः कृतो यद् यः कोऽप्यर्हच्चैत्यसमीपस्थसाधुसमीपे सस्त्रीकं जनं हनिष्यति स सद्विद्योऽप्यविद्यो भविष्यति । अत एव मयाऽवियोगो
अष्टमं पर्व - द्वितीयः सर्गः वृतोऽसि । येन मया वियुक्तमेकाकिनं त्वामङ्गारको मा वधीदिति । ततो वसुदेवस्तद्वाचं प्रपद्य तया सह रममाणः कालं निनाय ।
अथाऽन्यदा श्यामया सह सुप्तं वसुदेवं निश्यङ्गारको जहार । वसुदेवश्च विनिद्रः को मां हरतीत्यचिन्तयत् । तथा श्यामातुल्यमङ्गारकं पृष्ठे तिष्ठ तिष्ठेति वदन्तीं धावमानां श्यामां च ददर्श । तामङ्गारकोऽसिना द्विधाऽकार्षीत् । तेन वसुदेवोऽत्यन्तं पीडितो द्वे श्यामे अङ्गारकं परितो युध्यमाने ददर्श । ततो वसुदेव इयं मायेति निश्चित्य मुष्टिनाऽङ्गारकं मूनि जघान । तत्प्रहारपीडितेन च तेन व्योम्नो मुक्तो वसुदेवश्चम्पापुर्या बहिः सरसि पपात । हंसवत् तीर्वा च वसुदेवस्तटोद्यानस्थं वासुपूज्यायतनं प्रविवेश । तथा श्रीवासुपूज्यं वन्दित्वा तत्र निशामतीत्यैकेन द्विजेन सह प्रभाते चम्पां ययौ । ___ तत्र च तरुणान् पदे पदे वीणापाणीन् दृष्ट्वा द्विजं तद्धेतुं पप्रच्छ । ततः स द्विजो जगाद-'अत्र चारुदत्तस्य श्रेष्ठिनो रूपवती गन्धर्वसेना नाम कन्या सर्वकलाकुशलाऽस्ति । तस्याश्च यो मे गान्धर्वे विजेता स मे भर्ता भविष्यतीति प्रतिज्ञाऽस्ति । तेनैष सर्वो जनो गान्धर्वपरायणो दृश्यते । मासे मासे च सुग्रीव-यशोग्रीवनाम्नोर्गान्धर्वाचार्ययोरग्रे परीक्षा जायते' । तच्छ्रुत्वा वसुदेवः श्रेष्ठ सुग्रीवमुपगत्य 'गौतमगोत्रो द्विजोऽहं स्कन्दिलाख्यो गन्धर्वसेनामिच्छन् त्वत्सन्निधौ गान्धर्वमध्येष्ये, मां दूरदेशस्थं शिष्यं प्रतिपद्यस्व' । सुग्रीवश्च तं मूर्ख मत्वाऽनादरेण समीपगं चकार । वसुदेवश्च ग्राम्योक्त्या लोकान् विनोदयन् स्वं गोपयंश्च गान्धर्वाध्ययनच्छलात् तत्र तस्थौ ।
Page #32
--------------------------------------------------------------------------
________________
३८
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः ___अथ सुग्रीवभार्यया च वाददिने वसुदेवस्य सुतस्येव शिवदं चारु च वासोयुग्मं समर्पितम् । वसुदेवश्च पुरा श्यामादत्तं तद्वासोयुगं च लोककौतुकं वर्धयन् पर्यधत्त । नागराश्च-एहि, मन्येऽद्य त्वं विद्यया गन्धर्वसेनां जेष्यसी'त्यहसन् । पर्षदं गतश्च स लोकैरुच्चासने सोपहासमुपवेशितः । गन्धर्वसेना च तत्राऽऽगता बहून् गान्धर्वविदोऽजैषीत् । ततः स्वस्य परीक्षाक्षणे प्राप्ते वसुदेवो देवतुल्यं स्त्रीमनोहरं निजं रूपमाविश्चकार । गन्धर्वसेना च प्रेक्ष्य तत्क्षणात् क्षोभं प्राप्ता । जनश्च कोऽसाविति तर्कयन् विस्मयं गतः । लोकैर्दत्तां वीणां च दूषयित्वा स गन्धर्वसेनापितां वीणां गृहीत्वा तां सज्जयित्वा पद्मचक्रिज्येष्टभ्रातुर्विष्णुकुमारस्य त्रिविक्रमसम्बद्धं गीतं वादय । एवं गन्धर्वगसेनया प्रेरित: स पुंवेषा सरस्वतीव तथा जगौ यथा सपर्षदं गन्धर्वसेनां जिगाय ।।
ततश्चारुदत्तः श्रेष्ठी सर्वान् वादिनो विसृज्य वसुदेवं सगौरवं स्वगृहमनयत् । तथा विवाहकाले वसुदेवं गोत्रं पृष्टवान् । वसुदेवश्च विहस्य यत् ते मतं कुलं तद्वदेत्याचख्यौ । तत श्रेष्ठ्युवाच-'इयं वणिक्पुत्रीति त्वं हससि । किन्तु समयेऽस्या वृत्तान्तं कथयिष्यामि'। एवमुक्त्वा स द्वयोर्विवाहमकारयत् । सुग्रीव-यशोग्रीवावपि च स्वे श्याम-विजयाख्ये सुते वसुदेवाय तद्गुणेन प्रसन्नौ ददतुः ।।
अथाऽपरेधुश्चारुदत्तो वसुदेवमब्रवीत्-'गन्धर्वसेनायाः कुलादिकमद्य शृणु-इह नगर एव भानुर्नाम श्रेष्ठ्यासीत् । तस्य सुभद्रा नाम पत्नी बभूव । तौ चाऽपुत्रत्वेन दुःखितौ चारणमुनि पप्रच्छतुः । स च पुत्रस्ते भावीत्याख्याय गतः । अहं च तत्सुतोऽभवम् । एकदा च मित्रैः सह क्रीडन् सिन्धुतटं प्राप्तो नभोगामिनः कस्याऽपि मनोहरं पादन्यासमपश्यम् । स्त्रीपदैश्च सप्रियोऽसावित्यनुमायाऽग्रे
अष्टमं पर्व - द्वितीयः सर्गः गच्छन् कदलीगृहं पुष्पशय्यां फलकमसिमनतिदूर एव वृक्षे लोहकीलैः कीलितं खेचरं खड्गकोशे चौषधीवलयत्रयं चाऽपश्यम् । मया च स्वबुद्ध्यैकयौषध्या मोचितोऽन्यया समारोपितव्रणस्तृतीयया च स खेचरश्चेतन: कृतः । ___ततः स मामवोचत्- 'वैताढ्ये शिवमन्दिरपुरे महेन्द्रविक्रमनृपपुत्रोऽमितगतिरहम् । मित्रेण धूमशिखेन गौरमुण्डेनाऽन्वितः क्रीडन् हीमन्तं पर्वतं गतः । तत्राऽहं स्वमातुलस्य तपस्विनो हिरण्यरोम्णः सुकुमालिकां कुमारी कन्यां दृष्ट्वा कामातॊ जातः । मित्राज्ज्ञात्वा मम पिता च तामानाय्य तया मां परिणायितवान् । तया साध रममाणथाऽन्यदा तस्याः कामुकेन धमशिखेन सह क्रीडन्नत्राऽऽगतस्तेन कीलितः, सा च सकमालिका तेन हृता । भवता च मोचितोऽस्मि, ब्रूहि, किं ते करवाणि ?'
अहं त्वदर्शनेनैव कृतकृत्योऽस्मीति मयोक्तः स खेचर उत्पत्याऽगात् । अहं च मित्रैः क्रीडन् स्वगृहमागमम् । क्रमाद् यौवनं प्राप्तश्च पित्रोनिदेशेन सर्वार्थमातुलसुतां मित्रवतीं शुभदिने पर्यणैषम् । कलासक्तश्च तस्यां भोगविमुखो मुग्धोऽसाविति पित्रा तकितो ललितगोष्ठ्यां नियोजित: स्वैरमुपवनादिषु व्यवहरम् । तथा कलिङ्ग सेनापुत्र्या वसन्तसेनाया वेश्याया गृहे द्वादशाब्दानि न्यवसम् । तत्र चाऽज्ञानात् षोडश स्वर्णकोटयो व्ययिताः । पश्चाच्च नि:स्व इति कृत्वा कलिङ्गसेनया निर्वासितः । ततः पित्रोद्धृत्युं ज्ञात्वा व्यथितो धैर्यमाधाय वाणिज्यार्थं स्वभार्याया भूषणानि नीतवान् ।
अन्यदा च मातुलेन सह प्रस्थितस्तैर्भूषणैरुशीरवर्तिनगरे कार्पासं क्रीतवान् । ततस्ताम्रलिप्त्यां गच्छतश्च मे तत्कार्पासो
Page #33
--------------------------------------------------------------------------
________________
त्रिषष्टिशलाकापुरुषचरितम् - गद्यात्मकसारोद्धारः
दवाग्निना दग्ध इति मातुलेन मन्दभाग्योऽहमिति कृत्वा त्यक्तः । ततश्चैकाक्यप्यश्वारूढः पश्चिमां दिशं प्रस्थितः । सोऽप्यश्वो मृतः । तत: पादचारी सुदीर्घमार्गखिन्नः क्षुत् - तृषार्दितो वणिग्जनसम्भृतं प्रियङ्गुनगरं प्राप्त: । तत्र पितुर्मित्रेण सुरेन्द्रदत्तेन दृष्ट: पुत्रवद् वस्त्राऽन्नाद्यैः सत्कृतो यथासुखमस्थाम् ।
४०
तेन वार्यमाणोऽपि च ततो वृद्धया द्रव्यलक्षमादाय धनोपार्जनार्थमुपात्तभाण्डोऽहं प्रवहणेन समुद्रं प्राविशम् । ततो यमुनाद्वीपं प्राप्याऽन्तद्वीपपुरादिषु गतागतं कुर्वन्नष्टौ स्वर्णकोटीरुपार्जयम् । ततो जलमार्गेण स्वदेशं प्रति प्रस्थितः स्फुटिते यानपात्रे किमपि फलकमासाद्य सप्तभिर्वासरैरम्बुधिं तीर्त्वादुम्बरावतीवेलं नाम तटं प्राप्तवान् । तत्र च राजपुरं नाम पुरं कथमपि प्राप्य बहिस्तस्याऽऽश्रमं गत उत्तुङ्गवटवृक्षतले दिनकरप्रभं परिव्राजकं त्रिदण्डिनं दृष्ट्वा तस्मै स्वकुलादिकमाख्यातवान् । तेन च प्रसन्नेन पुत्रवदुपचरितः ।
अन्येद्युश्च 'धनार्थीव लक्ष्यसे, तदेहि पर्वतं गच्छावः । तत्र ते रसं दास्यामि । येन तव यथारुचि स्वर्णकोटयो भविष्यन्ती' ति तेनोक्तः । ततः सोऽहं च चलितावनेकसाधकसमन्वितां महाटवीं प्राप्तौ गच्छन्तौ पर्वतस्य नितम्बे बहुयन्त्रशिलादियुक्तं महाबिलं गतौ । त्रिदण्डिकच तद्द्वारं मन्त्रेणोद्घाटयामास । ततो दुर्गपातालाभिधानं तन्महाबिलं प्रविश्य तत्र बहु भ्रान्त्वा रसाकरं कूपं प्राप्तौ । तच्च कूपं नरकद्वारवद् भीषणं चतुर्हस्तविस्तारमासीत् । ततश्च तेन 'कूपं प्रविश, अलाबुना रसं गृहाणे' त्युक्तस्तद्गृहीतरज्ज्वा मञ्चिकया कूपे प्राविशम् । तदा चतुः पुरुषनिम्नं मेखलापरिवारितं रसं दृष्ट्वा यावदाददामि तावत् केनचित् पुरुषेण निषिद्धाः ।
अष्टमं पर्व द्वितीयः सर्गः
तदाऽहमवोचं- 'यच्चारुदत्तो वणिगस्मि, त्रिदण्डिना रसार्थं प्रवेशितोऽस्मि, तन्मां किं निषेधसि ?' ततः सोऽवोचत् - 'अहमपि वणिगस्मि धनाकाङ्क्षी, तेन त्रिदण्डिना रसकूपे क्षिप्तः । ममाऽपरकायो रसेन भक्षितः । तन्मा विश, अहं तेऽलाबुनि रसं क्षेप्स्यामि' । ततो मया दत्तेऽलाबुनि स रसं पूरयामास । तच्च मञ्चकादधस्ताद् बद्ध्वा रज्जुमहमकम्पयम् । स त्रिदण्डी च रज्जुं चकर्ष । मयि तटासन्नं गते च स रसमयाचत, मञ्चकाच्च नोत्तारयति स्म । ततोऽहं तं लुब्धं दुर्जनं ज्ञात्वा रसं कूपेऽक्षिपम् । स च मां समञ्चकं कूपेऽक्षिपत् । तेनाऽहं वेद्यामपतम् । ततो निष्कारणोपकारी स वणिग् मामवोचत- 'मा विषीद, रसान्तर्न गतोऽसि । वेद्यां स्थितोऽसीत्येतत् साधु । यदाऽत्र गोधैति, तदा तत्पुच्छमवलम्ब्य द्वारं गमिष्यसि तदागमनं प्रतीक्षस्व' । ततः स पुरुषो मृतः । अहं च नमस्कारमन्त्रं जपन् कियन्तं कालं तत्राऽस्थाम् ।
अन्यदा च भीषणं शब्दं श्रुत्वा चकितोऽहं वणिग्वचः स्मृत्वा गोधाऽऽयातीति निश्चयं कृतवान् । रसं पातुमागतायाः पीत्वा वलितायाश्च तस्याः पुच्छमुभाभ्यां हस्ताभ्यां दृढमगृह्णाम् । नद्या गोपुच्छलग्नो गोपाल इव गोधापुच्छलग्नोऽहं ततः कूपाद् निरगां, बहिरागत्य च तत्पुच्छममुञ्चम् । मूच्छितश्च भूमौ पतितः कथञ्चिल्लब्धसंज्ञः पर्यटन् वनं प्राप्तः शिलामारूढवान् । कश्चिद् महिषश्च शृङ्गेण तां शिलां ताडयामास । अत्राऽन्तरे सोऽजगरेण गृहीतः । तयोर्युध्यमानयोश्चाऽहं शिलात् उत्तीर्य पलायितो वेगेन वनप्रान्तवर्तिनं ग्रामं प्राप्तः ।
तत्र मातुलमित्रेण रुद्रदत्तेन दृष्टः पालितश्च पुनर्नवीन इवाऽभवम् । तत्र च ततो लक्षकप्रायं भाण्डं गृहीत्वा तेन सह स्वर्णभूमिं
Page #34
--------------------------------------------------------------------------
________________
४२
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः प्रस्थित इषुवेगवतीं नदी मार्गे उत्तीर्याऽऽवां गिरिकूटे वेत्रवने गतौ। ततश्च टङ्कणदेशं प्राप्य द्वौ मेषौ क्रीत्वा तदारुह्याऽजपथमतीतवन्तौ ।
ततो रुद्रोऽवोचत्-'अतः परं न पादचारि गन्तव्यो देशः । अतो मेषौ हत्वाऽन्तर्लोमे बहिर्मासे भस्त्रे विदधावहे । तयोरन्तःप्रविष्टौ चाऽऽवां भारण्डपक्षिभिर्मासभ्रमादुन्नीतौ स्वर्णभूमिं प्राप्स्यावः' । ततोऽहमवोचं-'ययोः साहाय्येन दुर्गमां भूमि लङ्गितवन्तौ तौ बन्धुभूतावेतावजौ कथं हन्वः' । ततः क्रुद्धो रुद्रोऽब्रवीत्-'नैतौ तावकाविति त्वया न निषेद्धव्योऽहम्' । एवमुक्त्वा स आदौ निजं मेषमवधीत् । द्वितीयश्चाऽजो मां कातरदृष्ट्याऽपश्यत् । तं च त्वां त्रातुं नाऽहं समर्थः, तथाऽपि तव जैनो धर्मो महाफल: शरणमस्त्वि 'त्यहमवोचम् । तथा सोऽजो मया कथितं धर्म नम्रशिरसा प्रपद्य मद्दत्तं नमस्कारमन्त्रं चाऽ श्रौषीत् । तथा रुद्रेण हत: स देवत्वं प्राप ।
ततश्चाऽऽवां क्षुरमादाय तयोर्भस्त्रयोरन्तः प्रविष्टवन्तौ । भारण्डाभ्यामुन्नीतौ चाऽऽवाम् । किन्तु सर्वामिषेच्छया युध्यमानयोर्द्वयोरहं मार्गे सरस्यपतम् । ततः क्षुरेण भस्त्रां विदार्य सरस्तीत्वाऽग्रे गच्छन् वने महागिरिमारूढः कायोत्सर्गस्थं मुनि दृष्ट्वा तं वन्दितवान् । __स च धर्मलाभाशिषं दत्त्वोवाच-'चारुदत्त ! त्वमिह दुर्गभूमौ कथमागत: ? इह सुरादिकं विना नाऽन्यस्य गतिरस्ति । एषोऽहममितगतिर्यस्त्वया पुरा मोचितः । तदानीं हि ततोऽहमुत्पत्याऽष्टापदसमीपे शत्रुमग्रहीषम् । किन्तु स मम प्रियां त्यक्त्वा पलाय्याऽष्टापदं जगाम । अहं च पतन्तीं तां प्रियां नीत्वा स्वस्थानमगमम् । मत्पिता च राज्ये मां न्यस्य चारणमुन्योहिरण्यस्वर्णकुम्भयोः पार्श्वे व्रतं गृहीतवान् । मम च मनोरमायां पत्न्यां
अष्टमं पर्व - द्वितीयः सर्गः सिंहयशा नाम पुत्रोऽभवत् । तथा द्वितीयो वराहग्रीवो नाम पुत्रोऽभवत् । तथा विजयसेनायां पल्यां गन्धर्वसेना नाम सर्वकलाकुशला रूपवती पुत्री चाऽजायत । ततोऽहं द्वयोः पुत्रयो राज्यं यौवराज्यं विद्याश्च दत्त्वा तयोरेव चारणमुन्योतमग्रहीषम् । अयं च लवणाब्धिमध्यस्थः कुम्भकण्ठको नाम द्वीपः, अयं पर्वतश्च कर्कोटको नाम । अत्रैव स्थितस्तपः करोमि' । एवमुक्त्वा कथमत्राऽऽगम इति तेन पृष्टश्चाऽहमपि सर्वमात्मवृत्तान्तमकथयम् ।
अत्राऽवसरे च तत्र विहायसा द्वौ विद्याधरौ तत्तुल्यरूपौ तत्रैत्य तं प्रणेमतुः । रूपसादृश्याच्च तौ मुनिसुताविति मया ज्ञातौ । मुनिश्च चारुदत्तं प्रणमतमिति तावुवाच । तौ च तात तातेति जल्पन्तौ मां प्रणम्योपविविशतुः । तदैव च तत्र दिवो देवविमानमवातरत् । देवश्च तद्विमानादवतीर्य मां नत्वा मुनिमप्यवन्दत । ताभ्यां विद्याधराभ्यां वन्दनविपर्ययं पृष्टश्च स देवोऽवदत्-'अयं चारुदत्तो मम धर्माचार्यः ।
काशीपुर्या द्वौ परिव्राजौ सुभद्रा-सुलसे भगिन्यौ सर्वशास्त्रनिपुणे बभूवतुः । ताभ्यां च बहवो वादिनः पराजिताः । अन्यदा च याज्ञवल्क्यो नाम परिव्राड् वादायाऽऽययो, तत्र च जितो जेतः शुश्रूषक: स्यादिति प्रतिज्ञा जाता । तथा तेन सुलसा जिता दासीकृता च । स याज्ञवल्क्यश्च तया तरुण्या सेव्यमान: कामवशं गतस्तया सह सुरसमीपे निवसन् चिक्रीड । तस्यां च तस्य सुतोऽजायत । लोकापवादभयाच्च तौ पिप्पलतले सुतं विहाय पलायितौ । सुभद्रा च तज्ज्ञात्वा तत्राऽऽगत्य स्वयं मुखे पतितं पिप्पलफलं भक्षयन्तं तं बालकं गृहीत्वा पिप्पलाद इति नाम कृत्वा
Page #35
--------------------------------------------------------------------------
________________
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः
पालयामास । वेदादिशास्त्रं पाठयामास च । स च महाप्राज्ञो वादिदर्पभञ्जकोऽभवत् । सुलसा - याज्ञवल्क्यौ च ततो वादार्थं समाजग्मतुः । स च द्वावपि वादे जित्वा तौ निजपितरौ ज्ञात्वाऽऽभ्यामहं त्यक्त इति क्रुद्धः पितृमेध - मातृमेधयज्ञयोस्ताववत् ।
४४
तदानीं च पिप्पलादस्य शिष्यो वाग्बलिर्नामाऽहं पशुमेधादियज्ञं कृत्वा भयङ्करं नरकमासदम् । नरकादृद्धृत्य च पञ्चवारान् पशुषु जातः, पुनः पुनर्निर्दयैर्द्विजैर्यज्ञे विनाशितः । ततः टङ्कणेऽजो जातोऽमुना चारुदत्तेनोपदिष्टधर्मा रुद्रेण हतः सौधर्ममानुवम् । तदयं चारुदत्तो मम धर्माचार्यः । तस्मात् स एव क्रममुल्लङ्घ्य पूर्वं नमस्कृतो मया'। तच्छ्रुत्वा तौ खेचरावूचतुः - 'अयं तवेव मत्पितुरप्युपकारी' । ततः स देवो मामवोचत् - ' तव किमहं प्रत्युपकरोमि । ततो मया समये समागच्छेरित्युक्तस्तिरोहितवान् । ताभ्यां विद्याधराभ्यां चाऽहं शिवमन्दिरपुरं नीतः । तत्र ताभ्यां तज्जनन्या च सत्कृतोऽस्थाम् ।
अथ तौ गन्धर्वसेनां निजभगिनीं प्रदश्यैवमूचतुः प्रव्रजंस्तात आवामेवमादिशत्-यद् वसुदेवकुमारः कलास्वमूं जित्वा परिणेष्यतीति ज्ञानिना ममाऽऽख्यातम् । तन्मद्बन्धोर्भूचरस्य चारुदत्तस्येयमर्पणीया । येन भूचरो वसुदेव इमां सुखं परिणयेत्' । तत इमां स्वपुत्रीं गृहीत्वा गच्छ' । ताभ्यामेवमुक्तोऽहं यावच्चलामि तावत् स देवोऽभ्यगात् । तथा स देवस्तौ खेचरावन्ये च तदाश्रिता विद्याधरा व्योमयानेनाऽक्लेशेन मामिहाऽऽनिन्युः । स्वर्ण- माणिक्य मुक्तानां कोटिकोटीमें दत्त्वा ते सर्वे स्वं स्वं स्थानं जग्मुः । प्रातश्च सर्वार्थमातुलं भार्यां मित्रवतीं वसन्तसेनां वेश्यां चाऽऽबद्धवेणिकामपश्यम् । तदस्या गन्धर्वसेनाया उत्पत्तिस्ते मया कथिता । एनां
अष्टमं पर्व द्वितीयः सर्गः वणिक्पुत्रीति माऽवज्ञासी: । ततो वसुदेवश्चारुदत्तादिमं वृत्तान्तं श्रुत्वाऽत्यन्तं प्रसन्नो गन्धर्वसेनया सह सुखं रेमे ।
अथ चैत्रे मासि तया सहोद्यानं गच्छन् रथारूढो मातङ्गवेषां मातङ्गपरिवृत्तां कन्यां वसुदेव ऐक्षिष्ट । गन्धर्वसेना च मातङ्गकन्या - वसुदेवौ परस्परं सविकारौ प्रेक्ष्य सरोषा सारथि वेगेन रथचालनमादिदेश । वसुदेवश्चोपवनं गत्वा तया सह क्रीडित्वा च चम्पानगरीमागतः । मातङ्गसमूहाच्च काचिज्जरती मातङ्गिकोपेत्याऽऽशीर्वचनमुच्चार्योपविश्य वसुदेवमुक्तवती ।
'पुरा वृषभध्वजः स्वं राज्यं पुत्राणां स्वेषां च विभज्याऽदात् । किन्तु तदा तत्र नमि-विनमी नाऽभूताम् । तौ चाऽऽगतावलब्धराज्यौ राज्यार्थं व्रतस्थमपि तं प्रभुं भेजाते । धरणेन्द्रश्च तयोर्द्वयोः पृथक् पृथक् श्रेण्यो राज्यमदात् । कालान्तरे च तौ राज्यं सुतेभ्यो दत्त्वा प्रभुसन्निधौ प्रव्रज्य शिवं जग्मतुः । नमिपुत्रो मातङ्गश्च प्रव्रज्य स्वर्गं ययौ । तद्वंशे प्रहसितो नाम विद्याधरेश्वरोऽस्ति । अहं तस्य हिरण्यवती नाम भार्याऽस्मि । मम पुत्रश्च सिंहदंष्ट्रस्तस्य पुत्री च नीलयशा:, या त्वयाऽदृश्यत । तां त्वद्दर्शनेन कामार्त्तो परिणय, अयं शुभः क्षणः, सा विलम्बं न सहते'। ततो वसुदेवो विचार्य वक्ष्यामि, समये समागच्छेरिति तामुवाच । सा च तावदहं जीविष्यामि न वेति को वेत्ति ? एवमुक्त्वा क्वाऽपि ययौ ।
अथाऽन्यदा वसुदेवो ग्रीष्मे जलक्रीडां विधाय गन्धर्वसेनया सह शिश्ये । तदानीं चैको भूतस्तं करे दृढं गृहीत्वोत्तिष्ठेति वदन्नहरत् । तथा तं चितासमीपं नीतवान् । तत्र गतश्च वसुदेवो ज्वलितमग्नि तां च हिरण्यवतीं भीषणरूपामपश्यत् । चन्द्रवदन ! तव
Page #36
--------------------------------------------------------------------------
________________
त्रिषष्टिशलाकापुरुषचरितम् - गद्यात्मकसारोद्धारः
स्वागतमस्त्वित्यादरात् तया प्रोक्तश्च स प्रेतस्तस्यै वसुदेवं समर्प्य तया सत्कृतस्तिरोहितवान् । ततः सा हिरण्यवती वसुदेवमूचे'कुमार ! त्वया किं विचारितम् ? इदानीमपि ममाऽऽग्रहाच्चिन्तय' । तदानीमेव च पूर्वं दृष्टा सा नीलयशाः सखीभिः परिवृता तत्राऽऽगता । तया पितामह्या च स्वप्रियं गृहाणेत्युक्ता सा वसुदेवं गृहीत्वा विहायसा ययौ ।
४६
ततः प्रातर्हिरण्यवती वसुदेवं जगौ - 'असौ हीमान्नाम महागिरिर्मेघप्रभनाम्ना वनेन व्याप्तोऽस्ति । चारणाधिष्ठिते चाऽत्र पर्वते ज्वलनपुत्रोऽङ्गारको विद्याधरेन्द्रो भ्रष्टविद्यो विद्या: साधयति । तस्य च विद्याश्चिरेण सेत्स्यन्ति, किन्तु त्वद्दर्शनादाशु सेत्स्यन्ति । तद्गत्वा तस्योपकर्तुमर्हसि । ततोऽलमेतेनेति वसुदेवेनोक्ता सा तं वैताढ्ये शिवमन्दिरपुरमनैषीत् । सिंहदंष्ट्रनृपेण स्वगृहे नीत्वा याचितश्च वसुदेवस्तां नीलयशसं परिणीतवान् ।
तदानीं च तत्र तुमुलं श्रुत्वा कारणं पृष्टो द्वारपाल उवाच - 'इह शकटमुखं नाम नगरमस्ति । तत्र नीलवान्नाम नृपो नीलवती तस्य भार्या तयोर्नीलाञ्जना नाम पुत्री नीलनामा पुत्रश्च सन्ति । नीलस्य नीलाञ्जनया प्राक्प्रतिज्ञा जाता यत् त्वत्पुत्र्या मम पुत्रस्य पाणिग्रहः कार्य: । तत्र नीलाञ्जनाया इयं तव प्रिया नीलयशा पुत्री । नीलस्य च नीलकण्ठनामा पुत्रोऽभवत् । नीलश्च प्राक्प्रतिज्ञानुसारेण पुत्रार्थे नीलयशसमयाचत । किन्तु सिहदंष्ट्रेण पृष्टो बृहस्पतिमुनिरुवाच-‘विष्णोरर्धचक्रिणः पिता वसुदेवोऽस्या वरो भावी' । तत्त्वं विद्ययेहाऽऽनीत इमां परिणीतवानसि । नीलश्च तदर्थं समागतो जितश्च, तेन तुमुलो जायते' । तच्छ्रुत्वा प्रसन्नो वसुदेवस्तया सह क्रीडन् शरदि विद्याधरान् विद्यौषधाद्यर्थं ड्रीमन्तं गच्छतो ददर्श ।
अष्टमं पर्व द्वितीयः सर्गः
अथ स वसुदेवो नीलयशसं मह्यमपि विद्यां देहीत्युक्तवान् । सा च तथाऽस्त्वित्युक्त्वा तमादाय ड्रीमन्तमद्रिं ययौ । तत्र च वसुदेवं रिरंसुं ज्ञात्वा सा कदलीगृहं विकृत्य तं रमयन्ती मयूरमेकं दृष्ट्वा तस्य पूर्णकलापेन विस्मिता तं ग्रहीतुं स्वयं दधावे । स च धूर्तो मयूरस्तां स्वसमीपगतां स्वस्मिन् समारोप्य नभसि नीत्वा जह्रे । तं मयूरमनुधावमानश्च वसुदेवो घोषं कमपि प्राप्य तत्र गोपालिकाभिः सत्कृतो रात्रिमतिवाह्य प्रातर्दक्षिणां प्रति प्रस्थितवान् । गिरिसमीपस्थं ग्रामं प्राप्य च तत्रोच्चैर्वेदध्वनिं श्रुत्वा कमपि द्विजं तद्ध्वनिकारणं पृष्टवान् ।
ततो द्विज उवाच- 'रावणकाले नारदाय दिवाकरो विद्याधरः स्वसुतामदात् । तद्वंश्यः सुरदेवो द्विजोऽत्र ग्रामे ग्रामणीरस्ति । तस्य क्षत्रियायां भार्यायां वेदज्ञा सोमश्रीर्नाम कन्यकाऽस्ति । तत्पित्रा च करालो ज्ञानी तस्या वरार्थं पृष्टो य एतां वेदे जेष्यति स एनां परिणेष्यती' त्युवाच । तामेव विजेतुमत्र लोकोऽनिशं वेदाभ्यासपरोऽस्ति । अत्र ब्रह्मदत्तनामोपाध्यायोऽस्ति' । तच्छ्रुत्वा वसुदेवो द्विजरूपं विधाय तमुपाध्यायमूचे- 'अहं गौतमगोत्र: स्कन्दिलस्त्वत्तो वेदानध्येष्ये' । ततस्तेनाऽनुज्ञातस्ततो वेदानधीत्य सोमश्रियं वेदे जित्वा परिणिनाय ।
तया रममाणश्च स उद्यानं गतस्तत्रेन्द्रशर्मनामानमैन्द्रजालिकं विस्मयकारिणीं तद्विद्यां च दृष्ट्वा ततस्तां विद्यामयाचत । ततः स ऐन्द्रजालिक उवाच - 'इमां मानसमोहिनीं विद्यां गृहाण । इयं विद्या सायं समारब्धा प्राता रवेरुदये सिद्ध्यति । किन्तु तत्रोपसर्गा जायन्ते इति कोऽपि सहायः क्रियताम्' । ततो वैदेशिकस्य मे न कोऽपि मित्रमिति वसुदेवेनोक्तः सोऽवदत्- 'तवाऽहमेव मित्रं मम पत्नी
Page #37
--------------------------------------------------------------------------
________________
पुरुषतम्-गद्यात्मकसारोद्धारः वनमालिका च' । ततो वसुदेवस्तस्माद् विद्यां गृहीत्वा जपन् तेनेन्द्रशर्मणा शिबिकायामारोप्याऽपहतः । वसुदेवश्च तमुपसर्गं ज्ञात्वा विद्यां जजाप । प्रातश्च तां मायां ज्ञात्वा शिबिकाया अवतीर्येन्द्रशर्मादिष्वनुधावमानेष्वपि गतिलाघवात् तानतीत्य सायं तृणशोषकं नाम ग्रामं प्राप । तत्राऽऽयतने सुप्तो नरभक्षकेणाऽऽगत्योत्थापितः । वसुदेवश्च तं मुष्टिभिर्निघ्नन् चिरं युद्ध्वा वस्त्रेण बद्ध्वा भूमौ चिरमास्फाल्य गतासुं चकार । प्रातश्च लोकस्तद् दृष्ट्वा प्रसन्नो वसुदेवं रथे समारोप्य तूर्यादिपूर्वकं ग्रामे प्रवेशयामास । तथा तस्मै तत्क्षणं पञ्च कन्याशतानि ददौ । वसुदेवश्च तान् तथा कुर्वतो निषिध्य कोऽसौ नरभक्षक इत्यपृच्छत् ।
४८
तेष्वेकः पुरुषो जगाद - कलिङ्गेषु श्रीकाञ्चनपुरे जितशत्रुनृपस्य सोदासो नामाऽयं सुतो मांसगृध्नुः । नृपस्तु स्वयं देशे प्राण्यभयप्रदः । स नृपश्च पुत्रेण प्रतिदिनमेकमयूरमांसं याचितस्तदनभिमतमपि प्रपन्नवान् । एकदा च वंशगिरेः पाकाय सूदेन समानीतं मयूरं हतं मार्जारोऽपजहार । ततो भयात् सूदो मृतबालस्य मांसमेव पक्त्वा तस्मै ददौ । सोदासोऽप्यद्य सुस्वादुमांसं कस्येति सूदमपृच्छत् । सूदेन यथातथं कथितश्च स स्वयमेव मांसार्थं बालानपजहार । नृपेण ज्ञात्वा च क्रोधात् स देशाद् निर्वासितः । ततः स सोदासोऽत्र दुर्गे वसन् प्रत्यहं पञ्चषान् नरान् हन्ति स्म । स त्वया साधु हतः ।
तैरेवमुक्तो वसुदेवस्ताः कन्याः परिणीय तां रात्रिं तत्रोषित्वा प्रातरचलग्रामं प्राप्तवान् । तत्र च सार्थवाहपुत्रीं मित्रश्रियं ज्ञानिना तस्या वरत्वेन पुरा कथितो वसुदेवः परिणीतवान् । वेदसामपुरं गच्छंश्च वनमालिकयाऽऽहूय निजगृहं नीतः । तया
अष्टमं पर्व द्वितीयः सर्गः
वसुदेवोऽयमित्याख्यातस्तत्पिता तं सत्कृत्योवाच - अत्र कपिलो नाम नृपोऽस्ति, तस्य कपिलायाः कन्यायाः ज्ञानिना त्वं गिरितटग्रामे तिष्ठन् वरः कथितः । तत्त्वामानेतुं राज्ञा मज्जामातैन्द्रजालिक इन्द्रशर्मा प्रेषितः । किन्तु त्वं मध्य एव पलाय्य क्वाऽपि गत इत्यत्रैत्य स आख्यत् । दिष्ट्याऽऽगतोऽसि । तस्य नृपस्याऽश्वं दमय । तस्या विवाहे सा प्रतिज्ञाऽस्ति' । ततो वसुदेवो राज्ञोऽश्वमदमयत् कपिलां परिणिनाय च । तथा तेन नृपेण तत्पुत्रेणांऽशुमताऽपि च पूजितस्तत्र वसन् कपिलायां कपिलं नाम पुत्रं जनयामास ।
अन्यदा च हस्तिबन्धे गतो हस्तिनं बद्ध्वा तमारोहंस्तं नभस्युत्पतन्तं मुष्टिना जघान । स च पतन्नीलकण्ठनामा विद्याधरो बभूव, यः पुरा नीलयशोविवाहे योद्धुमागतः । ततोऽटन् वसुदेवः सालगुहाख्ये पुरे समागतस्तत्र भाग्यसेनं नृपं धनुर्वेदमध्यापयामास । तत्र च भाग्यसेनेन योद्धुं तदग्रजं मेघसेनमागतं पराजिग्ये । ततो वसुदेवो भाग्यसेनस्य पद्मावतीं कन्यां मेघसेनस्याऽश्वसेनां च कन्यां परिणीतवान् । तत्र च ताभ्यां चिरं रन्त्वा भद्दिलपुरं गतस्स:
तत्राऽपुत्रस्य मृतस्य पुण्ढ्रराजस्यौषधिवशात् पुंवेषां पुण्ढां नाम कन्यां राज्यं कुर्वतीं परिणीय तस्यां पुण्ड्रं नाम सुतं जनयामास । स पुण्श्च तत्र पश्चाद् नृपोऽभवत् । तत्र चाऽङ्गारको नाम विद्याधरो वसुदेवं हंसव्याजेनाऽपहृत्य गङ्गायां चिक्षेप । प्रातश्च वसुदेव इलावर्धनपुरे सार्थवाहस्याऽऽज्ञया तत्प्रासादं प्रविष्टवान् । तत्प्रभावाच्च तस्य सार्थवाहस्य स्वर्णलक्षं लाभोऽजनि । ततः स वसुदेवप्रभावं ज्ञात्वा सगौरवं तं सत्कृत्य स्वर्णरथे समारोप्य निजगृहमानीय निजां रत्नवतीं नाम कन्यां ददौ ।
Page #38
--------------------------------------------------------------------------
________________
५०
.....५१
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः ___अन्यदा चेन्द्रोत्सवे स श्वशुरेण सह दिव्यं रथमारुह्य महापुरपुरं ययौ । तत्र च पुराद् बहिरेव नूतनान् प्रासादान् प्रेक्ष्य किमिदं द्वितीयं पुरमिति श्वशुरं पप्रच्छ । ततः सार्थवाह उवाच-'अत्र सोमदत्तो नाम राजाऽस्ति । तस्याः सोमश्री म कन्याऽस्ति । तस्याः स्वयंवरार्थमिमे प्रासादा निर्मापिताः । भूयांसो नृपाश्चाऽऽहूतास्तेषामकुशलत्वाद् विसृष्टाः' । तच्छृत्वा वसुदेवो गत्वेन्द्रस्तम्भं ननाम । नृपस्याऽन्तःपुरमपि तदानीं तत्राऽऽगतमासीत् । तदा च नृपस्य गज आलानमुत्पाट्य तत्राऽऽगतो रथाद् राजकुमारी भूतले पातयामास । वसुदेवश्च तामशरणां दीनां दृष्ट्वा गजं खेदयित्वा छलयित्वा च तामेकस्मिन् गृहे नीत्वोत्तरीयपवनादिना समाश्वासयामास । ततः सा धात्रीभिर्गृहं नीता । वसुदेवश्च श्वशुरेण सह स्वं स्थानं जगाम । तत्र च यावद् वसुदेवः स्नातभुक्तोऽस्थात् तावत् तत्रैत्य नृपप्रतिहारी नत्वाऽब्रवीत्-'पुरा सोमदत्तनृपस्य सोमश्रीनामपुत्र्याः स्वयंवरोऽभूत् । किन्तु तस्याः सर्वाणमुनेः केवलोत्सवे समागतान् देवान् पश्यन्त्या जातिस्मरणं जातम् । तत्प्रभृति च सा मौनमास्थितवती ।
मया चैकदा रहसि पृष्टाऽब्रबीत्-'महाशुके देवो मया सह चिरं भोगानभुक्त । एकदा च मया सह नन्दीश्वरादिषु यात्रां कृत्वा स्वस्थानमागच्छन् स च्युतवान् । अहं च शोका" तमन्वेषयन्ती कुरुषु गत्वा केवलज्ञानिनौ क्व मे पतिरित्यपृच्छम् । तौ च तव पतिर्हरिवंशे नृपगृहे जातोऽस्ति, त्वमपि च्युत्वा राज्ञः पुत्री भविष्यसि । यदा चेन्द्रोत्सवे स त्वां गजात् त्रास्यते, तदा स पुनस्तव पतिर्भविष्यतीत्यूचतुः । ततस्तं वन्दित्वा स्वस्थानं गता च्युत्वा च सोमदत्तनृपस्य कन्याऽभूवम् । सर्वाणमुनिकेवलोत्सवे च देवान् दृष्ट्वा जातिस्मरणं प्राप्ता मौनमास्थिताऽस्मि । ततस्तस्या वचः
अष्टमं पर्व - द्वितीयः सर्गः श्रुत्वाऽहं सर्वं राज्ञे निवेदितवती । राज्ञा च स्वयंवरे समागताः सर्वे नृपा विसृष्टाः । त्वया गजाद् मोचितायाश्च तस्याः प्रत्ययो जातः । तत्त्वामानेतुं प्रेषिताऽस्मि, तदेहि, तां परिणय च' । ततो वसुदेवस्तया सह गत्वा सोमश्रियं परिणीय तया सह सुखं रेमे ।
अन्यदा च निशि प्रबुद्धो वसुदेवस्तामदृष्ट्वा दिनत्रयं रुदनेव शून्यमनस्कस्तस्थौ । अनन्तरं चोपवने स्थितां तां दृष्ट्वा कि नष्टाऽसीत्यपृच्छत् । ततः सोवाच-'त्वदर्थं मया विशिष्टो नियमो गृहीतोऽस्ति, तत एव दिनत्रयं मौनेन स्थिताऽस्मि । एतां देवतां पूजयित्वा पुनर्मम पाणिग्रहणं कुरु । अत्रैष विधिरस्ति' । ततो वसुदेवस्तथा चकार । देव्या निर्माल्यमिति कृत्वा तया मद्यं पायितश्च वसुदेवस्तया रतिसुखमन्वभूत् ।
एकदा तया समं सुप्तश्च निशि प्रबुद्धस्तामन्यरूपां दृष्ट्वा काऽसीति पप्रच्छ । ततः सोचे-'दक्षिणश्रेण्या सुवर्णाभपुरे चित्राङ्गो नाम राजा बभूव । तस्याऽङ्गारवत्यां प्रियायां मानसवेगः पुत्रो वेगवत्यहं कन्या च जातौ । चित्राङ्गस्तु पुत्र राज्ये निधाय प्रवव्राज । मद्भात्रा च तव पत्नी हृता । किन्तु महासती सा तं न स्वीचकार । मां सखीं मन्यमाना त्वामानेतुमादिशत् । अत्राऽऽयाता त्वां दृष्ट्वा च कामार्ताऽहमीदृशमकार्षम् । त्वं मम पतिरसि' । प्रातश्च लोको वेगवतीं दृष्ट्वा विस्मयं जगाम । साऽपि पत्याज्ञया सोमश्रीहरणं लोके जगाद ।
अन्यदा च रतिश्रान्तो निशि तया सह सुप्तो वसुदेवो मानसवेगेन खेचरेणाऽपहृतः । वसुदेवश्च ज्ञात्वा मुष्ट्या तं जघान । प्रहारपीडितश्च स तं गङ्गाजलेऽमुञ्चत् । वसुदेवश्च खेचरस्य विद्या
Page #39
--------------------------------------------------------------------------
________________
५२
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः साधयतस्तत्रस्थस्य चण्डवेगस्य स्कन्धेऽपतत् । तेन च तस्य विद्या सिध्यति स्म । ततः स खेचरस्त्वत्प्रभावाद् मे विद्या सिद्धेति कि ते ददामीत्युवाच । वसुदेवश्चाऽऽकाशगामिनी विद्यां ययाचे । ततस्तेन दत्तां तां विद्यामादाय वसुदेवः कनखलस्य द्वारे समाहितः साधयितुमारेभे । चण्डवेगे गते च विद्युद्वेगनृपकन्या खेचरी मदनवेगा तत्राऽऽगता वसुदेवं दृष्ट्वा कामात तं हत्वा वैताढ्यपर्वते नीत्वोपवनेऽमुञ्चत् । स्वयं चाऽमृतधाराख्ये नगरे प्राविशत् । प्रातश्च त्रयस्तभ्रातरो दधिमुखो दण्डवेगस्तस्य विद्याप्रदश्चण्डवेगश्चैत्य नत्वा तं पुरे नीत्वा मदनवेगया परिणाययामास । वसुदेवश्च तया सह सुखं रेमे । अन्यदा च तया तोषितो वसुदेवस्तस्यै वरं ददौ । ___ एकदा च दधिमुखो वसुदेवं नत्वाऽब्रवीत्-"दिवस्तिलक नाम्नि नगरे त्रिशिखरो नाम नृपोऽस्ति । स च निजपुत्रस्य सूर्पकस्याऽर्थे मद्भगिनीं ययाचे । मत्पिता विद्युद्वेगश्च तस्मै तां नाऽदात्' । मत्पित्रा पृष्टो हि चारणमुनिरकथयत्-'हरिवंश्यो वसुदेवस्तव पुत्र्या वरो भावी । गङ्गायां विद्यां साधयतश्चण्डवेगस्य स्कन्धे स पतिष्यति, तेन च तस्य विद्या सेत्स्यति' । तच्छ्रुत्वा च विशेषतो नाऽदात् तस्मै स्वपुत्रीम् । तेन क्रुद्धेन त्रिशिखरेण बलवता बद्ध्वा स नीतोऽस्ति । तन्मदनवेगाया दत्तं वरं स्मरन् श्वशुरं मोक्तुमर्हसि ।
नमिवंशे तत्पुत्र: पुलस्त्योऽभूत् । तस्य वंशे चाऽरिञ्जयपुरेश्वरो मेघनादोऽभूत् । जामाता सुभूमचक्री च तस्मै श्रेणिद्वयं दिव्यानि ब्रह्माग्नेयादिकान्यस्त्राणि च ददौ, तस्य वंशे रावणो विभीषणश्चाऽभूताम् । विभीषणस्य वंशे च मम पिता विद्युद्वेगः । क्रमायातानि तान्यस्त्राणि गृहाण । महाभाग्यस्य ते तानि सफलानि
अष्टमं पर्व - द्वितीयः सर्गः स्युर्मन्दभाग्यस्य तान्यफलानि' । ततो वसुदेवस्तान्यस्त्राणि गृहीत्वाऽसाधयत् । त्रिशिखरश्च मदनवेगां भूचराय प्रदत्तां श्रुत्वा क्रुद्धः स्वयं योद्धमाययौ । वसुदेवश्चाऽपि मायानिर्मितं विद्याधरापितं स्वर्णमुखं रथमारुह्य दधिमुखादिभिः परिवृतो युयुधे । तथैन्द्रास्त्रेण त्रिशिखरस्य मूर्धानं च्छित्त्वा वसुदेवो दिवस्तिलकपुरमेत्य श्वशुरममोचयत् । तत एत्य श्वशुरपुरे वसतो वसुदेवस्य मदनवेगायामनाधृष्टिनामा पुत्रोऽभवत् ।
अन्यदा च सिद्धायतनयात्रां कृत्वाऽऽगतो वसुदेवो मदनवेगां वेगवत्येहीत्यब्रवीत् । तेन च क्रुद्धा साऽन्तर्गृह शय्यां जगाम । तदानीं च त्रिशिखरपत्न्या सूर्पणख्या मदनवेगारूपया तद् गृहं दग्ध्वा वसुदेवोऽपहतः । तथा हन्तुमिच्छया तया स राजगृहसमीपे मुक्तस्तृणपुञ्जस्योपरि पतितः । जरासन्धस्तुति श्रुत्वा च तन्नगरं राजगृहं ज्ञात्वा तत्र गतो द्यूतैः स्वर्णकोर्टि जित्वा याचकाय ददौ । ततश्च स आरक्षैर्बद्ध्वा नृपसमीपं नीयमानो विनाऽपराधं किं मां बध्नासीति तान् पृष्टवान् । ततस्ते ऊचुः-'जरासन्धस्य ज्ञानिना कथितं यत्, प्रभाते यः स्वर्णकोटि जित्वा याचकाय दास्यति तत्पुत्रस्तव हन्ता । त्वं स एवाऽसीति विनाऽपराधमपि हन्यसे' । एवमुक्त्वा च ते वसुदेवं भस्त्रायां क्षिप्त्वाऽपवादभयाद् हन्तुमिच्छवो गुप्तमद्रेरलोठयन् ।
अथ वेगवत्या धात्री च मध्य एव तमग्रहीत् । तयोझमानश्च वसुदेवो दध्यौ-'मन्ये चारुदत्तवन्नभसि भारुण्डेन गृहीतोऽस्मि' । तया पर्वते मुक्तश्च वेगवत्याः पदद्वयमुपलक्ष्य भस्त्राया निर्गतवान् । रुदतीं च तामालिङ्ग्य त्वया कथमहं धृत इत्यपृच्छत् ।
Page #40
--------------------------------------------------------------------------
________________
षष्टिकापुरुषचरितम्-गद्यात्मकसारोद्धारः
सा चाऽश्रूण्युन्मृज्याऽवोचत्- 'शयनोत्थिताऽहं शयने त्वामपश्यन्ती सहाऽन्तः पुरस्त्री भी रुदती प्रज्ञप्त्या विद्यया तव हरणं पतनं च ज्ञातवती । ततः परं वृत्तमजानाना च त्वद्वियोगार्त्ता कञ्चित्कालमतिवाह्य नृपाज्ञया त्वामन्वेष्टुं भ्राम्यन्ती सिद्धायतने मदनवेगया सह दृष्टवती । ततस्त्वामनुसरन्ती पुरमागत्य प्रच्छन्नं स्थिता त्वया मन्नामोच्चारणं श्रुत्वा स्वस्मिंस्तव स्नेहं ज्ञात्वा विरहजं कष्टं मुक्तवती । तदा च क्रुद्धा मदनवेगा गृहं प्रविष्टा । सूर्पणखी चौषधिबलाद् गृहं दग्ध्वा मदनवेगारूपेण त्वामपजहार । तया नीयमानं त्वां ग्रहीतुं धावमानाऽहं सूर्पणख्या दृष्टा तर्जिता च । ततः पलाय्य चैत्यं यान्ती मुनिमलङ्घयम् । तेन च मम विद्या भ्रष्टा । तदानीमेव च धात्री मिलिता । तां चाऽहं त्वदन्वेषणाय प्रेरितवती, सा च भ्राम्यन्ती पर्वताद् निपतन्तं भस्त्रान्तःस्थं त्वां दृष्ट्वा गृहीतवती । तथा नीत्वा ह्रीमत्तीर्थे पञ्चनदे विमुक्तवती । इ वृत्तान्तं श्रुत्वा स तत्र तापसाश्रमेऽस्थात् ।
५४
अथाऽन्यदा स वसुदेवो नद्यां पाशबद्धां कन्यां दृष्टवान् । तदा वेगवत्या प्रेरितः स्वयं च दयालुः स तां कन्यां नागपाशबन्धादमोचयत् । सा च मूच्छिता कन्या जलसेकाद्युपचारेण लब्धसंज्ञा वसुदेवेनोत्थापिता तं प्रदक्षिणीकृत्याऽवोचत्- 'त्वत्प्रभावाद् ममाऽद्य विद्या सिद्धा । तथाऽपरं वृत्तान्तं श्रृणु - 'वैताढ्ये गगनवल्लभपुरे नमिवंशे विद्युद्दंष्ट्रो नाम नृपोऽभूत् । एकदा च स प्रत्यग्विदेहे प्रतिमास्थितं मुनिं दृष्ट्वा 'कोऽप्युत्पातोऽयमित्येनं वरुणाचले नीत्वा हते 'ति स्वानादिश्य तं खेचरैस्ताडयामास । मुनेश्च तस्य शुक्ल ध्यानस्थस्य तदानीमेव केवलमुत्पन्नम् । केवलज्ञानमहिमार्थं च धरणेन्द्रः समाजगाम । तांश्च मुनेरुपसर्गपरान् दृष्ट्वा स क्रोधाद्
अष्टमं पर्व द्वितीयः सर्गः
भ्रष्टविद्यांश्चकार । ततोऽतिदीनास्ते ऊचुः कोऽयमिति न विद्मो वयम् । असावुत्पात इति विद्युद्दंष्ट्रेण प्रेरिता इदं कर्माऽकार्ष्म ।
ततो धरणेन्द्र उवाच - 'युष्माकमज्ञानमहं किं करोमि ? बहुतरेण क्लेशेन पुनर्वो विद्या: सेत्स्यन्ति । किन्तु विद्युद्दंष्ट्रस्य वंशे स्त्रियाः पुरुषस्य वा रोहिण्याद्या महाविद्या न सेत्स्यन्ति, किन्तु महापुरुषस्य साधोर्दर्शनात् ताः सेत्स्यन्ति' । एवमुक्त्वा धरणेन्द्रो निजं स्थानं ययौ । इह च तद्वंशोद्भूता कन्या केतुमती पुरेह विद्याः साधयन्ती पुण्डरीकविष्णुना परिणीता । त्वत्प्रभावाच्च मे विद्या सिद्धा । अहं तद्वंशोद्भवा बालचन्द्रानामा, तद्वशंवदां मां परिणय' । विद्यासिद्धिनिमित्तं किं ते ददामीति तयोक्तो वसुदेवो वेगवत्यै विद्यां देहीत्युवाच । ततः सा वेगवतीमादाय गगनवल्लभपुरं जगाम । वसुदेवश्च तं तापसाश्रयं ययौ ।
तदानीं तत्र गृहीतव्रतौ निजपौरुषं निन्दन्तौ द्वौ नृपौ समायातौ । वसुदेव उद्वेगकारणं पप्रच्छ । ततस्तावूचतुः - श्रावस्त्यामेणीपुत्रः पवित्रात्मा नृपोऽस्ति । स स्वपुत्र्याः प्रियङ्गुसुन्दर्याः स्वयंवरार्थं बहून् नृपान् न्यमन्त्रयत् । किन्तु तत्पुत्री कमपि न वृतवती । तेन क्रुद्धैर्नृपैर्युद्धमारब्धम् । किन्तु तत्पित्रैकाकिनाऽपि सर्वे नृपा जिता विद्रुताश्च । केऽपि च प्राणरक्षार्थं गिरिकन्दरेष्वरण्यादिषु च निलीनाः । आवां च तापसौ जातौ । तन्निजपौरुषं निन्दामि । तच्छ्रुत्वा वसुदेवस्तौ जैनधर्ममबोधयत् । ततस्तौ प्राव्रजताम् । वसुदेवश्च श्रावस्त्यां ययौ ।
तत्र गतश्च स उद्याने त्रिद्वारं देवगृहं प्रेक्ष्य मुखद्वारस्य दत्तैर्द्वात्रिंशताऽर्गलैर्दुःप्रवेशत्वात् पार्श्वद्वारेण तत्र प्रविश्य मुनेर्गृहस्थस्य
Page #41
--------------------------------------------------------------------------
________________
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः महिषस्य च प्रतिमां दृष्ट्वा पृष्टेन केनचिद् विप्रेणोक्त:-'अत्र पुरा जितशत्रुनृपो बभूव । तस्य पुत्रश्च मृगध्वज आसीत् । तथा कामदेवो नाम श्रेष्ठी चाऽत्राऽऽसीत् । स एकदा स्वगोष्ठे गतो दण्डकाख्येन गोपालेनोक्त:-'अस्या महिष्या मया पूर्वं पञ्च तनया हताः । अयं तु षष्ठस्तनयो मनोहराकृतिर्जातमात्र एव चञ्चलनेत्रो मत्पादौ नमति । भयात् कम्पमानगात्रश्चाऽस्ति । तेन दयया मयाऽयं रक्षितः । त्वमप्यस्याऽभयं देहि । यतोऽयं कोऽपि जातिस्मर इव लक्ष्यते' ।
तेनेत्थमुक्तः श्रेष्ठी तं महिषं श्रावस्त्यामनयत् । राजा चाऽपि श्रेष्ठिना प्रार्थितस्तस्य महिषस्याऽभयं ददौ. श्रावस्त्यामयं सर्वत्र निर्भयं भ्राम्यत्वि'ति । किन्तु मृगध्वजकुमारेण तस्य महिषस्यैक श्चरणश्छिन्न इति राज्ञा स निर्वासित: प्रव्रज्यां गृहीतवान् । महिषश्चाऽष्टादशे दिने मृतः । ततो द्वाविंशे दिने च मृगध्वजस्य केवलमुत्पन्नम् । देवादयश्च तत्राऽऽगत्य केवलमहिमानं कृत्वा मुनि ववन्दिरे । जितशत्रुनृपश्च मृगध्वजमुनि पप्रच्छ–'महिषेण किं वैरं भवतः ?' ततः केवली जगाद
'पुराऽश्वग्रीवो नामाऽर्धचक्रयभूत् । तस्य सचिवश्च हरिश्मश्रस्तान्त्रिको धर्म निनिन्द । राजा च सदा धर्म समर्थयामास । तेन द्वयोविरोधो ववृधे । तौ च त्रिपृष्ठा-ऽचलाभ्यां हतौ सप्तमं नरकं प्राप्य तत उद्वृत्त्य भवान् भ्रान्त्वाऽहमश्वग्रीवस्तव पुत्रो जातः । हरिश्मश्रुश्च महिषोऽभूत् । प्राग्वैराच्च मया स हतः । मृत्वा चाऽयं लोहिताक्षो नामाऽसुरेश्वरो जातो मां वन्दितुमायातोऽस्ति' । लोहिताक्षश्च तं मुनि वन्दित्वा तस्य श्रेष्ठिनो महिषस्य मुनेश्च रत्लमूर्तीरिह कारयामास । तस्य कामदेवश्रेष्ठिनो वंशे सम्प्रत्यपि
अष्टमं पर्व - द्वितीयः सर्गः कामदत्त श्रेष्ठी तस्य पुत्री बन्धुमती चाऽऽसाते । श्रेष्ठिना तद्वरार्थे पृष्टश्च ज्ञान्याख्यात्-'योऽत्र मुखद्वारमुद्घाटयेत् स ते पुत्र्या वरो भावी'। तच्छ्रुत्वा वसुदेवस्तद्द्वारमुद्घाटयामास । श्रेष्ठी च तत्रोपेत्य वसुदेवाय तां कन्यां ददौ ।
राजपुत्री चाऽपि कौतुकात् तद् द्रष्टुं पित्रा सह तत्राऽऽगता वसुदेवं दृष्ट्वा कामार्ता जाता । ततो द्वारपालः प्रियङ्गुसुन्दर्यास्तां दशामेणीपुत्रचरित्रं च वसुदेवाय कथयामास । तथा प्रातः प्रियङ्गुसुन्दर्या गृहेऽवश्यमागच्छेरित्युक्त्वा स द्वारपालो ययौ । वसुदेवश्च नाटकं ददर्श । तत्राऽ श्रौषीद् यद्-'नमिपुत्रो वासवोऽभूत् । तद्वंश्या बहवो वासवा अभूवन् । तत्र जातः पुरुहूतश्च गजमारुह्य पर्यटन्नहल्यां गौतमभार्यां दृष्ट्वा तामाश्रमे रमयामास । ततश्चाऽपगतविद्यस्य तस्य पुरुषलिङ्गं गौतमश्छेदयामास' । तच्छृत्वा च भीतो वसुदेवः प्रियङ्गुसुन्दरीगृहं न ययौ ।
अथ बन्धुमत्या सह सुप्तो रात्रौ जागरितो वसुदेव एकां देवीं दृष्ट्वा काऽसाविति दध्यौ । सा देवी चाऽपि किं चिन्तयसीति कथयन्ती तं पाणौ गृहीत्वाऽशोकवनिकां नीत्वाऽवोचत्-'अत्र भरते श्रीचन्द्रनपुरे पुराऽमोघरेता नृपोऽभूत् । तस्य चारुमतीकुक्षिजश्चारुचन्द्रः पुत्रोऽभूत् । तथाऽनङ्गसेनाया वेश्याया: कामपताका नाम पुत्र्यासीत् । एकदा च नृपस्य यज्ञे बहवस्तापसा आगताः । कौशिक-तृणबिन्दू उपाध्यायौ च तस्य फलानि ददूः । कुत ईदृशानि फलानीति नृपेण पृष्टौ च तौ हरिवंशोत्पत्त्यानीतकल्पद्रुमस्य कथामूचतुः ।
तदानीं च नृत्यन्ती कामपताका चारुचन्द्रकुमारस्य कौशिकस्य च मानसं जहार । कुमारश्च यज्ञे सम्पन्ने तां स्वाधीनामकरोत् ।
Page #42
--------------------------------------------------------------------------
________________
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः कौशिकमुनिस्तु नृपात् तामयाचत । ततो नृप उवाच-'सा कुमारेण गृहीता। सति पत्यौ च सा कथमन्यं श्रयेत् ? ततः क्रुद्धः कौशिको नृपमशपत्-'यदि नारी रमयिष्यसि तदैव मरिष्यसी'ति । ततो नृपश्चारुचन्द्राय राज्यं दत्त्वा तापसीभूय वनवासं प्रपन्नवान् । राज्ञी चाऽद्याऽप्यज्ञातगर्भा तेन समं वनं ययौ। प्रकटिते गर्भे च सा पति निवेदयामास । समये पूर्णे च सा ऋषिदत्तां नाम कन्यां सुषेवे । सा च क्रमेण चारणमुनेः समीपे श्राविकाऽभूत् । क्रमेण यौवनं प्रपन्नायास्तस्या माता धात्र्यश्च मृताः ।
एकदा च तत्र शिलायुधो नृपो मृगयार्थं समाययौ । स तां दृष्ट्वा कामातस्तस्या आतिथ्यं स्वीकृत्य तां विविधैः प्रकारै रमयामास । तदा सोचे-'अहमृतुस्नाताऽस्मि, यदि मे गर्भ: स्यात् तदा मम कुलप्रसूताया: का गतिर्भवेत् ?' तत: स नृपो जगाद'अहमिक्ष्वाकुवंशोत्पन्नः शतायुधनृपपुत्रः श्रावस्तीपुरेशः । यदि ते पुत्रो भवेत् तदा स श्रावस्त्यां मम समीपमानेतव्यः । स एव मया नृपो विधास्यते' । एवमुक्त्वा स तामापृच्छ्य स्वस्थानं ययौ । साऽपि पितुः सर्वं वृत्तान्तं कथयामास । समये च पुत्रं सुषुवे । किन्तु प्रसवरोगेण सा ऋषिदत्ता मृता । ज्वलनप्रभस्य नागेन्द्रस्य महिषी बभूव च । अमोघरेताश्च तं बालमादाय नितरां रुरोद । ____ ज्वलनप्रभभार्या च साऽवधेर्शात्वा तत्रोपेत्याऽहं मृगीरूपेण स्तन्येन तमवर्धयम् । तेन स एणीपुत्रनाम्ना ख्यातोऽभवत् । कौशिकश्च विपद्य मत्पितुराश्रमे दृग्विष: सर्पोऽभूत् । स च मत्तातमदशत् । मया च तस्य विषं हृतम् । सोऽहिश्च मया बोधितो विपद्य बलो नाम देवो बभूव । तथाऽहमृषिदत्ताशरीरं कृत्वा श्रावस्त्यामेत्य राज्ञस्तत्सुतमार्पयम् । किन्तु विस्मरणात् स तं
अष्टमं पर्व - द्वितीयः सर्गः नाऽग्रहीत् । ततस्तं पुत्रं तस्याऽन्तिकं मुक्त्वा नभसि स्थित्वा ऽहमवोचं-'वने तदाऽहमृषिदत्ता त्वया रमिता । त्वत्तोऽसौ पुत्रो जज्ञे । अहं तु मृत्वा देवत्वं प्राप्तैणीभूयैनमवर्धयम् । तेऽसावेणीपुत्रो नाम पुत्रः' । ___एवमुक्तः स शिलायुधस्तं राज्ये निधाय प्रव्रज्य दिवं ययौ । तथैणीपुत्रेणाऽष्टभक्तेन प्रसादिताऽहं तस्मै पुत्रीमदाम् । सैषा प्रियङ्गुसुन्दरी । अस्याः स्वयंवरे आहूता नृपास्तयाऽवृता युद्धाय प्रावर्त्तन्त । किन्तु मत्प्रभावादेणीपुत्रेण सर्वे पराजिताः, सा च प्रियङ्गुसुन्दरी त्वां दृष्ट्वाऽद्य वरीतुमिच्छति । त्वदर्थेऽष्टमभक्तेन तयाऽऽराधिताऽस्मि । द्वारपालो गन्धरक्षितश्च मयाऽऽदिष्टस्त्वामवोचत् । तदधुना त्वं तां परिणेतुमर्हसि । यथेष्टं वरं याचस्व' । एवं तयोक्तो वसुदेव उवाच-'मया स्मृता सती समागच्छेः'। सा च तत् प्रपद्य वसुदेवं बन्धुमतीगृहे मुक्त्वा स्वस्थानं जगाम । प्रातश्च द्वारपालेन सह वसुदेव आयतनं ययौ । तत्र च पूर्वमेवाऽऽयातां प्रियङ्गुसुन्दरी गान्धर्वेण विवाहेन मुदितः परिणिनाय । तथा द्वारपालो देवीदत्तवरं वसुदेवमष्टादशे दिने नृपाय निवेदयामास । राजाऽपि तं निजवेश्माऽनयत् । ___ इतश्च वैताढ्ये गन्धसमृद्धके पुरे गन्धारपिङ्गलनृपस्य कन्या प्रभावती नगरे भ्रमन्ती सोमश्रियं दृष्ट्वा तां सखीत्वेन स्वीचकार। तस्याः पतिविरहं ज्ञात्वा च प्रभावती जगाद-'मा खेदमावह', तव प्रियमधुनाऽऽनयामि' । ततः सोमश्रीनिःश्वस्योवाच-'यथा वेगवती तमानयामास तथा त्वमप्यानेष्यसि' । तत: प्रभावती नाऽहं वेगवतीत्युक्त्वा श्रावस्त्यामेत्य वसुदेवं गृहीत्वा तत्र निनाय । वसुदेवश्चाऽन्यवेषं विधाय तत्र सोमश्रिया सहाऽस्थात् ।
Page #43
--------------------------------------------------------------------------
________________
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः मानसवेगेन तज्ज्ञात्वा चैत्य बद्धो वसुदेवो वृद्धखेचरैर्मोचितस्तेन सह विवादं चकार । ततस्तौ विवदमानौ वैजयन्तीपुरे बलसिंहनृपान्तिके समाजग्मतुः । तत्र सूर्पकादयोऽप्ययुः । तथा तत्र प्राग् मानसवेग ऊचे-'सोमश्रीः प्राग् मम कल्पिता । किन्त्वनेनच्छलेन सा मयाऽदत्ता मत्स्वसा च परिणीता' ।
ततो वसुदेव उवाच-सोमश्रीर्मदर्थं पितृकल्पिता मयोढा, तामसौ जहे, वेगवत्याश्च वृत्तान्तं सर्वो जनो वेत्ति' । ततो जितो मानसवेगो युद्धार्थमुत्थितवान् । नीलकण्ठोऽङ्गारक-सूर्पकाद्याश्च विद्याधरा युद्धार्थमुदतिष्ठन्त । तदा वेगवतीमाताऽङ्गारवती वसुदेवाय दिव्यं धनुर्निषङ्गौ च, प्रभावती च प्रज्ञप्ति विद्यां च ददौ । ततो वसुदेवो विद्यया दिव्यास्त्रेण च दीप्ततेजा एकोऽपि सर्वान् खेचरानजैषीत् । मानसवेगं बद्ध्वा च सोमश्रियः पुरोऽक्षप्सीत् । तथाऽङ्गारवत्या वचसा तं मुमोच । तत: पत्तीभूतैर्मानसवेगाद्यैः परिवृत्तः स सोमश्रिया सह विमानेन महापुरपुरं ययौ । तत्र च सोमश्रिया सह रममाणः सुखं तस्थौ । __अन्यदा च सूर्पकेणाऽश्वीभूय हृतो वसुदेवस्तज्ज्ञात्वा तं मुष्टिना ताडयामास । तत: सूर्पकेण मुक्तः स गङ्गाजले पपात । तामुत्तीर्य च स तापसाश्रमं गत्वा तत्र कण्ठे कृतास्थिमालामेकां स्त्रियं दृष्ट्वा तापसानपृच्छत् । ततस्ते ऊचुः-'इयं जितशत्रुनृपभार्या जरासन्धनृपपुत्री नन्दिषेणा परिव्राजकेन वशीकृता । स च परिव्राड् राज्ञा हतः। असौ च कार्मणवशात् तदस्थीन्यद्याऽपि कण्ठे धत्ते । ततो वसुदेवो मन्त्रबलात् तत्कार्मणमपनीतवान् । ततो मुदितो जितशत्रुस्तस्मै निजां केतुमती कन्यां ददौ'।
अष्टमं पर्व - द्वितीयः सर्गः
तज्ज्ञात्वा जरासन्धद्वारपालश्च बाल एत्य नृपमब्रवीत्'नन्दिषेणाप्राणदाता प्रेष्यतां, यतोऽसावुपकारी' । ततो नृपो वसुदेवं तेन द्वारपालेन सह प्रेषयामास । स च रथारूढो वसुदेवो मगधेश्वरनगरं ययौ । तत्र चाऽऽरक्षैर्बद्धस्तेभ्यो बन्धकारणं पप्रच्छ । ततस्ते ऊचुः-'ज्ञानिना जरासन्धस्योक्तं यद् यस्ते पुत्री नन्दिषेणां सज्जीकरिष्यति तत्पुत्रस्तव हन्ता भावी, तज्ज्ञातोऽसीत्यवश्यं हन्तव्य एव त्वम्' । एवमुक्त्वा वसुदेवं वधस्थाने नीत्वा ते हन्तुमुद्यता अभूवन् ।
तदानीं च गन्धसमृद्धपुरेशो गन्धारपिङ्गलो विद्यां प्रभावत्या वरमपृच्छत् । सा च वसुदेवं जगौ । ततः स तमानेतुं धात्रीं भगीरथीं प्रेषितवान् । सा चैत्य तेभ्यो वसुदेवमाच्छिद्य गन्धसमृद्धकेपुरेऽनैषीत् । तत्र च वसुदेवः प्रभावतीं परिणीय तया समं यथासुखं रममाणोऽस्थात् । तथाऽपरा अपि विद्याधरकन्याः परिणीय ततो गत्वा सुकोशलां परिणीय तस्या गृहे निर्विघ्नं विषयानुपभुञ्जन्नस्थात् ॥ २॥
इति अष्टमे पर्वणि वसुदेवस्य श्यामादिसुकोशलान्तकन्यापरिणयवर्णनात्मको द्वितीयः सर्गः ॥२॥
Page #44
--------------------------------------------------------------------------
________________
तृतीयः सर्गः
अथाऽत्र भरते गन्धर्वनगरतुल्यं पेढालपुराख्यं नगरमस्ति । यत्र सर्वो जनो जिनधर्मानुरक्त आसीत् । तत्र हरिश्चन्द्रो नाम गुणैरुज्ज्वलोऽद्भुतसमृद्धिसम्पन्नो बभूव । तस्य च विष्णोर्लक्ष्मी प्राणप्रिया रूपवती लक्ष्मीवती नाम महिषी बभूव । सा चैकां सुतां सुषुवे । तस्याश्च कन्याया: पूर्वजन्मपतिर्धनदस्तदैत्य तत्र प्राक्स्नेहवशात् तत्र स्वर्णवृष्टिं चकार । नृपश्च तेन प्रसन्नस्तस्याः समहोत्सवं कनकवतीति नाम चकार । सा च धात्रीभिर्लाल्यमाना क्रमाद् वर्धमाना सर्वाः कलाः शिक्षित्वा यौवनं प्रपन्ना । तस्याः पितरौ च योग्यं वरमपश्यन्तौ स्वयंवरं चक्राते ।
सा चैकदा सुखमुपविष्टाऽकस्मादागतं सुन्दराङ्गं राजहंसं दृष्ट्वा दध्यौ - 'भूषणभूषितत्वात् कस्याऽप्ययं पुण्यशालिनो हंस इत्यनुमीयते । कस्याऽप्येष भवतु । ममोत्कण्ठाऽस्मिन् जायते इति मन्मनो - विनोदायैषोऽत्रैवाऽस्तु' । एवं विचार्य सा गवाक्षस्थं तं हंसं स्वयं गृहीतवती । तं च स्पृशन्ती लालयन्ती च सा दारुपञ्जरानयनाय सखीमादिदेश । तच्छ्रुत्वा हंसो मनुष्यभाषयोवाच- 'राजपुत्रि ! मां पञ्जरे मा क्षिप, अहं तुभ्यं किञ्चित् प्रियं निवेदयिष्यामि, मां मुञ्च' । ततः सा मनुष्यवाचा वदन्तं हंसं प्रेक्ष्य विस्मिता तं सगौरवमवादीत्- 'त्वं प्रसादार्होऽसि, यत् कथनीयं तत् कथय' ।
अष्टमं पर्व तृतीयः सर्गः
ततो हंसोऽवोचत् - 'कोशलायां पुरि विद्याधरेशस्य कोशलस्य सुकोशला नाम कन्याऽस्ति । तत्पतिश्चाऽपि युवाऽप्रतिरूपो वर्त्तते । त्वं चाऽपि स्त्रीरत्नमसि । युवयोः सङ्गमार्थमहं तव गुणांस्तस्मै वर्णयित्वा तुभ्यं तद्गुणानाख्यामि । स तव स्वयंवरे समागमिष्यति । स्वयंवरमण्डपे चाऽनल्पेन प्रभावेण तं राजसूपलक्षयिष्यसि । मां मुञ्च, तुभ्यं स्वस्त्यस्तु' । ततः सा तं मुमोच । स चोड्डीय तस्याः क्रोडे चित्रपटं पातयित्वाऽवोचत्- 'भद्रे ! इह स युवा लिखितोऽस्ति । तमिहाऽऽ गतमनेनोपलक्षयेः' ।
ततो मुदिता कनकवती तमुवाच- 'त्वं कोऽसीति कथयित्वा मामनृगृहाण ।' तत: स हंसो जगाद - 'अहं चन्द्रातपो नाम विद्याधरोऽस्मि तवाऽस्य भाविनः पत्युः सेवकोऽस्मि । विद्याभावात् तवैतदपि कथयामि यत् स स्वयंवरदिनेऽन्यस्य दूतो भूत्वा त्वत्समीपमागमिष्यति' । ततः सा तं खेचरं विसृज्य चिन्तयामास'यन्निमित्तज्ञेन पुरा कथितं तत् सर्वं संवदति । तथा चित्रस्य पतं दृष्ट्वा तं लालयन् सा नितरां मुमोद ।
चन्द्रातपश्चाऽपि तयोः सङ्गमेच्छुर्विद्याधरपुरं गत्वा विद्याशक्त्या निशि वसुदेवगृहं प्रविश्य सभार्यं शयानं तं दृष्ट्वा पादसंवाहनेन सेवितुं प्रावृतत् । वसुदेवश्च तेन प्रबुध्याऽकस्मात् तं रात्रौ दृष्ट्वाऽपि भय- कोपरहितो दध्यौ अयं सेवकत्वाद् न मम विरोधी, किन्तु शरणार्थी वा भवेद् ममोपकारी वा । यद्यमुं वच्मि तदा देव्या निद्राभङ्गः स्यात् । सेवकस्याऽस्योपेक्षणमप्यनुचितम् । तच्छनैः शय्यात उत्थायाऽमुं सादरं संभाषे । एवं विचिन्त्य स पर्यङ्कादुत्थायाऽन्यत उपविष्टवान् । चन्द्रातपोऽपि तं पत्तिवत्
Page #45
--------------------------------------------------------------------------
________________
६४
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः प्रणनाम । ततो वसुदेवः कनकवतीवार्ताप्रदोऽयं चन्द्रातप इति तमुपलक्षितवान् । ततस्तमालिङ्ग्य वसुदेव आगमकारणं पप्रच्छ । ___ ततश्चन्द्रातपोऽवोचत्-'प्रभो ! त्वां कनकवतीवृत्तान्तमाख्याय तस्यै अपि त्वद्वृत्तान्तमाख्यातवानस्मि, चित्रे त्वां लिखित्वाऽर्पितवानस्मि च । सा च पटे त्वां दृष्ट्वा त्वयि स्निग्धा प्रेमोपचारं कुर्वती मां सगौरवं प्रार्थितवती-'एतं चित्रलिखितं पुरुषं स्वयंवरे कथमप्यानय' । तदद्य कृष्णदशमी तिथिः । शुक्लपञ्चम्यां पूर्वाह्ने च स्वयंवरो भावी । त्वदधीनप्राणा सा त्वया स्वयंवरे गत्वाऽवश्यं रक्षणीया' । ___ ततो वसुदेव उवाच-'प्रातः स्वजनानापृच्छ्य त्वदुक्तं करिष्ये, त्वं प्रमदवने तिष्ठ, येन सहैव गत्वा स्वपरिश्रमफलं द्रक्ष्यसि । ततः स विद्याधरस्तिरोऽभवत् । वसुदेवश्च पुनः सुष्वाप । प्रातश्च स्वजनानापृच्छय स पेढालपुरनगरं ययौ । हरिश्चन्द्रश्चाऽभ्यागत्य तं सादरं लक्ष्मीरमणाख्ये उपवने न्यवासयत् । वसुदेवश्च तत्र वनशोभया दृष्टिं तर्पयंस्तस्थौ । हरिश्चन्द्रश्च स्वविभवोचितां वसुदेवस्याऽर्हणां चक्रे । तत्रोद्याने स्थितो वसुदेव: प्रासादादिष्विदमशृणोत्'पुराऽस्मिन्नुद्याने श्रीनमिजिनस्य समवसरणमभूत् । इह चाऽर्हतोऽग्रे देवीभिः सह लक्ष्मी रासकेन नृत्यन्ती रेमे । तेनाऽस्योपवनस्य लक्ष्मीरमणेत्याख्या जाता' । ततो वसुदेवस्तत्राऽऽयतनेऽर्हता प्रतिमा ववन्दे । ___ अथ तत्रैकं विमानं विद्याधरान्वितमवतरद् ददर्श । तत्रैकं सुरं स पप्रच्छ- 'इदं कस्य देवस्य विमानम्' । ततः स देव उवाच-'इदं धनदस्य विमानम् । सोऽधुनाऽत्राऽऽरूढोऽस्ति । महता कारणेन
अष्टमं पर्व - तृतीयः सर्गः भूलोके समागतोऽस्ति । सोऽत्र चैत्यानि वन्दित्वा कनकवतीस्वयंवरं द्रक्ष्यति' । ततो वसुदेवो दध्यौ-'अहो ! धन्या कनकवती, यस्याः स्वयंवरे देवा अप्यागच्छन्ति' । कुबेरश्च विमानादवतीर्याऽर्हता प्रतिमानां वन्दनपूजनादिकमरोत् ।।
अथ ततः प्रस्थित: कुबेरो वसुदेवं दृष्ट्वा दध्यौ - 'अद्भुताकृतिरयं पुमान्' । ततोऽङ्गलिसंज्ञया तमाहूय स्वार्थवशात् तं सत्कृत्य यथासनं समुपावेशयत् । ततो नम्रो वसुदेवस्तमवोचत्'आज्ञापय, किं करोमि ?' ततः कुबेर उवाच-'अन्येनाऽसाध्यं ममैकं दूत्यं साधय । अस्मिन् पुरे हरिश्चन्द्रनृपस्य कन्या कनकवत्याख्याऽस्ति । तां मद्वचसा कथय-त्वां कुबेरः परिणेतुमिच्छति, तत् स्वीकृत्य त्वं मानुष्यपि देवी भवेति । मद्वाचा च त्वं वायुरिवाऽप्रतिहतगति: कनकवत्यधिष्ठितं देशं प्राप्स्यसि' । ___ ततो वसुदेवः स्वावासं गत्वा दूतोचितं नेपथ्यं विधाय धनदमापृच्छय हरिश्चन्द्रनृपगृहं प्रविश्याऽदृश्यशरीरोऽग्रे गच्छन् क्रमशः सप्तमं कक्षान्तरं प्राप्य तत्र रूपवती: कलाकुशलाः सर्वभाषाविदो वेत्रधारिणीदृष्ट्वा नाऽत्र कस्याऽपि प्रवेशावकाश इति चिन्तयन् दास्या वेत्रधारिणीभिः क्व कनकवतीति पृष्टायाः प्रमदवनप्रासादेऽस्तीति प्रतिवचसा गन्तव्यदेशं ज्ञात्वा ततः पार्श्वद्वारेण निर्गतवान् । प्रातश्च प्रमदवने सप्तभूमिकं प्रासादं दृष्ट्वा तमारुह्य पट्टलिखितपुरुषरूपं पश्यन्तीं दिव्यवेषां सर्वाभरणभूषितां कनकवतीं ददर्श । कनकवती च वसुदेवं दृष्ट्वा विकसितमुखकमला तं चित्रं च मुहुर्मुहुर्दृष्ट्वोत्थाय रचिताञ्जलिरुवाच'मत्पुण्यैराकृष्टस्त्वमागतोऽसि, तव दास्यस्मि' । एवमुक्त्वा सा
Page #46
--------------------------------------------------------------------------
________________
त्रिषष्टिशलाकापुरुषचरितम् - गद्यात्मकसारोद्धारः
वसुदेवं नन्तुं प्रवृत्ता । वसुदेवश्च तां निषिध्योवाच- 'अहं भृत्योऽस्मि त्वं मम स्वामिन्यसि मां नन्तुं नाऽर्हसि ।
६६
ततः सोवाच- 'मम ते सर्वं वृत्तान्तं ज्ञातमस्ति त्वमेव मम पतिरसि । त्वं देवतया कथितश्चित्रगतश्च ध्यातोऽसि मया' । ततो वसुदेव: पुनरुवाच- 'भद्रे ! तवाऽहं पतिर्नाऽस्मि । किन्तु देवतयाऽऽख्यातस्य तव पत्युः किङ्करोऽस्मि । स तव पतिः कुबेरोऽस्ति । तदाज्ञयेहाऽऽगतस्त्वां ययाचे यत् तस्याऽग्रमहिषी भवेति । तत: कनकवत्यवोचत्- 'स शक्रसामानिको देवोऽहं च तुच्छा मानुषी । तन्मयि तस्य दूतप्रेषणमनुचितम् । मानुषीणां देवैः सङ्गमः कदाऽपि न जात:' । ततो वसुदेव उवाच- 'भद्रे ! देवाज्ञामस्वीकुर्वती त्वमनर्थं प्राप्स्यसि ।
ततः कनकवत्यूचे-‘धनदनाम श्रुत्वा मम प्राग्भवसम्न्धादितो हेतोर्मन उत्कण्ठते । किन्तु जिनानामेवैवं वचो यद् देवा औदारिकस्य गन्धमपि सोढुं न क्षमन्ते । तस्माद् दूतव्याजेन त्वमेव मम पतिः । इतो गत्वा च कुबेरमाख्याहि यत् त्वं देवोऽसि त्वद्दर्शनमपि नाऽर्हामि मानुष्यहम् । त्वं प्रतिमां कृत्वा मम पूज्योऽसि । तत्छ्रुत्वा वसुदेवस्ततो निर्गत्य कुबेरं प्राप्य यथावद् वृत्तमाख्यातवान् । कुबेरश्च तं प्रशस्य दिव्यगन्धवासितं देवदूष्ययुग्मं सूरप्रभं चूडारलं, जलगर्भे द्वे कुण्डले, शशिधवलं हारं, सुप्रभे केयूरे, अर्धशारदाख्यां नक्षत्रमालां, मणिमण्डितौ सुदर्शनौ कटकौ, कटिसूत्रं दिव्यं माल्यं विलेपनं च तस्मै पारितोषिकं ददौ । वसुदेवश्च तत् सर्वमङ्गेषु परिधायाऽपरो धनद इवाऽऽबभौ । कुबेरेण तथा सत्कृतं वसुदेवं दृष्ट्वा च सर्वे मुमुदिरे । हरिश्चन्द्रोऽपि तदानीं तत्राऽऽगत्य कुबेरं प्रणम्याऽवोचत्
अष्टमं पर्व तृतीयः सर्गः 'भवद्भिरद्य भारतं वर्षमनुगृहीतं यत् स्वयंवरदिदृक्षयेहाऽऽगतम्' । एवमुक्त्वा स स्वयंवरमण्डपं सज्जयामास ।
अथ कुबेरः सपरिवारः स्वयंवरं द्रष्टुं चचाल । सर्वतः शोभितं स्वयंवरमण्डपं प्रविश्य चोच्चमचे सिंहासने समुपाविशत् । वसुदेवोऽपि तस्याऽनतिदूर एव प्रसन्नः समुपविवेश । अपरेऽपिच राजानो विद्याधरेन्द्रादयश्च यथास्थानं समुपाविशन् । तदानीं च कुबेरो वसुदेवायाऽङ्गुलीयकं ददौ । सोऽपि च तं कनिष्किकालौ परिहितवान् । तदूर्मिकाप्रभावेण च सर्वो जनो वसुदेवं कुबेराकारं ददर्श । मूर्तिद्वयेन समागतः कुबेरो जयत्विति जनध्वनिस्तत्र सर्वतोऽजायत । कनकवती च पाणिभ्यां माल्यं गृह्णती हंसीव मन्थरं सर्वालङ्कारभूषिता तत्राऽऽजगाम । तत्र च सा सर्वान् नृपान् दृष्ट्वा वसुदेवमपश्यन्ती नितरां विषण्णा सखीहस्ते दत्तभारा पुत्तलिकेव निःस्पन्दाऽवस्था चिरं तस्थौ । ततस्तां सख्यूचे - 'किं विलम्बसे ? कस्याऽपि कण्ठे स्वयंवरमालां क्षिप' ।
ततः कनकवत्युवाच- 'नाऽत्र कोऽपि रोचते मह्यम् । यश्च रोचते, मन्दभाग्या तं न पश्यामि' । तथा हृदि दध्यौ - 'क उपाय:, मम का गतिर्भवेत् ? इष्टं वरं न पश्यामि मम हृदयं किं न विदीर्यते ?' एवं विचिन्तयन्ती कुबेरं दृष्ट्वा प्रणम्य च रुदती दीना बद्धाञ्जलिरवोचत् - 'देव ! प्राग्जन्मपत्नीति परिहासं मा कृथाः । ममेष्टो भर्ता त्वया तिरोहितश्चक्रे' । ततः कुबेरो हसित्वोवाच‘महाभाग ! वसुदेव ! मयाऽर्पितामूर्मिकां हस्तादपाकुरु' । ततो वसुदेवस्तथा कृत्वा पुनः स्वं रूपं प्राप । कनकवती च तं दृष्ट्वा प्रमुदितोपसृत्य तत्कण्ठे स्वयंवरमालां चिक्षेप । तदानीं च दिवि दुन्दुभयो नेदुः । कुबेराज्ञयाऽप्सरसश्च माङ्गल्यं जगुः । सर्वतश्च धन्यो
Page #47
--------------------------------------------------------------------------
________________
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः हरिश्चन्द्र इति वागभूत् । कुबेरोपदिष्टा देवाश्च वसुधारां ववृषुः । कनकवती-वसुदेवयोश्च विवाहोत्सवो जज्ञे ।
*** अथ वसुदेवः कुबेरं नत्वाऽवोचत्-'युष्माकमत्राऽऽगमे को हेतुः ?' ततः कुबेरः प्रसन्न ऊचे-'कुमार ! ममाऽऽगमनकारणं श्रृणु-अस्यैव जम्बूद्वीपस्य भरतक्षेत्रेऽष्टापदसमीपे सङ्गरे नाम्नि नगरे मम्मणो नाम राजाऽभूत् । स च प्रियया वीरमत्या सह मृगयायै प्रस्थितो नगराद् बहिः सार्थेन सहाऽऽयातं मलिनं मुनि दृष्ट्वा ममेदं मृगयोत्सवेऽशकुनमित्यवधार्य क्रुद्धस्तं मुनि धृत्वा पुनर्गृहं गत्वा सभार्यो द्वादशघटिकास्तं शपन् तस्थौ । अनन्तरं च दयया तौ मुनि पप्रच्छतुः-'कुत आगतः, कुत्र यासि' । ततो मुनिरुवाच-रोहीतकपुराद् चलितोऽहमष्टापदेऽर्हद्विम्बानि वन्दितुं सार्थेन सह । भवद्भ्यां च गृहीत: सार्थाद् वियोजितस्तत्र नाऽगाम् । धर्मकर्म हि बहुविघ्नम्' ।
ततस्तौ दम्पती अल्पकर्मत्वात् क्रोधं विसस्मरतुः । ततो मुनिस्तौ स्निग्धह्रदयौ ज्ञात्वा जीवदयाप्रधानमार्हतं धर्ममुपादिशत् । तेन च तौ दम्पती धर्माभिमुखतां प्रापतुः । तथा तं मुनि भक्त्या भक्तान्न-पानादिना प्रत्यलाभयताम् । किन्तु रजोगुणप्राधान्यादन्यं जनं निषिध्य स्वयमेव तस्य मुनेरुपचारं चक्रतुः । मुनिश्च तावापृच्छय चिरादष्टापदं जगाम । तौ च श्रावकव्रतं प्रतिपद्य यत्नात् पालयामासतुः । वीरमती चैकदा शासनदेव्याऽष्टापदे प्रापिता । सा च तत्र जिनप्रतिमाः सुरा-ऽसुरैः पूज्यमाना दृष्ट्वा नितरां मुमुदे । तथाऽर्हद्विम्बानि वन्दित्वा सा पुनर्विद्याधरीव निजपुरं प्राप । ततश्च
अष्टमं पर्व - तृतीयः सर्गः तीर्थदर्शनाद् धर्मबुद्धिः सा विंशतिमाचाम्लानि चकार । तथा चतुर्विंशतिजिनेभ्य उपरि न्यस्तरत्नानि सुवर्णतिलकानि कारयामास।
अन्यदा च सा सपरिवारमष्टापदं गत्वा स्नात्रपूर्वकमर्हद्विम्बान्यानर्च । तथा तासां प्रतिमानां ललाटेषु तानि सौवर्णानि तिलकानि निदधौ । तथा तत्राऽऽगतानां चारणश्रमणादीनां यथायोग्यं दानं दत्त्वा तपोऽकरोत् । ततश्चाऽऽत्मानं कृतकृत्यं मन्यमाना सा वीरमती पुनरपि स्वनगरं प्राप्तवती । कियन्तं कालं च तौ दम्पती धर्मोद्यतौ निन्यतुः । समाधिमरणं प्राप्य च तौ स्वर्ग प्राप्तौ । ततश्च्युत्वा च मम्मणजीवोऽत्र भरते बहलीदेशे पोतननगरे धम्मिलासस्याऽऽभीरस्य रेणुकाकुक्षिजन्मा धन्यो नाम पुण्यवान् पुत्रो जातः । वीरमतीजीवश्च च्युत्वा धन्यस्यैव धूसरीनाम्नी पल्यभूत् । धन्यश्चाऽरण्येऽनिशं महिषीश्चारयामास ।
अन्यदा च वर्षौ प्रवृत्ते वर्षत्यपि मेघे स धन्यो महिषीचारयितुमगात् । जलनिवारणाय मस्तके छत्रं दधन्महिषीरनुसरन्नटवीं भ्रमन् स एकेन पादेन प्रतिमास्थं निश्चलं कृशं शीतेन कम्पमानगात्रं मुनि ददर्श । तं तथाविधं दृष्ट्वा स दयया छत्रं तन्मस्तकेऽकरोत् । तेन च स मुनिर्वृष्टिकष्टरहितोऽभूत् । किन्तु मेघो वृष्टेन विरराम । धन्यश्चाऽपि च्छत्रधारणाद् न निर्वेदं गतः । क्रमशश्च वृष्टिविरता । मुनिश्च प्रतिमां पारयामास । धन्यश्च तं प्रणम्य बद्धाञ्जलिरुवाच'मुने ! ईदृशे विषमे काले कुत आगतः ?' ततो मुनिरुवाच-'पाण्डुदेशादिहाऽऽगतोऽस्मि । लङ्कानगरीं च यास्यामि । मध्यकालेऽयं वर्षर्तुरन्तरायोऽभूत् । मेघो धारासारं वर्षितुमारब्धवान् । मेघे वर्षति च मुनीनां गमनं न युज्यते । अतो वृष्ट्यन्ताभिग्रहं कृत्वाऽत्रैव स्थितोऽस्मि । अद्य सप्तमेऽह्नि वृष्टौ विरतायां वसति कामपि यामि'।
Page #48
--------------------------------------------------------------------------
________________
७०
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः तदा हृष्टो धन्य उवाच-'मुने ! मम महिषीमारोह, भूमिः पङ्कदुर्गमाऽस्ति' । ततो मुनिराह-'मुनयो जीवेषु नाऽऽरोहन्ति, ते कथमपि जीवपीडाप्रदं कर्म नाऽऽचरन्ति, पादाभ्यामेव ते व्रजन्ति'। एवमुक्त्वा स मुनिस्तेन सह नगरसमीपं गतवान् । ततो धन्य उवाच-'यावदहं महिषीर्दोलि तावदत्र प्रतीक्ष्यताम् । एवमुक्त्वा गृहं गत्वा महिषी: शीघ्रं दुग्ध्वा दुग्धकुम्भमेकमादाय मुनिसमीपं गत्वा स्वं धन्यं मन्यमानस्तं मुनि पारणां कारयामास । स मुनिश्च पोतनपुरे वर्षारात्रमतिवाह्य यथेष्टं स्थानं जगाम । धन्योऽपि धूसर्या सह श्रावकव्रतं चिरं पालयित्वा, काले व्रतं गृहीत्वा, सप्ताब्दी तत् पालयित्वा च विपद्य पात्रे दुग्धदानपुण्येन हैमवते युगलिनौ जातौ । तत्राऽपि शुभध्यानौ विपद्य क्षीरडिण्डीरनामानौ देवदम्पती जातौ । ततो देवश्च्युत्वेह भरते कोशलदेशे कोशलानगरे इक्ष्वाकुकुले निषधनृपस्य सुन्दराकुक्षिजन्मा नलो नाम पुत्रोऽभवत् । तस्याऽनुजश्च कूबरोऽभूत् ।
इतश्च विदर्भदेशे कुण्डिनपुरे भीमरथो नृपः पुष्पवतीभार्यया सह भोगानभुक्त । एकदा च क्षीरडिण्डीरा च्युत्वा तस्याः कुक्षौ पुत्रीत्वेनोत्पन्ना । तदा सा सुखसुप्ता रात्र्यन्ते सुस्वप्नं दृष्ट्वा नृपाय कथयामास-स्वामिन् ! श्वेतहस्ती तव गृहे दवाग्निभयात् प्रविष्टो मया स्वप्ने दृष्टः' । ततो नृपो जगाद-'कोऽपि पुण्यवांस्तवोदरेऽद्याऽवतीर्णः' । तदानीमेव च तत्र स शुभ्रगजः समागत्य नृपं सभार्य स्वस्कन्धे समारोपयामास । तथा पुष्पमाल्यप्रक्षेपेण नागरैः पूज्यमानः स नगरे भ्रान्त्वा राजप्रासादमुपेत्य तौ निजस्कन्धादवारोहयत् । स्वयमेव चाऽलाने स गजो निबद्धः । तदानीं च देवाः पुष्पाणि रत्नानि च तत्र ववृषुः । नृपश्च तं गजं यक्षकर्दमैः सर्वाङ्गमनुलिप्य
अष्टमं पर्व - तृतीयः सर्गः पूजयित्वा नीराजनां व्यधात् । पूर्णे समये शुभे लग्ने च कन्यारत्नं सुषुवे । तस्याश्च कन्याया भाले सूर्यमण्डलाभं तिलकं रवितिलकाख्यं सहजमभूत् । तज्जन्मनः प्रभावेण च भीमो नृपाणां शिरोमणिर्बभूव । तथा नृपः समहोत्सवं तस्याः स्वप्नानुसारेण दवदन्तीति नाम चकार ।
सा च क्रमशो वर्धमानाष्टमे वर्षे नृपेण कलाचार्यस्य प्रदत्ता सर्वाः कला अशिक्षत । तां च सर्वकलाकुशलां कलाचार्यो नृपसमीपमानीतवान् । नृपश्च पुत्रीनैपुण्येन प्रीत: कलाचार्यं भूरिभिर्द्रव्यैः सत्कृत्य विसर्जयामास । दवदन्त्याश्च देवता पुण्यवशात् काञ्चनीमहत्प्रतिमामर्पयित्वोवाच-'वत्से ! इयं प्रतिमा भाविनोऽर्हतः श्रीशान्तिनाथस्य त्वया सदा पूजनीया' । एवमुक्त्वा सा देवी तिरोदधे । दवदन्ती च प्रसन्ना तां प्रतिमां वन्दित्वा निजवेश्मनि नीतवती ।
अथ राज्ञी नृपश्च पुत्री प्राप्तयौवनां दृष्ट्वा तद्योग्यवरचिन्तया नितरामदूयेताम् । क्रमेण दवदन्ती चाऽष्टादशवर्षा जाता । ततः स्वयंवरं निश्चित्य नृपो दूतान् नृपाह्वानाय प्रेषयामास । तेन च तत्र शीघ्रमेव राजानः समाययुः । निषधनृपोऽपि च कोसलेश्वरः पुत्राभ्यां नल-कूबराभ्यां सह तत्राऽऽगात् । कुण्डिनपुरेशश्चाऽऽगतानामतिथीनां सर्वेषां राज्ञां यथोचितमभिगमनपुरस्सरं स्वागतं चकार । अनन्तरं च भीमनृपः पालकविमानतुल्यं स्वयंवरमण्डपं कारयामास । राजानश्च तत्राऽऽगत्योच्चैर्मञ्चेषूपाविशन् । दवदन्ती चाऽपि पितुराज्ञयाऽद्भुतनेपथ्या सर्वालङ्करणालता रवितिलकोद्योतविराजमाना तत्राऽऽययौ । राजानश्च भाले तिलकं बिभ्रती तां पुन: पुनर्ददृशुः । ततो नृपाज्ञया वेत्रधारिणी राज्ञो नामग्राहं
Page #49
--------------------------------------------------------------------------
________________
Bhandari
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः वर्णयितुमुपक्रान्ता । दवदन्ती च सर्वान् नृपान् दृष्ट्वा श्रुत्वा च नलस्य कण्ठे स्वयंवरमालां चिक्षेप । तदानीं च गगनेऽहो सुष्टु वृतमिति खेचराणां तुमुलो जज्ञे ।
अथ कृष्णराजकुमारः क्रुधा खड्गमाकृष्य नलमाक्षिपन् न मामनिर्जित्य दवदन्तीमुद्वोढुमर्हसीति शस्त्रं गृहाणेत्यवोचत् । ततो नल: स्मित्वा कृष्णराजमाक्षिप्य क्रुधा खड्गमाकृष्योत्तस्थौ । द्वयोः सैन्यानि चाऽपि सद्य एव सायुधानि सज्जानि बभूवुः । तदानीं दवदन्ती दध्यौ-'मां धिक्, मन्निमित्तमेवाऽयं प्रलयकाल: समुपस्थितः । शासनदेवते ! यदि मे जिने भक्तिस्तर्हि नलो विजयतां, द्वयोः सैन्ययौः कुशलं चाऽस्तु' । एवमुक्त्वा सा जलपात्रमादायाऽनर्थशान्त्यर्थं त्रिस्तज्जलं सर्वतः सिषेच । तत: कृष्णराजस्तज्जलेन सिक्तोऽङ्गार इव सद्यो निस्तेजा जातः । तथा शासनदेव्याः प्रभावात् तत्पाणे: खड्गो द्रुमात् पक्वफलमिव स्वयं पपात ।
तदेवं हततेजाः कृष्णराजो दध्यौ-'नलो न सामान्यः, तदविमृश्यैवैनमाक्षैप्सम्, अयं हि प्रणामार्हः' । एवं विचिन्त्य स नलं प्रणनाम । तथा रचिताञ्जलिरुवाच-'मयाऽविचारेण कृतमपराधं सहस्व' । नलोऽपि तं सत्कृत्य व्यसृजत् । भीमोऽपि च तेन वृत्तान्तेन प्रमुदितो नृपान् सत्कृत्य विसृज्य दवदन्ती-नलयोविवाहोत्सहं चकार । तयोः करमोचने च स्वविभवोचितं गजा-ऽश्वादिकं ददौ । तौ च वधू-वरौ गृहे चैत्यमवन्देताम् । भीम-निषधौ च महोत्सवेन तयोः कङ्कणमोचनं कारयामासतुः । तथा भीमो निषधं सपुत्रं भक्त्या सत्कृत्य व्यसृजत् किञ्चिदन्वगाच्च । पतिमनुयान्तीं दवदन्ती च माता 'व्यसनेऽपि पति देहच्छायेव मा त्याक्षीरि'त्युपदिदेश ।
अष्टमं पर्व - तृतीयः सर्गः नलश्च पितरावापृच्छयाऽऽगतां दवदन्तीं रथमारोह्य स्वाङ्के समुपवेशयामास । कोशलेशश्च सैन्यैः सह साडम्बरं प्रस्थितवान् ।
अथ प्रतिष्ठमाने निषधे मार्गे रवावस्तमिते सर्वतोऽन्धकारे प्रसरति चाऽपि स्वनगरदर्शनौत्सुक्यात् स प्रस्थानाद् न विरतवान् । ततोऽन्धकारे मार्गेऽलक्ष्यमाणे नलः स्वाङ्कसुप्तां दवदन्तीमुवाच'देवि ! जागृहि, तमसा विह्वलं सैन्यं स्वरवितिलकं प्रकाश्य रक्ष'। ततो दवदन्ती समुत्थाय स्वभालं प्रक्षालितवती । तेन च तमोनाशकस्तिलकोऽदीपि । सैन्यं च तदालोकसाहाय्येन निरन्तरायं जगाम । नलश्चाऽग्रे प्रतिमास्थितमेकं भ्रमरैः कमलमिव वेष्टितं मुनि दृष्ट्वा-'असौ मुनिर्वन्द्यतां, कायोत्सर्गे स्थितोऽयं मुनि: केनाऽपि गजेन गण्डकण्डूविनयनाय घृष्टोऽस्ति । अत एव तन्मदसङ्क्रमात् सर्वतो गन्धलोलुपा भ्रमराः पतन्तो दृश्यन्ते । तैर्दश्यमानश्चाऽयं परीषहं सहते । गजेनाऽपि ह्ययं ध्यानाद् न चालितः । तदयं मार्गमध्ये पुण्यैर्दृष्टः' इत्यवोचत् ।
ततो जातश्रद्धो निषधः सपुत्रपरिच्छदस्तं मुनि वन्दितवान् । ततः प्रस्थाय च कोशलानगरोपान्तं प्राप्य नलो दवदन्तीमुवाच'देवि ! इयं मम पुरी जिनचैत्यमण्डिताऽस्ति' । दवदन्त्यपि च तच्चैत्यदर्शनादुत्कण्ठितां प्राप्योवाच-'धन्याऽस्मि, यस्या नलः पतिः, तथाऽमूनि चैत्यानि प्रतिदिनं वन्दिष्ये च' । तत: समङ्गलं नृपः पुरीं प्रविवेश ! नलो दवदन्ती च यथेष्टं यथासखं विहरमाणौ कियन्तं कालं निन्यतुः ।
अथाऽन्यदा निषधो नृपो नलं राज्ये कूबरं यौवराज्ये च न्यस्य स्वयं व्रतमानद । नलश्च नीत्याः प्रजा: पालयामास । बुद्ध्या
Page #50
--------------------------------------------------------------------------
________________
७४
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः पराक्रमेण चाऽप्रतिमं तं केऽपि जेतुं समर्था नाऽभूवन् । अन्यदा च नल: सामन्तादीन् पप्रच्छ-'किं पित्रोपाजितामेव भूमिं शासानि ततोऽधिकां वा ?' ततस्ते ऊचुः-'निषधस्त्र्यंशन्यूनं भरतार्ध पालयामास । त्वया तु सकलमेव भरतार्धं पाल्यते । किन्त्वितो योजनशतद्वयं तक्षशिलानगरी । तत्र कदम्बनामा नृपस्त्वदाज्ञां न पालयति । तत्प्रथमं दूतमादिश्य स प्रबोधनीयः । यदि न बुध्यते तदा निग्राह्यः' ।
ततो नलो धीरं दूतमनुशिष्य सैन्येन सह प्रेषयामास । दूतश्चाऽपि शीघ्रं गत्वा 'नलं सेवस्वे'ति कदम्बं व्याजहार । कदम्बश्च क्रुधा तं निर्भय॑ युद्धायाऽहं सज्जोऽस्मीत्युक्त्वा प्रतिन्यवर्त्तयत् । दूतश्च प्रत्यागत्य नलाय सर्वं वृत्तान्तं कथयामास । ततो नलः कदम्बं सर्वाभिसारेणाऽभिषेणयामास । सेनया च सर्वतस्तक्षशिलां वेष्टयामास । कदम्बोऽपि सन्नद्धः ससैन्यो नगराद् बहिनिर्ययौ । द्वयोः सैन्ययोश्च दारुणं युद्धमजनि । ततो नलः कदम्बमूचेगजादिभिर्हतैः किम् ? आवां द्वन्द्वयुद्धेनैव युध्यावहे' । ततो द्वावपि द्वन्द्वयुद्धेन युयुधाते । तत्र च नलेन कदम्बः पराजितः । ततः कदम्बः पलाय्य विरक्तो व्रतमादाय प्रतिमया तस्थौ । नलश्च कदम्बं तथाविधं दृष्ट्वा प्रशस्य तत्पुत्रं जयशक्ति राज्ये निवेशयामास । ततश्च नृपैनलस्य भरतार्धपतित्वाभिषेकश्चक्रे । कोशलां प्राप्तस्य च नलस्य सर्वे नृपा उपहारान् ददुः । तथा नलो दवदन्त्या सह रममाणश्चिरं महीं पालयामास ।
अथ कूबरः कुटिलप्रकृती राज्यलोभाद् नलस्य च्छिन्द्रं गवेषयामास । नलस्य च न्यायनिष्ठस्याऽपि द्युतासक्तिरभूत् । कूबरश्चाऽस्माद् महीं जयामीति बुद्ध्या सर्वदैव दूतेन तं रमयामास ।
अष्टमं पर्व - तृतीयः सर्गः एकदा च नलः कूबरं जेतुं न प्राभवत् । कूबरश्च नलाद् ग्रामादिकं सर्वं जितवान् । नलश्च लोकैर्वार्यमाणोऽपि द्यूताद् न विरराम । लोकानां हाहाकारं श्रुत्वा च तत्राऽऽगता दवदन्त्यवोचत्-'द्युतं मुञ्च, मनीषिणो वेश्यामिव द्यूतं न सेवन्ते । कूबराय स्वयं राज्यं देहि । किन्तु कूबरो हठाद् नलाच्छ्रीः प्राप्तेति प्रवादपात्रं मा भूः' । किन्तु नलो दवदन्तीं ददर्शाऽपि न, न वा तद्वचांस्यगणयत् । ततो दवदन्ती पत्या तिरस्कृता सचिवान् नलं निवारयितुमूचे । नलस्तेषामपि वचो न गणयामास । तथा गमितमहीको दवदन्त्या सहाऽन्तःपुरमप्यहारयत् । सर्वस्वं गमयित्वाऽङ्गेभ्यो भूषणान्यपि मुक्तवान् ।
ततः कूबरो नलमुवाच-'इह मा तिष्ठ, मन्महीं त्यज । यद् राज्यं तव पित्रा दत्तं तन्मया द्यूतेनोपार्जितम्' । ततो नलो 'दर्प मा कृथाः, पराक्रमिणां लक्ष्मीन दुर्लभे'त्युक्त्वोत्थायोत्तरीयवस्त्रमात्रमादाय ततः प्रस्थितवान् । तमनुसरन्ती दवदन्ती च कूबरोऽवोचत्'त्वं मा गाः, मया द्यूते जिताऽसि, मदन्तःपुरमलङ्करु' । ततः सचिवादयो दुराशयं कूबरमूचुः-'भैमी महासती, इमामन्तःपुरे मा नय, ज्येष्ठभ्रातृपत्नी मातृतुल्या, अन्यथा सतीत्वप्रभावात् त्वां भस्मसात् करिष्यति । प्रत्युत नलमनुयान्तीमेनामुत्साहय । नलं सारथिना सहैकं रथं सपाथेयं प्रयच्छ' ।
ततः कूबरो रथं दत्त्वा दवदन्तीं नलेन सह व्यसृज्यत् । नलश्च रथे निरीहोऽपि प्रधानपुरुषादिभिः प्राथितो दवदन्त्या सह तमारुह्य निर्ययौ । नागराश्च दवदन्तीमेकवस्त्रां दृष्ट्वा भाग्यं निन्दन्तो नितरां रुरुदुः । नलश्च नगरमध्येन गच्छन् हस्तपञ्चशतोन्नतं स्तम्भं दृष्ट्वा कौतुकात् तमुत्पाट्य पुनरारोपयामास । तद् दृष्ट्वा नागरा नलस्य
Page #51
--------------------------------------------------------------------------
________________
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः बलं प्रशंसन्त ऊचुः-पूरा कूबरेण समं नृपोद्याने क्रीडति नले ज्ञान्येको मुनिराजगाम । स चोवाच-'नल: पूर्वजन्मनि मुनेर्दुग्धदानमाहात्म्याद् दक्षिणभरतार्धपतिर्भावी । यः पुरमध्ये हस्तपच्चशतोन्नतं स्तम्भं चालयिष्यति सोऽवश्यं भरतार्धपतिः । तद् मुनिवचोऽद्य संवाद्यभूत् । किन्तु नले जीवति कोशलाया नाऽन्यः पतिर्भावीति यदुक्तं मुनिना तदद्य विसंवदति । अथवा को जानाति, पुनर्नल एवाऽत्र भूपतिः स्यात्' । एवं लोकवचांसि श्रृण्वन् नलः पुरीं तत्याज ।
अथ नलो दवदन्तीमवोचत्-'देवि ! सम्प्रति क्व यामः ? स्थानमनुद्दिश्य गमनं नोचितम्' । ततो दवदन्त्युवाच-'कुण्डिनपुरे मम पितरमतिथिर्भूत्वाऽनुगृहाण' । ततस्तथैव नलेन सारथिरादिष्टः । सारथिश्च कुण्डिनपुरं प्रति रथं वालयामास । गच्छंश्च नल: कृतान्तस्य क्रीडाभूमिमिव महाटवीं प्राप । तत्र चाऽग्रे यमदूतोपमान् सायुधान् पानगोष्ठीपरान् भिल्लान् ददर्श ।
ततो नलः सद्यो रथादवतीर्य खड्गमाकृष्य करे नर्तयामास । भैमी च रथं मुक्त्वा बाहौ धृत्वा नलं निवारयामास । तथा स्वहुङ्कारैभिल्लास्त्रासयामास । भिल्लाश्च कान्दिशीका दिशो दिशं ययुः । तौ ताननुधावमानौ रथाद् दूरे बभूवतुः । इतश्चाऽपरैभिल्लैस्तयो रथोऽपजते । दवदन्तीं च तस्यामटव्यां नलः पाणौ गृहीत्वाऽभ्रमत् । श्रान्ता तृणा-ऽग्रकण्टक-शर्करादिभिन्नपादा क्षुत्-तृष्णादिपीडिता च भैमी कियती साऽटवीति नलं पप्रच्छ । ततो नलोऽवोचत्-'इयमटवी योजनशतं, तत्र च पञ्च योजनान्येव गतानि, धीरा भव'।
अष्टमं पर्व - तृतीयः सर्गः
अत्राऽवसरे च सूर्योऽस्तमियाय । ततो नलः पत्रैः शय्यां विधायाऽत्र शेष्वेति दवदन्तीमुवाच । ततो दवदन्ती जगौ-'इत: पश्चिमायां वसतिरस्ति, यतो गवां हम्भारव: श्रूयते । तत्किञ्चिदग्रे गत्वा तत्रैव वसति: कार्या' । ततो नल उवाच-'इह तापसानामाश्रमः । ते च मिथ्यादृशः । तैः सङ्गत्या सम्यक्त्वं विनश्यति । तदत्रैव शेष्व । अहं यामिको भवामि' । ततो दवदन्ती सुष्वाप । सुप्तायां च तस्यां नलो दध्यौ-'श्वशुरगृहवासो नराधमकृत्यं न मम योग्यम् । तदेतां प्रेयसीमपि त्यक्त्वाऽन्यत्र यामि । इयं शीलप्रभावाद् रक्षिता । नाऽस्याः कश्चिदुपद्रवो भावी' । __एवं विचिन्त्य तस्यास्तल्पतां गतं स्वोत्तरीयार्धं छुर्या च्छित्वा स्वरुधिरेण दवदन्त्या वस्त्रे-'एष मार्गो विदर्भ याति वटलक्षितया दिशा, तद्वामभागस्थश्च मार्गः कोशलेषु याति । तत्त्वं पितुः श्वशुरस्य वा गृहं गच्छेः । अहं तु काऽपि स्थातुं नोत्सहे' इत्यक्षराणि लिखित्वाऽशब्दं रुदित्वा चौरवत् तूष्णीं नलो गन्तुं प्रचक्रमे । गच्छंश्च वालितकन्धरस्तां मुहुर्मुहुर्ददर्श । तथा हृद्यचिन्तयत्-'अनाथामेतां शयितां व्याघ्रादिर्यदि भक्षयेत् तदा का गतिः ? तत्तां दृग्गोचरे विधाय रात्रि यावद् गुप्तो रक्षामि । प्रातरेषा स्वेच्छं मया निर्दिष्टयोः पथोः कमपि यातु' । ततो वलितो नलो भुवि शयानां तां दृष्ट्वा पुनरचिन्तयत्-'दवदन्तीयमेकवस्त्रा स्वपिति, धिग् नलस्य दौर्भाग्यम् । मत्कर्मदोषेण कुलीनेयमिमां दशां प्राप्ता । हा ! हताशोऽहं किं करोमि । मया मुक्ता चैकाकिनीयं निश्चयं प्राणांस्त्यक्ष्यति । तदेनां भक्तां मुक्त्वा गन्तुं नोचितम् । जीवितं मरणं वाऽनया सहैव ममाऽस्तु । अथवेयं वस्त्रे मया लिखितामाज्ञां
Page #52
--------------------------------------------------------------------------
________________
त्रिषष्टिशलाकापुरुषचरितम् - गद्यात्मकसारोद्धारः
शिरसाऽऽदाय स्वयं गत्वा स्वजनगृहे निवत्स्यति । एवं निश्चित्य तां रात्रिमतिवाह्य नलो दवदन्त्या जागरणसमये तिरोदधौ ।
७८
अथ दवदन्ती निशाशेषे स्वप्नं दृष्टवती 'यदहं पत्र-पुष्पफलादिमनोहरमाम्रवृक्षमारुह्य भ्रमरगुञ्जनं श्रृण्वती तत्फलं भक्षितवती । अकस्माच्च वन्यगजेन स वृक्ष उन्मूलितः । तेन चाऽहं भूमौ पतिता' । एवं स्वप्नं दृष्ट्वा प्रबुद्धा सा नलमपश्यन्ती सर्वतो विलोकयामास । स्वमनसि दध्यौ च- 'ममाऽत्यहितमापतितं यदशरण्यारण्ये पत्या मुक्ता । अथवा मुखक्षालनाद्यर्थं नलो गतो भवेत्' । एवं बहुशो विकल्पान् कुर्वती सा स्वप्नं स्मृत्वा नलेन त्यक्ताऽस्मीति निश्चितवती । ततो धैर्यमाधाय विलपन्ती सा कुत्राऽपि शान्तिमप्राप्नुवती वने भ्रमन्ती वस्त्राञ्चले तान्यक्षराणि दृष्ट्वा हृष्टा वाचयामास । वाचयित्वा च सा दध्यौ - 'नूनमहं तस्य प्रिया । कथमन्यथैवमादिशेत् । तत्पत्युरादेशं करोमि, पितुर्गृहं व्रजामि । पत्या सहाऽपि तत्रैव जिगमिषुरहमित्यद्य पतिनिदेशाद् यामि' । एवं निश्चित्य सा वटमार्गेण गन्तुं प्रचक्रमे । तत्सतीत्वप्रभावाच्च व्याघ्राद्याः स्वयं दूरं ययुः । तथा सा विक्षिप्तकेशा त्वरितं गच्छन्ती मार्गे राज्ञः शिबिरमिव महर्द्धिकं सार्थमावासितं ददर्श । ततः सा दध्यौ - 'यदि कश्चित् सार्थः प्राप्यते तदा स वनेऽवलम्बः स्यात्' ।
तदानीमेव च दस्यवः सार्थं रुरुधुः । सार्थजनाश्च तां दस्युसेनां दृष्ट्वा भयं जग्मुः । दवदन्ती च मा भैष्ट सार्थलोका !' इति तानुवाच । तथा चौरान् निर्भर्त्सयन्नुवाच- 'मया सार्थो रक्षितः, तदमुं विहाय दूरं यात । अन्यथाऽनर्थमाप्स्यथ' । किन्तु दस्यवस्तद्वाचं नाऽजीगणन् । ततः क्रुद्धा दवदन्ती हुङ्कारांश्चकार । तेन च भीता दस्यवो धनुर्ध्वनेः काका इव पलायामासुः । सार्थजनश्चाऽस्मत्पुण्यैरा
अष्टमं पर्व तृतीयः सर्गः
कृष्टा काऽपीयं देवता, यदस्मांश्चौरेभ्योऽरक्षयदित्यूचुः । सार्थेशोऽपि भक्त्या मातरमिव तां प्रणम्य त्वं काऽसि, किमिहाऽरण्ये भ्रमसी'ति पप्रच्छ । भैमी च सबाष्पलोचना नलघुतादारभ्य सर्वमात्मनो वृत्तान्तं शशंस |
तत्छ्रुत्वा सार्थेश उवाच - नलस्य पत्नीति त्वं मम पूज्याऽसि । तस्करेभ्यो रक्षणात् तवोपकारक्रीतोऽस्मि च । तन्ममाऽऽवासं पुनीहि । एवमुक्त्वा सार्थवाहस्तां निजे पटगृहे नीत्वा देवतामिवाऽऽराधयन् विश्रामयामास । तदानीं च मेघोऽखण्डधारं वर्षितुं प्रारब्धवान् । सर्वतश्च मही जलैः पूर्णा पङ्कैर्दुर्गमा चाऽभूत् । तदा त्रिरात्रं निरन्तरं वृष्टिः प्रावर्त्तत । दवदन्ती च पितृगृह इव तत्रैव सुखं न्यवसत् ।
अथ मेघे वर्षाद् निवृत्ते सति दवदन्ती पुनः सार्थं हित्वैकाकिन्येव नलप्रवासदिवसादेव चतुर्थादितपः परायणा निर्गत्य शनैः शनैर्गच्छन्ती महाभीषणमन्तकपुत्रमिव राक्षसमद्राक्षीत् । स राक्षसश्च - 'बुभुक्षितस्य मे चिराद् भक्ष्यं लब्धं त्वां शीघ्रमेव भक्षयिष्यामी'ति तामुवाच । सा च भीताऽपि धैर्यमाधायोवाच- 'त्वं मद्वचः शृणु, पश्चाद् यथेष्टं कुरु । मृत्योर्न मे भीः, जैनधर्मेण कृतार्थ मे जन्म । किन्तु परस्त्रियं मा स्पृश मा भक्षयन्नपि त्वं ममाऽऽक्रोशेन सुखं न प्राप्स्यसि तत्क्षणं विचारय' । तच्छ्रुत्वा स राक्षसस्तस्या धैर्येण प्रसन्नोऽवदत्- 'भद्रे ! त्वयि प्रसन्नोऽस्मि, वद, किं तवोपकरोमि ?'
ततो दवदन्त्यूचे-'यदि प्रसन्नोऽसि तर्हि पृच्छामि - 'कथय, कदा मे पतिसङ्गमो भवेत् ?' ततो राक्षसोऽवधिना ज्ञात्वा
Page #53
--------------------------------------------------------------------------
________________
८०
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः प्रवासदिवसाद् द्वादशे वर्षे पूर्णे पितृगृहे स्थितायास्तव स्वयमेवाऽऽगतो नलो मिलिष्यति, सम्प्रति धैर्यमाधेहि । तथा यदि त्वमनुमन्यसे तदा त्वां क्षणादेव पितृगृहं नयामि' । ततो दवदन्त्युवाच'तव नलसङ्गमकथनादेव कृतार्थाऽस्मि । परपुरुषेण सहाऽहं गन्तुं नेच्छामि, तुभ्यं स्वस्त्यस्तु, यथेष्टं व्रज' । ततः स राक्षसस्तेजोमयं निजं रूपं दर्शयित्वा नभस्युत्पपात ।
अथ दवदन्ती पत्युादशवार्षिकं प्रवासं विज्ञायाऽभिग्रहांश्चकार-'यावद् नलो न मिलति तावद् रक्तवस्त्राणि, ताम्बूलं, भूषणानि, विलेपनं, विकारांश्च नाऽऽदास्ये' इति । तथा सा पर्वतस्य कन्दरां प्राप्य वर्षर्तुमतिवाहितुं तत्रैव न्यवसत् । तत्र च शान्तिजिनस्य स्वयं मृण्मयं बिम्ब रचयित्वा कन्दराकोणे प्रतिष्ठापयामास । स्वयं पतितानि पुष्पाणि चाऽऽनीय त्रिसन्ध्यं तद्विम्बं पूजयामास । चतुर्थादितपसः पारणं च प्रासुकैर्बीजरहितैः फलैश्चकार । __ अथ सार्थवाहो दवदन्तीं सार्थमध्येऽपश्यन् तस्याः कुशलं चिन्तयननुपदं जगाम । तद्गुहां प्राप्य च जिनबिम्बपूजालीनां दवदन्तीं सकुशलां दृष्ट्वा प्रसन्नसार्थवाहस्तां नत्वा विस्मितो भूमावुपाविशत् । दवदन्ती च पूजां समाप्य स्वागतवचनादिभिस्तेन सह वार्तालापं व्यधात् । तत्र च समीपवासिनस्तापसास्तत्र तच्छब्दमाकर्ण्य शीघ्रमाययुः । मेघश्च धारासारं वषितुं प्रारब्धवान् । ततो जलधाराभिस्ताड्यमानास्ते क्व गच्छामो यत्र जलात् त्राणं भवेदित्यूचुः ।
ततस्तान् भीतान् दृष्ट्वा मा भैष्टेति तानाश्वास्य तेषां परिवेषे कुण्डं कृत्वोवाच-'यद्यहं जिनभक्ता शुद्धमनाः सत्यस्मि तर्हि मेघः
अष्टमं पर्व - तृतीयः सर्गः कुण्डादन्यत्र वर्षतु' । ततस्तदैव वृष्टिश्छत्रेण निवारितेव तत्कुण्डे न पपात । तद् दृष्ट्वा च सर्वे चिन्तयामासुः-'इयं मानुषीरूपेण काऽपि देवता' ।
ततः सार्थवाहस्तां पप्रच्छ-'भद्रे ! त्वया कोऽयं देवः पूज्यते?' ततो दवदन्त्युवाच-'अर्हन्तं देवं पूजयामि, एतत्प्रभावादेव निर्भया तिष्ठाम्यत्र' । एवमुक्त्वा सा वसन्ताख्याय तस्मै सार्थवाहायाऽऽर्हतमहिंसादिकं धर्ममचीकथत् । वसन्तश्च तथाख्यातं तं धर्म प्रतिपद्य दिष्ट्या धर्मकामधेनुर्मया प्राप्तेत्यवदत् । तत्रस्थास्तापसा अपि च तं धर्म स्वीचक्रुः । वसन्तसार्थवाहश्च तत्रैव महेभ्यैरशून्यं पुरमवासयत् । तत्र तापसानां पञ्चशती प्रतिबोधं प्राप्तेति सा तापसपुरीति ख्याता । तथा स सार्थवाहस्तत्र शान्तिजिनचैत्यं निर्मापयामास । तैस्तापसैः सह ससार्थवाहाः सर्वे जना अर्हधर्मलीनास्तत्र समयं गमयामासुः । ___अन्यदा च दवदन्ती पर्वतशिखरे निशीथे महान्तमुद्योतं देवानसुरान् खेचरांश्च ददर्श । तेषां जयजयारावेण विनिद्राः सर्वे जनाः सविस्मयं तद् ददृशुः । ततो दवदन्ती तैस्तापसप्रभृतिभिः सह तं गिरिमारुरोह । तत्र च सिंहकेसरिणो मुनेः प्राप्तकेवलस्य तैर्देवादिभिः केवलमहिमानं प्रारब्धं ददृशुः । ततस्ते तं मुनि वन्दित्वा तत्र यथास्थानमुपाविशन् । तस्य मुनेगुरुयशोभद्रसूरिश्च तदा तत्राऽऽगतस्तं केवलिनं ज्ञात्वा वन्दित्वाऽग्रे उपाविशत् । सिंहकेसरी मुनिश्च धर्मदेशनां विदधे
'भवे भ्राम्यतां देहिनां मानुष्यमतिदुर्लभम् । तल्लब्ध्वा सफलं कार्यम् । तत्फलं जीवदयाप्रधानो मुक्तिप्रदो जैनो धर्मः' । एवं
Page #54
--------------------------------------------------------------------------
________________
त्रिषष्टिशलाकापुरुषचरितम् - गद्यात्मकसारोद्धारः
श्रुतिप्रियं सद्धर्ममाख्याय स मुनिः संशयच्छेदाय कुलपतिमब्रबीत्- 'दवदन्त्या तव यो धर्म आख्यातः स तथैव । इयमाजन्माऽर्हत्परायणा नाऽन्यथा भाषते । अस्याः प्रभावश्च वृष्टे रक्षणरूपो रेखाकुण्डे धृतेन त्वयाऽनुभूत एव । सतीत्वप्रभावाच्चाऽस्याः सदैव देवताः सन्निहिता भवन्ति । तेनेयं वनेऽपि सुखमास्ते । अनया हुङ्कारमात्रेण चौरेभ्यः सार्थो रक्षितः ' ।
८२
अथ तदानीमेव कोऽपि देवस्तत्र समागत्य केवलिनं नत्वा दवदन्तीमुवाच- 'भद्रे ! अत्र तपोवने कुलपतेः शिष्योऽहं कर्परो नाम तेजस्व्यभवम् । पञ्चाग्निप्रभृतितपः परायणमपि मां तापसा नाऽपूजयन् वचसा वाऽपि नाऽभ्यनन्दन् । ततोऽभिमानेनाऽहं तत् तपोवनं विहाय क्रोधादन्यत्राऽगाम् । गाढान्धकारे गच्छंध पर्वतकन्दरायां पतितः । शिलाखण्डाघाताद् मे सर्वे दन्तास्त्रुटिताः । दन्तपातव्यथार्त्तश्च तथैव तत्र सप्तरात्रमस्थाम् । तापसाश्च ममाऽन्वेषणमपि न चक्रुः । तेन च तेषु मम महान् क्रोध उदभूत् । रौद्रध्यानार्त्तश्च मृतोऽत्रैव तापसवने महाविषधरोऽभवम् ।
एकदा च त्वद्दशनाय धावमानोऽहं त्वत्पठितनमस्कारमन्त्रेण रुद्धगतिरेकस्मिन् बिले प्राविशम् । तत्र च नष्टशक्तिः कथमपि भेकादीन् जीवान् भक्षयन्नजीवम् । अन्यदा च मेघे वर्षति तापसानां त्वया कथ्यमानं धर्ममश्रौषम् । तच्छ्रुत्वाऽहमचिन्तयम्- 'सर्वदा जीवहिंसापरस्य पापात्मनः सर्पस्य मम का गतिः । तथा क्वेमे तापसा मया दष्टा इत्यचिन्तयम् । तदा चोत्पन्नजातिस्मृत्या पूर्वं भवं ज्ञात्वोत्पन्नवैराग्योऽनशनमकार्षम् । तेन च विपद्य सौधर्मे देवोऽभूवम् । सोऽहं कुसुमसमृद्धे विमाने कुसुमप्रभो नाम
अष्टमं पर्व तृतीयः सर्गः
देवस्त्वत्प्रसादात् स्वर्गसुखं भुञ्जानस्तिष्ठामि । त्वत्कथितधर्मश्रवणस्यैवैतत् फलं मम । अन्यथा ममैषा गतिः कुतः ? अवधिज्ञानाच त्वामुपकारिणीं विज्ञाय द्रष्टुमागतोऽस्मि । अतः परं तवाऽहं धर्मपुत्रः' ।
एवं दवदन्त्याः स्वं ज्ञापयित्वा स देवस्तापसानुवाच- 'भो तापसाः ! पूर्वभवे मम तत्कोपाचरणं क्षमस्व, प्रपन्नं श्रावकत्वं पालयत च' । एवमुक्त्वा स देवस्तस्य सर्पस्य शरीरं गिरिगुहात उद्धृत्य नन्दिवृक्षे लम्बयित्वोवाच- 'यः कोऽपि कोपं करोति स पूर्वमहमिव सर्पो भवेत्' । तदा कुलपतिः कर्मलाघवात् परमं वैराग्यं प्राप्य केवलिनं नत्वा दीक्षां ययाचे । ततः केवल्युवाच - 'असौ मम गुरुर्यशोभद्रसूरिस्तव व्रतं दास्यति' । ततो विस्मितः कुलपतिः कथं प्रव्रज्यां गृहीतवानसीति केवलिनं पप्रच्छ ।
ततः केवली पुनरुवाच- 'कोशलायां पुरि नलनृपस्याऽनुजः कूबरो राज्यं कुरुते, तस्याऽहं पुत्रः । सङ्गापुरेशश्च केसरी नृपः स्वकन्यां बन्धुमतीं मह्यं ददौ । पित्राज्ञया तत्र गत्वा तां परिणीयाssदाय च स्वपुरीं प्रति प्रचलितेन मया मार्गेऽयं गुरुरनेकशिष्यपरिवृत्तः समवसृतो दृष्टः । परया भक्त्या वन्दित्वा च मयाऽस्य धर्मदेशना श्रुता । देशनान्ते कियदायुर्ममेति मया पृष्टश्च मुनिरयं पञ्चदिवसा इत्यवोचत् । ततोऽहमासन्नं मरणं ज्ञात्वाऽत्यन्तं भीतः । मुनिश्च मां मा भैषीरित्याश्वासयन् दीक्षां ग्रहीतुमुपादिशत् । ततः प्रव्रज्याऽहमत्राऽऽगतः शुक्लध्यानस्थः केवलं प्राप्तवानस्मि' । एवमुक्त्वा च स सिंहकेसरिमुनिर्योगान् निरुध्य कर्म क्षपयित्वा परमं पदं प्राप । देवाश्च तच्छरीरं पुण्यक्षेत्रे नीत्वा यथाविध्यग्निसात् कृतवन्तः । स विमलमतिः कुलपतिश्च श्रीयशोभद्रसूरेः प्रव्रज्यां
Page #55
--------------------------------------------------------------------------
________________
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः
गृहीतवान्, दवदन्त्यपि तन्मुनेर्व्रतमयाचत । ततो नलेन सह तव भोगकालोऽवशिष्यते इति नाऽधुना व्रतयोग्याऽसीति तां निषिध्य प्रभाते स सूरिः पर्वतादुत्तीर्य तापसपुरं गत्वा चैत्यं वन्दित्वा पौरा धर्ममुपादिशत् ।
८४
अथ दवदन्ती मलिनाऽङ्गवस्त्रा धर्मध्यानलीना तत्र गिरि - कन्दरायां सप्ताब्दीमवसत् । तत्र चैकः पथिको दवदन्तीमवोचत्'अमुकप्रदेशेऽद्य तव पतिर्मया दृष्टः । दवदन्ती च हर्षावेशात् तच्छब्दमनुधावितवती । स पथिकच तां गुहाया निःसार्य क्वाऽप्यन्तर्हितवान् । दवदन्ती च तमदृष्टवती, गुहां चाऽत्यजदित्युभयतो भ्रष्टा जाता । ततः सा महारण्ये भ्राम्यन्ती पदे पदे स्खलन्ती रुदती विलपन्ती किं करोमि, क्व गच्छामीति ध्यायन्ती तां गुहां प्रत्येव चलितवती । सा चैकया राक्षस्या दृष्टा, 'त्वां भक्षयिष्यामी' त्युक्ता च ।
ततो दवदन्त्यूचे- 'यदि मम नल एव प्रीतिस्तर्हि तत्प्रभावात् त्वमपूर्णेच्छा भव' । तच्छ्रुत्वा च सा राक्षसी निवृत्तभक्षणेच्छा सामान्यनारीयमिति तां प्रणम्य सहसैवाऽन्तर्दधौ । ततोऽग्रे गच्छन्ती दवदन्ती निर्जलामेकां नदीं दृष्ट्वा तृषार्त्ताऽवदत्- 'यद्यहं सम्यक्त्ववती तदाऽत्र गङ्गायामिव निर्मलं जलमस्तु' । एवमुक्त्वा सा पाणिना महीं प्रजहार । तेन च नदी सद्य एव जलपूर्णा जाता । तत् पीत्वा चाऽग्रे गच्छन्ती श्रान्ता वटतरोरधस्तादुपाविशत् ।
ततः सार्थादागताः पथिकास्तां तथाविधां दृष्ट्वा काऽसि त्वमिति पप्रच्छुः । अहं सार्थभ्रष्टा वने वसामि, तापसपुरं जिगमिषामि, मां मार्ग दर्शयेति सोदतरत् । ततस्ते ऊचुः - इतः
अष्टमं पर्व तृतीयः सर्गः
पश्चिमां दिशं गच्छ, वयं त्वरिताः स्मः तेन मार्गदर्शनं कर्तुं न समर्थाः । इतो जलमादाय सार्थं यास्यामः, तत्र यदि गच्छसि तर्ह्यागच्छ' । ततः सा तैः सह सार्थं प्राप । धनदेवश्च सार्थेशः काऽसि, कुतोऽत्र प्राप्ताऽसीति पप्रच्छ । ततो दवदन्त्यूचे- 'अहं वणिक्पुत्र्यस्मि, भर्त्रा सह पितुर्गृहं प्रस्थिता रात्रौ तेन त्यक्ता त्वदीयैः पुरुषैरिहाऽऽनीता । तन्मां क्वाऽपि वसतौ नय' ।
ततः सार्थेशो जगाद - 'अहमचलपुरं गच्छामि, त्वमप्यागच्छ, अक्लेशेन त्वां तत्र नयामि' । एवमुक्त्वा स तां सुतामिवोत्तमयाने समारोप्य प्रस्थितवान् । मार्गे च पर्वतनिकुञ्जे सार्थमावासयामास । दवदन्ती च रात्रौ सुखं शयाना सार्थे स्थितेन केनचिद् गीयमानं नमस्कारमन्त्रमशृणोत् । ततः साऽमुं साधर्मिकं द्रष्टुमिच्छामीति सार्थेशमुवाच । सार्थवाहश्च तामादाय तस्य नमस्कारपाठकस्याऽऽवासं ययौ । तं च चैत्यवन्दनां कुर्वन्तं पटगृहस्थं श्रावकं दृष्ट्वा तेन वन्द्यमानमार्हतं श्यामच्छविं बिम्बं नत्वा चैत्यवन्दनान्ते तं पप्रच्छ- 'कस्याऽर्हत इदं बिम्बम् ?' ततः श्रावक उवाच- 'इदं भविष्यत एकोनविंशस्य मल्लिजिनस्य बिम्बम् । एतद्विम्बपूजने कारणं श्रृणु ।
अहं काञ्चीपुरवास्तव्यो वणिगस्मि । तत्र चैकदा धर्मगुप्तो मुनिराययौ । रतिवल्लभोद्याने समवसृतं तं मुनिं वन्दित्वाऽहमपृच्छम् - 'मम क्व तीर्थे मोक्षः। ततः स आह- 'मल्लिजिनतीर्थे स्वर्गाच्च्युत्वा त्वं मिथिलेशः प्रसन्नचन्द्रो नाम नृपो भविष्यसि । तत्र च मल्लिजिनदर्शनं प्राप्योत्पन्नकेवलः परमं परमेष्यसि । तत्प्रभृत्यहं पटे तद्विम्बं लिखित्वा भक्त्या पूजयामि । एवं स्व वृत्तान्तमाख्याय स श्रावकस्तां पप्रच्छ त्वं काऽसि। ततो धनदेव
Page #56
--------------------------------------------------------------------------
________________
८६
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः स्तस्याः पतिवियोगादिकं सर्वं वृत्तमाख्यातवान् । ततो दुःखितः स श्रावक:-'मा शोची:, कर्मफलं दुःखम्, अत्र सुखमास्स्वे'त्यवदत् । प्रातश्च सार्थवाहोऽचलपुरं प्राप्य तत्र दवदन्तीं मुक्त्वाऽन्यत्र जगाम ।
अथ तत्र तृषार्ता दवदन्ती नगरद्वारवाप्यां प्रविष्टा वामचरणे गोधया गृहीता जलहारिणीभिर्ददृशे । नमस्कारमन्त्रपाठप्रभावेण तया मुक्ता च वारि पीत्वा वाप्या निर्गत्य भीता तत्तटे उपविष्टा । तत्र च पुरे ऋतुपर्णो नाम नृपोऽभवत् । तस्य पत्नी च चन्द्रयशाः । तस्या दास्यश्च तत्र जलमाहर्तुमागता दुर्दशां प्राप्तां देवीमिव तां भैमी ददृशुः । ततो विस्मिता गत्वा चन्द्रयशसे कथयामासुः । तच्छृत्वा चन्द्रयशा उवाच-'तां द्रुतं समानयत, सा मत्पुत्र्याश्चन्द्रवत्या भगिनीवेह भविष्यति' । ताश्च सत्वरं तत्राऽऽगत्य तां लक्ष्मीमिव पुराभिमुखं स्थितां ददृशुः । 'ऋतुपर्णनृपस्य महिषी चन्द्रयशास्त्वां सगौरवमाह्वयति, त्वं चन्द्रवती पुत्रीव मे इति कथयति च, तदेहि, दुःखं त्यज, अन्यथाऽत्र स्थिता व्यन्तरादिभिराविष्टाऽनर्थमाप्स्यसी'त्यवोचन् ताः ।
ततो दवदन्ती तद्वचसा स्निग्धहृदया ततश्चलिता स्वामिनीव ताभिरुपचर्यमाणा नृपगृहं प्राप्ता । किन्तु स्वमातुः पुष्पदन्त्याः सहोदरा चन्द्रयशा मातृष्वसैवेति सा न विवेद । चन्द्रयशाश्च दवदन्ती मम जामेयीति जानानाऽपि बाल्ये दृष्टत्वात् तां नोपालक्षयत् । तथाऽपि दूरादेव प्रणमन्तीं तां पुत्रीप्रेम्णा ददर्श । चन्द्रयशसा काऽसि त्वमिति पृष्टा च सार्थवाहवत सर्व कथयामास । ततश्चान्द्रयशास्तामुवाच-'मद्गृहे चन्द्रवतीव सुखं तिष्ठ' ।
अन्यदा च चन्द्रयशाश्चन्द्रवतीं स्वसुतामुवाच-'इयं तव स्वसा मद्भगिन्या दवदन्त्याः सदृशी । किन्तु सोऽस्माकमपि स्वामी
अष्टमं पर्व - तृतीयः सर्गः नलस्तस्य सा पत्नीति तस्या अत्राऽऽगमनं न सम्भाव्यते । यतस्तस्या नगरीतो योजनानां सचतुश्चत्वारिंशतिशते' । सा च चन्द्रयशाः प्रतिदिनं नगराद् बहिर्दीना-ऽनाथादिभ्यो यथेष्टं दानं ददौ । तां च वैदर्युवाच-'अत्राऽहं दानं ददामि, कदाचिद् मे पतिर्याचकवेषो-ऽत्राऽऽगच्छेत्' । ततस्तयाऽऽज्ञाता सा पत्याशया यथास्थिति दानं ददौ । तथा प्रतिदिनं प्रत्येकं याचकान् 'युष्माभिरीदृग्रूपः कोऽपि पुमान् दृष्ट' इत्यपृच्छत् । ___ एकदा च सा दानशालास्थिताऽऽरक्षैर्बद्धाऽग्रे डिण्डिमवादनेन नीयमानं चौरं ददर्श । ततः सा भैमी भटानपृच्छत्-'किमनेनाऽपराद्धं येनाऽस्येदृशी दशा ?' ततस्ते ऊचुः-'अनेन चन्द्रवत्या राजपुत्र्या रत्नकरण्डकं हृतम् । तेनाऽसावित्थं वधस्थाने नीयते' । चौरश्च नत्वा दवदन्तीमुवाच-'त्वया दृष्टस्य मम मरणमयुक्तं, मम शरणं भव' । ततो भैमी चौरमुवाच-'मा भैषीः, तव जीवने न संशयः' । तमेवमुक्त्वा सा 'यद्यहं सत्यस्मि तद्यस्य बन्धनानि भिद्यन्तामि'त्येवं सतीत्वश्रावणां कृत्वा भङ्गारजलैर्जलैश्चौरं त्रि: सिषेच । तेन च तद्बन्धनानि विशीर्णानि ।
ततस्तत्र कलकले जाते किमेतदिति कौतुकाद् ऋतुपर्णः सपरिच्छदस्तत्राऽऽगत्य विस्मितो दवदन्तीमवाच-'पत्रि ! चौरनिग्रहो राजधर्मः, अन्यथा धर्मलोप: स्यात्, लोकश्च निर्भयः परस्वमपहरेत्' । ततो वैदर्युवाच-'अहं श्राविका दयाधर्मप्रधाना, मयि पश्यन्त्यां कस्याऽपि मारणं मम दुःसहम् । तदस्याऽपराधः क्षम्यताम्, अयं मम शरणागतः । तत ऋतुपर्णस्तं महासत्या दवदन्त्या धर्मपुत्र एष इति कृत्वा मुमोच । स चौरश्च मुक्तो भैमीं मातेति जल्पन् ननाम ।
Page #57
--------------------------------------------------------------------------
________________
८८
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः एकदा च दवदन्ती तं चौरमपृच्छत्-'त्वं कोऽसि, कुत आयासीति निर्भयं वद' । ततः स चौर उवाच-तापसपुरे वसन्तसार्थवाहस्याऽहं किङ्करः पिङ्गलनामा । व्यसनिना वसन्तस्यैव गृहे खात्रेण सारं धनं चोरितम् । ततश्च तदादाय पलायितोऽहं मार्गे लुण्टाकैटुंण्टित: । अत्राऽऽगतश्च नृपमृतुपर्णं सेवमानोऽधर्मबुद्धिश्चन्द्रवत्या रत्नकरण्डिकाममुष्णाम् । तदादाय निर्गच्छंश्चाऽहं चौरेङ्गितजैर्लक्षितो नपाज्ञया बद्धश्च वधार्थ नीयमानस्त्वया दृष्टस्त्वां शरणं प्रपन्नो मोचितोऽस्मि ।
किं च तापसपुरात् त्वयि निर्गतायां वसन्तस्त्यक्तभोजनो यशोभद्रसूरिणाऽन्यजनेन च बोधित: सप्तरात्रमुपोष्याऽष्टमे दिने भुक्तवान् । अन्यदा च स वसन्तो महार्घमुपहारमादाय कूबरनृपं द्रष्टुं जगाम । कूबरनृपश्च तेनोपहारेण प्रसन्नस्तस्मै च्छत्रादिचिह्नसहितं तापसपुरराज्यं ददौ । तथा तं सामन्तं विधाय नृपः कूबरस्तस्य वसन्तश्रीशेखर इति नामान्तरं चकार । ततः स वसन्तः कूबरेण विसृष्टो वाद्यमानया भम्भया तापसपुरमागत्य राज्यमकरोत्' ।
ततो दवदन्ती तमुवाच-'त्वं प्रव्रज्यां गृहीत्वा प्राक्कृतं दुष्कृतं परिशाटय । ततः स पिङ्गलो मातुरादेशः प्रमाणमिति तत् स्वीचकार। तदानीमेव च तत्र भ्राम्यत् समागतं मुनिद्वयं भैम्या प्रत्यलाभि । तथाऽयं जनः पिङ्गलो योग्यो व्रतदानेनाऽनुग्राह्य इति प्रार्थितं च । ततस्तौ मुनी व्रतं याचमानं पिङ्गलं देवगृहे नीत्वा तत्कालमेव प्रावाजयताम् ।
अष्टमं पर्व - तृतीयः सर्गः प्रविष्टो जीवति न वेति न ज्ञायते' इत्यत्रौषीत् । पुष्पदन्ती च राज्ञी नृपमुखात् तच्छ्रुत्वाऽत्यन्तं रुरोद । ततो नृपेण नलान्वेषणाय बटुर्हरिमित्रो नियोजितो नलं दवदन्ती च सर्वत्राऽन्वेषयन्नचलपुरे राजपर्षदं प्राविशत् । तत्र चन्द्रयशसा पुष्पदन्त्यास्तज्जनस्य च कुशलं पृष्टो राज्ञः पुर उपविष्टः स बटुर्नल-दवदन्त्यो तादारभ्याऽखिलां कथां कथयामास । तच्छ्रुत्वा रुदत्यां चन्द्रयशसि सर्वो लोको रुरोद । बटुश्च सर्वं दुःखितं प्रेक्ष्य क्षुधा कृशोदरो दानशाला ययौ । तत्र भोजनार्थमुपविष्टो दानशालाधिकारिणी दवदन्तीमुपलक्ष्य हर्षपुलकिततनुः क्षुधं विस्मृत्य तस्याः पादौ ववन्दे । ततो 'देवि ! केयं तेऽवस्था ? दिष्ट्या जीवन्ती दृष्टाऽसि, सम्प्रति सर्वेभ्यः स्वस्ति' इत्युक्त्वोत्थाय तव दानशालायां दवदन्त्यस्तीति चन्द्रयशसमवर्धयत् ।
चन्द्रयशाश्च तच्छ्रुत्वा शीघ्रं गत्वा दानशालायां दवदन्तीमालिङ्गयोवाच-'वत्से ! धिग् मां, यया त्वं नोपलक्षिता । त्वयाऽऽत्मगोपनं कृत्वा किं वञ्चिताऽस्मि? यदि दैवाद् विपदागतैव, तर्हि मातृकुले का लज्जा ? हन्त, त्वया नलस्तेन वा त्वं त्यक्ताऽसि ? नूनं तेनैव सतीत्वं मुक्ताऽसि । दुःखं त्यज । मया नोपलक्षितेति विप्रियं सहस्व, तव भाले स रवितिलकः क्वे'त्येवं वदन्ती सा दवदन्त्या भालममार्जयत् । तेन च तत्कालं वैदा भालतिलको मेघमुक्तः सूर्य इव दिदीपे ।
ततश्च चन्द्रयशास्तां स्नपयित्वा सूक्ष्मे धवले च वस्त्रे परिधापयित्वा पाणिना गृहीत्वा नृपसमीपे उपविष्टवती । तदानीं च सूर्योऽस्तं जगाम । क्रमशश्च सूचिभेद्येन तमसा गगनं व्याप्तम् । किन्तु वैदर्भीभालतिलकतेजोभिस्तिरस्कृतं तमो नृपगृहे प्रवेशं नाऽऽप्नोत् ।
अथाऽन्यदा विदर्भेशो भीमरथः 'कूबरेण द्यूते पराजित्य हृतराज्यो नलो निर्वासितः । स च दवदन्तीं गृहीत्वा महाटवीं
Page #58
--------------------------------------------------------------------------
________________
अष्टमं पर्व - तृतीयः सर्गः गङ्गामिवाऽऽलिङ्गय गले लगित्वा च भृशं रुरोद । अनन्तरं च जलेन मुखं प्रक्षाल्य ते परस्परं संलेपतुः । पुष्पदन्ती च दवदन्तीमङ्कमारोप्य भाग्यात् त्वं दृष्टाऽत्र सुखेन कालं गमयन्ती चिरादपि पति द्रक्ष्यस्येवेत्युवाच । नृपश्च तुष्टो हरिमित्राय ग्रामाणां पञ्चशतीमदात् । तथा नले समागते राज्याधं दास्यामीत्युवाच । पुरे च दवदन्त्यागमोत्सवं देवपूजादिकं च सप्तदिनानि यावद् नृपः कारयामास । अष्टमे दिवसे च नृपो दवदन्तीमुवाच-'तथोपायः करिष्यते यथा शीघ्रं नलः समेष्यति' ।
९०
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः ततो नृपो देवीमुवाच-'सूर्येऽस्तमितेऽपि दीपादीनामभावेऽपि कुतो नेह तम: ?' ततो राज्ञी दवदन्त्याः सहजं तेजस्विनं तं तिलकं नृपायाऽदर्शयत् । राजा च कौतुकात् तं तिलकं पाणिना प्यधात् । ततश्च सर्व राजकुलं तमसा गिरिकन्दरेवाऽऽच्छन्नं जातम् । ततः प्रसन्नो नृपः पाणिमपसार्य भैमी राज्यभ्रंशादिकां कथामपृच्छत् । भैमी च नम्रमुखी रुदती नल-कूबरयो तादारभ्य सर्वं वृत्तान्तं कथयामास । ततो नृपः स्वोत्तरीयाञ्चलेन वैदा नेत्रं सम्मार्योवाच-'पुत्रि ! मा रोदीः, भाग्यं ह्यप्रतिविधेयम्' । ___ अत्राऽवसरे च दिवः कश्चिद् देवः सभायामवतीर्य कृताञ्जलिभैमीमुवाच-दवदन्ति ! तवोपदेशाच्चौरोऽहं पिङ्गलः प्रव्रज्य विहरन् तापसपुरं गतः श्मशाने प्रतिमया स्थितः । तत्र च चितानलेनोद्भूतो दवानल: सर्वत: प्रासरत् । धर्मध्यानस्थश्चाऽहं तेन दह्यमानोऽप्यप्रचलितो नमस्कारपरायणो दग्धशरीरो भूतले पतितो विपद्य पिङ्गलो नाम देवोऽभवम् । तव प्रसादादेव मम देवत्वम्, अन्यथा मम चौरस्य का गतिर्भवेत् ! । अवधिना तवोपकारं ज्ञात्वा त्वां द्रष्टुमागतोऽस्मि, त्वं सर्वदा विजयस्व' । एवमुक्त्वा स सप्तस्वर्णकोटीर्वृष्ट्वा विद्युदिव नभसि तिरोऽभवत् । तदानीं चाऽर्हद्धर्मप्रभावात् तस्य सद्यो देवत्वं बुद्ध्वा नृपः स ऋतुपर्णोऽपि तं धर्म प्रपन्नवान् ।
अथ हरिमित्रो नृपमुवाच-देव ! आज्ञापय, चिराद् दवदन्ती पितर्गहं यात्वि'ति । ततो नपश्चन्द्रयशसः सम्मत्या तथास्त्वित्यक्त्वा सेनया सह वैदर्भी विदर्भान् प्रैषयत् । आयान्ती दवदन्तीं श्रुत्वा च भीमरथोऽभ्याजगाम । वैदर्भी च पितरं दृष्ट्वा पादचारिणी स्मयमाना पितुः पादयोः पपात । तथा सा मातरं पुष्पदन्तीं यमुना
अथ नलस्तदानीं भैमी त्यक्त्वाऽरण्येऽटंस्तत्रैकतो धूमं समुत्थितं ददर्श । सधूमश्च ज्वालाजालभयङ्करो वनं व्याप्तवान् । दह्यमानानां वंशानां भीषणो रवो जज्ञे । तथा नल: श्वापदानामाक्रन्दं शुश्राव । तथा तदानीमेव स 'नृप ! नल ! मां रक्ष, त्वं यद्यपि निर्हेतुकोपकारव्रतस्तथाऽपि तवोपकरिष्यामी'ति मानुषं शब्दमप्यशृणोत् । तं शब्दमनुलक्ष्य गच्छंश्च स लतागहने रक्ष रक्षेति वदन्तं महोरगं ददर्श । ततः स तं सर्प पप्रच्छ-'त्वं मम नामादिकं कथं वेत्सि, तव मानुषी वाक् च कथम् ?' ततः स सर्पोऽवोचत्-'अहं पूर्वजन्मनि मनुष्योऽभवं, तदभ्यासादिहाऽपि मम मानुषी भाषा । ममाऽवधिज्ञानं चाऽस्ति, तेन तव नामादिकं जानामि' । ___ ततो दयालुर्नलस्तदुद्धाराय वल्लया उपरि निजं वस्त्रमक्षिपत् । भूस्पृष्टं वस्त्रं स्वभोगेन वेष्टयित्वा च लम्बमाने सर्प कूपादुद्ग्रहणीमिव तदाकृष्य दावानलरहिते प्रदेशे गत्वा तं सर्प नलो मुक्तवान् । स सर्पश्च सद्य एव नलस्य करेऽदशत् । ततो नल
Page #59
--------------------------------------------------------------------------
________________
त्रिषष्टिशलाकापुरुषचरितम् - गद्यात्मकसारोद्धारः उवाच-'कृतज्ञेन त्वयोपकारिणो मम साधूपकृतम् । त्वं जात्यैव क्षीरपायकस्याऽपि दष्टा'। एवं वदन्नेव नलो विषेण शरीरे प्रसर्पत। कुब्जतामापित: । तेन च स लघुपिङ्गलकेशो लम्बोष्ठो लघुपादकरो महोदरः सर्वाङ्गेन विकृताकारं प्राप्तवान् । ततः सोऽचिन्तयत्'अनेन रूपेण जीवनं धिक्, ततः परिव्रज्यां गृह्णामि' । एवं ध्यायति नले स सर्पः सर्परूपं दिव्यतेजाः सुरोऽभवत् ।
९२
ततः स नलमुवाच- 'मां विषादं गाः, तव पिताऽहं निषधस्तुभ्यं राज्यं दत्त्वा परिव्रजितो ब्रह्मलोके देवो भूत्वाऽवधिना त्वामित्थं दुर्दशं दृष्ट्वा मायासर्पो भूत्वा तवोद्धारायैव विकृताङ्गतां प्रापितवानस्मि । एतत्कटुकौषधमिव तवोपकाराय स्यात् । त्वया वशीकृता राजानो वैरूप्यात् त्वामनुपलक्ष्य सम्प्रति नोपद्रविष्यन्ति । परिव्रज्यां मा ग्रहीः । तवाऽद्याऽपि भूश्चिरं भोक्तव्याऽस्ति । अहं ते परिव्रज्योचितं समयं कथयिष्यामि । अतः परं त्वया सुस्थितेन भाव्यम् । तथेदं बिल्वफलं रत्नकरण्डकं च गृहाण, यत्नतश्चैतद् रक्षेः । यदा त्वं स्वपूर्णरूपमिच्छेस्तदेदं श्रीफलं स्फोटयेः, तन्मध्ये विशदानि शुद्धानि देवदूष्याणि द्रक्ष्यसि । तद्वस्त्राणि भूषणानि च परिधाय स्वकीयं देवोपमं पूर्वं रूपं समवाप्स्यसि ।
ततो नलः पितरं पप्रच्छ- 'तात! तव वधूर्दवदन्ती यत्र मया मुक्ता तत्रैवाऽस्ति, क्वाऽप्यन्यतो वा गता ?' ततः स देवो दवदन्त्या विदर्भप्राप्त्यन्तं वृत्तान्तं तस्याः सतीत्वं प्रशंसन्नुवाच । तथा नलं 'किं वने भ्रमसि, यत्र त्वं जिगमिषुस्तत्र त्वां नयामीति चाऽवोचत् । ततो नल उवाच- 'मां सुंसुमारपुरं नय' । देवोऽपि तथा कृत्वा निजधाम जगाम ।
अष्टमं पर्व तृतीयः सर्गः
अथ नलस्तत्पुरसमीपमार्गे नन्दनवने स्थितः सिद्धायतनं दृष्ट्वा तत्र प्रविश्य नमिनाथप्रतिमां दृष्ट्वा प्रणम्य ततो निर्गत्य सुंसुमारनगरद्वारं प्राप्तवान् । तत्र च गज आलानमुन्मूल्य भ्रमन्नासीत् । तथा स तत्र महान्तमुपद्रवं चकार । दधिपर्णनृपश्च वप्रमारुह्योवाच- 'यो गजं वशमानयेत् तस्येष्टं दास्यामि' । ततः कुब्जो नलस्तदाकर्ण्य विविधैश्छलैस्तं गजं खेदयित्वा खिन्नं तमारुह्य यथेष्टं वाहयामास । लोकाश्च तज्जयजयारावं चक्रुः । नृपश्च स्वयं तद्गले स्वर्णहारमक्षिपत् । ततो नलस्तं चारुवशे कृत्वाऽऽलाने बद्ध्वा तत उत्ततार । अनन्तरं नृपपार्श्वे तस्य मित्रमिवोपविवेश ।
ततो दधिपर्णस्तं पप्रच्छ 'गजहृदयवेदिन् ! कुब्ज ! किमन्यदपि वेत्सि ?' ततः कुब्ज उवाच- 'नृप ! तव किमन्यत् कथयामि, सूर्यपाकां रसवतीं जानामि किं तद् द्रष्टुमिच्छसि ?' ततो नृपः सूर्यपाकोत्सुको गृहं गत्वा कुब्जाय सर्वं पाकोपकरणमार्पयत् । ततः कुब्ज: सूर्यातपे तण्डुलादीन् मुक्त्वा विद्यां जपन् शीघ्रमेव दिव्यं पाकं निष्पादयामास नृपश्च सपरिच्छदस्तद् भुक्तवान् ।
तदास्वाद्य च दधिपर्ण उवाच - एवंविधं पाकं नल एव जानाति नाऽन्यः, नलं सेवमानस्य ममैष पाकश्चिरं परिचितः । तत्किं त्वं नलोऽसि विकृतरूपधृत्, यद् वा योजनानां शतद्वयान्तरितस्य तस्याऽत्र कुत आगमनम् । एवं प्रशस्य स कुब्जाय वस्त्राऽलङ्करणादिकं टङ्कलक्षं ग्रामपञ्चशतीं चाऽदात् । स कुब्जश्च ग्रामपञ्चशतीं मुक्त्वा सर्वं गृहीतवान् । ततो नृपोऽपृच्छत्'किमधिकान् ग्रामानिच्छसि' । ततः कुब्ज उवाच - 'ममैतामिच्छां पूरय- यद् मृगयां मद्यपानं च राज्ये निवारय । ततो राजा तद्वचनं स्वीकृत्य निजराज्ये मृगया - मद्यपानयोश्चर्चामपि न्यषेधयत् ।
Page #60
--------------------------------------------------------------------------
________________
अष्टमं पर्व - तृतीयः सर्गः
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः अथाऽन्यदा दधिपर्णो रहसि कुब्ज पप्रच्छ-'त्वं कोऽसि, कुत आगतः, क्व वास्तव्यश्चेति वद' । ततः कुब्ज उवाच-'अहं कोशलायां नलनृपस्य सूदो हूण्डिकाख्यः । अहं तत्समीप एव कलामग्रहीषम् । नलच भ्रात्रा कूबरेण द्यूतेऽखिलां महीं जितो दवदन्तीमादाय वनवासं प्रपन्नवान् । तथा स तत्रैव विपन्नवान् । अहं चाऽपात्रं कूबरं त्यक्त्वा त्वामुपागतोऽस्मि' । ततो दधिपर्णो नलमृत्युवार्त्तया सपरिच्छदो वज्राहत इव रुदोद । तथाऽश्रूणि मुञ्चन्नलस्य प्रेतकार्यं च चकार । कुब्जश्च गुप्तं विहसन् सर्वं ददर्श ।
अथाऽन्यदा दधिपर्णः केनाऽपि हेतुना भीमनृपसमीपं दूतं प्रेषयत् । दूतश्च भीमेन सत्कृतस्तत्समीपे निवसन्नेकदाऽवसरे नलस्य सूदो नलशिक्षया सूर्यपाकज्ञो मत्स्वामिनमुपागतोऽस्तीत्युवाच । तच्छ्रुत्वा चोत्कर्णा दवदन्ती पितरमुवाच- 'चरं प्रेष्य जानीहि यत् स कीदृशः सूदः । नलं विना नाऽन्यः सूर्यपाकां रसवतीं वेत्ति । नल एव कदाचिद् वेषान्तरेण भवेत् ? ततो नृपः कुशलनामानं द्विजं दक्षमाहूय सत्कृत्य-'सुंसुमारपुरं गत्वा तन्नृपसूदं पश्य, स कां का रसवतीं वेत्ति । किं रूपश्चेति जानीही'त्युवाच ।
ततः प्रभोरादेशः प्रमाणमित्युक्त्वा स द्विजः प्रस्थाय सुंसुमारपुरं प्राप्य पृष्ट्वा सूदं तं कुब्जं प्राप्य तं सर्वाङ्गविकृतं दृष्ट्वा विषण्णो 'दवदन्त्या वृथैव नलभ्रान्तिस्तथाऽपि परीक्षे' इति विचार्य नलनिन्दाभितं श्लोकद्वयं जगौ-‘एको नल एव निर्दयो निर्लज्जो निःसत्त्वो दुरात्मा च यः सती पत्नी तत्याज । विश्वस्तामेकाकिनी पत्नीं त्यक्त्वा तस्य मन्दमतेः पादौ गन्तुं कथमुत्थितौ ?' नलश्च पुन: पुन: पठ्यमानं तच्छ्रुत्वा प्रियां स्मरन्
भृशमश्रूणि मुञ्चन् रुरोद । किं रोदिषीति विप्रेण पृष्टश्च स कुब्जस्तव मनोहरं श्लोकं श्रुत्वा करुणया रोदिमीत्युवाच । तथा कुब्जेन श्लोकार्थं पृष्टश्च स द्विजो द्यूतादारभ्य कुण्डिनपुरे दवदन्तीगमनान्तं सर्वं वृत्तं शशंस । तथाऽग्रे पुनरुवाच-'धन्योऽसि त्वं कुब्ज ! यत् सूर्यपाकेन रसवतीं करोषि । भीमनृपस्य सुंसुमारेशदूतेन गीतव्यम् । भैम्या चैवंविधो नल एव नाऽन्य इत्यभ्यर्थ्य भीमेन त्वां द्रष्टुं प्रेषितोऽस्मि । त्वां दृष्ट्वा च हताशोऽचिन्तयम्-क्व त्वं कुब्जो विकृताकृतिः, क्व च दिव्यरूपो नलः । प्रस्थानकाले जातानि शकुनान्यन्यथा जातानि । यतस्त्वं नलो नाऽसि' ।
ततो दवदन्तीं ध्यायन्नधिकाधिकं रुदन् स साग्रहं द्विजं गृहे नीत्वोवाच-'महासत्या दवदन्त्या महापुरुषस्य नलस्य च कथां कथितवतस्तव किं स्वागतं करोमि ?' एवमुक्त्वा तस्य स्नानभोजनादिकं कारयित्वा दधिपर्णदत्तालङ्कारादिकं तस्मायादात् । ततः कुशलः सकुशलं कुण्डिनपुरं गत्वा भीमाय यथादृष्टं कुब्जवृत्तान्तमाख्यत् । कुब्जो यथा गजमखेदयत्, तं गजमारूढवांश्च, दृष्टां सूर्यपाका रसवतीं, स्वर्णमालां, टङ्कलक्षं वस्त्रा-ऽलङ्करणानि च श्लोकगानं च सर्वमेव यथायथं शशंस । __ ततो दवदन्त्युवाच-'तात ! स नल एव, आहारदोषेण कर्मदोषेण वा वैरूप्यं प्राप्तः । नलं विना नैतत् सर्वमन्यस्य कस्याऽपि । तत्केनाऽप्युपायेन तं कुब्जमिहाऽऽनय, यथाऽहं स्वयं परीक्षे, इङ्गितादिभिस्तं निरीक्षे च' । ततो भीमोऽवदत्-'पुत्रि ! तवाऽलीकं स्वयंवरं प्रारभ्य दधिपर्णस्याऽऽह्यनाय दूतः प्रेष्यते । तेन दधिपर्णोऽवश्यं समेष्यति । तेन सह कुब्जोऽप्यागमिष्यति । यदि स नलस्तहि स त्वामन्यस्मै दीयमानां न सहिष्यते । तथा
Page #61
--------------------------------------------------------------------------
________________
१७
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः नलोऽश्वहृदयवेद्यस्ति । यदि कुब्जो नलस्तदा स स्वयं रथं प्रेरयन् रथा-ऽश्वैरेवोपलक्षितः स्यात् । यतस्तस्य वाहयतः सतोऽश्वा महाजविनः स्युः । समीपगतं दिनमाख्येयम् । यस्तदाऽऽगच्छेत् स नल एव भवेत् । ___ ततो भीमो दूतेन पञ्चमीदिने स्वयंवरार्थं सुंसुमारेशमाह्वयत् । दधिपर्णश्च कथं श्वो गम्यते तत्रेति चिन्तया क्वाऽपि रतिं न लेभे । तज्ज्ञात्वा च कुब्जो दध्यौ-'दवदन्ती नाऽन्यं पुरुषमिच्छति । यदीच्छेत् तहि मयि सति कोऽन्यस्तां गृह्णीयात् ? अहं दधिपर्ण षड्भिर्याविदर्भा नयामि । अनेन प्रकारेण च तस्य ममाऽपि च प्रासङ्गिकं गमनं स्यात्' । एवं विचार्य स दधिपर्णमूचे-'मा विषीद, कारणं ब्रूहि' । ततो दधिपर्णोऽवोचत्-'कुब्ज ! नलो विपन्नः, तेन वैदाः पुनरपि श्वः स्वयंवरं करिष्यति, षड् यामा एव मध्ये सन्ति, तदेतावता समयेन कथं तत्र यामि ?' ततः कुब्जो जगाद'अचिरेणैव त्वां तत्र नेष्यामि, साश्वं रथं ममाऽर्पय'। ततो नृपेण स्वैरं गृहाणेत्येवमादिष्टः कुब्जः श्रेष्ठं रथं जात्यावश्वौ च गृहीतवान् । दधिपर्णश्च तं सर्वत: कुशलं वीक्ष्य दध्यौ-'नैष सामान्यः पुरुषः, कोऽपि देवो विद्याधरो वा स्यात् । तत: कुब्जो रथं साश्वं सज्ज कृत्वा नृपमुवाच 'रथमारोह, रात्र्यन्ते त्वां विदर्भा नेष्यामि' ।
ततो राजा स्थगीछत्रचामरधारिणः कुब्जश्च षडेते रथमारुरुहुः । तथा कुब्जस्तद्विल्वं रत्नकरण्डकं च वस्त्रेण कट्यामाबध्य पञ्चनमस्कारं स्मृत्वा वाहान् वाहयामास । तेन च रथवेगवायना दधिपर्णस्य प्रच्छदपटोऽपतत् । यावच्च दधिपर्णो 'रथं स्थिरीकुरु, पटं गृह्णामी'त्युवाच, तावद् रथः पञ्चविंशतियोजनी ललझे । ततः
अष्टमं पर्व - तृतीय: सर्गः स्मयमानः कुब्जोऽवदत्-'नृप ! नाऽस्ति ते पटी, पटीपातदेशाद् योजनपञ्चविंशतिर्गता । यद्युत्तमा वाहा भवेयुस्तदैतावता पञ्चाशद्योजनान्यपि गच्छेयुः । ___ततो दधिपर्णो दूरात् फलसम्भृतमक्षवृक्षं दृष्ट्वा सारथिमुवाच-'अस्मिन् वृक्षे यावन्ति फलानि तान्यगणयन्नप्यहं वेद्मि, परावृत्तस्तव कौतुकं दर्शयिष्यामि' । ततो नलो जगाद-'मय्यश्वहृदयवेदिनि सति कालक्षेपाद् मा भैषीः । अहमेकमुष्टिप्रहारेणैव सर्वाणि फलानि तवाऽग्रे पातयिष्यामि' । ततो दधिपर्ण उवाच'फलानि पातय, तान्यष्टादश सहस्राणि स्युः' । ततः कुब्जः फलान्यपातयत् । नृपश्च गणयामास । तानि फलानि तावन्त्येव बभूवुः । द्वौ च परस्परं विद्याविनिमयं चक्राते । प्रातश्च रथो विदर्भासमीपं गतः । तेन च दधिपर्णो नितरां मुमुदे । ___अथ तदानीमेव भैमीरात्रिशेषे स्वप्नं दृष्ट्वा प्रबुद्धा प्रमुदिता पितुरग्रे सर्वं यथायथं निवेदयामास-'मयाऽद्य गृहे सुखसुप्तया निर्वृतिदेवी दृष्टा । तथा तयेह गगने समानीते कोशलोद्याने तदाज्ञया पुष्पितं फलितं रसालवृक्षमारूढाऽस्मि । तया च मम हस्ते विकसितं कमलमर्पितम् । मया रसालेऽधिरूढायां सत्यां पुरा तमधिरूढः कश्चिद् विहगः सद्य एव भूमौ पपात' । तच्छ्रुत्वा च भीम उवाच'पुत्रि ! स्वप्नोऽयमुत्तमः । निर्वृतिदेवी तवोद्यत: पुण्यपुञ्जः । गगने दृष्टं कोशलोद्यानं च तव कोशलैश्वर्यं, वृक्षारोहणाच्च भर्ना सहाऽचिरादेव सङ्गमो भविष्यति । विहगपाताच्च कूबरो नृपो राज्यात् पतिष्यति, नाऽत्र संशयः । प्रभाते स्वप्नदर्शनाच्चाऽद्यैव तव नलो मिलिष्यति । प्रभातस्वप्नो हि शीघ्रफलप्रदः' ।
Page #62
--------------------------------------------------------------------------
________________
९८
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः अथ तदानीमेव दधिपर्णो नृपः पुरद्वारं प्राप्तवान् । मङ्गलो नाम जनश्च तद् भीमाय निवेदयामास । भीमश्चाऽभिगभ्य दधिपर्ण मित्रवदालिङ्गय गृहे वासदानादिनाऽऽतिथ्यं कृत्वाऽवोचत्-'तव सूदः कुब्जः सूर्यपाकां रसवतीं वेत्ति, तद्दिदृक्षोर्मे दर्शय, तावदन्यया वार्त्तया कृतम्' । दधिपर्णोऽपि कुब्जं रसवतीकृते समादिक्षत् । सोऽपि च कल्पद्रुम इव क्षणात् तां रसवतीं दर्शयामास । ___भीमश्च सपरिच्छदो दधिपर्णाग्रहात् तत्स्वादं परीक्षितुं बुभुजे । दवदन्त्यपि तदोदनभृतं स्थालमानाय्य भुक्त्वा तद्रसास्वादेन कुब्जो नल एवेत्यज्ञासीत् । तथा पितरमुवाच च-'मम ज्ञानिना पुरा कथितं यदिह भरते सूर्यपाका रसवती नाऽन्यस्य, किन्तु नलस्यैव । तदयं कुब्जो वा कुण्टो वा यादृशस्तादृशो वाऽस्तु, तत्र किमपि कारणं भवेत् । किन्त्वयं नल एव नाऽत्र संशयः । नलस्यैका रसवती परीक्षा । नलाङ्गुल्याऽपि स्पृष्टाऽहं पुलकिता भवामीति तस्याऽन्या परीक्षा । तत्कुब्जो मामगुल्या तिलकं रचयन्निव स्पृशतु । यदि नल: स्यादेतेनाऽभिज्ञानेन ज्ञात: स्यात्' । ___कि नलोऽसि ? इति पृष्टः कुब्ज उवाच-'यूयं सर्वथा भ्रान्ताः स्थ, क्व दिव्यरुपो नलः, क्वाऽहं द्रष्टुमप्ययोग्यः कुब्ज: ?' ततोऽत्याग्रहेण स दवदन्त्या वक्षोऽङ्गुल्याऽतिलाघवतः स्पृष्टवान् । तावताऽप्यङ्गुलिस्पर्शेन भैम्यास्तनुरानन्दातिरेकात् पुलकिता जाता। तदा दवदन्ती 'तदा मां सुप्तां त्यक्तवान् इदानीं क्व यास्यसि प्राणेश !, चिराद् दृष्टोऽसी'त्युक्त्वा तं गृहान्तरेऽभ्यर्थ्य नीतवती । कुब्जश्च बिल्वात् करण्डकाच्च वस्त्रा-ऽलङ्कारानादाय परिधाय निजस्वरूपधरो जातः । ततश्च दवदन्ती यथा रूपं निजं पति लता
अष्टमं पर्व - तृतीय: सर्गः तरुमिव सर्वाङ्गं स्तनोपपीडमालिलिङ्ग । तथा भीमः पुरद्वारे समागतं नलमालिङ्गय निजे सिंहासने उपवेशयामास । तथा 'त्वं मम स्वामी, तवाऽहं किङ्करः, कथय किं करवाणी'त्युवाच । दधिपर्णश्च नलं नत्वा 'त्वं न: सर्वदा प्रभुरसि, यदज्ञानाद् मयाऽनुष्ठितं तत् सहस्वे'त्यवोचत् । ___ अत्राऽन्तरे च धनदेवः सार्थवाह उपायनमादाय भीमरथं द्रष्टुमागतवान् । भीमरथश्च पूर्वं दवदन्त्या उपकारकरणाद् बन्धोरिव तस्य गौरवं चकार । तथा दवदन्त्या ऋतुपर्णश्चन्द्रयशाश्चन्द्रवती वसन्तश्रीशेखरश्चाऽऽहूताश्च तत्राऽऽययुः । भीमेन चाऽत्यन्तं सक्रियमाणास्ते प्रसन्ना मासं तस्थुः ।
अन्यदा च भीमसभायां सर्वेषु स्थितेषु प्रातःकाले दिवः कश्चिद् देवोऽलौकिकद्युतिमानाययौ । स च रचिताञ्जलिर्दवदन्तीमुवाच-'पुरा त्वया विमलमत्याख्यस्तापसपतिः प्रबोधितः, तत् स्मर । स तापसपतिविपद्याऽहं सौधर्मे श्रीकेसराभिधाने विमाने श्रीकेसरो नाम देवोऽभवम् । त्वयाऽर्हद्धर्मे स्थापित इति तत्प्रभावादेव ममैतदैश्वर्यम्' । एवमुक्त्वा स सप्तसुवर्णकोटीर्वृष्ट्वा स्वां कृतज्ञतां प्रकाश्याऽन्तर्हितवान् ।।
अथ भीम-दधिपर्णादयो नृपा नलं राज्येऽभिषिषिचुः । नलादेशाच्च ते राजानः स्वानि सैन्यान्यमेलयन् । शुभदिने च नलस्तैर्नृपैः सह स्वां राज्यलक्ष्मी ग्रहीतुमयोध्यामभिजगाम । तथा स सैन्योद्धतरजोभिः सूर्यं स्थगयन् कतिपयैदिनैरयोध्याया रतिवल्लभमुपवनं प्राप्य शिबिरं निवेशयामास । कूबरश्च महता सैन्येन नलं समागतं ज्ञात्वा भियाऽत्यन्तमाकुलो बभूव ।
Page #63
--------------------------------------------------------------------------
________________
अष्टमं पर्व - तृतीय: सर्ग: न्मूल्य निर्वाणमेष्यति । एतच्चेन्द्रेण सह वन्दितुं गतस्य मे महाविदेहे विमलस्वामिना कथितम् । एवं कनकवत्याः प्राग्भवकथां वसुदेवायाऽभिधाय कुबेरोऽन्तर्हितवान् । वसुदेवश्च सातिशयानुरागात् कनकवतीं परिणीय खेचरीभिः पुनरेव यथासुखं रममाणस्तस्थौ । अष्टमे पर्वणि कनकवतीपरिणयन-तत्पूर्वभववर्णनात्मकः
तृतीयः सर्गः ॥३॥
१००
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः नलश्च दूतेन तमाह-'पुन तेन दीव्यतां, राज्यश्रीः पुनस्त्वदीया वा स्याद् मदीया वा' । ततः कूबरो रणाशङ्कापगमेन प्रसन्नः पुनद्धृतं समारब्धवान् । नलश्च भाग्यवशात् कूबरात् सर्वां महीं जितवान् । तथाऽपि स कुबरे दुरात्मन्यनुजोऽयमित्यप्रीतो नाऽभूत् । अत एव स निजं राज्यमादाय कूबरं युवराजं चकार । अनन्तरं च स दवदन्त्या सह कोशलानगरीचैत्यान्यवन्दत । भरतार्धनिवासिनश्च भूपा भक्त्या नलस्य माङ्गलिकोपायनान्यानिन्युः । एवं स सर्वैर्भूपैर्बहून्यब्दसहस्त्राणि भरतार्धं शशास ।
अन्यदा च स्वर्गाद् निषधो देव आगत्य नलमबोधयत्'भवारण्ये विषयैर्लुट्यमानमात्मानं रक्ष, इदानीं ते परिव्रज्यासमय: समुपस्थितः । तत्प्रव्रज्यां गृहीत्वा जन्म सफलं कुरु' । एवमुक्त्वा स देवोऽन्तर्दधौ । तदानीमेव च तत्राऽवधिज्ञानी जिनसेनमुनिराययौ । दवदन्ती-नलौ च तं ववन्दतुः । ताभ्यां पृष्टश्च स मुनिस्तयोः प्राग्भवं वर्णयित्वोवाच-'त्वया मुनेः क्षीरदानाद् राज्यमाप्तं, द्वादशघटिकां यावत् क्रोधकरणाच्च द्वादशाब्दिकं विरह प्राप्तवानसि' । एवं श्रुत्वा पुष्कलं पुत्रं राज्ये निधाय तौ व्रतं गृहीत्वा चिरं पालयामासतुः ।।
अन्यदा च नलो दवदन्तीमुपभोक्तुं मनोऽकरोत् । अत आचार्यैः परित्यक्तो देवेन पित्राऽऽगत्य प्रबोधितो व्रतं कर्तुमशक्तो नलोऽनशनं प्रपेदे । नले जातानुरागा दवदन्त्यप्यनशनं व्यधात् । नलो विपद्याऽहं कुबेरोऽभवम् । मत्प्रिया दवदन्ती च मत्प्रिया जाता । सा च च्युत्वा कनकवत्यभूत् । अस्याः प्राग्भवपत्नीत्वस्नेहाद् मोहितोऽहमिहाऽऽगतोऽस्मि । इयं चाऽस्मिन्नेव भवे कर्माण्यु
Page #64
--------------------------------------------------------------------------
________________
चतुर्थः सर्गः
अथाऽन्यदा सुप्तो वसुदेवः सूर्पकेणाऽपहृतो गतनिद्रस्तं मुष्ट्या जघान । तेन च पीडितः स सूर्पकस्तं मुमोच । ततो गोदानद्यां पतितो वसुदेवस्तीर्त्वा कोल्लापुरं गतः पद्मराजपुत्रीं पद्मश्रियं परिणिनाय । तत्राऽपि नीलकण्ठेन हृतो मुष्ट्या ताडितेन तेन मुक्तश्च चम्पासरसि पतितस्तीर्त्वा मन्त्रिपुत्रीमुपायत । ततः पुनरपि सूर्यकेण हृतो मुष्ट्या ताडितेन तेन मुक्तो गङ्गाजलेऽपतत् । तामुत्तीर्य भ्रमन् पथिकैः सह पल्लीं प्राप्य पल्लीपतेर्जरां नाम पुत्रीं परिणीय तस्यां जरत्कुमारं नाम पुत्रमुत्पादयामास । तथा सोऽवन्तिसुन्दरीं पुरुषद्वेषिणीं सूरसेनां जीवयशसमपराश्चाऽपि नृपकन्यकाः परिणिनाय ।
अथाऽन्यदा मार्गे गच्छन्तं वसुदेवं देवतोवाच- 'मया स्वयंवरे ते रुधिरनृपस्य कन्या रोहिणी देया, तत्त्वया तत्र पटहो वादनीयः । एवं तयोदितो वसुदेवोऽरिष्टपुरे स्वयंवरमण्डपं जगाम । तत्र च जरासन्धप्रभृतिषु नृपेषु समुपविष्टेषु सत्सु समागता रोहिणी स्वाननुरूपत्वाद् न कमपि वृतवती । ततो वसुदेवो वेषान्तरेण तूर्यवादकेषु मध्ये स्थितः पटहमेवं वादयामास - 'कुरङ्गाक्षि ! एहि, मां मृगीव किमीक्षसे, अहं तवाऽनुरूपः पतिस्तव सङ्गमोत्सुको
अष्टमं पर्व चतुर्थः सर्गः
१०३
ऽस्मि'। तच्छ्रुत्वा च रोहिणी पुलकिताङ्गा तं दृष्ट्वा सद्य एव तस्य वसुदेवस्य कण्ठे स्वयंवरमालां चिक्षेप ।
ततश्च हतेनमिति वादिनां नृपाणां तुमुलोऽनया तूर्यवादको व इति प्रहासश्चाऽजनि । कोशलेशो दन्तवक्रश्च रुधिरनृपं विदूषक इव सोपहासमुवाच-‘यदि तूर्यवादकायैव कन्या दातुमिष्टाऽभूत्, तर्हि कुलीनेन त्वया कुलीना एते नृपाः किं निमन्त्रिताः ? यदि पुत्री गुणानभिज्ञा तूर्यवादकं वृणुते तथाऽपि पित्रा नोपेक्षणीया' । ततो रुधिर उवाच- 'राजन् ! तवाऽनेन विचारेणाऽलम् । स्वयंवरे कन्यानां वृतो नर एव प्रमाणम्' । ततो न्यायविज्ञो विदुर उवाच'उचितमेतत्, तथाऽप्यस्य वरस्य कुलादिकं ज्ञातम्' ।
ततो वसुदेव उवाच-'अयं कुलादिकथनप्रस्तावो न योग्यः । अहं यादृशस्तादृशो वाऽनया वृतः । तथाऽप्यमर्षाय एनामपहरिष्यति तस्य स्वबाहुबलेनैव स्वकुलं कथयिष्यामि । तच्छ्रुत्वा च जरासन्धोऽवदत्- 'इदमस्य वच उच्छृङ्खलम्' । एवमुक्त्वा स क्रुद्धः समुद्रविजयादिकान् नृपानादिष्टवान्- 'अयं नराधमो रुधिरो नृपविप्लवकृत्, अयं मत्तस्तूर्यवादकश्चाऽपरो राजविप्लवकृत् । राजकन्यामाप्याऽप्यतृप्तो दर्पं प्रकटयति । तस्मादिमौ रुधिरतौर्यिकौ हत' । तेनेत्थमादिष्टाः समुद्रविजयादयो युद्धार्थं सन्नद्धा अभूवन् । वसुदेवं युद्धोद्यतं च खेचरेशो दधिमुखः स्वयं सारथीभूय रथेऽधिरोहयामास । ततो वसुदेवो वेगवतीजनन्याऽङ्गारवत्याऽर्पितानि दिव्यानि धनूंषि तूणानि चाऽऽददे । जरासन्धपक्षीयैर्नृपैश्च युद्धे रुधिरनृपबलं पराजितं दृष्ट्वा वसुदेवो दधिमुखेन रथं वाहयन्नादौ शत्रुञ्जयं जित्वा दन्तवक्रं शल्यनृपं च बभञ्ज ।
Page #65
--------------------------------------------------------------------------
________________
१०४
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः __ ततः साशङ्को जरासन्धः समुद्रविजयमब्रवीत्-'नाऽयं केवलं तूर्यवादकः, किन्तु नृपाणामसाध्यश्च । तदेनं स्वयं जहि, अस्मिन् हते च रोहिणी तवैव स्यात् । सर्वेषां नृपाणां विषादमपाकुरु' । ततः समुद्रविजय उवाच-'परदारैर्न मे प्रयोजनं, किन्तु तवाऽऽज्ञयाऽहमनेन बलिना योत्स्ये' । एवमुक्त्वा स भ्रात्रा सह युयुधे । तदानीं च सर्वाश्चर्यकरं तयोः शस्त्राशस्त्रियुद्धमभूत् । 'मय्यपि समर्थः कोऽसावि'ति यावत् समुद्रविजयो दध्यौ तावद् वसुदेवस्तदग्रतः साक्षरं बाणमक्षिपत् । समुद्रविजयश्च बाणं गृहीत्वा तद्वर्णान् वाचयामास-'तदानीं छलेन निर्गतो वसुदेवस्त्वां नमति' ।
ततः प्रसन्नः समुद्रविजयो वत्स ! वत्स ! इति ब्रुवन् रथमुत्सृज्य दधाव । वसुदेवोऽपि रथादवतीर्य तत्पादयोः पपात । समुद्रविजयश्च तमुत्थाप्य बाहुभ्यामालिलिङ्ग । तथा 'वत्स ! वर्षशतं क्वाऽस्था' इति समुद्रविजयेन पृष्टो वसुदेवः सर्व वृत्तान्तमादितः कथयामास । तदा तादृशपराक्रमशालिना भ्रात्रा यथा समुद्रविजयोऽहष्यत् तथा तादृशेन जामात्रा रुधिरनृपोऽप्यहृष्यत् । जरासन्धश्च स्वसामन्तबन्धुं तं ज्ञात्वा कोपं जहौ । ततः प्रसङ्गाद् मिलितै राजभिः कृतमहोत्सवपूर्वकं शुभे दिने रोहिणीवसुदेवयोर्विवाहो जातः । रुधिरश्च जरासन्धादीन् नृपान् सत्कृत्य व्यसृजत् । यादवास्तु कंससहितास्तत्र वर्षं यावत् तस्थुः । ___ अथाऽन्येधुर्वसुदेवो रहसि रोहिणीमपृच्छत्-'त्वया नृपान् मुक्त्वा तौयिकोऽप्यहं कथं वृतः ?' ततो रोहिण्युवाच-"अहं सदा प्रज्ञप्ति विद्यामार्चयम् । तया चाऽऽख्यातं यद् दशमो दशार्हस्तव वरो भविता । स च त्वया स्वयंवरे पटहवादनेनोपलक्षणीयः" । तदा तत्प्रत्ययाद् मया त्वं वृतोऽसि ।
अष्टमं पर्व - चतुर्थः सर्गः
अन्यदा च समुद्रविजयादिषु सभास्थितेषु सत्सु काऽप्यर्धजरत्याऽऽशिषं ददाना गगनादवतीर्य वसुदेवमुवाच-'अहं बालचन्द्रामाता नाम्ना धनवतीपुत्र्याः कृते त्वां नेतुमागताऽस्मि, सा मे पुत्री बालचन्द्रा-वेगवती च त्वद्वियोगादत्यन्तं दुःखिते तिष्ठतः' । ततो वसुदेवः समुद्रविजयाज्ञया शीघ्रमेव राजानं क्षमयित्वा तया सह विमानेन गगनवल्लभपुरं ययौ । समुद्रविजयोऽपि कंसेन सह स्वपुरं गत्वा वसुदेवागमनोत्सुकस्तस्थौ । वसुदेवश्च विद्याधरेन्द्रेण काञ्चनदंष्ट्रेण नृपेण कल्पितां चन्द्रमुखीं बालचन्द्रा परिणीतवान् । ___ अथ स पूर्वं परिणीता नृपकन्या निजनिजस्थानादादाय विद्याधरैरन्वितो विमानाच्छौर्यपुरमगात् । तत्र सः सोत्कण्ठितेन समुद्रविजयेन जलधिना चन्द्र इव सादरमाश्लिष्टः ॥ ४ ॥ इति अष्टमे पर्वणि वसुदेवहिण्डिवर्णनात्मकः
चतुर्थः सर्गः ॥ ४॥
Page #66
--------------------------------------------------------------------------
________________
पञ्चमः सर्गः
इतश्च हस्तिनापुरे मातुरत्यन्तप्रियो ललितनामा श्रेष्ठपुत्रोऽभवत् । अन्यदा च श्रेष्ठिन्या अत्यन्तपीडाप्रदो गर्भोऽभूत् । विविधैर्भेषजैः पात्यमानोऽपि स गर्भो नाऽपतत् । जाते पुत्रे श्रेष्ठिन्या स पुत्रस्त्यक्तुं दास्यै समर्पितः । श्रेष्ठिना दृष्ट्वा च पृष्टासा दा ‘श्रेष्ठिन्याऽसावनिष्ट इति त्यक्त' इत्युक्तवती । ततः श्रेष्ठी तं बालं गृहीत्वा गुप्तमन्यत्र पालयामास । एकदा च वसन्तोत्सवे ललितः पितरमुवाच-‘अद्य गङ्गदत्तश्चेद् भोज्यते तदा शोभनं भवेत् । ततः श्रेष्ठ्युवाच - 'यदि ते माता तं पश्येत् तद् न साधु भवेत्' ।
ततो ललित उवाच - 'माता तं यथा न पश्येत् तथा यतिष्ये' । तदा श्रेष्ठिनाऽऽज्ञप्तो ललितो गङ्गदत्तं यवनिकान्तरितं भोजनार्थमुपवेशयामास । तौ च श्रेष्ठि-ललितौ पुरस्तात् स्वयमुपविष्टवन्तौ । श्रेष्ठिनी च भुञ्जानौ तौ गङ्गदत्ताय गुप्तं भोज्यं यच्छन्तौ पटे वातोद्धूते सति दृष्ट्वा तं केशेषु गृहीत्वा कुट्टयित्वा गृहप्रणाल्यामक्षिपत् । तत उद्विग्नौ श्रेष्ठि-ललितौ श्रेष्ठिनीतो गुप्तमेव तं स्त्रपयित्वा गङ्गदत्तं बोधयामासतुः । तदानीमेव च तत्र भिक्षार्थं समागताः साधवस्ताभ्यां श्रेष्ठिन्यास्तत्पुत्रेऽप्रीतिकारणं पपृच्छरे ।
तत एक: साधुरुवाच-'एकस्मिन् ग्रामे द्वौ भ्रातरावभूताम् । तौ च काष्ठार्थं बहिरीयतुः । तथा गन्त्रीं काष्ठैर्भृत्वाऽग्रस्थो ज्येष्ठो भ्राता
अष्टमं पर्व पञ्चमः सर्गः
१०७
पथि कञ्चुकितां महासर्पिणीं दृष्ट्वा कनीयांसं भ्रातरं गन्त्र्याः सारथिं कञ्चुकितेयं सर्पन्ती सर्पिणी गन्त्रीतो रक्षणीयेत्यवोचत् । सर्पिणी च तच्छ्रुत्वा हृष्टा विश्वस्ता जाता । किन्तु तत्राऽऽयातः कनिष्ठस्तां दृष्ट्वाऽवोचत् - 'यद्यपि ज्येष्ठभ्रात्रेयं रक्षिताऽस्ति तथाऽप्यहमस्या उपरि गन्त्रीमेतस्या अस्थिभङ्गस्वरं श्रोतुं नेष्ये' । स क्रूरस्तथा चक्रे च । सर्पिणी च कोऽप्येष मम वैरीति ध्यायन्ती विपन्ना । सा सर्पिणीयं तव पत्नी । ज्येष्ठो भ्राता च विपद्याऽस्या ललिताख्यः पुत्रः प्रियः । कनिष्ठश्चाऽयं पुत्रो गङ्गदत्तः पूर्वकर्मणाsस्या अनिष्टः । ततो विरक्ताः पिता-पुत्रौ च व्रतं जगृहतुः । श्रेष्ठि- ललितौ च क्रमाद् महाशुक्रं जग्मतुः । गङ्गदत्तश्च मातुरप्रीति स्मरन् विश्वप्रियत्वनिदानं कृत्वा महाशुक्रं ययौ ।
ततश्च च्युत्वा ललितजीवो वसुदेवस्य भार्याया रोहिण्या उदरेऽवततार । तथा रोहिणी सुखसुप्ता निशाशेषे बलभद्रजन्मसूचकान् मुखे प्रविशतो गज-समुद्र - सिंह- चन्द्रान् स्वप्ने ददर्श । पूर्णे समये च सा चन्द्रतुल्यकान्ति पुत्रं प्रासूत । मागधादयश्च नृपास्तस्य जन्मोत्सवं चक्रुः । वसुदेवश्च तस्य राम इति मनोहरं नाम चकार । रामश्च सर्वेषां मनो रमयन् क्रमाद् ववृधे । गुरुसमीपे च स विशुद्धप्रतिभया सर्वाः कला जग्राह ।
अथाऽन्यदा स्वच्छन्दगतिर्नारदो मुनिर्वसुदेव-कंसादिभिः परिवारितं समुद्रविजयमुपाजगाम । समुद्रविजयो वसुदेवः कंसाद्याश्चोद्यन्तं सूर्यमिवोत्थाय तमानर्चुः । तेषां पूजाप्रसन्नो नारदः क्षणं स्थित्वाऽन्यतो गन्तुमुत्पपात । ततः कंसेन कोऽसाविति पृष्टो नृप उवाच- 'अस्मात् पुराद् बहिर्यज्ञयशा नाम तापसोऽभूत् । तस्य च यज्ञदत्ताख्या भार्या सुमित्राख्यश्च पुत्रो बभूवतुः । सुमित्रस्य पत्नी
Page #67
--------------------------------------------------------------------------
________________
१०१
१०८
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः च सोमयशाः । जृम्भकदेवानां मध्यात् कोऽपि देवश्च्युत्वा सोमयश:कुक्षाववतीर्णवान् । स एष नारदो जज्ञे । ते तापसाश्चैकाहमुपोष्यापरेऽह्नि वनमुपेत्य सदा शिलोञ्छवृत्त्या पारयन्ति ।
ते चैकदाऽशोकवृक्षे नारदं मुक्त्वोच्छाय ययुः । जृम्भकाश्च तं बालमतुल्यकान्ति दृष्ट्वाऽवधेर्नारदं प्राग्जन्ममित्रं ज्ञात्वा तदुपरि स्थितामशोकस्य च्छायामस्तम्भयन् । ततः स्वकार्यार्थं गताः कृतकार्यावलिताश्च स्नेहात् तं बालं वैताढ्यं निन्युः । तैर्दैवैः स्तम्भितच्छायत्वात् सोऽशोकतरुस्तत्प्रभृति च्छायावृक्ष इति ख्यातोऽभूत् । तथा स नारदो वैताढ्याद्रौ जृम्भकैः पालित: शिक्षितश्चाऽष्टवर्षः सन् प्रज्ञप्तिकाद्या विद्याः प्रसाध्य ताभिर्गगनगामी एतस्यामवसर्पिण्यां नवमश्चरमशरीरी । नारदमुनेरुत्पत्तिहि त्रिकालज्ञानिना सुप्रतिष्ठेन मुनिना मे कथितम् । अयं च नारदः प्रकृत्या कलहप्रियस्तिरस्कारात् कोपशील एकत्राऽस्थिरः सर्वत्र पूज्यश्च ।
अथाऽन्यदा कंसेनाऽऽहूतो वसुदेवः समुद्रविजयमनुज्ञाप्य मथुरां ययौ । तत्र चैकदा जीवयशसा सहित: कंसो वसुदेवं जगौ'विशालायां मृत्तिकावत्यां नगर्यां भूपतेर्देवकस्य मम पितृव्यस्य देवकी नाम कन्या देवकन्योपमाऽस्ति । मम प्रार्थनया च तत्र गत्वा तां परिणय' । ततो वसुदेवस्तत् प्रतिपद्य कंसेन सह चलितो मार्गे नारदं ददर्श । ताभ्यां च पूजितः प्रसन्नो नारदो मुनिरपृच्छत्-कुतो हेतोः कुत्र वा युवां प्रचलितौ' । ततो वसुदेव उवाच-'मित्रेण कंसेन प्रेरितो देवककन्यां देवकी परिणेतुं प्रस्थितोऽस्मि' ।
ततो नारद उवाच-'कंसेनेतच्चारु क्रियते । यथा त्वं पुंस्वप्रतिरूपस्तथा देवकी नारीष्वप्रतिरूपा । त्वं देवकी परिणीय
अष्टमं पर्व - पञ्चमः सर्गः परिणीता अन्या नृपकन्यका असारा मंस्यसे । अस्मिन् कार्ये विघ्नो मा भूदिति देवक्यै भवद्गुणान् कथयिष्यामि' । एवमुक्त्वोत्पत्त्य नारदो देवकीगृहं ययौ । तया पूजितश्च स 'वसुदेवस्ते वरो भवत्वि'त्याशीर्वचनं जगौ । ततस्तया को वसुदेव इति पृष्टो नारद उवाच-'स दशमो दशा) विद्याधरीप्रियस्तरुणोऽस्ति, तस्य देवादयोऽपि रूपेण तुल्या न' । एवमुक्त्वा नारदस्तिरोदधे । नारदवचसा देवकीमनो वसुदेवे लग्नम् । कंस-वसुदेवौ च मृत्तिकापुर्यामाजग्मतुः । देवकेन च विवेकिना सत्कृत्य तावागमनकारणं पृष्टौ । ततः कंस उवाच-'वसुदेवायाऽनुरूपां देवकी परिणाययितुमागतोऽस्मि' । ____ ततो देवक उवाच-'कन्यार्थं वरस्य नाऽऽगमनव्यवहारः ततो वसुदेवाय देवकी न दास्यामि' । ततो विलक्षौ तौ निजशिबिरं जग्मतुः । देवको नृपश्चाऽन्तःपुरं जगाम । तत्र देवक्या नमस्कृतो देवकः प्रसन्नोऽनुरूपं वरं लभस्वेत्याशिषं ददौ । तथा देव्यै वसुदेवाय देवकी दापयितुमागतः कंसो मया न सत्कृत इत्युवाच । तच्छ्रुत्वा च देवी विषण्णा जाता, देवकी चोच्चै रुरोद । ततो देवकस्तयोर्भावं ज्ञात्वा'ऽलं विषादेन, युवां प्रष्टुमेवाऽहमत्राऽऽगामि'त्युवाच । ततो देव्या 'वसुदेवो देवक्या योग्यो वरः पुण्यादेव स्वयं वरणार्थमागत' इत्युक्तो देवकः स्वमन्त्रिणा कंसवसुदेवौ समानाय्य सत्कृतवान् । तथा देवकी-वसुदेवयोः शुभे दिने समहोत्सवं विवाहोऽभूत् । देवकश्च वसुदेवाय भूरिश: स्वर्णादिकं, गोकोटिसंयुतं दशगोकुलेशं नन्दं च ददौ । ततः कंसवसुदेवौ नन्दसहितौ मथुरामाजग्मतुः । कंसश्च मित्रविवाहमुपलक्ष्य महोत्सवं चकार ।
Page #68
--------------------------------------------------------------------------
________________
anna
११०
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः अथ पूर्वं गृहीतव्रत: कंसानुजोऽतिमुक्तो मुनि: पारणार्थ कंसगृहे समागात् । तदानीं च कंसपत्नी जीवयशा मत्ता- 'देवर ! अस्मिन्नुत्सवदिने साधु समागतोऽसि, मया साधु नृत्य गाय चे'त्यादि बहुधा कण्ठे लगित्वा गृहस्थवत् तं कथितवती । ततो ज्ञानी स उवाच-'यन्निमित्तोऽयमुत्सवस्तस्याः सप्तमो गर्भस्त्वत्पतिपित्रोर्हन्ता' । वज्रसदृशं तद्वाचं श्रुत्वा च जीवयशा भयाद् गतमदा तं मुनि मुमोच । तथा झटिति गत्वा कंसाय सर्वमाख्यच्च । ___ ततः कंसो दध्यौ-'मुनिवचो न मिथ्या, तद्यावत् कोऽपि न जानाति तावद् देवक्या अनागतान् सप्ताऽपि गर्भान् वसुदेवं याचे । यदि याचितो न दास्यति, तदाऽन्यथा यलं करिष्ये, यथा मम कुशलं भवेत्' । एवं विचार्य सोऽमदोऽपि मदावस्थामभिनयन् दूरादेव कृताञ्जलिर्वसुदेवमुपजगाम । वसुदेवश्चाऽभ्युत्थाय तं यथोचितं सत्कृत्य स्वपाणिना परामृशन् ससम्भ्रममुवाच-'मम प्राणप्रियो मित्रमसि, त्वं किञ्चिद् विवक्षुरिव लक्ष्यसे, त्वदिष्टं ब्रूहि, यतस्तत् करोमि' ।
ततः कंस उवाच-'त्वयाऽग्रेऽपि कृतार्थीकृतोऽहं जरासन्धाज्जीवयशोदापनेन, अधुना जातमात्रान् देवक्याः सप्तगर्भान् याचे' । वसुदेवश्च सरलबुद्धिस्तथेति प्रत्यपद्यत । देवक्यपि च वृत्तान्तानभिज्ञैवमस्त्वित्यमन्यत । कंसश्च मयि युवयोः प्रसादोऽयमित्युक्त्वा वसुदेवेन सह सुरां पीत्वा स्वगृहं ययौ । पश्चाच्च वसुदेवो मुनिवृत्तान्तं ज्ञात्वा सत्यवादी कंसेन च्छलितोऽस्मीति भृशं पश्चात्तापमकरोत् ।
इतश्च भहिलपुरे नागस्तत्पत्नी सुलसा च श्रेष्ठिनौ परमश्रावकावभूताम् । चारणपिरतिमुक्तश्च सुलसायाः शैशवे कथितवान्
अष्टमं पर्व - पञ्चमः सर्गः 'यदसौ बाला मृतवत्सा भविष्यति' । ततस्तया विष्णोर्नंगमेषीदेवस्तपसाऽऽराधितः । तुष्टश्च स तया पुत्रान् याचितोऽवधेत्विोवाच-'अहं कंसेन हन्तुं याचितान् देवकीगर्भान् गर्भसञ्चारेण तवाऽर्पयिष्यामि' । एवमुक्त्वा स निजशक्त्या देवकी-सुलसे सहैव पुष्पवत्यौ व्यधात् । तथा ते समं गुविण्यौ बभूवतुः, समं च सुषुवाते । देवश्च सुलसाया मृतं गर्भ सञ्चार्य देवकीगर्भं सुलसायै ददौ । एवं स देवस्तयोः षड्गर्भान् परिवर्त्तयामास । कंसोऽपि च मृतवत्सायाः सुलसाया गर्भान् ग्राणि दृढमास्फालयामास । ते च षड् देवकीगर्भाः सुलसाया: स्तनन्धयास्तद्गृहे स्वपुत्रवदवर्धन्त । ते च नाम्नाऽनीकयशा अनन्तसेनोऽजितसेनो निहितारिदेवयशा शत्रुसेनश्चाऽभूवन् ।
अथ पुष्पवती देवकी सुखसुप्ता राज्यन्ते सिंह-सूर्या-ऽग्निगज-ध्वज-विमान-पद्मसरांसि स्वप्ने दृष्टवती । शुक्राद् गङ्गदत्तश्च च्युत्वा तस्याः कुक्षाववातरत् । सा च तत्प्रभृति गर्भ धारयामास । पूर्णे समये च सा नभःसिताष्टम्यां निशीथे सन्निहितदेवं शत्रुशातनं कृष्णं सुतमसूत । देवताश्च तदानीं कंसायुक्तान् यामिकान् स्वशक्त्या निद्रितानकार्षुः । देवकी च पतिमाहूयाऽवोचत्-'पापेन कंसेन वचसा बद्धोऽसि,असौ जातं जातं मम सुतं हन्ति, अमुं पुत्रं छलेनाऽपि रक्ष, भ्रूणरक्षणाद् मायाऽपि पापाय न स्यात् । ममेम बालकं नन्दस्य गोकुलं गत्वा मुञ्च । असौ तत्र मातामहस्य गृह इव वृद्धिमेष्यति' ।
ततो वसुदेवस्तां साधु साध्विति जल्पन् स्नेहवशो बालमादाय तद्गृहाद् निरगात् । तदानीं च देवतास्तस्योपरि च्छत्रं दधुः पुष्पवृष्टि
Page #69
--------------------------------------------------------------------------
________________
११२
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः च चक्रुरष्टभिरुग्रप्रकाशैर्दीपैर्मार्ग प्रकाशयामासुश्च । तथा देवता धवलवृषभरूपेण तस्याऽग्रे भूत्वा पुर्या द्वाराण्युद्घाटयामासुः । वसुदेवश्च गोकुलं प्राप्त: पञ्जरस्थेनोग्रसेनेन नृपेण दृष्टः सविस्मयं किमेतदिति पृष्टः कंसस्य शत्रुरयमित्युक्त्वा तं बालं दर्शयन्नुवाच'अमुष्माद् बालकात् तव शत्रोनिग्रहस्तवोदयश्च भविष्यति, परमेतत् त्वया कस्याऽपि नाऽऽख्येयम् । ततस्तेनैवमस्त्विति प्रोक्तो वसुदेवो नन्दगृहं गतवान् । तदानीमेव च नन्दभार्या यशोदाऽपि सुतां सुषुवे । ___ वसुदेवश्च यशोदायै सुतं दत्त्वा तत्सुतामादायाऽऽनीय देवकीपार्श्वे सुतस्थानेऽमुचत् । ततो गृहाद् निर्गते वसुदेवे कंसायुक्ताः प्रबुद्धाः किं जातमिति जल्पन्तस्तत्र तां सुतां दृष्ट्वाऽऽदाय कंसस्याऽर्पयामासुः । तत: कंसो दध्यौ-'यो मम मृत्यवे सप्तमो गर्भस्तत्स्त्रीमात्रमभूत् । तन्मुनिवचो मिथ्या मन्ये, किमेतया हतये'ति तां छिन्ननासापुटां कृत्वा देवक्यै ददौ । स बालकश्च कृष्णतनुत्वात् कृष्णनामा नन्दगृहे देवताभी रक्ष्यमाणो ववृधे । ___ अथ देवकी मासे गते पुत्रं द्रष्टुमुत्कण्ठिता नन्दगृहं यास्यामीति वसुदेवमभाषत । वसुदेवश्च-'अकस्माद् गच्छन्ती त्वं कंसेन लक्षिता स्या इति कारणमुत्पाद्य गन्तुं युज्यते, तद्बहुभिः स्त्रीभिः सहाऽन्विता गोपथेन धेनूरर्चयन्ती गोकुलं गच्छेरि'त्युवाच । देवक्यपि तथैवाऽकरोत् । श्रीवत्सलाञ्छितवक्षस्कं नीलवर्णं पुण्डरीकाक्षं चक्राद्यङ्कितपाणि-पादं यशोदोत्सङ्गस्थं पुत्रं ददर्श च । एवमेव सा नित्यं गोपूजाच्छलेन तत्र ययौ । तत्प्रभृति च लोके गोपूजा प्रवृत्ता। ___ अथ सूर्पकस्य द्वे कन्ये शकुनिः पूतना च पितृवैरेण वसुदेवस्याऽपकर्तुमसमर्थे यशोदा-नन्दाभ्यां रहितमेकाकिनं कृष्णं
अष्टमं पर्व - पञ्चमः सर्गः हन्तुमाजग्मतुः । तयोः शकुनिः शकटमारुह्य कटुशब्दं चकार, पूतना च शकटाध:स्थं कृष्णं विषलिप्तस्तनदुग्धमपाययत् । कृष्णस्य रक्षिकास्तत्सन्निहिता देवताश्च तेनैव शकटेन प्रहृत्य ते द्वे व्यापादयन् । तदानीमेव च तत्राऽऽगतो नन्द एकाकिनं स्थितं कृष्णं पर्यस्तं शकटं व्यापादिते द्वे खेचौं च दृष्ट्वा छलितोऽस्मीति जल्पन् कृष्णं क्रोडे कृत्वा गोपालकान् सरोषमुवाच-'शकटः कथं पर्यस्तः, राक्षस्याविव रक्तमुख्यौ मृते एते द्वे के ? ममाऽयं वत्सो भाग्यादेव जीवितोऽस्ति' ।
ततो गोपालका ऊचुः-'तव बालेनैव शकट: पर्यस्तः, एते मारिते च' । तच्छ्रुत्वा च नन्दः कृष्णं सर्वाङ्गरक्षतं निरूप्य यशोदामुवाच-'कथं पुत्रमेकाकिनं मुक्त्वाऽन्यत्र यासि ? अद्याऽयमपायात् स्तोकाद् मुक्तः, वरं घृतघटा लुण्ठन्तु, किन्तु त्वयेकाकिनं कृष्णं त्यक्त्वा न क्वाऽपि गन्तव्यं, वरमन्यत् कार्यं सीदतु' । तच्छ्रुत्वा यशोदाऽपि च हा हताऽस्मीति ब्रुवाणा पाणिना स्ववक्षस्ताडयन्ती धावित्वैत्य कृष्णं गृहीत्वा न ते किमपि क्षतमिति पृच्छन्ती सर्वाङ्ग समीक्ष्य शिरसि चुम्बित्वा परिरेमे । ततः सा यशोदा नित्यं सादरं कृष्णमधारयत् । तथाऽपि चञ्चलः स केनाऽपि च्छलेनेतस्ततो जगाम ।
एकदा च यशोदा कृष्णोऽन्यत्र मा गादिति दाम्ना तमुदरे बद्ध्वा दामान्तमुलूखले च बद्ध्वा प्रातिवेशिकगृहं गतवती । तदानीं च सूर्पकपुत्रः पितामहवैरं स्मरंस्तत्रैत्य मिथ:समीपस्थयमलार्जुनतां धारयामास । तथा सोलूखलं कृष्णं चूर्णयितुं स तयोर्यमलार्जुनयोरन्तरेऽनयत् । किन्तु कृष्णसन्निहितदेवतया स
Page #70
--------------------------------------------------------------------------
________________
११४
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः सूर्पकपुत्रोऽर्जुनवृक्षौ भक्त्वा हतः । गजशिशुनेव कृष्णेन यमलार्जुनावुन्मूलिताविति गोपमुखादाकर्ण्य नन्दो यशोदया सह ससम्भ्रमं तत्राऽऽगात् । तथा तौ धूलिधुसरितं कृष्णं मोहाच्छिरसि चुचुम्बतुः । गोपाश्च दामबन्धनात् कृष्णं दामोदरेत्यूचिरे । स कृष्णश्च गोपालैोपालिकाभिश्चाऽत्यन्तं प्रियत्वाद् दिवानिशमुत्सङ्गादावारोप्यते स्म । तथा स स्निग्धैः कौतुकप्रियैर्गोपैरीक्ष्यमाणश्चाञ्चल्याद् मन्थनीभ्यो नवनीतं जग्राह । तथा विविधैश्चरित्रैः स सर्वेषामानन्दप्रदोऽभूत् ।
अथ वसुदेवः कृष्णेन शकुनि-पूतनयोर्हननं, शकटपर्यसनं, यमलार्जुनोत्पाटनं च श्रुत्वा दध्यौ-'कंसो मा ज्ञासीदिति मया पुत्रो गोपितः, किन्तु स स्वबलेनैव ख्याति याति । ततः कंसो ज्ञात्वाऽमङ्गलं मा कार्षीदिति तस्य साहाय्ये कं सुतं प्रेषयामि ? अक्रूराधास्तु कंसस्य ज्ञाताः । तत्तस्याऽज्ञातो राम एवाऽऽदेष्टुमुचितः' । एवं विचार्य स कोशलाया रामेण सह रोहिणीमानाय्य संभाष्य च शौर्यपुरे प्रेषीत् । अन्यदा च राममाहूय सर्वं वृत्तं कथयित्वाऽनुशिष्य च नन्द-यशोदयोः सुतत्वेनाऽर्पयामास ।
अथ तौ द्वौ राम-कृष्णौ दशधनुस्तुङ्गौ मनोहराकारौ गोपीभिः सदेक्ष्यमाणौ रेमाते । कृष्णश्च रामस्य पार्श्वे गोपेरानीतोपकरणो धनुर्वेदमन्याः कलाश्च शिक्षयामास । तथा तौ सदा सहैव नानाक्रीडां चक्रतुः । कदाचित् कृष्णो गच्छतो मत्तान् बलीवान् पुच्छे जग्राह । रामश्च भ्रातुर्बलं जानस्तदुपेक्षते स्म । यथा यथा च तत्र कृष्णो वृद्धिमाप तथा तथा तदवलोकनाद् गोप्यः कामविकारं प्रापुः । ताः कृष्णं मध्येकृत्वा हल्लीसकं चक्रुः । ताः सर्वदैव कृष्णहृतचित्ता अभूवन् । तथा तं विविधैरुपचारैः पुष्प-माल्यादिदानादिभिर्गीत
अष्टमं पर्व - पञ्चमः सर्गः नृत्यादिभिश्चाऽलीकभय-नाटनादिभिश्च रमयन्त्यः कृष्णस्पर्शसुखमिच्छन्ति स्म । कृष्णश्च बर्हापीडो गीतं गायति स्म । तथा सोऽगाधजलस्थान्यपि कमलानि गोपीभ्य आनयति स्म । तथा स गिरिशिखरस्थो वेणुं वादयन् नृत्यंश्च रामं हासयति स्म । एवं बहुविध क्रीडतोस्तयोस्तत्रैकादशवर्षाणि सुखं व्यतीयुः ।
*** इतश्च सूर्यपुरे समुद्रविजयप्रिया शिवा निशाशेषे चतुर्दश महास्वप्नान् दृष्टवती । तदानीं च कार्तिके कृष्णद्वादश्यां चित्रास्थे चन्द्रे शङ्खोऽपराजिताच्च्युत्वा शिवाकुक्षाववातरत् । तदानीं नारकाणामपि क्षणं सुखं जगत्रये उद्योतश्चाऽभूत् । गतनिद्रा च शिवादेवी पत्युः स्वप्नान् कथयामास । नृपेणाऽऽहूतो मुनिः क्रोष्टुकि स्तत्राऽऽगतवान् । तथैकश्चारणश्रमणः स्वयमुपाययौ । नृपश्चोत्थाय तं वन्दित्वा महासने उपवेशितवान् । राज्ञा स्वप्नफलं पृष्टश्च स क्रोष्टुकिमुनिस्तीर्थकृत् ते पुत्रो भावीत्याख्याय ययौ । राजा राज्ञी च सुधाभिः स्नाताविव मोदं प्रापतुः । तदारभ्य शिवादेवी लावण्यादिवर्धकं सुखकरं गर्भ गूढं धारयामास । पूर्णे समये च सा श्रावणशुक्लपञ्चम्यां निशीथे चित्रास्थे चन्द्रे कृष्णवर्णं शङ्खाएं सुतं सुषुवे । ____ तदानीं च षट्पञ्चाशद् दिक्कुमार्य: समागत्य प्रभोः सूतिकर्माणि चक्रुः। शक्रश्चैत्य प्रभुं मेरुं नीत्वा तत्र सर्वैरिन्द्रादिभिः सह प्रभोर्यथाविधि स्नात्रं विधाय स्तुत्वा पुनरादाय शिवादेवीपार्श्वे यथास्थिति मुमोच । तथा पञ्चाऽप्सरसो धात्री: समादिश्य स नन्दीश्वरे यात्रां कृत्वा स्वस्थानं ययौ । समुद्रविजयश्चोद्यन्तं सूर्यमिव
Page #71
--------------------------------------------------------------------------
________________
११७
११६
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः पुत्रं द्युतिमन्तं दृष्ट्वा जन्मोत्सवं विधाय- 'अस्मिन् गर्भस्थे मात्राऽरिष्टमयी चक्रधारा ददृशे' इति तस्याऽरिष्टनेमिरिति नाम चकार । वसुदेवादयश्चाऽरिष्टनेमेर्जन्म ज्ञात्वा मथुरायां महोत्सवं चक्रुः, महान्तं प्रमोदं प्रापुश्च ।
अथाऽन्यदा वसुदेवगृहे देवकी द्रष्टुमागतः कंसस्तां छिनकनासापुटां कन्यां दृष्ट्वा भीतो गृहमागत्य नैमित्तिकमपृच्छत्'सप्तमाद् देवकीगर्भाद् मन्मृत्युमुनिनोक्तो वृथा न वा ?' ततो नैमित्तिक उवाच- 'मुनिभाषितं नैव मिथ्या । सप्तमो देवकीगर्भस्तव हन्ता क्वाऽप्यस्ति । तवाऽरिष्टो नाम महोक्षः, केशी नाम महाहयो, दुर्दान्तौ खर-मेषौ च वृन्दावने मुञ्च । योऽमून् क्रीडयैव हनिष्यति स देवक्याः सप्तमः पुत्रस्ते हन्ता । किं च तव गृहे यत् क्रमायातं शाङ्ग धनुस्त्वन्मात्रा पूज्यमानं तत् स एवाऽऽरोपयिष्यति । यज्ज्ञानिनाऽऽख्यातं तदवश्यं भविष्यति । स पराक्रमी भविष्यन् वासुदेवः कालियनागस्य दमकश्चाणरस्य घातकस्तव द्विपौ पद्मोत्तरं चम्पकं च हनिष्यति' । ___ अथ कंसः स्वशत्रुमुपलक्षितुमरिष्टादीन् वनेऽमुचत्, चाणूरमुष्टिको मल्लौ च श्रमायाऽऽदिदेश । सोऽरिष्टश्च बलीवर्दः शरदि वृन्दावने गर्जन् गोपानुपाद्रवत् । स शृङ्गाग्रेण गा उद्दधे, तुण्डाग्रेण घृतभाण्डानि समालोठयच्च । तदा 'राम ! कृष्ण ! त्रायस्वे'ति वादिनां दीनानां गोपानां कलकलोऽजनि । कृष्णश्च रामेण सह किमेतदिति सम्भ्रमाद् धावितोऽग्रे तं वृषभं महाबलं दृष्टवान् । वृद्धेनिषिध्यमानोऽपि कृष्णस्तं वृषभमाह्वास्त । स वृषभश्च शृङ्गे
अष्टमं पर्व - पञ्चमः सर्गः उन्नमय्याऽऽकुञ्चितमुख उत्पुच्छयन् कृष्णायाऽधावत । कृष्णश्च तं शृङ्गयोर्गृहीत्वा झटिति तद्ग्रीवां वालयित्वा च निरुच्छ्वासं विधायाऽरिष्टमवधीत् । अरिष्टे मृते च गोपा हृष्टाः सर्वतः कृष्णमानचुः । ___अन्यदा च क्रीडति कृष्णे कंसस्य महाहय: केशी यम इव विवृतमुखः समागतः । स च दन्तैर्वत्सतरान् गृह्णन् खुरै!गर्भिणीनिघ्नन् भीषणं हेषमाणश्च कृष्णेनाऽतय॑त । ततो व्यात्ते तन्मुखे वज्रतुल्यं बाहुं वलयित्वा च धृत आग्रीवं विदारितश्चाऽरिष्ट इव गतासुर्बभूव । तथा कंसस्य महाबलिनौ तत्र भ्रमन्तौ खर-मेषावपि कृष्णेन लीलयैव हतौ । ____ अथ कंसस्तान् हतान् ज्ञात्वा स्वशत्रु सम्यक्परीक्षितुं पूजोत्सवव्याजात् शाङ्ग धनुः सभायां स्थापयामास । तथा भगिनी कुमारिकां सत्यभामां तदुपासिकां सदा तत्सन्निहितां कृत्वोत्सवं प्रारेभे । 'यः शाङ्गमधिरोपयेत् तस्मै स्त्रीरत्नं सत्यभामां दास्यामी'त्याघोषयच्च । तच्छ्रुत्वा च सुदूरादपि नृपाः समागताः । परन्तु केऽपि धनुरारोपयितुं नाऽशक्नुवन् । तच्छ्रुत्वा च वसुदेवस्य मदनवेगापुत्रोऽनाधृष्टिविनं रथमारुह्याऽऽगच्छन् गोकुले रामकृष्णौ दृष्ट्वा तत्र निशामेकां ताभ्यां सत्कृत उवास । प्रातश्च स रामं विसृज्य मथुरामार्गदर्शकं कृष्णमादाय प्रस्थितवान् । मार्गे च महाद्रुमसङ्कीर्णे तद्रथो वटे विलग्नः । अनाधृष्टिश्च तं मोचयितुं न शशाक । पदातिः कृष्णश्च लीलया तं वटमुन्मूल्याऽन्यत्र क्षिप्त्वा रथमार्ग निविघ्नं चकार । ततस्तस्य बलं दृष्ट्वा प्रसन्नोऽनाधृष्टिः स्यन्दनादुत्तीर्य तं स्वयं रथे समारोपयत् । ततस्तौ क्रमाद् यमुनामुत्तीर्य मथुरां प्रविश्याऽनेकनृपसमन्वितां धनुःसभां प्रापतुः।
Page #72
--------------------------------------------------------------------------
________________
११८
पुरुषतम्-गद्यात्मकसारोद्धारः
धनुषः पार्श्वे च तदधिष्ठातृदेवतामिव पद्माक्षीं सत्यभामां ददृशतुः । सत्यभामाऽपि च कृष्णं पश्यन्ती कामार्ता मनसा तं वरं वव्रे ।
अनाधृष्टिचोपेत्य तद्धनुरुद्धरन् भूमौ पतात । तं चोपहास्यां दशां गतं दृष्ट्वा सत्यभामा तदाल्योऽन्ये चाऽत्यन्तमहसन् । ततस्तत्प्रहासमसहिष्णुः कृष्णः पुष्पमाल्यवत् तद्धनुरुद्धृत्य लीलया सज्यं चकार । अनाधृष्टिश्च पितृगृहं तद्वारि कृष्णं रथस्थं मुक्त्वा च गतः पित्रे 'यदन्यैः स्प्रष्टुमप्यशक्यं तद्धनुर्मयैकाकिनाऽधिरोपितमिति शशंस । ततो वसुदेवस्तमुवाच - इतः सत्वरं याहि, अन्यथा कंसो धन्वारोपणं ज्ञात्वा त्वां व्यापादयिष्यति' । तच्छ्रुत्वा च भीतोऽनाधृष्टिर्गुहाद् निर्गत्य कृष्णेन सह सत्वरं नन्दगोकुलं जगाम । तथा राम-कृष्णावापृच्छ्य ततः शौर्यपुरं ययौ । नन्दपुत्रेण धनुरारोपितमिति प्रवादश्च सर्वतोऽभूत् ।
कंसश्च चापारोपणवृत्तान्तेन हृदि तप्यमानश्चापमहोत्सवच्छलेन सर्वान् मल्लान् नियुद्धायाऽऽदिशत् । तत्रोत्सवे समाहूता नृपाश्च महामञ्चस्थं कंसं पश्यन्तो मञ्चेषूपविविशुः । वसुदेवेन चाऽपि कंसच्छलज्ञेन स्वाग्रजाः पुत्राश्चाऽकुराद्याः समाहूताः । कंसश्च तेजस्विनस्तान् सत्कृत्योच्चेषु मञ्चेषूपावेशयत् । मल्लयुद्धोत्सवं श्रुत्वा कृष्णेन निवेदितो रामस्तेन सह तद् द्रष्टुं जिगमिषुर्यशोदामभाषत'स्नानादिकं प्रगुणीकुरु, आवां मथुरां गमिष्यावः' । किन्तु तां किञ्चिद् मन्दोत्साहां दृष्ट्वा कृष्णस्य भ्रातृवधकथाप्रस्तावनां रचयन् बलदेवः साक्षेपमवदत् - 'किं त्वयाऽधुना दासीत्वं विस्मृतं यद् ममाऽऽज्ञां झटिति न पालयसि । ततस्तेन वचनेन विवर्णं कृष्णं गृहीत्वा स यमुनायां स्नानार्थं नीतवान् । तथा किं खिन्न इव लक्ष्यसे इति कृष्णं पप्रच्छ च ।
अष्टमं पर्व पञ्चमः सर्गः
११९
ततः कृष्णः सगद्गदस्वरमुवाच- 'मम माता त्वया किं दासीत्येवमाक्षिप्ता ?' ततो राम उवाच- 'तव यशोदा न माता नन्दश्च न पिता । किन्तु देवकनृपपुत्री देवकी तव माता वसुदेवश्च पिता तव । देवकी हि त्वां द्रष्टुं मासे मासे गोपूजाव्याजादत्रैति । आवयोः पिता वसुदेवः कंसस्योपरोधेन मथुरायां स्थितोऽस्ति । तवाऽग्रजो वैमात्रेयोऽहं त्वां रक्षितुं पित्राऽऽदिष्ट इहाऽऽगमम्' । ततः पित्रा किमहमत्र रक्षित इति कृष्णेन पृष्टो बलदेवः कंसकृतं भ्रातृवधादिकं सर्वं वृत्तान्तमाख्यत् । तच्छ्रुत्वा क्रुद्धः कृष्णः कंसवधं प्रतिज्ञाय नद्यां स्नातुं प्रविवेश ।
ततः कंसस्य मित्रं कालियोऽहिर्यमुनाजलमग्नः कृष्णं दष्टुमधावत । तत्फणामणिप्रकाशात् किमेतदिति वदति रामे कृष्णः कमलमिव तमुत्थाय गृहीत्वा नासिकायां कमलनालेन गामिव नाथयित्वोपर्यारुह्य च कालियं चिरं जले वाहितवान् । तेन च खिन्नं निर्जीवमिव जातं तं मुक्त्वा निर्गतः कृष्णः कौतुकात् सौस्नातिकैविप्रैः परिवृतः । ततो गोपैः सह तौ महाबलिनौ राम कृष्णौ मथुरां प्रति चलितौ गोपुरं प्रापतुः ।
तत्र च कंसादिष्टमन्त्रिप्रेरितौ पद्मोत्तर- चम्पकौ गजौ तयोरभिमुखमधावताम् । तयोः कृष्णः पद्मोत्तरं रामश्च चम्पकं दन्तोत्पाटन-मुष्टिघातादिभिर्जघान । नागरैश्चाऽतिविस्मयपूर्वकमरिष्टादिघातिनौ नन्दपुत्रावेतावित्यन्योन्यं दर्श्यमानौ गोपैः सह नीलपीताम्बरौ वनमालाविभूषितौ राम कृष्णावक्षवाटं प्रापतुः । तत्र चैकस्मिन् महामञ्चे तत्रस्थं जनमपसार्य गोपैः सह निःशङ्कमुपविविशतुः । रामश्च तं शत्रुं कंसं पितरं समुद्रविजयादि
Page #73
--------------------------------------------------------------------------
________________
पुरुष-गद्यात्मकसारोद्धारः कांश्चाऽदर्शयत् । नागरा नृपाश्च काविमौ देवतुल्याविति सविस्मयं तौ ददृशुः ।
अथ कंसाज्ञया युध्यमानेषु मल्लेषु कंसप्रेरितः पर्वताकृतिश्चाणूर उत्थाय मेघवद्गर्जन् करास्फोटं कुर्वाणो नृपानाक्षिपन् सगर्वमुवाच- 'यः कोऽपि वीरपुत्रो वीरमानी च स मे नियुद्धेच्छां पूरयतु' । कृष्णश्च तद्दर्पमसहिष्णुर्मञ्चादुत्तीर्य करास्फोटं चकार । तदानीं च 'कृष्ण-चाणूरयोर्बाल - तरुणयोः कलभ- महागजो न नियुद्धमुचितमित्येवं भाषमाणानां लोकानां महांस्तुमुल उदभूत् । तेन च क्रुद्धः कंसोऽवदत्- 'इमौ गोपालौ केनाऽप्यनाहूतौ स्वयमागतौ नियुयुत्साते, तत्को निषेधति, यस्याऽनयोः स्नेहः सोऽभिमुखमेत्य जल्पतु' । कंसस्यैवं वचः श्रुत्वा च सर्वो जनस्तूष्णीको जातः ।
१२०
ततः कृष्ण उवाच- 'अयं चाणूरः कृताभ्यासो राजपिण्डपुष्टगात्रः समर्थो मल्ल श्रेष्ठश्चाऽद्य गोपयःपानपुष्टेन मया गोपालबालेन सिंहशावकेन गज इव हन्यमानोऽवलोक्यताम्' । ततः कंसस्तच्चारुताशङ्कितः सकृदेव नियुद्धार्थं मुष्टिकं नाम महामल्लमप्यादिष्टवान् । रामश्च मुष्टिकमुत्थितं दृष्ट्वा मञ्चादुत्तीर्य तं नियुद्धायाऽऽह्वास्त । ततो राम - मुष्टिको कृष्ण - चाणूरौ च नियोद्धुं प्रववृता ।
तदानीं तेषां पदन्यासैः पृथ्वी चकम्पेव । करास्फोट ध्वनिभिर्नभः पुस्फोटेव । राम कृष्णौ च मुष्टिक चाणूरौ तृणमुष्टिवदुन्नीयाऽऽकाशे क्षिप्तवन्तौ । तेन च जना मुमुदिरे । किन्तु ताभ्यामुत्क्षिप्तौ राम - कृष्णौ दृष्ट्वा मम्लुः । ततः कृष्णो दृढया मुष्ट्या दन्ती दन्तेनाऽद्रिखण्डमिव चाणूरं ताडयामास ।
अष्टमं पर्व पञ्चमः सर्गः
१२१
चाणूरश्चाऽपि वज्रोपमया मुष्ट्या कृष्णं वक्षसि ताडयामास । कृष्णश्च तेन घातेन पीडितो मुद्रितनेत्रः पृथिव्यां पपात । छलिना कंसेन दृक्संज्ञया प्रेरितश्च स चाणूरो मूच्छितं कृष्णं हन्तुं पुनरधावत । ततो रामस्तं जिघांसुं ज्ञात्वा सद्यो मुष्टिमुद्यम्याऽताडयत् । चाणूरश्च तेन घातेन सप्तधनूंष्यपासरत् । कृष्णोऽपि चाऽवसरं प्राप्य लब्धसंज्ञः पुनस्तं युद्धायाऽऽह्वास्त । तथा जानुभ्यां तत्कटिदेशमाक्रम्य भुजेन तच्छीर्षमानमय्य च मुष्ट्या दृढं जघान । तेन च रुधिरं वमंश्चाणूरो निर्गताक्षो गतासुरभवत् ।
ततः कंसो भय - कोपाभ्यां कम्पमानाङ्गोऽब्रवीत्- 'अरे ! एतौ गोपालसुतावविलम्बितं हन्येतां तथा येन तौ पालितौ तं नन्दमपि हत, तस्य सर्वस्वं हृत्वा तमिहाऽऽनयत । यः कोऽपि च तत्पक्षे भवेत् स सर्वो मदाज्ञया हन्तव्यः' । ततः कोपरक्ताक्षः कृष्ण उवाच - 'चाणूरे हतेऽपि तव जीवनाशाऽस्त्येव मया हन्यमानमात्मानं रक्ष, पश्चाद् नन्दादिस्त्वया हन्तव्यः' । एवमुक्त्वोत्पत्य कृष्णो मञ्चमारुह्य कंसं केशेषु गृहीत्वा पृथिव्यामपातयत् । ततो विशीर्णमुकुटं गलितोत्तरीयं भीतेक्षणं तं कृष्ण उवाच - 'त्वया स्वरक्षार्थं भ्रूणहत्या कृता, इदानीं स्वकर्म फलं भुङ्क्ष्व' । तदानीं च गृहीतकंसे कृष्णे सर्वो जनो विस्मयं जगाम बिभाय च । रामश्च मुष्टिकं गले भुजैर्बद्ध्वा निरुच्छ्वासीकृत्य जघान ।
अथ कंसरक्षणाय कंसपक्षीया योधा विविधायुधानि गृहीत्वा कृष्णं हन्तुं दधाविरे । ततो रामो मञ्चस्तम्भमुत्पाट्य तेन ताडयंस्तान् विद्रावयामास । कृष्णः कंसस्य शिरसि पादं प्रहृत्य व्यपाद्य केशैः कृष्ट्वा मण्डपाद् बहिरक्षिपत् । तदा कंसेन पूर्वमानीता जरासन्धभटा राम कृष्णौ हन्तुं सन्नद्धा बभूवुः । ततः
Page #74
--------------------------------------------------------------------------
________________
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः समुद्रविजयोऽपि सन्नह्य युद्धार्थं प्रवृत्तोऽभूत् । तस्मिन्नाधावमाने च जरासन्धसैनिकाः पलाय्य दिशोदिशं ययुः । अनाधृष्टिश्च समुद्रविजयाज्ञया निजे रथे राम कृष्णावारोप्य वसुदेवगृहं नीतवान् । समुद्रविजयादयः सर्वेऽपि यादवा वसुदेवगृहे गत्वा सभां चक्रुः । वसुदेवश्चाऽर्धासने राममुपवेश्य कृष्णं स्वाङ्के आरोप्य मुहुर्मुहुः स्नेहाच्छिसि चुचुम्ब । भ्रातृभिश्च किमेतदिति पृष्टो वसुदेवोऽतिमुक्तकवृत्तमारभ्य सर्वं कृष्णवृत्तान्तमाख्यत् ।
१२२
ततः समुद्रविजयः कृष्णं स्वोत्सङ्गे कृत्वा रामं तत्पालनात्प्रसन्नो मुहुर्मुहुः प्रशशंस । देवकी च च्छित्रैकनासया तया पुत्र्या सहाऽऽगत्य कृष्णं स्वाङ्के समारोप्य परिषष्वजे । यादवाश्च वसुदेवमूचुः - 'त्वमेकाक्यपि जगज्जेतुं क्षमोऽसि, तथाऽपि क्रूरेण कंसेन जातमात्रानेव पुत्रान् हन्यमानान् कथमसहिष्ठाः ?' ततो वसुदेव उवाच-‘सत्यव्रतं पालयितुमेवाऽहमेवं दुष्कर्म विसोढवान् । अयं कृष्णश्च देवक्या आग्रहेण गोकुले प्रक्षिप्य नन्दसुतामादाय रक्षितः । कंसश्च देवक्याः सप्तमो गर्भः कन्यकेत्यवहेलयैकं नासापुटं छित्त्वेमां नन्दसुतां मुमोच' ।
ततः समुद्रविजयो भ्रात्राद्यनुमत्या कारागृहादुग्रसेनं नृपं मोचयामास । तथोग्रसेनेन सह समुद्रविजयादयो यमुनाया नद्यास्तटे कंसस्य प्रेतकार्याणि चक्रुः । कंसस्य माता पत्यश्च नद्यां जलाञ्जलीन् ददुः । किन्तु जीवयशा अभिमानाज्ञ्जलाञ्जलिं न ददौ किन्तु कोपादवोचत- 'एतौ गोपौ राम कृष्णौ सपुत्रान् दशाहश्चि घातयित्वा स्वपतेः प्रेतकार्यमहं करिष्ये, अन्यथाऽग्नौ प्रवेक्ष्यामि' | सैवं प्रतिज्ञाय ततो निर्गत्य जरासन्धाधिष्ठितं राजगृहं नगरं जगाम ।
अष्टमं पर्व पञ्चमः सर्गः
१२३
समुद्रविजयो राम कृष्णानुमत्योग्रसेनं मथुरायां नृपं चकार । उग्रसेनेन दत्तां सत्यभामां क्रोष्टुकिना कथिते दिने यथाविधि कृष्णः परिणिनाय ।
***
इतश्च जीवयशा मुक्तकेशा रुदती राजसन्धसभां प्रविष्टा जरासन्धेन पृष्टाऽतिमुक्तकवृत्तान्तं कंसवधं चाऽऽख्यत् । तच्छ्रुत्वा जरासन्ध उवाच- 'कंसेन न सुष्ठु कृतं यद् देवकीमेव न हतवान् । वत्से ! मा रोदी: अहं कंसघातकान् समूलं हत्वा तत्स्त्रियो रोदयिष्यामि । जीवयशसमेवं समाश्वास्य जरासन्धः सोमकं नाम नृपमनुशिष्य समुद्रविजयसमीपं प्रेषयामास । स च सोमको मथुरामागत्य समुद्रविजयमुवाच जरासन्धः प्रभुर्वः समादिशतियदस्माकं जीवयशा अत्यन्तं स्नेहपात्रं, तत्सम्बन्धात् कंसोऽपि च तथेति सार्वजनीनम् । भवन्तोऽपि नो भृत्या इति सुखं तिष्ठन्तु । किन्तु कंसघातकौ राम-कृष्णावर्पणीयौ । किं च कृष्णः सप्तमो गर्भः पुराऽप्यर्पित एव, तद्रक्षणाद् रामोऽप्यद्याऽर्प्यताम्' ।
तच्छ्रुत्वा समुद्रविजय उवाच - "यदि सरलेन वसुदेवेन मामज्ञापयित्वैव षड्गर्भा अर्पितास्तद् नोचितं, तथा निजसोदरघातवैराद् बालाभ्यां राम-कृष्णाभ्यां कंसो हतश्चेत् तदपि नाऽपराधाय । अस्माकमयमेकोऽपराधो यद् बाल्यादेव स्वतन्त्रो वसुदेवः ततस्तदज्ञानाद् मम षट्पुत्रा हता: । 'राम कृष्णौ मम प्राणप्रियौ वधार्थं जरासन्धेन याचितुं न योग्यौ' । ततः सोमकः कोपादुवाच'सेवकानां युक्तायुक्तविचारो नाऽर्हति यदि षड्गर्भा गतास्तर्ह्येतौ दुष्टौ राम कृष्णावपि गच्छताम् । बलिभिः सह विरोधो न क्षेमाय, यतस्त्वं जरासन्धस्याऽग्रे गजस्याऽग्रे मेष इव तुच्छोऽसि ।
Page #75
--------------------------------------------------------------------------
________________
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः
तच्छ्रुत्वा कुपितः कृष्ण उवाच- 'तातेन दाक्षिण्याच्चिरं स्नेहसम्बन्धः पालितः । जरासन्धो नाऽस्माकं प्रभुः । अविचार्य कुर्वंश्च स कंसगतिमेव यास्यति । तद् गच्छ यथेच्छं जरासन्धाय शंस' । कृष्णेनैवमुक्तः सोमकस्तवाऽसौ सुतः कुलनाशको नोपेक्षणीय इति समुद्रविजयमुवाच । तद्वचसा चाऽत्यन्तं क्रुद्धोऽऽनाधृष्टिरुवाच'भूयो भूयस्तातात् पुत्रौ याचमानः किं न लज्जसे ? स जरासन्धो जामातृवधेनाऽपि दुःखी । वयं षड्भ्रातृवधेन दुःखिनो न किम् ? यद्येवं पुनर्वक्ष्यसि तदा वयं न सहिष्यामहे । एवमनाधृष्टिना तिरस्कृतः समुद्रविजयेन चोपेक्षितः सोमकः स्वस्थानं ययौ ।
१२४
अथ समुद्रविजयः स्वबान्धवानेकत्राऽऽहूय नैमित्तिकं क्रोष्टुकिं पप्रच्छ- 'अर्धचक्रिणा जरासन्धेनाऽस्माकं विग्रह उपस्थितः, तदतः परं यद्भावि तत् कथय' । ततः क्रोष्टुकिरुवाच- 'एतौ वीरौ रामकृष्ण जरासन्धं हत्वा त्रिखण्डभरताधीशौ भविष्यतः । अधुना यूयं प्रतीच्यां जलधितीरमुद्दिश्य गच्छत । तत्र गच्छतां युष्माकं शत्रुनाशारम्भो भावी । यत्रैषा सत्यभामा पुत्रद्वयं जनयति तत्र पुरीं निर्माय भवद्भिर्निःशङ्कं स्थातव्यम्" ।
ततः समुद्रविजयो घोषणां कारयित्वा बन्धून् स्वां यात्रामजिज्ञपत् । एकादशकुलकोटिसंयुतश्च मथुरां त्यक्त्वा शौर्यपुरं गत्वा ततोऽपि सप्तकुलकोटीरादाय ज्ञातिसहितः समुद्रविजयः प्रस्थितवान् । उग्रसेननृपोऽपि च तमन्वगात् । सर्वेऽपि च विन्ध्यस्य मध्ये पथि सुखं जग्मुः ।
अथ सोमको गत्वा जरासन्धाय सर्वं वृत्तान्तं निवेदयामास । तेन च क्रुद्धं जरासन्धं तत्सुतः काल उवाच - 'अमी यादवाः
अष्टमं पर्व पञ्चमः सर्गः
भवतामग्रे के ? मामादिश क्वाऽपि गतान् यादवानन्विष्याऽहं हनिष्यामि, नाऽन्यथा निवर्त्तिष्ये' । ततो जरासन्धः कालं नृपपञ्चशत्या सहितं महत्या सेनया सह यदून् प्रति समादिशत् । ततः कालो भ्रात्रा यवनेन सहदेवेन च सहितो दुर्निमित्तान्यप्यगणयन् निर्गत्य यादवानामनुपदं गच्छन् यादवैरधिष्ठितां विन्ध्याचलोपत्यकाभुवं प्रापत् ।
१२५
अथ राम कृष्णरक्षिका देवताः कालमासन्नं विलोक्यैकद्वारमुन्नतं विशालं शैलं विचक्रुः । तत्र स्थितं यदुसैन्यं वह्निना भस्मीभूतं चितासमीपे रुदतीमेकां स्त्रियं च विचक्रुः । कालश्च तां प्रेक्ष्य किं रोदिषीति पप्रच्छ । ततो भीता सोवाच- 'जरासन्धभयात् सर्वे यदवः पलायिताः । तेषां पृष्ठतश्च वीरः कालः काल इव प्रस्थितवान् । तस्मिन् समीपगे च यादवा भयाद् वह्नि प्रविविशुः । दाशार्हा राम-कृष्णावपि चेह चितायां प्राविशन् । अहं च बन्धूनां तेषां वियोगादिहाऽग्नौ प्रवेक्ष्यामि । एवमुक्त्वा सा वह प्राविशत् ।
कालश्च देवतामोहितो यवनं सहदेवं नृपांश्चाऽवोचत्- 'मया तातस्य जामेश्च पुर इदं प्रतिश्रुतं यद्वयादिभ्योऽपि कृष्ट्वा यदून् हनिष्यामि । मद्भयादग्नौ प्रविष्टांस्तान् हन्तुं सत्यप्रतिज्ञोऽहमस्मिन् ज्वलितेऽग्नौ प्रवेक्ष्यामि । एवमुक्त्वा सोऽसि फलकधरः पतङ्गवदग्नौ प्रविवेश । स्वेषु पश्यत्सु देवतामोहितेषु मृतश्च । अत्राऽन्तरे च रविरस्तमियाय । तेन यवनादयस्तत्रैवोषुः । प्रभाते चाऽद्रिं चितां चाऽनवलोकमाना दूतैर्यादवा दूरं गता इत्याख्याताश्च वृद्धादिभिर्देवताकृतं संमोहं ज्ञात्वा यवनादयः प्रतिनिवृत्त्य जरासन्धस्य सर्वं वृत्तं शशंसुः । तच्छ्रुत्वा च मूच्छितो जरासन्धो भुवि पपात । लब्धसंज्ञश्च काल ! कालेति कंस ! कंसेति च रोदिति स्म ।
Page #76
--------------------------------------------------------------------------
________________
१२६
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः इतश्च यादवा गच्छन्तः कालस्मरणं ज्ञात्वा हर्षात् क्रोष्टुकिं सन्निमित्तज्ञमानचुः । मार्गे एकस्मिन् वने कृतावासानां तेषां च चारणर्षिरतिमुक्तकः समागतः । समुद्रविजयश्च पूजयित्वा प्रणम्य तं मुनि पप्रच्छ 'मुने ! समुपस्थितेऽस्मिन् व्यसनेऽस्माकं कि भावि ?' ततः स मुनिरुवाच-'मा भैषीः, एष ते कुमारोऽरिष्टनेमिर्महाबलो द्वाविंशस्तीर्थकृत् । इमौ राम-कृष्णौ बलभद्रवासुदेवौ द्वारकास्थौ जरासन्धं हत्वाऽर्धभरतेशौ भविष्यतः' । तच्छ्रुत्वा हृष्टो नृपस्तं मुनिमर्चित्वा व्यसृजत् । ततः प्रस्थाय च यदव: सुखेन सुराष्ट्रमण्डलं प्रापुः । तत्र च तै रैवतकाद्रेः पश्चिमोत्तरतोऽष्टादशकुलकोटिसंयुताः शिबिरं निवेशयामासुः ।
कृष्णभार्या सत्यभामा च तत्र भानु-भामरनामानौ स्वर्णवर्णी द्वौ पुत्रावसूत । ततः कृष्णः क्रोष्टकिना कथिते दिने स्नात्वा बलि विधाय समुद्रं पूजयित्वाऽष्टमं तपश्चकार । ततस्तृतीयस्यां रात्रौ गगनस्थो देवो लवणाब्धेरधिष्ठाता तत्राऽऽगत्य कृष्णाय पाञ्चजन्य रामाय सुघोषं च शङ्ख दिव्यानि रत्न-माल्य-वस्त्राणि च दत्त्वा कृष्णमुवाच-'किमर्थं त्वयाऽहं स्मृतः ? अहं सुस्थितो नाम देवः, ब्रूहि, किं तेऽहं करवाणि ?'
ततः कृष्ण उवाच-'अत्र द्वारका पुर्यासीत्, या त्वया जलेन तिरोधापिता । तस्याः स्थानं मम निवासाय प्रकाशय' । ततः स देवस्तथा कृत्वा ततो गत्वेन्द्राय विज्ञापयामास । शक्रादेशात् कुबेरश्च तत्र नवयोजनविस्तृतां द्वादशयोजनदी| रत्नमयीं पुरी चकार । तथा तत्र परिखा-प्राकार-प्रासाद-जिनचैत्यादीनि च चकार । समुद्रविजयादीनां सर्वेषां च विविधाख्यान् प्रासादान्
अष्टमं पर्व - पञ्चमः सर्गः
१२७ विश्वकर्मणा नानासुखसाधनैर्युक्तांश्चकार । कृष्णस्य सा नगरी देवनिर्मितेन्द्रपुरीतुल्याऽभूत् । __ तस्याः पुर्याः पूर्वस्यां रैवतकाद्रिदक्षिणस्यां माल्यवान्, प्रतीच्यां सौमनस, उदीच्यां गन्धमादनश्चाऽदिरभूत् । ततः प्रातः कुबेरः कृष्णाय पीतवस्त्रे, नक्षत्रमालां, मुकुटं, कौस्तुभं महारत्नं, शार्ङ्ग, धनुरक्षय्यबाणौ तूणौ, नन्दकं खड्गं, कौमोदकी गदा, गरुडध्वजं रथं, रामाय वनमालां, मुशलं, नीलवस्त्रे, तालध्वजं रथमक्षय्यबाणौ तूणौ, धनुर्हलं च दशभ्यो दशार्हेभ्यो रत्नान्याभरणानि च ददौ । यादवाश्च कृष्णं शत्रुनाशकं ज्ञात्वा प्रमुदिताः समुद्रतटेऽभ्यषिञ्चन् ।
ततो रामः सिद्धार्थसारथिं कृष्णश्च दारुकसारथिं रथमारुह्य रथस्थैर्यादवैः परिवृतौ जयजयारावपूर्वकं तां पुरीं प्राविशताम् । तस्यां च कुबेरेण दर्शितेषु गृहेषु दशार्हा रामः कृष्णश्चाऽवात्सुः । कुलानि च कृष्णाज्ञया यथास्वं गृहेष्वस्थुः । कुबेरश्च सार्धदिनत्रयं यावद् रत्न-स्वर्ण-वस्त्र-धान्यानि वर्षन् तां नूतनां पुरीं समृद्धां चकार ॥ ५ ॥ इति अष्टमे पर्वणि राम-कृष्णा-अरिष्टनेमिजन्म-कंसवध
द्वारकानिवेशवर्णनात्मकः पञ्चमः सर्गः ॥५॥
Page #77
--------------------------------------------------------------------------
________________
षष्ठः सर्गः अथ रामेण सह कृष्णो दशार्हा अपि च यादवैः सह रममाणा द्वारकायां सुखमवात्सुः । जिनोऽरिष्टनेमिश्च भ्रात्रो राम-कृष्णयोर्दशार्हाणां च मोदं वर्धयन् क्रमाद् वृद्धिमाप । स प्रभुर्दशधनुस्तुङ्गोऽविकृतचेता, आजन्म कामजेता, यौवनं प्राप्तो रामकृष्णाद्यैर्धातृभिः पितृभ्यां च प्रेर्यमाणोऽपि कन्या न परिणिनाय । राम-कृष्णौ च भूरिशो नृपान् वशगान् विधाय प्रजाः पालयामास । __ अन्यदा च नारदो भ्रमन् कृष्णगृहं प्राप्त: कृष्णेन सरामेण विधिवदचितोऽन्तःपुरमगात् । दर्पणे स्वं पश्यन्त्या सत्यभामयाऽऽसनादिनाऽकृतसत्कारः क्रोधात् ततो निर्गत्य विपरीतमचिन्तयत्'कृष्णान्तःपुरे सर्वैरेव सदा नारदाः पूजिताः, इयं सत्यभामा तु पतिप्रियत्वात् स्वरूप-यौवनगर्वाच्च दृष्टिप्रक्षेपमपि नाऽकरोत् । तदेनं सपल्याः प्राप्तिसङ्कटे पातयामि' । एवं विचिन्त्य स कुण्डिनपुरं गतवान् ।
तत्र च भीष्मको नाम नृपोऽभूत् । तस्य यशोमतीकुक्षिणी रुक्मः पुत्रो रुक्मिणी पुत्री चाऽभूताम् । तत्र रुक्मिण्या नमस्कृतो नारदस्तवाऽर्धचक्री कृष्णो वरोऽस्त्वित्याशिषं ददौ । तया च कृष्णः क इति पृष्टश्च नारदः कृष्णस्य रूपादीनप्रतिमान् गुणानवर्णयत् । तच्छ्रुत्वा च रुक्मिणी कृष्णे जातानुरागा तमेव
अष्टमं पर्व - षष्ठः सर्गः
१२९ चिन्तयन्ती कामात कालं निनाय । नारदश्च तस्या रूपं पटे लिखित्वा द्वारकामेत्य कृष्णस्य दर्शयामास । तद् दृष्ट्वा कृष्णेन केयं पटे लिखितेति पृष्टश्च नारदो रुक्मिणीं वर्णयामास । तेन कृष्णस्तद्रूपमोहितस्तस्यां जातानुरागो जज्ञे । ____ अथ कृष्णो दूतं प्रेष्य रुक्मिणो रुक्मिणी ययाचे । रुक्मी च हसित्वोवाच-'हीनकुलाय गोपाय जामिर्न दीयते । इमां मैत्रीहेतोः शिशुपालाय नृपाय दास्ये, रोहिणी-चन्द्रयोरिवैतयोर्योग: श्लाघ्यः' । एवं परुषं तद्वाक्यं श्रुत्वाऽऽगत्य दूतः कृष्णाय सर्वं निवेदयामास । तवृत्तान्तं ज्ञात्वा च पितृष्वसा धात्री रुक्मिणी रहसि नीत्वा प्रेम्णोवाच-'त्वां बाल्ये ममाऽङ्के दृष्ट्वाऽतिमुक्तको मुनिः 'कृष्णस्यैषाऽग्रमहिषी भविष्यति, स च द्वारकानिवेशेनोपलक्षणीय' इत्यवोचत् । किन्तु याचमानायाऽपि तस्मै रुक्मिणा त्वं न दत्ता, प्रत्युत दमघोषपुत्राय शिशुपालाय प्रदत्ता' । तच्छ्रुत्वा रुक्मिण्युवाच-"मुनेर्भाषितमपि मिथ्या भवति" । ततः सा धात्री रुक्मिण्याः कृष्णेऽनुरागं ज्ञात्वा गुप्तदूतेन सद्य: कृष्णायाऽजिज्ञपत्-"माघे शुक्लाष्टम्यां नागपूजाव्याजाद् रुक्मिण्या सहोद्यानं यास्यामि । यदि ते रुक्मिण्या प्रयोजनं तर्हि तत्राऽऽगन्तव्यम्, अन्यथा शिशुपाल एनां परिणेष्यति" । ___ इतश्च रुक्मिणाऽऽहूतः शिशुपालो रुक्मिणी परिणेतुं ससैन्यः कुण्डिनपुरमगात् । नारदश्च कलिप्रियो रुक्मिणीवरणार्थ तत्राऽऽगतं शिशुपालं कृष्णाय न्यवेदयत् । कृष्णोऽपि रामेण सह जगाम । तदा पृथग् रथमारूढो गुप्तं कुण्डिनपुरं तया पितृष्वस्रा सखीभिश्च परिवृतां नागपूजार्थमुद्यानमागतां रुक्मिणीं तस्याः पितृस्वसारं रथादवतीर्य कृष्णः स्वं ज्ञापयित्वा तयाऽनुज्ञातां
Page #78
--------------------------------------------------------------------------
________________
१३०
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः रथमारोपयित्वा प्रतिनिवृत्तवान् । तस्याः पितृष्वस्त्रादयश्च स्वदोषाच्छादनाय रुक्मिन् ! कृष्णेन सरामेण त्वत्स्वसा रुक्मिणी चौरेणेव हियते' इत्युच्चैः पूच्चक्रुः ।
राम-कृष्णौ च सुघोषं पाञ्चजन्यं च दध्मतुः । तेन च कुण्डिनपुरं समुद्र इवाऽक्षुभ्यत् । महाबलौ रुक्मी शिशुपालश्च महता सैन्येन सह राम-कृष्णौ प्रत्यधावताम् । रुक्मिणी च तौ दृष्ट्वा कृष्णमुवाच-"क्रूरौ महाबलौ मद्भ्राता शिशुपालश्च तत्पक्षीया अन्ये च वीराः सन्नद्धाः, युवां त्वेकाकिनौ । तेनाऽत्र भीताऽस्मि, का गतिर्भवेत् ?" तच्छ्रुत्वा विहस्य कृष्ण उवाच-'मा भैषीः, त्वं क्षत्रियाऽसि, रुक्म्याद्या वराकाः क्व ? मबलं पश्य" । एवमुक्त्वा तस्याः प्रत्ययार्थं कृष्ण एकघातेनैव कमलनालश्रेणीवत् तालपङ्क्तिमच्छिदत् । अङ्गुलीयकवजं चाऽगुल्या निष्पीड्य भृष्टमसूरकणवत् पिपेष । तेन च पतिबलेन रुक्मिणी परमां मुदं प्राप ।
ततः कृष्णो राममुवाच-"त्वं रुक्मिणीमादाय व्रज, अहमनुधावतो रुक्म्यादीन् हनिष्यामि" । रामोऽप्यहमेव रुक्म्यादीन् हनिष्यामि, त्वमेव व्रजेत्युवाच । ततो भीता रुक्मिणी मद्भ्राता रक्षणीय इत्युवाच । रामोऽपि कृष्णानुमत्या तस्या वाचं स्वीकृतवान् । तथा रामाज्ञया कृष्णो रुक्मिणीमादाय ययौ । रामस्तु योर्बु तत्रैव तस्थौ । __ अथ राम आयातं शत्रुसैन्यं मुशलमुद्यम्य मन्दरोऽब्धिमिव रभसा ममन्थ । तस्य मुशलप्रहारेण वज्रप्रहारेण गिरय इव गजा: पेतू रथाश्चूर्णिता अभवन् । ततो रुक्मिसैन्यं शिशुपालेन सह दुद्राव ।
अष्टमं पर्व - षष्ठः सर्गः
१३१ रुक्मी च स्वस्य बलमानी बलभद्रमुवाच-"चिराद् दृष्टोऽसि गोपाल ! ममाऽग्रे तिष्ठ, एषोऽहं ते गोपयःपानोद्गतं मदं हरिष्यामि"। रामश्च प्राक्प्रतिज्ञातं स्मरन् मुशलं त्यक्त्वा शरैस्तस्य रथमभाङ्क्षीत् कवचं चिच्छेदाऽश्वांश्च जघान । एवं निरुपायं रुक्मिणं स क्षुरप्रेण मुण्डितं कृत्वा हसन्नुवाच-त्वं मध्वा भ्रातेति न वधमर्हसि, इत: प्रयाहि, मुण्डोऽपि मत्प्रसादात् स्वपत्नीभिर्भोगान् भुडव" । तेनैवमुक्तो मुक्तश्च स रुक्मी लज्जया कुण्डिनपुरमगत्वा तत्रैव भोजकटं पुरं निर्माय तस्थौ । ___ अथ कृष्णो द्वारकापुरीं प्रविशन् रुक्मिणीमुवाच-"प्रिये ! ममेयं पुरी रत्नमयी देवरचिता । अत्र कल्पवृक्षमयेषूद्यानेषु मया सह सुरस्त्रियमिव सततं सुखं रंस्यसे" । ततो रुक्मिण्युवाच-'तव महर्द्धयः पत्न्यः सन्ति, अहं त्वेकाकिनी बन्दिनीवाऽऽनीता तासां हसनीया यथा न स्यां तथा कुरु" । ततः कृष्णस्त्वां तदधिकां करिष्ये इति तामाश्वास्य सत्यभामागृहसमीपप्रासादेऽमुञ्चत् । तथा तां गान्धर्वेण विवाहेन परिणीय रुक्मिणीं तां रात्रि स्वैरं रमयामास । तथा स रुक्मिणीगृहे जनप्रवेशं न्यषेधत् ।
ततः सत्यभामा स्वां प्रियां दर्शयेति कृष्णं साग्रहमुवाच । कृष्णश्च लीलोद्याने श्रीगृहे संस्करणव्याजाच्छ्रीप्रतिमां चित्रकारकैरुत्सार्य तत्र श्रीस्थाने 'रुक्मिणी स्थापयामास । ततो देवीनामागमे त्वया नि:स्पन्दया भवितव्यमिति तामनुशिष्य स्वं स्थानं गतः कृष्णः। ततस्स सत्यभामया "क्व स्थाने त्वया सा प्रिया मुक्ते"ति पृष्टः सा श्रीगृहेऽस्तीति जगाद । ततः सत्यभामा सपत्नीभिः समं श्रीगृहं ययौ । तत्र श्रीस्थानस्थां रुक्मिणीं दृष्ट्वा
Page #79
--------------------------------------------------------------------------
________________
१३२
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः "श्रियोऽद्भुतं रूपं, शिल्पिनां विस्मयजनकं कौशलमि"ति प्रशस्य तां प्रणम्योवाच-"लक्ष्मि ! तथा कुरु यथा कृष्णस्य नूतनां प्रियामहं रूपसम्पदा जयामि । एवं जाते चाऽहं ते पूजां करिष्यामी'-त्युक्त्वा पुनः कृष्णस्य समीपं गत्वा क्व ते प्रियेति पुनः पप्रच्छ ।
ततः कृष्णः सत्यभामयाऽपराभिश्च पत्नीभिः सह श्रीगृहमगात् । रुक्मिणी चोत्थाय कां प्रणमामीत्युवाच । कृष्णेन दर्शिता सत्यभामा चाऽब्रवीत्-"इयं मया प्राग्वन्दितेति मां कथं वन्दिष्यते" । ततो हसित्वा कृष्ण उवाच-'स्वसृवन्दने न कोऽपि दोषः । ततः सत्यभामा विलक्षा रुक्मिणी नतपूर्विणी स्वगृहमगात् । कृष्णश्च रुक्मिण्य महतीं सम्पदं ददौ तया सहाऽतिप्रेम्णा रेमे च ।
अथाऽन्यदा समायातो नारदः कृष्णेन पूजयित्वा किमपि दृष्टमाश्चर्यं वदेति पृष्टोऽब्रवीत्-'वैताढ्यपर्वते विद्याधरेन्द्रो जाम्बवानस्ति, तस्य शिवचन्द्राकुक्षिजौ विष्वक्सेनः पुत्रो जाम्बवती पुत्री च स्त: । जाम्बवत्या रूपेण समा जगत्रये काऽपि नाऽस्ति । सा क्रीडार्थं गङ्गायां नित्यं गच्छति । तामाश्चर्यभूतां दृष्ट्वा त्वामाख्यातुमागतोऽस्मि" । तच्छ्रुत्वा ससैन्यस्तत्र गतः कृष्णः सखीभिः परिवृतां क्रीडन्तीं जाम्बवतीं दृष्ट्वा नारदोक्तं सत्यमिति वदंस्तामपजहार । तज्ज्ञात्वा च जाम्बवानतिक्रुद्वः ससैन्यः सायुधस्तत्राऽऽजगाम । द्वयोः सैन्ययोस्तुमुले युद्धे जाते चाऽनाधृष्टिना पराजित्य जाम्बवान् कृष्णसमीपं नीतः । ततो जाम्बवान् जाम्बवती कृष्णाय दत्त्वाऽपमानाद् विरज्य प्रव्रज्यामाददे । कृष्णश्च विष्वक्सेनेन सह जाम्बवतीमादाय द्वारकामागत्य
अष्टमं पर्व - षष्ठः सर्गः रुक्मिणीगृहसमीपप्रासादे दास्यादिकं दत्त्वा तामास्थापयत् । तस्याश्च रुक्मिण्या सह महती प्रीतिरभूत् ।
अथाऽन्यदा सिंहलेशस्य श्लक्ष्णरोम्णः समीपं प्रेषितो दूत आगत्य कृष्णं निवेदयामास-"श्लक्ष्णरोमा तवाऽऽज्ञा न मन्यते । किन्तु तस्य सुलक्षणा लक्ष्मणा नाम सुता तवैव योग्याऽस्ति । सा च द्रुमसेनेन सेनापतिना रक्षिता समुद्रे स्नातुमागता तत्र सप्तरात्रं स्थास्यति" । तच्छ्रुत्वा च कृष्णो बलभद्रेण सह तत्र गत्वा तं सेनापति हत्वा लक्ष्मणामादाय द्वारकामागत्य तां परिणीय जाम्बवतीगृहान्तिकप्रासादे रत्नसदने परिच्छदेन सह स्थापयामास ।
इतश्चाऽऽयुस्खरीपुर्यां सुराष्ट्रेशो राष्ट्रवर्धनो नृप आसीत् । तस्य च विनयाकुक्षिजौ युवराजो नमुचिर्नाम सुतो रूपसम्पदाऽप्रतिमा सुसीमा नाम सुता चाऽऽस्ताम् । नमुचिश्च दिव्यास्त्रबलोपेतः कृष्णाज्ञां नाऽमन्यत । स एकदा सुसीमया सह प्रभासे स्नातुं ययौ । तत्र शिबिरं कृत्वा स्थितं तं ज्ञात्वा कृष्णः ससैन्योऽभ्यागत्य तं जघान । ततः सुसीमामादाय परिणीय महत्या सम्पदा तां लक्ष्मणागृहाभ्यर्णगृहे स्थापयामास । राष्ट्रवर्धनोऽपि च सुसीमायै परिच्छदं कृष्णाय गजादिकं च विवाहनिमित्तं प्रेषयामास । तथा कृष्णो मरुदेशे वीतभयनृपस्य कन्यां गौरी परिणीय सुसीमागृहसमीपगृहे स्थापयामास । ___ अथ रामेण सह कृष्णो हिरण्यनाभपुत्र्याः पद्मावत्या स्वयंवरेऽरिष्टपुरं गतो हिरण्यनाभेन रोहिणीसोदरेण जामेयाविति सहर्ष पूजितः । तन्नृपस्याऽग्रजो रैवतश्च पित्रा सह नमिजिनस्य तीर्थे प्रवव्राज । तत्सुता रेवती रामा सीता बन्धुमती च पुरा रामाय
Page #80
--------------------------------------------------------------------------
________________
१३५
१३४
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः रोहिणीपुत्राय प्रदत्ता । कृष्णश्च पश्यतां सर्वेषां राज्ञां पद्मावती जहार । स्वयंवरागतान् युध्यमानान् नृपान् जितवांश्च । ततः पद्मावतीमादाय रामेण सह द्वारकामेत्य गौरीगृहसमीपगृहे तां निवेशयामास ।
इतश्च गान्धारदेशे पुष्कलावत्यां पूर्यां नग्नजितस्तनयचारुदत्तो नाम नृपो बभूव । तस्य च गान्धारी नाम सुन्दरी भगिन्यासीत् । पितरि मृते च चारुदत्तो दायादैः पराजितो दूतद्वारा कृष्णं शरणं श्रितः । ततः कृष्णो गान्धारेषु गत्वा रणे चारुदत्तदायादान् हत्वा चारुदत्तप्रदत्ता गान्धारीं परिणीय तां पद्मावतीगृहसमीपगृहे स्थापयमास । एवं कृष्णस्य क्रमाद् यथाक्रमं गृहेषु स्थिता अष्टौ महिष्योऽभवन् ।।
अन्यदा च रुक्मिण्या गृहेऽतिमुक्तमुनिराजगाम । तं दृष्ट्वा च सत्यभामाऽपि तत्राऽऽशु समाजगाम । रुक्मिण्या च मम तनयः स्याद् नवेति पृष्टो मुनिः कृष्णसमस्ते पुत्रो भावीत्युक्त्वा ययौ । सत्यभामा च तन्मुनिवचः स्वविषये मन्यमाना कृष्णसमो मम पुत्रो भावीति रुक्मिणीमुवाच । ततो मुनिवचनं छलाद् न फलतीति रुक्मिण्योक्ता च सा तया विवाद चकार । द्वे अपि च विवदमाने कृष्णसमीपमीयतुः । तदा च तत्र ससोदरो दुर्योधनस्तत्राऽऽयातो मम सुतस्ते जामाता भविष्यतीति सत्यभामयोचे । रुक्मिण्याऽपि तथोक्तो दुर्योधन उवाच-'युवयोर्या पुत्र प्रसविष्यते तस्मै स्वसुतामहं दास्यामि" । तत: सत्यभामोवाच-“यस्याः सुतः प्रथमं परिणेष्यति तद्विवाहेऽन्यया स्वकाः केशा दातव्याः, अत्र साक्षिणो राम-कृष्णदुर्योधनाः" । एवमुदित्वा सा रुक्मिण्यपि च निजगृहं जग्मतुः ।
* **
अष्टमं पर्व - षष्ठः सर्गः
अन्यदा च रुक्मिणी स्वप्ने श्वेतवृषभस्थिते विमाने स्वं समारुढं दृष्ट्वा प्रबुद्धा । तदानीमेव च महाशुकाद् महद्धिको देवश्च्युत्वा तस्याः कुक्षाववततार । प्रातश्च रुक्मिणी तं स्वप्नं कृष्णायाऽऽख्यत् । कृष्णश्च जगदेकवीरस्ते पुत्रो भवितेति स्वप्नफलमाख्यत् ।
तदानीं च सत्यभामाया दासी तत् स्वप्नफलं श्रुत्वा भामायै शशंस । ततः साऽपि स्वप्नं कल्पयित्वा कृष्णाय हस्तिमल्लतुल्यो हस्ती मया स्वप्ने दृष्ट इति शशंस । कृष्णश्च तदिङ्गितैः कूटं स्वप्नं ज्ञात्वाऽपीयं मा स्म कुप्यदिति ते शुभः पुत्रो भविष्यतीति स्वप्नफलमाख्यत् । दैववशाच्च तदा तस्या गर्भोऽभवत् । तदुदरमवर्धिष्ट च । रुक्मिणी तूत्तमगर्भत्वाद् गूढगर्भाऽभूत् । अन्यदा च सत्यभामा कृष्णमुवाच-रुक्मिणी मायया गर्भमुवाच, द्वयोरुदरं पश्य" । ___अथ तदानीमेव काऽपि दासी समागत्य रुक्मिणीदेव्याः स्वर्णकान्तिः पुत्रोऽभवदिति कृष्णं वर्धापयामास । सत्यभामा च तच्छ्रुत्वा विलक्षा क्रोधाद् गृहं यान्ती भानुकं नाम सुतं सुषुवे । कृष्णश्च प्रसन्नो रुक्मिणीगृहं गत्वा सिंहासनासीनः पुत्रमानाय्याऽपश्यत् । द्युतिमत्त्वादेष नामतः प्रद्युम्नोऽस्त्विति तमुल्लापयन् क्षणं तस्थौ च । तदानीं च रुक्मिणीवेषो धूमकेतुसुरः प्राग्वैरात् कृष्णाद् बालकं गृहीत्वा वैताढ्यं गत्वा भूतरमणोद्याने "टङ्कशिलोपरि समास्फाल्याऽस्य न दुःखाद् मृत्युरिति शिलापृष्ठ एवैनं मुञ्चामि । येन निराहारः क्षुधातुरोऽसौ क्रन्दन् म्रियेते'ति विचार्य तं तत्र मुक्त्वा ययौ । स बालश्चरमदेहत्वाद् निरुपक्रमायुर्बहुपत्रदेशे बाधारहितः पपात ।
Page #81
--------------------------------------------------------------------------
________________
पुरुषतम्-गद्यात्मकसारोद्धारः
प्रातश्चाऽग्निज्वालपुरात् स्वपुरं गच्छतो विद्याधरेन्द्रस्य कालसंवरस्य यानं तत्राऽस्खलत् । ततः स विद्याधरो विमानस्खलनहेतुजिज्ञासया विमानादधस्तादवतीर्य तेजस्विनं बालं दृष्ट्वा 'विमानस्खलने हेतुरयं बालकः कोऽपि महात्मेति विचार्य तमादाय कनकमालायै भार्यायै पुत्रत्वेनाऽर्पयामास । तथा स मेघकूटाख्ये स्वपुरे गत्वा गूढगर्भा मम भार्याऽधुना सुतमसूतेत्युक्त्वा पुत्रजन्मोत्सवं विदधे । शुभे दिने द्युतिमत्वात् तस्य बालस्य प्रद्युम्न इति नामाऽकरोत् ।
१३६
इतश्च कृष्णो रुक्मिण्या क्व बाल इति पृष्टः सम्प्रत्येव त्वया नीत' इत्युदतरत् । ततश्च तया 'किं प्रतारयसी' त्युक्तः कृष्णः नाऽपि च्छलितोऽस्मीत्यनुमाय सुतं बहुधाऽन्वेषयामास । रुक्मिणी च पुत्रवृत्तान्तेऽप्राप्ते मूच्छिता भुवि पतिता कथञ्चिल्लब्धसंज्ञा परिजनैः सह तारस्वरं रुरोद । तदानीं च यदवस्तत्पल्यश्च दुःखिता अभवन् । सत्यभामायाः परिच्छदश्च तामेकां विहाय दुःखितो - ऽभवत् । समर्थस्य विष्णोरपि नाऽधुनाऽपि पुत्रवृत्तलाभ इत्येवं भाषमाणा रुक्मिणी दु:खितं कृष्णं द्विगुणदुःखितं चकार ।
तदानीमेव दुःखितैर्यदुभिः परिवेष्टितस्य कृष्णस्य सभायां समागतो नारदः किमेतदिति ब्रुवन् कृष्णेन "जातमात्रो रुक्मिण्याः पुत्रः केनाऽपि मत्करादपहतः, तस्य शुद्धि जानासि किमिति पृष्ट उवाच - 'अत्राऽतिमुक्तो नाम महाज्ञान्यासीत्, सोऽधुनैव मोक्षं गतः । इदानीं भारते कोऽपि ज्ञानी नाऽस्ति । सीमन्धरात् तीर्थकृदधुना प्राग्विदेहेषु वर्त्तते, गत्वा तं पृच्छामि" । एवमुक्त्वा सर्वैः प्रार्थितः स त्वरितं सीमन्धरजिनमुपगम्य समवसरणस्थं तं प्रणम्य कृष्णरुक्मिण्योः सुतः क्वेत्यपृच्छत् ।
अष्टमं पर्व षष्ठः सर्गः
१३७
ततो जिन उवाच- 'देवेन प्राग्भववैरिणा धूमकेतुना छलेन हत्वा कृष्णस्य प्रद्युम्नो नाम पुत्रो वैताढ्यसमीपे शिलायां मुक्तश्चरमदेहत्वात् केनाऽपि हन्तुं न शक्यते । ततः प्रातर्गच्छता संवरेण खेचरेण दृष्टः पुत्रत्वेन पत्न्यै समर्पितः सम्प्रति वर्धमानोऽस्ति" । ततः पूर्वजन्मनि धूमकेतोस्तेन कथं वैरमिति नारदेन पुनः पृष्टः स्वाम्युवाच
'जम्बूद्वीपस्य भरते मगधेषु सर्वसम्पत्समृद्धे शालिग्रामे मनोरमोद्याने तत्पतिः सुमना नाम यक्षोऽभूत् । तत्र ग्रामे च सोमदेवो नाम द्विजोऽवात्सीत् । तस्य द्विजस्याऽग्निलायां पन्यामग्निभूति-वायुभूती वेदविदौ सुतावभूताम् । तौ च विद्यया ख्यातौ प्राप्तयौवनौ विविधान् भोगान् भुञ्जानौ मदोदग्रौ तस्थतुः । एकदा च तस्मिन्नुद्याने नन्दिवर्धनाचार्यः समवसृतो लोकेनैत्य वन्दितः । तत्र चाऽतिदृप्तावग्निभूति-वायुभूती एत्यैवमूचतुः"यदि कमपि शास्त्रार्थं वेत्सि तर्हि वद" । ततो नन्दिवर्धनशिष्येण सत्येन कुतो युवामिति पृष्टौ तौ शालिग्रामात् समागतावित्यूचतुः । ततः पुनः सत्येन 'कुतो भवाद् युवयोर्मानुष्यमिति पृष्टौ तौ लज्जयाऽधोमुखौ तदाख्यातुमसमर्थौ तस्थतुः ।
ततः सत्य उवाच- 'अस्य ग्रामस्य वनस्थल्यां पूर्वभवे युवां शृगालावभूताम् । एकदा चैकेन गृहस्थेन निशि मुक्तं चर्मरज्ज्वादिकं वृष्ट्याऽऽर्द्रीकृतं ताभ्यां सर्वमभक्ष्यत । तौ चाऽत्याहाराद् विपन्नौ युवां कर्मवशात् सोमदेवद्विजसुतौ जातौ । स हालिकश्च प्रभाते तच्चर्मरज्ज्वादिकं भक्षितं प्रेक्ष्य स्वगेहं गतः कालेन विपद्य स्वपुत्रवधूपुत्रो जातः । ततो जातिस्मरत्वात् 'स्नुषा सुतश्च कथं मातः पितरित्येवं
Page #82
--------------------------------------------------------------------------
________________
१३८
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः संबोध्यावि"ति स च्छलाज्जन्ममूकोऽभवत् । यदि युवयोर्न प्रत्ययस्तर्हि तं मूकं हालिकं पृच्छतम् । स मौनं मुक्त्वा युवयोरुत्तरं दास्यति" । तच्छ्रुत्वा कौतुकाल्लोकेन तत्कालमानीत: स हालिको मुनिना प्राग्जन्माऽऽख्याहीति पृष्टस्तं मुनि नमस्कृत्य स्वं प्राग्जन्म मुनिना यथाख्यातमाख्यत् । तेन च प्रबद्धा बहवो जनास्तत्र स हालिकश्च प्राव्रजन् ।
तौ तु द्विजौ जनैहाँस्यमानौ विलक्षौ गृहं गतौ वैरायमाणौ तं मुनि हन्तुं खड्गधरौ निशि समागतौ सुमनसा यक्षेण स्तम्भितौ । प्रातश्च लोकास्तन्माता-पितरौ च तौ ददृशुः । ततो यक्षः प्रत्यक्षीभूयोवाच-"मुनि हन्तुमिच्छन्तावेतौ मया स्तम्भितौ, यदि प्रव्रज्यां ग्रहीतुं मन्येते तदेतौ मुञ्चामि नाऽन्यथा" । ततो दुष्करः साधुधर्मः, तस्माच्छ्रावकधर्मं चरिष्याव इत्युक्तवन्तौ तौ यक्षेण मुक्तौ । तत्प्रभृति च तौ यथाविधि जिनधर्मं पालयामासतुः । किन्तु तत्पितरौ तं धर्म न प्रपेदाते । कालेन तावग्निभूति-वायुभूती विपद्य सौधर्मे देवत्वमाप्य च्युत्वा गजपुरेऽर्हद्दासवणिज: पूर्णभद्र-माणिभद्राख्यौ सुतौ जातौ । ___ तत्र चैकदा माहेन्द्रो नाम मुनिः समवासार्षीत् । अर्हद्दासश्च ततो धर्मं श्रुत्वा प्रवव्राज ! तौ च पूर्णभद्र-माणिभद्रौ मुनि वन्दितुं गच्छन्तौ पथि शुनिकां चाण्डालं च दृष्ट्वा जातस्नेही मुनि वन्दित्वा तयोः स्नेहकारणं पप्रच्छतुः । ततो मुनिराख्यत्-"युवयोरग्निभूतिवायुभूतिभवे पिता द्विज: सोमदेवो माताऽग्निला स्तः । तयोः सोमदेवो विपद्याऽत्रैव भरते शङ्खपुरे जितशत्रुर्नाम परदाररतो नृपो बभूव । अग्निला च मृत्वा शङ्खपुर एव सोमभूतेद्विजस्य रुक्मिणी नाम भार्या जाता । तां चैकदा स्वगृहाङ्गणस्थां दृष्ट्वा
अष्टमं पर्व - षष्ठः सर्गः सद्यः कामातॊ जितशत्रुः सोमभूतेरपराधं कल्पयित्वाऽन्तःपुरे निवेशयामास । स द्विजश्च तद्विरहपीडितो नितरां दुःखितोऽस्थात् । जितशत्रुश्च तया सह वर्षाणां सहस्रं रन्त्वा विपद्य नरके त्रिपल्योपममायुषं भुक्त्वोवृत्त्य हरिणो जातः । तत्र स व्याधेन हतो मायावी श्रेष्ठिसुतो भूत्वा पुनर्विपद्य गजो भूत्वा दैवाज्जातिस्मरोऽनशनं चक्रे । ततोऽष्टादशेऽहनि मृतस्विपल्यायुर्वैमानिक सुरो भूत्वा च्युत्वैष चाण्डालो जातः । रुक्मिणी च भवं भ्रान्त्वैषा शुनी जाता । तेन युवयोस्तयोः स्नेह उदभूत्" । ___ तच्छ्रुत्वा जातिस्मृतिमाप्तौ तौ वणिक्पुत्रौ चाण्डालं शुनी च प्रबोधयामासतुः । ततो विरक्तश्चाण्डालो मासमनशनेन स्थित्वा विपद्य नन्दीश्वरे देवो जातः । शुनी चाऽप्यनशनेन विपद्य शङ्खपुर एव सुदर्शना नाम राजपुत्र्यभवत् । पुनश्च तत्राऽऽयातो महेन्द्रमुनिस्ताभ्यां वणिग्भ्यां पृष्टः शुनी-चाण्डालयोर्गति शशंस । ताभ्यां वणिक्पुत्राभ्यां प्रतिबोधिता राजपुत्री प्रव्रज्यामुपादाय देवत्वमाप्तवती । तौ च वणिक्पुत्रौ पूर्णभद्र-माणिभद्रौ गृहिधर्मं पालयित्वा विपद्य सौधर्मे सुरौ जातौ । तत: च्युत्वा हस्तिनापुरे विष्वक्सेननृपस्य मधु-कैटभनामानौ पुत्रावभूताम् । नन्दीश्वरे जातः स देवश्च च्युत्वा चिरं भवं भ्रान्त्वा वटपुरे कनकप्रभनृपोऽभूत् । सुदर्शनाऽपि भूरिशो भवं भ्रान्त्वा तस्य कनकप्रभराजस्य चन्द्राभा नाम महिष्यभूत् ।
विष्वक्सेनश्च मधु राज्ये निवेश्य कैटभं च यौवराज्ये कृत्वा व्रतं गृहीत्वा ब्रह्मलोकमाप्तवान् । अशेषां महीं शासतोश्च मधुकैटभयोर्देशं पल्लीपतिर्भीमश्छलादुपाद्रवत् । तं हन्तुं प्रस्थितो मधुर्मार्गे वटपुरे कनकप्रभनृपेण भोजनाद्यैः सत्कृतः । तथा स
Page #83
--------------------------------------------------------------------------
________________
१४०
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः कनकप्रभश्चन्द्राभया पत्न्या सहोपायनमादाय मधुं भोजनान्ते उपतस्थे । चन्द्राभा मधुं प्रणम्याऽन्तःपुरं ययौ । मधुश्च कामातस्तामादित्सुरमात्येन वारितोऽग्रे गत्वा भीमं पल्लीपति जित्वा निवृत्तस्तत्राऽऽगतः कनकप्रभेण पूजितः । स प्राभृतं निषिध्य चन्द्राभा ममाऽर्ण्यतामित्युवाच । तदस्वीकुर्वाणात् कनकप्रभाद् बलादाच्छिद्य स चन्द्राभां स्वपुरं नीत्वा रमयामास । कनकप्रभश्च भुवि पतितो मूच्छितो लब्धसंज्ञो बहु विलप्योन्मत्त इवाऽटति स्म ।
एकदा चाऽमात्यैः सह व्यवहारे स्थितो मधुनिर्णयमकृत्वैव चन्द्राभागृहं ययौ । किमद्य विलम्बो जात इति चन्द्राभया पृष्टश्च पारदारिकवादे स्थितस्याऽद्य मम विलम्बो जात इति मधुरवोचत् । ततश्च चन्द्राभा स्मित्वोवाच-'पारदारिकः पूज्य:' । ततो मधुना 'न पूज्य: पारदारिक: किन्तु निग्राह्य" इत्युक्तवान् । चन्द्राभा पुनरुवाच-"प्रथममात्मानं पारदारिकं किं न जानीषे ?" तच्छृत्वा प्रबुद्धो लज्जितश्चाऽस्थात् ।
तदानीमेव च कनकप्रभो बालकैः परित उपद्र्यमाणो गायन्नृ-त्यंश्चोन्मत्तस्तत्राऽऽययौ । तं दृष्ट्वा च चन्द्राभा दध्यौ'मद्वियोगाद् मम पतिरीदृशीं दशां प्राप्तः, मां परवशां धिक्" । एवं विचार्य सा मधवे तमायान्तं कनकप्रभमदर्शयत् । मधुश्चाऽपि तं दृष्ट्वा स्वेन तेन दुष्कर्मणा पश्चात्तापं चकार । ततो मधुर्बन्धुसुतं राज्ये न्यस्य कैटभेन सह विमलवाहनमुनेतं जग्राह। ततो बहूनि वर्षसहस्राण्युग्रं तपस्तप्यमानो द्वादशाङ्गधरो मुनिवैयावृत्त्यकरोऽनशनं विदधे । अन्ते आलोचनापूर्वकं विपद्य महाशुके सानुज: सामानिक सुरोऽभवत् ।
अष्टमं पर्व - षष्ठः सर्गः
कनकप्रभश्च क्षुत्-तृट्परीतो वर्षाणां सहस्रत्रयं क्षपयित्वा व्यपद्यत । ततो ज्योतिष्केषु धूमकेतुर्नाम देवो जातोऽवधेः पूर्ववैरं ज्ञात्वा मधुजीवमन्वेषयामास । किन्तु महद्धिदेवत्वाद् मधुं नाऽपश्यत् । ततश्च्युत्वा च स तापसो भूत्वा बालतपः कृत्वा विपद्य वैमानिको भूत्वा तत्राऽपि महद्धि मधुं द्रष्टुं समर्थो न बभूव । पुनस्ततश्च्युत्वा भवं भ्रान्त्वा कर्मवशात् पुनोतिष्केषु धूमकेतुर्नाम सुरोऽभवत् । मधुजीवश्च महाशुक्राच्च्युत्वा रुक्मिणी-कृष्णयोः पुत्रोऽभवत् । धूमकेतुश्च पूर्ववैराज्जातमात्रं तं बालं हन्तुमिच्छु: टङ्कशिलोपरि मुक्तवान् । स च स्वप्रभावादक्षताङ्ग संवरेण गृहीतः । षोडशाब्दान्ते रुक्मिण्यास्तस्य सङ्गमो भावी" । ____ ततः पुना रुक्मिण्या: केन कर्मणा पुत्रेण वियोग इति नारदेन पृष्टो जिनः सीमन्धरः प्रभुरुवाच-'जम्बूद्वीपस्य भरतक्षेत्रे मगधदेशे लक्ष्मीग्रामे सोमदेवो द्विजोऽभूत् । तस्य प्रिया लक्ष्मीवती चोपवनं गता मयूराण्डं दृष्ट्वा कुङ्कमाक्तेन करेण तमस्पृशत् । तेन च तस्याऽण्डस्य वर्णगन्धभेदे जाते तदण्डं मयूर्याऽनुपलक्षणात् षोडशघटिका यावत् त्यक्तम् । ततो वृष्ट्या पूर्ववदण्डं दृष्ट्वा मयूर्या सेवितं मयूरो जातः । पुनश्च तत्राऽऽयाता लक्ष्मीवती तं मयूरशावकं दृष्ट्वा मयूर्या रुदत्यामप्यग्रहीत् । तं स्वगृहे पञ्जरे कृत्वा पालयामास । तथा तं नृत्यं तथाऽशिक्षयद यथा स चारु ननर्त । मयूरी च पुत्रप्रेम्णा विरसं कूजन्ती तं प्रदेशं न जहौ। ततो लोकास्तामूचुः-"कौतुकं त्यज, मयूरशावकं मुञ्च, यथेयं मयूरी जीवेत्" । ततः सा दयया तं षोडशमासिकं यौवनोन्मुखं मयूरशावकं स्वस्थानं नीत्वाऽमुञ्चत् । तेन दोषेण च तया ब्राह्मण्या षोडशाब्दिकं स्वपुत्रविरहकरं कर्म बद्धम् ।
Page #84
--------------------------------------------------------------------------
________________
........१४३
अष्टमं पर्व - षष्ठः सर्गः
एतद्वार्ता श्रुत्वा पुनर्नारदः प्रभुं प्रणम्य वैताढ्ये मेघकूटपुरे समेत्य दिष्ट्या ते सुतो जात इति वदन् संवरेण पूजितः प्रद्युम्नो दर्शितश्च । तं रुक्मिणीसदृशं दृष्ट्वा जातप्रत्ययो नारदः संवरमापृच्छ्य द्वारकामेत्य कृष्णादीनां सुतोदन्तं रुक्मिण्या लक्ष्मीवतीभवादि वृत्तान्तं च कथयामास । ततो रुक्मिणी तत्रस्थाऽपि सीमन्धरप्रभुं प्रणनाम । षोडशाब्दान्ते पुत्रसङ्गमो भावीति जिनवचसा च स्वस्था तस्थौ ।
१४२
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः अन्यदा चाऽलङ्कृतं स्वं पश्यन्त्यां तस्यां समाधिगुप्तो मुनिभिक्षार्थं गृहे प्राविशत् । अस्मै भिक्षां देहीति पत्याऽऽदिष्टा सा, तदैव केनचिदाहूतो बहिर्गत: सः । सा तु थूत्कारं कृत्वा परुषमुक्त्वा तं मुनि निर्वासितवती द्वारं च पिहितवती । तेन दोषेण च सा सप्तमे दिवसे सर्वाङ्गेषु कुष्ठग्रस्ताऽग्नौ निवेश । विपद्य च स तत्र ग्रामे रजकस्य गर्दभी भूत्वा पुनर्विपद्य तत्रैव गर्तसूकरी भूत्वा पुनः शुनी जाता । तत्र सा दवाग्निना दग्धा भाववशाद् मायुर्बद्ध्वा विपद्य भृगुकच्छदेशे नर्मदातीरे दुर्गन्धा दुर्भगा च काणाख्या धीवरसुताऽभवत् । तद्गन्धासहनात् पितृभ्यां नर्मदातटे त्यक्ता सा प्राप्तयौवना नावा जनमुत्तारयामास । __ दैवाच्च समाधिगुप्तो मुनि: शीतार्तस्तत्राऽऽगत्य निशि कायोत्सर्गेणाऽस्थात् । सा चैष मुनिर्निशि शीतेन मा बाधीति दयया तं तृणैः प्रावृणोत् । प्रभाते च प्रणमन्तीं तां भद्रिकेयमिति कृत्वा मुनिर्धर्मं दिदेश । तथैष मुनिर्मया क्वाऽपि दृष्ट इति चिरं स्मृत्वा तया पृष्टो मुनिस्तस्याः पूर्वान् भवानाख्यत् । तथा साधुतिरस्कारेणेदृशी दुर्गन्धा जाताऽसीति चाऽख्यत् । ततः सा जातिस्मरणमाप्य स्वं निन्दन्ती मुनि क्षमयित्वा श्राविका जाता । दयालुना मुनिना च सा धर्मश्रीगणिन्या: समर्पिता । विहारक्रमे च क्वाऽपि ग्रामे धर्मश्रिया सा नायलाख्यस्य श्रावकस्याऽर्पिता । सा च नायलगृहे स्थिता सदा जिनपूजारतैकान्तरोपवासपरायणा द्वादशाब्दानि निनाय । अनशनं प्रपद्य चाऽच्युतेन्द्रस्य महिषी भूत्वा च्युत्वा रुक्मिण्यभूत् । मयूर्याः पुत्रविरहदानात् सा रुक्मिणी षोडशाब्दानि पुत्रविरहमनुभविष्यति ।
इतश्च वृषभप्रभोः कुरु नामा पुत्रोऽभवत्, यस्य नाम्ना कुरुक्षेत्रमिति कीर्त्यते । कुरोः पुत्रश्च हस्ती बभूव । यन्नाम्ना हस्तिनापुरं गीयते । हस्तिनृपवंशे चाऽनन्तवीर्यो नृपोऽभूत् । तस्य कृतवीर्यस्तस्य च सुभूमश्चक्री पुत्रोऽभूत् । ततोऽप्यसङ्ख्यनृपेषु जातेषु शान्तनुनपो बभूव । तस्य गङ्गा सत्यवती च द्वे पत्न्यावास्ताम् । गङ्गायां भीष्मो नाम सत्यवत्यां च चित्राङ्गदचित्रवीरों पुत्रा बभूवुः । चित्रवीर्यस्या-ऽम्बिका-ऽम्बालिकाऽम्बेति च तिस्रः पत्न्योऽभूवन् । तासां च क्रमात् तस्य धृतराष्ट्रपाण्डु-विदुराः पुत्रा बभूवुः । तेषु धृतराष्ट्रे नृपे सति पाण्डु
गयापरो जज्ञे । धृतराष्ट्रो गान्धारनृपस्य शकुनेः सुबलसुतस्य सहोदरा गान्धार्याद्या अष्टौ कन्या: परिणिनाय । तासु च तस्य दुर्योधनादयः शतं पुत्रा अभूवन् । पाण्डोश्च कुन्तीकुक्षिजा युधिष्ठिर-भीमा-ऽर्जुनाः शल्यनृपस्वसरि मायां च नकुलसहदेवौ पुत्रा अभूवन् । ते च पञ्चाऽपि पाण्डवा बलिनो विद्याधराणामप्यजय्या आसन् ।
Page #85
--------------------------------------------------------------------------
________________
पुरुषम् गद्यात्मकसारोद्धारः
एकदा च काम्पील्यपुराद् द्रुपदनृपस्य दूत आगत्य प्रणम्य पाण्डुमुवाच-'द्रुपदनृपस्य पुत्री धृष्टद्युम्नस्याऽनुजा चुलनीकुक्षिजा द्रौपदी नाम कन्यकाऽस्ति । तस्याः स्वयंवरे च कृष्णादयः सर्वेऽपि राजानः समाहूताः सन्ति । त्वमपि स्वपुत्रैः स्वयंवरमण्डपं मण्डय" । ततः पाण्डुः स्वपुत्रै सह काम्पील्यपुरं प्राप । अन्येऽपि राजानस्तत्राऽऽययुः । द्रुपदेन सत्कृताश्च सर्वे नृपाः स्वयंवर - मण्डपमलञ्चक्रुः । द्रौपदी च सखीभिः समन्विताऽलङ्कृता कृतजिनार्चा तत्राऽऽययौ । नृपान् पश्यन्ती सा पाण्डवसमीपमेत्य तेषां पञ्चानामपि कण्ठेषु युगपत् स्वयंवरमालां चिक्षेप । किमेतदिति विस्मितेषु नृपेषु चारणमुनिः समागतः कथं पञ्च पतयोऽस्याः स्युरिति कृष्णादिभिः पृष्टश्चाऽवदत्-"कर्मवशादियं पञ्चभर्तृका भविष्यति ।
१४४
अत्रैव भरते चम्पायां पुरि सोमदेव - सोमभूति-सोमदत्ताः सोदरा अभूवन् । तेषां च धनाढ्यानां क्रमाद् नागश्री- भूतश्रीयक्षश्रियः पन्योऽभूवन् । मिथः प्रेम्णा च ते सर्वैरेकैकगृहे वारंवारेण भोक्तव्यमिति व्यवस्थां चक्रुः । एकदा च सोमदेवगृहे भोजनावसरे प्राप्ते विविधभोज्यानि पचन्त्या नागश्रियाऽज्ञानात् कट्वलाबुव्यञ्जनं कृतम् । स्वादपरीक्षार्थं तद्व्यञ्जनं किञ्चिद् मुखे कृत्वा च सा थूच्चकार । ततः सा तद्व्यञ्जनं गोपायित्वाऽपरैर्भोज्यैः पति - देवरान् सकुटुम्बान् भोजयामास ।
तदानीं च सुभूमिभागे उद्याने श्रीधर्मघोषमुनिः सपरिच्छदः समवासार्षीत् । तच्छिष्यो धर्मरुचिर्मासक्षपणपारणे नागश्रियो गृहमाययौ । सा नागश्रीश्च तस्मै तदलाबूव्यञ्जनं ददौ । सोऽपि मुनिस्तदादाय दर्शयितुं गुरवे पात्रमार्पयत् । गुरुश्च तद्गन्धमाघ्राय
अष्टमं पर्व षष्टः सर्गः
१४५
"यदीदं भोक्ष्यसे तदा मरिष्यसि, तदेतदाशु परिष्ठापय, अपरं पिण्डं च सम्यग् ज्ञात्वा पारयेरित्युवाच ।
गुरुणेत्थमुक्तः स बहिर्गत्वा शुद्धं स्थण्डिलमासदत् । तत्र पात्रात् पतिततुम्बरसलग्ना: पिपीलिका मृता दृष्ट्वा दध्यौ - " यद् बिन्दुना जन्तवो म्रियन्ते तस्मिन् परिष्ठापिते कियन्तः प्राणिनो मरिष्यन्ति ? ततो ममैकस्य मरणं वरम्" । एवं विचार्य स तुम्ब स्वयं भक्षितवान् । तथा समाधिस्थ आराधनां विधाय विपद्याऽहमिन्द्रत्वमाप ।
इतश्च धर्मघोषाचार्यो धर्मबुद्धेः कुतो विलम्बोऽभूदिति ज्ञातं मुनीनादिष्टवान् । तैश्च बहिः स मृतो दृष्टः, ततस्तद्रजोहरणादिकमादाय खिन्नैस्तैर्गुरुर्निवेदितः । ततः स सातिशयज्ञानोपयोगेन नागश्रियो दुश्चरितं मुनीनाह । ततः क्रुद्धा मुनयो व्रतिन्यश्च तत्रै सोमदेवप्रभृतीनां तद्वृत्तान्तमाचख्युः । ततः सोमाद्यैर्विप्रैः सा नागश्रीर्गृहाद् निष्कासिता लोकैर्निर्भर्त्स्यमाना दुःखेन पर्यट कास- श्वासादिरोगैः षोडशभिः क्रान्ता क्षुत्तृट्परीताऽनाथा मृत्वा षष्ठं नरकं ययौ । तत उद्वृत्त्य म्लेच्छत्वं प्राप्य विपद्य सप्तमं नरकं प्राप्योद्वृत्त्य मीनेषु जाता पुनः सप्तमं नरकं प्राप्य म्लेच्छेषु जाता । एवं सा सर्वेषु नरकेषु द्विर्द्विर्ययौ ।
ततश्च पृथिवीकायादिष्वनेकश उत्पद्याऽकामनिर्जरावशात् कर्म क्षपयित्वा चम्पायां सागरदत्तश्रेष्ठिनः सुभद्राकुक्षिजा सुकुमारिका नाम कन्याऽभूत् । तत्रैव च जिनदत्तो नाम धनाढ्यः सार्थवाह आसीत् । तस्य च भद्राकुक्षिजः सागरो नाम पुत्र आसीत् । जिनदत्तश्चैकदा सौधे कन्दुकेन रममाणां प्राप्तयौवनां सुकुमारिकां
Page #86
--------------------------------------------------------------------------
________________
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः
दृष्ट्वा मत्पुत्रस्य योग्येयमिति ध्यात्वा सबन्धुः सागरदत्तात् स्वपुत्राय सुकुमारिकां ययाचे । सागरदत्तश्च "यो मे गृहजामाता भवेत्तस्मा इयं देये"त्यवोचत् । ततो जिनदत्तो विचारयिष्यामी - त्युक्त्वा गृहं गत्वा सागरस्य तद्वृत्तं कथितवान् । सागरश्च तच्छ्रुत्वा न किमप्यवोचत् । तेन च जिनदत्तो मौनं स्वीकारलक्षणं मत्वा सागरं तया सुकुमारिकया परिणाययामास ।
१४६
ततः सागरस्तया सह वासगृहं गत्वा शय्यामधितष्ठौ । किन्तु पूर्वकर्मवशात् तस्याः स्पर्शेनाऽङ्गारवद् दह्यमानाङ्गः स कथञ्चित् क्षणं स्थित्वा तां निद्रितां मुक्त्वा पलाय्य स्वगृहं ययौ । विनिद्रा च सा पतिमदृष्ट्वा भृशं रुरोद । सागरदत्तश्च तद्वृत्तं ज्ञात्वा जिनदत्तमुपालभत । ततो जिनदत्तेन बोध्यमानस्य सागरस्य "अग्नौ प्रवेशो वरं न तु सुकुमारिकया सह वास" इति वाचं कुड्यान्तरितः सागरदत्तः श्रुत्वा हताशो गृहं गत्वा सुकुमारिकां तत् सर्वमुवाच । तथा 'सागरस्त्वयि विरक्तः, ततस्तवाऽन्यं पति करिष्यामि मा विषीदे 'ति तामाश्वासयामास ।
अथाऽन्यदा स सागरदत्तो गवाक्षस्थो भिक्षुकदुर्गतं दृष्टवान् । तमाहूय कर्परादिकं त्याजयित्वा स्नपयित्वा वस्त्रादिभिरलङ्कृत्य भोजयित्वा च "मया तुभ्यमियं मम पुत्री दत्ता, अनया सह निश्चिन्त इहैव तिष्ठे " त्यवोचत् । स भिक्षुकचाऽपि तया सह वासगृहं गतः सागर इव तदङ्गस्पर्शाद् दह्यमानः पलायितवान् । पुनश्च सा विषण्णा पित्रा " वत्से ! पूर्वकर्मदोषोऽयं तद् मम गेहे दानधर्मं कुर्वती शान्त्या तिष्ठेति प्राबोधि । तदारभ्य च सा दानधर्मरता गृहागतां गोपालिकामार्यां शुद्धैः पानाऽशनादिभिः प्रत्यलाभयत् ।
अष्टमं पर्व षष्ठः सर्गः
१४७
ततो धर्मं निशम्य प्रबुद्धा व्रतमादाय तपांसि कुर्वती ताभिगपालिकाभिरार्याभिः सह विजहार ।
एकदा चाऽऽर्याभिर्निषिद्धाऽपि तदविगणय्य सुभूमिभागोद्याने सूर्ये दत्तदृष्टिरातापनां कुर्वती सा सुकुमारिका पञ्चभिः कामुकैरुपचरितां देवदत्ताख्यां वेश्यां तत्राऽऽगतामपश्यत् । तां दृष्ट्वेयमिवाऽहमप्यनेन तपसा पञ्च पतिका स्यामिति निदानं चकार । तथाऽङ्गशौचादिपराऽऽर्याभिः पदे पदे वार्यमाणा स्वमानहानिं बुद्ध्वैकाकिनी भिन्नप्रतिश्रयेऽस्थात् । तत्र सा स्वैरं चिरं व्रतं पालयित्वाऽष्ट मासान् संलेखनां कृत्वाऽनालोच्यैव मृता सौधर्मे देवी भूत्वा च्युत्वा द्रौपदीयं जाता । तत्पूर्वकर्मप्रभावादस्याः पञ्च पतयः, नाऽत्र विस्मयः कार्यः " । एवं मुनिनोक्ते च साधु साध्विति नभोवाणी जाता। कृष्णादयश्च तस्याः पतिपञ्चकमन्वमोदन्त । ततः पाण्डवास्तैः स्वजनै राजभिः कृतोत्सवपूर्वकं तां द्रौपदीं पर्यणैषुः । पाण्डुश्च दशार्हानन्यांश्च नृपान् सगौरवं स्वपुरमनयत् । तान् सुचिरं सत्कृत्य च व्यसृजत् ।
अथ पाण्डुर्युधिष्ठिराय राज्यं दत्त्वा विपन्नवान् । माद्रीच कुन्त्यै सुतयुगं समर्प्य तमनुययौ । धार्तराष्ट्राचा पाण्डौ मृते राज्यलुब्धा दुरात्मानः पाण्डवान् न मेनिरे । तथा लोभाद् दुर्योधनेन द्यूते जित्वा पाण्डवा राज्यहीनाः कृताः । अवमानिता निर्वासिताश्च पाण्डवा वने वसन्तो दशार्हसोदरया मात्रा कुन्त्या सह तत्प्रेरणया द्वारवतीं प्राप्ताः । तत्र प्रथमं ते समुद्रविजयस्य गृहं गतास्तेन सस्नेहं सत्कृता: तथा कुन्ती 'दिष्ट्या सपुत्रा दृष्टाऽसि स्वसरि" त्येवं तेनोक्ता । कुन्त्यपि च तं राम-कृष्णौ च प्रशस्य तौ दर्शनोत्सुका
Page #87
--------------------------------------------------------------------------
________________
अष्टमं पर्व - षष्ठः सर्गः
१४९
१४८
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः ऽऽगताऽस्मीत्युक्तवती । ततो भ्रातृभिरनुज्ञाता सपुत्रा सभां गता राम-कृष्णाभ्यां भक्त्या नता सत्कृता च । राम-कृष्णौ पाण्डवाश्च यथायोग्यं नमस्कारपूर्वकं समुपाविशन् ।
तत: कृष्ण उवाच-"यूयमिहाऽऽगतास्तत् साधु कृतं, यदूनां सम्पत्तिर्भवतामपि" । ततो युधिष्ठिर उवाच-"कृष्ण ! येषां त्वमभिमतोऽसि तेषां सदा सम्पत् । ये च तव मतास्तेषां किमु वक्तव्यम् ? मम मातृकुलभूषणेन त्वया विश्वतो बलिनो वयं व महे" । ततः कृष्णः कुन्ती पाण्डवांश्च पृथक् पृथक् प्रासादे निवासयामास । दशार्दाश्च क्रमात् पाण्डवेभ्यो लक्ष्मीवती-वेगवतीसुभद्रा-विजया-रती: कन्या: प्रददुः । तथा यादवे रामकृष्णाभ्यां च पूज्यमानास्ते युधिष्ठिरादयः पञ्चाऽपि सुखं तस्थुः ।
केनचित् त्यक्तस्त्वं प्राप्त, आदाय ममाऽपितः । तत्त्वमन्यस्य पुत्रोऽसि, मया सह यदृच्छया भोगान् भुव" । ततः प्रद्युम्न: स्त्रीग्रहे पतितोऽस्मीति ध्यायन्नब्रवीत्- "संवरात् त्वत्पुत्रेभ्यश्च मम त्राणं कथं भवेत् ?" ___ ततः सोवाच-"मा भैषीः, मम द्वे अपि विद्ये गृहाण, ताभ्यां च जगदजय्यौ भव" | ततः प्रद्युम्नोऽकृत्यं न करिष्यामीति मनसि निर्धार्य तया दत्ते महाविद्ये पुण्यवशादचिरेणैवाऽसाधयत् । ततस्तया रन्तुं प्रार्थितश्च प्रद्युम्न उवाच-"त्वं पूर्व केवलं मम माताऽभवः, इदानीं च विद्यादानेन गुरुरप्यसि । तदीदृशं पापकर्मार्थं त्वयाऽहं न वाच्यः" । तामेवमुक्त्वा स पुराद् बहिर्गत्वा कालाम्बुकावापीतटे विमना अवास्थित ।
ततः कनकमाला स्वं नखैविदार्य कलकलं कृतवती । तदा सा पुत्रैः समागम्य किमेतदिति पृष्टा दुर्योवनेन दुरात्मना स्वसम्वधितेन प्रद्युम्नेन माजरिणेव स्वैरं विदारिताऽस्मीत्यवोचत् । तेन च कुपितास्ते कालाम्बुकावापीतटं प्राप्य पाप पापेति जल्पन्तः प्रद्युम्नं प्राहरन् । प्रद्युम्नोऽपि विद्याबलवधितो लीलयैव केसरी मृगानिव तान् संवरसुतान् जघान । ततः पुत्रवधात् कुपितः संवरो हन्तुमागतः प्रद्युम्नेन पराजित्य मूलादारभ्य कनकमालावृत्तमुक्तः । तदा च सानुतापेन तेन पूजितः प्रद्युम्नः । तदानीमेव नारदः प्रद्युम्नसमीपमुपागतवान् । प्रज्ञप्त्या नारदं ज्ञात्वा च प्रद्युम्नस्तमपूजयत् । तथा सर्वं कनकमालावृत्तान्तं नारदाय निवेदयामास । ततो नारदः सीमन्धरजिनोदितं प्रद्युम्न-रुक्मिण्योरुदन्तमाख्यातवान् ।
अथ नारदः पुनरुवाच-"पुरा पुत्रस्योद्वाहे केशदानपण: सपत्न्या सत्यभामया त्वन्मातुः कृतोऽस्ति । सत्यभामायाश्च
इतश्च कलानिपुणं प्राप्तयौवनं प्रद्युम्नं प्रेक्ष्य कनकमाला कामार्ता जाता सा तं खेचरेष्वप्यप्रतिरूपं ध्यायन्ती तदलाभे निजं जन्म मुधा मन्यमाना मधुरगिरा जगाद-"इहोत्तर श्रेण्यां नलपुरे गौरीवंशोद्भवस्य निषधभूपतेः पुत्रो नैषधिरहं च पुत्री । मम पित्रा गौरी नाम महाविद्या दत्ता । संवरश्च प्रज्ञप्तिविद्यां प्रदाय मां पर्यणैषीत् । मयि रक्तश्च स नाऽन्यां कदाऽपीच्छति । तथा मम विद्याद्वयबलेन स जगत् तृणाय मन्यते । अहं त्वय्यनुरक्ता, ततो मां भजस्व, मम प्रणयभङ्गं मा कार्षीः" ।
तत: प्रद्युम्न उवाच-"एतद् नोचितं वचः' त्वं मम माताऽसि, तव पुत्रोऽहं, तदावयोरेष विधिर्महापातकाय" । ततः सोवाच-"त्वं न मम कुक्षिजः, किन्तु संवरोऽग्निज्वालपुरादागच्छन् मार्गे
Page #88
--------------------------------------------------------------------------
________________
षष्टिकापुरुषचरितम्-गद्यात्मकसारोद्धारः
भानुकः पुत्रः साम्प्रतं परिणेष्यति । तत्र कृतपणानुसारेण त्वज्जनन्या स्वकेशा दातव्याः सन्ति । ततस्त्वन्माता केशदानविषादेन त्वद्वियोगेन च त्वयि सत्यपि मरिष्यति” । ततः प्रद्युम्नो नारदेन सह प्रज्ञप्तिनिर्मितं विमानमारुह्य शीघ्रं द्वारकापुरीं ययौ । नारदश्च "कुबेरेण निर्माय रत्नेन पूरिता त्वत्पितुरियं पुरी" ति प्रद्युम्नमाख्यात् ।
ततः प्रद्युम्न उवाच - " त्वमिहैव विमाने तिष्ठ, अहं द्वारकायां किञ्चिच्चमत्कारं करोमि” । ततो नारदेन तथाऽस्त्वित्युक्ते प्रद्युम्नो भानुकोद्वाहजन्ययात्रां दृष्ट्वा कन्यां हृत्वा नारदान्तिकेऽञ् । नारदश्च कृष्णपुत्रोऽसाविति मा भैषीरिति तमाश्वासयत् । तथा प्रद्युम्नः कपिं गृहीत्वा वनपालात् तस्मै फलानि ययाचे । वनपालाश्च "भानुकविवाहायारामो रक्ष्यते, तत्त्वया न किञ्चिद् वाच्यमि"त्यूचुः । ततः प्रद्युम्नस्तान् द्रविणैः प्रलोभ्य तत्र प्रविश्य कपिना तदुद्यानं फलादिशून्यमकारयत् । ततो जात्यश्ववणिग् भूत्वा तृणापणं गत्वा स्वहयार्थमापणिकेभ्यस्तृणमयाचत । तदददानांश्च तान् द्रविणैः प्रलोभ्य निजविद्यया सर्वमापणमतृणं चकार । तथा जलाशयान् निर्जलान् कृत्वा वाह्याल्यां स्वयं वाहं वाहयामास । भानुकेन दृष्ट्वा चकस्याऽश्व इति पृष्टः ममैष इत्युदतरत् । ततो भानुक उवाच"यथेष्टेन मूल्येनाऽमुमश्वं मह्यं प्रयच्छ" । ततश्च परीक्ष्याऽश्वं गृहाणेति प्रद्युम्नोको भानुकोऽश्वमारूढः । ततस्स वेगिना तेनाऽश्वेन भुवि पातित एडकमारूढः पौरैर्हस्यमानो वसुदेवसभायामगात् ।
१५०
प्रद्युम्नोऽपि च ब्राह्मणो भूत्वा वेदं पठन् द्वारकां प्रविश्य भ्रमन् सत्यभामादासीं कुब्जिकां दृष्ट्वा तां विद्यया सरलां कारयामास । सा च तस्य पादयोः पतित्वोवाच- क्व यूयं प्रस्थिताः ? " ततः प्रद्युम्नेन भोजनार्थमित्युक्ता सा तमादाय
अष्टमं पर्व षष्ठः सर्गः
१५१
सत्यभामागृहं प्राप्य द्वारि तं मुक्त्वा सत्यभामासमीपं ययौ । सा सत्यभामा च कुब्जिकां द्विजेन सरलीकृतां ज्ञात्वा तां द्विजानयनायाऽऽदिशत् । दास्या तत्राऽऽनीतश्चाऽऽशिषं दत्त्वाऽऽसीनः । सत्यभामया 'रूपेण मां रुक्मिण्यधिकां कुर्विति प्रार्थित: स मायाविप्र उवाच- 'त्वमप्रतिमरूपाऽसि, नाऽन्येदृशी" । तथाऽपि 'विशेषेण मां रूपेणाऽनुपम कुर्विति तया प्रार्थितः प्रद्युम्न उवाच"वैरूप्यं सम्पादय, ततो रूपविशेषं प्राप्यसि" ।
ततः स प्रद्युम्नोक्त्यनुसारेण शिरो मुण्डितवती मस्या शरीरं लिप्तवती च । ततः कपटविप्रेण क्षुधितोऽस्मीत्युक्ता सा सूदान् भोजयितुमादिशत् । ततः स सत्यभामाया: कर्णे "रुडुबुडु रुडुबुडु" इति मन्त्रं दत्त्वा भोजनावधि कुलदेव्या अग्रे जपितुमादिशत् । सा च तथा कर्त्तुमारभत, कपटविप्रश्च भोजनं चकार । भुक्तसर्वभोज्यश्च दासीभिर्भृङ्गारपाणिभिरुत्तिष्ठेति प्रार्थितोऽद्याऽपि न मे तृप्तिः, तद्यत्र तृप्तिस्तत्र यास्यामीति वदन्नुत्थाय ययौ ।
ततो बालमुनिवेषो रुक्मिणीगृहं जगाम । रुक्मिणी च तं दूराद् दृष्ट्वोत्थायाऽऽसनाय गृहान्तः प्रविवेश । स कपटमुनिश्च पूर्वन्यस्ते कृष्णसिंहासने समुपविवेश । आसनमादायाऽऽ रुक्मिणी च तं तथोपविष्टं दृष्ट्वा विस्मितोवाच- 'कृष्णं कृष्णपुत्रं वा विनाऽन्यमत्र सिंहासने समासीनं देवता न सहन्ते' । ततः स मायामुनिरुवाच- 'मम तपसः प्रभावाद् देवता न समर्था" । ततस्तया कुतो हेतोरागत इति पृष्टो 'मया षोडशाब्दीं निराहारं तपः कृतं मातुः स्तन्यमपि जन्मतो मया न पीतं, तत्पारणार्थं किञ्चिद् देहि । ततो रुक्मिणी जगौ - ' षोडशाब्दं तपो न क्वाऽपि श्रुतं चतुर्थादारभ्य वत्सरावधिकं तपः श्रुतम्' । ततः स उवाच- 'किं तवाऽनेन, यदि
Page #89
--------------------------------------------------------------------------
________________
.....१५३
१५२
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः किञ्चिद् दातुमिच्छाऽस्ति तर्हि देहि, अन्यथा सत्यभामागृहं यास्यामि' । ___ततो रुक्मिण्युवाच-'मन उद्वेगाद् न किञ्चित् पाचितम्' । ततो मायामुनिनोद्वेगकारणं पृष्टा सा तनयसङ्गमाशया मया कुलदेवताऽऽराधिता, इदानीं तस्यै शिरोबलिं दातुकामा यावद् ग्रीवायां प्राहरामि तावत् सा जगौ-'पुत्रि'मा साहसं कार्षीः, यदैष माकन्दः पुष्पिष्यति, तदा तव पुत्र आगमिष्यति' । अयं च माकन्दोऽद्य पुष्पितः, किन्तु मम पुत्रो नाऽऽयाति । तत्त्वं होरां दृष्ट्वा ब्रूहि-'कदा मे पुत्रसङ्गमः' । ततः स मायामुनिरुवाच'रिक्तहस्तानां होरा न फलदा' ।
ततः किं ददामीति रुक्मिण्या प्रोक्तः स पानं देहीत्युवाच । सा च पेयार्थं द्रव्यान्वेषणे प्रवृत्ता । क्षुधितोऽस्मीति मुनिना पुनः प्रेरिता च सा प्राक्सिद्धर्मोदकैः पेयां कर्तुं प्रचक्रमे । किन्तु तद्विद्याप्रभावेणाऽग्निर्न प्राज्वलत् । ततस्तां खिन्नां प्रेक्ष्य मोदकैरेव क्षुधितं मां प्रीणयेत्युवाच । ततः कृष्णं विहायाऽन्येषामेते न सुपाच्या इति रुक्मिण्युवाच । तपसा मे न किमपि गरिष्ठमिति मुनिनोक्ता च सा साशङ्कं तस्मै मोदकं ददौ । स च सर्वानेव मोदकान् शीघ्रमेव भुक्तवान् । ततो विस्मिता 'मुने! बलवानसी'ति रुक्मिणी सस्मितं जगाद ।
इतश्च जपन्तीं सत्यभामां वनपाला एत्य 'कोऽपि पुरुष उद्यानं फलादिरिक्तं चकारे'त्यूचुः । तथा 'तृणाट्टान् कोऽपि निस्तृणांश्चक्रे, जलाशयान् निर्जलांश्चक्रे, भानुकं चाऽश्वेनोपाद्रवदि'त्येवं जना एत्याऽवोचन् । तच्छ्रुत्वा च कोऽसौ विप्र इति सत्यभामया पृष्टा
अष्टमं पर्व - षष्ठः सर्गः दास्यो यथायथं वृत्तमूचुः । ततो विषण्णा सा दासी: केशानयनाय रुक्मिणी प्रति प्रेषयामास । ताश्च सत्यभामाज्ञया केशानर्पयेति रुक्मिणीमूचुः । मायामुनिश्च तच्छ्रुत्वा सत्यभामाया एव केशैः पटलिकां भृत्वा ता दासी: सत्यभामासमीपं प्रेषयामास । सत्यभामया च किमेतदिति पृष्टा दास्यो 'यादृशः स्वामी, परिवारोऽपि तादृशः, तद् न वेत्सि किमि'त्युचुः ।
ततो भामा नापितान् रुक्मिणीगृहे प्रेषयत् । मुनिश्च शिरसस्त्वक्छेदपूर्वकं तानेवाऽमुण्डयत् । ततो मुण्डान् नापितान् दृष्ट्वा सत्यभामा क्रोधात् कृष्णं गत्वोवाच-'त्वं रुक्मिण्याः केशलग्नकोऽसि, तदद्य केशान् दापय, स्वयमाहूय रुक्मिणी मुण्डां कारय' । ततः कृष्णो विहस्योवाच-'त्वमेवाऽद्य मुण्डिताऽसि' ।
ततो नर्मणाऽलमिति सत्यभामयोक्तः कृष्णो रामं रुक्मिण्या गृहं प्रेषयत् । प्रद्युम्नश्च तत्र विद्यया कृष्णरूपं विचकार । रामश्च कृष्णं दृष्ट्वा लज्जितो वलित्वा पूर्वस्थानमागतस्तत्राऽपि कृष्णं दृष्ट्वा' किं हास्यं त्वया प्रस्तुतम् ? मां केशार्थं प्रेष्य स्वयं च गत्वेह समायातः, सहसैव वधूर्वयं च त्वया लज्जिताः कृताः' । तत: कृष्णः शपथपूर्वकं तत्र नाऽगामित्युवाच । ततो भामा तवैव मायेति वदन्ती निजगृहमगात् । कृष्णश्च प्रतीति कारयितुमारेभे ।
अथ नारदोऽयं तव सुत: प्रद्युम्न इति रुक्मिणीमाख्यत् । प्रद्युम्नश्च निजं रूपमाविष्कृत्य मातुः पादयोः पपात । रुक्मिणी च प्रहृष्टा तमालिङ्गय मुहर्मुहर्मुनि चुचम्ब । ततो यावत् पितुर्नाऽऽश्चर्य दर्शयामि तावत् त्वया न वाच्यमित्युक्त्वा मातरं मायारथे समारोप्य प्रस्थितो 'रुक्मिणीमेष हरामि, बली चेत् कृष्णो रक्षत्वि'ति शङ्ख पूरयन् जगाद ।
Page #90
--------------------------------------------------------------------------
________________
१५४
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः कृष्णश्च कोऽयं मुमूर्षुरिति वदन् शाङ्गमास्फालयन् ससैन्यो दधाव । प्रद्युम्नश्च विद्याबलात् तत्सैन्यं भक्त्वा कृष्णं निरायुधं चकार । कृष्णश्च स्पन्दितं वामेतरं भुजं बलभद्राय निवेदितवान् । तदानीं च नारदः समेत्य 'युद्धवार्त्तयाऽलम्, एष रुक्मिणीसहितः पुत्रो गृह्यतामिति कृष्णमुवाच । प्रद्युम्नश्च कृष्णं रामं च ननाम । ताभ्यां च स सप्रेममालिङ्गय मूनि चुम्बितः । ततः कृष्णः प्रद्युम्नमङ्गे समारोप्य रुक्मिण्या सहित: पौराणां कुतूहलं जनयन् समहोत्सवं द्वारकां प्राविशत् ॥ ६ ॥ इति अष्टमे पर्वणि रुक्मिण्यादिपरिणयन-पाण्डवद्रौपदीस्वयंवर
प्रद्युम्नचरितवर्णनात्मकः षष्ठः सर्गः ॥६॥
सप्तमः सर्गः अथ द्वारकायां प्रद्युम्नागमोत्सवे जायमाने दुर्योधनो वासुदेवं न्यवेदयत्-'प्रभो ! मम पुत्री केनाऽप्यधुनाऽपह्रता, तत्सा मृग्यता, यथा भानुकस्तां परिणयति' । ततः कृष्ण उवाच-नाऽहं सर्वज्ञः, अन्यथा प्रद्युम्नमेव हृतं किं न जानीयाम् ?' ततः प्रद्युम्नः प्रज्ञप्त्या तां ज्ञात्वाऽऽहं तामत्राऽऽनेष्यामीत्युक्त्वा तामानैषीत् । ततः कृष्णेन दीयमानां तां प्रद्युम्नो मम वधूरेषेत्युक्त्वा न जग्राह । ततो भानुकस्तां परिणिनाय । ततः कृष्णः समहोत्सवमनिच्छताऽपि प्रद्युम्नेन विद्याधरेन्द्र-नरेन्द्रकन्यकाः पर्यणाययत् । तथा रुक्मिणीकृष्णौ प्रद्युम्नानयनहेतो रदं पूजयित्वा व्यसृजताम् ।
सत्यभामा च प्रद्युम्नस्य महद्धर्या खिद्यमाना कोपगृह शिश्राय । तत्राऽऽयातेन कृष्णेन कोपकारणं पृष्टा च सोवाच-'यदि मे प्रद्युम्नतुल्य: पुत्रो न भवेत् तदा निश्चयं मरिष्यामि' । तत: कृष्णस्तदाग्रहं ज्ञात्वा नैगमेषिणं देवमुद्दिश्याऽष्टमभक्तेन पौषधं स्वीकृतवान् । ततो नैगमेषी प्रकटीभूय कृष्णेन प्रद्युम्नतुल्यपुत्रं याचितश्च 'त्वममुं हारं परिधाय यस्यां ते पुत्रेच्छा तां भजस्वे'त्युक्त्वा हारं प्रदाय च तिरोहितवान् । कृष्णश्च मुदितः सत्यभामायै वासकं ददौ ।
Page #91
--------------------------------------------------------------------------
________________
अष्टमं पर्व - सप्तमः सर्गः
१५७ भीरुरित्यपराभिधेयः पुत्रो बभूव । कृष्णस्याऽन्यासामपि पत्नीनां महाबलपराक्रमाः पुत्रा अभूवन् । शाम्बश्च मन्त्रि-सारथिपुत्रैः सह वर्धमानः क्रमात् सर्वाः कला जग्राह ।
१५६
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः प्रद्युम्नश्च प्रज्ञप्त्या तज्ज्ञात्वा मत्तुल्यपुत्रकाङ्क्षया तं हारमादत्स्वेति जननीमुवाच । ततो रुक्मिण्या 'त्वयैव कृतार्थाऽस्मि, स्त्रीरत्नं पुनर्न प्रसूते' इत्युक्त: 'का तेऽभीष्टा, यस्यै हारं ददामी'ति पुनः पृष्टवान् । ततो जाम्बवत्यास्त्वत्समः पुत्रो भवत्विति रुक्मिण्योक्तो जाम्बवतीमाहूय विद्याप्रभावात् तां सत्यभामारूपां कृतवान् । रुक्मिण्या च सर्वमाख्याय सा कृष्णगृहे प्रेषिता सायं गत्वा कृष्णेन हारार्पणपूर्वकं सप्रमोदं भुक्ता । तदैव च महाशुक्रात् कैटभः सुरश्च्युत्वा सिंहस्वप्नसूचितो जाम्बवत्याः कक्षाववाततार । ततो जाम्बवती हृष्टा निजगृहं जगाम।
सत्यभामा च वासकार्थिनी कृष्णगृहमाजगम । कृष्णच 'भोगातृप्तेयं कयाऽपि रूपपरिवर्त्तनेन च्छलिताऽस्मि वे'ति वितर्कयन्नियं खिन्ना मा भूदिति तया सह रेमे । प्रद्युम्नश्च तस्या रमणसमयं ज्ञात्वा कृष्णस्य भेरीमताडयत् । कृष्णश्च क्षुब्धः केनेयं भेरी ताडितेति पृष्टेन परिच्छदेन 'प्रद्युम्नेन ताडिते'ति ज्ञात्वा स्मित्वा दध्यौ'सत्यभामाऽद्य प्रद्युम्नेन च्छलिता, सापत्नो हि सपत्नीदशकसमो भवति । तत्किञ्चित् सभयं सम्भोगात् सत्यभामाया भीरु: पुत्रो भविता' ।
प्रातश्च रुक्मिणीगृहं गतः कृष्णो जाम्बवतीं तेन दिव्यहारेण भूषितां पश्यन् जाम्बवत्या 'किमीक्षसे, सैवाऽहं जाम्बवती'त्युक्तः। ततो रात्रिवृत्तं सर्वं ज्ञात्वा जाम्बवत्याः सिंहस्वप्नं च ज्ञात्वा तव प्रद्युम्नतुल्यः पुत्रो भवितेति तामाख्याय ततो निर्ययौ । जाम्बवत्यपि पूर्णे समये शाम्ब नामाऽतुल्यबलं सुतमसूत ।
तदानीमेव च सारथेर्दारुको जयसेनश्च मन्त्रिणश्च सुबुद्धिरित्येते बालाः समभूवन् । सत्यभामायाश्च भानुकनामा गर्भानुसाराद्
अन्यदा च रुक्मिणी रुक्मिणो वैदर्भी नाम पुत्रीं प्रद्युम्नेन परिणाययितुं भोजकटे दूतं प्रेषीत् । स दूतश्च गत्वा नत्वा वैदर्भी प्रद्युम्नाय प्रदीयतामिति रुक्मिण्युक्तं निवेदयामास । रुक्मी च प्राग्वैरं स्मरन्नुवाच-'अन्यस्मै चाण्डालायाऽपि सुतां दास्यामि, किन्तु कृष्णस्य कुले नैव' । दूतश्च परावृत्त्य रुक्मिण्यै तवृत्तमाख्यत् । तच्छ्रुत्वा च खिन्ना प्रद्युम्नेन किं खिन्नाऽसीति पृष्टा रुक्मिणी सर्वं रुक्मिवृत्तान्तं जगाद । ततो मा ताम्येति तामाश्वास्य प्रद्युम्न: शाम्बेन सह भोजकटं गत्वा किन्नरस्वरचाण्डालरूपी भूत्वा गायन्तौ पौराणां मनो जहूतुः ।
इतो रुक्मिनृपश्च तज्ज्ञात्वा तावाहूय सुतां स्वोत्सङ्गस्थां बिभ्रान् मायाचाण्डालावगापयत् । प्रसन्नश्च तयोर्द्रव्यं दत्त्वा युवां कुत आयातावित्यपृच्छत् । ततस्ताभ्यां स्वार्गाद् देवैः कृतां द्वारकापुरीमायाताविति कथिते वैदर्भी मुदिता पप्रच्छ-"किं युवां कृष्णपुत्रं प्रद्युम्नं जानीथ ?' तत: शाम्ब उवाच-'को नाम कामाकृति महाबलं प्रद्युम्नं न जानीयात्' । तच्छृत्वोत्कण्ठिता वैदर्भी प्रद्युम्ने सानुरागा जाता । तदानीमेव च कोऽपि मत्तो गजः स्तम्भमुत्पाट्य धावमानः पुरमुपाद्रवन् केनाऽपि हस्तिपकेन वशीकर्तुमशक्यो जनान् क्षोभयामास । ततो नृपेण 'य इमं वशीकरोति तस्मा अभीप्सितं ददामी'ति पटहघोषणामकारयत् । केनाऽप्यधृतश्च पटहस्ताभ्यां
Page #92
--------------------------------------------------------------------------
________________
त्रिषष्टिशलाकापुरुषचरितम् - गद्यात्मकसारोद्धारः
मायाचाण्डालाभ्यां धारितः । तथा ताभ्यां गानेन स महागजः स्तम्भितः । ततो द्वावपि तं गजमारुह्याऽऽलाने बबन्धतुः । राज्ञा चाऽऽहूयाऽभीष्टं याचेथामित्युक्तौ चेमां वैदर्भी प्रदेहीत्युक्तवन्तौ । तच्छ्रुत्वा च क्रुद्धो रुक्मिी तौ पुराद् निरवासयत् ।
१५८
ततः प्रद्युम्नः शाम्बमुवाच- 'रुक्मिणी दुःखेन तिष्ठति तद् वेदर्थ्याः परिणयने विलम्बोऽसह्यः' । एवं कथयति च तस्मिन् रात्रिः प्रवृत्ता । ततः सुप्तेषु लोकेषु प्रद्युम्नो विद्याबलात् प्रासादस्य सप्तमीं भूमिमधिष्ठितां वैदर्भी प्राप्य कृत्रिमं रुक्मिणीस्नेहपत्रं तस्यै ददौ । साऽपि च तद् वाचयित्वा किं ते ददामीत्युवाच । 'मह्यमात्मानमेव देहि, अहमेव प्रद्युम्न' इति प्रद्युम्नेनोक्ता दैवेन साधु घटितमित्युक्त्वा तद्वचः स्वीचकार । ततः विद्याप्रभावादग्नि साक्षिणं कृत्वा बद्धकङ्कणां श्वेतवस्त्रां तां परिणीय स्वैरं रमयित्वा रात्रिशेषे 'अहं यामि, केनाऽपि पृच्छ्यमाना चेमं वृत्तान्तं न कथयेः, मया त्वच्छरीरोपद्रवरक्षा कृताऽस्तीत्युक्त्वा ततः प्रद्युम्न निर्ययौ ।
वैदर्भी चाऽपि रात्रिजागरादतिश्रमाच्च सुष्वाप । प्रभाते जातेऽपि च न प्रबुद्धा । ततस्तत्राऽऽगता धात्री कङ्कणादिकं विवाहचिह्नं दृष्ट्वा साशङ्का तामुत्थाप्य पप्रच्छ । वैदर्भी च किमपि नाऽवोचत् । ततः सा धात्री स्वापराधच्छेदाय भयविह्वला रुक्मिणे राज्यै च सर्वं शशंस । पितृभ्यामपि समागत्य पृष्टा सा न किमप्युवाच । सम्भोगचिह्नं प्रकटं दृष्ट्वा च रुक्मिणा 'अदत्ताऽपीयं केनाऽपि भुक्ता वरं चाण्डालाभ्यामपि दत्ते 'ति विचार्य तौ मायाचाण्डालावाहूय वेदर्भी तयोर्दत्ता । तौ च वैदर्भीमूचतुः - 'राजपुत्रि ! आवयोर्गृहे चर्मरज्ज्वादिविक्रयं करिष्यसि किम् ?' ततो वैदर्भ्यपि रहस्यज्ञा
अष्टमं पर्व सप्तमः सर्गः
१५९
'यद् भाग्यं कारयिष्यति तत् सर्वं करिष्यामीत्युवाच । ततस्तौ तामुपादायाऽन्यतो जग्मतुः । रुक्मिी च पश्चात्तापात् पर्षदि विलपन् गम्भीरं तूर्यशब्दं श्रुत्वा कुतोऽयमित्यपृच्छत् ।
ततो नियोगिन ऊचुः - नगराद् बहिः प्रद्युम्न - शाम्बौ वैदर्भीसहितौ विमानोपमे प्रासादे तिष्ठतः, तौ च चारणैः स्तूयमानौ वाद्यमनोहरं सङ्गीतकं कारयतः । तस्याऽयं नादः ' । ततः प्रसन्नो रुक्मी तौ निजे गृहे समाहूय स्वयं भागिनेय- जामातृस्नेहात् सातिशयं पूजयामास । तत: प्रद्युम्नो रुक्मिणमापृच्छ्य वैदर्भी - शाम्बसहितौ द्वारकामगात् । तत्र च प्रद्युम्नो नवोढया तया वैदर्भ्या रममाणः सुखं कालं निनाय । शाम्बोऽपि हेमाङ्गदनृपपुत्र्या वेश्याकुक्षिजया सुहिरण्याख्यया यथासुखं रेमे ।
अथ शाम्बो नित्यं भीरुं क्रीडन् जघान । तथा द्यूते धनं हारयित्वा दापयामास । भीरुश्च रुदन् सत्यभामायै सा च कृष्णाय सोऽपि जाम्बवत्यै तद्वृत्तं शशंस। ततो जाम्बवती जगाद - 'इयत्कालं मया शाम्बस्य दुर्विनया न श्रुतः, अद्य किमस्ति ?' ततः कृष्णः सिंही स्वपुत्रं सौम्यं भद्रं च मन्यते, किन्तु गजा एव तस्य क्रीडां जानन्ति, अद्य तच्चेष्टा दर्शयामीत्युक्त्वाऽऽ भीररूपधरो जाम्बवतीमाभीरीरूपां कृत्वा तौ तक्रं विक्रीणानौ द्वारकापुरीं प्रविष्टौ शाम्बकुमारेण दृष्टौ गोरसं क्रीणामीत्याहूतौ च तत्समीपं जग्मतुः ।
ततः शाम्बो देवगृहं प्रविश्य तामाहूतवान् । सा च 'न देवगृहं प्रवेक्ष्यामि, अत्रैव मूल्यं देही'त्युवाच । त्वयाऽत्राऽवश्यं प्रवेष्टव्यमित्युक्त्वा शाम्बस्तां करे गृहीत्वा चकर्ष । ततश्चाऽऽभीरः किं
Page #93
--------------------------------------------------------------------------
________________
१६०
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः मद्भार्यां गृह्णासीत्युक्त्वा तं द्रुतं जघान' कृष्णः प्रकटश्च बभूव । जाम्बवत्यपि प्रकटिता । शाम्बश्च पितरौ दृष्ट्वा मुखं पिधाय पलायितवान् । कृष्णश्च सुतचरितं दृष्टमिति जाम्बवतीमुक्तवान् । द्वितीयदिवसे च कृष्णेन हठाद् गृहमानीयमानः स कीलिका घटयन्नागच्छन् किं घटयसीति पृष्टो 'यो मे ह्यस्तनं वचनं वदिष्यति तस्य मुखे एषा कीलिका क्षेपणीये'त्यमुं घटयामीत्युवाच । ___ ततः कृष्णेन स निर्लज्जः कामुक स्वैरी चेति नगराच्छाम्बो निर्वासित: प्रद्युम्नश्च प्राग्जन्मन्यपि भ्रात्रे नगर्या गच्छते स्नेहात् प्रज्ञप्तिविद्यां ददौ ।
इतश्च प्रद्युम्नो नित्यं भीरुकं पीडयन् 'शाम्ब इव नगर्याः किं न यासीति सत्यभामयोक्तः क्व यामीति पृष्टवान् । सा च क्रोधात् श्मशानं गच्छेत्युक्तवती । कदा मयाऽऽगन्तव्यमिति प्रद्युम्नेन पृष्टा च यदाऽहं शाम्बं हस्ते गृहीत्वाऽत्राऽऽनयामि तदा त्वया समागन्तव्यमिति क्रुधा सत्यभामोवाच । प्रद्युम्नश्च मातुरादेशः प्रमाणमित्युक्त्वा श्मशानं जगाम । शाम्बोऽपि भ्रमंस्तत्राऽऽययौ । तौ द्वौ चाऽधिकं दाहशुल्कं गृहीत्वा श्मशाने पौराणां मृतकानि दग्धुं ददतुः।
इतश्च सत्यभामा भीरवे एकोनकन्याशतमेकत्र मेलयित्वाऽन्यामेकां कन्यामन्वेषयामास । प्रद्युम्नश्च प्रज्ञप्त्या तद्विज्ञाय चमूं विवृतवान् । स्वयं च जितशत्रुर्नाम नृपोऽभवत् । शाम्बश्च देवकन्यातुल्यकन्यारूपोऽभवत् । भीरुधात्री च तां सखीपरिवतां क्रीडन्तीं दृष्ट्वा केयमिति कुतश्चिज्ज्ञात्वा सत्यभामायै निवेदयामास । सा च भीरवे तां जितशत्रु ययाचे ।
अष्टमं पर्व - सप्तमः सर्गः
ततो जितशत्रुणा 'यदि सत्यभामाऽमूं हस्ते गृहीत्वा द्वारकां प्रविशेत्, तथा विवाहकालेऽस्या: करं भीरोः करस्योपरि स्थापयेत्, तदैनां ददामी'त्युक्ता सत्यभामा तत् स्वीकृत्य तच्छिबिरं जगाम । शाम्बश्च प्रज्ञप्तिमुवाच-'सत्यभामा तस्याः परिजनश्च मां शाम्बमेव कन्यारूपं यथा पश्यति तथा कुरु'। प्रज्ञप्त्या च तथा कृते सत्यभामया दक्षिणे करे गृहीतः शाम्बो द्वारकापुरीं प्राविशत् । सत्यभामया भीरोर्विवाहार्थं कन्याऽऽनीतेति जना विस्मिता जाताः । सत्यभामागृहे च शाम्बो भीरोदक्षिणं कर स्ववामकरस्योपरि कृत्वाऽन्यस्यैकोनकन्याशतस्य पाणीन् दक्षिणपाणिना धृत्वा युगपदग्निप्रदक्षिणां व्यधात् । कन्यकाश्च शाम्बं पश्यन्त्यः पुण्यात् त्वं मम पतिर्जात इत्यूचुः । विवाहं कृत्वा च शाम्बस्ताभिः समं वासगृहं गतवान् । भीरुश्च शाम्बेन सह तत्राऽऽगतस्तेन भृकुट्या तजितो भीत: परावृत्तवान् ।
सत्यभामा च तज्ज्ञात्वा स्वयं गत्वा शाम्बं दृष्टवती । शाम्बोऽपि तां प्रणनाम । ततः क्रुद्धया तया केनाऽत्राऽऽनीतोऽसीति पृष्टः शाम्ब'स्त्वयैव करे गृहीत्वाऽऽनीयोद्वाहितोऽस्मि, अत्र पौरा: प्रमाणमि'त्युवाच । पौरैश्च तद्वचसि प्रमाणिते कन्यारूपोऽयं मामच्छलयदिति तमाक्रोशन्ती रोषात् ततो निर्गता । ततः कृष्णः पौरसमक्षं ताः कन्या: स्वयं शाम्बाय ददौ । जाम्बवती चोत्सवं चकार ।
ततः शाम्बो वसुदेवं नमस्कर्तुं गत उवाच-'तात ! त्वया महीं भ्रान्त्वा चिरेण कन्या ऊढाः, मया त्वभ्रान्त्वैकत्रैव युगपत् कन्याशतं परिणीतं, तत आवयोरन्तरं स्पष्टम्' । ततो वसुदेव उवाच-'रे !
Page #94
--------------------------------------------------------------------------
________________
१६२
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः कूपमण्डूक ! अहं गृहाद् निर्गत्य वीरवृत्त्या सर्वत्राऽप्रतिहतोऽभ्राम्यं कन्याश्च पर्यणैषं, यथावसरं मिलितैर्बन्धुभिरादरात् प्राथितो गृहमागां च, न पुनस्त्वमिव स्वयम्' । ततः शाम्बः पूज्यतिरस्कारं ज्ञात्वा कृताञ्जलि: स्वमौद्धत्यं निन्दन् पितामहं क्षमयामास ।
*** इतश्च यवनद्वीपादिभ्यो वणिजो महाभाण्डान्युपादाय जलमार्गेण तत्राऽऽगता अन्यवस्तूनि विक्रीय रत्नकम्बलं विक्रेतुं राजगृहं ययुः । तत्र वास्तव्यैर्वणिग्भिश्च ते मगधेशपुत्र्या जीवयशसो गृहे नीताः । ते च तत्र जीवयशसो रत्नकम्बलानुष्णे शीतान् शीते चोष्णान् मृदुरोम्णोऽदर्शयन् । तया कम्बलानां मूल्यार्धे कथिते च ते वयं द्वारकां मुक्त्वा किमर्थमिहाऽऽगता इति पूच्चक्रुः । ततो जीवयशास्तेभ्यो द्वारकायां कृष्णादीनां समृद्धिं श्रुत्वा मद्भर्तुर्हन्ताऽद्याऽपि जीवतीति रुदती जरासन्धेन दृष्ट्वा कारणं पृष्टा च कृष्णवृत्तान्तमाख्यायाऽद्यैवाऽग्नि प्रवेक्ष्यामि, अतः परं न जीविष्यामीत्युवाच ।
जरासन्धश्च कृष्णादिवधं तामाश्वास्य मन्त्रिभिर्वार्यमाणोऽपि सैन्यं प्रयाणायाऽऽदिशत् । महाबलाः सहदेवादयः पुत्राश्चेदिनृपादयो दुर्योधनादयश्च तमन्वयुः । स च मुकुटपातादिष्वशकुनेषु सत्स्वपि न विरराम । सैन्यैः परिवृतो गन्धगजमारूढः पश्चिमां प्रस्थितः । नारदश्चराश्च तवृत्तान्तं कृष्णाय शशंसुः । कृष्णश्चाऽपि तच्छृत्वा स्वपक्ष्यान् नृपानेकत्रीकृत्य सबन्धुवर्गः स परिजनपरिच्छदो रामेण सह गरुडाङ्क रथमारुह्य पूर्वोत्तरां दिशं प्रतस्थे । पुरात् पञ्चचत्वारिंशतं योजनानि गत्वा च सेनपल्लीग्रामे तस्थौ ।
अष्टमं पर्व - सप्तमः सर्गः
१६३ जरासन्धसैन्याच्चतुभिर्योजनैरर्वाक् स्थिते कृष्णसैन्ये च केचिद् विद्याधरोत्तमाः समेत्य समुद्रविजयं नत्वा 'वयं वसुदेवगुणगृह्याः, तदस्मान् स्वसामन्तवर्गे गणये'ति प्रार्थयामासुः। एवमस्त्विति नृपेणोक्ते च ते पुनरूचुः-'कृष्णस्याऽग्रे जरासन्धस्तृणवत्, तद्वैताढ्याद्री जरासन्धगृह्यान् प्रत्यस्मान् वसुदेवं सेनान्यं कृत्वा प्रद्युम्नशाम्बाभ्यां सह समादिश' । ततः समुद्रविजयः कृष्णानुज्ञया वसुदेवं प्रद्युम्न-शाम्बौ च तैः खेचरैः सह प्रेषीत् । तदानीं चाऽरिष्टनेमिना जन्मस्नात्रे सुरैर्बाहौ बद्धास्त्रवारिण्यौषधिः प्रददे । ___इतश्च हंसको मन्त्री परैर्मन्त्रिभिः सहाऽऽगत्य जरासन्धमुवाच'पुरा कंसोऽमन्त्रितं कृत्वा दुष्फलं प्राप, रौहिण्याः स्वयंवरे च वसुदेवो दृष्टबलोऽस्ति, द्यूते कोटिजयात् त्वत्सुताया जीवनाच्च स ज्ञातोऽस्ति, तदानीं स घातितोऽपि स्वप्रभावाद् न मृतः । अस्मादेव जातौ राम-कृष्णौ, एनौ च पाण्डवा अपि व्यसने श्रितवन्तः । प्रद्युम्ना-ऽर्जुन-भीमादयश्चाऽप्रतिमबला: । त्वदीये सैन्ये रुक्मिप्रभृतयः पुराऽपि तैः पराजिताः । नेमिः कृष्णो बलश्च परसैन्येऽतिरथाः, स्वबले त्वमेवैकोऽतिरथः । तद्योर्बलयोर्महदन्तरं, सुराश्च कृष्णगृह्या: कालादिमृत्युना ज्ञाता एव सन्ति । तत्तेन योद्धं न युज्यतेऽधुना । त्वय्ययुध्यमाने च कृष्ण: स्वयं वलित्वा यास्यति' ।
एवं तद्वचः श्रुत्वा क्रुद्धो जरासन्ध उवाच-'त्वं छलिभिर्यादवैआंदितोऽसि, तत एव शत्रु प्रशंसन् मां भीषयसि, अहं गोपालानामेषां बलं क्षणाद् भस्मसात् करिष्यामि, तवेमां मतिं धिक्' । तत उम्भको नाम चाटुकार उवाच-'रणात् पराङ्मुखत्वापेक्षया वीराणां मरणं वरं, निजे बले चक्रव्यूहं कृत्वा परबलं युद्धेऽवश्यं हनिष्यामः' । ततो हृष्टो जरासन्धस्तं प्रशस्य सेनापतीन् चक्रव्यूहाय
Page #95
--------------------------------------------------------------------------
________________
१६४
पुरुषतम्-गद्यात्मकसारोद्धारः
समादिदेश । ततो हंसक - हिण्डकौ सचिवौ सेनापतयश्च चक्रव्यूहं चक्रुः । सहस्रारे तस्मिश्चक्रे य यथायथं राजानः सैन्याश्च निवेशिताः । ततो जरासन्धस्तस्य चक्रव्यूहस्य सेनापतित्वे कौशलेश्वरं सत्यसन्धमभिषिषेच ।
तदानीं रविश्चाऽस्तमियाय । यदवोऽपि च चक्रव्यूहं प्रति गरुडव्यूहं चक्रुः । तत्र य यथायथमङ्गेषु प्रत्येकं राजानः सैन्यश्च स्थापिताः । तस्य शिरोभागे राम कृष्णौ स्थितौ । शक्रश्च नेमिं युद्धोद्यतं ज्ञात्वा भ्रातृस्नेहाद् मातलिना सह निजं सहजं रथं प्रेषयामास । नेमिश्च तद्रथमलङ्कृतवान् । ततः समुद्रविजयोऽनाधृष्टि कृष्णाग्रजं सेनापतित्वेऽभिषिषेच । तदानीं च कृष्णसैन्ये जयजयारावो जज्ञे । तेन जरासन्धबले सर्वतः प्रक्षोभोऽभवत् ।
अथ द्वयोर्व्यूहयोः सैन्यैर्दारुणं युद्धं प्रारेभे । ततः स्वामिभक्तैर्जरासन्धसैन्यैश्चिरं युद्ध्वा गरुडव्यूहाग्रसैनिका अभज्यन्त । ततः कृष्णः करमुत्क्षिपन् सैनिकान् स्थिरीचकार । ततो नेमिरर्जुनोअनाधृष्टिश्च क्रुद्धाः स्वं शङ्खमधमन् । ततश्च सर्वे सैनिकास्तूर्यानताडयन् । तन्नादेन च जरासन्धसैन्या अक्षुभ्यन् । नेम्यादयस्त्रयोऽपि च शरान् वर्षन्तो महान्तं विक्रमं चक्रुः । तेन चक्रव्यूहसंस्थिता राजानो घातमसहिष्णवो दुद्रुवुः तैस्त्रिभिश्च चक्रव्यूहस्त्रिषु स्थानेष्वभञ्जि । ते च त्रयश्चक्रव्यूहं मार्गं विधाय प्रविविशुः । ताननुसरन्तोऽन्ये सैनिकाश्चाऽपि तत्र विविशुः । दुर्योधनादयश्च तान् रुरुधुः । ततस्तेषां मिथो द्वन्द्वयुद्धं प्रावर्त्तेत ।
तत्र च नेमी रुक्मिणं निरायुधं विरथं च चकार । तद्रक्षणायाऽऽपततः शत्रुन्तपादीन् सप्त नृपांश्च नेमिर्युगपद् बाणवृष्टि विधाय
१६५
अष्टमं पर्व सप्तमः सर्गः विचापांश्चक्रे । ततः शत्रुन्तपाश्चिरं युद्ध्वा जाज्वल्यमानां शक्ति चिक्षेप । तया च यदवोऽक्षुभ्यन् । बहवः सैनिकाश्च तच्छक्तिप्रहारेण भुवि पेतुः । ततो मातलि र्बलीन्द्रेण तपसा शत्रुन्तपेन प्राप्तेयं शक्तिर्वज्रेणैव भेद्येत्युक्त्वा नेमिशरे शीघ्रं वज्रं समाक्रमयत् । ततो नेमिस्तं बाणं वज्रबद्धं प्रहृत्य शक्तिं भुवि पातयामास । शत्रुन्तपं च विरथं निरस्त्रं च चकार । तथा नेमिरन्येषामपि षण्णां नृपाणां धनूंषि चिच्छेद । ततो रुक्मी रथान्तरमारुह्य पुनरपि दधाव । एवं च तेऽष्टावपि सम्भूय नेमिना युयुधिरे । ततो नेमिः शस्त्राशस्त्रि युद्ध्वा बाणेन रुक्मिणं भाले जघान । तेन च विह्वलं तं वेणुदारी दूरं निनाय । ततोऽन्येऽपि च सप्त नृपास्ततो द्रुतं दुदुवुः । समुद्रविजयादिभिर्यदुभटैश्चाऽन्येऽपि नृपा भग्नाः सेनापति हिरण्यनाभं शरणं ययुः ।
इतश्च भीमा-र्जुनौ बलभद्रसुताश्च धार्तराष्ट्रान् दुर्योधनादीन् घना हंसानिव व्यद्रावयन् । अर्जुनमुक्तैः शरैश्च दिगन्तं व्याप्तं गाण्डीवघोषैश्च जगद्बधिरीकृतम् । कोऽपि जनो बाणानाकर्षन्तंमुञ्चन्तं चाऽर्जुनं नाऽलक्ष्यत । ततो दुर्योधनादयः सम्भूय पार्थमधावन्त । सहदेवादयश्च शकुन्यादिभिरयुध्यत । तत्राऽर्जुनो दुर्योधनं बाणवृष्ट्या विरथं विवर्माणं च चकार । कासिप्रमुखानन्यानपि दश भटान् स उपद्रुद्राव । युधिष्ठिरेण च शक्तिप्रहारेण शल्यो हतः । भीमश्च दुर्योधनभ्रातरं जघान । शकुनिं प्रतिक्षिप्तं बाणं च दुर्योधनो मध्य एव स्वबाणेन चिच्छेद । ततः सहदेवो दुर्योधनं मायीत्याक्षिप्य बाणवृष्ट्या छादयामास । ततो दुर्योधनेन सहदेववधाय मुक्तं मन्त्रितं बाणं पार्थः स्वबाणेन निवारयामास । तथा शरैः प्राहरन्तं शकुनिं सहदेवो बाणैविरथं निरस्त्रं च कृत्वा तच्छिरश्चकर्त्त ।
Page #96
--------------------------------------------------------------------------
________________
mmmmmm..१५७
१६६
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः नकुलेन विद्रावित उलूको दुर्मर्षणादिभिः सह दुर्योधनं शरणं ययौ । दुर्योधनश्च नृपैः सम्भूयाऽर्जुनं योधयामास । अर्जुनश्च रामसुतैः परिवृतो बाणैर्जयद्रथमवधीत् । ततः कर्णः क्रुद्धोऽर्जुनं हन्तुमधावत । बहुशो युद्ध्वा चाऽर्जुनो भग्नरथं खड्गमात्रधरं कर्णमवधीत् । ततो भीमः सिंहनादं चकार, अर्जुनश्च शङ्ख दध्मौ, पार्थसैन्याश्च जगणुः । ततः क्रुद्धो दुर्योधनो भीमं हन्तुमधावत । भीमश्च रथादिना रथादिकमास्फाल्याऽऽस्फाल्य दुर्योधनसैन्यं व्यनाशयत् । ततो भीम-दुर्योधनौ मिथो गर्जन्तौ क्रुद्धौ सिंहाविव शस्वैश्चिरं युयुधाते । ततो भीमो द्यूतवैरं स्मरन् गदया सरथं दुर्योधनं पिपेष । तस्मिन् हते च सैनिकाः पलाय्य सेनान्यं हिरण्यनाभं शरणं ययुः । ___ अथ क्रुद्धो हिरण्यनाभोऽभि यदून् दधाव । अभिचन्द्रेणाऽऽक्षिप्तश्च हिरण्यनाभस्तस्मिन् शरांश्चिक्षेप । अर्जुनश्च तान् शरान् मध्ये स्वबाणैर्निवारयामास । ततोऽर्जुनाय क्षिप्तान् हिरण्यनाभशरान् भीमो गदया चूर्णयामास रथं च बभञ्ज । ततो लज्जितो हिरण्यनाभो रथान्तरमारुह्य यदुसैन्ये सकले बाणान् ववर्ष । न कोऽपि यदुसैन्ये तादृशोऽभूद् यस्तस्य शरैर्न विद्धः । ततः क्रुद्धं समुद्रविजयपुत्रजयसेनं धावमानं हिरण्यनाभ आक्षिप्य तत्सारथि निपातयामास । जयसेनोऽपि तस्य कवचं धनुर्ध्वजं सारथिं च चूर्णयामास । ततः क्रुद्धो हिरण्यनाभो बाणान् प्रहृत्य जयसेनमवधीत् । ततो जयसेनभ्राता क्रुद्धो रथादवतीर्य खड्ग-खेटधरो हिरण्यनाभमधावत । हिरण्यश्च दूरादपि क्षुरप्रेण तच्छिरोऽकर्त्तयत्। ततः क्रुद्धोऽनाधृष्टिस्तमयोधयत् ।
अष्टमं पर्व - सप्तमः सर्गः
अन्ये जरासन्धनृपाश्च भीमादिभिर्द्वन्द्वयुद्धेनाऽयुध्यन्त । प्राग्ज्योतिषमहीपतिर्भगदत्तश्च गजारूढः समुद्रविजयात्मजं महानेमिमधावत । महानेमिसारथिश्च तद्गजं वेगेनाऽऽगच्छन्तं दृष्ट्वा रथं मण्डलेनाऽभ्रमयत् । महानेमिश्च शरैस्तद्गजं तलपादेषु विव्याध । तेन च विदीर्णपादो गजः सभगदत्तः पपात। इतश्च भूरिश्रवाः सात्यकिश्च यथाक्रमं जरासन्ध-कृष्णजयेच्छया देवद्विपौ दन्तैरिव दिव्यास्त्रादिभिर्युध्यमानौ क्षीणास्त्रौ बाहुभ्यां मुष्टिभिश्च मिथप्राहरन्ती पतनोत्पतनैर्भूमिमकम्पयतां भुजास्फोटैर्दिशो बधिरयामासतुः । तत्र सात्यकि रिश्रवसं योत्क्रबन्धेन बद्ध्वा गलं पृष्ठे वालयित्वा जानुनाऽऽक्रम्याऽवधीत् । इतश्चाऽनाधृष्टिना चापे छिन्ने हिरण्यनाभस्तस्मै परिघममुञ्चत् । अनाधृष्टिना बाणैस्तस्मिन् खण्डिते च तज्जिघांसया हिरण्यनाभश्चर्मा-ऽसिधरः पद्भ्यामधावत् । रामेण रथादुत्तीर्य खड्गखेटकधारिणा विचित्रगत्या चिरं खेदितः । तदानीं चाऽवसरं प्राप्याऽनाधृष्टिरसिना हिरण्यनाभमवधीत् । तदा जरासन्धस्य नृपास्तं शरणं ययू रविश्चाऽस्तं ययौ । अनाधृष्टिश्चाऽपि यदुभिः पूजितः कृष्णमुपययौ। कृष्णाज्ञयाऽन्येऽपि नृपाः स्वं स्वं शिबिरं ययुः ।
अथ जरासन्धो मन्त्रयित्वा तदैव शिशुपालं सेनापतित्वेऽभ्यषिञ्चत् । प्रातश्च यदवो गरुडव्यूहं कृष्णाज्ञया विधाय तथैव रणभूमिमधितस्थुः । शिशुपालोऽपि चक्रव्यूहं निर्ममौ । जरासन्धश्च रणभूमिमियाय । तत्र च जरासन्धेन पृष्टो हंसकः परसैनिकान् कृष्णादींश्चाऽङ्गल्या दर्शयन् नामग्राहमुपलक्षयामास । ततः क्रुद्धो जरासन्धो धनुरास्फालयन् राम-कृष्णौ प्रति वेगतो रथं प्रेरयामास । जरासन्धपुत्रो यवनश्च क्रुधा वसुदेवसुता नक्रूरादीन्
Page #97
--------------------------------------------------------------------------
________________
१६८
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः हन्तुमधावत् । तत्र च यवनस्य तैयुद्धे प्रवृत्ते रामानुजः सारणस्तं बाणवृष्ट्या रुरोध । यवनश्च मलयाख्यगजेन सारणरथं ससारथिमभञ्जयत् । ततः क्रुद्धः सारणोऽसिना यवनस्य शिरश्चकर्त्त । ततो जरासन्धः पुत्रवधं दृष्ट्वा क्रुद्धः सिंहो मृगानिव यदून् हन्तुमारेभे । तेन रणमुखस्था रामस्याऽऽनन्दाद्या दश सुता लीलयैव हताः । तद् दृष्ट्वा च कृष्णसैन्यं भयात् पलायिष्ट । जरासन्धश्च तदनुदधाव ।
इतश्च शिशुपालः कृष्णमाक्षिप्य धनुरास्फाल्य शरान् ववर्ष । कृष्णश्च बाणैस्तद्धनुः कवचं रथं च च्छित्त्वाऽसिमाकृष्य धावमानः शिशुपालस्य मूर्धानं चिच्छेद । ततः क्रुद्धो जरासन्धः पुत्रै राजभिश्च सह कृष्णमधावत । स एकोऽपि यदुसैन्यान् व्याधो मृगानिव बाणौधैर्विव्याध । केपि भटास्तस्य पुरतः स्थातुं नाऽशक्नुवन् । ततो जरासन्धबाणैः पीडितं यदुसैन्यं वातोद्धृतं तूलमिव दिशो दिशः पलायामास । तथाऽष्टाविंशतिर्जरासन्धपुत्रा राममभ्यधावन् । अन्ये चैकोनसप्ततिर्जरासन्धपुत्राः कृष्णं विष्णुं दानवा इव रुरुधुः। ततो रामकृष्णयोस्तैः सह दारुणं जन्यमजनि । रामश्चाऽष्टाविंशतिमपि तान् हलेनाऽऽकृष्य मुशलेन तण्डुलानिव चूर्णयामास । ___ ततः क्रुद्धो जरासन्धो रामं गदया ताडयामास । रामश्च तेन ताडितो रुधिरं ववाम । यदुसैन्ये च महान् हाहारवो जज्ञे । पुनर्बलभद्रं प्रजिहीर्षु जरासन्धमर्जुनोऽन्तरागत्य योधयामास । कृष्णश्च रामस्य पीडां दृष्ट्वा क्रुद्धस्तानेकोनसप्तति जरासन्धसुतान् हतवान् । ततो जरासन्धोऽर्जुनं त्यक्त्वा कृष्णमभिदधावे । ततश्च कृष्णो हत इति ध्वनि: सर्वत्र प्रावर्त्तत ।
ततो मातलिना स्वकुलक्षयनिवारणार्थं प्रेरितो नेमिरक्रुद्ध एव पौरन्दरं शङ्ख दध्मौ । तन्नादैश्च जरासन्धसैन्यं चुक्षुभे । यदुसैन्यं
अष्टमं पर्व - सप्तमः सर्गः स्वस्थीबभूव च । ततो मातलिना प्रेरितरथो नेमिररीस्त्रासयन् रणभूमौ सर्वत्र भ्रमन् शरान् ववर्ष । एवं परसैन्यानि हतौजस्कानि विधाय प्रभुर्नेमिस्तानि रुद्ध्वाऽस्थात् । लब्धोत्साहा यदुसैन्याश्च पुनर्योढुं प्रावर्त्तन्त । अत्राऽन्तरे च पाण्डवैर्धार्तराष्ट्राः सिंहैमूंगा इव हताः । रामोऽपि स्वस्थीभूय पुनः परसैनिकाननेकशो योधयित्वा जघान ।
इतश्च जरासन्धः कृष्णं कटुवचोभिराक्षिप्य शरान् मुमोच । कृष्णश्च सूर्यस्तम इव तान् निवारयामाम । तयोरेवं दारुणे युद्धे प्रवृत्ते सर्वास्त्रवैफल्ये विलक्षोऽमर्षणश्च जरासन्धश्चक्रं सस्मार । तदैव हस्तगतं चक्रं खे भ्रमयित्वा च स विजिगीषया कृष्णाय मुमोच । तस्मिश्चक्रे आपतति च नभसि खेचराः कृष्णसैन्यानि च वित्रेसुः । तन्निवारयितुं कृष्णो रामः पाण्डवा अन्ये नृपाश्चाऽपि स्वान्यस्त्राणि मुमुचुः । किन्तु तैरनिवारितं तच्चक्रमेत्य तुम्बेन कृष्णं वक्षस्यताडयत् । कृष्णश्च मूच्छितो रामकृतोपचारैराश्वेव लब्धसंज्ञ: पार्श्वस्थं तच्चक्रं पाणिनाऽऽददे । साम्ना प्रतिबोध्यमानमप्यप्रतिबुद्धं जरासन्धं तच्चक्रं प्रहत्य गतासुं चकार । स च मृतश्चतुर्थी नरकभूमिं ययौ । सुराश्च जयजयारावं कुर्वन्तः कृष्णस्योपरि पुष्पवृष्टिं चक्रुः ।।७।। इति अष्टमे पर्वणि शाम्बप्रद्युम्नविवाह-जरासन्धवर्णनात्मकः
सप्तमः सर्गः ॥७॥
Page #98
--------------------------------------------------------------------------
________________
१७१
अष्टमः सर्गः अथ प्रभुर्नेमिनाथो जरासन्धसैनिकानमुञ्चत् । तेऽपि तं नमस्कृत्य 'त्वां शरणं प्राप्ताः स्म' इति वदन्तोऽग्रे तस्थुः । ततः प्रभुस्तैनृपैः सह कृष्णमुपययौ । कृष्णश्च प्रभुगिरा तान् स्वीचकार । तथा समुद्रविजयाज्ञया मगधचतुर्थांशं दत्त्वा सहदेवं पितुजरासन्धस्य पदे स्थापयामास । तथा महानेमि समुद्रविजयपुत्रं शौर्यपुरे हिरण्यनाभपुत्रं रुक्मनाभं कोशलायां राज्यमगृह्णत उग्रसेनस्य पुत्रं धरं मथुरायां च स्थापयामास । तदानीं च सूर्योऽस्तमियाय । प्रभुणा नेमिना विसृष्टो मातलिश्च दिवं ययौ । कृष्णस्तदाज्ञयाऽन्ये च नृपाः स्वं स्वं शिबिरं ययुः । समुद्रविजयश्च वसुदेवागमनोत्सुकः तत्रैवाऽस्थात् । ____ अथ द्वितीयदिवसे समुद्रविजयान्वितं कृष्णं तिस्रो विद्याधर्यः स्थविरा उपेत्योचुः-'प्रद्युम्न-शाम्बसहितो वसुदेवः शीघ्रमायाति । स हीत: स्थानात् पौत्राभ्यां विद्याधरैश्च सह वैताढ्यं प्राप्य तत्र रिपुभिर्विद्याधरैर्युयुधे । तेन सह पूर्वशत्रवो नीलकण्ठा-ऽङ्गारकाद्याः
खेचराः सम्भूय युयुधिरे । ह्यस्तने दिवसे च देवताभिर्जरासन्धो हत: कृष्णश्च विष्णुरभूदिति श्रुत्वा सर्वे विद्याधरा युद्धं त्यक्त्वा तद्वार्ता नृपाय 'मन्दरवेगाय शशंसुः । ततस्तदाज्ञया सर्वे तेन नृपेण सह महोपायनमादाय तत्राऽऽययुः । ततस्त्रिपथर्षभो नृपो वसुदेवाय
अष्टमं पर्व - अष्टम: सर्ग: निजां भगिनीं प्रद्युम्नाय पुत्रीं च ददौ । देवर्षभो वायुपथश्च निजपुत्र्यौ शाम्बाय ददतुः । अद्य वसुदेवेन सह ते सर्वेऽपि खेचरेन्द्राः समायान्ति, वयं चैतदाख्यातुं पुरः प्रेषिताः स्मः' । तास्वेवं कथयन्तीष्वेव सविद्याधरः प्रद्युम्न-शाम्बसहितो वसुदेवस्तत्राऽऽगमत् । खेचराश्च स्वर्ण-रत्न-गजा-ऽश्वादिविविधोपायनैः कृष्णमानचुः । ततः कृष्णो जयसेनप्रभृतीनां सहदेवश्च जरासन्धप्रभृतीनां प्रेतकार्य चक्राते । जीवयशाच पत्युः सकुलस्य पितुश्चाऽपि संहारं वीक्ष्याऽग्नौ प्रविश्य प्राणांस्तत्याज । तत्र कृष्णः सिनीपल्लीस्थाने यदवोऽत्राऽऽनन्दिता इत्यानन्दपुरं नाम पुरं चकार ।
तत: षड्भिर्मासैर्भरतार्धं संसाध्य खेचरेन्द्रैर्नृपैश्च सह कृष्णो मगधान् प्राप । तत्रैकयोजनोन्नतामेकयोजनविस्तारां भरतार्धवासिदेवताधिष्ठितां कोटिशिलां नाम शिलां वामेन बाहुना चतुरङ्गुलं भूमित उद्धृत्य पुनर्यथास्थिति मुमोच । तां शिलां हि प्रथमो विष्णुर्भुजाये, द्वितीयो मूनि, तृतीयः कण्ठे, चतुरथ उरःस्थले, पञ्चमो हृदि, षष्ठः कट्यां, सप्तम ऊर्वोरष्टम आजानू दधे । नवमस्तु क्रमाद् बलहासाच्चतुरङ्गुलम् । ततः कृष्णो द्वारकामागत: षोडशसहस्त्रनुपैर्देवैश्चाऽर्धचक्रित्वेऽभिषिक्तः । ततः कृष्णः पाण्डवान् कुरुदेशायाऽपरान् नृपांश्च खेचरांश्च स्वस्वस्थानाय विससर्ज । दशादियश्च कृष्णं सेवयामासुः । षोडशसहस्रा नृपाश्च कृष्णाय रत्नानि द्वे द्वे कन्यके च ढौकयामासुः । कृष्णश्च ताभ्यः षोडशसहस्राः कन्या, बलभद्रोऽष्टौ सहस्राः कुमाराश्च तावती: परिणिन्युः । कृष्णादयश्च रमणीभित्ता उद्यानादिषु स्वैरं रेमिरे ।
Page #99
--------------------------------------------------------------------------
________________
षष्टिशलाकापुरुषचरितम् गद्यात्मकसारोद्धारः
अथ समुद्रविजय: शिवादेवी च तान् क्रीडतः प्रेक्ष्य स्नेहाद् नेमिमूचिरे- 'अनुरूपवधूपाणिग्रहणेनाऽस्मान् प्रीणय' । ततो नेमिप्रभुरुवाच- 'अनुरूपा: कन्या न पश्यामि एता हि पातायैव भवन्ति, यद्यनुरूपा मिलिष्यन्ति तदा परिणेष्ये'। एवं नेमिना सरलौ पितरौ सविशेषार्थया वाण्या विवाहाग्रहाद निवारितौ ।
१७२
इतश्च यशोमत्या जीवोऽपराजिताच्च्युत्वोग्रसेन भार्याया धारिण्याः कुक्षाववाततार । तस्याश्च धारिण्याः पूर्णे समये राजीमती नाम रूप- लावण्यसीमा कन्या जाता क्रमेण ववृधे च ।
इतश्च द्वारकावासी धनसेन उग्रसेनपुत्राय नभः सेनाय कमलामेलां नाम पुत्रीं ददौ । नभःसेनस्य गृहे तदानीमागतो नारदश्च विवाहोत्सवव्यग्रचित्तेन तेन न पूजितः । ततो नारदस्तस्याऽनिष्टेच्छया रामपुत्रनिषधपुत्रं शाम्बादीनां प्रियं सागरचन्द्रमुपजगाम । तेन चाऽभ्युत्थाय सत्कृत्य किञ्चिदाश्चर्यं दृष्टं किमिति पृष्टो नारद उवाच-धनसेनस्य कन्यका कमलामेला जगत्याश्चर्यभूताऽत्रैव दृष्टा । साऽधुनैव नभः सेनाय दत्ता' । एवमुक्त्वा सोऽन्यतो ययौ सागरश्च तदनुरक्तस्तामेव दध्यौ तन्नामैव जजाप तामेव सर्वतो
ऽपश्यच्च ।
नारदश्च कमलामेलागृहं गत्वा तया सत्कृत्याऽऽश्चर्यं पृष्टश्चोवाच- 'द्वे आश्चर्ये मया दृष्टे, तयोरेकः कुमारः सागरचन्द्रो रूपसम्पदाऽन्यश्च नभःसेनः कुरूपत्वत आश्चर्यम्' । ततः सा नभःसेनं विहाय सागरे रागवती जाता। नारदश्च गत्वा सागराय तद्वृत्तं शशंस । सागरं च विरहसागरे पतितं दृष्ट्वा पितरौ कुमाराश्च दुःखिता बभूवुः । तदानीं तत्राऽऽगतः शाम्बश्च पृष्ठतः स्थित्वा
अष्टमं पर्व अष्टमः सर्गः
सागरचन्द्रस्य नेत्रैर्पाणिभ्यां पिदधौ । सागरेण कमलामेलाऽसि किमित्युक्ते एष कमलामेलोऽस्मीति जगाद । ततः सागर उवाच - 'त्वमेव मे कमलां मेलयिष्यसि ममाऽन्योपायचिन्तयाऽलम्' ।
१७३
शाम्बश्च तद्वचः स्वीकुर्वन्नेव सर्वैः सह तं मद्यं पाययित्वा छलयित्वा च मानयामास । शाम्बश्च मदे गते दध्यौ - 'मया दुष्करं किं स्वीकृतम् ? अधुना तु कथञ्चित् तद् निर्वाह्यमेव' । एवं ध्यात्वा प्रज्ञप्तिं स्मृत्वा शाम्बः कुमारैः सह विवाहदिने नभः सेनस्योद्यानमगात् । तत्र सुरङ्गद्वारेण तत्र कमलामेलामानाय्य सागरचन्द्रेण परिणाययामास । इतश्च पितृश्वसुरवर्गीयाः कमलामेलां गृहेऽपश्यन्तः इतस्ततस्तामन्वेषयन्त उद्यानं ययुः । कृतविद्याधररूपाणां यदूनां मध्ये तां दृष्ट्वा कृष्णाय निवेदयामासुः । कृष्णश्च क्रुद्धो दुर्नयाक्षमी तान् कमलामेलाहर्तृनुपेत्याऽयोधयत् । ततः शाम्बः स्वरूपमास्थाय कमलामेलया सह सागरचन्द्रं गृहीत्वा कृष्णस्य पादयोः पपात । ततो निरुपायः कृष्णस्तान् निर्भर्त्स्य नभःसेनं बोधयित्वा कमलामेलां सागरायैव ददौ । नभःसेनश्चाऽपकर्तुमशक्तस्तप्रभृत्येव सागरचन्द्रस्य च्छिद्रं मार्गयामास ।
इतश्च प्रद्युम्नस्य वैदर्भ्यां भार्यायां जातोऽनिरुद्धो नाम पुत्रो यौवनं प्रपन्नवान् । तदानीं च शुभनिवासाख्ये नगरे बाणस्य खेचरेन्द्रस्योषा नाम सुताऽभूत् । सा च रूपवती स्वानुरूपवरेच्छया गौरीं विद्यामाराधयामास । सा च विद्या प्रसन्ना 'कृष्णस्य पौत्रोऽनिरुद्धस्ते वरो भवितेत्युवाच । बाणेन च गौरीविद्याप्रियः शङ्करो नाम सुर आराधितस्तस्य रणेऽजय्यत्वं ददौ । ततो गौरीविद्या तमूचे- 'त्वया बाणस्य सर्वत्राऽजय्यत्ववरप्रदानं कृतं तद् नोचितं यतो मयोषाया वरो दत्तोऽस्ति' । ततः शङ्करो
Page #100
--------------------------------------------------------------------------
________________
पुरुष-गद्यात्मकसारोद्धारः
बाणमवदत्-त्वं स्त्रीकार्यादन्यत्राऽजय्योऽसि, बाणश्च तेनाऽपि सुप्रसन्नोऽभूत् । तथा बाणादतिसौन्दर्यात् खेचरैर्नृपैश्चोषा याचिता । किन्तु स कस्मा अपि तां न ददौ ।
१७४
तत उषा चित्रलेखां विद्याधरीं प्रेष्याऽनिरुद्धं स्वगृहमानाययत् । अनिरुद्धश्च तां गान्धर्वेण विवाहेन परिणीयाऽऽदाय चलन्ननिरुद्धोऽहमुषां हृत्वा गच्छामीति जगाद । ततो व्याधः कुक्कुरैः शूकरमिव बाणः सैन्यैस्तं रुरोध । तदानीं चोषा पाठसिद्धां विद्यां पत्ये ददौ । तया वर्धितौजाश्चऽऽनिरुद्धो बाणेन चिरं युयुधे । किन्तु बाणेन नागपाशेनाऽनिरुद्धो बद्धः । कृष्णश्च प्रज्ञप्त्या तद् विज्ञाय राम-प्रद्युम्न - शाम्बादिसहितस्तत्राऽऽगतवान् । ततो नागपाशा गरुडध्वजदर्शनाद् दुद्रुवुः ।
बाणश्च शङ्करदत्तवरेणाऽऽत्मबलेन च गर्वितः कृष्णो निर्भर्त्सयामास । तत: कृष्ण उवाच- 'नेदं तवोचितं, कन्या ह्यवश्यं कस्मैचिद् दातव्या । ततस्तद्वरणेऽनिरुद्धस्य न कोऽपि दोष:' । तेन क्रुद्धो बाणो विष्णवे बाणांश्चिक्षेप । कृष्णश्च तान् मध्य एव च्छित्त्वा चिरं योधयित्वा निरस्त्रीकृत्य खण्डशो निकृत्य च बाणं गतासुं चकार । तत उषासमन्वितमनिरुद्धमादाय रामादिभिः सह कृष्णो द्वारकां ययौ ॥८॥
इति अष्टमे पर्वणि सागरचन्द्रोपाख्यान - उषाहरणबाणवधवर्णनात्मकोऽष्टमः सर्गः ॥ ८ ॥
नवमः सर्गः
अथैकदा नेमिः कुमारैः सह भ्रमन् कृष्णस्याऽस्त्रागारं प्रविष्टवान् । तत्र चाऽतिभास्वरं चक्रं शार्ङ्गं कौमोदकीं खड्गं पाञ्चजन्यं च दृष्टवान् । तत्र च नेमिं कौतुकाच्छ जिघृक्षं ज्ञात्वाऽस्त्रगृहरक्षकश्चारुकृष्णः प्रणम्योवाच- 'बलवान् कृष्णभ्राताऽपि भवान् शङ्खमुद्धर्तुमपि न शक्नोति' । ततो नेमिर्लीलयैव तं शङ्खमुद्धृत्य वादयामास । तध्वनेश्च रोदसी पूर्णे प्राकारप्रासादादयश्च चकम्पिरे । बल-कृष्णादयश्च क्षोभमुपगताः, पुरीजना अमूर्च्छन्, गजा आलानमुन्मूल्य त्रेसुरश्वा वल्गामप्यविगणप्य पलायिताः, अस्त्रागाररक्षकाश्च निपेतुः ।
ततः कृष्णः केनैष शङ्खो मम रामस्य च क्षोभकरो वादित इति तर्कयामास । तदानीमेव चाऽऽरक्षाः समेत्य नेमिना शङ्खो ध्मात इति निवेदयामासुः । कृष्णे तदश्रद्दधाने तदैव नेमिरपि तत्राऽऽययौ । कृष्णेन च सगौरवमासने समुपवेशितेन नेमिना 'शङ्खो मया ध्मात' इति ज्ञातम् । ततस्तद्दोर्बलं दिदृक्षुः कृष्णो मदपरैरध्मेयः शङ्खस्त्वया ध्मात इति प्रशस्य मया सह बाहुयुद्धेन स्वदोर्बलं दर्शयेति नेमिमुक्तवान् | नेमिना च तत् स्वीकृते तौ द्वौ कुमारैः सहाऽस्त्रागारं जग्मतुः । प्रकृतिदयालुर्नेमिश्च कृष्णस्य यथा न दुःसह आघातो मम भुजबलप्रत्ययश्च यथा स्यादिति विचार्य कृष्णमुवाच - आवयोबहूनामनेनैव युद्धमस्तु' ।
Page #101
--------------------------------------------------------------------------
________________
१७६
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः तत: कृष्णस्तत् प्रपद्य सर्वबलेनाऽपि नेमेर्भुजं नामयितुं न शशाक । नेमिश्च कमलनालवत् तद्भुजं लीलया नामयामास । ततः कृष्णः स्वविलक्षतां गोपयन् नेमिमालिङ्ग्य तव बलेनाऽहं विश्वं तृणं मन्ये इति प्रशस्य विसृज्य च राममुवाच-त्वया भ्रातुर्वीय लोकोत्तरं दृष्टम्, अस्य बलेन चक्री वज्यपि न तुल्यः, ईदृशबलेन किमयं समग्रं भारतं न साधयति ?' ततो राम उवाच-'यथाऽयं बलेनाऽप्रतिमस्तथा शान्तया मूर्त्या राज्यनि:स्पृहोऽपि लक्ष्यते ।
रामवचसा साशङ्कं कृष्णं च देवतोवाच-'पुरा नमिजिनेन कुमार एव नेमिस्तीर्थकरो भविष्यतीत्युक्तं, तदस्य राज्येन न प्रयोजनं. जन्मतो ब्रह्मचार्ययं समये प्रव्रज्यां ग्रहीष्यति' । तच्छृत्वा प्रसन्नः कृष्णो रामं विसृज्याऽन्तःपुरं गत्वा नेमिमाहूय द्वावपि वारस्त्रीभिर्दत्तैर्घटजलैः स्नानं सम्पाद्य विहितनेपथ्यौ भोजनं चक्रतुः । ततः कृष्णः सौविदल्लान् ममाऽयं भ्राताऽन्तःपुरे न क्वाऽपि प्रतिषेध्यः । अयं सर्वासामपि भ्रातृजायानां मध्ये रमताम् । तथा मम प्रियोऽयं भवतीनां देवरः सर्वथा मान्य इति भामाद्या भार्याश्चोवाच । नेमिश्च भोगविमुखोऽन्तःपुरे ताभिः सत्कृतो निर्विकारं विजहार । ___अथाऽन्यदा वसन्ते कृष्णः सान्तःपुरः सपरिजनपरिच्छदोनेमिसहितो रैवतकोद्यानं ययौ । तत्र च सर्वे स्वैरं रेमिरे । कृष्णोऽपि नेमिना सह भामादिपत्नीपरिवृतः क्रीडयामास । तदानीं च नेमिं पश्यन् कृष्णो दध्यौ-'यदि नेमेर्भोगे मन: स्यात् तदा समृद्धिसाफल्यं मम सौभ्रानं च, तदयं मया प्रयत्नैर्भोगाभिमुखः कार्यः' । एवं विचार्य स कृष्णो माल्यं ग्रथित्वा नेमेः कण्ठे स्वयं निदधौ । सत्यभामाद्या अपि विदग्धा नानाहावभावैः क्रीडया च नेमिमुपचेरुः । नेमिरपि निर्विकारं तासूचितमुपाचरत् । एवं
अष्टमं पर्व - नवमः सर्गः विविधक्रीडाभिस्तत्राऽहोरात्रं स्थित्वा कृष्णः सपरिच्छदो द्वारकां जगाम । समुद्रविजयादयश्च सर्वदा नेमिपाणिग्रहणोत्सुकास्तस्थुः । ___ अथ ग्रीष्मे समायाते पुनः कृष्णो नेमिना सह सपरिच्छदो रैवतकोद्यानसरो जगाम । सनेमिश्च कृष्णः सपरिच्छदो जलक्रीडार्थ तत्र विवेश । तत्र स्त्रीभिर्विविधां क्रीडां विधाय कृष्णो नेमिः सत्यभामादयश्च जलाद् निर्गत्य तीरे तस्थुः । ततो रुक्मिणी रत्नासनं दत्त्वा निजोत्तरीयेण नेमेरङ्गं प्रमार्जयामास । ततो भामोवाच-किमेकामपि कन्यां न परिणयसि ? तव रूपमप्रतिम यौवनं न नवोद्गतं, किमेवं तिष्ठसि ? अस्माकं प्रार्थनां स्वीकुरुष्व भ्रातृणामस्माकं च समीहितं कुरुष्व । यथाऽन्ये जिना: परिणीयाऽपि तीर्थं प्रावर्त्तयंस्तथा त्वमपि कर्तुमर्हसि ।
एवं जाम्बवत्याद्या अपि विविधैः प्रकारैर्नेमि प्रार्थयामासुः । अन्ते च सर्वा रुक्मिण्याद्या युवतयः परिणयाय कृताग्रहाः नेमेः पादयोर्निपत्य प्रार्थयामासुः । यदवश्चाऽपि तं बोधयामासुः । ततो नेमिः समये आत्महितं विधेयमिति मनसि कृत्वा तद्वचः स्वीचकार । तच्छ्रुत्वा च सर्वे समुद्रविजयादयो मुमुदिरे । कृष्णश्च तत्र ग्रीष्ममतिवाह्य सपरिच्छदो नेमियोग्यकन्यादर्शनोत्सुको द्वारकां जगाम ।
अथ सत्यभामा कृष्णमुवाच-'मम कनिष्ठा भगिनी राजीमती नेमेरनुरूपा' । कृष्णश्च तच्छ्रुत्वा तां प्रशस्योत्थायोग्रसेनगृहं प्राप्तस्तेन सत्कृत्य सिंहासने समुपवेश्याऽऽगमनकारणं पृष्टस्ते कन्या राजीमती मदनुजस्य नेमेरनुरूपेति जगाद । भोजश्च मद्भाग्यादेव तवाऽस्मद्गृहे समागमनमिति कृष्णमभिनन्द्य तद्वचः स्वीचकार ।
Page #102
--------------------------------------------------------------------------
________________
१७८
त्रिषष्टिशलाकापुरुषचरितम् - गद्यात्मकसारोद्धारः
कृष्णश्च तदुक्त्या प्रसन्नः सद्यो गत्वा समुद्रविजयाय तद्वृत्तान्त-माख्यात् । समुद्रविजयश्च कृष्णकार्यं प्रशस्य क्रोष्टुकिमाहूय नेमिराजीमत्योर्विवाहमुहूर्तं पप्रच्छ । ततः क्रोष्टुकिरुवाच- 'ग्रीष्मानन्तरं विवाहसमयो युज्यते' । ततः समुद्रविजयस्य नेमिविवाहे कालक्षेपासहिष्णुत्वं दृष्ट्वा श्रावणस्य शुक्लषष्ठ्यां विवाहमुहूर्त्तमाख्यत् ।
नृपश्च क्रोष्टुकिं सत्कृत्य विसृज्य दूतेन तन्मुहूर्तं भोजाय निवेदयामास । ततश्चोभयत्र विवाहोत्सवसज्जा प्रक्रान्ता । विवाहसमीपदिने च कृष्णाद्याः सत्यभामाद्याश्च नेमिं स्नान - भूषणकरसूत्रादिना भूषयामासुः । तदनन्तरं च कृष्ण उग्रसेनगृहं गत्वा राजीमतीमपि स्वयं तथैव सज्जयामास । पुनः स्वगृहमागत्य रात्रि व्यतीत्य विवाहगृहं गन्तुं नेमिं प्रेरयामास । ततो नेमिः श्वेताश्वरथमारूढः सपरिजनपरिच्छदो महद्धय राजमार्गे प्रतस्थे । पौर्य: पौराश्च सकौतुकं तं प्रशंसन्तो ददृशुः । एवं स नेमिरुग्रसेनगृहमाजगाम ।
राजीमत्यपि सखीभिरुत्तमवरलाभेनाऽभिनन्द्यमाना ताभिः सह नेमिमागच्छन्तं द्रष्टुं गवाक्षं प्राप्य तत्र विमानगर्भे देवीवोपविवेश । दूरादपि चाऽप्रतिमरूपं नेमिं दृष्ट्वा तादृशवरलाभेन जन्मसाफल्यं मन्यमानां स्वं प्रशशंस । तथाऽयं परिणयनार्थं स्वयमिहाऽऽयातोऽस्ति, तथाऽपि मे न विश्वासः पुण्यैर्ह्ययं प्राप्य' इत्येवं चिन्तयन्ती सा तदानीमेव स्फुरितं दक्षिणनेत्रमश्रूणि मुञ्चन्ती सगद्गदं सखीनामा - ख्यत् । सख्यश्चाऽनिष्टशङ्का मङ्गलप्रसङ्गे न कार्येति तामाश्वासयामासुः ।
नेमिश्चाऽऽगच्छन् प्राणिनां करुणस्वरं श्रुत्वा जानानोऽपि किमेतदिति सारथिं पप्रच्छ । ततः सारथिरुवाच- 'स्वामिन् !
अष्टमं पर्व नवमः सर्गः विवाहनिमित्तभोज्योत्सवे नानाप्राणिनो मेषादयः पक्षिणश्चाऽऽनीताः पाकार्थं गतासवो भविष्यन्ति । ते चाऽऽरक्षै रक्ष्यमाणाः सम्प्रति वाटकमध्ये प्राणभयादारटन्तस्तिष्ठन्ति । तच्छ्रुत्वा दयालुर्नेमि - 'में रथं तत्र नये ति सारथिमादिदेश । तत्र गत्वा च ग्रीवादिषु रज्जुभिर्बद्धान् दीनेक्षणान् कम्पमानगात्रान् तान् दृष्ट्वा तैः पाहि पाहीति स्वस्वभाषया प्रार्थितस्तानमोचयत् । तेषु प्राणिषु स्वस्वस्थानं गतेषु च नेमिः स्वरथं गृहं प्रति नेतुमादिशत् ।
ततः कृष्णादिभिः कुतो निवर्त्तसे इति पृष्टो बन्धनैः प्राणिन इव वयमपि कर्मबन्धनबद्धाः, यथा चैषां बन्धनाद् मोक्षस्तथाऽहमपि स्वं कर्मबन्धनाद्मोक्तुं दीक्षामादास्ये' इति नेमिप्रभुरुवाच । ततः कृष्णो रुदतः समुद्रविजयादीन् समाश्वास्य नेमिमुवाच'रूप-यौवनादिभिस्त्वमप्रतिमोऽसि, राजीमती च तवाऽनुरूपा, तद्वैराग्यकारणं ब्रूहि । एते पशवश्चाऽपि मोचिताः तद्बान्धवानां मनोरथान् पूरयितुमर्हसि, शोकमग्नौ पितरौ कृपया नन्दय' ।
१७९
ततो नेमिरुवाच- 'भवे प्राणिनां दुःखमेव, तदेव वैराग्यकारणम् । पितृ-भ्रात्रादयश्च भवे भवे भवन्ति, सर्वैः स्वं कर्म भुज्यते, नह्यन्येनाऽन्यस्य दुःखं च्छेत्तुं शक्यते । पुत्रादिषु सत्स्वपि पित्रादयो जरामरणादिकं गच्छन्ति । महानेमिप्रभृतयो नेत्रानन्दप्रदाः पुत्रास्तातस्य सन्त्येव । अहं भवभ्रमणखिन्नो भवोच्छेदाय दीक्षामादास्ये । प्रव्रज्यां विना न कर्मच्छेदसम्भव:, तन्मां वृथा मा वारय' ।
ततः समुद्रविजयेन सुकुमारशरीरेण त्वया कथं परीषहा: सहनीया इत्युक्तः प्रभुरुवाच एतदल्पं दुःखं भवे उपर्युपरि नरकादिदुःखं घोरतरं, तपोदुःखैस्तु निरतिशयसुखात्मको मोक्षो
Page #103
--------------------------------------------------------------------------
________________
.....१८१
१८०
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः ऽवाप्यते, तद्भवद्भिः स्वयं विचार्यम्' । ततः कृष्णादयो नेमेः प्रव्रज्यानिश्चयं ज्ञात्वा भृशमुच्चैरुरुदुः । नेमिश्च स्वं गृहं जगाम । अवसरं ज्ञात्वा च लोकान्तिका देवा अभ्येत्य तीर्थं प्रवर्तयेति नेमि प्रार्थयामासुः । ततो नेमिप्रभुजृम्भकसुरैः पूरितैर्द्रव्यैर्वार्षिकदानमदात् । ___अथ राजीमती नेमि व्रतग्रहणेच्छया निवर्तितं श्रुत्वा मूच्छिता भूमौ पपात । सखीभिः शीतोपचारेण लब्धसंज्ञा चोच्चैर्विललाप । सख्यश्च विलपन्ती भाग्यनिन्दन्तीं वक्षस्ताडयन्तीं हारादिकं त्रोटयन्ती 'नि:स्पृहे कः स्नेहसम्बन्धः, मा विषादं कृथाः, अन्यमेवोत्तममिष्टं वरं वृणीष्वे'त्यूचुः । ततः सकोपा राजीमती जगाद-"किमिदमुच्यते ! न नेमिसदृशः कोऽपि, तस्मै दत्ताऽहं, कन्या सकृत् प्रदीयते. मया च नेमिर्मनसा वृतः । यदि स मां न स्वीचकार, तदा ममाऽपि भोगैरलम । विवाहे तेनाऽस्पृष्टो मम पाणिव॑तदानायैव स्पृष्टो भवतु' । एवं प्रतिज्ञाय सा सखीजनं निवार्य नेमिमेव ध्यायन्ती कालं निनाय । नेमिश्च राजीमत्याः प्रतिज्ञां ज्ञात्वाऽपि निर्ममोऽस्थात् । ___इतश्च प्रभुर्नेमिर्वार्षिकदानानन्तरं शक्रादिभिर्दीक्षार्थमभिषिक्तस्तैरुह्यमानायामुत्तरकुरुनाम्न्यां रत्नशिबिकायामारुह्य कृष्णादिभिः परिवृतः सुरादिभिर्यथायोग्यमुपचरितो राजमार्गेण प्रतिष्ठमानो रैवताद्रिभूषणं सहस्राम्रवणं प्रापत् । राजीमती च स्वगृहसमीपे गच्छन्तं नेमिं दृष्ट्वा मुहुर्मुहुरमूर्च्छत् । नेमिश्चोद्यानं प्रविश्य शिबिकाया उत्तीर्याऽऽभरणादिकं मुक्त्वा जन्मतो वर्षाणां त्रिशत्यां व्यतीतायां श्रावणस्य शुक्लषष्ठ्यां पूर्वाह्ने त्वाष्ट्रगे चन्द्रे कृतषष्ठः पञ्चमुष्टिकं केशोत्पाटनं चकार । शक्रश्च तान् केशानादाय प्रभोः स्कन्धे देवदूष्यं न्यधात् । तथा केशांस्तान् क्षीरोदधौ प्रक्षिप्याऽऽगत्य तुमुलं न्यषेधयत् ।
अष्टमं पर्व - नवमः सर्गः
प्रभुश्च सामायिकमाददे । तदानीमेव प्रभोश्चतुर्थं ज्ञानं नारकाणामपि च क्षणं सुखमुत्पेदे । नेमिमनुसृत्य च सहस्रं नृपाः प्राव्रजन् । शक्रः कृष्णादयश्च प्रभुं नत्वा स्वस्थानं जग्मुः । द्वितीयेऽह्नि च प्रभुर्नेमिर्गोष्ठ वरदत्तद्विजगृहे परमान्नेन पारणं चकार । तदानीं च सुरास्तत्र वसुधारादीनि पञ्च दिव्यानि चक्रुः । प्रभुश्चाऽन्यत्र विहत्तुं प्रावृतत् । ___इतश्च नेमेरनुजो रथनेमी राजीमती दृष्टवा कामातुरोऽपूर्वैवस्तुभिनित्यं तामुपाचरत् । तद्भावमजानती च सा तं न निषिषेध । स च तस्या गृहं नित्यं गच्छन् भ्रातुर्जायेति च्छलेन नर्म चकार । अन्यदा चैकान्ते स्थितां तां स उवाच-'त्वां परिणयामि, यौवनं वृथा मा कृथाः' । ततस्तया बोध्यमानोऽपि स तद्व्यापाराद् न विरराम । अन्यदा च सुमती राजीमती दुग्धमाकण्ठं पपौ, वान्तिकृन्मदनफलं जघ्रौ च । तथा काञ्चनं स्थालमानयेति रथनेमिमवाच । सोऽपि तथा चकार । राजीमती च तत्र पीतं दुग्धं वान्त्वेदं पिबेति रथनेमिमुवाच । तेन च वान्तपानं न मम योग्यमित्यक्ता सा तमुवाच 'तर्हि नेमिवान्तां मां किमुपभोक्तुमिच्छसि ? अत: परं त्वयेत्थं न वक्तव्यम्' । ततो रथनेमिस्तूष्णीको लज्जितश्च विमनाः स्वं धाम जगाम । राजीमती च नेमावनुरक्ता संविग्ना कथञ्चिद् वासरान् गमयामास ।
अथ प्रभुर्नेमिर्दीक्षादिनाच्चतुःपञ्चाशद्दिनानि विहृत्य रैवतके सहस्त्राम्रवणे समागतो वेतसतरुतले ध्यानमग्नोऽतिष्ठत् । तत्र घातिकर्मसु क्षीणेसु आश्विनस्याऽमावास्यायां पूर्वाह्ने त्वाष्ट्रगे चन्द्रे स्वामिनो नेमे: केवलमुत्पन्नम् । सुरेन्द्राश्च तत्राऽऽगत्य समवसरणं विचक्रुः । प्रभुर्नेमिश्व यथाकल्पं तत्र यथाविधि प्रविश्य रत्नसिंहासन
Page #104
--------------------------------------------------------------------------
________________
१८२
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः मलञ्चकार । तत्र सुरादिषु कृष्णादिषु च यथास्थानमुपविष्टेषु शक्रकृष्णाभ्यां स्तुतः प्रभुर्धर्मदेशनां चकार ।
तथाहि-'लक्ष्मीविद्युदिव दृष्टनष्टा, प्राणिनां सम्बन्धः स्वप्नवद् मिथ्या सापायश्च, यौवनमपि मेघच्छायावदस्थिरम्, आयूंषि च बुबुदवदल्पकालस्थायीनि । तस्मादसारेऽस्मिन् संसारे न किमपि सारं, दर्शन-ज्ञान-चारित्राराधनमेव केवलं सारम् । तत्र तत्त्वश्रद्धानं सम्यग्दर्शनं, यथावस्थिततत्त्वबोधो ज्ञानं, सावद्ययोगविरतिश्चारित्रं मुक्तिहेतुः । तद्यतीनां सर्वात्मना गृहस्थानां च देशत: स्यात् ।
देशविरतः श्रावको विरतोपासको भवस्वरूपज्ञ आजीवनं रात्रि भोजनं, मद्य, मांसं, नवनीतं, मधूदुम्बरपञ्चकमनन्तकायमज्ञातफलमामगोरससंयुक्तद्विदलं पुष्पितौदनं दिनद्वयातीतं दधि कुथितमन्नं च वर्जयेत् । मदिरापानतो बुद्धिर्नश्यति, विवेकादिकं विलीयते, मत्त इव जायते, विगोपनां च गच्छति । मद्ये रसोद्भवा बहवो जीवा भवन्ति, तस्माद् हिंसापातकभयाद् मद्यमवश्यमेव हेयम् । मद्यं दोषाणामापदां च कारणमिति तदवश्यं वर्जयेत् । दयाधर्ममिच्छता मांसं हेयमेव, हन्ता, मांसस्य विक्रेता, संस्कर्ता, भक्षकः, क्रेताऽनुमन्ता, दाता चैते सर्वे एव घातकाः । ये दिव्यभोज्येषु सत्स्वपि मांसमदन्ति, तेऽमृतं परित्यज्य विषं भुञ्जते । निर्दयस्य न धर्मो मांसाशिनश्च न दया । मांसभक्षणं च नरकहेतुः । नवनीते ह्यन्तर्मुहूर्तात् परतोऽतिसूक्ष्मा जन्तुराशयो मूर्च्छन्ति, तद्विवेकिभिनवनीतं न भक्षणीयम् । मधु चाऽनेकजन्तुहिंसालभ्यं जुगुप्सनीयं न स्वाद्यम् । तद्धि मक्षिकोच्छिष्टं धार्मिकाणामनहम् । औषधार्थमपि भक्षितं तद् नरकहेतुः ।
अष्टमं पर्व - नवमः सर्गः
...१८३ उदुम्बरवटादीनां च कृमिसङ्कीर्णं फलं न भक्षणीयम् । पुण्यात्मा जनः क्षुत्क्षामोऽपि पञ्चोदुम्बरजं फलं न भक्षयति । तथाऽऽर्द्रः, कन्दः, सर्वः किसलयः, स्त्रही. शतावर्यादयः. सत्रोक्ता अनन्तकाया दयालुभिः प्रयत्नतो वर्जनीयाः । निषिद्धे विषफले वा प्रवृत्तिर्मा जनिष्टेत्यज्ञातं फलं नाऽश्नीयात् । यत्र निरङ्कुशं सञ्चरद्भिः प्रेतादिभिरन्नमुच्छिष्टं क्रियते तत्र रात्रौ नाऽद्यात्, अन्धकारे पन्ने पतन्तो जन्तवो न निरीक्षितुं शक्याः । पीपिलिका मेधां नाशयति, यूका जलोदरहेतुः, मक्षिका वान्ति करोति, कोलिकः कुष्ठरोगहेतुः, कण्टकादिकं च गलव्यथां करोति, व्यञ्जनान्त: पतितो वृश्चिकश्च तालु विध्यति, गले लग्नश्च केशः स्वरभङ्गं करोति । एते च दोषा रात्रिभोजने दृष्टा एव सर्वेषाम् । तस्मात् प्रासुकान्यपि रात्रावप्रेक्ष्य नाऽश्नीयात् । निशि भुञ्जाना हि राक्षसेभ्यो नाऽतिशेरते ।
यश्च दिनस्य मुखेऽवसाने च द्वे द्वे घटिके त्यक्त्वा निशाभोजनदोषज्ञोऽत्ति स पुण्यं लभते, रात्र्यभोजननियममकृत्वा दिने एव भुञ्जानोऽपि फलं न लभते, भाषणं विना हि न वृद्धिः । रात्रिभोजनाद्धि काकादियोनिषु जायन्ते । यो धन्यो रात्रिभोजनाद् विरतिं करोति सोऽवश्यं निजायुषोऽर्धमुपोषितः स्यात् । रात्रिभोजनत्यागोऽसङ्ख्येयसद्गुणहेतुः । आमगोरससंयुक्तद्विदलादिषु सूक्ष्मा जन्तवः केवलिभिर्दृष्टाः, तस्मात् तानि परिवर्जयेत् । दयालुर्जन्तुमिश्रं फलं पुष्पं पत्र लेह्यचोष्यादिकं च त्यजेत् । एवं दयाप्रधानो भोज्येष्वपि विवेकी श्रावकः क्रमात् संसाराद् मुच्यते' ।
एवं प्रभोर्देशनां श्रुत्वा वरदत्तो नृपो विरज्य व्रतोत्सुको जज्ञे । कृष्णेन च नत्वा राजीमत्या विशेषानुरागकारणं पृष्टः प्रभुधनवतीभवादारभ्य तया सहाऽष्टभवावधि स्वसम्बन्धमाख्यत् । ततो
Page #105
--------------------------------------------------------------------------
________________
१८४
त्रिषष्टिशलाकापुरुषचरितम् - गद्यात्मकसारोद्धारः
वरदत्तेन प्रार्थितश्च प्रभुस्तं स्वयं प्राव्राजयत् । तदनु च क्षत्रियाणां विंशतिशती प्राव्रजत् । धनभवाद् यौ बन्धू धनदेव- धनदत्तावमात्यो विमलबोधश्चेति त्रयः स्वामिना सह भ्रान्त्वाऽस्मिन् भवे नृपास्तत्राऽऽयाता राजीमत्याः प्रसङ्गात् स्वप्राग्भवान् श्रुत्वोत्पन्नजातिस्मरणा विरक्ताः प्रभुपादान्ते व्रतं जगृहु: ।
ततः प्रभुस्तैः सह वरदत्तादीनेकादशगणधरान् विधिवत् स्थापयामास । तेभ्यश्च नेमिजिनस्त्रिपदीमाख्यत् । तदनुसाराच्च ते द्वादशाङ्गीमसूत्रयन् । यक्षिणी राजपुत्री च भूरिकन्या समावृता प्राव्रजत् । प्रभुश्च तां प्रवर्तिनीं प्रत्यस्थात् । दशार्हा उग्रसेनः कृष्णरामौ प्रद्युम्नाद्याश्च श्रावकत्वं जगृहुः । शिवा- रोहिणी-देवक्यादयश्चाऽन्याश्च स्वामिसमीपे श्रावकधर्मं जगृहु: । एवं तस्मिन् समवसरणे चतुर्विधो धर्म इव प्रभोश्चतुर्विधः सङ्घोऽभूत् । तदेवं प्रथमपौरुष्यां व्यतीतायां प्रभुर्देशनातो विरराम । वरदत्तश्च द्वितीयपौरुषीं यावद् देशनां चक्रे । ततो देवाः कृष्णादयश्च प्रभुं नेमिं नत्वा स्वं स्वं स्थानं जग्मुः ।
तत्तीर्थे समुत्पन्ने च त्रिमुखः श्यामो नरवाहनो दक्षिणैर्बाहुभिर्मातुलिङ्ग-पशु-चक्रधरो वामैश्च नकुल- शूल शक्तिधरः षड्भुजो गोमेधाख्यो यक्षः, स्वर्णवर्णा सिंहवाहना दक्षिणाभ्यां भुजाभ्यामाम्रलुम्बी पाशधरा वामाभ्यां च पुत्राऽङ्कुशधराऽम्बिकाभिधाना देवी च शासनदेवते स्वामिनो नेमेः सदा सन्निहिते अभूताम् । ताभ्यां समन्वितश्च प्रभुर्जनोद्धाराय ततोऽन्यत्र विजहार ॥ ९ ॥ इति अष्टमे पर्वणि अरिष्टनेमिकुमारक्रीडा-दीक्षाकेवलोत्पत्तिवर्णनात्मको नवमः सर्गः ॥ ९ ॥
Page #106
--------------------------------------------------------------------------
________________
दशमः सर्गः
इतश्च पाण्डवाः कृष्णप्रसादात् स्वपुरे स्थिताः प्रमुदिता द्रौपद्या सह भोगान् बुभुजिरे । अन्यदा च नारदो द्रौपद्या गृहमागतस्तयाऽविरतोऽयमित्यवज्ञयाऽसत्कृतः । ततः कोपात् 'कथमेषा दुःखं गच्छेदिति' विचारयंस्ततो निर्गतोऽत्र कृष्णप्रसादात् तस्या अनिष्टमपश्यन् धातकीखण्डभरतं यातः । तत्र चम्पापुरीशस्य कपिलाख्यस्य वासुदेवस्याऽमरकङ्कायां नगर्यां सेवकं स्त्रीलुब्धं पद्ममुपययौ । तेन चोत्थायाऽन्तःपुरे नीत्वा स्वा: स्त्री: प्रदर्श्य 'ईदृश्यः स्त्रियः क्वाऽपि दृष्टाः किमिति पृष्टो नारदः स्वेष्टसिद्धि विचार्योवाच- 'राजन् ! कूपमण्डूकवत् किमाभिर्धन्यंमन्योऽसि ? जम्बूद्वीपस्य भरते हस्तिनापुरे पाण्डवानां महिष्या द्रौपद्याः पुरत एताश्चेट्य इव । एवमुक्त्वा च स मुनिरन्यतो जगाम ।
पद्मश्च द्रौपदीं कामयमानः पातालवासिनं पूर्वमित्रं देवं तपसाऽसाधयत् । प्रसन्नेन तेन वरं ब्रूहीति गदितश्च पद्मो द्रौपदीमानीय समर्पयेत्युवाच । स च 'द्रौपदी पाण्डवान् मुक्त्वा नाऽन्यमिच्छति, किन्तु त्वदाग्रहात् तामानयामी' त्युक्त्वा हस्तिनापुरं जगाम । अवस्वापनीं दत्त्वा निशि सुप्तां द्रौपदीं हृत्वाऽऽनीय पद्माय समर्पयामास । द्रौपदी च प्रबुद्धा निजं स्थानमनवलोकमाना स्वप्न इन्द्रजालं वेति व्यमृशत् । तदा पद्मेन मा भैषीः,
Page #107
--------------------------------------------------------------------------
________________
१८६
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः मयेहाऽऽनायिताऽसि, मया सह भोगान् भुक्ष्व, धातकीखण्डद्वीपस्याऽमरकङ्कापुर्यां नृपः पद्मोऽहं तव दयितत्वमिच्छामी'त्युवाच । तदा प्रत्युत्पन्नमतित्वाद् 'यदि मासाभ्यन्तरे कोऽपि नाऽऽगमिष्यति तदा त्वद्वचः करिष्ये' इत्युवाच द्रौपदी । पद्मश्चाऽत्र जम्बूद्वीपनिवासिनां मनुष्याणामागमनमशक्यमिति विचार्य तद्वचः स्वीचकार । द्रौपदी च पत्या वियुक्ता मासं यावद् न भोक्ष्ये इत्यभिग्रह जग्राह ।
इतश्च पाण्डवाः प्रभाते द्रौपदीमपश्यन्तस्तत्र तत्र भृशमन्वेषयामासुः । तन्मातृप्रेषितदूतेन कृष्णोऽपि तज्ज्ञात्वा किङ्कर्त्तव्यताविमूढोऽस्थात् । तदानीमेव च नारदः स्वकृत्यफलं द्रष्टुं तत्राऽऽगत: 'कि द्रौपदी क्वाऽपि दृष्टे'ति कृष्णेन पृष्ट उवाच-'धातकीखण्डेऽमरकङ्कापुरीं गतोऽहं पद्मनृपस्य गृहे द्रौपदीमद्राक्षम्' । एवमुक्त्वा च सोऽन्यत्र जगाम । ततः कृष्णः पाण्डवानुवाच-'पद्मेन द्रौपदी हता, एषोऽहं तामानयिष्यामि, मा शुचः' । ततः पाण्डवैः सह कृष्णो महत्या सेनया परिवृतः पूर्वाब्धेर्मागधाख्ये तटे जगाम । पाण्डवैश्चाऽपारो यादोभि?रोऽद्रिभिर्दुर्गमो वडवानलेन दुष्प्रवेश ऊर्मिभिः प्राणभयङ्करो मेधैर्दुर्दर्शोऽयमब्धिः कथं लङ्घनीय इत्युक्तश्च कृष्णस्तानाश्वास्य सुस्थितं सुरं तपसाऽऽराधयामास । तेन देवेन प्रकटीभूय किं करोमीत्युक्तश्च कृष्ण उवाच-'नृपेण पद्धेन द्रौपदी हता, सा धातकीखण्डद्वीपाद् यथाऽनीयते तथा कुरु' ।
ततो देव उवाच-'पूर्वमित्रेण देवेन हृत्वा द्रौपदी पद्माय समर्पिता, तद्वदहमपि तामानीयाऽर्पयामि । तवेच्छा चेत् सपरिवार पद्म जलधौ क्षिप्त्वा द्रौपदीमर्पयामि' । ततः कृष्ण उवाच-'एवं
अष्टमं पर्व - दशमः सर्गः मा कार्षीः, किन्तु पाण्डवानां ममाऽपि चेति षण्णां रथानां जलान्तर्मागं देहि, यथा स्वयं गत्वा पद्म जित्वा द्रौपदीमानयामि, तेन हि यशोलाभ:' । ततः सुस्थितेन तथा कृते कृष्ण: सपाण्डवोऽब्धिमुल्लध्याऽमरकङ्कां प्राप्य तद्बहिरुद्याने स्थित्वा दारुकमनुशिष्य पद्मसमीपं प्रेषयामास ।
दारुकश्च गत्वा कुन्ताग्रेण लेखमर्पयित्वा पद्ममब्रवीत्-'त्वया कृष्णसहायानां पाण्डवानां प्रिया द्रौपदी जम्बूद्वीपस्य भरताद् हत्वाऽऽनीताऽस्ति । कृष्णोऽपि सपाण्डवोऽम्बुधिना दत्तमार्ग इहाऽऽगतोऽस्ति, तज्जिजीविषा चेत् कृष्णा सद्योऽर्पणीया' । ततः पद्म उवाच- 'स तत्रैव वासुदेवः, ते षड् मामग्रे कियन्तः ? ततो गच्छ, तान् युधि सज्जय' । तत आगतो दारुकश्च कृष्णाय सर्वं वृत्तं शशंस ।
अथ पद्मः सन्ना सेनया सह तत्राऽऽगतवान् । पाण्डवाश्च तेन युध्यमानाः पराजिताः । ततः कृष्णो युद्धाय प्रस्थितः पाञ्चजन्य दध्मौ । तेन च पद्मबलत्रिभागोऽभज्यत । कृष्णास्फालितशाङ्गध्वनिना चाऽपरः पद्मबलत्रिभागोऽत्रुट्यत् । अवशिष्टत्रिभागबलश्च पद्मः पलाय्याऽमरकरां प्रविवेश । गोपुराणि च लोहार्गलैः पिहितानि । कृष्णश्च क्रोधाज्ज्वलन् रथादुत्तीर्य समुद्घातेन नरसिंह वपुः कृत्वा पादाघातजातधराकम्पैः प्राकारादीनि बभज्ज । तत: पद्मो भयाद् द्रौपदीं शरणं गत्वा 'क्षम्यताम्, अस्मात् पाही'त्युवाच। ततो द्रौपद्या 'स्त्रीवेशं कृत्वा कृष्णं शरणं याही'त्युक्तस्तथा कृत्वा पद्मो गत्वा कृष्णं ननाम । कृष्णोऽपि तं मा भैषीरित्युवाच । ततः कृष्णः पाण्डवानां द्रौपदीमर्पयित्वा तैः सह रथारूढस्तेन मार्गेण पश्चाद् वलितवान् ।
Page #108
--------------------------------------------------------------------------
________________
१८८
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः तदानीं चम्पायां पूर्णभद्रके उद्याने जिनो मुनिसुव्रतः समवससार । तत्रोपविष्टो विष्णुः कपिलश्च कस्याऽयं शङ्खनादः श्रूयते इति स्वामिनं पप्रच्छ । कृष्णस्य वासुदेवस्येति जिनेनोक्तश्च स किमेकत्र द्वौ वासुदेवौ स्यातामिति पुनः पप्रच्छ । ततो भगवता द्रौपदी-कृष्ण-पद्मानां वृत्तान्ते कथिते कपिलः कृष्णस्याऽभ्यागतस्य स्वागतिको भवामि किमिति पप्रच्छ । स्वामिना च 'नैकत्र द्वितीयोऽर्हद् न चक्री न वा वासुदेवः कारणागतो मिलेदि'ति निषिद्धोऽपि स कृष्णं द्रष्टुमब्धितटं जगाम । मध्ये समुद्रे गच्छतः कृष्णस्य रथध्वजान् दृष्ट्वा च 'कपिलो विष्णुरहं त्वां द्रष्टुमागतः, तद्वलस्वेत्यक्षरात्मकं शङ्ख दध्मौ । कृष्णोऽपि च 'वयं दूरमागताः, त्वया न किमपि वाच्यमि'ति शङ्ख दध्मौ । तदाकर्ण्य वलितः कपिलः कङ्कापुरीं गत्वा पद्म किमेतदित्यपृच्छत् । पद्मोऽपि च त्वयि स्वामिनि कृष्णेनाऽहं पराजित इति स्वापराधमवोचत् । तत: कपिलस्तं निर्भय॑ निर्वास्य तद्राज्यं तत्सुतं स्थापयमास ।
कृष्णोऽपि जलधिमुत्तीर्य पाण्डवान् ‘यावत् सुस्थितमापृच्छे तावद् गङ्गां गच्छते'त्युक्तवान् । ततस्ते नावमारुह्य द्वाषष्टियोजनपृथु गङ्गामुत्तीर्य मिथोऽवदन्-'अद्य विष्णोर्बलं द्रक्ष्यामि, नौरत्रैव स्थाप्यतां, नावं विना कृष्णः कथं गङ्गामुत्तरिष्यति' । एवं सङ्केतं विधाय ते नदीतटे निलीयाऽस्थुः । इतश्च कृष्णो गङ्गातटं प्राप्तो नावमपश्यन्नेकस्मिन् बाहौ साश्वरथं धृत्वाऽन्येन बाहुना तरन् गङ्गामध्यं प्राप्तः श्रान्तो दध्यौ-'अहो ! पाण्डवा बलवन्तो यद् नावं विना गङ्गां तेरुः' । गङ्गा च तज्ज्ञात्वा स्तब्धा जाता । ततः कृष्णस्तां सुखमुत्तीर्य युष्माभिः कथं गङ्गा लङ्घिते'ति पाण्डवान् पप्रच्छ । ते चाऽस्माभिर्नावोत्तीर्णा गङ्गेत्यूचुः । ततो वालयित्वा नौः
अष्टमं पर्व - दशमः सर्गः
१८९ किं न प्रेषितेति कृष्णेन पुन: पृष्टा 'युष्मबलं परीक्षितुं न प्रेषिते'ति ते प्रोचुः ।
ततः कृष्णः कुपित उवाच-'मबलमब्धितरणेऽमरकङ्काजये चाऽज्ञातमधुना ज्ञास्यथेत्युक्त्वा लोहदण्डेन तेषां रथं मर्दयामास । तेन तत्र लोहमर्दनं नाम पुरमभूत् । पाण्डवांश्च निर्विषयान् कृत्वा शिबिरेण मिलित्वा कृष्णो द्वारकां ययौ । पाण्डवाश्च स्वपुरं गत्वा तद्वृत्तं कुन्तीं कथयामासुः । कुन्ती च द्वारकां गत्वा कुष्णमुवाच'त्वया निर्वासिता मम पुत्राः क्व तिष्ठन्तु' । ततः कृष्ण उवाच'दक्षिणाब्धेस्तटे नवां पाण्डुमथुरापुरीं निवेश्य ते पुत्रास्तिष्ठन्तु' । कुन्त्या तां कृष्णाज्ञां ज्ञात्वा च पाण्डवा अपि तथा चक्रुः । कृष्णश्च हस्तिनापुरे जामे: सुभद्रायाः पौत्रमभिमन्युपुत्र परीक्षितमभिषिषेच।
इतश्च नेमिप्रभुर्विहारक्रमतो भद्दिलपुरं प्राप्तवान् । तत्र च सुलसा-नागयोर्देवकीकुक्षिजा नैगमेषिणा दत्ताः षट् पुत्रा आसन् । ते च प्रत्येकं द्वात्रिंशतं कन्या: परिणीतवन्तः । नेमिप्रभुणा बोधिताश्च व्रतं जगृहुः । ते सर्वे च चरमशरीरिणो द्वादशाङ्गधरा महत्तपस्तपस्यन्त: प्रभुणा सह विहरन्ति स्म ।
अथ भगवान् नेमिर्विहरन् द्वारकामागतः सहस्राम्रवणे समवासार्षीत् । ते षड् देवकीपुत्राश्च षष्ठतपःपारणार्थं पृथग् द्वौ द्वौ द्वारकापुरीं प्राविशन् । तेष्वनीकयशोऽनन्तसेनौ द्वौ स्वगृहमागतौ कृष्णतुल्यौ दृष्ट्वा मुदिता देवकी मोदकैः प्रत्यलाभयत् । तयोर्गतयोश्चाऽन्यौ द्वौ तत्सोदरावजितसेन-निहतशत्रू मुनी समागतौ सा
Page #109
--------------------------------------------------------------------------
________________
१९० Manoraman
me१९१
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः प्रत्यलाभयत् । तदनन्तरं च देवयश:-शत्रुसेनौ समागतौ नत्वा कृताञ्जलिर्देवक्यपृच्छत्-'भवन्तो दिङ्मोहात् पुनः पुनरिहाऽऽगताः, अथवा यूयं भिन्ना एव, ममैव मतिभ्रमः, अथवा समृद्धेऽप्यस्मिन् पुरे मुनय उचितं भक्तपानादिकं नाऽऽप्नुवन्ति' । ततस्तावूचतुः'नाऽस्माकं दिग्भ्रमः, वयं षट् सोदरा भद्दिलपुरवास्तव्याः सुलसानागयोः सुताः । वयं षडेव नेमेधर्मं श्रुत्वा प्रव्रज्यामग्रहीष्म । त्रीणि युग्मानि भूत्वा च तव गृहमागताः' । __ ततो देवकी दध्यौ-'कथं नामाऽमी षडपि कृष्णस्य तुल्याः ? ममाऽतिमुक्तमुनिना जीवन्तोऽष्टौ पुत्रा उक्ताः, किमेते मम पुत्राः स्युः' । 'एवं विचार्य सा द्वितीये दिने तत् प्रष्टुं नेमिमुपाययौ । प्रभुश्च तद्भावं ज्ञात्वोवाच-'तवाऽमी पुत्रा जीवन्तो नैगमेषिणा सुलसाया दत्ताः' । तत: सा तान् षडपि मुनीन् पश्यन्ती जातस्नेहा वन्दित्वा 'हे पुत्रा: ? साधु दृष्टाः । मम पुत्राणां राज्यं दीक्षा च किन्त्वेकोऽपि पुत्रो मया न लालित इति खिद्ये' । ततः प्रभुरुवाच-'मा खेदमावह, तवैतत् पूवकर्मफलम् । त्वं पूर्वजन्मनि सपत्न्याः सप्त रत्नान्यहार्षीः, रुदत्याश्च तस्या एकं रत्नं दत्तम्' । तच्छ्रुत्वा देवकी पुराकृतं निन्दन्ती स्वगृहं गत्वा पुत्रजन्मेच्छन्ती तस्थौ। ___ अथ कृष्णेन किमेवं खिन्नाऽसीति पृष्टा देवक्युवाच-'मम जीवनं निष्फलं, त्वं हि नन्दगृहे वर्धितः, तवाऽग्रजाश्च नागगृहे पालिताः । मया तु कोकिलयेवैकमप्यपत्यं न लालितं, तत्पुत्रमिच्छामि, यथा सा लालसा मम पूर्येत' । तच्छ्रुत्वा तव प्रयोजनमेषोऽहं साधयामीत्युक्त्वा ततः प्रयाय कृष्णः शक्रसेनापति नैगमेषिणमाराधयामास । देवश्च प्रसन्न स्तव मातुरष्टमः पुत्रो भविष्यति, स च प्रपन्नयौवनः प्रव्रजिष्यतीति वरं ददौ ।
अष्टमं पर्व - दशमः सर्गः
तदनन्तरं च स्वर्गाद् महर्द्धिको देवश्च्युत्वा देवक्याः कुक्षाववातरत् । पूर्णे च समये देवक्याः पुत्रो जातः । देवकी च देवोपमं गजसुकुमालाख्यं तं स्वयमतिप्रेम्णा लालयामास । यौवनं प्राप्तश्च पित्राज्ञया द्रुमनृपपुत्री प्रभावतीं परिणिनाय । तथाऽनिच्छन्नपि मातृ-भ्रात्रोरुपरोधात् स विप्रस्य सोमशर्मणः क्षत्रियाकुक्षिजां सोमाख्यां पुत्री परिणिनाय । तदानीमेव च तत्र समवसृतस्य नेमिप्रभोः स सभार्यो धर्मदेशनां श्रुत्वा जातवैराग्यः पितरौ समनुज्ञाप्य सभार्यो गजसुकुमालो नेमिप्रभुपावें दीक्षामग्रहीत् । तस्मिन् प्रव्रजिते च तद्वियोगासहिष्णवः पितरौ कृष्णादयश्चाऽत्यन्तं रुरुदुः । गजश्च सायं श्मशाने स्वाम्याज्ञया प्रतिमां चकार ।
तत्र सोमशर्मणा दृष्टश्च 'पाखण्ड्ययं मत्पुत्रीविडम्बनाय परिणीतवानि ति क्रोधाद् गजस्य शिरसि ज्वलिताङ्गारपूर्णघटकपालो निहितः । तेन च दह्यमानोऽप्यविचलित: स कर्माणि क्षपयित्वा केवलमाप्य परं पदं ययौ । प्रातश्च गजसुकुमालं दिदृक्षुः प्रस्थितः कृष्णो द्वारकाया बहिर्मूर्नेष्टिकां वहन्तं देवालयं प्रतिगच्छन्तं विप्रं दृष्ट्वा कृपया स्वयमापाकादिष्टिकां निनाय । तमनुसृत्य चाऽन्येऽपि लोकास्तथा चक्रुः । एवं तं विप्रं कृतार्थं कृत्वा नेमिं प्राप्य कृष्णस्तत्र गजमदृष्ट्वा क्व मे भ्रातेति पप्रच्छ ।
प्रभुश्च सोमद्विजाद् गजस्य मोक्षमाख्यात् । तच्छ्रुत्वा मूच्छी प्राप्य लब्धसंज्ञः सोमशर्मणे कुपित: 'स ते भ्रातुर्मोक्षप्राप्तौ सहायो न कोपयोग्य' इति प्रबोधितो नेमिना । 'यः स्वमुद्बद्धं व्रजन् त्वां पुरि प्रविशन्तं वीक्ष्य भिन्नमूर्धा म्रियेत स ते भ्रातृहन्ते'ति नेमिप्रभुणाऽऽख्यातो हरिः । ततः स रुदन् भ्रातुः संस्कारादिकं
Page #110
--------------------------------------------------------------------------
________________
ommmm.९३
१९२
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः कृत्वा पुरीं प्रविश्य सोमं मृतं दृष्ट्वा पादयोर्बद्ध्वा पुरुषैर्नगरे भ्रमयित्वा बहि: प्रक्षेपयामास । ___ अथ तेन शोकेन बहवो यदवो वसुदेवं विना नव दशार्हाश्च नेमिप्रभुसमीपे प्रव्रज्यां जगृहुः । शिवादेवी सप्त सहोदरा: कृष्णकुमाराश्च प्रभोः सन्निधौ प्राव्रजन् । कृष्णश्च कन्यापरिणयनप्रत्याख्यानाभिग्रहमाददे । तस्य सर्वाः कन्याः प्रभोरन्तिके प्रवव्रजुः । कनकवती-रोहिणी-देवकीर्विहाय सर्वा वसुदेवस्य पल्यश्च प्रवव्रजुः । कनकवत्याश्च गृहेऽपि भवस्वरूपं चिन्तयन्त्याः कर्मक्षयात् केवलमुत्पेदे । नेमिप्रभुणाऽऽदिष्टैर्देवैः कृतमहिमा च सा स्वयं प्रव्रज्यामादाय स्वामिनोऽन्तिकं ययौ । नेमिं दृष्ट्वा च वनं गता त्रिंशतं दिनानि कृतानशना सा कनकवती मोक्षं प्राप । रामपौत्रो नैषधिः सागरचन्द्रो विरक्तोऽणुव्रतधरो बहि: श्मशानं जगाम । तदा कायोत्सर्गस्थो नभःसेनेन दृष्टस्स शिरसि धृतचिताङ्गारपूर्णघटक पाल: कृतः । तदुपसर्ग सहमानश्च स सागरः पञ्चपरमेष्ठिनमस्कार स्मरन् विपद्य स्वर्ग प्राप ।
अष्टमं पर्व - दशमः सर्गः ततः कृष्णः स्वयं धावमानस्तेन युद्धे मां विजित्याऽश्वं गृहाणेत्युक्तो मिलितयुद्धाय प्रेरितश्चोवाच-'त्वयाऽहं जितोऽस्मि, हयं नय, अहं सर्वनाशेऽपि नीचयुद्धेन योर्बु नोत्सहे' । तेन च प्रसन्नः स सुरः शक्रवृत्तान्तमाख्याय वरं वृणीष्वेति कृष्णमुवाच । __तत: कृष्णेन द्वारकायां रोगोपसर्गशान्त्यै किञ्चिद् देहीति याचितश्च स देवो भेरी प्रदायाऽवोचत्-'षण्मास्यन्ते षण्मास्यन्ते इयं भेरी त्वया वादनीया । अस्याः शब्दश्रवणेन च प्राग्भवा उपसर्गा विनक्ष्यन्ति षण्मासीं यावदने नवा न भविष्यन्ति च' । एवमुक्त्वा स देवस्तिरोदधौ । कृष्णेन च वादितायां तस्यां भेयाँ नगरे रोगोपसर्गा विनष्टाः ।
अथ भेरीख्याति श्रुत्वा दाहज्वरपीडितः कोऽप्याढ्यो देशान्तरादागत्य भेरीपालं भूरिधनेन भेदयित्वा भेरीमादाय वादयित्वा नीरुजोऽभवत् । अनन्तरं च स भेरीपालोऽर्थलोभादन्येभ्योऽपि भेरी ददौ । अन्यदा च नगरे उपसर्गे जाते कृष्णस्तामवादयत् । किन्तु पुनः पुनर्वादनेन जीर्णायास्तस्या ध्वनिः सभाभवनादपि बहिर्न ययौ । ततः प्राग्वृत्तान्तं ज्ञात्वा कृष्णो भेरीपालं हत्वाऽष्टमभक्तेन प्रसादितेन तेन देवेनाऽन्यां भेरीं प्राप्य वादयित्वोपद्रवं शमयामास ।
अथ कृष्णश्चिकित्सार्थं धन्वन्तरि-वैतरणिवैद्यावप्यादिशत् । तयोर्भव्यो वैतरणिर्यथोचितां चिकित्सां चकार । धन्वन्तरिस्तु पापानुबन्धिनी चिकित्सां कुर्वन् साधुभिर्नेयं चिकित्साऽस्माकं विहिते'ति निषिद्ध उवाच-'साधुयोग्यां चिकित्सां न जानामि, अतो भवद्भिर्मम चिकित्सा न ग्राह्या' । एवं तौ द्वावपि वैद्यौ तत्र चिकित्सामकुरुताम् । ततः कृष्णो नेमिजिनमेतयोर्गतिमपृच्छत् ।
अन्यदा च शक्र: सभायामुवाच-'कृष्णो दोषान् विहाय गुणमेव कीर्तयति, न च नीचयुद्धेन युध्यते' । तदश्रद्दधानश्च कश्चिद् देवो द्वारकामगात् । तदानीमेव कृष्णः स्वेच्छया रन्तुं रथस्थ: प्रचचाल। तेन देवेन च पथि दुर्गन्धेन पौरान बाधमान: कृष्णाङ्गो मृतः श्वा विकृतः । तं दृष्ट्वा च कृष्णोऽवोचत्-'अस्य कृष्णस्य शुनो मुखे पाण्डुरा दन्ता: शोभन्ते' । ततो देवोऽश्वचोरको भूत्वा कृष्णस्याऽश्वरत्नं जहार । अनुपदमनुधावितानि सैन्यानि बभज च ।
Page #111
--------------------------------------------------------------------------
________________
१९४
षष्टिकापुरुषचरितम्-गद्यात्मकसारोद्धारः
ततः प्रभुरुवाच- 'धन्वन्तरिः सप्तम्यां नरकभूमावप्रतिष्ठानमावासं गमिष्यति, वैतरणिश्च विन्ध्यवने कपिर्जातस्तारुण्यं प्राप्य यूथपतिर्भविष्यति । तत्र वने चैकदा समागतेषु साधुष्वेकः पादे भग्नशल्यो भविष्यति, स्वं प्रतीक्षमाणानन्यान् मुनींश्च स 'मां मुक्त्वा यूयं यात, अन्यथा सार्थभ्रष्टाः सर्वे मरिष्यथे 'ति वक्ष्यति । ततश्च साधवस्तं छायायामुच्चभूमौ मुक्त्वा गमिष्यन्ति । स कपियूथपतिश्च तत्राऽऽगमिष्यति, वानराश्च तं मुनिं दृष्ट्वा क्लिकिलारावं करिष्यन्ति । ततो रुष्टो यूथपतिर्मुनेरग्रे भूत्वा तं दृष्ट्वा कुत्रेदृग्जनो मया दृष्ट इति ध्यायन् जातिस्मरत्वं प्राप्य तं मुनिं चिकित्सया सज्जं करिष्यति । तथाऽहं पुरा द्वारकायां वैतरणिर्वैद्योऽभूवमित्यक्षराणि मुनेरग्रे लिखिस्यति । ततो मुनिना धर्मं श्रुत्वा त्र्यहमनशनं कृत्वा विपद्य स कपिः सहस्रारं गमिष्यति । तत्र गतश्चाऽवधिना पूर्वभवं ज्ञात्वा तं मुनिं वन्दित्वा कृतज्ञतां निवेदयित्वा स्वसाधुभिर्योजयिष्यति । स साधुश्च तां कपिवार्तां साधूनां कथयिष्यति' । कृष्णश्च तच्छ्रुत्वा जैनधर्मश्रद्धानो नेमिं नत्वा स्वस्थानं ययौ । भगवानपि ततोऽन्यत्र विजहार ।
अथाऽन्यदा वर्षर्त्तोरादावेव नेमिप्रभुर्द्वारकामागत्य समवासार्षीत् । कृष्णश्च प्रभुं सेवमानो वर्षासु साधवः किमिति न विहरन्तीति पप्रच्छ । ततः प्रभुरुवाच- 'वर्षासु पृथिवी नानाविधैजीवैर्व्याप्ता भवति, तस्माज्जीवाभयप्रदाः साधवो न विहरन्ति' । ततः कृष्णः पुनरुवाच–‘सपरिवारेण मया गतागतं कुर्वता भूयान् जीवक्षयः क्रियते, तदहं वर्षासु गृहाद् बहिर्न निर्गमिष्यामि' । एवमभिगृह्य स कृष्णो निजगृहं जगाम । तथा वर्षतुं यावत् कस्याऽपि मम गृहे प्रवेशो न दातव्य इति द्वारपालानादिशत् ।
अष्टमं पर्व दशमः सर्गः
१९५
तत्र नगरे च वैष्णवो वीरो नाम कुविन्दोऽभूत् स कृष्णस्य दर्शना - ऽर्चनं विना कदाऽपि नाऽभुक्त प्रवेशमलभमानश्च स कृष्णगृहद्वारेऽभुञ्जान एव कृष्णमुद्दिश्य पूजां कुर्वंस्तत्रैव तस्थौ । कृष्णश्च वर्षासु व्यतीतासु गृहाद् निर्ययौ । तं वीरं दृष्ट्वा च किं कृशोऽसीति पप्रच्छ । द्वारपालेन तदवस्थां ज्ञात्वा च दयालुः कृष्णस्तं स्वगृहेऽनिषिद्धप्रवेशं चकार ।
अथ कृष्णः सपरिच्छदो गत्वा वन्दित्वा यतिधर्मं श्रुत्वा नेमिप्रभुमुवाच- 'दीक्षाग्रहणे नाऽहं समर्थः तथाऽप्यन्यान् दीक्षां ग्राहयितुमनुमोदयितुं च नियमं गृह्णामि, यं कमपि प्रव्रजन्तं न वारयिष्यामि, किन्तु पुत्रस्येव तस्य निष्क्रमणमहोत्सवं करिष्यामि' । एवमभिगृह्य गृहं गतः कृष्णः परिणेयाः स्वकन्या नन्तुमागताः 'स्वामिन्यो दास्यो वा भविष्यथे 'ति पप्रच्छ । स्वामिन्यो भविष्याम इति तासां प्रतिवचः श्रुत्वा च कृष्णो नेमिजिनपार्श्वे दीक्षां गृह्णीष्वेति ता उक्त्वा प्राव्राजयत् ।
एकदा चैका राज्ञी केतुमञ्जरीं स्वसुतामुवाच - 'पित्रा पृष्टाऽहं दासी भविष्यामीति ब्रूयाः । ततो विवाहयोग्या सा पितुरन्तिके प्रेषिता कृष्णेन पृष्टा मातृशिक्षितमुवाच । तच्छ्रुत्वा च मत्पुत्र्यो भवाटवीमटिष्यन्तीति न साधु, तदियं यथाऽन्याभ्यो न वदति तथाऽस्तु' इति ध्यात्वा वीरं कुविन्दं त्वया किं प्रकृष्टं कृतमिति पप्रच्छ । ततो वीर उवाच - 'मया पुरा बदरीतरुस्थः कृकलासः प्रस्तरेण हत्वा पातितः, स च मृतः, मार्गे प्रधिकृतरेखायां वहज्जलं मया वामपादेनाऽऽक्रम्य धृतं तच्च दूरमपासरत् । वस्त्रपातघटस्याऽन्तः प्रविष्टा रणन्त्यो मक्षिका द्वारे वामहस्तं कृत्वा मया चिरं निरुद्धा:' ।
Page #112
--------------------------------------------------------------------------
________________
me
१९७
अष्टमं पर्व - दशमः सर्गः पृष्टः प्रभुः पुनरुवाच-'अस्य शरीरक्लेशः फलं, यतोऽसौ त्वामनुसृत्य वन्दते' । ततः कृष्णो भगवन्तं नत्वा सपरिच्छदो द्वारकां ययौ ।
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः ___ ततो द्वितीयेऽह्नि सभास्थ: कृष्णो नृपाणां पुरो वीरचरितमवदत् । तेऽपि सावधाना अश्रौषुः । ततः कृष्णोऽनेन कुविन्देन वीरेण बदरीवने भूमिशस्त्रेण रक्तफणो नागो हतः, चक्रोत्खाता कलुषं जलं वहन्ती च गङ्गा वामपादेन धारिता, कलशीपुरे घोषवती सेना वामकरेण निरुद्धा, तदयं क्षत्रियो मम योग्यो जामातेत्युक्त्वा केतुमञ्जरी गृहाणेति वीरमुवाच । स चाऽनिच्छन्नपि कृष्णाग्रहात् तां परिणीय केतुमञ्जरी स्वगृहं निनाय । ___केतुमञ्जरी च तद्गृहे शय्याधिरूद्वैव तस्थौ । वीरश्चाऽपि सदा तदादेशकरोऽभूत् । कृष्णश्च तज्ज्ञात्वा 'प्रसह्य तां निजं कार्य कारय, अन्यथा तव गुप्तिप्रवेशो दुनिवार' इत्युक्तवान् । ततश्च वीरः कृष्णाशयं ज्ञात्वा तां तथैव निजं कार्यं कारयामास । तत: खिन्ना दुःखिता च केतुमञ्जरी कृष्णं प्रार्थयित्वा नेमिसमीपे दीक्षा ललौ ।
अन्यदा च कृष्णः साधूनां द्वादशावर्त्तवन्दनं ददौ । अन्ये नृपाश्च निष्क्रियास्तस्थुः । वीरस्तु कृष्णमनुवर्त्तमानस्तथैव साधूनां द्वादशावर्त्तवन्दनं ददौ । ततः कृष्णो नेमिप्रभुमुवाच-'षष्ट्युत्तरशतत्रययुद्धैरपि यथाऽहं न श्रान्तस्तथाऽनेन वन्दनेन श्रान्तोऽस्मि' । तत: प्रभुरुवाच-'कृष्ण ! त्वयाऽद्य भूरि पुण्यं क्षायिकसम्यक्त्वं तीर्थकृन्नामकर्म चाऽजितम् । सप्तमनरकादुद्वृत्त्य तृतीयनरकोचितं बद्धमायुस्त्वया, प्रान्ते निकाचितं करिष्यसि ।।
ततः कृष्ण उवाच-'पुनर्वन्दनं करोमि, यथा पूर्ववदेव मम नरकायुः क्षीयते' । ततः प्रभुरुवाच-'तवेतोऽग्रे वन्दनं द्रव्यात्मकं भवेत्, फलं तु भाववन्दनेन प्राप्यते' । ततः कृष्णेन वीरस्य फलं
अथ कृष्णस्य ढण्ढणाख्यायां पत्न्यां जातः पुत्रो ढण्ढणस्तरुणो बह्वी राजपुत्री: परिणिनाय । एकदा च स नेमिजिनसमीपे धर्मं श्रुत्वा विरक्तः पित्रा कृतनिष्क्रमणोत्सवो दीक्षां ललौ । स्वामिना सार्धं विहरमाणस्य लोकप्रियस्य तस्याऽन्तरायकर्मोदयो जातः । तेन स यत्र यत्र ययौ, क्वाऽपि किमपि न प्राप । तेन सह गच्छतामन्येषामपि मुनीनां सैवाऽवस्थाऽभूत् । ततः साधवो नेमिजिनं पप्रच्छु:-'तव जिनस्याऽयं शिष्यः कृष्णस्य च वासुदेवस्य पुत्रो ढण्ढणः, तथाऽपि महेभ्यादिगृहेऽपि भिक्षां न लभते, तत्र किं कारणम्' ।।
ततः प्रभुरुवाच-'मगधेषु धान्यपूरकाख्ये ग्रामे नृपायुक्तः पाराशरो नाम विप्रो राज्यक्षेत्राणि ग्रामीणैरवापयत् । स चैकदा भोजने प्राप्तेऽपि भोजनाय ग्राम्यान् नाऽमुञ्चत् । क्षुत्-तृषार्तेः श्रान्तैरपि च हालिकैर्वृषभैश्च स पृथक् पृथक् बलात् क्षेत्राणि कर्षयामास । तेनाऽन्तरायकर्माऽर्जयित्वा विपद्य भवं भ्रान्त्वा सोऽयं ढण्ढणोऽभूत् । तदन्तरायं कर्माऽस्याऽधुनोदितम्' । तच्छ्रुत्वाऽत्यन्तं संविग्नो ढण्ढणोऽहं परलब्ध्या न भोक्ष्ये इत्यभिग्रहमग्रहीत् । तदनन्तरमलाभपरीसहं सहमान: परलब्ध्या भोजनमकुर्वन् स कमपि कालं निनाय ।
अन्यदा च कृष्णो नेमिप्रभुमेषु मुनिषु को दुष्करकारक इत्यपृच्छत् । ततः प्रभुरुवाच-'सर्वे दुष्करकराः, किन्तु ढण्ढणोऽतिदुष्करकरः, । यतोऽसावियन्तं कालमलाभपरीषहं सहमानोऽस्ति'।
Page #113
--------------------------------------------------------------------------
________________
१९८
पुरुष-गद्यात्मकसारोद्धारः
ततः प्रभुं नत्वा द्वारकां प्रविशन् कृष्णो ढण्ढणं भिक्षार्थं गच्छन्तं दृष्ट्वा गजादवरुह्य भक्त्या नमश्चकार । एकः श्रेष्ठी च तद् दृष्ट्वा चिन्तितवान्- 'धन्योऽयं ढण्ढणो यः कृष्णेन वन्दित:' । ढण्ढणश्च भ्रमंस्तस्यैव श्रेष्ठिनो गृहमगात् । स श्रेष्ठी च सबहुमानं मोदकैस्तं प्रत्यलाभयत् । ततो ढण्ढण आगत्य प्रभुमुवाच- 'किं मेऽन्तरायकर्म क्षीणं येन मया भिक्षा प्राप्ता' ।
ततः प्रभुरुवाच- 'तवाऽन्तरायकर्म न क्षीणं, किन्त्वियं कृष्णस्य लब्धि:, त्वं कृष्णेन वन्दितोऽसीत्यतः श्रेष्ठी त्वां प्रत्यलाभयत् । ततो रागादिरहितो ढण्ढणः परलब्धिरसाविति भिक्षां स्थण्डिले परिष्ठापयितुं प्रारेभे । तदानीं च 'पूर्वार्जितानि जीवानां कर्माणि दुर्निर्जराणी 'ति स्थिरेण मनसा ध्यायतस्तस्य केवलमुत्पन्नम् । ततो ढण्ढणमुनिर्नेमिं प्रदक्षिणीकृत्य देवैः पूजितः केवलिपर्षदि निषसाद । भगवांश्च ग्रामादिषु विहरन् पुनः पुनरेत्य द्वारकायां समवासार्षीत् ।
***
अथैकदा द्वारकायां समवसृते प्रभौ वृष्टिर्जाता, रथनेमिमुनिश्च भिक्षार्थं भ्रान्त्वा स्वामिनं प्रत्यागच्छन् वृष्ट्या पीडित एकां गुहां प्रविवेश । राजीमती च प्रभुं वन्दित्वा निवृत्ता साध्वीभिः सह वृष्टिभयात् पलायिता तामेव गुहां प्रविष्टा । तत्र च पूर्वं प्रविष्टं रथनेमिमन्धकारवशादपश्यन्ती सा वस्त्राणि शोषयितुं मुक्त्वोर्ध्वं स्थिता । रथनेमिश्च विवस्त्रां तां दृष्ट्वा कामार्त्तोऽवदत्- 'त्वं मया पुराऽपि प्रार्थिता, अधुना सम्भोगावसरोऽस्ति' ।
ततो राजीमती स्वरेण रथनेमिमुपलक्ष्य झटित्यङ्गानि गोपायित्वोवाच- 'कुलीनानां नेदमुचितं कर्तुम् । त्वं सर्वज्ञस्याऽनुजः
१९९
अष्टमं पर्व दशमः सर्गः शिष्यश्चाऽसि, अद्याऽपि तव लोकद्वयविनाशिनी बुद्धिरवतिष्ठते ? अहं सर्वज्ञशिष्या तवेच्छां पूरयितुं नाऽलं, त्वं चाऽनेन कामेन भवसमुद्रे निमङ्क्ष्यसि । तयैवं निर्भत्सितो बोधितश्च रथनेमिः पश्चात्तापं कुर्वन् सर्वां भोगेच्छां त्यक्त्वा तीव्रं व्रतं पालयामास । शुद्धमनाश्च स प्रभोरग्रे तद्दुश्चरितं समालोच्य वत्सरं यावच्छद्मस्थः स्थित्वा केवलं प्राप ।
अथ नेमिप्रभुर्विहारक्रमतो रैवतकाद्रिं प्राप्य तत्र समवासार्षीत् । ततः कृष्णः पालक- शाम्बादीन् पुत्रानुवाच- 'प्रभा यः प्रभुं प्रथमं वन्दिता तस्येष्टमश्वं दास्यामि'। तच्छ्रुत्वा शाम्बकुमारः प्रातः शय्यात उत्थाय गृहेऽपि तिष्ठन् नेमिप्रभुं भावतो ववन्दे । पालकश्च रात्रावुत्थाय हयेन गत्वाऽभव्यत्वात् प्रभुं हृद्याक्रोशन्नवन्दत । तत: पालकेन दर्पकाश्वं याचितः कृष्णः केनाऽदौ वन्दित इति प्रभुं पप्रच्छ । ततः प्रभुरादौ पालकेन द्रव्यतः शाम्बेन च भावतो वन्दितोऽहमित्युवाच । ततः पुनरपि किमेतदिति कृष्णेन पृष्टः प्रभुः 'पालकोऽभव्यः शाम्बो भव्य' इत्युवाच । ततः क्रुद्धः कृष्णस्तं भावहीनं पालकं निर्वास्य शाम्बं यथेष्टं हयं दत्त्वा महामाण्डलिकं व्यधात् ॥ १० ॥
इति अष्टमे पर्वणि द्रौपदीप्रत्याहरणगजसुकुमालादिचरितवर्णनात्मको दशमः सर्गः ॥१०॥
Page #114
--------------------------------------------------------------------------
________________
२०१
एकादशः सर्गः अथाऽन्यदा देशनान्ते कृष्णः कृताञ्जलिर्नेमिप्रभुं पप्रच्छ'द्वारकाया यदूनां मम चाऽन्यकृतः स्वयं कालवशेन वा क्षयः स्यात् ?' ततः प्रभुरुवाच 'शौर्यपुरस्य बहिराश्रमे पराशरनामा तापसो यमुनाद्वीपे काञ्चिद् नीचकुला कन्यां भेजे । तयोश्च द्वैपायनो नाम पुत्रोऽभूत् । स परिव्राड् ब्रह्मचारी दान्तश्च यदुसौहृदात् शौर्यपुरे निवसन् मत्तैः शाम्बाद्यैरुपद्रुतः क्रोधाद् द्वारकां यदुभिः सह धक्ष्यति । तव च स्वभ्रातुर्जरत्कुमाराद् मृत्युभविष्यति' ।
ततो यदुभिर्जरत्कुमारः कुलाङ्गारोऽयमित्यवज्ञया ददृशे । जरत्कुमारश्च वसुदेवपुत्रोऽहं स्वभ्रातृहत्यां प्रयस्याऽन्यथा करिष्यामीति चिन्तयन्नुत्थाय प्रभुं नत्वा तृणयुग्मधरो धनुरादाय कृष्णरक्षार्थं वनमियाय । कृष्णोऽपि स्वामिनं नत्वा द्वारकां गत्वाऽनर्थमूलं मद्यपानं न्यवारयत् । सर्वे जनाश्च कृष्णाज्ञया समीपपर्वते कदम्बवनमध्ये कादम्बर्याख्यायां कन्दरायां शिलाकुण्डेषु पुराकृतानि मद्यानि तत्यजुः। ___ अथ सिद्धार्थ: सारथिर्धाता च बलदेवं 'पुर्याः कुलस्य च दुर्दशां द्रष्टुं नाऽहं क्षम इति मम दीक्षार्थमनुजानीही'त्युवाच । ततश्च 'देवीभूतस्त्वं विपद्गतं मां सम्बोधयेरि'त्युक्त्वा बलभद्रस्तं विसृष्टवान् । ततः सिद्धार्थः स्वामिपादान्ते प्रव्रज्य षण्मासी यावत् तीव्र तपस्तप्त्वा विपद्य दिवं ययौ ।
अष्टमं पर्व - एकादशः सर्गः
इतश्च पुरा शिलाकुण्डे जनैस्त्यक्ता सुरा नानाद्रुम-पुष्प-पत्रादिपतनात् स्वाद्वी जाता । तदानीं च वैशाखे मासि शाम्बस्य कोऽपि पुरुषोऽटंस्तत्राऽऽगतस्तृषार्त्तः सुरां तां पपौ । तेन प्रमुदितश्च मद्येन चर्मपात्रं भृत्वा स गृहं गत्वा शाम्बस्योपायनं ददौ । शाम्बश्च तत् पीत्वा प्रसन्नः कुत्रेदं त्वया लब्धमिति पृष्टवान् । पुरुषोऽपि तत् स्थानमाख्यत् । ततः शाम्बो द्वितीयदिने कुमारैः सह कादम्बरी कन्दरां गत्वा भृत्यैरानाय्य सर्वैर्जनैः सह सुरां पपौ । अग्रे च गिरौ स्थितं द्वैपायनर्षि ध्यानस्थं दृष्ट्वा मत्तास्ते कुमारा: शाम्बेन नगरी कुलं च हन्तैव मुनिहन्यतामित्युक्तम् । ततस्ते लेष्टुभि: पादताङनैश्चपेटाभिर्मुष्टिभिश्च ताडयामासुः । महीतले पतितं मृतप्रायं तं मुनि विधाय च ते सर्वे द्वारकां गत्वा स्वं स्वं गृहं प्रविविशुः ।
इत: कृष्णश्च चरैस्तज्ज्ञात्वा कुमाराणामुद्दण्डतां शोचन् सरामो द्वैपायनं मुनिमुपगम्य तं कोपरक्तनेत्रं दृष्ट्वा सान्त्वयितुमारेभे । कृष्णेन शम्यमानोऽप्यनुपशान्तः स कृष्णमुवाच-'तव सान्त्वनवचनैरलं, तव पुत्रस्ताड्यमानेन मया युवां विना सलोकां द्वारकां दग्धं निदानं कृतम्' । ततः शोकसन्तप्तः कृष्णः स्वगृहं ययौ । द्वैपायनस्य निदानं च द्वारकायां प्रकटितम् । कृष्णश्च द्वितीयदिने 'जना धर्मनिरतास्तिष्ठन्त्वि'त्यघोषयत् । नेमिप्रभुश्च तदानीं रैवतकाद्रौ समवासार्षीत् । कृष्णश्च तत्र गत्वा देशनां शुश्राव । तत्र च विरक्ताः कतिपये प्रद्युम्न-शाम्बादयः कुमाराः प्राव्रजन् । रुक्मिणीजाम्बवत्याद्या यदुस्त्रियोऽपि भवोद्विग्ना प्रवव्रजुः ।
अथ तदानीं कृष्णेन पृष्टः प्रभुरुवाच-'द्वैपायनो द्वादशेऽब्दे इमां द्वारकां धक्ष्यति' । तथा प्रभुः प्रव्रज्यालाभात् खिद्यमानं कृष्णमुवाच-'वासुदेवाः कृतनिदानत्वात् कदाऽपि न प्रव्रजन्ति,
Page #115
--------------------------------------------------------------------------
________________
२०२
त्रिषष्टिशलाकापुरुषचरितम् - गद्यात्मकसारोद्धारः
तेऽवश्यं नरकं गच्छन्ति, त्वं वालुकाप्रभां नरकं गमी' । तच्छ्रुत्वा च कृष्णोऽत्यन्तं दुःखितोऽभूत् । ततः प्रभुः पुनरुवाच- 'कृष्ण ! मा विषीद, त्वं नरकादुवृत्त्य मर्त्यः सन् विपद्य वैमानिको भूत्वा च्युत्वाऽत्र भरते गङ्गाद्वारपुरनरस्य जितशत्रोः पुत्रोऽममनामतो द्वादशोऽर्हन् भविष्यसि । बलभद्रश्च ब्रह्मलोकं प्राप्य च्युत्वा मर्त्यो भूत्वा विपद्य देवत्वमाप्य पुनश्च्युत्वाऽत्र भरते पुरुषः सन्नुत्सर्पिण्यां तीर्थकरस्य तव तीर्थे मोक्षमेष्यति' । एवमुक्त्वा नेमिप्रभुस्ततोऽन्यत्र विजहार । कृष्णश्च तं नत्वा द्वारकां ययौ ।
अथ कृष्णः पुर्यां पूर्ववदेव धर्माराधनघोषणामकारयत् । द्वैपायनश्च विपद्याऽग्निकुमारेषूदपद्य पूर्ववैरं स्मृत्वा द्वारकामाययौ । तत्र च तपोनिरतेषु लोकेषु धर्ममाहात्म्यादुपसर्गं कर्तुमक्षमश्छिद्राणि प्रतीक्षमाण एकादशवर्षाणि यावत् तस्थौ । द्वादशे वर्षे प्राप्ते च तपोमाहात्म्याद् द्वैपायनो जितो नष्टश्चेति ध्यात्वा लोका मद्यपानमांसभक्षणादिपराः क्रीडापरा बभूवुः । तदवसरं प्राप्य च द्वैपायनोऽपि विविधानुत्पातानकरोत् । तैरङ्गारवृष्ट्यादिभिरुपसर्गे राम-कृष्णयोर्हल-चक्रादीनि रत्नानि नष्टानि । द्वैपायनःश्च दिग्भ्यः काष्ठान्यानीय पुरीं पूरयित्वा यदूनां बाह्याः षष्टिं मध्यगा द्वासप्तति कोटिं चैकत्रीकृत्याऽग्निमदीपयत् । ते सबालवृद्धाः पौराः संपिण्डिता निगडिता इव पदमपि गन्तुं न शेकुः ।
कृष्णश्च स रामो वसुदेवं देवकीं रोहिणीं च रथे समारोप्य दाहभिया प्रतस्थे । किन्तु देवेन स्तम्भितेषु हयेष्वचलितेषु स्वयं बल - कृष्णौ रथमाचकृषतुः । तेन च धुरीद्वये भग्नेऽपि स्वशक्त्या रथमाकृष्य द्वारं निन्यतुः । देवेन पिहिते द्वारे तत्कपाटं रामः पाणिप्रहारेण भङ्क्त्वा रथमाचकर्ष । तथाऽपि रथो द्वाराद् न
अष्टमं पर्व एकादशः सर्गः
२०३
निरगात् । ततो वसुदेवादयश्चतुर्विधाहारप्रत्याख्यानं कृत्वा नमस्कारपरायणास्तस्थुः । देवकृताग्निवर्षणेन विपद्य च स्वर्गं ययुः । रामकृष्णौ च पुर्या बहिर्जीर्णोद्याने गत्वा दह्यमानां पुरीं ददृशतुः । ततः पुरीदुर्दशां द्रष्टुमसमर्थौ तौ मिथो विचार्य 'पाण्डवाः सत्पुरुषा अस्साभिः पुरा तिरस्कृता अपि प्रागुपकारं स्मृत्वा सत्करिष्यन्त्येवे 'ति पाण्डुपुराभिधां पाण्डवपुरीमुद्दिश्य पूर्वदक्षिणां दिशं प्रतस्थाते ।
इतश्च पुर्यां ज्वलन्त्यां रामपुत्रः कुष्ठावारकश्चरमदेहो जृम्भकसुरेण पल्लवे देशे समवसृतस्य नेमिप्रभोः समीपं नीतः प्राव्रजत् । प्रागप्रव्रजिताः राम-कृष्णादिपल्यो नेमिं स्मरन्त्यो विहितानशना मृता: । तत्रैवं षष्टिर्द्वासप्ततिश्च कुलकोटयो दग्धाः । एवं षण्मास्या दग्धा पुरी जलधिना प्लाविता ।
***
इतश्च गच्छन् कृष्णो हस्तिकल्पं पुरं प्राप्तो रामाय स्वबुभुक्षां निवेदयामास । रामश्च 'त्वमत्र सावधानस्तिष्ठ, वैधुर्यं प्राप्तस्य मम वेडामाकर्ण्य शीघ्रमागच्छेः, अहं त्वदर्थं भक्तानयनाय गच्छामी'त्युक्त्वा पुरीं प्रविष्टो देवाकार: पौरैः सविस्मयं ददृशे । वह्निना द्वारका दग्धेति रामोऽयमायात इति किंवदन्ती लोके प्रवृत्ता । रामश्चाऽङ्गुलीयकं दत्त्वा कान्दविकाद् द्विविधं भोज्यं कटकं दत्त्वा शौण्डिकाद् द्विविधं मद्यं चाऽऽदाय यावद् गोपुरं याति तावदारक्षा विस्मिता नृपतिं ययुः ।
तस्मिन् पुरे च पाण्डुपुत्रैर्हतावशिष्टोऽच्छदन्तो धृतराष्ट्रपुत्रो नृपोऽभवत् । ते आरक्षास्तमूचुः - 'चौरवदयमूर्मिकां दत्त्वा भोज्यमग्रहीत्, मूर्त्याऽयं बलभद्रतुल्यः' । तच्छ्रुत्वाऽच्छदन्तो बलदेवं हन्तुं
Page #116
--------------------------------------------------------------------------
________________
षष्टिकापुरुषचरितम्-गद्यात्मकसारोद्धारः
सबलस्तत्राऽऽगतो गोपुरं प्यधावयत् । ततो बलभद्रो भक्त पाने मुक्त्वा गजस्तम्भमुन्मूल्य क्ष्वेडां विधाय शत्रून् हन्तुं प्रवृत्तवान् । क्ष्वेडामाकर्ण्य कृष्णोऽपि धावितः पार्ष्णिप्रहारेण कपाटौ भङ्क्त्वा पुरं प्राविशत् । तदा परिघेन शत्रुसैन्यं हत्वा वशंगतमच्छदन्तं निर्भत्र्त्स्य तं स्वे राज्ये मुक्त्वा पुराद् बहिर्गत्वोद्याने भुक्त्वा द्वावपि प्रस्थाय कौशाम्बवनं प्रापतुः ।
२०४
तत्र च तृषार्तोऽस्मीति कृष्णेनोक्तो रामस्त्वमत्र सावधानस्तिष्ठेत्युक्त्वा जलार्थं ययौ । कृष्णश्च जानोरुपरि पादं न्यस्य पीतेन वाससा स्वमाच्छाद्य मार्गतरुमूले सुप्तो निद्रां ययौ । तत्र च जरासुतो लम्बकूर्ची व्याधो व्याघ्रचर्मवसनो धनुर्धरो मृगयार्थं तत्राऽऽगतः शयानं कृष्णं मृगबुद्ध्या बाणेन पादतले जघान । कृष्णश्च वेगादुत्थाय 'केनाsनागा अहमनाख्यायैव पादतले विद्ध:, नाऽहमज्ञातज्ञातिनामधेयं हतपूर्वी, तद्भवानपि निजं गोत्रं नाम चाऽऽख्यातुमर्हती'ति जगाद । ततो वृक्षान्तरितो लम्बकूर्चो जरासुतः स्वं गोत्रादिकमगात् । तथा 'नेमिवचः श्रुत्वा कृष्णरक्षार्थमहमिहाऽऽगमं, द्वादशाब्दानीह मम व्यतीतानि, इह कदाऽपि मनुष्यो न दृष्टः, त्वं स्वपरिचयं देही' त्युवाच स जरासुतः ।
ततः कृष्ण उवाच-'भ्रातर् ! एहि, यदर्थे त्वं वनवास्यभूः स ते भ्राता कृष्णोऽहं तव प्रयासो वृथा जात:' । तच्छ्रुत्वा चाऽऽशङ्कित जरासुतस्तत्राऽऽगत्य कृष्णं दृष्ट्वा मूच्छितः कथमपि लब्धसंज्ञः करुणं रुदन् किमिहाऽऽगत इति कृष्णं पप्रच्छ । कृष्णश्च द्वारकादाहादिकं सर्वं वृत्तान्तं कथयामास । ततो विलपन्तं मुहुर्मुहुः स्वं निन्दन्तं च जरासुतं कृष्ण उवाच भवितव्यता दुर्लङ्ख्या, यदुषु त्वमेवैकोऽवशिष्टोऽसि, चिरं जीव इतः सत्वरं याहि, अन्यथा रामो
अष्टमं पर्व एकादशः सर्गः
२०५
मद्बधक्रोधात् त्वां हन्यात् । ममाऽभिज्ञानं कौस्तुभं गृहाण, पाण्डवान् व्रज, सर्वं वृत्तान्तं तेभ्यो निवेदयेः, ते तव सहाया भवन्तु । त्वयेतो विपरीतैः पदैः कश्चिदध्वा गन्तव्यः, यथा पदानुसारी रामस्त्वां न प्राप्नुयात् । मद्वाचा सर्वान् पाण्डवादीन् क्षमयेः' । एवं कृष्णेन पुनः पुन: प्रतिबोधितः स कृष्णपादाच्छरमाकृष्य कौस्तुभमादाय ययौ ।
गते जरासुते च पादव्रणपीडितः कृष्णः प्राञ्जलिरुदङ्मुखो नमस्कारं जपन् तृणनिर्मिते संस्तरे पूर्ववदेव जानोरुपरि पादं न्यस्य वस्त्रेण शरीरमाच्छाद्य दध्यौ - 'प्रभुर्नेमिः प्रद्युम्नादयः कुमारा रुक्मिण्यादयश्च मत्स्त्रियो धन्याः, ये गृहवासं परित्यज्य भवच्छेदकं व्रतं जगृहु:' ।
एवं चिन्तयतश्च तस्य सर्वतोऽङ्गान्यभज्यन्त वायुश्चुकोप, तृषादिपीडितश्च भ्रश्यच्चैतन्यः कृष्णः पुनरचिन्तयत्- 'अहं जन्मत: केनाऽपि न पराभूतः, किन्तु द्वैपायनेन दुर्दशां नीतः । अधुनापि चेत् स प्राप्यते, तदेदृशोऽप्युत्थाय तं नाशयामि, कोऽपि तं रक्षितुं क्षमो न स्यात्' । एवं रौद्रध्यानगतः कृष्णः समाप्तवर्षसहस्त्रजीवितो विपद्य निकाचितैः कर्मभिस्तृतीयं नरकं प्राप । तस्य च कौमारे षोडशाब्दानि, माण्डलिकत्वे षट्पञ्चाशद्वर्षाणि जयेऽष्टौ वर्षाणि, अर्धचक्रित्वे च विंशत्यधिकनवशतानि वर्षाणि व्यतीतानि ॥ ११ ॥
इति अष्टमे पर्वणि द्वारकादाह-कृष्णावसानवर्णनात्मकः एकादशः सर्गः ॥११॥
Page #117
--------------------------------------------------------------------------
________________
द्वादशः सर्गः
अथ बलरामः कमलदलपुटे जलमादाय सत्वरं कृष्णसमीपमागतः 'सुप्तोऽसाविति क्षणं तूष्णीं स्थितः तदा स कृष्णा मक्षिका दृष्ट्वा कृष्णमुखाद् वस्त्रमाक्षिप्य बन्धुं मृतं ज्ञात्वा मूच्छितश्छिन्नमूलस्तरुरिव भूमौ पपात । कथञ्चिल्लब्धसंज्ञश्चोत्थाय सर्वप्राणिभयङ्करं सिंहनादं कृत्वोवाच- 'येन सुखसुप्तो ममाऽनुजो हतः स स्वं प्रकटयतु' । को नाम सुप्तप्रमत्तादिषु प्राहरेदित्येवमाक्रोशंश्च वनं भ्रान्त्वा पुनः कृष्णमुपगत्याऽऽलिङ्ग्य 'हा कृष्ण ! क्व मां विहाय गतोऽसीत्येवमादिकं भृशं विललाप । तत्र रुदंश्च तां रात्रिमतिवाह्य प्रभातेऽप्युत्तिष्ठ भ्रातरिति वदन्ननुतिष्ठन्तं तं स्नेहात् स्कन्धे समारोप्य गिरि वनादिषु बभ्राम । एवं स कृष्णशरीरं पुष्पादिभिरर्चयन् षण्मासान् व्यतिचक्राम ।
अथ तस्मिन्नेवं भ्रमति वर्षाकाले समागते देवभूयं गतः सिद्धार्थस्तमवधिना ददर्श । मृतं भ्रातरं मोहाद् वहन्तं बोधयामीति विचार्य विपदि मां बोधयेरिति पुरा रामकृतां प्रार्थनां च स्मृत्वा गिरेरवतरन्तं प्रस्तरमयं रथं विचक्रे सः । स रथश्चोच्चावचाद् गिरिखण्डात् पतित्वा समे भूभागे भग्नः । देवश्च कुटुम्बिवेषस्तं रथं सन्धातुं प्रचक्रमे । ततो रामस्तमुवाच- 'यो रथो विषमादेत्य समे भग्नस्तं किं मौयात् सन्धित्ससि ?"
अष्टमं पर्व द्वादशः सर्गः
२०७
ततो देव उवाच- 'रणसहस्त्रेष्वहतो युद्धं विना मृतो जनो यदि जीवेत् तदाऽयं मे रथः सज्जो भवेत् । एवमुक्त्वा स देव उपले कमलमारोपयितुमारेभे । ततो रामेण 'किमश्मनि नलिनी प्ररोहती'त्युक्तो देव उवाच - 'यदा तवाऽनुजो जीविष्यति तदेमा नलिन्योऽपि प्ररोक्ष्यन्ति' । ततः पुनः किञ्चिदग्रे गत्वा स देवो दग्धं तरुं सिञ्चन् बलेन 'किं दग्धो वृक्षः सिक्तः प्ररोहती 'त्युक्तस्तव स्कन्धस्थितं शवं जीवेच्चेद् दग्धस्तरुरपि प्ररोक्ष्यती' त्युवाच । पुनरपि स देवोऽग्रे गोपालको भूत्वा गोशवस्य मुखे नूतना दूर्वा: प्रक्षेप्तुमारेभे । बलश्च 'मूढ ! मृता गौः कथं दूर्वाश्चरिष्यती' त्युवाच । तदा देवेन यदा तवाऽनुजो जीविष्यति तदेयं गौरपि दूर्वाश्चरिष्यती' त्युवाच ।
ततो रामो दध्यौ - 'किं ममाऽनुजः सत्यं मृतः ? एते सर्वे कुटुम्बिप्रभृतयः पृथक् पृथक्समानार्थमेव वाक्यं वदन्ति' । देवश्च बलस्य तच्चिन्तितं ज्ञात्वा सद्यः सिद्धार्थरूपो भूत्वाऽब्रवीत्- 'तव सारथिरेष सिद्धार्थोऽहं त्वदाज्ञया प्रव्रज्य देवो भूत्वा प्राक् त्वत्प्रार्थनया त्वां बोधयितुमागतोऽस्मि । नेमिप्रभुणा पुरा जरासुतात् कृष्णस्य वधः प्रोक्तः, तत् तथैवाऽभूत् । जराकुमारश्च कृष्णेन निजाभिज्ञानं कौस्तुभं दत्त्वा प्रेषितः पाण्डवपुरमगात्' । ततो राम उवाच-'सिद्धार्थ ! साधु त्वयाऽहं बोधितः, साम्प्रतं शोकसन्तप्तः किं करोमि ?' ततः सिद्धार्थ उवाच- 'तवाऽतः परं प्रव्रज्यैव युज्यते' । ततो बलदेवस्तद्वचः प्रतिपद्य तेन देवेन सह कृष्णशरीराग्निसंस्कारं सिन्धुसङ्गमे चकार ।
अथ नेमिप्रभुरपि प्रविव्रजिषु रामं ज्ञात्वा शीघ्रमेकं विद्याधरमृषिं प्रैषीत् । बलश्च तत्पार्श्वे प्रव्रज्य तुङ्गिकाशिखरे गत्वा तीव्रं तपश्चचार, सिद्धार्थश्च रक्षकोऽस्थात् । अन्यदा च मासपारणके
Page #118
--------------------------------------------------------------------------
________________
त्रिषष्टिशलाकापुरुषचरितम् - गद्यात्मकसारोद्धारः
क्वाऽपि पुरे प्रविशन् कयाऽपि सबालयास्त्रिया कूपकण्ठस्थया दृष्टः । रामदर्शनाकृष्टचित्तया च तया घटस्थाने स्वपुत्रकण्ठ एव रज्जुं बद्ध्वा स्वसुतः कूपे प्रक्षेप्तुमारब्धः । बलश्च तद् दृष्ट्वाऽनर्थकृतं स्वरूपं निन्दन् 'अतः परं पुरादिषु न प्रवेक्ष्यामि, किन्तु वन एव काष्ठादिहारिभ्यो भिक्षया पारयिष्यामि । एवं निर्णीय तां स्त्रियं बोधयित्वा वनं गत्वा मासिकादिकं दुस्तपं तपस्तेपे स बलः । तथा तृण-काष्ठादिहारिभिरानीतं दत्तं च प्रासुकं भक्त - पानादि गृहीत्वाऽपारयत् ।
२०८
अथ ते काष्ठादिहारकाः स्वान् राज्ञो 'देवरूपः कोऽपि पुरुषो वने तपश्चरन्नस्ती'त्यूचुः । ते चाऽस्मद्राज्यलिप्सया कोऽपि तपः करोति, मन्त्रं वा साधयती' त्याशङ्क्य गत्वा तं हन्म इति निर्णीय च युगपदेव ते सर्वसैन्येन सह मुने रामस्य समीपमागताः । सदा सन्निहितेन देवेन विकृतान् भयङ्करान् सिंहान् दृष्ट्वा च विस्मितास्ते बलं प्रणम्य यथागतं ययुः । बलश्च तत्प्रभृति नरसिंह इति ख्यातोऽभूत् । तथा वने तपः परायणस्य तस्य धर्मदेशनया वासिता व्याघ्रादयोऽपि प्राणिनः प्रशमं प्राप्ताः । ते च कायोत्सर्गानशनादिकं विदधाना मांसाहाराद् निवृत्ताः शिष्या इव राममुनेः पारिपार्श्वका बभूवुः ।
अथ रामस्य प्राग्भवसम्बन्धी कोऽपि जातिस्मरो हरिणः संविग्नः सदा तस्य सहचरोऽभवत् । स राममुनिमुपास्य वने समायातान् सान्नान् काष्ठादिहारिणोऽन्विष्य रामं निवेदयति स्म । रामश्च तदुपरोधेन ध्यानं पारयित्वा भिक्षायै निर्गच्छति स्म । एकदा च तत्र वने रथकाराः समागता: उत्तमान् बहून् वृक्षांश्चिच्छिदुः । रामश्च हरिणेन तन्निवेदितो ध्यानं पारयित्वा तेषु भोक्तुमुपविष्टेषु
अष्टमं पर्व द्वादशः सर्गः
२०९
मासपारणे भिक्षार्थमाययौ । रथकारश्च रामं प्रेक्ष्य प्रसन्नो 'वनेऽपि कल्पवृक्ष इव कोऽपि मुनिरप्रतिमरूपतेजा अतिथिर्लब्ध' इति स्वं कृतार्थं मन्यमानः प्रणम्याऽशन - पानानि प्रत्यलाभयत् ।
ततो रामो दध्यौ - 'कोऽप्ययं सन्मतिः श्राद्धः, यत् स्वर्गफलं कर्माऽर्जितुं मे भिक्षां दातुमुद्यतोऽस्ति । मया भिक्षायामगृहीतायामेतस्य सद्गतेरेवाऽन्तरायः कृतः स्यादिति भिक्षां गृह्णामि । एवं विचार्य स राममुनिरनिच्छन्नपि दयालुतया ततो भिक्षां जग्राह । तत ऊर्ध्वमुखः साश्रुनेत्रो मृगो मुनिं रथकारं च पश्यन् दध्यौ'निरीहोऽपि प्रभुर्दयालुतया रथकारमन्वग्रहीत्, रथकारश्चाऽयं धन्य येन स्वामी भक्ताद्यैः प्रतिलाभितः, मामनीदृशं मन्दभाग्यं धिक्' । एवं त्रिषु धर्मध्यानपरेषु स्थितेषु वृक्षोऽर्धच्छिन्नो वारितोऽपतत्। तेन च ते त्रयोऽपि विपन्नाः पद्मोत्तरविमाने ब्रह्मलोके देवा अभूवन् ।
***
अथ बलभद्रोऽब्दशतं व्रतं पालयित्वा दिवं गतोऽवधिना तृतीयनरकस्थं कृष्णं दृष्ट्वा वैक्रियशरीरेण भ्रातृस्नेहात् तत्र व कृष्णमालिङ्ग्योवाच-‘अहं तव भ्राता रामो ब्रह्मलोकात् त्वां त्रातुमागतोऽस्मि, वद, किं ते प्रियं करोमि । एवमुक्त्वा रामः कृष्णं पाणिना गृहीत्वोद्दध्रे । स च पाणितः शीर्णो भूत्वा पारदवद् भूमौ पतित्वा मिलितावयवो जातः । तथा कृष्ण आलिङ्गनात् कथनादुद्धरणाच्च राममुपलक्ष्योत्थाय ससम्भ्रमं नमश्चकार । ततो राम उवाच- 'नेमिना दुःखान्तं विषयसुखं यदुक्तं तत् तवाऽधुना प्रत्यक्षम् । त्वां कर्मार्त्तं स्वर्गं नेतुमहं न शक्तः, तत् तव प्रीतये इह तव समीप एव तिष्ठामि ।
Page #119
--------------------------------------------------------------------------
________________
२१० amummmmmmmmmmmmmm
२११
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः ततः कृष्ण उवाच-'भ्रातः ! त्वयाऽत्र स्थितेन किम् ? ममोपार्जितं नारकायुर्भोक्तव्यमेव । यद् नेमिना मम नरकगमनकथनावसरे मित्राणां ग्लानि: शत्रूणां च हर्षोऽभूत् तद् नरकादपि दुःखाय । ततो भरतं गच्छ, तत्र चक्रादिसहितं मां लाङ्गलादिसहितं स्वं च पदे पदे विमानस्थं दर्शयेः, येन राम-कृष्णावनश्वरौ स्वेच्छाविहारिणाविति पूर्वापवादनिरासको लोके प्रघोष: स्यात्' ।
ततो रामस्तत् प्रपद्य भरतं गत्वा तथैव चकार । तथा लोकानूचे-'भवन्त आवयोः प्रतिमा देवता बुद्ध्या पूजयत । आवामेव सृष्टिस्थित्यादिसमर्थौ स्वर्गादायावो यावश्च' । लोकाश्च तद्वाण्या तथैव चक्रुः । स देवश्च प्रतिमापूजकानां महती सम्पदं ददौ, येन निखिलो लोकस्तथा कर्तुं प्रववृते । एवं भ्रातृवचः पालयित्वा स रामसरो विमना ब्रह्मलोकं जगाम ।।
इतश्च जरापुत्रः पाण्डवान् प्राप्य कौस्तुभमर्पयन् द्वारकादाहादिवृत्तान्तमाख्यत् । तज्ज्ञात्वा च ते पाण्डवा वर्षं यावद् रुदन्तः शोकमग्नाः कृष्णस्य प्रेतकार्याणि चक्रुः । नेमिप्रभुश्च तान् प्रविव्रजिषून् ज्ञात्वा मुनिपञ्चशत्या परिवृतं ज्ञानचतुष्टयधरं धर्मघोषमुनि प्राहिणोत् । पाण्डवाश्च जरासुतं राज्ये न्यस्य द्रौपद्यादिभिः सह प्रव्रज्य साभिग्रहं तपश्चक्रुः । द्वादशाङ्गधरास्ते विहरन्तः पाण्डवा उत्कण्ठया नेमिजिनं नन्तुं प्रतस्थिरे ।
अष्टमं पर्व - द्वादशः सर्ग: चत्वारिंशत्सहस्त्राणि, चतुर्दशपूर्वधराणां चतुःशत्यवधिज्ञानिनां पञ्चदशशतानि, वैक्रियलब्धिमतां केवलिनां च तावन्ति, मनःपर्ययिणामेकं सहस्रं, वादलब्धिमतामष्टौशतानि, श्रावकाणां नवषष्टिसहस्रसहितं लक्षमेकं, श्राविकाणां चैकोनचत्वारिंशत्सहस्रसहिता त्रिलक्षी च परिवारा अभवन् । ____ अथेदृशपरिवारपरिवृत्तः सुरासुरादिसेवित: प्रभुनिर्वाणसमयं ज्ञात्वा रैवतकादि प्राप्य देवैविकृते समवसरणे देशनां व्यधात् । तया देशनया च प्रबोधं प्राप्ता जनाः प्रवव्रजुः श्रावकत्वं च प्रपेदिरे । ततः प्रभुः साधूनां षट्त्रिंशदधिकपञ्चशत्या सह मासिकं पादपोपगमनमनशनं प्रपद्य त्वाष्ट्रगे विधौ शैलेशीध्यानमास्थितोऽषाढशुक्लाष्टम्यां तैर्मुनिभिः सह परमं पदं प्राप । प्रद्युम्नाद्याः कुमारा: कृष्णमहिष्यः प्रभोर्बन्धवश्च राजीमतीप्रभृतयोऽन्या अपि च वतिन्य परमं पदं प्रापुः । रथनेमिश्च गेहेऽब्धानां चतुश्शती छाद्मस्थ्ये वर्ष कैवल्ये च पञ्चशत्यायुः । तपोधना राजीमत्यपीदृशायुविभागवती । शिवा-समुद्रविजयौ माहेन्द्रं कल्पं ययुः । अन्ये चाऽपि यदवो देवत्वं प्रापुः ।
नेमिप्रभोश्च कौमारे त्रिवर्षशती छद्मस्थ-केवलयोश्च सप्तवर्षशतीति मिलित्वाऽब्दसहस्रमायुः । श्रीनमिजिननिर्वाणाच्च वर्षाणां पञ्चसु लक्षेष्वतिक्रान्तेषु नेमिजिननिर्वाणमभूत् । शक्राद्या देवाश्च प्रभोः शरीराग्निसंस्कारं यथाविधि विधाय यथायोग्यं प्रभोदष्ट्रादिकं च जगृहुः । शक्रश्च स्वामिशरीराग्निसंस्कारवैडूर्यशिलायां नेमिप्रभोर्लक्षणानि नाम च वज्रेण लिलेख । तथा तत्र नेमिजिनप्रतिमासनाथं चैत्यं च कारयामास । एवं सर्वं विधाय शक्राद्याः स्वं स्वं स्थानं ययुः ।
इतश्च नेमिप्रभुमध्यदेशादौ विहृत्योदीच्यां गजपुरादिषु विजहार। ह्रीमन्तं गिरिं गत्वा म्लेच्छदेशेषु बहून् नृपा-ऽमात्यप्रभृतीनबोधयत् । पुनश्च हीमन्तं गिरिमेत्य किरातदेशेषु विहृत्य दक्षिणापथे विजहार । आकेवलादेवं विहरतः प्रभोः श्रमणानामष्टादशसहस्राणि, साध्वीनां
Page #120
--------------------------------------------------------------------------
________________
२१२
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः इतश्च पाण्डवा हस्तकल्पं पुरं प्रापुः । 'इतो द्वादश योजनानि गिरिः, प्रभाते तत्र नेमिजिनं दृष्ट्वा मासिकपारणं करिष्यामः' । एवं मिथो वदन्तस्तत्र पुरे लोकैर्नेमिप्रभोः साधुभिः सह निर्वाणं ज्ञात्वा शोकमग्ना विमलाद्रिं ययौ । तत्राऽनशनं प्रपद्य केवलं प्राप्ताः पाण्डवाः शिवं ययुः । द्रौपदी च ब्रह्मलोकं जगाम ।
द्वाविंशोऽर्हन्नथ च नवम: शार्ङ्गभृत् सीरपाणिस्तद्वैरी चेत्यतुलमहस: कीर्तिताः पर्वणीह । चत्वारोऽपि प्रवचनदिशं सम्यगुद्वीक्ष्य येषामेकैकोऽपि श्रुतिपथगतो विस्मयाय त्रिलोक्याम् ॥ १ ॥
इति अष्टमे पर्वणि बलदेवस्वर्गगमन-नेमिनिर्वाण-पाण्डवनिर्वाणवर्णनात्मको
द्वादशः सर्गः ॥१२॥ इति कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचितत्रिषष्टिशलाकापुरुषचरितस्य
तपोगच्छाधिपति-शासनसम्राट-बालब्रह्मचारि-श्रीकदम्बगिरितालध्वज-राणकपुर-कापरडाद्यनेकतीर्थोद्धारकाचार्यवर्य
श्रीमद्विजयनेमिसूरीश्वरपट्टालङ्कारसमयज्ञ-शान्तमूर्त्याचार्यवर्यश्रीविजयविज्ञानसूरीश्वरपट्टधरसिद्धान्तमहोदधि-प्राकृतविशारदाचार्यवर्यश्रीविजयकस्तूरसूरीश्वरशिष्यरत्नप्रख्यातव्याख्यातृ-कविरत्न-श्रीविजययशोभद्रसूरीश्वरशिष्यरत्न
___श्रीविजयशुभङ्करसूरीश्वरकृते
गद्यात्मकसारोद्धारे अष्टमपर्वणि समाप्तं श्रीअरिष्टनेमि-कृष्णवासुदेव-बलभद्रजरासन्धप्रतिवासुदेवचरितप्रतिबद्धमष्टमं पर्व ॥८॥
॥ अहम् ॥ ॥ श्रीनेमि-विज्ञान-कस्तूर-यशोभद्रसूरिसद्गुरुवरेभ्यो नमः ॥ त्रिषष्टिशलाकापुरुषचरितम्
गद्यात्मकसारोद्धारः श्रीब्रह्मदत्तचक्रि-पार्श्वनाथचरितप्रतिबद्धं
नवमं पर्व श्रीब्रह्मदत्तचक्रिचरितम्
प्रथमः सर्गः अथ जम्बूद्वीपे भारते साकेतनगरे चन्द्रावतंसनृपस्य मुनिचन्द्रो नाम पुत्रो भारेभ्यो भारवाहीव विषयेभ्यो विरक्तो मुनेः सागरचन्द्रस्य समीपे व्रतं ललौ । स चैकदा प्रव्रज्यां पालयन् गुरुणा सह विहरन् भिक्षार्थं ग्रामं प्रविष्टवान् । यूथभ्रष्टो हरिण इव च सार्थभ्रष्टो वनं पर्यटन् क्षुत-तृट्परीतो ग्लानश्चतुभिर्गोपैर्बान्धवैरिवोपचरितः । स च तेषां प्रतिबोधाय धर्मदेशनां ददौ । ते च चत्वारः प्रबुद्ध: प्रव्रज्य शमसम्पन्ना व्रतं चेरुः । तत्र द्वौ धर्मजुगुप्सां चक्रतुः । तादृशावपि च तावन्यावपि च द्वौ च तपःप्रभावाद् दिवं जग्मुः ।
अथ तौ द्वौ धर्मजुगुप्सको च्युत्वा दशपुरे शाण्डिल्यद्विजस्य जयवत्यां दास्यां युग्मरूपौ सुतौ भूत्वा क्रमाद् यौवनं प्राप्तौ
Page #121
--------------------------------------------------------------------------
________________
२१४
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः पित्रादिष्टौ दासेरकत्वात् क्षेत्रं रक्षितुं जग्मतुः । तयोस्तत्र रात्रौ शयानयोश्चेको वटकोटराद् निःसृत्यैकेन विषधरेणाऽहिना दष्टः । ततोऽन्योऽपि सन्वेिषणाय भ्रमंस्तेनैव सर्पेण दुष्टेन वैरादिवाऽऽशु दष्टः । ततस्तौ चिकित्सामप्राप्य विपन्नौ कलिञ्जरगिरिशिखरे मृगौ भूत्वा वर्धमानौ मृग्या जनन्या सह चरन्तौ व्याधेनैकेन बाणेन हतौ कालधर्म प्राप्तौ । ततो गङ्गायां राजहंस्या युग्मरूपौ सुतौ जाती क्रीडन्तौ जालिकेन जालेन धृत्वा ग्रीवां मोटयित्वा हतौ । ___अथ तौ वाराणस्यां भूतदत्ताख्यस्य महेभ्यस्य मातङ्गपतेः सुतौ चित्र-सम्भूतनामानौ जातौ । तौ च मिथ: स्निग्धौ कदाऽपि वियुक्तौ नाऽभूताम् । तदानीं च वाराणस्यां शङ्खनाम्नो नृपस्य नमुचिर्नाम सचिव आसीत् । एकदा च सोऽक्षम्येऽपराधे जाते नृपेण गुप्तं भूतदत्तस्य वधाय समर्पितः । स च नमुचिमुवाच-'त्वां गुप्तं रक्षामि, यदि त्वं भूमिगृहस्थो मम पुत्रौ पाठ्यसि' । नमुचिश्च तस्य मातङ्गपतेस्तद्वचो जीवितार्थी स्वीचकार । तथा स चित्र-सम्भूतौ विचित्राः कला: शिक्षयामास । मातङ्गपतिपल्याऽनुरक्तया रेमे च । तज्ज्ञात्वा भूतदत्तेन हन्तुमारब्धः स चित्र-सम्भूताभ्यां ज्ञात्वा दूरेण दक्षिणस्यां जीवनपूर्वकमपसारितः । ततो निर्गत्य च नमुचिर्हस्तिनापुर गतश्चक्रिणा सनत्कुमारेण स्वसचिवः कृतः ।। ___ इतश्च चित्र-सम्भूतौ प्राप्तनवयौवनावप्रतिमरूपौ गायन्तौ वादयन्तौ नाट्यन्तौ च स्वगान्धर्वविद्यया लोकानां मनो जहतुः । एकदा च तस्यां नगर्यां मदनोत्सवे जाते सङ्गीतमनोहराणि पौराणां चर्चर्याख्यगायनानि प्रवृत्तानि । तत्र च चित्र-सम्भूतयोरपि चर्चप्रवृत्तायां तदाकृष्टाः पौरा मृगा इव तत्रैव समीयुः । ततः केनाऽपि 'मातङ्गाभ्यामाभ्यां गीतेनाऽऽकृष्य सर्वः पौरजनो निज इव
नवमं पर्व - प्रथमः सर्गः मलिनीकृतः', इति निवेदितो राजा'ऽनयोर्मातङ्गयोः क्वचिदपि प्रवेशो न दातव्य' इति साक्षेपं पुराध्यक्षमादिक्षत् । ततः प्रभृति च तो पुराद् दूरेणैव तस्थतुः ।
पुनश्चैकदा कौमुदीमहोत्सवे प्रवृत्ते तौ नृपाज्ञामुल्लद्ध्याऽजितेन्द्रियौ नगरी प्रविष्टावुत्सवं प्रेक्षमाणौ सर्वाङ्ग वस्त्रेणाऽऽवृत्य दस्युवच्छन्नं छन्नं विचरतुः । तत्र च क्रोष्टुरवेण क्रोष्टेव पौरगीतेन हताशयौ भवितव्यताया अलङ्घनीयत्वात् तारस्वरेण गातुं प्रवृत्तौ । तयोः श्रुतिप्रियं गानमाकर्ण्य तरुणैः पौरैर्मक्षिकाभिर्मधुच्छत्रमिव तौ चित्र-सम्भूतौ परिवारितौ । काविमाविति ज्ञातुं च लोकैर्हतावगुण्ठनौ तौ 'अरे ! इमौ तावेव मातङ्गावि'ति साक्षेपं निर्भत्सितौ । तदा नागरैर्यष्टिभिर्मुष्टिभिर्लेष्टुभिश्च कुट्यमानौ गृहात् कुकुराविव नम्रकन्धरौ पुर्या निर्गतौ पदे पदे ताड्यमानौ कथमपि गम्भीरोद्यानमीयतुः । तत्र द्वावपि दध्यतुः-'नो ज्ञातिदूषणं धिक्, अहिना पय इवाऽऽवयोः कलादिकं ज्ञात्वा दूषितम् । तदनर्थगृहं वपुस्तृणवत् क्वचित् त्याज्यमेव' ।
एवं निश्चित्य मुमूर्षु तौ दक्षिणां दिशं प्रचलितौ दूरं देशं प्राप्तावुत्तुङ्गं गिरिं दृष्ट्वा भृगुपातेच्छया तमारोहन्तौ तत्र गिरौ गुणराशि मुनि दृष्टवन्तौ । तं गिरिशिखरस्थं मुनि दृष्ट्वा च तौ सद्यस्तापविमुक्तावश्रूणि विमुञ्चन्तौ तन्मुनेः पादयोः पेततुः । मुनिना च ध्यानं समाप्य 'कौ युवां, किमीहाऽऽगतावि'ति पृष्टौ च तौ सर्व स्ववृतान्तमाचख्यतुः । ततो मुनिरुवाच-भृगुपातेन शरीरमेव नश्यति, अशुभं हि नैकजन्मार्जितं न क्षीयते । यदि युवयोर्वपुस्त्याज्यमेव तदा जन्मफलं स्वर्गापवर्गसाधनं व्रतमेव गृह्णीतम्' । तस्य मुनेरुक्तदेशनया प्रबुद्धौ तौ तत्रैव दीक्षां गृहीत्वाऽधीयानौ क्रमेण गीतार्थो जाती
Page #122
--------------------------------------------------------------------------
________________
नवमं पर्व - प्रथमः सर्गः सहजदयालुभ्यां ताभ्यां मुनिभ्यां स नमुचिः सर्पो गरुडादिव राज्ञो मोचितः । वध्योऽपि स मुनिशासनाद् राज्ञा मुक्तो निर्वासितश्च ।
अथ चक्रिणः स्त्रीरत्नं सुनन्दा चतुष्षष्टिसहस्रैः सपत्नीभिः सह तौ मुनी वन्दितुमागात् । तस्याः पादौ प्रणमन्त्याः केशस्पर्शन सम्भूतमुनिः पुलकितो जातः । ततः सान्तःपुरे नृपे वन्दित्वा गते रागपीडितः सम्भूतमुनिः अस्य दुष्करस्य तपसः फलेन भाविजन्मन्यहं स्त्रीरत्नपतिर्भूयासमिति निदानमकरोत् । चित्रसाधुना च निदानदोषदर्शनादिना बहुधा बोध्यमानोऽपि सम्भूतमुनिविषयासक्तेबलवत्त्वाद् निदानं न जहौ । ततस्तावनशनं निर्वाह्याऽऽयुःक्षये सौधर्मे सुरावभूताम् ।
२१६
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः षष्ठाऽष्टमप्रभृतितपोभिः पूर्वकर्मभिः सहैव शरीरं साधयन्तौ ग्रामादिषु विहरमाणौ हस्तिनापुरं प्रापतुः । तत्र बहिरुद्याने दुश्चरं तपश्चेरतुश्च ।
अथाऽन्यदा सम्भूतमुनिर्मासक्षपणपारणे पुरे प्रविष्टो मार्गे नमुचिमन्त्रिणा दृष्टः । ततो नमुचिर्दध्यौ-'मातङ्गपुत्र अयं मुनिर्मवृत्तं' ख्यापयिष्यति, तदयं यावद् न मवृतं ख्यापयति तावदेनं निर्वासयामि' । एवं विचिन्त्य स पत्तीन् न्ययोजयत् । तैश्च लकुटैः कुट्यमानः स मुनिस्त्वरितं ततोऽपासरत् । तथाऽपि तैरमुच्यमानश्च शान्तोऽपि स कुपितवान् । ततश्च तन्मुखात् समन्तादूष्मसन्ततिनिरीयाय । ज्वालाजालजटिला तेजोलेश्या प्रादुर्भूता । ततो भीताः पौरा अतिक्रुद्धं तेजोलेश्याधरं तं मुनि प्रसादयितुमाजग्मुः ।
नृपः सनत्कुमारोऽपि लोकात् तद्वृत्तं ज्ञात्वा तत्र समाययौ । अत्राऽन्तरे चित्रोऽपि तं मुनि सान्त्वयितुं तत्राऽऽगात् । मुनिश्च तेषां सान्त्ववचनैः पयःपूरैर्दावानल इव सद्य एव शमं जगाम । लोकाश्च तं नत्वा वन्दित्वा क्षमयित्वा च न्यवर्त्तन्त । चित्रमुनिश्च तं सम्भूतमुनिमुद्यानमनयत् । ततो भिक्षाटनं व्यसनकारणमिति विचार्य तौ मुनी संलेखनां कृत्वा चतुर्विधाहारप्रत्याख्यानं चक्रतुः । ___ अथेतो राज्ञा साधु क उपद्रुतवानिति जिज्ञासिते मन्त्रिकृत्यमिदमिति ज्ञात्वा ध्यातम्-'योऽर्ध्यानपि नाऽर्चयति, प्रत्युत पीडयति, सोऽवश्यं पापिष्ठ' इति । ततः क्रुद्धः स नृपो दस्युवद् बन्धयित्वा परस्याऽपि शिक्षा यथा स्यादिति बद्धमेव तं नमुचिं पुरमध्येन साधुसमीपमनयत् । तत्र गत्वा च स नृपस्तौ मुनी अवदन्त । मुनी अपि दक्षिणं करमुत्थाप्य मुखवस्त्रिकाच्छादितमुखावाशिषं ददतुः । ततो नृपः सनत्कुमारस्तादृशं नमुचिमदर्शयत् । ततः
अथ प्रथमं चित्रजीवश्च्युत्वा पुरिमतालाख्ये पुरे महेभ्यपुत्रोऽभवत् । सम्भूतजीवश्च काम्पील्यपुरे ब्रह्मनृपस्य चुलनीदेव्या भार्यायाः कुक्षाववातरत् । समये पूर्णे च चतुर्दशमहास्वप्नसूचितमहत्त्वः स्वर्णवर्णः सप्तधनून्नतस्तस्याः पुत्रो जज्ञे । ब्रह्मनृपश्च तस्य ब्रह्मदत्त इत्यभिधां चकार । स च ब्रह्मदत्तो दिने दिने चन्द्रकलेव ववृधे । तस्य च ब्रह्मनृपस्य ब्रह्मणश्चत्वारि मुखानीव चत्वारि प्रियमित्राण्यभूवन् । तेष्वेकः काशिभूपतिः कटको, द्वितीयो हस्तिनापुरेशः कणेरुदत्तस्तृतीय: कोशलेशो दीर्घश्चतुर्थश्चम्पेश: पुष्पचूलकश्च । ते पञ्चाऽपि मिलित्वा स्नेहादेकैकस्य गृहे वर्षमधिवसन्ति स्म ।
एकदा च ब्रह्मनृपनगरे ते चत्वारः समाययुः । तेषां विविधं रममाणानां च कियानपि कालो व्यतिचक्राम । ब्रह्मनृपश्च
Page #123
--------------------------------------------------------------------------
________________
पुरुष-गद्यात्मकसारोद्धारः
ब्रह्मदत्तस्य द्वादशसु वर्षेषु पूर्णेषु शिरः पीडया विपन्नवान् । कटकादयश्च तस्यौर्ध्वदैहिकं कृत्वा दध्युः - 'यावद् ब्रह्मदत्तो बालस्तावदस्मास्वेकैकोऽत्र वर्षे वर्षे प्राहरिक इव रक्षकोऽस्तु' । ततो दीर्घो मित्रराज्यं रक्षितुं तत्र नियुक्तः । अन्ये च त्रयो यथास्थानं जग्मुः । दीर्घश्चाऽदीर्घदर्शी ब्रह्मणो राज्यसम्पदं स्वच्छन्दं बुभुजे । ऐश्वर्यमदमत्तश्च स चिरगूढं कोशं मार्गयामास । प्राक्परिचयाश्चाऽन्तःपुरं सञ्चचार । चुलनीदेव्या सह चिरं नर्माऽकरोत् । तावुभौ च लोकमर्यादामतीत्य सुखं विलेसतुः ।
२१८
अथ कियत्यपि काले गते ब्रह्ममन्त्री धनुस्तयोर्दुश्चेष्टितं ज्ञात्वाऽयं रक्षको भक्षकः सन् ब्रह्मदत्तकुमारस्याऽनिष्टं मा कार्षीदिति विमृश्य वरधनुसंज्ञं स्वपुत्रं दीर्घस्य तद्वृत्तं ज्ञापयितुं ब्रह्मदत्तं सेवितुं चाऽऽदिशत् । ब्रह्मदत्तश्च मन्त्रिपुत्रेण सर्वं वृत्तं ज्ञात्वा शनैः प्रवृद्धकोपः काक - कोकिले गृहीत्वा मातुः समीपं गत्वा 'वध्यौ वर्णसङ्करावेतावन्यमपि चेदृशं हनिष्यामी' त्युच्चैरुवाच । दीर्घेण च 'काकोऽहं त्वं च कोकिलेत्यावामसौ हन्तुमिच्छतीति प्रोक्ता च 'बालवचनाद् मा भैषीरिति चुलन्युवाच ।
अन्यदा च भद्रगजेन सह मृगगजं नीत्वा कुमारस्तयोर्वधसूचकं वचनं प्राग्वदेव साक्षेपमुवाच । ततो दीर्घः साभिप्रायं बालवचनमित्यवदत् । चलनी च तदुपेक्षितवती । ततोऽन्यदा ब्रह्मदत्तो हंस्या सह बकं बद्ध्वोवाच- 'अनया सहैष रमते ततः कस्याऽपीदृशं न सहिष्ये' । ततो दीर्घश्चलनीमुवाच- 'एवमुक्त्या कुमारो वर्धमानक्रोधोऽनुमीयते तदयमवश्यमावयोर्विघ्नाय भविष्यति, तस्माद् यावदयं कवचहरो न जायते तावदेव विषवृक्षवदुन्मूलनीयोऽसौ' ।
नवमं पर्व प्रथमः सर्गः
२१९
ततश्चलन्युवाच- 'पक्षिणोऽपि स्वसुतान् रक्षन्ति, अयं च राज्यधरः पुत्रः कथं विहन्यते' ।
ततो दीर्घोऽवदत्- अयं पुत्ररूपस्तव कालः मा शुचः, मयि सति तव पुत्रा न दुर्लभा:' । ततश्चलनी तद्वाक्यममन्यत । तथा साऽमन्त्रयत्-‘अयं विवाह्य वासागारच्छलेन लाक्षागृहे नेयः, सुषुप्ते च तस्मिन् रात्रावग्निः प्रज्वालनीयः' । एवं मन्त्रयित्वा ताभ्यां पुष्पचूलस्य कन्या वृता । वैवाहिकी सर्वा सामग्री चोपकल्पिता । मन्त्री धनुश्च तयोः क्रूरमाशयं विज्ञाय कृताञ्जलिर्दीर्घमुवाच- 'मम पुत्रो वरधनुर्योग्यस्त्वदाज्ञाकार्यस्तु, अहं वृद्धोऽशक्तस्त्वदाज्ञया गत्वा क्वचिदनुष्ठानं करोमि । ततो दीर्घो 'मायाव्ययमन्यत्र गतः कमप्यनर्थं कुर्वीते 'ति मनसि शङ्कित्वाऽलक्षितभाव उवाच - 'अत्रैव यागादिना धर्मं कुरु, अन्यतो मा गाः, सद्वृक्षैर्वनमिव भवादृशैरेव राज्यं शोभते' |
ततः सुमतिर्धनुर्गङ्गातीरे सत्रमण्डपं कारयित्वा पान्थानां कृतेऽनवच्छिन्नं सत्रं प्रवर्त्तयामास । तथा निजपुरुषैर्जतुगृहावधि द्विक्रोशां सुरङ्गां कारयामास । तथा सर्वमिदमत्रत्यं वृत्तान्तं धनुर्गुप्तलेखेन पुष्पचूलमज्ञापयत् । पुष्पचूलोऽपि बुद्धिमांस्तज्ज्ञात्वा स्वपुत्र्याः स्थाने हंस्या: स्थाने बकीमिव स्वदासीपुत्रीं प्रेषयामास । सा च पुरीं विशन्ती भूषणाद्यैः पौष्पचूलीति लोकैर्लक्षिता । चुलनी च मुदा तां ब्रह्मदत्तेन पर्यणाययत् । सायं च सर्वं लोकं विसृज्य चुलनी सवधूकं कुमारं लाक्षागृहे वासार्थं प्रेषयत् ।
अथ कुमारश्च तया वध्वा सह तद्गृहं गत्वा मन्त्रिपुत्रेण वार्ताभिरर्धरात्रं व्यतिचक्राम् । चुलन्यादिष्टपुरुषैश्च प्रेरितोऽग्निर्वा
Page #124
--------------------------------------------------------------------------
________________
२२०
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः सगृहे प्रजज्वाल । धूमौघे सर्वतः प्रसरति वह्नौ प्रवर्धमाने च ब्रह्मदत्तेन किमेतदिति पृष्टो मन्त्रिपुत्रश्चुलन्याः सर्वं दुश्चेष्टितमाख्यायोवाच-त्वामितः स्थानादन्यत्र नेतुं मत्पित्रा सत्रगृहगामिनी सुरङ्गा दापिताऽस्ति । तदत्र पाष्णिप्रहारेण सुरङ्गामुखमुद्घाट्याऽधुनैव प्रविश । ततः स ब्रह्मदत्तस्तथा कृत्वा समित्र: सुरङ्गाया नीरीय तदन्ते धनमन्त्रिणा स्थापितावश्वावधिरुयन्तौ पलायामासतुः ।
अथाऽश्वौ क्रोशवत् पञ्चाशद्योजनी पञ्चमधारया गत्वा गतासू बभूवतुः । ततस्तौ पादचारेण कोष्ठकाख्यं ग्रामं निकषा प्रापतुः । तत्र च ब्रह्मदत्तं क्षुत्-तृषार्तं ज्ञात्वा क्षणं प्रतीक्षस्वेत्युक्त्वा मन्त्रिपुत्रो ग्रामाद् नापितमाहूतवान् । ब्रह्मदत्तश्च मन्त्रिपुत्रेण प्रेरितो वपनं कारयित्वा शिखामात्रमधारयत् । तत: कषायवस्त्राणि परिधाय कण्ठे वरधनुदत्तं यज्ञोपवीतं च धारयामास । तथा मन्त्रिपुत्रो ब्रह्मदत्तस्य श्रीवत्सलाञ्छनं वक्षः पटेन पिदधे । मन्त्रिपुत्रश्च स्वस्याऽपि वेषपरिवर्तनं चकार ।
अथ ग्रामं प्रविष्टौ द्वावपि केनाऽपि विप्रेण भोजनाय निमन्त्रितौ सादरं भोजितौ च । ब्राह्मणी च कुमारस्य मस्तकेऽक्षतान् विकीर्य वस्त्रयुगं देवीतुल्यां कन्यां च दत्तवत्ती। निवारयति मन्त्रिपुत्रे च द्विज उवाच-'ममेयं कन्या गुणग्रामसमग्रा बन्धुमती', अस्या अमुं विहाय नाऽन्यो योग्यो वरः । निमित्तज्ञा अस्याः पतिं चक्रिणमूचुः । सोऽयमेव यतस्तैरेवोक्तं-'पट्टगोपितश्रीवत्सलाञ्छनो यस्तव गृहे भोक्ष्यते, तस्मै स्वकन्या देया' । ततस्तया ब्रह्मदत्तस्य तया विवाहो जज्ञे । कुमारश्च तां रात्रि तत्र वासं विधाय बन्धुमतीमाश्वास्याऽन्यतो ययौ ।
नवमं पर्व - प्रथमः सर्गः
.......२२१ अथ प्रान्तग्रामं प्राप्य तावशृणुताम्-'दीर्घेणाऽधिब्रह्मदत्तं सर्वे मार्गा रोधिता:' । ततस्तावुत्पथेन प्रस्थितौ महाटवीं प्रापतुः तत्र च तृषार्तं कुमारं वटवृक्षतले मुक्त्वा वरधनुर्वेगेन जलार्थं जगाम । दीर्घनियुक्तैः पुरुषैश्च वरधनुरयमित्युपलक्ष्य क्रुद्धः कुकुरैः शूकरशावक इव निरुद्धो बद्धश्च वरधनुर्ब्रह्मदत्ताय पलायस्वेति संज्ञामकार्षीत् । ततः पलायितश्च कुमारो वनान्तरं गतस्तृतीये दिवसेऽग्रत एकं तापसं दृष्ट्वान् । तेन च 'भगवन् ! | कुत्र व आश्रम' इति पृच्छन् कुमारो निजाश्रमपदं प्रापितः । तत्र तं प्रणमन्तं दृष्ट्वा कुलपतिरुवाच-'वत्स ! त्वमति मधुराकृतिः तवाऽत्राऽऽगमने को हेतुः । ततो विश्वस्तो ब्रह्मदत्तो निजं सर्वं वृत्तान्तमाख्यत् । ___ ततो हृष्टः कुलपतिः सगद्गदमुवाच-'तव पितुर्लघुभ्राताऽहं, ततो यथासुखमत्र तिष्ठ, तवैतद् गृहम्' । ततः स तत्राऽऽश्रमेऽतिष्ठत् । तदानीं च वर्षाकालोऽपि प्राप्तः । तत्र निवसंश्च स कुमारः सर्वाणि शास्त्राणि शस्त्राण्यस्त्राणि चाऽधीतवान् ।
अथ प्रावृट्कालेऽतीते च फलाद्यर्थं वनं प्रचलितेन तापसेन सह कुलपतिना वार्यमाणोऽपि कुमारोऽगात् । ततस्ततो भ्रमंश्च करिणो विण्मूत्रं दृष्ट्वाऽदूरत एव तं स्थितमनुमाय तापसेन वार्यमाणोऽपि सोऽनुपदं गच्छन् योजनपञ्चकस्याऽन्ते तं दृष्ट्वा मल्लो मल्लमिव गजितं कुर्वन् तमाह्वास्त । गजश्च क्रुद्धः कुमारं प्रत्यधावत । कुमारश्च समीपगं तं वञ्चयितुं स्वमुत्तरीयं चिक्षेप । एवं विधाभिश्चेष्टाभिश्च कुमारे गजं रमयति सति मेघः कृताम्बरो ववर्ष । ततो विरसं रसित्वा मृगनाशं नष्टे गजेऽद्भिर्दिङ्मूढः कुमारो नदी प्राप । तामुत्तीर्य तस्यास्तटे प्राचीनमुद्वसं पुरं दृष्ट्वा प्रविश्य वंशजालिकां खड्ग-चर्मणी च ददर्श । खड्गमादाय वंशजालिकां
Page #125
--------------------------------------------------------------------------
________________
२२२
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः छित्त्वा तदन्तरग्रतः स्फुरदोष्ठदलं पृथिव्यां पतितं शिरो ददर्श । तत्र सम्यक् पश्यंश्च स वल्गुलीकरणस्थस्य कस्यचिद् धूमपायिन कबन्धमपश्यत् । ततः स 'हा विद्यासाधकः कोऽपि मया निरपराधं हत' इति स्वं निनिन्द । ___ अथाऽग्रतो गत उद्यानं वीक्ष्याऽग्रे प्रविशन् सप्तभूमिकं प्रासाद दृष्ट्वा तमारूढस्तत्रैकां करन्यस्तकपोलां सुरीमिव द्वितीयामेकाकिनी कन्यां निषण्णां ददर्श । ततोऽपसृत्य का त्वमेकाकिनी, किं च तव शोककारणमिति पप्रच्छ । तत: सा भयाक्रान्ता सगद्गदं जगाद'मम महान् वृत्तान्तः, त्वं कोऽसि, किमिहाऽऽगत:' । ततो ब्रह्मदत्तोऽवोचत्-'अहं पाञ्चालनपतेब्रह्मणः पुत्रः' । तावदेव सोत्थाय सानन्दाश्रुभिः पाद्यं कुर्वतीव तस्य पादयोः पपात । तथा 'कुमार ! शरणं मे त्वमागत इति' ब्रुवाणोच्चै रुरोद । तेन पृष्टा च सा त्वन्मातृभ्रातुः पुष्पचूलस्य पुत्री पुष्पवत्यहं भवते दत्ताऽस्मि ।
एकदा चोद्यानं रन्तं गता तडागतटे भ्रमन्ती दृष्टविद्याधरेण नाट्योन्मत्ताभिधेनाऽपहत्य रावणेन सीतेवाऽत्राऽऽनीताऽस्मि । स च मम दृष्टिमसहमानो विद्यासाधनाय वंशजालिकां प्राविशत । ऊर्ध्वपादस्य धूमपायिनस्तस्याऽद्य विद्या सेत्स्यति । ततः स मां परिणेष्यति । ततः कुमारोऽपि तद्वधवृत्तान्तं न्यवेदयत् । तदा तयोर्हर्ष प्राप्तयोरन्योन्यमनुरागवतोर्गान्धर्वो विवाहोऽभूत् । ततस्तया साधू रममाण: कुमारस्तां रात्रिमत्यवाहयत् ।
अथ प्रभाते खेचरस्त्रीणां ध्वनि शुश्राव । किमकस्मादेवाऽऽकाशे ध्वनिरिति तेन पृष्टा च पुष्पवत्युवाच-'तव शत्रोर्नाट्योन्मत्तस्यैते द्वे खण्डा विशाखा च भगिन्यौ तन्निमित्तं
नवमं पर्व - प्रथमः सर्गः
२२३ विवाहोपस्करमादाय समागते स्तः । तत् तावत् तं क्षणमपसर्प । यावत् त्वद्गुणकीर्तनस्त्वय्यनयोर्भावमहं जानामि । रागे ज्ञाते मम रक्तपताकां प्रेरयिष्यामि विरागे च श्वेतम् । तदा त्वमन्यतो गच्छे:' । ततो ब्रह्मदत्तोऽवोचत्-'मा भैषीः, इमे तुष्टे रुष्टे वा मम किं करिष्यतः' । ततः पुष्पवत्युवाच-'नैताभ्यां ते भयं कथयामि, किन्त्वेतदीयाः खेचरास्त्वया विरोधं मा कार्युरिति वच्मि' । ततः कुमारस्तत्रैकतोऽस्थात् । पुष्पवती च तत्र गत्वा तयोर्भावमनुमाय श्वेतां पताकां चालयामास । ततः कुमारस्तत्प्रदेशाच्छनैः शनैरगमत् ।
अथ ब्रह्मदत्तो दुरवगाहं तं वनमतिक्रम्य सायं चैकं महासरः प्रापत् । तत्र प्रविश्य स्नात्वा पयः पीत्वा निर्गत्य कुमारो लताकुजादिमनोहरं पश्चिमं तीरमभ्यगात् । तत्र कुञ्जे च पुष्पाणि चिन्वती काऽपि सुन्दरी दृष्टा । साऽपि च दास्या सह जल्पन्ती तं पश्यन्त्यन्यतो ययौ । कुमारश्च तामेव पश्यन् यावदन्यतो याति तावद् वस्त्र-ताम्बूल-जलाद्यादाय दासी तत्र समुपागता तदर्पयित्वोवाच'या त्वयाऽधुना दृष्टा, तयेदं सर्वं प्रेषितं, त्वं मया तत्पितुर्मन्त्रिणो मन्दिरं गत्वाऽऽतिथ्यं स्वीकुरु' ।
तत: कुमारस्तया सह नागदेवस्य मन्त्रिणो गृहमगात् । मन्त्री च तमभ्युदस्थात् । दासी च 'राज्यपत्र्या श्रीकान्तया वासाय तव गृहेऽयं प्रेषित' इत्युक्त्वा जगाम । कुमारश्च तेन मन्त्रिणा विविधं राजेवोपास्यमानस्तां रात्रि क्षणमिवाऽतीयाय । प्रभाते च मन्त्री कुमारं राजकुलमनैषीत् । राजा चाऽादिना तमुपतस्थे । तथा वंशादिकमपृष्ट्वाऽपि नृपः कुमाराय स्वपुत्रीं ददौ । कुमारश्च तां परिणीतवान् ।
अन्यदा च क्रीडन् कुमारस्तां रहसि पप्रच्छ-'ममाऽज्ञातवंशादेस्त्वं पित्रा कथं दत्ताऽसि । ततः श्रीकान्तोवाच-'वसन्तपुरे
Page #126
--------------------------------------------------------------------------
________________
२२४
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः शबरसेनो नाम नृपोऽभूत्, तत्पुत्रो मम पिता राज्ये स्थितः क्रूरै!त्रिभिः पराभूत इमां पल्लीमशिश्रियत् । अत्र च भिल्लान् वशे कृत्वा ग्रामघातादिना स्वं कुटुम्ब पुष्णाति । तस्य चतुर्णां पुत्राणामुपर्यहं सुताऽत्यन्तं प्रिया । स च मां प्राप्तयौवनां दृष्ट्वोवाच-'सर्वे नृपा मे द्वेषिणः, तत्त्वयेह स्थितया मतो वरो मे कथनीयः । तत्प्रभृति सरस्तीरे चक्रवाकीव स्थिताऽहं सर्वान् पान्थान् पश्यामि, त्वं च स्वप्नेऽप्यत्यन्तदुर्लभो मद्भाग्यादिह समागतोऽसि' ।
एकदा च स पल्लीपतिग्रामघातकृते कुमारेण सह ययौ । ग्रामे लुट्यमाने च सरस्तीरे वरधनुरेत्य कुमारस्य पादयोः पपात । कुमारकण्ठमालम्ब्य च स मुक्तकण्ठं रुरोद । तत आश्वास्य कुमारेण पृष्टः स मन्त्रिपुत्र: स्वं वृत्तान्तमुवाच-'तदा त्वं वटतले मुक्त्वा जलार्थं गतोऽग्रे महासरो दृष्ट्वा नलिनीपत्रपुटेन तुभ्यं जलं गृहीतवान् । तदा यमदूतैरिव भटैः समागत्य रुद्धो ब्रह्मदत्त: क्वेति पृष्टो न वेद्मीत्यवोचम् । ततस्तैस्तस्करैरिव ताड्यमानोऽहं ब्रह्मदत्तो व्याघ्रण भक्षित इत्यवदम् । ततस्तैस्तं देशं दर्शयेत्युक्तश्छलेनेतस्ततो भ्रमन् त्वदृष्टिपथे समागत्य पलायनसंज्ञामकार्षम् । गुप्तां गुटिकां च मुखे क्षिप्तवानहं तत्प्रभावेण नि:संज्ञो मृत इति ज्ञात्वा तैस्त्यक्तः । तेषु गतेषु च गुटिकां मुखादाकृष्य त्वां नष्टधनमिवाऽन्वेष्टुं भ्रमन् कमपि ग्रामं गतस्तपोराशि परिव्राजकं दृष्ट्वा तमनमम् ।
ततः स मामवदत्-'वरधनो ! धनोरहं मित्रमस्मि वसुभागो नाम ब्रह्मदत्तः क्वाऽस्ति, ततो मयाऽप्यस्य सर्वो वृत्तान्तो निवेदितः । ततो म्लानमुखः स पुनरुवाच-तदा लाक्षागृहे दग्धे दीर्घः प्रातरेकमेव दग्धं कर सुरङ्गां तदन्तेऽश्वपदानि च दृष्ट्वा धनोर्बुड्याऽऽवां प्रणष्टाविति ज्ञात्वा तस्मै चुकोप । युवां बद्ध्वा समानेतुं च प्रतिदिशं
नवमं पर्व - प्रथमः सर्गः महान्ति सैन्यानि प्रेषयामास । धनुर्मन्त्री च पलायितवान् । किन्तु तव माता दीर्घेण नरके इव मातङ्गपाटके क्षिप्ता । अनया वार्तया च नितान्तं दुःखितः कम्पील्ये गतवानहं मातङ्गपाटके छद्मकापालिकीभूय चर इव गृहं गृहं प्रविशन् लोकेन भ्रमणकारणं पृच्छयमानश्च मातङ्गया विद्याया एव कल्प इत्यवोचम् । तत्रैवं भ्राम्यता मया तदारक्षकस्य मैत्री जाता । ___ एकदा च तन्मुखेन त्वन्मातरमवोचम्-'असौ त्वत्पुत्रमित्रं कौण्डिन्यस्तवाऽभिवादनं करोति' । द्वितीयदिने च स्वयं गत्वा त्वन्मातुर्बीजपूरकं सगुटिकमदां, येन भक्षितेन सा नि:संज्ञा जाता । पुराध्यक्षश्च तां मृतेति नृपाय व्यजिज्ञपत् । राज्ञा च तस्याः संस्कारार्थ पुरुषा आदिष्टास्तत्राऽऽयाता मयोक्ता: 'अत्र क्षणेऽस्याः संस्कारश्चेद् युष्माकं राज्ञश्च महाननर्थो भवेत्, तत्स्वगृहं यात । आरक्षकं चाऽहमवोच-'त्वं सहायश्चेत् तदाऽस्याः शवेनैकं मन्त्रं साधयामि । तत्प्रपन्नेनाऽऽरक्षेण सहितस्त्वज्जननीमादाय दूरं स्मशानमगाम् । तत्र मायया स्थण्डिले मण्डलादिनी विधाय पुरदेवीनां बलिं दातुमारक्षस्तत: प्रेषितः । तस्मिन् गते चाऽहं त्वन्मातुरपरां गुटिकामदाम् । ततः सा जातचेतनोदस्थात् । स्वं ज्ञापयित्वा रुदतीं तां निवार्य कच्छग्रामे पितुर्मित्रस्य देवशर्मणो गृहे तामनयम् । इतस्ततो भ्रमंश्च त्वामन्विष्यनिहाऽऽगतो दिष्ट्या दृष्टवानस्मि' । ततस्तेन पृष्टः कुमारोऽपि स्वं सर्वं वृत्तान्तं कथयामास ।
अथ तदानीमेव कोऽप्युपेत्य तावुवाच-'ग्रामे दीर्घभटा युष्मत्तुल्यरूपं पदं दर्शयन्त ईदृङ्नरौ किमायातावत्रेति वदन्ति' । तदाकर्ण्य मयाऽत्रैत्य युवां दृष्टौ, यदुचितं तत् कुरुतम्' । ततस्तस्मिन् गते ती वनमध्येन पलायमानौ कौशाम्बी पुरीं प्रापतुः । तत्र श्रेष्ठिन:
Page #127
--------------------------------------------------------------------------
________________
२२६
२२७
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः सागरदत्तस्य बुद्धिलस्य चोद्याने लक्षपणं कुक्कुटाहवमपश्यताम् । विविधं युद्धमानयोः कुक्कुटयोश्च सागरदत्तकुक्कुटं बुद्धिलकुक्कुटोऽभाङ्क्षीत् । __ ततो वरधनुराह-'सागर ! कथं ते जात्यमपि कुक्कुटं बुद्धिलकुक्कुटोऽभाङ्क्षीत्, तद्यदि मन्यसे तदेनं पश्यामि' । ततः सागरानुज्ञया स पश्यन् बुद्धिलकुक्कुटं पादयोरय:सूचीमयं ददर्श । बुद्धिलश्च तल्लक्षयन् तस्मै छन्नं लक्षार्धं दत्तवान् । स च तं वृत्तान्तं कुमारस्याऽवोचत् । ततो ब्रह्मदत्तोऽय:सूची: कृष्ट्वा भूयोऽपि बुद्धिलकुकुटं सागरकुक्कुटेनाऽयोधयत् । ततश्च सागरकुक्कुटेन बुद्धिलकुकुटः क्षणादेव भग्नः । ततो दृष्टः सागरदत्तस्तौ स्वरथे आरोप्य निजं गृहं निनाय ।
निजगृहे इव तद्गृहे निवसतोस्तयोर्बुद्धिलकिङ्कर एत्य वरधनोः किमप्याख्यत् । तस्मिन् गते च वरधनुः कुमारं जगाद'बुद्धिलेनाऽद्य मम लक्षार्धं दित्सितं तदेतं हारं पश्य' । ब्रह्मदत्तश्च हारे बद्धं स्वनामाईं दृष्ट्वान् । तदानीमेव च तत्र वत्साख्या तापसी समागात् । सा च तयोः शिरसि साशिषमक्षतान् क्षिप्त्वा वरधनो रहसि किमप्याख्याय ययौ । ततो वरधनुः कुमारं प्राह-'इयं हारबद्धलेखस्य प्रतिलेखं याचते ।
को ब्रह्मदत्त इति मया पृष्टा साऽवोचत्-'इह नगरे श्रेष्ठिसुता रत्नवती निसर्गसुन्दरी तद्दिने कुक्कुटयुद्धे इमं ब्रह्मदत्तमपश्यत् । तत: प्रभृति कामार्ता सा 'शरणं मे ब्रह्मदत्त' इत्यनिशं ब्रुवाणा ताम्यति । सा चाऽन्येधुः स्वयं लेखं लिखित्वा हारेण सह ब्रह्मदत्तस्येदमर्ग्यतामिति मामुवाच । स लेखो मया दासहस्तेन
नवमं पर्व - प्रथमः सर्गः प्रेषित इत्युक्त्वा सा स्थिता मयाऽपि ते प्रतिलेखं दत्त्वा व्यसृज्यत' । ततः कुमारोऽपि कामातः क्षणमपि सुखं न स्थितः ।
अन्येधुश्च कौशाम्बीनृपस्य दीर्पण प्रेषिता नरास्तौ तत्राऽन्वेष्टुं समाययुः । नृपादेशेन कौशाम्ब्यां तयोरन्वेषणे प्रवृत्ते सागरो भूगृहे तौ क्षिप्त्वा निधानवद् जुगोप । तौ जिगमिषन्तौ च रात्रौ रथमारोप्य सागरः कियन्तमपि पन्थानं नीत्वा ववले । तौ गच्छन्तौ चाऽग्रे उद्याने कन्यकामपश्यताम् । किमेतावती वेला युवयोर्जातेति तया सादरं पृष्टौ च तावूचतुः-'कावावामिति कथं वेत्सि' । ____ततः सोवाच-अस्यां पुर्यां महाधनो धनप्रभवः श्रेष्ठ्यासीत् । तस्य च श्रेष्ठिनोऽष्टानां पुत्राणामुपर्यहं विवेकश्रीरभवम् । प्राप्तयौवना चाऽस्मिन्नुद्यानेऽत्युत्तमवरप्राप्त्यर्थं यक्षमाराधयम् । तुष्टश्च यक्षो ब्रह्मदत्तश्चक्री ते वरो भविष्यतीति वरं ददौ । सागरबुद्धिलक्कुक्कुटयुद्धं यं पश्यसि, स श्रीवत्सलाञ्छन: सखितुल्यरूपो वरो भवत्योपलक्षणीयः । मदायतनवर्तिन्यास्तव ब्रह्मदत्तेन सङ्गमो भविष्यति तेन त्वां जानामि । तदेहि, कामाता मां रक्ष ।' ततस्तथेति प्रतिपद्य स कुमारो रथं स्थगयित्वा व गन्तव्यमिति पृष्टवान् । सोवाच-'मगधपुरे मत्पितृव्यो धनावहः श्रेष्ठ्यस्ति, स आवयोर्महती प्रतिपत्ति दास्यति, तत्रैव गन्तव्यम् । ततो रत्नवतीवाचा कुमारो मन्त्रिपुत्रेण सह कौशाम्बीदेशमुल्लङ्घ्य भीमां महाटवीं प्राप । ___ अथ तत्र सुकण्टक-कण्टको चौरयूथपती ब्रह्मदत्तं रुरुधतुः । कुमारोऽपि च धनुरादाय तौ प्रजहार । ततस्तौ ससैन्यौ प्रणेशतुः । ततो मन्त्रिपुत्रः कुमारमुवाच-'स्वामिन् ! श्रान्तोऽसि, तदिहैव रथे मुहूर्त स्वपिहि' । ततो ब्रह्मदत्तोऽपि रत्नवत्या सह रथ एव
Page #128
--------------------------------------------------------------------------
________________
२२८
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धार:
२२९
सुष्वाप। प्रातश्च नदीं प्राप्य श्रान्ता अश्वास्तस्थुः । कुमारश्च जजागार । रथे च मन्त्रिपुत्रमदृष्ट्वा पयसे गत: स्यात् किमिति वारंवारमाजुहाव ।
अलब्धोत्तरश्च रथाग्रं रक्ताक्तं दृष्ट्वा हा हतोऽस्मीति विलपन् मूच्छितो रथे पपात । कथञ्चिल्लब्धसंज्ञश्च 'हा ! वरधनो ! क्वाऽसीत्येवं क्रन्दन् रत्नवत्या प्रबोधित:-'भवतः सखा मृत इति न ज्ञायते, त्वत्कार्याय स क्वाऽपि गतो भवेत् । स त्वद्भक्तिप्रभावादेव रक्षितो भविष्यति, स्थाने प्राप्ताः सन्तस्तस्याऽन्वेषणं करिष्यामः, इह वने स्थातुं न युज्यते' । ततः स ब्रह्मदत्तस्तद्वाचाऽश्वान् प्रेरयन् मगधदेशस्य सीमग्रामं प्राप ।
अथ तत्र ग्रामण्या गृहस्थेन स्ववेश्म नीत्वा पूजितः शोकार्त्त इवाऽसीति पृष्टश्च 'मम सखा चौरेयुध्यमान: क्वाऽपि गत' इति ब्रह्मदत्त उवाच । ततस्तस्य प्रवृत्तिमानेष्ये इति ब्रह्मदत्तमुक्त्वा स ग्रामणी: सर्वां तां महाटवीमाटत् । तत एत्य चोवाच-'वने कोऽपि न दृष्टः, किन्तु प्रहारपतित एष शरो मया प्राप्तः' । ततो हतो वरधनुर्नूनमिति चिन्तयतस्तस्य निशा सजाता । चतुर्थे यामे च समापतिताश्चौराः कुमारेण भग्नाः । ततो ग्रामण्याऽनुसृतः स बहिस्तापसाश्रमे रत्नवती मुक्त्वा राजगृहं ययौ । ____ अथ तत्र पुरे प्रविशन् हर्म्यवातायने साक्षाद् रति-प्रीती इव नवयौवने द्वे कन्ये ऐक्षिष्ट । ततस्ताभ्यां 'प्रीतिभाजं जनं त्यक्त्वा यत् तदा गतवांस्तदुचितं किमि'त्युक्तः कुमार उवाच-'क: प्रेमभाग् जनः, स कदा मया त्यक्तः, कोऽहं, के युवाम्' । प्रसीद, एहि, इह विश्रम्य नाथेत्येवं ताभ्यां पुनरुक्तश्च स ब्रह्मदत्तस्तयो गृहे मनसीव प्रविवेश । कृतस्नानाऽशनाय ब्रह्मदत्ताय तिष्ठमाने ते स्वां कथां कथयामासतुः ।
नवमं पर्व - प्रथम: सर्गः
'वैताढ्ये दक्षिणश्रेण्यां शिवमन्दिरपुरे ज्वलनशिखनृपस्य विद्युच्छिखाकुक्षिजाः नाट्योन्मत्ताभिधः पुत्रः, आवां खण्डा विशाखा पुत्र्यौ च स्मः । मम पिता चैकदा प्रासादे मित्रेणाऽग्निशिखेनाऽऽलपन्नष्टापदगिरि गच्छतो देवानैक्षत । ततः स तीर्थयात्रार्थभावाभ्यां मित्रेणाऽग्निशिखेन च सह चलितः । अष्टापदं प्राप्य च वयमहत्प्रतिमा दृष्ट्वा पूजा-वन्दनादिकं विधाय प्रासादाद् निर्गता रक्ताशोकवृक्षतले चारणश्रमणौ दृष्ट्वा नत्वाऽग्रे उपविश्य धर्मदेशनामशृण्म । कः कन्ययोरनयोः पतिरित्यग्निशिखेन पृष्टौ च तौ-'योऽनयोतृहन्ता स वर' इत्युक्तवन्तौ । पिता च मम तच्छ्रुत्वा म्लानमुखो जातः । आवामपि विरज्याऽवोचाव'संसारासारतासमर्थिका धर्मदेशना श्रुतैव, तात ! तद्विषादेनाऽलम्, आवयोविषयसुखैरेवंविधैरलम्' । तत्प्रभृत्येवाऽऽवां निजभ्रातरं त्रातुं प्रवृत्ते ।
अन्यदा च मम भ्राताऽटन् तव मातुलस्य पुष्पचूलस्य कन्यां पुष्पवतीं दृष्ट्वा तद्रूप-लावण्यहृतमनास्तां हत्वा तस्या दृष्टिमसहिष्णुविद्या साधयितुं ययौ । तदनन्तरं वृत्तं त्वं जानास्येव । तदा च पुष्पवत्यावयो(तुर्वधमाख्यत्, धर्मवचनैः शोकमनुदच्च । तथा युवयोरभिगम्योऽयमागतो ब्रह्मदत्तो वां भर्ताऽस्तु, मुनेगिरस्तथ्या भवन्त्वि'ति चाऽख्यत् । आवाभ्यां च तत् स्वीकृतं, रभसा च तया श्वेता पताकाऽचालि । येन भवानावां त्यक्त्वाऽन्यत्र गतः । भाग्यनैर्गुण्यात् सर्वत्र भ्रान्त्वाऽपि त्वं नेक्षित इति निविण्णे आवामिहाऽऽगते । पुण्यैश्च त्वमिहाऽऽयातोऽसि, पुरा पुष्पवतीवचसाऽऽवाभ्यां त्वं वृतोऽसि, तदावां वरय, त्वमेवैक आवयोर्गतिः । ततः कुमारो गान्धर्वेण विवाहेन ते अप्युपायत । ताभ्यां रममाणश्च स तत्र तां
Page #129
--------------------------------------------------------------------------
________________
त्रिषष्टिशलाकापुरुषचरितम् - गद्यात्मकसारोद्धारः
निशामतिवाहयामास । प्रातश्च यावद् मे राज्यलाभः स्यात् तावद् युवाभ्यां पुष्पवत्याः समीपे स्थातव्यमित्युक्त्वा ते व्यसृजत् । ते च तथेति स्वीकृतवत्यौ । स लोकस्तन्मन्दिरं च सर्वं गन्धर्वनगरमिव तिरोदधे ।
२३०
अथ ब्रह्मदत्त आश्रमे रत्नवतीमन्वेष्टुं गतोऽपश्यंश्च तत्रस्थं सौम्यमेकं जनं किमतीतदिने दिव्यवस्त्राभूषणा काऽपि नारी त्वया दृष्टे'ति पप्रच्छ । तत: स उवाच- 'ह्यो मया नाथ नाथेति रुदती कन्या दृष्टोपलक्ष्य तत्पितृव्यायाऽर्पिता, किं त्वं तद्वरोऽसि । ब्रह्मदत्तेन तथेत्युक्तश्च स कुमारं तत्पितृव्यगृहमनयत् । रत्नवत्याः पितृव्योऽपि च ब्रह्मदत्तं समहोत्सवं रत्नवत्या पर्यणाययत् ।
अथ तया विषयसुखमनुभवन् सोऽन्यदा वरधनोर्मृतकार्याणि प्रचक्रमे । तदा विप्रेषु भुञ्जानेषु च वरधनुर्विप्रवेषस्तत्राऽऽगत्याऽब्रवीत्- 'मम चेद् भोजनं दत्थ तत्साक्षाद् वरधनोरेव', ब्रह्मदत्तश्च तच्छ्रुत्वा तं दृष्ट्वा हर्षादालिङ्ग्याऽन्तर्गृहं निनाय । कुमारेण पृष्टश्च वरधनुः स्वं सर्वं वृत्तमुवाच- 'तदा त्वयि सुप्ते चौरैर्दीर्घभटैर्निरुद्धोऽहं वृक्षान्तरस्थितेनैकेन दस्युना बाणेन हतः पतितो लतान्तरेऽन्तर्हितवान् । तेषु चौरेषु गतेषु च क्रमेण ग्राममाप्य ग्रामेशाद् भवद्वृत्तं विज्ञायेहाऽऽगतो दिष्ट्या भवन्तमपश्यम्' ।
अथ ब्रह्मदत्तस्तमुवाच-‘अस्माभिर्विना पुरुषकारेण क्लीबेनेव कियच्चिरमिह स्थास्यते । अत्राऽन्तरे एव च तत्र वसन्तर्तुः प्रादुरभवत् । तत्र मधूत्सवे प्रवृत्ते आलानमुन्मूल्य मत्तेभो निर्गतः काञ्चित् कन्यां नितम्बिनीं करेणाऽऽचकर्ष । तस्यां क्रन्दन्त्यां रणार्थिन्यां च महान् हाहारवो जज्ञे । ततः कुमारेण भत्सितः स
नवमं पर्व प्रथमः सर्गः
२३१
गजस्तां विमुच्य तमभ्यागच्छन् कुमारेणोत्प्लुत्य दन्ते पादं न्यस्याऽधिष्ठितोऽङ्कुशादिप्रयोगेण वशीकृतः । नराश्च तदानीं जयजयारावं चक्रुः । कुमारश्च नीत्वा तं गजं स्तम्भे बबन्ध ।
नृपश्च तत्राऽऽगतस्तत्पराक्रमं दृष्ट्वा विस्मितः 'कोऽयं, कुत आगत, इति रत्नवतीपितृव्यं पप्रच्छ । स च सर्वं कथयामास । ततो नृपः प्रसन्नः समहोत्सवं ब्रह्मदत्ताय कन्या अदात् । स च ताः परिणीय तत्र सुखं तिष्ठन् कयाचिद् वृद्धयैत्यांऽशुकाञ्चलं भ्रमयित्वोचेइहाऽऽढ्यस्य वैश्रवणस्य श्रीरिव श्रीमती नाम सुताऽस्ति, या भवता गजाद् मोचिता । सा च ततः प्रभृति त्वामेव कामयमाना ताम्यति, तस्याः पाणि गृहीत्वा तामनुहाण' । ततः कुमारः समहोत्सवं तां परिणिनाय । वरधनुश्च सुबुद्धिमन्त्रिणा दत्तां नन्दां नाम कन्यां परिणिनाय । तत्र तिष्ठन्तौ च तौ शक्तित: पृथिव्यां पप्रथाते ।
अथ तौ वाराणसीशकटकं प्रत्यभिजग्मतुः । वाराणसीशश्च ब्रह्मदत्तमागतं श्रुत्वा सगौरवमभ्येत्य स्वगृहं नीत्वा कटकवतीं नाम स्वपुत्र चतुरङ्गसैन्यं च ददौ । तदानीं च तत्र चम्पेशः करेणुदत्तो धनुर्मन्त्री भगदत्तादयोऽन्ये नृपाश्चाऽप्येयुः । ततो ब्रह्मदत्तो वरधनुं सेनान्यं कृत्वा दीर्घं निग्रहीतुं प्रतस्थे । ततो दीर्घस्य दूत एत्य कटकराजमुवाच- 'दीर्घेण मैत्री त्यक्तुं न युज्यते' । ततः कटक उवाच-'पुरा ब्रह्मणा सहिताः पञ्चाऽपि वयं सुहृदो जाताः । दीर्घश्च रक्षितुमर्पितं तद् राज्यं स्वयमधिकृतवान् । ब्रह्मदत्तविषये च तदाचारः श्वपचेनाऽप्यकृतपूर्वी । तद्दीर्घो नश्यतु वा युध्यतां वा, ब्रह्मदत्तोऽसावभ्येति' । ततो ब्रह्मदत्तोऽनवरतैः प्रयाणैः काम्पील्यं प्राप । दीर्घोऽपि सर्वाभिसारेण नगराद् निर्जगाम । चुलनी च तदा
Page #130
--------------------------------------------------------------------------
________________
त्रिषष्टिशलाकापुरुषचरितम् - गद्यात्मकसारोद्धारः
ऽत्यन्तवैराग्यात् पूर्णाव्रतिन्याः पार्श्वे व्रतमाददे, निवृत्तिमाप च । दीर्घराजस्याऽग्रसैन्यानि च ब्रह्मदत्ताग्रसैन्यैर्हतानि । ततो दीर्घो - ऽमर्षाद् विवर्णमुखो धावित्वा योद्धुं प्रावृतत् । ब्रह्मदत्तश्च सैन्ये भग्ने क्रुद्धः स्वयं दीर्घेण दन्तिना दन्तीव युयुधे । तयोर्दारुणे युद्धे प्रवृत्ते च ब्रह्मदत्तस्य जगज्जैत्रं चक्रं प्रादुरभूत् । तेन च ब्रह्मदत्त आश्वेव दीर्घस्याऽसूनपाहरत् । तदानीं च देवा जयतादेष भाषमाणा ब्रह्मदत्तस्योपरि पुष्पवृष्टि चक्रुः । पौरैः सादरं वीक्षितश्चेन्द्रोऽमरावतीमिव काम्पील्यनगरं प्रविवेश । पूर्वं परिणीताश्च पत्नीः स सर्वत आनाययत् । कुरुमतीं च स्त्रीरत्नं प्रत्यतिष्ठिपत् ।
२३२
अन्यदा स चक्री भरतक्षेत्रप्रसाधनाय ससैन्योऽनुचक्रं चचाल । पुरा हि वृषभेणाऽर्हता नवनवतेः पुत्राणां दत्ता देशास्तन्नामभिश्चाsऽख्याताः प्राच्यां प्रगम-मस्तकादयो, दक्षिणस्यां बाणमुक्तादयः, प्रतीच्यां दुर्गादय, उत्तरस्यां कुरु - जाङ्गलादयस्त्रिपुरादयो विन्ध्यपृष्ठगा वत्सादयो मध्यदेशाश्च तेन साधिताः । तथा स मागधाधीशं वरदामेशं प्रभासं कृतमालमन्यानपि च यथाक्रमं साधयामास । तदेवमेतान् देशान् साधयित्वा षट्खण्डपृथिवीपतिः स चक्री ब्रह्मदत्तो वलित्वा महता सैन्येन काम्पील्यं निजपुरं प्राप । तूर्यध्वनिपूर्वकं च पुरं प्राविशत् राजभिश्च सर्वतोऽप्येत्य तस्य भरतस्येव द्वादशवार्षिकश्चक्रित्वाभिषेकः प्रारेभे ।
ats at als
अथ पुरा भ्राम्यत एकाकिनस्तस्य ब्रह्मदत्तस्य कोऽपि द्विजः सहायोऽभूत् । स च 'प्राप्तराज्यं मां श्रुत्वा शीघ्रं समागच्छेति ब्रह्मदत्तेन सङ्केतितस्तदानीं तत्राऽऽययौ । किन्तु राज्याभिषेकप्रसङ्गे प्रवेशमनाप्नुवन् स द्वारस्थित एव महीपतिं सेवितुं प्रारेभे । नृपश्च
२३३
नवमं पर्व प्रथमः सर्गः राज्याभिषेकान्ते बहिर्निरगमत् । स द्विजश्च स्वं ज्ञापयितुं जीर्णोपानद्ध्वजं चकार । नृपश्च तं ध्वजं दृष्ट्वा वेत्रिणमपृच्छत् । वेत्रिणा 'द्वादशवर्षाण्यस्य सेवां कुर्वतोऽस्य व्यतीतानी'ति ज्ञात्वा च नृपस्तमाहूय किमेतदिति पप्रच्छ ।
ततः स द्विज उवाच- 'भवता सार्धं भ्राम्यतो मे उपानह इयत्यो घृष्टास्तथाऽपि तव कृपा नाऽऽप्ता' । ततस्तं प्रत्यभिज्ञाय हसित्वा च तं द्वारपालैरप्रतिषिद्धं चकार । ततः सभामधिष्ठितो नृपस्तमाहूयाऽवोचत् - 'विप्र ! तुभ्यं किं दीयताम् । ततः स विप्र उवाच - 'स्वनिकेतनादारभ्य भरते सर्वत्र भोजनं दक्षिणायां दीनारं च दापय । ततो नृपो विचार्य तस्य वसुदीनारं स्वगृहे भोजनं च ददौ । द्विजश्च नृपादेशाद् भरते सर्वत्र भोक्तुमारभत । अन्यदा भुक्त्वा नृपगृहे इति ध्यायन् स नृपश्चिरेणाऽपि नृपभोजनमप्राप्यैव मृतः ।
अन्यदा च नाट्यसङ्गीतप्रसङ्गे नृपस्य दास्या पुष्पगेन्दुकः समर्पितः । ब्रह्मदत्तश्च तद् दृष्ट्वा मया पृष्ट पूर्वोऽयं कुत्राऽपीति मनसि तर्कयामास । तदानीं च प्राक् पञ्चजन्मस्मरणे जाते तत्कालमेव मूर्च्छा प्राप्य सौधर्मे ईदृक्षं पुष्पगेन्दुकं दृष्ट्वानित्यबुध्यत । ततः शीतोपचारैः स्वस्थीभूतः स कथं मे पूर्वजन्मसहोदरो मिलिष्यती 'ति चिन्तयंस्तं ज्ञातुकामः श्लोकार्धसमस्यामार्पयत्'आस्व दासौ मृगौ हंसौ मातङ्गावमरौ तथा' तथा 'य इमामर्धश्लोक समस्यां पूरयिष्यति तस्मै राज्यार्धं दास्यामी'ति घोषणांच पुरेऽकारयत् । ततः सर्वोऽपि जनस्तं श्लोकार्धमपाठीत् । न च कश्चन तस्य पश्चार्धं पूरयामास ।
Page #131
--------------------------------------------------------------------------
________________
२३४
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः तदानीं च पुरिमतालात् चित्रजीवो महेभ्यपुत्रो जातिस्मृतेः प्रव्रज्य विहरंस्तत्राऽऽययौ । तत्र मनोरमोद्याने स्थित आरघट्टिकात्तच्छ्लोकार्धं शुश्राव । ततः स मुनिः 'एषा मे षष्ठिका जातिरन्योन्याभ्यां नियुक्तयोरि'ति पश्चार्धं पूरयित्वा तमपाठयत् । स आरघट्टिकश्च राज्ञः पुरं श्लोकपश्चार्धं पपाठ । राज्ञा पृष्ठश्च मुनि कवि जगौ । ततो नृपस्तस्मै पारितोषिकं प्रदायोत्कण्ठित उद्यानं गत्वा मुनि नत्वा सस्नेहः पूर्वजन्मवदन्तिके समुपविवेश । मुनिश्च धर्मलाभाशिष दत्त्वा नृपानुग्रहार्थं धर्मदेशनां प्रारेभे ।
'राजन् ! असारे संसारे धर्म एव सारः, यौवनादीनि सर्वाण्येव पवनोद्धृतपताकावच्चञ्चलानि । यथा बहिरङ्गान् शत्रूनजैषी: पृथ्वीं साधयितुं तथाऽन्तरङ्गांस्तान् मोक्षसाधनाय जय, यतिधर्मं गृहाण' । ततो ब्रह्मदत्त उवाच-'बान्धव ! दिष्ट्या दृष्टोऽसि, इयं राज्यश्रीस्तवैव, यथेच्छं भोगान् भुझ्व, राज्यसम्पद्रूपे फले प्राप्ते तपसाऽलम्' । __ततो मुनिरुवाच-'ममाऽपि सम्पद आसन्, ताश्च भवभ्रमणभीरुणा मया तृणवत् त्यक्ताः, क्षीणपुण्य एव महीतले समागतोऽसि, इतोऽपि क्षीणपुण्योऽधोगति मा गाः । आर्यदेश-कलादिकं मोक्षदं प्राप्य तेन भोगसाधनं सधया पादशौचवत् । आवां स्वर्गाच्च्युत्वा कुयोनिषु भ्रान्ती, तत् किं न स्मरसि' । तेनैवं बहुधा बोध्यमानोऽपि नृपो नाऽबुध्यत । ततो मुनिरन्यतो जगाम । घातिकर्मक्षयाच्च केवलं प्राप्य भवोपग्राहिकर्मक्षयात् स मुनिः परमं पदं प्राप ।
अथ ब्रह्मदत्तश्चक्रिसम्पदा भूमाविन्द्र इव नृपैः सेव्यमानो दिनानि व्यतीयाय । एकदा च यवनेशेनैकोऽश्व उपायने सर्वलक्षणलक्षितः
नवमं पर्व - प्रथमः सर्गः प्रेषितः । यथा रूपेणाऽयमप्रतिमस्तथा वेगेनाऽस्ति न वेति परीक्षितुं ब्रह्मदत्तस्तमश्वमारुरोह । तेन विक्रममाणेनाऽश्वेन स चक्री चतुरङ्गसैन्ययुतो नगराद् निर्ययौ । ततश्चक्री वेगेक्षणकौतुकी तमश्वं कशया जघान । स चाऽश्वस्तया कशया प्रेरितोऽतीव वेगेन धावमानः क्षणाददृश्योऽभूत् । वल्गयाऽऽकृष्यमाणोऽपि सोऽश्वो न विरराम । क्रूरश्वापदादिसङ्कीर्णामटवीं प्राप्य श्रान्तश्च सोऽश्व: स्वयं तस्थौ । चक्री च पिपासार्तोऽश्वादवरुह्य जलमन्वेष्टुमितस्तत: पर्याटत् । एकं सरो निरीक्ष्य चाऽश्वमुत्पर्याणीकृत्य जलं पाययित्वा तटे नीत्वा वृक्षमूले मुखरज्ज्वा तं बबन्ध ।
ततः स्वयं स्नात्वा स चक्री पयः पपौ । तत उत्तीर्य च तीरेऽतिसुन्दरी नागकन्यकां दृष्ट्वा तद्रूपविस्मितो यावदस्थात्, तावद् वटवृक्षादुत्तीर्णोऽहिराजः । नागकन्याऽपि च तत्क्षणं नागिनीरूपं विकृत्य तेन सर्पराजेन सम्भोगं प्रपन्ना । ततो नृपो दध्यौ-'हीनेन सर्पणाऽपीयं प्रसक्तेत्याश्चर्य, तदयं वर्णसङ्करो मया नोपेक्षणीयः, राज्ञा मह्या सर्वे पथि स्थापनीया' । एवं विचार्य स उभौ विधृत्य कशया ताडयामास । शान्तरोषेण नृपेण मुक्तौ च तौ क्वाऽपि जग्मतुः । ततो नृपः पुनर्दध्यौ-कोऽपि व्यन्तरो नागराजरूपो रन्तुमनया नागकन्यया क्वाऽपि नूनं वसति' । एवं चिन्तयति नृपे चाऽश्वपदानुसारतः समागतं सकलं सैन्यं नृपदर्शनादमोदत । चक्री च सैन्येन परिवृतो निजपुरं ययौ ।
अथ नागकन्या गत्वा रुदती पत्युः सर्वं वृत्तं कथयामास'मर्त्यलोके स्त्रीलम्पटो ब्रह्मदत्तोऽस्ति, स पर्यटन् भूतरमणामटवीमागतः । अहं च यक्षिणीपार्श्वे सखीभिर्वृता गच्छन्ती सरसि
Page #132
--------------------------------------------------------------------------
________________
२३६
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः स्नानार्थमुत्तीर्णा तेन दृष्टाऽस्मि, स च मां दृष्ट्वा कामातः, प्रार्थयमानामप्यनिच्छन्तीं रुदती कशया ताडयामास । भवन्नाम कथयन्त्यपि मृतेति बुद्ध्यैव मुक्ताऽस्मि' । तच्छ्रुत्वा कुपितो नागकुमारो निशायां ब्रह्मदत्तं हन्तुं तद्वासगृहं प्राप । तदानीं च महिषी ब्रह्मदत्तमवोचत् 'अश्वेन हृतेन भवता किञ्चिद् दृष्टं किं ?' ततो नृपो नागकन्या-नागराजयोः पापां वार्ता स्वयं कृतं तच्छासनं च जगौ । नागकुमारश्च च्छनस्तत्सर्वं शुश्राव । स्वप्रियादोषं ज्ञात्वा च क्षणाच्छान्तकोपोऽभवत् ।।
तदानीं च नृपः शरीरचिन्तार्थं वासगृहाद् निर्गतो भास्वन्तं नागकुमारं दृष्ट्वान् । ततो नाग उवाच-ब्रह्मदत्तो नृपो जयतु, यो दुविनीतानां शासिता । या त्वया नागी ताडिता सा मम पत्नी । तया मिथ्यावचसोत्प्रेरितोऽहं त्वां दग्धुमिहाऽऽयातः । त्वन्मुखाच्च सत्यं वृत्तं श्रुतं मया । सा पुंश्चली त्वया साधु शासिता । तद्वाण्या यत् त्वदमङ्गलमचिन्तयं तत् सहस्व' । ततो राजोवाच-'न ते दोषः, स्त्रियो हि माययाऽन्यं दूषयित्वा स्वदोषं गोपायन्ति' । __ततो नाग उवाच-'सत्यमेतत्, तव न्यायेन तुष्टोऽस्मि, ब्रूहि, किं ते करवाणि' । ततो नृप उवाच-'मम राज्ये क्वचित् कदाऽपि पारदार्यं चौर्यमपमृत्युश्च मा भूत्' । ततो नाग उवाच-'एवमस्तु, स्वार्थं किमपि याचस्व' । ततो राजा विमृश्योवाच-'सर्वेषां प्राणिनां वाचं यथाऽहं वेद्मि तथा कुरु' । ततो नाग उवाच-'एतद् दुर्देयमपि ते दत्तं, परमन्यस्मै कथयतस्तव शिरः सप्तधा भेत्स्यते' । एवमुक्त्वा स नागकुमारो ययौ ।
अथ ब्रह्मदत्तः स्वप्रियया समं प्रसाधनगृहं जगाम । तत्र च गृहगोधं गृहगोधाऽऽह-'प्रिय ! राज्ञोऽङ्गरागमेतमानय, येन मे दोहदः
नवमं पर्व - प्रथमः सर्गः पूर्यते' । ततो गृहगोल आह-किं ममाऽऽत्मना कार्यं नास्ति । राजा च तज्ज्ञात्वा जहास । ततो देवी विना हेतुं कथं हास इति पप्रच्छ। राजा च विपद्भयात् तद् न कथयामास । ततो देव्युवाच-'यदि हासकारणं न कथयिष्यसि तदाऽहमवश्यं मरिष्यामि' । ततो राजोवाच-'अकथिते त्वं मरिष्यसि न वा, कथिते त्वहमवश्यं मरिष्यामि' । तदश्रद्दधाना च सोवाच-'कथय, उभावपि मरिष्याव:'। राजा च स्त्रीग्रहे पतित: स्मशाने चितामकारयत् । तत: स्नात्वा गजारूढो महिष्या सह पौरैरीक्षितश्चितासमीपं प्राप । ___ तदानीं चक्रिण: प्रबोधाय काचित् कुलदेवता छागस्य गुविण्यछाग्याश्च रूपं व्यकरोत् । छागी च च्छागमुवाच-'अमुष्माद् यवराशेर्यवपूलमानय, येन भक्षितेन मम दोहदः पूर्यते' । ततश्छाग उवाच-'एते यवाश्चक्रिणोऽश्वार्थं रक्ष्यन्ते, तदानयने मम मृत्युरेव' । ततश्छाग्युवाच 'यदि नाऽनयसि तदा मरिष्यामि' । ततश्छागोऽवदत्-त्वं मृता चेद् ममाऽन्या भार्या भविष्यति' । ततः छागी पुनरुवाच-'पश्यैष चक्री भार्यानुरोधात् स्वं जीवितं त्यजति, त्वं तु मयि नि:स्नेहः' । ततश्छागोऽप्युवाच-'नाऽहं स इव मूर्यो यदनेकस्त्रीपतिरेकस्त्रीकते प्राणान त्यजामि | राज्ञी सह म्रियते चेदपि, भवान्तरे योगो दुर्लभः, प्राणिनां हि कर्माधीना गतिः' । ____ ततश्चक्यपि तद्वाचं श्रुत्वा दध्यौ-'नूनमहं मूर्खः, यत् स्त्रीमात्रेण मोहितो विपद्ये' । ततस्तुष्टश्चक्री छागस्य कण्ठे कनकमाला-कुसुममालिके निधाय स्वं गृहं जगाम । त्वद्गिरा नाऽहं मरिष्यामीति राजी निवार्य च पुन: पूर्ववद् राज्यं पालयामास । एवं हि जन्मत एवाऽनेकधा क्रीडश्चक्री वर्षाणां षोडशन्यनां सप्तशतीं क्रमशो व्यतीयाय ।
Page #133
--------------------------------------------------------------------------
________________
त्रिषष्टिशलाकापुरुषचरितम् - गद्यात्मकसारोद्धारः
अथ कदाचित् प्राक्परिचितः कश्चिद् द्विजस्तं जगाद चक्रिन् ! यत् स्वयं भुङ्क्षे तद् भोजनं मे देहि । ततो ब्रह्मदत्त उवाच - 'विप्र ! मदन्नं दुर्जरं, चिराज्जीर्यमाणं चेद् मोदाय जायते' । ततो द्विजेनाऽन्नदानेऽपि कदर्यं त्वां धिगिति भत्सितः स चक्री तं सकुटुम्बं निजं भोजनमभोजयत् । रात्रौ च विप्रस्य तदोदनाद् दुरुपशमः कामः प्रादुरभूत् । ततश्च स विप्रः स्वत्रादिसम्बन्धमप्यविगणय्य सपुत्रः पशुवद् रते प्रावृतत् । रात्र्यन्ते च विप्रो गृहजनश्चाऽन्योन्यं स्वमुखमपि लज्जया दर्शयितुं न शशाक । ततो द्विजो राज्ञा क्रूरेणाऽन्नेन विडम्बितोऽस्मीति चिन्तयन् सकुटुम्बो नगराद् निर्ययौ । बहिश्च तेन द्विजेन कश्चिदजापालः शर्कराखण्डैरश्वत्थपत्राणि काणयन् दूराद् दृष्टः । ततो द्विजो मद्वैरसाधनायाऽसावलमिति विचिन्त्य तं सत्कृत्योवाच-‘राजमार्गे गजारूढः श्वेतच्छत्रचामरो याति, तस्य दृशौ गोलिके प्रक्षिप्य भेत्तव्ये' । अजापालश्च द्विजवाचं प्रपन्नवान् ।
२३८
ततः स कुड्यन्तरे स्थित्वा गोलिके क्षिप्त्वा राज्ञो दृशावस्फोटयत् । अङ्गरक्षकैश्च गृहीतो हन्यमानश्च सोऽजापालो विप्रियकारकं विप्रमाख्यत् । तच्छ्रुत्वा च क्रुद्धो नृपस्तं विप्रं निर्भय सपुत्रबन्धुमित्रं घातयित्वा क्रुधा विप्रजातिद्रोही सर्वानेव पुरोध:प्रभृतीनपि विप्रानघातयत् । तथा सचिवानादिशत्- 'एतेषां विप्राणां नेत्रैः स्थालमापूर्य मम पुरतो निधेहि' । मन्त्र्यपि च नृपस्य तां रौद्रां मनोवृत्तिं ज्ञात्वा श्लेष्मातकफलैः स्थालं पूरयित्वा राज्ञः पुरतो न्यधात् । ब्रह्मदत्तश्च तत्पाणिना स्पृशन् विप्राणां लोचनैः साधु स्थालं पूर्णमिति वदन् मुमुद । तत्स्थालस्पर्शने च चक्रिणः स्त्रीरत्नस्पर्शादप्यधिकं सुखमभूत् । स च तत्स्थालमग्रतः कदाऽपि
नवमं पर्व प्रथमः सर्गः
नाऽपसारयामास । विप्रनेत्रबुद्ध्या स सदैव श्लेष्मातकफलानि पस्पर्श । एवं च क्रमात् तस्य रौद्रध्यानं व्यवर्धत |
२३९
एवं रौद्रध्यानगतस्य तस्य षोडशवर्षाणि ययुः । तस्य चक्रिणः कौमारेऽष्टाविंशतिवर्षाणि मण्डलित्वे षट्पञ्चाशद्वर्षाणि भरतक्षेत्रपालने षोडशवर्षाणि चक्रित्वे च वर्षाणां षट्शतानि एवं मिलित्वा जन्मतः सप्तशतेषु वर्षेषु गतेषु पुनः पुनः कुरुमतीति ब्रुवाणो हिसानुबन्धिकर्मफलरूपां सप्तमीं नरकभूमिं स चक्री ब्रह्मदत्तो जगाम ॥ १ ॥
इति नवमे पर्वणि श्रीब्रह्मदत्तचक्रिचरितवर्णनात्मकः प्रथमः सर्गः ॥१॥
Page #134
--------------------------------------------------------------------------
________________
नवमं पर्व - द्वितीयः सर्गः
mmm..२४१
द्वितीयः सर्गः
पार्श्वनाथचरितम् अथाऽस्य जम्बूद्वीपस्य भरतक्षेत्रे सर्वसम्पत्समृद्धे पोतनपुरे जलानां समुद्र इव श्रीणां पतिर्जिनभक्तोऽरविन्दो नाम नृपो बभूव। तस्य चतुर्विधपुरुषार्थपरायणस्याऽनुरूपस्तत्त्वज्ञः परमश्रावको विश्वभूतिर्नाम विप्रः पुरोहितो बभूव । तस्य विप्रस्य चाऽनुद्धराकुक्षिभवौ कमठो मरूभूतिश्च द्वौ पुत्रावभूताम् । तत्र कमठस्य वरुणा मरुभूतेर्वसुन्धरा च पत्नी जाता । द्वावपि भ्रातरौ विद्वांसावर्थोपार्जनसमर्थौ मिथः प्रीतिमन्तौ चाऽऽस्ताम् । तत्र विश्वभूतिनमस्कारमन्त्रं स्मरन् विपद्य सौधर्मे सुरोत्तमोऽभूत् । तद्वियोगसन्तप्ता तप:परायणा नमस्कारमन्त्रं स्मरन्ती साऽनुद्धराऽपि विपन्ना । तौ भ्रातरौ च पित्रोः प्रेतकार्याणि विदधतुः । हरिश्चन्द्रमुनिना बोधितौ च तौ विशोकावभूताम् ।
तत्र कमठः शक्तत्वाद् गृहकार्याणि चकार । मरुभूतिस्तु विरक्तः स्वाध्यायादिपरायणः पौषधगृह एव कालमतिवाहयामास । तथा तस्य सर्वदैव प्रविव्रजिषा भवति स्म । कमठस्तु स्वच्छन्दः प्रमादी व्यसनासक्तोऽभूत् । मरुभूतेः पत्नी वसुन्धरा चाऽतिसुन्दरी नवयौवनाऽपि मरुभूतिना भावयतित्वात् कदाऽपि स्पृष्टाऽपि न । वन्यकुसुमवत् स्वयौवनं निष्प्रयोजनं मन्यमानां कामाता तां कमठो
ऽनुरागेणाऽऽललाप । तथाऽनिच्छन्तीमपि तां मधुरैर्वचनैः प्रलोभ्य बलाद् रमयामास । तज्ज्ञात्वा च वरुणा सेा क्रुद्धा सर्व वृत्तं मरुभूतये शशंस । ततो मरुभूतिना बोधिता निषिद्वाऽपि च वसुन्धरा न विरराम । तथा स्वदोषं न स्वीचकार ।
मरुभूतिस्तयोर्वृत्तं स्वयं साक्षाज्ज्ञातुमनसा कमठं ग्रामाय यास्यामीत्युक्तवान् । ततः कुत्राऽपि गत्वा रात्रौ पुनरागत्य वेषपरिवर्त्तनेन श्रान्त: कार्पटिको भूत्वा कमठमाश्रयं ययाचे । कमठोऽप्यविशङ्कितस्तद् ददौ । तद्दर्शितस्थाने च स मायाकार्पटिक स्तयोर्दुश्चेष्टितं द्रष्टुकामो व्याजनिद्रयाऽस्थात् । तौ च वसुन्धराकमठौ मरुभूतिमं गत इति निःशङ्कं चिरं रेमाते । मरुभूतिश्च तद् दृष्ट्वा सर्वं वृत्तं नृपायाऽरविन्दाय व्यजिज्ञपत् । स नृपोऽपि च 'दुर्नयनिवारणाय कमठः पुरोहितपुत्रत्वादवध्योऽपि खरमारोप्य विडम्ब्य निर्वासनीय' इत्यारक्षानादिशत् । तेऽपि च तथा चक्रुः । कमठश्च पौरेर्वीक्ष्यमाणो लज्जानम्रमखः प्रतीकारासमर्थो वनं ययौ । तत्र च शिवतापससन्निधौ तपस्वी भूत्वा बालतपःपरायणोऽभूत् । ___ अत्र मरुभूतिश्च, 'मयेदं न साध्वाचरितं' ततो गत्वा भ्रातरं क्षमयामी'ति विचार्य वनं गत्वा कमठस्य पादयोः पपात । कमठश्च प्राक् स्वविडम्बनां स्मृत्वा क्रुद्धो नमतो भ्रातुर्मूनि शिलाखण्डमुत्क्षिप्य जघान । प्रहारार्तस्य तस्योपरि च पुनरेव शिलां चिक्षेप । तत्प्रहारविवश आर्तध्यानस्थो मरुभूतिर्विपद्य विन्ध्यपर्वते यूथपतिर्गजो बभूव । वरुणाऽपि रौद्रध्यानपरायणा मृत्वा तस्यैव यूथपतेः करिणो वल्लभाऽभूत् । स यूथपतिश्च तया सहाऽखण्डसम्भोगसुखमन्वभूत्।
Page #135
--------------------------------------------------------------------------
________________
नवमं पर्व - द्वितीयः सर्गः
२४३
२४२
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः इतश्च पोतनपुरेशोऽरविन्दः शरदुत्सवेऽन्तःपुरस्त्रीभिः सह हर्ये स्थितो रेमे । रममाणश्च स गगने दृष्टनष्टं मेघं ज्ञात्वा संसारासारतां ध्यायन् ज्ञानावरणीयादिक्षयोपशमवशादवधिज्ञानं प्राप । ततो महेन्द्र पुत्र राज्ये न्यस्य समन्तभद्राचार्यपादान्ते प्रव्रजितो नृपः । गुर्वनुज्ञयैकाकिविहारप्रतिमाधरो वपुष्यपि निर्ममस्तपःकृशाङ्गो विविधाभिग्रहपरो विहरन् सागरदत्तसार्थेशसार्थेनाऽष्टापदं प्रति प्रतस्थे । सागरदत्तेन पृष्टश्चाऽरविन्दो मुनिरष्टापदमाहात्म्यं तत्र प्रतिमादिवृत्तान्तं धर्मं च वर्णयामास । तेन प्रबुद्धः सार्थेशस्तदन्तिके श्रावकत्वं जग्राह । तथा ततो मुनेधर्मकथां शृण्वन् स मरुभूतिगजसेवितं वनं प्राप्यैकस्य सरसस्तटे भोजनकाले स सार्थोऽपि न्यवात्सीत् । तदानीमेव च मरुभूतिगज: करेणुभि: सहैत्य तत्र सरसि पय: पपौ । तत्र चिरं क्रीडित्वोत्तीर्य च दिशोऽवलोकयन् सार्थं दृष्ट्वा क्रोधाद् धावित्वा सार्थान् गजितैर्नाशयामास । सार्थस्था नरा नार्यः पशवश्च सर्वे भयात् कान्दिशीका: पलायामासुः ।
अरविन्दमुनिश्चाऽवधेस्तस्य गजस्य बोधकालं ज्ञात्वा कायोत्सर्ग कृत्वाऽस्थात् । गजश्च क्रोधात् तत्र गतस्तस्य मुनेस्तपःप्रभावाच्छान्तकोपो जातसंवेगः शैक्ष इव तस्याऽग्रतस्तस्थौ । मुनिश्च तस्योपकाराय कायोत्सर्गं पारयित्वा शान्तगम्भीरया वाचा तमबोधयत्-'भो भो गज ! कि निजं मरुभूतिभवं न स्मरसि, किं मामरविन्दनृपं नोपलक्षयसि, तद्भवे प्रतिपन्नमार्हतं धर्मं व्यस्मार्षीः किं ? तिर्यग्योनिभवं मोहं त्यज, सर्वं स्मर' । ततः स गजो मुनिवाचा जातिस्मरणमाप्य सद्य एव तं मुनि ननाम । ततो मुनिना धर्म बोधित: स गजः श्रावकत्वं प्रतिपेदे । वरुणा करिणा चाऽपि तत्र स्थिता जातिस्मरणमाप । ततो गजो भूयो मुनेगुहिधर्मं श्रुत्वा तं नत्वा
यथागतं ययौ । तत्रत्या जनाश्च गजप्रबोधेन विस्मिताः प्रबुद्धाश्च परिव्रज्यां श्रावकत्वं च यथायथं प्रतिपेदिरे ।
तदानीं सागरदत्तोऽपि जिनधर्मे दृढश्रद्धो विशिष्टं श्रावकत्वं प्राप । सोऽरविन्दमुनिश्चाऽष्टापदं गत्वाऽर्हतो वन्दित्वाऽन्यत्र विजहार । श्रावकः स गजश्च भावयतिर्भूत्वाऽऽचारनिष्ठः षष्ठादिकं तपः कुर्वन् निवृत्तविषयो विरक्तो दध्यौ-'ये प्रव्रजितास्ते धन्याः, व्रतमेव मर्त्यजन्म फलं, मया च पूर्वभवे दीक्षामगृहीत्वा मर्त्यजन्म निष्फलं कृतम्, अधुना पशुः किं करोमि' । एवं शुभभावनामग्नः स सुखदुःखयोः समः कालं गमयामास । ___ इतश्च कमठो मरुभूतिवशादशान्तो गुरुप्रभृतिभिर्निन्द्यमान आर्त्तध्यानस्थो मृत्वा कुक्कुटसो भूत्वा प्राणिनो दंशै शयन् सूर्यकरतप्तं सरसि जलं पिबन्तं मरुभूतिगजं दैवात् पङ्के मग्नं निर्गन्तुमक्षमं दृष्ट्वा कुम्भे ददंश । स गजश्च विषप्रभावेण स्वमरणं ज्ञात्वा समाहितश्चतुर्विधाहारप्रत्याख्यानं विदधे । ततो धर्मध्यानलीनो नमस्कारमन्त्र जपन् विपद्य सहस्रारे सप्तदशसागरोपमायुः सुरोऽभूत् । वरुणा करिणी चाऽपि दुस्तपं तपः कुर्वती विपद्य द्वितीये कल्पे देवी बभव । सा चाऽन्यदेवं विहाय गजजीवदेवसङ्गमं कामयमाना तस्थौ । गजजीवदेवोऽपि तस्यामनुरागवानभूत् । तामवधेरनुरक्तां ज्ञात्वा सहस्त्रारमुपनीय स्वाग्रमहिषीं चकार । तया सह च स्वर्गोचितं वैषयिकं सुखं भुजानः स कालं गमयामास । कुकुटाहिश्च विपद्य पञ्चमे नरके सप्तदशसागरोपमायुर्भूत्वा विविधा यातनाः सेहे।
Page #136
--------------------------------------------------------------------------
________________
नवमं पर्व - द्वितीयः सर्गः क्षमयित्वा नमस्कारं स्मरन् विहितानशनो विपेदे । मृत्वा च द्वादशे कल्पे द्वाविंशतिसागरोपमस्थितिर्जम्बूद्रुमावर्ते विमाने समुत्पद्य देवैः सेव्यमानो विविधसुखमग्न: कालं गमयामास स मुनिः । स सर्पश्च हेमादिशिखरे भ्राम्यन् दवानलेन दग्धो धूमप्रभानरके सप्तदशसागरोपमायुर्नारको भूत्वा सपादशतधनुरुन्नतो विविधा यातनाः सेहे।
२४४
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः इतश्च प्राग्विदेहेषु सुकच्छे विजये तिलकायां नगरीषु तिलकभूतायां विद्युद्गति म विद्याधरेन्द्रोऽभूत् । स च रूपसम्पदा तिलकायमानया कनकतिलकया महिष्या वैषयिकं सुखं भुञ्जान: कालं गमयामास । कनकतिलकादेव्याश्चोदरेऽष्टमकल्पाद् गजजीवश्च्युत्वा समवातरत् । पूर्णे समये च सा सर्वलक्षणलक्षितं सुतं सुषुवे । पिता च तस्य किरणवेग इति नाम चकार । स च धात्रीभिर्लाल्यमानः क्रमाच्छशिकलेव वर्धमानः सकलकलाकुशलो यौवनं प्रपन्नवान् । विद्युद्गतिश्च तं राज्ये न्यस्य श्रुतसागरमुनेर्दीक्षां जग्राह ।
अथ किरणवेगस्य नीत्या प्रजाः पालयत: पद्मावतीकुक्षिभव: तेजस्वी किरणतेजाः नाम सुतोऽभवत् । स च किरणतेजाः क्रमात् कवचहर: सिद्धविद्यश्चाऽभूत् । एकदा च तत्र सुरगुरुमुनौ समवसृते किरणवेगो गत्वा भक्त्या नत्वोपविवेश । मुनिश्च तदनुग्रहाय धर्मदेशनां चकार । तया च प्रतिबुद्धः किरणवेगो विरक्तो राज्ये सुतं किरणतेजसं न्यस्य सुरगुरुमुनेः पार्वे प्रव्रज्य क्रमाद् गीतार्थोऽभवत् ।
एकदा स गुर्वनुज्ञयैकाकिविहारं प्रतिपद्य गगनमार्गेण पुष्करद्वीपं जगाम । तत्र शाश्वतार्हतो नत्वा वैताढ्यसमीपे हैमशैलस्य प्रदेशे प्रतिमया तस्थौ । कुक्कुटसर्पजीवश्च नरकादुद्धृत्त्य हेमाद्रेः कन्दरे महाहिर्जातो भक्ष्यार्थं वने भ्रमन् निकुञ्जस्थं ध्यानमग्नं किरणवेगमुनि ददर्श । तत: प्राग्जन्मवैरात् क्रोधं गतश्चन्दनवृक्षमिव तं भोगेनाऽऽवेष्ट्याऽनेकशो ददंश । मुनिश्च विषावेगं जानन् अनेन कर्मक्षपणे ममोपकारः कृत' इति शुभं ध्यायन् समस्तं जगत्
इतश्च जम्बूद्वीपे प्रत्यग्विदेहे सुगन्धे विजये शुभङ्करायां पुर्या वज्रवीर्यो नाम धर्मिष्ठो नृपशिरोमणिपो बभूव । तस्य परमप्रिया: लक्ष्मीतुल्याया लक्ष्मीवतीभार्याया उदरे किरणवेगजीवोऽच्युताच्व्युत्वा मानसे सरसि हंसवदवततार ! पूर्णे समये च सा पवित्राकारं महीमण्डनं वज्रनाभाख्यं पुत्र प्रासूत । स च धात्रीभिर्लाल्यमानः क्रमाद् वर्धमानः सर्वशास्त्रकोविदो यौवनं प्रपन्न: शुभे दिने पित्रा राज्येऽभिषिक्तः । नृपश्च पन्या सह प्रव्रजितवान् । वज्रनाभस्य च राज्यं नीत्या पालयतश्चक्रायुधो नाम महापराक्रमी पुत्रोऽभवत् । यौवनं प्राप्तश्च स पित्रा प्रव्रज्येच्छया राज्यग्रहणायोपरुद्धोऽनिच्छन्नपि गुर्वाज्ञाविराधनाभीरुः स्वीचकार । ____ तदानीमेव च क्षेमकरो जिन आगत्य बहिरुद्याने समवससार । तच्छ्रुत्वा मुदितो वज्रनाभो गत्वा वन्दित्वा धर्मदेशनामशृणोत् । तया देशनया विशेषत: प्रतिबुद्धश्च जिनं सम्प्रार्थ्य तत एव प्रव्रज्यां गृहीतवान् । ततः श्रुतस्कन्धमधीयानः परं तपस्तप्यमानो गुर्वनुज्ञयैकाकिविहारप्रतिमाधरो विहरन् दृढमूलोत्तरगुणप्रभावादाकाशगमनलब्धि प्राप्योत्पत्त्य सुकच्छविजयं जगाम । स सर्पजीवोऽपि
Page #137
--------------------------------------------------------------------------
________________
नवमं पर्व - द्वितीयः सर्गः
२४७
२४६
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः नरकादुद्धृत्त्य भवं भ्रान्त्वा तत्रैव ज्वलनपर्वते महावने भिल्लो नाम्ना कुरङ्गकोऽभूत् । यौवनं प्राप्तश्च स कुरुङ्गको धृतकार्मुको जीविकाथ जीवान् निघ्नन् बभ्राम। वज्रनाभोऽपि विहरन् तां महाटवीं प्राप्तो ज्वलनगिरि जगाम । तदानीं च रविरस्तमाप ।
मुनिश्च ज्वलनाद्रिकन्दरे कायोत्सर्गेण तस्थौ । प्रातश्च युगमात्रदत्तदृष्टिः प्रचलित: क्रूरेण व्याधेनाऽशकुनमिदमिति क्रुधा दृष्टः । प्राग्जन्मवैराददूरादेव मृगवद् बाणेन विद्धश्च । स मुनिश्च प्रहारपीडितोऽपि आर्तध्यानवर्जितो नमोऽर्हद्भ्य इति जपन् भूमि प्रतिलिख्योपविश्य सम्यगालोच्य सर्वान् क्षमयित्वाऽनशनेन धर्मध्यानमग्नो विपेदे । ततो मृत्वा मध्यप्रैवेयके ललिताङ्गो नाम महद्धिको देवोऽभवत् । कुरङ्गकश्च तमेकप्रहारेण मृतं दृष्ट्वा मुदितो धनुर्धरम्मन्यो मृगवधाजीवो विपद्य रौरवाख्ये सप्तमे नरके समुदभूत् ।
अथैकदा स क्रीडयाऽपूर्वमश्वमारूढस्तस्य वेगं जिज्ञासुस्तं कशया ताडयामास । कशाहतश्च सोऽश्वो वायुवेगेन दधाव । वल्गाकर्षणेनाऽप्यनिवृत्तः स हयः क्षणेनैव सैनिकान् दूरेऽमुचत् । वनं प्राप्तश्च स नृप एकं निर्मलाशयं सरो दृष्ट्वाऽश्वं जलं पाययित्वा स्वयं च स्नात्वा पपौ । सरसो निर्गत्य तीरे क्षणं विश्रम्याऽग्रे चलितश्चाऽग्रे रम्यमेकं तपोवनं दृष्टवान् । तत्र तापसबालकैर्मृगशावैः क्रीडद्भिः सिच्यमानतरं तद् दृष्ट्वा च मुदितः स तत्र प्रविवेश । ____ अथ तदानीमेव तस्य दक्षिणं नेत्रं पस्पन्दे । अग्रे गच्छंश्च स दक्षिणेन सखीभिः सह तरून् सिञ्चन्तीं मुनिकन्यकां दृष्ट्वा तद्रूपसौन्दर्यविस्मितो वृक्षान्तरितो यावत् तां चिन्तयति तावत् सा सख्या सह माधवीमण्डपं प्रविवेश । विस्मितश्च नृपो यावत् तद्रूप-सौन्दर्य वर्णयति तावद् मुखे पद्मभ्रान्त्या भ्रमरस्तां त्रासं जनयन् पपात । सा च करौ धुन्वती सखीमुद्दिश्य रक्ष रक्षेति पूच्चक्रे । ततः सख्युवाच'स्वर्णबाहं विना न कोऽपि तव रक्षणेऽलं, तत्तमेवाऽनुसर ।
राजा च प्रस्तावज्ञ:-'को नाम स्वर्णबाहौ महीं पाति व उपद्रोतेति वदन् प्रकटोऽभूत् । अकस्मात् तं प्रेक्ष्य ते द्वे अपि कन्ये सभये अवतस्थाते। नोचितमुपचारं चक्रतुर्नवा किञ्चिज्जजल्पतुस्ते । राजा भीते इमे इति जानानः पुनरुवाच-'शुभे ! वां तपो निर्विघ्नं वहति किम् ? ततः सख्यूचे-सुवर्णबाहौ नृपे सति कस्तपोविघ्नं कर्तुमीश्वरः, इयं तु बाला भ्रमराद् भीता रक्ष रक्षेत्यभाषत । ततस्तया दत्ते आसने तरुमूले उपवेश्य च स मधुरगिरा पृष्टः-'त्वमनिन्दितयाऽऽकृत्याऽप्रतिमो देवो विद्याधरो वाऽन्यो वा कोऽसि ?'
ततो नृपः स्वं स्वयमेवाऽऽख्यातुमनीश्वर उवाच-'अहं वसुमतीपतेः कनकबाहोः सेवकस्तदनुज्ञयेहाऽऽ श्रमे विघ्नकारिणो
___ इतश्च जम्बूद्वीपे प्राग्विदेहेषु देवपुरोपमे पुराणपुरे नृपः सेव्यमानः कुलिशबाहुर्नाम भूपतिर्बभूव । तस्य च परमसुन्दर्याः सुदर्शनाख्याया महिष्या उदरे वज्रनाभदेवजीवश्च्युत्वाऽवातरत् । सा च देवी रात्र्यन्ते चतुर्दश महास्वप्नान् स्वप्ने ददर्श । पत्या च फलं ज्ञात्वा मुदिता सा पूर्णे समये प्राची सूर्यमिवाऽप्रतिमं पुत्रं प्रासूत । पिता च समहोत्सवं तस्य सुवर्णबाहुरिति नाम चकार । क्रमात् प्राप्तयौवनं कलाकलापकुशलं विनीतं पराक्रमिणं च तं सोपरोधं राज्येऽभिषिच्य नृपः प्रवव्राज । स सुवर्णबाहुश्च प्रजाः पालयन् भोगान् भुञ्जान: कालं निनाय ।
Page #138
--------------------------------------------------------------------------
________________
२४८
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः निग्रहार्थमागतोऽस्मि' । ततोऽयं स एव राजेति तर्कयन्ती तां सखीं नृपोऽवदत्-'किमियं बालाऽनेन व्यापारेण क्लिश्यते' । ततो निःश्वस्य सोवाच-'इयं रत्नपुरेशस्य विद्याधरेन्द्रस्य रत्नावलीकुक्षिजा पद्माख्या सुता । अस्यां जातमात्रायां पिता विपन्नवान् । तद्राज्यार्थिन: पुत्राश्च मिथो युयुधिरे । ततो राज्यविप्लवे जाते रत्नावली मां बाला स्वभ्रातुर्गालवस्य कुलपतेराश्रमे उपानयत् ।
एकदा च समायाताद् दिव्यज्ञानिनो मुनेरत्राऽश्वापहृतः समागतश्चक्री वज्रबाहुपुत्रो वरो भावी ति गालवोऽज्ञासीत् । ततो नृपोऽकस्माद् ममाऽश्वापहरणमनया विधेः संघटनोपाय इति ध्यायन् 'क्वकुलपतिः, तं दिदृक्षामीत्यपृच्छत् । ततः सख्युवाच-'तं मुनिमन्यत्र विहर्तुं प्रस्थितमनुगन्तुं गतः कुलपतिः शीघ्रमेवाऽऽगमिष्यतीत्युवाच । तदानीमेव च काऽपि वृद्धा तापस्युवाच- 'नन्दे ! पद्मामानय, कुलपत्यागमक्षणो जातः' । नृपोऽपि चाऽश्वखुरध्वनिज्ञातसैन्यागम उवाच-'युवां गच्छतम्, अहमपि सैन्यमाश्रमाद् रक्षामि' ।
अथ नन्दया पद्मा तत: स्थानात् कथञ्चिद् नीता ग्रीवां वालयित्वा स्वर्णबाहुं पश्यन्ती गता । तदाऽऽगत: कुलपतिश्च रत्नावलीसख्या स्वर्णबाहुवृत्तान्तं निवेदितः । ततो गालव उवाच'मुनयो न मृषाभाषिणः, ततः पद्माया भावी पतिरयं पूज्यः, अहं पद्मया सह तं यामि' । ततः कुलपति: पद्मया रत्नावलीनन्दादिसमन्वितया सह नृपं जगाम । नृपोऽप्युत्थाय तं सत्कृतवान् । नृपेण स्वागतवचनेन सम्भावितश्च गालव उवाच-'आश्रममागतोऽन्योऽपि पूज्यः, त्वं तु नस्त्राता, इयं मे जामेयी पद्मा ज्ञानिना ते पत्नीत्युक्ता । तदस्या: पुण्यैरिहाऽऽगतस्त्वमिमां परिणय ।
नवमं पर्व - द्वितीयः सर्गः
२४९ तत: स्वर्णबाहुस्तां गान्धर्वेण विवाहेन परिणिनाय । रत्नावली च नृपायाऽऽशीर्वचनं जगौ । तदैव च रत्नावल्याः सापत्न: पद्मोत्तरो विद्याधरेन्द्रः सप्राभृतो विमानस्तत्रैत्य रत्नावल्या निवेदित: स्वर्णबाहुं नमस्कृत्य प्राञ्जलिरुवाच-'त्ववृत्तान्तं ज्ञात्वा त्वामेव सेवितुमिहाऽऽगम, तदाज्ञयाऽनृगृहाण । वैताढ्ये मम पुरे एहि, तत्र सुखं तिष्ठ' । ततो नृपस्तद्वचः प्रत्यपद्यत। पद्माऽपि मातरं नत्वा वियोगकातरा मृगादीनुल्लिख्योल्लिख्य विह्वला जाता । रत्नावली च चक्री पतिस्त्वया सर्वथाऽऽराधनीय इत्यादिकं समयोचितमुपदिश्य त्वमाश्वासयामास । ततः पद्मा मातरं नत्वाऽऽपृच्छ्य च पतिमनुससार ।
नृपश्चाऽपि रत्नावलीं गालवं चाऽऽऽपृच्छ्य पद्मोत्तरानुरोधात् तद्विमानं सपरिच्छद आरुरोह । तत: पद्मोत्तरस्तेन विमानेन सपञ स्वर्णबाहुं वैताढ्ये रत्नपुरे पुरे समानैषीत् । तत्र तेनाऽपिते रत्ननिर्मिते प्रासादे निवसने स्वर्णबाहुः श्रेणिद्वयाधिपत्यं प्राप । तत्र परिणीतानेकविद्याधरकन्यश्च स विद्याधरैः सर्वविद्याधरैश्वर्येऽभिषिक्तः । तस्य च स्वर्णबाहोविधिवद् महीं पालयतश्चतुर्दश महारत्नानि समुदभूवन् । चक्ररत्नमार्गानुगश्च षट्खण्डां महीं लीलया साधयित्वा सुरैरपि सेव्यमानो विविधं सुखं भुञ्जानस्तत्राऽस्थात् । ___अन्यदा च हऱ्यातलोपविष्टः स चक्री गगने उत्पततो निपततश्च देवान् दृष्ट्वा विस्मितस्तीर्थकरं जगन्नाथमुपागतं श्रुत्वा च तत्र गत्वा जिनेश्वरं नत्वा यथास्थानमुपविश्य धर्मदेशनामश्रृणोत् । जिनश्च भव्यान् प्रबोध्याऽन्यत्र जगाम । स्वर्णबाहुश्च निजगृहे समायातान् देवान् स्मारं स्मारं जातिस्मरणमाप । तत: पूर्वान् भवान् ध्यायन् प्रविव्रजिषुर्निजे राज्ये सुतं न्यस्य विहारक्रमादागतं जगन्नाथं
Page #139
--------------------------------------------------------------------------
________________
२५०
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः जिनेश्वरमुपजगाम । तदन्तिके प्रव्रज्य तपस्तप्यमानो गीतार्थोऽर्हद्भक्त्यादिकैः स्थानकैः सेवितैस्तीर्थकरनामकर्मोपार्जयामास । ततो विहरन् क्षीरमहागिरिसमीपे भीषणां क्षीरवणां महाटवीं प्राप्तः सूर्याभिमुखमातापनां कुर्वन् स्थिरप्रतिमाधरस्तस्थौ । ___ कुरङ्गकोऽपि च नरकादुद्धृत्य तत्पर्वते सिंहो जातः । स च तदानीमितस्ततो भ्रमंस्तत्राऽऽगतो बुभुक्षितस्तं मुनि दूरादेव ददर्श । प्राग्जन्मवैरात् क्रुद्धोऽभ्येत्य तलप्रहारेण मुनि भूमावपातयत् । मुनिश्च चतुर्विधाहारप्रत्याख्यानं विधाय समाहित आलोचनां सर्वप्राणिक्षमणां चाऽकरोत् । सिंहेऽपि शुभाशयो धर्मध्यानस्थ: सिंहेन विदारितो विपद्य विंशतिसागरोपमस्थितिर्दशमे कल्पे महाप्रभविमाने सुरोऽभूत् । स सिंहश्च मृतश्चतुर्थे नरके दशसागरोपमस्थितिको गत: । तत उवृत्त्य च तिर्यग्योनिषु बहुधा वेदना: सेहे ॥ २ ॥ इति नवमे पर्वणि श्रीपार्श्वनाथपूर्वभववर्णनात्मको
द्वितीयः सर्गः ॥२॥
तृतीयः सर्गः अथ स सिंहजीवो भवे दुःखान्यनुभवन् क्वचिद् ग्रामे दरिद्रस्य विप्रस्य पुत्रोऽभवत् । जातमात्रस्यैव तस्य पितृ-भ्रात्रादयो विपन्नाः । लोकैश्च कृपया पालित: कमठनाम्ना चाऽऽहूतः । स यौवनं प्राप्य कथमपि जीविकामकरोत् । अन्यदा समृद्धान् जनान् दृष्ट्वा जातवैराग्यः सोऽचिन्तयत्-'एतेषामेतत् प्राग्जन्मतपः फलमेव, मया च तपो नाऽऽचरितं, तदुर्गतोऽस्मि, तदधुना तपश्चरामि' । एवं विचिन्त्य वैराग्यात् तापसव्रतं प्रपन्नवान् ।
इतश्च जम्बूद्वीपे भरतक्षेत्रमण्डनेऽनुगङ्गं वाराणस्यां पुर्यां चैत्य-प्राकारादिशोभितायां सर्वदा महोत्सवसमन्वितायामिक्ष्वाकुवंश्योऽश्वसेनमहीपतिरभूत् । तस्य पराक्रमिणो विदुषोऽप्रतिहताज्ञस्य गुणग्रामसमग्रस्य भार्यायाः शीलवत्या ललनारत्नस्य वामादेव्याः कुक्षौ चैत्रकृष्णचतुर्थ्यां विशाखास्थे चन्द्रे सुवर्णबाहुजीवः प्राणतकल्पाच्च्युत्वाऽवातरत् । तदानी च वामादेवी स्वप्ने मुखे प्रविशतश्चतुर्दश महास्वप्नान् ददर्श । इन्द्रैः पत्या निमित्तज्ञैश्च स्वप्नफले कथिते प्रसन्ना सा गर्भ बभार । पूर्णे समये च सा पौषकृष्णदशम्यां विशाखास्थे चन्द्रे सर्पलाञ्छनं नीलवर्णं विडूरमहीरत्नमिव सुतं सुषुवे । __तदानीं च षट्पञ्चाशद्दिकुमार्यः समेत्य जिनस्य तन्मातुश्च सूतिकर्माणि चक्रुः । शक्रश्चाऽऽगत्य यथाकल्पं जिनं मेरावुपनीय
Page #140
--------------------------------------------------------------------------
________________
mom२५३
२५२
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः तत्र सर्वैरिन्द्रादिभिः सह प्रभोः स्नात्रं विधाय भक्त्या स्तुत्वाऽऽदाय पुनर्वामादेवीपार्वे यथास्थिति मुमोच । ततस्तस्य रक्षादिकं विधाय च शक्रः स्वं धाम जगाम । प्रातश्चाऽश्वसेनः समहोत्सवं 'गर्भस्थितेऽस्मिन् कृष्णरात्रावपि पार्श्वत: सर्पन्तं सर्पमद्राक्षीदि'ति तस्य पावं इत्याख्यां चकार । प्रभुश्च धात्रीभिर्लाल्यमानः क्रमाद् वर्धमानो यौवनं प्रपन्नो नवहस्तप्रमाणो नीलशरीरकान्त्या शोभमानो वज्रसर्पलाञ्छनधरः शुशुभे ।
अन्येधुश्च जिनधर्मकथामग्नो नृपः सभास्थो द्वारपालेन 'कोऽपि नृपाकृतिः पुमान् किमपि विज्ञीप्सुभरि तिष्ठती'ति निवेदितस्तत्प्रवेशाय समादिशत् । द्वारपालेन प्रवेशितश्च स नृपं नत्वा निर्दिष्टे आसने समुपाविशत् । नृपेण च 'कोऽसि, कस्याऽसि, किमिहाऽऽगतश्चेति पृष्टः स उवाच-'नृप ! इह भरते लक्ष्मीसनाथे कुशस्थले शरण्योऽर्थिकल्पद्रुमो नरवर्मा नृपो बहून् नृपान् तेजसाऽसाधयत् । एवं स विराजमानो जिनधर्मप्रियो मुनिसेवी प्रजा नयेन पालयामास । एकदा च भवविरक्तः स तृणवच्छ्रियं त्यक्त्वा मुनिसमीपे परिवव्राज' । ___ अत्राऽवसरे चाऽश्वसेनेन नरवाणं प्रशस्याऽग्रिमवृत्तान्तं पृष्टोऽसौ पुनराह-'नृप ! तस्य नरवर्मणः पुत्रो महासेनः प्रसेनजिदभूत् । तस्याऽधुना प्राप्तयौवनाऽप्रतिमरूपा प्रभावती नाम कन्यकाऽस्ति । तस्या अनुरूपवरार्थे चिन्ताकुलश्च प्रसेनजिद् नृपोऽस्ति । एकदा चोद्यानगता प्रभावती किन्नरीभिर्गीयमानान् पार्श्वनाथस्य गुणानशृणोत् । तत्र जातानुरागा कामार्ता सर्वव्यापारविरक्ता सर्वदा पार्श्वमेव ध्यायन्ती कदाऽपि निर्वतिं न याति । पितरौ च सख्यास्तस्याः पार्वेऽनुरागं ज्ञात्वा मुदितौ पार्श्वेनैव लोकश्रेष्ठेन सा
नवमं पर्व - तृतीयः सर्गः परिणायितव्येत्यूचतुः । सा च प्रभावती सखीमुखात् तच्छृत्वा नितान्तं मुमुदे । पार्श्वमेव चिन्तयन्ती दिने दिनेऽतिविधुरां दृष्ट्वा पार्श्वसमीपं स्वयंवरां तां प्रेषयितुं पितरौ निश्चिक्याते । ____ कलिङ्गदेशेशो यवनश्च तज्ज्ञात्वा सभायामुवाच-'मयि सति प्रभावतीं पाश्वो न परिणेतुमर्हति' । ततः सोऽतुलपराक्रमी सैन्यैरागत्य कुशस्थलपुरमरौत्सीत् । तत्र कस्याऽपि प्रवेशो निर्गमो वा दुर्लभः । अहं तुं रात्रौ राज्ञा प्रेषितः पुराद् निरगाम् । मन्त्रिण: सागरदत्तस्य पुरुषोत्तमः पुत्रोऽहम् । अतः परं यत् कृत्यं तत्र देव एव प्रमाणम्' । ततः क्रुद्धोऽश्वसेन उवाच-'कुशस्थलं त्रातुं यवनमभिषेणयिष्यामि' । एवमुक्त्वा स सैन्यान् भम्भां वादयित्वा मेलयामास ।
पार्श्वश्च भम्भारवं सैनिकानां तुमुलं च श्रुत्वा किमेतदिति सम्भ्रमात् पितुरन्तिकं ययौ । सर्वं वृत्तान्तं ज्ञात्वा च पितरं महताऽऽग्रहेण निर्वार्य पित्राऽऽदिष्टो द्विपारूढः शुभे मुहूर्ते पुरुषोत्तमेनाऽनुयातः सोत्सवं प्रस्थितः पार्श्वः । जिने प्रदत्तकप्रयाणे च शक्रेण प्रेषितं ससारथिं सर्वशस्त्रास्त्रसम्भृतमस्पृष्टभूतलं दिव्यं रथं शक्रः प्रेषयामास । पार्श्वप्रभुश्च तं रथमारुरोह । सैन्येन महताऽनुयातश्च पार्श्वप्रभुः कतिपयैर्लघुभिः प्रयाणकैः कुशस्थलं प्राप्योद्याने सुरविकृते प्रासादे निवासमकरोत् ।
अथ पार्श्वप्रभुः सुमेधसं दूतमनुशिष्योपयवनं प्रेषितवान् । स च दूत: पार्वाज्ञानुसारेण युद्धाद् विनिवृत्तये यवनं बहुधा प्रतिबोधयामास । यवनेन गर्वनिर्भर्त्तित: सैनिकैरुदायुधैर्जिघांसितश्चाऽपि स 'स्वामिना त्रिलोकनाथेन वैरं वो न कल्याणाये'ति दूत:
Page #141
--------------------------------------------------------------------------
________________
षष्टिकापुरुषचरितम्-गद्यात्मकसारोद्धारः
पुनरुवाच। तदानीमेव वृद्धोऽमात्य एत्य तान् निवार्य देवाधिदेवेन पार्श्वेन वैरं न युज्यते' । दूततिरस्कारस्तु सर्वथाऽनुचित इति निर्भस्र्त्य च दूतं करे धृत्वा साम्नोवाच- 'एभिरज्ञानादेवमुक्तं त्वया क्षन्तव्यं, स्वामिने चैतद् न निवेदनीयम् । प्रभोः शासनं शिरसा स्वीकर्तुं स्वयं तवाऽनुपदमागमिष्यामो वयम्' । एवं प्रबोध्य सत्कृत्य च स दूतं विसृज्य यवनमादरादुवाच- 'देव ! नेदमुचितमनुष्ठितं, यस्य सेन्द्राः सुरा - ऽसुराः सेवकास्तेन वैरं स्वनाशायैव । तत्तं प्रभुमुपगम्य क्षमयित्वा तदाज्ञां स्वीकुरु, स्वस्थाने निर्भयश्च तिष्ठ' । ततो यवनो विमृश्य तद्वचः सादरं प्रपद्य सपरिवारः कण्ठे कुठारं कृत्वा श्रीपार्श्वप्रभुमुपाजगाम ।
२५४
तत्रोद्यानेच लक्षशो हयान् सहस्रशो गजेन्द्रान् रथान् देवविमानान् पत्तींश्च दृष्ट्वा विस्मितो जातो यवनः । तत्र भटैः सावज्ञमीक्ष्यमाणो यवनः प्रभुप्रासादद्वारं प्राप्तो वेत्रिणा विज्ञपय्य सभायां प्रवेशितो दूरादपि दृष्ट्वा प्रभुं नमश्चकार । प्रभुणा मोचितगलकुठारश्च यवनः पुनः प्रभुं नत्वाऽग्रत उपविश्य कृताञ्जलिर्जगाद - 'देवाधिदेवस्य तवाऽग्रतोऽहमतिलघुः । यद् दूतं प्रेष्य मामबोधयस्तद् मय्यनुग्रहः । तव पवित्रदर्शनाद् ममाऽपराधोऽपि शुभाय जातः । तन्निष्कारणपरमकारुणिको भवान् । तवाऽहं सेवकोऽस्मि भीतस्य मेऽभयं देहि' । ततः श्रीपार्श्वप्रभुरुवाच- 'तुभ्यं स्वस्ति, मा भैषीः, स्वं राज्यं शाधि, पुनरीदृशं मा कार्षीः' । तथेति प्रतिपद्यमानं तं प्रभुः प्रसन्नः सच्चकार । कुशस्थलपुरस्याऽवरोधो निवृत्तः ।
पुरुषोत्तमश्च प्रभुमनुज्ञाप्य गत्वा प्रसेनजिद् नृपस्य सर्वं वृत्तं शशंस । प्रसेनजिच्च मुदितः प्रभावतीपितृत्वेन स्वभाग्यं प्रशंसन् पार्श्वप्रभोर्नगरागमनं मनसि कृत्वोपायनमिव प्रभावतीमादाय हृष्टः
२५५
नवमं पर्व तृतीयः सर्गः सपरिवारः प्रभुमुपययौ । तं च नत्वा कृताञ्जलिरुवाच- 'प्रभो ! दिष्ट्या तवाऽऽगमनमनभ्रवृष्टिरिव शत्रुरपि यवनो ममोपकारक एव जातो यद् भवानिहाऽऽगतः । मामनुगृह्य प्रभावतीं स्वीकुरु, इयं त्वय्यनुरागवती, तदेतस्यां कृपां कुरु । प्रभावती च दध्यौ'किन्नरीभिर्यथा गीतस्तथैवाऽयमद्य दृष्टः, मदर्थे तातेनाऽयमुपरुद्ध इत्यधुना साध्वेवाऽभूत् । तथाऽपि तातप्रार्थनामेष स्वीकरिष्यति न वेति मम सन्देहः । एवं तस्यां ध्यायन्त्यां पार्श्वप्रभुरुवाच- 'वयं पितुराज्ञया त्वं त्रातुमेवेहाऽऽगता न तु विवाहार्थं तदत्राऽऽग्रहं मा कार्षीः, तातस्याऽऽज्ञां पालयित्वा तत्समीपमेव गमिष्यामः ।
प्रभावती च तच्छ्रुत्वा विषण्णा ‘सर्वत्र दयालुरयं मयि निष्कृप इति मन्दभाग्याऽहं हे कुलदेव्यः ! उपायं दर्शयत, इत्येवं बहु चिन्तयामास । प्रसेनजिच्च दध्यौ- 'प्रभुः स्वयं निःस्पृहोऽप्यश्वसेनोपरोधाद् मदिच्छां पूरयिष्यति, ततोऽश्वसेनदर्शनव्याजेन सह यामि, तत्र चाऽश्वसेनमाग्रहीष्ये' । ततः प्रभुमुवाच - अहमश्वसेनपादान् नन्तुं सह चलामि । ततः प्रभुणा तथाऽस्त्वित्युक्तः प्रभावतीमुपादाय स सहैव वाराणसीं ययौ । पार्श्वप्रभुश्च शरणागतरक्षणेन पितरमानन्दयामास । पार्श्वे स्वावासं गते च प्रसेनजित् प्रभावत्या सहाऽश्वसेनस्य पुरतो गत्वा नत्वाऽभ्युत्थायाऽश्वसेनेनाऽऽलिङ्ग्य सत्कृतः, ससम्भ्रममुवाच - 'तव प्रसादात् सर्वं कुशलम् एकं पीडाकरमप्यवशिष्टं त्वत्प्रसादात् सेत्स्यति नृप ! मम कन्या प्रभावती पार्श्वेऽनुरक्ता । इमां पार्श्वकुमारार्थं स्वीकुरु' ।
ततोऽश्वसेन उवाच- 'पार्श्वकुमारः सदा संसाराद् विरक्त एवाऽस्ति, न जाने स किं करिष्यति । अस्माकमप्येष मनोरथोत्
Page #142
--------------------------------------------------------------------------
________________
२५६
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः कदा पुत्रस्य वधूवाहोत्सवो भवेत् । अधुना तवाऽऽग्रहादनिच्छन्तमपि पाश्र्वं परिणाययिष्यामि'। एवमुक्त्वाऽश्वसेनः प्रसेनजिता सहैव पार्श्वमुपगम्य प्रभावती परिणयेत्युवाच ।
ततः पार्श्वप्रभुरुवाच-'कलत्रादिपरिग्रहो भवपरम्पराहेतुः, अहं निष्परिग्रह: संसारं तरिष्यामि' । ततोऽस्मन्मनोरथं पूरय, त्वं कृतोद्वाहोऽपि संसारं तरिष्यस्येवे'त्येवं पितुर्वचनमुल्लवितुमसमर्थः प्रभुर्भोग्यं कर्म क्षपयितुं प्रभावतीं परिणिनाय । तया साधं स्वच्छन्दं रममाणश्च कालान् गमयामास ।
अन्यदा प्रासादे गवाक्षस्थ: कौतुकाद् वाराणसी पश्यन् प्रभुः पौरान् सपूजोपकरणान् बहिर्निर्गच्छतो दृष्ट्वा कमपि पार्श्वस्थं कारणं पृष्टवान् । ततः कोऽप्युवाच-'अद्य कमठो नाम तपस्वी पुर्या बहिरागत: पञ्चाग्न्यादितपोनिष्ठः, तमेव पूजयितुं नागरा गच्छन्ति' । तत: पार्श्वप्रभुरपि कौतुकात् सपरिच्छदो गत्वा पञ्चाग्नितप:स्थितं कमळं दृष्ट्वा काष्ठान्तरस्थितं कुण्डमध्ये दह्यमानं सर्प चाऽवधिना ज्ञात्वा दयालुरुवाच-'अहो ! महदज्ञानं यत् तपस्यपि न दयालेशः, दयां विना हि धर्मो जलं विना सरिदिव, निर्दयस्य न कदाऽपि धर्म:'।
तत: कमठ उवाच-'राजपुत्रा हस्त्यश्वाद्येव जानन्ति, धर्म तु मादृशा मुनय एव जानन्ति' । ततः प्रभोरादेशाज्जनाः कुण्डमध्यात् काष्ठं समाकृष्याऽदारयन् । ततश्च सर्पो निर्जगाम । तत्र किञ्चिद् दह्यमानस्य सर्पस्य प्रभुर्जनैनमस्कारान् प्रत्याख्यानं च तत्क्षणं
नवमं पर्व - तृतीयः सर्गः
meanemummmmmmmmmmmmmmmmmmmmmmmmm दापयामास । स सर्पश्च प्रभुणा कृपया दृश्यमानः समाहितो विपद्य धरणो नाम नागराजोऽभूत् । ततो जनैर्ज्ञानमहिम्ना स्तूयमानः प्रभुः स्वं धाम जगाम । कमठश्च तदाकर्ण्य विशेषतस्तपश्चरन् विपद्य भुवनवासिषु मेघकुमारेषु मेघमालीनामाऽसुरोऽभूत् । ____ इतश्च पार्श्वप्रभुः प्रव्रज्यासमयं ज्ञात्वा लोकान्तिकामरैरेत्य तीर्थ प्रवर्तयेति प्रार्थितो वार्षिकदानं दातुं प्रचक्रमे । शक्राद्यैर्देवैश्च प्रभोर्दीक्षाभिषेकश्चक्रे । ततः पार्श्वप्रभुर्विशालां नाम शिबिकामारुह्योद्यानं गत्वा त्यक्तभूषणादिस्त्रिंशद्वर्षः पौषकृष्णैकादश्यां पूर्वाह्ने विशाखास्थे चन्द्रेऽष्टमेन प्राव्राजीत् । द्वितीयेऽह्नि च कोपकटाख्ये ग्रामे धन्यगृहे पायसेन पारणं चकार । देवादयश्च तत्र वसुधारादिकं चक्रुः । प्रभुश्च च्छद्मस्थो ग्राम-पुरादिषु विजहार ।।
एकदा च विहरन् प्रभुस्तापसाश्रममगात्, तदानीं रविरस्तमियाय । ततः प्रभुः कूपसमीपे वटवृक्षमूले रात्रौ निष्कम्पः प्रतिमया तस्थौ । इतश्च मेघकुमारो मेघमाली महासुरोऽवधे: पूर्ववृत्तान्तं ज्ञात्वा पूर्ववैरं स्मृत्वा च क्रुद्धः प्रभुमुपद्रोतुं समाजगाम । स च व्याघ्रान्, गजेन्द्रान्, चित्रकादीन् वृश्चिक-सादींश्च विकृत्य प्रभु क्षोभयितुं प्रावृतत् । किन्तु प्रभुर्मर्यादायाः सागर इव ध्यानाद् न चचाल । ततः सोऽसुरो वेतालादीन् भयङ्करवेषान् विचक्रे । तेनाऽपि चाऽचलिते प्रभौ विशेषेण क्रुद्धो मेघमाली मेघान् भीषणान् विकृत्य कल्पान्तमेघवद् वर्षितुं प्रारेभे । सर्वतश्च प्रसर्पति महापूरे प्रभुराकण्ठमग्नोऽपि शिलाखण्डवद् निश्चल एव तस्थौ । यावच्च जलं प्रभोरानासाग्रमभूत् तावद् नागेन्द्रस्य धरणस्याऽऽसनमकम्पत ।
स चाऽवधिना प्रभोः कमठोपद्रवं ज्ञात्वा महिषीभिः सह वेगात् समागत्य प्रभुं नत्वा प्रभोः पादयोरधस्तादुन्नालं तुर्क कमलं
Page #143
--------------------------------------------------------------------------
________________
२५८
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः निहितवान् । स्वभोगेन च स प्रभोः पृष्ठाद्यङ्गं पिधाय फणैः सप्तभिः शिरसि च्छवं चकार । प्रभुश्च कमले राजहंस इव समाधिलीनस्तस्थौ । नागेन्द्रस्त्रियश्च प्रभोरग्रे गीत-नृत्यादिकं चक्रुः । तथाऽपि प्रभुानलीनो नागेन्द्रे मेघमालिनि च समवृत्तिरेवाऽस्थात् । एवं सत्यपि क्रोधाद् वर्षन्तं मेघमालिनं धरणेन्द्र उवाच-'तवैतद् नोचितम्, अत: परं प्रभोरहं सेवको न सहिष्ये, प्रभुणा हि काष्ठान्तर्दह्यमानः सर्पस्तवोपकारायैव दर्शितः । सर्पाणां पय:पानं विषायेव, प्रभोः सदुपदेशस्तव वैरायैवाऽभूत् । अधुना विरम, अन्यथा तव न शुभम्' । ___ मेघमाली च तद्वचः श्रुत्वाऽधोदृष्टिं दत्त्वा पार्श्वप्रभुं नागेन्द्रेण सेवितं दृष्ट्वा भीतोऽचिन्तयत्-'मम सर्वा शक्तिर्वृथा, प्रभुः करुणानिधिर्न ममाऽपकरिष्यति, तथाऽपि धरणेन्द्राद् भयमस्त्येव, तदयं प्रभुरेव शरणम्' । एवं विचिन्त्य स मेघान् संहत्य भीत: स्वामिनमुपगम्य नत्वा स्वं निन्दन् क्षमयित्वा च प्रभुं प्रणम्य सानुतापो निजं धाम जगाम । नागराजोऽपि प्रभुं निरुपसर्ग ज्ञात्वा स्तुत्वा नत्वा च स्वस्थानं जगाम । रात्रिरपि व्यतीयाय ।
नवमं पर्व - तृतीयः सर्गः सर्वविरतिभेदाद् द्विविधः । तत्र सर्वविरतिर्मुनीनां संयमादिभेदैर्दशविधः, देशविरतिस्तु गृहिणां पञ्चाऽणुव्रतानि त्रयो गुणाश्चत्वारि शिक्षाव्रतानि चेति द्वादशविधा । तत्र सातिचाराणि व्रतानि न धर्मायेति व्रते व्रते पञ्च पञ्चाऽतिचारा हेयाः ।
तत्राऽहिंसायां क्रोधाद् बन्ध-च्छविच्छेदा-ऽधिकभारारोपणप्रहारा-ऽन्नादिरोधाः । सूनृते मिथ्योपदेश-सहसाभ्याख्यान-गुह्यभाषणविश्वस्तमन्त्रभेद-कूटलेखाः । अस्तेये स्तेनानुज्ञा, स्तेनानीतादानद्विड्राज्यलङ्घन-प्रतिरूपक्रिया-कूटमानाः । ब्रह्मचर्ये वेश्या-परकीयासङ्गमा-ऽन्यविवाहन-कामकथाभिनिवेशा-ऽनङ्गक्रीडाः । अपरिग्रहे धन-धान्य-कुप्य-गवादिक्षेत्रवास्तु-हिरण्यादीनां सङ्ख्यातिक्रमश्चाऽतिचाराः । दीक्षितस्य बन्धनाद् भावतो गर्भाद् योजनाद् दानतश्च पञ्चधाऽप्येष नोचितः ।
दिग्विरतौ च स्मृत्यन्तर्धानोधिस्तिर्यग्भागव्यतिक्रमक्षेत्रवृद्धयोऽतीचाराः । भोगोपभोगमाने सचित्त-तत्सम्बद्ध-सन्मिश्रा-ऽभिषवदुष्पक्वाहारा अतीचाराः । तत्र सचित्तादयो भोज्यान्त त्याज्याः, कर्मत: खरकर्म त्याज्यं, तत्र पञ्चदश कर्मादानभूतान् मलान् विजह्यात् । ते चाऽङ्गार-वन-शकट-भाटक-स्फोटजीविका दन्त-लाक्षा-रसकेश-विषवाणिज्यकानि, यन्त्रपीडा निर्लाञ्छनमसतीपोषणं दवदानं सरःशोषश्चेति पञ्चदश ।
तत्राऽङ्गारभ्राष्ट्रकरणं कुम्भाय:-स्वर्णकारिता ठठारत्वेष्टकापाकावित्यङ्गारजीविका, छिन्ना-ऽच्छिन्नवनपत्र-पुष्प-फलविक्रयः कणानां दलनोत्पेषाद् वृत्तिश्च वनजीविका, शकटानां तदङ्गानां घट्टनं, खेटनं, विक्रयश्चेति शकटजीविका, शकटोक्षलुलायोष्ट्र-खरा-ऽश्वतर-वाजिनां
अथ प्रभुस्तत: स्थानाद् वाराणसी पुरीं गत्वोद्याने धातकीतरुतलेऽस्थात् । तदानीं च दीक्षादिनाच्चतुरशीतौ दिनेषु गतेषु चैत्रकृष्णचतुर्थ्यां विशाखास्थे चन्द्रे घातिकर्मक्षयात् पूर्वाह्ने पार्श्वप्रभोः केवलमुत्पन्नम् । देवैर्विहिते समवसरणे च यथाकल्पं रत्नसिंहासने समुपविश्य शक्रा-ऽश्वसेनाभ्यां स्तुतो धर्मदेशनां विदधे-'अस्मिन् भवकान्तारे जरा-मृत्यु-रोगादिगहने धर्मं विना नाऽन्यो जनस्य त्राता, तस्मात् स एवाऽऽराधनीयः । स च धर्मो देशविरति
Page #144
--------------------------------------------------------------------------
________________
२६०
नवमं पर्व - तृतीयः सर्गः आर्यदत्तश्च द्वितीयपौरुषीं यावद् देशनां ददौ । शक्रादयश्च प्रभु प्रणम्य निजनिजस्थानं जग्मुः । ___अथ तत्तीर्थे समुत्पन्ने नीलवर्णः कूर्मरथो गजाननः फणिफणाच्छत्रधरश्चतुर्भुजो वामाभ्यां बाहुभ्यां नकुला-ऽहिधरो दक्षिणाभ्यां च बीजपूर-सर्पधरः पार्श्वयक्षः', 'कुक्कुटोरगवाहना स्वर्णवर्णा दक्षिणाभ्यां कराभ्यां कमल-पाशधरा वामाभ्यां च फला-ऽङ्कशधरा पद्मावती देवी च शासनदेवते प्रभोः सदा सन्निहिते अभूताम् । ताभ्यां शासनदेवताभ्यां सर्वदोपासितः प्रभुरन्यैरपि देवादिभिः सह महीं व्यहार्षीत् ॥ ३ ॥
इति नवमे पर्वणि श्रीपार्श्वनाथकौमार-दीक्षाकेवलोत्पतिवर्णनात्मकस्तृतीयः सर्गः ॥३॥
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः भारस्य वहनाद् वृत्तिर्भाटकजीविका, सर:-कूपादिखननं शिलाकुट्टनं पृथिव्यारम्भसम्भूतैश्च जीवनं स्फोटजीविका । त्रसाङ्गस्य दन्तकेशादेर्वाणिज्यार्थं ग्रहणं दन्तवाणिज्यं, लाक्षा-मनःशिलादीनां विक्रयो लाक्षावाणिज्यं, नवनीतादीनां रसानां द्विपादीनां केशाख्यानां विक्रयश्च रस-केशवाणिज्यं, प्राणापहारकस्य विषा-ऽस्त्रादेविक्रयो विषवाणिज्यं, तैलाद्यर्थं तिलादीनां यन्त्रपीडा, नासावेधादिकं निर्लाञ्छनं, शारिकामार्जारादीनां दास्याश्च वित्तार्थं पोषणमसतीपोषणं, व्यसनात् पुण्यबुद्ध्या वा द्विधा दवदानं, सर:प्रभृतिष्वम्बुसंप्लवः सरःशोषचोच्यते । संयुक्ताधिकरणत्वमुपभोगोऽतिरिक्तता मौखर्य कौकुच्यं कन्दर्पश्चाऽनर्थदण्डगा अतीचाराः ।
सामायिकव्रते च काय-वाङ्-मनसां दुष्प्रणिधानमनादरः स्मृत्यनुपस्थापनं चाऽतिचारा: । देशावकाशिकव्रते च प्रेष्यप्रयोगानयने पुद्गलक्षेपणं शब्द-रूपानुपातौ चाऽतिचाराः । पौषधे चाऽप्रेक्ष्याऽप्रमृज्य चोत्सर्गादानसंस्तारा अनादरः स्मृत्यनुपस्थापनं चाऽतिचाराः । चतुर्थशिक्षाव्रते च सचित्ते क्षेपणं, तेन पिधानं, काललङ्घनं, मत्सरोऽन्यापदेशश्चाऽतिचारा: । श्रावक एभिरतिचारै रहितानि व्रतानि पालयन् विशुद्धात्मा भवबन्धनात् प्रमुच्यते' । एवंविधां प्रभोर्देशनां श्रुत्वा प्रबुद्धा बहवोऽपि प्रवव्रजुः । बहवश्च श्रावकत्वं जग्रहः। ___ अथाऽश्वसेनः प्रतिबुद्धः पुत्राय हस्तिसेनाय स्वं राज्यं दत्त्वा प्रवव्राज । वामादेवी-प्रभावत्यावपि प्रभोर्देशनया प्रबुद्धे भवोद्विग्ने दीक्षां जगृहतुः । प्रभुश्चाऽऽर्यदत्तादीन् दश गणधरान् स्थित्युत्पादव्ययात्मिकां त्रिपदीमुपादिशत् । तया त्रिपद्या च ते गणधरा द्वादशाङ्गीमसूत्रयन् । ततः प्रथमपौरुष्यामतीतायां प्रभुर्देशनां व्यसृजत् ।
Page #145
--------------------------------------------------------------------------
________________
चतुर्थः सर्गः
अथ लोकानुग्रहार्थं विहरन् पार्श्वप्रभुः पृथिवीतिलककल्पे पुण्ड्रदेशे समागतः । इतश्च तदानीं पूर्वदेशे ताम्रलिप्त्यां पुरि कलाकुशलस्तरुणः सागरदत्तो नाम वणिक्पुत्रो जातजातिस्मरणो विरक्तो रूपवतीमपि स्त्रियं परिणेतुं नैच्छत् । स हि पूर्वजन्मनि विप्रोऽसत्या भार्यया दत्तविषो नष्टसंज्ञोऽन्यत्र क्वचित् त्यक्तः । तदा गोकुलिन्या जीवितः प्रव्रज्य तपस्तप्त्वा विपद्य च जातिस्मरः श्रेष्ठिपुत्रो जातः सदा स्त्रीविरक्तोऽभवत् । गोकुलिनी च लोकधर्मपरायणा विपद्य तस्यामेव पुरि रूपवती वणिक्पुत्री जाता । एतस्यां सागरदत्तस्य प्रीतिः स्यादिति सम्भाव्य बन्धुभिस्तदर्थं याचिता सा सगौरवं प्राप्ता च । किन्तु तस्यामपि सागरदत्तस्य मनो न रेमे । स पूर्वजन्मपरिचयवशात् स्त्रीर्यमदूतीरिवाऽमन्यत ।
ततः सा वणिक्पुत्री दध्यौ - 'अयं कोऽपि जातिस्मरः पूर्वजन्मनि कयाऽपि कुलटया च्छलितो लक्ष्यते, तदेवं स्त्रीविमुखोऽस्तीति हृदि विचार्य श्लोकं पत्रे लिखित्वा सा सागरदत्तं प्रति प्रेषीत् । स च तत्पत्रं वाचयामास - 'पायसदग्धस्य पुरुषस्य दधित्यागोऽयुक्तः, स्वल्पे जले जायमानाः पूतरा दुग्धे न जायन्ते । तच्छ्लोकस्यैवं भावार्थं विचारयन् सोऽपि श्लोकं लिखित्वा प्रेषयामास ।
नवमं पर्व चतुर्थः सर्गः
२६३
साऽपि तद् वाचयामास - 'स्त्री कुपात्रे रमते, नदी नीचं गच्छति, मेघो गिरौ वर्षति, लक्ष्मीर्निर्गुणं' श्रयति । एवं तच्छ्लोकभावार्थं विचार्य सा पुनस्तद्बोधार्थं श्लोकं लिखित्वा प्रेषयामास - 'वाचिको दोषः सर्वत्र सम्भाव्यते, न च सर्वस्त्याज्यः, सूर्योऽनुरक्तां सन्ध्यां कदाऽपि न त्यजति' । एवं भावार्थकं तच्छ्लोकं वाचयित्वा सागरदत्तो जातरागस्तां परिणीय यथेच्छं तया सह भोगान् बुभुजे ।
अथाऽन्यदा सागरदत्तस्य श्वशुरः सपुत्रो वाणिज्यार्थं पाटलापथं नगरमगात् । श्रेष्ठी सागरदत्तोऽपि व्यवहरन् महत्तरेण प्रवहणेन कदाचित् परतीरमगात् । तस्य प्रवहणं च सागरे सप्तकृत्वोऽभज्यत । तेन च मन्दभाग्योऽसाविति लोकैरुपहसितः प्रतिनिवृत्त्याऽर्थापचयेऽपि प्रयतमानो भ्रमन्नेकदा कमपि बालकं कूपाज्जलमाकर्षन्तं ददर्श स बालश्च सप्तकृत्वो जलाकर्षणेऽसफलोऽष्टमे वारे तत्र सफलोऽभूत् । तेन प्राप्तप्रतिबोध: स पुनरुद्यमाय जातोत्साह : शकुनग्रन्थिं बद्ध्वा पोतेन सिंहलद्वीपं प्रस्थितो वायुवशाद् रत्नद्वीपं प्राप । तत्र च स भाण्डानि विक्रीय रत्नराशीन् क्रीत्वा तैः पोतमापूर्य स्वपुरीं प्रति प्रस्थितः रत्नलुब्धैः पोतवाहकै रात्रौ जलधौ क्षिप्तः । कथञ्चित् फलकं दैवात् प्राप्य तटमागतः पाटलापथं नगरं गतः श्वशुरेणाऽवलोकितो निजगृहं नीतश्च । तत्र स्नात्वा भुक्त्वा विश्रम्य च सागरदत्तः सर्वं वृत्तान्तं श्वशुरस्याऽऽख्यत् । ततः श्वशुर उवाच - 'त्वमत्रैव तिष्ठ, ते पोतवाहा बन्धुजनभयात् ताम्रलिप्त्यां न यास्यन्ति, किन्त्वत्रैवैष्यन्ति', सागरदत्तश्च तत् स्वीचकार । तथा स श्वशुरद्वारा तद्वृत्तान्तं नृपाय निवेदयामास ।
तत्प्रवहणं चाऽन्यदा तीरे समागतं सागरदत्तकथितलक्षणैरायुक्तपुरुषैर्ज्ञातम् । ततस्ते कोऽत्र भाण्डपतिः, किं किमत्र, कियदि'
Page #146
--------------------------------------------------------------------------
________________
२६५
२६४
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः त्यादिकं पोतवाहान् पप्रच्छुः । ते चाऽन्यथा ब्रुवन्तः क्षुभिताश्चाऽऽयुक्तरुपलक्षिताः । ततस्तैः सागरदत्त आशु तत्राऽहूतः । ते पोतवाहाश्च सागरदत्तं प्रेक्ष्य भीता नत्वोचुः-'अस्माभिर्दुष्कर्म विहितं, तथाऽपि त्वं सुपुण्येन स्वेन रक्षितोऽसि, वयं वध्यकोटि प्राप्ताः, तदुचितं कुरुष्व' । ततो दयालुः सागरदत्तस्तान् राजपुरुषेभ्योऽरक्षयत् । किञ्चित् पाथेयं प्रदाय तान् विससर्ज च । पुण्यवानयमिति स राज्ञोऽतिमानितो जातः । तथा स पोतस्थभाण्डेन प्रचुरं द्रव्यमुपार्जितवान् । ___ अथ स दानं दत्त्वा रत्लैजिनप्रतिमां चिकीर्षुर्धर्माचार्यानपृच्छत् । तेषां मतिभेदाच्च स केनाऽप्याप्तेनोपदिष्टस्तपश्चकार । अष्टमान्ते च काऽपि देवता तीर्थकरप्रतिमामदर्शयत् । एषा पारमार्थिकीत्युक्त्वा च सा तिरोदधे । सागरदत्तश्च हृष्टस्तां जिनमूर्ति स्वर्णवर्णां साधूनामदर्शयत् । साधुभ्यो धर्मं श्रुत्वा च श्रावको भूत्वा स तान्'केन विधिना जिनमूर्तिः प्रतिष्ठाप्ये ति पप्रच्छ । ततस्ते ऊचुः-पुण्ड्रवर्धने श्रीपार्श्वः समवसृतोऽस्ति, तं पृच्छ' ।
ततः सागरदत्तो गत्वा नत्वा रत्नप्रतिमोचितविधि पार्श्वप्रभु पप्रच्छ । प्रभुश्च निजं समवसरणमुद्दिश्य सर्वं विधि कथयामास । तत: सागरदत्तो जिनोक्तविधिना जिनप्रतिमा स्थापयित्वा क्रमात् प्राव्राजीत् । प्रभुश्च सुरा-ऽसुरैः सेव्यमानोऽन्यत्र ययौ । ___ इतश्च नागपुरपुरे यशस्वी सुरतेजा नृपो बभूव । तस्य चेभ्यो धनपतिः प्रियोऽभवत् । तस्य धनपतेः पत्नी शीलवती सुन्दरी नाम । तयोश्च बन्धुदत्तो नाम पुत्रो विनीतो गुणवान् युवा च बभूव । वत्साख्ये विजये च कौशाम्बीनगरे शत्रुन्तपो मानभङ्गो नाम
नवमं पर्व - चतुर्थः सर्गः नृपोऽभवत् । तत्र जिनधर्मरत इभ्यो जिनदत्तस्तद्भार्या वसुमती तयोः पुत्री प्रियदर्शना चाऽऽसन् । तस्याः प्रियदर्शनायाश्च विद्याधरस्याऽङ्गदस्य पुत्री जिनधर्मरता मृगाङ्कलेखा सखी बभूव । तयोश्च द्वयोर्देवपूजादिभिर्दिनानि व्यतियन्ति स्म ।
अन्यदा च भिक्षार्थमागतेनैकेन मुनिना प्रियदर्शनामुद्दिश्याऽन्यस्य साधो रियं पुत्रं जनयित्वा प्रव्रजिष्यती'ति कथितम् । मृगाङ्कलेखा च तच्छ्रुत्वा मुमुदे । किन्तु तद्वृत्तं कस्याऽपि नाऽऽख्यत् ।
धनपतिश्च स्वपुत्राय नागपुरीश्रेष्ठिनो वसुनन्दात् पुत्री चन्द्रलेखामयाचत स च ददौ । शुभे मुहूर्ते च बन्धुदत्तस्य चन्द्रलेखया समहोत्सवं विवाहोऽभूत् । द्वितीयदिने एव च सा सर्पण दष्टा व्यपद्यत । एवमेव तस्य कर्मविपाकवशात् षड्भार्या ऊढमात्राः सर्पण दष्टा व्यपद्यन्त । तेन च कोऽपि बन्धुदत्ताय कन्यां नाऽदात् । स च भार्याचिन्तया दिने दिने कृष्णपक्षे चन्द्र इव क्षीयते स्म ।
धनपतिश्च 'चिन्तयाऽसौ मरिष्यत्येव, तदेनं व्यापारे क्षिपामी'ति विचार्य सिंहलादिषु व्यवहत्तु बन्धुदत्तं समादिशत् । ततः स पित्राज्ञया भाण्डान्यादाय पोतेन जलधि तीर्वा सिंहलं प्राप्योपदाभि: सिंहलेशं प्रसाद्य शुल्कममोचयत् । तत्र भाण्डानि विक्रीय यथेष्टं लाभं प्राप्य प्रतिभाण्डानि क्रीत्वा स्वपुरीं प्रस्थितौ वाप्यां स्नात्वा चूतोद्याने स्वादूनि चूतान्यास्वादयामास । एवं फलाहारेणैव गच्छन् रलपर्वतं प्राप्य तत्राऽऽरूढो रत्नमयं चैत्यं ददर्श सः । तत्र प्रविश्याऽरिष्टनेमिनः प्रतिमा वन्दित्वा तत्रैव स्थितानष्टौ महामुनीन् ववन्दे स: । ततो ज्येष्ठमुनिना पृष्टः स सर्वं स्वोदन्तमादितः कथयामास । ततो मुनिना प्रबोधित: स जिनधर्म प्रपेदे ।
Page #147
--------------------------------------------------------------------------
________________
षष्टिशलाका पुरुषचरितम्-गद्यात्मकसारोद्धारः
तत्रैव चित्राङ्गदेन विद्याधरेण साधर्मिकवात्सल्यात् खेचरीं विद्यां निजकन्यां च ग्रहीतुं प्रार्थित: स उवाच - 'न विद्यया मे प्रयोजनम्' । ततः स खेचरोऽनिषेधात् कन्यामिच्छतीत्यनुमाय बन्धुदत्तं तं निजस्थानं नीत्वा स्नान- भोजनादिना सत्कृत्य सर्वान् खेचरान् 'भारतेऽस्य योग्या कन्या भवद्भिर्दृष्टा किमिति पप्रच्छ । ततस्तद्भ्रातुरङ्गदस्य पुत्री मृगाङ्कलेखोवाच- 'मम सखी प्रियदर्शना कौशाम्ब्यां जिनदत्त श्रेष्ठिसुता स्त्रीरत्नमस्ति । सा सुतं जनयित्वा प्रव्रजिष्यतीति मुनिनोक्तम्' ।
२६६
ततश्चित्राङ्गदो विद्याधरान् बन्धुदत्ताय प्रियदर्शनां दापयितुमादिशत् । खेचराश्च बन्धुदत्तमादाय कौशाम्ब्यां गत्वा पार्श्वप्रभुचैत्यमण्डिते बहिरुद्यानेऽवात्सुः । तत्र बन्धुदत्तः खेचरैः सह पार्श्व साधूंश्च ववन्दे, धर्मदेशनां चाऽशृणोत् । तत्राऽऽगतो जिनदत्तश्च प्रार्थ्य बन्धुदत्तं सखेचरं स्वगृहमनयत् । ततः खेचरा ऊचुः'तीर्थयात्रोपक्रमेण वयं रत्नाद्रेर्निर्गता उज्जयन्ताद्रिं गता नेमिनमवन्दिष्महि, तत्राऽनेन बन्धुदत्तेन साधर्मिकवात्सल्याद् भोजनादिना सत्कृता: । अयं धर्मिष्ठो भार्याविहीन इत्यमुना सहाऽस्माकमधिका प्रीतिरभूत् । इह च श्रीपार्श्वं वन्दितुं वयमागताः, स्नेहाच्च बन्धुदत्तोपीहाऽऽगतः । ततो जिनदत्तोऽयं मत्कन्यायोग्य इति विचार्य तं स्वपुत्र्या पर्यणाययत् । चित्राङ्गदश्च तत्र जन्ययात्रामादायाऽऽगतवान् । ततो बन्धुदत्तमनुशिष्य चित्राङ्गदो निजं स्थानं ययौ । बन्धुदत्तस्तु तत्र प्रियदर्शनया सह रममाणोऽस्थात् ।
अथ स तत्र श्रीपार्श्वनाथस्य रथयात्रामकारयत् । चत्वारि वर्षाणि च धर्मलीनस्तत्राऽतिष्ठत् । काले गच्छति च प्रियदर्शना गर्भं दधौ । ततः सा स्वप्ने मुखे प्रविशन्तं गजं ददर्श । अन्यदा च
नवमं पर्व चतुर्थः सर्गः
२६७
बन्धुदत्तः स्वस्थानगमनेच्छां निजपत्नीं कथयामास । तया च कथितो जिनदत्तः प्रचुरेण धनेन प्रियदर्शनया सह तं व्यसृजत् । नागपुरीं यास्यामीत्याघोष्य सह प्रस्थितान् जनान् निजबन्धुवद् विधाय शनैर्गच्छन् स पद्माख्यामटवीं प्राप । तत्र स सार्थं रक्षन् त्रिभिर्दिनैस्तद् वनं लङ्घित्वा कस्याऽपि सरस्तीरे सार्थं निवासया
मास ।
तत्र रात्रेश्वरमे प्रहरे पल्लीशश्चण्डसेनोऽवस्कन्दं ददौ । भटाश्च सार्थसर्वस्वं प्रियदर्शनां चाऽऽदाय चण्डसेनाय समर्पयामासुः । स च प्रियदर्शनां दीनवदनां निरीक्ष्येनां स्वस्थानं प्रापयामीति चिन्तयन् पार्श्वस्थां चूतलताचेटीं 'केयं कस्ये' त्यादिकमपृच्छत् । तस्याश्च तस्याः पित्रादिकं श्रुत्वा मूच्छितः स लब्धसंज्ञः पल्लीशः प्रियदर्शनामुवाचप्राक् त्वत्पित्रा जीवितोऽस्मि, मा भैषीः, मूलतो वृत्तं श्रृणु
अहं प्रसिद्धश्चौरराजश्चौर्याय निर्गतो रात्रौ वत्सदेशे गिरिग्रामे चौरैर्वृतो मद्यं पिबन् रक्षकैर्दृष्ट्वा बद्ध्वा च मानभङ्गनृपायाऽर्पितः । नृपेण वधायाऽऽदिष्टश्च नीयमान: पौषधान्ते पारणार्थं गच्छता दयालुना त्वत्पित्रा मोचितोऽस्मि । तव पिता च वस्त्राणि वित्तं च दत्त्वा मां व्यसृजत् । त्वमुपकारिसुताऽसि कथय किं करवाणि' । ततः प्रियदर्शनोवाच- 'पति बन्धुदत्तं मेलय' । पल्लीच तथेत्युक्त्वा प्रियदर्शनां गृहे नीत्वा बन्धुदत्तं द्रष्टुं निर्जगाम ।
इतश्च बन्धुदत्तः प्रियया वियुक्तो हिन्तालवनमध्यस्थोऽचिन्तयत्'मया विरहिता सैकदिनमपि जीवितुं नोत्सहते मम प्रिया, ततः सा मृता भवेत् । अहं कया प्रत्याशयाऽतः परं जीवामि तन्ममाऽपि मरणमेव शरणम्' । सप्तच्छदतरावुद्बन्धनेन प्राणांस्त्यजामि' । ततः स सप्तच्छदतरुसमीपं प्राप्याऽग्रे महासरसि प्रियावियोगाद् दुःखितं
Page #148
--------------------------------------------------------------------------
________________
२६८
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः राजहंसं दृष्टवाऽत्यन्तं दुःखितोऽभूत् । तदानीमेव च कमलच्छायोपविष्ट्या प्रियया स हंसो युयुजे । ततस्तं प्रियया मिलितं दृष्टवा बन्धुदत्तः पुनर्दध्यौ-'जीवतां प्रियया योगः सम्भाव्यते, तत्स्वां पुरी यामि, यद् वा निर्धनः कथं तत्र यामि, कौशाम्ब्यामपि प्रियया विना गन्तुं न युज्यते । ततो विशालां गत्वा स्वमातुलादर्थं गृहीत्वा चौरराजाय दत्त्वा च प्रियां निजां मोचयामि । तत: प्रियया समं नागपुरं गत्वा स्वगृहाद् मातुलस्याऽर्थं दास्यामि' ।
एवं विचार्य स पूर्वां प्रति गच्छन् द्वितीये दिने गिरिस्थलं नाम स्थानं प्राप्तो मार्गसमीपे यक्षगृहे यावद् विश्राम्यति तावत् तत्र श्रान्त: पान्थः कश्चिदागात् । कुत आगा इति बन्धुदत्तेन पृष्टश्च स उवाच-'विशालायाः पुर्या आगमम्' । ततस्तत्र धनदत्तः सार्थवाह: कुशली कश्चिदिति पुनर्बन्धुदत्तेन पृष्टः स पान्थो दीनवदन उवाचधनदत्ते व्यवहर्तुं गते तस्य प्रथमः पुत्रो गृहे पत्न्या सह क्रीडन् यान्तं नृपं न गणयामास । ततः क्रुद्धो नृपस्तस्य सर्वस्वमग्रहीत् । पुत्रादिकांश्च स गुप्तौ चिक्षेप । धनदत्तश्च दण्डावशिष्टको धनार्थ स्वसुः सुतं बन्धुदत्तं गतो मया ह्यो विमोचितः' । ततो बन्धुदत्तो दध्यौ-'दैवेन किमिदं कृतं, मम यत्राऽऽशाऽभूत् सोऽपि व्यसने पतितः । तदत्रैव स्थित्वा निजमातुलं पश्यामि, नागपुरी गत्वाऽऽशु तदर्थं साधयामि च' । एवं विचार्य स तत्रैव तस्थौ ।
अथ पञ्चमे दिने तन्मातुलः सार्थेन सह तत्राऽऽगात् । बन्धुदत्तश्च यक्षगृहे तमालतरुतले उपविष्टो धनदत्तं दृष्ट्वोपलक्षणार्थ 'कुतो यूयमागताः, कुत्र यास्यथे'त्यपृच्छत् । ततो धनदत्त उवाच'विशालाया इहाऽऽगतो नागपुरी प्रस्थितोऽस्मि' । ततो बन्धुदत्त उवाच-'अहमपि तत्र यास्यामि, नागपुर्यां भवतां कोऽस्ति' । ततो
नवमं पर्व - चतुर्थः सर्गः मम जामेयस्तत्राऽस्तीति धनदत्तेनोक्तो बन्धुदत्त उवाच-तत्र मम मित्रं बन्धुदत्तोऽस्ति । तथा मातुलं ज्ञात्वा स स्वमप्रकटयन्नेव तेन सहाऽस्थाद् भोजनादिकं च चकार । प्रभाते च शौचाय नदीं गतो बन्धुदत्तः कदम्बगहरे रत्नच्छायाङ्कितधूलि भुवं दृष्ट्वा तीक्ष्णशृङ्गेणोत्ख्याय च रत्नाभरणभूषितं ताम्रमयं करण्डकं प्राप । ततस्स गुप्तमादाय धनदत्तमुपेत्य सर्वं वृत्तमाख्याय-'त्वत्पुण्यैरेव करण्डोऽयं प्राप्तः, तदयं गृह्यताम् । उभावावां विशालां गत्वाऽर्थ दत्वा नृपग्रहात् स्वान् मोचयावः' ततो नागपुरीं यावः ।
तच्छ्रुत्वा धनदत्तोऽब्रवीत्-'मानवैर्मोचितैर्मम किम् ? तव मित्रं बन्धुदत्तं द्रक्ष्यामः, ततः परं स प्रमाणम्' । ततो बन्धुदत्तः प्रणम्य स्वं प्रकटीचकार । सर्वं स्वं वृत्तं शशंस च । ततो धनदत्त उवाच'वत्स ! प्रथमं प्रियदर्शनां भिल्लेभ्यो मोचयिष्याव:' । अत्रान्तरे च नृपभटा उदायुधास्तत्राऽऽयाताश्चौरशङ्कया पान्थानूचुः । यावच्च धनदत्त-बन्धुदत्तौ द्रव्यं यक्षगृहान्तिके चिक्षिपतुस्तावत् तै राजपुरुषैः प्राप्तौ । ततस्तैः किमेतदिति पृष्टौ तावूचतुः-युष्मद्भयेनाऽऽवाभ्यां निजं वस्तु गोपितम्। ततस्ते राजभटा: करण्डेन समं तावपरान् पान्थानपि च राजमन्त्रिण: समीपं निन्युः । मन्त्री च परीक्ष्याऽन्यान् पान्थान् मुक्त्वा कृतादरस्तावपृच्छत्-'युवां जामेय-मातुलौ कुतस्त्यौ, किं चेदमिति' ।
ततस्तावूचतुः-'आवां विशालाया आगतो, इदं पूर्वाजितं धनं गृहीत्वा लाटदेशाय वयं प्रस्थिताः' । ततो मन्त्र्युवाच-'यदि युष्माकमयमर्थस्तदाऽभिज्ञानपुरस्सरं सर्वं शीघ्रं कथय' । ततस्तावनभिज्ञौ भीतावूचतु:-'स्वयमेवोद्घाट्य दृश्यताम्' । ततो मन्त्री
Page #149
--------------------------------------------------------------------------
________________
२७१
२७०
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः समुद्घाटिते तस्मिन् करण्डके राजनामाङ्कितानि भूषणानि दृष्ट्वा राज्ञश्चिरप्रणष्टानि तानीति व्यचिन्तयत् । यत्-'पुरैताभ्यां हृत्वाऽत्र निक्षिप्तं भवेत्, तत्ताडनयाऽऽभ्यामन्येऽपि तस्करा ज्ञास्यन्ते' । इति विचार्य राजपुरुषैरशेषमेव सार्थं धृत्वा तौ बाढं ताडयामास । __ ततः प्रहारात्तौ तावूचतुः-ह्यो दिने आवां सार्थेन सहेहाऽऽयातौ, यद्येवं न भवेत् तदा भवद्भिरावां ताडनीयौ' । तत्रैकस्तत्रत्यः पुरुषो बन्धुदत्तमुद्दिश्योवाच-'पञ्चमे दिनेऽसौ सार्थेऽत्र मया दृष्टः' । ततो मन्त्रिणा पृष्टः सार्थेश उवाच-ईदृशान् कार्पटिकान् सार्थे गच्छत: को ज्ञातुं शक्नोति' । तच्छ्रुत्वा क्रुद्धो मन्त्री तौ जामेय-मातुलौ कारायां निक्षिप्तवान् ।
इतश्च चण्डसेनस्तां पद्माटवीं चिरं भ्रान्त्वा बन्धुदत्तं क्वाऽप्यप्राप्य विषण्णो गृहं गतः प्रियदर्शनाया अग्रे प्रत्यज्ञासीत्षण्मासाभ्यन्तरे तव पतिमानयामि वाऽग्नौ प्रविशामि वा' । एवं प्रतिज्ञाय स पल्लीशो गुप्तपुरुषान् कौशाम्ब्यां नागपुर्यां च बन्धुदत्तमन्वेषयितुं प्रजिघाय । ते च कतिपयैदिनैः पुनरागत्य बन्धुदत्तो मया क्वाऽपि न दृष्ट इत्यूचुः । ततश्चण्डसेनो दध्यौ-'स बन्धुदत्तः प्रियाविरहपीडितो भृगुपातादिभितो भवेत् । ममाऽपि प्रतिज्ञादिनाच्चत्वारो मासा गताः । तदधनाऽग्नि प्रविशामि. यतो बन्धुदत्तो दुर्लभः । अथवा प्रियदर्शनाया: प्रसवानन्तरं तत्सुतं कौशाम्ब्यां नीत्वाऽग्नौ प्रवेक्ष्यामि' । ___ तस्मिन्नेवं चिन्तयत्येव द्वारपाल आगत्याऽब्रवीत्-'दिष्ट्या वर्धसे, प्रियदर्शना सुतं सुषुवे' । ततो हृष्टः पल्लीशस्तस्मै पारितोषिकं दत्त्वा चण्डसेनाख्यां पद्माटवीदेवीमुवाच-'यदि मम
नवमं पर्व - चतुर्थः सर्गः स्वसा मासं यावत् पुत्रेण सह कुशलिनी स्यात् तदा भवत्यै दशभिः पुरुषैर्बलिं दास्यामि' । ततः सकुशलं पञ्चविंशतिदिनेष्वतीतेषु स पुरुषान् बलिपुरुषानानेतुं प्रतिदिशं प्राहिणोत् ।
इतश्च कारायां समातुलो बन्धुदत्तो नरके इव षण्मासान् व्यतीयाय । तदानीं च रात्रौ सधनः परिव्राडारक्षैर्बद्ध्वा तस्यैव मन्त्रिणः समर्पितः । परिव्राजां नैव धनं भवितुमर्हतीति तदसौ नूनं तस्कर इति मन्त्रिणा स वधायाऽऽदिष्टो नीयमानो 'नाऽन्यथा मुनिवच' इति ध्यात्वाऽवोचत्-'मां विहायाऽन्येनेदं नगरं नाऽमुष्यत, सर्वमेव चोरितं धनमद्रि-नद्यादिभूमिष्वस्ति, यस्य यस्य तद् धनं तस्य तस्य तदर्ग्यता, पश्चादहं निग्राह्यः' । आरक्षैस्तज्ज्ञात्वा तद्भूमिषु तत्करण्डं मुक्त्वा सर्वं धनं दृष्ट्वा तं परिव्राजमुवाच-'तवेदृशं चेष्टितं नाऽऽकृतियोग्य, तदाख्याहि किमत्र रहस्यम्' । ___ततः परिव्राडुवाच-'विषयैषिणां निर्धनानामिदं कर्मैवोचितम्, अहं पुण्ड्रवर्धने पुरे सोमदत्तविप्रस्य नारायणाख्यः पुत्रो दीनमुखान् चौरबुद्ध्या बद्धान् नरान् दृष्ट्वाऽवश्यमिमे हन्तव्या इत्यवदम् । तदैको मुनिर्हा कष्टमज्ञानमित्यब्रवीत् । किमज्ञानमिति मया पृष्टश्च स मुनिरुवाच-'असद्दोषारोपणं परस्याऽतिपीडाकृद् भवति, इमे पुराकृतवशाद् व्यसने पतिता न चौराः । पुराकृतकर्मण: फलं शीघ्रमेव प्राप्स्यसि, तत्परस्मिन्नसदोषं मा वोचः । ततो मया प्राक्कर्मफलं पृष्टो मुनिरुवाच
इह भरतक्षेत्रे गर्जनपुरे आषाढनामविप्रस्येतः पञ्चमे भवे त्वं रच्छुकाकुक्षिजन्मा चन्द्रदेवनामा वेदज्ञः पुत्रोऽभवः, वीरसेननृपस्याऽतिप्रियस्तत्राऽपरो योगात्मा परिव्राडासीत् । तत्र च विनीतश्रेष्ठिनो
Page #150
--------------------------------------------------------------------------
________________
m७३
२७२ ___ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः विधवा कन्या वीरमती सिंहलेन मालिकेन सह तत्राऽऽयाता, तस्याः पूज्यश्च स योगात्मा दैववशात् तद्दिनेऽनाख्यायैवाऽसङ्गत्वात् क्वचिदन्यत्र गतवान् । ततो वीरमती गतेति जनेषु कथा जाता । त्वं च योगात्मना समं सा गतेत्यचिन्तयः । ततो राजकुले गत्वा वीरमती योगात्मना स क्वाऽपि गतेत्यवादी: । स निःसङ्गो योगात्मेति नृपेण कथिते च सोऽन्यदारापहर्ता पाखण्डीति चाऽवोचः । तेन च लोको धर्मे सावज्ञो जातः । स योगात्मा च परिवाड्भिर्बहिष्कृतः । ___ एवं कर्म निकाचितं कृत्वा विपन्नः कोल्लाके देशे एडको जातः । ततोऽपि कर्मदोषाज्जिह्वव्रणेन विपद्य तत्रैव वने जम्बूको भूत्वा विपद्य साकेतनगरे मदनलताया वेश्यायास्तनयोऽभवः ।
तरुणश्च त्वमेकदा मदिरापानमत्तो राजमातरमाक्रोशन् राजपुत्रेण च्छेदितजिह्येऽनशनेन मृत्वाऽधुना द्विजो जातः । अद्याऽपि भोक्तव्यं कर्म तवाऽवशिष्यते' । तच्छ्रुत्वा जातवैराग्योऽहं सुगुरोः पार्वे परिव्राड् भूत्वा गुरुशुश्रूषापरो म्रियमाणेन गुरुणा तालोद्घाटनिकया सह खेचरी विद्यामुपदिष्टः, तथा धर्मदेहरक्षणादन्यत्र व्यसनेऽपि नेमे विद्ये प्रयोक्तव्ये हास्येऽपि च मिथ्या न वक्तव्यमिति निर्दिष्टश्च । प्रमादाद मिथ्यावचने च नाभिप्रमाणे जले ऊर्ध्वभजोऽष्टाग्रसहस्रं जपं कुर्या इति च कथितः ।
अथ विषयानुरागिणा मया चेदं विपरीतं कृतम् । गतदिने सार्थे उद्याने स्थिते मिथ्याऽवदम् । ह्यो हि स्नात्वा मन्दिरे देवार्चनार्थमागताभिर्युवतिभिव्रतग्रहणकारणं पृष्टोऽहमभीष्टपत्न्यप्राप्तिर्हेतुरिति मयोक्तम् । गुरूपदिष्टं जपं च जले स्थित्वा नाऽकार्षम् । रात्रौ च
नवमं पर्व - चतुर्थः सर्गः चौरिकार्थं सागर श्रेष्ठिनः पिहितद्वारे गृहे श्वेव प्रविश्य स्वर्णादिकं गृहीत्वा निर्गच्छन् राजपुरुषैधृतः । खेचरी विद्या च तदा स्मृताऽपि नाऽस्फुरत्' । ततो मन्त्री पुनः पप्रच्छ-'भूषणकरण्डक एको न प्राप्तः, ततः किं स्थानाद् भ्रान्तोऽसि' । ततः स उवाच-'यत्र सकरण्डको निक्षप्त आसीत् ततः स केनाऽपि ज्ञात्वाऽपहतः'। तच्छ्रुत्वा स मन्त्री तं परिव्राजं मुक्तवान् । ___अथ निर्दोषाविमाविति ध्यात्वा मन्त्री तौ जामेय-मातुलौ मोचयामास । तथा-'अवश्यं ताभ्यामज्ञाभ्यां लब्धः करण्डकः, किन्तु भयादन्यथोचतुः' । एवं ध्यात्वा तावाहूयाऽभयपूर्वं वृत्तं पृष्टवान् । तौ च यथातथं सर्वं च वृत्तमूचतुः । ततस्तौ मन्त्रिणा मुक्ती कृशत्वाद् व्यहं स्थित्वा तृतीयेऽहनि जग्मतुः । पुररक्षोभिश्चण्डसेनपुरुषैः प्राप्तौ च बन्दिपुंसां मध्ये क्षिप्तौ चण्डसेनादेव्याः समीपे बलिहेतो तौ । चेट्या सह सपुत्रां प्रियदर्शनां गृहीत्वा चण्डसेनश्च पूजार्थं तत्राऽऽगतः । वणिस्त्रियो भीमामिमां पूजां द्रष्टुं न क्षमा इति स प्रियदर्शनायाः नेत्रे वस्त्रेण प्यधात् । तथा स प्रियदर्शनायाः पुत्रं स्वयमादाय नेत्रसंज्ञया प्रथमं दैवाद् बन्धुदत्तमेवाऽऽनाययत् । प्रियदर्शनां च देव्यै पुत्रं प्रणमय्य रक्तचन्दनमर्चयित्वा पूजयेत्युवाच । स्वयं च निर्दयः कोशात् खड्गमाचकर्ष । ____ ततो दीना प्रियदर्शना दध्यौ-देव्या मत्कृते पुरुषबलि धिक्, मम महदयशः, अहं राक्षसी जाताऽस्मि' । तदानीं चाऽऽगतो बन्धुदत्तो मृत्युं ज्ञात्वा नमस्कारान् गणयितुं प्रावर्त्तत । तच्छब्दं श्रुत्वा च प्रियदर्शना सद्य एव दृशावुद्घाट्य निजं पतिं दृष्ट्वा चण्डसेनमवदत्-भ्रातस्त्वं सत्यप्रतिज्ञो जातोऽसि, अयं ते भगिनीपतिबन्धुदत्तः' । ततश्चण्डसेनः पादयोः पतित्वा स्वापराधमज्ञानकृतं
Page #151
--------------------------------------------------------------------------
________________
नवमं पर्व - चतुर्थः सर्गः
२७४
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः क्षमयामास । ततो बन्धुदत्तः प्रियदर्शनामुवाच 'नाऽस्याऽपराधो यतोऽयं त्वया मामयोजयत् ।
ततो बन्धुदत्तश्चण्डसेनमाज्ञाप्य तान् बलिपुरुषान् मोचयित्वा किमेतदित्यपृच्छत् । भिल्लेशेन सर्वं वृत्तं ज्ञात्वा चाऽवोचत्-'जीवहिंसया पूजा न क्रियते किन्तु पुष्पादिना, हिंसा-ऽसत्या-ऽब्रह्मादिकं सर्वथा त्याज्यमेव' । तच्छ्रुत्वा च स पल्लीशस्तत् प्रतिपन्नवान् । पार्श्वस्थादेवी चाऽद्यप्रभृति मम पूजा पुष्पादिभिरेव विधेयेत्युवाच । तच्छ्रुत्वा च बहवो भिल्ला भद्रका बभूवुः । प्रियदर्शना च बन्धुदत्ताय पुत्रमर्पितवती। बन्धुदत्तश्च धनदत्ताय पुत्रं दत्त्वा ममाऽसौ मातुल इति प्रियदर्शनामुवाच। ततः सा प्रियदर्शना नीरङ्गी कृत्वा दूरतोऽपि नत्वा पुत्रनामकरणाय प्रार्थितवती । ततस्तौ बान्धवानामयमानन्दद इति बान्धवानन्द इति नाम चक्रतुः ।
ततः स पल्लीशो बन्धुदत्तादीन् स्वगृहे भोजयित्वा लुण्टितं सर्व धनं प्रत्यर्पयामास । तथा स चामर-व्याघ्रचर्म-दन्त-मुक्ताफलादिकं बन्धुदत्तायोपादात् । बन्धुदत्तश्च बन्दिन उचितदानपूर्वकं व्यसृजत् । धनदत्तं च कृतकृत्यं कृत्वा स्वगृहं प्रेषीत् । ततो बन्धुदत्तः ससार्थः प्रियदर्शनया सह चण्डसेनेनाऽन्वितो नागपुरीं ययौ । बन्धुभिरभ्येत्य नृपेण च बहुमानतो गजे आरोप्य नगरे प्रवेशितः । ततो दानं ददान: स स्वगृहं गत्वा बन्धून् भोजयित्वा सर्वं वृत्तं कथयामास । तथा सर्वानुद्दिश्योवाच-'असारे संसारे जिनशासनमेव सारमिति ममाऽनुभवः' । ततो बन्धुदत्तवचसा जनो जिनधर्मपरायणोऽभूत् । बन्धुदत्तश्च सत्कृत्य चण्डसेनं विसृज्य यथेच्छं प्रियदर्शनया सह विषयसुखं भुजानो द्वादशवर्षाण्यस्थात् ।
अन्यदा च शरदुत्सवे तत्र श्रीपार्श्वप्रभुः समवससार । बन्धुदत्तश्च स परिवारो गत्वा नत्वा धर्मदेशनां श्रुत्वा-'मम षट् प्रियाः केन कर्मणोढमात्रा मृताः, तथा विरहो बन्दिता च मे कुत' इत्यपृच्छत् । ततः प्रभुरुवाच-'अत्र भारते विन्ध्याद्रौ त्वं शबरेश: शिखरसेनो हिंसाप्रियोऽभूः । तस्य चेयं प्रियदर्शना श्रीमती नाम पल्यभूत् ।
एकदा मार्गभ्रष्टः साधुगच्छोऽटवीमटन् तत्राऽऽयातस्त्वया सदयेन चेतसा दृष्टः । तथा तैर्मार्गभ्रष्टा वयमित्येवं कथितश्च । तदा श्रीमती त्वामुवाच-'फलादि भोजयित्वैतान् वनादुत्तारय' । ततस्त्वं तदुपदिष्टस्तान् कल्प्यैः फलादिभिः प्रतिलाभ्य मार्ग नीतवाश्चं । ते च धर्ममुपदिश्य नमस्कारमन्त्रं दत्त्वा त्वामुपादिशन्-'त्वया पक्षस्यैकस्मिन् दिने सर्वं सावधं कर्म त्यक्त्वा नमस्कारमन्त्रोऽयं स्मर्त्तव्यः। तदानीं च द्रुह्यतेऽपि मा कुपः । एवं ते धर्मं चरतः स्वर्गश्रीरपि सुलभा'। ___तव च तत् स्वीकृत्य तथा कुर्वतोऽन्यदा सिंह आगात् । तेन च भीता श्रीमती । त्वं च मा भैषीरिति जल्पन् धनुर्गृहीत्वाऽपि श्रीमत्या गुरुभाषितं धर्मं स्मारितो निश्चलोऽभूः । ततः श्रीमती त्वं च सिंहेन भक्षितौ सौधर्मे देवौ जातौ । ततः च्युत्वाऽपरविदेहेषु चक्रपुर्यां त्वं कुरुमृगाङ्गनृपस्य शबरमृगाङ्को नाम बालचन्द्राकुक्षिजन्मा पुत्रो नृपोऽभवः । श्रीमती च कुरुमृगाङ्कश्यालस्य सुभूषणनृपस्य कुरुमत्यां दिवश्च्युत्वा वसन्तसेनाख्या पुत्री जाता । युवां च स्वस्वस्थानं स्थितौ तरुणौ जातौ । चित्रकरानीतत्वद्रूपचित्रदर्शनात् सा त्वयि त्वं च तस्या गुणान् श्रुत्वा रक्तौ जातौ । पित्रा
Page #152
--------------------------------------------------------------------------
________________
२७७
२७६
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः च प्रेम ज्ञात्वा तया सह त्वं परिणायितः । ततस्ते पिता तापसो जातस्त्वं च नृपोऽभवः ।
तत्रैव विजये च पराक्रमी जयपुरेशो वर्धनो नाम त्वां दूतैरवदत्-मम वसन्तसेनां यच्छ, ममाऽऽज्ञां स्वीकृत्य राज्यं भुक्ष्व च, अन्यथा मया सह युध्यस्व' । त्वं च तच्छ्रुत्वा क्रोधाद् युद्धाय गजस्थितो निर्गतस्तेन सह युयुधिषे । तेन च प्रहृतस्त्वं रौद्रध्यानवशाद् विपद्य षष्ठे नरके जातः । वसन्तसेना च विरहपीडिताऽग्नि प्रविश्य विपद्य तत्रैव नरके जाता । तत उद्धृत्य च त्वं पुष्करद्वीपभरते दरिद्रगृहे सुतो जातः, सा च तुल्या जाति: सुता जाता । द्वयोरपि यौवनं प्रपन्नयोर्विवाहो जातः ।
अन्यदा च स्वगृहस्थाभ्यां युवाभ्यां साध्व्यो दृष्टा भक्त्या प्रतिलाभिताश्च । तदा पृष्टाः साध्व्यो नो गणिनी बालचन्द्रा वसुश्रेष्ठि गृहसमीपे प्रतिश्रयश्चेत्यूचुः । दिनान्ते च तत्र गतौ युवां बालचन्द्रया गणिन्या धर्मं श्रावितौ गृहिधर्मं प्रपद्य विपद्य ब्रह्मलोके देवो भूत्वा युवां जातौ । तत्र भिल्लभवेऽनयाऽनुमोदितस्त्वं तिर्यग्वियोजनं चकर्थ, तेन तव प्रियविपत्तिविरहो बन्धादिवेदनाश्च' ।।
ततो बन्धुदत्तेनाऽतः परं क्व यास्याव, आवयोः कियांश्च भव इति पृष्टः पार्श्वप्रभुः पुनरुवाच-'युवां विपद्य सहस्रारे देवौ भूत्वा च्युत्वा त्वं प्राग्विदेहे चक्री तवेयं गृहिणी च भविष्यति । तत्र परिव्रज्यामुपादाय युवां सिद्धि गमिष्यथः । तच्छ्रुत्वा प्रबुद्धो बन्धुदत्तः प्रियदर्शनया सह श्रीपार्श्वप्रभोरन्तिके व्रतं ललौ ।
अथाऽन्यदा निजपुरान्तिके समवसृतं पार्श्वप्रभुं नवनिधिस्वामी नृपः समागत्य नत्वा केन कर्मणा ममैषा समृद्धिरिति पृष्टवान् । ततः
नवमं पर्व - चतुर्थः सर्गः प्रभुरुवाच महाराष्ट्रदेशे हेल्लूरनामग्रामे त्वं पूर्वजन्मनि मालिकोऽशोकनामाऽभूः । एकदा च पुष्पाणि विक्रीय स्वगृहं प्रति चलितो मार्गे श्रावकगृहे प्रविष्टः त्वं तत्राऽर्हद्बिम्बं दृष्ट्वा करण्डकाद् नव पुष्पाण्यादायाऽर्हत्यारोप्य महत्पुण्यमर्जयः । अन्यदा राज्ञस्त्वं प्रियङ्गुमज्जरीमुपानयः, तेन च राज्ञा श्रेणिप्रधानत्वे स्थापितः । ____ कालेन विपद्य च एलपुरे नवद्रव्यलक्षपतिर्जातः । ततो विपद्य त्वं तत्रैव पुरे नवद्रव्यकोटीश्वरोऽभवः, पुनर्मृत्वा स्वर्णपथे नगरे नवस्वर्णलक्षेशो भूत्वा क्रमाद् विपद्य तत्रैव पुरे नवरत्नकोटीश्वरो भूत्वा मृत्वा वाटिकापुर्यां वल्लभनृपपुत्रो नवग्रामलक्षपतिर्भूत्वा विपद्य नवनिधीश्वरो नृपो जातोऽसि । भवादस्माच्चाऽनुत्तरविमानं गमिष्यसि' । तच्छ्रुत्वा प्रबुद्धः स तत्कालं प्रभोरन्तिके प्रव्रवाज । प्रभुश्चाऽन्यत्र विजहार ।
एवं विहरतश्च प्रभोः साधूनां षोडश सहस्राणि, साध्वीनामष्टात्रिंशत्सहस्राणि, चतुर्दशपूर्वभृतां सार्धशतत्रयम्, अवधिज्ञानिनां चतुर्दश शतानि, मन:पर्ययिणां सार्धा सप्तशती, केवलिनां सहस्रं, वैक्रियलब्धिमतामेकशतं, वादलब्धिमतां षट् शतानि, श्रावकाणां चतुष्षष्टिसहस्रयुगं लक्षमेकं, श्राविकाणां त्रिलक्षी सप्तसप्ततिः सहस्राणि च परिवारा अभूवन् ।
अथ निर्वाणसमयं ज्ञात्वा पार्श्वप्रभुः सम्मेताद्रिमुपेत्य त्रयस्त्रिंशन्मुनियुतोऽनशनं प्रपद्य श्रावणशुक्लाष्टम्यां विशाखास्थे चन्द्रे तैर्मुनिभिः सहाऽव्ययं पदं प्राप ।
तदेवं प्रभोर्गार्हस्थ्ये त्रिंशद्वर्षाणि, व्रते सप्ततिरिति मिलित्वा वर्षशतायुः । श्रीनेमिनिर्वाणदिनात् त्र्यशीतिवर्षसहस्यां शतसप्तके
Page #153
--------------------------------------------------------------------------
________________
मञ्जरी
२७८
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः पञ्चाशदने च व्यतीते श्रीपार्श्वप्रभोनिर्वाणमभूत् । शक्रादयश्च देवैः सह सम्मेतादावागत्य पार्श्वप्रभोर्मोक्षमहिमानं चक्रः । तदेवं पवित्रं दुःखमोचनं सम्पन्मूलं च निर्वाणनिमित्तं च पार्श्वचरितं श्रोतव्यं पुण्यशालिभिः ॥ ४ ॥
इति नवमे पर्वणि श्रीपार्श्वनाथचरितवर्णनात्मकश्चतुर्थः सर्गः ॥४॥ इति कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचितत्रिषष्टिशलाकापुरुषचरितस्य
तपोगच्छाधिपति-शासनसम्राट्-बालब्रह्मचारि-श्रीकदम्बगिरितालध्वज-राणकपुर-कापरडाद्यनेकतीर्थोद्धारकाचार्यवर्य
श्रीमद्विजयनेमिसूरीश्वरपट्टालङ्कारसमयज्ञ-शान्तमूर्त्याचार्यवर्यश्रीविजयविज्ञानसूरीश्वरपट्टधरसिद्धान्तमहोदधि-प्राकृतविशारदाचार्यवर्यश्रीविजयकस्तूरसूरीश्वरशिष्यरत्नप्रख्यातव्याख्यातृ-कविरत्न-श्रीविजययशोभद्रसूरीश्वरशिष्यरत्न
श्रीविजयशुभङ्करसूरीश्वरकृते
गद्यात्मकसारोद्धारे नवमपर्वणि समाप्तं ब्रह्मदत्तचक्रि-पार्श्वनाथचरितप्रतिबद्धं
नवमं पर्व ॥९॥
दिष्टिः
चन्द्रिका
कठिनशब्दार्थः
अष्टमं पर्व प्रथमः सर्गः
आलोक: પ્રકાશ મહોર
सिद्धायतनम् દેવમંદિર मञ्जुलम् મનોહર
वैमात्रेयः ઓરમાન ભાઈ निशाशेषः રાત્રિનો શેષભાગ अनुजः નાનો ભાઈ रसालतरुः આંબાનું વૃક્ષ
નાનો कनिष्ठः
अमात्यः મસ્ત્રી चूततरुः આંબાનું વૃક્ષ
ઘોડો अङ्गणम् ફળિયું, આંગણું
ભાગ્યયોગે કલા
परिवृतः વીંટળાયેલ उपालम्भः ઠપકો
દાંત આભૂષણ, ઘરેણું
निषादी મહાવત चाटूक्तिः ખુશામત
कूटलेखकः ખોટા લેખ તૈયાર शिबिका પાલખી
કરનાર नवजलधरः નૂતન મેઘ नवोढा નવી પરણેલી સ્ત્રી प्रसद्य કૃપા કરીને निर्वीरः
પુત્ર વગરનો शिशिरोपचारः ઠંડા ઉપચાર वस्वाञ्चलग्रन्थिः वस्त्रमा २४ दिग्भ्रमः દિશાશ્રમ व्रणः
ધા, જખમ गह्वरम् ગુફા
ગોળી जामाता જમાઈ
अन्तिकम् પાસે तस्करः ચોર, લૂટારૂ
विदग्धः ચતુર, હોશિયાર वेश्म ઘરે
એકાન્ત चर: ગુખ વાત લાવનાર
उपचर्यमाणा સેવા કરાતી માણસ
मिषम् બહાનુ, કપટ
नेपथ्यम्
गुटिका
Page #154
--------------------------------------------------------------------------
________________
२८०
11 * **1*111511}}}}*41}}}
વિધાતા લડવા માટે ઉત્સુક ભાણેજ
અફવા
રાણી
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः
યાચક
મોટો શ્રેષ્ઠી
અનુસરણ કરતો
મિત્ર
છેડો, મર્યાદા
જવાની ઈચ્છાવાળો
રણભેરી
મચ્છર
કિલ્લો
કોટ, વાડ
કુહાડો
મધરાત
મુજાબળ છાતી ઊલટી, કોલેરા
અપરિણીત સ્ત્રી
द्वितीयः सर्गः
અર્ધવૃદ્ધા
પંખો, વીંઝણો
સૈનિક
વિનંતીથી મનાવેલ, નિત: શાંત પાડેલ
मुमूर्षुः
નોકર, સેવક મામા
1] *51* }}}
મરવાની ઈચ્છાવાળો એક પ્રકારનો રોગ
ખભો
સસલાનું માંસ કાંસાની પેટી
દાગીના મૂકવાની પેટી
130xxxxx, at t
कठिनशब्दार्थः
| 14 *;1|1|
अलाबू: रज्जुः
मञ्चिका मेखला
रसकूपः गोधा
વૈવિ મહિષ:
पलायितः
મેષઃ
भस्त्रा
उनीतः
સનઃ
क्षुरः
T विहाय: परिव्राड्
शुश्रूषकः
{{{s......,171,
पिप्पलम्
{1 } } } }*
२८१
પીપળાના ઝાડની
નીચે
ચોટલો નહિ
બાંધેલી સ્ત્રી
ચેહ, ચિતા છૂપાઈ ગયેલો
શીઘ્ર
રમવાની
ઈચ્છાવાળો
ઝૂંપડી
ગોવાડણ,
ભરવાડણ
ગ્રામ મુખી વાજિંત્રો સહિત
લોલુપ
રસોઈયો બિલાડો
બનુ, પટ
ઘણા બધા હાથીને બાંધવાનો
સ્તંભ વિશ્વાસ
વાસી મુનિનું નામ, રાવણનો બાપ
જુગાર
ઉપાડાતો
હાલનો પંજાબ
પ્રદેશ
Page #155
--------------------------------------------------------------------------
________________
कठिनशब्दार्थः
२८३
विद्रुतः
ઘરે
aછે:
२८२
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः નાસી ગયેલો
ધન कन्दरः પર્વતની ગુફા | | કન્થરમ્ ધીમે निलीन: છુપાઈ ગયેલો | पुत्तलिका પૂતળી अर्गला આગડીયો निःस्पन्दा ચેતના રહિત રાષ્ટઃ
ગાયને રાખવાનો | परिहासः ખેદ, ઉદ્વેગ વાડો
आचाम्लम् આયંબિલ તપ કૃપાન: રાજાને આધીન
અત્ર:
વર્ષ मृगया શિકાર
नीराजना આરતિ स्तन्यम् ધાવણ
Tમનપુરમ્ સન્મુખ જવા પૂર્વક સર્પ
મ : અંગારો, કોલસો एणीभूय હરણ થઈને
વમોચનમ્ છેડાછેડી છોડવી वासवः ઈન્દ્ર
પાનો વનમ્ ઘરેણા છોડવાં ધનુષ ધનુષ અને તલવાર અસ્થમાના હાડકાંની માળા
રાઇડઇવિનયનમ્ સૂંઢ પરની
ખજવાળ દૂર કરવી તૃત: :
પૃષ્ઠ:
ઘસેલો વાક્ષ: ગોખલો
केयूरः બાજુબંધ दारुपञ्जरः લાકડાનું પિંજરું
निग्राह्यः પકડવા યોગ્ય શ્રી : બે ભુજાની વચ્ચેનો
ત્રીજો ભાગ ન્યૂન | त्र्यंशन्यूनः ભાગ पादसंवाहनम् પગ દબાવવા
अनुशिष्य
શિખવાડીને पर्यङ्कः પલંગ
सर्वाभिसारः ચતુરંગ સેનાનું रासकः ગરબો
યુદ્ધ માટે પ્રયાણ वेत्रधारिणी દ્વારપાલ
उपहारः ભેટનું कटक:
उत्तरीयवस्त्रम् ઉપરનું વસ્ત્ર कटिसूत्रम् સ્ત્રીનો કમરપટો भ्रातृपत्नी ભાભી दिदृक्षा જોવાની ઈચ્છા सपाथेयम्
માથા સહિત अङ्गुलीक: વીંટી
થાંભલો कनिष्ठिका ટચલી આંગળી
યમદેવ ऊर्मिका વીંટી
વાઈ:
ભુજા
कान्दिशीकः પલાયન માટે ઉત્સુક | રવમ્
માંગ્ય यामिक: પહેરગીર सूचिभेद्यः સોયથી ભેદી શકાય तल्पः શધ્યા
તેવું (ગાઢ) अशब्दम् અવાજ વિના अप्रतिविधेयम् પ્રતીકાર ન કરાય कन्धरः ડોક, ગ્રીવા कुलीना ખાનદાન श्वापदः
જંગલી પશુ दस्युः ચોર
महोरगः મોટો સર્ષ ताम्बूलम् મુખવાસ
N:
કૂવો परिवेषः પરિધિ, ઘેરાવો कुब्जता કૂબડાપણું મો: શરીર
बिल्वफलम् બીલીવૃક્ષનું ફળ મેન: દેડકો
धाम
કિલ્લો पथिकः મુસાફર
सूर्यपाका रसवती ગુફા
સૂર્યના તાપથી गुहा પાMિા: પગની એડી
બનાવવામાં
આવતી રસોઈ છવ: કાન્તિ
अलीकम् वापी વાવ
महाजवी માસી
ખૂબ ઝડપી, मातृष्वसा
વેગવાળો जामेयिः ભાણેજ
ઉતરીય વસ્ત્ર
प्रच्छदपदः પાણી લઈ જનાર, जलहारिणी પનિહારી
रसालवृक्षः આંબો, શેલડીનું વૃક્ષ fgfghવાન્ પડહ વગાડવો
अक्षवृक्षः બેડાનું ઝાડ
विहगः ભિખારીનો લેબાશ
પક્ષી याचकवेषः
રત્નનો કરંડિયો रत्नकरण्डकः
લુલો સુપc:
વિધિપૂર્વક આચરેલ
अनुष्ठितः સોનાનું જળપાત્ર પુર:
મેટ
उपायनम् विशीर्णम् જીર્ણ થઈ જવું
પુતિઃ
કાન્તિ खात्रम् ખાતર
उद्ग्रहणी ફાંસો लुण्टाकः લૂંટારૂ
જોવાની
दिदृक्षः निर्वासितः કાઢી મૂકેલ
ઈચ્છાવાળો कृशोदरः પાતળા પેટવાળો
| સ્તનપાન્ છાતી દબાય તેમ
જૂઠ
Page #156
--------------------------------------------------------------------------
________________
कठिनशब्दार्थः
२८५
મૂઠી
जिघांसुः
૨૮૪
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः ચતુર્થ: સf: યમલ્લાનુનઃ વૃન્દાવનમાં આવેલું
એક વૃક્ષ प्रहासः ખડખડાટ હસવું | ધૃત્તિપુરત: ધૂળથી ખરડાયેલ विदूषकः મશ્કરી, | दाम
પશુને બાંધવાનું મજાક કરનાર
દોરડું विप्लवः બળવો, તોફાન मन्थनी દહીં વલોવવાની तौर्यिकः વાજિંત્ર વગાડનાર
નાની ગોળી તૂn: બાળ રાખવાનું ભાથું | વેત્નીવ
બળદ તુમુન:
नवनीतम् પશ્વમ: સ: हल्लीसकम् રાસ, ગરબો यवनिका પડદો
बाँपीडः મયૂરપિચ્છનો प्रणाली નીક, પરનાલ
મુકુટ પહેરનાર कञ्चुकिता કાંચળી
महोक्षः બળદ गन्त्री ગાડું
खर-मेषौ ગધેડો અને ઘેટો શિનષ્ઠ: દાણા વીણવા
शाः ધનુષ पितृव्यः કાકો
उत्युच्छयन् પૂંછને ઉછાળતો ગર્ભવતી
विवृतमुखः પહોળા મુખવાળો पुष्पवती માસિકકાલમાં
ग्रीवा આવેલી સ્ત્રી
ધુ:
પશુઓની ખરી ग्रावा પત્થર, શિલા
गतासुः પ્રાણરહિત स्तनन्धवाः ધાવણાં બાળકો
पदातिः પાયદળ, પગે शत्रुशातनः શત્રુનાશક
ચાલનાર मातामहः નાના, માના પિતા
स्यन्दनः શ : ગાડું
सज्यम् ફેંકાયેલું
ધનુષની દોરી पर्यस्तः अपायः આપત્તિ
સહિત
चापः ખાંડણી उलूखलम्
ધનુષ प्रातिवेशिकः પડોશી
साक्षेपम् તિરસ્કાર પૂર્વક पितामहः દાદા, બાપાના પિતા | | પરથ: પ્રતિબંધ
सौस्नातिकः સારી રીતે નાહી | તાત્રફ:
લીધું એવું પૂછનાર મુશત: दन्तोत्पाटनम् દાંતને મૂળથી मन्दरः
ઉખેડી નાંખવા મe: अक्षवाट: અખાડો
कवचः करास्फोट: બાહુ ઠોકવા સુપ્ર:
નમ: હાથીનું બચ્ચું अभ्यर्णगृहम् शावकः બચ્યું
जामेयः दन्ती હાથ
दायादः હણવાની
स्नुषा ઈચ્છાવાળો हालिकः जानु ઢીંચણ, ઘૂંટણ स्तम्भितः कारागृहम् કેદખાનું, જેલ થાઈ: વિષ્ણુ
रजकः अनुपदम् પગલે પગલે गर्तशूकरी उपत्यका તળેટી
धीवरः ફરંત: ઊંચું
વર: परिखा ખાઈ
पिपीलिका तूष्णीकः મૌન ધારણ કરનાર | જીતની कटिदेशः કમરનો ભાગ निष्कासिता
પE: Hr: નામ: બહેન
રીત: पितृष्वसा ફોઈ
कन्दुकः भृष्टमसूरकणवत् ભૂજેલ મસૂર દાળના |
કણની જેમ तुम्बरस: કડવી તુંબડીનો રસ | ગુfતઃ आपणिकः દુકાનદાર निदानम् मसी મેશ
प्रतिश्रयः तृणाट्टः ઘાસની દુકાન | વિપન્ન:
તાડના ઝાડની હાર સાંબેલું મંદર પર્વત ઉત્સુકતા બન્નર દાતરડું પાસેનું ઘર ભાણેજ ભાગીદાર, વારસ પુત્રવધૂ ખેડૂત, હળ ખેંચનાર બાંધી દીધેલું શિકારી ધોબી ગટરની ભૂંડણી માછીમાર દીયર કીડી સાધ્વીજી કાઢી મૂકાયેલ સ્ત્રી ખાંસીનો રોગ માછલી
गुर्विणी
R:
દડો
ભત પાછળ રહેલ ઠીકરું દરિદ્ર નિયાણું ઉપાશ્રય
Page #157
--------------------------------------------------------------------------
________________
નીવાર્થ:
२८७
द्रविणम्
२८६
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः कालाम्बुका આ નામની વાવ | ન્ય: ધૂસરીને બાંધવાનું તા: વિવાહ, લગ્ન
દોરડું कृतपणः પ્રતિજ્ઞા કરેલ | પરિવ:
ગદા, હથોડો जन्ययात्रा જાન
वातोद्भूतः પવનથી ઊડેલા રૂપ: હિંસક
जिघांसा મારવાની ઈચ્છા आरामः બગીચો, ઉદ્યાન
मातलिः ઈન્દ્રના રથનો
સારથિ ધન
| तूलम् અશ્વની ક્રીડાભૂમિ
રૂ, કપાસ, वाह्याली
जिहीर्षुः હરણ કરવાની * બકરો, ઘેટો
ઈચ્છાવાળો માન: આંબો हतौजस्कम्
જેનું તેજ હણાઈ होरा કલાકે
ગયું છે તેવું पटलिका છાબડી
अमर्षणम् કોપ, ક્રોધ नापितः હજામ
विजिगीषा જીતવાની ઈચ્છા नर्म
કટાક્ષ, મશ્કરી તુવ: ચક્રનો આગળનો સપ્તમ: સf:
ભાગ वासकम् મૈથુન, ભોગ पौरन्दरम् ઈન્દ્રસંબંધિ सापत्नः શોક્યનો છોકરો
અઠ્ઠમ: : दारुकः શ્રીકૃષ્ણનો સારથિ
સાળ हस्तिपकः મહાવત
सुरङ्गम् સુરંગ, ભોયરું कङ्कणम् હાથનું ઘરેણું
એકનામ, नियोगी કામમાં જોડનાર
અનિરૂદ્ધની પત્ની | ગુજરઃ
ભૂંડ, ડુક્કર મૃતક બાળવાનો કર दाहशुल्कम्
કૂવાનો દેડકો कूपमण्डूकः
નવમ: સf:
પ્રતિમા સ્વરમ્ શત્રુને તપાવનાર
અત્યંત દેદીપ્યમાન शत्रुन्तपः
वल्गा કવચ, બન્નર
ચાબુક, લગામ
ભાભી खड्गखेटधरः
भ्रातृजाया તલવાર અને ઢાલ
सौभ्रात्रम् સારો બંધુભાવ ધરનાર તળીયાનો ભાગ |
परिणयनम् तलपादः
પરણવું
वाटकः વાડો
गोपुरम् નગરનો દરવાજો वान्तिः ઊલટી
पृथु
વિશાળ मदनफलम् મીંઢોળ निर्विषयः દેશનિકાલ वासरः દિવસ
નાવ वेतसतरुः નેતરનું ઝાડ સા : સગો ભાઈ मधु મધ
घटकपालः ઠીકરું, ઘડાનો એક उदुम्बरः ઊંબરાનું ઝાડ आमगोरसः કાચું દહી इष्टिका ઈંટ पुष्पितौदनः અંકુરા ફુટેલ હોય | નર
નીરોગી તેવા ભાત बदरीतरुः બોરડીનું વૃક્ષ
બગડી ગયેલું कृकलासः કાચડો ક્ષષ્ટિમ્ મધ
प्रस्तरः
પથર कृमिसङ्कीर्णः કૃમિ જીવોથી વ્યાપ્ત प्रधिकृतरेखा નીક, નાળ क्षुत्क्षाम: સુધાથી દુર્બલ कुविन्दः વણકર किसलयः કુંપળ
कलुषः ગંદુ, અસ્વચ્છ स्नुही થોરનું ઝાડ
आपाकम्
નીંભાડો, ઈંટ यूका
પકાવાનું સ્થાન कोलिकः કરોળિયો | सौविदल्ल અંતઃપુરનો રક્ષક जलोदरः પેટનો રોગ
પાવશ: : कुष्ठः કોઢ રોગ
પત્થર, ઢેકું वृश्चिकः વીંછી
चपेटा
થપ્પડ उपोषितम् ઉપવાસ
निगडितः બેડીથી બાંધેલ लेह्यम् ચાટવા યોગ્ય श्वेडा સિંહનાદ ચૂસવા યોગ્ય
किंवदन्ती અફવા मातुलिङ्गः બીજોરું
कान्दविकः કંદોઈ નવું: નોળિયો
शौण्डिकः કલાલ, દારૂ आम्रलुम्बी આંબાની નાની ડાળી
વેચનાર રામ: સ:
પટ:
કમાંડ વડવાન7: સમુદ્રનો અગ્નિ | વર્ણવત: શિવ, મહાદેવ
| उषा
चोष्यम्
वर्य
Page #158
--------------------------------------------------------------------------
________________
સેવક
धूमपायी
२८८
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः અનાના: નિરપરાધી | ટૂર્વા:
ઘાસ अध्वा
માર્ગ, રસ્તો लिप्सा ઈચ્છા અંતર: શધ્યા, બિછાનું पारिपार्श्वकः
તાલશ: : वातेरितः પવનથી પ્રેરિત UTI THI કાળી મધમાખી पारदः
પારો देवभूय દેવ થઈને लाङ्गलम् હળ नलिनी કમલિની, प्रघोषः જાહેર કરવું
કમળનો વેલો त्वाष्ट्रगः ચિત્રા નક્ષત્ર शबम् મડદું
दंष्ट्रा દાઢ
नवमं पर्व પ્રથમ: :
બન્નર ધારણ કરી दासेरकः દાસપુત્ર
શકે તેવી वटकोटरः વટવૃક્ષના સ્કંધમાં
ઉંમરવાળો પુત્ર ગકા જેવો ભાગ | સાક્ષાત્ લાખનું ઘર जालिकः માછીમાર
सत्रमण्डपम् દાનશાળા क्रोष्टा
पान्थः
મુસાફર अवगुण्ठनम् લાજ કાઢવી, ઘૂમટો TAT Jસ્ લાખનું ઘર ખેંચવો
| ધૂય: ધૂમાડાનો સમૂહ भृगुपातेच्छा પર્વતના શિખર | નારા નીકળીને
પરથી પડવાની ઈચ્છા वपनम् મુંડન अधीयानः અધયયન કરતો | શિક્ષા ચોટલી વિદ્યાર્થી | થાWI:
થરા લાકડી, દેડો | વક્ષ:
છાતી ऊष्मसन्ततिः મુખમાંથી નીકળતી
ઉન્મા ગરમ વરાળ
पलायितः નાસી ગયેલો मुखवस्त्रिका મુહપત્તિ
करी
હાથી और्ध्वदेहिकम् મરેલાની
विण्मूत्रम्
ઝાડો - પેશાબ મરણતિથિએ
સ: વસતિ રહિત ખવાતું પિંડાદિ | વંશનાનિ વાંસનું ઝૂંડ
कठिनशब्दार्थः
२८९ मातङ्गः ચંડાલ
મમ: ઉન્મત્ત હાથી થg: લાકડી
नितम्बिनी સુંદર કુલાવાળી સ્ત્રી વીવાર : એક મુદ્રાનું નામ | जगज्जैत्रम् જગતને જીતનાર (પગ ઉપર અને | વેત્રી
છડીદાર મુખ નીચે)
उपानत् મોજડી करङ्कः ખોપરી
निकेतनम् નિવાસ, ઘર ભાવ:
पुष्पगेन्दुकः પુષ્પનો દડો स्फुरदोष्ठदलम् હલતું હોઠયુગ્મ आरघट्टिका કૂવાના ધાબા वल्गुली ચાબુક
પરની ગરગડી ધૂમ્રપાન કરનાર | પાશવમ્ પગ ધોવા कबन्धः ધડ, માથા વિનાનું कशा
ચાબુકે શરીર
उत्पर्याणीकृत्य (ઘોડા પરથ) कपोल: ગાલ
પલાણ ઉતારીને तडागतटम् તળાવના કિનારો | gશત્ની વ્યભિચારી સ્ત્રી विवाहोपस्करः વિવાહ માટેની
वासगृहम्
રહેવાનું ઘર સામગ્રી
શ્વપd:
ચાંડાલ महासरः મોટું સરોવર गृहगोधा ગરોળી चिन्वती ચૂંટતી
દોહલો पाटक:
મહોલ્લો, ગામનો | થવપૂત: જવનો પૂડો
એક ભાગ દુરઃ દુઃખે પચે તેવું સુવર: કૂકડો
कदर्यः લોભી, કંજુસ दित्सितः દાન કરવાને गोलिका ગોળી ઈચ્છાયેલું
પુરોહિત, ગોર अन्वेषणम् શોધવું
શ્લેષ્માતકપાત્રમ્ એક પ્રકારના ઝાડનું ग्रामणी: ગ્રામોધ્યક્ષ,
ફળ અગ્રેસર
ક્રિતીયઃ સ: પામ: પ્રહર
| विव्रजिषा સંયમ ગ્રહણ ઈર્થવાતાયનમ્ હવેલીનો ઝરુખો
કરવાની ઈચ્છા पताका
कार्पटिक: કપડાંની ફેરી અનંતવાન્ અંદર છૂપાઈ ગયેલો
કરનારો
શિયાળ
दोहदः
पुरोधः
Page #159
--------------------------------------------------------------------------
________________ 290 त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः धुन्वती ધુણાવતી ચતુર્થ: સff: બા: ફણા પોરા निकुञ्जः લતામંડપ शकुनग्रन्थिः શુકનની ગાંઠ कोविदः પંડિત, વિદ્વાન सप्तकृत्वः સાત વાર સદ્ધિ : અટકાવેલો पोतवाहकः વહાણ ચલાવનાર શિકારી चिकीर्षुः કરવાની कार्मुकम् ધનુષ ઈચ્છાવાળો कलापः સમૂહ उपदा લાંચ, ભેટ ગુફા જકાત, કર कातरः ડરપોક, બીકણ स्वोदन्तः પોતાનું વૃત્તાન્ત ખમાવવું. ક્ષમાપના क्षमणा अवस्कन्दः कुक्कुटसर्पः કુકડાના મુખવાળો હુમલો કરવો સર્ષ हिन्तालवनम् ખજૂરનું વન सप्तच्छदतरुः તૃતિય: સઃ સાતપુડાનું ઝાડ ફાંસો ખાવો જૈનત્ર उद्बन्धनम् ભાર્યા तमालतरुः તમાલ વૃક્ષ धातकीतरुः ધાવડીનું ઝાડ छविच्छेदः गुप्तिः જેલ, કારાગૃષ્ઠ હાથ-પગ-કાપવા તાંબુ વિગેરે ધાતુ कुप्यम् કરંડીયો करण्डकः शारिका चिरप्रणष्टम् લાંબા કાળથી નષ્ટ થયેલ अन्तर्धानम् અદૃશ્ય થવું શોદનીવિ કૂવા-સરોવરાદિ जम्बूकः શિયાળ ખોદાવવા તાનોપાનિવ તાળું ઉઘાડવું અસતપવાન્ દાસ્યાદિનું પૈસા યોગ: માન માટે પોષણ नीरङ्गी લાજ સર: પ: તળાવ સૂકવવા લૂંટેલ विक्रयः વેચવું मुक्ताफलम् મોતી निलाञ्छनं कर्म નાક વીંધાવવું વિગેરે | | નવશ: ભીલપતિ मौखर्यम् વાચાળપણું श्याल: સાળો, પત્નીનો कन्दर्पः કામ ભાઈ પર: દ્વેષ કરવો | fપ્રયાની પ્રિયંગુ વૃક્ષના મોર કાચબો માનિત માળી