Page #1
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
।। अहम् ॥ तपोमूर्तिपूज्याचार्यदेव श्रीविजय कपुरसरिभ्यो नमः श्रीरुद्रपल्लीयगच्छीयाचार्य श्रीवर्धमानसूरिविरचितः ॥ श्रीस्वप्नपदीपः (स्वात्मावबोधजस्वप्नाधिकारः)॥
॥ अथ दैवतस्वप्नविचाररूप. प्रथम उद्योतः॥ . परात्मानं नमस्कृत्य परमात्मावबोधजम् । पूर्वशास्त्रानुरोधेन किश्चित्स्वप्नफलं ब्रुवे ॥१॥ स्वप्नश्चतुर्विधः प्रोक्तो देवः स्वानुभवप्रजः । धातुप्रकोपजश्चैव चिन्तोद्भूतश्चतुर्थकः ॥२॥ द्वावाद्यौ सफलावन्यौ निष्फलौ द्वौ दिवानिशम् । आयः सदा द्वितीयस्तु निशि सौख्यस्थितस्य च ॥३॥ देवयक्षादयो विप्रा गावो राजा च लिङ्गिनः । पितरो देवमतिश्च वाक्चेष्टैषां च दैवतम् ॥४॥ सुखस्थस्य महास्वप्नः पूर्वकर्मानुसारतः । यो भाविसूचकः स्वप्नः स शेयः स्वानुभावजा ॥५॥ वातपित्तमलश्लेष्म-मूत्रमालिन्यरोगज: दुःशय्यादिभवः स्वप्नः स शेयो दोषजोऽफलः ॥६॥
For Private And Personal Use Only
Page #2
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चिन्तावियोगदुश्चेष्टा-दिनकृत्यस्मृतिभ्रमात् । कोऽपि यो जायते स्वप्नो वंध्याश्चिन्तोद्भवः स तु ॥७॥ एकद्वित्रिचतुर्याम... प्रान्तस्वप्नफलं क्रमात् । वर्षाष्टवेदकै मास-स्तदिने वा दिनत्रये ॥८॥ दैवतस्त्रिविधः स्वप्नो दर्शनालापचेष्टितैः । क्रमेण त्रितयं वक्ष्ये फलं वच्मि समासतः ॥६॥ अहंदबुद्धमहादेव-विरश्चिगरुडध्वजाः अम्बिकायक्षगन्धर्व-क्षेत्रपालादयः सुराः ॥१०॥ शास्त्रोक्तविधिना वर्ण-कलशायुधवाहनाः । सौम्या सुखानि यच्छन्ति स्वप्ने दृष्टा न संशयः॥११॥ फलशाखाभृतो वंश-वृद्धिं दीर्घा महोन्नतिम् । चारुवस्त्रं राजमान्यं लक्ष्मीपति सभूषणाः ॥१२॥ पुष्पादिवृष्टिं कुर्वाणा महोत्सवकराः परम् । ध्यानस्तिमितनेवास्तु महाज्ञानप्रकाशकाः ॥१३॥ एते विकटरूपाश्च दुःखशोकप्रदा नृणाम् । हस्वा मानविघाताय दीना देन्यप्रदायकाः ॥१४॥ रुदन्तो बहुशोकाय नग्ना दारिद्र यहेतवे । पलायमाना भाषन्ते ' परचकोद्भवं भयम् ॥१५॥ युद्धाय स्युः कम्पमानाः कुशा दुर्भिक्षकारिणः ।। रोगं मलिनमूनो दारिद्र यं भूषणोज्झिताः ॥१६॥
For Private And Personal Use Only
Page #3
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गायन्तश्च इसन्तश्च नृत्यन्तो मृत्युदायकः । इस्ताद्धस्तं पृष्टहस्तं यच्छन्तो भयभञ्जनाः ॥१७॥ स्नानान्ते पतनपरा दोषमुच्छिष्टतां भयम् । कथयन्ति महापापं स्वादन्तो खाद्यमुत्तमाः ||१८|| जय जीव तथा नंद सुखं तिष्ठ स्थिरीभव | इत्यादि वचनं तेषां सर्ववाञ्छितदायकम् ॥१६॥ पत गच्छ म्रियस्वेति वचन दुःखदं पुनः । शुभाशुभकरी चेष्टा दुश्चेष्टेषां न शोभना ॥ २० ॥ तेषां च प्रतिमाः स्वर्ण - रूप्यरत्नविनिमिताः । धातुश्वेताश्ममय्यश्व स्वप्ने दृष्टाः सुखावहाः ॥ २१ ॥ अस्थिकाष्ठदृषद्दन्त — लोह लेप्यक्षताश्च ar: 1 भग्ना व्यङ्गा दुःखकरा ग्रन्थिमत्यो न शोभनाः ॥२२॥ स्वेदनिर्लोठ रुदन - रक्तोद्गारस्मितान्विताः गीतनृत्यकम्पयुक्ता मृत्य्वापदुःखदायकाः दुःस्थानक स्थिताः पूजां काङ्क्षन्ति प्रतिमा ध्रुवम् । अपूजा भ्रष्टगेहाथ तद्भ्रशं कथयन्ति ताः ॥ २४ ॥ पितरो मृततुल्याच प्रहृष्टाः श्वेतवाससः सभूषणाः शुभाचाराः स्वप्ने कुशलकारिणः स्युः श्राद्धकाङ्क्षिणः क्षामा नग्ना वसनकाङ्क्षिणः । श्मशानवनमध्यस्था याचन्ते स्थानमात्मनः
।
॥२३॥
I
॥२५॥
॥२६॥
For Private And Personal Use Only
Page #4
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
रुदन्तश्च वियोगाय क्लेशाय मलिनाम्बरः '
गायन्तश्च हसन्तश्च कथयन्ति महोत्सवम् ॥२७॥ पुत्रप्रदाः फलकराः शुभदाश्च पयःकराः । स्वप्ने यद्यत्प्रयच्छन्ति तत्तल्लाभं विनिदिशेत् ||२८|| कथयन्ति च यद्वाक्यं पितरस्तन चान्यथा । तृष्णातुरजलाकाङ्क्षा मुक्तकेशाः क्षयङ्कराः ॥२६॥ मुण्डिता दीक्षिताश्चैव कथयन्ति कुलक्षयम् । लिङ्गिनः स्वस्ववैषाढ्या निष्पापाः शान्तमूर्तयः ॥ ३० ॥ शुभचेष्टाः शुभाकाराः शुभं यच्छन्ति देहिनाम् । मुनयो गौतमाद्या ये ते हृष्टाः सत्फलप्रदाः ॥ ३१ ॥ पुनः पुनः स्वप्नदृष्टाः स्वस्वदेवप्रसाददाः । क्रूरास्तद्देवकोपाय चामा दारिद्रयचकाः । ३२ || अन्यान्यदेषाः प्रभ्रष्टा गीतनृत्यस्मितान्विताः । दुर्भाषणाश्च दुःशीला न शुभाः कापि लिङ्गिनः ॥ ३३॥ द्विजास्तु लिङ्गित्रद् ज्ञेयाः सुभाषा वेषशालिनः । मुण्डितखं जटालत्वं स्वशुभं च विशेषतः ||३४|| गावः चीरं सवन्त्यस्तु सवत्सावातिशोभनाः । आरोग्यं कुलवृद्धि च भूमिलाभं वदन्त्यभूः ||३५|| दीनाः कृशा भग्नयुङ्गा रुदन्तः कुलनाशदाः । कौसुम्भवेषा मरणं कथयन्ति गवां गणाः ||३६|
1
For Private And Personal Use Only
Page #5
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भिक्षार्थिनः पुण्य लाभं पूर्णपात्रा महाश्रियम् । आशीमुखा वंशवृद्धि कथयन्त्येव लिङ्गिनः ॥३७॥ मृता धृतव्रणाश्छिमाः पलायनपरायणाः । ध्रुवं दिशन्ति वै गावो देशक्षयकुलक्षयौ ।।३।। नृपा सिंहासनासीन-छत्रवस्त्रोपशोभितः । सभूषणो हयारूढो रथेमनरवाहनः ॥३६॥ सुवाक् शस्त्रकरश्चैव स्वप्ने दृष्टो महार्थदः । पूर्वोक्ताद्विपरीतस्तु दुःखशोकप्रदो नृणाम् ॥४॥ दण्डभृन्मरणं दत्ते दारिद्र यं पादचारगः । नृपः यस्य समासेन स्थापनं कुरुते मुदा ॥४१॥ स्वप्ने तस्य विनिर्देश्यं राज्यं वा स्वर्गमेव च । देवाः प्रव्रजिता विप्रा गावः पितर एव वा॥४२।। नृपाः स्वप्ने वदन्त्यत्र यत्तत्सत्यं न संशयः। मलमूत्रवातपित्त-श्लेष्मरोगप्रकोपतः ॥४३॥ एतेषां दर्शनं भाषा निष्फलाश्चिन्तनादपि । इत्येतदैवतं स्वप्नं द्विजलिङ्ग्यादिमेदतः ४४।। इति रुद्रपल्लीयगच्छे श्रीवर्धमानसूरिकृते स्वप्नप्रदीपेस्वात्मावबोधजस्वप्नाधिकारे देवतस्वप्न
विचाररूपः प्रथम उद्योतः ।।१।। ' .
-
For Private And Personal Use Only
Page #6
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
सिंहरत्नोघगिरयो
पुरीषमसिमत्स्याश्र
६
Acharya Shri Kailassagarsuri Gyanmandir
॥ अथ द्वासप्ततिमहास्वप्न विचारो द्वितीयोद्योतः ॥
||२||
धातुप्रकोपजः स्वप्न - चिन्तास्वप्नच निष्फलः । व्याख्यानमेतयोर्लोके निष्फलत्वान्न कथ्यते || १ || आत्मावबोधजः स्वप्नः क्रमाद्वयाक्रियतेऽधुना । स्वदेहपर देहादि - चेष्टाभिः सोऽप्यनेकधा द्वासप्ततिमहास्वप्ना व्यतिरिक्ताश्च देहतः । तेषां त्रिंशच्छुमफलाः शेषा दुष्टफलाः पुनः ॥३॥ अन् बुद्धो हरिः शम्भु - ब्रह्मा गुह्यविनायकौ । लक्ष्मीगौरी नृपो हस्ती गौबृपः शशिभास्करौ ||४॥
विमान गेहज्वलनाः
गम्बुधिसरोवराः 1 ध्वजः पूर्णघटस्तथा ॥ ५॥
कल्पद्रुसफलद्रुमाः I 'इति त्रिंशच्छुभा : स्वप्ना दृष्टाः सत्फलदायकाः ॥ ६ ॥ सर्वे दृष्ट्टा राज्यकरा ऊना भूरिधनप्रदाः । एकं द्वयं त्रयं चापि दृष्टवंशानुसारतः ॥ ७॥ राजमान्यधनप्राप्ति - विद्यालाभकरं परम् | एषाञ्चैव करारोहो करारोहो धनपुत्रादिलाभदः ||८|| एपामारोहणं चैव स्वस्वराज्यपदप्रदम् 1 एषां स्वदेहे विशनं राज्यभोगप्रदायकम् ॥६॥
For Private And Personal Use Only
Page #7
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
एषां देहे प्रवेशस्तु शोकदुःखादिकारकः । स्त्रीणां गर्भसमावेश एतेषन्यतमस्य च ॥१०॥ प्रवेशो जठरे तस्याः पुत्रस्य पदमुत्तमम् । चतुर्दशानामेतेभ्य: स्वप्मे मुखप्रवेशतः ॥११॥ स्त्रीणामहेश्चक्रिणोध जन्मसारस्य सूचकम् । सप्तानां वासुदेवस्य चतुर्णा साविकस्य च ॥१२॥ द्वयोमहानरेन्द्रस्यै--कस्य स्यान्मण्डलेशितुः । नृणां राज्यप्रदा ज्ञेया अल्पाल्पधनदायकाः ॥१३॥ एते त्रिंशन्महास्वप्ना व्यतिरिक्ताश्च देहतः। शुभाशुभफलाः श्रेष्ठाः प्राणिनां हर्षदायकाः ॥१४॥ द्विचत्वारिंशदधुना दुःस्वप्ना देहवर्जिताः । महापापा महाघोरा दुःखदा शोकदा नृणाम् ॥१५॥ गन्धर्वा राक्षसा भूताः पिशाचाश्चापि वुकसाः । महिषा हि नवनाथ कण्टकद्नदीगणः ॥१६॥ खर्जश्मशानदासेराः खरमार्जारकुक्कुराः । दारिद्र यकूपसङ्गीत-नीचत्रामणभृतयः ॥१७॥ अस्थिच्छदितमाकुस्त्री--चमेरक्ताश्मवामनाः । कलहो विकृता दृष्टि: शोषचापि महाम्भसाम् ।।१८॥ भकम्पबहरागौ च निर्घातो भङ्ग एव च । पृथिवीमजनं चैव ताराणां पतनं तथा ॥१६॥
For Private And Personal Use Only
Page #8
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चंद्रसूर्यादिविस्फोटो महावायुमहातपः । दुर्वाक्यानि द्विचत्वारिं--श स्वप्नाः प्रकीर्तिताः ॥२०॥ दर्शनं स्पर्शनं चैषां प्रवेशारोहसङ्गमाः । आगमः श्रवणं चैव स्वदेहे विशनं तथा ॥२१॥ देशे ग्रामे स्थितिश्चैषां महाकष्टप्रदायिनी। , महारोगमहादुःख--महापापकरा अमी ॥२२॥ स्त्रीणां वैधव्यजनका नृपाणा राज्यमनन्दाः । . देशस्य नाशकर्तारी मुनेधर्मक्षयङ्कराः ॥२३॥ अन्येषां पतनायैव देहाद्र वंशात्पदादपि । मृत्यवे कापि जायन्ते प्रध्वंसाय निरन्तरम् ।२४॥ इति. द्वासप्ततिस्वप्ना निजदेहादहिर्गताः । व्याख्यातं फलमेतेषां पूर्वशास्त्रानुसारतः ॥२५॥ नरा विहङ्गास्तिव्येचो वस्तून्यन्यानि यानि च । स्वप्ने शुभानि भद्राय विपरीतानि चान्यथा ॥२६॥ इति रुद्रपल्लीयनच्छे श्रीवर्धमानसूरिकृते स्वप्नप्रदीपे स्वात्मावबोधजस्वप्नाधिकारे द्वासप्ततिमहास्वप्नविचारो द्वितीयोद्योतः समाप्त: ।। २ ।।
For Private And Personal Use Only
Page #9
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
|| अथ शुभस्वप्नविचारस्तृतीयोद्योतः ।। ये स्वदेहवहिता-स्तेऽत्र स्वप्ना निदर्शिताः। स्वदेहपरदेहाभ्यां दर्श्यन्ते सङ्गताः परे ॥१॥ पूर्व शुभाः प्रदर्श्यन्ते-ऽप्यशुभास्तदनन्तरम् । स्वप्नानन्तरकर्तव्यं वक्ष्यामश्च ततः परम् ॥२॥ गजारोहे प्रभुत्वं स्या--द्धर्मों गोवृषरोहणे । गवां रोहे महीप्राप्तिः शैलारोहे महोन्नतिः ॥३॥ कुलवृद्रुि मागेहे प्रासादारोहणे धनम् । प्रभुत्वं तुरगारोहे श्वेतं श्रेष्ठं परे परम् ॥४॥ हंसारोहे महाकीर्तिः सिंहारोहे महाबलम् ।। धनं स्यात्पुरुषारोहे बेडारोहेऽप्यरोगताम् ॥५॥ मन्त्रित्वं वाहनारोहे पद्मारोहे श्रियां ततिः । पाल्यारोहे स्वामिसेवा महिलारोहणे शुभम् ॥६॥ स्वस्य स्वस्यैव हि फलं परस्य परदर्शने । द्रव्यलाभे परं द्रव्यं फललामे सुतोद्गमः ॥७॥ तुरङ्गलामे स्वामित्वं गजलामे च राज्यता । श्रीलामे च महालक्ष्मी-गोलाभे भूमिभत्ता ॥८॥ प्रतापो वहिलामे तु दीपलामे चिदात्मता। धर्मः स्याद् वृषलाभे तु पक्षिलामे सुभोगता ।। ६ ।।
For Private And Personal Use Only
Page #10
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०
द्रविणं मांसलामे तु प्रमोदो मद्यलाभतः । घृतमीनादिलामे तु भवेद् गृहमहोत्सवः ॥१०॥ उपानहाँ पादुकानां छत्रवाहनयोरपि । खड़गस्य लामे निर्देश्यं निश्चयात् स्वजनं नृणाम् ॥११॥ कुकटीवडवाक्रोञ्ची--महिषीणां च लाभतः ।। . पक्षिणानां च जायेत स्त्रीलाभो नात्र संशयः ॥१२॥
शस्यलाभे विवाहः स्यात् प्रीतिस्तम्बूललामतः । वस्त्रलामे च सन्मानं पदं दुग्धस्य लामतः ॥१३॥ मञ्जिष्ठादिद्रव्यलामे स्वजनैः प्रीतिरुत्तमा । शृङ्गारचामरादीनां लामे सिंहासनस्य च ॥१४॥ सौभाग्यमायुरारोग्यं राज्यं चैव विनिर्दिशेत् । सिद्धिः स्यान्मन्त्रलाभे तु धान्य लाभे धनं धनम् ॥१५ महत्त्वं रत्नलामे तु प्रभुता नरलाभतः । इत्यादिशुभवस्तूना लामा सर्वसुखावहः ॥१६॥ क्षीरामभोजने विद्या यशस्तु दधिभोजने । पञ्चगव्याशने कल्यं सर्पिषो भोजने जयः ॥१७॥ नरमांसाशने लक्ष्मी--नृपत्वं नृशिरोऽशने । शेषमांसाशने द्रव्य-मामे पक्के सुखं पुनः॥१८॥ तिलमाषखलान् मुक्त्वा शेषान्नस्याशने धनम् । मद्यपाने महालाभो जलपानेऽप्यरोगता ॥१॥
For Private And Personal Use Only
Page #11
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
फलादिखादने नृणा-मचिन्तितधनागमः । नृखादने महीशत्वं पुण्यं स्याद्धिमखादने ॥२०॥ पीनश्वेतादृतिभृतो नार्या आलिङ्गनं शुभम् । सुहृदालिङ्गनं श्रेष्ठं नृपालिङ्गनमिष्टदम् ॥२१॥ आलिङ्गनं जीवतां च तस्तैः प्रीतिकरं परम् । लेपश्चन्दनविण्मूत्र---दध्नामधिकलाभदः ॥२२॥ अगम्यागमनं श्लाघ्यं विना शुकविरेचनैः । मलिनास्वरतं विद्यात् सस्त्रीसुरतं शुभम् ॥२३॥ चुम्बनालिङ्गनरत-- स्तनमर्दनकर्म यत् ।। तन्नृणां शुभदं स्त्रीभि-यदि क्षरति नो बलम् ॥२४॥ देवीप्रसादजनकं लक्ष्मीवृद्धिसुखप्रदम् । बीजभ्रशं विना नारी--स्पर्शनालिङ्गनादिकम् ॥२५॥ देहे नारीप्रवेशस्तु . महाश्रीराज्यदायकः । पुष्पवृष्टिः पुष्पलाभः स्वर्णवस्त्रादिवरणम् ॥२६॥ तत्र देहे स्वदेहे च सुखवृद्धिकरं परम् । देहस्य ज्वलने सौख्यं शय्यादिज्वलने तथा ॥२७॥ गृहस्य ज्वलने लक्ष्मी--मिदाहे तटीशिता । ज्वलने सर्व देशस्य महाराज्यं विनिर्दिशेत ॥२८॥ वस्त्राणि क्षालयन्नृणामृणमुक्ति विनिर्दिशेत् । हस्तयोः क्षालने भोगान् पादशौचे च पूज्यताम् ॥२६॥
For Private And Personal Use Only
Page #12
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२
परस्त्रीणां च सम्भोगे तेषां लक्ष्मीविकर्षणम् । महिष्यश्वीगवां भोगे ध्रुवमारोग्यतां दिशेत् ॥ ३०॥ नाभौ वल्लीद्रुमादीनां प्ररोहे राज्यमुत्तमम् । अन्त्राणां वेष्टनं द्रंगे तदीशत्वप्रकाशकम् ॥३१॥ सर्पदंशात्करे लाभः साहस्रो दशमे दिने । श्वेतसर्पस्य भृङ्गस्य भ्रमर्या वृश्चिकस्य च ॥३२॥ जलौकसो गजाध्ध्वंसः स महालाभहेतवे । रज्जूभिर्निगडैर्बन्धो विवाहः सुतकारकः ॥३३॥ मरणं स्त्रायुषो वृद्धयै महासन्मान लाभदम् । शूलारोहो राज्यदायी चर्मप्रावरणा धनम् ||३४|| शास्त्रपाठो विवेकाय भक्ष्यपाकश्च लाभदः । द्यूते वादे रणे चैव जयो विजयते ध्रुवम् ||३५|| राज्यं च शिरसो मेदा-त्सप्तधातुवधात् त्रिधा । गोशृङ्गतारा सूर्येन्दु-भुतकीलालपानतः
-113811
ध्वजालिङ्गनतस्तथा ।
नाभेर्जलोद्भवाच्चैव सिंहसर्पव्याघ्रघाता- मणिपात्रे च भोजनात् ||३७|| गिरिदुमोन्मूलनाच्च राज्यमेव विनिर्दिशेत् । स्वाङ्गकर्तनतः सौख्यं दर्पणस्यापि लाभतः ॥ ३८ ॥ मुद्रावीणासजो लाभात् पृष्ठमानी समागमम् | पातात् प्रतोलीदुर्गादे - निर्भयत्वं चिरं भवेत् ॥ ३६ ॥
For Private And Personal Use Only
Page #13
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कूपदिलङ्घनालाभः कोऽप्यचिन्त्यः प्रजायते । तारासूर्येन्दुसंस्पर्शे महत्त्वं महदादिशेत् ॥४०॥ यदुक्तमेषां मध्ये तु जागरे दुःखसंश्रयम् । तच्छुभं शेषमशुभं स्वप्ने प्रोक्तं विचक्षणः ॥४१॥ शुभमप्यशुभं यच्च स्वप्ने कथितमुत्तमः । तत्तथा शेषमादिष्टं निद्यं नियं शुभं शुभम् ॥४२॥ इति रुद्रपल्लीयगच्छे श्रीवर्धमानसूरिकृते स्वप्नप्रदोपे स्वात्मावबोधजस्वप्नाधिकारे शुभस्वप्नविचार
स्तृतीय उद्योतः समाप्तः ॥ ३॥ ।। अथ अशुभस्वप्न विचारश्चतुर्थ उद्योतः ।। अथ दुःस्वप्नजफलं यथाशास्त्र प्रकाश्यते । रोगचिन्ताधभावेन जायते तस्य निश्चयः ॥१॥ सङ्गीते निश्चयाच्छोको हास्ये बैलक्ष्यमञ्जसा । नृत्ये कुलस्य पीडा च रोग: स्यादेहभूषणे ॥२॥ रक्तगन्धः स्त्रगासङ्गे मरणं वा महागदः । मातगर्भप्रवेशे तु सङ्कट महदादिशेत् ॥३॥ नखकेशश्मश्रुद्धौ ऋणरोगौ न संशयः । यावन्न मुण्डनस्वप्नः पुनरेव हि जायते ॥४॥ नामेरन्यत्र दुर्वाद-प्ररोहे न शुभं कचित् ।। पक्षिनीडो निजे देहे ध्रुवं दारिद्रयकारकः ॥५॥
For Private And Personal Use Only
Page #14
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रासादगृहवृक्षाद्रि-भृगुपातात्कुलक्षयः । यशोधनक्षयं विन्धा-देतेभ्योऽप्यवरोहतः ॥६॥ सक्लेशः स्याद् घृतप्रासे सङ्कटं जलमजने ।। जलस्नाने मुण्डने च हानिरेव सुनिश्चिता ॥७॥ तैलाभ्यङ्गे महारोगो दुबुद्धिस्तैलपानतः ।। पाषाणक्षीरकटुक-तिलभक्षणतो मृतिः ॥८॥ अङ्गारास्थिगुडानां च भक्षणे स्यादरिद्रता ।। मालिन्यं मलिने वस्त्रे नग्ने वै दुःखिता ध्रुवम् ॥६॥ पिष्टपकादिकैलें-दुष्कर्मवरणं भवेत् । परस्य शरणप्राप्तौ निर्देष्टव्यं महाभयम् ॥१०॥ दहने मूत्रणे छौं रोगोत्पत्तिलघीयसी । शिरच्छेदे पदभ्रशो बाहुच्छेदेऽप्यवीर्यता ॥११॥ शस्त्रस्य देहविशने विज्ञेयं वैरिणश्छलम् । देहे वा व्यसने वापि छत्र वा वाहनेऽपि वा ॥१२॥ कज्जलादिप्रलेपेन महामालिन्यमादिशेत । छत्रभङ्गे भूमिकम्पे निर्घाते ग्रहणेऽपि च ॥१३॥ दिग्दाहे स्वप्नसम्भूते पृथिव्यां स्यादुपद्रवः । दुर्भिक्षमनुज्वलने विपद्वाहनभङ्गतः ॥१४॥ कृष्णं कृष्ण परीवारं लोहदण्डधरं नरम् । यदा स्वप्ने निरीक्षेत मृत्युर्मासैस्त्रि भिस्तथा ॥१५॥
For Private And Personal Use Only
Page #15
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स्वप्ने मुण्डितमभ्यक्तं रक्तगन्धं स्रगम्बरम् । यदा स्वप्नं निरीक्षेत मृत्युर्मासै स्त्रिभिस्तदा ॥१६॥ स्वप्ने स्वं भक्षयमाणं श्व-गृध्रकाकनिशाचरैः। उद्ययाणं खरोष्ट्राद्यैर्यदा पश्येत्तदा मृतिः ॥१७॥ छदिमूत्रं पुरीषं पा सुवर्णरजतानि वा । स्वप्ने पश्येद्यदि तदा मासान्नवैव जीवति ॥१८॥ शस्त्रघाते व्रणोत्पत्ति--दस्थ्यिं वस्त्रे पटचरे । मृतिम तालिङ्गने च दुःखं दुषदर्शने ॥१६॥ कवचादिपरीधाने विकारो रक्तसम्मका । कुशेन्धनादिसम्प्राप्तौ रोगे मृत्युः स्ववेश्मनि ॥२०॥ सर्पवृश्चिकखजूरैः प्रविष्टैः कस्य नाशिके । ध्रुवं भवेत्तयोश्छेदो बन्धनं सर्पवेष्टनैः ॥२१॥ स्तम्भभङ्गे मुख्यमृत्यु-गृहपाते कुलक्षयः । महाधृष्टौ महातापो दहने हिमपातनम् ॥२२॥ महानद्यादिपूरे च परचक्रे निजं भयम् । गिरिगे परचक्र' तु वृक्षशोषेऽप्यवर्षणम् ॥२३॥ अङ्गारसर्वपाषाण-रजोरक्तादिवृष्टितः । तत्र देशे विजानीयाद् दुर्भिक्षं राजविड्म्बरम् ॥२४॥ अशुभैः शकुनैः सर्वै स्वप्ने दृष्टैर्महीस्पृशाम् । यत्प्रत्यक्षः फलं शास्त्रे तदेव फलमादिशेत् ॥२५॥
For Private And Personal Use Only
Page #16
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६
मनोमोहः प्रजायते
I
दुःखं विदेशगमने राजदण्डे दरिद्रता । नीचकर्मादिकरणे किञ्चिद् दुःखं स्वकर्मजम् || २६ ॥ वल्मीकारोहणेक्ष्वेण्डभयं नियतमादिशेत् । रक्तस्य पतने हानिः श्रीनाशो मलवान्तितः ||२७|| भक्ष्ये श्वाने (शूनि) शृगाले च वानसे वानरेऽपि च । स्वप्ने शय्यां समायाते रोगो मृत्युश्च संकटम् ||२८|| रक्षोवेतालभृतेषु देहशय्यागतेषु च 1 आपन्मरणमादेश्यं छिद्रे सूर्यभुवो मृतिः ॥२६॥ नेत्र श्रवणयोनशे विवरादिप्रवेशश्च निधिलाभोज्झितोऽशुभः ॥ ३० ॥ मुद्रावर्जितताम्रायः - सी सर्वगादिलाभतः व्ययसायस्य नैष्फल्यं स्वप्ने कथितमुत्तमै ॥३१॥ रोगोत्पत्तौ मनोदुःखं नखनाशे दरिद्रता I शिरोवस्त्रादिपतने भवेद रिपराभवः ॥३२॥ अथान्यघातनात्पापं कार्यभङ्गः स्वपातनात् । देहे शल्य प्रवेशे तु शूलं नाडीव्रणं दिशेत् ॥३३॥ कौलीनं निष्फले चौर्ये रोगोऽप्यङ्गारमक्षणे । मृतकादिसमाकर्षे भवेद्भ्र णादिघातनम् ॥३४॥ काष्ठभारे समानीते गृहदाहो न संशयः । इत्याद्यशुभदा : स्वप्ना विबुधैः परिकीर्तिताः ||३५||
I
For Private And Personal Use Only
Page #17
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७
शकुनानि समस्तानि स्वप्ने दृष्टानि मानवैः । शुभानि स्युः सुखदानि दुःखदान्य शुभानि तु ॥३६॥ चाचामगोचरं यत्स्या - दचिन्त्यं यन्मनोरथैः । पूर्वपूर्वभवाभ्यस्तं दृश्यते स्वप्नगं हि यत् ॥ ३७|| चिन्ता प्रकोपाद्यभावे यत्स्वप्नं दृश्यते नरैः । तत्सर्वं सफलं बुद्ध्या व्याख्येयं शास्त्रधीमता ||३८|| अपरः स्वप्नविचारः कथं शास्त्रे निबद्धयते । यावान् पूर्व विनिर्दिष्ट - स्वावानत्रोदितो मया || ३६ || शेषं शकुनवच्छास्त्र - बुद्धिमादाय बुद्धिमान् । व्याकरोतु यथाबुद्धि यथौचित्याच्छुभाशुभम् ||४०||
इति रुद्रपल्लीयगच्छे श्रीवर्धमानसूरिकृते स्वप्नप्रदीपेस्वात्मावबोधजस्वप्नाधिकारेऽशुभ स्वप्न विचारचतुथ उद्योतः समाप्तः || ४ ||
॥ अथ शुभाशुभविचारः पञ्चम उद्योतः ॥ स्वप्नानन्तरकर्तव्यं कथयामि यथाविधि । किं कर्तव्यं शुभे स्वप्ने विरुद्धे क्रियते च किम् ॥ १ ॥ प्रकोपचिन्तानिर्मुक्तः स्वप्नं दृष्ट्ा शुभं नरः । प्रबुद्धो यस्तु जीवेति जय नन्देतिवाङ्मुखः ॥ २ ॥
||
For Private And Personal Use Only
Page #18
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुखासननिविष्टः सन् स्वप्नस्मरणतत्परः । निजेष्टदेवतामन्त्र-स्तोत्रनामग्रहान्वितः ॥३॥. नमोऽस्तु ते जगन्नाथे जगत्स्वामिनि चाम्बिके । प्रयच्छ प्रार्थयामि त्वां स्वप्नस्यामुष्य मे फलम् ॥ ४ ॥ इति वाणी वदन वारं-वारं शुभकथापरः । नयेद्विभावरी शेषां यावत्सूर्योदयो भवेत् ॥ ५॥ मलमूत्रे ह्यनुत्सृज्य दुःश्रवाच्छादितश्रवाः । मूर्खाणां कृपणानां च स्त्रीजितानां च पापिनाम् ।' ६ ॥ दुर्भाषिणां द्वेषिणां च खलानां गुरुनिन्दिनाम् । मुखान्यपश्यन्तेषां व्रजेत्स्वप्नमनुस्मरन् ॥ ७ ॥ राजानं स्वामिनं वापि मंत्रिणं बुद्धिशालिनं । गुरु विप्रं लिङ्गिनं च बजेत् स्वप्नाथेचाधिनम् ॥ ८॥ फलं पुष्पं तथा द्रव्यं तस्योगायनतां नयेत् । तं प्रणम्य महाभक्त्या स्वप्नं तस्याग्रतो वदेत ॥६॥ तन्मुखात्तत्फलं श्रुत्वा जय जीवेतियाग्नरः । पुनः प्रणम्य सत्कारं तस्य कुर्याद्विशेषतः ॥१०॥ स्त्रीणां च मूढबुद्धीनां बालानां पापिना पुरः । शुभं स्वप्नं न चाख्येयं न श्राव्यं तन्मुखात् फलम् ॥११॥ तथा विलोक्य दुःस्वप्नं पुनः शयनमाचरेत् । अमङ्गलं प्रतिहतं वाचमेवं वदेत्ततः ॥१२।।
For Private And Personal Use Only
Page #19
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 16 आख्येयं नैव कस्यापि मलं मूत्रं समुत्सृजेत् / स्नानं दानं जपं होमं विशेषेण समाचरेत् // 13 // उपवासं तद्दिने तु कृत्वा स्वप्नार्थवेदिनः / प्रणम्य तन्मुखात् श्रव्यं स्वप्नशास्त्रं समस्तकम् // 14 // एतेनैव विधानेन दुःस्वप्नः प्रलयं व्रजेत् / शुभः स्वप्नो द्वितीयस्यां रजन्यां जायते ध्रुवम् // 15 // इति रुद्रपल्लीयगच्छे आचार्यश्रीवर्धमानसूरिकृते स्वप्नप्रदीपे स्वात्मावबोधजस्वप्नाधिकारे शुभाशुभस्वप्नविचारे पंचमोद्योत समाप्तः // 5 // // इति श्रीस्वप्नप्रदीपः समाप्तः // Wi For Private And Personal Use Only