Page #1
--------------------------------------------------------------------------
________________
THE FREE INDOLOGICAL
COLLECTION WWW.SANSKRITDOCUMENTS.ORG/TFIC
FAIR USE DECLARATION
This book is sourced from another online repository and provided to you at this site under the TFIC collection. It is provided under commonly held Fair Use guidelines for individual educational or research use. We believe that the book is in the public domain and public dissemination was the intent of the original repository. We applaud and support their work wholeheartedly and only provide this version of this book at this site to make it available to even more readers. We believe that cataloging plays a big part in finding valuable books and try to facilitate that, through our TFIC group efforts. In some cases, the original sources are no longer online or are very hard to access, or marked up in or provided in Indian languages, rather than the more widely used English language. TFIC tries to address these needs too. Our intent is to aid all these repositories and digitization projects and is in no way to undercut them. For more information about our mission and our fair use guidelines, please visit our website.
Note that we provide this book and others because, to the best of our knowledge, they are in the public domain, in our jurisdiction. However, before downloading and using it, you must verify that it is legal for you, in your jurisdiction, to access and use this copy of the book. Please do not download this book in error. We may not be held responsible for any copyright or other legal violations. Placing this notice in the front of every book, serves to both alert you, and to relieve us of any responsibility.
If you are the intellectual property owner of this or any other book in our collection, please email us, if you have any objections to how we present or provide this book here, or to our providing this book at all. We shall work with you immediately.
-The TFIC Team.
Page #2
--------------------------------------------------------------------------
Page #3
--------------------------------------------------------------------------
________________
श्रीवृद्धिविजयगुरुभ्यो नमः ॥ श्रीअजितप्रभसूरिविरचितम् ॥ ॥ श्रीशान्तिनाथचरित्रम् ॥
श्रीमान् बर्द्धमानतपउद्धारक-आचार्यश्रीमद्विजयभक्तिसूरीश्वराणां पंन्यास कञ्चनविजयसंज्ञकानाञ्च सदुपदेशात श्रीमण्डवाडियाग्रामनिवासिश्रीमच्छेष्ठिवर्य-रत्नाज्यात्मजशङ्करलालस्य सद्व्यसाहाय्येन पंन्यास कञ्चनविजयेन संशोध्य प्रकाशितम् .
पण्यं रु. २-१२-०
Page #4
--------------------------------------------------------------------------
________________
मुद्रक शेठ देवचंद दामजी
आनंद प्रिन्टींग प्रेस स्टेशन रोड, भावनगर.
सुधासोदरवाग्ज्योत्सना-निर्मलीकृतदिङ्मुखः। मृगलमा तमाशान्त्यै, श्रीशांतिनाथजिनोऽस्तु वः ॥
-कलिकालसर्वज्ञ श्रीमद् हेमचंद्राचार्य हित्वा संसारहेतूनि, यो रत्नानि चतुर्दश । स्वीचक्रे मुक्तिदां रत्न-त्रयी शान्तिः स वोऽवतात् ।।
-वेणीकृपाण श्रीमद् अमरचंद्रसरि
| वीर संवत् २४६६ विक्रम संवत् १९९६ ईस्वीसन् १९४०
Page #5
--------------------------------------------------------------------------
________________
આ. શ્રી ચન્દ્રસાગર જીિ न AR, अन्य न.........
॥ अर्हम् ॥ श्रीअजितप्रभाचार्यविरचितम् ,
॥ श्रीशान्तिनाथचरित्रम् ॥ श्रेयोरत्नाकरोद्भुतामल्लिक्ष्मीमुपास्महे । स्पृहयन्ति न के यस्यै शेपश्नीविरताशयाः वृषेण भाति यो ब्रह्मकृता लक्ष्मगतेन वा । इत्यर्थाय तस्मै श्रीवृषभस्वामिने नमः येऽन्तरङ्गारिषड्योपसर्गोग्रपरीषहैः । न जितास्तेऽजितस्वामिमुख्या नन्दन्तु तीर्थपाः कृतारिष्टतमःशान्तिश्चारुहेमतनुधुतिः। प्रेत्यादिष्टभवभ्रान्तिः श्रीशान्तिर्जयताजिनः । ॥४॥ [हिव्रतोपमा यस्य भवाः श्रोतृशुभाबहाः । शान्तिनाथस्य तस्यैव चरित्रं कीर्तयाम्यहम् जम्बूद्वीपस्य भरते क्षेत्रेऽत्रैव हि पत्तनम् । अस्ति रत्नपुरं नाम नररत्ननिवासमूः
आसीदासीकृतारौतिश्चारुनीतिमहामतिः। रूपलक्ष्म्या रतिपतिः श्रीषेणस्तत्र भूपतिः ॥७॥
१ वृषभेण धर्मेण वा. २ ब्रह्मचर्यकृता. ३ तोर्थकरा:. ४ कृतारिष्टमुत्पात एवान्धकारस्तस्य शान्तिर्येन. ५ प्रत्यादिष्टा निषिद्धा नाशितेति यावत्, ६ द्वादश. ७ अरातिः शत्रुः,८ कामदेवसदृशः. . . . . .
Page #6
--------------------------------------------------------------------------
________________
शान्तिनाथचरित्रम् ॥१॥
प्रथमः प्रस्तावः
दानमानप्रियालापैः सदा तेनाभिनन्दिता । तस्याभिनन्दिता राज्ञी द्वितीया सिंहनन्दिता ॥८॥ सा पूर्वप्रेयसी राज्ञ ऋतुस्नानाभिनन्दिता । समधातुः शयनीये सुखसुप्ताऽज्यदा निशि ॥९॥ स्वप्नेऽपश्यन्निजोत्सङ्गवर्तिनौ भानुमालिनौ । प्रध्वंसितान्धतमसौ सूर्याचन्द्रमसौ समम् ॥१०॥ (युग्मम्) कथयामास सा भर्नुस्तं स्वप्नं मुदिता प्रेगे । तत्फलं सोऽपि विज्ञाय शशंसैवं प्रसन्नवाक ॥११॥ युग्मजातौ भुवि ख्याती कुलोद्योतविधायिनौ । स्वप्नेनानेन हे देवि ! तव पुत्रौ भविष्यतः ॥ १२ ॥ चिम्रत्युभावथो गभी सा राज्ञी शुशुभेऽधिकम् । उपकर्तृकृतज्ञौ हि दधानेव वसुन्धरा ॥१३॥ सम्पूर्णसमये साऽथ सुपुवे तनयद्वयम् । विधिप्रयुक्ता सन्नीतिर्थधर्माविवावनौ ॥१४॥ इन्दुषेणविन्दुपेण इति नाम्नी तयोः शुभे । चकार-तत्पिता हृष्टो महोत्सवपुरःसरम अष्टवर्षप्रमाणौ तौ कलाचार्यस्य सन्निधौ । कलाभ्यासं विदधतुः क्रमाप्राप्तौ च यौवनम् ॥१६॥ इतश्चात्रैव भरते देशे मगधनामनि । श्रियाऽभिरामः सद्ग्रामोऽस्त्यचलग्रामनामक: ॥१७॥ तत्राभूद्धरणिजटाभिधानो द्विजपुङ्गवः । वेदवेदाङ्गतत्त्वज्ञो यशोभद्रा च तत्प्रिया ॥१८॥ स नन्दिभूतिश्रीभूती यशोभद्राभवौ सुतौ । यत्नतः पाठयामास वेदशास्त्रमहर्निशम् दास्या कपिलया जातः कपिलोऽप्यस्य नन्दनः । स तु जातिविहीनत्वादतिप्रज्ञाधिकोऽभवत् ॥ २० ॥ १ प्रातः
Page #7
--------------------------------------------------------------------------
________________
Intence
स्वपित्रा पाठ्यमानौ तौ शृण्वानः कपिलोऽथ सः। जज्ञे चतुर्दशविद्यास्थानविज्ञानकोविदः ॥ २१ ॥ गृहानिःसृत्य यज्ञोपवीतयुग्मं वहस्ततः । महाब्राह्मणमात्मानं मन्यमानोऽभ्रमद्भुवि ॥२२॥ स आययौ रत्नपुरे सत्यकिर्नाम तत्र च । उपाध्यायो वहुन् छात्रान् वेदपाठमकारयद ॥२३ ॥ प्रपच्छ कपिलरछात्रान वेदोपनिषदं तथा । यथा नोत्तरमेतस्मै दातुमीशा इमेऽभवन ॥२४॥ विज्ञाय तं महाप्राज्ञमुपाध्यायो निजे पदे । स्थापयामास को नाम गुणैर्न लभते पदम् ? ॥२५॥ उपाध्यायस्य तस्यासीजम्बुका नाम गेहिनी । तत्कुक्षिसम्भवा पुत्री सत्यभामाऽभिधा तथा ॥२६॥ योग्योऽयमिति तां तस्मा उपाध्यायो ददौ सुताम् । रममाणस्तया सार्द्ध तत्रास्थात्कपिलः सुखम् ॥२७॥ उपाध्यायस्य मान्योऽयमिति लोकैरपूज्यत । विद्वत्कथासु सर्वत्र क्रियते स्म निदर्शनम ॥२८॥ जगज्जीवातुधान्यौघतृणवृद्धिविधानतः । परिरक्षितदुष्कालो वर्षाकालोऽन्यदाऽभवत्
दुष्काला वपाकालाऽन्यदाऽभवत् ॥२९॥ तस्मिश्च समयेऽन्येधुः कौतुकी कपिलो ययो । रात्रौ प्रेक्षणकालोककृते देवकुलादिषु ॥३०॥ महत्यामथ यामिन्यामन्धकारे निरन्तरे । वर्पत्यम्बुधरे गेहमागच्छन् स व्यचिन्तयत् मार्गो निःसञ्चरस्तावत्तमसान्तरितेक्षणम् । विश्व प्रवर्त्तते तत्कि वस्त्रे आHकरोम्यहम् ॥ ३२ ॥ विचिन्त्येदमथो कक्षान्तरे प्रक्षिप्य वाससी। स सत्वरमुपेयाय नग्नीभूतो निजे गृहे ॥ ३३ ॥ परिधाय ततो वस्त्रे प्रविवेश गृहान्तरे । तद्भार्या तं वभाषेऽथ ढौकयित्वाऽन्यवाससी ॥३४॥
REEEEEEEEEEEEEEEEEEEEEEEEEE
पन्तयत् ।
Page #8
--------------------------------------------------------------------------
________________
शान्तिनाथचरित्रम् ॥२॥
प्रथमः प्रस्ताव:
अग्रेतने जलक्लिन्ने मुश्च त्वं नाथ ! चीवरे । इमे च परिधेहीति भणितः कपिलोऽब्रवीत ॥३५॥ पश्य प्रिये । नहि क्लिन्ने मन्त्रशक्त्या ममाम्बरे । करस्पर्शात्तत्प्रियाऽपि ते विवेद तथाविधे ॥३६॥ दृष्ट्वा च विधुदुद्द्योतेनाङ्गमस्य जलादितम् । सैवं विचिन्तयामास सत्या दर्भाग्रतीक्ष्णधीः ॥३७॥ नूनं वृष्टिमयादेप गोपयित्वाऽम्बरे पथि । नग्न एव समायातो वृथाऽऽत्मानं प्रशंसति. ॥३८॥ अनया चेष्टया नैप कुलीनोऽपि विभाज्यते । तदस्य गृहयासेन मम हन्त विडम्बना ॥३९॥ इत्यन्तश्चिन्तया मन्दरागा तस्मिन् बभूव सा । तथापि सममेतेन गृहवासमपालयत् ॥४०॥ कपिलस्य पिता सोऽथ ब्राह्मगः कर्मदोपतः । बभूव विभवक्षीणो भूरिविद्याधनोऽपि सन् . ॥४१॥ ज्ञात्वा विभूतिमन्तं तं कपिल लोकपूजितम् । आगात्साघुर्णिकोऽन्ये द्युस्तद्गृहेऽसौ धनाशया ॥४२॥ भोजनावसरे सोऽय विभिन्नः समुपाविशत् । कपिलो निजतातस्य व्यपदिश्य मिपान्तरम् ॥४३॥ ततस्तस्या विशेषेणाभवद्भ्रान्तिर्मनोगता । रहा पृटश्च विप्रोऽसौ तया शपथपूर्वकम् ॥४४॥ किमयं तात ! युष्माकमङ्गजो वा परो मिति । तेनाऽपि सर्वमेत स्यै तदाख्यातं यथातथम् ॥४५॥ दचा यथोचितं किञ्चिद्विसृष्टः कपिलेन सः । विप्रो जगाम धरणिजटाख्यो नगरे निजे ॥४६॥ विरक्ता सत्यभामा सा कपिलस्य गृहात्ततः । गत्वा श्रीपेणभूपालं कृताञ्जलिरथावदत् ॥४७॥ देव ! त्वं जगतीपालो लोकपालश्च पञ्चमः । दीनानाथाशरण्यानां सर्वेषां त्वं गतिः किल ॥४८ ॥
BABURSSEXSRXXXXXXXXXXXXXX
॥
२
॥
Page #9
--------------------------------------------------------------------------
________________
गाहनी कपिलस्यादुिखस्य कारणम् ।
राज्ञामवमस्ति राजन् !
ततः कुरुष्व कारुण्यं ममाऽप्युपरि भूपते ! । प्रत्यूचे पार्थिवस्तां हि किं ते दुःखस्य कारणम् ॥४९॥ पूज्यस्तावदुपाध्यायस्तस्य त्वमसि नन्दिनी । गेहिनी कपिलस्यापि मान्यस्त्वरिपतुरेव यः ॥५०॥ उवाच सत्यभामैवमस्ति राजन् ! परं मम | भर्त्ता यः कपिलो नाम सोऽकुलीनत्वदूषितः ॥५१॥ राज्ञाऽथ कथमित्युक्ता-राज्ञोऽग्रे साऽपि सूनृताम् । तत्कथां कथयामास भूयश्चैवमभाषत ॥५२॥ अमुष्य गृहवासेन पर्याप्त मम सर्वथा । तथा कुरु महीनाथ ! यथा शीलं चराम्यहम् ॥५३॥ आकार्य भूभुजाभाणि साञ्जसं कपिलोऽथ सः । विरक्ता गृहवासस्य भद्रेयं त्वत्प्रियेत्यलम् ॥५४॥ तदिमां विगतस्नेहां मुश्च त्वं स्वपरिग्रहात् । यथाऽसौ पितृगेहस्था कुर्याद्धर्म कुलोचितम् ॥५५॥ कपिलोऽप्यनवोद्देव ! क्षणमप्यनया विना । न स्थातुमहमीशोऽस्मि तदियं मुच्यते कथम् १ ॥५६॥
राज्ञा तु सत्यभामा सा पुनः पृष्टाऽब्रवीदिति । नैतस्माद्यदि मेमोक्षस्तन्मरिष्यामि निश्चितम् ॥ ५७ ।। 1. राज्ञोचे कपिलो भूयो हो धृत्वा बलादमूम् । स्त्रीहत्यां किं करोषि त्वं कि विभेषि न पाप्मनः॥ ५८॥
अस्मद्राज्ञीसमीपस्था तिष्ठत्वेषा यथासुखम् । दिनानि कत्यपीत्युक्तो मेनेऽसौ कपिलोऽपि तत् ॥ ५९॥ सत्यभामा विनीता सा कुर्वाणा शीलरक्षणम् । राजराज्ञीसमीपस्था गमयामास वासरानू ॥६ ॥ सूरिविमलवोधाख्यो विहरनवनीतले । तत्रागत्य पुरेऽन्येद्यस्तस्थौ स्थाने यथोचिते ॥६१॥ १ पापात्.
Page #10
--------------------------------------------------------------------------
________________
शान्तिनाथचरित्रम्
प्रथमः प्रस्ताव:
सुरेरागमनोदन्तमाकर्ण्य जनतामुखाद । ययौ तद्वन्दनाहेतोः श्रीपेणपृथिवीपतिः ॥६२॥ सूरि नत्वा यथास्थानमुपाविशन्महीपतिः । तमुद्दिश्य मुनीन्द्रोऽथ विदधे धर्मदेशनाम् ॥६३॥ मनुष्यकादिसामग्री सम्प्राप्याऽपि प्रमादिनः । ये धर्म नानुतिष्ठन्ति तेषां जन्म निरर्थकम् ॥६४॥
जैन धर्म समाराध्य भूत्वा विभवभाजनम् । प्राप्ताः सिद्धिसुखं ये ते श्लाघ्या मङ्गलकुम्भवत् ॥ ६५ ॥ तद्यथा
उज्जयिन्यां महापुर्या वैरिसिंहो महीपतिः। सोमचन्द्रा च तद्भार्या धनदत्तश्च श्रेष्ठयभूत ॥६६॥ धर्मार्थी सुविनीतात्मा सत्यशीलदयान्वितः । गुरुदेवार्चनप्रीतः स श्रेष्ठी धनदत्तकः सत्यभामेति तद्भार्या शीलालङ्कतिशालिनी । पत्यो प्रेमपरा कि त्वपत्यभाण्डविवर्जिता ॥६८॥ साऽन्यदा श्रेष्ठिनं पुत्रचिन्ताम्लानमुखाम्बुजम् । दृष्ट्वा प्रपच्छ हे नाथ! कि ते दुःखस्य कारणम् ॥ ६९ ॥ श्रेष्ठिना च समाख्याते तस्यै तस्मिन् यथातथे । श्रेष्ठिनी पुनरप्यूचे पर्याप्त चिन्तयाऽनया ॥७ ॥ धर्म एव भवेन्नृणामिहामुत्र सुखप्रदः । स एव सेवनीयो हि विशेषेण सुखैषिणा ॥७१ ॥ तत्वं देवे गुरौ चापि कुरु भक्तिं यथोचिताम् । देहि दान सुपात्रेभ्यः पुस्तकं चापि लेखय ॥७२॥ एवं च कुर्वतोः पुत्रो भावी यदि तदा वरम् । भविता निर्मलो नाथ ! परलोकोऽन्यथाऽऽवयोः ॥ ७३ ॥ हृष्टः श्रेष्ठथप्युवाचैवं प्रिये ! साधूदितं त्वया । सम्यगाराधितो धम्मो भवेचिन्तामणिर्नृणाम् ॥ ७४ ॥
3XXXXXXXXXXXXXXXXXXXXXX
Page #11
--------------------------------------------------------------------------
________________
NEXXXXSEXEYKK888888888888
ततश्च देवपूजार्थ पुष्पग्रहणहेतवे ।.आकारामिकं तस्मै ददौ श्रेष्ठी धनं बहु
॥ ७५॥ स्वयं गत्वा तदारामे पुष्पाण्यानीय स प्रगे । गृहा मर्चयित्वा च गच्छति स्म जिनालये ॥७६ ।। तत्र नैषेधिकीमुख्यान यथास्थानं दश त्रिकान् । ख्यापयन् परया भक्या विदधे चैत्यवन्दनाम् ॥ ७७॥ ततः साधूनमस्कृत्य प्रत्याख्यानं विधाय च । अतिथीनां संविभागं चकार च महामतिः ॥७८ ॥ अन्यदप्यखिलं धर्मकर्म शर्मनिबन्धनम् । आह्निकं रात्रिकं चैव धनदत्तो व्यधात्सुधीः ॥७९॥ अथ धर्मप्रभावेण तुष्टा शासनदेवता । ददौ तस्मै पुत्रवरं प्रत्यक्षीय साऽन्यदा पुत्रे गर्भागते रात्रिशेषे श्रेष्ठिन्युदैक्षत | स्वप्ने हेममयं पूर्णकलशं मङ्गलावृतम् जातश्च समये पुत्रस्ततः कृत्वोत्सवं गुरुम् । तस्मै मङ्गलकलश इत्याख्यां तत्पिता ददौ ॥८२॥ कलाभ्यासपरः सोऽथाष्टवर्षप्रमितोऽन्यदा । तात ! त्वं कुत्र यासीति पप्रच्छ पितरं निजम् ॥८३ ॥ सोऽवदद्वत्स ! गवाहमारामे प्रतिवासरम् । ततः पुष्पाणि चानीय करोमि जिनपूजनम् ॥८४ ।। ययौ पित्रा सहान्येद्यस्तत्र सोऽपि कुतूहली । आरामिकोऽवदत्कोऽयं बालो नेत्रविशालकः ॥८५॥ ज्ञात्वा च श्रेष्ठिपुत्रं तं तस्मै सोऽपि ददौ मुदा । नारङ्गकरु(र)णादीनि सुस्वादूनि फलान्यलम् ॥८६॥ स्वगेहे पुनरागत्य कुर्वतो जिनपूजनम् । श्रेष्ठिनोऽढौकयत्पुत्रः पूजोपकरणं स्वयम् ॥ ८७॥ द्वितीयेच दिने तेन सादरं भणितः पिता । अतः परं मया गम्यं पुष्पानयनकर्मणि ॥८८॥
Page #12
--------------------------------------------------------------------------
________________
प्रथमः प्रस्तावः
शान्तिनाथचरित्रम् ॥४॥
अस्त्यत्र
निश्चिन्तेनैव स्थातव्यं त्वया तात ! निजे गृहे । अत्याग्रहेण तद्वाक्यमनुमेने पिताऽपि तत् ॥ ८१ ।। एवं च कुर्वतस्तस्य धर्माभ्यासं तथान्तरा । कियत्यपि गते काले यजातं तन्निशम्यताम् ॥९० ।।
भरतक्षेत्रे चम्पा नाम महापुरी। अभूत्तत्र महाबाहुः पार्थिवः सुरसुन्दरः ॥९१ ॥ राज्ञो गुणावली तस्य सा निजोत्सङ्गवर्तिनीय । दृष्ट्वा कल्पलतां स्वप्ने पार्थिवाय न्यवेदयत् ॥ ९२॥ राजा प्रोवाच हे देवि ! तब पुत्री भविष्यति । सर्वलक्षणसम्पूर्णा सर्वनारीशिरोमणिः ॥९३ ।। पूर्णकालेऽथ चार्वङ्गी सा देवी सुपुवे सुताम् । त्रैलोक्यसुन्दरी नाम तस्याश्चक्रे महीपतिः ॥९४ ॥ लावण्यधनमञ्जूषा सौभाग्यरसनिम्नगा । बभूव यौवनप्राप्ता सा मूत्रैव सुराङ्गना ॥९५॥ तां विलोक्यानवद्यागीं दध्याविति घराधिपः । रमणः कोऽनुरूपोऽस्था वत्साया मे भविष्यति ।। ९६॥ ऊचे च प्रेयसीः सर्वा वराहेयं सुताऽभवत् । दातव्या ब्रूत तत् कस्मा अत्रार्थे वः प्रधानता ॥ ९७ ॥ ता ऊचुरियमस्माकं जीवितादपि वल्लभा । नालं धर्तुं वयं प्राणान् क्षणमप्यनया विना , ॥९८ ।। दातव्या तदसौ मन्त्रिपुत्रायात्रैव हे प्रिय ! । प्रत्यहं नयनानन्दकारिणी दृश्यते यथा ॥९९॥ ततो राज्ञा समाहूय सुबुद्धिः सचिवो निजः । अभाणि यन्मया दत्ता त्वत्सुतायात्मनन्दिनी ॥ १० ॥ अमात्योऽप्यवदद्देव ! किमयुक्तं ब्रवीष्यदः । कस्मैचिद्राजपुत्राय दातुं कन्या तवोचिता ॥१०१॥ राज्ञोचे न त्वया वाच्यमित्यर्थे किञ्चनापि भोः देया त्वत्सूनवेऽवश्यं पुत्री त्रैलोक्यसुन्दरी ॥१०२॥
Page #13
--------------------------------------------------------------------------
________________
मन्त्री कृतावहित्थोऽथ गृहे गत्वाव्यचिन्तयत्। हाव्याघ्रदुस्तटीन्याये पतितोऽस्मिकरोमि किम् ॥ १०३ ॥ रतिरम्भोपमाकारा राज्ञः पुत्री सुतस्तु मे । कुष्ठी तदेतयोर्योगं कथं जानन करोम्यहम् ॥१०४॥ अथवाऽयं मयोपायो लब्धो यत्कुलदेवताम् । आराध्य साधयिष्यामि सर्वमात्मसमीहितम् ॥१०५॥ ततश्चाराधयामास विधिना कुलदेवताम् । उवाच साऽपि प्रत्यक्षीभूय मन्त्रिन ! स्मृताऽस्मि किम् ॥ १०६॥ मंत्र्यूचे वं स्वयं वेत्सि सर्व दुःखस्य कारणम् । तथा कुरु यथा पुत्रो नीरोगाङ्गो भवेन्मम ॥ १०७॥ देव्यूचे नान्यथाकर्तुं नृणां कर्म पुराकृतम् । दैवतैरपि शक्येत वृथेयं प्रार्थना तव मन्त्री प्रोवाच यद्येवं तदन्यमपि पूरुपम् । तदाकारं निराकल्यं कुतोऽप्यानीय मेऽपय ॥१०९ ॥ तेनोद्वाह्य महाराजपुत्री कमललोचनाम् । अर्पयिष्यामि पुत्रस्य करिष्येऽस्य यथोचितम् ॥ ११ ॥ देवतोचे पुरीद्वारेऽश्वरक्षकनरान्तिके । शीतव्यथानिरासार्थमग्निसेवापरो हि यः ॥१११॥ कृतोऽप्यानीय मयका मुक्तो भवति बालकः समन्त्रिन ! भवता ग्राह्यः पश्चात्कुर्य्याद्यथोचितम् ॥ ११२ ।। (युग्मम्) इत्युक्त्वाऽन्तर्दधे देवी हृष्टोऽथ सचिवेश्वरः । सर्वा विवाहसामग्री प्रगुणीकुरुते स्म सः ॥११३ ॥ अश्वपालनरं छन्नमाकार्य निजकं ततः । तस्मै निवेद्य सकलं वृत्तान्तं सत्यमादितः ॥११४ ॥ इदमूचे च यः कश्चिदभ्येति भवदन्तिके । कुतोऽपि बालकः सो हि समर्यो मेऽविलम्बितम् ॥११५॥ १ रोगरहितम्.
Page #14
--------------------------------------------------------------------------
________________
प्रथमः
शान्तिनाथचरित्रम्
प्रस्ताव
तं श्रेष्ठिनन्दनं तस्या वरं विज्ञाय भाविनम् । उजयिन्यां ययौ पुर्यो मन्त्रिणः कुलदेवता ॥ ११६॥ अन्तरिक्षस्थितोवाच सा चैवं तस्य शृण्वतः । पुष्पाण्यानीय चारामागच्छतो निजवेश्मनि ॥ ११७ ॥ स एप वालको याति पुष्पभाजनपाणिकः । परिणेष्यति यो राजकन्यकां भाटकेन हि ॥११८ ।। तच्छत्वा विस्मितः सोऽथ किमेतदिति सम्भ्रमात् । तातस्य कथयिष्यामीति ध्यायन सदनं ययौ॥ ११९ ॥ गृहं गतस्य सा वाणी विस्मृता तस्य दैवती । द्वितीये दिवसेऽप्येवं श्रुत्वा पुनरचिन्तयत् ॥१२० ॥ अहो अद्यापि सा वाणी या श्रुता ह्यो मयाऽम्बरे । तदद्य सदनं प्राप्तः कथयिष्याम्यहं पितुः ॥ १२१॥ सोऽचिन्तयदिदं यावत्तावदुत्पाट्य वात्यया। नीतो द्वरतरारण्ये चम्पापुर्याः समीपगे ॥१२२॥ भयभ्रान्तस्तृषाक्रान्तः श्रान्तस्तत्र स बालकः । सन्मानसभ्रमकरं ददर्शाग्ने सरोवरम् ॥१२३॥ तत्र वस्त्राश्चलापूतं पयः पीत्वाऽतिशीतलम् । तत्सेतुस्कन्धसंरूढमाशिश्राय वद्रुमम् ॥१२४॥ तदा चास्तमितो भानुरवस्थापतितस्य हि । श्रेष्ठिपुत्रस्य तस्योपकारं कर्तुमिवाक्षमः ॥१२५॥ कृत्वा दर्भतृणै रज्जु तयाऽऽरुह्य च तं द्रुमम् । स ददर्शोत्तराशायामदूरे ज्वलितानलम् ॥१२६॥ ततो वटात्समुत्तीर्य स भीतः शीतविह्वलः। हुताशनानुसारेण चम्पापुर्या ययौ बहिः ॥१२७ ॥ तत्रोपान्तेऽश्वपालानां कुर्वाणो वह्निसेवनम् । यावदासीदसौ हस्यमानस्तैर्दुष्टचेष्टितैः ॥१२८॥ तावत्तेन नरेणैत्य पूर्वादिष्टेन मन्त्रिणा । आत्मनः पार्श्वमानीतः कृतश्च निरुपद्रवः , ॥१२९॥
BOILESEKSEXXXXXXXXXXXXXXX
Page #15
--------------------------------------------------------------------------
________________
RANCalentinkedioactAcaded
गोपयित्वातियत्नेन प्रभातसमयेऽमना। अपितोऽमात्यवर्यस्य गहे नीला सगौरवम ॥१३० भोजनाच्छादनप्रायममात्योऽप्यस्य गौरवम् । चकार सदनस्यान्तर्गोपनं च दिवानिशम् ॥१३१॥ ततोऽसौ चिन्तयामास किमयं मम सक्रियाम् । कुरुते निर्गमं चैव यत्नाद्रक्षति मन्दिरात् ॥१३२॥ पप्रच्छ चान्यदाऽमात्यं तात ! वैदेशिकस्य मे । किमिदंमाननं हन्त भवद्भिः क्रियतेऽधिकम् ।। १३३ ।। कानामैषा पुरी को वादेशः को वान भूपतिः। इति सत्यं ममाख्याहि विस्मयोऽत्र प्रवर्तते ॥ १३४ ॥ अमात्योऽप्यववीच्चम्पानाम्नीय नगरी वरा । अङ्गाभिधानो देशश्च राजान सुरसुन्दरः ॥१३५॥ सुबुद्धिर्नाम तस्याहं माननीयो महत्तमः । मयाऽनीतोऽसि वत्स! त्वं कारणेन गरीयसा ॥ १३६ ॥ त्रैलोक्यसुन्दरी नाम राज्ञा पुत्री विवाहितुम् । प्रदत्ता मम पुत्राय स तु कुष्ठेन पीडितः ॥१३७॥ परिणीय त्वया भद्र ! विधिना सा नृपाङ्गजा । दातव्या मम पुत्राय तदर्थ त्वामिहानयम् ॥ १३८॥ तच्छ्रुत्वा मङ्गलोवोचदकृत्यं किं करोष्यदः । व सा रूपवती बाला निन्धरोगी क ते सुतः॥ १३९ ।। कर्मेदं न करिष्यामि कथञ्चिदतिनिष्ठुरम् । कूपे क्षिप्त्वा जनं मुग्ध वरत्राकर्तनोपमम् ॥१४०॥ मन्त्र्यूचे चेन कर्मेदं करिष्यसि सुदुर्मते!। तदा त्वां निजहस्तेन मारयिष्यामि निश्चितम् ॥ १४१ ॥ इति निस्त्रिंशमाकृष्य भणितोऽपि सुबुद्धिना । अकृत्यं नानुमेने तत् स कुलीनशिरोमणिः ॥१४२॥ १ बहिर्गमनं. २ खड्गम्
WEEEEEEEEEEEEEEEEEEEEEEEEE
Page #16
--------------------------------------------------------------------------
________________
शान्तिनाथचरित्रम्
प्रथमः प्रस्ताव
प्रधानपुरुपैर्मन्त्री निपिद्धस्तस्य मारणात् । अभाणि सोऽपि मन्यस्त्र भद्र ! त्वं मन्त्रिणो वचः ॥ १४३ ।। ततोऽसौ चिन्तयामास भवितव्यमिदं खलु । अन्यथौजयिनी क्वाऽसौ ममेहागमनं क्व च ॥१४४ ॥ इदमाकाशवाचाऽपि दैवत्या कथितं तदा । तत्करोम्यहमप्येवं यद्भाव्यं तद्भवत्यहो ॥१४५॥ विचिन्त्येदं पुनः स्माह मङ्गलो मन्त्रिणं प्रति । यद्यवश्यमिदं कार्य मयका कर्म निघृणम् ॥१४६ ॥ तदाऽहमपि वः पार्श्वे नाथ ! नाथामि सर्वथा । मह्यं ददाति यद्राजा-वस्तुजातं ममैव तत् ॥ १४७॥ स्थापनीयं तु तत्सर्वमुज्जयिन्याः पुरोऽध्वनि । एवमस्त्विति तद्वान मेने मन्त्र्यपि बुद्धिमान् ॥ १४८ ॥ इति मङ्गलकुम्भोक्तं सचिवः प्रत्यपद्यत । सर्व च सज्जयामास क्रमाद्वैवाहिकं विधिम् ॥ १४९॥ अथ व्योम्नः प्रतिच्छन्दमिय मण्डपमुत्तमम् । आदेशकारकैर्भूपः स्वानुरूपमकारयत ॥ १५०॥ कुमारकः कृतस्नानः कृतचन्दनलेपनः । सदशश्वेतवसनो हस्तविन्यस्तकङ्कणः
॥१५१ ॥ दत्तकुङ्कमहस्तोऽथ हस्त्यारूढो विभूषणैः । उत्तममेरुशृङ्गाग्ररूढकल्पद्मोपमः
॥१५२॥ द्राधीयोभिर्वरस्त्रीणां उलूलुध्वनिभिर्भृशम् । पञ्चस्वनैश्च विदधत् दिवं नादमयीमिव ॥१५३॥ कृतशक्रधनुईण्डैायूरातपवारणैः । वार्यमाणातपः प्राप मण्डपद्वारसन्निधिम्
॥ १५४ ॥ उत्तीर्य कुञ्जरात तुङ्गात् कुलस्त्रीभिः कृतं तदा । अय॑मेष प्रतीयेप प्रद्योतन इव प्रगे ॥१५५॥ १ याचे. २ सूर्यः
Page #17
--------------------------------------------------------------------------
________________
SEXXXXXXXXXXXXXXXXXXXXXXXX
समासने ततो लग्ने हस्तिस्कन्धाधिरोपितः । स निन्ये भूपतेः पार्थे वस्त्राभरणभूषितः ॥१५६॥ त्रैलोक्यसुन्दरी साध्य दृष्ट्वा तं मन्मथोपमम् । अमंस्त तद्वरप्राप्त्या कृतार्थ स्वं मनस्विनी ॥१५७ ।। ततश्च विप्रे पुण्याहं पुण्याहमिति जल्पति । चत्वारि परितो वझिं प्रेमतुर्मङ्गलानि तौ ॥१५८ ॥ प्रथमे मङ्गले राजा चारुवस्त्राण्यनेकशः । वरायादाद् द्वितीये च स्थालाभरणसञ्चयम् ॥१५९ ॥ तृतीये मणिहेमादि चतुर्थे च स्थादिकम् । जायापत्योस्तयोरित्थं जज्ञे पाणिग्रहोत्सवः ॥१६०॥ कृतोद्वाहे वरे चास्मिन वधूहस्तममुञ्चति । उवाच नृपतिर्भूयो वत्स ! यच्छामि किं नु ते ॥१६१ ॥ ततश्च याचितस्तेन जात्यघोटकपञ्चकम् । तत्तस्मै शीघ्रमेवासौ प्रददौ प्रीतमानसः ॥१६२॥ वाद्यमाने ततस्तूर्येऽभवद्धवलमङ्गलः । मन्त्रिणा स्वगृहे निन्ये समं वध्वा स मङ्गलः ॥१६३॥ तत्रामात्यगृहजनश्छन्नं छन्नमभापत । कथं निर्वास्यतेऽद्यापि नायं वैदेशिको नरः ॥१६४॥ त्रैलोक्यसुन्दरी साऽथ चलचित्तं निज पतिम् । ज्ञात्वेगितस्ततस्तस्योपान्तं नैवामुचत् क्षणम् ॥ १६५।। ततः क्षणान्तरेणाऽसौ देहचिन्तार्थमुत्थितः । जलपानं गृहीत्वाऽऽशु तदनु प्राचलच्च सा ॥१६६॥ कृतायामपि तस्यां तं शून्यचित्तं रहास्थितम् । उवाच प्रेयसी कान्त ! बाधते त्वां क्षुधा नु किम् ? ॥ १६७॥ ओमिति भणिते तेन दासीहस्तेन मोदकान् । आनाय्य स्वगृहात्तस्मै ददौ त्रैलोक्यसुन्दरी ॥ १६८॥ भुक्तेपु तेषु पानीयं पिवता तेन भापितम् । अहो रम्यतरा एते मोदकाः सिंहकेसराः ॥१६९॥
Page #18
--------------------------------------------------------------------------
________________
शान्तिनाथचरित्रम्
प्रथमः प्रस्तावः
उज्जयिन्या नगाश्चनीरमास्वाद्यतेऽमलम् । तदा वृप्तिर्भवेन्नूनं मोदकेष्वशितेष्वपि ॥ १७०॥ तच्छ्रत्वा राजपुत्री सा दध्यावाकुलचेतसा । अहो अघटमानं किं वाक्यमेष प्रजल्पति ? ॥१७१ ॥ मातगेहमथावन्त्यामार्यपुत्रस्य भावि वा । तदसौ दृष्टपूर्वत्वाजानात्यस्याः स्वरूपताम् ॥१७२ ॥ ततश्च निजहस्तेन मुखपाटवकारणम् । पश्चसौगन्धिकं तस्मै ताम्बूलं दत्तवत्यसौ ॥१७३ ॥ सन्ध्याकाले पुनमन्त्रिमानुपैःप्रेरितोऽथ सः । त्रैलोक्यसुन्दरीमेवमूचे मतिमतां वरः ॥१७४॥ गमिष्यामि पुनर्देहचिन्तायामुदरातिभाक् । त्वया क्षणान्तरेणाऽऽगन्तव्यमादाय पुष्करम् ॥१७५ ॥ निरगाच ततो मन्त्रिमन्दिरात्पुरुषांश्च तान् । पप्रच्छ राजदत्तं भोः कास्ति तद्वस्तु मामकम् ॥ १७६ ॥ तैश्च तद्दर्शितं सर्वमुज्जयिन्याः पथि स्थितम् । ततः सारतरं वस्तु निक्षिप्यकरथे वरे ॥१७७॥ तस्मिश्च योजयित्वाऽश्वांश्चतुरः पृष्ठतस्तथा। बचैकं शेषकं (च वधू) वस्तु मुक्त्वा तत्रैव सोऽचलत् ॥१७८॥ (युग्मम् ) पृष्टाचानेन ते ग्रामानुज्जयिन्यध्वगानराः । प्रत्येकं कथयन्ति स्म नामग्राहं मुहुर्मुहुः ॥१७९ ॥ ततो स्थाधिरूढोऽसौ तेन मार्गेण बुद्धिमान् । स्तोकैरेव दिनैः प्राप्तस्तामेव नगरी निजाम् ॥१८॥
इतश्च पितरौ तस्य तमन्विष्य विलप्य च । बहुधा बहुभिर्घर्गतशोको बभूवतुः ॥१८१॥ गृहाभिमुखमायान्तं रथारूढं विलोक्य तम् । बभाषेऽथापरिज्ञाय जनन्यस्य ससम्भ्रमम ॥१८२॥ १ जलम्.
XXXEEEEEEEEEEEEEEEEEEXI
Page #19
--------------------------------------------------------------------------
________________
Aductobiob
प्रेर्यते गृहमध्येन राजपुत्र ! कथं रथः।' कर्त्तास्यभिनवं मार्ग कि त्वं त्यक्त्वा पुरातनम् ॥ १८३ ।। इत्थं निषिध्यमानोऽपि न यावद्विरराम सः । आचख्यौ श्रेष्ठिनस्तावत् श्रेष्ठिन्याकुलिताशया ॥ १८४ ॥ श्रेष्ठथप्यस्य निषेधार्थ गृहाद्यावनिरीयिवान् । तावद्रथात्समुत्तीर्य पितुः पादौ ननाम सः ॥१८५ ॥ उपलक्ष्य ततस्ताभ्यामाश्लिष्टस्तनयो निजः । सद्यः प्रादुर्भवद्धोऽश्रुपूरप्लावितेक्षणम् ॥१८६॥ पप्रच्छ चोपविष्टः सन वत्सद्धिः कुत ईदृशी। क वा कालमियन्तं त्वं स्थितोऽसि वद नन्दन ॥ १८७॥ ततश्चात्मकथा तेन पितुरग्रे निवेदिता । वाक्श्रुत्यपहारादि स्वस्थानागमनावधि ॥१८८॥ अहो पुत्रस्य सौभाग्यमहो पुत्रस्य दक्षता । अहो धैर्य्यमहो भाग्यमिति प्राशंसतामिमौ ॥१८९॥ ततःप्राकारसंगुप्तं स स्वगेहमकारयत् । अश्वानां रक्षणार्थ च मन्दुरादिनियन्त्रणम् ॥१९॥ सोऽन्येधुर्जनकं स्माह मम तात! कलागमः । स्वल्पोऽस्त्यद्यापि तं पूर्ण करिष्यामि त्वदाज्ञया ॥ १९१॥ ततश्चानुमतः पित्रा कलाचार्यस्य सन्निधौ । कलाऽभ्यासं चकारासौ स्वकीयसदनान्तिके ॥ १९२॥
इतश्च मन्त्रिणा तेन रात्रौ मङ्गलवेषभृत् । प्रेषितो वासभवने वधूपान्ते सुतो निजः ॥ १९३ ॥ शय्यारूढं च तं दृष्ट्वा दध्यौ त्रैलोक्यसुन्दरी । कोऽयं कुष्ठाभिभूताङ्गः समायातो ममान्तिकम् ॥ १९४ ॥ करस्पर्शमथो कर्तुमुद्यतेऽस्मिन् झटित्यपि । सा शय्यायाः समुत्थाय निर्ययो भवनाद्बहिः ॥ १९५॥ दासीभिर्भणिता किं नु स्वामिन्यसि ससम्भ्रमा। साऽवदद्देवतारूपी गतः क्वापि स मे पतिः ॥ १९६॥
Page #20
--------------------------------------------------------------------------
________________
शान्तिनाथचरित्रम्
प्रथम: प्रस्ताव:
प्रत्यूचुस्ता इदानी स प्रविष्टोज पतिस्तव । साचवीनास्त्यसावत्र कुष्ठिकः कोऽपि विद्यते ॥१९७॥ दासीमध्ये ततः सुप्ता तामतीत्य विभावरीम् । त्रैलोक्यसुन्दरी प्रातर्ययौ पितृगृहं निजम् ॥१९८॥ सुबुद्धिरपि दुर्बुद्धिः सोऽथ मन्त्री महीपतेः । ययौ सकाशमन्येधुश्चिन्ताश्याममुखः किल ॥१९९ ॥ कृतप्रणतिमासीनमथैनं पृथिवीपतिः । हर्षस्थाने विषादः किं तवेत्यूचे कृताग्रहः ॥ २० ॥ स जगाद महाराज ! विचित्रा कर्मणां गतिः। अस्माकं मन्दभाग्यानां वशात्परिणता कथम् ॥ २०१॥ चिन्तयत्यन्यथा जीवो हर्पपूरितमानसः। विधिस्त्वेप महावैरी कुरुते कार्यमन्यथा ॥२०२॥ राजा प्रोवाच हे मन्त्रिन ! उक्त्वा खं दुःखकारणम् । मामप्यमुष्य दुःखस्य संविभागयुतं कुरु ॥ २०३॥ निःश्वस्य सचिवोऽप्यूचे देव ! दैवं करोति तत् । यद्वक्तुमपि नो शक्यमश्रद्धेयं च शृण्वताम् ॥ २०४॥ स्वामिपादैः सप्रसादैर्दत्ता सूनोर्ममात्मजा । तस्यां तु परिणीतायां यवृत्तं तनिशम्यताम् ॥२०५॥ यादृग् राज्ञा स्वयं दृष्टस्ताहगेव सुतो मम । अधुना कुष्ठरोगाप्तो दृश्यते क्रियते नु किम् ॥२०६॥ तच्छ्रुत्वा भूपतिर्दध्यौ सा नूनं मम नन्दिनी । अलक्षणा तत्प्रभावात कुष्ठी जातोऽस्य पुत्रकः ॥ २०७॥ स्वकर्मफलभोक्तारः सर्वे जगति जन्तवः । अयं हि निश्चयनयो यद्यप्यस्ति जिनोदितः ॥२०८ ॥ तथापि व्यवहारोऽयं यो हेतुः सुखदुःखयोः । स एव क्रियते लोके(कैः) भाजन गुणदोषयोः ॥ २०९ ॥ (युग्मम् ) स्वकर्मपरिणामेन जज्ञे पुत्रोऽस्य कृष्ठिकः । जाता च तन्निमित्तत्वात्पुत्री मे दोषभाजनम् ॥२१॥
sammtamansamachatination
an
Page #21
--------------------------------------------------------------------------
________________
ऊचे च सचिवोऽनर्थमकार्षमहमीदृशम् । नादास्यं चेत्सुतां कुष्ठी नाभविष्यत्सुतोऽपि ते ॥२११ ॥ अमात्योऽप्यत्रवीत् स्वामिन् ! हितकार्य प्रकुर्वताम् । को दोषो भवतामत्र दोषो मत्कर्मणां पुनः ॥२१२॥ अथोत्थाय ययौ मन्त्री सा तु त्रैलोक्यसुन्दरी । इष्टाऽप्यनिष्टा संजाता राज्ञः परिजनस्य च ॥ २१३॥ न कोऽप्येनामाललाप नाभ्यनन्दत दृशापि हि । एकत्र गुप्तगेहेऽस्थात् सा मातृगृहपृष्ठतः ॥ २१४ ॥ अचिन्तयच्च दुष्कर्म किं मया विहितं पुरा । येन क्वापि ययौ नंष्ट्रवा परिणीतः स मे पतिः॥ २१५॥ अन्यच्च लोकमध्येऽदः कलई समुपस्थितम् । किं करोमि क गच्छामि व्यसने पतिताऽसि हा ॥ २१६॥ एवं चिन्तां प्रकुर्वन्त्यास्तस्याश्चित्ते स्थितं तदा। भवितोजयिनीपुऱ्या प्राप्तो नूनं स मे पतिः॥२१७॥ तदा च मोदकांस्तेन भुक्त्वा संजल्पितं किल । एते हि मोदका रम्याः कित्ववन्त्या जलोचिताः॥ २१८॥ ततः केनाप्युपायेन तत्र गच्छाम्यहं यदि । तदान्विष्य मिलित्वाऽस्य भवामि सुखभागिनी ॥ २१९ ॥ ___ अथान्येधुरुवाचाम्यां हे मातर्जनको मम । एकवारं यथा वाक्यं श्रृणोति त्वं तथा कुरु ॥ २२० ॥ तां दृष्ट्वानादरपरामन्येयुः सिंहनामकम् । सामन्तं ज्ञापयामास सा तमर्थ कृताञ्जलिः ॥२२१ ॥ सोऽथ राजकुले गत्वा नृपं नत्वोपविश्य च । इति विज्ञापयामास प्रस्तावे वदतां वरः ॥२२२ ।। नृनाथ ! भवता मान्यचरी सम्प्रत्यसम्मता। वराकी वर्त्तते कष्टे सैपा त्रैलोक्यसुन्दरी ॥ २२३॥ अस्याः संमानदानादि दूरेऽस्त्वालपनं तथा । वाक्यश्रवणमात्रेण प्रसादोऽद्य विधीयताम् ॥ २२४॥
stoniamonanesambandinsaan
Page #22
--------------------------------------------------------------------------
________________
शान्तिनाथचरित्रम्
प्रथमः प्रस्ताव:
पार्थिवोऽप्यश्रुपूर्णाक्षः प्रोचे सिंह! पुराभवे । अनया विहितं किञ्चिदभ्याख्यानादि दुष्कृतम् ॥ २२५ ॥ तदियं तत्प्रभावेण कलङ्किततनूरभूत् । इष्टाऽप्यनिष्टतां प्राप्ता गाढमस्माकमप्यहो ॥२२६॥ वाक्यं तदद्य यत्किञ्चिदनयाऽस्ति विवक्षितम् । तद् ब्रवीतु न रुष्टैरप्यात्मीयः परिभ्यते ॥२२७ ॥ ततस्तदनुमत्यैत्य तत्र त्रैलोक्यसुन्दरी । उवाच तात ! मे वेपं कुमारोचितमर्पय ॥२२८॥ भूयो राजाऽब्रवीत सिंह किमिदं वक्त्यसौ वचः। सोऽवदद्देव ! युक्तं हि क्रमोऽस्ति यदयं किल ॥ २२९ ।। राज्ञां गृहेषु चेत्पुत्री गुरुकार्येण केनचित् । 'वेष याचते तस्यै दातव्यः स न संशयः ॥२३०॥ ततस्तदनुमत्याऽस्यै पुंवेयं पार्थिवो ददौ । आदिदेश च तं सिंहं तद्रक्षार्थ बलान्वितम् ॥२३१॥ अभ्यधात्सुन्दरी भूयस्ताताज्ञा चेद्भवेत्तव । उज्जयिन्यां ततो यामि कारणेन गरीयसा ॥२३२॥ कारणं कथयिष्यामि तज्जाते च समीहिते । अधुना कथिते तस्मिन् परिणामो न शोभनः ॥ २३३ ॥ हे पुत्रि! मम वंशस्य यथा नाभ्येति दूषणम् । तथा कार्य त्वयेत्युक्त्वा विसृष्टा सा महीभुजा ॥ २३४ ॥ ततश्च सिंहसामन्तभूरिसैन्यसमन्विता । अखण्डितप्रयाणैः सा ययावुज्जयिनी पुरीम् ॥ २३५॥ वैरिसिंहो नृपोऽथैवं शुश्राव जनतामुखात् । यच्चम्पायाः समागच्छन्नस्त्यत्र नृपनन्दनः ॥२३६ ॥ अभियानादिसन्मानस्वागतप्रश्नपूर्वकम् । पुरे प्रवेश्य तेनासावानीतो निजमन्दिरे ॥२३७॥ पृष्टा चागमनार्थ सा प्रोवाच नगरीमिमाम् । द्रष्टुमाश्चर्यसंपूर्णामागतोऽस्मि कुतूहलातू ॥२३८॥
DRAPARANAD92402004242424DARAD2426
॥९॥
Page #23
--------------------------------------------------------------------------
________________
XXXXXXXXXXXXX
ततः प्रोक्तो नरेन्द्रेण त्वया स्थेयं ममौकसि । सुरसुन्दरराजस्य मम गेहस्य नान्तरम् ॥२३९ ॥ राजदौकितगेहे सा तस्थौ सबलवाहना । पत्तींश्चेत्यादिशत् स्वादुनीरस्थानं निरीक्ष्यताम् ॥२४॥ पूर्वस्यां दिशि ते तत्तु ज्ञात्वा तस्यै न्यवेदयन् । तन्मार्गे कारितावासेञात्सीत साऽथ नृपाज्ञया ॥ २४१ ॥ गच्छतो नीरपानार्थमन्यदाऽश्वान्निरीक्ष्य तान् । सा दध्यौ मम तातस्य सत्का एते तुरङ्गमाः॥ २४२ ॥ तेषामनुपदं प्रेष्य पुनर्भृत्यान् विवेद सा । भर्तुर्ग्रहाभिधानादिसर्वशुद्धि मनस्विनी ॥२४३ ॥ कलाभ्यासपरं तं च ज्ञात्वा त्रैलोक्यसुन्दरी । उवाच सिंहमेते हि कथं ग्राह्यास्तुरङ्गमाः ॥२४४ ॥ सिंहोवादीवयाऽऽदिष्टोपायेनैव ततश्च सा । सच्छात्रं तं कलाचार्य भोजनाय न्यमन्त्रयत् ॥ २४५॥ भोजनार्थमुपाध्याये तत्राऽऽयाते ददर्श सा। छात्रमध्ये स्वभारं हृदयानन्ददायिनम् तस्मा आसनमात्मीयं स्थालं चादापयत्तदा । अकारयद्विशेषेण गौरवं भोजनादिषु ॥२४७॥ ततो वस्त्राणि सर्वेभ्यो यथायुक्तमदत्त सा । तस्मै निजाङ्गलग्नं च वासोयुग्मं मनोहरम् ॥२४८ ।। उवाच च कलाचार्यमेतन्मध्यात त्वदाज्ञया ।योजानाति स आख्यातु छात्रो मम कथानकम् ॥ २४९॥ सर्वैरपीjया छात्रैनिर्दिष्टः सोऽथ मङ्गलः । उपाध्यायगिरा धीमान वक्तुमेवं प्रचक्रमे ॥ २५० ॥ चरितं कल्पितं किं वा कथयामि कथानकम् । साऽवदच्चरितं ब्रूहि, पर्याप्तं कल्पितेन मोः ॥२५१ ॥ मङ्गलश्चिन्तयामास सैया त्रैलोक्यसुन्दरी | चम्पापुर्यो भाटकेन परिणीता हि या मया ॥२५२ ॥
EXXXXXXXXXXXXXXXXXXXXXXXXXX
Page #24
--------------------------------------------------------------------------
________________
शान्तिनाथचरित्रम् ॥१०॥
प्रथम: प्रस्ताव
केनापि हेतुनेहागात भूत्वा पुंवेपधारिणी । भवत्वेवं कथां तावत् कथयामि निजामहम् ॥ २५३ ।। जगाद च कथा लोकप्रिया चित्रकरी भवेत् । सा च वृत्ता मदीयेऽङ्गे तामाख्यामि निशम्यताम् ॥ २५४ ॥ ततश्चात्मकथा तेनादितस्तत्र प्रकाशिता । तावद्यावदमात्येन गृहानिर्वासितोऽस्म्यहम् ॥२५५ ॥ अत्रान्तरे कृतालीककोपा राजसुताऽवदत् । अमुं गृह्णीत गृणीत रे रे मिथ्याभिभाषिणम् ॥ २५६ ॥ इत्युक्ते पत्तयस्तस्यास्तद्ग्रहार्थ समुद्यताः । तयैव वारिताः शीघ्र स चानीतो गृहान्तरे ॥२५७ ॥ अथैनमासनेऽध्यास्य सिंहमूचे नृपात्मजा । अयि येनाहमुढाऽस्मि स एवायं प्रियो मम ॥२५८॥ किमत्र युज्यते कर्तुमित्युक्तः सोऽपि चाब्रवीत् । अयं तव भवेद्भर्त्ता तदा सेव्योऽपशङ्कितम् ॥ २५९ ॥ सोचे सिंहं तवाद्यापि चित्ते यद्यस्ति संशयः। ततोऽस्य मन्दिरे गत्वा स्थालादीनि विलोकय ॥२६॥ तद्विधातुमथो सिंहो धनदत्तगृहं ययौ । सोऽग्रे छात्रमुखात पुत्रापायं श्रुत्वाऽऽकुलोऽभवत् ॥ २६१ ॥ पुत्रस्य गौरवोदन्तमाख्यायैतेन बोधितः । दर्शयामास च स्थालादीनि तद्भणितोऽस्य सः ।। २६२ ॥ वध्वाः स्वरूपकथनेनाह्राद्य श्रेष्ठिनं ततः । सिंहः पुना राजपुत्र्याः समीपं समुपाययौ ॥२६३ ॥ सिंहेनानुमता साऽथ कृत्वा स्त्रीवेषमुद्भटम् । बभूव वल्लभा तस्य मङ्गलस्य महात्मनः ॥२६४ ॥ ययौ च श्रेष्ठिनो वेश्म तत् युग्मं पार्थिवोऽपि तत् । आकार्य सर्ववृत्तान्तं पृष्ट्वा श्रुत्वा विसिष्मिये ॥ २६५॥ ततस्तत्रैव प्रासादे गत्वा राजाज्ञया पुनः। समं त्रैलोक्यसुन्दऱ्या विललास स मङ्गलः ॥२६६ ॥
Page #25
--------------------------------------------------------------------------
________________
सुन्दर्या प्रेषितः सोऽथ सिंहः सबलवाहनः । लात्वा पुरुषवेषं तं ययौ चम्पापुरी पुनः ॥२६७॥ अमुना सर्ववृत्तान्ते कथिते जगतीपतिः । इष्टोऽभाषिष्ट वत्साया अहो मे मतिकौशलम् ॥२६८॥ अहो कुधीरमात्यस्य पापकर्मविधायिनः । येनादोषापि मत्पुत्री सदोषा विहिता कथम् ॥२६९॥ सिंह पुनरपि प्रेष्योजयिन्यां निजनन्दिनीम् । सकान्तां स समानाय्य सच्चक्रे च यथाविधि ॥ २७० ॥ अमात्यं धारयित्वा तं मार्यमाणं महीभुजा । मङ्गालो मोचयामास गाढाभ्यर्थनया नृपात् ॥ २७१ ॥ जामातुरुपरोधेन मया मुक्तोऽसि पाप रे । इति विब्रुवता राज्ञा सोऽथ निर्वासितः पुरात् ॥२७२ ॥ अपुत्रः सोऽथ भूपालो मेने जामातरं सुतम् । तत्रैवानाययामास तन्मातापितरावपि ॥२७३॥ अन्येधुर्मन्त्रिसामन्तसंमत्योत्सवपूर्वकम् । मङ्गलकलशं राज्ये सुधीः स्थापयति स्म सः ॥ २७४॥ यशोभद्राभिधानानां सूरीणां चरणान्तिके । सुरसुन्दरभूपालः परिव्रज्यामुपाददे ॥२७५॥ राज्ये संस्थापितः कोऽपि वणिग्जातिरितीर्ण्यया । प्रत्यन्तपार्थिवा राज्यं हर्तु तस्योपतस्थिरे ॥२७६ ॥ सेनया चतुरङ्गिण्या सहितेन महौजसा । दृढपुण्यप्रभावेण जिताः सर्वेऽपि तेन ते ॥२७७॥ शान्तामित्रस्य तस्याथ राज्यं पालयतः सतः । पत्न्यां त्रैलोक्यसुन्दयाँ सुतोऽभूज्जयशेखरः ॥ २७८ ॥ स च राजा निजे देशे जिनचैत्यान्यनेकशः । जिना रथयात्राश्चेत्यादिधर्ममकारयत्
यात्रायत्यादिधममकारयत् ॥ २७९॥ अन्यदोद्यानमायातं जयसिंहाभिधं गुरुम् । गत्वा ववन्दे भावेन सकलत्रः स भूपतिः ॥ २८०॥
35SXSXSXSXSKSEXSXESEXEEEEEEEXXES
Page #26
--------------------------------------------------------------------------
________________
शान्तिनाथचरित्रम् ।
प्रथम: प्रस्ताव
XEXXXXXXXXXXXXXXX
पप्रच्छ च यथा केन कर्मणा भगवन्मया । प्राप्ता विडम्बनोद्वाहे देव्या प्राप्तं च दूषणम् ॥२८१॥
सरिरूपेऽथ भरते क्षेत्रेऽत्रैवास्ति पत्तनम् । क्षितिप्रतिष्ठित नाम धनधान्यसमृद्धिमत् ॥२८२ ॥ आसीत्तत्र सोमचन्द्राभिधानः कुलपुत्रकः। श्रीदेवी च तद्भार्याऽभूत् तौ मिथः प्रीतिशालिनौ ॥ २८३ ॥ सोमचन्द्रः प्रकृत्यासावार्जवादिगुणान्वितः । मान्यः समस्तलोकानां तस्य भार्या च तादृशी ॥ २८४॥ इतस्तत्रैव नगरे जिनदेवाभिधः सुधीः । श्रावकोऽभूत्समं तेन तस्य मैत्री निरन्तरा ॥२८५॥ जिनदेवा धनाकाङ्क्षी धने सत्यपि सोऽन्यदा । देशान्तरं गन्तुकामो निजं मित्रमभाषत ॥२८६॥ धनायाहं गमिष्यामि मयि तत्र गते त्वया । मामकीनं धनं सप्तक्षेत्र्यां वाप्यं यथाविधि ॥२८७ ॥ तवापि तस्य पुण्यस्य पष्ठांशो भवतादिति । दीनाराणां सहस्राणि दशैतस्यार्पयत्करे ॥२८८॥ गते देशान्तरे तस्मिन् सोमचन्द्रोऽथ तत्सुहृत् । व्ययति स्म यथास्थानं तद्र्व्यं शुद्धचेतसा ॥ २८९ ॥ आत्मीयमपि तस्यानुसारेणायं व्यधावृषम्। तजज्ञात्वा तस्य भार्याऽपि धर्म भेजेऽनुमोदनात् ॥ २९॥ तस्मिन्नेव पुरे तस्याः सखी भद्राभिधाऽभवत् । नन्दनस्य श्रेष्ठिनः पुत्री देवदत्तस्य गेहिनी ॥ २९१ ॥ देवदत्तः स कालेन कर्मदोषेण केनचित् । कुष्ठी जज्ञे ततोभद्रातत्प्रिया विषसाद सा ॥२९२ ॥ पुरः सख्यास्तयाऽन्येचुस्तत्स्वरूपं निवेदितम् । तया च हासपरया भणिता सा ससंभ्रमम् ॥ २९३ ॥
१ धर्मम्.
Page #27
--------------------------------------------------------------------------
________________
हले त्वत्सङ्गदोषेण कुष्ठी जज्ञे पतिस्तव । ममापि दृष्टिं मा गास्त्वमतोऽपसर दूरतः ॥२९४ ।। सा तेन वचसा दूना तस्थौ श्याममुखी क्षणम् । हास्यमेतदिति प्रोच्य तयैवाह्लादिता ततः ।। २९५ ॥ स सोमचन्द्रः श्रीदेव्या तया साई च भार्यया । साधुसंसर्गतः प्राप्तं श्राद्धधर्ममपालयत् ॥२९६ ॥ अन्ते समाधिना मृत्वा सौधर्मे त्रिदशाविमौ । दम्पती समजायेतां पञ्चपल्योपमस्थिती ॥२९७ ॥ सौधर्मात्सोमचन्द्रात्मा च्युत्वाऽभूत भूपतिर्भवान् । जीवश्युत्वा च श्रीदेव्या जज्ञे त्रैलोक्यसुन्दरी ॥ २९८ ॥ परद्रव्येण यत्पुण्यं भवतोपार्जितं तदा । तदेषा भाटकेनैव परिणीता नृपात्मजा
॥ २९९ ॥ हास्येनापि वयस्यायै यद्दत्तमनया पुरा । तदेतस्यामिह भवे कलङ्कः समभूद् ध्रुवम् ॥३०॥ तदाकर्ण्य विरक्तौ तौ दचा राज्यं स्वसूनवे । राजा राज्ञी च प्रव्रज्या पार्श्व जगृहतुर्गुरोः ॥३०१॥ क्रमेण सोऽथ राजर्पिः सर्वसिद्धान्तपारगः । स्थापितो गुरुणा सरिपदे परिकरावृतः ॥३०२॥ , त्रैलोक्यसुन्दरी साध्वी स्थापिता च प्रवर्तिनी । विपद्योभौ च तावन्ते ब्रह्मलोकमुपेयतुः ॥३०३ ॥ ततश्युतौ मनुष्यत्वं प्राप्यानिमिपतां पुनः । एवं भवे तृतीये तो प्रापतुः पदमव्ययम् ॥३०४ ॥
॥ इति मङ्गलकलशकथानकम् ॥ १ देवत्वम्.
XXXEEEEEEEEEEEEEEEEEN
-
-
Page #28
--------------------------------------------------------------------------
________________
प्रथमः
शान्तिनाथचरित्रम् ॥ १२॥
प्रस्तावः
शुन्या धर्मकथामेतां प्रतिबुद्धो महीपतिः । गुरोः पार्श्वे स सम्यक्त्वं श्राद्धधर्ममुपाददे ॥३०५॥ विजहारान्यतः सरिः श्रीपेणनृपतिः पुनः । राज्यं तज्जैनधर्म च पालयामास यत्नतः ॥३०६॥ राज्ञ एवोपदेशेन तत्प्रिया साभिनन्दिता । भेजे धर्म विशेषेण भद्रकत्वं तथाऽपरे ॥३०७॥ इतश्च वलभूपेन कौशाम्बीस्वामिनाऽन्यदा । श्रीमतीकुक्षिसम्भूता श्रीकान्ता तनया निजा ॥३०८॥ श्रीपेणतनयस्येन्दुषेणस्यार्थे स्वयंवरा । प्रेपिता नगरे तत्र परिवारसमन्विता
॥ ३०९॥ (युग्मम् ) रूपातिशयसम्पन्नां तां दृष्ट्वा नवयौवनाम् । उभावपि परिणेतुकामौ तौ नृपनन्दनौ ॥३१ ॥ अयुध्येतां मिथो देवरमणोद्यानमध्यगौ । सन्नद्धगाढकवचौ वन्येभाविव दारुणौ ॥३११॥ (युग्मम्) स श्रीपेणनृपः स्वल्पकषायः स्वच्छमानसः। जिनोच्या भावितोऽत्यन्तं क्षमासारः प्रियंवदः ॥ ३१२ ॥ वैरायमाणौ तावित्थं निरीक्ष्य निजनन्दनौ । निवारयितुमनलम्भूष्णुरेवं व्यचिन्तयत् ॥३१३ ॥ (युग्मम् ) अहो विषयलाम्पट्यं वैचित्र्यं कर्मणामहो । रागद्वेपावहो शत्रू अहो मोहविजृम्भितम् ॥३१४॥ महाप्राज्ञौ महात्मानौ भूत्वाऽपि मम नन्दनौ । यदेतावेककामिन्याः कृते विदधतुः कलिम् ॥३१५ ॥ अनयोर्दुश्चरित्रेण लज्जमानः समान्तरे । मुखं नगरमुख्यानां दर्शयिष्याम्यहं कथम् तदेतस्यामवस्थायां मरणं शरणं मम । इत्यभिप्रायमात्मीयं देव्योः कथयति स्म सः ॥३१७॥ ततस्ताभ्यां सममसौ स्मृतपञ्चनमस्कृतिः। विपमिश्रोत्पलाप्राणप्रयोगेण व्यपद्यत ॥३१८॥
॥१२॥
Page #29
--------------------------------------------------------------------------
________________
सत्यभामाऽपि तेनैव विधिना जीवितं जहौ । विभ्यती कपिलस्यास्य दुष्टशीलस्य सङ्गमात् ॥३१९॥
जम्बूद्वीपविदेहस्यान्तर्वयुत्तरसंज्ञिते । कुरुक्षेत्रेभवञ्जीवास्ते चत्वारोऽपि युग्मिनः ॥३२॥ श्रीपेणाद्यप्रियाजीवावायं मिथुनकं तथा । द्वितीयं मिथुनं सिंहनन्दितासत्यभामयोः ॥३२१॥ इतस्तयोरिन्दुपिन्दुपेणयोर्युद्धयमानयोः । एकस्तत्र कुतोऽप्येत्य चारणपिरदोऽवदत् ॥३२२॥ उत्तमान्वयसंभूतौ स्वयं चरमविग्रहौ । कुर्वाणावीदृशं कर्म लज्जेथे किन भो युवाम् ? ॥३२३ ॥ दृष्ट्वाऽसमञ्जसमिदं सभार्यो युवयोः पिता । विपाघ्राणप्रयोगेण मरणं समवाप सः ॥ ३२४ ॥ ययोरुपकृतस्येह नास्ति सीमा महीतले । तयोः पित्रोविनाशाय जातौ धिग्! दुःसुतौ युवाम् ।। ३२५ ॥ तदियं मोहगोपीया दामिनी वृपदामिनी । त्यज्यतां कामिनी स्वैरगामिनी कलहावनी ॥३२६॥ इति तद्वचसा बुद्धौ त्यक्तयुद्धौ शुभाशयो । तौ तं नत्वा मुनिमेवमुपाश्लोकयतां मुदा ॥३२७ ॥ त्वं गुरुस्त्वं पिता माता त्वं बन्धुः स्निग्ध आवयोः । येनावां रक्षितौ रागद्वेषोपार्जितदुर्गः ॥ ३२८ ॥ विसृज्य महिलामेतां तौ गतौ निजमन्दिरम् । पित्रादीनां प्रेतकार्य सर्व विदधतुस्ततः ॥३२९ ॥ दचाऽथ गोत्रिणे राज्यं पार्श्वे धर्मरुचेर्मुनेः। नृणां चतुःसहस्रेस्तौ सार्द्ध जगृहतुर्बतम् ॥३३०॥ पालयित्वा चिरं दीक्षां कृत्वा च विविधं तपः । उत्पाद्य केवलं ज्ञानं तौ कैवल्यमुपेयतुः ॥ ३३१ ॥ १ अस्तुवाताम्.
Page #30
--------------------------------------------------------------------------
________________
प्रथमः
शान्तिनाथचरित्रम् ॥ १३ ॥
श्रीपेणमुख्या मिथुनद्वयी सा भुक्त्वोत्तरप्राय्यकुरौ सुखानि । पश्चात्तु सौधर्ममियाय कल्पं तत्रापि पल्यत्रितयायुरासीत् ॥ ३३२ ॥
प्रस्ताव:
+S SELSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSESEGIRISHILE
इत्याचार्यश्रीअजितप्रभसूरिविरचिते श्रीशान्तिनाथचरित्रे
पूर्वभवत्रयवर्णनो नाम प्रथमः प्रस्तावः। ENTERASHEETSYASHRESTHESERTISHTHRESTHESE
SEEXXXXXXXXXXXXXXXXXXXXXX
Page #31
--------------------------------------------------------------------------
________________
HOME
॥१॥ ॥२॥
॥४॥
-
XXXXXXXXXXXXXXXXXXXXXXXXX
द्वितीयः प्रस्तावः इतश्चात्रैव वैताढ्य उत्तरश्रेणिभूषणम् । रथनूपुरचक्रवालाख्यमस्ति पुरं वरम् विद्याधरेन्द्रो ज्वलनजटी तत्राभवद्वली । स्वाहा वायुसखस्येव वायुवेगा च तत्प्रिया तत्कुक्षिसंभवो वैरिवारोल्वणतमोरविः । तस्यार्ककीर्तिरित्यासीत्पुत्रोऽर्कस्वमसूचितः समधीतकलः सोऽथ विनयादिगुणाश्चितः । युवराजपदेऽस्थापि पित्रा संप्राप्तयौवनः पुत्री तदनुजा चन्द्रलेखास्वप्नोपसूचिता । आसीत् स्वयंप्रभानाम्नी स्वातन्त्र्यरहिता परम् तत्राभिनन्दनजगन्नन्दनौ मुनिपुङ्गवौ । अन्येधुरागतौ व्योमचारिणौ पापहारिणौ कन्या स्वयंप्रभा सा तु श्रुत्वा धर्म तदन्तिके । बभूव श्राविका शुद्धसामाचारी शुभाशया साधू विजहतुस्तौ मां कन्या सा च स्वयंप्रभा । प्राप्ते पर्वदिनेऽन्येयुः प्रपेदे पौषधव्रतम् तस्य पारणके जैनबिम्बमभ्यर्च्य वेश्मगम् । तच्छेपामर्पयामास गत्वा तातस्य सन्निधौ शीर्षे शेषां तथोत्सङ्गे पुत्रीमाधाय भूपतिः । तद्पवयसी वीक्ष्य चेतस्येवमचिन्तयत वरप्रदानयोग्येयं संजाता मम कन्यका । तद्भर्चा कोऽनुरूपोऽस्या भविष्यति नभश्चरः १ अग्नेः, २ रूपातिशयशालिनी इति वा पाठः.
॥६॥
-
--
॥८॥ ॥९॥ ॥ १०॥ ॥११॥
-
-
Page #32
--------------------------------------------------------------------------
________________
शान्तिनाथचरित्रम् ॥१४॥
द्वितीयः प्रस्ताव:
कुरु पारणकं तावत् पुत्रीत्युक्त्वा विसृज्य ताम् । आकार्य मन्त्रिश्चात्मचिन्तितं तदजिज्ञपत् ॥१२॥ उवाच सुश्रुतस्तेषु देव ! रत्नपुरे वरे । मयूरग्रीवस्तत्पुत्रोऽश्वग्रीवोऽस्ति खगेश्वरः ॥१३॥ भरतामहीभर्त्ता युक्तः पुच्या वरो हि सः । बहुश्रुतोऽवदच्चैतन्त्र युक्तं प्रतिभाति मे ॥१४॥ यतोऽयं वर्तते वृद्धस्तदन्यः कोऽपि रूपवान् । वयःशीलकुलैस्तुल्यो वरः पुत्र्याः करिष्यते ॥१५॥ ततो लब्धावकाशेन प्रोचे सुमतिमन्त्रिणा । यथा देवोचरश्रेण्यां पुरी नाम प्रभङ्करा तत्र मेघधनो राजा तद्भार्या मेघमालिनी । पुत्रो विद्युत्प्रभः पुत्री ज्योतिर्माला तयोर्वरा ॥१७॥ योग्यो विद्युत्प्रभः सोऽस्या युष्मत्पुत्र्याः पतिस्तथा। ज्योतिर्माला कुमारस्य पत्नी भवितुमर्हति ॥१८॥ भणितं च ततोऽन्येन श्रुतसागरमन्त्रिणा । देवास्या युज्यते कर्तु कन्यकायाः स्वयंवरः ॥१९॥ श्रुत्वेदं मन्त्रणं राजा मन्त्रिणो विससर्ज तान् । संभिन्नश्रोतःसंज्ञं चापृच्छन्नैमित्तिकोत्तमम् ॥२०॥ नैमित्तिकोऽबदद्राजन् ! यो पोतनपुरेशितुः । पुत्रौ प्रजापते राज्ञस्त्रिपृष्ठाचलसंज्ञको ॥२१॥ तावत्र भरते विष्णुवलभद्रो भविष्यतः । प्रतिविष्णुममुं चाश्वग्रीवं व्यापादयिष्यतः । ॥२२॥ इति साधुमुखाद्वाक्यं मया श्रुतमतः परम् । स्वज्ञानेनापि विज्ञाय कथयामि महीपते ! ॥२३ ॥ तुभ्यं विद्याधरेशत्वं स त्रिपृष्ठः प्रदास्यति । एषा स्वयंप्रभा चाग्र्यमहिषी तस्य भाविनी ॥२४॥ ततश्च परितुष्टोऽसौ राजाऽभ्यर्च्य विसृज्य तम् । प्रेषयामास दूतं च मारीचिं पोतने पुरे ॥२५॥
॥१४॥
Page #33
--------------------------------------------------------------------------
________________
EXXXXXXXXXXXXXXXXXXXXXX
गत्वा नत्वाऽमुनेत्युक्तः प्रजापतिनरेश्वरः । यदस्माकं विभुर्विद्याधरेन्द्रो ज्वलनाभिघः ॥२६॥ कन्यां स्वयंप्रभानाम्नी त्रिपृष्ठाय सुताय ते। प्रभो! दित्सति तेनाहं प्रेषितोऽस्मि तवान्तिकम् ॥ २७॥ ऊचे प्रजापतिः कार्यमेतत् बहुमतं मम । वलित्वाऽऽगत्य दूतोऽपि तदाचख्यौ स्वभूभुजे ॥२८॥ इतोऽश्वग्रीवभूपेनाश्वविन्दुईष्टप्रत्ययः। पृष्टो नैमित्तिको मृत्युर्मम भावी कुतो न्विति
मात्तका मृत्युमम भावी कुतो न्विति ॥२९॥ सोऽवदच्चण्डवेगं ते यो दूतं धर्षयिष्यति । शालिक्षेत्रापकर्तारं हनिष्यति हरिं च यः ॥३०॥ स ते हन्तेति श्रुत्वा तं सत्कृत्य व्यसृजन्नृपः । पुत्रौ प्रजापतेः क्रूराविति लोकाद्विवेद च ॥३१॥ तेनाथ प्रेषितो राज्ञा ययौ दूतोऽस्खलद्गतिः। प्रजापतिनृपास्थाने भवत्प्रेक्षणनिर्भरे। ॥३२॥ सद्यः प्रेक्षणरङ्गस्य भङ्गं दृष्ट्वा कुमारको । त्रिपृष्ठाचलनामानौ तस्मै चुकुपतुर्भृशम्
॥३३॥ दूतः सत्कृत्य राज्ञाऽसौ विसृष्टश्चलितश्च सः । त्रिपृष्ठाचलयोरग्रे कथितस्तत्पदातिभिः ॥३४॥ ताभ्यां गत्वा मुष्टिपाणिप्रहारेण निपीडितः । तद्रङ्गभङ्गाविनयं स्मारयद्भ्यां मुहुर्मुहुः ॥३५॥ श्रुत्वा प्रजापती राजा सुतयोस्तद्विचेष्टितम् । तं दूतं क्षमयामाम सच्चक्रे च विशेषतः ।। ३६ ॥ तदुतधर्पणं चारमुखेनाश्वनृपोशृणोत् । पश्चात् स चण्डवेगोऽपि तत्समीपमुपागतः ॥३७॥ ज्ञातोदन्तं नृपं ज्ञात्वा सोऽथ तस्मै यथातथम् । आख्याय पुनरप्यूचे देवेदं वालचेष्टितम् ॥३८॥
१ सिहम्.
Page #34
--------------------------------------------------------------------------
________________
द्वितीय:
शान्तिनावचरित्रम्
MET
प्रजापतिनृपस्त्वाज्ञां न ते लड्डन्यति क्वचित् । तदेतस्योपरि क्रोधो न कर्तव्यो मनागपि ॥३९॥ शालिक्षेत्राण्यथो तस्य वारंवारेण पार्थिवैः। रक्ष्यन्ते स्म मृगारातेः प्रतिवर्षमुपद्रवात ॥४०॥ तस्मिन् वर्षे च तद्रक्षामन्यदूतमुखेन सः । प्रजापतिमवारेऽप्यकारयत क्रुद्धमानसः ॥४१॥ पितरं प्रतिपिध्याथ कुमारौ बलशालिनौ । जग्मतुस्तत्र यत्रास्ति शालिक्षेत्रप्रदेशः ॥४२॥ शशंसुर्विस्मितास्तेऽथ शालिगोपकपूरुषाः । रक्ष्यन्ते शालयो ह्येते नृपैः सबलवाहनः ॥४३ ॥ युवां कावपि वर्तेथे नवीनौ शालिरक्षको । निःसन्नाहौ समायातौ यौ सैन्यपरिवर्जितौ ॥४४॥ ऊचे त्रिपृष्ठो भोस्तावत्स सिंहो दर्श्यतां मम । यथा तद्रक्षणक्लेशं सर्वथा वारयाम्यहम् ॥४५॥ ततस्तैर्दर्शितस्तस्य सिंहो गिरिगुहाशयः । ययौ च तद्गुहाद्वारे त्रिपृष्ठोऽपि रथस्थितः ॥४६॥ रथचीत्कारनादेन जजागार स केशरी । प्रसारितास्यकुहरो गुहाया निर्जगाम च
॥४७॥ पदाति तं समालोक्य कुमारोऽपि तथाऽभवत् । मुमोच खड्गरत्नं च तं निरीक्ष्य निरायुधम् ॥४८॥ कुमारचेष्टितं दृष्ट्वा दध्यौ सिंहोऽपि विस्मितः । अहो आश्चर्यमेकं तत् यदेकोऽयमिहाऽगतः ॥४९॥ द्वितीयं पादचारित्वं तृतीयं खड्गमोचनम् । तदस्य दर्शयाम्यद्यावज्ञायाः फलमात्मनः ॥५०॥ इत्युत्पत्याम्बरे रोपात पतितो मस्तकोपरि । प्रचिक्षेप कुमारो द्राक् करौ केशरिणो मुखे ॥ १॥ एकेन पाणिनाऽऽदाय तस्यौष्ठमपरेण तु । अधरं दारयामास तं ततो जीर्णपोत(वस्त्रोवत् ॥५२॥
॥१५॥
Page #35
--------------------------------------------------------------------------
________________
XXXXXXXXXXXXXXXXXXXXX
-
द्विधा कृत्वा विनिक्षिप्तं पृथिव्यां तत्कलेवरम् । स्फुरत्तदपि रोषेण प्रोचे सारथिनांजसा ॥५३॥ नरसिंहकुमारोऽयं पशुसिंहो भवान् पुनः हतोऽसि सिंह ! सिंहेनाऽनुशयं भोः करोषि किम् ? ॥ ५४॥ प्रीतोऽपि वचसा तेन स मृत्वा नरकं गतः । प्राजापत्योऽपि तच्चश्विग्रीवस्यार्पयत्तदा ॥५५॥ तनैवादिष्टस्तत्रस्थविद्याधरनरैरथ । इति चाकथयद्यत्वं भुवान्धो मत्प्रसादतः ॥५६॥ (युग्मम्) दृष्ट्राऽऽकर्ण्य च तद्वाजिग्रीवोऽप्येवमचिन्तयत् । अलंभूष्णुर्ममाप्येप दोर्बलेनामुना खलु ॥५७॥ ज्ञात्वोदन्तं च कन्याया ज्वलनात्तामयाचत । सोऽपि कृत्वोत्तरं किञ्चित् तत्पुंसां तमबोधयत् ॥ ५८॥ नीत्वा प्रच्छन्नमेतां च पुरे पोतननामनि । सांवत्सरोपदिष्टेन त्रिपृष्ठेनोदवाहयत् हरिश्मश्रुरथामात्यः परिणीतां स्वयंप्रभाम् । श्रुत्वा कुतश्चित्कथयामासाश्वग्रीवभूभुजे ॥६ ॥ तेनायं कुपितेनैवमादियो यदिहाऽऽनय । तौ त्रिपृष्ठाचलौ बवा खेचरं तं च मायिनम् प्रेपितश्चामुना दूतः स गत्वा पोतने पुरे । ज्वलनं प्रत्यभाषिष्ट पटिष्ठवचनोद्धतः ॥ ६२॥ ननु भोः कन्यकारत्नं ढौकय स्वामिनो मम । किं न जानासि रत्नानां प्रभुरेव गतिर्भवेत् ॥ ६३ ।। जवलनोऽप्यब्रवीद् दूत! प्रदत्ता कन्यका मया । त्रिपृष्ठाय तदेतस्या एष रक्षाकरोऽधुना ॥६४॥ ऊचे त्रिपृष्ठो रे दूत ! परिणीता मया ह्यसौ। इमामिच्छन् स ते स्वामी निविण्णो जीवितान्नु किम् ॥६५॥ १ ओदनम्.
Page #36
--------------------------------------------------------------------------
________________
शान्तिनायचरित्रम्
द्वितीयः प्रस्ताव
तदतवचनात श्रुत्वाऽश्वग्रीवः क्रोधदुर्द्धरः । विद्याधरभटान प्रेपीत हन्तुं तानात्मनो द्विपः ॥६६॥ ते पोतनपुरं प्राप्ताः प्रहरन्तोऽयनोदिताः । लीलयैव जिताः सर्वे त्रिपृष्ठेन महौजसा ॥६७॥ प्रोक्ताश्चेदं यथाऽख्ययं खरग्रीवस्य तस्य भोः। चेच्छूरोऽसि तदाश्वेहि स्थावऽस्तु नौ समित ॥ ६८ ॥ तैश्च गत्वा तथाऽऽख्याते स विद्याधरसैन्ययुक् । तत्राऽऽययौ त्रिपृष्ठश्च ससैन्यः श्वशुरालये (चले)॥ ६९ ॥ सतोऽग्रसैन्ययोयुद्धे जाते विद्याधरैः कृताः । रक्षोव्याघ्रपिशाचाद्या हिंस्राः परविनाशकाः ॥७ ॥ त्रिपृष्ठसेना तद्भीता पलायिष्ट ततः स्वयम् । डुढौके खेचरैर्योद्धं रथारूढोऽचलानुजः ॥ ७१॥ शङ्खच पूरयामास तन्नादेन निजं बलम् । युद्धसज्ज पुनरभूत परानीकं च विद्रुतम् ॥ ७२ ॥ बुढौके स्वयमश्वोऽपि योद्धं स्यन्दनसंस्थितः। त्रिपृष्ठेन सम सिंहः शरभेणेव सत्वरम् ॥ ७३॥ दिव्यास्त्रैर्युयुधे सोऽथ त्रिपृष्ठस्तानि लीलया । सर्वाण्युच्छेदयामास तमांसीव विकर्तन: ॥७४॥ ततश्च सोऽमुचचक्रं त्रिपृष्ठाय भयावहम् । तच वक्षसि तुम्बेन प्राजापत्यमताडयत् ॥ ७५॥ स्थितं तत्रैव तदथोपादाय तमुवाच सः । कृत्वा मम नमस्कार रे स्वमार निवारय ॥७६॥ अश्वग्रीवोवदन्मृत्युर्वरं वैरिप्रणामतः । तन्मुञ्च चक्रं को वक्र दैवं नामानुकूलयेत् ॥७७ ॥ ततो मुक्तं त्रिपृष्ठन छिच्चा तस्य शिरोधराम् । पुनरागात त्रिपृष्ठस्य समीपेऽसौ(दः) सुदर्शनम् ॥ ७८ ॥
१ स्वामिप्रेरिताः. २ सूर्यः. ३ मारिमू.
Page #37
--------------------------------------------------------------------------
________________
mins
EXXXXXXXXXXXXXXXXXXXXXXXXX
प्रथमो वासुदेवोऽयमुत्पन्न इति वादिनः । उपरिष्टात् त्रिपृष्ठस्य पुष्पवृष्टिं व्यधुः सुराः ___ ततोऽसौ साधयामास भरतार्द्धमहीपतीन् । बभ्रे कोटिशिलां वामभुजाग्रेण च छत्रवत् ॥ ८॥ वासुदेवाभिषेकोऽस्य चके भूचरखेचरैः । तेन चाकारि ज्वलनजटी विद्याधराधिपः ॥८१॥ अर्ककीर्तेस्तथा ज्योतिर्माला विद्युत्प्रभवसा । बभूव गेहिनी रम्या त्रिपृष्ठस्यैव शासनात् ॥८२॥ ययौ निजपुरं सोऽथ तस्य चात्यन्तवल्लभा । षोडशस्त्रीसहस्राणां मुख्या साऽभूत् स्वयंप्रभा ॥८३॥ इतः श्रीषणजीवोऽसौ च्युत्वा सौधर्मकल्पतः । ज्योतिर्मालाकुक्षिसरस्यवातारीन्मरालवत् ॥८४ ॥ दृष्टोऽमितप्रभाव्यातसरस्वप्नोऽम्बया तदा । जज्ञे च समये पुत्रोऽमिततेजोऽभिधोदितः ॥८५॥ अर्ककीर्तिः पिता सोऽथ परिव्रज्यामुपाददे । अभिनन्दनाभिधानस्यानगारस्य सन्निधौ ॥८६॥ जीवोऽथ सत्यभामायाश्युत्वा प्रथमकल्पतः । ज्योतिर्मालोदरे जाताऽर्ककीर्तेस्तनयाऽभवत् ॥८७॥ सुतारारजनीस्वमदर्शनात् साऽभिधीयते । सुतारेति सुताराक्षी चारुतारुण्यशोभिता ॥८८॥ जीवोऽभिनन्दितायाश्च स्वर्गाचयुत्वाऽऽयुषःक्षये। देव्यां स्वयंप्रभानाम्न्यां त्रिपृष्ठस्य सुतोऽभवत्।।८९॥ अभिषेको महालक्ष्म्या दृष्टः स्वमे यदम्बया । तेन श्रीविजयो नाम तस्य जज्ञे मनोरमम् ॥९ ॥ अपरोऽपि त्रिषष्ठस्य विष्णोरजनि नन्दनः । स्वयंप्रभाप्रसूतो विजयभद्रोऽभिधानतः ॥ ९१ ॥ स सिंहनन्दिताजीवः सौधर्मत्रिदिवश्युतः । जज्ञे ज्योतिःप्रभानाम्नी त्रिपृष्ठस्यैव नन्दिनी ॥९२॥
Page #38
--------------------------------------------------------------------------
________________
शान्तिनाथचरित्रम् ॥१७॥
द्वितीयः प्रस्ताव
ELESED
अकार्यत्यन्तचायथाः कृते तस्याः स्वयंवरः । विष्णुना दूतवदनैराहूताः सुमहीभुजः ॥९३ ॥ अथार्ककीर्तिनाऽमात्यः प्रेषितः केशवान्तिकम् । स एत्य विष्णुमानम्य व्याजहार कृताञ्जलिः ॥ ९४ ॥ देव ! मत्स्वामिनः पुत्री सुताराऽपि निजेच्छया । घृणुते वरमत्रव समागत्य त्वदाज्ञया ॥१५॥ हृष्टोभाषिष्ट गोविन्दो भवत्वेवं किमत्र भोः । वाच्यं यदर्ककीर्तेश्च ममावासस्य नान्तरम् ॥९६ ॥ ततः पुत्रीमुपादायामिततेजःसुतान्वितः। तत्राययावर्ककीर्तिः पूजितो विष्णुनाऽथ सः ॥९७॥ अकारयत त्रिपृष्ठोऽथ स्वयंवरणमण्डपम् । मश्चाननेकशस्तत्र नामाङ्कान्यासनानि च ॥९८॥ ततस्ते पार्थिवास्तेष्वासनेषु न्यपदन क्रमात् । तेषां च मध्ये तो विष्णुचलभद्रौ निषेदतुः ॥ ९९॥ अत्रान्तरे कृतस्नाने श्वेतवासोऽतिशोभने । श्वेताङ्गरागपुष्पाढ्ये विशालशिविकास्थिते ॥१० ॥ चामराभ्यां धीज्यमाने देव्याविव धरागते । ज्योतिःप्रभासुतारे ते कन्ये तत्रेयतुः शुभे ॥१०१॥ (युग्मम्) शिविकायाः समुत्तीर्य स्वयंवरसदोगते । ते प्रेक्षांचक्रिरे भूपाः पुराऽदृष्टाङ्गना इव ॥१०२॥ निरीक्ष्य निखिलान् राज्ञोऽमिततेजोगलेऽक्षिपत् ।ज्योतिःप्रभा वरमालामन्या श्रीविजयस्य तु ॥ १०३॥ अहो साधु वृतं साधु वृतमित्युच्चकैर्जगुः । हृष्टचित्ता महीपाला भूचराः खेचरा अपि ॥१०४॥ त्रिपृष्ठश्चार्ककीर्तिश्च तान्सत्कृत्य विसृज्य च । कारयामासतुः प्रीतौ विवाहं स्वस्वकन्ययोः ॥१०५॥ अर्ककीतिरथो ज्योतिःप्रभामादाय स्वस्नुषाम् । मुक्त्वा सुतारां ससुतोऽप्याजगाम निजं पुरम् ॥ १०६॥
१७॥
Page #39
--------------------------------------------------------------------------
________________
-
-
विरक्तचित्तः सोऽन्येचुर्दचा राज्यं वसूनवे । पितुर्दीक्षाप्रदस्यैव मुनेः पार्श्वग्रहीद्वतम् ॥१०७॥ त्रिपृष्ठे वासुदेवेऽथ परलोकं गते सति । सूरिः सुवर्णकुम्भाख्यः पोतनेऽन्येधुराययौ ॥१०८ ॥ श्रेयांसजिनशिष्यं तं परिवारसमन्वितम् । प्रययौ नन्तुमुद्याने बलभद्रोऽचलाभिधः तत्राचार्य नमस्कृत्योपविश्य च यथास्थिति । शुश्राव देशनां तस्य मोहनिद्राविनाशिनीम् ॥११०॥ पप्रच्छावसरे चैवं भगवन् । विश्वविश्रुतः । मत्कनिष्ठो गुणैर्येष्ठस्त्रिपृष्ठः कां गतिं गतः १ ॥१११॥ सूरिरूचे स नृशंसः पञ्चेन्द्रियवधे रतः। महारम्भपरो मृत्वा सप्तमं नरकं ययौ ॥११२ ॥ तच्छ्रुत्वा विललापैवमचलः स्नेहमोहितः । हा विश्ववीर ! हा धीर ! किं तेऽमृद्गतिरीदृशी ? ॥ ११३ ॥ गुरुणोक्तं मा विपीद शृणु पूर्वजिनोदितम् । यदस्य चरमो जीवो भवितान जिनेश्वरः ॥११४ ॥ ततः श्रीविजयं राज्ये यौवराज्येऽपरं सुतम् । निवेश्य बलभद्रोऽस्य गुरोः पार्श्वग्रहीद्वतम् ॥ ११५॥ राज्ञः श्रीविजयस्याथ राज्यं पालयतः सतः। सभास्थस्यान्यदाऽऽगत्य प्रतीहारो व्यजिज्ञपत् ।। ११६ ।। प्रभो ! त्वमन्दिरद्वारे त्वदर्शनसमुत्सुकः । अस्ति नैमित्तिको नाम स आयातु प्रयातु वा ॥ ११७ ॥ ततो राज्ञोऽनुमत्याऽसौ तेनानीतः सभान्तरे । दत्त्वाऽऽशीर्वचनं तस्मै यथासनमुपाविशत् ॥११८ ॥ राजा प्रोवाच ज्ञानेन यत्पश्यसि शुभाशुभम् । तत्त्वं हि निमित्वज्ञ! करे यत्तेऽस्ति पुस्तिका।। ११९॥ सोऽवदद्देव ! पश्यामि यदहं निजब्रह्मणा । तद्वक्तमपि नो शक्यं कथ्यते तु त्वदाज्ञया ॥१२०॥
EEEEEEEEEEEERXXXKARARXXXXX
-
-
Page #40
--------------------------------------------------------------------------
________________
द्वितीयः प्रस्तावः
शान्तिनाथचरित्रम् ॥१८॥
सोनवालदा शास्त्रमेतयेन म पुनर्गृही । धनाशामरक्षणोपायचिन्तयातिप्रयत्न
यदितः सप्तमे घने पोतनाधिपतेर्ननु । निपतिष्यत्यचिरांशुः शीर्पोपरि न संशयः ॥ १२१॥ तच्छ्रुत्वा परिपद्वजाहतेवाऽभूत्सुदुःखिता । भणितश्च कुमारेण गाढकोपपरेण सः ॥१२२ ॥ पतिष्यति यदा विद्युत् रे पोतनपुरेशितुः । पतिष्यति तदा शीर्षे त्वदीये किं नु दुर्मते । ॥१२३॥ नैमित्तिकोऽवदन्मह्यं त्वं कुप्यसि कुमार ! किम् ? । यदत्र दृष्टं संज्ञाने भवेत्तज्जातु नान्यथा ॥१२४ ॥ वस्त्राभरणरत्नानां वृष्टिर्मम भविष्यति । राज्ञा प्रोचे त्वया ह्येतन्निमित्तं शिक्षितं कुतः ॥१२५॥ सोब्रवीद्वलदेवस्य दीक्षाकाले मयाऽपि हि । प्रवज्या प्रतिपन्नाऽऽसीत्कियत्कालं च पालिता ॥ १२६ ॥ अधीतं स तदा शास्त्रमेतद्येन भ(मु)णाम्यहम् । सर्वज्ञशासनमृते सम्यग् ज्ञानं न विद्यते ॥१२७॥ पश्चाच विषयासक्तोऽभूवं राजन् ! पुनही । धनाशयेहाऽऽगतोऽस्मि कृतदारपरिग्रहः ॥१२८ ॥ ज्ञात्वा सत्यं निमित्तं तत् राजलोकोऽखिलस्तदा। स्वस्वामिरक्षणोपायचिन्तयाव्याकुलोऽभवत् ॥१२९ ॥ तत्रैको न्यगदन्मन्त्री यत् स्वामी सप्त वासरान् । यानारूढः समुद्रान्तर्धियतेऽतिप्रयत्नतः ॥१३०॥ द्वितीयः स्माह पानीये विद्युद्यद्यपि न स्फुरेत् । तथापि यानपात्रे तांपतन्ती को निवारयेत् ॥१३१ ।। तस्माद्वैताक्ष्यशैलस्यातिगूढे कन्दरागृहे । प्रक्षिप्य रक्ष्यते स्वामी विद्युत्पातभयात्किल ॥१३२ ॥ तृतीयोऽप्यवदनायमुपायोऽपि शुभावहः । प्रत्युतापायहेतुः स्यात् दृष्टान्तोत्र निशम्यताम् ॥ १३३ ॥ १ विद्युत
॥१८॥
Page #41
--------------------------------------------------------------------------
________________
EXXXXXXXXXXXXXXXXXXXXXXXXXX
बभूव विजयपुरे रुद्रसोमाभिधो द्विजः । तद्भार्या ज्वलनशिखा शिखी नाम्ना तयोः सुतः॥ १३४॥ तस्मिंश्च नगरे कश्चित् राक्षसो मांसलोलुपः । भूरिमानुषरूपाणि मारयामास प्रत्यहम् ॥१३५ ॥ एकैकं मानुषं तेऽहं दास्याम्येवं वधी: स्म मा । सह तेन व्यवस्थेति कृता तत्पुरमभुजा ॥१३६ ॥ निष्पादिताः सर्वपौरनामान्तर्गतगोलकाः । तन्मध्यानित्यमेकैकमाकृष्याख्यां निरीक्ष्यते ॥१३७॥ यस्मिन् दिने च यन्नाम दृश्यते तत्र निर्गतम् । स तस्मिन् दीयते तस्य शेषरक्षाविधित्सया ॥१३८॥ अन्येशुद्धिजपुत्रस्य तस्य नाम विनिर्ययो । तच्छ्रुत्वा जननी तस्याक्रन्दं चक्रे सुदुःखिता ॥ १३९ ॥ तस्याः क्रन्दितमाकर्ण्य तत्रासनगृहस्थितैः। भूतैः सामाणि सदयैः खेदं हे अम्ब! मा कृथाः॥ १४०॥ भविष्यति यदा दत्तो राक्षसाय सुतस्तव । आनेष्यामस्तदा हुत्ता तमवश्यं तवान्तिकम् ॥१४१ ।। इत्युक्ता मुदिता साऽभूत तत्पुत्रः सोऽथ भूभुजा । प्रदत्तो रक्षसे तस्माद्भूतैरपि हृतश्च तैः ॥ १४२॥ समर्पितश्च तन्मातुस्तया तन्मृत्युभीतया । स पर्वतगुहामध्ये क्षेपित्वा (क्षिप्त्वा च) पिदधे तथा ॥ १४३ ॥ तत्राप्यजगरेणायं तत्स्थेन गिलितो निशि । न शक्यमन्यथा कर्तु कर्म केनापि देहिनाम् ॥१४४॥ तस्मादवश्यंभावी हि योऽसौ भावो भविष्यति । किन्तु दुरितोपशान्त्यै करिष्यामस्तपो वयम् ।। १४५॥ 'मन्त्र्यवादीचतुर्थोऽथ सत्यमेतेन भाषितम् । किन्तु यद्वर्त्तते चित्ते मम तत्कथयामि वः ॥१४६॥ पोतनाधिपतेजि विद्युत्पातोऽमुनोदितः । नैमित्तिकेन न पुना राज्ञः श्रीविजयस्य भोः ॥१४७ ॥
Page #42
--------------------------------------------------------------------------
________________
शान्तिनाथचरित्रम् ॥१९॥
द्वितीयः प्रस्ताव
ततः सप्त दिनान्यत्रापर: स्वामी विधीयते । नैमित्तिकोऽपि तद्वाक्यं प्राशंसत्साधु साध्विति ॥ १४८॥ उवाच चास्य कार्यस्य कथानार्थमिहागमम् । इदं च क्रियतां किन्तु किमन्यैर्दुर्विचिन्तितः ॥१४९ ॥ राजा जिनालयस्यान्तस्तपोनियमतत्परः। तिष्ठत्वेप यतो ह्यापल्लङ्घन्यते सुमहत्यपि ॥१५॥ राज्ञोचे यस्य कस्यैव स्वामित्वं हि विधास्यते । सोऽपि यास्यति पञ्चत्वं तदेवं क्रियते कथम् ॥ १५१॥ ऊचुश्च मन्त्रिणः स्वामिन् ! यद्यतत्संमतं तव । तदाभिपेको यक्षस्य प्रतिमाया विधास्यते ॥१५२ ।। चेद्देवतानुभावेन न स्यादापत्ततो वरम् । नो चेत्काष्ठमयी यक्षप्रतिमैव विनक्ष्युति ॥१५३॥ राजाऽथ युक्तमित्युक्त्वा गत्वा च जिनमन्दिरे । सर्वान्तःपुरसंयुक्तः प्रपेदे पौषधव्रतम् ॥१५४ ॥ संस्तारकनिषण्णश्च तपोनियमसंयमैः । पूतात्मा मुनिवत्तस्थौ नमस्कारपरायणः अन्ये च मन्त्रिसामन्तप्रमुखा भूपतेः पदे । निवेश्य यक्षप्रतिमा तस्थुस्तस्याः समीपगाः ॥१५६॥ ततः सप्तमे घेरोऽब्दैः क्षणाद् व्याप्त नभस्तलम् । ववर्ष च घनो गर्जारवव्याप्तदिगन्तरः ॥ १५७ ।। मुहुर्विद्योतमानोऽथ विद्युद्दण्डस्तथाऽपतत् । तस्मिन्नेव यक्षबिम्बे निर्भाग्ये यमदण्डवत् ॥१५८॥ तत्रोपसर्गे तेनैव विधिना प्रलयं गते । नैमित्तिकगिरा राजा पुनरागानिज गृहम् ॥ १५९ ॥ सर्वान्तःपुरनारीभिर्दृष्टचित्ताभिरर्चितः । वस्त्रालङ्काररत्नौधैः स नैमित्तिकपुङ्गवः ॥१६॥ १ दिने. २ मेधैः.
॥ १९ ॥
Page #43
--------------------------------------------------------------------------
________________
SXEXXESXXX
EEEEEEEEEEEEEEX
राज्ञाऽपि भूरिद्रव्येणार्चितो विससृजे च सः। यक्षस्य प्रतिमा रत्नमयी नव्या च कारिता ॥ १६१॥ पूजा च जिनबिम्बानां श्रेयःसन्ततिकारिणी। राज्ये पुनर्जन्मनीव स्वस्याकारि तथोत्सवः ॥ १६२॥ सोऽथ श्रीविजयो राजा समं देव्या सुतारया। ययौ क्रीडार्थमन्येधुर्वनं ज्योतिर्वनाभिधम् ॥१६३ ॥ तत्र भर्ना सहाद्रीणां छायावत्सु तलेषु सा । विहरन्ती ददशैकं सुतारैणं मनोहरम् ॥१६४ ॥ कुरङ्गं स्वर्णवर्णाङ्गं तं विलोक्य सुलोचनम् । सोचे स्वपतिमानीय नाथैनं त्वं ममार्पय ॥१६५ ॥ तद्ग्रहार्थ स्वयं राजा स्वप्रियास्नेहमोहितः। दधावे सोऽपि वेगोनोत्पत्येयाय नभस्तलम् ॥१६६ ॥ अत्रान्तरेऽस्य प्रियया दध्या कुक्कुटाहिना । एह्येहि लघु हे नाथेति पूच्चक्रे गुरुस्वरम् ॥१६७॥ तदाकर्ण्य झटित्येव विनिवृत्तो महीपतिः । ददर्शनां विलपन्तीं विषवेदनयाऽर्दिताम् ॥१६८॥ ततः प्रयुक्ता वेगेन मन्त्रतन्त्रादिका क्रिया । साऽप्यनिष्फला क्षेत्रे क्षिप्त बीजमिवोषरे ॥१६९॥ क्षणान्तरेण सा देवी म्लानास्या मीलितेक्षणा । पश्यतोऽपि महीभर्तुर्बभूव गतजीविता ॥१७०॥ ततो मुमूर्छ भूपाला पपात च महीतले । कथञ्चिल्लब्धसंज्ञः सन् स एवं विललाप च ॥१७१ ॥ हागीर्वाणप्रियाकारे! महोदारे! विवेकिनि! हा सुतारे! गुणाधारे!प्रीतिसारे व तिष्ठसि ॥ १७२ ॥ एवं विलप्य बहुधा राजाऽभून्मरणोद्यतः । वृत्तान्तं ज्ञापितश्चामुं राजलोकः पदातिभिः ॥१७३ ॥ १ सहाहीणामिति वा पाठः. २ मृगम्. ३ जगाम. ४ देवाड्गनाकारवति.
-
Page #44
--------------------------------------------------------------------------
________________
शान्तिनाथचरित्रम् ॥२०॥
द्वितीयः प्रस्ताव:
गज्ञः स्वयंप्रभा माता भ्राता च विजयाह्वयः । तच्छृत्वा दु:खितौ गाद यावदेतौ बभूवतुः ॥ १७४ ॥ नभोमार्गेण तत्रैत्य तावदेको नरोऽवदत् । अलं देवि ! विषादेन शृणु वार्ता स्वयंप्रमे! ॥१७५॥ रथनू पुरनाथेन पूजितोऽमिततेजसा । संभिन्नश्रोता मत्तातो नैमित्तिकवरोऽस्ति हि ॥१७६ ॥ तत्पुत्रोऽहं दीपशिखोज्न्यदोर्वी तु प्रचेलतुः। ज्योतिर्वनं प्रति क्रीडां कर्तुं तावदपश्यताम् ॥१७७ ॥ पुरश्चमरचञ्चेशाशनिघोषेण भूभुजा। हियमाणां गतत्राणां तां सुतारां नृपप्रियाम् ॥१७८ ॥ इत्यूचतुश्च तं दुष्ट! धृष्ट! दुश्चेष्ट! पाप रे ! । अस्मत्खामिस्वसारं त्वमपहृत्य क यास्यसि ? ॥ १७९ ॥ तया च भणितावावां प्रयासेनालमत्र वाम् । गत्वा संबोध्यतां राजा वेतालिन्या विमोहितः ॥ १८॥ म कामस्तया सार्द्ध सुतारारूपया ततः। आवाभ्यां बोधितो राजा सा च दुष्टा प्रणाशिता ॥१८१ ॥ देव्युदन्ते च विज्ञाते सोऽस्ति तत्प्रापणोद्यतः । तदाज्ञयाऽहमागां वस्तत्स्वरूपं च शंसितुम् ॥ १८२ ॥ ततः स्वयंप्रभादेव्या सत्कृतोऽसौ पुनर्ययौ । राज्ञः समीपं राजाऽपि ताभ्यां निन्ये स्वपचने ॥ १८३॥ प्रतिपत्ति विधायाथ संपृष्टोऽमिततेजसा । राजा श्रीविजयः सर्व स्ववृत्तान्तं न्यवेदयत् ॥१८४॥ तच्छ्रुत्वा सोऽपि संक्रुद्धोऽशनिघोषाय सत्वरम् । मारीचिनामकं दूत शिक्षा दचा विसृष्टवान् ॥ १८५॥ गत्वा चमरचञ्चायांस दूतस्तमभाषत । आनीताऽस्ति त्वयाऽज्ञानात भगिनी स्वामिनो मम ॥ १८६ ॥ राज्ञी श्रीविजयस्याहो सुतारेति सती वरा । अर्ग्यतां साधुना शीघ्रमनर्थ माऽऽत्मनः कृथाः ॥ १८७॥ (युग्मम् )
॥२०॥
Page #45
--------------------------------------------------------------------------
________________
उवाचाशनिघोपोऽपि सगर्वोध्धुरकन्धरः। रे दूतार्पयितुं नाम किमानीताऽस्त्यसौ मया ॥१८८॥ मत्तो यः कश्चिदप्येनामनात्मज्ञो जिहीर्षति ।दीप्ते मत्खड्गदीपेऽस्मिन् शलभत्वं स यास्यति ॥ १८९ ॥ इत्युक्त्वा ग्राहयित्वा च कण्ठे निर्वासितोऽमुना । स्वस्थानमगमदुतस्तदर्थोऽस्य शशंस च ॥ १९०॥ ततः श्रीविजयायादात विद्यां शस्त्रनिवारिणीम् । बन्धमोचनिकां चैवामिततेजोनरेश्वरः ॥१९१॥ एकैकां साधयामास स सप्तदिवसः पृथक् । सिद्धविद्यस्ततश्चारिविजयाय चचाल सः ॥१९२ ॥ कुमारा रश्मिवेगाद्याः सुता अमिततेजसः । अनुश्रीविजयं चेलुः शतसंख्या महौजसः ॥१९३॥ अन्यैश्च भूयःसुभटैविद्याभुजबलोर्जितैः। समं श्रीविजयः प्रापाशनिघोषपुरान्तिकम् ॥ १९ ॥ महाज्वालाभिधां विद्यां परविद्याच्छिदाकरीम् । ययौ साधयितुं चार्किनृपो हिमवति स्वयम् ॥ १९५॥ सहस्ररश्मिना ज्येष्ठपुत्रेण परिवारितः । तत्र मासिकभक्तेन विद्यां साधयति स्म सः ॥१९६ ।। इतः ससैन्यमायान्तं श्रुत्वा श्रीविजयं नृपम् । प्रैषीदशनिघोषः स्वान् पुत्रान् सबलवाहनान् ॥ १९७॥ ततः प्रववृते घोरः समरः सैन्ययोस्तयोः । विद्याबलवतो स्वस्वस्वामिनोर्जयकाक्षिणोः ॥ १९८ ॥ विद्याजनितमायाभियुद्धयमानं सकौतुकम् । नाहारयदेकमपि द्वयोर्मध्यादलं तयोः ॥१९९॥ मासं यावत् युधं कृत्वाऽमिततेजःकुमारकैः । पुत्रा अशनिघोपस्य प्रौढा अपि पराजिताः ॥२०॥ १ अकस्यार्ककीर्तेः पुत्रोऽमिततेजाः.
anmanticACEGARIDADIcomsana-ADHIRAMMA
Page #46
--------------------------------------------------------------------------
________________
शान्तिनावचरित्रम् ॥ २१॥
द्वितीयः प्रस्ताव
ततश्चाशनिघोपेऽसिन् युध्यमाने स्वयं रणे । द्रढीयांसोऽप्यभज्यन्त पुत्रास्तेऽमिततेजसः ॥२०१॥ स्वयं श्रीविजयो राजाऽप्यढौकिष्ट रणे तदा ।'शक्यन्ते नेतरैत्तुमिक्षवः सह दन्तिभिः ॥२०२॥ क्रुद्धः श्रीविजयः सोऽथ खड्गेनाहत्य तं द्विपम् । द्विधा चक्रे ततो जाताऽशनिघोषद्वयी पुनः ॥ २०३ ॥ सापि द्विधा कृता जज्ञेऽशनिघोपचतुष्टयी । एवं च खण्ड्यमानोऽसो मायया शतधाऽभवत् ॥ २०४॥ यावच्छ्रीविजयो राजा निविण्णस्तद्वधेऽभवत् । तावत्तत्र सिद्धविद्योऽमिततेजाः स आययौ ॥२०५॥ अपहाय ततो मायां नश्यन्तं तद्भयेन तम् । दृष्ट्वाऽदिदेशार्किनृपो विद्या सिद्धिमुखामिति ॥ २०६॥ दूरादप्येष पापीयानानेतव्यस्त्वया स्फुटम् । साऽथ तत्पृष्ठतो लग्ना ययौ सीमनगे च सः ॥ २०७॥ तत्र श्रीवृपभस्वामिजिनमन्दिरसनिधौ । उत्पन्न केवलज्ञानं वन्द्यमानं सुरासुरैः
॥२०८॥ निरीक्ष्य बलदेवर्षि स तं शरणमाश्रयत् । देवताऽप्यमितायाख्यद् बलित्वा तं तथास्थितम् ॥२०९ ।। (युग्मम्)
देवीं सुतारामादाय त्वमागच्छेर्ममान्तिकम् । इति मारीचिमाज्ञाप्य सोऽथ श्रीविजयान्वितः ॥ २१ ॥ . सर्वसैन्ययुतो मेरीभाङ्कारैः पूरयन् दिशः । बलभद्रमुनि नन्तुं तत्र सीमनगे ययौ ॥२११॥ (युग्मम् ) गत्वा जिनालये नत्वा स्तुत्वा च प्रथमं जिनम् । अभ्यणे बलदेवर्षेर्जग्मतुस्तावुभावपि ॥२१२॥ देवीमादाय मारीचिरथागात्तत्र सत्वरम् । अर्पिताऽक्षतचारित्रा राज्ञः श्रीविजयस्य सा ॥ २१३ ॥ १ भक्षयितुम्.
॥२१॥
Page #47
--------------------------------------------------------------------------
________________
BXXXXXXXX
उत्थायाशनिघोषोऽथ क्षमयामास तौ नृपौ । समानितश्च ताभ्यां संजातास्ते गतमत्सराः ॥ २१४ ॥ अत्रान्तरे केवलिना प्रारब्धा धर्मदेशना। कृतभव्यजनश्रोत्रसुधापूरप्रदेशना
॥ २१५॥ तद्यथा
रागद्वेषवशीभूता दुराकूतास्तनूभृतः । नयन्त्यनर्थकं जन्म कृत्वाऽनर्थपरम्पराम् ॥ २१६॥ न मोक्षप्रापणे शक्ता याभ्यां विहितबन्धनाः । रागद्वेषावमू शत्रु यूयं त्यजत भो जनाः ! ॥ २१७॥ श्रुत्वा तां देशनां सम्यक प्रतिवुद्धा नृणां गणाः । केचिदाददिरे दीक्षा श्रावकत्वं तथाऽपरे ॥ २१८॥ पप्रच्छाशनिघोषस्तं सुतारेयं मया प्रभो!। रागोद्रेकं विना हुत्वा नीता निजगृहे कथम् ? ॥२१९ ॥ केवल्यूचे पूर्वभवे पुरे रत्नपुराभिधे । श्रीषेणनामा भूपोऽभूत् जीवोऽस्यामिततेजसः ॥२२०॥ इत्यादि तद्भवान् सर्वान कथयित्वाऽब्रवीत्पुनः। तदाऽभूः कपिलस्त्वं हि सत्यभामा च त्वत्प्रिया ॥ २२१ ॥ सत्यभामा सुतारेयं संजाता कपिलस्तु सः भवं भ्रान्त्वा मनुष्यत्वं कुले लब्ध्या तपस्विनाम् ॥ २२२ ।। कृत्वा बालतपस्तत्र मृत्वाऽभूस्त्वं ततस्त्वया। जहू पूर्वस्वसम्बन्धाद्राजन् ! राग विनाऽप्यसौ ॥ २२३ ।। (युग्मम् त्वय्यसौ विगतस्नेहा पुरातनभवेऽप्यभूत् । अतस्त्वमपि मन्दानुरागोऽस्यां हि प्रवर्त्तसे ॥२२४ ॥ स्वस्तपूर्वभवान् श्रुत्वाऽमिततेजोनृपादयः । हृष्टा ऊचुरहो नास्त्यसाध्यं किमपि ब्रह्मणः ॥ २२५॥ १ दुष्टान्त:करणा:..
XXXXXXXXXXXXXXXXXXXXXXER
-
:
Page #48
--------------------------------------------------------------------------
________________
शान्तिनावचरित्रम् ॥२२॥
द्वितीयः प्रस्तावः
पृष्टोऽथ केवली विद्याधरेशाऽमिततेजसा । भव्योऽहमथवाऽभव्यः प्रभो! मे कथ्यतामिति ॥२२६ ॥ केवल्यूचे नवमे वं भवे राजमितो भवात् । भविष्यस्यत्र भरते पञ्चमः सार्वभौमराट् ॥ २२७ ॥ पोडशश्च जिनेन्द्रोऽयं राजा श्रीविजयः पुनः। पुत्रो भूत्वा गणधरस्तवैचाद्यो भविष्यति ॥२२८॥ पृष्ट्वा श्रुत्वा ततस्तस्य पार्थे केवलिनो मुनेः । सम्यक्त्वमूलः सुश्राद्धधर्मस्ताभ्यामुपाददे ॥२२९॥ संस्थाप्य स्वात्मजं राज्येऽशनिघोषो विरक्तधीः । तस्य केवलिनः पार्श्वे प्रव्रज्यां समुपाददे ॥ २३० ॥ राज्ञः श्रीविजयस्याम्बा देवी सा च स्वयंप्रभा । तत्पादान्ते प्रवव्राज भरिनारीसमन्विता ॥२३१ ॥ अथ केवलिन नत्वा स्वपरीवारसंयुतौ । स्वं स्वं स्थानं जग्मतुः श्रीविजयामिततेजसौ ॥२३२ ॥ देवपूजागुरूपास्तितपाप्रभृतिकर्मभिः । द्योतयन्तौ श्रावकत्वं तौ कालमतिनिन्यतः ॥ २३३॥ पुण्यात्माऽमिततेजाः स प्रासादान्तरकारयत् । पञ्चवर्णवररत्ननिर्मितं जिनमन्दिरम् ॥२३४॥ अन्यदा तत्समीपेऽसौ कारिते पौषधालये । आसीनो धर्ममाचष्टे विद्याधरसभान्तरे ॥ २३५॥ अत्रान्तरे चारणर्षिद्वितयं नभसा व्रजत् । सनातनजिनान्नन्तुं तं ददर्श जिनालयम् ॥ २३६॥ तचैत्यवन्दनाहेतोरवतीणी ततश्च तौ । उपवेश्यासने राज्ञा वन्दितौ भक्तिपूर्वकम् ॥ २३७॥ तत्रैकः साधुराचख्यौ राजन् ! जानासि घेत्स्वयम् । तथापि धर्ममाख्यातुमुचितं नस्ततः शृणु।। २३८ ॥ मानुष्यकादिसामग्री लब्ध्वा ज्ञात्वा भवस्थितिम् । धर्मो निरन्तरं कार्यों निरन्तरसुखार्थिभिः ॥ २३९ ॥
**RRRRRRRRRRRRRRRRRET
॥२२॥
Page #49
--------------------------------------------------------------------------
________________
मनसाऽप्यन्तरे तस्य कृते स्यात्सुखमन्तरा । जातं मत्स्योदराख्यस्य धनदस्येव निश्चितम् ॥ २४॥ पृच्छति स्म ततोराजा भक्तिभावरचिताञ्जलिःमुने मत्स्योदरः कोऽयं कथ्यतां तत्कथा मम ॥ २४१॥
मुनिरूचेऽत्र भरतक्षेत्रे त्रिदशपूसमम् । विख्यातमस्ति कनकपुरं नाम पुरं भुवि ॥२४२ ।। द्विपत्कोपानलप्रौढीकृततेजाः सुवर्णवत् । बभूव तत्र कनकरथो नाम्ना महीपतिः ॥२४३॥ तस्याग्रमहिपी रूपसम्पदा रतिजित्वरी । कनकश्रीविनयादिगुणैनारीवराऽभवत
॥२४४॥ औदार्यादिगुणाधारो रत्नसारोऽभिधानतः। अभूत्तत्र राजमान्य श्रेष्ठी धर्मिष्ठधुर्यकः ॥२४५॥ अनयशीलरत्नाढ्या रत्नचूलेति तस्य तु | जज्ञे प्रिया प्रियालापा लज्जादिस्त्रीगुणाञ्चिता ॥ २४६ ॥ अभिमानधनो धीमान धर्मोपार्जनतत्परः । तयोः पुत्रः कलापात्रं बभूव धनदाभिधः ॥२४७ ॥ इतश्च तस्मिन्नगरे कितवः सिंहलाभिधः । रेमे कपर्दकैनित्यं पुरदेव्या निकेतने ॥२४८॥ स धूतक्रीडया नित्य तावदेवा यद्धनम् । कदर्यभोजनं किञ्चित् यावन्मात्रेण जायते अन्यदा मन्दभाग्यत्वात् स जिगाय न किञ्चन । ततश्च दुष्टधी रुटो देवतामित्यभापत ॥२५० ॥ तव देवकले नित्यं रममाणस्य मे न यत् । द्रव्यं सम्पद्यते तत्ते विक्रिया केटपूतने ! ॥ २५१॥ तदय प्रकटीभूय द्रव्यं किश्चित्प्रयच्छ मे । अन्यथाऽहं करिष्यामि तवानर्थ महत्तरम् ॥ २५२॥ १ हे राक्षसि ।
RXXXXXXXXXXXXXXXXXXXXXXX
Punaraa
Page #50
--------------------------------------------------------------------------
________________
शान्तिनावचरित्रम् ॥२३॥
द्वितीयः प्रस्ताव
T
देवतोवाच रे दुष्ट ! त्वपित्रा किं त्वयाऽथवा । द्रव्यमस्त्यर्पितं मे यत् याचसे सहसैव तत् ॥ २५३ ॥ ततः पापाणमुत्पाट्य सोऽवोचद्देहि मे धनम् । कुतोऽप्यानीय नोचेचां व्यङ्गयिष्यामि निश्चितम् ॥ २५४ ॥ दध्यौ च देवता नास्याकृत्यं किश्चिन्न विद्यते । दत्तेनैव धनेनायं तुष्येन ह्यन्यथा पुनः ॥२५५ ॥ ततो गाथासनाथं सा पत्रं तस्यार्पयत्करे । सोऽवदत्पत्रखण्डेन रे रण्डे । किं करोम्यहम् ? ॥ २५६ ॥ देवतोवाच गाथेयं विक्रेतव्या त्वया खलु । दीनाराणां सहस्रं हि लप्स्यसे त्वं ममाज्ञया ॥२५७ ॥ तत्पत्रं तद्भिराऽऽदाय वीथीमध्ये ययावसौ । इत्युवाच च गाथेयं लभ्यते गृह्यतामहो ॥२५८॥ तद्वस्त्वसारमालोक्य वणिग्भिर्जातकौतुकैः । पृष्टो मूल्यमयाचिष्ट स दीनारसहस्रकम् ॥२५९ ॥ तदसम्भाव्यमूल्यवादगृह्णति जनेऽखिले । श्रेष्ठिपुत्रस्य तस्याट्टे स ययौ क्रमयोगतः ॥२६॥ तस्यार्पितेन तन्मूल्यमाख्यातं सोऽथ पत्रकम् । गृहीत्वा वाचयामास गाथां तल्लिखितामिति ॥ २६१ ॥ जकिर विहिणा लिहियं तं चिय परिणमइ सयललोयरस । इय भाविऊण धीरा विहुरे विन कायरा हुँति ॥२६२
दध्यौ धन्योऽथ गाथेयं लक्षेणापि न लभ्यते । दीनाराणां सहस्रेण समर्घा गृह्यते ततः ॥२६३ ॥ १यत किल विधिना लिखितं तदेव परिणमति सकललोकस्य । इति भावयित्वा धीरा विधुरेऽपि न कातरा भवन्ति ॥ श्रीमुनिदेवसूरयः स्वकृतपद्यशान्तिनाथचरित्रे संस्कृतबद्धां इमां गाथां एवं लिलिखुः-विधिना लिखितं यत्तन्नणां परिणमत्यलम् । धीरा भवन्ति ज्ञात्वैवं विधुरेऽपि न कातराः ॥ (सर्ग २, लो० १९७).
OSEXESEXESXSXXXXX
॥२३॥
Page #51
--------------------------------------------------------------------------
________________
तद्याचितमथो तस्मै दत्त्वा मूल्य महामतिः । स्वीकृत्य पत्रकं तच्च मुहुर्मुहुरवाचयत् ॥२६४ ॥ अत्रान्तरे पिता तस्य तत्रागात्तमभाषत । त्वया व्यवहृतं किश्चित् अद्य नो वेति शंस मे ॥२६५॥ प्रत्यासम्भवणिकपुत्रैः सहासैरिति जल्पितम् । श्रेष्ठिस्तव सुतेनाद्य व्यवहारः कृतो महान् ॥२६६ ॥ दीनाराणां सहस्रेण यदेकाग्राहि गाथिका । बर्द्धयिष्यत्यसौ लक्ष्मी वाणिज्यकलयाऽनया ॥२६७॥ रुष्टः श्रेष्ठयप्यभाषिष्ट त्वमितो याहि दुष्ट रे।। शून्यैव हि वरं शाला पूरिता न तु तस्करैः ॥ २६८॥ एवं विमानतां प्राप्तो धनदोऽपि तदाऽऽपणात् । उत्थाय निर्ययो चित्ते गाथार्थतं विचिन्तयन् ॥ २६९॥ पुरानिःसृत्य कौबेर्या दिश्यासन्नवनान्तरे । दिनावसानसमये प्राप्तो मानधनो हि सः ॥२७०॥ गम्भीर सरसं स्वच्छं सद्वृत्तं सत्त्वशोभितम् । दृष्टं सरोवरं तेन तत्रैकं साधुचित्तवत् ॥ २७१ ॥ तत्र स्नात्वाऽम्बु पीत्वा च न्यग्रोधस्य तरोस्तले । तस्यासन्ने स सुष्वाप रात्रौ तत्पत्रसंस्तरे ॥ २७२ ॥ अत्रान्तरे च तत्रागात् व्याध एको धनुर्द्धरः । हन्तुं वनचरान् जीवान जलपानार्थमागतान् ॥ २७३॥ ईपनिद्रायमाणेऽथ सचिन्ते श्रेष्ठिनन्दने । जज्ञे चलयति स्वाङ्गं शुष्कपत्रभवो ध्वनिः ॥२७४॥ अयं वनचरो जीवः कोऽपि यातीति लुब्धकः । विव्याधैनं शरेणांहो हृदीवासज्जनो गिरा ॥ २७५ ॥ वेध्यं विद्धमिति व्याधस्तत्समीपमुपागमत् । धनदोऽपि प्रहाराचों गाथामुच्चरति स्म ताम् ॥ २७६ ॥ तच्छ्रुत्वा लुब्धको दध्यौ हा मया मूढचेतसा। निर्विष्णः पथिकः कोऽपि सुप्तो बाणेन ताडितः ॥ २७७ ॥
XXXXXXXXXXXXXXXXXXXXXXXXXXXXX
Page #52
--------------------------------------------------------------------------
________________
द्वितीयः प्रस्ताच:
शान्तिनाथचरित्रम् ॥ २४ ॥
ऊचे च भद्र ! कुत्राङ्गे मया विद्धोऽस्यजानता । इत्युदित्वा तस्य पादादाचक स सायकम् ॥ २७८ ॥ पट्टवन्धं वणे तत्र कुर्वाणं तं न्यवारयत् । निजं स्थानं प्रयाहीति धनदो विससर्ज तम् ॥ २७९ ।। निर्गच्छति व्रणादक्ते जाते च रजनीक्षये । भारण्डपक्षिणा निन्ये स संस्थितधियाऽम्बरे ॥२८ ॥ मुक्त्वाऽथ वारिधेर्मध्यद्वीपे खादितुमुद्यतः । जीवन्तं तं च विज्ञाय ययावुड्डीय पक्ष्यसौ ॥२८१॥ उत्थाय धनदो यावत् ऐक्षताशाः समन्ततः । तावत्तत्राटवीं भीमामपश्यन्मानुषोज्झिताम् ॥२८२ ॥ दध्यौ च व पुरं तन्मे व चेयं भीषणाऽटवी । अथवा चिन्तया मेलं दैवचिन्ता बलीयसी ॥ २८३ ।। क्षुत्तष्णापीडितः सोऽथ भ्रमंस्तत्र फलाशया । ददशैकं पुरं शून्यं पतितावाससञ्चयम् ॥२८४ ॥ दृष्ट्वा च कूपकं किञ्चित्कृच्छ्रादाकृष्य तज्जलम् । पीत्वा च वारयामास तृष्णामथ शरीरगाम् ॥ २८५ ॥ विधाय प्राणयात्रां च फलैः कदलिसंभवैः । पुरादपि ततो दूरं भीतभीतो ययावसौ ॥२८६ ॥ अत्रान्तरे च मार्तण्डो निस्तेजा अस्तमीयिवान । प्राप्ता मयाऽप्यवस्थेति धनदं बोधयन्निव ॥ २८७॥ अस्तं गते. दिवानाथे तमसा क्लेशितं जगत् । विशिष्टज्ञानविरहादज्ञानेनेव सर्पता ॥२८८ ॥ गिरेः कस्यापि निकटे वह्निमुत्पाद्य दारुणा । तस्य तापेन निःशीतः स व्यतीयाय यामिनीम् ॥ २८९ ॥ प्रभातसमये वहिप्रदेशोीं ददर्श सः। जातां स्वर्णमयीं सद्यो दध्यौ चैवं सविस्मयः ॥२९ ॥ १ मृतधिया. २ काष्ठेन.
॥२४॥
Page #53
--------------------------------------------------------------------------
________________
ZEEEEEEXXXXXXXXXXXXXXXXXXX
नूनं सुवर्णद्वीपोऽयं यदियं ज्वलितानला । जातरूपमयी जाता सद्य एव वसुन्धरा ॥२९१॥ पातयामि ततः स्वर्णमितिध्यात्वाऽमुना कृताः। इष्टिकानां सुसङ्घाटाः स्वर्णीभूताश्च तेऽग्निना । २९२ ॥ भ्रमन्नन्येधुरदाक्षीद निकुञ्जे कुत्रचिगिरेः । रत्नजातमयं तचानिनाय स्वर्णसन्निधौ ॥२९३ ॥ एवं सुवर्णरत्नानां राशिस्तेन कृतो बहुः । कदल्यादिफलैः प्राणयात्रां चक्रे च सोऽन्वहम् ॥ २९४ ॥ सार्थवाहः सुदत्ताख्योऽन्यदा तद्देशमाययौ । याने जलेन्धनं तस्य त्रुटितं पूर्वसञ्चितम् ॥२९५ ॥ दृष्ट्वा तं द्वीपमेतेन प्रेषिता निजपूरुषाः । जलेन्धनकृते तत्र ददृशुर्धनदं च ते ॥२९६ ॥ कस्त्वं मोरित्यपृच्छंथावोचद् वनचरोऽस्मि सः । तैरुक्तस्तहि पानीयस्थानं किमपि दर्शय ॥ २९७ ॥ तेनासौदर्शितस्तेषां कूपस्तेऽपि तदन्तिके । ददृशुस्तत्सुपर्णादि पुरा यत्तेन सश्चितम् ॥२९८ ॥ कस्येदमित्यपृच्छंश्च धनदं सोऽप्युवाच तान् । मामकीनमिदं वितं स्थानं नयति यस्त्वदः ॥ २९९ ॥ यच्छामि तस्य तुर्याशमित्युक्ते सार्थपोऽपि सः। तत्रागाद्धनदस्तस्य प्रणामाद्यौचिति व्यधात् ॥ ३००। (युग्म सार्थवाहस्तमालिङ्ग्य पृष्ट्वा च कुशलादिकम् । तज्जातरूपरत्नानां नयनं प्रतिपन्नवान् ॥३०१ ॥ प्रापय्य भृत्यकैस्तान्यक्षप्सीत्प्रवहणे निजे । गणयित्सा धनदोऽपि तानि तेषां समार्पयत् ॥३०२॥ दृष्ट्वा बहु धनं तच्च सार्थेशश्चलिताशयः । आदिदेश निजनरान कूपेऽसौ क्षिप्यतामिति ॥३०३ ॥ तैस्ततोधनदोऽमाणिकर्षभोः कूपकाजलम् । वयं सम्यग्न जानीमः त्वं च तत्कृतपूर्व्यसि ॥ ३०४ ॥
Page #54
--------------------------------------------------------------------------
________________
शान्तिनाथचरित्रम् ॥२५॥
द्वितीयः प्रस्तावः
तत्कर्त्तमुद्यतस्तैः स क्षिप्तः कूपे कृपोज्झितैः । हन्यते बन्धुरप्यर्थलुब्धैरन्यस्य का कथा ? ॥३०५॥ पर्णाश्चितायां तन्मध्ये मेखलायां पपात सः। नेपदप्यङ्गजा पीडा ततोऽभूत्तस्य भाग्यतः ॥ ३०६॥ गाथां तां चिन्तयन सोऽथ कूपपार्थान्यलोकयत् । दृष्टैकदेशे विवरं तत्राविक्षच कौतुकात् ॥३०७॥ चारुसोपानपत्याऽसौ गत्वा किश्चिदधस्ततः । ऋजुनैव पथा गच्छन् पश्यश्चित्राण्यनेकशः॥ ३०८ ॥ ददशैकं देवकुलं तस्य मध्ये प्रभावतीम् । तायारूढां चक्रपाणि देवी चक्रेश्वरी तथा ॥३०९॥ (युग्मम् ) नत्वा तां परया भल्या शीर्षे विरचिताञ्जलिः । एवं विज्ञापयामास धनदो वदतां वरः ॥३१०॥ . जय श्रीवृपभस्वामिजिनशासनदेवते! । दुष्टारिष्टहरे! स्तोतुः सर्वसम्पत्करे। जय ॥३११॥ दिष्ट्या कष्टादितेनाद्य हे देवि! त्वं मयेक्षिता । भवतां तावकीनौ तचरणौ शरणं मम ॥३१२॥ तद्भक्तिमुदिता सोचे सर्व भव्यं भविष्यति । अग्रे गतस्य ते वत्स ! मत्तोऽप्यर्थय किञ्चन ॥३१३ ॥ सोऽवदत् मयका देवि ! किं न प्राप्तं महीतले १ । दृष्टे त्वदर्शने पुण्यरहितानां सुदुर्लभे ॥३१४ ॥ ततो महाप्रभावानि पञ्च रत्नानि देवता । करे तस्यार्पयामास तत्प्रभावं शशंस च ॥३१५॥ एक सौभाग्यकरणं द्वितीयं श्रीनिकेतनम् । तृतीयं रोगहृत्सद्यश्चतुर्थ विषनाशनम् ॥३१६॥ इदं च पञ्चमं रत्नमापत्पर्यन्तकारकम् । इत्युक्त्वाऽन्तर्दधे देवी धनदोऽप्यग्रतो ययौ ॥३१७ ॥ १ पर्यन्तो नाशः.
॥ २५॥
Page #55
--------------------------------------------------------------------------
________________
SODE
दृष्ट्वैकवाददे सरोहिणी चौषधिमुत्तमाम् । दीर्वा क्षुरिकया जवां न्यधाद्रत्नानि तत्र च ॥ ३१८ ॥ सरोहिण्या महौषध्या रोहयित्वाऽथ तव्रणम् । पुरश्च गच्छन् पातालपुरमेकं ददर्श सः ॥ ३१९ ।। तत्रावलोकयामास भक्ष्यभोज्यसमाकुलाः । मन्दिराट्टाऽऽवलीश्चित्रा मानुषैः परिवर्जिताः ॥३२० ।। प्रदेशेऽन्यत्र सोद्राक्षीत् नरेन्द्रभवनं महत् । गवाक्षगोपुरप्रांशुप्राकारपरिशोभितम् ॥३२१ ॥ प्रविश्य कौतुकेनात्र गतः सप्तमभूमिकाम् । ददर्श बालिकामेकां रूपाजितसुराङ्गनाम् ॥३२२ ॥ तां दृष्टा विस्मयापन्नं ज्ञातुकामं च तत्कथाम् । वभाषे कन्यका त भोः कुतः स्थानावमागतः ॥ ३२३ ॥ इहागतस्य ते प्राणसंशयो भद्र ! वर्त्तते । तद् गच्छ शीघ्रमन्यत्र यावत्ते कुशलं किल ॥३२४॥ धनदोऽथाब्रवीत् सुभ्र ! मोद्वेगं कुरु शंस मे । किमिदं नगरं किं वा विजनं भवती च का ॥ ३२५ ॥ सा तस्य धैर्यरूपाभ्यां विस्मिता पुनरब्रवीत् । अस्ति चेत्कौतुकं तत्वं शृणु सुन्दर! कारणम् ॥ ३२६॥ इहास्ति भरते रम्यं नाम्ना श्रीतिलकं पुरम् । महेन्द्रराजो नाम्नाऽभूत्तत्र राजा पिता मम ॥३२७॥ अन्यदा विगृहीतस्यान्यभूपैस्तस्य सन्निधौ । आगत्य व्यन्तरः कश्चित् सस्नेहं तमभाषत ॥ ३२८॥ त्वं पूर्वभवमित्रं मे तदाख्याहि करोमि किम् ? । सोऽवदत् कुरु साहाय्यं शत्रून् मम विनाशय ॥ ३२९ ॥ व्यन्तरोऽप्यनवीनैते शक्या हन्तुं मया सखे ।। यतो मदधिकैरेतेऽधिष्ठिता व्यन्तरैः खलु ॥३३०॥ करोमि किन्तु साहाय्यमित्युक्त्वा तेन मत्पिता । सपौरः सपरीवार इहाऽऽनीतो झटित्यपि ॥ ३३१ ॥
Page #56
--------------------------------------------------------------------------
________________
द्वितीयः प्रस्ताव:
शान्तिना
चरित्रम् ॥२६॥
पुरं चाकारि तेनेदं पातालपुरनामकम् । प्रवेशनिर्गमावेककूपेनैवास्य सुन्दर !
॥ ३३२॥ रक्षार्थ कृपकस्यापि द्वितीयं विहितं पुरम् । ततः प्रवहणैरत्र नानावस्तुसमागमः ॥ ३३३ ॥ एवं गच्छति कालेन राक्षसः कश्चिदन्यदा । कूपप्रवेशसोपानपति भक्त्वा समाययौ ॥ ३३४ ॥ मांसलुब्धः स दुष्टात्मा प्रवृत्तः खादितुं जनान् । कियद्भिश्च दिनैश्चके पुरमेतदमानुपम् ॥३३५॥ बहिः पुरस्य लोकोऽपि तेनारब्धो निपातितुम् । स चाधिरुह्य यानेषु ययावन्यत्र कुत्रचित् ॥३३६ ॥ एवं च विहिता तेन शून्येयं नगरद्वयी । एकैव रक्षिताऽहं तु परिणेतुं दुरात्मना ॥३३७॥ इतो दिनात्सप्तमेहन्यतीते तेन मे पुरः। इति प्रोचे यथा भद्रे ! प्रचण्डो राक्षसोऽस्म्यहम् ॥३३८॥ मानुपामिपलुब्धेन मयेहागत्य मारितः । नगरे निखिलो लोको रक्षिता वं तु कारणात् ॥३३९ ।। सप्तमे दिवसे लनं शुभग्रहनिरीक्षितम् । तत्र त्वां परिणेष्यामि करिष्यामि स्वगेहिनीम् ॥३४०॥ तदद्य सप्तमदिनं समयोऽयं तदागतेः । यावन्नायात्यसो तावत् याहि त्वं सुन्दराकृते! ॥३४१॥ धनदः स्माह मुग्धे! त्वं मा भैषीः शृणु संप्रति । हतः स्वपाप्मनवासौ मरिष्यति करेण मे ॥ ३४२॥ सोचे तर्हि च तन्मृत्युसमयं कथयामि ते । पूजाकाले स विद्याया मारणीयस्त्वया खलु ॥३४३॥ तस्मिंश्च समये नासावुचिष्ठति न जल्पति । अयं च खड्गो मत्तातसत्को ग्राह्यस्त्वया तदा ॥ ३४४ ॥ १ स्वापापेनैव.
॥२६॥
Page #57
--------------------------------------------------------------------------
________________
आगानिशाचरः सोऽथ गृहीत्वा नृशव करे । विलोक्य धनदं चाग्रे साहासमदोवदत् ॥३४५॥ अहो ! आश्चर्यमायातं भक्ष्यमद्य मम स्वयम् । इत्युदित्वाऽवज्ञयैव मुमोच मृतकं च तत् ॥३४६॥ विद्यां पूजयितुं यावत् प्रवृत्तोऽसौ तदाऽमुना। इत्युक्तः खड्गमाकृष्य त्वां हनिष्याम्यरेऽधुना ॥ ३४७ ॥ अवज्ञया हसन सोऽथ कृतपूजो निपातितः । तेन खड्गेन सद्योऽपि पातयित्वा शिरो भुवि ॥ ३४८ ॥ तेनैव कृतयोद्वाहसामग्र्या परिणीतवान् । धनदो रूपयुक्तां तां नाम्ना तिलकसुन्दरीम् ॥ ३४९ ॥ भोगान् भुक्त्वा तया सा दिनानि कतिचित्ततः। तां सारवस्तु चादायाययौ तत्रैव कूपके ॥ ३५० ॥ वलित्वा च समानीतं तेन वस्तु मनाप्रियम् । भूयश्चक्रेश्वरी मार्ग वन्दिता भक्तिपूर्वकम् ॥३५१ ॥ आगात्प्रवहणं किञ्चित् तदा तद्द्वीपसन्निधौ । तस्मिंश्च कूपके तस्मान्नरा नीरार्थमाययुः ॥३५२॥ रज्जुः क्षिप्ताऽथ तेस्तत्र तांधृत्लाघनदोवदत् । पतितोऽस्म्येप कूपे तत् मामुत्तारयतानघाः ॥ ३५३ ।। तैश्च तद्देवदत्तस्य सार्थवाहस्य सत्वरम् । आख्यातं सोऽपि तत्रागात्कौतुकात्पूर्णमानसः ॥३५४ ॥ बया वरत्रया कूपे प्रक्षिप्ता मञ्चिका ततः । तस्यामारुह्य धनदो बहिः कूपाद्विनिर्ययौ ॥३५५ ॥ तं दृष्ट्वा सुन्दराकारं वस्त्राभरणभूषितम् । अतीव विस्मितः सार्थवाहः पप्रच्छ गौरवात् ॥३५६ ॥ कोऽसि त्वं भद्र! कूपेच पतितोऽस्यथवा कथम् । सोचदन्मम भार्याऽपि पतिताऽस्त्यत्र सार्थप !॥ ३५७ ॥ अन्यच्च देवतादत्तं वस्तु रत्नादिकं च नः । कृष्ट्वा तत्कथयिष्यामि सर्वशुद्धि तवात्मनः ॥३५८।
Page #58
--------------------------------------------------------------------------
________________
शान्तिनापचरित्रम् ॥२७॥
द्वितीयः प्रस्तावः
एवं कुर्विति तेनोक्तो विदधे सोऽपि तत्तथा। विसिष्मिये तु सार्थेशो दृष्ट्वा तिलकसुन्दरीम् ॥३५९ ॥ भूयोऽपि चामुना पृष्टः शशंस धनदोऽप्यदः । सार्थवाह ! वणिक् जात्या भरतक्षेत्रवास्यहम् ॥ ३६० ॥ चलितः कटाहद्वीपं प्रति यानेन सप्रियः। भग्नं च वारिधी यानं ततोत्रागां प्रियान्वितः ॥३६१॥ पतिता मत्प्रिया ह्यस्मिन् कूपे नीरेक्षणाकुला | अहमप्यपतं चास्याः स्नेहबद्धो भवे यथा ॥३६२ ।। जलान्तःपतितौ नावां तत्तीरे किन्तु भाग्यतः । तुष्टा ददौ च रत्नानि तत्र मे जलदेवता ॥३६३ ॥ कथितं च तयैवं यत् यानमत्र समेष्यति । तत्राधिरुह्य गच्छेस्त्वं निजस्थानं सुखेन भोः ॥३६४ ॥ कथितेयं निजा वार्ता सार्थवाह ! मया तव । त्वमप्यात्मकथां बेहि यतः सख्यं प्रवर्द्धते ॥३६५ ॥ सोऽवददेवदत्ताख्यो भरतादहमप्यहो । कटाहद्वीपमगम चलितश्च गृहं प्रति
॥३६६॥ तदेहि भद्र ! त्वमपि गच्छावः सममेव यत् ।आरोपय निजं वस्तु मम याने प्रियां तथा ॥३६७॥ धनदोऽप्यनवीदेवं कुरु सार्थपते ! यतः । पष्ठांशं ते प्रदास्यामि वस्तुनोऽस्य गृहं गतः ॥३६८॥ धनेन किमसारेण गौरव्योऽसि त्वमेव मे । तद्वस्त्वारोपितं याने सार्थेशेनेति जल्पता ॥३६९ ॥ मार्गेऽथागच्छतस्तस्य सार्थेशस्य दुरात्मनः । चचाल चित्तं ललनां तां विलोक्य धनं तथा ॥ ३७० ॥ रात्रौ पुरीपव्युत्सर्गनिमित्तं मञ्चिकागतः । प्रक्षिप्तः सार्थवाहेन धनदोऽथ महोदधौ ॥३७१ ॥ दूरं गतेन तेनोचे धनदोऽद्यापि नैति यत् । गतः शरीरचिन्तार्थ तन्नूनं, पतितोऽर्णवे ॥३७२ ॥
॥२७॥
Page #59
--------------------------------------------------------------------------
________________
नरैश्वान्वेषयामास तं चिरं कैतवादसौ। पश्चादाश्वासयामास तत्प्रियां प्रियभाषणैः ॥३७३ ॥ अन्यस्मिंश्च दिने तेन सोचे तिलकसुन्दरी । संस्थितस्त्वत्पतिर्भद्रे ! तत्पत्नी मे भवानघे! ॥ ३७४ ॥ तच्छ्रुत्वा चिन्तयामास सा चैवं बुद्धिशालिनी । मत्पतिर्मेऽङ्गलुब्धेन नून व्यापादितोऽमुना ॥ ३७५ ॥ ममैष शीलविध्वंसं करिष्यति बलादपि । ततः कृत्वोत्तरं किश्चित्कालक्षेपोत्र युज्यते ॥३७६ ॥ विचिन्त्यैवमुवाचवं संप्राप्तस्य पुरं तव । अनुज्ञाता महीमा भविष्यामि गृहिण्यहम् . ॥३७७॥ हृष्टः सोऽप्यनुमेने तदिति ध्यायन् यथा नृपम् । तोषयित्वा स्वदानेन करिष्यामि समीहितम् ॥ ३७८॥ - इतः स धनदस्तेन प्रक्षिप्तो जलधेर्जले । पूर्वभग्नस्य पोतस्य लेभे खण्डं विधेर्वशात् ॥३७९ ॥ गाढं तदुरसाऽऽश्लिष्य क्षुभ्यमाणस्तरङ्गकैः । पञ्चभिर्वासरैः प्राप्तः स्वपुरासन्नकूलकम् ॥३८० ॥ हृष्टाशयो निजपुरं पश्यन्नूर्ध्वमुखो दृशा । गिलितो गुरुमत्स्येन फलकेन सहैव सः ॥३८१॥ दध्यौ च पतितो मत्स्यजठरे नरकोपमे । रे जीव ! दैवदोषेण गाथां भावयतां ततः ॥३८२ ॥ यद्वा पूर्वभवाचीर्णकर्मदोषेण केनचित् । पतत्यसौख्यं मय्येव च्छिद्रं जीर्णवृताविव ॥३८३ ॥ इति ध्यात्वा स ससार मणिमापन्निवारकम् । तत्प्रभावेन मत्स्योऽसौ ग्रहीतस्तत्र धीवरैः ॥३८४ ॥ स्फाटिते जठरे तस्य दृष्टोऽसौ तैः सविस्मयैः। प्रक्षालितश्च नीरेण कथितश्च महीपतेः ॥३८५॥ १ मृतः. २ धनदानेन.
Page #60
--------------------------------------------------------------------------
________________
द्वितीयः
शान्तिना
प्रस्तावः
बचरित्रम् ॥२८॥
राजाऽपि-विस्मितमनास्तमानाय्यात्मसन्निधौ । पप्रच्छ किमिदं भद्राघटमानं तवाऽभवत् ॥ ३८६ ॥ अयि कोऽसि कथं या त्वं पतितोऽसि झपोदरे । इति सत्यं ममाख्याहि वर्तते कौतुकं महत् ।। ३८७॥ धनदोऽप्यवदत्तावद्वणिग्जातिमवेहि माम् । भग्ने याने फलहकं संप्राप्यागामिह प्रभो! ॥३८८ ॥ निरीक्ष्यमाणो नगरं मत्स्येन गिलितोऽस्म्यहम् । गृहीतः स तु कैवर्त ठरं चास्य दारितम् ॥ ३८९ ॥ दृष्टश्च तस्य मध्येऽहं ततथैमिः सविस्मयः। भवत्पार्श्व समानीतो राजनिति कथा मम ॥३९० ॥ स्वर्णक्षालितनीरेण स्नपितः सोऽथ भूभुजा । मत्स्योदराभिधानश्च स्थापितो निजसन्निधौ ॥३९१ ।। तत्प्रार्थितेन तेनासौ विदधे च स्थगीधरः । निनाय दिवसानेवं सस्वरूपमवेदयन् ॥३९२॥ सुदत्तः सार्थवाहोऽथ तस्य पूर्वापकारकृत् । वातप्रेरितपोतेन तत्रान्येधुः समाययौ ॥३९३ ॥ गृहीत्वा मामृतं सोऽपि प्रतीहारनिवेदितः । आययौ नृपतेः पार्श्व निषण्णश्च कृतानतिः ॥३९४ ॥ राजाऽपि वणिजस्तस्य प्रियालापं स्वयं व्यधात् । दापयामास ताम्बूलं स्थगीधरकरेण च ॥३९५ ॥ विज्ञाय सोऽथ तत्तस्मै ददौ भूत्वा मुखाग्रतः । स सुदत्तोऽपि धनदमुपलक्षयति स तम् ॥३९६ ॥ परं सोऽघटमानत्वात्किञ्चित्सन्देहतत्परः । भणितो मभुजा यत्तेऽर्द्धदानं भवतादिति ॥३९७ ॥ महाप्रसाद इत्युक्त्वा निजस्थानं गतोऽन्यदा। पप्रच्छ पुरवास्तव्यं पुरुष कश्चिदित्यसौ ॥३९८ ॥ १ मत्स्योदरे.
॥ २८
॥
Page #61
--------------------------------------------------------------------------
________________
अयं स्थगीधरो राज्ञः किमु भद्र ! क्रमागतः । तेनापि कथितं तस्य तत् स्वरूपं यथातथम् ॥ ३९९ ॥ अत्रान्तरे च मातङ्गो गौरव्यस्तस्य भूपतेः । आगाद् गीतरतिर्नाम्ना सार्थवाहस्य सनिधौ ॥४०॥ ततो गातुं प्रवृत्तोऽसौ निजवृन्दसमन्वितः । रञ्जितः सार्थवाहोऽपि तदगीतकलयायया ॥४०१॥ दानेन तोषयित्वैनमूचे भो यदि मामकम् । कार्य साधयसि त्वं तत् द्रव्यं यच्छामि ते बहु ॥४०२॥ सोऽवदत्साधयिष्यामि सर्व कथय मे स्फुटम् । क्शे यस्य महीपालस्वतः किं मे सुदुष्करम् ॥ ४०३ ॥ सार्थवाहोचवीतहि त्वयैकान्ते महीपतिः । एवं वाच्यो यथा मत्स्योदरोऽयं मम बान्धवः ॥४०४॥ अङ्गीकृतेऽथ तत्कार्ये स तस्मै प्रीतमानसः। सङ्घाटांश्चतुरः स्वर्णेष्टिकानां प्रददौ सुधीः ॥४०५॥ ययौ च नृपतेः पार्थे सभासीनस्य तस्य तु । मातङ्गोऽपि समभ्येत्य पुरो गातुं प्रचक्रमे ॥४०६॥ तद्गीतरञ्जितो राजा स्थगीधरमवोचत । देहि ताम्बूलमेतस्मै गान्धर्विकवराय भोः ॥४०७॥ ताम्बूलं ददतस्तस्य लगित्वा कण्ठकन्दले। चिराद् दृष्टोऽसि हे भ्रातरिति जल्पन रुरोदसः॥ ४०८ ॥ किमेतदिति भूपेन पृष्टो मत्स्योदरः सुधीः । हृद्युपायं विचिन्त्योचे देवायं सत्यमूचिवान् ॥४०९॥ अस्मिंश्च नगरे पूर्व मातङ्गोऽभूत्पिताऽवयोः । महागायन इत्युचीपतेः प्रणयभाजनम् ॥४१०॥ तस्याभूतामुमे भार्ये तयोरावां सुतौ प्रभो ।। मनागनिष्टा मे माता तदनिष्टोऽप्यहं पितुः ॥४११ ॥ मुख्यया.
EXXXXXXXXXXXXXXXXXXXXXXXX
Page #62
--------------------------------------------------------------------------
________________
शान्तिनावचरित्रम् ॥२९॥
द्वितीयः प्रस्ताव
सुदीर्घदर्शिना तेन क्षिप्तानि जनकेन मे । जवान्तः पञ्च रत्नानि तत्प्रहारश्च रोहितः ॥१२॥ मणितं चेति यद्वत्स ! विपद्येतानि भक्षयेः । सर्वाङ्गेष्वपि तेनास्य संक्षिप्तानि धनानि तु ॥ ४१३ ॥ ततो विदार्य जवां स्त्रां तानि रत्नान्यदर्शयत् । प्रत्यथार्थ महीभर्नुर्धनदो मतिमद्वरः ॥४१४ ॥ ततो गीतरती राजादेशाद्रद्वा पदातिभिः । विदारयितुमारब्धो जजल्पैवं सुदीनवार ॥४१५ ॥ स्वामिन्नेप न भ्राता कि विदं कर्म गर्हितम् । रैदानात्सार्थवाहेन पाप्मना कारितोऽस्म्यहम् ॥ ४१६॥ प्रतीतिर्यदि ते देव ! मगिरा नहि जायते । तदानाययत स्वर्णसङ्घोटांस्तान्ममौकसः ॥४१७ ॥ राजाऽप्यालोकयामास मत्स्योदरमुखं पुनः । प्रत्यूचे पार्थिव सोऽपि सत्यमेतदपि प्रभो! ॥४१८ ॥ पुनःप्रोवाच भूपालः परमार्थ निवेदय । मत्स्योदर ! महाश्चर्यकारि सर्वमिदं यतः ॥४१९॥ सोवदचर्हि विद्यन्ते यानेऽस्य वणिजो मम | सपादाष्टशती स्वर्णसङ्घाटानां महीपते! ॥४२०॥ पञ्चदश सहस्राणि रत्नानां च प्रभावताम् । इति विज्ञाय गोस्वामिन् ! यत्कर्त्तव्यं कुरुष्व तत् ॥ ४२१ ।। अभिज्ञानमिदं चात्र यतः सर्वेऽपि सम्पुटाः । स्वनामाङ्काः कृताः सन्त्युपलक्षणकृते मया ॥४२२ ॥ भूपपृष्टेन तेनाथ तन्नामोदीरितं निजम् । राज्ञाऽप्यानायितास्तेऽथ सङ्घाटाः श्वपचौकसः ॥४२३ ॥ द्विधा कृतेषु तेष्वन्तदृष्ट्वा तां धनदाभिधाम् । सद्यश्चकोप मातङ्गवणिग्भ्यामवनीपतिः ॥४२४ ।। हन्यमानौ च तो मत्स्योदरेणैव विमोचितौ । सोऽथ कल्याणनीरेण स्नात्वा शुचिरभुत्पुनः ॥ ४२५ ॥
॥ २९॥
Page #63
--------------------------------------------------------------------------
________________
वणिक्पार्थात निजं वस्त्वादाय मातङ्गतोऽपि च । तयोः कृत्वोचितं चाभूद्धनदोधनदोपमः ॥ ४२६ ॥ पृष्टोऽथ भूभुजा भूयः स जगादात्मनः कथाम् । सत्यां यथाजवास्तव्यो देवाहं श्रेष्ठिनन्दनः ॥ ४२७॥ गाथा मयैका दीनारसहस्रेणात्मसात्कृता । ततो निष्कासितः पित्रा ततो देशान्तरं गतः ॥४२८॥ इत्यादि सकलां वार्ता कथयित्वाऽब्रवीन्नृपम् । देवाद्यापि प्रकाश्योऽहं नावश्यं कस्यचिद्यतः ॥ ४२९ ॥ मम वित्तकलत्रापहारकार्यपरोऽपि चेत् । सार्थवाह इहायाति ततो भव्यं भवेत्प्रभो! ॥४३०॥ सार्थेशो देवदत्तोऽपि तत्रान्येयुः समाययौ । सार्द्ध तिलकसुन्दर्या स आगाच नृपान्तिकम् ॥४३१॥ ढौकयित्वा रत्नजातमुपविष्टो महीभुजा । अयं मत्स्योदरप्रोक्तो वणिगित्युपलक्षितः ॥४३२॥ मत्स्योदरोऽपि तं दृष्ट्वा तथा तिलकसुन्दरीम् । जिज्ञासुस्तदभिप्राय गोपिताङ्गोऽभवत् तदा ॥ ४३३ ॥ आललापाथ भूपालः सार्थवाहं ससंभ्रमः । भद्र! त्वं कुत आयासी: का चेयं बालिका वरा ॥ ४३४ ॥ सोऽवोचत कटाहाख्यद्वीपादत्रागतोऽस्म्यहम् । इयं च जलधेरन्तीपे लब्धा मयैकका ॥४३५॥ सुवस्त्राहारताम्बूलालङ्कारैः सत्कृताऽपि हि । राजस्तवानुमत्यैव भवेन्मम गृहिण्यसो राजा प्रोवाच हे सुभ्र ! किं तेऽयं रोचते वरः । अथवा त्वामयं कामी बलादेव रिरंसते ॥४३७ ॥ साऽवादीकोऽस्य पापस्य गृहणीयादभिधामपि । गुणरत्ननिधिः सिन्धौ प्रक्षिप्तो येन मे पतिः॥ ४३८॥ अनेन प्रार्थिता स्वामिन्नकार्पमिदमुत्तरम् । यतो राजप्रदत्ताऽहं भविष्यामि प्रिया तव ॥४३९॥
Page #64
--------------------------------------------------------------------------
________________
शान्तिनाथचरित्रम् ॥३०॥
द्वितीयः प्रस्तावः
#$######################
निसाणया मयतस्मात् शीलमेवं हि रक्षितम् । अधुना तु करिष्यामि प्रवेशं ज्वलितानले ॥४४०॥ स्त्रीणामवश्यं साक्षी स्याद्भर्तुः सङ्गे हुताशनः । स एव शरणं तासां विरहे तस्य युज्यते ॥४४१॥ भणिता भूभ्रजा सैवं मा कार्मृित्युसाहसम् । यतोऽहं दर्शयिष्यामि परिणीतपतिस्तव ॥४४२॥ सोचे नरेन्द्र ! नो कर्तुं परिहासस्तवोचितः । क्वास्ति मे स धोयो हि प्रक्षिप्तोऽगाधवारिधौ ॥ ४४३ ॥ ततस्ताम्बूलदानार्थमुत्थाप्य धनदं नृपः । प्रोचे भद्रे ! स्वभरिममुं दृष्ट्या विलोकय ॥४४४ ॥ तमालोक्योपलक्ष्यापि साऽसंभाव्यसमागमम् । यावदद्यापि नो हर्षप्रकर्ष तादृशं दधौ ॥४४५ ॥ अबदद्धनदस्तावद्देवास्याः स पतिः स्फुटम् । यः शून्यागारसंस्थायाः कुतोऽप्यागादतर्कितः ॥४४६॥ अनयैवार्पितो यस्य खड्गो राक्षसघातकृत् । राक्षसच हतो येनोद्ढेयं चानुरागिणी ॥४४७॥ इत्यादि सर्ववृत्तान्ते कथिते सति मूलतः । सूर्यालोकेऽब्जिनीवाभूत्सा सद्यो विकसन्मुखी ॥४४८॥ जाता मत्स्योदरस्यैपा पुनर्जाया नृपाज्ञया । मार्यमाणश्च सार्थेशो नृपात्तेनैव मोचितः ॥४४९ ॥ अनन्यसदृशं सर्वमलङ्कारादि वस्तु तत् । धनदो वणिजानीतं दर्शयामास भूपतेः ॥४५॥ कृतान्यकृत्यः सोऽन्येचुरनुज्ञाप्य घराधिपम् । भूयसा परिवारेण प्रययौ पितृमन्दिरम् ॥४५१॥ राजमान्योऽयमित्यस्यासनादिस्वागतक्रियाम् । विधाय व्याजहारैवं रत्नसारोऽप्युदारधीः ॥४५२॥ धन्योऽह यस्य गेहे त्वामायासी पवल्लभः । तद्रूहि वस्तु येनार्थः सवर्वस्वमपि ते मम ॥४५३ ॥
Page #65
--------------------------------------------------------------------------
________________
'धनदोऽप्यवदत्तात ! सत्यमेतद्वीपि यत् । परं पृच्छाम्यहं किञ्चित्कारणेन गरीयसा ॥४५४ ॥ यस्तेऽभूद्धनदो नाम तनयः क नु सोऽधुना। शुद्धिं जानासि तस्य त्वं काप्यसौ विद्यते न वा॥ ४५५॥ वचः श्रुत्वास्य सांकृतं सुताकारं च वीक्ष्य तम् । सुतोदन्तमथ श्रेष्ठी सवितको न्यवेदयत् ॥४५६ ॥ गाथा सुतेन दीनारसहस्रेणाददे मम । तदर्थे परुषं किञ्चिद्वचनं भणितो मया
॥४५७॥ अभिमानवशात्क्वापि गृहानिःसृत्य सोऽगमत् । गतस्याभबहुः कालः शुद्धि जानामिनास्य तत्॥ ४५८ ॥ आकृत्या वचसा चैवं मन्येऽहं त्वं स एव हि । त्वयि गोपयति स्वं च कुर्वे सन्देहमप्यहो! ॥ ४५९ ॥ सदृशा बहवो लोका दश्यन्तेज़ महीतले । ततस्त्वमपि मत्पुत्रसदृक्षोऽपि भविष्यसि ॥४६० ॥ धनदः साह हे तात! स एवास्मि सुतस्तव । तस्यांह्रौ दक्षिणे चिह्न दृष्ट्वा ज्ञातोऽमुनाऽप्यसौ ॥ ४६१॥ पितुः पादौ ननामायं गाढं सोऽष्यालिलिङ्ग तम् । हर्षाश्रुपूरपूर्णाक्षो जगाद च सगद्गदम् ॥४६२॥ हा पुत्रात्राऽगतेनापि कित्वयाऽऽत्मा निगृहितः?नोत्कण्ठा किमुते पित्रोश्चिरान्मिलितयोरपि ॥ ४६३ ॥ क्वास्थाः कालमियन्तं त्वमनुभूतं त्वया किमु । दुःखं सुखं वाहे वत्स ! देशान्तरगतेन हि ॥ ४६४ ॥ धनदोऽप्यश्रुपूर्णाक्षः सङ्ख्पादात्मनः कथाम् । पित्रोनिवेदयामास क्षमयामास तौ तथा ॥४६५ ॥ इदं चोवाच हे तात! पार्थिवान्मां विमोचय । यथाऽहं तव वधूश्चागच्छावो निजमन्दिरम् ॥ ४६६ ॥ १ सांभिप्रायम्.
EEEEEEXXEXEXXEEEEEEEEEXXX
Page #66
--------------------------------------------------------------------------
________________
शान्तिनाथचरित्रम्
॥ ३१ ॥
॥ ४६७ ॥ ॥ ४६८ ॥
॥ ४६९ ॥
॥ ४७० ॥ ॥ ४७१ ॥
॥ ४७२ ॥
गत्वा राजकुले सोऽथ तमर्थ निरमापयत् । सह पुत्रेण भूपालमप्याकारयति स्म च ॥ ततो गजेन्द्रमारुढो धनदः प्रेयसीयुतः । अनुगम्यमानो भूपेनाऽऽगान्निजनिकेतनम् पुत्रे देशान्तरायाते गृहप्राप्ते च भूपतौ । हृष्टः प्रावर्त्तयत् श्रेष्ठी स महोत्सवमुत्तमम् अत्रान्तरे नृपसुतो नृपस्योत्सङ्गसंस्थितः । यावदासीन्मनस्तोपं जनयन्निजलीलया तावदारामिकः कश्चिद् उद्धृत्य स्वकरण्डकात् । कुसुमान्यापयद्राज्ञस्तनयस्तानि चाग्रहीत तेषामन्तर्गतेनायं दष्टो राजाहिनाऽणुना । नाशाग्रे धाणमानोऽपि पूत्करोति ततश्च सः राजाऽपि पुष्पमध्यस्थं तं दृष्ट्वाऽर्हि सुदुःखितः । प्रोचे गारुडिकं भद्र ! कुव्वैनं गतवेदनम् ॥ ४७३ ॥ सोऽवादीद्राजसपऽयं सर्वसर्पशिरोमणिः । तत्कर्त्तुं युज्यतेऽस्माकमत्र मन्त्रक्रिया नहि ततश्चक्रेश्वरीदत्तमणिनीरेण निर्विषम् । तं चक्रे धनदः सद्यो मुमुदे च महीपतिः ततः संमान्य धनदं समागत्य निजं गृहम् । नृपोऽप्यकारयद् वर्द्धापनं पुत्रस्य जन्मवत् अथासौ नृपतेः पुत्रः क्रमात्संप्राप्तयौवनः । निर्ययौ गजमारुढो राजपाटिकयाऽन्यदा पुरस्य पश्यता शोभां दृष्टा तेन मनोहरा । तनया शूरराजस्य श्रीषेणा नाम कन्यका निरीक्ष्योद्भटरूंपां तां कुमारो मारपीडितः । बभूव सा च तं दृष्ट्वा नेपदप्यनुरागिणी १ राजपुत्रः. २ पूत्करोति स्म दष्टोऽस्मीति ततश्च सः - इति पाठान्तरं साधीयः.
॥ ४७४ ॥
॥। ४७५ ।। ॥ ४७६ ॥ ॥ ४७७ ॥
॥ ४७८ ॥
॥ ४७९ ।।
द्वितीयः
प्रस्तावः
॥ ३१ ॥
Page #67
--------------------------------------------------------------------------
________________
कुमारो विरहे तस्या गृहे प्राप्तोऽरति गतः। मित्रैश्च तदभिप्रायो महीभर्तनिवेदितः ॥४८ ॥ मन्त्र्येकः पार्थिवादिष्टो गत्वा शूरनृपान्तिके । कुमारार्थे ययाचे तां श्रीषेणां वरकन्यकाम् ॥ ४८१ ॥ परमानुग्रहं सोऽथ मन्यमानोऽतिगौरवम् । चक्रे यावदमात्यस्य तावत्सा बालिकाऽवदत् ॥४८२ ॥ यदि दास्यथ मां तस्मै यूयं तात ! तदा ध्रुवम् । आत्महत्यांकरिष्यामि तच्छ्रुत्वा विषसाद सः॥ ४८३ ॥ ऊचे च सचिवं तावत् यात यूयं नृपान्तिकम् । कन्यकामनुनीयेमां कथयिष्याम्यहं पुनः ॥४८४ ॥ मन्त्रीगत्वा तदाचख्यौराज्ञः शूरोऽपि कन्यकाम् । बभाण सातुश्रीषेणानेच्छति स्मैव तं पतिम् ।। ४८५ ॥ तेनाथ पार्थिवस्येदं कथितं पार्थिवोऽपि तत् । सुतस्याख्यत्सोऽपि गाढं बभूव मदनातुरः ॥४८६ ॥ अत्रान्तरे च संप्राप्तो धनदो राजसन्निधौ । पप्रच्छवं महाराज! यूयं चिन्तातुरा नु किम् ? ॥ ४८७ ॥ राजाऽपि तनयावस्थास्वरूपं पर्यकीर्तयत् । तच्छ्रुत्वा श्रेष्ठिरः स्माहालं विषादेन भूपते! ॥४८८ ॥ देवीचक्रेश्वरीदत्तमणेर्माहात्म्यतः क्षणात् । साधयिष्याम्यदः कार्यमित्युक्त्वा मणिमानयत् ॥ ४८९ ॥ आर्पयच्च कुमारस्याराधयामास सोऽपि तम् । धनदाख्यातविधिना तस्य तुष्टो मणिस्ततः ॥४९०॥ सा शूरनन्दनी तस्मिन्ननुरागं नृपात्मजे । दधौ तं च समीपस्थां सखी स्निग्धामजिज्ञपत् ॥४९१ ॥ साऽऽचख्यौतपितुः सोऽपि गत्वाऽशंसन्महीभुजः। राजाऽपि तनयस्याख्यत् ततःस्वस्थोबभूव सः॥४९२॥
Page #68
--------------------------------------------------------------------------
________________
द्वितीयः
शान्तिनाथचरित्रम् ॥ ३२॥
सांवत्सरमथाऽऽकार्य विवाहदिनमुत्तमम् । राजाऽपृच्छत्स चाचख्यौ तद्वितीयदिने शुभम् ॥ ४९३ ॥ लग्ने दोपोज्झिते तस्मिन् शुभग्रहनिरीक्षिते । शकुनैर्विहितोत्साहो विवाहः समभूत्तयोः ॥४९४ ॥ स कुमारस्तया साद्ध भेजे चैपयिकं सुखम् । अथान्येयुपस्योग्रा शिरःशूलव्यथाऽभवत् ॥४९५॥ रोगापहारिसुमणेः प्रभावाद् धनदोऽपि ताम् । तत्पीडां शमयामास दुःसाध्यां मिपजामपि ॥ ४९६ ॥ ततश्च पार्थियो दध्यावस्याहो सदृशः पुमान् । नास्ति कोऽपि महीपीठे गुणरत्नमहोदधिः ॥४९७॥ भाग्योदयेन केनापि सम्पन्नोऽयं सखा मम । इति ध्यात्वाऽधिकं मेने स्वसुतादपि तं सदा ॥४९८॥ चतुर्ज्ञानधरः पद्भ्यां पवित्रितवसुन्धरः । आगात्तत्र पुरेऽन्येयुः मूरिः शीलंधराभिधः ॥४९९ ॥ जग्मुस्तद्वन्दनाहेतोः पौराः सर्वेऽपि भक्तितः। दृष्ट्वा तान ज्ञातवृत्तान्तो रथस्थो धनदोऽप्यगात् ॥५०॥ कृत्वा नर्ति यथास्थानमासीनेषु जनेषु च । सूरिः शीलंधरः सोऽथ विदधे धर्मदेशनाम् ॥५०१॥ जीवानामिह संसारे विना धर्मेण नो सुखम् । त्यक्त्वा प्रमादं भो भव्यास्तद्धर्मे कुरुतादरम् ॥ ५०२॥ कुर्वन कलङ्कयेत धर्म मनसाऽप्यन्तरा हि यः। महणाक झामोति स सौख्यं दुःखमिश्रितम् ॥ ५०३॥ पप्रच्छ धनदः कोऽसौ भगवन्महणाभिधः । कुर्वताऽपि कथं तेन धर्मो नाम कलङ्कितः ॥५०४ ॥
सरिः प्रोचेन भरते पुरे रत्नपुराभिधे । शुभदत्ताभिधः श्रेष्ठी वसति स्म महाधनः ॥ ५०५॥ १ ज्योतिर्विदम्.
॥३२॥
Page #69
--------------------------------------------------------------------------
________________
RRRRREXEEEE.
भार्या वसुन्धरा तस्य महणाकश्च तत्सुतः । सोमश्री म तस्यापि बभूव सहचारिणी ॥५०६॥ अन्यदा रथमारुह्योद्यानिकायां ययावसौ । उद्याने मण्डपस्तत्र विस्तीर्णश्च विनिर्मितः ॥ ५०७॥ खाद्य-भोज्य-लेह्य-पेय-भेदैस्तत्र चतुर्विधम् । बुभुजे स वराहारं मित्रैः सह यदृच्छया ॥५०८ ॥ ततस्ताम्बूलमादाय पञ्चसौगन्धिकं वरम् । क्षणं दृष्टिकृतानन्दं प्रेक्ष्य प्रेक्षणकं तथा ॥५०९॥ बहु पादपसङ्कीर्ण फलपुष्पर्द्विबन्धुरम् । उद्यानमीक्षमाणोऽप्तौ ददशैकं महामुनिम् ॥५१० ॥ (युग्मम् ) स मित्रप्रेरितो गत्वा ववन्दे तं तपोधनम् । सोऽपि ध्यान विमुच्यास्मै धर्मलाभाशिष ददौ ॥ ५११ ॥ तद्धर्मदेशनां श्रुत्वा प्रतिबुद्धय स शुद्धधीः । सम्यक्त्वमूलं तत्पार्चे गृहिधर्ममुपाददे ॥५१२ ॥ पुनः साधुं नमस्कृत्य स गतो निजमन्दिरम् । द्रव्येण कारयामास जिनमन्दिरमुत्तमम् ॥५१३ ॥ पश्चाच्च चिन्तयामास बहुद्रव्यव्ययो मया । कृतो धर्मरसाधिक्यपराधीनतया कथम् ? ॥५१४ ॥ स एवं विगतोत्साहो भूत्वा कत्यपि वासरान् । ततो लोकानुरोधेनाकारयत्प्रतिमामपि ॥५१५॥ प्रतिष्ठा कारयामास तस्थाश्च श्वेतभिक्षुभिः । न्यवारयजीवमारिं ददौ दानं यथोचितम् ॥५१६ ॥ पुनर्दध्यावहो धर्मे बहुद्रव्यव्ययं व्यधाम् । उपार्जितधनात्तुर्यभाग एवात्र युज्यते ॥५१७ ॥ फलं भावि न वाऽस्येति सन्देहो मे प्रवर्तते । शास्त्रे च श्रूयते स्तोकव्ययस्यापि फलं महत् ।। ५१८॥ स एवं संशयानोऽपि चक्रे पूजादिसत्क्रियाम् । अन्येदुर्गृहमायातावपश्यच्च तपोधनौ ॥ ५१९ ॥
Page #70
--------------------------------------------------------------------------
________________
शान्तिना
चरित्रम् ॥३३॥
द्वितीयः प्रस्ताव
स्वयमेतो शुभाहारैरुत्थाय प्रत्यलाभयत् । गतयोश्च तयोश्चिन्तां चक्रे धन्योऽहमित्यसौ ॥५२० ॥ निद्राक्षये च यामिन्यामन्यदाऽचिन्तयत्पुनः । अप्रत्यक्षफलेनेह कृतेन श्रेयसा हि किम् ? ॥५२१ ॥ अपरेधुर्मुनिद्वन्दं दृष्ट्वा मलमलीमसम् । स एवं चिन्तयामास धिगहो । मलिनाविमौ ॥५२२ ॥ यद्यते निर्मल वेपमकरिष्यन्महर्षयः । ततोऽभविष्यत् किं नाम जैनधर्मस्य दूषणम् ॥५२३ ॥ अथवा हा मया दुष्टं चिन्तितं मुनिपुङ्गवाः । भवन्त्येवंविधा यस्मात्संयमेनैव निर्मलाः ॥५२४ ॥ एवं च शुभभावेन शुभं कर्म समार्जयत् । सोऽशुभेनाशुभं कर्मार्जयति स्मान्तराऽन्तरा ॥५२५ ॥ आयुःक्षये विपद्याभूत्स देवो भुवनाधिपः । ततश्युत्वा समुत्पन्नः स त्वं धनदनामकः ॥५२६॥ कृत्वा कृत्वाऽन्तरा धर्मो यत्त्वया दूषितस्तदा। सुखानिदुःखमिश्राणि लब्धानीह ततः स्फुटम् ॥ ५२७॥ तच्छ्रुत्वा मूच्छितः पृथ्व्यां पपात धनदः क्षणम् । जातिस्मृत्या निजं पूर्वभवभावं ददर्श च ।। ५२८ ॥ उवाच च प्रभो! सत्यं यद् युष्माभिः प्ररूपितम् । ततो बन्धूननुज्ञाप्य ग्रहीष्याम्यनगारताम् ॥ ५२९ ॥ इत्युदित्वा गृहे गत्वा,पितरावेवमूचिवान । हे अंब ! तात ! मां दीक्षाकृते विसृजतं युवाम् ।। ५३० ॥ ताभ्यां निवार्यमाणोऽपि न यावद्विरराम सः । तावचावूचतुर्दीक्षामादास्यावस्त्वया सह ॥५३१ ॥ १ धर्मेण.
Page #71
--------------------------------------------------------------------------
________________
राज्ञः पार्श्वे ययौ सोऽथ स्वाभिप्रायं शशंस च। सोऽप्यूचेहमपि समं ग्रहीष्यामि व्रतं त्वया ॥५३२॥ धनदः स्माह गार्हस्थ्ये मम स्वामी भवानभूत् । भविष्यति यतित्वेऽपि संयोगोऽयं मनःप्रियः॥ ५३३ ॥ ततो राज्ञा सुतो राज्ये स्थापितः कनकप्रभः । धनदस्य सुतः श्रेष्ठिपदे चैव धनावहः ॥५३४ ॥ ततः सार्द्ध महीभर्ना पितृभ्यां भार्यया तथा । उपाददे परिव्रज्यां धनदो गुरुसन्निधौ ॥५३५ ॥ गृहीत्वा द्विविधां शिक्षां कृत्वा च विविधं तपः। मृत्वा सर्वेऽपि ते जग्मुः पुण्यात्मानः सुरालयम् ॥ ५३६ ॥ ततश्श्युत्वा मनुष्यत्वं प्राप्य श्रमणतां तथा । क्षेत्रे महाविदेहे ते संप्राप्ताः परमं पदम् ॥५३७ ॥
॥इति मत्स्योदर (धनद) कथा ॥ धनदस्य कथामेतां श्रत्वा विद्याधराधिप! | धर्मो निरन्तरं कार्यस्त्वयेत्यचे मनिःसत ॥५३८॥ तच्छ्रुत्वाऽमिततेजाः स गुर्वाज्ञां शिरसा दधत्। उत्थाय नमति स्मांही भूयोऽपि मुनिवर्ययोः ॥ ५३९ ।। चारणश्रमणौ तौ च समुत्पत्य विहायसा । तपोमाहात्म्यसम्पन्नौ जग्मतुः स्थानमीप्सितम् ॥ ५४० ॥ नरखेचरराजौ श्रीविजयामिततेजसौ । गमयामासतुः कालं तावथो धर्मतत्परौ ॥ ५४१ ॥ तौ यात्रात्रितयं धन्यौ चक्रतुः प्रतिवत्सरम् । तत्र स्यात् शाश्वतं यात्राद्वयमेका वशाश्वती ॥५४२॥ चैत्रस्य विमले पक्षे यात्रैका शाश्वती भवेत् । द्वितीया चाश्विनीमासे प्रसिद्धाऽष्टाह्निकाऽभिधा॥ ५४३॥
Page #72
--------------------------------------------------------------------------
________________
शान्तिनाथचरित्रम् ॥३४॥
द्वितीयः प्रस्तावः
देवा विद्याधराश्चैते द्वीपे नन्दीश्वराभिधे । यात्रे कुर्युनराः स्वस्वस्थानचैत्येपु समदात ॥ ५४४॥ तृतीयामपि तौ यात्रां चक्रतुः सीमपर्वते । बलर्षिकेवलोत्पत्तिस्थाने नाभेयमन्दिरे ॥५४५॥ बहून्यद्वसहस्राणि कृत्वा तौ राज्यमन्यदा । गत्वा मेरौ ववन्दाने सनातनजिनक्रमान् ॥५४६ ॥ नन्दनाख्ये वने तत्र चारणश्रमणावुभौ । विपुलमहामतिसंज्ञौ चोपविष्टावपश्यताम् नत्वा श्रुत्वा च तद्वयाख्यां पृष्टौ ताभ्यामिमौ मुनी। भगवन्तौ कियदायुरावयोरिति कथ्यताम् ॥ ५४८ ॥ पइविंशतिर्दिनान्यायुः शेषमस्तीति जल्पितौ । ताभ्यां तावाकुलीभूतौ पुनरेवं जजल्पतुः ॥ ५४९॥ विषयामिषगृध्राभ्यां नेयत्कालं कृतं व्रतम् । संप्रत्यल्पायुषावावां करिष्यावो हहा किमु ? ॥ ५५० ॥ मुनिभ्यां भणितावेतौ विनष्टं युवयोर्नु किम् । व्रतं गृह्णीतमद्यापि युवा स्वर्गापवर्गदम् ॥५५१ ॥ ततः स्वस्वपुरं प्राप्तौ सुतौ राज्ये निधाय तौ । पावे जगृहतुर्दीक्षामभिनन्दनसन्मुनेः ॥५५२॥ स्थितावनशनेनैतौ पादपोपगमेन च । सस्मार जनकस्यौजस्तदा श्रीविजयो मुनिः ॥ ५५३ ॥ ततश्च तपसाऽनेन भूयासमहमप्यहो । पित्रा सम इति व्यक्तं निदानमकरोदसौ ॥५५४ ॥ एवं कृतनिदानोऽसावन्योऽकृतनिदानकः । मृत्वा तौ प्राणते कल्पे समुत्पन्नौ महर्द्धिकौ ॥५५५ ॥ विमाने नन्दिकावर्ते स्वस्तिकावर्तके तथा । दिव्यचूलमणिचूलामिधानौ सुरसत्तमौ ॥५५६॥ (युग्मम्)
॥३४॥
Page #73
--------------------------------------------------------------------------
________________
तत्रादौ सुरकृत्यजातमखिलं कृत्वा स्थितेर्वेदिनौ,
दिव्यं वैषयिकं ततः खलु सिषेवाते सुखं तौ मुदा ।। कुर्वाणौ जिनचैत्यवन्दनविधि यात्रां च नन्दीश्वरे,
गाढं चक्रतुरुज्ज्वलं शुभमती सम्यक्त्वरत्नं निजम् ॥५५७॥
BEXXXXXXXXXXXXXXXXXXXXXXXX
GOOOOOOOO इत्याचार्यश्रीअजितप्रभसूरिविरचिते श्रीशान्तिनाथचरित्रे
चतुर्थपञ्चमभववर्णनो नाम द्वितीयः प्रस्तावः। GOOGOOOOOOood
Page #74
--------------------------------------------------------------------------
________________
शान्तिनाथचरित्रम
॥ ३५ ॥
तृतीयः प्रस्तावः
तोsस्य जम्बूद्वीपस्य पूर्वविदेहमध्य गे । विजये रमणीयाख्ये सुभगायां महापुर वृत्तगाम्भीर्य्यमर्यादाश्री गुणैर्जितसागरः । प्रौढप्रतापयुक्तोऽभूत् राजा स्तिमितसागरः भार्या वसुन्धरी तस्यार्घ्यशीलवसुन्धरा । द्वितीयाऽनुद्धरी नाम बभूव स्त्रीगुणाञ्चिता दिव्यचूलः सुरः सोऽथ च्युत्वा प्राणतकल्पतः । राज्ञः पत्न्या वसुन्धर्या उदरे समवातरत् गजपद्मसरचन्द्रवृपस्वप्नास्तया तदा । चत्वारो हलभृज्जन्मसूचका वीक्षिताः शुभाः समये सुषुवे साथ तनयं कनकप्रभम् । अपराजित इत्याख्यां चक्रे तस्य पिता शुभाम् अन्यदाऽनुद्धकुक्षौ सरसीव सितच्छदः । समुत्पन्नः सुतत्वेन मणिचूलो दिवश्युतः सिंहार्क कुम्भ सिन्धुश्रीरत्नोच्चयहुताशनान् । प्रविशतो मुखेऽद्राक्षीत् सप्त स्वप्नानसौ तदा कथयामास तान् भर्तुः सोऽपि पप्रच्छ तद्विदम् । सोऽवदत्ते सुतो विष्णुर्भावी स्वप्नैरिमैर्नृप ! ॥ ९ ॥ अग्रेतनसुतञ्चायं बलभद्रो भविष्यति । इत्युक्त्वाऽगात् गृहे राज्ञा विसृष्टः स्वप्नपाठकः समये सुषुवे साऽपि देवी कृष्णप्रभं सुतम् । अनन्तवीर्य इत्याख्या पित्रा तस्य विनिर्ममे काले कृतकलाभ्यासौ रूपलावण्यशालिनौ । उद्यौवनौ कुमारौ तौ पित्रा कन्ये विवाहितौ
॥ ८ ॥
॥ १ ॥
॥ २ ॥ ( युग्मम् )
॥ ३ ॥
॥ ४ ॥
॥ ५॥ ॥ ६ ॥
11 19 11
॥ १० ॥
॥ ११ ॥
॥ १२ ॥
तृतीयः
प्रस्तावः
॥ ३५ ॥
Page #75
--------------------------------------------------------------------------
________________
XXXXXXXXXXXRESERRRRRRRESS
अन्येास्तत्पुरोधाने विशिष्टज्ञानसंयुतः । स्वयंप्रभो, नाम मुनिरागत्य समवासरत ॥१३॥ इतोऽश्ववाहनां कृत्वा परिश्रान्तः स भूपतिः ।,विश्रामार्थ तमुद्यानमाययौ नन्दनोपमम् ॥१४॥ क्षणमेकं स विश्रान्तस्तत्राशोकतरोस्तले । ददर्श मुनिवर्य तं ध्यानाचलकलेवरम् ॥१५॥ तं त्रिःप्रदक्षिणीकृत्य नमस्कृत्य च भक्तितः । निषद्य च यथास्थानं स शुश्रावेति देशनाम् ॥ १६ ॥ कषायाः कटवो वृक्षा दुर्यानं तत्प्रेसनकम् । फलं च पापकर्मेह परलोके च दुर्गतिः ॥१७॥ संसारोद्विग्नचित्तेन निर्वाणसुखमिच्छना । कषायाः परिहर्त्तव्यास्तदेतेऽनर्थकारणम् अथोचे पार्थिवः सत्यं महात्मन्निदमेव हि । परमेवं ममाख्याहि कति भेदा भवन्ति ते ॥१९॥ मुनि गौ कोप-मान-माया-लोभाभिधा इमे। चत्वारः स्युस्तथाऽमीषां भेदाः प्रत्येकशोऽप्यमी ॥ २०॥ आद्योऽनन्तानुवन्ध्यत्राप्रत्याख्यानो द्वितीयकः । प्रत्याख्यानस्तृतीयस्तु तुर्यः संज्वलनाभिधः ॥२१॥ निश्चलोऽचलरेखेव दारुणो दुःखदायकः । भवेत्तत्रादिमो राजन् ! कोपोऽनन्ताऽनुवन्धकः ॥ २२ ॥ पृथ्वीरेखासमोअत्याख्यानो नाम्ना द्वितीयकः । प्रत्याख्यानस्तृतीयस्तु रेणुरेखासमो मतः ॥२३॥ तुर्यः संज्वलनो नीररेखातुल्यः प्रकीर्तितः । एवं मानोऽयस्थिकाष्ठतिनिशस्तम्भसन्निभः ॥२४॥ माया वंशीमेपशृङ्गगवांमूत्रावलेहवत् । लोभः कृमिरागपङ्काञ्जनहारिद्ररागवत
॥ २५॥ १ तत्पुप्पम्. २ तिनिशो वृक्षविशेष:.
SEEXXXERRRRRRRA
Page #76
--------------------------------------------------------------------------
________________
शान्तिनाथचरित्रम् ॥३६॥
तृतीयः प्रस्ताव:
जन्मवर्पचतुर्मासीस्थितयः स्युः क्रमात्त्रयः । तुर्यः पक्षस्थितिस्ते च श्वभ्रादिगतिहेतवः ॥२६ ।। एवं कपायास्ते राजन ! पोडशापि प्रकीर्तिताः । गाढसंरम्भविहिताः स्युर्यके गाढदुःखदाः ॥ २७ ॥ संरम्भेण विना स्तोकभवान दुःखं ददत्यलम् । ततश्चाल्पेऽपि नो कार्याः कपाया नृपते ! त्वया ।। २८ ॥ राजन्नल्पीयसोऽपिः स्यात् दुष्कृतस्य फलं महत् । मित्रानन्दादिसत्वानां यथा दृष्टं मनीषिभिः ॥ २९ ॥ मित्रानन्दादयः केमी इत्युक्तो भूभुजा पुनः । स्वयंप्रभुमुनिः स्माह तत्कथा श्रूयतामिति ॥३०॥
सुरसमसमानर्द्धि नानाऽद्भुतमनोहरम् । अस्तीहामरतिलक नगरं भुवि विश्रुतम् ॥३१॥ रूपलक्ष्म्याऽतिशायिन्याऽभिभूतमकरध्वजः । मकरध्वजनामाऽभूत् भूपतिस्तत्र विक्रमी ॥३२ ।। पत्न्यां मदनसेनायां पमकेसरनामकः । तस्य पसरःस्वमसूचितस्तनयोऽभवत्
॥३३॥ राज्ञः पत्न्या तयाऽज्येयुर्विवृण्वत्या शिरोरुहान । विलोक्य पलितं दूत! आगाद्देवेति जल्पितम् ॥ ३४॥ ततः संभ्रान्तचित्तस्य कुर्वाणस्य दिगीक्षणम् । भूयः पत्युस्तयाऽऽख्यातं पाण्डुकेशं प्रदर्श तम् ॥ ३५॥ दूतोऽयं धर्मराजेन प्रेषितः पलितच्छलात् । आगच्छति जरा कृत्यं कुरुष्वेति वदभिव ॥३६ ॥ ततश्च पार्थिवो दध्यौ मम पूर्वैर्महात्मभिः । अदृष्टपलितैरेव धर्मसेवा व्यधीयत ॥३७॥ धिग् ! मां राज्यलुब्धं तु स्थितिविच्छेदकारिणम् । यस्य मे विषयासक्तस्यैव जातो जरागमः ॥ ३८ ॥
Page #77
--------------------------------------------------------------------------
________________
इति चिन्ताविषण्णास्यं पतिं दृष्ट्वा सनर्मवाक् । उवाचैवं पुना राज्ञी तद्भावाविदुरा सका ॥३९ ।। नाथ ! त्वं वृद्धभावेन लज्जसे यदि सर्वथा । ततोऽहं कारयिष्यामि पटहोद्घोषणामिमाम् ॥४०॥ यः कश्चिदवनीनाथं जातयामं वदिष्यति । भविष्यति सकोऽवश्यमकालेऽपि यमातिथिः ॥४१॥ राजा प्रोवाच हे देवि ! किं ब्रवीष्यविवेकिवत् । जरैव मण्डनं यस्माद्भवेदस्मादृशां किल ॥४२॥ तहि श्याममुखा यूयं किमित्युक्त तथा पुनः। स तस्याः कथयामास स्वस्य वैराग्यकारणम् ॥४३॥ ततश्च तनयं राज्ये संस्थाप्य प्रियया सह । तापसीभूय राजाऽसौ वनवासमशिश्रियत् ॥४४॥ गूढगर्भा तु सा राज्ञी प्रपन्ना तापसव्रतम् । वर्द्धमाने तु गर्भस्या अवर्धिष्टोदरं क्रमातू ॥४५॥ किमेतदिति दृष्ट्वा च साऽऽचख्यौ तद्यथातथम् । पत्युः कुलपतेः सोऽपि व्रतदूषणभीरुकः ॥४६॥ तापसीमिः पाल्यमाना समये सुषुवेऽथ सा । सुतं देवकुमारामं शुभलक्षणशोभितम् ॥४७॥ तस्याश्चानुचिताहाराद्रोगोऽमृद्दारुणस्तनौ । अचिन्तयंश्च दुःखार्तास्ते तपोवनतापसाः ॥४८॥ गृहिणामपि दुष्पालो बालः स्याजननीमृते । तन्मातरि विपन्नायां कथं पाल्योऽयमर्भकः ? ॥४९॥ वणिगुज्जयिनीपुर्या वाणिज्येन परिभ्रमन । तदा तत्राज्ययौ देवधराख्यो दैवयोगतः ॥५०॥ सोऽथ तापसभक्तत्वात् तान् प्रणम्य तपस्विनः । दृष्ट्वा चिन्तातुरांचैतान पप्रच्छोद्वेगकारणम् ॥५१॥ १ अविदुराऽज्ञा. २ वृद्धम्.
Page #78
--------------------------------------------------------------------------
________________
शान्तिनाथचरित्रम् ॥ ३७॥
तृतीय: प्रस्ताव:
ऊचे कुलपतिः सोऽयमस्मद् दुःखेन यसे । तदाऽमुं बालक श्रेष्ठिन्नस्मदत्तं गृहाण भोः ॥५२॥ ततस्तेन गृहीत्वाऽयं स्वभार्यायाः समर्पितः । देवसेनाभिधानायाः प्रस्तायाः सुतां पुरा ॥५३॥ देवी मदनसेना सा स्थानप्राप्तं विलोक्य तम् । जातचित्तसमाधाना रोगाा संस्थिता तया ॥ ५४॥ गृहं गतेन तेनाथ श्रेठिनोत्सवपूर्वकम् । तनयस्यामरदत्त इति नाम विनिर्ममे सुरसुन्दरीति पुत्र्याश्चेत्यभूच्च जनश्रुतिः । प्रसूताऽपत्ययुगलं पत्नी देवधरस्य यत् सागरश्रेष्ठिनः पुत्रो मित्रश्रीकुक्षिसम्भवः । संजज्ञेऽमरदत्तस्य मित्रानन्दाभिधः सुहृत ॥ ५७॥ समहर्षशुचोनित्यं समजागरनिद्रयोः । तयोः प्रववृते मैत्री नेत्रयोरिव धन्ययोः
॥ ५८॥ जीमूतेभघटाशाली हरिरावविराजितः । क्षेणिकासिलताधारी गर्जाभम्भारवोद्धरः केकिचक्रप्रियालापग्राम्यस्त्रीगीतमङ्गलः । प्रावर्त्तत धराप्रेयानृतुराट् प्रावृडन्यदा
॥६०॥ (युग्मम्) तस्मिन् काले च तौ सिप्रासैकते वटसन्निधौ । क्रीडयोन्नतिकानाम्न्या रेमाते सुहृदौ मुदा ॥ ६१ ॥ एकदाऽमरदत्तेन प्रणुनोन्नतिकाऽथ सा। वटोद्धस्य चौरस्य प्रविवेश मुखान्तरे
॥६२॥ मित्रानन्दो हसन्नूचे पश्याहो महदद्भुतम् । विवेशाडोलिकाकस्माच्छवस्य वदने कथम् ॥६३ ॥ भणितः कुपितेनैप मित्रानन्द ! तवाप्यरे । अत्रैवोल्लम्बितस्याऽऽस्येवश्यं वेक्ष्यत्यडोलिका ॥६४ ॥ १ ऋतुपक्षे हरिर्मयूरो भेको वा राजपक्षे चाश्वः. २ क्षणिका विद्युत्.
Page #79
--------------------------------------------------------------------------
________________
६७ ॥
॥
६८ ॥
तच्छ्रुत्वा मृत्युभीतोऽसौ निरानन्दाशयोऽवदत् । पतिताऽडोलिका यस्मान्मृतकस्य मुखे सखे ! ॥ ६५ ॥ जातेयमशुचिस्पृष्टा तदलं क्रीडयाऽनया । प्रत्यूचेऽमरदत्तस्तं ममास्त्यन्याप्यडोलिका ॥ ६६ ॥ ( युग्मम् ) इति प्रोक्तेऽपि तं क्रीडाविमुखं प्रेक्ष्य भाववित् । भगादमरदत्तोऽसौ मित्रानन्द (स्य) मन्दिरम् ॥ द्वितीये दिवसेऽप्येनं दृष्ट्वा श्याममुखाम्बुजम् । पप्रच्छेत्यमरो मित्रं किं ते दुःखस्य कारणम् ९ अतिनिर्बन्ध पृष्टेन तेनाप्यस्य निवेदितम् । तच्छवस्य वचो येन गोप्यं स्यान्न सुहृज्जने तन्निशम्यामरः स्माह शवा जल्पन्ति न क्वचित् । तदियं व्यन्तरक्रीडा सम्यक् विज्ञायते न तु इदं सत्यमसत्यं वा परिहासवचोऽथवा । कार्यः पुरुषकारो हि तथापि पुरुषेण भोः मित्रानन्दोऽवदद्दैवायत्ते किं नाम पौरुषम् १ । प्रत्यूचे चामरस्तं नाश्रौषीत्किन्तु भवानदः आपत् निमित्तष्टाsपि जीवितान्तविधायिनी । शान्ता पुरुषकारेण ज्ञानगर्भस्य मन्त्रिणः ज्ञानगर्भः स को मन्त्रीति मित्रेणोदितः पुनः । अमरः कथयामास तदग्रे तत्कथामिति
॥ ६९ ॥
॥ ७० ॥
॥ ७१ ॥
॥ ७२ ॥
॥ ७३ ॥
॥ ७४ ॥
अस्त्यत्र भरते धान्यधनर्ध्या बन्धुरा पुरी । चम्पेति पृथिवीख्यातालकायाः सदृशा गुणैः जितशत्रुर्नृपस्तत्राभवत्कीर्तियशोनिधिः । दृप्तार्य्यनेककुम्भीन्द्रकुम्भपाटनकेसरी
॥ ७५ ॥
॥ ७६ ॥
॥ ७७ ॥
राज्ये सर्वेश्वरस्तस्याभवन्मन्त्री पुरोदितः । बुद्ध्याऽवगणितो येन गुरुः स्वर्गौकसामपि भार्या गुणावली तस्य पुत्रस्तत्कुक्षिसम्भवः । सुबुद्धिनामा तस्याभूत् रूपश्रीविजितस्मरः
॥ ७८ ॥
Page #80
--------------------------------------------------------------------------
________________
तृतीयः
शान्तिनायचरित्रम् ॥३८॥
प्रस्तावा
उपविष्टोऽन्यदाऽऽस्थाने नृपमण्डलसेवितः । सहितो मन्त्रिवर्गेण यावदासीन्महीपतिः ॥ ७९ ॥ आययौ तावदष्टाङ्गानिमित्तज्ञानपण्डितः । नृपपर्पदि ना कश्चित् प्रतीहारनिवेदितः ॥८०॥ दत्ताशीर्वचनः सोऽथोपविष्टो विष्टरवरे । कियज्ज्ञानं तवास्तीति पृष्टो राज्ञेत्यभापत ॥ ८१॥ राजन् ! लाभमलामं च जीवितं मरणं तथा । सुखं दुःखं च जानामि गमनागमनं नृणाम् ॥८२॥ राजोचे मत्परोवारमध्ये त्वं यस्य कस्यचित् । पश्यस्यत्यद्भुतं किञ्चित् पक्षान्तस्तनिवेदय ॥८३ ।। नैमित्तिकोऽवदत्तर्हि ज्ञानगर्भस्य मन्त्रिणः । पश्यामि सकुटुम्बस्योपसर्ग मारणात्मकम् ॥८४॥ तच्छ्रुत्वा पीडितो राजा राजलोकस्तथाऽखिलः । अन्तर्दूनोऽपि मन्त्री तु सावहित्यो ययौ गृहम् ॥ ८५॥ नैमित्तिकं सहानीय तमपृच्छद्रहस्यदः । अयि भद्र ! कुतो हेतोरापदं मम पश्यसि ? ॥८६॥ तेनापि तस्य साऽऽख्याता भाविनी ज्येष्ठनन्दनात् । विसृष्टो ज्ञानगर्भण सत्कृत्य ज्ञान्यसौ ततः ॥ ८७॥ अभाणि तनयश्चैवं ममाऽऽदेश करोषि चेत् । आपन्निस्तीर्यते वत्स ! तदिय जीवितान्तकृत् ॥८८॥ यदादिशसि मे तात ! कृत्यं श्वेतमथासितम् । तदवश्यं मया कार्यमित्यूचे विनयी स तु ॥८९ ॥ ततः पुरुपमानायां मञ्जूषायां महामतिः । सचिवस्तं निचिक्षेप नीराहारादिसंयुतम् ॥९ ॥ दत्ताटतालकां तां च महीभर्तुः समार्पयत् । देवेदं मम सर्वस्वं रक्ष्यं चेति व्यजिज्ञपंत १'शुभमथवाऽशुभम्.
॥३८॥
Page #81
--------------------------------------------------------------------------
________________
राजा प्रोवाच हे मन्त्रिनिदं धर्मे नियोज्यताम् । विना भवन्तमेतेन धनेनाहं करोमि किम् ? ॥९२ ॥ भूयोऽपि सचिवः स्माऽऽह धर्मोऽयं हि नियोगिनाम् । यदायों वञ्च्यते नैव विपद्यपि धनादिना ॥ ९३॥ ततो राज्ञा प्रपन्नं तत् मन्त्री च जिनमन्दिरे । अष्टाहिकोत्सवं चक्रे सङ्घ पूजयति स्म च ॥९४॥ दीनानाथादिसत्वेभ्यो ददौ दानं यथोचितम् । शान्तिमुद्घोपयामासाभयदानं च देहिनाम् ॥९५ ॥ सन्नद्धकवचैः पुम्मिविविधायुधधारिभिः । गृहं च रक्षयामास तथा हयगजादिभिः ॥९६ ॥ एवं क्रमेण संप्राप्तेऽकस्मात्पञ्चदशे दिने । राजान्तःपुरमध्ये वागुदस्थादीदृशी स्फुटा ॥९७ ॥ यथा हि मन्त्रिणः पुत्रः सुबुद्धिर्नाम दुर्मतिः। राजपुत्र्याः केशपाशं छिच्या क्वापि ययावहो। ॥ ९८॥ तच्छ्रुत्वा कुपितो राजा दध्यौ कर्मेदृशं व्यधात् । अतिसम्मानितो मूखों मुमूर्षुः सचिवात्मजः ॥ ९९ ॥ अस्यापराधे वद्धथो मे सकुटुम्बोऽपि मन्त्र्यसौ । इति च ज्ञापयामास पार्पद्यानखिलास्ततः ॥१०० ॥ सर्वोऽपि मारणीयोऽस्य मोच्या नो कर्मकर्यपि । इत्यादिश्य बलं मन्त्रिगृहे प्रैपीनराधिपः ॥१०१॥ तदमात्यभटे रुद्धं गृहं चैत्यपुरः स तु । सुधीाननिविष्टः सन वृत्तान्तमशृणोदमुम् ॥१०२ ॥ विनिवार्य निजान पत्तीन सेनामुख्यानदोवदत् । यथा नयत मां पार्श्वमेकवारं महीपतेः ॥१०३ ॥ तथा चक्रे च तेस्तस्याभवदाजा पराङ्मुखः । तत्राप्यभिमुखीभूय स नत्वेवं व्यजिज्ञपत् ॥१०४॥ मयामुक्ताऽस्ति या राजन मञ्जूपा सा निरूप्यताम्। गृहीत्वा तद्गतं वस्तु पश्चात् कुर्याद्यथोचितम् ॥१०॥
Page #82
--------------------------------------------------------------------------
________________
तृतीयः
शान्तिनावचरित्रम् ॥३९॥
प्रस्ताव
राजा प्रोवाच द्रव्येण मा विलोभ्य समीहसे । अरे त्वमात्मनो मोक्षमपराधे महत्यपि ॥१०६॥ मन्त्र्यूचे नाथ ! मे प्राणास्तवाऽऽयत्ताः सदैव हि । परं प्रसादो मञ्जूपाऽवलोके क्रियतां मम ॥ १०७ ॥ ततस्तस्योपरोधेन लोकाम्यर्थनया तथा । उद्घाटयामास सर्वान मञ्जूपातालकान नृपः ॥१०८॥ सवेणीकसव्यपाणि सासिधेन्वितरं पुनः । मञ्जूषान्तः सुबुद्धि तं बद्धक्रममुदैवत ॥१०९॥ तं दृष्ट्वा विस्मयापन्नः पप्रच्छ सचिवं नृपः । किमेतदिति स प्रोचे नाहं जानामि किञ्चन ॥११० ॥ जानात्येव भवान् राजन् ! यो हि भक्तेऽपि सर्वथा ।व्यलीकं चिन्तयन मूलच्छेदायोपस्थितो मयि ॥१११ ॥ परमार्थ ममाऽऽख्याहीत्युक्तोराज्ञाऽब्रवीत्पुनः। स्वामिन् ! केनापि रुष्टेन प्रचण्डव्यन्तरादिना ॥११२॥ निदोपस्यापि पुत्रस्य दोष उत्पादितो मम । अन्यथैवं गोपितस्यावस्थाऽस्य कथमीदृशी? ॥११३ ॥ आपदेतन्निमित्तेनोपस्थिता मे सुदुःसहा । इति ज्ञात्वा यथायुक्तं विचारय कुरुष्व च ॥११४॥ अभ्यधाच नृपो मन्त्रिन् ! तुष्टोऽस्मि तव सर्वथा । परं कथय विज्ञातं कथमेतत्त्वया स्फुटम् ॥११५॥ ततो नैमित्तिकपृच्छाप्रभृत्याख्याय सोऽवदत् । सुलभा देव ! संसारे विपदो विषयाशिनाम् ॥११६ ॥ देवमानुपतिर्यकस्वकृता एताश्चतुर्विधाः । धर्मस्यैव प्रभावेण नश्यन्ति जगतीपते ! ॥११७॥ राज्ये मन्त्रिपदे चैव निवेश्य स्वस्वनन्दनौ । तौ तेपाते तपोऽत्युग्रं प्रतिपद्यानगारताम् ॥११८ ॥ तन्मित्र ! मन्त्रिणा तेन यथाऽऽपल्लचित्तौजसा । आवामपि करिष्यावस्तथैव त्वं विषीद मा ॥ ११९ ।।
Page #83
--------------------------------------------------------------------------
________________
BAEXXXXXXXXXXXXXXXXXXXXXXX
मित्रानन्दोऽवदत बहि कर्तव्य हे वयस्य! किम् । स ऊचेऽन्यत्र यास्यावो मुक्त्वा स्थानमदोनिजम् ॥१२०॥ तस्य चित्तपरीक्षार्थ पुनर्मित्रोऽब्रवीत् सखे । । देशान्तरगतस्याङ्ग ! खेदस्तव भविष्यति ॥१२१ ॥ कालेन कियता तेन यच्छवेन निवेदितम् । तद्भावि सुकुमारत्वात् पञ्चत्वमधुनैव ते ॥१२२ ॥ अमरः स्माह गन्तव्यं दूरदेशान्तरेऽपि भोः। मया सौख्यमसौख्यं वा भोक्तव्यं च त्वया सह ॥ १२३ ॥ ततश्च कृतसङ्केतौ गृहानिःसृत्य तावुभौ । जग्मतुः क्रमयोगेन पाटलीपुरपत्तनम् ॥१२४ ॥ अशोकशोकपुन्नागनागपूगप्रियङ्गुभिः । नारङ्गादिकदल्याम्रचारवृक्षैश्च शोभितम् ॥१२५॥ प्रासादमेकमुत्तङ्गप्राकारपरिवेष्टितम् । तद्वहिः पश्यतः स्मैतौ ध्वजराजिविराजितम् ॥१२६॥ (यग्मम) मुखाऽङधिकरशौचं तौ कृत्वा पुष्करिणीजले । अन्तः प्रविश्य प्रासादरूपलक्ष्मीमपश्यताम् ॥ १२७॥ वैर्णिकाऽप्सरसां विश्वकर्मणेव विनिर्मिता । ददृशेऽमरदत्तेन तत्र पाश्चालिकैकका ॥१२८ ॥ पश्यन्नेतामथोत्पश्योऽमरः स्मरशरातुरः । विदाश्चकार नो तृष्णां न क्षुधां न श्रमं च सः ॥१२९ ॥ मध्याह्नसमये जाते मित्रेणेति प्रजल्पितः । आयहि नगरं यावो येनोच्छ्रं प्रवर्तते ॥१३०॥ स स्माह ननु भो भद्र ! क्षणं तावद्विलम्बय । यावत्पाञ्चालिकामेतामहं पश्याम्यशेषतः ॥१३१॥ कौतूहलेन याऽऽरूढा तस्यास्तुङ्गे कुचस्थले । परिश्रान्तेव तदृष्टिः स्थिता तत्रैव सा चिरम् ॥ १३२॥
१ वापीजले. २ प्रतिकृतिः
EXXXXXXXXXXXXXXXXXXXXXXXXXX
Page #84
--------------------------------------------------------------------------
________________
शान्तिनावचरित्रम् ॥४०॥
तृतीयः प्रस्तावः
पुनस्तथैव मित्रेण क्षणेनोक्तो जजल्प सः। चलामि चेदितः स्थानात ततो मृत्युभवेन्मम ॥१३३ ।। मित्रानन्दो जगादेवं कृत्याकृत्यविदः सदा । काऽस्यां पापाणमय्यां ते हन्त रागातिरेकता ? ॥ १३४ ॥ यदि नारीरिरंसा ते ततः प्राप्तः पुरान्तरे । विधाय भोजनं स्वेच्छां पूरयेस्तामपि क्षणे ॥१३५॥ एवमुक्तेऽपि तेनास्मिस्तस्याः पार्श्वममुञ्चति । भरिमन्युभराक्रान्तो मित्रानन्दोऽरुदभृशम् ॥१३६ ।। रुरोदामरदत्तोऽपि स्थानं तत् तु मुमोच न । तावत्तत्राऽऽययौ श्रेष्ठी प्रासादस्यास्य कारकः ॥ १३७ ॥ रत्नसाराभिधानेन तेनेदं भणिताविमौ । भद्रौ ! युवा युवतिवत् किं नाम रुदिथो वृथा ? ॥ १३८ ॥ ताततुल्यस्य तस्याग्रे कथयित्वाऽऽदितः कथाम् । मित्रानन्देन मित्रस्य चेष्टितं तन्निवेदितम् ॥ १३९ ॥ तेनाथ बोधितोऽप्येप रागं पाश्चालिकागतम् । न यावद्विजही तावत् स सखेदमचिन्तयत् ॥१४॥ अप्यश्मनिर्मित पुंसां यासां रूपं मनो हरेत् । वनिता विश्वमोहाय मन्ये ता वेधसा कृताः ॥१४१ ॥ तावन्मौनी यतिआनी सुतपस्वी जितेन्द्रियः । यावन्न योषितां दृष्टिगोचरं याति पूरुपः ॥१४२ ॥ एवं चिन्तापरः सोऽथ मित्रेण भणितः पुनः । तातास्मिन सङ्कटे कार्ये क उपायो भविष्यति ॥ १४३ ॥ तस्मिंश्च कञ्चनोपायमपश्यति वणिग्वरे । मित्रानन्देन तमभिप्रोचे बुद्धिमता पुनः ॥१४४ ॥ तं चेत् सूत्रकृतं वेत्सि (मि) येनैषाऽकारि पुत्रिका। तदिच्छापूरणोपायमस्य तात! करोम्यहम् ।। १४५॥ रत्नसारोऽब्रवीत्तर्हि सूरदेवोत्र मूत्रकृत् । स तु कुकुणदेशान्तःसोपारकपुरेऽस्ति भोः ॥१४६॥
॥४०॥
Page #85
--------------------------------------------------------------------------
________________
EXCEEEXXXIIIXEEEXAX
अहं निकेतनस्यास्य कारकस्तेन वेदव्यदः । शंस त्वमपि मे तावदुपायं स्ववितर्कितम् ॥१४७॥ सोऽवोचत्तात ! मन्मित्रमिदं प्रतिकरोषि चेत् । गत्वा सोपारके सूत्रधारं पृच्छाम्यहं ततः ॥१४८॥ यद्यसौ पुत्रिका तेन स्यात्प्रतिकृतिना कृता। ततस्तस्मिन् समानीते सेत्स्यत्यस्य समीहितम् ॥ १४९ ॥ श्रेष्ठिना तत्प्रतीकारेऽङ्गीकृतेऽथामरोऽवदत् । श्रोष्यामि यद्यपायं ते तदा यास्यन्ति मेऽसवः ॥ १५०॥ इतरः साह नायामि द्विमास्यन्तरहं यदि । तदा त्वयाऽवगन्तव्यं नास्ति मन्मित्रमित्यहो ॥१५१ ॥ कष्टेन बोधयित्वैनं श्रेष्ठिनाऽनुमतोऽथ सः । अखण्डितप्रयाणोऽगात् सोपारकपुरे क्रमात् ॥१५२॥ तत्रागुलीयं विक्रीय गृहीत्वा वसनादि च । ताम्बूलव्याप्तकरः प्रययौ स्थपतेहे ॥१५३॥ सश्रीक इति तेनास्य प्रतिपत्तिः कृता मुदा । शुभासनोपविष्टः स पृष्टश्चागमकारणम् ॥१५४॥ भद्र ! देवकुलं रम्यं कारयिष्याम्यहं त्वया । परं प्रतिकृतिः काचिद्दर्यतामिति सोऽब्रवीत् ॥१५५ ॥ उवाच सूत्रकृच्चक्रे प्रासादो मयका किल । पुरे पाटलिपुत्राख्ये स दृष्टो भवता न किम् ? ॥१५६ ॥ अवादीदपरो दृष्टः किं तु पञ्चालिकाऽमुका । प्रतिच्छन्दकृता तत्र स्वबुध्ध्या रचिताऽथवा ॥ १५७ ॥ स जगादावन्तिपुर्या महासेनस्य भूपतेः । सुताया रत्नमञ्जर्याः प्रतिच्छन्देन सा कृता ॥१५८॥ पृष्ट्वा सुदिनमेष्यामीत्युक्त्वा गत्वाऽऽपणेऽथ सः। विक्रीय चारुवस्त्राणि व्यधात्पाथेयसूत्रणाम् ॥ १५९ ॥ १. प्रासादस्य: २ कष्टम्.
SXXESXXEEEEEEXXXXXXX
Page #86
--------------------------------------------------------------------------
________________
शान्तिनाथचरित्रम् ॥४१॥
तृतीयः प्रस्ताव
ततोऽखण्डप्रयाणैः स गच्छन्नुज्जयिनी ययो । तत्र गोपुरमध्यस्थे देव्या देवकुलेऽवसत् ॥१६॥ अत्रान्तरे स शुश्राव पटहोद्घोपणामिमाम् । यामिन्याश्चतुरो यामान यो रक्षेन्मृतकं ह्यदः ॥१६१ ।। तस्मै ददाति दीनारसहस्रं वणिगीश्वरः । मित्रानन्देन श्रुत्वैवं पृष्टो दौवारिकस्तदा ॥१६२ ।। (युग्मम् ) दीयतेऽतिप्रभूतं स्वं भोः कार्य किमियत्यपि । स आचख्यावियं मारीविद्रुताऽस्त्यधुना पुरी ॥ १६३ ॥ अयं मारीकृतो यावच्छवः श्रेष्ठिगृहेऽभवत् । तावदस्तमितः सूर्यः प्रतोली पिहिता ह्यसौ ॥१६४ ॥ समर्थो रक्षितुं कोऽपि न मारीहतमित्यमुम् । ततोऽस्य रक्षणे भद्र ! लभ्यते प्रचुरं धनम् ॥१६५॥ कार्याणि धनहीनानां न सिध्यन्ति महीतले । इति मित्रः स्वलाभार्थ शवरक्षां प्रपन्नवान् ॥१६६॥ तस्येप्सितं धनस्यार्द्धमर्पयित्वा शवं च तम् । शेष प्रभाते दास्यामीत्युक्ताऽगादीश्वरो गृहे ॥१६७॥ शाकिनीभूतवेतालोपसर्गेपु भवत्स्वपि । रक्षितं तेन तद्रात्रौ मृतकं धीरताजुपा ॥१६८॥ प्रभाते स्वजनैस्तच्च मृतकं भस्मसात्कृतम् । धनं मार्गयतो मित्रानन्दस्य ददिरे न ते ॥१६९॥ सोऽवदद्यदि राजाच महासेनो भविष्यति । ततो लप्स्ये धनमहमित्युक्त्वाजामदापणे ॥१७॥ गृहीत्वा चारुवस्त्राणि दीनारकशतेन सः। विधाय चोटं वैषं वेश्यायाः सदनं ययौ ॥१७१ ॥ वसन्ततिलकानाम्न्या रूपयौवनयुक्तया । अभ्युत्थानादिसत्कारो विदधे तस्य वेश्यया ॥१७२॥ दत्तानि तेन चत्वारि दीनाराणां शतान्यथ । कुट्टिन्या हर्पिता सा चादिदेशेति सुतां निजाम् ॥ १७३ ॥
॥४१॥
Page #87
--------------------------------------------------------------------------
________________
EEEEEEEEEEEEE
॥ १७४ ॥
॥
१७५ ॥
१७६ ॥
॥
१७७ ॥
॥
द्रष्टव्यो गौरवेणैप पुत्र्युदारो नरस्त्वया । आदावेवं धनं येन ममादायि प्रभृतशः ततः सा स्वयमेवास्य चक्रे स्नानादिसत्क्रियाम् |- प्रदोषसमये वासगृहे तस्या' ययावसौ धरायाताऽमरीकल्पा कल्पिताऽनल्पभूषणा । तत्र शय्यागते तस्मिन् गणिका सा समाययौ ॥ सोऽथ दध्यौ न विषयासक्तानामिह देहिनाम् । नूनं कार्याणि सिध्यन्तीति विचिन्त्यात्रवीच्च ताम् करोमि स्मरणां काञ्चिद् भद्रे ! पठ्ठे समानय । इत्युक्ते सहसाऽऽनीतः पट्टो हेममयस्तया तत्रोपविश्य निविडं कृत्वा पद्मासनं तथा । वस्त्रेणाच्छादयित्वाऽङ्गं सोऽस्थाद् बुद्धिमतां वरः ॥ Ise प्रथमे यामे रन्तुमभ्यर्थितस्तया । स तु मौनपरस्तस्थौ वृथा ध्यानेन शान्तवत् ॥ एवं ध्यानपरस्यास्य सकलाऽपि गता निशा । प्रभाते स समुत्थाय देहचिन्ताकृते ययौ ॥ सद्भावेऽथ तयाऽऽख्याते पुनः सा भणिताऽक्कया । सर्वथा सेवनीयोऽयं हे पुत्रि । स्वयका नरः ॥ अस्मिश्च कामिते वित्तं स्थिरमेतद्भविष्यति । अन्यथा मंद्रिते शीर्षे तत्प्रसूनमिवास्थिरम् द्वितीयाऽपि निशा तस्यातिक्रान्तैवं तथाऽपरा । ततस्तं कुट्टिनी रुष्टा सोपालम्भमदोऽवदत् ॥ भद्रेमां मम पुत्रीं त्वं भूपानामतिदुर्लभाम् । विडम्बयसि किं नामानुरक्तामप्यकामयन् सोऽवदत्समये सर्व करिष्याम्यक्क ! साध्यहम् । किं तु पृच्छामि राज्ञस्ते प्रवेशोऽस्ति गृहे न वा ॥ १ मुण्डिते.
।।
॥
१७८ ॥
१७९ ॥
१८० ॥
१८१ ॥
१८२ ॥
१८३ ।।
१८४ ॥
१८५ ॥
९८६ ॥
BEEEEE
Page #88
--------------------------------------------------------------------------
________________
शान्तिनाथचरित्रम् ॥४२॥
तृतीयः प्रस्ताव:
सोवाच वत्स ! मे पुत्री राज्ञश्चमरधर्यसौ । तेन तस्य गृहे रात्रौ दिवा चाहमवारिता ॥१८७॥ यद्येवं तस्य तनयामक ! त्वं रत्नमञ्जरीम् । जानासीत्युदिता तेन सोचे सा मत्सुतासखी ॥१८८॥ मित्रानन्दोऽवदत्तर्हि तदने कथय तकम् । भद्रे ! गुणोत्करः पठ्यमानो यस्य श्रुतस्त्वया ॥१८९ ॥ जातानुरागया लेखो यस्य च प्रेषितो मुदा । तस्येहामरदत्तस्यागतोऽस्ति सुहृदित्यलम् ॥१९० ॥(युग्मम्) प्रतिश्रुत्याथ तत्कार्य सा तस्या अन्तिकं ययौ । तया च हृष्टपदना दृष्टा पृष्टेवमब्रवीत् ॥१९१ ॥ अहं हि त्वत्प्रियोदन्तमद्य तुभ्यं निवेदितुम् । आगताऽस्मि ततः स्मेरवदना नृपनन्दिनि । ॥ १९२ ॥ कोऽसौ मम प्रिय इति तयोक्ते सा न्यवेदयत् । वृत्तान्तमखिलं तस्य मित्रानन्दमुखाच्छ्रतम् ॥ १९३ ॥ तच्छ्रुत्वा राजपुत्र्येवं दध्यौ धूर्तविजृम्भितम् । सर्वमेतद् यतः कोऽपि वल्लभोऽद्यापि नास्ति मे ॥ १९४ ॥ परं येनेशी कूटरचना विहिता विशा । पश्यामि तमहं दृष्टयेत्यालोच्याका तयोदिता ॥१९५॥ गवाक्षणामुना सोऽद्याऽऽनेतन्यः पुरुषस्त्वया । मम प्रियस्य सन्देशवाचको लेखसंयुतः ॥१९६ ॥ आगत्य निजगेहेसा कुट्टिनी हर्षपूरिता । तदुक्तं कथयामास मित्रानन्दस्य धीमतः ॥१९७॥ निनाय च निशायां तं द्वारे राजगृहस्य सा । प्राकारसप्तदुर्लङ्घन्यमिदं तस्मै शशंस च ॥१९८॥ कन्यावासगृहं दृष्ट्वा भित्रोऽथ विससर्ज ताम् । विधुदुत्क्षिप्तकरणेनाविशच नृपालये ॥१९९॥ प्राकारोल्लनं तं च कुर्वन्तं वीक्ष्य कुट्टिनी । महावीरोऽयमित्यन्तनिवृत्ता स्वगृहं ययौ ॥२० ॥
Page #89
--------------------------------------------------------------------------
________________
।
XXXXXXXXXXXXXXXXXXXXXXXXXXX
मित्रानन्दोऽप्यथाढो राजपुत्र्या निकेतनम् । सुष्पाप साऽपि तद्वीरचर्यामालोक्य कैतवात् ।। २०१॥ कटकं राजनामा स तद्धस्तादुपाददे । चक्रे क्षुरिकया वीरो दक्षिणोरौ च लक्षणम् ॥२०२॥ तेनैव विधिना सोऽथ निर्गत्य नृपमन्दिरात् । सुप्तो देवकुले क्वापि दध्यौ चैवं नृपात्मजा ॥२०३ ॥ न सामान्यः पुमानेप चरित्रेणामुना ध्रुवम् । तन्मया न कृतं साधु नायं सम्भाषितो यतः ॥ २०४ ॥ अनया चिन्तया रात्रि गमयित्वा निशात्यये । निद्रामवाप सा बाला स तु वीरनरस्तदा ॥२०५॥ उत्थाय द्वारदेशे च गत्वा भूपतिवेश्मनः । अहो अन्याय इत्युच्चैः पूत्करोति स्म बुद्धिमान् ॥ २०६॥ राजादिष्टप्रतीहाराकारितो नृपसन्निधौ । गत्वा नत्वा नृपं मित्रानन्दोऽथैवं व्यजिज्ञपत् ॥२०७॥ प्रचण्डशासने देव ! त्वयि सत्यपि भूपतौ । वणिजा परिभूतोऽहमीश्वरेण विदेशगः ॥२०८॥ राज्ञा च कथमित्युक्तः कथयामास तस्य सः। द्रव्यलाभावसानां तां शवरक्षणजां कथाम् ॥ २०९ ॥ ततश्चाज्ञापितो राज्ञा रक्षकस्त्वयकाऽऽशु रे । सोच बवा दुराचारो वणिगानीयतामिति ॥ २१०॥ ज्ञातव्यतिकरः सोऽथ स्वयमेत्य नृपान्तिकम् । दीनारानार्पयत्तस्य नृपस्यैवं शशंस च ॥२११॥ तस्मिन् काले मया देव ! शोकाकुलितचेतसा । शवकृत्यविहस्तेन दत्तमस्य धनं न हि ॥ २१२॥ लोकाचारेण दिवसत्रितयं विगतं यतः । द्रव्यदानविलम्बे न दोषः को नाम मे प्रभो! ॥२१३॥ निर्दोप इति भूपालो वणिजं विससर्ज तम् । मित्रानन्दं च पप्रच्छ शवरक्षणजां कथाम् ॥२१४ ॥
Page #90
--------------------------------------------------------------------------
________________
शान्तिना
तृतीयः प्रस्ताव
यचरित्रम्
॥४३॥
सोऽवददेव ! यद्यस्ति भवतोऽत्र कुतूहलम् । तदैकमानसो भून्वा अणु त्वं कथयाम्यहम् ॥२१५॥ नन्वहं धनलोभेनाङ्गीकृत्य शवरक्षणम् । यावदस्थामप्रमत्तो गृहीत्वा क्षुरिकां करे ॥२१६॥ गतेऽथ प्रथमे यामे रात्रेराविरभूत्तदा । स्फोटयन्निव ब्रह्माण्डं प्रचण्डः फेरैवीरवः ॥२१७ ॥ ज्वलद्दावानलज्वालाजालपिङ्गलरोमकाः । क्षणाच्च परितः स्वस्य शृगालीदृष्टवानहम् ॥ २१८॥ क्लीवेजीवितनाशाभिस्ताभिरक्षुभिते मयि । द्वितीये पहरे रात्रेः प्रादुरासन्निशाचराः ॥२१९ ॥ अतीव भीपणाः कृष्णवर्णाः किलकिलोर्जिताः । मम सत्त्वसमीरेण ते प्रणष्टा घना इव ॥२२०॥ क गमिष्यसि रे दासेति वदन्त्यः सकत्रिकाः । एत्य नष्टाश्च शाकिन्यस्तृतीयप्रहरे निशः ॥ २२१ ॥ चतुर्थप्रहरे राजन् ! अप्सरस्सदृशाकृतिः। दिव्यांशुकाच्छादिताङ्गी नानाभरणभूषिता ॥ २२२ ॥ मुक्तकेशा करालास्या ज्वालाभिः कर्चिकाकरा। मम पार्श्वेऽवला काचिदाययौ भयकारिणी ॥२२३ ॥ (युग्मम् ) क्षयं नेष्यामि दुष्टाऽद्य भवन्तमिति वादिनीम् । तां विलोक्य मयाराजन् ! सेयं मारीति चिन्तितम् ॥ २२४॥ ततोऽतिसविधीभूता धृता वामकरे क्षणात् । मया वामकरेणैषोत्पाटिताज्येन शस्त्रिका ॥२२५ ॥ मोटयित्वा मम कर बलाद्देव ! चचाल सा । मया क्षुरिकया यान्ती दक्षिणोरौ च लक्षिता ॥ २२६ ॥ तस्थौ च कटकं तस्या ममैव हि करे प्रभो ! । अत्रान्तरेऽब्जिनीवन्धुरुदियाय दिवाकरः ॥२२७ ॥ १ श्रृंगालीरवः । २ अशूरजनजीवितस्य नाशकारिणीभिः।
XXXXXXXXXXXXXXXXXXXX
॥४३॥
Page #91
--------------------------------------------------------------------------
________________
तच्छ्रुत्वा विस्मितो राजा प्रोचे दर्शय तत्कटम् । मारोहस्ताद् गृहीतं यत् त्वया वीरशिरोमणे ! ॥२२८॥ परिधानांशुकग्रन्थिमध्यादाकृष्य तद् द्रुतम् । मित्रानन्दोऽर्पयामास कटकं भूपतेः करे ॥२२९ ।। स्वनामाकं च तदृष्ट्वा स दध्यौ किमहो मम । कन्यकैवाभवन्मारी यत्तस्या भूषण ह्यदः ॥२३० ॥ देहचिन्ताऽपदेशेन ततश्चोत्थाय भूपतिः । गत्वा च कन्यकापार्श्वे प्रसुप्तां तामलोकयत् ॥ २३१ ॥ दृष्ट्वा वामकरं तस्या गतालङ्करणं तथा । पट्टबन्धं व्रणस्थाने वजाहत इवाभवत् ॥२३२॥ अचिन्तयच्च वंशो मे चन्द्रमण्डलनिर्मलः । कलङ्कितोऽनया दुष्टकन्यया सर्वथा यतः ॥२३३॥ नृशंसोऽसनृताभाषी कुशीलश्चञ्चलाशयः । स्त्रीजनो जायते यत्र तत्कुलं न हि निर्मलम् ॥ २३४॥ न यावन्नगरीलोक निखिलं मारयत्यसौ । तावत् केनाप्युपायेन कार्योऽस्या एव निग्रहः ॥२३५॥ विचिन्त्यैवं वलित्वा चापृच्छन्मित्रं महीपतिः। भद्र। किं साहसेनैव मृतकं रक्षितं त्वया ॥२३६ ॥ अथवा मन्त्रशक्तिस्ते काचिदस्तीति सोऽवदत् । कुलक्रमागतो नाम मम मन्त्रोऽपि विद्यते ॥ २३७॥ कृत्वैकान्तमथाऽचख्यौराजा यद् भद्र मे सुता। मारी, नास्त्यत्र सन्देहस्ततोऽस्या निग्रहं कुरु ॥ २३८॥ मित्रानन्दोऽवदद्वाक्यं घटते देव ! नेदृशम् । यत्कुमारी भवेन्मारी समुत्पन्ना कुले तव ॥२३९॥ उवाच भूपतिर्नामाघटमानं किमत्र भोः । मेघवृन्दोद्भवा विद्यद् भवेत् प्राणहरी न किम् ? ॥ २४०॥ इतरः स्माह यद्येवं तदियं दर्यतां मम । यतः साध्यामसाध्यां वा वेमि दृष्टया विलोक्य ताम् ।। २४१॥
SXEXXXXXXXXXXXXXXXXX
Page #92
--------------------------------------------------------------------------
________________
• शान्तिना
थचरित्रम् ॥४४॥
तृतीयः प्रस्तानः
गत्वा विलोकयेत्युक्तो राज्ञा तत्र जगाम सः । सुप्तोत्थिता कुमारी सा तमायान्तमलोकयत् ॥ २४२ ॥ दध्यौ चैव नरः सोयं येन मे कटकं हृतम् । मन्ये त्वाऽज्ञापितो राज्ञा यन्निाशङ्कः समेत्यलम् ।। २४३ ॥ तया दत्तासने सोऽथोपविश्यैवमवोचत । मया ह्यारोपितं सुत्रु ! कलङ्क सुमहत तव ॥ २४४ ॥ अर्पयिष्यति भूपालो मम त्वामद्य सुन्दरि !। ततः स्थानं नयामि स्वं तव चेत् सम्मतं भवेत् ॥ २४५॥ नो चेदियत्यपि गतेकलङ्कां त्वां करोम्यहम् । त्वया जलाञ्जलिभद्रे ! मम देयस्तदा पुनः ॥ २४६ ।। तच्छुत्वाऽचिन्तयदसौ कन्या तद्गुणरजिता । अहो अकृत्रिमप्रेमा कोऽप्यसौ पुरुषो मयि १ ॥ २४७॥ दुःखमप्युररीकृत्य श्रयणीयस्ततो मया । सुलभो राज्यलाभोऽपि न तु स्नेहपरो जनः ॥२४८ ॥ ऊचे चसुभग ! प्राणास्तवाऽऽयत्ता इमे मम । त्वया सहाऽऽगमिष्यामि वेत्ति किन भवानिदम् ॥ २४९॥ अन्धो नरपतेश्चित्तं व्याख्यानं महिला जलम् । तत्रैतानि हि गच्छन्ति नीयन्ते यत्र शिक्षितैः ॥ २५०॥ ज्ञात्वा मनोरथान सिद्धानिति मित्रो जगाद ताम् । फेत्काराः सर्वपक्षेपे त्वया मोच्या नृपान्तिके ॥ २५१ ।। उपेत्य च नृपं प्रोचे सा मारी मम सग्रहे । प्राप्ता ढोकय किं त्वेकं भूपते ! शीघ्रवाहनम् ॥ २५२ ॥ तत्राधिरोप्य यामिन्यां त्वद्देशान्तं नयाम्यहम् । उदेष्यत्यन्तरा सूर्यश्चेन्मारी सा तथा स्थिता ॥ २५३ ॥ ततो भीतेन राज्ञाऽस्य दौकिता वडवा निजा। वायुवेगवती प्राणप्रिया लोकहितैषिणा ॥२५४ ॥ सन्ध्याकाले च केशेषु गृहीत्वा सा समर्पिता । तस्य तेनापि फेत्कारान् मुञ्चती हकितासकृत् ॥ २५५॥
॥४४॥
Page #93
--------------------------------------------------------------------------
________________
3XXXXXXXXXXXXXXXXXXXXXXXXX
ततस्तां बडवारूढां पुरस्कृत्य चचाल सः । राजाऽपि गोपुरं यावत् तावन्वित्य गृहं ययौ ॥२५६॥ मित्रानन्दमवादीत्सार्वत्यां त्वमपि सुन्दर !। अस्यामारुह किं पादचारेण सति वाहने? ॥२५७॥ क्षणमेकमह पद्धयां यास्यामीति वदन्नसौ । तदर्थमर्थितो भूयः सीमां प्राप्तस्तया भृशम् ॥ २५८॥ मित्रःप्रोवाच हे सुभ्र ! नात्मार्थ मयका त्वकम् । आनीता किं तु मित्रस्यामरदत्तस्य हेतवे ॥ २५९ ॥ मित्रव्यतिकरं चास्याः कथयित्वा न्यवेदयत् । न मे युक्तं त्वया सार्द्धमेकत्र शयनासनम् ॥२६०॥ तच्छत्वा राजपुत्री सा दध्यौ विस्मितमानसा । अहो अस्य महापुंसश्चरित्रं भुवनोत्तरम् ॥२६१ ॥ पिता माता सखा भ्राता यदर्थ वञ्च्यते नरैः प्राप्ताऽपि कामिनीसाऽहं येन नो कामितासता ॥ २६२ ॥ सर्वोऽपि सहते क्लेशं स्वार्थसिद्धिपरायणः । परार्थसाधने कोऽपि विरलोऽङ्गीकरोति तम् ॥ २६३ ॥ चेतसा चिन्तयन्त्येवं स्त्रीरत्नं रत्नमञ्जरी । पार्श्वे पाटलीपुत्रस्य निन्ये मित्रेण सा शनैः ॥२६४ ॥
इतश्चामरदत्तोऽसौ पूर्णे मासद्वयावधौ । अनागच्छति मित्रे च रत्नसारमदोऽवदत् ॥ २६५॥ तात ! मे नाययौ मित्रं काष्ठैः कारय तचिताम् । येन तदुःखदग्धोऽहं प्रवेक्ष्यामि हुताशने ॥ २६६ ।। तछ्रुत्वाऽधिकदुःखातः स श्रेष्ठी पौरसंयुतः । क्रन्दन्नत्याग्रहेणास्य रचयामास तां चिताम् ॥ २६७ ॥ १ अनुगम्य. २ वडवायाम्.
SEARNERSXXXXXXXXXXXXX
Page #94
--------------------------------------------------------------------------
________________
तृतीयः
शान्तिनावचरित्रम् ॥४५॥
वहिपार्थस्थितः सर्वैर्नागरैर्भणितोऽथ सः । भद्राद्यापि प्रतीक्षस्व येनेदमवधेर्दिनम् ॥ २६८॥ एवमश्रुमुखे तस्मिन्निपिद्धमरणे जनैः। अपराह्ने तया सार्द्ध मित्रस्तत्र समाययौ ॥२६९ ॥ आगच्छन्तं तमुवीक्ष्यामरदत्तः ससम्भ्रमः । उत्थायाऽऽलिङ्गति स्माश्रुजलधौतमुखाम्बुजः ॥२७० ॥ यत्तयोमित्रयोः सौख्यमभ्रन्मिलितयोः किल । तावेव वेदको तस्य नान्यस्तद्वक्तुमीश्वरः ॥ २७१॥ मित्रानन्दोऽवदन्मित्र ! तव चित्तस्य चौर्यसौ । आनीताऽस्त्युररीकृत्य मया कष्टपरम्पराम् ॥ २७२ ॥ इतरः स्माह बन्धो । त्वं सत्यनामा सदैव मे । साधितेनामुनाऽर्थेन विशेषेणाभवः पुनः ॥ २७३ ।। अपनाय्य चितैधांसि स्थाने तत्राग्निसाक्षिकम् । मित्रः कारयति स्माथ पाणिग्रहणमेतयोः ॥ २७४ ॥ विलोक्य रत्नमञ्जर्या रूपं पौरगणोऽवदत् । तन्नाश्चर्य यदेषोऽस्याः प्रतिच्छन्देन मोहितः ॥ २७५ ॥ वृत्तोद्वाहस्य तस्याथाऽमरदत्तस्य तत्र यत् । सञ्जातं भाग्ययुक्तस्य तदितः श्रूयतां जनाः ॥२७६ ॥ तस्मिन्नेव पुरेऽपुत्रो महीपालो व्यपद्यत । चक्रे च राजलोकेन पञ्चदिव्याधिवासना ॥२७७॥ भ्रान्त्वा त्रिकचतुष्कादिस्थानेषु निखिले पुरे । तानि तत्र समाजग्मुः कुमारो यत्र विद्यते ॥ २७८ ॥ येन हेषितं द्वाक हस्तिना गुलगुलायितम् । चक्रे तस्योपरि छत्रं तस्थौ तत्र स्वयं तथा ॥ २७९ ॥ वीजितं चामराभ्यांच भृङ्गारेण विनिर्ममे। महीपत्वाभिषेकोऽस्य, पुण्यैः किं नाम नो भवेत् ॥ २८०॥ ततस्तं शुण्डयोत्पाव्य गजः स्कन्धेऽध्यरोहयत् । विवेश नगरे सोऽथ सञ्जातानेकमङ्गलः ॥२८१ ॥
******************
Page #95
--------------------------------------------------------------------------
________________
पुरप्रवेशे तस्याथ मिलितो महिलाजनः । राजराश्योः स्वरूपं तत् दृष्ट्वाऽन्योन्यमदोऽवदन ॥२८२ ॥ कोचिजजल्प राज्ञोऽस्य रूपसम्पदमुत्तमाम् । पश्य विश्वजनलाध्यां हला! रतिपतेखि ॥२८३॥ अन्यावादीत किमन्यत्वं मुग्धे! वर्णयसि स्फुटम् । देव्याः समानरूपाऽस्या नस्त्री त्रिभुवनेऽपि यत् ॥२८४ ॥ अपरा स्माह यद्रूपमस्यास्त्रिभुवनोत्तरम् । तदेतत्प्रतिच्छन्देन मोहितोऽयमभन्नृपः ॥२८५॥ इतरोचे हलाः! पुण्यभागिन्येपा महीतले । यया विश्वजनश्रेष्ठो.लब्ध एवंविधो धवः ॥२८६ ॥ प्रत्युक्तमन्ययैपोऽपि धन्यो येनेदृशी प्रिया । लब्धा विदेशगेनापि लक्ष्मीरिव मुरद्विषो ॥२८७ ॥ कृत्वा गाढोद्यमं येनानीतेयं मृगलोचना । तदस्य भाग्यवन मित्रं श्लाध्यमित्यपराऽवदत् ॥ २८८ ॥ जजल्पान्या किमेतं न श्रेष्ठिन वर्णयस्यलम् । अविज्ञातोऽपि येनायं पुत्रवत् परिपालितः ॥२८९ ॥ इत्यालापान पुरन्ध्रीणां शृण्वानः प्रीतमानसः । ययावमरदत्तोऽसौ द्वारे नृपतिवेश्मनः ॥२९ ॥ स्तम्बेरमात्समुत्तीर्य विवेशाऽऽस्थानमण्डपे । उपाविशच तत्रैव नृपमण्डलसेवितः ॥२९१ ॥ सा रत्नमञ्जरी देवी मित्रानन्दः सुहृत्तथा । निषेदतुर्नृपोपान्ते यथास्थानमथापरे ॥ २९२॥ चक्रे राज्याभिषेकोऽस्य सामन्तैमन्त्रिभिस्तथा । राज्ञा च विहिता पट्टराज्ञी सा रत्नमञ्जरी ॥ २९३ ॥ चक्रे सर्वाधिकारी च मित्रानन्दो महामतिः। स्थापितश्च पितुः स्थाने रत्नसारो वणिग्वरः ॥ २९४ ॥ १ गजात्. २ कृष्णेन.
Page #96
--------------------------------------------------------------------------
________________
शान्तिनापचरित्रम् ॥४६॥
तृतीय: प्रस्ताव:
एवं कृत्वोचितं तेषां कृतजैकशिरोमणिः । अखण्डशासनो राज्य पालयामास तत्र सः ॥ २९५॥ राज्यकार्यरतोऽप्येवं मित्रानन्दः शवोदितम् । तन्मृत्युसूचकं वाक्यं विसस्मार कदापि न ॥ २९६॥ एकदा तेन भूपस्य कारणं तन्निवेदितम् । देशान्तरगतिः स्वस्य प्रार्थिता च पुनस्ततः ॥ २९७ ॥ प्रत्युक्तो भूभुजा सोऽपि मा कापीस्त्वं भयं सखे। दुष्टोऽपि स्थितयोरत्र कर्ता नौव्यन्तरःस किम्?॥ २९८ ॥ मित्रानन्दोऽवदत् प्रत्यासन्नत्वेन मनो मम । अद्यापि दूयते दूरं तन्मां प्रेषय भूपते! ॥२९९ ।। विचिन्त्योक्तं पुना राज्ञा यद्येवं गच्छ तत् सखे ! | नरैः प्रेत्ययितैः सार्द्ध वसन्तपुरपत्तनम् ॥ ३० ॥ अङ्गीकृते तदादेशे विसृष्टोऽसौ महीभुजा । प्रेपिताश्च समं तेन शिक्षा दत्त्वेति पूरुपाः ॥३०१॥ हहो ! तत्र गतैः कश्चिद् युष्मन्मध्यान ममान्तिकम् । आगन्तव्यमिहैतस्य क्षेमवार्ता निवेदितुम्।। ३०२ ॥ अथ मित्र गते राजा तद्वियोगादितोऽपि सः । पुण्यलब्धां समं देव्या भुङ्क्ते स्म नृपतिश्रियम् ॥ ३०३ ॥ तेषां मध्यान्नृणां कोऽपि नाऽऽययौ भभुजा ततः। अन्ये संप्रेपितास्तस्य शुद्धिज्ञानकृते नराः॥ ३०४॥ प्रत्यागतैश्च तैः पुम्भिः कथितं नृपतेरदः। दष्टोऽसौतत्र नाऽस्माभिः वार्ताऽप्यस्य श्रुतान हि ।। ३०५॥ तत संभ्रान्तचित्तो राद देवीमूचे कथं प्रिये । कर्तव्य यन्न वार्ताऽपि श्रुता मित्रस्य हा ! मया।। ३०६॥ १ विश्वस्तेः।
Page #97
--------------------------------------------------------------------------
________________
साख्यद्योति कोऽप्यत्र ज्ञानी तत्तेन छिद्यते। सन्देहोऽयं प्राणनाथ ! हन्त नान्येन केनचित् ।। ३०७॥ उद्यानपालकेनेति विज्ञप्तोत्रान्तरे नृपः । देवाज्यातोऽस्ति श्रीधर्मघोषसरिः पुरे तव ॥३०८ ।। अशोकतिलकोद्याने प्राशुकस्थण्डिले स्थितः । चतुर्ज्ञानधरो धर्म लोकानामादिशत्यसौ ॥३०९॥ समयागमनं तस्य श्रुत्वाऽसौ भक्तितत्परः । ययौ तद्वन्दनाहेतोः सामग्रया प्रेयसीयुतः ॥ ३१० ॥ खड्गादिराजचिह्नानि मुक्त्वा गुर्वन्तिकं गतः । नत्वा सपरिवारं तं निषसाद यथास्थिति ॥ ३११ ॥ गुरुरूचेत्र भोः ! स्वर्गापवर्गादिसुखैषिभिः । नष्टदुष्टाष्टकर्माऽयं कर्तव्यो धर्म एव हि ॥३१२ ॥ अत्रान्तरेऽशोकदत्तः पप्रच्छैवं वणिग्वरः । भगवन् ! कर्मणा केनाशोकश्रीर्दुहिता मम ॥३१३ ॥ अतीव वेदनाऽऽक्रान्ता सर्वाङ्गेष्वभवत्ततः। चिकित्साश्च कृतास्तस्या रोगशान्तिर्बभूव न ॥ ३१४ ॥ युग्मम् ॥ सूरिः प्रोचे भूतशालनगरे श्रेष्ठिनः प्रिया । साऽभवद् मृतदेवस्य नाम्ना कुरुमती पुरा ॥३१५॥ पीते सत्यन्यदा दुग्धे मार्जार्या भणिता तया । स्नुषा देवमती नाम्नी गाढकोपवशादिदम् ॥ ३१६॥ शाकिन्या किं गृहीताऽसीर्यनारक्षि पयस्त्वया। साऽपि तद्वचसा भीतोत्कम्पिताङ्गी बभूव च ॥ ३१७ ॥ ततः सा दुष्टमातङ्गन्या शाकिनीमन्त्रयुक्तया। आत्ता स्वकर्मकर्येव छलं लब्ध्वा झटित्यपि ॥३१८॥ ततस्तद्वेदनाक्रान्ता भिपग्भिः सा चिकित्सिता। दोषे तथाऽप्यशान्तेऽस्या योगी कोऽपि समाययौ ॥३१९॥
Page #98
--------------------------------------------------------------------------
________________
शान्तिनावचरित्रम् ॥४७॥
तृतीयः प्रस्ताव
मन्त्रवादेऽमुनाऽऽरब्धेऽग्निना यन्त्रे च ताडिते । मातङ्गी मुक्तकेशा सा तत्रागाद्वेदनाऽदिता ॥ ३२०॥ क गृहीता त्वयाऽसाविति पृष्टा योगिना पुनः श्वश्रूदुर्वाक्यभीताङ्गी मयाऽऽत्तेति जगाद सा ॥ ३२१ ॥ नीरोगाऽथ स्तुपा साऽभूच्छाकिनी सा विनाशिका योगिनो वचसा तस्य राज्ञा निर्वासितापुरात॥ ३२२ ॥ कुरुमत्यपि लोकेन कालजिह्वेति जल्पिता । तत सा संयतीपार्थे व्रतं जग्राह भावतः ॥३२३ ॥ विशुद्धं पालयित्वा तन्मृत्वाऽगादमरालयम् । ततश्श्युतेयं संजाता श्रेष्ठिस्ते दुहिता सका ॥३२४ ॥ उक्त्वा नालोचितं पूर्वभवे दुर्वाक्यमेतया । यतस्तेनेयमाकाशदेवतादोषदृषिता
॥३२५॥ तामिहाऽऽनय कन्यां त्वं श्रुत्वा येन वचो मम । असौ पूर्वभवं जातिस्मरणेन हि पश्यति ॥ ३२६ ॥ तस्मादुपद्रवादाशु मुच्यते सेति सरिणा । कथिते श्रेष्ठिना निन्ये सा सद्यस्तत्पदान्तिकम् ॥३२७ ॥ नष्टाः सूरिप्रभावेण खगामिन्यः क्षणेन ताः। श्रत्वा च चरितं स्वस्य जातिस्मृतिमवाप सा ॥ ३२८॥ जजल्पच प्रभो! सत्यं यद् युष्माभिनिवेदितम् । तदलं भवयासेन परिव्रज्यां प्रयच्छ मे ॥३२९ ॥
श्रीमाणिक्यचन्द्रसूरिनिर्मिते शान्तिनाथचरित्रे तृतीयसर्गे-विदित्वा शाकिनीदोषं मान्त्रिको यन्त्रमालिखत् ॥ २७९ ॥ कृत्वा समयां सामग्री यावत्तत्ताप्यतेऽग्निना।
२ प्रभावाद योगिनस्तस्य शाकिन्या सा स्नुषोज्झिता । पाठोऽयं युक्तः । ३ सापि तद्वचसा शीघ्नं राज्ञा निर्वासिता पुरात् । सापि तद्वचसा राज्ञा मुक्ता कृतविलक्षणा । इति च पाठान्तरम्.
॥४७॥
Page #99
--------------------------------------------------------------------------
________________
XXXXXXXXXXXXXXXXXXXXXXXX
गुरुः प्रोवाच ते भोगफलं कर्मास्ति संप्रति । भुक्ते तस्मिन श्रमणी त्वं भविष्यसि शुभाशये! ॥ ३३० ॥ एवमस्त्विति तद्भेष्ठी प्रतिपद्याययौ गृहम् । तदृष्ट्वा चिन्तयामास विस्मितः स महीपतिः ॥ ३३१॥ अत्यद्भुतं भगवतो ज्ञानमस्य महीतले । प्रत्यक्षमिव येनोक्तं यवृत्तं पूर्वजन्मनि ॥३३२॥ प्रप्रच्छ च प्रभो! मित्रानन्दस्य सुहृदः कथाम् । ममाप्याख्याहि कृत्वा त्वं प्रसादमतुलं मयि ॥ ३३३॥ गुरुणोक्तं महाराज ! त्वत्पार्थाचलितोऽथ सः। जलदुर्गमतिक्रम्य स्थलदुर्गे ययौ क्रमात् ॥३३४॥ तचैकत्र गिरिणदीप्रपाते तस्थिवानसौ । तदा भोक्तुं निविष्टास्ते सर्वेऽपि तव सेवकाः ॥३३५॥ कस्याश्चिद् दैवदुर्योगात पल्लेर्मध्यात समागता । पपात तत्र भिल्लानां धाटी तावदतर्किता ॥ ३३६ ॥ सर्वेऽपि पत्तयो भिल्लै प्रचण्डैस्ते पराजिताः । मित्रानन्दः स एकाकी कान्दिशीकः पलायितः ॥ ३३७॥ ह्रिया दर्शयितुं वक्त्रमक्षमास्ते पदातयः । केपि क्वापि ययुः पार्श्वे भवतः कोऽपि नाऽऽययौ ॥ ३३८॥ मित्रो गच्छन्नरण्येऽथ ददर्शकं सरोवरम् । तत्र पीत्वा च पानीयं न्यग्रोधस्य तलेऽस्वपीत् ॥३३९ ॥ ततोऽसौ कृष्णसर्पण निस्सृत्य वटकोटरात् । दष्टो दृष्टश्च तत्रैकेनाऽऽगतेन तपस्विना ॥३४०॥ विद्याऽभिमन्त्रितजलाभिषिक्तः सकलाङ्गकः । करुणाऽऽपन्नचित्तेन तेन जीवापितस्ततः ॥३४१ ।। पृष्टश्चैवं त्वमेकाकी प्रस्थितोऽसि व भद्रक!। तेनापि कथिता वार्ता सत्या तस्य स्वकीयका ॥ ३४२॥ स्वस्थान तापसः सोऽगाद् दध्यौ मित्रोऽपि हा मया। संप्राप्तमपि नो लब्धं सुखेन मरणं किल ॥ ३४३ ॥
Page #100
--------------------------------------------------------------------------
________________
शान्तिनाथचरित्रम् ॥ ४८ ॥
*ESSES
॥ ३४७ ॥
॥ ३४८ ॥ ( युग्मम् )
॥ ३४९ ॥
तन्मित्र सङ्गमस्याऽपि भ्रष्टोऽहं स्वकदाग्रहात् । अथवाऽद्यापि तत्पार्श्वे यामि किं चिन्तयाऽनया ॥ ३४४ ॥ ततोऽसौ चलितो मार्गे गृहीतस्तस्करैः पुनः । नीत्वा च निजपल्लीं तैर्विक्रीतो वणिगन्तिके ॥ ३४५ ॥ सोsपि पारसकुलाख्ये देशे गन्तुमना वणिक् । उज्जयिन्यां पुरि प्राप्तोऽन्यदाऽवात्सीच्च तद्बहिः || ३४६ ॥ तत्र रात्रावसौ मित्रः कथञ्चिद् गतबन्धनः । पुर्या निर्द्धमनेनान्तः प्रविवेश तदा पुनः तस्करोपद्रुता साऽभूत् ततो राज्ञा नियोजितः । आरक्षको विशेषेण चौरनिग्रहकर्मणि प्रविशौरवत तेन मित्रानन्दो निरीक्षितः । बद्धव के किबन्धेनं विपरीतविधेर्वशात् यष्टिष्टादिभिर्घातैस्ताडयित्वा च निष्ठुरम् । वधार्थं स्वमनुष्याणामारक्षेण समर्पितः अयं सिप्रानदीतीरे वटवृक्षे महीयसि । उद्धध्य वध्यो युष्माभिरिति चाज्ञापिता इमे ततस्तैर्नीयमानोऽसौ मनस्येवं व्यचिन्तयत् । जातं तद्वचनं सत्यं यच्छवेनोदित पुरा यत्र वा तत्र वा यातु यद्वा तद्वा करोत्यसौ । तथाऽपि मुच्यते प्राणी न पूर्वकृतकर्मणा विभवो निर्धनत्वं च बन्धनं मरणं तथा । यत्र यस्य यदा लभ्यं तस्य तत्र तदा भवेत् याति दूरमसौ जीवोsपायस्थानाद्भयद्भुतः । तत्रैवाऽऽनीयते भूयोऽहमिव प्रौढकर्मणा मा कार्षीः कोपमेतेषु रे जीव ! बघकेष्वपि । यदीच्छसि परत्रापि सुखलेशं त्वमात्मनः १ मयूरबन्धेन
॥ ३५० ॥
॥ ३५१ ॥ ॥ ३५२ ॥
॥ ३५३ ॥
।
॥ ३५४ ॥ ।। ३५५ ।। ॥ ३५६ ॥
1888X888
तृतीयः
प्रस्ताव:
॥ ४८ ॥
Page #101
--------------------------------------------------------------------------
________________
एवं विचिन्तयन्नेष तैरारक्षकपूरुषैः । तत्रोद्धो वटे नीत्वाऽपराधरहितोऽन्यहो! ॥३५७ ॥ अन्यदा रममाणानां गोपानां दैवयोगतः । उत्प्लुत्योन्नतिकाऽविक्षत मुखे तस्याऽपि पूर्ववत् ॥ ३५८ ।। तत् सूरिवदनाच्छ्रुत्वाऽमरदत्तो महीपतिः । स्मारं स्मारं गुणग्रामं तस्यैवं व्यलपन्मुहुः ॥३५९ ॥ हा मित्र ! निर्मलस्वान्त ! हा परोपकृतौरत! हा प्रशस्यगुणवात! हा भ्रातःवगतोऽसि हा ! ॥३६० ॥ देवी च विललापैवं हा देवर ! सखिप्रिय ! | सुविचार! गुणाधार ! निर्विकार ! कतिष्ठसि ॥ ३६१॥ यदाऽहं भवताऽऽनीता'तदाऽनेके विनिर्मिताः । उपायाः स्वविपत्तौ ते क्वगताहा महामते । ॥ ३६२ ॥ उवाच सप्रियं भूपं विलपन्तमदो गुरुः । शोकं मा कुरु राजेन्द्र ! भवभाव विभावय ॥३६३ ॥ न चतुर्गतिकेऽप्यस्मिन् संसारे परमार्थतः । सौख्यं शरीरिणामस्ति किन्तु दुःखं निरन्तरम् ॥ ३६४ ॥ स कोऽपि नास्ति संसारे मृत्युनायो न पीडितः। सिद्धमार्गममुं ज्ञात्वाकः शोकं कुरुते सुधीः ॥ ३६५ ।। शोकाऽऽवेशं परित्यज्य राजन ! धर्मोद्यमं कुरु । येनेदृशानां दुःखानां भाजनं नोपजायसे ॥ ३६६ ॥ राज्ञाप्रोचे करिष्यामि धर्म मे कथ्यतां परम् । मित्रानन्दस्य जीवोऽसौ कुत्रोत्पन्नो मुनीश्वर!॥ ३६७॥ सरिः प्रोवाच ते देव्याः सोऽस्याः कुक्षौ समागतः । सुतत्वेन यतस्तेन भावना भाविता तदा ॥ ३६८॥ जातः कमलगुप्ताख्यस्तव पुत्रः सुविक्रमः । पूर्व कुमारतां प्राप्य क्रमाद्राजा भविष्यति ॥३६९ ॥ पुनः पप्रच्छ भूपालः कथं तस्य महात्मनः । जाता निरागसोऽप्येवं तस्करस्येव पञ्चता ॥३७० ॥
n tondarasinatamdantation &*XXXXXXXRRRRRRRRRRRR
A
Page #102
--------------------------------------------------------------------------
________________
शान्तिना
चरित्रम ॥ ४९ ॥
॥
॥ ३७५ ॥
॥ ३७६ ॥
कलङ्क सम्भवो देव्याः कथं वा समभूत् प्रभो ! मम बन्धुवियोगश्चाऽऽबाल्यादप्यभवत् कथम् १ ॥ स्नेहोऽधिकतरोऽस्माकं कथं वा भगवन् ! वद । इति पृष्टो मुनीन्द्रस्तु ज्ञात्वा ज्ञानेन सोऽवदत् ॥ इतो भवात् तृतीये त्वं भवे क्षेमङ्कगभिधः । आसीः कौटुम्बिको राजन् ! सत्यश्रीस्तस्य गेहिनी ॥ चण्डसेनाभिघः कर्मकरः कर्मक्रियापटुः । बभूव च तयोर्भक्तोऽनुरक्तो विनयान्वितः तत्क्षेत्रे सोऽन्यदा कर्म कुर्वाणः कञ्चनाध्यगम् । परक्षेत्रे धान्यशम्वा गृह्णन्तं समलोकयत् ऊचे चैनमहो चौरमुलम्य तराविति । न क्षेत्रस्वामिना तस्य विदधे किञ्चनापि तु दूनस्तद्वचसा सोऽथाऽध्वगः कर्मकृताऽपि तत् । बद्धं क्रुधा चेष्टितेन कर्म दुर्वाक्यसम्भवम् ॥ ३७७ ॥ वध्वाः सत्यश्रियस्तस्या भुञ्जानाया गृहेऽन्यदा । उत्तालायाः कथमपि कवलो व्यलगद् गले ॥ ३७८ ॥ सोचे सत्यश्रिया पापे ! निशाचरि ! न भुञ्जसे । कवलैर्लघुभिः किं त्वं यथा नो विलगेद् गले ॥ ३७९ ॥ अन्येद्युः कर्म कृत सोऽथ स्वामिनोक्तो यथाऽद्य भोः ! । ग्रामेऽमुष्मिन् प्रयाहीति कारणेनामुना त्वकम् ॥ ३८० ॥ सोsवदद् व्याकुलोद्याहं बन्धूनां मिलनेन हि । कुपितेन च तेनोक्तं स्वजना मा मिलन्तु ते ॥ ३८१ ॥ अत्रान्तरे मुनिद्वन्द्वं गृहे तस्य समागतम् । दानमस्मै प्रदेहीति भणिता चामुना प्रिया ॥ ३८२ ॥ सुपात्रमिति हर्पेण तदा तत्प्रतिलाभितम् । प्राशुकैर्भक्त पानाद्यैरकृताकारितैस्तथा ॥ ३८३ ॥ द्वौ कर्मकरोऽप्येतौ धन्यौ याभ्यां महामुनी । काले निजगृहायातौ भक्तितः प्रतिलाभितौ ॥ ३८४ ॥
३७१ ॥ ३७२ ॥
३७३ ॥
३७४ ॥
तृतीयः
प्रस्तावः
॥ ४९ ॥
Page #103
--------------------------------------------------------------------------
________________
अत्रान्तरेऽपतत् तेषां त्रयाणामुपरि क्षणात् । क्षणिका तेन पञ्चत्वं सममेव गता हि ते ॥३८५ ॥ सौधर्मकल्पे देवत्वं प्राप्ताश्च प्रीतिनिर्भराः । ततः क्षेमङ्करश्युत्ता त्वमभूर्जगतीपते ! ॥३८६ ॥ जीवः सत्यश्रियः सेयं सञ्जाता रत्नमञ्जरी । जीवः कर्मकरस्याभूत् मित्रानन्दः सखा तव ॥३८७॥ बद्धं यद् येन दुष्कर्म वचसा पूर्वजन्मनि । तत्तस्योपस्थितं राजन् ! युष्माकमिह जन्मनि ॥ ३८८॥ ततः पूर्वभवे राजन् ! यद्धसद्भिर्निबध्यते । रुदद्भिर्वेद्यतेऽवश्यं तत्कर्मेह शरीरिभिः ॥३८९ ॥ तन्निशम्य महीपोऽसौ मुमूर्छ प्रियया सह । तत्पूर्वविहितं सर्व जातिमृत्या विवेद च ॥३९ ॥ ऊचे च यत्प्रभो ! प्रोक्तं युष्माभिर्ज्ञानभास्करैः । तज्जातिस्मरणेनाऽभूत् प्रत्यक्षमधुनाऽपि मे॥ ३९१ ॥ तदेतस्यामवस्थायां विद्यते यस्य योग्यता । कृत्वा प्रसाद युष्माभिः स धर्मों मम कथ्यताम् ॥ ३९२ ॥ गुरुः प्रोवाच सञ्जाते तनये ते महीपते ।। प्रव्रज्या भवितेदानी गृहिधर्मस्तवोचितः ॥३९३ ॥ ततो द्वादशभेदेन गृहीधर्मो विवेकिना । प्रपन्नोऽमरदत्तेन भूभुजा प्रियया सह
॥३९४॥ पुनः पप्रच्छ भूपालो यत्तदा तेन जल्पितम् । मृतकेन तदाख्याहि कारणं विस्मयोच मे ॥३९५॥ गुरुणोक्तमसौपान्थः शम्बाग्राही महीपते ! । मृत्वा भ्रान्त्वा भवंतत्र वटेऽभूद् व्यन्तरः क्रमात् ॥ ३९६॥ मित्रानन्दं समुद्वीक्ष्य स्मृत्वा वैरंच तत्कृतम् । अवतीर्य शवस्यास्ये तेन तजल्पितं वचः॥३९७ ॥ १ विद्युत्.
Page #104
--------------------------------------------------------------------------
________________
शान्तिनाथचरित्रम् ॥५०॥
तृतीयः प्रस्ताव
इत्थं विच्छिन्नसन्देहोऽमरदत्तो महीपतिः । सूरिं नत्वा स्वसदनमाययौ सपरिग्रहः ॥३९८॥ अज्ञानमोहितप्राणिप्रतिबोधविधौ रतः । धर्मघोपमुनीन्द्रोऽपि विजहार महीतले ॥३९९ ॥ समये रत्नमञ्जर्या देव्याः सूनुरजायत । तदेव सममूत् तस्य नाम यद् गुरुणोदितम् ॥४०॥ धात्रीभिः पालितः सोऽथ समतिक्रान्तशैशवः । समधीतकलो विश्वम्भराधारक्षमोऽभवत् ॥४०१॥ स एव सुगुरुस्तत्र पुनरन्येमुराऽऽययौ । उद्यानपालकस्तस्याऽगति राज्ञे शशंस च ॥४०२ ॥ निवेश्य तनयं राज्ये ततोऽसौ प्रियया सह । गुरूणामन्तिके तेषां परिव्रज्यामुपाददे ॥४०३ ॥ राज्ञः सपरिवारस्य दचा दीक्षामथो गुरुः । तस्याऽन्येषां च बोधार्थ शिक्षामेवंविधां ददौ ॥४०४ ॥ भवाम्भोधिपतज्जन्तुनिस्तारणतरी क्षमा । कथञ्चित् पुण्ययोगेन प्रव्रज्या प्राप्यतेऽङ्गिमिः ॥४०५॥ प्रव्रज्यां प्रतिपद्यापि स्युर्यके विषयैषिणः । जिनरक्षितवद् घोरे ते पतन्ति भवार्णवे ॥४०६॥ स्युर्यके निरपेक्षास्तु विषयेष्वर्थिता अपि । जिनपालितवत्तेन भवन्ति सुखभाजिनः ॥४०७॥ पृष्टो राजर्षिणा तेन ततः कथयति स्म सः । सूरिः सिद्धान्तकथितां भविष्यन्तीं तयोः कथाम् ॥ ४०८॥
चम्पापुर्या प्रसिद्धायां जितशत्रुरभून्नृपः । बभूव धारिणी नाम्नी तत्प्रिया रूपशालिनी ॥ ४०९ ॥ अभवत्तत्र माकन्दी नाम्ना श्रेष्ठी महाधनः । प्रशान्तः सरलस्त्यागी बन्धुकैरवचंद्रमाः ॥४१० ॥
BASSSSSSSSS
॥५०॥
Page #105
--------------------------------------------------------------------------
________________
भद्रा नाम्नी च तद्भार्या तत्सुतौ क्रमजावुभौ । जिनपालितनामा यो द्वितीयो जिनरक्षितः ॥ ४११ ॥ यानमारुह्य कुर्वद्भया परदेशे गताऽऽगतम् । वारानेकादशामूभ्यां निस्तीर्णः सरितां पतिः ॥ ४१२ ॥ अर्जितं हि धनं भूरि ततस्तावतिलोभतः । गन्तुकामौ पुनस्तत्राऽऽपृच्छतां पितरं निजम् ॥ ४१३ ॥ सोज्वदद् विद्यतेऽपि हे वत्सौ ! प्रचुरं धनम् । निजेच्छया त्यागभोगौ तेनैव कुरुतं युवाम् ।। ४१४ ॥ इयं च द्वादशी वेला भवेत् सोपद्रवाऽप्यसौ। ततो न युज्यते वाडौं प्रयातुमिति मे मतिः ॥ ४१५॥ अथ तावूचतुस्तात ! मा वादीरीदृशं वचः । भाविन्येपाऽपि नौयात्रा क्षेमेण त्वत्प्रसादतः ॥ ४१६ ॥ ततस्तेन विसृष्टौ तावत्याग्रहपरायणौ । क्रयाणकं जगृहतुर्गणिमादिचतुर्विधम् ॥४१७ ॥ सामग्री सकलां कृत्वा जलादीनां च संग्रहम् । यानमारुह्य चाघिौ ततः प्रविशतः स्म तौ॥ ४१८॥ तयोमहासमुद्रान्तर्गतयोरभवत् क्षणात् । अकालदुर्दिनं व्योम्नि जगजे च बलाहकः ॥४१९ ॥ विललासासकृद् विधुर्मयश्च जजृम्भिरे । वातश्च प्रबलो जज्ञे यानं तेन ननर्त तत् ॥४२०॥
१ सद्धर्मकर्मनिपुणो गुरौ देवे च भक्तिमान् । दानशीलतपोभावधर्म करोत्यनारतम् ॥ ११ ॥ भद्रानाम्नी च तदुभार्या रूपलावण्यसंयुता ! सतीत्वं पालयन्ती सा विनयादिगुणान्विता ॥ १२ ॥ तत्कुक्षिसम्भवौ शान्तौ तनयो क्रमजावुभौ । इत्येवं पाठः । २ इतिश्लोकानन्तर-विद्याविनयसौन्दर्यलावण्यादिगुणाश्चितौ । शेशवादू यौवनं प्राप्तौ पित्रा तौ परिणायितौ ॥ १४ ॥ द्विसप्ततिकलायुक्तौ द्रव्योपार्जनतत्परौ । स्वदेशे परदेशे च यातायातौ सदेव तौ ॥ १५॥ इत्येवं पाठः। ३ जलधौ । ४ मेघः ।
Page #106
--------------------------------------------------------------------------
________________
शान्तिनाथचरित्रम्
तृतीयः प्रस्तावः
स्फटितं च क्षणादेव विधुरेऽधीरचित्तवत् । विपन्नस्तद्गतो लोकस्तौ यानाधिपती पुनः ॥४२१॥ लब्ध्वा फलहक किञ्चित् तद् गाढं परिरम्य च । तीरमासेदतू रत्नद्वीपस्य दिवसैनिभिः ॥४२२ ॥ (युग्मम्) नालिकेरीफलेस्तत्र प्राणयात्रां विधाय तौ । तत्तैलाभ्यङ्गयोगेन रूढदेहौ बभूवतः
॥४२३॥ ततस्तत्राऽऽययौ रत्नद्वीपदेवीति देवता। नृशंसा निघृणा पाणौ कृपाण विभ्रती शितम् ॥४२४ ॥ ऊचे चैवमहो सार्द्ध मया विपयसेवनाम् । चेद् युवां कुरुथः प्राणकुशलं वां ततो भवेत् ॥४२५ ॥ अन्यथाऽनेन खड्गेन शिर छेत्स्यामि निश्चितम् । इत्युक्ते भयभीताङ्गौ तावप्येवं जजल्पतुः ॥ ४२६ ॥ भिन्नप्रवहणावावां देवि ! त्वां शरणाऽऽश्रितौ। यदादिशसि किश्चित्त्वं कर्तास्वस्तदसंशयम् ॥ ४२७ ॥ प्रासादमात्मनो नीत्वा तौ ततः प्रीतमानसा । अपजह तयोरङ्गात् पुद्गलानशुभानसौ ॥४२८॥ बुभुजेऽथ समं ताम्यां स्वैरं वैपयिकं सुखम् । ताभ्यां सुधाफलाहारं ददौ च प्रतिवासरम् ॥४२९ ॥ एवं च तस्थुपोर्यावद् गताः कत्यपि वासराः । तयोस्तत्राऽन्यदा तावत् तयैवं भणिताविमौ ॥ ४३० ॥ सुस्थितेनाऽहमादिष्टाधिष्ठात्रा लवणोदधेः। यथा त्रिः सप्तकृत्वस्त्वं भद्रे ! शोधय चारिधिम् ॥ ४३१ ॥ तृणकाष्ठाशुचिप्रायं भवेद् यत् तत्र किञ्चन । सर्व नीत्वा तदेकान्ते परित्याज्यं ममाऽऽज्ञया ॥ ४३२॥ ततस्तत्र मया गम्यं युवामत्रैव तिष्ठतम् । कुर्वन्तौ सत्फलैरेभिः प्राणवृत्तिं शुभाशयौ ॥४३३॥
॥५१॥
Page #107
--------------------------------------------------------------------------
________________
S
3
BAMBEXXXXXXXXXXXXXXXXXEEEERE
कथञ्चिद्विजनत्वाद्वां यद्यत्रोत्पद्यतेऽरतिः। पूर्वदिग्वनखण्डे तद्गन्तव्यमपशङ्कितम् ॥४३४॥ सर्वदाऽवस्थितौ तत्र ग्रीष्मप्रावृट्सुसंज्ञितौ । उभावृतू विनोदाय युवयोरपि भाविनौ ॥४३५॥ न चेत् तत्रापि वां चित्तं रमेत कथमप्यहो। तदोत्तरवनखण्डे गन्तव्यं हि ममाऽऽज्ञया ॥४३६॥ तत्राप्यवस्थितौ नित्यं शरद्धेमन्तनामको । भविष्यत ऋतू नाम स्वाधीनौ युवयोरपि ॥४३७॥ तत्रापि नो रतिश्चेद्वां तत्प्रतीचीवनान्तरे । गम्यं तत्रापि शिशिरवसन्ताख्यावृतू स्थिरौ ॥४३८ ॥ ततः प्रासाद एवात्राऽऽगम्यमौत्सुक्यसम्भवे । दक्षिणस्या वनेमुष्मिन् गन्तव्यं न कथञ्चन ॥ ४३९ ॥ यतस्तत्रासितच्छायो भग्नकायो द्विजिह्वकः। अस्ति दृष्टिवियः सों वेणीभूतोजनिस्त्रियः ॥४४०। एवमुक्त्वा ययावेषा माकन्दितनयौ च तौ। वनखण्डत्रये तस्मिन् गच्छतः स्म पुरोदिते ॥४४१॥ अथाचिन्तयतां चैवं दक्षिणस्या दिशो वने। पौनःपुन्येन गच्छन्तौ तयाऽऽवां वारितौ कथम् ॥ ४४२ ॥ चिन्तयित्वेति साशको यावत्तौ तत्र गच्छतः। प्रविवेश तयोस्तावद् घ्राणे गन्धः सुदुःसहः ॥४४३ ॥ स्थगयित्वोचरीयेण नासारन्ध्रे ततश्च तौ। राशि नरकरङ्काणां वने तस्मिन्नपश्यताम् ॥४४४॥ भयभीतौ विशेषेणाऽऽलोकयन्तावदो वनम् । नरमेकं च तो प्रेक्षाञ्चक्राते शूलिकागतम् ॥४४५॥ जीवन्तं विलपन्तं च दृष्ट्वा पपृच्छतुश्च तम् । कस्त्वं भद्र ! कथं वा तेऽवस्थेयं के त्वमी शवाः॥ ४४६॥ १ नरकलेवराणां.
-2
-
-
-
-
Page #108
--------------------------------------------------------------------------
________________
शान्तिना-10 थचरित्रम् ॥५२॥
तृतीयः प्रस्ताव
सोऽप्यवोचत काकन्दीपूर्वास्तव्योऽस्म्यहं वणिक् । भग्नं वारिनिधौयानं वाणिज्येनाऽगतस्य मे ॥ ४४७ ॥ ततहाऽऽगतो रत्नद्वीपदेव्याऽभिकामितः । स्तोकापराधेऽप्यन्येद्युस्तयैव निहितोऽस्म्यहम् ॥ ४४८॥ तयैवं विहताश्चैतेज्नया प्रक्रियया शवाः। तद् युवां कुत आयाती प्राप्तौ चास्या गृहे कथम् ॥ ४४९॥ ततस्तापात्मनो वार्ता निवेद्य तमपृच्छताम् । भद्र ! नौ जीवनोपायः कोऽप्यस्त्येवंस्थिते सति ॥ ४५०॥ सोऽवदच्छलको नाना यक्षः पूर्ववनेऽस्ति भोः! । सोऽश्वरूपधरः पर्वदिनेष्वेवं प्रजल्पति ।। ४५१॥ के रक्षामि नरं कं वा विपदं तार याम्यहम् । तद् गत्वा यक्षराजं तं भक्क्याऽऽराधयतं युवाम् ॥ ४५२ ॥ उद्घोपणायां जातायामावां रक्षेति जल्पतम् । इति शिक्षा तयोर्दत्वा स नरः संस्थितस्ततः ।। ४५३ ॥ पूजयामासतुः पुष्पैर्यक्षं गत्वा च तत्र तौ। आवां निस्तारयेत्याशु तदुक्तौ च जजल्पतुः ॥ ४५४ ॥ उवाच शैलको निस्तारयिष्यामि युवामहम् । एक त्ववहितौ भूत्वा वाक्य संश्रृणुतं मम ।। ४५५॥ युवयोर्गच्छतोः पृष्ठे देवता सा समेष्यति । सानुरागसकामानि जल्पिष्यति वचांस्यपि ॥४५६ ॥ अनुरागं ततस्तस्यां युवां यदि करिष्यथः । ततश्चोल्लालयित्वाऽहं प्रक्षेप्स्यामि महोदधौ ॥ ४५७ ।। यदि वा निरपेक्षौ हि तस्यां ननु भविष्यथः । ततःक्षेमेण चम्पायां प्रापयिष्यामि निश्चितम् ॥ ४५८ ॥ किं वहुना? समाननं न दृष्टयापि तस्याः कार्य कथञ्चन | न भेतव्यं भयं तस्यां दर्शयन्त्यामपि स्फुटम् ॥ ४५९ ॥
॥ ५२॥
Page #109
--------------------------------------------------------------------------
________________
7
व्यवस्थयाऽनया स्वं भोः ! शक्तौ निर्वाहितुं यदि । तन्ममाऽऽरुहतं पृष्ठं शीघ्रं येन नयाम्यहम् ॥ ततस्तत्पृष्ठमारूढौ तावङ्गीकृत्य तद्वचः । उत्पत्य नभसा सोऽपि ययौ मध्ये महोदधेः ॥ अत्रान्तरे च देवी साsपश्यन्ती तौ स्ववेश्मनि । बभ्राम वनखण्डेषु तत्राऽप्येतौ ददर्श न ॥ ततो ज्ञानोपयोगेन ज्ञात्वा तद्गमनं तयोः । दधावे खड्गमादाय पृष्ठे कोपपरासकौ ॥ दृष्ट्वा च तावुवाचैव रे ! किं याथो विमुच्य माम् १ । पुनरागच्छतं स्वस्य जीवितं वाञ्छ्थो यदि ॥ नो वेदनेन खड्गेन पातयिष्यामि वां शिरः । तयेत्युक्तेऽथ यक्षेण भणितौ ताविदं पुनः ॥ मम पृष्ठे स्थितावस्था मा भैष्टं भोः ! कथञ्चन । इति संधीरितावेतौ स्थिरचित्तौ बभूवतुः ॥ ततोऽनुकूलवाक्यानि जजल्यैवमसौ यथा । मां मुक्त्वैकाकिनीं दीनां क प्रियौ प्रस्थितौ युवाम् १ ॥ इत्यादिदीनवचनैस्तया भणितयोरपि । न चलाल तयोश्चित्तं यक्षावष्टम्भशालिनोः ॥ ४६८ ॥ ततोऽसौ भेदनिष्णाता प्रत्यूचे जिनरक्षितम् । मम प्रियो विशेषेण त्वमेवासि महाशय ! ॥ ४६९ ॥ ईक्षणाऽऽलापसंमानक्रिया साम्येऽपि देहिनाम् । चित्ताहादकरं प्रेम कस्मिंश्चिदपि जायते ॥ ४७० ॥ एवं ममापि कुर्वत्या युवाभ्यां सह सङ्गतिम् । जिनरक्षित ! सद्भावे स्नेहस्त्वय्येव निश्चलः ॥ ४७१ ॥ तदेहि देहि हे कान्त ! ममैकान्तरतेः सुखम् । अन्यथाऽहं मरिष्यामि त्वद्वियोगरुजाऽर्दिता ॥ ४७२ ॥ नानाथां म्रियमाणां दृष्ट्या मां किं न वीक्षसे ? । ददाति रागिणी प्राणानित्यर्थे संशयो तु किम् ॥ ४७३ ॥
४६७ ॥
४६० ॥ ४६१ ॥
४६२ ॥
४६३ ॥
४६४ ॥
४६५ ॥
४६६ ॥
Page #110
--------------------------------------------------------------------------
________________
शान्तिनाथचरित्रम् ॥ ५३॥
तृतीया प्रस्ताव
तत्कूटमोहितः सोऽथ तत् सत्यमिति चिन्तयन् । दृष्टयाऽऽलोकयते स्मास्या दुर्गतेरिव संमुखम् ॥ ४७४ ।। यक्षेणोल्लालयित्वाऽथ क्षिप्तः सोऽथ स्वपृष्ठतः । तया नीरमसंप्राप्तस्त्रिशूलेन प्रतीच्छितः ॥ ४७५ ॥ लभस्व पाप ! रे सद्यो मम वञ्चनजं फलम् । इत्युदित्वा च खड्गेन खण्डयित्वा निपातितः ॥ ४७६ ॥ ततश्च कूटकपटरचनानाटिका नटी । प्रत्याययितुमारेभे चाटुभिर्जिनपालितम् ॥४७७॥ यक्षेण भणितः सोऽथ यद्यस्या वचने रुचिः । भविष्यति गतिस्तत्ते कनिष्ठस्येव निश्चितम् ॥ ४७८ ॥ जातो निश्चलचित्तोऽसौ तं कूटमवधूय तत् । क्षेमेण सह यक्षेण प्राप्तः चम्पापुरी निजाम् ॥ ४७९॥ वलिता व्यन्तरी साऽथ यक्षोऽपि वलितः सकः । क्षमितः कृतकृत्येन श्रेष्ठिपुत्रेण भक्तितः ॥ ४८० ॥ गेहे गत्वा स्वलोकस्य मिलितो जिनपालितः । कथयामास तद्वन्धुमरणं शोकसङ्कुलम् ॥ ४८१ ॥ मृतकार्याणि तस्याऽथ माकन्दी स्वजनान्वितः । विधाय पालयामास गृहवासं सुतश्च सः॥ ४८२ ।। अन्यदा समवासापीत् तत्र वीरजिनेश्वरः । तं नन्तुं जग्मतुश्चैतौ माकन्दिजिनपालितौ ॥ ४८३ ॥ श्रुत्वा तदन्तिके धर्म प्रतिबुद्धौ महाशयौ। जातव्रतपरीणामौ जिन नत्वेयतुर्ग्रहम् ॥४८४॥ पौत्रे भारं कुटुम्बस्य विन्यस्य सुतसंयुतः । स श्रेष्ठी परिवव्राज श्रीवीरजिनसन्निधौ पिता समन्वितः सोऽथ जिनपालितसंयतः । स्वकार्यसाधको जज्ञे तपः कृत्वा सुदुश्चरम् ॥४८६॥ कथयित्वा कथामेतां धर्मघोषमुनीश्वरः । राजर्षेरमरस्योपयनं कथयति स्म सः
॥४८७॥
Page #111
--------------------------------------------------------------------------
________________
CERBEXEEEEEXXXXXXXXXXXX
donlSHOKAARABARHakadianta
यथा तौ वणिजौ तद्वद जीवाः संसारिणोऽखिलाः । रत्नद्वीपदेवतेवाविरतिः परिकीर्तिता ॥ ४८८॥ तथाऽविरतिजं दुःखं यथाऽस्याः शबसञ्चयः । शूलागतनरो यद्वद् हितभाषी गुरुस्तथा ॥४८९॥ यथा तेन तत्स्वरूपमनुभूतं निवेदितम् । तथैवाविरते१ःखं गुरुराख्याति देहिनाम् ॥४९ ॥ यथाऽसौ शैलको यक्षस्तारकः संयमस्तथा । समुद्र इस संसारस्तरणीयोऽमुना ध्रुवम् ॥४९१॥ यथा तस्या वशीभूतो विनष्टो जिनरक्षितः । तथैवाऽविरतेर्जन्तुर्वशीभूतो विनश्यति ॥४९२॥ देवतोक्तिनिराकाङ्क्षी यक्षादेशमखण्डयन् । क्षेमेण स्वपुरं प्राप्तो यथाऽसौ जिनपालितः ॥ ४९३ ॥ विरतोऽविरतेस्तद्वच्चारित्रमविराधयन् । निष्कर्मा जायते प्राणी निर्वाणसुखभाजनम् ॥४९४ ॥ तद् भोः । प्रपद्य श्रामण्यं पुनभोंगेषु नो मनः । कर्त्तव्यमिति सन्दिष्टे गुरुणा मुमुदे मुनिः ॥ ४९५ ॥ समर्पिता प्रवर्तिन्यास्ततोऽसौ रत्नमञ्जरी । कृत्वोदारं तपस्तौ द्वौ संप्राप्तौ परमं पदम् ॥४९६॥
॥ इति मित्रानन्दामरदत्तकथानकं समाप्तम् ॥ स्वयंप्रभमुनेर्धर्मोपदेशमतिपावनम् । श्रुत्वैवं प्रतिबुद्धोऽसौ राजा स्तिमितसागरः ॥४९७॥ अनन्तवीर्य भूपत्वे, कुमारत्वेऽपरं सुतम् । विन्यस्यास्य मुनेः पार्श्वे स दीक्षां समुपाददे ॥४९८॥ विराध्य मनसा किञ्चित सोऽन्तकालेऽनगारताम् । मृत्वाऽधो भवने जज्ञे चमरेन्द्रोऽसुराधिपः ॥ ४९९ ॥ इतोऽपराजितानन्तवीर्ययोविभताजुषोः। विद्याधरेण केनापि मैत्री सममजायत ॥५० ॥
3XXXXXBEEEEEEEEERABARREX
t
ion
Page #112
--------------------------------------------------------------------------
________________
शान्तिनायचरित्रम् ॥५४॥
तृतीयः प्रस्ताव:
दत्ता विद्यास्तेन ताभ्यां विहायोगमनक्षमाः। सवा तत्साधनोपायसामग्री च निवेदिता ॥५०१ ॥ चरीति चिलातीति गीतनाट्यकलाविदौ। तयोर्बभूवतुर्दास्यो विनोदास्पदमद्भुतम् ॥५०२॥ अन्यदा स्थानमासीनौ सन्नाट्यक्रियया तयोः। अभूतां व्याकुलौ यावत् तौ बन्धू रङ्गनिर्भरौ॥ ५०३॥ तावत तत्र ब्रह्मचारी स्वेच्छाचारी कलिप्रियः । सम्यग्दर्शनपुण्यात्मा नारदर्षिरुपाययौ ॥५०४ ॥ नासावभ्युत्थितस्ताभ्यामाक्षिप्ताभ्यां ततश्च सः । रुष्टो व्यचिन्तयदिमौ चेटीनाट्येन मोहितौ ॥ ५०५॥ वित्तो मामपि नाऽऽयातं ततोऽमू चेटिके ध्रुवम् । महामात्रे कलापात्रे हारयिष्यामि केनचित् ॥ ५०६॥ (युग्मम्) विद्याधराधिराजस्य त्रिखण्डविजयेशितुः । प्रतिविष्णोर्दमितारेः सकाशे स ययौ ततः ॥५०७॥ अभ्युत्थानादिसत्कारं कृत्वाऽसावासनस्थितम् । पप्रच्छ तं मुनि दृष्टं पृथिव्यां किञ्चिदभुतम् ॥ ५०८॥ सोऽवदच्छृणु राजेन्द्र ! सुभगायाः पुरो विभोः। अनन्तवीर्यभूपस्य समीपे गतवानहम् ॥५०९॥ तद्भवेरिचिलात्याख्यचेव्यो व्यक्रिया वरा । मयावलोकिता तत्र विश्वविस्मयकारिणी ॥५१॥ किं विद्याभिः प्रचण्डाभिः किं राज्येन किमाज्ञया। ते विना तत्र भूपेति गदित्वा नारदो ययौ ॥ ५११ ॥ तेनाऽथ प्रेषितो दूतः स गत्वा तत्र सत्वरम् । इदमूचे तयोरग्रे स्वस्वामिवलगर्वितः ॥५१२॥ हहो भवन्ति रत्नानि राजगामीनि निश्चितम् । चेट्यौ नाट्यविधायिन्यौ तदेते अर्ग्यतां प्रभोः ॥५१३ ॥ तावेवमूचतुर्भद्र ! युक्तं त्वं ननु जल्पसि । आलोच्यैतत् करिष्यावो याहि त्वं स्वामिनोऽन्तिके ॥ ५१४॥
Page #113
--------------------------------------------------------------------------
________________
दूतं विसृज्य तावेवं मन्त्रयांचक्रतुर्यथा । विद्याबलेन नौ तावत् करोत्येष पराभवम् ॥५१५ ॥ आवामपि ततो विद्याः साधयित्वा स्वचित्तगाः । दर्पमस्य हरिष्याव इति चिन्तयतोस्तयोः ॥ ५१६॥ पूर्वजन्मसाधितास्ताः स्वयमेवोपतस्थिरे । शंसित्वा सिद्धमात्मानं विविशुश्च तदन्तिके ॥५१७ ॥ (युग्मम् ) जातौ विद्याधरौ तौ द्वौ तत्प्रभावान्महौजसौ। विद्यानां चक्रतुश्चार्चा गन्धमाल्यादिवस्तुभिः ।। ५१८ ॥ अत्रान्तरे पुनतः प्राप्तस्तस्य महीपतेः । जजल्पैवमहो मृत्योरतिथी कि भविष्यथः ॥५१९ ॥ येन नाऽद्याऽपि चेट्यौ ते कृते प्रेषयथः प्रभोः । तावूचतुश्च कर्तव्यमवश्यं स्वामिनो हितम् ॥ ५२० ॥ ततस्तदुहितः स्वर्णश्रियो लोभेन तावुभौ । चेट्यो रूपं तयोः कृत्वा जग्मतुस्तत्पुरे द्रुतम् ॥ ५२१ ॥ कलाकौशलमालोक्य भणितौ तौ महीभुजा । युवाभ्यां करणीयो हि विनोदः कनकश्रियः ॥ ५२२ ॥ यथौतुर्दुग्धरक्षायां क्षुद्रान सिद्धानरक्षणे । हृष्टो भवेत् तथाऽभूतां तदादेशे नृपस्य तौ ॥५२३ ॥ सा कामगृहिणीरूपा दृष्टा ताभ्यां सुकन्यका । सर्वोपमादलौधैर्या विधिनेव विनिर्मिता ॥५२४॥ आभाषि भावमधुरैः परिहासमनोहरैः । देशीभापासगभैंश्च प्रियालापैः ससंभ्रमम् ॥५२५॥ पप्रच्छ साऽथ तत्पार्श्वेऽनन्तवीर्यस्वरूपताम् । ततोऽपराजितोऽशंसत तदने तद्गुणानिति ॥५२६॥ १ मार्जारः। २ रतिरूपा ।
१०
Page #114
--------------------------------------------------------------------------
________________
शान्तिनाथचरित्रम्
तृतीयः प्रस्तावः
RXXXXXXXXXXXXXXXRACKERAYA
रूपचातुर्यगाम्भीर्यवीयौदार्यादिसद्गुणाः । शक्या ह्यनन्तवीर्यस्य शंसितुं नैकजिह्वया ॥५२७ ॥ (युग्मम) किचकुटिलः सरलानेन विश्रुतिः श्रुतिशालिना। शेपोऽपि निर्जितो येन क्षमाभृद् बिभ्रताक्षमाम् ॥५२८॥ सज्जातरोमहर्षी तां दृष्ट्वा पुनरभापत । यद्यस्ति कौतुकं तत्ते दर्शयाम्यधुनैव तम् ॥५२९ ॥ आमेति तकया प्रोक्ते तावभूतां स्वरूपिणौ । दृष्ट्वा जगाद सा चाहं युष्मदाज्ञाकरी खलु ॥५३०॥ विष्णुः प्रोवाच यद्येवमेहि यामो निजां पुरीम् । जजल्प सा च मत्तातो विधाता वा पराभवम् ॥५३१॥ भणिता सा ततस्ताभ्यां भेतव्यं न हि सर्वथा । आवयोः समरे नैप पुरः स्थातुं क्षणं क्षमः ॥ ५३२ ॥ तयोरिति वचः श्रुत्वा प्रेमपाशनियन्त्रिता । विस्मिता रूपशौर्याभ्यामाभ्यां सह चचाल सा ॥ ५३३ ॥ विमानं विद्यया कृत्वा समारुह्य नमःस्थितः । उवाचाऽनन्तवीर्योऽथ दमितारिं सदास्थितम् ॥ ५३४ ॥ भो भोः। सामन्तमन्च्याद्याः सेनाध्यक्षा नृपस्य ये। शृण्वन्त्वपहरन्नस्मि सुतायुष्मत्पतेरिमाम।। ५३५॥
१ प्रत्यन्तरेषु भूयान् पाठभेद एषः
भणिता सा ततस्ताभ्यां भेतव्यं सुभ्र ! न त्वया । आवां त्वज्जनक जेतुं शक्तौ सबलवाहनम् ॥ ५३२ ॥ ततः सा प्रस्थिताऽन्तवीर्येणैवमथोदितम् । सर्वे श्रृणुत भो लोकाः । दमितारिश्च भूपतिः ॥ ५३३ ॥ अनन्तवीर्यनामाऽहं निजभ्रातृसमन्वितः । सहसा हरामि कनकश्रियं स्नेहवतीमिमाम् ॥५३४ ॥ विद्याविनिर्मितविमानाधिरूढौ ततश्च तौ। नभसा गन्तुमारब्धौ तां गृहीत्वा नृपात्मजाम् ॥५३५॥
Page #115
--------------------------------------------------------------------------
________________
न वाच्यं तेन भावेन गृहीताऽस्माकमजानताम् । इत्युद्गीर्य्याऽनन्तवीर्यो नभोऽगात् सपरिग्रहः ॥ ५३६ ॥ तदाकर्ण्य ज्वलत्कोपकरालः प्रतिकेशवः । रे रे ! गृहीत गृह्णीत दुरात्मानममुं जवात् ॥ ५३७ ॥ खेचरा हुं प्रकुर्वन्तः क्व गमिष्यसि दुर्मते ।। अन्वधावन् गृहीतास्त्रा मृगारेखि जम्बुकाः ॥ ५३८ ॥ एतान् विद्रावयामास वृण्यां वायुः क्षणादिव । विष्णुस्तांच तथा दृष्ट्वा दमितारिरथाऽचलत् ॥ ५३९ ॥ कल्पान्त इव पाथोधिर्वलोर्मिकुलसङ्कुलः । गजाश्वपत्तिग्राहाक्तस्तद्विरावघनध्वनिः ॥ ५४० ॥ तमायान्तमथाऽऽलोक्य भीरुं भयसमाकुलाम् । आश्वास्य रचयामास नाशकारि रिपोर्बलम् ॥ ५४१ ॥ तयोर्नासीरवीराणां प्रतिकेशवशार्ङ्गिणोः । कलिः कलकलारावसङ्कुलः समभूत् तदा । ॥ ५४२ ॥
दमितारिनृपेणाऽथ प्रेषिताः सुभटा निजाः । तदोत्पन्नास्त्ररत्नाभ्यां सुभटास्ते पराजिताः ॥ १३६ ॥ दमितारिः स्वयं सोऽथ महाबलसमन्वित. । हन्तुमेतावधाविष्ट दुष्टो दृष्टाधरः क्रुषा ॥ १३७ ॥ कृतान्तमिव संक्रुद्धं समायान्तं विलोक्य तम् । विभाय. कनकश्रीः सा ताभ्यां चाऽऽश्वासिता पुनः ॥ १३८ ॥ संग्रामे संमुखीनौ तावित्युक्तौ दमितारिणा । भो ! भोः ! समर्प्य मे पुत्रीं जीवन्तौ गच्छतं युवाम् ॥ ९३९ ॥ लभेतां मा पतङ्गत्वं मम कोपहुताशने । तावूचतुश्व याहि त्वं मा म्रियस्व मुषैव रे ! ॥ ५४० ॥ ततोऽपराजिताऽनन्तवीर्ययोः समुपस्थितम् । चतुरङ्गवलं ताभिर्विद्याभिर्विहितं क्षणात् ॥ ५४१ ॥ क्षणमेकमथो युद्धमुभयोः सैन्ययोरभूत् । विश्वस्य विस्मयोऽधायि विद्याजनितमायया ॥ ९४२ ॥ उपशान्ते ततस्तस्मिन् दमितारिर्महाभुजः ।
१ अग्रसैन्ययोधानाम् ।
Page #116
--------------------------------------------------------------------------
________________
तृतीयः
शान्तिना
प्रत्यनीकभटैर्भग्नं वीक्ष्यं सैन्यं निजं हरिः। किञ्चिचिन्ताशो जज्ञे रत्नान्युत्पेदिरे तदा ॥५४३ ॥ थचरित्रम् |
वनमाला गदा खड्गो मणिः शङ्खो धनुस्तथा । प्रत्यर्द्धचक्रिणश्वकं सप्तमं तद् भविष्यति ॥५४४॥ पाञ्चजन्यमथाऽऽदायाऽनन्तवीयों महौजसा । दध्मौ धानेन तस्याऽऽशु शत्रुसैन्यं मुमूर्च्छ च॥ ५४५॥ बलमुत्साहवत जातं निजं विष्णोस्तदाऽखिलम् । सर्वाभिसारतस्तावद् डुढौके दमितार्यपि ॥५४६ ॥ संवर्म्य रथमारुह्य शस्त्राण्याऽदाय भूरिशः । उत्तस्थौ केशवश्चापि तथैव ह्यपराजितः ॥५४७॥ वहन्ति चासृजां नद्यो मौलिपङ्कजभीषणाः । नृत्यन्ति च कवन्वानि रणरङ्गावनौ तदा ॥५४८॥ दमितारिप्रयुक्तानि शस्त्राण्यपि क्षणात् पुनः । सर्वाण्यनाशयत् शाङ्गी नवोदयवशात् तदा ॥ ५४९ ॥
दीपयन्तं दिशश्चकं स्मृतमात्रमुपागतम् । मुक्तमेतेन तुम्बेनाऽऽहत्य तस्थौ करे हरेः ॥५५० ॥ coll युध्यते स्म समं ताभ्यां दिव्यास्त्रैस्तिमिरादिभिः ॥१४३॥ तानि शस्त्राणि तस्याऽऽशु प्रतिशस्त्रैर्महाभुजौ । निर्भाग्यस्येप्सितानोव विफली
चक्रतुस्तकौ ॥ ५४४ ॥ जातसस्त्रिवैफल्यो दमितारिरमर्षणः । दध्यौ हा धिक् कथमहं शत्रुणाऽनेन निजितः ॥ ५४५ ॥ विफलत्वं यथा जग्मुर्दिव्यास्त्राण्यखिलान्यपि ! भवित। चक्रमप्येवं प्रतिहन्तुं तथैव किम् ॥ ५४६ ॥ कि वा प्रणष्टमेवेदं नाऽऽयात्ययापि यत् करे । इति चिन्तापरस्यास्य हस्ते तच्छोघमाययौ ॥ ५४७ ॥ तत् तेन मुक्तमागत्याऽनन्तवीर्यस्य वक्षसि । विशाले लगति स्मोरुनामिना न तु धारया ॥ ५४८॥ क्षणमेकमसौ मूर्छा लेमे घातेन तस्य च । तस्थावस्यैव सविधे भेदिनाऽन्येन भेदितम् ॥ ५४९ ॥ ततोऽसौ तत् समादाय दमितारिमदोऽवदत् । अरे ! त्वं निजचक्रेण मन्मुक्केन मरिष्यसि ॥ ५५० ॥
॥५६॥
Page #117
--------------------------------------------------------------------------
________________
॥
॥ ५५५ ॥
॥ ५५६ ॥
तदादाय जगौ विष्णुर्भङ्क्ष्व राज्यं म्रियस्व मा । कनकश्रीपितेति त्वं मया मुक्तः प्रयाहि भोः ।। ५५१ ।। asaमका मुक्तं यथा मोघमभूदिदम् । तथा त्वया विनिर्मुक्तमपि भावीति मे मतिः ॥ ५५२ ॥ अथवा मण्डलाग्रेण तच्चक्रं त्वां च घातकम् । अनेन खण्डयिष्यामीत्युक्त्वाऽघावत सोऽम्बरे ॥ ५५३ ॥ खड्गखेटकभृत् स्वस्याभिमुखं च समापतन् । अनन्तवीर्यमुक्तेन चक्रेणाऽऽशु निपातितः ५५४ ॥ ततश्चाऽनन्तवीर्यस्योपरि पुष्पभरोऽम्बरात् । विमुक्तो व्यन्तरैरेवं प्रजल्पद्भिः प्रमोदतः संजातो वासुदेवोऽयं विजयार्द्धपतिर्बली । द्वितीयो बलदेवश्च तच्चिरं जयतामिमौ विद्याधरभटास्तेऽथाऽनन्तवीर्य समाश्रिताः । कृतप्रणामास्तेनाऽपि सर्वे संमानिता इमे ततोऽपराजिताऽनन्तवीर्यौ विद्याधरान्वितौ । रम्यं विमानमारूढौ चेलतुः स्वपुरीं प्रति कनकाद्रावथ प्राप्तौ पोक्तौ विद्याधरैरिमौ । सन्त्यत्र जिनचैत्यानि युज्यन्ते तानि वन्दितुम् ततोऽवतीर्य चैत्यानि वन्दित्वा तानि भक्तितः । तत्रावलोकितस्ताभ्यां मुनिः कीर्तिधराभिधः वर्षोपवासतपसोत्पन्नकेवलचक्षुषः । तस्पर्षेश्चरणावेतो नेमतुः परया मुदा उपविश्य धरापीठे हर्षोदञ्चितविग्रहौ । इति शुश्रुवतुश्चास्य विशुद्धां धर्मदेशनाम १ उत्पन्नकेवलदर्शनः ।
॥ ५५७ ॥
।। ५५८ ।।
॥
५५९ ॥
॥
५६० ॥
॥ ५६१ ॥
॥ ५६२ ॥
Page #118
--------------------------------------------------------------------------
________________
*
शान्तिनाबनस्त्रिम्
तृतीय: प्रस्ताव:
तद्यथामिथ्यात्वमविरतिश्च कषाया दुःखदायिनः । प्रमादा दुष्टयोगाश्च पञ्चैते बन्धकारणम् यद् देवत्वमदेवेषु गुरुत्वमगुरौ तथा । अतत्त्वे तत्चबुद्धिश्च तन्मिथ्यात्वं प्रकीर्तितम् ॥५६४ ॥ यत्र कर्मसु पापेषु न स्तोकमपि वर्जनम् । जानीथोऽविरति तां हि सर्वदुःखनिबन्धिनीम् ॥५६५॥ कोपो मानश्च माया च लोभश्चेति निवेदिताः । मूलं संसारवासस्य कपाया जिनशासने ॥५६६ ॥ क्षान्तेविपर्ययः कोपो मानोऽमार्दवसंज्ञितः । मायाऽर्जवस्य वैरूप्यं लोभो मुक्तेविपर्ययः ॥५६७ ॥ मदिरा विषयाश्चैव निद्राश्च विकथास्तथा । प्रमादाः कथिताः पञ्च कषायसहिता. इमे ॥५६८ ॥ काष्ठपिष्टादिनिष्पन्ना कथिता मदिरा द्विधा । शब्दरूपरसगन्धस्पर्शाख्या विषयास्तथा ॥५६९ ॥ निद्रा च निद्रानिद्रा च तृतीयो प्रचलाऽभिधा।प्रचलाप्रचला तुर्यास्त्यानद्धिः पञ्चमी भवेत् ॥ ५७० ॥ सुखबोधा भवेनिंद्रा दुःखबोधाऽतिनिद्रिका | प्रचला संनिविष्टस्य चतुर्थी गच्छतो भवेत् ॥ ५७१ ।। दिनचिन्तितकार्यस्य साधनी पञ्चमी पुनः । सा तूदये भवेज्जन्तोरतिसंक्लिष्टकर्मणः ॥५७२ ।। स्त्रीकथा भक्तवार्ता च राजदेशकथा तथा । चतुस्रो विकथा एता वर्जनीया विवेकिना ॥५७३ ।। मनोवचनकायाख्यानयो योगाः प्रकीर्तिताः । अप्रशस्ता भवन्त्येते कर्मबन्धस्य हेतवः ॥५७४ ॥ १ भोजनकथा ।
XXEXXXXXXXXXXXXXXXXXX
Page #119
--------------------------------------------------------------------------
________________
।। ५७५ ॥ ।। ५७६ ॥
सर्वमेतत् परित्यज्य पापकर्मनिबन्धनम् । विदधीत मतिं धर्मे भव्यो मुक्तिसुखप्रदे अत्रान्तरे कनकश्रीः सा पप्रच्छेति तं मुनिम् । अभूद्रन्धुवियोगो मे पितुर्मृत्युश्च किं प्रभो ! ततः कीर्तिधरेणोक्तं तद् भद्रे ! शृणु कारणम् । येन बन्धुवियोगादि तव दुःखमभूदितः अस्त्यत्र धातकीखण्डे द्वीपे प्राग्भरते पुरम् । नाम्ना शङ्खपुरं भूरिधनधान्यसमाकुलम् काचिदुच्छिन्नसन्ताना श्रीदत्ता नाम दुर्गता । तत्राऽभूदबला कर्मकरणावाप्तजीवना पीडिता दुर्गतत्वेन निशम्य मुनिसन्निधौ । चकार साऽन्यदा धर्मचक्रवालाभिधं तपः त्रिरात्रद्वितयं तत्र प्रथमं क्रियते तपः । सप्तत्रिंशच्चतुर्थानि शक्तथाऽऽर्चा गुरुदेवयोः ददौ तस्यै जनः संप्रीतः पारणाहनि । मनोज्ञभक्ष्यभोज्यादि तपो हि महितं जने तपोगुणरतेत्यस्यैकर्मणोऽन्ते महेभ्यकाः । द्विगुणां त्रिगुणां वृत्तिं ददिरे वसनानि च जाता सकिञ्चना किञ्चिदन्येद्युर्निजवेश्मनः । कुड्यैकदेशात् पतितात् साध्वाप धनसञ्चयम् उद्यापनं च तपसः प्रारेभे कर्तुमन्यदा । पूजां जिनेन्द्रबिम्बानां विधिनाऽकारयत् ततः साधर्मिकगणे भक्त्या भोजितेऽस्या गृहाङ्गणे । मासोपवासी सत्साधुः सुव्रतः समुपाययौ ॥ ५८६ ॥ परप्रमोदपूर्णाङ्क्षया तयाऽसौ प्रतिलाभितः । प्राशुकैर्भक्त पानाद्यैर्भावसारं च वन्दितः
॥ ५८१ ॥
॥ ५८२ ॥
11 463 11
॥ ५८४ ॥
।। ५८५ ।।
॥ ५८७ ॥
॥ ५७७ ॥
॥ ५७८ ॥
।। ५७९ ॥
॥ ५८० ॥
Page #120
--------------------------------------------------------------------------
________________
शान्तिनाथचरित्रम् ॥५८॥
तृतीयः प्रस्तावः
धर्म दृष्टप्रभाषा सा पप्रच्छाऽथ तदन्तिके । सोऽवदत् साम्प्रतं धर्मदेशना न हि साम्प्रतम् ॥५८८॥ यदि ते धर्मशुश्रूपा ततः काल उपाश्रये । आगत्य विधिना भद्रे ! श्रव्यो धर्मः सविस्तरः ॥ ५८९ ॥ इत्युक्त्वा स्वाऽऽयं गत्वा रागादिरहितोऽथ सः। विधिना पारणं चक्रे स्वाध्यायं च ततः क्षणम् ।। ५९०॥ पुरलोकस्तदा तत्र श्रीदत्ता च समाययौ । प्रणम्य मुनिवर्य तं तत्पुरो निषसाद च ॥५९१॥ धर्मलाभाऽऽशिपं दत्वा स मुनिर्धर्मदेशनाम् । विदधे प्रतिबोधार्थ श्रीदत्ताया जनस्य च ॥५९२ ॥ तयथा
धर्मादर्थस्तथा कामो धर्मान्मोक्षोऽपि जायते । चतुर्वर्गे ततस्तस्य मुख्यता परिकीर्तिता ॥ ५९३ ॥ अयमर्थोऽपरोऽनर्थ इति निश्चयशालिना । भावनीया अस्थिमज्जा धर्मेणैव विवेकिना ॥५९४॥ श्रीदत्ता स्माह भगवन्नस्थिमज्जाऽधिवासना । अमूर्तेन हि धर्मेण कथङ्कार विधीयते ॥५९५॥ ततोऽसौ सुव्रतः साधुस्तस्याः पौरजनस्य च । दृष्टान्तं कथयामासेप्सितार्थस्य निवेदकम् ॥ ५९६॥ आसीदुज्जयिनीपुर्यो जितशत्रुमहीपतिः। तत्प्रिया धारिणी नाम्नी नरसिंहश्च तत्सुतः ॥५९७ ॥ कलाकलापसम्पूर्णः सोऽथ संप्राप्तयौवनः । रम्या द्वात्रिंशतं कन्यास्तातेन परिणायितः ॥५९८॥ शरत्कालेऽन्यदा तत्र पुरेऽरण्यात समाययौ । करी कश्चित् मदोन्मत्तः शङ्खश्वतो नगोन्नतः ॥ ५९९ ॥ १ योग्येत्यर्थः।
Page #121
--------------------------------------------------------------------------
________________
कृतान्तमिव तं द्रं जनविप्लवकारिणम् । करिणं कथयामास पुमान् कोऽपि महीपतेः ॥६००॥ तेनाऽथ प्रेषितं सैन्यं दैन्यं भेजे पुरोऽस्य तत् । स्वयमेव महीपालश्चचाल सबलस्ततः ॥६०१॥ नरसिंहकुमारोऽथ विनिवार्य महीपतिम् । दमनार्थमिभस्याऽस्य प्राचलत्सेनया सह ॥६०२॥ दीर्घो नव करान सप्तोन्नतश्च त्रींश्च विस्तृतः ! दीर्घदन्तकरस्तुच्छपुच्छो मधुपिशङ्गा ॥६०३॥ चत्वारिंशतसमधिकर्लक्षणानां चतुःशतैः । अलङ्कृतः करीन्द्रोऽयं कुमारेण निरीक्षतः ॥६०४॥ (युग्मम्) अभियानापसरणप्रपातोत्पतनादिमिः । बहुधा खेदयित्वा तं वशमानयति स्म सः ॥६०५॥ तस्मिन्नरावणाकारेऽधिरूढं मेनिरे जनाः। कुमारभुतश्रीकं साक्षादिव शचीपतिम् ॥ ६०६॥ तं गजेन्द्रमथालाने नीत्वा कलयति स्म सः। समुत्तीर्य ततस्तस्य स्वयं नीराजनां व्यधात् ॥ ६०७॥ जनकस्य समीपेऽथ स ययौ विनयाञ्चितः । विदधे जनकोऽप्यस्य परिरम्भादिगौरवम् ॥६०८॥ दध्यौ च जगतीभारक्षमोऽयमभवत् सुतः । तदेनं भूपतिं कृत्वा युज्यते मेऽनगारता ततस्तं मन्त्रिसामन्तपौरलोकस्य संमतम् । स्वपदे स्थापयामास सुमुहूर्ते महीपतिः ॥ ६१०॥ जयन्धरगुरोः पार्श्वे सोऽथ दीक्षामुपाददे । न्यायेन पालयामास नरसिंहनृपः क्षमाम् ॥६११॥ अन्येचुर्दस्युनैकेनाऽतिप्रचण्डेन मायिना । अगृह्येणाऽलक्षितेन मुष्यते स्म पुरी सका ॥ ६१२॥ महाजनेन विज्ञप्ते तस्मिन्नर्थे महीभुजा । आरक्षकः समादिष्टश्चौरनिग्रहहेतवे
॥६१३ ॥
Page #122
--------------------------------------------------------------------------
________________
शान्तिनावचरित्रम् ॥ ५९॥
तृतीया प्रस्तावा
पुनर्विज्ञापयामासान्येा पं महाजनः । मुपिता निखिला देव ! तस्करेण पुरी तव ॥६१४ ॥ सुरूपा यौवनस्था च या काचिदवलाऽभवत् । साऽपि रात्रौ तस्करेण नीयते स्म बलादपि ॥ ६१५॥ वासस्थानं ततोऽस्माकं किश्चिदन्यत् प्रदर्शय । निवसामो वयं तत्र नृनाथ ! निरुपद्रवाः ॥६१६॥ ततश्चाऽऽरक्षको राज्ञा क्रुद्धेनैवं प्रजल्पितं । रे स्वं गृह्णन् ! विना रक्षामधमर्णोऽसि किं मम ॥ ६१७ ॥ महाजनेन भणितं दोपो नास्त्यस्य कश्चन । अमुना सवलेनाऽपि चौरो धर्तुं न शक्यते ॥६१८॥ तथा मया विधातव्यं यथा भव्यं भविष्यति । इत्युदित्वा नरेन्द्रेण विसृष्टोऽथ महाजनः ॥६१९ ॥ वण्ठवेषो नृपो रात्रौ निर्गत्य निजमन्दिरात । शङ्कास्थानेषु बभ्राम कुर्वश्चौरगवेषणम् ॥६२० ।। रात्रौ भ्रान्तः पुरीमध्ये बहिः पुर्या दिवा पुनः । तथापि क्वापि नो दृष्टः स दुष्टस्तस्करोऽमुना ॥ २१ ॥ सायं मार्गरजाकीर्णस्तरुमूलस्थितो नृपः । कपायवस्त्रमायान्तं ददशैंक त्रिदण्डिनम् ॥६२२॥ स्वसमीपे समायान्तं ननाम स महीपतिः । कुतः स्थानादागतोऽसीत्याललाप सकोऽपि तम् ।। ६२३ ॥ राजा प्रोवाच द्रव्यार्थी पथिको भगवन्नहम् । भ्रान्तोऽस्मि बहुदेशेषु विभवं क्वापि नाप्नुवम् ॥ ६२४ ॥ तदा त्रिदण्डिकस्तूचे ये देशा वीक्षितास्त्वया । तेषां स्वरूपमाख्याहि नामग्राहमहो मम ॥ ६२५ ॥ भूपतिः स्माऽऽह चतुरशीतिसङ्खथा हि नीवृतः । स्वरूपमपि केपाश्चिच्छृणु त्वं कथयाम्यहम् ॥ ६२६ ।। १ देशाः ।
IN५९॥
Page #123
--------------------------------------------------------------------------
________________
-
-
Re--
यत्रैकवसना नार्यः प्रायो लोकः प्रियंवदः । केशो नैवोच्यते बालो लाटदेशः स वीक्षितः ॥ ६२७ ॥ सुदीर्घचिहुंरा मञ्जरावाः कम्बलचीवराः । यत्र रामाः स सौराष्ट्रनामा राष्ट्रो मयेक्षितः ॥ ६२८ ॥ नालिकेरीकदलीनां फलं शालिश्च भोजने । नागवल्लीदलं यत्र स दृष्टः कुकुणो मया ॥६२९॥ शुचिवेषाः प्रियाऽऽलापा यत्र लोका विवेकिनः । वैदग्धीरुचिरो देशो मया दृष्टः स गुर्जरः ॥ ६३०॥ यत्रैकभक्तिकं वस्त्रमस्तं सर्वनृणां करे । भाषाऽतिपरुषा दृष्टः स देशो मारुकाह्वयः ॥ ६३१ ।। यवे(त्रे)क्षवो बीहयश्च जायते च कृषित्रयम् । सर्वसाधारणो लोको मध्यदेशः स वीक्षितः ॥ ६३२॥ गोधूमाः प्रचुरा यत्र दुष्प्रापं लवणं तथा । सजलः सकलोऽप्येष मालवोऽपि निरीक्षितः ॥ ६३३ ॥ त्रिदण्डिवेषभृच्चौरः स श्रुत्वैवं व्यचिन्तयत् । अयं हि पथिकोऽवश्यं द्रव्यार्थी सदृशो मम ॥ ६३४ ॥ बभाषि च मम त्वं चेद् भणितं भोः! करिष्यसि । तन्मनोवाञ्छितं द्रव्यमचिरात् समवाप्स्यसि ॥ ६३५॥ नृपः प्रोवाच यो द्रव्यं ददाति हृदयेप्सितम् । न केवलमहं तस्य सर्वोऽप्याऽऽज्ञाकरोजनः ॥ ६३६ ॥ सोऽवदतु सांप्रतं तर्हि वर्तते भोः ! तमस्विनी । पारदारिकदस्यूनां दुष्टानां च प्रियङ्करी ॥ ६३७ ॥ तदुत्तिष्ठ कृपाणं त्वं करे कुरु यथा पुरे । प्रविश्याऽऽनीयते द्रव्यं कुतोऽपीश्वरमन्दिरात ॥ ६३८ ।। राजाऽपि चिन्तयामास नूनमेप स तस्करः । तदेनं हन्मि वा पश्याम्यथो यद्विदधात्यसौ ॥ ६३९ ।। १ चिहुरा: केशा।
BXXXXXXXXXXXXXXXXXXXXEEEET
Page #124
--------------------------------------------------------------------------
________________
शान्तिनाचरित्रम् ॥ ६० ॥
3333
६४४ ॥
६४५ ॥
६४६ ॥
ततः खड्गं चकर्षाऽसौ दध्यौ संवीक्ष्य योग्यपि । ईदृशेनैव खड्गेन नगरीशो विभाव्यते ॥ ६४० ॥ तन्मया मारणीयोऽयमुपायेन हि केनचित् । इति ध्यात्वाऽग्रतो गत्वा वलितोऽसौ झटित्यपि ॥ ६४१ ॥ जागर्त्यद्यापि पूर्लोको विश्रामं कुर्व ततः । क्षणमेकमिहाऽऽवां भोरित्यूचे च नृपं प्रति ॥ ६४२ ॥ ततस्तदाऽऽज्ञया राजा चक्रे पल्लवसंस्तरौ । तत्रैकत्र स विश्रान्तो द्वितीये पार्थिवः स्वयम् ॥ ६४३ ॥ afe जाग्रति नैषोऽपि शयिष्यते कथञ्चन । चिन्तयित्वेति सुष्वाप संस्तरे सोऽथ तस्करः ॥ झटित्ययो समुत्थाय स्वस्थानेऽस्थापयन्नृपः । महत्काष्ठं स्वयं चास्थात् सासिवृक्षस्य कोटरे ॥ त्रिदण्डी खड्गमा कृष्ण तस्करोऽपि समुत्थितः । तत्काष्ठमसिघातेन नृपभ्रान्त्या द्विधा व्यधात् ॥ अपसार्य पर्टि स्पर्शादिना विज्ञाय दारु तत् । धूर्तेन वञ्चितोऽस्मीति पश्चात्तापं चकार च ॥ राज्ञा सोऽभाणि रे दुष्ट ! मया त्वं मार्यसेऽधुना । विद्यते पौरुषं चेत् ते ततो मेऽभिमुखो भव साधु साध्विति चौरोऽपि बलात् नित्रिंशपाणिकः । संग्रामाय समं राज्ञाऽभ्यढौकिष्ट स दुष्टधीः ॥ खड्गाखड्गि चिरं कृत्वा दोष्मता पृथिवीभुजा । मर्मप्रदेश आहत्य पातितोऽसौ महीतले ॥ विधुरस्तेन घातेन तस्करः स्माह भूपतिम् । सोऽहं दस्युरहो वीर ! येनेयं मुषिता पुरी ॥ अहं तावन् मरिष्यामि शृणु त्वं मम् भाषितम् । अस्ति देवकुलस्यास्यपृष्ठे पातालमन्दिरम् ॥ तत्राऽस्ति प्रचुरं द्रव्यं धनदेवी च मे स्वसा । अन्याश्च नायिकाः सन्ति नगर्या या मया हृताः ॥
६४७ ॥
॥
६४८ ॥
६४९ ॥
६५० ॥
६५१ ॥
६५२ ॥
६५३ ॥
तृतीयः
प्रस्ताव:
॥ ६० ॥
Page #125
--------------------------------------------------------------------------
________________
अमुं मत्सइगमादाय गच्छ त्वं तत्र सत्वरम् । आकारयेः स्वसारं मे शिलाया विवरेण ताम् ॥ ६५४ ॥ कथयेश्च मृति मेस्याः खड्गमेनं च दर्शयेः । ततोऽसौ त्वत्प्रवेशाय द्वारमुद्घटयिष्यति ॥ ६५५॥ तत् सर्व भवता ग्राह्यमथवा यद् यस्य तस्य तत् । अपयेस्त्वमिति प्रोच्य विपन्नः स मलिम्लुचः॥ ६५६॥ गत्वा तत्र नरेन्द्रोऽपि कृत्वा च तदुदीरितम् । पातालभवने तत्र प्रविष्टोऽथ ददर्श तत् ॥ ६५७॥ विश्राम्यतु क्षणं तावत् पर्यङ्केत्र भवानिति । मंणित्वा भूपति द्वारं पिदधे तस्करस्वसा ॥६५८॥ दृष्ट्वावलोकयन्तीं तां छन्न छन्नं स्वसंमुखम् । साशङ्कः स्थापयामासोपधानं तत्र भूपतिः ॥ ६५९ ॥ स्वयं तस्थौ च दीपस्य छायायां मतिमानथ । मुन्वा यन्त्रशिलां शय्यां वभञ्ज धनदेव्यसौ॥ ६६०॥ ततः सा ददती ताला जजल्पैवमहो मया । भव्यं कृतं यतो भ्रातृवधको विनिपातितः ॥६६१ ।। धृत्वा केशेपु तां राजा प्रोचे रण्डे ! भविष्यसि । त्वमेवं कुर्वती हन्त भ्रातुर्मार्गानुयायिनी ॥ ६६२॥ जल्पन्तीं दीनवाक्यानि ततोऽसौ प्रविमुच्य ताम् । द्वारमुद्घाट्य च क्षिप्रं निजं धाम समाययौ॥ ६६३ ॥ मेलयित्वा च पूर्लोकं वस्तु यद् यस्य तस्य तत् । सर्व समर्पयामास भवनं तदभज च ॥६६४॥ आनीताः सस्वगेहेपु ताः स्त्रियस्तेन दस्युना । मोहिता न रति तत्र लेभिरे चञ्चलाशयाः ।। ६६५॥ मुहर्मुहुर्वजन्ति स्म दस्युस्थाने ततो जनैः । कथितं पार्थिवस्यैतत् तेनापि भणितो भिपक ॥६६६ ।। सोऽवदद्दस्युचूर्णेन जाता एवं विधा इमाः। दचा स्वचूर्ण राजेन्द्र ! स्वभावस्थाः करोम्यहम् ।। ६६७॥
Page #126
--------------------------------------------------------------------------
________________
शान्तिनाचरित्रम् ॥ ६१ ॥
ततो राजाज्ञया तेन ताः कृता गतकार्मणाः । एका तु तदवस्थैवाऽऽचख्ये तदपि भूभुजा ॥ ६६८ ॥ पृष्टोऽथ भिपगाचख्यौ देव! चूर्णेन योगिनः । कासाञ्चित् वासिता कृत्तिः कासाञ्चित् मांसशोणिते ||६६९ ॥ सर्वास्ताः प्रतिचूर्णेन स्वभावस्थाः कृता मया । अस्यास्तु वासितास्तेनाऽस्थिमज्जा अपि भूपते ! ॥ ६७० ।। घयित्वाऽस्य दस्योरस्थीनि पाय्यते । ततः संजायते राजन् ! स्वभावस्थाऽन्यथा न हि ॥ ६७१ ॥ तत् तथा कारयित्वाऽऽशु निर्विकारा कृताऽप्यसौ । नरसिंहनरेन्द्रेण सदा परहितैषिणा ॥ ६७२ ॥ स श्रीजयन्धराचार्योऽन्यदा तत्र समाययौ । यस्य पार्श्वे पिता राज्ञो जितशत्रुरभूद् व्रती धर्म तदन्ति श्रुत्वा नरसिंहनृपोऽपि सः । प्रतिबुद्धः सुतं राज्येऽस्थापयद् गुणसागरम् ततो दीक्षामुपादाय तपः कृत्वाऽतिदुष्करम् । निष्कर्मा नरसिंहर्षिरवाप शिवसम्पदम् ॥ इति नरसिंहऋषिकथानकम् ॥
।
॥ ६७३ ॥
॥ ६७४ ॥ ॥ ६७५ ॥
॥
सुतोभद्रे यथा चूर्णेन योगिनः । तस्यास्तस्या नितम्बिन्या अस्थिमज्जाऽधिवासिता ॥ ६७६ ॥ तथा त्वमपि कल्पद्रुचिन्तामण्यधिकश्रिया । धर्मेण भावयाऽऽत्मानं श्रीदत्ते ! दृष्टप्रत्यये ! ६७७ ॥ ततोऽसौ शुद्धसम्यक्त्वमूलं धर्ममगारिणाम् । प्रतिपेदे मुनेस्तस्य समीपे सरलाऽऽशया व्यहार्षीन्मुनिरन्यत्र श्रीदत्ताऽपि गता गृहम् । प्रतिपन्नं निजं धर्म विधिवत् पर्यपालयत् चकार साऽन्यदा कर्मपरिणामवशादिमाम् । धर्मस्य विषये श्राद्धी विचिकित्सां मनोगताम् ॥
॥ ६७८ ॥
॥ ६७९ ॥
६८० ॥
तृतीयः
प्रस्तावः
॥ ६१ ॥
Page #127
--------------------------------------------------------------------------
________________
जैन धर्मममुं रम्यं यत्नतः प्रकरोम्यहम् । परमस्य फलं भावि न वेति ज्ञायते न हि ॥६८१ ॥ विचिकित्सामिमां कृत्वा मृत्वाचाऽऽयुःक्षये सका। सञ्जाता तत्र तदितः स्थानं सङ्कीर्तयाम्यहम् ॥ ६८२ ॥ विजयेऽत्रैव वैतादये नगरे सुरमन्दिरे । राजा कनकपूज्योऽभूद् वायुवेगा च तत्प्रिया ॥६८३॥ तस्य कीर्तिमतो राज्ञः पुत्रः कीर्तिधरोऽस्म्यहम् । ममाऽप्यनिलवेगाख्या बभूव सहचारिणी ॥ ६८४॥ गजकुम्भवलीवर्दस्वमत्रितयसूचितः। प्रतिविष्णुपो जज्ञे दमितारिर्ममाऽऽत्मजः ॥६८५॥ उद्यौवनो मया बह्वीः स कन्याः परिणायितः। स्थापितश्च निजेराज्ये मया चाऽऽत्ताऽनगारता॥ ६८६॥ दमितारेनृपस्याऽस्य मदिरा नाम वल्लभा। तत्कुक्षिसम्भवा पुत्री कनकधीर्भवत्यभूत् ॥६८७॥ यत् त्वया विहिता धर्मविचिकित्सा पुरा भवे । तत् ते बन्धुवियोगादि भद्रे ! दुःखमभूदिदम् ॥ ६८८॥ निजं पूर्वभवं श्रुत्वा पितामहमुनेर्मुखात् । जातसंसारवैराग्या दमितारिनृपात्मजा ॥६८९॥ ऊचेऽपराजिताज्जन्तवीर्यावेवं कृताञ्जलिः। चेद् युवामनुजानीथस्तदद्य प्रव्रजाम्यहम् ॥६९०॥ ताभ्यां सा भणिता चैव संप्राप्य सुभगापुरीम् । स्वयंप्रभजिनोपान्ते भूयास्त्वं व्रतिनी शुभे!॥ ६९१ ॥ तं तपोधनमानम्य विमानमधिरुह्य च । तो तया सहितौ शीघ्रं संप्राप्तौ नगरी निजाम् ॥६९२॥ स्वयंप्रभजिनोऽन्येयुः सुरासुरनरार्चितः । आगत्य समवासार्षीत् सुभगायां पुरि प्रभुः ॥६९३ ।। गत्वा भक्या ववन्दाते तमिमौ बलकेशवौ । धर्म शुश्रुवतः सार्द्ध तया च कनकश्रिया ॥६९४ ॥
Page #128
--------------------------------------------------------------------------
________________
शान्तिना
धचरित्रम् ॥ ६२ ॥
अग्रेsपि कफीः सा विषयेभ्यो विरक्तधीः । जैनीं वाचं समाकर्ण्य विशेषेणाऽभवत् तदा ॥ ६९५ ॥ ततश्च हरिसीरिभ्यां कृतनिष्क्रमणोत्सवा । सा प्रववाज तेपे चैकावल्यादि तपो महत् शुक्लध्यानानलप्लुष्टघातिकर्मचतुष्टया । उत्पाद्य केवलज्ञानं संप्राप्ता परमं पदम्
॥ ६९६ ॥
॥ ७०२ ॥
इतोऽपराजितस्याऽऽसीद् विरता नाम गेहिनी । तदङ्गसंभवा पुत्री जाता सुमतिसंज्ञिका जीवाजीवाऽऽदितचा तपः कर्मसमुद्यता । आबाल्यादपि सा जज्ञे कुशला जिनशासने चतुर्थपारणेऽन्येद्युस्तस्या गेहे समाययौ । शान्तो दान्तः क्षमायुक्तो वरदत्तो महामुनिः परिवेषितया स्थाले स्वस्य पारणहेतवे । प्रत्यलाभि तया साधू रसवत्या मनोज्ञया मुनेः प्रभावतस्तस्य तत्र तद्भक्तिरञ्जितैः । विहितानि सुरैरासन् पञ्च दिव्यानि तत्क्षणात् स स्वस्थानमगात् साधुस्तद् दृष्ट्वा बलकेशवौ । चिन्तयामासतुः कन्या धन्येयं कृतपुण्यका ॥ ७०३ ॥ आलोच्य मन्त्रिणा सार्द्ध महानन्देन तौ ततः । कारयामासतुखाऽस्याः कृते रम्यं स्वयंवरम् ॥ ७०४ ॥ एत्य दूतसमाहूताः सर्वेऽपि पृथिवीभुजः । आसीना आसीनेपूच्चैः स्वयंवरणमण्डपे कन्याऽपि कृतशृङ्गारा सखीवृन्दसमन्विता । वरमालाङ्कितकरा यावत् तत्र समागता तावद् देवता पूर्वभवस्वत्रा प्रबोधिता । कृतसङ्केतया तत्राऽऽगतया व्रतहेतवे अनुज्ञाप्य नृपान् सर्वान् स्वयम्वरसमागतान् । मुरारिवलभद्राभ्यामनुज्ञाता विशेषतः
11904 11 ॥ ७०६ ॥
॥ ६९७ ॥
॥ ६९८ ॥
॥ ६९९ ॥
॥ ७०० ॥
॥ ७०१ ॥
॥ ७०७ ॥
॥ ७०८ ॥
तृतीयः
प्रस्ताव:
॥ ६२ ॥
Page #129
--------------------------------------------------------------------------
________________
पञ्चकन्याशतैः सार्द्ध प्रतिपद्याऽनगारताम् । समीपे सुत्रताायाः सा चचार तपोऽमलम् ॥७०९ ॥ (युग्मम्) क्षपकश्रेणिमारूढा क्रमातू संप्राप्तकेवला । प्रतिबोधितभव्यौधा ययौ साऽपि शिवं सती ॥७१०॥ अशीतिपूर्वलक्षाणि चतुर्भिरधिकान्यथ । आयुः प्रपूयं सोऽनन्तवीर्यो विष्णुर्व्यपद्यत
॥७११॥ संवत्सरद्विचत्वारिंशत्सहस्रायुरादिमे । श्वः नारकिको जज्ञे स निकाचितकर्मभिः ॥ ७१२॥ तद्वियोगेऽपरः शोकमस्तोकं विदधे ततः । नीतिधर्मविदग्धेन मन्त्रिणैवमभाणि स: ॥७१३॥ यदि मोहपिशाचेन छल्यन्ते त्वादृशा अपि । तदा कमपरं धीर ! धीरता संश्रयत्वियम् ॥७१४ ।। इति तद्वचसा किञ्चित् गतशोको बभून सः! अन्यदा गणभृतु तत्राऽऽययौ नाम्ना यशोधरः॥ ७१५॥ विज्ञायाऽऽगमनं तस्य चन्दनार्थमगादसौ । भक्त्या पोडशभिर्भूपसहस्रैः परिवारितः ॥७१६ ॥ नत्वा गणधरेन्द्रं तं निषण्णोऽसौ यथास्थिति । कृताञ्जलिपुटो धर्मदेशनामशृणोदिति ॥७१७ ॥ शोकोऽभीष्टवियोगेन जायते दारुणो जने । स सद्भिः परिहर्तव्यस्तत्स्वरूपमिदं यतः ॥७१८॥ नामान्तरः पिशाचोऽयं पाप्मा रूपान्तरस्तथा । तारुण्यं तमसो ह्येप विपस्यैप विशेषतः ॥७१९॥ तस्मादिष्टवियोगाऽऽख्यमहद्रो(हारो)गनिपीडितः। सुश्रुतोक्तक्रियायुक्तः कार्य धर्मोपचं महत् ॥ ७२०॥
सम्पदोन करिकर्णचञ्चलाः सङ्गमा प्रियवियोगनिष्फलाः। जीवितं मरणदुःखनीरसं मोक्षमक्षयमतोर्जयेद् बुधः ॥ ७२१ ॥
Page #130
--------------------------------------------------------------------------
________________
शान्तिनायचरित्रम् ॥ ६३ ॥
॥ ७२८ ॥
तां धर्मदेशनां श्रुत्वा गतशोकोऽपराजितः । जातत्रतपरीणामो नत्वा तं गणनायकम् गृहमागत्य राज्ये च स्थापयित्वा स्वनन्दनम् । समाददे परिव्रज्यां नृपमण्डलसंयुतः बहुकालं तपस्तप्त्वा कृत्वाऽन्तेऽनशनं तथा । विपद्याऽच्युतकल्पेऽसौ संजज्ञे त्रिदशेश्वरः इतोsस्य जम्बूद्वीपस्य क्षेत्रे भरतनामनि । । वैताढ्यदक्षिणश्रेण्यां पुरे गगनवल्लभे मेघवाहन विद्याभृद्भपतेर्मेघमालिनी ! बभ्रुव गुणसंयुक्ता गेहिनी रूपशालिनी अनन्तवीर्यो नरकादुध्धृत्य समभूत् तयोः । मेघनादाभिधः पुत्रो यौवनं समवाप सः कन्या विवाहस्तं स्वराज्ये विनिवेश्य च । प्रतिपेदेऽनगारत्वं मेघवाहनभूपतिः सोsथ श्रेणिद्वयस्वामी मेघनादो महामतिः । दशोत्तरशतं देशान् स्वसुतेभ्यो ददौ क्रमात् ॥ ७२९ ॥ गत्वा सुराचलेऽन्येद्युः प्रतिमाः शाश्वतार्हताम् । पूजयामास विद्यां च प्रज्ञप्तिं भक्तिपूर्वकम् ॥ ७३० ॥ तदा तत्राऽऽययुः सर्वदेवाः कल्पनिवासिनः । अच्युतेन्द्रेण दृष्टोऽसौ स्नेहात् सम्भापितस्तथा ॥ ७३१ ॥ स आख्याय पूर्वभवस्वरूपं धर्मसंयुतम् । निजं स्थानं ययौ मेघनादोऽपि खचरेश्वरः भक्त्या मरगुरोः पार्श्वे मुनीन्द्रस्याऽनगारताम् । प्रतिपद्य तपस्तेपे गत्वा नन्दनपर्वते अश्वग्रीवसुतजीवाऽसुरेणास्य विनिर्मिताः । महोपसर्गास्तत्रैकरात्रि की प्रतिमाजुषः प्रतिमां पारयित्वा तां विहृत्य जगतीतले । मृत्वा समाधिना चाऽन्ते सोप्यभूदच्युतेश्वरः
॥ ७३२ ॥
॥ ७३३ ॥
॥ ७३४ ॥
॥ ७३५ ॥
॥ ७२२ ॥
॥ ७२३ ॥ युग्मम् )
॥ ७२४ ॥
॥ ७२५ ॥
॥ ७२६ ॥ ( युग्मम् )
॥ ७२७ ॥
तृतीयः
प्रस्ताव:
॥ ६३ ॥
Page #131
--------------------------------------------------------------------------
________________
पष्ठो भवः सप्तमसंयुतोऽयं कपायविच्छेदकथाविचित्रः। प्रोक्तो मया शान्तिजिनेश्वरस्य करोतु कल्याणतति स सङ्घ
॥ ७३६॥
इत्याचार्यश्रीअजितप्रभसूरिविरचिते श्रीशान्तिनाथचरिते ___षष्ठसप्तमभववर्णनो नाम तृतीयः प्रस्तावः ॥ ३॥
XXXXXXXXXXXXXXXXXXXXXXXXBRI
Page #132
--------------------------------------------------------------------------
________________
शान्तिना
चरित्रम् ॥ ६४ ॥
IITTEESE
चतुर्थः प्रस्तावः
इतः पूर्वविदेहेऽत्र जम्बुद्वीपस्य मध्यगे । विजये मलावत्यभिधे सीतानदीतटे तीर्थङ्करादिपुंरत्नसञ्चषा रत्नसञ्चणा । अस्ति सिद्धान्तविख्याता शाश्वता नगरी वरा दुतिवारकत्वेन प्रजायाः क्षेमकारकः । तत्र क्षेमङ्करो जज्ञे राजा तीर्थङ्करच सः सतीत्व पादपाssवाला सुविशाला गुणश्रिया । वभूव भूपतेस्तस्य रत्नमालाऽभिधा प्रिया अपराजितजीवोऽसौ द्वाविंशत्यर्णवस्थितेः । अच्युतेन्द्रपदाच्च्युत्वा तस्याः कुक्षाववातरत् चतुर्दश महास्त्रमा वज्रस्वप्नसमन्विताः । दृष्टा देव्या तया रात्रौ चक्रभृज्जन्मसूचकाः कथितास्ते महीभर्तुः प्रभातोत्थितया तया । सुपुत्रजन्मकथनात् तेनाऽप्याऽऽह्लादिता सका अजीजनत् सुतं राज्ञी सम्पूर्णसमयेऽथ सा । प्रवर्द्धितच भूपालबेटीभिः सुतजन्मना आसप्तकुलवृच्या ताः सुतजन्मनिवेदिकाः । तोपयित्वा महीपालो वर्द्धापनमकारयत् दृष्टं पञ्चदशस्व देव्या वज्रायुधं ततः । वज्रायुधाभिधानं तत्पित्रा पुत्रस्य निर्ममे अष्टवर्पप्रमाणोऽसौ कलाचार्यस्य सन्निधौ । कारितस्तु कलाभ्यासमावासं गुणसंपदः संप्राप्तयौवनो राजकन्यां लक्ष्मीवतीं वराम् । सोऽथोत्सवेन गुरुणा गुरुणा परिणायितः
॥
१ ॥
॥ २ ॥ ( युग्मम् )
॥ ३ ॥
118 11
114 11
॥ ६ ॥
|| 61 ||
॥ ८ ॥
॥ ९ ॥ ॥ १० ॥
॥ ११ ॥
॥ १२ ॥
चतुर्थः
प्रस्तावः
॥ ६४ ॥
Page #133
--------------------------------------------------------------------------
________________
॥ १७ ॥ ( युग्मम् )
१८ ॥
॥ १९ ॥
अनन्तवीर्य जीवोsथ प्रच्युत्याच्युतकल्पतः । वज्रायुधकुमारस्य लक्ष्मीवत्याः सुतोऽभवत् सहस्रायुधनामाऽसावपि संप्राप्तयोचनः । उपयेमे नृपसुतां सुरूपां कनकश्रियम् भुञ्जानस्य तया सार्द्ध भोगांस्तस्याऽपि बन्धुरान् । कालक्रमेण संजज्ञे पुत्रः शतत्रलाभिधः क्षेमङ्करनृपोऽन्येद्युः पुत्रपौत्रसमन्वितः । सिंहासनोपविष्टोऽसौ यावदासीत् सभान्तरे तत्राऽऽगात्तावदीशान कल्पवास्यमृताशनः । चित्रचूलोऽभिधानेन कश्चिद् मिथ्यात्वमोहितः नास्ति देवो गुरुर्नास्ति नास्ति पुण्यं न पातकम् । न जीवपरलोकौ चेत्यादिनास्तिकवाद्यसौ ॥ वज्रायुधकुमारेण भणितो भोः ! न युज्यते । तव नास्तिकवादोऽयमत्र हेतुर्भवानपि चेत् त्वया सुकृतं किञ्चित् नाभविष्यत् पुरा कृतम् । नालप्स्यथाः सुरत्वं हि ततस्त्वं शर्मणः पदम् ॥ २० ॥ आसीस्त्वं मनुजः पूर्वहि जातोऽसि निर्जरः । घटते कथमप्येतद् यदि जीवो न विद्यते इत्यादिहेतुभिः सोऽथ निर्जरः प्रतिबोधितः । वज्रायुधकुमारेण ततस्तुष्टो जगाद सः मोः ! कुमार ! त्वया साधु विदधे यद्भवार्णवे । पतन् संज्ञानहस्तावलम्बनेनोष्धृतोऽस्म्यहम् ॥ आददे सोऽथ सम्यक्त्वं कुमारस्यैव सन्निधौ । प्रियं किं ते करोमीति कुमारं तं जजल्प च निःस्पृहाय ततस्तस्मै दत्त्वाऽऽभरणमुत्तमम् । स देवः प्रययौ स्वर्गमीशानेन्द्रस्य सन्निधौ १ देवः ।
॥ २१ ॥
॥ २२ ॥
२३ ॥
॥ २४ ॥
॥ २५ ॥
॥ १३ ॥
॥ १४ ॥
॥ १५ ॥
॥ १६ ॥
Page #134
--------------------------------------------------------------------------
________________
शान्तिनावचरित्रम्
चतुर्थः
प्रस्ताव
बजायुधकुमारोऽसावीशानेन्द्रेण पूजितः। अयं जिनेन्द्रो भावीति भक्तिरजितचेतसा ॥२६॥ वसन्तसमयेऽन्येाः कुमारं तं स्मरोपमम् । क्षुद्रा सुदर्शना पुष्पाण्यर्पयित्वा व्यजिज्ञपत् ॥२७॥ देव । लक्ष्मीवती देवी युष्माभिः सह वाञ्छति । कर्तुं सूरनिपाताख्योद्याने सुरभिखेलनम् ॥२८॥ वनायुधकुमारोऽथ सप्तराज्ञीशताय्यया । लक्ष्मीवत्या समं देव्या तदुद्यानमगाद्वरम् ॥२९॥ तत्र नानाविधक्रीडाः कर्तुं प्रववृते जनः । कुमारश्च ययौ वापी सप्रियः प्रियदर्शनः तत्र प्रविश्य पत्नीभिः सानुरागाभिरश्चितः । निरासन्नीकृतवीडां जलक्रीडां चकार सः ॥३१ ।। दमितारेरथो जीवो भवं भ्रान्त्वा पुरा भवे । कृत्वा किञ्चिदनुष्ठानं विद्युदंष्ट्रः सुरोऽभवत् ॥३२ ॥ जलक्रीडापरं वीक्ष्य कुमारं पूर्वमत्सरात् । तद्वधार्थ महाशैलं वाप्या उपरि सोऽमुचत् अघस्तानागपाशैश्च तं ववन्ध दुराशयः । वज्रायुधोऽपि चक्रीति महावलसमन्वितः ॥३४॥ अधिष्ठितश्च यक्षाणां सहस्रद्वितयेन सः। विभेद तं नगं नागपाशान् त्रोटयति स्म च ॥३५॥(युग्मम्) ततो वाप्या विनिर्गत्य सर्वराज्ञीगणाऽऽवृतः । अक्षताङ्गः कुमारोऽसौ चिरं चिक्रीड कानने ॥३६॥ अत्रान्तरे सहस्राक्षो जिनं नत्वा विदेहतः । वलितः शाश्वतयात्राकृते नन्दीश्वरं प्रति ॥३७॥ वापीमध्यान्नगं भित्वा छिचा पाशांश्च सप्रियम् । निर्गच्छन्तं कुमारं तं पश्यति स्म सविस्मयः ॥ ३८॥ ज्ञात्वा ज्ञानोपयोगेन भाविनं तं च तीर्थपम् । ननाम परया भक्त्या तुष्टुवे च कृताञ्जलिः ॥ ३९ ॥
॥६५॥
Page #135
--------------------------------------------------------------------------
________________
888881
॥
४० ॥
४१ ॥
॥
४२ ॥
॥ ४३ ॥
॥ ४४ ॥
धन्योऽसि त्वं कुमारेन्द्र ! यो भविष्यसि भारते । पोडशः तीर्थकृत् शान्तिनामा शान्तिकरो जने इति स्तुत्वा सुनासीरः प्रययौ स्थानमीप्सितम् । कुमारोऽपि गृहं प्राप्तः क्रीडित्वोपवने चिरम् ॥ सोऽपि क्षेमङ्करक्ष्मापोऽभ्येत्य लोकान्तिकामरैः । तीर्थं प्रवर्तयेत्युच्चैर्वोधितः स्थितिवेदिभिः ततो वज्रायुधं राज्ये निवेश्य जगतीप्रियम् । दत्त्वा च वार्षिकं दानं स चारित्रमुपाददे विहृत्य जिनलिङ्गेन कञ्चित् कालं विकेवेल: । अत्राप केवलज्ञानं घातिकर्मक्षये ततः देवैरागत्य समवसरणे रचिते सति । तत्रोपविश्य विधिना चक्रेऽसौ धर्मदेशनाम् कल्पद्रुमचिन्तामणिकामधेन्वधिकप्रभः । कर्तव्यः सर्वदा धर्मो भो भव्याः ! प्रतियत्नतः किन्तु सम्यक् परीक्ष्योऽयं श्रुतशील कृपादिभिः । आयुर्वेद विनिर्दिष्टक्षीरपाणवचो यथा अविचार्य प्रवृत्तः सन् क्षीरमर्कादिसम्भवम् । पिवेद् येनान्त्रशातादिदोषः संजायते महान् बुद्धया विचारयेद् यस्तु वैद्यवाक्यं पिवत्यसौ । बलपुष्टिकरं क्षीरं गवादीनां मनोहरम् धर्मे प्रवृत्तिः कर्तव्येति वाक्येऽप्यविचारिते । करोत्यज्ञानतो जीवः प्रवृत्ति धनुरादिषु धर्मे तस्मादहिंसादिलक्षणे जिनभापिते । विदधीत प्रवृत्ति भोः ! शिवं सौख्यं यदीच्छथ अविचार्य धिया कार्यं कुर्वतामिह देहिनाम् । दोपा भवन्त्यमृताम्रनिपात्यादिनरेन्द्रवत् १ इन्द्रः | २ केवलज्ञानरहितः ।
॥ ४५ ॥
॥ ४६ ॥
॥ ४७ ॥
॥ ४८ ॥
॥ ४९ ॥
॥ ५० ॥
॥ ५१ ॥ ॥ ५२ ॥
Page #136
--------------------------------------------------------------------------
________________
गान्तिनावचरित्रम् । ।। ६६॥
EXERMIRIRS
चतुर्थः प्रस्ताव
पप्रच्छैचमयो सर्वा पर्पत कौतूहलाकुला । अमृताम्रनिपात्यादिनृपाः के भगवनिमे ? ॥ ५३॥ दोपो जने कथं तेपामविचारितकर्मणाम् । इति सर्वसदायोक्तः क्षेमङ्करजिनोऽवदत् ॥ ५४॥ __ अरत्रावन्तिजनपदे प्रसिदोजयिनी पुरी । नगरी धनदस्येवावतीर्णेह कुतूहलातू जितशत्रुर्महीपालः पालयामास तां पुरीम् । यो वैरिवारनारीणां वैधव्यत्तदो गुरुः तस्याऽग्रमहिपी जज्ञे विजयश्रीः सुलोचना । भुञ्जानस्तामिलां चैव राजा राज्यमपालयत् ॥५७ ॥ आस्थानमण्डपाऽऽसीनमन्यदा तं महीपतिम् । सुविज्ञावेशिताकारः प्रतीहारो व्यजिज्ञपत् ॥५८॥ राजन् ! त्वमन्दिरद्वारे त्वदर्शनसमुत्सुकाः । चत्वारः पुरुषाः सन्ति मूर्त्या राजसुता इव ॥ ५९॥ ततः किं क्रियतां तेपामित्युक्ते स्माऽऽह भूपतिः । शीघ्रमानय तानत्रेत्यानिनाय च सोऽपि तान् ॥ ६॥ दत्ताऽऽसनोपविष्टांस्तान निरीक्ष्य विहितानतीन । दद्ध्यौ राजाऽनयाऽऽकृत्या नूनमेते सुवंशजाः॥ ६१ ॥ ताम्बूलादिप्रदानेन समान्याभापितास्ततः । कुतो यूयमिहाऽऽयाताः केनार्थेनेति भूभुजा ॥६२ ॥ अथोवाचानुजस्तेपामस्ति देवोत्तरापथे । सुवर्णतिलकं नाम विख्यातमवनौ पुरम् ॥६३ ॥ तद् वैरिमर्दनो राजा न्यायेन प्रत्यपालयत् । तस्य रूपवती नाम्रा चारुरूपवती प्रिया ॥६४॥ तयोः क्रमेण सजाताश्चत्वारस्तनया वराः। तेषां नामानि चामूनि प्रदत्तानि क्रमेण हि ॥६५॥ प्रथमो देवराजाख्यो वत्सराजो द्वितीयकः । तृतीयो दुर्लभराजः कीर्तिराजश्चतुर्थकः
Page #137
--------------------------------------------------------------------------
________________
सर्वे शुभकलाभ्यासं कारिता जनकेन ते । प्राप्ताश्च यौवनं स्वानुरूपकन्याविवाहिताः अन्येद्युः स महीपालो निवर्त करुजाऽर्दितः । राज्ये संस्थापयामास देवराजं सुताग्रिमम् दत्त्वा शिक्षामथो तस्मै परलोकमियाय सः । स्वं राज्यं देवराजोऽपि कियत्कालमपालयत् दायादैरन्यदा तच्च संभूय बलवत्तरैः । प्रसह्य स्वीकृतं देशात् निरासे स च सानुजः देवराजः स देवाऽयमाययौ युष्मदन्तिके । सेवाविधित्सयाऽस्माभिरनुजैः परिवारितः गुणदूतसमाहूता भवतामन्तिके वयम् । धृत्वा सम्भावनां चित्ते समायाता महीपते ! हृष्टो राजाऽवदद् यूयं मम पार्श्वे यदागताः । तत्साधु विहितं सन्तः सतां शरणमेव यत् प्रतीहारं समादिश्य राज्ञा वृत्तिसमन्वितः । निवासाय ततस्तेषामावासः प्रवरोऽर्पितः दृढभक्तिपराः प्रौढाः सेवकास्ते महीभुजा । प्रसादपूर्वकं स्वाङ्गरक्षकत्वे नियोजिताः रात्रे चतुर्षु यामेषु चत्वारोऽपि क्रमेण ते । चक्रिरे नृपते रक्षां शयितस्य धृताऽऽयुधाः ग्रीष्मकालेऽन्यदा देवराजोऽनुज्ञाप्य भूपतिम् । ग्रामे कापि समासने ययौ कार्येण केनचित् कार्य कृत्वा स मध्याह्ने वलितो यावदन्तरे । भीपणा तावदुत्तस्थौ प्रचला वातमण्डली धूलिरुच्छति स्मोच्चैः प्रचण्डपवनोद्धता । निपेतुः कर्कराः पत्र तृणानि मुरम्बरे पपात विरलं चाम्बु गुरुगर्जारवोत्कटम् । विललास तथा विद्युष्टिसन्तापकारिणी
ર
11 10 11 ॥ ६८ ॥
॥ ६९ ॥
॥ ७० ॥
॥ ७१ ॥ ॥ ७२ ॥
॥ ७३ ॥
॥ ७४ ॥ 1104 11
॥ ७६ ॥
॥ ७७ ॥
॥ ७८ ॥
॥ ७९ ॥
॥ ८० ॥
Page #138
--------------------------------------------------------------------------
________________
चतुर्थः
शान्तिनाथचरित्रम् ॥६७॥
प्रस्तावः
तद्धलिजलमीतोऽसावाश्रित्य चटपादपम् । यावत् तस्थौ क्षणं तावदोषीदुपरि स्वरम् ॥८१ ॥ किमेतदिति दत्तावधानो भाषांविशारदः । वचः पिशाचयोः सोऽथ शुश्रावेति सुदुःश्रवम् ॥ ८२॥ फो फो! जाणसि किंची सोपभणदि णो कहेहि मह किं तं जंपइ इमोवि अजं मलिहीएसोनलिन्दोति। ८३॥ वीएण तओ पुट्टो केण निमित्तेण कीइ वेलाए । सो जंपइ सप्पाओ पढमे पहलंमि लत्तीएका ८४ ॥ तत्पिशाचवचः श्रुत्वा पीडितो हृदयेऽधिकम् । स दध्यौ हा. कथं कार्य दैवेनैतद्विनिर्मितम् ॥ ८५॥ तथा कथञ्चिदत्रार्थे यतिष्येऽहं यथा विभोः। नैतद्भविष्यतीत्येवं ध्यायन सोज्गाद् नृपाऽन्तिकम् ॥८६॥ प्रदोपसमये जाते विसृज्याऽऽस्थानगं जनम् । प्रविश्य वासभवने सुप्तो देव्या समं नृपः ॥ ८७॥ देवराजोऽपि तद्वासगृहं सर्वत्र शङ्कितः । उपरिष्टादधस्ताच शोधयामास यत्नतः ॥८८॥ ततः खड्गं समाकृष्य दीपच्छायान्तरस्थितः। उपर्यधो. वीक्षमाणो यावदस्थादसौ तदा ॥ ८९॥ चन्द्रोदयस्य विवरेणाहिं दृष्ट्वा प्रलम्बितम् । अभीतो जगृहे शीघ्र करेणैकेन तन्मुखम् ॥९०॥ (युग्मम्) द्विखण्डं विदधे चास्य देहमन्येन सोऽसिना । एकत्र गोपयामास तत् खण्डद्वयमप्यसौ ॥९१॥ दृष्याऽथ पतितान रक्तबिन्दून देव्या उरस्थले । सोऽपजहे स्वहस्तेन विषसंक्रान्तिभीरुकः ॥९२ ॥ १ भो भोः 1 जानासि किश्चित् स प्रभणति नो कथय मम कि तत् । कथयत्ययमपि अद्य मरिष्यति स नरेन्द्र इति ॥ २ द्वितीयेन ततः पृष्टः केन निमित्तेन कस्यां वेलायाम् । स कथयति सात् प्रथमे प्रहरे रात्रेः ॥ * पैशाचिकी भाषा,
॥ ६७॥
Page #139
--------------------------------------------------------------------------
________________
अत्रान्तरे पश्यति स्म जातनिद्राक्षयो नृपः । कर व्यापारयन्तं तं देव्या वक्षोरुहोपरि ॥९३ ॥ ततः कोपपरीताको दथ्यौ किं मारयाम्यमुम् । अथवा सबलो नैष शक्यो मारयितुं मया ॥ ९४ ॥ अमुं केनाऽप्युपायेन मारयिष्यामि निश्चितम् । इति सञ्चिन्त्य तस्थौ स सनिद्राऽवस्थया तया ॥ ९५ ।। वादितोऽथादिमो यामोरजन्या घटिकागृहे । वत्सराजं विमुच्याऽऽत्मस्थाने सोऽगानिजालयम्।। ९६॥ जजल्प भूपतिः कोज स्थाने प्राहरिकोऽस्ति भो! । सोऽवद् वत्सराजोऽहं तिष्ठामि तव सेवकः ॥ ९७॥ उवाच भूपतिर्भूयः किमेकं प्रेषणं मम । करिष्यसीति सोऽवोचदादेशं देहिं सत्वरम् ॥ ९८ ॥ राजा प्रोवाच यद्येवं भद्राऽदेशस्तवैप भोः ! । यद् भ्रातुर्देवराजस्य शीर्ष छित्त्वा समानय ॥ ९९ ॥ तथेत्याज्ञां गृहीत्वाऽसौ निर्ययौ वासमन्दिराद । दध्यौ च देवराजस्याऽतीव क्रुद्धो महीपतिः ॥ १० ॥ तनुदारधनद्रोहैः कोपो ह्येवंविधो भवेत् । एकोऽपि सम्भवत्येषां मध्याद् बन्धोर्न मे तनौ ॥ १०१ ॥ यतः- .
, . .. ये भवन्त्युत्तमा लोके स्वप्रकृत्यैव ते ध्रुवम् । अप्यगीकुर्वते मृत्युं प्रपद्यन्ते न चोत्पथम् ॥१०२ ॥ भीता जनापवादस्य ये भवन्ति जितेन्द्रियाः। अकार्य नैव कुर्वन्ति ते महामुनयो यथा ॥१०३ ॥ कुविज्ञातं कुदृष्टं वा कुश्रुतं कुपरीक्षितम् । नूनमेतद् भावि कार्य तत्कर्तव्यं मया कथम् ? ॥ १०४॥
Page #140
--------------------------------------------------------------------------
________________
चतुर्यः
शान्तिनाथचरित्रम् ॥६८॥
हुं ज्ञातमथवा कालविलम्ब प्रकरोम्यहम् । अशुभस्य निरासाय स एव कथितो बुधैः ॥१०५॥ चिन्तयित्वेति भूपस्य समागत्य च सन्निधौ । स ऊचेऽद्यापि जागति देवराजो महीपते ! ॥ १०६॥ जाग्रन शक्यते हन्तुं केनाऽप्येष महाभुजः । तमहं मारयिष्यामि जातनिद्राभरं पुनः ॥१०७॥ एवं भवतु राक्षेति प्रपन्ने सोजदत पुनः । यूयं विनिद्रा मे काश्चित् कथां कथयत प्रभो! ॥१८॥ अथवा कथ्यमानां तां यूयं शृणुत सोधमाः । इयं हि निर्विनोदानां क्षयं याति न यामिनी ॥१.९॥ त्वमेवाऽख्याहि भो! भद्रेत्यादिष्टः पृथिवीभूजा। ततथाऽऽख्यातुमारेभे वत्सराजः कथामिमाम् ॥ ११०॥
बहुलोकसमायुक्तं मुक्तमीतिभयादिभिः । अस्तीह पाटलीपुत्रं युक्तं भूपशतैः पुरम् ॥१११॥ तत्राऽभूत् पृथिवीराजो राजा शत्रुविनाशकृत् । भूमिमण्डलविख्यातो धार्मिको विनयी नयी ॥ ११२॥ विनयादिगुणाऽऽधारा सुविचारा मनोहरा । आसीद् रत्या समाकारा सुतारा तस्य वल्लभा ॥११३ ॥ उदारो निर्मलाऽऽचारः सुविचारो दयापरः । रत्नसारोऽमिधानेन तत्र श्रेष्ठिवरोऽभवत् ॥११४ ॥ अनवद्यक्रियाऽऽसक्ता भक्ता देवगुरुवलम् । सलज्जा रज्जुकानाम्नी तस्याऽभूद् गृहिणी वरा ॥ ११५॥ धनदत्तस्तयोः पुत्रः पवित्रः शुभकर्मणा । कलाकलापसंयुक्तो विमुक्तो व्यसनादिभिः ॥११६ ॥ सोऽन्यदा कृतभृङ्गारो मित्रवान्धवसंयुतः । निर्गत्य मन्दिराद् गन्तुं प्रवृत्तोऽर्थेन केनचित् ॥ ११७ ॥ १ विनाशाय ।
me
॥ ६८॥
P
Page #141
--------------------------------------------------------------------------
________________
तं दृष्ट्वा कश्चिदित्यूचे धन्योऽसौ श्रेष्ठिनन्दनः । य एवंविधसामग्र्या स्वेच्छया विलसत्यहो ॥ ११८॥ सोऽन्येन भणितो मुग्ध ! किमस्य त्वं प्रशंससि। यः पित्रोपार्जितां लक्ष्मी भुङ्क्तेकापुरुषक्रियः॥ ११९ ॥ प्रशंसायाः स योग्योञ यो द्रव्योपार्जने रतः । त्यागभोगपरो यश्च लोकमध्ये विजृम्भते ॥१२० ॥ तच्छ्रुत्वा श्रेष्ठिपुत्रोऽसौ चिन्तयामास चेतसि । अमुनेापरेणाऽपि जल्पितं मे हितं वचः ॥ १२१ ॥ ततो देशान्तरे गत्वा समुपायं धन धनम् । तत् सर्व साधयिष्यामि यदनेन विभापितम् ॥ १२२ ॥ स्ववितर्कोऽथ मित्राणामग्रे तेन निवेदितः। प्रशंसितश्च तैस्तस्याऽभिप्रायः प्रियवादिभिः ॥१२३ ॥ लगित्वा पादयोः सोऽथ जगाद जनकं मया । अर्थार्जनकृते गम्यं परदेशे त्वदाज्ञया ॥१२४॥ वज्राऽऽहत इस श्रेष्ठी दुःखितस्तमभापत । अर्थस्ते विद्यते वत्स ! त्यागभोगक्षमो बहुः ॥१२५ ॥ तेनैव साधनीयानि सर्वकार्याणि निश्चितम् । प्राणसन्देहकरणे गम्यं देशान्तरे न हि ॥१२६ ॥ पुनरप्यवदत् पुत्रस्तात ! लक्ष्मीस्त्वयाऽर्जिता । जननीव न मे भोक्तं युज्यते शैशवाहते ॥१२७॥ अत्याग्रहपरं ज्ञात्वा विससर्ज पिताऽपि तम् । ततोऽसौ यानसामग्रीमखिलां प्रगुणां व्यधात् ।। १२८ ॥ ससहायः सपाथेयः समादाय क्रयाणकम् । विदधे सार्थसंयुक्तः स शुमेऽति प्रयाणकम् ॥१२९ ॥ कृत्वाऽनुगमनं तस्य किञ्चिदध्वानमञ्जसा । श्रेष्ठी निवर्तमानोऽथ शिक्षामेवंविधामदात् ॥१३॥
१ ऋते विना।
Page #142
--------------------------------------------------------------------------
________________
शान्तिनावचरित्रम्
चतुर्थः प्रस्ताव
त्यागिना कपणेनेव निर्धणेन दयालना । विदेशगेन भवता भाव्यं शूरतरेण च ॥१३१॥ सर्वथाऽलब्धमध्यस्त्वं भूया वत्स ! ममाऽऽज्ञया । शिक्षा दत्त्वेति वलितःश्रेष्ठीस प्रचचाल च ॥ १३२ ॥ आगच्छाजाच्छ भो! अत्र तिष्ठोत्तिष्ठ व्रज द्रुतम् । इत्यादिवाक्यतुमुलः सार्थमध्ये तदाऽभवत् ॥ १३३ ॥ श्रीपरं नगरं प्राप्तस्तत्र चोपसरोवरम् । सार्थोऽस्थात् सार्थनाथस्तु रम्ये पटकुटीतटे. ॥१३४॥ तदैकः कम्पमानाङ्गो भयात् चञ्चललोचनः । पुरुषः शरणं कश्चिद् धनदत्तमुपाश्रितः ॥१३५॥ तेनैवं भणितः सोऽथ मा भैपीस्त्वं कुतोऽपि भोः ! । महत्यद्याऽपराधेऽपि मत्समीपमुपागतः ॥ १३६ ॥ अत्रान्तरे हत हतेति वदन्त उदायुधाः । आरक्षकनरा एत्य सार्थवाहूमदोऽवदन ॥१३७ ॥ दासोऽयं नरनाथस्य तस्याऽऽभरणमुत्तमम् । गृहीत्वा हारयामास द्यूतकारस्य सन्निधौ ॥१३८ । तद् विलोक्य महीभर्तुरस्माभिः प्रतिपादितम् । तेनापि वध्य आदिष्टो द्रोहकारीति रोषतः ॥ १३९ ॥ ततो दयाप्रपन्नेन मन्त्रिणेत्युदितो नृपः । गुप्तौ तिष्ठत्वसौ तावद् यावन्नाऽऽभरणागमः ॥१४ ॥ ततः कारागृहे क्षिप्तो रजन्याः प्रहरेऽन्तिमे। भक्त्वा तदाऽरक्षकं च हत्वाऽप्येष विनिर्ययौ ॥१४१॥ विज्ञाय वयमप्यस्य पृष्ठे शीघ्रं प्रधाविताः । एषोऽस्य सरसः प्रत्यासन्ने गूढवनेऽविशत् . ॥१४२ ॥ ततोऽधुना विनिर्गत्य प्रविष्टः शरणे तव । तदयं मुच्यतां राजापथ्यकारी महामते ! ॥१४३ ॥
१. निवेदितम् । २. राज्ञोऽहितकारी.
Page #143
--------------------------------------------------------------------------
________________
१४७ ॥
॥
॥
उवाच सार्थवाहोऽपि यद्यप्येवं तथाऽपि भोः ! । सतां नार्पयितुं युक्तः कदाऽपि शरणाऽऽगतः ॥ १४४ ॥ आरक्षका वदन्ति स्म राजादेशकरा वयम् । सोऽवदत् तर्हि राजानं गत्वा विज्ञपयाम्यहम् ॥ १४५ ॥ एवमस्त्विति तैरुक्ते सोऽगात् नृपतिसन्निधौ । तस्य रत्नाऽऽवलीं चैकां महामूल्यामढौकयत् ॥ १४६ ॥ राज्ञा सोऽभाणि सार्थेश ! कुत आगमनं तव । तेनापि कथितस्तस्य वृत्तान्तश्च सविस्तरः ॥ इति चोक्तं महाराज ! लब्धमाभरणं यदि । तदसौ मुच्यतां मेऽद्य तस्करः शरणागतः राजा प्रोवाच लब्धेऽपि भूपणे वधमर्हति । यद्यप्येष तथाऽप्यद्य मुक्तः प्रार्थनया तव महाप्रसाद इत्युक्त्वा निजस्थानमगादसौ । आरक्षकनरास्ते च राजदूतेन वारिताः भोजनं कारयित्वाऽथ तस्करोऽप्यात्मना सह । इत्युक्तो धनदत्तेन मैवं कार्षीद् भवान् पुनः सोऽवदद् विनिवृत्तोऽस्मि चौर्यात् सार्थेश ! संप्रति । करिष्यामि व्रतं किञ्चिद्धितं स्वस्य प्रियाय अन्यच्च साधुना दत्तो भूतनिग्रहकारकः । मन्त्रः सप्रत्ययो मेऽस्ति ग्राह्योऽवश्यमसौ त्वया जगृहे प्रार्थनाभङ्गभीरुणा सार्थपेन सः । तस्करोऽपि तमापृच्छय ययौ स्वेप्सितहेतवे दत्तं प्रयाणकं शीघ्रं धनदत्तेन चाग्रतः । गच्छन् क्रमेण संप्राप्तोऽटवीं कादम्बरीमसौ एकस्याश्च महानद्या रोधस्यावासितोऽथ सः । तत्र प्रकर्तुमारब्धा सामग्री भोजनादिका अत्रान्तरे च सार्थेशो व्याधमेकं ददर्श सः । कृष्णरक्तेक्षणं चापबाणव्यापृतपाणिकम्
ते
॥
॥
१५० ॥
१५१ ॥
१५२ ॥
॥
१५३ ॥
॥ १५४ ॥
१४८ ॥
१४९ ॥
॥
॥ १५५ ॥
॥ १५६ ॥ ॥ १५७ ॥
Page #144
--------------------------------------------------------------------------
________________
शान्तिना
चतुर्थः
प्रस्ताना
थचरित्रम् ॥ ७ ॥
सारमेयसमायुक्तं रुदन्तं च सुदुःखितम् । किमेतदिति तं दृष्ट्वा पप्रच्छ च कृताग्रहः ॥१५८ ॥ सोऽवोचत् शृणु भो भद्र ! मम दुःखस्य कारणम् । इहाऽस्ति पर्वते भिल्लपल्ली गिरिकुडङ्गिका ॥ १५९ ॥ तत्र पल्लीपतिः शूरो विख्यातः सर्वभूभुजाम् । सिंहचण्डोऽभिधानेन प्रचण्डो रणकर्मणि ॥१६॥ तस्य सिंहवती भार्या जीवितादपि वल्लभा । वर्तते प्राणसन्देहे सा भूतग्रहपीडया ॥१६१॥ पल्लिनाथोऽपि नः स्वामी वियोगेऽस्या मरिष्यति । एतेन कारणेनाहं दुःखितो भद्र! रोदिमि ॥ १६२॥ सार्थवाहस्ततोऽवादीदेकवारमहं दृशा । पश्यामि तां यतो मेऽस्ति मन्त्रो भूतग्रहापहः ॥१६३ ॥ तेनाऽथ पल्लिनाथस्याऽचख्ये तत्सोऽपि सत्वरम् । प्रेयसी तां समादाय तत्समीपमुपाययौ ॥१६४ ॥ विलोक्य सार्थवाहोऽपि कृत्वा च सकला(ला)कृतिम् । मन्त्रजापविधानेन निर्दोषां विचकार ताम् ॥ १६५॥ जीवदानोपकारं तं कृत्वा पल्लीपतिः स तु । विसृष्टः सार्थवाहेन स्वपल्ली पुनरप्यगात् ॥१६६ ।। चलितो धनदत्तोऽपि ततः स्थानात शनैः शनैः । वेलाकूलगतं पाप गम्भीराख्यं पुरं वरम् ॥ १६७॥ कृत्वा निवेशं सार्थस्य तस्थुपस्तत्र पत्तने । न मनोवाञ्छितो लाभो बभूवाऽस्य कथञ्चन ॥१६८॥ ततोऽसौ चिन्तयामास पाश्चात्यग्रहरे निशः । अर्जयिष्याम्यहं वित्तमागाह्य सरितां पतिम् ॥१६९ ॥ इति चिन्तापरस्यास्य विगता सा विभावरी । ततश्चोत्याय शय्याया वेलाकूलमियाय सा ॥ १७० ॥ रङ्गन्तरङ्गमालाभिरभ्युत्थान इवोत्थितम् । विधिज्ञः पूजयामास सार्थवाहः सरित्पतिम् ॥१७१॥
Page #145
--------------------------------------------------------------------------
________________
EXEXERCISEXSSXXEXXXXXXXXXXX
महद्गुणगणाऽऽधारं धीवराऽध्यासितं तथा । सार्य सितपटीस्फीतं संसाराम्बुधितारकम् ॥१७२ ॥ देवताऽधिष्ठितं जैनवाक्यवन्नैगमान्वितम् । तत्रैकं स्वीकृतं तेन यानं द्रव्येण सुन्दरम् ॥१७३॥ तत्र संक्रामितं माण्डं योग्य देशान्तरस्य यत् । आरूढच स्वयं श्रेष्ठिसुतो वेलासमागमे ॥१७४ ॥ (युग्मम) ततोऽनुकूलपवनप्रेरितं गुरुरंहसा । ययौ महासमुद्रे तदतीत्य बहुयोजनीम्
॥१७५॥ गृहीताऽऽम्रफलं वक्त्रे समायान्तं विहायसा । ददर्शकमथान्येद्य राजकीरमसौ पुरः ॥१७६॥ परिश्रमवशादेनं पतन्तं वारिधेर्जले । धारयित्वाऽत्मनः पार्श्वे धीवरैरानिनाय च ॥१७७॥ जलवाताऽऽदिदानेन स्वस्थीभूतः क्षणेन सः । मुक्त्वा चञ्चपटादाम्रफलं कीरखरोत्रदत् ॥१७८ ॥ सार्थाधिनाथ ! ते नवोपकर्त शक्यते मया । जीवितव्यप्रदानं यत् त्वया चक्रे ममाऽधुना ॥१७९ ॥ जीवितं ददता मेऽद्य साधो ! जीवापितौ त्वया । मद्दत्तजीवनावन्धौ वृद्धौ मत्पितरावपि ॥१८॥ ततः किमुपकुर्वेऽहं तवाऽनुल्योपकारिणः । तथाऽप्येतत् मयाऽऽनीतं फलं चूतस्य गृह्यताम् ॥१८१॥ सार्थवाहोऽब्रवीद् भद्र ! किमेतेन करोम्यहम् । भक्ष त्वमेव यच्छामि भक्ष्यमप्यन्यदात्मनः ॥१८२॥ शुकः प्रोवाच सार्थेश ! सुदुष्पापमिदं फलम् । अनेकगुणकारि स्यात् श्रूयतामत्र कारणम् ॥१८३ ।।
अस्त्यत्र भारते वर्षे विन्ध्यो नाम महीधरः । गजेन्द्रभग्नदेवगन्धव्याप्तदिगन्तरः ॥१८४॥ १ द्रव्यसहितं पक्षेऽर्थसहितम् | २ नैगमा वणिज: पक्षे नयाः।
Page #146
--------------------------------------------------------------------------
________________
शान्तिना
थचरित्रम ॥ ७१ ॥
प्रसिद्धा विद्यते विन्ध्याटवी तस्य समीपगा । तत्रैकस्मिन् द्रुमे कीरमिथुनं मञ्जुभाषकम् तयोः सूनुरहं तौ चानेडमूको बभूवतुः । वृद्धत्वाच्च तयोर्भक्ष्यमानीय प्रददाम्यहम् अन्येद्युरटवी प्रान्तवने चूतद्रुमे वरे । यावदस्मि समारूढस्तावत् तत्र समाययौ सुसाधुयुगलं तच्च कृत्वा दिगवलोकनम् । निःशङ्कं विजनत्वेन वार्तामेवंविधां व्यधात् अस्ति मध्ये समुद्रस्य पादे शैलस्य कस्यचित् । प्ररूढः सहकाराख्यः सद्वृक्षः सफलः सदा तस्यैकमपि यो नाति फलं तस्य शरीरतः । नश्यन्ति व्याधयः सर्वेऽपमृत्युश्च जरा तथा सौभाग्यमतुलं रूपं दीप्तिः कान्तिश्च जायते । सत्फले मक्षिते तस्मिन्नेकवारमपि स्फुटम् तदाकर्ण्य मयाऽचिन्ति सत्यमेतन्न संशयः । यद् जायते मुनीन्द्राणां प्रलयेऽप्यन्यथा न गीः ततस्तत्फलमानीय पितृभ्यां प्रददाम्यहम् । येनैतौ तरुणावस्थौ जायेते च सुचक्षुषौ चिन्तयित्वेति सार्थेश ! गत्वा तत्र मयाद्भुतम् । फलमेतत् समानीतं तदिदं भद्र ! गृह्यताम् ॥ १९४ ॥ अहमन्यत् समानीय पित्रोर्दास्यामि तत्फलम् । भवता ग्राह्यमेवेदं ममानुग्रहहेतवे ततश्च सार्थवाहेन विस्मयोत्फुल्लचक्षुषा । जगृहे तत्फलं कीरोऽप्युत्पपात नभस्तले बहूनामुपकाराय देयं कस्यापि भूपतेः । फलमेतदिति ध्यात्वा गोपितं सार्थपेन तत् परकूलमथान्येद्युः प्राप्तं प्रवहणं ततः । दत्त्वाऽऽवासं गृहीत्वा चोपायनं श्रेष्ठिनन्दनः
॥
१९३ ॥
॥
१९५ ॥
॥
१९६ ॥
॥ १९७ ॥
॥ १९८ ॥
।। १८५ ।।
॥ १८६ ॥
॥ १८७ ॥
॥
॥
॥
॥
॥
१८८ ॥ युग्मम् )
१८९ ॥
१९० ॥
१९१ ॥
९९२ ॥
चतुर्थः
प्रस्तावः
॥ ७१ ॥
Page #147
--------------------------------------------------------------------------
________________
ययौ भूमिपतेः पार्श्वे दौकयित्वाऽथ प्रामृतम् । तत्फलं चार्पयामास परमार्थ निवेद्य तम् ॥१९९ ॥ (युग्मम्) परितुष्टो मुमोचाऽथ शुल्कमस्याऽखिलं नृपः । महाप्रसाद इत्युक्त्वा निजावासमगादसौ ॥२०॥ विक्रीयाधिकलामेन भाण्डमादाय चापरम् । वलिला च स संप्राप्तो गम्भीराख्यं पुरं ततः ॥ २०१॥ ततश्च प्रस्थितःप्राप्तोष्टवीं कादम्बरीं क्रमात । दत्त्वावासंच तत्राऽस्थात् सलोकः सार्थवाहकः॥ २०२॥ सुप्तेषु सार्थलोकेषु रात्रौ भाण्डोत्कराद् बहिः । यामिकेषु च जाग्रत्सु यद्जातं तद् निगद्यते ॥ २०३॥ परिगलितायां रात्रौ लोकः शुश्रुविरे खराः। स्वरा हतहतेत्युच्चैस्तुमुलेन विमिश्रिताः ॥२०४॥ उत्तालकाहलारावहक्कानादभयङ्करी । कुतोऽप्यतर्किता तत्र भिल्लघाटी समाययौ ॥२०५॥ सन्नह्य सार्थवाहोऽपि सुभटैः परिवारितः । योद्धं सह तया वीरो डुढौके मिल्लसेनया ॥२०६ ॥ पपाठात्रान्तरे वन्दी गुरुदेवार्चने रतः । निर्भयः स्थिरचित्तश्च धनदत्तो जयत्वयम् ॥२०७॥ निशम्य धनदत्तस्याभिधां पूर्वोपकारिणः । साशङ्क: पल्लिनाथोऽथ रणात् पत्तीन न्यवारयत् ॥२०८॥ ज्ञात्वा नरप्रयोगेण तदुदन्तं यथातथम् । विशस्त्रो मिलनायास्य सन्मुखश्च ययावसों ॥२०९॥ धनदत्तोऽपि विज्ञाय तमुवाच ससंभ्रमः । अहो कृतज्ञतासार ! स्वागतं स्वागतं तव. ॥२१ ॥ तावन्योऽन्य समाश्लिष्य निविष्टावचितासने । ताम्बूलाद्यौचितीं तस्य सार्थनाथश्चकार सः ॥२११॥
१ काहला श्रृङ्गाकारं वाद्यम्।
,
"
Page #148
--------------------------------------------------------------------------
________________
शान्तिनाधचरित्रम्
॥ ७२ ॥
॥ २१२ ॥
२१३ ॥
॥
क्षेमवार्ता च पप्रच्छ प्रत्यूचे सोऽपि किं मम । पृच्छ्यते येन विदधे प्रतिपत्तिस्तवेदृशी इत्याद्यात्मानमा निन्द्याऽभ्यर्थयित्वाज्य सार्थपम् । आनिनाय निजां पत्नीं पल्लिनाथोऽप्युदारधीः ॥ स्नानभोजनवत्राद्यैस्तं संमान्य गृहागतम् । मुक्ताफलेभदन्ताद्यैः पूजयामास चादरात् ततस्तं समनुज्ञाप्य गृहीत्वा चस्तु किश्वन । स सार्थसहितोऽचालीत् प्राप्तश्च नगरं निजम् ॥ प्रविश्य धनदत्तोऽथ महाभृत्या निजे पुरे । स्वभुजोपात्तवित्तेन विदधे स्वविचिन्तितम् ॥ २१६ ॥ ददौ दानानि पात्रेषु सच्चक्रे च सुवासिनीः । गुरूंश्च पूजयामासा कारयत् कीर्त्तनानि च चकार चाऽन्यदप्याऽऽत्मचिन्तितं विभवेन सः । तत्र सूरिवरोऽन्येयुर्विहरन् कञ्चिदाययौ तत्पार्श्वे धर्ममाकर्ण्य स भूत्वा च महाव्रती । प्राप्तः क्रमेण निष्कर्मा निर्वाणपदमव्ययम्
२१७ ॥ ॥ २१८ ॥
॥
२१४ ॥
२१५ ॥
॥ २१९ ॥
॥ २२० ॥
॥
२२१ ॥
॥
२२२ ॥
इतो नरवरेन्द्रोऽसौ गृहीत्वाऽम्रफलं करे । दध्यौ स्वयं प्राशितेन किमेतेन भवेद्गुणः चहुशः कारयित्वाऽहमनून्याम्रफलानि चेत् । करोमि बहु लोकस्योपकारं तद् महान् गुणः ध्यात्वेत्याज्ञापयामास भूपतिः पुरुषान् निजान् । वप्यमेतत् शुभस्थाने सहकारो भवेद् यथा ततस्तैर्विदधे पुम्भिर्गत्वाऽऽरामे मनोहरे । पाय्यते स्म जलं कृत्वाऽऽलवालं परितोऽस्य हि तैश्च संप्रीणितो राजा पूर्व तस्याङ्कुरोद्गमे । प्रत्यहं नवनवर्द्धिकथनाच्च ततः परम् क्रमाच्चूतवरे तस्मिन् पुष्पिते फलिते सति । यत्नतो रक्षणीयोऽयमिति राज्ञोदिता नराः
॥
२२३ ॥
॥ २२४ ॥
॥ २२५ ॥
चतुर्थः ।
प्रस्तावः
॥ ७२ ॥
Page #149
--------------------------------------------------------------------------
________________
एवं तेषु प्रकुर्वत्सु प्रसुप्तेष्वन्यदा निधि । तस्य दैववशेनैक पतति स्म फलं भुवि ॥२२६ ॥ तत् प्रभाते महीभर्तुः प्रहृष्टैस्तैः समर्पितम् । देयं पात्राय कस्मैचिदिदं चिन्तयति स्म सः ॥ २२७ ।। आकार्य देवशर्माणं चतुर्वेदधरं द्विजम् । अमृताम्रफलं तस्मै भक्तिपूर्व ददौ नृपः ॥२२८॥ सोऽप्यात्ममन्दिरे गत्वा पूजयित्वा च देवताम् । तत्फलं भक्षयामास पञ्चत्वं समवाप च ॥ २२९॥ केनचित् कथितं राज्ञो देवशर्माऽद्य स द्विजः। अमृताम्रफले तस्मिन् भक्षिते संस्थितः प्रभो ! ॥ २३०॥ सखेदोऽथ नृपः स्माहाहो ! अकार्य कृतं मया । पातकं ब्रह्महत्याया धर्मभ्रान्त्या यदर्जितम् ॥ २३१ ॥ नूनमेप विपस्याम्रः प्रपञ्च प्रविधाय तम् । मम प्राणविनाशाय केनचित् प्रेषितोरिणा ॥२३२॥ ततोऽयं स्त्रयमुप्तोऽपि पालितोऽपि प्रयत्नतः । बहुप्राणिक्ष यङ्कारी छिद्यतां विषपादपः ॥२३३ ।। राजादिष्टनास्तीक्ष्णकुठारस्तरुपुङ्गवम् । मूलादपि तमाच्छिद्य पातयन्ति स्म भूतले ॥२३४॥ निर्विण्णा जीवितस्याथ कुष्टरोगार्दिता जनाः। धावितास्तत् समाकर्ण्य विपाऽऽम्रतरुच्छेदनम् ॥ २३५॥ कश्चित् पक्कमपक्कं वार्द्धपक्कं चाऽपरस्तथा । तत्फलं भक्षयामास सुखमृत्युविधित्सया ॥२३६॥ तस्मिन् चूतफले चाऽत्ते गतरोगव्यथाः क्षणात् । अभूवंस्ते जनाः सर्वेऽप्यमृताशनसन्निभाः ॥ २३७ ॥ दृष्ट्वा तान् विस्मयाऽऽपन्नः चिन्तयामास भूपतिः। अहो! असदृशफलं फलमस्य तरोः कथम् ॥ २३८ ॥ १मृतः।
१३
Page #150
--------------------------------------------------------------------------
________________
शान्तिना
चतुर्थः
प्रस्ताव
यचरित्रम् ॥७३॥
गतरोगाः कामतुल्याः संजाता यद्यमी जनाः । यजनादिक्रियासक्तः तद्विप्रोऽयं कथं मृतः ॥ २३९॥ व्याहार्यारक्षकान तस्यापृच्छत् तच्चूतजं फलम् ।त्रोटितं किं नुयुष्माभिहीतं वा घरागतम् ॥ २४ ॥ तैश्च सत्ये समाख्याते राजोचेऽहिविपेण तत् । लिप्तं भावि बहिस्तेन विपन्नोऽयं द्विजोत्तमः ॥ २४१ ॥ अकार्यमविचार्येदं धिगहो विहितं मया । यदसौ छेदितो रोपात तरुराजः सुधामयः ॥ २४२ ॥ अकारि सहसा कार्य यथा तेनापरीक्षितम् । तथाऽन्येन न कर्तव्यं महीनाथ ! सुखैपिणा ॥२४३ ॥ द्वितीयप्रहरेऽतीते निशाया वासमन्दिरात । निर्ययो वत्सराजोत्र प्रविष्टस्तस्य चानुजः ॥२४४ ॥ राजा दध्यावहो रम्यं कथयित्वा कथानकम् । मम कार्यमकृत्वैव वत्सराजो गृहं ययौ ॥२४५ ॥
अथ दुर्लभराजोऽपि तथैव भणितोऽमुना। प्रत्युत्पन्नमतिः सोऽपि गत्वाऽऽगत्याऽवदद् नृपम् ॥ २४६॥ नृनाथ जागृतोऽद्यापितौ द्वावपि ममाग्रजौ। तत् प्रतीक्ष्य क्षण कार्य साधयिष्यामि तावकम् ॥ २४७॥ राजन् ! कथानकं किञ्चित् कथ्यतांशृणुताऽथवा । इत्युक्ते तेन सोवादीव त्वमप्याख्याहि तन्मम ।। २४८॥ उवाच दुलमोऽचैव भरते पर्वतोपरि । अस्ति राजपुरं नाम पुरमद्भुतसङ्कलम्
॥२४९॥ तत्राऽमूद् भूपतिः शत्रुदमनोऽन्वर्थसंज्ञितः । रत्नमालाभिधा तस्य महिषी प्रेमसंयुता ॥२५० ॥ अन्यदा तस्य भूपस्याऽऽस्थानाऽऽसीनस्य सन्निधौ।आजगाम बटुः कश्चित् प्रतीहारनिवेदितः ॥ २५१ ।। व्यग्रत्वाद् भूपतेः सोऽथोपविश्याऽस्थाद् नृपस्तथा। विसृज्याऽऽस्थानमभ्यगास्नाने चक्रे श्रमापहे ॥ २५२ ।।
॥ ७३॥
Page #151
--------------------------------------------------------------------------
________________
देवपूजनवेलायामथ तस्य महीपतेः । सपुष्पबटुरागत्य प्रसूनानि समार्पयत
॥ २५३॥ कस्त्वं भद्रेति राज्ञोक्तः सोज्वोचद् यज्ञदत्तमः । अहं शुभकरो नाम्ना विप्रोऽरिष्टपुरस्थितिः ॥ २५४॥ निजगेहाद् विनिर्गत्य देशदर्शनकौतुकी । भ्रमन्निह समायातः समीपे ते महीपते ! ॥२५५ ॥ प्रकृत्या विनयी सोऽथ स्वसमीपे महीभुजा । स्थापितस्तत्र निश्चिन्तस्तस्थौ चापि शुभङ्करः ॥ २५६॥ शरस्त्यागी प्रियाभाषी कृतज्ञो दृढसौहृदः। विज्ञानी स्वामिभक्तश्च स सर्वगुणमन्दिरम् ॥२५७॥ अतिगौरवितो राज्ञा शुद्धान्तादिष्ववारितः । सर्वत्रास्खलितो जज्ञे गुणवान स शुभङ्करः ॥२५८ ॥ अन्यदा नगरस्याऽस्य समीपे हरिराययौ । व्याध एकः समागत्य तमाचख्यौ महीपतिम् ॥२५९॥ सेनया चतुरङ्गिण्या संयुक्तः सशुभङ्करः । वधार्थ मृगराजस्य निर्ययौ नगराद् नृपः ॥२६०॥ ज्ञात्वाऽथ व्याघवचनात् तं सिहं वनमध्यगम्। वनार्वाक स्थापयामास सैनिकानखिलान्नृपः॥२६१॥ स्वयं तु स्वयशकाक्षी समारूढः स कुअरम् । ययौ केशरिणः पार्थे शुभकरपुरस्सरः ॥२६२ ॥ विदारिताञ्जस्यः सिहोपि रक्काक्षः सज्जितक्रमः । उत्पपाताबरतले प्रपित्सुः पार्थिवोपरि ॥२६३ ॥ माभू मत्स्वामिनः पीडेति ध्यायन स शुभङ्करः।निपतन्तं जपाननं मुखे क्षिप्त्वाऽड शितम् ॥ २६४॥ राजोचेन त्वया साधु विदधेभोःशुभङ्कर!। मया जिघांसितःसिंहो यत् चापल्या हतोऽन्तरा॥२६५॥ न केवलं मृगारातिस्त्वयाऽयं निहतोऽद्य रे!। मध्ये सर्वनरेन्द्राणां मद्यशोऽपि हतं खलु ॥२६६॥
XXXXXXSRXXBXEXBEE33333REET
Page #152
--------------------------------------------------------------------------
________________
शान्तिनाथचरित्रम् ॥७४॥
चतुर्थः प्रस्ताव
सोऽवदद् भवतां देव ! देहापायाभिशङ्कया । मया व्यापादितोऽयं हि न तु स्वोत्कर्षकाम्यया ॥ २६७ ॥ अन्यच निहतः स्वामिप्रभावेणैव केशरी । अन्यथा शृणिमात्रेण कथमस्य निकृन्तनम् ॥२६८॥ कथयिष्यामि सैन्यानामग्रे यत् स्वामिना स्वयम् । हर्यक्षो निहतस्तव त्वं माप्रसाद व्यधामयि ॥ २६९ ॥ इदं कार्य तु प्रत्यक्षमावयोरेव तत् प्रभो ।। चतुष्कर्णस्य मन्त्रस्य नास्य भेदो भविष्यति ॥२७॥ राजा प्रोवाच योष मन्त्रो भावी स्फुटः सखे । तदा मे भविता लोकेप्लीकवादिकलङ्कता ॥ २७१ ॥ शुभङ्करोऽववीत किं न श्रुतमेतत् त्वया प्रभो ! । साधोः समर्पित गुह्यं सह तेनैव दह्यते ॥ २७२ ॥ ततस्तौ सिंहमादाय सैन्यमध्ये समागतौ । इति व्यावर्णयामास तदने च बटुः प्रभुम् ॥२७३ ॥ त्यजन्ति यस्य नादेन मदं मत्तद्विपा अपि । लीलया निहतः सोऽद्य स्वामिना नखरायुधः ॥२७४ ॥ ततश्च पत्तिसामन्ताः संजातामितसमदाः । शिरांसि धूनयन्तस्ते प्राशंसन् पौरुष प्रभोः ॥२७५ ॥ भर्तुर्जयमहे तेऽथ संप्राप्ता नगरान्तरे । सुवर्धापनकं चक्रुस्तूर्यनादपुरस्सरम्
॥२७६॥ महोत्सवमये तस्मिन्नतीते लघुवासरे । विसृज्याऽऽस्थानलोकं राट् ययौ देव्या निकेतनम् ॥ २७७॥ पप्रच्छ देवी नाथाय पुरे किं कश्चिदुत्सवः । वर्तते तूर्यनिघोषो यदयं श्रूयते महान्
यानवापा यदय श्रूयत महान् ॥ २७८ ।। राजा प्रोवाच हे देवि ! यन्मया निहतो हरिः । ततोऽयं विहितो भूपैर्वपिनमहोत्सवः ॥२७९ ॥ १ अपायो नाशः । २ सिंहः । ३ सिंहः ।
मा ७४॥
Page #153
--------------------------------------------------------------------------
________________
प्रत्यूचे सा पुन थोत्तमवंशोद्भवस्य ते । किमिदं युज्यते कर्तुं स्वस्यालीकप्रशंसनम् ? ॥२८० ॥ शुभकरेण बटुना सिंहो व्यापादितो यतः । संवर्द्धनमहोऽकारि यशोलुब्धेन तु त्वया ॥२८१ ॥ तच्छ्रुत्वा भूपतिः क्रुद्धो दध्यौ तस्य दुरात्मनः । पश्य दुश्चरितं कीदृक् स्फुटं मिथ्याऽभिभाषिणः॥ २८२॥ गुह्यं कस्यापि नाऽख्येयमित्युदित्वा पुरो मम । तदैव कथयामास देव्याः स्त्रोत्कर्पलम्पटः ॥ २८३ ॥ प्रच्छन्नं मारणीयोऽयं तन्मया मर्मभापकः । इति ध्यात्वाऽऽक्षकस्य शिक्षा तां प्रददौ नृपः ॥ २८४ ॥ तेन व्यापादितः सोऽथ निजगेहमुपागतः । सिद्धं तद् देव ! ते कार्य भर्तुश्चेति निवेदितम् ॥२८५ ॥ अन्यस्मिश्च दिने देवी पप्रच्छ जगतीपतिम् । शुभङ्करबटुर्नाथ ! दृश्यते नाऽधुना कथम् ? ॥२८६ ॥ चभाण भूपतिस्तस्य ग्राह्य नामापि न प्रिये ! । सोचेपराद्धं किं तेन तब देव ! महात्मना ॥ २८७ ॥ ततस्तद्विपये राज्ञा स्वाभिप्राये निवेदिते । तयोक्तं न ममाख्यातं तेनेदं सिंहमारणम् ॥२८८॥ कि तु दृष्टं मयैवेदं प्रासादे सप्तभूमिके | आरूढया कौतुकेन नाऽस्य दोषोऽत्र कश्चन ॥२८९ ॥ देव ! सत्यं समाख्याहि कि जीवति मृतोऽथ सः। इति पृष्टे तया भूपो भूयः सानुशयोऽवदत् ॥ २९॥ अकार्य हा ! मया देवि ! कृतमद्य महत्तरम् । यदसौ घातितः सर्वगुणरत्ननिधिटुः ॥२९१॥ नास्ति मत्सदृशः कश्चिदविमर्शितकारकः । कृतोपकारं निम्नस्तं कृतनोऽप्यहमेव हि ॥२९२ ॥ अभाणि देव्या रभसकृतानामिह कर्मणाम् । विपाको हुदये दाही स्यादाजन्मापि शल्यवत् ॥ २९३॥
Page #154
--------------------------------------------------------------------------
________________
राजन् ! रात्रेविनोदाय कथितेयं कथा मया । कथायाः परमार्थस्तु श्लोकयुग्मेन कथ्यते ॥ २९४ ।।
शान्तिनावचरित्रम् ॥ ७५॥
चतुर्थः प्रस्ताव:
तद्यथा
मक्तः सर्वगुणैर्युक्तो हतो येन शुभङ्करः । कृतघ्नो भूतले शत्रुदमनात कोऽपि नापरः ॥२९५ ॥ अकारणोत्पन्नरोपे हिंसा निदोपमानुपे । कार्या नरेण नो शत्रुदमनेन कृता यथा ॥२९६॥ आख्याय सत्कथामेतां गते यामे तृतीयके । रात्रेवुर्लभराजोऽपि समुत्थाय ययौ गृहम् ॥२९७ ॥ तत्रासीनमयो कीर्तिराज भूपतिरब्रवीत् । कार्यमेकं मामकीनं त्वया सेत्स्यति किन वा? ॥ २९८ ।। सोऽप्यवोचत न चेत् कार्य साधयिष्यामि ते विभो! तत् त्वामाराधयिष्यामि चलस्नेहमहं कथम् ॥ २९९ ॥ भ्रातुः शीर्षमानयेति भणितः सोऽथ भूभुजा । गतप्रत्यागतं कृत्वा किश्चिदूचे सुधीरिदम् ॥३०॥ शर्वर्याः प्रान्तकालत्वात् सर्वे जाग्रति यामिकाः। पुनः प्रस्तावे देवायं तवाऽऽदेशो विधास्यते ॥ ३०१॥ सोऽपि प्रस्तावनां कृत्वाऽनुज्ञातः पृथिवीभुजा। कथां कथयति स्मैनां तस्य मन्युविनाशिनीम् ॥ ३०२॥
इहाभूद् भरतक्षेत्रे महापुरपुरे नृपः । शत्रुञ्जयाभिधस्तस्य प्रियङ्करिति वल्लभा ॥३०३॥ अन्यदा नैगमः कश्चिद् जात्यमेकं तुरङ्गमम् । भूपतेढौँकयामास तस्य देशान्तरागतः ॥ ३०४ ॥ पृष्ठे पर्याणमाधाय तत्राऽऽरुह्य महीपतिः । वाहयामास वाहं तं गतिविज्ञानहेतवे ॥३०५॥ वेगात प्रधाविते तस्मिन् तस्य शिक्षाविपर्ययम् । सामन्तानां समाचख्यौ स वणिग् पूर्व विस्मृतम् ॥ ३०६॥
Page #155
--------------------------------------------------------------------------
________________
ततोऽश्वेषु समारुह्याऽऽदाय भक्ष्यजलादिकम् । गच्छन्तं तं महीपालमनुजग्मुः पदातयः ॥ ३०७॥ अथ वेगं निरुन्धाने पार्थिवे स तुरङ्गमः । तं जग्राह विशेषेण वैपरीत्येन शिक्षितः ॥३०८ ॥ आकुञ्चनेन वल्गायाः पाणिभ्यां रक्तमक्षरत् । भूपतिः सोऽथ निर्विष्णो मुमोच शिथिलामिमाम् ॥ ३०९॥ अश्वोऽप्यस्यां विमुक्तायां पदमात्रं चचाल न । ततो दुशिक्षित इति तं विवेद महीपतिः ॥३१०॥ तस्मादुत्तीर्य पर्याणमथाऽपनयति स सः । जातत्रोटस्तुरङ्गोऽपि पतित्वा भूतले मृतः ॥ ३११ ॥ मीमाटव्यामथो तस्यां दवदग्धवनान्तरे । तृष्णाक्षुधापीडिताङ्गो बभ्राम पृथिवीपतिः । वटमेकमथारुद्राक्षीद् दीर्घशाखं सुविस्तृतम् । श्रान्तो गत्वा शनैस्तस्य च्छायायां निपसाद सः ॥ ३१३ ॥ पार्थावलोकनं तेन कुर्वाणेन निरीक्षिताः। तरोस्तस्यैव शाखायाः पतन्तो जलबिन्दवः ॥३१४॥ ततः सोऽचिन्तयदिदं वकालोद्भवं जलम् । शाखारन्ध्रे स्थितमियत्कालं पतति संप्रति ॥३१५ ॥ पलाशभाजनं सोऽधः कृत्वा तत्र न्यवेशयत् । क्रमेण पूरितं तत् चेपनीलकलुपाम्बुना ॥३१६ ।। तद् गृहीत्वा नृपः पातुं यावदम्युद्यतोऽभवत् । तावत् तत्राध्ययौ पक्षी कश्चिदुत्तीय पादपात् ॥३१७॥ तद् नीरभाजनं तेन पातितं नृपतेः करात् । तथैव तरुशाखायां गत्वा तस्थौ च स स्वयम् ॥ ३१८॥ विलक्षो भूपतिर्भूयः कृत्वा पूर्ण जलस्य तत् । यावत् पास्यति तेनैवाउपाति तावद् विहायसा ॥ ३१९॥ ततः प्रकुपितो भूपो दध्यौ भूयः समेष्यति । यद्येप पक्षी दुष्टाऽऽत्मा मारणीयस्तदा मया ॥३२०॥
Page #156
--------------------------------------------------------------------------
________________
शान्तिनायचरित्रम्
|| 198 11
1
॥
॥
चिन्तयित्वेति जगृहे कशामेकेन पाणिना । जलार्थ स्थापयामास द्वितीयेन पुनः पुढीम् दध्यौ च विहगः सोऽथ कुपितोऽयं महीपतिः । चेत् पुढं पातयिष्यामि तद् मामेष हनिष्यति ॥ नो वेद् विषे निपीतेऽस्मिन् मरिष्यत्येष निश्चितम् । ततो वरं विपन्नोऽहं न त्वसौ लोकपालकः एवं विचिन्त्य भूयोऽपि पातितं तेन तत्करात् । कशाऽऽघातेन राज्ञा च पक्षीन्द्रोऽपि निपातितः पुनः प्रहृष्टचित्तेनास्थापि राज्ञा पुटोऽम्भसे । क्रमेण नीरकं तत् तु पतति स्माग्रतोऽग्रतः ततश्चोत्थाय भूपालः किमेतदिति शङ्कितः । यावद् व्यलोकयत् तावद् ददर्शाजगरं तरौ सोऽथ दध्यौ मुखादस्य सुतस्य गरलं किल । पतदेतदपास्यं चेदमरिष्यं तदा ध्रुवम् पश्याहो ! पक्षिणाऽनेन चेष्टामाविभ्रता सताम् । मम प्राणकृते प्राणास्तृणवत्कल्पिता निजाः हा ! वृथा कोपयुक्तेन परमार्थमजानता । मया निष्ठुरचित्तेन हतः पक्षिवरोऽसता इति खेदपरस्यास्य समेयुस्तत्र सैनिकाः । दृष्ट्वा स्वस्वामिनं ते च सद्यो सुमुदिरेतराम् नीराऽऽहाराऽऽदिभिः स्वस्थभूतोऽथ जगतीपतिः । पक्षिणं तं समादाय निजं पुरमथाऽऽययौ ॥ विधाय पक्षिदेहस्य दाहं चन्दनदारुभिः । दत्त्वा जलाञ्जलिं तस्य स आगाद् निजमन्दिरम् ॥ पृष्टो दुःखाssसनस्थोऽसौ तत्र सामन्तमन्त्रिभिः । प्रेतकार्य पक्षिणोऽपि कृतं स्वस्येव किं विभो ! ॥ ततो राजा निजां वार्ता यथावृत्तां न्यवेदयत् । पक्षिघातानुशयं च विसस्मार कदापि न
॥ ३२१ ॥
३२२ ॥
३२३ ॥
३२४ ॥
३२५ ॥
॥ ३२६ ॥
॥
३२७ ॥ || ३२८ ॥
॥ ३२९ ॥
॥
॥ ३३० ॥
३३१ ॥ ३३२ ॥ ३३३ ॥
॥ ३३४ ॥
चतुर्थः
प्रस्तावः
॥ ७६ ॥
Page #157
--------------------------------------------------------------------------
________________
यदेवमनुतापः स्यादविचारितकारिणाम् । ततो विचार्य कर्तव्यं कार्य सुन्दरखुद्धिमिः ॥३३५ ॥ कथयित्वा कथामेतां कीर्तिराजे स्थिते सति । प्रातस्तूर्यरखो जज्ञे पेटुर्मङ्गलपाठकाः ॥३३६ ॥ अथोत्याय ययौ कीर्तिराजोराजाऽप्यचिन्तयत्। हन्तैकचित्ताः सर्वेऽमी तद्न जातं ममेप्सितम् ॥ ३३७॥ दास्यानीतजलेनाथ प्रक्षाल्य वदनं नृपः । कृत्वा सुवेषमास्थानमण्डपे निपसाद सः ॥३३८॥ अत्रान्तरेऽलकन्यस्तकरद्वन्द्वः प्रसन्नवाक । एत्य विज्ञापयामास देवराजो महीपतिम् ॥३३९ ॥ यदि देवोऽनुजानाति किञ्चिद् विज्ञापयामि तत् । क्रुद्धेनाऽप्यमुनासोऽथाऽनुज्ञातः संज्ञया भ्रवः॥ ३४०॥ ततः पिशाचवचनश्रवणाऽऽदिकथाऽखिला | राज्ञोऽने कथिता तेन भयविस्मयकारिणी ॥३४१॥ आकृष्य वासभवनाद् द्विखण्डं तदहेवपुः। अदर्शि चास्य विद्वेपविपनाशनमेपजम् ॥३४२॥ राजाऽथ चिन्तयामास हा ! अनेन महात्मना । मम जीवितरक्षार्थ विहितं पश्य कीदृशम् ॥३४३ ।। असमीक्षितकारित्वात् परोपकृतिकार्यपि । विघातयितुमारब्धो मयाऽसावपि पाप्मना ।। ३४४॥ एतैश्च वत्सराजाद्यैः कथाऽऽख्यानविचक्षणः । तत् साधु विदधे यद् न निहतोऽयं नरोत्तमः ॥ ३४५॥ ऊचे च स्वपरीवारमेते सर्वगुणास्पदम् । कुलदेवतया दत्ता अपुत्रस्य सुता मम ॥ ३४६ ॥ ततोऽहं स्थापयिष्यामि देवराज महीपतिम् । कुमारं वत्सराजं च ग्रहीष्यामि व्रतं स्वयम् ॥ ३४७॥ एवमाकर्ण्य लोकेन प्रोक्तं देव ! प्रतीक्ष्यताम् । कालं कञ्चित् ततश्चान्त्यकाले कुर्या इदं खलु ॥ ३४८॥
manand
Page #158
--------------------------------------------------------------------------
________________
शान्तिनायचरित्रम ॥ ७७॥
चतुर्थः प्रस्तावः
राजा प्रोवाच मद्वश्या अदृष्टपलिता नृपाः। प्रतिपद्य व्रतं कृत्वा तपश्च सुगतिं गताः ॥३४९॥ अहं पुनरियत्कालं स्थितो राजघरं विना। इदानीं तु करिष्यामि निश्चयेन समीहितम् ॥ ३५०॥ ततो दैवज्ञनिर्दिष्टे सुमुहूर्ते महीपतिः। देवराज नृपं चक्रे कुमारं चापरं तथा ॥ ३५१ ॥ अन्येघुनन्दनवनोद्याने तत्र समाययौ । बहुशिष्यपरीवारः श्रीदत्त इति साधुराट् ॥ ३५२ ॥ उद्यानपालकेनास्य समाख्याते समागमे । ववन्दे परया भक्त्या गत्वा तं जगतीपतिः ॥ ३५३ ॥ उपविश्य यथास्थानं श्रुत्वा · सद्धर्मदेशनाम् । संप्राप्यावसरं सोऽथ पप्रच्छवं कृताञ्जलिः ॥ ३५४ ॥ प्रभो! प्रोक्तः पिशाचाभ्यां यदि नाम ममात्ययः । देवयोन्युदितस्यापि तस्याभूदत्ययः कथम् ॥ ३५५ ॥ सरिराख्यदहो राजन् ! गौरी नाम गृहास्तव । बभूव रूपसम्पन्ना वैश्यवंशसमुद्भवा ॥३५६ ॥ कमदोषेण केनापि जाता दौर्भाग्यदूषिता । संजज्ञे सा तवाऽनिष्टा दृष्टा दृष्टयाऽप्यसौख्यदा ॥ ३५७ ।। ततः सा जातवैराग्या गत्वा पितगृहे निजे। अज्ञानतपसात्मानं शोपयित्वा व्यपद्यत ।। ३५८ ॥ संप्राप्तव्यन्तरीभावा स्मृत्वा तं पूर्वमत्सरम् । अधिष्ठायौरगं कार्य प्रविष्टा सा तवालये ।। ३५९ ॥ कृत्वा पिशाचयो रूपं कुलदेवतया तव | ज्ञापितो देवराजोऽर्थममुं त्वत्क्षेमहेतवे ॥३६०॥ अचिन्त्या मानुपैर्दैवी शक्तिर्यद्यपि वर्त्तते । तथापि पौरुपं तेजः क्षम तल्लङ्घने यतः ॥ ३६१ ।। १ षष्ठीद्विवचनमिदम् ।
-
-
--
॥ ७७॥
-
-
Page #159
--------------------------------------------------------------------------
________________
महाविषधरः क्रूरो व्यन्तर्याधिष्ठितोऽपि सः। बलिना देवराजेन लीलयैव हतस्ततः ॥ ३६२ ॥ (युग्मम् ) सूरि विज्ञपयामास पुनर्नत्वाऽथ भूपतिः। भाग्योदयेन मुक्तोऽहममुष्माद् व्यसनात प्रभो ! ॥ ३६३ ॥ भाग्यमेव ततः कर्तुं युज्यतेऽतः परं मम । तद्देहि दैत्तसुव्रज्यां प्रव्रज्यां शुमदेहिनाम् ॥ ३६४ ॥ ततश्च सूरिणा सूत्रविधानेनैप दीक्षितः । महाव्रतानि चारोप्य शिक्षितः सङ्घसाक्षिकम् ॥ ३६५ ।। स चास्य कथयामास प्रतिबोधविधायकम् । ज्ञाताधर्मकथादिष्टं रम्यं भावि कथानकम् ॥ ३६६ ॥
प्रसिद्ध मगधे देशे पुरे राजगृहाभिधे । धनो नामाऽभवत् श्रेष्ठी लक्ष्म्या वैश्रवणोपमः ॥ ३६७ ॥ धारिणी गृहिणी तस्य सुतास्तत्कुक्षिसम्भवाः । पुरुषार्था इवाभूवन चत्वारस्तस्य विश्रुताः ॥ ३६८ ॥ प्रथमो धनपालाख्यो धनदेवो द्वितीयकः । धनगोपस्तृतीयश्च चतुर्थो धनरक्षितः ॥ ३६९ ।। उज्झिका भोगिका चैव धनिका रोहिणी तथा। तेषां भार्याः क्रमेणैताः चतस्रो जज्ञिरे शुमाः॥ ३७० ॥ सुप्तजागरितोऽन्येद्यः स श्रेष्ठी धनसंज्ञकः । यामिन्या: पश्चिमे यामे चिन्तां चक्रे निजौकसः ॥ ३७१ ॥ यथा सर्वगुणाऽऽधारः पुरुपैर्वर्तते गृहम् । गृहिण्याऽपि तथैवेदं विदुः शास्त्रविदो यतः ॥ ३७२ ॥ भुदक्ते गृहजने मुक्ते सुप्ते स्वपिति तत्र या । जागति प्रथमं चास्मात् सा गृहश्रीन गेहिनी ॥ ३७३ ॥ ततः परीक्ष्य जानामि स्वामिनी का भविष्यति ।मध्याद वधूनामेतासांगृहस्याधिगुणा मम ॥ ३७४ ॥ १ दत्ता सुव्रज्या सद्गतिर्यया ताम् ।
Page #160
--------------------------------------------------------------------------
________________
शान्तिनाथचरित्रम् ॥७८॥
प्रस्ताव
विचिन्त्येति समादेशं स्नुपाणां प्रददी प्रगे। सारा रसवती सर्वा प्रगुणीक्रियतामिति ॥३७५ ॥ तासां वधूनां स्वजनवर्ग सर्व निमन्त्र्य तम् । पौरं चान्यजनं श्रेष्ठी भोजयामास गौरवाद ॥३७६ ॥ संमान्य वखताम्बूलादिभिः सर्वमथो जनम् । दचा शालिकणान पश्च प्रोचे ज्येष्ठवधूमिति ॥ ३७७॥ प्रत्यक्षं सर्वलोकानां मया ोते तवार्पिताः। मार्गयामि यदैवाहमर्पणीयास्तदा स्तुपे! ॥३७८ ॥ विसृष्टा तेन गत्वाऽथ विजने सेत्यचिन्तयत् । नूनं वृद्धस्वभावेन जातो मे श्वशुरो विधीः ॥३७९॥ एवं मेलापकं कृत्वा दत्ता येन कणा इमे अन्यान् तस्यापयिष्यामीति ध्यात्वा त्यजति स्म तान् ॥३८॥ एवं दत्ता द्वितीयस्याः साऽपि दध्यौ तथैव हि । परं सा वितुपान कृत्वा कणान भक्षयति स्म तान् ॥ ३८१॥ तृतीयया तु संचिन्त्य कार्यमेतद् गुरोरिति । रक्षितास्ते सुवोण बध्ध्या भूषणमध्यगा: ॥३८२ ॥ 'ते कणास्तुर्यवघ्या च स्वबन्धूनां समर्पिताः । उता वर्षासु संरूंढा जाताश्चातिफलान्विताः ॥ ३८३ ॥ प्रथमे वत्सरे तेपामभूव प्रस्थोऽपरेषु च । संजाता बहवः कुम्भास्ततः कुम्भशतान्यपि ॥३८४ ॥ अमृवन् पञ्चमे वर्षे शालिपल्यशतान्यथ । पुनर्निमन्व्य लोकं तं श्रेष्ठी भोजयति स्म च ॥३८५॥ . मार्गयामास तान् पञ्चकणान् ज्येष्ठवधूं ततःपल्यान्तरात समानीयाऽर्पयामास सकाऽपि तान् ॥ ३८६ ॥
देवगुर्वादिशपथपूर्व भणितया तया। तस्य सत्यं समाख्यातं स्टः श्रेष्ठी ततोऽवदत् ॥३८७॥ १ चतुर्थी मनसि ध्यात्वा लात्वा पञ्च कणानि च । गत्वा च पैतृके गेहे वापयति स्म निश्चला ॥ ८३ इति ॥ पाठान्तरम्
Page #161
--------------------------------------------------------------------------
________________
-
मया समर्पिताः शालिकणा यद्यनयोज्झिताः । रजोभस्मगोमयाऽऽदि त्याज्यं तदनया गृहात ॥ पृष्ट्वा शालिकणोदन्तं द्वितीयाऽपि स्नुपाऽमुना । कृता रसवतीमुख्यगृहव्यापारकारिणी' ॥३८९ ॥ चक्रे वधूस्तृतीया च शालिरक्षाविधायिनी । मणिमौक्तिकहेमादिभाण्डागाराधिकारिणी ॥३९०॥ शालिवृद्धिकरी साऽथ चतुर्थी रोहिणी वधूः । गृहस्य स्वामिनी चक्रे श्रेष्ठिना दीर्घदर्शिना ॥ ३९१॥ यथायुक्तविधानेन कृत्वैवं सुस्थितं गृहम् । निश्चितं स व्यधात् श्रेष्ठी धर्मव्यापारमन्वहम् ॥३९२॥ श्रेष्ठितुल्यो गुरुज्ञेयः स्नुपातुल्याश्च दीक्षिताः । योज्या महाव्रतानां च पञ्चशालि कणोपमाः ॥ ३९३ ॥ सङ्घन्चतुर्विधोऽप्यत्र कुलमेलनसन्निभः। महावतप्रदानं च तत्समक्षं विधीयते। ॥३९४॥ ऊझिकातुल्य आख्यातः शिष्यः त्यक्तवतो हि यः । इह लोके परलोके स भवेद् दुःखमाजनम्।। ३९५ ॥ लिङ्गमात्रोपजीवी यः स द्वितीयस्नुपासमः । व्रतपालनसंग्रीतो भाण्डागारवधूपमः ॥३९६ ॥ धर्मदेशनयाज्येपामप्यारोप्य व्रतानि यः। सूरिस्तवृद्धिकारी स्यात् स रोहिण्या समो मतः ॥ ३९७॥ श्री वीरजिनकालेदो भविष्यति कथानकम् । ततो व्रतानि पश्चात्राऽधुना चत्वारितानि तु ॥ ३९८॥ एवं शिक्षाकयां श्रुत्वा जितशत्रुमहामुनिः । प्रव्रज्यां पालयामास श्रीदत्त गुरुसनिधी ॥३९९ ॥ तद् भो भव्या! अहिंसाऽऽदिलक्षण धर्ममुत्तमम् । परीक्ष्य निदधीति क्षेमङ्करजिनोचवीत् ॥ ४०॥ १ द्वितीया भक्षितां ज्ञात्वा पाकस्थाने नियोजिता । तृतीया रक्षितां ज्ञात्वा भाण्डागाराधिकारिणीम् ॥ ८९ ॥
-
Page #162
--------------------------------------------------------------------------
________________
शान्तिना
चतुर्थः प्रस्ताव
थनरित्रम्
दुःखपर्वतदम्भोलिर्भाजनं सुखसन्ततेः । अहिंसा व्रतमुख्या सा स्वर्गमोक्षविधायिनी ॥४०१॥ सत्येन लभ्यते कीर्तिः सत्यं विश्वासकारणम् । सत्यं जयति लोकेऽस्मिन द्वितीय धर्मलक्षणम् ॥ ४०२॥ अदत्तत्यागतो सुणां राजदण्डो न जायते । विशिष्टजनसंयोगो निर्भयत्वं च जायते ॥४०॥ ब्रह्मव्रतेन तेजस्वी सुभगश्च भवेद् नरः । नपुंसकत्वं तिर्यक्त्वं कदापि न लभेत च ॥४०४॥ परिग्रहेण वित्तस्य चितं सन्तोपपूरितम् । मुक्तिश्च क्रमयोगेन जायते भव्यदेहिनः ॥४०५॥ एतेषु नियतं धर्मलक्षणेष्वपि पञ्चसु । यूयं महानुभावा भोः। प्रयत्नं कुरुतान्वहम् ॥४०६॥ श्रुत्वेमा देशनां जीवाः प्रतिबुद्धा अनेकशः। प्रावति च जिनेन्द्रेण तीर्थ गणधराऽदिकम् ॥ ४०७॥ वज्रायुधोऽपि धर्मस्य प्रतिपत्ति विधाय ताम् । प्रणम्य भगवन्तं च प्रविवेश पुरीं निजाम् ॥४०८॥ अन्यदायुधशालायां चक्ररत्नं सुनिर्मलम् । समुत्पन्नं तस्य यक्षसहस्राधिष्ठितं वरम् ॥४०९ ॥ विधायाऽयदिनान्यस्य पूजां तदनुगाम्यसौ । पट्खण्डं साधयामास विजयं मङ्गलावतीम् ॥४१०॥ ततो निजपुरीं प्राप्तः चक्रवर्तिश्रियाऽश्चितः । सहस्रायुधपुत्रं स यौवराज्ये न्यवेशयत् ॥४११॥ अन्यदाऽऽस्थानमासीनः स बज्रायुधचक्रभृत् । अभूद् यावद् नृपामात्यपदातिपरिवारितः ॥ ४१२ ॥ तावद् नभस्तलाव कश्चिदेत्य विद्याधरो युवा । भयात् प्रकम्पमानाङ्गः शरणं तं समाश्रितः ॥४१३ ॥ तस्य पृष्ठे वरा काचिद खड्गखेटकघारिणी । आगाद् विद्याधरी विद्याधरश्चैको गदाधरः ॥४१४ ।।
Page #163
--------------------------------------------------------------------------
________________
खेचरेणाऽमुना चक्री भणितः सपरिच्छदः । पापकर्मकृतेरस्याऽपराधः श्रूयतामिति ॥४१५॥
अहं सुकच्छविजये वैताढ्ये शुक्लपूस्थितेः । पुत्रः पवनवेगाख्यः शुक्लदत्तस्य भूपतेः ॥ ४१६ ॥ सुकान्ता नाम मे कान्ता तस्याः कुक्षिसमुद्भवा । एषा शान्तिमतीनाम्नामम पुत्रीशुभाकृतिः॥ ४१७॥ अथान्येधुर्मया दत्तामिमां प्रज्ञप्तिसंज्ञिकाम् । ययौ साधयितु विद्यां मणिसागरपर्वते ॥४१८॥ विद्यां प्रसाधयन्तीयं हृताञ्जेन दुरात्मना । अत्रान्तरे च विद्या सा सिद्धाऽस्या भक्तिरञ्जिता ॥ ४१९ ॥ तस्या विम्यद् विवेशाज्यं युष्माकं शरणे प्रभो ! । तत्राऽपश्यन् नगे पुत्रीमत्रागामहमप्यरम् ॥ ४२०॥ तदेनं मत्सुताशीलविध्वंसनरुचि बलात् । मुश्च राजन् ! यथैकेन गदाघातेन हनम्यहम् ॥ ४२१ ॥ अवधिज्ञानतो ज्ञात्वा तत्पूर्वभवचेष्टितम् । प्रतिवोधकृते तेयां चक्री वज्रायुधोब्रवीत् ॥४२२ ॥ कारणेन हृता येन पुत्री पवनवेग! ते। खेचरेणाऽमुना तत् त्वं शृण्वहं कथयामि भोः ॥४२३॥ विज्ञाय ज्ञानमाहात्म्यं सर्वे सम्या निजप्रभोः श्रोतुमभ्युद्यता जाताः स चाऽचख्याविदं स्फुटम् ॥ ४२४॥ द्वीपस्याऽस्यैव विशदेखतक्षेत्रमध्यगे । पुरे विन्ध्यपुरे राजा विन्ध्यदत्ताऽभिधोऽभवत् ॥४२५ ॥ पत्नी सुदक्षिणा तस्य जज्ञे तत्कुक्षिसम्भवः । तनयो नलिनकेतुरिति ख्यातो महीतले ॥४२६ ॥ तत्रैव नगरे धर्ममित्रसार्थपतेः सुतः। श्रीदत्ताकुक्षिसम्भूतो दत्तो नामाऽभवद् धनी ॥४२७॥ रूपेण रतिसङ्काशा कान्त्या चन्द्रप्रियासमा । जज्ञे प्रभङ्करानाम्नी दत्तस्य गृहिणीवरा ॥४२८॥
Page #164
--------------------------------------------------------------------------
________________
चतपः
शान्तिनाथचरित्रम् ॥८ ॥
प्रस्तावः
सुशृङ्गाररसमये वसन्तसमयेऽन्यदा । गत्वोद्यानवने दत्तः क्रीडति स्म तया सह ॥ ४२९॥ नृनाथतनयः सोऽय दृष्ट्वा तां सुन्दराकृतिम् । वाणैर्विपमबाणस्य पञ्चभिस्ताडितो हृदि ॥४३०॥ स्वामित्वयौवनैश्वर्यगर्वितः सोऽथ तां ततः । अपजह्वेऽगणयित्वा कलई कुलशीलयोः ॥४३१ ।। भुङ्क्ते स्म विषयसुखं कुमारः स तया सह । दत्तश्च तद्वियोगातों ययावुधानमन्यदा ॥४३२॥ सुसाधुः सुमनास्तत्र तत्कालोत्पन्नकेवलः । दृष्टोऽमुना वन्धमानो देवदानवमानवैः ॥४३३ ॥ तेनाऽपि वन्दितो भावसारं मुनिवरश्च सः । वोधयामास दत्तं तं धर्मदेशनयायया ॥४३४॥ कृत्वा दानाऽऽदिकधर्म मृत्वा चाऽऽयुःक्षयेऽथ सः। सुकन्छविजये वैताढ्याद्रौ विद्याधरेशितः ॥ ४३५॥ महेन्द्रविक्रमस्याऽभूत् तनयोजितसेनकः । तस्याऽपि कमलानाम्नी बभूव सहचारिणी ॥४३६॥ (युग्मम् ) इतः स नलिनकेतू राज्य संप्राप्य पैतृकम् । प्रभङ्कराऽऽख्यया साई गृहवासमपालयत् ।॥ ४३७ ॥ अधिरूढोऽन्यदा भूमि स्वप्रासादस्य सप्तमीम् । ददर्शाश्चितं मेधैः पञ्चवर्णभस्तलम् ॥ ४३८॥ तस्य पश्यत एवेदं मेववृन्दं सकौतुकम् । प्रचण्डपवनक्षिप्त खण्डखण्डं ययौ क्षणात् ॥ ४३९ ॥ तदृदृष्ट्वा जातसंवेगः स दध्यौ द्रविणाऽऽदिकम् । सांसारिकमहो ! वस्तु सर्वमेतदिवाञ्चवम् ॥ ४४०॥ मयाज्ञानविमूढेन हरता हा ! परस्त्रियम् । क्षणिकस्य सुखस्याऽर्थे बहुपापमुपार्जितम् ॥ ४४१॥ १ श्रेष्ठया।
Page #165
--------------------------------------------------------------------------
________________
तत् प्रपद्य परिव्रज्यां तपोनियमचारिणा । पापकर्मविलिप्तं स्वं निर्मलं प्रकरोम्यहम् ॥ ४४२ ॥ निवेश्य तनयं राज्ये सोऽथ त्यक्त्वा नृपश्रियम् । उपाददे परिव्रज्यां क्षेमङ्करजिनांऽन्तिके ॥ ४४३ ॥ विशुद्धां पालयित्वा तां समासाद्य च केवलम् । धौतकर्ममलः सिद्धिमाससाद स शुद्धधीः ॥ ४४४ ॥ साऽपि प्रभङ्करा नाम्नी तपः चान्द्रायणाऽभिधम् । गणिन्याः सुत्रताख्यायाः समीपे विदधेऽमलम् || ४४५ ॥ सेयं मृत्वा समुत्पन्ना पुत्री शान्तिमती तव । अस्याः प्राग्भवभर्ताऽयं खेचरोऽजितसेनकः ॥ ४४६ ॥ ष्ट विद्यां साधयन्ती समुत्क्षिप्ता विहायसा । इयं पूर्वभवस्नेहमोहितेनामुना ध्रुवम् ॥ ४४७ ॥ ततः पवनवेग ! त्वं त्वं च शान्तिमति ! स्फुटम् । मुच कोपं धृताटोपमस्योपरि निरर्थकम् ॥ ४४८ ॥ इति वज्रायुधवाक्यं श्रुत्वा तौ सा च वालिका । अन्योन्यं क्षमयन्ति स्माऽपराधं प्रीतचेतसः ॥ ४४९ ॥ पुनी समाचख्यौ समुद्दिश्य सभाजनम् । अतीतमुक्तमेतेषां भविष्यत् कथयामि भोः ! ॥ ४५० ॥ अमूम्यां सहिता शान्तिमती दीक्षां ग्रहीष्यति । रत्नावलीतपः कृत्वाऽनशनेन विपत्स्यते ॥ ४५१ ॥ साधिकसागर द्वंद्व स्थितिर्वृषभवाहनः । स्वामी समस्तदेवानामीशानेन्द्रो भविष्यति ॥ ४५२ ॥ वायुगत्यजित सेननाम्नोः साध्योस्तदा पुनः । घातिकर्मेन्धने दग्धे भानि केवलमुत्तमम् ॥ ४५३ ॥ केवलज्ञानमहिमां तयोः कृत्वाऽर्चनं तथा । स्वस्याङ्गस्य निजं स्थानमीशानेन्द्रो गमिष्यति ॥ ४५४ ॥ इन्द्रोऽपि हि ततयुत्वा कुले लब्ध्वा मनुष्यताम् । दीक्षां चादाय निष्कर्मा निर्वाणं समवाप्स्यति ॥ ४५५ ॥
Page #166
--------------------------------------------------------------------------
________________
चतुः
प्रान्तिनावचरित्रम् ॥ ८१॥
प्रस्ताव
तच्छ्रुत्वा विस्मिताः सर्वेऽप्येवमूचुः सभासदः । अहो अस्मद प्रभोर्ज्ञानं कालत्रितयदीपकम् ॥ ४५६ ॥ साज्य शान्तिमती वायुवेगवाऽजितसेनकः । त्रयोऽपि चक्रिणं नत्वा जग्मुस्ते स्थानमात्मनः ॥ ४५७ ॥ कुमारस्य सहस्रायुधस्याथ तनयोऽभवत् । जवनाकुक्षिसञ्जातो नाम्ना कनकशक्तिकः ॥ ४५८॥ आद्या कनकमाला वसन्तसेना तथाऽपरा । उभे बभूवतुस्तस्य प्रिये तुल्यकुलोद्भवे ॥४५९ ॥ क्रीडां कर्तुमथाऽज्येयुः स गतो गहनं वनम् । ददर्शकं प्रकुर्वन्तं पतनोत्पतने नरम् ॥४६॥ पृष्टोत्र कारणं तेन सोऽवदत् खेचरोऽस्महम् ।वैताव्यवासी सर्वत्राऽस्खलितो विचरामि भोः।। ४६१ ॥ इहाऽऽगत्य चिरं स्थित्वा गच्छतः पुनरेव मे । पदमेकं खगामिन्या विद्याया भद्र ! विस्मृतम् ॥ ४६२ ।। ततोगन्तुमनीशोऽहं करोम्येवंविधक्रियाम् । कुमारः स्माऽह भोः। तावत् पठ विद्या ममाऽग्रतः ।। ४६३ ॥ विद्याधरोऽप्यपाठीत तां सत्पुमानिति तत्पुरः । पदानुसारिलब्ध्या कुमारः पूरयति स्म तत् ॥ ४६४ ॥
खेचरोऽथ कुमाराय स्वविद्यां प्रददौ मुदा । तेन प्रणीतविधिना साधयामास सोऽपि ताम् ॥ ४६५ ॥ स्वस्थानमगमत् खेटः कुमारोऽपि यहच्छया । विद्याबलेन बभ्राम प्रियाद्वययुतो भुवि ॥४६६॥ हिमवन्तमथाऽन्येद्युः शिलोचयमगादसौ । ददर्श चात्र विपुलमति विद्याधरं मुनिम् । ॥४६७॥ प्रणम्य चरणौ तस्य कुमारः प्रेयुसीयुतः । निपसाद यथास्थानं मुनिश्चक्रे च देशनाम् ॥ ४६८॥ कुलं रूपं कलाऽम्यासो विद्या लक्ष्मीर्वराङ्गना । ऐश्वर्य सुप्रभुत्वं च धर्मेणैव प्रजायते ॥४६९॥
सार
Page #167
--------------------------------------------------------------------------
________________
धर्मश्चतुर्विधो येन भवेत् पूर्वभवे कृतः । स मनोवाञ्छितं सर्व लभते पुण्यसारवत् ॥४७०॥ पुण्यसारःप्रमो!कोऽसाविति पृष्टोऽमुना मुनिः। तत्कयां कथयामास प्रतिबोधविधायिनीम् ॥ ४७१ ॥
अस्त्यत्र भरतक्षेत्रे जीवाजीवादितत्त्ववत् । नानाद्भतमनोहारि पुरं गोपालयाऽऽह्वयम् ॥ ४७२॥ , पुरन्दरसमश्रीको धर्मार्थी राजमानितः । महाजनस्य मुख्योऽभूत् तत्र श्रेष्ठी पुरन्दरः ॥४७३ ।। भल्या पत्यौ तथा देवे गुरौ गुणगणाऽन्विता । बभूव गेहिनी तस्य पुण्यश्रीरिति विश्रुता ॥ ४७४ ।। पतिवाल्लम्पसौभाग्यभाग्यवत्याः शुभाऽऽकृतेः । अप्येकं दूपणं तस्याः शरीरे निरपत्यता ॥ ४७५॥ वाञ्छन्नपि सुतं श्रेष्ठी भणितः स्वजनैरपि । तस्याः स्नेहपरो नारी नान्यां परिणिनाय सः ॥ ४७६॥ यक्ष भट्टारिका वा नो काश्चिदर्थयति स्म सः। नैवोपयाचितं चक्रे तयोः स्थिरसुदर्शनः ॥ ४७७ ॥ सन्तानार्थी स चाज्येधुरम्यर्च्य कुलदेवताम् । उवाच सप्रियोऽप्येवं प्रणिपातमसंस्पृशन् ॥४७८ ।। अस्माकं पूर्वजैः सर्वैः पूजिता वं मयाऽपि च । इहलोकसुखस्याऽर्थे सर्वदा कुलदेवते! ॥४७९ ॥ अविद्यमानसन्ताने परलोकं गते मयि । पूजां वन्धुजनस्येव करिष्यति तवाऽपि कः? ॥४८॥ तचं नावावधिज्ञानेनाऽऽख्याहि मम सन्ततिम् । मविष्यत्यथवा नेति नान्यत्वामर्थयाम्यहम् ॥ ४८१ ॥ देवतोवाच श्रेष्ठिन् ! ते भविष्यति सुतः खलु । धर्मे प्रवर्तमानस्य गते काले कियत्यपि ॥४८२॥ ततः प्रहृष्टचित्तोऽसौ गृहवासमपालयत् । कुलक्रमागतं धर्म विशेषेण चकार च ॥४८३॥
nama
Page #168
--------------------------------------------------------------------------
________________
चतथेः
शान्तिनाधचरित्रम् ॥८२॥
प्रस्ताव
कश्चित् पुण्याधिको जीवः सुतत्वेन समागमत् । कुक्षौ पुण्यश्रियोऽन्येधुश्चन्द्रस्वमोपमचितः ॥ ४८४ ॥ तत्स्वमदर्शनं प्रातः स्वभर्ता ज्ञापितस्तया । तेनाऽप्याऽऽह्लादिता पुत्रजन्मना सा सुचेतसा ॥ ४८५॥ जजेऽय समये तस्यास्तनयः शुभलक्षणः । तस्य जन्मनि तत्पित्रा विदधे च महाक्षणः ॥४८६॥ पुण्यं कृत्वाऽयमायातः प्राप्तः पुण्येन वा-मया । पुण्यसार इति नाम चक्रे तस्येति तत्पिता ॥ ४८७॥ बालरक्षाविधात्रीभिर्धात्रीभिः परिपालितः । स पित्रोर्वल्लभतमो बभूवाऽध्ययनक्षमः ॥४८८॥ उपाध्यायस्य वर्यस्य कलाग्रहणहेतवे । जनकेनाऽर्पितो लेखशालाकृत्युत्सवेन सः ॥४८९ ॥ तत्रैव नगरे रत्नसारस्य वणिजः सुता । बभूव बालिका रत्नसुन्दरी सुन्दराङ्गका ॥ ४९०॥ अधीयानाऽथ तस्यैव कलाचार्यस्य सन्निधौ । जज्ञे सहाध्यायिनी सा पुण्यसारस्य धीमती ॥ ४९१ ॥ सा चापलेन महिलासुलभेन कलाविधौ । विवादं पुण्यसारेण सह चक्रे मनीपिणी ॥४९२ ॥ अन्यस्मिन् दिवसे तेन रुटेनवममाणि सा । बालिके पण्डितंमन्या यद्यप्यसि कलावती ॥४९३॥ तथापि हि मया सार्द्ध विवादस्तव नोचितः । भविष्यसि यतो दासी पुरुपस्य गृहे खलु ॥४९४ ॥ (युग्मम्) साऽवदद् यदि रे! दासी महाभाग्यस्य कस्यचित् । भविष्यामि नरस्याहं तद् मूढ ! भवतोत्र किम् १४९५ शशंस पुण्यसारोऽपि परिणीय बलादपि । करोमि किङ्करीं चेत् त्वां तदाऽहं नियतं नरः ॥४९६॥ भूयोपि साज़वीद् मूर्ख ! बलात्कारेण जायते। स्नेहो नाऽन्यस्प कस्यापि दम्पत्योस्तु विशेषतः॥ ४९७॥
॥८२॥
Page #169
--------------------------------------------------------------------------
________________
-
tre--
ततोऽसौ लेखशालायाः पुण्यसारोगतो गृहम् । सुष्वाप मन्युशय्यायां भूत्वा म्लानमुखोऽसुखी॥ ४९८ ॥ श्रेष्ठी पुरन्दरो वेश्म भोजनार्थमुपागतः । ज्ञात्वातचेष्टितं तस्याऽन्तिकमेत्यैवमूचिवान् ॥४९९॥ अयि वत्स ! कुतो हेतोरद्य श्याममुखो भवान् ? । अकाले शयनं कि ते कारणं मे निवेदय? ॥ ५००॥ निबन्धपृष्टः सोवोचत् तात! मारत्नसुन्दरीम् । परिणाययसि त्वं चेत् तदा स्वस्थो भवाम्यहम् ॥ ५०१॥ भूयोऽभापिष्ट तं श्रेष्ठी बालोऽस्यद्यापि वत्सक! । कुरु तावत् कलाऽभ्यासं काले परिणये स्नुपाम् ॥ ५०२ ॥ पुत्रेण भणितं तात! यदि तांयाचसेधुना। मदर्थ तत्पितुः पार्थात् तदा भोक्ष्ये नचाऽन्यथा ॥ ५०३॥ संबोध्य भोजयित्वा तं स्वयं भुत्वा च श्रेष्ठयसो । वन्धुभिः सहितो रत्नसारश्रेष्टिगृहं ययौ ॥५०४॥ अभ्युत्थानाऽऽसनदानस्वागतप्रश्नपूर्वकम् । सोऽवदत् कारणं व्रत येन यूय मिहागताः ॥५०५॥ ऊचे पुरन्दरस्त्वत्तः कन्यकां.रत्नसुन्दरीम् । याचिंतु स्वसुतस्यार्थे श्रेष्ठिन् ! वयमुपागताः ॥ ५०६॥ अभ्यधाद् रत्नसारोऽपि कृत्यं यद् मम सर्वथा । युष्माभिर्विहितं तत् यद्याचश्यं सुता मया ॥ ५०७॥ यूयमत्र पुरे मुख्या याचितारः सुतां मम | सहिता बन्धुभिश्चैभिस्तद् वाच्यं किमतः परम् ? ॥ ५०८॥ पितुः पार्श्वे स्थिता साऽथ कन्यका सहसावदत् । ताताऽहं पुण्यसारस्य भविष्यामि न गेहिनी ॥ ५०९॥ तस्यास्तद्वचनं श्रुत्वा दध्यावेवं पुरन्दरः। अहो! मे तनयस्यास्यां व्यर्थः पाणिग्रहाऽऽग्रहः ॥ ५१०॥ यस्या एवंविधा वाणी कर्कशा शैशवेऽप्यहो! भाविनीयौवनोन्मत्ता सा भर्तुःसुखदा कथम् ॥ ५११ ॥
Page #170
--------------------------------------------------------------------------
________________
शान्तिनापचरित्रम् ॥८३॥
।
चतुर्थः प्रस्ताव
उवाच रत्नसारन्तु मुग्धेयं तनया मम । वाच्यावाच्यं न जानाति तदस्याः फेल्गु जल्पितम् ।। ५१२ ॥ तथाई बोधयिष्यामि श्रेष्ठिन् ! ते तनयो यथा । परिणेष्यत्यनं चैव मया दत्ता त्वसौ ध्रुवम् ॥ ५१३ ॥ ततः पुरन्दरः श्रेष्ठी गृहमागत्य तत्कथाम् । कथयित्वाऽवदत् पुत्र वत्स ! सा तव नोचिता ॥ ५१४ ॥ यतःकुदेहां विगतस्नेहां लज्जाशीलकुलोज्झिताम् । अतिप्रचण्डां दुस्तुण्डां गृहिणी परिवर्जयेत् ॥ ५१५॥ प्रत्यूचे पुण्यसारस्तु अमूं परिणयामि चेत् । भवामि तदहं सत्यप्रतिज्ञस्तात ! नान्यथा ॥५१६ ॥ अपश्यन्नपरोपायं तल्लामे सोऽथ बुद्धिमान् । पृष्ट्वा नातं स्वंदानीं तां विवेद कुलदेवताम् ॥५१७॥ ततः कुसुमनैवेद्यगन्धधूपविलेपनैः। अभ्यर्च्य सुविनीतात्मा प्रार्थयामास तामिति ॥५१८ ॥ दत्तोऽहं तुष्टया देवि ! श्रेष्ठिनस्तनयो यया । सा त्वं वाञ्छां कलत्रस्य सकले ! पूरयाऽद्यमे ॥ ५१९ ॥ न चेत् पूरयसि स्वेच्छां मम वं कुलदेवते ! । अमंत्रमपमानस्य ततोऽहं निर्मितः कथम् ? ॥ ५२० ॥ उत्थास्यामि तदैवाहमितः स्थानाद् यदीप्सितम् । पूरयिष्यसि देवि! त्वं भोक्ष्ये चाऽहं तदैव हि ॥ ५२१ ॥ इत्थं कृतप्रतिज्ञेऽस्मिन् दिनमेकमुपोषिते । तुष्टा सोचे शनैर्वत्स! सर्व भव्यं भविष्यति ॥५२२ ॥ हृष्टचित्तस्ततः पुण्यसारो विहितभोजनः । अवशिष्टकलाऽभ्यासं विदधे जनकाऽऽज्ञया ॥५२३ ॥ १ तुच्छं अग्राह्यमित्यर्थः । २ स्वस्येष्टस्य दात्री। ३ पात्रम् ।
॥
2
Page #171
--------------------------------------------------------------------------
________________
समधीतकलः सोऽथोद्यौवनः श्रेष्ठिनन्दनः । केनचित कर्मदोपेण दुरोदररतोऽभवत् ॥ ५२४॥ अतीव वल्लभत्वेन पितृभ्यामनिवारितः । स द्यूतव्यसनि जज्ञे निषिद्धो न न्यवर्तत ॥५२५॥ लक्षमूल्यमथान्येवू राज्ञोऽलङ्करणं गृहात् । हत्वा दत्तं समिकस्य स्वलक्षे हारितेऽमुना ॥५२६॥ याचमाने नृपे श्रेष्ठी स्थानं यावद् व्यलोकयत् । तत्र यावदृष्ट्वा तद् मनस्येवमचिन्तयत् ॥ ५२७ ॥ गृहीतं पुण्यसारेण नूनमेतद् भविष्यति । अन्यस्य गूढमद्वस्तूपादाने योग्यता न हि ॥५२८॥ यदर्थ खिद्यते लोकैः यत्नश्च क्रियते महान् । तेऽपि सन्तापदा एवं दुष्पुत्राहा! भवन्त्यहो। ॥ ५२९॥ हारितं कापि तेनेदं चेद् भविष्यति तद् मया । गृहादु निर्वासनीयोऽयं पुत्ररूपेण वैरिकः ॥५३०॥ एवं विचिन्त्य हटेगात् श्रेष्ठीतत्राऽऽगतं सुतम् । पप्रच्छालङ्कृतेः शुद्धिं सोऽप्याऽऽचख्यौ यथातथम्॥५३१ ततः प्रकुपितः श्रेष्ठी तमूचे दुष्ट ! रे त्वया । तद्रूपणमुपादाय समागम्यं गृहे मम ॥५३२॥ वचसा तर्जयित्वैवं धृत्वा च गलकन्दले । निरस्तस्तनयस्तेन गाढरोपवशेन सः ॥५३३ ॥ तदा दिनावसानत्वात् अन्यतो गन्तुमक्षमः । पुरान्निस्सृत्य न्यग्रोधकोटरं प्रविवेश सः ॥५३४॥ श्रेष्ठिन्या भणितः सोऽथ गृहं प्राप्तः पुरन्दरः । कथमद्य पुण्यसारो नायात्यद्यापि मन्दिरे? ॥ ५३५ ॥ राजभूषणवृत्तान्तमाख्यायैवमुवाच सः । मया निर्वासितः सोऽद्य प्रिये ! शिक्षापनाकृते ॥५३६ ॥ १ द्यूतासक्तः। २ द्यूतकारेशस्य ।
Page #172
--------------------------------------------------------------------------
________________
शान्तिनाथचरित्रम् ॥८४॥
चतुर्थः प्रस्ताव
सोचे निस्सारितो येन तनयो रजनीमुखे । स तं मे मुखमात्मीयं कथं दर्शयसि स्फुटम् ? ॥ ५३७ ॥ घालं नेत्रविशालं तमेकतो त्वमात्मनः । अस्यां विकालवेलायां निरस्यन् लजसे न किम् १ ॥ ५३८ ॥ तद्गन्छ नसके तस्मिन् समानीते गृहे मम । आगन्तव्यं त्वयाऽपीति स तया निरवास्यत ॥ ५३९ ॥ गेहिनीभत्सितः पुत्रं स्मृत्वा सोऽपि सुदुःखितः । सर्वत्राऽन्वेपयामास नगरे निजनन्दनम् ॥५४॥ गृहं निर्मानुपं वीक्ष्य श्रेष्ठिनी सा व्यचिन्तयत् । निरासे हा! मया गेहाद्पतिः कोपपरीतया ॥ ५४१ ॥ पुत्रापायकृता पूर्व मूर्खता श्रेष्ठिना कृता । निरस्यन्त्या स्वभारं पश्चात् चक्रे मयाऽपि सा ॥ ५४२ ॥ एवं चिन्ताऽऽतुरा सास्रा तयोर्मार्गावलोकनम् । कुर्वाणो तनुः साऽस्था द्वारदेशे स्ववेश्मनः ॥ ५४३॥ ददर्श पुण्यसारोऽय तत्रोमे देवते निशि । स्वरोचिपा तमोहन्थ्यौ शुश्रावेति च तदुगिरम् ॥५४४॥ एका स्माह स्वसः ! किं न स्वेच्छया भ्राम्यते सुवि? । वर्तते यदियं रात्रिरस्मत्पक्षकृतोदया ॥ ५४५ ॥ द्वितीयोवाच किं व्यर्थ भ्रान्त्याऽऽत्मा खेद्यते हले ।। दृश्यते कौतुकं क्वाऽपि यदि तत्रै गम्यते ॥ ५४६ ॥ सावदत् कौतुकं तर्हि गच्छामो वलभीपुरे । श्रेष्ठी वसति यत् तत्र धनप्रवरनामकः ॥५४७ ॥ जाता धनवतीकुक्षिसम्भवास्तस्य कन्यकाः। सप्तैताः सन्ति चावेङ्गयस्तत्राऽऽद्या धर्मसुन्दरी ॥ ५४८॥ घनसुन्दयथो कामसुन्दरी मुक्तिसुन्दरी । भाग्यसौभाग्यसुन्दयौँ सप्तमी गुणसुन्दरी ॥५४९ ॥ १ तोकमपत्यम् । २ तृतीयान्तम् ।
॥८४॥
Page #173
--------------------------------------------------------------------------
________________
वरप्राप्तिकृते तासां श्रेष्ठिना भक्तिपूर्वकम् । आराध्य तोपितो लम्बोदरो मोदकदानतः ॥ ५५०॥ प्रत्यक्षीभ्य सोवोचदितः सप्तमवासरे । रात्रौ सुलग्नवेलायां संयोगे प्रगुणीकृते ॥५५१ ॥ सुवेपयोपायुगलपृष्ठे यः कश्चिदेष्यति । श्रेष्ठिन् ! तव सुतानां स भविष्यत्युचितो वरः ॥५५२ ।। सेयं सप्तमघस्रस्य रात्रिस्तत् तत्र गम्यते । निवासपादपश्चाऽयं नीयते च सहाऽऽत्मना ॥५५३ ॥ दध्यौ स पुण्यसारोष्य तदाकर्ण्य मनस्यदः । अहो ! प्रासङ्गिकं मेऽपि भावि कौतूहलेक्षणम् ॥ ५५४ ॥ कीदृशी वलभी सापूः कीदृग् लम्बोदरः स च । कीदृक्षाः कन्यकाश्चेति सर्व द्रष्टाऽस्मि कौतुकम् ॥ ५५५॥ विधाय हुंकृति ताभ्यामुत्क्षिप्तो वटपादपः । उद्याने वलभीपुर्या गत्वा तस्थौ क्षणेन सः ॥५५६॥ विधाय नायिकारूपं चेलतुर्दैवते ततः। तयोरनुपदं पुण्यसारोऽपि चलति स्म सः ॥ ५५७॥ लम्बोदरगृहद्वारे वेदिकामण्डपे कृते । मेलितस्वजनः श्रेष्ठी यावदासीत सुताऽन्वितः तावत् ते देवते तस्य समीपेन प्रजग्मतुः। श्रेष्ठयावासे रसवत्या रसग्रहणहेतवे ॥५५९॥ (युग्मम्) एते अनुव्रजन पुण्यसारः श्रेष्ठिवरेण सः । ददृशे भणि तश्चैवं निवेश्य प्रवराऽऽसने ॥ ५६०॥ लम्बोदरेण भद्र ! त्वं जामाता परिकल्पितः। एता मम सुताः सप्त तत्वं परिणयाऽनघ। ॥५६१॥ इत्युदित्वा सुवसने नवीने परिधापितः । लक्षमूल्यभूषणेनाऽलङ्कतः श्रेष्ठिना च सः ॥५६२॥ ततो भवत्सु धवलमङ्गलेष्वग्निसाक्षिकम् । परिणीताः चारुकन्याः पुरन्दरसुतेन ताः ॥५६३॥
१५
Page #174
--------------------------------------------------------------------------
________________
शान्तिनायचरित्रम् ॥८५॥
चतुर्थः प्रस्ताव
सोऽय दध्यावदो युक्तं पित्रा निर्वासितोऽस्मि यत् ।अन्यथैवं कथं पुण्यसारनाम स्फुटीभवेत् ॥ ५६४॥ इति ध्यायन कृतोद्वाहः स वधुभिः समन्धितः । श्रेष्ठिना स्वगृहं निन्ये महोत्सवपुरस्सरम् ॥५६५॥ प्रासादस्योपरितनभूमौ नीत्वा निवेशितः । वल्लभाभिः स पर्यके निविष्टास्ताश्च विष्टरे ॥५६६ ॥ पृच्छन्ति स्म कलाऽभ्यासस्तव नाथ ! कियानिति? सोऽब्रवीत सकला मुग्धाः मम नेप्टतरा यतः॥५६७॥ अत्यन्तं विदुषां नैव सुखं मूर्खनृणां न च । उपार्जयत तद् यूयं सर्वथा मध्यमा कलाम् ॥५६८॥ यावत तान विदन्ति स्मश्लोकस्यार्थऽमपि स्फुटम् । तावत् स दध्यौ वृक्षोऽसौ गमिष्यति सदैवतः॥ ५६९ ॥ इति गन्तुमनाः सोऽथ दिशाऽऽलोकादिचेष्टया । विज्ञातो गुणसुन्दर्या तया दारकनिष्ठया ॥ ५७०॥ किमङ्गचिन्तां कर्तु ते शङ्कास्तीति तयोदितः १ । सोऽब्रवीदेवमेवेति दत्तहस्तस्तया ततः ॥ ५७१ ॥ अधोभूमौ समागत्य स्वस्य ज्ञापनहेतवे । इति श्लोकं तुलायां स सुधीः खटिकयाऽलिखत् ॥ ५७२ ।। (युग्मम्) किहांगोवालो किहां वलहिपुरं किहां लम्बोदरदेव लाडन आयो विहिवसि गिओ सत्तइ परिणेवि।।५७३ ॥ गोपालयपुरादागां वलभ्यां नियतेवंशात् । परिणीय वधूः सप्त पुनस्तत्र गतोऽस्म्यहम् ॥ ५७४॥ सार्थमग्रेतनस्यापि श्लोकस्याऽविदुषी तदा । लज्जमानाऽनुष्टुभं तं प्रसन्नं नाऽप्यवाचयत् ॥ ५७५ ॥ गृहद्वारगतः सोऽथ तामूचे गुणसुन्दरीम् । सुखेन तनुचिन्ता स्यादितिनिर्विजने मम ॥५७६ ॥ ततस्त्वयात्र स्थातव्यमहं त्वनिकटे गतः। निराबाधो भविष्यामीत्युक्त्वा तत्र वटे ययौ ॥ ५७७ ॥
॥८५॥
Page #175
--------------------------------------------------------------------------
________________
W
तत्कोटरप्रविष्टेऽस्मिन्नी(ने)यतुवते अपि । तच्छत्स्योत्पाटितः सोऽथ वटा स्वस्थानमागमत् ॥५७८ ॥ इतः पुरन्दरः श्रेष्ठी प्रामं भ्रामं पुरेऽखिले। निशान्तेऽतीवनिर्विण्णो यावत् तत्र वटे समाययौ।। ५७९ ।। तावत् सा विगता रात्रिः प्रपष्ट क्वापि तत् तमः । ततो विभातं न्यग्रोधे गतस्येत्युच्यते जनैः॥ ५८०॥ निर्ययो पुण्यसारोऽथ तदानीं वटकोटरात । वस्त्राऽलङ्कारसाराङ्गः पितृवक्त्राम्बुजार्यमा ॥५८१ ॥ पुत्रमत्यद्भुतश्रीकं दृष्ट्वा श्रेष्ठी सविस्मयः । वत्स ! वत्सेति जल्पन्तमालिलिङ्ग ससंभ्रमम् ॥५८२॥ ततः स्वगेहमायातः सह तेन विलोक्य तौ । बभूव श्रेष्ठिनी हृष्टा स्पृष्टा रुच्येव शीतगोः ॥५८३ ॥ गाढमालिङ्ग्य सस्नेहं तमुत्सङ्गे निवेश्य च । पप्रच्छ वत्स ! शोभेयं संजाता क तवेदृशी? ॥ ५८४ ॥ ऊचे च जनकोऽप्येवं ततोऽसौ सकलां कथाम् । तदग्रे कथयामास महद्विस्मयकारिणीम् ॥५८५ ॥ तावेवमूचतुर्भाग्यमहो! वत्सस्य कीदृशम् ? ऋद्धिर्येनेदृशी लब्धा रात्रिमध्येऽप्यचिन्तिता ॥५८६॥ बभाण जनको भूयःक्षन्तव्यं वत्स! तत् त्वया। मया विरूपं यत् किश्चिदुक्तं शिक्षापनाकृते ॥५८७ ॥ पुण्यसारोऽवदत् तात ! युष्मतशिक्षापनैव हि । संजाता हेतुरीदृश्याः सम्पदो नियतं मम ॥५८८ ॥ दचाऽथ द्यूतकारस्य तदानीतं विभूपणम् । नृपसत्कं नृपस्यैवाऽर्पयामास पुरन्दरः ॥ ५८९॥ विदधे पुण्यसारोऽथ हट्टव्यापारमुत्तमम् । दूरं विहाय तद् द्यूतव्यसनं गुणनाशनम् ॥ ५९ ॥ १ चन्द्रस्य.
Page #176
--------------------------------------------------------------------------
________________
शान्तिनाचरित्रम् ॥ ८६ ॥
॥ ५९१ ॥ ॥ ५९२ ॥
इतस्तस्मिन्ननायाते चलित्वा गुणसुन्दरी । सोदरीणां समाचख्यौ सर्वासामपि तद्गतिम् ततस्ता नवगेहान्तर्घुमांसक इवोत्कटे । आकस्मिकेऽसुखे तस्मिन् पतिते रुरुदुर्भृशम् आकर्ण्य रुदितं पित्रा पृष्टास्तस्य च कारणम् । कथयन्ति स्म तास्तस्य तत्पत्युरपेवारणम् ॥ ५९३ ॥ सोऽत्रवीदपरिज्ञात पारम्पर्यो निजः पतिः । किं न सम्भूय युष्माभिर्धृतो ज्ञात्वा तदाशयम् १ ॥ ५९४ ॥ रूपलावण्ययुक्ताभिः स्त्रीभिः सर्वोऽपि लभ्यते । तद् भवत्यः प्रियास्तेन प्राप्ताः परिहृताः कथम् १ ॥ ५९५ ॥ यदङ्गलग्नमादाय भूपणं गतवानसी । तद् मन्ये व्यसनी कोऽपि व्यसको वा भविष्यति ? ॥ ५९६ ॥ दत्तो लम्बोदरेणाऽपि यदेवमकरोदसौ । तद् नूनं दुष्कृतं किञ्चित् पुराचीर्णमिदं हि वः ॥ ५९७ ॥ विज्ञातं किं न युष्माभिः कुर्वतीभिः कथामिमाम् । तस्याऽभिधानं स्थानं वा स्वरूपमपरं तथा १ ॥ ५९८ ॥ गुणसुन्दर्यथोवाच दीपोद्यते तदाऽमुना । अस्त्यत्र लिखितं किञ्चिद् वाचितं तद् मया न तु अथ प्रभाते संजाते श्लोके तस्मिथ वाचिते । सोचे गोपालयपुरे गतस्तात ! पतिः स नः केनचिद् दैवयोगेन राज्यन्ते स इहाऽऽगतः । त्वद्दत्ताः परिणीयाऽस्मान् तत्रैव हि पुनर्गतः ततस्त्वं निजहस्तेन नरवेयं ममाऽर्पय । मेलयित्वा महासार्थं यतस्तत्र ब्रजाम्यहम् ज्ञास्यामि तं निजं कान्तं तत्राऽन्विष्य कथञ्चन । पण्मासाऽभ्यन्तरे वहिरन्यथा शरणं मम १ वियोगम् । २ धूर्तः ।
॥ ५९९ ॥
॥ ६०० ॥ ॥ ६०१ ॥
॥ ६०२ ॥
॥ ६०३ ॥
चतुर्यः
प्रस्ताव:
॥ ८६ ॥
Page #177
--------------------------------------------------------------------------
________________
पित्राऽपितनृवेपा सा महासार्थसमन्विता । ययौ गोपालयपुरे कियद्भिर्दिवसैस्ततः ॥६०४॥ गुणसुन्दराऽभिधानः कश्चित् मार्थपतेः सुतः । इत्यसो नगरे तस्मिन् मानितः पृथिवीभुजा ॥ ६०५॥ क्रयविक्रयादि चक्रे व्यवहारं वणिग्घितम् । समं च पुण्यसारेण मैत्रीत्वं वचनाऽऽदिभिः ॥६०६॥ (युग्मम् ) अथोचे रत्नसारं स्ववप्तारं रत्नसुन्दरी । यद् मया परिणेतव्यस्ताताऽयं गुणसुन्दरः ॥६०७॥ विज्ञाय दुहितर्भाव रत्नसारस्तदन्तिकम् । गत्वोवाच मम सुता भर्तारं त्वां समीहते ॥६०८॥ गुणसुन्दर्यथो दध्यावस्या वाञ्छा निरर्थिका । द्वयोमहिलयोर्यस्माद् गृहवासः कथं भवेत् ? ॥६०९॥ यत् किश्चिदुत्तरं कृत्वा तदेता वारयाम्यहम् । अन्यथा या गतिर्मेऽस्ति साऽस्या अपि भविष्यति ॥ ६१०॥ एवं विचिन्त्य मनसा साऽवदत् श्रेष्ठिपुङ्गवम् । अस्मिन्नर्थे कुलीनानां पित्रोरेव प्रधानता ॥६११॥ वर्तेते तौ च मे दूरे तत् त्वया निजनन्दिनी । प्रदेयाज्यस्य कस्याऽपि प्रत्यासन्ननिवासिनः ॥ ६१२॥ अभाणि रत्नसारेण मत्पुत्र्यास्त्वं हि वल्लभः । सा देया कथमन्यस्मै पुरुषाय मया यतः १ ॥६१३॥ शत्रुभिर्वन्धुरूपैः सा प्रक्षिप्ता दुःखसागरे । या दत्ता हृदयानिष्टरमणस्य कुलाङ्गना ॥६१४॥ अनुमेनेज्य तद्वाक्यं साग्रई साऽमुनोदिता । तयोविवाहश्चके च श्रेष्ठिना पुण्यवासरे ॥६१५॥ पुण्यसारस्तदाकर्ण्य कुलदेव्याः पुरो गतः। शिरः क्षुरिकया छेत्तुमारेमे मानिनां वरः ॥६१६ ।। साहसं किं करोष्येतदिति देवतयोदितः । स स्माद पर्यणैपीद् यद् कन्यामन्यो मयेप्सिताम् ॥ ६१७॥
Page #178
--------------------------------------------------------------------------
________________
शान्तिना
बनरित्रम्
पुनरेप तयाऽभाणि या दत्ता वत्स! ते मया। भाविनी सा तवैवैपामा विधा मृत्युसाहसम् ॥ ६१८॥ सोऽवदद् युज्यते कर्तु परस्त्रीसंग्रहो न मे । इयं च परिणीतैव किं कर्तव्यं मया ततः ॥६१९॥ देवतोवाच हे वत्स! कि बहुक्तेन संप्रति ? । एपा ते वल्लभाऽवश्य न्यायेनैव भविष्यति ॥२०॥ तद्वाक्यमनुमेनेऽसौ सा पुनर्गुणसुन्दरी ! पण्मासीमतिचक्राम पत्युविरहदुःखिता ॥६२१॥ अप्रामवत्यसौ कान्तं रहस्यं चाऽविवृण्वती । पूर्णेचधौ प्रतिज्ञा स्वां संपूरयितुमुद्यता ॥६२२॥ सुकाष्ठः कारयामास चितां तस्माद पुराद् बहिः। धचाल वार्यमाणाऽपि प्रवेष्टुं ज्वलिताऽनले ॥ ६२३ ॥ बालोऽपि सार्थवाहोऽयं वैराग्येण हि केनचित् । मुमूर्पतीत्युदन्तोऽयं सकलेऽपि पुरेऽभवत् ॥ ६२४ ॥ तमाकर्ण्य ययौ राजा सपौरः सपुरन्दरः । रत्नसारपुण्यसारसहितश्च तदन्तिकम् ॥६२५॥ राज्ञा सोभाणि केनाऽजा खण्डितात्र पुरे तव ? । यदर्तिलक्षणं काष्ठभक्षणं कुरुते भवान् ॥ ६२६॥ ऊचे च रत्नसारेण सुविचारेण किं नु ते । अपराद्धमहो! दारैरुदारैर्भद्र । किञ्चन ॥६२७॥ सोऽवदद् नापराद्धं मे केनाऽप्याज्ञा न खण्डिता । अहं त्विष्टवियोगार्तिकृता देवेन खण्डिता।। ६२८ ॥ इति जल्पन्त्यसावन्तविरहाऽग्निशिखानिभान । सुदीर्घतरनिःश्वासान मुश्चत्युपचितं ययौ ॥६२९॥ राज्ञोक्तमत्र यः कश्चिद् मित्रमस्य प्रवर्तते । संवोध्य रक्षणीयोऽयममुना मृत्युसाहसात् ॥६३०॥ १ तृतीयान्तम् ।
Page #179
--------------------------------------------------------------------------
________________
नागरैः पुण्यसारोऽस्य तन्मित्रं परिकीर्तितः । राज्ञाऽदिष्टः स निकटे गत्वाऽथ तमभापत ॥६३१॥ वारुण्ये वर्तमानस्य संपदालङ्कृतस्य च । दुःखहेतुमनाख्याय युक्ता नो मित्र! ते मृतिः ॥ ६३२ ॥ साध्वदद् यस्य दुःखानि कथ्यन्ते स न दृश्यते । हृदयात् कण्ठमागत्य यान्ति तत्रैव तान्यहो ॥ ६३३॥ अपरः प्राह मित्र! त्वां तथाऽहं तर्कयामि यत् । करोष्येवंविधां चेष्टामुपहासकरी नृणाम् ॥ ६३४॥ स्मित्वा तल्लिखितश्लोकमुक्त्वा चैवमुवाचसा किमयं भवता श्लोकोऽलेखि नोवेति कथ्यताम् ॥ ६३५॥ आमेति भणिते तेन सोचे साऽहं तव प्रिया । या मुक्ता तोरणद्वारेऽभिधया गुणसुन्दरी ॥६३६॥ प्रयासोऽयं मया चक्रे हे कान्त ! तव हेतवे । तत् प्रसीद स्त्रियो वे ममाऽऽशु त्वं समर्पय ॥ ६३७ ॥ गृहादानाय्य तेनाऽपि दत्तः सोऽस्यै मनोहरः। प्रतिसीरान्तरात् साथ निर्ययो परिचाय तम् ॥ ६३८॥ वधूवों वन्दत इति भर्ना निर्दिश्यमानया । नमश्चक्रेऽनया राजा श्वश्रूश्वशुरको तथा ॥६३९॥ किमेतदिति पृष्टश्च पुण्यसारः कथां निजाम् । कथयामास भूपस्याऽतिविस्मयविधायिनीम् ॥६४०॥ विज्ञप्तो रत्नसारेण राजैवं येन मे सुता । उढा सोऽभवद् नारी तदस्या देव ! का गतिः॥६४१॥ सोऽवादीदत्र प्रष्टव्यं किमु भोः साऽपि गेहिनी । भवतात् पुण्यसारस्योढा तत्प्रियया यतः ॥ ६४२ ॥ सा रत्नसुन्दरी ताश्च वल्लभा वलभीपुरात् । आययुः पुण्यसारस्य मन्दिरे पुण्ययोगतः ॥६४३ ॥ १ जवनिकामध्यात् ।
Page #180
--------------------------------------------------------------------------
________________
1
चतुर्थः
शान्तिनापनरित्रम् । ॥८८॥
प्रस्ताव
एवमटी कलत्राणि ऋतचित्राणि शृण्वताम् । पूर्व विहितपुण्यस्य पुण्यसारस्य जज्ञिरे ॥६४४॥ धर्मदेशनया भव्यप्राणिनः प्रतिबोधयन् । ज्ञानसाराऽभिधाऽचार्यस्तत्राऽन्येयुः समाययौ ॥ ६४५ ॥ अथ तद्वन्दनाहेतोभक्तिभावितमानसः । ययौ पुरन्दरः श्रेष्ठी पुण्यसारसमन्वितः ॥ ६४६ ॥ सोऽथ नत्वा तमाचार्य पप्रच्छेति कृताञ्जलिः । प्रभो! मत्स्नुना पूर्वभवे किं सुकृतं कृतम् ॥ ६४७ ॥ शशंस सोऽवधिज्ञानी पुरे नीतिपुराऽभिधे । बभूव कश्चिदुच्छीन्नसन्तानः कुलपुत्रका ॥६४८॥ संसारवासनिर्विण्णः सुधर्ममुनिसन्निधौ । जग्राह स सुधीर्दीक्षा शिक्षां च द्विविधामपि ॥६४९ ॥ सपश्च समितीः सम्यक पालयामास यत्नतः। गुप्तीचाऽपालयत कायगुप्तौ किं तु न निश्चलः॥ ६५०॥ कायोत्सर्गे स्थितो दंशमशकोपद्रवे सति । पारयामास तं शीघमसंपूर्णेऽवधावपि ॥६५१॥ सुधर्मसाधुनाऽभाणि किमावश्यकखण्डनम् ? । प्रकरोपि यतो दोपो व्रतभङ्गे भवेद् महान् ॥ ६५२॥ ततस्तद्भयमीतोऽसावसहिष्णुरिमामपि । गुप्ति निर्वाहयामास चैयावृत्त्यं चकार च ॥६५३॥ मृत्वा समाधिना सोऽन्ते सौधर्मे त्रिदशोऽभवत् । जज्ञे तव सुतः श्रेष्ठिन् ! ततःच्युत्वाऽयुषः क्षये॥ ६५४ ॥ सप्त प्रवचनमातृर्यत सुखेनैव पालिताः । तदनेन प्रियाः सप्त परिणीताः सुखेन हि ॥६५५ ॥ कप्टेन पालिका यत् प्रियाऽप्येवमभूत ततः। अप्रमादो विधातव्यो धर्मकर्मणि सर्वथा ॥६५६ ॥ तच्छ्रुता जातसंवेगोऽग्रहीद् दीक्षां पुरन्दरः । जग्राह श्रावकत्वं च पुण्यसारो विवेकवान् ॥६५७ ॥
॥८८॥
Page #181
--------------------------------------------------------------------------
________________
ततः पुत्रपु जातेपु पुण्यसारोऽपि वाईके । प्रतिपद्य परिव्रज्यां मृत्वा सुगतिभागभूत ॥६५८॥
॥ इति पुण्यसारकथानकं समाप्तम् ॥ श्रुत्वेमां पुण्यसारस्य सत्कथां विमलाऽऽशयः। जग्राह दीक्षां कनकशक्तिस्त्यक्त्वा नृपश्रियम् ॥ ६५९ ॥ समीपे विमलमत्या आर्यायास्ते च तत्प्रिये । दीक्षां गृहीत्वा संजाते सुतपःसंयमोद्यते ॥६६०॥ विहरन नगनगरे सिद्धिपर्वतनामके । गत्वा शिलोचये तस्थौ प्रतिमामेकरात्रिकीम् ॥६६१॥ तत्पूर्वमत्सरी तत्र हिमचूलाऽभिधः सुरः । तस्योपसर्गान् विदधे निराचक्रे स खेचरैः ॥६६२॥ प्रभाते पारयित्वातांस आगाद् रत्नसञ्चयाम् । तत्र सूरनिपाताऽऽख्योद्याने तां प्रतिमां व्यधात् ।। ६६३॥ शुक्लध्यानजुपः तस्य घातिकर्मचतुष्टये । प्रक्षीणे केवलज्ञानमुत्पेदे विश्वदीपकम् ॥६६४॥ विदधे महिमा तस्य देवविद्याधरासुरैः । वज्रायुधचक्रिणा च मानवैरपरैरपि आगत्य समवासापति पुरि तस्यामथाऽन्यदा। पूर्वोत्तरदिग्विभागे क्षेमङ्करजिनेश्वरः ॥६६६ ॥ चक्री वर्धापितः पुम्भिस्तदाऽऽगत्य नियोजितेः । ततश्च सपरीवारस्तं नन्तुं दागू ययावसौ ॥ ६६७॥ प्रदक्षिणात्रयपूर्व प्रणम्य परमेश्वरम् । निपसाद यथास्थानं शुश्रुपुर्धर्मदेशनाम् ॥ ६६८॥ अत्राऽन्तरे सुतस्तस्य सहस्राऽऽयुधनामकः | नमस्कृत्य जिनेन्द्रं तं पप्रच्छैवं कृताञ्जलिः ॥६६९॥ भगवन् ! पवनवेगादीनां पूर्वापरे भवाः । कथं तातेन विज्ञाता ममेतत् कौतुकं महत् ॥ ६७०॥
Page #182
--------------------------------------------------------------------------
________________
शान्तिनायचरित्रम् ॥८९॥
प्रस्ताव:
भगवानप्ययावादीदवधिज्ञानचक्षुषा । भवस्वरूपं विज्ञातं तेषां बजायुधेन भोः । ॥ ६७१ ॥ पुनः पप्रच्छ स ज्ञानं कतिभेदं भवत्यदः । जिनोवोचत् पञ्चधा तत् प्रसिद्ध ह्यस्मदागमे ॥ ६७२ ॥ मतिश्रुतावधिसंझं तत्र ज्ञानत्रयं भवेत् । तुर्य मनःपर्यवं च पञ्चमं केवलाऽभिधम् ॥ ६७३ ॥ बुद्धिः स्मृतिश्च प्रज्ञा चमतिः पर्यायवाचकाः। धीमद्भिः पुनरेतासां पृथक् भेदाः प्रकीर्तिताः ॥ ६७४॥ भविष्यकालविपया मतिस्तावत् प्रकीर्तिता | बुद्धिश्च वर्तमाने स्यादतीते च स्मृतिर्भवेद् ॥ ६७५ ॥ कालत्रये च विज्ञेया प्रज्ञा सा च चतुर्विधा । क्षयं गतैर्भवेजन्तोर्मत्यावरणकर्मभिः ॥ ६७६ ॥ औत्पत्तिकी वैनयिकी कार्मिकी पारिणामिकी । चतुर्विधा भवेद् बुद्धिः पञ्चमी नोपलभ्यते ॥ ६७७ ॥ अदृष्टाश्रुतपूर्वे या वस्तुन्युत्पद्यते क्षणात् । बुद्धिरौत्पत्तिकी नाम सा बुद्धैः परिकीर्तिता ॥ ६७८ ॥ मारते रोहको नाम शिलाप्रभृतिवस्तुषु । दृष्टो निदर्शनं तस्यां तत्कथा श्रूयतामिति ॥ ६७९ ॥
उज्जयिन्यां महापुर्यामरिकेसरिनामकः । बुद्धिविक्रमसंपन्नो बभूव पृथिवीपतिः ॥६८०॥ तस्याः पुर्याः समासन्ने महत्या शिलयाङ्किते । नट्यामेऽभवद् रङ्गशूरो नाम्ना कुशीलवः ॥ ६८१ ॥ अतिमात्रकलापात्रं बुद्धिनिर्जितवाक्पतिः । बालोऽप्यबालभावोऽभूत तत्पुत्रो रोहकाढयः ॥ ६८२ ॥ तन्मातरि विपन्नायां रङ्गशूरस्य तस्य तु । बभूव रुक्मिणी नाम्नी प्रेयसी रूपशालिनी ॥ ६८३ ॥ सा यौवनमदोन्मत्ता भर्तृगौरवगविता । रोहकस्याङ्गसंस्कारं न चकार तथाविधम् ॥ ६८४॥
Page #183
--------------------------------------------------------------------------
________________
सोऽवदद कपितो यत् त्वं शुश्रूषों न करोषि मे। भविष्यति ततोऽवश्यं हे मातः! ते न सुन्दरम् ॥ ६८५॥ साज्ञवीरे शिशो! यत् त्वं निग्रहानुग्रहाक्षमः । स त्वं रुष्टोऽथवा तुष्टः करिष्यसि ममान किम् ॥ ६८६॥ रोहकः चिन्तयामासोत्पाद्य मन्तुं कमप्यहम् । तथा करिष्ये तातस्यानिष्टेयं जायते यथा ॥ ६८७॥ विचिन्त्यैवं स यामिन्यामुत्थाय सहसाब्रवीत् । यात्येष पुरुषः कोऽपि निःसृत्य गृहमध्यतः ॥ ६८८॥ तद् निशम्य पिता तस्य शयानोऽथ गृहाजिरे । उत्थायोवाच रे ! दुष्टं तं दर्शय नरं मम ॥ ६८९॥ रोहकोऽप्यवदत् तात !स उत्प्लुत्य गतः क्षणात् । रङ्गोऽपि हि विरागार्हस्ततोऽभूद् गेहिनी प्रति ॥६९०॥ आः! किमन्यनरासक्ता जातेयमथवा भवेत् । किमिदं दुर्घट येन भवन्त्येवंविधाः स्त्रियः॥ ६९१॥ पृथक्शय्याविधानेन ततोऽसौ तेन धीमता । अशस्त्रवधवदुःखभागिनी विदधे स्फुटम् ॥ ६९२ ॥ साऽपि दध्यौ मया नापराद्धं किमपि भर्तरि । नूनमेतेन वालेन कोपितोऽयं पतिर्मम ॥ ६९३ ॥ करोम्यस्यैव तद्भक्तिं भर्तृतोपविधित्सया । येनैवारोपितं दुःखं स एवापनयत्वरम् ॥ ६९४ ॥ ततः सा प्रार्थयामास रोहकं भक्तिपूर्वकम् । वत्स ! मेऽभिमुखं कान्तं कुरु दास्यस्मि ते स्फुटम् ॥ ६९५॥ विधाय स सुधीरेवं तामात्मवशवर्तिनीम् । पुना रात्रौ सचन्द्रायां प्रोवाच जनकं प्रति ॥ ६९६॥ उत्तिष्ठोचिष्ठ हे तात ! यात्यद्याऽप्यसको नरः। अथाऽस्य पृच्छतोऽदर्शि तेन छाया शरीरजा॥ ६९७॥ १ अरं शीघम् ।
Page #184
--------------------------------------------------------------------------
________________
पतुः
शान्तिनाधचरित्रम्
प्रस्ताव
अन्यदा सह तातेन सिप्रासैकतेऽन्यदा। नपा । सहसा रोहन
त्वच्छायेयमिति प्रोक्ते पित्रा प्रोवाच रोहकः । अग्रेऽप्येवंविधो दृष्टस्तर्हि तात ! मया नरः ॥ ६९८ ॥ नशूरस्ततो दध्यौ हा ! मया वचनात शिशोः । अपमानपदं चक्रे पत्नी दोपाऽभिशश्या ।। ६९९ ॥ ततः सा रुक्मिणी भर्तुः पूर्ववद् वल्लभाऽभवत् । रोहकस्य सदा भक्ति कुरुते स्म च सादरम् ॥ ७००॥ सपित्रा सह भुङ्क्ते स्म तथाऽपि कुशलाऽऽशयः। स्वजनन्या अपि प्रायो बुद्धिमान न हि विश्वसेत् ॥ ७०१॥ अन्यदा सह तातेन स गत्वोजयिनी पुरीम् । सर्वमालोकयामास पुरे देवकुलाऽऽदिकम् ॥७०५॥ गते ताते पुरीमध्ये स सिप्रासैकतेऽन्यदा । पुरी रेणुमयीं कृत्वा तस्थौ तद्रक्षणे स्वयम् ॥७०३ ॥ अथाऽल्पभृत्योऽश्वाऽऽरुढस्तेनागच्छन् पथा नृपः । सहसा रोहकेणोचे सावष्टम्भमिदं वचः ॥७०४॥ पुरः प्रासादचैत्याढ्यांराजपुत्र! पुरीमिमाम्। कि त्वं भक्ताऽसि येनाऽश्वं निवर्तयसि नान्यतः ।। ७०५ ॥ तस्य बुद्धया गिरा चैव प्रहृष्टः पृथिवीपतिः। कस्याऽयं सूनुरित्येवं पप्रच्छाऽनुचरान निजान १॥७०६ ॥ तेऽवोचन रङ्गशूरस्य सुतोऽयं देव ! रोहकः । विज्ञानवचनाभ्यां यो जातस्त्वच्चित्तमोहकः ॥७०७ ॥ मन्त्रिपञ्चशतान्यासन् तस्य राज्ञः परं नरम् । प्रकृष्टं मार्गयामास स विधातुं महत्तमम् ॥७०८॥ ततोऽसौ रोहकप्रज्ञापरीक्षणकृतेऽन्यदा। पुरुष प्रेपयित्वा स्वं ग्रामीणानिदमादिशत् अस्मद्योग्य इह ग्रामे प्रासादः कार्यतां परम् । द्रव्यव्ययेन बहुनाऽप्येकद्रव्यविनिर्मितः ॥७१०॥ संभूय ग्रामवृद्धास्ते रङ्गशूरनटश्च सः । चिरमालोचयामासुस्तद्-विधातुमनीश्वराः
Page #185
--------------------------------------------------------------------------
________________
विना तातमभुञ्जानो रोहकोऽय रुदन गृहात् । आगत्याऽऽकारयामास भोजनायैनमादरात् ॥ ७१२॥ सोऽवदद् वत्स ! दत्तोऽद्य क्षुद्राऽऽदेशो महीभुजा । एकद्रव्येण केनाऽपि प्रासादः कार्यतामिति ॥ ७१३ ।। तनिर्णयमकृत्वैव भोजनं क्रियते कथम् ? | आज्ञा बलवतां यस्माद् लचिन्ता न शुभावहा ॥७१४॥ रोहकोऽप्यवदत् तावत् भोजनं क्रियतां ननु । पश्चात सर्व भणिष्यामि चिन्तनीयं किमत्र मोः॥ ७१५॥ भोजनोमभाषिष्ट स सुधी राजपूरुपम् । इयमुच्चतरा दीर्वाऽऽयामयुक्तास्ति या शिला ॥७१६ ॥ तयैव कारयिष्यामः प्रासादं नृपचिन्तितम् । पूरणीयं नृपेणैव पुनः शिल्पिधनाऽऽदिकम् ॥७१७ ॥ इत्यर्थ कथिते तेन पुना राज्ञा परेद्यवि । ग्रामस्था इत्यभाष्यन्त वस्तमुद्दिश्य पुंगिरा ॥७१८॥ पोषणीयः प्रतिदिनं वस्तोऽसौ चारिवारिभिः। अहीनाऽधिकमेदास्तु पुनः प्रेष्योऽस्मदन्तिकम् ॥ ७१९ ॥ कथितं रोहकस्यैव ततस्तेनापि धीमता । तृणाऽऽदिपोपितस्याऽस्य दर्शाते प्रत्यहं वृकः ॥७२० ॥ तथाकृतेऽमुना राज्ञा प्रेषितः कुक्कटोऽन्यदा। एकोऽपि योधनीयोऽयं दत्ताऽऽज्ञा चेदृशी तथा॥ ७२१ ।। संक्रान्तप्रतिविम्वोऽसावादर्श योधितश्विरम् । तिलानां शकटान प्रेष्य भाणितं भूभुजा पुनः ॥ ७२२ ॥ यन्वे हि पीडयित्वामृन तैलं कार्य परं तिलाः । मीयन्ते येन मानेन मेयं तेनैव तैलकम् ॥ ७२३ ॥ रोहको मापयामास पृथ्वादर्शतलेन तान् । भूयस्तेनैव तैलं च बुद्धेः किं नाम दुष्करम् ? ॥७२४ ॥ १ मेपम्.
Page #186
--------------------------------------------------------------------------
________________
चतुर्थः
शान्तिनाघचरित्रम् १९१॥
• प्रस्तावः
अन्यदाकारयद् वैति नृपतिर्वालुकामयीम् । अनया गोपयिष्यन्ते शालीनां किल तन्दुलाः ॥ ७२५॥ रोहकोऽप्यवदद् राजकार्य कार्य यथातथम् । परं प्रमाण नैतस्या जानीमोऽकृतपूर्विणः ॥७२६ ॥ ततस्तस्याः पुरातन्याः खण्डमेकं प्रदर्यताम् । यतस्तेन प्रमाणेन सा नव्या क्रियते बहुः ॥ ७२७ ॥ अन्यदा च जरद्धस्ती प्रेपितस्तत्र भूभुजा । कथितं च यथा यत्नात पाल्योऽयं मम वारणः ॥ ७२८॥ संस्थितस्याऽस्य मे वार्ता कथनीया यथा तथा। मृत इत्यक्षरद्वन्द्वं नोचार्य तु पुरो मम ॥७२९ ॥ ज्ञापितो रोहकेणेति मृते तस्मिन् महीपतिः । यद् देव ! न चरत्यद्य करी पिबति वा न च ॥ ७३० ॥ चक्रे नोच्छ्वासनिःश्वासौराज्ञोचे तर्हि किंमृतः। सोऽवदद्वेभि नैवाऽहं देवोजानाति कारणम् ॥ ७३१ ॥ राज्ञा पुनः समादिष्टं ग्रामलोकस्य तस्य तु । यद् भोः ! स्वादुजलाऽऽपूर्णः स्वकूपः प्रेष्यतामिह ॥ ७३२ ॥ प्रत्यूचे रोहकोऽप्येवं पुरस्था कापि कूपिका । देवाभदौ प्रेष्यतामत्र यतः सार्द्ध तयैत्ययम् ॥ ७३३ ॥ हृष्टो राजाऽप्यमापिष्ट युक्तमेतेन जल्पितम् । कार्यस्याऽघटमानस्याऽघटमानमिहोत्तरम् ॥७३४ ॥ प्रदत्ताज्ञा पुना राज्ञा यदुदीच्यां वनं दिशि । दक्षिणस्यां दिशि ग्रामात् तत् कथं क्रियते वद ॥ ७३५ ॥ रोहकोऽप्यवदद् ग्रामनिवेशः क्रियतेऽन्यतः । तेनैव विधिना ग्रामाद् भवेद् दक्षिणतो वनम् ॥ ७३६ ॥ राजा देशात स चाऽन्येयुः पायसं पावकं विना । पपाचावकरस्यान्तःस्थाली विन्यस्य यत्नतः॥ ७३७ ॥ १ रज्जुम्.
Page #187
--------------------------------------------------------------------------
________________
:
समीपे भूपतिः स्वस्याऽऽकारयामास रोहकम् । व्यवस्थयाऽनयाऽन्येधुरन्योऽन्यस्य विरुद्धया ।। ७३८॥ नागम्यं मलिनाङ्गेन कार्य स्नानं न च त्वया। यानारूढेन चाऽऽगम्यं पद्भ्यां नाऽस्पृशता भुवम् ।। ७३९।। नोत्पथेन न मार्गेण न रात्रौ न च वासरे। न कृष्णे नोज्ज्वले पक्षे न च्छायायां नचाऽऽतपे॥ ७४०॥ नोपदापाणिना नैव रिक्तहस्तेन वा त्वया । आगन्तव्यं त्वयाऽऽभ्यासे शेमुपीशालिनाध्रुवम् ।। ७४१ ।। ततश्चैडे किकाऽऽरूढः स्पृशन पद्भ्यां धरातलम् । प्रक्षालिताङ्गस्तोयेन सन्ध्याकाले कुहूदिने ॥ ७४२ ॥ धृतचालनकः शीर्षे चक्ररेखान्तरालगः । मृदुपायनपाणिश्च स ययौ नृपपर्पदि ॥ ७४३ ॥ कृत्वा प्रणाम भूपस्य समीपे निपसाद च । ढोकयामास चामुष्य प्राभृतं मृत्तिकामयम् ॥ ७४४ ॥ किमेतदिति राज्ञोक्ते कथयित्वाऽऽत्मनः कथाम् । सोऽवदद् देव! गुर्वीयं जगन्मातेव मृत्तिका ॥ ७४५॥ ततश्च स्वाऽजातप्रश्नद्रव्यदानादिना नृपः। संमान्यैनं सभामध्ये प्रशशंस सविस्मयः ॥ ७४६॥ अहो ! अस्य महापुंसो विलोक्य मतिवैभवम् । वयं मन्यामहे रूढं सत्यमेतत् सुभाषितम् ॥७४७ ॥ वाजिवारणलोहाना काठपाषाणवाससाम् । नारीपुरुषतोयानामन्तरं महदन्तरम् ॥७४८ ॥ अथाऽङ्गरक्षकत्वे तं निवेश्य निशि भूपतिः । सुष्वाप शयने तस्मिन् रोहकोऽपि महामतिः ॥ ७४९ ॥ यामिन्याः प्रथमे यामे जातनिद्राक्षयोऽथ सः। विवोध्य रोहकं स्माऽऽह सुप्तोजागर्ति वा भवान् ॥ ७५० ॥ १ समीपे । २ मेपारूदः।
00LL
Page #188
--------------------------------------------------------------------------
________________
शान्तिना
चरित्रम्
॥ ९२ ॥
गुरुः
1104€ 11
॥
७५७ ॥
सोऽवदद् नैव सुप्तोऽस्मि देव! चिन्तां करोम्यहम् । अविकालिण्डिकाः को नु करोत्येवंविधा इति १ ।। ७५१ ॥ पपृष्टेन तेनैव कृतस्तन्निर्णयो यथा । वातप्राबल्यतस्तासां जायन्ते तास्तथाविधाः aateesri पृष्टो राज्ञा जजल्प सः । यथा पिप्पलपर्णानामादिरन्तोऽथवा तेनैव निर्णय द्वावप्येतौ समाविति । तृतीयप्रहरे खाडिहला देहस्य चिन्तनम् निर्णीतमिति तेनैव समत्वं देहपुच्छयोः । यावती श्वेतता तावत् कृष्णत्वमपि तत्तनौ चतुर्थ प्रहरे विद्धः कण्टकेन महीभुजा । जगाद रोहको देव ! चिन्ता त्वत्तातजा मम कीडशीति नृपेणोक्ते सोऽवदद् राजगुह्यकौ । निर्णेजकालिमातङ्गाचेति ते जनकाः स्फुटम् राजोचे किमसंबद्धं ब्रूपे जानासि वा कथम् १ । सोऽप्यवोचत जानामि भूपते ! तव चेष्टया ॥ ७५८ ॥ न्यायेन पालयस्युर्वी येन तेन नृपाऽऽत्मजः । तुष्टो ददासि यद् भूरि धनं तद् धनदात्मजः ॥ ७५९ ॥ कोपं करोपि यद् गाढं तत् त्वं चण्डालनन्दनः । रुष्टो हरसि सर्वस्वं येन तद् रजकाऽऽत्मजः ॥ ७६० ॥ विद्धः कष्टिकया यस्माद् दूनोऽहमलिदंशवत् । तेन जानाम्यहं राजन् ! वृश्चिकोऽपि पिता तव ॥ ७६१ ॥ इत्यर्थे संशयश्चेत् जननीं पृच्छ तन्निजाम् । तत्राऽप्यनुमतं ह्येतदतिनिर्बन्धपृष्टया ॥ ७६२ ॥ वीक्ष्याऽभिलपिता एते यतुस्नातया मया । तेन पञ्चाऽप्यमी वत्स ! पितृभावं भजन्ति ते ततोऽसौ रोहको नामाऽनन्यसामान्यधीधनः । पञ्चमन्त्रिशतस्वामी कृतस्तुष्टेन भूभुजा
॥ ७६३ ॥
॥ ७६४ ॥
11 042 11
11 043 11
11 048 11 11044 11
चतुर्य
प्रस्तावः
॥ ९२ ॥
Page #189
--------------------------------------------------------------------------
________________
तस्य बुद्धिप्रभावेण दृप्ता अपि महीभुजः । अरिकेमरिभूपस्य बभूवुर्वशवर्तिनः
॥७६५॥ ॥इति रोहककथानकं समाप्तम् ॥ बुद्धिनयिकी सा या विनयेन भवेद् गुरोः अधीतेऽपि निमित्ताऽऽदिशास्त्रे चारुविचारकृत् ।। ७६६॥ घटचित्राऽऽदिकरणशिल्पिनां लेखकस्य च। भवेत् कर्मसमुत्था या सा बुद्धिः कार्मिकी स्फुटम् ॥ ७६७ ॥ परिणामवशात् मर्चवस्तुनः कृतनिश्चया। स्यात् पारिणामिकी बुद्धिः प्रतिबोधविधायिनी ॥७६८॥ सर्वामामपि बुद्धीनां दृष्टान्ता आगमोदिताः । अनेके सन्ति ते ग्रन्थगौरवादिह नोदिताः ॥७६९॥ बुद्धिश्चतुर्विधाऽप्येषा मतिज्ञानमिहोच्यते । सति यस्मिन् श्रुतमपि प्रादुर्भवति देहिनाम् ॥७७० ॥ त्रिकालविपयं वस्तु येनाऽधीतेन विद्यते । तत् सिद्धमाकामुख्यं श्रुतज्ञान प्रकीर्तितम् ॥ ७७१ ॥ कियन्तोऽपि भवा येन विज्ञायन्ते शरीरिणाम् । प्रोक्तं तदवधिज्ञानं सर्वदिक्षु कृतावधि ॥७७२॥ भावा मनोगता येन ज्ञायन्ते संझिदेहिनाम् । मनःपर्यवसंज्ञं तच्चतुर्थ ज्ञानमुच्यते ॥७७३॥ सर्वत्र सर्वदा यस्य स्खलना न कथञ्चन । तद्भवे केवलज्ञानं पञ्चमं सिद्धिसौख्यकृत् ॥७७४ ।। अथोत्थाय जिनं नत्वा गृहे गत्वा च चक्रभृत् । राज्ये न्यवेशयत् पुत्रं स सहस्राऽऽयुधाभिधम् ॥ ७७५॥ चतु:महसे राजीनां तत्संख्यैः पार्थिवैस्तथा । सप्तपुत्रशतैः सार्द्ध स श्रामण्यं ततोऽग्रहीत् ॥ ७७६॥ गृहीत्वा द्विविधां शिक्षां गीतार्थो विहरन भुवि । ययौ सोऽपि गिरिवरं सिद्धिपर्वतसंज्ञकम् ॥ ७७७॥
Page #190
--------------------------------------------------------------------------
________________
चतुर्यः
शान्तिनाघनरित्रम् ॥ ९३॥
प्रस्ताव
तत्र वैरोचने स्तम्मे रमणीये शिलातले । स सांवत्सरिकी तस्थौ प्रतिमा मेरुनिश्चलः ॥७७८ ॥ इतोऽवग्रीवतनयौ मणिकुम्भमणिध्वजौ । भवं भ्रान्त्वा सुरत्वेन समुत्पन्नौ तदा हि तौ ॥७७९ ॥ तत्प्रदेशं समायातौ भगवन्तं निरीक्ष्य तम् । उत्पन्नमत्सरी तस्योपसर्गानिति चक्रतुः ॥७८० ॥ तीक्ष्णदंष्ट्राकरालाऽऽस्यं दीर्घलाङ्गुलमादितः । तौ सिंहव्याघ्रयो रूपं मुक्तनादं वितेनतुः ॥ ७८१ ।। ततश्च रूपमास्थाय करेण्योरतिभीपणम् । क्रुद्धौ विदधतुः तस्य दन्तघाताऽऽद्युपद्रवम् ॥ ७८२ ।। भूत्वाऽथ सर्पसर्पिण्यौ फटाटोपभयङ्करौ । ततः पिशाचराक्षस्यावुपदुद्रुवतुश्च तम् ॥ ७८३ ॥ रम्भातिलोत्तमानाग्न्यौ शक्रस्याऽप्रिये तदा । वज्रायुधमुनीन्द्रं तं नमस्कर्तुमुपेयतुः ॥ ७८४॥ ते विलोक्य समायान्त्यौ त्वरितं तौ प्रणेशतः। ताभ्यां संतेक्षितौ गाढं वचनैर्भयकारिभिः ॥ ७८५॥ साङ्गहार सविलासं हावभावरसोत्तरम् । रम्भा नृत्यं स्वयं चक्रे वज्रायुधमुनेः पुरः ॥ ७८६ ॥ सप्तस्वरसमायुक्तं ग्रामत्रयपवित्रितम् । तिलोत्तमाऽपि सपरीवारा गीतं व्यघाद् वरम् ॥७८७ ॥ विधायैवंविधां भक्ति मुनीन्द्रं तं प्रणम्य च । रम्भातिलोत्तमे देव्यौ जग्मतुः स्थानमात्मनः ॥ ७८८ ॥ वार्षिकी पारयित्वा तां प्रतिमामतिदुष्कराम् । विजहार महीपीठे वज्रायुधमहामुनिः ॥७८९ ॥ क्षेमकरे गते मोक्ष गणभृत् पिहिताश्रवः । आययौ नगरेऽन्येयुः सहस्रायुधभूपतेः ॥ ७९०॥ १ तिरस्कृती।
ॐ ॥ ९३॥
Page #191
--------------------------------------------------------------------------
________________
धर्म तदन्तिके श्रुत्वा प्रतिबुद्धः सकोऽपि हि । राज्ये शतवलं पुत्रं निवेश्य व्रतमाददे ॥७९१ ॥ गीतार्थो मिलितः सोऽथ तातसाधोस्ततश्च तौ । भूम्यां विहरतःस्मोभौ कुर्वन्तौ विविधं तपः ॥७९२ ॥ ईपत प्राग्भारसंज्ञेष्य समारुह्य महीघरे । संतस्थतुः कृतप्रायौ पादपोपगमेन तो
॥७९३॥ त्यक्त्वा देहमिदं मलाञ्चितमुभौ तौ देवलोकोत्तरं संप्राप्तौ नवमं गतावमुमथ ग्रैवेयकायकम् । इत्थं शान्तिजिनेश्वरस्यचरिते तस्यैववर्याटमः प्रोक्तोऽयं मयका भवः सनवमः सङ्घस्य कुर्याच्छिवम् ॥७९४॥
इत्याचार्यश्रीअजितप्रभसूरिविरचिते श्रीशान्तिनाथचरिते अष्टमनवम
भववर्णनो नाम चतुर्थः प्रस्तावः
Page #192
--------------------------------------------------------------------------
________________
पंचमः प्रस्ताव
शान्तिनाथचरित्रम् ॥९४॥
पञ्चमः प्रस्तावः इतोऽस्य जम्बूद्वीपस्य प्राग्विदेहस्य भूपणे । विजये पुष्कलावत्यामस्ति पू: पुण्डरीकिणी ॥१॥ नीतिकीर्तिजयश्रीणां स्त्रीणां सङ्केतमन्दिरम् । अभूत् तीर्थङ्करस्तत्र राजा घनरथामिधः ॥२॥ रूपलावण्यसंयुक्ते तस्याऽभूतामुभे प्रिये । आद्या प्रीतिमतीनाम्नी द्वितीया च मनोहरी चन्नायुधस्य जीवोऽथैकत्रिशत्मागरस्थितेः । तस्मात् सर्वोत्तमौवेयकादयुःक्षये च्युतः ॥४॥ तत्पूर्वप्रेयसीकुक्षिशुक्तौ मुक्तामणिप्रभः । समुत्पेदे सुतत्वेन मेघस्वप्नोपसचितः
॥५॥' (युग्मम्) सहस्रायुधजीयोऽथ ततश्युत्बोदरेऽभवत् । राज्ञः पत्न्या द्वितीयस्याः सुरथस्थप्नशंसितः ॥६॥ पूर्णकालेऽथ ते देव्यौ प्रसते शुभलक्षणौ । मेघरथदृढरथनामानौ वरनन्दनौ अतिक्रान्तशिशुत्वौ तौ कलाचार्यस्य सन्निधौ । सुविनीतौ महाप्राज्ञौ पेठतुः सत्कला इति ॥८॥ लेख्यं गणितमालेख्यं नाट्यं गीतं च वादितम् । स्वरपुष्करगतं समतालं चेति तत् त्रिधा अष्टापदं नालिका जनवादं तथैव च । त्रिधा द्यूतं चाऽनपानविधिः शयनसंयुतः आभरणविधिश्चार्या गाथा गीतिः प्रहेलिका | श्लोकश्च गन्धयुक्तश्च तरुणीनां प्रसाधनम् ॥ ११ ॥ नगरस्त्रीहयहस्तीनां लक्षणानि गवां तथा । लक्षणं ताम्रचूडस्य तथा 'मेदस्य लक्षणम् ॥१२॥ १ षण्डस्य इत्यपि पाठः।
॥९४॥
Page #193
--------------------------------------------------------------------------
________________
चक्रच्छत्रमणिदण्डकाकिणीखड्गचर्मणाम् । प्रत्येक लक्षणानीह ज्ञातव्यानि कलाविदा ॥१३॥ चन्द्रसूरग्रहराहुचरितं सूपकारता । विद्याकारो मन्त्रगतं रहस्यगतमेव च
॥१४॥ व्यूह चापि प्रतिव्यहं चारं च प्रतिचारकम् । स्कन्धावारप्रमाणं च मानं च पुरवास्तुनोः ॥१५॥ स्कन्धावारपुरवास्तुनिवेशं चाऽश्वशिक्षणम् । हस्तिशिक्षा तत्ववादं नीतिशास्त्रं सविस्तरम् ॥१६॥ धनुर्वेदमणिकर्णधातुवादं तथैव च । वाहुयुद्धं दण्डयुद्धं दृष्टिमुष्टयोर्युषं तथा । नियुद्धं वाग्युधं सर्पवयपा स्तम्भनं तथा । पत्रच्छेदं वैद्यकं च कृषिर्वाणिज्यकर्म च ॥१८॥ विज्ञेयो चलिपलितनाशः पक्षिरुतं तथा । कला द्विसप्ततिश्चैता विद्वद्भिः परिकीर्तिताः कलाकलापसम्पूर्णौ रूपनिर्जितमन्मथौ। क्रमेण यौवनं प्राप्तौ कुमारौ तौ बभूवतुः ॥२०॥ सुमन्दिरपुराधीशनिहतारिनृपाऽऽत्मजे । उपयेमे मेघरथः प्रियमित्रामनोरमे
॥२१॥ तस्यैव भूपतेः पुत्री कनिष्ठा रूपसंयुता। पुत्री दृढरथस्याऽपि जज्ञे सुमतिसज्ञिका ॥ २२ ।। नन्दिपेणमेघसेनाऽभिधानौ चरनन्दनौ । जातो मेघग्थस्याऽथ पत्नीद्वितयसंभवौ ॥ २३॥ पुत्रो दृढरथस्यैको रथसेनाऽभिधोऽभवत् । ते त्रयोऽयि कलाऽभ्यासं समये चक्रिरेऽखिलम् ॥२४॥ गजा घनस्थोऽन्येद्यः पुत्रपौत्रममन्वितः । सिंहासननिविष्टोऽधितष्ठावास्थानमण्डपम् ॥२५॥ प्रोक्ता मेवरथेनाथ नवाधीता निजात्मजाः । चत्माः ! प्रज्ञाप्रकाशार्थ ब्रूत प्रश्नोत्तराणि च ॥ २६ ॥
EEEEEEEEEEEEEEEEEEEECE
Page #194
--------------------------------------------------------------------------
________________
पंचमः
शान्तिनाथचरित्रम् ॥९५॥
प्रस्तावः
ततस्तद्वचनानन्तरमेव एकेन कनिष्ठेन पठितम्कथं संबोध्यते ब्रह्मा दानार्थों धातुरत्र कः?। का पर्यायश्च योग्यानां को वाऽलङ्करण नृणाम् ॥२७॥
विचिन्त्य द्वितीयेनोक्तम्-'कलाऽभ्यासः । इति ।
सच पठितवानदन्डनीतिः कथं पूर्व महाखेदेक उच्यते । काजलानां गतिलोकपालः कः पञ्चमो मतः ॥२८॥
ज्येष्ठेन तस्योत्तरं दत्तम्-'महीपतिरिति'
ततश्च स पपाठकिमाशीर्वचनं राज्ञांकाशम्भोस्तनुमण्डनम् १ । कः कर्ता सुखदुःखानां पात्रं (मूल)च सुकृतस्य कः ॥२९॥ अन्येषु अजानस्सु मेघरथेन तस्योत्तरमदायि-'जीवरक्षाविधिरिति।
स्वयं च भणितवानसुखदा का शशाङ्कस्य मध्ये च भुवनस्य कः ? | निषेधवाचक: कोवा का संसारविनाशिनी ॥३०॥
राज्ञोक्तम्-'भावनेति। तथैका गणिका तत्रोपविश्य नृपमब्रवीत् ! जीयते देव ! नान्येन कृकवाकुरयं मम
XXXSEXSESSSSXXE64588MSAXSMSMSKHE
-...
.
2008
Page #195
--------------------------------------------------------------------------
________________
-
-
यदि वाऽन्यस्य कस्यापि गर्वोऽस्ति चरणायुधात् । स पादमूले भवतामानयत्वात्मकुकुटम् ॥ ३२ ॥ जेष्यते कुकुटो में चेत् ताम्रचूडेन कस्यचित् । तत् तस्मै संप्रदास्यामि द्रव्यलक्षमहं स्फुटम् ॥३३॥ राझी मनोरमा तस्याः समाकयाथ तद्वचः । दास्या राजाज्ञया तत्रानाययद् निजकुकुटम् ॥ ३४॥ मुक्तस्तेन पणेनाऽसौ ततस्तौ नृपतेः पुरः । यो प्रवृत्तावन्योन्यं चञ्चघातकृतक्षतौ ॥३५॥ चञ्चपादप्रहारैस्तौ युध्यन्तावरुणेक्षणौ । राजसभ्यजनकृतां प्रशंसां समवापतुः । ॥ ३६॥ तीर्थकरत्वादागर्भवासाद् ज्ञानत्रयाऽन्वितः । अत्रान्तरे मेघरथं राजा घनरथोऽब्रवीत्। ॥३७॥ चिरं युद्धाऽनयोर्मध्याद् वत्स ! नैकोऽपि जेष्यति । पृष्टोऽथ कारणं तेन पुनरेवं जगाद सः ॥३८॥ इहैव भरतक्षेत्रेऽभूतां रत्नपुरे पुरे । धनदसुदत्तसंज्ञौ वणिजौ मित्रतां गतौ
॥३९॥ वाहयन्तौ बलीवी क्षुत्तृष्णाभरपीडितौ । व्यवहारं सदा गन्त्र्या चक्रतुः सममेव तो ॥ ४०॥ मिथ्यात्वमोहितौ कूटतुलामानविधानतः । अर्जयामासतुर्वित्तं तौ चाल्पं परवञ्चकौ ॥४१॥ अन्यदा कलहायन्तौ तौ प्रहृत्य परस्परम् । विपद्य चार्तध्यानेन संजातौ वनदन्तिनौ ॥४२॥ कूले सुवर्णकूलाया वर्द्धमानौ बभूवतुः । काञ्चनताम्रकलशाऽभिधानौ यूथनायको तौ च यूथस्य लोभेन युद्धवा मृत्वा बभूवतुः । सैरिमौ पुर्ययोध्यायां नन्दिमित्रस्य मन्दिरे ॥४४॥ गृहीत्वा राजपुत्राभ्यां योधितौ तौ परस्परम् । विपद्य परि तत्रैव संजातौ मेषको दृढौ ॥४५॥
3 XXXXXXXXXXIRRITERRBEFORE
-
Page #196
--------------------------------------------------------------------------
________________
पंचमः
प्रस्ताव:
शान्तिनाथचरित्रम् १९६॥
.
OSSIERREEEEEEEXBikki
मिथः शृङ्गाग्रघातेन भिन्नशीषर्षों सविस्मयम् । मृत्वेमौ कुक्कुटौ जातौ रोषाऽरुणविलोचनौ ॥४६॥ ततश्च नैतयोर्मध्याद् वत्सैकोऽपि विजेष्यते । इति श्रुत्वा मेघरथोऽवधिज्ञानी शशंस च ॥४७॥ न केवलमिमौ तात ! मत्सरावेष्टितौ दृढम् । खेचराधिष्ठितौ चात्र कारणं कथयामि वः ॥४८॥ अस्त्यत्र भरतक्षेत्रे वैताढ्यवरपर्वते । सुवर्णनाभ नगरमुत्तरश्रेणिभूषणम्
॥४९॥ तत्राऽऽसीद् गुरुडवेगाऽभिधानः खेचरेश्वरः । तस्य पुत्रौ चन्द्रसूरतिलकाऽऽख्यौ नभश्चरौ ॥५०॥ अन्यदा तौ नमस्कर्तु प्रतिमाः शाश्वताहताम् । जग्मतुर्मेरुशिखरे जिनस्नात्रपवित्रिते ॥५१॥ तत्र सागरचन्द्राऽऽख्यं 'चारणश्रमणं वरम् । दृष्ट्वा प्रणेमतुः स्वर्णशिलाऽऽसीनमिमौ मुदा ॥५२॥ पृष्टो मुनिवरस्ताभ्यां निजपूर्वभवस्थितिम् । सोऽपि ज्ञानेन विज्ञाय कथयामास ताविति ॥५३॥ अस्तीह धातकीखण्डद्वीपस्यैरवते पुरम् । नाम्ना वज्रपुरं तत्राऽभयघोषोऽभवद् नृपः सुवर्णतिलका तस्य राज्ञी तत्कुक्षिसम्भवौ । अभूतां जयविजयाभिधानौ वरनन्दनौ इतः सुवर्णनगरस्वामिनः शङ्खभूपतेः । पृथ्वीदेवीभवा पृथ्वीसेना नाम्नी सुकन्यका भूपस्याऽभयघोषस्य समायाता स्वयंवरा । परिणीतातिहर्षेण तेनासौ मृगलोचना ॥५७॥ अन्यदाऽथ वसन्तौ सुपुष्पवनबन्धुरे । ययौ क्रीडितुमुद्याने राजा राज्ञीशतान्वितः ॥ ५८॥ भ्रमन्त्या तत्र तत्पल्या पृथ्वीसेनाऽभिधानया । अदर्शि दान्तदमनाऽभिधानो मुनिपुङ्गवः ॥५९ ॥
॥९६॥
Page #197
--------------------------------------------------------------------------
________________
तत्पावै धर्ममाकर्ण तया च प्रतिबुद्धया । अनुज्ञाप्प महीपालं प्रव्रज्यां प्रत्यपद्यत राजाऽप्युद्यानलक्ष्मी तामनुभूय ययौ पुरम् । प्राप्तश्च तद्गृहेऽन्येा छमस्थोऽनन्ततीर्थकृत् ॥ १॥ प्राशु(सु)कैरन्नपानैश्च स तेन प्रतिलाभितः । चक्रिरे पञ्च दिव्यानि तद्गृहे च दिवौकसः ॥६२॥ उत्पन्न केवलस्याऽस्य समीपे स महीपतिः। तनयाभ्यां समं ताम्यां प्रवज्यां प्रतिपन्नवान् ॥६३॥ विंशतिस्थानकैस्तीर्थकरकर्म निबध्य सः । कृत्वा कालं समुतोऽप्यच्युतकल्पे सुरोऽभवत् ततश्युतोऽभयघोषजीवः स्वस्याऽऽयुषः क्षये । राजा वनरयो जज्ञे हेनाङ्गनृपाऽऽमनः ॥६५॥ जीवौ जयविजययोः सञ्जातौ वां दिवश्युतौ । इति तेनानगारेण तयोस्तात ! निवेदितम् ॥६३ ॥ ततस्तौ द्रष्टुमुत्को लामिहाऽऽपातौ नमश्चरौ । अपश्यतां युध्यमानौ कौतुकात् कुकुटाविमौ ॥ ६७ ॥ ताम्यामधिष्ठितावेतौ विद्यया तस्थतुश्च तौ । इहैव गोपयित्वासं स्वविद्यायाः प्रभावतः ॥ ६८॥ वाक्यं मेघरथस्येदं श्रुत्ला तौ खेचरावुभौ । राज्ञो घनरथस्याही प्रकटीभूय नेमतुः ॥६९॥ तो पूर्वभवतातस्य तस्य नत्वा क्रमद्वयम् । क्षणं स्थित्या निजं स्थानं पुनरेव प्रजग्मतुः ॥ ७० ॥ ततो दीक्षां गृहीत्वा तौ तपस्तप्त्या सुदुश्चरम् । उत्पन्न केवलज्ञानौ सनातनपदं गतौ ॥७१ ॥ अथ तौ कुर्कुटौ सर्वो श्रुत्वा पूर्वभवस्थितिम् । महापापविधातारं मनसा सं निनिन्दतु: ॥७२॥ १ कुक्कुटकुकुंटशब्दयोः पर्यायत्वात् केपुचित् पुस्तकेषु कुक्कुटशब्दस्य केषुचन च कुर्कुटस्योल्लेखः ।।
१७
Page #198
--------------------------------------------------------------------------
________________
पंचम:
शान्तिनाथचरित्रम् १९७॥
प्रस्ताव:
प्रणम्य चरणद्वन्द्वं राज्ञो घनरथस्य तौ । स्वभाषयोचतुश्चैवमावां किं कुर्वहे प्रभो!? ॥७३॥ ततो राज्ञा ससम्यक्त्वो धर्मोऽहिंसाऽऽदिलक्षणः । तयोनिवेदितस्ताभ्यां भावसारं प्रतीप्सितः ॥ ७४ ॥ प्रायं कृत्वा विपन्नौ तौ देवयोनी बभूवतुः । ताम्रचूलस्वर्णचूलौ भूतौ भूताष्टवीं गतौ ॥७५॥ ततो विमानमारुह्याऽगत्य नत्वा महीपतिम् । कृतोपकारं तं प्राशंसतां विरचिताञ्जली ॥७६ ॥ राजानं समनुज्ञाप्य जग्मतुस्तौ स्वमाश्रयम् । राजाऽपि पालयामास राजलक्ष्मीमसौ चिरम् ॥७७ ॥ एत्य लोकान्तिकैर्देवै राजा धनरथोऽन्यदा । तीर्थ प्रवर्तयेत्युक्त्वा दीक्षाकालं विबोधितः ॥७८ ॥ दवा सांवत्सरं दानं राज्ये मेघरथं सुतम् । स्थापयित्वा स जगृहे दीक्षां देवेन्द्रवन्दितः उत्पाद्य केवलज्ञानं भविकान् प्रतिबोधयन् । विजहार महीपीठे श्रीमान् घनरथो जिन: ॥८ ॥ युक्तो दृढरथेनाऽथ युवराजेन सप्रियः । उद्याने देवरमणे ययौ मेघरथोऽन्यदा । तत्राऽशोकतरोर्मूले निविष्टस्याऽस्य भूपतेः । पुरोभूतैः समारब्धा कैश्चित प्रेक्षणकक्रिया ।। ८२॥ नानाशस्त्रधराः कृत्तिवाससो भूतिमण्डिताः। तेऽतीव विस्मयकरं नृत्यं विदधिरे क्षणम् ॥८३॥ तेषु नृत्यं प्रकुर्वत्सु किङ्किणीकेतुमालितम् । विमानमेकमाकाशादाययौ नृपसन्निधौ
॥८४॥ तन्मध्ये सुन्दराऽऽकारं नारीपुरुषयोर्युगम् । दृष्टा पप्रच्छ कावेताविति देवी महीपतिम् राजा प्रोवाच हे देवि ! शृणु वैताध्यपर्वते । उत्तरस्यां वरश्रेण्या नगरी विद्यतेऽलका
388888XXXXXXXXXXXXXXXXXX
Page #199
--------------------------------------------------------------------------
________________
11 20 11
विद्युद्रथखेचरेन्द्रपुत्रस्तत्र महाभुजः । अयं सिंहरथो नाम्ना सर्वविद्याधरेश्वरः इयं वेगवतीनाम्नी भार्याऽस्य सहितोऽनया । गतोऽभूद् धातकीखण्डदीपेऽसौ वन्दितुं जिनम् ॥ ८८ ॥ ततो निवर्तमानोऽसौ यावदागादिह प्रिये ! । प्रतिघातो गवेस्तावदस्याऽभूत् सहसैव हि ॥ ८९ ॥ मां दृष्ट्वाऽचिन्तयदसौ सामान्योऽयं नृपो न हि । यत्प्रभावेण सञ्जाता विमानस्खलना मम ॥ ९० ॥ ततोऽनेन प्रहृष्टेन भूतरूपाण्यनेकशः । कृत्वा मम पुरश्चक्रे प्रिये ! प्रेक्षणकौतुकम् ॥ ९१ ॥ पप्रच्छ्वं पुनर्देवी किमनेन पुराभवे । सुकृतं विहितं येन जाता नाथर्द्धिरीदृशी ॥ ९२ ॥ राजोवाच प्रिये ! पूर्व पुरे सङ्घपुराऽभिधे । राजगुप्ताऽभिधः कश्चिद् बभूव कुलपुत्रकः ॥ ९३ ॥ शङ्खका नाम तद्भार्या निर्धनत्वेन पीडितौ । तौ कृत्वाऽन्यगृहे कर्म प्राणवृत्ति वितेनतुः काष्ठाद्यर्थमथान्येद्युर्गताभ्यां काननान्तरे । दष्ट्वा भक्तिवशात् ताभ्यां साधुरेको नमस्कृतः उपदिष्टस्तयोरग्रे तेन धर्मो जिनोदितः । विधिनाऽऽराधितश्चिन्तामणिकल्पद्रुमोपमः जन्मान्तरोपार्जितानां पापानामन्तकारकम् । आदिष्टं च तपो द्वात्रिंशत्कल्याणाऽभिघं वरम् ॥ त्रिरात्रद्वितयं तत्र भवेच्चातुर्थिकानि च । द्वात्रिंशदिति ताभ्यां तद् विदधे भक्तिपूर्वकम् तस्य पारण के ताभ्यां मुनिरेको गृहागतः । प्रणम्य प्राशुकैर्भक्तपानाद्यैः प्रतिलाभितः ॥ ९९ ॥ प्रतिपन्नाऽथ कालेन ताभ्यामप्यनगारता | राजगुप्तः स चाऽऽचाम्लवर्धमानं तपोऽकरोत् ॥ १०० ॥
॥ ९४ ॥
॥
९५ ॥
॥ ९६ ॥
९७ ॥
॥ ९८ ॥
Page #200
--------------------------------------------------------------------------
________________
शान्तिना
धचरित्रम्
पंचमः प्रस्ताव
॥९८॥
आयुःक्षये विपन्नोऽसौ ब्रह्मलोके सुरोऽभवत् । ततश्युतः सिंहरथाऽभिघोऽयं समभूत प्रिये ! ॥ १०१॥ शलिका च तपः कृत्वा कल्पे गत्वा च पञ्चमे । इयं वेगवतीनाम्नी जज्ञेऽस्यैव हि वल्लभा ॥१०२॥ इति मेघरथप्रोक्तमाकर्य चरितं निजम् । प्रतिबुद्धः सिंहस्थो गतो निजगृहं ततः ॥१०३॥ निवेश्य तनयं राज्ये प्रियया सहितस्तया । श्रीधनस्थतीर्थेशपादान्ते बामग्रहीत ॥ १०४॥' घोरं कृत्वा तपःकर्माचाप्य केवलमुत्तमम् । धौतकर्ममलः सिद्धि ययौ सिंहस्थो मुनिः ॥१०५॥ वनाद् गेहं समायातो राजा मेघरथोऽन्यदा । मुक्ताऽजकरणाऽरम्भो विदधे पौषधम् ॥१०६॥ मध्ये पौपधशालायाः स्थितो योगासने सुधीः । पुरः समस्तभूपानां विदधे धर्मदेशनाम् ॥१०७॥ अत्रान्तरे कम्पमानशरीरस्तरलेक्षणः । संवृत्तोऽस्मि महाराज ! तबाई शरणागतः ॥१०८॥ इति जल्पन मनुष्योक्या कुतोऽप्येत्य भयद्भुतः । पपात भूपतेः क्रोडे पक्षी पारापताऽभिधः ॥१०९॥ (युग्मम् ) भयभीतममुं दृष्ट्वा दयालुः स महीपतिः। प्रोचे वं भद्र! मा भैषीः कुतोऽपि मम सन्निधौ ॥११॥ एवमाभापितो राज्ञा निर्भयः समभूदसौ। तावत् तत्र समायातः क्रूरः श्येनाभिवो द्विजः ॥ १११ ॥ सोऽवदत् शृणु राजेन्द्र ! त्वदुत्सङ्गगतोऽस्ति यः। पारापतः स मे भक्ष्यं तं मुश्च क्षुधितोऽस्म्यहम् ॥ ११२ ॥ जजल्प भूपतिर्भद्र ! ममाऽयं शरणागतः । युक्तो नायितुं येन पठन्त्येवं मनीषिणः ॥ ११३ ॥ शूरस्य शरणाऽऽयातोऽहेर्मणिश्च सटा हरेः । गृह्यन्ते जीवतां नैतेऽमीषां सत्या उरस्तथा ॥११४ ॥
SAHASABASSSSSSSSEXKKKKHAKERS
॥ ९८॥
Page #201
--------------------------------------------------------------------------
________________
रा
परप्राणैर्निजप्राणपोपण पुण्यशोषणम् । तवाऽपि नोचितं' स्वर्गवारणं श्वभ्रकारणम् ॥ ११५॥ छिद्यमानेऽप्येकपिच्छे यथा ते जापते व्यथा। तथाऽन्येषामपि भवेदिदं चित्ते विभावय ॥११६ ॥ भाविनी ते क्षणं तृप्तिः पललेऽप्यस्य भक्षिते । सर्वप्राणपिनाशोऽस्येति चित्ते परिभाषय ॥ ११७॥ पञ्चेन्द्रियाणां जीवानां वधं कृत्ला दुराशयाः । गच्छन्ति नरकं जीना इदं चित्ते विभावय ॥ ११८॥ श्रूयते जीवहिंसावान् निषादो नरकं गतः । दयाऽऽदिगुणयुक्ता च वानरी त्रिदिवं गता ॥ ११९॥
इहाऽऽसीदमरावत्याः शाखानगरसन्निमा । शाखामृगशताऽऽकीर्णा हरिकान्ताऽभिधा पुरी ॥ १२०॥ तत्राऽभूत् पृथिवीपालो हरिपाझाऽभिधः सुधीः। हरीणां पालनत्वेन यदाख्या सत्यतां गता॥ १२१॥ तस्यामेव पूरि क्रूरो यमकिकरसन्निमः । कृतघ्नो निर्दयश्चाऽभुद् निषादो नाम घातकः ॥ १२२॥ स पापद्धिरतः पापो गत्वा नित्यं वनान्तरे । जवानाने शो जीवान वराहहरिणादिकान् ॥१२३ ।। इतस्तस्मिन पुरासन्ने बनेऽनेकदुमाकुले । भूपप्रसादबलिनो वसन्ति स्म बलीमुखाः ॥१२४॥ तन्मध्ये वानरी काऽपि कापेयविरता सदा । हरिप्रियाऽभिधानाऽभू दादाक्षिग्यशालिनी ॥ १२५ ॥ एकदा च निषादोऽयं नृशंसः शस्त्रराणिकः । अपश्यत् पुरतो घोरं मृगारि मृगयापरः ॥१२६॥ संप्राणोऽपि ततः प्राणभयभीतो द्वतं द्वतम् । नंष्ट्रा क्वापि ममासनेऽधिरूढो जर्गतीरुहे ॥१२७॥ १ वानराः । २ कपिकर्मणा चापल्येन रहिता । ३ पराक्रमसहितः। ४ वृक्षे ।
EXXXXXXXXXXXXXXXXXXXXXXXXX
Page #202
--------------------------------------------------------------------------
________________
शान्तिनाथचरित्रम् ॥ ९९॥
पंचमः प्रस्ताव
समारोहन्नसौ तत्र पादपे समलोकयत् । विवृतास्यां भयात् तस्य पूर्वारूढां हरिप्रियाम् ॥१२८॥ यस्य चाणप्रहारेण मातङ्गोऽपि विपद्यते । सोऽस्या अपि तदा भीतो यद् भयी भयमीक्षते ॥१२९॥ व्याघ्रात त्रस्तं तमुवीक्ष्य वानरी सा झटित्यपि । प्रविहायाऽऽत्मनः क्षोभं प्रसन्नवदनाऽभवत् ॥ १३०॥ विश्वस्तोऽभूद् निषादोऽथ निषण्णश्च तदन्तिके।सातस्य शिरस: केशान व्यावृणोद् बन्धुवत्सला।। १३१॥ तदुत्सङ्गे शिरः कृत्वा सुप्तोऽसौ विटपाश्रितः । वीक्ष्य निद्रायमाणं तं व्याघ्रःप्रोवाच वानरीम् ॥ १३२॥ भद्रे ! नोपकृति वेत्ति सर्वः कोऽपि महीतले । मनुष्यस्तु विशेषेणाऽस्मिन्नर्थे श्रूयतां कथा ॥१३३ ॥
एकस्मिन् सन्निवेशेऽभूत शिवस्वामीति स द्विजः। स्वतीर्थवन्दनाहेतोर्निरगानिजमन्दिरात् ॥ १३४ ॥ एकस्यां पतितोष्टव्यां तृष्णा”ज्वेषयन जलम् । पुराणकूपमद्राक्षीद् गूढं तरुलतादिभिः ॥१३५ ॥ कृत्वा दाम तृणैस्तेन बद्ध्वा च करपत्रकम् । कूपान्तः क्षेपयामास जलार्थ सोजडाशयः ॥१३६ ॥ रज्ज्वा तत्र विलग्यको निर्ययौ कूपकात् कपिः। सफलोऽयं ममारम्म इति दध्यौ द्विजोऽपि हि ॥ १३७॥ पुनर्वितीयवेलायां व्याघ्रसौँ विनिर्गतौ । ब्राह्मणस्यांहियुग्मं ते प्रणेमुःप्राणदायिनः ॥१३८ ॥ मतिमान वानरस्तेषु जातिस्मरणपण्डितः । द्विजाति ज्ञापयामास लिखित्वेत्यक्षरावलिम् ॥१३९ ॥ वसामो मथुरोपान्ते वयं तत्र त्वयाऽपि हि । समागम्यं ततः किश्चित् स्वागतं ते करिष्यते ॥१४॥ पेअष्मिन्मनुष्योऽपि पतितोऽस्ति पर त्वया ।नयुत्तार्यो यतः सोऽयं कृतमः किं करिष्यति ? ॥ १४१ ॥
Page #203
--------------------------------------------------------------------------
________________
1.588KXXXXXXXX
इत्युदीर्य ययुस्तेऽथ चिन्तयामास स द्विजः । कथमेष मनुष्योऽपि वराको न हि कृष्यते ॥१४२ ॥ सर्वस्याऽप्युपकारो हि विधातव्यः स्वशक्तितः । मनुष्यजन्मनः सारमेतदेव निगद्यते ॥१४३ ॥ कूपे क्षिप्त्वा ततो रज्जूंसोऽप्याऽऽकृष्टो द्विजन्मना। कोऽसि त्वं कुत्र वास्तव्य इति पृष्टो जगाद च॥ १४४॥ अहं हि मथुरावासी स्वर्णकारोव केनचित् । कारणेनाऽऽगतः कूपे पतितः तृष्णयादितः ॥१४५॥ कूपान्तरप्ररूढस्य शाखामालम्ब्य शाखिनः । यावदस्थामहं तावत्ते पेतुर्वानरादयः ॥१४६॥ समानव्यसनत्वाच्च त्यक्तवैराः परस्परम् । परोपकाररसिक ! त्वया जीवापिता वयम ॥१४७॥ मथुरायां समागच्छेरित्युदित्वा ययौ च सः। द्विजश्च क्रमयोगेण तत्र प्राप्तो भुवि भ्रमन् ॥१४८॥ ततोऽसौ वानरो दक्षस्तमुद्वीक्ष्योपलक्ष्य च । हृष्टः सन्मानयामास तत्कालं पेशलैः फलैः ॥१४९ ॥ व्याघ्रोऽपि तस्य सन्मानं विधातुं वाटिकां गतः।जघान चाऽविवेकित्वात् तत्र राजसुतं बलात॥ १५०॥ तस्याभरणमादाय बहुमूल्यं सुखेन सः । ब्राह्मणाय ददौ तस्मै जीवितव्यप्रदायिने ॥१५१॥ कृतप्रमाणं दीर्घायुर्भवेत्याशीगिरा स तम् । तुष्टस्तुष्टाव किं कोऽपि नोपकारेण तुष्यति ? ॥१५२ ॥ ततश्च ब्राह्मणो नत्वा मथुरायां जनार्दनम् । पृच्छन् पृच्छन् पुरीमध्ये स्वर्णकारगृहं ययौ ॥१५३ ॥ सलोभो लोलुपो दूरादीषद् दृष्ट्यावलोक्य तम् । अधोदृष्टिस्तथैवाऽस्थाद् चयन भूषणादिकम् ॥ १५४॥ ब्राह्मणः स्माह भोः! किनु नाडिन्धमान वेरिस माम् । सम्यग नाई विजानामीत्युक्ते तेनाऽवदत् पुनः॥१५५
X
-
XXXXX
Page #204
--------------------------------------------------------------------------
________________
शान्तिनाथचरित्रम्
॥ १०० ॥
१६० ॥
येन त्वमटवीमध्ये पुरा कूपात् समुद्धृतः । सोऽस्मि द्विजो महाभागाऽऽगतः प्राघुर्णिकस्तव ॥ १५६ ॥ ततोऽसावुपविष्टः सन्नीपन्नम्रो ननाम तम् । ढौकयित्वाऽऽसनं किं ते करोमीति जगाद च १ ॥ १५७ ॥ भूषणं दर्शयित्वाऽथ विप्रः प्रोवाच मुष्टिकम् । दक्षिणायामिदं लब्धं मया क्वापि कुतोऽपि हि ॥ १५८ ॥ अस्स मूल्यविधौ धीमांस्त्वमेवाऽसि महाशय ! । तद्गृहीला यथायोग्यं मूलं भव्यं प्रयच्छ मे ॥ १५९ ॥ इति तस्याऽर्पयित्वा तन्नद्यां स्नातुं ययौ द्विजः । शुश्राव स्वर्णकारथ पटहोद्घोषणा मिमाम् ॥ हत्वाऽद्य राजतनयं केनाऽप्यात्तं विभूषणम । यस्तं वेत्ति स आख्यातु वध्योऽसौ भूपतेर्यतः ॥ १६१ ॥ इत्याsssर्ण्य कलादोऽपि वितर्काकुलितोऽभनत् । मयैव घटितं ह्येतदिति सम्यग् विवेद च ॥ १६२ ॥ दध्यौ चासंस्तुतो ऽयं श्रोत्रियो गोत्रिकच न । तत्कथं युज्यते कर्तुमस्याऽर्थेऽनर्थमात्मनः १ ॥ १६३ ॥ ततश्च पटहं धृत्वा गत्वा दवा च भूषणम् । राज्ञे तदपहर्तारं ब्राह्मणं तं न्यवेदयत् ॥ १६४ ॥ राज्ञाऽऽज्ञाप्य निजान् पत्तीन् स बद्ध्वाऽऽनायितस्ततः । पृष्टाः पौराणिकाः किं भोः ! युज्यतेऽत्र ममेत्यथ ११६५ dsवोचन् वेदवेदाङ्गपारगोऽपि द्विजोत्तमः । महाहत्याकरो राज्ञा वध्यो नास्त्यत्र पातकम् ॥ १६६ ॥ रासभारोपितं कृत्वा राजाऽऽदेशात् पदातयः । रक्तचन्दनलितं च तं निन्युर्वध्यभूमिकाम् transit fतयामास चेतसि । अहो ! मे दैवदोषेण कीदृशी दुर्दशाऽभवत् १ १. स्वर्णकारं । २ अपरिचितः ।
॥
१६७ ॥
॥
१६८ ॥
पंचमः
प्रस्तावः
॥ १०० ॥
Page #205
--------------------------------------------------------------------------
________________
अहो! दुष्टस्य धृष्टस्य मुष्टिकस्य कृतघ्नता | व्याघवानरयोः पश्य कीदृशी च कृतज्ञता ? ॥१६९॥ स्मृत्वा तदुदितं वाक्यमात्मनश्चाज्ञतां पुनः । पश्चात्तापाऽभितप्ताङ्गः श्लोकयुग्मं पपाठ सः ॥१७॥ व्याघ्रवानरसागां यन्मया न कृतं वचः । तेनाहं दुविनीतेन कलादेन विनाशितः ॥१७१॥ वेश्याऽक्षकुकुराश्चौरनीरमार्जारमर्कटाः । जातवेदाः कलादश्च न विश्वास्या इमे क्वचित् ॥१७२।। इदं पुनः पुनस्तेन पठ्यमानं निशम्य सः । तं च विज्ञाय तत्रस्थो भुजगोचिन्तयचिदम् ॥ १७३ ॥ वयं येनोद्धृताः कूपात पुरारण्ये महात्मना । स एवाऽद्य महीदेवो व्यसने पतितो हहा। ॥१७४ ॥ ऊक्तश्चउपकारिणि विश्रब्धे साधुजने यः समाचरति पापम् । तं जनमसत्यसन्धं भगवति! वसुधे! कथं वहसि ११७५' इयत्यपि गते सोऽहं कृत्वा किञ्चिद्विधानकम् । यास्याम्यस्योपकारस्यानृण्यं बुद्धिवशाद् द्रुतम् ॥ १७६॥ ततश्च वाटिकां गत्वा क्रीडन्ती सममालिभिःलतागुल्मान्तरीभूय सोऽदशद् राजनन्दिनीम् ॥ १७७॥ निराधारा लतेवैपा मूच्छिताङ्गत्यपतद्भुवि । सख्यस्तूर्ण तदाचख्युः पूत्कुर्वत्यो महीपतेः ॥१७८ ॥ राजा च तत् समाकर्ण्य स्फुर्जथुप्रतिमं वचः । महाशोकाकुलः काममावाधाविधुरोऽवदत् ॥१९॥ याचनकस्य दुःखस्य पारमासाद्यते मया । द्वितीय दौकितं तावच्छिद्रेऽनर्था भवन्त्यहो। ॥१८॥ १ अग्निः । २ ब्राह्मणः । ३ उपायम् । ४ वज्रघातोपमं ।
Page #206
--------------------------------------------------------------------------
________________
पंचमः
शान्तिनाथचरित्रम् ॥१.१॥
प्रस्तावा
मान्त्रिकास्तान्त्रिकाश्चैव समाहूता महीभुजा। चिकित्सा च समारब्धा तत्रैको मान्त्रिकोऽवदत् ॥ १८१ ।। ममास्ति निर्मलज्ञानं तेन जानामि भूपते । । योऽसौ व्यापाद्यते विप्रस्तमवैहि निरागसम् ॥१८२ ॥ अनेन किल कान्तारे पुरा कूपात समुद्धृताः । व्यालवानरशार्दूलाः कलादश्च चतुर्थकः ॥१८३ ।। सोऽयमत्राऽऽगतोऽपूजि वानरेण फलादिभिः । अस्य पूजाकृते राजन् ! हतो व्याघेण ते सुतः॥ १८४ ॥ व्याघ्रदत्तं तमादायाऽलङ्कारमृजुधीरयम् । पार्श्वे कृतोपकारस्य कलादस्य समागतः ॥१८५॥ कलादवचसा देव! भवता हन्तुमादरात् । समादिष्टोऽथ दृष्टश्च भोगिना तेन सोऽध्वनि ॥ १८६॥ ततश्च तद्विमोक्षार्थ दटा युष्मत्सुताऽमुना। यद्येष मुच्यते विप्रस्तदा जीवत्यसावपि ॥ १८७ ।। अत्रार्थे प्रत्ययः कश्चिदित्युक्ते भूभुजाऽथ सः । तत्रावतारयामास मान्त्रिकस्तं महोरगम् ॥ १८८ ॥ तेनाप्यनुमतं सर्व यदुक्तं मन्त्रवादिना । संजातप्रत्ययो राजा ततश्चाऽमोचयद् द्विजम् ॥ १८९ ॥ मुक्तं दृष्ट्वा द्विजन्मानमुरगो गौरवाञ्चितम् । प्रत्याजहार गरलमात्मीयं दंशधावनात् ॥ १९० ॥ अथ सा राजतनया कौमुदीवोदयं ययौ । राजलोकस्तदा सर्वो बभूव कुमुदोपमः ॥ १९१ ॥ तस्य द्विजन्मनश्चाग्रे कथयामास मान्त्रिकः । यत्ते दत्तं जीवदानं पन्नगेनाऽमुना खलु ॥ १९२ ॥ विप्रोऽयोचदहो ! रम्यं चरित्रं देहिनामिह । क्रूरा अपि कृतज्ञत्वं दधन्यन्ये कृतघ्नताम् ॥ १९३ ॥ दधात्वसौ भूतधात्री द्वावेव पुरुषौ सदा । उपकारे मतिर्यस्य यश्च नोपकृतं हरेत् ॥ १९४ ।।
॥१०१॥
Page #207
--------------------------------------------------------------------------
________________
ततश्च विस्मयाद्राज्ञा पृष्टः कथयति स्म स: । समारभ्य प्रवासादिबन्धनान्तां निजां कथाम् ।। १९५ ॥ पुनः स्माह महाराज! सुखदुःखकृतौ कृती । ध्रुवं कृतान्त एवैकः सर्वेषामिह देहिनाम् ॥ १९६ ॥ तत्कथाश्रवणाद् गाढं तुष्टेनाऽथ महीभुजा। शिवस्वामी कृतः स्वामी विषयस्य गरीयसः ॥ १९७ ॥ शिवस्वाम्यपि देशे स्वे कृतज्ञैकशिरोमणिः । प्रावर्तयन्नागपूजाविधाने नागपञ्चमीम् ॥ १९८॥ कथयित्वा कथामेतां पुनर्व्याघ्रोऽब्रवीदिदम् । हरिप्रिये ! यथा तेन सरलेन द्विजन्मना ॥ १९९ ॥ कलादाद्विपदः प्राप्ता निषादोऽयं तथैव हि। विधाता ते महानर्थ तन्मुश्चैनं ममाऽशनम् ॥ २०॥ (युग्मम् ) एवमुक्ताऽपि नाऽमुञ्चत् साधुप्रकृतिवानरी । यावत्तावत् स आसीनो व्याघ्रस्तस्य तरोरधः ॥ २०१॥ इति व्यचिन्तयदहो! तिरश्चामपि चेतसि । मैत्र्यादिर्दश्यते बुद्धिर्दुर्लभा या तु योगिनाम् ॥२०२॥ प्रबुद्धस्याऽथ दुष्टस्य निषादस्य दुरात्मनः । अस्वपद् वानरी साऽपि निवेश्याऽङ्के निजं शिरः॥२०३ ॥ व्याप्रोऽप्यभ्यासमागत्य तं जगाद निपादकम् । मित्रं मामनया कृत्वा निर्भयो भव सर्वतः ॥ २०४॥ सप्ताहक्षुधितस्यैनां समर्पय न चेदथ । प्रभूतेनाऽपि कालेन स्वगृहं न गमी ततः ॥२०५॥ अपरं च न सङ्गोऽस्याः शुभोदर्काय ते ध्रवम् । नाश्रौषीस्त्वं पुरा किंवा वानरेण हतो नृपः १॥ २०६॥ इत्यर्थे श्रूयतां भद्र! प्रथयामि कथाम्हम् । सहर्षःस निषादोऽपि प्राहाऽऽख्याहि शृणोम्यहम् ॥ २०७॥ १ समीप।
ESEXXXXX68SEXSEXXXMUSRO
Page #208
--------------------------------------------------------------------------
________________
शान्तिनाथचरित्रम्
पंचमः प्रस्ताव
॥१०२॥
पुरे नागपुरे भूपः स्वरूपजितमन्मथः । शत्रुवंशवजस्यासीदावाभः पावकाह्वयः ॥२०८ ॥ चाहकेल्यां शूकलेन वाजिना काननेऽन्यदा । बलानीतो नृपो दूरमध्वानं प्रतिलभ्य सः ॥२०९॥ एकाकिनो वने तस्मिन् भ्रमतो नृपतेस्तदा । क्षुधितस्य तृषार्तस्य मिलितः कोऽपि वानरः ॥ २१०॥ फलान्यानीय रम्याणि तेन दत्तानि भूभुजे । दर्शितं शुचिपानीयपूर्ण चापि सरोवरम् ॥२११॥ फलान्यास्वाध पीत्वा च वारि होरि धरापतिः । आससास परां प्रीति मनसस्तावदागतम् ॥ २१२॥ तत्सैन्यं मन्त्रिसामन्तवाजिवारणबन्धुरम् । नीतोऽसौ वानरो राज्ञा कृतज्ञेन निजं पुरम् ॥२१३ ॥ बुभुजे सोज्य पक्वान्नं मोदकादि मुहुर्मुहुः । फलानि कदलीचूतप्रमुखानि नृपाऽज्ञया ॥२१४ ॥ स्मरनुपकृति तां च तं सदा निजपार्श्वगम् । चकार नृपतिश्चैषा प्रकृतिः पौरुषी यतः ॥२१५ ॥ वसन्ते सङ्गतेन्येयुः कामिनां चित्तशालिनाम् । ऋतौ पुष्पफलाकीणे कानने कामिवाच्छिते ॥ २१६ ॥ अन्दोलजलकेल्यादि प्रक्रीय कदलीगृहे । सुष्वाप श्रमनाशाय प्लवगे त्वङ्गरक्षके ॥२१७॥ (युग्मम् ) कुधिया कपिना तेन स्वामिभक्तत्वमानिना । भ्रमरव्याजतो राज्ञः कृत्ता खड्गेन कन्धरा ॥ २१८॥ यथा तेन क्षितीशेन हितादपि हि वानरात् । प्राप्तं तु मरणं तस्मात्तदियं श्रेयसे न ते ॥२१९॥ इत्याकर्ण्य कथा तेन व्याधेनाऽऽशु हरिप्रिया। पातिताऽस्य मृगारातः पुरः प्रोवाच तामसौ॥ २२०॥
१ स्वादु ।
॥१.२॥
Page #209
--------------------------------------------------------------------------
________________
न धार्य हृदये दुःखं भद्रे ! प्राप्ता त्वया ननु । तादृशी फलसम्प्राप्तिर्यादृशः सेवितो नरः ॥ २२१ ॥ प्रत्युत्पन्नमतिः साध्य व्याघ्र स्माह स्वसंज्ञया । रक्षणीया त्वया नाऽहं भक्षणीयैव केवलम् ॥२२२॥ हितं ते वच्म्यदो वाक्यं वानराणां मृगाधिप ।। प्राणा वसन्ति लाङ्कले ग्राह्यास्तत्रैव तत्त्वया ॥ २२३॥ तथैव कृतवान् व्याघ्रः सहसा साऽपि वानरी। वृक्षे त्वरितमारूढापुच्छं मुक्त्वा मुखेऽस्य तत् ॥ २२४॥ विलक्षवदनो व्याघ्रो व्याघुट्यागाददृश्यताम् । उत्ततार ततो वृक्षात् सनिपादा च वानरी ॥ २२५॥
अग्रे भूत्वा तया निन्ये स स्वावासे लताश्रये। तस्याः शिशवस्तत्राऽसंस्तेषां पार्श्वे निवेश्य तम् ॥ २२६ ॥ विधातुं स्वागतं तस्य सा त्वनालस्यशालिनी । वनमध्ये ययौ स्वादुफलानयनहेतवे ॥२२७॥ (युग्मम्) जिघत्सुना निषादेन तदपत्यानि तान्यपि । खादितानि कुतः कृत्याकृत्यवेदो दुरात्मनाम् ॥ २२८॥ फलान्यादाय स्वादूनि वानरी यावदाययौ । तावत्सुप्तं निपाई तमपश्यन्न च तान् शिशून ।। २२९ ।। तथाऽप्युत्थाप्य यत्नेन दत्वा चाऽस्मै फलानि सा । अपत्याज्ज्वेषणं कर्तु सार्ध तेन प्रचक्रमे ॥ २३०॥ पातिताऽपि पुरा वृक्षादपत्येष्वशितेष्वपि । प्रतिपन्नसगर्भेऽस्मिन् नाशशङ्के तथाऽप्यसौ ॥२३१॥ दध्यौ चित्ते निषादोऽपि विषादाकुलितो भृशम्। अहो! मेऽद्य समस्तोऽपि व्यापारोऽभूनिरर्थकः॥ २३२॥ रिक्त एव कथं गेहे यास्यामीति विचिन्त्य सः । यष्टया चाहत्य हतवान हीनस्तामेव वानरीम् ॥२३३॥ १ व्यापाद्य वानरी स्कन्धे निधाय प्रचचाल सः ॥२३३॥ यावत्प्रयात्यसौ गेहं प्रति तावद्ददर्श च । इति पाठान्तरं साधु.
REEEEEEEEEEEEEEEEEEEXXXX
Page #210
--------------------------------------------------------------------------
________________
बाकतो क्षिप्त्वा नीयमा लालितश्विरम् I हमध्यवध्योऽसित्वाऽसौ बन्धनैर्टर
पंचमः
शान्तिनाथचरित्रम् ॥१०३ ॥
तांच कावाकृतौ क्षिप्त्वा नीयमानां निरीक्ष्य सः आविर्भूयाबदद् व्याघ्रः किमिदं रे कृतं त्वया ॥२३४॥ यया त्वं पुत्रवत् पाप ! पालितो लालितश्चिरम् । तस्याः प्रकृर्वतोघातं किं न ते शंटितौ करो?॥२३५॥ रे पापिष्ठ ! निकृष्टाज्ञ ! कृतघ्नाभव्य ! दुर्मते! । प्रयाहि मेऽप्यवध्योऽसि त्वन्मुखं वीक्ष्यते कथम् ॥ २३६ ॥ निषादचाऽऽगतो गेहे ज्ञात्वा तद्वृत्तमादितः । राज्ञा चाज्ञापितो वध्यो बवाऽसौ बन्धनैदृढम् ॥ २३७॥ राजादिष्टैनरैर्यावत् स नीतो वध्यमूमिकाम् । तावद् व्याघ्रोऽवद्युक्तमहो ! नैतस्य मारणम् ॥ २३८ ॥ अथ तैविस्मयापनैः कथितं तन्महीभुजे । स्वयं राजाऽपि तत्राऽऽगात कौतुकोत्तानमानसः ॥ ३३९ ॥ तथैव व्याजहाराऽसौ मृगराजो महीपते ! | पापिनोऽस्य वधान्मा भूस्त्वमप्यंशहरों हेसः ॥२४॥ स्वयमेव पतन्त्येव विपत्तौ पापजन्तवः । निमज्जति यथा तूर्ण सम्पूर्ण कलशोऽम्भसि ॥२४१॥ . राजा प्रोवाच हे व्याघ्र ! तिरश्चोऽपि कथं नु ते। प्रकृष्टा मानवी भाषा विवेकित्वं तथेदृशम् ? ॥ २४२ ॥ व्याघोऽप्येवमभाषिष्ट विशिष्टज्ञानसंयुतः । उद्याने सरिरत्राऽस्ति स सर्व कथयिष्यति ॥२४३॥ इत्युदित्वा ययौ सोऽथ तं निषादं महीपतिः । पुर्या निष्कासयामास सुरेन्द्र इव सङ्गमम् ॥ २४४॥ ततश्च वनखण्डान्तमूर्त धर्ममिवाग्रतः । ददर्शाज्यं परिवृतं सूरि भूरितपोधनैः
॥२४५॥ नमस्कृत्य गुरोः पादावनुज्येष्ठं मुनीनपि । उपविश्य च गुर्वन्ते पप्रच्छैवं कृताञ्जलिः ॥२४६॥ १ त्रुटितौ । २ पापस्य ।
Page #211
--------------------------------------------------------------------------
________________
प्रभो ! सर्व विजानासि निर्मलज्ञान चक्षुषा । तेन पृच्छामि सा मृत्वा कां गतिं वानरी ययौ ? ॥ २४७ ॥ गुरुः प्रोवाच भूपाल ! मरालधवलाशया । धर्मध्यानपरा धन्या सुरलोकमियाय सा
॥ २४८ ॥
यतः
तपः संयमदानोपकारेषु निरतः सदा । गुरुवाक्यरुचिर्जीवो दयावां दिवं गमी
॥
॥
अपृच्छद्भपतिर्भूयो भूयः पापपरायणः । जात्या च क्रियया चाऽपि निषादाख्यः क्व यास्यति १ सूरिश्व कथयामास सर्वस्याऽपि स्फुटं ह्यदः । यद्य (द) स्य पापिनः स्थानं किमन्यन्नरकं विना ॥ जीवहिंसामृषावादस्तेनान्यस्त्रीनिषेवणैः । परिग्रहकषायैश्च विषयैर्विषयीकृतः कृतभो निर्दयः पापी परद्रोहविधायकः । रौद्रध्यानपरः क्रूरो नरो नरकभाय् भवेत् ॥ प्रस्तावादपरगतिद्वयलक्षणमपि शृणु ॥ 'पिशुनो गोमेतिश्चैव मित्रे शाठ्यरतः सदा । आर्तध्यानेन जीवोऽयं तिर्यग्गतिमवाप्नुयात् मार्दवाव सम्पन्नौ गतदोषकषायकः । न्यायवान् गुणगृह्यश्च मनुष्यगतिभाग् भवेत् पृच्छति स्म पुनर्भूपः कथं व्याघ्रो मनुष्यवाक् १ । निषादइँदनाद् येन वारितोऽहं प्रभो ! बलात् ॥ २५६ ॥ जगाद पुनराचार्यो भूपते ! शृणु कारणम् । सौधर्मे देवलोकेऽस्ति शक्रसामानिकः सुरः १ पिशुनो दुर्विनीतश्चेति पाठान्तरम् । २ गोः पशोरिव मतिर्यस्य । ३ सूदनं नाशः ।
॥ २५४ ॥
।। २५५ ।।
॥ २५७ ॥
7.
॥
॥
२४९ ॥
२५० ॥
२५९ ॥
२५२ ॥
२५३ ॥ ( युग्मम् )
Page #212
--------------------------------------------------------------------------
________________
पंचमः
शान्तिनाथचरित्रम् ॥१०४॥
प्रस्ताव
तस्य प्राणप्रिया देवी युवा कापि मनुष्यभूत् । रक्षपालाः सुरास्तस्या अपृच्छंस्तत्प्रियं सुरम् ॥ २५८॥ स्वामिन्नस्मिन् विमाने का भविता देवता न वा । तेन सावानरी तेषां भाविनी देवतोदिता ॥ २५९ ॥ व्याघ्ररूपधरो भूत्वा तत्परीक्षार्थमागतः । एको देवस्ततो राजस्तस्य वागु मानुषी वरा ॥२६॥ हरिप्रियानिषादाभ्यां सह तेन विनिर्ममे । विवादो बहुधा मायागालाऽनुचरेण च ॥२६१॥ प्रतिबुद्धस्ततो राजा राज्यं न्यस्य सुते निजे । तेपामेव मुनीन्द्राणां पार्श्वे जातो महाव्रती ॥२६२ ॥ हरिपालाख्यराजर्षिः पालयित्वा व्रतं चिरम् । सुरलक्ष्मीमवापोचैस्तस्मिन्नेव सुरालये ॥२६३ ॥
इति निषादवानरी कथा। यथाऽसौ नरकं प्राप्तो निषादो जीवहिंसया । तथाऽन्योऽपि भवेत्तस्मात्याज्येयं सर्वथा त्वया ॥ २६४॥ श्रुत्वा मेघरथस्योक्ति श्येनोवोचन्महीपते ! | धर्माधर्मविचारं त्वं करोष्येवं सुखी यतः ॥२६५॥ पारापतोऽयं मद्भीतः शरणं त्वां समाश्रितः । बुभुक्षाराक्षसीग्रस्तः शरणं कं श्रयाम्यहम् ? ॥२६६॥ राजन् ! सत्पुरुषोऽसि त्वं दुःखं कस्यापि नेच्छसि । रक्ष रक्ष कृपाशूर ! तदेनमिव मामपि ॥ २६७ ॥ कृत्याकृत्यं स्वयं वेत्सि किन्त्वेक कथयामि ते । मादृशे क्षुधिते क्षुद्रे कीदृशी धर्मवासना! ॥ २६८॥ विवेको हर्दिया धर्मो विद्या स्नेहश्च सौम्यता । सत्वं च जायते नैव क्षुधार्तस्य शरीरिणः ॥२६९॥ प्रतिपन्नमपि प्रायो लुप्यते क्षुन्निपीडितः । इत्यर्थे नीतिशास्त्रोक्तो दृष्टान्तः श्रूयतां प्रमो। ॥ २७०॥
will॥१०४॥
Page #213
--------------------------------------------------------------------------
________________
उदद
करीवनसंकीर्णे निर्जले मरुमण्डले । आवात्सीत् कूपके क्वापि द्विजिह्वः प्रियदर्शन: ॥ २७१ ॥ नीरासन्नबिलस्यान्तः सुखेन निवसन्नसौ । विदधे सर्वदाऽऽहारं भेकादिजलजन्तुभिः ॥ २७२॥ सुखप्राप्तिकृते तेपामेकेन हेरिणा सह । गङ्गादत्ताऽभिधानेन स मैत्रीत्वं प्रपन्नवान ॥२७३॥ कूपान्तरकृतावासा चित्रलेखा च सारिका । बभूव मधूरालापा तस्य सर्पस्य वल्लभा ॥२७४॥ एवं गच्छति कालेऽस्याऽन्यदा द्वादशवार्षिकी । अनावृष्टिरभूत्तेन कूपे तत्राऽम्बु निष्ठितम् ॥ २७५॥ तस्मिश्च निष्ठिते सर्वे जलजीवाः क्षयं गताः। तदाऽऽहारस्य तस्याहेवृत्तिच्छेदोऽभवत्ततः ॥ २७६ ॥ गङ्गदत्तस्तु शालूरः पङ्कशेषकृताशनः । जीवन्नन्येद्युरित्यूचे सर्षेणाऽयं रहास्थितः ॥२७७॥ भद्राऽहं क्षुधितोऽत्यन्तं त्वज्जातिकृतभक्षणः । सा त्वनावृष्टिदोषेण विगता किं करोम्यहम् १ ॥ २७८ ॥ सोऽथ दध्यावयं कुरो निहन्तुं मां समीहते । रक्षामि स्वं ततोऽमुष्मात् कृत्वोपायं हि कञ्चन ।। २७९॥ इति ध्यात्वाऽवदत् स्वामिन् ! गत्वा सिन्धुहृदादिपु । निजजाति विलोभ्याहमानेष्यामि कृते तव ॥ २८॥ धृत्वा चञ्चपुटे चित्रलेखा नेष्यति तत्र माम् । ततस्ते प्रचुरा नित्यं प्राणयात्रा भविष्यति ॥ २८१॥ अथाऽनेन समादिया तदर्थ पक्षिणी सका। चञ्च्या कृत्वा मुमोचैनं नीत्वा क्वापि महाहृदे ॥ २८२ ॥ नीरमध्यप्रविष्टोऽसौ संजातः सुखभाजनम् । तदाशयमजानत्या भणितश्चित्रलेखया ॥२८३ ॥ १ सर्पः । २ भेकेन । ३ भेकः ।
XXXXXRAXEEEEXXXXXXX
Page #214
--------------------------------------------------------------------------
________________
शान्तिना- ... वचरित्रम् ॥१०५॥
पंचमः प्रस्ताव
एहि भद्र ! शीघ्रं त्वं विधाय स्वसमीहितम् । कष्टेन वर्तते स्वामी सोऽथ तामित्यभाषत ॥ २८४ ॥
आख्याहि भद्रे ! प्रियदर्शनस्य न गङ्गदत्तः पुनरेति कूपम् ।
बुभुक्षितः किं न करोति पापं ? क्षीणा नरा निष्करुणा भवन्ति ॥ २८५ ॥ इत्यात्मचिन्तितं तस्या आख्याय पुनरब्रवीत् । त्वयाऽपि तस्य विश्वासो न कर्तव्यः कथश्चन ॥ २८६ ॥ एवं राजन्! क्षुधातः सन् कृत्याऽकृत्यं न वेम्यहम्। तदाशुप्रीणय त्वं मां यावत प्राणा न यान्त्यमी।। २८७ ॥ एवं श्येनेन भणिते प्रोवाच जगतीपतिः । यच्छामि ते वराऽऽहारं भद्र ! त्वं क्षुधितो यदि ॥ २८८॥ पक्ष्यूचे नान्य आहारोऽस्माकमिष्टो विनाऽमिषम् । तदप्यानीय शूनाया दास्यामीति नृपोऽवदत् ॥ २८९ ॥ पश्यतो मेऽङ्गिनो मांस छित्त्वा चेद्दीयते ततः। तृप्तिर्भवेदिति पुनर्वदति स्म स नीडेजः ॥२९ ॥ राजोचे यत्प्रमाणोऽयं भवेत् पक्षी तुलाधृतः । तावन्मानं निजं मांस यच्छामि किमु ते वद १॥ २९१ ॥ एवमस्त्विति तेनोक्ते तुलामानाययन्नृपः । न्यवेशयच्च तत्रैकपार्श्वे पारापतं द्विजैम् ॥२९२॥ उत्कृत्योत्कृत्य देह स्वं तीक्ष्णक्षुरिकयाऽक्षिपत् । द्वितीयपाधै मांसं च करुणारससागरः ॥२९३ ॥ छिचा निजकमांसानि स चिक्षेप यथा यथा । पारापतोऽधिकतरमवर्धिष्ट तथा तथा ॥२९४॥ गुरुभारममुं ज्ञात्वा खगं साहसिकाग्रणीः । तुलायामारुरोहाऽस्यां स्वयमेव महीपतिः ॥२९५॥ १ प्राणिवधस्थानात् । २ पक्षी । ३ पक्षिणम् | ४ छित्त्वा छित्त्वा ।
॥१०५॥
Page #215
--------------------------------------------------------------------------
________________
॥ ३०० ॥
॥ ३०१ ॥
तुलारूढं नृपं दृष्ट्वा सकलोऽपि परिग्रहः । हाहाकारं प्रकुर्वाणः सविषादमदोऽवदत् ॥ २९६ ॥ ! नाथ ! जीवितत्यागसाहसं किं करोष्यदः ९ । एकस्य पक्षिणोऽस्यार्थे किमस्मांश्रावमन्यसे । ॥ २९७ ॥ इद्मौत्पातिकं किञ्चित् प्रभो ! सम्भाव्यते यतः । भवेन्नैतादृशो भारः क्षुद्रकायस्य पक्षिणः ॥ २९८ ॥ परोपकारकरणरसिकः सरलाशयः । तथोपयोगं भूपोऽसौ न ददौ ज्ञानवानपि ॥ २९९ ॥ इदं च चिन्तयामास धन्यास्ते धरिणीतले । निर्वाहयन्ति ये श्रेयः कार्यमङ्गीकृतं खलु सर्वोsपि स्वार्थलुब्धोऽयं चलस्नेहः परिग्रहः । कृतनमशुचेर्गेहं देहं चापि विनश्वरम् अपेक्षयानयोः सोऽहं स्वार्थभ्रंशं करोमि किम् ? । स्वसन्धां पूरयिष्यामि यद्वा तद्वा भवत्वहो ! ॥ ३०२ ॥ अत्रान्तरे चलत्स्वर्णकुण्डलालङ्कृतं श्रुतिः । किरीटहारकटकधारी कश्चित् सुरो वरः आविनय जगावं धन्योऽसि त्वं महीपते । तव धीर ! दयावीर ! सफले जन्मजीविते येनाऽद्य त्वद्गुणग्रामं शशाङ्ककरनिर्मलम् । ईशानेन्द्रः सभामध्ये प्रशशंस सविस्मयः अश्रद्दधानस्तमहं त्वत्परीक्षार्थमागतः । अधिष्ठितौ मया तो पूर्वमत्सरिणौ खगौ अथापृच्छन्नृपो वैरं कथं देवाऽनयोरभूत् १ । इत्याख्याहि यतोऽस्माकं वर्तते कौतुकं महत् ॥ ३०७ ॥ आख्यच्च त्रिदशोऽत्रैव नगरे समभूत्पुरा । वणिक् सागरदत्तो विजयसेना च तत्प्रिया १ श्रुतिः कर्णः ।
॥ ३०६ ॥
॥ ३०८ ॥
॥ ३०३ ॥ ॥ ३०४ ॥
॥ ३०५ ॥
Page #216
--------------------------------------------------------------------------
________________
शान्तिनाथचरित्रम् ॥१०६॥
पंचमः प्रस्ताव
युगलेन समुत्पन्नौ वाणिज्यकलयाऽन्वितौ । धननन्दननामानावभूतां नन्दनौ तयोः ॥३०९॥ पितरं समनुज्ञाप्य सार्थेन सममन्यदा । जग्मतुस्तौ वणिज्यार्थ पुरं नागपुराभिधम् ॥३१ ॥ व्यवहारं प्रकुर्वद्भ्यां ताभ्यामेकमुपार्जितम् । बहुमूल्यं तत्र रत्नं कथञ्चिदैवयोगतः ॥ ३११ ॥ ततस्तौ तस्य लोभेनाऽन्योन्यघाताभिलाषिणौ । मज्जन्तावन्यदा नद्यां विवादमिति चक्रतुः ॥३१२ ॥ एकोऽवोचन्मयैवेदं चारु रत्नमुपार्जितम् । द्वितीयः स्माह मयका त्वं लोभ कुरुषे वृथा ॥ ३१३ ॥ इत्यन्योन्यं रुपाक्रान्तौ तौयुद्धवाऽरुणलोचनौ। पतितौ निम्नगानीरे चालध्यानेन संस्थितौ ॥ ३१४ ॥ संजातौ पक्षिणावेतौ वनमध्ये ततोऽधुना । मिलितो कलहायन्तौ मया भोः ! समधिष्ठितौ ॥३१५॥ इत्युक्त्वा निर्जरः सोऽथ जगाम त्रिदशालयम् । पप्रच्छविस्मयापन्नाः सभ्या मेघरथं नृपम् ॥ ३१६ ॥ नृनाथ ! त्रिदशः कोऽयं येन यूयं निरागसः । विधाय बहुधा मायां पातिताः प्राणसंशये १॥ ३१७॥ ततो मेघरथो राजा जगाद यदि कौतुकम् । भवतामस्ति तत्सावधानाः श्रृणुत मद्वचः ॥३१८॥ इतो भवादतिक्रान्ते पञ्चमेऽहं भवेऽभवम् । अग्रजोऽनन्तवीर्यस्य बलदेवोऽपराजितः ॥३१९ ॥ तदाऽऽवयोरभूच्छत्रुर्दमितारिमहाभुजः । अपहृत्य सुतां तस्य स आवाभ्यां निपातितः ॥ ३२०॥ भ्रान्त्वा संसारकान्तारमिहैव भरतार्धके । अष्टापदगिरेर्मूले सोऽभवत्तापसात्मजः ॥३२१ ॥
१ मृतौ । २ देवः।
॥१०६॥
Page #217
--------------------------------------------------------------------------
________________
कृत्वा बालतपो मृत्ला सुरूपाख्योऽमृताशनः । ईशानकल्पे जातोऽयं तदेन्द्रः प्रशशंस माम् ॥ ३२२ ॥ अश्रद्दधत्प्रशंसां तामिहायाऽतस्ततः परम् । यज्जातं भवतां तद्धि प्रत्यक्षं सर्वमेव भोः। ॥ ३२३ ॥ स्ववृत्तं देववृत्तं च तावाकये विहायसौ । संजातजातिस्मरणौ स्ववाचैवं जजल्पतुः ॥ ३२४ ॥ इदं स्वचरितं स्वामिन् ! श्रुत्वा संवेग आवयोः । संजातोऽतिगुरुश्चित्ते यत् कर्तव्यं तदादिश ॥ ३२५ ॥ राज्ञोक्तं भोः ! सुदृष्टित्वं प्रतिपद्य महाशयौ!| भावसारं विदधीथोऽनशनं पापनाशनम् ॥ ३२६ ॥ ततस्तौ विहितप्रायौ स्मृतपञ्चनमस्कृती । मृत्वा धन्यौ समुत्पन्नौ देवौ भुवनवासिपु ॥ ३२७॥ पौपधं पारयित्वा तं विधिना कृत्वाच पारणम् । भोगानभुक्त भूयोऽपि राजा मेघरथः सुधीः ॥ ३२८ ॥ परीपहोपसर्गेभ्योऽभीत: संवेगवासितः । सोऽन्यदाऽष्टमभक्तेन तस्थौ प्रतिमया स्थिरः ॥ ३२९॥ अष्टाविंशतिलक्षाणां विमानानामधीशिना । अत्रान्तरे भक्तिवशादीशानेन्द्रेण जल्पितम् ॥ ३३०॥ माहात्म्यनिर्जिताशेपत्रैलोक्य ! गतकल्मप ! | भविष्यदर्हते तुभ्यं महासत्त्व ! नमो नमः ॥ ३३१ ।। तमाकर्ण्य समीपस्थाः पृच्छन्ति स्मेति तत्प्रिया:स्वामिन कस्य नमस्कारो युष्माभिर्विहितोऽधुना॥३३२॥ सोऽवदतु श्रृणु त्रैलोक्यसुन्दरि ! क्षितिमण्डले । नगर्या पुण्डरीकिण्यां राजा मेघरथाऽभिधः।। ३३३ ।। कसाऽटमतपःकर्मा स्थिरप्रतिमया स्थितः । वर्तमानः शुभध्याने मया भक्त्या नमस्कृतः ॥ ३३४ ॥ (युग्मम्) एवंविधशुभध्यानाद् धर्मे तल्लीनमानसम् । शक्ताश्चालयितुं नैनं सेन्द्रा अपि दिवौकसः ॥ ३३५ ॥
Page #218
--------------------------------------------------------------------------
________________
पंचमः
शान्तिनाथचरित्रम् ॥१०७॥
प्रस्ताव
इत्याकार्य सुरूपातिरूपे तद्वल्लभे उभे । क्षोभनार्थ नृपस्याऽस्य समीपे समुपेयतुः ॥३३६ ॥ उत्कृष्टरूपलावण्यकान्तियुक्ते सविभ्रमे । सुशृङ्गारे पुरो भूत्वा तस्यैवं ते जजल्पतुः ॥ ३३७॥ . . आवां देवाङ्गने स्वामिस्त्वयि स्नेहविमोहिते । इहाऽऽयाते ततो वाञ्छां पूरय त्वं प्रियाऽऽवयोः ॥ ३३८ ॥ विमुच्य त्रिदशाधीशं स्वाधीनं निजकं पतिम् । आवामिहागते लुब्धे त्वद्रूपगुणयौवनैः ॥ ३३९ ॥ इत्यादिरागजननपेशलैबचनस्तयोः । हावभावैश्च विविधैर्न लुब्धं तस्य मानसम् ॥३४॥ अनुकूलोपसर्गास्ते विधाय सकलां निशाम् । प्रशान्तविक्रिये प्रातरेवं संस्तुवतः स तम् ॥ ३४१॥ सरागं हृदयं चक्रे रागेणापि त्वयाऽऽवयोः । अहो ! चित्रं न रक्तोऽसि प्रक्षिप्तोऽप्यत्र सुन्दरी ॥३४२॥ विलीयते नरो लोहमयोऽप्यस्मद्विचेष्टया । न स्तोकमपि ते धीर ! चचाल हृदयं तया ॥ ३४३ ॥ क्षमयित्वाऽपराधं वं नमस्कृत्याथ तं नृपम् । कुर्वत्यौ तद्गुणश्लाघा जग्मतुस्ते निजाऽऽश्रयम् ॥ ३४४॥ प्रतिमां पारयामास पौषधं च यथाविधि । राजा मेघरथः प्रातर्विदधे पारणं ततः ॥३४५॥ अन्यदाऽऽस्थानमासीनः ससामन्तः स भूपतिः । उद्यानपालकेनैवं भणितो भक्तिपूर्वकम् ॥३४६ ॥ स्वामिन् ! संवर्ध्यसे दिष्टया यदद्य नगरे तव । जनकः समवासा जिनो धनरथः प्रभुः ॥३४७॥ ततो दानं हिरण्यादि दवाऽस्मै पारितोषिकम् । कुमारसंयुतो राजा ययौ नन्तुं जिनेश्वरम् ॥ ३४८॥ वन्दित्वा भगवन्तं तं शेषानपि तपोधनान् । निषसाद यथास्थानं भक्तिभावितमानसः ॥३४९॥
Page #219
--------------------------------------------------------------------------
________________
॥
३५४ ॥
३५५ ॥
अत्रान्तरे जिनः सर्वभाषानुगगिरा वराम् । जन्तूनां प्रतिबोधार्थ विदधे धर्मदेशनाम् भो भव्या ! इह कर्तव्यो जिनार्चननमस्कृतौ । अपूर्वपाठश्रवणे चाऽप्रमादो निरन्तरम् पुण्यात्मा यो भवेज्जीवोsप्रमत्तो धर्मकर्मणि । तस्याऽऽपदपि सौख्याय शूरस्येव प्रजायते प्रस्तावेऽत्र गणधरो जिनं नत्वा व्यजिज्ञपत् । प्रभो ! कः शूरनामाऽसौ योऽप्रमत्तो वृ॑षेऽभवत् १ अथावादीज्जिनो भद्र ! यदि ते श्रुतिकौतुकम् । तदाऽस्याऽऽख्यानकं सम्यग् कथ्यमानं मया शृणु ॥ अस्त्यस्य जम्बूद्वीपस्य मध्यखण्डे हि भारते । क्षितिप्रतिष्ठितं नाम पुरं पुरगुणाश्चितम् ॥ तं पुरं पालयामासाऽशेषसामन्तवन्दितः । लोकावेनैकरसिको वीरसेनाऽभिधो नृपः तस्यासीद्धारिणी देवी देवीव धरणीगता । ददर्श साऽन्यदा स्वप्ने पुरो यान्तं सुरेश्वरम् पत्युः शशंस सा स्वप्नं सोऽवादीद्भविता सुतः । चलेन्द्रदर्शनात्सोऽपि भावी किञ्चिञ्चलाचलः ॥ ३५८ ॥ जज्ञे च समये पुत्रोऽभिधानदिवसेऽस्य च । देवराज इति नाम चक्रे स्वमानुसारतः तस्मिन् प्रवर्धमानेऽपि स्वप्ने राज्ञ्यान्यदैक्षत । शङ्खोज्ज्वलं पुष्टदेहं निजोत्सङ्गगतं वृषम् तस्मिथ कथिते राज्ञा भणितं देवि ! ते सुतः । भविष्यति महाबाहू राज्यभारधुरन्धरः जातस्य समये तस्याऽप्यकारि जगतीभुजा । वत्सराज इति स्वप्नानुसारेणाऽभिघा वरा १ धर्मे । २ अवनं रक्षणं ।
॥ ३५६ ॥
॥ ३५७ ।।
॥ ३५९ ॥
॥ ३५० ॥ ॥ ३५१ ॥
॥ ३५२ ॥
३५३ ॥
॥ ३६० ॥
॥ ३६१ ॥ ॥ ३३२ ॥
Page #220
--------------------------------------------------------------------------
________________
शान्तिनाथचरित्रम् ॥१०८॥
पंचमः प्रस्ताव
क्रमेण वर्धमानोऽसावष्टवर्षोऽखिलाः कलाः | अधीते स्म महाप्राज्ञः कलाचार्यस्य सन्निधौ ॥३६३ ॥ अन्यदा ज्वरदापा(हा)दिरोगग्रस्तशरीरकः । आयुष्पर्यन्तकालत्वाद्रभूव पृथिवीपतिः ॥३६४ ॥ दृष्टा रोगादितं भूपं दुःखितोऽभूत् परिग्रहः । लोकाः सम्भूय सर्वेऽपि मन्त्रयाश्चक्रिरे मिथः ॥ ३६५॥ अयं हि वयसा ज्येष्ठो देवराजोऽस्ति यद्यपि। तथाऽपि हि गुणज्येष्ठो वत्सराजोऽस्त्वसौ नृपः॥ ३६६ ॥ जनवादममुं श्रुत्वा सहालोच्यैकमन्त्रिणा । स्वीचक्रे देवराजेन सैन्यं वाजिगजादिकम् ॥३६७॥ तं नियुक्तकृतं श्रुत्वाऽऽरव किमिति भूपतिः। पप्रच्छ कथयामास सर्व परिजनोऽस्य तत् ॥३६८॥ ततश्च स जगादैवं व्याध्याधिभ्यां निपीडितः । अहो अयुक्तं विदधे कार्यमेतद्धि मन्त्रिणा ॥३६९॥ वत्सराजकुमारोऽयं योग्यो राज्यस्य नापरः । परमेतदवस्थोऽहमशक्तः किं करोमि भोः ! १॥३७॥ इत्युक्त्वा संस्थितः सोऽथ देवराजोऽभवन्नृपः । विनां जनानुरागेण राज्यं पालयति स्म सः ॥ ३७१ ॥ चकार वत्सराजोऽपि प्रणिपातादिसत्क्रियाम् । पितृवद्देवराजस्य स्वभावविनयान्वितः ॥३७२ ॥ अनुरागपरं तस्मिन् विज्ञाय सकलं जनम् । दध्यौ मन्त्री वर्धमानो राज्यमेष हरिष्यति ॥३७३ ॥ तदस्मिन्नहिते स्वस्य नोपेक्षा युज्यते खलु । कोमलोऽपि रिपुच्छेद्यो व्याधिवद् बुद्धिशालिना ॥ ३७४ ॥ विचिन्त्येदमसौ मन्त्री ज्ञापयामास भूपतिम् । सोऽवदन्ननु भो मन्त्रिन ! किमत्र क्रियतामिति ॥ ३७५॥ १मृतः।
१०८॥
Page #221
--------------------------------------------------------------------------
________________
मन्त्र्यूचे वत्सराजोऽयं तिष्ठन्नत्र न ते हितः । पुरान्निस्यतां देव ! तत्कनिष्ठोऽप्यनिष्टकृत ॥ ३७६ ॥ ततश्च देवराजेन भूभुजा भणितोऽनुजः । गन्तव्यं त्वयकाऽन्यत्र मुक्त्वा मे विषयं पुनः ॥३७७॥ भ्रातुराज्ञांगृहीत्वातां जनन्याः सन्यवेदयत् । तच्छ्रत्वादुःखितासाऽपि वभूवाऽश्रुमुखी क्षणातू ।। ३७८ ॥ ज्ञात्वा तां दुःखितां वत्सराजोवादीत्किमम्बिके ! । एवं खेदं करोपि त्वं देह्यादेशं व्रजाम्यहम् ॥ ३७९ ॥ देवी प्रोवाच हे वत्स ! यद्येवं त्वयका सह । आगमिष्याम्यहमपि भगिन्या सहिता ध्रुवम् ॥३८॥ वत्सराजोनवीन्मातः ! स्थेयमत्रैव हि त्वया । यदन्यदेशो विपमो देवराजोऽपि ते सुतः ॥ ३८१॥ जनन्यूचे त्वयैवाहं सममेष्यामि वत्सक! । नार्थो मे देवराजेन यस्तवाऽप्यपकारकृत् ॥३८२ ॥ ततश्च देवराजेन राज्ञोदालितवाहना। चचाल धारिणी पादचारिणी सह मनुना ॥३८३॥ स हन्तव्यो मयावश्यं योऽनेन सह यास्यति । इत्युक्त्या वारितः सर्वः परिवारस्तु भूभुजा ॥ ३८४॥ ततश्चोच्छलितो लोकहाकारः सकले पुरेस कोऽपि नाभवत्तत्र येन नो रुदितं तदा ॥३८५॥ जजल्प च जनोऽद्यैतदनाथमभवत्पुरम् । सम्प्राप्तोऽद्यैव पञ्चत्वं वीरसेनो नरेश्वरः ॥३८६ ॥ परित्यक्ता वयमहो ! यदनेन महात्मना । इति लोकवचः शृण्वन् पुराद्वत्सो विनिययौ ॥३८७ ॥ ततः शनैः शनैर्मात्रा मातृष्वत्रा च संयुतः। सोज्वन्तिदेशमध्यस्थामियायोजयिनी पुरीम् ॥३८८॥ जितशत्रुनृपस्तस्यां यथार्थाख्यः पराक्रमी । बभूव कमलश्रीश्च तस्याग्रमहिषी घरा ॥३८९॥
Page #222
--------------------------------------------------------------------------
________________
शान्तिनाथचरित्रम् ॥१०९॥
पंचमः प्रस्ताव:
बहिप्पुर्यारतरच्छागं विश्रान्ता साऽथ धारिणी। चिन्तयामास हा दैव! किमरे । विहितं त्वया ?॥ ३९॥ भूत्वाऽपि वीरसेनस्य भूपतेः प्राणवल्लभा । हन्तेदृश्यां दुर्दशायां समता पतिता कथम् ? ॥३९१ ॥ अथ तां समनुज्ञाप्य तत्स्वसा विमलाऽभिधा । प्रविवेश पुरीमध्ये वासस्थानविधित्सया ॥३९२॥ सा त्रस्तहरिणीनेत्रा वीक्षमाणा पुरीजनम् । श्रेष्ठिनं सोमदत्तास्यं ददशैकत्र मन्दिरे ॥३९३ ।। शान्तमूर्तिममुं दृष्ट्वा सोचे तात ! विदेशगा। अहं मद्भगिनी तस्याः सुतश्चेहाऽऽगतास्त्रयः ॥ ३९४ ॥ निवासस्थानक किश्चिच्चेचं दर्शयसे तदा । सन्तिष्ठामो वयं तत्र सुखेन तव निश्रया ॥३९५॥ सोऽथापर्वरिकामेका दर्शयित्वा जगाद ताम् । स्थेयमत्र परं त्वं मे भाटकं किं प्रदास्यसि ? ॥ ३९६ ॥ विमलोवाच मे भद्र ! भाटके नास्ति किञ्चन ! किन्त्वावां त्वद्गृहे कर्म करिष्यावोऽखिलं सदा ॥ ३९७॥ भोजनं च त्वया देयमस्माकं श्रेष्ठिपुङ्गव ! | ईश्वराणां तृणेनापि कार्य स्यात् किन्न देहिनाम् ॥ ३९८ ॥ एवमस्त्विति तेनोक्ते धारिणी ससुता च सा । तस्थौ तत्र गृहे तस्य चक्रतुः कर्म ते उभे ॥ ३९९ ॥ धारिणीविमले कर्मकय्यौँ ते वणिजो गृहे । अभूतामुदरस्यार्थे किं तद्यन्न विधीयते ?. ॥४०० ॥ अन्यदा वणिजा तेन प्रोक्ते ते एष बालकः । किं करोत्युपविष्टः सन्नस्तु मे वत्सपालकः ॥४०१॥ वत्सराजकुमारोऽथ वत्सरूपाणि तद्गृहे । विनीतो मातृवचसाऽचारयदैवयोगतः ॥४०२॥ १. लघुगृहम् ।
॥१.९॥
Page #223
--------------------------------------------------------------------------
________________
SEXXXXXXRESEEXXXXXXXXXXXX
RECE-C-
S
अन्यदा वत्सरूपाणि मृहीत्वाऽगानान्तरे। चरत्सु तेषु तत्रासौ विशश्राम क्षणान्तरम् ॥४०३॥ श्रुत्वैक्त्र स्वरं राज्ञः पुत्राणां कुर्वतां श्रमम् । जगाम सोऽपि तत्राशु तदालोकनकौतुकी ॥४०४॥ तेषां मध्याद्यदा कोऽपि घाताद् भ्रश्येन्मनागपि । वत्सराजः समीपस्थस्तदाम्लानमुखोऽभवत् ॥ ४०५॥ घातो यदि पुनः स्थाने भवेत्तु तोषनिर्भरः। प्रहृष्टवदनश्चामुं प्राशंसत् साधु साध्विति ॥४०६॥ तद्दृष्ट्वा तत्कलाचार्योदध्यौ कोऽप्येष कोविदःबालोऽपि शस्त्रकर्माणि य एवं वेत्ति निश्चितम् ॥४०७॥ एवं पृष्टोऽमुनासोऽथ कुतोवत्स! त्वमागतः ।जगाद वत्सराजोऽपि तात ! वैदेशिकोऽस्म्यहम् ॥ ४०८॥ स पुनः स्माह भो भद्र! कृत्वा प्रहरणं करे । आत्मनः शस्त्रकौशल्यं त्वं मदने प्रकाशय ॥४०९॥ विज्ञायाऽवसरं सोऽपि तथा चक्रे महामतिः । तेषां योग्यं कुमाराणां तदा भक्तं समाययौ ॥ ४१०॥ भोजितो वत्सराजोऽपि ततस्तैरात्मना सह । तत्कलाभ्याससन्तुष्टैर्गुणैः सर्वत्र पूज्यते ॥४११॥ सोस्थात्तत्र दिनं सर्व वत्सरूपाणि तानि तु । रक्षपालं विना गेहे सकालेऽपि समाययुः ॥४१२॥ एयुः सदिवसेऽप्यद्य किमेतानीति जल्पिते । श्रेष्ठिना विमलोवाच नाहं जानामि कारणम् ॥ ४१३॥ अमीयां रक्षको वत्सोऽप्याऽऽगतोन गृहे यतः। श्रेष्ट्यूचे यदसौ बालो नाययौ तन्न शोभनम् ॥ ४१४ ॥ प्रदोपसमये सोऽथ समायातो निजं गृहम् । लग्ना किमियती वेलेत्यूचे मात्राज्यया तथा? ॥४१५॥ सोऽवदन्ननु हे मातः ! सुप्तोऽभूवमहं बहिः । केनापि बोधितो नैवाऽधुना जागरितः स्वयम् ॥ ४१६॥
XXXXXXXXSESXSEEEEXXXXX
-
ED
Page #224
--------------------------------------------------------------------------
________________
शान्तिनाथचरित्रम् ॥११ ॥
पंचमः प्रस्ताव
एवं द्वितीयदिवसे तृतीयेऽपि व्यधादसौ । तर्णकेष्वागतेषूपालम्भ श्रेष्ठी ददौ तयोः ॥४१७॥ रुष्टाभ्यामथ ताभ्यां स भणितो वत्स ! किं तव । परदेशगतिः कर्मकरत्वं चैव विस्मृतम् ॥ ४१८॥ परवेश्मनिवासश्च तथा कष्टेन. भोजनम् । यदेवं त्वमुपालम्भमानयस्यद्य बालक ! ॥४१९ ।। वत्सराजोजवीन्मातर्वत्सरूपाणि न ह्यहम् । कदापि चारयिष्यामीत्याख्येयं वणिजोऽस्य हि ॥ ४२०॥ तया चाख्यायि तत्तस्य वत्सराजोऽपि सर्वदा । तेषां पाधै कुमाराणां यात्वा भक्के स्म तत्र च ॥४२१॥ क्क गच्छसि सदैव त्वं भोजनं वा कथं तव । इति पृष्टोऽम्बयाऽन्येधुर्वत्सस्तस्यै शशंस तत् ॥४२२॥ अश्रुप्रपातपूर्व च तयैवं भणितस्ततः । कथं त्वमावयोः चिन्तां करोषि न हि पुत्रक! १॥ ४२३॥ अन्यच्च नावयोर्गेहे सन्त्येषांसि च नन्दन ! | पुरवासे यतः प्रायो दुष्प्रापं स्याजलेन्धनम् ॥ ४२४ ॥ सोऽब्रवीत् श्रेष्ठिनः पार्थाद्याचित्वा त्वं कुठारिकाम् । कावाकृतिंच हे अम्ब ! समर्पयसि मे यदि ॥ ४२५॥ ततोऽहमिन्धनं सारमानयामि बनान्तरात् । तयाऽथ तत्तथा चक्ने ययौ सोऽप्वटवीं प्रगे॥ ४२६ ॥ (युग्मम् ) पश्यन्नानागुमास्तत्र स दध्यौ यदि कञ्चन । पश्यामि प्रवरं वृक्षं तत् छित्त्वा तस्य दारुभिः ।। ४२७ ॥ रुक्षदारिन्यवृक्षस्य छेदनं प्रकरोम्यहम् । अम्बायास्तद्भगिन्याश्च वाञ्छितं पूरयामि च ॥४२८॥ तत्रैका देवकुलिका तेनाऽथ ददृशे वरा । तदन्तर्यक्षराजश्च प्रत्यक्षो भक्तिशालिनाम् ॥ ४२९ ॥
१ रूक्षं कठोरम् ।
.
॥११॥
Page #225
--------------------------------------------------------------------------
________________
।
तत्र दूरे समानाय सुगन्धं स व्यचिन्तयत् । नूनमत्र वने कापि विद्यते चन्दनद्रुमः ॥ ४३०॥ सम्यग् निरीक्षमाणेन यतोऽसौ सर्पवेष्टितः । दृष्टोऽथ साहसेनैते परिक्षिप्ता महोरगाः ॥ ४३१ ॥ पुरा यक्षवनमिति च्छिनो दुःसन केनचित् । चिच्छेद स तु तस्यैकशाखां साहससंयुतः॥ ४३२॥ विधाय काष्ठखण्डानि क्षिप्ला कावाकृतौ तथा । परितुष्टमनाः सोऽथ चचाल स्वगृहं प्रति ॥४३३ ॥ नगा यावदासन्नं स समेतस्तदाऽन्तरा । जगामास्तं रविः पुर्या द्वाराणि पिहितानि च ॥ ४३४॥ तस्यां पुर्यामय कल्पः शाकिनीनां भयेन यत् । उद्घाट्यन्ते गोपुराणि भानुमत्युदिते सति ॥ ४३५ ॥ वत्सराजस्ततो दध्यौ पुर्या वाह्यगृहेषु न । वसनीयं यतो गन्धः शक्यो रोढुं न चान्दनः ॥ ४३६ ॥ क गम्येयं मया रात्रिः शीते पतति दारुणे। ज्ञातं वा तत्र देवकुलिकायां व्रजाम्यहम् ॥ ४३७॥ इति ध्यात्वा द्रुतं तत्र गत्वा चैकत्र पादपे । कावाकृति चावलम्ब्याऽविशद्देवकुलान्तरे ॥ ४३८॥ तत्कपाटे पिधायाऽथ मुक्त्वा पार्श्व कुठारिकाम् । तत्रेकदेशे सुधाप निर्भयो वीरसेनजः ॥ ४३९ ।। अत्रान्तरे च संजातं रात्रिमध्ये यदद्भुतम् । वत्सस्य तस्थुपस्तत्र तदितः श्रूयतां जनाः। ॥ ४४०॥ अतिरम्यविमानस्थो चैताब्यवरपर्वतात् । समाययौ खेचरीणां सार्थोऽस्मिन् यक्षनन्दिरे ॥४४१॥ विहितस्फारशृङ्गारा गीतनृत्यसमुद्यताः । तद्वारामण्डपगता जल्लन्ति स्मेति ता मियः ॥४४२॥. चित्रलेखे! प्रवीणे! लं वीणां वादय सुन्दराम् । हले ! मदनिके ! तालावादनं पुनः कुरु ॥ ४४३ ॥
Page #226
--------------------------------------------------------------------------
________________
शान्तिनायचरित्रम् ॥१११॥
पंचम: प्रस्ताव
पटिष्ठे! पटहं सज्ज विधेहि वेगवत परम् । मृदङ्गमङ्गप्रगुणं क्षिप्रं पवनिके ! तनु ॥४४४॥ गाय गान्धविके! गीतं नृत्यं कुर्मो वयं यतः । पूरयामो निजी स्वेच्छामिह स्थाने मनोरमे ॥४४५॥ एवं वदन्त्यस्तास्तत्र क्रीडन्ति स्म यथासुखम् । हासतोषपरवशा महाविस्मयकारिकाः ॥४४६ ॥ ततः स्वेदजलार्द्राणि मुक्त्वादायाऽबराणि ताः । क्षणमेकं च विश्रम्य स्वस्थानं प्रस्थिताः पुनः॥ ४४७॥ वत्सराजकुमारोऽपि कुश्चिकाविवरेण तत् । व्यलोकयत् कौतुकेन सर्व तासां विचेष्टितम् ॥४४८ ॥ तत्रैव विस्मृतं तासां भक्तिचित्रं सुकचुकम् । ददर्श चैक रत्नौघमण्डितं महाद्युतिम् ॥४४९॥ अथोद्घाट्य कपाटे तं गृहीत्वा वरकञ्चकम् । प्रविवेश झटित्येव पुनर्देवकुलान्तरे ॥४५॥ मध्ये तासां खेचरीणां स्मृत्वोचेऽथ प्रभावती । महामूल्यो वारवाणस्तत्र मे विस्मृतो हला:! ॥ ४५१॥ ततस्ताभिरमाणीय वेगवत्या समन्विता । गत्वा त्वं सत्वरं तत्राऽऽनय तं निजकञ्चकम् ॥४५२ ॥ इत्युक्ता सा ययौ शीघ्र स्थाने नैक्षिष्ट तत्र तम्। जजल्प च गतः क्वाध्यमियत्या सखि ! वेलया ॥४५॥ स्थान निर्मानुष चैतत् त्रियामा च त्रियामिता। ततः संभाव्यते नाऽस्य ग्राहकः कोऽपि निश्चितम्॥४५४॥ वेगवत्यवदरं नीतो नूनं स वायुना । ततः प्रमादमुत्सृज्य निरीक्षावोऽत्र सर्वतः ॥४५५ ॥ अथावलोकयन्तीभ्यां ताभ्यामेषा विहङ्गिका । दृष्टावलम्बिता.वृक्षेऽन्योन्यमेवमभाणि च ॥४५६ ॥ १ कञ्चकः । २ यामत्रयातिक्रान्ता।
१११॥
Page #227
--------------------------------------------------------------------------
________________
- अस्य देवकुलस्यान्तणूढः कोऽप्यस्ति पूरुषः । कूर्यासहर्ता तदमुं भीषयावः कथञ्चन ॥४५७ ॥ इत्यूचतुश्च मध्यात्त्वमरे! मानुष ! निस्सर । मुश्च नौ कञ्चुकं नो चेद्धरिष्यावः शिरस्तव ॥४५८॥ एवमुक्तोऽप्यसौ ताभ्यां क्षत्रियत्वाद् विभाय न । उद्घाटयामासतुस्ते भिया यक्षस्य नाररी ॥ ४५९॥ मन्त्रयाश्चक्रतुश्चाऽपसृत्य ते योऽत्र कश्चन । उपितोऽभिजनस्तस्य रुदिष्यति पुरान्तरे ॥४६०॥ तत्र गत्वा ततश्चावां जानीवोऽस्याऽभिधादिकम् । मन्त्रयित्वेति खेचयों जग्मतुस्तत्र ते दुतम् ॥ ४६१॥ धारिणीक्मिले तावन्महादुःखाभिपीडिते । मुहुर्विलपतः स्मैवं स्मारं स्मारं स्वनन्दनम् ॥४६२॥ हा ! वीरसेनभूपालप्रसूत ! सुखलालित ! । वत्सराज ! कुमाराऽभूर्दशा कीदृशी तव ? ॥४६३ ॥ राज्यापहारः प्रथम देशान्तरगतिस्ततः । परवेश्मनिवासश्च तथा कप्टेन भोजनम् ॥४६४॥ हा वत्स ! प्रेषितोऽस्यद्य त्वमिन्धनकृते कथम् ? | आवकाभ्यामधन्याभ्यां यदद्याऽपि समेषिन॥ ४६५॥ तच्छ्रुत्वा ज्ञातवृत्तान्ते ते खेचावुपेयतुः । तत्र देवकुले मातृस्वरेणैवं जजल्पतुः ॥४६६॥ स्वद्वियोगार्दिते आवामिहायाते कथश्चन । हा वत्सराज वत्स ! त्वमात्मानं नौ प्रदर्शय ॥४६७ ॥ सोऽय दध्यौ जनन्योर्मे नाऽतिर्घटतेऽधुना। तन्नूनमेते ते एव खेचय्यौँ माययाऽऽवृते ॥४६८।। ध्यात्वेति प्रददौ धीमान वाइमात्रमपि नैतयोः। उदिते च खावेते खिन्ने स्वस्थानमीयतुः ॥ ४६९॥ १ अररी द्वारे ।
Page #228
--------------------------------------------------------------------------
________________
शान्तिना
थचरित्रम्
॥ ११२ ॥
॥ ४७५ ॥
कुञ्चिकाविवरेणान्तः प्रविष्टा रविरोचिषः । विलोक्य निर्ययौ देवकुलमध्यात्कुठारिकः कञ्चुकं स्थगयित्वा तं श्रीखण्डतरुकोटरे । कावाकृर्ति गृहीत्वा च काष्ठं कृत्वा परं करे चचाल गेहाभिमुखं पुरद्वारगतोऽथ सः । चिक्षेप काष्ठखण्डं तत्प्रतोलीपालकस्य च यातः परिमलस्तस्योच्छति स्म स चान्दनः । ततोऽवलोकयामास दिइमुखान्य खिलो जनः कुतः स्फुरति गन्धोऽयमित्यन्योन्यं जजल्प च । तमेधोवाहक इति हीलया पश्यति स्म सः गत्वा स्वगेहे तन्मध्ये गोपयामास सोऽथ तत् । आर्पयत् खण्डमेकं च निजमातृष्वसुः करे तया तदनुमत्या तद्विक्रीतं गन्धिकापणे । तन्मूल्यद्रव्यमानीय प्रचुरं चास्य दर्शितम् सोऽयं प्रोवाच हे अम्ब! मा कार्षीः कर्म गर्हितम् । अस्मिथ निष्ठिते खण्डे विक्रेतव्यमथाऽपरम् ॥ ४७७ ॥ दातव्यं श्रेष्ठिनो गेहभाटकं च यथोचितम् । विधेयं स्वं पराधीनं भवतीभ्यां न कस्यचित् ॥ ४७८ ॥ अहं तु स्वेच्छयाऽवश्यं क्रीडिष्याम्यखिलं दिनम् । गेहेऽत्र शयितुं रात्रावागमिष्यामि सर्वदा ॥ ४७९ ॥ इत्युदित्वा कुमाराणां समीपेऽथ ययावसौ । तैरूचे ह्यस्तनदिने न भ्रातः ! किमिहागतः १ ॥ ४८० ॥ शरीरापाटवं किञ्चिन्ममासीदिति सोऽब्रवीत् । तेऽवदन् सदनं ते न विद्मोऽभ्ये मोऽन्यथाऽन्तिकम् ॥ ४८१ ॥ जगाद तमुपाध्यायो वत्स ! ते कतमत् कुलम् १ । कस्तातो जननी का वा जन्मभूमिश्च का ननु ? ॥ ४८२ ॥ १ गोपत्वा ।
॥। ४७६ ॥
॥ ४७० ॥
॥ ४७१ ॥
॥
॥ ४७३ ॥
॥ ४७४ ॥
४७२ ॥ ( युग्मम् )
पंचमः
प्रस्तावः
॥ ११२ ॥
Page #229
--------------------------------------------------------------------------
________________
--
--
-
भणति स्म कुमारोऽदस्तात ! मा पृच्छ सम्प्रति । प्रस्तावे तत्पुनः सर्व कथयिष्यामि ते ध्रुवम् ॥ ४८३ ॥ ज्ञात्वा तद्भावमाकारसंचरं चक्रिरेऽथ ते | कुमारा ददिरे चास्मै भोजनाच्छादनादिकम् ॥४८४ ॥ अथान्येधुरुपाध्यायो गृहीत्वा तान कुमारकान । वत्सराज समाकार्य समीपे भूपतेयौ ॥४८५॥ प्रणिपातं विधायाऽस्य निपेदुस्ते यथोचितम् । वत्सराजकुमारं च दृष्ट्वा पप्रच्छ तान्नृपः ॥४८६॥ को नु वत्साः! कुमारोऽयं दृश्यते युष्मदन्तिके प्रतिपन्नसगर्भोऽयमस्माकमिति तेऽब्रुवन् ॥४८७॥ ततः पृष्टोऽमुनाऽऽचार्या भद्राय कस्य नन्दनः। विज्ञानं कीदृशं वास्येत्युक्तः सोचोचदञ्जसा ॥४८८॥ राजन्नस्य कुमारस्य सम्यग् जानामि नान्वयम् । विज्ञानेन पुनः पृथव्यांतुल्यो नास्त्यस्य कश्चन ।। ४८९॥ अथो राज्ञः कुमारेस्तैः स्वविज्ञाने प्रदर्शिते । वत्सराजोऽपि तत्तस्य सविशेषमदर्शयत् ॥४९ ॥ हुटो राजाऽवदद्वत्स ! शंस गोत्रं निजं मम । स्थगितानां मौक्तिकानां नापों विज्ञायते यतः॥ ४९१ ॥ विज्ञायाचसरं तेन सकलाऽपि निजा कथा । मूलादारभ्य निःशङ्कमाचचक्षेऽस्य सूनृता ॥४९२ ॥ ततो राज्ञः समीपस्था कमलश्रीति वल्लभा । मातृष्वसा कुमारस्य तच्छ्रुत्वोचे ससम्भ्रमम् ॥ ४९३ ॥ हे वत्स ! किमिहायाते धारिणीविमले अपि ? आमेति भणिते तेन सोवाच जगतीपतिम् ॥ ४९४ ॥ प्राणेश ! मम यामी ते पूर्वजे तत्तवाऽज्ञया । मिलनाय तयोर्यामीत्युक्ते सा भणिताऽमुना ॥ ४९५॥ १ अङ्गीकृतः सहोदरः। १ आच्छादितानाम् ।
Page #230
--------------------------------------------------------------------------
________________
पंचमः
शान्तिना-03. थचरित्रम् ॥११३॥
प्रस्ताव:
याहि देवि ! भगिन्यौ ते कुमारेण समन्विते । इहाऽऽनय यतस्तत्र वर्तेते ते सुदु:खिते ॥४९६॥ करेणुकासमारूढा परिवारसमन्विता । धृतच्छत्राऽथ सा यावच्छेष्ठिनः सदनं गता ॥४९७॥ श्रेष्ठी ससम्भ्रमस्तावदुपचारमनेकशः । कर्तुं प्रवृत्तोऽलमिति तयैव हि निवारितः ॥४९८॥ (युग्मम्) धारिणीविमलानाम्न्योस्तयोर्नत्वा क्रमानथ । कथयित्वाऽऽत्मनो वार्तावत्सराजोऽभ्यधादिदम् ॥ ४९९॥ इहाऽस्ति भूपतिर्योऽसौ युवयोर्भगिनीपतिः। संप्राप्ता भगिनी सा वां मिलनाय गृहाजिरे ॥५०॥ जानीवोऽदः परं ह्यात्मा हिया वत्सक गोपितः। इत्युक्तवत्यौ ते हर्षाद् निःसृते मन्दिरादहिः ॥ ५०१॥ करेणुकाया उत्तीर्य लगित्वा कण्ठकन्दले । भगिन्योः कमलश्रीः सा रुदत्येवमभाषत ॥५०२॥ हा! जाता दारुणावस्था युवयोः कथमीदृशी १ । दोषोऽथवा विधेरेव यत् सतां विपदागमः॥ ५०३ ॥ इहाजाताग्यामप्यात्मा युवाभ्यां कि निगृहितः। संप्राप्ते व्यसने दैवात् का त्रपा शुभकर्मणाम् ॥५०४॥ अथवाऽहमधन्यैव वसन्त्यौ नगरे निजे । स्वंसारौ न यया ज्ञाते पुत्ररत्नान्विते अपि ॥५०५॥ इदानीं किं पहुक्तेनाध्यारुह्य करिणीमिमाम् । आगच्छतं ममाऽऽवासे युवां पुत्रसमन्विते ॥५०६॥ अथासौ भणितस्ताभ्यां श्रेष्ठी यत्किञ्चिदप्रियम् । आवाभ्यां त्वद्गृहस्थाभ्यां कृतं तत क्षम्यतामिति ॥५०७॥ युवा वणिकस्वभावेन यद्गृहे कर्म गर्हितम् । कारिते मर्षितव्यं तदित्यूचे सोऽपि ते प्रति ॥५०८ ॥ अन्योऽज्यं क्षमयित्वैवं वत्सराजसमन्विते । जग्मतुस्ते नृपावासे भगिन्या उपरोधतः
Page #231
--------------------------------------------------------------------------
________________
प्रासादमर्पयित्वैकं सामग्रीसंयुतं तयोः । ऊचे राजा कुमारं तं वत्स ! कि ते ददाम्यहम् ॥५१०॥ सोऽवदन्नापरं याचे सेवां कर्तास्मि ते सदा । दिनावसाने गेहे तु प्रेषितव्यः स्वयं त्वया ॥५११॥ प्रतिपन्नमिदं राज्ञा सेवां तस्य चकार सः । चक्रे च तद्गृहं सुस्थं राजा धान्यादिवस्तुमिः ॥५१२ ॥ अन्यदा मेदिनीपालः कथमप्यविसृज्य तम् । सुप्तो वासगृहे तच्च यामिकैः परिवेष्टितम् ॥५१३॥ वत्सराजकुमारोऽपि खड्गव्यग्रकरो बहिः । तस्थौ वासगृहस्याऽस्य विनीतो वरभृत्यवत् ॥५१४ ॥ निशीथसमये जाते शुश्राव करुणस्वरम् । कस्याश्चिदतिदुःखिन्याः कामिन्या रुदितं नृपः ॥५१५॥ आभाषितास्ततस्तेन सर्वे प्राहरिका नराः। ते तु प्रमाददोषेण सुप्ता नो ददिरे वचः ॥५१६॥ वत्सराजोऽवदत स्वामिन ! कार्यमादिश्यतां मम। राजोचे किमया नाद्य विसृष्टोऽसि महाशय! ॥ ५१७॥ आमेति भणिते तेन सोऽब्रवीदधुनाऽपि हि । विसृष्टोऽसि गृहं याहि प्रेष्यत्वं तव नोचितम् ॥ ५१८॥ सोऽवदत् त्वत्समादेशं कुर्वतः का ममत्रपा? अवश्यं तं करिष्यामि कार्यमादिश्यतां प्रभो। ॥ ५१९॥ राजोचे तर्हि गत्वा त्वं पृष्ट्वा दुःखस्य कारणम् । वत्सैनां कामिनी दीनां रुदती प्रतिषेधय ॥५२०॥ सोऽथ शब्दानुसारेण कृत्वा प्राकारलचनम् । मध्यभागे श्मशानस्य ययौ सत्त्वसमन्वितः ॥५२१ । तत्रैकदेशे मद्वस्त्रालङ्कारपरिशोभिताम् । विलोक्य ललनामेका रुदतीमित्यभाषत
॥५२२॥ का त्वं मुग्धे कथं चात्र श्मशाने हन्त ! रोदिपिन चेद्गोप्यं तदाख्याहि निजं दुःखस्य कारणम् ॥५२३॥
Page #232
--------------------------------------------------------------------------
________________
पंचमः
प्रस्ताव
शान्तिनापचरित्रम् ॥ ११४॥
साध्वोचच्चलितोऽसि त्वं यत्र तत्र प्रयाहि भोः । असमर्थतनोस्ते किमनया मम चिन्तया १ ॥ ५२४ ॥ वत्सोवादीद्याखिनीं त्वां दृष्ट्वा नो गन्तुमुत्सहे। भवन्ति साधचो यस्मात् परदुःखेन दुःखिताः॥ ५२५॥ साख्यदेवविधाः सन्तो यदि तद्भवतोत्र किम् । तदा तैलस्य किंमूढ ! चेत् सुगन्धं भवेघृतम् १५२६॥ जजल्प वत्सराजस्तु कथं कुपुरुषस्त्वया । ज्ञातोहं साध्वदद्येन दृश्यसे बालकाकृतिः ॥५२७॥ स पुनः स्माह कि सूरोहन्ति चालोपिनो तमः।तुङ्गमातङ्गपूगंवा किंन हन्याद् हरिः शिशुः ।। ५२८ ॥ किंवा चिन्तामणिःस्वल्पः कुर्यान सकलेप्सितम् । एवं मय्यपि वालोऽयमित्यनास्था विधेहि मा ॥ ५२९ ॥ स्मित्वाऽभाषिष्ट साऽप्येवं तर्हि भोः शृणु कारणम् । अत्रैव पुरि वास्तव्योत्तमपुंसो गृहिण्यहम् ॥ ५३० ॥ विनाऽपराधमेतेन भूभुजा स तु मे पतिः । शूलिकायामिहाऽऽरोपि वर्तमानोऽपि यौवने ॥५३१ ॥ सर्वदा भोजनविधाविष्टा एते यतोऽभवन् । अहं प्रक्षेप्तुमिच्छामि घृतपूरान् मुखेऽस्य तत् ॥५३२॥ एतत् कर्तुमशक्ताऽहमयमुच्चतरो यतः । तेन रोदिमि भार स्मृत्वा भर्तारमात्मनः ॥५३३ ॥ भणिता वत्सराजेन सुभ्र! स्कन्धेऽधिरुह्य मे। समीहितं विधेहि स्वमित्युक्ता सा तथाकरोत् ॥ ५३४॥ चखाद मांसखण्डानि कतिला सा दुराशया । स्कन्धदेशे कुमारस्य खण्डमेकमथाऽपतत् ॥५३५॥ किमेतदिति सञ्चिन्त्य यावदूर्ध्वमलोकयत् । तावत्तच्चेष्टितं तस्याः स ददर्श चुकोप च ॥५३६ ॥ १ पोषकम् ।
॥११४॥
Page #233
--------------------------------------------------------------------------
________________
खइगमाकृष्य रे रण्डे ! प्रचण्डे । किं करोग्यदः । इत्युक्ता वत्सराजेन सोत्पपात नभस्तले ॥ ५३७ ॥ सोत्पतन्ती परिधानचीवरे जगृहेऽमुना । तद्विमुच्य करे तस्य क्षणात् कापि ययावसौ ॥५३८ ॥ अत्रान्तरे घनरथं जिनं पप्रच्छ कश्चन | भगवन् ! कामिनी काऽसौ चक्रे कर्म किमीदृशम् ? ॥ ५३९॥ भगवानप्यथोवाच सा पापा दुष्टदेवता । करोत्येवंविधं कर्म च्छलनार्थ नृणामहो! ॥५४ ॥ भूयः पृष्टोऽमुनासामी किं नु खादन्ति देवताः । मांस नेति जगादासौक्रीडा तासामियं पुनः॥ ५४१ ॥ वत्सराजोऽथ तद्वस्त्रमादाय स्वगृहं गतः । तावच्छयितवान् यावदुदियाय दिवाकरः ॥५४२ ॥ ततस्तद्वस्त्रमादाय राज्ञा पार्ये ययावसौ । प्रणिपातं विधायाऽस्य निपसाद यथास्थिति ॥५४३ ॥ पृष्टोऽथ रात्रिवृत्तान्तः प्रस्तावे जगतीभुजा । तेनाऽप्यस्य स निःशेपो यथा वृत्तो निवेदितः ॥ ५४४ ॥ तद्देवतानिवसनमर्पितं च महीपतेः। वररत्नमण्डितं तु तद्दष्ट्वा स विसिष्मिये
॥५४५॥ राज्याः पार्ने निविष्टायाराज्ञातस्त्रमर्पितम् । तस्मिन् परिहिते तस्याः शोभते स्म न कञ्चकः ॥ ५४६ ।। ततः सोचेऽमुना तुल्यो न कूर्यासः सुवाससा । यदि स्यादेप संयोगस्तदा प्राणेश ! सुन्दरम् ॥ ५४७ ॥ ततो वृत्तान्तमाख्यायानीय तं वरकञ्चकम् । वत्सराजकुमारोऽसावर्पयामास भूपतेः ॥५४८॥ राजा समर्पयामास तं देव्याः साऽपि साञ्जसम् । सद्यः परिदधाति स्म प्रहश्वदनाम्बुजा ॥ ५४९ ॥ तयोरननुरूपं चोत्तरीय प्रेक्ष्य सा पुनः । कुरुते स्माऽधृति लोभो लामे सति विवर्धते ॥ ५५० ॥
XXXXXXXXXXXXXXXXXXXFREE
Page #234
--------------------------------------------------------------------------
________________
शान्तिना
पंचमः
प्रस्ताव:
थचरित्रम् ॥११५॥
राजा प्रोवाच हे देवि! कञ्चकेऽपि समर्पिते। किं त्वं श्याममुखी साऽथ स्वाभिप्राय शशंस तम् ॥ ५५१ ॥ तच्छ्रुत्वा भूपतिर्दध्यावसन्तुष्टा अहो ! स्त्रियः । तृप्यन्ति न कदाप्येता वस्त्रालङ्करणादिषु ॥ ५५२ ।। ऊचे च लोभं हे देवि ! मा विधेहि निरर्थकम् । वस्तुनोऽविद्यमानस्य कृते त्वमविवेकिनि !॥ ५५३ ॥ प्रच्छादनं यदा लप्स्ये शाटिकाचोलयोः समम् । तदाभोक्ष्येऽहमित्युक्त्वासाविशत् कोपमन्दिरे॥५५४ ॥ ततो राज्ञा वत्सराजः प्रोक्तः साहसिक ! त्वया। दिव्यवस्ने समानीयाsनर्थोऽयं विहितः खलु ॥५५५।। इमां मातृष्वसारं स्वां कथञ्चिदपि तोषय । त्वां विना नापरः कश्चिदस्य व्याधेश्चिकित्सकः ॥ ५५६ ॥ प्रोक्ताऽपि तेन साऽमुश्चत् स्त्रीस्वभावेन नाऽऽग्रहम् । ततो राज्ञः पुरश्चक्रे प्रतिज्ञेयं सुदुस्तरा ॥ ५५७ ।। देव्या समीहितं वस्त्रं षण्मासाऽभ्यन्तरे यदि । नाऽऽनयामि ततो वह्नौ प्रविशामिन संशयः ॥ ५५८ ॥ प्रोचेऽथ भूपतिर्भद्र ! प्रतिज्ञा मेदृशीं विधाः । सम्यक् कृतान्तपाशानां पातो न ज्ञायते यतः ॥ ५५९ ।। सोऽवदत् त्वत्प्रसादेन सर्व साधु भविष्यति । किन्तु मां विसृज क्षिप्रं यामि देशान्तरं यतः ॥ ५६० ॥ स्वहस्तगतताम्बूलं दत्त्वाऽसौ तेन साञ्जसम् । विसृष्टः स्वगृहे गत्वा जनन्योस्तं न्यवेदयत् ॥ ५६१ ।। अनिच्छन्त्यपि तचित्ते पुत्राऽपायाऽभिशङ्किनी। भूयात् ते विजयो वत्सेत्यूचे साबुद्धिशालिनी॥ ५६२॥ किञ्चित्पाथेयमादायोपानद्गूढपदद्वयः । खड्गखेटकसंयुक्तो नगर्या निर्ययावसौ ॥५६३ ।। दक्षिणां दिशमाश्रित्य बहुग्रामपुराकुलाम् । पश्यन् वसुमतीमेकामाससादाष्टवीमसौ ॥५६४ ॥
॥ ११५॥
Page #235
--------------------------------------------------------------------------
________________
तुङ्गप्राकारमद्राक्षीत् तत्रैकं लघुपत्तनम् । विलोक्य विजनं तच्च वत्सराजो व्यचिन्तयत् ॥५६५॥ किमिदं हन्त ! भूतानां पुरंवायक्षरक्षसाम् । अनया चिन्तया किंवा प्रविश्यालोकयाम्यहम् ॥ ५६६ ॥ प्रविशश्च ददर्शाऽसौ तन्मध्ये तुङ्गमन्दिरम् । तत्पार्चे लघुगेहानि ततस्तत्र विवेश सः ॥५६७॥ दृष्ट्वाऽऽसनोपविष्टं च तत्रैकं पुरुषं वरम् । परिवारनरं तस्य वत्सः पप्रच्छ कञ्चन ॥५६८॥ किनामेदं पुरं भद्र ! किनामाऽयं महीपतिः । सोऽवादीद् नगरं नैतद् न चायं पृथिवीपतिः॥ ५६९ ।। किन्त्वितो नातिदूरेऽस्ति पुरं भूतिलकाभिधम् । वैरसिंहो नृपस्तत्र श्रेष्ठी दत्ताभिधस्तथा ॥ ५७०॥ श्रीदेवीनामधेयाया भार्यायाः कुक्षिसम्भवा । रूपलावण्यसंयुक्ता श्रीदत्ता तस्य नन्दिनी ॥ ५७१ ॥ साऽभवद् यौवनप्राप्ता दोपग्रस्तशरीरका । तस्याः प्राहरिको रात्रौ यो भवेद् म्रियते हि सः ॥ ५७२ ।। यदि प्राहरिको नास्या भवेत् तत्सह पूरुपाः । विपद्यन्ते ततो राज्ञा स श्रेष्ठयेवं प्रजल्पितः ॥ ५७३ ॥ श्रेष्ठिन् ! त्वं नगरं मुक्त्वा गच्छाष्टव्यांममाऽऽज्ञया। त्वत्सुतादोषजनितः किल लोकक्षयोऽस्तु मा॥५७४॥ सोऽयं श्रेष्ठी समेतोऽत्र स्वपरीवारसंयुतः । चक्रे च चौररक्षार्थ सप्राकारमिदं गृहम् ॥५७५ ॥ अनेन गोलकाबद्धाः कृता यामिकपूरुपाः । प्रभूतधनलोभेन ते च सन्त्यस्य सन्निधौ ॥५७६ ॥ तेषां मध्यादथैकैको म्रियते च दिने दिने । तान मुक्त्वा नापरः कश्चिदिह स्थाने वसत्यहो।॥ ५७७॥ ततस्त्वमपि हे पान्थ ! याह्यन्यत्र बिभेपि चेत् । इति श्रुत्वा कुमारोऽपि ययौदत्तस्य सन्निधौ॥ ५७८ ।।
Page #236
--------------------------------------------------------------------------
________________
शान्तिनाथचरित्रम् ॥ ११६॥
पंचम: प्रस्ताव
" er
दत्तोऽप्यासनमेतस्मै ससम्भ्रममदापयत् । ततस्तत्रोपविष्टाय ताम्बूलं प्रददौ स्वयम् पृच्छति स्माऽऽदरेणैवं वत्स! त्वं कुत आगतः। सोऽथाज्ञादीदुज्जयिन्याः कारणेनाऽहमागतः॥ ५८०॥ एवं यात्रजजल्पाऽसौ कुमारः श्रेष्ठिना सह । तत्रैकस्तावदायातः पुमान् शृङ्गारशोभितः ॥५८१॥ विमनस्कममुं दृष्ट्वा कुमारः श्रेष्ठिनं प्रति । जगाद किमयं तात ! विच्छायो दृश्यते पुमान् ? ॥ ५८२ ॥ ततो दीर्घ विनिःश्वस्य श्रेष्ठयूचे तव सुन्दर ! । अत्यन्तगोपनीयोऽपि वृत्तान्तोऽयं निवेद्यते ॥ ५८३ ॥ अस्ति मे तनया तस्या रात्रौ यो यामिको भवेत् । अतिप्रचण्डदोषेण सोऽत्रश्यं वत्स! हन्यते ॥ ५८४ ॥ बभूव पुरुषस्याऽस्य यामिकत्वेऽद्य वारकः । तेनाऽयं विमना मृत्योः कस्य वा न भयं भवेत् ॥ ५८५॥ वत्सराजस्ततोऽवादीत तिष्ठत्वेष यथासुखम् । अहमद्य भविष्यामि तस्याः प्राहरिको निशि ॥५८६॥ श्रेष्ठी जगाद वत्स ! त्वमद्य प्राघुर्णको मम। भुक्तं चनत्यया किश्चित् किमङ्गीकुरुषे मृतिम् ? ॥ ५८७॥ वत्सराजोऽवदतु तात ! कार्यमेतन्मया ध्रुवम् । परोपकाररसिकर्यदिदं पठ्यते बुधैः ॥५८८॥ कृतोपकारः सर्वोऽपि करोत्युपकृति जनः । विनोपकारं यत्राता विपदः सोञ सज्जनः ॥५८९ ॥ आवासस्योपरितनभूमौ सोऽथ कुमारकः । आरोहति स्म यत्राऽऽसीत् श्रीदत्तश्रेष्ठिनः सुता ॥ ५९० ॥ साऽपि दध्यौ विलोक्यैनमहो ! रूपमहो ! प्रभा । शरीरं पुरुषस्याऽस्य किं तद्यन्न मनोहरम् ॥ ५९१ ॥ हा दैव ! निर्मिताऽहं तु नारी मारीव किं त्वया । ईदृग्मनुष्यरत्नानां जीवितान्वविधायिनी ॥ ५९२ ॥
॥११॥
Page #237
--------------------------------------------------------------------------
________________
॥ ५९६ ॥
॥ ५९८ ॥
तदाऽऽसन्नस्थशय्यायामासीनोऽथ महामतिः । आललाप कुमारस्तां मधुरालापपण्डितः तथा कथञ्चित्तेनेयं रञ्जिताऽचिन्तयद्यथा । आत्मानमपि हत्वाऽहं रक्षाम्येतस्य जीवितम् एवं विचिन्तयन्ती सा तत्क्षणायातनिद्रया । जीवितार्थमिवैतस्य बभूव गतचेतना कुमारोऽथ गवाक्षेणोत्तीर्याऽधो भूमिकागतम् । काष्ठमेकमुपादाय तेनैवाऽऽरोहति स्म सः काष्ठं निवेश्य शय्यायां विकोशतरवा रियुक् । तस्थौ दीपस्य च्छायायामीक्षमाणो दिशोऽखिलाः ।। ५९७ ॥ वातायनविवरेणाऽत्रान्तरे मुखमेककम् । प्रविशन्तमसौ दृष्ट्वाऽप्रमत्तोऽभूद्विशेषतः मुखेन तेन तस्मिंस्तु वासगेहे निरीक्षिते । प्रविवेश ततो हस्तः समुद्रालङ्कृताङ्गुलिः औषधीवलयाभ्यां स मण्डितश्च तदेकतः । निर्ययौ फूत्कृतो धूमस्तेन व्याप्तं च तद् गृहम् ॥ प्रविश्य स करो यावत् शय्यां पस्पर्श यामिकीम् । जधान वत्सराजोऽपि तं तावन्निशितासिना । देवतायाः प्रभावेण स हस्तो नाऽपतद्भुवि । पपात चौषधिद्वन्द्वं वेदनार्त्तात्ततः क्षणात् ॥ ६०२ ॥ धूमपधीसंरोहिण्यौ कुमारः सोऽग्रहीदिमे । देवतायाः करः सोऽथ निर्ययौ वासमन्दिरात् ॥ ६०३ ॥ वत्स ! हा वञ्चितास्मीति शब्दं श्रुत्वाऽथ दैवतम् । हे दासि ! कुत्र यासीति जल्पंस्तां किञ्चिदन्वगात् ॥ ६०४ ॥ ततश्चोद्गीर्णखड्गं तं दृष्ट्वा पुण्येन संयुतम् । देवता नश्यति स्माऽस्याऽपकारं कर्तुमक्षमा ॥ ६०५ ॥
॥ ५९९ ॥
॥ ५९३ ॥ ॥ ५९४ ॥ ।। ५९५ ।।
६०० ॥
६०१ ॥
Page #238
--------------------------------------------------------------------------
________________
पंचमः
शान्तिनाथचरित्रम्
॥११७॥
वलित्वा वत्सराजोऽपि काष्ठमुत्सार्य तल्पतः । तत्र यावदुपाविक्षतमी तावत् क्षयं ययौ ॥६०६॥ सूरोऽपि तस्य शूरस्य प्रतापमिव वीक्षितुम् । तूर्णमारोहति स्मोच्चैरुदयाचलमूर्धनि ॥६०७॥ अत्रान्तरे कुमारी सा जजागार ददर्श च । कुमारमक्षताङ्गं तं ततो हृष्टा व्यचिन्तयत् ॥६०८॥ नूनं कोऽपि प्रभावोऽस्य पुरत्नस्य भविष्यति । यदयं संस्थितो नो मेऽथवा भाग्यानि जाग्रति॥ ६०९॥ यद्यसौ मम भर्त्ता स्यादोगान भुञ्ज ततो ध्रुवम् । अन्यथा विषयाणां मे निवृत्तिरिह जन्मनि ॥ ६१०॥ विचिन्त्यैवमभाषिष्ट सा पिकीमधुरस्वरा । कथं त्वं व्यसनानाथ ! मुक्तोऽसीति निवेदय ? ॥ ११ ॥ तेनापि कथितं तस्यै रात्रिवृत्तं यथातथम् । तच्छ्रुत्वा जातरोमाञ्चकञ्चुका सा मुदं दधौ ॥ ६१२॥ इति संलापपरयोस्तयोर्दासी समागता । तस्या मुखक्षालनार्थ जलमादाय निर्मलम् ॥६१३॥ कुमारमक्षताङ्गं सा दृष्ट्वा हर्षेण पूरिता । श्रेष्ठिनं वर्धयामास तत्क्षेमकथया द्रुतम् ॥६१४॥ स्खलद्गतिप्रचारोऽथ दत्तः श्रेष्ठी ससम्भ्रमः । तयोः समीपमायातो हर्षाः पूरितेक्षणः ॥६१५॥ श्रीदत्ताऽपि समुत्थाय ददौ तस्मै शुभासनम् । सोऽपि तत्र समासीनः कुमारं समभापत ॥६१६ ॥ कथं वीर ! त्वया रात्री निस्तीणों व्यसनार्णवः । कुमारेणाऽपि सर्वोऽपि वृत्तान्तोऽस्य निवेदितः।।६१७ ॥ स ऊचे ते मया दत्ता पुत्रीय प्राणवल्लभा । कल्प इत्यन्यथा लब्धा स्वयमेव त्वया गुणैः ॥ ६१८॥ १ रात्रिः । २ मृतः।
॥ ११७॥
Page #239
--------------------------------------------------------------------------
________________
कुमारोऽवोचदज्ञातकुलस्य मम कन्यकाम् । कथं ददासि श्रेष्ठयूचे ज्ञातं तव गुणैः कुलम् ॥६१९ ॥ पुनरुक्तं कुमारेण कारणेन गरीयसा । गन्तव्यमस्ति मे दूरं करिष्ये वलितस्त्विदम् ॥ ६२० ॥ इमां परिणयेदानी पश्चाद्गच्छेर्यथारुचि । इत्युक्त श्रेष्ठिना भूयोऽङ्गीकृतं तेन तद्वचः ॥६२१॥ तस्मिन्नेव दिने श्रेष्ठी पाणिग्रहणमेतयोः । अकारयन्निशामेकामुपितोऽसौ तया सह ॥६२२ ॥ द्वितीयेऽहनि गत्यर्थमापृष्टा तेन साऽवदत् । हे कान्त ! कि न जानासि स्वरूपं रागिणामदः।। ६२३ ॥ विरहो वसन्तमासो नवस्नेहो नवं वयः । पञ्चमस्य ध्वनिश्चेति सह्याः पञ्चाग्नयः कथम् ? ॥ ६२४ ॥ वत्सोवादीत कुरङ्गाक्षि ! यामि देशान्तरं न चेत् । तन्मे वह्निप्रवेशः स्यादित्यर्थे नास्ति संशयः॥६२५॥ साध्वोचद्वेणिदण्डोऽयं त्वत्परो विहितो मया। स्थास्याम्यत्र शरीरेण हुदैष्यामि त्वया सह ॥ ६२६ ॥ कुङ्कुमं कज्जलं चैव कुसुमाभरणानि च । लगिष्यन्ति शरीरे मे त्वयि कान्त ! समागते ॥ ६२७ ॥ इत्थं कृतप्रतिज्ञां तां मुक्त्वा सोऽश्रुमुखीं प्रियाम् । श्रेष्ठिनं समनुज्ञाप्य वत्सराजोग्रतोऽचलत् ॥ ६२८॥ ददर्शाऽग्रेऽटवीमध्ये पल्ली भिल्लसमाकुलाम् । बहूँश्च पर्वतांस्तुङ्गान रम्याश्च गिरिनिम्नगाः ॥६२९ ॥ असावेवंविधाष्टव्यां स्थाने चैकत्र सुन्दरे । पश्यति स्म पुरीमेकामभ्रंलिहगृहाञ्चिताम् ॥ ६३०॥ पहिः सरोवरे तस्याः प्रक्षाल्य चरणानने । कृत्वा पर्यस्तिका सेतावपविष्टस्तरोस्तले
॥६३१॥ १ आसनम् ।
Page #240
--------------------------------------------------------------------------
________________
शान्तिनाथचरित्रम् ११८॥
नारीसार्थेन पानीयमुह्यमानं ददर्श सः। पप्रच्छ चैकां तन्मध्यात् केयं पूः कोऽत्र भूपतिः ॥ ६३२॥ साध्वदतु पूरियं भद्र कृता व्यन्तरजातिभिः । देवताभिः क्रीडनार्थ नाऽन्यः कोऽप्यत्र भूपतिः॥ ६३३ ॥ वत्सराजः पुनःप्रोचे तर्खेतत्प्रचुर जलम् । किमर्थमुह्यते भद्रे । ततश्च शशंस सा ॥६३४ ॥ याऽस्माकं स्वामिनी देवी स्थाने क्वापि गतासती। पुंसा केनापि सा बाहौ प्रतापीडिता ततः।। ६३५॥ एतत्पीडानिरासार्थ जलसेको विधीयते । तेनेदमुह्यते नीरं सा त्वद्याऽपि न शाम्यति ॥ ६३६ ॥ अङ्गपीडापहारे किं नेश्वरी देवताध्यहो! | पृष्टेति वत्सराजेन पुनरेवं जगाद सा प्रहारदायकस्याऽङ्गरक्षिका देवताधिका । तत्प्रभावेण नैतस्या वेदनोपशमो भवेत् ॥६३८॥
औषधीद्वितयं चास्याः करेऽभूत सप्रभावकम् । दत्तमत्यन्ततुष्टेन व्यन्तरेन्द्रण यत्किल ॥६३९ ॥ धूमेन मोहयत्येकाऽपरा घातातिनाशिनी । ते पुनः पतिते तत्र यत्र खड्गेन ताडिता ॥६४०॥ वत्सराजस्ततोऽवादीन्मानुषो भिपगस्म्यहम् । मह्यं ददातु सा किं नु वेदनां शमयामि चेत् ॥ ६४१॥ सा स्माह लभसे तत् त्वं ध्रुवं यद्भद्र ! याचसे । तिष्ठ तावत् परं यावत् सामिन्याः कथयाम्पदः ॥ ६४२॥ ततो गत्वा तयाऽऽचख्ये तत्तस्यै साऽपि तत्क्षगाता तं तयाऽनाययामास साऽपि तस्मै शशंस च ॥ ६४३ ॥ प्रसन्नास्या यदा भद्र ! स्वामिनी मार्गयेस्तदा । प्रासादस्योपरितनभूमिस्थं कन्यकायुगम् ॥६४४ ॥ अश्वरूपं तथा यक्ष पर्यवं कामितप्रदम् । एवं करिष्यामीत्युक्त्या स ययौ देवतान्तिकम् ॥६४५ ॥
॥११८॥
Page #241
--------------------------------------------------------------------------
________________
॥ ६४६ ॥
॥ ६४७ ॥
॥
॥
दत्तासनोपविष्टोऽसौ तया प्रोक्तः सगौरवम् । जानासि वैद्यकं चेचं भद्र ! पीडां निवारय विधाय वत्सराजोऽथ वाचा वैद्यकविस्तरम् । धूमौषध्या महाधूममहरच्चान्यया व्यथाम् वेदनाऽपहृता यावद्भुजा जाता पुनर्नवा । तावत् प्रोचे तया भद्र ! घातदाता त्वमेव मे आमेति भणिते तेन सावादीत्तोषनिर्भरा । याचस्त्र स्वेच्छया भद्र ! तुष्टाऽहं साहसेन ते ततश्च याचितं तेन तत्कन्यायुगलं वरम् । यक्षस्तुरङ्गरूपस्तु पर्यङ्कः कामितप्रदः सञ्जातो गृहभेदोऽयमिति ध्यात्वा जजल्प सा । दत्तमेतत् परं त्वस्य शृणुत्पत्ति त्वमादितः आसीच्चमरचञ्चायां पुर्यां चैताढ्यपर्वते । गन्धवाहगतिर्नाम्ना विद्याधरनरेश्वरः सुवेगामदनवेगे तस्याभृतामुभे प्रिये । रत्नचूलास्वर्णचूले तयोश्च क्रमजे सुते
॥
विवाहचिन्तया पुत्र्योराकुलस्याऽन्यदा गृहे । खेचरेन्द्रस्य तस्याऽगादेको विद्याधरो मुनिः आसयित्वाssसने रम्ये नमस्कृत्य च भक्तितः । पृष्टस्तेन मुनिः पुत्रयोर्भर्त्ता को भविष्यति १ आचख्यौ ज्ञानवानेप वत्सराजो नृपात्मजः । भविष्यत्यनयोर्भर्त्ता गुणवान् भूमिगोचरः तु त्वत्सन्निधौ भावि पाणिग्रहणमेतयोः । मासशेषं महाराज ! तवायुर्वर्तते यतः तर्हि किं कार्यमित्युक्ते भूभुजा सोऽवदत् पुनः । शृणु राजन् ! कुमारोऽसौ भावी भर्त्ता यथानयोः ॥ ६५८ ॥ आसीद्भगिनी पूर्व भूमिगोचरभूपतेः । पित्रा शूराऽभिधानस्य या दत्ता सख्युरात्मनः ॥ ६५९ ॥
॥ ६५७ ॥
६४८ ॥
६४९ ॥
॥ ६५० ॥
॥ ६५१ ॥
॥ ६५२ ॥
६५३ ॥
६५४ ॥
६५५ ॥
।। ६५६ ॥
॥
॥
Page #242
--------------------------------------------------------------------------
________________
शान्तिनाथचरित्रम् ॥ ११९॥
पंचमः प्रस्ताव
तस्य चाऽभूच्छुभाकाराऽपरा कान्ता नृपात्मजा । तस्यां प्रेमप्रकर्पोऽस्याऽनिष्टा सा भगिनी तव ॥ ६६०॥ सा विद्वेपं गता तस्यां कृत्वा बालतपो मृता। समुत्पन्नास्ति हे राजन् ! व्यन्तरी देवता वरा ॥ ६६१ ॥ तस्याः सपत्नी सा कृत्वा धर्मदानादिकं वरम् । मृत्वा च श्रेष्ठिनः पुत्री सञ्जाता दत्तसंज्ञिनः॥ ६६२ ॥ पूर्वमत्सरिणी देवी सा तस्या यामिकं नरम् । हन्त्यद्याऽपि ततस्तत्र वर्तते पुरुपक्षयः ॥६६३ ।। देवतायास्तदेतस्या राजन् ! पुत्र्यौ समर्पय । तत्पार्श्वे स्थितयोर्भर्ता समेष्यत्यनयोः स्वयम् ॥ ६६४ ॥ क्रियमाणं देवतया तं निवार्य नरक्षयम् । परिणेष्यति तां वत्सराजः श्रेष्ठिसुतामपि इति सर्व समाख्याय ययौ सोऽन्यत्र संयतः । खेचरेन्द्रेण पुत्र्यो मे तेनेहैत्य समर्पिते ॥६६६ ।। सोऽथ किञ्चित्तपः कृत्वा मृत्वाऽभूद् व्यन्तराधिपः । तेनाऽश्वरूपभृयक्षः किंकरो मे समर्पितः॥ ६६७ ॥ सर्वकामितपर्यङ्कश्चौषधिद्वितयं तथा। तत्सर्वमपि ते भद्र ! प्रदत्तं तुष्टया मया ॥६६८ ॥ परिणीते ततश्चैते वत्सराजेन कन्यके । बुभुजे च समं ताभ्यां तत्र भोगानसौ स्थितः ॥६६९ ॥ अन्यदा (ते) रत्नचूलास्वर्णचूले निजे प्रिये । ज्ञापिते वत्सराजेन प्रतिज्ञाकारणं निजम् ॥६७० ॥ ताम्यां च ज्ञापिता देवी सा च विज्ञाय कारणम् । व्यसृजत् प्रेयसीयुक्तं तद्वियोगासहाऽपि तम् ॥ ६७१ ॥ ततः पर्यङ्कमारुह्य वत्सराजः सवल्लभः । आययौ नभसा शीघ्रं श्रीदत्तावासमन्दिरम् ॥६७२॥ सुप्तोत्थिता प्रभातेऽथ श्रेष्ठिपुत्री ददर्श तम् । पर्यत तं तुरङ्गं च किमेतदिति विस्मिता ॥६७३ ॥
SXEXXEXXEXXXX
Page #243
--------------------------------------------------------------------------
________________
दध्यौ च हेतुना केन पर्यइकोऽयमिहाऽऽगतः । कथं वाऽयं समारूढो वाजी सप्तमभूमिकाम् ॥ ६७४ ॥ सम्यग्विलोकयामास यावत्तावद्ददर्श सा । शय्यागतं निजं कान्तं कान्ताद्वयसमन्वितम् ॥६७५ ॥ ततो हर्पपूरिताऽङ्गी गत्वा तातस्य सन्निधौ । साऽऽख्यद् गेहोपरितनभूमौ मत्पतिरागतः ॥६७६ ॥ श्रेष्ठन्यचे समभूद्वत्से! कथमेवं तदागतिः। ततः शय्यावलोकादिवार्ताऽचख्ये तयाऽखिला॥ ६७७॥ अत्यद्भुतं तदाऽऽकर्ण्य सोगात्तत्र ससम्भ्रमः । उत्थाय वत्सराजोऽथ सप्रियः प्रणनाम तम् ॥ ६७८॥ पृष्टोऽथ श्रेष्ठिना वत्सः स्ववृत्तान्तं न्यवेदयत् । विस्मितस्तच्चरित्रेण शिरो धूनयति स्म सः ॥ ६७९॥ तद्दिनं समतिक्रम्याऽनुज्ञाप्य श्रेष्ठिनं ततः। निजस्थानं स सम्प्राप्तः शय्यामारुह्य सप्रियः ॥६८०॥ कुर्वत्यौ पुत्रशय्यायाः सदा नीराजनाविधिम् ।धारिणीविमले तस्यां तथास्थं तमपश्यताम् ॥ ६८१ ॥ अपनीय ततो वस्त्रं दृष्ट्वा पुत्रं च सप्रियम् । किञ्चिद्वीशङ्कया तस्याऽपक्रान्ते ते शनैः शनैः ॥ ६८२ ॥ क्षणान्तरेण संप्राप्ते ते विलोक्य समुत्थितः । नमश्चक्रे तयोः पादान वत्सराजः प्रियान्वितः ॥ ६८३ ।। कथयामास वार्ता च निजां विस्मयकारिणीम् । उत्तरीयं ययाचे चपर्यङ्क सार्वकामिकम् ॥ ६८४॥ गत्वा च भूपतेः पार्श्वे विधाय च नमस्कृतिम् । तद्वस्त्रमर्पयामास तत्पत्न्याः कमलश्रियः ॥६८५ ॥ चिरायुर्वत्स ! भूयास्त्वमित्यूचे सा प्रमोदिनी। चक्रे राजाऽपि सत्कारमेतस्याऽऽमरणादिभिः॥ ६८६ ॥ कुत्र चीरं त्वया प्राप्त कवाभ्रान्तोऽसि सुन्दर ! पप्रच्छ चेति भूपालो वत्सराज सविस्मयः ॥६८७॥
Page #244
--------------------------------------------------------------------------
________________
पंचमः
शान्तिनायचरित्रम् । ॥१२०॥
प्रस्ताव
पर्यङ्कतुरगलाभ विना वार्ता निजामसौ। राज्ञो न्यवेदयद्वस्त्रं दत्तं देवतयेति च ॥६८८॥ अथाऽज्येयुः कमलश्रीः परलोकमियाय सा । तद्वियोगे नरेन्द्रोऽसौ महाशोकाकुलोऽभवत् ॥६८९ ॥ वत्सराजोऽभ्यधाद् राजन! अनित्याऽखिलवास्तवे। भवे विवेकिनांशोकः कर्तु क्वाऽपि न युज्यते ॥ ६९० ॥ सर्वज्ञभिषगादिष्टं कोष्ठशुद्धिविधायकम् । शोकावेशरुजः शान्त्यै कार्य धौषधं बुधैः ॥६९१ ॥ इत्यादिवचनैस्तस्य परिषिक्तोऽमृतैरिव । सच्छायः सुमनोवांश्चाऽशोकोऽभूत् स महीपतिः ॥ ६९२॥ वत्सोऽथ मन्त्रयामास प्रेयसीभिः सहाऽन्यदा । स्वगृहे भोजयाम्यद्य भूपं वः प्रतिभाति चेत् ॥ ६९३ ॥ ताभिः प्रोचे न ते युक्तं नृपस्याऽऽनयनं गृहे । देहि सत्रैव तत्तस्मै दित्साऽस्ति यदि हे प्रिय! ॥ ६९४ ॥ सोऽवदद्गौरवं कान्ताः भवेनैवं कृते सति । यदीहाऽऽनीयते राजा तन्मे भवति निवृतिः ॥ ६९५॥ जगदुः पुनरप्येता यद्ययं निश्चयस्तव । तदाऽऽनय नृपं तस्य दर्शनीया वयं न तु ॥६९६ ॥ ततोऽसौ सपरीवारं गत्वा भूपं न्यमन्त्रयत् । भोजनायोपरोधेन तस्य मेने नृपोऽपि तत् ॥ ६९७ ॥ निमन्त्र्य पार्थिवं वत्सराजः प्राप्तो निजं गृहम् । वल्लभाभिः सहाऽक्रीडत् तत्रोपरितनावनौ ॥ ६९८ ॥ कियान रसवतीपाको वर्त्ततेऽस्य निकेतने । इति ज्ञातुं प्रतीहारं प्रैपीचत्र महीपतिः ॥ ६९९ ॥ प्रतीहारोऽपि तद्गेहे गत्वा यावद्व्यलोकयत् । तावद्रसवतीपाकं तत्र कश्चिद् ददर्श न ॥ ७००॥ तेनाऽऽगत्य महीभर्तुस्तदाऽऽचख्ये ततोऽपरम् । नरं संप्रेषयामास तदीक्षणकृते नृपः ॥ ७०१॥
Bistandane EEEEEEEEEEEEEEEEEEEEEEEXXXX
॥१२०॥
Page #245
--------------------------------------------------------------------------
________________
धान्यपाकादिसामग्री तद्गृहेऽज्यगृहेषु च । अदनाकथयत् सोऽपि तत्सर्व जगतीपतेः ॥ ७०२॥ भोजनानसरे वत्सराजोऽभ्येत्य महीपतिम् । भोक्तुमाकारयामास राजाऽप्येवमभाषत ॥७०३ ॥ उपहासपदं कि नु वयं वर्तामहे तब ?। विनाऽपि येन सामग्रीमाकारयसि नो गृहे ॥७०४॥ वत्सराजोद देव ! पूज्योऽसि मम सर्वथा । स्वामिन्नपहासपदमित्यादेशं ददासि किम् ॥ ७०५॥ रसवत्यस्ति नो वेति का ते चिन्ता महीपते! । मय्यप्पसम्भावनां वं कि विभावयसि प्रभो ! १॥ ७०६ ॥ तद्वाक्योत्साहितो राजा स्वपरीवारसंयुतः । तद्वेश्मनि गतोऽपश्यत्तत्र रम्यं जनाश्रेयम् ॥७०७॥ तं दृष्ट्वाऽचिन्तयचैवमस्य वृत्तमलौकिकम् । येनाऽयं मण्डपश्चारुरधुनैव विनिर्मितः ॥७०८॥ यथायोग्यं कल्पितेषु तत्र रम्याऽऽसनेषु ते। निर्दिष्टेष्धमुनेवाऽथ निषेदुः पार्थिवादयः ॥७०९॥ स्वर्णरूप्यरत्नमयान्युरुस्थालानि तत्क्षणात् । दौकितानि पुरस्तेषां वत्सराजस्य मानुषैः ।। ७१०॥ दत्ता कल्पद्रुमेणैव दिव्या रसवती तदा । सुशालिभक्तप्रमुखा मनोज्ञा परिवेषिता ।। ७११ ॥ सुस्निग्धमधुरास्वादा मोदकाः सिंहकेसराः । मण्डिकाः खाद्यकादीनि पक्वान्नान्यपरागि च ॥ ७१२ ॥ रसानामग्रिमं सद्यस्तापित शुभगन्धयुक् । भोजनस्य विधेः सारं प्रक्षिप्तं प्रचुर घृतम् ॥ ७१३ ।। लपनश्रीघृतपूरगोरसव्यञ्जनादिका । रसवत्यऽखिला तत्र व्यापृताऽतिमनोहरा ॥७१४॥
१ मडपम् ।
BXXXXXXXXXXXXXXXXXXXXXXXXX
૨૧
Page #246
--------------------------------------------------------------------------
________________
पंचमः
शान्तिनाथचरित्रम् ॥१२१॥
प्रस्ताव
भुञ्जानेऽथ महीपाले वत्सराजो व्यचिन्तयत् । उत्सवः सकलोऽप्येष विना पत्नीने शोभते ॥ ७१५॥ एवं विचिन्त्य भणितास्तेनेदं निजवल्लभाः । अक्टीभूय भूभ गौरवं कुरुताऽनघाः! ॥ ७१६॥ यद्दर्शयति नो तस्ये हितं नार्यसुतस्य तत् । एवं मिथो वदन्त्यस्तास्तदादेश वितेनिरे ॥७१७॥ रत्नचूला-स्वर्णचूला-श्रीदत्तानां 'मनोहरम् । रूपं दृष्ट्वा महीपालो जज्ञे कामवशंवदः ॥ ७१८॥ दध्यौ च धन्य एवाऽयं यस्यैताः प्रवरा गृहाः । विष्टपत्रितयस्याऽपि वर्णिनीवर्णिका इव ॥ ७१९ ॥ भोजनोज़ सुताम्बूलवस्त्राद्यैः परिपूजितः । भूपतिः सपरीवारोऽप्याययौ निजवेश्मनि ॥ ७२० ॥ तत्राऽप्यरतिमापनस्तासां सङ्गमलालसः । स्वकार्यसाधनोपायं सोऽपृच्छद् मन्त्रिमण्डलम् ।। ७२१ ।। आलोच्य मन्त्रिणोऽप्येवं शशंसुः पृथिवीपतेः। जीवत्यदो वत्सराजे कार्य राजन् !न सेत्स्यति ॥ ७२२॥ ततः केनाऽप्युपायेन वत्सोऽयं देव ! हन्यते। सोऽब्रवीदिति कृत्वाऽपि कार्य मम समीहितम् ॥ ७२३ ॥ अन्येार्मारणार्थ स सिंहस्य जगतीपतेः । स्थाने निवेशितोऽमात्यैर्महाराजस्य संसदि ॥ ७२४ ॥ कुमारो यावदास्थानादमीतः स निरीयिवान् । अमुंव्यापादयेत्युक्तस्तावत्सिहो नियोगिभिः ॥ ७२५॥ सिंहोऽपि निजगादैनं सिंहद्वाराद्विनिर्गतः । अतिधृष्टोपविष्टोऽसि किमरे! मम विष्टरे ? ॥ ७२६॥ युद्धायोपस्थितः सोऽथ कुमारेण महौजसा । क्षिप्तो दृरेण परितो भ्रमयित्वा शिरो निजम् ॥ ७२७॥ १ भूपस्य।
Page #247
--------------------------------------------------------------------------
________________
वत्सस्य वाञ्छिते मृत्यौ सिंहस्यैव बभूव सः। चिन्त्यते यत्परस्येह गृहमायाति तद् ध्रुवम् ॥ ७२८ ॥ सहसैव हते तस्मिस्तत्सैन्यं हतशक्तिकम् । भूपति शरणं प्राप को बिभेति न घातका ? ॥७२९ ॥ प्रियाभ्यां खेचरीभ्यां स वत्सःप्रोक्तो गृहागतः। अरमद्विद्याप्रभावेन नाथ ! सिंहो हतस्त्वया ॥ ७३०॥ अनथोऽयं कृतो राज्ञा करिष्यत्यपरं च सः। गृहप्राप्तस्य तस्यार्य ! यत्वया दर्शिता वयम् ॥ ७३१ ॥ मन्त्रिभिः सममालोच्य भूभुजा सोऽपरेद्यवि। व्याघ्रीदुग्धेन नः कार्य किश्चिदस्तीति जल्पितः ॥ ७३२ ॥ अन्यच्च त्वयि सख्यौ मे नास्ति किश्चित् सदुर्लभम् लहर्यः सुलभारतस्य यस्य मित्रं महोदधिः॥ ७३३ ॥ आदाय भर्नुरादेशं स स्वगेहमुपागतः । अन्तश्चिन्ताभरम्लानमुखो दारैनिरीक्षितः ॥ ७३४ ॥ उक्तश्च नाथ ! सम्प्राप्ते क्षुद्रादेशे महीपतेः। कि त्वं चिन्तातुरो येन चलस्नेहा भवन्त्यमी ।। ७३५॥ कथं यूयमदो विस्थेत्युदिते तेन ताः पुनः । जगदुर्यत्वया सार्ध चरामोऽन्तरिताः सदा ॥ ७३६ ॥ दैवताश्वं समारुह्य याहि भीमाटवीं प्रिय! । अस्मन्मातुर्देवतायाः सखी तत्राऽस्ति देवता ॥ ७३७॥ तुरईसा विलोक्यैनं त्वां ज्ञास्यति ततश्च ताम् ।व्यानीरूपां समानीय महीभर्तुः समर्पयेः ॥ ७३८॥ इत्यादिष्टः स्वपत्नीभिर्गत्वा तत्र क्रमेण सः। व्याघ्रीरूपां देवतां तां कर्णे धृत्वा समानयत् ॥ ७३९॥ ऊचेच नवसतेयं गृह्यतां दुह्यतां नृप ।। क्रियतां चेप्सितं स्वस्येत्युक्त्या कर्णान्मुमोच ताम् ॥ ७४०॥ ततः सा व्यन्तरी व्याघ्री तदानयनधीप्रदान् । मन्त्रिणो भक्षयामास ततो भीतोऽवदनुनृपः ॥ ७४१॥
Page #248
--------------------------------------------------------------------------
________________
पंचमा
शान्तिनापचरित्रम् पा१२२॥
प्रस्ताव
ASMAASEEEEEEXXXXXXXXXXXS
हा वत्स! वत्स! मा कापीः कर्म हिंस्रं त्वमीदृशम् ।गृहाणेमां जनं यावत् क्षयं नयति नाखिलम् ॥ ७४२॥ स्वगृहे वत्सराजोऽथ कर्णे धृत्वा निनाय ताम् । गाढाम्यर्थनया राज्ञः सर्वपौरजनस्य च ॥ ७४३ ॥ पत्नीभिरर्चिता तस्य स्थित्वा तत्र क्षणान्तरम् । विसृष्टा वत्सराजेन निजं स्थानमियाय सा ॥ ७४४॥ पुनरन्येधुरुधीशस्तत्पत्नीसङ्गमस्पृहः । उपदेशादमात्यानां वत्सराजमदोवदत् । ॥७४५॥ स्थानात कुतोऽपि भो भद्र ! जल्पनीर समानय । येन मे जायते देहं बहुरोगविवर्जितम् ॥ ७४६ ॥ इदं वास्तीति तेनोक्ते कथितं तस्य मन्त्रिभिः। विन्ध्याटव्यां द्वयोरन्योर्मध्यकूपेऽस्ति तज्जलम् ॥ ७४७॥ कुरुतः सर्वदाऽप्येतौ सङ्गमापगमौ गिरी । मीलनोन्मीलने नित्यं स्वभावेनेव लोचने ॥७४८॥ प्रविश्य त्वं मिलित्वापक्रान्तयोरन्तरे तयोः । शीघ्रमेवातिदक्षत्वाद् भद्र ! पानीयमानयेः ॥७४९॥ तमप्यादेशमादाय वत्सराजो गतो गृहे । कथयामास पत्नीनामुपायनिचयौकसाम् ॥७५०॥ ताभिः प्रोचेऽश्वमारुह्य गच्छ त्वं तत्र हे प्रिय ! । सखी नोऽस्ति शकुनिकारूपमृदेवता वरा ॥ ७५१ ॥ ततस्तत्र जगामाऽसौ ज्ञात्वा शकुनिकाऽपि तम् । पूरयित्वाऽम्बुनालाबु तस्य हस्ते समार्पयत् ।। ७५२ ॥ स्वपुरीं स समागत्य नृपस्याम्बु तदार्पयत् । देवतायाः प्रभावेण जजल्पैवं तदुच्चकैः ॥७५३॥ राजस्त्वामथवामात्यान प्रधान वा परं नरम् । तब दुर्बुद्धिदातारं कमहं भक्षयाम्पहो। ॥७५४ ॥ इति नीरवचः श्रुत्वोपविष्टो नृपपर्षदि । विसिमिये जनोऽपूर्णकामो मम्लौ च पार्थिवः ॥७५५॥
१२२॥
Page #249
--------------------------------------------------------------------------
________________
कृत्वा तथाऽपि वदनविकाशं सोनवीदहो!। असाध्यं किञ्चनाऽप्यस्य विद्यते नावनीतले ॥ ७५६॥ विसृज्यैनं गृहे सोऽथाऽमन्त्रयन्मन्त्रिभिः सह । अस्प व्यापादनोपायः कोऽप्यन्यः सूयतामिति ॥ ७५७॥ आलोच्य मन्त्रिणः प्रोचुः चत्वारः पृथिवीपतिम् । देव ! श्रीसुन्दरीकन्याविवाहव्यपदेशतः ॥ ७५८॥ कारयित्वा यमगृहं दक्षिगस्यां पुरो दिशि । वत्सः प्रवेश्यतां तत्र निमन्त्रणकृते हरेः ॥७५९॥ (युग्मम्) साधु साध्विति राजा तान् प्राशंसत्ते च दक्षिणे। दिग्भागे कारयन्ति स्म गामिन्धनपूरिताम् ।। ७६०॥ ज्वालयित्वा च तत्रानि ज्ञापयन्ति स ते नृपम् । राजाऽप्याज्ञापयामास भटान् यमनिमन्त्रणे ॥ ७६१॥ कार्ये तस्मिन्ननिष्पद्यमानेऽन्यैर्जगतीभुजा। आदियो वत्सराजोऽथ तदप्यङ्गीचकार सः ॥७६२॥ दर्शयन्तीभिरस्नेहं कृतनत्वं च भूपतेः । भार्याभिर्भणितोऽप्येप कार्यान्न व्यरमत्तदा ॥७६३ ॥ गोपयित्वा गृहे कान्तं तद्रूपः सोऽथ किङ्करः । यक्षस्ताभिः समादिटो गतः सोऽपि नृपान्तिकम् ॥ ७६४॥ मासेन त्वमिहागच्छेरित्यादिष्टो नृपेण सः । तस्य पश्यत एवाऽथ प्रविवेश हुताशने ॥७६५॥ वत्सराजः प्रविष्टोऽनावित्यशेषपुरीजनः । प्राविशत् स्पर्धयेवाऽस्य तीव्रशोकहुताशने ॥७६६ ॥ जगाद च नरेन्द्रोऽयमहो । निर्दयमानसः । येनाऽनेकगुणस्थानं कुमारोऽयं निपातितः ॥७६७ ॥ कुमारशोकनिद्रायां सुप्ते सत्यखिले जने । बभूव मुदितो राजा निशायामिव कौशिकः ॥७६८॥ सोचोचन्मन्त्रिणो हहो! पत्न्योऽस्याऽऽनीयतामिह । तेवदन विद्यतेऽग्रेऽपि विरक्तास्त्वांप्रति राजा ॥७६९॥
Page #250
--------------------------------------------------------------------------
________________
पंचमः
शान्तिनाअचरित्रम् ॥ १२३॥
प्रस्ताव
एवं कृते विशेषेण विरागं त्वयि यास्यति । विना जनानुरागं हि न सम्पदपि भाविनी ॥७७० ॥ मासं यावत् प्रतीक्षस्व ततस्त्वमपि भूपते ! । उत्तालानां न पच्यन्ते उदुम्बरफलानि यत् ॥७७१॥ गते मासे कुमारस्य प्रिया आनयितुं पुनः । आदिष्टा मन्त्रिणोराज्ञा चत्वारश्चतुरोक्तयः ॥७७२ ।। इतः कुमारपत्नीभ्यां देवीभूतो निजः पिता । यक्षं संप्रेष्य पातालादाहूतो व्यन्तरेश्वरः ॥७७३ ॥ तस्याऽऽभरणसन्दोहैर्भूषितोऽथ पतिर्निजः । तेनाऽग्रगामिना प्रैषि वाज्यारूढो नृपान्तिकम् ॥७७४॥ तं दृष्ट्वा भूपतिर्दध्यौ व्यलीकं विहितं खलु । अमुना वीरपुरुषेणेदं किल सुभाषितम् ॥७७५॥ पुनर्दिवा पुना रात्रिः पुनः सूर्यः पुनः शशी । पुनः संजायते सर्व न कोऽप्येति पुनर्पतः ॥७७६ ॥ पप्रच्छ चै कि पत्स! क्षेमवान् वर्तते यमः। सोऽवदव कुशली देव! कालोऽस्ति भवतः सखा॥ ७७७॥ ममाआक्षीदसावेवं बहुकालात स्मृतोऽस्मि किम् । वत्सराज ! त्वदीशेन वर्तमानोऽपि सौहदे १ ॥ ७७८ ॥ तव भृत्योऽप्यहं तेन भक्त्या गौरवितः प्रभो ! । इदं मदङ्गलग्नं यत्तदत्त भूषणं वरम् ॥७७९ ॥ भवतां प्रत्ययार्थं च द्वाःस्थोऽयं प्रेपितोऽमुना । दृष्ट्वाऽनिमेषनेत्रं तं सत्यं मेने नृपोऽपि तत् ॥ ७८० ॥ व्यन्तरेन्द्रोऽप्युवाचैवं प्रोक्तं दण्डधरेण यत् । मम पार्श्वे सदा राजन् ! प्रेषितव्या नरा निजाः ॥ ७८१ ॥ इन्द्रादेशेन नास्माकमस्तीहाऽऽगमनं नृप ! | मिलनाय ततो मित्र ! त्वयाऽऽगम्यं कथञ्चन ॥ ७८२॥ इत्युक्त राजलोकास्ते तत्र गन्तुं समुत्सकाः। प्रतीहारेण भणिता आगच्छथ मया सह ॥७८३ ॥
EXCEXXXXXXXXXXXXXXXXXXXXX
२३ ।।
Page #251
--------------------------------------------------------------------------
________________
॥ ७८६ ॥
॥ ७८७ ॥
॥ ७८८ ॥ 11669 11
ततो यमगृहस्यान्ते जग्मुस्ते पार्थिवादयः । तेषां च पश्यतामादौ तत्र दौवारिकोऽविशत् ॥ ७८४ ॥ तत्पृष्ठे भूभुजादिष्टाश्चत्वारो मन्त्रिणोऽविशन् । देवतामोहितात्मानो भस्मीभूताः क्षणेन ते ॥ ७८५ ॥ ततस्तत्र नरेन्द्रोऽपि झम्पां दातुं समुद्यतः । वत्सराजकुमारेण बाहौ धृत्वा निवारितः भणितश्च यथा राजन् ! सर्वस्य विदितं ह्यदः । म्रियते तत्क्षणादेव प्रविष्टो ज्वलने यतः देवतायाः प्रभावेण जीवितोऽहं महीपते ! । तयैव मोहयित्वाऽमी निहता मम शत्रवः यतो मन्मारणोपायस्तवामीभिर्निवेदितः । ततो हता मयैते यत्कार्य प्रतिकृतं कृते तस्य भत्तया च शक्त्या च प्रसन्नः पृथिवीपतिः । किञ्चिच्च विफलारम्भो हीमांश्चागान्निजं गृहम् ॥ ७९० ॥ दध्यौ चेति मया पापमस्य दाररिरंसया । बहूपार्जितमात्मा च लोकमध्ये लघुकृतः ।। ७९१ ।। ध्यात्वेति सुन्दरीं कन्यां दत्त्वा तस्मै स भूपतिः । राज्यं च लोकसन्मत्या तापसः समजायत ॥ ७९२ ॥ साधयित्वा बहून् देशान् पुण्यवान् दृढविक्रमः । महाराजपदं प्राप्तो वीरसेननृपात्मजः ॥ ७९३ ॥ अथाऽन्येद्युः पुमानेकः प्रणम्य जगतीपतिम् । इति विज्ञपयामास लेखढौकनपूर्वकम् क्षितिप्रतिष्ठिताद् देव ! नगरादागतोऽस्म्यहम् । भवविज्ञप्तिका लेखस्तत्पौरैः प्रेषितो ह्ययम् ॥ ७९५ ॥ लेखं समर्पयामास स्वपारिग्रहिकस्य तम् | उन्मुद्रय वाचयामास सोऽप्येवं नृपतेः पुरः ॥ ७९६ ॥
॥ ७९४ ॥
तद्यथा
Page #252
--------------------------------------------------------------------------
________________
शान्तिनाचरित्रम्
॥ १२४ ॥
SEEEEEEEEEES
स्वस्तिपुर्थ्यामुज्जयिन्यां वत्सराजं महीभुजम् । क्षितिप्रतिष्ठितात् पौरा नत्वा विज्ञपयन्त्यदः ॥ ७९७ ॥ यथा ग्रीष्मादितो मेघं शीतार्तोऽग्नि जनः स्मरेत् । पीडिता देवराजेन स्मरामस्त्वां तथा वयम् ।। ७९८ ॥ शीघ्रमेव समागत्य प्रभुत्वं त्वं कुरुष्व नः । अन्यथाऽन्यं श्रयिष्यामः स्वामिनं न्यायनिष्ठितम् ॥ ७९९ ॥ श्रुत्वेति सर्वसामग्र्या वत्सराजो महीपतिः । प्रपीद् दूतं तत्र गत्वा देवराजस्य भूपतेः
॥ ८०० ॥
॥ ८०४ ॥
॥। ८०५ ॥
तमागतं सोsपि समय निरगात् पुरात् । विरक्तस्तत्परीवार लोकश्वापन्नगान् तम् ॥ ८०१ ॥ वत्सराजं बलीयांसं मत्वा स्त्रांश्च तथाविधान् । प्रणश्य स ययौ काऽपि नान्याये विजयो नृणाम्।। ८०२ ॥ लोकः प्रमुदितः सोऽथ महोत्सवपुरस्सरम् । पुरे प्रवेशयामास वत्सराजं नरेश्वरम् ॥ ८०३ ॥ एवं राज्यद्वयस्याऽपि स्वामित्वमनुपालयन् । सोऽन्यदोद्यानपालेन विज्ञप्तो नतिपूर्वकम् स्वामिन् । संवसे प्रीत्या यतोऽद्य नगरे तव । चतुर्ज्ञानघर: सूरिरागत्य समवासरत् गत्वा नत्वा मुनीन्द्रं तं यथास्थानं निविश्य च । स पपौ देशनानीरं गुरुनक्त्राद्विनिर्गतम् ॥ ८०६ ॥ यतिश्रावयोर्धर्ममाकर्ण्य गुरुणोदितम् । श्राद्धधर्म प्रपद्याऽसौ पुनरागानिजं गृहम् मासकल्पं विधायाsत्र सूरिरन्यत्र सोऽगमत् । वत्सराजोऽप्यनेकानि जिनचैत्यान्यकारयत् जिनेन्द्रप्रतिमास्तत्र तासां चाष्टाद्विकोत्सवम् । धर्मकृत्यं तथान्यच्च गृहियोग्यं चकार सः आचार्यः सोऽन्यदा तत्र पुनरेव समाययौ । ववन्दे च नरेन्द्रोऽसौ गत्वा तच्चरणद्वयम्
॥ ८०७ ॥
॥ ८०८ ॥
।। ८०९ ।।
॥ ८१० ॥
********:ERFERR
पंचमः प्रस्तावः
॥ १२४ ॥
Page #253
--------------------------------------------------------------------------
________________
पप्रच्छ चान्यदा पूर्वभवे किं विहितं मया ? । यन्मेऽनुपदमायाता विपदः सम्पदोऽभवन् ॥८११॥ सोऽवदत् श्रूयतां राजन् ! जम्बूद्वीपस्य भारते । शूरो नाम नृपोऽभूस्त्वं वसन्तपुरपत्तने ॥८१२ ॥ स शूरः सरलात्मा च क्षमो दाक्षिण्यसंयुतः । स्वभावेनैव निलोभो देवगुर्वचने रतः । ॥८१३॥ दीनादिभ्यो वितीर्णस्वः प्रजापालनतत्परः । युक्तश्चतुर्विधनीत्या न्यायवान् दोपवर्जितः ॥८१४॥ स एवं गुणसंयुक्तो विशेषाच्छीलशोभितः । अतिप्रसक्तो दाने च पालयामास मेदिनीम् ॥८१५॥ सकलान्तःपुरीमध्ये तस्याऽभूदग्रवल्लभा । शूरवेगाभिधानेन विद्याधरकुलोद्भवा
॥८१६॥ ऊढा चापरा तेन रतिचूला नृपात्मजा । तस्यामासक्तचित्तोऽन्याः परितत्याज स प्रिया: ॥८१७॥ अतः परं समाख्यातं सर्व देवतया तव । गन्धवाहगतिसुते यया त्वं परिणायितः ॥८१८॥ स मृत्वा वं महाभाग !जातोऽसि नृपनन्दनः। दानादिधर्ममाहात्म्यामोगसम्पत्समन्वितः॥८१९॥ कृतं चैश्वर्यतः किश्चिदन्तरायककर्म यत् । राज्यभ्रंशादिदुःखं तत् पूर्वे वयसि तेऽभवत् ॥८२०॥ इत्याकर्ण्य समुत्पन्नजातिस्मृतिरसौ नृपः । विशेषपुण्यलाभार्थी जातो दीक्षासमुत्सुकः ॥८२१॥ संस्थाप्य तनयं राज्ये स श्रीशेखरनामकम् । चतसृभिरपि भार्याभिः समं जज्ञे महाव्रती ॥८२२॥ पालयित्वा चिरं दीक्षां कृत्वा च विविधं तपः। मृत्वा समाधिना चान्ते सुरलोकमियाय सः॥ ८२३ ।। देवलोकात परिच्युत्य मनुष्यत्वमवाप्य च । क्षपयित्वाऽखिलं कर्म मुक्तिसौख्यं स लप्स्यते ॥ ८२४ ॥
Page #254
--------------------------------------------------------------------------
________________
शान्तिना
पंचम: प्रस्ताव:
धचरित्रम्
॥ १२५॥
स एष कथितो राजन् ! यः पूर्व सचितो मया । शूरो राजा शुभभोगी विपत्कालेऽपि योऽभवत् ॥ ८२५ ॥
॥इति वत्सराजकथा ॥ जातव्रतपरीणामो राजा मेघरथस्ततः । जिनं नत्वा गृहं गत्वा प्रोचे दृढरथं प्रति ॥८२६॥ बन्धो ! राज्यं गृहाण त्वं प्रतिपद्ये त्वहं व्रतम् । सोऽवादीदहमप्येवं करिष्यामि त्वया सह ॥ ८२७॥ तेनाऽऽत्मतनयो राज्ये मेघसेनो निवेशितः । युवराजत्वे च रथसेनो दृढरथात्मजः ॥८२८॥ चतुःसहस्र पानां सुतसप्तशतैस्तथा । बन्धुना च समं सोऽथ प्रवव्राज जिनान्तिके ॥ ८२९ ॥ निरपेक्षो निजे देहे सोऽधिसेहे परीषहान । सदा समितिभिर्युक्तो गुप्तो गुप्तिभिरन्वहम् ॥८३० ॥ प्रतिबोध्य बहून जीवान विहृत्य जगतीतले । धौतकर्ममलो मोक्षं ययौ घनरथो जिनः ॥८३१ ।। स्थानविशतिभिः साधु प्रधानैरेभिरर्जितम् । रम्यं तीर्थकरगोत्रकर्म मेघरथर्षिणा ॥ ८३२ ॥ अर्हत-सिद्ध-प्रवचन-गुरु-स्थविर-साधुषु । वात्सल्यं सर्वदा चक्रे बहुश्रुत-तपस्विषु ॥ ८३३ ।। ज्ञानोपयोग चाभीक्ष्णं दर्शने विनये तथा । आवश्यके तथा शीलवते निरतिचारवान् ॥८३४॥ क्षणलवतपस्त्याग-वैयावृत्ये समाधिमान् । अपूर्वज्ञानग्रहणे प्रयतः श्रुतभक्तियुक् ॥ ८३५ ॥ प्रभावनां प्रवचने विदधाति स्म सर्वथा। सिंहनिष्क्रीडितं नाम तपःकर्म चचार च ॥ ८३६॥
॥१२५॥
Page #255
--------------------------------------------------------------------------
________________
c
u
संयम पालयित्वाऽथ वर्पलक्षमनूनकम् । व्यधादनशनं सोऽन्ते सानुजस्तिलकाचले ॥८३७ ॥ त्यक्त्वा मलमयं देहं कृत्वा कालं समाधिना । जज्ञे सर्वार्थसंज्ञेऽसौ विमानेऽनुत्तरे सुरः ॥८३८ ।। इत्थं जीवदयाविशेषभणनप्रह्लादितश्रावकश्चित्रोत्पादकवत्सराजनृपतेराख्यायिकावन्धुरः। रम्यानुष्टुपयन्धवृद्धिकलितः संक्षिप्तसन्दर्भको, व्याख्यातोदशमोभवो भगवतः शान्तेस्तथैकादशः॥ ८३९ ॥
SXEXXEEXIRIXXXXXXXXXXXXX
Demonetisamanaras
ir juntowo-din tr-ontzientamento o en una nueva senantuntevansnatan u anuntam an t anutbutunlDALANUVARDANIGARAN THUINE इत्याचार्यश्रीअजितप्रभसूरिविरचित्ते दशमैकादशभववर्णनो
नाम पञ्चमः प्रस्तावः L HIMNURUTARANBULDANI. ATAIOMINUTNIKIBONUKUTID GHARUN ANTONIO ANUNNE
Page #256
--------------------------------------------------------------------------
________________
पष्ठः
षष्ठः प्रस्तावः।
शान्तिनाथचरित्रम् ॥१२६॥
प्रस्ताव
=
=
=
इतश्चात्रैव भरते युगादिजिनसन्ततिः । कुरुरित्यभवत् पूर्व कुरुदेशस्तदाख्यया हस्तीति तत्सुतस्तेन निर्ममे हस्तिनापुरम् । गृहाट्टरचनाहारि तुङ्गप्राकारगोपुरम्
॥२॥ बहुमरिकृतावासं शोभितं बहुमङ्गलैः । अपूर्वगगनाकारं तत्पुरं भूरिस्रवत् विश्वसेनो नृपस्तत्र शौयौदार्यादिसद्गुणैः । विख्यातो जगतीपीठे विश्वसेन इवाऽभवेत् ॥४॥ पुण्यलावण्यरुचिराचिरादेवीति तत्प्रिया । सर्वालङ्कारवरयाऽलकृता च रतिक्रिया इतो भाद्रपदे कृष्णसप्तम्यां भरणीगते । चन्द्रे सर्वग्रहेषच्चस्थानस्थेषु निशान्तरे च्युत्वा सर्वार्थतो मेघरथस्यात्मायुषः क्षये । अवतीणोऽचिरादेव्याः कृक्षौ सरसि हंसवत्
॥७॥ तस्मिंश्च समये देवी सुखसुप्ता चतुर्दश । महास्वमान ददशैतानीपज्जागरिता सका मातङ्गवृषहर्यक्षाः साभिषेकेन्दिरा तथा । पुष्पमालेन्दुस्यौं च ध्वजकुम्भौ सरोवरम् ॥९॥ सागरश्च विमानं च रत्नानां सञ्चयस्तथा । निधूमो हुतभुक् चेति स्वमा आगमभाषिताः ॥१०॥ दृष्ट्वा स्वमानिमान देवी जातनिद्राक्षया क्षणात् । गत्वा(त्यो)पराजमाचख्यौ प्रमोदभरनिर्भरा ॥११॥
॥१२६॥
Page #257
--------------------------------------------------------------------------
________________
१५ ॥
॥
१६ ॥
॥
१७ ॥
॥
१८ ॥
प्रहृष्टमुखपद्मोऽथ जगाद जगतीपतिः । सर्वलक्षणसम्पूर्णो भावी देवि ! तवाऽऽत्मजः प्रसन्नवदना धर्मचिन्तया रात्रिशेषकम् । अतिक्रमयति स्मैपा कुस्त्रमालोकशङ्किता सञ्जातेऽथ प्रगेऽष्टाङ्गनिमित्तज्ञानपण्डिताः । भूभुजाऽष्टावुपाध्याया आहूता निजपूरुषैः कृतमङ्गलोपचाराः सम्प्राप्तास्ते नृपौकसि । दत्तासनेषूपविष्टाञ्चाऽर्चिताः कुसुमादिभिः सुस्वमानां फलं राज्ञा पृष्टाश्चैवं बभापिरे । अस्मच्छास्त्रे द्विचत्वारिंशत् स्वमा जगतीपते ! महास्त्रमा अपि त्रिंशत् स्युः सर्वे ते द्विसप्ततिः । वीक्षिता येऽचिरादेव्या महास्वप्ना इमे स्फुटम् अर्हतां चक्रिणां चैतान् स्वमान् पश्यन्ति मातरः । सप्तार्थचक्रिणां चाऽम्बा चतुरः सीरिणां तथा प्रत्यर्धचक्रिणां श्रश्वाऽन्येपामुत्तमजन्मिनाम् । एकैकमम्विकाः स्वमं पश्यन्त्येषां हि मध्यतः दृष्टा यदचिरादेव्या महास्वप्नाचतुर्दश । तद्भावी त्वत्सुतो राजन् ! पट्खण्डभरताधिपः अथवाऽपि जिनाघीशो विश्वत्रितयवन्दितः । तच्छ्रुत्वा मुदितो राजा मुमुदे तत्प्रियाऽपि सा राज्ञा विसृष्टास्ते स्त्रमपाठकाः प्रययुर्गृहम् । बभार गर्भ राज्ञी च रत्नगर्भेव सेवैधिम् अतिस्निग्धातिमधुरं चाऽतिक्षारातितिक्तकम् । वर्जयामास साऽऽहारं कपायकटुकं तथा महान्तमशिवं तस्मिन्नासीत् पूर्व पुरे तदा । सञ्जातो मान्यदोपेण लोकस्य प्रलयो महान् १ निधिम् ।
॥
१९ ॥
॥ २० ॥
॥
२१ ॥
॥
२२ ॥
રમ
॥ १२ ॥
॥ १३ ॥
॥ १४ ॥
॥
॥ २३ ॥
॥ २४ ॥
aay
Page #258
--------------------------------------------------------------------------
________________
षष्ठः
शान्तिनाथचरित्रम् ॥१२७॥
गन्धद्विपस्य गन्धेनाऽन्यदन्तिमदवत् क्षणात् । उपशान्तं तदशिवं प्रभावाद् गर्भगप्रमोः ॥२५॥ ततश्च चिन्तितं तातजननीभ्यामदो हृदि । प्रभावोऽयमनीदृक्षसूनोर्गर्भगतस्य नौ
॥२६॥ इदं हि घटते यस्माद् गर्भवासदिने मुदा । वन्दितोऽयं समागत्य सहाऽऽवाभ्यां सुरेश्वरैः ॥२७॥ गतेषु मासेषु नवस्वर्धाष्टदिवसेषु च । ज्येष्ठकृष्णत्रयोदश्यां भरणीस्थे निशाकरे ॥२८॥ सूर्यादिषु ग्रहेषच्चपरमोच्चस्थितेषु च । शुभे लग्ने मुहूर्ते च प्रवाते चारु मारुते
॥ २९ ॥ निशीथसमये स्वर्णवर्ण कान्तिसमन्वितम् । सा देवी सुषुवे पुत्रं विश्वत्रयसुखावहम् ॥३०॥ (त्रिमिविशेषकम) अत्रान्तरे षडधिकपञ्चाशद् दिकुमारिकाः । अवधिज्ञानतो ज्ञात्वा जिनजन्म समाययुः अष्टावेयुरधोलोकाद् गजदन्ताद्रिकन्दतः । अष्टौ च नन्दनवनकूटाद् मेरुनगस्थितात ॥ ३२॥ प्रत्येकं रुचकद्वीपादष्टावष्टौ कुमारिकाः । एयुर्दिग्भ्यश्चतसृभ्यश्चतस्रश्च विदिग्गताः ॥३३॥ मध्यमाद् रुचकद्वीपाश्चतस्रश्च दिगङ्गनाः। एवं सम्मिलिताः सर्वाः षट्पञ्चाशद् भवन्ति ताः ॥३४॥ संवर्तवातजलदकृति दर्पणधारिताम् । भृङ्गारतालवृन्तानां चामराणां च धारणम् दीपिकाधारण रक्षाविधानप्रभृतीनि च । चक्रिरे सूतिकर्माणि क्रमेणैवं जिनस्य ताः ॥३६॥ अत्रान्तरे सुरेन्द्रस्य चचालाऽचलमासनम् । सम्प्रयुक्तावधिज्ञानो जिनजन्म विवेद सः ॥३७॥
॥ १२७॥
Page #259
--------------------------------------------------------------------------
________________
आज्ञाप्य त्रिदर्श नैगमेषिणं हरिणाननम् । ज्ञापयामास तद्देवान घण्टास्फालनपूर्वकम् ॥ ३८ ॥ सर्वे संना देवास्ते हरेरन्तिकमाययुः। विमानं कारयामास प्रधान पालकेन सः
॥३९॥ तत्राधिरुह्य सपरीवारोऽलङ्कारशोभितः। आगादनुपमश्रीको जिनजन्मगृहे हरिः ॥४०॥ तुभ्यं नमस्तीर्थनाथ ! सनाथीकृतविष्टप ! । कृपारससरिनाथ ! नाथ ! श्रीविश्वसेनज! ॥४१॥ कुक्षौ रत्नघरे ! देवि ! जगद्दीपप्रदायिके ! | नमस्तुभ्यं जगन्मातस्त्वं धन्या पुण्यवत्यसि ॥४२॥ त्वमेवाऽमोघजन्माऽसि त्वमेवोत्तमलक्षणा!। पुत्रिणीषु त्वमेवाऽसि पवित्रा भुवनत्रये ॥४३॥ धर्मोद्धरणधौरेय छन्नमोक्षाऽध्वदीपक: । षोडशस्तीर्थनाथोऽयं भगवान सुषुवे यया ॥४४॥ नत्वा स्तुत्वा जिनाधीशं तदम्बां च विशेषतः । दत्वाऽवस्वापिनीं तस्याः प्रतिरूपं निवेश्य च ॥४५॥ पञ्चरूपो बभूवाऽसौ तत्रैको जिनमाददे । एक छत्रं पवि चैको द्वौ च चामरधारिणौ ॥४६॥ (युग्मम्) स ययौ मेरुशिखरं सुरेन्द्रा अपरेऽपि हि । तत्रैयुः स्वर्गभवनवासिनो व्यन्तरास्तथा ॥४७॥ तत्राऽतिपाण्डकम्बलशिलायां शाश्वतासने । सौधर्मेन्द्रो निपसाद धृत्वा जिनपुङ्गवम् ॥४८॥ हेमरूप्यमणिदारुमृन्मयां कलशावलिम् । तीर्थगन्धोदकापूर्णामुवक्षिप्य प्रमदाञ्चिताः ॥४९॥ अच्युताद्याः सुराधीशाश्चक्रिरे जिनमज्जनम् । निःसीमसुकृतापास्तभवाम्भोधिनिमज्जनम् ॥५०॥ (युग्मम्) १ हरिणमुख्यं हरिणपूर्वमिति यावत् ।
Page #260
--------------------------------------------------------------------------
________________
शान्तिनाथचरित्रम् ॥१२८॥
पष्ठा प्रस्ताव
ततश्चाऽच्युतनाथस्योत्सङ्गे संस्थाप्य तीर्थपम् । सौधर्मेन्द्रो व्यधात् स्नात्रं पुण्यपात्रं जगद्गुरोः॥ ५१॥ सुवाससा प्रमृज्याङ्ग चन्दनायैविलिप्य च । 'पुष्पाद्यैरर्चयामास प्रीतचित्तः शचीपतिः ॥५२॥ विधाय चक्षुःशान्त्यर्थ लवणोत्तारणादिकम् । शक्रो नत्वा जिनं भक्त्या स्तोतुमेवं प्रचक्रमे ॥५३ ।। जय त्वमचिराकुक्षिक्षितिकल्पद्रुसन्निभ ! । भव्याम्भोरुहसूसंभ ! भद्रश्रेणिविधायक! ॥५४॥ इत्याधुद्दामवचनैः स्तुत्वा नीत्वा पुनर्ग्रहे । स मातुरर्पयामास जिनमेवं जगाद च जिनस्य जिनमातुश्च यो दुष्ट चिन्तयिष्यति । एरण्डफलबद् ग्रीष्मे स्फुटिष्यत्यस्य मस्तकम् ॥५६॥ ततो नन्दीश्वरद्वीपे यात्रां कृत्वा सुरेश्वराः । सर्वे निज निजं स्थानं जग्मुस्ताश्च कुमारिकाः ॥५७॥ तदा देवी जजागार तदङ्गप्रतिचारिकाः । दृष्ट्वा सनन्दनामेतां जातानन्दाः ससम्भ्रमाः ॥५८॥ प्रस्खलद्गतयो गाढनीवीबन्धशिरोरुहाः । पतत्प्रच्छादनाः पुत्रजन्म राज्ञे न्यवेदयन् ॥ ५९॥ इदं च कथयामासुः सूतिकर्माऽस्य देव ! यत् । चक्रे काष्ठाकुमारीभिर्दासीभिरिव साञ्जसम् ॥६ ॥ कृतो जन्माभिषेकश्च सुरेन्द्रैमरुमस्तके । इति देवमुखात् स्वामिन्नस्माभिः शुश्रुवे वचः ततोऽभिनवपाथोदधाराहतकदम्बवत् । शुशुभे जातरोमाञ्चकञ्चको जगतीपतिः
॥ ६२॥ निजाङ्गलममखिलं भूषण मुकुट विना । आसप्तसन्तति ताभ्यो वृत्तिं च प्रददाबसौ ततश्च दापयन दानमनिवारितशात्रवम् । हृष्टः प्रवर्तयामास सुतजन्ममहोत्सवम्
॥६४॥
M॥१२८॥
Page #261
--------------------------------------------------------------------------
________________
॥६१।
द्वादशेऽथ दिने राजा बन्धुवर्गमशेषकम् । भोजयित्वा गौरवेण तत्समक्षमदोऽवदत् बभूवाऽशिवशान्तिर्यदस्मिन् गर्भागते जिने । तदस्य सुतरत्नस्य शान्ति माऽस्तु सुन्दरम् ॥६६॥ सर्वस्यापि जनस्यैतत् सञ्जातं नाम सम्मतम् । रम्यं सद्गुणनिष्पन्न चेतसाग्रे विचिन्तितम् ॥६७ ॥ शक्रसंक्रमिताऽङ्गुष्ठाऽमृताहारस्ततः प्रभुः । विशिष्टरूपलावण्यसम्पन्नो ववृधे क्रमात ॥६८॥ पाणिपादतले यस्यारक्ते लक्षणलक्षिते । स्निग्धताम्र पृथूत्तुङ्गा नखाच मुकुरोपमाः ॥६९॥ पादौ कूर्मोन्नतावेणीजङ्घाकारे च जचिके । ऊरू करिकरप्रख्ये विस्तीर्ण च कटीतटम् ॥७ ॥ गम्भीरदक्षिणावर्तो नाभिर्मध्यं च वज्रवत् । पुरद्वारकपाटाभ दृढं वृक्षःस्थलं तथा ॥७१ ॥ बाहू पुरागलातुल्यौ ग्रीवा कम्बुसमा वरा । विम्योपमौ चाऽधरोष्ठौ कुन्दकुइमलवद् द्विजाः ॥७२॥ उत्तुड्गः सरलो नाशावशः सज्जनवृत्तवत् । पद्मपत्रोपमे नेत्रे अष्टमीन्दुसमालिका ॥७३॥ दोलाकारं श्रुतियुगं छत्राकारं च मस्तकम् । स्निग्धा अलिकुलश्यामाः कुन्तलाश्चाऽतिकोमलाः ॥ ७४ ॥ पद्मगन्धसमः शासो चरहेमरुचिस्तनुः । इत्यङ्गलक्षण यस्य कुरङ्गश्च तथाऽपरम्
।। ७५॥ त्रिभिमा॑नः समायुक्तोऽशेषविज्ञानपारगः । जातः सर्वजनोत्कृष्टः प्रभुः सम्प्राप्तयौवन: ॥ ७६॥ वत्सराणां सहस्रपु पञ्चविंशतिपु क्रमात् । गतेषु भगवान राज्ये जनकेन निवेशितः ॥ ७७॥ १ दन्ताः ।
Page #262
--------------------------------------------------------------------------
________________
शान्तिनाथचरित्रम्
॥ १२९ ॥
1
परिणातिश्चाऽनेकाः सुरूपाः कुलचालिका: । सकलान्तःपुरीसारा जज्ञे तस्य यशोमती जीवो दृढरथस्याऽथ स सर्वार्थात्परिच्युतः । आगाद्यशोमतीकुक्षौ चक्रस्वप्नोपसूचितः समये च सुतो जज्ञे तस्योत्सवपुरःसरम् । चक्रायुध इति नाम चक्रे स्वमानुसारतः कलाकलापसम्पूर्णः क्रमात्सम्प्राप्तयौवनः । सोऽपि पाणिग्रहं राजकन्यकानां हि कारितः अन्यदाऽऽयुधशालायां रविविम्बसमद्युति । तस्योत्पन्नं सहस्रारं चक्ररत्नमनुत्तमम् शस्त्रागारारक्षकेण तदुत्पत्तिर्निवेदिता । प्रभोः सोऽथ समागत्य चक्रेऽस्याऽष्टाहिकोत्सवम् तच्छालाया विनिर्गत्य चचालाऽम्बरवर्त्मना । तदनु प्राचलच्छान्तिनाथः सैन्यसमन्वितः चक्रं यक्षसहस्रेणाधिष्ठितं तदथो गतम् । पूर्वस्यां मागधतीर्थासन्नवेलाकुले क्रमात् कृत्वा निवेश सेनायास्तत्र चक्री शुभासने । निपसादाऽभिमुखोऽस्य ततस्तदनुभावतः अधोभागे जलस्यान्ते द्वादशयोजनस्थिते । मागधाख्यकुमारस्य चलति स्माऽऽसनं तदा ददर्शावधिना शान्तिं स जिनं चक्रवर्तिनम् । षट्खण्डभरत क्षेत्रसाधनोद्यतमागतम् दध्यौ चैवं मयाऽऽराध्योऽन्योऽपि चक्री जिनस्त्वयम् । विशेषेण यतो भक्तिमिन्द्रा अप्यस्य कुर्वते ततः सुवखाण्यादाय सोsनर्ध्याभरणानि च । आगत्य ढोकयामास प्रभोरेवं शशंस च तवाऽऽज्ञाकारकः स्वामिन् ! पूर्वदिक्पालकोऽस्म्यहम् । आदेष्टव्यं सदा कृत्यं स्वकिङ्करसमस्य मे
॥
॥
॥
॥ ७८ ॥
॥ ७९ ॥
॥ ८० ॥
॥ ८१ ॥
॥ ८२ ॥
॥ ८३ ॥ ॥ ८४ ॥
11 64 11
॥ ८६ ॥ 1120 11
11 66 11
८९ ॥
९० ॥
९१ ॥
षष्ठः
प्रस्तावः
॥ १२९ ॥
Page #263
--------------------------------------------------------------------------
________________
-
भगवानपि सम्मान्य दैवतं विससर्ज तम् । याम्यां प्रति दिशं सोऽथ चलति स्म सुदर्शनः ॥ ९२ ।। तीर्थस्य वरदामस्याऽऽसन्ने गत्वा स्थितश्च सः। तस्याऽधिष्ठायक शान्तिस्तथैवाऽसाधयत् प्रभुः॥ ९३॥ गत्वाऽथ वारुणीमाशां प्रभासस्याऽधिदैवतम् । साधयित्वोत्तरस्यां तु ययौ सिन्धुनदीतटे ॥९४॥ तत्रापि पूर्वविधिना साधिता सिन्धुदेवता । आगत्याऽऽढौकयत स्नानपीठं रत्नमयं विभोः ॥९५ ॥ शातकुम्भमयाः कुम्भा रौप्या मृन्मयकास्तथा । अन्यां च स्नानसामग्री सुवस्त्राभरणानि च ॥१६॥ ऊचे च सर्वदा स्वामिन्नाज्ञाकारिण्यहं तव । इत्युक्त्वा साऽपि स्वस्थान विसृष्टा विमुना ययौ ॥ ९७॥ उत्तीर्य चर्मरत्नेन सिन्धु सेनापतिस्ततः । विभपान्ते साधयित्वा प्रतीचीखण्डमागतः ॥९८॥ कृतपूजं ततश्चक्रं वैताव्यस्याऽगमत्तले । चैताब्यादिकुमारश्च वशवयंभवत् प्रभोः ॥९९ ॥ गुहाखण्डप्रपाताया द्वारमुद्घाटितं स्वयम् । कृतमालसुरश्चाऽज्ञां जगद्भर्तुः प्रपन्नवान् ॥१०॥ तत्रोन्मग्नाऽथ निममा द्वे नद्यावतिदुस्तरे । चकार वर्धकिः सद्यः पद्यां तत्र मनोहराम् ॥१०१॥ गुहायां प्रविवेशाऽथ प्रभुः सैन्यसमन्वितः । काकिन्याऽथ तमो हतु विदधे मण्डलानि च ॥१०२॥ पञ्चाशयोजनान्येकोनपश्चाशच मण्डली । एवं जज्ञे ससैन्योऽथ परतो निरगाद् बहिः ॥१०३ ॥ तत्रापातचिलाताख्यान म्लेच्छान् भरतचक्रिवत् । क्शे चकार तरसा महापुण्यप्रभावयुक् ॥ १०४॥ सेनान्या साधयित्वाऽथ द्वितीय सिन्धुनिष्कुटम् । हिमवत्पर्वतस्याधिदेवं साधयति स्म सः ॥१०५॥
-
Page #264
--------------------------------------------------------------------------
________________
शान्तिनाथचरित्रम् ॥ १३० ॥
गिरौ भकूटाख्ये निज नाम लिलेख च । गङ्गोत्तरं निष्कुटं चाऽसाधयद् वाहिनीपतिः ॥ १०६ ॥ तमिस्रायां नाट्यमाल संसाध्य निरगाद् विभुः । गङ्गां च साधयित्वाऽस्याः कूले तस्याऽथ तस्थुषः ॥ १०७॥ द्वादशयोजनायामा नवयोजनविस्तृताः । मञ्जूषाकृतयः प्रादुर्बभूवुर्निधयो नव नैसर्पः पाण्डुकश्चैव पिङ्गलः सर्वरत्नकः । महापद्मः कालमहाकालौ माणवशङ्खकौ स्कन्धावारपुरादीनां निवेशाः प्रथमे निधौ । सर्वेषां धान्यबीजानामुत्पत्तिश्च द्वितीयके नराणां महिलानां च हस्तिनां वाजिनां तथा । आभरणविधिः सर्वो निधौ पिङ्गल के भवेत् चतुर्दशाऽपि रत्नान्युत्पद्यन्ते सर्वरत्न के । महापद्मे च वस्त्राणां रङ्गादीनां च सम्भवः काले कालत्रयज्ञानं महाकाले च कीर्तितः । स्वर्णरूप्यलोहमणिप्रवालानां च सम्भवः युद्धनीतिः समग्राऽपि सर्वप्रहरणानि च । तनुत्राणादि योधानां योग्यं माणवके भवेत् तूर्याङ्गानि समस्तानि काव्यं चाऽपि चतुर्विधम् । निधौ सञ्जायते शङ्ख नाट्य नाटकयोर्विधिः तेषु पल्योपमायुष्का वसन्ति खलु देवताः । निधानसमनामानः समये परिकीर्तिताः तथैवाऽऽत्मवशं चक्रे गङ्गायाः पूर्वनिष्कुटम् । एवं षट्खण्डभरतक्षेत्रं प्रभुरसाधयत् कृतदिग्विजयः सोऽथ पुनरागान्निजं पुरम् । प्रविश्य तत्र गेहे च जगामोत्सव पूर्वकम् १ सिद्धान्ते ।
॥ १०८ ॥ ( युग्मम् )
॥ १०९ ॥
॥
११० ॥
॥
१११ ॥
॥ ११२ ॥
॥ ११३ ॥
॥
११४ ॥
११५ ॥
११६ ॥
॥ ११७ ॥
॥ ११८ ॥
॥
॥
पष्ठः
प्रस्तावः
॥ १३० ॥
Page #265
--------------------------------------------------------------------------
________________
द्वात्रिंशन्मुकुटबद्धमहीपालसहस्रकैः । प्रारब्धश्चक्रवर्तित्वाऽभिपेको द्वादशाब्दिकः ॥११९ ॥ अमिपेकोत्सवं कृत्वा राजैकैको दिने दिने । स्वामिने प्रचुरं द्रव्यं ददौ द्वे द्वे च कन्यके ॥१२०॥ चतुःपटिमहस्राणि ततोऽभूवन प्रिया विभोः । अत्यन्तरूपलावण्यविनिर्जितसुराङ्गनाः ॥१२१ ॥ सेनापतिप्रभृतीनि रत्नानि च चतुर्दश । तत्र यक्षसहस्रेणैकैकं हि समधिष्ठितम् ॥ १२२ ॥ चतुरशीतिलक्षाणि करिणां वाजिनां तथा । ध्वजाङ्काः शस्त्रसम्पूर्णास्तत्प्रमाणा रथा अपि ॥ १२३ ॥ द्विसप्ततिसहस्राणि पुराणामृद्धिशालिनाम् । ग्रामाणां च पदातीनां कोट्या पण्णवतिस्तथा॥ १२४॥ द्वात्रिंशतं सहस्राणि देशानां भूभुजां तथा । द्वात्रिंशद्वद्धतरुणीनाटकानां च रङ्गिणाम् ॥१२५ ॥ रत्नाकराधाकराणां सहस्राणि च विंशतिः । पत्तनान्यष्टचत्वारिंशत्सहस्रमितानि च ॥१२६॥ एवं पालयतश्चक्रिपदवीमसमां प्रभोः । ययौ वर्षसहस्त्राणां विंशतिः पञ्चसंयुता
॥१२७॥ अत्रान्तरे ब्रह्मलोकेऽरिष्टप्रस्तखासिनाम् । पीठं सारस्वतादीनां चलति स्माऽमृताशिनाम् ॥१२८॥ विज्ञायाधिना तेऽथ व्रतस्य समय विभोः । तीथे प्रवर्तयेत्याऽचचक्षिरे सैन्यबन्दिवत् ॥१२९॥ विजानंस्तत् स्वयं स्वामी तैश्चैवं ज्ञापितस्ततः । ददौ सांवत्सरं दानं याचकेभ्यो यथारुचि ॥ १३०॥ ततश्चक्रायुधं राज्ये निवेश्य तनयं निजम् । बभूव भगवान दीक्षाग्रहणार्थ समुद्यतः ॥ १३१॥ १ देवानाम् ।
Page #266
--------------------------------------------------------------------------
________________
.
पष्ठः
शान्तिनाथचरित्रम ॥१३१॥
प्रस्ताव
अत्रान्तरे सुराधीशाः सर्वेऽपि चलितासनाः । आययुः शान्तिनाथस्य कर्तु निष्क्रमणोत्सवम् ॥ १३२॥ सर्वार्थसंज्ञां शिविकामारुरोहाऽथ तीर्थकृत | चामराम्यां वीज्यमानो धृतच्छत्रश्च मस्तके ॥१३३ ॥ उत्क्षिप्ता मानुषैः पूर्व शिबिका सा जगद्गुरोः। सुरासुरेन्द्रगरुलनागेन्द्रश्च ततस्ततः ॥१३४ ॥ उद्ढा सा पुरो देवैर्दक्षिणाङ्गे तथाऽसुरैः । पश्चाभागे च गरुलै गैरुत्तरतस्तथा ॥१३५॥ नृत्यं प्रकटयन्ति स्म पुरो भगवतो नटाः । पठन्ति स्मोच्चकैभेट्टाः स्वामिन् ! जय जयेति च ॥ १३६ ॥ सद्गुणान वर्णयन्ति स्मैश्वर्यादीन भुवनोत्तरान् । नानाच्छन्दैर्जगद्भर्तुर्नरा रासकदायकाः ॥१३७ ॥ ततो भम्भामृदङ्गादीन्यातोद्यानि गुरुस्वरम् । वादयन्ति स्म साटोपास्तस्पाठकुशला नराः ॥ १३८॥ चक्रे च हाहाहूहूभ्यां सप्तस्वरसमन्वितम् । सम्मुर्छनाग्रामलयमात्राढ्यं गीतमुत्तमम् ॥१३९ ॥ रम्मा तिलोत्तमा चवोर्वशी मेना सुकेशिका । हावभावविलासाढ्यं नृत्यं चक्रुः पुरः प्रभोः ॥ १४०॥ स एवंविधसामय्या निर्गत्य नगराच्छनैः । उद्यानं प्रवरं प्राप सहस्राम्रवणाऽभिधम् ॥१४१॥ शिविकायाः समुत्तीर्य विमुच्याऽऽभरणान्यथ । पञ्चभिर्मुष्टिभिः केशानुच्चखान जिनेश्वरः ॥१४२ ॥ वस्त्राश्चले गृहीत्वा तान् क्षीराब्धौ मघवाऽक्षिपत् । मृदङ्गनादसंयुक्तं तुमुलं च न्यवारयत् ॥१४३ ॥ ज्येष्ठासितचतुर्दश्यां शशाङ्के भरणीगते । कृत्वा सिद्धनमस्कारं प्रभुश्चारित्रमाददे ॥१४४ ॥ कृतषष्ठतपाः सार्ध सहस्रेण महीभुजाम् । आत्तसामायिकः सोऽथ विजहार महीतले ॥१४५॥
Page #267
--------------------------------------------------------------------------
________________
स्या
IE**XXET:#######
कस्मिंश्चित्सन्निवेशेऽथ परमान्नेन कारितः । सुमित्राख्यगृहस्थेन पारणं परमेश्वरः ॥ १४६॥ चतुर्ज्ञानधरः सोऽथ ग्रामाकरपुराकुलाम् । स्वामी विहरति स्मोर्वी महासत्वशिरोमणिः ॥१४७ ॥ मासान् छद्मस्थकालेऽष्टौ विहृत्य पुनराययौ । स हास्तिनपुरे तत्र सहस्राम्रवणे वरे ॥१४८॥ तत्र पत्रप्रसूनादिनन्दिभृन्नन्दिनामकः । सुविशालोऽभववृक्षस्तस्थौ तस्य तले प्रभुः ॥१४९ ॥ प्रभोः प्रवर्तमानस्य शुक्लध्याने वरे तदा । कृतपष्ठस्य पौपस्य शुद्धायां नवमीतिथौ । ॥ १५०॥ भरणीस्थे निशानाथे क्षीणकर्मचतुष्टये । उत्पन्नमतुलं नित्यं केवलं ज्ञानमुज्जलम् ॥१५१ ॥ (युग्मम्) चतुर्विधैस्ततो देवैः समेत्य चलितासनः। अकारि रम्यं समवसरणं जिनहेतवे
॥ १५२॥ ऊया योजनमात्रायां वायुनाऽशुभपुद्गलाः । अपनीतास्ततो गन्धोदकेन शमितं रजः ॥१५३ ॥ आयो मणिमयो वप्रः कपिशीर्पसमन्वितः। द्वितीयश्च हेममयः सुरत्नकपिशीर्षक: ॥१५४॥ सुवर्णकपिशीविस्तृतीयो रूप्यनिर्मितः । विमानज्योतिभवनवासिभिस्ते कृताः सुरैः ॥१५५॥ जज्ञे सतोरणा तेपु प्रत्येकं द्वाश्चतुष्टयी। स्वाम्यङ्गाद द्वादशगुणस्तन्मध्येऽशोकपादपः ॥१५६॥ चत्वारि परितस्तस्य सिंहासनवराणि च । छत्रत्रयं चामराणि व्यन्तरैविहितं ह्यदः ॥ १५७॥ प्रविश्य पूर्वद्वारेण कृततीर्थनमस्कृतिः । निपसाद प्रसन्नास्यः पूर्वसिंहासने प्रभुः ॥१५८॥ शेषेपु तत्प्रतिच्छन्दाः पृष्ठे भामण्डलं प्रभोः। पुरः कुसुमवृष्टिश्चाऽऽजानुमात्री सुरैः कृता ॥१५९ ॥
-
-
X
Page #268
--------------------------------------------------------------------------
________________
पाठ
शान्तिनाथचरित्रम् ॥१३२॥
प्रस्ताव
नदन्ति स्माऽम्बरतले देवदुन्दुभयस्तदा । अथो निपेदुराग्नेय्यां साधुसाध्वीसुराङ्गानाः ज्योतिष्कभवनपतिव्यन्तराणां च देवताः । निषेदुनैर्ऋते कोणे वायव्ये ते सुराः पुनः ॥१६१ ॥ वैमानिकामराऽमर्त्यमनुष्याणां च योषितः । एते निषेदुरीशाने मुख्यप्राकारमध्यगाः ॥१६२॥ पूर्वोक्तदिग्विभागेषु तिर्यञ्चस्त्यक्तमत्सराः। सन्निषण्णा द्वितीयस्य प्राकारस्याऽन्तरेऽखिलाः ॥१६३ ॥ तस्थुस्तृतीयवप्रान्तर्वाहनान्यखिलानि च । एवं समवसरणस्थितिः किश्चित्प्रकीर्तिता ॥१६४॥ कल्याणनामधेयेन पुंसागत्य निवेदिताः । स्वामिनः केवलोत्पत्तिश्चक्रायुधमहीपतेः गत्वाऽसौ विधिना तत्र नत्वा स्तुत्वा जिनेश्वरम् । निषसाद यथास्थानं पुरो विरचिताञ्जलिः ॥ १६६॥ मधुक्षीरास्रवलब्ध्या युक्तयातिशयेन च । भापया विदधे धर्मदेशनां भगवानथ ॥१६७॥ निर्जिताः शत्रयो लोके महाराज ! त्वयौजसा।नाद्याऽपि निर्जिता देहे रिपवस्त्विन्द्रियाद्वयाः ॥ १६८॥ शब्दरूपरसगन्धस्पर्शाख्या विषयाः खलु । अजितेष्विन्द्रियेष्वेते महानर्थविधायिनः वितत्य कौँ व्याधस्य गीताकर्णनतत्पराः । हरिणा मरणं यान्ति श्रोत्रेन्द्रियवशंवदाः ॥१७॥ शलभः कनकाकारां प्रदीपस्योल्लसच्छिखाम् । पश्यन् प्रविश्य तत्राऽऽशु म्रियतेऽनिर्जितेक्षणः॥ १७१ ।। मांसपेशीरसास्वादलुब्धः कैवर्तवश्यताम् । यात्यगाधजलस्थोऽपि मीनो रसनया जितः ॥१७२॥ भृङ्गः करिमदाघ्राणलुब्धः प्राप्नोति पश्चताम् । दुःखं वा सहते नागो घ्राणेन्द्रियवशः खलु ॥ १७३ ॥
**££:&&&&&&&&&&&****
मधुक्षीरामल लोक महाराज ! त्वयोजसालण्वन्द्रियेष्वेते महानथविधान
*
॥ १३२॥
Page #269
--------------------------------------------------------------------------
________________
हस्तिनीवपुषः स्पर्शलुब्धोऽय करिपुङ्गवः। आलानवन्धनं तीक्ष्णाङ्कशघातं सहेत भोः। ॥१७४ ॥ त्यजन्ति विषयानेवंविधान सत्पुरुषाः क्षणात् । त्यक्ताः प्रियाः स्वरूपेण गुणधर्मेण ते यथा ॥ १७५॥ चक्रायुधेन पृष्टोऽथ शान्तिनाथो जिनेश्वरः । प्रतिवोधकृते तस्य कथयामास तत्कथाम् ॥१७६॥
इहाऽऽसीद् भरतक्षेत्रे पुरे शौर्यपुराभिधे । दृढधर्म इति ख्यातो विक्रान्तः पृथिवीपतिः ॥१७७॥ यथार्थनाम्नी तस्याऽभूत प्रेयसी शीलशालिनी । तत्कुक्षिसम्भवस्तस्य गुणधर्मामिधः सुतः ॥ १७८॥ कलावानिन्दुवल्लोकलोचनानन्ददायकः । पञ्चत्राण इवाऽशेपकामिनीवल्लभश्च यः ॥१७९॥ सुभगः सरलः शूरः पूर्वाभापी प्रियंवदः । दृढसौहृदः सुरूपः स सर्वगुणसंयुतः ॥१८०॥ इतश्वेशानचन्द्रस्य भूपते रूपसंयुता । सुता कनकवत्यासीद्वसन्तपुरपत्तने
॥१८१ ॥ चक्रे तस्याः कृते राज्ञा स्वयंवरमण्डपः । गुणधर्मोऽथ तत्रागादन्ये च पृथिवीभुजः ॥१८२ ॥ राज्ञा दत्तगृहे स्थित्वा स स्वयंवरमण्डपम् । ययौ द्रष्टुमथो तत्राऽऽगमत् साऽपि नृपात्मजा ॥ १८३ ॥ तया निरीक्षितः सोऽथ तेनासावपि वीक्षिता । जाताच दृष्टिविक्षेपेणाऽनुरागपरात्मनि ॥१८४ ॥ तमीक्षमाणा सानन्दं दृष्टया सा सदनं ययौ । कुमारोऽपि वलित्यागात् सावासे सपरिच्छदः॥१८५॥ निश्युपान्ते कुमारस्य चेट्येका प्रेषिता तया। तस्मै समर्पयामास सकां चित्रस्य पट्टिकाम् ॥१८६ ॥ ददर्श तत्र लिखितां कुमारः कलहंसिकाम् । तद्धः श्लोकमेकं च ततो वाचयति स्म तम् ॥ १८७ ।।
२३
Page #270
--------------------------------------------------------------------------
________________
शान्तिनाथचरित्रम् ॥१३३॥
प्रस्ताव
'आदौ दृष्टे प्रिये सानुरागाऽसौ कलहंसिका । पुनस्तदर्शनं शीघ्रं वाञ्छत्येव वराक्यहो। ॥१८८॥ कुमारोऽथ पुरस्तस्या लिखित्वा कलहंसकम् । तस्याऽधस्तादिति श्लोकं लिलेख च महामतिः॥ १८९ ।। कलहंसोऽप्यसौ सुभ्र! क्षणं दृष्ट्वाऽनुरागवान् । पुनरेव प्रियां द्रष्टुमहो ! वाञ्छत्यनारतम् ॥ १९०॥ कुमारीप्रेषिते साऽथ सुताम्बूलविलेपने । कुमारस्याऽर्पयामास सुगन्धकुसुमानि च ॥१९१॥ कुमारेणापि बद्धानि कुसुमान्युत्तमाङ्गके । ताम्बूलमुपभुक्तं च न्यस्तमङ्गे विलेपनम् ॥१९२ ॥ पारितोषिकमेतस्यै दत्तो हारश्च निर्मलः । सोचे कुमार ! कन्यायाः शृणु त्वं वाचिकं ननु ॥१९३ ।। कृत्वैकान्तमसौ तच्च श्रोतुमभ्युद्यतोऽभवत् । साचोचद्राजनन्दिन्या तयेदं कथितं तव ॥१९४ ॥ करिष्ये वरमालाया निक्षेप ते प्रगे परम् । किञ्चित्कालं न विषयसेवा कार्या त्वया प्रिय ! ॥ १९५ ॥ प्रतिपन्नमिदं तेन तया तस्या निवेदितम् । प्रभाते च निचिक्षेप तत्कण्ठे साऽथ तां स्रजम् ॥ १९६ ॥ विसृष्टास्तेऽथ संमान्य भूभुजाऽनेन पार्थिवाः । कारितो गुणधर्मश्च कन्यकायाः करग्रहम् ॥१९७॥ श्वशुरं समनुज्ञाप्य गृहीत्वा प्रेयसी च ताम् । स्वपुरे स समागत्य तां मुमोचाऽऽलये वरे ॥ १९८ ॥ अथान्येद्यः समीपेऽस्या निषण्णःसनृपात्मजः। ब्रूहि प्रहेलिकां काश्चिदित्युक्तश्चाऽनयाऽवदत्।। १९९ ॥ स्थले जाता जले स्वैरं याति तेने न पूर्यते । जनप्रतारिणी नित्यं वद सुन्दरि ! का त्वसौ ॥ २०॥ १ जलेन.
38XRRESSEKXXXXXXXXXXXXXXSE
॥१३३॥
Page #271
--------------------------------------------------------------------------
________________
EXEEEEEEEEEEEEEEEEEKARXXX
विचिन्त्य कनकवत्योक्तम् 'तरी' इति ॥ तया चापाठि:पयोधरमराक्रान्ता तन्वङ्गी गुणसंयुता । नरस्कन्धसमारूढा का प्रयात्यवलम्बिता ? ॥२०१॥ . ..
कुमारेणोक्तम्-कावाकृतिः ॥ क्षणं विनोदं कृत्वैवं कलावत्या तया सह । गुणधर्मकुमारः स्वप्रासादं पुनरागत: ॥ २०२॥ स्नातभुक्तविलिप्तस्याऽऽस्थानस्थस्याऽस्य सन्निधौ । परिवाडाययावेकः प्रतीहारनिवेदितः ॥२०३ ॥ तेन दत्तासनोऽप्येनं स्वकाष्ठासनसंस्थितम् । प्रणामपूर्व पप्रच्छागमहेतुं नृपात्मजः ॥२०४॥ सोवदड्रैरवाचार्येणाऽहं भद्र ! नियोजितः । तवाऽऽह्वानकृते कार्य स एव कथयिष्यति ॥२०५॥ कास्त्यसो भैरवाचार्यः कुमारेणेति जल्पिते । सोऽब्रवीदमुकस्थाने नगरागहिरस्त्यसौ ॥२०६॥ अहं प्रातः समेष्यामीत्युक्तस्तेन ययावसौ। पपाठावान्तरे तस्य पुरः कालनिवेदकः ॥२०७॥ अयं प्राप्योदयं पूर्व स्वप्रतापं वितत्य च । गततेजा अहो सम्प्रत्यस्तं याति दिवाकरः ॥२०८॥ सन्ध्याकालोचितं कृत्यं कृत्वाऽथ नृपनन्दनः । समतिक्रमयामास यामिनीं सुखनिद्रया ॥२०९॥ पुनः कालनिवेदकेन पठितम्निहतप्रतिपक्षोऽसौ सर्वसचोपकारकृत् । उदयं याति तिग्मांशुरन्योऽप्येवं प्रतापवान् ॥२१ ॥ उत्थाय गुणधर्मोऽथ प्रातःकृत्यं विधाय च । प्रययौ भैरवाचार्यसमीपे सपरिच्छदः ॥ २११॥
Page #272
--------------------------------------------------------------------------
________________
शान्तिनाथचरित्रम् ॥१३४॥
प्रस्ताव:
व्याघ्रकृत्तिनिपण्णोऽसौ कुमारेण निरीक्षितः । लगयित्वा शिरो भूमौ भक्तिपूर्व च वन्दितः ॥ २१२ ॥ ससम्भ्रमः स योगीन्द्रो दर्शयित्वा स्वमासनम् । त्वमप्युपविशात्रेति कुमारं तमभापत ॥२१३ ॥ विनीतात्मा कुमारस्तं प्रत्यूचे भगवन् ! न मे । गुरोः समासने युक्तमुपवेष्टुं कदाचन ॥२१४॥ स्वपदात्युत्तरीयेऽथोपविश्यैवं जगाद सः । प्रभो ! त्वया कृतार्थोऽहं कृतोऽभ्येत्य पुरे स्वयम् ॥ २१५ ॥ योग्यप्यूचे कुमार! त्वं मान्योऽसि मम सर्वदा । परं निष्किञ्चनोऽस्म्येष स्वागतं किं करोमि ते ॥ २१६ ॥ कुमारोऽप्यनवीदाशीर्वाद एव भवादृशाम् । स्वागतस्य क्रियाऽस्माकमित्युक्ते सोऽवदत् पुनः॥ २१७॥ भक्तिः प्रेम प्रियालापः सम्मान विनयस्तथा । प्रदानेन विना लोके सर्वमेतद् न शोभते ॥२१८॥ कुमारः पुनरप्यूचे सम्यग्दृष्टयावलोकनम् । सम्यगाज्ञाप्रदानं च विश्राणनमिदं हि वः ॥२१९ ॥ अथाभापिष्ट योगीन्द्रो भद्र ! मन्त्रोऽस्ति मे वरः।चक्रे तस्याश्ट वर्षाणि मया जापपरिश्रमः ॥ २२० ॥ तस्य विनप्रतिघातं यद्येकरजनी भवान् । करोति तदयं सर्वः प्रयासः सफलो भवेत् ॥२२१ ॥ सोजदत्तन्मया कार्य त कस्मिन् दिने प्रभो ।। योगी स्माहासितचतुर्दश्यां प्रेतवने निशि ॥ २२२ ॥ खड्गव्यग्रकरेणैकाकिना राजसुत ! त्वया । आगन्तव्यमहं तत्र स्थास्याम्यात्मचतुर्थकः ॥२२३॥ (युग्मम् ) एवमस्त्विति जल्पित्वा कुमारः स्वगृहं गतः । चतुर्दश्याश्च यामिन्यां तथा तत्र ययावसौ ॥२२४ ॥ कुमारो योगिनामाणि भविष्यन्ति विभीषिकाः। तत्त्वया रक्षणीयोऽहमेते चोत्तरसाधकाः ॥ २२५॥
SEXSXXXXXXXXXXXXXXX
१३४
BABA
Page #273
--------------------------------------------------------------------------
________________
कुमारोवोचत स्वस्थः कुरु मन्त्रस्य साधनम् । को नाम कर्तु विघं ते समर्थों मयि रक्षके ॥ २२६॥ कृत्वाऽथ मण्डलं तत्र स्थापितो योगिना शवः प्रचाल्य वह्नि तस्याऽऽस्ये चक्रे होमविधिस्ततः ॥ २२७॥ पूरयन्निव दिक्चक्रं गगनं स्फोटयन्निव । निर्घातोऽभूद् गुरुतरो विश्वं बधिरयन्निव ॥ २२८॥ संजाताऽथ द्विधा धात्री तेन रन्ध्रेण निर्गतः । कालः करालः पातालाद् नर एकोऽतिभीषणः ।। २२९ ॥ ऊचे च किमरे ! पाप! दिव्यकान्ताभिलापुकः(क) क्षेत्रलोत्र विज्ञातो मेघनादस्त्वया नहि ॥ २३० ॥ मम पूजामकृत्वा त्वं मन्त्रसिद्धं समीहसे । एपोऽपि राजतनयस्त्वयाऽऽयो विप्रतारितः ॥२३१ ।। इत्युक्त्वा सिंहनादं सो विदधे तजिघांसया। त्रयोऽपि योगिनः शिष्या निपेतुस्ते महीतले ॥ २३२॥ सोऽथ प्रोक्तः कुमारेण रे! त्वं गर्जसि कि वृथा ? | विद्यते तव शक्तिश्चेत्तयुध्यस्व मया सह ॥ २३३॥ कुमारोऽप्यमुचत् खड्गं तं निरीक्ष्य निरायुधम् । प्रचण्डभुजदण्डाभ्यां तौ युद्धं चक्रतुस्ततः ॥ २३४ ॥ युध्यमानोऽथ स क्षेत्रपालो बलवता क्षणात् । कुमारेण समाक्रान्तो वज्रसारस्ववाहुना ॥२३५॥ सोऽथ तुष्टोऽब्रवीत् साधो! निर्जितोऽहं त्वया खलु याचस्व रुचितं किञ्चिद्यते सम्पादयाम्यहम् ॥ २३६ ॥ जगादेवं कुमारस्तं विमुच्य स्वभुजग्रहात् । चेत्सिद्धोऽसि कुरु त्वं तद्योगिनोऽस्य समीहितम् ॥ २३७॥ प्रोक्तं क्षेत्राधिपेनाऽस्य यथेप्सितफलप्रदः। सिद्धः सर्वोत्तमो मन्त्रो माहात्म्येन तवैव हि ॥ २३८॥ ततः स्वं वाञ्छितं ब्रूहि येन तत्पूरयाम्यहम् । महाभाग्य ! भवेद्यस्मादमोघं देवदर्शनम् ॥ २३९ ॥
Page #274
--------------------------------------------------------------------------
________________
शान्तिना- 60 धचरित्रम् ॥१३५॥
षष्ठः प्रस्ताव
कुमारेण ततोऽभाणि यद्येवं तत्तथा कुरु । यथा मे वशमायाति भार्या कनकवत्यसौ ॥२४ ॥ ज्ञात्वा ज्ञानेन सोवादीद् भाविनी सा वशे तव । नूनं कामितरूपेण तच्च भावि तवाजघ। ॥ २४१॥ एवं दत्त्वा वरं तस्याऽदृश्योऽभूत क्षेत्रपालकः । सिद्धमन्त्रः स योगीन्द्रः कुमारं प्रशशंस च ॥ २४२॥ स्मर्तव्योऽहं त्वया भूयः परोपकृतिकर्मठ ।। इत्युदित्वा निजं स्थान शिष्यैः सह ययावसौ ॥ २४३॥ प्रक्षाल्याऽङ्ग कुमारोऽपि प्रविवेश निजं गृहम् । सुष्वाप तत्र शय्यायां वीरवेष विमुच्य तम् ॥ २४४ ॥ द्वितीयदिनयामिन्या आद्ययामे गते सति । अदृश्यरूपवान सोऽथ प्रियायाः सदनं ययौ ॥२४५॥ ददर्श तत्र कनकवती चेटीद्वयान्विताम् । एवमूचे च सा दास्यौ कियन्माना निशा हले।।। २४६॥ ताभ्यामूचे न चाऽद्यापि पूर्यते प्रहरद्वयी । वर्तते तत्र गमनवेला स्वामिनि ! संप्रति ॥२४७॥ ततः स्नातविलिप्ताङ्गी वस्त्रालङ्करणाञ्चिता । देवावाससमानं सा विमानं निर्ममे क्षणात् ॥२४८॥ तत्राधिरुह्य दासीभ्यां सह यावच्चचाल सा । तद् दृष्ट्वा गुणधर्मोऽपि दध्यौ तावत् सविस्मयः ॥ २४९ ॥ अहो ! विमानमनया खेचर्येव कृतं कथम् । अत्राऽऽरुह्य त्रियामायां कुत्र चैषा प्रयास्यति ॥ २५०॥ अथवा किं विकल्पेनाऽदृश्यरूपोऽनया सह । गत्वाऽहमपि वीक्षे तद् यत् करोत्यसको खलु ॥ २५१॥ इति ध्यात्वा विमानैकदेशेऽध्यारुह्य सोऽचलत् । उत्तराभिमुखं तच्च गत्वा दूरमवातरत् ॥२५२॥ महासरोवरासने तत्राऽशोकवनान्तरे । एको विद्याधरस्तेन कुमारेण निरीक्षितः ॥२५३॥
॥ १३५॥
Page #275
--------------------------------------------------------------------------
________________
e
mone
विमानमध्यानिःसृत्य कुमारस्य प्रियाऽथ सा । कृत्वा प्रणाममेतस्य सभीपे समुपाविशत् ॥२५४॥ अन्याश्च योषितस्तिस्रस्त्रागत्य प्रणम्य तम् । निषेदुस्तत्र चाऽन्येऽपि खेचराः समुपाययुः ॥२५५ ॥ तस्याऽभूद् बनखण्डस्यैशान्यां दिशि मनोहरम् । विशालं निर्मलं श्रीमयुगादिजिनमन्दिरम् ॥ २५६॥ सुवर्णमणिसोपानं भूरिस्तम्भसमुच्छ्रितम् । विमानमिव देवानां तद्विभाति स्म भूस्थितम् ॥२५७ ॥ क्षणान्तरेण सर्वाणि जग्मुस्तानि जिनालये । प्रारब्धः खेचरैस्तत्र जैनस्नात्रमहोत्सव ऊवैऽथ खेचरेन्द्रेण कस्या नृत्येऽद्य वारकः । तत्समाकर्ण्य कनकवत्युत्तस्थौ क्षणेन सा ॥२५९ ॥ संयम्य परिधानं स्वं रङ्गभूमौ प्रविश्य च । हावभावकृतौ दक्षा चक्रे नृत्यविधि वरम् ॥२६०॥ अन्यासां तिसृणां मध्याद्वीणावादनमेकका | वेणुतालावादनं च चक्रर्दक्षाः क्रमेण ताः ॥२६१॥ गुणधर्मकुमारोऽप्यदृश्यरूपः सविस्मयः । तत्रैकत्र स्थितः सर्वं तत्स्वरूपं व्यलोकयत् ॥२६२ ॥ तदा च कनकवत्या नृत्यन्त्या न्यपतद्भुवि । सुवर्णकिङ्किणीमाला त्रुटित्वा कटिसूत्रकम् ॥२६३॥ शीघ्रमेव कुमारेण प्रच्छन्नं जगृहे सका । आलोकिता न च प्राप्ता रङ्गस्यान्ते तया ततः ॥२६४॥ स्वं स्वं स्थानं ययुः सर्वेऽप्यगात् कनकवत्यपि । निजावासं सचेटिका कुमारोऽपि तथैव सः॥ २६५॥ सा तस्थौ स्वगृहे तच्च विमानं संहृतं तया । रात्रिशेषे कुमारोऽपि सुष्वापाऽगत्य मन्दिरे ॥२६६ ॥ मतिसागरसंज्ञस्य सख्युः पुत्रस्य मन्त्रिणः। किङ्किणीमालिका साऽथ कुमारेणार्पिता प्रगे ॥ २६७॥
Page #276
--------------------------------------------------------------------------
________________
शान्तिनाथचरित्रम् ॥१३६॥
पष्ठः प्रस्ताव
इयं भंद्र । प्रियाया मेऽर्पणीया समये-त्वया । शिक्षा दत्त्वेति तत्पार्श्वे ययौ तेन सहैव सः ॥२६८॥ अभ्युत्थानं विधायाऽस्य दत्तमासनमेतया । कुमारो न्यपदत्तत्र तस्योपान्ते सखा च सः ॥२६९॥ सारिक्रीडा प्रकुर्वत्या कुमारो विजितस्तया । किश्चिद्ग्रहणक नाथ-! सारयेत्युदितं ततः ॥२७॥ तेनाऽवलोकितं वक्त्रं सख्युः सोऽपि समार्पयत्। किङ्किणीमालिकांतस्याः कृष्ट्वा निवसनान्तरात् ॥ २७१॥ दृष्ट्वा सोचे मदीयेयं युवाभ्यां क्षुद्रघण्टिका । क्व सम्प्राप्ता कुमारोऽथावादीत कुत्र पपात ते? ॥ २७२ ।। स्थानं सम्यग् न जानामि तयेत्युक्ते नृपात्मजः । उवाच मम मित्रोऽयं महानैमित्तिकः प्रिये ! ॥ २७३ ॥ पातस्थान तवैतस्याः कथयिष्यति निश्चितम् । पृष्टस्तया सोऽप्यवादीत श्वोऽहं कथयिताऽस्मि ते ॥ २७४ ॥ अथोत्थाय समायातः कुमारो निजमन्दिरम् । पुनस्तथैव तच्चैत्ये ययौ रात्रौ तया सह ॥२७५ ॥ वीणाया वादनं तस्याः कुर्वत्याः पतितं तदा । कथञ्चिद्नू पुरं पादात कुमारेणाऽऽददे च तत् ॥ २७६ ॥ तदप्यन्विष्य बहुधा सा स्वगेहं समागता | अर्पयामास तदपि मित्रस्य नृपनन्दनः ॥ २७७॥ द्वितीयेऽहनि तद्गेहे सोऽथ मित्रसमन्वितः । प्रययावुपविष्टश्च तया दत्तासने प्रभुः ॥२७८ ॥ शास्त्रगोष्ठी क्षणं कृत्वा तया स मतिसागरः । पृष्टो निरूपितं भद्र ! किं निमित्तं त्वया वंद ॥ २७९ ॥ सोऽथाऽवादीनिमित्तस्य बलेन ननु वेम्यहम् । तवाऽन्यदपि तन्वनि ! नष्ट किश्चिद् विभूपणम् ॥ २८० ॥ १ अर्पय...
XXXXXXXXXX
Kom १३६ ॥
Page #277
--------------------------------------------------------------------------
________________
ततः साशङ्कचित्ताऽपि सारहित्था जगाद सा । किं तद्विभूपणं नाम निमित्तज्ञ ! निवेदय ॥२८१ ॥ किंवं स्वयं न जानासीत्युक्त्वा भर्ताजवीत पुनः जानामिन पुनस्तस्यं पातस्थानं स्मराम्यहम् ॥ २८२ ॥ कुमारोऽपददन्येन केनचित् कथितं मम । दूरं गतायास्त्वत्पत्न्या नूपुरं च्युतमित्यहो। ॥२८३ ॥ तयेन जगृहे सुभ्र ! विज्ञातः स मया नरः। गृहीतं नूपुरं तच तस्य हस्ताद् बलादपि ॥२८४ ॥ दध्यौ कनकवत्येवं प्रयोगेणेह केनचित् । मद्धा मम वृत्तान्तो नूनं सोऽपि वीक्षितः ॥२८५॥ अथवाक्षुरभद्रं कला चान्द्री चौरिका क्रीडितानि च । प्रकटानि तृतीयेऽति स्युन्छन्नं सुकृतानि च ॥ २८६ ॥ विचिन्त्येवमभापिष्ट तन्मञ्जीरंक मे प्रिय ।। समर्पितं च तत्तस्यास्तन्मित्रेण तदाज्ञया ॥२८७॥ ततश्च सा पुनः स्माह सत्यमाख्याहि कान्त ! मे। इदं त्वया क्व सम्प्राप्त सोऽप्रदत पतितं व ते ? ॥ २८८ ॥ यत्र स्थाने पपातेदं तद् दृष्टं भवता न वा सतस्या इति पृच्छन्त्या भूयोऽनिष्टोत्तरं व्यधात् ॥ २८९ ॥ सोचे स्वयं त्वया दृष्ट तत्स्थानं यदि तद्वरम् । तन्मेऽग्निनापि नो शुद्धिर्यद्यन्येन निवेदितम् ॥ २९०॥ एवमुक्त्वाऽसको वामकरन्यस्तशिरोधरा । चिन्तया विगतोत्साहा बभूवाऽधोमुखी क्षणात् ॥ २९१ ॥ हासयित्वा कुमारस्तां परिहासस्य वार्तया । गतो निजगृहं रात्रौ तथैव पुनराययौ ॥२९२॥ सा सख्यावान्तरेऽभाणि वेलातिक्रामति स्फुटम् । रोपं विद्याधरः कर्ता स्वामिन्येवं विचिन्तय ॥ २९३ ॥
Page #278
--------------------------------------------------------------------------
________________
शान्तिनापचरित्रम् ॥१३७ ॥
षष्ठः प्रस्ताव
ततो दीर्घ विनिःश्वस्य तयैवं परिभाषितम् । सख्येतद्विषमं कार्य मन्दभाग्या करोमि किम् ? ॥ २९४ ॥ यतः प्रवर्त्तमानाऽहं कुमारीत्वे पितुर्गुहे । तेन विद्याधरेन्द्रेण शपथं कारिता ह्यमुम् ॥ २९५॥ मयाऽनुज्ञातया कान्तः सेवनीयस्त्वया खलु । आगन्तव्यं तथाऽवश्यं निश्युपान्ते सदा मम ॥ २९६ ॥ पित्रोर्मयोपरोधेनाऽनुरागेण च राजसः । उढोऽभिमतश्चाऽभूत् तस्याऽहमपि सम्मता ॥२९७ ॥ कथञ्चित्तत्र गच्छन्ती ज्ञाताऽहममुना सखि ! । सोऽपि विद्याधरोऽनेन साक्षादेव विलोकितः ॥ २९८ ॥ ततो मे वल्लभस्तेन खेचरेण हनिष्यते । हन्ताऽथवा खेचरो मामित्याशङ्कां करोम्यहम् ॥२९९ ॥ अन्यचनवीनयौवनारम्भो बह्वपायः प्रवर्तते । उत्तमे च मम ख्याते पितृश्वशुरयोः कुले ॥३० ॥ अत्यन्तविषमो लोको यद्वा तद्वा प्रजल्पति । कार्याणां गहनत्वेनाऽकुलीभूताऽस्मि सर्वथा ॥ ३०१॥ सोचे स्वामिनि ! यद्येवं तिष्ठ त्वं तत्र याम्यहम् । सखी मेऽपटुदेहास्तीत्याख्यास्यामि तदग्रतः ॥ ३०२॥ अथो कनकवत्याख्यदेवं कुरु शुभाशये ! । इत्युक्त्वाऽर्पयति स्माऽस्या विमानं विरचय्य सा ॥३०३ ॥ तस्मिन्नारुह्य सा दासी ययौ तत्र तया सह । गुणधर्मकुमारोऽपि चिन्तयन्निति मानसे ॥३०४॥ अद्य तस्याऽपनेष्यामि ध्रुवं विद्याधरेशताम् । गुर्वी च प्रेक्षणश्रद्धां जीवलोकनिवासिनाम् ॥३०५॥ प्रारब्ध खेचरैः स्नात्रमथ श्रीमजिनेशितः । चेटी विमानादुत्तीर्य प्राविशत् सा जिनालये ॥ ३०६॥
॥१३७॥
Page #279
--------------------------------------------------------------------------
________________
Rec
कुमारोऽपि तथैवाऽस्थाच्छन्नः सर्व विलोकयन् । एकेन खेचरेणैवं चेटिका सा प्रजल्पिता ॥ ३०७ ॥ किमद्य महती वेला लग्ना ते स्वामिनी व वा । साऽपि कृत्वोत्तरं पूर्वमूचेहं प्रेपिता तया ॥ ३०८॥ तच्छ्रुत्वा खेचरेन्द्रोऽसौ कोपेन स्फुरिताऽधरः। प्रोवाच कुरुत स्नात्रं भो यूयं वृषभप्रभोः ॥ ३०९॥ अहं त्वस्याश्चिकित्सामि पापिष्ठायाः शरीरकम् । इत्युक्त्वा दासचेटीं तां मूर्धजेष्वग्रहीदसौ ॥३१०॥ कुमारोऽपि परिकर ववन्ध निविडं तदा । खड्गं च प्रगुणीचके भग्नश्च प्रेक्षणोत्सवः ॥३११॥ ऊचे विद्याधरश्चेटीं तवाऽऽदौ रुधिरेण मे । उपशाम्यतु कोपाग्निः पश्चाद् युक्तं करिष्यते ॥३१२॥ तचं स्मराऽभीष्टदेवं पञ्चत्वसमयेऽधुना । प्रतिपद्यस्व शरणं तं च यः प्रतिभाति ते ॥३१३॥ सावादीदेष सर्वज्ञो देवासुरनरार्चितः। अभीष्टदेवो भगवान् स्मृतः श्रीवृषभो मया ॥३१४॥ शरणं च ममाष्टव्यामस्यां मरणमेव भोः।। विद्यते कोऽपि न त्राता तथाऽप्येवं भणाम्यहो! ॥३१५॥ शूरो धीरो महोदारो वैरिद्विपघटाहरिः । ममाऽस्तु शरणं नित्यमार्यपुत्रो गुणैकभूः ॥३१६॥ जजल्प खेचरः कोऽयमार्यपुत्रो वदाऽधमे! । दध्यौ कुमारोऽप्यमुना साधु पृष्टं ममापि यत् ॥३१७॥ सन्देहो वर्तते चित्ते ततश्चेटी जगाद सा । वृतः समक्ष भूपानां स्वामिन्या यः स्वयंवरे ॥३१८॥ (युग्मम् ) येन दृष्टः क्षणार्धेन त्वं पाप! न भवस्यरे!। गुणधर्मकुमारोऽसौ शरणं विहितो मया ॥३१९॥ तरवारिमथोद्यम्य स तां हन्तु समुद्यतः। विकोशीकृतखड़गेन कुमारेणेति जल्पितः ॥३२०॥
Page #280
--------------------------------------------------------------------------
________________
शान्तिनाथचरित्रम् ॥ १३८॥
प्रस्ताव:
विश्वस्ते व्याकुले दीने बालवृद्धाबलाजने । प्रहरन्ति यके पापा ध्रुवं ते यान्ति दुर्गतिम् ॥३२१ ॥ स्त्रीहत्यापातकं कर्तुमुद्यतस्य तवाऽद्य रे।। अहमेव भविष्यामि प्रायश्चित्तविधौ गुरुः ॥३२२॥ स्मित्वा विद्याधरोज्थाऽऽख्यत् तत्र गत्वाऽपि योमया। हन्तव्यः स्वयमेवाऽसौ मरणायाऽऽययावहो ॥३२३॥ ततो युवा च्छलं लब्ध्वा तस्य विद्याधरेशितुः । गुणधर्मकुमारेण शिरश्छिन्नं महौजसा ॥३२४ ॥ भयभीतं च तत्सैन्यं तेनैवाऽश्वासितं गिरा । अत्रान्तरे च बालास्तास्तिस्रोऽप्यूचुरिदं वचः॥ ३२५॥ वयं विमोचिताः स्वामिन्नेतस्मात् खेचरात् त्वया । जन्तवः सुप्रसन्नेन गुरुणा पातकादिव ॥ ३२६॥ भवत्यस्तनयाः कस्य कुमारस्येति पृच्छतः । एका प्रोवाच तन्मध्याद्राज्ञः शङ्खपुरेशितः ॥३२७ ॥ सुता दुर्लभराजस्य नाम्ना कमलवत्यहम् । भयेनैतस्य मयका विवाहो नेप्सितः खलु ॥ ३२८ ॥ कुमारोऽचोचत भयं स्नेह कोपज नु वा । साऽवदत् कोपज तद्धि स्नेहजं तु कुतो यतः ॥ ३२९॥ अहं हि कुट्टिमतलादनेनाऽपहृता पुरा । ततः स्वरसनाच्छेदं कुर्वतैवं प्रजल्पिता ॥३३० ॥ रमणः प्रतिपत्तव्यस्त्वयाऽवश्यं मदुक्तया । आगन्तव्यं समीपे मे यामिन्यां सर्वदा तथा ॥३३१॥ भविष्यति विमानं ते सुशीलाया ममाऽऽज्ञया । यद्येवं कुरुषे तत्वां विमुश्चामि न हन्म्यहम् ॥ ३३२ ॥ कृत्वा शपथनिर्बन्ध प्रतिपन्नं मयाऽपि तत् । अनेन शिक्षिता चाऽस्मि साधो नृत्यादिका कलाः॥ ३३३ ॥ एवमन्या वशेऽनेन कृतास्तिस्रो नृपात्मजाः। त्वया विनिम्नता धेनं सर्वासां विहितं सुखम् ॥३३४॥
Com १३८॥
Page #281
--------------------------------------------------------------------------
________________
इति श्रुत्वा कुमारेण स्वस्थानं प्रेपिता इमाः । स च स्वप्रेयसीवेश्म चेट्या सह समाययौ । ॥ ३३५ ॥ तं दृष्ट्वा कनकवत्या पृष्टा दासी यथा हले ।। हृतोऽद्य मम कान्तेन दुष्टविद्याधरः स किम् ? ॥ ३३६ ॥ ततश्च तद्वधोदन्तस्तया तस्या निवेदितः । स्वमतपीरुपोत्कर्षमाकर्ण्य मुमुदे च सा ॥३३७ ॥ गुणधर्मकुमारोऽथ कृत्वा वार्ता तया सह । तत्रैव शर्वरीशेपे सुष्वाप स्नेहनिर्भरः ॥ ३३८॥ विद्याधरस्य तस्याज्याऽनुजेन क्रुद्धचेतसा। उत्पाट्य सोऽर्णयेक्षेपि मुक्त्वा चाज्यत्र तत्प्रियाम् ॥ ३३९ ॥ लब्ध्या फलहकं किञ्चित् सप्तरात्रेण सोऽम्बुधेः । आससाद तटं तत्राद्राक्षीतापसमेककम् ॥३४०॥ ततश्च सममेवेन स गतस्तापसाश्रमम् । ददर्श तत्र कनकवर्ती स निजवल्लभाम् ॥३४१॥ कुमारोऽथ कुलपतेः समीपे विहितानतिः । निपण्णो भणितस्तेन भद्रेयं किमु ते प्रिया ? ॥३४२ ॥ आमेति भणिते तेन सोऽवत्रीच दिनादितः। अतिक्रान्ते तृतीयेऽसि संप्राप्ता काननाऽन्तरे ॥३४३ ॥ उद्ध्य तरुशाखायामात्मानं मर्तुमुद्यताम् । इमिकामहमद्राक्षं त्वद्वियोगेन सुन्दर! ... ॥३४४ ॥ (युग्मम् ) छिचा पाशं मया सेयं कथञ्चिद्रक्षिता मृतेः। त्वदागति ज्ञानवलाद् ज्ञात्वाऽऽख्याय च तोपिता ॥ ३४५ ॥ कदल्यादितरुफले प्राणवृत्तिं विधाय तौ । रात्रौ सुपुपतुस्तत्र विविक्तेऽथ लतागृहे ॥३४६॥ भूयोऽप्युत्पाट्य खेटेन प्रक्षिप्तौ तौ महार्णवे । संप्राप्तफलको तीरमासाद्य मिलिती पुनः ॥३४७ ॥ कुमारोवोचदेतानि विधेविलसितान्यहो ।। विषयासक्तचित्तानां विपदो वा न दुर्लमाः ॥३४८ ॥
२५.
Page #282
--------------------------------------------------------------------------
________________
शान्तिनाथचरित्रम् ॥१३९॥
प्रस्ताव
अनेनैव विरागेण त्यक्ताऽशेषपरिग्रहाः । निर्ममत्वा महासत्त्चास्तपः कुर्वन्ति साधवः ॥३४९॥ अथो कनकवत्यूचे नाथ ! त्वं सति पौरुषे । विपादं किं करोष्यद्यानाप्तमर्त्यफलोऽसि यत् ॥३५०॥ दीनोद्धारो न विदधे नैकच्छत्रा कृता मही । विषया नोपभुक्ताश्च प्रकामं खिद्यसेङ्ग! किम् ? ॥ ३५१ ॥ ततस्तस्य गिरा रात्री जाग्रता तेन खेचरः। स आगतो निर्जितश्च जीवन मुक्तो महात्मना ॥ ३५२ ।। अनुज्ञाप्य कुलपति स गतः क्वापि पत्तने । सरि तद्वहिरदाक्षीद्गुणरत्नमहोदधिम् ॥३५३ ॥ तं नत्वा सप्रियोऽप्येष मोहनिद्रानिवारिणीम् । शुश्राव देशनां पुण्यपादपारामसारणीम् ॥३५४ ॥ सरि नत्वाऽन्यतो गत्वा स जगाद विरागवान् । प्रियेऽस्य सद्गुरोः पार्श्वे प्रव्रज्या गृह्यतेऽधुना ॥ ३५५ ।। विषयेष्वविरक्ता सा जगादाद्यापि नौ नवम् । यौवनं वर्तते कान्त ! तद् व्रतं क्रियते कथम् ॥ ३५६ ॥ सोऽवदवृद्धभावेऽपि केषाश्चिद्विषयैषिता । दृश्यते यौवनस्थानामप्यन्येषां विरागिता ॥३५७ ॥ पृष्ठा किश्चिदतिशयज्ञानिनं स्वावसानताम् । विज्ञाय च यथायुक्त कार्यमित्युक्तवत्यसौ ॥३५८॥ गुणधर्मोऽथ तद्वाक्यमङ्गीकृत्याविशत् पुरे । किञ्चिद् भोजनमानेतुं तस्थौ तत्रैव सा पुनः ॥ ३५९ ।। तदा च गुणचन्द्राख्यो राजपुत्रः समागतः । वनस्थां यौवनस्थां तां दृष्ट्वा जज्ञेऽनुरागवान् ॥३६० ॥ इत्युवाच च नम्राऽङ्गि! काऽसि त्वं केन हेतुना। तिष्ठस्येकाकिनी बाले ! किं ते भर्ता न विद्यते ? ॥ ३६१ ॥ विज्ञाय साऽनुरागं तं विरक्तं च निजं पतिम् । साऽप्याख्याय स्ववृत्तान्तं जाता तदनुरागिणी ॥ ३६२॥
सरि नत्वाका सा जगादायापि नो नाम दृश्यते यौवनस्थानामप्यामत्युक्तवत्यसौ.
१३९॥
Page #283
--------------------------------------------------------------------------
________________
प्रार्थनातत्परं तं च साभापत कथञ्चन । वश्चयित्वा स्वभर्तारमेष्यामि तव मन्दिरम् ॥३६३ ॥ इत्युक्तः स ययौ स्त्रौको गुणधमोंन पत्तने । दुरोदरक्रीडया स्वमर्जयामास किञ्चन ॥३६४ ॥ कारयित्वा गृहीत्वाऽथ मण्डकान स समागतः । उद्याने प्रियया साधं विदधे भोजनं ततः ॥३६५॥ चिन्तया शून्यचित्तत्वाद्धात्र्या विलिखनेन च। इङ्गितज्ञः कुमारोऽसावन्यासक्तां विवेद ताम् ॥ ३६६ ॥ अथोत्थाय वनस्यान्ते बद्धलक्षो(क्ष्यो) भ्रमन्नसौ । पृष्टः केनापि कि राजपुत्रोऽद्याप्यत्र तिष्ठति ॥३६७ ॥ कोऽसौ राजसुत इति गुणधर्मस्य पृच्छतः। सोचदद् गुणचन्द्राख्यो राजसूनुरिहाऽजामत् ॥ ३६८॥ कयाचिद्योपिता साधं सोऽभूद्वार्तापरायणः । अहं तदाज्ञयाऽन्यत्र गत्वाऽऽयातोऽस्मि सुन्दर! ॥ ३६९ ॥ तत्पृच्छामि भवन्तं कि गता सा तस्य मन्दिरे १ गतेत्युक्त्वा कुमारोऽपि पुरुषं विससर्ज तम् ॥ ३७० ॥ दध्यौ च नोपकारेण नौजसा हन्त ! योषितः । गृह्यन्ते न कुलं शीलं मर्यादां गणयन्ति च ॥ ३७१ ॥ रहो न जायते यावत् क्षणं प्रार्थयिता न च। सतीत्वं तावदेवासां नारीणां नारदोऽब्रवीत् ॥ ३७२ ॥ ततस्तां मातुलगृहे मुक्त्वाऽसन्नपुरस्थिते । स समीपे मुनीन्द्राणां तेषामेवाऽभवद् व्रती ॥३७३ ॥ ततश्चोग्रे तपः कृत्वा मृत्वा गत्वा सुरालयम् । संप्राप्य च मनुष्यत्वं निर्वाणं समवाप्स्यति ॥ ३७४ ॥ मन्दिराद् मातुलस्याऽथ सा निर्गत्य कथञ्चन । गुणचन्द्रकुमारस्य प्रिया कनकवत्यभूत् ॥ ३७५ ।। तदन्यगेहिनीदत्तगरलेन विपद्य सा । रौद्रध्यानवती प्राप्ता चतुर्थी नरकावनौ ॥३७६ ॥
Page #284
--------------------------------------------------------------------------
________________
पष्ट
शान्तिनाथचरित्रम् ॥१४॥
प्रस्ताव
उद्धृत्य, नरकादेषा भ्रमिष्यति भवं चिरम् । एवं ददाति विषयप्रमादो नृपतेऽसुखम् ॥ ३७७ ।।
॥इति गुणधर्मकनकवतीकथानकम् ॥ कषायविषये राजन् ! नागदत्तकथानकम् । तीर्थे यद्वर्धमानस्य भावि तत् कथयामि ते ॥ ३७८ ॥ __जम्बूद्वीपस्य भरतेऽस्मिन् वसन्तपुरे वरे । समृद्धवसुदत्ताख्यावभूतां वणिजौ वरौ ॥३७९ ॥ द्वावप्यनुद्धतावल्पकपायौ सरलाशयो । चक्रतुर्व्यवहारं तौ मैत्रीभावयुतौ समम् ॥३८॥ यत्किञ्चित् प्रकरोत्येक कार्य तदितरेण च । इत्येकयोगकारित्वाद् निश्चयो वर्तते तयोः ॥३८१ ॥ अन्यदोद्यानसंप्राप्तौ मुनीन्द्रं तावपश्यताम् । वज्रगुप्ताऽभिधं धर्ममाचक्षाण सभान्तरे ॥३८२ ॥ तं नमस्कृत्य तत्पार्श्व श्रुत्वा धर्म शुभाशयौ । प्रतिपन्नौ सुसाधुत्वं तौ परित्यक्तबन्धनौ ॥ ३८३ ॥ कृत्वा संलेखनामन्तेऽनशनं प्रतिपद्य तौ । विपद्य त्रिदिवं प्राप्तौ तत्रापि प्रीतिशालिनौ ॥३८४ ॥ यः पूर्वमावयोर्मध्याच्यवते सोऽपरेण हि । संस्थाप्यः सर्वदा धर्मे संकेतमिति चक्रतुः ॥३८५॥ (युग्मम् ) जीवः समृद्धदत्तस्य च्युत्वान भरतावनौ। पुरे धारानिवासे सागरदत्तेभ्यमन्दिरे ॥३८६ ॥ माया धनदेवाया: कुक्षिजो वररूपवान् । श्रीनागदेवतादत्तवरेण समभूत सुतः ॥ ३८७ ॥(युग्मम् ) नागदत्ताऽभिधानोऽसौ द्विसप्ततिकलान्वितः। गान्धर्वे निरतस्तेन जातस्तत्पूर्वनामकः ॥३८८ ॥ वीणावाद्येऽतिदक्षश्च गारुडे कुशलोज्य सः। अन्यस्मिन् दिन उद्याने क्रीडति स्म सुहृद्युतः ॥ ३८९॥
४०॥
Page #285
--------------------------------------------------------------------------
________________
॥ ३९० ॥
।। ३९१ ॥
॥ ३९२ ॥
॥
३९३ ॥
॥
३९४ ॥
वसुदत्त सुरेशेप बहुधा प्रतिबोधितः । न किञ्चिद् मन्यते देवस्ततश्चैत्रं व्यचिन्तयत् अत्यन्त सुखितो नाऽयं तावद्धर्म करिष्यति । न यावत् पातितः कष्टे प्राणसंशयकारिणि विचिन्त्यैवं मुने रूपं धृतसर्प करण्डकम् । स रजोहरणमुखवस्त्रिकासहितं व्यघात प्रपच्छ नागदत्तस्तं यान्तमासन्नवर्त्मना । एतेषु त्वत्करण्डेषु विद्यते भो नरेन्द्र ! किम ? सर्पा इत्युदिते तेन सोऽत्रवी तर्हि तानहम्। क्रीडयिष्यामि नागांस्तु मदीयान् क्रीडय त्वकम् वार्तिकोऽप्यवदद् वार्ता न कर्तव्या स्वयेदृशी । शक्याः क्रीडयितुं नैते यन्मदीया महोरगाः ॥ ३९५ ॥ देवानामपि दुर्ग्राह्यांस्त्वमेतान् ननु बालकः । ग्रहीष्यसि कथं मूढ ! मन्त्रोपधिवलं बिना ॥ ३९६ ॥ नागोऽभापत पश्य त्वं गृह्यमाणानिमान् मया । त्वं मेऽद्दीन् वा गृहाणाऽऽदौ सोऽत्रोच मुच्यतामिति ॥ ३९७ ॥ नागदत्तेन मुक्तास्ते लगन्ति स्म न तत्तनौ । लग्ना वा देवशक्तित्वात् कुर्वन्ति स्म व्यथां नहि ं ॥ ३९८ ॥ गान्धर्वनागदत्तोऽथ जल्पैवं समत्सरः । मुञ्च लमपि सर्पान् स्वान् रे । विलम्बयसेऽत्र किम् १ ।। ३९९ ॥ मेलय स्वजनान् सर्वान् नृपं च कुरु साक्षिकम् । इति गारुडिकेनोक्ते नागदत्तस्तथाऽकरोत् ॥ ४०० ॥ जगादोच्चैःस्वरं तेषां पुरो गारुडिकनुत्रः । भूत्वाऽवहितचिंता भो ! यूयं शृणुत मद्वचः ॥ ४०१ ॥ गान्धर्वनागदत्तो मे सर्वैः क्रीडितुमिच्छति । यद्यतौ दश्यते तैस्तद् देयो दोषो न सर्वथा
॥ ४०२ ॥
१ मुनीन्द्र ! इति वा पाठः ।
.
18851
Page #286
--------------------------------------------------------------------------
________________
शान्तिनापचरित्रम् ॥१४१॥
प्रस्ताव
अयं मला चक्रगमना पश्चिमा । याम्यायां यमसका पूर्वस्यामादिमोऽयं मयामि
स्वजनैरितो नैष विरराम यदा तदा । मुमोच परितस्तस्य पन्नगान सोऽहिवाहक: ॥४०३॥ जजल्प च महाक्रूरा ममैते हन्त ! जिह्मगाः । अमीषां नाममाहात्म्यं प्रत्येकं कथयामि च ॥४०४॥ आरक्तनयनः क्रूरो द्विजिह्वो विषपूरितः । क्रोधाभिधानः पूर्वस्यामादिमोऽयं सरीसृपः ॥४०५॥ अयमष्टफटाटोपभीषणः स्तब्धवर्मकः । याम्यायां यमसंकाशो मानो नाम महोरगः ॥४०६॥ वञ्चनाकुशला वक्रगमना पश्चिमाश्रिता । इयं मायाया नागी धर्तु केनेह शक्यते ? ॥४०७॥ भयं हि दिशि कौबेर्यो लोभी नाम भुजङ्गमः । समुद्र इव दुष्पूरो दष्टो येन भवेद् नरः ॥ ४०८॥ य एतैर्दश्यते प्राणी चतुर्भिरपि पन्नगैः । पतत्यधः स-नियमादालम्बनविवर्जितः ॥४०९॥ गान्धर्वनागदत्तोऽथ तमूचे किमु निष्फलम् १ । करोषि वाचां विस्तारं मुश्च शीघ्रमिमानरे।॥ ४१०॥ ततस्तेन विनिर्मुक्तैर्मन्त्रौपध्यनिवारितः । दष्टः श्रेष्ठिसुतो नागैश्चतुर्भिरिमकैः समम् पपात च धरापीठे तन्मित्रविविधौषधैः । लेभे कृतोपचारोऽपि चेतना नेपदप्यसौ ॥४१२॥ अर्मु जीवापयेत्युक्तस्तद्वन्धुभिरुवाच सः। ततो जीवत्यसौ हहो! कुर्याचेद्दुष्करक्रियाम् ॥४१३॥ अहमप्यशितोऽभूवममीभिर्दुष्टपन्नगैः । एतद्विषनिरासार्थ करोम्येवंविधां क्रियाम् ॥४१४॥ लुञ्चामि सकलान् केशान् मुखशीर्षविनिर्गतान् । श्वेतानि सप्रमाणानि वासांसि निवसामि च॥ ४१५ ॥ विविध च तपाकर्म चतुर्थादि करोम्यहम् । भुजेतिरूक्षमाहारं तपःपारणकेऽप्यहो। ॥४१६॥
१४१॥
Page #287
--------------------------------------------------------------------------
________________
अत्याहारं न गृह्णामि पिबामि विरसं पयः । उदेति तद्विपं भूयो यद्येवं न करोम्यहम् ॥४१७॥ कदाचित् काननस्याऽन्तः कदाचित् पर्वतोपरि । तिष्ठाम्यहं कदाचिच्च शून्यागारश्मशानयोः ॥ ४१८॥ सहे परीपहान् सम्यग् मध्यस्थो द्वेपरागयोः । एवं क्रियां कुर्वतो मे भवेद् नो विपविक्रिया ॥ ४१९ ॥ स्तोकाहारोऽल्पनिद्रश्च यो भवेन्मितभाषक: । न केवलममी तस्य वशे स्युस्त्रिदशा अपि ॥४२०॥ कि बक्तेन यद्येवंविधया क्रिययाऽसको । संतिष्ठते ततो जीवत्यन्यथा म्रियते ध्रुवम् ॥४२१॥ क्रियां कर्तेति लोकेन भणितेऽमरवार्तिकः । आलिख्य मण्डलं विद्यामुच्चचारेति पावनीम् ॥४२२॥ सर्वसिद्धान नमस्कृत्य महाविद्यास्तथाऽखिलाः । वक्ष्ये दण्डविधिमहं विपवेगविनाशनम् ॥४२३ ॥ प्राणातिपातमनृतमदत्तस्वं च मैथुनम् । परिग्रहं च सकलं यावज्जीवं विवर्जये:
॥४२४॥ अनया विद्यया स्वाहायुक्तया स महेभ्यसः । निद्राक्षय इवोत्तस्थौ प्रभावेन दिवौकसः ॥४२५॥ स्वजनैर्वार्तिकादिष्टा क्रिया तस्य न्यवेद्यत । अश्रद्दधत् स तां गेहाभिमुखः प्राचलद् द्रुतम् ॥ ४२६॥ पपात च क्षणात् पृथ्व्यां पुनर्निर्नष्टचेतनः । पुनः प्रार्थनया स्वानामुल्लाघो मेरुता कृतः ॥४२७॥ एवं तृतीयवेलायां विहिते गाढनिश्चये । गान्धर्वनागदत्तोऽपि तस्य वाक्यममन्यत ॥४२८॥ देवो नीत्वा तमुद्याने सुरत्वं स्वं निवेद्य च । तस्याऽचख्यौ पूर्वभवं सोऽपि जाति ततोऽस्मरत् ॥ ४२९॥ १ सजः । २ देवेन |
Page #288
--------------------------------------------------------------------------
________________
शान्तिना
थचरित्रम
॥ १४२ ॥
एवं प्रत्येकबुद्धीस जातो मुनिपुङ्गवः । तं वन्दित्वाऽमरः सोऽपि जगाम स्थानमात्मनः ॥ ४३० ॥ चतुरोऽपि कपायाहीन नियम्याऽङ्गकरण्डके । रक्षयामास स मुनिर्यत्नान्निर्गच्छतो बहिः एवं गच्छति कालेऽसावुत्पाद्य वरकेवलम् । महानन्दपदं प्राप हत्वा कर्मसमुच्चयम्' ॥ इति गान्धर्वनागदत्तकथा ||
॥ ४३१ ॥ ॥ ४३२ ॥
L
L
एवमादिप्रमादोऽयं पञ्चधाऽपि विवेकिभिः । हेयोऽनर्थकरो धर्मो विधेयथ चतुर्विधः यति श्रावकभेदाभ्यां पुनरेव द्विधा भवेत् । यतिधर्मश्च दशधा ज्ञेयो भेदैः क्षमादिभिः सम्यक्त्वं प्रथमं तत्र द्वैधं त्रैधं चतुर्विधम् । पञ्चधा दशधा चैव ज्ञेयं सूत्रानुसारतः अणुव्रतानि पञ्च स्युर्गुणपूर्व व्रतत्रयम् । शिक्षापदानि चत्वारीत्युक्तो धर्मो ह्यगारिणाम् स्थूलप्राणातिपातस्य विरतित्रतमादिमम् । जायते सुखदं पाल्यमानं तद्यमपाशवत् तथाहि
- इहैव भरते वाराणस्यां दुर्मर्षणो नृपः । बभूव कमलश्रीश्च तत्प्रिया कमलानना सुमञ्जरीति विक्रान्तस्तत्राऽभूद् दण्डपाशिकः । यमपाशश्च चाण्डालो जात्या नैव च कर्मणा नलदामा वणिक तत्र दयादिगुणसंयुतः । सुमित्रा गेहिनी तस्य मम्मणश्च सुतोऽभवत् अन्यदा वर्णिगानीततुरङ्गे सोऽथ भूपतिः । आरूढोऽधिष्ठितथाऽवो नृपवैरिसुरेण सः
॥ ४३३ ॥ ॥ ४३४ ॥
॥ ४३५
॥ ४३६ ॥
॥ ४३७ ॥
॥
॥
॥
४३८ ॥
४३९ ॥
४४० ॥
॥ ४४१ ॥
पछः
प्रस्तावः
॥ १४२ ॥
Page #289
--------------------------------------------------------------------------
________________
उत्पत्य गगनेनैव वेगेनेयाय काननम् । राज्ञा मुक्तो विमुक्तश्च प्राणैरप्याऽशु सोऽश्वका ॥४४२॥ तत्रैको हरिणो भूपं दृष्ट्वा जातिस्मरोऽभवत् । एवमज्ञापयत् तं च लिखित्वाऽग्रेऽक्षरावलीम् ॥४४३॥ देवलो नाम ते राजन्नभूवं श्रीकरीधरः। मृत्वाऽऽर्तध्यानदोपेण जातस्तिर्यकत्वदूषितः ॥४४४ ॥ तेनाऽथ दर्शितं नीरं तृपितस्य महीपतेः । स्वस्थीभूतेऽथ तस्मिस्तु तत्र तत्सैन्यमाययौ ॥४४५॥ हरिणोऽसौ कृतज्ञेन राज्ञा नीतो निजं पुरम् । राजदत्ताभयस्तत्र स्वेच्छया संचचार सः ॥४४६॥ अन्यदा मम्मणस्याट्टे स समागात् परिभ्रमन् । पूर्वजन्ममत्सरेण वणिक् तस्मै चुकोप सः ॥४४७॥ तातमूचे च मार्योऽयमपराधको मृगः । सोऽवदद्धन्यते जीवो नाऽपरोऽपि वणिक्कुले ॥४४८॥ अयं तु भूपतेरिटोन हन्तव्यः सुत! त्वया। तथापि निहतोरोपाद्व्याक्षिप्तस्याऽस्य सोऽमुना ॥ ४४९ ॥ कुर्वन् कर्मेदृशं सोऽय मम्मणः श्रेष्ठिनेक्षितः। दूरस्थितेन यमदण्डेनेवाऽन्तविधायिना ॥ ४५० ॥ ततो निवेदितस्तेन तवृत्तान्तो महीपतेः । कोन साक्षीति राज्ञोक्ते सोजदजनकोऽस्य हि ॥ ४५१॥ नृपाहूतेन तेनाऽपि तत्सत्यमिति जल्पितम् । ततोऽसौ सत्यवादीति पूजितः पृथिवीभुजा ॥४५२॥ वधार्थ मम्मणस्याऽय समादियो महीभुजा। यमपाशोऽब्रवीद् देव ! नहि हिंसां करोम्यहम् ॥ ४५३ ॥ कथं त्वं प्राणिनो हिंसां मातङ्गोऽपि करोपिन । इति पृष्टोऽवनीशेन स आख्याति स्म कारणम् ॥ ४५४॥ इस्तिशीर्ष पुरवरे दमदन्तो वणिसुतः। अनन्ततीर्थकृत्पार्श्वे श्रुत्वा धर्ममभूद् व्रती ॥४५५॥
Page #290
--------------------------------------------------------------------------
________________
शान्तिनापचरित्रम् ॥ १४३॥
प्रस्तावः
तपः प्रकुर्वतस्तस्य लब्धयोऽनेकशोऽभवन् । गीतार्थो विहरन्नेकः स नगर्यामिहाऽययौ ॥४५६॥ तस्थौ पितृवनोपान्ते कायोत्सर्गेण च स्थिर:-। इतश्च तनयो मेऽस्ति प्रभो! नाम्नातिमुक्तकः ॥ ४५७॥
औपसर्गिकरोगातों गतः पितृवनेऽथ सः। मुनि ननाम नीरोगस्तस्य शक्त्या बभूव च ॥ ४५८॥ मम तेन स्ववृत्तान्तो गृहमेत्य निवेदितः । ततोऽहं सकुटुम्बोऽपि तत्राणां रोगपीडितः ॥४५९ ॥ मुक्तश्च व्याधिना तेन ततोऽहं श्रावकोऽभवम् । यावज्जीवं च हिंसाया विरतोऽस्मि धरापते ॥ ४६॥ तेनैव साधुना देव ! प्रतिबोधकथा निजा । आख्याता मम पृष्ठेन ततोऽहमपि वेमि ताम् ॥ ४६१ ॥ ततश्च पूजितो हृष्टचेतसा स महीभुजा । चाण्डालानां समस्तानामधिपश्च विनिर्मितः ॥४६२॥ अन्येन श्वपचेनाऽयं मम्मणो विनिपातितः । यमपाशश्च मृत्वाऽन्ते बभूव त्रिदशोत्तमः ॥४६३ ।।
॥प्राणातिपातविरतिविषये यमपाशमातङ्गकथानकम् ॥ द्वितीयं च व्रतं नाम कन्यालीकादि पञ्चधा । अलीकभाषणे दोषो भद्रस्येव प्रजायते ॥ ४६४ ॥ क्षितिप्रतिष्ठितपुरे वणिजौ धनवर्जितौ । दुष्टबुद्धिसुबुद्धयाख्यावभूतां विदितौ जने ॥४६५ ।। प्रपन्नसौहृदावेतौ किञ्चिदादाय पण्यकम् । देशान्तरप्रचलितावर्थोपार्जनहेतवे ॥४६६ ।। प्राप्तौ च क्रमयोगेण पुरे काऽपि पुरातने । दिनानि कतिचित्तत्र तस्थतुर्लाभकाविणौ ॥ ४६७ ॥ देहचिन्ताकृते कापि खण्डौकसि सुबुद्धिना । उपविष्टेन संप्राप्त निधानं किश्चिदन्यदा ॥४६८॥
॥ १४३॥
Page #291
--------------------------------------------------------------------------
________________
तद्दष्टवुद्धिना सार्घ गृहीत्वाऽसौ न्यभालयत् । यावत्तावच दीनारसहस्रं समजायत ॥ ४६९ ॥ कृतकृत्यौ ततश्रुतावागतौ नगरं निजम् । तत्रेदं मन्त्रयामास दुष्टः सह सुबुद्धिना ॥ ४७० ॥ अर्धमर्घ विभज्येदं गृहणीवश्चेद्धनं सखे । । तदा संभावना गुर्वी भविष्यत्यावयोर्जने ॥ ४७१ ॥ ततो निधानलामं नौ ज्ञात्वा भूपः कथश्चन । तद्ग्रहीष्यति दारिद्र्यं तदवस्थं तदावयोः ॥ ४७२॥ गृहीत्वा शतमेकैकं शेषद्रव्यमिहेव हि । निक्षिप्यते वटोपान्ते संमतं तव चेद् भवेत् ॥ ४७३॥ एवमस्त्विति तेनोक्ते रात्रौ निक्षिप्य तत्र तत् । प्रभाते तो निज गेहमेयतुर्मुदिताशयौ ॥ ४७४ ॥ तद्दीनारशतमथो दुष्टबुद्धेरसद्व्ययात् । निष्ठितं दिवसैः कैश्चित् पुण्येनैव स्थिरेन्दिरा ॥ ४७५॥ पुनः सुबुद्धिदुर्बुद्धी गत्वा निशि ततो धनात् । दीनारशतमेकैकं गृहीत्वा गृहमागतौ ॥ ४७६॥ अन्यदा चिन्तयामास दुष्टबुद्धिर्मनस्यदः । सुबुद्धि वञ्चयित्वैनं शेष खं स्वीकरोम्यहम् ॥ ४७७॥ विचिन्त्यैवं स यामिन्यां गत्वा तत्र तदाददे । वञ्च्यते जनकोऽप्यर्थलुब्धैरन्यस्य का कथा ? ॥ ४७८ ॥ मित्रमूचे च तद् द्रव्यं विभज्यानीयते गृहम् । बहि:स्थितेचनोतस्मिश्चिन्ता नौ याति चित्ततः॥ ४७९॥ तद्वाक्यमनुमेनेऽथ सुबुद्धिः सरलाशयः । गत्वा चखान तत् स्थानं सह तेन च दुष्टधीः ॥ ४८०॥ तत्रापश्यन् घनं तच्च स कूटकपटालयः।हा! वञ्चितोऽस्मि केनापीत्याजघान शिरोऽश्मना ॥ ४८१ ॥ जगाद च त्वया तद्धि सुबुद्धेऽपहृतं खलु ।जानाति नाऽपरः स्थानमिदमावाम्यां विना यतः॥ ४८२ ॥
Page #292
--------------------------------------------------------------------------
________________
33:33
पर
शान्तिनाथचरित्रम् ॥१४४॥
सोऽब्रवीद् हर्तकामः स्वमभविष्यमहं यदि । एकान्तलब्धं तत्ते नाकथयिष्य पुराऽप्यदः ॥ ४८३ ॥ त्वं तु स्ववञ्चकत्वेन मामप्येवं विमन्यसे । पित्तातिप्लावितो नीरमपि ज्वलितमीक्षते ॥४८४॥ एवं तौ कलहायन्तौ समीपे नृपतेर्गतौ । इति विज्ञपयामास तमादौ सोऽथ दुर्मतिः ॥ ४८५॥
देवावाभ्यां निधिः क्वापिलब्धस्तेनो निवेदिता लुब्धाभ्याममुकस्थाने निक्षिप्तश्च मिया तव ॥४८६ ॥ 'अनेन वञ्चयित्वा मां जगृहे स सुबुद्धिना। इति ज्ञात्वा यथायुक्तं विधेहि त्वं महीपते ।। ४८७॥ राजोचे वर्ततेवाऽर्थे साक्षिको ननु कस्तव ? । विचिन्त्य सोवदद् दुष्टबुद्धिः पुनरिदं वचः ॥ ४८८॥ यस्याऽधस्ताद्विनिक्षिप्तं तद् द्रव्यमवनीपतेः । स एव हि महावृक्षः साक्षिकोऽस्त्यत्र निश्चितम्॥ ४८९ ॥ इदं वित्तमनेनाऽऽत्तमिति वाक्यमसौ यदि । तसर्वक्ति ततो राजन् ! ज्ञेयः सूनृतवागहम् ॥ ४९०॥ राजा प्रोवाच यद्येवं करिष्यसि कथञ्चन । सत्यवाक्यो भवानेको भविष्यति ततो जने ॥४९१ ।। इदं हि ह्यो मया कार्यमित्युक्ते दुष्टवुद्धिना- विसृष्टौ तौ नरेन्द्रेण दत्तप्रतिभुवौ गृहम् ॥४९२॥ अहो ! सुदुर्घटं कार्य कथमेष करिष्यति । धर्मस्यैव जयो वेति ध्यायन वेश्म ययौ सुधीः ॥४९३ ॥ इतरोऽपि गृहं प्राप्तौ भद्राख्यं पितरं निजम् । प्रोवाच तात ! दीनारा मम हस्तंगतो इमे ॥ ४९४॥ क्षेप्स्यामि त्वामहं नीत्वा-निशायां वटकोटरे । आत्तं सुबुद्धिना रिकथमिति वाच्यं त्वया प्रगे ॥ ४९५ ॥ । १ दत्तः प्रतिभूः साक्षी याभ्यां तौ । ।
॥१४४॥
Page #293
--------------------------------------------------------------------------
________________
सोऽथाऽभापिष्ट रे दुष्टमते ! नेतद्धि सुन्दरम् । उपरोधेन ते पुत्र ! कार्यमेतद् मया परम् ॥४९६ ॥ चक्रे च म तथा तेन द्वितीयेऽति महीपतेः। पुरः पौरजनस्यापि तमचित्वा महीरुहम् ॥४९७ ॥ दुएबुद्धिरदोवादीद् गृहीतं केन तद्धनम् । सत्यमाख्याहि वृक्षेश ! विवादस्त्वयि तिष्ठते ॥ ४९८॥ (युग्मम् ) वटकोटरसंस्थोऽथ भद्रश्रेष्ठी शशंस सः । हहो ! सुबुद्धिनोपात्तं तद् द्रव्यमिति बुध्यताम् ॥४९९ ॥ तच्छूना विस्मिताः सर्वे सुबुद्धिं चादद् नृपः। अपराध्यसि भोस्तावद् निधानं मे समर्पय ॥ ५०० ॥ सोऽथ दव्यौ न तरवो जल्पन्तीह कदाचन । इयं हि कूटरचना दुश्वुद्धविभाव्यते ॥ ५०१॥ वटस्य कोटरादु वाणी यदसौ निर्गता ततः। मन्ये संकेतितोऽनेन प्रक्षिप्तोऽत्यत्र कश्चन ॥५०२ ॥ जगाद च तवाऽवश्यमर्पणीयं मया धनम् । महाराज ! परं किञ्चिद्विज्ञप्यमिह विद्यते ॥५०३॥ ततो विज्ञायेत्युक्तो राज्ञाचोचदसौ पुनः । जगृहे तद् मया द्रव्यं न नीतं हि गृहे परम् ॥५०४ ॥ तरुफोटरमध्येच प्रक्षिप्याऽई गतो गृहम् । अन्यस्मिन् दिवसे यावत्तदादातुमुपागतः ॥५०५॥ तावत्तत्राहिमद्राक्षं फटाटोपमयङ्करम् । देवताधिष्ठितमिदमिति चाऽचिन्तयं तदा ॥५.६॥ (युग्मम् ) तत्तं द्विरसन द्रव्यगोतारं देव ! हनम्यहम् । उपायेनेह केनापि यद्यनुज्ञा भवेतव ॥५०७॥ एवं कुर्विति राज्ञोक्ते स सयस्तरकोटरम् । तपणेः पूरयामास बहिश्व परितोऽस्य हि ॥५०८॥ १ काठः।
Page #294
--------------------------------------------------------------------------
________________
शान्तिना
प्रस्तावः
पचरित्रम् ॥१४५॥
ततो ज्वलयितुं बहावारब्धे छगणोद्भवः । बभूव प्रचुरो धूमस्तेन प्लुष्टेक्षणः क्षणात ॥५०९॥ दुष्टबुद्धेः पिता सोऽथ पपात पृथिवीतले । भद्रश्रेष्ठीति भूपेन लोकश्चाऽप्युपलक्षितः ॥५१०॥ (युग्मम् ) किमेतदिति पृष्टश्च सर्वैरपि सकौतुकैः । सोऽवदत् कूटसाक्षित्वमहं दुष्टेन कारितः ॥५११॥ अलीकवाक्यजं पापमिहैव फलितं मम । इति ज्ञात्वा न वक्तव्यमहो! केनाऽप्यसूनृतम् ॥५१२ ॥ ततोऽसौ संस्थितो भदोभद्रधीः सोऽथ तत्सुतः। राज्ञा सर्वस्वमादाय पुराद् निर्वासितो निजात ॥ ५१३ ॥ सुबुद्धिस्त्वर्चितस्तेन वस्त्रालङ्करणादिभिः। सत्यत्वात् सर्वलोकस्य प्रशंसां समवाप सः ॥५१४ ॥ असत्यमिह लोकेऽपि ज्ञात्वैव दुःखकारणम् । तत्वया परिहर्तव्यं चक्रायुध ! महीपते ! ॥५१५॥
॥असत्यविषये भद्रश्रेष्ठिकथानकम् ॥ स्थूलादत्तपरित्यागसंज्ञमेतदणुव्रतम् । पालनीयं प्रयत्नेन गुणकृजिनदत्तवत्
॥५१६॥ वसन्तपुरमित्यस्ति पुरं पुरगुणाश्चितम् । यथार्थनामा तत्राऽभू जितशत्रुर्धरापतिः ॥५१७॥ तनयो जिनदासस्य जिनदत्तोऽभिधानतः । बभूव श्रावकस्तत्र जीवाज्जीवादितचवित् ॥५१८ ॥ संप्राप्तयौवनः सोऽथदीक्षाऽऽदानकृताशयः। विवाहं कुलकन्याया नेच्छति स्मार्थितोऽपि सन् ॥ ५१९ ॥ मित्रमण्डलसंयुक्तो ययौ चोपवनेऽन्यदा।। उत्तुङ्गशिखरं तत्राद्राक्षीच जिनमन्दिरम् ॥५२० ॥ ततोऽसौ विधिना तत्र प्रविश्य कुसुमादिमिः । समभ्यर्च्य जिनाधीशं विदधे चैत्यवन्दनाम् ॥ ५२१ ॥
॥ १४५॥
Page #295
--------------------------------------------------------------------------
________________
५२४ ॥
॥
५२५ ॥
॥ ५२६ ॥
॥ ५२७ ॥
आगत्य कन्यकैकाऽथोत्तरीयपिहितानना । शुम्रद्रव्यैर्जिनाऽचयाचकार मुखमण्डनम् ॥ ५२२ ॥ कपोले जिनविम्बस्य पत्रवल्लीं वितन्वतीम् । तां वीक्ष्य विस्मितोऽवोचज्जिनदत्तः सखीनिति ॥ ५२३ ॥ कस्येयं तनया हो ! तेऽवोचन् विदिता न किम् १ | तवेयं प्रियमित्रस्य सार्थवाहस्य नन्दिनी ॥ एषा जिनमतीनाम्नी यथा नारीशिरोमणिः । तथा त्वमपि रूपाद्यैर्गुणैर्नरशिरोमणिः करोति गृहवासेन संयोगं युवयोर्यदि । वेधास्तत्तस्य निर्माणप्रयासः सफलो भवेत् जिनदत्तोऽभ्यघाद् युक्तं न युष्माभिर्विधीयते । वयस्या यत् कृतं हास्यमिह स्थाने मया सह पराभिप्रायविज्ञानदक्षा अप्यनुगामिनः । किं न जानीत मां यूयं दीक्षाऽऽदान कृताशयन् १ मुखमण्डन विज्ञान कौतुकेन मयाऽपि भोः ! । पृष्टमेतदन्यथा तु स्त्रीकथाsत्र न युज्यते इत्युदित्वा स्थितः सोऽय जिनमत्या निरीक्षितः । अनुरागथ संजातस्तस्यास्तस्मिन् शुभाकृतौ ॥ ज्ञातः सखीजनेनाऽस्या अभिप्रायो मनोगतः । संप्राप्तेन गृहं सोऽथ पित्रोरग्रे निवेदितः जिनदत्तोऽपि सदनं गत्वा कृत्वा च भोजनम् । हट्टे गत्वा व्यवहति चक्रेऽर्थार्जनहेतवे जिनमत्याः पिता गत्वा जिनदासस्य सन्निधौ । कन्याप्रदानं विदधेऽनुमेने सोऽपि तन्मुदा ॥ ५३३ ॥ गृहप्राप्तस्य वृत्तान्तः पित्रा नोर्निवेदितः । असौ दीक्षा मिलापित्वादुद्वाहं नेच्छति स्म च जिनमन्दिरयानादि स्ववृत्तान्तं निवेद्य सः । पित्रा पुनर्विवाहार्थे भणितो मौनमाश्रितः
॥ ५२८ ॥
॥ ५२९ ॥
५३० ॥
॥
५३१ ॥
॥
५३२ ॥
॥ ५३४ ॥ ॥ ५३५ ॥
Page #296
--------------------------------------------------------------------------
________________
शान्तिनाधचरित्रम् ॥१४६ ॥
षष्ठः प्रस्ताव
अन्यदा कन्यका साथ निर्गच्छन्ती गृहाद् निजात् । दृष्टा पुरारक्षकेण वसुदत्तेन भोगिना || ५३६ ॥ ततो जाताऽनुरागेण तेन गत्वाऽथ तत्पितुः । पार्वे सायाचिता दत्ता जिनस्येति च सोऽब्रवीत् ।। ५३७ ॥ ततो रुष्टः स दुष्टात्मा मारणात्मिकया धिया। संजातो जिनदत्तस्य च्छिद्रान्वेपी दिवानिशम् ॥ ५३८ ॥ अश्ववाहिकया राज्ञो गतस्योद्यानमन्यदा | पपात कुण्डलं कर्णाचलत्यश्वेऽतिरंहसा ॥५३९ ॥ तच्चागतेन विज्ञातं तेन राजकुले ततः । वसुदत्तः समादिष्टस्तदन्वेषणहेतवे
॥५४०॥ तदर्थ सोऽचलद्यावत्तावत्तस्य पुरःसरः । जिनदत्तो बहिर्गन्तुं प्रवृत्तोऽर्थेन केनचित् ॥५४१॥ दृष्ट्वा तत्कुण्डलं मार्गे सोऽथ दूरमपासरत् । लोष्टुवत् परद्रव्याणि यतः पश्यन्ति साधवः ॥५४२ ॥ वसुदत्तोऽपि तत्रागात् किमेतदिति चिन्तयन् । दृष्ट्वाऽऽदाय च तच्छीघ्रमार्पयचावनीपतेः ॥ ५४३ ॥ राजा प्रोवाच भोभद्र ! कुतो लब्धमिदं त्वया ?। जिनदत्तान्मयाप्राप्तमित्यूचे स च दुष्टधीः ॥५४४ ॥ जिनदत्तोऽपि किं नाम परद्रव्यं हरत्यहो।। इति पृष्टे नरेन्द्रेण वसुदत्तोऽभ्यधात् पुनः ॥५४५॥ समानो जिनदत्तेन तस्करः कोऽपि नाऽपरः । यः सदा पश्यतोऽप्यर्थ परस्माद् हरति प्रभो! ॥ ५४६॥ वध्य आज्ञापितो राज्ञा ततोऽयं क्रुद्धचेतसा । वसुदत्तोऽपि बद्ध्वा तं रासभारोपितं व्यधात् ॥ ५४७ ॥ रक्तचन्दनलिप्ताङ्गो रसद्विरसडिण्डिमः । नीयमानः पुरीमध्ये कृतहाहारवो जनैः ॥५४८॥ गृहानिर्गतया सोऽथ जिनमत्यावलोकितः । सा चैवं चिन्तयामास रुदती निभृतस्वरम् ॥ ५४९ ॥ (युग्मम् )
॥१४६॥
Page #297
--------------------------------------------------------------------------
________________
धर्मार्थी सदयो देवगुरुभक्तिपरायणः । निरागो जिनदत्तो ही प्राप्तवान् कीदृशी दशाम् ? ॥ ५५० ॥ दृष्ट्वा तां जिनदत्तोऽपि नियाजस्नेहवत्सलाम् । सद्योऽनुरागवशगश्चिन्तयामास मानसे ॥५५१ ॥ अहो! अकृत्रिमा प्रीतिः काऽप्यस्या मयि वर्तते । दृष्ट्वा मद्व्यसनं दुःखभागिनी याऽभवत् क्षणात्।।५५२॥ एतस्माद् व्यसनान्मोक्षोभविष्यति ममाञ्य चेत् । कियत्कालं ततो भोगान् भोक्ष्येऽहमनया सह ॥ ५५३ ॥ अन्यथाऽनशन मेऽस्तु सागारमिति चिन्तयन् । वध्यस्थाने स आरक्षनरैनीतो दुराशयः ॥५५४॥ प्रियमित्रस्य पुत्री सा कन्यका कृतनिश्चया । कायोत्सर्ग व्यधाद् गेहचैत्ये गत्वा मनस्विनी ॥ ५५५॥ चेतसाऽचिन्तगचैत्र मातः! शासनदेवते! | जिनस्य कुरु मानिध्यं यद्यहं जनशासनी तस्यास्तस्य च शीलेन तुष्टा शासनदेवता । बभज शूलिकां सद्यो वारांस्त्रीस्तृणमात्रवत् ॥५५७ ॥ स चोद्वद्धस्ततो वृक्षे रज्जुग्छिन्ना झटित्यपि । कृताः खड्गप्रहाराच जज्ञिरे कुसुमस्रजः ॥५५८ ॥ आरक्षकनरास्तस्य दृष्ट्वाऽतिशयमीदृशम् । विस्मिताः कथयन्ति स्म तमागत्य महीभुजः ॥५५९ ॥ भयविस्मयसंपूर्णः स गत्वा तत्र सत्वरम् । जिनदत्तं गजारूढमानिनाय निजौकसि ॥५६०॥ पृष्टोऽथ सर्ववृत्तान्तं जिनस्तस्य न्यवेदयत् । रक्षति स्माऽरक्षकं च मृत्योर्जीवदयापरः अनुज्ञातस्ततो राज्ञा निजगेहमगादसौ । पित्रादिस्वजनस्तस्य सर्वोऽपि मुमुदेतराम् ॥५६२॥ आगत्य प्रियमित्रेण जिनदत्तस्य धीमतः । वार्ताऽचख्ये स्वनन्दिन्या देवताराधनादिका ॥५६३ ॥
Page #298
--------------------------------------------------------------------------
________________
शान्तिनाथचरित्रम् ॥१४७॥
प्रस्ताव
ततस्तुष्टो विशेपेण स तां जिनमती सतीम् । पर्यणैषीत्सुमुहूर्ते महोत्सवपुरःसरम् ॥ ५६४ ॥ भुक्त्वा भोगांस्ततः कालं कियन्तमनया सह । प्रवबाज विरक्तात्मा सुस्थिताचार्यसंनिधौ ॥५६५ ॥ पालयित्वा चिरं दीक्षां खड्गधारासमामिमौ । विपद्याऽन्ते समाधानपरौ त्रिदिवमीयतुः ॥५६६ ॥
॥परद्रव्यापहारविरतौ जिनदत्तकथा ॥ औदारिकं चैक्रियक द्विविधं मैथुनव्रतम् । तिर्यङ्मनुष्यभेदेनौदारिकं तु द्विधा भवेत् ॥५६७॥ विज्ञेयं वैक्रिय चैकविधं देवाङ्गनागतम् । एतद्बत समस्तानां व्रतानामपि दुःसहम
॥५६८॥ परदारप्रसक्तानां दुःखानि स्युरनेकधा । यथा करालपिङ्गोऽभूत्पुरोधा दुःखभाजनम् ॥५६९ ॥ कोऽसौ करालपिङ्गाख्य इति चक्रायुधेन तु । पृष्टो जगाद भगवानुर्वीश ! श्रूयतामिति ॥५७० ॥
अस्तीह भरतक्षेत्रे पुरं नलपुराऽभिधम् । बभूव नलपुत्राख्यस्तत्र राजा महाभुजः ॥५७१ ॥ करालपिङ्गो नाम्नाऽभूत्तस्याऽभीष्टः पुरोहितः । शान्तिकर्मणि निष्णातो रूपयौवनवित्तवान् ॥ ५७२॥ महेम्यतनयस्तत्र पुष्पदेवोऽभिधानतः । मित्रं पुरोहितस्याऽस्य वसति स्म वणिग्वरः ॥५७३ ॥ तस्याऽऽसीत् प्रवरा भार्या पद्मश्रीः प्राणवल्लभा । पतिव्रता(त)प्रभृतिभिः स्त्रीगुणैः समलंकृता ।। ५७४ ॥ पुरोधसाऽन्यदा तेन केनचिद्वितकर्मणा । तोषितः पृथिवीपालस्ततः सोऽस्मै ददौ वरम् ॥५७५ ॥ विषयासक्तचित्तेन तेनेदं याचितं ततः। पुरेऽस्मिन् स्वेच्छया रामा रमणीया मया प्रभो! ॥ ५७६ ॥
॥१४७॥
Page #299
--------------------------------------------------------------------------
________________
राजा प्रोवाच या काचिदिच्छति वामिहाञ्चला। सेवनीया त्वया सा हि सर्वदानाऽपरा पुनः॥ ५७७॥ अनिच्छन्ती च चेद्रामा रंस्यसे वार्थयिष्यसि । करिष्यामि ततो दण्डं पारदारिकवत् तव ॥ ५७८॥ स्वैरं संचरता तेन पुरे तस्मिन् पुरोधसा । वल्लभा पुष्पदेवस्य पद्मश्रीवर्वीक्षिताऽन्यदा ॥५७९॥ ततो विद्यल्लतानाम्नीं तस्या दासी जजल्प सः। भद्रे । भण तथेमां त्वं यथा वाञ्छति मामसौ॥ ५८०॥ सतीत्वं पालयन्ती सा नेच्छत्येनं कथञ्चन । स्वयं करालपिङ्गेन रन्तुमभ्यर्थिताऽन्यदा ॥५८१ ॥ साध्वादीन्मेदृशं हि ज्ञास्यत्येतत्सखा तव । सोचवीच तथा कार्य यथाऽन्यत्र प्रयात्यसौ ॥ ५८२ ॥ कथित निजकान्तस्य तद्वाक्यमखिलं तया । प्रतीक्षमाणः कालं च सोऽस्थाद् धृत्वा मनस्यदः॥ ५८३ ॥ पुरोहितेन तेनाऽथ विद्यासामर्थ्यतोऽन्यदा । कृता दुर्विपहा शीर्षे वेदना मेदिनीपतेः ॥५८४॥ तमाकार्य ततो राज्ञा तत्स्वरूपं निवेदितम् । अपनिन्ये सका तेन शिरोऽर्तिमन्त्रवादिना ॥५८५॥ पुनस्तुष्टोऽस्य भूपालोऽवदद्याचस्त्र किञ्चन । तेनापि जल्पितं देव ! कुर्विदं त्वं वचो मम ॥ ५८६ ॥ किंजल्पिसंज्ञके द्वीपे सन्ति किंजल्पिकाः खगाः। सुस्वरा दृश्यमाना भवन्ति सुखदा हि ते॥ ५८७ ॥ तेषामानयनार्थ तत् पुष्पः संप्रेष्यतां वणिक । तदङ्गीकृत्य भूपोऽपि तदर्थ विससर्ज तम् ॥५८८॥ सौर्वस्तिककृतं चैतत्सोऽपि विज्ञाय बुद्धिमान् । भर्तुः प्रमाणमादेश इत्युक्त्वा च ययौ गृहम् ॥ ५८९ ॥ १ सीवस्तिकः पुरोहितः।
Page #300
--------------------------------------------------------------------------
________________
पष्टः
शान्तिनायचरित्रम् ॥१४८॥
प्रस्तावा
अकारयभूमिगृहं गृहस्याऽन्तस्ततश्च सः । नरैः प्रत्ययितैर्यन्त्रपर्यडू तस्य चोपरि ॥ ५९॥ भणिताश्च नरा एते यद्येत्यत्र पुरोहितः । तद्वध्ध्वा छन्नमेवाऽयमानेतव्यो ममान्तिकम् ॥ ५९१ ॥ दचाऽऽदेशममुं तेषां सोऽथ निःसृत्य मन्दिरात | किल देशान्तरं गन्तुं तस्थौं वापि पुरादहिः ॥५९२॥ हृष्टः करालपिङ्गोऽगात् पुष्पदेवस्य मन्दिरे । तत्रोपवेशितस्तस्मिन् पर्यङ्के यन्त्रनिर्मिते ॥ ५९३ ॥ पतितश्च ततो भूमिगृहे तत्र स्थितैनरैः । बध्ध्वा मयूरवन्धैश्च पुष्पदेवस्य सोऽर्पितः ।। ५९४ ॥ तेनासावात्मना साध नीतो देशान्तरं ततः । षड्भिर्मासैर्वलित्वाऽगात पुनरेष निजं पुरम् ॥ ५९५ ॥ निर्माल्य मदनं तेन लिप्त्वा पौरोहित वपुः । पञ्चवर्णैस्ततः पिच्छैः परितोऽलंकृतं व्यधात् ॥ ५९६ ॥ गत्वाऽथ भूपतेः पाव पुष्पदेवो व्यजिज्ञपत् । गृहीता बहवोऽभूवन देव ! ते पक्षिणो मया ॥ ५९७ ।। परमागच्छतो मार्गे ते सर्वे निधनं गताः । आनीतस्त्वेक एवाऽस्ति तत्तं किं दर्शयामि वः ॥ ५९८॥ राजा प्रोवाच तमिहाऽऽनीय दर्शय मे द्विजैम् । शृणोमि सुस्वरं तस्य तं च पश्याम्यहो यथा ।। ५९९ ॥ ततश्चाऽऽनीय मुक्तो दाक् तेनाऽसौ नृपतेः पुरः । ऊचे च भूपतिरहो अपूर्व रूपमस्य हि ॥ ६००॥ यदयं मयसंकाशो युक्तः पक्षतिभिस्तया । तदस्य श्रावय वं मामितः श्रुतिसुखं वरम् ॥ ६०१॥ आदायप्राजनं सोऽथ तं कियाधीऽऽरयाभृशमजल्पेति भणितस्तेन किं जल्पामीति सोऽवदत् ।। ६०२॥ १ मदन लोके मीण इति प्रसिद्धम् । २ पक्षिण । ३ मनुष्यसदृशः। ४ कर्णसुखकरम् । ५ आरया सूचीसमशस्त्रविशेषेण ।
१४८॥
Page #301
--------------------------------------------------------------------------
________________
राजाऽपि दर्शनं तस्य दष्ट्वा तमुपलक्ष्य च । ऊचे भोः पुष्प ! पक्ष्येप मत्पुरोहितसन्निभः ॥६०३ ॥ स एवाऽयमिति प्रोक्त तेन भूयोऽववीन्नपः। कथमीहक्कृत इति व्याख्यो सोऽय तत्कथाम् ॥ ६०४॥ ततश्चाऽजक्षकनरा इत्यादिष्टा महीभुजा । अन्यायकारिणममुं रे व्यापादयताऽधमम् ॥६०५॥ नानाविडंबनाः कृत्वा भ्रमयित्वा पुरेऽखिले । स तैापादितो घोरां जगाम नरकावनिम् ॥ ६०६॥ तत्रापि प्रज्वलल्लोहपुत्रिकालिङ्गानादिकम् । दुःखं विपद्य संसारमपारं स भ्रमिष्यति ॥ ६०७॥
॥ इति चतुर्थव्रते करालपिङ्गकया ॥ परिग्रहवतं स्थूलं सचित्ताऽचित्तमिश्रकैः । भेदैस्त्रिधा तथा तच नवभेदं भवत्यहो। ॥ ६०८।। धने धान्ये क्षेत्रवास्तुरूप्यकुप्येपु हेमनि । द्विपदे चतुष्पदे च कुर्यान्मानं परिग्रहे ॥६०९॥ एतस्मादनिवृत्तानां दुःखानीह शरीरिणाम् । सुलसश्रावकस्येव संजायन्ते निरन्तरम् ॥६१०॥ चक्रायुधोऽवदतु कोऽयं भगवन् ! सुलसाह्वयः। श्रीशान्तिनाथः प्रोचे च तत्कथा श्रूयतामिति ॥ ११ ॥
इहाऽमरपुरं नाम नगरं भरतावनौ । विद्यते तत्र भूपालोऽमरसेनोऽभवदली ॥ ६१२॥ श्रेष्ठी वृपनदत्ताख्यस्तत्रावात्सीद्विवेकवान् । श्राद्धोऽविचलसम्यक्त्वो जिनसंयतपूजकः ॥ ६१३॥ तस्याऽऽमीजिनदेवीति गहिनी गुणसंयुता । सौन्दर्यपारकलशः सुलसो नाम तत्सुतः ॥ ६१४ ॥ संप्राप्तो यौननं सोऽथ पितम्यां परिणायितः । तनयां जिनदासस्य सुभद्रां नाम कन्यकाम् ।। ६१५ ॥
Page #302
--------------------------------------------------------------------------
________________
शान्तिनायचरित्रम् । ॥ १४९॥
प्रस्ताव
*.XXXXXXXXXXXXXXXESXS
जनकस्योपदेशेन सोऽथ गुर्वन्तिकं गतः । श्राद्धव्रतानि जग्राह परिग्रहमितिं तु न ॥६१६ ॥ कलासु रसिकः सोऽथ नो विषयेष्वरज्यत । श्रेष्ठिन्या भणितः श्रेष्ठी तं निरीक्ष्य तथाविधम् ॥६१७ ॥ आवयोस्तनयो नाथ ! दृश्यते निःस्पृहो यतः । तत्त्वं तथा कुरु यथा विषयैषी भवेदयम् ॥ ६१८ ।। श्रेष्ठयूचे मेदृशं वादीरभ्यस्तेषु भवे भवे । भावेषु स्वयमेवाऽयं प्रायः प्राणी प्रवर्तते ॥६१९ ॥ तथाऽप्यत्याग्रहेणाऽस्याः श्रेष्ठिना निजनन्दनः । दुर्ललितानां पटले क्षिप्तौ वैदग्ध्यहेतवे ॥२०॥ विस्मारितकलाभ्यासः स तैः कौतुकदर्शनात् । नीतः कामपताकाया वेश्यायाः सदनेऽन्यदा ॥ ६२१ ॥ संभ्रान्तया तया सोऽथाऽक्या च स्वागतोक्तिभिः।आसनस्य च दानेन धनवानिति पूजितः ॥ ६२२ ॥ उपविष्टश्च तत्राऽयं मित्राणामुपदेशतः । प्रारब्धा चाऽजया गोष्ठी सर्वभाषाविदग्धया ॥६२३ ॥ तद्वाक्यरचनाक्षिप्तं तं विज्ञाय शनैः शनैः । जग्मुनिज निजं स्थान पापमित्रा इमेऽखिलाः ॥ ६२४ ॥ तथा तया रञ्जितोऽसौ यथा तन्मन्दिरान हि । निःससार धनं मातापितरौ प्रेषयतःस्म च ॥ ६२५॥ तत्राऽस्थात् षोडशाब्दानि सुलसस्तस्य तौ पुनः । संस्थितौ पितरौ भार्या तथैव प्रेषयद्धनम् ॥ ६२६ ॥ साथ संप्रेषयामासाऽलङ्कारानिष्ठिते धने । अक्का तानार्पयत्तस्याः सहस्रं रूपकांस्तथा ॥६२७॥ भणिताऽथ तया कामपताका पुत्रि ते पतिः । संजातो गतविभवस्तत्परित्यज्यतामयम् ॥६२८॥ १ थाभियानस्वागतोक्तिभिः इत्यपि । २ मातृतातौ इति साधुः । ३ मृतौ । ४ क्षीणे।
SEXKXXXXXXXXXXXXXXXXXXX
Pan १४९।।
Page #303
--------------------------------------------------------------------------
________________
दत्तं मूरि धनं वेन स कथं त्यज्यतेऽम्बिके ! । तयेत्युक्ताऽनुरागिण्या भूयोऽभाषिष्ट कुट्टिनी ॥ ६२९॥ वेश्याधर्मे सदा सेव्यो विभवालङ्कृतो नरः । निर्धनस्तु परित्याज्यो निष्पीडितरसेक्षुवत् ॥६३० ॥ इति प्रोक्तेऽपि सा यावत्सुलसं त्यजति स्मन । स्वयमेवाऽकया तावदित्यभाणि सकोऽन्यदः ॥ ६३१ ॥ क्षणमेकमधोभूमौ भद्रावतर सम्प्रति । यावत्प्रमायते चित्रशालीयं रजसाञ्चिता ॥६३२॥ अज्ञाततदभिप्रायः सोऽवतीर्य स्थितस्ततः । ठ्या प्रोक्तः किमत्र त्वं निर्लज्जाद्याऽपि तिष्ठसि ? ॥ ६३३ ॥ निःसत्य तद्गृहात सोऽथ चचाल स्वगृहं प्रति । स्वर्गाच्च्युत्वा मर्त्यभवं गीर्वाण इव खेदवान् ॥ ६३४ ॥ साध्वङ्गमिव निर्लेपं पक्षिवच निरर्गलम् । तेनौको ददृशे निर्वृत्यप्यनिर्वृतिकारकम् प्रत्यासन्नरः कश्चित् पृष्टस्तेन यथा किमु । इदं वृषभदत्तस्य भद्र ! गेहं भवेन्न वा ॥६३६ ॥ भवतीत्युदिते तेन सोनवीच किमीदृशम् । दृश्यते किंतु स श्रेष्ठी कुशली वर्तते न वा ॥६३७॥ ततश्च श्रेष्ठिश्रेष्ठिन्योः पञ्चत्वादिकथामसौ । सुलसस्य समाचख्यौ तच्छ्रुत्वा मोऽप्यचिन्तयत् ॥ ६३८ ॥ हा मया दुष्टपत्रेण वेश्यासक्तैन पाप्मना । पितरौ दष्प्रतीकारी न जातौ संस्थितावपि इदं हि धनदावाससदृक्षं पितृमन्दिरम् । मया व्यसनिना हन्त कृतं प्रेतवनोपमम् ॥६४०॥ सुहत्स्वजनलोकानां पापोऽहं वदनं निजम् । कथं प्रदर्शयिष्यामि लक्ष्मीलाभविवर्जितः ॥६४१॥ वलित्वाऽसौ ततः स्थानाद् गत्वा च नगरादहिः जीर्णोद्याने खरतालपत्रे क्षुरिकयालिखत् ॥ ६४२॥
Page #304
--------------------------------------------------------------------------
________________
शान्तिना
थचरित्रम् ॥१५ ॥
प्रस्ताव
स्वस्ति नत्वा जिनाधीशान सुलसः प्रेयसीं निजाम् । स्वक्षेमवार्तयाऽऽह्वाध संदिदेशेति साञ्जसम् ।। ६४३ ॥ प्रिये वेश्यागृहादद्य निर्गतोऽहं ततः कथाम् । श्रुत्वा मरणजां पित्रोहिया नागां त्वदन्तिके ॥ ६४४॥ गत्वा देशान्तरे लक्ष्मीमुपायं मानसेप्सिताम् । इहैष्यामि दिनैः स्तोकैः खेदः कार्यस्त्वयान हि ॥ ६४५॥ लिखित्वा क्षुरिकाग्रेणेत्यक्षराली ततश्च सा। संपूरिताङ्गारमष्या तेन संवर्तितं च तत् ॥६४६ ॥ तदा च तत्प्रियादासी दैवात्तत्र समागता । तस्याः समर्प्य तत्पत्रं परदेशे ययावसौ ॥६४७॥ एकस्मिन्नगरे गत्वा जीर्णोद्याने स्थितोऽथ सः। प्ररोहं ब्रह्मवृक्षस्य निरीक्ष्यैवं व्याचिन्तयत् ॥ ६४८ ॥ न स्यादक्षीरवृक्षस्य प्ररोहो विभवं विना । बह्वल्पं वा भवेद् द्रव्यं ध्रुवं बिल्वपलाशयोः ॥६४९॥ प्ररोहे वीक्षिते सूक्ष्म स्तोकद्रव्यं विवेद सः। सुवर्णमिति चाऽज्ञासीत् क्षीरे तद्वर्णके सति ॥६५०॥ ॐ नमो धरणेन्द्राय नमः श्रीधनदाय च । एवमाधुच्चरन्मंत्रं तत्स्थानं खनति स्म सः ॥६५१॥ लब्धं सहस्रदीनारमानं तच्च निधानकम् । संगोप्य परिधानान्तः प्रविवेश पुरेऽथ सः ॥६५२॥ एकस्य वणिजो हट्टे निविष्टो व्याकुलस्य च । प्रभूतग्राहकैस्तस्य साहाय्यं सुलसो व्यधात् ॥ ६५३ ॥ विलोक्य तस्य दक्षत्वं हृष्टः श्रेष्ठी व्यचिन्तयत् । अहो सुपुरुषस्याऽस्य विज्ञानं पुण्यसंयुतम् ॥ ६५४ ॥ जातः प्रभूतलामोऽद्य साहाय्यादस्य यन्मम । तदयं न हि सामान्य इति ध्यात्वाऽब्रवीच्च सः॥ ६५५ ॥ १ पलाशवृक्षस्य ।
॥१५०॥
Page #305
--------------------------------------------------------------------------
________________
कुतो ग्रामात् पुरावा त्वमागतोऽसि महाशय !| सुलसोवोचदमरपुराद्भद्रागतोऽस्म्यहम् ॥६५६ ॥ तर्हि प्राघुणकः कस्येति पृष्टो श्रेष्ठिना पुनः । तवैवेत्युक्तवान सोऽथ निन्ये तेन च मन्दिरे ॥६५७ ।। अभ्यङ्गोवर्तनस्नानभोजनानि च कारितः । पुनरागमने हेतुं पृष्टः श्रेष्ठिवरेण सः ॥६५८॥ सुलसः माह ताताऽहमर्थोपार्जनहेतवे । इहाऽऽगतोऽस्मि तत् किश्चिद्धट्ट मम प्रदर्शय ॥६५९॥ गृहीत्वा भाटकेनाऽट्ट व्यवहार प्रकुर्वतः । पड्भिर्मासैः सुदीनारा द्विगुणास्तस्य तेऽभवन् ॥६६०॥ क्रयाणकानि मंगृह्य महासाथैसमन्धितः । जगाम सोऽथ तिलकपुरे वार्धितटस्थिते ॥६६१॥ तत्राऽप्यसंजायमाने लाभे चेतोऽभिवाञ्छिते । प्रययौ यानमारुह्य रत्नद्वीपे ततश्च सः ॥६६२॥ उपायनमुपादाय समीपे नृपतेर्गतः । अमुनाऽप्यर्धदानेन प्रसादोऽस्य व्यधीयत लब्धान्यनेन रत्नानि लाभश्चाऽनेन वाञ्छितः । प्रवृत्तः पुनरप्येप स्वदेशाभिमुखं ततः ॥६६४ ॥ लक्ष्मीमादाय चलिते तस्मिंस्तद्यानपात्रकम् । पुस्फोट स्ववियोगात वारिरिव मानसम् ॥६६५॥ लब्धा फलहकं किञ्चिद्वक्षसा परिरम्य तत् । पञ्चभिर्दिवसैः पारं प्राप्तवान् सुलसोऽम्बुधेः ॥६६६ ॥ प्राणयात्रां व्यधात्तत्र पेशलैः कदलीफलैः । पपौ च नीरमन्विष्य सस्थः पुनरचिन्तयत् ॥६६७ ॥ अनन्यसदृशां ऋद्धि संग्राप्याऽपि कृतोऽस्म्यहम् । हस्तद्वितीयो दैवेन पश्याऽहो! पाप्मनः फनम् ॥ ६६८ ॥ त्याज्यः पुरुषकारो नो विपत्सपि मया खलु । यस्मावदन्ति विद्वांसो विशेषेणेदृशं वचः ॥६६९ ॥
२६
Page #306
--------------------------------------------------------------------------
________________
शान्तिनाथचरित्रम्
षष्ठः प्रस्ताव
नीचैारभ्यते कार्य कर्तुं विघ्नभयात् खलु । प्रारभ्य त्यज्यते मध्यैः किञ्चिद्विप्न उपस्थिते ॥ ६७०॥ 'उत्तमास्त्वन्तरायेषु भवत्स्वपि सहस्रशः । प्रशस्य कार्यमारब्धं न त्यजन्ति कथञ्चन ॥६७१॥ एवं विचिन्त्य सुलसः प्रवृत्तो गन्तुमग्रतः । ददशैकत्र गृध्राणां सन्निपातं सकौतुकः ॥६७२ ॥ गतस्तदनुसारेण तत्राऽपश्यदसौ शवम् । ग्रन्थौ तस्य स रत्नानि कोटिमूल्यानि पञ्च च ॥६७३ ॥ ततो दध्यौ मया तावददत्तादाननिवृतिः । कृता परमिदं द्रव्यं ग्राह्यमस्वामिकं यतः ॥६७४॥ एतन्मूलेन चैत्यानि कारयिष्याम्यहं किल । अमीषां स्वामिनः पुण्यमनूनं भवतादिति ॥६७५ ॥ एवं विचिन्त्य रत्नानि गृहीत्वा तानि सोऽचलत् । संप्राप्तो जलधितटं नाम वेलाकुलं पुरम् ॥ ६७६ ॥ ययौ च श्रेष्ठिनस्तत्र श्रीसारस्य निकेतने । तेनाऽपि विहिता तस्य भोजनाधुचितक्रिया ॥ ६७७ ॥ कोटिद्वयेन विक्रीय तत्र रत्नद्वयं ततः । भांडान्यादाय तेन स्वदेश प्रति चचाल सः ॥६७८ ॥ सहितो गुरुसार्थेन संप्राप्तोऽथ महाटवीम् । तत्रैकत्र प्रदेशेऽस्थात्सार्थो मध्यन्दिनेऽथ सः ॥६७९ ॥ घान्यपाकादिकार्येषु व्यग्रः साथै जनोऽखिलः । कुतोऽप्यतर्कितैरेत्य लुटितो भिल्लतस्करैः ॥ ६८०॥ संना सपरीवारोऽप्येहयुः सुलसस्ततः । डुढौके संगरायाथ साधू तस्करसेनया ॥६८१॥ पलायांचक्रिरे भिल्लैर्जितास्ते सुलसानुगाः । सुलसस्तु गृहीतस्तैर्युध्यमानो मलिम्लुचैः ॥६८२ ।।
१. मूलधनेन । २. मानी।
EXTRETREENERBERIESXEEEXX
Page #307
--------------------------------------------------------------------------
________________
विक्रीतश्च वणिकपार्श्वे द्रव्यलाभेन तेन च । परकूले मर्त्यरक्तार्थिनो लोकस्य सन्निधौ ॥६८३ ॥ रक्तमाकृष्यते तत्र मानुपाणां शरीरतः । क्षिप्यते तच्च कुंडेषु जायन्ते तत्र जन्तवः ॥६८४॥ कृमिरागो भवेत्तैश्च रज्यते तेन चीवरम् । रक्षापि रक्तवर्णा स्यादग्धे तस्मिन् कृशानुना ॥ ६८५ ॥ सुलसस्तादृशं दुःखं सहमानोऽन्यदा हृतः । रक्ताचिताङ्गो नभसा सामुद्रिकपतत्रिणा ॥ ६८६ ॥ नीतश्च रोहणगिरौ तत्र मुक्त्वा शिलातले । तमत्तुमुद्यतः पक्षी दृष्टोऽज्येन स पत्रिणा ॥६८७॥ कलहं कुर्वतोः सोऽथ पक्षिणोः प्राविशद् गुहाम् । निर्ययौ च गुहामध्यादन्यत्र गतयोस्तयोः ॥ ६८८ ॥ एकस्मिन्निर्जरे गात्रं प्रक्षाल्य पयसा ततः । व्रणानि रोहयामास संरोहिण्या रसेन सः ॥६८९ ।। उत्तताराऽचलात्सोऽथ गरेिणूत्कराँस्तथा। नरान् खनित्रपाणीश्चाद्राक्षीत् पञ्चकुलं तथा ॥ ६९० ॥ पप्रच्छैकं नरं सोऽथ भद्र!कोऽयं शिलोचयः । को देशः कोऽथवा भूपः किमन्यच्चेति शंस मे ॥ ६९१ ॥ नरेण भणितं तेन याति देशान्तरे हि यः । तत्स्वरूपमसौ वेत्ति त्वं तु नामापि वेत्सि न ॥ ६९२॥ पतितोऽसि किमाकाशात पातालान्निगतोसिवा। कथमत्राऽऽगतोऽसि त्व यन्न जानासि किञ्चन ॥ ६९३ ॥ सुलसोऽप्यत्रवीत् सत्यं गगनात पतितोऽस्म्यहम् । भूयः किमिति तेनोक्ते शशंस सुलसोऽप्यदः ॥ ६९४॥ सुहृद्विद्याघरो मेऽस्ति तेनाऽहं मेरुपर्वते । नभसा नेतुमारब्धो रूपं तस्य प्रदर्शितम् ॥६९५॥ अत्रान्तरे रिपुस्तस्य तत्राऽऽगात खेचरोऽपरः। सह तेन प्रवृत्तोऽसौ संप्रहर्तु विमुच्य माम् ॥६९६॥
Page #308
--------------------------------------------------------------------------
________________
शान्तिनाथचरित्रम् ॥१५२॥
पष्ठः प्रस्ताव
एतेन कारणेनाऽहमाकाशात् पतितः किल । आख्याहि त्वमितः सर्व भद्र ! पृष्टोऽसि यन्मया।। ६९७॥ सोऽवदद्रोहणो नाम्ना देशोऽयं पर्वतोऽपि च । नृपतिर्वज्रसारोऽत्र तस्य पञ्चकुलं ह्यदः ॥६९८॥ खनित्रपाणयः पृर्थी खनित्वा पुरुषा इमे । रत्नाकृष्टिं प्रकुर्वन्ति ददते च कर विभोः ॥६९९ ॥ तच्छ्रुत्वा सुलसो दध्यावुपायोऽयं धनार्जने । भव्यः परं पुरे क्वापि स्थिति कृत्वा करिष्यते ॥ ७००॥ गतोऽथ तैनरैः सार्ध रत्नपुञ्जाभिधे पुरे । वृद्धस्य वणिजो गेहे सोगानेन च भोजितः ॥७०१॥ तस्याऽऽख्याय स्ववृत्तान्तं सामग्री प्रविधाय च । रत्नान्यमेलयत्सोऽथ प्रभूतानि महोद्यमी ॥७०२॥ लब्धं तेन महामूल्यं रत्नमेकमथाऽन्यदा । कथञ्चिद् गोपयित्वाऽङ्गे तद्गायाः स निर्ययौ ॥७०३ ॥ तद्वर्जमन्यरत्नानां दचा भागं नरेशितुः । पूर्व दिग्भूषणे सोगाच्छ्रीपत्तनपुरे वरे ॥७०४॥ तत्र विक्रीय रत्नानि गृहीत्वा च क्रयाणकम् । पुनः स्वदेशाभिमुखोऽचलत् प्राप्तश्च सोष्टवीम् ॥७०५॥ दग्धं दवाग्निना तत्र सर्व तस्य ऋयाणकम् । संजातः पुनरेकाकी ग्रामे काऽपि ययावसौ ॥७०६॥ परिव्राजकमेकं च तत्राद्भाक्षीत् प्रणम्य तम् । तस्योपान्ते निविष्टोऽसौ तेनैवं परिभाषितः ॥७०७॥ कुतस्त्वमागतो भद्र ! गन्तव्यं कुत्र वा त्वया। कार्येण केन वा पृथ्यामेकाकी संचरस्यहो। ।। ७०८॥ सुलसोवोचदमरपुराद्भद्रागतोऽस्म्यम् । सर्वत्र मेदिनीपीठे विभवार्थी भ्रमामि च ॥७०९॥ सोऽथाभाणि परिव्राजा तिष्ठ त्वं मम संनिधौ । कियन्त्यहानि येन त्वामीश्वरं विदधाम्यहम् ॥ ७१० ॥
*XXXXSEE
१५२॥
Page #309
--------------------------------------------------------------------------
________________
महाप्रसादं इत्युक्त्वा सोऽस्थात्तस्याऽन्तिके ततः। एकस्मिन्मन्दिरे तेन मोजितो बुभुजे च सः।। ७११॥ गतस्तपस्विनस्तस्यावमथे सुलसस्ततः । पप्रच्छैच कथं त्वं मां करिष्यसि समृद्धकम् ? ॥७१२॥ सोऽयाचादीद्र सकपकल्पोऽस्ति मम सन्निधौ । तस्यैकविन्दुनाऽनेका विध्यन्ते लोहकोटयः ॥७१३॥ तंतो विधेहि सामग्री महिपीपुच्छमेककम् । महत्प्रमाणमानीय मम तावत्समर्पय ॥७१४ ॥ स्वयं विपन्नसेरिम्याः पुच्छं तस्यार्पयत्सकः । पग्मासाँस्तैलमध्ये तत्प्रक्षिप्तं तेन योगिना ॥७१५ ॥ कल्पस्य पुस्तिका तेन धृतै कस्मिन् करे ततः। द्वितीये च करे पुच्छं वस्त्रायुगलं तथा ॥७१६॥ द्वे तुम्बे मञ्चिकां च चले: पटलिका तथा। अग्निस्थिकां च सुलसमस्तकेसौ न्यवेशयत् ॥ ७१७॥ तौ गिरेविवरं प्राप्तौ तस्य द्वारनिवेशिताम् । अभ्यर्च्य यक्षप्रतिमां तत्र प्राविशतां ततः ॥ ७१८॥ उत्तस्थौ तत्र यः कश्चिद्भुतवेतालराक्षसः । बलि चिक्षेप सुलसः संमुखं तस्य निर्भयः ॥ ७१९ ॥ सैरिभीपुच्छदीपेन दृष्टमार्गावुभाविमौ । योजनद्वयमुल्लंथ्य संप्राप्तौ रसकूपकम् ॥ ७२०॥ चतुर्हस्तसुविस्तीर्ण दीर्घ च चतुरः करान् । चतुरस्रममुं प्रेक्षांचक्राते तो च हर्षितौ ॥ ७२१॥ पश्चिकां प्रगुणीकृत्य रज्जूं तत्र निवध्य च । योग्यूचे सुलसान त्वमुपविश्यावटे विश ॥ ७२२॥ गृहीततुम्बकः सोऽथोपविष्टोत्र शनैः शनेः । प्रक्षिप्तो योगिना कूपतले गाद्रससन्निधौ ॥ ७२३ ॥ १ महिष्याः । २ रज्जुद्वयम् । ३ पूनायाः । ४ एकवचनं चिन्त्यम् । ५ रज्जुद्वयम् ।
Page #310
--------------------------------------------------------------------------
________________
शान्तिनापचरित्रम् ॥१५३॥
।
प्रस्ताव
नमस्कारं पठन यावद्रसमादातुमुद्यतः । सोऽभवन्नियेयौ तावत्तस्य मध्यादिति स्वरः ॥ ७२४ ॥ कुष्ठिसंज्ञ रसममुं मा स्पाक्षीस्त्वं करेण भो ।। अमुनाऽङ्गे विलग्नेन प्राणत्यागो भवेद्यतः ।। ७२५ ॥ साधर्मिकस्य साहाय्यं ततस्ते प्रकरोम्यहम् । एते रसेन संपूर्य तुम्बिके तेऽर्पयामि यत् ॥ ७२६ ॥ सुलसस्तत्समाकर्ण्य प्रोचे त्वां धर्मवान्धवम् । वन्दे कस्त्वं स्वरूपं स्वं शंस मे कौतुकं महत् ॥ ७२७॥ सोब्रवीद्भविशालाख्यपूर्वासी वणिगस्म्यहम् । जिनशेखराभिधानो वाणिज्येनाऽम्बुधौ गतः।। ७२८ ॥ भग्नं प्रवहणं तत्र जीवितोऽहं कथञ्चन । क्षिप्तः परिव्राजकेन कूपेऽस्मिन् रसलोभवान् ॥ ७२९ । कण्ठे गतस्य मे पार्थाद्गृहीत्वा रसतुम्बकम् । अहं रसान्तः प्रक्षिप्तस्तेन भोः पापकर्मणा ॥ ७३०॥ मन्ये त्वमपि तेनैव प्रक्षिप्तोऽस्यत्र किंतु मे । आत्मनो गोत्रमाख्याहि सुश्रावक ! महाशय ! ।। ७३१ ॥ सुलसोऽपि स्ववृत्तान्तं ततस्तस्य न्यवेदयत् । स च तस्याऽर्पयामास रसेनाऽऽपूर्य तुम्बके ।। ७३२ ।। बध्ध्या ते मञ्चिकाधस्तादज्जू चालयति स्म सः । ऊर्ध्वकूपतटं यावदाकृष्टो योगिना ततः ॥ ७३३ ॥ उचे च भद्र ! प्रथम तुम्बके मे समर्पय । सुलस: स्माह बद्धे स्तो मचिकाया अधो हि ते ॥ ७३४ ॥ असकृद्याचमानेऽथ रसतुम्बे तपस्विनि | सुलसो नार्पयत्तस्य ते चिक्षेप च कूपके ॥ ७३५ ॥ विमुच्य कूपमध्ये तं ययौ सोऽथ त्रिदण्डिकः । सुलसोऽपि मेखलायां पपात न रसान्तरे ॥ ७३६ ॥ १ त्वं धर्मबान्धवः । वद कस्त्वमित्याप ।
॥ १५३॥
Page #311
--------------------------------------------------------------------------
________________
ततः पुनर्नमस्कारमुच्चकैरुचरन्नयम् । आत्मानमात्मनैवेति बोधयामास दुःखितः ॥७३७॥ हा जीव ! विनिवृत्ति चेदकरिष्यः परिग्रहात् । ततस्ते नेदृशं दुःखमभविष्यत् कथश्चन ॥ ७३८ ॥ अधुनाऽपि गृहीत्वा त्वं श्रामण्यं स्वस्य साक्षिकम् | गृहाणाऽनशनं येन तरस्याशु भवार्णवम् ॥ ७३९ ॥ इत्युदित्वा विधातुं तदुद्यतोऽसौ निवारितः । जिनशेखरसंज्ञेन तेनेदं परिजल्पता ॥ ७४०॥ यदा तदा मुलिकाचैति केनाऽपि वर्मना । रसं पातुं ततस्तस्या वलितायास्त्वमप्यहो ॥ ७४१॥ गाढमादाय तत्पुच्छमितः कूपाद्विनिःसरेः । मरिष्याम्यधुना किंतु तत्कुराधनां मम ॥ ७४२ ॥ युग्मम् ॥ ज्ञात्वाऽन्तसमयं तस्य सुलसः श्रावको वरः । जिनशासनतत्वज्ञो व्यधादाराधनां वराम् ॥ ७४३ ॥ कर्मवीजे विनिर्दग्धे ये न रोहन्ति भूतले । संसारपारगास्त्वं तान् स्मरेदानीमरूंहतः ॥ ७४४॥ अर्हन्ति वन्दनादीनि प्राविहार्याणि येऽथवा । सिद्धिपूःसार्थवाहाँस्तानहतः स्मर सम्प्रति ॥ ७४५ ॥ अष्टप्रकारकर्मारीन प्रन्ति येऽमिततेजसः । स्मर्तव्यास्तेऽरिहन्तारो भगवन्तस्त्वयाऽधुना ॥ ७४६॥ इति तेषां नमस्कारः सर्वदापि सुखावहः । जायते सर्वसत्चानां प्रथमं मङ्गलं तथा ॥ ७४७॥ क्षिपयित्वाऽखिलं कर्म ये गताः परमं पदम् । त्रैलोक्यमस्तकस्यास्तान स्मर सिद्धान्निरजनान् ॥ ७४८ ॥ इह ये परमेष्ठी(ष्ठि)नां द्वितीयस्थानसंस्थिताः । तेषां कृतो नमस्कारो द्वितीयं मङ्गलं भवेत् ॥ ७४९ ॥ १ गोधा । २ तीर्थकरान् ।
Page #312
--------------------------------------------------------------------------
________________
शान्तिनाधचरित्रम् ॥ १५४ ॥
*RESSE
।। ७५० ॥
।। ७५१ ॥
स्वयं पञ्चविधाचारमाचरन्तिं प्रयत्नतः । कथयन्ति च येऽन्येषां संस्मर्याः सूरयो हि ते शिद्भिर्गुणैर्युक्ताः शुभलक्षणशोभिताः । भवन्ति ते महात्मानस्तृतीयं मङ्गलं जने येऽङ्गानङ्गगतं सूत्रं पाठयन्त्युद्यताः सदा । सुशिष्या निर्जरार्थ तानुपाध्यायान् स्मराऽधुना ॥ ७५२ ॥ उपाध्यायनमस्कारः क्रियमाणः सुचेतसा । जीवलोके समस्ते स्याच्चतुर्थ मङ्गलं खलु साधयन्ति यके सर्वान् योगान्निर्वाणसाधकान् । मनोवाक्कायगुप्तास्तान् भद्र ! साधून्नमस्कुरु अष्टादशसहस्राणि शीलाङ्गानां धरन्ति ये । ते साधवो भवन्तीह पञ्चमं मङ्गलं ध्रुवम् श्रीपञ्चमङ्गलमिदं सर्वमङ्गलसत्तमम् । स्मरेदानीं भवांभोधौ (धि) यथा तरसि लीलया चत्वारो मङ्गलं प्रोक्ता अर्हत्सिद्धसुसाधवः । सर्वज्ञोक्तस्तथा धर्मः सर्वजीवदयापरः सर्वेषामेव लोकानामेते लोकोत्तमा मताः । एत एव हि भव्यानां शरणं खलु देहिनाम् जानासि दुष्कृतं य छस्थत्वात् कृतं नवा । सिद्धानां साक्षिकं तस्य मिथ्यादुष्कृतमस्तु ते चातुर्गतिकेऽपि भवे ये दूना जन्तवस्त्वया । तेषामपि समस्तानां मिथ्यादुष्कृतमस्तु ते वेदनायाः समूहे ऽस्मि सङ्ग्राम इव दुःसहे । शूरवज्जयकेतुं त्वं गृहाणाऽऽराधनामिमाम् इत्येपाssराधना श्राद्धसुलसेन प्रजल्पिता । जिनशेखरसंज्ञेनाऽङ्गीकृता श्रावण सा १ षत्रिशता इति पाठः साधीयान् ।
॥ ७५८ ॥
॥ ७५९ ॥
1
॥ ७६० ॥
॥ ७६१ ॥
॥ ७६२ ॥
॥
७५३ ॥
७५४ ॥
।। ७५५ ॥
॥ ७५६ ॥ 11540 11
॥
षष्ठः
प्रस्तावः
॥ १५४ ॥
1
Page #313
--------------------------------------------------------------------------
________________
कृत्वा भक्तपरित्यागं नमस्कार विभावयन् । विपद्याऽटमकल्पेऽभूत्रिदशो जिनशेखरः ॥७६३ ।। हुंकारादानतोऽथैनं विवेद सुलसो मृतम् । ततो मन्युभराक्रान्तकण्ठोरोदीद् गुरुस्वरम् ॥७६४ ॥ हा जिनशेखरवन्धो! साधर्मिक! गुणालय।। विमुच्य दुःखितं त्वं मां गतोऽसि महाशय ! ॥ ७६५॥ धाराधनरज्ज्वा त्वं निःसृत्य भवकूपतः । मन्येऽहं त्रिदिवं प्राप्तो रसकूपगतोऽपि सन् ॥७६६॥ अत्रान्तरे च सा गोधाऽऽगत्य पीत्वा च तं रसम् । चचाल सुलसस्तस्या लाङ्गले व्यलगद् दृढम्।।७६७|| क्वापि सुप्तःस्थितः क्वापि निविष्टः काऽप्यसौ ततः। कृच्छ्रेण निर्ययौ गोघापुच्छलग्नस्ततोऽवटात।। ७६८ ॥ दृष्ट्वा रवि पर्वतॉश्च तस्याः पुच्छं मुमोच सः । सापि तद्भयभीतागाद्वेगेन स्थानमात्मनः ॥ ७६९॥ गृहीत्वैकां दिशं सोऽथ यावत्प्रचलितस्ततः। एकेन दन्तिना दृष्टो धावितः सोऽपि तं प्रति ॥ ७७०॥ सोऽथ दध्यावहो ! अन्तं नैकदुःखस्य याम्यहम् । यावत्तावत् कुतोऽप्येतत् द्वितीयं दौकते मम ॥ ७७१ ॥ प्रणश्यन् हस्तिना तेन करेण जगृहेश्य सः । गाढरोपाभिभूतेन प्रक्षिप्तश्च नभस्तले ॥७७२॥ भवितव्यनियोगेन पतन्नेकस्य शाखिनः । शाखामालम्य तत्रैव तस्थौ दक्षः स्थिराशयः ॥ ७७३ ॥ यावद्धस्ती तरौ तस्मिन रोपाद्वेधं ददावसौ। तावत्तत्राऽऽययौ सिंहो इतस्तेन स वारणः ॥ ७७४॥ व्याघ्रथाऽज्यादथो तत्र हस्तिमाम विभक्षितुम् । एकभक्ष्यकृते युद्धं प्रवृत्तं व्याघसिंहयोः ॥७७५ ॥ १ मन्युः शोकः।
Page #314
--------------------------------------------------------------------------
________________
शान्तिनायचरित्रम् ॥ १५५ ॥
प्रस्ताव
युद्धं प्रकुर्वतोरेवं तयोर्जाता विभावरी । एकस्यां तरुशाखायामुद्योतथाऽभवत्तदा ॥ ७७६॥ सुलसोऽनलसः सोऽथ किमेतदिति विस्मितः । एकस्य पक्षिणो नीडे ददशैकं मणि वरम् ॥७७७ ॥ सर्पास्थीनि च तत्पार्श्वे विलोक्यैवं व्यचिन्तयत् । नूनमेतद्भुजङ्गस्य फणारत्नं विपापहम् ॥ ७७८ ॥ कृत्वा करतलस्थं तदुत्ततार तरोरसौ । अग्निवत्तेजसा तस्य व्याघ्रसिंहौ प्रणेशतुः ॥७७९॥ विभातायां त्रियामायां वस्त्रग्रन्थौ निवध्य तत् । प्राप्तः पारमरण्यस्य सुलसः सप्तभिर्दिनैः ॥ ७८०।। एकत्र पर्वते रात्रौ दृष्ट्वोद्योतं कृशानुजम् । सोऽगात्तदनुसारेण समीपे धातुवादिनाम् ॥७८१॥ दिनानि कतिचित्तत्र तस्थौ तत्प्रक्रियापरः । त एव भोजनं तस्य ददिरे दक्षताजुपः ॥७८२ ॥ सुप्तस्य सोऽन्यदा रात्रौ गृहीतस्तस्य तैर्मणिः । तस्य स्थानेऽपरो बद्धः पापाणस्तत्प्रमाणकः ॥ ७८३ ।। ततः स्थानादनिष्पद्यमाने स्वर्णं चचाल सः। संप्राप्तश्चाष्टवीशीर्षनामकं नगर क्रमातू ॥७८४ ॥ रत्नस्य विक्रयार्थ तं यावद्ग्रन्थि विभेद सः । तावदश्मानमद्राक्षीन च तं सर्पज मणिम् ॥७८५ ॥ ततो दध्यावयं मुष्टोऽस्म्यहं तैर्धातुवादकैः । कस्तेषामथवा दोषो दोषोऽयं कर्मणो मम ॥७८६ ॥ महानिशायां सोऽश्वेतचतुर्दश्यामथाऽन्यदा । गत्वा महाश्मशानान्तर्गुरुस्वरमदोवदत् ॥७८७॥ भो भो वेतालभूता ! मे वचनं शृणुताहताः । विक्रीणामि महामांसं स गृह्णातु य इच्छति ॥ ७८८ ॥ १ आलस्यरहितः ।
MEXSEKESEKKRRECORRRRRRRR.
॥१५५॥
Page #315
--------------------------------------------------------------------------
________________
॥ ७८९ ॥ ॥ ७९० ॥
तनिशम्य किलकिलां कुर्वन्तः सहसोत्थिताः । नृत्यन्तः कत्रिकाहस्ता भूतप्रेतादयो हि ते अववेन्महामांसं विक्रीणासि विरागतः । पताऽत्र स्थानके तत्त्रं गृहीमो येन तद्वयम् निर्भयः सुलसस्तत्र पतति स्म महीतले । अमिपग्रहणार्थ ते परितोऽस्य डुढौकिरे जिन शेखर देवोऽथ तं विज्ञाय तथास्थितम् । शीघ्रं समाययौ तत्र नष्टा भूतादयोऽथ वे देवः प्रोवाच भोः श्राद्ध ! वन्दे त्वां मित्र ! किं त्वया । जिनशासनदक्षेण कर्ममारव्धमीदृशम् ॥ ७९३ ॥ एषोऽहं भवतो मित्रं जिनशेखरनामकः । कृता निर्यामणा यस्य कूपमध्ये तदा त्वया तवाऽऽराधनया भद्र ! सहस्रारे सुरोऽभवन् । इन्द्रसामानिकस्तेन त्वं गुरुः सर्वथा मम
॥ ७९१ ॥ ॥ ७९२ ॥
॥ ७९४ ॥
।। ७९५ ।।
सोsssy वन्दे त्वामहमप्यहो । इति जल्पन् समुत्तस्थौ पप्रच्छ स्वागतं च तम्॥ ७९६ ॥ देवोsवादी हो मित्र ! किमभीष्टं करोमि ते । सोऽवादीत् प्रियमेवेदं जातं यद्दर्शनं तव ॥ ७९७ ॥ तथाऽप्येवं समाख्याहि किं मेऽद्याऽप्यन्तरायकम् । विद्यते निविडं कर्म येन गृह्णाम्यहं व्रतम् ॥ ७९८ ॥ देवः प्रोवाच तत्कर्म क्षीणप्रायं तथाऽस्ति भोः ! । अस्ति भोगफलं चाऽपि नार्हस्यद्यापि तद्व्रतम् ॥ ७९९ ॥ ततो महामाणिक्य सुवर्णधनराशयः । सुरेण ढौकितास्तस्य चारुवस्त्रादिकं तथा सुलसः स्माह मां देव ! महासार्थसमन्वितम् । पराणय निजं स्थानं प्रसिद्धिर्येन मे भवेत् ॥ ८०१ ॥ १. कार्यमा ० इति पाठः साधीयान् ।
॥ ८०० ॥
SEEEEEEEEEEEEEEEEEE
Page #316
--------------------------------------------------------------------------
________________
पष्ठः
शान्तिनापचरित्रम् ।
प्रस्ताव:
देवोऽपि हि तथा कृत्वा जगाम स्थानमात्मनः । सुलसागमनं तत्र जानाति स्म नरेश्वरः ॥८०२॥ पुरप्रवेशं चक्रे च. तस्याऽभिगतिपूर्वकम् । उचितज्ञः सुलसोऽपि भूपस्योपकृति व्यधात् ॥८०३ ॥ गृहं गतोऽथ सुलसः पूजितः प्रियया तया । प्रावति च गृहे वर्धापनकं सुकुलीनया ॥८०४॥ वेश्या कामपताका सा वेणीवन्धसितांशुकैः । शोमिता ददृशे तेन सुभद्रायाः समीपगा ॥८०५॥ बभूव गेहिनी साऽपि सुलसस्याऽनुरागिणी । स एवं बुभुजे भोगाँस्ताभ्यां सह विरागतः ॥८०६ ॥ सोऽन्यदा चिन्तयामास जीव! रे लोभलम्पट !। किं किं ते नाऽभवदःखं परिग्रहमिति विना ।। ८०७॥ मनसैव व्यधात सोऽथ परिमाणं परिग्रहे । शेष धर्मव्यये द्रव्यं ददौ देवगृहादिपु ॥८०८॥ कियत्यथो गते काले क्षीणं तदपि तद्धनम् । सरोजलमिव ग्रीष्मे पुरा विहितकर्मणा ॥८०९॥ ततः श्याममुखः किश्चित्स यावत्सुलसोऽभवत् । तावत्सोऽवधिना ज्ञात्वा निर्जरः पुनराययौ ।। ८१०॥ ऊचे च दुर्मनाः किं त्वं दृश्यसे श्राद्धपुङ्गव! । मयि मित्रेऽनुकूले ते का चिन्ता विभवस्य भोः॥१॥ ८११॥ इत्युदित्वा सुवर्णानां राशीस्तस्य गृहाजिरे । स सद्यः प्रकटीचक्रे तुष्टो धनदवत् क्षणात् ॥८१२ ॥ जजल्प सुलसो द्रव्यमेतावत्संमतं न मे । यतोऽस्ति विहितं मानं मया मित्र ! परिग्रहे ॥८१३ ॥ देवोऽप्युवाच भोः श्राद्ध ! साध्विदं विहितं त्वया। अस्मिँश्च विषये येन पठ्यतेऽदस्तपोधनैः ।। ८१४ ।।
१- गृहांगणे ।
१५६ ॥
Page #317
--------------------------------------------------------------------------
________________
% 3
D
%3D
-
--
यथा ययाम्पो लोमः स्वादल्यारंभपरिग्रहो। तथा तथा सुखं नगां धर्मसिद्विश्च जायते ॥ ८१५ ॥ ततश्च तदभिप्रेतं दत्वा तस्य धनं सुरः। तमापृच्छय च संस्थानं पुनरेव जगाम सः ॥ ८१६ ॥ मुलमः सोऽन्यदोधानं गतः कापि निघानाम् । ददर्श न तु जग्राह व्रतमङ्गमपात किल ॥८१७ ॥ निरीक्ष्यमाणस्तद् दृष्ट्या स दृष्टो राजदूरुपैः । गते तस्मिश्व तत्रेदमेतैरपि विलोकितम् ॥ ८१८ ॥ नूनमस्मान् विलोक्येदं निधानं नाऽग्रहीदसी । इति दूरस्थितेरेभिीक्षितः सप्त वासरान् ॥ ८१९ ॥ ततश्च मुलसे तस्मिन् दिपप्यस्यामगच्छति । कथितं तन्महीमश्चेष्टित तैः सविस्मयः ॥ ८२० ।। आकार्य भूमुजाऽमाणि सुनसोऽय ससंभ्रमम् । दृष्ट्वाऽपि कि त्वया भद्र निधानं जगृहे न त?।। ८२१ ॥ परिग्रहप्रमाणस्य वृत्तान्तेऽय निवेदिते । अनिच्छन्नपि राज्ञाऽसी भाण्डागारे नियोजितः ।। ८२२ ।। आगादमरचन्द्राख्यरिस्तत्र पुरेऽन्यदा । नरेगकेन सुलसस्याऽऽख्याताय तदागतिः ॥ ८२३ ॥ तेन चाऽऽख्यायि भूपस्य ततस्तो समरिच्छदौ। गत्ता नला च तं सरि यथास्थानं निपेदनः ॥ ८२४ ॥ ततश्च गुरुणा तेन प्रतियोधविधायिनी । देशना विदधे भव्यमनोनिदायिनी ।। ८२५ ॥ अत्रान्तरे स गुलमः पप्रच्छ भगान! कयम् । लब्धा लब्धाऽपि कन्हान्मे कमला प्रलयं गता।। ८२६ ॥ प्रोने शुभगुरु: मोऽथ चतुनिरिभूषितः । प्राप्ता प्राप्ताऽपि यत्ते श्रीपेयी तच्छृणु कारणम् ॥ ८२७ ।। नंदितासारग्रामे तारचन्द्रोऽभिधानतः । आमीः कौटुम्बिः पूदानवद्वारापणः ॥ ८२८॥
Page #318
--------------------------------------------------------------------------
________________
शान्तिनाथचरित्रम् ॥१५७॥
पष्ठः प्रस्ताव
याचकश्रमणादिभ्यो ददद्दानमसौ क्रमात् । बभूव श्रावकः किंतु मनस्येवमचिन्तयत् ॥ ८२९ ॥ हा मया प्रचुर दत्तं न दानसमयोऽधुना । अतः परं न दास्यामि दत्तेनाऽपि गुणोच का॥ ८३०॥ वरं हि बन्दिनां दानं गोत्रख्यातिविधायकम् । दत्तेन किमु साधूनां ये प्रशंसां न कुर्वते ॥ ८३१ ॥ भावैमनोगतैरेवं तारचन्द्रोऽन्तरान्तरा । बबन्ध निर्विवेकत्वादृढं कर्मान्तरायकम् ॥८३२॥दृष्ट्वा साधून पुनर्दानश्रद्धा तस्याऽभवद्वरा । एवं चाऽनेकधा दत्तं खंडितं तञ्च दुधिया ॥ ८३३ ॥ सोऽन्ते समाधिना मृत्वा सौधर्मे त्रिदशोऽभवत् । ततश्युत्वा समुत्पन्नः सौम्य त्वं श्रेष्ठिनन्दनः।।८३४ ॥ तद् भो! दानं मनःशुध्ध्या दातव्यं सुविवेकिभिः। अन्यदप्यखिलं धर्मकृत्यं स्यात् सफलं तया।। ८३५ ।। प्रतिबुद्धोऽथ सुलसो जजल्पैवं नृपं प्रति । ग्रहीष्यामि परिव्रज्यां नृनाथ विसृजाऽद्य माम् ॥ ८३६ ॥ उवाच राजाऽहमपि प्रतिबुद्धोऽस्मि सुन्दर !। निवेश्य तनयं राज्ये प्रव्रजिष्यामि निश्चितम् ॥ ८३७ ॥ गुरुं नत्वा गृहे गत्वा कृत्वा पुत्रं च पार्थिवम् । तौ राजसुलसौ धन्यौ दीक्षामाददतुस्ततः ॥८३८ ॥ चक्रतुस्तौ तपोऽत्युग्रं संवेगपरिभावितौ । उत्पाद्य केवलज्ञानं सुलसस्तु ययौ शिवम् ॥८३९ ॥ चक्रायुध महाराज ! पञ्चमाणुव्रते तव । सुलसोऽयं समाख्यात इति शान्तिजिनोऽवदत् ॥८४०॥
॥इति परिग्रहप्रमाणे सुलसकथा ॥ अणुव्रतानि पश्चापि कथितानीति ते मया । इतो गुणव्रतानि त्वमाकर्णय महीपते । ॥ ८४१॥
॥ १५७॥
Page #319
--------------------------------------------------------------------------
________________
प्रथमं दिव्रतं भोगोपमोगव्रतमेव च । अनर्थदण्डश्चेति स्यात्रिविधं तद्गुणवतम् ॥८४२ ॥ यत् पूर्वादिषु काष्ठासु तिर्यगृर्ध्वमधस्तथा । क्रियते परिमाणं तत्स्याद्गुणवतमादिमम् ॥ ८४३ ॥ प्रामोत्यनेक्दुःखानि जीवोऽस्मिन्नकृतावधिः । यथा स्वयंभूदेवाख्यः संप्राप्तो म्लेच्छनीवृतम् ॥ ८४४ ॥
अस्त्यनेककृतावाससंक्टं श्रीवशंकटम् । पुरं गङ्गातटं नाम विपक्षाणां महोत्कटम् ॥८४५॥ तत्राऽपसर्पद् दूतौघैः प्रतिराष्ट्र नियोजितैः । ज्ञातसर्वनृपोदन्तः सुदन्तः पार्थिवोऽभवत् ॥८४६ ॥ तत्र स्वयंभूदेवाख्यो वसति स्म कुटुम्बिकः । कृप्यादिकर्मनिरतः संतोपपरिवर्जितः ॥८४७ ॥ निद्राविरामे सोऽन्येयू रात्रावेवमचिन्तयत् । इह स्थितस्य मे लाभो न मनोवाञ्छितो भवेत् ।। ८४८ ।। ततो देशान्तरे क्वापि गत्वा लक्ष्मीमुपाय॑ च । सर्वथा पूरयिष्यामि सर्वानिजमनोरथान् ॥८४९ ॥ ततो विधाय सामग्री स चचालोत्तगपथम् । ययौ च शनकैर्लक्ष्मीशीर्षके नगरे वरे ॥८५० ॥ प्रविश्याऽभ्यन्तरे तत्र व्यवहारं प्रकुर्वतः । तादृग्लाभो भवेत्तस्य यादृक् सृष्टः स्वकर्मणा ॥८५१ ॥ अन्यदाऽन्यत्र नगरे स वभ्राम धनाशया । जानाति स्म वराको न लोकरूढमिदं वचः ॥८५२ ॥ श्रूयमाणाः शुभा देशा राजानः सेवितास्तथा । सर्व दूरस्थितं वस्तु स्यात्यायो विस्मयावहम् ॥ ८५३ ॥ प्राप्तेन नगरे क्वापि वणिजः केऽपि वीक्षिताः। पृष्टास्तेन च भो! यूयं कुतो देशात्समागताः ॥ ८५४ ॥ १. म्हेच्छदेशम् ।
Page #320
--------------------------------------------------------------------------
________________
शान्तिनामचरित्रम् ॥ १५८॥
पष्ठः प्रस्ताव
तेऽप्यवोचन चणिज्येन चिलातविषये वयम् । गत्वोपाय॑ बहु धनं पुनरत्र समागताः ॥८५५॥ ततः क्रयाणकं किञ्चिद् गृहीत्वा शम्बलादिकम् । सहितो बहुसार्थेन तं देशं प्रति सोऽचलत॥ ८५६ ॥ संप्राप्तश्च महातप्तवालुकाभिधवर्त्मनि । गच्छति स्म तमुल्लंध्य हिममार्गेऽतिशीतले ॥८५७॥ ततश्च गिरिमार्गेऽसावत्यन्तविपमे ययौ । लोभाभिभूतः पुरुषः किं किं तन करोति यत् ॥ ८५८ ।। यावच्चिलातदेशस्य समीपे गतवानसौ । विरोधो म्लेच्छभूपे स्यादन्यभूपेः समं तदा ॥८५९॥ चिलातदेशं यातीति स सार्थः शिष्टराजभिः । सर्वसारमुपादाय वालितः स्वगृहान् प्रति ॥८६॥ स्वयंभूदेवस्तद् दृष्टिं वञ्चयित्वा कथञ्चन । गतस्तत्र गृहीतश्च भिल्लानां डिंभरूपकैः ॥८६१ ॥ हस्तयोः पादयोध्ध्वा रुधिरेण विलिप्य च । मुच्यते स्माटवीमध्ये स तैर्नीत्वा दुरात्मभिः ।। ८६२ ॥ निपेतुर्मृतकभ्रान्त्या तत्र गृध्रा अनेकशः । तीक्ष्णचञ्चप्रहारौघैस्ताडयन्ति स्म तं च ते ॥८६३ ॥ हत्त्वा बाणैरथो गृधान सायं ते भिल्लनन्दनाः । स्वयंभूमानयन्ति स्म गेहे विगतवन्धनम् ॥८६४ ॥ भोजयित्वा च यत्नेन धारयन्ति स्म मन्दिरे । एवं दिने दिने दुःखं दर्शयामासुरस्य ते ॥८६५ ॥ अन्यस्मिन् दिवसे यावत्तथा कृत्वा धृतोऽस्ति सः। तावत्तत्राऽऽययौ व्याघ्री नष्टास्ते भिल्ल्यालकाः ॥८६६॥ व्याघ्याचोत्पाय्य नीतोऽसौ स्थापत्यार्थ वनान्तरे।तुत्रोट दंष्ट्रया चाऽस्याः करांघ्योस्तस्य बन्धनम् ।।८६७॥ विमुच्य तमथो व्याघ्री बालान्वेषणहेतवे । ययौ बनान्तरे नंष्ट्वा स्वयंभूरपि सत्वरम् ॥८६८॥
१५८॥
Page #321
--------------------------------------------------------------------------
________________
समाचा॥
नद्यांप्र(च)बालयित्वाऽङ्ग समं सार्थन केनचित् । दिनेः कतिपयैरागात सगेहमिति चिन्तयन् ॥८६९ ॥ अमृतधनलोभेन भ्रान्तोऽसि किल भूतले । भोजनस्याऽपि सन्देहो बभूव तब जीव रे । ॥८७०॥ जीवन् गेहे यदाऽऽगास्वं तल्लाभमवयुच्यताम् । मूत्ररोधे तु संजाते किं सौभाग्येन देहिनाम् ? ॥ ८७१ ॥ विरक्तः सोऽय श्रामण्यं जग्राह मुनिसनिधो । विशुद्ध पालयित्ला तन्मृत्वाञ्च त्रिदिवं ययौ ॥ ८७२ ॥
॥ इति दिग्बते स्वयंभूदेवकया । मोगोपभोगयोर्मानं द्वितीयं स्याद् गुणवतम् । भोजने कर्मतश्चेति तद् द्विधा परिकीर्तितम् ।। ८७३ ॥ भोजनेऽनन्तकायादि न भोक्तव्यं विवेकिना । कर्मतः खरकर्माणि सर्वाण्यपि विवर्जयेत् ॥ ८७४ ।। सचित्तं तेन संमिश्र दुःपक्कापक्कमेव च । तुच्छौपधिश्च पश्चातिचारा भोजनतस्त्विमे ॥८७५॥ कमतश्च पञ्चदशातिचारा आगमोदिताः । ज्ञेया अङ्गारकर्मायाश्चकायुध नृप । त्वया ॥८७६ ॥ उपभोगेच दृष्टान्तो जितशत्रुर्महीपतिः । विज्ञेयः परिभोगे च ब्राह्मगी नित्यमण्डिता ॥८७७ ॥ इहैव मरतक्षेत्रे वसन्तपुरपत्तने । जितशत्रुरिति ख्यातो बभूव पृथिवीपतिः
॥८७८ ॥ सुबुदिनाम नन्मन्त्री बुद्धिनिर्जितवाक्पतिः । अत्यन्तवल्लभस्तस्य बभूव पृथिवीपतेः ॥ ८७९॥ विपरीततुरमाभ्यामन्येधुरपहत्य तौ। नीती निर्मानुपाठव्यां भ्रान्तौ चाऽत्र दिनत्रयम्। ॥८८०॥ तत्पृष्ठलग्नमन्येन तो लब्धी राजमन्त्रिणी । पुनर्नगरमानीती चतुर्थेऽति चुभुक्षिती ॥८८१।।
Page #322
--------------------------------------------------------------------------
________________
शान्तिनापचरित्रम् ॥ १५९॥
प्रस्तावः
ततः क्षुधातुरो राजा सूपकारैरकारयत् । जघन्यमध्यमोत्कृष्टां सर्वा रसवर्ती क्षणात् ॥८८२॥ नटप्रेक्षणदृष्टान्तं भावयग्निजमानसे | आदौ जघन्यमाहारं बुभुजे स महीपतिः
॥८८३॥ ततश्च मध्यमोत्कृष्टमाकण्ठं भुक्तवानसौ । तथा यथोदरे तस्य नोद्गारस्थानमप्यभूत् ॥८८४ ॥ राज्ञो विसूचिका तस्याऽऽहारेणाऽजीर्यताऽभवत् । मृत्वा तत्पीडया चाऽसौव्यन्तरः समजायत॥ ८८५॥ उपभोगानिवृत्तानामयं दोषो निवेदितः। परिभोगानिवृत्तौ तु दोषः सम्प्रति कथ्यते ॥८८६ ॥ ___ इहाऽऽसीद्वर्धनग्रामे वेदाभ्यासरतोऽनिशम् । अग्निदेवाभिधो विप्रः सुनन्दा तस्य गेहिनी ॥ ८८७ ॥ गौरव्यो गामलोकस्य सोऽत्यन्तं द्विजपुङ्गवः । लभमानस्ततो वित्तमीश्वरः समभूत् क्रमात् ॥ ८८८ ॥ कारितं तेन भार्यायाः सर्वाङ्गाभरणं वरम् । तदङ्गलग्नं सा नित्यं बभाराभारमानिनी ॥८८९ ॥ पत्याऽथ मणिताऽन्येधुन त्वयेदं विभूषणम् । परिधेयं विना पर्व धार्य गुप्तं हि सर्वथा ॥८९०॥ किञ्चित्प्रत्यन्तवासित्वाद्यदा घाटी पतिष्यति । तदाऽजर्थोऽमुना गात्रे भविष्यति तव प्रिये ।।८९१॥ साऽप्यवोचत यद्येतदेहे न परिधीयते । ततः कार्य किमेतेन तद्धनं यद्विभुज्यते । ॥८९२॥ समेष्यति यदा धाटी तदैवाऽहमिदं क्षणात् । अङ्गादुत्तारयिष्यामीत्युक्ते तूष्णीं व्यधाद् द्विजः।। ८९३ ॥ घाटी प्रचण्डभिल्लानां तत्र ग्रामेऽन्यदाऽपतत् । दैवयोगेन सा पूर्व विप्रस्याऽस्याज्यमद् गृहे ॥ ८९४ ।। पीवरत्वात्तनोस्तस्यास्तदादातुमनीश्वराः । हस्तपादादितदेहच्छेदं चक्रुर्मलिम्लुचाः ॥८९५ ॥
-
-
R.XXXXXX
॥१५९॥
Page #323
--------------------------------------------------------------------------
________________
गुणवतम् । भेटायाः कथा(थे।
पध्यानं स
तद्भूषणान्युपादाय जग्मुस्ते स्थानमात्मनः । आर्तध्यानवती सा तु विपद्य नरकं ययौ ॥८९६ ॥
॥ इत्युपभोगपरिभोगयोः कथा(थे)॥ . अनर्थदण्डविरतिः स्यात्तृतीयं गुणवतम् । भेदास्तस्येह चत्वारो विज्ञेयाः कीर्तयामि तान् ॥ ८९७ ॥ तत्र स्याद्यदपध्यानं स भेदः प्रथमस्तथा । प्रमादाचरितं नाम भवेद् भेदो द्वितीयक: ॥८९८॥ हिंस्रप्रदानसंज्ञश्च तृतीयो भेद उच्यते । तुर्यः पापोपदेशश्च भेदोऽनर्थस्य भाषितः ॥८९९ ॥ अत्रोदाहरणं राजन् ! शृणु त्वं कीर्तयाम्यहम् । अस्तीह धातकीखण्डभरते रैपुरं पुरम् ॥९००॥ यथार्थनामा तत्रा भूद्रिपुमर्दनभूपतिः । समृद्धदत्तसंज्ञश्च विख्यातोत्र कुटुम्बिकः ॥९०१॥ सुसजागरितोऽन्येयुः स एवं पर्यचिन्तयत् । यदि मे जायते लक्ष्मीस्ततो राजा भवाम्यहम् ॥९०२॥ पटखण्डं भरतक्षेत्र साधयिष्याम्यहं ततः । वैताद्ध्यवासिनो विद्यां दास्यन्ति मम खेचराः ॥९०३॥ ततो विद्याबलेनाऽहं गमिष्यामि विहायसा । इत्यावेशात्स शय्याया उत्पपाताम्बरं प्रति ॥९०४ ॥ पपात सहसा पृथ्व्यां पीडितश्च तनौ दृढम् । क्रन्दन्नुत्पाट्य शय्यायां प्रक्षिप्तो गृहमानुषैः ॥९०५॥ वेदनोपशमोऽस्याऽभूत् कष्टेन महता ततः । जातः स्वस्थशरीरश्च स स्वगेहमपालयत् ॥९०६॥ इतोऽस्य विद्यते खड्गश्चारुलोहविनिर्मितः । क्रीतः प्रभूतद्रव्येण विदितो विषयेऽखिले ॥९०७॥
१. देशे।
Page #324
--------------------------------------------------------------------------
________________
धान्तिनापचरित्रम् ॥१६॥
प्रस्ताव
B
प्रमादाद्विस्मृतोऽयेयुः सोऽसिरस्य गृहाजिरे । रात्रौ गृहान्तः सुप्तस्य स्मृतश्च प्रहरद्वये ॥९०८ ॥ परं प्रमाददोषेण नाऽऽनीतः स गृहान्तरे । कोऽग्रहीष्यत्यमुमिति ध्यायनिद्रामवाप सः ॥९०९॥ अत्रान्तरे कथमपि प्रविष्टा दुष्टचेष्टिताः । रजन्याश्चरमे यामे तस्करास्तस्य मन्दिरे ॥९१०॥ तं गृहीत्वा ययुस्तेऽथ तबलेन दुराशयाः । कथश्चिजगृहुर्बन्दे नगरश्रेष्ठिनः सुतम् ॥९११॥ राजलोंकहताचोरा हतः श्रेष्ठिसुतस्तु तैः । खड्गः समृद्धदत्तस्य ढौकितश्च महीपतेः ॥९१२॥ क्रुद्धेन भूभुजाऽऽकार्य प्रोक्तोऽसौ किमरे त्वया । अकारि पापकर्मेदं कृपाणोऽयं यतस्तव ॥९१३ ॥ ततश्च कथिता तेन खड्गविस्मृतिजा कथा । तथापि दण्डितो राज्ञाऽनर्थदण्डे को सकः ॥९१४ ॥ सोऽन्येरधुरर्पयामास याचितः सहसा विषम् । अपरिज्ञाय कस्याऽपि वैरिणः पृथिवीपतेः ॥९१५ ॥ सरोऽन्तस्तेन तत् क्षिप्तं घातनार्थ धरापतेः । पीते तस्मिन् जले केचित्संपाप्ता निधनं जनाः।। ९१६ ॥ किमेतदिति भूपस्य जिज्ञासोर्मुलशुद्धिना। केनचित् कथिता पुंसा प्रवृत्तिर्विपदानजा ॥९१७ ॥ ततस्तेन नरेन्द्रेण स्मरता नीतिमात्मनः । पुनः समृद्धदत्तः सोऽन्यायकारीति दण्डितः ॥९१८॥ ग्रामपर्वद्युपविष्टो यावदासीत्सकोऽन्यदा । तावत्कौटुम्बिकः कश्चित्तत्रागाद् वृषयुग्मभृत् ॥९१९॥ समृद्धस्तमथामाक्षीदेतौ वत्सतरौ त्वया। किं नु भो दमितो नो वा नेति प्रोवाच सोऽपि तम् ॥ ९२० ॥ पुनः समृद्धोऽवादीद्भोराराघातादिभिस्त्वया । दमितव्यो वृषावेतौ भूत्वा निर्दयचेतसा ॥९२१ ॥
BSTRISABHA
॥१६॥
Page #325
--------------------------------------------------------------------------
________________
SXXXXXXXXXXXXXXEXAXEEEEXXXX
श्रुत्वा तनिष्ठुरं वाक्यं तस्मै चुकुपतुर्वृषौ । प्रायेण देहिनां दुःखं नोच्यमानमपि प्रियम् ॥९२२ ॥ ततस्तेन बलीववन्येधुर्वाहितौ तथा । बभूव सुकुमारत्वादन्तस्त्रोटो यथा तयोः ॥९२३ ॥ क्षपयित्वाऽऽत्मदुष्कर्माकामनिर्जरया शुभौ । व्यन्तरौ समजायेतामनड्वाहौं विपद्य तौ ॥९२४ ॥ ज्ञात्वा समृद्धदत्तं तमात्मनोऽहितकारकम् । आगत्य चक्रतुस्तस्य शरीरे विविधा व्यथाः ॥९२५॥ जजल्पतुश्च रे पापोपदेशो वृषभौ प्रति । प्रदत्तो यस्त्वया तस्य फलं भुक्ष्वाऽधुनाऽप्यदः स्वस्य व्यन्तरतामस्य कथयामासतुश्च तौ । ततस्तौ क्षमयामास सप्रणाममसावपि ॥९२७ ॥ कोपाटोपं परित्यज्य तत्पीडामपहृत्य च । स्वस्थानं व्यन्तरावेतौ जग्मतुः सोऽप्यचिन्तयत् ॥९२८॥ रे जीवानर्थदण्डोऽयं चतुर्धाऽपि कृतस्त्वया। प्रत्येकशोऽपि संप्राप्तं दुःखं तजनितं तथा ॥९२९ ॥ ततः पार्श्वे मुनीन्द्राणां भूत्वाऽसौ श्राद्धपुङ्गया। प्रायेण च विपद्याऽन्ते कल्पेऽभूत् प्रथमे सुरः॥९३०॥ ततश्युत्वा मनुष्यत्वं संप्राप्य सुकुले क्रमात् । जीवः समृद्धदत्तस्य लप्स्यते निवृतेः सुखम् ॥९३१॥
॥ इत्यनर्थदण्डव्रते समृद्धदत्तकथा ॥ इतः शिक्षाव्रतानि त्वं शृणु चत्वारि भूपते ! । तेषां च मध्ये प्रथमं भवेत्सामायिकवतम् ॥ ९३२॥ स्थावरत्रसजीवेषु यत्र भावो भवेत्समः । ज्ञेयं सामायिक तद्भोः! कर्तव्यं च पुनः पुनः ॥९३३ ॥ १ दन्त्रत्रोटो यथा इति साधुः। २ अनशनेन ।
BSISEXXXSSSXXXXXXSEXEEEEEXXXX
Page #326
--------------------------------------------------------------------------
________________
शान्तिना
चरित्रम् ॥ १६१ ॥
॥ ९३४ ॥
॥ ९३५ ॥
॥ ९३६ ॥
॥ ९३७ ॥
॥ ९३८ ॥
॥ ९३९ ॥
कृते सामायिके यस्माच्छ्रावकः साधुवद्भवेत् । तदेतन्निर्जरामूलं विधातव्यमनेकशः विशुद्धे क्रियमाणेऽस्मिन् व्रते निवलचेतसा । जायते भव्यजीवानां सिंहश्रावकवत्सुखम् कोsसौ च श्रावकः सिंह इति पुष्टे सभासदैः । तत्कथां कथयामास ततः शान्तिजिनेश्वरः इहाऽऽसीद्भरतक्षेत्रे रमणीयाभिधे पुरे । शूरो हेमाङ्गदो राजा हेमश्रीस्तस्य वल्लभा श्रावको जिनदेवाख्यो जिनदासीति तत्प्रिया । तत्पुत्रः सिंहनामाऽभूत्सुश्रावकधुरन्धरः || सामायिक सुविधिना गृहीत्वाऽसौ सुनिश्चितः । प्रतिक्रमणकं चक्रे सन्ध्ययोरुभयोरपि सोऽन्यदा सह सार्थेन द्रव्योपार्जन हेतवे । क्रयाणकान्युपादाय ययावुत्तरंनीवृतम् आवासितोsवीमध्ये स साथ निम्नगातटे । तत्र सामायिकं सिंहो जग्राह श्रावकाग्रणीः अत्रान्तरे च बहुशस्तत्राऽऽगान्मशकब्रजः । ततश्च तन्निरासार्थं धूमस्तोमं व्यधाज्जनः ॥ ९४२ ॥ स तु सिंहो महासच्चो मशकानां परीषहम् । मेरुवन्निष्प्रकम्पाङ्गः सहते स्म समाहितः ॥ ९४३ ॥ क्षणादक्षिणवातेन प्रेरिता मशका ययुः । गतोपसर्गः सिंहोऽपि सामायिकमपारयत् ॥ ९४४ ॥ जातं मशकदूनं तद्देहं शोफेन दूषितम् । कियद्भिर्वासरैस्तच्च सोल्लाघमभवत् पुनः ॥ ९४५ ॥ ततः क्रमेण गत्वाऽसौ वसन्तपुरपत्तने । क्रयाणकानि विक्रीय लाभं संप्राप्य चोत्तमम् ॥ ९४६ ॥ १ उत्तरदेशम् |
॥ ९४० ॥ ॥ ९४१ ॥
षष्ठः
प्रस्तावः
॥ १६१ ॥
Page #327
--------------------------------------------------------------------------
________________
EXXXXXXXXSHES
साजराचार
वलित्वाऽऽगानिजं गेहं तत्र धर्मपरायणः। सप्तक्षेत्र्यां वपन वित्तं गृहवासमपालयत् ॥ ९४७॥ संलेखनां विधायाऽन्तेऽनशनेन विपद्य सः। दिवं प्राप्तस्ततश्युत्वा क्रमान्मुक्तिं गमिष्यति ॥ ९४८॥
॥इति सामायिके सिंहश्रावककथा ॥ शिक्षाव्रतं द्वितीयं तु भवेद्देशावकाशिकम् । दिखते परिमाणस्य संक्षेपकरणादिह ॥९४९॥ सर्वव्रतानामथवा संक्षेपोन विधीयते । आनयनप्रयोगाद्याश्चाऽतिचारा इहोदिताः ॥९५०॥ एतदपि व्रतं शुद्धं विहितं सफलं भवेत् । इहलोके परलोके गङ्गदत्तगृहस्थवत्
+ परलोक गङ्गदत्तगृहस्थवत् ॥९५१ ॥ अत्रैव भरतक्षेत्रे पुरे शङ्खपुराभिधे । वसति स्म भुवि ख्यातो गङ्गदत्ताभिधो वणिक् ॥९५२ ॥ श्राद्धधर्मोऽन्यदा तेन गृहीतो गुरुसन्निधौ । तं द्वादशविधमथो पालयामास सोज्ज्वहम् ॥ ९५३॥ देशावकाशिकं सोऽथाऽन्यदा जग्राह शुद्धधीन मयाऽद्य विना चैत्यं निर्गन्तव्यं गृहादिति ॥ ९५४ ॥ गृहस्थितोऽसौ मित्रेण वणिजागत्य जल्पितः। यतो बहिः पुरादद्य सार्थोऽस्ति भ्रातरागतः ॥ ९५५ ॥ तदेहि त्वरितं तत्र महालाभविधायकम् । येनाऽवामेव गृह्णीवो महार्य पणितं बहु ॥९५६॥ गङ्गदत्तोऽब्रवीतत्र नैष्याम्यद्य यतो मया । गृहीतमस्ति देशावकाशिकं स्वगृहस्थितिः ॥९५७॥ प्रत्यूचेऽसौ बहुधनलामं गृह्णासि नाऽद्य किम् ?। अन्यस्मिन्नपि दिवसे करिष्यसि पुनव्रतम् ॥ ९५८॥ पुनर्गगोऽवदद्यत्र धर्महानिर्भवेत् सखे!। लाभेनापि कृतं तेन बहारंभविधायिना ॥ ९५९ ॥
BREXXXXXXXXXXXXXXXXXXX
-
Page #328
--------------------------------------------------------------------------
________________
शान्तिना: पचरित्रम् ॥१६२॥
प्रस्ताव
ज्ञात्वा विनिश्चयं तस्य वयस्यः स गृहं गतः । प्रययौ गङ्गादत्तश्च सार्थमध्ये परेद्यवि ॥९६०॥ दृष्टं क्रयाणकं तेन दैवादक्षतमेव तत् । विक्रीतं च तदादाय महालाभो बभूव च ॥९६१॥ सोऽथ दध्यौ प्रभावोऽयं धर्मस्यैव ततो मया । विनियोज्यमिदं वित्तं ध्रुवं देवगृहादिषु ॥९६२ ।। विचिन्त्यैवमथो तेन जिनपूजाः प्रवर्तिताः । सकलस्यापि संघस्य दत्तं दानं च भक्तितः ॥९६३ ।। एवं धर्मोद्यमं कृत्वा मृत्वाऽन्तेऽनशनादिना । स बभूवाऽमरः पश्चात्क्रमयोगेन सेत्स्यति ॥ ९६४ ॥
॥इति देशावकाशिके गङ्गादत्तकथा ॥ देशावकाशिकमिदं सदृष्टांतं निवेदितम् । कथयामि तवेदानीममलं पौपधव्रतम् ॥९६५॥ क्रियते यच्चतुष्पयाँ धर्मे पोषं दधाति यः। स भवेत् पौपधो राजश्चतुर्धा परिकीर्तितः ॥९६६॥ आहारपौषधो द्वेधा सर्वतो देशतस्तथा । आधश्चतुर्विधाहारप्रत्याख्याने प्रजायते ॥ ९६७ ॥ त्रिधाऽऽहारोपवासे वाऽचामाम्लादितपस्सुवा ।प्रत्याख्याने समस्तेऽपि देशतः पौषधो भवेत् ॥९६८॥ द्वितीयो देहसत्काराभिधो भेदोत्र कीर्तितः । सर्वशारीरसत्कारवर्जनात् सर्वतो भवेत् ॥९६९ ॥ विज्ञातव्यो देशतश्च सोऽस्नानकरणादिकः । तृतीयो ब्रह्मचर्यस्य पौपधो द्विविधश्च सः ॥९७०॥ सर्वतः सर्वथा स्त्रीणां करस्पादिवर्जनम् । देशतश्च पुनस्तासां संभोगस्यैव वर्जनम् ॥९७१ ॥ अव्यापारश्चतुर्थः स्यात् पौषधः स च सर्वतः । सर्वव्यापारहानिः स्यादेकत्यागे तु देशतः ॥ ९७२ ॥
॥१६२॥
Page #329
--------------------------------------------------------------------------
________________
RRIERSXXXEREXEXXXXXXXXX
दृष्टान्तो जिनचन्टस्य कथ्यते पौषधवते । अनन्तवीर्यो राजाऽभूत सप्रतियाभिधे परे ॥९७३॥ श्रावको जिनचन्द्रश्च जिनधर्मे सुनिश्चलः । बभूव गेहिनी तस्य सुन्दरी सुन्दराकृतिः ॥ ९७४॥ जगृहे पौषधं तेन क्वापि पर्वदिनेऽन्यदा । मध्ये पौषधशालायाः प्रविश्य शुभचेतसा ॥ ९७५ ॥ अत्रान्तरे सहस्राक्षः प्राशंसत्तं समान्तरे । सुरैरपि न चाल्योऽयं वर्तते पौषधादिति ॥ ९७६।। तदाकण्यकगीर्वाणः कर्तुं तद्वाक्यमन्यथा । तत्समीपमुपागत्याऽकाले सूर्योदयं व्यधात् ॥९७७॥ कृत्वा तद्भगिनीरूपमूचे भ्रातः! कृते तव । आनीतमस्त्यदो भक्ष्यं तवं पारणकं कुरु ॥९७८ ॥ अनुष्ठानादिकरणेऽनुमानेन विवेद सः। कृता देवेन केनाऽपि मायेयं परिभाव्यते ॥९७९ ॥ एवं विचिन्त्य मनसा सोऽस्थान्मौनपरायणः । मित्ररूपी सुरः सोऽस्य विलेपनमढौकयत् ॥९८०॥ पुष्पाणि च सुगन्धीनि गृहाणेत्यमुनोदितः। न किञ्चिदपि जग्राह श्राद्धोऽसौ नाऽप्यभाषत ॥ ९८१ ।। पुंसकेन नीयमानां ततोऽसौ तस्य गेहिनीम् । त्रिदशो दर्शयामास तथाऽप्येष चुकोपन ॥९८२ ।। अनुकूलोपसर्गास्तान सुरः कृत्वैवमादिकान् । ततः सिंहपिशाचादीन प्रतिकूलान् व्यधात्ततः ॥ ९८३ ॥ न चुक्षोभ तथाऽप्येष दिव्यरूपोऽथ सोऽमरः । शंसन् शक्रप्रशंसां तां किं करोमीत्यभाषत ॥ ९८४॥ निरीहश्रावकस्तस्मान्न किश्चिदप्ययाचत । देवोवादीन मोघं च जायते मम दर्शनम् ॥९८५ ।। जिनचन्द्रोऽवदत्तर्हि सुरश्रेष्ठ तथा कुरु । यथाऽत्र जायते लोके शासनस्य प्रभावना ॥९८६ ॥ २८
Page #330
--------------------------------------------------------------------------
________________
षष्ठः
धान्तिनाथचरित्रम् ॥ १६३ ॥
प्रस्ताव:
प्रतिपद्याऽथ तद्वाक्यं स देवो जिनमन्दिरे । परिवारयुतो गत्वा व्यधादष्टाहकोत्सवम् ॥९८७ ॥ सुगन्धकुसुमैः पूजां विधाय च जिनेशितुः। ऊर्वीकृतभुजद्वन्द्वो नृत्यं चक्रे पुरोऽस्य सः ॥९८८॥ नृत्यन्तं त्रिदशं दृष्ट्वा जनः सर्वो विसिमिये । जजल्प चाहो! माहात्म्यं जिनधर्मस्य मृतले ॥ ९८९ ॥ देवोऽप्युवाच कल्पद्रचिन्तामणिसमप्रभः । जना ! जिनेन्द्रधर्मोऽयं ध्रुवं स्वर्गापवर्गदः ॥९९० ॥ तदत्र सर्वथा यत्नो विधातव्यो सुखैपिभिः । लोकोऽपि हि तथा चक्रे तद्भक्तिं प्रीतमानसः ॥ ९९१ ॥ एवं जिनेन्द्रधर्मस्य सुरः कृत्वा प्रभावनाम् । आपृच्छथ जिनचन्द्रं च सौधर्ममगमत् पुनः ॥ ९९२॥ स एप जिनचन्द्रस्ते कथितः पौषधवते । नाऽचाल्यत मनो यस्य धर्मध्यानात्सुरैरपि ॥९९३ ॥
॥ इति पौपधनते जिनचन्द्रकथा ॥ आतथीनां संविभागो विज्ञेयं द्वादशं व्रतम् । तिथिपर्वोत्सवगणस्त्यक्तो येनेह सोऽतिथिः॥ ९९४ ॥ न्यायागतैः कल्पनीयैः सुद्रव्यैरोदनादिभिः । देशकालोचितैः श्रद्धासत्कारविधिपूर्वकम् ॥९९५ ।। संविभागोऽनगाराणां भक्त्या धर्मधियान यत् । भवेदतिथिदानं तन्महापुण्यनिवन्धनम् ॥९९६ ॥ (युग्मम् ) आतथीनां दानमेतत्सुखहेतुः प्रजायते । शूरपालनरेन्द्रस्य दत्तं पूर्वभवे यथा
॥९९७॥ चक्रायुधन पेणाऽथ पृष्टः शान्तिजिनेश्वरः । क एप शूरपालाख्यो युष्माभिः कथितः प्रभो । ॥ ९९८॥ सर्वसाधारणेनाऽथ वचसा मेघनीरवत् । तत्कथा कथयामास शान्तिनाथो जिनेश्वरः ॥९९९ ॥
॥ १६३॥
Page #331
--------------------------------------------------------------------------
________________
अस्तीह भरते रम्यं श्रीकाश्चनपुरं पुरम् | ऋद्धयाऽमरपुरप्रख्यं विख्यातमवनीतले ॥१०००॥ जितारिर्नाम भूपालो मरालोज्ज्वलसद्यशाः । बभूव विक्रमी तत्र तस्य राज्ञी सुलोचना ॥१००१ ।। महीपालोऽभिधानेन क्षत्रजातिः कृषीवलः । अवात्सीनगरे तत्र भार्या तस्य च धारिणी ॥ १००२॥ समजायन्त धरणीधरः कीर्तिधरस्तथा । पृथ्वीपालः शूरपाल इति पुत्रास्तयोः क्रमात् ॥१००३ ॥ चन्द्रमती कीर्तिमती शान्तिशीलमतीद्वयम् । इत्यभूवन प्रियास्तेषां चतस्रः क्रमयोगतः ॥१००४॥ महीपालसुतास्तेऽथ वर्षाकालेऽन्यदा ययुः । कर्म कर्तु निजक्षेत्रे समुत्थाय निशात्यये ॥१००५॥ पश्चात्तेषां प्रियास्तत्र यावत् प्रचलितास्तदा । अतनिष्ट घनो वृष्टि विद्युद्गारवोत्तरः ॥ १००६ ॥ प्रत्यासन्नवटेऽथैतास्तत्पयो वञ्चितुं गताः। तस्यैकदेशमाश्रित्य तस्थुश्च निरुपद्रवाः ॥१००७॥ तत्पृष्ठे श्वशुरस्तासामागात सोऽपि भयादपाम् । द्वितीयं देशमाश्रित्य तस्थौ तस्यैव शाखिनः ॥१००८॥ अजानन्त्यो महीपालमेकान्तत्वादशङ्किताः । स्वेच्छालापममुं चक्रश्चन्द्रमत्यादयोऽथ ताः॥१००९ ॥ शुश्राव श्वशुरोऽप्यासामालापं निभृतस्थितः । ऊचेऽथ चन्द्रमत्येवं ब्रूत स्वरुचितं हला:1॥ १०१०॥ शीलमत्यवदत कर्णा वृतेरपि भवन्ति यत् । स्वभावकथनं तन्न युक्तमत्रेति मे मतम् ॥१०११॥ इतरा स्माह मा भैस्त्वं यतो नास्त्यत्र कश्चन | सोचे तर्हि क्रमेणोच्या सर्वाभिः स्वस्वकामना ॥ १.१२॥ १ जलानाम् ।
Page #332
--------------------------------------------------------------------------
________________
शान्तिनाघचरित्रम् ॥ १६४ ॥
प्रस्ताव
.
LAL.
चन्द्रमत्यवदत्तावत् सद्यः सिद्धं घृतान्वितम् । मम क्षिप्रचट(टी) भोक्तुं समीहा वर्तते हलाः! ॥ १.१३ ॥ यद्वा पर्युपिता रब्बां युक्तां दध्ना घृतेन वा । संसक्ताम्रफलकच्चूरककचरिकान्विताम् ॥१०१४ ॥ अवोचत् कीर्तिमत्येवं लभ्यते चेन्मनःप्रियम् । ततः खण्डघृतयुता क्षरेयी रोचते मम ॥१०१५॥ सघृतौ शालिस्पो वा तीक्ष्णाम्लव्यञ्जनानि च ।ऊचे शान्तिमती वाञ्छा मदीया श्रूयतामितः॥१.१६॥ सुस्वादमोदकादीनि पक्वान्नानि प्रियाणि मे । मंडिकेडरिकादीनि भक्ष्याणि च विशेषतः ॥१०१७॥ शीलवत्यत्रवीन्नाऽनं स्पृहयालुरहं यतः । याचते जठरं पूरं न कूरमिति लोकगीः ॥१०१८॥ जानाम्यदो यदि स्नाता विलिप्ता कुङ्कुमादिभिः । परिधाय सुवस्त्राणि भूपणभूषिता सती ॥१०१९ ॥ श्वशुरज्येष्ठभर्तृणां प्रयच्छामि सुभोजनम् । गृहलोकाय सर्वस्मै दीनादिभ्यो ददामि च ॥ १०२०॥ शेपं कदशनं किञ्चिद्भोजनं प्रकरोमि चेत् । ततो मे मनसो नित्यं निवृत्तिः संप्रजायते ॥१०२१॥ एवं स्वकीयाभिप्राये शीलमत्या निवेदिते । जजस्पुरन्याः स्वेच्छेयं घटमाना न तावकी ।। १०२२॥ कोटुम्बिकानां गेहे यदशनाद्यपि दुर्लभम् । सुवसाभरणादीनामुत्सर्गस्य च का कथा ? ॥ १०२३ ॥ तासामेवं वदन्तीनां वृष्टिविरमति स्म सा। ततस्ताः प्रययुः क्षेत्रे महीपालोऽप्यचिन्तयत् ॥ १०२४ ।। पश्याऽहो। भोजनस्याऽर्थे ताम्यन्त्येवं मम स्नुपाः। नूनं भक्तमपि श्वश्रू तासां संप्रयच्छति ॥ १०२५ ।। ततोगत्वा गृहेऽद्याऽहं वर्जयित्वा स्वगेहिनीम् । एतासां पूरयिष्यामि तिसृणामपि चिन्तितम् ॥ १०२६॥
ECREECERTEKERSXEEEEEEE:
॥१६४॥
Page #333
--------------------------------------------------------------------------
________________
I
असमञ्जसभापिण्यास्तूर्यवध्वाः परं मया । पूरणीया कदशनाद्दारवाचैव केवलम् ॥ १०२७ ॥ गेहे गत्वा ततस्तेन कथयित्वा वधूकथाम् । प्रोक्ता भार्येप्सिताहारो वधूभ्यो देय इत्यलम् ।। १०२८ ॥ इत्यादिश्य महीपालोऽप्यगात् क्षेत्रे ततश्च तत् । सर्व भोजनवेलायां गृहमागात् कुटुम्बकम् ||१०२९ ॥ भर्तारं भोजयित्वाऽथ तनयानपि धारिणी । पत्यादिष्टरसवत्या भोजयामास ताः स्नुषाः ॥ १०३० ॥ अन्योऽन्यं वीक्ष्य वक्त्राणि चिन्तयन्ति स्म ता इति । केनाऽपि कारणेनाऽद्य जातं नो मन्त्रिताशनम्॥ १०३१॥ एक स्थाननिविष्टायाः किमेतस्याः कुभोजनम् । दत्तमित्यादि तास्तिस्रश्चिन्तयन्त्योऽत्र जेमिताः ॥ १०३२॥ शीलमत्यपि दध्यौ किं ममाऽगौरवभोजनम् । दीयतेऽद्य किमु मया मन्दिरेऽत्र विनाशितम् ।। १०३३ ॥ भुक्त्वा स्तुपाचतस्रोऽपि ताः क्षेत्रे चलिताः पुनः । पुनरेव वदन्ति स्म शेषाः शीलमतीमिति ॥१०३४॥ हला ! चिन्तितः सोऽद्य संपन्नो नो मनोरथः । त्वयाऽपि चिन्तितं याढक् तादृग्लब्धं हि भोजनम् ॥ १०३५ ॥ फलं चिन्तानुरूपं स्यात् प्रायः पुण्यवतामपि । मनोरथोऽपि नो तुच्छस्ततः कार्यो मनीषिणा || १०३६ || साऽप्यवोचत् किमनया भोजनस्येच्छया यतः । भुक्तं सारमसारं वा तुल्यं स्यादुदरे गतम् ।। १०३७ ॥ मनोभिरुचितं कार्य यदा संपत्स्यते मम । तदा कृतार्थमात्मानं गणयिष्यामि निश्चितम् ॥ १०३८ ॥ भोजन प्राप्त्या नित्यं साशङ्कमानसाः । तिस्रो वधूटिकाः श्रभ्रं पृच्छन्ति स्मैवमन्यदा किमत्र ! भोजनं फल्गु शीलमत्याः प्रदीयते । किं वाऽस्माकं प्रतिदिनं तद्धि प्राघुर्ण कोचितम् ॥
।
१०३९ ॥
१०४० ॥
Page #334
--------------------------------------------------------------------------
________________
शान्तिनाधचरित्रम् ॥ १६५॥
प्रस्ताव:
ततस्तया समाख्यातं तासां तन्मन्त्रणादिकम् । ताभिश्च शीलमत्यास्तत्साऽभून्म्लानमुखी क्षणात।। १०४१॥ पृष्टा सा शूरपालेन राबावेकान्तगाऽन्यदा। प्रिये ! प्रसन्नवक्त्राऽपि किमुद्विग्नेव दृश्यसे ? ॥ १०४२ ॥ किं वा तेऽवज्ञया माता भोजनं संप्रयच्छति । अकार्यविनयः कश्चिचया किंवा विनाशितम् ॥ १०४३ ॥ न गोप्यमस्ति ते किञ्चिदित्युक्ताऽथ तयाऽखिला। स्ववार्ता कथिता तस्याऽभिप्रेतकथनादिका।। १०४४॥ सोऽय दध्यावहो ताताम्बयोः पश्यत मूर्खताम् । परिभूतं कुबुद्धिभ्यां याभ्यां स्त्रीरलमीदृशम् ॥ १०४५ ॥ अहो ! अस्याः प्रियाया मे सुप्रशस्यो मनोरथः । मध्ये नारीजनस्यैपा भविष्यत्युत्तमा खलु ॥ १०४६ ॥ ततो देशान्तरे क्वापि गत्वा कर्म करोमि तत् । येनाऽस्याः पूर्यते सर्व सुगेहिन्या स्त्रवाञ्छितम् ।। १०४७॥ विचिन्त्यैवमथो पृष्टा गत्यर्थ तेन तत्र सा | मोद्विग्नचिता भावीस्त्वं आश्वेष्यामीति जल्पिता ॥ १०४८॥ वेणीवन्धं तथैतस्याः परिधानं नियम्य च । विधाय स स्वपाणिभ्यां पुनरेवमभापत ॥१०४९ ॥ वेणीदण्डस्य मोक्षोऽस्य कार्यों मय्यागते प्रिये । मद्वदुत्तारणीयोऽयं कञ्चुकोऽपि न वक्षसः ।।१०५०॥ एवमाभाष्य पत्नी स्वां शूरपालः स्थमन्दिरात् । खड्गसहायो निःसृत्य चचालैकदिशं श्रितः ॥ १०५१ ॥ तत्प्रियाऽपि क्षणं हर्षविपादाम्यां समाकुला । स्थित्वा पुनर्लगति स्म स्त्रोचिते गृहकर्मणि ॥ १०५२ ।। शूरपालमपश्यन्तो महीपालादयोऽय ते । पप्रच्छ्रस्तत्प्रियां शुद्धिं न जानामीति साञ्चदव ॥ १०५३ ॥ १ भूयास्त्वं इति साधु ।
१६५॥
Page #335
--------------------------------------------------------------------------
________________
।।
तत्प्रवृत्तिमजानाना मन्त्रयन्ति स्म ते मिथः । पराभूतः स केनाऽपि ययौ निःसृत्य मन्दिरात् ॥ जगदुस्तनयास्तातं नाऽस्मन्मध्यात्स केनचित् । विरूपमुचेऽनिष्टः स्यात् प्रायेण न कनिष्ठकः ॥ पुनः पृष्टा वधूटी तैः किं भद्रे ! स्वयका सह । रोषस्य कारणं किञ्चिन्न जातं दयितस्य ते ॥ सोचे सार्धं न मे भर्त्रा रोपस्थानं किमप्यभूत् । किं त्वयं वेणिदण्डो मे कृतस्तेन स्वयं निशि इदं चाsभाणि मोच्योऽयं स्वहस्तेन मया प्रिये । । एतदेव हि जानामि तत्स्वरूपं हि नाऽपरम् ।। त्रयोsपि चिन्तयामासुर्भ्रातरस्ते यदम्बया । वधूटी परिभूतेयं स गतस्तेन हेतुना ॥ १०५९ ।। जननीं जनकं बन्धुं धनं धान्यं गृहं गृहामुं (न्) । अपमानकराद्दूराच्यजन्त्येतानि मानिनः ॥ १०६० ॥ अपि मातृ ( ता ) पितृकृतादपमानाद्विभोरपि । इह मानधनैर्जीवैर्देशत्यागो विधीयते अपमानं गुरोरेव शिष्यस्यैव हितावहम् । यतस्ते तर्जयन्त्येनं वारणस्मारणादिभिः पराभवः स तस्यैव तत्प्रियायाः कृतो हि यः । पीडितायां तनौ नाम शरीरी दूयते न किम्।। सर्वत्रान्वेपयित्वा तमथ ते जनकादयः । चक्रिरे स्वानि कर्माणि नित्यं तद्विरहार्दिताः प्रययौ शूरपालोsपि महाशालाभिधं पुरम् । जम्बूवृक्षस्य च्छायायां सुष्वापोपवने च सः परिश्रमवशात्तस्य तत्र निद्रा समाययौ । तत्प्रभावेण नो तस्य तरोच्छाया न्यवर्तत १ दारान्
।। १०६१ ॥
१०५४ ॥ १०५५ ॥
१०५६ ॥
१०५७ ॥
१०५८ ।
॥ १०६२ ॥
१०६३ ॥
॥
१०६४ ॥
॥
१०६५ ॥
॥ १०६६ ॥
Page #336
--------------------------------------------------------------------------
________________
शान्तिना
थचरित्रम्
॥ १६६ ॥
॥
॥
अत्रान्तरे पुरे तत्राऽपुत्रो राजा व्यपद्यत । चक्रे च पञ्चदिव्याधिवासना सचिवादिभिः ॥ १०६७ ॥ परिभ्रम्य पुरे तानि दिनस्य प्रहरद्वयम् । प्राप्तानि तत्र यत्राऽभूच्छूरपालः स पुण्यवान् तं निरीक्ष्य करीन्द्रेण चक्रे गुलगुलायितम् । हेपितं च तुरङ्गेण च्छत्रं तस्योपरि स्थितम् भृङ्गारेण प्रदत्तोऽर्धश्वामराम्यां स वीजितः । उत्थितश्च जयजयारको मङ्गलगीतिमान् ततोऽसौ मन्त्रिसामन्तः सर्वाङ्गेषु विलोकितः । चक्रस्वस्ति कमत्स्याद्यैर्लक्षितः शुभलक्षणैः estaर्तमानां च छायां जम्बूतरोश्च ते । एवमृचुरयं स्वामी जातः पुण्येन नः खलु विनिद्रः शूरपालोsथ किमेतदिति चिन्तयन् । अभ्यर्थ्य सचिवाद्यैस्तैरुपावेश्य च (त) विष्टरे ततः स्नानविलिप्तांगं वस्त्राभरणभूषितम् । एनमारोहयामासुः सचिवाद्याः सुहस्तिनम् ततो धृतातपत्रोऽसौ चामराभ्यां च वीजितः । महाविभूत्या नगरे पार्थिवस्तेः प्रवेशितः प्रार्थ्यमानः पुरन्धीभिश्चेतसा कृतमङ्गलः । प्रविश्य राजसदने सभायां निपसाद सः कृताभिषेकः प्रत्येकं सामन्तः प्रतिवासरम् । पुरे तत्र महाराजः पालो बभूव सः ॥ १०७७ ॥ सोऽन्येद्युश्चिन्तयामास राजलक्ष्म्या किमेतया । यदसौ मम भार्या नो पूरयत्यात्मवाञ्छितम् ॥ १०७८ ॥ स्वहस्तलिखितं लेखमर्पयित्वाऽन्यदाऽमुना | स्वानानेतुमथो राज्ञा प्रेपिता निजपूरुषाः ते काञ्चनपुरे प्राप्तास्तत्र तं सकुटुम्बकम् । ददृशुर्न महीपाल मन्वेषणपरा अपि
॥
॥
॥ १०७९ ॥
॥ १०८० ॥
॥ १०६८ ॥
॥
१०६९ ॥
॥
॥
१०७० ॥
१०७१ ॥
१०७२ ।।
१०७३ ॥
१०७४ ॥
१०७५ ॥
॥ १०७६ ॥
षष्ठः प्रस्तावः
॥ १६६ ॥
Page #337
--------------------------------------------------------------------------
________________
केनापि कथितं तेपां जज्ञे दुर्भिक्षमत्र यत् । जातं किमपि नो तस्य महीपालस्य कर्पणे ॥१०८१ ॥ ततः सोऽन्यव्यवसायानभिज्ञः सकुटुम्बकः । अन्यत्र प्रययौ क्वापि शुद्धिन ज्ञायते परम् ॥१०८२ ॥ इत्याकर्ण्य पुमांसस्ते चलित्वाऽऽगत्य भूपतेः । तद्वार्ता कथयामासुस्तच्छ्रुत्वा विपसाद सः॥ १०८३ ॥ स्वमानुपाणां वैधुर्यश्रवणात्स महीपतिः । संप्राप्तराज्यलाभोऽपि सुखं लेभे कदापि न ॥१०८४ ॥ इतश्च वर्षे यत्राऽसौ निर्गतः पितृमन्दिरात् । ततो द्वितीयवर्षे नो मेघवृष्टिरजायत ॥१०८५॥ ततो बभूव दुर्मिक्षे भूरिलोकक्षयंकरम् । यत्राढ्या अपि सीदन्ति दुर्गताश्च विशेषतः ॥१०८६ ॥ मार्गा दुःसंचरा यत्र जायन्ते तस्करबजैः । मानुपो मानुषेणैव क्षुधितेन च भक्ष्यते ॥१०८७॥ त्यज्यन्ते यत्र लोकेन स्वापत्यानि रुदन्त्यपि । विक्रीयन्तेऽथवा तानि निन्धनीचकुलेपपि ॥ १०८८॥ लभन्ते यत्र कप्टेन भिक्षामपि तपोधनाः । आच्छिद्य रङ्कनिवहस्तेभ्यो भिक्षाऽपि भुज्यते ॥१०८९ ॥ मुच्यते यत्र भार्याऽपि यस्यां स्नेहो महत्तरः। तस्य दुर्भिक्षकालस्य वार्ताऽपि भयकारिणी ॥ १०९०॥
॥चतुर्भिः कुलकम् ॥ सकुटुम्बो महीपालः स निर्गत्य पुरात्तदा । कुर्वाणोज्नेककर्माणि स्थाने स्थाने परिभ्रमन् ॥१०९१ ॥ निवसन शून्यशालासु प्राप्तनिःस्नेहभोजनः । बुभुक्षितकुटुम्बेन दूयमानो दुरुक्तिभिः ॥१०९२॥
Page #338
--------------------------------------------------------------------------
________________
शान्तिना
थचरित्रम् ॥
प्रस्ताव
॥१६७॥
लंघयनगरग्रामपर्वतारण्यनिम्नगाः । आगान्महाशालपुरे प्राप्तः कष्टदशामिमाम् ॥१०९३॥
॥ त्रिमिविशेषकम् ॥ शीलमत्यपि वेणी तां कञ्चुकं च पटचरम् । अमुं मुञ्चेति श्वशुरेणोच्यमानाऽपि नाऽमुचत।। १०९४ ॥ तद्वाक्याकरणात सर्वकुटुम्बोद्वेगकारिणी । भत्सिताऽपि ततस्तेन सहमाना पराभवम् ॥१०९५ ॥ पत्यादेशं प्रकुर्वन्ती रक्षन्ती दूपणं कुले । साऽपि तस्मिन् पुरे तेन श्वशुरेण सहाऽगता ॥१०९६ ॥ इतस्तेन नरेन्द्रेण सर्वलोकहितैषिणा । पुरे खानयितुं तत्रारब्धमेकमभूत्सरः ॥१०९७॥ तत्र कर्म करोति स्म निर्धनः प्रचुरो जनः । कुटुम्बसहितः सोऽथ महीपालोऽपि तद्व्यधात् ।। १०९८॥ अन्यदा सर्वलोकेन विज्ञप्तो जगतीपतिः । तडागेन प्रभो ! दृष्टया प्रसादः क्रियतामिति ॥ १०९९ ॥ ततो हस्तिसमारूढः सर्वसेनासमन्वितः । शूरपालनृपस्तत्राऽऽययौ लोकोपरोधतः ॥११००॥ अथ कर्मकरान सर्वान् वीक्षमाणेन भूभुजा । सकुटुम्बो महीपालो दृष्टोऽसौ जनको निजः ॥ ११०१॥ सा च शीलमती दृष्टा विरहावस्थया तया । दुर्वलाशी परनरालोककर्मपराङ्मुखी ॥११०२॥ दध्यौ च मे कुटुम्बस्य देवयोगेन कीदृशी । जाता कर्मकरावस्था ही विपाकः कुकर्मणाम् ॥११०३॥ ततः कर्मकरान सर्वान् प्रत्येकं वीक्ष्य भूपतिः। उद्दिश्य स कुटुम्यं तत् प्रोचे पश्चकुलं प्रति ॥ ११०४॥ नव मानुपरूपाणि कुर्वन्त्येतानि कर्म सत् । दीयतेऽत्र किमेतेपामित्युक्तेऽथ तदाऽब्रवीत् ॥ ११०५॥
।
Page #339
--------------------------------------------------------------------------
________________
ACCEP
A
--
-
-
भृतकानां हि सर्वेषामेकैको रूपकः प्रभो!। दीयते कणभक्तं च मध्यमं युष्मदाज्ञया ॥ ११०६॥ पुन पोऽब्रवीदेषां साधुकर्मविधायिनाम् । विशेषः क्रियतां कश्चियेनेदं पठ्यते जने ॥ ११०७॥ साध्वसाधुजने स्वामी निर्विशेषो यदा भवेत् । तदा साधुगुणोत्साहः साधोरपि न वर्धते ॥ ११०८॥ अमीषां द्विगुणां वृत्तिः कणभक्तमथोत्तमम् । देयमित्युदिते राज्ञा तान्या(ना)हय जगाद तत् ॥ ११०९॥ हहो युष्माकमार्येण प्रसादोऽयं विनिर्मितः । महाप्रसाद इत्युच्चमहीपालादयोऽवदन ॥१११०॥ राज्ञोचे द्विकलत्रोऽस्ति किमेकस्तनयस्तव । निरीक्ष्यन्ते त्रयोऽमी यच्चतस्रश्च तथाऽपरा ॥ ११११॥ पुत्रप्रवासवार्ताऽस्य ततस्तेन निवेदिता । कुतस्त्वमागतोऽसीति पुनः पप्रच्छ तं नृपः ॥ १११२ ॥ तेनापि काश्चनपुरादिति प्रोक्ते नृपेण सा । शीलमत्यात्मनो गेहमाहूता तहेतवे ॥१११३ ॥ ततश्चाऽगान्नपो गेहं जनः सर्वो विसिमिये । केनाऽपि सह नःस्वामी नैतावजल्पतीत्यहो!॥१११४॥ साऽथ शीलमती प्राप्ता गोरसार्थ नृपौकसि । तदादिष्टप्रतीहार्या कथिता सा महीभुजः॥१११५॥ तेन सा भणिता भद्रे! कञ्चुकः कितवेदृशः लज्जावनम्रया किञ्चित्तया चन हि जल्पितम् ॥ १११६॥
१ एतच्श्लोकानन्तरम् - "पृष्टश्च भूभुजा वृद्धः किमेतैः सह तात ! ते । कोऽपि स्वजनसंबन्धो न वेति धृतस्मृतः ॥१॥ अङ्गुल्या दर्शनात् सोऽथ देवेयं मम गेहिनी । एतेऽथ तनया एता जनन्या वध्वश्च यत् ॥ २॥” इति प्रक्षिप्तश्लोकद्वयमशुद्धप्रायक्वचित्पुस्तके टिप्पनिकारूपेण दृष्टं प्रकृतसंबन्धोपयोगित्वादिहापि टिप्पनिकारूपेणैव यथावस्थ न्यस्तमस्माभिः प्रसिद्धिकर्तृभिः ।
XXXXXXXXXXXXXEEXXEX-XXBEER
Page #340
--------------------------------------------------------------------------
________________
शान्तिनायचरित्रम् ॥१६८॥
प्रस्ताव
राज्ञाऽथ दापितं तस्याः प्रचुरं गोरसादिकम् । सा संप्राप्ता निजे गेहे भणिताश्वशुरादिभिः ॥ १११७ ।। कूपसं त्वं नवं वत्से ! परिधेहि यतो गता। विगुप्यसि नृपावासे सा तच्चक्रे न तद्वचः ॥ १११८ ॥ द्वितीयदिवसे प्रोक्ता सा राज्ञा सदने गता । गृहाण वाखाणं त्वममुं भद्रे ! मयाऽर्पितम् ॥ १११९ ॥ ततः सा तमगृह्णन्ती क्रुद्धेनेव महीभुजा । अभाणीदमकुर्वत्या भविता सुन्दरं न ते ॥११२०॥ साध्वोचत्सुन्दरं देव! भवताद्वा असुन्दरम् । अहं हि न करिष्यामि निजनिश्चयखण्डनम् ॥ ११२१ ॥ यत:-"आयातु यातु वा लक्ष्मीर्यत्तद्वा वदताजनः जीवितं मरणं वाऽस्तु सतां न्याय्यक्रियावताम्" ११२२ इयं रे क्षिप्यतां गुप्तौ ममाज्ञाभङ्गकारिणी । इत्यादिष्टैनेरै राज्ञा चालिता साऽथ तां प्रति ॥ ११२३ ॥ एवं कृतेऽपि सा यावन्न मुमोच स्वनिश्चयम् । ततस्तुष्टेन भूपेनाऽऽनायिता स्वान्तिकं पुनः ॥ ११२४ ॥ ऊचे च कारणेन त्वं केन भद्रे! न मुश्चसि । जीर्णमेतं चारवाणमङ्गवरूप्यकारकम् ॥११२५॥ साऽप्यवादीदियं वेणी मम भर्चा विनिर्मिता । तेनेवाऽहं स्वहस्तेन कञ्चुकं परिधापिता ॥११२६ ॥ ततोऽयं मुच्यते देव ! भर्तुरेव करेण मे । सोऽब्रवीत्तव भताऽहं भवामि त्यज कञ्चकम् ॥ ११२७॥ भणितं च तया नेदं वक्तुमप्युचितं तव । यतस्त्वं मेदिनीपालो दुर्नीतिपरिरक्षक: ॥११२८॥ दुःशीलः(ले.) परिभूतानां सतीनांशीलखण्डनम् । ततः सत्यमिदं जातं यतो रक्षा ततो भयम् ॥ ११२९ ।। अन्यच्च-गोत्रं विगोपितं तेन पौरुप चरितं तथा। भ्रामितो मेदिनीपीठे यशःपटहकोऽखिले ॥ ११३० ।।
॥१६८॥
Page #341
--------------------------------------------------------------------------
________________
महार्ण्यमपि तेन स्वं विहित रजसा समम् । परस्त्रीसेवनं येन निर्लज्जेन कृतं खलु ॥११३१ ॥(युग्मम् ) प्रोक्तं पार्थस्थितैर्भद्रे प्रार्थ्यते योऽवलाजनैः । कथं तमवजानासि प्रार्थनातत्परं नृपम् ? ॥ ११३२॥ साऽपि स्माह लगत्यले परिणीतः पतिर्मम। ज्वालाकरालो बहिर्वा जीवन्त्या नाऽपरो नरः ॥ ११३३ ॥ ततः संकेतवाक्यानि तत्प्रतीतानि भूपतिः। आख्यायोवाच संवीक्ष्य मुग्धे! मामुपलक्षय ॥ ११३४॥ यतोऽहं नगरेऽमुष्मिनपुत्रनृपतेम॒तौ । पञ्चदिव्यैः कृतो राजा शूरपालः स ते पतिः ॥११३५॥ सर्व सप्रत्ययं राजवाक्यमाकर्य विस्मिता । निरीक्ष्य संमुखं सम्यक् सास्त्रकान्तं विवेदतम् ॥ ११३६ ॥ दृष्टा सजलपाथोददर्शनात केकिनीव सा | जाता रोमाञ्चिताङ्गी च धाराहतकदम्बवत् ॥११३७ ॥ ततो राजसमादिष्टचेटिभिः स्नपिता सका। सर्वाङ्गेषु च तन्वङ्गी कुङ्कमेन विलिप्य च ॥ ११३८ ॥ ततः पटांशुकादीनि वस्त्राणि परिघापिता । भूषिता तिलकचतुर्दशेनाऽऽभरणेन च ॥११३९ ॥ सा ययौ भूपतेः पार्श्वे तेनाऽप्यर्धासने निजे। उपावेशि ततो मन्त्रिसामन्ताधैर्नमस्कृता ॥११४०॥ इतस्तस्मिन् दिने शान्तिमत्येताऽभूत्तया सह गुप्तिप्रक्षेकालेऽस्या वलित्वा सा गृहं गता॥ ११४१ ॥ शशंसैवं कुटुम्बस्य यथाऽसौ राजढौकितम् । सुकञ्चुकमगृह्णन्ती कारावासिन्यजायत ॥११४२॥ सर्वैरपि ततोऽमाणि युक्तमस्या इदं स्फुटम् । बहुधा भण्यमानाऽपि या नो वाक्यममन्यत ॥ ११४३॥ २९
Page #342
--------------------------------------------------------------------------
________________
पष्ठः
शान्तिनाथचरित्रम् ॥१६९॥
प्रस्ताव
भोक्तुं निमन्त्रितोऽज्येधुर्महीपालो महीभुजा। आययौ सकुटुम्बोऽपि सकाले राजमन्दिरे ॥११४४॥ कारयित्वा ततः स्नानं वस्त्राणि परिधाप्य च। यथायोग्यमलङ्कारैः सकुटुम्बोऽपि मण्डितः ॥११४५॥ महीपालस्ततो दध्यौ किमेप जगतीपतिः । करोत्यस्माकमतुलं बन्धुनामिव गौरवम् ? ॥११४६॥ यस्य पाद्यदा येन लभ्यं स्याधदिलातले । लभते निर्गुणोऽप्येष तस्य पात्तिदैव तत् ॥११४७॥ एवं विचिन्तयश्चित्ते तत्कुटुम्बमथाऽखिलम् । रम्यासनेषु राज्ञा भोजनार्थमुपवेशितम् ॥११४८ ।। न्यवेश्यन्त विचित्राणि स्थालान्यस्य पुरस्तथा । निपसाद च भूपोऽपि भोक्तुं तत्रोचितासने ॥ ११४९ ।। अत्रान्तरे नृपादिष्टा देवी शीलमती स्वयम् । विदधे शालिम्पाद्याहारस्य परिवेपणम् ॥११५० ॥ भणिता सा पुना राज्ञा चिरकालविचिन्तितान् । सफलीकुरुष्व सर्वान प्रियेऽद्य स्त्रमनोरथान् ॥ ११५१ ॥ भोजने च कृते राज्ञा महीपालो निवेशितः । सिंहासने वरेऽन्येषु भ्रातरश्च यथाक्रमम् ॥११५२ ॥ जननी भ्रातृजायाश्च यथायोग्यासनेषु च । ततो नत्वा महीपालं शूरपालनृपोऽनदत् ॥ ११५३ ॥ तात ! सोऽहं तव सुतो निर्गतो यस्तदा गृहात् । तावकीनमिदंराज्यं ततस्ते सेवकोऽस्म्यहम् ॥ ११५४॥ विज्ञायाऽपि मया त्वं यत्कारितः कर्म गर्हितम् । क्षन्तव्यः पूज्यपादःस सर्वोऽप्यविनयो मम ॥ ११५५॥ शीलमत्यपि सर्वेषां नत्वा पादानदोऽवदत् । मया संतापिता यत्तत्क्षमचं यूयमद्य मे ॥११५६ ॥ ययुष्मद्वचनेनाऽपि न मुक्तः कञ्चुको मया । तदवश्यं स्वकान्तस्य तात ! वाक्यमनुष्ठितम् ॥ ११५७॥
॥१६९॥
Page #343
--------------------------------------------------------------------------
________________
महीपालोऽप्यभाषिष्ट हृष्टः समुपलक्ष्य तम्। निजपुण्यार्जितां लक्ष्मी त्वं च सुक्ष्व चिर सुत!॥ ११५८॥ जातस्तवदर्शने वत्स! हर्षवल्लोलवानहम् । सरस्वानिव शीतांशोरुदये हि विदूरगः ॥११५९ ॥ उत्थायाऽऽदाय बाहुभ्यां शूरपालं ततः पिता। निवेशयामास सिंहासने नीतिविशारदः ॥११६०॥ राज्यप्रतिष्ठितः पुत्रो वन्द्यः पित्राऽपि साञ्जसम्। राजनीतिरिय येन महीपोलोऽपि तद्वयधात् ॥ ११६१ ॥ भणितैवं प्रियैर्वाक्यैर्गुरुणा शीलमत्यपि । जीवलोके त्वमेवैका पुत्रि! धन्याऽसि सर्वथा ॥११६२ ।। यस्या मनोरथानामसंभाव्यानामपि स्फुटम् । जाता सिद्धिः समस्तानां स्त्रीरत्नं तत्वमेव हि ॥ ११६३ ॥ रक्षितं यत्त्वयाऽनन्यसदृशं शीलमात्मनः । विहिता पत्युराज्ञा च तत्ते तुल्याऽपरात्र का?॥ ११६४ ॥ याऽभूत् पदे पदे पूर्व तस्य संतापकारिणी । साऽपि जाता स्तुतिपदं प्रभावो मुव्यहोश्रियः॥ ११६५॥ सोचेऽपमानता तात! सफला मे तवाऽभवत् । गुरूणामपमानोऽपि यतः स्याद्वाञ्छितप्रदः॥ ११६६ ॥ यदि त्वमपमानं मे तदा नाऽदर्शयिष्यथाः। आगमिष्यत्ततश्चात्र कथं तात! तवाऽऽत्मजः ॥ ११६७॥ अलप्स्यत कथं राज्यं गौरवं भवतां कथम् । अकरिष्यदसौं मे वाऽपूरयिष्यत् कथं प्रियम् ॥११६८॥ एवमुक्त्वा स्थिता साऽथ शुरपालो नरेश्वरः। उद्दिश्य सर्वसामन्तानदोवादीत् प्रगल्भवाक् ॥ ११६९॥ भोभो। मे जनकोऽयं हि ममैते भ्रातरस्तथा। इयं माता अंजावत्यस्तिस्रश्चता मम स्फुटम् ॥ ११७० ।। १ श्वशुरेण । २ भ्रातृभार्याः ।
Page #344
--------------------------------------------------------------------------
________________
शान्तिनापचरित्रम् ॥ १७॥
प्रस्ताव
तदेतेषां गुरूणां मे प्रणाम कुरुताऽऽदरात् । इत्युक्तास्ते तथा चक्रुर्दुलंध्यं स्वामिशासनम् ॥ ११७१ ॥ राज्ञाऽथ शूरपालेन सर्वे ते निजपूर्वजाः । भूरिदेशप्रदानेन चक्रिरे मण्डलेश्वराः ॥ ११७२ ।। पितरावात्मनः पार्श्वे स्थापितौ तौ सगौरवम् । स एवं कृतकृत्यः सन्निज राज्यमपालयत् ॥ ११७३ ॥ अथाऽन्येयुः पुरे तत्र श्रुतसागरसंशकः । समाययौ सरिवरस्तस्थौ च नगराहिः ॥ ११७४ ॥ तं नन्तुं धार्मिक लोकं निर्यान्तं वीक्ष्य पत्तनात् । तत्कारणमसौ राजा पप्रच्छ सचिवं वरम् ॥११७५ ॥ विज्ञातपरमार्थोऽसौ जजल्पेवं महीपतिम् । ज्ञानवानागतोऽस्त्यद्य कोऽपि सूरिवरः पुरे ॥११७६ ॥ राजा प्रोवाच हे मन्त्रिन ! यथैते यान्ति नागराः। तथाऽचार्य नमस्कतु यामो वयमपि स्फुटम् ॥ ११७७ ।। युक्तमित्युदिते तेन सोऽथ तातप्रियान्वितः। गत्वा नवाच तं सूरि निषसादाऽस्य सनिधौ ॥११७८॥ आचख्यौ मरिरप्यस्य धर्म सर्वज्ञभाषितम् । संसारसागरोत्तारगुरुपोतसमप्रभम् ॥११७९ ।। ततः श्रावकधर्म स गृहीत्वा गुरुसन्निधौ। भूयोऽपि तं नमस्कृत्याऽऽययौ च निजमन्दिरम् ॥ ११८०॥ एवं प्रतिदिनं सूरिवन्दनार्थ ययावसौ। अन्यस्मिंश्च दिने तेन पृष्टः स भगवानिति ॥ ११८१ ॥ प्रभो! पूर्वभवेकारि किमया सुकृतं यतः । कष्ट विनाऽपि येनेयं लब्धा राज्येन्दिरा वरा ॥ १९८२॥ सोऽथाऽभाषिष्ट हृष्टास्यः सुगुरुः श्रुतसागरः । राजस्वयातिथिसंविभागश्चके पुरा भवे ॥११८३ ।। हैव भरते भूमिप्रतिष्ठे नगरे वरे । वीरदेवोऽमियानेन श्रावकः प्रवरोऽभक्तू ॥११८४ ॥
Page #345
--------------------------------------------------------------------------
________________
तस्याऽऽसीत् सुव्रतानाम्नी श्राविका वरगेहिनी। तावपालयतां गेहवासं धर्मपरायणौ ॥११८५॥ अन्येधुरष्टमीषने वीरदेवः स पौषधम् । जग्राह पारणे चैवं चिन्तयामास चेतसि ॥ ११८६॥ धन्यास्ते पर्वदिवसे ये कृत्वा वरपौषधम् । तत्पारणे सुसाधुभ्यो दानं ददाति भाविनः ॥ ११८७॥ द्वारावलोकनं सोज्थ कुर्वन्नमवर्जितिं । ददर्शाऽऽगच्छदावासे साधुयुग्मं तपःकृशम् ॥ ११८८ ॥ कृत्वाऽभिगमनं तस्य नत्वा च चरणद्वयम् । सद्भक्त्या भक्तपानेन वीरस्तत् प्रत्यलाभयत् ॥ ११८९ ॥ स्तोकभूमिमनुव्रज्य तौ नत्वाच मुनी पुनः । स्ववेश्मन्याययौ वीरो धन्योऽहमिति चिन्तयन्।। ११९०॥ दध्यौ सा सुव्रताऽप्येवं कृतार्थोऽयं पतिर्मम । दत्तं येन सुसाधुभ्यां दानं श्रद्धातिरेकिणा ॥ ११९१ ॥ एवं विशुद्धभावेन प्रकुर्वत्यानुमोदनाम् । सुपात्रदानपुण्यस्य तयाऽप्यंश उपाजितः ॥११९२ ॥ एवं तौ दम्पती धन्यौ दचा दानमनेकधा । पालयित्वा सुसम्यक्त्वौ चिरं च श्रावकबतम् ॥ ११९३ ॥ कृत्वान्ते चाशनत्यागं विपद्य च समाधिना । ईशानकल्पे संजातावमरौ सुखशालिनौ ॥११९४ ।। युग्मम् ॥ वीरदेवस्य जीवोऽथ देवलोकात परिच्युतः । प्रचण्डो मेदिनीपाल: शूरपालो भवानभूत् ॥ ११९५ ॥ बभूव सुव्रताजीवो दिवश्युत्वा तव प्रिया । एषा शीलमतीनाम्नी सुमनोरथशालिनी ॥ ११९६ ॥ हहो पूर्वभवे दत्तं यधुवाभ्यां विहायतम् । तेन राज्यमिदं लब्धं विना क्लेशेन भूतले ॥ ११९७ ॥ १ दानम् ।
Page #346
--------------------------------------------------------------------------
________________
शान्तिनायचरित्रम् ॥ १७१ ॥
षष्ठः प्रस्तावः
ततश्च जातिस्मरणं नृपोऽवाप स सप्रियः । प्रत्यक्षमिव तत्पूर्वभववृत्तं ददर्श च ॥११९८॥ चन्द्रपालं निजसुतं राज्ये च (ऽथ) विनिवेश्य सः।सतातः सप्रियो दीक्षांगुरोस्तस्यान्तिकेऽग्रहीत्॥११९९॥ विशुद्धां पालयित्वा तां कृत्वा च विविधं तपः । ययावात्मतृतीयोऽपि समोक्ष प्राप्तकेवलः ॥ १२०० ॥
॥ इत्यतिथिसंविभागते शूरपालनृपकथा ॥ अन्यच्च
सुपात्रदानजाद्धर्मादिहलोकेऽपि मानवः। अभीष्टार्थमवाप्नोति व्याघ्रः कोडम्बिको यथा ॥ १२०१॥ संजातसर्वतोभद्रे पारिभद्रे पुरे वरे । बभूव क्षत्रियो जात्या व्याघ्रनामा कृषीवल: ॥१२०२॥ सेवावृत्ति परित्यज्य कुर्वतोऽप्यस्य कर्षणम् । समपद्यत नो वित्तं कृतदारिद्यधर्षणम् ॥१२०३ ॥ तद्भार्या विजयानाम्नी डिम्मरूपमसूयत । प्रतिवर्ष प्रसन्नस्य दारिद्यस्य प्रभावतः ॥१२०४॥ सोऽन्यदा शिथिलारंभो भणितोभार्यया तया। निश्चिन्त इव हे कान्त ! निर्व्यापारः कथं त्वसि?॥१२०५॥ सोऽवदन्मन्दभाग्यस्य व्यापाराः फलदा न मे । नृपसेवाकर्षणाद्यास्तत्प्रिये! किं करोम्यहम् ॥ १२०६ ॥ पुनरूचे तया सोऽथ भाग्यहीनोऽसि यद्यपि । तथापि स्वोचितं कान्त ! व्यापारं कुरु कञ्चन।। १२०७॥ सुवस्त्राभरणादीनां शोभा दूरेऽस्तु त्वद्गृहे । भोजनस्याऽपि नो वाञ्छा पूर्णा मम कदाचन।। १२०८ ॥ इमानि डिम्मरूपाणि जेमनार्थमनेकशः । रुदन्ति वीक्ष्य किं नाम तव चेतो न दूयते? ॥१२०९
&SSESXXEXERCISEXEEEEEEXXX
solu १७१॥
Page #347
--------------------------------------------------------------------------
________________
त्वयाऽग्रे विहिता सेवा पुरस्याऽस्य महीपतेः। अधुनाऽन्यस्य कस्याऽपि भूपतेः सा विधीयताम्।। १२१०॥ तयैवं भणितः सोऽभूत्सेवावृत्तिसमुद्यतः । प्रायेण गृहिणीवाक्यं दुर्लव्यं गृहमेधिनाम् ॥१२११॥ अथाऽसौ वणिज कश्चिदित्यूचे मे कुटुम्बिनी । यद्याचते देयमस्यास्तन्ममोद्धारके त्वया ॥ १२१२ ॥ नरेन्द्रसेवया लक्ष्मीमुपाया॑ऽहमुपागतः। पूरयिष्यामि भवतः स्वप्रियायाश्च वाञ्छितम् ॥१२१३ ॥ किञ्चित्पाथेयमादाय सुमुहूर्ते ततश्च सः । वस्त्रशस्त्रादिसामग्रीसंयुक्तो निर्ययौ गृहात् ॥१२१४॥ पुरे शंखपुरे गत्वा वत्सलस्याऽनुजीविनाम् । सेवकत्वं प्रपन्नोऽसौ शूरसेनमहीपतेः ॥१२१५॥ वचसाऽऽह्लादितोऽत्यन्तमल्पदानेन चाऽमुना। व्याघ्रः सर्वात्मना सेवां चक्रे तस्य धनाशया॥ १२१६॥ कियद्भिर्वासरैर्द्रव्यं तत्सर्व तेन मक्षितम् । अन्यच्चालभमानेन विक्रीतं क्षुरिकादिकम् ॥१२१७॥ संवत्सरेऽप्यतिक्रान्ते ततः किञ्चिदनाप्नुवन् । स एवं चिन्तयामास विषादकलिताशयः ॥१२१८॥ आदावुदारवचनो निःसारोऽयं शनैः शनैः । बभूव मे महीपालः शाल्मलीपुष्पसन्निभः ॥१२१९ ॥ अस्याः कुस्वामिसेवायास्तद्वरं कर्पणं मम | वियोगः स्वकुटुम्बेन यत्र नैव प्रजायते ॥१२२०॥ निःस्वस्य गेहगमनं ह्रीकर मम यद्यपि । तथापि निष्फलारम्भः किमन्यत् प्रकरोम्यहम् ॥१२२१ ।। विचिन्त्यैवं ततः स्थानान्निासत्याऽसावशम्बलः। आगात् पन्थानमुल्लंध्य रात्रौ निजनिकेतनम् ॥ १२२२॥ १ निर्धनस्य ।
Page #348
--------------------------------------------------------------------------
________________
शान्तिनापचरित्रम् । १७२॥
प्रस्ताना
गृहाबहिः स्थितः कुब्यान्तरे शुश्राव च प्रियाम् । याचमानान शुभाहारं बोधयन्ती शिशूनिति॥ १२२३॥ हे पुत्रा! भवतां तातः सेवां कर्तुं महीपतेः । गतोऽस्ति सोऽधुना वित्तं बहादाय समेष्यति ॥ १२२४॥ तस्मिन् समागते दास्ये युष्मभ्यं वरभोजनम् । समानेष्यति वासांसि भवद्यो ग्यान्यसौ तथा॥ १२२५॥ ममाऽप्येष सुवस्त्रालङ्कारान कारयिता स्फुटम् । भविष्यति शुभं सर्व विधेयं तन्न रोदनम् ॥१२२६ ॥ श्रुत्वा तद्वचनं तस्या दध्यौ व्याघ्रो मनस्पदः । अहो संभावनां गुर्वी मत्प्रिया मन्यते मयि॥ १२२७ ॥ यदि मामीदृशावस्थं द्रक्ष्यत्येषा गृहागतम् । संजातहृदयस्फोटा निराशा तन्मरिष्यति ॥१२२८॥ प्रभूतेनापि कालेन समुपायं श्रियं मया । आगन्तव्यं स्वगृहेज़ नाऽन्यथा तु कथश्चन ॥१२२९ ॥ निर्मितोऽसि नरः किवं विलीनोऽस्युदरेन किम् । जीवरे निर्धनावस्था जाता यस्येशी तव ॥ १२३०॥ नार्जिता कमला नैव चक्रे भर्तव्यपोषणम् । दत्तं च येन नो दान तस्य जन्म निरर्थकम् ॥१२३१ ॥ आत्मानमप्रकाश्यैव ततः स्थानाद्विनिःसृतः। चारुरत्नान्युपादातुं सोऽचालीद्रोहणं प्रति ॥१२३२ ॥ कुर्वन् भिक्षाटन मार्गे तं च पृच्छन् जनं जनम् । क्रमेण स ययौ तत्र दूरं किं व्यवसायिनाम? ॥१२३३॥ खनित्वाऽथ खनित्रेण रोहणाचलभूमिकाम् । जग्राह वररत्नानि कन्थान्तस्तानि चाऽक्षिपत् ॥ १२३४ ॥ भिक्षावृत्या पुनर्जीवन वलितः स्वगृहं प्रति। निषष्णः काननस्याऽन्तः कस्यचिच्छाखिनस्तले।। १२३५ ॥ प्रसारितास्यकुहरं दंष्टाक्रकचमीषणम् । वनोन्तरात्समायान्तं व्याघ्रमेकं ददर्श सः . ॥१२३६ ॥
Page #349
--------------------------------------------------------------------------
________________
भयभीतस्ततः शीघमारोह स पादपम् । रत्नकन्था तु तत्रैव जीविताया॑ऽस्य विस्मृता ॥१२३७ ॥ स्थित्वा तत्र क्षणं व्याघ्रो विलक्षःप्रययौ वनम् । व्याघ्रनामा तु तद्रीत्या नोत्ततार तरोस्ततः ॥१२३८॥ अत्रान्तरे कपिः कश्चिद्रत्नकन्यां मुखेन ताम् । गृहीत्वा प्रययौ शीघ्रं प्रकृत्या चञ्चलो हि सः॥१२३९॥ हरिणा हियमाणां तां कन्यां वीक्ष्य झटित्यपि । उत्तीर्य पादपात्तस्माद्व्याघ्रस्तमनुधावितः ॥ १२४०॥ वृक्षावृक्षं समुत्प्लुत्य गच्छन् शाखामृगोऽथ सः।क्षणेनाध्याददृश्यत्वं व्याघ्रस्त्वेवमचिन्तयत् ॥१२४१॥ यत् किश्चिन्निविडं पापं जीव रे विहितं त्वया । तेन त्वं निष्फलारम्भः कृतोऽसि धरणीतले ॥१२४२॥ व्यर्थः पुरुषकारः स्यान्निष्पुण्यानां हि यद्यपि । तथाऽप्येष न मोक्तव्यो महोद्यमत्रता ध्रुवम् ॥१२४॥ इति संधीरयित्वा खं सोऽग्रतश्चलितः पुनः। आससाद ग्राममेकमटवीप्रान्तवर्तिनम् ॥१२४४ ॥ तद्बहिश्चैकमद्राक्षीद्योगिनं तं ननाम च । वत्सादरिद्रो भूयास्त्वमित्यूचे स च तं कुधीः ॥१२४५॥ ततश्चाऽऽत्मकथांव्याघ्रः कथयित्वाऽब्रवीत् प्रभो! । अदरिद्रीभविष्यामि तुष्टेन भवता यदि ॥ १२४६॥ योगिनाऽपि रसकल्पमाख्यायैष प्रवेशितः। विवरे तत्र सुलस इव कूपे तथैव च ॥१२४७॥ केनापि पूर्वप्रक्षिप्तपुंसा तस्यापि तुम्बकम् । समर्पित रसापूर्ण कथितं चास्य चेष्टितम् ॥ १२४८॥ कूपकण्ठगतः सोऽपि याचितस्तेन तुम्बकम् । नार्पयामास व्याघ्रस्तं ततो योगीव्यचिन्तयत् ॥ १२४९॥ १ कपिना । २ वानरः।
EXEEEEEEEEEEEEEEEEEEX
Page #350
--------------------------------------------------------------------------
________________
--
--
शान्तिनाथचरित्रम् ॥ १७३॥
प्रस्ताव
---
-
-
बहिर्गतोऽप्युपायेन वञ्चनीयो मया ह्ययम् । इति ध्यात्वाऽमुनाऽऽकृष्टो रसकूपादसौ ततः ॥१२५० ॥ निःसृत्य विवरात्तस्माद्ग्रामोपान्तमुपागतः। ऊचे त्रिदण्डी भो भद्र ! सिद्धास्तव मनोरथाः॥१२५१॥ रसेनाऽनेन संसिक्तं लोहं प्रज्वाल्य वह्निना । करिष्यते जातरूप जातरूपं शरीरिणाम् ॥१२५२ ॥ किञ्चिदग्रेतन तस्यार्पयित्वाऽथ सुवर्णकम् । योगी साह वराहार वत्स ! साम्प्रतमानय ॥१२५३ ॥ वासोयुग्मं च प्रत्येकं मम चाऽऽत्मकृते त्वया। आनेतव्यं यतो लक्ष्म्या एतदेवादिम फलम् ॥ १२५४ ॥ व्याघ्रो व्यचिन्तयत् सत्यं ममाऽयं हितकारकः । अर्पयामास कनकमात्मीयं कथमन्यथा ॥ १२५५ ॥ यत्स्वस्य हेतवे भोज्यवस्ने चाऽऽनाययत्यसौ। तन्मन्ये मे हिताधायी निश्चितं न हि वश्चकः ॥ १२५६ ॥ ततोऽसौ योगिनः पार्श्वे विमुच्य रसतुम्बकम् । गत्वा ग्रामे मण्डकादिवरभोज्यमकारयत् ॥ १२५७ ॥ घटकर्परयोस्तच निक्षिप्य जलपूतयोः । वासांस्यपि समादाय यावदागादासो बहिः ॥१२५८॥ तावदने गतो योगी रसालावुयुतः क्वचित् । तमपश्यन्नथो व्याघ्रो मुष्टोऽस्मीत्यवदद्वचः ॥ १२५९ ॥ युग्मम् ॥ विमुच्याऽहारपाने ते वस्त्राणि च तरोस्तले। पपात मूर्छया पृथ्यां लब्धसंज्ञो जगाद च ॥ १२६०॥ हादेव! मत्समः कोऽपि किमन्यो नास्ति भूतले । अहमेव दुःखभाण्डागारिको यत्कृतस्त्वया ॥ १२६१ ॥ आदौ निर्धनता तावत्सेवा विफलिता ततः । हानिश्च रसरत्नानामहो दुःखपरम्परा ॥१२६२॥ ततो से मरणं श्रेय इत्युक्त्वा वटपादपे । आरुह्य तस्य शाखायां स्वमुद्वध्धुं समुद्यतः ॥१२६३ ॥
Brotect
॥ १७३॥
Page #351
--------------------------------------------------------------------------
________________
॥ १२६४ ॥ ।। १२६५ ॥
॥ १२६६ ॥
॥।
॥
॥
सोनगारं ददर्शेकमीर्यासमितितत्परम् । अभिग्रामं समायान्तं मासक्षपणपारणे अचिन्तयच्च यच्छामि दानमस्य महात्मनः । जायते यत्प्रभावेण सुखं जन्मान्तरे यथा ततो वृक्षात्समुत्तीर्य मुनिवर्य प्रणम्य च । स तस्मै ढोकयामास तद्भक्तं चीवराणि च तदुद्गमोत्पादनादिदोषवर्जितमेकतः । कर्परादग्रहीत् साधुः कल्पनीये च वाससी १२६७ ।। पुनः प्रणम्य तेनाऽसौ विसृष्टोऽगान्निजाश्रयम् । व्याघ्रोऽपि दध्यौ धन्योऽहं संयोगोऽभूद्यदीदृशः ॥ १२६८ ।। क्वेदृशाहारवसनसंपत्तिरभवन्मम । प्रान्तग्रामेऽथवाऽमुष्मिन् क्वेक साधुसमागमः विवेकविकलस्याऽपि क्वेदृशी दानवासना । जाताऽहो जन्मनस्तन्मे सारमेतदहो ध्रुवम् अत्रान्तरे जगादैनं देवता वटवासिनी । मुनिदानेन तुष्टाऽस्मि वत्स ! किं करवै तव सोऽवदद्यदि तुष्टाऽसि काऽपि त्वं मम देवता । तद्देहि पारिभद्रस्य वैभवं विभवं तथा देवतोवाच सर्वं ते भविष्यति महाशय ! भुंक्ष्व भक्ष्यमिदं तावत्प्राणाधारविधायकम् संप्राप्य' देवताऽऽदेशं व्याघ्रोऽपि मुदिताशयः । चक्रे तद्भोजनं ते च चीवरे परिधीतवान् देवतायाः प्रभावेण कपिरेत्य वनादसौ । रत्नकन्थां पुरस्तस्य मुक्त्वाऽगात् काननं पुनः रसतुम्बकमादाय स योग्यपि समाययौं । निष्पाद्य तेन कल्याणं व्याघ्रस्यैव समर्पितम् इतश्च पारिभद्रस्य पुरः स्वामी कथञ्चन । विपन्नों नाऽभवत्तस्य कोऽपि राज्यधरः सुतः
॥
॥
१२६९ ॥
१२७० ॥
१२७१ ॥
१२७२ ॥
॥
॥
॥
१२७३ ॥
१२७४ ॥
१२७५ ॥
॥
१२७६ ॥
॥ १२७७ ॥
Page #352
--------------------------------------------------------------------------
________________
शान्तिनाधचरित्रम् ॥ १७४॥
प्रस्ताव
ततः सा देवता व्याघ्र रत्नस्वर्णसमन्वितम् । निनाय नगरे तत्र लोकस्यैवं शशंस च ॥१२७८ ।। भो भो जना ! भवद्योग्य आनीतोऽस्ति मया प्रभुः । तमानयत पूर्मध्ये महोत्सवपुरस्सरम् ॥ १२७९॥ देवतादेशसन्तुष्टा यावत्तत्र ययुर्जनाः। तावते ददृशुर्व्याघ्रं तं स्वपत्तनवासिनम् ॥१२८०॥ ततश्च महिमा तस्य चक्रिरे ते प्रमोदिनः । पाषाणोऽपि भवेत् पूज्यो देवताधिष्ठितो यतः ॥१२८१॥ हस्तिस्कन्धाधिरूढोऽसौ यावदानीयते स्म तैः । पुरे तत्र पुरा तावद्यज्जातं तन्निवेद्यते ॥१२८२ ॥ सा तस्य गेहिनी नित्यं वणिग्धट्टाकणादिकम् । आनिनाय ततो द्रव्यं तेन लभ्यमभूद्वहु ॥ १२८३ ॥ व्याघ्रोदन्ते त्वविज्ञाते सापत्याऽप्यमुना सका । धृत्वा धरणके नीता पुरारक्षस्य मन्दिरे ॥१२८४ ॥ वृत्तान्तं तमथो ज्ञात्वा व्याघ्रण पृथिवीभुजा । दचार्थ वणिजस्तस्य सा निन्ये राजमन्दिरे ॥ १२८५॥ व्याघ्रोऽपि राजसदनं संप्राप्तो मन्त्रिपुङ्गवैः । सामन्तैरन्यलोकैश्च भक्तिपूर्व नमस्कृतः ॥१२८६ ॥ सभासीनः स सर्वेषां तेषामग्रे निजां कथाम् । कथयामास सकलां महाविस्मयकारिणीम् ॥१२८७॥ तोषयामास जायां च वस्त्रालङ्करणादिभिः । अपत्यानि च सर्वाणि स्ववार्ताख्यानपूर्वकम् ॥ १२८८ ॥ सुपात्रदानसंप्राप्तराज्यश्रीः सोऽथ भूपतिः । पुनरेव सुपात्रेभ्यो ददौ दानमनेकशः ॥१२८९ ।। अनुभूतां शरीरेण स्मरन् दुःखपरम्पराम् । स्वसंवेदनतो मैत्री चक्रेऽसौ सर्वजन्तुषु ॥१२९० ॥ ज्ञानगुप्ताभिघोऽन्येद्युस्तत्राचार्यः समाययौ । तस्य पादौ नमस्कर्तुमागाव्याघ्रमहीपतिः ॥ १२९१ ॥
॥१७४।।
Page #353
--------------------------------------------------------------------------
________________
॥ १२९२ ॥ ॥ १२९३ ॥ ।। १२९४ ॥
कृत्वा प्रणाममासीने नृपे तस्मिन्मुनीश्वरः । स धर्मदेशनां चक्रे प्रतिबोधविधायिनीम् राजावोचत् प्रभो ! धर्मफलं प्रत्यक्षमेव मे । जातं सुपात्रदानेन यदैश्वर्यमिव हि परमेवं ममाऽऽख्याहि पातकं किं पुराभवे । अकारि यत्प्रभावेणानुभूतं च मयाख सोऽथ ज्ञानी समाचख्यावासीत् पूर्वभवे भवान् । दुर्गसिंहाभिधः पल्लीपतिः क्षितिघरावनौ ॥ १२९५ ॥ परवित्तापहरणं मिल्लाः कुर्वन्ति यद्यपि । परिणामविशेषाः स्युस्तेषामपि शुभाशुभाः ।। १२९६ ।। तद्यथा - अवस्कन्दगतः कश्चिद्भूतेऽभिमुखमागतः । द्विपाच्चतुष्पात्सर्वोऽपि मारणीयोऽपशङ्कितं ।। १२९७ ॥ अन्य वदति तिर्यग्भिः किमेतैर्हन्त मारितैः । हन्तव्या नृस्त्रियो येन ग्राममध्ये भयं भवेत् ।। १२९८ ॥ अपरः प्राह कि स्त्रीभिर्मारणीया नराः खलु । जल्पत्यन्यो निहन्तव्या नरा अप्यायुधान्विताः ॥ १२९९ ॥ वक्त्यन्यो युध्यमाना हि हन्तव्या अपरस्तथा । धनापहारः कर्तव्यो मारणीयो न कवन ॥१३०० ॥ तत्राऽऽद्यः कृष्णलेश्यावान् द्वितीयो नीललेश्यकः । अन्यः कपोतलेश्यायुक् तेजोलेश्यान्वितोऽपरः । १३०१ ॥ पञ्चमः पद्मलेश्यावान् शुक्ललेश्यस्तथाऽपरः । त्रयोऽघोगामिनः पूर्वे शेषास्तु क्रमशः शुभाः ।। १३०२ ॥ दुर्गसिंहोऽपि पल्लीशः पद्मलेश्यासमन्वितः । परद्रव्यापहारेण सदा वृत्ति चकार सः अन्यदा चैरिसिंहाख्यनृपसैन्येन सोऽहत । कियतोऽपि भवाँस्तिर्यग्योनौ भ्रान्त्वाऽभवद्भवान् ॥ यदन्यवित्तहरणं त्वया चक्रे पुरा भवे । समपद्यत तत्र श्रीः संपन्नाऽपि हृता तव
॥
३०
१३०३ ॥
१३०४ ॥
॥। १३०५ ॥
Page #354
--------------------------------------------------------------------------
________________
शान्तिना
थचरित्रम् ।।
प्रस्ताव
॥१७५॥ .
सुपात्रदानपुण्येन तदा तु फलितेन ते । पुनः समागता लक्ष्मीर्जातं राज्यमिदं तथा ॥१३०६॥ श्रुत्वेति प्रतिबुद्धोऽसौ सुरिं नत्वा गतो गृहम् । निवेश्य तनयं राज्ये दीक्षांगुर्वन्तिकेऽग्रहीत् ॥ १३०७॥ अन्ते समाधिना मृत्वा देवलोकमियाय सः । च्युत्वा ततो मनुष्यत्वंलब्ध्वा मोक्षमवाप्स्यति ॥ १३०८॥
॥ इति व्याघ्रराजर्षिकथा ॥ इहैवाऽतिथिदानस्य साफल्यालङ्कता वरा । कथितेयं व्याघ्रकथा चक्रायुध नरेश! ते ॥ १३०९॥ द्वादशाऽपि व्रतान्येवमुक्तानि गृहमेधिनाम् । एतानि पालयित्वान्ते कुर्यात्संलेखनां गृही ॥ १३१०॥ गृहधर्म पालयित्वा दीक्षां गृह्णाति यत्सुधीः । एषा संलेखना शुद्धा समये परिभाषिता ॥१३११॥ अथ चैकादशश्राद्धप्रतिमादर्शनादिकाः । कुर्यास्तासामभावेन दीक्षां संस्तारके स्थितः ॥१३१२॥ ततत्रिधा चतुर्धा वा गृह्मात्यनशन सुधीः । वर्धमानपरीणामो गुरूणां चरणान्तिके ॥१३१३॥ शृणोत्याराधनाग्रन्थान् गुरुवक्त्रविनिर्गतान् । संवेगरगमनघं दधानो निजमानसे ॥१३१४ ॥ पञ्चाऽतिचारा अत्रापि वर्जनीयाः सुचेतसा । अर्थतो नामतश्चापि तानहं कथयामि ते ॥ १३१५ ॥ आद्यस्तावदिहलोकाशंसाप्रयोगनामकः । अहं मनुष्यो भूयासमित्यन्तश्चिन्तनं किल ॥१३१६॥ द्वितीयश्च परलोकाशसारूपो भवेद्यथा । प्रकृष्टो देवलोको मे भूयादिति विचिन्तनम् ॥१३१७॥
॥१७५॥
Page #355
--------------------------------------------------------------------------
________________
॥ १३१९ ॥
॥ १३२० ॥
॥ १३२१ ॥
॥
१३२२ ॥
॥
तृतीयो जीविताशंसाप्रयोगः स च जायते । निरीक्ष्य महिमां स्वस्य क्रियमाणां वृ॑षार्थिमिः ॥ १३१८ ॥ चतुर्थी मरणाशंसाप्रयोगोऽनशने सति । क्षुधापीडितगात्रस्याऽसहिष्णोः संप्रजायते पञ्चमश्च कामभोगाशंसासंज्ञो निवेदितः । शब्दरूपरसाः कामो गन्धस्पर्शो तथाऽपरौ संलेखनाया विषये दृष्टान्तः कथितः पुरा । सुलसस्य कथायां सुश्रावको जिनशेखरः एवं संलेखनायुक्तं धर्म शान्तिजिनोदितम् । आकर्ण्यामृतसिक्तेव बभ्रुव सकला सभा अत्रान्तरे समुत्थाय चक्रायुधमहीपतिः । नत्वा विज्ञपयामास प्रभुमेवं कृताञ्जलिः समस्तसंशयध्वान्तनिर्नाशनदिवाकर ।। त्र्यैलोक्यवन्दित ! श्रीमच्छान्तिनाथ ! नमोऽस्तु ते ॥ दुष्कर्म निगडान् भङ्क्त्वा रागद्वेषौ तथाऽप्यरी । भवगुप्तिगृहाचं मामरं निःसारय प्रभो ! शश्वज्जन्मजरामृत्युवह्रिदीप्ताद्भवौकसः । दीक्षाहस्तावलम्बेन निस्तारय जिनेश ! माम् ॥ पुत्रप्रदत्तराज्योऽसौ पञ्चत्रिंशन्नृपान्वितः । दीक्षितोऽथ जिनेन्द्रेण चक्रायुधधरापतिः ततः पृच्छां करोति स्म प्रभो ! किं तत्त्वमित्यसौ । उत्पत्तिरिति तत्त्वं तु समाचख्यौ जिनेश्वरः एवं विचिन्तयामास गत्वैकान्ते स बुद्धिमान् । उत्पद्यन्तेऽनुसमयं जीवा नारकिकादयः एवमुत्पद्यमानास्ते जन्तवो भुवनत्रये । कथं भवन्ति चेदन्या गतिः क्वापि भवेन्न हि ? धर्मार्थिभिः ।
॥
॥
॥
॥
॥
१३२३ ॥
१३२४ ॥
१३२५ ॥
१३२६ ॥
१३२७ ॥
१३२८ ॥
१३२९ ॥
१३३० ॥
Page #356
--------------------------------------------------------------------------
________________
शान्तिनापचरित्रम् ॥ १७६ ॥
• . XXXXXXXXXXXXXXXXXXXX8:
पुनः पप्रच्छ भगवन् ! किं तच्चमिति राड् यतेः। विगमस्तसमित्याख्यत्तस्मै च त्रिजगद्गुरुः॥ १३३१ ।। पुनः सदध्यौच सर्वविगमे शून्यता भवेत् । किं तत्वमिति भूयोऽपि ततः पप्रच्छ तीर्थपम् ॥१३३२ ॥ स्थितिस्तचमिति पुनर्जिनेन कथिते सति । जीवस्वरूपमखिलं ततो विज्ञातवानसौ त्रिपद्या अनुसारेण द्वादशाङ्गानि स क्षणात् । विदधे गाढप्रज्ञावानेवमन्येऽपि तेऽखिलाः ॥ १३३४॥ द्वादशाङ्गी विधायाऽगुस्ते सर्वे जिनसन्निधौ । तद्विज्ञायाऽऽसनवरादुत्तस्थौ भगवानपि ॥१३३५॥ अत्रान्तरे सहस्राक्षः स्थालं सद्गन्धपूरितम् । समादाय पुरस्तस्थौ शान्तिनाथजिनेशितुः ॥ १३३६ ॥ गन्धान समस्तसङ्घस्यार्पयामास जिनेश्वरः । प्रदक्षिणात्रयं ते च ददिरे परितः प्रभुम् ॥१३३७॥ गन्धाँस्तदुत्तमाङ्गेषु ससङ्घोऽपि जिनोऽक्षिपत् । तेषां गणधरपदस्थापनैव विनिर्मिता ॥१३३८॥ दीक्षिता जिननाथेन बहवः पुरुषाः स्त्रियः । साधुसाध्वीपरीवारस्ततोऽस्य समजायत ॥१३३९॥ यतिधर्मासमर्था ये पुरुषा महिलास्तथा । श्रावका श्राविकाश्चापि जज्ञिरे ते जिनान्तिके ॥ १३४० ॥ एवं चतुर्विधः सङ्घः समुत्पन्नो जगद्गुरोः । आये समवसरणे शरणे भव्यदेहिनाम् ॥१३४१॥ पौरुष्यन्ते समुत्थाय विशश्राम जिनेश्वरम् । गत्वा द्वितीयप्राकारमध्यस्थे देवछन्दके ॥१३४२॥ पादपीठे जिनेन्द्रस्य निषण्णः प्रथमो गणी। चक्रे द्वितीयपौरुष्यां व्याख्यान सदसः पुरः॥१३४३ ॥ जैनधर्मस्थिरीकारकारिणीमपहारिणीम् । सङ्घस्य कथयामास सोऽन्तरङ्गकथामिमाम् ॥१३४४॥
Page #357
--------------------------------------------------------------------------
________________
क्षेत्रे मनुष्यलोकेत्र शरीरे नगरे बली। मोहो नाम महीपाला स्वेच्छया विलसत्यहो। ॥ १३४५॥ मायानाम्नी प्रिया तस्य तनयोऽनङ्गनामकः लोभनामा महामात्यः क्रोधो योधोऽस्य दुर्धरः॥ १३४६ ॥ रागद्वेषावतिरथौ मिथ्यात्वं मण्डलेश्वरः । माद्यन्मानगजेन्द्रस्य(च) मोहराजस्य वाहनम् ॥१३४७॥ आरूढा इन्द्रियाश्वेषु विषयास्तस्य सेवकाः। एवमाद्यपरं तस्य सैन्यमत्यन्तदुर्धरम् ॥१३४८॥ वसन्ति नगरे तत्र कर्मसंज्ञाः कृषीवलाः । प्राणाश्च वणिजः प्रौढा रक्षको मानसाह्वयः ॥१३४९ ॥ गुरूपदेशदानेन भेदिते सति मानसे | धर्मराजः ससैन्योऽपि प्रविशेत्तत्र पत्तने ॥१३५०॥ तस्याऽप्याजवतानाम्नी पट्टराज्ञी मनोहरा । सन्तोषश्च महामात्यः सम्यक्त्वं मण्डलेश्वरः ॥ १३५१ ॥ महाव्रतानि सामन्ताः पत्तयोऽणुव्रतादयः । गजेन्द्रो मार्दवो नाम योधाश्चोपशमादयः ॥१३५२ ॥ सच्चारित्ररथारूढः सेनानीः श्रुतनामकः । निर्जित्य मोहराजोऽसौ तेन निस्सार्यते पुरात् ॥ १३५३॥ ददाति धर्मराजोऽथ सर्वस्याज्ञामिमां यथा। न मोहस्यावकाशोव देयः केनाऽपि निश्चितम्।। १३५४ ॥ एवं कृतेऽपि यः कश्चिद्याति मोहवशं पुनः । स कर्मपरिणत्या हि पुनः संस्थाप्यते पथि ॥ १३५५॥ यथाजीतिपुरं प्राप्तो रत्नचूडो वणिकसुतः। विपनिस्तारितो बुद्धिदानतो यमघण्टया ॥१३५६ ।। क एष रलचूडाख्य इति सङ्घन जल्पिते । कथयामास गणभृत्तकथां चित्रकारिणीम् ॥१३५७॥
इहास्ति भरतक्षेत्रे वार्दिवेलासमाकुले । महेभ्यजनसम्पूर्णा ताम्रलिप्तीति सत्पुरी ॥१३५८ ॥
BEEEEEEEEEXXXXXXXXXXXXXXXX
Page #358
--------------------------------------------------------------------------
________________
शान्तिनाअचरित्रम् ॥१७७॥
प्रस्वापर
सवृत्तः सरसः श्रीमान्मर्यादालङ्कृतः सदा। श्रेष्ठी स्त्नाकरस्तत्र रत्नाकर इवाऽभवत् ॥१३५९॥ पुण्यनैपुण्यलावण्यदाक्षिण्यगुणभूषिता । बभूव वनितासारा तस्य पत्नी सरस्वती ॥१३६० ॥ करप्राप्तमहारत्नशिखोद्योतितमन्दिरम् । निशाशेषेऽन्यदा स्वप्नं दृष्ट्वा पत्युः शशंस सा ॥१३६१ ॥ प्रिये ! ते तनयो भावीत्युक्ता तेन जहर्ष सा । प्रशस्तलक्षणैर्युक्तं समये सुषुवे सुतम् ॥१३६२॥ रत्नचूडाभिधानोऽयं चक्रे स्वप्नानुसारतः । जनकेन कलाभ्यासं कारितः समये तथा ॥१३६३ ॥ उद्यौवनः समं मित्रैरलङ्कारवराञ्चितः । स्वैरं विहरति स्माऽसौ नगरोपवनादिषु ॥१३६४ ॥ हट्टमार्गेऽन्यदा तेन गच्छताऽभिमुखागता । सौभाग्यमञ्जरी वेश्या दूनांसेन कथञ्चन ॥१३६५॥ राज्ञो वारविलासिन्या धृत्वा प्रच्छादनाञ्चले । सोपहासं साभ्यसूयं तथैवं भणितोऽथ सः ॥१३६६ ॥ हंहो वाक्यमिदं सत्यं वदन्तीति विपश्चितः । धनेनाऽनेनुकत्वं यद्भवेत् पश्यतोऽपि हि ॥१३६७ ॥ यस्त्वं दिवाऽपि वालोऽपि विपुलेऽपि चतुष्पथे। नमामभिमुखं स्वस्याऽऽगच्छन्तीमपि पश्यसि ॥ १३६८॥ अयं धनमदः किंतु तव कर्तु न युज्यते । येनेदमपि नीतिज्ञाः प्रवदन्ति मनीषिणः ॥१३६९॥ पित्रोपार्जितवित्तेन विलासं कुरुते न कः। स श्लाघ्यो यः स्वयं लक्ष्मीमुपायं विलसत्यहो!॥ १३७० ॥ एकमुक्त्वाऽथ मुक्त्वा तं स्वस्थानं गणिका ययौ। तच्छ्रुत्वा रत्नचूडोऽपि मनस्येवमचिन्तयत् ॥ १३७१ ॥ १ बधिरमूकत्वम् ।
॥ १७७॥
Page #359
--------------------------------------------------------------------------
________________
अहो ! अस्या वचः सत्यं करणीयं मया खलु । बालादपि हितं ग्राह्यं पठ्यतेऽदो बुधैर्यतः ॥ सविषादममुं गेहप्राप्तं दृष्ट्वाऽवदत् पिता । अद्याऽऽख्याति सचिन्तत्वं वत्स ! ते श्यामवक्त्रता ॥ तद्ब्रूहि किमसंपूर्ण वर्तते तव पुत्रक ! । किमेकतनयस्याऽपि पूरयिष्यामि नेप्सितम् १ ॥ किञ्चिद्विहस्य सोऽथाssख्यादर्थोपार्जन हेतवे । तात ! देशान्तरे गन्तुमिच्छामि त्वदनुज्ञया ॥ भूयो रत्नाकरोऽवोचत् पुत्राग्रेऽपि धनं बहु । विद्यते मद्गृहे तेन पूरय स्वसमीहितम् ॥ देशान्तरोऽतिविषमो गन्तुं शक्योऽतिकर्कशैः । सुकुमारतनुस्त्वं तु कथं तत्र गमिष्यसि इन्द्रियाणि वशे यस्य स्त्रीभियों न विलुभ्यते । वक्तुं यो वा विजानाति याति देशान्तराणि सः ततो देशान्तरे गत्वा वत्स ! किं त्वं करिष्यसि १ या मयोपार्जिता लक्ष्मीः सा त्वदीयैव सर्विका एवमुक्तोऽप्यसौ यावन्न मुमोच तमाग्रहम् । ततो विसृष्टः पित्राऽपि किं न स्यान्निश्वये कृते ततः स्वोद्धारके द्रव्यलक्षमादाय पैतृकम् । उपाददौ भाण्डजातं स देशान्तरलाभदम् रोया प्रवहणं किञ्चिद्गृहीत्वा तत्क्रयाणकम् । तत्र निक्षेपयामास प्रगुणश्च बभूव सः ॥ ददौ शिक्षामिमां तस्मै श्रेष्ठी यद्वत्सक ! त्वया । नगरे न हि गन्तव्यमनीतिपुरनामनि ॥ अन्यायस्तत्र भूपोऽस्ति सचिवस्त्वविचारकः । सर्वग्राह्याऽऽरक्षकञ्चाशान्तिनामा पुरोहितः १ धनेन ।
।।
॥
॥
॥
॥
॥
१३७२ ॥ १३७३ ॥ १३७४ ॥
१३७५ ॥
१३७६ ॥
१३७७ ॥
१३७८ ॥
१३७९ ॥
१३८० ॥
१३८१ ॥
१३८२ ॥
१३८३ ॥
१३८४ ॥
Page #360
--------------------------------------------------------------------------
________________
शान्तिना
चरित्रम् ॥ १७८ ॥
गृहीतभक्षकः श्रेष्ठी मूलनाशश्च तत्सुतः । रणघण्टेति गणिका यमघण्टा च कुट्टिनी द्यूतकार चौरपारदारिकाद्या अनेकशः । वसन्ति सततं तत्र लोका उच्चगृहस्थिताः अविज्ञातस्वरूपो यस्तत्रयाति वणिज्यया । गृह्यते तस्य सर्वस्वं तल्लोकैर्वञ्चनापरैः तदनीतिपुरं मुक्त्वा गत्वाऽन्यत्र यदृच्छया । व्यवहारस्त्वया कार्यों वत्स । शिक्षा ममेदृशी इत्यादिविविधां शिक्षां तद्दत्तां प्रतिपद्य सः । कृतमङ्गलोपचारः शुभेऽह्नि चलितो गृहात् अन्वीयमानः स्वजनैः शकुनोत्साहितश्च सः । तत्र याने समारूढो विनिवृत्तानुयातृकः ततः सितपटस्फीतः स धीवरगुणोत्करः । संचार संवरान्तः पोतः संयतसन्निभः कूपस्तम्भोपविष्टेन पुंसालोकितपद्धतिः । धीवरैरी प्सितद्वीपं प्रत्यचारयत सोऽन्वहम् भवितव्य नियोगेन तत्र द्वीपे जगाम सः । यत्राsनीतिपुरं नाम प्रसिद्धं विद्यते पुरम् दृष्ट्वा तं पोतमायान्तं पुरस्याऽस्य जनोऽखिलः । हृष्टोऽवलोकयामास तस्याऽभिमुखमुच्चगः ।। तं वीक्ष्य शङ्कितो रत्नचूडो निर्यामकाच ते । पृच्छन्ति स्म नरं कश्चिद्वेला कूलमुपागतम् ॥ भद्रा कतमो द्वीपः किमेतन्नगरं तथा । सोऽवदच्चित्रकूटाख्यो द्वीपोऽयं विदितो जने ॥ पूर्वाख्याते च पूर्नाम्नि पुंसा तेन निवेदिते । दध्यौ श्रेष्ठिसुतो दैवात्संजातं न हि सुन्दरम् ॥ निषिद्धो यत्र तातेन तत्रैवाऽहं यदागमम् । परं मे वाञ्छितो लाभो नूनमत्र भविष्यति ॥
॥
।। १३८५ ॥
॥ १३८६ ॥
॥
॥
१३८७ ॥
१३८८ ॥
॥
१३८९ ॥
॥
१३९० ॥
॥ १३९१ ॥
॥ १३९२ ॥
१३९३ ॥
१३९४ ॥
१३९५ ॥ १३९६ ॥
१३९७ ॥ १३९८ ॥ ( युग्मम् )
प
प्रस्तावः
* ॥। १७८ ॥
Page #361
--------------------------------------------------------------------------
________________
प्रशस्ताः शकुना यानेनुकूलपवनस्तथा । उत्साहो मनसश्चैतत्सर्व लाभस्य सूचकम् ॥१३९९ ॥ ततो यानात्समुत्तीर्य प्रसन्नवदनाम्बुजः । निवासमकरोदेलाकूले श्रेष्ठिसुतोऽथ सः ॥१४००॥ तत्र चाऽऽनाययामास भाण्डं कर्मकरैस्तथा । ददौ शुल्कधनं देयं राजपञ्चकुलस्य यत् ॥१४०१॥ आययुर्वणिजस्तत्र चत्वारो नगरान्तरात् । ते रत्नचूडमित्यूचुः स्वागतप्रश्नपूर्वकम् ॥१४०२॥ श्रेष्ठिपुत्र! यदत्र त्वं मुक्त्वाऽन्यस्थानमागतः । तत्साधु विदधे येन वयं ते स्वजनाः किल ॥ १४०३॥ ग्रहीष्यामो वयं सर्व तावकीनं क्रयाणकम् । यतो भावी तवाऽऽयासः कुर्वतः क्रयविक्रयम् ॥१४०४॥ इदमस्य हि मूल्यं यद्वस्तुभिस्त्वयकोदितैः । यानं ते पूरयिष्यामो गच्छतो नगरं निजम् ॥१४०५॥ एवमस्त्विति तेनोक्ते सर्व तस्य क्रयाणकम् । विभज्य स्वस्वगेहेषु निन्ये तैः कूटबुद्धिभिः ॥ १४०६॥ ततः पदातिसंयुक्तो वस्त्राद्याडम्बरान्वितः । स चचाल पुरस्यान्तर्द्रष्टुमन्यायभूपतिम् ॥१४०७॥ कारुरत्रान्तरे कश्चिदुपानयुगलं वरम् । तस्योपढौकयामास स्वर्णरूप्यादिमण्डितम् ॥१४०८ ॥ दापयित्वाऽथ ताम्बूलं तस्मै श्रेष्ठिसुतोऽवदत् । करिष्ये त्वामहं हृष्टमित्युक्त्वा चाऽग्रतोगमत् ॥ १४०९॥ एकाक्षः कितवः कश्चिदथो रत्नाकरात्मजम् । इत्युवाच सहस्रेण द्रव्यस्य मयका किल ॥१४१०॥ स्त्रनेत्रं त्वरिपतः पार्थे मुक्तं ग्रहणकेऽस्ति भोः। त्वत्तोऽहं तद्ग्रहीष्यामि गृहाण त्वं तु तद्धनम्॥ १४११॥ (युग्मन) इत्युदित्वाऽऽर्पयदसौ रत्नचूडस्य तद्धनम् । दध्यो सोऽथाऽघटमानं वाक्यमेष वदत्यहो। ॥१४१२॥
Page #362
--------------------------------------------------------------------------
________________
पष्टः
शान्तिनामचरित्रम् । ॥ १७९॥
प्रस्वानः
*
*
*
SEEXXXXXXXXXXXX
तथाऽप्युपस्थितं वित्तं स्वायत्तं प्रकरोम्यहम् । पश्चादत्रोचरं किश्चिद्ययुक्तं तत्करिष्यते ॥१४१३॥ एवं विचिन्त्य तदत्तं गृहीत्वा तमभाषत । आगन्तव्यं त्वयाऽऽचासे समेतस्य ममाऽन्तिकम् ॥ १४१४॥ ततश्च पुरतो यान्तं तं दृष्ट्वा श्रेष्ठिनन्दनम् । जजल्पुरेवमन्योऽन्यं चत्वारो व्यंसको नराः ॥ १४१५॥
तत्रैकःस्माहनीरमानं समुद्रस्य गङ्गायाः सिकतामितिम् । बुद्धिमन्तो विजानन्ति न स्त्रियो हृदयं पुनः ॥ १४१६॥ द्वितीयोऽवोचदत्युक्तिः केनाऽप्येषा प्रजल्पिता। यथा स्त्रीहृदयं तद्ववयं वेत्ति न कोऽप्यदः॥१४१७॥ तृतीयः साह नाऽसत्यं पूर्वसरिसुभाषितम् । परं शुक्रगुरुप्रख्यैः कैश्चिद्विज्ञायतेऽप्यदः ॥१४१८॥ अथ प्रोक्तं चतुर्थेन ताम्रलिप्त्याः समागतः । बालोऽप्येष विजानाति सर्वमेतच्छ्रभाकृतिः ॥ १४१९ ॥ ततथाऽन्योऽवदहरे वर्तते सा सुरापगा। त्वं रत्नाकरनीरस्य मानमेनं हि कारय ॥१४२०॥ एवं कृत्वा हठाद्वादं तेन प्रोत्साहितस्तथा । तमर्थ श्रेष्ठिपुत्रोऽपि यथाऽङ्गीकृतवानयम् ॥१४२१॥ त्वमेवं यदि कर्ताऽसि तदा नः कमला तव । न घेद्वयं ग्रहीष्यामश्चत्वारोऽपि श्रियं तव ॥१४२२ ॥ इत्युदित्वाऽमुना साधं विदधे तैः कराहतिः । रत्नचूडोऽपि तत्कृत्वा चचाल पुरतस्ततः ॥ १४२३ ॥ १ धूर्ताः ।
*
॥१७९॥
Page #363
--------------------------------------------------------------------------
________________
स एवं चिन्तयामास याक् पित्रा ममोदितः। ताडगेव जनः सर्वः स्थानीयोन प्रवर्तते ॥ १४२४॥ एतेषां हन्त कार्याणां निर्वाहो भविता कथम् । अथवा याम्यहं तावद्गणिकाया निकेतनम् ॥ १४२५॥ यत्सानेकमनुष्याणां चित्तरञ्जनकर्मठा । जानाति विविधोपायान बुद्धिदात्री ममाऽप्यतः ॥१४२६ ॥ अथ तत्र गतस्याऽस्याऽभ्युत्थानं विदधे तया । तेनापि दत्तमेतस्यै तद्वित्तं कितवार्पितम् ॥ १४२७॥ अभ्यङ्गोद्वर्तनस्नानभोजनानि सगौरवम् । कारितानि तया तस्य सन्ध्याकालस्ततोऽभवत् ॥ १४२८॥ स तस्या वासगेहेऽथ शयनीये मनोहरे । निषसाद पुरः सास्य स्फारशृङ्गारशोभिता ॥१४२९ ॥ यावत् प्रकर्तुमारेमे सा गोष्ठी वैदुषाश्चिता । तावदाख्याय वार्ता स्वामित्यूचे श्रेष्ठिखनुना॥ १४३०॥ अयि त्वमत्र वास्तव्या वेत्सि स्वपुरचेष्टितम् । किमेतेषां विवादानां वद कार्य मयोत्तरम् ॥१४३१ ॥ अस्मिनिर्वाहिते कार्ये रडावात त्वया सह । अहं सुभ्र करिष्यामि सचिन्तोऽस्म्यधुना पुनः॥१४३२॥ प्रत्यूचे धीमती सा तं शृणु सुन्दर! कारणम् । देवादिह समायाति यः कश्चिद्व्यवहारिकः॥ १४३३ ॥ स एतैगृह्यते सर्वैः सर्वस्वं वचनापरैः । उपात्तविभवस्यांशो दीयते तु महीपतेः ॥१४३४॥ सचिवस्य द्वितीयोऽशस्तृतीयः श्रेष्ठिनस्तथा । आरक्षकस्य तुर्यांशः पञ्चमस्तु पुरोधसः ॥१४३५॥ मन्मातुर्यमघण्टायाः षष्ठोंऽशस्तत्र दीयते । सर्वोऽपि करणाचारस्तदने क्रियते परम् ॥१४३६ ।।
१ न्यायः।
Page #364
--------------------------------------------------------------------------
________________
शान्तिनाधचरित्रम् ॥१८॥
प्रस्ताव
अतिप्रज्ञावती सा तूत्तरप्रत्युत्तरादिकम् । तेषां सर्व समाख्याति योग्यं स्वस्य परस्य च ॥१४३७॥ समीपे यमघण्टायास्त्वां नेष्याम्यात्मना सह । तत्रोपविष्टः श्रोताऽसि तद्वाता त्वमपि स्फुटम् ॥१४३८॥ इत्याख्याय स्त्रियो वेष परिधाप्य तयाऽथ सः । निन्ये समीपमकायास्तदौदार्यप्रहृष्टया ॥१४३९ ॥ कृत्वा प्रणाममासीना कुट्टिन्या भणितासुता। हे वत्से ! बालिका केयमागतेह त्वया सह ॥ १४४०॥ साख्यदूपवतीनाम्नी श्रीदत्तश्रेष्ठिनः सुता । हे अम्ब ! बालिकेयं मे वयस्या प्राणवल्लभा॥१४४१ ।। ममैकवारं धर्मध्ये संचरन्त्या यथा तथा। मिलत्येषा दिनेऽस्मिंश्च व्याक्षिप्ताऽभूत्स्वमन्दिरे ॥१४४२ ॥ कृत्वा मिषान्तरं किचिनिःसृत्यागारतोऽधुना । ममेयं मिलनायाऽऽगादानीता चततो मया ॥१४४३ ॥ अत्रान्तरेऽन्तिकेऽकाया वणिजस्ते समागताः । सकलं रत्नचूडस्य जगृहे यैः क्रयाणकम् ॥ १४४४॥ न्यस्तासनोपविष्टास्ते भणिता यमघण्टया। नन्वद्य यानिकः कश्चिदिहाऽऽयातः श्रुतो मया ॥१४४५ ॥ तेचोचनागतोऽस्त्यक स्तम्भतीर्थाद्वणिकसुतः। सोचे तत्राऽऽगते लाभो जातः कश्चन वो नवा ॥ १४४६ ॥ ततः ऋयाणकग्राहे तथा तैः कथिते सति । कुदिन्युवाच नो लाभः सा हानिर्भवतामहो ॥ १४४७॥ कथं हानिरियमिति पृष्टे तैः साऽभ्यधातू पुनः । तदिष्टवस्तुना यानं पूरणीयं हि तस्य यत् ॥१४४८॥ इच्छा चाऽनेकरूपा स्यात्ततोऽसौ मशकाऽस्थिभिः। चेत्कारयति पूर्ण तत् यूयं कुरुत भोः किमु१॥ १४४९ ॥
१ नाविकः ।
॥१८॥
Page #365
--------------------------------------------------------------------------
________________
SEEEEEEEEEEEEE.
३१
जल्पुस्ते न तस्येदृग्धीप्रपञ्चो भविष्यति । येनाऽसौ बालको मुग्धोऽप्रगल्भवचनस्तथा ॥ १४५० ॥ जगाद कुट्टिनी चाल इत्यवज्ञाऽत्र नोचिता । बालोऽपि स्यात् सुधीः कश्चित्कश्चिद्वृद्धोऽप्यपण्डितः ॥ १४५१ ॥ अन्यच्च - धूर्तलोकोचितमिदं वेत्ति सर्वोऽपि पत्तनम् । स एवाऽत्र समायाति यस्य स्याच्छेमुषीबलम्॥ १४५२ ॥ संजाते भवतां लाभे भवेल्लाभो ममाऽपि भोः । न ह्यात्मा: प्रीणनीयोऽयं परं व्यर्थमनोरथैः ॥ १४५३ ॥ इत्युक्तास्ते ययुः स्वौकः सोऽथ शिल्पी समागतः । विप्रेकृष्टोपविष्ट:- सन्नित्यूचे विकसन्मुखः ॥ १४५४ ॥ अक्काद्य श्रेष्ठिनः पुत्रः कश्चिदत्राययौ पुरे । अर्पितं मयका तस्योपानद्युग्मं मनोहरम् ।। १४५५ ॥ करिष्यामि प्रहृष्टं त्वामित्युक्तोऽस्म्यमुना ततः । गृहीते तस्य सर्वस्वे भाविनी मे प्रहृष्टता ॥ १४५६ ॥ ततोऽहमीदृशं वार्तामागां तव निवेदितुम् । तवाऽपि भविता भागस्तद्वित्तस्याऽम्बिके ! यतः || १४५७ ॥ अक्काsवोचदरे कौरो ! स्वानुरूपो मनोरथः । कर्तव्यः पुरुषेणेह तल्लो (ला)भः का तवेदृशः १ ।। १४५८ ॥ नरेन्द्रतनयोत्पत्ति निवेद्य त्वामसौ यदा । हृष्टो-नो वेति वक्ता भोस्तदा ते कीदृशी गतिः १ ॥ १४५९ ॥ 'ययौ सोऽपि तताऽऽगाद् द्यूतकारः स एकदृक्। सोऽप्याऽऽत्मधूर्ततावात कुट्टिन्यग्रे न्यवेदयत् ।। १४६० ॥ विहस्य यमघण्टोचे तवाsहो कूटसूत्रणा । परं तन्न कृतं साधु दत्तं स्वं तस्य यवा ॥ १४६१ ॥ सोऽब्रवीत्तद्धनादानसत्यङ्कार इवाऽर्पितम् । मया हि स्वधनं तस्य तत्त्वं वक्षीदृशं कथम् १ १- बुद्धिबलम् । २ दूरमुपविष्टः । ३ शिल्पिन् । ४ कूटरचना |
॥ १४६२ ॥
****
Page #366
--------------------------------------------------------------------------
________________
षष्ठः
शान्तिनापचरित्रम्
प्रस्तावा
॥१८१॥
कुट्टिन्युवाच नो शक्यं हर्तुं केनाऽपि तद्धनम् । सोचदन्मद्ग्रहान्मोक्षः कथं तस्य भविष्यति ॥ १४६३ ॥ अक्का भूयोऽभ्यधादक्षि कस्याऽप्यन्यस्य देहिनः । तद्रूपमथवा वस्तु तवाऽयं ढौकयिष्यति ॥१४६४॥ मामकीनमिदं नाक्षि यदा वक्ता भवाँस्तदा । क्षिप्त्वा तोलनयन्त्रे तच्चामेवं संवदिष्यति ॥ १४६५ ॥ क्षिपात्र नेत्रमात्मीयं तुल्ये जाते उभे अपि । ग्राह्ये इमे त्वयेत्युक्तस्तेन त्वं किं करिष्यसि ॥१४६६ ॥ जगाद कितवो बुद्धिकौशलं हि तवेदृशम् । ततोऽस्य गृहसर्वस्वं मम हस्तगतं खलु ॥१४६७ ॥ उत्थाय प्रययों सोऽपि ततस्ते व्यसका नराः। आगत्य कथयामासुस्तस्यास्तामात्मनः कथाम् ।। १४६८।। तयेति भणितास्तेऽथ प्रपञ्चे भवतामपि । न किञ्चिदपि पश्यामि स्वार्थ निजमनीषया ॥१४६९॥ मया समुद्रनीरस्य मानं कार्य हि सर्वथा । युष्माभिनिम्नागातोयं पृथक्कार्य ततः पुनः ॥१४७०॥ इत्युक्तास्तेन तत्कर्तुमशक्ता यूयमेव भोः । लप्स्यध्वे गृहसर्वस्वहरणं दीनवादिनः ॥१४७१॥ युग्मम् ॥ ययुस्तेऽपि निजं स्थानं तत्सर्वं श्रेष्ठिनन्दनः । श्रुत्वा बभार चित्ते स्वे प्रहृष्टो गुरुवाक्यवत् ॥ १४७२ ॥ ततः स्थानात्समुत्थाय स समं रणघण्टया। आययौ तद्गृहे तां चाऽनुज्ञाप्यागान्निजाश्रये॥ १४७३ ॥ ततश्च कुट्टिनीप्रोक्तोपायेन सकलान्यपि । कार्याणि साधयामास रलचूडो महामतिः ॥१४७४ ॥ माण्डग्राहिवणिक्षार्थाचतुर्लक्षमितं धनम्। वाय॑म्बुचारिकारिभ्योऽप्येतावत्सोऽग्रहीबलात् ॥ १४७५ ॥ तेन व्यतिकरणाऽयं बभूव विदितः पुरे । अन्येयुरुपदापाणिर्ययौ च नृपसन्निधौ ॥१४७६॥
॥१८१
॥
Page #367
--------------------------------------------------------------------------
________________
कृतप्रणाममासीनं तमथो मेदिनीपतिः। पप्रच्छ सर्ववृत्तान्तं सोऽपि तस्य शशंस तम् ॥१४७७॥ सोध्थाऽवोचदहो! अस्य पुंसो महात्म्यमद्भुतम् । येनाऽस्मन्नगरस्याऽपि लोकाद्वित्तमुपाददे॥ १४७८ ॥ तं जगाद च भो भद्र ! तुष्टोऽहं किं करोमि ते । ययाचे रत्नचूडोऽपि नृपात्तांगणिकां प्रियाम् ॥ १४७९ ॥ ततो राज्ञा समादिष्टा जज्ञेऽसावस्य गेहिनी। तस्याश्च कारयामास प्रभूताभरणान्यसौ ॥१४८०॥ एवं संप्राप्ते लाभेऽसावुपादाय क्रयाणकम् । तेन संपूर्य यानं च स्वस्थानगमनोत्सुकः ॥१४८१ ॥ तत्राधिरूढःक्षेमेण निस्तीर्य सरितां पतिम् । स्तोकैरेव दिनरागात पुनस्तांनगरी निजाम् ॥ १४८२॥ युग्मम् ॥ श्रेष्ठी पुरोगतेनैकपुंसा रत्नाकरोऽथ सः । संवर्धितः प्रमोदेन तदागमनवार्तया ॥१४८३ ॥ गत्वाऽपभिमुखमेतेन महोत्सवपुरस्सरम् । निजावासं समानिन्ये सप्रियस्तनयो निजः ॥१४८४ ॥ रत्नचूडः सदारोऽपि प्राणमच्चरणद्वयीम् । पितुर्मातुः शुभाशीभिस्तं चाऽवर्धयतामिमौ ॥१४८५॥ पित्रा पृष्टः स्ववृत्तान्तं सोऽथ सर्व न्यवेदयत् । तं श्रुत्वा प्रमदं श्रेष्ठी बभार हृदयेऽधिकम् ॥ १४८६ ॥ ईषच्च वर्णयामास तद्गुणान् वचसा यतः । पुत्रप्रशंसा गुरुभिः प्रायेण क्रियते न हि ॥१४८७ ॥ गृहीत्वाऽक्षतपात्राणि लोकस्तस्याऽऽययौ गृहे । समाननं यथायोग्यं कृत्वा तं विससर्ज सः ॥१४८८॥ सौभाग्यमञ्जरी सा तु वेश्या तं द्रष्टुमागता । आसयित्वाऽऽसने रत्नचूडेनैवं प्रजल्पिता ॥१४८९॥ मद्रे! त्वदुपदेशेन गत्वा देशान्तरे मया । उपार्जितेयं कमला कमलाक्षी च वल्लभा - ॥१४९० ॥
Page #368
--------------------------------------------------------------------------
________________
पान्तिनाथचरित्रम् ॥१८२॥
प्रस्ताव
वस्त्राभरणसन्दोहै। साऽपि संमानिताऽमुना । ऊचेऽहमपि राज्ञाऽनुज्ञाता स्यां गृहिणी तव ॥१४९१ ॥ उपायनेन भूपालस्तोषितोऽनेन भूयसा । ततश्चाऽनुज्ञया राज्ञो जज्ञे साऽप्यस्य गेहिनी' ॥१४९२ ॥ ततस्तेन-पितुर्द्रव्यं पितुरेवः परिग्रहे । विदधे शेषद्रव्येण त्यागमोगौ चकार सः ॥ १४९३॥ अन्यानि च कलत्राणि विधिना परिणीतवान् । कारयामास नगरे तत्रोचैर्जिनमन्दिरम् ॥१४९४ ।। चिरंभोगश्रियं भुक्त्वा जातपुत्रः सकोऽन्यदा | शुश्राव सद्गुरोः पार्श्वे धर्म प्रवजितस्ततः॥ १४९५॥ प्रवज्या पालयित्वाऽथ विपद्याऽन्ते समाधिना। गतः स्वर्ग महानन्दपदं च स ययौ क्रमात् ॥ १४९६ ॥ अत्रोपनयः कार्य:सुकुलं मर्त्यजन्मेदं भव्यप्राणी वणिकसुतः । जनको धर्मबोधोऽस्य गुरुर्वा हितकारक: श्रद्धादिजनितप्रोत्साहना वेश्यावासमा । पुण्यलक्ष्म्या उपचयं कर्तु साऽपि भवेद्यतः । ॥ १४९८ ॥ मूलद्रव्यं च चारित्रमर्पित गुरुणा स्वयम् । अनिष्टपूनिषेधश्च स्मारणा वारणा गुरोः ॥१४९९ ॥ संयमोऽयं महापोतस्तरणीयो भवाम्बुधिः । कर्णधारकतुल्याश्च साधर्मिकतपोधनाः ॥१५००॥ भवितव्यनियोगामा प्रमादः परिकीर्तितः । अनीतिपुरसंकाशं दुःप्रवृत्तिप्रवर्तनम् ॥ १५०१॥ अन्यायभूपतिमोहो भाण्डग्राहिवणिक्समाः कषायास्तत्र चत्वारो विवेकधनहारिणः ॥१५०२॥ विषयाशा च वेश्येव साऽका कर्मपरीणतिः।सा च पूर्वभवकृता जन्तोः सुमतिदायिनी ॥१५०३।।
Sus5EXERVतर
Page #369
--------------------------------------------------------------------------
________________
.
.
उल्लंध्य सर्वमशुभं तत्प्रभावेणं देहभृत । पुनरानीयते-धर्ममार्गे जन्मक्षिताविव
॥ १५०४॥ इत्याधुपनयः सर्वो यथायोग मनीषिभिः। करणीयो धर्मविधिर्धर्मपुष्टिविधित्सया । ॥१५०५॥
॥ इति रत्नचूडकथा ।। कृता गणधरेणैवं प्रवरा धर्मदेशना । कथिता द्वादशाङ्गीच या स्वयं तेन निर्मिता ॥१५०६॥ साधूनां च दशविधा सामाचारी प्रकाशिता । तेषामशेषकृत्यं च श्रुतकेवलिनाऽमुना ॥१५०७॥ इति शान्तिजिनवरो-विजहार महीतले । भव्याम्बुजवनं नित्यं सरवत्प्रतिबोधयन् ॥१५०८॥ केचिद्भगवतः पार्श्वे प्रव्रज्यां जगृहुर्जनाः । गृहस्थधर्म केचिच शुभभावात्प्रपेदिरे ॥१५०९ ॥ केचनाऽविरतसम्यग्दृष्टयो भद्रकाः परे - संजायन्ते स्म भगवठ्ठीशान्तिप्रतिबोधिताः ॥१५१० ॥ सर्वस्याऽपि तमो नएमुदिते जिनभास्करे। कौशिकानामिवाऽन्धत्वमभव्यानामभूच तत् ॥१५११॥ वह्निनाऽपि न सिध्यन्ति यथा ककटुकाः कणाः। तथा सिद्धिरमव्यानां जिनेनाऽपिन जायते ॥ १५१२ ॥ यथोपरक्षितौ धान्यं न स्यावृष्टेऽपि नीरदे । बोधो न स्यादभव्यानां जिनदेशनया तथा ॥ १५१३॥ यत्र यत्र जनपदे-श्रीशान्तिर्व्यहरतु प्रभुः । सर्वदुरितोपशान्तिस्तत्र तत्राऽभवजने ॥१५१४ ॥ नाऽभूवन योजनशतमध्ये विहरति प्रभौ । दुर्भिक्षडमरादीनि पीडाकारीणि देहिनाम् ॥१५१५॥ फलपुष्पाकुला वृक्षा,वसुधा.सुखसञ्चरा । पञ्चविंशतियोजन्यामभूदेवं जिनागमे ॥१५१६॥
Page #370
--------------------------------------------------------------------------
________________
शान्तिनाचचरित्रम्
॥ १८३ ॥
।। १५२० ।।
इत्यादिजिनमाहात्म्यं विश्वविस्मयकारकम् । किग्रदस्मादृशैस्तुच्छबुद्धिभिर्भयते भुवि ॥। १५१७ ॥ यो न पल्योपमायुष्को यो न जिह्वासहस्रकः । स कथं वर्णयत्येतत्पुण्यमाहात्म्यमर्हताम् १ ।। १५१८ ।। विजानाति जिनेन्द्राणां को निःशेषगुणोत्करम् । त एव हि विजानन्ति दिव्यज्ञानेन तं पुनः ॥ १५१९ ॥ इत्यद्भुतैकचरितः श्रीशान्तिजिनपुङ्गवः । विजहार धरापीठे लोकानां हितकाम्यया 'चक्रायुधगणधरः सह शान्तिजिनेन्दुना । विचचार प्रकुर्वाणः शुश्रूषां तस्य भूतले जानन्नपि विभोः पार्श्वे चक्रे पृच्छा अनेकशः । प्रतिबोधकृते भव्यजीवानां भगवानसौ एवं शान्ति जिनेन्द्रेण पृथ्व्यां विहरता सता । सद्विषष्टिसहस्राणि दीक्षिता मुनिपुङ्गवाः एकषष्टिसहस्राणि षट्शतैरधिकानि च । प्रभुणा दीक्षितास्तेन श्रमण्यः शीलशोभिताः सत्सम्यक्त्वगुणभृतां सुश्राद्धव्रतधारिणाम् । जीवाजीवादिसत्तच्ववेदिनां पापभेदिनाम् धर्मादक्षोभणीयानां रक्षोयक्षामरादिभिः । अस्थिमज्जानुरागेण रक्तानां जिनशासने समुच्छित फलहका पिहितद्वारवेश्मनाम् । नित्यं त्यक्तप्रवेशानां परोकोऽन्तः पुरादिषु जिनवाक्यमेतदर्थः परमार्थस्तथैव च । अनर्थ शेषमित्यग्रे सर्वलोकस्य शंसताम् चतुर्दश्यष्टमीराकाऽमावास्यासु च पौषधम् । कुर्वतामशनाद्यैश्च प्रतिलाभयतां मुनीन् श्री शान्तिजिननाथेन बोधितानामगारिणाम् । नवतिसहस्रायुक्ता जाता लक्षद्वयी वरा
॥ १५२१ ॥
॥ १५२२ ॥
॥
१५२३ ॥
।। १५२४ ।।
।। १५२५ ।।
।। १५२६ ॥
॥ १५२७ ॥
॥ १५२८ ॥
।। १५२९ ।।
॥ १.५३० ।। षड्भिः कुलकम्
पछ
प्रस्तावः
॥ १८३ ॥
Page #371
--------------------------------------------------------------------------
________________
पूर्वोदितगुणैर्युक्ताः श्राविकास्त्रिजगद्गुरोः । त्रिनवतिसहस्राणि त्रीणि लक्षाणि चाऽभवन् ॥ १५३१॥ अजिनानां जिन इवाऽतीताऽनागतवेदिनाम् । चतुर्दशपूर्वभृतां सहस्राण्यष्ट चाऽभवन् ॥१५३२ ॥ पश्यतां रूपिद्रव्याणि सङ्ख्यातान्नृभवाँस्तथा । सहस्रत्रितयं शान्तेरवधिज्ञानिनामभूत् ॥१५३३ ॥ विदुषां समयक्षेत्रगतसंज्ञिमनोरथान् । मनःपर्ययवतां जाता सहस्रचतुष्टयी
॥१५३४॥ तथा चतुःसहस्राणि बभूवुस्त्रिशतानि च । केवलज्ञानयुक्तानां साधूनां सर्वदर्शिनाम् ॥१५३५॥ वैकुर्विकलब्धीनां षट्सहस्राणि चाऽभवन् । चतुःशताधिके द्वे तु सहस्र वादिनां तथा ॥१५३६॥ वैयावृत्त्योद्यतो नित्यं ध्वस्तप्रत्यूहसञ्चयः । यक्षोऽभूगरुडो नाम्ना तीर्थे शान्तिजिनेशितुः ॥१५३७ ॥ सर्वदा कृतसान्निध्या निर्वाणी नाम विश्रुता । श्रीमतः शान्तिनाथस्य जज्ञे शासनदेवता ॥ १५३८ ॥ पर्युपास्तिकरो नित्यं चक्रायुधनृपात्मजः । बभूव शान्तिनाथस्य राजा कोणाचलाऽभिधः ॥ १५३९ ॥ चत्वारिंशद्धनुस्तुङ्ग मृगाई काञ्चनद्युतिम् । त्रिजगत्यप्रतिरूपं श्रीशान्तेरभवद्वपुः ॥१५४०॥ चत्वारो जन्मजा एकादश कर्मक्षयोद्भवाः । एकोनविंशतिश्चान्ये देवसद्धेन निर्मिताः चतख्रिशदतिशया एते सिद्धान्तभाषिताः। यथाऽन्येषां तीर्थकृतां शान्तेरपि तथाऽभवन् ॥१५४२ ॥ युग्मम् ॥ भुवनत्रयनाथत्वसूचकानि जिनेशितुः । प्रातिहार्याणि तस्याऽष्टावशोकादीनि जज्ञिरे ॥१५४३॥ एवं त्रिभुवनश्रेयास्थानं शान्तिरपालयत् । स पश्चविंशतिवर्षसहस्राण्यनगारताम् ॥ १५४४॥
Ste3SD
Page #372
--------------------------------------------------------------------------
________________
शान्तिना
पछः प्रस्ताव:
पचरित्रम् ॥ १८४॥
ऊनान्येकेन वर्षेण तानि केवलितां पुनः। वर्षलक्षमनूनं च सर्वायुरभवत्प्रभोः ॥१५४५॥ निर्वाणसमयं स्वस्याऽऽसन्नं ज्ञात्वा जगद्गुरु । आरुरोहच शिखरे समेतस्य- महीभृतः ॥१५४६ ॥ विज्ञातस्वामिनिर्वाणा: सुरेन्द्रा एत्य सत्वरम् । चक्रुस्तत्राऽन्त्यसमवसरणं सरणं श्रियाम् ॥१५४७॥ तत्रोपविश्य भगवाँश्चक्रे पर्यन्तदेशनाम् । आचख्यौ सर्वसावानामनित्यत्वं महीतले ॥१५४८॥ इत्युवाच च भो भव्या-कार्य तत्कर्म किञ्चन । येन साप्राप्यते मुक्तिर्मुक्त्वाऽसारां भवस्थितिम्॥ १५४९॥ अत्राऽन्तरे गणधरः पादप्रणतिपूर्वकम् । पप्रच्छै जिनं कीयूपां सिद्धिर्भवत्यसो ॥१५५०॥ प्रभुः प्रोवाच सा हारहीरचन्द्रकरोज्ज्वला । योजनानां पञ्चचत्वारिंशल्लक्षाणि विस्तृता । || १५५१ ॥ श्वेतोत्तानवरच्छत्रसमसंस्थानसंस्थिता । सकलस्याऽपि लोकस्य साध्यभागे प्रतिष्ठिता ॥१५५२ ॥ पिण्डे च योजनान्यष्टौ मध्यभागे सका पुनः। जायते मशिकापत्रतन्वी चान्ते क्रमादियम् ॥ १५५३ ॥ यदन्त्ययोजनं तस्याऽन्त्यक्रोशस्य षडंशके । सिद्धाः प्रतिष्ठितास्तत्राऽनन्तसौख्यसमन्विताः॥ १५५४ ॥ तत्र जन्मजरामृत्युरोगशोकायुपद्रवाः । न जायन्ते कषायाश्च क्षुत्तृषाद्याश्च देहिनाम् ॥१५५५ ॥ सौख्य निरुपम तत्र वर्तते--सुस्थिरं परम् । मुग्धलोकानुमानेनोपमा तस्येह-दीयते ।।१५५६ ॥ तथाहि-श्रीसंकेतपुरस्वामी शत्रुमर्दनभूपतिः । विपरीततुरङ्गेण हृतः कान्तारमासदत ॥१५५७ ॥ गाढश्रमवशाजाततृष्णापीडितविग्रहः । मूर्छयाऽतुच्छया सोऽथ पपात पृथिवीतले ॥ १५५८ ॥
१८४॥
Page #373
--------------------------------------------------------------------------
________________
*******ICS
१५६४ ॥
प्रत्यासन्नगिरौ तत्र वसन्ति स्म पुलीन्द्रकाः । कन्दमूलफलाहारास्तरुवल्कलचीवराः ॥ १५५९ ॥ शिलायामासनं तेषां शयनं च शिलातले । आत्मानं सुखिनं तेऽपि मन्यमाना ' अदोऽवदन् ।। १५६० ।। सुलभं नैर्झरं वारि सदा सन्निहिता प्रिया । शुभो वासः पुलीन्द्राणां श्रूयते नाऽहितं वचः ।। १५६१ ।। तेषां मध्यादथ कथित पुलीन्द्रः समुपाययौ । तत्रः यत्राऽभवद्भूपो मूर्छया पतितो भुवि ।। १५६२ ।। भूपणैर्भूषिताङ्गत्वाज्ज्ञात्वा तं पृथिवीपतिम् । स एवं चिन्तयामास तृष्णयैष 'विपेत्स्यते ॥ १५६३ ॥ अस्मिँश्च संस्थिते पृथ्वी निर्नाथा सकला भवेत् । तदयं नीरपानेन युक्तों जीवयितुं मम ॥ जीवनीयमथानीय पलाशानां पुटेन सः । पाययामास नृपतिं ततः स्वस्थो बभूव सः ।। तस्योपकारमतुलं दधानो मानसे नृपः । यावदस्थात् क्षणं वार्ता प्रकुर्वाणोऽमुना सह ॥ तावत्तत्राऽऽययुस्तस्य सैनिकास्तैथ' 'ढौकितम् । राज्ञो भक्ष्यं मोदकादि शीतलं सलिलं तथा ।। पुलीन्द्रस्याऽपि तद्भक्ष्यं दापितं पृथिवीभुजा । सुखासनगतः स्वेन सहाऽऽनीतः पुरे- च सः ।। कारयित्वा ततः स्नानं परिधाप्य' सुवाससी । भूषणभूषितञ्चारुश्रीखण्डाद्यैर्विलिप्य च ॥ शालिदाल्यादिसद्भक्ष्यैमजितश्चाऽतिगौरवात् । दत्तं त्रयोदशगुणख्यातं ताम्बूलमस्य च ॥ शेते स्म चारुशय्यायां रम्यावासगतोऽथ सः । हतं तस्याऽऽशुं दारिद्र्यं यस्य तुष्टो महीपतिः ॥ १ मरिष्यति । २ मृते । -३' जलम् ।
१५६५ ।। १५६६ ॥ १५६७ ।।
१५६८ ॥
१५६९ ॥
१५७० ॥ १५७१ ॥
Page #374
--------------------------------------------------------------------------
________________
शान्तिनाधचरित्रम्
प्रस्ताव
इत्थं संप्राप्तसौख्योऽपि विसस्मार वनं न सः। तत्र स्वैरविहारं च निजां सहचरी च ताम्॥१५७२ ॥ किकिल्लिपल्लवाहारं सुन्दरे नन्दने वने । चरन्नपि स्मरत्येव करमः स्वां मरुस्थलीम् ॥१५७३ ॥ परं शशाक नो गन्तुं पत्तिभिः सुनियन्त्रितः । एवमस्थात्तत्र कालं कियन्तमसको तथा ॥१५७४॥ वर्षाकालेऽन्यदाऽऽयाते गर्जत्यम्बुधरेऽसकृत् । विद्युद्विलासे जाते च सोऽभूद्विरहपीडितः ॥ १५७५॥ मेघगजार्रवो विद्युद्विलासः केकिनां स्वरः । दुःसहो विरहार्तानामेकैको यमदण्डवत् ॥१५७६॥ सोऽथ दध्यौ सुवस्त्रालङ्कारो यास्याम्यहं यदि । भाविनीव्याहृतिस्तन्मे नमस्यैव गतिःशुभा।। १५७७ ॥ एवं विचिन्त्य वञ्चयित्वा यामिकान स कथञ्चन । निःसृत्य भवनाद्रात्रौ शनैः स्वस्थानमाययौ॥१५७८॥ अन्याकारममुं दृष्ट्वा संभ्रान्तं तत्कुटुम्बकम् । पप्रच्छ हन्त कोऽसि त्वं सोऽवदत्तावकोऽस्म्यहम्।। १५७९ ॥ ततश्च प्रत्यभिज्ञाय पृष्टस्तन्मानुषैरयम् । क्वाऽस्थाः कालमियन्तं त्वं कि वा कान्तिस्तवेदृशी॥१५८०॥ ततस्तेन स्ववृत्तान्तः सर्वस्तेषां निवेदितः । कथितं चानुभूतं तद्ग्रामवासादिकं सुखम् ॥ १५८१ ॥ शंस कीशरूपं तदिति भूयोऽपि पृच्छताम् । तत्प्रतीतोपमानेन तेषां कथयति स सः ॥१५८२ ।। सुस्वादफलकन्दामा मोदका भक्षिता मया । भुक्तं च शालिदाल्यादि नीवाराधशनोपमम् ॥ १५८३ ॥ पत्राणि गुन्दिकापत्रसमान्यशितवानहम् । शाल्मलीकण्टकाकार तथा पूगीफलं ददुः ॥१५८४ ॥ चारुवल्कलसंकाशे परिधीते मयाऽम्बरे । वर्णप्रसूनमालामभूषणानि तथैव च - ॥१५८५॥
॥ १८५॥
Page #375
--------------------------------------------------------------------------
________________
SASEXXXXXXXXXEEXEEXXXXXXXXX
नीरन्ध्रकन्दराकारे प्रासादेऽप्युषितोऽस्म्यहम् । शिलातले वा विपुलशय्यायां शयितस्तथा ॥ १५८६ ॥ स एवमुपमेयस्य प्रधानस्याऽपि वस्तुनः । असारवस्तुना स्वानुमानेनोपमिति व्यधात् ॥१५८७ ।। एवं संसारिलोकस्य पुरतोऽस्मादृशैरपि । सिद्धिसौख्यमिह लोकानुमानेनोपमीयते ॥१५८८ ॥ यत्कामभोगजं लोके यच्च दिव्यं महत्सुखम् । ततोऽनन्तगुण सौख्यं सिद्धानां शाश्वतं भवेत् ॥१५८९ ॥ एवमाख्याय भगवान् ततःस्थानात्समुत्थितः। प्रधानशिखरे क्वाप्याऽऽरुरोहाऽस्य महीभृतः।। १५९० ॥ केवलज्ञानिनां चारुसाधूनां नवभिः शतैः। साध शान्तिजिनस्तत्र मासिकाऽनशनं व्यधात् ॥ १५९१ ।। सर्वेऽपि सपरीवाराः सुरेन्द्रास्त्रिजगत्प्रभोः । परमप्रीतिसम्पन्नाश्चक्रिरे पर्युपासनम् ॥१५९२॥ ज्येष्ठश्यामत्रयोदश्यां भरणीस्थे निशाकरे । शुक्लस्य चरमं भेदं ध्यायन सिद्धि ययौ प्रभुः ॥१५९३ ॥ सर्वेऽपि साधवस्तत्र जग्मुस्ते क्रमयोगतः । जायतेऽपुनरावृत्तिर्गतानां यत्र देहिनाम् ॥१५९४ ॥ ज्ञात्वा सिद्धिगतं नाथं देवदेवीगणान्विताः । सुरेन्द्राः शोकसंपूर्णा अश्रुपातविधायिनः ॥१५९५॥ त एवं विलपन्ति स्म स्मारं स्मारं प्रभोर्गुणान् । यतो वैक्रियरूपास्ते समायान्ति महीतले ॥१५९६॥ हा नाथ! संशयध्वान्तविच्छेदनदिवाकर मुक्त्वाऽनाथानिहाऽस्मास्त्वं श्रीशान्तोकगतोऽसिहा?।१५९७/ स्वस्वभापापरीणामातिशयाऽऽहलाददायिनीम् । विनाभवन्तं हे नाथ!कः कर्ताधर्मदेशनाम् ॥ १५९८॥
१ वा इवार्थे ।
Page #376
--------------------------------------------------------------------------
________________
शान्तिनाअचरित्रम्
षष्ठः प्रस्ताव:
दुर्मिक्षेत्याद्यशिवानां लोकबाधाविधायिनाम् । कः कोपशम नाथ! संप्राप्ते त्वयि निर्वृतिम् ॥ १५९९॥ हित्वा निर्जरकृत्यानि 'समागत्य महीतले। वयं कस्येह कर्तास्मः शुश्रूषां त्वां विना प्रभो ॥ १६००॥ इति खेदपरास्तेऽथ क्षीरोदध्यादिसंबरैः । शरीरं स्नपयामासुः शान्तिनाथजिनेशितुः ॥ १६०१ ॥ सनन्दनवनानीतहरिचन्दनदारुणः । घर्षणाऽतिसुगन्धेन तत्तैर्भक्त्या व्यलिप्यत ॥१६०२॥ कर्पूरं तन्मुखे दत्वा देवदूष्येण वाससा । आच्छादितं तदगरुसुगन्धेन च वासितम् ॥१६०३ ॥ मन्दारपारिजातकसन्तानकतरूद्भवैः । पुष्पैः संपूजितं भक्त्या सुरेन्द्रैर्भगवद्वपुः ॥१६०४॥ वररत्ननिर्मितायां शिबिकायां ततश्च तत् । तैरक्षेपि चिता नैर्ऋत्यां चक्रे चन्दनदारुमिः ॥ १६०५ ।। शिविका सा समुत्पाख्य नीता तैस्तत्र खेदिभिः । प्रक्षिप्तं च चितामध्ये जैनेन्द्रं तद्पुष्टरम् ॥ १६०६ ॥ कृत्यं शेषानगाराणां चक्रुर्वैमानिकाऽमराः । मुखेन मुक्तस्तत्राऽग्निर्देवैरग्निकुमारकैः ॥१६०७॥ ततः प्रज्वालितो वायुकुमारैर्वायुनाऽनलः । दग्धे च तेन पलेलशोणिते भगवत्तनौ ॥१६०८॥ ततो मेघमुखैर्मुक्त्वा नीरं सुरभि शीतलम् । अमर्पक्षमयेवाशुशामितः स चिताऽनलः ॥१६०९ ॥ ततश्च दक्षिणां दंष्ट्रामूलस्थामाद्यवासवः । जग्राह चमरेन्द्रश्वाधःस्थितामपरामिमाम् ॥१६१०॥ उपर्यधोगते वामदंष्ट्रे-भगवतो मुखात । ईशानेन्द्रो बलीन्द्रश्च भक्त्या जगृहतुः क्रमात् ॥१६११ ।। १. संबरं जलम् । २२. दारुः काष्ठम् । ३ इन्द्रैः। ४ सन्तानकः कल्पवृक्षः । ५ पलले मांसम् ।
Page #377
--------------------------------------------------------------------------
________________
EEEEEEEEEEEEEEEEEE:
॥
१६१४ ॥
१६१५ ॥
शेषाऽष्टाविंशतिर्दन्तास्तत्संख्यैः शेषवासवैः । सर्वैर्जगृहिरेऽस्थीनि शेषैरनिमिषैः पुनः विद्याधरा नराचैव चिताभस्म जंगद्गुरोः । गृह्णन्ति स्म प्रयत्नेन सर्वोपद्रवनाशनम् एवं विनिसंस्काराः सुरेन्द्रा भगवत्तनोः । चक्रुः स्तूपं वरं तत्र स्वर्णरत्नविनिर्मितम् तस्योपरि स्वर्णमयीं प्रतिमां त्रिजगत्प्रभोः । कृत्वा ते पूजयामासुः श्रीशान्तेर्भक्तिपूर्वकम् ॥ कृत्वा नन्दीश्वरे यात्रां स्वस्वस्थानेषु ते ययुः । सर्वे सुरासुराः शान्ति संस्मरन्तः प्रभुं हृदि ॥ १६१६ ॥ चक्रायुधोऽथ भगवान् बहुमाधुंगणान्वितः । विजहार महीपीठे भविकान् प्रतिबोधयन् ॥ १६१७॥ वातिकर्मविनिर्मुक्तः संजातः सोऽपि केवली | पुनर्विहरति स्मोर्व्या देवेन्द्रैः परिपूजितः ॥ १६१८ ॥ इतोऽस्ति भरतक्षेत्रे मध्यखण्डे सुरार्चितम् । भुवि ख्यातं कोटिशिलाभिधानं तीर्थमुत्तमम् ॥ १६१९ ॥ विधायाऽनशनं तत्र बहुकेवलिसंयुतः । चक्रायुधगंणधरः पुण्यात्मा प्रययौ शिवम् ।। १६२० ।। तस्यां शिलायां कालेन बह्वयः संयतकोटयः । सिद्धाचक्रायुधांहिभ्यां यका पूर्व पवित्रितां ।। १६२१ ॥ तद्यथा- सिद्धे गणधरे तस्मिंस्तीर्थे शान्तिजिनेशितुः । सिद्धास्तत्र महातीर्थे सङ्ख्याता यतिकोटयः ॥ १६२२ ॥ कुन्योरपि भगवतस्तीर्थे तत्र शिलातले । साधूनां कोटयः सिद्धाः सङ्ख्यातां गतपापकाः ॥। १६२३ || अस्य स्वामिनस्तीर्थे साधुद्वादशकोटयः । अष्टप्रकार कर्माणि क्षपयित्वा शिवं गताः ॥ १६२४ ॥ तीर्थे मल्लिजिनेन्द्रस्य केवलज्ञानधारिणाम् । पडत्र कोटयः प्राप्ता निर्वाणं व्रतशालिनाम् ।। १६२५ ।।
३२
॥ १६१२ ॥
॥ १६१३ ॥
Page #378
--------------------------------------------------------------------------
________________
शान्तिना
थचरित्रम् ॥ १८७ ॥
मुनिसुव्रतनाथस्य तीर्थे तीर्थेऽत्र विश्रुते । साधूनां कोटयस्तिस्रः संप्राप्ताः पदमव्ययम् ॥ १६२६ ॥ तीर्थे नमिजिनस्याsपि कोटिरेका महात्मनाम् । सिद्धास्तत्राऽनगाराणां सुविशुद्ध क्रियावताम् ।। १६२७ ॥ एवमन्येऽपि बहवः सिद्धा ये तत्र साधवः । कालेन गच्छता तेऽत्र ग्रन्थे न कथिता मया ।। १६२८ ॥ येषां तीर्थकृतां तीर्थे सिद्धा कोटिरनूनका । तान्येव कथिताऽन्यत्र सेयं कोटिशिला ततः ।। १६२९ ॥ चारणश्रमणैः सिद्धयर्देवासुरैस्तथा । तद्भक्त्या वन्द्यते नित्यं तीर्थं कोटिशिलाभिधम् ॥। १६३० ॥ इत्थं शान्तिजिनेश्वरस्य मयका प्रोक्तो भवो द्वादशः, श्राद्धद्वादशसङ्ख्यसद्व्रतकथासंलेखनाबन्धुरः । सच्चक्रायुधनामधेयगणभृव्याख्यानसंवर्धितो, व्याख्यातं सकलं चरित्रमपि तत्तस्यैव तीर्थेशितुः ॥१६३१॥ यस्योपसर्गाः स्मरणात्प्रयान्ति, विश्वे यदीयाश्च गुणा न मान्ति । यस्याऽङ्गलक्ष्म्या कनकस्य कान्तिः, संघस्य शांति स करोतु शान्तिः ॥ इत्याचार्यश्रीअजितप्रभसूरिविरचिते श्रीशान्तिनाथचरिते द्वादशभववर्णनो नाम षष्ठः प्रस्तावः ॥ ६ ॥ 0000
॥ १६३२ ॥
॥ इति श्री शान्तिनाथ चरित्रम् ॥
षष्ठः
प्रस्तावः
ज्ञान भंडार, अन्य नं..............
આ. શ્રી ચન્દ્રેસર જીિ,
॥ १८७ ॥
Page #379
--------------------------------------------------------------------------
________________
____ आगमोदय समितिना ग्रंथो
श्रीमज्जैनसिध्धान्तवाचनामकाशनकारिका . शेठ दे० ला जै० पु० फडना ग्रंथो. नंदीसूत्र
२-४-० अनुयोगद्धार ..
२-८-० श्रीमती आगमोदयसमितिः आनंद काव्य म० मौ० ४ धुं ०-१२-० रधानांग उत्तरार्ध . ४-०-०
" , ५मु०-१०-० भगवनीसूत्र तृतीयभाग . . ३-४-० ना:-श्रीमल्लीतीर्थ वीर सं० २४४१ माघशुक्दशम्याम् ।
६ टु ०-१२-० विचारसार प्रकरण . ०-८-०
श्राद्ध प्रतिक्रमण मूत्र
२-०-० निरयावली सूत्र . ०-१२-०
सेन प्रश्न (प्रश्नोत्तर रत्नाकर) १-०-० विशेपादश्यक गाथा ।
आवश्यक टोप्पण
१.१२-० विपयाकारादि क्रम ०-५-०
जबुद्वीप प्रज्ञपि सटीक उत्तरार्ध २-०-० गच्छाचार पयन्नो. ०-६-०
श्रीपालचरित्र संस्कृत ०.९४० धर्मबिंदु प्रकरण ०-१२-०
मूक्त मुक्तावली
२-०विशेपावश्यक भाष्य मूल)
प्रवचन सारोद्धार सटीक पूर्वाध ३-०-० त्था टिकानुं गुजराती २-०-०
तंदुल वैयालीय पयन्नो सटीक भापान्तर भा. १ लो.
१-८-० रायपसेणो.... १-८-० प्राप्तिस्थान:
विशति स्थानक पद्यकद्ध १-०-. जैन फीलीसोफी... १-०-०
कल्पसूत्र सुबोधिका
२-०-० __ मास्तर विजयचंद मोहनलाल ०-१४-०
सुवोधा समाचारो ०-१२-० ठे० दे० ला० धर्मशाळा, गोपीपुरा-सुरत. श्रीपाल चरित्रमाकृत सावचुणिक १-४-०
प्रति ६०००
सं० १९८२
योग
Page #380
--------------------------------------------------------------------------
Page #381
--------------------------------------------------------------------------
_