Page #1
--------------------------------------------------------------------------
________________
Scanned by CamScanner
सर्वज्ञसिद्धौ
मङ्गलं
पूर्वपक्षश्च
श्रीमद्याकिनीमहत्तरासूनुहरिभद्राचार्यवर्यप्रणी
श्रीसर्वज्ञसिद्धिप्रकरणम्.
लक्ष्मीभृद् वीतरागः क्षतमतिरखिलार्थज्ञताऽऽश्लिष्टमूर्ति-देवेन्द्रार्योऽप्रसादी परमगुणमहारत्नदोऽकिञ्चनेशः । तच्चातच्चेतिवक्ता नवित-13 थवचनो योगिनां भावगर्भ, ध्येयोऽनङ्गश्च सिध्धेर्जयति चिरगतो मार्गदेशी जिनेन्द्रः ॥ १॥ नास्त्येवाऽयं महामोहात् , केचिदेवं प्रचक्षते । कृपया तत्प्रबोधाय, ततः सन्न्याय उच्यते॥२॥ सर्वज्ञाप्रतिपत्तियन्मोहः सामान्यतोऽपि हि । नास्त्येवाभिनिवेशस्तु, महामोहः सतां मत:||३||* अस्माष दूरे कल्याणं, सुलभा दुःखसम्पदः । नाज्ञानतो रिपुः कश्चिदत एवोदितं बुधैः ॥ ४ ॥ महामोहाभिभूतानामित्यनर्थो महान् 181 यतः । अतस्तत्त्वविदां तेषु, कृपाऽवश्यं प्रवर्त्तते ॥ ५॥ श्रुत्वैतं चेह सन्न्यायं, तथा क्लिष्टस्य कर्मणः । क्षयोपशमभावेन, प्रबोधोऽ| प्युपपद्यते ॥ ६ ॥ तदभावेऽपि तदोषात् , सफलोऽयं परिश्रमः । कृपाभावत एवेह, तथोपायवृप्रत्तितः ॥ ७ ॥ श्रोतृणामप्रबोधेऽपि, यन्मु--
नीन्द्ररुदाहृतम् । आख्यातॄणां फलं धर्मदेशनायां विधानतः ॥ ८॥ अलमत्र प्रसंगेन, प्रकृतं प्रस्तुमोऽधुना । पूर्वपक्षस्तु सन्न्यायस्तत्रातः किं| चिदुच्यते ॥९॥-प्रत्यक्षादिप्रमाण (णानां ) गोचरातिक्रान्तभावतः । असाध्वी किल सर्वज्ञकल्पनाऽतिप्रसंगतः ॥१०॥ प्रत्यक्षेण प्रमाणेन, सर्वज्ञो नैव गृह्यते । लिंगमप्यविनाभावि, तेन किंचिन्न दृश्यते ॥११॥ नचाऽऽगमेन यदसौ, विध्यादिप्रतिपादकः । अप्रत्यक्षत्वतो नैवोपमाने
Page #2
--------------------------------------------------------------------------
________________
सर्वज्ञसिद्धौ
॥२॥
नापि गम्यते ॥ १२ ॥ नार्थापत्त्या हि सर्वोऽर्थस्तं विनाऽप्युपपद्यते । प्रमाणपंचकावृत्तेस्तत्राभावस्य मानता ॥ १३ ॥ रागादिप्रक्षयाच्चास्य, सर्वज्ञत्वमिष्यते । तेषां चात्मस्वभावत्वात्, प्रत्क्षयो नोपपद्यते ॥ १४ ॥ अथ नात्मस्वभावास्ते, सर्वज्ञः सर्व एव हि । अरागादिस्वभावत्वान्न वा कश्चित् कदाचन ॥ १५ ॥ किंच जात्यादियुक्तत्वाद्, वक्ताऽसौ गीयते परैः । ततः कथं नु सर्वज्ञो ?, यथोक्तं न्यायवादिना । १६ ॥ असाविति न सर्वझो, वक्तृत्वाद्देवदत्तवत् । यं यं सर्वज्ञमित्याहुस्तं तमेतेन वारयेत् ॥१७॥ अवश्यं जातिनामभ्यां स निर्देश्यः परैरपि । निर्दिष्टश्चेत् स वक्तृत्वादसर्वज्ञः प्रसज्यते || १८ || सर्वो विशेषः सर्वज्ञो, वक्तृत्वेन पोद्यते । अपोदितविशेषं च, सामान्यं कावतिष्ठताम् ? ॥१९॥ न वक्तृत्वमदेहस्य, न चासौ कर्मणा विना । न तद्रागादिशून्यस्य, वक्तृत्वं तन्निबन्धनम् ॥ २० ॥ विवक्षया च वक्तृत्वं सा चेच्छाभावतो हि यत् । रागस्ततञ्च वक्तृत्वात्, न सर्वज्ञ इति स्थितम् ॥ २१ ॥ अत्रोच्यते—
यत्तावदुक्तं ‘प्रत्यक्षादिप्रमाणगोचरातिक्रान्तत्वादसाध्वी सर्वज्ञकल्पने' ति, तदयुक्तं, कुत: १, यतो न सर्वपदार्थमाहीन्द्रियप्रत्यक्षमिति तद्गोचरातिक्रान्तत्वेऽपि भावानां नावश्यमसत्तासिध्धिरतिप्रसङ्गात्, तद्गोचराणामपि सतामेवानुमानादिविषयतयेष्टत्वात्, अन्यथा ऽनुमानादेरप्यसत्तामात्रत्वे सति अतिप्रसंगात्, न च सर्वजनप्रत्यक्षगोचरातिक्रान्तत्वे तत्र वः प्रमाणमस्ति तच्चेतसां परोक्षत्वात्, तदभ्युपगमे चावीन्द्रियार्थदर्शिनः सत्तासिध्धिः, तत्संशयानिवृत्तेश्व, नहि सर्वजनगोचरातिक्रान्ता अपि वः खरविषाणादिवन्न सन्ति धर्मादय इति तत्संशयानिवृत्तिः । न चेदं तत्रतः प्रत्यक्षम्, असाक्षादसम्पूर्णवस्तुपरिच्छेदात्मकत्वात्, प्रयोगश्च इन्द्रियमनोनिमितं विज्ञानमप्रत्यक्षं प्राह्मग्रहीतृव्यतिरिक्तनिमितोत्थापितप्रत्ययात्मकत्वात् धूमादग्निज्ञानवत्, विपक्षः केवलं, न प्रत्यक्षादिविरोधिनी प्रतिज्ञा, अस्य साक्षात्सम्पूर्णवस्तुपरिच्छेदायोगात्, अनीदृशस्य च प्रत्यक्षत्वानुपपत्तेः नासिद्धो हेतुः धर्मिधर्मत्वात्, यथोदितविज्ञानस्य हि प्राह्मग्रहीतृव्यतिरिक्तनिमित्तोत्थापितप्रत्ययात्मकत्वं स्वभा
मङ्गलं
पूर्वपक्षय
॥२॥
Scanned by CamScanner
Page #3
--------------------------------------------------------------------------
________________
सर्वज्ञसिद्धौ
॥ ३ ॥
वतस्तथाप्रतीतेः: अतत्स्वभावत्वे तदनिमित्तत्वप्रसङ्गात्, नानैकान्तिकः, यथोदितविपक्षे ऽभावात्, नहि केवले प्राहाग्रहीतृव्यातिरिक्तनिमितोत्थापितप्रत्ययात्मकत्वमस्ति, तस्य तथाविधात्मार्थनिबन्धनत्वात्, न विरुध्धोऽपि विपक्ष एवाभावात्, इन्द्रियोपलब्धिनिमित्तमन्तरा व्याप्त्यान्तराद्यपेक्षारूपत्वस्य प्रतीतिबाधितत्वात्, विशेषविरुध्धस्य तत्त्वतोऽविरुष्धत्वात्, अन्यथा सर्वत्र भावादेव च हेतुव्यवहारोच्छेदप्रसंगात्, दृष्टान्तोऽपि न साध्यादिविकलः, धूमादग्नेर्ज्ञानस्याप्रत्यक्षत्व सिध्धेः, ग्राह्यग्रहीतृव्यतिरिक्तनिमित्तोत्थापितप्रत्ययात्मकत्त्वप्रतीतेश्च न साघना - व्यावृत्यादि, केवलादुभयस्यापि निवृत्तेः, आत्मनः साक्षादर्थपरिच्छेदात् सम्पूर्णार्थप्रतीतेश्व, आह- अधिकृत प्रत्यक्षेणापि साक्षादर्थपारीच्छत्तिः, न, अक्षैर्व्यवधानात्, तद्भावेन तदभावात्, ज्ञानोत्पत्तिस्तेभ्यः तत्परिच्छित्तिस्तु साक्षादेवेति चेत्, न, तद्व्यतिरेकेग तदसिध्धेः, अतत्स्वभावस्योत्पत्तौ पुनस्तत्स्वभावत्वविरोधात् न चानेन सम्पूर्णवस्त्ववगमो, नीलादेरपि वारतम्यव्यावृत्त्याद्यपरिच्छित्तेस्तथाऽननुभवात्, नरसिंहे सिंहज्ञानतुल्यत्वादिति । अर्थस्वभावत्वकार्यत्वाभावे इन्द्रियादीनां तेन प्रतिबन्धासिध्धेः तदवगमे तेषां लिङ्गत्वानुपपत्तिरिति चेत्, न, ज्ञाप्यज्ञापकभावेन प्रतिबन्धासिध्ध्यसिध्धेः न च सामग्रद्यपेक्षया ग्राह्यवत् ज्ञानजननस्वभावत्वमेषां सर्वथा तदभिन्नस्वभावत्वे ततस्तत्प्रतीतिप्रसंगात्, स्वभावभेदे च सिध्धमेषां ज्ञापकत्वमिति । आह-एवमप्यमषिां ज्ञापकधर्मातिक्रम:, अज्ञातज्ञापनात्, नहि धूमादाविव तज्ज्ञानादिपुरःसरमर्थज्ञानं, तथा सत्यभावात्, अक्षेपेणैवार्थप्रतीतेरिति, न, स्वभाववैचित्र्यतस्तद्भाषसिध्धेरज्ञातज्ञापक स्वभावत्वात्, ज्ञापकस्वभावत्वं चेह प्रयोजकं, अन्यथा कार्ये व्यतिरेकस्तत्कारणत्वांगीकरणेऽपि तत्त्वतस्तद्वदेतेषां हेतुधर्मातिक्रमः, बुद्ध्यादियुतत्वाभ्युपगमाच्च, न चैतदनुपपतिर्ज्ञेप्ते, तेषामेव त्ववेतनत्वेन ज्ञातृत्वायोगात्, किश्च परोक्षमात्रता चेह प्रतिपादयितुमिष्टा, माह्मग्रहीतृव्यतिरिक्तनिमित्तमात्रत्वनेत्यनुचितः सर्वसाघम्याभिनिवेशः, न चैवं केवलं, पाह्यग्रहीतृमात्रापोक्षितत्वात्, कर्मक्षयादेश्च क्षयोपशमादिश्च तुल्यत्वादित्यलं प्रसंगेन । नचा ऽशेषपदार्थमाह्मतीन्द्रि
पूर्वपक्ष
खणुनम्
॥ ३ ॥
Scanned by CamScanner
Page #4
--------------------------------------------------------------------------
________________
सर्वज्ञसिद्धौ
11 8 ||
शब्द
य प्रत्यक्ष गोचरातिक्रान्तत्वमस्योभयासिध्धेः अभ्युपगमविरोधात् विवादानुपपत्तेश्च अनुमानगोचरातिक्रान्तत्वं पुनरसिध्धमेव, सर्वे धर्मादयः कस्यचित् प्रत्यक्षाः, ज्ञेयत्वाद् घटवत्, विपक्षो न किश्चिदित्यनुमान सद्भावात् । अत्राह - नेदमनुमानं, तदाभासत्वात् इह प्रसिध्धाविषेशणत्वादप्रसिध्धविशेपण: पक्ष:, तथाहि--सर्वे धर्मादयः कस्यचित् प्रत्यक्षा इत्यत्रातीन्द्रियप्रत्यक्षेण प्रत्यक्षत्वं साधयितुमिष्टं न तत्कस्यचित् प्रसिध्धमिति हेतुरप्यनैकान्तिकः, अप्रत्यक्षस्याप्यभावस्य ज्ञेयत्वोपपत्तेः, दृष्टान्तोऽपि साध्यविकलः, जात्यन्तरप्रत्यक्षेण प्रत्यक्षत्वासिध्धेः, इतरोऽपि साधनाव्यावृत्तः नकिञ्चिदिति तुच्छेऽपि ज्ञेयत्वानिवृत्तेरिति, अत्रोच्यते, यत्तावदुक्तमप्रसिध्धविशेषणत्वादप्रसिध्धविशेषणः पक्षः [ इतरोऽपि साधनाव्यावृत्तविशेषण: ] इत्येतदयुक्तम्, अनुमानोच्छेदप्रसङ्गात्, सर्वत्राप्रसिध्धविशेषणपक्षाभासत्वापत्तेः एवं ह्यनित्यः इत्यादावपि वर्णाद्यात्मकव्याक्तिसमवाय्यनित्यत्वेनानित्यत्वं साधयितुमिष्टं न तत् कचित् प्रसिध्धमित्यपि वक्तुं शक्यत्वाद्, अनित्यत्वजातिपरिमहाददोष इति चेत् इतरत्रापि प्रत्यक्षत्वजातिपरिग्रहे को दोष: १, इष्टासिध्धिरिति चेत् शब्दानित्यत्वादौ समान एत्र दोषः, लौकिकत्वादनित्यत्वादेरसमानता इतिचेत्, न, अलौकिकस्यापि वेदापौरुपेयत्वादेर्मेयत्वेन त्वया ऽप्यङ्गीकृतत्वात् हेतुरप्यदुष्टः, अभावस्याप्रत्यक्षत्वासिध्धैर्वस्तुधर्मत्वात् अन्यथा वस्त्वनुपपत्तेः, तस्य च प्रत्यक्षत्वात्, अतध्धर्मस्य चात्यन्तास तो ज्ञेयत्वायोगात् मानेन ज्ञायमानस्य तदुपपत्तेः, तुच्छे च मानप्रवृत्त्यसम्भवादभावाख्यमानस्य च तदविशेषात् तद्वदप्रवृत्तेः । अपरस्त्वाह- सर्वज्ञज्ञानस्य ज्ञेयत्वेऽपि प्रत्यक्षत्वानुपपत्तेः तेनार्थप्रत्यक्षत्वात्, तत्प्रत्यक्षत्वे च तदप्रत्यक्षत्वप्रसङ्गात् तदन्यसर्वज्ञप्रत्यक्षत्वे चानवस्थापत्तेर्व्यभिचार इति एतदध्य सत्, तस्यार्थग्रहणारूपस्य स्वसंविदितत्वेनेोक्तदोषानुपपत्तरुभयप्रत्यक्षत्वात् अन्यथा ऽर्थ प्रत्यक्षत्वासिध्धेः, हृल्लेखशून्यस्याविकृतत्वेनात्मनो दर्शिनो दर्शनायोगात्, विकृतत्वे चार्थं पश्यतस्तद्विक्रियैव चिद्रूपाऽज्ञानमिति सर्वज्ञत्वानुपपत्तेश्च । अपरस्त्वाह-हेतुर्येनैव सहाविनाभूतो दृष्टस्तस्यैव गमको भवति, यथा धूमोऽप्रेः, न सद्भावमात्रात्
पूर्वपक्ष
खणुनम्
॥ ४ ॥
Scanned by CamScanner
Page #5
--------------------------------------------------------------------------
________________
Scanned by CamScanner
सवज्ञासद्धाटा यस्य कस्यचित् , यथा स एव धूमः पानीयस्य, न चातीन्द्रियेषु भावेषु प्रत्यक्षत्वाविनामावि ज्ञेयत्वं दृष्टं, कथं तत् तेषु तद् गमये?,अत्रोच्यते, ॥५॥ सामान्यतो दृष्टानुमाननीति: तत्तेषु तद् गमयेत् इति, यथा गतिमानादित्यो देशान्तरप्राप्तेः, देवदत्तवदित्यत्र, तथाहि-न दिनकरे गतिमत्त्वेन देशा-है
|न्तरप्राप्तिरविनाभूता दृष्टा, अथचासौ तद् गमयति, देवदत्ते दृष्टेति सा गमयतीति चेत् घटेऽपि प्रत्यक्षत्वेन शेयत्वमविनामावि दृष्टमेवेति समान-15
मेतत् , अतीन्द्रियप्रत्यक्षत्वेन न दृष्टमिति चेत् देवदत्तेऽपि न तथा गगनगतिमश्वेन देशान्तरप्राप्तिरिति समानमेव । न साधर्म्यदृष्टान्तदोषः, है जात्यन्तरप्रत्यक्षेण तत्र प्रत्यक्षत्वासिध्धावपि सामान्येन प्रत्यक्षत्वे सिध्धेः न्याय्यमेव, विशेषानुगमाभावात् , न वैधHदृष्टान्तदोषः, न | किनिदिति तुच्छाभावतो ज्ञेयत्वनिवृत्तेः, प्रतिपादनोपायत्वात् तदभिधाने दोषोऽन्यथा नि:स्वभावतया न ततो ज्ञानजन्मातिप्रसङ्गादिति । अथ चेदमनुमानम्-अनेकशास्त्रकलासंवेदनसमन्विते कस्मिंश्चित् पुरुषे सर्वज्ञ इत्युपचर्यमाणो व्यवहारस्तवन्यमुख्यापेक्षः, गौणत्वात् , शौर्यक्रौर्यादिमति चैत्रेऽसिंहे सिंहव्यवहारवत् , विपक्षश्चैत्रव्यवहार इवि, नात्र प्रत्यक्षादिविरोधिनी प्रतिज्ञा, तल्लक्षणायोगात् , नासिध्धो हेतुस्तत्र गौणत्वस्योभयोः सिध्धत्वात् , नानैकान्तिकः विपक्षव्यावृत्तेः, न विरुध्धो दृष्टान्तवत् प्रमाणान्तरप्रसिध्धतदन्यमुख्यापेक्षत्वसाधनस्य तद्ग्राहकप्र|माणप्रसिध्ध्यभ्युपगमेऽनवकाशत्वात् , न साधनधर्माद्यसिध्धः साधर्म्यदृष्टान्तः, उभयधर्मप्रसिध्धेः, नासाधनाव्यावृत्तादिरितरः, चैत्रे खव्यवहारा
तदुभयनिवृत्तेरिति । आगमगोचराविक्रान्तत्वमप्यसिध्धं, 'स्वर्गकेवलार्थिना तपोध्यानादि कर्तव्य ' मितिवचनप्रामाण्यात् , केवलिनश्च सर्वत्वात् , पुरुषकर्तृत्वादिदमप्रमाणमिति चेत् न तावद् वक्तृत्वेन तत्कर्तृकत्वासिन्धिः, न चैतत् स्वतन्त्रविरोधि 'नमस्तीर्थाये' तिवचनात् , न च पुरुषवक्तृकत्वमप्यस्याप्रामाण्ये निमित्तं, वेदाप्रामाण्यप्रसङ्गात्, न च तदवक्तृका वेदाः, पुरुषव्यापारमन्तरेण नभस्येतद्वचनानुपलब्धेः, अनुपूर्वी| नियतिभावादेश्वेतरत्रापि तुल्यत्वात्, नचाईद्वक्तृकत्वेनास्य प्रामाण्यं, निश्चिताविपरीतप्रत्ययोत्पादकत्वेन कथञ्चित् स्वत एव तदभ्युपगमाद्,
कत्ल
Page #6
--------------------------------------------------------------------------
________________
सर्वज्ञसिद्धौ
॥६॥
अन्यथा तदनुपपत्तेः, अनुपपत्तिश्चास्य प्रमाणाभावात्, तस्य चोपादानेतरनिमित्तप्रभावेन स्वपराधीनत्वात् अर्थग्रहणपरिणामप्रत्ययान्तरानुभवतः, स्वपरत एव ज्ञप्तेः, कर्मकरणनिष्पाद्यस्य तदुभयापेक्षित्वेन स्वपरतः स्वकार्यप्रवर्त्तनात्, न च विज्ञानस्यार्थपरिच्छेदलक्षणोऽपि धर्मो व्यतिरिक्त एव, तस्यायमिति सम्बन्धानुपपत्तेः, कथश्चिदव्यतिरेके च तद्वत्तस्यापि भावः, न च ज्ञानस्यापि न परतः 'इन्द्रियमनोऽर्थसन्निकर्षो हि ज्ञानस्य हेतु' रितिवचनात् परतो भावसिध्धेः, न चागमनित्यत्वेऽपि सर्वज्ञकल्पनावैयर्थ्यं तस्य विहितानुष्ठानफलत्वात्, न चादृश्यत्वेनास्य फलकल्पनानुपपत्तिः, स्वर्गादिभिरतिप्रसङ्गात्, न च ते सुखादिरूपत्वाद् दृश्या एवेति न्याय्यं, प्रकृष्टसुखाविशेषस्यादृश्यत्वात्, न च सुखमात्रानुभवरूप एव स्वर्गः, अतिप्रसंगात्, यतः कुतश्चित्तदभावेन चोदनानर्थक्यापत्तेश्च न च सुखसामान्यदर्शनात् वः प्रकृष्टतद्विशेष सम्भवानुमानमबाधकं, ज्ञानसामान्यदर्शनेन प्रकृष्टतद्विशेषसम्भवानुमानप्राप्तेः स्यादेतद्-अर्हन्नेवागमस्य वक्ता (के बल्युक्तत्वं ) केवलित्वाच्चास्य तदुक्तानुष्ठानफलत्वमितीतरेतराश्रयदोषः न च वेदवक्तृष्वपि हिरण्यगर्भादिषु समानत्वात्तेषामपि विशेषेण तदुक्तानुष्ठानफलत्वात्, अनादिमत्त्वादस्य तद्वन्त एव वक्तार इति चेदितरत्रापि समानमेतत्, अर्हतामप्यनादित्वाभ्युपगमात्, तेऽन्यवेदवक्तृवेदवक्तार इति चेदईन्तो ऽप्यन्यार्हदुक्तागमवक्तार इवि समानमेव, तदन्या र्हदुक्तत्वा|नपेक्षित्वेन तेषां तद्वक्तृत्वादसमानमिति चेन्नानपेक्षित्वासिध्ये, तयैवानुपूर्व्याऽभिधानात्, अन्याईन्मुखाधीतागमवक्तारो न भवन्तीत्यसमानमेवेति चेन, जातिस्मरणातिशयवेदवक्तृत्ववत् केवलातिशयतस्तदा तथाऽऽगमवक्तृत्वेऽन्याईन्मुखातत्वस्याप्रयोजकत्वात्, अन्यदा चान्यतद्वक्तृत्वमुखाधीतत्वस्य तत्राइत्यपि समानत्वात्, अवेदत्वादागमस्यासमानमिति चेन्नावेद एवागमे न्यायमार्गतुल्यतायाः प्रतिपादयितुमिष्टत्वाद्, अन्यथा वेदस्याप्यनागमत्वात् नास्मदुक्तन्यायानुपातित्वमिति वक्तुं शक्यत्वात्, भवदागमप्रामाण्ये विगानमिति चेत् ? वेदप्रामाण्येऽपि तुल्यमेतत्, तथापि स एव प्रमाणं नागम इति चेन्न कोशपानादृते प्रमाणाभावात् एवमितरेतराश्रयदोषानुपपत्तेश्वोदनानुष्ठानफलत्वेनागमात् सिध्धः सर्वज्ञ
पूर्वपक्ष
खणुनम्
॥६॥
Scanned by CamScanner
Page #7
--------------------------------------------------------------------------
________________
प
Scanned by CamScanner
म्
सर्वज्ञसिद्धौ इति । उपमानगोचरातिक्राम्बत्वमपि न न्यायसङ्गतमुपलब्धसर्वज्ञस्य हृद्रताशेषसंशयपरिच्छेदाविना तदन्योपलब्धौ तत्सादृश्यप्रतीतिसिध्धेः,अगृही
ला तमोगवयस्य गव्यप्यसिध्धेः, न चैतावता गोस्तद्गोचरातिक्रांतत्वं, अनभ्युपगमात्, न स केनचिद् गृह्यत इत्यसिध्धं, विकल्पानुपपत्तेः, तथाहि-कि | प्रमाणेन न गृह्यते उताप्रमाणेन वेति वाच्यं?, यद्यप्रमाणेन सिध्धं साध्यते,तस्याप्रमाणेन ग्रहणानभ्युपगमात् ,अथ प्रमाणेन किं तद्ग्राहकेणोतातद्| ग्राहकेणेति?,न तावत्तग्राहकेण, तस्य तद्ग्रहणविरोधात्,तथाहि-तग्राहकं न च तद् गृणातीतिविरुध्धमेतत् ,अतग्राहकाग्रहणे तु तदभावासिन्धिः, तदभावेऽपि घटादिभावसिध्धेः, तथाहि-न पटादिग्राहकेण प्रमाणेनागृह्यमाणा अपि सन्तो न सन्त्येव घटादयः, तद्ग्राहक प्रमाणमेव नास्तीति चेदुच्यते किं भवत एवोताहो सर्वप्रमात्दृणामिति?, यदि भवत एव सिध्धं साध्यते, भवतः परोक्षत्वात् प्रवचनार्थानवगतेश्च, अथ सर्वप्रमातृणा| मित्यत्र न प्रमाणं, तश्चेतसामप्रत्यक्षत्वाद्,अन्यथा तद्मावनिश्चयानुपपत्तेः, तत्प्रत्यक्षताभ्युपगमे च तत्संवेदनवतः तथाऽतीन्द्रियोपलम्मकत्वाभ्युपगमात् तद्भावसिध्धिरेव, प्रधानादीनामप्येवं प्रतिषेधानुपपत्तितः तत्सत्तापत्तेर्यत्किश्चिदेतदिति चेन्न, स्वतोऽदर्शनादतीन्द्रियोपलम्मकपुरषवचनत औत्सुक्यानुपपत्तेश्च तत्प्रतिषेधसिध्धेः,असर्वज्ञेन तद्ग्रहणमपि न युक्त्युपपन्नमिति चेन्न, हृद्गताशेषसंशयच्छेदादिना तद्ग्रहणोपपत्तेः।
असम्पूर्णवैयाकरणादिरप्यवगतकतिपयपृष्टसूत्रादिकाथितयथावास्थितार्थतत्वैः सम्पूर्णवैयाकरणादिग्रहणदर्शनात् , सर्वत्र तथा तळ्यवहारसिध्धेः, | अन्यथा तदुच्छेदप्रसङ्गात् , अब्राह्मणेन ब्राह्मणपरिज्ञानानुपपत्तेः,तत्स्वयंकथनस्य सर्वशेऽपि तुल्यत्वाद् ,हृद्गताशेषसंशयपरिच्छेद्यपीदानीं न काश्चदुपलभ्यत इति चेत् सत्यमिदं,इहेदानी कालदोषतस्तदनभ्युपगमात् , तदानीमासीदित्यपि कथं ज्ञायत इति चेत्तदुपलब्धसम्प्रदायाविच्छेदेन, न स दुःसम्प्रदाय इत्यत्र किं प्रमाणमिति चेद् ब्राह्मण्याधिगमसम्प्रदायेऽपि समानमतेत्,तद्व्यवहारबाधाऽभावदर्शनादसमानमिति चेन्न,इतरत्राप्युभयमावात्समानमेव, दृश्यते च वेदाध्ययनादिवत्तनमस्कारस्थापनादिर्बाधारहितो व्यवहार इति, अगृहीतगोगवयस्यापि गोरिव नोपमानगोचरा
लवल
Page #8
--------------------------------------------------------------------------
________________
Scanned by CamScanner
सर्वज्ञसिद्धौ तिक्रान्तत्वमेव, एतेनासर्वज्ञपुरुषसाधादसर्वज्ञत्वोपमानमेव तत्र युक्तमिति यदुच्यते परैस्तदपि प्रत्युक्तं, न चोपमानोपमेययोः प्रसिध्धसाधा-II पूर्वपक्ष ॥८॥ रणधर्मातिरेकेण सर्वधर्मरुपमानप्रवृत्तिः, यथा शस्त्री श्यामा देवदत्ता, तत्र हि साधारणश्यामत्वावछिन्नरूपतैव केवलं प्रतीयते, नान्ये शस्त्रीगता |
धर्माः, तदध्यारोपे तु शस्त्रीरूपतैव स्यात् , इह चासर्वज्ञाः पुरुषा उपमानं उपमेयो विवक्षितः पुरुषविशेषः, कस्तयोःप्रसिध्धः साधारणो धर्म इति * वाच्यं, वक्तृत्वपुरुषत्वादिरिति चेम, सिध्ध्यसाध्यतापत्तेः, यथा पुरुषो वक्तो तथाऽयमपीत्यभ्युपगमात् , एतत्साधर्म्यसिध्ध्या तत्रासर्वज्ञत्वस्या| पि सिद्धिरिति चेत् न देवदत्तायामपि श्यामत्वसिध्धेः तैक्ष्ण्यादि भावप्रसङ्गात् , दृष्टविरोधादप्रसंग इति चेदितरत्र तद्विरोधाभावः केन सिध्ध इति वाच्यं, तद्भावोऽपि केन सिध्ध इति चेदविरुध्धविधेस्तेन विरोधेन सहावस्थानाभावनियमाभावतस्तत्सम्भवोपपत्तेः, अविरुध्धश्च ज्ञानप्रकर्षो वक्तवादिनेति । अर्थापत्तिगोचरातिक्रान्तत्वं युक्यनुपपन्नमेव, ' अग्निहोत्रं जुहुयात्स्वर्गकाम' इत्यादौ दृष्टस्य हवनादेः सुतस्य च स्वर्गादेरर्थस्य तत्साध्यसाधनसम्बन्धज्ञातारमन्तरेणानुपपत्तेः, अशक्यश्चायं पुरुषेण ज्ञातुमृतेऽतीन्द्रियार्थदर्शनात् , अपरस्मात् पुरुषात् हायत इति चेत् सोऽपि तेन तुल्यः, नैवंजातीयकेष्वतीन्द्रियेष्वर्थेषु तज्ज्ञानप्रामाण्यमुपैत्यन्धानामिव ज्ञानं रूपविशेषेष्विति, एतेनानादिवृद्धसम्प्रदायः प्रत्युक्तः, सर्वेषा| मेवात्र वस्तुन्यन्धतुल्यत्वात् , अधिकृतवचनादेवासौ विज्ञायत इति चेत्, न, वाक्यार्थप्रतिपत्तावपि तनिश्चयानुपपत्तेः, लौकिकवाक्ये कचित्त-12 दावेऽप्यर्थतथाऽभावदर्शनात् , तस्य पुरुषबुद्धिप्रभवत्वेन तदायत्तोऽर्थतथाऽभावो नैवमस्य अपौरुषेयत्वादिति चेत् , न, एवमप्यधिकृतभेदवत्त-18 दर्थभेदाशङ्कापत्तेः, प्रदीपवत् स्वार्थप्रकाशनाद नाप त्तिरितिचेत्, न, प्रदीपार्थवदविशेषेण तदर्थप्रतिपत्त्यसिद्धेः, सङ्केतादनेकधा तदर्थोपलब्धेस्ततस्वभावत्वादनेकार्थत्वाच्च तस्यादोषइति चेत्, न, तथा विरुद्धार्थानुपपत्तेः, दृश्यते च 'सर्व विद्यस्ये' त्यादौ सङ्केतभेदे न तदस्तित्वविरुद्धार्थ-12
॥८॥ | प्रकाशनमिति, नास्तित्वमेव तत्राविपरीतमिति चेत्, न, इतरप्रकाशनानुपपत्तेः, प्रदीपेन्दीवररक्तप्रकाशवदुपपत्तिरिति चेत् , न, अविशेषेण 5
*ॐॐॐॐ
Page #9
--------------------------------------------------------------------------
________________
Scanned by CamScanner
पूर्वपक्ष
खंडनं
॥९॥
FREE
तत्प्रकाशनप्रसङ्गात् , अष्टदोषात् तत् (तथा हि) प्रकाशनमिति चेत्, न, इतरत्राप्यविनम्भप्रसङ्गात् , तदेवारष्टदोषात् नेतरदिति निर्वाच-18 कप्रमाणाभावात्, अतीन्द्रियार्थत्वाद् तत्साक्षात्कारिणश्चानभ्युपगमात् , तद्व्यतिरेकेण च तद्विशेषावगमोपायाभावादिति समामीयतामतीन्द्रियार्थसाक्षात्कारी, तदभावे सतीष्टासिद्धिरिति, तनावेऽप्यतादृशस्यातीन्द्रियार्थत्वात् तद्विवक्षावगमोपायाभाव इति चेत्, न, शब्दस्य |
प्रयोगकुशलप्रयुक्तस्य कचित् तदवगमनस्वभावत्वात् , अर्थमात्रप्रतिपत्त्या प्रतारके तथाथात्म्यानवगम इति चेत्, न, भगवतो वीतरागत्वेन | #प्रतारकत्वानुपपत्तेः, प्रकृष्टौदासीन्यभावेन वीतरागस्य देशनानुवृत्तिरयुक्तेति चेत् , न, औदासीन्येनैव प्रवृत्तेः, तथाहि-न भगवतस्तियनरामरेषु
| देशनाया विशेषः, यथाबोधं प्रवृत्तेः, तथाप्रवृत्तिरप्येकान्तौदासीन्यबाघिनीति चेत्, न, तस्या अन्यनिमित्तत्वात् , प्रवचनवात्सल्यादीनिमिदत्तप्रागुपात्ततीर्थकरनामकर्मनिर्जरणहेतुत्वात , उक्तं च- "तं च कहं वेइज्जइ ? अगिलाए धम्मदेसणादीहि" मित्यादि, तत्कर्मभावे
| तत्क्षयायोपायप्रवृत्तेः कृतकृत्यत्वानुपपत्तिरिति चेत् , न, अनभ्युपगमात् , न हि भवस्थस्य भगवतः क्षीणमोहस्याप्येकान्तेन कृतकृत्यत्वमिष्यते, Bा भवोपप्राहिकर्मयुक्तत्वात् , अन्यनिमित्तापि प्रकृष्टौदासीन्यबाधिनी प्रवृत्तिस्तदेवेति चेत्, न, स्थितिप्रवृत्या व्यभिचारात्, साऽप्रवृत्तस्यापि
स्वरसत एवेति चेत् तथाविधकर्मयुक्तस्य देशनाप्रवृत्तिरप्येवंकल्पेत्यदोषः, अतीर्थकरवीतरागदेशनाप्रवृत्तिरयुक्तेति चेत्, न, अनभ्युपगमात् , | न हि सामान्यकेवलिनस्तथा देशनायां प्रवर्तन्त इत्यलं प्रसङ्गेन ।
____ यथाक्तं ' प्रमाणपत्रकावृत्तेस्तत्राभावस्व मानते ' त्येतदप्ययुक्तं, विकल्पानुपपत्तेः, तथाहि-असावभावः किं प्रमाणपत्रकविनिवृत्तिमात्र 8 अभाव एवाहोश्चिदात्मा शानविनिमुक्तः उताहो उपलब्भ्यन्तरात्मक इति, न तावत्तुच्छ एव, तस्य निरुपाख्यत्वेन तम्मावपरिच्छेदकत्वानुपपत्तेः, ज्ञानस्य हि परिच्छित्तिर्धों नाभावस्य, न.नाभावपरिकछेदकहानजनकत्वमस्य अभावत्वविरोधात् , तज्जननशक्त्यभावें तदनुत्पत्तेरातिप्रसंगात,
Page #10
--------------------------------------------------------------------------
________________
सर्वज्ञसिद्धौ
॥ १० ॥
तदभ्युपगमे भावत्वापत्तिः, किंच-अभावाद् भवतीति कारणप्रतिषेधात्तज्ज्ञानस्य निर्हेतुकत्वतः सदाभावादिप्रसंगः, अथात्मा ज्ञानविनिर्मुक्तः, ततोऽपि तदभावनिश्रयाभाव:, ज्ञानशून्यत्वात्, ज्ञानस्य च निश्चयो धर्म्म इति, अथ ' चैतन्यं पुरुषस्य स्वरूप' मिति वचनात् तदेव निश्चय इति, न तर्हि ज्ञानविनिर्मुक्तः, तस्यैव ज्ञानत्व दिति, अथोपलब्ध्यन्तरात्मकः, ततोऽपि तदभावनिश्वया भावः, तदविषयसंसर्गेण तद्द्ब्रहणासिद्धेः, न चान्यत्वाभाववत् निश्चयो, न्यायविदः स्वभाववैचित्र्यतस्तत्सत्त्वाशङ्काऽनिवृत्तेः, तदविषयसंसर्गेण तद्ग्रहणाभ्युपगमे च न तस्यैकान्ततोऽसमिति, अन्यस्त्वाह- अभावो प्रभावज्ञानमेव, प्रमेयं त्वस्य तुच्छं, न चायं कुलालादिवद् घटादौ व्यापारमनुभूय स्वपरिच्छेदकज्ञानहेतु:, अपितु विज्ञेयतामात्रात्, न चास्येय मध्ययुक्ता, प्रमेयत्वानुपपत्तेः न च स्वजन्यज्ञानपरिच्छेद्यत्वेन भावत्वापत्तिः, भावज्ञानपरिच्छेयस्य तंदभ्युपगमात् न चानेनाविकृतोऽभावो न गम्यते, षष्ठास्तिकायवत् नास्ति सर्वज्ञ इत्यभावप्रतीतिरिति एतदप्यसत्, अधिकृतज्ञानस्यापि तत उत्पस्यसिद्धेः, संयोगादिप्रतिषेध संख्येतर कायापेक्षमनोविज्ञानात्मकत्वात्, अस्य चापरिमाणत्वात्, परिणीतितः इष्टविषयानुत्पश्या तत्परिच्छेदायोगात्, इतश्चाप्रमाणत्वं नास्ति देवदत्त इत्येवमपि प्रवृत्तेः, न चेदमशंव्यापारजं, भाववत्तत्राक्षव्यापारानुपपत्तेः, अरूपाद्यात्मकत्वात्, अक्षस्य च विषयान्तरेऽप्यप्रवृत्तेः न च वस्तुविशेषणीभूतत्वेनास्य प्रहः, तथाविधस्य तद्विशेषणत्वासिद्धेः सम्बन्धाभावात् तादात्म्यतदुत्पस्यनुपपत्तेः, विशेषणविशेष्यभावस्य च तदप्रत्यक्षतया कल्पनायोगांत्, वस्तुधर्मस्य च एकान्तंतुच्छत्वाभावतः स्वराद्धान्तविरोधाभावः, न हि पररूपाभावः | स्वरूपभाव पृथग्भूत एवेत्येकान्ततुच्छताभावः, न चैवमसर्वज्ञे सर्वज्ञाभावावगमो नेष्यते, न चैवमपि तत्तुच्छतैव, तद्भावस्येतरत्राभावात्, एकान्तंतुच्छभावस्य वातुच्छे तदतदभाव एवाभावादित्यतो नास्ति षष्ठोऽस्तिकाय इंति, प्रसिद्धोपादान एवाप्रमाणभूत एंव विकल्प:, न साक्षात्तुच्छगोचरस्तदप्रतिभासनेन विधिनिषेधाविषयत्वात्तस्येति, अपराभावानवगमादेवास्तिकायेषु संख्यानियमादिसिद्धिरिति सूक्ष्मधिया भावनीयं । यबोकं
पूर्वपक्ष
खंडनं
॥ १० ॥
Scanned by CamScanner
Page #11
--------------------------------------------------------------------------
________________
Scanned by CamScanner
सर्वज्ञसिदौ ।
'रागादिप्रक्षयादि' त्यादिना रागादीनामात्मस्वभावत्वात् प्रक्षयानुपपत्तिरिति, एतदप्ययुक्तं, पद्मरागकातरखरमलस्य तत्स्वभावत्वेऽपि भारमृत्युटपाकादेः प्रक्षयोपपत्तेर्विशुद्धिकल्याणतादर्शनात् , तदतत्स्वभावत्वे सर्वस्य पद्मरागादेविशुद्ध्यादिप्रसङ्गः, अमलस्वभावत्वात् , नवा कस्यचित् कदाचिद्, अमलस्वभावत्वेऽपि पूर्ववदनुपपत्तः, न पद्मरागादेर्मलं सांसिद्धिक, भिन्नवस्तुत्वेन तदुपरंजकत्वादिति चेत् ,आत्मनोऽपि रागादिषु तुल्य: परिहारः, तथाहि-रागादिवेदनीयकर्माणवोऽध्यात्मनो भिन्नवस्तुतामनुभवन्तस्तदुपरंजका इति तत्त्वनीतिः, निसर्गशुद्धस्य कथं तदुपरंजकाः कथं वा न भूयोऽपवर्गावस्थायामिति चेत् , पद्मरागादिष्वपि समानमेतत् , न ते निसर्गशुद्धा मलेनोपरज्यन्ते, किन्तु तद्भस्ता एवोपजायन्त इति चेत् आत्मन्यपि रागाद्यपेक्षया तुल्यमेतत्, अनादित्वात् स नोत्पद्यते इति चेत् अनादिरेव तग्रस्त इति कोऽत्र दोषः!, कृतककर्मभेदत्वात्तेषामनादित्वविरोध इति चेत्, न, कृतकत्वेऽप्यनुभूतवर्त्तमानभावातीतकालवत् प्रवाहतोऽनादित्वसिद्धेः, अन्यथा प्राकालाभावतोऽत्रीजत्वेन पश्चादपि तदभावापत्तिः, न बसत् सद्भवति,अतिप्रसंगात् ,न चाननुभूतवर्तमानस्यातीतता,वर्तमानकल्पं च कृतकत्वमिति, आह-कुतः पुनरमीयां प्रक्षय ? इति, उच्यते, प्रतिपक्षभावनातः, सा चानेकान्तभावना, तत्प्रतिपक्षादुपेक्षासम्भवसामर्थ्यदर्शनात्, इह यतो यद्भवति तत्प्रतिपक्षान तद्भवितुमर्हतीति न्यायः, गुणदोषकान्तप्रहाच्च रागद्वेषौ, अतस्तत्प्रतिपक्षभूतादनेकान्तत एवोपेक्षासम्भवो नान्यथा, तथाहि-उभयात्मकैकत्वोपमहादुपेक्षैव दृश्यते स्त्रीशरीरादिषु तद्विदा, तस्यां गुणा दोषाश्च, ततः किमनयेति व्यवहारदर्शनात्, सा चोपेक्षा संवरवतां सस्वानां, निमिचताऽभावेन अभावादागंतुकमलस्य, तच्चोपेक्षा परिणामादिहेतुतः प्रक्षयात् प्राक्तनस्य, समासादयतां ज्ञानवृद्धिं सूक्ष्मक्षिकयापि वस्तुनि | पश्यतां तदतदात्मकत्वमभ्यासातिशयेन प्रकृष्टोदासीन्यरूपा जायत इति प्रयासः, तदेव परमार्थतो वीतरागत्वं, उक्तं च- " औदासीन्य तु सर्वत्र, त्याम्योपादानहानितः । वासीचन्दनकल्पानां, वैराग्यं नाम कथ्यते ॥१॥” इति, प्रपत्रितमेतद्भावनासिद्धाविति नेह प्रयासः । यच्चोक्तं |
SECRUICK
ॐ
Page #12
--------------------------------------------------------------------------
________________
Scanned by CamScanner
2
+
+
सवेज्ञसिद्धीचि जात्यादियुक्तत्वादेवमादिना | असर्वज्ञत्वसंसिध्यै, प्रमाणं तत् परीक्ष्यते । असाविति न सर्वज्ञो, वक्तृत्वाद् देवदत्तवत् । तत्र किंचिताला
इष्टश्चेत्, न ज्ञातं तेन किं मतम् ॥ २ ॥ यदि यागादिविधयो, मिथ्यार्थत्वेन निश्चिताः । प्रोक्ता हिंसादयः सर्वे, यतो दुर्गतिहेतवः ॥ ३ ॥ ॥१२॥
अन्यत्वे च विरोधे वा, नबर्थश्चद्विकल्प्यते। यमपेक्ष्य विरुद्धोउसावन्यो वा सहि सर्ववित् ॥४॥ विपरीतज्ञ इष्टश्चमन्वनेकांतदर्शनम् । प्रमाणसंगतं तेन, नैतदप्युपपद्यते ॥ ५॥ इत्येवं कुत्सितज्ञश्चेत् , कुत्सिता नरकादयः । तज्ज्ञानसाधने तस्य, भवेदिष्टप्रसाधनम् ॥ ६ ॥ अथ किंचिन्न जानीते, ताहग्वक्ता कथं भवेत् । एवं तावत् प्रतिज्ञार्थः, सर्वथा नोपपद्यते ॥७॥ परप्रकल्पितस्यैव, व्यवच्छेदोऽथ साध्यते । तदयुक्तं यतः शब्दो, न ते भावं व्यपाहते ॥ ८॥ सर्वज्ञत्वेन वक्तृत्व, यतश्च न विरुध्यते । अतस्तेन स सन्न्यायात्, तदभावोऽत्र गम्यते ॥९॥ असर्वज्ञाविनाभूतं, दृष्टं सर्वत्र तद्यतः । ततोऽसर्वशसंसिद्धर्ननु कस्मान गम्यते ॥ १० ॥ सर्वत्र दर्शनासिद्धेरतीतादेरदर्शनात् । न तुल्यमानिधूमादावनोऽग्नेधूमभावतः ॥ ११ ॥ एवं यद्यन्यभावोऽसौ, [स] संकृदप्यन्यथा ततः । न धूमः स्यान्न चेहवं, वक्तृत्वं तनिबन्धनमः ॥ १२ ॥ कथं न तुल्यभावेऽपि, ननु सर्वस्य सर्वथा । अनन्तभूतदोषादेगत्मनस्तु तदुद्भवात् ।। १३ ।। अग्निदोषाचनासत्य, धूमोऽप्यत्राग्निहेतुकः । अन्यथाऽन्योऽपि तस्येत्थं, गमयेत् स्फुटनाद्यपि ॥ १४ ॥ जानाति बहु यः सम्यग् , वक्ति किंचित् स तत्र यत् । जानानः सर्वमप्येव, ननु कस्मान्न वक्ष्यति? ॥ १५॥ सर्वज्ञेन कचिद् दृष्टमसर्वज्ञत्वजं यदि । न तद्दृष्टौ न दृष्टं यत्, तत्र तनेत्ययुक्तिमत् ॥१६॥ न चादर्शनतोऽस्यैव, साम्राज्यस्यैव नास्तिता । सर्वैरदर्शनं चास्य, पूर्वमेव निराकृतम् ॥१७॥ साध्येनाप्रतिबन्धित्वाद्, व्यभिचार्येष सूरिणा। विपक्षे बाधकामावादुक्तस्तत्रापि सम्भवात् ।। १८॥ देवदत्तोऽपि सर्वत्र, ज्ञानवैराग्यज़ा गुणाः । सदसवेन निश्चेतुं, सक्यन्ते नैव सर्वथा | ॥ १९ ॥ कायवाकर्मवृक्यापि, गुणदोषे न निश्चयः । बुद्धिपूर्वाऽन्यथापि स्याच्छैलूपस्येव संसदि॥ २०॥ यतो वीतरागत्वे, तथा चेष्टोफ-18/॥१२॥
+
X4%95%
Page #13
--------------------------------------------------------------------------
________________
सर्वज्ञसिद्धौ
॥ १३ ॥
पद्यते । क्लिष्टा प्रयोजनाभावान्ननु तत् किं न निश्चयः ||२१|| तथा नाम स्वभावत्वे, भवोपग्राहि कर्म्मणः । कदाचिदुचितैर्वैत्र, ततः किं नोपपद्यते ? ॥ २२ ॥ साक्षाद्गम्यमानेपु, ततस्तत्र विनिश्चयः । त एवं नैवमितिवा, छद्मस्थस्य न युज्यते || २३ || न चात्र यस्तु सर्वज्ञः, स वक्ता नेति शक्यते । वक्तुं तथाऽप्रसिद्धत्वादुच्यते चेन्न युक्तिमत् ॥ २४ ॥ तदभावादथावृत्तिस्तव हेतोर्न मानतः । स सिद्ध इति सन्न्यायाद्, व्यतिरेको न पुष्कलः ||२५|| यथोक्तं 'न वक्तृत्वमदेहस्ये' त्यादिना वक्तृत्वं रागादिनिबन्धनमित्येतदपि पारम्पर्येण तेषां तन्निबन्धनत्वे दोषाभावात् अबाधकमेव, इष्यन्त एव हि भगवतो ऽतीता रागादयः, न च तन्निवृत्तौ तत्कार्यत्वेन तदैव देहनिवृत्तिप्रसङ्गः तेषां तन्निमित्तकारणत्वात् तदभावेऽ|पि कार्यस्य कियन्तमपि कालमवस्थानाविरोधात्, खनित्राद्यभावे ऽपि घटादिविनाशासिद्धेः, उपादाननिबन्धनं किमस्य वक्तृत्वस्येति ? चेद्, उच्यते, भाषाद्रव्याण्यात्मप्रयत्नश्च, अत एव कचित् प्रक्रान्तवस्तुनि रागाद्यभावेऽपि सतां साक्षादेव वक्तृत्वोपलब्धेः, अन्यथा तदभावप्रसङ्गात् ; तथा सति व्यवहारोच्छेद इति, यथोक्तं-- “ विवश्या च वक्तृत्व " मित्यादि, एतदप्ययुक्तं, विवक्षामन्तरेणापि कचित् वक्तृत्वसिद्धेः, सुप्तमत्तादिषु तथा दर्शनात्, तत्रापि साऽस्त्येवेति चेत्, न, तथा प्रतीत्यभावात्, प्रबुद्धादावुत्तस्मरणानुपलब्धेः, तथापि तत्कल्पने ऽतिप्रसंग:, कातरविवक्षायां कचिच्छ्ररशब्द प्रयोगदर्शनात् तत्राप्यन्तराले शूराविवक्षाऽस्तीति चेन्न, प्रमाणाभावात्, तच्छब्दप्रयोगान्यथानुपपत्तिः प्रमाणामेति चेत्, न, सन्देहानिवृत्तेः, अविवक्षापूर्वकत्वेऽपि विरोधासिद्धेः, तदभावे त्वहेतुकत्वेन सदा तच्छब्दप्रयोगापत्तेर्विरोधसिद्धिरिति चेत्, न, अहेतुकत्वासिद्ध:, तथाविधभाषाद्रव्यात्मप्रयत्नहेतुकत्वात्, वेषां च तथाविधत्वस्यादृष्टादिनिबन्धनत्वात्, अन्यथा विवक्षाया अपि सदाभावेनोक्कदोपानतिवृत्तेः, अमनस्कत्वेन च भगवत इच्छानुपपत्तिः, तथा वाग्योगस्य च चेष्टामात्रत्वात्, ततश्च सा चेच्छाभावतो हि यद्राग' इत्येतदप्यपार्थकमेव, तत्रेच्छाभावासिद्धेः, भावेऽपि शुद्धेच्छाया रागायोगात्, तथा लोकप्रतीतेः ततश्च वक्तृत्वादसर्वज्ञ इति वाङ्मात्रमेव । संक्षेपादिति सर्वज्ञः सन्न्याये क्त्या निदर्शितः । सामान्येन विशेषस्तु ज्ञेयस्तद्वाक्यतो बुधैः || १ || वाक्यालिंगा हि वक्तारो, गुणदोषविनिश्चये । क्रिया- ४ ॥ १३ ॥
पूर्वपक्षखंडनं
Scanned by CamScanner
Page #14
--------------------------------------------------------------------------
________________ Scanned by CamScanner सर्वज्ञसिद्धौ लिंगा हि कर्तारः, शिल्पमार्गे यथैव हि // 2 // दृष्टशास्त्राविरुद्धार्थ, सर्वसत्त्वसुखावहम् / मितं गंभीरमाल्हादि, वाक्यं यस्य स सर्ववित् / / 3 / / एवंभूतं तु यद्वाक्यं, जैनमेव ततः स वै / सर्वज्ञो नान्य एतच, स्याद्वादोक्त्यैव गम्यते // 4 // न नित्यकान्तवादे यद् , बन्धमोक्षादि युज्यते / | // 14 // | अनित्येकान्तवादेऽपि, बन्धमोक्षादि युज्यते / / 5 // जीवः स्वभावभेदेन, बध्यते मुच्यते च सः। ऐक्य पत्तेस्तयोर्नित्यं, तथा बन्धादिभावतः | / / 6 / / तयोरत्यन्तभेदेऽपि, न बद्धो मुच्यते क्वचित् / एवं च सर्वशास्त्राक्तं, भावनादि निरर्थकम् // 7 // नाचे नस्य बन्धादि, केवलस्यैव युक्तिमत् / अप्रतीतेस्तदेकत्वनित्यत्वादेश्च सर्वथा // 8 // सन्तत्यपेक्षयाऽप्येतन्निरन्वयविनाशिषु / तदभावात्तथा भेदादेकान्तेन न युज्यते // 9 // | एतच सर्वमन्यत्र, प्रबन्धेनोदितं यतः / ततः प्रतन्यते नेह, लेशतस्तूक्तमेव हि // 10 // अतः स्याद्वादनीत्यैव, परिणामिनि बोद्धरि / तथा लचित्रस्वभावे च, सर्व बन्धादि युज्यते / / 11 // य एव बध्यते जीवो, मिथ्यात्वादिसमन्वितः / कर्मणा मुच्यते सम्यक्त्वादियुक्तः स एव हि B // 12 / / बद्धोऽहमिति निर्वेदात . प्रवृत्तिरपि यज्यते / परिणामित्वतस्तस्य, ततक्षयाय कदाचन // 13 // तपःसंयमयोगेषु, कर्मवन्धदवा-IN निषु / प्रवृत्तौ तत्क्षयाच्छुद्धिमोक्षश्चानुपचारतः॥१४॥ स ताहाकिं न निर्वेदात् , सर्वेषामेव देहिनाम् / युगपज्जायते किंच, कदाचित् कस्यचिन्ननु ! // 15 // अनादिभव्यभावस्य, तथाभावत्वतस्तथा / कर्मयोगाच निर्वेदः, स ताहक न सदैव हि // 16 / / स्यादनेकान्तवादेऽपि, म 'यात् I सर्वज्ञ इत्यपि / न्याय्यमापद्यते तेन, सोऽपि नैकान्तसुन्दरः // 17 // स्वगतेनैव सर्वज्ञः, सर्वज्ञत्वेन वर्त्तते / न य: परगतेनापि, स स इत्युपपद्यते / / 18 / / अन्यथाऽन्यगतेनापि, वर्तनात्वेन सोऽन्यवत् / अन्यः स्यादित्यनेकान्तादेव तद्भावसंस्थितिः // 19 / / अन्येषामिव भावानां, स्वसत्ता तद्बलाद्यतः / अतः संचिन्त्यतां सम्यक् , कथं नेकान्तसुन्दरः // 20 // एवं च सिद्धः सर्वज्ञस्तद्वाक्यात् जिन एव तु / तस्मादलं | प्रसंगेन, सिद्धार्था हि यतो वयम् // 21 // कृत्वा ह्यदः प्रकरणं भुवनैकसारं, सर्वज्ञरत्नगतमोहविनाशहेतुः / यत्पुण्यमार्जितमनेन समस्तपुंसां, | मात्सर्यदुःखविरहेण गुणानुरागः / / 22 / / इति सर्वज्ञसिद्धिप्रकरणं समाप्तम् / कृतिः सिताम्बराचार्यश्रीहरिभद्रपादानाम् / RALA4%AAAA // 14 //