Page #1
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
is
श्रीहेमचन्द्राचार्यग्रन्थावली नं० १२ अईम्
श्वेताम्बरपण्डितश्रीलक्ष्मीधररचितः
श्रीतिलकमञ्जरीकथासारः श्रीमत्पन्यासीनीतिविजयोपदिष्ट 'चाणस्मा ' वास्तव्य 'शा. गणेश सांकलचन्द,' इत्येतस्य द्रव्यसहाय्येन हुनस्थश्रीहेमचन्द्राचार्यसभायाः सेक्रेटरी 'शा. लहेरुचन्द भोगिलाल' इत्यनेन प्रकाशितः
श्रावकपण्डितवीरचन्द्र-प्रभुदासाभ्या च संशोधितः
SHEET
merniपादे 'पांचकुवा' प्रत्यासत्र 'सत्यविजय' मुद्रणयन्त्राधिपतिना 'शा. साकलचन्द हरिलालेन मुद्रितः संवत् १९७५. वीर संवत् २४५.
सन १९१९.
मूल्यम् रु. ०-८-०.
For Private and Personal Use Only
Page #2
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
COMCACHCRACROCALCUCING
श्री हेमचन्द्राचार्य ग्रन्थावली. मु. पाटण (उ. गुजरात.) प्रसिद्धि प्राप्ताः
मुद्रायन्त्रे. १ दोधकवृत्तिः
-३-० १ बृहद् महार्णवन्यासः २ न्यायावतारः [वृत्तिटिप्पनसहितः] ०-८-०२ धर्मपरीक्षा. ३ सिद्धदुतकाव्यम् (योग विषयकम् ) ०-२-
०३ चतुर्विंशतिप्रबन्धः ४ वसुदेवहिण्डीसारः (पत्राकारे) ०-२-० ४ अनेकान्तवादप्रवेशः ५ वेदाङ्डशः ( , ) ०-६-० ५ काव्यमण्डनम् ६ नयस्तववृत्तिः
___०-३-०६ जीवनुशासनम् ७ काव्यमनोहरम्
| ७ प्राकृतव्याकरणम् ८,९,१०,११ मण्डन ग्रन्थ संग्रहः भा० १ । ८ तिलकमञ्जरीकथासारांश (शुगरातीi) 4] १२ तिलकमञ्जरीकथासारः [पत्राकारे] .-८-० / ९ प्रथम कर्मग्रन्थ (विवेयन सहित)
SAMASSASUR
1.-१२-०
For Private and Personal Use Only
Page #3
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अहम्
श्वेताम्बरश्रावकपण्डितश्रीलक्ष्मीधररचितः श्रीतिलकमञ्जरीकथासारः॥
वन्दारुवासवोत्सत्रंसिमन्दारदामभिः । त्रिसन्ध्यरचिताभ्यर्ची वीरपादद्वयीं नुमः ॥१॥ सद्वर्णा विबुधस्तुत्या सालङ्कारा लसत्पदा । धापि जायतां देवी प्रसन्ना मे सरस्वती ॥२॥ न स्तुमः सज्जनं, नैव निन्दामो दुर्जनं जनम् । नैवमेव स्वरूपं तौ सुधाक्ष्वेडाविवोज्झतः ॥ ३ ॥ इदं तिलकमञ्जर्याः कथासङ्ग्रहकारण[क]म् । क्रियते सारमस्माभिरल्पाल्पन्यस्तवर्णनम् ॥ ४॥ अस्मिन् दृब्धास्त एवार्थास्त एव ननु वाचकाः ।-गुम्फविज्ञानमात्रेण मम तुष्यन्तु सज्जनाः ॥ ५॥
******
For Private and Personal Use Only
Page #4
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
श्री तिलक मञ्जरी
॥
१ ॥
অঅ6
www.kobatirth.org
44
Acharya Shri Kailassagarsuri Gyanmandir
अस्त्ययोध्यापुरीशुभ्रसौधपद्धतिभियया । सौन्दयनिर्जिता नित्यं माहेन्द्रीपूर्विहस्यते ॥ ६ ॥ तस्यामग्विधूवक्त्रचन्द्राकालघनोदयः । मेघवाहननामाभूदेकच्छत्रमहीपतिः. ॥ ७ ॥ लावण्यसुधया सृष्टभप्लुष्टमनोभवा । बभूव भूपतेस्तस्य प्रेयसी मदिरावती ॥ ८ ॥ सम्पन्नेऽपि यथाकामं विषयग्रामजे सुखे । न तयोः सन्ततिर्जज्ञे दूनमेतावता मनः ॥ ९ ॥ आरूढौ भद्रशालाख्यमथ प्रासादमेकदा, । अपाच्या मुनिमायान्तं वियता ताव१श्यताम् ॥ १० ॥ उपवीतजटाजूटवल्कलाषाढधारिणम् । द्योतयन्तं दिवं दीया विद्याधरकुलोद्भवम् ॥ ११ ॥ प्रत्युद्गम्य कृतार्घेण राज्ञा दत्ते स्वविष्टरे । निविष्टो मदिरावत्याप्य नीते. रचिताञ्जलौ ॥ १२ ॥ राजन्यथ सुखासीने सर्वस्वमपि यच्छति । निःस्पृहस्तं निराकृत्य मुनिर्वक्ति स्म भूपतिम् ।। १३ ।। " रमणीया पुरी केयं ? वा पुण्याकृतिर्भवान् ? । किं ते गोत्रमियं का वा ? ग्लानिर्वा भवतः कथम् ? || १४ || अस्याः कपोलपाली च किमित्यश्रुजलाविला । हिमक्लिष्टतमीकान्तमण्डलाकृतिमश्नुते १ ।। १५ ।। वाष्पोष्पधूसरच्छायो दधात्यस्याः कुतोऽधरः । वह्निज्वालादर श्लिष्टलवलीपल्लवश्रियम् ? ।। १६ ।। त्रिवस्थिता हैमी महीपतिमहानसे । कथं वानुकलं धूमध्यामतामवलम्बते ? " ॥ १७ ॥ दशनांशुपयःपूरैर्वदनस्थां सरस्वतीम् । स्नपयन्नथ भूपालः प्रत्युवाच तपोधनम् ।। १८ ॥
पुर्ययोध्याभिधा मूर्द्धचूडारत्नमियं भुवः । कियद्भारतभोक्ताहमैक्ष्वाको मेघवाहनः ॥ १९ ॥ प्रेमपात्रं ममेयं च कलत्रं मदिरावती । कायविच्छायता हेतुरेकैव निरपत्यता ॥ २० ॥
For Private and Personal Use Only
कथा सार.
॥ १ ॥
Page #5
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
एषैव कुरुते गाढमस्या अपि तनुं तनुम्. । हेतुर्विशेषतस्त्वेष लोचनाम्बुविमोचने,-॥ २१ ॥ प्रातरध मयाश्रावि बन्दिनेदमुदीरितम्,-1 "तवोदेत्युदयायाको नृपाराधय देवताम्." ॥ २२ ॥ [विपदिव विरता विभावरी, नृप ! निरपायमुपास्व देवताः । उदयति भवनोदयाय ते कुलमिव मण्डलमुष्णदीधिनेः.]
(अपरवक्त्रं छन्दः) देवताराधनार्थं च बने चेतः कृतं मया, । इयमाह-'मयापीदं कृत्य, मित्यूदनिश्चया ।। २३ ॥ मां निषेधपरं बुध्ध्वा धौताञ्जनमलीमसम् । घनमेषा सृजत्यश्रु; तदिमायनुशासय." ॥ २४ ॥ ततः समाधिमाधाय पुनराख्यन्मुनिपम्- "अलं खेदकरैः क्लेशर्वनवासकृतस्तव, ॥ २५ ॥ निजमन्दिर एव त्वं भूपालकुलदेवताम् । नियम्य करणग्रामं राजलक्ष्मी प्रसादय. ॥ २६ ॥ गृहाणेमां च सर्वार्थसम्पादनपटीयसीम् । वन्द्यां विद्याधरेन्द्राणां त्वं विद्यामपराजिताम्, ॥ २७ ॥ इयं चिन्तामाणिप्रख्या प्रभावातिशयान्विता । जपनीया त्वया भक्त्या त्रिः कृत्वा देवतार्चनम्." || २८ ।। सम्यगालोक्य पार्थाणि, कृत्वा रक्षां नृपात्मनोः, । विद्यावर्णावली कर्णे नीचैरय वितीर्णवान्. ॥ २९ ॥ " अनुजानीहि, गन्तास्मि जम्बूद्वीपविवर्तिषु । तीर्थेषु, पुष्करद्वीपादिहायातं मयाऽधुना." ॥ ३० ॥ इत्युक्त्वा जपता विद्यां नमःसञ्चारकारिणी । उत्पेते.सहसा तेन विहायो 'गवलप्रभम् ॥ ३१॥
मणिस्तम्भप्रभाजालैरामूत्रितसुरायुधम् । राज्ञाऽपि कारितं तुङ्गमुद्याने देवतागृहम्. ॥ ३२॥ १ महिष.
For Private and Personal Use Only
Page #6
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
श्री तिलक मञ्जरी
॥
२ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मुक्ता शैलमयी मूर्त्तिर्मणिश्रेणीविभूषिता । क्षीरोद दुहितुर्देव्यास्तदन्तश्च प्रतिष्ठिता ॥ ३३ ॥ कृतत्रिः सवनो धौते वसानः सितवाससी । देव्यास्त्रिसन्ध्यमभ्यच चक्रे, विद्यां जजाप च ॥ ३४ ॥ कृतायां पूर्व सेवायामेकदाऽथ महीपतिः । निरयाय पुरः सायं तरवारिलतासखः ॥ ३५ ॥ बाह्य | रामशिरोरत्नमा दितीर्थतया श्रुतम् । अगाच्छक्रावताराख्यं सिद्धायतनमुत्तमम् ॥ ३६ ॥ अथ शक्रेण साकेतपुरारम्भे निवेशितम् । श्रीयुगादिप्रभुं नत्वा, सम्मुखीनमुपस्थितम्, ॥ ३७ ॥ प्रविशन्भेव तद्द्द्वारेऽपश्यद्वैमानिकं सुरम् | दिव्यालङ्कारसम्भार- भासुरीकृतदिङ्मुखम् ॥ ३८ ॥ मला नदामादिभिश्चिन्हैः सूचितच्यवनक्षणम् । अभ्यासगे विनाशेऽपि स्फारस्फुरिततेजसम् ||३९|| (त्रिभिर्विशेषकम् ) 'दिव्योऽयमिति' मन्वानो मुक्तकौक्षेयकस्ततः । चक्रे मधुरया वाचा स्वागतं विहिताञ्जलिः ॥ ४० ॥ देवोsयुवाच भूपालं " लक्षणैश्चक्रवर्त्तिनाम् । मध्यमो लोकपालस्त्वमपृष्टोप्य वसीयसे ॥ ४१ ॥ पुरा हरेः पुरोऽश्रावि वर्ण्यमानः सुरैर्भवान् । यथा - " सर्वगुणो राजा भारते मेघवाहनः " ॥ ४२ ॥ ज्वलनप्रभनामानं सुरं सौधर्मवासिनम् । विद्धि मामादितीर्थेश सेवायै समुपागतम् ॥ ४३ ॥ नन्दीश्वराभिधं द्वीपमितो गन्ताऽस्मि, तत्र मे । परं मित्रं सुमालीति प्रेमपात्रं हरेः सुरः ॥ ४४ ॥ स्वयंप्रभाख्यया देव्या जिनायतनसन्ततेः । श्रियं द्रष्टुं समानीतो रमते तत्र सम्प्रति ॥ ४५ ॥ पुरी रतिविशालेति तस्य तत्रास्ति, साथ मे । सहायैर्गलितच्छाया दृष्टा; तत्सन्निधावपि ॥ ४६ ॥ अमवृत्तोत्सवं दूरम्लानवक्त्रपरिच्छदम् । शुष्कचन्दनमालौघं तन्मन्दिरमपीक्षितम् ॥ ४७ ॥
For Private and Personal Use Only
कथा सार.
।॥ २ ॥
Page #7
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
1
अभावो नचिराद्भावी नूनं तस्य, नहीदृशाम् । प्रकृतीनां विपर्यासा जायन्ते स्वर्गिणोऽन्यथा ॥ ४८ ॥ भाविदिव्यर्द्धिविरहक्लिष्टं नष्टशुभक्रियम् । तस्योपदेशदानेन मया कृत्यं मनः सुखि ॥ ४९ ॥ fear विभावरी तत्र, विभाते विनिवृत्य च । कुशलानुष्ठितिः कार्या ममाप्यायुर्यतस्तनु ॥ ५० ॥ मय्यनुग्रह बुद्धा त्वं हारं चन्द्रातपाभिधम् । दुरितानोकहद्रोणी कुठारमुररीकुरु ।। ५१ ।। किलैष मथनस्यान्ते क्षीरोदेन हरेर्गृहम् । आश्रयन्त्यै श्रिये दत्तः कण्ठकाण्डस्य मण्डनम् ॥ ५२ ॥ जयन्तजन्मनि प्रीत्या, पुलोमदुहितुस्तया । उपनीतश्चिरं चक्रे तयापि स्तनमण्डले, ॥ ५३ ॥ ततः प्रियसुन्दर्या मत्प्रियायाः समर्पितः । सरखीप्रेम्णा, तयाऽप्येष प्रमोदाद्विधृतश्विरम् ॥ ५४ ॥ अवगच्छता धर्मे तां नियुज्य सुकर्मणि । कण्ठे कृत्वा मयानीतस्तद्वियोगविनोदनम् ॥ ५५ ॥ प्रथमप्रार्थनाभङ्गो न विधेयोऽधुना मम । यद्दूरीभूत एवायमनाप्तेऽपि त्वयाऽधुना ॥ ५६ ॥ मनुजेष्वासम्भूते कदाचिच करोत्यसौ । दृष्टेरिष्टां सुधासृष्टि, सृष्टो येन ममेष्टया ॥ ५७ ॥ देव्याः प्रियसुन्दर्याः सञ्जाते मानुजे भवे । यद्वाऽवलोकितः कुर्यादेष पुण्यक्रियोद्यमम्. ॥ ५८ ॥ भवतापि भवत्येवमुपकारः कृतो महान् " । इत्युक्त्वा सोऽर्पयामास हारं स्वात्कण्ठकन्दलात्. ॥ ५९ ॥ परोपकार व्यसनी ततीकृत्य करद्वयीं । जग्राह तं महीशोऽपि सोऽपि देवस्तिरोदधे ॥ ६० ॥ प्रविश्याथ चिरं स्तुत्वा युगादिपुरुषोत्तमम् । गेहं जगाम, चक्रे च श्रियः सायन्तनार्चनम् ॥ ६१ ॥ जगाद च - " भवद्भक्तेरनुभावोऽयमीदृशाम् । स्वर्गिणामपि यद्यान्ति मादृशा माननीयताम् ॥ ६२ ॥
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
Page #8
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री तिल-8 कमञ्जरी
कथा सार,
तहत्तोऽपि न मे स्पर्श हारोऽयं तावकोऽर्हति" । इत्यूचिवांश्वकारामुं देव्याः पदयुगाश्रयम् ॥ ६३ ॥ अत्रान्तरे मुखज्वालाविद्युदण्डातिडामरः, । कपालमालां बिभ्राणो बलाकावलिविभ्रमाम, ॥ ६४ ॥ स्फुलिङ्गपिङ्गलस्फूर्जत्ताराखद्योतदीपितः, । नानावर्णोरगश्रेणिशक्रायुधविभूषणः, ॥ ६५ ।। भीमाट्टहासविस्पष्टगर्जितोर्जितचेष्टितः, । सितदन्तप्रभावारिधाराधोरणिवन्धुरः, ।। ६६ ॥ श्यामदेहप्रभाभारच्छन्नां निर्द्रतकर्तिकाम् । दयानो दक्षिणे पाणौ निशाकरकलामिव, ॥ ६७ ॥ निरायातशिराजालः, व्यालमालातिसङ्कल:, । प्रादुर्बभूव वेतालो जलकाल इवापरः ॥ ६८ ॥ ( पञ्चभिः कुलकम् ) दृशा क्रमानुसारिण्या नखाग्रादाशिखं नृपः । विलोक्य, समितं वाचा तमुवाच सुधीरया,-॥ ६९ ॥ " नव भीमाट्टहासेन जनितं नः कुतूहलम् !। विहस्यते वदेतत्कि महाभागासमञ्जसम् ? " ॥ ७० ॥ सोऽवोचत,-" न किमप्यन्यत्, त्वदीयेव नृप ! क्रिया, । यदत्र मामतिक्रम्य प्रारब्धाराधना श्रियः. ॥ ७१ ॥ अहं हि सविधस्थायी नित्यमस्याः सदोऽग्रणी:, । मयि क्लुप्तोपचाराणां फलन्तीहितसिद्धयः." ॥ ७२ ॥ अथोवाच महीपाल:,-" तवैवेयं प्रमत्तता, । यज्जानतापि नास्माकमियमावेदिता स्थितिः ॥ ७३ ।। असमाप्तेधुना कल्पे पूजनीयो न कश्चनः । विवक्षितफलापेक्षामूरीकृत्येति निर्णयः ॥ ७४ ॥ अर्थित्वं यदि पूज्यस्य भोज्येन, तदयं बलिः, । अस्मात् खाद यथाकाममाश्रित्यात्रैव कोणकम्." ॥ ७५ ।। "स जगादामिषाहारा वयं व्याघ्रा इवानिशम् । सहाम्हे न हीदृशं सुरास्तोत्रं द्विजा इव. ।। ७६ ॥ आस्तां तावदिद-दत्ताः कोटिशः समितस्त्वया, । तासु भूपतयोऽनेके कृतान्तातिथयः कृताः. ॥ ७७ ।।
KAROUserved
For Private and Personal Use Only
Page #9
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
न्यस्तचित्रलिपिन्यासं विश्वलक्षणलक्षितम् । पितृतर्पणपात्रं मे कपालं किश्चिदर्पय." ॥ ७८ ॥ महीभुजाऽप्यथावादि-" सङ्गहीतं न तन्मया, । यतो-न वेनि भावीदमुपयोगि भवादृशाम्. ॥ ७९ ॥ तदवाप्ति प्रतीक्षस्व. न क्षमश्चेद्विलम्बितुम् , | शिरस्तदा ममैवेदं गृहाण, यदि सद्गुणम्." || ८० ॥ कर्णवती कपालस्य करस्थस्याथ कर्तिकाम् । घृष्ट्वोपनेतुमारब्धो नृपायासौ प्रमोदवान. ॥ ८१॥ आस्तां दिव्यास्त्र 'मित्युक्त्वा', नृपोऽपि स्फुरितप्रभम् । निजं निस्त्रिंशमादाय स्कन्धपीठे न्यपातयत् . ।। ८२ ।। अद्धेविकृत्ते कण्ठे च भुजो रुद्ध इव स्थितः, । समत्सरोज्थ जग्राह कृपाणं सव्यपाणिना. ॥ ८३ ।। व्यापारयश्च यत्नेन, मूर्छया तुच्छचेतनः, । हाहारवं सुरस्त्रीणां सुश्राव श्रुतिपेशलम्. ।। ८४ ॥ चक्षुस्तदनुसारेण क्षिपन्नम्बुजमध्यगाम् । श्रियं भामण्डलच्छवामपश्यत्सपरिच्छदाम्. ।। ८५ ।। उद्यद्विभीषिकाशङ्कः प्राकृतामिव योषितम् । पप्रच्छ तां "शुभे! का त्वं ? किमर्थ वा समागता?" ॥ ८६ ।। सोवाच-"भूरिभूपालवृन्दवन्द्यपदाम्बुजा । लक्ष्मीरहं. तव स्वार्थसम्पत्त्यर्थमिवागता. ।। ८७॥ किमिष्टं ब्रूहि ते कृत्यम् ?" अथोवाच नतो नृपः,-"कुरु प्रहो करो, येन कुर्वे रक्ष:पते: प्रियम्." ॥८८॥ तद्वाचा विस्मिता देवी प्रत्युवाच-"न वेत्सि मे । स्वरूपं भूप!, मत्पार्श्व सौम्य एव हि सेवते. ॥ ८९ ॥ नायं नक्तंचरः, किन्तु मम दौवारिकाऽग्रणीः । यक्षो महोदरोऽनेन तव सत्त्वं परीक्षितम्. ।। ९० ॥ बदाभीष्टमहं तुष्टावष्टम्भेन तवामुना, । जगत्रयीगतं वस्तु सद्यः सम्पादयामि ते". ॥ ९१ ॥ भूपोऽभ्यधाव-"प्रसादात्ते कङ्कणकाणसुन्दरैः । सुरदारैः सुरेन्द्रोऽपि चामरैर्वीज्यते दिवि, ॥ ९२ ॥
For Private and Personal Use Only
Page #10
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
IA
श्री तिल-8 कमञ्जरीट
कथा
सार.
किं चास्थिशकलं शङ्खश्चन्दनं नागचूसितम्, । सकलङ्कश्च शीतांशुर्वन्द्यास्ते त्वत्परिग्रहात्. ॥९३ ॥ किन्त्वेतदेव याचे,-ऽहमिक्ष्वाकूकुलभूभुजाम् । यथा न पश्चिमो जाये, देवी च मदिरावती ॥ ९४ ॥ यथा वीरममूशद्धं नचिरादेव विन्दते, । तथा देवि ! विधेहीति." प्रसन्ना श्रीरथाब्रवीत्,-।। ९५ ॥ "तवाशेषधराधीशप्राणप्रियपुरन्धिभिः । विधीयमानशुद्धान्तवधृपदयुगार्चनः, ॥ ९६ ॥ निवातविजयस्तम्भश्चतुरणेवसन्निधो, । खेचराधिपभूपालसाम्राज्यपदपालकः, ॥ ९७॥ भविष्यत्यचिरात्पुत्रः, " इत्युदीर्य पुनर्नृपम् । जगाद-"योऽयं भक्त्या मे पूजायै कल्पितस्त्वया ॥ ९८ ॥ हारश्चन्द्रातपो नाम त्वदभ्युदयहेतवे, । स तस्यैव मया दत्तो, रक्षणीयोऽतियत्नतः, ॥ ९९ ॥ अर्पणीयश्च भूषार्थ स्वाङ्गजस्यैव यौवने, । विशेषात्सविधेधेयो दुर्गारण्यरणादिषु. ॥१०॥ अनुजानीहि मामरमाद् गत्वा नन्दीश्वरादिषु, । भूयस्तत्रैव यातव्यं मया पद्माभिधे हूदे. ॥ १०१॥ गत्याधुना राज्यधुरां भवानप्यधितिष्ठतु." । इत्युक्त्वा, स्वाङ्गुलीयं च दत्वा बालारुणाभिधम् , ॥ १०२॥ तिरोदधे अगित्येव. नृपोऽपि कुशतल्पगः । ध्यायन हारमभावादि तां निनाय विभावरीम् ॥ १०३ ॥ प्रभातावश्यकं कृत्वा देवतागृहवेदिकाम् । अध्यासामास, पौराश्च समागत्यानतिं विधुः ॥ १०४ ॥ तेषामथोपविष्टानां कृत्तान्तादगमार्थिनाम् । श्रियः स्वस्थानयानान्तं व्याजहार निशागतम्. ॥ १०५ ॥ नन्दितस्तैरथादिक्षद्रत्नाध्यक्ष महोदधिम्- "हारोऽयमच्यों भवता प्रधानमणिसन्निधौ, ॥ १०६ ॥ अङ्कलीयमिदं प्राप्यं वज्रायुधचमूपतेः । गतस्य दुष्टसामन्तशिक्षायै दक्षिणापथम् ॥ १०७ ॥
For Private and Personal Use Only
Page #11
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वाच्यो विजयवेगाख्यस्तत्सखश्च, यथा-'त्वया । निशायुद्धेषु संरोधे धार्य वज्रायुधान्तिके ".॥ १०८॥ तेन चाङ्गीकृतादेशः समुत्थाय निजालयम् । जगामानेकदेवार्चाव्यग्रराज्ञीपरिग्रहम् ॥ १०९ ॥ दण्डोङ्गटभुजाकुम्भविद्याः कर्णपिशाचिकाम् । प्रश्नं कारयितुं जुष्टनैमित्तिककदम्बकम् ॥ ११०॥ यथाविधि कृतरनानस्तत्र वारपुरन्ध्रिभिः । कृतावतारणस्तस्थौ क्षणं प्रणयिभिः सह. ॥ १११ ॥ 'चैत्येषु यामः' इत्युक्त्वा निषादिप्रगुणीकृताम् | वशामारुह्य सच्छत्रचामरः सपरिच्छदः ॥ ११२ ॥ ययौ शक्रावतारे,ऽथ कृतपूजः पुरीस्थिताम् । चैत्यावलीं नमस्कृत्य बभ्राम पुरि कौतुकात् ॥ ११३॥ युग्मम् निपीयमानलावप्यो लोचनः पुरयोषिताम् । समाससाद मध्याह्ने भूयो राजनिकेतनम् ॥ ११४ ॥ पट्टमध्यास्य धौतातिः क्षालयित्वा मुखाम्बुजम् । कृतकतिचिद्गण्डूषो ययावाहारमण्डपम्, ॥ ११५ ॥ भुक्त्वा चान्ते सताम्बूलो रम्यहHशिरःस्थिताम् । आरुह्य दन्तवलभी क्रीडाभिरनयदिनम् . ॥ ११६ ॥ रवावस्ताद्रिपर्यस्ते कृतसन्ध्यासुरार्चनः । सारशृङ्गारनेपथ्यः प्रास्थितास्थानमण्डपम्, ॥ ११७ ॥ राजलोकं च सम्भाष्य, विसर्जितसभाजनः । वेत्रधारीभिरुक्तावा शुद्धान्तमगमत्ततः. ॥ ११८ ॥ ज्योत्स्नावदातनेपथ्यां सज्जमाङ्गल्यधारिणीम् । तत्र स्मेरमुखच्छाथां ददर्श मदिरावतीम्. ॥ ११९ ॥ दृष्ट्वा च विकसदृष्टिकृतप्रत्युद्गमस्तया । निवेश्य वामपार्थे तां निविष्टः कनकासने. ॥ १२०॥ कृतावतारणः स्थित्वा नालापैरथ क्षणम्, । सखीजनेषु सव्याज निर्यातेषु निकेतनात् ॥ १२१ ॥ सानुरागं समालोक्य, संश्लिप्य, परिचुम्ब्य च, । तां निनाय नृपः शय्यां, सुष्वाप सहितस्तया.॥ १२२॥
For Private and Personal Use Only
Page #12
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री तिल कमञ्जरी*
कथा सार
चित गर्ने अनुमकेषु सा मुतता नृपोऽपि म
xARCRACKS
पूर्णकणारानि ।।
निशाशेषेऽथ सोऽपश्यत्स्वने स्तन्यं सुरद्विपम् । पिबन्तं मदिरावत्या गौर्या इव गणाधिपम्. ॥ १२३ ।। माङ्गल्यातोद्यनादेन विनिद्रो मदिरावतीम् । प्रमोदपुलकच्छन्नां चक्रे च स्वमशंसनात्. ॥ १२४ ॥ क्षणं स्थित्वा ययौ राजा. स्नाता साऽपि ऋतुक्षणे । गर्भ वभार वर्षान्ते मूर्तिस्तेजो रवेरिव. ॥ १२५ ।। ऐषीदुपचिते गर्भे श्रव्यदिव्यकथाश्रुतिम् । कुलाचलभुवि क्रीडामूलसंहतिसन्निधिम् ॥. १२६ ॥ पूर्णषु नवमासेषु सातिरेकेषु सा सुतम् । अमूत शुभवेलायां सवेसम्पन्नलक्षणम्. ।। १२७ ।। दत्त्वा सान्तोषिकं दानं पुत्रजन्मनिवेदिने । नृपोऽपि मूतिकागारमगादारब्धमङ्गलम् ॥ १२८ ॥ नान्दीघोषैर्जयध्वानवेंदोद्गारैः सुरा अपि । कणकण्डूयनं चक्रुः पूर्णकर्णास्तदा ध्रुवम् ॥ १२९ ॥ चक्रिचिह्न सुतं दृष्ट्वा तुष्टो मोचितबन्धनः । षष्ठीजागरणे वृत्ते, सम्पाप्ते दशमेऽहनि ॥ १३०॥ पुरीजिनालयेष्वा कृत्वा, दत्वार्थिने धनम् , । 'हरिवाहन ' इत्यस्य नाम स्वामानुगं व्यधात्. ॥ १३१ ।। धात्रीकृतोपचारस्य क्रीडतः शिशुभिः सह । स्थितस्यान्तःपुरे तस्य वर्षपश्चतयी गता. ॥ १३२ ॥ पष्ठे च वत्सरे पूजां कृत्वा विद्यागुरोर्नृपः । उपनिन्ये सुतं चित्रकृतनेपथ्यसम्पदम् ॥ १३३ ।। पारगं सर्वविद्यानां पोडशे हायने गते । आनिनायातिभूयस्या विभूत्या निजमन्दिरम् ॥ १३४ ॥ विधाय मङ्गलं चास्य पुरो बहिरकारयत् । अदभ्रतोरणस्तम्भं कुमारभवनं महत्. ॥ १३५ ।। यौवराज्याभिषेकं च क कामोऽस्य तत्समम् । अन्वियेष चरैरुवा तत्सहायं नृपात्मजम्. ॥ १३६ ।। एकदा च सभासीनं सेवितं राजसूनुभिः । प्रविश्य भूलुठज्जानुः प्रतिहारी व्यजिज्ञपत्-॥ १३७ ॥
RECCARRAORDCALCRICROCOC
For Private and Personal Use Only
Page #13
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
"वज्रायुधस्य सन्मित्रमागतो दक्षिणापथात् । आस्ते विजयवेगाख्यो देव ! द्वारि तबोत्सुकः." ॥ १३८ ।। स्मृत्वाङ्कलीयं तद्धत्तं जिज्ञासुरवनीपतिः । “प्रवेशयेति" तामाह, सा प्रणम्य विनिययो. ॥ १३९ ॥ क्षणेन द्वारविन्यस्तलोचनोऽनुचरान्वितम् । अद्राक्षाद्विजयवेगं प्रविशन्तं नराधिपः ॥ १४० ॥ हृष्ट्वा कृतस्मितो दूरात् तं नमन्तं समीपतः । दापितासनमनाक्षीत् “ कुशल वाहिनीपतेः ?" ॥ १४१ ॥ स उवाच नतः "क्षेमं देव ! त्वत्पदचिन्तनात्, । पञ्चाङ्गपति ब्रूते ममुखात्पृतनापतिः. ॥ १४२ ॥ भीमा योऽपि सद्भक्त्या भूपालकुलसम्भवाः । उत्तंसन्ति देवस्य क्रमाब्जनखचन्द्रिकाम्."॥ १४३ ॥ इत्युक्त्वा पुनरप्याख्याद् "देव ! बालारुणाभिधम् । यदङ्गुलीयं देवेन प्रहितं वाहिनीपतेः, ॥ १४४ ।। इयश्चिरं धृतं ये ते] न सन्निधाने तदात्मनः । वशीकृत्याधुना भूपान्मत्समीपे समर्पितम्, ।। १४५ ॥ उपनीतं मयाऽप्यद्य रत्नाध्यक्षमहोदधेः."| सकौतुकोऽथ भूपाल: स्मेरवक्त्रस्तमब्रवीत् ॥ १४६ ।। " अयि ! सेनापतेस्तेन किमप्युपकृतं रणे ?" स प्राहोपकृतं बाद, कथयाम्यवधारय,-" ॥१४७ ॥ “ अतीतवर्षे वर्षासु व्यतीतासु चमूपतिः । ग्रहीतुं कुण्डनात्काञ्चीं ययौ कुसुमशेखरम् ॥ १४८ ॥ सोऽपि स्वल्पबलत्वेन दातुं रणमपारयन् । विदधे दुर्गसंस्कारं कृतोपकरणग्रहः ॥ १४९ ।। प्राकारन्यस्तयन्त्रौघां गृहीतयवसेन्धनाम् । दह्यमानबहिःकक्षां क्षिताराज्जलाशयाम् ॥ १५० ॥ निषिद्धाज्ञातसञ्चारां योधगुल्मात्तगोपुराम् । चकार नगरी काश्चीमसारजनवर्जिताम्. ॥ १५१ ॥ युम्मम् ॥ सेनाधिपोऽपि तच्छ्रुत्वा विवृद्धाटोपदुःसहः । पताकिनीभिरावेष्टय तस्थौ काची समन्ततः ॥ १५२ ॥
For Private and Personal Use Only
Page #14
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
श्री तिलक मञ्जरी । ।। ६ ।।
www.kobatirth.org
अथ यत्रास्म निरपृष्ट गजाली कुम्भकरम् । तत्तनाराचस पर्क गलत्खर्णकिरीटकम् (१) ॥ १५३ ॥ तृणालानलज्वालाम दीप्तकरिसारिकम् । खातवप्रतदां पुंसि बद्धस्पर्द्धतिरोहितैः (१) ॥ १५४ ॥ सामन्तानां बभूवास्य समरं प्रतिवासरम् । प्राकारशिखरारूढैः प्रत्यर्थिसुभटैः सह. ।। १५५ ।। एकदा तु मध प्राप्ते, स्मरोत्सवांतथौ, निशि । द्वितीययामे, यातेषु सामन्तेषु निजालयान् ॥ १५६ ॥ संते विपणित्राते, विबोधितजयद्विपः । शलाकास्फालनव्यग्रः पञ्जरेणारिभिः श्रुतः ॥ १५७ ॥ निर्भरं भरिताभागो भुवनस्यातिभैरवः । अभूत्कलकलः कुर्वन साटोपां सुभटावलीम् ॥ १५८ ॥ नायकस्तं समाकर्ण्य जातावस्कन्दविभ्रमः । सखङ्गफलको वेगान्निययौ राज [ पट ] मन्दिरात् ॥ १५९ ॥ अथ सनसन्नाहावायान्तों सादिनौ पुरः । विपर्याणहयारूढौ दृष्ट्वा पप्रच्छ सवरम् ।। १६० ।। “अरे ! किमेष संक्षोभ: ?" तो प्रणम्याहतु " बलम् । दण्डनाथ ! निर्यातं काञ्च्युदीचीम तोलितः, ॥ १६१॥ प्राप्तं च कटकाभ्यर्णे” तच्छ्रुत्वा पृतनापतिः । आदिष्टैराहृतं भृत्यै रथमारुह्य निर्ययौ ॥ १६२ ॥ अथ द्विपारूढा वेगात्सामन्त मण्डली । परिवारितवत्येनं वहन्ती समरोद्यमम् ॥ १६३ ॥ परानीकमपि प्राप्य प्रवृत्तश्च महारणः । शस्त्रसंघट्टनिष्ठयुतस्फुलिङ्गच्छिद्रितध्वजः ॥ १६४ ॥ उद्दण्डपुण्डरीकालिमण्डितासु प्रियैः समम् । चक्रुः कीलालकुल्यासु पिशाच्यो जलखेलनम् ॥ १६५ ॥ क्षीयमाणेषु भूपेषु निपतत्सु पदातिषु । रात्रौ त्रिभागशेषायामनुज्ञातो नृपात्मजैः ॥ १६६ ॥ एका नृपकुमारोऽथ कुमारसदृशाकृतिः । पृच्छन् सदर्पः सेनान्यं राजकस्यान्तराविशत् ॥ १६७ ॥ युग्मम्
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
• कथा
सार.
॥॥ ६ ॥
Page #15
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
"पश्य मामिति" सञ्जल्पन दण्डनाथोऽप्यभूत्पुरः । मर्माविधस्तयोश्चेरुर्दुर्जना इव सायकाः ॥ १६८ ॥ अथ प्रीतेन सेनानीः कुमारेणाभ्यधीयत- "दोर्दण्डकण्डूक्रीडा मे त्वयैव विहिता, परम् ॥ १६९ ॥ मुच्यसे मर्त्यसौख्यस्त्वं, सावधानो भवाधुना." । इत्युक्त्वा निशितैर्वाणरुणुनाव चमूपतिम् ॥ १७० ॥ राजलक्ष्मीरथोरस्तः सेनान्योऽस्वस्थमानसा । चक्रे बाहुधनुच्छाखड्गादिषु गतागतम् ॥ १७१ ॥ तामहं विपदं दृष्ट्वा तस्य मूढमनाः क्षणात् । स्मृतवानलीयं तद्देवेन प्रहितं पुरा. ॥ १७२ ॥ जामोच्छासश्चमूनाथमथानोच-“कराङ्गुलौ । क्षिपैतत् " सोऽपि सासूयः कृतवानवधीरणाम् ॥ १७३ ॥ प्रसारितकरस्यास्य कौक्षेयकजिघृक्षया । कोषकम्पाङ्गुलिं पाणिं गृहीत्वाऽक्षिपमङ्गुलौ. ॥ १७४ ॥ तत्मभाभिः परामृष्टं परानीकमथाखिलम् । अबसन्नक्रियं सद्यः प्रत्यपद्यत निद्रया. ॥.१७५ ॥ अटनिन्यस्तशीर्षाणामूर्ध्वस्थानां धनुष्मताम् । स्वपतां मुष्टिविश्लिष्टाः पेतुर्भुवि शिलीमुखाः ॥ १७६ ॥ उद्दामदानपङ्केषु मग्रामिव धनां मृणिम् । न शेकुर्गजगण्डेभ्यः समुद्धत निषादिनः ॥ १७७ ॥ श्रुतारिसिंहनादेन सामन्तानां रुषारुणा । आदरस्फारिताप्यास्ते चलाद् दृष्टिमिलत्पुटाः॥ १७८ ॥ सेनानाथं कुमारोऽपि दृष्टवायातं सहासिनम् । त्यक्तचापः कृपाणस्य दष्टोष्ठः कुरुते ग्रहम्. ॥ १७९ ॥ स्यन्दनात्तसङ्ग एवाथ निद्रानिस्यग्दलोचनः । तथैव तस्थावास्माकी डुढोके च पताकिमी. ॥१८॥ सेनाधिपोऽपि नियाजवीर्यावर्जितमानसः । तां देवपादशपथैनिवार्यागात् तदन्तिकम् ॥ १८१॥ तं निद्रान्तमथाद्वाक्षीद्धृकुटीसङ्कटालिकम् । वन्धमानव्रणोद्वान्तरक्तबिन्दुवज भटैः ॥ १८२ ॥
For Private and Personal Use Only
Page #16
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री तिलक मञ्जरी
कवत सार.
विलोक्य स्विधया दृष्टया सुचिरं प्रीतमानसः, । चामरग्राहिणी तस्य पृष्टवानातिकौतुकात्. ॥ १८ ॥ "कोऽयं ? सुकृतिनः कस्य तनूजः ? कास्य चाभिधा ? । कथं वा नामुना चक्रे वीरेणापि दिवा रणः ?" ॥१८॥ अश्रु प्रमृज्य साऽवादीत-"कीगेष निवेद्यते । अस्तंगता कथाऽप्यस्य, यदि वा कथ्यते, शृणु. ॥ १८५।। सर्वद्वीपनृपापीडश्लिष्टक्रमनखार्चिषः । सिंहलाधिपतेरेष चन्द्रकेतोस्सनद्भवः ॥ १८६ ॥ नाना च समरकेतुर्तीपानां विजिगीषया । निर्यातः, पितुरादेशादागात्साहायकेच तु.॥ १८७ ॥ युग्मम् मातरच सशृङ्गारो मन्मथायतनं गतः । एष, भूपगृहोद्याने स्थितश्च सकलं दिनम् ॥ १८८।। पश्यत्पुरवधूचन्दं यात्रान्ते च निशागमे । तत्रैव पङ्कजैः शय्यां कारयामास सव्यथः ॥ १८९ ॥ अथाकस्मात्मदोषान्ते समेत्य शिबिरं निजम्, । सज्जीकृतबलोमात्यानवमन्य ससैनिकान् , ॥ १९०॥ इमां भुवं समायातः." इति व्यावर्णिते तया । दुःखादिव गलत्तारा विरराम विभावरी. ॥ १९१ ॥ उद्गतेऽथ रवौ सर्व प्रबुद्धं तद् द्विषां बलम् , | कुमारोऽपि चमूनाथमुवाचायातचेतनः ॥ १९२ ॥ "मा गा विषादम् , प्रहर पूर्वम् , न प्रहराम्यहम् "। इत्युक्त्वा, स्वरथं वीक्ष्य समन्तादरिवेष्टितम् ॥ १९३ ।। आत्मानं च तथावस्थं, लज्जया मृढतां ययौ. । तत्मत्युज्जीवनात्तोषं दधे च ध्वजिनीपतिः ॥ १९४ ॥ जयद्विपं समारोप्य, निनाय शिविरं निजम्. । व्रणेषु पट्टबन्धादि क्रियां चक्रे ततः स्वयम्. ॥ १९५ ॥ तमाह "प्रगुणीभूतम धिपत्यं गृहाण मे । 'तुच्छे' इत्यस्य नेच्छा चेत् , स्वमेषाध्यारव सत्पदम्. ॥ १९६ ॥ 'जितोऽहमिति'माझासीः कोऽहं तव पराजये । तदर्शयामि ते स्पष्ट, चेष्टाहानियतोऽजनि," ॥ १९७ ॥
॥७
॥
For Private and Personal Use Only
Page #17
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
इत्युक्त्वाऽदर्शयदिव्यमहुलीयकं करस्थितम्. । 'क प्राप्तमिति' पृष्टश्च सद्वृत्तमखिलं जगौ. ॥ १९८ ॥ सोऽपि स्वस्मिन् गतावज्ञः माह-"सेनापते ! त्वया । गतगर्वतया चेतो दूरमावर्जितं मम. ॥ १९९ ॥ कृतार्थवादं शक्रेण, श्रिया दत्तवरं नृपम्, । मयि चेत्पक्षपाती स्याः, तदा तं मम दर्शय." ॥२०॥ अथ प्रीतः प्रसन्नेऽह्नि मया प्रचुरपत्तिना । सेवितुं देवपादान्तं प्रापयत्तं चमूपतिः." ॥ २०१॥ अथाहोत्कण्ठितो राजा-"सिंहलाधिपतेः सुतः । कारते ? कदा सहास्माभिः करिष्यति परिचयम् ?"॥२०२॥ सोऽवोचत्-"सरयूतीरे कृतसेनानिवेशनः । शक्रावतारोद्यानस्य मध्यभागे च तिष्ठति. ॥ २०३ ॥ दर्शनं तु भवत्पादप्रसादायत्तं" इत्यथ । प्रेषीन्महाप्रतीहारं हरदासं नराधिपः. ॥ २०४ ॥ सोऽनुरागं नृपस्योत्क्त्वा प्राञ्जलिस्तं नृपालयम् । आनिनाय. प्रणामं च भूमिभर्तुरकारयत. ॥ २०५॥ प्रसारितभुजो राजाऽप्यङ्कमारोप्य तं क्षणम् । आश्लिक्षदासनासीनं सादरं समभाषत. ॥ २०६॥ "अङ्गुलीयार्पणव्याजाइरादानीय वत्स ! मे । राजलक्ष्म्या प्रदत्तोऽसि द्वितीयकरत्वमात्मजः ॥ २०७ ॥ अतोऽमुना कुमारेण समास्तव विभूतयः, | आस्व स्वैरमिह क्रीडन् निश्चलीकुरु मानसम्. ।। २०८ ॥ ह रिवाहनमप्याह-वत्स ! भूपतिनन्दने । भवेरिह स्थिरप्रेमा, मामुचः सहचारिताम्." ॥ २०९ ॥ "आज्ञापयति यत्तात" इत्युक्त्वा हरिवाहनः । उत्तस्थावुत्थिते राज्ञि समं समरकेतुना. ॥ २१० ॥ गृहाप्तं मदिरावत्या दत्तवस्त्रविभूषणम् । कृतस्तुति कुमारस्तं निनाय निजमन्दिरम् ॥ २११ ॥ कृतेऽथ स्नानभुक्त्यादौ 'सुदृष्टिः' सार्थकाभिधः । प्रविश्याक्षपटलिकः, पट्टकस्थं नृपाज्ञया ॥ २१२॥
For Private and Personal Use Only
Page #18
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
S
श्री तिल-3 क मञ्जरी ॥८॥
UGALURUSNESAMASURES
काश्मीरादिभिराकीर्ण कुमारायोत्तरापथम् , । ददावङ्गादिदेशांश्च भुक्तौ समरकेतवे. ॥ २१३ ॥ युग्मम् ।। शास्त्रशस्त्रकलाकेलिरसास्वादनिमग्नयः । तयोरुपचितप्रीत्योर्गतोऽनेहाः कियानपि. ॥ २१४ ॥
एकदाऽथ निदाघर्त्तावारूढौ सिन्धुराधिपम् । तो मत्तकोकिलोद्यानं जग्मतुः सरयूतटे. ॥ २१५ ॥ मन्मथायतनासन्न, तत्राम्रवणमध्यगम् । तमालबकुलाशोकतालीतिलकमालितम्, ।। २१६॥ कृतनीलांशुकोल्लोचं, वालव्यजनरश्मिभिः । चन्द्रकान्तप्रभापूरैः कीर्णकर्पूरपांसुरम्, ॥ २१७ ॥ 'कुरुविन्दाता दत्तं कश्मीरजरसच्छटम् । शीतवारिकणासारैर्मुक्तमुक्तावलीलतम्, ॥ २१८ ॥ शाखानिलविधुताभित्यन्तं वनराजिभिः, । आसेदयुतावाप्तैः सहायैर्जलमण्डपम्. ॥ २१९ ॥ कलापकम् तल्लावण्यं चिरं दृष्ट्वा तल्पमध्यास्य कौसुमम् । स्थितौ शास्त्रविनोदेन समं नृपतिमनुभिः, ॥ २१० ॥ बन्दी 'मञ्जीरको नाम नर्मपात्र सभासदाम् । उपमृत्य ततः किश्चिदुवाच हरिवाहनम्- ।। २२१ ॥ " कुमार समतिक्रान्तचैत्रस्यास्यैव वासरे । अहं शुद्धत्रयोदश्यां कामायतनमागमम् ॥ २२२ ॥ अपश्यं तत्र यात्रायां हेमश्रृङ्गोत्थितै लैः । वेश्याङ्गनाभुजङ्गानामन्योऽन्यजलसेचनम् ॥ २२३ ॥ तदङ्गणाम्रमूले च ताडीपत्रं व्यलोकयम् । नद्धं मृणालमूत्रेण स्तनचन्दनमुद्रितम्. ।। २२४ ॥ सकौतुकं तदादाय, गेहं गत्वा निरूपितम् । पृष्ठे नामाक्षरश्रेणी न दृष्टोन्मुदितं ततः. ॥ २२५॥
अथ कस्तूरिकापङ्कलिखिता ललिताक्षरैः । कीर्णा कपुरचूाँधेरेकैवार्या विलोकिता. ॥ २२६ ।। १. हिङ्गलोक.
Din८॥
For Private and Personal Use Only
Page #19
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
*
**********
विभाविता मयाभीक्ष्णं नैदम्पर्यागमोऽजनि । केन ? कस्य ? किमर्थं वा ? प्रेषितैषा भवेदिति. ॥ २२७ ॥ तदादिशतु मे तस्याः कुमारस्तत्त्वनिर्णयम्." इत्युक्त्वा स इमामाया पपाठोदारया गिरा- ॥ २२८॥ "गुरुभिरदत्तां वोढुं वाञ्च्छन् मामक्रमात्त्वमचिरेण । स्थातासि-पत्रपादपगहने तत्रान्तिकस्थामिः "॥ २२९ ॥ प्रज्ञावलेन बुद्ध्वाथ कुमारोऽप्यवदत् “सखे !। कस्याप्यपत्रपां त्यक्त्वा कयाचिदनुरागतः ॥ २३०॥ मन्मथोत्तप्तचित्तस्य 'न दत्तः पितराविति' । विधिनाऽनुचितेनापि तामदित्सोरतिप्रियम् ॥ २३१ ॥ अनङ्गलेखः प्रहितः. प्रयोजनमिह त्विदम् । 'अपहारादिनोद्वाहो नोचितो, मोत्सुकीभव, ॥ २३२ ॥ सेत्स्यत्येतत्तवाभीष्टं यतः कतिपयैदिनैः । मिलितोऽसि वने यत्र तत्र पत्रलशाखिभिः ॥ २३३ ॥ मह्त्या गोपितो, दीप्ते वहावुद्वाहमङ्गले । स्थातासि; मेऽनुयातायाः कर्तासि च करग्रहम्. ' ॥ २३४ ॥ यस्त्वत्र शापरूपोऽर्थः प्रतिभात्यपरो, यथा-'अदत्तां मामपन्यायादिच्छन् , सम्पाप्य नारकम् ॥ २३५॥ अन्तिकस्थज्वलदहिरसिपत्रवने घने । स्थातासि पातकाच्चीरम् ' असाविह निराश्रयः, ॥ २३६ ॥ नहि द्विष्टाः स्त्रियो लेखान् प्रेषयन्त्येवमादरात्. । इहातिगूढता यच्च च्छेकताविष्कृतिफलम् ॥ २३७ ।। 'कौतुकोद्वेष्टनज्ञासतत्वार्था मन्त्रभेदनं । कुर्यात पत्रकहारी वा कदाचिदिति ' गूढता." ॥ २३८ ॥ इत्युक्ते तेन सर्वे ते तोषमियुः सभासदः, । वक्त्रविच्छायता चक्रे परं समरकेतुना. ॥ २३९ ॥ विस्मितेऽथ सभालोके वाचोयुक्तिविचक्षणः । उवाच कमलगुप्तः कलिङ्गाधिपतेः सुतः-॥ २४॥ “युवराज ! किमित्येवं मत्सरीव स्थितो भवान् । मौनमालम्ब्य ? किं वाऽभूचक्षुरश्रुकणाविलम् ? ॥ २४१॥
***
**
For Private and Personal Use Only
Page #20
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री तिल
कमञ्जरी ॥९॥
कथा सार,
कञ्चित्कुमारनिर्दिष्टं तं युवानं न शोचसि ? । किं शोच्यते ? विचित्रं हि संसारस्य विजृम्भितम्." ॥ २४२ ॥ अथोवाच कुमारोऽपि-"किमाकस्मिकविक्लवः । चक्रे त्वयि गभीरेऽपि वयस्य ! सहसा पदम् ?"॥२४३ ॥ क्षणं मौनव्रतं स्थित्वा सिंहलाधिपनन्दनः । जगादाऽमानुषी सत्यं कुमार ! तव शेमुषी. ॥ १४४ ॥ उक्तो मनुःखवृत्तान्तो निजय धिया त्वया । सामान्यतो, विशेषं च कश्चिद्वर्णयतः शृणु"- ।। २४५ ॥
"ज्ञातमेव कुमारस्य सिंहलेषु यथा पुरी, । 'रङ्गशालेति, ' तत्रास्ति चन्द्रकेतुः पिता मम. ॥ २४६ ॥ कदाचित्सोऽवलिप्तानां पूर्वदायमयच्छताम् । सुवेलशैलसामीप्यवासिनां दुएभूभृताम् ।। २४७ ॥ प्रतिक्षेपाय नौसैन्यं दक्षिणस्यां समादिशत् , । यौवराज्ये च संस्थाप्य तत्र मां नायकं व्यधात्. ॥ २४८ ॥ युम्मम् पाहिणोच्च प्रशस्तेऽह्नि नृपामात्यादिभिः सह । संवीतं सितवासोभ्यां वारस्त्रीकृतमङ्गलम् ॥ २४९ ॥ ततोऽहं कृतश्रृङ्गारमध्यास्यामरवल्लभम् । वज्राङ्कुशमहामात्रसज्जितं गन्धसिन्धुरम्. ॥ २५० ॥ उद्भूतवालव्यजनो ढकाध्वानभृताम्बरः । छत्रालिच्छन्नमार्तण्डो निरगच्छं नृपालयात् . ॥ २५१ ॥ पुरमार्गेण यातो मे जालावलिषु वीक्षितैः । चक्रुः कुवलयश्रेणिपूजां पुरपुरन्ध्रयः ॥ २५२ ॥ अथार्णवानिलोद्भुतरम्याराममनोरमाम् । स्थानस्थानस्थसाथौंपर्दुर्गीकृतगमागमाम् ।। २५३ ॥ उल्लासिवल्लवीगीतैर्मन्थनीमन्थनस्वनैः । गोयथघण्टानिपोषैः क्रूरकुक्कुरबुक्कनैः ।। २५४ ।। घरट्टयर्घरध्वानः कण्डनष्टात्कृतैः कृते । येषु ब्रह्माण्डसंस्फोटे शङ्के जातो रसोर्णवः ।। २५५ ॥ तर्गोकुलैर्वृत्तां पश्यन् पुरसीमां समन्ततः । गृह्णन्वेलावनग्रामग्रामकूटोपदाग्रणान् ॥ २५६ ॥
For Private and Personal Use Only
Page #21
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
SALUKASAMAND
प्रापमुल्लोलकल्लोलमालाच्छन्ननभस्तलम् । भगवन्तमपांनाथं दिवो ज्यायःसहोदरम् ।। २५७ ॥ पञ्चभिःकुलकम् यद्वैभवं समालोक्य वाचो वाचस्पतेरपि । वस्त्वन्तरस्तुतौ यान्ति कण्ठे गद्गदरूपताम्. ।। २५८ ॥ तत्तीरसमयूभागे दत्तावासः परिग्रहम् । व्यग्रं गमनसामग्र्यां प्रत्येक्षे विश्वासरान. ॥ २५९ ॥ अथान्येयुः प्रतिष्ठासुः कृतपूजोऽर्णसांनिधेः । आगच्छम्ल्पपादातर्बाह्यमारथानमण्डपम्. ॥ २५० ॥ तत्र च प्रत्युषस्येव पौतिकानां कृताकृतम् । प्रेषितेन परिज्ञातुमायान्तं सह वेत्रिणा ।। २६१ ॥ नीलाम्बुजलदश्यामं वसानं वाससी सिते । मालतीरचितापीडं पाटलौष्टपुटच्छविम् ।। २६२ ।। वल्गन्मुक्तालताकान्तं सचन्दनरलाटिकम् । अपश्यं धीवरबावृत्तं तरुण नाविकम् ॥ २६३ ॥ विशेषकम् दृष्ट्वा तं रुचिराकारं प्रेतमायपरिच्छदम् । सातविस्मयः कोऽयमि'त्यपृच्छं पुरःस्थितम् ॥ २६४ ॥ सर्वनौसाधनाध्यक्ष यक्षपालितनामकम् । सोऽवादीत-"सर्वकैवर्त्तवर्गस्येषोऽधिनायकः." ।। २६५ ॥ अवदं पुनर "प्येषां किमित्येष विलक्षणः ?" । स जगादाऽ"स्य वृत्तान्त कुमार ! व्यासतः श्रृणु-॥२६६॥ अस्ति चामीकरद्वीपे पुरं मणिपुराभिधम् , । तत्र सांयात्रिकः श्रेष्ठी ख्यातो वैश्रवणाहयः ॥ २६७ ॥ तज्जाया वसुदत्तेति, तारकश्च तदात्मजः । अधीतशास्त्रो निष्णातः कलासु सकलासु च. ॥ २६८ ॥ स भृत्या सारभाण्डस्य यानपात्रमर्थकदा । प्राप सांयात्रिकैः साद रङ्गशालामिमां पुरीम् ॥ २६९ ।। आवासितस्य तीरान्ते तोयधेर्मलकेतुना । कैवर्तकुलमाथेन सहाभुत्तस्य सौहृदम् ।। २७० ॥ पुत्री सुदर्शना (प्रियदर्शना ) नाम जलकेतोरथान्यदा । तद्गृहं हारमादाय गता रवपितुराज्ञया. ॥ २७१ ॥
For Private and Personal Use Only
Page #22
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री तिल181 कमञ्जरीला
सार.
-
तदर्शनादभूत्तस्या दृढरागातुरं मनः, । कृतमत्युपचारा च पुनः स्वगृहमाययो. ॥ २७२ ॥ यान्ती च तद्गृहं व्याजादेकदा तद्गृहागणे । सं दृष्ट्वा रखरिता, तेन विधृता करपल्लवैः ॥ २७३ ॥ उक्ता च सस्मितं "सुभ्र ! समेपि स्खलितं किमु । मुश्च क्षोभं गच्छ." साप्यवादीत्समन्मथा-॥२७॥ "इदमेवाश्रयो गेहं कुमार ! मम तावकम्." । लिलेख भूमिमित्युक्त्वा चरणाइष्टलेखया. ॥ २७५ ॥ असावपि सकन्दर्पः 'स्त्रीरत्नं दुष्कलादपि । ग्राह्यमित्यवधायर्यास्याः पाणि जग्राह पाणिना. ॥ २७६ ॥ 'सांयात्रिकस्य पुत्रीयं पालिता जलकेतुना । यानभङ्गे' इति प्रोक्तोऽप्यात्मीयैस्तत्त्ववेदिभिः, ॥ २७७ ॥ अभ्यर्थितोऽपि चात्यर्थं स्वदेशगमनं प्रति, । आनायितोऽपि पित्राऽयं, तस्थावत्रैव सत्रपः ॥ २७८ ॥ युग्मम् देवेन सद्गुणाकृष्टचेतसा चन्द्रकेतुना । सर्वनाविकतन्त्रस्य निर्मितश्चाधिनायकः. ॥ २७९ ।। विहिता बहुशोऽनेन तोयराशौ गमागमाः। सख्येनास्य सुखेनाब्धि कुमारो लड्डुयिष्यसि. ॥ २८० ॥ तारकोऽपि प्रणम्याथ जगाद-"प्रगुणीकृता । कुमार ! यानपात्राली, गृहीतं ग्राह्यवस्तु च. ॥ २८१ ॥ नाम्ना 'विजययात्रेति' भवते सज्जिता तरी, । न चेत्कालविलम्बेऽस्ति हेतुः, प्रस्थीयतां ततः" ॥२८२॥ अहं तु शुभवेलायां विसृष्टनगरमजः । आरोहं तारकन्यस्तहस्तो नावं नतार्णवः ॥ २८३ ॥ स्वस्वपोतानथारोहन सर्वेऽपि नृपमूनवः । मङ्गलातोद्यवृन्दानि दध्वनुः पूरिताम्बरम् ॥ २८४ ॥ तारकेरितया नावा गाहमानोऽथ सागरम् । साधितान्तरसामन्तः सुवेलाचलमव्रजम् ॥ २८५॥ लङ्कापरिसरोदेशानुत्स्वातारोपितैनृपः । तत्रत्यैर्दर्शितान् पश्यन, तत्रास्थां कतिचिदिनान्, ॥ २८६ ॥
॥१०॥
For Private and Personal Use Only
Page #23
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
धृत्वा तत्रैव शिविरमन्यदा प्रेरितश्वरैः । अचलं सारसैन्येन सेतोः पश्चिमया दिशा ॥ २८७ ॥ अवस्कन्दात किरातेशं जित्वा पर्वतकाभिधम् । तदन्तःपुरमादाय शिबिराभिमुखोऽभवम् ॥ २८८ ॥ अथ त्रिभागशेषायां रात्रावादिप्रयाणके । अनिनामा समागन्य भट्टपुत्रो जगाद माम् ॥ २८९ ॥ " विज्ञापयति सेनानी : - 'कुमार ! गगनस्पृशा । योऽयं शिखरजालेन पर्वतोऽग्रे विलोक्यते ॥ २९० ॥ द्वीपस्य पञ्चशैलस्य चूडारत्नं, पयोनिधेः । लीलोत्तंसो, ऽतिरम्यश्री रत्नक्कुटोऽयमाख्यया ॥ २९१ ॥ सैन्यश्रमापनोदाय, जलादिग्रहणाय च । स्थित्वा द्वित्रादिनान्यत्र पुरो यात्रा विधीयते " ॥ २९२ ॥ " एवमस्त्विति" संलप्य विसृष्टे तत्र, सा चमूः । निवासं ग्राहिता तस्य गिरेरासन्नसानुषु ॥ २९३ ॥ अथ कर्णामृतस्यन्दी पश्चिमोत्तरदिपथात् । दिव्यगीतारवस्तत्र सातोद्यध्वनिराययौ ॥ २९४ ॥ तस्याथ प्रभवं द्रष्टुं सञ्जाताधिककौतुकः । अवोचं तारकं तत्र सावधानं ध्वनिश्रुतौ ॥ २९५ ॥ "सखे ! गीतध्वनिः श्रव्यो ममाकर्षति मानसम् । यदि तेन तथा खेदस्तदा यामस्तदन्तिकम् ॥ २९६ ॥ महाराजाभिषेको वा यात्रा वा क्वापि दैवते । कस्यापि विद्यासिद्धिर्वा नूनमत्र भविष्यति ॥ २९७ ॥ स जगाद - " कुमारात्र दुर्गमोतीव वारिधिः । गमेच्छा तु ममाप्यस्ति, मयाप्येष पुरा श्रुतः ॥ २१८ ॥ कर्णधारा इहान्येऽपि श्रृण्वन्त्येनमनेकशः । अस्य प्रवत्तको ज्ञातः कुतोऽपि न तु कश्वन. " ॥ २९९ ॥ इत्युक्ते तेन सञ्जातविशिष्टतरकौतुकः । पुनस्तमब्रुवं - "यामः सखे ! तत्र यथा तथा " ॥ ३०० ॥ सहायानथ सगृह्य पञ्चषान् कर्णधारकान् । सज्जीकृत्य तरी तेन मय्यारूडे प्रवाहिता ॥ ३०१ ॥
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
Page #24
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
श्री तिलकमञ्जरी ॥११॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स्फुरितं दक्षिणं चक्षुः, स्यन्दितश्च ममाधरः । परांहसाऽथ नौर्यान्ती नादाश्रयनगान्तिकम् ॥ ३०२ ॥ विरराम ध्वनिः सोऽथ मामवादीच तारक:, । “कुमार ! विश्तस्तावद् ध्वनिर्मार्गोपदेशकः ॥ ३०३ ॥ गम्यते वा नवेदानीमहं तस्थावधोमुखः । ध्यायन्मुधाफलं चित्ते स्वकं चापलचेष्टितम् ॥ ३०४ ॥ अथोदयाद्रिचूडायां ताम्रचूडस्य चूडया । स्पर्द्धमानं रुचाभासीदशीतकरमण्डलम् ॥ ३०५ ॥ ततोऽक्षिपं पुरश्चक्षुरदूरे तस्य भूभृतः । अपश्यं च प्रभाभारं भासयन्तं नभःपथम् ॥ ३०६ ॥ दृष्ट्रा 'किमेतदि' त्यूहन्नद्राक्षं खेचरावलीम् । निर्गत्य तस्मादायान्तीमाकाशेनैकहेलया. ॥ ३०७ ॥ गद्वाजिव्रजारूढनायकां दिव्यतेजसम् । विस्तारतारद्दारालीकरशारीकृताम्बरम् ॥ ३०८ ॥ दृष्ट्वा च तं प्रभाराशि, तां च नाभश्वरीं चमूं । “प्रवर्त्तय पुरो नावमिति” तारकमभ्यधम् ॥ ३०९ ॥ "कोऽयं १ कस्मात् ? किमर्थं वा ? कथं वात्र समागतः ? " । जल्पद्भिरिति सावर्य दृश्यमानो नभश्वरैः || ३१० ॥ गत्वा स्तोकमधस्तस्य भूधरस्य, व्यलोकयम् । हेमाद्रिभास्वराकारं चलम्चीनांशुकध्वजम् ॥ ३११ ॥ अच्छस्फटिकनिष्पन्नप्राकारपरिवेष्टितम् । रत्नरूपकराजीनां रोचिषा रुद्धदिक्पथम् ॥ ३१२ ॥ पद्मरागमणिश्रेणिनिर्मितामलसारकम् । दिव्यायतनमुत्तुङ्ग मे कमस्यद्भुताकृति ।। ३१३ ॥
दृष्ट्वा चाचिन्तयं, “धन्याः, पत्रिणोऽप्यत्र ये स्थिताः । वन्यः कोऽपि सुकर्मासाविदं येन विधापितम् ॥ ३१४ ॥ स्वः शिल्पिटङ्कविच्छिन्न मणिग्रावोच्छलद्दलैः । क्षारोदोऽप्यस्य निष्पत्तौ शङ्के रत्नाकरोऽजनि . " ।। ३१५ ।। इति ध्यायत एवासौ कैवर्त्तकरनोदनात् । क्षणेन दक्षिणां भित्ति प्राकारस्याससाद नौः ॥ ३१६ ।।
For Private and Personal Use Only
कथा सार.
॥११॥६
Page #25
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विस्मयस्मेरलोलाक्षमवोचमथ तारकम्- "सखे ! सन्तानकादीनां पुष्पाणि, मधुरं जलम् , ॥ २१७ ॥ सानोरस्मात्समादत्स्व, शुचयो देवतार्चनम् । येनात्र कुर्महे" सोऽपि सस्मितं प्रत्यभाषत-|| ३१८ ॥ युग्मम् ।। "कुमार ! यदिदं द्वारं पुरतस्तुङ्ग तोरणम्, । तदप्रणव संरुद्धं शलोचकटकस्पृशा. ॥ ३१९ ॥ क्षुद्रद्वाराणि जानीहि, तान्यपि स्वच्छतागुणात् । प्राकारस्य नभस्तुल्यभित्तेर्यान्ति न लक्ष्यताम्. ।। ३२० ।। तदत्रैव स्थितास्तावदस्माद्देवनिकेतनात् । बहिः कश्चन निर्यान्तं पश्यामो द्वारसूचकम् . " ॥ ३२१ ॥ अथायतनवापीनां इंसर्वलितकन्धरम् । आकर्णितो, गतः पोषं रसनादामसिञ्जितैः, ॥ ३२२ ॥ गम्भीरो हाररणितैः, श्रव्यः कङ्कणनिकणैः, । झात्कारो नूपुरालीनामुच्चचार मनोहर:. ॥ ३२३ ॥ तमनुक्षिप्तचक्षुश्च प्राकारशिरसि स्थिताः । सपक्षशैलानन्वेष्टुं वज्रार्चिष इवागताः, ॥ ३२४ ॥ जाड्यादुच्चैःस्थिताः स्थाने देवता इव वारिधेः, । हैमीरायतने तत्र पताका इव निर्मिताः, ॥ ३२५ ॥ अद्राक्षं, नयनक्षेपर्नवनीलसरोरुहाम् । उपहारमिवाम्भोधेः कुर्वतीर्वरकन्यकाः ॥ २२६ ॥ तदन्तर्ललितोद्भुतचारुचामरवीजिताम् , । ददन्ती दुर्भगाभावं लावण्येन रतेरपि, ॥ ३२८ ॥ कलामिव विधेः सारां तारिकानिकराताम् , | द्विरष्टवर्षदेशीयां कन्यामकां व्यलोकयम्." ॥३२८ ॥ इति शंसति वृत्तान्तं सिंहलद्विपनन्दने । अलोलपक्ष्मलेखेषु जनेषु लिखितेष्विव, ॥ ३२९ ॥ स्मेरचक्षुः प्रतीहारी प्रविश्य हरिवाहनम् । व्यजिज्ञपत्-"कुमारेदमीक्ष्यतां नयनामृतम्." ॥ ३३० ॥ युग्मम् ॥ इत्युक्त्वा दौकयामास चेलाश्चलनियन्त्रितम् । दिव्यचित्रपट, सोऽपि वीक्षामासातिविस्मयात् ॥ ३३१॥
For Private and Personal Use Only
Page #26
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री तिला क मञ्जरी
सार.
॥१२॥
181 कथा अथापश्यदनङ्गस्य हस्तभल्लीमिवापिताम् । कन्यारूपधरामेकामुदारां चित्रपुत्रिकाम् ॥ ३३२ ॥ प्रत्यङ्गं वीक्ष्य, शेषाणां तदीक्षोत्सुकचेतसाम् । चन्द्रकेत्वात्मजादीनां दर्शयामास सादरम्. ॥ ३२३ ॥ वेत्रधारीमपृच्छच्च-"क्वेदं वज्रार्गले ! त्वया । चित्रमासादितं ? "सापि किञ्चिन्नम्रा तमब्रवीत् ॥ ३३४ ॥ "अशून्यं द्वारमाधाय कुमारोधानसम्पदम् । गतया दृष्टमासीनो माधवीमण्डपाङ्गणे ॥ ३३५ ॥ एको रम्याकृतिदृष्टो मया पथिकदारकः । पृष्टाऽहं तेन "कल्याणि ! कोऽयं ? कस्य तनूद्भवः । ॥ ३३६ ॥ किं नामा राजपुत्रोऽयं ?" मयापि सरलाशयम् । तं विलोक्याभिधायीदं "शृणु सौम्य ! निवेदये-॥३३७।। 'राजलक्ष्मीनिवासाय जङ्गमः कमलाकरः, । चित्रस्थानायिताकारः कन्याभिर्भुवि भूभृताम् , ॥ ३३८ ॥ निःसीमसाहसायासराजलक्ष्मीवरार्पितः । मेघवाइनभूभर्तुः पुत्रोऽयं हरिवाहनः' ॥ ३३९ ॥ दिदृक्षा चेत्तदागच्छ दर्शयामी" ति जल्पिते । स उवाच हृष्टश्च-"द्रागेवानुगृहाण माम् ॥ ३४० ॥ दिव्यकन्याकृतिं चैतां तस्य कौशलिकं कुरु, । प्राप्त एवाहमप्येष." इत्युक्त्वार्पितवान् पटम्." ॥ ३४१॥ स तस्यामिति जल्पन्त्यां चक्षुर्गोचरमाययौ । युक्तोऽसिधेनुकामात्रसहायेन पदातिना. ॥ ३४२ ॥ दिव्यपट्टांशुकच्छन्नो भास्वद्भुषणभासुरः । दधानः शेखरामोदभ्राम्यद्भुङ्गौघसिक्किरीम्. ॥ ३४३ ॥ युग्मम् ॥ प्रवेशितः प्रतीहार्या प्रणम्य हरिवाहनम् । उपविष्टः, कुमारस्य रूपेण मुमुदेतराम्. ॥३४४ ॥
॥१२॥ अवादीच-"कुमारास्ति दृश्य चित्रेव किश्चन ? । दोषः कोऽपि न विस्पष्टः ? शिक्षाहोऽहं भवादृशाम्." ॥३४५॥ मत्यवादीत कुमारस्तं- "भवान् स्रष्टास्य कर्मणः, किमत्र शिक्ष्यते ? को हि ज्योत्स्ना लिम्पति चन्दनैः ॥ ३४६ ॥
SUCHABAR
For Private and Personal Use Only
Page #27
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobairth.org
Acharya Shri Kailassagarsuri Gyanmandir
किन्त्वेक एव दोषोत्र,-"यदेकमपि निर्मितम् । न रूपं पुरुषस्येति' तत्सम्प्रत्यपि तस्कुरु." ॥ ३४७॥ स प्रत्युवाच-"सामान्यकन्यारूपं मया नहि । कुमार ! लिखितं, किन्तु देषिण्याः सततं नरे. ॥ ३४८॥ नृरूपनिर्मितो द्रष्टुं नैपुण्यं चेत्कुतूहलम् , । कुमारस्यैव सद्रूपमतो लेख्यं तदेव हि ॥ ३४९ ॥ कारणं विद्यते किश्चित्किञ्चेदानीमलेखने । तदर्णयामि संक्षेपादाकर्णयतु पुण्यभाक्-॥ ३५०॥ " अस्ति भूभृति वैताढये चूडालङ्करणं भुवः । रथनुपूरशद्धाद्य चक्रवालाभिधं पुरम् ॥ २५१॥ समग्रदक्षिणश्रेणेः पाता प्रौढपराक्रमः । विद्याधराधिपस्तत्र चक्रसेनाढयो नृपः ॥ ३५२ ॥ विषयान सेवमानस्य तस्य देव्यामथाजनि । पत्रलेखाभिधानायां पुत्री 'तिलकमञ्जरी. ॥ ३५३ ॥ न्यस्तश्चित्रपटेऽमुष्मिन् दृष्टिपातप्रसादतः । लावण्यनिधिना यस्या रूपांशः सफलीकृतः ॥ ३५४ ॥ प्रपेदे यौवनं साथ कामकेलिनिकेतनम्, । योग्येव सर्वभूतीनां पित्रा सा भाजनं कृता. ॥ ३५५ ॥ अनुज्ञाता च सद्वेषैः समं विद्याधरीगणैः । व्योमलीलाविहारेण शैलेषु मलयाद्रिषु. ॥ ३५६ ॥ युक्त्या प्रवर्त्तमानाऽपि बन्धुद्धाभिरन्वहं । विधत्ते नाभिलाषं तु स्वमेऽपि नरसमिधेः, ॥ ३५७ ॥ यदृच्छाच्छेदभीतेर्वा, केनापि नियमेन वा, । किंवा जन्मान्तरायातनृविशेषानुरागतः ॥ ३५८ ॥ युम्मम् विषण्णया च तन्मात्रा मन्त्रजापविधानतः । प्रज्ञप्तिविद्या विज्ञप्ता, तया स्वमे निवेदितम्. ॥ ३५९ ॥ "वत्से ! नमन्नृपश्रेणिचूडाचुम्ब्यपदाम्बुजः । भूगोचरनृपोत्पन्नः पतिरस्या भविष्यति. ॥ ३६० ॥ प्रेमपात्रं परं चैपा जन्मान्तरसखी श्रियः, । त्वत्सुता सुकृतेर्जाता, द्रष्टच्या सादरं ततः." ॥ ३६१ ॥
For Private and Personal Use Only
Page #28
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
श्री तिलकमञ्जरी
॥१३॥
www.kobatirth.org
तया च सर्वभूपालकुमाराकृतिदशनात् । कर्त्तुं तिलकमखर्या जातरागरसं मनः || ३६२ ॥ सैरन्ध्रीनिवष्टा चित्रलेखेति नामतः । माता मे भर्तृपुत्र्याश्च धात्री प्रातर्निरूपिता ।। ३६३ ॥ युग्मम् “ सखि ! चित्रे प्रवीणा त्वं, वत्सा चात्रानुरागिणी, । तत्सर्वभूपपुत्राणामस्या रूपाणि दर्शय. ॥ ३६४ ॥ कदाचिदनुरागोऽस्या जायेतेति" ततश्च सा । दासीचित्रविधौ दक्षाः प्रेषयामास सर्वतः ॥ ३६५ ॥ मामप्युवाच - " व्यापारो गन्धर्वक ! तवाप्ययम् । किन्तु देव्या सुवेले त्वं प्रहितः पत्रलेखया ॥ ३६६ ॥ विचित्रवीर्यदेवस्य समीपे स्वपितुः, ततः । निष्पन्न राजकार्येण तस्मादागच्छता त्वया ॥ ३६७ ॥ विज्ञाप्यः खेचराऽधीशो - "या सा काञ्चीपुरीपतेः । देवी गन्धर्वदत्तेति नाम साम्यादनिश्चिता ॥ ३६८ ॥ कृतयात्रेण देवेन तत्र चैत्ये स्वयंभुवि । श्रुता, सा 'सैव देवस्य पुत्री गन्धर्वदत्तिका' ॥ ३६९ ॥ यतो - मया स्वयं पृष्टा, स्वमवासस्तयापि मे । वैजयन्ती पुरोत्पातादारभ्य कथितोऽखिलः. " ॥ ३७० ॥ आगच्छता च गन्धर्वदत्तामालोक्य सच्चरम् । आगन्तव्यं, सहायश्च तवायं चित्रमायकः ॥ ३७१ ॥ सिद्धा साम्प्रतमेवास्य विद्या हि बहुरूपिणी. " । तदत्र राजकार्ये मां कुमारो मोक्तुमर्हति ॥ ३७२ ॥ व्यावृत्तेन कुमारस्य रूपं लेख्यं तथा मया । भर्तृपुत्री तदालोकाद्यथा रागमयी भवेत्. " ॥ ३७३ ॥ दत्ताभरणवस्त्रादि कुमारः स्वकरार्पितम् । सिंहलेशतनूजेन लेखं तस्योपनीतवान् ॥ ३७४ ॥ तदर्थज्ञो जगादैनं - " दुहितुः काश्चिभूपतेः । त्वया मलयसुन्दर्या प्रापणीयो रहस्ययम्. " ।। ३७५ ॥ 'तथे 'त्यभ्युपगम्यासौ प्रणम्योत्पतन्नभः । क्षणं स्थित्वा कुमारोऽपि जगाम निजमन्दिरम् ॥ ३७६ ॥
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
कथा सार.
॥१३॥
Page #29
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
कृतान्हिको दिनं नीत्वा, चित्रकन्यावलोकनात् । कृत्वा सान्ध्यं ययौ वेश्म भूपतेः सपरिच्छदः. ॥ ३७७॥ उपास्य पितरं नत्वा जननीं च, निजालयम् । अगाद्विसृष्टलोकश्च प्राविशद्वासवेश्मनि ॥ ३७८ ॥ तल्पमध्यास्य वारस्त्रीसंवाहितपदाम्बुजः । चक्रसेनसुतारूपध्याननीरुद्धमानसः || ३७९ ॥ तरङ्गितोत्तरपट: पर्यङ्कपरिवर्त्तनैः । शतयामामिवानषीद्यामिनीं कथमप्यसौ ॥ ३८० ॥ प्रातः प्रह्णेतनस्यान्ते विधेः सह पदातिभिः । तदेवोद्यानमगमत् तस्थौ चित्रं विलोकयन् ॥ ३८१ ॥ उपस्थिते च मध्यान्हे, तत्रैवार्चितदैवतः । भुक्त्वा, गृहीतताम्बूलः स्थित्वा सावसथं ययौ ॥ ३८२ ॥ कारणानि समाचिन्वन् गन्धर्वकविलम्बने । कृच्छाप्तनिद्रः क्लेशेन गमयामास शर्वरीम् ॥ ३८३ ॥ इत्थं दिनेषु गच्छत्सु गन्धर्वकविलम्बनात् । चत्रसेनसुतामाप्तौ शिथिलाशो बभूव सः ॥ ३८४ ॥ अथैकदा, शरत्प्राप्तौ तचैतनसमुद्भवात् । उद्वेगात्सदने स्थातुमसहः क्षणमप्यसौ ॥ ३८५ ॥ स्वमण्डलदिदृक्षायामुद्दश्यातिकुतूहलम् । पितरं मन्त्रिवक्त्रेण सप्रणामं व्यजिज्ञपत्. ॥ ३८६ ॥ अनुज्ञातगमस्तेन समं समरकेतुना । मित्रैरन्यश्च नगरात्प्रशस्तेऽहनि निर्ययौ ॥ ३८७ ॥ वहन्नध्वनि तत्रत्यराजलोकैर्निवेदिताः । पश्यन्नगनदीग्रामधर्मारण्यादिसंहतीः ॥ ३८८ ॥ कामरूपमनुप्राप्य तत्र प्राग्ज्योतिषाधिपः । धृतवानसमप्रीतिस्तं दिनानि कियन्त्यपि ॥ ३८९ ॥ तं च तत्रस्थितं श्रुत्वा सर्वेप्यौदीच्यभूभृतः । प्राभृतैः स्वस्वदेशोत्थैः समागत्य सिषेविरे ॥ ३९० ॥ विचचार सामन्तैश्च लोहित्याद्रिवनालिषु । तत्लेरितः क्षणं चक्रे विनोदं मृगयागतम् ॥ ३९१ ॥
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
Page #30
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobairth.org
Acharya Shri Kailassagarsuri Gyanmandie
श्री तिल-8
कया सार
क मञ्जरी ॥१७॥
करीन्द्रसाधनाध्यक्षः पुष्कराक्षो व्यजिज्ञपत् “कुमार ! यामिनीयामे चरमे मदगन्धतः ॥ ३९२ ॥ गतो वनं हटाद्वैरियमदण्डाभिधः करी । प्रातर्दृष्टः समानेतुं यत्नेनापि न पारितः. ॥ ३९३ ॥ तस्मादादिश्यतां कश्चित् , नोचेदूरीभविष्यति"। "वयमेव ग्रहीष्यामः" इत्युक्त्वा शिबिरस्थितम् ॥ ३९४ ॥ विधाय कमलगुप्तमारुह्य वरवाजिनम् , । स्तोकपत्तिवृतः सार्दै सिंहलेश्वरमूनुना, ॥ ३९५॥ महामात्रोपदिष्टाध्वा जगाम जवतो वनम् । वनेभदानसंसिक्तं, सानो परिणतं रुषा ॥ ३९६ ॥ तत्रालुलोके करिणं दूरस्थाधोरणास्तम्. । हयादुत्तीर्य रुद्धोऽपि साशकं नृपसूनुभिः ॥ ३९७ ॥ मन्दं मन्दं चचालाथ वीणापाणिगर्ज प्रति. । तदन्तिकलतागुल्मे ताडयामास बल्लकीम् ॥ ३९८ ॥ आकर्ण्यमानां मौनस्थैः कुञ्जावस्थितकिन्नरः । तदारवं समाकर्ण्य, विचैतन्य इव क्षणम् ॥ ३९९ ॥ तस्थौ करी. कुमारोऽपि त्वरया तमुपासपत्. । गत्वा च लीलयाऽऽरोहदथ तत्क्षणमेव सः. ॥ ४००॥ करी चचाल साटोपः तस्माच्छलोपकण्ठतः । “अडशोऽशः" इत्युक्ते कुमारेणानुधावितैः ॥ ४०१॥ परिकरर्जवादृष्टः दूरोच्छलित शृङ्खलः । 'एष यात्येष यात्येवं ' राजलोकेन दर्शितः ॥ ४०२॥ झगित्येवातिचक्राम तेषां लोचनगोचरात्. । कुमारहरणोदन्तमथाकर्ण्य समन्ततः ॥ ४०३ ।। अधावत हयारूढानीकनायकसन्ततिः । सिंहलाधिपमनुश्च राजसूनुगणावृतः ॥ ४०४ ॥ बलेन वाजिनां पश्चादवहत्सकलं दिनम् । अस्ताचलस्थिते भानौ राजपुत्रानुरोधतः ॥ ४०५॥ वासं जग्राह. नाहारमग्रहीत्कथमप्यसौ. । तुरङ्गपृष्टास्तरणे निषण्णश्चानयन्निशाम्. ॥ ४०६ ।।
२॥१४॥
For Private and Personal Use Only
Page #31
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनिष्टानि कुमारस्य तानि तानि विचिन्तयन् । प्रातः पुरः प्रतिष्ठासुः " गतिर्नाग्रे तुरङ्गिणाम् " ॥ ४०७ ॥ इत्युक्तः सर्वतः पत्तीन् प्रेष्य, तस्थौ स्वयं पथि । त्यक्ताहारः सुहृद्वात्तमपृच्छदखिलानध्वगान् ॥ ४०८ ॥ निश्यावासगतास्थाद् गाढान्तर्दाहवेदन: । स्थितः पथि पुनः प्रातर्महामात्रानुपातनम् ॥ ४०९ ॥ कुर्वन. दूरादपश्यत्तान् विद्राणवदनाम्बुजान् । "मृगाधमगतेर्मार्गः किं दृष्टः " इति पृष्टवान् ॥ ४१० ॥ त ऊचुः " सोऽपि पापात्मा दृष्टो नास्ति, किमु प्रभुः ?" छन्नववत्रोऽथ वस्त्रेण "हा ! समस्तकलालय ! ||४११॥ हा सखे ! हा ! बुद्धेत्यादि " विललाप पुनः पुनः । राजभिर्वाधितः कृच्छ्राद्गत्वा वासं कुशास्तरे || ४१२ | नीत्वा निशां प्रगे कालं कर्तुमैषीत्सुदुःखितः । आगत्योवाच राजन्यान् “ किमेवमिह तिष्ठथ ? ।। ४१३ ॥ भवद्भिर्विहितं कृत्यं कुमारान्वेषणादिकम् । याताऽयोध्यां समर्प्यतां कुमारोपार्जितां श्रियम् ॥ ४१४ ॥ सेव कोशलाधीशं, काल: कार्यो मयाऽधुना. " ।
इत्युक्त्वा सैकतं नत्वा जगामात्रान्तरे द्रुतम् । प्रविश्य हर्षितो दण्डी तमुवाच कृतानतिः ॥ ४१५ ॥
46
'कुमार ! परितोषाख्यो लेखवाहोऽयमागतः । पार्श्वत्किमल गुप्तस्य हरिवाहनवर्त्तिवित्. " ॥ ४१६ ॥
तुष्टोऽथ तं समाहूय, तेन नत्वार्पितं पुरः | लेखमादाय सर्वेषां वाचयामास शृण्वताम् ॥ ४१७ ॥
पाठावसाने संवृत्य, तमप्राक्षी, " दयं कुतः । प्राप्तः १ " इत्यथ सोऽवादीद् - " देव १ वच्मि, निशम्यताम् ||४१८ ॥
46
'कुमारः क्वापि नास्तीति " प्रवृत्तायां जनश्रुतौ । अतीतेऽहनि मध्याह्ने, क्रन्दत्सु नृपसूनुषु ॥ ४१९ ॥ प्रसादवित्त के लोके मर्त्तुमुचलिते सति । श्रवः कटुषु 'हा कष्ट' शब्देषु च विशादिषु ॥ ४२० ॥
For Private and Personal Use Only
Page #32
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
श्री तिलक मञ्जरी ॥१५॥
*-%
www.kobatirth.org
सेनाधिपोऽश्रुपूर्णाक्ष निविष्टः स्वगृहाजिरे, | अपश्यदवनौ लेखमकस्मादिममग्रतः ॥ ४२१ ॥ दृष्ट्वा नामाक्षर श्रेणी कुमारस्यातिविस्मितः । उद्वेष्टय राजपुत्राणां पुरः स्वयमवाचयत् ॥ ४२२ ॥ "स्वस्त्यव्या महाराजनन्दनो हरिवाहनः । निजे लौहित्यकुलस्थे स्कन्धावारे विजेतरि ।। ४२३ || कुशली निर्दिशत्येवं युवराजं ससैनिकम् । अत्रैवावस्थितिः कार्या वासराणि कियन्त्यपि ॥ ४२४ ॥ तनुर्न बलेशनीया च मय्यनिष्ट विकल्पनात् । ममापहारवृत्तान्तः पित्रोः प्राप्यश्च न श्रुतौ " ॥ ४२५ ॥ अथ संहृत्य तं लेख " केनानीतः ? " इति ब्रुवन् । लिखित्वा, प्रतिलेखं च निवेश्य मणिपीठके, ॥ ४२६ ॥ उवाच - "येन केनापि दिव्यलोकाधिवासिना । अयं लेख इहानीतः, प्रतिलेखं नयत्वसौ.', ॥ ४२७ ॥ थाकस्मात्समुत्तीर्य कश्चिच्चूततरोः शुकः । चञ्चपुटे तमादाय झगित्युत्पतितो नभः ॥ ४२८ ॥ सविरमयश्वनाथोऽप्याश्वासनविधित्सया । सलेखं प्रेषयामास मां त्वत्पादयुगान्तिकम्. " ।। ४२९ ॥ युवराजोऽपि सन्तोषदानं दत्वा विसृज्य तम् । स्नातो विहितदेवाचें बुभुजे स परिच्छदः ॥ ४३० ॥ लेखे धात्वक्षरालोकात् वर्णचूर्णावचूर्णिते । उहे तेन कुमारस्य दिव्योचितवनस्थितिः ॥ ४३१ ॥ अथ सङ्कल्पयामास - " वैताढ्यमनुयाम्यहम् । ग्रामाश्रमपुरा रण्योज्झितमार्गो विमार्गयन ॥ ४३२ ॥ सैन्यं न शक्यते नेतुं मार्गस्य विषमत्वतः, । यियासौ सर्वलोके तु स्तोकान्नेतुमसाम्प्रतम्. ॥ ४३३ ॥ अतोsनापृष्टसन्धुरसंस्थापितसैनिकः । रात्रौ यात्राविधानेन स्वार्थसिद्धिं करोम्यहम् " ॥ ४३४ ॥ इति सञ्चिन्त्य सञ्जाते निशीथेऽसिलतासखः । सितक्षौमधरो विभ्रवान्दनीं च ललाटिकाम् || ४३५ ॥
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
कथा सार
॥१५७
Page #33
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यञ्जितारब्धसिद्धिश्च स्फुरदक्षिणबाहुना । कुबेरवल्लभामाशामूरीकृत्य विनिययौ. ॥ ४३६ ॥ युग्नम् उद्गते नलिनीबन्धावन्वेषकजिहासया । उत्पथेन पथि गच्छन्नवाप गहनाटवीम् ॥ ४३७ ॥ ततो गिरिणदीस्नायी, फलाशी, निर्झराम्भसाम् । पायी, गिरिगुहाशायी, समुत्थायी द्विनारवैः ।। ४३८॥ गच्छन्मित्रवराख्येन कृतातिथ्योऽतिगौरवात् । प्राग्ज्योतिपाधिपभ्रात्रा, पश्यंश्च विविधान्नरान् ।। ४३९ ॥ क्वचिच्छृङ्खलकग्रीवान् क्वचित्तुरगतुण्डकान् । क्वचिल्लोमविलुप्ताङ्गान् क्वचिदेकांहिचारिणः ॥ ४४० ।। पण्मासान् गमयांचक्रे, समाक्रामन् स उत्तराम् । मन्यमानस्तृणायैव तन्नो शीतातपक्लमम्. ॥ ४४१॥ अथैकशृङ्गनामास्ति गिरिर्वताढयसन्निधौ । अष्टापदाभिधं शैलं पश्चिमेन मनोहरः. ॥ ४४२ ॥ तच्छृङ्गवर्मना गच्छन् निदाघ समागमे, । ददर्शादृष्टपाराख्यं दृष्टिप्रीतिकरं सरः. ॥ ४४३ ॥ डिण्डीरपिण्डपाण्डिम्ना स्मयमानं तदागमे । नृत्यन्नभस्वदुद्भुतहारिनीरजराजिभिः, ॥ ४४४ ॥ वदत्स्वागतमुल्लासिमरालललनारुतैः, । क्षिपदर्घमरुत्तीरविसारिजलसीकरैः ॥ ४४५ ॥ तत्रोल्लासिघनानन्दः स्नात्वा तीरभुवि क्षणम् । सुधापानोकहच्छाये विकीर्णनलिनच्छदः ॥ ४४६ ॥ स्वमे प्रपौढिमायान्तं पारिजातमहीरुहम् । अपश्यत्कल्पलतया समीहितसमागमम् ॥ ४४७ ।। प्रबुद्धश्च, समं सख्या निरचषीत्समागमम् , । अकस्मादथ शुश्राव हयवृन्दस्य ड्रेषितम् . ॥ ४४८ ॥ सज्जिज्ञासां परिज्ञाय प्रस्तुते विनकारिणीम् । विकटैः पदविन्यासः प्रतस्थे पुनरुतराम् ॥ ४४९ ॥ पाणेः प्रदक्षिणोत्तीर्णर्मनसा सप्रसत्तिना । स्फुरता दक्षिणाक्षणा च विद्धगमनोद्यमः ॥ ४५० ॥
For Private and Personal Use Only
Page #34
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
श्री तिलक मञ्जरी
||१६||
www.kobatirth.org
अथ हारीतदात्यूहच कोरकुलसङ्कलम्, । केलिकोकिलचक्रालिक्रौञ्चचातकराजितम् ॥ ४५१ ॥ लवङ्गपूगनारङ्गमातुलिङ्गनिरन्तरम् । तमालवकुलाशोकलकुचैलावनावृतम् ॥ ४५२ ॥ लीलाकन्दलितध्वान्तं, शैत्यकेलिनिकेतनम् । आलुलोके वरारामं कस्तूरीतिलकं भूवः ॥ ४५३ ॥ तदन्तर्दीप्ररत्नौघचीनांशुकमनोरमम्, । अद्राक्षीत्कल्पवृक्षाणां खण्डमाराममण्डनम् ॥ ४५४ ॥ तस्यापि मध्यभूभागे भासिताशेषदिग्मुखम् । शोणाश्मकूटसङ्घातैः कृतसन्ध्यासमागमम् ॥ ४५५ ॥ पीठबन्धेन तमसो दत्तवैभवम् । चन्द्रमः कान्तसोपानैश्चन्द्रांशुचयचञ्चुरम् ॥ ४५६ ॥ स्फुरत्तारावली रम्यं मुक्तमुक्तावचूलकैः । हेमप्राकारदीधित्या नित्योदितदिवाकरम् ॥ ४५७ ॥ 'राजराजस्य सर्वस्वव्ययेनापि किमीदृशम् । भवेन्न वेति' लोकानां दत्ततर्क विलोकनात् ॥ ४५८ ॥ देवायतनमद्राक्षीन्निर्मानुषममानुषे । भुवने सुलभालोकमनालोकितमन्यदा. ॥ ४५९ ॥ हिरण्यशृङ्खलानद्धवज्रघण्टातिचारुणः । दह्यमानागुरुस्तोमधूमध्याममणियुतः || ४६० ॥ तस्य प्रविश्य मध्ये ऽथ मणिसिंहासनस्थितम् । कस्तूरीपङ्कसङ्काशकुन्तलालङ्कतास्यकम् ॥ ४६१ ॥ भामण्डलप्रभापुञ्जेर्देषा ज्योसिततामसम् । छत्रत्रयीविनिनीं तत्रिलोकीप्रभुतोदयम् ॥ ४६२ ॥ शरण्यं, साकृति, शान्तं, तेजसा जितभास्करम् । अपश्यन्मणिनिर्माण, श्रीयुगादिजिनाधिपम् ॥। ४६३ ॥ उद्दामानन्द कन्दोयदङ्कराकारिकण्टकम् । सर्वाङ्गमथ विभ्राणः स्तुतिं कर्तुं प्रचक्रमे ॥ ४६४ ॥ ' श्रीमन्नाभिकुलाकाशप्रकाशनदिवामणे ! । प्रणेतः ! सर्वनीतीनां युगादिपुरुषोत्तम ! ॥ ४६५ ॥
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
कथा सार..
॥१६॥ -
Page #35
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अटति भवाव्यामनन्तकरुणानिधे ! । विधेहि विश्वनाथ ! त्वमनाथे मयि नाथताम् " ।। ४६६ ॥ [ शुष्कशिखरिणि कल्पशाखीव, निधिरधनग्राम इव, कमलखण्ड इव मारवेऽध्वनि भवभीमारण्य इह वीक्षितोऽसि । मुनिनाथ ! कथमपि दृष्टे भवति नयनसृष्टया सममय जन्म जिन ! सफलमभून्मम । अकृतपुण्यमपि सुकृतजनं प्रति लघुमात्मानमवैमि न संप्रति । ]
स्तुत्वा च दक्षिणाशायामध्यास्य मणिजालकम् । उत्कीर्णी स्फाटिके पट्टे प्रशस्ति क्षणमैक्षत. ॥ ४६७ ॥ अचिन्तयच्च " नियमादिदं देवविनिर्मितम् । एतच्च कारितं येन, सरस्तेनैव खानितम् ॥ ४६८ ॥ अष्टादशलिपि त्यक्त्वा प्रशस्ताप्यक्षरावली । व्यक्तापि नोहितुं शक्या, दृष्टपूर्वेव किन्तु मे. " ॥ ४६९ ॥ इत्यादि चिन्तयन्नेव शुश्राव श्रुतिपेशलम् । हरिवाहननामाङ्कं श्लोकं केनाप्युदीरितम् ॥ ४७० ॥ अथ विस्मयमापन्नो जगत्यामेव पर्यटन । आलुलोके मठं दिव्यं रत्नवातायनैर्वृत्तम् ॥ ४७१ ॥ अपश्यत्तत्र सद्वेषं, सतोषमतिगर्वतः । गन्धर्वकमधीयानं लीलया द्विपदीमिमाम् ।। ४७२ ॥
" आकल्पान्तमर्थिकल्पद्रुम ! चन्द्रमरीचिसमरुचिप्रचुरयशोऽशुभरितविश्वम्भर ! भरतान्वयशिरोमणे ! || ४७३ ॥ जनवन्द्यानविद्याधर ! विद्याधरमनस्विनीमानसहरिणहरण ! हरिवाहन ! वह धीरोचितां धुरम्. ॥४७४॥ तेनाथ प्रत्यभिज्ञाय प्रणतः प्रीतचेतसा । मत्तवारणमध्यास्य तमुवाचासमस्थितम् ॥ ४७५ ।।
"
" प्रातरेवागमिष्यामी " त्याभाष्य हरिवाहनम् । गतेन किं कृतः क्षेपः सखे गन्धर्वक ! त्वया ? ॥ ४७६ ॥ किं वा तत्र त्वया दृष्टं ? क्वास्ते वा चित्रमायकः ? । कथायमचल: १ स्वच्छं केनेदं खानितं सरः १ ॥ ४७७ ॥
For Private and Personal Use Only
Page #36
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री तिल-४
कया
क मञ्जरी ॥१७॥
प्रासादः कस्य दिव्योऽयं ? मठस्योपरिभूमिकाम् । कोऽधितिष्ठति ? संलप्य येन सार्द्धमिहागतः " ॥४७८॥ क्षणं विलम्ब्य सोऽवादीदा-"स्तां तावदियं कथा, । उत्तिष्ठ ! भ्रातरं पश्य खेचरालिनुतक्रमम्. ।। ४७९ ॥ अनुश्रोतासि मदृत्तं, देवोऽपि हरिवाहनः । वैताट्यशिखरे राज्यं प्राप्याद्यैव समाययो. ॥९८०॥ इत्युक्ते हेलयोत्तीर्य शेषप्रासादवर्तिनीः । पद्मरागमहानीलपुष्परागेन्दुकान्तजाः ॥ ४८१ ॥ अश्मगर्भेन्द्रनीलादिघटिताः स्फुटरोचिषः । अजितादिजिनेशानां प्रतिमाः प्रणमन् मुहुः ॥ ४८२ ॥ गन्धर्वकोपदिष्टाध्वा गच्छन् , वृन्दमथावर्ताम् । पश्यन्नचिन्तयत्-"नूनमेषा हेपा मया श्रुता." ॥४८॥ विशेषकम् . अथ गीतस्य झात्कारं, वीणावेणुरवानुगम् , । शुश्राव श्रुतमुद्वक्त्रमृगर्मीलितदृष्टिभिः ॥ ४८४ ॥ अनन्तरं च हारीच (?) हरितं कदलीगृहम् , । अपश्यदङ्गणासीनभूरिभूपपरिच्छदम्. ।। ४८५ ॥ अद्राक्षीदस्य मध्ये च निविष्टं हरिवाहनम् । सलील वारनारीभिरुद्धृतसितचामरम्. ॥ ४८६ ॥ खिद्यत्सखीजनोत्सङ्गनिःसहक्षिप्तदेहया । तल्पे कमलपत्राणां चन्दना शयानया. ॥ ४८७ ॥ देहोत्तापातिरेकेण शुष्कचन्दनपङ्कया । नवीनवयसा पार्श्वेऽलङ्कतं नृपफन्यया ॥४८८।। युग्मम् भीत्या गन्धर्वकेणाथ निवेदिततदागमः । हरिवाहन उत्तस्थावासनात् , तं ददर्श च. ॥ ४८९ ॥ मृदुवल्कलसंवीतं, वल्लीनद्धोर्ध्वमूद्धजम् , । वातोद्धृतलतापुष्परेणुधूसरविग्रहम् ॥ ४९० ॥ धैर्यावष्टम्भसौहार्दपौरुष्यादिगुणावलीम् । द्रष्टुं समुदितां धात्रा कौतुकादिव निर्मितम् , ॥ ४९१ ॥ अथानन्दाश्रुबिन्दूनां सन्दोहैरर्थकल्पनम् । कुर्वन्मुक्तामयं सद्यः प्रत्युद्गम्य प्रमोदतः ।। ४९२ ॥
For Private and Personal Use Only
Page #37
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नमत्तमवनीचुम्बिशिरसोक्षिप्य सादरम् , | आलिङ्गय विष्टरस्यार्दै समक्षिप्य न्यवेशयत् ॥ ४९३ ॥ राजपुत्रीमवादीच-" देवि ! सिंहलशासितुः । चन्द्रकेतोर्महीभर्तुः सूनुर्वीरवराग्रणीः, ॥ ४९४ ।। चरो मलयसुन्दर्यास्त्वत्स्वसुः स्वेच्छया वृतः, । स एष समरकेतुर्दुःखित्वं यं विना मम." ॥ ४९५ ॥ इत्युक्ते युवराजस्तामनंसीत्, सापि चक्षुषा । ससम्भ्रममपश्यत्तं चिरं निश्चलपक्ष्मणा. ॥ ४९६ ॥ अत्रान्तरे प्रतीहारी तां प्रविश्य व्यजिज्ञपत- " श्रुत्वान जीवितत्यागं देव्या श्रीपत्रलेखया ॥ ४९७ प्रहितः कञ्जुकी द्वारे तिष्ठतीति "ततश्च सा । निर्यातोत्तरमप्राप्य, कोऽप्यथार्यामिमां जगौ, ॥४९८॥ " तव राजहंस ! हंसीदर्शनमुदितस्य विस्मृतो नूनम् । सरसिजवनप्रवेशः समयेऽपि, विलम्बसे येन. ४९९॥" श्रत्वोवाच कुमारस्तां “देवि ! विद्याधरे पुरे । प्रवेशलग्नमाचष्टे विराधोऽयं ममाधुना ॥ ५० ॥ तदादिशाहं गच्छामि, त्वं च देवीं विलोकय." । इत्युक्त्वा विष्टरात्सुतजयध्वानैः सहोत्थितः ॥५०१॥ आरुह्य करिणीपृष्ठं समं समरकेतुना, । व्योम्नि तालीवनं कुर्वन वातोत्ताण्डवितध्वजैः, ॥५०२॥ सेनया व्योमयायिन्या नि?षमपरेण च । दिक्पालानामकुर्वाणः कर्णाक्षिपुटपीडनम् , ॥५०३॥ शिखण्डिकोकिलपायपतत्रिकुलसङ्कलाम् । कस्तूरिकामृगप्रायश्वापदापादितश्रियम् , ॥५०४॥ किन्नरमायसीडद्वनेचरविराजिताम् , | चन्द्रकान्तविनिष्यन्दप्रायनिझरवाहिनीम् , ॥५०५॥ गवर्कोद्गीर्णसप्तार्चिप्रायदावानलोद्गमाम् , । कान्तारदेवताश्वासपवनप्रायमारुताम् , ॥५०६॥ स्फटिकमायपाषाणां, संकलमायभूतलाम् , । अन्तरालाटवीं पश्यन्वैताढयस्यैकशृङ्गतः ॥५०७।।
For Private and Personal Use Only
Page #38
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
श्री तिल | क मञ्जरी ॥१८॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पट्टांशु कध्वजाजाल विराजितनिकेतनम् । आससादोत्तरश्रेणौ पुरं गगनवल्लभम् ॥ ५०८ ॥ चन्द्रशालां समारुह्य पौरनारीभिरचितः । कटाक्ष कुसुमक्षेपैः प्राप राजनिकेतनम् ।। ५०९ ॥ तत्र विद्याधरैर्द्वन्दैर्विहिताशेषमङ्गलः | सन्मान्य नागरं लोकं ययौ भोजनमण्डपम्. ॥ ५१० ॥ स्नातो, भुक्तः, सताम्बूलः कृतसान्ध्यो यथाक्रियम् । स्थित्वा सभायां, वेलायां सम्माप चित्रशालिकाम् ॥५११ ॥ सिंहलेन्द्रसुतात्पृष्टवृत्तान्तः शयितः क्षणम् । चारणोच्चारितं प्रातरिमं श्लोकमशुश्रूवत् ॥५१२ ॥ " देव ! प्रद्योतनः प्राप त्वत्मताप इवोदयम् त्वद्विषामिव घूकानां बभूवान्धा जगत्रयी ॥ ५९३ ॥ शृत्वा च तं समुत्थाय सहसेनापरिच्छदः । वेताढ्यमारुरोहास्य वीक्षितुं रामणीयकम् ॥ ५१४ ॥ अम्भोदध्वानगम्भीरध्वनिना गिरिकेकिनः । नत्र्त्तयन्नपटच्छ्रो कमथामुं कोऽपि मागधः ।। ५१५ ॥ " किमस्य भूभृतो देव ! दृश्यं तुल्यान्यभूभृतः । त्वमेवातुल्यमहिमा हृदयो मध्ये महीभृताम् ॥ ५१६ || " तच्छ्रुत्वावाच सानन्दं सिंहलाधिपनन्दनः । " कुमार ! साध्वनेनोक्तं भुवि वर्ण्यस्त्वमेव हि ॥५१७॥ यतो भुजासहायेन मितैरेव दिनैस्त्वया । प्रापितं खेचरानीकं विद्यादेव्यश्च वश्यताम् ? ॥ ५९८ ॥ तदाचक्ष्व - 'तदा तस्माल्लौहित्यगिरिकाननात् । क दुष्टकरिणा तेन हृत्वा नीतः ? कथं स्थितः १ ॥ ५१९ ॥ लेखो दत्तः कुतः स्थानात् ? किं दृष्टं ? सम्पदः कथम् ? । जिनालयवने दृष्टा का वा सा राजकन्यका ? " ६२० युग्मम्. इति पृष्टो विहस्याथ जगाद हरिवाहनः । " युवराज ! वदाम्येषः, शृणु, चेदस्ति कौतुकम् ॥ ५२१ ॥ स पश्यतस्तवाकस्मात् मयारूढो तदा करी । किञ्चिद् गत्वाग्रतो वेगादुत्पपात नभस्तलम्. ॥ ५२२ ॥
For Private and Personal Use Only
कथा सार.
॥१८॥
Page #39
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तस्यातिरंहसा चाहं गण्डशैलसमाचलाम् । दूर्वानिभमहारामां नईलोपमसागराम ॥ ५२३ ॥ निर्मोकप्रायगङ्गादिमहासिन्धुं वसुन्धराम् । पश्यन्नकट्यत: क्वापि ताप्यमानोऽकरश्मिभिः ॥ ५२४ ॥ वितीर्णमांसलरछायः क्वचिदम्भोदमण्डलैः । क्वचित्सिद्धाध्वगद्वन्दैर्दत्तावा करिसाध्वसात् ॥ ५२५॥ एकशृङ्गगिरेः शृङ्गनभोभागे व्यचिन्तयम् । “केनाप्यधिष्ठितो नूनमेष दैत्यादिना करी. ॥ ५२६ ॥ व्यावर्त्तयामि तदिम यावद्याति न दूरतः" । इति ध्यात्वाऽक्षिपं पाणि दक्षिणं क्षुरिकां प्रति. ॥ ५२७ ।। दृष्ट्वा च तां समुत्खातां तडित्तरलरोचिषम्, । सरस्यदृष्टपाराख्ये स पपातार्तनादवान. ॥ ५२८ ॥ तत्क्षणाच्च तिरोभूतस्ती• स्नातोऽहमप्यथ । क्षणं विश्रम्य तत्तीरे, ध्यायन् संसारचित्रताम् ॥ ५२९ ॥ निराशो निजदेशाप्तावाश्रमादि निरीक्षितुम् । उरीकृत्य दिशामेकामचलं मन्थरक्रमैः॥ ५३० ॥ पदणीरथापश्यं सैकते ललिताकृतीः । सलक्षणां पदणी तासु चैकामनुव्रजन् ॥ ५३१ ॥ अद्राक्षं बहलामोदमेकमेलालतागृहम् । उल्लासिपल्लवव्यूहः कृतसन्ध्यासमागमम् ॥ ५३२॥ कृतस्थितिश्च तद्वारि अगित्यन्तव्यलोकयम् । हृतहेमरसच्छायं प्रभापटलसङ्गमम् ॥ ५३३॥ वन्यौपधिप्रभाशङ्की चक्षुषी तत्र चाक्षिपम् । पुष्पावचायिनीमेकामपश्यमथ बालिकाम् ॥ ५३४ ॥ चन्द्रपङ्कजपीयूषरम्भाया वस्तुजातयः । विलोक्य वेधसा शङ्के बहुशस्तां विनिर्मिताम् ॥ ५३५ ॥ मदीयलोचनापातजातसर्वाङ्गवेपथुम् । तामवोच-"शुभे का त्वं ? किमेका निर्जने वने ? ॥ ५३६ ।। मा भैरह न दैत्यादिर्भवती हर्तुमागतः, । तनयो दिगन्तख्यातेर्मेघवाहनभूभुजः ॥ ५३७ ॥
For Private and Personal Use Only
Page #40
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
श्री तिलक मञ्जरी ॥१९॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
T
हरिवाहननामा, कृत्य व पेण हतः केनापि वैरिणा ॥ ५२८ ॥ शस्त्रिकादर्शनोत्रासान्निक्षिप्तश्च सरोवरे, । पदमुद्रानुमानेन भुवमेतां समागतः ॥ ५३९ ॥ विशेषकम् जातलोचनसाफल्यस्त्वां पृच्छामि, वदाधुना । कोऽयं देशो ? गिरिः को वा ? किं सरः ? कोऽत्र भूपतिः १ ॥ ५४० ॥ अथानतमुखी स्थित्वा मुहूर्त्तमकृतोत्तरा । दत्तमार्गा मया स्तोकं स्पृशन्ती वामतस्तनुम् ॥ ५४१ ॥ सकालकूटपीयूषच्छटां कूटिलवीक्षितैः । मोहाहादकरैः क्षिप्त्वा मयि द्रागेव निर्गता ॥ ५४२ ॥ युग्मम् " लोकाचारानभिज्ञत्वाद् वाङ्मात्रेणापि हीनया । किमेतयेति " सञ्चिन्त्य प्रस्थितोऽहमचिन्तयम् ॥ ५४३ ॥ " इदं वनमयं कन्याऽदृष्टपारमिदं सरः । अहो चित्रपटालेख्यसंवादं सर्वमश्नुते. " ॥ ५४४ ॥ इति सञ्चिन्त्य तां द्रष्टुं प्रतीपमगमं पुनः । अन्विष्याध्याप्ततद्वार्त्तो दिनशेषे सरोऽवजम् ॥ ५४५ ॥ प्रक्षाल्य चरणौ, स्मृत्वा देवतां, खादुकन्दलान् । मृणालिन्याः समास्वाद्य सुधारसमयं पयः ॥ ५४६ ॥ तस्यैव रक्ताशोकस्य प्रियास्पृष्टस्य सन्निधौ । विधाय पल्वैस्तरूपमहपनिद्रोऽस्वपं निशि ॥ ५४७ ॥ युग्मम् तामन्वेष्टुं पुनः प्रातर्भ्रान्त्वा सकलकाननम् । निःप्रत्याशः समारुह्य तटमेकं व्यलोकयम्. ॥ ५४८ ॥ अथोत्तरे सरस्तीरे पक्षिक्षोभकुतूहलात् । गत्वा दृष्ट्वा च तत्रार्द्राः पदश्रेणीर्विनिगतीः ॥ ५४९ ॥ ताभिर्गच्छन् पुरोऽपश्यं प्रासादं पद्मरागजम् । गन्धर्वकानुयातेन दृष्टोऽहं यद्वने त्वया ॥ ५५० ॥ युन्मम् तत्र देवं नमस्कृत्य निविष्टो मत्तवारणे । अपश्यं लोललावण्यामेकां तापसकन्यकाम् ॥ ५५१ ॥ सद्यः कृताभिषेकस्य पूजितस्य नवाम्बुजैः । पुरो नाभेयनाथस्य निवद्धकमलासनाम् ॥ ५५२ ॥
For Private and Personal Use Only
कथा सार.
१॥१९॥
Page #41
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
S
AMAKOSxee
दिव्यवल्कलसंवीतां, किश्चित्मुकुलितेक्षणाम् , दधानां दक्षिणे पाणौ स्थूलमुक्ताक्षमालिकाम् ॥ ५५३ ॥ युग्मम् अथासौ जपविध्यन्ते परिचारिकया युता । जगतीपतिमापूजां कृत्वाऽऽयाता पुरो मम. ॥ ५५४ ॥ कृत स्वागतमाचख्यो-“पवित्रय ममाश्रमम् "| तयेत्यभिहितोऽगन्छमथाहमपि तन्मठम् ।। ५५५ ॥
आतिथ्यान्ते सुखासीनः पृष्टो वृत्तान्तमब्रुवम् , | अत्रान्तरे नभोमध्यमारुरोह नभोमणिः. ।। ५५६ ॥ कृत्वा मध्यान्हकृत्यं सा मयि पूजितदेवते । उपनीतवती स्वादुसुरशाखिफलोत्करम्. ॥ ५५७ ॥ भुक्त्वा चान्ते स्वयं कृत्वा वृत्ति मूलफलादिभिः, । ममान्तिकं समागत्य चकारासनसङ्ग्रहम् ।। ५५८ ॥ उक्ता मया क्षणं स्थित्वा-"तावकीयं सुशीलता | विदधाति महाभागे ! ममाकस्मिकचापलम् ॥ ५५९ ॥ वद, कस्तव सवंशः ? कानि नामाक्षराणि वा ? वैखानसत्तं किं वा ? विद्वेषो विषयेषु किं ?" ॥ ५६० ॥ इत्युक्ते सहसा तस्यास्तरुणार्ककराहता । ताराश्रेणिरिव प्राच्याः पपाताश्रुकणावलिः ॥ ५६१ ॥ मयाऽथ सविषादेन समाश्वास्यार्पितजलैः । प्रक्षाल्य वदनं, स्थित्वा, सा वक्तुमुपचक्रमे. ॥ ५६१॥ "यद्यपि प्रागवस्था मे श्रुता दुःखौघदायिनी, । कथयामि तथापीमां शृणु कौतुकिनस्तव.-॥५६२॥ अस्तीह मेदिनीपीठे पुरी काचीति विश्रुता, । चापाचार्यपदं चक्रे पश्चपोर्यधृजनः ॥ ५६३॥ रिपुवीरम्यसीमन्तसिन्दरस्य समीरणः । तस्यां विश्वत्रयीख्यातो राजा कुसुमशेखरः ॥ ५६४ ॥ देवी गन्धर्वदत्तेति तस्यान्तःपुरिकोत्तमा. । तदात्मजाहमेकैव स्वजनोद्वेगकारिणी. ॥ ५६५ ॥ ज्ञानिना वसुरातेन मदुत्पत्तौ निवेदितम्,- 'एषा सम्पत्स्यते काम कन्यका पुण्यभागिनी. ॥ ५६६ ॥
For Private and Personal Use Only
Page #42
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीतिलक मञ्जरी 1.२०॥
कथा सार.
परिणेष्यति यश्चैनमाधिपत्यमसौ क्षितेः । चक्रिणा निहितात्मीयराज्यभारः करिष्यति'. ॥ ५६७ ॥ कृत्वा जन्मोत्सवं तातोऽप्युवाच दशमेऽहनि । भाषयध्वमिमां पुत्री नाम्ना मलयासुन्दरी. ॥ ५६८ ॥ क्रमोपचीयमानाथ स्वीकृताशेषसत्कला । लीलोपदेशनाचार्यमवापं नवयौवनम्. ॥ ५६९ ॥ प्रसुप्ता चन्द्रशालायामेकदा च निशामुखे । दिव्यतूर्यनिनादेन निद्रात्यागमहं व्यधाम् . ॥ ५७० ॥ अपश्यं च मणिग्रावनिर्मितेजिनवेश्मनः । कोणैकदेश आत्मानं नृपकन्याभिरावृतम् ॥ ५७१ ॥ तासु काचिद्विषादस्था, काचित्कौतुकचञ्चला, । काचिद्वातायनासीना, काचिदूर्ध्वकृतस्थितिः, ॥ ५७२ ॥ सक्षोभा च क्षणं स्थित्वा विहाय सहजं भयम् , । तत्रार्द्धजरतीमेकामपृच्छं विनयानता. ॥ ५७३ ॥ "आर्ये ! कः सन्निवेशोऽयं ? के एते रुचिरा नराः ? । कोऽयं मेरुरिवाद्रीणामेषां मध्ये महीपतिः ?" ॥ ५७४ ॥ सोवाच-"वत्से ! द्वीपोऽयं 'पञ्चशैल' इति श्रुतः । वैताढ्यखेचरा एते, पतिरेषामयं पुनः ॥ ५७५ ॥ विचित्रवीर्यनामेति." त्योवते, सहसागतः । दण्डी पवनगत्याख्यः, खेचरेशं व्यजिज्ञपत्.-॥ ५७६ ॥ "देवात्र दीयतां दृष्टिः, कुशस्थलपतेरियम् । पुत्री प्रतापशीलस्य गौराङ्गी कुसुमावली. ॥ ५७७ ॥ इयं च चम्पकच्छाया पुरो मलयसुन्दरी । यादवोऽस्याः पिता काश्चीनृपः कुसुमशेखरः. ॥ ५७८ ॥ एपात्र मगधेशस्य महाबलमहीपतेः । सुतास्ते बन्धुमत्याख्या श्यामाङ्गी मत्तवारणे. ॥ ५७९ ॥ एताश्च स्फाटिकी वेदीमारूढा सरलत्विषः । पुत्र्यः कलिङ्गयङ्गकुलूतादिमहीभुजाम्. ।। ५८० ॥ लीलावतीन्दुलेखाऽथ कामलेखा च मालती, । इत्यादिनामभिः ख्यातिं गता देशान्तरेष्वपि." ॥ ५८१ ॥
For Private and Personal Use Only
Page #43
--------------------------------------------------------------------------
________________
Shri Mahavain Aradhana Kendra
www.kobairth.org
Acharya Shri Kailassagarsuri Gyanmandie
****
अथ ता: रमेरदृग् दृष्ट्वा निकटस्थां विलासिनीम् । आदिक्षचित्रलेखाख्यां राजा तन्मण्डनं प्रति. ॥ ५८२॥ निर्वर्तिते तया तत्र क्षीरोदाद्याहृतैर्जलैः । स्नानं मणिमयैः कुम्भश्चक्रे विश्वत्रयीपतेः. ॥ ५८३ ॥ दध्वनुमन्द्रवाद्यानि वेणुर्वीणाः सहस्रशः, । जगुर्मधुरगायन्यो, ननृतुर्नपकन्यकाः ॥ ५८४ ॥ ननित्या चित्रलेखां तां गच्छन्ती खेचराधिपः । निजासनकदेशे मां समाहृय न्यवेशयत्. ।। ५८५ ।। उन्नमय्याथ चिबुकं, बभाषे कलया गिरा,- “विचित्रस्यास्य नाट्यस्य कुतो वत्से ! तवागमः ?" ॥ ५८६॥ त्रपानतमुखी मन्दं प्रोवा चाह-" पितर्मम । नैको गुरुर्विशेषस्तु शिक्षिता मातुरन्तिके." ॥ ५८७ ॥ "वत्से ! तया कुतो ज्ञाता?" "तात ! खेचरलोकतः" । "वत्से ! केनाभिधानेन प्रसिद्धा जननी तव ?"॥५८८॥ "तात ! गन्धर्वदत्तेति." तच्छुत्वा सचिवोब्रवीत् । वीयमित्राभिधो-"देव ! न सा देवस्य पुत्रिका." ॥ ५८९ ॥ अथावोचन्नृपो-"वत्से ! मानवर्णवयोगुणः । कीदृक् सा ?" "तात ! मानेन नातिहस्वा न चायता. ॥ ५९० ॥ ६ अनुकारस्तु देवस्य किश्चिन्नान्यस्य कस्यचित्."। " वसे ! को जनकस्तस्याः ?" "कश्चिद्वैखानसः पितः ॥५९१॥ "वत्से ! स किं त्वया दृष्टः?" "तात ! लोकाच्च्तो मया" | "किं ते वा न किञ्चित्सा?""पृष्टा रोदिति केवलम्" तेनाथ सचिवः पृष्टः-“सा कस्मादाय ! रोदिति ?"। 'सोऽभ्यबाद-"देव ! तद्ज्ञातौ विपत्तिः कापि कारणम्."५९३॥ 'वत्से ! न किमपि ते यदि सा, तत्कथं त्वया । ज्ञातं-विद्याधरे लोके तस्या नाटयागमोऽजनि ? " ॥ ५९४ ॥ "तात ! विज्ञापयाम्यस्मात्समतिकान्तवत्सरे । मुनिर्महायशा नाम काञ्च्यामयाबहुव्रती ॥ ५९५ ॥ बाह्योद्याननिविष्टं च तं द्रष्टुं मत्पिता गतः, । सर्वे च नागरा लोका जननी च मया सह. ॥ ५९६ ॥
*
****
For Private and Personal Use Only
Page #44
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
श्री तिलक मञ्जरी ॥२१॥
www.kobatirth.org
तया प्रणम्य प्रस्तावे पृष्टं - 'विद्याधरान्वये । भगवन्नहमुत्पन्ना जाते च पुरविप्लवे ।। ५९७ ॥ वियुक्तास्मि सर्वैराप्तैरद्यापि न सङ्गमः । अत आदिश तैयोगो भविष्यति न वा मम ? " ।। ५९८ ॥ " वत्से ! ततः किमाचख्यावसौ ?” “तातेदमुक्तवान् । 'भविष्यत्यचिरादेव' पुनः पृष्टं 'कदा मुने ! १' ।। ५९९ ॥ क्षणं ध्यात्वा क्षिप्तस्मेरचक्षुरथादिशत्- । 'कल्याणि ! तव पुत्रीयं यदा' - इत्यादि किमप्यसौ " ।। ६०० ॥ " आर्य ! किं स्यात्तदादिष्ट" रित्युक्तः सचिवोऽभ्यधात्स - "देव ! आदिष्टो विवाहेऽस्या नूनं त्वद्वन्धुसङ्गमः " ॥ ६०१ ॥ " वत्से ! कस्मान्न पृष्टोऽसौ अज्ञाते कथमागमः ? " । "पृष्टः उक्तं च तात !-' ते स्वयमेवावभोत्स्यन्ते ।। ६०२ ॥ नीत्वा त्वया सहैनां च स्वकीयं च निकेतनम् । अस्याः समुचितं कृत्यं सर्वमेव करिष्यन्ति " | ६०३ ॥ अथ मन्त्री समाचष्टे - "देवेदं ज्ञातमेव हि । सन्देहश्वेत्तदानाय्य तामेव कुरु निर्णयम्. " ॥ ६०४ ॥ " आर्य ! नैवं, परस्त्रीणां यतो निन्द्यं विलोकनम् । चित्रलेखा निराकर्त्ता भ्रान्तिमेषैव तत्सखी. " ॥ ६०५ ।। प्रातः शङ्खोऽथ दध्वान, विसृज्य खेचरप्रभून । सोऽपि विद्याधराधीश आदिदेश निजं नरम् || ६०७ ॥ "अस्याः पवनवेग ! त्वं पुत्र्याः काञ्चीपतेरिह । कृत्वा, गौरवमत्रत्यं सर्व दर्शय कौतुकम् || ६०७ ॥ सहैताभिश्च कन्याभिर्यथास्थानमिमां नयेः " । इत्यादिश्य विमानस्थों जगाम सह खेचरैः ॥ ६०८ ॥ तन्नियुक्त नरोद्दिष्टरम्योद्देशविलोकनम् । कुर्वाणाऽहमपि प्राप तत्राकस्मिकविस्मयम् ॥ ६०९ ।।
तु कृतसेवं तु, कारितं तु स्वयं पुरा । तदायतनमालोक्य प्राविशं गर्भमन्दिरम् ॥ ६९० ॥ तत्र दीपप्रभालोकं निरस्यन्तमभीशुभिः । हरिचन्दनलिप्ताङ्गं सुरद्रुस्रग्भिरर्चितम् || ६११ ॥
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
कथा सार.
||२१|
Page #45
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अपश्चिमं जिनाधीशं वज्ररत्नशिलामयम् । श्रीमहावीरनामानमपश्यं शान्तदर्शनम् ॥ ६१२ ॥ पितृकल्पं तमालोक्य पूर्वाभीष्टस्य कस्यचित् । स्मरन्तीव घनोत्कण्ठाकरवं पुरतः स्तवम्. ॥ ६१३ ॥ आनन्दशोकसम्मिश्रस्वसंवेद्यं दशान्तरं । अनुभूय, सखीवाक्यादथागां द्रष्टुमर्णवम्. ॥६१४ ॥ आरुह्य दक्षिणां भित्ति प्राकारस्य महोर्मिभिः । आरफालिते तले तस्य स्फाटिके चक्षुरक्षिपम्. ॥ ६१५ ॥ अद्राक्षं तत्र नौसंस्थमेकं नृपकुमारकम् । उदन्वसौहृदायातमिन्दुर्देवपथादिव ॥ ६१६ ॥ दक्षत्रिचतुरैरेव सहित परिचारकैः । निद्राक्लान्तैः समन्वीतं कियद्भिः कर्णधारकैः ॥ ६१७ ॥ दृष्टा चाऽचिन्तयं नूनं-"रूपगर्वेण खर्वितः । अनेन पुष्पधन्वापि बद्धो वामे निजक्रमे ।। ६९८ ॥ अथेग्रंया निज रूपमाविष्कर्तुमिव स्मरः । गृहीतसारश्रृङ्गारो विवेश हृदयं मम. ॥ ६९९ ॥ स्तिमितैस्तरलैर्मुग्धैः प्रगल्भैः कुटिलक्रमैः । सरलैः पटुभिर्जिह्मरीक्षणस्तं व्यलोकयम् ॥ ६३० ॥ समार्थनां सवैदग्धां सानुरागां सविभ्रमाम् । सात्मार्पणां सवैधुर्या दृष्टिं सोऽपि मयि न्यधात् ॥ ६२१ ॥ तवाथ कृतादेश एकः कैवर्तको युवा । मां प्रणम्य सविश्वासमवोचच्चतुरं वचः,-॥ ६३२ ॥
"देवि ! सिंहलनाथस्य चन्द्रकेतोस्तनूद्भवः । नाम्नायं समरकेतुरिहायातः प्रसङ्गतः, ॥ ६२३॥ दुष्प्रवेशमपुण्यानां त्वच्चेत इव वीक्षितुम् । वाञ्छत्येष इदं चैत्यं तदादेशय पद्धतिम्. ।। ६२४ ॥ वेश्या वसन्तसेनाख्यामवन्तिनृपसम्मताम् । “ सखि ! ब्रूहि यथावृत्तमस्ये"त्यहमथावदम्. ।। ६२५ ॥ साध्वोच"भद्र ! केनापि रात्रावधैव नायिका । आनीता नस्तथषोऽपि सर्वो भूपसुताजनः ॥ ६२६ ॥
For Private and Personal Use Only
Page #46
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री तिल-5 कमञ्जरीद ॥२२॥
कथा सार
CARE5%ARECHARGAUR
इदमद्धतसौन्दर्य कुमारस्यास्य रूपवत् । अपूर्व चैत्यमेतस्याः, कथं मार्ग वदत्यसौ ?"॥ ६२७ ॥ अत्रान्तरे क्षणं स्थित्वा कर्णधारस्तमब्रवीत् । “दृष्टं द्रष्टव्यमेतत्तर्हि गम्यते शिबिरं प्रति." ॥ ६२८ ॥ स तु मत्सन्निधित्यागमचिकीर्ष-पुनः पुनः । तेनोक्तोऽवोचद्, “अस्वास्थ्यं सखे ! बाढं तनौ मम, ॥६२९॥ प्रतीक्षस्व क्षणमत्रैव कर्पूरपायपादपे, । किन्तु प्रमाणभूस्त्वं मे" सोऽथ भूयोऽप्यभाषत, ॥ ६३० ॥ "यद्येवं गम्यतां शीघ्रमस्य शीतोपचारतः । सन्निपातज्वरस्येव व्याधेः सन्तर्पणं परम् " ॥ ६३१ ॥ इत्युक्त्वाऽचालयस्थानादहमप्यरदं पुन:- “वसन्तसेने ! यत्किश्चिदुक्तेन संनिवर्तय. ॥ ६३२ ॥ अष्टदेव एवास्मिन् याते मलिनता मम । पृष्ट्वा किश्चिदिह द्वारं करोम्यस्य समीहितम्." ॥६३३॥ स तयोचे-"अम्बुधेः क्षोभो, न स्वास्थ्यं च विभोस्तव, । तन्निवर्त्तय नावं स्वां, स्तुत्यैनां च प्रसादयः ॥६३४॥ यद्-गोत्रदेवतेयं ते" तच्छु त्वा सोऽपि नाविकः । “यदादेश" वदन्सद्यश्चक्रे नौविनिवर्त्तनम् ॥ ६३५ ॥ अवादीच निजां नावं-"देवि ! त्वं सगुणा, स्थिरा, । बहुक्षमा, स्कर्णा च, गम्भीरा, पात्रमुत्तमम् , ॥६३६॥ उक्तालचलनोहअनमञ्जीरे भूरिविभ्रमः । विलम्बैश्चलनीतोऽस्वास्थ्यं मम विभुस्त्वया, ॥ ६३७ ॥ तस्मान्मीनध्वजेनेममुच्चापेन समाकुलं । निर्मुक्ततारका त्रातुं त्वमेव सुतनु ! क्षमा, ॥ ६३८ ॥ अमुं त्यजन्ती लघुतामचैतन्याकुलीनते । वक्रतामूर्ध्वमुखतामात्मीयां ज्ञापयिष्यसि, ॥ ६३९ ।। जराजर्जरदन्तस्य कस्यापि प्रान्तभूभृतः । अङ्कं यास्यसि दुर्वातैर्गुरुभिरीरिता, ॥ ६४० ॥ इच्छा चेत्स्वर्णपट्टेऽस्ति द्विधाभावं विधेहि मा । परिच्छदयुता तूर्ण यात्रायामुन्मुखीभव" ॥ ६४१ ॥
RRCREASUR
२२॥
For Private and Personal Use Only
Page #47
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
इत्युक्त्वा तं बलादेव प्रणामं मथ्यकारयत् । सोऽवादीत् - " प्रणति कस्यास्त्वयाहं मूर्ख ! कारितः १ ॥ ६४२ ॥ इयत्प्रसादिता का वा ? " नाविकः पुनरब्रवीत् । " कुमार ! दोषवान्नाहं, साक्षादेवी प्रसादनात् " ||६४३॥ अथा चिन्तयमुद्भूतवैलक्ष्या विफलानना - " सिन्धौ यदि पतत्येष तदा मे पातकं महत् ॥ ६४४ ॥ तस्मात् स्वयंवरो युक्तः. " चिन्तयन्त्यामिदं मयि । विलेपनपटं विभ्रन्पुष्पभाजनसंयुतम् ॥ ६४५ ॥ निर्गत्य राजपुरुषः सभृत्यो जैनमन्दिरात् । मामुवाच - "गृहाणेमां शेषां मलयसुन्दरि ! " ॥ ५४६ ॥ भृत्योऽपि मां पुरोभूय “काञ्चीमध्यमणिस्तव । नृत्यन्त्या च्युतः इत्येनमुररी कुर्वि " त्यभाषत ॥ ६४७ ॥ अभीक्ष्णं भाषमाणं तमवोचं "भद्र ! किं मया । न श्रुतं ? भाषसे येन भूयो भूयः तदेव हि ? ||६४८ || मयाङ्गीकृत एवायं नायकः, किन्तु तिष्ठतु । अहं यावदिहस्थाने, स्वस्थानं तु गता सती ॥ ६४९ ॥ काञ्चीमध्यं समायातं गृहीष्यामि," ततः स्रजम् । समुद्रपूजनव्याजादेकां नृपसुतेऽक्षिपम् ॥ ६५० ॥ द्रवं च चान्दनं क्षिप्त्वा व्यधां स्वस्यापि शेखरम् । सोऽपि कण्ठे खजं कृत्वा तारकं नर्मणाऽब्रवीत् ॥ ६५१ ॥ "किमीक्षसे ? न देयोsस्या लेशोऽपि हि मया स्रजः । इच्छसि चेत्तदा भङ्गघा कयाऽप्यन्यां विमागय, ”॥६५२॥ दुःखमभ्यधात्सोऽपि - " किं याचे ? सपरिच्छदा । तव प्रणयिनी नीता कैश्चिन्मायातिरोहितैः” ॥६५३ ॥ तच्छ्रुत्वा - " किमिदं नर्म ? सत्यं वा ? मां न पश्यति ?” इत्थं वितर्क्स पश्यन्ती नाद्राक्षं राजकन्यकाः ॥ ६५४ ॥ अत्रान्तरे कुमारोऽपि वममालोक्य निर्जनम् । विषण्णोऽप्याहृताकारः कर्णधारमभाषत ।। ६५५ ॥ "सखे ! मारम विषीदस्त्वं कृतं रनेहोचितं त्वया । मन्दभाग्यैरपारतोऽयं कन्यारत्नसमागमः ॥ ६५६ ॥
For Private and Personal Use Only
Page #48
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीतिलक मञ्जरी
॥२३॥
तदतित्वरया गत्वा, स्वदेशं प्रति सज्जय । दृढवर्मचमूनाथ, तातस्यार्पय मद्धनम् , ॥ ६५७ ॥ मातुर्माणिक्यमुक्तादि, पुस्तकानि विपश्चिताम् , । पवित्रभूमावत्रैव देहत्यागं करोम्यहम्." ॥ ६५८ ॥ अथ हाहारवं तत्र विदधत्येव नाविके, । तेनात्मा जलधौ क्षिप्तो लोलकल्लोलमालिनि. ॥ ६५९॥ पतितं तं समालोक्य, सद्यस्तत्सङ्गमेच्छया । प्राकारशिखराज्झम्पामहमप्यम्बुधावदाम् ॥ ६६० ॥ अथ सायं समारूढप्रसादशिखरस्थिताम् । शय्यामधिशयानां स्वामद्राक्ष, जातविस्मया ॥ ६६१॥ श्रीखण्डतिलकस्पर्शादपास्तस्वमविभ्रमा । स्थित्वा विष्टरमध्यास्य ध्यायन्ती तं नृपात्मजम् , ॥ ६६२ ॥ पविश्य सप्रणामाथ सखी मां बन्धुसुन्दरी । अवादीद्, “अद्य दिव्योऽयं तवाकल्पः कुतः सखि ! ॥६६३॥ कथं वा जृम्भिकारम्भः ? कस्माद्वा लोहिते दृशौ । कुतस्तल्पे न दृष्टा च प्रथमायातया मया ?"॥६६४ ॥ "अहं तु मा विधा स्वप्मेऽप्यभिप्रायमिमं सखि !"। इत्युक्त्वा शर्वरीवृत्तं सर्वं तस्यै न्यवेदयम् ॥ ६६५ ॥ निशम्य निर्दृतस्वान्ता साऽपि स्थित्वा ययौ गृहम् । अहं च विस्मयस्मेरा व्यमृशं निजचेतसि. ॥ ६६६ ॥ "तिलकस्यानुभावोऽयं चन्दनस्य, यदेतया । नाहं दृष्टा, तदा तैश्च; हृत्वा नीतेति निश्चिता. ॥ ६६७ ॥ तदोक्तं तेन ' वन्दस्व एनन्मलयसुन्दरि ! | दृग्रहारि हरिचन्दनम् ............." ॥६६८ ॥ पुनरागतया दृष्टा, प्रमुष्टे च विशेषके । " विकल्पोत्थमनैषं तद्दिनं भूपादिना विना. ॥ ६६९ ॥ अन्येार्मामतिम्लानां वभाषे बन्धुसुन्दरी,- । “ मा विषीदः, ध्रुवं भावी सखि ! तत्सङ्गमस्तव. ॥ ६७० ॥ वसुरातवचो व्यर्थ कदाचिन्नैव जायते, । " तदाश्चासनादाहारमथाहमपि नात्यजम्. ॥ ६७१ ॥
AAAAAAACHAASURESMSUNG
13॥२३॥
For Private and Personal Use Only
Page #49
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विवाहस्तरुवल्लीनां, योजने युग्मपक्षिणां, । पूजनैः पुष्पचापस्य, कश्चित्कालो जगाम मे. ॥ ६७२ ॥ एकदा च वसन्तत्तौं स्मरसाम्राज्यदायिनि । विक्रियाकरणप्रौढे वन्यभूमिरुहामपि, ॥ ६७३ ॥ सेवितां बन्धुसुन्दर्या शुद्धान्तपरिचारिका । प्रातः कात्यायनी नामा मामागत्येदमभ्यधात,-॥ ६७४ ॥ " देवी समादिशति-' अद्य भर्तृपुत्रि ! समागता । काम त्रयोदशी, तस्यां पूजायै पुष्पधन्वनः ॥ ६७५ ॥ नहारामं समागच्छेः, कुसुमाकरनामकम् । मन्मथायतने, यात्रा यतस्तत्र भविष्यति. ॥ ६७६ ।। विरहोपशमाय त्वं वज्रायुधचमूपतेः । पित्रा मन्त्रिगिरा दत्ता, श्वो भावी सम्पदानविधिः" ॥ ६७७॥ अहं तु तत्समाकर्ण्य वनेणेव समाहता । प्राप्य मूच्छों, समासाद्य चैतन्यं समचिन्तयम्,-॥ ६७८ ॥ अधिक्षिपामि तं तातं मातरं मन्त्रिणोऽथवा ? । यद्वा ममैव दोषोऽयं पूर्वोपात्तघनांहसः ॥ ६७९ ॥ सञ्चिन्त्याथ तनुत्यागमवोचं चेटिका,-"शुमे ! । सम्पत्युन्निद्रकालस्यं, सायं तत्र मदागमः." ॥ ६८०॥ विसर्जितायां तस्यां च बभाषे बन्धुसुन्दरी,-" नोल्लयो भर्तृपुत्र्येषु मनोभवमहोत्सवः." (?) ॥ ६८१ ॥ तदाग्रहादहं स्नात्वा वसाना पटलांशुकौ । अनुयाता जनधूपं बलवासादिपादिभिः ।। ६८२ ॥ रक्ताशोकतरोर्मूले सुप्रतिष्ठस्य भावतः । गत्वा भगवतः पूजामकार्ष चित्तजन्मनः ॥ ६८३ ॥ आगत्य दृष्ट्वा पितरं, समुपास्य च मातरम्, । एकपात्रे तया सार्द्ध भुक्त्वोद्यानमथागमम्. ॥ ६८४ ॥ वृक्षकैरेणशावोधैः क्रीडाहंसयुगैः सह । भाविनं विरहं मत्वा, तत्रास्थां गाढगद्गदा. ॥ ६८५ ॥ अस्तादिशिखरसस्ते पद्मिनीजीवितेश्वरे । समागमं, निजावासमारोहं सौधमस्तकम् ॥ १८६॥
For Private and Personal Use Only
Page #50
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
18) कथा'
सार,
॥२४॥
SUSANACHRASHURISHISHI
विनिमयो सिता ससि त्वपिनमा
." निर्यातायां ततस्तस्यां, अगित्युत्थाय तल्पतः, । नीवीसंयमनं कृत्वा सौधशृङ्गादवातरम् ॥ ६८८ ॥ मन्दं मन्दमथागच्छमुद्यानं कुसुमाकरम् । वनपालनरभ्रान्ति स्थाणुष्वपि निवघ्नती. ॥ ६८९ ॥ अपश्यं तत्र गत्वा च देवं कुसुमसायकम् । द्वारस्यैवाञ्जलिं पौष्प्यमक्षिपं, प्राणमं च तम् ॥ ६९०॥ पाकारवलयद्वारि सौरभान्धीकृतालिनः । रक्ताशोकस्य शाखायामहं पाशमयोजयम् ॥ ६९१ ॥ कृत्वा च गात्रिकाबन्धं, 'नमस्य चेष्टदेवते (2)। प्राञ्जलिः प्राङ्मुखीभूय व्योमलक्ष्याभ्यधामिदम् , ॥ ६९२ ॥ "लोकपालाः, कुमारं तं विहाय पुरुषान्तरम् । सस्पृहं न मया दृष्टं चक्षुषापीह जन्मनि. ॥ ६९३ ॥ सत्यस्यास्यानुभावेन भर्ता भाविभवेऽपि मे । स एव भूयादित्युक्त्वा कन्धरान्यस्तपाशया ॥ ६९४ ॥ उल्लुत्यात्मा मया मुक्तस्तत उड्डीय पक्षिणः । पक्षक्षेपपटत्कारैर्दाहारवमिव व्यधुः ॥ ६९५ ॥ अत्रान्तरे त्वरायातां शोकावेगविसंस्थुलाम् । क्रन्दन्ती कष्टहाशब्दैरपश्यं बन्धुसुन्दरीम् ।। ६९६ ॥ ग्रन्थिरुद्धगला वक्तुमशक्ता वामपाणिना। न्यषिध्य तां समाक्रन्दात् साप्याजघ्ने उरस्तटीम् ॥ ६९७ ॥ अथोपायमपश्यन्ती गत्वान्वेष्टुं कमप्यसौ । मन्मथायतनं वेगादियत्येव मम स्मृतिः ॥ ६९८ ॥ परतः किं तयाकारि ? का वाऽवस्था ममाऽजनि ? । इति नाज्ञासिषं किश्चिदुद्दामप्रलयोदयात्. ॥ ६९९ ॥ कियत्यामपि वेलायां किं नु संजातचेतना । उद्वहन्ती तनुं स्मेरपङ्कजाङ्कस्थितामिव ॥ ७०० ॥ यो मे वशो, यथा जन्म, यथा वृद्धिर्यथा कलाः, । यथापहारो यामिन्यां, यथा यात्रा जिनालये ॥ ७०१॥
Sl॥२४॥
For Private and Personal Use Only
Page #51
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatrm.org
Acharya Shri Kailassagarsuri Gyanmandie
LIKALACK
विचित्रवीर्यसंलापो यथा वप्राधिरोहणम्, । यथाऽलोकः कुमारस्य, निक्षेपश्च यथा सजा, ॥ ७०२॥ तिलकाधानतन्कालं यथा केनापि हेतुना । तस्योत्प्लुत्याम्बुधौ पातो, यथा तत्पृष्टतो मम ।। ७०३ ॥ इत्यादिकं विलापान्तविनिर्यज्जर्जरस्वराम् । शनैर्वदन्ती मवृत्तमश्रौपं बन्धुसुन्दरीम्. ॥ ७०४ ॥ “कोऽयमाप्ततमो यस्य वदत्येषा कथा मम ? । कस्य चायं तनुस्पर्शः मुधासारमनोहरः ?" || ७०५॥ इति ध्यात्वा यनानन्दा मन्दोन्मीलितलोचना । तमेव सहसाद्राक्षं पूर्वदृष्टं नृपात्मजम् , ॥ ७०६ ॥ मारज्वरोचितं वेपं दधानं सर्वतस्तनौ । वीजयन्तं निजीन्सङ्गे कृतां मां कन्दलैर्दलैः ॥ ७०७॥ व्यतर्कयं च सम्भ्रान्ता " पाशग्रन्थिव्यथातुरात् । ममैव हृदयादेष नूनं प्रादुरभूदहिः." ॥ ७०८ ॥ रसान्तरमनाख्येयं सिद्धसारस्वतैरपि । वेदयन्ती किमप्यापं पुनर्विलतामहम् ॥ ७०९॥ पृष्टा च वन्धुसुन्दर्या देहस्वास्थ्यं पुनः पुनः । कुमारस्याङ्गपर्यादुत्यायारादुपाविशम्. ॥ ७१०॥ सदित्वा (?) साप्यवोचन्मां “सखि ! तेजोऽनुभावता । ज्ञातराजान्वयोत्पादं पश्याएं जीवितप्रदम् ॥ ७११ ॥ खिन्नोऽपि हि ममाक्रन्दं श्रुत्वोत्प्लुत्यास्त्रधारया । छित्वा पाशमधः पाते त्वां प्रत्यैच्छदयं भुवि. ॥ ७१२॥ तदेष उपकारित्वात् प्रणामादिकमर्हति" । इत्युक्त्वा कन्धरापाणि मां प्रणाममकारयत्. ॥ ७१३ ॥ कृतप्रतिपणामोऽसौ वभाषे बन्धुसुन्दरीं । "आशैशवे त्वमेवास्या गतवत्युपकारिताम् ॥ ७१४॥ इदं चायुक्तमेतस्यां महानर्थकरे. मयि, । यदुक्तमुपकारीति वाचा लज्जानिबन्धनम्."॥ ७१५॥ साउयवादीत-"महानर्थहेतुरस्याः कथं भवान् ?" सोबोचत-"शक्यते वक्तुं न रहस्यमिदं मया." ॥१६॥
MSRANASACH
For Private and Personal Use Only
Page #52
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobairth.org
Acharya Shri Kailassagarsuri Gyanmandie
18ो कपा
श्री तिल-3॥ कमञ्जरी ॥२५॥
16सार.
SUSUKKURAKANKS.
तैन तज्ज्ञापने चक्षुर्मन्मुखं प्रति चिक्षिपे. । निभृतं शास्त्तान्ता कर्ण कामहं च ताम्. ॥ ७१७ ।। अथ सा तं समालोक्य पाणिमाकृष्य मामकं । साध्वसोत्सरलं प्रीताऽयोजयत्तस्य पाणिना. ॥ ७१८ ॥ अधान्धिपातादारभ्य जातविश्रम्भया मया । पृष्टः स पूर्ववृत्तान्तमाख्यातुमुपचक्रमे-॥ ७१९ ॥ " तव सुभ्र ! तिरोभावे तदा निपतितोऽम्बुधौ । शुश्रावाम्भोदगम्भीरां वाचमाकस्मिकीमहं-॥ ७२०॥ " कुमार ! किमिदं तीर्थमपश्चिमजिनप्रभोः । प्रपाततीयः सत्त्वानां प्रलयाथैः समीकृतम् ? " ॥ ७२१ ॥ "क एषः ?" इति सञ्चित्य विकासितविलोचनः । प्रहृष्टनाविकां नावं स्वसैन्यान्ते व्यलोकयम्. ।। ७२२ ॥ रात्रावदर्शनाविन्नो राजलोको निनाय माम् । निवास, तत्र चाहानि कियन्त्यप्यवाहयम्. ।। ७२३ ॥ एकदा तु सखेदो मामागत्योवाच तारकः । “कुमारसामविच्छित्य किमुपायो न चिन्त्यते ? ॥ ७२४ ॥ काञ्चीपुरीगमोद्योगस्तत्माप्त्यथ विधीयताम् । किं विस्मृतं कुमारस्य तया यत्मृचितं नदा ? ॥ ७२५ ॥ "काश्चीमध्यं समायान्तं गृहीप्यामीति भाषणात्" । अत्रान्तरे प्रतिहारी मां प्रविश्य व्यजिज्ञपत-॥ ७२६ ।। "चन्द्रकेतुमहाराजपादान्ताल्लेववाहकः । समायातो बहिभूमौ युवराज ! निष्टति." || ७२७ ।। "शीघ्रं प्रवेशये" त्युक्त्वा, सा तं प्रावीविशद्रुतम् । प्रणम्य सादरं सोऽपि पुरतो लेखमक्षिपत्. ॥ ७२८ ॥ तत्र चक्षे-"रिपुमाप्तौ राजा कुसुमशेखरः। द्रविडेशा ययाचेऽस्मान दूतवक्त्रेण मित्रताम् ॥ ७२९ ।। प्रतिश्रुता च सा तस्म, सैन्यं च प्रहितं पुरः । तच्च कल्याणिना गत्वाधिष्ठेयमविलम्बितम्. " ॥ ७३० ॥ अथाख्यं तारकं हृष्ट:-"सखे ! सज्जो भवाधुना. " | तत्क्षणं दत्तयात्रश्च पुरं काची समागमम् ॥ ७३१ ॥
२५it
For Private and Personal Use Only
Page #53
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobairth.org
Acharya Shri Kailassagarsuri Gyanmandie
**********
एकदेशे चमू मुक्त्वा तब पित्रा कृतादरः । त्वदिदृक्षाशयासा व्यचरं परितः पुरीम् ।। ७३२ ।। अद्य तु मातरेवाहं श्रुत्वा यात्रामिहागमम् । अनयं च दिनं चित्रेः कुतूहलविलोकनः ॥ ७३३ ॥ सायं यात्रावसानेज्य प्रेष्य सर्व परिच्छदम् । उपासितोऽनुगैत्रिरत्रैव शयनं व्यधाम् ॥ ७३४ ॥ रात्राविन्दुकरस्पर्शानदाहवरातुरः । साक्रन्दाभ्यर्थनेनास्याः परापं तव सन्निधिम्." ॥ ७३५ ।। इत्युक्त्वा विरते तस्मिन्नभ्यधाइन्धुमुन्दरी- “पिता प्रातरिमां दाता वज्रायुधचम्पतेः, ॥ ७३६ ।। अपहारस्ततः श्रेयो तस्याः" तामभ्यधात्वसो- “साम्यं वज्रायुधेनैव ममैवं कुर्वतो भवेत् ॥ ७३७ ॥ तदत्र तद्विधातव्यं, यज्जायेत समन्जसम्." | अथ प्रापय्य मां गेहं, स यातः शिबिरं निजम्. ।। ७३८ ।। खेचरापहृतेराङ्मदत्तं बन्धुसुन्दरी । अम्बायाः सर्वमाचरव्यौ, तयाप्याख्यायि मपितुः ॥ ७३९ ।। सोऽभ्यधाज्जातवैवर्यो-“देवि ! मन्त्रिगिरा मया । वज्रायुधस्य दत्तेयं, प्रागस्याः सम्पदानकम् ।। ७४० ॥ अस्मै च दीयमानेयं तूर्ण सृजति जीवितम्. । न दीयते यदि त्वेष तदा विघटते रिपुः ॥ ७४१ ॥ तदेष मम सङ्कल्पः-स्वल्पलोकपरिच्छदा । इयं देशान्तरे रात्रावस्यामेव विसर्पति, ॥ ७४२ ॥ प्रकाश्यते च लोकेषु स्मरायतनजागरात् । आयुष्पती यथा प्राणैर्वियुक्ता शूलपीडया." ॥ ७४३ ।। इत्युक्त्वासौ विदल्लेन मामाकार्य सगद्गदः । परिष्वज्य कृतामङ्के स्नेहसारमभाषत-॥ ७४४ ॥ "पुत्रि ! त्वदपहारादि न मां केनापि मूचितम् । माभन प्राणनाशेऽपि त्वां प्रयच्छामि शत्रवे, ॥ ७४५ ॥ किन्तु प्रवासजः क्लेशस्त्वया सद्यः कियानपि. । कुरु वत्से !ऽधुनैव त्वं यात्रां देशान्तरं ति." ॥ ७४६ ॥
***
***
For Private and Personal Use Only
Page #54
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कथा
श्री तिल-31 क मञ्जरी टा ॥२६॥
अथोराच सवित्री मे-“मलयप्रस्थवासिनि । देव ! प्रशान्तवैराख्ये यात्वेषा तापसाश्रमे, ॥ ७४७ ॥ यत्रादावार्यपुत्रेण सहाभूदर्शनं मम, । आस्ते शान्तातपो नाम यस्मिन् कुलपतिः शमी. ॥ ७४८ ॥ तस्मिन्नेषा सुखं स्थात" इत्युक्ते तत्कालसजिताम् । आरुह्य करिणी कैश्चिदनुयातास्त्रपाणिभिः ॥ ७४९॥ तरङ्गलेखया सख्या पित्राधिष्ठितया युता । निरागच्छं क्रमेणाथ परापं तत्तपोवनम् ॥ ७५० ॥ विसर्जितसहाया च त्यक्ताऽशेषविभूषणा । अस्थां तापसकन्याभिस्तत्र नित्यं कृतादरा, ॥ ७५१ ॥ सेचनं बालवृक्षाणामेणकानां विपोषणम् । मार्जनं पर्णशालानां विदधाना यदृच्छया. ॥ ७५२ ॥ अन्यदा याममात्रेऽदि विप्रं कुलपतेः पुरः । वदन्तं तस्य वृत्तान्तमश्रौषं काञ्चीदेशीयम् ॥ ७५३॥ यथा-"कामत्रयोदश्या: प्रदोषे रिपुणा सह । युध्यमानः सयोधोऽसौ शायितो दीर्घनिद्रया." ॥ ७५४ ।। तदाकर्ण्य क्षणं मूर्छामनुभूयाश्रमादहम् । नियाय मुनिभिः शून्यं वेलातटमुपागमम् ॥ ७५५ ।। प्रलप्य सुचिरं तत्र परित्यक्तुमनास्तनुं । वालुकारणित श्रुत्वा पृष्टतश्चक्षुरक्षिपम्. ॥ ७५६ ॥ अपश्यं च स्खलत्पादा रयेण सस्तवल्कलाम् । तरङ्गलेखामायान्तीमम्भपूर्णकमण्डलुम्. ॥ ७५७ ॥ अथ सञ्जातवैलक्ष्या झगित्यासन्नवर्तिनः । म्रियमाणमृतः प्राज्यैः क्रान्तमूलस्य पक्षिभिः, ॥ ७५८ ॥ कालकूटोत्करस्येव पिण्डितस्याब्धिमन्थने । फलं किंपाकवृक्षस्य परिपक्वमखादिपम् ॥ ७५९ ॥ अथ स्वच्छशिलामेकामाश्रित्य समुपाविशम् । ततस्तरङ्गलेखापि पामेत्य निरभर्स्यत्. ॥ ७६०॥ अहं च ध्वस्तचैतन्या कियत्यापि हि वेलया । दुरापास्तवियावेगा विकाशितवती दृशौ. ॥ ७६१
For Private and Personal Use Only
Page #55
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ऐक्षे च दारवीयस्य प्रासादस्यान्तरे स्थिताम् । स्वपट्टांशुकसंछन्नामेकामम्भोजतन्पगाम्. ।। ७६२ ।। दत्तदृष्टिः पुरोभागे प्लवमान निकेतनम् । सरस्यदृष्टपारेऽस्मिन् दृष्ट्वा विस्मयमावहम्. ॥ ७६४ ॥ पुनः कत्तुं तनुत्यागं सर:पातकृतोद्यमा । तेनैव पट्टवस्त्रेण वघ्नन्ती गात्रिकामहम्. ॥ ७६५ ॥ ताडीपत्रमय लेखमपश्यं बद्धमञ्चले । उद्वेष्टय कोतुकेनाथ स्वैरमवाचयम्. ।। ७६६ ॥ . " स्वस्ति, राजाधिराजस्य चन्द्रकेतोः पदाम्बुजे । अलिना युवराजेन नाम्ना समरकेतुना ॥ ७६७ ।। श्रीकाञ्च्यां द्रविडाधीशवंशकैरवचन्द्रिका । निर्वाप्यते निजक्षेमज्ञप्त्या मलयमुन्दरी, ॥ ७६८ ॥ सुभ्र ! कामोत्सवे रात्राबुद्याने तत्र निर्जने । स्मरामि सततं तत्तत्तव विश्रम्भचेष्टितम्. ॥ ७६९ ॥ किश्च विज्ञाप्यतेऽत्रैव साश्लेषं बन्धुसुन्दरी-1 'जितेऽपि द्विपि देवेन कृतो मे न मनोरथः ॥ ७७० ।। [ श्रुत्वात्यद्भुतमस्मदाजिललितं वैतालिकेभ्यः प्रगे प्रीतात्काञ्चीनराधिपात्तव सखीं प्राप्यादरमार्थिताम् । वोढास्मीति मनोरथः रथगयतो वाच्यं तदा योऽभवन्नाऽधन्यस्य जितेऽपि विद्विपि स मे दैवेन संपादितः ॥]" अथ निश्चित्य जीवन्तं प्रियं किञ्चित्प्रमोदभाक । यावत्तिष्ठामि तद्वेश्म तावत्तीरं तरद्गतम् ॥ ७७१॥ ततोऽवतीर्य शौचान्ते कृतदेचिनाविधिः । द्विवानुगायुतामैक्षे नारी परिणताकृतिम् ॥ ७७२ ॥ सा मामाभाषयामास-"वत्से ! मलयसुन्दरि! । कुतस्त्वमिह ? किंचैका ? किमेतत्तव वल्कलम् ?" ॥ ७७३ ॥ अथ श्लिष्टवती गाढमाविर्भूताश्रुसन्ततिः । चिन्तयन्त्यहमप्येनां चित्रलेखेत्यवागमम्. ॥ ७७४ ॥ अत्रान्तरे सितच्छवश्रेणिछन्ननभःपथा। महिषी चक्रसेनस्य सर्वखेचरचक्रिणः ॥ ७७५ ।।
55PESAKALA
For Private and Personal Use Only
Page #56
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कथा
श्रीतिलक मञ्जरी ॥२७॥
सार
पत्रलेखाभिधायाता, सापृच्छत्स्वपरिच्छदम् । “ विमानं वत कस्येदं सुन्दरं हारिचन्दनम् ?" ॥ ७७६ ॥ जगौ मुक्तावली नाम नियुक्ता कोशरक्षणे- “ देवि ! विज्ञायते युक्त्या, गतो यन्मार्गणाविधौ ॥७७७॥ गन्धर्वक: सुबेलाद्री, तत्तेनेदमिहाहृतम् । वासोयुगमिद तस्य भर्तपुच्या यतोऽर्पितम्." ॥ ७७७॥ "क्य वराकः सः ?" इत्युक्त्वा चित्रलेखान्तमागता । सा तु नीचैरपृच्छत्तां-"सखि ! केयं तवान्तिके ?"||७७८॥ अथ निश्वस्य साध्वोचत्-" स्वसा यत्ते यवीयसी । आसीद् गन्धर्वदत्तेति, विदितं तत्तवापि हि-।। ७७९ ।। दशहायनदेशीया सुवेलाद्रौ पितुर्गृहे । सा वसन्ती गता दाक्ष्यं कलासु सकलास्वपि ।। ७८० ॥ कदाचिदथ वैताढये वैजयन्ती निजां पुरीम् । मातामहेन नीतासौ द्रष्टुं लास्यस्य कौशलम्. ॥ ७८१ ।। तत्र भूपेऽभ्यमित्रीणे समेत्य जितशत्रुणा । सामन्तेन रिपोदेत्तोऽवस्कन्दो रजनीमुखे. ॥ ७८२ ।। तामन्तर्वशिकेनाथ दीनां समरकेलिना । आदायान्तःपुराव्योन्ना चेले त्वपितुरालये. ।। ७८३ ।। गच्छता च प्रहारायावतीर्णः तापसाश्रमे । प्रशान्तवरे निक्षिप्योत्सङ्गे कुलपतेश्चमाम् ।। ७८४ ॥ विपन्नः सुगतिः,तां च राजा कुसुमशेखरः । तत्रायातो मुनिप्रत्तां परिणिन्ये यथाविधि. ॥ ७८६ ॥ काञ्ची निनाय चक्रे च पट्टदेवीं, क्रमेण सा । अमूत स्फारलावण्यामिमामेकां तनूद्भवाम् . ।। ७८६ ॥ मलयः परिपाट्यास्याः प्राप्तिहेतुरियं ततः । कृता पित्रा समालोच्य नाम्ना मलयसुन्दरी. ॥ ७८७।। इयं च पञ्चशैलस्थे प्रासादे सुरनिर्मिते । अपश्चिमजिनेशस्य निर्वाणदिवसात्कृताम् ।। ७८८ ।। द्रष्टुं पक्षावधि यात्रां मया तत्रैव यातया । हत्वा विद्याधींना वीक्षिता कार्तिकोनिशि. ॥ ७८९ ॥
HASSASSSSSS***
२७
For Private and Personal Use Only
Page #57
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
+5 98454
www.kobatirth.org
श्रुत्वा च सा मामाश्लिष्य शोकानन्देन सङ्गता । समादाय समागच्छदिदं दिव्यजिनालयम् ॥ ७९० ॥ विधाय देवतापूजां नेतुं गेहमतच्चरत् । ज्ञात्वा च मामिह स्थित्या मुनिकन्यात्रतग्रहाम् ॥ ७९१ ।। मठस्यास्य त्रिभूमस्य मध्यभूमिं वितीर्य मे । इमां चतुरिकां नाम प्रायच्छत्परिचारिकाम्. ।। ७९२ ।। ययों गेहमथारुह्य विमानं हारिचन्दनम् । अहमादिजिनाभ्यर्चामिवास्थां वितन्वती । ७९३ ।। प्रियसङ्गममन्त्रं च जपन्ती प्रतिवासरम् । प्रशान्तवैरद्धाभ्यस्तापसीभ्यः समागतम्. " ॥ ७९४ ॥
इत्युक्त्वा निजवृत्तान्तं विरतायामवादिपम् - |" त्वत्मियः क्षेमवानास्ते नित्यं मलयसुन्दरि ! ।। ७९५ ॥ प्रथमालोकनादर्वा तद्वृत्तं वेद्मि विस्तरात् । सङ्गमो नचिरादेव भविता तेन तेऽधुना ॥ ७९६ ॥
किं त्वेतदेवाविज्ञातं कथं भावीति " साभ्यधात्। " कुमार ! किं तवानेन तत्क्षेमेणैव मे सुखम् ? ॥ ७९७ ॥ दुःखकरोति किं त्वेतदूरीभूतेऽधुना त्वयि । सोऽत्यन्तनिविडमेमा कामावस्थां प्रपत्स्यते ? " ।। ७९८ ।। अथावोचं “ वृथारम्भकार्य मलयसुन्दरि ! | ध्यानं क्लेशफलायैव " सांवाच. “ किमु दुष्करम् ? ॥ ७९९ ॥ लेखसाध्यमिदं, किन्तु न कोऽप्यत्रास्ति सन्निधौ " । अथागत्य शुकः कश्चिदादिशेत्यवदत्पुरः || ८०० ।। तद्वाचाद्भुतमास्यं मेऽपश्यन्मलयसुन्दरी । “विसृष्टजातिः कोऽप्येषः " इत्यहं तु व्यचिन्तयम्. ॥ ८०१ ॥ लिखितं धातुरागेण लेख क्षित्वा तदग्रतः । अवोचं “भद्र ! लौहित्यतटावासिचमृपतेः ॥ ८०२ ॥ प्रायः कमलगुप्तस्य लेखोऽयं गुप्तवृत्तिना " । स तु चञ्चुपुटे कृत्वा तं झगित्युत्पपात खम्. ॥ ८०३ ॥ अत्रान्तरेऽचलन्यस्तधातुमुद्रमिवाम्वरम् । रराजाम्बरमस्तस्थे लोहितायति भास्करे. ॥ ८०४ ॥
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
Page #58
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
श्री तिलकमञ्जरी ॥२८॥
www.kobatirth.org
आगमिनि विधौ पत्यों रजन्या तिमिरच्छलात् । कस्तूरिकारसैलिनं त्रिलोकीमन्दिरोदरम् ॥ ८०५ ॥ अथादिमे निशायामे कृतसायन्तनक्रियः । मठाग्रभुवमारोहमुद्यते रजनीपतौ ॥ ८०६ ॥ प्रदीप पर प्रहरे - रत्नमण्डपिकाजिरे । सन्निविष्टामुपागच्छं ततो मलयसुन्दरीम् ॥ ८०७ ॥ areरिकागत्य त्वरया तामभाषत । " आस्ते चारायणां द्वारि कञ्चुकी भर्तृहारिके ! ।। ८०८ ।। वृते च "बाढमस्वस्थ तनुस्तिलक्रमञ्जरी । मामानेतुमिहाप्रेपी तूर्ण मलयमुन्दरीम्." ।। ८०९ ।। अपृच्छत्तामथास्वास्थ्यहेतुं मलयसुन्दरी । सोवाच “अहमतीतेऽहि रन्तुं वनमयासिपम् ॥ ८१० || सैकते पादचारेण विहृता सापि कौतुकात् । इतश्चेतश्च विक्रीडते तस्याः सर्वः सखीजनः ॥ ८११ ॥ सा तु पुष्पचयव्यग्रा पर्यटन्ती वनावनौ । विशैलालतावेश्म च्छन्नं वनतमद्रुमैः ॥ ८१२ ॥ अथाञ्जनाचलतुङ्गो नभस्तोऽवनताननः । सरस्यदृष्टपाराख्ये पपातातार्कितः करी ॥ ८१३ ॥ तत्याजातिवित्रासो भर्तृपुत्र्याः सखीजनः । पलाय्याचलकुञ्जादों कोऽपि कापि न्यलीयत. ॥ ८१४ ॥ क्षणाद्विभीषिकच्छेदे देवी तिलकमञ्जरी । नतवक्त्रा सलज्जेव लतागेहाद्विनिर्ययौ ॥ ८१५ ॥ स्थित्वा समुल्लसत्स्वेदजलाई वसना क्षणम् । मन्दं मन्दं तदेवासौ लतावेश्म पुनर्गता ॥ ८१६ ॥ क्षणं स्थित्वा तद्वारि समुद्विशा वनभ्रमिम् । विधायोदञ्चितग्रीवं प्रवृत्ता वीक्षितुं दिशः ॥ ८१७ ॥ तां दृष्ट्राऽचिन्तयं - " किं स्यात्सखीमार्गणतत्परा ? । विप्रलब्धाथ केनाप्युदाराकृतिधारिणा ? " ॥ ८१८ ॥ इत्थमाशङ्कमानायां मय्यागत्य सखीजनैः । अनिच्छत्यपि सा नीता विहिताभ्यर्थनैर्गृहम् ॥ ८१९ ॥
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
कथा सार.
||२८|
Page #59
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तत्रापि त्यक्तभुक्त्यादिरनैपीमाक्तनं दिनम्." । इत्युक्ते साध्वसोन्मुक्तावादीन्मलयसुन्दरी-॥ ८२० ॥ "भद्रेऽल्प एव रोगोऽयं, किमकालागमेन मे ? । सह चारायणेन त्वं गत्वाश्वासय ताम्, इतः ॥ ८२१ ॥ ब्रूहि चैनां यथा “ऽऽयातो मेघवाहनभूभुजः । भारतक्षेत्रनाथस्य नन्दनो हरिवाहनः ॥ ८२२ ॥ स्थितो मदनुरोधेन सोऽवैवाद्यतनं दिन, । तमुत्सृज्य ममागन्तुमयुक्तम्" इति नागता." ॥ ८२३ ॥ गतायां च ततस्तस्यां स्वानुभूतनिवेदनः । स्थित्वा शयनशाला स्वां ययौ मलयसुन्दरी. ॥ ८२४॥ अहं त्वगच्छमत्यच्छं तत्रैवायतविस्तृतम् । चन्द्रकान्तशिलातल्पं कल्पवृक्षांशुकाटतम्. ॥ ८२५ ॥ चक्रे च पुनरायाता पदसंवाहनं मम । शनैश्चतुरिका तत्र सुखस्पर्शकराम्बुजा. ॥ ८२६ ॥ " अरे चेतस्त्वया नीतो यत्कृतेऽहं दशामिमाम् । प्रवर्तथास्तथा न स्यामुपहासपदं यथा." ॥ ८२७ ॥ अथ रात्रावतीतायां कोऽपि दिव्यपुमानिमम् । सुश्लोकमपठदुरादायात इव मागधः-।। ८२८ ॥ "प्रभातपायासौ रजनिररुणज्योतिररुणं रुणद्धीदं रोदो दिशि दिशि तमस्ताम्यतितमाम् ।। प्रभाच्छिद्रश्चन्द्रो दलति दलमंत्री जलरुहाम् । रहोऽनुत्साहस्य श्लथय नृप निद्रासुखरसम्." ॥ ८२९ ।। सविस्मयश्च तच्छ्रुत्वा समुत्थायोदिते रवौ । सरस्यदृष्टपाराख्ये स्नात्वोपात्तकुशेशयः ॥ ८३० ॥ देवतायतने तत्र युगादिपुरुषोत्तमम् । कृतपूजः सदाभिर्वाग्भिरस्ताविषं चिरम् ॥ ८३१ ॥ अथेन्द्रनीलवेद्यङ्कमाश्रितायास्तदङ्गणे । गत्वा मलयसुन्दर्या न्यविशं नातिसन्निधौ. ॥ ८३२ ॥ ततश्चतुरिकागम्य माम् नीचर्त्यवेदयत्। “एष्यत्यत्र कुमाराद्य देवी तिलकमञ्जरी. ॥ ८३३ ॥
-
For Private and Personal Use Only
Page #60
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीतिल
कया
कमञ्जरी
सार
॥२९॥
भवदीयगुणश्रुत्या जातं तस्याः कुतूहलम् । आसितव्यं तदत्रैव क्षणं कल्याणमूर्तिना. ॥ ८३५ ॥ बदन्न्यामिदमेतस्यां गर्जद्गजघटाम्बुना । केकिपत्रातपत्रोघेरामूत्रितसुरायुधा ।। ८३६ ॥ दण्डिसौवर्णदण्डालिद्युतिविद्युच्छटोज्वला । केदलीकदलीरम्या वाहवाहोल्लसद्धनी ॥ ८३७ ।। निरन्तरसितच्छत्रबलाकाश्रेणिबन्धुरा । राजहंसमनःक्षोभहेतुरालोकनादपि ॥ ८३८ ॥ घनद्युतानि रचयन्ती धामधामनिधेरपि । वर्षाश्रीदेहबद्धव प्राप विशेषकम् तिलकमञ्जरी. ॥ ८३९ ॥ प्राकारगोपुरद्वारि मुक्तपानपरिच्छदा । नभश्चरभटीवृन्दैः कृतरक्षा समन्ततः ।। ८४० ॥ पार्वे मलयसुन्दर्या प्रविश्य समुपाविशत् । सापि सप्रेम संस्पृश्य कराग्रेणेदमब्रवीत्. ।। ८४१॥ "किमु प्रियसखि ! क्षामा ? किं वाऽस्वास्थ्यस्य कारणम् ? । कुतस्त्यक्तान्यकर्त्तव्या प्रातरद्य समागता?" ॥८४२॥ इत्युक्त्वा मयि निक्षिप्तचक्षुर्लज्जानताननाम् । तामदत्तोत्तरामेव सादरं पुनरब्रवीत् ॥ ८४३ ।। " सखि ! भारतवर्षार्द्धभूभुजः प्रथमोऽङ्गजः । श्रीमेघवाहनस्यायं कुमारो हरिवाहनः." ॥ ८४४ ॥ इत्युक्ते विवलद्रक्त्रा वीची शृङ्गारवारिधः । उल्कां रागहुताशस्य वाणाली पुष्पपत्रिणः ॥ ८४५॥ ज्योत्स्ना लावण्यचन्द्रस्य साभिलाषां सविस्मयाम् । सब्रीडां मयि दृष्टिं सुधादृष्टिमिवामृजत् . ॥ ८४६ ॥ "ततो मृगाङ्कलेखास्याः सखी मलयसुन्दरी वभाषे-“भर्नुपुत्र्यद्य श्रुतैश्चतुरिकामुखात् ॥ ८४७ ।। नाममन्त्राक्षररस्य महाभागस्य तत्क्षणम् । देव्यास्तिलकमञ्जाः शान्तो दाहज्वरोदयः." ॥ ८४८ ॥ तन्निशम्य किमाश्चर्यमचिन्त्यो महिमा सताम् । " इत्युक्त्वा द्रविडाधीशसुता मौनमशिश्रियत्." ॥ ८४९ ॥
18॥२९॥
For Private and Personal Use Only
Page #61
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अथ धैर्य समालम्ब्य तियम्वलितदोलता | ताम्बूलमात्महस्तेन ददो तिलकमञ्जरी. ॥ ८५० ॥ मामुवाच ततः काञ्चीविषयाधिपतेः सुता " कुमार ! प्राप्तरखेयं कलासु सकलास्वपि ।। ८५१ ।। कौतुकं चेत्तदा पृच्छ, युवयाः शृण्वती वचः । येनाहमपि गच्छामि मुहूर्त निवृति पराम्." ॥ ८५२ ॥ इत्युक्तोऽहं क्षणं स्थित्वा निभृतस्तामवादिषम् । “काञ्चीपतिसुते ! देवी नाभिज्ञा मम चेतसः ॥ ८५३ ॥ श्रृणोत्यन्योऽपि नैवोक्तं जनः संस्तववर्जितः, । ईश्वरः किं पुनर्लोको मुक्तस्नेही निसर्गतः ? ।। ८५४ ॥ तदत्र भवती कापि व्योमवर्मप्रचारतः । पस्थिता दक्षिणामाशां मलयाद्रिदिदृक्षया ॥ ८५५ ॥ जानशक्रावतारादिकौतुकालंकरिष्यति । यद्ययाध्यां, यथावृद्धि प्रक्ष्यामि सकलं तदा. ॥ ८५६ ॥ अधुना तृचितं वक्तुं पुनर्दर्शनमेव मे." । इत्युक्ता स्वस्य सस्मार प्रागप्रागल्भ्यचेष्टितम् ॥ ८५७ ॥ कृतल जास्मितोद्भेदानुचरीगणः । मन्पुनर्दर्शनप्रश्नभातेव सहसोत्थिता. ॥ ८५८ ॥ आरुरोहाग्रभूपृष्ठं मयि क्षिप्तक्षणा मुहुः । चक्रे शीतमणिस्तम्भेष्वाश्लेषान्मुक्तसीत्कृतान. ॥ ८५९ ।। गाढहस्ताङ्गुलीयन्त्रैः क्षिप्तः शुक्तिजलेष्टुभिः । आजघान प्रियाचाटुपद्वपारापनवजान. ॥ ८६० ॥ सक्ता प्रियकराकृष्टया ललाटालकमालिकाम् । सखीनां कुटिलीचक्रे कराङ्गलिविवर्तनः ।। ८६१ ॥ मशद्धं चुम्बनं कृत्वा बन्धुवालकसन्ततेः । ताम्बूलं निजवक्त्रेण तद्वक्त्रेषु निचिक्षिपे. ।। ८६२ ॥ अथोत्तीर्य चिरादेत्य काञ्चीपनिसुनान्तिकम् । मान्यवृद्धानुरोधेन प्रतस्थे सदनं प्रति. ॥ ८६३ ॥ कियदगत्वा निवृत्ताथ मन्दुरा द्वारपालिका । उपेन्य त्वरयावादीद द्रविडाधिपतेः सुताम्. ॥ ८६४ ।।
For Private and Personal Use Only
Page #62
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobairthorg
Acharya Shri Kailassagarsuri Gyanmandir
कथा. सार.
क मञ्जरी ट्र ॥३०॥
"प्राञ्जलिभर्तृपुत्रि ! स्व . तिलकमञ्जरी । कुमारयुतयागत्यानुग्राह्य मद्गृहं त्वया." ॥ ८६५ ॥ सोवाच-मन्दुरे ! नेदं वनवासिजनोचितम् । गत्वा तत्र कुमारस्तु भवत्वातिथ्यभाजनम् ॥ ८६६ ॥ इत्युदीर्य चकारास्या विसर्जनमथागमत् । मृगाङ्कलेखा, सावोचद-"उचितानुचितैरलम् ॥ ८६७ ॥ भर्तृपुत्रि ! समागच्छ, वक्ति देवी बहि:स्थिता, । "तावदत्र मया स्थेयं यावादार्यासमागमम्" ॥ ८६८॥ ततस्तदाग्रहं मत्वाऽचलच्चतुरिकायुता. । मृगाङ्कलेखाप्याकृष्य पाणौ चालयति स्म माम् ॥ ८६९ ॥ अगच्छदुपान्ते देव्याः, समारुह्य गजप्रियाम् । समं मलयसुन्दर्या जगाम निजमन्दिरम् ॥ ८७०॥ अहं च तद्विमानस्थोऽगच्छं भूरिपरिच्छदः । विद्याधराधिनाथस्य नगरं रथनूपुरम् ॥ ८७१ ॥ पश्यनापातिनिःपातिमत्तस्तम्बेरमाकुलम् । मृगाङ्कलेखयोद्दिष्टं राजमार्ग समन्ततः. ॥ ८७१ ॥ उचे मृगाङ्कलेखा मां-"कुमार ! नगरं दृष्टम् ?" | "दृश्यते यन्न निर्भरं किं दृष्टम् ? ""तन्नदुष्करम्. "॥ ८७२ ॥ खेचरेन्द्रसुतावासवामसनिधिवर्त्तिनम् । मृगाङ्कलेखानिर्दिष्टं प्रासादमगमं ततः ॥ ८७३ ॥ मणिसोपानमाण तस्मिन्नारुह्य काञ्चने । निविष्टस्यासने चक्रे क्रमशौचमसौ मम. ॥ ८७४ ॥ सादरार्पितताम्बूलपत्यग्रकुसुमोच्चया । देव्यास्तिलकमञ्जर्या गतवत्यथ सन्निधिम्. ॥ ८७५ ॥ सा तु प्रविष्टमात्रैव मातुर्मलयसुन्दरी । अदर्शयत्स्वयं चागात् सौधं मदर्शनाशया. ॥ ८७६ ॥ तत्रोदीचीगवाक्षस्था मार्गश्रममिषादसौ । आप्तद्वित्रिसखीयुक्ता दिदेश शिशिरक्रियाम्. ॥ ८७७ ॥ कियत्यामथ वेलायां अवातरदहं पुनः । दृष्ट्वा तच्छ्न्य नासन्नं गृहोपवनमब्रजम्. ॥ ८७८ ॥
&॥३०॥
For Private and Personal Use Only
Page #63
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
55AMROSAROCHUCA5
वेत्रिणी तत्र मामेत्य जगौ हरिणिकाभिधा । "कुमार ! विज्ञापयति देवी तिलकमञ्जरी-॥ ८७९ ॥ 'स्नानादिकृत्यं कुरुतां कुमारस्त्वरितोधुना । वेलातिक्रमतः क्लिश्येदार्या मलयसुन्दरी." ॥ ८८० ॥ "यथाह देवी"-त्युक्त्वाहं तमेवावासमागमम् । स्नातस्तत्र व्यधां भक्त्या पूजामादिजगत्मभोः ॥ ८८१॥ उपात्तोपात्तनेपथ्यः प्ररूढस्थिरसख्यया । मृगाङ्गलेखया साकं क्षणं कृत्वाक्षदेवनम् ॥ ८८२॥ देव्या तिलकमञ्जर्या वारंवार विसर्जितैः । विहिताभ्यर्थनो लोकैरगमं तनिकेतनम् ॥ ८८३ ॥ वैडूर्यकुट्टिमन्यस्तमुक्तास्वस्तिकशोभिनि । दिवापि शक्यते यत्र तारादन्तुरितं नमः ॥ ८८४ ॥ इतस्ततश्चलद्भरिसैरन्ध्रीन पुरस्वनैः । कूजास्वाचार्यकं यत्र मरालीनां विधीयते ॥ ८८५ । यत्र स्फाटिकिभित्तीनां सत्तां विक्षिप्तमौक्तिकैः । विज्ञायागन्तुका दक्षाश्चरन्त्यप्राप्तविप्लवाः, ॥ ८८६ ॥ पविश्य तत्र दत्तार्थोऽवजमाहारमण्डपम्, । विचित्ररत्नखचितपणीतकनकासनम् ॥ ८८७ ॥ सुवर्णपुत्रिकोद्धततालवृन्तः शनैः शनैः, । बन्दिनीव पठत्यग्रे पञ्जरस्थे कलं शुके, ॥ ८८८ ॥ अभुक्तपूर्वमत्यन्तस्वादुतागुणसुन्दरम् । भुक्त्वाऽऽहारमुपस्पृश्य, स्थित्वा संकथया क्षणम् , ॥ ८८९ ॥ मृगाङ्कलेखावक्त्रेण देवीं गन्तुममोचयम् । अथागत्य प्रतीहारी मन्दुरा मां व्यजिज्ञपत् ॥ ८९०॥ "देव ! द्वारि शुकः कोऽपि तिष्ठति प्रवराकृतिः । ब्रूते च;-"प्रेषणेनाहं स्कन्धावासादुपागतः ॥ ८९१ ॥ कुमारं द्रष्टुमिच्छामि "इति" अहं तु स्मृतवानिदम्,-1 "नूनं शुकः स एवायं, यस्य लेखोर्पितो मया." ॥८९२॥ "तूर्ण प्रवेशय" इत्युक्ता तं प्रवेशितवत्यसौ. । सोऽपि चन्चुपुटाल्लेखं क्षित्वाऽकार्षीजयध्वनिम् ॥ ८९३ ॥
For Private and Personal Use Only
Page #64
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री तिलक मञ्जरी ॥३७॥
S****480*
तमवोचमथ श्रान्तं " वस्त्रायविषये त्वयि । स्वाधीनफलसम्पत्तौ भद्रातिथ्यं करोमि किं ? ॥ ८९४ ॥ तथापि कुरु मे तोषम् " इत्युक्त्वांङ्के न्यवेशयम्. । शय्यापाली ततो देव्याः कुन्तलेति समाययो, ॥ ८९५॥ अभ्यधाच्च-“कुमार ! त्वां देवी विज्ञापयत्यदः, “मृगाङ्कलेखयाऽऽख्यातं मम त्वत्तोऽभ्युपेतया ॥ ८९६ ॥ यथा “पुरमलक्ष्यात्मा कुमारोऽय दिक्षते" | तनिशीथाभिधं दिव्यं पावृणु त्वमिमं पटं, ॥ ८९७ ॥ अयं पद्महदं द्रष्टुं गतायाः पद्मया मम । उपनीतो, अनुभावोऽपि कियानप्यस्य वर्णितः, ।। ८९८ ॥ यथा “संवृतमेतेन देहिनं नेक्षते जनः, । अहिधाराविषव्याधिरक्षःशक्तीश्च हन्त्ययम् , ॥ ८९९ ॥ किचैप स्पर्शमात्रेण दीर्घशापक्षयङ्करः" । इत्युक्त्वाच्छादयामास सर्वतस्तेन मत्तनुम्. ॥ ९००॥ सहसाथ मदुत्सङ्गादिव्यमुक्षिप्य तं पदम् । ममाग्रतः पुमानेको बभूवोदग्रयौवनः ॥ ९०१॥ अथ “गन्धर्वको गन्धर्कः" इत्याप्तविस्मयैः । उदघोषि वधृवृन्दैः, असौ तु वलिताननः ॥ ९०२॥ प्रकटं पटविश्लेषात् समालोक्थादरेण माम् । अनंसीदसमोल्लासिविस्मयस्मेरलोचनः ॥ ९०३ ॥ “विनष्टः' इति यो देवि ! शोचितः सुचिरं पुरा । गन्धर्वकः, स निर्यातः कुमारकोडतोऽधुना." ॥९०४ ॥ इति प्रचलच्चेटीभ्यः श्रुत्वा सम्पन्नविस्मया । समं मलयसुन्दर्या देवी तत्र समाययौ. ॥ ९०५ ॥ कृतप्रत्युद्गमा यत्नान्मया परिजनाहृते । ततः सविभ्रमब्रीडं हेमपीठे न्यविक्षत. ॥९०५॥ मामालोक्य स्फुरत्तोषं पुरतो विहितानतिम् । आकृष्यार्यापदाम्भोजे गन्धर्वकमपातयत् ॥ ९०६ ॥ अथावोचं " प्रसादस्ते पटोऽयं देवि ! तत्क्षणम् । मम बन्धुसमं सद्यो गन्धर्वकमयोजयत्." ॥ ९०७ ॥
*********
ल॥३७॥
For Private and Personal Use Only
Page #65
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ततः सविस्मया देवी काञ्चीराजतनूद्भवाम् । अपृच्छद् "आर्ये ! कि पूर्व कुमारेणायमीक्षितः ?"॥९०८॥ सा प्रत्युवाच-" वृत्तान्तं वेभि नाहमिमं सखि ! । कुमारमेव पृच्छ त्वं " ततश्चाहमवादिषम् ,- ॥ ९०९ ॥ " न केवलमयं, देवि ! त्वमप्येतत्प्रसादतः । दृष्टा मया." इत्यथावोचं वृत्तं चित्रपटोद्भवम् ॥ ९१० ॥ गन्धर्वकमपृच्छं च, “तदास्मत्सभिधेर्भवान् । उत्थाय व गत्वोद्देशे क्व स्थितः ? किं विलम्बितम् ? ॥९११॥ प्रादुर्भूतः कुतो वाद्य विद्युदुन्मेषवत्क्षणात् ? " । इति पृष्टः स निःश्वस्य साश्रु वक्तुं प्रचक्रमे,- ॥ ९१२ ।। " तस्मिन्नेवान्हि सायाह्ने कुमार ! भवदन्तिकात् । गतखिकूटेकूटस्थां खेचराधिपतेः पुरीम्, । ९१३ ।। विचित्रवीर्यमद्राक्षं, विमानं हारिचन्दनम् । प्रापं घमत्तुयात्रार्ह याचितं पत्रलेखया, ॥ ९१४ ॥ लेखं समरकेतोश्च वहन् बद्धं पटाञ्चले । गन्धर्वदत्तावीक्षार्थमापतमुत्तरां दिशम्. ।। ९१५॥ श्रुत्वा प्रशान्तवैराख्यतापसाश्रमसन्निधौ । करुणाक्रन्दितारावमन्तरिक्षादवातरम्. ॥ ९१६ ॥ अपश्यं चाश्रुधाराभिरकालजलदागमम् । कुर्वाणां रमणीमेकामीषद्गलितयौवनाम्. ॥ ९१७ ॥ ततोऽपृच्छं "किमित्यार्ये ! करोषि परिदेवनम् ? "। साऽवादीत् “ कुरु मे त्राणमपत्यप्राणरक्षणात् , ॥ ९१८ ॥ सर्वस्वभूता निःशेषदक्षिणाधिपतेरियम् । पुत्री गन्धर्वदत्ताया नाम्ना मलयसुन्दरी ॥९१९ ।। वैरिभिर्विगृहीतेन किमप्याधाय चेतसि । समर्प्य मे त्रियामार्दै पित्रा निष्कासिता पुरात्, ॥९२० ॥ विधृता चाश्रमेऽमुष्मिम्, स्थिता वल्कलधारिणी ।
॥९२१॥ किश्चित्कालम् , इह त्वद्य प्राप्ता केनापि हेतुना । मार्गयन्त्येयं मया दृष्टा, निर्भानुषयोदयात् ॥ ९२२ ॥
For Private and Personal Use Only
Page #66
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
श्री तिलकमञ्जरी
||३८||
www.kobatirth.org
अनुयाता, 'श्रमवलान्ता' इत्युक्षिता शीतवारिणा । पश्यन्त्या एव मे संप्रत्यभृदुच्छिन्न चेतना ॥ ९९३ ॥ अतः पापस्वरूपामारब्धा परिदेवितुम् " । तन्निशम्य विभाव्यैनां कन्यामहमवादिपम्- ॥ ९२४ ॥ " आयें ! माभैर्विपस्यायं विकारोऽस्या विजृम्भते । असौ सजीविताद्यापि किन्तु दिव्यौषधीभुवि ॥ ९२५ ॥ गन्तव्यमनया. " इत्युत्वा विमाने तां व्यधामहम् । अकार्ष तत्पमम्भोजपत्रचन्दनपबैः ॥ ९२६ ॥ स्वमावारेण सर्वाङ्गमप्यधां तां प्रथीयसा । अवोचं चित्रमायं च - " दिनमेकमिह स्थितः ॥ ९२७ ॥ आर्यामिमां समाश्वास्य सुखितां त्वं सखे ! कुरु, । अहं त्वस्तविषामेतामिहानीयाविलम्बितः ॥ ९२८ ॥ दृष्ट्रा गन्धर्वदत्तां च गत्वाऽयोध्याभिधां पुरीम् । प्रतिपन्नं कुमारस्य कर्त्तास्म्यालेख्यदापनम् ॥ ९२९ ॥ यदि मे दैवयोगेन भवेत्तत्र विलम्बितम् । क्षिप्रं त्यक्तस्वरूपेण प्राणिरूपमलक्षितम् ॥ ९३० ॥ प्रतिपद्य त्वया नेयः कुमारो रथनूपुरम् । साध्यसिद्धिर्यतोऽस्माकं महती तत्र तद्मात्. " ।। ९३१ ॥ इत्युक्तवाहं विमानेन वेगादुत्पतितो नभः । अथैकशृङ्गाग्रे विमानं वीक्ष्य निश्चलम् ॥ ९३२ ॥ क्षिप्तचक्षुः पुरोद्राक्षं पुरुषं तीव्रतेजसम् । “नूनमस्य प्रभावोऽयमिति ” सञ्चिन्त्य चेतसा ॥ ९३३ ॥ अभ्यधां, - किं महाभाग ! विमानं स्तम्भितं त्वया । किंवा तरुलतापाणिर्निवारयसि मे गतिम् ? ।। ९३४ ॥ काञ्चीपतिसुताप्राणरक्षार्थमहमुद्गतः " । इत्थमुक्तोऽपि नाध्वानं यदाऽश्वत्तदा रुषा ।। ९३५ ।। मयोक्तो - " वपुषा दिव्यः, नारको भवान्. " । अथोवाच रुषा रक्तनेत्रः- “ रे रे नराधम ! ॥ ९३६ ॥ विशुद्धधर्ममार्गस्थं दुःखितमाणिवत्सलम् । नियुक्तं दुष्टशिक्षायै प्रभुलोकैर्न मामपि ॥ ९३७ ॥
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
कथा सार,
||३८||
Page #67
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
यक्षं महोदरं वेत्सि शान्तायतनवासिनम् ? । कियद्वा ते स्वयं वच्मि ? पञ्चशैलजिनालये ॥ ९३८ ॥ प्राकारात्पतिता वादी येयमुत्तारिता मया । स्थापिता च निजे स्थाने, सा तावद्गतचेतना ॥ ९३९ ॥ तिलकान्तर्हितां योऽपि मन्वानः प्रेयसी हृताम् । तत्रैव पतितो नीतः मोत्क्षिप्य सपरिच्छदः ।। ९४० ॥ स्वकीयशिविरं सोऽपि कुमारोऽत्र न सन्निधौ । तदरे क्रूरकर्माहं ? न त्वं ? यः पृथुलेऽम्बरे ।। ९४१ ।। मार्गान्तरं विहायास्य शक्रैरपि कृतस्तुतेः । देवताकृतनिष्पत्तेरादिदेवस्य वेश्मनि ॥ ९४२ ॥ शृङ्गाग्रेणास्थितो यानं यातुं वाञ्छसि लीलया । तदितः पक्षविक्षेपा देवतावेश्म लङ्घनम् ॥ ९४३ ॥ स्वैरं यदि परं कर्तासि, आत्मीया प्रकृतिः पुनः । मत्स्वामिन्याः प्रसादेन नान्यथा ते भविष्यति " ॥ ९४४ ॥ इत्युक्त्वा दत्तहुंकारो यानं सरसि चिक्षिपे । निमज्ज्योन्मशत्रत्यत्र शुकभावमुपागमम् ॥ ९४५ ॥ अमुक्तः प्राक्तनरमृत्या तत्रैवास्यां जिनालये, । नीतो मया यथा लेखः, प्रतिलेखो यथाहृतः ॥ ९४६ ॥ कुमाराङ्कं यथास्तथा सर्व स्मराम्यहम् । अभूदस्तविषावेगा कथं मलयसुन्दरी ? ॥ ९४७ ॥ पुंस्त्वं वा मे कथं जातमेतदज्ञातमत्र मे. " । तस्मिन्नित्युक्तष्टत्तान्ते, विस्मिते सकले जने ॥ ९४८ ॥ उद्वेष्टयावाचयं लेखं तं तदानीतमादरात् । "स्वस्त्यभीष्टतमोद्देशे सर्वविश्वोपकारिणः ॥ ९४९ ॥ हरिवाहनसंज्ञस्य राजमूनोः पदद्वयीम् । लोहित्यसविधावासात् स्कन्धावारात्सराजकः ॥ ९५० ॥ कुशली कमलगुप्तो नत्वा विज्ञापयत्यदः - 1 " लेखेन यत्समाइतं यदन्यदपि सङ्गतम् ।। ९५१ ।। तदात्मनैव कर्त्तास्मि सर्व राजप्रयोजनम् । किन्तु प्रतिविधातुं मे स्नेह एवातिदुष्करः ।। ९५२ ॥
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
Page #68
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कथा
श्री तिल-31 क मञ्जरी ॥३९॥
| मार.
युवराजस्य, येनासौ वृद्धशिक्षाद्यगोचरः" । अथ मां म्लानवक्त्रत्वात् स्वदेशगमनोत्सुकम् ।। ९५३॥ ज्ञात्वा काश्चीपतेः पुत्री जगौ निलकमञ्जरीं-1 "विसृज्यतां कुमारोऽयं सखि ! पर्याकुलं जनम् ॥ ९५४ ॥ समालोकयितुं सैन्ये, पुनरत्रागमिष्यति." । ततो नतमुखी स्थित्वा जगाद खेचरेन्द्रजा,- ।। ९५५ ॥ “सखि ! त्वमेव जानासि कर्तुं यदिह साम्पतम्." । ददौ मे चित्रमायं च, तं च काञ्चीनृपात्मजा ॥ ९५६ ॥ उवाच,-"तूगमानेयः कुमारः सुमुख ! त्वया"। ततः प्रत्येकमापृच्छय यानारुहो विहायसा ।। ९५७ ॥ पुरःसखेचरव्यूहः प्रतस्थे निजमण्डलम् । अचिरेणैव तं प्राप्तश्चित्रमायमवादिपम्,-।। ९५८ ॥ “यतो हृतो द्विपेनाहं तदिदं काननं सखे ! । तदत्र विश्राम कुर्मो, निकटं शिविरं पुरः" ॥ ९५९ ॥ इत्युदीर्यावतीर्णेन तत्रैले सहसा मया । गजतानुगतः स्वैरं सञ्चरन्नुन्मदः करी. ॥ ९६० ।। अभाणि चित्रमायश्च प्रत्यभिज्ञापुरःसरम्,-1 "चित्रं सखे ! स एवायं यमदण्डः करी मम" ॥ ९६१ ॥ ततश्चानाय्य तं तेन समारुह्य प्रमोदतः । प्रविश्य शिविरं पौरैः प्रणतः परितोषतः ।। ९६२ ॥ स्वावासमव्रज क्लप्सविविधाचारमङ्गलः, तत्र स्थाने समायातः सामन्तादिगणावृतः ॥९६३ ।। अप्राक्ष,-"किमु नाद्यापि युवराजः समागतः ? | राजपुत्रोऽभ्यधादेको-"भवल्लखो यदागतः ।। ९६४ ॥ अनावेद्य कुमाराऽसौ तदैव निशि निर्गतः, । प्राग्ज्योतिषेश्वरभ्रात्रा दृष्टो मित्रवरेण च, ॥ ९६५ ॥ ब्रजन्नुदीची निर्बन्धान्निरुद्धोऽपि न हि स्थितः" | तन्निशम्य ससैन्योऽहं निवर्तनकृताशयः ।। ९६६ ॥ कौबेरीमचलं मां च चित्रमायोऽन्यदाऽब्रवीत् । “उक्तो मलयसुन्दर्या त्वामानेतुमहं मुहुः, ॥ ९६७ ॥
12॥३९॥
For Private and Personal Use Only
Page #69
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कुमार ! किं मया कृत्यं ? "निःश्वस्याथ तमभ्यधाम्,-1 "वयस्य ! गच्छ, तां ब्रूहि; विना समरकेतुना ॥ ९६८॥ कथं ते दर्शयिष्यामि वक्त्रं ? तत्सम्पति त्वया । देव्यास्तिलकमञ्जर्याः समाश्चास्यं सदा मम" ॥९६९ ॥ इत्युवत्वा तं विसाहमविशं घनकाननम् . । एकदा च कृतावासे सैन्ये प्रचलितो बहिः ।। ९७० ।। गन्धर्वकं हयारूढं समायान्तं व्यलोकयम्. । उत्तीर्य प्रणतस्तेन कृतानामयभाषणः ॥ १७१ ॥ शिलापृष्टमधिष्ठाय तमासीनमभाणिषम्, “गन्धर्वक ! तदा कोऽभूद् वृत्तान्तः प्रस्थिते मयि ? ।। ९७२ ॥ कथं वयं बने ज्ञाताः ? किमेकाकी त्वमागतः ?" | सोऽवोचत्-" त्वयि निर्यात कुमार ! निभृता क्षणम् ॥९७३॥ स्थित्वा काञ्चीपतेः पुत्री खेचरेन्द्रसुतां जगौ,-" एकशृङ्गाद्रिगमनमनुजानीहि मे सखि !" ॥ ९७४ ।। सोवाच,-"कन्दमूलादि गृहोपवन एव ते । क्रीडाद्रिनिझरैः स्नान, देवताराधनादि च" । ९७५ ।। इत्युक्त्वा धृतवत्येनां गाढोद्वेगविनुत्तये । ततश्च क्रीडितस्नातभुक्तायुदेशवीक्षणम् ।। ९७६ ।। विदधाना तदाभीक्ष्ण सा दिनान्यत्यवाहयत्. । अद्य तु प्रातरायातं चित्रमायं विलोक्य सा ॥ ९७७ ॥ चक्षुर्मलयमुन्दयी सविलक्ष्य निचिक्षिपे, । पप्रच्छ सापि तं,-"क्यास्ते कुमारहरिवाहनः ? ॥ ९७८ ॥ कुतो वा नागतः ?" सोऽपि प्रणम्य प्रत्यभाषत- “अस्ति श्रीसिंहलेशस्य चन्द्रकेतोस्तनद्भवः ॥९७९ ॥ कुमारः समरकेतुः प्रत्यर्थिकरिकेसरी. । स तु, गन्धर्वकोक्तेन मयाज द्विपमूर्तिना ॥९८० ।। कृतापहारमन्वेष्टुं कुमारं हारिवाहनम् । असिनैव सहायेन विवेशोत्तरकाननम्. ॥ ९८१ ।। इतो यातः कुमारोऽपि तदन्वेषां गतो वनम् " | तस्मिन्निति वदत्येव, “हा ! कुमार ! नवाप्ययम् ।। ९८२ ।।
For Private and Personal Use Only
Page #70
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीतिल
कथा
कमञ्जरी
सार..
11४11
बाद सुकृतकर्माभूत् . वनवलेशस्य कारणम्." । इत्थं प्रलप्य सम्मोहं गता काञ्चीपतेः सुता. ॥९८३ ॥ वीजनालब्धचैतन्यां तां चक्रे खेचरेन्द्रजा । अपृच्छक-"तथैवास्ति साकं समरकेतुना ? ॥ ९८४ ॥ संस्तवः किं ? तथा जातः किं बनाय तवापि सः ? । कथयेति " मुहुः पृष्टा सोवाच-"भज मूकताम्, ॥ ९८५ ॥ कुमारवलेशमाकर्ण्य नाहं ववतुमपि क्षमे "| सावादीत-"किमिव वलेशः ? त्वदाश्रमकृतस्थितिः ॥ ९८६ ॥ गवेषयति किं नैव निजमित्रं नभश्चरैः ?"। सहासमवदत्सापि “मुग्धे ! भूगोचरो ह्ययम्, ॥ ९८७ ॥ शृङ्गीव पक्षनिन: स्वैरं खे गन्तुमक्षमः" इत्युक्ता व्योमयात्रायां विमानं पटुरंहसम् ॥ १९८ ॥ खेचराणां सहस्त्रेण मां च प्रहितवत्यसो, । अभ्यधाच-"सहानीकं कुमारहरिवाहनम् ॥ ९८९ ॥ अदृष्टपारसरसस्तीरारामे समानय." । यदादिशति देवीति "संलप्याहमपि क्षणात् ॥ ९९० ॥ चित्रयामोपदिष्टाध्वा वनमेतत् समागमम्, । परिच्छदमवस्थाप्य निःशेषं निकषा नदीम् ॥ ९९१ ॥ उत्सुकत्वादि हायातः स्वयमेकेन वाजिना"। इत्युक्त्वा त्वरितस्तेन विमानस्थः समागमम् ॥ ९९२ ॥ अदृष्टपारतीरस्थमाश्रमं खेचरैर्वृतः, । तत्र लौहित्यवास्तव्यस्कन्धावारो नभश्वरैः ॥ ९९३ ॥ शश्वत्सम्पादितेष्टार्थो दिनान्यस्थां कियन्त्यपि. । एकदा तु सुखासीनं भुक्तान्ते खेचरामृतम् ॥ ९९४ ॥ रत्नकोशाधिकृन्नत्वा शङ्खपाणिरुवाच माम्, । “कुमार ! कोशलेशेन हारश्चन्द्रातपाभिधः ॥ ९९५ ॥ श्रीकरोमिकया सार्द्ध यात्रारम्भे समर्पितः, । मया मदन्तिके कालमेतावन्तमसौ धृतः, ॥ ९९६ ॥ इहाप्यानीत आस्ते, तत्स्वान्तिके क्रियतामयम् "। इत्युक्त्वा भारवरं हारमुचिक्षेप करण्डकात, ॥ ९९७ ॥
॥४०॥
For Private and Personal Use Only
Page #71
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उच्चञ्चुभिश्चकोराद्यैराचान्तघनचन्द्रिकम् । “ दृष्टोऽयमथवा स्पृष्टः संस्तुतो वा भवान्तरे !" ॥ ९९८ ॥ अहं त्विति तमाशङ्कय गन्धर्वकमवादिषम्,-1 "देव्यास्तिलकमञ्जर्याः कण्ठकन्दलसङ्गमम् ॥ ९९९ ॥ विहायान्यत्र हारोऽयं सौम्य ! नौचित्यमश्नुते, । तदेनं नय तत्रैव, मुद्रारत्नमिदं पुनः ॥ १००० ॥ कार्य मलयसुन्दयां देवार्चायां कराङ्गलौ" । तमित्युदीर्य पाहैषम्,अन्येाश्च समाकुला ॥ १००१॥ एत्य प्रणम्य लेख मे पुरश्चतुरिकाक्षिपत्. । अहं तु जनितास्वास्थ्यः स्फुरता वामचक्षुषा ॥ १००२॥ विलम्बितं क्षणं लेखमादाय तमवाचयम्,- "स्वस्त्येकशृङ्गे सम्राजस्तनुं श्रीहरिवाहनम् ॥ १००३ ॥ उदीपारदरिदःखा तिलकमञ्जरी । विज्ञापयति 'हारेण हृदयालम्बिनामुना ॥ १००४ ॥ (“ आश्लिष्य कण्ठममुना मुक्ताहारेण हृदि निविष्टेन । रुषैव वारिता मे त्वदुर परिरम्भणारम्भः ॥") रुषेव प्रतिषिद्धो मे परिष्वङ्गस्तवोरसः । तथापि यावज्जीवामि भवदायत्तजीविता ॥ १००५॥ तावन्नैव कुमारेण विरमर्त्तव्या मनागपि." । ततो गाढमनोदुःखदूरोत्तप्तो विसर्य ताम् ॥१००६ ॥ भृगुपातकृताकूतस्तस्मान्निरगमं शनैः, । विजया गिरेः शृङ्गमारुह्याभिमतप्रदम् ॥ १००७ ॥ तीर्थ गवेषयन्मेकमपश्यनृपनन्दनम्, । वसुधाधिपतेः पुत्र्या नवयौवनशोभया ॥ १००८ ॥ धार्यमाणं. कृतानत्या बाप्पालुतकपोलया. | दृष्ट्वा च द्विगुणोद्वेगस्तमाख्यं “किमु कानने ॥१००९॥ इमामेकाकिनी दीनां सौम्य ! त्यजसि वालिकाम् ? । कुत्र वा यातुमिच्छा ते?" स उवाच-"अस्ति पर्वते ॥१०१०॥ इहैव गगनोल्लेखि शिखरं चण्डगह्वरम्, । प्रपाते कामदे तत्र पित्सुः संहारनामनि ॥ १०११ ॥
For Private and Personal Use Only
Page #72
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीतिल क मञ्जरी ॥४१॥
सार.
PRAKASHARIRAL
अनङ्गरतिनामाहं विद्याधरनृपात्मजः, । निर्वेदाच्चलितस्तूर्णमनुगन्तुमियं च माम् ॥ १०१२ ॥ मुमुक्षति निजप्राणानहं तु द्रष्टुमक्षमः । पुरस्तादेव पिन्सामि" इत्युक्ते पुनरभाणिषम् ॥ १०१३ ॥ "मा मुचः स्वां तनु, सौम्य ! राज्यं स्वीकुरु मामकम् । अन्यश्चेदभिलाषस्ते सज्जस्तस्यापि साधने." ॥१०१४॥ अथासौ मुदितोऽवादीद-" अस्ति मे मन्त्रसहतिः । साध्या वीरनरस्यासौ देवत्ताभिरधिष्ठिता, ॥ १०१५ ॥ तामाराध्यातिविक्रान्तः ऋमिकं देहि मे पदम्." । तद्वचोऽभ्युपगम्याहमात्तमन्त्रो यथाविधि ॥ १०१६ ॥ शिक्षिताराधनोपायो गिरिगहरमाविशम्. । तेनोपनीतपूजादिः, स्नातः सन्ध्यासु निर्झरे, ॥१०१७ ॥ बद्धपद्मासनो बिभ्रदक्षाली दक्षिणे करे । मन्त्रसाधनमाधातुमारेभे,ऽथ क्षपाचराः॥१०१८ ॥ मम सिद्धिविधाताय समाजग्मुः समन्ततः, । "प्रहिताः कोशलेशेन तवानयनहेतवे." ॥ १०१९ ॥ इत्युक्त्वा पुरतो लेखान् प्रणताः केचिदक्षिपन, । केचिदूचुः " मया दृष्टो युवराजोऽभिवर्द्धसे "॥१०२० ॥ केचिदाक्षिपन्"कृपाहीन ! तान्ता तिलकमञ्जरी." | दृष्ट्वा चोत्कटधैर्य मां कोपभ्रकुटिसङ्कटम् ॥ १०२१॥ कृत्वा ललाटमाटोपादाटीकन्त स्फुटायुधा । एवं च षषु मासेषु व्यतीतेषु समर्थिते ॥ १०२२ ॥ पूर्वसेवाविधौ याते स्वल्पशेषे जपाविधौ, । सहसैव स्फुरदेहप्रभापिञ्जरिताम्बरा ॥ १०२३ ॥ एका मुरवधुरेत्य मधुरं मामभाषन । “देहि सत्त्वनिधे ! दृष्टिमष्टो देव्यः समागताः, ॥ १०२४॥ प्रज्ञप्तिरोहिणीमुख्याः सत्त्वेनावर्जितास्तव. । वद कृत्यम्,"अथावोच,-"भगवत्यनुयुज्यताम् ॥ १०२५ ॥ अनङ्गरतिनामायं यदर्थोयमुपक्रमः." । प्रत्यवोचदसौ,-" सौम्य ! पराथैकमतेस्तव ॥ १०२६ ॥
Bh४१५
For Private and Personal Use Only
Page #73
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
HEBSITE
विस्मिता चरितेनाह, कल्पः कित्वेष शास्वतः- येनैव रञ्जिताः सिद्धिरायान्ति तस्यैव देवताः ॥ १०२७।। किश्चानेनापि नान्मार्थमर्थितस्त्वं, यतः शृणु,- अस्मिन्नेवास्ति वैताढये पुरं गगनवल्लभम् ॥ १०२८ ॥ उत्तंसमुत्तरश्रेणेरनुत्तरविभूषितम्, । तत्र विक्रमबाहाख्यश्चक्री गगनचारिणाम् ॥ १०२९॥ आसीत्पराक्रमाक्रान्तरिपुचक्रनतक्रमः, । 'अम्बुजानि गतश्रीणि, रौति खिन्नालिमालिका, ॥१०३०॥ चक्राः क्रन्दन्ति दूरस्थप्रेयसीभिः कृतस्वराः.' । इत्याद्यैश्चारणालीनां वचोभिर्दिवसात्यये ॥ १०३१ ॥ निर्णीतानित्यतः सोऽभूदपास्तविषयस्पृहाः। प्रपन्ने च जिनोद्दिष्टं तत्र मुक्तिपुरीपथम्. ॥ १०३२ ॥ शाक्यबुद्धयभिधो मन्त्री परमुद्वेगमुद्वहन । अपश्यन् गोत्रज पुत्रमनगरतिमादिशत् ॥ १०३३ ॥ बन्धुपुत्रं-यथा “ तूर्णमेकशृङ्गनगं ब्रज, । सुहृदन्वेषणायान्तं कुमारं हरिवाहनम् ॥ १०३४ ॥ कुरु तत्र त्वमयैव विद्यासाधनतत्परम्. । अयं हि पूर्वसंस्कारात् परोपकृतिवत्सलः ॥ १०३५ ॥ विधास्यत्यन्यथा नैतदित्येष मम निश्चयः, । अष्टापदे मूनिव्रातमुपास्य समुपागतः ॥ १०३६ ॥ यतोऽस्य पूर्वजन्मोक्तं वीरसेनादिखेचरैः । अथात्र हृतमागत्य विद्याराधनकर्मणि ॥ १०३७ ॥ मुमर्पदम्पतीव्याजात् त्वां नियोजितवानसौ. । तदाग्रहमिमं मुञ्च, मानयताश्च देवताः॥१०३८॥ शाक्यबुद्धेः कुरु प्रेयो, भव चक्री भुवस्तले." । इत्युक्त्वान्तर्दधौ साथ मेरीभाङ्कारमूचिता. ॥ १०३९ ॥ एत्य विद्याधराधीशाः प्रणेमु विनयेन माम् । नीत्वा च दिव्ययानस्थं शिखरे चण्डगहरे ॥ १०४०॥ उत्तरश्रेणिराज्ये मामभ्यसिञ्चन् प्रमोदतः । ततः पुरववेशाय विज्ञप्तः पुरुदंशसा ॥१०४१॥
For Private and Personal Use Only
Page #74
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विलेन, सीपस्थमप्राः परिणपाल प्रणम्य माम्,
श्री तिलकपञ्जरीत ॥४२॥
य." इत्युक्ते तेनाहूत
USALMANOCOCALCUCKOREACOC
दैवलेन, समीपस्थमपाक्ष परिषजनम्,-" अयि ! कश्चिद्विजानाति चक्रसेनमहीपतेः ॥ १०४२॥ वेश्मोदन्तम् ? "अयोवाच द्वारपालः प्रणम्य माम्,- । “ देवात्र दक्षिणश्रेणेः सम्पत्येव समागतः ॥ १०४३॥ स्वत्पाददर्शनाकाङ्क्षी द्वारे तिष्ठति दारकः." "आशु प्रवेशय." इत्युक्ते तेनाहूतं विषादिनम् ॥ १०४४ ॥ गन्धर्वकमपश्यं, तमेोहीति समाहयम् । सोऽपि प्रणम्य मुक्ताश्रुरुषविश्य महीतले ॥१०४५॥ तत्प्रवृत्तिं मया पृष्टः स्थित्वा क्षणमभाषत,-" श्रूयतां देव ! तन्नीत्वा तदालङ्करणद्वयम् ॥ १०४६॥ 'कुमारस्येदं इत्युक्त्वा भर्तृपुत्र्योर्मयार्पितम् । कराङ्गलौ चकाराथ मुद्रां मलयसुन्दरी.॥१०४७॥ स्मृतजन्मान्तरेवासावमुश्चच्चाश्रु तत्क्षणम् । देव्यप्यारोप्य तं हारं कण्ठे तिलकमञ्जरी. ॥१०४८॥ अथ प्रत्यवदं,-" देवि ! साकेतनगरे पुरे । शक्रावतारचैत्येऽसौ मेघवाहनभूपतेः ।। १०४९॥ ज्वलनमभदेवेन प्रीत्या पाणौ कृतो निशि." । इत्यं मयि बदत्येव निमीलितविलोचना ॥ १०५०॥ मुमोह सहसा देवी. स्थित्वा पर्यङ्क एव हि । चिरेण लब्धसंज्ञा च सखीनां मोहकारणम् ॥१०५१॥ पृष्टापि नाख्यदुत्तापग्लपिता चानयन्निशाम् । प्रातश्च ज्ञातवृत्तान्तावागतो पितरावपि ॥ १०५२ ॥ विध्य स्थिता गेहात्तीर्थयात्रापदेशतः, । अनेकमुनिभिः साकं भगवान्नाभिनन्दनः ॥ १०५३॥ निर्वाणगमनाद्यस्य महिमानमवीधत, । स्मारं स्मारमिवाद्यापि श्रीनामेयजिनाधिपम् ॥ १०५४ ॥ वातस्रस्तलतापुप्पैः सजत्यश्रुकणानिव । तस्मिन्नष्टापदे गत्वा भरतेश्वरकारिताः ॥ १०५५ ॥ सप्रमोदं नमरकुन्य प्रतिमा मणिनिर्मिताः । द्वीपान्तरसमायातं चारणश्रमणब्रजम् ॥ १०५६ ॥
GOSAURUNGUAGE
2॥४२॥
For Private and Personal Use Only
Page #75
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobaith.org
Acharya Shri Kailassagarsuri Gyanmandie
48, इत्युक्तो
चलनप्रभातप्रियङ्कसुन्दरी
KURRRRRRRRREG
स्थाने स्थाने नमस्यन्ती समाधिस्थिरविग्रहम् । महर्षिमेकमद्राक्षीदुपविष्ट शिलातले ॥ १०५७ ॥ सुरादिभिः कृतोपास्ति तत्कालोत्पन्न केवलम् , । तं प्रणम्य निविष्टा सा. दुःखितां तां विलोक्य च ॥ १०५८ ॥ सकृपः खेचरस्वामी वीरसेनाभिधोऽब्रवीत् - " भगवन् ! पुरुषद्वेषं चक्रसेननृपाङ्गजा ॥ १०५९ ॥ किमेषा वहते ? किं वामुह्यदद्य निशामुखे ? । कुतो वा मुक्तभूषापि कण्ठे हारं दधात्यसौ ? ॥१०६० ॥ इदं मे कथय." इत्युक्तो मुर्निवक्तुं प्रचक्रमे, “आसील्लीलावतंसाख्यं विमानं वसति सुरः ॥ १०६१॥ सौधर्मे शक्रतुद्धिः प्रख्यातो ज्वलनप्रभः, । स बुवा च्यवने बोधि प्रकारान्तरदुर्लभम्, ॥ १०६२॥ कियन्नाकियुतो नाकादनाख्याय विनिययौ. । प्रियङ्कसुन्दरी नाम तत्मियाथ विषादिनी ॥ १०६३ ॥ प्रवृत्ति वेदितुं तस्य जम्बूद्वीपमुपागमत् । द्वीपान्तरगतेऽभीष्टे पूर्वमेव सुमालिनि ॥ १०६४ ॥ तद्भर्तृमित्रे दुःखार्ता सहागाच प्रियंवदा. । विजये पुष्करावत्यां गत्वा प्राकाञ्चनाचलात् ॥ १०६५॥ तीर्थाधिपं जयन्ताख्यमपृच्छद्विहिताञ्जलिः,-"स्वामिन्नहं सखीयं मे प्रस्थिते पार्थमिष्टयोः ॥ १०६६ ॥ तं निवेदय, संयोगः क्व ताभ्यां नौ भविष्यति ? । कथं वा धर्मसम्माप्तिर्मर्त्यलोकेऽवतीर्णयोः?"॥१०६७॥ इदं पृष्टो जिनोऽवादीद्,-"शृणु कल्याणाभागिनि !। 'अस्यैव जम्बूद्वीपस्य वर्षे भारतनामनि ॥ १०६८॥ अस्त्येकशृङ्गाद्री रत्नकूटश्च विश्रुतः, । भवत्योर्भविता तत्र क्रमशोऽभीष्टसङ्गमः,॥ १०६९॥ विशिष्टधर्मयोगस्तु दिव्याभरणदर्शनात्." । तं निशम्यैकशृङ्गानेः शृङ्गे रत्नजिनालये ॥ १०७० ॥ प्रियङ्गसुन्दरी दिव्यशत्त्याराममचीकरत् । तत्र प्रतीक्षमाणा च पत्युरागमनं स्थिता. ॥ १०७१॥
ममार्लाि
ॐकार
For Private and Personal Use Only
Page #76
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीतिलक मञ्जरी ॥३७॥
का कथा
सार.
MMSRLSROSAGAROG
प्रियंवदापि सिन्धुस्थरत्नकूटगिरि ययो, । तस्य प्रतीचि सान्वन्ते जिनेन्द्रमणिमन्दिरम् ।। १०७२ ॥ विधाप्यावस्थिता भर्तुः स्पृहयन्ती समागमम्. । एकदा च समायान्तीं गत्वा नन्दीश्वरादिषु ॥ १०७३ ॥ प्रियङ्गसुन्दरी देवीमपश्यत्सहसा श्रियम् । केकिकासरगोनाशसिंहवाहादिवाहनैः ॥ १०७४ ॥ देवीभिरुह्यमानाभिः परितः कृतसन्निधिम् । स्थित्वा क्षणं पुरः प्रेम्णा क्षिप्तदृष्टिं पुनश्चलाम् ॥ १०७५॥ सकोपेवाभ्यधात् ,-" पद्मे ! यानानोत्तरसीह किं ? । प्रियङसुन्दरी बुद्धा विगतर्द्धिस्त्वयापि किम् ? ॥ १०७६ ॥ साध्वोचत् ,-" सखि ! मां मुश्च निर्गतायाश्चिरंगृहात् । मा कृथास्तावदधुना स्थानगमनानुबन्धम् ॥ १०७७ ॥ ममागमनहेतुं च शृणु,-"प्रातस्सखी तव । रत्नकूटे मया दृष्टा सोद्वेगाय प्रियंवदा, ॥ १०७७॥ तया च तव सन्दिष्टं,-"सखि ! मद्भाग्यदोषतः । ज्ञानिनोऽपि वचो मिथ्या जातमायुश्च मे तनुः ॥ १०७८ ॥ भवान्तरगताया मे सखि ! क्वापि स्मरिष्यसि, । मत्कारिते चैत्येऽस्मिन् सान्निध्यं कारयिष्यसि."॥१०७९ ।।. तद्वचः करुणं श्रुत्वा साप्युवाच सगजदा,-1 मत्कृतीर्थेऽपि सानाध्यं कः कर्ता कतिचिद्दिनः । ॥ १०८०॥ अभ्यर्थयेऽधुना किं वा सुरेष्वाज्ञाविलोपिषु ?" । इत्युक्ते कमलावादीत्तदुद्वेगेन दुःखिता,-॥ १०८१ ॥ “विषादं त्यज, सन्दिष्टं मयैवेदमुरीकृतम्." । अथोवाच प्रतीहारं सादरा सा महोदरम् ,-॥१०८२ ॥ "प्रासादस्य त्वया भद्र ! तस्यास्य च दिवानिशम् । रक्षणीयोअमत्तेन क्षुद्रलोकादुपद्रवः." ॥ १०८३ ॥ इत्युदीर्य निजावासं सत्वरा समुपागमत्. । प्रियङ्गसुन्दरी त्वाप न पत्या सह सङ्गमम् ॥ १०८४ ॥ क्षीणायुरवतीर्याथ विजयार्द्धमहीधरे । चक्रसेनस्य पुत्रीयमभूत्तिलकमञ्जरी. ॥ १०८५ ॥
॥३७॥
For Private and Personal Use Only
Page #77
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उद्गाढस्वपतिभ्रमवासना च नरान्तरे । अबद्धप्रीतिरेवास्थादेतावन्तमनेहसम् ॥ १०८६ ॥ दिव्यहारमतीतेऽह्नि दृष्टः, पूर्वभवस्मृतेः । मुमोह, 'मत्प्रियश्लिष्टः' इति नैव मुमोच तम्." ॥ १०८७ ॥ इत्युक्ते विस्मयस्मेरसंसदभ्यर्थितो मुनिः । ज्वलनप्रभवृत्तान्तमथ वक्तुमुपचक्रमे,-॥ १०८८ ॥ "सोऽप्यत्र भारते वर्षे साकेतपुरभूभुजे । शक्रावतारचैत्यस्थो दिव्यं हारं वितीर्णवान. ॥ १०८९ ॥ ततो नन्दीश्वरं गत्वा वयस्यस्य सुमालिनः । सम्यग्दर्शनसंशुद्धिं चक्रे जिनमतोक्तिभिः. ॥ १०९०॥ कृतकृत्यमथात्मानं मन्यमानो व्यलोकि च । शास्वती सिद्धचैत्याली कुलशैलादिषु स्थिताम् ॥ १०९१ उपाय॑ खेचरेन्द्रत्वभूत्या सह भवान्तरे । प्राप्तिं चरमदेहस्य जातदिव्यायुषः क्षये ॥ १०९२ ।। मयैव दत्तसद्विद्याराधनस्य तनूद्भवः । तस्यैवाऽजनि साकेतस्वामिनो हरिवाहनः." ॥ १०९३ ॥ इत्थं निवेद्य तूष्णीके मुनो तिलकमञ्जरी । अतत्वरत्सुमालिस्थं ज्ञातुं मलयसुन्दरीम् ,-।। १०९४ ॥ कृतवल्कलनीरङ्गी त्रपया प्रश्नमानसम् । विलोक्य तानथारेमे पुनर्वक्तुं तपोधनः-॥१०९५ ।। "सोऽपि वत्से ! विशुद्धात्मावतीर्णः स्वायुषः क्षये । सूनुः समरकेत्वाख्यश्चन्द्रकेतोरजायत." ॥१०९६ ॥ इत्युक्त्वा मुनिरुत्तस्थौ, संविग्नश्च सभाजनः । यथागतं जगामोरुभोगेषु विगताग्रहः ॥ १०९७ ॥ भर्तृपुन्यभिभृत्यौघतत्कालप्रगुणीकृतम् । निजावासं ययौ प्राज्यविराजत्पटमण्डपम्. ।। १०९८ ॥ तस्मिंश्च कल्पनीयान्नं तपःक्षपितविग्रहे । दवा तीर्थातिथिबाते प्राप्ते मध्याह्ने चर्यया. ॥ १०९९ ॥ कृत्वा भुक्तिमुपस्पृश्य सुखासीनां फलादिभिः । कृताहारा वनादेत्य जगौ मलयसुन्दरी,-॥ ११०० ॥
ATHEROHSINESS
For Private and Personal Use Only
Page #78
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री तिलकमञ्जरी
कथा सार
"स्थातासि त्वं किमत्रैव सखि ! तीर्थान्तरेषु वा । यातासि ?" साभ्यधाद्,-"गात्रं सखि ! मे बाधतेतराम्॥११०१॥ कम्पते दक्षिणं चक्षुर्न जाने कि भविष्यति ?" । अत्रान्तरे प्रतीहारी तां प्रविश्य व्यजिज्ञपत् ॥ ११०२॥ "निजप्रस्थानवेलायां "कुमारं हरिवाहनम् । स्कन्धावारं निजं भद्र ! नय." इत्युक्त्वा विसर्जितः ॥ ११०४॥ यस्त्वया चित्रमायाख्यो भर्तृपुत्रि ! नभश्चरः, । विषण्ण इव स द्वारि दिक्षुरवतिष्ठते." ॥ ११०५॥ तच्छ्रुत्वा साध्वसाद्देवी न किमप्युत्तरं ददो. । गिरा मलयसुन्दः स प्रविश्यानतोऽब्रवीत,-॥ ११०६ ॥ "भर्तृपुत्रि ! त्वदादेशादेकशृङ्गगिरौ मया । कुमारः सर्वतोऽन्विष्टो, न तु कापि विलोकितः. ॥ ११०७ ।। झातुं तथापि तद्वात्ती नियुक्ता दिक्षु खेचराः । तच्छृत्वा सहसा देवी विच्छायवदनाभवत् ॥ ११०८ ॥ अवोचदर्थ सन्तप्तस्वान्ता मलयसुन्दरी,- "अन्वेषय स्वयं गत्वा सखि ! तं नृपनन्दनम्, ॥ ११०९ ॥ असो त्वदगमनं श्रुत्वा न जाने किं व्यवस्यति !" | तन्निशम्प विमानेन द्रुतं तत्र जगाम सा. ॥ १११० ॥ भवन्तं चिरमन्विष्य तदेव जिनमन्दिरम्. । सायं प्रापदपश्यत्सा सोद्वेगं मत्परिच्छदम् ॥ ११११ ॥ कृतप्रणामा तेनासो दूरस्थैव जिनस्तुतिम् । कृत्वा मलयसुन्दर्या सहागान्मठमस्तकम् ।। १११२॥ तस्मिन् शिलातलन्यस्तनिःसहाङ्गी सखीकृता । गाढदाहज्वरोत्तप्ता कथश्चिदनयन्निशाम् ॥ १११३ ॥ प्रातरावश्यकं कृत्वा निविष्टा देवतागणे, । "वेत्ति कश्चित्कुमारस्य वृत्तम् ? "इत्यवदत्स्वकान्. ॥ १११४ ।। अथ सन्दीपनो नाम खेचरः प्रणतोऽब्रवीत, । "देव्यहं चित्रमायेन प्रहितः प्राक्तनेऽहनि, ॥ १११५॥ मया चान्विष्यताश्रावि निपादेभ्यो, यथा-"किल । गतः कुमारो वैताढ्यप्रपातं सार्वकामिकिम्." ॥ १११६
॥३८॥
For Private and Personal Use Only
Page #79
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
परतस्तु न जानामि किमपि." एतन्निशम्य सा । अङ्के मलयसुन्दाः पपात गतचेतना. ॥ १११७॥ क्षणाच्च लब्धचैतन्या प्रवर्तितवती सखीः । सर्वायतनपूजार्थ मूलचैत्यमगात् स्वयम् ॥ १११८ ॥
मणिकुम्भैः कृतस्नाना भक्त्याऽभ्यर्च्य जगद्गुरुम्. । श्रुत्वा वाष्पायमाणालियुगापृच्छय परिच्छदम्, ॥ १११९॥ [तिलकमजरीकृतभगवत्स्तुति:-"प्रणतवत्सल ! सकललोकालोकगोचरज्ञानालोक ! भव्यलोकशोकापनोद ! दर्शिदयादमप्रधानध्यानमार्ग ! मुद्रिताशेषदुर्गतिद्वार ! झगिति विस्मृताकृत्रिमतापरोपचारस्य दूरीकृतानुरक्तजनसनिधेरनणुवज्रपाषाणपरुषहृदयस्य दुर्विदग्धयुध्धेरनेकदुःसहदुःखसंभारभाजनस्य भगवन् भव जनस्यास्य जन्मान्तरे शरणम्."]
अन्त्यप्रसाधनं कृत्वानुयाते प्रणयित्रजे । जलप्रवेशसङ्कल्पादृष्टपारसरोज्गमत्. ।। ११२० ॥ अथ विज्ञातवृत्तान्तखेचरेन्द्रविसर्जितः प्रकर्षाख्यः । प्रतीहारः परोभूय व्यजिज्ञपत, ॥ ११२१ ॥ "देवि ! त्वजनको वक्ति, "युक्तं मोक्तुं स्वजीवितम् । भवान्तरगतप्रीतेः पत्यूर्गुणनिधेः कृते. ॥ ११२२ ।। निमित्तैः किन्तु निश्चित्य कुमारस्य शुभं मया । अवधीकृत्य षण्मासानन्वेष्टुं पहिता नराः, ॥ ११२३ ॥ अन्विष्य यावदायान्ति ते चात्रामानुषोत्तरात, | तावदुत्सुकयापीह स्थातव्यं ननु वत्सया." ॥ ११२४ ॥ इत्थं निवारिता तेन गुर्वतिक्रमाक्षमा । वनवासमुरीकृत्य तत्रैवावस्थितिं व्यधात्. ॥ ११२५ ॥ फलादिकल्पिताहारा निशासु स्थण्डिलाशया । त्रिसन्ध्यं कृतदेवार्चा निन्ये सा मासपञ्चकम् ॥ ११२६ ॥ अद्यैकदिनशेषे च षष्ठे मासीक्षितुं दिनम् । अशक्तः श्वस्तनं, पित्सुगतोऽहं कामिकं भृगुम्. ॥ ११२७ ॥ अथाकस्मात्समागत्य खेचरैर्युक्तवादिभिः । दर्शितो देवपादान्तमिहानीयातिसत्वरम्." ॥ ११२८ ॥
For Private and Personal Use Only
Page #80
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
श्री तिलक मञ्जरी
॥३९॥
www.kobatirth.org
1
निशम्य स्मरन् सर्व गीर्वाणावासजं सुखम् । गन्धर्वकाय नेपथ्यमुपनीयाखिलं निजम् ।। ११२९ ॥ समं नभश्चरानीकैरेकशृङ्गशिरोमणिम् । तज्जिनायतनं गत्वा कृतादिजिनपूजनः ॥ ११३० ॥ प्रियङ्गसुन्दरीस्नेहात् तद्विलोक्य पुनः पुनः । नाकलिप्या समुत्कीर्णी वाचयित्वाक्षरावलीम् ॥ ११३१ ॥ कृत्वा मलयसुन्दर्या संभाषमभियुज्य च । गन्धर्वकं निजोदन्तख्यापनाय तदन्तिके ॥ ११३२ ॥ परिवारोपदिष्टाध्वा दिव्यारामोदरस्थिते । अपश्यं कन्दलीगेहे देवीं तिलकमञ्जरीम् ।। ११३३ ।। सविषादसखीवृन्दोपनीतशिशिरक्रियाम् । लावण्यलक्ष्यां बालेन्दोर्लेखाशेषां कलामिव ।। ११३४ ॥ अथाभिवर्द्धसे देवि ! " प्राप्तोऽयं हरिवाहनः । राज्यं प्राप्योत्तराश्रेण्याच" इत्याकर्ण्य सखीजनात् ।। ११३५ ।। आरोप्योर सिजद्वन्द्वे जलाई च तदंशुकम् । सहसोत्थाय निक्षिप्तचक्षुषं तामवादिपम्, ॥ ११३६ ॥ "अलं देवि ! प्रयासेन, लेखाशेषेण तेऽमुना । वपुषैवाल्पदुःप्रायः स्वमसादः प्रकाशितः ॥ ११३७ ॥ प्रसीदाध्यास्त्र पर्यङ्कम्."त्युक्त्वा रत्नविष्टरम् । अध्यतिष्टं सखीदत्तं त्वमेवाथ समागतः " ।। ११३८ ॥ इत्थं समरकेतोः स्वं गजापहरणादिकम् । वृत्तं निवेद्य त्रिरते कोशलाधिपनन्दने ।। ११२९ ।। पार्श्ववर्त्ती जनः प्रीतश्चन्द्रकेतोः सुतं विना । स तु तूष्णीक एवास्थान्निःश्वासध्या मिताधरः ।। ११४० ॥ ""पूर्व जातिस्मृते नूनमयं शोकेन पीडितः " । इति ध्यात्वा सखेदस्तमुवाच हरिवाहनः ॥ १९४१ ॥ "युवराज ! किमाचारस्तवेतरजनोपमः । भवान्तरस्य चिन्ता हि स्वमविज्ञातसन्निभा ॥। ११४२ ।। -तद्विधायाधुना धैर्य, कृत्यं कालोचितं कुरु । समाश्वासय शोकान्धिमनां मलयसुन्दरीम् . " ।। ११४३ ॥
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
कथा सार,
॥३९॥
Page #81
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
ततस्त्रपानतोऽवादीदङ्गनाथः "कुमार ! मे । किमुक्तेन, तदाश्वासे यत्नश्चेत्कञ्चिदादिश. ॥ ११४४ ॥ अस्मदागमनोदन्तं ज्ञापय, अहं तु विप्रियम् । तस्याः पूर्वभवात्कृत्वा नास्यं दर्शयितुं क्षमः." ॥ ११४५ ॥ अथ विज्ञापयामास दण्डिनी हरिवाहनम्, । "विजनं क्रियतां देव ! खेचरस्त्वां दिदृक्षते ॥ ११४६ ॥ विचित्रवीर्यप्रहितो द्वारि कल्याणकाभिधः । श्रावयिष्यन् कमप्यर्थ कमनीयतमं तव." ॥११४७ ॥ अथोत्थितेषु तच्छ्रुत्वा सिंहलेन्द्रसुतादिषु । प्रवेशितःप्रतीहार्या नत्वासौ लेखमक्षिपत्. ॥ ११४८ ।। उपनीतासनासीने तस्मिश्च हरिवाहनः । सादरस्तमुपादाय सप्रमोदमवाचयत्,-॥ ११४९ ॥ "स्वस्ति, श्रीमत्रिकूटाद्रेनूपचक्रनतक्रमः । देवो विचित्रवीर्याख्यः स्वःपुरीरम्यताजुषि ॥ ११५० ॥ श्रीमत्यागुत्तर श्रेणी कीर्तिगङ्गाहिमाचलम् । महाराजाधिराजस्य नन्दनं हरिवाहनम् ॥ ११५१ ।। संयोज्य सकलक्षोणिविजयाधिगमाशिषा । सुखयत्युदितानन्दं स्वदेहारोग्यवार्त्तया. ॥ ११५२ ॥ परिकल्प्य वरत्वेन सिंहलाधिपनन्दनम् । मया मलयसुन्दर्याः प्रारब्धोद्वाहनक्रिया. ॥ ११५३ ।। आनीता च निजावासमियं कल्याणभागिनी । तथैव वल्कलच्छन्ना, ज्ञातिलोको निमन्त्रितः ॥ ११५४ ॥ स्थापितं च शुभं, अम्लइत्ययं मदुपक्रमः । न यथा हास्यतां याति, कृत्यं कल्पायुषा तथा." ॥ ११५५ ।। विचार्य चास्य तात्पर्यमुवाच हरिवाहनः,-1 "युवराजः समायातस्तातेन विदितः कथम् ? ॥ ११५६ ॥ कथं चाय वरत्वेनाज्ञातशीलोऽप्युरीकृतः ? । इत्युक्तः सोऽवदद,-"देव ! सर्व वच्मि निशम्यताम्, ॥११५७।। सख्या तिलकमञ्जर्याः समतिक्रान्तवासरे । मृगाङ्कलेखया देवी पत्रलेखाऽभ्यधीयत,-॥ ११५८ ॥
For Private and Personal Use Only
Page #82
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीतिल-18
कमजगी ॥४015
"वर्द्धसे युगपदेवि ! द्वतीयीकवरोत्सवे । प्राप्त मलयसुन्दाः " इत्युदीर्य यथाश्रुतम् ॥ ११५९ ॥ उक्तं तिलकमञ्जर्याः देवेनैवाद्यदर्शने । कुमारं समरकेतुं वरीतारं अवेदयत्. ॥ ११६० ॥ इति श्रुत्वाऽवदद्देवी तूर्णं मलयसुन्दरीम्,“ । सख्यानय येन चक्षे विवाहमुभयोरपि" ॥ ११६१ ॥ सा प्रत्युवाच, "देवीदं युक्तं, किन्तु विधेयता । अस्मिन् विचित्रवीर्यस्य ज्ञानिना मुनिनोदिता, ॥ ११६२ ॥ तदादिश तमेवाहं येन गत्वा प्रवर्तये." । तथेत्युक्त्वा तथा सा च व्यधात् सर्वं यथोदितम् ॥ ११६३ ।। तत्सर्वमिति विज्ञप्तं देवादिष्टं मयाधुना, । कुमारः प्रेष्यतां लग्नं प्रत्यासीदति साम्प्रतम् ॥ ११६४ ॥ प्रशान्तवैरादानीता सम्पत्येवातिदुर्बला । तरङ्गलेखा स्पृहयन्त्याशुगन्धर्वकागमम् , ॥ ११६५ ।। युक्तः काञ्चीपतेलोको विद्याधरजनैः सह." । इत्युक्ते समरकेतुमाहास्त हरिवाहनः ॥ ११६६ ॥ सहासमभ्यधाच्चेनमाबद्धकरसम्पुटः, । "चम्पाधिप ! किमद्यापि चिन्तयसि ? उद्यमं कुरु. ॥ ११६७ ॥ अनुतिष्ठ गुरोर्वाक्यम्, अद्यापि त्वयि वीक्षिते । वल्कलानां परित्यागं कर्त्ता मलयसुन्दरी." ॥ ११६८ ॥ इत्युक्त्वा तं सुवेलाद्रौ खेचरानीकसंयुतं । प्रहित्य सायमावासं ययौ स्वं हरिवाहनः ॥ ११६९ ॥ अतीतायां च शर्वयां कृतप्राभातिकक्रियः, । कृतोपचारः सततं चक्रसेनमहीभुजा, ॥ ११७० ॥ प्रेषितराप्तपुरुषैः कृतप्रीतिप्रकाशनम्, । एकदा च जगामैनं द्रष्टुमल्पपरिच्छदः ॥ ११७१ ॥ परापदक्षिणश्रेणिमनेकपुरशोभिताम् । देवतायतनारामसर श्रेणिमनोरमाम् ॥ ११७२ ।। आकर्णितागमेनाथ विहायश्वरचक्रिणा । प्रत्युद्दम्य निजावासं नीतो विरचितोत्सवम् ॥ ११७३ ॥
Phool
For Private and Personal Use Only
Page #83
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
SUMANGAROORKEUR
तत्रानेककृताचारो विहितस्नानभोजनः । कियन्त्यपि द्विनान्यस्थाचक्रसेनानुरोधतः ॥ ११७४ ॥ आयातेज्य प्रशस्तेऽहि मिलितानेकभूपति । निर्मापितपुरीशोभं भोजितज्ञातिसन्तति ॥ ११७५ ॥ सम्पूजितगुरुश्रेणि पूरितार्थिमनोरथम् । तस्मै विद्याधरेन्द्रेण ददे तिलकमञ्जरी. ॥ ११७६ ॥ तामुद्वारा दिनान्येष स्थित्वात्रैव कियन्त्यपि । कृतार्थीकृत्वा निःशेषानुभयश्रेणियाचकान् ॥ ११७७ ॥ पुरो भागे समारोप्य देवीं तिलकमञ्जरीम् । धृतातपत्रः सद्भूषमारूढो जयवारणम् ॥ ११७८ ॥ सम खेचरचक्रेण जगाम नगरं निजम् । तुङ्गमासादशृङ्गस्थसकौतुकपुराङ्ग नम्. ॥ ११७९ ॥ प्रविश्य च. निजावासे विहितानेकमङ्गलः । समं तिलकमञ्जर्या बुभुजे भोगसन्ततिम्. ॥ ११८० ॥ ततः कतिपयाहेषु सिंहलेन्द्रस्य नन्दनम् । आनेतुं प्रेषयामास प्रधानपुरुषाग्निजान्. ॥ ११८१ ॥ सोऽपि विद्याधरेन्द्रेण साभ्युत्थानं निजे गृहे । नीत्वा मलयसुन्दर्याः कारितोद्वाहमङ्गलः ॥ ११८२ ॥ स्थानस्थानकृतप्राज्यपूजोबन्धुभिरन्वहम् । गुरूनापृच्छय सम्पाप विजयार्द्धमहीधरम्. ॥ ११८३ ॥ नृपत्वमुत्तरश्रेणौ कोशलाधिपतेः सुतः । प्रीतिपडीकृतस्तस्मै साधिकारगणं ददौ. ॥ ११८४ ।। श्रुत्वा च खेचरालिभ्यश्चरित्रं विस्मयावहम् । आहूयानुगतं भूपैश्चन्द्रकत्वात्मजादिभिः ॥ ११८५ ॥ विधिवत्तं प्रशस्तेऽह्नि राजा श्रीमेघवाहनः । प्रीतो निवेशयामास हैमे सिंहासने निजे. ॥ ११८६ ॥ पारेभे च स्वयं कर्तुं परलोकस्य साधनम् । स्वमूनोः स्पर्द्धयेवासावुद्धत्तोरुक्षमाभरः ॥ ११८७ ॥ चैत्यालीपु महामहं, गुरुजने भक्तिं दधानोऽन्वहं, दुष्टशारातिषु दण्डपातनभियं, मित्रेषु राज्यश्रियम्, ।
#GHAHAHAHAHIRIASIAS
For Private and Personal Use Only
Page #84
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सुञ्जानः सह चक्रसेनसुतया संसारसारं सुख, चक्रे श्रीहरिवाहनोऽपि सुचिरं चक्रित्वमुर्वीतले. // 1188 // श्रीतिलमञ्जरी है // 41 // कया सार *SARSHASHASHTR इति श्रीतिलकमञ्जरीकथासारं श्वेताम्बरपं० लक्ष्मीधरकृतं समाप्त. एकाशित्या समधिकरविशतविक्रमगते समानिवहे [ 1281] शुचिसितपक्षतिरविवारहरभं ध्रुवयोगबवकरणे // 1 // [संवत् 1281. शुक्लपक्षे रविवारे आानक्षत्रे ध्रुवयोगे बवकरणे ग्रन्थरचना, इत्यथ.-संशोधकः] इदमस्यां चक्रेलेखयां तिलकमञ्जरीकथासारम् / श्रीमत्मसन्नचन्द्रस्य शीलभद्रेण शिष्येण संवत् 1474 वर्षे लिखितं श्री डूंगरपुरे // GORICARROR A For Private and Personal Use Only