Book Title: Samanyanirukti Chandrakala kalavilas Tika
Author(s): Vamacharan Bhattacharya
Publisher: Sadhubela Ashram Bhadaini
Catalog link: https://jainqq.org/explore/009530/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ અહો શ્રુતજ્ઞાનમ્ ગ્રંથ જીર્ણોદ્ધાર – સંવત ૨૦૬૬ (ઈ. ૨૦૧૦). શ્રી આશાપૂરણ પાર્શ્વનાથ જૈન જ્ઞાનભંડાર - સંયોજક- બાબુલાલ સરેમલ શાહ હીરાજૈન સોસાયટી, રામનગર, સાબરમતી, અમદાવાદ-૦૫. (મો.) ૯૪૨૬૫૮૫૯૦૪ (ઓ) ૨૨૧૩૨૫૪૩ (રહે.) ૨૭૫૦૫૭૨૦ પૃષ્ઠ 296 160 164 202 48 306 322 668 516 268 456 420 १४. 638 192 428 070 406 પ્રાયઃ જીર્ણ અપ્રાપ્ય પુસ્તકોને સ્કેન કરાવીને સેટ નં.-૨ ની ડી.વી.ડી.(DVD) બનાવી તેની યાદી या पुस्तat परथी upl stGnels sरी शाशे. ક્રમ પુસ્તકનું નામ ભાષા કર્તા-ટીકાકાર-સંપાદક 055 | श्री सिद्धहेम बृहद्दति बृदन्यास अध्याय-६ पू. लावण्यसूरिजीम.सा. 056 | विविध तीर्थ कल्प पू. जिनविजयजी म.सा. 057 ભારતીય જૈન શ્રમણ સંસ્કૃતિ અને લેખનકળા | पू. पूण्यविजयजी म.सा. 058 | सिद्धान्तलक्षणगूढार्थ तत्वलोकः श्री धर्मदत्तसूरि 059 | व्याप्ति पञ्चक विवृति टीका श्री धर्मदतसूरि 06080 संजीत राममा श्री मांगरोळ जैन संगीत मंडळी 061 | चतुर्विंशतीप्रबन्ध (प्रबंध कोश) सं श्री रसिकलाल हीरालाल कापडीआ 062 | व्युत्पतिवाद आदर्श व्याख्यया संपूर्ण ६ अध्याय | श्री सुदर्शनाचार्य 063 | चन्द्रप्रभा हेमकौमुदी पू. मेघविजयजी गणि 064 | विवेक विलास सं/४. श्री दामोदर गोविंदाचार्य 065 | पञ्चशती प्रबोध प्रबंध सं | पू. मृगेन्द्रविजयजी म.सा. 066 | सन्मतितत्वसोपानम् पू. लब्धिसूरिजी म.सा. 067 | 6:शभादीशुशनुवाई पू. हेमसागरसूरिजी म.सा. 068 | मोहराजापराजयम् सं पू . चतुरविजयजी म.सा. 069 | क्रियाकोश सं/हिं श्री मोहनलाल बांठिया | कालिकाचार्यकथासंग्रह | सं/Y४. | श्री अंबालाल प्रेमचंद 071 | सामान्यनिरुक्ति चंद्रकला कलाविलास टीका श्री वामाचरण भट्टाचार्य 072 | जन्मसमुद्रजातक सं/हिं श्री भगवानदास जैन | 073 | मेघमहोदय वर्षप्रबोध सं/हिं | श्री भगवानदास जैन 074 | सामुदिइनi uiय थी ४. श्री हिम्मतराम महाशंकर जानी 0758न यित्र supम ला1-1 ४. श्री साराभाई नवाब 0768नयित्र पद्मसाग-२ ४. श्री साराभाई नवाब 077 | संगीत नाटय ३पावली ४. श्री विद्या साराभाई नवाब 078 मारतनां न तीर्थो सनतनुशिल्पस्थापत्य १४. श्री साराभाई नवाब 079 | शिल्पयिन्तामलिला-१ १४. श्री मनसुखलाल भुदरमल 080 दशल्य शाखा -१ १४. श्री जगन्नाथ अंबाराम 081 | शिल्पशाखलास-२ १४. श्री जगन्नाथ अंबाराम 082 | शल्य शास्त्रला1-3 | श्री जगन्नाथ अंबाराम 083 | यायुर्वहनासानुसूत प्रयोगीला-१ १४. पू. कान्तिसागरजी 084 ल्याएR8 १४. श्री वर्धमान पार्श्वनाथ शास्त्री 085 | विश्वलोचन कोश सं./हिं श्री नंदलाल शर्मा 086 | Bथा रत्न शास-1 श्री बेचरदास जीवराज दोशी 087 | Bथा रत्न शा1-2 श्री बेचरदास जीवराज दोशी 088 |इस्तसजीवन | सं. पू. मेघविजयजीगणि એ%ચતુર્વિશતિકા पूज. यशोविजयजी, पू. पुण्यविजयजी સમ્મતિ તર્ક મહાર્ણવાવતારિકા | सं. आचार्य श्री विजयदर्शनसूरिजी 308 128 532 376 374 538 194 192 254 260 238 260 114 910 436 336 ४. 230 322 089 114 560 Page #2 --------------------------------------------------------------------------  Page #3 -------------------------------------------------------------------------- ________________ “અહો શ્રુતજ્ઞાનમ” ગ્રંથ જીર્ણોદ્ધાર ૭૧ 'સામાન્યનિરૂક્તિ ચન્દ્રવિલાસ કલા ટીકા :દ્રવ્યસહાયક : સુવિશાલ ગચ્છાધિપતિ પૂજ્યપાદ આચાર્યદેવ શ્રીમદ્ વિજય રામચંદ્ર-ભટૂંકરકુંદકુંદસૂરીશ્વરજી મહારાજાના શિષ્યરત્ન વર્ધમાનતપોનિધિ પૂજ્યપાદ ગણિવર્ય શ્રી નયભદ્રવિજયજી મ.સા.ની શુભ પ્રેરણાથી શ્રી જિનાજ્ઞા આરાધક સંઘ-મીઠાખળી (નવરંગપુરા) જ્ઞાનખાતાની રકમમાંથી લાભ લીધો છે. : સંયોજકઃ શાહ બાબુલાલ સરેમલ બેડાવાળા શ્રી આશાપૂરણપાર્શ્વનાથ જૈન જ્ઞાન ભંડાર શા. વિમળાબેન સરેમલ જવેરચંદજી બેડાવાળા ભવન હીરાજૈન સોસાયટી, સાબરમતી, અમદાવાદ-૩૮૦૦૦૫ (મો) ૯૪૨૬૫૮૫૯૦૪ (ઓ.) ૨૨૧૩૨૫૪૩ (રહે.) ૨૭૫૦૫૭૨૦ સંવત ૨૦૬૭ ઈ.સ. ૨૦૧૦ Page #4 --------------------------------------------------------------------------  Page #5 -------------------------------------------------------------------------- ________________ श्री हरिनाम-ग्रन्थमालाया द्वितीयं पुष्पम् श्रीगङ्गशोपाध्याय-प्रणीत-तत्वचिन्तामणी सामान्यनिरुक्तिप्रकरणम् श्रीमदुदासीनपरमहंस-परिव्राजकाचार्यवर्यस्वामिश्रीजयरामदासभगवत्पादशिष्य-सिन्धुमहानदमध्यप्रतिष्ठितश्रीसाधुबेलातीर्थसिंहासनासीनपदवाक्यप्रमाणपारावारीणस्वामिश्रीहरिनामदासोदासीनकृतचन्द्रकला-कलाविलास-टीकाद्वयोपबृंहित-महामहोपाध्यायश्रीगदाधरभट्टाचार्य-विरचित. गादाधरीसनाथीकृत-श्रीरघुनाथशिरोमणि-प्रणीत-दीधिति संवलितम् । तदिदम् काशिकहिन्दुविश्वविद्यालयोयन्यायप्रधानाध्यापकैर्विश्वविश्रुतनैयायिकैः सर्वतन्त्रस्वतन्त्रैः पण्डितप्रवरैः श्रीयुतवामाचरणभट्टाचार्य स्तर्कतीर्थतर्कालङ्कारैन्यायाचार्यः संशोधितम् । प्रथमावृत्तिः । १००० विजया दशमी सम्वत् २०१० मूल्यम् ६) "Aho Shrutgyanam" Page #6 -------------------------------------------------------------------------- ________________ प्रकाशक: श्री साधुबेला आश्रम २५९ भदैनी, बनारस-१ [अस्य ग्रन्थस्य सर्वेऽधिकाराः प्रकाशकेन स्वायत्तीकृताः ] "Aho Shrutgyanam" Page #7 -------------------------------------------------------------------------- ________________ नमः परमदेवतायै भूमिका अद्यापि तावदपगतहर्षे भारतवर्षे निरन्तरमनादरणीय संस्कृतशास्त्रे विशेषतो न्यायशास्त्रे नवीनन्यायशास्त्रे वा विगतश्रद्धानामाधुनिकलोकानामन्तिके सुप्रकाशीकृतं नव्यन्यायसामान्यनिरुक्तिग्रन्थस्य महामहोपाध्याय पण्डितप्रवरश्रीमद्गदावरभट्टाचार्योताभिनवव्याख्याया: सविस्तरं चन्द्रकला कलाविलासनामकं टीकाद्वयं सर्वसाधारण गम्यमतिसरलं स्वामिप्रवरातुलनगुणगणभूषण इरिनामदासविरचितंविलोकयता मया सानन्दं सर्वथा वक्तु ं शक्यते - धन्यैव सा विपुल भारतवर्ष भूमि, यंत्र प्रभूतयशसां महतां जनिश्रीः सर्वविदितामरकीर्त्तयस्ते संलेभिरे स्वजननं हरिनामदासाः । इति तत्र लभमानजन्मानो वयमवश्यमेव धन्या इत्यपि वक्तु ं शक्यते । तस्मादस्माकं भाग्यवशादनन्तदुर्गतिं सहमानाऽपि सेयं भारतभूमिरधुनाऽपि स्वपुरातनरत्नीभूर्यादां न जहातीति तां सादरं सभक्तिकञ्च प्रणम्य पुनः पुनस्तावदेव गीयते, विजयतां विजयतामस्माकं भारतवर्ष इति । एतेषां महात्मनां स्वामिप्रवराणां परिचयस्त्व प्रदास्यते । साम्प्रतं नव्यन्यायशास्त्रस्याध्ययनप्रयोजन निदानप्रतिपादनावसर इदमपि किञ्चिद्वक्तव्यं नाप्रसक्तं मन्यते —ये न्यायामृतरसास्वादविधुरान्तराः किञ्चिदाघातशास्त्रान्तरगन्धाः केवलमांग्लोपासनाब लावलेपा नवनीतिनवनीतमपि निस्सारं वर्तमानानुपयोगं च संगिरन्ते; तेऽवश्यं प्रतिबोधनीया इति । विदितमस्तु तेषां यद्वाराणसेयाः पुरातनपण्डितवरेण्याः वैयाकरणाः शास्त्रान्तराभिज्ञाश्चान्यदेशीयाः समधिकविद्याविनयसम्पन्नाः प्राधान्यं संदधाना विद्वांसः समधिगतनव्यन्यायशास्त्रतत्त्वनिवहा एव विश्वविसारिकीर्तयः समासन् । इदानीमपि शास्त्रान्तरकान्तारक्लेशानल सन्तापप्रशमन साधनमनुसन्दधाना व्यन्यायैकान्तशीतल जलधिमेवानुधावन्तो दृश्यन्ते । न ह्यनुदितेऽनल्पकल्पनामरीचिमालिनि भगवति नव्यन्याये कदाचिदपि कस्यचिन्मनस्त्रिमनुजमानससरसि वैदुष्यकमलिनी विहसति । " Aho Shrutgyanam" Page #8 -------------------------------------------------------------------------- ________________ यद्यपि चिन्तामणिकृत्पूर्ववर्तिनस्तावदनेके महान्त एव विपश्चित उदयनाचार्यप्रभृतयोऽनधीतनव्यन्यायशास्त्रा विलक्षणानपूर्वग्रन्थनिचयान् विरचितवन्तो विराजन्ते, स्म, येषामतुलनीयग्रन्थावगतिसुषमाऽद्यापि मेधावृतेव विलोक्यते । तथापि तेषां सर्वेषामेव गौतमीय न्यायशास्त्राभिज्ञतैव तादृशानुपमशास्त्रनिर्माणप्रयोजिका । इयं नूतननीतितत्वसन्ततिकौमुदी न केवलं शास्त्रान्तराज्ञानदरतिमिर मात्रमतिघोरमपहरति, अपि तु समस्तजनताभिमतमुक्तिकुमुदिनीविकासोपयोगितामप्यावहतीति सन्तस्तत्र प्रवर्तन्ते । महामुनिगौतमतन्त्रस्य प्रथमसूत्रेण न्यायपदार्थतत्त्वज्ञानानामपवर्गप्रयोजकताया निर्णीततया तादृशन्यायपदार्थप्रतिपादकस्य नव्यन्यायशास्त्रस्यापि मोक्षक्षमता अवश्यं सम्भवति,? तर्कविद्यामात्रस्यान्वीक्षिकीशब्दवाच्यतायाः कोषकारादिसम्मतत्वेऽपि वेदप्रामाण्यमूलिकाया एव तर्कविद्याया मुक्तिप्रयुक्तिकत्वस्य सर्वसम्मतत्वाद् , आन्वीक्षिकीत्वमात्रस्य मोक्षोपयोगिताप्रयोजकत्वानभ्युपगमाच्च । रामायणेऽयोध्याकाण्डे जावालिमुनिना प्रथमतो नास्तिकतर्कविद्यामधिकृत्यैव श्रीरामचन्द्रैः सह शास्त्रार्थों विहितस्तदनन्तरं श्रीरामचन्द्रनास्तिकविद्याया एव निन्दा कृता न तु समस्तपूज्याया भगवत्या गौतमीयतर्कविद्यायाः, न वा तैः गौतमोयतकविद्यामधीयानाः कथमप्यभिशप्ताः। सुतरामधोत्य गौतमी विद्यामित्यादिवचनममूलमेव, तस्य समूलत्वेऽपि सर्वथाऽनिश्चितवक्त कतयाऽनातोक्ततया चाप्रमाएत्वादस्माभिस्तद्वचनमश्रद्धयमेव । न्यायशब्दार्थस्तु परार्थानुमानं प्रतिज्ञादिपञ्चवाक्यसमुदायो वा तत्प्रतिपादकं शास्त्रं न्यायशास्त्रम् तस्य सर्वशास्त्रकारणीभूतसर्वज्ञ. परमेश्वरोत्पन्नत्वमपि सुबालोपनिषदि द्वितीयखण्डे न्यायो मीमांसा धर्मशास्त्राणीत्यादिना प्रमाणीकृतमिति दृश्यते । भाष्यकृता धात्स्यायनेनापि प्रदीपः सर्वविद्याना. मित्यादिना न्यायशास्त्रस्यैव सर्वशास्त्रतः प्राधान्यं निरूपितम् । तस्मादनुमानप्रमाणरूपयुक्तथा मननमेवान्वीक्षा तया प्रवर्तत इत्यान्वीक्षिकी न्यायविद्या न्यायशास्त्रमिति व्याख्या तस्य तर्कविद्यात्वेऽपि मननस्य मोक्षोपयोगितया अध्यात्मशास्त्रत्वात् सप्रयोजनकत्वं निर्विवादम् । अत एवाद्वैतवादिभिः सर्वप्रधानकविभिः श्रोह(रपि नैषधचरितकाव्ये दशमसर्गे "उद्देशपर्नण्यथलक्षणेऽपि द्विधोदितैः षोडशभिः पदाथै" रित्यादि श्लोकतो मुक्ति प्रार्थयतां न्यायविद्याया एवातुलनीयसहायता वर्णितेति न्यायशास्त्रस्य नवीनन्यायशास्त्रस्य च प्रेक्षावत् प्रवृत्यङ्गत्वं निराबाधं निश्चीयते । तदिदं नव्यन्यायशास्त्रं गौतमीयन्यायशास्त्रप्रतिपाद्यपदार्थप्रतिपादकतया सर्वशास्त्रोपकारकतया च सर्वजनसमादृतं श्रीमद्भिर्महामहोपाध्यायः पण्डितप्रवरैः गंगेशोपाध्यायैरेव विरचितमेतैस्तु नव्यन्यायशास्त्रात्मकचिन्तामणिनामकग्रन्थं निर्माय भारतवर्षस्य महानेवोप "Aho Shrutgyanam" Page #9 -------------------------------------------------------------------------- ________________ ( ख ) कारः सम्पादितः । इमे तावत् मिथिलाप्रान्तीयमंगलौनीनामकग्रामे गृहीतजन्मानः समासन् । त्रयोदशशताब्द्यामेवैभिश्चिन्तामणिनामकग्रन्यरचनया नव्यनैयायिकसम्प्रदायप्रवर्तनं कृतमिति तत्पौत्रयज्ञपत्युपाध्यायस्य चतुर्दशशताब्दीपर्यन्तस्थायित्वं विज्ञायास्माभिरवघारितम् । एतेषां गौड़देशीयत्वप्रवादो मया तर्कमाथुरीविवृतिभूमिकायां समुपन्यस्तो नेह वितन्यते । निरुक्तचिन्तामणिग्रन्थस्य पक्षधरमिश्रकृतालोकनामिका टोका वासुदेवसार्वभौमकृता परोक्षानामिका च टीका, एवमन्यान्यमहानैयायिकविरचितापि पूर्व बहुविधा टीका समासीत् । सा सा टीका तु भारतवर्षे समुदिते तदानीन्तनसर्वप्रधानपण्डितप्रवररघुनायशिरोमणिविरचिते चिन्तामणिदीधितिनामकटीकाग्रन्थे प्रबलप्रचण्डझंझावात प्रवहति सति सह मेघैः सौदामिनीव पक्षधरमिश्रादिभिः सहैव विलुप्सेदानी दृश्यते । तैरेव दीविकृद्भिः "न्यायमधीते सर्वस्तनुते कुतुकान्निबन्धमप्यत्र । अस्य तु किमपि रहस्यं केचन विज्ञातुमीशते सुधियः॥ विदुषां निवहैरिहैकमत्या यददुष्टं निरटति यच्च दुष्ट । मयि जल्पति कल्पनाधिनाथे रघुनाथे मनुतां तदन्यथैव ॥" इति वक्तुं पार्यते । दीधिकारा भारतविदितनवद्वीप गंगातटनिकटे गृहीतजन्मानः। तत्रैव मात्रा साकं विराजन्ते स्म । एष तु प्रवादः समूल इव लक्ष्यते यदेकदा बाल्यावस्थो रघुनाथो मात्राज्ञप्तः-"रघुनाथ ! पण्डितप्रवरघासुदेवसार्वभौमस्य पाठशालातः पाकार्थमग्निः समानीयतामिति ।" मातुराज्ञां शिरसि कृत्वा रिक्तपागिरेव रघुनायबालोऽग्निमानेतु तत्र गतः तत्रत्याश्छात्रानग्निमयाचीद-"दोयतां स्तोकं भो भ्रातरोऽग्निः ।" ते छात्रा रिक्तहस्तं तमालोक्य च कथितवन्तः सहसागृह्यतां-गृह्यतां भो ! अग्निरेषः।" तच्छ्रुत्वा सद्यःप्रतिभशिरोमणिझटिति धूलिभरितकरपुटं कृत्वा वक्ति स्म" दोयतां मे हस्ते हुताशनः ।” महानैयायिको वासुदेवसार्वभौमो बालकं तमप्रतिमप्रतिभं निश्चित्य तत एव दिवसात् समाध्यापयितुमारेभे। सार्वभौमादधीत्य न्यायं सर्वं स बालो मैथिलं कञ्चन महाभटमप्रतिपदं पक्षधरमिश्र शुश्राव । निपुणतरं न्यायमधिगन्तुं मिश्रान्मिथिलां ययौ । तत्राकर्णितमनेन सरस्वत्याः प्रधानः पुत्र एष मिश्र इति । तद्गृहे गत्वावलोकितम्-प्रथमे नारेऽष्टौ प्रकाण्डपण्डिता, द्वितीये पञ्च, तृतीये त्रयो नियुक्ता आसन् । तान "Aho Shrutgyanam Page #10 -------------------------------------------------------------------------- ________________ ( ग > विजित्य पक्षधर मिश्रदर्शनमेवासम्भवीति । शिरोमणिस्तान् सर्वान् विजित्य पक्षघरमुपेयिवान् ! तं नवागतं बालमालोक्य विलक्षमेकाक्षं पक्षधरः पप्रच्छ— "आखण्डलः सहस्राक्षो, विरूपाक्ष त्रिलोचनः । अन्ये द्विलोचनाः सर्वे को भवानेकलोचनः ॥ त्वरितमुत्तरितं कल्पकशिरोमणिना आखण्डलः सहस्राक्षः, शङ्करस्तु त्रिलोचनः । यूयं विलोचनाः सर्वे, वयं न्यायैकलोचनाः ॥ इत्यायुक्तिप्रत्युक्तिभ्यामेकाक्षत्वं निरूपितं भवति, प्रसिद्धमपि तत् । पुनर्मिश्रैरभिहितम् वक्षोजपानकृत्कारण ! संशये जाग्रति स्फुटम् । कस्मादकस्मादपलप्यते ॥ सामान्यलक्षणा अस्वोत्तरं सामान्यलक्षणायन्ये "अत्र वदन्ति" कल्पे मिश्रमतदूषणावसरे सम्यक्प्रदत्तम् । पुनरपि दीधितिकृद्भिरभिहितम् कुशद्वीपनलद्वी पनवद्वीपनिवासिनः । तर्कसिद्धान्तसिद्धान्त शिरोमणिमनीषिणः ॥ इति । तदाकर्य विज्ञाय च कुशाग्रतरं तं मिश्राः सम्यगध्यापितवन्तः । ततः शिरोमणिमहाभागाः मिथिलायाः स्वदेशं नवद्वीपं प्रति प्रस्थिताः । तदा सरस्वतीप्रधानतनयपक्षधर मिश्रमहोदयानामगणितान्तेवासिनस्तैः सार्द्ध नवद्वीपमागताः । सम्बत्सरानन्तरं श्रीमन्तो मिश्रपादा अपि नवद्वीपे निवासार्थं समुपस्थितास्तेषा देहावसानमपि तत्रैव जाह्वव्यां जातमिति प्रसिद्धमत एव नवद्वीपनिवासिनां प्राचीन विदुषामिदानीं प्रस्तरमूर्तिः श्रीमतां मिश्रमहोदयानां संस्थापिता भविष्यतीति राजकीयरघुना प्रस्तावितमिति श्रूयते । परमत्र विवादः । परमत्राविवादो -- यत् श्रीमतोः पक्षधर मिश्र सार्वभौमयोर्मतं तयोर्जीवतोः शिरोमणिभिः स्वव्याख्यायां व्यवस्थाप्य भृशं दूषितमिति । दीधिकृद्भिरेव स्वमतं विस्तार्य नव्यन्याये नवयुगः प्रवर्तितः । श्रीमन्मथुरानाथस्य तात श्रीरामतर्कालङ्कारमहोदया उदयनाचार्यकृतात्मतत्त्वविवेकस्य रघुनाथ शिरोमणिप्रणीतां टीकां व्याकत" प्रवृत्त प्रारम्भे एव "हृदि कृत्वा ܕ "Aho Shrutgyanam" Page #11 -------------------------------------------------------------------------- ________________ ( घ ) सार्वभौमस्य सद्वचः" इति लिखितवन्तः। तेन सार्वभौमादयः प्राञ्चो दीधितिटीकारचितवन्तः पण्डितप्रवरा अनुमेया इति वक्त शक्यतेऽस्माभिः । श्रीमन्तो रघुनाथशिरोमणिमहाशयाः स्मृतिशास्त्रविषयेऽपि "मलिम्लुचविवेकनामकमेकं ग्रन्थं निर्मितवन्तः । तद्दर्शनेन दीधिकृतां व्यापकं पाण्डित्यं व्यज्यते । एतेषां दीधितिनिर्माणसमयस्तु पक्षधरमिश्राणां पञ्चदशशताब्दीस्थायितया तस्याः शताब्द्या अन्तिमो भागः । मिश्रेःस्वके ग्रन्थे लिखितम् - बाणैर्वेदयुतैः सशम्भुनयनैः संख्यां गते हायने । श्रीमद्गौड़महीभुजो गुरुदिने मार्गे च पक्षे सिते ॥ षष्ठयां ताममरावतीमधिवसन् यो भूमिदेवालयः। श्रीमत्पक्षधरः सुपुस्तकमिदं शुद्धं व्यलेखि द्रुतम् ॥ इत्यनेन लक्ष्मणसम्वत्सरम् ३४५ इति मिश्रसमयो ज्ञायते । रघुनाथशिरोमणेर्दीधिति टोकायाः प्रसिद्धटीकाकृतस्तु पूर्व रामकृष्णभट्टाचार्याः ततो मथुरानायतकवागीशः श्रीरामचन्द्रतर्कालङ्कारो मधुसूदनवाचस्पतिः भवानन्दतकंवागीश इत्यादयः। ततो रघुनायशिरोमणितो द्विशतवर्षानन्तरं जगदीशतकालंकारोऽपि दीधितिव्याख्याकारः। परन्तु गदाधरभट्टाचार्यस्य श्रीमतः पण्डित. प्रवरस्य गादाघरीति नामविख्याता टोकैव विशेषत: सर्वेरादरणीया दृश्यते । दाक्षिणात्ये तु केवला गादाधरीटीकैव अधुनापि प्रचलितास्ति । गदाधरभट्टाचार्या एव नव्यन्यायस्य चरमावतारा इत्येवं दाक्षिणात्यैरभिधीयते । दाक्षिणात्यातिरिक्तदेशे जागदीशी टीकापि प्रचलिता वर्तते । गदाधरवंशधरगणकानां गृहे लिखितमस्ति यत् १००६ इतिसंख्याके वंगाब्दे तेषां जन्म, एवं १११० इति संख्याके वंगाब्दे तेषां देहावसानं जातं, तेन तेषां टीकालेखसमयः सार्द्धद्विशतवर्षसमय इत्यस्माभिवक्तुं शक्यते । एते गदाधरभट्टाचार्यमहोदया अपि तदानीन्तनसर्वप्रधानपण्डिता एव श्रासन् । तेषां सामान्य. निरुक्तिप्रभृतिचिन्तामणिदीधितिव्याख्यामवलोक्यानुमातुं शक्यते यत् तदानी तादृशविशिष्टपाण्डित्यं कस्यापि नासीदिति । नव्यन्यायस्य प्राधान्यं तैरेव व्यवस्थापितं, येषां टीकामधीत्याद्यापि भारतवर्षे विख्यातकीर्तय एव पण्डिता माननीया विराजन्ते इमे तु विशेषदीर्घजीविनः, सप्तदशशताब्धाः पश्चादपि किञ्चिद् दिनमेतेषां स्थितिरासीत् । एतेभ्यः कृष्णनगराधिपतिर्महाराजराघवः १६६१ इतीशवीये प्रभूतां भूमि दत्तवान् । एकस्मिन् दिवसे भट्टाचार्याणां तिन्तिलीपत्रसंग्रहं दृष्ट्वा राजा राघवेण पृष्टम् । अनेन पत्रभारेण भवतां किं भविष्यति ? तच्छ्रुत्वा भट्टाचारभिहितम् । अनेन "Aho Shrutgyanam" Page #12 -------------------------------------------------------------------------- ________________ पत्रभारमात्रेणेवास्माकं भोजनं सम्पद्यते, सुतरामेतेषां संग्रहोऽस्माभिः क्रियते । तदनन्तरमेव श्रुतवता तेन राज्ञा यया भट्टाचार्याणां भोजनचिन्ता कथमपि न भवेदिति तथैव तेन कृतभूमिदानेन विहितमिति प्रवादोऽपि वर्तते । भट्टाचार्यस्तु अन्यान्यीकाकारापेक्ष्या नवीनप्रतिभया सामान्यनिरुक्तिदोधितिटीकाया व्याख्या विरचिता । चिन्तामणिग्रन्थान्तरेऽपि एताहशी व्याख्या कैरपि नावलोकिता । ग्रन्थेऽस्मिन् अव्यापकोभूतविषयिताशून्यत्वविशिष्टद्वयाघटितत्वकल्पयोभट्टाचार्यविरचितयोनूतनत्वमिदानीमपि सर्वजनप्रसिद्धम् । तादृशबुद्धिवैभवविरचितगादाधरीतिविख्यातनामकटीकायाः साम्प्रतमपि टीकाद्वयमस्माभिर्वी. क्ष्यते । निरुक्तटीकाद्वयसङ्कलनकर्ता श्रीमदुदासीनप्रवर : श्रीमान् पण्डितप्रवरः पण्डितप्रियो हरिनामदासः सिन्धुप्रान्ते सक्खरनगरे लब्धजन्मेति सुपतिविदितम् । विदितवेदितव्यरिदमस्माकमन्तिकेऽस्य जन्मरहस्यं वर्णितं यत् तदतीव दैवयोगसम्पन्नमित्यस्माभिः संक्षेपेण समुपन्यस्यते । यद्यपि निरुक्तटीकाद्वयकर्तुः स्वामिप्रवरस्य पित्रोः पुरा पुत्रसन्ततिविरहजं दुःवं सदैवासीत्, तथापि तौ धर्मपरायणौ सिन्धुनदमध्ये विराजमाने प्रसिद्ध श्रीसाधुबेलातीर्थे धर्मव्याख्यानमाकर्णयितुं प्रतिदिनमेव नियमतो गच्छतः स्म । एकस्मिन् दिवसे तत्रैव तीर्थेऽस्य पितरौ भागवतीप्रतिमां प्रणम्य मनसि कृतसंकल्पौ तावदेवं सभक्तिं कथितवन्तौ, भगवन् ? यद्यावयोः पुत्रसन्ततिरुत्पद्यते तावाभ्यामवश्यमेवैकः पुत्रः श्रीसाधुबेलातीर्थस्वामिने सम्प्रदास्यत, इति । अहो भाग्यम् , अतः परं भगवतो महतानुग्रहेणैयानयोश्चत्वारः पुत्राः समुत्पन्नाः । येषां द्वितीयपुत्रोऽयं टीकाद्वयकारः स्वामिप्रवरो हरिनामदासः । संसारदशायां नारायणदासनाम्ना प्रसिद्धः। योऽयमुपनयनसंस्कारानन्तरमेव तदानीन्तनश्रीसाधुबेलातीर्थस्वामिने जयरामदासमहोदयाय पितृभ्यां सम्प्रदत्तस्तदीयशिष्यतामावहन् , विराजते स्म । तदनन्तरं दीक्षितमिमं मेधाविनं प्रतिभासम्पन्नञ्चावलोक्यास्याध्ययनार्थ कृतयत्नेन तेन जयरामदासस्वामिना प्रसिद्धविद्वान् श्रीमान् पण्डितप्रवरोगुरुप्रसादमहाराजो नियुक्तः। स एव पण्डितप्रवरस्तावदिमं टीकाद्वयकारमध्यापयामास । लब्धविद्यश्चायमू जयरामे महाराजे स्वामिनि त्रिदिवं गते । तस्य सिंहासनारूढो दर्शनज्ञानवान् स्वयम् ।। व्योमव्योमनभोनुनेत्रविमिते सम्वत्सरे वैक्रमे , चिन्तानन्तसुधां निपीयमहतीमानन्दसंवर्द्धनः । स्वामिश्रीहरिनामदासविबुधः कान्तः स धीरप्रियो , न्यायक्षीरमहोदधीदममृतं मध्नाति टीकाद्वयम् ।। "Aho Shrutgyanam" Page #13 -------------------------------------------------------------------------- ________________ ( च ) हन्तेदानीमस्माकं दुःखकारणं यदसौ स्वामिप्रवरो जगतीतले नास्ति । किन्तु स्वर्गमलंकृतवानिति । अनेन श्रीमता हरिनामदासस्वामिप्रवरेण सह प्रयागतो) कुम्भावसरे मम प्रथमपरिचयो जातः ततो वाराणस्यामस्य पाण्डित्यमतुलनीयं न वेति टोकाद्वयमवलोकयतामेव विदुषां वेदितव्यं भविष्यतीति । तत्र नाधिकमस्माकं वक्तव्यमस्ति । १९३७ संख्यके वैक्रमसम्बत्सरे पौषकृष्णदशम्यां टीकाद्वयकर्ता सिन्धुप्रान्तीयसक्खरनगरे लब्धजनिः । २००६ संख्यके तु संम्बत्सरे मंगलवासरे पौषकृष्णाष्टम्यां ब्रह्मतामवापेति विज्ञायते । सामान्यनिरुक्तिग्रन्थस्य संक्षिप्त विवरणं तावनिम्नलिखितमुपन्यस्यते । प्रथमतो मूलकृता हेतुवदाभासन्ते ये ते हेत्वाभासा इतिव्युत्पत्तिमवलम्ब्य हेत्वाभासशब्दस्य दुष्टहेत्वर्थकतां स्वीकृत्य के हेत्वाभासा इति शिष्य जिज्ञासानिवर्तनतात्पर्यकं साध्यज्ञाने प्रमात्वनिश्चयरूपतत्वनिर्णयप्रयोजकतया परकीयहेतो. दुष्टत्वोद्भावनेन स्वस्यापि विजयो भवतीति विजयप्रयोजकतया च हेत्वाभास. निरूपणं प्रतिज्ञातम् । ततो दोषलक्षणं विना दुष्ट लक्षणस्यासम्भवाद् दोषाणां लक्षणत्रयमिदमभिहितम् । तदनन्तरं दशाविशेषे इत्यादिग्रन्थेन जरन्नैयायिकमतसिद्धं हेतौ सत्प्रतिपक्षितत्वादिव्यवहारविषयत्वं कथंचिनिरुच्य ते च सव्यभिचारेत्यादि. ग्रन्थेन हेत्वाभासानां विभागोऽभिहितः । दीधितिकृता च हेत्वाभासनिरूपण प्रयोजनप्रदर्शनपूर्वकं दोषलक्षणाभिधानकारणप्रदर्शनपूर्वकञ्च लक्षणघटकप्रत्येकपदार्थव्याख्यानमाख्याय प्रथमलक्षणप्रतिपदव्यावृत्तीरभिधाय प्रथमलक्षणपरित्यागबीजमभिहितम् । ततो द्वितीयलक्षणे मेयत्त्वविशिष्टव्यभिचारेऽतिव्याप्तिवारणायाभिनवप्रतिभया विशिष्टान्तराऽवटितत्वं लक्षणघटकयदूपविशेषणमभिहितम् । तदनन्तरं समुदितलक्षणे दोषमभिधाय स्वयमेवात्र वदन्तीत्यादिना हेत्वाभाससामान्यलक्षणं निरूपितम्। ततो हेत्वाभासलक्षणानां पक्षधरमिश्रादिसम्मतव्याख्यानं बहु दूषितम् । तदनन्तरं दशाविशेषे, इत्यादि मूल ग्रन्थो नूतनरीत्या व्याख्यातः । गदाधरभट्टाचार्येण तु प्रतिपदव्यावृत्तिप्रदर्शनपूर्वकं दीधिति व्याख्याय दोधितिकारव्याख्यातलक्षणे दोषं प्रदर्श्य स्वयमव्यापकोभूतविषयिताशून्यत्वं लक्षणघटकनिश्चये विशिष्टद्वयाघटितत्वञ्च तादृशे यद्रूपे निवेशितम् । तादृशनिवेशमालम्ब्यैव गोलोकोनामिका पत्रिका प्रसिद्धा वर्तते । मिथिलायामपि विशिष्ट. द्वयाघटितत्वनिवेशस्य प्राधान्यं निश्चित्य प्रायशो मैथिलमहानैयायिकास्तनिवेशविशेष एव महान्तं परिश्रमं कृतवन्त इति श्रूयते । निरुक्तनिवेशद्वये भट्टाचार्य "Aho Shrutgyanam" Page #14 -------------------------------------------------------------------------- ________________ स्याभिनवः पन्था जगति प्रशंसनीयोऽपि जगदीशतर्काल कारेणाभिप्रायान्तरमभ्युपेत्य तादृशनिवेशस्तावदुपेक्षित एव । ततो विशिष्टान्तराऽघटितत्वकल्पेऽपूर्व न च चतुष्टयप्रदर्शनपूर्वकं स्वसजातीयविशिष्टान्तराऽवटितत्वमभ्युपगच्छतां मतं दूषितम् । तदनन्तरमत्रवदन्तिकल्पपरित्यागबीजं प्रदर्श्य परे वित्यादिना नवीनरीत्याऽत्रवदन्तिकल्पोक्तं . दूषणं निराकृतम् । ततो याहंशपक्षसाध्य केल्यादिलक्षणस्य साधुव्याख्यानमाख्याय दशाविशेष इत्यादिमूलदीधितिर्मतान्तरापेक्षया सर्वथा समीचीनेति समर्थितम् । हरिनामदासस्वामिप्रवरेण प्रतिपदव्यावृत्ति प्रदश्य सरला गादाधरीव्याख्यारूपा चन्द्रकलानामिका सर्वसाधारणबोधगम्यका टोका विरचिता, कलाविलासनामकटीकाप्रतिपाद्यविषयाः पूर्वतः प्रचलिता श्रपि नवीनसरलभाषया नवकल्पनया प्रकाशिताः । सा द्वितीयाऽपि टीका सर्वेषां समादरणीया भविष्यतीत्यत्र नास्ति सन्देह इति घक्त शक्यते । विशेषतः कलाविलासनामिकायां टीकायां परीक्षार्थिपरमजिज्ञास्यविषयाणां सुनिपुणतया निरूपणमस्ति । निरुक्तया टीकया सर्वेषां विशेषतः परीक्षार्थिनां विद्यार्थिनां महानुपकारो भविष्यति । चन्द्रकलाऽपि चन्द्रकलेव न्यायाज्ञानान्धकारं समूलं नाशयतीति मन्ये । दृश्यते तावञ्चन्द्रकलाटीका सर्वेषामेवोपकाराय प्रमवतीति । न केवलं सम्भाव्यते निश्चितमेवैतद् यनिरुक्तटोकाद्वयमेव अतिदुरूहस्यापि सामान्यनिरुक्तिग्रन्यस्यास्य बोधगम्यतां सम्पादयिष्यतीत्यास्तां विस्तरः ।। माता मे चरणप्रान्ते, यस्य नत्वान्तिमे दिने । मुक्तिं प्राप सतापाय नमस्तस्मै यशस्विने ॥ धर्मशास्त्रमहाशस्रधर्माज्ञाननाशिने । मात्रा सह तया पित्र शशिभूषणशर्मणे ॥ ततः श्रीगुरवे तस्मै भारतख्यातकीर्तये । वामाचरणधीराय नमो . न्यायकचक्षुषे ।। बाणाधिनागविधुमानमिते शकादे, कृष्णाश्विनप्रतिपदीन्द्रगुरोर्दिने च । वाराणसी प्रतिवसन्नयभूमिकां स, धीरस्तनोतिविमलामधिसाधुटीकाम् ।। श्रीवामाचरणभट्टाचार्यः "Aho Shrutgyanam" Page #15 -------------------------------------------------------------------------- ________________ आरोग्याक्षतवक्षसि क्षितितले तीर्थाधिराजं परं, दुर्गाशम्भुगणेशमित्रहरिभिः सेव्यैः सदा सेवितम् । यं सिन्धुर्मधुरैर्मुदा नवनवैः पूरैः समासिञ्चति, तस्मा एष समर्प्यते गतिभिदे श्रीसाधुबेलाकिने । स्वामिना "Aho Shrutgyanam" Page #16 -------------------------------------------------------------------------- ________________ चिन्तामणि अथ हेत्वाभासास्तत्वनिर्णयविजयप्रयोजकत्वान्निरूप्यन्ते । तत्रानुमितिकारणीभूताभावप्रतियोगियथार्थज्ञानविषयत्वम् ॥१॥ यद्विषयकत्वेन लिङ्गज्ञानस्यानुमितिप्रतिबन्धकत्वम् ॥२॥ ज्ञायमानं सदनुमितिप्रतिबन्धकं यत् तत्त्वं वा हेत्वाभासत्वम् ॥३॥ दशाविशेषे हेत्वोरेवासाधारणसत्प्रतिपक्षयोरामासत्वात् तद्बुद्धे. रप्यनुमितिप्रतिबन्धकत्वम् । यद्यपि बाधसत्प्रतिपक्षयोः प्रत्यक्षशाब्दज्ञानप्रतिबन्धकत्वान्न लिङ्गाभासत्वं तथापि ज्ञायमानस्यामासस्यात्र लक्षणं यद्वा प्रत्यक्षादौ बाधेन न ज्ञानं प्रतिबध्यते किन्तूत्पन्नज्ञानेप्रामाण्यं ज्ञाप्यतेऽनुमितौ तूत्पत्तिरेव प्रतिवध्यते । ते च सव्यभिचारविरुद्धसत्प्रतिपक्षासिद्धबाधिताः पञ्च । इतिश्रीगङ्गशोपाध्यायविरचितायां तत्त्वचिन्तामणौ सामान्य निरुक्तिप्रकरणम् । "Aho Shrutgyanam" Page #17 -------------------------------------------------------------------------- ________________ श्रीगुरुवनस्खण्डिने नमः। अथानुमानगादाधर्याम्चन्द्रकला-कलाविलासारख्यटीकाद्वयसमलङ्कृतम् । सामान्यनिरुक्तिप्रकरणम् । * चिन्तामणिः अथ हेत्वाभासास्तत्वनिर्णयविजयप्रयोजकत्वानिरूप्यन्ते । * दीधितिः __एतावता प्रबन्धेन सपरिकरं हेतुं निरूप्य तत्प्रसङ्गात् तत्त्वनिर्णयादिरूपतत्कार्यकारित्वाञ्च तदाभासनिरूपणं प्रतिजानीते अथेति * चन्द्रकला के यः सौरगौरवधरो वरदिव्यमूर्तिः श्रीमन्मुनिः समजनीव नवीनकान्तिः । श्रीचन्द्रमिन्दुसदृशं तमहं महान्तं वन्दे सुमङ्गलकरं हरिनामदासः ॥१॥ हेत्वाभासीयसामान्य-निरुत्तः कठिनत्वतः। गादाधरीतिविख्यात-विवृतेरतिविस्तृताम् ॥२॥ कुर्वेऽहं सरला टीको नाम्ना चन्द्रकलामिमाम् । साधुवेलाश्रमे सिन्धो-रुदासीनः सतां मुदे ॥३॥ मूले अथेत्यादि । आनन्तर्यमथशब्दार्थः । आनन्तर्यञ्च ध्वंसकालीनत्वमवयवग्रन्थध्वंसकालीनत्वमिति यावत् । अन्वयश्चास्य 'निरूप्यन्ते' इत्यत्र निपूर्वकरूपधात्वर्थ ज्ञानानुकूलव्यापारे । मयेत्यध्याहार्यम् । अध्याहृततृतीयार्थः कृतिजन्यस्वम् , तदेकदेशीभूतायां कृतौ समवायावच्छिन्नाधेयतासम्बन्धेन मदर्थस्यान्वयः। कृतिजन्यत्वस्यापि तादृशधास्वर्थे ज्ञानानुकूलच्यापारेऽन्वयः। तत्त्वनिर्णयविजयप्रयोजकत्वादित्यत्र पञ्चम्यों ज्ञानजन्य जिज्ञासाधीनस्वम् , तत्रज्ञाने प्रकृत्यर्थस्य ताशप्रयोजकत्वस्य स्वप्रकारव.स्वसम्बन्धेनान्वयः । निरुक्तपञ्चम्यर्थस्यापि निपूर्वकरूपधात्वर्थे ज्ञानानुकूलव्यापारेऽन्वयः। कर्मविहिताख्यातार्थः विषयस्वं, तस्य च प्रथमान्तपदोपस्थाप्ये हेतुवदाभासन्त इतिव्युत्पत्त्या हेत्वाभासशब्द. "Aho Shrutgyanam" Page #18 -------------------------------------------------------------------------- ________________ अनुमानगादाधयाँ सामान्यनिरुक्तिप्रकरणम् । * चन्द्रकला प्रतिपाद्ये दुष्टहेतुस्वरूपे स्वरूपसम्बन्धेनान्वयः । तथाच अवयवग्रन्थध्वंसकालीनो यो मत्समवेत कृतिजन्य स्तत्वनिर्णय विजयप्रयोजकत्वप्रकारकज्ञानजन्य जिज्ञासाघोनः ज्ञानानुकूलव्यापारस्तद्विषयतावन्तो दुष्टहेतव इत्यन्वयबोधः पर्यवसितः । यद्यपि ज्ञानेच्छादेरेव सविषयकतया ज्ञानानुकूलव्यापारस शब्दात्मकत्वात्तद्विषयत्वाऽप्रसिया कर्मविहिताख्यातार्थस्य विषयतात्मकत्वाभिधानमयुक्तमित्युच्यते, तथापि याचितमण्डनन्यायेन ज्ञानविषयत्वमादायैव व्यापारस्य सविषयकत्वमिति प्राचीन सिद्धान्तमभिप्रेत्यैव व्यापारविषयताया हेत्वाभासशब्दार्थेऽन्वय इति मन्तव्यमधिकमन्यत्रानुसन्धेयम् । नच शिष्टाचारपरिप्राप्तमंगलस्य ग्रन्थादावदर्शनेन ग्रन्थकर्तुरशिष्टत्वापत्तिरिति साम्प्रतम् ? शंखध्वनेरिवाथशब्दोच्चारणस्यापि मांगलिकत्वात् "ओंकारश्चाथशब्दश्व द्वावेतौ ब्रह्मणः पुरा । कण्ठं भित्त्वा विनिर्यातौ तेन मांगलिकावुभावि "तिस्मरणात् । केचित्तु प्रत्यक्ष ग्रन्थकृता कृवस्त्र संगलस्य दर्शनात्, तेनैव समस्तचिन्तामणिग्रन्यपरिसमाप्तिसम्भवे अन्तरा मंगलान्तराभावेऽपि न क्षतिरित्याहुः । तावेतावतेत्यादि । एतावत्पदोत्तरं तृतीयार्थः प्रबन्धपदार्थावयवप्रमथाFast अभेदः, प्रबन्धपदोत्तरं तृतीयाथोऽप्यभेदः, तस्य विरूष्येत्यत्र निपूर्वकरूपधात्वर्थीभूते ज्ञानानुकूलव्यापारेऽन्वयः । सपरिकरम् = व्याप्तिपक्षधर्मताविशिष्टम् । अभेदो हेतुपदार्थान्वयी द्वितीयार्थः । हेतुपदोत्तरं द्वितीयार्थस्तु विषयत्वं विषयित्वं वा, तस्यच निरूयेत्यत्रेव ज्ञानानुकूलव्यापाररूपधात्वर्थैकदेशे ज्ञानेऽन्वयः । निरूपयेत्यत्र स्यबर्थो ध्वंसकालीतव्यं, अन्त्रयश्चास्य तदाभासनिरूपणशब्दार्थ दुष्टहेतुविषयक ज्ञानानुकूलव्यापारे । तत्प्रसंगात = सपरिकर हे तुनिरूपितप्रसंगसंगतेः । तत्त्वेति = तत्त्वनिर्णय विजयरूपं यत् सपरिकर हेतु प्रयोज्यकार्यम्, तत्कारित्वाच्चेत्यर्थः । उभयत्र पचम्यर्थस्तदाभासनिरूपणशब्दार्थान्त्रयि ज्ञानजन्यजिज्ञासाधीनत्वम् । तदाभासनिरूपणशब्दोत्तरं द्वितीयार्थी विषयत्वं विषयित्वं वा, तस्य चाव्यवहितोत्तरकालकर्त्तव्यत्वप्रकारकशिष्यसमवेतबोधानुकूलव्यापारात्मक प्रतिपूर्वक ज्ञाधात्वर्थप्रतिशैकदेशे बोधेन्ययः । निरुक्तप्रतिज्ञायाश्चाख्यातार्थकृतावनुकूलत्वसम्बन्धेनान्वयः । तथाच एतावदभिन्नप्रबन्धामिनं यत्सपरिकर हेतुविषयकज्ञानानुकूलव्यापारात्मकं विरूपणं तद्ध्वंसकालीन यः सङ्केतनिरूपितप्रसंगसङ्गतिज्ञानजन्यजिज्ञासाधीनस्तत्वतिणयविजयरूपतत्कार्यकारित्वसंगतिज्ञानजन्यजिज्ञासावीनो दुष्टहेतु विषयक ज्ञानानुकूलव्यापारस्तद्विषयकाव्य वहितोत्तरकालकर्तव्यत्वप्रकारक शिष्य समयेतबोधानुकूलव्यापारानुकूलकृतिमान् मूलकार इत्यन्वयबोध इति भावः । " Aho Shrutgyanam" Page #19 -------------------------------------------------------------------------- ________________ चन्द्रकला कलाविलासाख्यटीकाद्वयसमलङ्कृतम् । गादाधरी हेत्वाभासनिरूपणे प्रसङ्गस्याऽपि सङ्गतित्वं सम्भवति, व्याप्तिपक्ष. धमताविशिष्टहेतुनिरूपणे सति-- * वन्द्रकला हेत्वाभासेति । दुष्टहेतुविषयकज्ञानानुकूलव्यापार इत्यर्थः । प्रयोजकत्वं सप्तम्यर्थः, अन्वयश्चास्य संगतित्वमित्यत्र संगतिपदार्थे । अतएव यथा घटस्य घटत्वं सम्भवतीति न भवति तथा प्रसंगस्यापि संगतित्वं सम्भवतीति न स्यादित्याक्षेपोऽपि निरस्तः, हेत्वाभासनिरूपणप्रयोजकलंगतित्वस प्रसंगनिष्टतयाभिहितत्वादिति ध्येयम् । प्रसंगस्यापीति । हेत्वाभासनिष्ठस्येत्यादिः। एतेन तन्निष्ठायाः संगतेस्तन्निरूपणप्रयोजकत्वमितिनियमात हेत्वाभासनिष्टाया अपि प्रसंगसंगतेहत्वाभासनिरूपणप्रयोजकत्वं निराबाधमिति सूनितम् । अपिना प्रसंगभिन्नस्याप्येककार्यकारित्वस्य हेत्वाभासतिरूपणप्रयोजकसंगतित्वमस्त्येवेति प्रकाशीकृतम् । सम्भवति = तिष्ठति, वर्तत इति यावत् । अत्रैव धात्वर्थवृत्तितायां प्रसंगपदोत्तरपट्यर्थनिरूपितस्वस्यान्वयो बोध्यः । ___ मच कारकविभक्त्यर्थस्यैव धात्वर्थेऽन्वयस्य सर्वसम्मततया तद्भिन्नस्य षध्यर्थस्य कथं धात्वर्थान्वयः सम्भवतीति वाच्यम् , “गुरुविप्रतपस्विदुगतानां प्रतिकुर्वीत भिषक स्वभेषजै"रित्यादौ कारकविभक्त्यर्थभिन्नस्यापि षष्ठ्यर्थस्य धास्वर्थीभूतप्रतिक्रियायामन्वयस्य दृष्टतया अत्रापि षध्यर्थस्य धात्वऽन्ययसम्भवात् , षष्ठ्यर्थसप्तम्यर्थयोनिरुक्तस्थले भेदाभावेन पध्यर्थस्यापि सप्तम्यर्थतया तस्य कारकविभक्त्यर्थत्वस्याभ्युपगमेपि क्षत्यभावाच्चेति ध्येयम् । के कलाविलासः * देवः श्रीवनखण्डी सः, सर्वलोकप्रपूजितः । सर्वानर्थतिवृत्त्यर्थ, तपोमूत्तिः प्रणम्यते ॥ १ ॥ उक्तग्रन्यस्य संगृह्य क्रोडपत्रं प्रयत्नतः । कलाविलास तामन्येषा मया टीका विधीयते ॥ २ ॥ प्रसंगस्यापीति । ननु प्रसंगः स्मृतिविषयतावच्छेदकद्वेषविषयतानवच्छेदकधर्मः, सच प्रकृते हेत्वाभासपदार्थत्वस्वरूपः, तथा च यदि "हेत्वाभासपदार्थाः के" इत्याकारिका शिष्यजिज्ञासा, तदा अनन्तराभिधानप्रयोजकजिज्ञासाजनकज्ञानविषयीभूतायां हेत्वाभासपदार्थत्वरूपप्रसंगसंगतौ संगतिसामान्यलक्षणसमन्वयसम्भवेऽपि सद्धेतुप्रयोज्यकार्यप्रयोजकत्वरूपैककायकारित्वसंगतौ तादृशलक्षणाऽसत्त्वं वारयितुमशक्यं स्यात् , तादृशजिज्ञासाजनकज्ञानविषयतायास्तत्राऽसत्त्वात् । "Aho Shrutgyanam" Page #20 -------------------------------------------------------------------------- ________________ अनुमानगादाधर्यां सामान्यनिरुक्तिप्रकरणम् । * गादाधरी व्याप्तिपक्षधर्मताविरोधितद्विरहवतो दुष्टहेतोः स्मरणाद्, अतस्तदप्रदर्शकमूलस्य न्यूनतां परिजिहीर्षुः प्रसङ्गस्यापि तन्निरूपण प्रयोजकत्वमाह एतावतेति । ॐ चन्द्रकला ननु स्मृतिविषयतावच्छेदकत्वे सति द्वेषविषयतानवच्छेदको धर्मः प्रसंगः, सच प्रकृते हेत्वाभासपदार्थस्वस्वरूपस्तत्र द्वेषविषयतानवच्छेदकत्वसत्त्वेऽपि स्मृतिविषयतावच्छेदकत्वं कथं समर्थनीयमित्याशंकायामाह व्याप्तीति । व्याप्तिपक्षधर्मतोभयविशिष्टो यो हेतुः (सद्धेतुः ), तद्विषयकज्ञानानुकूलव्यापारे सतीत्यर्थः । सति सप्तम्याः पञ्चम्यन्तस्मरणपदार्थान्त्रय्युत्तरकालीनत्वमर्थः । व्याप्तीति । व्याप्तिपक्षधर्मत्वज्ञानप्रतिबन्धकतावच्छेदकप्रकारताश्रयीभूतो यस्तद्विरहो व्याप्तिपक्षधर्मस्वाभावस्तद्वत इत्यर्थः । सद्धेतावपि व्याप्तिपक्ष धर्मव्वघटत्वोभयाभावस्य कालान्तरावच्छेदेन व्याप्तिपक्षधर्मत्वसामान्याभावस्य च सत्त्वेन व्याप्तिपक्षधर्मत्वाभाववखावच्छेदेन दुष्टहेतुत्वासम्भवात् प्रतिबन्धकतावच्छेद की भूतप्रकारताश्रयार्थ कं विरोधिपदम् । नच विरोधिपदस्य निरुक्तार्थकत्वे तद्विरहवत इत्यभिधानमयुक्तं, विरोधिपदेनैव व्याप्तिपक्षधर्मत्वाभावस्य लाभसम्भवादिति वाच्यम्, व्याप्तिपक्षधर्मत्वभावत्वेन घटाभावज्ञानीयघटाभावनिष्ठप्रकारताया अपि तादृशप्रतिबन्धकतावच्छेदकतया तदाश्रयघटाभाववति सद्धेतौ दुष्टहेतुत्वाऽसम्भवात् सम्बन्धित्वावच्छिन्नस्यैव सम्बन्धिनः स्मरणस्य सम्बन्धज्ञानाधीनत्वादिति तु विभावनीयम् । , दुष्टहेतोरिति । सम्बन्धिनः इत्यादिः । स्मरणादिति । स्मरणोदयसम्भवादित्यर्थः । तथाच स्ववृत्तिव्याप्तिपक्षधर्मत्वविरोधिव्याप्तिपक्षधर्मत्वाभाववत्त्वसम्बन्धज्ञानात् तत्सम्बन्धिनो दुष्टहेतोः स्मरणोत्पादस्यावश्यकतया स्मृतिविषयतावच्छेदकत्वं हेत्वाभासपदार्थस्वरूपप्रसंगसंगतावव्याहत मितिभावः । अत इति = दुष्टहेतौ प्रसंगसंगतिसत्त्वादित्यर्थः । तदप्रदर्शनेन = प्रसंगत्यप्रदर्शनेन । मूलस्य = मूलग्रन्थस्य । न्यूनतामिति । प्रसंगसंगत्यकथनेन अनुमितं यत् प्रसंग संगति विषय कमज्ञानं तद्वत्पुरुषोच्चरितत्वमित्यर्थः । परिजिहीर्षुः = परिहातुमिच्छुः, निराकर्तुमिच्छुरितियावत् । तन्निरूपणेति हेत्वाभासनिरूपणार्थकम् । आहेति । दीधितिकार इतिशेषः । * कलाविलासः * यदि चसद्धेतुप्रयोज्यकार्य प्रयोजकं किमित्याकारिका शिष्यजिज्ञासा तदैककार्यकारित्वे संगतिसामान्यलक्षणसमन्वयसम्भवेऽपि पूर्वोक्तप्रसंगसंगतौ तादृशलक्षणसमन्वयो न सम्भवति, हेत्वाभासपदार्थत्वे सद्धेतुप्रयोज्य कार्यप्रयोजकत्वजिज्ञासाजनकज्ञानविषयताया विरहात् । " Aho Shrutgyanam" Page #21 -------------------------------------------------------------------------- ________________ चन्द्रकला-कलाविलासाख्यटीकाद्वय समलङ्कृतम् । * गादाघरी परिकरो व्याप्तिपक्षधर्मते । निरूप्येत्यन्तमुक्तक्रमेण दुष्टहेतोः स्मृतत्वस्य प्रसङ्गनिर्वाहकस्य लाभाय । तत्प्रसङ्गादिति । सपरिकर हेतु निरूपितप्रसङ्गसङ्गतेरित्यर्थः । तज्ज्ञानजन्यजिज्ञासाधीनत्वं पञ्चम्यर्थः । अन्वयश्वास्य निरूपणमित्यनेन । * चन्द्रकला सपरिकरशब्द घटकपरिकरपदार्थं व्याचष्टे व्याप्तीति । तथाच व्याप्तिपक्षधर्मताभ्यां सह वर्त्तमानः सपरिकर इतिवत्युपत्त्या सपरिकरशब्दस्य व्याप्तिपचधर्मतोभयविशिष्टहेतुरेवार्थ इतिभावः । हेत्वाभासनिरूपणात् पूर्वं यदि व्याप्तिपक्षधर्मताविशिष्टस्य हेतोर्निरूपणं स्यात् तदा तादृशव्याप्तिपक्षधर्मत्वाभाववत एव दुष्टहेतुत्वमिति तात्पर्यादायातमित्याशयेन दीधितिकृदुक्तं निरूप्यान्तं सार्थकयति निरूप्य इति । स्मृतस्व'स्य = स्मृतिविषयत्वस्य । लाभायेति । तथाच स्मृतिविषयतावच्छेदकद्वेषविषयतानवच्छेदक हेत्वाभासपदार्थत्वरूपप्रसंगसंगतिलाभो निर्विवाद इति भावः । यन्निरूपणानन्तरं यो निरूपितो भवति तन्निरूपित संगतिमान् स भवतीतिव्याप्तिबलात् सद्धेतुनिरूपणानन्तरं निरूपणीये हेत्वाभासेऽपि सद्धेतुनिरूपितसंगतिमत्त्वस्यावश्यकतया तत्प्रसंगादिति दीधितिव्याख्यानमाह सपरिकरेति । -सद्धेतुनिरूपितहेत्वाभासपदार्थत्वरूपप्रसंगसंगतेरित्यर्थः । तथाच सद्धेतुनिरूपित संगतिमत्त्वं हेत्वाभासस्य दीधितिकृतैव प्रदर्शितमिति भावः । तादृशनिरूपणान्वयिनः प्रयोज्यत्वमात्रस्य पञ्चम्यर्थत्वे प्रसंगस्य संगतिस्वं न सम्भवति, अनन्तराभिधानप्रयोजक जिज्ञासाजनकज्ञानविषयस्यैव - संगतित्वादत आह तज्ज्ञानेति । तादृशसंगतिज्ञानजन्या या 'हेत्वाभासपदार्थाः के' इत्याकारिका जिज्ञासा तदधीनत्वमित्यर्थः । निरूपणमित्येति । तदाभासेत्यादिः । ॐ कलाविलासः इति चेदत्र केचित् । शिष्याणामने कत्वात् कस्यचित् " हेत्वाभासपदार्थाः के" इत्याकारिका जिज्ञासा, कस्यचिच्च "सद्धेतुप्रयोज्य कार्यप्रयोजकं किमित्याकारिका" जिज्ञासा सम्भवतीति तत्तजिज्ञासामादायैव तत्र तत्र संगतिसामान्यलक्षणसमन्वयः निराबाध इति वदन्ति । वस्तुतस्तु अनन्तराभिधानप्रयोजक जिज्ञासाजनकस्मरणप्रयोजक निरूप्यनिष्ठ सम्ब-न्धस्यैव संगतित्वेन " हेत्वाभासाः के" इत्याकारकैकविधजिज्ञासामादायैवोभयत्र संगतिलक्षणसमन्वयो भवत्येव । स्वविरोधिव्याप्तिपक्षधर्मत्वाभाववत्त्वसम्बन्धज्ञानात् सद्धेतुप्रयोज्यकार्यप्रयोजकत्वरूपसम्बन्धज्ञानाच्च दुष्टहेतोः स्मरणोदयसम्भवेन तादृशस्मरण प्रयोजकतत्तत्सम्बन्धस्य दुष्टहेतुनिष्ठतया तस्य संगतित्वस्यावश्यकत्वात्, एतन्मते उपोद्घातादिपञ्चकभिन्नसंगतेरेव प्रसंगत्वं बोध्यमिति ध्येयम् । परिकरो व्याप्तिपक्षधर्मते इति । अथात्र द्विवचनेन व्याप्तिपक्षधर्मतोभयवतः "Aho Shrutgyanam" Page #22 -------------------------------------------------------------------------- ________________ अनुमानगादाधर्यां सामान्यनिरुक्तिप्रकरणम् । गादाधरी के तत्त्वनिर्णयविजयप्रयोजकत्वादिति मलं यद्यपि हेत्वाभासनिष्ठतत्त्वनिर्णयादिजनकज्ञानविषयत्वार्थकतया शिष्यप्रवृत्त्य पयोगिनिरूपणघटकज्ञानप्रयोजनप्रदर्शनपरम्, * चन्द्रकला हेत्वाभासविषयकज्ञानानुकूल व्यापारात्मकं हि हेत्वाभासनिरूपणं सफल मेव, निरुक्तनिरूपणाधीन हेत्वाभासज्ञानं विना तत्वनिर्णयविजयोत्पादानुपपत्तेः सुतरां यथोक्तनिरूपणघटकहेत्वाभासज्ञानप्रयोज्यायाः शिष्यप्रवृत्तेरपि सफलत्वमवश्यं वक्तव्यम्, तथाच हेत्वाभासा मया निरूप्यन्ते, तत्त्वनिर्णयविजयजनक ज्ञानविषयस्वादित्यादिरीत्या तत्त्वनिर्णयविजयप्रयोजकत्वादितिमूलस्य सार्थक्योपपादने हेत्वाभासनिरूपणप्रयोजकसंगत्यप्रदर्शनेन मूलस्य न्यूनतापरिहारः न स्यादतस्तादृशः मूलस्य संगतिप्रदर्शनपरत्वमेव दीधितिकृता व्याख्यातमित्याह तत्त्वनिर्णयेति । इति मूलम् =इति मुलग्रन्थः। हेत्वाभासेति । हेत्वाभास ज्ञानस्य तत्वनिर्णयादिजनकतया हेत्वाभासनिष्टं तादृशजनकज्ञानविषयत्वं निर्विवादमिति भावः । कलाविकासः एव सद्धेतुत्वेनाभिमततया उत्पत्तिकालीनघटो गन्धवान् पृथिवीत्वात् इत्यादिहेतौ व्याप्तेः पक्षधर्मतायाश्च सत्त्वेन तस्याऽनिरूपणप्रसंगः स्यात्, विरोधिव्याप्तिपक्षधर्मत्वाभावविरहिणो निरुक्तपृथिवीत्वहेतोः स्मरणोदयासम्भवात् । अतएव जगदीशतकोलंकारैः परिकरः सहकारी, सच व्याप्तिपक्षधर्मत्वादिरित्यत्रादिपदं प्रक्षिप्याबाधितत्वासत्प्रतिपक्षितत्वयोः परिग्रह प्रदर्शयद्भिस्तादृशपृथिवीत्वहेतोरपि बाधितत्वेन दुष्टत्वं निरूपितमिति चेन्न, भट्टाचार्यमते निरू. प्यतावच्छेदकधर्मसामानाधिकरण्येन संगतिमत्त्वस्यैव निरूपणप्रयोजकतया निरुक्त. पृथिवीत्वहेतौ संगत्यसत्त्वेऽपि क्षत्यभावात्, निरूप्यतावच्छेदकहद पक्षकवह्निसाध्यकदुष्टान्तरधूमत्ववति संगतिसत्त्वस्यावश्यकतया तत एवान्येषामपि दुष्टानां निरूपणसम्भवात् । __ जगदीशमते तु निरूप्यतावच्छेदकावच्छे देन संगतित्वस्य निरूपणप्रयोजकतया सर्वत्र दुष्टहेतौ संगतिमत्त्वस्यावश्यकत्वेन व्याप्तिपक्षधर्मत्वादिरित्यत्रादिपदोपादानं, तेनासंकीर्णबाधिततादृशपृथिवीत्वहेतावपि संगतिलाभसंभव इति तु परमार्थः ।। दीधितौ सपरिकरं हेतुमिति । नचानासमासेन लिखनमसंगतं, सपरिकर... हेतुमित्याकारकसमस्त निर्देशस्यैव युक्तत्वादिति वाच्यम् , तदादीनामेकदेशपरामर्शकत्वस्याव्युत्पन्नतया तदाभासनिरूपणमित्यत्र तत्पदेन हेतुमात्रपरामर्शसम्भवा. "Aho Shrutgyanam" Page #23 -------------------------------------------------------------------------- ________________ चन्द्रकला - कलाविलासाख्यटीकाद्वयसमलङ्कृतम् । ॐ गादाधरी तथापि तन्मात्रपरत्वे सङ्गत्यप्रदर्शनेन न्यूनता स्यादिति तस्यैककार्यकारित्वरूपसङ्गतिप्रदर्शनपरत्वमपि सम्भवतीति स्फुटीकर्तुमाह तत्त्वनिर्णयादीति । आदिपदाद् विजयपरिग्रहः । तत्कार्यकारित्वात् सपरिकर हेतु - प्रयोज्य कार्य प्रयोजकत्वात्, प्रयोजकत्वं च जनकतावच्छेदकादिसाधारणमिति स्वविषयक ज्ञानकार्यं प्रति स्वस्य तथात्वमक्षतमेव । * चन्द्रकला शिष्येति । शिष्यस्य या हेत्वाभासप्रवृत्तिस्तत्प्रयोजकीभूतं यत् ज्ञानानुकूलव्यापारात्मकनिरूपणघटकं हेत्वाभासज्ञानं तत्प्रयोजनप्रदर्शनेच्छ्योच्चरितमित्यर्थः । तन्मात्रपरत्वे = निरूपणघटक ज्ञान प्रयोजनप्रदर्शनमात्रपरत्वे । संगत्येति । स्वाभासनिरूपणप्रयोजकेत्यादिः । न्यूनता = संगत्यकथनेन संगतिविषयकज्ञानाभाववत्पुरुषोच्चरितता । तस्य = तत्त्वनिर्णय विजयप्रयोजकत्वादितिमूलस्य । एककार्यति । सङ्केतुभिन्नत्वे सति सद्धेतुप्रयोज्य कार्यप्रयोजकत्वरूपैककार्यकारिवादिरूपा या संगतिस्तत्प्रदर्शनेच्छयोच्चरितत्वमपीत्यर्थः । सपरिकरेति = सपरिकरहेतुभिन्नध्ये सतीत्यादिः । तेन न संगतेः सपरिकर हेतुनिष्टत्वमपि शंकनीयमितिध्येयम् । ननु तत्वनिर्णयविजयप्रयोजकत्वं यदि तत्वनिर्णयादिजनकत्वं तदा हेत्वाभासे सद्धेतौ च तादृशजनकत्वं नास्त्येव हेत्वाभासादिज्ञानस्यैव सत्त्वनिर्णयादिजनकत्वात् अत आह प्रयोजकत्ववेति । प्रयोजकत्वं न जनकत्वं, अपितु जनकजनकतावच्छेदकसाधारणमेव वाच्यमित्याह जनकतावच्छेदकादीति । जदिना जनकपरिग्रहः । तेन हेत्वाभासज्ञानस्य जनकत्व - स्फुटीकरणात् हेत्वाभासस्य जनकतावच्छेदकत्वमप्यक्षतमिति सूचितम् । अतः = प्रयोजकत्वस्य जनकतावच्छेदकादिसाधारणत्वतः । स्वविषयेति । स्वम् = हेत्वाभासादिः तद्विषयकज्ञानस्य तत्त्वनिर्णयादिरूपकार्य प्रतीत्यर्थः । स्वस्य = हेत्वाभासादेः । तवं = जनकतावच्छेदकत्वम् । वादिप्रतिवादिनोः पर्वतो वह्निमान् वहन्यभाववान् चेत्याकारिका वाक्यद्वयात्मिका विप्रतिपत्तिः, तज्जन्यपर्वतो वह्निमान वेत्याकारक संशयप्रकारत्वरूपकोटित्वस्यं वह्नौ वहन्यभावे च सवेsपि वह्निमपर्वतविशेष्यकवह्निप्रकारकप्रमाज्ञानविषयत्वरूपप्रमितत्वस्य * कलाविलासः नुपपत्तेः, सपरिकर हेतोः परामर्शसम्भवेऽपि तत्राभासत्वाऽयोगेनानन्वयापत्तेरशक्यसमाधित्वात्, नचैवं "दुःखत्रयाभिघातात् जिज्ञासा तदपघातके हेतावित्यत्र तत्पदेन समस्तैकदेशी भूत दुःखत्रयस्यैव परामर्शस्य दृष्टतया निरुक्ततत्पदस्यैकदेशपरामर्श "Aho Shrutgyanam" Page #24 -------------------------------------------------------------------------- ________________ अनुमानगादाधर्यां सामान्यनिरुक्तिप्रकरणम् । * गादाधरी तत्त्वनिर्णयः प्रमितकोटिनिश्चयः। तत्र व्याप्तिपक्षधर्मताविशिष्टप्रकृत. हेतुज्ञानमिव तद्विपरीतकोटिसाधकस्य हेत्वाभासत्वज्ञानमप्युपयज्यते, प्रतिबन्धकीभूतविपरीतकोटिव्याप्यवत्ताज्ञानेऽप्रामाण्यग्राहकत्वादित्युभयोस्तत्त्वनिर्णयप्रयोजकत्वम् । * चन्द्रकला के वह्निकोटावेव वर्तमानतया पर्वतादौ वन्यादिकोटिनिश्चय एव तत्त्वनिर्णयशब्दार्थः, तादृशवहन्यादिनिश्चयश्च पर्वतादौ वन्याद्यनुमितिस्वरूप एवेत्याह प्रमितेति । पर्वतादिविशेष्यकवयादिप्रकारकप्रमाज्ञानीयप्रकारीभूतवह्निकोट्यनुमितिरित्यर्थः । तत्र= निरुक्तवाहिकोटिनिश्चयात्मिकायामनुमितौ । व्याप्तीति । व्याप्तिविशिष्टस्य प्रकृतहेतोः पक्षेण सह वैशिष्ट्यावगाहिज्ञानं परामर्शः स इवेत्यर्थः । तद्विपरीतेति । तस्य वह्निकोटेविपरीतो यो वन्यभावकोटिस्तत्साधकस्य हेतोरित्यर्थः । हेस्वाभासत्वज्ञानम् = दुष्टस्वज्ञानम् । उपयुज्यते = जनकं भवति । कथमिस्याकांक्षायामाह प्रतीति । वह्निकोटिप्रतिबन्धकीभूते वह्निविपरीतवहन्यभावकोटिव्याप्यजलवान् पर्वत इत्याकारकज्ञाने इत्यर्थः । अप्रामाण्यग्राहकस्वात् = अप्रामाण्यग्रहजनकरवात् । उभयोः-सद्धे तुदुष्टहेरवोः । तत्त्वनिर्णयप्रयोजकत्वमिति । अयंभावः, पर्वतविशेष्यकवह्निकोटिनिश्चयात्मकवन्यनुमितौ वहिव्याप्ति * कलाविलासः कत्वेऽपि नसंगतिरिति वाच्यम , तत्र तत्पदस्य बुद्धिविषयतावच्छेदकत्वोपलक्षितधर्मावच्छिन्नशक्ततया तदा दुःखत्रयपरामर्शकत्वसम्भवात्, अत्रतु हेतुमात्रवोधार्थमेवासमासेन लिखनत्यावश्यकत्वात् , निरुक्तस्थले तत्पदेनैकदेशपरामर्शकत्वस्य प्रयत्नसाध्यत्वानभ्युपगमाच्चेति ध्येयम् । मूले तत्त्वनिर्णयेति । नच विजयपदोपादानं व्यर्थे, तत्त्वनिणयपदोपादानेनैवैककार्यकारित्वसंगतिलाभसम्भवादितिवाच्यम् ? "तत्त्वनिर्णयोद्देश्यकन्यायानुगतवचनसन्दर्भो वादः, विजयोद्देश्यकतादृशवचनसन्दभी जल्पः” इति विभेदभिन्न प्रयोजनप्रदर्शनार्थ द्वयोरुपादानसम्भवादिति ध्येयम् । टीकायां प्रमितकोटिनिश्चय इति। तथाच इयमनुमितिः विवादविषयीभूतयोः कोट्योर्मध्ये प्रमितवन्यादिकोटिविधेयताकत्ववती वह्नयादिव्यासिपक्षधर्मताविशिष्टहेतुशानजन्यत्वे सति वह्निविरोधिवयभावव्याप्यजलादिपरामर्शधर्मिकाप्रामाण्यग्रहजनकजलादिधर्मिकदुष्टत्वग्रहकालीनत्वादित्यनुमानेन । प्रमितवयादि.. विधेयकत्वनिश्चयस्तत्र निरुक्तहेतुज्ञाननिष्ठजनकतायां परम्परयाऽवच्छेदकतावतः न्याप्तिपक्षधर्मताविशिष्टसद्धेतोरिव तादृशावच्छेदकतावतो दुष्टस्य जलादेरपि प्रयोजकस्वादिति भावः। "Aho Shrutgyanam" Page #25 -------------------------------------------------------------------------- ________________ चन्द्रकला-कलाविलासाख्यटोकाद्वयसमलङ्कृतम् । * गादाधरी अथवा-तत्त्वनिर्णयः साध्यवत्ताज्ञाने प्रमात्वनिश्चयः । तत्राऽनुमापक * चन्द्रकला * यक्षधर्मताविशिष्टप्रकृतधूमहेतुज्ञानरूपवह्निव्याप्यधूमथान् पर्वत इत्याकारकपरामर्शस्य जनकतया तादृशजनकतावच्छेदकतया च यथा वह्निव्याप्तिपक्षधर्मताविशिष्टधूमहेतोस्तत्र प्रयोजकत्वं सर्ववादिसिद्धम्, तथा वह्निविपरीतवन्यभावसाधकदुष्टजलहेतोरपि प्रयोजकतावच्छेदकतयैव प्रमितवह्निकोटिनिश्चये प्रयोजकत्वं सम्भवत्येव, वयभावसाधकजलहेतौ दुष्टत्वज्ञानस्य वह्नयभावव्याप्यजलवान् पर्वत इत्याकारकनिश्चयेऽप्रामाण्यज्ञानोत्पादप्रयोजकतया पर्वतधर्मिकप्रमितवह्निकोटिनिश्चयात्मकवहिप्रकारकबुद्धौ अप्रामाण्यज्ञानविरह विशिष्टस्यैव वह्नयभावव्याप्यजलप्रकारकनिश्चयस्य प्रतिबन्धकतया तदभावस्य तादृशवह्निकोटिनिश्चयजनकस्य सम्पादकतयैव निरुक्तदुष्टत्वज्ञानस्य प्रमितवह्निकोटिनिश्चयात्मकतत्वनिर्णयो. पयोगिताया अनिवृत्तेरिति ।। ननु तत्त्वं ब्रह्मणि याथायें धर्मे साधारणेऽपि'चेत्यादिकोषात् तत्त्वपदस्य ब्रह्मणि याथार्थ्यादावेव शक्ततया तस्य प्रमितकोटिपरत्वे तत्पदस्य लाक्षणिकस्वापत्तिरत आहाथवेति । साध्यवत्ताज्ञाने = वह्वयादिरूपसाध्यप्रकारकज्ञाने, पर्वतादिधर्मिकवह्वयादिप्रकारकपर्वतो वह्निमानित्याद्याकारकानुमिताविति यावत् । प्रमात्वनिश्चयः = वह्वयादिमति वह्नयादिप्रकारकस्वरूपयाथार्थ्यनिश्चयः । तथाचोक्तकल्पे तत्त्वपदस्य याथार्थ्यार्थकतया न तस्य लाक्षणिकत्वापत्तिरिति भावः। सद्धेतौ दुष्टहेतौ च निरुक्तप्रमावनिश्चयरूपतत्त्वनिर्णयोपयोगिता प्रदर्शयति तत्रेति । साध्यवत्ताज्ञानधर्मिकप्रमात्वनिश्चय इत्यर्थः । अनुमापकहेतोः = पर्वतादौ * कलाविलासः अथवेति । तथाचेयमनुमितिः प्रमा, साध्यव्याप्तिपक्षधर्मताविशिष्ट हेतुज्ञानजन्यत्वे सति प्रमात्वविरोध्यप्रमात्वग्रहजनकसाध्याभावादिसाधकहेत्वदुष्टत्वग्रहप्रतिचन्धकतादृशहेतुधर्मिकदुष्टत्वग्रहकालीनत्वादित्यनुमानेनैव प्रकृतपक्षधर्मिकसाध्यानुमितो प्रमात्वनिश्चयः । तत्र पूर्वोक्तयुक्त्या सद्धेतोरिव दुष्टस्यापि प्रमात्वप्रयोजकत्व. मवगन्तव्यम् । नच पर्वतो वह्निमान् घटवांश्चेत्याकारिकायां भ्रमात्मकसमूहालम्बनानुमितौ निरुक्त हेतोः सत्त्वेन तत्र प्रमात्वविरहात् व्यभिचार इति वाच्यम् , वह्वयादिमति वह्नयादिप्रकारत्वरूपानुगतप्रमात्वस्य साध्यत्वोपगमेन व्यभिचारस्य वारणसम्भवादिति तु विभावनीयम् । "Aho Shrutgyanam" Page #26 -------------------------------------------------------------------------- ________________ अनुमानगादाधर्यां सामान्यनिरुक्तिप्रकरणम् । * गादाधरी देतोयाप्त्यादिविशिष्टत्वरूपसद्धेतुत्वज्ञानमिव विपरीतकोटिसाधकहेतोदुष्टत्वज्ञानमप्युपयुज्यते,प्रकृतसाध्यग्रहाऽप्रामाण्यग्राहकविपरीतकोटिसाधकहेत्वदुष्टत्वग्रहविघटकत्वात् । विजयप्रयोजकत्वं च हेत्वाभासस्य स्वज्ञानाधीनपरोक्तहेतुदोषोद्भावनद्वारा, व्याप्त्यादिविशिष्टहेतोश्च स्वज्ञानाधीनसन्यायप्रयोगद्वारेति बोध्यम् । 8 चन्द्रकला वन्यादिसाध्यानुमापकधूमादिहेतोः । व्याप्त्यादीति । आदिना पक्षधर्मतापरिग्रहः । वह्वयादिव्याप्तिपक्षधर्मताविशिष्टत्वरूपं यत् सद्धे तुत्वं तज्ज्ञानमिवेत्यर्थः । विपरीतेति = वयादिविपरीतवलयाद्यभावसाधकजलादिहेतोरित्यर्थः । दुत्व ज्ञा. नम् = हेत्वाभासत्यज्ञानम् । उपयुज्यते = प्रयोजकं भवति । यथोक्तप्रमास्वनिश्चये दुष्टत्वज्ञानस्योपयोगितां घटयति प्रकृतेति । पर्वतादिधर्मिकवह्नयाद्यसतिरूप. साध्यज्ञाने उत्पद्यमानो योऽप्रमावग्रहस्तजनकीभूतं यत् वहयादिविपरीतवलय भावादिसाधकजलादिहेतावदुष्टत्वज्ञानं तदनुत्पादप्रयोजकत्यादित्यर्थः ।। तथाच पर्वतादी वह्वयाद्यनुमितिरूपसाध्यवत्ताज्ञाने वह्निमति बलिप्रकारकज्ञानत्वरूपप्रमास्वनिश्चये तादृशसाध्यवत्ताज्ञाने वह्निमति वहिप्रकारकस्वाभावनिश्चयात्मकाप्रामाण्यनिश्चयः प्रतिबन्धकः, निरुक्ताप्रामाण्यनिश्चये च बतिविपरीतवह्नयाद्यभावसाधकजलादिहेतावदुष्टत्वज्ञान प्रयोजकं, ताशादुष्टत्वज्ञान प्रति जलादिहेतौ दुष्टत्वज्ञान प्रतिबन्धकं भवतीति तादृशदुष्टत्वज्ञानेनादुष्टत्वज्ञानानु. स्पादे कारणाभावादप्रामाण्यग्रहस्यानुत्पत्ती, अप्रामाण्यग्रहाभावे च प्रतिबन्धकाभावात् भवति तादृशसाध्यग्रहे प्रमात्यनिश्चय इति निरुक्तप्रमारवनिश्चयं प्रति परम्परया दुष्टजलादिहेतोः प्रयोजकत्वमक्षतमिति भावः। ननूक्तरीत्या सद्धेतौ दुष्ट हेतौ च तत्त्वनिर्णयप्रयोजकत्वसम्भवेऽपि विजयप्रयोजकत्वं तत्र कथं सम्पादनीयमित्यत आह विजयेति । परकीयाहङ्कारखण्डन विजयः, अहमस्मादुत्कृष्ट इत्याकारकज्ञानजन्यसंस्कारविशेषोऽहंकारः, तन्नाशानुकूलव्यापारो विजयस्तत्प्रयोजकत्वञ्चेत्यर्थः । हेत्वाभासस्य = दुष्टहेतोः। स्वज्ञानेति । स्वं हेत्वाभासः तज्ज्ञानजन्यं यत् परकीयहेतौ दोषोद्भावनं दोषाभिधानं तद्वारेत्यः । तथाच हेत्वाभासज्ञानात् परोक्तहेतौ दोषाभिधानंततस्तादृशविजय इति हेत्वाभासस्य हेत्वाभासज्ञाननिष्टकारणतावच्छेदकतयैव विजयप्रयोजकत्वमिति हृदयम्। व्याप्त्यादीति । व्याप्तिपक्षधर्मताविशिष्टसद्धेतोरित्यर्थः । स्वज्ञानेति । स्वम् = तादृशसद्धेतुः तज्ज्ञानाधीनो यः प्रतिज्ञादिपञ्चवाक्यात्मकसन्न्यायप्रयोगः, तद्द्वारेत्यर्थः । अत्रापि हेतुज्ञाननिष्टविजयकारणतावच्छेदकतयैव सधेत विजयप्रयोजकत्वमिति तस्वम् । "Aho Shrutgyanam" Page #27 -------------------------------------------------------------------------- ________________ चन्द्रकला-कलाविलासाख्यटीकाद्वयसमलङ्कृतम् । ११ * चिन्तामणिः * तत्राऽनुमितिकारणीभूताऽभावप्रतियोगियथार्थज्ञानविषयत्वम् । * चन्द्रकला ६ मूले तत्रेति । यथोक्तनिरूपणे इत्यर्थः । विषयत्वं सप्तम्यर्थः, अन्वयश्चास्म हेत्वाभासस्वमित्यनेन । अनुमितीति । अनुमितिपदस्य प्रकृतपक्षविशेष्यकसाध्यप्रकारकानुमिति-तत्कारणपरामर्शान्यतरपरत्वम् प्रकृतपक्षविशेष्यकप्रकृतसाध्यव्याप्यप्रकृतहेतुप्रकारकप्रकृतसाध्यप्रकारकसमूहालम्बनानुमितिपरत्वं वा स्वयमग्रे दीधितिकृतैव प्रदर्शयिष्यते, तथा च तादृशानु मितेः कारणतावान् योऽभावस्तत्प्रतियोगियत् यथार्थज्ञानं तद्विषयत्वं हेत्वाभासत्वमिति समुदितप्रथमलक्षणार्थः पर्यवसितः । भवति हि ह्रदो वह्निमान् वटवादित्यादौ वह्नयभाववद्वत्तित्वविशिष्टघटत्यरूपव्यभिचारे, वह्नयाधिकरणवृत्तित्वाभावविशिष्टघटत्वस्वरूपे विरोधे, घटत्वाभावविशिष्टहदरूपाऽसिद्धौ, वलयभावव्याप्यवद्धदरूपे सत्प्रतिपक्षे, वह्नयभाववदधदात्मके बाधे च लक्षणसमन्वयः। निरुक्तव्यभिचारनिश्चयाभावस्य विरोधनिश्चयाभावस्य स्वरूपासिद्धिनिश्चयाभावस्य च प्रतिबन्धकाभावत्वेन हृदधर्मिकवह्नयनुमितिकारणीभूतवह्निव्याप्यघटत्ववान् हृद इत्याकारकपरामर्श प्रति कारणतया यथोक्तानुमितिकारणतावान् यो व्यभिचारादि-निश्चयाभावस्त प्रतियोगि यत् व्यभिचारादिनिश्चयात्मकं यथार्थज्ञानंतद्विषयत्वस्य व्यभिचारादौ, निरुक्तसत्प्रतिपक्षनिश्चयाभावस्य बाधनिश्चयाभावस्थापि प्रतिबन्धकाभावत्वेन हृदविशेष्यकवयनुमितिकारणतया अनुमितिकारणीभूतस्य सप्रतिपक्षादिनिश्चयाभावस्य प्रतियोगि यत् सत्प्रतिपक्षादिनिश्चयात्मक यथार्थज्ञानं तद्विषयत्वस्य सत्प्रतिपक्षादो च सत्त्वात् । एवं अयं वह्निमान् जलवादित्यादौ यतिव्यापकीभूताभावप्रतियोगिजलरूपासाधारण्ये, सर्वमनित्यं मेयत्वादित्यादौ नित्यत्वव्यापकीभूताभावप्रतियोगित्वाभावविशिष्टप्रमेयत्वरूपानुपसंहारित्वे, काञ्चनमयपर्वतः काञ्जनमयवह्निमान् काञ्चनमयधूमादित्यादौ काञ्चनमयत्वाभावविशिष्टपर्वतस्वरूपाश्रयासिद्धौ, काञ्चनमयत्वाभावविशिष्ट वह्निरूपसाध्याप्रसिद्धौ, काञ्चनमयवाभावविशिष्टधूमरूपसाधनाप्रसिद्धौ च असाधारण्यादिनिश्चयाभावस्यापि पूर्वोक्तानुमितौ कारणतया निरुकाभावप्रतियोग्यसाधारण्यादिनिश्चयविषयताया असाधारण्यादौ वर्तमानत्वालक्षणसमन्वयो बोध्य इति दिक् । "Aho Shrutgyanam" Page #28 -------------------------------------------------------------------------- ________________ अनुमानगादाधर्यां सामान्यनिरुक्तिप्रकरणम् । * गादाधरी मूलोक्तलक्षणानां दुष्टहेतुलक्षणत्वे दोषेष्वतिव्याप्तिः, * चन्द्रकला * 'यथाश्रुतमिद"मित्यादिदीधितिमवतारयति टीकायां मूलोक्तेति । मूलोक्तानामनुमितीत्यादिलक्षणानां त्रयाणामित्यर्थः । दुष्टलक्षणत्वे = बाधादिदोषविशिष्टानां हेतूनां लक्षणत्वे । दोषेषु = बाधादिषु । अतिव्याप्तिरिति । हृदो वह्निमान् धूमादित्यादौ हृदधर्मिकवह्नयनुमितिकारणीभूतस्य वह्नयभावविशिष्टहदादिनिश्चया: भावस्य प्रतियोगिनो वह्नयभावविशिष्टहृदादिनिश्चयस्य यथार्थज्ञानस्य विषयताया वह्नयभावविशिष्टहदाद्यात्मकबाधादौ दोषे सत्त्वादिति हृदयम् । * कलाविलासः के अनुमितिकारणीभूताभावप्रतियोगियथार्थज्ञानविषयत्वमिति चिन्तामणिः । तथाच प्रकृतानुमितित्वावच्छिन्न कार्यतानिरूपितकारणतावान् योऽभावस्तत्प्रतियोगियथार्थज्ञानविषयत्वमिति फलितम् । कारणतायाः किश्चित्कार्यतापेक्षताप्रदर्शनार्थमनुमितित्वावच्छिन्नेति । शाब्दादौ उपनीतभानादौ च तदभावनिश्चयस्य प्रतिबन्धकत्वेऽपि तद्विषयस्य न दोषत्वं, दोषाणामनुमितिप्रतिरोधफलकत्वादिति शाब्दादिकं विहायानुमितीत्युक्तमिति ध्येयम् । न च कार्यतापदोपादानं व्यर्थ, अनुमितित्वावच्छिन्नं यत् तन्निरूपितकारणतावदभावप्रतियोगियथार्थज्ञानविषयत्वस्यैव सम्यक्त्वादिति वाच्यम् , तथासति पर्वतो वह्निमानित्याकारकानुमितिविषये वह्निमत्पर्वतेऽतिव्याप्त्यापत्तेः, पर्वतो वह्निमानित्याकारकानुमित्यभावप्रत्यक्षे तादात्म्यसम्बन्धेन तादृशानुमित्यभावस्य हेतुत्ववादिनां मते तादृशानुमिनिस्वावच्छिन्ना या प्रतियोगित्वसम्बन्धावच्छिन्नावच्छेदकता तन्निरूपित कारणतावतस्तादृशानुमित्यभावस्य प्रतियोग्यनुमितिरूपयथार्थज्ञानविषय. ताया वह्निमत्परते सत्त्वादिति नव्याः ।। ) कारणतापदानुपादाने पर्वतो वह्निमानित्याकारकानुमित्यभाववद्ध्दपक्षकवह्निसाध्यकस्थले वह्निमत्पर्वतेऽतिव्याप्तिः, तादृशानुमितित्वावच्छिन्नकार्यतानिरूपिता या स्वावच्छिन्नविशेष्यताकत्वसम्बन्धावच्छिन्नावच्छेदकता तदाश्रयतादृशानुमित्यभावप्रतियोग्यनुमित्यात्मकयथार्थज्ञान विषयताया वह्निमत्पर्वते वृत्तित्वादिति ध्येयम् । ___ अनुमितिकारणाभाव इत्युक्तौ तादृशकारणस्याभावः कारणाभाव इति षष्ठीसमासशंका स्यात्, तथाच वह्निव्याप्यधूमवान् पर्वत इत्याकारकपरामर्शविषये वहिव्याप्यधूमवत्पर्वतेऽतिव्यातिः, तस्यापि अनुमितिकारणाभावप्रतियोगिपरामर्शात्मकयथार्थज्ञानविषयत्वादतः कर्मधारयलाभार्थ भूतपदमिति प्राञ्चः। "Aho Shrutgyanam" Page #29 -------------------------------------------------------------------------- ________________ चन्द्रकला-कलाविलासाख्यटोकाद्वयसमलड्कृतम् । १३ * चन्द्रकला निरुक्तमूलोक्तलक्षणानां दुष्टलक्षणत्वे पर्वतो धूमवान् वढेरित्यादौ धूमा भाववत्तित्वविशिष्टवह्निरूपव्यभिचारनिश्चयाभावस्य प्रकृतानुमितिकारणीभूतस्य प्रतियोगिव्यभिचारनिश्चयविषयताया व्यभिचारिणि दुष्टे वह्नौ सत्त्वेन वयादिदु? दुष्टलक्षणसमन्वयसम्भवेऽपि हृदो वह्निमान् धूमादित्यादौ बाधितधूमादिहेतावव्याप्तिः। हृदधर्मिकवलयनुमितिकारणीभूताभावप्रतियोगिवनयभावविशिष्टहृदनिश्चयात्मकयथार्थज्ञानविषयताया वह्नयभावविशिष्टहृदनिष्ठाया धूमादिदुष्टहेतौ विरहात् । __नच वह्नयभाववान् हृदो धूमश्चति समूहालम्बनयथार्थनिश्चयस्यापि हृदर्मिकवह्नयाद्यनुमितिकारणीभूताभावप्रतियोगितया तादृशनिश्चयविषयताया धूमेऽपि सत्त्वात् धूमादौ बाधिते दुष्टे लक्षणसमन्वयःसम्भवतीति वाच्यम् ; तथा सत्युक्तरीत्योक्तस्थले घटादावुदासीनेऽतिव्याप्स्यापत्तः, हृदधर्मिकवह्वयाद्यनुमितिकारणीभूताभावप्रतियोगिनो हृदो वह्निमान् घटश्चेत्याकारकसमूहालम्बनयथार्थनिश्चयस्य विषयताया घटेऽपि सत्वात् । अतो निरुक्तोदासीनघटादावतिव्याप्तिवारणाय यथार्थ * कलाविलासः नचानुमितिकारणीभूतो यस्तत्प्रतियोगियथार्थज्ञानविषयत्वस्यैव सम्यक्त्वे अभावपदोपादानं व्यर्थमिति वाच्यम् , सिषाधयिषाविरहविशिष्ट सिद्धय भावभिन्नत्वलाभायैवाभावपदोपादानसार्थक्यसम्भवात् । अन्यथा अनुमितिकारणीभूततादृशसिद्धयभावप्रतियोगिसिद्धिविषये साध्यवत्पक्षेऽतिव्याप्तिः स्यादिति वदन्ति । वस्तुतस्तु पर्वतो वह्निमान् धूमादित्यादौ । परामर्शावच्छिन्नभिन्नभेदस्य. अनुमितिकारणीभूतपरामर्शरूपतया तत्प्रतियोगिपरामर्शावच्छिन्नभिन्नस्य यथार्थज्ञानात्मकघटज्ञानस्य विषयत्वमादाय घटेऽतिव्याप्तिः स्यादतोऽभावपदोपादानम् , तदुपादाने तु अनुमितिकारणतावच्छेदकाभावत्वरूपानुयोगितानिरूपितप्रतियोगिताश्रययथार्थज्ञानविषयत्वस्यैव लक्षणार्थतया न कोऽपि दोषः । परामर्शावच्छिन्नभिन्न-- भेदस्वरूपे परामर्श अनुमितिकारणतावच्छेदकाभावत्वरूपानुयोगिताया विरहादिति तु नव्याः । ___ ज्ञानपदानुपादाने पर्वतो वह्निमान् धूमादित्यादौ अनुमितिकारणीभूताभावप्रतियोगिकामिनीजिज्ञासाविषयत्वमादाय कामिनीज्ञानेऽतिव्याप्तिः स्यादतस्तदुपादानम् । न च पर्वतो वह्निमान् कामिनी चेत्याकारकसमूहालम्बनानुमितौ कामिनीजिज्ञासाप्रतिबध्यत्वविरहान्न कामिनीज्ञानेऽतिव्याप्तिरिति वाच्यम् , यादृशस्थलविशेषे तादृशसमूहालम्बनानुमितिः कस्यापि न जाता तादृशस्थले कामिनीजिज्ञासाविषयेऽतिव्याप्तिवारणाय ज्ञानपदोपादानसार्थक्यसम्भवादिति ध्येयम् । "Aho Shrutgyanam" Page #30 -------------------------------------------------------------------------- ________________ अनुमानगादाधर्यां सामान्यनिरुक्तिप्रकरणम् । * गादाधरी * यथार्थज्ञाननिष्ठानुमितिप्रतिबन्धकतावच्छेदकविषयताश्रयत्वपर्यन्तस्य समूहालम्बनशानविषयताश्रयोदासीनपदार्थवारणाय प्रथमलक्षणे विवक्षणीयतया ____ॐ चन्द्रकला के ज्ञाननिष्ठा या प्रकृतानुमितिकारणीभूताभावप्रतियोगितास्वरूपा प्रकृतानुमितिप्रतिबन्धकता तदवच्छेदकविषयताश्रयत्वं हेत्वाभासस्वमित्येवं प्रथमलक्षणार्थी वाच्यस्तथासति नोक्तोदासोनघटादायतिव्यातिः यन्निष्टविषयताकं ज्ञान प्रकृतहदादिधर्मिय हयाधनुमितिप्रतिबन्धकं भवति तन्निप्ठविषयताया एव तादृशानुमितिप्रतिबन्धकतावच्छेदकतया हृदो वह्नयभाववान् घटश्चेत्याकारकसमूहालम्बनयथार्थज्ञाननिष्ठनिरुक्तानुमितिप्रतिबन्धकतावच्छेदकत्वस्य हृदहदत्यवतिवतित्वाभावाभावत्वादिनिष्ठविषयतायामेव सत्त्वेन घटादिनिष्टविषयतायाश्च ताराप्रतिबन्धकतानवच्छेदकतया तदाश्रयत्वस्य घटादावतिव्यात्यप्रयोजकत्वात् । । एवञ्च हदो वह्निमान् हृदादित्यादिपक्षात्मकहेतुकस्थले हृदादिरूपबाधितदुष्टोतो हृदविशेष्यकवयनुमितिप्रतिबन्धकतावच्छेदकवह्नयभाववहृदादिविषयताश्रयत्वसत्वेन तिरुक्तदुष्टलक्षणसमन्वयसम्भवेऽपि हृदो वहिमान् धूमादित्यादौ बाधिते धूमादिदुष्टहेतावव्याप्तिवारणमशक्यमेव, हृदधर्मिकत्रयनुमितिप्रतिबन्धकतावच्छेदकीभूतवह्नयभाववहदादिविषयताया धूमादावसत्त्वात , धूमादिविषयतायाः ताशप्रतिबन्धकतानवच्छेदकत्वादित्याह यथार्थति । प्रकृतानुमितिकारणीभूताभावप्रतियोगितारूपेत्यादिः । समहालम्बनेति। हृदो वह्निमान् धूमादित्यादौ हृदो वह्नयभाववान् घटश्चेत्याकारकसमूहालम्वनविषयताश्रय घटादिरूपोदासीनपदार्थवारणायेत्यर्थः। प्रथमलक्षणे = अनुमितिकारणीभूताभावप्रतियोगियथार्थज्ञानविषयत्वमितिलक्षणे । विवक्षणीयतयेति । यथार्थज्ञाननिष्टानुमितिप्रतिबन्धकतावच्छेदकविषयताश्रयत्वपर्यन्तस्येति पूणान्वयः । तथाचोक्तसमूहालम्बनज्ञानविषयताया घटे सत्वेऽपि तस्या हृदधर्मिकवयनुमितिप्रतिबन्धकतानवच्छेदकत्यान्न तादृशविषयतामादाय घटेऽतिव्याप्तिरिति भावः । * कलाविलासः अत्रानुमितिप्रतिबन्धकयथार्थज्ञानविषयत्वस्यैव हेत्वाभासलक्षणत्वसम्भवे अनुमितिकारणीभूतेत्याद्यभिधानं व्यर्थीमति चेन्न, प्रतिबन्धकत्वं हि द्विविधम् , कारणीभूताभावप्रतियोगित्वरूपं प्रयोजकीभूताभावप्रतियागित्वरूपञ्च । तत्र प्रथमप्रतिबन्धकत्वस्य लक्षणघटकत्वसूचनाय कारणीभूतेत्यादेरभिहितत्वात् , अन्यथा प्रयोजकीभूताभावप्रतियोगित्वरूपप्रतिबन्धकत्वस्य लक्षणघटकत्वे ह्रदो वह्निमान् धूमादित्यादौ वह्निव्याप्यधूमवान् ह्रद इत्याकारकपरामर्शऽतिव्याप्तिः स्यात् , परामर्श "Aho Shrutgyanam" Page #31 -------------------------------------------------------------------------- ________________ चन्द्रकला-कलाविलासाख्यटीकाद्वयसमलङकृतम् । १५ दीधितिः यथाश्रुतमिदं हेतुदोषाणां लक्षणम् , तद्वत्त्वं च दुष्टहेतूनाम् , सदभिप्रायेणैव उपधेयसङ्करेऽपीत्यादि वक्ष्यति । गादाधरी बाधादिज्ञानप्रतिबन्धकतायां प्रायशो हेतुविषयताया अनवच्छेदकत्वात्तत्रत्यहेताकव्याप्तिश्च, यद्विषयकत्वेनेत्यादिलक्षणे च तृतीयाया अवच्छेदकस्वार्थकतया सुतरां तथेत्यत आह यथाश्रुतमिति । इदम्-~-एतल्लक्षणत्रयम् । * चन्द्रकला बाधादीति। आदिना सत्प्रतिपक्षपरिग्रहः। तथाच हृदादिपक्षकसहयादिसाध्यकधूमादिहेतु स्थले हृदो वह्नयभाववान् धूमश्चेत्याकारकसमूहालम्बननिश्चयनिष्टाया अपि प्रकृतानुमितिप्रतिबन्धकताया अवच्छेदकत्वस्य धूमादिविषयतायां विरहात् प्रकृतानुमितिप्रतिबन्धकतावच्छेदकविषयताश्रयत्वपर्यन्तस्य प्रथमलक्षणार्थत्वेऽपि बाधिते दुष्टधूमादिहेतावव्याप्तिरस्त्येवेति हृदयम् । हृदो वह्निमान् हृदादित्यादौ वह्वयभाववहृदनिश्चयनिष्टप्रकृतानुमितिप्रतिबन्धकतावच्छे कत्त्वस्थ हृदविषयतायां सत्त्वात् पक्षाघभिन्नहेतुकस्थलीयबाधितहृदादिदुष्टहेतौ रक्षणसमन्वयादाह प्रायश इति । हेविति । पक्षाद्यतिरिक्तत्यादिः । तत्रत्येति । यादृशस्थले बाधाज्ञाननिष्टानुमितिप्रतिबन्धकताबच्छेदिका हेतुविषयता न भवति तादृशस्थलीयहेतावव्याप्तिश्चेत्यर्थः। लक्षणे = द्वितीयतृतीयलक्षणे, तृतीयायाः = तृतीयाविभक्तः, सुतरां तथा दोषेऽतिव्याक्षिः, बाधिते दुष्टेऽध्यातिश्च । तथाच यन्निष्टविषयता प्रकृतानुमितिप्रतिबन्धकतावच्छेदिका तत्त्वं हेत्वाभासत्वमित्यस्य द्वितीयतृतीयलक्षणार्थतया दो वह्निमान् धूमादित्यादौ वयभावविशिष्टहदरु पदोपेऽतिव्याप्तिः, तादृशविशिष्टहृदादि विषयताया हृदधर्मिकवद्याद्यनुमितिप्रतिबन्धकतावच्छेदकत्वात् , घूमादिविषयतायाश्चातथात्वात् , धूमादिदुष्टहेतावव्यातिश्चेत्याशयः। अतः = निरुकातिव्याप्त्यादिदोषतः । यथाश्रुतम् = लक्षणाग्रहाजन्यशक्तिश्रमाजन्यशाब्दयोशेच्छरोच्चरितम् । लक्षणत्रमिति । प्रथमलक्षणं द्वितीयलक्षणं तृतीयलक्षणञ्चेत्यर्थः । तद्वत्वंच * कलाविलासः धर्मिकाप्रामाण्यज्ञानाभावस्याप्यनुमितौ प्रयोजकतया तादृशप्रयोजकीभूताभावप्रतियोग्यप्रामाण्यज्ञानस्य विषयतायाः तादृशपरामर्श सत्यादित्यास्तां विस्तरः । तत्रत्यहेताकव्याप्तिश्चेति। अथ हृदो वह्निमान् धूमादित्यादौधूमाभाववहदरूपस्वरूपासिद्धिनिश्चयायविषयतामादाय हृदो वह्निमान् द्रव्यत्वादित्यादौ च वह्नय "Aho Shrutgyanam" Page #32 -------------------------------------------------------------------------- ________________ अनुमानगादाधर्यां सामान्यनिरुक्तिप्रकरणम् । * गादाधरी * ननु हेतुवदाभासन्ते इति व्युत्पत्त्या हेत्वाभासपदस्य दुष्टहेतुपरत्वाद् दुष्टहेतुनिरूपणस्यैव प्रतिज्ञातत्वात्तल्लक्षणमेवाऽकाङ्क्षितम् , अतस्तदनुक्ती मूलस्य न्यूनता, अन्यविधव्युत्पत्त्या हेत्वाभासपदस्य हेतुदोषपरत्व. सम्भवेऽपि 'तेचे त्यादिना दुष्ट हेतूनामेव विभजनाद् दुष्टहेतुनिरूपणस्याऽ. * चन्द्रकला दुष्टहेतूनामिति दीधितिग्रन्थमवतारयति ननु हेत्विति । व्याप्तिपक्षधर्मतादिमान हेतुः, वत्यर्थः सादृश्यम , तच्च व्यातिपक्षधर्मताद्यभाववन्निष्टं व्याप्तिपक्षधर्मस्वा. दिप्रकारतानिरूपितविशेष्यत्वम् , तस्य च आपूर्वकभासधात्वर्थविषयतायामभेदेनान्वयः, आख्यातार्थश्चाश्रयत्वम् , तथाच हेतुवदाभासन्ते' इति हेत्वाभासा इति व्युत्पत्त्या व्याप्तिपक्षधर्मत्वाद्यभाववन्निष्टं यत् व्याप्तिपक्षधर्मत्वादिप्रकारतानिरूपितविशेष्यत्वं तदभिन्न विषयताश्रयीभूता दुष्टहेतव इत्यस्यैव प्रत्येतव्यतया हेत्वाभास. शब्दस्य दुष्टहेतुपरस्वात् तल्लक्षणानभिधानेन मूलस्य न्यूनता स्यादिति भावः । दुष्टहेतुनिरूपणस्य = दुष्टहेतुविषयकज्ञानानुकूलच्यापारस्य । प्रतिज्ञातत्वात् = अव्यवहितोत्तरकालकर्तव्यत्वप्रकारकशिष्यसमवेतबोधानुकूलच्यापारविषयत्वात् । तल्लक्षणमपि = दुष्टलक्षणमपि । अपिना दुष्टविशेषणतयैव दोषलक्षणमाकाक्षितमिति सूचितम् । आकाक्षितम् = जिज्ञासितम् । तदनुक्तौ = दुष्टलक्षणानुक्तौ । मूलस्य = मूल ग्रन्थस्य । न्यूनता = दुष्टलक्षणाकथनानुमिताज्ञानवत्पुरुषोच्चरितता। ननु हेतोराभासा हेत्वाभासा इति व्युत्पत्त्या, आभासपदस्य दोषरूपार्थे लक्षणां स्वीकृत्य हेत्वाभासशब्दस्य हेतुदोषार्थकत्वसम्भवात् हेतुदोषनिरूपणस्यैव प्रतिज्ञाततया तल्लक्षणाभिधानमेव युक्तं नतु दुष्टहेतुलक्षणाभिधानमित्यत आहान्यविधेति ।हेतोराभासा हेत्वाभासा इति व्युत्पत्त्येत्यर्थः । हेत्वाभासेति । हेत्वाभासशब्दस्येत्यर्थः। एतेन हेत्वाभाससमुदायस्य वाक्यतया तस्य पदत्याभिधानमयुक्तमित्याक्षेपो निरस्त इति ध्येयम् । हेतुदोषेति । हेतुदोषबोधेच्छयोच्चरितत्वसम्भवेऽपीत्यर्थः। ते चेत्यादिनेति । 'ते च सव्यभिचारविरुद्धसत्प्रतिपक्षासिद्धबाधिताः पञ्चेति ग्रन्थेनेत्यर्थः । दुष्टहेतूनामेवेति । सव्यभिचारविरुद्धादिशब्दस्य दोषविशिष्टहेतुपरत्वादित्याशयः । विभजनात् = विभागस्य हेत्वाभासस्वावच्छिन्नानां परस्परविरुद्धव्याप्यधर्मेण * कलाविलास * भावववृत्तिद्रव्यत्वरूपव्यभिचारनिश्चयीयद्रव्यत्वविषयतामादाय तत्र तत्र हेतौ लक्षणसमन्वयसम्भवे सामान्यलक्षणे कथमव्याप्तिरभिहितेति चेन्न, उत्पत्तिकालीन। घटो गन्धवान् पृथिवीत्वादित्याद्यसंकीर्णबाधितपृथिवीत्वहेतावव्याप्तेरभिहितत्वात् . "Aho Shrutgyanam Page #33 -------------------------------------------------------------------------- ________________ १७ चन्द्रकला-कलाविलासाख्यटीकाद्वयालंकृतम् ...* गादाधरी प्रतिज्ञातत्वे तदसङ्गन्तेः, एवं दुष्टहेतुनिरूपणस्याऽप्रकृतत्वे दुष्टहेतूनां विभागानहतया तेषां सङ्कण विभागव्याघातशङ्काया अनवतारात् , उपधेयसङ्करेऽपीत्यादिग्रन्थस्य उपाध्यसङ्करेण विभागोपपादनपरस्याऽसङ्गति ॐ चन्द्रकला 8 धर्मिणः प्रतिपादनस्य करणात् । दुष्टेति। दुष्टहेतुविषयकज्ञानानुकूलव्यापारस्येत्यर्थः । अप्रतिज्ञातस्वे = अव्यवहितोत्तरकालकर्तव्यत्वप्रकारकशिष्यसमवेतबोधानुकूलच्यापारविषयत्वाभावे । तदसंगतेरिति । यनिरूपणं प्रतिज्ञातं भवति तस्यैव विभाग इतिनियमात् दोषनिरूपणस्य प्रतिज्ञातत्वे दुष्टहेतूनां विभागोन सम्भवतीति हृदयम्। दुष्टहेतुनिरूपणस्याप्रतिज्ञातत्वे दोषान्तरमाया है वमिति । अप्रकृतत्वे - अप्रतिज्ञातस्ये । दोषनिरूपणस्यैव प्रतिज्ञातत्वे इति शेषः। विभागेति = विभागविषयस्वाभावेनेत्यर्थः । दुष्टहेतुनिरूपणस्याप्रतिज्ञातस्वादितिभावः । तेषाम् = दुष्टहेतूनाम्। संकरेण- अभिन्नत्वेन । विभागेति सामान्यधर्मावच्छिसानां दुष्टहेतूनां परस्परविरुद्धच्याप्यधर्मेण धर्मिप्रतिपरयनुकूलव्यापारस्य यः व्याधातोऽसम्भवस्तच्छङ्काया इत्यर्थः । अनवतारादिति । अयं वलिमान जलत्यादित्यादौ वह्नयभावववृत्तित्वविशिष्टस्य व्यभिचारिणो हेतोर्वयधिकरणमृत्तित्वाभावविशिष्टतया विरुद्धत्वेन व्यभिचारिविरुद्धयोर्भेदाभावात् व्यभिचारित्वविरुद्धत्वयोरेकत्रं समावेशेन दुष्टहेतूनां विभाग एव न सम्भवति, मिथो विरुद्धधर्मेण धर्मिप्रतिपादनस्यैव विभागस्यादित्याशंकावतारस्तु दुष्टहतुनिरूपणस्य प्रतिज्ञातत्वे एव सम्भवति नान्यथेत्याशयः । निरुक्तायाः शंकाया अनवतारे तत्समाधानपरोत्तरग्रन्थस्याप्यसंगतिरित्याहोपधेयेति। उपधेयस्य उपाधिरूपदोषविशिष्टस्य दुष्टहेतोः संकरेणाभिन्नत्वेनापि उपाधेः-दोषस्य असंकरात भिन्नत्वादित्यर्थपरस्य उपधेयसंकरेऽप्युपाधेरसंकरादिति मूलग्रन्थस्येत्यर्थः । उपाध्यसंकरात् = उपाधेोषस्य भिन्नत्वात् । विभागेति । विभागोपपादनबोधेच्छयोच्चरितस्येत्यर्थः । असंगतिरिति । दोषनिरूपणस्य प्रतिज्ञा कलाविलासः * न च गन्धाभावच्याप्यपृथिवीत्वक्त्तादृशघटरूपसत्प्रतिपक्षनिश्चयीयपृथिवीस्वविषयतामादाय लक्षणसमन्वयसम्भव इति वाच्यम् , निरवच्छिन्नसाध्याभावाधिकरणता.. श्रयावृत्तित्वरूपाया गन्धाभावव्याप्तेः पृथिवीत्वहेतावप्रसिद्धतया सत्प्रतिपक्षनिश्चयस्य यथार्थत्वाऽसम्भवेन तादृशनिश्चयविषयत्वमादायापि तत्र लक्षणसमन्वयासम्भवात् । के चित्तु बाधेन दुष्ट इति व्यवहारानुपपत्तिरेवात्राव्याप्ति पदार्थ इत्याहुः । "Aho Shrutgyanam" Page #34 -------------------------------------------------------------------------- ________________ १८ अनुमानगादाधयाँ सामान्यनिरुक्तिचिन्तामणिप्रकरणम् * गादाधरी * रित्यत आह तद्वत्त्वं चेति । तादृशदोषवत्त्वं चेत्यर्थः । दुष्टहेतूनां लक्षणमित्यनुषज्यते । स्फुटमिति शेषः । तथा च दुष्टहेतुनिरूपणस्य प्रकृतत्वेऽपि दोषलक्षणे कृते तद्वत्त्वरूपदुष्टहेतुलक्षणस्य स्फुटतया लाभेन दोषलक्षणाभिधानस्यं तत्र तात्पर्यान्नोक्तानुपपत्तिरिति भावः। तदभिप्रायेणैवेति । दुष्टहेतुलक्षणाभिप्रायेणैवेत्यर्थः। * चन्द्रकला * तस्वे दोषलक्षणस्यैव वक्तव्यतया दुष्टलक्षणस्याप्रतिज्ञातरवेन दुष्टहेतुलक्षणानभिधानस्यौचित्ये दुष्टहेतूनां विभागानुपपत्त्याऽऽशंकाया अनवतारेण तेषां विभागोपपादनपरस्य उपधेयेत्यादिप्रन्थस्यासंगतिर्दुर्वा रेति भावः । तादृशेति । यथार्थज्ञाननिष्टप्रकृतानुमितिप्रतिबन्धकतावच्छेदकविषयताश्रयीभूतदोषवत्त्वमित्यर्थः । दुष्टलक्षणस्य स्फुटतां सूचयितुं भावमाह तथाचेति । अप्रकृतत्वेऽपि = अप्रतिज्ञातरवेऽपि । दुष्टहत्विति ! दोषवत्त्वरूपेत्यादिः । नोक्तेति । न दुष्टहेतूनां संकरेण विभागव्याघाताशंकानुपपत्तिनवा दुष्टहेतुविभागोपपादनपरस्योपेधेयसंकरेत्यादि. ग्रन्थस्य संगत्यनुपपत्तिरिति भावः । उपधेयेत्यादिग्रन्थस्तु दुष्ट लक्षणाभिप्रायक एवेति दृढ़ीकत माह दुष्टहेतलक्षणेति । दोषवत्त्वं दुष्टत्वमित्याकारकदुष्टलक्षणेच्छयैवेत्यर्थः।। __ "अनुमितिकारणीभूताभावप्रतियोगियथार्थज्ञानविषयत्व" मैतल्लक्षणघटकानु मितिपदं यदि अनुमितिसामान्यपरं तदा अनुमितित्वव्यापककार्यतानिरूपितकारणतावान् योऽभावस्तत्प्रतियोगियथार्थज्ञानविषयत्वं, यथार्थज्ञाननिष्टा या अनुमितित्वव्यापकप्रतिबध्यतानिरूपिता प्रतिबन्धकता तदवच्छेदकविषयताश्रयत्वं वा हेत्वाभासत्वमित्यस्यैव प्रथमलक्षणार्थतायाः पर्यवसिततया असम्भवापत्तः, हृदादिपक्षकवयादिसाध्यकस्थले वह्नयाद्यभावविशिष्टहृदादिनिश्चयात्मकयथार्थज्ञानाभावकार्यताया निरुक्तनिश्चयप्रतिबध्यताया वा अनुमितिस्वाऽव्यापकत्वात् । अनुमितित्वस्य घटाधनुमितावपि सत्वेन तत्र तादृशनिश्चयप्रतिबध्यताविरहात् । यादृशयथार्थज्ञानप्रतिवध्यता अनुमितित्वव्यापिका तादृशयथार्थज्ञानविषयस्यैत्र हेत्वाभासतायाः पर्यवसितत्वात् । __यदि च तादृशानुमितिपदं यत्किञ्चिदनुमितिपरं, तदा यथार्थज्ञाननिष्ठा या यकिञ्चिदनुमितिव्यक्तिनिष्ठप्रतिबध्यतानिरूपिता प्रतिबन्धकता तदवच्छेदकविषयताश्रयत्वस्य लक्षणार्थतया हृदविशेष्यक-वह्निसाध्यकानुमितेरेव यकिञ्चिदनुमितिपदेन धत्तुं शक्यत्वेन तादृशानुमितिप्रतिबन्धकीभूतवहन्यभावविशिष्टहदादिनिश्चयविषयत्वमादाय हृदादौ वयादिसाध्यकस्थले लक्षण. "Aho Shrutgyanam" Page #35 -------------------------------------------------------------------------- ________________ चन्द्रकला-कलाविलासाख्यटीकाद्वयालंकृतम् गादाधरी अनुमितिपदस्याऽनुमितिसामान्यपरत्वेऽसम्भवात् , यत्किश्चिदनुमितिपरत्वेऽतिप्रंसङ्गात् प्रकृतपक्षसाध्यहेतुकाऽनुमितिपरत्वमावश्यकम , चन्द्रकला * समन्वयसम्भवादसम्भवाभावेऽपि पर्वतो वह्निमान् धूमादित्यादौ वह्नयभावविशिष्टहदादावतिच्याक्षिः स्यात् यकिञ्चिदनुमितिपदेन तत्र हृदधर्मिकवह्नयाद्यनुमितिमादाय तत्प्रतिबन्धकयथार्थज्ञानविषयताया वह्वयभावविशिष्टहृदादौ सत्त्वादिस्यकामेनापि तादृशानुमितिपदं प्रकृतहेतुप्रकारकनिश्चयोत्तरजायमानप्रकृतपक्षकप्रकृतसाध्यकानुमितिपरमवश्यं वक्तव्यं, तथासति नासम्भवो न वातिव्याप्तिः । प्रकृतपक्षीभूतहदादिधर्मिकवयाचनुमितौ वलयभाववद्धदादिनिश्चयस्य प्रतिबन्धकत्वात् तथाविधपर्वतादिधर्मिकवह्वयाद्यनुमितौ च साशनिश्चयस्याप्रतिबन्धकवादित्याहानुमितिपदस्येति । प्रकृतलक्षणघटकीभूतेत्यादिः । असम्भवादिति । घटपटाद्यनुमितिघटितयावदनुमितौ कस्यापि निश्चयस्याप्रतिबन्धकरवादिति भावः । अतिप्रसंगादिति । पर्वतादिपक्षकवयादिसाध्यकस्थले यत्किञ्चिद्धदो वह्निमानित्यनुमितिप्रतिबन्धकयथार्थज्ञानविषताया वह्नयभावविशिष्टहदादौ सत्वात् तस्य पर्वतपक्षकवह्वयादिसाध्यकधूमादिहेतुकस्थले दोषतापत्तिरित्याशयः । अनुमितिपदस्य प्रकृतहेतुतावच्छेदकावच्छिन्नहेतुप्रकारकनिश्चयोत्तरजायमानप्रकृतपक्षतावच्छेदकावच्छिमपक्षकप्रकृतसाध्पतावच्छेदकावच्छिन्नसाध्यकानुमिति - * कलाविलास: * ननु अनुमितिप्रतिबन्धकतावच्छेदकविषयताश्रयत्वपर्यन्तनिवेशेऽपि उदासीनेतिव्याप्तिवारणमशक्यं वह्नयभावजलोभयवान् ह्रद इत्याकारकज्ञानीयोभयत्वावच्छिन्नप्रकारताया ऐक्येन हृदधर्मिकवह्नयभावस्वावच्छिन्नप्रकारतात्वेन प्रकृतानुमितिप्रतिबन्धकतावच्छेदकतया तदाश्रयत्वस्य जलादौ सत्त्वादिति चेन्न, तादृशातिव्याप्तिवारगाय प्रकृतानुमितिप्रतिबन्धकतावच्छेदकव्यासज्यवृत्तिधर्मानवच्छिन्नविषयताश्रयत्वस्यैव विवक्षणीयत्वादितिध्येयम् । प्रकृतपक्षसाध्य हेतुकानुमितिपरत्वमावश्यकमिति । अत्र प्रकृतहेतुकत्वनिवेशो निरर्थक इति तु नाशंकनीयम् , तदनुपादाने पर्वतो वह्निमान् महानसीयवहीतरवह्नयभाववत्पर्वतकालीनधूमादित्यादौ महानसीयवह्नयभाववत्पर्वतरूपबाधेऽव्याप्स्यापत्तेस्तादृशबाधनिश्चयस्य प्रकृतपक्षसाध्यकपर्वतधर्मिकवह्नयनुमिति प्रत्यप्रतिबन्धकत्वात् । तदुपादाने तु नियमत इतरबाधस्थले वह्निमहानसीयवह्निविषयकसमूहा. "Aho Shrutgyanam" Page #36 -------------------------------------------------------------------------- ________________ २० अनुमानगादाधर्यां सामान्यनिरुक्तिचिन्तामणिप्रकरणम् * गादाधरी तथाच व्यभिचारादांवव्याप्तिः, बहिधूमव्यभिचारीतिज्ञानाभावस्य पर्वतः धूमवानित्यनुमित्यजनकत्वात् , लक्षणया तस्य तादृशानुमितिजनकज्ञानमात्रपरत्वे च बाधादावव्याप्तिः, बाधादिज्ञानस्य परामर्शाऽप्रतिबन्धकत्वादतः * चन्द्रकला परत्वेऽपि न निस्तार इत्याह तथाचेति । अनुमितिपदस्य प्रकृतपक्षसाध्य हेतु. कानुमितिपरत्वेऽपि चेत्यर्थः। व्यभिचारादाविति । आदिपदात् विरोधादिपरिग्रहः । अव्याप्ती हेतुमाह वह्निरिति । वहिणूंमाभावाधिकरणवृत्तितावानित्या. दिनिश्चयाभावस्येत्यर्थः। . अनुमित्यजनकत्वादिति । तथाच पर्वतो धूमवान् वढेरित्यादौ धूमाभाववत्तित्वविशिष्टवह्निरूपव्यभिचारेऽव्याप्तिः स्यात यद्यनुमितिपदं प्रकृतपक्षसाध्यहेतुकानुमितिपरं स्यात् , तत्प्रकारकबुद्धौ तदभावनिश्चयस्यैव प्रतिबन्धकतया धूमाभावववृत्तित्वविशिष्टवाहिनिश्चयस्य धूमाभाववदवृत्तिवह्निरूपव्याप्तिज्ञानप्रति. बन्धकताया आवश्यकतया प्रकृतपक्षीभूतपर्वतधर्मिकधूमानुमित्यप्रतिबन्धकत्वात् निरुक्तव्यभिचारनिश्चयाभावस्य यथाविवक्षितानुमितिकारणीभूताभावपदेन धा. मशक्यत्वादितिभावः। __ ननु अत्रानुमितिपदं प्रकृतपक्षसाध्यकानुमितिकारणीभूतपरामर्श लाक्षणिकमेघेति न व्यभिचारादावव्याप्तिः । पर्वतो धूमवान् वढेरित्यादौ तादृशानुमितिकारणीभूते धूमाभाववदवृत्तित्वविशिष्टंवह्निमान् पर्वत इत्याकारकपरामर्शे धूमाभावववृत्तित्वविशिष्टवह्निरूपन्यभिचारनिश्चयस्य तदभावप्रकारकनिश्चयमुद्रया प्रतिबन्धकत्वेन निरुक्तव्यभिचारज्ञानाभावस्य अनुमितिपदार्थीभूतयथोक्तपरामर्श प्रति जनकत्वसम्भवादित्यत आह लक्षणयेति । प्रकृतपक्षोद्देश्यकप्रकृतसाध्यविधेयकनिश्चये अनुमितिपदस्य शक्ततया लक्षणयेत्युक्तमितिध्येयम् । ___ तस्य = निरुक्तलक्षणघटकीभूतानुमितिपदस्य । तादृशेति । प्रकृतपक्षसाध्यहेतुकानुमितिकारणपरामर्शमात्र परत्वे इत्यर्थः । मात्रपदात् तस्य प्रकृतपक्षसाध्यकानुमितिपरत्वम्यवच्छेदः । बाधादाविति । आदिना सत्प्रतिपक्षपरिग्रहः । अव्याप्तिमुपपादयति बाधादीति । बाधादिनिश्चयात्मकयथार्थज्ञानस्येत्यर्थः । __परामर्शाऽप्रतिबन्धकत्वादिति । हृदो वह्निमान् धूमादित्यादौ वह्नयभावविशिष्टहदरूपबाधनिश्चयस्य हृदधर्मिकवह्निप्रकारकबुद्धावेव प्रतिबन्धकतया हृदर्मिकवह्नयनुमितिकारणीभूतवह्निव्याप्यधूमवानहद इत्याकारकपरामर्श प्रति ग्राह्याभावानवगाहित्वेनाप्रतिबन्धकस्वात् तादृशबाधादिनिश्चयस्य अनुमितिप्रतिबन्धकयथाथज्ञानत्वेनोपादानाऽसम्भवादिति भावः । अतः = "Aho Shrutgyanam" Page #37 -------------------------------------------------------------------------- ________________ चन्द्रकला-कलाविलासाख्यटीकाद्वयालंकृतम् २१ * दीधितिः * तत्राऽनुमितिपदम् अनुमितिनिष्ठकायतानिरूपकसम्बन्धित्वेनाऽनुमिति-तत्कारणशानपरम् । * गादाधरी के अनुमितिपदमजहत्स्वार्थलक्षणया तदुभयपरतया व्याचष्टे-तत्रेति । तादृशलक्षणवाक्य इत्यर्थः । लक्षणाघटकतावच्छेदकमुभयसाधारण. मनुगतरूपमाह अनुमितिनिष्ठकार्यतानिरूपकसम्बन्धित्वेनेति । अनुमितिपदस्य प्रकृतपक्षतावच्छेदकविशिष्ट प्रकृतसाध्यतावच्छेदकावछिन्नप्रकारकप्रकृतहेतुतावच्छेदकावच्छिन्नहेतुकानुमितिपरत्वं स्वयमेव दर्शायष्यति, अतो न वक्ष्यमाणाऽतिप्रसङ्गः। चन्द्रकला निरुक्ताव्याप्त्यादिदोषतः। अनुमितिपदमिति । लक्षणघटकीभूतेत्यादिः । अजहतस्वार्थेति। अपरित्यक्तानुमितिपदार्थलक्षणयेत्यर्थः । तदुभयपरतया - प्रकृतपक्षसाध्यहेतुकानुमितितत्कारणपरामर्शोभयपरतया । व्याचष्ट इति। तथाच यथा काकेभ्यो दधि रक्ष्यतामित्यादौ सर्वतो दधिरक्षाया आवश्यकत्वात् दध्युपधाव. कत्वेन रूपेण काकपदं काकाकाके लाक्षणिकं तथाऽत्राप्यनुमितिपदं प्रकृतपक्षसाध्यकानुमितिनिष्ठकार्यतानिरूपकसम्बन्धवत्वेन रूपेण तादृशानुमिति-तत्कारणपरामशोभयस्मिन् लाक्षणिकमेव, तथा सति न बाधादौ नवा व्यभिचारादावव्याप्तिः, बाधादिनिश्चयस्य प्रकृतपक्षसाध्यकानुमितौ व्यभिचारादिनिश्चयस्य च निरुक्तानुमितिकारणीभूतपरामर्शप्रतिबन्धकतया तादृशनिश्चयविषयत्वस्य बाधादौ सत्त्वादिति भावः। तादृशलक्षणेति । अनुमितिकारणीभूताभावप्रतियोगियथार्थज्ञानविषयत्वमित्याकारकलक्षणवाक्य इत्यर्थः । येन रूपेण लक्षणा भवति तद्रूपं लक्षणाघटकतावच्छेदकमित्याह लक्षणेति । उभयसाधारणम् - प्रकृतानुमितितत्कारणपरामर्शोभयस्मिन् वर्तमानम् । अनुगतरूपम् = अनुगतं धर्ममाह दीधितिकार इति शेषः । अनुमितीति। प्रथमलक्षणादिघटकीभूतेत्यादिः । स्वयमेव = दीधितिकारः एव । वक्ष्यमाणेति । पर्वतो वह्निमान् धूमादित्यादौ वह्नयभावविशिष्टहृदे वक्ष्यमाणातिव्याप्तिरित्यर्थः। निरुक्तानुमितिसामान्यप्रतिबन्धकयथार्थज्ञानविवक्षया न वक्ष्यमाणातिव्याप्तिः सम्भवतीति हृदयम्। * कलाविलासः लम्बनानुमितेरेवोत्पादात् तादृश हेतुप्रकारकनिश्चयोचरानुमितिपदेन महानसीयवलथनुमितेरपि धत्तुं शक्यतया तद्विरोधित्वक्ष्य निरूक्तबाधे सत्त्वान्नाव्याप्तिः। "Aho Shrutgyanam" Page #38 -------------------------------------------------------------------------- ________________ २२ अनुमानगादाधर्या सामान्यनिरुक्तिचिन्तामणिप्रकरणम् गादाधरी निरूपकत्वं चाऽत्र यदि प्रतियोगित्वं, तदा कार्यस्य कार्यताप्रतियोगित्वाभावादनुमित्यसंग्रहः, अतः सम्बन्धिपदं सम्बन्धिद्वयसाधारणस्य ॐ चन्द्रकला निरूपकत्वमित्यादि । प्रकृतपक्षसाध्यहेतुकानुमितित्वावच्छिन्न कार्यतानिरूपकसम्बन्धित्वेने त्यत्र निरूपकत्वं च यदीत्यर्थः। कार्यस्य = प्रकृतानुमितिरूपकार्यस्य । कार्यतेति । कार्यताप्रतियोगिरवस्य प्रकृतानुमितिकारणीभूतपरामर्श एवं वर्तमानस्वादिस्याशयः । अनुमित्यसंग्रह इति । तथाच प्रकृतपक्षसाध्यहेतुकानुमितेस्तादृशानुमितिनिष्टकार्यतानिरूपकप्रतियोगिस्वरूपसम्बन्धवत्त्वेनोपादाना ऽ सम्भवाद् बाधसत्प्रतिपक्षादावव्याप्तिः; बाधादिनिश्चयस्य तादृशकार्यताप्रतियोगिपरामर्शाप्रतिबन्धकत्वात्, तस्य प्रकृतपक्षसाध्यकानुमितिं प्रत्येव प्रतिबन्धकत्वादिति भावः। ___ भतः = कार्यतानिरूपकसम्बन्धवत्वेन प्रकृतानुमितेरसंग्रहतः। सम्बन्धिपदमिति । निरूपकपर्यन्तोपादानेनोपपत्तावित्यादिः । सम्बन्धीति । कार्यतारूपसम्बन्धस्य सम्बन्धि यत् प्रकृतानुमिति-तत्कारणपरामर्शद्वयम् , तत्र वर्तमानस्येत्यर्थः । कलाविलासः * वस्तुतस्तु तद्धेतुकानुमितौ तद्धेतुकव्यभिचारज्ञानाभावस्य प्राचीनमते कारणतया व्यभिचारसंग्रहायैव तदुपादानम् , नव्यमते च तादृशकार्यकारणभावे मानाभावेन तन्मताभिप्रायेणैव व्यभिचारादावव्याप्तिरित्युक्तं भट्टाचार्येणेति संक्षेपः। अतः सम्बन्धिपदमित्यादि। अत्र कल्पे द्वितीयसाक्षात्कारपदाऽनुपादाने प्रकृतानुमितिनिष्ठकार्यतासाक्षात्कारजनकीभूतं यत् तद्विषयताश्रयग्रहनिष्ठप्रतिबध्यतानिरूपितप्रतिबन्धकताशालियथार्थज्ञान विषयत्वविवक्षणे यादृशस्थले पर्वतः वह्निमानित्याकारकानुमितित्वेन घटवद्भुतलावगाहिज्ञानस्य साक्षात्कारो जातस्तादृशस्थले निरुक्तभ्रमात्मकसाक्षात्कारस्यापि प्रकृतानुमितिनिष्ठकार्यतासाक्षात्कारजनकतया तद्विषयघटवद्भूतलज्ञाननिष्ठप्रतिमध्यतानिरूपितप्रतिबन्धक्ताशालियथार्थज्ञानविषये घटाभाववद्भूतलेऽतिव्याप्तिः। तदुपादाने तु यद्रूपावच्छिन्नविषयताशालिसाक्षात्कारत्वव्यापकं निरुक्तानुमितिनिष्ठकार्यतासाक्षात्कारजनकत्वं तद्रूपाश्रयग्रहनिष्टप्रतिबध्यतेत्यादिनिवेशान्न दोषः, पर्वतो वह्निमानित्याकारकानुमितित्वाश्रयानुमितिप्रतिबन्धकयथार्थज्ञानविषयस्याप्रसिद्धत्वात् । एवञ्च यदि प्रथमसाक्षात्कारपदं न दीयते तदा पर्वतपक्षकवह्निसाध्यकधूम. हेतुकानुमितिः प्रकृतपक्षकप्रकृतसाध्यकप्रकृतहेतुकानुमितित्वावच्छिन्नकार्यतावती घटवद्भूतलविषयकज्ञानात् इत्याकारिका या कार्यताविषयकानुमिति. "Aho Shrutgyanam" Page #39 -------------------------------------------------------------------------- ________________ चन्द्रकला-कलाविलासाख्यटीकाद्वयालंकृतम् २३ * गादाधरी तत्साक्षात्कारजनकसाक्षात्कारविषयतात्मकनिरूपकत्वस्य लाभाय । चन्द्रकला तत्साक्षात्कारेति। कार्यतारूपसम्बन्धसाक्षात्कारजनकीभूतो योऽनुमितिसाक्षात्कारः परामर्शसाक्षात्कारश्च तद्विषयतात्मकनिरूपकत्वस्य लाभायेत्यर्थः । सम्बन्धसाक्षात्कार प्रति प्रतियोग्यनुयोगिरूपसम्बन्धिद्वयसाक्षात्कारो हेतुः, भूतलप्रत्यक्षं घटप्रत्यक्षश्च विना भूतलघटयोः संयोगस्य प्रत्यक्षानुदयात्, एवञ्च प्रकृतपक्षसाध्यकानुमितिनिष्ठकार्यतारूपसम्बन्धसाक्षात्कार प्रत्यापि तादृशकार्यतासम्बन्धप्रतियोगिपरामर्श प्रत्यक्षस्य तादृशसम्बन्धानुयोग्यनुमितिप्रत्यक्षस्य प्रकृतपरामर्शवानहं प्रकृतानुमिति. माँश्चाहमित्याकारकस्य जनकतया ताशकार्यतासम्बन्धप्रत्यक्षजनकीभूतनिरुक्तसम्बन्धिप्रत्यक्षविषयताया अनुमितौ परामर्श च सरवात प्रकृतपक्षसाध्यहेतुकानुमितित्वावच्छिन्नकार्यताप्रत्यक्षजनकप्रत्यक्षविषयताश्रयग्रहनिष्ठप्रतिबध्यतानिरूपित - प्रतिबन्धकताशालियथार्थज्ञानविषयस्वं हेत्वाभासत्वमित्यस्यैव लक्षणार्थस्य पर्यवसिततया न बाधादौ न वा व्यभिचारादावव्याप्तिरिति तु परमार्थः।। ननु अनुमितिपदस्याऽजहत्स्वार्थलक्षणया प्रकृतानुमितितत्कारणोभयपरत्वे प्रकृतानुमितिनिष्ठकार्यताप्रत्यक्षजनकप्रत्यक्षविषयताश्रयग्रहनिष्टप्रतिवध्यतानिरूपितप्रतिबन्धकताशालियथार्थज्ञानविषयत्वस्यैव लक्षणार्थतया सर्वत्र लक्षणसमन्वयसम्भवादच्याप्त्याचसम्भवे साध्यव्याप्येत्यादिनानुमितिपदस्य प्रकृतपक्षविशेप्यकप्रकृतसाध्यप्रकारकप्रकृतसाध्यव्याप्यहेतुप्रकारकसमूहालम्बनानुमितिपरत्वाभिधानं दीधितिकृतामनुचितमित्यतः पर्यवसितनिरुक्तलक्षणेऽतिव्याप्तिरूपदोषमाहावेति । अनुमितिनिष्टकार्यताप्रत्यक्षजनकप्रत्यक्षविषयताश्रयमहनिष्टप्रतिबध्यतानिरूपितप्रतिबन्धकताशालियथार्थज्ञानविषयत्वार्थकप्रथमलक्षण इत्यर्थः। * कलाविलासः स्तजनको यः कार्यत्वव्याप्यघटवद्भूतलविषयकज्ञानवती तादृशानुमितिरित्याकारकालौकिकसाक्षात्कारात्मक: परामर्शस्तद्विषयघटवद्भूतलज्ञाननिष्ठप्रतिबध्यतानिरूपितप्रतिबन्धकताशालि यद् घटाभाववद्भूतलमिति यथार्थज्ञानं तद्विषये घटाभाववद्भूतलेऽतिप्रसंगः स्यात् ।। __यद्पावच्छिन्नविषयताशालिसाक्षात्कारत्वव्यापिका निरुतजनकता तद्रूपाश्रयग्रहनि प्रतिबध्यतेत्यादिनिवेशेऽपि पर्वतो वह्निमान् इत्यनुमितिः परामर्शकार्या तादृशानुमित्यनुयोगिककालिकसम्बन्धेन घटवद्भूतलविषयकज्ञानादित्यनुमितिमादाय तद्दोषो बोध्या, यद्रूपपदेन पक्षवृत्तिसाध्यव्याप्य हेतुतावच्छेदकधर्मस्य धर्तुं शक्यतया तादृशानुमिति. वृत्तिपरामर्शकार्यताव्याप्यघटवद्भूतलज्ञानत्वावच्छिन्नसाक्षात्कारत्वव्यापकताया निरुक्तकार्यताविषयकानुमितिजनकतायां सत्त्वात् । "Aho Shrutgyanam" Page #40 -------------------------------------------------------------------------- ________________ 1101 २४ अनुमानगादाधर्या सामान्यनिरुक्तिचिन्तामणिप्रकरणम् * गादाधरी* अत्र पर्वतो वह्निमान् हृदश्च तथेत्यातिसमहालम्बनानुमित्यादिविरोधिहनिष्ठवह्नयभावादिरूपबाधादेः पर्वतादौ धूमादिना वह्नयादिसाधने * चन्द्रकला 8 तथा=वह्निमान् । इत्यादीति । इत्याद्याकारकसमूहालम्बनानुमितिप्रतिबन्धकयथार्थज्ञानविषयीभूतहदनिष्ठवह्नयभावादिरूपहदपक्षकवह्विसाध्यकस्थलीय बाधादेरित्यर्थः । आदिना हृदादिनिष्ठवढ्यभाव व्याप्यादिरूपसत्प्रतिपक्षपरिग्रहः । पर्वतादाविति । आदिपदात् महानसादिपरिग्रहः । धूमादिनेति । आदिनेन्धनादिपरिग्रहः। वह्वयादिसाधने = वह्वयाद्यनुमितौ। आदिना आलोकपरिग्रहः । * कलाविलासः वस्तुतस्तु धर्मसम्बन्धसाधारणकावच्छेदकत्वविरहेण कार्यताविषयकत्वनिष्ठधर्मविधया यदवच्छेदकत्वं तन्निरूपितजन्यतानिरूपितजनकतानिरूपितं यद् धर्मविधयावच्छेदकत्वं तदाश्रयविषयताश्रयग्रहघटितलक्षणार्थनिर्वचने यादृशस्थलविशेषे तद्वयक्तित्वेन प्रतियोगिसाक्षात्कारस्त व्यक्तित्वेनानुयोगिसाक्षात्कारश्च प्रमात्मक एव भवति, तदनन्तरं कार्यतासाक्षात्कारोऽपि तादृशप्रमात्मक एव जायते, तादृशस्थल. विशेषे लाधवाद् विषयितासम्बन्धेन तद्वयक्तिविशिष्टसाक्षात्कारं प्रति विषयितासम्बन्धेन तद्वयक्तिविशिष्टसाक्षात्कारत्वेनैव कारणत्वं वाच्यम् , एवञ्च कार्यताविषय. कत्वस्य ताहशस्थले धर्मविधया अवच्छेदकत्वविरहेणाऽव्याप्तिः स्यादतस्तादृशकार्यताविषयकसाक्षात्कारत्वव्यापकजन्यतानिरूपितजनकत्वं यद्विषयकसाक्षात्कारत्वव्यापकं तत्त्वमर्थो वक्तव्यस्तथाच साक्षात्कारत्वपर्यन्तानुक्तो कार्यताविषयकत्वादेरनुमितिशाब्दबोधादौ सत्वादसम्भवः स्यादिति ध्येयम् । नच कार्यताप्रतियोगित्वानुयोगित्वान्यतरवद्ग्रहनिष्ठप्रतिबध्यतानिवेशेनैवोपपत्तौ साक्षात्कारपदद्वयघटितलक्षणार्थाभिधानमसंगतमिति वाच्यम् , अन्यतरत्वस्य भेदद्वयावच्छिन्नप्रतियोगिताकभेदरूपतया लाघवानवकाशात् । नच भवन्मते जन्यत्वजनकत्वयोः प्रवेशात् ततो गौरवमिति वाच्यम् , तयोः स्वरूपसम्बन्धरूपत्वाभ्युपगमात् । नच जन्यत्वजनकतावच्छेदकत्वयोरनतिरिक्तवृत्चित्वरूपताया आवश्यकतया भवन्मते लाघवानवकाश इति वाच्यम् , व्यवहारं प्रति व्यवहर्तव्यज्ञानस्य कारणत्वेन दोषव्यवहारे निरुत्त लक्षशज्ञानस्य कारणताया वारयितुमशक्यतया तादृशान्यतरत्यघटकभेदयोर्विशेष्यविशेषणभावे विनिगमनाविरहेण गुरुतरकार्यकारणभावद्वयापत्तेः। . एतेन स्वनिरूपितकारणत्व-स्वरूपान्यतरसम्बन्धेन कार्यताविशिष्टय हनिष्ठप्रतिअध्यतैव लाघवान्निवेशनीयेति पूर्वपक्षोऽपि निरस्त इति ध्येयम् । "Aho Shrutgyanam" Page #41 -------------------------------------------------------------------------- ________________ चन्द्रकला-कलाविलासाख्यटीकाद्वयालंकृतम २५ ॐ गादाधरी दोषताप्रसङ्गः, प्रकृतानुमितिनिष्टकार्यतासम्बन्धिग्रहत्वस्य कस्यापि प्रतिब * चन्द्रकला दोषताप्रसंग इनि। तथाच प्रकृतानुमितिनिष्टकार्यताप्रत्यक्षजनकप्रत्यक्षविषयता. अयग्रहनिष्टप्रतिवध्यतानिरूपित प्रतिबन्धकतावद्यथार्थज्ञानविषयस्वमितिलक्षणे । पर्वतो वह्निमान् धूमादित्यादौ वह्नयभावविशिष्टहदादावतिव्याप्तिः, पर्वतोवह्निमान् हृदश्च वह्निमानित्याकारकसमहालम्बनानुमितिनिष्टकार्यताप्रत्यक्षजनकप्रत्यक्षविषयताश्रयनिरुक्तसमूहालम्बनानु मितिनिष्ठप्रतिवद्ध्यतानिरूपितप्रतिबन्धकत्तावतो वहयभाववद्धदादिनिश्चयस्य विषयलाया वह्नयभाववद्धदादौ सत्त्वादिति भावः । ननु प्रकृतपक्षसाध्यहेतुकानुमितिनिष्ठकार्यताप्रत्यक्षजनकप्रत्यक्षविषयताश्रय - ग्रहत्वावच्छिन्न प्रतिबध्यतानिरूपितप्रतिबन्धकताशालियथार्थज्ञानविषयत्वस्य लक्षपार्थस्वे नोवातिव्याप्तिः, वह्नयभावन हदनिश्चयप्रतिबध्यताया हृदधर्मिकवह्निप्रकारकबुद्धित्वावच्छिन्नतया तादृशप्रत्यक्षविषयताश्रयग्रहत्वावच्छिन्नप्रतिबध्यतानिरूपितप्रतिबन्धकतायाः वन्हह्मभावविशिष्टहदनिश्चये विरहादित्याशंकतेप्रकृतेति । पक्षतावच्छेदकावच्छिन्नपक्षकसाध्यतावच्छेदकावच्छिन्नसाध्यकहेतुतावच्छेदकावच्छिन्न हेतुकानुमितित्वावच्छिन्नकार्यताप्रत्यक्षजनकप्रत्यक्षविषयताश्रयमहत्व - स्येत्यर्थः। ___कस्यापीति । बाधादिनिश्चयस्येत्यर्थः । तथाच प्रकृतानुमितिनिष्ठकार्यताप्रत्यक्षजनकप्रत्यक्षविषयताश्रयग्रहत्वावच्छिन्नप्रतिबध्यतानिरूपितप्रतिबन्धकता क कलाविलासः तथाच प्रकृतपक्षकप्रकृतसाध्यकप्रकृतहेतुकानुमितित्वावच्छिन्न कार्यतासम्बन्धविशिष्टग्रहनिष्ठप्रतिबध्यतानिरूपितप्रतिबन्धकताशालियथार्थज्ञानविषयत्वं लक्षणार्थः, बैशिष्टयं स्वविषयकसाक्षात्कारत्यव्यापकजन्यतानिरुपितजनकतावत्त्वसम्बन्धेन । जनकतावत्त्वञ्च स्ववृत्तित्वसम्बन्धेन, वृतित्वमपि स्वनिष्ठविषयतानिरूपकसाक्षात्कारत्वव्यापकत्वसम्बन्धेन । न च हेतुतावच्छेदकावच्छिन्नपरामर्शाव्यवहितोत्तरजायमानत्वार्थकप्रकृतहेतुकत्वदलप्रवेशो निरर्थक इति वाच्यम् , तथा सति पर्वतो वह्निमान् धूमादित्यादौ घलयभाववत्तिद्रव्येऽतिव्याप्त्यापत्तेरिति ध्येयम् । ___ अथ धमालोकादिपरामर्शानां प्रत्येकजन्यानुमितौ व्यभिचारवारणाय तत्तत्परामर्शाव्यवहितोत्तरत्वस्य कार्यतावच्छेदककोटौ निवेशनीयतया तत्तत्परामर्शाव्यवहितोत्तरत्त्वावच्छिन्नं प्रत्येव तत्तत्परामर्शत्वेन कारणत्वसम्भवे प्रकृतपक्षसाध्यकानु "Aho Shrutgyanam" Page #42 -------------------------------------------------------------------------- ________________ २६ अनुमानगादाधर्यां सामान्यनिरुक्तिचिन्तामणिप्रकरणम् * गादाधरी ध्यतानवच्छेदकतया तदवच्छिन्नप्रतिबध्यतानिरूपित प्रतिबन्धकतानिवेशाऽसम्भवात् । तथाविधमहत्वव्यापक प्रतिबध्यता निवेशे चाऽनुमित्यविरोधिनि व्यभिचारादौ परामर्शाविरोधिनि बाधादौ चाडव्याप्तिः, * चन्द्रकला शालियथार्थज्ञानविषयत्वस्य लक्षणार्थत्वविवक्षणे निरुक्तातिव्याप्तिवारणेऽपि सर्वत्राऽसम्भवः स्यात्, तदभावनिश्चयनिरूपित प्रतिबध्यतायाः बुद्धित्वावच्छिन्नतया कस्यापि बाधव्यभिचारादेर्निश्चयस्य प्रतिबध्यतायाः तत्प्रकारक तादृशग्रहत्वावच्छिन्नत्वाऽसम्भवात् तादृशग्रहत्वावच्छिन्नप्रतिबध्यतानिरूपितप्रतिबन्धकताशालियथार्थज्ञानविषयत्वस्य कुत्रापि दोषादावुपपादयितुमशक्यस्वादिति भावः । } तदवच्छिन्नेति तादृशग्रहत्वावच्छिन्नार्थकम् । तथाच पर्वतो वह्निमान्धूमादित्यादौ वहन्यभावविशिष्टहृदादेर्दोषताप्रसंगोऽस्तीति हृदयम् । ननु तथापि नेयमतिव्याप्तिः प्रकृतपक्षसाध्य हे तुकानुमितित्वावच्छिन्नकार्यता प्रत्यक्ष जनक प्रत्यक्षविषयताश्रयग्रहस्वव्यापक प्रतिबध्यतानिरूपितप्रतिबन्धक ताशालियथार्थज्ञानविषयत्वस्य लक्षणार्थस्वविवक्षणात् । तादृशविषयताश्रयग्रहस्वस्य समूहालम्बनानात्मिकार्या केवलपर्वतो वह्निमानित्याकारिकायामनुमितावपि वर्त्तमानतया तत्र वह्न्यभावच दहद निश्चयप्रतिबध्यताया विरहेण वह्न्यभाववद्हृदनिश्चयप्रतिबध्यतायास्तादृशग्रहत्वाऽव्यापकत्वात् यन्निश्चयप्रतिबध्यत्वं तादृशग्रहत्वव्यापकं तन्निश्चयविषयस्यैव दोषत्वादित्याह तथाविधेति । प्रकृतानुमितिनिष्टकार्यताप्रत्यक्षजनकप्रत्यक्षविषयताश्रयग्रहत्वार्थकम् । अनुमित्यविरोधिनि = केवलपक्षधर्मिकसाध्यप्रकारकाव्याप्त्याद्यविषयकानुमितिप्रतिबन्धकयथार्थज्ञानविष - यीभूते । व्यभिचारादाविति । आदिना विरोधादिपरिग्रहः । परामर्शेति । साध्यवत्पक्षाद्यविषयक परामर्शप्रतिबन्धकतानवच्छेदकविषयताश्रयीभूते इत्यर्थः । बाधादाविति । आदिना सत्प्रतिपक्षादिपरिग्रहः । अव्याप्तिरिति । तथाच तादृशप्रत्यक्षविषयताश्रयग्रहत्वस्य केवलपक्षविशेष्यकसाध्यप्रकार कानुमितावपि सत्वेन तत्र साध्याभाववद्वृत्तित्वविशिष्ट* कलाविलासः मितित्वस्य कार्यतावच्छेदकत्वाऽप्रसिद्धया लक्षणमिदमसम्भवीति चेन्न, यत्र प्रथमं भाविज्ञानं धूमाभाववति धूमप्रकारकमित्यप्रामाण्यज्ञानं ततो वह्निव्याप्यधूमवान् घटव्याप्यपटवांश्च पर्वत इत्याकारकसमूहालम्बनपरामर्शस्ततो घटानुमितिस्ततो वह्नयनुमितिस्तत्र घटानुमितेरप्युक्तकार्यतावच्छेद काक्रान्ततथा तत्पूर्वम "Aho Shrutgyanam" Page #43 -------------------------------------------------------------------------- ________________ चन्द्रकला - कलाविलासाख्यटीकाद्वयालंकृतम् * दीधितिः साध्यव्याप्यहेतुमान् पक्षः साध्यवानित्याकारानुमितिपरं वा । * गादाधरी तादृशप्रतिबध्यतानिरूपक ज्ञानविषय उभयविरोधिपक्षाऽप्रसिद्ध्यादावेव त्वसत्त्वादतः कल्पान्तरमाह साध्यव्याप्येति । * चन्द्रकला ऋ २७ हेत्वादिरूपव्यभिचारनिश्चयप्रतिबध्यतायाः तादृशविषयताश्रय महत्वस्य केवलपरामर्शेऽपि वर्त्तमानतया तत्र च साध्याभाववत्पक्षादिरूपबाधादिनिश्चयप्रतिबध्यतायाश्च विरहेण व्यभिचारबाधादिनिश्चयप्रतिबध्यतायाः तादृशविषयताश्रयग्रहत्वा व्यापकतया यथार्थज्ञानात्मक निश्चयपदेन व्यभिचारबाधादिनिश्चयस्योपादानाऽसम्भवाद् भवति बाधादावव्याप्तिरित्याशयः । ननु प्रकृतानुमितिनिष्टकार्यताप्रत्यक्षजनकप्रत्यक्षविषयत्ताश्रयग्रहत्व व्यापक प्रतिबध्यताघटितस्य लक्षणार्थत्वेऽसम्भव सम्भवे व्यभिचारबाधादावव्याप्तिदानमनुचितमिव्यत आहोभयेति । अनुमिति-तस्कारणोभयप्रतिबन्धको भूतयथार्थज्ञानविषयपक्षतावच्छेदकाभाववत्पक्ष रूपपक्षान सिद्ध्यादावेवेत्यर्थः । आदिपदात् साध्यतावच्छेदकाभाववत्साध्यरूपसाध्याप्रसिद्धि परिग्रहः । तादृशेति । तादृशविषयताश्रयग्रहत्वव्यापक प्रतिबध्यतानिरूपितप्रतिबन्धकताशालियथार्थज्ञानविषयत्वस्य सत्त्वादित्यर्थः । तादृशमहत्व व्यापक प्रतिबध्यतातस्य लक्षणार्थत्वे पूर्वोक्तक्रमेण व्यभिचारबाधादावव्याप्तिरेव नत्वसम्भवः, काञ्चनमयपर्वतः काञ्चनमयवह्निमान् धूमादित्यादौ काञ्चनमयत्वाभाववत्पर्वतरूपाश्रयासिद्धौ काञ्चनमयत्वाभाववद्वह्निरूपसाध्याप्रसिद्धौ च लक्षणसमन्वयसम्भवात् अनुमितौ अनुमितिकारणीभूसे परामर्शेऽपि सत्त्वेन यथोक्तनिश्चयप्रतिबध्यतायां तादृशविषयताश्रयग्रहत्व व्यापकत्वस्याक्षतत्वात्, अनुमितेः परामर्शस्य च पक्षतावच्छेदकविशिष्टपक्षादिविषयकत्वादिति भावः । निरुकाश्रयासिद्ध्यादिनिश्चयप्रतिबध्यताया अतः = पर्वतो वह्निमान् धूमादित्यादौ वह्न्यभावविशिष्टहदा देर्दोषताप्रसंगतः । * कलाविलासः प्रामाण्यज्ञानानास्कन्दित वह्निव्याप्यधूमवत्तानिश्चयरूपकारणविरहेण व्यभिचारः स्यादतः पक्षसाध्यविषयितायाः कार्यतावच्छेदककोटौ निवेशनीयतया असम्भवानवकाशात् यद्यदप्रामाण्यज्ञानव्यक्तिसत्त्वे परामर्शसत्त्वेऽनुमितिर्न जायते तत्तदप्रामाण्यज्ञानस्योत्तेजकताया विवक्षणे महागौरवं स्यादित्यास्तां विस्तरः । कल्पान्तरमाहेति । ननु स्वावच्छेदकत्व - स्वनिरूपित कारणतावच्छेदकत्वा "Aho Shrutgyanam" Page #44 -------------------------------------------------------------------------- ________________ २८ अनुमानगादाधयां सामान्यनिरुक्तिचिन्तामणिप्रकरणम् * गादाधरी * प्रकृतपक्षतावच्छेदकविशिष्टपक्षे प्रकृतसाध्यतावच्छेदकावच्छिन्नतव्याप्तिविशिष्टप्रकृतहेतुतावच्छेदकावच्छिन्नप्रकारकानुमितिसामान्यपरमित्यर्थः । एवं च समूहालम्बनानुमितेाप्त्यादिविषयकतया व्यभिचारादिज्ञानप्रतिबध्यत्वान्न व्यभिचाराद्यसङ्ग्रहः । दर्शितसमूहालम्बनानुमितिप्रतिबन्धकतामादायाऽतिप्रसङ्गवारणाय सामान्यपदम् । तथाच ताहशानुमितित्वव्यापकप्रतिबध्यतानिरूपितप्रतिबन्धकताशालियथार्थज्ञानविषयत्वं * चन्द्रकला * प्रकृतेति । प्रकृतपक्षतावच्छेदकावच्छिन्नविशेष्यतानिरूपितप्रकृतसाध्यतावच्छेदकावच्छिन्नप्रकारताय.प्रकृतसाध्यतावच्छेदकावच्छिन्ननिरूपितव्याप्तित्वावच्छिन्न । प्रकारतानिरूपितप्रकृतहे तुतावच्छेदकावच्छिन्नविशेष्यत्वावच्छिन्नप्रकारताकानुमितिसामान्येच्छया लक्षणघटकीभूतमनुमितिपदमुच्चरितमित्यर्थः । ___अव्याप्त्यादिकं वारयितुमाह एवंश्चेति । अनुमितिपदस्य निरुक्तानुमितिसामान्यपरत्वाभिधाने चेत्यर्थः। तादृशेति । पक्षः साध्यवान् साध्यव्याप्यहेतु. मानित्याकारकानुमितेरित्यर्थः । व्याप्त्यादीति । व्याप्स्यवच्छिन्नहेतुप्रकारकतया साध्यप्रकारकतया चेत्यर्थः । व्यभिचारेति । व्यभिचारबाधादिविषयकयथार्थज्ञानप्रति बध्यत्वादित्यर्थः। न व्यभिचाराद्यसंग्रहान व्यभिचारबाधादावव्याप्तिरसम्भवो वा। सामान्यपदप्रयोजनमाह दर्शितेति । पर्वतो वहिमान् ह्रदश्च तथा वह्विव्याप्यधूमवाश्चेत्याकारकसमूहालम्बनानुमितिप्रतिबन्धकतामादायेत्यर्थः । अतिप्रसंगवारणाय =पर्वतपक्षकवह्निसाध्यकधूमहेतुकस्थले वयभावविशिष्टहदादावतिव्यालिवारणाय । ननु सामान्यपदोपादानात् कथं नातिव्याप्तिरित्यत आह. तथाचेति । सामान्यपदोपादाने चेत्यर्थः । तादृशानुमितित्वेति । प्रकृतपक्षविशेष्यक 4 कलाविलासः न्यतरसम्बन्धेन तादृशानुमितित्वावच्छिन्नकार्यताविशिष्टा या विषयिता तदवच्छिन्नप्रतिबध्यतानिरूपितेत्यादिरीत्या लक्षणार्थनिर्वचने न पूर्वोक्तातिव्याप्तिः। वहत्यभावविशिष्टलदनिश्चयप्रतिबध्यतायाः पर्वतधर्मिकवहन्यनुमितिनिष्ठकार्यताविशिष्ट विषयित्वानवच्छिन्नत्वात् । न वा बाधव्यभिचारादावव्याप्तिर्वाधादिनिश्चयप्रतिबध्यतायाः पक्षधर्मिकसाध्यानुमितित्वावच्छिन्न कार्यताविशिष्टविषयित्वावस्छिन्नत्वादिति चेन्न, अन्यतरत्वस्याऽखण्डस्यासत्त्वे गौरवस्य पूर्व प्रदर्शितत्वात् इति तु विभावनीयम् ।। तथाच तादृशानुमितित्वव्यापकेति। अथ पदार्थान्तराविषयकनिरुक्त "Aho Shrutgyanam" Page #45 -------------------------------------------------------------------------- ________________ चन्द्रकला-कलाविलासाख्यटीकाद्वयालंकृतम् क गादाधरी पयवसितार्थः। एवं च साध्यतावच्छेदकावच्छिन्नादिप्रकारकानुमितिसामान्यान्तर्गतायां पर्वतो वह्निमान् वह्निव्याप्यधूमवांश्चेत्याधनुमितो हृदोन वह्निमानित्यादिनिश्चयस्याऽप्रतिबन्धकत्वान्नातिप्रसङ्गः। ॐ चन्द्रकला * प्रकृतसाध्यप्रकारकप्रकृतसाध्यव्याप्यहेतुप्रकारकसमूहालम्बनानुमितित्वार्थकम् । पर्यवसिनाऽर्थडति । लक्षणस्येत्यादिः। जिज्ञासानिवृत्तये वाह साध्यतेति । प्रकृतेत्यादिः। नातिप्रसङ्ग इति । तथाच पक्षः साध्यवान् साध्यव्याप्याहेतुमाँश्चेत्याकारकसमूहालम्बनानुमितिस्वव्यापकप्रतिवध्यतानिरूपितप्रतिबन्धकताशालियथार्थज्ञानविषयत्वस्य लक्षणार्थत्वे न पर्वतो वहिमान् धूमादित्यादौ वयभावविशिष्टहदादावतिव्याप्तिः, पर्वतो वह्निमान् वह्निव्याप्यधूमवानित्याकारकानुमितित्वस्य वह्निमद्धदाद्यविषयककेवल-पर्वतो वह्निमान् वह्निव्यायधूमवाँश्चेत्याकारकानुमितावपि सत्त्वेन तत्र वयभावविशिष्टहृदादिनिश्चयप्रतिबध्यताविरहेण बह्वयभाववद् ध्रदनिश्चयप्रतिबध्यत्वस्य पर्वतो वह्निमान् वह्निव्यायधूमवाश्चेत्याकारकसमूहालम्बनानुमितित्वाऽव्यापकरवात्, यथार्थज्ञानपदेन वलयभावविशिष्टहृदविषयकनिश्चयस्योपादातुमशक्यत्वादिति भावः। * कलाविलासः सम्हालम्बनयतकिञ्चिदनुमितिव्यक्तिमादाय तद्व्यक्तिनिष्ठप्रतिबध्यतानिरूपितप्रतिबन्धकताशालियथार्थज्ञान विषयवमित्युक्तावेव पदार्थान्तरविषयकताहशानुमितिमादायोदासीने ऽतिव्याप्तिवारणसम्भवे तादृशानुमितित्वव्यापकप्रतिबध्यत्वनिदेशनमचिमिति चेन्न, यादृशस्थले हृदो वह्निमान् वहिव्याप्यधूमवाँश्च हृद इत्याकारिकानुमितिः कदाचिद् घटवद्भूतलविषयिणी कदाचिच्च पटवद्भूतलविर्षायणी नियमतो भवति, नतु तादृशाऽन्यतरावगाहित्वं परित्यज्य भवति, ताशस्थले घटाद्यभाववद्भुतलादातिव्याप्त्याऽऽपत्तेः, निरुक्तान्यतरावगाहिअनुमितिव्यक्तिनिष्ठप्रतिबध्यतानिरूपितप्रतिबन्धकत्वस्य घटाद्यभाववद्भूतलादिनिश्चये सत्त्वात् । व्यापकत्वस्य निवेशे तु न तत्राऽतिव्याप्तिः तादृशानुमितित्वस्य पटवद्भुत लादिविषयकानुमितावपि सत्त्वेन तत्र घटाद्यभाववद्भूतलादिनिश्चयात बध्यत्वविरहात् निरुक्तानुमितित्वव्यापकताया घटाद्यभाववद्भूतलादिनिश्चयप्रतिबध्यतायामसत्त्वात् । "Aho Shrutgyanam' Page #46 -------------------------------------------------------------------------- ________________ ३० अनुमानगादाधर्या सामान्यनिरुक्तिचिन्तामणिप्रकरणम् * गादाधरी * बाधसत्प्रतिपक्षस्वरूपासिद्ध्याश्रयासिद्धिषु अव्याप्तिवारणाय प्रकृतपक्षतावच्छेदकावच्छिन्न पक्षविशेष्यकत्वनिवेशः। द्रव्यत्वादिना हृदादिविशेष्यकानुमितो तथाविधबाधनिश्चयस्याऽप्रतिबन्धकत्वात्तदोषतादवस्थ्यमतः पक्षतावच्छेदकावच्छिन्नत्वोपादानम् । ननु केवलसाध्यप्रकारकसाध्यव्याप्यहेतुप्रकारकानुमितिसामान्यप्रतिबन्धकत्ववटितमेव लक्षणमुच्यतामनुमितौ पक्षविशेष्यकत्वनिवेशो निरर्थक इत्यत आह बाधेति । तथाचानुमिती पक्षविशेष्यकत्वाऽविवक्षणे हृदो वह्निमान् धूमादित्यादौ वह्नयभावविशिष्टहदरूपबाधे वह्नयभावव्याप्यविशिष्टहदरूपसत्प्रतिपक्षे धूमाभावविशिष्टहदात्मक स्वरूपासिद्धौ काञ्चनमयपर्वतो वह्निमान् धूमादित्यादौ काञ्चनमयत्वाभावविशिष्टपर्वतरूपाश्रयासिद्धौ चाव्याप्तिः, साध्यप्रकारकसाध्यव्याप्यहेतुप्रकारकानुमितित्वस्य जलं वह्निमद् वह्निव्याप्यधूमवञ्चेत्याकारकानुमितावपि सत्त्वेन तत्र ताशबाधादिनिश्चयप्रतिबध्यत्वविरहे पक्षविशेष्यकत्वाघटितानुमितित्वव्यापकत्वस्य निरुक्तबाधादिनिश्चयप्रतिबध्यतायामसत्वात् , यन्निश्चयप्रतिबध्यत्वं तादृशसाध्यादिप्रकारकानुमित्वव्यापकं तनिश्चयविषयस्यैव दोषत्वादिति हृदयम् । ननु तथापि पक्षनिष्टविशेष्यताकत्वस्यानुमितौ विवक्षणे नोक्ताव्याप्तिः, जलादेः पक्षानास्मकतया तद्विशेष्यकानुमितौ साध्यादिप्रकारकानुमितित्वाऽसम्भवादित्यत आह द्रव्यत्वादिनेति ।। आदिपदात् प्रमेयस्वादिपरिग्रहः । तथाविधेति । वढ्यभावविशिष्टहृदादिरूपबाधादिनिश्चयस्येत्यर्थः । तद्दोषतेति । बाधसत्प्रतिपक्षस्वरूपासिद्धयाश्रयासिद्धिष्वव्याप्तितादवस्थ्यमित्यर्थः । ____® कलाविलासः बाधसत्प्रतिपक्षेति । ननु असाधारण्ये ऽप्यव्यासिः, साध्यव्यापकीभूतामावप्रतियोगिहेतुरूपाऽसाधारण्यनिश्चयस्य पक्षधर्मिकहेतुमत्त्वज्ञानसहकारेणैव प्रकृतपक्षधर्मिकप्रकृतसाध्यानुमितिप्रतिबन्धकत्वादिति तत्राऽव्याप्तिपरित्यागः नियुक्तिकः । नच प्रकृतपक्षविशेष्यकत्वनिवेशेऽपि तत्राऽव्याप्तिरस्ति साध्यव्यापकीभूताभावप्रतियोगिहेतुनिश्चयत्वस्य पक्षधर्मिकहेतुमत्त्वज्ञानाऽकालीनेऽपि ताशनिश्चये सत्त्वात् , तत्राऽनुमितिप्रतिबन्धकत्वस्य विरहादिति वाच्यम् , यद्र्पावच्छिन्नविषयिताव्यापकः प्रकृतानुमित्यप्रतिबन्धकत्व-पक्षधर्मिकहेतुमत्ताज्ञानकालीनत्वोमयाभावस्तद्रूपवत्त्वस्य विवक्षितत्वात् । भवन्मते वह्नि "Aho Shrutgyanam' Page #47 -------------------------------------------------------------------------- ________________ चन्द्रकला-कलाविलासाख्यटोकाद्वयालंकृतम् * चन्द्रकला पक्षतावच्छेदकावच्छिन्नविशेष्यकत्वं विहाय पक्षविशेष्यकरवमात्रस्यानुमितौ विवक्षणेऽपि पूर्वोक्तबाधादावव्याप्तिः, हृदनिष्ठविशेष्यताकवह्निप्रकारकवहिव्या. प्यधूमप्रकारकानुमितित्वस्य द्रव्यं वह्निमद् वह्निव्याप्यधूमवच्चेत्याकारकानुमितावपि वर्तमानतया तत्र वहन्यभावादिविशिष्टहदादिनिश्चयप्रतिबध्यस्याऽसत्त्वात् यन्निश्चयपदेन निरुक्तबाधादिनिश्चयस्य धर्तुमशक्यत्वादिति भवति पूर्वोक्तबाधादाबज्याप्तिरिति तात्पर्यम् । पक्षतावच्छेदकावच्छिन्न त्वं विशेष्यतायां न पक्षतावच्छेदकनिष्ठावच्छेदकताकस्वमपितु पक्षतावच्छेदकताल्वावच्छिन्न प्रतियोगिताकपर्याप्त्यनुयोगितावच्छेदकरूपवृत्तित्वरूपमेव । वृत्तित्यञ्च स्वावच्छेदकतात्वावच्छिन्न प्रतियोगिताकपर्याप्त्यनु कलाविलास: * व्यापकीभूताभावप्रतियोगि जलं जलवांश्च हृद इत्याकारकनिश्चये प्रकृतपक्षाघटितानुमित्यप्रतिबन्धकत्व-पक्षधर्मिकहेतुमत्ताज्ञान कालीनत्वयोः द्वयोः सत्त्वेन तत्राच्याप्तिवारणाऽसम्भवादिति चेन्न, यद्रूपावच्छिन्नविषयकनिश्चयत्वव्यापकः प्रकृतानुमित्यप्रतिबन्धकत्व-असाधारण्यविषयिताशून्यत्वोभयाभावस्तद्रूपवत्त्वमित्युक्ती असाधारण्येऽव्याप्तिशंकावतारासम्भवात् , यत्रासाधारण्याप्रसिद्धिस्तत्रापि भ्रमशानीयासाधारण्यविषयितायाः प्रसिद्धिसम्भवादिति वदन्ति । नच द्वितीयदले प्रकृतपक्षस्य प्रवेशादेव स्वरूपासिद्धयादौ नाव्याप्तिरिति कथं तत्राव्याप्त्यभिधानमिति वाच्यम्, अनुमितौ प्रकृतपक्षकत्वस्य सकृन्निवेशाभिप्रायत एव तत्र तत्राव्यासरभिहितत्वात् । तथाच पक्षतावच्छेदकविशिष्टा. नुमितित्वव्यापकप्रतिबध्यतेत्यादिरीत्या लक्षमार्थस्य निर्वाच्यतया तद्धटकपक्षतावच्छेदकादेरप्रवेशे भवति स्वरूपासियादावव्याप्तिः। वैशिष्टयं स्वा. वच्छिन्नविशेष्यतानिरूपितप्रकृतसाध्यतावच्छेदकावच्छिन्नप्रकारताकत्व स्वावच्छिम्नविशेष्यतानिरूपितप्रकृतसाध्यव्याप्यहेतुप्रकारताकत्वोभयसम्बन्धेनेति ध्येयम् । अथवा साध्यतावच्छेदकावच्छिन्नप्रकारताविशिष्टसाध्यव्याप्यहेतुतावच्छेदकावच्छिन्नप्रकारताशाल्यनुमितिपरमनुमितिपदं, वैशिष्टयम् स्वनिरूपकज्ञानीयत्व-स्वनिरूपितविशेष्यतावच्छेदकपक्षतावच्छेदकावच्छिन्नविशेष्यतानिरूपितत्वोभयसम्बन्धेनेति न कोऽपि दोषः । "Aho Shrutgyanam" Page #48 -------------------------------------------------------------------------- ________________ ३२ अनुमानगादाधर्या सामान्यनिरुक्तिचिन्तामणिप्रकरणम् ® गादाधरी अवच्छेदकत्वं च तत्पर्याप्त्यधिकरणत्वम् , तेनाऽतेजस्वी पर्वतो वह्निमानित्यादौ विशिष्टपर्वतत्वादिति वहन्याद्यभावरूपबाधस्य, काछनमयपवतो वह्निमानित्यादी चाऽश्रयाऽसिद्धेः शुद्ध पर्वतत्वावच्छिन्नपक्षकाऽनुमित्यविरोधित्वेऽपि नाऽसंग्रहः । एवमग्रेऽपि बोध्यम्। चन्द्रकला योगितावच्छेदकत्वसम्बन्धेन, स्वं विशेष्यत्वमित्याहावच्छेदकत्वश्चेति । पक्षतावच्छेदकत्वञ्चेत्यर्थः। तत्पर्याप्त्येति । पक्षतावच्छेदकतापर्याप्त्यधिकरणत्वमित्यर्थः । तेन - तत्पर्याप्त्यधिकरणत्वरूपस्य पक्षतावच्छेदकत्वस्य विवक्षणेन । अतेजस्वी = तेजःसामान्याभाववान् । विशिष्टेति । तेजासामान्याभावविशिष्टपर्वतत्वावच्छिन्ने इत्यर्थः । पक्षाप्रसिद्धः = काञ्चनमयत्वाभाववत्पर्वतरूपएक्षाऽप्रसिद्ध । शुद्धेति । पर्वतो वह्निमान् वह्निव्याप्यधूमवानिल्याकारकानुमितिप्रतिबन्धकज्ञानाऽविषयत्वेपीत्यर्थः। नासंग्रहः =नाव्याप्तिः। पक्षतावच्छेदकनिष्टावच्छेदकताकविशेष्यताकत्वमात्रस्यानुमिती निवेशे अते. जस्वी पर्वतो वह्निमानित्यत्र वहन्यभावविशिष्टातेजस्विपर्वतरूपबाधे काञ्चनमय. पर्वतो वह्निमानित्यत्र काञ्चनमयत्वाभावविशिष्टपर्वतरूपाश्रयासिद्धौ चाव्याप्तिः, पक्षतावच्छेदकनिष्टावच्छेदकताकानुमितित्वस्य पर्वतो वह्निमान् वह्निव्याप्यधूमवानित्याकारकानुमितावपि सत्त्वेन तत्र निरुक्तबाधादिनिश्चयप्रतिबध्यत्वस्य विरहात् पक्षतावच्छेदकनिष्ठविशेष्यताकानुमितित्वव्यापकप्रतिबध्यतानिरूपितप्रतिबन्धकताशालियथार्थज्ञानपदेन यथोक्तबाधाश्रयासिद्धिनिश्चयस्योपादानासम्भवादिति भावः। 8 कलाविलासः तत्पर्याप्त्यधिकरणत्वमिति। नन्वत्रातेजस्वी पर्वतो वह्निमानित्यत्र वलयभावव्याप्यवत्ताशपर्वतरूपसत्प्रतिपक्षेऽप्यव्याप्सिसम्भवे तदनुक्तौ न्यूनतेति चेन्न । सत्प्रतिपक्षत्वावच्छेदेनाव्याप्ति विरहात्, तत्राव्याप्तेरनभिहितत्वात् , तद्वयक्तिस्वव्यापकवहन्यभावसमानाधिकरणतव्यक्तित्ववत्पर्वतरूपसत्प्रतिपक्षे लक्षणसमन्वयसम्भवात, ताहशसत्प्रतिपक्षनिश्चयप्रतिबध्यताया अतेजस्वी पर्वतो वह्निमान् पर्वत:वह्निमानितिशानद्वयसाधारणतया प्रतिबध्यतावच्छेदककोटौ पर्वतत्वांशे इतरवारकपर्याप्त्यनिवेशेन तादृशानुमितित्वव्यापकत्वात् , निरुक्तज्ञानविशिष्टज्ञानात्मकसत्प्रतिपक्षनिश्चयस्य पर्वतत्वसामानाधिकरण्यावगाहित्वेऽपि पर्वतत्वसामानाधिकरण्यावगाहिनिरुक्तानुमितिप्रतिबन्धकतायास्तर्कग्रन्थे मथुरानाथेनोक्तत्वादिति ध्येयम् । "Aho Shrutgyanam" Page #49 -------------------------------------------------------------------------- ________________ ३ ३ चन्द्रकला-कलाविलासाख्यटीकाद्वयालंकृतम् गादाधरी * साध्यतावच्छेदकावच्छिन्नसाध्यप्रकारकत्वाऽनिवेशे परामर्शाविरोधि. तया बाधसत्प्रतिपक्षयोरव्याप्तिः, तत्र साध्यतावच्छेदकावच्छिन्नत्वस्यानुपादानेऽपि तद्दोषतादवस्थ्यम्, वदित्वावच्छिन्नाभावादिनिश्चयस्य धूमजनकतेजस्वी वह्निव्यायधूमवांश्च हद इत्याद्यनुमित्यप्रतिबन्धकत्वात् । * चन्द्रकला इतरवारकपर्याप्तिनिवेशव्यावृत्तिस्तु ग्रन्थकृतेवाग्रे प्रदर्शयिष्यते । एवमऽपि = अब बदन्तीत्यादिलक्षणेऽपि । ___ ननु अनुमिती साध्यव्याप्य हेतुप्रकारकत्वमात्रनिवेशेनैवोपपत्तौ तत्र साध्यतावच्छेदकाचछिन्नसाध्यपकारकत्वनिवेशनमनुचितमिस्वत आह साध्यतेति । परामर्शाविरोधितया = साध्यव्यायहेतुप्रकारकपक्षविशेष्यकज्ञानप्रतिवन्धकयथार्थज्ञानाविषयतया । अव्याप्तिरिति । दो वहिमान भूमादित्यादौ वा यभावविशिष्टहदरूपबाधनिश्चयस्च वलयभापव्यायविशिष्टहादरूवारप्रतिपक्षनिश्चयस्य च हृदो वह्निव्यायधूमागिल्लाकारकानुनिखातिबन्धकतया निरुतबाधादावव्याप्तिः स्यात्, यदि प्रकृतसाध्यप्रकारकत्वस्थानुमिती निवेशो न स्यादिति हृदयम् । यद्यपि साध्यनिष्टप्रकारताकत्वमात्रस्थानुमिती विवक्षणेऽपि नोजाव्याप्तिः साध्यव्याप्य हेतुमात्रनिष्टप्रकारताकानुमितेः साध्यागकारकत्वादियुच्यते तथापि न निस्तार इत्याह तत्रेति ! लक्षणयटकीभूतानुमितीयसाध्यनिष्टकारतायामित्यर्थः । तदोषताददस्थ्यम् = पूवोक्तवाधसत्प्रतिपक्षयोरव्याप्तितादवस्थ्यम् । कथमित्याकांक्षायामाह वह्नित्वेति । तथाचानुसितौ साध्यनिष्टप्रकारताकत्यविवक्षणे हदो वह्निमान् धूमादित्यादौ पूर्वोत्कबाधसत्प्रतिपक्षयोरव्याप्तिः, वह्निरूपसाध्यनिष्टप्रकारताकानुमितित्वस्य हृदोधूमजनकतेजस्वी वह्निव्यायधूमवॉश्चेत्याकारकाजुमिताव पि' सत्वेन तत्र यथोक्तबाधादि निश्चयप्रतिबध्यत्वविरहात साध्यज्याप्यहेतुप्रकारकसाध्यनिष्टप्रकारताकानुमितित्वव्यापकप्रतिबध्यतानिरूपित - * कलाविलासः * जच न्यूनवारकपर्याप्त्यनिवेशे अतेजस्वी पर्वतो वह्निमानित्यत्रैव तेजस्वित्वविशिष्टपर्वतरूपाश्रयासिद्धावव्याप्तिसम्भवे काञ्चनमयपर्वतो वह्निमानित्यत्राश्रयासिद्धापव्याप्तिदानमचितमितिवाच्यम्, पर्वतत्वसामानाधिकरण्येन तेजःसामान्याभावस्य पक्षतावच्छेदकतया ताशपक्षतावच्छेद कविशिष्ट पक्षशानं प्रति पर्वतस्वावच्छेदेन तेजोवत्त्वनिश्चयस्य विरोधित्वात् तादृशनिश्चयविषयस्याप्रसिद्धया स्थलान्तर एवाश्रयासिद्धावव्याप्तेरभिहितत्वात् । "Aho Shrutgyanam" Page #50 -------------------------------------------------------------------------- ________________ अनुमानगादाधर्यां सामान्यनिरुक्तिप्रकरणम् * गाडाधरी यत्तु साध्याऽप्रसिद्ध्यव्यानिवारणप्रयोजनकत्वं तदुपादानस्येति तन्न चन्द्रकला प्रतिबन्धक ताशालियथार्थज्ञानविषयताया वह्नयभावादिमद्धदादिरूपबाधादावुपपादयितुमशक्यत्वादितिभावः । अत्र प्रकारतायां साध्यतावच्छेदकावच्छिन्नत्वमपि साध्यतावच्छेदकतात्वावच्छिन्न प्रतियोगिताकपर्याप्त्यनुयोगितावच्छेदकरूपवृत्तित्वरूपं वक्तव्यम् । वृत्तित्वश्च स्त्रावच्छेदकतात्यारच्छिन्नप्रतियोगिताकपत्यनुयोगितावच्छेदकत्वसम्बन्धेन । स्वं प्रकारत्वम्, तेन पर्वतो वह्निजलोभयवान् धूमादित्यादौ वह्निजलोभयाभाववत्पर्वतरूपबाधनिश्चयस्य पर्वतो वह्रिमानि. त्याकारकानुमित्यप्रतिबन्धकत्येऽपि न तादृशोभयाभावविशिष्टपर्वतादिरूपबाधादासाव्याप्तिः न वा हृदो वह्निमानित्यादौ वयभाववद्दादिरूपबाधनिश्चय स्य हदविशेष्यकवह्निघटोभयप्रकारकानुमित्यप्रतिबन्धकत्वेऽपि तादृशबाधादावव्यासिरिति ध्येयम् । ___ प्रकारान्तरेण प्रकारतायां साध्यतावच्छेदकतापर्यापत्यधिकरणधर्मावच्छिन्नत्वनिवेशप्रयोजनं वर्णयतां मतं दूषयितुमुपन्यस्यति यत्त्विति । साध्यतावच्छेदकतापर्याप्त्यधिकरणधर्मावच्छिन्नप्रकारताकत्वं विहाय साध्यनिष्टप्रकारताकत्वस्यानुमितौ विवक्षणे पर्वतः काञ्चनमयवतिमान् धूमादित्यादौ ६ञ्चनम् यस्वाभावपतिरूपसाध्याप्रसिद्धावव्यातिः, साध्यनिष्ठप्रकारताकानुमितिपदेन पर्वतो वलिमानित्याकारकानुमितेरपि धतुं शक्यतया तादृशानुमितिप्रतिबन्धकताया यथोक्तसाध्याप्रसिद्धि निश्चये विरहात् साध्यनिष्ठप्रकारताकानुमितित्वव्यापक. प्रतिबध्यतानिरूपित प्रतिबन्धकताशालियथार्थज्ञानविषयत्वस्य ताशसाध्याप्रसिहायसवादित्यभिमानेनाह साध्याप्रसिद्ध्येति । तदुपादानस्य = प्रकारतायां साध्यतावच्छेदकतापर्याप्त्यधिकरणधर्मावच्छिन्नत्वोपादानस्य । ककलाविलासः न च तथापि बाधस्वरूपासिद्धथादिष्वपि पक्षतावच्छेदकतायाः पर्याप्त्यनिवेशे अव्यातिसम्भवे तदनुत्तौ पुनयूनता स्यादिति वाच्यम् , आद्यन्तोत्कोत्तनेन मध्यपतितयोरपि ग्रहण सम्भवात् , यद्रूपावच्छिन्नविषयिताशालिनिश्चयत्वव्यापकः प्रकृतानुमित्यप्रतिबन्धकत्वासाधारण्यविषयिताशून्यत्वोभयाभावस्तद्रूपवत्त्वमित्यस्य विवक्षणीयतयाऽसाधारण्येऽव्याप्ति विरहाच्च । ___ केचित्तु पर्वतो वह्निमान् गगनादित्यत्र अवृत्तिगगनादेरेव स्वरूपासिद्धितया स्वरूपासिद्धित्वावच्छेदेन पक्षतावच्छेदकतापर्याप्त्यनिवेशे अव्याप्त्यसम्भवाद् बाधाश्रयासियोरव्याप्त्यभिधानमित्याहुः । "Aho Shrutgyanam" Page #51 -------------------------------------------------------------------------- ________________ चन्द्रकला कलाविलासाख्यटीकाद्वयालंकृतम् ३५ * गादाधरी सत, वहिन काञ्चनमय इतिनिर्णयस्य शुद्धवह्नित्वादिना वह्नयाद्यनुमित्यविरोधित्वेऽपि द्वितीयदले प्रकृतसाध्यतावच्छेदकावच्छिन्नान्तर्भावसत्त्वात् , तस्य काञ्चनमयवह्निव्याप्यधूमवान्पर्वत इत्यनुमितिविरोधितया तत्र लक्ष. णगमनात् । ® चन्द्रकला तादृशाभिमानं निराकर्तुमाहेति तु न सदिति । तादृशाभिमानमूलकं यत्तुमतं न युक्तमित्यर्थः। निरुक्तमतस्यायुक्तत्वे हेतुमाह वह्निनति । इत्यादिनिर्णयस्य = इत्याकारकसाध्याप्रसिद्धिनिश्चयस्य । शुद्धति काञ्चनमयत्वाद्यप्रकारकवह्नित्वमात्रप्रकारकत्वेनेत्यर्थः। वहथेति । पर्वतो वह्निमानित्याकारकानुमित्यप्रतिबन्धकत्वेऽपीत्यर्थः। द्वितीयदले -द्वितीयदलघटकीभूतसाध्यप्रकारतायाम् । तस्य - पूर्वोक्त साध्याप्रसिद्धिनिर्णयस्य । इत्यनुमितिविरोधितया = इत्याकारकानुमितिप्रतिबन्धकतया। तत्र = निरुक्तसाध्या प्रसिद्धौ। लक्षणगमनादिति । अयमाशयः, काञ्चनमयत्वाभावविशिष्टवह्निनिश्चयस्य काञ्चनमयत्वप्रकारेण वह्निविषयकबुद्धिमान प्रतिबन्धकतया लक्षणघटकानुमितौ पक्षांशे साध्यनिष्टप्रकारताकत्वमानविवक्षणेऽपि नोक्तनिश्चयविषयीभूतायां साध्याप्रसिद्धावव्याप्तिः, ताशसाध्यप्रकारकानुमितेः पर्वतो वह्निमान् काञ्चनमय वह्निव्यायधूमवाँश्चेत्याकारकानुमितिस्वरूपताया आवश्यकतया काञ्चनमयत्वविशिष्टवह्निविषयकत्वाऽव्याघातेन तत्र यथोक्तसाध्याप्रसिद्धिनिश्चयस्य प्रतिबन्धकत्वादिति ।। ननु अनुमिती पक्षांशे साध्यप्रकारकत्वमात्रस्यैव निवेशोऽस्तु किं तत्र * कलाविलासः * वह्निर्न काञ्चनमय इत्यादि । नन्वत्रापि प्रकृतपक्षस्येव साध्यस्यापि सकृन्निवेशसम्भवे साध्याप्रसिद्धयादावव्याप्तिवारगेन यत्तुमतखण्डनमसंगतम् , तथा च साध्यतावच्छेदकविशिष्टानुमितित्वव्यापकप्रतिबध्यतानिरूपिवेत्यादिरीत्या लक्षणं निर्वाच्यम् , वैशिष्ट्यम् स्वावच्छिन्नप्रकारतानिरूपित प्रकृतपक्षविशेष्यताकत्वस्वावच्छिन्ननिरूपितव्याप्तिविशिष्ट प्रकृत हेतुप्र कारतानिरूपितप्रकृतपक्षविशेष्यताकत्वो. भयसम्बन्धेनेति चेन्न, निरुक्तपरम्परायाः संसर्गत्वस्वीकारे मानाभावात् , पक्षपदस्य सकृदुल्लेखेन सकृन्निवेशोपयोगिपूर्वोक्तपरम्परायाः संसर्गत्वस्याभ्युपगमात्, साध्यपदस्य द्विधोल्लेखेन सकृन्निवेशोपयोगिनिरुक्तपरम्परायाः संसर्गत्वस्यास्वीकरणीयत्वादिति ध्येयम् । "Aho Shrutgyanam" Page #52 -------------------------------------------------------------------------- ________________ अनुमानगादाधर्या सामान्यनिरुक्तिप्रकरणम् * गादाधरी * द्वितीयदलप्रवेशाद् व्यभिचारविरोधसाधनाप्रसिद्धिस्वरूपासिद्धिषु नाव्याप्तिः, तत्रापि साध्यतावच्छेदकावच्छिन्ननिरूपितव्याप्तिविशिष्टत्वनिवेशाब्यभिचारविरोधयो व्याप्तिः । वह्निधूमव्यभिचारीतिज्ञानदशायामपि द्रव्यत्वादिना धूमादिनिरूपितव्यावर्भानसम्भवात्तदोषतादवस्थ्यमतो व्या ____ चन्द्रकला साध्यव्याप्यहेतुप्रकारकत्वानिवेशेनेत्यत आह द्वितीयदलेति । साध्यव्यायहेतुप्रकारकत्वस्थानुमितो प्रदेशादेवेत्यर्थः । व्यभिचारेति। साध्यामावदद्वत्तित्वविशिष्टहेतु रूपच्यभिचार-साध्याधिकरणवृत्तित्वाभावविशिष्ट तुरूपविरोधहे तुतावच्छेद काभावविशिष्ट हेतुरूपसाधनाप्रसिद्धि हेत्वभाववपक्षात्मकस्वरूपासिद्धिष्वित्यर्थः । नाव्याप्तिरिति । अन्यथा द्वितीयदलाप्रवेशे व्यभिचारादिनिश्चयस्थ पक्षः साध्यवानि त्याकारकानुमितिमात्रा प्रतिबन्धकतया व्यभिचारादावव्यातिरेव स्थाविति भावः । तत्रापीति ! द्वितीयदलघटकहेतावपीत्यर्थः । साध्यतेति । साध्यतावच्छेदकतापर्याप्त्यधिकरणधर्मावच्छिमानिरूपितव्याहिविशिष्टत्वस्य हेतौ निवेशादित्यर्थः । व्याप्त्यशे साध्यनिरूपितल्याऽनिवेशे पर्वतो धूमयाग वढेरित्यादौ धूमामायधतित्वविशिष्टवलिरुपव्यभिचारे गोवदानश्चस्वाहिल्यादौ गोत्वाधिकरणवृत्तित्वामावविशिष्टाश्वस्वरूपविरोधे चाव्याप्तिः, पक्षः साध्यवान् किञ्चिन्निरूपितम्यातिविशिष्हेलुमानित्याकारकानुमितित्वस्य पर्वतो धूमवान् रूपादिव्यायवस्लिमांश्चेत्यायनुमितावपि सत्येन तत्र निरक्तव्यभिचारादिनिश्चयप्रतिबध्यत्वविरहेण यथोक्त.व्यभिचारादावन्यासिरित्याह व्यभिचारेति । ननु व्याप्ती साध्यतावच्छेदकावच्छिन्ननिरूपितत्वं न निवेश्यते अपितु साध्यनिरूपितत्वमानं तथापि दाव्याहिः, निरुक्तस्थले रूपादिनिरूपिताया व्यासः साध्यीभूतधूमनिरूपितत्वाऽसम्भवात् धूमनिरूपित्तव्याहिविशिष्ट हेतुप्रकारकानुमितेः पर्वतो धूमवान् धूमव्याप्यवहिमानियाकारकतया तत्र चोतव्यभिचारादिनिश्चययस्य प्रतिबन्धकत्वादत आह हिधूमेति । धूमाभावयत्तित्वविशिष्टवाहिरित्याकारकव्याभिचाराविनिश्चयदशायामपीत्यर्थः । आदिना दह्निमान् जलस्वादित्यादिस्थलीय-वह्निमत्तित्वाभावविशिष्टजलस्वादिरूपविरोधपरिग्रहः । द्रव्यत्वादिनेत्यादि । द्रव्यव्याप्यधूमवानयं धूमवानित्याकारकानुमित्युदयसम्भवादित्यर्थः । तदोषतेति । व्यभिचारविरोधयोरव्याप्तितावस्थ्यमित्यर्थः। व्याप्ती साध्यता * कलाविलासः द्वितीयदलप्रवेशादिति । ननु द्वितीयदलाप्रवेशे अनुपसंहारित्वे साध्यव्याप्त्यभाववद्धतुरूपव्याप्यत्वासिद्धौ चाव्याप्तिसम्भवे तदनभिधानान्न्यूनतेति चेन्न, "Aho Shrutgyanam" Page #53 -------------------------------------------------------------------------- ________________ चन्द्रकला - कलाविलासाख्यटीकायालंकृतम् व्याप्ती * गादाधरी साध्यतावच्छेदकावच्छिन्नीयत्वनिवेशः । अन्वयव्याप्तिव्यतिरेक * चन्द्रकला ऋ परित्यज्य साध्यनिरूपितत्वमात्रविचक्षणेsपि वच्छेदकावच्छिन्ननिरूपितत्वं धूमवान् वह्नेरित्यादौ धूमाभाववद्वत्तित्वविशिष्टवह्निरूपव्यभिचारे वह्निमान् जलत्वादित्यादौ वह्निमहू त्तित्वाभावविशिष्टजलत्वरूपविशेधे चाव्याप्तिः, निरुकव्यभिचारादिनिश्चयस्य साध्यनिरूपितव्याप्तिविशिष्ट हेतु प्रकारकानुमितिसामान्यान्तर्गतायां धूमवान् द्रव्यव्याप्यवह्निमांश्चायमित्याकारकानुमितावप्रतिबन्धकत्वादिति भावः । व्याप्तौ साध्यतावच्छेदकावच्छिन्नीयत्व निवेशः = साध्यतावच्छेदकतात्वावच्छिन्नप्रतियोगिताकपर्याप्त्यनुयोगितावच्छेदकरूपवृत्तिनिरूपितत्वसम्ब न्धावच्छिन्नप्रकार ताकत्वं व्याप्तौ निवेशनीयमिति तात्पर्यम् । वृत्तित्वञ्च स्वावच्छेदकतास्वावच्छिन्न प्रतियोगिताकपर्याप्त्यनुयोगितावच्छेदकत्वसम्बन्धेन स्वं निरूपितत्वसम्बन्धावच्छिन्नप्रकारत्वम् । तेन महानसीयवह्निमान् धूमादित्यादी महानसीयवह्न्यभाववद्वृत्तित्वविशिष्टधूम रूपव्यभिचारनिश्चयस्य वह्निव्यायधूमवान् महानसीयवह्निमाँश्चायमित्याकारकानुमितावप्रतिबन्धकत्वेऽपि न तादृशव्यभिचारेऽच्याप्तिः, निरुक्कव्यभिचारनिश्चयस्य प्रतिबन्धकताया निर्विवादत्वादिति ध्येयम् । महानसीयवह्नित्वावच्छिन्ननिरूपितव्याप्तिग्रहं प्रति " ननु साध्यतावच्छेदकावच्छिन्ननिरूपितं यद्यन्वयव्याप्तिमान्त्रमत्र विवक्षितं स्यात् तदा सर्वमनित्यं प्रमेयत्वादित्यादौ नित्यत्वव्यापकीभूताभावाप्रतियोगित्वविशिष्टप्रमेयत्वरूपानुपसंहारित्वेऽव्याप्तिः, साध्याभाववदवृत्तित्वादिरूपान्वयव्याप्तिबुद्धो निरुक्तानुपसंहारित्व निश्चय स्याऽप्रतिबन्धकत्वात् । वाशव्याप्तेव्यतिरेकव्याप्तमात्रपरत्वे तु धूमवान् वह्नेरित्यादौ धूमाभाववद्वृत्तित्वविशिष्टवह्निरूपव्यभिचारेऽव्याप्तिर्दुरा स्यात्, साध्याभावव्यापकाभावप्रतियोगिहे तुरूपव्यतिरेकव्याप्तिबुद्धौ निरुक्तव्यभिचारनिश्चयस्याप्रतिबन्धकत्वादित्यत आह अन्वयेति । * कलाविलासः अनुपसंधारित्वस्य व्यभिचारान्तर्गतत्वाद् व्यभिचारपदेनैव तल्ला भसम्भवात् । साध्यतेऽनुमीयतेऽनेनेति व्युत्पत्त्या साधनं हेतुः व्याप्तिश्च साधनञ्च साधनञ्च साधने तयोरप्रसिद्धिरितिव्युत्पत्त्या च साधनाऽप्रसिद्धिपदेन हेत्व सिद्धिव्याप्यत्वाऽसिद्धयोर्द्वयोरुपादान सम्भवात् । अन्वयव्याप्तीति । एकत्र द्वयमित्यादिरीत्या व्याप्तिद्वयस्य प्रकृत हेत्वं शे विशेषणत्वे तादृशव्याप्तिद्वयाभावविशिष्टतावतिव्याप्तिः स्यात् अतस्तादृशरोत्या निवेशो नात्राभिहितः । निवेशरीतिस्त्वन्यत्रानुसन्धेया । "Aho Shrutgyanam" Page #54 -------------------------------------------------------------------------- ________________ अनुमानगादाघ सामान्यनिरुक्तिप्रकरणम् * गावाघरी विशिष्योपादाय तदुभयविशिष्ट हेतुप्रकारकत्वमेव निवेश्यम, एकतरमात्रव्याप्यपादाने साधारण्याऽनुपसंहारित्वयोरेकतराऽसंग्रहप्रसङ्गादित्यप्रे व्यक्ती भविष्यति । तादृशव्याप्तिद्वयप्रकारतानिरूपितहे तुप्रकारतायाः तत्साध्यकतद्धेतुका ३८ चन्द्रकला अन्वयविरूपितां साध्याभाववदवृत्तित्वादिरूपां स्वव्यापकसाध्य सामानाधिकरण्यरूपां वा व्याप्तिं व्यतिरेकनिरूपितां साध्याभावव्यापकाभावप्रतियोगित्वविशिष्टहेतुरूपञ्च व्याप्तिमित्यर्थः । विशिष्योपादाय = एकैकां तादृशीं व्याप्तिमुपादाय । तदभयेति । तत्तद्वयाप्तिप्रकारता निरूपित्तविशेष्यत्वावच्छिन्नहेतुप्रकार ताकत्वसेवेत्यर्थः । निवेश्यमिति । लक्षणघटकीभूतायामनुमितावित्यादिः । तथाच 'पक्षतावच्छेदकावच्छिन्न विशेष्यतानिरूपिता या साध्यतावच्छेदकावचिन्तप्रकारता या च साध्यतावच्छेदकावच्छिन्ननिरूपितान्वयव्याप्तिप्रकारतानिरूपित विशेष्यत्वावच्छिन्नहेतुतावच्छेदकावच्छिन्नप्रकारता तन्निरूपकये सति या वा साध्यतावच्छेदकावच्छिन्ननिरूपितव्यतिरेकव्याप्तिप्रकारता निरुक्तिविशेष्यत्वाव च्छिन्न हेतुप्रकारता तन्निरूपकानमितित्व व्यापक प्रतिबध्यतानिरूपितप्रतिबन्धकताशालियथार्थज्ञानविषयत्वं हेत्वाभासत्वमिति लक्षणार्थः पर्यवसितः, अन्यथोभगव्याप्तिविशिष्टहेतुप्रकारताकत्वस्यानुमितौ क्षिणे तादृशव्यासिद्वयाभावविशिष्टतावतिव्याप्तिः स्यादिति भावः । एकतरेति । व्यतिरेकव्याप्तिमानस्यो. पादाने अन्वयव्याप्तिमानस्योपादाने वेत्यर्थः । साधारण्येति । साध्याभाववइति विशिष्टहेतुरूप व्यभिचार-साध्याभावव्यापकीभूताभावाऽप्रतियोगित्वविशिष्टहेतुस्वरूपानुपसंहारित्वयोरित्यर्थः । एकतरेति । व्यतिरेकव्याप्तिमात्रविरक्षणे व्यभिचारे अन्वयव्याप्तिमात्रनिवेशे चानुपसंहारित्वेऽव्यासप्रसंगावित्यर्थः । अग्रे = अत्र वदन्ति कल्पे । अधिकमभिहितम्प्राप् प्रकृतपक्षकप्रकृतसाध्यहेतुकानुमितिजनकताव च्छेदकत्वमन्वयव्याप्तिप्रकारतायामिव व्यतिष्कव्याप्तिप्रकारतायामन्यावश्यकमिति तादृशानुमितिविष्टजन्यतानिरूपितजनकतावच्छेदकपक्षविशेष्यतानिरूपितहेतुप्रकारतावच्छिन्नविशेष्यतानिरु वितत्वावच्छिन्नप्रकारताशाल्यनुमितित्व व्यापकप्रतिबध्यतानिरूपित प्रतिबन्धकताघटितलक्षणार्थनिर्वचनेनैव व्याप्तिद्वय प्रकारताया लाभसम्भवे उभयव्याप्तिविशिष्ट हेतुप्रकान्ताकानुमितिव्यव्यापक प्रतिबध्यताघटितलक्षणानुसरणमनुचितमित्यत आह तादृशेति, अन्वयव्यतिरेकार्थकम् । तत्साध्येति । * कलाविलासः तत्साध्यकतद्धेतुकेति । अत्र कल्पे अनुमितौ प्रकृतसाध्यकत्वनिवेशनं निरर्थकमिति तु नाशंकनीयम्, तन्निवेशाभावे पर्वती धूमवान् वह्नेरित्यत्र "Aho Shrutgyanam" Page #55 -------------------------------------------------------------------------- ________________ चन्द्रकला-कलाविलासाख्यटीकाद्वयालंकृतम् ३९ क गादाधरी नमिनिजनकतावच्छेदकप्रकारतात्वेनाऽनुगमय्य निवेशम्तु न सम्भवति, साध्याभावयत्तित्वज्ञानदशायां वे बलव्यतिरे कव्याप्त्यादिप्रकारकहेतुमत्ताज्ञानोत्पत्त्या साधारण्या दस्तादृशप्रकारताशाल्यनुमिति सामान्यविरोधि. स्वाभावात् । कचन्द्रकला प्रकृतस्माध्यकप्रकृरहेतुकानुमितिजनकतावच्छेन कराध्यप्रकारतानिरूपितत्रिशेप्यत्वावच्छिन्न प्रकारतानि तविशेष्यत्यावच्छिन्नने नेत्यर्थः । निदेशस्त्विति । हेत्वाभासप्रथम क्षणघटक्तयेत्यादिः । तादृशान शाभावे हेतुमाह साध्येति । हेतुधर्मिकसाध्याभाववत्तित्वज्ञानकाले इत्यर्थः । के वलेति । अन्वयव्याप्त्यविषयकसाध्याभावव्यापकाभावप्रतियोगित्वादिरूपन्यतिर कयातिविशिष्टहेत प्रकार पक्षवि. शेष्य कानुमितेरुत्पश्येत्यर्थः । साधारण्यारिति । अविनानुपसंहारित्यपरिग्रहः । तादृशे त । प्रकृतानमितिजनकताउछेद कसाध्यविश्यतानिरूपित व्याप्तिविषयतानिरूपितहेतुप्रकारताशालय नुमितित्व व्यापकप्रतिबध्यतानिरूपितप्रतिबन्धकतावच्छेदकविषयत्वाभावादित्यर्थः । अयं भावः, प्रकृतसाध्यहेतुकानुमितिजनकतामच्छेदकसाध्यप्रकारतानिरूपितविशेष्यत्वावच्छिन्न व्याप्तिकारताविरूपितहेतुकारताशा . ल्यन मितित्वव्यापक प्रतिबध्यतानिरूपित्तप्रतिवन्ध कतेलाधिरीत्या लक्षणार्थ निचलेधूमवान वढेरित्याको धूमाभाववत्तिवलिरुपयाभिचारे समनित्यं परादित्यादौ च नित्यत्वव्यापकीभूतानावाप्रतियोगिप्रमेयवरूपानुपसंहारिये सादर प्तिः, तादृश हेतु प्रकारकानुमितित्वस्य पर्वतो धूमवान् धूमामायापकानावप्रति. योगिवलिमानित्याकारको बलव्यतिरेकच्यातिविशिष्ट हेतुप्रकारकानुमिता सर्वसनित्यम् अनित्य त्यान्वयव्यातिविशिष्टप्रमेयत्व व त्याकारकानुमिताअपि च सत्वेन व्यतिरेकच्याप्तिविषयकानुमितौ धूमाभाववद तिवाहिनिश्चयप्रतिबध्यताया अनित्यत्वान्वयव्यातिविशिष्टय मेयत्वप्रकारकानुमितौ च नित्यत्वव्यापकीभताभाषाप्रतियोगिप्रमेयत्वनिक्रयप्रतिबध्यतायाश्च रिहाद् व्यभिचारानुपसंहारिवानिश्रयप्रतिबध्यतायां ताशप्रकारताशाल्यनुमितित्वव्यापकत्यासम्भवाधिति । 4 कलाविलासा धूमाभावववृत्तिवह्निरूपव्यभिचारेऽव्या त्या पत्तः द्रव्यच्याप्यवसिमान् पर्वत इत्याकारकपरामर्शोत्तरजायमानद्रव्यव्याप्तिविषयकानुमितपि प्रकृत हेतुवानुमितिमामान्यान्तर्गततया तत्र निरुक्तव्यभिचारनिश्चयत्याप्रतिबन्धकत्वादतोऽनुमितौ प्रकृतसाध्यकत्वोपादानम्। "Aho Shrutgyanam' Page #56 -------------------------------------------------------------------------- ________________ अनुमानगादाधर्यां सामान्यनिरुक्तिप्रकरणम् यादाधरी व्याप्तिविशिष्टविषयकत्वमानस्य तद्विशिष्टहेतुतावच्छेदकावच्छिन्नविषयकत्वमात्रस्य वा निवेशे स्वरूपासिद्धावव्याप्तिः, अतः पक्षांशे तादेशव्याप्तिविशिष्टहेतुतावच्छेदकावच्छिन्नप्रकारकत्वनिवेशः । पक्षांशे व्या चन्द्रकला साध्यान्वयव्याक्षिविषयकसाध्यव्यतिरेकच्याप्तिविषयकानुमितिप्रतिबन्धकत्वविषक्षणे ह्रदो द्रव्यं धूमादित्यादौ धूमाघभावविशिष्टहदादिरूपस्वरूपासिद्ध्यादावव्याप्तिः हृदो व्यत्ववान् इयत्वव्याप्तिमद् गव्य व्याप्यवान् वा इयत्वव्यायो धूमो बेलाकारकानुमितावपि व्याप्तिविशिष्टविषयकानुमितित्वस्य सत्वात् तत्र निरुक्तस्वरूपासिद्धिनिश्चयस्याप्रतिबन्धकत्वादित्याह तादृशेति । अन्वयव्यतिरेकव्यासिविशिष्टविषयकमात्रस्येत्यर्थः । मात्रपदेन अनुमिती तादृशव्याप्तिविशिष्टहेतुप्रकारकत्वव्यवच्छेदः । तद्विशिष्टेति । साध्यान्वयव्यतिरेकड्यासिविशिष्टहेतुतावच्छेदकावच्छिना विशेष्यकानुमितिमात्रस्य वा निवेशे इत्यर्थः । अत: = निरुताव्याप्तितः । पक्षांशे इत्यादि । अनुमितौ पक्षविशेष्यकसाध्यान्वयव्यतिरेकव्यातिविशिष्ट हेतुतावच्छेदकावच्छिन्न प्रकारकत्वनिवेश इत्यर्थः । ननु पक्षविशेष्यकसाध्यध्याप्तिविशिष्टहेतुनिष्टप्रकारताकानुमितिविवक्षणेऽपि न स्वरूपासिद्धावव्याप्तिः, द्रव्यत्वव्याप्यधूमवान् हृदो इव्यमित्याकारकानुमिती धूमाभाववान् हृद इत्याकारकनिश्चयस्य प्रतिबन्धकरवादिति हेतुतावच्छेदकावच्छिन्न प्रकारताकत्वस्यानुमितिविशेषणव्वं निरर्थकमित्यत आह पक्षांश इत्यादि। पक्षविशेष्यकरसाध्यान्वयव्यतिरेकच्याप्तिनिशिष्टहे तुनिष्टप्रकारताकत्वमानस्येत्यर्थः । * कलाविलासः के ___ यदि निरुत्तव्यभिचारेऽव्याप्तिः स्वमतेऽप्यस्तीति विभाव्यते तदा यादृशस्थलविशेषे एकविधव्याप्तिज्ञानादेवानुमितिस्तत्रत्यसाधारण्यादावव्याप्तिर्बोध्येलि ध्येयम् । प्रकृतहेतुकावस्यानुमितावनिवेशे गोत्ववान गोत्वाभावादित्यत्र गोस्वाऽसमानाधिकरणगोत्वाभावरूपविरोधेऽव्याप्तिः, गोत्वव्याप्याभाववानयमित्याकारकनिश्चयोतर जायमानानुमितेरपि प्रकृलसाध्यवानुमितिसामान्यान्तर्गततया तत्र निरुक्तविरोधनिश्चयस्याप्रतिबन्धकत्वात् । नचानुमितिपदं व्यर्थमिति वाच्यम् , तत्पक्षसाच्यहेतुकप्रत्यक्षादेहतुप्रकारकत्वाप्रयोज्यतया तादृशहेतुत्वादेः परामर्शजन्यतावच्छेदकत्वलाभाय तदुपादानसम्भवादिति वदन्ति । ननु तथापि ताहशानुमितित्वावच्छिन्नजन्यताविशिष्टप्रतिबध्यतानिरूपितप्रतिबन्धकताशालियथार्थज्ञानविषयत्वस्य लक्षणार्थत्वे न व्यभिचारादावव्याप्तिः, वैशिष्ट्यम् स्वविशिष्टानुमितित्वव्यापकत्वसम्बन्धेन, स्ववैशिष्ट्यमनुमितौ स्वकालीन. "Aho Shrutgyanam" Page #57 -------------------------------------------------------------------------- ________________ चन्द्रकला-कलाविलासाख्य टीकाद्वयालंकृतम् ऋ गादावरी ४१ तिविशिष्टप्रकारकत्वमात्रनिवेशेऽपि तद्दोषतादवस्थ्यम्, धूमाभाववान् हद इति ज्ञानस्य द्रव्यत्वादिना हेतुमन्ताज्ञानाऽविरोधित्वात् साधारण्या ६ चन्द्रकला मात्रपदेन ताशहेतुतावच्छेदकावच्छिन्न प्रकारताकत्वनिवेशव्यवच्छेदः । तदोपतेति । पुनः स्वरूपासिद्धौ अव्यासितादवस्थ्यमित्यर्थः । पक्षविशेष्यकसाध्यप्रकारफसाध्यनिरूपिततादृशव्याप्तिविशिष्ट हेतुनिष्ठप्रकारताकानुमितिविवक्षणे हदो वह्निमान् धूमादित्यादौ धूमाभावविशिष्टहदरूपस्वरूपासिद्धावव्याप्तिः तादृशव्यातिविशिष्टहेतुनिष्ठप्रकारताकानुमितिपदेन हदो वह्निमान् वह्निव्याप्यद्रव्यवान् हदो वह्निमानित्यनुमितेरपि तु शक्यतया तत्र च धूमाभावद्द निश्चयस्याप्रतिबन्धकत्वादित्याह धूमाभाववानिति । द्रव्यत्वादिनेत्यादि । वह्नयादिव्याप्यव्यवान् हद इत्याकार कानुमित्यप्रतिबन्धकत्वादित्यर्थः । तादृशव्याप्तिविशिष्टहेतुनिष्टप्रकारताकानुमितिनिवेशे न केवलं स्वरूपासिद्धावव्याप्तिः, व्यभिचारादावव्यव्यातिरित्याह साधारण्येति । आदिना विरोधपरिग्रहः । अव्याप्तिमुपपादयति * कलाविलासः प्रकृतसाध्य प्रकारतानिरूपित प्रकृतपक्षविशेष्यताकत्व - स्वनिरूपितजनकतावच्छेदकप्रकृतहेतुप्रकारतानिरूपित प्रकृत पक्षविशेष्यता कत्वोभयसम्बन्धेन । तथाच तत्तत्परामर्शजन्यातुमितित्वावच्छिन्नयत किञ्चिजन्यतामादायैव व्यभिचारादौ लक्षणसमन्वयः सम्भवतीति हृदयम् । यद्यपि निरुक्त परम्परायाः संसर्गत्वमस्वीकृत्यैव व्यभिचारादावव्याप्तिरभिहितेत्युच्यते तथापि प्रकृतानुमितित्वावच्छिन्न जन्यतानिष्ठशे भयावृत्तिधर्मावच्छिन्नावच्छेदकतानिरूपित निरूपितत्वनिष्ठावच्छेदकतानिरूपितजनकत्वनिष्ठावच्छेदकतानि रूपितावच्छेदकत्वनिष्टावच्छेदकता निरूपित हेतुतावच्छेदकावच्छिन्नप्रकारत्वनिष्ठाव च्छेदकता निरूपित निरूपितवनिष्ठावच्छेदकतानिरूपितपक्षतावच्छेदकावच्छिन्नविशेयत्वनिष्ठावच्छेदकतानिरूपिता सती या साध्यतावच्छेदकावच्छिन्न प्रकारत्वनिष्ठावच्छेदकता निरूपित निरूपितत्वनिष्ठावच्छेदकतानिरूपित प्रकृतपक्षविशेष्यता - निष्ठावच्छेदकता निरूपितानुमितित्वावच्छिन्नावच्छेदकता तन्निरूपितवृत्तित्वनिष्टावच्छेदकतानिरूपितभेदत्वावच्छिन्नावच्छेदकतानिरूपित प्रतियोगित्वनिष्ठावच्छेदक तानिरूपितनिरूपितत्वनिष्ठावच्छेदकता निरूपिता या अवच्छेदकतात्वावच्छिन्ना प्रतियोगिता तन्निरूपकाभाववत्प्रतिबध्यतानिरूपित प्रतिबन्धकतेत्यादिरीत्या प्रकारमुद्रयानुगमेन यत्किञ्चिजन्यतामादायैव तद्वयक्तिनिरूपितजनकतावच्छेदकतावद्धे प्रकारतानिरूपितपक्षविशेष्यताशालिनी साध्यतावच्छेदकावच्छिन्न "Aho Shrutgyanam" Page #58 -------------------------------------------------------------------------- ________________ अनुमानगादाधय सामान्यनिरुक्तिप्रकरणम् द्यव्याप्तिश्च वह्नित्वावच्छिन्ने धूमाभाववद्वृत्तित्वग्रहस्य धूमादिव्याप्तिवि शिष्टतव्यक्तित्वावच्छिन्न प्रकारकज्ञानाऽविरोधित्वादतो हेतुतावच्छेदकावच्छिन्नत्वनिवेशः । पक्षांशे साध्यादिप्रकारकस्य संस्कारादेः आहार्यज्ञा ४२ *गाधरी * चन्द्रकला वह्नित्वेति । तथाच तादृशहेतुनिष्ठप्रकारताकानुमितित्वस्य धूमव्याप्यत व्यक्तिमानयमित्याकार कानुमितावपि सत्येन तत्र धूमाभाववद्वृत्तिवह्निनिश्चयप्रतिबध्यत्वाभावेन व्यभिचारादिनिश्चयप्रतिबध्यतायास्तादृशानुमितिवाव्यापरत्वादिति भावः । हेतुतावच्छेदकावच्छिन्नत्यनिवेश इति । तादृशव्याप्तिविशिष्ट हेतुप्रकारतायामित्यादिः । नच हेतुतावच्छेदकनिष्ठायच्छेदकताकप्रकारताकत्वनिवेशेनैव नोकस्वरूपासिद्ध्यादावव्याप्तिः हदो वह्निमान् वह्निव्याप्यव्यवान् इत्याकार कानुमितेधूमरूपद्रव्यनिष्टप्रकारताकत्वेऽपि धूमत्वनिष्ठा वच्छेदकताकधूमनिष्ठप्रकारताकत्वविरहेण तस्या धूमत्वरूप हेतुतावच्छेदकनिष्ठावच्छेदकप्रकारताकानुमितिपदेनोपादानासम्भवादिति वाच्यम्, तथा सति पर्वतो वह्निमान् महानसीयधूमादित्यादौ महानसीयधूमाभाववत्पर्वत रूप स्वरूपासिद्धावव्याप्तिः स्यात् पर्वतो वह्निमान वह्निव्याप्यधूमवानित्याकार कानुसितेरपि हेतुतावच्छेदकयविचिन्धूमafष्ठावच्छेदकता प्रकारताकत्वेनोपात्रातुं शक्यतया तत्र महानसीयधूमाभाव. वत्पर्वतनिश्चयस्याऽप्रतिबन्धकत्वादिति ध्येयम् । वस्तुतो हेतुतावच्छेदकावच्छिन्नत्वं प्रकारतायां ताध्यव्याप्ति-हेतुतावच्छेदकोभयपर्याप्तावच्छे कताकत्वम् तच्च तादृशोभयनिष्ठावच्छेदकतात्वावच्छिन्नप्रतियोगिताकपर्यात्यनुयोगितावच्छेदकरूपवृत्तित्वम्, तिच स्वावच्छेदकताला नितियोगिता पर्याप्त्यनुयोगितावच्छेदकत्वसम्बन्धेन स्वम् प्रकारतेति ववन्ति । ननु लाघवात् पक्षविशेष्यक साध्य कारकसाध्यनिरूपिततादृशव्याप्तिविशिष्टतादृशाहेतुप्रकारकत्वव्यापिका तादृशहेतुप्रव रकज्ञानव्यध्यापिका वा या प्रतिबध्यता तत्रिरुतिप्रतिबन्धकत शालियथार्थज्ञानविषयत्वमेव विवक्ष्यतां तादृशानुमितिपर्यन्तनिवेशनं निरर्थकमित्याशंकायामाह पक्षांश इत्यादि । यदि ताशहेत्वादिप्रकारकत्वव्यापकत्वं प्रतिबध्यतायां निवेश्यते तदाऽसम्भवः स्यात् तादशहेत्यादिप्रकारकत्वस्य रक्षः साध्यवान् साध्यव्याप्यहेतुमान् इत्याकारकसंस्कारेऽपि सस्वात् तत्र च कस्यापि निश्चयस्य प्रतिबध्यताया विरहेण तादृशसाध्य हेतुप्रकारकत्वव्यापकप्रतिबध्यताया अप्रसिद्धत्वात् । एवं तादृशपक्षविशेष्यकसाध्यत्रकारकसाध्यव्यायहेतुप्रकारक ज्ञानत्व व्यापक प्रतिबध्यतानिवेशेऽपि असम्भव एव भवति, तादृश "Aho Shrutgyanam" • Page #59 -------------------------------------------------------------------------- ________________ चन्द्रकला-कलाविलासाख्यटोकाद्वयालंकृतम् *गादाधरी नादेश्च बाधादिज्ञानाऽप्रतिबध्यत्वादसंभव इत्यतस्तादृशानुमितित्वव्यापकतानिवेशः। साध्यव्याप्य इतधर्मिनावन्छेदकेसाध्यवत्ताज्ञानस्यैव साध्यल्याप्यहेतुमान्पक्ष: साध्यवानित्याकार कनया तादृशाकार लिखनस्वरसात्त दृशहेतविशिष्टपक्षतावच्छेदकावाच्छन्न वशेऽयकमाध्यतावच्छेदक वाच्छन्नप्रकारकाऽनुमितित्वव्यापकप्रतिबध्यत्वस्य लक्षणघटकत्वोपगमे पर्वतत्वा * चन्द्रकला हेतुप्रकारक.ज्ञानत्वस्य साध्याभावान् पक्षः साध्यवान साध्यच्याप्य हेतुमारित्याकारकाहायज्ञ नेऽपि वर्तमा रतया तत्र कस्यापि निश्चयस्य प्रतिबध्यत्वस्याऽसत्वादित्याह तादृशानुमितित्वव्यापकतानिदेश इति । दीधितिकृता कृत इति शेषः । ननु साध्यच्याप्य हेतुमान् पक्षः साध्यवान इत्याकारकानुभितिपरं वेति दीधितिकालिखनस्वरसात् साध्यव्यायहेतुनिष्ठावच्छेदकतानिरूपितपक्षतावच्छे काव. च्छिन-विशेष्यताकसाध्य प्रकारकान मितेरेव लक्षणघटकानुमितिपदेन विवक्षणीयरव सम्भ त् तादृशानुमितिपदेन पक्षः साध्य गन् साध्यव्याप्य हेतुमाँश्चेत्याकारकसमूहालम्बनपक्षविशेष्यकसाध्यप्रकारकसाध्यच्याप्चहेतुप्रकारकाजुमितिपर्यन्तनियेशनमत चितमित्यत आह साध्यव्याप्येति । साध्य व्यायहेन्तावच्छे कावच्छिनधर्मितावच्छेदकताकपक्षविशेष्यकसाध्याप्रकारकानुमितेरे चेत्यर्थः । तादृशाकारेति । साध्यव्या'यहेतुमान पक्षः साध्यवानित्याकारेत्यर्थम् । तादृशेति । साध्यच्यातिविशिष्टेत्यर्थकम् । लक्षणघट केति । साध्यव्याप्तिविशिष्टहेतुविशिष्टप्रकृतपक्षविशेष्यकप्रकृतसाध्यप्रकारकानुमितित्वव्यापकप्रतिबध्यतानिरूपितप्रतिबन्धकताशालियथार्थ ज्ञानविषयत्वस्य प्रथमलक्षणार्थत्वाभ्युपगमे तु इत्यर्थः। पर्वतत्वा 4 कलाविलासः प्रकारतानिरूपितपक्षविशेष्यताशालिनी च याऽनुमितिस्त वृत्तिभेदीय प्रतियोगितानिरूपितावच्छेदकत्वं नास्तीत्याकारकव्यापकतारूपाभावमादाय साधारण्यादौ लक्षण समन्वयसम्भव इति चेन्न, तादृशग्रहत्वरूपानुमितित्वस्य अवच्छिन्नप्रतियोगिताकत्वसम्बन्धावच्छिन्नसाध्यतावच्छेदकनिष्ठप्रकारतानिरूपिताभावत्वावच्छिन्नविशेष्यताकसाध्यतावच्छेदकवदभाववदवृत्तिमान् पक्षः इत्याकारकानुमितायपि वर्तमानतया तत्र स्वरूपसम्बन्धावच्छिन्न प्रतियोगित्वसम्बन्धावच्छिन्न प्रतियोगिताकमेयत्वाभाववदभावविषयकनिश्चयस्याऽप्रतिबन्धकत्वेन तादृशमेयत्वाभावविशिष्टा. भावरूपव्याप्यत्वासिद्धावव्याप्तरिति ध्येयम् । "Aho Shrutgyanam" Page #60 -------------------------------------------------------------------------- ________________ अनुमानगादाधर्यां सामान्यनिरुक्तिप्रकरणम्' * गाडाधरी वच्छेदेन वहः साध्यत्वे तत्सामानाधिकरण्येन साध्याभावादेरदोषत्वप्रसङ्गः। सामानाधिकरण्यमात्रावगाहिबाधादिज्ञानस्य शुद्धपर्वतत्वावच्छेदेन वह्नयादिज्ञानं प्रत्येव प्रतिबन्धकतया धूमविशिष्टपर्वतत्वावच्छिन्नधर्मिकवह न्यादिज्ञानाऽप्रतिबन्धकत्वादिति तदुपेक्षितम् । , . न च विशेष्यतावच्छेदककोटौ धूमादेरधिकस्य भानेऽपि शुद्धपर्वतत्वावच्छिन्नसंयोगायत्रं संसर्गता तत्र पर्वतत्वसामानाधिकरण्येन वह्नयभा * चन्द्रकला * वच्छेदेन = पर्वतत्वव्यापकबाह्निप्रतियोगिकसंयोगेन । तत्सामानाधिकर येन -पर्वतत्वसामानाधिकरण्येन । पर्वतादौ स्वरूपत्वमात्रावच्छिन्नसंसर्गेणेति यावत् । साध्याभावादेरिति । आदिना वह्नयभावव्याप्यपरिग्रहः । अदोषता. प्रसंग इति । शुद्धस्वरूपेण वह्नयभावविशिष्ट पर्वतादावव्याप्तिरित्यर्थः । अव्याप्तिमुफ्पादयति सामानाधिकरण्येति । पर्वतत्वाधवच्छिन्नविशेष्यक स्वरूपत्वमात्रावच्छिन्नसंसर्गताकवह्नयभावादिप्रकारकनिश्चयस्येत्यर्थः । पर्वतत्वेति । पर्वतखादिव्यापकब्रह्वयादिप्रतियोगिकसंयोगेनेत्यर्थः। वह्नयादिप्रकारक बुद्धिं प्रत्येवेत्यर्थः । धूमविशिष्टेति । वह्नयादिव्याप्यधूमविशिष्टपर्वतत्वावच्छिन्नविशेष्यताकवलयादिप्रकारकज्ञानाप्रतिबन्धकवादित्यर्थः। वह्निव्याप्यधूमविशिष्ट पर्वतो वह्निमानित्याकारकानुमितेः पर्वतत्वसामानाधिकरण्याचगाहितया सामानाधिकरण्यावगाहितप्रकारकबुद्धौ . सामानाधिकरण्यावगाहितदभावनिश्चयस्याप्रतिबन्धकत्वात्, पर्वतत्वावच्छेदेन वलयभावादिनिश्चयस्य तादृशधूमविशिष्टपर्वतधर्मिकवह्नयादिज्ञान प्रति प्रतिबन्धकत्वेऽपि पर्वतत्वावच्छेदेन वह्नयभावविशिष्टपर्वतस्याप्रसिद्धतया तस्य दोषत्वाभ्युपगमाऽसम्भवादिति हृदयम् । तदुपेक्षितमिति । अस्माभिरिति शेषः। ननु वह्निव्यायधूमवान् पर्वतो वह्निमानित्याकारकानुमितौ तादृशधूमपर्वतत्वयोहयोरेव धर्मितावच्छेदकतया भानेऽपि पर्वतत्वावच्छेदेन वह्वर्यत्र साध्यता सत्र निरुक्तानुमितेरपि केवलपर्वतत्वव्यापकवलिप्रतियोगिकसंयोगावगाहित्यमेव स्वीकरणीयम् न तु तादृशधूमपर्वतत्वरूपधर्मितावच्छेदकधमंद्वग व्यापकसंयोगावगाहित्वमपि तत्राभ्युपगन्तव्यम् येन तारशानुमितेः धर्मितावच्छेदकसामानाधिकरण्यावगाहित्वं स्यादिति न पर्वतत्वावच्छेदेन वह्निसाध्यकस्थले पर्वतत्वसामानाधिकरण्येन वलयभावादेदर्दोषतानुपपत्तिरित्याशंकते न चेति । वाच्यमिति परेणान्ययः। विशेष्यतेति । अनुमितीयेत्यादिः । भानेऽपि - धर्मितावच्छेदकत्वेऽपि । शुद्धति । पर्यतत्वमात्रव्यापकवलिप्रतियोगिकत्वसम्बन्धेन पर्वतत्वविशिष्टसंयोगादेरित्यर्थः । पर्वतत्वेति। पर्वतादिविशेष्यकस्वरूपत्वमात्रधर्मावच्छिन्नस्व. "Aho Shrutgyanam" Page #61 -------------------------------------------------------------------------- ________________ चन्द्रकला कलाविलासाख्यटीकाद्वयालंकृतम् * गादाधरी वादिज्ञानस्य प्रतिबन्धकत्वमावश्यकम, तादृशानुमितेरपि शुद्धपर्यतत्वावच्छेदेन वह्नयाद्यवगाहित्वादिति वाच्यम्, धर्मितावच्छेदकावच्छेदेन वि शिष्टबुद्धौ धर्मितावच्छेदकता पर्याप्त्यधिकर णधर्मावच्छिन्नत्वमेव संसर्गाशे भासते न तु तदेकदेशावच्छिन्नत्वमपि तद्धर्मावच्छिन्नविशेष्यतानिरूपिततदेकदेशव्यापकत्वावच्छिन्नसंसर्गताया अप्रामाणिकत्वात् । ॐ चन्द्रकला ४५ रूपसम्बन्धावच्छिन्नवह्नयभावादिप्रकारता कनिश्चयस्येत्यर्थः । आवश्यकमिति । पर्वतत्वसामानाधिकरण्येन वह्नयादिप्रकारकनिश्चयस्य पर्वतस्वावच्छेदेन वह्निप्रकारकबुद्धिप्रतिबन्धकतायाः सर्ववीदिसिद्धत्वादित्याशयः T ताशानुमितेरपि । वह्नयादिव्याप्यधूमादिविशिष्टपर्वतो बह्नचादिमानित्यनुमिलेरपि । शुद्धेति । पर्वतत्वमात्रव्यापक वह्निरतियोगिक संयोगेनेत्यर्थः । वह्नयाद्येति । वह्निकारकत्वादित्यर्थः । तथा च न पर्वतत्वसामानाधिकरण्येन वह्नयभावादेरदोषताप्रसंग इति भावः । समाधत्ते धमितेति । वह्निव्याप्य धूमपर्व तत्व द्वयावच्छेदेनेवर्थः । विशिष्टबुद्धौ = वह्निविशिष्टायामनुमितो | धमितांत | धर्मितावच्छेदकतापर्यात्यधिकरणीभूतवत्यादि व्याप्यधूमपर्वतत्यादिरूपतिय धर्मव्यापकत्र हयादिप्रतियो गिकत्वावच्छिन्नत्वमेवेत्यर्थः । संnt = संयोगाद्यंशे | भासते = विषयीभूर्त भवति । एवकारार्थं विवृणोति नत्विति । तदेकदेशावच्छिनत्वमपि धर्मितावच्छेटकता पर्याप्त्यधिकरणीभूतयत्किञ्चिदूधर्म व्यापक साध्यप्रतियोगिकत्वावच्छिन्नत्वमपि । तद्धर्मेति । वह्निव्याप्यधूमपर्ववत्वरूपधर्मद्वयावच्छिन्न विशेष्यतानि - रूपिततादृशधर्मद्वयैकदेशी भूतपर्यंत त्वमात्र व्यापक व हयादिप्रतियोगिकत्वावच्छिन्नसंसर्गताया इत्यर्थः । अप्रामाणिकत्वादिति । न च तादृशसंसर्गताया अभ्युपगमे को दोष इति वाच्यम्; तथा सति वहिव्याप्य धूम विशिष्टपर्वतो वह्निमानि व्याकारकानुमितिजन्यतादृशसंस्कारस्य पर्वतो वह्निमानित्याकारकस्मरणाद् विनाशापतेः पर्वतत्वव्यापकवह्निप्रतियोगिकसंयोगावगाहिसंस्कारनाशं प्रति पर्वतत्व व्यापकवह्निप्रतियोगिक संयोगाव महिस्मरणस्यैव जनकत्वात् निरुतानुमितिजन्य संस्कारस्यैव भवन्मते तादृशत्वादिति ध्येयम् । * कलाविलासः केचित्तु हृदो वह्निमान् धूमादित्यादौ वह्निव्याप्याभाववद्भदेऽतिव्याप्तेरुक्तरीत्यापि वारणासम्भवात्, सिद्धान्ते च साध्यव्याप्यो हेतुः हेतुमान् पक्षः साध्यवानित्याकारकत्रिखण्डाकारानुमितेरेव लक्षणघटकतया नोक्तदोषः सम्भवतीत्याहुः । अप्रामाणिकत्वादिति । तथाच स्वावच्छेदकतात्वावच्छिन्न प्रतियोगिता "Aho Shrutgyanam" = Page #62 -------------------------------------------------------------------------- ________________ अनुमानगादाधर्यां सामान्यनिरुक्तिप्रकरणम् * गादाधरी* अथ लिङ्गोपधानमते हेतोः सर्वत्रैव धर्मितावच्छेदकतया भानात्तादृशसंसर्गताभ्युपगम आवश्यकः, अन्यथा शुद्ध पर्वतत्वावच्छेदन हेतुमत्ता चन्द्रकला 8 ननु पर्वतत्वावच्छिन्नविशेष्यकह्निविधेयकानुमितित्वावच्छिन्न मप्रति वह्निव्याप्यधूमप्रकारकपर्वतविशेष्यः निश्च स्वेन वह्निव्या'यालोकादिप्रकारकपर्वतविशेप्यकनिश्चयत्वादिना च हेतुत्वकल्पने वहिव्याप्यधूम मानप्रकारकनिश्चयादिजन्यायामनुमितौ व्यभिचारः, तादृशालोकादिनः रकनिश्चय विरहादतः वह्निव्यायधूमप्रकारकनिश्चयाहि तोत्तन्जायमानपर्वतकवलयन मिती तादृशनिश्चयत्वेन जन ताया मणिकारम् तसिद्धत्वेऽपि अव्य हितोत्तरत्वस्य कार्यताबच्छेदककोटौ निवेशनीयतया गौरवमित्युदयनाचार्य मतमेव समीचीन तन्मते पहिव्यायधूमविशिष्टपवतधर्मिकवलयन मिति ति वह्निव्या प्यधूमप्रकार पर्वतविशेप्य कनिश्चयत्वादिना पृथक हेतुत्वस्य लाघवातू कल्पनीयतया न व्यभिचारः, तथाच वक्ष्यमाणदोषेण तन्मते एक देशव्यापकत्वावच्छिन्नससर्गताया आ ३यकत्वे लक्षणघटकानुमितिपदस्थ तन्मतसिद्धान मितिपरत्वव्याख्यानमेव युक्तमित्याशंकते अथेति । लिगोपधानमते = साध्यव्याप्य हेतुविशिष्टे पक्षे केवलहंतुविशिष्टे वा पक्षे साध्यानुमितिमभ्युपगच्छ तासु दयनाचार्यमता यायिनां मते । तिरिति । साध्य व्यायेत्यादिः। सवव = सकलानुम्तिौं, अ.मितिमात्रे इति यावत् । तादृशेति । धर्मितावच्छेदकतापर्याप्त्यधिकरणयकिञ्चिदकधर्मव्यापकत्वावच्छिन्नसंसर्गताभ्युपगम इत्यर्थः । आवश्यक इात । तथा च आचार्यानमितिपरमेव निरुत्तलक्षणघटकीभूतानुमि तिपदमस्त्विति भावः । तादृशैकदेशव्यापकत्वावच्छिन्नसंसर्गतानभ्युपगमे दोषमाहान्यथेति । आचार्यर ते तादृशैक देशव्यापकत्वावच्छिन्नसंसर्गतानभ्युपगमे इत्यर्थः। शुद्ध त । पर्वतमात्र व्यापकधूमादिप्रतियोगिकसंयोगेनेत्यर्थः । हेविति । साध्यव्याप्यहेतुप्रकारकनिश्चयस्थले * कलाविलासः कपर्याप्त्यनुयोगितावच्छेदकत्वसम्बन्धेन धर्मितावच्छेदकतात्वावच्छिन्नप्रतियोगिताकपर्याप्त्यनुयोगितावच्छेदकरूपवृत्तिविशेष्यताव्यापकत्वमेव संसगाँश भासत इति तात्पर्यम् । न चैवमेकदेशव्यापकत्वस्य प्रामाणिकत्वे किं दृषणमिति वाच्यम् , तथा सति द्रव्यपक्षकवह्निसाध्यकस्थले वह्निव्याप्यधूमविशिष्टद्रव्यं वह्निमदित्यनुमितेः प्रमात्वापत्तेः । आचार्यमते तु तादृशानुमितेरे कदेशव्यापकतावगाहिताया अनभ्युपगमेन तादृशापत्तरसम्भवादिति वदन्ति । यद्यप्येकदेशव्यापकत्वावच्छिन्नसंसर्ग "Aho Shrutgyanam" Page #63 -------------------------------------------------------------------------- ________________ चन्द्रकला-कलाविलासाख्यटीकाद्वयालंकृतम् गादाधरी ज्ञानस्थले हेतुविशिष्टपर्वतत्वावच्छिन्नधामकसंयोगादिसंसर्गकानुमितेरेवोपगमे पर्वतत्वसामानाधिकरण्यमात्रावगाहिबाधादिग्रहकालेऽपि तत्र तथाविधसाध्यनिश्चयवतोऽनुमित्यापत्तेः, नहि सामानाधिकरण्येन बाध * चन्द्रकला पीत्यर्थः। विशिष्टेति । वह्निव्यायधूम-पर्वतस्वरूपधर्मद्वयव्यापकवहयादिप्रतियोगिकसंयोगसंसाताकबयाद्यनुमितेः प्रामाणिकत्वाभ्युपगमे इत्यर्थः । पर्वतत्वेति । पर्वतत्वाधवच्छिन्नविशेष्यकस्वरूपस्वमात्रावच्छिन्नसंसर्गताकवलयभावादिनिश्चयकाले इत्यर्थः । तथाविधेति । पर्यतत्वसामानाधिकरण्येन वहयादिमिश्चयवत इत्यर्थः । तथाच पर्वतत्वावच्छिन्नविशेष्यक संयोगत्वमात्रायच्छिन्न संसगताक वहयादि प्रकारक निश्चयवतः पुरुषादे रिति पर्यवसितार्यः । अनुमित्यापशेरिति । बलिव्याप्यधुमविशिष्ट पर्वतो वह्निमानित्याकारका. 'मुमित्यापरित्यर्थः । पर्वतत्वावच्छे देन वह्नयादि साथ्यकरथलेऽपि तादृशधमपर्व. तस्वधमहयच्यापकत्वावच्छिन्नस्योग संसर्गताक निरुक्तवह्नयनुमित्युत्पादस्वीकारे तादृशान मितेः पर्वतस्वादिसामानाधिकरण्यावगाहितया तन्न पर्वतत्व: सामानाधिकरण्यावगाहिबाधनिश्चयस्याप्रतिबन्धकत्वात् तादृशबाधनिश्चयदशायां त दृशानुमितिवारणमशक्यं स्यात् । एवं निरुक्तानुमितेस्तादृशधूमपर्वतत्वधमहयव्यापकसंयोगावगाहितया संयोगत्वमात्रावच्छिन्नसंयोगावगाहि. * कलाविलासः ताया अस्वीकारे पर्वतत्वावच्छेदेन वाह्नसाध्यकस्थले वह्निव्याप्यधूमविशिष्ट पर्वते वह्नयमितौ लाधामत्याकारक लाघवज्ञानाधानायास्तादृशधविशिष्टपर्वतो वह्निमानित्यनमितेरेवोदयात । तत्र पर्वतत्वसामानाधिकरण्येन बाधनिश्चयस्याप्रतिवधकतया तादृशम्यभाववत्पर्वतादेग्दोषत्वप्रसंगस्तथापि विशेष्यांशे लाघवज्ञानस्यानुमितावप्रयोजकतायाः स्वीकरणीयतया तत्र तादृशानुमितेरेवानुत्पत्तेस्तादृशबाधस्य दोषत्वं निरामाधमिति ध्येयम् । केचिन एकदेशव्यापकत्वावच्छिन्नसंसर्गता यदि प्रामाणिकी स्यात् तदा नीलपर्वतादिविशेष्यकवह्नयाद्यनुमितौ पर्वतादिविशेष्यकवह्नयाद्यनुमितौ च शुद्धपर्वतस्वावच्छेनत्वावगा'हत्वग्यावश्यकतया पर्वतत्वावच्छेदेन वह्नया धनुमितिस्थल एव पृथक् पृथक कार्यकारणभावकल्पने गौरवापत्तिः स्यादस्माकन्तु पर्वतत्वावच्छेदेन पर्वतमात्र विशेष्यकानुमतेग्मम्भवादेकविधकार्यकारणभावोपपत्तिरित्याहुः । तथाविधसाध्यादिनिश्चयक्तोऽनुमित्यापत्तेरिति । अत्रेदं बोध्यम्, यत्र सामानाधिकरण्येन बाधनिश्चयः सामानाधिकरण्येन साध्यनिश्चयश्च वर्त्तते तत्र "Aho Shrutgyanam" Page #64 -------------------------------------------------------------------------- ________________ ४८ अनुमानगादाधर्यां सामान्यनिरुक्तिप्रकरणम् * गावाधरी सिद्ध्योः सत्योः कश्चिदनुमितिमुपैति ताशबाधादिग्रहस्य कचिदप्यनु. मितौ प्रतिबन्धकत्वाऽसम्भवात्तेषां हेत्वाभासताविलोपापत्तिश्च इति चेट, चन्द्रकला बहन्याद्यनुमिति प्रत्येव पर्वतत्वादिसामानाधिकरण्याद्यवगाहिवतयादिनिश्चय प्रतिबन्धकतया निरुक्तसाध्य निश्चयसत्त्वेऽपि तादृशानुमित्यायत्तिबारणमशक्यमिति भावः निरुक्तानुमितेरिष्टापत्ति नसम्भवतीत्याह नहीति । अनुमितिम्=पर्वतत्त्वावच्छेदेन वलयादिसाध्यकस्थले वह्निव्यायधूम-पर्वतत्वधर्मद्वयव्यापकसंयोगावगाहानुमितिम् । तादृशानुमितेः सामानाधिकरण्यावगाहित्धेन सामानाधिकरण्येन साध्याक्षिनिश्चयसत्वे तादृशानुमितेरुत्पादो नेष्ट इति हृदयम् । तादृशेति । पर्वतत्वादिसामानाधिकरण्यमात्रावयाहिपर्वतधर्भिकवह्नयभावादिरूपवाधादिनिश्चयस्येत्यर्थः । क्वचिदपीति । आचार्यमते एकदेशावच्छिन्नसंसर्गतानभ्युपगमे कुत्रापि अपच्छेदारच्छेदेनानुमितो निरुक्तबाधनिश्चय स्य प्रतिबन्धकत्वस्याऽरसम्भवादिति पर्यवसितार्थः। तेषाम् = अवच्छेदावच्छेदेन साध्यस्थले शुद्धस्वरूपेण यह न्यभावविशिष्टपर्वतादीनाम् । हेवाभासता = हेतुदोषता । विलोपापत्तिरिति। अनुमितिप्रतिबन्धकयधार्थज्ञानविषयत्वस्थ तत्राऽसत्यादित्याशयः । इदमत्रावधातव्यम, पर्वतत्वसामानाधिकरग्येन बहमादिनिश्चयदशायां यथा पर्वतीयसंग्रोगेन पर्वते वन्यनुमितिर्भवति तथा पर्वतमापच्छेदेन वहन्यादेः साध्यतास्थले वहिव्याप्यधूम-पर्वतस्वधर्मद्वयव्यापकलंयोगेन वहन्यनुमितेः स्वीकारेऽपि पर्वतस्वसामानाधिकरण्येन वहन्यादिनिश्चयदशा तादृशानुमितिरपि भवत्येव । सामानाधिकरण्येन साध्यनिश्चयदशायां अवच्छेदाचच्छेदनानुमित्युत्पादस्य सर्ववादिसिद्धतया पर्वतत्वसामानाधिकरण्येन वन्यादिनिश्चयकाले शुद्धपर्वतत्वव्यापकवलिप्रतियोगिकसंयोगेन पर्वतादौ वन्यायनुमितिवियत एवेत्यापत्तिदानं विभावनीयमिति । यद्यपि आचार्य मते निरुक्तापत्त्यादिवारणायैकदेशव्यापकत्वावच्छिन्नसंसर्गताभ्युपगम आवश्यकस्तथापि यथोक्त ___ कलाविलासः के ताशनिश्चयप्रतिबध्यतावच्छेदककोटौ धर्मितावच्छेदकताया इतरवारकपर्याप्तेरवश्य निवेशनीयतया आचार्यते सर्वदैव हेतुविशिष्ट पक्षतावच्छेदकस्यैव भानात् अनुमितिसामान्यापत्तिरेवाभ्युपगन्तव्येति । ____ अथ लिंगोपधानमते हृदो वह्निमान् घटत्वादित्यादौ वह न्यभावव्याप्यवद्घटेऽतिव्याप्तिरेवं हृदो गगनवान् धूमादित्यत्र वृत्त्यवच्छेदेन गगनाभाववत्त्वस्यापि "Aho Shrutgyanam" Page #65 -------------------------------------------------------------------------- ________________ चन्द्रकला-कलाविलासाख्यटीकाद्वयालंकृतम् ४२ गादाधरी एवमपि लिङ्गानुपधानमते तादृशविषयतायां मानाभाव एव, प्रकृतग्रन्थस्तु न लिङ्गोपधानमताभिप्रायकः, तन्मतेऽनुमितेः सर्वत्रैव तथाकारतया तादृशाकारत्वस्याऽव्यावर्तकतयाऽनुमितिपदस्य तादृशानुमितिपरत्वप्रदर्शनाऽसंगतेः। केचित्तु लिङ्गानुपधानमतेऽनुमितिपदस्य तदुभयपरत्वं व्याख्याय यथाश्रुतपरतानिहाय लिङ्गोपधानमतमाश्रयते साध्यव्याप्येत्यादिना, इत्याकारानुमितिपरम् अनुमितेरित्याकारकतामताभिप्रायकम् , इति व्याचक्षते । चन्द्रकला * लक्षणघटकानुमितपदं नाचार्यमतसिद्धानुमितिपरमित्याह एवमपीति । प्रकृतग्रन्थस्तु = साध्यव्यायहेतुमान् पक्षः साध्यवानित्याकारकानुमितिपरं वेतिदीधितिग्रन्थस्तु । न लिंगोपधानेति । नाचार्यमताभिप्रायक इत्यर्थः । कथमित्याकांक्षायामाह तन्मत इति । आचार्यमत इत्यर्थः । सर्वत्रैव = पक्षतावच्छेदकावच्छेदेन साध्यस्थले पक्षतावच्छेदकसामानाधिकरण्येन साध्यस्थले च। तदाकारतया : साध्यव्याप्यहेतुमान् पक्षः साध्यवानिस्याकारतया । तादृशेति । साध्यव्याप्य हेतुमान् पक्षः साध्यवानित्याकारानुमितिपरं वेत्यत्राकारत्वस्येत्यर्थः । अव्यावर्तकतया = व्यावृत्त्यप्रयोजकतया ! तादृशेति । दीधितावनुमितिपदस्य तादृशाकारानुमितिपरस्त्रप्रदर्शनासंगतेरित्यर्थः। तथाच लक्षणघटकीभूतानुमितिपदं नाचार्यमतसिद्धानुमितिपरमिति भावः । जगदीशव्याख्यानमुपन्यस्यति केचित्त्विति । लिंगानुपधानमते - आचार्यातिरिक्तमते । अनुमितिपदस्येति । लक्षणघटकीभूतेत्यादिः । तदुभयेति । अनुमितिनिष्ठकार्यतानिरूपकसम्बन्धवत्त्वेनेत्यादिः । अनुमितितत्कारणोभयपरत्वमित्यर्थः । यथाश्रुतेति । अनुमितिपदस्य शक्यार्थपरतानिर्वाहायेत्यर्थः। लिंगोपधानेति । आचार्यमतमित्यर्थः । आश्रयते दीधितिकार इति शेषः । नन्वेवं इत्याकारकानुमितिपरं वेत्यभिधानमसंगतमित्यत इत्याकारकानुमितिपरमित्यस्य जगदीशाभिप्रेतव्याख्यानमाहानुमितेरिति । लक्षणघटकानुमितेरित्यर्थः। इत्याकारकतेति । साध्यव्यायहेतुविशिष्टे पक्षे साध्यप्रकारकस्वमताभिप्रायकमित्यर्थः। तथा चैतन्मते पर्वतत्वावच्छेदेन वह्वेः साध्यतास्थले पर्वतत्वसामानाधिकरण्येन वलयभावादेर्वाधत्वादिरक्षार्थमेकदेशव्यापकत्वावच्छिन्नसंसर्गताभ्युपगम आवश्यक इति भावः। अनुमितिपदस्य निरुक्तसमूहालम्बनानुमितिपरत्वव्याख्ययैव सर्वसामञ्जस्ये यथोक्तरीत्या व्यायांख्यानमनुचितगौरवमस्तमित्यत: केचिदित्युक्तमितिध्येयम् । "Aho Shrutgyanam" Page #66 -------------------------------------------------------------------------- ________________ ५० अनुमानगादाधर्यां सामान्यनिरुक्तिप्रकरणम् * दीधितिः तेन एकत्र हेतौ व्यभिचारादिग्रहेऽपि अन्यस्य परामर्शादनुमि* गादावरी एतादृश व्याख्या (या:) प्रयोजनं स्फुटयति सेनेति । एकत्र = वह्नित्वाधर्मावच्छिन्ने | व्यभिचारादीत्यादिना स्वरूपासिद्धिपरिग्रहः । अन्यस्य * चन्द्रकला * एतादृशेति । लक्षणघटकीभूतानुमितिपदस्य अनुमितिनिष्टकार्यतानिरूपकसम्बन्धवत्त्वेनानुमिति तत्कारणपरत्व व्याख्यानस्य साध्यव्याप्यहेतुमान् पक्षः साध्यवानित्याकारकानुमितिपरत्वव्याख्यानस्य च प्रयोजनं पूर्वोक्तव्यभिचारादावव्याप्तिवारण प्रकाशयतीत्यर्थः । [ दीधितो तेनैकत्रेत्यादि । अनुमितिपदस्य साध्यव्याप्यहेतुमान् पक्षः सान्यवानित्याकारकानुमितिपरत्वाभिधानेन । एकत्र = हेतुतावच्छेदकवह्नित्वाचेकधर्मविशिष्टवचादि हेतौ । व्यभिचारग्रहेऽपि = धूमाभावाधिकरणनिरूपितवत्तित्वनिश्चयेऽपि । अन्यस्य = महानसीयवह्नित्वादिविशिष्टस्य महानसीयवह्नेः । परामर्शात् = धूमव्याप्यमहानसीयवह्निमान् पर्वत इत्याकारव निश्चयात् । अनुमित्युत्पादेन = धूम विधेयकानुमितिजननेन । व्यभिचारादिति । धूमविधेयकानुमितौ धूमव्यभिचारज्ञानाभावस्य कारणत्वे धूमाभाववद्वृत्तिर्वह्निरित्याकारक- : व्यभिचारज्ञानकाले कारणाभावात् धूमविधेयकानुमित्युत्पादेन व्यभिचारात् यदि व्यभिचारज्ञानाभावो न साध्यविधेयताकानुमितिहेतुः स्यात् तदा लक्षणघटकानु मितिपदस्य साध्यविधेयताकानुमितिपरत्वे धूमवान् वह्नेरित्यादौ व्यभिचारेऽव्याप्तिः स्यात्, तादृशानुमितिकारणीभूताभावपदेन वह्निधर्मिकनिरुक्त व्यभिचारज्ञानाभावस्य तुमशक्यत्वादिति भावः । यदि च तलिङ्गकपरामर्शाव्यवहितोत्तरजायमानतत्साध्य विधेयताकानुमितौ तल्लिङ्गधर्मिक व्यभिचारनिश्चयाभावस्य जनकत्वे न व्यभिचारः, महानसीयवह्नयादिधर्मिकधूमव्यभिचारग्रहस्याऽसत्वात्, तदाप्याह व्याप्त्यादिज्ञानेनेति । तथाच धूमसाध्यकानुमितौ हेतुधर्मिकधूम व्याप्तिज्ञानत्वेन जनकत्वस्य सर्वसम्मतस्य कल्पनेनैवोपपत्तौ तत्साध्य कानुमितौ तत्साध्यव्यभिचारग्रहाभावोऽन्यथासिद्धएवेति हृदयम् । व्यभिचारादिमहाभावस्य = धूमव्यभिचारी वह्निरित्याकारकनिश्वयाभावस्य । अनुमित्यजनकत्वेऽपि= साध्य विधेयताकानुमित्यजनकत्वेऽपि । न क्षतिरिति । तादृशानुमितिपदस्य साध्यव्याप्यहेतुमान् पक्षः साध्यवानित्याकार कानुमितिपरतया तस्याश्च व्याप्त्यादिविषयकत्वेन व्याप्त्यादिग्रहविरोधिनि व्यभिचारादौ नाव्याप्तिरित्याशयः । ] व्यभिचारादिग्रहे इत्यत्रादिपदप्रयोजनमाह टीकायाम् आदिनेति । दीधित्युक्तवाशादिनेत्यर्थः । स्वरूपासिद्धिपरिग्रह इति । तथाच हृदो " Aho Shrutgyanam" Page #67 -------------------------------------------------------------------------- ________________ चन्द्रकला-कलाविलासाख्यटीकाद्वयालंकृतम् * गादाधरी परामर्थात् तत्तद्वह्नित्वादिरूपाऽपरधर्मावच्छिन्ने व्याप्तिपक्षधमत्वावगाहिज्ञानात् । व्यभिचारादिति व्यभिचागदिग्रहाभावस्थाऽनुमित्यजनकत्वेऽपीत्यनेन सम्बन्धः। यत्र यद्पावच्छिन्ने व्यभिचारज्ञानोत्पत्तिद्वितीयक्षणे कथंचित्तद्रपाच्छिन्नलिङ्गकपरामर्शस्तत्र क्षणकविलम्बेनाऽनुमित्युपगमाव्यभि * चन्द्रकला * वहिमान् धूमादित्यादौ हृदादौ धूमाभावनिश्चयकालेऽपि जलादिलिङ्गकपरामर्शात. हृदादो वयाधनुमित्युत्पादेन व्यभिचारात् स्वरूपासिद्धिनिश्चयाभावस्य तत्साध्यकानुमित्यकारणस्वेऽपि अनुमितिपदस्य यथोक्तानुमितिपरस्वाभिधानान स्वरूपासिद्धावप्यव्याप्तिरिति भावः । तद्वह्नित्वादीति । महानसीयवह्निस्वादिरूपापरधर्माबच्छिन्न इत्यर्थः । व्याप्तीति । धूमव्याप्यमहानसीयवह्नयादिमान् पर्वत इत्याकारकनिश्चयादित्यर्थः। व्यभिचारादित्यत्र पञ्चम्यर्थहेतुताया व्यभिचारग्रहाभावनिष्ठानुमिति जनकत्वाभाव एवान्वय इत्याह व्यभिचारादित्यादीति । अनुमित्यजनकत्वेऽपि = साध्यमात्रविधेयताकानुमितिजनकत्वाभावेऽपि । सम्बन्ध इति । तथाच व्यभिचारग्रहाभावः साध्यमात्रविधेयताकानुमितिजनकत्वाभाववान् स्वाभावप्रयोज्याभावाप्रतियोगितादृशानुमितिकत्वरूपव्यभिचारादिति प्रयोगे तात्पर्यम् , स्वं व्यभिचारग्रहाभावः। ... ननु यादृशस्थले प्रथमे धूमव्यभिचारी वह्निरिति व्यभिचारज्ञानं ततो लौकिकसन्निकर्षवशात् धूमव्याप्यवह्निमानयमिति परामर्शस्ततः पर्वतो धूमवानित्यनुमितिर्भवति तादृशस्थले वह्निरूपैकहेतौ व्यभिचारग्रहपरामर्शयोरुरपादेन व्यभिचारग्रहदशायामेव धूमानुमित्युत्पादादेकहेतावेव व्यभिचारग्रहाभावस्य व्यभिचारसम्भवे हेत्वन्तरस्य परामर्शदशायां व्यभिचाराभिधानमनुचितमित्यत आह यत्रेति । यादृशस्थल इत्यर्थः । तद्रपेति । वह्नित्वरूपधर्मावच्छिन्ने इत्यर्थः। व्यभिचारेति । धमाद्यमावववृत्तित्वज्ञानोत्पत्तिद्वितीयक्षण इत्यर्थः । कथञ्चित लौकिकसन्निकर्षादिना । यद्पेति । वह्नित्वादिधर्मावच्छिन्नलिंगधर्मिकधूमव्याप्तिपक्षधर्मतानिश्चयात्मकपरामर्श इत्यर्थः । तत्र = तादृशस्थले । क्षणविलम्बन = व्यभिचारज्ञानोत्पत्तिचतुर्थक्षणात्मकपरामर्शोत्पत्तितृतीयक्षणेन । अनुमित्युपगमात् = धूमाद्यनुमितिस्वीकारात् । व्यभिचाराभावाच्चेति । व्यभि * कलाविलासः दोषत्वापत्तिः, तादृशागनाभावादिनिश्चयस्य धूमव्यापकतावच्छेदकगगनत्वावच्छिन्नसमानाधिकरणधूमवान् हृदो गगनवानित्याकारकानुमितिप्रतिबन्धकत्वादिति चेन्न, अलक्ष्यीभूततत्तत्पदार्थनिश्चयनिष्ठतत्तत्प्रतिबन्धकताभेदस्य लक्षणघटकीभूतप्रतिबन्धकतायां विवक्षितत्वादिति संक्षेपः। "Aho Shrutgyanam" Page #68 -------------------------------------------------------------------------- ________________ ५२ अनुमानगादाधर्या सामान्यनिरुक्तिप्रकरणम् गादाधरी चाराभावाच न तत्र व्यभिचारो दर्शितः।। ननु तद्धर्मावच्छिन्नलिङ्गकानुमितौ तद्धर्मावच्छिन्नधर्मिकव्यभिचार * चन्द्रकला के चारग्रहाभावस्येत्यादिः। तत्र = एकहेतुकव्यभिचारादिग्रहकाले। दर्शित इति । नेति पूर्वेण सम्बन्धः। तथाचोक्तस्थले व्यभिचारज्ञानोत्पत्तिचतुर्थक्षणरूपपरामर्श तृतीयक्षणे अनुमितिस्वीकारे व्यभिचारग्रहाभावस्य न व्यभिचारः, व्यभिचारज्ञानस्य अनुमितिपूर्वक्षण एव विनष्टत्वात्तदानीञ्च व्यभिचारग्रहाभावरूपकारणस्य विद्यमानस्वादत एकहेतौ व्यभिचारग्रहकालीनान्यहेतुझपरामर्शदशायामनुमित्युत्पादेन व्यभिचारो दीधितिकृता प्रदर्शितः, यत्रादौ तद्वह्निलिंगकपरामर्शस्ततो वह्नि. लिंगकव्यभिचारग्रहस्त न क्षणविलम्बेनानुमित्युत्पादस्य कथमपि वक्तुमशक्य. स्वादिति भावः । ___ व्याप्त्यादिज्ञानेनेत्यादिदीधितिमवतारयति नन्विति । तथाच महानसीयवह्नित्वावच्छिन्नलिंगकानुभितौ महानसीयवह्नित्वावच्छिन्नलिंगकव्यभिचारग्रहा. भावस्यैव जनकतया तस्य च निरुक्तस्थले अनुमितिपूर्व सत्त्वाम्न व्यभिचारः, व्यभिचाराभावे च व्यभिचारग्रहाभावस्यानुमितिकारणीभूतस्य प्रतियोगियथार्थज्ञानविषयताया व्यभिचारादौ सत्त्वात् तत्र लक्षणसमन्वयसम्भवेऽनुमितिपदस्य तादृशानुमितिपरत्वाभिधानमसंगतमिति भावः। ___ ननु वह्नित्वावच्छिन्नधर्मिकव्यभिचारग्रहकालीनतद्वतित्वावच्छिन्नलिङ्गकपरामोत्तरं जायमानानुमितेर्यदि वह्रिस्वावच्छिन्नलिङ्गकानुमितित्वं तदा दीधितिकारप्रदर्शितस्थलेऽपि व्यभिचारोऽस्त्येवंति व्याप्त्यादिज्ञानेनेत्याद्यभिधानमसंगतमित्यत आह तद्धर्मावच्छिन्नेति । व्यभिचारज्ञानाभावकार्यतावच्छेदकमित्यादिः । * कलाविलासः न तत्र व्यभिचारोदर्शित इति । ननु योकदैव व्यभिचारज्ञान व्याप्तिज्ञानञ्च वह्नित्वादिसामानाधिकरण्येन जातं तत्र यत्रादौ अपेक्षाबुद्ध्यात्मक व्यभिचारज्ञानं ततो लौकिकसन्निकर्षात् परामर्शस्तत्र क्षणेकविलम्बेनानुमितेः स्वीकारेऽपि व्यभिचारतादवस्थ्यम् , एवं यौकहेतौ व्यभिचारज्ञानोत्पत्तिचतुर्थक्षणे बाधनिश्चयो जातस्तत्र क्षणविलम्बेनानुमितेः स्वीकर्तुमशक्यत्वाद् व्यभिचारतादवस्थ्यमितिचेन्न, सामानाधिकरण्येन व्याप्तिज्ञानस्य कारणत्वं अपेक्षाबुद्धिद्वितीयक्षणे ज्ञानान्तरोत्पाद बाधनिश्चयस्य कार्यकालवृत्तितया प्रतिबन्धकत्वश्चास्वीकृत्यैव न तत्रेत्यादेरभिहितस्वादिति ध्येयम् । "Aho Shrutgyanam' Page #69 -------------------------------------------------------------------------- ________________ ५३ चन्द्रकला कला विकासाख्यटीकायालंकृतम् * गादाधरी 3 ज्ञानाभावस्य हेतुत्वोपगमान्न व्यभिचारः, तद्धर्मावच्छिन्नलिङ्गकत्वं च अव्यवहितोत्तरत्वसम्बन्धेन तद्रूपावच्छिन्नधर्मिक व्याप्त्यादिज्ञानविशिष्टत्वम् तादृशसम्बन्धेन व्यभिचारज्ञानविशिष्टं यत्तदन्यत्वमेव वा जन्यतीवच्छेदकं वाच्यम्, तिन धूमव्याप्यवह्निमानयमित्यादिशाब्दादिपरामर्शोत्ति द्वितीयक्षणे यत्र लौकिकसन्निकर्षजन्यो वह्निर्धूमव्यभिचारी धूमव्याप्येन्धनवानित्याकारकसमूहालम्बनग्रहः तज्जन्यानुमितेरुक्तसम्बन्धेन वह्नि * चन्द्रकला तद्रूपेति । तद्वह्नित्वादिधर्मावच्छिन्नविशेष्यकं यद्व्याप्य्यादिज्ञानं अव्यवहित्तोत्तरस्वसम्बन्धेन तद्विशिष्टत्वं तद्वह्नित्वादिविशेष्यकव्यभिचारज्ञानाभावजन्यतावच्छेदकं वाच्यमिति योजना । अत्राऽव्यवहितोत्तरत्वं तादृशव्याप्यादिज्ञानध्वंसाधिकरणक्षणध्वंसानधिकरणत्वे सति वाशव्याप्त्यादिज्ञानध्वंसाधिकरणकालत्वरूपं तृतीयक्षणसाधारणं बोध्यमित्यन्यत्र विस्तरः । तादृशसम्बन्धेन = अव्यवहितोत्तरत्वसम्बन्धेन । व्यभिचारज्ञानेति । तद्धर्मावच्छिन्नधर्मिकमित्यादिः । तदन्यत्वम् = तद्भिन्नत्वम् । तद्भिन्नानुमितित्वमितियावत् । जन्यतावच्छेदकमिति । व्यभिचारज्ञानाभावस्येत्यादिः । तेनेति । तादृशसम्बन्धेन व्यभिचारज्ञानविशिष्टं यदित्यादिद्वितीय कल्पानुसरणेनेत्यर्थः । धूमव्याप्यवह्निमानयमिस्याकारकपरामर्शस्य लौकिकसन्निकर्षादिजन्यस्वे ताहरापरामर्शोत्तरं वह्निधर्मिकधूमव्यभिचारग्रहस्य लौकिकसन्निकर्षजन्यस्यापि उत्पादो न सम्भवति लौकिकसन्निकर्ष जन्य तत्प्रकारकप्रत्यक्षे लौकिकसन्निकर्षजन्यतदभाव निश्चयस्य प्रतिबन्धकत्वादतस्तादृशपरामर्शस्य शाब्दबोधाद्यात्मकत्वमाह धूम. व्याप्येति । शाब्दादीत्यत्रादिनाऽनुमित्यादिपरिग्रहः । लौकिकसन्निकर्षजन्य प्रत्यक्षस्य सर्वतो बलवत्त्वेन विपरीतशाब्दनिश्चयाप्रतिबध्यत्वादाह लौकिकेति । धूमव्यभिचारी = धूमाभाववद्वृत्तिः । निरुक्तव्यभिचारज्ञानोत्तरमप्यनुमितिरवश्यं - मुत्पद्यते इत्याह धूमव्याप्य इति । इत्याकारकसमूहालम्बनग्रहः - इत्याकारकव्यभि चार महात्मकपरामर्शः । तत्र = तादृशस्थले । तज्जन्यानुमितेः = निरुक्तेन्धनलिंगकसमूहालम्बनपरामर्शजन्यानुमितेः । उक्तसम्बन्धेन = अव्यवहितोत्तरत्वसम्बन्धेन । * कलाविलासः तद्धर्मावच्छिन्नलिंग कत्वमित्यादि । अत्राव्यवहितोत्तरत्वं तृतीयक्षणसाधारणं स्वध्वंसाधिकरणकालध्वंसानधिकरणत्वे सति स्वाधिकरणकालध्वं साधिकरणत्वरूपं बोध्यम् तेन यत्रादौ वह्नित्वावच्छिन्ने धूमव्यभिचारग्रहस्ततो लौकिकसन्निक 'वशाद् धूमव्याप्यवह्निमानयमिति परामर्शस्ततः परामर्शतृतीयक्षणेऽनुमितिस्तादृशानुमितेः परामर्शद्वितीयक्षणेनापत्तिः, नवा यत्रापेक्षाबुद्ध्यात्मकव्यभिचारज्ञानं ततोऽपेक्षा "Aho Shrutgyanam" Page #70 -------------------------------------------------------------------------- ________________ अनुमानगादाधयाँ सामान्यनिरुक्तिप्रकरणम् * दीधितिः त्युत्पादेन व्यभिचाराद् व्याप्त्यादिज्ञानेनाऽन्यथासिद्धत्वाच्च व्यभिचारादिग्रहाभावस्याऽनुमित्यजनकत्वेऽपि न क्षतिरिति गादाधरी* त्वावच्छिन्नधर्मिकव्याप्त्यादिज्ञानविशिष्टत्वेऽपि न क्षतिरत आह व्याप्त्यादीति । क्लप्तकारणताकव्याप्त्यादिज्ञानसत्त्वे व्यभिचारज्ञानाद्यभावव्यतिरेकेगाऽनुमितिव्यतिरेकस्याऽसिद्धत्वादिति भावः। व्याप्तिज्ञानादेय॑भिचारज्ञानाभावादिना अन्यथासिद्धत्वशङ्का तु प्रागेव निराकृता । न क्षतिः = न व्यभिचारादावव्याप्तिः। यत्राऽसद्धेतुविशेषे तादृशानुमितेरप्रसिद्धिः चन्द्रकला * न क्षतिः=न व्यभिचारतादवस्थ्यम् । अयं भावः, अव्यवहितोत्तरत्वसम्बन्धेन तद्धेतुधर्मिकव्याप्तिज्ञानविशिष्टानुमिति प्रति तद्धतुर्मिकव्यभिचारज्ञानाभावस्थ कारणत्वविवक्षणे यादृशस्थले धमव्याप्यवह्निमानयमितिशाब्दबोधाद्यात्मकः परामर्शस्ततो लौकिकसन्निकर्षात् धूमव्यभिचारी वह्निः धूमव्याप्येन्धनवाँश्चायमित्याकारकसमूहालम्बनपद्विधर्मिकधूमन्यभिचारग्रहात्मकेन्धनलिंगकपरामर्शस्ततो धूमानुमितिस्तादृशानुमितेरव्यवहितोत्तरत्वसम्बन्धेत वह्विधर्मिकधूमब्याप्तिज्ञानविशिष्टतया निरुक्तानुमितिं प्रति वद्विधर्मिकव्यभिचारज्ञानाभावस्य जनकतया तस्य चा नुमत्यव्यवहितपूर्वक्षणेऽसत्त्वात्, अतोऽव्यवहितोत्तरत्वसम्बन्धेन तद्धतुधर्मियभिचारज्ञानविशिष्टान्यानुमितित्वावच्छिन्नं प्रत्येव तद्धेतुधर्मिकव्यमिचारशानाभावस्य हेतुस्वं वक्तव्यम् , एवञ्च निरुक्तरीत्या कार्यकारणभावकल्पने नोक्तस्थले व्यभिचारः, निरुक्तानुमितेरव्यवहितोत्तरत्वसम्बन्धेन वह्निधर्मिकधूमव्यभिचारज्ञानविशिष्टतया तदन्यानुमिति प्रत्येव वह्निधर्मिकधूमव्यभिचारज्ञानाभावस्य जनकत्वात् नतु यथोक्तानुमिताविति । क्लप्तेति । अवश्यक्तता प्रकृतानुमितिकारणता यत्र तादृशव्याप्तिज्ञानसत्त्वदशायामित्यर्थः। व्यभिचारेति = व्यभिचारज्ञानसत्त्वेपीत्यर्थः । अनुमितीति = प्रकृतानुमित्यनुत्पादस्य । असिद्धत्वादिति । व्यभिचारज्ञानाभावस्यान्यथासिद्धत्वादनुमितिपदस्य यथाश्रुतार्थपरत्वे भवति व्यभिचारादावव्याप्तिरित्याशयः । ननु व्याप्तिज्ञानस्यैव व्यभिचारज्ञानाभावेनान्यथासिद्धत्वमस्वित्यत आह व्याप्तिज्ञानादेरिति । प्रागेवेति । तेनैकहेताविरयादिग्रन्थेनेत्यादिः । नाव्याप्तिरिति । लक्षणघटकीभूतानुमितिपदस्य साध्यव्याप्यहेतुमान् पक्षः साध्यवानित्याकारकानुमितिपरत्वव्याख्याने नेत्यादिः । आहार्य परोक्षज्ञामानभ्युपगमात निर्वतिपर्वतो वह्निमान् धूमादित्यादौ अनुमित्यप्रसिद्या अनुमितिघटितलक्षणं तादृशस्थलीयदोषेऽव्याप्तमित्यतो दीधितिकृता वदन्तीत्युक्तमित्याह यत्रेति । असद्धेतुविशेषे = निर्वह्नपर्वतपक्षकवयादिसाध्यकधूमादिहेतुविशेषे । "Aho Shrutgyanam" Page #71 -------------------------------------------------------------------------- ________________ चन्द्रकला-कलाविलासाख्यटीकाद्वयालंकृतम् * दीधितिः वदन्ति । पर्वतो निर्वह्निधूमों वह रभिधेयत्वं मेयत्वस्य व्यभिचारीत्यादिभ्रमादनुमितिप्रतिबन्धादाह यथार्थेति । गादाधरी तत्रत्यदोषेष्वव्याप्तेर्वक्ष्यमाणतया ईदृशव्याख्यायामनिर्भरसूचनाय वदन्तीत्युक्तम् । पर्वतो वह्निमानित्याटिसद्धेतस्थले बाधादिभ्रमविषयेऽतिव्याप्तिवार. कतया यथार्थपदं सार्थकयति पर्वतो निर्वह्निरिति । अत्र इतिपदस्य त्रितयस्थले सम्बन्धाद् भ्रमत्रयलाभः। प्रत्येकभ्रममादायातिप्रसङ्गसम्भवात् समूहालम्बनभ्रमपर्यन्तानुधावनवैफल्यात् तत्परत्वाऽसङ्गतिरिति ध्येयम् । ॐ चन्द्रकला ६ वक्ष्यमाणतयेति । दीधितिकृतेति शेषः। ईदृशेति । लक्षणघटकानुमितिपदस्य अनमितिनिष्ठकार्यतानिरूपकसम्बन्धित्वेनानुमितितत्कारणपरत्वव्याख्यायां साध्यव्याप्य हेतुमान् पक्षः साध्यवानित्याकारकानुमितिपरस्वव्याख्यायाञ्चेत्यर्थ इति दिक् । बाधादीति। वयभाववान् पर्वत इत्याकारकनिश्चयविषयेषु वलयभावपर्वतादिग्वित्यर्थः । आदिना व्यभिचारादिभ्रमपरिग्रहः। यथार्थपदम् प्रमाज्ञानार्थकम् । सार्थकयतीति । तथा च यथार्थपदानुपादाने पर्वतो वह्निमान् धूमादित्यादौ पर्वतादौ वह्नयभावादौ चातिव्याप्तिः, पर्वतो वह्निमानित्यनुमितौ पर्वतो. वह्नयभाववानित्याकारकभ्रमात्मकनिश्चयाभावस्यापि कारणतया अनुमितिकारणीभूताभावप्रतियोगितादृशभ्रमविषयतायाः पर्वतादौ सत्वात् । एवं वह्नयभावववृत्तिस्वादावस्यतिव्याप्तिः प्रकृतानुमितेर्व्याप्त्यादिविषयकत्वेन व्याप्तिविषयकानुमिनिप्रतिबन्धकवह्नयभावववत्तिधूम इत्याकारकभ्रमविषयताया वहयाद्यभाववद्वात्तिस्वादावनपायात् न केवलं ब्यतिरेकिसाध्यकस्थल एवातिव्याप्तिः केवलान्वयिसाध्यकप्रमेयमभिधेयत्वादिस्यादावपि मेयत्वाभिधेयत्वादावतिव्याप्तिः, घटत्वाद्यभावादौ प्रतियोगितासम्बन्धेन मेयत्वभ्रमात्मकमेयत्वाभाववद्वत्त्यभिधेयत्वमित्याकारकज्ञानस्यापि मेयत्वव्याप्तिविषयकानुमितिप्रतिबन्धकतया तद्विषयत्वस्य मेयस्वादौ सस्वात्, यथार्थपददाने तु न तत्र तत्रातिव्याप्तिः, पर्वतादौ वलयभावादेऊनस्य भ्रमात्मकतया यथार्थवासम्भवादिति भावः । अत्रेतिपदस्य = व्यभिचारीत्यादिग्रन्थघटकीभूतेतिपदस्य । त्रितयस्थले = पर्वतो निर्वतिरित्यादिस्थले । सम्बन्धादिति। तथा च पर्वतो निर्वह्निरितिभ्रमात् धूमो वह्वेर्व्यभिचारीति भ्रमात् अभिधयेत्वं मेयत्वस्य व्यभिचारीति भ्रमादिति योजनेत्याशयः । ननु समूहालम्बनैकभ्रममादायैवातिव्याप्तिसम्भवे भ्रमत्रितयानुसरणमनुचितमित्यत आह प्रत्येकेति। तत्परत्वाऽसंगतिः =समूहालम्बनभ्रमपरवा "Aho Shrutgyanam" Page #72 -------------------------------------------------------------------------- ________________ ५६ अनुमानगादाधर्यां सामान्यनिरुक्तिप्रकरणम् क गादाधरी प्रथमभ्रमोऽनुमिती विरोधी अन्त्यौ च तज्जनकज्ञाने तथा, तयोरपि अन्यत्र प्रसिद्धस्य साध्याभावववृत्तित्वस्य धूमाग्रंशे भ्रमत्वम् , अन्त्ये च प्रमेयत्वाभावववृत्तित्वस्याऽप्रसिद्ध्या न तद्धमत्वं, किन्तु अभावांशेऽनुयोगिताविशेषसम्बन्धेन साध्यस्य भ्रमत्वमित्येतादृशविशेषमादृत्य शिष्य. व्युत्पादनायाऽनेकविधभ्रमकथनम् । * चन्द्रकला * संगतिः । प्रथमभ्रमः = पर्वतो निर्वह्निरित्याकारः पर्वतविशेष्यकवलयभावप्रकारकभ्रमः। अनुमितौ = पर्वतो वह्निमान् इत्याकारकपर्वतविशेष्यकवह्निप्रकारकानुमितौ, विरोधी - प्रतिबन्धकः। अन्त्यौ = धूमो वह्नयभिचारीत्याकारकः धूमविशेष्यकवह्नयभाववद्वत्तिस्वरूपवह्निव्यभिचारश्रमः अभिधेयत्व. विशेष्यकप्रमेयत्वाभाववत्तित्वप्रकारकाभिधेयत्वं मेयत्वस्य व्यभिचारीत्याकारकश्च । तज्जनकज्ञाने = वह्निव्यायधूमवान् पर्वत इत्याकारकपरामर्शात्मकवायनुमितिजनकज्ञाने मेयत्वव्याप्याभिधेयत्ववानयमिस्याकारकमेयत्वानुमितिजनक. परामर्शे च विरोधिनाविति शेषः । तयोरपि =निरुतान्त्यभ्रमयोर्मध्ये । प्रथमे = धमो वर्षोळभिचारीत्याकारकभ्रमे । अन्यत्र = मीनादौ । साध्येति । वयभाववदत्तित्वस्येत्यर्थः। धूमायंशे = धूमादिरूपविशेष्ये। भ्रमस्वम् = वह्नयभावववृत्तित्वाभाववद्धमनिष्टविशेष्यतानिरूपितवलयभावववृत्तित्वनिष्ठप्रकारताक - ज्ञानत्वम् । अन्त्ये = अभिधेयत्वं मेयस्वस्य व्यभिचारीत्याकारकभ्रमे । प्रमेयत्वेति । अखण्डस्येत्यादिः । न तद्भमत्वम् =न प्रमेयत्वाभाववढत्तित्वाभाववाद्विशेष्यकताशवृत्तित्वप्रकारकज्ञानत्वम् । कथन्तानिवृत्त्यर्थमाह किन्विति । अभावांशे = घटाद्यभावादिरूपविशेष्ये । अनुयोगितेति । स्वनिष्ठप्रतियोगितानिरूपितानुयोगितावत्त्वसम्बन्धेनेत्यर्थः। साध्यस्य-प्रमेयत्वस्य, भ्रमत्वम् = तादृशानुयोगितासम्बन्धेन प्रमेयस्वाभाववद्धटाभावादिनिष्ठविशेष्यतानिरूपितताहशानुयोगितासम्बन्धेन प्रमेयस्वप्रकारकज्ञानत्वम् । इत्येतादृशेति । निरुक्तविभिन्नसम्बन्धमादृत्येत्यर्थः। शिष्येति । शिष्याणां विशेषज्ञानजननायेत्यर्थः। अनेकेति । विभिन्नभ्रमाभिधानं दीधितिकृत इति शेषः। * कलाविलासः * बुद्ध्यात्मकः परामर्शस्तत्र पञ्चमक्षणेऽनुमितिर्भवति तादृशानुमितेश्चतुर्थक्षण आपत्तिः । "Aho Shrutgyanam" Page #73 -------------------------------------------------------------------------- ________________ चन्द्रकला-कलाविलासाख्यटोकायालंकृतम् 20 - गादाधरी * इदं त्ववधेयम् । अभिधेयत्त्वं मेयत्वस्य व्यभिचारीत्यत्र स्वरूपसम्बन्धावच्छिन्नप्रमेयत्वत्वावच्छिन्नप्रतियोगिताकत्वसम्बन्धेन प्रमेयत्वभ्रमो वाच्यः, प्रतियोगितांशे साध्यतावच्छेदकसम्बन्धावच्छिन्नत्वसाध्यतावच्छेदकावच्छिन्नत्वयोः साध्याभावक्वृत्तित्वरूपव्याप्तिघटकतया तदंशे तदुभयावगाहिव्यभिचारज्ञानस्यैव व्याप्तिज्ञानविरोधित्वात् , एवञ्च भेदादौ प्रमेयत्वत्वावच्छिन्नप्रतियोगिताकत्वस्य प्रसिद्धावपि स्वरूपसम्ब चन्द्रकला 2 शंकते इदन्त्ववधेयमिति । अन्त्यभ्रम इत्यादिः। भ्रम इति । अभावांशे इत्यादिः। ननु स्वरूपसम्बन्धानपच्छिन्नकेवलप्रमेयत्वत्वावच्छिन्नप्रतियोगिताकत्वसम्बन्धेनैव प्रमेयत्वस्य भ्रमो वक्तव्यस्तथा च नानुपपत्तिः, भेदनिष्ठस्यैव केवलप्रमेयत्वत्वावच्छिन्न प्रतियोगिताकत्वस्य प्रसिद्धत्वादित्यत आह प्रतियोगितांश इति । तदेशे प्रतियोगित्वांशे। तदुभयेति | साध्यतावच्छेदकसम्बन्धावच्छिन्नत्वसाध्यतावच्छेदकधर्मावच्छिन्नस्वरूपोभयावगाहिव्यभिचारज्ञानस्येत्यर्थः। व्याप्ति. ज्ञानविरोधित्वादिति । तथाच साध्यतावच्छेदकसम्बन्धावच्छिन्नसाध्यतावच्छेदकधर्मावच्छिन्नप्रतियोगिताकत्वसम्बन्धेन साध्यविशिष्टाभाववदवृत्तित्वरूपव्याप्तिबुद्धौ ताशसम्बन्धेन साध्यविशिष्टाभावववृत्तिस्वरूपव्यभिचारज्ञानस्यैव प्रतिबन्धकसया केवलप्रमेयत्वत्वावच्छिन्नप्रतियोगिताकत्वसम्बन्धेन प्रमेयत्वविशिष्टाभावयत्तित्वरूपव्यभिचारग्रहस्य अनुमितिजनकज्ञानाऽविरोधित्वेन प्रमेयत्वाभिधेयस्वादावतिव्याप्तिदानमनुचितं स्यादिति भावः । भ्रमानुपपत्ति प्रदर्शयति एवळचेति । समानाकारकज्ञानस्यैव प्रतिबन्धकरवे चेत्यर्थः । भेदादौ = अन्योन्याभावादौ । आदिना व्यधिकरणसमवायादिना प्रमेयस्वाभावपरिग्रहः। प्रसिद्धावपीति । प्रमेयस्वं नेत्याकारकान्योन्याभावस्य सर्ववादिसिद्धतया तस्यैव प्रमेयस्वत्वावच्छिन्नप्रतियोगिताकत्वादित्याशयः । खरूपेति । साध्यतावच्छेदकीभूतेत्यादिः । स्वरूपेण प्रमेयस्वं नास्तीस्याकारका * कलाविलासः प्रमेयत्वभ्रमो वाच्य इति । ननु साध्यतावच्छेदकसम्बन्धावच्छिन्नप्रतियोगिताकत्वसम्बन्धावच्छिन्नसाध्यतावच्छेदकमात्रावच्छिन्नप्नकारतानिरूपिताभाव - विषयतानिरूपिताधिकरणविषयतानिरूपितवृत्तित्वविषयतानिरूपिताभावविषयतानिरूपित हेतुविषयतानिरूपितपक्षविषयताशालिनिश्चयत्वेनानुमितिहेतुत्वोक्तौ भ्रमस्य नानुपपत्तिः, स्वरूपसम्बन्धावच्छिन्नप्रतियोगिताकत्वसम्बन्धेन प्रमेयत्वस्याभावाशे भ्रमत्वसम्भवादिति चेन्न, एवं सति गुणकर्मान्यत्वोपलक्षितसत्ताभावववृत्तित्वशानात् शुद्धसत्तात्वावच्छिन्नविधेयताकानुमित्यनुपपत्तेः, उपलक्षणीभूतधर्मस्यापि "Aho Shrutgyanam' Page #74 -------------------------------------------------------------------------- ________________ अनुमानगादाधर्या सामान्यनिरुक्तिप्रकरणम् गादाधरी * न्धावच्छिन्नतादृशप्रतियोगिताकत्वाऽप्रसिद्धथा तादृशसम्बन्धेन भ्रमत्वानुपपत्तिः। प्रतियोगितांशे सम्बन्धविशेषावच्छिन्नत्वस्य भ्रम इत्यपि न युक्तम् । तस्य सम्बन्धघटकतया तत्प्रकारकत्वघटिततद्धमत्वानुपपत्तेः । ॐ चन्द्रकला 2 भावस्यालीकतये तिभावः। तादृशेति । साध्यतावच्छेदकस्वरूपसम्बन्धावच्छिन्नप्रमेयत्वत्वावच्छिन्नप्रतियोगिताकत्वसम्बन्धेन घटाभावादौ प्रमेयत्वभ्रमा नुपपत्तिरित्यर्थः। सदुपरागेणासतः संसर्गमर्यादया भानस्य उपाध्यायादीनामननुमतत्वादिति भावः । नचैवं भ्रमानुपपत्त्या यथाभिधेयत्वं मेयत्वस्थ व्यभिचारीत्याकारकव्यभिचारज्ञानाऽप्रसिद्धिस्तथा सत्प्रतिबध्यप्रमेयत्वव्याप्तिज्ञानस्याप्यप्रसिद्धिरिति तदकथनेन न्यूनता स्यादिति वाच्यम् , भ्रममात्रानुपपत्तिकथनेन निरुक्तव्यभिचारज्ञानाऽप्रसिद्धेरिव तादृशव्याप्तिज्ञानाऽप्रसिद्धरपि भट्टाचार्यसम्मतत्वादिति ध्येयम् । ___ ननु भेदादौ प्रसिद्धस्य प्रयेयत्वत्वावच्छिन्नप्रतियोगिताकत्वस्त्र घटकीभूतायां प्रतियोगितायामेव साध्यतावच्छेदकीभूतस्वरूपसम्बन्धावच्छिन्नत्वस्य भ्रमः इति न भ्रमानुपपत्तिरित्याशंकते प्रतियोगित्वांश इति । साध्यतावच्छेदकसम्बन्धावच्छिन्नसाध्यतावच्छेदकावच्छिन्नप्रतियोगिताकत्वरूपसम्बन्धघटकीभूते इत्यादिः। सम्बन्धेति । स्वरूपसम्बन्धावच्छिन्नवस्येत्यर्थः। भ्रमः = स्वरूपसम्बन्धावच्छिन्नत्वाभाववत्ताशप्रतियोगित्वनिष्ठविशेष्यतानिरूपितस्वरूपसम्बधावच्छिन्नत्वनिष्ठप्रकारताकज्ञानम् । समाधत्ते इत्यपि न युक्तमिति । निरुक्तरीत्या भ्रमोपपादनमपि न युक्तमित्यर्थः। कथमित्याकाक्षायामाह तस्येति । निरुक्तसम्बन्धविशेषावच्छिन्नत्वस्येत्यर्थः। सम्बन्धेति । तादृशप्रतियोगिताकत्वरूपसम्बन्धघटकतयेत्यर्थः । तत्प्रकारकत्वेति । स्वरूपसम्बन्धावच्छिन्नत्वप्रकारकत्वघटितस्य भ्रमस्यानुपपत्तेरित्यर्थः । सम्बन्धघटकपदार्थे विशेष्यविशेषणभावसत्त्वेऽपि तत्र प्रकारविशेष्यभावानभ्युपगमात् निरुक्तसम्बन्धघटकस्वरूपसम्बन्धावच्छिन्नस्वाभाववन्निष्ठविशेष्यतानिरूपितस्वरूपसम्बन्धावच्छिन्नत्वनिष्ठप्रकारताकत्वघटितभ्रमो न सम्भवतीति हृदयम् । * कलाविलासः प्रकारतावच्छेदकत्वात्, अतः प्रतियोगितायामेव साध्यतावच्छेदकमात्रावच्छिन्नत्वं देयमुपलक्षणीभूतधर्मस्य प्रतियोगितानवच्छेदकत्वेन तादृशानुपपत्तिवारणसम्भवा. दिति वदन्ति । तत्प्रकारकत्वघटिततभ्रमत्वेति । अथ व्युत्पत्तिवादे संसर्गतावच्छेदकांशे "Aho Shrutgyanam" Page #75 -------------------------------------------------------------------------- ________________ चन्द्रकला कलाविलासाख्यटीकाद्वयालंकृतम् गादाधरी ? न च तेन रूपेण प्रतियोगिताप्रकारक एवात्र भ्रमो विवक्षितः नतु तदवच्छिन्नप्रतियोगितासंसर्गक इति वाच्यम् , लाघवात् प्रतियोगितासंसर्ग 2 चन्द्रकला . पुनः शंकते नचेति । वाग्यमिति परेणान्वयः । तेन रूपेण = साध्यतावच्छेदकसम्बन्धावच्छिन्नस्वसाध्यतावच्छेदकधर्मावच्छिन्नत्वेन रूपेण । प्रतियोगिताप्रकारक इति। निरूपकत्वसम्बन्धेनेत्यादिः। अत्र अभिधेयत्वं मेयत्वस्य व्यभिचारीत्यत्र । विवक्षित इति । तथा च निरुक्तप्रतियोगिताया अभावांशे निरूपकत्वसम्बन्धेन प्रकारतया सद्घटकीभूतपदार्थेऽपि प्रकारताया अवश्यं स्वीकरणीयतया सम्बन्धान्तरावच्छिन्नप्रमेयत्वत्वावच्छिन्नप्रतियोगितायां साध्यतावच्छेदकस्वरूपसम्बन्धावच्छिन्नत्वस्य अमोऽवश्यमुपपद्यत इत्याशयः । प्रतियोगिप्रकारक एवेत्यत्रैवकारार्थ स्पष्टयति नत्विति । नतु साध्यतावच्छेदकसम्बन्धावच्छिन्नसाध्यतावच्छेदकावच्छिन्न प्रतियोगिताकत्वसंसर्गक इत्यर्थः । उत्तरयति लाघवादिति । साध्यतावच्छेदकसम्बन्धावच्छिन्नस्वादेः संसर्गान्तरानभ्युपगमेनेत्यादिः । प्रतियोगितेति । साध्यतावच्छेदकसम्बन्धावच्छिन्नसाध्यताबच्छेदकधर्मावच्छिन्नप्रतियोगिताकत्वसम्बन्धेन साध्यविशिष्टाभाववदवृत्तित्व कलाविलासः 2 भ्रमत्वं भट्टाचार्येणैव स्वीकृतं व्याप्तिपञ्चके च जगदीशेन संसर्गप्रकारसाधारणविशेष्यविशेषणभावस्य भ्रमत्वघटकत्वादित्यक्तमुभयत्र का युक्तिरिति चेन्न, संसर्गता. वच्छेदकांशे भ्रमत्वमंगीकुर्वतामयमाशयः, संसर्गाशे भ्रमत्वानभ्युपगमे प्रमात्वस्यापि तत्राऽस्वीकारापत्तेः, निर्विकल्पकान्यज्ञानस्य भ्रमत्वप्रमात्वान्यतरनियमेन सेसर्गाशे तदस्वीकारेऽनुभवविरोधात्, अत: संसर्गोशे प्रकार विशेष्यभावविरहेऽपि विशेष्यविशेषणभावोऽस्ति, परन्तु संसर्गतावच्छेदकीयविषयताया विशेषणशानजन्यतानवच्छेदकत्वेन तत्र प्रकारत्वं नाभ्युपगम्यते, एवञ्च तदभाववनिष्ठविशेष्यतानिरूपिततन्निष्ठविशेषणताकज्ञानत्वमेव भ्रमत्वं पर्यवसितम् । संसर्गाशे भ्रमत्वमनभ्युपगच्छतां तावदयमाशयः, संसर्गाशे विशेष्यविशेषणभावोऽपि नास्त्येव, संसर्गतावच्छेदकत्वेनैव संसर्गगतधर्माणां भानं नतु विशेषणत्वेन, विशिष्टबुद्धावपि संसर्गाशे प्रमात्वं किमपि नास्तीत्यभिप्रेत्य भट्टाचार्येणात्र भ्रमत्वं खण्डितम् , परन्तु प्रकारांशे प्रमानिरूपितसांसर्गिकविषयत्वमेव संसर्गेऽभ्युपगम्यत इति ध्येयम् ।) ___ लाघवात्प्रतियोगितासंसर्गकेति । ननु प्रतियोगिताप्रकारकज्ञानस्यैवानुमितिहेतुत्वे लाघवम्, साध्यतावच्छेदकसम्बन्धावच्छिन्नसाध्यतावच्छेदकावच्छिन्नप्रतियोगिताकत्वसम्बन्धावच्छिन्नसाध्यतावच्छेदकावच्छिन्नप्रकारताघटितधर्मेण तद्धेतुत्वे "Aho Shrutgyanam" Page #76 -------------------------------------------------------------------------- ________________ अनुमानगादाधयाँ सामान्यनिरुक्तिप्रकरणम् * गादाधरी कज्ञानस्यैवानुमितिहेतुतया तत्प्रकारकव्यभिचारज्ञानस्याऽकिञ्चित्करत्वात् । अत्राहुः- स्वावच्छिन्नसाध्यतावच्छेदकसम्बन्धावच्छिन्नप्रतियोगिता * चन्द्रकला 28 रूपव्याप्तिज्ञानस्यैवेत्यर्थः । तत्प्रकारकेति । निरूपकत्वसम्बन्धेन साध्यतावच्छेदकसम्वन्धावच्छिन्नसाध्यतावच्छेदकधर्मावच्छिन्नत्वविशिष्टप्रतियोगिताविशिष्टाभावववृत्तित्त्वरूपव्यभिचारज्ञानस्येत्यर्थः । अकिश्चित्करत्वादिति । तादृशव्याप्तिज्ञानाप्रतिबन्धकस्वादिति हृदयम् । प्रतियोगितासंसर्गकज्ञानस्यानुमितिहेतुरवे प्रतियोगितानिष्ठस्य साध्यतावच्छेदकसम्बन्धावच्छिन्नत्वादेः संसर्गविषयतायाः कारणतावच्छेदककुक्षावप्रविष्टतया लाघवात् साध्यतावच्छेदकसम्बन्धावच्छिन्नसाध्यतावच्छेदकधर्मावच्छिन्नप्रतियोगिताकत्वसम्बन्धेन साध्यविशिष्टाभाववदवृत्तित्वरूपव्याप्तिबुद्धौ तादृशसम्बन्धेन साध्यविशिष्टाभाववद्वृत्तित्वरूपव्यभिचारज्ञानस्यैव प्रतिबन्धकतया निरूपकत्वसम्बन्धेन तादृशप्रतियोगिताविशिष्टाभावववृत्त्यभिधेयत्वमित्याकारकव्यभिचारभ्रमस्य प्रतियोगितासंसर्गकतादृशव्याप्तिज्ञानाप्रतिबन्धकत्वात् यथार्थपदानुपादाने निरुक्तभ्रमविषयेऽतिव्याप्तिदानमसंगतं स्यादिति तु परमार्थः। समाधानमाह अत्राहुरिति । केचिदितिशेषः। स्वावच्छिन्नेति । स्वं साध्यतावच्छेदकम् , तथाच साध्यतावच्छेदकावच्छिन्नसाध्यतावच्छेदकसम्बन्धावच्छिन्नप्रतियोगिताकत्वसम्बन्धेन साध्यतावच्छेदकविशिष्टाभाववदवृत्तित्वप्रकारकहेतुविशेष्यकव्याप्तिज्ञानमेवानुमितिकारणं वक्तव्यम्, सम्बन्धघटकपदार्थविषयतायाः संसर्गानवच्छिन्नवेन कारणतावच्छेदकविषयताया लघुत्वात् । एवञ्च तादृशव्याप्तिविशिष्टहेतुमान् पक्षः साध्यवानित्याकारकानुमितिप्रतिबन्धकव्यभिचारभ्रमस्य * कलाविलासः तु साध्यतावच्छेदकस्य द्विधा प्रवेशेन गौरवम् । नच साध्यतावच्छेदकसम्बन्धावच्छिन्नसाध्यतावच्छेदकावच्छिन्नप्रतियोगिताकत्वसम्बन्धावच्छिन्नप्रकारतात्वेनैव प्रकारतायाः कारणतावच्छेदककोटी प्रवेशो न तु साध्यतावच्छेदकावच्छिन्नत्वेनेति वाच्यम् , वह्नित्वावच्छिन्नसंबोगसम्बन्धावच्छिन्नप्रतियोगिताकत्वसम्बन्धेन घटाभाववदवृत्तिधूमवान् पर्वत इति परामर्शात्पर्वते वह्नयनुमित्यापत्तेरिति चेन्न, प्रतियोगिताप्रकारकज्ञानस्यानुमितिकारणत्वे प्रतियोगित्वनिष्ठप्रकारताया अपि किञ्चित्सम्बन्धावच्छिन्नतया तत्सम्बन्धनिष्ठसांसर्गिकविषयतायाः प्रतियोगिताकुक्षिप्रविष्टसाध्यतावच्छेदकधर्मावच्छिन्नत्वादिनिष्टप्रकारताया अपि किश्चित्सम्ब "Aho Shrutgyanam" Page #77 -------------------------------------------------------------------------- ________________ चन्द्रकला-कलाविलासाख्यटीकाद्वयालंकृतम् * गादाधरी* ताकत्वसम्बन्धेन साध्यतावच्छेदकवत्त्वमेवाऽभावस्य साध्याभाववदवृत्तित्वरूपव्याहिघटकं लाघावात् । एवं च तादृशेन सम्बन्धेनाऽभावांशे साध्यतावच्छेदकप्रकारकव्यभिचारज्ञानस्य व्याप्तिग्रहविरोधितया घटत्वस्वादेः प्रसिद्धेन तादृशसम्बन्धेन प्रमेयत्वत्वादेरभावांशे भ्रमात्मक एव तथाविधग्रहो विवक्षित इति न किश्चिदनुपपन्नम् । ॐ चन्द्रकला ® नानपपत्तिरित्याह एवञ्चेति। निरुक्तव्याप्तिज्ञानस्यानुमितिहेतुत्वे चेत्यर्थः । तादृशेति । स्वावच्छिन्नसाध्यतावच्छेदकसम्बन्घावच्छिन्नप्रतियोगिताकत्वसम्बन्धेनेत्यर्थः । अभावांशे = अभावरूपविशेष्ये । साध्यतेति । साध्यतावच्छेदकविशिष्टाभावववृत्तिहेतुरियाकारकसाध्यतावच्छेदकनिष्टतादृशसम्बन्धावच्छिन्नप्रकारतानिरूपिताभावनिष्ठविशेष्यताकव्यभिचारज्ञानस्येत्यर्थः । व्याप्तीति । तादृशसम्बन्धेन साध्यतावच्छेदकविशिष्टाभाववदवृत्तित्वरूपव्याप्तिग्रहप्रतिबन्धकतयेत्यर्थः । घटत्वत्वादेरिति । आदिना पटत्वत्वादिपरिग्रहः । प्रसिद्धेनेति । स्वरूपेण घटत्वं नास्तीत्यभावादावित्यादिः। तादृशेति । स्वावच्छिन्न स्वरूप. सम्बन्धावच्छिन्नप्रतियोगिताकत्वसम्बन्धेनेत्यर्थः । प्रमेयत्वत्वादेरिति । साध्यतावच्छेदकोभूतस्येत्यादिः । अभावांशे = व्यभिचारघटकाभावरूपविशेष्ये । भ्रमात्मकः = निरुक्तसम्बन्धेन प्रमेयस्वत्वशून्ये अभावे प्रमेयत्वप्रकारकज्ञानात्मकः। तथाविधग्रहः = प्रमेयत्वत्वविशिष्टाभावव वृत्त्यभिधेयत्वमित्याकारकव्यभिचारग्रहः। विवक्षित इति । तथाच स्वावच्छिन्नसाध्यतावच्छेदकस्वरूपसम्बन्धावच्छिन्नप्रतियोगिताकत्वसम्बन्धस्य स्वरूपेण · घटत्वं नास्तीत्याकारकाभावादौ प्रसिद्धस्य प्रमेयत्वत्वव्यधिकरणसम्बन्धतया तेन सम्बन्धेन घटत्वाभावादी प्रमेयत्वस्वप्रकारकभ्रमात्मक एव प्रमेयत्वत्वविशिष्टाभावववृत्त्यभिधेयत्वमित्याकारकव्यभिचारग्रहः सम्भवत्येवेति भावः । न किञ्चिदिति । न यथार्थपदानुपादाने भ्रमस्याप्रसिद्धया तद्विषये प्रमेयत्वादावतिव्याप्तिदानमनुपपन्न मित्यर्थः । 2 कलाविलासः 23 न्धावछिन्नतया तत्सम्बन्धनिष्ठसांसर्गिकविषयतायाश्चानुमितिजनकतावच्छेदककोटौ प्रवेशे महागौरवात् । साध्यतावच्छेदकवत्त्वमेव व्याप्तिघटकमिति। अथैवं महानसीयवह्निमानित्यनुमितौ तद्वयाप्यवत्ताज्ञानस्य केन रूपेण कारणता? यदि वह्नित्वमहानसीयत्वधर्मद्वयनिष्ठप्रकारतानिरूपिताभावत्वावच्छिन्नविशेष्यताघटितधर्मेण, तदा क्वचित् "Aho Shrutgyanam" Page #78 -------------------------------------------------------------------------- ________________ ६२ अनुमानगादाधर्यां सामान्यनिरुक्तिप्रकरणम् * गादावरी अन्ये तु प्रथमे साध्याभाववदवृत्तित्वज्ञानविरोधी हेतौ साध्याभाववतित्वरूपव्यभिचारस्य भ्रमः, द्वितीये च तदप्रसिद्धद्या व्यापकसामानाधिकरण्यज्ञानविरोधी साध्यतावच्छेदके हेतुसमानाधिकरणाभावप्रतियोगितावच्छेदकत्वस्य 'भ्रमोऽभिहितः, असमान प्रकारकज्ञानस्याऽविरोधितया द्विविधव्यभिचारसंग्रहाय द्विविधव्याप्तिविषयकसमूहालम्बनस्यैव लक्षणे " ॐ चन्द्रकला प्रकारान्तरेण भ्रममुपपादयतां मतमाह अन्ये त्विति । प्रथमे = धूमो वह्निव्यभिचारीत्यादिस्थले । साध्येति : वह्निरूपेत्यादिः । तौ = धूमादौ । साध्येति । वह्वयभाववदवृत्तित्वस्य मीनादौ प्रसिद्धस्येत्यर्थः । भ्रमः = तादृशवृत्तित्वशून्ये वृत्तित्वप्रकारकज्ञानम् । द्वितीये च = अभिधेयत्वं मेयत्वस्य व्यभिचारीत्यादिस्थले च । तदप्रसिद्ध्या - साध्याभाववदूवृत्तित्वस्याप्रसिद्धया । साध्योभूतप्रमेयत्वाभावस्याप्रसिद्धयेव तादृशवृत्तित्वस्याप्यप्रसिद्धिरिति हृदयम् । व्यापकेति । प्रतियोगिव्यधिकरण हेत्वधिकरणवृत्त्यभावप्रतियोगितानवच्छेदकसाध्यतावच्छेदकावच्छिन्न सामानाधिकरण्य ज्ञानप्रतिबन्धक इत्यर्थः । साध्यतावच्छेदके प्रमेयवत्वादौ । हेत्विति । अभिधेयत्वादिमन्निष्टतादेशाभावप्रतियोगितावच्छेदकत्वस्येत्यर्थः । = ननु लक्षणघटकीभूतानुमितिपदस्य साध्याभाववदवृत्तिहेतुमान् पक्षःसाध्यवानित्याकारकानुमितिपरत्वेऽपि कथं न द्विविधव्यभिचारसंग्रह इत्यत आह असमानेति स्वीय विशेष्यतावच्छेदकधर्मावच्छिन्न विशेष्यतानिरूपित्तस्वप्रकारतावच्छेदकधर्मावच्छिन्नाभावप्रकारकनिश्चयस्यैवेत्यर्थः । स्वं प्रतिबध्यत्वेनाभिमतं ज्ञानम् । अविरोधितया = अप्रतिबन्धकतया । द्विविधेति । हेतौ साध्याभावववृत्तित्त्वरूपव्यभिचारस्य साध्यतावच्छेदके हेतुसमानाधिकरणाभावप्रतियोगिताच्छेदकत्वरूपव्यभिचारस्य च संग्रहायेत्यर्थः । द्विविधव्याप्तीति । साध्याभावददवृत्तित्वहेतुव्यापक साध्य सामानाधिकरण्यविषयकसमूहालम्बनानुमितेरित्यर्थः । लक्षणे = हेत्वाभास लक्षणे । समूहालम्बनान्वयि घटकत्वं सप्तम्यर्थः । * कलाविलासः महानसी वह्निमान् क्वचित् वह्निमद्दानसीयवानित्यनुमितिभेदो न स्यादिति चेन्न, परामर्शोश यत्र अभावविशेषणतापन्नवह्नयंशे वह्नित्वं धर्मितावच्छेदकीकृत्य महानसीयत्वं भासते तत्र धर्मिपारतन्त्र्येण सामानाधिकरण्यसम्बन्धेन महानसीयत्वस्य वह्नित्वेऽपि भानात् महानसीयत्वावच्छिन्नव ह्नित्वनिष्ठावच्छेदकताकप्रतियोगिताकत्वसम्बन्धावच्छिन्न वह्नित्वनिष्ठप्रकारतानिरूपिता भावत्वावच्छिन्न विशेष्यताघटि "Aho Shrutgyanam" Page #79 -------------------------------------------------------------------------- ________________ चन्द्रकला कलाविलासाख्यटीकाद्वयालंकृतम् ६३ * गादावरी निवेशनीयत्वात् । न च हेतुः साध्यस्य व्यभिचारीत्यतः साध्यतावच्छेदके हेतुसमानाधिकरणाभावप्रतियोगितावच्छेदकत्वस्य दुर्लभतया तदवगाहिज्ञानस्य अभिधेयत्वं मेयत्वस्थ व्यभिचारीत्याकारकता नोपपद्यते इति वाच्यम्, यतोऽभाववद्वृत्तित्वं समानाधिकरणाभावप्रतियोगितावच्छेदकत्वं चेति द्वयमेव हेतुः साध्यस्य व्यभिचारीत्यत्र व्यभिचारपदार्थः । तत्र प्रथमव्यभिचारपदार्थैकदेशेऽभावेऽनुयोगिता रूपषष्ठ्यर्थस्यै, तत्र प्रकृत्यर्थ ॐ चन्द्रकला प्रतियन्धकतया निवेशनीयत्वादिति । तथाच हेतुः साध्याभाववदवृत्तिरित्या कारकच्या सिग्रहम् प्रति हेतुः साध्याभावचद् वृत्तिरित्याकारक व्यभिचारज्ञान स्वेच साध्यतावच्छेदकं हेतुमन्निष्टाभावप्रतियोगितावच्छेदकमित्य कारक व्यभिचारज्ञानस्य तादृशव्याप्तिग्रहाऽप्रतिबन्धकत्वादुक्तव्य भिचारसंग्रहार्थ साध्याभाववदवृत्तित्वप्रकारतानिरूपितहेतुविशेष्यत्वावच्छिन्नप्रकारता स्वे सति हेतुव्यापकसाध्यसामानाधिकरण्यप्रकारतानिरूपित हे तुविशेष्यत्वावच्छिन्न प्रकारताकपक्ष विशेष्यक साध्यप्रकारकानुमितित्वव्यापक प्रतिबध्यताघटितस्यैव हेत्वाभास सामान्यलक्षणताया आवकत्वादिति भावः । ननु द्विविधव्यभिचारसंग्रहाय द्विविधव्याप्तिविषयकसमूहालम्बनानुमितेर्लक्षणघटकत्वेऽपि अभिधेयत्वं मेयत्वस्य व्यभिचारीत्या कारकशब्देन प्रमेयवत्वरूपसाध्यतावच्छेद के अभिधेयत्वरूप हेतुमन्निष्टाभावप्रतियोगितावच्छेदकत्वस्याप्रतिपादनात् कथं द्वितीयस्थले साध्यतावच्छेद के हेतुमन्निष्ठाभावप्रतियोगितावच्छेदकत्वभ्रमः सम्भवतीत्याशंकते नचेति । वाच्यमितिपरेणान्वयः । इत्यत्र = इत्याकारकज्ञाने । साध्यतावच्छेद के= प्रमेयत्वस्वादौ । हेत्विति । अभिधेयत्वाद्यर्थकम् । दुर्लभतया = अविषयीभूततया । तदवगाहीति । साध्यतावच्छेद के हेतुसमानाधिकरणाभावप्रतियोगितावच्छेदकत्वावगाहिज्ञानस्येत्यर्थः । नोपपद्यत इति । अभिधेयत्वं प्रमेयत्वस्य व्यभिचारीतिवाक्येन तादृशस्याप्रतिपादनादित्याशयः । उत्तरयति यत इत्यादि । व्यभिचारशब्दार्थस्य द्वैविध्यं व्युत्पादयति अभावेति । अभावाधिकरणनिरूपितवृत्तित्वमित्यर्थः । समानेति । अधिकरणवृष्तितावदभावप्रतियोगितावच्छेदकत्वमित्यर्थः । - तत्र = तयोरर्थयोर्मध्ये । आदिमेति । प्रथमव्यभिचारतात्पर्य कधूमो वह्नेव्यभिचारीत्यादिशाब्दस्थले इत्यर्थः । व्यभिचारेति । अभाववद् तित्व रूपव्यभिचारेत्यर्थकम् । अनुयोगितेति । अभावत्वात्मकानुयोगितारूपवह्निपदोत्तरषष्ठ्यर्थस्येत्यर्थः । अन्वय इति परेण सम्बन्धः । तत्र = षष्ट्यथ पर्थानुयोगितायाम् । प्रकृत्यर्थतेति । स्वनिष्ठेस्यादिः । "Aho Shrutgyanam" Page #80 -------------------------------------------------------------------------- ________________ ६४ अनुमानगादाधर्या सामान्यनिरुक्तिप्रकरणम् * गादाधरी * तावच्छेदकवह्नित्वावच्छिन्ननिरूपितत्वसम्बन्धेन प्रकृत्यर्थस्यान्वयः, मत्व यार्थः स्वरूपसम्बन्धवान , तस्य चाभेदसम्बन्धेन प्रथमान्तार्थेऽन्वयः, द्वितीयतत्पदार्थपरवाक्यस्थले च तदेकदेशसामानाधिकरण्ये हेतुपदार्थान्वितप्रथमार्थनिरूपितत्वस्यान्वयः, षष्ठीप्रकृतेस्तद्धर्मपरतया षष्ठ्यन्तार्थस्य साध्यतावच्छेदकनिष्ठत्वस्य तादृशान्वयबललभ्यहेतुसमानाधिकरणाभावप्रतियोगितावच्छेदकत्वे, तस्य तद्धितार्थसम्बन्धिनः एकदेशे घटकत्वरूपसम्बन्धे, सम्बन्धिनश्चाभेदेन प्रथमान्तार्थेऽन्वयः। एवं चोक्तवाक्या. * चन्द्रकला प्रकृत्यर्थस्य = वहेः । तस्य = मत्वर्थीयार्थस्य स्वरूपसम्बन्धवतः । प्रथमान्तार्थे = धूमादौ अन्वय इति । तथाच धूमो वह्वेर्व्यभिचारीत्याकारकवाक्यात् स्वनिष्टप्रकृत्यर्थताबच्छेदकवह्नित्वावच्छिन्ननिरूपितत्वसम्बन्धेन वह्निविशिष्टानुयोगितावदभावाधिकरणनिरूपितवृत्तित्वस्वरूपसम्बन्धवदाभिन्नो धूम. इत्यन्वयबोध इति भावः । द्वितीयेति । साध्यतावच्छेदके समानाधिकरणाभावप्रतियोगितावच्छेदकत्वरूपव्यभिचारपराभिधेयत्वं प्रमेयत्वस्य व्यभिचारीतिवाक्यस्थले इत्यर्थः । तदेकदेशे = तादृशव्यभिचारपदार्थैकदेशे । सामानाधिकरण्ये = अधिकरणवृत्तित्वे । हेविति । अभिधेयत्वार्थकम् । अभिधेयत्वस्य प्रथमार्थनिरूपितत्वे स्वनिष्टनिरूपकताकनिष्ठत्वसम्बन्धेनान्वयो बोध्यः । षष्ठीप्रकृतेः = प्रमेयस्वस्य । धर्मपरतया = प्रमेयत्वत्वबोधेच्छयोच्चरिततया । षष्ठ्यन्तार्थस्येत्यादि । निष्टत्वार्थकषष्ठीप्रकृत्यर्थप्रमेयत्वस्वरूपसाध्यतावच्छेदकनिष्टत्वस्येर्थः । तादृशेति । अभिधेयत्वपदार्थान्वितप्रथमार्थनिरूपितत्वस्य सामानाधिकरण्ये योऽन्वयस्तल्लभ्याभिधेयत्वसमानाधिकरणाभावप्रतियोगितावच्छेदकत्वे इत्यर्थः। अन्वय इति परेण सम्बन्धः । तस्य = तादृशप्रतियोगितावच्छेदकत्वस्य । तद्धितेति । व्यभिचारपदोत्तरमत्वीयप्रत्ययार्थों यो घटकल्वरूपसम्बन्धवान् तस्येत्यर्थः । सम्बन्धिनः- घटकरवसम्बन्धवतः। प्रथमान्तार्थ = अभिधेयत्वरूपप्रथमान्तपदार्थे । अन्वय इति । तथाच अभिधेयत्वं प्रमेयत्वस्य व्यभिचारीतिवाक्यात् प्रमेयत्वत्वनिष्ठं यत् अभिधेयत्वविशिष्टनिरूपितत्वविशिष्टसामानाधिकरण्यवदभाव. प्रतियोगितावच्छेदकत्वम् तद्घटकतारमकसम्बन्धवद भिन्नमभिधेयत्वमित्याकारकः शाब्दबोधः पर्यवसित इति भावः । एवञ्चति । निरुक्तरीत्यान्वयस्य पर्यवसितत्वे चेत्यर्थः । उक्तवाक्यात् = अभिधेयत्वं प्रमेयत्वस्य व्यभिचारीतिवाक्यात् । "Aho Shrutgyanam" Page #81 -------------------------------------------------------------------------- ________________ चन्द्रकला-कलाविलासाख्यटीकाद्वयालंकृतम् * गादाधरी * त्तत्र साध्यतावच्छेदके हेतुसमानाधिकरणाभावप्रतियोगितावच्छेदकत्वत्व स्यापि लाभात्तत्र तदवगाहिभ्रमस्य दर्शिताकारतासम्भवादित्यपि वदन्ति । भ्रमादिति पश्चभ्यर्थः प्रयुक्तत्वम , तस्य प्रतिबन्धपदार्थेऽनुत्पादेऽन्वयः । यथार्थेतीति । यथार्थपदेन वन्यधिकरणप्रकारावच्छिन्ना या या * चन्द्रकला ® तत्रेत्यादि । तस्मिन् प्रमेयत्वत्वरूपसाध्यतावच्छेदके इत्यर्थः । तत्र = तादृशसाध्यतावच्छेदके । तदवगाहिभ्रमस्य = अभिधेयत्वसमानाधिकरणाभावप्रतियोगितावच्छेदकत्वावगाहिभ्रमस्य । दर्शितेति । अभिधेयत्वं मेयत्वस्य व्यभिचारीत्याकारकतासम्भव इत्यर्थः । वदन्तीति । अन्ये वितिपूर्वेणान्वयः । अनया रीत्या अभिधेयत्वं मेयत्वस्य व्यभिचारीति वाक्यजन्यबोधस्य सर्ववाद्यसिद्धस्य भ्रमत्वोपपादनं क्लिप्टकल्पनयैवेत्यस्वरसवीजं वदन्तीत्युक्त्वा सूचितमिति ध्येयम् । पञ्चम्यर्थ इति । तथाच पर्वतो वयभाववानित्यादिभ्रमप्रयुक्तानुमित्यनुत्पादेऽपि यथार्थपदोपादानान्न तत्र तत्र पर्वताभिधेयत्वादी अतिव्याप्तिरिति समुदितदीधितितात्पर्यमित्याशयः ।। ननु यथार्थपदस्य तद्वति तत्प्रकारकज्ञानार्थकतया तदुपादानेऽपि पर्वतो वह्नयभाववानित्याकारकज्ञानमादाय पर्वतादावतिव्याप्तिः, तादृशज्ञानस्य वशित्वादिमति वद्वित्वादिप्रकारकतया यथार्थज्ञानपदेन धर्तुं शक्यत्वात् । न च भ्रमभिन्नत्वमेव याथाय निरुक्त ज्ञानस्य वयभावाभाववति वह्नयभावप्रकारकत्वेन भ्रमत्वान्न ताहशज्ञानमादायोतिव्याप्तिरिति वाच्यम् , तथा सति हृदो बह्निमानित्यादौ यदा घटत्वेन पटावगाहिघटो वह्नयभाववाश्च हृद इति समूहालम्बनं ज्ञानं जातं तदा वह्नयभावविशिष्टे हदे लक्षणसमन्वयानुपपत्तेः निरुक्तसमूहालम्बन ज्ञानस्य भ्रमत्वात् । भेदस्याव्याप्यवृत्तितामते पर्वतो निर्वतिरित्यादिज्ञानस्यापि वह्नित्ववाद्विशेष्यकत्वावच्छेदेन भ्रमभिन्नत्वाञ्चेति ध्येयमित्यत आह स्वव्यधिकरणेति । स्वं विशेष्यता, तयधिकरणस्तदंधिकरणेऽवसमानो यः प्रकारस्तन्निष्टप्रकारतानिरूपिता या या. कलाविलासः तधर्मेण महानसीयवतिमानित्यनुमितिकारणत्वम् , एवं यत्र महानसीयत्वं धर्मितावच्छेदकीकृत्य वह्नित्वं भासते तत्र महानसीयाभाववदवृत्तिधूमवानितिपरामर्शस्य वह्नित्वावच्छिन्नमहानसीयत्वनिहावच्छेदकताकप्रतियोगिताकत्वसम्बन्धावच्छिन्नमहानसीयनिष्ठप्रकारतानिरूपिताभावत्वावच्छिन्नविशेष्यताघटितधर्मेण वह्निमहानसीयवानित्यनुमितौ कारणत्वमिति न काप्यनुपपत्तिः । स्वव्यधिकरणेति । विशेष्यताविशिष्ट प्रकारत्वाऽनिरूपकत्वमेव सर्वांश "Aho Shrutgyanam" Page #82 -------------------------------------------------------------------------- ________________ अनुमानगादाधर्या सामान्यनिरुक्तिप्रकरणम 2 गादाधरी * विषयता तदनिरूपकत्वस्य सर्वाशे प्रमात्वस्य विवक्षणीयतया दर्शितभ्रमाणां किश्चिदंशे प्रमात्वेऽपि न तानादाय दोष इति भावः । विशेष्यता तत्तदनिरूपकत्वरूपस्येत्यर्थः। जलं वह्निमदित्याकारकभ्रमीयतथाविधजलनिष्ठविशेष्यत्वानिरूपकत्वस्य पर्वतो निर्वह्रिरित्याकारकज्ञानेऽपि सत्त्वेन तस्य यथार्थतया तादृशज्ञानमादायातिव्याप्तितादवस्थ्यं स्यादतो या येति वीप्सादरः । तथाच यावदन्तर्गतनिरुक्तज्ञानीयपर्वतनिष्ठविशेष्यताया अप्युपादानसम्भवान कोऽपि दोषः । सवाशे = स्वविषयीभूतयावत्पदार्थाशे । प्रमात्वस्येति । लक्षणघटकीभूतस्येत्यादिः । दर्शितभ्रमाणाम् = पर्वतो निर्वह्विरित्यादिभ्रमाणाम् । किञ्चिदंशे = पर्वतत्वाधंशे। प्रमात्वेऽपि = पर्वतत्वादिमति पर्वतस्वादिप्रकारकत्वेऽपि । तानादाय - तादृशभ्रमानादाय । दोष इति । तथाच स्वनिरूपितप्रकारतावच्छेदकसम्बन्धावच्छिन्ना यो स्वाश्रयनिष्टाधिकरणतानिरूपिता वृत्तिती तदभाववन्निष्टप्रकारतानिरूपितं यत् यत् स्वं विशेष्यत्वं तदनिरूपवज्ञानत्वमेव यथार्थज्ञानस्वमिति न आंशिकप्रमात्मकतादृशभ्रमानादाय पर्वतप्रमेय स्वादावतिव्याप्तिरित्याशयः। अथैवं स्वाधिकरणेत्यादिरीत्या याथार्यनिर्वचने गुणो विशिष्टसत्तावानित्याकारकशानस्य प्रमारवापत्तिः, गुणनिष्टाधिकरणतानिरूपितसमवायावच्छिन्नवृत्तितायाः विशिष्टसत्तायां सत्त्वात् विशेष्यवृत्तिपदार्थस्य विशिष्टानुयोगिकाभावानभ्यु. पगमात् स्वपदेन तादृशज्ञानीयविशेष्यताया धर्तु मशक्यत्वात् । नच लक्षणघटकयथार्थज्ञानशब्दस्यैव निरुत्तार्थकतया गुणो विशिष्टसत्तावानिस्याकारकज्ञानस्य यथोक्तरीत्या भ्रमत्वाभावेऽपि न क्षतिरिति वाच्यम् , तथा सत्यपि गुणो विशिष्टसत्ताभाववान् गुणस्वादिति सद्धेतौ गुणो विशिष्टसत्तावानिस्याकारकज्ञानमादाय विशिष्टसत्तादेर्दोषत्वापत्तेर्दुर्वारस्वात् । नच स्वनिरूपितप्रकारतावच्छेदकसम्बन्धावच्छिन्ना या स्वाश्रयनिष्ठाधिकरणतानिरूपिता वृत्तिता तदनवच्छेदकधर्मावच्छिन्नप्रकारतानिरूपितं यत् यत् स्वं तत्तदनिरूपकत्वस्यैव सर्वाशे प्रमात्वस्य विवक्षणान्न गुणो विशिष्टसत्तावानित्याकारकज्ञानस्य प्रमावापत्तिः, गुणनिष्टाधिकरणतानिरूपितसमवायावच्छिन्नवृत्तिवानवच्छेदकत्वस्य विशिष्टसत्तात्वे सत्वात् स्वपदेन साहशज्ञानीयगुणनिष्ठविशेष्यताया एवोपादानसम्भवादिति वाच्यम्,सामान्यपक्षकद्रव्यस्वाभावसाध्यकस्थले द्रग्यभेदसाध्यकस्थले वा सद्धेतौ द्रव्यत्ववत्सामान्यमित्याकारकज्ञानमादाय सामान्यादेर्दोषत्वापत्तेः, सामान्यादिनिष्ठाधिकरणतानिरूपितसमवायावछिन्नवृत्तित्वाप्रसिद्धया स्वपदेन निरुक्तझानीयसामान्यनिष्ठविशेष्यताया धतु मशक्यत्वात् , निरुक्तज्ञानस्य यथोक्तप्रमारवानपायात्। नच स्वनिरूपितप्रकारतावच्छे. "Aho Shrutgyanam" Page #83 -------------------------------------------------------------------------- ________________ चन्द्रकला-कलाविलासाख्यटीकाद्वयालंकृतम् % गादाधरी अत्र यथार्थपदेन सद्धेतुस्थलेऽनुमितिविरोधिभ्रमविषयसाध्याभावादापतिप्रसङ्गवारणेऽपि असद्धेतुस्थले तादृशप्रमाविषयदोषघटकसाध्यादेः प्रत्येक दोषत्वापत्तिदुर्वारैव, तदर्थ प्रकारान्तरानुसरणे च तत एव पूर्व चन्द्रकला दकसम्बन्धावच्छिन्नवृत्तितावच्छेदकत्वप्रतियोगिकस्वरूपसम्बन्धेन स्वाश्रयनिष्ठा. धिकरणतानिरूपितवृत्तितावच्छेदकत्वाभावस्य विवक्षणान्न कोऽपि दोषः, समवायावच्छिन्नवृत्तितावच्छेदकत्वप्रतियोगिकस्वरूपसम्बन्धस्य सामान्यनिष्टाधिकरणतानिरूपितवृत्तितावच्छेदकत्वस्य व्यधिकरणसम्बन्धतया तेन सम्बन्धेन तदभावस्य द्रव्य स्वस्वादौ सत्त्वेन सामान्यं द्रव्यत्ववदित्याकारकज्ञानस्य भ्रमत्वसम्भवादिति वाच्यम, एवमपि स्वरूपतो द्रव्यत्वप्रकारकगुणविशेष्यकज्ञानस्य प्रमावापत्तेरवारणात् गणनिष्ठाधिकरणतानिरूपितवृत्तितानवच्छेदकधर्मावच्छिन्नप्रकारतानिरूपितत्वस्य निरुक्तज्ञानीयगुणनिष्टविशेष्यतायामसत्त्वेन गुणनिष्टविशेष्यतायाःस्वपदानुपात्तस्वात् इति चेन्न,स्वनिरूपितप्रकारतावच्छेदकसम्बन्धसामान्ये यत्प्रतियोगिकत्वस्वाश्रयानुयोगिकत्वोभयाभावस्तनिष्ठप्रकारतानिरूपितं यत् यत्स्वं तत्तदनिरूपकत्वस्यैव विविक्षितत्वाददोषात् । निरुक्तस्थले स्वरूपतो द्रव्यत्वप्रतियोगिकरवगुणानुयोगिकस्वयोः -समयाय विरहेण स्वपदेन गुणनिष्टविशेष्यताया धत्तुंशक्यत्वादिति वदन्तीति दिक् । यथार्थपदाऽघटितद्वितीयलक्षणानुसरणस्य बीजं प्रदर्शयतां दीधितिकृतां नन्वित्यादिग्रन्थं व्याख्यातुं भूमिकामारचयति अत्रेति । निरुक्तप्रथमलक्षण इत्यर्थः । यथार्थपदपदार्थान्वयि घटकत्वं सप्तम्यर्थः, यथार्थपदेनेति । यथाविवक्षितार्थकेस्यादि । सद्धेतुस्थले = पर्वतो वह्निमान् धूमादित्यादौ । अनुमितीति । पर्वतादिधर्मिकवयाद्यनुमितिप्रतिवन्धकपर्वतो निर्वह्रिरित्यादिभ्रमविषयवह्नयभावादावित्यर्थः । असद्धेतस्थले धूमादिसायकवह्वयादिहेतुकस्थले । तादृशेति। प्रकृतानुमितिप्रतिबन्धकयथार्थज्ञानविषयदोषघटकसाध्यतदभावादेरित्यर्थः । तदर्थम् = प्रत्येक दोषस्वापत्तिवारणार्थम् । प्रकारान्तरेति । यारशविशि कलाविलासः भ्रमभिन्नत्वम् , वैशिष्ट्यञ्च स्वनिरूपितत्व-स्वाश्रयनिष्ठाधिकरणतानिरूपिताधेयतावदन्यत्वोभयसम्बन्धेन । आधेयतावत्त्वञ्च स्वानवच्छेदकानवच्छिन्नत्व-स्वसामानाधिकरण्य-स्वावच्छेदकसम्बन्धावच्छिन्नत्य- स्ववृत्तित्वैतचतुष्टयसम्बन्धेन । स्ववृत्तित्वञ्च स्वानवच्छेदकानवच्छिन्नत्वसम्बन्धेनेति तु तत्त्वम् । तदथै प्रकारान्तरानुसरणे चेति । ननु प्रकारान्तरानुसरणे इत्यस्य यद्रूपाचच्छिन्नविषयित्वं प्रकृतानुमितिप्रतिबन्धकतानतिरिक्तवृत्ति तद्रूपत्वमित्यर्थकताया वक्तव्यतया ताशयद्रूपावच्छिन्नविषयितायाः संशयादौ सस्वेन प्रकृतानुमितिप्रतिबन्धकतातिरिक्तवृत्तितयाऽसम्भववारणायैव यथार्थपदसार्थक्यसम्मवे कथं तस्य "Aho Shrutgyanam" Page #84 -------------------------------------------------------------------------- ________________ अनुमानगादाधर्यां सामान्यनिरुक्तिप्रकरणम् * दीधितिः ननु प्रतिबन्धकज्ञान विषयव्यभिचारादि घटकसाध्यादेरपि प्रत्येकं हेत्वाभासतापत्तिः । * गादावरी दोषस्याऽपि वारणसम्भवे यथार्थपदं व्यर्थम् इति दोषस्य दुरुद्धरतया तस्यैव यथार्थपदाऽघटितलक्षणान्तरानुसरणे बीजत्वमाह नन्विति । एकदेशस्यापि विशिष्टघटकतया हेत्वाभासपदार्थत्वस्येष्टत्वादाह प्रत्येकमिति ! प्रत्येकपदार्थ पर्याप्त साध्यतावच्छेदकाद्यवच्छिन्नस्येत्यर्थः । हेत्वाभासतापत्तिःहेत्वाभास पदार्थत्वापत्तिः । यद्रूपावच्छिन्नज्ञानस्यानुमित्यविरोधित्वं ६८ ॐ चन्द्रकला टेत्यादिनेत्यादिः । ततः एव = प्रकारान्तरानुसरणत एव । पूर्वदोषस्यापि = पर्वतां निर्वह्निरित्यादिभ्रममादाय वह्नयभावादावतिप्रसंगस्यापि । तस्यैव = यथार्थपदस्य व्यर्थतारूपदोषस्यैव । एकदेशस्यापि = साध्याभाववद्वृत्तित्वरूपव्यभिचारघटकसाध्याभावादेरपि । विशिष्टघटकतया = निरुक्तव्यभिचारादिघटकतया । ननु प्रत्येकं हेत्वाभासत्वमिष्टमेवेत्यत आह यद्रूपेति । यद्रूपावच्छिन्नप्रकारकनिश्चयस्येत्यर्थः । अनुमित्यविशेषित्वम् = अनुमित्यप्रतिबन्धकत्वम् । व्यवहारे * कलाविलासः व्यर्थत्वमभिहितमिति चेन्न, जलं वहयभावविरोधीतिज्ञानकालीनस्य हृदो जलवान् वह्न्यभाववान् वेत्यादिज्ञानस्य संशयत्वात् तस्य च सर्वोशे यथार्थतया तदीयविषयिताया अनुमितिप्रतिबन्धकतातिरिक्तवृत्तित्वेनाऽसम्भववारणाय यद्रूपावच्छिन्नविषयितायां निश्चय वृत्तित्वविशेषणस्यावश्यकतया संशयमादाय दोषाऽसम्भवेन यथार्थपदस्य सुतरां वैयर्थ्यात् । न चाहार्याप्रामाण्यज्ञानास्कन्दितज्ञानवारणाय तत्सार्थक्यमिति वाच्यम्, वह्निमान् हृद इतिज्ञानोत्तरं यत्रेच्छाप्रयोज्यं वह्नयभाववान् हृद इतिज्ञानं जातं तादृशज्ञानस्यापि सर्वाशे यथार्थात्मकाहार्यतया तद्वारणाय अना हार्यत्वस्य यत्र भाविज्ञानमप्रमेत्य प्रामाण्यज्ञानं ततो वह्नयभाववान् हृद इतिनिश्चयस्ततोऽतीतज्ञानमप्रमेतिज्ञानं तत्राप्रामाण्यज्ञानद्वय पुटित बाघनिश्चयस्य यथार्थस्य वारणायाऽप्रामाण्यज्ञानानास्कन्दितत्वस्यापि निश्वयविशेषणताया आवश्यकत्वात् तद्वारणायापि तत्सार्थक्यासम्भवादिति ध्येयम् । हेत्वाभासपदार्थत्वापत्तिरिति । अत्र स्वावच्छेदकतात्वावच्छिन्नप्रतियोगिताकपर्याप्त्यंनुयोगितावच्छेदकत्वसम्बन्धेन वह्नित्वादिगतैकत्ववृत्तिर्या विशेष्यता तन्निरूपित दोषपद प्रयोज्यप्रकारतायां प्रमानिरूपितत्वापत्तिरिति पर्यवसितार्थः आपत्याकारस्तु तादृशविशेष्यतानिरूपितदोषपदप्रयोज्यप्रकारत्वं यद्यनुमितिकारणीभूताभावप्रतियोगियथार्थज्ञानविषयत्वावच्छिन्नं स्यात् तदा प्रमानिरूपितं स्यादिति । " Aho Shrutgyanam" 1. Page #85 -------------------------------------------------------------------------- ________________ चन्द्रकला कलाविलासाख्यटीकाद्वयालंकृतम् ॐ दीधितिः अथ विशिष्टविषयकं ज्ञानं प्रतिबन्धकम् , तद्घटकं च न विशिष्टभिति चेत् , तर्हि यथार्थेति व्यर्थम् भ्रमविषयविशिष्टस्या * गादाधरी तद्रूपावच्छिन्ने हेत्वाभासत्वव्यवहारस्य तद्पावच्छिन्नमात्रज्ञानाद्धेतो दुष्टत्वव्यवहारस्य चाऽनुदयेन इष्टापत्तिन सम्भवतीति भावः । यादृशविशिष्टविषयकत्वं ताशाऽनुमितिविरोधिताऽनतिरिक्तवृत्ति तत्त्वमिति विवक्षया न साध्यादावतिव्याप्तिरित्याशयेनाऽशकृते अथेति । विशिष्टविषयकम-साध्याभावववृत्तित्वविशिष्टसाधनादिविषयकमेव । तद्धटकं च-तादृशविशिष्टघटकप्रत्येकपदाविषयकत्वं च । न विशिष्टम्-न ताहशविशिष्टनिरूपितम् । तथाच प्रत्येकपदार्थावषयकत्वस्य प्रतिबन्धकताया अतिरिक्तवृत्तित्वान्नातिव्याप्तिरिति भावः । व्यर्थमिति । यथार्थपदाऽदानेऽपि चन्द्रकला प्रति व्यवहर्तव्यज्ञानस्य जनकतया तपावच्छिन्ने हेत्वाभासत्वविरहेण हेत्वाभासत्वज्ञानाऽसम्भवात् हेत्वाभासत्वव्यवहारोऽपि न सम्भवतीत्याह हेत्वाभासस्वेति । दोषस्वस्येव दुष्टत्वस्यापि हेताविष्टापत्तिः कत्तु न शक्यत इत्याह तद्रपेति । तद्रूपावच्छिन्नहेतुमानविषयकज्ञानादित्यर्थः। धूमाभाववद्वृत्तिर्वह्निधूमो बहिश्चेत्याकारकसमूहालम्बनज्ञानात् वहेर्दुष्टताया इष्टत्वात् मात्रपदमिति ध्येयम् । न सम्भवतीति । तथा च प्रत्येकं साध्यतावच्छेदकधूमत्वाद्यवच्छिन्नमात्रविषयकज्ञानस्यानुमित्यप्रतिबन्धकतया तादृशधूमत्वाद्यवच्छिन्ने हेत्वाभासत्वस्याऽसत्त्वात् ताशप्रत्येकधर्मावच्छिन्नो दोष इति व्यवहाराऽसम्भवेन तत्र दोषत्वादेरिष्टापत्तिः कथमपि न सम्भवतीत्यतः प्रत्येकधर्मावच्छिन्ने हेत्वाभासत्वापत्तिरभिहिता दीधितिकृतेति हृदयम् । अथेत्यादिदीधितिमवतारयति यादृशेति । यादृविशिष्टविषयकनिश्चयत्व. मित्यर्थः । तादृशेति । पक्षः साध्यवान् साध्यव्याप्य हेतुमांश्चेत्याकारकानुमितिप्रतिबन्धकतानतिरिक्तवृत्तीत्यर्थः । तत्त्वमितीति । तादृशत्वमिति विवक्षयेत्यर्थः । साध्यादाविति । प्रत्येकमित्यादिः । अतिव्याप्तिरिति ! साध्यादिप्रत्येकविषयक स्वस्थ प्रकृतानुमितिप्रतिबन्धकतातिरिक्तवृत्तित्वान्न साध्यादावतिव्याप्तिरित्याशयः । साध्यति । धूमाद्यभावववृत्तित्वविशिष्टवह्नयादिविषयकमेवेत्यर्थः । तादृशविशिष्टेति । धूमावभावववृत्तित्वविशिष्टवलयाद्यर्थकम् । भावमाह तथाचेति । अतिरिक्तवृत्तित्वात् = प्रकृतानुमितिप्रतिबन्धकतायाः प्रत्येकपदार्थविषयकत्वाव्यापकत्वात् । यथार्थपदव्यर्थतायां हेतुमाह यथार्थेति । प्रकृतलक्षण इत्यादिः। * कलाविलासः यथार्थेति व्यर्थमिति । नन्वखण्डाभावघटकतयैव सार्थक्यसम्भवे कथं तस्य "Aho Shrutgyanam" Page #86 -------------------------------------------------------------------------- ________________ ७० अनुमानगादाधर्या सामान्यनिरुक्तिप्रकरणम * दीधितिः प्रसिद्धत्वादित्यनुशयेनाऽऽह यदिति । गादाधरी * सद्धेतुस्थलेऽतिव्याप्तिवारणसम्भवात् । ननु तत्र भ्रमविषयप्रत्येकपदार्थविषयकत्वस्योक्तरीत्या वारणेऽपि तद्विषयविशिष्टेऽतिव्याप्तिरत आह भ्रमविषयेति । अप्रसिद्धस्वादिति । तथाच कातिव्याप्तिरिति भावः । * चन्द्रकका अतिव्याप्तीति । पर्वतो निर्वतिरित्याकारकभ्रमविषयवह्नयभावादिविषयकत्वस्यापि प्रकृतानुमितिप्रतिबन्धकतातिरिक्तवृत्तित्वात् न भ्रमविषये वह्नयभावादावतिव्याप्तिरिति भावः । तत्रेति । पर्वतो वह्निमान् धूमादित्यादावित्यर्थः । भ्रमविषयेति । यथार्थपदादाने वह्नयभाव-प्रमेयरवपदार्थादेरित्यर्थः। उक्त रीत्या - यादृशविशिष्टविषयकवं प्रकृतानुमितिप्रतिबन्धकतानतिरिक्तवृत्तीत्यादिविवक्षया । तद्विषयेति । भ्रमविषयविशिष्टे वतयभावविशिष्टपर्वतादावित्यर्थः । अतिव्याप्तिरिति । वयभाववरपर्वतविषयकत्वस्य पर्ववादी वयाद्यनुमितिप्रतिबन्धकतानतिरिक्तवृत्तिस्वादिति हृदयम् । क्वातिव्याप्तिरिति । तथा च व्यभिचारादिघटकप्रत्येकं साध्यादावतिव्याप्तिवारणाय यादृशविशिष्टविषयकनिश्चयत्वव्यापकप्रकृतानुमितिप्रतिबन्धकरवं तादृशत्वमित्यस्यावश्यं विवक्षणीयतया यथार्थपदं व्यर्थम् , भ्रमविषयवह्नयभावादिविषयकत्वस्य प्रकृतानुमितिप्रतिबन्धतकतातिरिक्तवृत्तित्वात् । वह्नयभाववत्पर्वतादिविषयकत्वस्य प्रकृतानुमितिप्रतिबन्धकतानतिरिक्तवृत्तिरवेऽपि वह्नयभाववरपर्वतादेरप्रसिद्धतया क्व तत्राऽतिव्याप्लिरित्याशय इति दिक् । ॐ कलाविलासः वैयाभिधानमिति चेन्न, प्रकृतानुमितिप्रतिबन्धकतावृत्तियोऽभावस्तदीया यः अवच्छेदकत्वनिष्ठा प्रतियोगिता तन्निरूपितप्रतियोगितात्वावच्छिन्नावच्छेदकतानिरूपितभेदत्वावच्छिन्नावच्छेदकतानिरूपिताधेयतात्वावच्छिन्नावच्छेदकतानिरूपिता या याथार्थ्यसमानाधिकरणा निश्चयत्वावच्छिन्नावच्छेदकता . तन्निरूपितविषयि - तात्वावच्छिन्नावच्छेदकतानिरूपितावच्छिन्नत्वसम्बन्धावच्छिन्नावच्छेदकतावद्धर्मवत्त्वं हेत्वाभासत्वमेताहशलक्षणानुसारेण वैयर्थ्यमाशंकितं नत्वभावप्रतियोगितावच्छेदकतया याथार्थ्यस्य निवेशानुसारेणेतिध्येयम् । "Aho Shrutgyanam" Page #87 -------------------------------------------------------------------------- ________________ चन्द्रकला कलाविलासाख्यटीकाद्वयालंकृतम् * दीधितिः केचित्तु दुष्टानामेव हेतूनामेतानि लक्षणानि । * गादावरी ति । ननु आद्यस्य दुष्टहेतुलक्षणत्वे दोषेष्वतिव्याप्तिः तेषामपि अनुमतिविरोधियथार्थज्ञानविषयत्वात् । न च हृदादिपक्षकवह्रयादिसाध्यवह्नद्यभाववद्धदादिरूपदोषाणामपि दुष्टहेतुतया दुष्टत्वमेवेति स्थले · ७१ * चन्द्रकला प्रकारान्तरेण यथार्थपदसार्थक्यमुपपादयतां मिश्रादीनां केचित्वित्यादिना प्रदर्शितं दुष्टानामेवेत्यादिग्रन्थं व्याकरोति नन्वस्येत्यादि । अनुमितिकारणीभूताभावप्रतियोगियथार्थज्ञानविषयस्वमिति लक्षणस्येत्यर्थः । दोषेष्वतिव्याप्तिः = हृदो वह्निमान् धूमादित्यादौ वह्नचभावविशिष्टहृदादिष्वतिव्याप्तिः । कथमित्याकांक्षायामाह तेषामपीति । दोषाणामपीत्यर्थः । अनुमितिविरोधीति । अनुमितिप्रतिबन्धकार्थकम् । तथा च यथाश्रुतप्रथमलक्षणस्य हदो वह्निमान् धूमादित्यादौ वह्नयभावविशिष्टहृदादिरूपदोषादावतिव्याप्तिः, निरुक्तमते प्रथम लक्षणस्यैव दुष्टलक्षणत्वादिति भावः । शंकते नचेति । वाध्यमिति परेणान्वयः । दुष्टत्वमेवेति । हृदपक्षकवह्निसाध्यकस्यले वह्नयभावविशिष्टद्धदादेरपि हेतुत्वसम्भवात् तस्य लक्ष्यतया तत्र * कलाविलासः * केचित्तु संशयान्यत्वस्य अनाहार्यत्वस्य अप्रामाण्यज्ञानानास्कन्दितत्वस्यव तत्तद्व्यक्तित्वेनाभावप्रवेशे गौरवमतोऽभावविशिष्टान्यत्वमेव यद्रूपावच्छिन्न विषयकनिश्चयविशेषणम्, वैशिष्ट्यञ्च स्वाभाववत्त्व - स्वावच्छिन्न प्रतिबन्ध कतावच्छेदकविषयितानिरूपकतावच्छेदकधर्मावच्छिन्ननिरूपकता कविषयितावत्त्वोभयसम्बन्धेन, "Aho Shrutgyanam" एवञ्चाप्रामाण्यज्ञानद्वयपुटित वाघनिश्चयवारणायाभावविशिष्टान्यत्वस्य लाघवान्निवेशनीयतया तत एव यथार्थपदवैयर्थ्यमिति प्राहुः । वस्तुतोऽभावविशिष्टान्ययद्रूपावच्छिन्नविषयताशालिनिश्चयत्वव्यापिका प्रकृतानुमितित्वव्यापक प्रतिबध्यतानिरूपित प्रतिबन्धकता तद्रूपवत्त्वमित्येवं यथार्थपदाघटितं लक्षणं वक्तव्यम् तादृशविषयतायामभाववैशिष्टयञ्च स्वप्रतियोगिमन्निष्ठत्व-स्वावच्छिन्नप्रतिबन्धकतावच्छेदकत्वोभय सम्वन्धेन, प्रतियोगिमत्ता च विशेष्यत्व - सामानाधिकरण्योभयस्वरूपान्यतरसम्बन्धेनेत्यपि वदन्ति । afrat केचित्विति । ननु ज्ञायमानदोषाणां प्रतिबन्धकत्वे कस्यचित्पुरुषस्य 1 Page #88 -------------------------------------------------------------------------- ________________ अनुमानगादाधयां सामान्यनिरुक्तिप्रकरणम् * दीधितिः तत्र तृतीयमिव प्रथममपि शायमानव्यभिचारादेः प्रतिबन्धकत्वमभ्युपेत्य । तदर्थश्च तादृशाभावप्रतियोगिनो ये व्यभिचारादयस्तप्रकारकयथार्थज्ञानविषयत्वम्।। * गादाधरी के वाच्यम् , तद्पावच्छिन्नपक्षकतद्रपावच्छिन्नसाध्यकतद्रपावच्छिन्नहेतकस्थले तेन रूपेण दुष्टस्य लक्षणं यदि तपावच्छिन्नपक्षसाध्यहेतुकानुमितिविरोधियथार्थज्ञानविषयत्वमात्रं तदा ह्रदत्वावच्छिन्नपक्षकवह्नित्वावच्छिन्नसाध्यकधूमत्वावच्छिन्नहेतुकानुमितिप्रतिबन्धकप्रमाविषयवह्नयभाववध्रदादीनां धूमत्वादिना दुष्टत्वाभावादतिव्याप्तिरित्याशङ्कां परिजिहीर्षुः ताहशाभावप्रतियोगिनां ज्ञानमिति षष्टीसमासमाश्रित्य तादृशाभावप्रतियोगिप्रकारकयथार्थज्ञानविषयत्वमर्थ व्याख्यास्यति, तच ज्ञायमानदोषस्य प्रतिबन्धकतामते एव सङ्गच्छते, अतस्तन्मतमवलम्ब्यैवाह तत्रेति । तेषु लक्षणेषुमध्ये इत्यर्थः। तृतीयलक्षणस्य सर्वमते एव ज्ञायमानदोषप्रतिबन्धकताम * चन्द्रकला * लक्षणगमनं न कामपि क्षतिमावहतीत्याशयः । उत्तरयति तद्रूपावच्छिन्नेति । हृदत्वाद्यवच्छिन्नार्थकम् । द्वितीयं तद्रूपं वह्नित्वादिसाध्यतावच्छेदकार्थकम् । तृतीयञ्च धूमत्वादिहेतुतावच्छेदकार्थकम् । तेन रूपेण = तादृशदक्षतावच्छेदकहदत्वादिरूपेण । तद्रपेति । पक्षतावच्छेदकावच्छिन्नपक्षकसाध्यतावच्छेदका. वच्छिन्नसाध्यकहेतुतावच्छेदकावच्छिन्नहेतुकानुमितिप्रतिबन्धकयथार्थज्ञानविषयस्वमानं यदि स्थादित्यर्थः। मात्रपदेन तादृशानुमितिप्रतिबन्धकप्रकारकयथार्थज्ञानविषयत्वस्य लक्षणत्वव्यवच्छेदः। तदा-निरुक्तानुमितिप्रतिबन्धकयथार्थज्ञानविषयत्वस्थ लक्षणार्थत्ये। धूमन्वादिनेति । वह्नयभाववद्धदत्वादिना दुष्टस्वसम्भवेऽपीत्यादिः । अतिव्याप्तिरिति । वह्वयभाववद्धदादावित्यादिः । इत्याशंकाम्-निरुक्तातिव्याप्त्याशंकाम् । तादृशेति । अनुमितिकारणीभूताभावप्रतियोगिनामित्यर्थः। निरूपकत्वसम्बन्धेन यथार्थ ज्ञानपदार्थान्वयि प्रकारत्वं षष्ट्यर्थः । तादृशाभावेति । अनुमितिकारणीभूताभावप्रतियोगिनिष्ठा या स्वज्ञानविषयप्रकृतहेतुतावच्छेदकवत्त्वसम्बन्धावच्छिन्ना प्रकारता तन्निरूपितविशेष्यस्वरूपं लक्षणार्थमित्यर्थः । व्याख्यास्यतीति । दीधितिकार इतिशेषः । तच्चेति । निरुक्तव्याख्यानञ्चेत्यर्थः । ज्ञायमानदोषस्य = निश्चयविषयीभूतव्यभिचारबाधादेदोषस्य । प्रतिबन्धकतेति । प्रकृतानुमितीत्यादिः । मत एवेति एवकारेण "Aho Shrutgyanam" Page #89 -------------------------------------------------------------------------- ________________ चन्द्रकला-कलाविलासाख्यटीकाद्वयालंकृतम् ॐ गादाधरी * ताभिप्रायकतया दृष्टान्तत्वेनोपन्यासः । तदर्थश्चेति । प्रतियोग्यन्तेन व्यभिचारादिदोषानादाय लक्षणं सङ्गमनीयमिति दर्शयितुं व्यभिचारादय इति, नतु तेन रूपेण लक्षणघटकत्वमित्यवधेयम् । एवं च यथार्थपदानुपादाने दुष्टत्वभ्रममादाय प्रकृतहेतुभिन्नेऽतिप्रसङ्ग इति यथार्थपदसार्थक्यम् । * चन्द्रकला तादृशप्रतियोगिप्रकारकयथार्थज्ञानविषयत्वरूपस्य लक्षणार्थत्वं दोषज्ञानस्य प्रतिबन्धकतामते न सम्भवतीति सचितम् । तन्मतम् = ज्ञायमानदोषस्य प्रतिबन्धकतावादिनां मतम् । यद्यपि दीधितिस्थतत्रेत्यत्र तत्पदोत्तरसप्तम्या घटकत्वार्थकरणेऽपि न क्षतिस्तथापि घटकत्वस्य दुनिर्वचत्वमाशंक्य तादृशसप्तम्या निर्धारणार्थकरवं वक्ति तेष्वित्यादि। तृतीयलक्षणे ज्ञायमानदोषस्य प्रतियन्धकताया उभयवादिसिद्धत्वं स्फुटीकर्तुमाह सर्वमत एवेति । दृष्टान्तत्वेनेति । तथाचतृतीयलक्षणभिन्नत्वे सति तृतीयलक्षणलिष्टज्ञायमानदोषप्रतिबन्धकताभिप्रायकत्वं प्रथमलक्षणस्येति तृतीयलक्षणस्य दृष्टान्तत्वसम्भव इति भावः। तादृशाभाव. प्रतियोगिनो ये व्यभिचारादय इत्यत्र व्यभिचारादेर्व्यभिचारवादिना न लक्षणघटकता, तथा सति एकव्यभिचारप्रकारकयथार्थज्ञानविषयत्वस्य लक्षणार्थत्वे तादृशबाधादिप्रकारकयथार्थज्ञानविषयत्वादेर्लक्षणार्थत्वं न स्यादेवमन्यस्यापि, अतो व्यभिचारादेस्तादृशाभावप्रतियोगित्वेनैव लक्षणघटकतेत्याह प्रतियोग्यन्तेनेति । दोषानादाय = तादृशव्यभिचारादीनादाय । तेन रूपेण = व्यभिचारस्वादिरूपेण । घटकत्वमिति। लक्षणेत्यादिः। यद्यपि प्रतियोगित्वमपि प्रतियोगिभेदेन भिन्नमेवेति एकोपादानेऽपरस्यासंग्रहो दुष्परिहरस्तथापि प्रतियोगितायाः प्रतियोगितावच्छेदकस्वरूपस्वमभिप्रेत्यैवेत्यमभिहितमिति ध्येयम् । यथार्थपदानुपादाने पर्वतो वह्निमान् धूमादित्यादिसद्धेतौ पर्वते वह्निसाधने धूमो दुष्ट इति व्यवहारस्तु न सम्भवति, व्यवहारं प्रति व्यवहत्तव्यज्ञानस्य जनकतया व्यवहर्त्तव्यस्य पर्वतपक्षकवह्निसाध्यकधूमहेतुकानुमितिप्रतिबन्धकप्रकारकज्ञानविशेष्यत्वस्य तारशानुमितिप्रतिबन्धकव्यभिचारबाधाद्यप्रसिद्धयाऽप्रसिद्धत्वेन तादृशव्यवहर्त्तव्य ॐ कलाविलासः ॐ ज्ञानविषयदोषदशायां पुरुषान्तरस्य यथोक्तानुमितिप्रतिबन्धवारणाय तत्पुरुषीयत्वस्यापि निवेशनीयतया गौरवमिति चेन्न, वह्नयभाववान् ह्रदो हृदधर्मिकवह्निप्रकारकबुद्धिप्रतिबन्धक इत्याकारकसर्वजनानुभवानुरोधेन तादृशगौरवस्य "Aho Shrutgyanam" Page #90 -------------------------------------------------------------------------- ________________ अनुमानगादाधयां सामान्यनिरुक्तिप्रकरणम् * गादाधरी * यद्यपि पर्वतत्वाद्यवच्छिन्ने वह्नित्वावच्छिन्नसाधने धूमत्वावच्छिन्नो दुष्ट इत्यादेः सद्धेतौ दुष्टत्वव्यवहारस्य नापत्तिः, तत्र तत्पक्षसाध्यहेतुकानुमितिप्रतिबन्धकरूपदोषप्रकारकज्ञानविषयत्वस्यैव प्रत्येतव्यत्वात् , ता दशानुमितिप्रतिबन्धकबाधव्यभिचारादेश्वाऽप्रसिद्धत्वात् , हृदादौ वह्नया दिसाधनमादाय च सर्वत्र दुष्टत्वव्यवहार इष्टः, तथापि धूमसाधने वह्नित्वेनाऽयं दुष्ट इत्यादौ वह्नित्वावच्छिन्नहेतुकधूमायनुमितिप्रतिबन्धकदोष. प्रकारकज्ञानविषयत्वस्य प्रत्ययात् वक्ष्यमाणसम्बन्धावच्छिन्नतादृशानुमितिप्रतिबन्धकधूमाभावववृत्तित्वविशिष्टवह्नयादिरूपदोषप्रकारताशालिभ्रममादाय रासभादितात्पर्येणाऽपि तथा व्यवहारः स्यात् । * चन्द्रकला * ज्ञानासम्भवादितियथार्थपदसार्थक्यमुपपादयितुं शंकते यद्यपीति । तत्रव्यवहारे। अग्रिमषष्ठ्यन्तार्थान्वयि विषयत्वं सप्तम्यर्थः। ___ ननु हृदादिपक्षकवयादिसाध्यकस्थले बाधादेदोषस्यावश्यकतया तत्प्रकारकज्ञानविषयत्वमादाय घटादेर्दुष्टत्वध्यवहारवारणायैव यथार्थपदं सार्थकं सम्भवती त्यत आह हृदादाविति । सर्वत्रैव = धूमादौ घटपटादौ च । इष्ट इति । तथाचैतन्मतेऽपि यथार्थपदं व्यर्थमिति भावः । यथार्थपदपरित्यागे धूमसाधने वह्नित्वेन अयं दुष्ट इत्याकारके दन्त्वावच्छिन्नरासभतारपर्यकव्यवहारापत्तिः स्यात तादृशव्यवहारप्रयोजकस्य व्यवहत्तव्यस्य धूमस्वावच्छिन्नसाध्यक्रवद्वित्वावच्छिन्नहेतुकानुमितिप्रतिबन्धकधूमाभावववृत्तित्वविशिष्टवह्निरूपव्यभिचारानष्टा या स्वज्ञानविषयप्रकृतहेतुतावच्छेदकवत्त्वसम्बन्धावच्छिन्ना प्रकारता तन्निरूपितभ्रमीयविशेष्यस्वरूपस्य प्रसिद्धतया व्यवहारकारणीभूतनिरुक्तव्यवहर्तव्यज्ञानसत्त्वे बाधकामावादतो यथार्थपदमवश्यं देयमिति समाधत्ते तथापीति । इत्यादौ - इत्यादिव्यवहारे । प्रत्येतव्यस्वात् = तादृशविषयस्वविषयकप्रत्ययस्योपादात् । वक्ष्यमाणसम्बन्धेति । स्वज्ञानविषयप्रकृतहेतुतावच्छेदकवत्वसम्बन्धार्थकम् । तथा व्यवहार इति । धूमाभावववृत्तिस्वविशिष्टवयादिरूपव्यभिचारस्य * कलाविलासा प्रामाणिकत्वादिति तु विभावनीयम् । यद्यपि पर्वतत्वावच्छिन्न इत्यादि । ननु नअसमभिव्याहारस्थले यत्र धर्मिणि येन सम्बन्धेन यत्प्रकारको बोधोऽनुभवसिद्धः नसमभिव्याहारस्थले तत्र धर्मिणि तत्सम्बन्धावच्छिन्नप्रतियोगिताकतद "Aho Shrutgyanam" Page #91 -------------------------------------------------------------------------- ________________ चन्द्रकला-कलाविलासाख्यटीकाद्वयालंकृतम् गादाधरी नच तत्र विशेष्ये तृतीयान्तार्थवह्नित्ववैशिष्ट्यभानाद्रासभे तद्बाधेन नायमतिप्रसङ्ग इति वाच्यम् , तथासति दोषपदार्थघटकानुमितौ वह्नित्वावबच्छिन्नहेतुकत्वाऽलाभात् तल्लाभानुरोधेन हेतुप्रकारकज्ञानजन्यानुमितिप्रतिन्धकरूपदोषपदार्थघटकहेतौ वह्नित्ववैशिष्ट्यरूपतृतीयान्तार्थस्य, ६ चन्द्रकला स्त्रज्ञानविषयप्रकृतहेतुतावच्छेदकवत्त्वसम्बन्धेन वयादाचेव वर्तमानतया तेन सम्बन्धेन तादृशव्यभिचाराभाववति रासभे तत्सम्बन्धावच्छिन्नव्यभिचारप्रकारताकभ्रमीयविशेष्यत्वरूपदुष्टत्वस्य रासमे सत्वात् रासमतात्पर्येण धूमसाधने अयं दुष्ट इति व्यवहारः स्यात् , यदि यथार्थपदोपादानं न स्यादित्याशयः।। ननु धूमसाधने वह्नित्वेनायं दुष्ट इत्यादौ वहिरवपदोत्तरं तृतीयार्थों वैशिष्ट्यं तच्च समवायरूपं तस्य च अनुयोगितासम्बन्धेन इदन्वावच्छिन्ने विशेष्ये रासभ एवाम्बयस्यावश्यकतया रासभे च तादशवद्वित्वसमवायानुयोगिरवस्यासत्वात् ब्यवहर्त्तव्यस्याप्रसिद्धया कथं तादृशव्यवहार इत्याशंकते नचेति । वाच्यमिति परेणान्वयः । तत्र = धूमसाधने वह्नित्वेनायं दुष्ट इत्यत्र । विशेष्ये = इदम्पदार्थे । तहाधेन - तृतीयान्तार्थवैशिष्ट्यात्मकसमवायानुयोगित्वविरहेण । नातिप्रसंग इति । न वह्नित्ये नायं दुष्ट इतिव्यवहारापत्तिरूपातिप्रसंगः । व्यवहारं प्रति व्यवहर्त्तव्यज्ञानस्य हेतुत्वेन व्यवहर्त्तव्यस्याप्रसिद्धत्वात् तज्ज्ञानस्यैवाऽसम्भवात् असतः ज्ञानविषयत्वानभ्युपगमादिति हृदयम्। समाधत्ते तथा सतीति । विशेष्ये तृतीयान्तार्थवलित्ववैशिष्टयस्यान्वयाभ्युपगमे सतीत्यर्थः । दोषेति । प्रकृतानुमितिप्रतिबन्धकत्वरूपदोषपदार्थघटकानुमितावित्यर्थः । तल्लाभेति । वह्निस्वादिरूपप्रकृतहेतुतावच्छेदकावच्छिन्न हेतुकस्वलाभानुरोधेनेत्यर्थः । अनुमितौ तस्यालाभे प्रकृतहेतुप्रकारकज्ञानविरोधिस्वरूपासियादिकमादाय स्वरूपासिद्ध हेतौ दुष्टत्वव्यवहारः स्वरूपासिद्धत्वव्यवहारो वा न स्यादितिभावः । वह्नित्वेति । वह्नित्वसमवायानुयोगिस्वरूपस्य वैशिष्टयस्य वह्नित्वसमवायरूपस्य वा वैशिष्ट्यरूपस्य तृतीयान्तार्थस्येत्यर्थः। यदि वह्नित्वेनायं दुष्ट इत्यादौ तृतीयान्तार्थों वतित्ववैशिष्ट्यरूपः समवायस्तस्य च दोषपदार्थघटक हेतावेवानुयोगितयान्वय कलाविलासः भावप्रकारकान्वयबोध इति व्युत्पत्तेः कथं धूमेन पर्वते वह्निसाधने धूमो न दुष्ट इति व्यवहारः तत्र समभिव्याहतपदार्थान्वितदूषधात्वर्थस्याप्रसिद्धथा तदभावप्रकारकान्वयबोधाऽसम्भवादिति चेन्न, अत्रानन्यगतिकतया तादृशव्युत्पत्त्यस्वीकारेण तत्पक्षकतत्साध्यकतहेतुकानुमितिप्रतिबन्धकतावच्छेदकतायां स्ववृत्तितावच्छेदकत्वो "Aho Shrutgyanam" Page #92 -------------------------------------------------------------------------- ________________ अनुमानगादाधयां सामान्यनिरुक्तिप्रकरणम् * गादाधरी तत्प्रकारतायां वा वच्छिन्नत्वार्थकतृतीयान्तलभ्यवह्नित्वावच्छिन्नत्वस्यान्वय इत्यस्यैवोपगन्तव्यत्वात् । नच विशेष्ये वह्नित्वादिधर्मवैशिष्ट्यबोधकपदसमभिव्याहारस्थले दोषार्थकधातोरेव वह्नित्वावच्छिन्नहेतुकानुमितिप्रतिबन्धकोर्थः, अथवा अनुमित्यर्थकसाधनशब्दस्यैव वह्नित्वाद्यवच्छिन्नहेतुकानुमितिरूपविशेष लाक्षणिकत्वम् , दुषधात्वर्थेऽनुमित्यन्तर्भावे साधनपदार्थानन्वयप्रसङ्गात् , तथाच विशेष्य एव तृतीयार्थवैशिष्ट्यान्वयोपगमा * चन्द्रकला * स्तदा याशस्थले वह्नित्वेन घटावगाहिभ्रमात्मकपरामर्शादेव धूमानुमितिः तादृशस्थले हेतौ वह्नित्ववैशिष्ट्यरूपसमवायानुयोगित्वस्याभानात् तदानीं धूमसाधने वद्वित्वेनायमितिवह्नितात्पर्यकोऽपि व्यवहारो न स्यादित्यत आह तत्प्रकारतायामिति । हेतुप्रकारकज्ञानजन्यानुभितिप्रतिबन्धकरूपदोषपदार्थघटकहेतुप्रकारतायामित्यर्थः। इत्यस्यैवोपगन्तव्यत्वादिति । तथा च धूमसाधने वह्नित्वेनायं दुष्ट इत्यादौ वह्नित्वपदोत्तरं तृतीयार्थोऽवच्छिन्नत्वं निरूपितत्वसम्बन्धेन वह्नित्वान्वयिनस्तस्य तादृशप्रकारतायामन्वयः, एवञ्च भ्रमात्मकतादृशपरामर्शीयकारताया हेतुतावच्छेदकावच्छिन्नतया अनुपपत्त्यभावात् विशेष्ये तृतीयान्तार्थानन्वयेन रासभतात्पर्येण धूमसाधने वह्नित्वेनायं दुष्ट इति व्यवहारवारणं दुःशक्यं स्यात् यदि यथार्थपदोपादानं न स्यादित्याशयः। पुनः शंकते नचेति । विशेष्ये = रासभादौ । वह्नित्वादीति । हेतुतावच्छेदकार्थकम् । तथा च विशेष्यवाचकपदसमभिव्याहृततृतीयान्तपदजन्यशाब्दबोधे तृतीयार्थस्य वैशिष्टयस्यैव विशेष्ये प्रकारतया भानं भवति, अत एव जटाभिस्तापसो दृश्यते इत्यत्र शाब्दबोधे जटासम्बन्धस्य तापस एव भानं सर्ववादिमिद्धमिति भावः । नन्वेवं धूमसाधने वह्नित्वेनायं दुष्ट इत्यादौ विशेष्ये तृतीयार्थवैशिष्टयान्वयाभ्युपगमे साधनपदार्थानुमितौ वतित्वावच्छिन्नहेतुकत्वलाभो न स्यादित्यत आह दोषार्थ केति । निष्टाप्रत्ययान्तदोषार्थकदूषधातोरेवेत्यर्थः । वह्नित्वेति । लक्षणयेत्यादिः ननु लक्षणया दूषधातोवह्नित्वावच्छिन्नहेतुकानुमितिप्रतिबन्धकपर्यन्तार्थकत्वे साधनपदार्थानुमितेरनन्वयप्रसंग इत्यत आह अथवेति । साधनशब्दस्यैबानुमितिविशेषे लाक्षणिकत्वं नतु दूषधातोरेव तादृशानुमितिविशेषलाक्षणिकत्वमित्याह दुषधात्वर्थ इति । उपसंहरति तथाचेति । विशेष्ये एव = इदम्पदा "Aho Shrutgyanam" Page #93 -------------------------------------------------------------------------- ________________ ७७ चन्द्रकला कलाविलासाख्यटीकाद्वयालंकृतम् * गादाधरी * न्नोक्तातिप्रसङ्ग इति वाच्यम् , एवमपि वह्निना धूमसाधने रासभो दुष्ट इत्यादिब्यवहारस्य भ्रममादायातिप्रसङ्गादिति यथार्थपदसार्थक्यम् । अथवा इतरभेदानुमापकमेवेदं लक्षणम् । तथाच पर्वतपक्षकधूमसाध्यकवह्निहेतुकदुष्टलक्षणस्य तथाविधानुमिति-विरोधि-व्यभिचारादि ॐ चन्द्रकला * र्थीभूतविशेष्य एव । नोक्तातिप्रसंग इति । तथाच तृतीयान्तार्थवह्नित्ववैशिष्ट्यरूपसमवायानुयोगिताया रासभे विरहात् रासभतात्पर्येण धूमसाधने वह्नित्वेनायं दुष्ट इतिव्यवहारापत्तिरूपातिप्रसंगो न सम्भवतीति तात्पर्यम् । उत्तरयति एवमपीति । निरुक्तस्थले तृतीयान्तार्थस्य विशेष्ये बाधेनातिप्रसंगविरहेपीत्यर्थः । भ्रममादायातिप्रसंगादिति । तथाच वह्निना धूमसाधने रासभो दुष्ट इत्यत्र दूधधात्वर्थः प्रतिबन्धकतावान् साधनपदार्थस्त्वनुमितिमात्रम्। साधनपदोत्तरसप्तम्यर्थनिरूपितत्वस्य दूषधात्वर्थंकदेशे प्रतिबन्धकतायामन्तयः, वह्निपदार्थान्विततृतीयार्थवह्निप्रकारताकज्ञानजन्यत्वस्यापि साधनपदार्थानुमितावन्वयः। अथवा तृतीयान्तार्थवहिवैशिष्ट्यरूपसंयोगस्य अनुयोगितया विशेष्ये रासभेऽवाधितस्वादन्वयः। साधनपदन्तु लक्षणया वह्निस्वावच्छिन्नप्रकारताकज्ञानजन्यानुमितिपरम् । एवञ्च वह्नित्वावच्छिन्नप्रकारताकज्ञानजन्यधूमसाध्यकानुमितिनिरूपितप्रतिबन्धकतावान् यो धूमाभाववत्तित्वविशिष्टो वह्निस्वन्निष्ठस्वज्ञानविषयप्रकृतहेतुतावच्छेदकवत्त्वसम्बन्धावच्छिन्नप्रकारतानिरूपितभ्रीय - विशेष्यतावदभिन्नो वह्निवैशिष्टयानुयोगिरासभ इत्यन्वयबोधस्योक्तवाक्यादुरपद्यमानतया यथार्थपदानुपादाने वह्निना धूमसाधने रासभो दुष्ट इति व्यवहारापत्तेर्वारयितुमशक्यत्वादिति भावः । यद्यपि वह्निना धूमसाधने रासभो दुष्ट इत्यादौ वह्निपदोत्तरतृतीयार्थोऽभेदस्तस्य च विशेष्ये रासभे बाधात् न तादृशष्यवहारापत्तिरिति यथार्थपदं व्यर्थमित्युच्यते तदाप्याह अथवेति । इतरेति । दुष्टेतरभेदानुमापकमेवेदं प्रथमलक्षणमित्यर्थः । एवकारात निरुक्तलक्षणस्य दुष्टत्वव्यवहारोपयिकत्वव्यवच्छेदः । लक्ष्यभेदेनेतरभेदानुमापकलक्षणस्यापि भिन्नत्वादाह तथाचेति । * कलाविलासः पलक्षितधर्मावच्छिन्न विषयतात्वव्यापकत्वाभावः प्रतीयते, वृत्तित्वञ्च स्वज्ञानविषयप्रकृतहेतुतावच्छेदकवत्त्वसम्बन्धावच्छिन्नं ग्राह्यमित्यभ्युपगमेऽपि क्षत्यभावात् । अथवेतरभेदानुमापकमिति । यथार्थपददानेऽपि पर्वतो वह्निमान् द्रव्यादित्यादौ वह्नयभाववद्वृत्तिद्रव्यरूपव्यभिचारस्य तादृशद्रव्यत्वादिमत्वसम्बन्धेन धूमादिहेतावपि "Aho Shrutgyanam" Page #94 -------------------------------------------------------------------------- ________________ ७८ अनुमानगादाधयां सामान्यनिरुक्तिप्रकरणम् * गादाधरी के भ्रममादाय सद्धेतावितरभेदव्यभिचारित्वात् यथार्थपदसार्थक्यम्। ज्ञानश्चात्र स्वज्ञानविषयप्रकृतहेतुतावच्छेदकवत्त्वसम्बन्धावगाहि ग्राह्यम् । * चन्द्रकला लक्षणस्येतरभेदानुमापकत्वे चेत्यर्थः । यथार्थपदसार्थक्यमिति। यदि यथार्थपदं न स्यात्तदा पर्वतपक्षकधूमसाध्यकवह्निहेतुको दुष्टः-स्वेतरभिन्नः तादृशपक्षलाध्यहेतुकानुमितिप्रतिबन्धकधूमाभाववत्तिस्वविशिष्टवहिनिष्ठस्वज्ञानविषयप्रकृतहेतुतावच्छेदकवत्त्वसम्बन्धावच्छिन्नप्रकारताकज्ञानविशेष्यतावत्त्वादि । त्याकारकलक्षणात्मकेतरभेदानुमापकहेतोय॑भिचारित्वं स्यात् , धूमाभावववृत्तिस्वविशिष्टवालिरूपव्यभिचारस्य स्वज्ञानविषयप्रकृतहेतुतावच्छेदकवत्त्वसम्बन्धेन वहावेव सत्त्वेन तेन सम्बन्धेन तस्य भ्रमविशेष्यतायाःसद्धतौ तद्रासभेऽपि वर्तमानतया तत्र तादृशदुष्टेतरत्वस्यैव सत्वेन तादृशदुष्टेतरभेदरूपसाध्यस्याऽसरवादतो यथार्थपदम्, तदुपादाने तु नोक्तहेतोयभिचारित्वं पूर्वोक्तव्यभिचारस्ययथार्थज्ञानविशेष्यताया वह्निमात्रनिष्ठतथा तादृशवह्नौ च तादृशदुष्टेतरभेदसत्त्वे बाधाकाभावादिति तु परमार्थः । ननु प्रकृतानुमितिप्रतिबन्धकरूपदोषनिष्ठा प्रकारता यदि सम्बन्धसामान्याबच्छिन्ना तदा यथार्थपदोपादानेऽपि धूमवान् वतरित्यादौ रासभादेर्दुष्टत्वापत्तिः कालिकसम्बन्धावच्छिन्नधूमाभाववद्वृत्तिवाहिनिष्टप्रकारताकयथार्थज्ञानविशेष्य • ताया रासमेऽप्यनपायादित्यत आह ज्ञानं चात्रेति । निरुक्तप्रथमलक्षणघटकीभूतं यथार्थज्ञानन्न्चेत्यर्थः । स्वज्ञानेति। स्वम् प्रकृतानुमितिप्रतिबन्धकतावान् दोषस्त * कलाविलासः सत्त्वेन धूमो दुष्ट इतिव्यवहारापत्तिवारणाय तद्रूपावच्छिन्नहेतुकानुमितिप्रतिबन्धकप्रकारकज्ञानविषयत्त्वं तद्रूपावच्छिन्नस्य दुष्टत्वव्यवहारनियामकं वाच्यमतो न वह्निना धूमसाधने रासभो दुष्ट इति व्यवहारापत्तिरित्यत आह अथवेति । न च वह्निना धूमसाधने आर्टेन्धनप्रभववह्निर्दुष्ट इति व्यवहारापत्तिरिति वाच्यम् , तद्रपमात्रावच्छिन्ने दुष्टत्वव्यवहारनियामकत्वस्य विवक्षितत्वात् । नचैवं वह्निना धूमसाधने अयोगोलकीयवह्निर्दुष्ट इतिव्यवहारानुपपत्तिरिति वाच्यम् , इष्टापत्तेः । नचोक्तलक्षणस्येतरभेदानुमापकत्वे प्रमेयरूपदुष्टहेतोरितराप्रसिद्धथा साध्याप्रसिद्धिरिति वाच्यम् , दुष्टव्यवहारविषयतावच्छेदकानवच्छिन्नप्रकारताश्रयस्यैव तादृशेतरत्वेन विक्षितत्वात् । दोषविशिटस्य प्रमेयस्याऽदुष्टप्रमेयान्तरभेदाभ्युपगमेऽपि तादृशेतरत्वप्रसिद्धिसम्भवाच्च । यत्रेतरत्वस्य प्रसिद्धिस्तत्रैव लक्षणस्येतरभेदानुमापकत्वमित्यस्य स्वीकारेऽपि शत्यभावाच्च । स्वज्ञानविषयेति । ननु हृदो वह्निमान् प्रमेयधूमादित्यादौ वह्नय "Aho Shrutgyanam" Page #95 -------------------------------------------------------------------------- ________________ चन्द्रकला कलाविलासाख्यटीकाद्वयालंकृतम् ७२ वादाघरी तेन प्रकृतहेतुभिन्नस्यापि सम्बन्धान्तरेण दोषप्रमाविषयत्वेऽपि नातिप्रसङ्गः । अग्रेऽपीदृशसम्बन्धेनैव तद्वत्त्वं बोध्यम् । अथ ज्ञायमानपक्षनिष्टसाध्याभावत्वादिना बाधादिदोषाणां प्रतिबन्धकता न सम्भवति, साध्याभावत्वादिना पदार्थान्तरस्यैव यत्र ज्ञानं तत्र * चन्द्रकला उज्ञानविषयोभूतप्रकृतहेतुताच्छेदकवत्त्वसम्बन्धावच्छिन्न तादृशदोष निष्टप्रकारताकमित्यर्थः । तेन = निरुक्तदोष निष्टप्रकारताया यथोक्तसम्बन्धावच्छिन्नत्वविवक्षणेन । प्रकृतेति । धूमादिसाध्यकवह्नयादिहेतुभिन्नस्य रासभादेः । सम्बन्धान्तरेण = कालिकादिसम्बधेन । दोषेति । दोषनिष्टप्रकारताकयथार्थ ज्ञान'विषयत्वेऽपीत्यर्थः । नातिप्रसंग इति । दुष्टत्वापत्तिरूपातिप्रसंगो नेत्यर्थः । इदमुपलक्षणम्, तादृशसम्बन्धाविवक्षणे प्रकृतहेतुभिन्ने सङ्केतावितरभेदव्यभिचारित्वापत्तिरपि द्रष्टव्या । अग्रेऽपि = द्वितोयादिलक्षणेऽपि । तादृशेति । स्वज्ञानविषयप्रकृत हे तुतावच्छेदकवत्वसम्बन्धेनेत्यर्थः । तद्वत्त्वम् = दोषवस्त्र मित्यास्तां विस्तरः । ननु हृदो वह्निमानित्यनुमितिं प्रति यदि ज्ञानविषयहृदवृत्तित्वविशिष्टवयभावत्वादिना दोषाणां प्रतिबन्धकता तदा वह्न्यभावत्वेन घटावगाहि-हदो वह्वयभाववानिव्याकारत्र ज्ञानविषयस्य तादृशानुमित्यप्रतिबन्धकतया तादृशज्ञानवि यसवदशायां हृदो वह्निमानित्यनुमित्यापत्तिस्स्यात्, भ्रमविषयस्य दोषत्वाऽसम्भवादिति येन रूपेण तादृशानुमितिप्रतिबन्धकत्वं विचारसहं तद्रूपस्य पर्वतो वह्निमान् धूमादित्यादौ पर्वतादिधर्मिकवह्नयभावभ्रमविषयवह्नघ भावादिसाधारणतया केवलवह्रयभावादिकमादाय तादृशस्थले धूमादिसङ्केतावतिव्याप्यापत्तिरित्याशंकते अथेति । बाधादीत्य श्रादिपदात् व्यभिचारादिदोषान्तरपरिग्रहः । पक्षनिष्टसाध्याभाववादिना पक्षधर्मिकसाध्यप्रकारक बुद्धिप्रतिबन्धकत्वाभ्युपगमे दोषमाह साध्येति । पदार्थान्तरस्य = घटादेः यत्र = यादृशस्थले | ज्ञानम् = निश्चयः । * कलाविलासः भाववद्दादिरूपदोषविषयक प्रकृत हेतुविषयकज्ञानविषयतावच्छेदकप्रमेयत्ववत्वस्य घटादावपि सत्त्वेन तस्य दुष्टत्वापत्तिभिया स्वज्ञानविषयप्रकृत हेतुतावच्छेदकतापर्यात्यधिकरणधर्मवत्त्वसम्बन्धावच्छिन्नदोषप्रकारताया अवश्यं वक्तव्यतया काञ्चनमयधूम हेतोर्दुष्टत्वानुपपत्तिः, प्रकृतहेतुतावच्छेदकतापर्याप्त्यधिकरणकाञ्चनमयधूमत्वस्याप्रसिद्धत्वादिति चेन्न, प्रकृत हेतुनिरूपितवृत्तिता विशिष्टा वच्छेद कताया एव विवक्षितत्वात् | वैशिष्ट्यञ्च सामानाधिकरण्यसम्बन्धेन, तथाच प्रमेयधूम हेतु कस्थले "Aho Shrutgyanam" Page #96 -------------------------------------------------------------------------- ________________ अनुमानगादाधय सामान्यनिरुक्तिप्रकरणम् * गादावरी दोषाणामज्ञायमानतयाऽविरोधित्वेनानुमित्यापत्तेः, किन्तु ज्ञानीयपक्षताव - ८० च्छेदकाद्यवच्छिन्नविषयतानिरूपितसाध्याभावत्वाद्यवच्छिन्नविषयत्तावत्त्वेन तादृशविषयतया ज्ञानविशिष्टत्वेन वा । तच्च रूपं तादृशभ्रमविषयपदार्थान्तरसाधारणमेदेति तेषामपि तादृशभ्रमदशायां विरोधित्वान्नोक्तापत्तिः । सद्धेतूनामनुमितिप्रतिबन्धकतावच्छेदकनिरुक्तविषयताश्रयवह्नय भावादिप्रमाविशेष्यत्वादतिव्याप्तिरिति चेन्न, एवञ्च * चन्द्रकला तत्र = तादृशस्थले | दोषाणाम् = हृदादिपक्षवृत्तित्वविशिष्टवह्नयभावत्वविशिष्टनह्रयभावादीनाम् । अज्ञायमानतयेति । घटादिपदार्थान्तरस्यैव ज्ञायमानत्वादिति तात्पर्यम् | अविरोधित्वेन = अप्रतिबन्धकत्वेन । अनुमित्यापत्तेरिति । पक्षधर्मिकसाध्यादिप्रकारकानुमित्यापत्तेरित्यर्थः । ननु तर्हि केन रूपेण बाधादिदोषाणां प्रतिबन्धकतेत्यत आह किन्त्वित्यादि । तथाच हृदादिधर्मिकवह्नयाद्यनुमितिं प्रति निश्चयनिरूपिता या हदादिपक्षतावच्छेदकावच्छिन्नविषयतानिरूपिता वह्नित्वाद्यबच्छिन्नविषयतानिरूपिता भावत्वावच्छिन्नविषयता तद्वत्वेनैव प्रतिबन्धकत्वं वक्तव्यमित्याशयः । ननूक्तविषयतायाः प्रतिबन्धकतावच्छेदकत्वाम्युपगमे तस्याः सम्बन्धावच्छि न्नत्वस्यावश्यकतया गौरवमतो लाघवात् तादृशविषयतायाः संसर्गमयोदया भानमाह तादृशेति । पक्षादिविषयतानिरूपितसाध्याभावत्वावच्छिन्नविषयतासम्बन्धेनेत्यर्थः । ज्ञानेति । निश्वयवत्वेनेत्यर्थः । तथाच तादृशविषयतासम्बन्धेन निश्चयस्यैव तादृशप्रतिबन्कतावच्छेदकत्वमिति भावः । तच्चेति ताशविषयतावत्वादिरूपञ्चेत्यर्थः । तादृशेति साध्याभाववादिना घटादिपदार्थान्तरावगाहिभ्रमविषयघटादिसाधारणमित्यर्थः । तेषामपि = साहा घटादीनामपि । विरोधित्वात् = प्रतिबन्धकत्वात् । नोक्ता पत्ति: : = न पक्षधर्मिकसाध्यानुमित्यापत्तिः । एवञ्चेति । तादृशविषयतावत्त्वादिना प्रतिबन्धकताया आवश्यकed चेत्यर्थः । सद्धेतूनामपि = पर्वतादिपक्षक वह्नयादिसाध्यकधूमादिसद्धेतूनामपि । प्रमाविशेष्यत्वादित्यमेतनेनान्वयः । अतिव्याप्तिरिति । तथाच पर्व * कलाविलासः प्रमेत्वधूमत्वयोरवच्छेदकत्वं तादृशवृत्तिताविशिष्टमिति नातिव्याप्तिः, साधनाप्रसिद्धी. च धूमत्वस्यैव तादृशावच्छेदकत्वं नतु काञ्चनमयत्वस्येति नाव्याप्तिः । न च प्रमेयत घटो दुष्ट इति व्यवहारापत्तिरिति वाच्यम्, तादृशव्यवहारस्येष्टत्वादिति विभावनीयम् । "Aho Shrutgyanam" Page #97 -------------------------------------------------------------------------- ________________ चन्द्रकला - कलाविलासाख्य टीकाद्वयालंकृतम् गादाधरी ८१ यद्रूपावच्छिन्नविषयतासामान्यं प्रकृतानुमितिप्रतिबन्धकतावच्छेदकं तद्रूपविशिष्टप्रकारकप्रमाविशेष्यत्वमेव विवक्षणीयम् । हृदो वह्निमान् धूमादित्यादौ 'च तादृशं रूपं हृदविशिष्टवहयभावत्वादिकं, हदे वह्निर्नास्तीत्यादिज्ञाननिरूपिततद्रूपावच्छिन्नविषयतासामान्यस्यैव हृदत्वाद्यवच्छिन्नविषयतानिरूपितवहयभावत्त्वाद्यवच्छिन्नविषयतात्वेन दोषनिष्ठानुमितिप्रतिबन्धकताय/सवच्छे Degre * चन्द्रकला * तत्वावच्छिन्नविषयतानिरूपितवढ्यभावत्वावच्छिन्नविषयतावत्त्वेन पर्वतो वह्निमान् धूमादित्यादौ पर्वतो वह्नयभाववानित्याकारकभ्रमीयवह्न्यभावादेरप्युपादातुं शक्यतया तारावह्रयभावरूपानुमितिप्रतिबन्धकनिष्ठस्वज्ञानविषयप्रकृतहेतुतावच्छेदकवत्त्वसम्ब "Aho Shrutgyanam" न्धावच्छिन्नप्रकारताकयथार्थज्ञानविशेष्यत्वस्य निरुक्तधूमादिसद्धेतौ सत्त्वात् तत्रातिव्याप्तिरितिभावः । समाधत्ते यद्रूपेत्यादि । तथाच यद्रूपावच्छिन्नविषयतात्वव्यापक प्रकृतानुमितित्वव्यापक प्रतिबध्यतानिरूपितप्रतिबन्धकतावच्छेदकत्वं तद्रूपावच्छिन्नस्वज्ञानविषयप्रकृतहेतुतावच्छेदकवत्त्वसम्बन्धावच्छिन्नप्रकारताकयथार्थज्ञानविशेष्यत्वं दुष्टत्वमिति प्रथमलक्षणार्थः पर्यवसितः । हृदो वह्निमान् धूमादित्यादौ हृदवृत्तित्वविशिष्टवयभावत्वं आधेयतासम्बन्धेन हृदविशिष्टवह्नयभावत्वं वा यद्रूपदेनोपादाय तादृशवह्न्न्यभावत्वावच्छिन्नविषयतात्वं यत्र यत्र तत्रैव हृदधर्मिकवह्नयनुमितिप्रतिबन्धकतावच्छेदकताया आवश्यकतया हृदविशिष्टवह्नय भावत्वावच्छिन्न विषय. तात्वव्यापकत्वस्य प्रकृतानुमितिप्रतिबन्धकतावच्छेदकतायामक्षतत्वात् तादृशवह्नयभावत्वावच्छिन्नस्वज्ञानविषयप्रकृत हेतुतावच्छेदकवत्त्वसम्बन्धावच्छिन्न प्रकारता कहृदवृत्तिवह्नयभाववान् धूम इत्याकारकयथार्थज्ञानविशेष्यताया धूमेऽनपायात् तत्र लक्षणसमन्वय इत्याह ह्रदो वह्निमानिति । यथा हृदत्वावच्छिन्न विषयतानिरूपितवलय भावस्वावच्छिन्नविषयतात्वेन बाधात्मक ह्रदविशिष्टवच भावनिष्ठ प्रकृतानुमितिप्रतिबन्ध कलाविलासः यद्रूपावच्छिन्नविषयतासामान्यमिति । नन्वत्र कल्पे पर्वतो वह्निमान् धूमादित्यादिसद्धेतौ पाषाणमयत्ववत्पर्वतत्वावच्छिन्नविषयतासामान्यस्यैव प्रकृतानुमितिप्रतिबन्धकतावच्छेदकतया तत्प्रकारकप्रमाविशेष्यत्वस्य हेतौ सत्त्वादतिव्याप्तिः, पाषाणमयो न वह्निमान् पर्वतश्च पाषाणमय इति ज्ञानविशिष्टज्ञानस्य प्रकृतानुमितिप्रतिबन्धकत्वात् समानाकारकज्ञानविषयताया ऐक्यात्, अन्यथाऽग्रेsपि ६ Page #98 -------------------------------------------------------------------------- ________________ अनुमानगादाधयाँ सामान्यनिरुक्तिप्रकरणम् ____® गादाधरी ® दकत्वात् । सद्धेतुस्थले च न केवलवह्नयभावत्वादिकं तथा, तदवच्छिन्नविषयतासामान्यान्तर्गतधय॑विषयकज्ञाननिरूपितताहशविषयतानामनुमितिप्रतिबन्धकतानवच्छेदकत्वात् । * चन्द्रकला * कतायां तादृशवह्नयभावत्वावच्छिन्नविषयताया अवच्छेदकत्वं तथा धूमवान् वढेरित्यादावपि वह्निनिष्ठधूमाभावववृत्तित्वरूपव्यभिचारविषयताया अपि तथात्वमित्यनयैव रीत्या व्यभिचारिणि वह्नयादावपि लक्षणसमन्वयः स्वयमूहनीयः। पर्वतो वह्निमान् धूमादित्यादिसद्धतावतिव्यातिं वारयति सद्धतुस्थल इति । पर्वतादिपक्षकवह्नयादिसाध्यकधूमादिहेतुकस्थले इत्यर्थः । तथा = यद्रूपान्तर्गतम् । कुत इत्याकांक्षायामाह तदवच्छिन्नति । केवलवह्नयभावत्वावच्छिन्नविषयतासामान्यान्तर्गतायाः पर्वतादिरूपधर्म्यविषयकज्ञाननिरूपितवह्नयभावत्वावच्छिन्नविषयतायाः प्रकृतानुमितिप्रतिबन्धकतानवच्छेदकत्वादित्यर्थः । ननु केवलवह्नयभावत्वादेः यद्रूपपदेनोपादानाऽसम्भवेऽपि आधेयतासम्बन्धेन पर्वतविशिष्टवह्वयभावत्वादिकमेव यद्रूपपदेनोपादाय सद्धेतावतिव्याप्तिः सम्भवतीत्यतः कलाविलासः तादृशज्ञानमादायातिव्याप्तिदानाऽसंगतिः स्यादिति चेन्न, ज्ञानभेदेन विषयताभेदमङ्गीकृत्यैवैतल्लक्षणकरणात् , अग्ने च समानाकारकज्ञानीयविषयताया ऐक्यं स्वीकृत्य दोषस्य वयमाणत्वात् । एवञ्चानाहार्याप्रामाण्यज्ञानानास्कन्दिताव्याप्यवृत्तिरवभ्रमानास्कन्दितनिश्चयवृत्तित्वं यद् पावच्छिन्नविषयतायां निवेश्यम् , अन्यथा अस. म्भवापत्तेः । श्रव्याप्यवृत्तित्वज्ञानानास्कन्दितत्वनिवेशे वृक्षः कपिसंयोगी एतवृक्षत्वादित्यादौ कपिसंयोगाभाववद्वक्षमादायातिव्याप्तिरतोऽव्याप्यवृत्तिस्वभ्रमानास्कन्दितत्वनिवेशस्तथासति वृक्षे कपिसंयोगाभावोऽव्याप्यवृत्तिरित्याकारकाव्याप्यवृत्तित्वज्ञानास्कन्दितनिश्चयस्यापि अव्याप्यवृत्तित्वभ्रमानास्कन्दिततया धर्तुं शक्यत्वान्नातिव्याप्तिः। नचैवमसाधारण्येऽव्याप्तिः, पक्षधर्मताज्ञानासमानकालीनतादृशासाधारण्यविषयताया अपि तादृशविषयतासामान्यान्तर्गततया तस्याःप्रतिबन्धकतानवच्छेदकत्वादिति वाच्यम्, अस्य दुष्टलक्षणत्वेन दोपलक्षणस्वाभावात् , असाधारण्यनियतवाधस्वरूपासिद्ध्याद्यन्यतमदोपमादायैव हेतौ दुष्टत्वसम्भवात् । नच "Aho Shrutgyanam" Page #99 -------------------------------------------------------------------------- ________________ चन्द्रकला कलाविलासाख्यटीकाद्वयोपेतम् गादाधरी पर्वतविशिष्टवह्नयभावत्वादिविशिष्टश्च न किञ्चिद्वस्तु प्रसिद्धमिति नाति. प्रसङ्गः । तृतीयमपि लक्षणमनयैव रोत्या परिष्कार्यमिति । चन्द्रकला 8 आह पर्वतेति । आधेयतासम्बन्धेनेत्यादिः । न किञ्चिदिति । तथाच पर्वतविशिष्टवह्नयभावत्वादेरप्रसिद्धतया न तस्य यद्रूपपदेनोपादानं कथमपि सम्भवतीति हृदयम् । नातिप्रसंग इति । केवलपर्वतत्वावच्छिन्नविषयतात्वस्य केवलवह्नयभावत्वावच्छिन्नविषयतात्वस्य च पर्वतः वह्नयभावः इत्याद्याकारकज्ञाननिरूपितवह्नयभावत्वाद्यवच्छिन्नविषयतायामपि सत्वात् तत्र च प्रकृतपर्वतादिधर्मिकतादृशानुमितिप्रतिबन्धकतावच्छेदकत्त्वविरहेण वह्नयभावत्वाद्यवच्छिन्नविषयतात्वव्यापकत्वस्य अनुमितिप्रतिबन्धकतावच्छेदकत्वेऽसत्त्वात् यद्रूपपदेन पर्वतत्ववह्नयभावत्वादेर्धर्तुमशक्यत्वात् । आधेयतया पर्वतविशिष्टवह्नयभावत्वावच्छिन्नविषयतात्वव्यापकत्वस्य प्रकृतानुमितिप्रतिबन्धकतावच्छेदकतायां वर्तमानत्वेऽपि तादृशस्य वस्तुत्वाभावेनालीकतया तस्यापि यद्रूपपदेनोपादानाऽसम्भवान सद्धतायुक्तलक्षणस्यातिव्याप्तिः सम्भवतीति तु परमार्थः । तृतीयलक्षणस्यापि शायमानदोषस्य प्रतिबन्धकत्यमभ्युपेत्यैव वक्तव्यतया तस्य व्याख्यान्तराऽसम्भवादाह तृतीयमपीति । तथाच तृतीयलक्षणस्य दोषलक्षणत्वे यद्रूपावच्छिन्नविषयतासामान्यं प्रकृतानुमितिप्रतिबन्धकतावच्छेदकं तद्रूपवत्त्वमर्थः, दुष्टलक्षणत्त्वे तु प्रथमलक्षणार्थ एव पर्यवसित इति भावः । ननु सर्वत्रैव दोषविषयकप्रकृतहेतुविषयकसमूहालम्बनशानस्यापि प्रकृतानुमितिप्रतिबन्धकतया प्रकृतानुमितिप्रतिबन्धकयथार्थज्ञानविषयप्रकृतहेतुतावच्छेदकवत्त्वमेव दुष्टत्वं वाच्यमिति दोषशानस्य प्रतिबन्धकत्वसम्भवे दोषाणां प्रतिबन्धकत्वाभिधानम * कलाविलासः तथाप्यसाधारण्येन दुष्ट इतिव्यवहारानुपपत्तिः यद्यपीत्याद्युत्तरग्रन्थाऽसंगतिश्च, तत्र दोषवटितलक्षणस्याभिधानादिति वाच्यम्, तादृशज्ञानीययद्धर्मावच्छिन्नविषयतात्वव्यापकः प्रकृतानुमितिप्रतिवन्धकतानवच्छेदकत्वाऽसाधारण्यविषयिताभिन्नत्वोभयाभाव इतिविवक्षणेनादोषात् । "Aho Shrutgyanam" Page #100 -------------------------------------------------------------------------- ________________ ८४ अनुमानगादाधों सामान्यनिरुक्तिप्रकरणम् ® गादाधरी 8 ___ यद्यपि अस्य दुष्टहेतुलक्षणत्वे ज्ञायमानदोषप्रतिबन्धकतामतानाश्रयणेपि तद्रूपावच्छिन्नपक्षसाध्यहेतुकानुमितिप्रतिबन्धकप्रमाविषयतद्धतुतावच्छेदकवत्त्वं तद्रूपावच्छिन्नपक्षसाध्यहेतुकस्थले तेनैव रूपेण दुष्टत्वमित्यर्थकतामुपगम्य यथार्थपदसार्थक्यमुपपादयितुं शक्यते । तथापि दुष्टस्य दोषधटितत्वानुरोधेन तन्मतमवलम्ब्य षष्ठीसामास आहत इति । ननु द्वितीयतृतीयलक्षणयोर्दोषेऽतिव्याप्तिरव्याप्तिश्च चन्द्रकला संगतमित्याशंकते यद्यपीति । प्रथमलक्षणस्येत्यर्थः । तद्रूपति साध्यहेतावप्यन्वितम् प्रकृतपक्षाद्यर्थकम् । यद्पावच्छिन्नहेतुकानुमितिस्तद्रूपावच्छिन्नस्यैव दुष्टस्वमित्याह तेनैवेति । हेतुतावच्छेदकादिरूपेणेत्यर्थः । तेन हृदो वह्निमान् धूमादित्यादौ वह्नयभाववद्धदत्वादिना न धूमस्य दुष्टत्वापत्तिरिति ध्येयम् । शक्यत इति । तथाच यथार्थपदानुपादाने पर्वतो वह्निमान् धूमादित्यादौ धूमादिसद्धेतावव्याप्तिः, पर्वतो वन्यभाववान् धूमश्चेत्याकारकसमूहालम्बनशानस्यापि पर्वतादिमिकतादृशानुमितिप्रतिवन्धकतया ताशसमूहालम्बनभ्रमविषयहेतुतावच्छेदकवत्वस्य धूमादी सत्त्वात् , अतो यथार्थपदोपादानमिति भावः। समानाकारकज्ञान विषयताया ऐक्यमभ्युपेत्येदम् । तेन हृदो वह्निमान् वह्निमद्धदादित्यादौ प्रकृतहेतुविषयकदोषज्ञानस्याहार्यतया भ्रमत्वेऽपि न क्षतिरिति मन्तव्यम् । उत्तरयति तथापीति । निरुक्तरीत्या प्रथमलक्षणस्य दुष्टलक्षणत्वसम्भवेपीत्यर्थः । दोषेति । दोषवत्त्वं दुष्टत्वमित्यनुरोधेनेत्यर्थः। तन्मतमवलम्ब्य - दोषाणाम् प्रतिबन्धकतामतमवलम्ब्य । निरुक्तदुष्टलक्षणस्य दोषाऽघटितत्वादिति हृदयम् । - इदमुपलक्षणम् , लक्षणान्तरत्वमप्यस्येति द्रष्टव्यमिति ध्येयम् । अग्रे चेत्यादिदी. धितिमवतारयति नन्विति । तथाच द्वितीयतृतीयलक्षणघटकतत्त्वस्य यथाश्रतार्थपरत्वे कलाविलासः ज्ञानभेदेन विषयताभेदानभ्युपगमे तु अनाहार्यत्वादिविशिष्टयद्र पावच्छिन्नविषयताशालिनिश्चयत्वव्यापकः प्रकृतानुमित्यप्रतिबन्धकत्वाऽसाधारण्यविषयिताशून्यस्वोभयाभावस्तद्र पवत्त्वमिति विवक्षणीयम् । एवञ्च पाषाणमयत्ववान् वयभाववानितिज्ञानाऽकालीनपापाणमयत्ववत्पर्वतनिश्चये निरुक्तोभयाभावाऽसत्वान्न कोऽपि दोष इति ध्येयम् । यथार्थपदसार्थक्यमुपपादयितुमिति । अथ यादृशस्थले हृदादौ वह्नयाधनुमितौ वह्निमद्हदकालीनधूमादेहेतुता तत्र वह्नयभाववढ्दरूपदोषविषयकहेतुतावच्छेदकविषयकसमूहालम्बनज्ञानस्याहार्यतया सत्र प्रकृतानुमितिप्रतिबन्धकत्व "Aho Shrutgyanam" Page #101 -------------------------------------------------------------------------- ________________ चन्द्रकला-कलाविलासाख्यटीकाद्वयोपेतम् ॐ गादाधरो कचिद्धतौ, यत्पदेन दोषस्यैवोपादेयतया तत्त्वस्य तन्मात्रवृत्तित्वादत आह तत्त्वमित्यस्येति । प्रथममात्रस्य दुष्टहेतुलक्षणत्वेनैवोपपत्तौ चरमयोर्दोष. लक्षणत्वमेवोचितम, तत्त्वमित्यस्य यथाश्रुतार्थकत्वानुरोधादतस्तथैवाह श्राद्यस्यैवेति । ईदृशव्याख्याया निर्दोषत्वात् प्राहुरित्युक्तम् । ॐ चन्द्रकला 0 तस्य यत्पदोपस्थाप्यमात्रवृत्तितया हृदो वह्निमान् धूमादित्यादौ वह्नयभाववद्धदरूपदोषेऽतिव्यासिः, तस्य वह्नयभावविशिष्टहृदमात्रनिष्ठत्वात् ह्रदो वह्निमान् वढथभाववज्रदादित्यादौ दोषस्येव दुष्टहेतुतया तत्वस्य वह्नयभावविशिष्टहृदनिष्ठत्वेन दुष्टहेतौ लक्षणसमन्वयसम्भवेऽपि हृदादिपक्षकवह्नयादिसाध्यकधूमादिहेतावव्याप्तिश्चेति समुदितार्थः पयवसितः। कचिद्धतौ = दोषातिरिक्तदुष्टहेतौ। तन्मात्रेति । दोषमात्रवृत्तित्वादित्यर्थः । आहेतिदीधितिकार इति शेषः। तत्त्वस्य तद्वत्त्वार्थकरणे तु न दोषऽतिव्याप्तिः, नवा दुष्टहेतावव्यातिः, तद्वत्त्वरूपदोषवत्त्वस्य दुष्टहेतुमात्रनिष्ठत्वादित्याशयः, तत्त्वमित्यस्य यथाश्रतार्थपरित्यागात् । द्वितीयतृतीयलक्षणे तु दोषस्यैव, प्रथमलक्षणन्तु दुष्टस्यैवेत्यभ्युपगमेऽपि क्षत्यभावात् तत्त्वशब्दस्य लाक्षणिकत्वमयुक्तमित्याशयवतां दीधितिकृतामाद्यस्यैव वेति ग्रन्थावतरणिकामाह प्रथमेति । प्राहुरित्युक्तिं समर्थयति ईदृशेति । प्रथमलक्षणस्येत्यादिः। इति भारतवर्षप्रसिद्ध-साधुवेलाश्रमाधीश-श्रीस्वामिप्रवरोदासीनहरिनामदासविरचिता सामान्यनिरुक्तिप्रथमलक्षणस्य चन्द्रकला टीका समाता। ॐ कलाविलासः 'विरहेण लक्षणगमनाऽसम्भव इति चेन, तादृशानुमितिप्रतिबन्धकतावच्छेदकोभूतविषयताशालिप्रमाविषयहेतुतावच्छेदकवत्वस्य विवक्षणीयत्वात् । समानाकारकज्ञानीयविषयताभेदविरहेण हेतुतावच्छेदकाविषयकनिरुक्तज्ञानीयविषयतामादाय न काप्यनुपपत्तिः । अत एव यत्र हेतुतावच्छेदकविषयकं ज्ञानं नियतं भ्रमात्मकमेव तत्रत्यदोषेऽव्याप्तिरित्यपि पूर्वपक्षो निरस्त इति कृतं पल्लवितेन । इति श्रीमदुदासीनपरमहंसपरिव्राजकाचार्यस्वामिश्रीहरिनामदासविरचिता सामान्यनिरुक्तिप्रथमलक्षणस्य कलाविलासनामिका टीका समाप्ता। "Aho Shrutgyanam" Page #102 -------------------------------------------------------------------------- ________________ "Aho Shrutgyanam Page #103 -------------------------------------------------------------------------- ________________ & श्रीः अथ द्वितीयलक्षणम् । चिन्तामणिः १ यद्विषयकत्वेन लिङ्गज्ञानस्याऽनुमितिप्रतिवन्धकत्वं तत्वम् । दीधितिः लिङ्गमविवक्षितम् । * गादाधरो छ लिङ्गज्ञानस्येति । लिङ्गांशनिवेशस्य निष्प्रयोजनकतया तस्याऽविवक्षितत्वमाह लिङ्गमिति । यद्विषयकत्वेनेत्यत्र तृतीयार्थोऽवच्छेदकत्वं, तच्च यदि अनतिरिक्तवृत्तित्वरूपमिदानी निवेश्यते तदाऽसंभवः, विशिष्टस्याऽनतिरिक्ततया वह्नयभावविशिष्टह्रदादिरूपदोषविषयकत्वस्य शुद्धह्रदत्वावच्छिन्नविषयकज्ञा चन्द्रकला* यद्विषयकत्वेन लिंगज्ञानस्यानुमितिप्रतिबन्धकत्वमितिलक्षणे लिंगपदस्याविवक्षितत्वाभिधानं हेतुपूरणेन समर्थयति लिंगांशनिवेशस्येत्यादि । निष्प्रयोजनकत्वञ्चाविवक्षितत्वे हेतुरित्यवगन्तव्यम् । तथाच यद्विषयकत्वेन ज्ञानस्यानुमितिप्रतिबन्धकत्वं तत्त्वमित्येवं द्वितीयलक्षणमिति भावः । तच्च = तृतीयार्थावच्छेदकत्वञ्च । अनतिरिक्तेति । यद्विषयकत्वव्यापकप्रकृतानुमितिप्रतिबन्धकताकत्वरूपमित्यर्थः । इदानीम् = यद्विषयकत्वेनेत्यस्य यादृशविशिष्ट विषयकत्वेनेत्यर्थाऽकरणदशायाम् । असम्भवे हेतुमाह विशिष्टस्येति । वह्नयभावविशिष्ट ढ्दादेरित्यर्थः। अनतिरिक्ततया = केवलहदादिस्वरूपतया । शुद्धति । वह्नयभावाद्यविषयककेवल "हृद" इत्याकारकज्ञानेऽपीत्यर्थः । तथाचेदानी यद्विषयकत्वव्यापकप्रकृतानुमितिप्रतिबन्धकताविवक्षणे सर्वत्रासम्भवःस्यात्, वन्यभावविशिष्ट-हदादेः केवल-हदाद्यात्मकतया हद इत्याकारकज्ञानेऽपि वन्यभावविशिष्ट हदविषयकत्वस्य वर्तमानतया तत्र हदादिधर्मिकप्रकृतानुमितिप्रतिबन्ध कलाविलासः लिङ्गमविवक्षितमिति । तथाच निरुक्तलक्षणघटकीभूतं लिंगपदं अविवक्षितं निष्प्रयोजनकत्वात् इत्यनुमाने तात्पर्यम्। अत्राऽविवक्षितत्वं अर्थविषयकवोधजनकत्वनिष्ठप्रकारतानिरूपितग्रन्थकारीयेच्छाविशेष्यतावद् यद् यत् तदन्यत्वरूपम् । "Aho Shrutgyanam" Page #104 -------------------------------------------------------------------------- ________________ ८८ अनुमानगादाधर्या सामान्यनिरुक्तिप्रकरणम् * गादाधरी * नेऽपि सत्त्वेनाऽनुमितिप्रतिबन्धकतातिरिक्तवृत्तित्वात् , अतः स्वरूपसंबन्धरूपमेव तद्वाच्यम् , तथा च पर्वतो वह्निमानित्याधनुमितिप्रतिबन्धकभ्रमविषय ॐ चन्द्रकला कताविरहेण लक्ष्यीभूतवह्नयाघभावविशिष्टहृदादिविषयकत्वव्यापकत्वस्य तादृशानुमितिप्रतिबन्धकतायामसत्त्वात् वह्नयभावविशिष्टहदादेयत्पदेनोपादानाऽसम्भवादितिभावः । अत इति । निरुक्तासम्भवभयतः । तद्वाच्यमिति । तादृशतृतीयावच्छे. दकत्वं वाच्यमित्यर्थः । तथाच यद्विषयता प्रकृतानुमितिप्रतिबन्धकतानिरूपितस्वरूपसम्बन्धरूपावच्छेदकतावती तत्त्वमितिलक्षणार्थः पर्यवसितः । ... तथाचेति । स्वरूपसम्बन्धरूपावच्छेदकत्वविवक्षणे चेत्यर्थः । पर्वतो वह्निमानित्याद्यनुमितीत्यत्रादिपदात् हृदो वह्निमानित्याद्यनुमितिपरिग्रहः । भ्रमपदञ्च निश्चयपरम् , तथाच तादृशतादृशानुमितिप्रतिबन्धकनिश्चयविषयवह्नयभावे पर्वतादौ वातिव्यातिरिति समुदितार्थः । ___ कलाविलासः ® निष्प्रयोजनकत्वञ्च फलाभावप्रयोज्येच्छाविषयत्वाभाववत्वस्वरूपमिति बोध्यम् । अथ लिंगात् ज्ञानं लिंगज्ञानमित्युपपत्त्या लिंगजन्यज्ञानपदेनानुमितेलाभात् यद्पावच्छिन्नविषयकानुमितित्वव्यापकं प्रकृतानुमितिप्रतिबन्धकत्वं तद्रूपवत्त्वमेव लक्षणं अनाहार्यत्वाद्यप्रवेशेन लधुभूतं लभ्यते इति कथं लिंगांशस्यानतिप्रयोजनकत्वमुक्तमिति चेन्न ? घटोऽवृत्तिरित्यादौ घटवद्रूपबाधेऽव्याप्तयापत्तेः, निर्मितावच्छेदककघटवदित्याकारकानुमितेरप्रसिद्धेरिति ध्येयम् ।। वस्तुतो यादृशस्थले यद्दोपविपयिणी अनुमितिः कस्यापि न जाता तत्रत्यदोपे अव्याप्तधापत्तिरित्यस्मद्गुरुचरणाः ।। नव लिंगविषयकयद्रूपावच्छिन्नविपयित्वाव्यापकविपयिताशून्ययद्पावच्छिन्नविषयिताशालिनिश्चयाऽप्रसिद्ध्या असम्भवसम्भवे तथाऽपि लिंगांशस्य निष्प्रयोजनकत्वाभिधानमनुचितमिति वाच्यम्, लिंगविषयिताभिन्ना या यद्पावच्छिन्नविषयित्वाच्यापकीभूता विषयिता तच्छून्यत्वनिवेशेऽसम्भवानवकाशादिति वदन्ति । वस्तुतस्तु अव्यापकीभूतविषयिताशून्यत्वं यद्पावच्छिन्नविषयकनिश्चये न निवेश्यमपितु यद्रूपावच्छिन्नविषयितायामेव श्रव्यापकीभूतविषयिताशून्यज्ञानीयत्वोपलक्षितत्वं निवेश्यते, एवञ्च लिंगविपयकदोषविषयकसमूहालम्बनज्ञानमादायैव सर्वत्र लक्षणसमन्वयसम्भवादसम्भवं विहाय लिंगपदस्थानतिप्रयोजनकत्वमभिहितमिति ध्येयम् । "Aho Shrutgyanam" Page #105 -------------------------------------------------------------------------- ________________ चन्द्रकला कलाविलासाख्यटीकाद्वयोपेतम् ८९ __गादाधरी वह्नयभावादावतिप्रसङ्गः तद्विषयकत्वस्यापि प्रतिबन्धकतावच्छेदकघटकत्वात् , असंभवभयेन चाऽवच्छेदकतापर्याप्तिनिवेशाऽसम्भवात् , अतः चन्द्रकला अतिव्याप्तौ हेतुमाह तद्विषयेति । वह्नयभावत्वाद्यवच्छिन्नविषयत्वस्यापीत्यर्थः । प्रतिबन्धकतेति । पर्वतादिधर्मिकवहयाद्यनुमितिप्रतिबन्धकतावच्छेदकधर्मघटकत्वादित्यर्थः। पर्वतत्वाधवच्छिन्नविषयतानिरूपितवह्नयभावत्वाद्यवच्छिन्न विषयताशालि. निश्चयत्वेनैव पर्वतादिधर्मिकवह्नयाद्यनुमितिप्रतिबन्धकताया वक्तव्यतया वह्नयभावत्वाद्यवच्छिन्नविषयताया अपि प्रकृतानुमितिप्रतिबन्धकतावच्छेदकत्वेन यद्विषयतापदेन वह्नयभावादिविषयताया अपि धत्तु शक्यत्वात् स्वरूपसम्बन्धरूपप्रतिबन्धकतावच्छेदकत्वविवक्षणे भवति वह्नयभावादावतिव्याप्तिरिति तु परमार्थः । ननु यद्विषयता प्रकृतानुमितिप्रतिबन्धकतानिरूपितस्वरूपसम्बन्धरूपावच्छेदक. तायाः पर्याप्त्यधिकरणीभूता भवति तत्त्वं हेत्वाभासत्वमित्युक्तौ न वह्नयभावादावतिव्याप्तिः, पर्वतत्वावच्छिन्नविषयतानिरूपितबह्नयभावत्वावच्छिन्नविषयताया एव तादृशा. नुमितिप्रतिबन्धकतावच्छेदकतया तादृशविषयतासमुदायस्थैव प्रतिबन्धकतावच्छेदकतापर्याप्त्यधिकरणत्वेन केवलवह्नयभावविषयतायास्तथात्वासम्भवादित्यत आह असम्भवभयेनेत्यादि । तथाचोक्तरीत्या यद्विषयतायां प्रतिबन्धकतावच्छेदकत्वपर्याप्त्यधिकरणत्वविवक्षणे ह्रदो वह्निमान् धूमादित्यादिस्थले वाधादौ सर्वत्राऽसम्भवःस्यात् , हृदत्वेन नद्यवगाहि-वह्नित्वेन गुञ्जावगाहि-अभावत्वेन घटावगाहि-हृदो वह्नयभाववानित्याकारकज्ञानस्यापि हृदादिधर्मिकवह्नयाद्यनुमितिप्रतिबन्धकतया तादृशानुमितिं प्रति भ्रमप्रमा * कलाविलासः ॐ नच तथापि लिंगपदोपादाने हृदो वह्निमान् वह्निमद्धदादित्यादौ लिंगविषयकवह्नयभाववद्धदविषयकानाहार्यनिश्चयाऽप्रसिद्ध्याऽव्याप्तिसम्भवे लिंगांशस्य निष्पयोजनकत्वाभिधानमसंगतमितिवाच्यम्, लिंगतावच्छेदकतायाः पर्याप्तेरनिवेशात् शुद्धहदत्वस्यापि लिंगतावच्छेदकघटकतया तद्विशिष्ट विषयकत्वस्य वयभाववद्धदनिश्चयेपि सरवात् । नघ तथापि लिंगपदस्य वैयर्थ्यसम्भवे तस्यानतिप्रयोजनकत्वाभिधानमसंगतमिति वाच्यम्, लिंगविषयकय द्विषयकनिश्चयवृत्तिभेदप्रतियोगितावच्छेदकत्वं नास्तीतिव्यापकतारूपाभावस्य यद्विषयकनिश्चयवृत्तिभेदप्रतियोगितापच्छेदकत्वं नास्तोतिप्रतीतिसिद्धाभावाऽघटितत्वेन वैयाऽसम्भवात् तादृशष्यापकतारूपामावतो निरुक्ताभावस्य भिन्नत्वात् । "Aho Shrutgyanam" Page #106 -------------------------------------------------------------------------- ________________ अनुमानगादाधर्या सामान्यनिरुक्तिप्रकरणम् * दीधितिः यद्विषयकत्वेन = यादृशविशिष्टविषयकत्वेन । तेनाऽनुमितिप्रति बन्धकपक्षविशेष्यकभ्रमविषये साध्याभावादौ सद्धत्वादिनिष्ठे नातिप्रसङ्गः। गादाधरी यद्विषयकत्वेनेति पदं व्याचष्टे यादृशविशिष्टविषयकत्वेनेति । यद्पावच्छिन्नविषयताकत्वेनेत्यर्थः । एवं च तत्त्वमित्यस्य तद्रूपावच्छिन्नत्वमर्थः । व्याख्यायाः प्रयोजनं स्फुटयति तेनेति । यत्प्रकारकत्वेन प्रतिबन्धकत्वमित्युक्तौ पक्षविशेषणकभ्रममादाय वह्नयभावादौ नातिप्रसङ्गसंभवः, चन्द्रकला साधारणहृदत्वावच्छिन्नविषयतानिरूपिता या वह्नित्वावच्छिन्नविषयतानिरूपिताभावत्वावच्छिन्नविषयता तच्छालिनिश्चयत्वेनैव प्रतिवन्धकताया वक्तव्यतया निरुक्तनिरूप्यनिरूपकभावापन्न विषयताया एव तादृशानुमितिप्रतिबन्धकतावच्छेदकतापर्याप्त्यधिकरणतया लक्ष्यीभूतवह्नयभावविशिष्टहृदादिविषयतायाः तादृशप्रतिबन्धकतावच्छेदकतापर्याप्स्यधिकरणत्वेन वह्नयभावादिविशिष्टह्रदादेविषयताया यद्विषयतापदेनोपादानासम्भवात् भवत्यसम्भव इति भावः । ___ यद्विषयकत्वेनेति पदं तृतीयान्तं यद्विषयकत्ववाक्यार्थम् । व्याचष्टे = व्याकरोति, दीधितिकार इति शेषः। ननु याहशविशिष्ट विषयकत्वेनेत्यस्य यद्पावच्छिन्नविशिष्ट विषयकत्वेनेत्यर्थकरणे अग्रिमतत्त्वमित्यस्यानन्वयप्रसंगः, तत्त्वस्य यत्पदोपस्थाप्यमात्रनिष्ठत्वादित्यत आह एवज्वेति । यद्पावच्छिन्नविषयकत्वेनेत्यर्थकरणे चेत्यर्थः । तद्रूपावच्छिन्नत्वमर्थ इति । तथाच यद्रूपावच्छिन्नविषयकत्वेन प्रकृतानुमितिप्रतिबन्धकत्वं तद्रूपवत्त्वं हेत्वाभासत्वमित्येतावत्पर्यन्तं लक्षणार्थः पर्यवसितः । पक्षविषयकभ्रमविषये इत्यनुक्त्वा पक्षविशेष्यकभ्रमविषय इत्यभिधानस्य प्रयोजनमाह यत्प्रकारकत्वेनेति । यनिष्ठप्रकारताकत्वेनेत्यर्थकम् । पक्षेति । पक्षनिष्ठप्रकारताकम् पर्वते वह्नयभाव इत्याकारकभ्रममादायेत्यर्थः । नातिप्रसंगेति । पर्वतादिधर्मिकवहयाद्यनुमिति प्रति पर्वते वह्नयभाव इत्याकारकभ्रमात्मकनिश्चयस्य पर्वतनिष्ठप्रकारतानिरूपितवह्नयभावनिष्ठविशेष्यताकत्वेनैव प्रतिबन्धकतया यत्पदेन पर्वतादेर्धत्तुं शक्यत्वात् तत्त्वस्य तन्मात्रनिष्ठत्वेन दीधितिकारोक्तसाध्याभावात्मकवह्नयभावादावतिव्याप्तिर्न सम्भवतीति हृदयम् । "Aho Shrutgyanam" Page #107 -------------------------------------------------------------------------- ________________ चन्द्रकला-कलाविलासाख्यटीकाद्वयोपेतम् ९१ * गादाधरी * पर्वतादावतिप्रसङ्गसंभवेऽपि यत्संबन्धावच्छिन्नयन्निष्ठप्रकारताकत्वेन * चन्द्रकला * ननु यन्निष्ठप्रकारताकत्वेनानुमितिप्रतिबन्धकत्वं . तत्त्वमित्युक्तावपि पक्षविषयकं पर्वते वह्नयभाव इत्याकारकभ्रममादाय पर्वतेऽतिव्याप्तिरस्त्येवेति पक्षविशेष्यकभ्रमपयन्तानुसरणं व्यर्थम् । नच साध्याभावेऽतिव्याप्त्यसम्भवात् साध्याभावादावित्यभिधानमसंगतं स्यादिति वाच्यम् , अतिव्याप्तिमात्रस्यैवोक्तग्रन्थतात्पर्यात् , आधेयत्वसम्बन्धावच्छिन्नप्रतियोगिताकपर्वताभावस्य वह्नयभावादी साध्यतास्थले पर्वतादेरपि साध्यावत्वसम्भवाचेत्यत आह एर्वतादावतीति। यत्सम्बन्धेति । यत्सम्बन्धावच्छिन्नयन्निप्रकारताकज्ञानत्वेनेत्यर्थः । ॐ कलाविलासः * यतसम्बन्धावच्छिन्नयन्निष्ठेति । ननु पर्वतत्वसामानाधिकरण्येन वह्नः साध्यतायां धूमहेतोः सद्धेतुतया तदनुमितिं प्रति पर्वतत्वव्यापकवह्नयभावप्रतियोगिकस्वरूपसम्बन्धेन वह्नयभावप्रकारकपर्वतविशेष्यकज्ञानस्यैव प्रतिबन्धकतया तादृशसम्बन्धाऽप्रसिद्धयैव पक्षविशेष्यकभ्रममादाय सताबतिव्याप्तिवारणसम्भवात् कथं तादृशभ्रममादायातिव्याप्तिदत्ता इति चेन्न, पर्वतत्वसामानाधिकरण्येन वह्नयनुमितिं प्रति यथा पर्वतत्वब्यापकवह्नयभावप्रतियोगिकस्वरूपसम्बन्धेन वह्नयभावप्रकारकज्ञानस्य प्रतिबन्धकत्वं तथा वह्नयभावव्याप्यपर्वतस्वप्रतियोगकसमवायसम्बन्धावच्छिन्नपर्वतत्वनिष्ठावच्छेदकताकविशेष्यताकशुद्धस्वरूपेण वह्वयभावप्रकारकज्ञानस्यापीति तत्सम्बन्धेन तद्वरवस्य धूमहेतौ सत्वेन तादृशभ्रममादायवातिव्याप्तस्संगमनोयत्वात् । नचैवं सति ताशसम्बन्धावच्छिन्नपर्वततत्वनिष्ठावच्छेदकताकशुद्धसंयोगसम्बन्धावच्छिन्नाधेयत्वसम्बन्धावच्छिन्नपर्वतनिष्ठप्रकारताकवलय भावव्याप्यविशेष्यकज्ञानस्यापि तादृशानुमितिप्रतिबन्धकतया शुद्धसंयोगसम्यन्धावच्छिन्नाधेयतासम्बन्धेन पर्वतवत्ताया:धूमे सत्वेन पक्षविशेषणकभ्रममादायाऽपि धूमहेतावतिव्याप्तिः सम्भवतीति वाच्यम यादृशसम्बन्धावच्छिन्नयादृशरूपनिष्ठावच्छेदकताकयाशसम्बन्धावच्छिन्नप्रकारताकत्वेन प्रकृतानुमितिप्रतिबन्धकत्वं तदृशसम्बन्धावच्छिमातादृशरूपनिष्ठावच्छेदकताकताशसम्बन्धावच्छिन्ननिरूपकतानिरूपिताधिकरणताव - श्वस्यैव दुष्टत्वव्यवहारनियामकरवोपगमेन पक्षविशेषणकभ्रममादाय प्रसिद्धधूमहेता "Aho Shrutgyanam" Page #108 -------------------------------------------------------------------------- ________________ अनुमानगादाधर्या सामान्यनिरुक्तिप्रकरणम् * गादाधरी अनुमितिविरोधित्वम् तेन सम्बन्धेन तद्वत्त्वस्य दुष्टताव्यवहारनियामकत्वो * चन्द्रकला तत्सम्बन्धा अनुमितीति । प्रकृतेत्यादिः । तेनेत्यादि / वच्छिन्नतन्निष्ठाधेयतानिरूपिताधिकरणतावत्त्वस्येत्यर्थः । दुष्टतेति । अयं हेतुर्दुष्ट इत्याकारकव्यवहारनियामकत्वस्वीकारे इत्यर्थः । स्वज्ञानविषयप्रकृतहेतुतावच्छेदकवत्त्वसम्बन्धेन दोषसम्बन्धित्वस्यैव स्वमते दुष्टताव्यवहारनियामकत्वादुपगमे इत्युक्तमिति * कलाविलासः ९२ वतिव्याप्रेरयोगात् तादृशसम्बन्धाप्रसिद्धः । नचैवं विवक्षणं कथं तादृशान्यतरत्वतावतिव्याप्तिरिति वाच्यम्, व्याप्तिज्ञानं प्रति साध्याभावधर्मिकस्वरूपसम्बन्धावच्छिन्नाऽधेयतासम्बधेन हेतुमत्प्रकारकज्ञानस्य प्रतिबन्धकतया तादृशभ्रममादायैव तादृशान्यतरत्व हे तावतिव्याप्तिसम्भवादिति भावः । श्रथात्र कल्पे धूमत्ववान् पर्वतो वह्निमान् धूमादित्यादौ धूमस्य दुष्टत्वानुपपत्तिः स्वरूपसम्बन्धेन धूमत्वाभावप्रकारकज्ञानस्य प्रतिबन्धकतया तेन सम्बन्धेन धूमत्वाभावस्य धूमे विरहात् । एवं रूपत्ववत्पर्वतो वह्निमान् तद्रूपात् इत्यादावपि हेतौ दुष्टत्वव्यवहारो न स्यात् रूपत्वाभावादेस्तद्रूपेऽसत्त्वात् इति चेन्न, सर्वत्रैव तदभायः पर्वते इतिज्ञानमादाय हेतुतावच्छेदकसम्बन्धावचिछन्नाधेयतासम्बन्धावचिछ - पर्वतप्रकारकव्याप्यविशेष्यकज्ञानस्यापि प्रकृतानुमितिप्रतिबन्धकतया तेन सम्ब न्धेन तद्वत्वस्य हेतौ सत्वादिति ध्येयम् । वव्याप्यः‍ वस्तुतस्तु धूमत्वाभावत्वादिना घटाभावभ्रमस्यापि स्वरूपसम्बन्धावच्छिन्नघटाभावनिष्ठाकारताकत्वेन अनुमितिप्रतिबन्धकतया स्वरूपसम्बन्धेन घटाभावत्वस्य धूमादितौ सच्चात् धूमत्ववत्पर्वतो वह्निमान् धूमादित्यादी धूमादिहेतावव्याप्तिर्न सम्मवति, एवमन्यत्रापि दुष्टत्वमनयैव रोत्योपपादनीयमिति तु युक्तमुत्पश्यामः । नन्त्रत्र दोषलक्षणं कीदृशं यदि यत्प्रकारकत्वेनानुमितिप्रतिबन्धकत्वं मत्वं तदा वह्नयभाववद्धदस्य दोषत्वं न स्यात् तादृशहृदप्रकारकत्वेनानुमितिप्रतिबन्धकत्वविरहात् । यदिच दोषाऽघटितमेव यत्सम्बन्धावच्छिन्नयत् प्रकारताकत्वेनानुमितिप्रतिबन्धकत्वमित्यादि दुष्टलक्षण मुच्यते तदादोषवत्त्वं दुष्टत्वभिति नियमानुपपत्तिरिति चेन्न श्रन्तराभासमानविषयतयोर्भेदानभ्युपगमे वह्नयभाववद्धदवान्धूम इत्याकारकज्ञानीयस्वज्ञान विषयप कृतहेतुतावच्छेदकवत्वसम्बन्धावचिछप्रकारताया अपि विशेष्यत्वाऽभिन्नतया श्रनुमितिप्रतिबन्धकतावच्छेदकत्वात् यत्प्रकारताकत्वेन प्रतिबन्धकत्वं तवं दोषत्वमित्यस्यैव वक्तव्यत्वादितिध्येयम् । "Aho Shrutgyanam" Page #109 -------------------------------------------------------------------------- ________________ चन्द्रकला-कलाविलासाख्यटीकाद्वयोपेतम् * गादाधरी* पगमे पर्वतादिविशेषणकवह्नयभावज्ञानस्य विशेषणताविशेषावच्छिन्नाधेयतासंसर्गावच्छिन्नपर्वतनिष्ठप्रकारताकत्वेन प्रतिबन्धकत्वात्तेन सम्बन्धेन पर्वतादिमत्तायाः पर्वतमहानसान्यतरत्वादिरूपसद्धतौ सत्त्वेऽपि प्रसिद्धधूमादिहेतावसत्त्वात्तत्र दुष्टताव्यवहारापत्तेरयोग इति तदनुरोधेन पक्षविशेष्यकेत्युक्तम् । भ्रमपदं निश्चयसामान्यपरम् , तेन * चन्द्रकला * ध्येयम् । पर्वतेति । पर्वते वह्नयभाव इत्याकारकभ्रमात्मकनिश्चयस्येत्यर्थः । विशेषणतेति स्वरूपार्थकम् । प्रतिबन्धकत्वादिति । पर्वतो वह्निमान् वह्निव्याप्यधूमवानित्याकारकानुमितीत्यादिः । तेनेत्यादि। स्वरूपसम्बन्धावच्छिन्नाधेयत्वसम्बन्धेनेत्यर्थः । पर्वतादिमत्तायाः = पर्वतादिनिष्ठाधेयतानिरूपिताधिकरणतायाः । तत्र - प्रसिद्धधूमादिहेतौ। तदनुरोधेन = प्रसिद्धधूमहेतौ दुष्टताव्यवहारापत्त्यनुरोधेन । पक्षविशेध्यकेत्युक्तमिति । तथाच पक्षविशेष्यकभ्रममादाय इत्यनभिधाय पक्षविषयकभ्रममादायेत्यभिधाने पर्वतो वह्निमान धूमादित्यादौ प्रसिद्धधूमादिसद्धतौ दुष्टत्वव्यवहारापत्तिर्न स्यात् पर्वतो वढिमान् वह्निध्यायधूमवानित्याकारकानुमितिं प्रति. पर्वते वढ्यभाव इत्याकारकपक्षविषयकभ्रमात्मकनिश्चयस्य पर्वतत्वावच्छिन्नपर्वतनिष्ठस्वरूपसम्बन्धावच्छिन्नाधेयत्वसम्बन्धावच्छिन्नप्रकारताकत्वेनैव प्रतिबन्धकतया स्वरूपसम्बन्धा. वच्छिन्नाधेयतासम्बन्धेन पर्वतवत्वस्य पर्वतपक्षकवह्निसाध्यकपर्वतमहानसान्यतरत्वरूपसद्धेतौ वर्तमानत्वेऽपि तस्य प्रसिद्धधूमरूपसद्धतावसत्वात् । पक्षविशेष्यकेत्युक्तौ तु पर्वतविशेष्यकम् पर्वतो वह्नयभाववानित्याकारकभ्रममादाय प्रसिद्धधूमरूपसद्धतावेव दुष्टत्वव्यवहारापत्तिः सम्भवति, तादृशभ्रमात्मकज्ञानस्य पर्वतधर्मिकवलयाद्यनुमिती स्वरूपसम्बन्धावच्छिन्नवह्नयभावनिष्ठप्रकारताकत्वेनैव प्रतिबन्धकतया स्वरूपसम्बन्धेन वह्नयभाववत्त्वस्य प्रसिद्धधूमरूपसद्धतावनपायादिति भावः । निश्चयसामान्यपरमिति । लक्षणयेत्यादिः। तेन = भ्रमपदस्य निश्चयसामान्यपरत्वाभिधानेन । * कलाविलासः * भ्रमपदं निश्चयसामान्यपरमिति । अथ श्रमविषयसाध्याभावादाविति शिरोमण्युक्तादिपदात बाधितदुष्टहेतुपरामर्शेऽपि तत्रापि भ्रमाविषयसाध्याभावादिकमादाय दुष्टत्वापत्तिसम्भवे भ्रमपदस्य निश्चयसामान्ये लक्षणाकरणमनर्थकमिति "Aho Shrutgyanam" Page #110 -------------------------------------------------------------------------- ________________ अनुमानगादाधय सामान्यनिरुक्तिप्रकरणम् * गादाधरी * सद्धत्वादीत्यादिपदप्राह्यसाध्यशून्यपक्षकदुष्टहेतौ प्रतिबन्धकप्रमाविषयसाध्याभावादेरेव सत्वेऽपि नासङ्गतिः । उक्तव्याख्यानेऽनतिरिक्तवृत्तित्वमेवाडवच्छेदकत्वं विवक्षणीयम् । ६४ * चन्द्रकला * सद्धत्वादीति । सद्धेत्वादिनिष्ठे इत्यत्रादिपदग्राह्ये हृदादिपक्ष कव हयादिसाध्यकदुष्टहेतावित्यर्थः । नासंगतिरिति । भ्रमपदस्य यथाश्रुतभ्रममात्रपरत्वे याहशविशिष्ट - विषयकत्वेनेत्यनुक्तौ हृदो वह्निमान् धूमादित्यादौ धूमरूपदुष्ट हेतावपि हृदो वह्नयभाववानित्याकारकयथार्थज्ञानविषय के वलवह्नयभावादिमत्त्वस्य वर्त्तमानतया केवलसाध्याभावादिमत्त्वमादायासद्धेतावपि दुष्टताव्यवहारापत्तिवारणाय यद्विषयकत्वेनेत्यस्य यादृशविशिष्टविषयकत्वेनेत्यर्थकतायाः सद्धेत्वादिनिष्ठेनेत्यादिग्रन्थेन दीधितिकृतामभिप्रेतता हृदो वह्निमान् धूमादित्यादौ साध्याभावस्य हृदादौ भ्रमाऽप्रसिद्ध्या भ्रमविषयसाध्याभावादावित्यादिग्रन्थाऽसंगतिः स्यात् यदि भ्रमपदं निश्चयसामान्यपरं न स्यादित्याशयः । ननु यादृशविशिष्टविषयकत्वेनेत्यस्य यद्रूपावच्छिन्न विषयताकत्वेनेत्यर्थ करणेऽपि पर्वतो वह्निमान् धूमादित्यादौ केवल साध्याभावरूपवह्नयभावादावतिव्याप्तिः, यद्रूपपदेन वह्निविशिष्टाभावत्वस्य सर्वथा प्रसिद्धस्यैव धत्तु शक्यत्वात् तदवच्छिन्नविषयतायाः व्यपि प्रकृतानुमितिप्रतिबन्धकतावच्छेदकत्वादित्यत आह उक्तव्याख्यान इति । यद्विषयकत्वेनेत्यस्य यथोक्तार्थं कयादृश विशिष्ट विशिष्टविषयकत्वेनेत्यादिव्याख्याने इत्यर्थः । अनतिरिक्तवृत्तित्वमेवेत्येवकारेण यद्रूपावच्छिन्नविषयतायां स्वरूपसम्बन्धरूपप्रतिबन्धकतावच्छेदकत्वव्यवच्छेदः । विवक्षणीयमिति । तथाच यद्रूपावच्छिन्नविषयताकत्व - व्यापकं प्रकृतानुमितिप्रतिबन्धकत्वं तद्रूपवत्त्वं हेत्वाभासत्वमित्युक्तौ न पर्वतो वह्निमान् धूमादित्यादौ केवलवह्न्यभावादावतिव्याप्तिः, वह्न्यभाव इत्याकारकज्ञानेऽपि वन्यभावत्वावच्छिन्नविषयताकत्वस्य सत्त्वेन तत्र प्रकृतानुमितिप्रतिबन्धकताविरहात् यद्रूपपदेन वहून्यभावत्वस्योपादानाऽसम्भवादिति भावः । ननु एवमपि पूर्वोक्तरीत्याऽसम्भवः ? वहून्यभावविशिष्टहदादेः शुद्धहद स्वरूपतया ह्रद इत्याकारकज्ञानेऽपि वन्यभावादि विशिष्टहृदादिविषयकत्वस्य सत्त्वेन तत्रानुमितिप्रतिबन्धकताविरहात् वह्न्यभावादिविशिष्टहृदादिरूपविशिष्टविषयकत्वमात्रस्यानुमिति* कलाविलासः * " चेन तादृशार्थे लक्षणाकरण प्रभाविषयसाध्याभावमादाय सम्भवदतिप्रसंग कथनप्रयुक्तन्यूनतापरिहारार्थमित्यवधेयम् । "Aho Shrutgyanam" Page #111 -------------------------------------------------------------------------- ________________ चन्द्रकला-कलाविलासाख्यदीकाद्वयोपेतम् *गादाधरी * विशेषणीभूतवह्नयभावाद्यविषयके शुद्धह्रदत्वादिना हृदादिविषयकज्ञाने वह्नयभावविशिष्टहदत्वाद्यवच्छिन्नविलक्षणविषयतानिरूपकत्वस्याऽसत्त्वेनोक्तासम्भवाऽनवकाशात् । तथाच केवलवह्नयभावत्वावच्छिन्नविषयकत्वस्य प्रतिबन्धकतातिरिक्तवृत्तित्वान्नातिप्रसङ्ग इत्यर्थः । ननु स्वरूपसम्बन्धरूपाऽवच्छेदकत्वनिवेशेऽयमेवाऽतिप्रसङ्गो दुर्वारः, अप्रामाण्यज्ञानाभावविशिष्टयद्रूपावच्छिन्नविषयकनिश्चयत्वं प्रतिबन्धकताव. च्छेदकतापर्याप्त्यधिकरणमित्येतादृशविवक्षया तादृशातिप्रसङ्गवारणे पुनर * चन्द्रकला * प्रतिबन्धकतातिरिक्तवृत्तित्वादित्यत आह विशेषणीभूतेति । शुद्धति हृदत्वमात्रादिनेत्यर्थः। वह्नयभावेति हृद इत्याकारकशाने इत्यर्थः । विलक्षणेति । वन्यभाव-हृदत्वधर्मद्वयावच्छिन्ना या शुद्धहदत्वावच्छिन्नविषयतातो विलक्षणविषयता तन्निरूपकत्वस्येत्यर्थः । उक्तासम्भवानवकाशादिति । हृद इत्याकारकशाने केवलहृदत्वादिना वन्यभावविशिष्टहृदविषयकज्ञाने वा बहन्यभावहदत्वरूपधर्मद्वयावच्छिन्नविलक्षणविषयताकत्वविरहात् यद्पावच्छिन्नविषयताकत्वस्य सर्वस्यैव प्रकृतानुमितिप्रतिबन्धकतानतिरिक्तवृत्तित्वादेवासम्भवानवकाशादित्यर्थः । उपसंहरति तथाचेति । अनतिरिक्तवृत्तित्वरूपप्रतिबन्धकतावच्छेदकत्वविवक्षणे चेत्यर्थः । अतिरिक्तवृत्तित्वात् = स्वव्यापकप्रकृतानुमितिबन्धकताकत्वविरहादितिदिक् । ययाव्याख्यातयद्विषयकत्वेनेत्यत्र तृतीयार्थावच्छेदकत्वस्यानतिरिक्तवृत्तित्वरूपस्य दीधितिकृदुक्तस्य प्रयोजनप्रदर्शनपूर्वकं अवच्छेदकत्वञ्चेहेत्यादिग्रन्थं व्याख्यातुं शंकते नन्विति । अयमेवातिप्रसंगः-पर्वतो वह्निमान् हृदो वह्निमान्वेत्यादौ केवलसाध्याभावादावतिप्रसंगः । दुर्वार इति । केवलवन्यभावत्वावच्छिन्नविषयताया अपि पर्वतादिधर्मिकवन्याद्यनुमितिप्रतिबन्धकतानिरूपितस्वरूपसम्बन्धरूपावच्छेदकत्वादिति हृदयम् । ननु अप्रामाण्यज्ञानाभावविशिष्टयद्रूपावच्छिन्नविषयताकत्वं प्रकृतानुमितिप्रतिबन्धकतानिरूपितस्वरूपसम्बन्धरूपावच्छेदकतायाः पर्याप्तयधिकरणं तद्रूपवत्वमित्युक्त नैकदेशे वह्नयभावादावतिव्याप्तिः, भ्रमप्रमासाधारण्यानुरोधेन वह्नित्वावच्छिन्नविषयतानिरूपिताभावत्वावच्छिन्नविषयतानिरूपितह्रदत्वावच्छिन्नविषयताकत्वेनैव हृदादिधर्मिकवयाद्यनुमितिप्रतिबन्धकताया वक्तव्यतया तादृशविषयतासमुदायस्यैव निरुक्तप्रतिबन्धकतावच्छेदकतावच्छेदकतापर्याप्तयधिकरणत्वेन केवलवह्नयभावादिविषयतायाः ताशप्रतिबन्धकतावच्छेदकताया। पर्याप्त्यनाधिकरणत्वादियाशंक्य समाधत्ते पुनर "Aho Shrutgyanam" Page #112 -------------------------------------------------------------------------- ________________ अनुमानगादार्या सामान्यनिरुक्तिप्रकरणम् * दीधितिः अवच्छेदकत्वं चेहाऽनतिरिक्तवृत्तित्वम् । * गादाधरी * सम्भवः, वह्नयभावत्वादिना घटाद्यवगाहिनो वहयभाववान् हद इतिज्ञानस्यापि प्रतिबन्धकतया तत्साधारण्यानुरोधेन वह्नित्वावच्छिन्नप्रकारतानिरूपिताभावत्वावच्छिन्न प्रकारतानिरूपितहदत्वावच्छिन्न विशेष्यताकनिश्चयत्वेनैव प्रतिबन्धकताया वाच्यतया यास्तादृशप्रकारतानिरूपितहदत्वावच्छिन्नविषयतात्वेनाऽवच्छेदकत्वेऽपि अ ९६ वह्नयभावविशिष्टहृदत्वावच्छिन्नविषयता प्रामाण्यज्ञानाभावादिविशिष्टहृदत्वावच्छिन्नविषयताक निश्चयत्वस्याऽवच्छेदकता पर्याप्तयनधिकरणत्वादतस्तृतीयाया अनतिरिक्तवृत्तित्त्ररूपावच्छेदकत्वं स्फुटयति अवच्छेदकत्वं चेति । इह =लक्षणे । घटकत्वं सप्तम्यर्थः । * चन्द्रकला ** सम्भव इति । निरुक्तरीत्या पर्याप्यधिकरणत्वविवक्षणे पुनरसम्भवः स्यादित्यथः । सम्भवे हेतुमाह वह्नयभावत्वादिनेत्यादि । तत्साधारण्यानुरोधेन = भ्रमसाधारण्यानुरोधेन । वह्नित्वेति । प्रतियोगित्वसम्बन्धावच्छिन्न वह्नित्वावच्छिन्न प्रकारतानिरूपिताभावत्वावच्छिन्न विशेष्यत्वावच्छिन्नस्वरूप सम्बन्धावच्छिन्न प्रकारतानिरूपितहृदत्वावच्छिन्नविशेष्यताकनिश्चयत्वेनेत्यर्थः । तादृशेति ताहरावह्निप्रकारतानिरूपिताभावत्वावच्छिन्नार्थकम् । विषयतात्वेनैवेत्यत्रैवकारेण वहयभावविशिष्टहदविषयतात्वेन प्रतिबन्धकतावच्छेदकत्वव्यवच्छेदः । अवच्छेदकतापर्याप्त्यनधिकरणत्वादिति ताराविशिष्टविषयतात्वेन प्रतिबन्धकतावच्छेदकताया वक्तुमशक्यत्वात् यद्रूपपदेन लक्ष्यतावच्छेदकीभूतवह्नय भावविशिष्टहृदत्वस्योपादानाऽसम्भवादुक्तरीत्या पर्याप्तत्यधिकरणत्वविवक्षया भवत्यसम्भव इति भावः । स्फुटयतीति । तथाच यद्रूपावच्छिन्नविषयकत्वम् प्रकृतानुमितिप्रतिबन्धकतानतिरिक्तवृत्ति तद्रूपवत्त्वमिति फलितम् । ननु तथापि हृदो वह्निमान् धूमादित्यादौ बाघादावसम्भववारणं दुःशक्यम् वह्रथभावादिविशिष्टहृदादिविषयकत्वस्य हृदो वह्निमान्नवेत्याकारकसंशये हृदो वहून्यभाववानित्याकारकज्ञानमप्रमेत्य प्रामाण्यज्ञानास्कन्दितज्ञाने वह्निमान् हृदो वन्यभाव * कलाविलासः * अप्रामाण्यज्ञानाभावादीति । ननु प्रतिबन्धकतावच्छेदकता पर्याप्तयधिकरणस्वविवक्षणे कथमसम्भवः ? द्रव्यान्यः पर्वतो वह्निमान् धूमादित्यादौ द्रव्यत्ववत्पर्वत " Aho Shrutgyanam" Page #113 -------------------------------------------------------------------------- ________________ ६७ चन्द्रकला कलाविलासाख्यटीकाद्वयोपेतम् * गादाधरी * नच विशिष्टविषयकत्वस्याप्रतिबन्धकसंशयादौ सत्त्वात् पुनरसम्भव इति वाच्यम् , ज्ञानस्येत्यत्र ज्ञानपदमनाहा-प्रामाण्यज्ञानानास्कन्दितनिश्चयपरं, षष्ठ्यर्थ प्राधेयत्वं तस्य यद्विषयकत्वेऽन्वयः। एवञ्च तादृशनिश्चयवृत्तित्वविशिष्टं यादृशविशिष्टविषयकत्वमनुमितिप्रतिबन्धकतानतिरिक्तवृत्ति तादृशत्वस्य विवक्षणीयतया असम्भवाभावात् । ॐ चन्द्रकला वानित्याकारकाहायज्ञाने च सत्त्वात् तत्र च प्रकृतानुमितिप्रतिबन्धकताविरहेण तादृशबाधादिविषयकत्वस्थानुमितिप्रतिबन्धकतातिरिक्तवृत्तित्वादित्येवं नचेत्यादिना आशंक्य समाधत्ते ज्ञानस्येत्यादि । मूलोक्तलक्षणघटकीभूतस्येत्यादिः। अनाहायति । आहार्यज्ञानभिन्नत्वे सति अप्रामाण्यज्ञानानास्कन्दितत्वे च सति संशयान्यज्ञानपरमित्यर्थः । तस्य = आधेयत्वस्य । आधेयत्वे च षष्ठ्यथें प्रकृत्यर्थस्य तादृशनिश्चयात्मकज्ञानस्य निरूपितत्वसम्बन्धेनान्वयो बोध्यः । यद्विषयेति । यथा. व्याख्यातयद्पावच्छिन्नविषयकत्वेन सहान्वय इत्यर्थः। तथाच नासम्भव इत्याह एवञ्चति । तादृशेति । अनाहार्याप्रामाण्यज्ञानानास्कन्दितसंशयभिन्नज्ञानात्मकनिश्चयवृत्तित्वविशिष्टमित्यर्थः । यादृशविशिष्टेति यद्रूपावच्छिन्नार्थकम् । तादृशत्वस्य = तद्रूपावच्छिन्नत्वस्य । असम्भवाभावादिति अनाहार्यत्वादिविशिष्टस्य * कलाविलासः * रूपाश्रयासिद्धौ लक्षणसमन्वयात् द्रव्यत्वनिष्ठनिरवच्छिन्नप्रकारताकदव्यत्वविशिष्टविपयताशालिनिश्चयत्वस्यैव प्रतिबन्धकतावच्छेदकतापर्याप्त्यधिकरणत्वादिति तु विभावनीयम् । पर्याप्तिश्च यद्पावच्छिन्नविषयकनिश्चय चावच्छिन्नभेदप्रतियोगितावच्छेदकता. स्वावच्छिन्नप्रतियोगिताकपर्याप्यनुयोगितावच्छेदकरूपवृत्तिप्रतिबन्धकतेत्यादिरीत्या विवक्षणीया । लक्षणन्तु तादृशतद्रूपवत्त्वस्वरूपमत्राभिनतम् । रूपवृत्तित्वं च स्वावच्छेदकतात्वावच्छिन्न प्रतियोगिताकपर्याप्त्यनुयोगितावच्छेदकत्वसम्बन्धेन । स्वम् प्रतिबन्धकत्वमिति ध्येयम् । ___ संशयादौ सत्त्वात् पुनरसम्भव इति । नच जातिमान् वयभाववानितिज्ञानवारणायाध्यापकीभूतविषयिताशून्यत्वस्य ज्ञानविशेषणताया अावश्यकतया तत एव संशयमादायाऽसम्भवारणसम्भवे निश्चयत्वाऽप्रवेशे कथमसम्भवाभिधानं संगच्छते "Aho Shrutgyanam" Page #114 -------------------------------------------------------------------------- ________________ अनुमानगादाधर्या सामान्यनिरुक्तिप्रकरणम् * गादाधरी * अनतिरिक्तवृत्तित्वं स्वव्यापकतत्कत्वम् * चन्द्रकला * वहन्यभाववढ्दादिनिश्चयत्वस्य प्रकृतानुमितिप्रतिबन्धकतानतिरिक्तवृत्तित्वादित्याशयः। ननु प्रकृतानुमितिप्रतिबन्धकतानतिरिक्तवृत्तित्वं यदि प्रतिबन्धकतावत्ताहशनिश्चयवृत्तित्वं तदा वन्यभावाद्येकदेशेऽतिव्याप्तिर्वारा स्यात् , केवलवन्यभावत्वाद्यवच्छिन्नविषयकत्वस्यापि प्रकृतानुमितिप्रतिबन्धकतावद्वृत्तित्वादत आहानतिरिक्तति । निरुक्तलक्षणे इत्यादिः । स्वव्यापकेति । स्वं यद्रूपावच्छिन्नविषयकत्वं तद्व्यापकं यत् प्रकृतानुमितित्वव्यापकप्रतिबध्यतानिरूपित प्रतिबन्धकत्वं तत्कत्वं स्वस्मिन् अनतिरिक्तवृत्तित्वमित्यर्थः। तथाच अनाहार्याऽप्रामाण्यज्ञानानास्कन्दितनिश्चयवृत्तित्वविशिष्टयद्पावच्छिन्नविषयकत्वव्यापकं प्रकृतानुमितित्वव्यापकप्रतिबध्यतानिरूपितप्रतिबन्धकत्वं तद्रूपवत्त्वं हेत्वाभासत्वमिति फलितम् । भवति हि ह्रदो वह्निमान् धूमादित्यादी वन्यभावविशिष्टह्रदत्वं अयं धूमवान् वढेरित्यादी धूमाभावववृत्तित्वविशिष्टवह्नित्वादिकञ्च यद्पपदेनादाय वन्यभाववढ्दरूपबाधादौ धूमाभावववृत्तित्वविशिष्ट वहन्यादिरूपव्यभिचारादौ च लक्षणसमन्वयः, तादृशबाधत्वव्यभिचारत्वाद्यवच्छिन्नविषयकत्वव्यापकतायाः प्रकृतानुमितिप्रतिबन्धकतायां सत्त्वादिति भावः। * कलाविलासः * इति वाच्यम्, अप्रामाण्यज्ञानाभावानुपादान एवासम्भवस्याभिधानात् एकोक्तिसम्पादनार्थमेव संशयमादायाप्यसम्भवस्याभिहितत्वादिति वेदन्ति । अथाऽप्रामाण्यज्ञानादेर्नानात्वेन अनन्ततद्महाभावस्य विवक्षणीयतया गौरवमिति चेन्न, अभावविशिष्टान्यत्वस्य ज्ञानविशेषणत्वोपगमात् , वैशिष्ट्यं स्वप्रतियोगिमत्व-स्वावच्छिन्न प्रतिबन्धकतावच्छेदकविषयितानिरूपकतावच्छेदकधर्मावच्छिन्नविषयितावस्वोभयसम्बन्धेन । स्वप्रतियोगिमत्वञ्चैकक्षणावच्छिन्नैकात्मवृसित्वसम्बन्धेन । तथाच संशयान्यत्वाहार्यान्यत्वादेरप्युक्तरीत्यैव प्रवेशाल्लाघवमिति भावः ।। स्वव्यापकतत्कत्वमिति । ननु तादृशनिश्चयत्वव्यापकत्वनिवेशे गौरवात् लाघवात् यद्पावच्छिन्नविषयकनिश्चयत्वं प्रकृतानुमित्यवृत्ति तद्रूपवत्वमित्येवं कुतो न विवक्षितमिति चेन्न, पर्वतो वह्नयभावव्याप्यवानित्यादौ वह्निमस्पर्वतेऽतिव्याप्त्यापत्तः, वह्नयभाववत्पर्वतविपयकवह्निमत्पर्वतयिषयकसमूहालम्बनानुमितेरप्रसिद्धतया वह्निमत्पर्वतनिश्चयत्वस्य प्रकृतानुमित्यवृत्तित्वात् । नच तथापि यद्रूपावच्छि "Aho Shrutgyanam" Page #115 -------------------------------------------------------------------------- ________________ चन्द्रकला-कलाविलासाख्यटीकाद्वयोपेतम् * गादाधरी * नतु तच्छ्रन्यावृत्तित्वम् , तादृशनिश्चयवृत्तित्वविशिष्टस्य विशिष्टविषयकत्वस्य विशेष्यीभूतविशिष्टविषयकत्वानतिरिक्ततया तस्यातिप्रसक्तत्वेन विशिष्टे तस्मिन्ननतिप्रसक्तत्वस्य दुर्घटत्वात् । चन्द्रकला, ननु प्रतिबन्धकतानतिरिक्तवृत्तित्वस्य यथाश्रुतप्रतिबन्धकत्वाभाववदवृत्तित्वरूपार्थकताया:प्रसिद्धतया तस्य तादृशार्थकत्वानभिधानमनुचितमित्यत आह नत्वित्यादि । प्रकृतानुमितित्वव्यापकप्रतिबध्यतानिरूपितप्रतिबन्धकतात्वावच्छिन्नाभाववदवृत्तित्वं यद्रपावच्छिन्नविषयकत्वनिष्ठं तादृशानतिरिक्तवृत्तित्वं इति तु नेत्यर्थः। कुत इत्याकांदायामाह विशिष्टेति । वह्नयभावादिविशिष्टहृदादिविषयकत्वस्येत्यर्थः । विशेष्यीभूतेति! केवलहदादिविषयकत्वाऽभिन्नतयेत्यर्थः। तस्य = केवलहदादिविषयकत्वस्य । अतिप्रसक्तत्वेन = हृदादिधर्मिकवह्नयाद्यनुमितिप्रतिबन्धकत्वाभाववति हृद इत्याकारकज्ञाने वर्तमानत्वेन । विशिष्टे = वढ्यभावादिविशिष्टहृदादिविषयकत्वे । अनतिप्रसक्तत्वस्य = तादृशानुमितिप्रतिबन्धकत्वाभाववदवृत्तित्वस्य । दुर्घटत्वादिति । तथाच तादृशप्रतिबन्धकत्वाभाववदवृत्तित्वरूपानतिरिक्तवृत्तित्वविवक्षणे हृदो वह्निमानित्यादिस्थलीयबाधादौ सर्वत्राऽसम्भवः, वह्नयभावविशिष्टह्रदविषयकत्वस्य हृदविषयकत्वाभिन्नतया अनुमितिप्रतिबन्धकताशून्ये हृद इत्याकारकज्ञाने वर्तमानस्य हृदमात्रविषयकत्वस्य अनुमितिप्रतिबन्धकत्वाभावववृत्तितया वह्नयभावविशिष्टहदादिविषयकत्वे ताशप्रतिबन्धकत्वाभाववदवृत्तित्वोपपादनस्याशक्यत्वात् विशेष्यवृत्तिपदार्थस्य विशिष्टानुयोगिकाभावानभ्युपगमादित्याशयः । * कलाविलासः * नविपयकनिश्चयावं प्रकृतानुमित्यव्यवहितप्राक्क्षणवृत्तिज्ञानावृत्ति तद्रूपवत्त्वमित्युक्तौ नेयमतिव्याप्तिः, वह्नयभावव्याप्यप्रकारकबुद्धौ वह्निमत्पर्वतनिश्चयस्याप्रतिबन्धकतया निरुक्तनिश्चयत्वस्य तादृशानुमितिप्राक्क्षणवृत्तिज्ञानवृत्तित्वादिति वाच्यम्, तथा सति हृदो वह्निमान् जलवद्धदकालीनदव्यत्वादित्यादौ वह्नयभाववज्जलवत्यतिव्याप्त्यापत्तः, जलवान् वलयभाववानित्याकारकनिश्चयोत्तरं जलवद्धदविषयकानाहार्यहदधर्मिकवयनुमितेरप्रसिद्धतया वह्नयभाववज्जलवत्त्वावच्छिन्न विषयितायाः प्रकृतानुमित्यव्यवहितप्राक्क्षणवृत्तिवटादिज्ञानाऽवृत्तित्वात् । ननु तथापि स्वव्यापकतत्कस्वनिवेशनमनर्थकम्, प्रकृतानुमितिप्रतिबन्धकत्वाभावो ग्ररूपावच्छिन्नविषयकनिश्चयावृत्तिस्तद्रूपवत्त्वमित्यस्यैव सम्यक्त्वादितिचे न, "Aho Shrutgyanam" Page #116 -------------------------------------------------------------------------- ________________ अनुमानगादाध- सामान्यनिरुक्तिप्रकरणम् ॐ गादाधरी यत्त प्रतिबन्धकताशून्यतादृशनिश्चयावृत्तित्वमेवानतिरिक्तवृत्तित्वम् , अतो नोक्तरीत्या असम्भव इति, तदसत् , * चन्द्रकला ॐ निरुक्तरीत्या सम्भवतोऽसम्भवस्य वारणाय अन्यप्रकारेणानतिरिक्तवृत्तित्वमभिदधतां मतं दूषयितुमुपन्यस्यति यत्त्विति । एवञ्च प्रकृतानुमितित्वव्यापकप्रतिबध्यतानिरूपित प्रतिबन्धकतात्वावच्छिन्नाभाववति अनाहार्याप्रामाण्यज्ञानानास्कन्दितनिश्चयेऽवतमानं यत्पावच्छिन्नविषयकत्वं तद्र पवत्वं हेत्वाभासत्वमिति निरुक्तमतसिद्धानतिरिक्तवृत्तित्वघटितं लक्षणं पर्यवसितम् । ह्रदो वह्निमान् धूमादित्यादौ वह्नय. भावविशिष्टह्रदत्वाधवच्छिन्न विषयकत्वस्य हृदादिधर्मिकवह्नयाद्यनुमितिप्रतिबन्धकताशून्ये तादृशे घटादिनिश्वयेऽवर्तमानत्वाद् बाधादौ लक्षणसमन्वयः । ह्रदो वह्निमान्नवेत्याकारकसंशये हृदो वह्नयभाववानिदं ज्ञानमप्रमेत्याकारकाप्रामाण्यज्ञानास्कन्दिते ह्रदो वह्नयभाववानित्याकारकज्ञाने वह्निमान् हृदो वह्नयभाववानित्याकारकाहार्यज्ञाने च प्रकृतानुमितिप्रतिबन्धकताशून्ये वह्नयभावविशिष्टहृदादिविषयकत्वस्य वृत्तित्वादसम्भवः स्यादतः प्रकृतानुमितिप्रतिबन्धकताशून्यत्वं अनाहार्याप्रामाण्यज्ञानानास्कन्दितसंशयान्यज्ञानरूपतादृशनिश्चयविशेषणमुक्तम् । तथाच तादृशोदासीनवटादिनिश्चयमादायैव सर्वत्र लक्षणसमन्वयः स्वयमूहनीयः । नोक्तरीत्येत्यादि । विशेष्यवृत्तिपदार्थस्य विशिष्टानुयोगिकाभावानभ्युपगमरीत्या नासम्भव इत्यर्थः । ___* कलाविलासः * अभावस्थाधिकरणभेदेन भिन्नत्वमते पटनिष्ठप्रतिबन्धकत्वाभावस्य घटविषयकनिश्वयाऽवृत्तितया घटेऽतिव्यात्यापतेः। प्रकृतानुमितिप्रतिबन्धकत्वाभावत्वं यद्रूपावच्छिन्नविषयकनिश्चयवृशितानवच्छेदकं तद्रूपवत्त्वमित्युक्तौ घटादावतिव्याप्तिवारणेऽपि विशेष्यवृत्रिपदार्थस्य विशिष्टानुयोगिकाभावानभ्युपगमेऽसम्भवापतेः । केवलाभावत्वे वह्नयभावादिमद्धदादिनिश्चयवृतितावच्छेदकत्वसत्त्वेन प्रतिबन्धकताविशिष्टाभावस्वे तादृशनिश्चयवृत्तितानवच्छेदकत्वस्य दुर्घटत्वात् , पर्याप्त्यादिनिवेशे च लाघवानवकाशात् । यद्विषयकत्वेनेत्यत्र तृतीयायाः शून्यत्वमवृत्तित्वञ्चार्थः । शून्यत्वे प्रतिबन्धकत्वस्य, शून्यत्वस्य मूलोक्तज्ञानपदार्थे निश्चये, निश्चयस्याऽवृत्तित्वेऽनक्यात् "Aho Shrutgyanam" Page #117 -------------------------------------------------------------------------- ________________ चन्द्रकला-कलाविलासाख्यटीकाद्वयोपेतम् १०१ ___ गादाधरी तथासति मूलोक्तस्य ज्ञानस्येत्यस्य वैयर्थ्यप्रसंगाद्, हृदत्वाद्यवछिन्ना या वह्नयभावविशिष्टह्रदत्वाद्यवच्छिन्नविषयकयत्किञ्चज्ञानीयविषयता तन्निरूपकत्वस्य प्रतिबन्धकताशून्यतादृशनिश्चयावृत्तित्वेन * चन्द्रकला* निरुक्तं मतं दूषयति तथासतीति । प्रतिबन्धकताशून्यतादृशनिश्चयाऽवृत्तित्वस्यानतिरिक्तवृत्तित्वस्वरूपत्वे सतीत्यर्थः । मूलोक्तति । लिंगपदस्थाविवक्षिततया यदिषयकत्वेन ज्ञानस्यानुमितिप्रतिबन्धकत्वमितिमूलोक्तलक्षणघटकज्ञानस्येत्यर्थः । वैयर्थ्यप्रसंगादिति । ज्ञानस्येत्यनुक्तौ लक्ष्यतावच्छेदकोभूतयद्र पावच्छिन्नविषयकत्वस्य संस्कारादिनिष्ठत्वेऽपि तस्यानुमितिप्रतिबन्धकताशून्यतादृशोदासीनघटादिनिश्चयाऽवृत्तितयैव सर्वत्र लक्षणसमन्वयसम्भवे यद्र पावच्छिन्न विषयकत्वे ज्ञाननिष्ठत्वाभिधानं निरर्थकमितिज्ञानस्येत्यस्य व्यर्थताया ध्रौव्यादित्यर्थः । ननु प्रतिबन्धकताशून्यतादृशनिश्चयावृत्तित्वरूपतृतीयार्थान्वयबोधे षष्ठयन्तज्ञानपदसमभिव्याहृततृतीयान्तयद्विषयकत्वज्ञानं हेतुरित्युक्तौ न ज्ञानस्येत्यस्य वैयर्थ्यम् , अन्यथा यद्विषयकत्वेनानुमितिप्रतिबन्धकत्वमित्यादितोऽपि तादृशनिश्चयावृत्तित्वरूपानतिरिक्तवृत्तित्वप्रत्ययः स्यादिति यदि ब्रूयात्तदाप्याह हृदत्वेति । ह्रदत्वावच्छिन्ना या वह्नयभाववान् हृद इत्याकार कयत् किश्चिन्शानीयविषयता सेत्यर्थः । तन्निरूपकत्वस्य- ताहशशुद्धहृदत्वावच्छिन्नविषयतानिरूपकत्वस्य , ह्रदत्वावच्छिन्नविषयकत्वस्येति यावत् । प्रतिबन्धकतेति । हृदादिधर्मिकवह्नयाद्यनुमितीत्यादिः । हृद इत्याकारकनिश्चयेऽपि तादृशविलक्षणह्रदत्वावच्छिन्नविषयताकत्वस्यावर्त्तमानत्वात् । अत एव तादृशयत्किञ्चित्त्वं ज्ञानविशेषणमन्यथा ज्ञानसामान्यान्तर्गतहद इत्याकारकज्ञाननिरूपितहृदत्वावच्छिन्नविषयतानिरूपकत्वस्य अनुमितिप्रतिबन्धकताशून्यह्रदमात्र. * कलाविलासः * विशिष्टलाभान्न ज्ञानपदवैयर्थमतो दूपणान्तरमाह हृदत्वाद्यवच्छिन्न इति । ननु तथापि अनुमितिप्रतिबन्धकताशून्यानाहार्याऽप्रामाण्यज्ञानानास्कन्दितनिश्चयवृत्तिविषयितानिरूपकतावच्छेदकं यदूपं तद्रूपवस्वं दोषत्वमितिविवक्षया शुद्धहदरवावच्छिन्नेऽतिध्याप्तिवारणसम्भवे स्त्रव्यापकतत्कत्वविवक्षणं व्यर्थमिति चेन्न, संयोगाभाववान् संयोगवानितिज्ञानस्य नियताहार्यतया अनाहायज्ञानवृत्तिविषयतानिरूपकतानवच्छेदकत्वस्य संयोगवत्संयोगाभाववत्त्वे सत्त्वेन तत्रातिव्यातयापत्तेरिति ध्येयम्। "Aho Shrutgyanam" Page #118 -------------------------------------------------------------------------- ________________ १०२ - अनुमानगादाध- सामान्यनिरुक्तिप्रकरणम् गादाधरी शुद्धह्रदत्वाद्यवच्छिन्नेऽतिप्रसङ्गाच्च । मन्मते चानुमितिप्रतिबन्धकतायास्ताहशनिश्चयवृत्तित्वविशिष्टह्रदत्वाद्यवच्छिन्नविषयितात्वावच्छिन्नव्यापकताविरहेणातिप्रसङ्गानवकाशात् । ___ * चन्द्रकला * विषयकज्ञानवृत्तित्वेन तत्र तादृशनिश्चयावृत्तित्वसम्पादनमसंगतं स्यादित्याशयेनाह शुद्धति । केवले ह्रदत्वविशिष्ट हृदे इत्यर्थः । अतिप्रसंगाच्चेति । निरुक्तानतिरिक्तवृत्तित्वघटितस्य लक्षणार्थत्वे ह्दो वह्निमान् धूमादित्यादौ केवल-हदत्वावच्छिन्ने हदेऽतिव्यासिः, वह्नयभाववान्-हद इत्याकारकयत्किञ्चिज्ज्ञानीय हदत्वावच्छिन्नविषयताकत्वस्य प्रकृतानुमितिप्रतिबन्धकत्वाभाववति हद इत्याकारकतादृशनिश्चयेऽप्यवृत्तित्वादतो नोक्तरूपेणानतिरिक्तवृत्तित्वं वक्तव्यमिति भावः । नन्वेवमपि स्वव्यापकतत्कत्वरूपानतिरिक्तवृत्तित्वघटितलक्षणेऽपि शुद्धह्रदत्वावच्छिन्नेऽतिव्याप्तिदुर्वारा स्यात् , वन्यभावविशिष्टह्रदत्वावच्छिन्नविषयकयत्किञ्चिज्ञानीयहृदत्वावच्छिन्नविषयताकत्वस्य वन्हन्यभावविशिष्टह्रदनिश्चय एव वत्तमानतया तत्र हृदधर्मिकप्रकृतानुमितिप्रतिबन्धकत्वस्य सत्त्वात् यद्रूपपदेन शुद्धह्रदत्यस्य धत्तुं शक्यत्वादित्यत आह मन्मत इति । स्वव्यापकतत्कत्वरूपप्रकृतानुमितिप्रतिबन्धकतानतिरिक्तवृत्तित्ववादिनां मते इत्यर्थः । अनुमितीति । ह्रदो वह्निमान् वह्निव्याप्यधूमवांश्चेत्याकारकेत्यादिः । तादृशेति अनाहार्याऽप्रामाण्यज्ञानानास्कन्दितनिश्चयार्थकम् । अतिप्रसंगानवकाशादिति । तथाचास्मन्मतेऽनाहार्याऽप्रामाण्यज्ञानानास्कन्दितनिश्च * कलाविलासः * शुद्धहदत्वावच्छिन्नेऽतिप्रसंगाच्चेति । नन्वत्र कल्पे पक्षाऽघटितसाध्यव्यापकीभूताभावप्रतियोगित्वविशिष्टहेतुरूपाऽसाधारण्येऽव्याप्तिः, निरुक्ताऽसाधारण्यविषयिताया अनुमितिप्रतिबन्धकताशून्यतादृशनिश्चयवृत्तित्वादिति चेन्न, पक्षधर्मिकहेतुमत्ताज्ञानकालीनानुमितिप्रतिबन्धकताशून्यतादृशनिश्चयावृत्तित्वस्य विवक्षितत्वात् । ताहशासाधारण्यज्ञानं यदि पक्षधर्मिकहेतुमत्ताज्ञानकालीनं तदाऽनुमितिप्रतिबन्धकमेव भवतीत्यदोषः। ननु जातित्वेन हृदत्वावगाहिजातिमान् वह्नयभाववानितिज्ञानवारणाय जगदीशेनाव्यापकीभूतविषयिताशून्यत्वं न निवेशितम्, भट्टाचार्येण तु निधेशित्तमनयोः कोऽभिप्राय इति चेन्न? जगदीशमते यादृशसमुदायत्ववृत्तिनिरूपकताकविषयित्वं प्रकृतानुमितिप्रतिबन्धकतानतिरिक्तवृत्ति तादृशसमुदायत्वविशिष्टवरवं लक्षणार्थः । "Aho Shrutgyanam" Page #119 -------------------------------------------------------------------------- ________________ चन्द्रकला-कलाविलासाख्यटीकाद्वयोपेतम् १०३ छ गादाधरी अथैवमपि जातित्वादिना ह्रदत्वादिविषयकस्य जातिमान् वह्नयभाववानित्यादिज्ञानस्यापि वह्नयभाववदुहृदत्वाद्यवच्छिन्नविषयकतया तस्य च ह्र ___ * चन्द्रकला * यवृत्तित्वविशिष्टयद्रूपावच्छिन्नविषयकत्वत्वावच्छिन्नव्यापकं प्रकृतानुमितिप्रतिबन्धकत्वं तद्रूपवत्त्वमित्यस्यैव लक्षणार्थतया न शद्धहदेऽतिव्याप्तिः, ह्रदत्वावच्छिन्नविषयकत्वत्वावच्छिन्नस्य ह्रदमात्रविषयकेऽपि ज्ञाने सत्वेन तत्राऽनुमितिप्रतिबन्धकताया विरहात्, केवलहृदत्वस्य यद्रूपानात्मकत्वादित्याशयः । शंकते अथैवमपीति । निरुक्तानतिरिक्तवृत्तित्वविवक्षया शुद्धहदेऽतिव्याप्तिवारणेऽपीत्यर्थः । अनतिरिक्तवृत्तित्वरूपावच्छेदकत्वविवक्षणेऽपीति वार्थः । जातित्वादिनेति । आदिना प्रमेयत्वादिपरिग्रहः । तेन यत्राकाशत्वादी जातित्वाऽप्रसिद्धिस्तत्र ताहशधर्मावच्छिन्नपक्षकरूपादिसाध्यकस्थले लक्षणसमन्वयसम्भवात् कथमसम्भव इति पूर्वपक्षोऽपि निरस्तः। ___ कलाविलासः एवञ्च वह्नयभावविशिष्टहदत्वगतसमुदायत्ववृत्तिनिरूपकताकविषयिताया जातिमान् वह्नयभाववानितिज्ञाने विरहान्न तन्मतेऽसम्भवः । भट्टाचार्यमते च यादशसमु. दायस्वावच्छिन्नानुयोगिताकपर्याधिकावच्छेदकताकनिरूपकताकविषयित्वं प्रकृतानुमितिप्रतिबन्धकतानतिरिक्तवृत्तीत्यादिरीत्या लक्षणार्थस्य निर्वाच्यतया जातिमान बह्नयभाववानितिज्ञाने जातित्वस्याधिकस्य भानेऽपि वह्नयभाववद्ध्दत्वस्य निरूपकतावच्छेदकघटकतया वह्नयभाववद्ध्दस्वगतसमुदायस्वावच्छिन्नानुयोगिताकपर्यातिकावच्छेदकतानिरूपकताकविषयितायाः तत्र सत्त्वादसम्भवसंगतिः । नच भट्टाचार्येणापि यादृशसमुदायत्ववृशिनिरूपकताकविषयित्वं इत्येवं कथं न निवेशितमिति वाच्यम् ? यादृशस्थले घटवद् भूतलमितिज्ञानं वह्नयभाववद्धद इतिज्ञानात्मकमेव जायते यदा च वह्नयभाववान् हृद इतिज्ञानानात्मकं तदा घटत्वांशे नियमतः जातित्वावगाह्येव भवति, तत्र घटवद्भूतलेऽतिव्याप्तिः, जगदीशमते तु एतादृशाङ्कुरे प्रमाणाभावात् न कोऽपि दोषः । जातिवादिना ह्रदत्वादीति । ननु हृदस्वसामानाधिकरण्येन वह्निसाध्यकस्थले हृदत्वव्यापकवह्नयभावप्रतियोगिकस्वरूपसम्बन्धेन वह्नयभाववद्धदरूपवाधे लक्षणसमन्वयात् कथमसम्भवः ? भट्टाचार्यमते एकदेशव्यापकताया अनभ्युपगमेन जातिमान् वयभाववानितिज्ञाने हृदत्वव्यापकताया अभानात् । नच अभावत्वांशे प्रमेयस्वावगाहिहृदो वह्वीयप्रमेयवत्त्वानितिज्ञानमादायाऽसम्भवसंगतिरिति वाच्यम्, "Aho Shrutgyanam" Page #120 -------------------------------------------------------------------------- ________________ १०४ अनुमानगादाधर्यां सामान्यनिरुक्तिप्रकरणम् ६ गादाधरी दो वह्निमानित्याद्यनुमित्यविरोधित्वादसम्भवः । जलवान् वह्निमानित्यादिस्थलीयदोषासंग्रहेण * चन्द्रकला * असम्भव इति । तथाच जातित्वादिना -हदत्वावगाहिनि जातिमान् वन्यभाववानित्याकारकज्ञानेऽपि अधिकन्त्वित्यादिन्यायेन लक्ष्यतावच्छेदकवन्यभावविशिष्टहदत्वावच्छिन्नविषयकत्वस्यावश्यकतया तादृशज्ञाने च हृदादिधर्मिकवन्याद्यनुमितिप्रतिबन्धकत्वविरहे प्रकृतानुमितिप्रतिबन्धकताया वहन्यभावविशिष्टहृदत्वावच्छिन्नविषयकत्वाऽव्यापकत्वात् तादृशहदत्वस्य यद्रूपपदेनोपादानाऽसम्भवात् । एवं धूमवान् वढेरित्यादावपि जातित्वादिना वह्नित्वावगाहिजातिमान् धूमाभाववद्वृत्तिरित्याकारकशानेऽपि धूमाभाववद्वृत्तित्वविशिष्टवह्नित्वावच्छिन्न विषयकत्वस्याक्षततया तादृशज्ञानमादायैव व्यभिचारादौ लक्षणसमन्वयाऽसम्भवात् भवत्यसम्भवः इति भावः । स्वरूपसम्बन्धरूपप्रतिबन्धकतावच्छेदकत्वविवक्षणे ह्रदत्वनिष्ठजातित्वावच्छिन्नविषयतायास्तथात्वाभावेनाऽसम्भववारणसम्भवेऽपि पूर्वोक्तरीत्या पुनर्वाधायेकदेशेऽतिव्याप्तिवारणमशक्यं स्यादित्यवधेयम् । ननु लक्ष्यतावच्छेदकत्वेनाभिमतयद्रूपावच्छिन्नविषयकनिश्चये पक्षतावच्छेदकांशेन्याप्रकारकत्वं विवक्षणीयं तच्चेदानी पक्षतावच्छेदकनिष्ठविषयतानिरूपितकिञ्चिनिष्ठप्रकारत्वाऽनिरूपकत्वम् , तथाच नाऽसम्भवः, वहन्यभावविशिष्टन्हदत्वावच्छिन्नविषयकत्वक्त्यपि जातित्वादिना हृदत्वावगाहिनि जातिमान् वहन्यभाववानित्याकारकज्ञाने हदत्वरूपपक्षतावच्छेदकनिष्ठविषयतानिरूपिततादृशजातित्वनिष्ठप्रकारतानिरूपकत्वस्यैव सत्वेन तादृशप्रकारत्वाऽनिरूपकत्वस्य तत्र विरहात् तादृशयद्रूपावच्छिन्नविषयकनिश्चयपदेन तादृशाधिकावगाहिज्ञानस्य धत्त मशक्यत्वादित्याह जलवानिति । जलवान् * कलाविलासः * व्यापकतावच्छेदकरूपभेदेन व्यापकताया भिन्नत्वात् वह्नयभावत्वावच्छिन्नहृदत्वव्यापकताघटितनिरुक्तवाधविपयितायास्तादृशज्ञानेऽसत्वादिति चेन्न, स्वरूपत्वांशे प्रमेयत्वावगाहिहदः हृदत्वव्यापकवह्नयभावप्रतियोगिकप्रमेयवता वह्नयभाववानितिज्ञानमादायासम्भवसम्भवात् । केचितु अवच्छेदावच्छेदेन विशिष्ट्वुद्धी उद्देश्यतावच्छेदकतापर्याप्त्यधिकरणधर्मनिरूपितव्यापकत्वमेव संसर्गाशे भासते नतु उद्देश्यतावच्छेदकतावच्छेदकधर्मावच्छिन्नत्वमिति जातित्वेन हृदत्वस्यैवोद्देश्यतावच्छेदकतया हरवव्यापकवयभावप्रतियोगिकस्वरूपेण वह्वयभाववान् जातिमान् इतिज्ञानमादायैवाऽसम्भवसम्भव इत्यप्याहुः । "Aho Shrutgyanam" Page #121 -------------------------------------------------------------------------- ________________ चन्द्रकला-कलाविलासाख्यटीकाद्वयोपैतम् १०५ ® गादाधरी अविशेषितधर्मावच्छिन्नपक्षकादिस्थलीयस्य किञ्चिद्विशिष्टतद्घटितस्यातरयासंग्रहेण च * चन्द्रकला वह्निमानित्यादिस्थलीयो यो वह्नयभावविशिष्टजलबद्पो बाधात्मको दोषस्तस्याऽसंग्रहे. त्यर्थः । पक्षतावच्छेदकनिष्ठविषयतानिरूपितकिञ्चिनिष्ठप्रकारत्वाऽनिरूपकत्वरूपपक्षतावच्छेदकांशेऽन्याऽप्रकारकत्वस्य यद् रूपावच्छिन्न विषयकनिश्चये विवक्षणे निरुक्तरीत्याऽसम्भववारणसम्भवेऽपि जलवान् वह्निमानित्यादौ वह्नयभावविशिष्टजलवद्रूपबाधेऽव्याप्तिः, जलवान् वह्नयभाववानित्याकारके वह्नयभाववजलवत्वरूपयद्पावच्छिन्नविषयकनिश्चये पक्षतावच्छेदकजलनिष्ठविषयतानिरूपिततादृशजलत्वनिष्ठप्रकारतानिरूपकत्वस्यैव सत्वेन ताशप्रकारत्वाऽनिरूपकत्वविरहात् ताशबाधत्वस्य यद्पानात्मकत्वादिति तु समुदितग्रन्थतात्पर्यम् । ननु पक्षतावच्छेदकांशेऽन्याऽप्रकारकत्वं न पक्षतावच्छेदकनिष्ठविषयतानिरूपितकिञ्चिनिष्ठप्रकारत्वाऽनिरूपकत्वम् अपितु पक्षतावच्छेदकनिष्ठविषयतानिरूपिता या अवच्छेदकत्वसम्बन्धावच्छिन्नप्रतियोगिताकपक्षतावच्छेदकत्वाभाववनिष्ठसामानाधिक • रण्यसम्बन्धानवच्छिन्ना प्रकारता तदनिरूपकत्वम् , तस्यैव यद्पावच्छिन्नविषयकनिश्चयविशेषणत्वोपगमान्न निरुक्ताव्याप्तिः, जलनिष्ठपक्षतावच्छेदकताया अवच्छेदकत्वसम्बन्धेन जलत्व एव वर्तमानतया तेन सम्बन्धेन तदभावस्य द्रव्यत्वप्रमेयत्वादौ सत्त्वेन तनिष्ठप्रकारत्वाऽनिरूपकत्वस्य जलवान् वन्यभाववानित्याकारकनिश्चयेऽक्षतत्वात् । नवा जातित्वादिना ह्रदत्वावगाहिज्ञानमादायाऽसम्भवः ? हृदो वह्निमानित्यादौ हृदत्वादेः स्वरूपत एव पशतावच्छेदकतया अवच्छेदकत्वसम्बन्धस्य तन्निष्ठपक्षतावच्छेदकताया व्यधिकरणसंसगत्वेन तेन सम्बन्धेन हृदत्वनिष्ठपक्षतावच्छेदकत्वाभावस्य सर्वत्र वर्तमानस्य जातित्वादावपि वर्तमानताया आवश्यकत्वात् तादृशजातित्वादिनिष्ठप्रकारत्वानिरूपकत्वस्य जातिमान् वन्यभाववानित्याकारकशाने विरहात् लक्ष्यीभूतविशिष्टनिश्चयमादायैव सर्वत्र लक्षणसमन्वयसम्भवात् । हृदो वह्नयभाववानित्याकारकशाने पारतन्त्र्येण वह्नयभावस्यापि सामानाधिकरण्यसम्बन्धेन ह्रदत्वादौ प्रकारत्याभ्युपगमे पुनरसम्भवतादेवस्थ्यं स्यादतस्तादृशाभाववनिष्ठप्रकारतायां सामानाधिकरण्यसम्बन्धानवच्छिन्नत्वनिवेश इति ध्येयम् । शेषमशेषमन्यत्र वक्ष्याम इत्युक्तावपि न निस्तार इत्याह अविशेषितेति । निरवच्छिन्नपक्षतावच्छेदकताश्रयधर्मावच्छिन्नपशकस्थलीयस्यापीत्यर्थः । किञ्चिद्विशिष्टेति । किञ्चिद्धर्मविशिष्टपक्षतावच्छेदकघटितदोषस्यासंग्रहेण चेत्यर्थः । तथा "Aho Shrutgyanam" Page #122 -------------------------------------------------------------------------- ________________ अनुमानगादाधर्या सामान्यनिरुक्तिप्रकरणम् * गादाधरी * पक्षतावच्छेदकाद्यंशेऽन्याप्रकारकत्वादिनिवेशस्याशक्यत्वात्, १०६ * चन्द्रकला * चोक्तरीत्याऽपि पचतावच्छेदकांशेऽन्याऽप्रकारकत्वविवक्षणे असम्भवादिवारणेऽपि हृदो वह्निमान् हदत्वादित्यादौ वह्नय भाववद्वृत्तित्वविशिष्टहदत्व रूपव्यभिचारेऽव्याप्तिः, अवच्छेदकत्वरूपव्यधिकरणसम्बन्धेन हृदत्वनिष्ठपक्षतावच्छेदकत्वाऽभावस्य हृदत्वत्वादी सवेन तादृशदत्वत्वादिनिष्ठप्रकारत्वाऽनिरूपकत्वस्य तादृशव्यभिचारनिश्चये विरहात् । व्याप्तिग्रहप्रतिबन्धकत्वानुरोधेन निरुक्त्तव्यभिचारनिश्चये हृदत्वत्वादेः प्रकारतया भानस्यावश्यकत्वादिति पचतावच्छेदकांश ऽन्याऽप्रकारकत्वनिवेशनं कथमपि न सम्भवतीति तात्पर्यम् । केचित्तु निरुक्तरीत्या पचतावच्छेदकांशेऽन्याऽप्रकारकत्वविवक्षणे हृदो जात्यभाववानित्यादौ जातिमद्दरूपबाध एवाव्याप्तिः, निरुक्तत्राघनिश्चये जातित्वस्यापि हृदत्वांश प्रकारत्वाभ्युपगमात् तादृशप्रकारत्वानिरूपकत्वस्य यथोक्तत्राघनिश्चये विरहादित्येवमविशेषितेत्यादेस्तात्पर्यमित्याहुः, तच्चिन्त्यम्, निरुक्तबाधनिश्वये हृदत्वां जातित्वादेः प्रकारताया अप्रामाणिकत्वादिति ध्येयम् । नन्वेवमपि नाऽसम्भवः, यादृशविशिष्ठे लक्षणं संगमनीयं तादृशविशिष्टघटकीभूता यावन्तः पदार्थाः तत्तत्प्रत्येकभेदकूटवन्तो ये ये पदार्थाः तत्तत्पदार्थविषयकत्वाभावकूटवत्त्वस्य यद्रूपावच्छिन्न विषयकनिश्चये विशेषणत्वोपगमात् वहन्यभावकलाविलासः पक्षतावच्छेदकाद्यंश इति । यत्र यदि पक्षतावच्छेदकनिष्ठविशेष्यतानिरूपिता अवच्छेदकत्वसम्बन्धावच्छिन्न प्रतियोगिताकपक्षतावच्छेदकत्वाभाववन्निष्ठा या प्रकारता तदनिरूपकत्वमेत्र पक्षतावच्छेदकांशेऽन्याप्रकारकत्वं तदा हदो वह्नयभाववानितिज्ञानेऽपि सामानाधिकरण्यसम्बन्धेन धर्मिपारतन्त्र्येण वह्नयभावस्य हृदत्वे प्रकारतया असम्भवापत्तेरिति न शक्यम् । विशेष्यताविशिष्टप्रकारत्वाऽनिरूपकत्वमेव पक्षतावच्छेदकांशेऽन्यामकारकत्वम्, वैशिष्ट्यं स्वनिरूपितत्व - स्वावच्छिन्नावच्छेदकताकविशेष्यतानिरूपित प्रकारत्वानवच्छिन्नरवोभयसम्बन्धेन, जातिमान् वह्नयभाववानितिज्ञानीयजातित्वनिष्ठप्रकारतैव तादृशविशेष्यताविशिष्टा, हदत्वनिष्ठविशेष्यसाया एव स्वपदेनोपादातुं शक्यत्वात् । विशेष्यताविशिष्टप्रकारतायाञ्च श्रवच्छेदकत्वसम्बन्धावच्छिन्नप्रतियोगिताकपक्षतावच्छेदकत्वाभाववन्निष्टत्वमपि विशेषणं देय मित्यम्रे व्यक्तीभविष्यति । "Aho Shrutgyanam" Page #123 -------------------------------------------------------------------------- ________________ चन्द्रकला-कलाविलासाख्यटीकाद्वयोपेतम् १०७ * गादाधरी * ताशविशिष्टाघटकपदार्थाविषयकत्वस्य ज्ञानविशेषणत्वोपगमे सर्वमाकाशवदित्यादिस्थलीयबाधादौ तदघटकाप्रसिद्धथा अव्याप्तिः। ___ * चन्द्रकला * विशिष्टहदरूपविशिष्टघटका ये हृद-हृदत्व-वह्नि-वह्नित्व-भावाभावत्वादयः तेषां प्रत्येकपदार्थभेदकूटवत्वस्य जातित्वे सत्वेन तादृशजातित्यपदार्थाऽविषयकत्वस्य जातिमान् वन्यभाववानित्याकारकशाने विरहात् , वह्नयभावविशिष्टह्रदनिश्चयस्यैव तादृशजातिस्वादिपदार्थाऽविषयकतया तत्रानुमितिप्रतिबन्धकत्यानपायात् । . विशिष्टघटकयत्किञ्चित्पदार्थभेदस्य तद्घटकपदार्थान्तरे सत्त्वात् ताशपदार्थान्तराविषयकत्वस्य लक्ष्यीभूतविशिष्ट विषयकनिश्चयेऽपि दुर्घटतयाऽसम्भवतादेवस्थ्यमतो भेदकूटनिवेशः । तथाच विशिष्ट घटकतत्तलदार्थभेदकूटवत्त्वस्य विशिष्ट घटकपदार्थेऽसम्भवान्नाऽसम्भवः । वन्यभावविशिष्टहृदरूपविशिष्टाऽघटकयत्किञ्चिजातित्वाऽविषयकत्वस्य प्रमेयत्वेन हृदत्वावगाहिनि प्रमेयवान्वन्यभाववान् इत्याकारकशाने वर्तमानतया तत्राऽनु. मितिप्रतिबन्धकताविरहेणाऽसम्भवतादवस्थ्यं स्यादतस्तादृशाघटकयावत्पदार्थविषय. कत्वाभावकूटनिवेशः। तथाच तादृशयावदन्तगतप्रमेयत्वाविषयकत्वस्य प्रमेयवान् वहन्यभाक्यानित्याकारकज्ञाने विरहान्नाऽसम्भव इत्याह तादृशति । यादृशविशिष्टे लक्षणं संगमनीयं तादृशेत्यर्थकम् । ज्ञानविशेषणत्वोपगमे = यद्पावच्छिन्नविषयक. निश्चयविशेषणत्वे । सर्वमिति। सर्वमाकाशवदित्यादिस्थलीयाऽकाशाभाववत्सर्वरूपबाधादावित्यर्थः । आदिना आकाशाभावव्याप्यवत्सर्वरूपसत्प्रतिपक्षपरिग्रहः । तदघटकेति । तादृशबाधघटकभिन्नत्वस्याऽप्रसिद्धयेत्यर्थः । सर्वस्यैव वस्तुनो बाधघटकत्वादित्याशयः। अव्याप्तिरिति । पूर्वोक्तरूपेण विशिष्टाघटकत्वविवक्षणे * कलाविलासः तादृशविशिष्टाघटकेति । तथाचानुगमः-प्रकृतानुमितित्वव्यापकप्रतिवध्यतानिरूपितप्रतिबन्धकतावृत्तिरूपवत्वं हेत्वाभासत्वम् वृत्तित्वञ्च स्वविशिष्टनिश्चयत्वच्यापकत्वसम्बन्धेन । स्ववैशिष्ट्यञ्च निश्चये स्वावच्छिन्नविषयितावत्त्व-स्वावच्छिन्नविषयिताव्यापकविषयिताकान्यनिरूपितविपयिताशून्यत्वोभयसम्बन्धेनेति ध्येयम् । __ प्रकारविधयाऽनुगमस्तु प्रकृतानुमितित्वव्यापकप्रतिवध्यतानिरूपितप्रतिबन्धकता. वृत्तिव्यापकतारूपाभावीयावच्छेदकतात्वावच्छिन्नप्रतियोगितानिरूपिप्तप्रतियोगित्वनि . छावच्छेदकतानिरूपितभेदनिष्ठावच्छेदकतानिरूपितवृत्तित्वनिष्ठावच्छेदकतानिरूपितनिश्चयनिष्ठावच्छेदकतानिरूपिता या स्वव्यापकविपयिताकान्यनिरूपितविषयित्वाभाववत्व-स्वरूपोभयसम्बन्धावच्छिन्नविषयितानिष्ठावच्छेदकता तन्निरूपितावच्छिन्नत्वसम्बन्धावच्छिन्नावच्छेदकतावद्धर्मवत्वं हेत्वाभासत्वमिति । "Aho Shrutgyanam" Page #124 -------------------------------------------------------------------------- ________________ अनुमानगादाधयाँ सामान्यनिरुक्तिप्रकरणम् * गादाधरी यद्यद्रूपावच्छिन्नस्य यस्य यस्य तादृशविशिष्टघटकता तत्तद्रूपावच्छिन्नतत्तन्निष्ठविषयताभिन्न किश्चिदवच्छिन्नविषयताशून्यत्वं ज्ञाने निवेश्यम् । * चन्द्रकला * जातिवादिना ह्रदत्वावगाहिज्ञानवारणेऽपि सर्वमाकाशवदित्यादौ आकाशाभाववत्सवरूपबाधादावव्याप्तिः, ताशबाधघटकसर्वपदार्थभिन्नत्वस्याऽप्रसिद्ध्या विशिष्टाघटकस्याऽप्रसिद्धरितिभावः । निरुक्ताऽव्याप्तः पूर्वोक्ताऽसम्भवस्य च वारणाय पुनः शंकते यद्यद्रूपेति । यस्य यस्य = पदार्थस्य । यादृशेति । लक्ष्यत्वेनाभिमतेत्यादिः । तत्तद्रूपेति । निरवच्छिन्नह्रदत्वादिनिष्ठविषयतायाः तत्तद्रूपावच्छिन्नविषयताभिन्नतया तच्छून्यत्वस्य वन्यभावविशिष्टहृदनिश्चये विरहात् बाधादी लक्षणसमन्वयासम्भवात् तत्तद्रूपावच्छिन्नविषयताभिन्नविषयताया किञ्चिदवच्छिन्नत्वनिवेश इत्यवधेयम् । ज्ञाने = यद्रूपावच्छिन्नविषयकनिश्चये । निवेश्यमिति । तथाच न सर्वमाकाशवदित्यादी आकाशाभावविशिष्ट सर्वरूपबाधादावव्याप्तिः, निरुक्तबाधादिधटकतावच्छे. दकसर्वत्वाद्यवछिन्नविषयताभिन्ना या घटत्वादिरूपकिञ्चिद्धर्मावछिन्ना विषयता तच्छू न्यत्वस्य तादृशाधादिनिश्चये सत्त्वादिति हृदयम् । __ * कलाविलासः * यद्यपावच्छिन्नस्येति । ननु यद्यद्पावच्छिन्नस्य यस्य यस्य यादृशविशिष्टाघटकावं तत्तद्रूपावच्छिन्नतत्तनिष्टविषयताशून्यत्वमेव लाघवाद् ज्ञाने निवेश्यं किं तद्विषयिताव्यापकविषयिताक रवरूपघटकरवनिवेशेनेति चेन्न ? घटकसंख्यापेक्षया अघटकसंख्याया प्राधिक्येन भेदकूटगौरवादिति ध्येयम् । निरुक्तकल्पस्यानुगमस्तु प्रकृतानुमितित्यव्यापकप्रतिवध्यतानिरूपितप्रतिबन्धकतावृत्तिरूपवत्वं हेत्वाभासत्यम् । प्रतिबन्धकतावृत्तित्वञ्च रूपे स्वविशिष्टनिश्चयत्वव्यापकत्वसम्बन्धेन, स्ववैशिष्ट्यं निश्वये स्वावच्छिनविषयितावत्त्व-स्वावच्छिन्नविपयिताव्यापक विपयितानिरूपकतावच्छेदकरूपविशिष्टान्यकिञ्चिदवच्छिन्नविषयिताशून्यत्वोभयसम्बन्धेन, ताशरूपवैशिष्ट्यञ्च स्वावच्छिनत्त्व-स्त्रसामानाधिकरण्योभयसम्बन्धेन । यद्यद्पावच्छिन्नस्येत्यनुक्तौ सर्वमाकाशवदित्यादिस्थलीयबाधादावव्याप्तिः, सर्वस्यापि विशिष्टघटकत्वात् । यस्य यस्येत्यनुक्तौ हृदः प्रमेयवह्निमानित्यादौ गुरुधर्मस्याभावप्रतियोगितावच्छेदकत्वे अमेयवह्नयभावविशिष्टहदरूपवाधेऽव्याप्तिः, प्रमेयत्वेन हदत्वावगाहिज्ञानेऽपि निरुक्तविषयिताशून्यत्वस्थानपायादतो यस्य यस्येत्युक्तम् । "Aho Shrutgyanam" Page #125 -------------------------------------------------------------------------- ________________ चन्द्रकला-कलाविलासाख्यटीकाद्वयोपेतम् १०९ * गादाधरी * जातित्वाद्यवच्छिन्नस्य हृदत्वादेन वह्नयभाववद्दत्वावच्छिन्नात्मकदोषघटकतेति जातित्वाद्यवच्छिन्नह्रदत्वादिविषयता तादृशविषयताभिन्नैव, तच्छून्यत्वञ्च नोक्तज्ञानस्येति न दोषः, इत्यपि न सत् ? तथासति हृदो जात्यभाववानित्यादिस्थलीयबाधादेरेव दुःसंग्रहत्वात् । जातिवादिना ह्रदत्वादिरूपधर्मितावच्छेदकावगाहिनो जातिमान जातिमानित्यादिज्ञानस्य जातित्वाद्यवच्छिन्नदत्वादिनिष्ठधर्मितावच्छेदकतारूपविषयताया निरुक्तविषयताभिन्नत्वविरहेण तादृशज्ञानस्यानुमित्यप्रतिबन्धकस्य शून्यत्वान्तेनावारणात् । मैवम् , * चन्द्रकला * जातित्त्वादिना हदत्वावगाहि ज्ञानमादाय पूर्वोक्ताऽसम्भवं वारयति जातित्वेति । जातित्वविशिष्टस्य चेत्यर्थः । तादृशेति । वन्यभावविशिष्ट-हदरूपविशिष्टघटकतावच्छेदकधर्मावच्छिन्नविषयताभिन्नैवेत्यर्थः । तच्छून्यत्वम् = जातित्वावच्छिन्नविषयताशून्यत्वम् । नोक्तज्ञानस्य-जातिमान् वन्यभाववानित्याकारकज्ञानस्य । तथाच वहन्यभावविशिष्ट-हदरूपविशिष्टदोषधटकतावच्छेदक-हदत्वाद्यवच्छिन्नविषयताभिन्ना या जातित्वावच्छिन्ना विषयता तच्छून्यताया जातिमान् वन्यभाववानितिज्ञानेऽसत्त्वात् अनुमितिप्रतिबन्धकतावति वन्यभावविशिष्ट-हदरूपबाधनिश्चय एव तच्छून्यताया वर्तमानतया सर्वत्र लक्षणसमन्वयसम्भवान्नाऽसम्भव इति समुदितग्रन्थतात्पर्यमधिकमन्यत्रानुसन्धेयम् । समाधानमाह तथा सतीति । निरुक्तरीत्या तादृशकिञ्चिदवच्छिन्न विषयताशून्यत्वस्य तादृशनिश्चयविशेषणत्वोरगमे सतीत्यर्थः । निरुक्तविवक्षयापि हदो जात्यभाववानित्यादौ जातिमद्-हदरूपबाधादावव्यातिः,जातिवादिना -हदत्वावगहिजातिमान्जातिमानित्याकारकज्ञानीयजातित्वावच्छिन्न हदत्वविषयतायां तादृशजातिविशिष्टहदात्मकबाधघटकतावच्छेदकजातित्वावच्छिन्नविषयताभिन्नत्वविरहेण तादृशविषयताभिन्नघटत्वाधवच्छिन्नविषयताशून्यत्वस्य जातिमान् इद इत्याकारकनिश्चये इव जातिमान्जातिमानित्याकारकनिश्चयेऽपि वर्तमानतया तत्रच हदधर्मिकजात्यभावानुमितिप्रतिबन्धकताया असत्त्वादित्याह शून्यत्वान्तेनावारणादित्यन्तेन । निरुक्तति जातिमद्दरूपमाधघटकतावच्छेदकधर्मावच्छिन्नार्थकम् । तादृशज्ञानस्यजातित्वादिना व्हदत्वावगाहिजातिमान्जातिमानितिज्ञानस्य । अथैवमपोत्यादेरुत्तरं मैवमिति । तयाच यद्रूपावच्छिन्नविषयितात्वं यादृशविशिष्टे "Aho Shrutgyanam" Page #126 -------------------------------------------------------------------------- ________________ अनुमानगादार्या सामान्यनिरुक्तिप्रकरणम् * गादाधरी * यद्पावच्छिन्नविषयितात्वं तादृशविशिष्टविषयकत्वसमानाधिकरणाभावप्रतियोगितावच्छेदकं तद्रूपावच्छिन्नविषयिताशून्यत्वस्य ज्ञानविशेषणतया सामञ्जस्यात् । * चन्द्रकला* लक्षणं संगमनीयम् तादृशविशिष्टविषयकनिश्चयत्वाधिकरणवृत्यभावप्रतियोगितावच्छेदकं तद्रूपावच्छिन्न विषयिताशून्ययद्पावच्छिन्नविषयकनिश्चयत्वव्यापकं प्रकृतानुमितिप्रति. बन्धकत्वं तद्रूपवत्त्वं हेत्वाभासत्वमिति लक्षणार्थः पर्यवसितः । एवञ्च न हदो वहिमानित्यादिस्थलीयवाधादौ जातिवादिना व्हदत्वावगाहि जातिमान् वह्नयभाववानित्याकारकज्ञानमादायाऽसम्भवः, तादृशबाधादिविषयकनिश्चये जातित्वावच्छिन्न हदत्वनिरूपितविषयितासामान्याभावस्य वर्तमानतया तत्प्रतियोगितापच्छेदकजातित्वावच्छिन्नविषयितात्वावच्छिन्नशून्यत्वस्य जातिमान् वन्यभाववानितिज्ञाने विरहात् तस्य च हदो वह्नयभाववानितिज्ञान एव सत्त्वात् । नवा हदो जात्यभाववानित्यादिस्थलीयवाधादावव्याप्तिः, तादृशजातिमद्धदरूपवाधनिश्चये जातित्वावच्छिन्न हदत्वविषयित्वाभावस्य सत्त्वेन तत्प्रतियोगितावच्छेदकजातित्वावच्छिन्नहदत्वविषयितात्वावच्छिन्नशून्यताया जातिमान् जातिमानित्याकारकजातित्वादिना हृदत्वावगाहिज्ञाने विरहादिति तात्पर्यम् । ज्ञानविशेषणतया = यद्पावच्छिन्नविष * कलाविलासः * यदुरूपावच्छिन्नविषयितात्वमिति । ननूक्तरीत्याऽव्यापकीभूतविपयिताशून्यत्वविवक्षणेऽपि अभावत्वेन हृदत्वावगाहि-अभाववान् वह्नयभाववानितिज्ञानमादाय पुनरसम्भवः, निरुक्तज्ञानेऽपि वह्नयभाववद्धदत्वावच्छिन्नविषयितायाः सत्वात् , इतिचेदत्र नव्याः, यादृशविशिष्टविषयकनिश्चये अव्यापकीभूतविपयिताशून्यतवमिव यद्यद्पावच्छिन्नस्य यस्य यस्य विशिष्टघटकता तत्तद्रूपावच्छिन्नतत्तन्निष्टविषयिताभिन्न किञ्चिदवच्छिन्नविपयिताशून्यत्वमपि तादृशनिश्चये विशेषणं देयम्, एवञ्चाभावत्वावच्छिन्नह्रदत्वविपयितायास्तादृशविपयिताभिन्नतया तळून्यत्वस्याभाववान् वह्नयभाववानितिज्ञाने विरहान्नाऽसम्भवः । नचैवं जातिमान् वह्निमानित्यत्र वह्नयभाववज्जातिमद्रूपवाधेऽव्याप्तिः प्रत्येक जातिविपयितायाश्चालनीन्यायेन तादृशविशिष्टविपयित्वाऽव्यापकत्वादितिवाच्यम्, यादृशसमुदायत्वावच्छिन्नानुयोगिताकपर्याप्तयवच्छेदकतानिरूपकताकविपयितात्वं तादृशविशिष्टविपयकतवसमानाधिकरणाभावप्रतियोगितावच्छेदकं तादृशशसमुदायत्वावच्छिन्नानुयोगिताकपर्यायवच्छेदकताकनिरूपकताकविषयिताशून्यत्वस्य तादृश "Aho Shrutgyanam" Page #127 -------------------------------------------------------------------------- ________________ चन्द्रकला-कलाविलासाख्यटीकाद्वयोपेतम् * दीधितिः * तेन विशिष्टस्याऽसत्त्वेऽपि * गादाधरी * अप्रतिबन्धकज्ञानविषयतावच्छेदकजातित्वादिविशेषितह्रदत्वादिघटिततत्तद्रूपावच्छिन्नविषयितात्वावच्छिन्नाभावस्य दोषात्मकविशिष्टविषयितासमानाधिकरणत्वात् तजज्ञानव्यावृत्तिरिति । विशिष्टस्य = विशिष्टविषयकत्वस्य, असत्त्वेऽपि = वह्नथभावत्वादिना घटाद्यवगाहिभ्रमेऽसत्त्वेपि । तथाच विशिष्टविषयकत्वेन प्रतिबन्धकता न सम्भवतीति भावः। * चन्द्रकला * यकनिश्चयविशेषणतया । सामञ्जस्यमेव निर्वक्ति अप्रतिबन्धकेति । प्रकृतानुमित्यप्रतिबन्धकं यत् जातिमान्वन्यभाववानित्यादिज्ञानं तद्विषयतावच्छेदकोभूतञ्च यत् जातित्वविशिष्ट हदत्वादिनिरूपितजातित्वावच्छिन्न हदत्वविषयितात्वं तदवच्छिन्नाभावस्येत्यर्थः । दोषात्मकेति । वन्यभावविशिष्ट-हदरूपवाधविषयकत्वसमानाधिकरणत्वादित्यर्थः। तथा च काऽसम्भव इति भावः। तज्ज्ञानेति । अप्रतिबन्धकीभूतजातित्वादिना -हदत्वाद्यवगाहिज्ञानवारणमित्यर्थः । अत्र च यद्पावच्छिन्नविषयितात्वावच्छिन्नाभावो यादृशविशिष्टविषयकत्वसमानाधिकरणस्तद्पावच्छिन्नविषयिताशून्यत्वस्य ज्ञानविशेषणत्वं लाघवात् कथं नोक्तमिति तु सुधीभिविभावनीयमित्यास्तां विस्तरः। विशिष्टविषयकत्वेन प्रतिबन्धकत्वं न सम्भवतीति सूचयितुं भावमाह तथाचेति । * कलाविलासः * निश्चयविशेषणत्वोपगमात् , तादृशविषयिताशून्य त्वस्य निरुक्तवाधे सवादित्याहुः । अथ यद्पावच्छिन्नविषयितात्वं स्वावच्छिन्नविषयकत्वावच्छिन्न प्रतिबन्धकतावच्छेदकविषयित्वसमानाधिकरणाभावप्रतियोगितावच्छेदकं तद्रूपावच्छिन्नविपयिताशून्यत्वमेव तादृशनिश्चये निवेश्यतां किं विशिष्टद्वयाऽघटितत्व-विशिष्टान्तराऽघटितत्वनिवेशेन ? वह्नयभाववज्जलवद्वृत्तिजलवद्धदत्वावच्छिन्नविषयकत्वावच्छिन्नज्ञानवैशिष्ट्यावच्छिन्न प्रतिबन्धकतावच्छेदकवयभाववज्जलवत्कालीनजलवद्ध्दत्वावच्छिन्नविषयित्वाऽव्यापकत्वस्य वह्नयभाववज्जलवद्वृत्तिजलवद्हृदत्वावच्छिन्नविषयितायां सत्त्वात् । एवं मेयत्वविशिष्टव्यभिचारत्वावच्छिन्नविषयकरवावच्छिन्न प्रतिबन्धकतावच्छेदकशुद्धव्यभिचारत्वावच्छिन्न विषयित्वाऽव्यापकत्वस्य मेयत्वविशिष्टव्यभिचारत्वावच्छिन्नवियितायां सत्त्वात् । "Aho Shrutgyanam" Page #128 -------------------------------------------------------------------------- ________________ ११२ अनुमानगादाधर्थी सामान्यनिरुक्तिप्रकरणम् * दीधितिः भ्रमात्प्रतिबन्धेऽपि न क्षतिः । * गादाधरी भ्रमात्प्रतिबन्धेऽपि तादृशभ्रमस्यानुमित्यनुत्पादप्रयोजकत्वेऽपि, न क्षतिः-नोक्तयुक्त्या पर्य्याप्तिनिवेशेऽसम्भवस्तदनिवेशे पूर्वोक्तातिप्रसङ्गो वा । - * चन्द्रकला * तादृशभ्रमस्य = पर्वतादौ वह्नयाद्यभावप्रकारकभ्रमस्य । नोक्तयुक्तयेत्यादि । निरूप्यनिरूपकभावापन्नविषयताया एव स्वरूप सम्बन्धरूपावच्छेदकत्वव्यवस्थापनरूपयुक्त्या नाऽसम्भवः, पर्यात्यनिवेशे च बाधायेकदेशादौ नाऽतिप्रसंगो वेतिसमुदितग्रन्थार्थः पर्यवसितः । स्वरूपसम्बन्धरूपप्रतिबन्धकतावच्छेदकत्वघटितलक्षणस्य वक्ष्यमाणाऽतिव्याया दूषणीयत्वेऽप्यनतिरिक्तवृत्तित्वरूपावच्छेदकत्व घटितलक्षणेऽपि वक्ष्यमाणविशिष्टविशेषेऽतिव्याप्तिवारणं दुःशक्यं स्यात् यदि विशिष्टद्वयाऽघटितत्वनिवेशो न स्यादितिविशिष्टद्वयाऽघटितत्व निवेशसूचनाय प्रथमतः स्वरूपसम्बन्धरूपा* कलाविलासः * एवमनयैव रीयाsनुगतरूपेण प्रतिबन्धकतायां यत् किञ्चित्वादिकं निवेश्य श्रन्यान्यदोषा अपि वारणीयाः । मैवम्, सर्वमाकाशवदित्यादौ श्राकाशाभाववत्सर्वरूपवाधेऽव्याप्तथापत्तेः, सर्वस्वावच्छेदेन श्राकाशानुमितिं प्रति आकाशाभाववद्घटादिनिश्चयस्यापि प्रतिबन्धकतया आकाशाभाववत्सर्वत्वावच्छिन्न विषयकत्वावच्छिन्नप्रतिबन्धकतावच्छेदकाकाशाभावव घटत्वावच्छिन्न विषयित्वाऽव्यापकत्वस्य तादृशसर्वत्वावच्छिन्न विषयितायामक्षतत्वादिति तु विभावनीयम् । तदभावस्य यद्रूपावच्छिन्नविपयितात्वमित्यनभिधाय यन्निरूपित विषयितात्वमित्युक्तौ सर्वमाकाशवदित्यादौ श्राकाशाभाववत्सर्वरूपत्राधेऽव्याप्तिः घटादिनिरूपित विषयिता अपि श्राकाशाभाववत्सव त्सर्वविषयकत्वसमानाधिकरणतया तादृशवाज्ञाने विरहेण यन्निरूपित्तविषयितात्वस्य तादृशवाधविपयकत्वसमानाधिकरणाभावप्रतियोगितावच्छेदकत्वाप्रसिद्ध रेतो यद्रूपावच्छिन्न विषयितात्वमित्युक्तम् । तथाच घटत्वावच्छिन्न विपयितासामान्याभावस्य तादृशवाधज्ञाने सत्वान्नाव्याप्तिरिति भावः । यद्रूपावच्छिन्नविपयिता यादृशविशिष्टविषयकत्वसमानाधिकरणभेदप्रतियोगितावच्छेदित्युक्तौ प्रतियोगित्येन धर्मिणः प्रवेशनीयतया गौरवं स्यादतस्तादृशाभावप्रतियोगितावच्छेदकत्वं यद्रूपावच्छिन्न विषयितात्वेऽभिहितमिति ध्येयम् । श्रव्यापकीभूतविपयिताशून्यत्वसहितलक्षणानुगमस्तु मकृतानुमितित्वव्यापक "Aho Shrutgyanam" Page #129 -------------------------------------------------------------------------- ________________ ११३ चन्द्रकला-कला विलासाख्यटीकाद्वयोपेतम् गादाधरी ननु विशिष्टदोषघटकीभततदेकदेशविषयतायां स्वरूपसम्बन्धरूपावच्छेदकत्वसत्त्वेऽपि यादृशविशिष्टविषयतासामान्यस्य तादृशावच्छेदकत्वविवक्षया अतिप्रसङ्गवारणसम्भवात् तदेव कथं न विवक्षितमिति । ___ * चन्द्रकला * वच्छेदकत्वनिवेशसमर्थनाय शंकते नन्विति । विशिष्टेति । वह्नयभावविशिष्ट-हदरूपबाधात्मकदोषघटकीभूतो यो वह्नयभावाद्यकदेशस्तनिष्ठविषयतायामित्यर्थः । स्वरूपसम्बन्धरूपावच्छेदकत्वविवक्षणे पूर्वोक्तयुक्तया हदो वह्निमानित्यादौ बाधायेकदेशे वह्नयभावादावतिव्याप्ति पूर्वोक्तां वारयति विशिष्टेति । तथाच यद्रूपावच्छिन्नविषयतात्वव्यापकं प्रकृतानुमितिप्रतिबन्धकतानिरूपितस्वरूपसम्बन्धरूपावच्छेदकत्वं तद्र पवत्त्वं हेत्वाभासत्वमित्युक्तौ न बाधायेकदेशादावतिव्याप्तिः, तादृशैकदेशाद्यात्मकवहन्यभावत्वावच्छिन्नविषयतात्वरय वह्नयभाव इत्याकारकज्ञानीयवन्यभावविषयतायामपि सत्त्वेन तत्र -हदादिधर्मिकवहयाद्यनुमिति. प्रतिबन्धकतावच्छेदकत्वविरहात् वह्नय भावत्वावच्छिन्नविषयतात्वव्यापकत्वस्य प्रकृतानुमितिप्रतिबन्धकतावच्छेदकतायामसत्त्वात् यद्र पपदेनतादृशैकदेशवृत्तिवह्नयभावत्वादेरुपादातुमशक्यत्वादित्याशयः। तदेव = निरुक्तरीत्या स्वरूपसम्बन्धरूपावच्छेदकत्वघटितलक्षणमेव । न विवक्षितम् दीधितिकृतेतिशेषः । * कलाविलासः ॐ प्रतिवध्यतानिरूपित प्रतिबन्धकतावृत्तिधर्मवत्त्वं हेत्वाभासत्वमिति, वृत्तित्वञ्च स्वविशिष्टनिश्चयत्वव्यापकत्वसम्बन्धेन, स्ववैशिष्ट्यं निश्चये स्वावच्छिन्नविषयितावत्वस्वावच्छिन्नविषयक स्वसमानाधिकरणाभावप्रतियोगितावच्छेदकधर्मावच्छिन्नविषयि - ताशून्यत्वोभयसम्बन्धेन, अतिविस्तृतिभयात् प्रकारविधयाऽनुगमोऽत्र न प्रदर्शितः। ननु यद्पपदेन यदि सामानाधिकरण्यसम्बन्धेन वह्नयभावविशिष्टहदत्वं धर्त्तव्यं तदा वह्नयभावविशिष्टइदत्ववानयमितिज्ञानीयमकारत्वावच्छिन्नविशेष्यताया अपि वह्नयभावविशिष्टहदत्वावच्छिन्न तया तत्रानुमितिप्रतिबन्धकताविरहेणाऽसम्भवः स्यात् । यदिच वह्नयभाव-हृदत्वोभयमेव तथा, तदापि वह्नयभाववद्धदत्ववान् घट इत्याकारकज्ञानीयप्रकारत्वावच्छिन्नविशेष्यतायाः तादृशोभयधर्मावच्छिन्नतया तत्राप्यनुमितिप्रतिबन्धकतायाः अभावसरवादसम्भवो दुर्वार इति चेन, हृदत्वावच्छिन्नानुयोगिताकस्वरूपसम्बन्धेन वह्नयभावाधिकरणनिरूपितवृत्तित्वरूपसामानाधिकरण्यसम्बन्धेन वयभावविशिष्टहदत्वस्यैव यद्रूपदेन धर्तव्यत्वात् । वयभावविशिष्ट "Aho Shrutgyanam" Page #130 -------------------------------------------------------------------------- ________________ ११४ अनुमानगादाधर्या सामान्यनिरुक्तिप्रकरणम् * गादाधरी - नच सामान्यपदस्य व्यापकत्वार्थकतया प्रतिबन्धकतावच्छेदकतायां विशिष्टविषयतात्वव्यापकत्वं प्रवेश्यं, तदपेक्षया प्रतिबन्धकतायां विशिष्टविषयताव्यापकत्वनिवेशनमेवोचितमिति वाच्यम् ? यतो वह्नयभावविशिष्टहदादिनिरूपितविषयताया अनुमित्यप्रतिबन्धकसंशयाहार्याप्रामाण्यज्ञाना 8 चन्द्रकला ननु सामान्यपदस्य व्यापकत्वार्थकतया यद्पावच्छिन्नविषयतासामान्यं प्रकृतानुमितिप्रतिबन्धकतावच्छेदकमित्यस्य यद्पावच्छिन्नविषयतात्वव्यापकं प्रकृतानुमितिप्रतिबन्धकतावच्छेदकत्वमित्यर्थकताया आवश्यकत्वात् प्रतिबन्धकतानतिरिक्तवृत्तित्वरूसावच्छेदकत्वघटितलक्षणमेव लघुभूतम्,तस्य तद्पावच्छिन्नविषयकत्वव्यापकप्रकृतानुमितिप्रतिबन्धकत्वघटितत्वात् , भवन्मते यद्पावच्छिन्नविषयकत्वत्वव्यापकत्वस्य ताशप्रतिबन्धकतावच्छेदकतायामेव विवक्षितत्वादित्येव नचेत्यादिनाऽशंक्य समाधत्ते यत इत्यादि। *कलाविलासः हृदत्ववान् घट इत्यादिज्ञाने सामानाधिकरण्यस्य तादृशविशेषरूपेग स्वरूपघटितसंसर्गत्वानभ्युपगमेन असम्भवविरहादिति ध्येयम् । अथ स्वरूपसम्बन्धरूपमतिबन्धकतावछेदकत्वघटितकल्पे बाधायेकदेशेऽतिव्या. प्तिवारणाय यद्पावच्छिन्नविषयितासामान्यमित्यत्र सामान्यपदं व्यर्थम्, जातिरवेन हदत्वावगाहिजातिमान् वयभाववानितिज्ञानमादायाऽसम्भपवारणाय अव्यापकोभूतविषयिताशून्यत्वस्यावश्यं निवेशनीयतया वाधैकदेशवह्नयभावत्वाचवच्छिन्नविपयित्वाऽव्यापकविषयिताशून्यत्वस्य वहयभाव इत्याकारकज्ञान एव सत्वेन तदीयवहषभावविपयितायाः मकृतानुमितिमतिबन्धकतानिरूपितस्वरूपसम्बन्धरूपावच्छेदकत्वविरहात् । __नच गोस्वाभावो गोवाभाववानित्यत्र वाधश्रमविषये गोत्वाभावेऽतिव्याप्तिः स्यात् यदि सामान्यपदं न स्यादिति वाच्यम्, यद्रूपावच्छिन्नसंसर्गतानिरूपितयद्रूपावच्छिन्नविषयितात्वं यद्पावच्छिन्नविषयकत्वसमानाधिकरणाभावप्रतियोगितावच्छेदकं तद्पावच्छिन्नसंसर्गतानिरूपिततद्रूपावच्छिन्नविपयिताशून्यस्वस्यैवाव्यापकीभूतविपयिताशून्यस्वपदेन विवक्षणीयत्वात् समवायत्वावच्छिन्नविपयितानिरूपितगोत्वत्वावच्छिन्नविपपिताशून्यगोत्वाभाव इत्याकारकज्ञानीयविपयितायाः तादृशप्रतिबन्धकतानवच्छेदकत्त्वादिति चेन्न, गुणो न द्रव्यमित्यादौ गुणो द्रव्यमित्याकारकनिरवच्छिन्नद्रव्यत्त्वनिष्ठप्रकारताकबाधभ्रमीयविषयताश्रये गुणेऽतिव्याप्ति. वारणाय सामान्यपदस्यावश्यकत्वात् यथाविवक्षितनिखिलाव्यापकोभूतविपयिता "Aho Shrutgyanam" Page #131 -------------------------------------------------------------------------- ________________ चन्द्रकला-कलाविलासाख्यटीकाद्वयोपेतम् ११५ * गादाधरी ॐ स्कन्दितज्ञानसाधारणतया नानुमितिप्रतिबन्धकतायां तद्व्यापकत्वमित्यनाहार्याप्रामाण्यज्ञानानास्कन्दितनिश्चयवृत्तित्वविशिष्टाया विशिष्टविषयताया एव व्यापकत्वं प्रतिबन्धकतायां भवता विवक्षणीयं, तदपेक्षया लाघवेन च स्वरूपसम्बन्धरूपावच्छेदकतायां बाधादिरूपदोषविषयतात्वव्यापकत्वं वक्तुमुचितम् । तथासति निश्चयत्वाद्यनिवेशात् समानाकारकज्ञानस्य विषयताया भेदस्याप्रामाणिकतया संशयादिज्ञानीयविषयताया अपि निश्चयत्वादिविशिष्टीयतयैव प्रतिबन्धकतावच्छेदकतया बाधादिरूपदोषनिरूपितविषयतात्वव्यापकताया अक्षतत्वात् । * चन्द्रकला * व्यापकत्वम् वह्नयाद्यभावविशिष्टहृदादिनिरूपितविषयिताव्यापकत्वम् , भवता-अनतिरिक्तवृत्तित्वरूपावच्छेदकत्ववादिना । तदपेक्षया = तादृशविशिष्टनिरूपितनिरुक्तनिश्चयवृत्तित्वविशिष्टविषयित्वव्यापकत्वनिवेशापेक्षया । उचितमिति । अस्मन्मते लक्षणस्याधिकपदार्थाऽघटितत्वादिति हृदयम् । स्वरूपसम्बन्धरूपावच्छेदकत्ववादिनां मते लक्षणस्याऽधिकपदार्थाऽघटितत्वे युक्तिमाह तथा सतीति । प्रतिबन्धकतावच्छेदकतायां तादृशविषयतात्वव्यापकत्वनिवेशे कृते सतीत्यर्थः । समानेति । स्वीयमुख्यविशेष्यतावच्छेदकधर्मावच्छिन्नविशेष्यताकज्ञानेष्वित्यर्थः। अप्रामाणिकतयेति । समानाकारकज्ञानविषयताया भेदाभ्युपगमे संशयनिश्चयसाधारणसमानविशेष्यताकज्ञानानुव्यवसायो न स्यादिति ध्येयम् । निश्चयत्वादीति । निश्चयत्वादिविशिष्ट निश्चयनिरूपिततयेत्यर्थः । बाधादौति । हृदो वह्निमानित्यादिस्थलीयवन्यभावविशिष्टहृदात्मकबाधादिदोषनिरूपितविषयितात्वव्यापकताया इत्यर्थः । अयंभावः, अनितिरिक्तवृत्तित्वरूपावच्छेदकत्वनिवेशपक्षे वह्नयभावादिविशिष्टहदवाद्यात्मकयद्रूपावच्छिन्नविषयकत्वव्यापकत्वमात्रस्य निवेशो न सम्भवति ताशयद्रपावच्छिन्नविषयकत्वस्य संशये आहार्यशानेऽप्रामाण्यज्ञानास्कन्दितेऽपि ज्ञाने वर्तमानतया तत्र प्रकृतानुमितिप्रतिबन्धकताया विरहादतस्तन्मतेऽनाहार्याप्रामाण्यज्ञानानास्क. न्दितसंशयान्यज्ञानवृत्तित्वविशिष्टयद्पावच्छिन्नविषयकत्वव्यापकत्वं प्रकृतानुमितिप्रतिबन्धकतायां यथोक्तरीत्याऽसम्भववारणायावश्यं निवेश्यम् । 8 कलाविलास:* शून्यज्ञानीयत्वस्य निरुक्तभ्रमीयगुणवावच्छिन्नविपयितायां सत्त्वादित्ति ध्येयम् । "Aho Shrutgyanam" Page #132 -------------------------------------------------------------------------- ________________ ११६ अनुमानगादाधयां सामान्यनिरुक्तिप्रकरणम् * गादाधरी * न च वह्नयभाववान् ह्रदो वह्निमानित्याहार्यज्ञानीयवह्नयभावविशिष्टहृदादिविषयता नाऽनाहाय॑ज्ञानसाधारणी तादृशाहाय्यज्ञानसमानाकार. कानाहाय्य॑ज्ञानाप्रसिद्धः, ह्रदो वह्नयभाववानित्यनाहाय्यज्ञानीयवह्नयभावविशिष्टहदादिविषयतातश्च वह्नयादिप्रकारतानिरूपिततादृशाहायज्ञानीयव यभावविशिष्टहदादिविपयताया भिन्नत्वात् , तथाचानाहाय्यज्ञानवृत्तित्वविशिष्टविषयताया एव प्रतिबन्धकतावच्छेदकतया न प्रतिबन्धकतावच्छेदकतायां दर्शिताऽऽहाय्य॑ज्ञानीयविषयितासाधारणविशिष्टविषयतात्वव्यापकत्वमिति वाच्यम् , * चन्द्रकला. स्वरूपसम्बन्धरूपावच्छेदकत्वनिवेशपक्षे तु अनाहार्यत्वादिकमनिवेश्य केवलं यद्पावच्छिन्नविषयितात्वव्यापकत्वं प्रकृतानुमितिप्रतिबन्धकतावच्छेदकतायां निवेशनीयम् , संशयादिनिरूपितविषयताया निश्चयत्वावच्छिन्ननिरूपितत्वेन समानाकारक. ज्ञानीयतयानुमितिप्रतिबन्धकतावच्छेदकत्वेन वहन्यभावादिविशिष्टह्रदत्वाद्यवच्छिन्ननिरूपितविषयितात्वमात्रव्यापकतायाः प्रतिबन्धकतावच्छेदकतायामशतवादतो निरुक्तरीत्या स्वरूपसम्बन्धरूपावच्छेदकत्वघटितलक्षणमेव निश्चयत्वाद्यप्रवेशेन लाघवात् युक्तमिति । । नन्वाहार्यवहयभाववान् हदो वह्निमानित्याकारकज्ञानं न वह्नयभाववन्हदनिश्चयसमानाकारक निश्चयोयविशेष्यतायाःशुद्ध हृदत्वावच्छिन्नतया तादृशविशेष्यताया आहार्यज्ञाने विरहात् वह्नयभाववान् व्हदो वह्निमानित्याकारकाहार्यज्ञानीयविशेष्यताया वहयभाव-हदत्वरूपधर्मद्वयावच्छिन्नत्वादिति वह्नयभावविशिष्ट हदत्वावच्छिन्नविषयतात्वरयाहार्यज्ञानीयताह शविषयतायामपि सत्त्वेन तत्रानुमितिप्रतिबन्धकतावच्छेदकत्वस्याभावादसम्भववारणाय सद्रूपावच्छिन्न विषयतायामनाहार्यज्ञानीयत्वनिवेशस्यावश्यकतया स्वरूपसम्बन्धरूपावच्छेदकत्वनिवेशपक्षेऽपि गौरवस्य वारयितुमशक्यत्वादिति तटस्थः शंकते नचेति । वाच्यमिति परेणान्वयः । नानाहार्येति । न निश्चयादौ वर्तमाना भवितुमर्हति । भिन्नत्वादिति । आहायज्ञानीयवह्निप्रकारतानिरूपितविशेष्यताया वह्नयभावाद्यवच्छिन्नत्वादिति भावः । दर्शितेति । वह्नयभाववान् हृदो वह्निमानित्याकारकाहार्यज्ञानीयवह्नयभावविशिष्टह्रदविषयितासाधारणविशिष्ट विषयितात्वव्यापकत्वं स्वरूपसम्बन्धरूपप्रतिबन्धकतावच्छेदकत्वस्य नेत्यर्थः। तथाचानाहायित्वस्य यद्पावच्छिन्नविषयितायामनिवेशेऽसम्भव इत्याशयः । "Aho Shrutgyanam" Page #133 -------------------------------------------------------------------------- ________________ चन्द्रकला-कलाविलासाख्यटीकाद्वयोपेतम् ११७ * गादाधरी * तथासत्ति अनाहाय॑ज्ञानीयविशिष्टविषयितात्वव्यापकताया एव विवक्षणीयत्वात् , तावतापि संशयान्यत्वाप्रामाण्यज्ञानानास्कन्दितत्वाप्रवेशेन लाघवानपायात् । * चन्द्रकला* समाधत्ते तथा सतीति । असम्भववारणायानाहायित्वस्य यद्पावच्छिन्नविषयतायां निवेशे कृते सत्यपीत्यर्थः । लाघवानपायादिति । तथाच स्वरूपसम्बन्धरूपप्रतिबन्धकतावच्छेदकत्वपक्षे आहार्यज्ञानीयविषयितासाधारणविशिष्ट विषयितात्वव्यारकत्वस्य तादृशावच्छेदकतायामसत्त्वादसम्भववारणाय यद्पावच्छिन्नविषयितायामनाहा- यत्वविवक्षणेऽपि संशयान्याप्रामाण्यज्ञानानास्कन्दितज्ञानोयत्वस्य तादृशविषयितायामनिवेशेन स्वरूपसम्बन्धरूपावच्छेदकत्वघटितलक्षणस्यैव लधुत्वात् , अनतिरिक्तवृत्तित्वरूपावच्छेदकत्वघटितलक्षणेऽसम्भववारणाय यद्पावच्छिन्नविषयकज्ञाने संशयान्यत्वादिनिवेशत्यावश्यकत्वादिति तु परमार्थः । यद्पावच्छिन्न विषयतात्वव्यापकं प्रकृतानुमितित्वव्यापकप्रतिबध्यतानिरूपितप्रतिबन्धकताया:स्वरूपसम्बन्धरूपावच्छेदकत्वं तद्रूपवत्त्वमित्यादिरीत्या लक्षणार्थनिर्वचने पर्वतो वह्निमान् धूमादित्यादौ पाषाणमयत्यवत्पर्वतेऽतिव्याप्तिः, पाषाणमयत्वावच्छेदेन पाषाणमयो वह्नयभाववानित्याकारकनिश्चयविशिष्टपाषाणमयत्वऽवांश्च * कलाविलासः * तथा सत्यनाहार्येति । नचानाहार्यज्ञानीयविषयितायां प्रतिबन्ध कतावच्छेदकत्वाभिधानं निरर्थकमव्यापकीभूतविषयिताशून्यज्ञानीयत्वस्य विषयितायां विवक्षणादेवाहार्यज्ञानवारणसम्भवादिति वाच्यम्, गुणपक्षकद्रव्यस्वसाध्यकस्थले द्रव्यभिन्नगुणरूपबाधेऽव्याप्त्यापरोः, द्रव्यभिन्नगुणत्वावच्छिन्नविषयकत्वसमानाधिकरणाभावप्रतियोगितावच्छेदकं यद्विषयितास्वं तच्छून्यत्वस्य द्रव्यस्वस्वावच्छिन्नविषयतानिरूपितद्व्यभिन्नगुणत्वावच्छिन्नविशेष्यताकज्ञाने सत्त्वेन सदीयविपयितायां प्रतिबन्धकसावच्छेदकत्वविरहात् । तज्ज्ञानविशिष्टज्ञानत्वं तज्ज्ञानसमानाकारक ज्ञानत्यम्, वैशिष्टय स्वनिरूपितमुख्यविशेष्यताविशिष्टमुख्यविषयताकत्वसम्बन्धेन । तादृश विशेष्यतावैशिष्टय स्वावच्छेदकतापर्याप्त्यधिकरणधर्मपर्याप्तावच्छेदकताकत्व--स्वनिरूपितमुख्यविशेष्यतानात्मकविषयतावच्छेदकतापर्याधयधिकरणधर्मावच्छिन्नविषयतानिरूपितत्वोभयसम्बन्धेनेत्यवधेयम् । "Aho Shrutgyanam" Page #134 -------------------------------------------------------------------------- ________________ अनुमानगादाधर्यां सामान्यनिरुक्तिप्रकरणम् * गादाधरी * मैवम्, स्वरूपसम्बन्धरूपावच्छेदकत्वप्रवेशे पापाणमयत्वाद्यवच्छेदेन वह्नयभाववत्तानिश्वयविशिष्टस्य पाषाणमयत्वादिविशिष्टस्य पक्षादेर्ज्ञानस्य वह्नयनुमितिप्रतिबन्धकतया तदवच्छेदकविषयिताकपाषाणमयत्ववत्पर्वतेऽति ११८ * चन्द्रकला * पर्वत इत्याकारकनिश्चयस्य ज्ञानद्वयात्मकस्य समूहालम्बनरूपस्य वा सत्त्वदशायां पर्वतादौ वाद्यनुमित्यनुत्पादात् तादृशानुमितिं प्रति निरुक्तनिश्वयविशिष्टनिश्चयस्य प्रतिबन्धकताया आवश्यकतया समानाकारकज्ञानीयविषयताया ऐक्येन पाषाणमयत्वावच्छेदेन वचभाववत्ता निश्चयासमानकालीनपाषाणमयत्ववत्पर्यंत त्वावच्छिन्न विषयतायास्तादृशनिश्चयसमानकालीनपात्राणमयत्ववत्पर्वतत्वावच्छिन्न विषयित्वाभिन्नतया यत्र यत्र पाषाणमयत्ववत्पर्वतत्वावच्छिन्नविषयितात्वं वर्त्तते तत्र तत्रैव पर्वतादिधर्मिकवह्नयनुमितिप्रतिबन्धकतानिरूपितस्त्ररूपसम्बन्धरूपावच्छेदकताया अक्षतत्वात् यद्रूपपदेन पाषाणमयत्ववत्पर्वतत्वस्योपादातुं शक्यत्वात् । यद्रूपावच्छिन्न विषयकताहशनिश्चयत्वव्यापकं प्रकृतानुमितिप्रतिबन्धकत्वं तद्र - पवत्त्वमित्याकारका नतिरिक्तवृत्तित्व रूपावच्छेदकत्व घटितलक्षणार्थाभ्युपगमे तु न तत्र पाषाणमयत्ववत्पर्वतेऽतिव्याप्तिः, तादृशपाषाणमयत्ववत्पर्वतत्वावच्छिन्नविषयकनिश्चयत्वस्य पाषाणमयत्यावच्छेदेन वह्नयभाववत्तानिश्चयाऽसमानकालीनेऽपि पात्राणमयः पर्वत इत्याकारकनिश्चये वर्त्तमानतया तत्रानुमितिप्रतिबन्धकताया असत्त्वादेतन्मते पाषाणमयत्ववत्पर्व तत्वस्य यद्रूपानन्तर्गतत्वादित्येवं नन्वित्यादेरुत्तरमाह मैवमित्यादि । ज्ञानस्य = निश्चयस्य । तदवच्छेदकेति । तादृशानुमितिप्रतिबन्धकतावच्छेदकविषयितानिरूपकपाषाणमयत्वविशिष्टपर्वतादावतिव्याप्तेरित्यर्थः । अनतिरिक्तवृत्तित्व ܝ * कलाविलासः ** पाषाणमयस्ववत्पर्वतेऽतिव्याप्तिरिति । श्रय पापाणमयत्ववत्पर्वतविषयतासामान्यान्तर्गतायाः वह्निमान् पर्वतः पाषाणमय इत्याकारकज्ञानीयपाषाणमयत्ववत्पर्वतत्वावच्छिन्नविषयताया अपि धर्तुं शक्यतया तत्र चानुमितिप्रतिबन्धकतावच्छेदकत्वविरहादेव पाषाणमयत्त्ववत् पर्वतेऽतिव्याप्तिवारण सम्भवे तत्राऽतिव्यासिदानमसंगतम्, पाषाणमयो न वह्निमान् इत्याकारकज्ञानकाले वह्निमान् पर्वतः पाषाणमय इतिज्ञानस्याहार्यतया प्रकृतानुमित्यप्रतिबन्धकत्वादिति चेन, अव्यापकीभूतविषयिताशून्यत्वस्यावश्यं निवेशनीयतया पाषाणमयत्ववत्पर्वतत्वावच्छिन्नविषयत्वाव्यापकीभूतविषयिताशून्य ज्ञानीयत्वस्य वह्निमान् पर्वतः पाषाणमय इतिज्ञानीय पाषाणमयध्ववत्पर्वतत्वावच्छिन्नविषयितायामसत्येन तादृशज्ञानीयपाषाणमयत्त्ववत्पर्व तत्वावच्छिन्नविषयतायास्तादृशविषयितासामान्यानन्तर्गतत्वादेव तत्राऽतिव्याप्तिदान संगतेः । "Aho Shrutgyanam" Page #135 -------------------------------------------------------------------------- ________________ चन्द्रकला-कलाविलासाख्यटीकाद्वयोपेतम् ११९ * गादाधरी * व्याप्तिः। अनतिरिक्तवृत्तित्वरूपावच्छेदकत्वनिवेशपशे तादृशविशिष्टविषयतायाः पाषाणमयत्वावच्छेदेन वह्नयभावक्त्तानिश्चयाविशिष्टज्ञानसाधारणतया अनुमितिप्रतिबन्धकतातिरिक्तवृत्तित्वेनातिप्रसङ्गानवकाशात् । नचानतिरिक्तवृत्तित्वरूपावच्छेदकत्वनिवेशपक्षेऽपि जलाद्यवच्छेदेन वह्नयभाव ॐ चन्द्रकला रूपावच्छेदकत्वनिवेशपक्षे तत्राऽतिव्याप्तिं वारयति ताशेति । पापाणमयत्ववत्पर्वतरूपविशिष्ट विषयिताया इत्यर्थः । वह्नयभाववत्तेति । पाषाणमयत्वावच्छेदेन पाषाणमयो न वह्निमान् इत्याकारकनिश्चयाविशिष्टो यः पर्वतः पाषाणमय इत्याकारकनिश्चयस्तत्राऽपि वर्तमानतयेत्यथः । अनुमितीति । ताशपाषाणमयत्ववत्पर्वतत्वाबच्छिन्नविषयितायाः स्वसमानाधिकरणभेदप्रतियोगितावच्छेदकपर्वतादिधर्मिकवह्नयाद्यनुमितिप्रतिबन्धकताकत्वेनेत्यर्थः । ननु स्वरूपसम्बन्धरूपप्रतिबन्धकतावच्छेदकत्वविवक्षणेऽपि तादृशज्ञानविशिष्टज्ञानमादाय नोक्तातिव्याप्तिः यद्र पावच्छिन्नविषायतात्वव्यापकं ज्ञानवैशिष्टयानवच्छिन्नप्रकतानुमितिप्रतिबन्धकतावच्छेदकत्वं तद्र पवत्वमित्यस्यैव लक्षणार्थत्वोपगमात् पाषाणमयत्ववत्पर्वतत्वावच्छिन्न विषयितायाः पाषाणमयत्वावच्छेदेन वह्नयभाववत्ताज्ञानवैशिष्ट्यावच्छिन्नायामेव प्रतिबन्धकतायामवच्छेदकत्वात् पाषाणमयत्ववत्पर्वतत्वस्य यद्र पपदेनोपादानाऽसम्भवात् । नचैतन्मते प्रतिबन्धकतायां ज्ञानवैशिष्ट्यानवच्छिन्नत्वस्याधिकस्य प्रवेशनीयतया गौरवमिति वाच्यम्, अनतिरिक्तवृत्तित्वरूपावच्छेदकत्वनिवेशमतेऽपि जलावच्छेदेन जलवान् वह्नयभाववानित्याकारकनिश्चयविशिष्टस्य जलवांश्च हद इत्याकारकनिश्चयस्य म्हदो वह्निमानित्यनुमितिप्रतिबन्धकतया निरुक्तनिश्चयविशिष्टनिश्चयविषयस्य वह्नयभाववजलपवृत्तिजलवद्धदस्य वह्नयभावरूपसाध्याभावव्याप्त्यघटितत्वेन सत्प्रतिपक्षानात्मकतयाऽसम्भवल्लक्ष्यमावस्य विषयितायाः तादृशनिश्चयविशिष्टनिश्चय एव सत्वेन तत्र दादिपक्षकवहन्याद्यनुमितिप्रतिबन्धकताया निराबाधतया हदो वह्निमानित्यादौ वह्नयभाववजलवत्तिजलवघ्देऽतिव्याप्तिःस्यात् ,अतस्तद्वारणाय यद्रूपावच्छिनविषयकतादृशनिश्चयत्वव्यापकं ज्ञानवैशिष्ट्यानवच्छिन्नं प्रकृतानुमितिप्रतिबन्धकत्वं तद्र पवत्त्वमित्यस्यैव लक्षणार्थताया वक्तव्यतया प्रतिबन्धकतायां ज्ञानवैशिष्ट्यानवच्छिनवनिवेशस्योभयमतसिद्धतया गौरवानवकाशादित्याशयं मन्वान.शंकते नचेति । वाच्यमिति परेणान्वयः। जलाद्यवच्छेदेनेत्यादि । जलव्यापकबहन्यभावप्रतियोगिकस्वरूपेण वहन्यभावव "Aho Shrutgyanam" Page #136 -------------------------------------------------------------------------- ________________ १२० अनुमानगादाधयों सामान्यनिरुक्तिप्रकरणम् * गादाधरी* वत्ताघटितस्य वह्नयभाववज्जलादिमद्वृत्तिजलादिविशिष्टस्य हृदादिरूपपक्षस्य जलवान् वह्नयभाववानित्यादिज्ञानसहितस्य जलवाँश्च हद इत्यादिज्ञानस्य तादृशज्ञानविशिष्टताहशज्ञानत्वेनैव प्रतिबन्धकतया तादृशप्रतिबन्धकताशून्यज्ञानाविषयस्य सत्प्रतिपक्षाचनात्मकस्य वारणाय ज्ञानवैशिष्टयानवच्छिन्नत्वस्य प्रतिबन्धकतायामवश्यं निवेशनीयतया मन्मतेऽपि तत्रानतिप्रसङ्गादिति वाच्यम् , ॐ चन्द्रकला साघटितस्येत्यर्थः । तादृशेति । जलवान् वन्यभाववानित्याकारकनिश्चयविशिष्टजलवांश्च हद इत्याकारकनिश्चयत्वेनेत्यर्थः । प्रतिबन्धकतयेति । हृदादिधर्मिकवहन्याद्यनुमितीत्यादिः । वहन्यभाववजलवकृत्तिजलवद्धदत्यावच्छिन्नविषयकत्वस्य निरुक्तज्ञानविशिष्टज्ञाने एव सत्त्वं सूचयितुमाह ताशप्रतिबन्धकतेति। तादृशज्ञानविशिष्टज्ञानत्वावच्छिन्नप्रतिबन्धकताशून्यं यज्ज्ञानं तदविषयीभूतस्य तादृशविशिष्टस्येत्यर्थः । तथाच वह्नयभाववजलवद्वृत्तिजलवद्धदरूपविशिष्टविषयकत्वस्य तादृशज्ञानविशिष्टज्ञाननिष्ठतया तद्वयापकतायाः प्रकृतानुमितिप्रतिबन्धकतायामक्षतत्वाद् भवति हृदो वह्निमानित्यादौ तादृशविशिष्टेऽतिव्याप्तिरिति भावः । सत्प्रतिपक्षाद्यनात्मकस्येति । साध्याभावव्याप्त्यघटितत्वादित्यादिः । मन्मतेपीति । स्वरूपसम्बन्धरूपप्रतिबन्धकतावच्छेदकत्वमभ्युपगच्छतो मम मतेऽपीत्यर्थः । तत्र = पाषाणमयत्ववत्पर्वते । अनतिप्रसंगादिति । पर्वतो वह्निमान् धूमादित्यादावित्यादिः । अर्थात् उभयमते एव ज्ञानवैशिष्ट्यानवच्छिन्नत्वस्य प्रतिबन्धकताविशेषणत्वे जलव्यापकवह्नयभावसमानाधिकरणजलव-हदरूपसत्प्रतिपश्चेऽव्याप्तिः, हृदादिधर्मिकवह्नयाद्यनुमिति प्रति तादृशसत्प्रतिपक्षात्मकविशिष्टविषयकैकनिश्चयत्वेन जलव्यापको वयभावः इत्याकारकनिश्चयविशिष्टवह्नयभावसमानाधिकरणजलवांश्च हद इत्याकारकनिश्चयत्वेन च प्रतिबन्धकताद्वयकल्पनस्य गुरुतया तत्र तादृशनिश्चयविशिष्टनिश्चयवेनैकप्रतिबन्धकताया एव कल्पनीयत्वात् तत एव तादृशविशिष्ट विषयकैकज्ञानस्थलेऽपि प्रकृतानुमितिप्रतिबन्धनिर्वाहसम्भवात् , एकज्ञानस्यैव तादृशशानविशिष्टज्ञानत्यानपायादिति निरुक्तसत्प्रतिपक्षनिश्चये ज्ञानवैशिष्ट्यानवच्छिन्न प्रतिबन्धकताविरहेण जल. व्यापकवह्नयभावसमानाधिकरणजलबद्धदनिश्चयत्वव्यापकत्वस्य तादृशप्रकृतानुमितिप्रतिबन्धकतायामभावादुभयमत एव प्रतिबन्धकताया ज्ञानवैशिष्ट्यानवच्छिन्नत्वनिवेशासम्भवादित्येवं समाधानमाह ज्ञानवैशिष्ट्यति । "Aho Shrutgyanam" Page #137 -------------------------------------------------------------------------- ________________ १२१ चन्द्रकला-कलाविलासाख्यटीकाद्वयोपेतम् * गादाथरो ® ज्ञानवैशिष्ट्यानवच्छिन्नत्वस्य प्रतिबन्धकताविशेषणत्वे प्रतिहेतुव्यापकसाध्याभावसमानाधिकरणतध्देतुमत्पक्षरूपसत्प्रतिपक्षाव्याप्तः । साध्याभावांशे तद्व्यापकताग्रहविशिष्टतद्वत्ताज्ञानत्वेन स्वतन्त्रसाध्याभावर्भिकतव्यापकताग्रहविशिष्टतद्वत्ताज्ञानसाधारण्यानुरोधेनावश्यकल्प्यप्रतिबन्धकतयवोपपत्तः, तादृशविशिष्टज्ञानस्य ज्ञानवैशिष्टयानवच्छिन्नप्रतिबन्धकतान्तरे मानाभावादुक्तविशिष्टेतिऽप्रसङ्गस्तु विवक्षणीयविशिष्टान्तराघटितत्वनिवेशनेनैव वारणीयः । न च ज्ञानद्वयसाधारणप्रतिबन्धकतायाः * चन्द्रकला * प्रतिहत्विति । जलादिव्यापकवह्नयभावादिसमानाधिकरणजलादिमद्धदादिरूपसत्प्रतिपक्षेऽव्याप्तिरित्यर्थः । तद्व्यापकतेति । प्रतिहेतुव्यापकतानिश्चयविशिष्टसाध्याभावसमानाधिकरणप्रतिहेतुमत्तानिश्चयत्वेनेत्यर्थः । स्वतन्त्रेति । जलव्यापक. वह्वयभावसमानाधिकरणजलवद्धदरूपैकविशिष्टज्ञान-वढयभावधर्मिकजलव्यापकताज्ञानविशिष्टवढयभावसमानाधिकरणमलवदध्रदज्ञानोभयसाधारण्यानुरोधेन अवश्यक्लप्तज्ञानविशिष्टज्ञानत्वावच्छिन्न प्रतिबन्धकतयैवोपपत्तरित्यर्थः । तादृशेति ! जलव्यापकवह्नयभावसमानाधिकरणजलवद्धदरूपविशिष्टसत्प्रतिपक्षनिश्चयस्येत्यर्थः । ज्ञानवैशिष्ट्येति । गौरवादित्यादिः। मानाभावादिति । तथाच प्रतिबन्धकतायां ज्ञानवैशिष्ट्यानवच्छिन्नत्वनिवेशे उभयमत एवोक्तसत्प्रतिपक्षेऽव्यासिरिति भावः । नन्वेवमनतिरिक्तवृत्तित्वरूपावच्छेदकत्वस्याऽश्यं निवेशनीयत्वे वह्नयभाववजलववृत्तिजलवद्धदरूपेऽतिव्याप्तिः, तादृशविशिष्टनिश्चयत्वस्य जलावच्छेदेन वह्नयभावनिश्चयविशिष्टजलवांश्च ह्रद इत्याकारकज्ञानविशिष्टज्ञान एव सत्वेन तत्राऽनुमितिप्रतिबन्धकताया अक्षतत्वादित्यत आह उक्तविशिष्ट इति । वन्यभाववजलप्रवृत्तिजलवद्धदरूपविशिष्टऽतिप्रसंगस्त्वित्यर्थः । विवणक्षीयेति । दीधितिकृता विवक्षणीयं यद्विशिष्टान्तराऽघटितत्वं तादृशविशेषणेनैवेत्यर्थः । वन्यभाववजलवद्वृत्तिजलवद्धदात्मकं यविशिष्टं तद्भिनं यद् वन्यभाववजलवदादिरूपं विशिष्टान्तरं तद्वटितत्वस्यैव वहन्यभाववजलववृत्तिजलवद्धदे विद्यमानतया तद्घटितत्वस्य तत्राऽसत्त्वान्न तादृशविशिष्टेऽतिव्याप्तिरित्यभिमानः । अभिमानं निराकत्तु माह नचेति । वाच्यमितिपरेणान्ययः । ज्ञानद्वयेति । जला "Aho Shrutgyanam" Page #138 -------------------------------------------------------------------------- ________________ १२२ अनुमानगादाधर्या सामान्यनिरुक्तिप्रकरणम् * गादाधरी प्रत्येकज्ञानविषयविशिष्टविषयकत्वं नानतिरिक्तवृत्ति त्वरूपावच्छेदकतावत् , तथाच दर्शितविशिष्टघटकस्य प्रत्येकज्ञानविषयस्य न निरुतविशिष्टान्तरात्मकतेति निरुक्तविशिष्टान्तराघटितत्वमुक्तविशिष्टस्याक्षतमेवेति वाच्यम् , वक्ष्यमाणविशिष्टान्तरार्धाटतत्वस्येव यादृशविशिष्टविषयकनिश्चयविशिष्टयाशविशिष्टविषयकनिश्चयत्वं प्रतिब * चन्द्रकला * वच्छेदेन वह्नयभाववत्ताज्ञान-जलवांश्च हद इत्याकारकज्ञानद्वयनिष्ठायाः प्रतिबन्धकताया इत्यर्थः । प्रत्येकेति । केवलबह्नयभाववजलवत्तावच्छिन्नरूपविशिष्टविषयकत्वमित्यर्थः । नानतिरिक्तति । केवलवह्नयभाववजलादिविषयकत्वस्य जलवद्धदादिज्ञानाऽसमानाकालीनेऽपि जलवान्वह्नयभाववानितिज्ञाने क्त्तमानतया तत्र हृदादिधमिकवह्नयाद्यनुमितिप्रतिबन्धकताया विरहादित्याशयः । दर्शितेति । यह्नयभाववजलबद्वृत्तिजलादिमद्धदात्मकविशिष्टधटकस्येत्यर्थः । प्रत्येकेति । जलावच्छेदेन वह्नयभाववत्ताज्ञानविषयस्य जलादिमांश्च -हद इत्याकारकज्ञानविषयस्य चेत्यर्थः । विशिष्टान्तरेति । प्रकृतानुमितिप्रतिबन्धकतानतिरिक्त वृ. त्तिविषयिताकविशिष्टस्यैव विशिष्टान्तररूपत्वादिति भावः। निरुक्तति । अनुमितिप्रतिबन्धकतानतिरिक्तवृत्तिविषयिताकविशिष्टान्तराऽघटितत्वं वह्नयभाववजलवद्वृत्तिजलबद्धदस्य निराबाधमित्यर्थः । तथाच हृदादिधर्मिकवह्नयाधनुमितिप्रतिबन्धकतानतिरिक्तवृत्तिविषयिताकवह्नयभाववद्धदादिरूपविशिष्टान्तराघटितत्वस्य वह्नयभाववजलववृत्तिजलवद्मदे वर्तमानतया विशिष्टान्तराऽघटितत्वविशेषणेनाऽपि नोक्तस्थलेऽतिव्याप्तिवारणं सम्भवतीति हृदयम् ।। नन्वेवमुक्तविशिष्टे कथमतिव्याप्तिवारणमित्यत आह वक्ष्यमाणेति । प्रमेयत्वविशिष्टव्यभिचारेऽतिव्याप्तिवारणाय यथा विशिष्टान्तराऽघटितत्वमवश्यं निवेश्यम् तथोक्तविशिष्टऽतिव्याप्तिवारणायापि विशिष्टद्वयाऽघटितत्वमपि निवेश्यमित्याशयः। विशिष्टद्वयाऽघटितत्वविशेषणघटितलक्षणार्थमाह यादृशेति । तथाच यद्पाव. च्छिन्नविषयकनिश्चयविशिष्टयद्र पावच्छिन्नविषयकनिश्चयत्वव्यापकं प्रकृतानुमितिप्रतिबन्धकत्वं तद्र पावच्छिन्नविषयिताविशिष्टतद्र पावच्छिन्नविषयिताशून्यप्रतीतिविषयताव * कलाविलासः * यारशविशिष्टविषयकनिश्चयेति । अत्र निश्चयवैशिष्टयं निश्चये एकक्षणावच्छिन्नै. कात्मवृत्तित्वसम्बन्धेन । तेन कालान्तरीयतादृशनिश्चयमादाय पुरुषान्तरीयतादृशनिश्चयमादाय वा विशिष्टद्वयाऽप्रसिद्धावपि नाऽसम्भवः । न च तादात्म्येन निश्चयवैशिष्टयाभिधानालाघवमिति वाच्यम्, तथा सत्ति "Aho Shrutgyanam" Page #139 -------------------------------------------------------------------------- ________________ चन्द्रकला-कलाविलासाख्यटीकाद्वयोपेतम् १२३ गादाधरी न्धकत्तानतिरिक्तवृत्ति, तादृशविशिष्टद्वयाघटितत्वस्यापि निवेशनीयतया उक्तविशिष्टवारणसम्भवात् । * चन्द्रकला * च्छेदकयर पावच्छिन्नविषयकनिश्चयत्वव्यापकं प्रकृतानुमितिप्रतिबन्धकत्वं तद्र पवत्त्वं हेत्याभासत्वमिति फलितम् । अत्र च तादृशविषयिताशून्यप्रतीतिविषयतावच्छेदकत्वमेव विशिष्टद्वयाऽघटितत्वं तच्च लक्ष्यतावच्छेदकत्वेनाभिमतयद्र पविशेषणं बोध्यम् ।। एवञ्च नोक्तविशिष्टऽतिव्याप्तिः जलावच्छेदेन वह्नयभावक्त्तानिश्चयविशिष्टजल. वांश्च हद इत्याकारकनिश्चयत्वब्यापकत्वस्य व्हदादिधर्मिकयथोक्तानुमितिप्रतिबन्धकतायां वर्तमानतया तादृशवह्नयभाववजलवत्त्वावच्छिन्नविषयिताविशिष्टजलवद्ध्दत्वावच्छिन्न विषयिताशून्यप्रतीतिविषयतावच्छेदकत्वस्य वह्नयभाववजलवद्वृत्तिजलवद्धदत्वेऽसत्त्वात् लक्ष्यतावच्छेदकय पपदेन निरक्तदत्वस्य धत्तु मशक्यत्वात् । भवतिच दो वह्निमानित्यादौ बाधादौ लक्षणसमन्वयः । तादृशवह्नयभाववजलबत्तावच्छिन्न विषयिताविशिष्ट जलवद्धदत्वावच्छिन्नविषयिताशून्यप्रतीतिविषयतावच्छेदकत्वस्य वह्नयभावविशिष्ट हदत्वे वर्तमानत्वात् वह्नयभावविशिष्ट हदत्वादेश्च यद्र पपदेनोपादानसम्भवात् । अत्र तादृशविषयितात्यप्रतीतिविषयतावच्छेदकरूपवत्त्वमात्रोक्तो घटादावति. व्याप्तिः वह्नयभाववजलयत्वावच्छिन्नविषयिताविशिष्टजलवद्ध्दत्वावच्छिन्नविषयिताशून्यप्रतीतिविषयतावच्छेदकत्वस्य घटत्वादी सत्वादतस्तादृशविषयिताशून्यप्रतीतिविषयतावच्छेदकयद्र पावच्छिन्नविषयकनिश्चयत्वव्यापकत्वादिना विशेष्यदलमभिहितमेवमन्यत्राऽपि लक्षणसमन्वयः स्वयमूहनीयः, अधिकमन्यत्रानुसन्धेयमितिदिक् । * कलाविलासः * यादशस्थले तादृशनिश्चययोः समूहालम्बनरूपता न कस्यापि जाता तारशस्थले तादाम्यसम्बन्धेन निश्चयवैशिष्टयाऽप्रसिद्धया असम्भवतादवस्थ्यापरेरिति ध्येयम् । वस्तुतस्तु जातित्वेन जलत्वावगाहिजातिमान्वयभाववानितिनिश्चय विशिष्टस्य जलवांश्च हद इतिनिश्चयस्य जलवान् वह्नयभाववानितिनिश्चयसहितस्य चा जातित्वादिना हृदत्वावगाहिनो जलवांश्च जातिमानिस्याकारकनिश्चयस्य चानुमित्यप्रतिबन्धकतयाऽसम्भववारणाय यादृशविशिष्टविषयित्वाव्यापकीभूतविषयिताशून्यज्ञानीययादृश विशिष्टविषयिताशालिनिश्चयविशिष्टयादृशविशिष्टविषयित्वाव्यापकीभूतविषयिता - शून्यज्ञानीययादृशविशिष्टविषयिताशालिनिश्चयत्वमित्यादेरेवावश्यं निवेशनीयतया समूहालम्बनतादृशनिश्चयोपादानाऽसम्भवात् तादात्म्येन निश्चयवैशिष्टयं न विवक्षगीयमिति तु युक्तमुत्पश्यामः। विशिष्टद्वयाघटितस्वशरीरे अनुमितौ प्रकृतपक्षसाध्यहेतुकावाऽप्रवेशे दो गगनाभाववद्वह्वयधिकरणनिरूपितवृत्तितावत्कालीनवह्निमान जलादित्यत्र तादृश "Aho Shrutgyanam" Page #140 -------------------------------------------------------------------------- ________________ १२४ अनुमानगादाधयों सामान्यनिरुक्तिप्रकरणम् * कलाविलासः - वहिव्यापकीभूताभावप्रतियोगिजलरूपाऽसाधारण्येऽव्याप्तिः, वह्नयधिकरण निरूपित. वृत्तित्वावच्छेदेन गगनाभाववत्तानिश्चयविशिष्टाऽभावधर्मिकवह्नयधिकरणवृत्तितानि. श्वयस्य अभावो गगनवानित्यनुमितिप्रतिबन्धकतया तादृशविशिष्टद्वयघटिततत्वस्थ निरुक्ताऽसाधारण्ये सत्त्वात् । प्रकृतपक्षकत्वानिवेशे अभावो गगनाभाववद्वयधिकरणनिरूपितवृत्तितावत्कालीनवह्निमान् जलादित्येतादृशवहिव्यापकीभूताभावप्रतियोगिजलरूपाऽसाधारण्येऽव्याप्तिः, पूर्वोक्तनिश्चयविशिष्टनिश्चयस्य प्रकृतपक्षीभूताभावधर्भिकतादृशानुमिति प्रत्येव प्रतिबन्धकत्वात् । वस्तुतस्तु गगनवदभावो गगनाभाववद्वयधिकरणनिरूपितवृत्तितावत्कालीनवह्निमान् जलादित्यत्र तादृशसाध्यव्यापकीभूताभावप्रतियोगिजलरूपासाधारण्येऽव्याप्तिवारणाय विशेष्यदले यादृशप्रतिबध्यतानिरूपितप्रतिबन्धकतामादाय लक्षणं संगमनीयम् तादृशप्रतिवध्यतावच्छेदकावच्छिन्न प्रतिबध्यतानिरूपितप्रतिबन्धकतैव विशिष्टद्वयाऽघटितत्वशरीरे निवेश्या । तथाच प्रकृतानुमितित्वव्यापकप्रतिबध्यतानिरूपित प्रतिबन्धकताविशिष्टरूपवत्वं हेत्वाभासत्वम्, वैशिष्ट्यं स्ववृत्यभावीयावच्छेदकत्वनिष्ठप्रतियोगितानिरूपितपरम्परयावच्छेदकतावस्व-स्वाभाववत्प्रती. तिविपयत्तावच्छेदकत्वोभयसम्बन्धेन । स्वाभावश्च स्ववृत्त्यभावीयप्रतियोगितानिरूपितपरम्परया निश्चयनिष्ठावच्छेदकतानिरूपिता या सामानाधिकरण्यसम्बन्धावच्छिन्नावच्छेदकता तन्निरूपितविषयित्वनिष्टावच्छेदकतानिरूपितावच्छिन्नत्वसम्बन्धावच्छिनावच्छेदकतावद्धर्मविशिष्टधर्मावच्छिन्नविपथितावत्त्वसम्बन्धावच्छिन्नंप्रतियोगिताकः । धर्मवैशिष्टयं धर्मे स्वावच्छिन्नविषयिताविशिष्टविषयितानिरूपकतावच्छेदकत्वसम्बन्धेन विषयितावैशिष्ट्यं विषयितायां स्त्राश्रयसमानाधिकरणवृत्तित्वसम्बन्धेनेतिध्येयम् । एवञ्च पक्षसाध्यहेतुकरवानां पृथक निवेश एव नास्तीति बदन्ति । विशिष्टद्वयाघटितत्वशरीरे स्वरूपसम्वन्धरूपप्रतिबन्धकतावच्छेदकत्वविधक्षणे धर्मसम्बन्धसाधारणैकावच्छेदकताया वक्तुमशक्यत्वात् यादृशस्थलविशेषे जलवान् वह्नयभाववानितिज्ञानं जलवांश्च हद इति ज्ञानञ्च प्रमात्मकमेव भवति तदशस्थले सादृशज्ञानयोः विषयितासम्बन्धेन वह्नयभाववज्जलवद्विशिष्टज्ञानविशिष्टविषयितासम्बन्धेन जलवद्धदविशिष्टज्ञानत्वेनैव प्रतिबन्धकावं लाघवात्, एवञ्च लक्षणे यदि धर्मविधयाऽवच्छेदकत्वं निवेश्यते तदा वह्नयभाववज्जलववृत्तिजलवद्धदेऽतिव्याप्तिः, संसर्गविधयाऽवच्छेदकत्वनिवेशे तु वह्नयभाववत्तद्वयक्तित्वववृत्तितद्व्यक्तिस्ववदध्रदेऽतिव्याप्तिः, तादृशस्थले भ्रमात्मकज्ञानस्यापि सम्भवेन तादृशज्ञानयोः "Aho Shrutgyanam" Page #141 -------------------------------------------------------------------------- ________________ चन्द्रकला-कलाविलासाख्यटीकाद्वयोपेतम् ॐ कलाविलासः® विषयितासम्बन्धेन प्रतिबध्यप्रतिबन्धकभावकल्पनाऽसम्भवात् । ननु विशिष्टद्वयाऽघटितत्वशरीरे निश्चयपदद्वयं किमर्थमितिचेन , जातिपक्षकद्रव्यत्वसाध्यकस्यले द्रव्यभेदवज्जाते धत्वेन लक्ष्यतया द्रव्यभेदवत्सद्देदवद्वृत्तिस दवजातित्वावच्छिन्नेऽतिव्याप्तयापत्तेः, सद्धिनं द्रव्यं न वेति संशयीयनिरवच्छिन्नद्रव्यत्वप्रकारकज्ञाने सद्भिन्नत्वावच्छिन्न विशेष्यतानिरूपितद्व्यत्वत्वावच्छिनविषयतायाः तादृशविशिष्ट विषयित्वाव्यापकीभूतायाः शून्यत्वस्य सत्त्वादेवमपरदिश्यपीति वदन्ति । अथोक्तकल्पे सामानाधिकरण्येन हृदपक्षकवह्निसाध्यकस्थले वह्नयभाववज्जलवद्वृत्तिजलवद्धदेऽतिव्याप्तिः, तादृशस्थलेऽवच्छेदावच्छेदेन जलवत्त्वस्यैव प्रकृतानुमितिविरोधितया व्यापकतावच्छेदकधर्मभेदेन व्यापकताभेदस्यावश्यकरवेन सर्वसा. धारणज्ञानवैशिष्टयावच्छिन्नप्रतिबन्धकतायाः कल्पयितुमशक्यत्वात् , तत्र पृथकप्रतिबन्धकताकल्पने तु ज्ञानवैशिष्टयावच्छिन्नत्वनिवेशनमफलमिति तस्य विशिष्टद्वयाघटितत्वं निर्विवादमितिचेन्न , ज्ञानवैशिष्ट्यावच्छिन्नप्रतिबन्धकतास्थले सामानाधिकरण्येन ज्ञानद्वयमपि सामानाधिकरण्यावगाहिज्ञानं प्रतिबध्नातीत्यस्य तर्कमाथुयाँ प्रतिपादिततया दर्शितस्थलेऽपि सामानाधिकरण्यावगाहिज्ञानद्वयस्यैव ज्ञानवैशिष्ट्यावच्छिन्न प्रतिबन्ध - ताया श्रावश्यकत्वादिति ध्येयम् । वस्तुतो हृदधर्मिक हृदत्वसामानाधिकरण्येन वह्नयनुमिति प्रति जलवान् वयभाववान् जलवांश्च हृद इत्याकारकनिश्चयस्येव शैवालवान् वयभाववान् शैवालवांश्च हृद इत्याकारकनिश्चयस्यापि विभिन्नरूपेण प्रतिबन्धकताकल्पने गौरवात् लाधवात् निश्चयविशिष्टनिश्चयत्वेनैव तादृशनानाविधज्ञानानां प्रतिबन्धकत्वं कल्पनीयमिति न कोऽपि दोषः । वैशिष्टयम् एकक्षणावच्छेदेनैकात्मवृत्तित्वमिति प्राहुः । नचोक्तकल्पेऽसम्भवः वह्नयभावविशिष्टहदनिश्चयविशिष्टवह्नयभाववद्मदनिश्चयत्वस्य प्रकृतानुमितिप्रतिबन्धकतानतिरिक्तवृत्तितया विशिष्टद्वयविपययितापदेन वह्नयभाववद्धदादिविपयिताया एवोपादानसम्भवात् विशिष्टद्वयाघटितत्वघटकप्रतिबन्धकतायां ज्ञानवैशिष्ट्यावच्छिन्नत्वं निवेश्योक्तासम्भववारणे वलयभाववज्जलववृत्तिज लाभाववान् हृदो वह्निमानित्यन्न तादृशजलवद्धदरूपाश्रयाऽसिद्धावव्याप्तिः निरुक्ताश्रयासिद्धिनिश्चयस्य पक्षे साध्यप्रकारकबुद्धिं प्रत्यपि ज्ञानविशिष्टज्ञानत्वेनैव प्रतिबन्धकत्वादिति वाच्यम् , निरुक्तविशिष्टद्वयविषयितायां प्रतिबध्यताविशिष्टान्यत्वस्य विवक्षणीयत्वात् तत एव सर्वदोषाणामपि वारणसम्भवात् । वैशिष्ट्यं "Aho Shrutgyanam" Page #142 -------------------------------------------------------------------------- ________________ १२६ अनुमानगादायर्या सामान्यनिरुक्तिप्रकरणम् * गादाधरीनचैवं तादृशविशिष्टद्वयधटितोक्तसत्प्रतिपक्षोऽव्याप्तिस्तस्य प्रतिहेतुव्यापकताविशिष्टसाध्याभाव-प्रतिहेतुविशिष्टपक्षात्मकनिरुक्तविशिष्टद्वयघटितत्वादिति वाच्यम् , सत्प्रतिपक्षघटकतादृशदलद्वयविषयताभिन्ननिरुक्तविशिष्टद्वयविषयताशून्यप्रतीतिविषयत्वस्य विशिष्टद्वयाघटितत्वार्थकत्वात् । 8 चन्द्रकला ननूक्तरीत्या विशिष्टद्वयाघटितत्वनिवेशेऽपि जलव्यापकवलयभावसमानाधिकरण जलवज्रदरूपसत्प्रतिपक्षेऽव्याप्तिः, ताह शहदत्वरूपसत्प्रतिपक्षतावच्छेदकधर्मस्य प्रकृतानुमितिपतिबन्धकतानतिरिक्तवृत्तिजलव्यापकताविशिष्टवह्नयभावत्वावच्छिन्नविषयिताविशिष्ट वह्नयभावसमानाधिकरणजलबद्धदत्वावच्छिन्नविषयिताशून्यप्रतीतिविषयतावच्छेदकत्वाऽसम्भवात् तस्य विशिष्टद्वयाघटितयद्र पानन्तर्गतत्वादित्याशंकते नचेति । वाच्यमिति परेणान्वयः । तस्य = निरुक्तसत्प्रतिपक्षस्य । प्रतिहत्विति । जलव्यापकताविशिष्टवह्नयमाव-वलयभावसमानाधिकरणजलव-हदात्मकविशिष्टद्वयघटितत्वादित्यर्थः । उत्तरयति सत्प्रतिपक्षेति । प्रतिहेतुव्यापकताविशिष्टसाध्याभावरूपताशसत्प्र ___ कलाविलासः स्वावच्छेदकत्व-स्वनिरूपितप्रतिबन्धकतानवच्छेदकीभूतविषयिताशून्यज्ञाननिष्ठप्रकृता. नुमितिवव्यापकप्रतिबध्यतानिरूपितप्रतिबन्धकतावच्छेदकत्वोभयसम्बन्धेन ।। ननु वह्नयभाववज्जलवद्वृत्तिजलवद्धदेऽतिव्याप्तिशंकैव न सम्भवति, तस्य वह्नयभाववज्जलवनिरूपितवज्जलवद्धदरूपविशिष्टान्तरघटितत्वादिति विशिष्टद्वयाघटितत्त्वनिवेशो निरर्थक इति चेन्न, जलव्यापकवह्नयभावाधिकरण निरूपितवज्जलवद्धदरूपविशिष्टान्तरघटिते जलव्यापकवह्नयभावसमानाधिकरणजल वद्धदरूपे सत्र तिपक्षेऽव्याप्तिवारणाय विशिटद्वयाऽघटितं यद्विशिष्टान्तरं तदघटितस्वनिवेशस्यावश्यकतया वह्वयभाववज्जलववृत्तिजलवद्धदेऽतिव्याप्तिवारणार्थमेव विशिष्टद्वयाघटितत्वनिवेशस्यावश्यकत्वात् । वस्तुतस्तु आधेयतासम्बन्धेन , वह्वयभाववज्जलवद्विशिष्टजलवद्धदेऽतिव्याप्तेरेवाशंकिततया विशिष्टद्वयाऽघटितत्वनिवेशो न निरर्थकः, निरुक्तविशिष्टस्य विशिष्टान्तरघटितत्वशंकायाः कथमप्यनुदयादिति प्राहुः । सत्प्रतिपक्षघटकेति । यादृशविशिष्टविषयकनिश्चयविशिष्टयादशविशिष्टविषयकनिश्चयत्वं सत्प्रतिपक्षतावच्छेदकरूपावच्छिन्न विपयित्वावच्छिन्न प्रतिबन्धकतानतिरिक्तवृत्ति तद्रूपावच्छिन्नविषयिताविशिष्टतद्पावच्छिन्नविषयिताभिन्नत्वमेव विशिटद्वयविषयितायां सत्प्रतिपक्षघटकविषयिताभित्रत्वं विवक्षणीयम्, तेन न यत्र सत्प्रतिपक्षाऽप्रसिद्धिरित्यादिग्रन्थस्याऽसंगतिरितिध्येयम् । "Aho Shrutgyanam" Page #143 -------------------------------------------------------------------------- ________________ चन्द्रकला कलाविलासाख्यटीकाद्वयोपेतम् * गादावरी १२७ यत्र तादृशसत्प्रतिपक्षाप्रसिद्धिस्तत्र भिन्नान्तमनुपादेयमेव, साध्यादिभेदेन * चन्द्रकला तिपक्षघटक विषयिताभिन्नत्वे सति सत्प्रतिपच घटकसाध्याभावसमानाधिकरणप्रति हेतुमपक्षविषयिताभिन्ना या विशिष्टद्वयविषयिता तच्छून्यप्रतीतिविषयतावच्छेदकत्व रूपस्य विशिष्टद्वयाऽघटितत्वस्य तादृशयद्रूपविशेषणत्वोपगमान्नोक्तसत्प्रतिपक्षेऽव्याप्तिरिति भावः । अयमभिप्रायः, यद्रूपावच्छिन्नविषयक निश्चय विशिष्टयद्रूपावच्छिन्नविषयक निश्चयत्वव्यापकं प्रकृतानुमितिप्रतिबन्धकत्वं तद्रूपावच्छिन्न विषयिताविशिष्टतद्रूपावच्छिन्ना या सत्प्रतिपक्षतावच्छेदकरूपावच्छिन्नप्रकृतानुमितिप्रतिबन्धकतावच्छेदकविषयिताभिन्ना विषयिता तच्छून्यप्रतीतिविषयतावच्छेदकयद्रूपावच्छिन्न विषयकनिश्चयत्वव्यापकं प्रकृतानुमितिप्रतिबन्धकत्वं तद्र पवचमित्युक्तौ नोक्तसत्प्रतिपक्षेऽव्याप्तिः तादृशप्रतीतिविषयतावच्छेदकत्वरूपविशिष्टद्वयाऽघटितत्वस्य जलव्यापकवह्नयभावसमानाधिकरण जलवद्भदत्वेऽनपायात् तादृशसंत्प्रतिपक्षघटकविषयिताभिन्नविषयितापदेन वह्नद्यभाववज्जलवत्त्वावच्छिन्नविषयिताविशिष्टजलव दूधदत्वावच्छिन्नविषयिताया एवोपादातुं शक्य त्वादिति । ननु सत्प्रतिपक्षघटकविषयिताभिन्नत्वस्य विशिष्टद्वयविषयितायां विवक्षणे पर्वतः धूमवान् वह्नेरित्यादौ धूमाभाववद्वृत्तित्वविशिष्टवह्निरूपव्यभिचारेऽव्याप्तिः, धूमाभाववदयोगोलकत्वावच्छिन्नविषयिताविशिष्टायोगोलकवृत्तिवहित्वावच्छिन्न विषयितायास्ताहशविशिष्टद्वयविषयितापदेनोपादानसम्भवेऽपि तत्र सत्प्रतिपक्षघटकविषयिताभिन्नत्वसम्पादनं दुःशक्यम्, तादृशपक्षसाध्यकस्थले सत्प्रतिपक्षस्यैवाऽप्रसिद्धत्वादित्यत आह यत्रेति । यादृशपक्षसाध्यकदुष्टहेतुकस्थले इत्यर्थः । तत्र = तादृशस्थले । भिन्नान्तमिति । विशिष्टद्वयविषयितायां सत्प्रतिपक्षघटकविषयिताभिन्नत्वं न देयमित्यर्थः । तथाच तत्र तादृशविशिष्ट विषयिताविशिष्टतादृशविशिष्टविषयिताशून्यप्रतीतिविषयतावच्छेदकत्वमेव विशिष्टद्वयाऽघटितत्वं लक्ष्यतावच्छेदकत्वेनाभिमतयद्रूपविशेषणमिति भावः । नन्वेवं लक्षणस्याननुगम इत्यत आह साध्यादीति । आदिना पक्षहेत्वादिपरिग्रहः । तथाच पक्षसाध्यसाधनादिभेदेन लक्षणस्य भिन्नत्वमिष्टमेवेति हृदयम् । * कलाविलासः * यत्र सत्प्रतिपक्षाsप्रसिद्धिस्तत्र विशिष्टद्वयाऽघटितत्व निवेशो न कर्तव्य इति तु नाशंकनीयम, काञ्चनमयपर्वतो वह्निमान् धूमादित्यादौ काञ्चनमयत्वाभाववचद्वयक्तिमद्वृत्तितद्व्यक्तिमत्पर्वतेऽतिव्याप्तिवारणार्थमेव तन्निवेशस्यावश्यकत्वात् । "Aho Shrutgyanam" Page #144 -------------------------------------------------------------------------- ________________ १२८ अनुमानगादाधयां सामान्यनिरुक्तिप्रकरणम् * गादाधरी. लक्षणभेदात् भ्रमात्मकज्ञानीयतादृशविषयतासाधारणरूपेणैव प्रतिहेतुव्यापकताविशिष्टसाध्याभावादिविषयतोपेया। वा ननु लक्ष्यभेदेन लक्षणस्य भिन्नत्वे इतरभेदानुमाने भागासिद्धिः, लक्ष्यमात्रस्यैव पक्षतया यत्किञ्चिल्लक्षणस्यैव हेतुताया आवश्यकत्वात् तस्य लक्ष्यीभूतपक्षकदेशेऽसस्वादित्यत आह भ्रमात्मकेति । निरूप्यनिरूपकभावापन्न विषयितात्वेन रूपेणेत्यर्थः । एवञ्च पर्वतो धूमवान् वढेरित्यादिसर्वसाधारणमेकमेव लक्षणं वक्तव्य मित्याह प्रतिहत्विति । प्रतिहेतुव्यापकत्वविषयितानिरूपितसाध्याभावविषयिताभिन्नत्वे सति ताशहेतुविषयितानिरूपितपक्षविषयिताभिन्ना या तादृशविशिष्टद्वयविषयिता तच्छून्यप्रतीतिविषयतावच्छेदकत्वमेव यद्रूपविशेषणं देयमित्यर्थः । तथाच पर्वतो धूमवान् वह्नरित्यादावपि भ्रमात्मकजलव्यापकधूमाभावसमानाधिकरणजलवत्पर्वतज्ञानीयजल. व्यापकत्वविषयितानिरूपितधूमाभावविषयिताभिन्नत्वे सति जलविषयितानिरूपितपर्वतविषयिताभिन्नत्वस्य पूर्वोक्तविशिष्टद्वयविषयितायामशतत्वात् लक्ष्यभेदेन लक्षणस्य भिन्नत्वानभ्युपगमेऽपि न क्षतिरित्याशयः ।। - ननु हदो वह्निमानित्यादी जलब्यापकवलयभावसमानाधिकरणजलवद्धदस्य सत्प्रतिपक्षत्वमेव न स्वीक्रियते, अपितु वह्नयभावाभाववदवृत्तिमद्धदादेः वह्निमदवृत्तिमद्धदादेरेव तथात्वं स्वीकरणीयं, विशिष्टद्वयविषयितां सत्प्रतिपक्षघटकविषयिताभेदं प्रतिहेतुव्यापकत्वावच्छिन्नसाध्याभावादिविषयिताभेदं वा निवेश्य जलव्यापकवह्नयभावसमानाधिकरणजलवद्धदे लक्षणसमन्वयसम्भवे जलव्यापकवह्नयभावकालीनजलबद्धदेऽतिव्याप्तिधारणमशक्यं स्यात् , सत्प्रतिपक्षघटकविषयिताभिन्ना या वह्नय * कलाविलासः * भ्रमेति । विरुद्धानुमितिजनकतावच्छेदकविषयितात्वावच्छिन्न भिन्नत्वमेव विशिष्टद्वयविपयितायां विवक्षणीयमिति तु विभावनीयम् ।। ननु यादृशविशिष्टविषयकनिश्चयत्वं ज्ञानवैशिष्टयावच्छिन्न प्रतिबन्धकतानतिरि. क्तवृत्ति सादृशैकविशिष्टायटितत्त्वविवक्षयव निरुक्तविशिष्टे अतिव्याप्तबादिदोपवारणसम्भवे गुरुतरनिवेशनं किमर्थमितिचेन्न , वह्नयभाववज्जलवद्वृत्तिजलवद्धदत्त्वावच्छिन्न विषयतावान्न वह्नयभाववज्जलबत्कालीनजलवद्ध्दत्वावच्छिन्नविषयतावान्नेतिरीत्या भेदकूटनिवेशे गौरवादेकस्प्रैव वह्नयभाववज्जलवत्वावच्छिन्नविषयिताविशिष्टजलवद्धदस्वावच्छिन्नविपयित्वाभावस्य प्रवेशे लाघवमिति संक्षेपः । "Aho Shrutgyanam" Page #145 -------------------------------------------------------------------------- ________________ चन्द्रकला-कलाविलासाख्यटीकाद्वयोपेतम् १२६ ® गादाधरी न च दर्शितविशिष्टस्य सत्प्रतिपक्षरूपता न स्वीक्रियतेऽपि तु हेतुतावच्छेदकाघटितसाध्याभावाभावववृत्तिमत्पक्षात्मकविशिष्टस्यैव, व्यापकसामानाधिकरण्यरूपव्याप्तिविशिष्टस्य उक्तरीत्या संग्रहे तद्धर्मव्यापकसाध्याभावकालिकतद्धर्मविशिष्टपक्षादिव्यावृत्तिरप्यशक्या स्यादित्यविशेषेण व्यापकताघटितविशिष्टमात्रस्यालक्ष्यताया एव युक्तत्वात् , तथा चोक्तप्रयासमपेक्ष्य ज्ञानवैशिष्ट्यानवच्छिन्नप्रतिबन्धकतानिवेशनमेवोचितमिति वाच्यम्, ॐ चन्द्रकला भाववजलवत्त्वावच्छिन्नविषयिताविशिष्टजलवद्ध्दत्वावच्छिन्न विषयिता तच्छुन्यप्रतीतिविषयतावच्छेदकत्वस्य जलव्यापकवह्नयभावकालीनजलवद्ध्दत्वे सत्त्वादतो जलव्यापकवह्नयभावसमानाधिकरणजलवद्धदस्य सत्प्रतिपक्षानात्मकतया अलक्ष्यत्वमेव समीचीनमिति तत्र नातिव्याप्तिः, जलव्यापको वह्नयभाव इत्याकारकनिश्चयविशिष्टवड्यभावकालीनजलवद्धदनिश्चयीयविशिष्टद्वयविषयितायाः सत्प्रतिपक्षघटकविषयिताभिन्नत्वसत्वेन तच्छून्यप्रतीतिविषयितावच्छेदकत्वस्य जलव्यापकवह्नयभावकालीनजलवद्धदत्वेऽसत्त्वात् । ___ एवञ्च लाघवात् विशिष्ट द्वयाऽघटितत्वमनिवेश्य पर्वतो वह्निमान् धूमादित्यादौ पूर्वोक्तरीत्या पाषाणमयत्ववत्पर्वते -हदो वह्निमान् धूमादित्यादौ च वन्यभाववजलववृत्तिजलवद्धदेऽतिव्याप्तिवारणाय यद्र पावच्छिन्नविषयितात्वव्यापकं ज्ञानवैशिष्टयानवच्छिन्न प्रतिबन्धकतायाः स्वरूपसम्बन्धरूपावच्छेदकत्वं तद्र पवत्त्वमेव हेत्वाभासत्वमिति विवक्षणीयमित्येवं स्वरूपसम्बन्धरूपावच्छेदकत्ववादी पुनः शंकते नचेति । वाच्यमिति परेणान्वयः। दर्शितेति । जलव्यापकवन्यभावसमानाधिकरणजलव-हदादिरूपविशिष्टस्येत्यर्थः । हेतुतेति । साध्याभावव्याप्यवत्पक्षरूपविशिष्टस्येत्यर्थः । उक्तरीत्या = विशिष्टद्वयविषयितायां सत्प्रतिपक्षघटकविषयिताभिन्नत्वादिकं निवेश्य । तद्धर्मेति प्रति हेत्वित्यर्थकम् । विशिष्टेति । प्रतिहेतुव्यापकसाध्याभावसमानाधिकरणप्रतिहेतु. मत्पक्षात्मकविशिष्टमात्रस्येत्यर्थः । तथाच-निरुक्तविशिष्टस्यालक्ष्यत्वे च । उक्तप्र. यासमपेक्ष्य = गुरुतरविशिष्टद्वयाऽघटितत्वनिवेशमपेक्ष्य । तथा च स्वरूपसम्बन्धरूपप्रतिबन्धकतावच्छेदकत्ववादिन एव विजयेरन् इत्याह ज्ञानवैशिष्ट्येति । तथापि प्रतिबन्धकतायां ज्ञानवैशिष्ट्यानवच्छिन्नत्वनिवेशे इदं वह्निमत् जलवादित्यादौ वह्निव्यापकोभूताभावप्रतियोगिजलत्वरूपाऽसाधारण्येऽव्याप्तिः, "Aho Shrutgyanam Page #146 -------------------------------------------------------------------------- ________________ १३० अनुमानगादाधयों सामान्यनिरुक्तिप्रकरणम् * गादाधरीएवमपि प्रकृतहेतुनिष्ठसाध्यव्यापकीभूताभावप्रतियोगित्वघटितस्य मतभेदेनासाधारण्यविरोधरूपस्य विषयतायाः पक्षधम्मिकप्रकृतहेतुमत्ताज्ञानवैशिष्ट्यावच्छिन्नप्रतिबन्धकतायामेवावच्छेदकत्वात् प्रतिबन्धकतायां ज्ञानवैशिष्ट्यानवच्छिन्नत्वनिवेशासम्भवात् । दर्शितातिप्रसङ्गवारणाय च निरुक्तविशिष्टद्वयाघटितत्वस्यैव निवेशनीयत्वात् । 3 चन्द्रकला निरुक्तजलत्वरूपाऽसाधारण्यविषयितायाः जलत्वरूपहेतुमत्पक्षनिश्चयात्मकज्ञानवैशिष्ट्यिावच्छिन्नायामेव प्रकृतानुमितिप्रतिबन्धकतायामवच्छेदकत्वात् यद्पावच्छिन्नविषयितापदेन तादृशजलत्वत्वावच्छिन्नविषयिताया धत्तु मशक्यत्वात् तत्र ज्ञानवैशिष्ट्यानवच्छिन्न प्रतिबन्धकतावच्छेदकत्वस्याभावादित्येवं रीत्या स्वरूपसम्बन्धरूपावच्छेदकत्ववादिनां पूर्वोक्तामाशंका निरस्यति एवमपीति । दर्शितप्रतिहेतुव्यापकसाध्याभावसमानाधिकरणप्रतिहेतुमत्पक्षस्याऽलक्ष्यत्वेऽपीत्यर्थः । मतभेदेनेति । यन्मते निश्चितसाव्यवव्यावृत्तत्वविशिष्टो हेतुः साध्यवव्यावृत्तत्वविशिष्टो वा हेतुः असाधारण्यं वन्यादिमव्यावृत्तगगनादेरेव तथात्वादिति तन्मते साध्यव्यापकीभूताभावप्रतियोगिहेतुरेव विरोधः, यन्मते च साध्याऽसामानाधिकरण्य. विशिष्टहेतुरेव विरोधः तन्मते साध्यव्यापकीभूताभावप्रतियोगिहेतोरसाधारण्यमिति हृदयम् । वन्यादिव्यापकोभूताभावप्रतियोगित्वरूपा च हेतो वहन्याधभावव्यतिरेकव्याप्तिः तज्ज्ञानञ्च न वहन्याद्यनुमितौ नवा वहन्यादेःपरामर्श प्रतिबन्धकं भवितुमर्हति अपितु हेतुमत्पक्षशानसहितं वह्निव्यापकोभूताभावप्रतियोगि जलं जलवांश्च हद इत्याकारकज्ञानविशिष्ट ज्ञानमेव वह्यभावव्याप्यवत्त्वज्ञानमुद्रया वन्यनुमिति प्रतिबध्नाति, तथाच तादृशाऽसाधारण्यनिश्चयस्य ज्ञानवैशिष्ट्यानवच्छिन्नप्रतिबन्धकत्वाऽसम्भव एवेत्याह पक्षधमीति । दर्शितेति । वन्यभाववजलबद्वृत्तिजलवद्धदेऽतिप्रसंगवारणायेत्यर्थः । निवेशनीयत्वादिति । तथाचानतिरिक्तवृत्तित्वरूपावच्छेदकत्वघटितमेव लक्षणं करणीयमिति भावः। ननु निरुक्तविशिष्टद्वयाघटितयद्रूपावच्छिन्नविषयकनिश्चयत्वव्यापकं प्रकृतानुमितिप्रतिबन्धकत्व तद्रूपवत्त्वमित्युक्तावपि वह्निव्यापकीभूताभावप्रतियोगिजलरूपासाधारण्येऽव्याप्तिः, तादृशजलत्वावच्छिन्नविषयकनिश्चयत्वस्य जलवद्धदरूपहेतुमत्पक्षज्ञानाकालीनेऽपि तादृशजलनिश्चये वर्तमानतया तत्र प्रकृतानुमितिप्रतिबन्धकत्वविरहादतो वह्निव्यापकीभूताभावप्रतियोगिजलमात्रस्याऽलश्यत्वमभ्युपगम्य -हदादि "Aho Shrutgyanam" Page #147 -------------------------------------------------------------------------- ________________ चन्द्रकला - कलाविलासाख्यटीकाद्वयोपेतम् * गादाधरी न च पक्षवृत्तित्वविशेषितं प्रकृतहेतुनिष्ठ साध्यव्यापकीभूताभावप्रतियोगित्वमेवासाधारण्यादिरूपं वाच्यम्, पक्षवृत्तित्वाघटित विशिष्टविषयताया अप्रतिबन्धकज्ञानसाधारणतया प्रतिबन्धकतावच्छेदकत्वात् 'चासाधारख्यादेः पक्षवृत्तित्वविशिष्टप्रकृतहेतु-साध्यव्यापकाभावप्रतियोगित्वविशिष्टप्रकृत हे त्वादिरूपनिरुक्त विशिष्टद्वयघटिततया नि तादृशस्य १३१ * चन्द्रकला रूपपक्षवृत्तित्वविशिष्टवह्निव्यापकीभूताभावप्रतियोगिजलस्यैवाऽसाधारण्यं स्वीकरणीयम् । तथाच विशिष्टद्वयाघटितत्वनिवेशोऽपि न सम्भवति, वह्निव्यापकीभूताभावजलप्रकृतानुमितिप्रतिबन्धकतानतिरिक्तवृत्तितया निश्चयविशिष्टजलवद्धदनिश्चयत्वस्य तादृशाभावप्रतियोगिजल विषयिताविशिष्टजलवद्द्भदविषयिताशून्यप्रतीतिविषयतावच्छेदकत्वस्य हदवृत्तित्वविशिष्टवह्निव्यापकीभूताभावप्रतियोगित्व विशिष्टजलत्वेऽसत्त्वादित्याह नचेति । द्वितोयवाच्यमितिपरेणान्वयः । पक्षवृत्तित्वेति । केवलवह्निव्यापकीभूताभावप्रतियोगिजलादिरूप हेतुविषयिताया इत्यर्थः । अप्रतिबन्ध केति । जलवद्धदरूप हेतुमपक्षज्ञानाऽकालीनज्ञाने वर्त्तमानतयेत्यर्थः । प्रतिबन्धकतेति । प्रकृतानुमितिप्रतिबन्धकतातिरिक्तवृत्तित्वादित्यर्थः । तादृशस्येत्यादि । हेतुनिष्ठपक्षवृत्तित्वविशिष्टसाध्यव्यापकीभूताभावप्रतियोगित्वरूपतादृशा साधारण्यादेरित्यर्थः । विशिष्टद्वयविषयिताशून्यत्वं निरुक्ताऽसाधारण्यज्ञाने न सम्भवतीत्याह पक्षेति । हेतुनिष्ठपक्षवृत्तित्वविशेषितसाध्यव्यापकीभूताभावप्रतियोगित्वस्याऽसाधारण्यत्वेऽपि न क्षतिः, विशिष्टद्वयविषयितायां निरुक्ताऽसाधारण्यघटक विषयिता भेद निवेशेनैव सामञ्जस्यात्, यत्राऽसाधारण्याऽप्रसिद्धिस्तत्रापि पूर्ववदेव गतिः । नचासाधारण्यघटकत्वनिवेशे तादृशस्य विरोधरूपतामते तादृशविरोधेऽव्याप्तिः, विरोधघटकत्वनिवेशे च तादृशाऽसाधारण्येऽव्याप्तिरिति वाच्यम्, साध्यव्यापकीभूताभावप्रतियोगित्व विशिष्ट हेतुविषयिताभिन्नत्वे सति हेतुमत्पक्षविषयिताभिन्ना या विशिष्टद्वयविषयिता तच्छून्यप्रतीतिविषयतावच्छेदकत्वस्यैव विशिष्टद्वयाऽघटितत्वपदेन विविक्षितत्वात् तस्य च लक्ष्यतावच्छेदकत्वेनाभिमतयद्रूपविशेषणत्वोपगमात् । तथापि समाधिसौकर्यादाह पक्षवृत्तित्वेति । तथा च पक्षचतित्वाऽविशेषितसाध्यव्यापकीभूताभावप्रतियोगित्वविशिष्टहेतुरेवाऽसाधारण्यं तस्य च विशिष्टद्वयघटितत्वशंकापि नास्तीति भावः । नन्वेवं तादृशाsसाधारण्यविषयकत्वस्य प्रकृतानुमितिप्रतिबन्धकतातिरिक्त "Aho Shrutgyanam" Page #148 -------------------------------------------------------------------------- ________________ १३२ अनुमानगादाधर्या सामान्यनिरुक्तिप्रकरणम् * गादाधरी . रुक्तविशिष्टतयाघटितत्वनिवेशोऽपि . न सम्भवतीति वाच्यम् , पक्षवृत्तित्वाघटितविशिष्टस्यैवासाधारण्यादिरूपताया "विरोधोपि फलतः प्रतिरोध एव तदन्यत्वेन वा विरोधि विशेषणीयमिति" पंक्तिव्याख्याना. वसरे सम्पादनीयत्वात् । * चन्द्रकला * त्तित्वात् कथं तत्र लक्षणसमन्वय इत्यत आह विरोधोऽपीति । संव्यभिचारग्रन्थे इत्यादि । सम्पादनीयत्वादिति । तथा च यथोक्तविशिष्टद्वयाऽघटितयद्पावच्छि. नविषयकनिश्चयत्वव्यापकः प्रकृतानुमित्यप्रतिबन्धकत्व-पक्षधर्मिकहेतुमत्ताज्ञानकालीनत्वोभयाभावस्तद्रूपवत्त्वमेव हेत्वाभासत्वं वक्तव्यम् , वह्नयादिव्यापकीभूताभाषप्रतियोगि जलं इत्याकारकासाधारण्यनिश्चयो यदि हृदादिरूपपक्षधर्मिकजलादिमत्तानिश्चयकालीनस्तदा तादृशाऽसाधारण्यनिश्चये प्रकृतानुमित्यप्रतिबन्धकत्वविरहात् तादृशोभयाभावे तादृशनिश्चयत्वव्यापकत्वमक्षतम् । ताह शाऽसाधारण्य निश्चयस्य व्हदादिधर्मिकजलादिमत्तानिश्चयाकालीनत्वे तु तादृशनिश्चये प्रकृतानुमित्यप्रतिबन्धकत्व. सत्त्वेऽपि पक्षधर्मिकहेतुमत्तानिश्चयकालीनत्वविरहात् यथोक्ताऽसाधारण्यनिश्चयत्वव्यापकतायास्तादृशोभयाभावेऽक्षततया पक्ष वृत्तित्वाऽविशेषितसाध्यव्यापकीभूताभावप्रतियोगिहेतुरूपासाधारण्ये लक्षणसमन्वयः ।। ___ एवं हृदो वह्निमानित्यादौ वहन्यभावविशिष्टह्रदादिरूपबाघनिश्चयस्य प्रकृतानुमितिप्रतिबन्धकतया तादृशबाधनिश्चये प्रकृतानुमित्यप्रतिबन्धकत्वविरहादेव तादृशोभयाभावस्य बाधनिश्चयत्वव्यापकतया तादृशबाधादावपि लक्षणसमन्वयः। एवमनयैव दिशा अन्यत्रापि लक्षणसमन्वयः स्वयमूहनीय इत्यलम् पल्लवितेन । * कलाविलासः * विरोधोऽपीति । पक्षः साध्यवान् हेतुमांश्चैत्याकारकग्रहाऽविरोधिप्रकृतानुमितिविरोधिरूपवत्त्वस्य सव्यभिचारलक्षणतया साध्याऽसामानाधिकरण्यविशिष्टहेतुरूपविरोधेऽतिव्याप्तिः, तस्य तादृशत्वादत प्राह विरोधोऽपीति । तथाच पक्षवृत्तित्वे सति साध्यव्यापकीभूताभावप्रतियोगित्वमेव विरोधः सच फलतः अनुमितिरूपफलानुपादप्रयोजकत्वात् प्रतिरोध एव सत्प्रतिपक्षतुल्य एवेति तस्य साध्यग्रहविरोधिरवात् सत्यन्ताभावेन न सव्यभिचारलक्षणस्यातिव्याप्तिः।। यदि मूलकारमते हेतुनिष्ठसाध्याऽसामानाधिकरण्यमेव विरोधस्तदा तत्रातिव्याप्तिर्वारा स्यादत प्राह तदन्यत्वेनेति । विरोधान्यत्वेनानुमितिविरोधि विशेपणीयमिति तु सव्यभिचारस्य निरुक्तम्रन्थतात्पर्य पर्यवसितम् । "Aho Shrutgyanam" Page #149 -------------------------------------------------------------------------- ________________ चन्द्रकला-कलाविलासाख्यटीकाद्वयोपेतम् १३३ * दीधितिः - विशेषणीयञ्च तादृशविशिष्टान्तराघटितत्वेन । * गादाधरी* नन्वनतिरिक्तवृत्तित्वरूपावच्छेदकत्वनिवेशेऽपि व्यभिचारादिघटितपदार्थान्तरेऽतिव्याप्तिस्तद्विषयकत्वस्यापि प्रतिबन्धकतानतिरिक्तवृत्तित्वादत आह विशेषणीयञ्चेति । तादृशलक्षणमितिशेषः । चन्द्रकला विशेषणीयञ्चेत्यादिदीधितिमवतारयति नन्वनतिरिक्तति । प्रमेयत्वविशिष्टव्यभिचारनिश्चयस्य व्याप्तिग्रहप्रतिबन्धकत्वेऽपि तादृशप्रतिबन्धकतानिरूपितस्वरूपसम्बन्धरूपावच्छेदकतायाः व्यभिचारत्वावच्छिन्नविषयितायामेव स्वीकरणीयतया मेयत्वविशिष्टव्यभिचारत्वावच्छिन्नविषयितायाः तयात्वे मानाभावात् स्वरूपसम्बन्धरूपप्रतिबन्धकतावच्छेदकत्वविवक्षणे मेयत्वविशिष्टव्यभिचारे नातिव्याप्तिः सम्भवति, किन्त्वनतिरिक्तवृत्तित्वरूपावच्छेदकत्वविवक्षाया एव पूर्वोक्तयुक्तयाऽवश्यकतया ताहशावच्छेदकत्वनिवेशपक्षे एव तत्रातिव्याप्ति सूचयतीतिभावः । व्यभिचारेति । धमवान् वढरित्यादौ प्रमेयत्वविशिष्टो यो धूमाभावववृत्तित्वविशिष्टो वह्निस्तत्र प्रमेयस्वविशिष्टव्यभिचारेऽतिव्याप्तिरित्यर्थः । तद्विषयकत्वस्य = तादृशव्यभिचारविषय. कत्वस्य । प्रतिबन्धकतेति । तादृशव्यभिचारविषयकत्वरूपस्वव्यापकयथोक्तानुमिति * कलाविलासः * विशिष्टद्वयाऽघटितत्वसहितलक्षणानुगमस्तु धर्मविशिष्टधर्मवरचं हेत्वाभासत्वम् । वैशिष्टयं स्वतादात्म्य-स्वविशिष्टनिश्चयत्वव्यापकप्रकृतानुमितित्वव्यापकप्रतिबध्यतानिरूपितप्रतिबन्धकतावत्वोमयसम्बन्धेन । निश्चये स्ववैशिष्टयं स्वावच्छिन्न विषयितावत्वसम्बन्धेन । प्रतिबन्धकतावत्वञ्च धर्मे स्ववृत्त्यभावीयप्रतियोगितानिरूपितपरम्परया निश्चयनिष्ठावच्छेदकतानिरूपिता या सामानाधिकरण्यसम्बन्धावच्छिना निश्चयनिष्ठावच्छेदकता तनिरूपितविषयित्वनिष्ठावरलेदकतानिरूपितावच्छिन्नत्वसम्बन्धावच्छिन्नावच्छेदकतावत्प्रतीतिविषयतावच्छेदकत्वसम्बन्धेन । तादृशावच्छेदकतावत्वञ्च प्रतीतौ स्वनिरूपिता या विषयित्वनिष्ठा स्वाश्रयसमानाधिकरणज्ञानवृत्तित्वसम्बधावरिछन्नावच्छेदकता सन्निरूपिता अथ धावच्छिन्नत्वसम्बन्धावच्छिन्ना किञ्चिद्धर्मनिष्ठावच्छेदकतानिरूपिता विषयितात्वावच्छिन्ना प्रतियोगिता तनिरूपकाभावत्वसम्बन्धेनेति ध्येयमिति दिक् । बिशिष्टान्तराऽघटितत्वशरीरघटकस्वावच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदकरूपे "Aho Shrutgyanam" Page #150 -------------------------------------------------------------------------- ________________ अनुमानगादाधयां सामान्यनिरुक्तिप्रकरणम् गादाधरी तादृशविशिष्ठति। अनुमितिप्रतिबन्धकतायां यद्रूपावच्छिन्नविषयकत्वमवच्छेदकं तद्पावच्छिन्नेत्यर्थः । व्यभिचारत्वाद्यवच्छिन्नस्य व्यभिचारत्वादिरूपताशरूपावच्छिन्नघटितत्वादसम्भव इत्यतोऽन्तरेति ! स्वावच्छिन्नाविषयकप्रतीतिविषयता चन्द्रकला प्रतिबन्धकताकत्वादित्यर्थः । तादृशेति । यद्रूपावच्छिन्नविषयकत्वव्यापकं प्रकृतानुमितिप्रतिबन्धकत्वमित्यादि लक्षणघटकीभूतं यद्पमित्यर्थः । अनुमितिप्रतिबन्धकतायामित्यादि। यद्रूपावच्छिन्नविषयकत्वव्यापकं प्रकृतानुमितिप्रतिबन्धकत्वं तद्रूपावच्छिन्नमेव तादृशविशिष्टान्तरपदेन विवक्षणीयमित्यर्थः । अन्तरपदप्रयोजनमाह ब्यभिचारत्वेति । तथाचान्तरपदानुपादानेऽसम्भवःस्याद् व्यभिचारादेरपि ताहशविशिष्ट पदोपात्तव्यभिचारादिघटितत्वात् स्वस्य स्वघटितत्वस्य सर्ववादिसिद्धत्वादित्याशयः । ननु अन्तरपदं यदि भिन्नार्थकं तदा प्रमेयत्वविशिष्टव्यभिचारेऽतिव्याप्तिः, शुद्धव्यभिचारादेः प्रमेयत्वविशिष्टव्यभिचाररूपविशिष्टव्यभिचारात्मकतया तभेदस्य तत्र विरहात् प्रमेयत्वविशिष्टव्याभिचारभेदस्य बाधादौ सत्त्वेऽपि तदघटितत्वस्य * कलाविलासः * प्रकृतानुमितिप्रतिबन्धकतानतिरिक्तवृत्तिविषयितानिरूपकतावच्छेदकत्वनिवेशं विहाय प्रकृतानुमितिप्रतिबन्धकतानिरूपित स्वरूपसम्बन्धरूपावच्छेदकतावद्विषयितानिरूपकतावच्छेदकत्वविवक्षणे निरवच्छिन्नस्वरूपसम्बन्धेन वयभावविशिष्टहदस्य हृदो वह्निमानित्यादौ बाधरवमभ्युपगच्छता मते तादृशबाधेऽव्याप्तिः । तादृशबाधत्वावच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदकं यत् शुन्द्धस्वरूपसम्बन्धेन वह्नयभावविशिष्टहदत्त्वं तस्य प्रकृतानुमितिप्रतिबन्धकतानिरूपितस्वरूपसम्बन्धरूपावच्छेदकतावद्विपयितानिरूपकतावच्छेदकतया तदवच्छिन्नाविपयकप्रतीतिविषयतावच्छेदकत्वस्य निरवच्छिन्नस्वरूपसम्बन्धेन वह्वयभावविशिष्टहदत्वरूपनिरुक्तबाधत्वे विरहात् ।। ___ नच स्वावच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदकयद्पावच्छिन्न विषयतासामान्यं प्रकृतानुमितिप्रतिवन्धकतानिरूपितस्वरूपसम्बन्धरूपावच्छेदकतावत् तद्रूपावच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदकत्वरूपमेव स्वस्मिन् विशिष्टान्तराघटितत्वं लाघवाद्विवक्षणीयमिति वाच्यम्, तथा सति जलव्यापकवह्नयभावसमानाधि "Aho Shrutgyanam" Page #151 -------------------------------------------------------------------------- ________________ १३५ चन्द्रकला-कलाविलासाख्यटीकाद्धयोपेतम् * गादाधरी * वच्छेदकावच्छिन्नार्थकम्, अतः शुद्धव्यभिचारादेर्मेयत्वविशिष्टव्यभिचाराधभिन्नत्वेपि न क्षतिः । तदघटितत्त्वं तदविषयकप्रतीतिविषयत्वम्, एवञ्चानुमितिप्रतिबन्धकतायां यादृशरूपावच्छिन्नविषयकत्वमवच्छेदकं तादृशं यत्स्वावच्छिन्नाविषयकप्रतीतिविषयतावच्छेदकं तदवच्छिन्नाविषयकप्रतीतिविषयतावच्छेदकं यत् तदवच्छिन्नत्वं समुदितार्थः । यद्पावच्छिन्ने लक्षणं सङ्गमनीयं तदेव स्वपदार्थः । * चन्द्रकला * तत्राऽनपायादित्यत आह स्वावच्छिन्नति । लश्यतावच्छेदकत्वेनाभिमतधर्मावच्छि. नाऽविषयकप्रतीतिविषयतावच्छेदकधर्मावच्छिन्नार्थकमित्यर्थः। अतः = एतादृशरीत्या विशिष्टान्तरशब्दार्थनिर्वचनतः । न क्षतिरिति । न मेयत्व विष्टिव्यभिचारादावतिव्याप्तिरित्यर्थः । प्रमेयत्वविशिष्टव्यभिचारत्वावच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदकत्वस्य व्यभिचारत्वे सत्त्वाद् व्यभिचारत्वस्यैव विशिष्टान्तरत्वसम्भवादिति भावः । समुदितविशिष्टान्तराऽघटितत्वं निर्वक्ति एवञ्चेति । तथाच स्वावच्छिन्नाऽविष. यकप्रतीतिविषयतावच्छेदकम् अथच प्रकृतानुमितिप्रतिबन्धकतानतिरिक्तवृत्तिविषयितानिरूपकतावच्छेदकं यद्रूपावच्छिन्नविषयकत्वव्यापकम् प्रकृतानुमितिप्रतिबन्धकत्वं तादृशं वा यद्रपं तदवच्छिन्नाविषयकप्रतीतिविषयतावच्छेदकं यत् स्वं तादृशस्वात्मकयद्रूपावच्छिन्नविषयकनिश्चयत्वव्यापकं प्रकृतानुमितिप्रतिबन्धकत्वं तादृशस्वात्मकतद्रूपवत्वमिति तु विशिष्टान्तराऽघटितत्वविशेषणघटितलक्षणार्थः पर्यवसितः । घटत्वाधवच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदकप्रकृतानुमितिप्रतिबन्धकतावच्छेदकबाधत्वाद्यवच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदकघटस्वरूपस्ववत्त्वस्य घटादौ सत्त्वात् तत्राऽतिव्याप्तिः स्यादतः स्वात्मकयद्रूपेत्यादिना विशेष्यदलस्य प्रवेशः। तथाच घटत्वाद्यवच्छिन्नविषयकनिश्चयत्वव्यापकताया अनुमितिप्रतिबन्धकतायां विरहान्न घटादावतिव्याप्तिरिति तु परमार्थः। . .. * कलाविलासः * करणजलवद्धदेऽव्याप्तयापत्तः, जलव्यापकवलयभावसमानाधिकरणजलवद्धदत्वावच्छिन्नाविषयकप्रतोतिविषयतावच्छेदकजलवद्धदत्वावच्छिन्नविषयतासामान्यस्यैव प्रकृतानुमितिप्रतिबन्धकतावरछेदकतया तादृशजलवद्ध्दत्वावच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदकत्वस्य तादृशसत्प्रतिपक्षतावच्छेदकेऽसत्वादिति ध्येयम् ।। स्वावच्छिन्नाविषयकप्रतीतिविषयतावच्छेदकरूपे प्रकृतानुमित्यवृत्तिविषयितानिरूपकतावच्छेदकत्वनिवेशे पर्वतो वह्नयभावग्याप्यवान् पर्वतीयवलयभाषादित्यत्र "Aho Shrutgyanam" Page #152 -------------------------------------------------------------------------- ________________ १३६ अनुमानगादाधयाँ सामान्यनिरुक्तिप्रकरणम् गादाधरी . भवति हि व्यभिचारत्वाद्यवच्छिन्नाविषयकप्रतीतिविषयतावच्छेदकीभूता ये वाधवादयस्तदवच्छिन्नाविषयकप्रतीतिविषयतावच्छेदकं व्यभिचारत्वादीति तदवच्छिन्ने लक्षणसङ्गतिः।। ® चन्द्रकला ® यद्पावच्छिन्ने इत्यादिना स्वपदार्थ निरुच्य लक्ष्ये लक्षणसमन्वयं प्रदर्शयतिभवति होत्यादि । अयोगोलकं धूमवद् वढेरित्यादौ धूमाभावववृत्तित्वविशिष्टवह्नित्वरूपव्यभिचारत्वावच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदकं प्रकृतानुमितिप्रतिबन्धकतानतिरिक्तवृत्तिविषयितानिरूपकतावच्छेदकश्च यद् धूमाभाववदयोगोलकत्वरूपं बाधत्वं तदवच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदकं यत् स्वं ताशव्यभिचारत्वं तदवच्छिन्नविषयकनिश्चयत्वव्यापकतायाः अयोगोलकं धूमवद् धूमव्याप्यवह्निमच्चत्याकारकसमूहालम्बनरूपप्रकृतानुमितिप्रतिबन्धकतायामक्षतत्वात् स्वपदेन धूमाभाववद्वृत्तित्वविशिष्ट वह्नित्वरूपव्यभिचारत्वस्योपादानसम्भवात् । एवं हृदो वह्निमान् धूमादित्यादौ वह्नयभावविशिष्टहदत्वादिरूपबाधत्याद्यवच्छिनाऽविषयकप्रतीतिविषयतावच्छेदकम् प्रकृतानुमितिप्रतिबन्धकतानतिरिक्तवृत्तिविषयितानिरूपकतावच्छेदकञ्च यद् धूमाभावविशिष्टह्रदत्वादिरूपं स्वरूपासिद्धित्वं तदवच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदकतादृशबाधत्वाचवच्छिन्नविषयकनिश्चयत्व - व्यापकत्वस्यापि प्रकृतानुमितिप्रतिबन्धकतायां सत्त्वात् वह्नयभाववद्ध्दत्वादिरूपबाधत्वादेरपि स्वपदेन धत्तं शक्यतया तादृशबाधादी लक्षणसमन्वयः । यत्र च पर्वतो धूमवान् वह्नरित्यादी व्यभिचारमात्रस्यैव दोषता तत्र विशिष्टान्तरतावच्छेदकरूपाप्रसिद्धिरिति तु नाशंकनीयम्, तत्रापि वह्निवृत्तित्वविशिष्टधूमाभावववृत्तित्वत्वादेविपरीतव्यभिचारत्वादेरेव विशिष्टान्तरतावच्छेदकत्वसम्भवादित्यनयेव रीत्याऽन्यत्रापि लक्षणसमन्वयो बोध्यः । ® कलाविलासः पर्वतीयवहिमपर्वतरूपस्वरूपासिद्धावव्याप्तिः, स्वरूपासिद्धित्वरूपस्वावच्छिन्नाऽविपयकप्रतीतिविषयतावच्छेदकस्य वह्निमरपर्वतत्वस्य प्रकृतानुमित्यवृत्ति विषयितानिरूपकतावच्छेदकतया तदवच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदकत्वस्य तादृशस्वरूपासिद्धित्वे विरहात् । नच तथापि स्वावच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदकरूपे प्रकृतानुमित्यव्यवहितमाक्षणवृत्तिज्ञानावृत्तिविषयितानिरूपकतावच्छेदकत्वविवक्षणान्न निरुक्ताव्याप्तिरिति वाच्यम्, तथा सति गौरवात् । यादशस्थलविशेषे हदो वह्निमानित्यनुमितेरव्यवहितपूर्ण वह्नयभाव इत्याकारकं ज्ञानं न जायते तादृशस्थले "Aho Shrutgyanam" Page #153 -------------------------------------------------------------------------- ________________ चन्द्रकला-कलाविलासाख्यटीकाद्वयोपेतम् गादाधरी मेयत्वविशिष्टव्यभिचारत्वादेः स्वावच्छिन्नाविषयकप्रतीतिविषयतावच्छेदकव्यभिचारत्वाद्यवच्छिन्नाविषयकप्रतीतिविषयतावच्छेदकत्वाभावान तदवच्छिन्न ऽतिव्याप्तिः ।। मेयत्वविशिष्टव्यभिचारादेरपि मेयत्वादिना व्यभिचारत्वाद्यवच्छिन्ना * चन्द्रकला * प्रमेयत्वविशिष्टव्यभिचारेऽतिव्याप्ति वारयति मेयत्वेति । तथाच मेयत्वविशिष्टव्यभिचारत्वं नैतादृशं स्वं प्रमेयत्वविशिष्टव्यभिचारत्वरूपस्वावच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदकं प्रकृतानुमितिप्रतिबन्धकतानतिरिक्तवृत्तिविषयितानिरूपकतावच्छेदकञ्च यद् व्यभिचारत्वं तदवच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदकत्वस्य प्रमेयत्वविशिष्टव्यभिचारत्वे विरहान्न प्रमेयत्वविशिष्टव्यभिचारत्वाद्यवच्छिन्ने तादृशव्यभिचारेऽतिव्याप्तिरिति समुदितार्थः पर्यवसितः । ननु लक्ष्यतावच्छेदकल्वेनाभिमते स्वस्मिन् स्वावच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदकतादृशधर्मावच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदकत्वमनिवेश्य लाघवात् तादृशधर्मावच्छिन्नाऽविषयकप्रतीतिविषयत्वमेव स्वाश्रये निवेशनीयमित्यत आह मेयत्वविशिष्टेति। मेयत्वादिना = मेयत्वादिधर्मेण । आदिना वाच्यत्वादि. परिग्रहः। व्यभिचारत्वेति । व्यभिचारत्वाद्यवच्छिन्नाऽविषयिणी या प्रमेयमित्याकारिका * कलाविलासः ॐ 'वह्नयभावविशिष्ट हदेऽव्याप्तेश्व, वह्नयभावत्वस्यापि . तादृशविशिष्टान्तरतावच्छेदकत्त्वसम्भवादित्यस्भद्गुरुचरणाः । ननु लचयतावच्छेदके विशिष्टान्तरतावच्छेदकरूपावच्छिन्नाऽविषयकमतीतिविषयतावच्छेदकत्वनिवेशापेक्षया लायवात् विशिष्टान्तरतावच्छेदकरूपानवच्छिन्नभकारतावच्छेदकत्वनिवेशनमेव समुचितमिति चेन्न, यादृशस्थल विशेषे घट इत्याकारकज्ञानं नियमतो बाधविषयकमेब भवति तत्र घटेऽतिव्याप्तयापत्तेः, घटविषयकत्वस्य प्रकृतानुमितिमतिबन्धकतानतिरिक्तवृत्तित्वाद् विशिष्टान्तरतावच्छेदकबाधत्वानवच्छिन्नप्रकारतावच्छेदकत्वाच्च । मन्मते तु घटत्वे बाधत्वावच्छिन्नाऽविषयकमतीतिविषयतावच्छेदकत्वावि रहानातिव्याप्तिरितिध्येयम् । ___ स्वावच्छिन्नाऽविषयकप्रतीतीति । अत्र प्रतीतिपदं निरर्थकमिति तु नाशं. क्यम्, ज्ञानेच्छादिविषयताया अनुगतत्वाऽसम्भवे स्वावच्छिन्नविषयकस्वाभावकूटपत्मतीतिविषयतावच्छेदकरवनिवेशे महागौरगं स्यादिति तनिवेशस्यावश्यकरवात् । "Aho Shrutgyanam" Page #154 -------------------------------------------------------------------------- ________________ अनुमानगादाधर्यां सामान्यनिरुक्तिप्रकरणम् * गादाधरी * विषयकप्रतीतिविषयत्वात्तद्दोषः स्यादतस्तादृश रूपाश्रयधर्मिणं तदवच्छन्नाविषयकप्रतीतिविषयत्वेनाविशिष्य स्वमेव तादृशविषयतावच्छेदकत्वेन विशेषितम् ! मेयत्वविशिष्टव्यभिचारत्वाद्याश्रयाविषयकत्वस्य व्यभि चारत्वाद्यवच्छिन्नविषयकप्रतीतौ दुर्घटत्वात्तद्दोषः स्यादतः स्वाश्रयाविषयकस्वमुपेच्य स्वावच्छिन्नाविषयकत्वनिवेशः । १३८ * चन्द्रकला * प्रतीतिस्तद्विषयत्वादित्यर्थः । तद्दोषः स्यात् = प्रमेयत्वविशिष्टव्यभिचारेऽतिव्याप्तिः स्यात् । अतः = अतिव्यातेवरिणतः । तादृशेतिलक्ष्यतावच्छेदकत्वेनाभिमतस्वाश्रयधर्मिणामित्यर्थः । तदवच्छिन्नेति । स्वावच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदकप्रकृतानुमितिप्रतिबन्धकतानतिरिक्तवृत्तिविषयितानिरूपकतावच्छेदकधर्माविच्छिन्नाऽविषयकप्रतीतिविषयत्वेनेत्यर्थः । स्वमेव = लक्ष्यतावच्छेदकत्वेनाभिमतं स्वमेव । तादृशेति । स्वावच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदकतादृशवर्मावच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदकत्वेनेत्यर्थः । विशेषितमिति । तथाच स्वावच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदकतादृशधर्मावच्छिन्नाऽविषयकप्रतीतिविषयत्वस्य स्वाश्रये विवक्षणे प्रमेयत्वशिष्टव्यभिचारेऽतिव्याप्तिः, प्रमेयत्वविशिष्टव्यभिचारत्व रूपस्वावच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदकं यत् तादृशं शुद्धव्यभिचारत्वं तदवच्छिन्नाविषयिणी या प्रमेयमित्याकारिका प्रतीतिस्तद्विषयत्वस्य प्रमेयमात्रे वर्त्तमानतया स्वाश्रये प्रमेयत्वविशिष्टव्यभिचारेऽपि सत्त्वात् स्वपदेन प्रमेयत्वविशिष्टव्यभि चारत्वस्यैवोपादानसम्भवादिति भावः । स्वावच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेद केत्यादौ प्रतीतौ स्वाश्रयाऽविषयकत्वमेव लाघवात् कथं न निवेशनीयमिति तु नाशंकनीयम्, तथा सति पुनः प्रमेयत्वविशिष्टव्यभिचारेऽतिव्याप्तिः, प्रमेयत्व विशिष्ट व्यभिचारत्वरूपस्वाश्रयाऽविषयकत्वस्य व्यभिचारप्रतीतावसत्त्वात् तादृशस्वाश्रयतायाः शुद्धव्यभिचारे वर्त्तमानत्वात् । एवंञ्च तादृशस्वाश्रयाऽविषयकप्रतीतिविषयतावच्छेदकतादृशबाधत्वाद्यवच्छिन्नाऽविषयकप्रती - तिविषयतावच्छेदकत्वस्य । स्वस्मिन् प्रमेयत्वविशिष्टव्यभिचारत्वेऽनपायात् स्वपदेन तस्यैव धर्त्तुं शक्यत्वादित्याह मेयत्वेति । तद्दोषः = प्रमेयत्वविशिष्टव्यभिचारेअतिव्याप्तिः । विशिष्टान्तरतावच्छेदकताया बाधत्वादावेव सच्चादितिहृदयम् । * कलाविलासः * स्वावच्छिन्नाऽविषयकत्वनिवेश इति । ननु स्वाश्रयाविषयकप्रतीतिविषयतावच्छेदकत्वनिवेशेऽपि न प्रमेयत्वविशिष्टव्यभिचारेऽतिव्याप्तिः सम्भवति प्रमेय "Aho Shrutgyanam" Page #155 -------------------------------------------------------------------------- ________________ चन्द्रकला-कलाविलासाख्यटीकाद्वयोपेतम् १३९ ® गादाधरी स्वाच्छिन्नाविपयकप्रतीतिविषयवृत्तित्वस्य तादृशधर्मविशेषणत्वे व्यभिचारत्वादेरपि मेयत्वादिना व्यभिचारत्वाद्यवच्छिन्नाविषयकप्रतीतिविषये व्यभिचारादौ वर्तमानत्वादसम्भव इत्यतस्तादृशविषयतावच्छेदकत्वेन धर्मो विशेषितः । * चन्द्रकला * - स्वावच्छिन्नेति । तथाच प्रमेयत्ववैशिष्ट्य व्यभिचारस्वरूपधर्मद्वयावच्छिन्नाविषयकत्वस्य शुद्धव्यभिचारविषयकप्रतीतौ सुघटतया शुद्धव्यभिचारत्वस्यैव विशिष्टान्तरतावच्छेदकत्वेन तदवच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदकत्वस्य प्रमेयत्वविशिष्टव्यभिचारत्वे विरहान प्रमेयत्वविशिष्ट व्यभिचारेऽतिव्याप्तिरिति परमार्थः ।। यदि च स्वावच्छिन्नाऽविषयकप्रतीतिविषयवृत्तिप्रकृतानुमितिप्रतिबन्धकतानतिरिक्तवृत्तिविषयितानिरूपकतावच्छेदकीभूतधर्मावच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदकत्वस्य लाघवात् स्वस्मिन् विशेषणत्वमुचितमित्युच्यते तदा व्यभिचारादौ सर्वत्राऽसम्भवःस्यात्, व्यभिचारत्वाद्यवच्छिन्नाऽविषयिणी या प्रमेयमित्याकारिका प्रतीतिस्तद्विषये व्यभिचारे तादृशव्यभिचारत्वस्य वर्तमानतया व्यभिचारत्वाद्यवच्छिन्नाविषयकप्रतीतिविषयतावच्छेदकत्वस्य च व्यभिचारत्वादौ विरहात् व्यभिचारत्वादेःस्वपदेनोपादातुमशक्यत्वादित्याह स्वावच्छिन्नेति । तादृशधर्मविशेषणत्वे-प्रकृतानुमितिप्रतिबन्धकतानतिरिक्तवृत्तिविषयितानिरूपकतावच्छेदकधर्मविशेषणत्वे । इत्यतः = असम्भवदोपवारणतः । तादृशेति स्वावच्छिन्नाविषयकप्रतीतिविषयतावच्छेदकत्वेनेत्यर्थः । धर्मः = प्रकृतानुमितिप्रतिबन्धकतानतिरिक्तवृत्तिविषयितानिरूपकतावच्छेदको धमः । विशेपित इति । तथा च नाऽसम्भवः, व्यभिचारत्वाद्य * कलाविलासः * स्वविशिष्टव्यभिचारत्वाश्रयाविषयकव्यभिचारत्वेन घटायगाहिप्रतीतिविषयतावच्छेदकर वस्य व्यभिचारत्वे सत्वात् इति चेन, निरुक्तरीत्या सर्ववासम्भवापत्तः । बाधत्वव्यभिचारस्वाद्याश्रयाविषयक याधत्वादिना घटावगाहिप्रतीतिविषयतावच्छेदकत्वस्य बाधत्वादावनपायादतः स्वावच्छेदकत्व-स्वसामानाधिकरण्योमयसम्बन्धेन स्वाश्रयाविषयकप्रतीतिविषयताविशिष्टधर्मस्यैव विशिष्टान्तरतावच्छेदकतया मेयस्वविशिष्टव्यभिचारवाश्रयाऽविषयकप्रतीतिविषयताविशिष्टधर्मपदेन व्यभिचारस्वस्य धतुमशक्यत्वात् मेयत्वविशिष्टव्यभिचारेऽतिव्याप्तिदानसंगतिसम्भवात् । धर्मो विशेषित इति । अथ पश्चादुक्तदलघटकावच्छेदकस्वनिवेशस्य प्रथम व्यावृत्तिमभिधाय प्रथमदलघटकावच्छेदकत्वदलस्य पश्चाद्व्यावृत्यभिधानमसंगतमिति चेन्न, पश्चादुक्तदलघटकावच्छेदकत्वनिवेशव्यावृत्त्यसंगतेः । व्यभिचारस्वा "Aho Shrutgyanam" Page #156 -------------------------------------------------------------------------- ________________ १४० अनुमानगादाधर्या सामान्यनिरुक्तिप्रकरणम् गादाधरील प्रमेयं गगनवद्वाच्यत्वादित्यादी व्यभिचारत्वाद्यवच्छिन्नाविषयकप्रतीतिविषयतावच्छेदकं यद्गगनाभाववन्मेयत्वादि तदाश्रयाविषयकप्रतीत्यप्र. सिध्द्या व्यभिचारादौ तादृशप्रतीतिविषयत्वस्य दुरुपपादतयाऽच्याप्तिरतस्तदवच्छिन्नाविषयकत्वनिवेशः ।। * चन्द्रकला वच्छिन्नाऽविषयकप्रमेयप्रतीतिविषये व्यभिचारादौ व्यभिचारत्वस्य वत्त मानत्वेऽपितादृशप्रतीतिविषयतावच्छेदकतायाःप्रमेयत्वादिनिष्ठतया तस्या व्यभिचारत्वादी दुर्घट त्वात् , बाधत्वादेरेव व्यभिचारत्वाद्यवच्छिन्नाविषयकप्रतीतिविषयतावच्छेदकानुमितिप्रतिबन्धकतावच्छेदकधर्मस्वरूपत्वादित्याशयः।। ननु स्वावच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदकप्रकृतानुमितिप्रतिबन्धकतानतिरिक्तवृत्तिविषयितानिरूपकतावच्छेदकधर्माश्रयाऽविषयकप्रतीतिविषयतावच्छेदकत्व - मेव स्वस्मिन् विशेषणं लाघवात् कथं नाभिहितमित्यत आह प्रमेयमित्यादि । तथाच स्वस्मिन् ताहशधर्माश्रयाविषयकप्रतीतिविषयतावच्छेदकत्वविवक्षणे प्रमेयपक्षकगगनसाध्यकवाच्यत्वहेतुकस्थले गगनाभावववृत्तित्वविशिष्टवाच्यत्वरूपव्यभिचारे. अव्याप्तिः, तादृशवाच्यत्वत्वरूपव्यभिचारत्वावच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदकताहशगगनाभावविशिष्टप्रमेयत्वरूपबाधत्वाश्रयीभूतप्रमेयाविषयकप्रतीतेरप्रसिद्धत्वात्, वस्तुमात्रविषयकप्रतीतेरेव प्रमेयविषयकत्वात् निरुक्तव्यभिचारत्वस्य स्वपदानुपाचत्वादितिभावः । तदवच्छिन्नाऽविषयकत्वनिवेश इति । स्वावच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदकताह शधर्मावच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदकत्वविवक्षणे तु न * कलाविलासः * वच्छिन्नविषयकप्रतीतिविषयवृत्तिव्यभिचारत्वावच्छिन्नाऽविषयकप्रतीतिविषयवृत्तित्वस्य व्यभिचारस्वे सत्त्वेनाऽसम्भवानवकाशात् । अतः द्वितीयदलघटकावच्छेदकत्व. दलस्य प्रथमं व्यावृत्तिरभिहिता । नच स्वानवच्छिन्न प्रकारतावच्छेदकस्य विशिष्टान्तरतावच्छेदकत्वसम्भवे स्वावच्छिन्नाविषयकप्रतीतिविपयतावच्छेदकस्य तथास्वाभिधानं गौरवास्तमिति वाध्यम् , व्यभिचारविशिष्टमेयत्वेऽतिव्याप्तयापत्तेः, साक्षात्परम्परासाधारणावच्छेदकत्वस्य वक्तुमशक्यतया व्यभिचारविशिष्टमेयत्वानवच्छिन्नप्रकारतावच्छेदकं यद् बाधत्वादिकं तदवच्छिन्नाऽविषयकप्रतीतिविषयतापच्छेदकत्वस्य व्यभिचारविशिष्टमेयत्वे सत्त्वात् ।। अस्माकन्तु व्यभिचारविशिष्टमेयत्वावच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदकव्यभिचारत्वावच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदकत्वस्य व्यभिचारविशिष्टमेयत्वे विरहानातिव्याप्तिरिति तु सुधीभिर्विवेचनीयम् । "Aho Shrutgyanam" Page #157 -------------------------------------------------------------------------- ________________ चन्द्रकला-कलाविलासाख्यटीकाद्वयोपेतम् १४१ ® गादाधरी अत्र च तादृशविशिष्टान्तराविषयकप्रतीतिविषयतावच्छेदकत्वस्य दोष. तावच्छेदकधर्मे विशेषणतापेक्षया ज्ञानस्येत्यत्र ज्ञानपदार्थे तादृशविशिष्टान्तराविषयकत्वनिवेश एवोचितः । * चन्द्रकला तादृशव्यभिचारेऽव्याप्तिः, गगनाभाववत्प्रमेयत्वावच्छिन्नाऽविषयकगगनाभावववृत्तिवाच्यत्वविषयकप्रतीतिविषयतावच्छेदकत्वस्य तादृशवाच्यत्वत्वरूपव्यभिचारत्वे सत्त्वादिति तात्पर्यम् । ___ यद्रूपावच्छिन्नविषयकनिश्चयत्वव्यापकं प्रकृतानुमितिप्रतिबन्धकत्वमित्यादिलक्षणघटकीभूते यद्पे स्वावच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदकानुमितिप्रतिबन्धकतानतिरिक्तवृत्तिविषयितानिरूपकतावच्छेदकधर्मावच्छिन्नाऽविषयकप्रतीतिविषय. तावच्छेदकत्वरूपविशिष्टान्तराऽघटितत्वविशेषणं पृथक्प्रतीत्यादिनिवेशेन गौरवग्रस्त. मतस्तादृशलक्षणघटकयद्र पावच्छिन्नविषयकनिश्चय एव लाघवात् तादृशधर्मावच्छिनाऽविषयकत्वरूपमेव विशिष्टान्तराऽघटितत्वविशेषणं वक्तव्यमित्याह अत्र चेति । एतल्लक्षणघटके चेत्यर्थः। ताशेति । अनुमितिप्रतिबन्धकतावच्छेदकस्वावच्छिन्नाऽविषयकप्रतीतिविषयता. पच्छेदकधर्मावच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदकत्वस्येत्यर्थः । दोषतेति । स्वस्मिन्नित्यादिः । ज्ञानस्येति । मूलोक्तत्यादिः । ज्ञानपदायें - अनाहार्याऽप्रामाण्यज्ञानानास्कन्दितयद्पावच्छिन्नविषयकनिश्चये। एवोचित इति । तथाच * कलाविलासः * ज्ञानस्येत्यत्र ज्ञानपदार्थे तादृशविशिष्टान्तराऽविषयकत्वनिवेश एवोचित इति । ___ ननुत्तरीत्या विशेष्यदलघटकनिश्चये विशिष्टान्तरतावच्छेदकरूपावच्छिन्नाविषयकत्वविवक्षणे किं लाववमितिचेन्न ? लच्यतावच्छेदकयद्पावच्छिन्नविषयकनिश्चये विशिष्टान्तरतावच्छेदकरूपावच्छिन्नाविषयकत्वविवक्षणेऽपि ताशरूपावच्छिन्नाऽविषयकयदुरूपावच्छिन्नविषयकनिश्चयवृत्तिभेदप्रतियोगितावच्छेदकरवं नास्तीति प्रतीतिसिद्धो व्यापकतारूपोऽभावो लक्षणे न निवेश्यते अपितु केवलं यद्रूपावच्छिन्नविषयकनिश्चयवृत्तिभेदप्रतियोगितावच्छेदकत्वं नास्तीत्याकारक एवाभावः । तथाच प्रकृतानुमितिप्रतिबन्धकतावृत्तिनिरुक्तव्यापकतारूपाभावीयप्रतियोगितानिरूपितपरम्परया या निश्चयनिष्ठावच्छेदकता तद्विशिष्टरूपवरवं हेत्वा भासत्वम् । वैशिष्ट्यं स्वनिरूपितविषयित्वनिष्ठावच्छेदकतानिरूपितावच्छिन्नस्वसम्बन्धावच्छिन्नावच्छेदकतावत्व-स्वसमानाधिकरणो यः किन्निदुरूपावच्छिमाविष "Aho Shrutgyanam" Page #158 -------------------------------------------------------------------------- ________________ १४२ अनुमानगादाधर्या सामान्यनिरुक्तिप्रकरणम् * गादाधरो . - एवञ्च निष्कृष्टवक्ष्यमाणकल्पे यद्विषयकनिश्चयस्येत्यत्र निश्चय एव तन्निवेश्यं लाघवादित्यवधेयम् । * चन्द्रकला* स्वावच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदकानुमितिप्रतिबन्धकतानतिरिक्तवृत्तिविषयि. तानिरूपकतावच्छेदको यो धर्मस्तदवच्छिन्नाऽविषयकस्वात्मकयद्पावच्छिन्नविषयकनिश्चयत्वव्यापकप्रकृतानुमितिप्रतिबन्धकताकस्वात्मकतद्रूपवत्त्वं हेत्वाभासत्वमित्येवं विशिष्टान्तराऽघटितत्वसहितलक्षणार्थः पर्यवसितः ।। अत्रवदन्तिकल्पेऽपि निश्चय एव विशिष्टान्तराऽघटितत्वं न तु यद्पे इत्याह एवञ्चति । अत्रापि निश्चय एवं विशिष्टान्तराऽविषयकत्वरूपविशिष्टान्तराघटितत्वविवक्षणे चेत्यर्थः। निष्कृष्टेति । वक्ष्यमाणात्रवदन्तिकल्पे इत्यर्थः। तन्निवेश्यम् - विशिष्टान्तराऽघटितत्वं निवेश्यम् , अधिकमन्यत्रानुसन्धेयम् । * कलाविलासः यकप्रतीतिविषयतावच्छेदकप्रकृतानुमितिप्रतिबन्धकतावृत्यभावीयप्रतियोगितानिरू . पितपरम्परयाऽवश्छेदकतावद्रूपावच्छिन्नविषयित्वं नास्तीतिप्रतीतिसिद्धाऽभावस्तदोयप्रतियोगितानिरूपितपरम्परयाऽवच्छेदकतावत्वोभयसम्बन्धेनेति लाघवस्यावश्यकत्वात् । . . .. नचैवं विशिष्टान्तरतावच्छेदकत्वघटकप्रकृतानुमितिप्रतिबन्धकतानतिरिक्तवृत्तित्वघटकनिश्चयेऽपि लाघवात् स्वावच्छिन्नाऽविषयकत्वनिवेश एव समुचित इति वाच्यम् , तथा सति यादशस्थलविशेष अप्रामाण्यज्ञानानास्कन्दितव्यभिचारविषयकं ज्ञानं नियमतो मेयत्वविशिष्टव्यभिचारविषयकं समूहालम्बनमेव जायते, शुद्धव्यभिचारविषयकज्ञानन्तु अप्रामाण्यज्ञानास्कन्दितमेव, तादृशस्थले मेयत्वविशिष्टव्यभिचारेऽतिव्यालयापत्तेः । मेयत्वविशिष्टव्यभिचारत्वावच्छिन्नाऽविपयकाप्रामाण्यज्ञानानास्कन्दितव्यभिचारत्वावच्छिञ्चविषयकनिश्चयस्याऽप्रसिद्धतया व्यभिचारत्वस्य विशिष्टान्तरतावच्छेदकरूपपदेन धर्जुमशक्यत्वादिति ध्येयम् । . विशिष्टान्तराघटितत्वसहितलक्षणानुगमस्तु धर्मविशिष्टधर्मवत्वं हेत्वाभासत्वमिति, वैशिष्ट्यं स्वतादात्म्य-स्वविशिष्ट निश्चयत्त्वव्यापकप्रकृतानुमितिप्रतिबन्धकसावत्योभयसम्बन्धेन, स्ववैशिष्ट्यच निश्चये स्वावच्छिन्नविषयितावत्त्वसम्बन्धेन, प्रतिबन्धकतावत्त्वञ्च स्ववृत्यभावीयप्रतियोगितानिरूपितपरम्परयाऽवच्छेदकताबद्धर्मवत्वसम्बन्धेन, धर्मवत्यञ्च, स्त्रावच्छिन्नाऽविषयकप्रतीतिविपयतावच्छेदकत्वे--- "Aho Shrutgyanam" Page #159 -------------------------------------------------------------------------- ________________ चन्द्रकला-कलाविलासाख्यटीकाद्वयोपेतम् १४३ * गादाधरी * अथ धूमव्यभिचारिवह्निमान् धूमवान् वढेरित्यादौ बाधादेर्व्यभिचारादिघटिततया तत्राव्याप्तिः । न च यद्रूपावच्छिन्नविषयकत्वं स्वावच्छिन्न. विषयकत्वावच्छिन्न प्रतिबन्धकतासामान्यावच्छेदकं तादृशरूपान्तरावच्छिनाघटितत्वस्य विवक्षितत्वान्न दोषः, व्यभिचारस्य उक्तबाधविषयकत्वा * चन्द्रकला * प्रमेयत्वविशिष्टव्यभिचारेऽतिव्याप्तिवारणाय विशिष्टान्तराऽघटितत्वनिवेशस्यावश्यकत्वध्रौत्र्ये पुनः धूमव्यभिचारिवह्निमान् धूमवान् यतेरित्यादौ धूमाभाववधुमव्यभिचारिवह्निमद्पबाधेऽव्याप्तिः, तादृशवह्निमत्त्वरूपबाधत्वावच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदकधूमाभावववृत्तिवह्नित्वरूपव्यभिचारत्वस्य तादृशवह्निमत्त्वस्य वा धूमव्यासिविषयकप्रकृतानुमितिप्रतिबन्धकतानतिरिक्तवृत्तिविषयितानिरूपकतावच्छेदकतया तदवच्छिन्नाविषयकप्रतीतिविषयतावच्छेदकत्वस्य तादृशबाधत्वे विरहात् तादृशबाधत्वस्य स्वपदेन छत्तु मशक्यत्वादित्याशंकते अथेति । धूमव्यभिचारिवह्निमात्रस्य पक्षत्वे तादृशवह्निना सह धूमादेः संयोगसम्भवान्निरुक्तवह्नित्वावच्छेदेन धूमाभावस्य बाधत्वं न सम्भवति, धूमव्यभिचारिवह्निमतः पक्षत्वे तु ताहशवह्निमत्त्वावच्छेदेन वह्निमत्त्वसामानाधिरण्येनापि धूमाभावस्य बाधताया निर्विवादतया अवच्छेदावच्छेदेन सामानाधिकरण्येन च बाधप्रदर्शनाय धमव्यभिचारिवह्निमतः पक्षत्वानुसरणमिति ध्येयम् । तत्र = धूमाभावपळूमव्यभिचारिवह्निमद्पे बाधे। ननु स्वावच्छिन्नाविषयकप्रतोतिविषयतावच्छेदकीभूतो यःस्वावच्छिन्नविषयकत्वव्यापकप्रकृतानुमितिप्रतिबन्धकतात्वव्यापकविषयितानिरूपकतावच्छेदको धर्मस्तदवच्छि कलाविलासः स्ववृत्तित्वोभयसम्बन्धेन, वृत्तित्वमपि स्वावच्छिन्नाविषयकप्रतीतिविपयतावच्छेदकत्वसम्बन्धेनेति ध्येयम् । धूमव्यभिचारीति । नच धूमव्यभिचारिवह्वेरेव पक्षत्वसम्भवे तादृशवह्निमतः पक्षत्वानुसरणं निरर्थकमितिवाच्यम् , धूमव्यभिचारिवह्नथवच्छेदेन धूमाभावस्थ विद्यमानतया पक्षतावच्छेदकावच्छेदेन तत्सामानाधिकरण्येन च वाधप्रदर्शनार्थमेव तादृशवह्निमतः पक्षत्वानुसरणस्यावश्यकत्वात् तादृशवह्नः पक्षत्वे वह्नित्वरूपपक्षतावच्छेदकावच्छेदेन धूमाभावस्याऽसत्वात् पक्षतावछेदकावच्छेदेन बाधस्यासम्भवादिति वदन्ति । प्रथमनचकल्पे स्वावच्छिन्नविषयकत्वावच्छि त्यत्र तादृशविषयकत्वनिष्ठायाः "Aho Shrutgyanam" Page #160 -------------------------------------------------------------------------- ________________ .१४४ अनुमानगादाधर्या सामान्यनिरुक्तिप्रकरणम् ® गादाघरी न्यूनवृत्तिव्याप्तिज्ञानप्रतिबन्धकतावच्छेदकविषयिताकत्वेऽपि तादृशबाधविष यकत्वाऽन्यूनवृत्तिप्रतिबन्धकतासामान्यान्तर्गतानुमितिप्रतिबन्धकतावच्छेदकविषयिताकत्वविरहेण तादृशघटितत्वस्याकिश्चित्करत्वादिति वाच्यम् , * चन्द्रकला * नाविषयकप्रतीतिविषयतावच्छेदकस्ववत्वमेव विशिष्टान्तराऽघटितत्वसहितलक्षणार्थों वक्तव्यः, तादृशप्रतिबन्धकतात्वव्यापकत्वञ्च विषयितायां व्यापकत्वसम्बन्धेन, तथाच न व्यभिचारघटितनिरुक्तबाधेऽव्याप्तिः, धूमाभाववमव्यभिचारिवह्निमत्वावच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदकत्वस्य धूमव्यभिचारिवह्नित्वादौ सत्त्वेऽपि तादृशबाधत्वावच्छिन्नविषयकत्वव्यापकानुमितिप्रतिबन्धकतात्वस्य धूमव्यभिचारिवह्निमद्धर्मिकधूमानुमितिप्रतिबन्धकतायामपि सत्त्वात् तत्र व्यापकतासम्बन्धेन धूमव्यभिचारिवह्नयादिविषयिताया विरहेण तादृशप्रतिबन्धकतात्वव्यापकविषयितानिरूपकतावच्छेदकत्वस्य तत्राऽवर्तमानत्वात्, धूमव्यभिचारिवह्नित्वादेविशिष्टान्तरतावच्छेदकत्वाऽसम्भवात् । एवञ्च धूमव्यभिचारिवह्निमवृत्तिधूमाभावत्वरूपविपरीतबाधत्वमेव विशिष्टान्तरतावच्छेदकं तत्र धूमाभाववधूमव्यभिचारिवह्निमत्त्वरूपस्वावच्छिन्नाविषयकप्रतीतिविषयतावच्छेदकत्वस्य, तादृशस्वावच्छिन्नविषयकत्वव्यापकप्रकृतानुमितिप्रतिबन्धकातत्वव्यापकविषयितानिरूपकतावच्छेदकत्वस्य च विद्यमानत्वात् तादृशपक्षवृत्तिधूमामावत्वरूपविपरीतबाधत्वावच्छिन्नाविषयकप्रतीतिविषयतावच्छेदकीभूतं यत् धूमाभावभूम * कलाविलासः प्रतिबन्धकतावच्छेदकतायाः प्रतिबन्धकतासामान्यावच्छेदकमित्यत्रापि प्रतिबन्ध कतावच्छेदकताया अनतिरिक्तवृत्तित्वरूपमेव वक्तव्यम् , द्वितीयावच्छेदकतायाः स्वरूपसम्बन्धरूपत्वे जलव्यापकवलयभावसमानाधिकरणजलवद्धदरूपसत्प्रतिपक्षेऽव्याप्तिः, ताहशसत्प्रतिपक्षतावच्छेदकरूपस्वावच्छिन्नाऽविषयकप्रतीतिर्विषयतावच्छेदक यत् जलवद्धदत्वं तस्य प्रकृतानुमितिप्रतिबन्धकतासामान्यनिरूपितस्वरूपसम्बन्धरूपावच्छेदकतया तदवच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदकत्वस्य तादृशसत्प्रतिपक्षतावच्छेदके विरहात् । प्रथमावच्छेदकतायाःस्वरूपसम्बन्धरूपत्वे हृदो वह्निमानित्यादौ वह्नयभाववध्रदादिरूपबाधादावव्याप्तिः, निरुक्तवाधत्वावच्छिन्नविषयकत्त्वावच्छिन्न प्रतिबन्धकतासामान्यावच्छेदकविषयितानिरूपकतावच्छेदकरूपाऽप्रसिद्धः , अभाववान् वयभाववान् अभाववांश्च हद इत्याकारज्ञानसाधारणतादृशप्रतिबन्धकतानतिरिक्तवृत्तिविपयितानिरूपकतावच्छेदकरवस्य कुत्राप्यवर्तमानत्वादिति ध्येयम् । "Aho Shrutgyanam" Page #161 -------------------------------------------------------------------------- ________________ चन्द्रकला-कलाविलासाख्यटीकाद्वयोपेतम् १४५ ____ गादाधरी [नच यद्रूपावच्छिन्नविषयकत्वं स्वावच्छिन्नविषयकत्वावच्छिन्नप्रतिबन्धकतासामान्यावच्छेदकं तादृशरूपान्तराघटितत्त्वस्यविवक्षितत्वान्न दोषः ] * चन्द्रकला व्यभिचारिवह्निमत्वरूपम् स्वं तादृशस्ववत्त्वस्य धूमाभाववधूमव्यभिचारिवह्निमद्पे बाधेऽक्षतत्वान्न निरुक्तव्यभिचारघटितबाधेऽव्याप्तिः। __ भवति हि हृदो वह्निमान् धूमादित्यादौ वढयभावविशिष्टह्रदादिरूपत्राधादौ लक्षणसमन्वयः। तादृशहदत्वरूपस्वात्मकबाधत्वावच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदक यद् ध्रदवृत्तिवह्नयभावत्वरूपविपरीतबाधत्वं तस्य वह्नयभावविशिष्टह्रदत्वावच्छिन्नविषयकत्वव्यापकानुमितिप्रतिबन्धकतात्वव्यापकतादृशविपरीतबाधविषयितानिरूपकतावच्छेदकतया तदवच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदकस्ववत्त्वस्य वह्नयभावविशिष्ट-हदत्वेऽनपायात् । _ नच विपरीतबाधनिश्चयनिष्ठा प्रतिबन्धकता भिन्नैवेति वाच्यम् , स्वरूपसम्बन्धावच्छिन्नाधेयत्वसंसर्गातिरिक्तसम्बन्धानवच्छिन्न हदत्वावच्छिन्नविषयतानिरूपितस्वरूपसंसर्गातिरिक्तसम्बन्धानवच्छिन्नवहृयभावत्वावच्छिन्नविषयताशालिनिश्चयत्वेन बाधनिइचयद्वयनिष्ठाया: प्रतिबन्धकताया ऐक्यसम्भवादिति ध्येयम् । तथाच सर्वत्रैव विपरीतव्यभिचारबाधत्वादिकमादायैव लक्षणसमन्वयःकरणीय इत्यभिमानेन निरुक्ताव्याप्तिवारणाय प्रथमनचकल्समाह यद्पेति । स्वावच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदकेत्यादिः। स्वावच्छिन्नेति । स्वं लक्ष्यतावच्छेदकत्वेनाभिमतो धर्मः, तदवच्छिन्न विषयकत्वव्यापकप्रतिबन्धकतात्वव्यापकमित्यर्थः । सामान्यपदस्य व्यापकत्वातिरिक्तार्थकताया वक्तुमशक्यत्वादिति भावः। यद्रूपावच्छिन्नविषयकत्वे तादृशप्रतिबन्धकतात्वव्यापकत्वञ्च व्यापकतासम्बन्धेनेति ध्येयम् । __ तादृशेति । तादृशं यद्रूपात्मकं यत् स्वावच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदकरूपं रूपान्तरं तदवच्छिन्नाविषयकप्रतीतिविषयतावच्छेदकत्वरूपस्य विशिष्टान्तराऽघटितत्वस्येत्यर्थः। विवक्षितत्वादिति । स्वस्मिन्नित्यादिः । न दोषः =न व्यभिचारघटितनिरुक्तबाधेऽव्याप्तिः । ॐ कलाविलासः प्रथमनचकल्पे यदि उभयत्रैव प्रतिबन्धकतावच्छेदकत्वमनतिरिक्तवृत्तित्वरूपं तदाऽसम्भववारणाय स्वस्मिन् विशिष्टान्तरतावच्छेदकरूपे चाऽव्यापकोभूतविषयिताशुन्यज्ञानीयविपयितानिरूपकतावच्छेदकत्वमपि निवेश्यम्, तथाच विपरीतवाधत्व-व्यभिचारस्वादिकमादायैव सर्वत्र लक्षणसमन्वयःकरणीय इति भावः । नचैवं हृदो वह्नयभाश्वान् हृदे वह्नयभाव इत्याकारकज्ञानद्वयसाधारणप्रति १० "Aho Shrutgyanam" Page #162 -------------------------------------------------------------------------- ________________ अनुमानगादाधर्यां सामान्यनिरुक्तिप्रकरणम् * गादाधरी * [ व्यभिचारस्य उक्तबाधविषयकत्वान्यूनवृत्तिव्याप्तिज्ञानप्रतिबन्धकतावच्छेदकविषयिताकत्व विरहेण तादृशघटितत्वस्याकिञ्चित्करत्वादिति वाच्यम् ] * चन्द्रकला निरुक्तकल्पे प्रमेयत्वविशिष्टव्यभिचारेऽतिव्याप्तिशंका तु नास्त्येव, मेयत्वविशिष्टव्यभि चारत्वावच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदकव्यभिचारत्वावच्छिन्नविषयितायाः प्र १४६ मेयत्वविशिष्टव्यभिचारत्वावच्छिन्न विषयकत्वव्यापकव्याप्तिग्रहप्रतिबन्धकतात्वव्यापकतया व्यभिचारत्वादेरेव तादृशविशिष्टान्तरतावच्छेदकत्वेन तदवच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदकत्वस्य तादृशविशिष्टव्यभिचारत्वे विरहात् प्रमेयत्वविशिष्टव्यभिचारवस्य स्वपदेनोपादानाऽसम्भवादित्यतस्तादृशातिव्याप्तिवारणकारणं अत्र नाभिहितम् । व्यभिचारत्वस्य विशिष्टान्तरतानवच्छेदकत्व एव व्यभिचारघटितवाधे नाडव्याप्तिरित्यभिमानेन तत्राव्याप्त्यभावे हेतुमाह व्यभिचारेति । व्यभिचारत्वावच्छिन्नध्य धूमाभाववधूमव्यभिचारिवह्निमत्त्वरूप वाघत्वावच्छिन्न विषयकत्वव्यापकव्याप्तिग्रहप्रतिबन्धकतानतिरिक्तवृत्तिविषयिताकत्वेऽपीत्यर्थः । तादृशेति । निरुक्तवाधत्वावच्छिन्नविषयकत्वव्यापक प्रतिबन्धकतात्ववति अनुमितिप्रतिबन्धकत्वे व्यभिचारविषयिताया व्यापकत्वसम्बन्धेन विरहेण तादृशवाधत्वरूपस्वावच्छिन्न विषयकत्वव्यापक प्रतिबन्धकतात्वव्यापकविषयिताकत्वविरहेणेत्यर्थः । तद्घटितत्वस्य=धूमव्यभिचारिवहयादिघटितत्वस्य । अकिञ्चित्करत्वादिति । तथाच व्यभिचारत्वस्य विशिष्टान्तरतानवच्छेदकतया कुतो व्यभिचारवटितवाघेडव्याप्तिरिति भावः । * कलाविलासः * बन्धकत्वं दुर्यचमितिवाच्यम्, स्वरूपत्वावच्छिन्न संसर्गातिरिक्तसम्बन्धानवच्छिन्नवह्नयभावत्वावच्छिन्न विषयतानिरूपिता या स्वरूपसंसर्गावच्छिन्नाधेयत्व संसर्गातिरिक्तसम्बन्धानवच्छिन्ना हृदत्वावच्छिन्नविषयता तच्छालिनिश्चयत्वेन तादृशज्ञानद्वयसाधारणप्रतिबन्धकतायाःउपादानसम्भवादित्यपि केचित् । प्रथमनचकल्पस्यानुगमस्तु-धर्मविशिष्टधर्मवत्त्वमिति, वैशिष्ट्यञ्च स्वतादात्म्यस्वविशिष्टनिश्चयत्वव्यापक प्रकृतानुमितिप्रतिबन्धकतात्व वच्च्चोभयसम्बन्धेन, स्ववैशिएयं निश्चये स्वावच्छिन्न विषयितावत्वसम्बन्धेन तादृशप्रतिवन्धकतात्ववखञ्च स्वव्यापकविषयितानिरूपकतावच्छेदकधर्मवत्वसम्बन्धेन विपयितायां स्वव्यापकत्वन्तु व्यापकत्वसम्बन्धावच्छिन्नम्, तादृशधर्मवत्त्वञ्च स्वावच्छिन्ना विषयकप्रतीतिविषयतावच्छेदकत्व -स्ववृत्तित्वोभयसम्बन्धेन स्ववृत्तित्त्वमपि स्वावच्छिन्नाविषयकमतीतिविषयतावच्छेदकत्व-स्वावच्छिन्न विपयित्वाऽव्यापकीभूतविषयिताशून्यज्ञानीय "Aho Shrutgyanam" Page #163 -------------------------------------------------------------------------- ________________ चन्द्रकला - कलाविलासाख्यटीकाद्वयोपेतम् 8 चन्द्रकला अत्र कल्पे विपरीतवाद्यत्वव्यभिचारत्वादिकमादाय यदि सर्वत्र लक्षणसमन्वयः क्रियते तदा बाधविशिष्टव्यभिचारेऽतिव्याप्तिः स्यात्, बाघविशिष्टव्यभिचारत्वावच्छि न्नाऽविषयकप्रतीतिविषयतावच्छेदकं यत् व्यभिचारविशिष्टवाघत्वं तस्य बाधविशिष्ट - व्यभिचारत्वरूपस्वावच्छिन्न विषयकत्वव्यापकानुमितिप्रतिबन्धकतात्वव्यापक विषयिता निरूपकतावच्छेदकतया विशिष्टान्तरतावच्छेदकयद्रूपात्मकत्वेन तदवच्छिन्नाऽविषयकबाघ विशिष्टव्यभिचारे १४७ प्रतीतिविषयतावच्छेदकबाधविशिष्टव्यभिचारत्वरूपस्ववत्त्वस्य सत्वात् । अतो निरुक्तातिव्याप्तिवारणाय विशिष्टान्तरतावच्छेदकात्मकलक्षणघटकयद्रूपे स्वावच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदकत्वस्य स्वावच्छिन्न विषयकत्वव्यापकानुमितिप्रतिबन्धकतात्वब्यापक विषयितानिरूपकतावच्छेदकत्वस्य च यथा विशेषणत्वं तथास्वावच्छिन्नविषयित्वाऽत्र्यापकीभूतविषयिताशून्यज्ञानीयविषयितानिरूपकतावच्छेदकत्व - मपि तत्र विशेषणं देयम् एवञ्च न बाधविशिष्ट व्यभिचारेऽतिव्याप्तिः, तादृशविशेषणत्रयविशिष्ट विशिष्टान्तरतावच्छेदकरूपस्याऽप्रसिद्धत्वात् । - > यतावच्छेदकत्वस्य, व्यभिचारविशिष्टवाघत्वे बाधविशिष्टव्यभिचारत्वावच्छिन्नाऽविषयकप्रतीतिविषबाघ विशिष्टव्यभिचारत्वावच्छिन्न विषयकत्वव्यापक प्रकृतानुमितिप्रतिबन्धकतात्वव्यापकविषयितानिरूपकतावच्छेदकत्वस्य च सत्त्वेऽपि बाघ विशिष्टब्यभि. चारस्वरूपस्वावच्छिन्न विषयित्वा व्यापकीभूता या व्यभिचार विशिष्टबाधत्वावच्छिन्ना विषयिता तच्छून्यज्ञानीयविषयितानिरूपकतावच्छेदकत्वस्य तत्राऽसत्त्वात् । बाघ विशिष्टव्यभिचारत्वे तादृशव्यभिचारत्वरूपस्वावच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदकत्वस्य केवलवाघत्वे व्यभिचारत्वे वा बाधविशिष्टव्यभिचारत्वावच्छिन्नविषयकत्वव्यापकानुमितिप्रतिबन्धकतासामान्यावच्छेदकविषयितानिरूपकतावच्छेदक - त्वस्य च विरहादन्यस्य कस्यापि धर्मस्य यद्रूपपदेनोपादानाऽसम्भवात् । तथा च हृदो धूमवान् वह्नेरित्यादौ सर्वत्र बाघव्यभिचारादावसम्भवः, धूमाभावविशिष्टहृदत्वरूपवाघत्वावच्छिन्न 15 विषयकप्रतीतिविषयतावच्छेदकहृदवृत्तिधूमाभाव त्वरूपविरीतबाधत्वादौ तादृशत्राघत्वावच्छिन्नविषयकत्वव्यापकानुमितिप्रतिबन्धकतात्व * कलाविलासः * त्वोपलक्षितविपयितानिरूपकतावच्छेदकत्वोभयसम्बन्धेन । व्यापकविषयितानिरूपकतावच्छेदकत्वसत्वेऽपि धूमाद्यभावविशिष्टहदत्वाद्यवच्छिन्नविषयित्वाऽव्यापकीभूतहृदवृत्तिधूमाभावत्वावच्छिन्न विषयिताशून्यप्रतीतिविषयतावच्छेदकत्व - "Aho Shrutgyanam" द्वितीयनचकल्पेऽपि श्रवच्छेदकत्वद्वयमनतिरिक्तिवृत्तित्स्वरूपमेव वाच्यमन्यथा द्वितीयावच्छेदकतायाः स्वरूपसम्बन्धरूपत्वे जलव्यापकवह्नयभावसमानाधिकरण Page #164 -------------------------------------------------------------------------- ________________ १४८ अनुमानगादाधर्या सामान्यनिरुक्तिप्रकरणम् * गादाधरी व्यभिचारत्वादिविशिष्टविषयकत्वावच्छिन्न प्रतिबन्धकतासामान्यावच्छेदकविषयितानिरूपकतावच्छेदकस्य तदवच्छिन्नाविषयकप्रतीतिविषयतावच्छेदकस्याप्रसिद्ध्याऽप्तम्भवात् , व्यभिचारत्वमेयत्वविशिष्टव्यभिचारस्वादेरेव तथाविधविषयितानिरूपकतावच्छेदकत्वात् , तस्य च व्यभिचारस्वाद्यवच्छिन्नाविषयकप्रतीतिविषयतावच्छेदकत्वाभावात् । न च स्वावच्छिन्नविषयकत्वावच्छिन्न प्रतिबन्धकतासामान्यावच्छेदक * चन्द्रकला * विरहादन्यस्य तादृशविशेषणत्रयाक्रान्तस्य धर्मस्याऽप्रसिद्धतया सर्वत्र विशिष्टान्तरतावच्छेकधर्मस्याऽप्रसिद्धरित्याशयेन निरुक्तकल्पं दूषयति व्यभिचारत्वादीति । लक्ष्यतावच्छेदकीभूतेत्यादिः। __ अप्रसिद्धिमेव दर्शयति व्यभिचारमयत्वेति । तस्य = व्यभिचारत्वस्य मेयत्वविशिष्टव्यभिचारत्वस्य च । विपरीतव्यभिचारत्वस्य तु व्यभिचारत्वाद्यवच्छिन्नविषयित्वाव्यापकविषयितामृत्यज्ञानीयविषयितानिरूपकतावच्छेदकत्वविरहादिति पूरणीयम् । निरुक्तव्यभिचारघटितबाधेऽव्याप्तिवारणाय द्वितीयनचकल्पमाह स्वावच्छिन्नेति । स्वं लक्ष्यतानवच्छेदकप्रमेयत्वविशिष्टवाधत्व-प्रमेयत्वविशिष्टव्यभिचारत्वादिकम् । तथाच स्वावच्छिन्नविषयकत्वव्यापकप्रकृतानुमितिप्रतिबन्धकतात्वव्यापकविषियतानिरूपकतावच्छेदको यत्किञ्चिद्धर्मःस्वावच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदको यस्य स्वस्य एवं भूतं यत् यत् स्वं तत्तदवच्छिन्नविषयकत्वाभावकूटवत्प्रतीतिविषयतावच्छेदकयद्पावच्छिन्नविषयकनिश्चयत्वव्यापकं प्रकृतानुमितित्वव्यापकप्रतिबध्यतानिरूपितप्रतिबन्धकत्वं तद्रूपवत्त्वं समुदितलक्षणार्थःपर्यवसितः । भवति हि हृदो वह्निमान्धूमादित्यादौ वह्नयभाववद्ह्रदरूपत्राधे धूमवान्वङ्क्षरित्यादौ च धूमाभावववृत्तित्वविशिष्ट. कलाविलासः * जलबद्धदरूपसत्प्रतिपक्षेऽव्याप्तिः, स्वपदेन निरुक्तसत्प्रतिपक्षतावच्छेदकधर्मस्यापि धर्तुं शक्यत्वात् , एवञ्च प्रथमावच्छेदकताया:स्वरूपसम्बन्धरूपत्वे पूर्ववदेव वह्वयभावविशिष्टहदादावव्याप्तिः, मेयत्वविशिष्टबाधत्वावच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदकनिरुक्तबाधत्वावच्छिन्नविषयकत्वावच्छिन्न प्रतिबन्धकतासामान्यावच्छेदकस्य पूर्वोक्तयुक्तयाऽप्रसिद्धः । सुतरामेवाव्यापकीभूतविषयिताशून्यत्वमपि उभयत्र निश्चये विवक्षणीयमिति भाव्यम् ।। यद्यपि विशिष्टान्तराऽघटितत्वविवक्षणे बाधत्वावच्छिन्नाविषयकप्रतीतिविषयतावच्छेदकं व्यभिचारविशिष्टप्रमेय व्यभिचारत्वावच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदकञ्च बाधविशिष्टभेयत्वादिकं तदाश्रयाऽविषयकप्रतोत्यप्रसिद्धयैवाऽस "Aho Shrutgyanam" Page #165 -------------------------------------------------------------------------- ________________ चन्द्रकला-कलाविलासाख्यटीकाद्वयोपेतम् १४६ * कलाविलासः * म्भवसम्भवे धूमव्यभिचारिवह्निमान् धूमवान्वह्वेरित्यत्र बाधेऽव्याप्तयभिधानमनुचितम् । तथापि स्वावच्छिन्नाऽविपयकप्रतीतिविषयतावच्छेदकप्रकृतानुमितिप्रतिबन्धकतानतिरिक्तवृत्तिविषयितानिरूपकतावच्छेदकरूपविशिष्टान्तरतावच्छेदकधर्मे प्रकृतानुमितिप्रतिबन्धकतानिरूपितस्वरूपसम्बन्धरूपावच्छेदकतावद्विषयितानिरूपकतावच्छेदकत्वस्यापि विवक्षणीयतया न तादृशप्रमेयत्वादिकमादायाऽसम्भव इति सुतरामव्याप्त्यभिधानम् । नचैन प्रसिद्धवह्नयभाववद्धदरूपत्राध एवाव्याप्तिः, तादशहदत्वावच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदकं यद् वयभावव्याप्यवद्ध्दत्व तदाश्रयाऽविषयकप्रतीतिविषयतावच्छेदकत्वस्य निरुक्तवाधत्वे विरहादिति वाच्यम्, वह्नयभावव्याप्यवद्ध्दत्वाश्रयाऽविषयकं यद् वह्नयभाववद्ध्दत्वेन घटावगाहिज्ञानं तद्विपयतावच्छेदकत्वस्य तादृशहदत्वरूपवाधत्वे सत्त्वात्तत्राऽव्याप्त्यसम्भवादिति ध्येयम् । द्वितीयनचकल्पे स्त्रावच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदकरवं यत्किञ्चिदपेऽनिवेश्य स्वानवच्छिन्नप्रकारतावच्छेदकत्वस्य तत्र विवक्षणे यादृशस्थले व्यभिचारविषयकं ज्ञानं नियमतो वाधविषयकमेव भवति ताशस्थले व्यभिचारेऽध्याप्तिः, वाधस्वरूपस्वावच्छिन्नविषयकत्वावच्छिन्न प्रतिबन्धकतासामान्यावच्छेदकत्वस्य स्वानवरिछनप्रकारतावच्छेदकत्वस्य च व्यभिचारत्वे सत्वेन स्वपदेन वाधत्वस्योपादातुं शक्यतया तदवच्छिन्नाऽविषयकप्रतीतिविषयतावरछेदकत्वस्य व्यभिचारत्वे विरहात् । नच तादृशं यद् यत् स्वं तदनवच्छिन्नप्रकारतावच्छेदकत्वमपि लघयतावच्छेदकीभूतयद्रूपे विवक्षणीयम्, तथासति न तादृशस्थले व्यभिचारेऽव्याप्तिः, तादृशवाधवानवच्छिन्नप्रकारतावच्छेदकत्वस्य व्यभिचारत्वे सत्वादिति वाच्यम्, यत्र मेयस्वविशिष्टवाधविषयकं ज्ञानं नियमतो मेयत्वविशिष्टव्यभिचारविषयकमेव भवति सत्र मेयत्वविशिष्टवाधेऽतिव्याप्त्यापत्तेः । मेयत्वविशिष्टवाधत्वरूपस्वावच्छिन्नविषयकस्वावच्छिन्नप्रतियन्धकतासामान्यान्तर्गतमेयत्वविशिष्टव्यभिचारस्वावच्छिन्नविषयित्वा - वच्छिन्न प्रतिबन्धकतावच्छेदकविपयितानिरूपकतावच्छेदकत्वस्य वाधत्वे विरहेण स्वपदेन मेयत्वविशिष्टवायत्वस्य धर्तुमशक्यतया स्वपदोपात्तमेयत्वविशिष्टव्यभिचारस्वानवच्छिन्नप्रकारतावच्छेदकत्वस्य मेयत्वविशिष्टवाधत्वेऽनपायात् । अस्मन्मते तु मेयस्वविशिष्टव्यभिचारत्वावच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदकत्वस्य मेयत्वविशिष्टवाधत्वे विरहान्नातिव्याप्तिः । तथाच स्वावच्छिन्नविषयित्वाव्यापकीभूतविपयि- . ताशून्यज्ञानीयस्वावच्छिन्नविषयिताव्यापकप्रकृतानुमितिप्रतिबन्धकतासामान्यावच्छेदकयद्रूपावच्छिन्न विषयित्वाव्यापकविपयिताशून्यज्ञानीयविषयितानिरूपकतावच्छेदको यःकश्चिद्धर्मः स्वावच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदको यस्य स्वस्थ एवम्भूतं यद् यत् स्वं तदवरिछन्नाऽविषयकप्रतीतिविषयतावच्छेदकत्वमेव लक्ष्यतावच्छेदकयद्रूपविशेषणमिति भावः । "Aho Shrutgyanam" Page #166 -------------------------------------------------------------------------- ________________ अनुमानगादाधय सामान्यनिरुक्तिप्रकरणम् * 'गादाधरी * विषयितानिरूपकतावच्छेदकः कश्चित् स्वावच्छिन्नाविषयकप्रतीतिविषयतावच्छेदको यश्य एवं भूतं यद्यत्त्वं “प्रमेयत्वविशिष्टव्यभिचारत्यादि” तद् १५० चन्द्रकला वह्निरूपे व्यभिचारे च लक्षणसमन्वयः, प्रमेयत्वविशिष्टवह्नयभाववदत्वादिरूपस्वावच्छिन्न विषयकत्वव्यापकपक्षवर्मिकसाध्यानुमितिप्रतिबन्धकतात्वस्य व्यापकतासम्बन्धेन व्यापिका या शुद्धवाधादिविषयिता तन्निरूपकतावच्छेदकयत् किञ्चिद्धर्मस्य वह्नयभावविशिष्टहृदत्वादेः प्रमेयत्वविशिष्टतादृशवाधत्वादिरूपत्वावच्छिन्नाविषयकप्रतीतिविषयतावच्छेदकतया स्वपदग्राह्यतादृशप्रमेयत्व विशिष्टवाधत्वाद्यवच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदकवलयभावविशिष्टहदत्व रूपयद्रूपावच्छिन्न विषयक निश्चयत्वव्यापकतायाः प्रकृतानुमितिप्रतिबन्धकतायां सत्वात्तादृशतद्रूपवत्त्वस्य वहयभावविशिष्टहृदादावृक्षतत्वात् । एवं प्रमेयत्वविशिष्टधूमाभाववद्वृत्तिवह्नित्वादिकं स्वपदेनादाय अनयैव रीत्या लक्षणसमन्वयो बोध्यः । धूमाभाववद्धूमव्यभिचारिवह्निमद्रूपवावेऽपि नाव्यातिः, तादृशत्राधत्वस्य तादृशबाधत्वरूपस्वावच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदकत्वाऽसम्भवात् स्वपदेन निरुक्तव्यभिचारघटितवाधत्वस्य धत्तुमशक्यत्वात् प्रमेयत्वविशिष्टव्यभिचारघटितचाधत्वमेव स्वपदेनोपादाय पूर्ववत्तत्रापि लक्षणसमन्वयसम्भवात् । मेयत्वविशिष्टव्यभिचारादौ तु अतिव्याप्तिशंका नास्त्येव, प्रमेयत्वविशिष्टव्यभिचारत्वरूपस्वावच्छिन्नाविषयकत्वव्यापकव्याप्तिग्रहप्रतिबन्धकतात्वव्यापकविषयितानिरूपकतावच्छेद की भूतस्वावच्छिनाऽविषयकप्रतीतिविषयतावच्छेदकयत् किञ्चिद्व्यभिचारत्वकं यत् स्वं प्रमेयत्वविशिष्टव्यभिचारत्वादिकं तदवच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदकत्वस्य स्वस्मि नसत्वेन तादृशयद्रूपपदेन प्रमेयत्वविशिष्टव्यभिचारत्वादेः उपादातुमशक्यत्वात् । प्रमेयत्वविशिष्टव्यभिचारत्वादेः मेयत्वविशिष्टव्यभिचारत्वरूपस्वावच्छिन्नविषयक त्वावच्छिन्नप्रतिबन्धकतासामान्यावच्छेदकविषयितानिरूपकतावच्छेदकधर्मस्य * कलाविलासः * श्रथैवमुक्तरूपे जलव्यापकवयभावसमानाधिकरणजलवदूधदरूप सत्प्रतिपक्षेऽव्याप्तिः तादृशजलवद्दत्वावच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदकस्य जल स्वाव व्यापकवह्नथभावकालीनजलत्रद्धदत्वस्य तादृशसत्प्रतिपक्षतावच्छेदकरूपावच्छिन्नविपयकत्वावच्छिन्नप्रतिबन्धकतासामान्यावच्छेदकतया स्वपदेन जलव्यापकवह्नयभावसमानाधिकरणजलवद्धदत्वस्यैवोपादानसम्भवादितिचेन्न ? श्रत्रापि तादृशयत् किञ्चिरूपावच्छिन्नविषयितायां स्वावच्छिन्न विषयित्वाऽव्यापकीभूतविषयिताशून्यज्ञानीयत्वस्य विवक्षणं यत्वादुक्ताव्याप्तेरसम्भवादिति केचित् । "Aho Shrutgyanam" Page #167 -------------------------------------------------------------------------- ________________ चन्द्रकला - कलाविलासाख्यटीकाद्वयोपेतम् * गादाधरी * १५१ वच्छिन्नाविषयकप्रतीतिविषयतावच्छेदकत्वस्य विवक्षणीयतया न दोष इति वाच्यम्, तथा सति धूमव्यभिचारिवह्निमान् धूमवान् वह्नेरित्यादौ बाधत्वायव * चन्द्रकला च्छिन्नाऽविषयकप्रतीतिविषयतानवच्छेदकत्वात् प्रमेयत्वविशिष्टव्यभिचारत्वादेः कस्यापि स्यपदेनोपादानाऽसम्भवादसम्भवः स्यादतस्तादृशनिरूपकतावच्छेदकः कश्चिदित्युक्तम् । तथाच यत् किञ्चितादृशधर्मस्य व्यभिचारत्वस्य प्रमेयत्वविशिष्टव्यभिचारत्वरूपस्वावच्छिन्नाविषयकप्रतीतिविषयतावच्छेदकत्वात् स्वपदेन तादृशविशिष्टव्यभिचारत्वमादायैव नाऽसम्भव इति ध्येयम् । तादृशस्वावच्छिन्नाविषयकप्रतीतिविषयतावच्छेदधर्मवत्त्वमात्रस्य यद्रूपावच्छिन्नविषयक निश्चयत्वेत्यादिना लक्षणाथत्वे विशेष्यदलाऽप्रवेशे घटादावतिव्याप्तिः, स्वपग्राह्यमेयत्वविशिष्टव्यभिचारत्वावच्छिन्नाविषयकप्रतीतिविषयतावच्छेदकघटत्वादि - धर्मवत्त्वस्य घटादात् । विशेष्यदलप्रवेशे तु न तत्राऽतिव्याप्तिः, घटत्वाद्यवच्छिं. न्ननिश्चयस्य प्रकृतानुमितावप्रतिबन्धकत्वादित्यन्यत्र विस्तरः । विवक्षणीयतयेति । विशिष्टान्तराघटितत्वद लेनेत्यादिः । निरुक्तद्वितीयनचकल्पं दूषयति तथासतीति । निरुक्तरीत्या लक्षणार्थस्य निर्वचने सतीत्यर्थः । तथाचोक्तकल्पे धूमव्यभिचारिवह्निमान् धूमवान् वह्नेरित्यादौ धूमाभाववडूम मव्यभिचारिवह्निमद्रूपबाध एवाव्याप्तिः धूमव्यभिचारिवह्निमत्त्वरूपस्वावच्छिन्न विषयकत्वव्यापकव्याप्तिग्रहनिरूपित प्रतिबन्धकतात्वव्यापक विषयितानिरूपकतावच्छे कतादृशस्वावच्छि नाऽविषयकप्रतीतिविषयतावच्छेदकोभूतो धूमव्यभिचारिवह्नित्वरूपः कश्चिद्धर्मो यस्थ धूमव्यभिचारिवह्निमत्त्वस्य एवम्भूतं यत् स्वं धूमव्यभिचारिवह्निमत्त्वं तदवच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदकत्वस्य लक्ष्यतावच्छेद उदकयद्रूपात्मक धूमाभाषवद्धूमव्यभिचारिवह्निमत्त्वरूपबाधत्वे विरहादित्याह धूमव्यभिचारीति । बाधत्वेति । धूमाभाववद्धूमव्यभिचारिवह्निमत्त्वरूपवाचत्याद्यवच्छिन्नार्थकम् | & कलाविलासः द्वितीयनचकल्पस्यानुगमस्तु धर्मविशिष्टधर्मवत्त्वं हेत्वाभासत्वम्, वैशिष्टयं स्वतादात्म्य-स्वविशिष्टनिश्चयश्वव्यापक प्रकृतानुमितिप्रतिबन्धकताकालीनधर्मवृत्तिधर्मावच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदकत्वोभयसम्बन्धेन, धर्मवृत्तित्वं धर्मे स्वावच्छिन्नविषयकत्वव्यापक प्रकृतानुमितिप्रतिबन्धकतात्यव्यापक विषयितानिरूपकतावच्छेदकत्व-स्वावच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदकत्व-स्वावच्छिन्नविषयित्वाऽव्या पकीभूतविषयिताशून्यज्ञानीयविषयितानिरूपकतावच्छेदकस्वैतत् त्रितयसम्बन्धेन । धूमव्यभिचारीति । नच विशेष्यदलघटकप्रतिबन्धकतावच्छेदकस्वस्य स्वपदार्थ "Aho Shrutgyanam" Page #168 -------------------------------------------------------------------------- ________________ १५२ अनुमानगादाधर्यां सामान्यनिरुक्तिप्रकरणम् * गादाधरी * च्छिन्नघटकतावच्छेदकस्य धूमव्यभिचारिवह्निमत्त्वादेः स्वावच्छिन्नाविषयकप्रतीतिविषयतावच्छेदकीभूतस्वावछिन्न विषयकत्वावच्छिन्नप्रतिवन्धकता - सामान्यावच्छेदकविषयितानिरूपकतावच्छेदकव्यभिचारत्वकत्वादव्याप्ते दुर्वारत्वात् । नच स्वावच्छिन्न विषयकत्वावच्छिन्नप्रतिबन्धकतासामान्यावच्छेद की भू * चन्द्रकला * स्वावच्छिन्नेति । धूमव्यभिचारिवह्नि मत्वरूपस्वावच्छिन्नार्थकम् । दुर्वारत्वादिति । स्वपदेन पचतावच्छेदकधूमव्यभिचारिवह्निमत्त्वस्य धतुं शक्यत्वादिति भावः । निरुक्ताव्याप्तिवारणार्थं पुनरपि तृतीयनचकल्पमाह स्त्रावच्छिन्नेति । स्वं लक्ष्यतावच्छेदकत्वेनाभिमतो धर्मः । तथाच स्वावच्छिन्न विषयकत्वव्यापक प्रकृतानुमितिप्रतिबन्धकतात्वस्य व्यापकतासम्बन्धेन व्यापकीभूतयत् किञ्चिद्विषयित्वं यादृशयादृशधर्मावच्छिन्नानरूपितं ताराता राधर्मावच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेकं यत् स्वं तादृशस्ववत्त्वं समुदितलक्षणार्थः पर्यवसितः । हृदो वह्निमान् धूमादित्यादौ वह्नय भावविशिष्टहदत्वात्मक वाचत्वरूपस्त्रावच्छिन्नविषयकत्वव्यापकतादृश साध्यानुमितिप्रतिबन्धकतात्वव्यापकीभूतायां वह्नय भावविशिष्टयत्किञ्चिद्भदविषयितायां वयमावपिशिष्ट दत्वावच्छिन्ननिरूपितत्वस्यावश्यकतया याहरायादृशधर्ममध्ये तादृशवह्नयभावत्वादेर पविष्टत्वात् घटत्वपटत्वादेरेव यादृशयाधर्मान्तर्गततया ताह घटत्वाद्यवच्छिन्नाऽनिरूपितत्वस्य तत्राऽक्षतत्वात् तादृशघटत्व पटत्वाद्यवच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदकवहयभावविशिष्टहदत्ववच्त्वरूपस्ववत्त्वस्य वह्न्यभावविशिष्टहृदादौ वर्त्तमानत्वात् तादृशबाधादौ लक्षणसमन्वयः । एवमन्यत्रापि । * कलाविलासः * विशेषणोपगमादेव स्वपदेन धूमव्यभिचारिवह्निमत्वमादाय व्यभिचारघटितवाव्याप्तिवारणसम्भवे द्वितीयन चकल्पे तन्त्राऽव्याप्तिदानमसंगतमिति वाच्यम्, तथासति बाधविशिष्टव्यभिचारेऽतिव्याप्तयापत्तेः धूमव्यभिचारिवह्निमत्वस्येव बाधवैशिष्टयस्यापि स्वपदेन धत्तु मयत्वात् । प्रकृतेबाघवैशिष्टयमादायैव तत्रातिष्यातेवरितत्वादिति ध्येयम् । तृतीयनचकल्पे अवच्छेदकताद्वयमेवात्र पूर्ववदनतिरिक्तवृत्तित्वरूपं वक्तव्यम्, - अन्यथा पूर्ववदेव द्वितीयावच्छेदकतायाःस्वरूप सम्बन्धरूपत्वे जलव्यापकत्रयभाव " Aho Shrutgyanam" Page #169 -------------------------------------------------------------------------- ________________ चन्द्रकला-कलाविलासाख्यटीकाद्वयोपेतम् १५३ * गादाधरी * तयत्किश्चिद्विषयित्वं यादृशयाशधर्मावच्छिन्नाऽनिरूपितं तादृशतादृशधर्मावच्छिन्नाविषयकप्रतीतिविषयतावच्छेदकं यत्स्वं तद्पावच्छिन्नत्यमेव समु. दितार्थः । * चन्द्रकला * प्रमेयत्वविशिष्टव्यभिचारत्वरूपस्वावच्छिन्न विषयकत्वव्यापकव्याप्तिग्रहप्रतिबन्धक - तात्वव्यापकशुद्धव्यभिचारत्वावच्छिन्ननिरूपितविषयितायाः प्रमेयत्वविशिष्टव्यभिचारत्वावच्छिन्नाऽनिरूपिततया यादृशयादृशधर्मान्तर्गतप्रमेयत्वविशिष्टव्यभिचारत्वा * कलाविलासः * समानाधिकरणजलवद्धदेऽव्याप्तिः, जलवद्धदरवावच्छिन्नविषयितायाःतादृशसत्प्रतिपक्षतावच्छेदकधर्मावच्छिन्नाऽनिरूपितत्वात् । एवञ्च प्रथमावच्छेदकतायाःस्वरूपसम्बन्धरूपत्वे हृदो वह्निमानित्यादौ पूर्ववदेवाव्याप्तिः, ज्ञानविशिष्टज्ञानादिसाधारणानुमितिप्रतिबन्धकतासामान्यानतिरिक्तवृत्तियत्किञ्चिद्विषयित्वाप्रसिद्धः । __अथोक्तकल्पेऽसम्भवः, बाधादिविषयकत्वावच्छिन्न प्रतिबन्धकतासामान्यावच्छेदकतादृशबाधादिविषयिताया बाधायेकदेशवृत्तिधर्मावच्छिन्नाऽनिरूपिततया तादृशधविच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदकत्वस्य बाधत्वादौ विरहादितिचेन्न, साक्षात्परम्परासाधारणनिरूपितत्वस्याभ्युपगमे बाधायेकदेशवृत्तिधर्मावच्छिन्नाऽनिरूपितत्वस्य बाधविपयितायामसम्भवात् तादृशधर्मावच्छिन्नाऽनिरूपितत्वमनिवेश्य · तादृशधर्मानवच्छिन्नप्रकारतावच्छेदकत्वस्य तादृशधर्मानवच्छिन्नविषयितानिरूपकतावच्छेदकत्वस्य वा विवक्षणे यादृशस्थलविशेषे मेयत्वविशिष्टव्यभिचारविपयकं ज्ञानं नियमतो बाधविपयकमेव भवति तत्र प्रमेयत्वविशिष्टव्यभिचारेऽतिव्याप्तिः, केवलव्यभिचारत्वावच्छिन्ननिरूपितविषयितायाः मेयत्वविशिष्टव्यभिचारत्वावच्छिन्नविषयकत्वावच्छिन्नप्रतिबन्धकतासामान्यान्तर्गतमाधनिश्चयप्रतिबन्धकतानवच्छेदकतया यत् किञ्चिद्विषयितापदेन व्यभिचारविषयिताया धर्तुमशक्यत्वात्, तादृशसमूहालम्बनज्ञा. नीयस्वावच्छिन्नविषयिताया धर्तव्यत्वेऽपि तत्र वाधवानवच्छिन्नप्रकारतावच्छेदकत्वस्य बाधत्वानवच्छिन्नविषयितानिरूपकतावच्छेदकत्यस्य बाधत्वावच्छिन्नानिरूपितत्वस्य सत्वेन तादृशविशेषणानां स्वस्मिन् वर्तमानत्वात् । अस्माकन्तु तादृशबाधत्वा. वच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदकत्वस्य मेयत्वविशिष्टव्यभिचारत्वे विरहानातिव्याप्तिरितिकेचित् । तृतीयनचकल्पस्यानुगमस्तु धर्मविशिष्टधर्मवत्त्वं हेत्वाभासत्वमिति, वैशिष्टयञ्च स्वतादात्म्य स्वविशिष्टधर्मावच्छिन्नाविषयकप्रतीतिविषयतावच्छेदकत्वोभयसम्बन्धेन, स्ववैशिष्टयं धर्मे स्वावच्छिन्नविषयकत्वव्यापकप्रकृतानुमितिप्रतिबन्धकतात्वव्यापकवि. पयितावृत्तित्वसम्पन्धेन, वृत्तित्वञ्च स्वावस्छिन्ननिरूपितत्वसंसर्गावच्छिन्नस्वनिष्ठाव "Aho Shrutgyanam" Page #170 -------------------------------------------------------------------------- ________________ अनुमानगादाधयां सामान्यनिरुक्तिप्रकरणम् ® गादाधरी * मेयत्वविशिष्टव्यभिचारत्वावच्छिन्नविषयकत्वावच्छिन्नप्रतिबन्धकता. सामान्यावच्छेदकी भूतायाः शुद्धव्यभिचारत्वाद्यवच्छिन्ननिरूपितविषयि ताया मेयत्वविशिष्टव्यभिचारत्वाद्यवच्छिन्नानिरूपितत्वेन तद्वच्छिन्नावि. षयकप्रतीतिविषयतावच्छेदकत्वस्य च स्वस्मिन्नसत्त्वेत मेयत्वविशिष्टव्यभिचारत्वादेः स्वपदेनोपादातुमशक्यत्वात्, व्यभिचारत्वादिविशिष्टविषयकत्वावच्छिन्नप्रतिबन्धकतासामान्यावच्छेदिकायाः कस्याश्चिदपि विपयि. तायाः व्यभिचारत्वादिविशिष्टानिरूपितत्वासम्भवात् , ताहशविषयिताया यादृशधर्मविशिष्टानिरूपितत्वं घटत्वमेयत्वविशिष्टव्यभिचारत्वादेरेव ताहशत्वात् तदवच्छिन्नाविषयकप्रतीतिविषयतावच्छेदकतया व्यभिचारत्वादेः स्वपदेनोपादातुं शक्यत्वाच्च न कश्चिद्दोपः । स चन्द्रकला वच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदकत्वस्य स्वस्मिन्प्रमेयत्वविशिष्टव्यभिचारत्वे विरहात् स्वपदेन प्रमेयत्वविशिष्टव्यभिचारत्वस्य धत्तु मशक्यत्वान्न तत्रातिव्याप्तिरित्याह मेयत्वेति । स्वस्मिन् प्रमेयत्वविशिष्टव्यभिचारत्वे । व्यभिचारादौ लक्षणसमन्वयम् प्रदर्शयति व्यभिचारत्वादीति । स्वर दग्राह्येत्यादिः । तादृशत्वात् = याशयाशधर्मान्तर्गतत्वात् । __ न कश्चिद्दोप इति । धूमाभाववधूमव्यभिचारिवह्निमत्त्वरूपस्वावच्छिन्नविषयकत्वव्यापकानुमितिप्रतिबन्धकतात्वव्यापकलायाः धूमव्यभिचारिवह्नित्वावच्छिन्नविषयितायां विरहेण तादृशव्यापकीभूतयत्किञ्चिद्विषयितापदेन निरुत्तव्यभिचारघटित. बाधविषयिताया एव धर्तव्यतया तत्रच घटत्वाद्यवच्छिन्नाऽनिरूपितत्वस्यावश्यकत्वेन तादृशघटत्वाद्यवच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदकव्यभिचारघटितवाधत्वरूपस्ववत्वस्य तादृशवाधादौ सत्त्वान्न कुत्राप्यव्याप्तिरतिव्याप्तिर्वा सम्भवतीति हृदयम् । ___ अत्र कल्पे विषयितायां यत्किञ्चित्त्वाऽनिवेशे प्रमेयत्वविशिष्ट व्यभिचारेऽतिव्याप्तिः, प्रमेयत्वविशिष्टव्यभिचारत्वरूपस्वावच्छिन्नविषयकत्वावच्छिन्नव्याप्तिग्रहप्रतिबन्धकतावच्छेदकविषयितासामान्यान्तर्गतायां प्रमेयत्वविशिष्टव्यभिचारविषयि ___ * कलाविलासः * च्छेदकताकप्रतियोगिताकभेदवरवसम्बन्धेन, विपयितायां तादृशप्रतिबन्धकतास्वव्या. पकरवन्तु स्वव्यापकत्वसम्बन्धेन । अथवाकल्पे अवच्छेदकताबयस्य स्वरूपसम्बन्धरूपत्वे पूर्ववदेवाव्याप्तवादिकं स्वयमूहनीयम्। "Aho Shrutgyanam" Page #171 -------------------------------------------------------------------------- ________________ चन्द्रकला - कलाविलासाख्य टीकाद्वयोपेतम् & गादाधरी अथवा यद्धर्मावच्छिन्न विषयकत्वावच्छिन्नप्रतिबन्धकता सामान्यावच्छेदकीभूतविषयितात्वं यद्धर्मावच्छिन्ननिरूपितत्वव्याप्यं तद्धर्मवत्त्वमेव समुदिताथ इति वाच्यम् । १५५ * चन्द्रकला * तायां प्रमेयत्वविशिष्टव्यभिचारत्वावच्छिन्ननिरूपितत्वसत्त्वेन यादृश्यादृशधर्ममध्ये तस्याऽप्रवेशात् यादृशयादृशघटत्वाद्यवच्छिन्नाऽनिरूपिता तादृशी विषयिता तादृशघटत्वाद्यवच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदकप्रमेयत्वविशिष्टविशिष्टव्यभिचार - त्वरूपस्ववत्त्वस्य प्रमेयत्वविशिष्टव्यभिचारेऽनपायादतो यत् किञ्चित्त्वं तादृशविषयिताविशेषणम् । तथा सति यत्किञ्चिद्विषयितापदेन शुद्धव्यभिचारविषयिताया एव धर्त्तव्यतया तत्रच प्रमेयत्वविशिष्टव्यभिचारत्वावच्छिन्न निरूपितत्वविरहान्न तत्राऽतिव्याप्तिः । यादृशयादृशेति वीप्सानादरेऽपि प्रमेयत्वविशिष्टव्यभिचारेऽतिव्याप्तिः प्रमेयत्वविशिष्टव्यभिचारत्वरूपस्वावच्छिन्न विषयकत्वावच्छिन्नप्रतिबन्धकतासामान्यावच्छेकयत् किञ्चिद्व्यभिचारविषयितायां यत् किञ्चिद्घटत्वाद्यवच्छिन्नाऽनिरूपितत्वस्यावश्यकतया तादृशवटत्वाद्यवच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदकस्ववत्त्वस्य प्रमेयत्वविशिष्टव्यभिचारे सच्चादतो यादृश्यादृशेतिवोप्सादरः । तथा सति यादृश्यादृशधर्मान्तर्गत प्रमेयत्वविशिष्टव्यभिचारत्वावच्छिन्नाऽनिरूपितत्वस्य तादृशशुद्धव्यभिचारविषयितायामक्षतत्वात् स्वस्मिंश्च प्रमेयत्व विशिष्टव्यभिचारत्वावच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदकत्वविरहान्न तत्राऽतिव्याप्तिरिति ध्येयम् । तृतीयचतुर्थनच कल्पयोर्दूषणस्य साम्यात् तृतीयनच कल्पे दूषणमदत्त्वैव चतुर्थनचकल्पमाह अथवेति । तथाच यद्धर्मावच्छिन्न विषयकत्वव्यापक प्रकृतानुमितिप्रतिब-न्धकतात्वस्य व्यापकतासम्बन्धेन व्यापकीभूतविषयितात्वव्यापकं यद्धर्मावच्छिन्ननिरूपितत्वं तद्धर्मवत्त्वं समुदितलक्षणार्थः पर्यवसितः । प्रमेयत्वविशिष्टव्यभिचारत्वावच्छिन्न विषयकत्वव्यापकव्याप्तिग्रहप्रतिबन्धकतात्वव्यापकीभूतविषयितात्वस्य शुद्धव्यभिचारविषयितायामपि सत्त्वेन तत्रच प्रमेयत्वविशिष्टव्यभिचारत्वावच्छिन्ननिरूपितत्वविरहात् यद्धर्मपदेन प्रमेयत्वविशिष्टिव्यभिचारचस्योपादानाऽसम्भवान्न तत्रातिव्याप्तिः । अत एव तादृशविषयितात्वे यद्धर्मावच्छिन्न निरूपितत्व सामानाधिकरण्यमनभिधाय * कलाविलासः * निरुक्तकल्पस्यानुगमो यथा धर्मविशिष्टधर्मवच्वं दोषत्वम्, धर्मवैशिष्ट्यं धर्मे स्वतादात्म्य-स्वविशिष्टविषयितात्वव्यापकत्वोभयसम्बन्धेन, स्ववैशिष्ट्यं विषयितायां "Aho Shrutgyanam" Page #172 -------------------------------------------------------------------------- ________________ १५६ अनुमानगादाधर्या सामान्यनिरुक्तिप्रकरणम् * गादाधरी - बाधविशिष्टव्यभिचारत्वावच्छिन्नेऽतिप्रसङ्गात् तादृशधर्मावच्छिन्नविषयकत्वावच्छिन्नबाधज्ञानप्रतिबन्धकतायां केवलव्यभिचारविषयितायां तादृशव्यभिचारज्ञानप्रतिबन्धकतायां च केवलबाधविषयिताया अनवच्छेदकत्वेन बाधविशिष्टव्यभिचारत्वाधवच्छिन्नविपयिताया एव तथाविधप्रति * चन्द्रकला * तादृशनिरूपितत्वव्याप्यत्वं तादृशविषयितात्वव्यापकत्वं वा तादृशनिरूपितत्वे वक्तव्यम् , अन्यथा प्रमेयत्वविशिष्ट व्यभिचारेऽतिव्याप्तिःस्यात्, प्रमेयत्वविशिष्टव्यभिचारत्वरूपयद्ध विच्छिन्नविषयकत्वावच्छिन्न प्रतिबन्धकतासामान्यावच्छेदकप्रमेयत्वविशिष्टव्यभिचारविषयितान्तर्भावेन तादृशविषयितात्वे प्रमेयत्वविशिष्टव्यभिचारत्वावच्छिन्ननिरूपितत्वसामानाधिकरण्यसत्त्वेन यद्धर्मपदेन प्रमेयत्वविशिष्ट व्यभिचारत्वस्यापि धत्तुं शक्यत्वात् । नवा व्यभिचारघटितबाधेऽव्याप्तिः, तादृशप्रतिबन्धकतासामान्यावच्छेदकव्यभिचारघटितबाधविषयितायां धूमाभाववभूमयभिचारिवह्निमत्त्वावच्छिन्ननिरूपितत्वस्याक्षतत्वात् । __हृदो वह्निमान् धूमादित्यादौ तादृश्यां वह्नयभावविशिष्टहृदविषयितायां वह्नयमावविशिष्टहदत्वावच्छिन्ननिरूपितत्वस्य धूमवान् वढेरित्यादौ च धूमाभाववृत्तित्वविशिष्टवह्निरूपव्यभिचारविषयितायां धूमाभावववृत्तित्वविशिष्टवह्नित्वावच्छिन्ननिरूपितत्वस्य च सत्त्वात् तत्र तत्र बाधव्यभिचारादौ लक्षणप्तमन्वयः । सर्वत्र प्रतिबन्धकतासामान्यनिवेशो व्यभिचारघटितबाधेऽध्यातिवारणार्थ एव । अन्यथा धूमाभाववधूमव्यभिचारिमत्वावच्छिन्नविषयकत्वव्यापकयकिश्चद्व्याप्ति. ग्रहप्रतिबन्धकतावच्छेदकव्यभिचारविषयितायां धूमाभाववधूमव्यभिचारिवह्निमस्वावच्छिन्ननिरूपितत्वविरहेण यद्धर्मपदेन निरुक्तबाधत्वस्योपादातुमशक्यस्यात् निरुक्तव्यभिचारघटितबाधेऽव्याप्तिः स्यात् ! एवं पूर्वपूर्वाकल्पेऽपि प्रतिबन्धकतासामान्यनिवेशस्थानयैव रीत्या व्यावृत्तिः स्वयमूहनीयेति दिक् । तृतीयनचकल्पे चतुर्थाथवेत्यादिकल्पे च बाधविशिष्टव्यभिचारेऽतिव्याप्तिवारणमशक्यमेव, बाधविशिष्ट व्यभिचारत्वरूपस्वावच्छिन्नविषयकत्वव्यापकप्रतिबन्धकतासामान्यावच्छेदकयक्किञ्चिविषयितापदेन केवल बाधविषयिता केवलव्यभिचारविषयिता वा धत्तं न शक्यते ? केवलबाधविषयितायाःतादृशप्रतिबन्धकतासामान्यान्तगंतव्याप्तिग्रप्रतिबन्धकतायामनवच्छेदकत्वात् , व्यभिचारविषयितायाश्च साध्यानुमितिप्रतिबन्धकतानवच्छेदकत्वात् , किन्तु बाधविशिष्टव्यभिचारविषयितैव ताह * कलाविलास: * स्वावच्छिन्नविषयकत्वव्यापकप्रकृतानुमितिप्रतिबन्धकतात्वव्यापकत्वसम्बन्धेन, वि. "Aho Shrutgyanam" Page #173 -------------------------------------------------------------------------- ________________ चन्द्रकला-कलाविलासाख्यटीकाद्वयोपेतम् १५७ ॐ गादाधरो बन्धकतासामान्यावच्छेदकत्वं, तस्यां च तादृशधर्मविशिष्टनिरूपितत्वस्यांवश्यकत्वात् प्रथमकल्पे स्वपदेन चरमकल्पे च यद्धर्मपदेन तस्योपादानसम्भवात्। अथ वह्नयभावादिधर्मितावच्छेदककवह्नयादिप्रकारकबुद्धरिव धूमव्यभिचारविशिष्टवह्नयादिधर्मितावच्छेदककस्य धूमव्याप्यतया वह्नयादिप्रकारकग्रहस्याऽनाहायस्याऽसम्भवेन तादृशपक्षतावच्छेदकावच्छिन्नपक्षकप्तमूहालम्बनानुमितेरप्रसिद्धथा तादृशानुमितिप्रतिबन्धकताघटितयथाश्रतलक्षणस्य तद्रूपावच्छिन्नपक्षकवह्नयादिहेतुकदोषेऽव्याप्ति स्वयमेव वक्ष्यतीति तद्वारणायाऽऽयासोऽयं वृथेति चेद् ? * चन्द्रकला शप्रतिबन्धकतासामान्यनिरूपिताऽवच्छेदकीभूता यत्किञ्चिद्विषयिता, तत्रच बाधविशिष्टव्यभिचारत्वावच्छिन्ननिरूपितत्वसत्त्वेन तत्र यादृशयादृशधर्मावच्छिन्नाऽनिरूपितत्वं वर्तते तादृशघटत्वाद्यवच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदकत्वस्य वाधविशिष्टव्यभिचारत्वे सत्वात् बाधविशिष्टव्यभिचारत्वस्याऽपि स्वपदेनोपादानसम्भवात् ।। अथवाकल्पे तु वाधविशिष्टव्यभिचारत्वावच्छिन्नविषयकत्वावच्छिन्न प्रतिबन्धकतासामान्यावच्छेदिकायां पूर्वोक्तयुक्तया वाधविशिष्टव्यभिचारविषयितायां वाधविशिष्टव्यभिचारत्वावच्छिन्ननिरूपितत्वस्याक्षततया यद्धर्मपदेन वाधविशिष्टव्यभिचारस्वस्य धत्तु शक्यत्वादित्याह वाधविशिष्टेति । वह्नित्वम् धूमवत् धूमाभाववद्वहित्ववत इत्यादौ धूमाभावववृत्तित्वविशिष्टधूमाभाववरहित्वरूपवाधविशिष्टतादृशवह्निरूपव्यभिचारे इत्यर्थ इति केचित् । ___ यद्यपि वह्नयभाववान् पर्वतो वह्निमान् धूमादित्यादौ वह्निविरोधिवढ्यभावामतावच्छेदकवह्निप्रकारकज्ञानस्याहार्यतया तादृशपक्षसाध्यकानुमित्यप्रसिद्ध्या तत्स्थलीयदोषे यथा दीधितिकृतैवाने अव्याप्तिर्वक्ष्यते तथा धूमव्यभिचारिवह्निधर्मितावच्छेदककधूमाभाववदवृत्तिवह्निरूपसाध्यव्याप्यहेतुप्रकारकज्ञानस्याप्याहार्यतया तत्स्थलीयदोषेडव्याप्तिः प्रतिबन्धकताघटितलक्षणे वारयितुं न शक्यते इति तद्वारणकारणानुसन्धानमनुचितमित्युच्यते तथापि न निस्तार इत्याह वह्नयभावादीति । स्वविरोधिधर्मधर्मितावच्छेदककस्वप्रकारकज्ञानस्याहार्यत्वादित्याशयः । धूमव्याप्यतया धूमाभाववदवृत्तितया । तादृशेति। धूमव्यभिचारिवह्निमत्वावच्छिन्नपक्षकधूमप्रकारकधूमव्याप्यवह्निप्रकारकसमूहालम्बनानुमितेरित्यर्थः । स्वयमेव-दीधितिकृतैव 8 कलाविलासः ॐ पयितास्वव्यापकत्वञ्च लक्ष्यतावच्छेदके स्वावच्छिन्ननिरूपितत्वसम्बन्धेनेति ध्येयम् । "Aho Shrutgyanam" Page #174 -------------------------------------------------------------------------- ________________ १५८ अनुमानगादाधयां सामान्यनिरुक्तिप्रकरणम् गादाधरी. भवतु तावदेवम् , तथापि विशेषगुणाभाववान् घटो गुणसामान्याभाववानित्यादौ दर्शितसमूहालम्बनानुमितिप्रसिद्धथा विशेषगुणवद्घटरूपाश्रयाऽसिद्धगुणवघटरूपबाधघटितायाः संग्रह आवश्यकः । यदि च तत्र घटत्वावच्छेदेन गुणवत्त्वमेव बाधः, अश्रयासिद्धिश्च तसामानाधिकरण्येन तदवच्छेदेन वा विशेषगुणवत्त्वम, तस्याश्च गुणत्वरूपसामान्यधर्मावच्छिन्नघटत्वव्यापकताघटितोक्तबाधस्य न प्रवेशः, विशेषगुणत्वेन घटत्वव्यापकतायास्तत्र प्रवेशेऽपि सामान्यरूपेण व्यापकतायास्त ॐ चन्द्रकला 0 विशिष्टान्तराऽघटितत्वनिवेशे पुनरव्याप्तिमाह विशेषेति । तथाच ताशविशिष्टान्तराऽघटितत्वाऽनिवेशे प्रमेयत्वविशिष्टव्यभिचारेऽतिव्याप्तिःस्यात्, तनिवेशे निरुक्तव्यभिचारधटितबाधेऽव्याप्त्यसम्भवेऽपि विशेषगुणाभाववान् घटो गुणसामान्याभाववान् घटस्वादत्यादौ विशेषगुणवद्धटरूपाश्रयासिद्धावव्याप्तिः, विशेषगुणवघटत्वावच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदकं यद् गुणवद्घटत्वरूपं याधत्वं तदवच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदकत्वस्य विशेषगुणवद्धटत्वे विरहात् निरुक्ताश्रयासिद्धित्वस्य स्वपदेन धत्तु मशक्यत्वादिति भावः । दर्शितेति । विशेषगुणवान् घटो गुणसामान्याभाववान् गुणसामान्याभावव्या. प्यघटत्ववांश्चेत्याकारकज्ञानस्य अनाहार्यत्वादितिहृदयम् । संग्रह आवश्यक इति । तथाच विशिष्टान्तराघटितत्वविशेषणदानानुपपत्तिः,मेयत्वविशिष्टव्यभिचारेऽतिव्याप्तिस्तु प्रकारान्तरेणैव धारणीयेत्याशयः । निरुक्तामव्याप्तिमपाक शंकते यदिचेति । घटत्वावच्छेदेन = घटत्वव्यापकगुणप्रतियोगिकसमवायसम्बन्धेन । गुणवत्त्वमेवेति एवकारात् घटत्वसामानाधिकरण्येन गुणवत्त्वस्य बाधत्वव्यवच्छेदः। विशेषगुणाभाव विशिष्टघटादावेव गुणसामान्याभावस्य साध्यतया तादृशपक्षे निरुक्तसाध्यावगाह्यनुमितेर्घटत्वसामानाधिकरण्यावगाहित्येन तादृशानुमितिम् प्रति सामानाधिकरण्येन गुणवत्त्वावगाहिनिश्चयस्याऽप्रतिबन्धकतया घटत्वसामानाधिकरण्येन गणवस्य बाधत्वं न सम्भवतीति भावः । घटत्वसामानेति।समवायत्वभात्रावच्छिन्नसम्बन्धेनेत्यर्थः। विशेषगुणवत्त्वमाश्रयासिद्धिरितिपूर्वेण सम्बन्धः । तस्याम्-विशेषगुणवद्घटरूपाश्रयासिद्धौ। न प्रवेशःनघटकत्वम् । कुतोन तादृशवाधस्य प्रवेशःहत्यत आह विशेषति। तत्र याश्रयासिद्धौ। सामान्यरूपेण = गुणत्वरूपेण । "Aho Shrutgyanam" Page #175 -------------------------------------------------------------------------- ________________ चन्द्रकला कलाविलासाख्यटीकाद्वयोपेतम् * गादाधरी * दनन्तर्भावादिति न तादृशाश्रयाऽसिद्धन्यसंग्रह प्रसङ्ग इत्युच्यते, तदापि विशेषगुणाभाववान् द्वितीयक्षणावच्छिन्नो घटो गुणसामान्याभाववानित्यादौ द्वितीयक्षणावच्छिन्ने घटे विशेषगुणवत्स्वरूपाश्रयासिद्धौ तदवच्छिन्ने घटे गुणवत्त्वरूपबाध प्रवेशस्यावश्यकत्वात्, लक्षणे च तत्संग्रहस्यावश्यकतया उक्तविशेषणदानानुपपत्तिः । १५६ ॐ चन्द्रकला तदनन्तर्भावात् = आश्रयासिद्धयनन्तर्भावात् । इत्युच्यत इति । तथाच विशेषगुणवद्घटत्वावच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदकतायाः प्रकृतानुमितिप्रतिबन्धकतानतिरिक्तवृत्तिविषयितानिरूपकतावच्छेदकतायाश्च गुणवद्घटत्वरूपबाधत्वे सत्त्वेऽपि गुणत्वावच्छिन्न व्यापकता घटिततादृशगुणवषटरूपबाधत्वावच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदकत्व रूपविशिष्टान्तराऽघटितत्वस्यापि तत्र सत्त्रेन न विशेषगुणवद्घटरूपाश्रयासिद्धावव्याप्तिरिति तु परमार्थः । समाधत्ते तदापीति । निरुक्तस्थले आश्रयाऽसिद्धावव्याप्तिवारणेऽपीत्यर्थः । तदवच्छिन्ने = द्वितीयादिक्षणावचिछन्ने । तत्संग्रहस्य = विशेषगुणवद्घटरूपाश्रयासिद्धिसंग्रहस्य | तथाचैकस्मिन्नेव द्वितीयक्षणावच्छिन्ने घटे विशेषगुणवत्त्वम् आश्रयाऽसिद्धिः, - गुणवत्त्वञ्च बाधस्तथासति निरुक्तद्वितीयक्षणावच्छिन्न विशेषगुणवद्घटरूपाऽश्रयाऽसि द्वेर्गुणवद्वितीयक्षणावच्छिन्नघट रूप वाघघटितत्वाद्विशिष्टान्तराऽघटितत्व विशेषणोपादाने यथोक्ताश्रयासिद्धावव्याप्तिवारणमशक्यं स्यादित्याशयः । उक्तविशेषणेति । विशिष्टान्तराऽघटितत्व रूपविशेषणदानाऽनुपपत्तिरित्यर्थः । प्रतिबन्धकताघटितलक्षणस्य निर्वह्निः पर्वतो वह्निमानित्यादिस्थलीय दोषेऽव्यातिमुक्त्वा तद्वारणाय अग्रे दीधितिकृतैवात्रवदन्तिकल्पो वक्ष्यते, तादृशकल्पस्यैव निष्कृष्टता * कलाविलासः * द्वितीयक्षणावच्छिन्न इति । देशकालाद्यवच्छिन्नतद्व्यक्तौ सामानाधिकरण्येनैव भावाभावयोविरोधित्वमित्याशयेनैवैतदभिहितमिति ध्येयम् । अथ पूर्वोक्तस्थल एव वैपरीत्येन गुणसामान्याभाववान् घटो विशेषगुणाभाववान् इत्यादिस्थले श्राश्रयासिद्धिघटितवाधेऽव्याप्तिसम्भवे स्थलान्तरानुसरणम् श्रनर्थके व्यापकताघटितविशिष्टसमवायघटितबाधस्य केवलसमवायघटिताश्रयासिद्धिघटितस्वादिति चेन्न ? संशयरूपपक्षताया अनुमितिहेतुत्ववादिनां मते तादृशस्थले गुणसामान्याभाववान् घटो विशेषगुणाभाववान्नवेतिसंशयस्याहार्यतया अनुमितेरेवाप्रसिद्धेः, तत्प्रतिबन्धकताघटित लक्षणस्य तत्र गमनाऽसम्भवादिति तु सुधीभिर्विभावनीयम् | "Aho Shrutgyanam" Page #176 -------------------------------------------------------------------------- ________________ अनुमानगादापय सामान्यनिरुक्तिप्रकरणम् गादाधरी वस्तुतस्तु 'अत्र वदन्ती' त्यादिनिष्कृष्टकल्पे मेयत्वविशिष्टव्यभिचारादिवारणाय विशिष्टान्तराऽघटितत्वस्य निवेशनीयतया दर्शितबाधाद्यसंग्रहः दोष एव । एतेन स्वावच्छिन्ननिरूपितविषयित्वावच्छिन्न यत्किञ्चित्प्रतिबन्धकताव - च्छेदकविषयिता कविशिष्टनिरूपित्तविषयितात्वव्यापकस्वावच्छिन्ननिरूप्यताकधर्मवत्त्वं समुदितलक्षणार्थः । * चन्द्रकला * १६० तत्कल्पेऽपि प्रमेयत्व विशिष्ट व्यभिचारेऽतिव्याप्तिवारणाय विशिष्टान्तराऽघटितत्वनिवेशस्यावश्यकतया तत्कल्पोकलक्षणे व्यभिचारघटितबाधस्य निरूकाश्रयाद्धिश्चासंग्रहो दोषाय भवति नतु प्रतिबन्धकताघटितलक्षणे तयोरसंग्रहो दोषमावहतीत्याह वस्तुतस्त्विति । निरुक्ताश्रयासिद्धौ प्रतिबन्धकताघटितलक्षणेऽपि नाडव्याप्तिरित्याह एतेनेति । परास्तमितिपरेणान्वयः । स्वावच्छिन्नेति । स्वं लक्ष्यतावच्छेदकत्वेनाभिमतो धर्मः । तथाच स्वावच्छिन्ननिरूपित विषयिताव्यापकयत् किञ्चित्प्रतिबन्धकतावच्छेदकविषयितानिरूपकीभूतविशिष्ट निरूपित विषयितात्वव्यापिका स्वावच्छिन्ननिरूप्यता यस्य स्वस्य एवं भूतं यत् स्वं तादृशस्ववत्त्वं विशिष्टान्तराऽघटितत्व सहितसमुदितलक्षणार्थः पर्यवसितः । * कलाविलासः एतेन स्वावच्छिन्नेति । अत्र कल्पे स्वरूपसम्बन्धरूपावच्छेदकत्वनिवेशे वृक्षः कविसंयोग्येतत्त्वादित्यादौ कपिसंयोगाभावववृक्षेऽतिव्याप्तिः यत् किञ्चित्प्रतिवन्धकतावच्छेदककपिसंयोगाभावववृक्ष विषयितात्वव्यापकत्वस्य कपिसंयोगाभावववृक्षत्वावच्छिन्ननिरूप्यतायां सत्त्वात् । श्रतः अनाहार्याऽप्रामाण्यज्ञानानास्कन्दिताव्याप्यवृत्तित्वभ्रमानास्कन्दितस्वावच्छिन्नविषयिताशालिनिश्चयत्वव्यापकत्वं प्र , तिबन्धकत्तायां निवेश्यम् । कल्पे विशिष्टद्वयाघटितत्वनिवेशो नास्ति । स्वावच्छिन्नविपयकत्वावच्छिन्नयत् ञ्चित्प्रतिबन्धकतायाः स्वरूपसम्बन्धरूपावच्छेदकत्वस्य लक्षणे निवेशनीयत्वात्, केवलजलवद्धदविषयिताया श्रपि प्रतिबन्धकतावच्छेदकत्वात्, तत्र च बह्नबभावत्रज्जलवद्वृत्तिजलत्रद्यदत्वावचिछन्ननिरूप्यतायाः श्रसत्त्वादित्यवधेयम् । निरुक्तकल्पस्यानुगमस्तु प्रकृतानुमितिप्रतिबन्धकताविशिष्टधर्मवत्त्वं हेत्वाभासत्वमिति, वैशिष्टयञ्च स्ववृत्त्यभावीयप्रतियोगितानिरूपितपरम्परयावच्छेदकतावत्वस्वावच्छेदकविषयितात्वव्यापकत्वोभयसम्बन्धेन, व्यापकता च स्वावच्छिन निरूपितत्त्वसम्बन्धेनेतिसंक्षेपः । "Aho Shrutgyanam" Page #177 -------------------------------------------------------------------------- ________________ चन्द्रकला-कलाविलासाख्यटीकाद्वयोपेतम् . १६१ ____ * गादाधरी * प्रमेयत्वविशिष्टव्यभिचारत्वादिकं नैतादृशं स्वं, तदवच्छिन्नविषयकत्वावच्छिन्नप्रतिबन्धकतावच्छेदकविषयिताकशुद्धव्यभिचारादिविषयितात्वस्य तदवच्छिन्ननिरूपितत्वाऽव्याप्यत्वात् । उक्तस्थले विशेषगुणविशिष्टघटा ॐ चन्द्रकला 3 ह्रदो वह्निमान् धूमादित्यादौ वह्नयभावविशिष्टहदस्वरूवाधत्वावच्छिन्नविषयकत्व व्यापकयकिश्चिद्वयनुमितिप्रतिबन्धकताया अवच्छेदकीभूतविषयिताकवह्नयभावविशिष्टहृदरूपविशिष्टनिरूपितवह्नयभावविशिष्ट हृदविषयितात्वव्यापकत्वस्य वह्नयभाववद्धदत्वरूपबाधत्वावच्छिन्ननिरूप्यतायां सत्वात् तादृशबाधत्वस्यैव स्वपदेन धत्त" शक्यतया वह्नयभावविशिष्टहृदादिरूपमाधादौ लक्षणसमन्वयः । एवमन्यत्रापि बोध्यः। प्रमेयत्वविशिष्टव्यभिचारत्वावच्छिन्नविषयक वव्यापकयकिश्चिद्व्याप्तिग्रहप्रतिबन्धकतावच्छेदकविषयितानिरूपककेवलव्यभिचाररूपविशिष्टनिरूपितविषयितायां प्रमेयत्वविशिष्टव्यभिचारत्वावच्छिन्ननिरूप्यताविरहेण तादृशविषयितात्वव्यापकस्वावच्छिन्ननिरूप्यताकत्वस्य प्रमेयत्वविशिष्टव्यभिचारत्वेऽसत्त्वात् स्वपदेन प्रमेयत्वविशिष्टव्यभिचारत्वस्योपादानाऽसम्भवादिति प्रथमतो विशिष्टान्तराऽघटितत्वनिवेश प्रयोजनकं प्रमेयत्वविशिष्टव्यभिचारेऽतिव्याप्तिवारणं दर्शयति प्रमेयत्वविशिष्टेति । : नैतादृशम् = न निरुक्तलक्षणाक्रान्तम् । कुत इत्याकांश्चायामाह तदवच्छिन्नेति । प्रमेयत्वविशिष्टव्यभिचारत्वावच्छिन्नार्थकम् । अव्याप्यत्वादिति । तादृशविषयितात्वव्यापकत्वस्य प्रमेयत्वविशिष्टव्यभिचारत्वावच्छिन्ननिरूप्यतायां विरहादित्याशयः। तादृशविषयितात्वसमानाधिकरणस्वावच्छिननिरूप्यताविवक्षणेऽपि प्रमेयत्वविशिष्ट व्यभिचारेऽतिव्याप्तिः, व्याप्तिग्रह प्रतिबन्धकतावच्छेदकविषयिताकप्रमेयत्वविशिष्टव्यभिचाररूपविशिष्टनिरूपितविषयिताल्ववत्याम् प्रमेयत्वविशिष्टव्यभिचारविषयितायां स्वात्मकप्रमेयत्वविशिष्ट व्यभिचारत्वावच्छिन्ननिरूप्यतायाःसत्त्वादतःस्वात्रच्छिन्ननिरूप्यतायां तादृशविषयितात्वव्यापकत्वनिवेशः । विशेषगुणाभाववान् द्वितीयादिक्षणावच्छिन्नो धयो गुणसामान्याभाववानित्यादावपि विशेषगुगवत्तादृशघटरूपाश्रयासिद्धौ नाव्यातिः, विशेषगुणवत्तादृशघटत्वादिरूपस्वावच्छिन्नविषयकत्वव्यापकयक्किञ्चित्यक्षतावच्छेदकविशिष्टपक्षग्रप्रतिबन्धकताया अ. वच्छेदकीभूतविषयिताकतादृशाश्रयाऽसिद्विरूपविशिष्ट निरूपितविषयितात्वव्यापकत्वस्य विशेषगुणवद्वितीयक्षणावच्छिन्नघटत्वरूपाश्रयासिद्धित्यावच्छिन्ननिरूप्यतायामशतत्वादित्याह उक्तस्थल इति । विशेषगुणाभाववान् घटो गुणसामान्याभाववानित्यादिस्थले इत्यर्थः । ११ "Aho Shrutgyanam" Page #178 -------------------------------------------------------------------------- ________________ १६२ अनुमानगादाधयां सामान्यनिरुक्तिप्रकरणम् 8 गादाधरी दिरूपाऽऽश्रयासिद्धथादिविषयकत्वावच्छिन्नविशिष्टपक्षाग्रहादिनिरूपितयत्किश्चित्प्रतिबन्धकताच्छेदकविषयिताकविशिष्टनिरूपितविषयितात्वस्य तादृशाश्रयासिद्धथादिनिरूपितत्वव्याप्यत्वात्तत्र लक्षण समन्वयः । प्रतिबन्धकतायां यावत्त्वानिवेशान्नोक्तरीत्या बाधविशिष्टव्यभिचारादावतिप्रसङ्गः । स्वावच्छिन्नाऽनिरूपितविशिष्टविषयित्वानवच्छिन्न यत्किंचित्प्रतिबन्धक ॐ चन्द्रकला ननु पूर्वोक्ततृतीयादिनचकल्पवदत्रापि कल्पे बाधविशिष्टव्यभिचारे कथं नातिव्याप्तिरित्यत आह प्रतिबन्धकतायामिति । लक्षणघटकीभूतायामित्यादिः । तथा च वाधविशिष्टव्यभिचारत्वावच्छिन्नविषयकत्वावच्छिन्नयत्किञ्चिद्व्याप्तिग्रहप्रतिबन्धकतावच्छेदकविषयिताकशुद्धव्यभिचारनिरूपितविषयितायां वाधविशिष्टव्यभिचारत्वावच्छिन्ननिरूप्यताया अभावात् तादृशविषयितात्वव्यापकनिरूप्यताकपदेन बाधविशिष्टव्यभिचारत्वस्योपादातुमशक्यत्वान्न बाधविशिष्टव्यभिचारेऽतिव्याप्तिरितिभावः। यावत्त्वानिवेशादिति । प्रतिबन्धकतायां यावत्त्वनिवेशे तु बाधविशिष्ट व्यभिचा. रेऽतिव्याप्तिःस्यात् , ताशयावत्प्रतिबन्धकतावच्छेदकविषयिताकविशिष्ट निरूपितविषयितात्वस्य बाधविशिष्टव्यभिचारविषयितायामेव सत्त्वेन तत्र बाधविशिष्टव्यभिचारत्वावच्छिन्न निरूप्यताया आवश्यकत्वात् , बाधविशिष्टव्यभिचारत्वस्यैव स्वपदग्राह्यत्वसम्भवादिति परमार्थः । निरुक्ताऽश्रयासिद्धाकव्याप्तिवारणाय लक्षणान्तरमायाह स्वावच्छिन्नेति । स्वं लश्यतावच्छेदकत्वेनाभिमतो धर्मः एवञ्च स्वावच्छिन्नाऽनिरूपिता या विशिष्टविषयिता & कलाविलासः ७ स्वावच्छिन्नाऽनिरूपितेति । यद्यद्धर्मावच्छिन्ननिरूपिता विषयिता लचयतावच्छेदकत्वेनाभिमतस्वावच्छिन्नाऽनिरूपिता भवति तत्तद्धर्मावच्छिन्ननिरूपितविषयिताव्यापकप्रतिवन्धकताभिन्ना या प्रकृतानुमितिप्रतिबन्धकता तादृशस्वावच्छिन्ननिरूपितविषयित्वव्यापिकेति निरुक्तलक्षणार्थःपर्यवसितः । व्यावृत्यादिकन्तु पूर्ववदेवानुसन्धेयम् । __ तथाच धर्मविशिष्टधर्मवत्वं हेत्वाभासत्वम्, वैशिष्ट्यञ्च स्वतादात्म्य-स्वविशिष्टविषयितानिरूपकतावच्छेदकधर्मविशिष्टान्यप्रतिबन्धकतावृत्तित्वोभयसम्बन्धेन, स्ववैशिष्ट्यं विषयितायां स्वावच्छिन्ननिरूपितत्वसम्बन्धावच्छिन्नस्वनिष्ठावच्छेदकताकप्रतियोगिताकभेदवत्व-स्वावच्छिन्नविषयित्वाव्यापकीभूतविषयिताशून्यज्ञानीयत्वोभयसबन्धेन, धर्मवैशिष्ट्यञ्च स्वावच्छिन्नविषयित्वव्यापकत्वसम्बन्धेन । "Aho Shrutgyanam" Page #179 -------------------------------------------------------------------------- ________________ चन्द्रकला कलाविलासाख्य टीकाद्वयोपेतम् * गादाधरी तावच्छेदकस्वावच्छिन्नविषयिताको यो धर्मस्तद्वत्त्वं समुदितलक्षणार्थः । प्रमेयत्वविशिष्टव्यभिचारत्वादिकं नैतादृशं स्वम्, तदवच्छिन्नानिरूपितशुव्यभिचारत्वाद्यवच्छिन्न विषयित्वावच्छिन्नायामेव प्रतिबन्धकतायां तदवच्छिन्नविषयिताया अवच्छेदकत्वात् । १६३ * चन्द्रकला * तदव्यापकीभूतायाः प्रकृतानुमितिप्रतिबन्धकताया अवच्छेदिका स्वावच्छिन्ननिरूपिता विषयिता यस्य स्वस्य एवम्भूतस्वात्मकधर्मवत्त्वं लक्षणार्थः समुदित इत्यर्थः । धूमवान् वह्नेरित्यादौ धूमाभाववद्वृत्तित्वविशिष्टवह्नित्वरूपव्यभिचारत्वाद्यवच्छिन्नाऽनिरूपितत्राधादिविशिष्ट विषयित्वानवच्छिन्न व्याप्तिग्रहप्रतिबन्धकतावच्छेदकतादृशव्यभिचारत्वरूपस्वावच्छिन्न विषयिताकधूमाभाववद्वृत्तित्वविशिष्टवह्नित्वरूपधर्मवत्त्वस्य ता- वह्निरूपव्यभिचारे सत्त्वात् व्यभिचारादौ लक्षणसमन्वयः । एवमन्यत्रापि । प्रमेयत्वविशिष्टव्यभिचारत्वावच्छिन्नाः निरूपित केवलव्यभिचारात्मकविशिष्टविषयित्वा व्यापकत्वरूपतादृश विशिष्ट विषयित्वानवच्छिन्नायां बाधादिनिश्चयनिष्ठायां साध्यानुमितिप्रतिबन्धकतायां अवच्छेदकत्वस्य प्रमेयत्वविशिष्टव्यभिचारत्वरूपस्वावच्छिन्ननिरूपितविषयितायामभावात्प्रमेयत्वविशिष्टव्यभिचारत्वस्य स्वपदेन वर्त्तुमशक्यत्वान्न प्रमेयत्व विशष्टव्यभिचारेऽतिव्यातिरित्याह नैतादृशं स्वमित्यादि । निरुक्तलक्षणाक्रान्तं नैतादृशं स्वमित्यर्थः । तदवच्छिन्नेति । प्रमेयत्वविशिष्टव्यभिचारत्वावच्छिन्नविषयिताया इत्यर्थः । अवच्छेदकत्वादिति । व्यभिचारविषयित्वानवच्छिन्नायान्तु प्रकृतानुमितिप्रतिबन्धकतयां प्रमेयत्वविशिष्टव्यभिचारविषयिताया अवच्छेदकत्वमेव न सम्भवतीति कुतः स्वपदेन प्रमेयत्वविशिष्टव्यमिचारत्वस्योपादानमिति हृदयम् । नवा बाधविशिष्टव्यभिचारेऽप्यतिव्याप्तिः, बावविशिष्टव्यभिचारत्वरूप स्वावच्छिनाऽनिरूपित केवलवावविषयित्वानवच्छिन्नायां केवलव्यभिचारविषयित्वानवच्छिन्नायां वा प्रतिबन्धकतायां अवच्छेदकत्वस्य बाधविशिष्टव्यभिचारत्वावच्छिन्ननिरूपितायां विषयितायामसत्त्वेन स्वपदेन बाधविशिष्टव्यभिचारत्वस्योपादानाऽसम्भवादिति तु विशेषगुणाभाववान् तत्त्वम् । घटो गुणसामान्याभाववानित्यत्राऽपि विशेषगुणवद्घटरूपाऽश्रयाऽसिद्धावव्याप्तिः, निरूपितगुणवद्घटरूपबाधविषयित्वावच्छिन्नपक्ष तावच्छेदकविशिष्ट पक्षग्रहप्रतिबन्धक न तादृशाश्रयासिद्धित्वरूपस्वावच्छिन्ना ताया अवच्छेदकीभूततादृशाश्रयाऽसिद्धित्वावच्छिन्ननिरूपितविषयिताकाश्रयासिद्धित्व "Aho Shrutgyanam" Page #180 -------------------------------------------------------------------------- ________________ १६४ अनुमानगादाधों सामान्यनिरुक्तिप्रकरणम् * गादाधरी उक्तस्थले चाऽऽश्रयासिद्धिविषयकत्वस्य तदनिरूपित बाधविषयित्वानव. च्छिन्ना बा विशिष्ट पक्षग्रहप्रतिबन्धकता तदवच्छेदकत्वाल्लक्षण समन्वय इति परास्तम् । ___ यद्विषयकनिश्चयस्य विरोधिविपयिताप्रयुक्त इत्यादिनिष्कृष्टकल्पे अनुमितिप्रतिबन्धकताया अघटकत्वात् प्रतिबन्धकतायां विशिष्टान्तरविषयकस्वानवच्छिन्नत्वविशेषणदानस्याऽसम्भवेन यत्पदार्थस्यैव तादृशपदार्थान्तराऽघटितत्वेन विशेषणीयतयोक्तबाधाऽव्याप्त रशक्यपरिहारत्वात् । अत्र केचित् । स्वस जातीयविशिष्टान्तराऽघटितत्वमेव यत्पदार्थे देयम् । चन्द्रकला रूपधर्मवत्त्वस्य विशेषगुणवघंटरूपाश्रयाऽसिद्धावक्षतत्वादित्याह उक्तस्थल इति । विशेषगुणाभाववान् द्वितीयादिक्षणावच्छिन्नो घटो गुणसामान्याभाववानित्यादिस्थले इत्यर्थः । परास्तमिति । निरुक्तरीत्या विशिष्टान्तराऽघटितत्वसहितस्य प्रतिबन्धकताघटितलक्षणार्थस्य निर्वचने विशेषगुणवद्घटरूपाश्रयाऽसिद्धौ लक्षणसमन्वयसम्भवेऽपि धूमव्यभिचारिवह्निमान् धूमवान् बढेरित्यादौ धूमाभाववद्धूमव्यभिचारिवह्निमद्रूपबाधे अव्याप्तिवारणमशक्यम् , तादृशपक्षसाध्यकसाध्यव्याप्य हेतुप्रकारकज्ञानस्याहार्यतया ता. दृशानुमितेरप्रसिद्धयाऽनुमितिप्रतिबन्धकताघटितलक्षणस्य ताशबाधे सत्त्वाऽसम्भवात् , निरुक्तरीत्या लक्षणार्थनिर्वचनस्यानावश्यकत्वात् वक्ष्यमाणात्रवदन्तिकल्पोक्तलक्षणेनैव सर्वसामञ्जस्यादिति भावः । निष्कृष्ट कल्पे--अत्रवदन्तीत्यादिनाभिहितलक्षणे, यत्पदार्थस्यैव-लक्ष्यतावच्छेदकयद्पपदार्थस्यैव । तादृशेति स्वावच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदकप्रकृतललक्षणाश्रयीभूतधर्मावच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदकत्वेनेत्यर्थः । उक्तबाधेति धूमव्यभिचारिवह्निमान् धूमवान् वढेरित्यादिस्थलीयबाधार्थकम् । निरुक्तस्थलीयबाधत्वस्य तादृशविशिष्टान्तरतावच्छेदकव्यभिचारत्वावच्छिन्नविषयकप्रतीतिविषयतावच्छेदकत्वादित्याशयः। प्रकारान्तरेण विशिष्टान्तराऽघटितत्वं निवेश्य धूमाभाववद्धुमव्यभिचारिवह्निमद्रूपबाधेऽव्याप्ति वारयतां मतं दूषयितुमुपन्यस्यति केचिदिति । पाहुरितिपरेणान्धयः । स्वसजातीयेति पत्र स्वपदं लक्ष्यतावच्छेदकत्वेनाभिमतधर्मपरं नतु लक्ष्यीभूत * कलाविलासः * स्वसजातीयेति । अत्र कल्पे अनुयोगिनि स्वत्वान्तर्भावमते अत्रवदन्त्युक्तलक्षघटकविरोधिविषयिताप्रयुक्तत्वदलस्य व्यर्थत्वमाशंकितं भट्टाचार्येण, तत् कथं "Aho Shrutgyanam" Page #181 -------------------------------------------------------------------------- ________________ चन्द्रकला-कलाविलासाख्यटीकाद्वयोपेतम् ६ गादाधरी साजात्यं च हेत्वाभासविभाजकरूपेण । तच रूपं - बाधत्वव्यभिचारत्वादि, विपरीतप्रमेयत्वविशिष्टव्यभिचारस्यैव ॐ चन्द्रकला पदार्थपरम्, तथासति व्यभिचारस्य प्रमेयत्वविशिष्टव्यभिचाराभिन्नतया तस्य विशिष्टान्तरत्वाऽनुपपत्त्या विशिष्टान्तरत्वेनोपादाय तदघटित प्रमेयत्वविशिष्टव्यभिचारेऽतिव्याप्तिः स्यात् एवञ्चाग्रेऽपि यत्पदार्थविशेषणमित्यस्य यद्रूपपदार्थविशेषणमित्येवमर्थः करणीय इति ध्येयम् । 3 तथा च स्वावच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदकोऽथच स्वाश्रयवृत्तिर्यो हेत्वाभास विभाजको धर्मः सामानाधिकरण्यसम्बन्धेन तद्विशिष्टं यद्रूपं तद्रूपावच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदकं यत् स्वं तद्वत्त्वं हेत्वाभासत्वमिति समुदितलक्षणार्थः । अत्र कल्पे घटत्वाद्याश्रये घटादौ हेत्वाभासविभाजकधर्मस्य वर्त्तमानत्वाप्रसिद्धया स्वपदेन वटत्वस्योपादानाऽसम्भवात् तत्राऽतिव्याप्त्यप्रसक्त्या तादृशस्वावच्छिन्ननिश्चयत्वव्यापकेत्यादिना पृथक् विशेष्यदलस्य प्रयोजनं नास्तीति मन्तव्यम् । भवति हि हदों वह्निमानित्यादौ बाधादौ लक्षणसमन्वयः, वह्नयभावविशिष्टहृदत्वावच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदकं यद् हृदवृत्तिवह्नयभावत्वरूपं विपरीतबाघत्वं वह्नयभावविशिष्टहृदत्वाश्रये तादृशहदे वर्त्तमानहेत्वाभासविभाजकी भूतबाधत्वरूपधर्मसमानाधिकरणं तदवच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदकवह्नयभावविशिष्टहृदत्वरूपस्ववत्त्वस्य ववभाववद्भदरूपवा सच्चात् । प्रमेयत्वविशिष्टव्यभिचारत्वं नैतादृशं स्वं तदवच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदकत्वस्य स्वाश्रयवृत्तिहेत्वाभासविभाजकव्यभिचारत्वसामानाधिकरण्यस्य शुद्धव्यभिचारत्वे वर्त्तमानतया तस्वच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदकत्वस्य स्वस्मिन् प्रमेयत्वविशिष्टव्यभिचारत्वे विरहात् । तश्च्च = हेत्वाभासविभाजकञ्च । नवा धूमव्यभिचारिवह्निमान् धूमवान् वलेरित्यादौ धूमाभाववद्धूमव्यभिचारिवह्निमद्रूपचाधेऽव्याप्तिः तादृशबाघत्वावच्छिन्नाविषयकप्रतीतिविषयतावच्छेदकत्वस्य धूमव्यभिचारिवह्नित्यादौ सच्चेऽपि तत्र तादृशV कलाविलासः छ संगच्छते ? यद्विषयकनिश्चयस्य विरोधिविपयिताप्रयुक्तो मयाभाव इत्यादिसमुदायस्यैव व्यर्थत्वसम्भवादिति चेदत्र केचित् — श्रव्याप्यवृत्तित्वभ्रमाभावविशिष्टयद्विपयकनिश्चयस्य विषयिताप्रयुक्तस्तदुत्तरानुमितौ तादृशोभयाभाव इत्येतावन्मात्रस्य वि शेग्यदलस्य निवेशेनैव सामन्जस्ये विरोधिपदं व्यर्थमित्यस्यैवाभिधाने ग्रन्थतात्पर्यादिव्याहुः । १६५ " Aho Shrutgyanam" च Page #182 -------------------------------------------------------------------------- ________________ १६६ अनुमानगादाधयां सामान्यनिरुक्तिप्रकरणम् गादाधरी तेन च रूपेण व्यभिचारादेर्न बाधादिसाजात्यमिति व्यभिचारघटितबाधादी नाऽव्याप्तिः। नचैवं यद्विषयकनिश्चयस्य विरोधिविषयिताप्रयुक्तोभयाभावस्तत्त्वमित्यत्र विरोधिविषयिताप्रयुक्तत्वदलस्य वैयर्थ्यम्, घटादेस्तादृशरूपेण सजातीयत्वाऽप्रसिद्धथैव तत्र नातिप्रसङ्ग इति वाच्यम् , स्वसजातीयविशिष्टान्तरघटितं यद्यत्स्वं तदविषयकप्रतीतिविषयत्ववि ॐ चन्द्रकला छ वह्निमत्त्वाश्रयवृत्तिहेत्वाभासविभाजकबाधत्वस्य सामानाधिकरण्यसम्बन्धेन विरहात् स्वसजातीयविशिष्टान्तरतावच्छेदकधर्मपदेन तादृशव्यभिचारत्वस्योपादातुमशक्यतया धूमव्यभिचारिवह्निमवृत्तिधूमाभावत्वरूपविपरीतबाधत्वे एव तथावस्यावश्यकतया तदवच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदकत्वस्य स्वस्मिन् धूमाभाववद्भूमव्यभिचारियह्निमत्त्वरूपबाधत्वेऽक्षतत्वादित्याह तेनेत्यादि । स्वाश्रयबाधवृत्तिहेत्वाभासविभाजकरूपेणेत्यर्थः। नाव्याप्तिरिति । तथाच व्यभिचारादौ सर्वत्रैव विपरीतव्यभिचारत्वादिकमेव विशिष्टान्तरतावच्छेदकत्वेनोपादाय लक्षणसमन्वयः करणीय इति भावः । ननु अत्रवदन्तिकल्पे अपि निरुक्तरीत्यैव विशिष्टान्तराऽघटितत्वस्य विवक्षणीयतया तत्कल्पे घटादावतिव्याप्तिवारण प्रयोजनकमेव यद्वि वयकनिश्चयीयविरोधिविषयिताप्रयुक्तत्वदलमिति स्वयमेव दीधितिकृता वक्ष्यते, तत् कथं संगच्छते ? घटादौ हेत्वाभासविभाजकरूपस्याऽवतमानतया स्वपदेन घटत्वादेधत्त मशक्यत्वादिति तादृशविरोधिविषयिताप्रयुक्तत्वदलोपादानं निरर्थकं स्यादित्याशंकते नचैवमिति । वाच्यमितिपरेणान्वयः । एवम् = स्वपदस्य लक्ष्यतावच्छेदकत्वेनाभिमतधर्मपरत्वे । इत्यत्र = एतादृशलक्षणे । ताशरूपेण = हेत्वाभासविभाजकरूपेण । नातिप्रसंग इति । घटादाबुदासीनेऽतिव्याप्तिवारणमात्रप्रयोजनवादुक्त प्रयुक्तत्वदलस्येति भावः । समाधत्ते स्वसजातीयेति । अत्र स्वपदं लक्ष्यतानवच्छेदकीभूतप्रमेयत्वविशिष्टव्यभिचारत्व-प्रमयत्वविशिष्टवाधत्वादिपरम् । तथाच स्वावच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदक स्वाश्रयवृत्तिहेत्वाभासविभाजकरूपसमानाधिकरणञ्च यद्रूपं तद्रूपावच्छिन्नविषयकप्रतीतिविषयतावच्छेदकं यद्यत् स्वं तत्तदवच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदकयद्रूपावच्छिन्नविषयकनिश्चयत्वव्यापिका प्रकृतानुमितिप्रतिबन्धकता तद्रूपवत्वं हेत्वाभासत्वमिति प्रतिबन्धकताघटितलक्षणस्य तादृशस्वावच्छिन्नाविषयकप्रतीति "Aho Shrutgyanam" Page #183 -------------------------------------------------------------------------- ________________ चन्द्रकला - कलाविलासापटीकाद्वयोपेतम् ॐ गादावरी वक्षणेन अनुयोगिनि स्वत्वानन्तर्भावेण पदार्थान्तरेषु अतिप्रसङ्गवारकतया तद्दल सार्थक्यात् । १६७ * चन्द्रकला * विषयतावच्छेदकद्र पावच्छिन्न विषयकनिश्चयोत्तराऽनुमितिसामान्ये तादृश निश्चयीयविरोधिविषयिताप्रयुक्तोभयाभावस्तद्र पवत्त्वमितिवक्ष्यमाणात्रवदन्ति कल्पोक्तलक्षणस्य चार्थः पर्यवसितः । तथाच न विरोधिविषयिताप्रयुक्तत्वदलानुक्तौ घटादावतिव्याप्तिदानाऽनुरपत्तिः, प्रमेयत्वविशिष्टव्यभिचारत्वरूपत्वावच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदकस्वाश्रयत्रत्तिहेत्वाभासविभाजकरूपसमानाधिकरणं यद् व्यभिचारत्वं तदवच्छिन्नविषयकप्रतीतिविषयतावच्छेदकस्वात्मकप्रमेयत्व विशिष्ट व्यभिचारत्वावच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदकयद्रूपपदेन घटत्वादेरुपादानसम्भवात् । अत एव तादृशयद्रूपवत्त्वमात्रोक्तौ घटादावतिव्याप्तिः स्यादतो यद्रूपावच्छिन्नविषयकनिश्चयत्वेत्यादिना विशेष्यदलमभिहितम् । एवञ्च हृदो वह्निमानित्यादौ प्रमेयत्वविशिष्टबाधत्वादिकमेव स्वपदेनोपादाय लक्षणसमन्वयः स्वयमूहनीयः । प्रमेयत्वविशिष्टव्यभिचारत्वस्य स्वपदेनोपादानात् तादृशस्वावच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदकयद्रपपदेन तस्योपादानाऽसम्भवान्न प्रमेयत्वविशिष्टव्यभिचारेऽतिव्याप्तिरिति तु तत्त्वम् । विवक्षयेति । विशिष्टान्तरघटितं यत् स्वं तदघटितत्वेनेत्यादिः । अनुयोगिनीति स्वसजातीयविशिष्यन्तराघटितत्यरूपाभावानुयोगिकोटावेव पूर्वकल्पे स्वत्व - स्य प्रवेशः, अत्रतु स्वसजातीयविशिष्टान्तरघटितं यत् स्वं तदघटितत्वरूपाभावप्रतियोगिकोटावेव स्वत्वस्य प्रवेश इति तात्पर्यम् । I पदार्थान्तरेषु = घयद्युदासीनेषु । तद्दलेति विरोधिविषयिताप्रयुक्तत्वद लेत्यर्थकम् । बाधविशिष्टव्यभिचा रत्वरूपस्त्राश्रयवृत्तिहेत्वाभासविभाजकरूासमानाधिकरण यद् व्यभिचारत्वं तदवच्छिन्न विषयकप्रतीतिविषयतावच्छेदकत्वस्य प्रमेयत्व विशिष्टव्यमिचारत्व इव बाधविशिष्टव्यभिचारत्वेऽप्यक्षतत्वात् प्रतियोगिनि स्वत्वान्तर्भाविकल्पे स्वपदेन वाघविशिष्ट व्यभिचारत्वस्याप्युपादातुं शक्यतया न बाधविशिष्टव्यभिचारेऽतिव्यासि: शंक्येतिध्येयम् । ननु प्रतियोगिनि स्वत्वान्तर्भावपक्षे प्रमेयत्वविशिष्टव्यभिचारादावतिव्याप्तिवारसम्भवेऽपि व्यभिचारविशिष्टमेयत्वेऽतिव्याप्तिवारणमशक्यं स्यात्, व्यभिचार विशिष्टप्रमेयत्वत्वाश्रये व्यभिचारविशिष्टप्रमेयत्वे हेत्वाभासविभाजकधर्माऽप्रसिद्ध्या स्वपदेन व्यभिचारविशिष्टमेयत्वत्वादेरुपादानाऽसम्भवात् प्रमेयत्वव्यभिचारत्वस्यैव स्वपदेन "Aho Shrutgyanam" Page #184 -------------------------------------------------------------------------- ________________ १६८ अनुमानगादाधयों सामान्यनिरुक्तिप्रकरणम् ® गादाधरी न च व्यभिचारविशिष्टमेयत्वादेहेत्वाभासत्वविरहात् हेत्वाभासविभाजकरूपेण स्वसजातीयाऽप्रसिद्धया तस्य स्वपदेनोपादातुमशक्यत्वात् मेयत्वविशिष्ट व्यभिचारत्वादिकमेव स्वपदेनोपादेयम् , तस्य शुद्धव्यभिचाराद्यभिनतया व्यभिचारत्वादिरूपहेत्वाभासविभाजकरूपेण तत्सजातीयप्रसिद्ध रिति तदविषयकप्रतीतिविषयत्वस्य व्यभिचारविशिष्ट मेयत्वादौ सत्वात्तत्रातिप्रसङ्ग इति वाच्यम् , विशिष्टान्तराऽघटितत्वेनाऽघटितस्य विशिष्टसाध्यसाधनग्रहाऽविरोधि * चन्द्रकला* धर्तव्यतया तदवच्छिन्नाऽविषयकप्रतीति विषयतावच्छेदकतायाः व्यभिचारविशिष्टमेय. त्वत्वे वर्तमानत्वात् तादृशावच्छेदकीभूतव्यभिचारविशिष्टमेयत्वत्वरूपयद्रूपावच्छिन्नविषयकनिश्चयत्वव्यापकतायाः प्रकृतानुमितिप्रतिबन्धकतायामनपायादित्याशंकते नचेति । वाच्यमितिपरेणान्वयः । तस्य = व्यभिचारविशिष्टमेयत्वत्वस्य । प्रमेयत्वविशिष्ट व्यभिचारे हेत्वाभासविभाजकव्यभिचारत्वसत्त्वं स्फुटीकरोति तस्येत्यादि । प्रमेयत्वविशिष्टव्यभिचारत्वस्येत्यर्थः । तत्रातिप्रसंग इति । प्रमेयत्वविशिष्टव्यभिचारत्वरूपस्वावच्छिन्नाऽविषयकप्रतीतिविषयावच्छेदकयद्रूपपदेन व्यभि. चारविशिष्ट मेयत्वत्वस्योपादातुं शक्यत्वादितिभावः। हेत्वाभासविभाजकधर्ममध्ये व्यभिचारत्वं न साध्याभाववद्वृत्तित्वादिविशिष्टहेतुतावच्छेदकरूपमपितु साध्यतावच्छेदकविशिष्टसाध्यग्रहत्वाऽव्यापिका साधनतावच्छेदकविशिष्टसाधनग्रहत्वाऽव्यापिका च या प्रकृतव्याप्ति ग्रहत्वव्यापिका प्रतिबध्यता तन्निरूपितप्रतिबन्धकतानतिरिक्तवृत्तिविषयितानिरूपकतावच्छेदकरूपवत्त्वम् , तच्च रूपं यथा प्रमेयत्वविशिष्टव्यभिचारत्वादिकं तथा व्यभिचारविशिष्टप्रमेयत्वत्वमपि । तथा च व्यभिचारविशिष्ट मेयत्वादावपि तादृशव्यभिचारत्वरूपहेत्वाभासविभाजकरूपप्रसिद्धया स्वपदेन तादृशमेयत्वत्वादेरुपादानसम्भवान्न व्यभिचारविशिष्टमेयत्वेऽतिव्याप्तिरित्येवं समाधत्ते विशिष्टान्तरेति । विशिष्टान्तराऽघटितत्वविशेषणशून्यस्येत्यर्थः । 8 कलाविलासः विशिष्टान्तराऽघटितत्वेनेति । अत्र धूमवान् अवृत्तिवढेरित्यादौ धूमाभाववद्वृत्तिवह्निरूपव्यभिचारेऽव्याप्तिः, निरुक्तव्यभिचारस्य व्याप्तिग्रहप्रतिबन्धकतानतिरिक्तवृत्तिविपयिताकत्वेन व्यभिचारसजातीयवृत्तिवह्निरूपसाधनाऽप्रसिद्विघटितत्वादतः साधनम्रहाऽविरोधित्वनिवेशः। एवं अवृत्तियतिकालीनधूमवान् वर्तरित्योदावपि "Aho Shrutgyanam" Page #185 -------------------------------------------------------------------------- ________________ चन्द्रकला-कलाविलासाख्यटीकाद्वयोपेतम् १६९ __ॐ गादाधरी ज्ञाननिष्ठविषयितासंबन्धेन व्याप्तिग्रहप्रतिवन्धकताऽनतिरिक्तवृत्तित्वादिरूप. स्य व्यभिचारादिविभाजकस्याऽत्र प्रवेशात्, तादृशरूपस्य च व्यभिचारविशिष्टप्रमेयत्वादिसाधारणत्वादित्याहुः । तन्न, व्यभिचारघटितबाधादावपि विशिष्टान्तराऽघटितत्वाऽघटितव्य चन्द्रकला तेन प्रमेयत्वविशिष्टव्यभिचारे विशिष्टान्तराऽघटितत्वविशेषणयुक्तस्य तादृशव्यभि. चारत्वस्याऽवर्तमानतया स्वपदेन तस्योपादानाऽसम्भवेऽपि न क्षतिरिति ध्येयम् । साध्यसाधनेति । विशिष्टसाध्यसाधनग्रहाऽप्रतिबन्धकनिश्चयनिष्ठविषयितासम्बन्धेनेत्यर्थः। व्याप्तिग्रहति । व्याप्तिग्रहत्वव्यापकप्रतिवध्यतानिरूपित प्रतिबन्धकत्वं यद्रूपविशिष्टनिश्चयत्वस्य व्यापकं तद्रूपस्येत्यर्थः । अत्र-प्रतियोगिकोटिप्रविष्टस्वत्वघटितलक्षणे । व्यभिचारविशिष्टेति । व्याप्तिग्रहप्रतिबन्धकतानतिरिक्तवृत्तिविषयितानिरूपकतावच्छेदकतायाःप्रमेयत्वविशिष्टव्यभिचारत्व इव व्यभिचारविशिष्टमेयत्वत्त्वेडप्यक्षतत्वादितिहृदयम् । वस्तुतस्तु प्रतियोगिनि स्वत्वान्तर्भावपक्ष स्वावच्छेदकविषयितानिरूपकतावच्छेदकत्वसम्बन्धेन स्ववृत्तिर्या विशिष्टपक्षसाध्यादिग्रहप्रतिबन्धकतान्यतमप्रतिबन्धकता तेन सम्बन्धेन तद्विशिष्टं यत् स्वावच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदकं रूपं तदवच्छिन्न विषयकप्रतीतिविषयतावच्छेदकं यद् यत् स्वं तत्तदवच्छिन्नविषयकत्वाभावकूटबद्यद्रूपावच्छिन्न विषयकनिश्चयत्वव्यापिका प्रकृतानुमितिप्रतिबन्धकता तद्रूपवत्वं हेत्वाभासत्वमित्येवैतन्मते प्रतिबन्धकताघटितलक्षणार्थो वक्तव्यः । तेन न वाधविशिष्टेऽसिद्धयादिविशिष्टे वा प्रमेयत्वादावतिव्याप्तिः शंकनीया। स्वपदं लश्यतानवच्छेदकप्रमेयत्वविशिष्ट व्यभिचारत्वादिरूपविशिष्टधर्मपरं, सर्वत्रैव तादृशप्रमेयत्ववि. शिष्टव्यभिचारत्वादिकमेव स्वपदेनोपादाय लक्षणं संगमनीयमिति तु युक्तमुत्पश्यामः । निरुक्तं मतं दूषयति तन्नेति । तथाच निरुक्तरीत्या व्यभिचारत्वादेर्निर्वचने धूमव्यभिचारिवह्निमान् धूमवान् वह्नरित्यादौ धूमाभाववभूमध्यभिचारिवह्निमद्रूपवाधेऽव्याप्तिस्तादृशवह्निमत्त्वरूपवाधत्ववृत्ति यत् विशिष्टान्तराऽघटितत्वाघटितं तादृशं * कलाविलासः * धूमाभावववृत्तिवह्निरूपव्यभिचारेऽव्याप्तिः, उक्तव्यभिचारस्य साधनग्रहाऽविरोधिव्याप्तिग्रहप्रतिबन्धकतानतिरिक्तवृत्तिविषयिताकत्वेन व्यभिचारसजातीयवृत्तिवह्निरूपविशिष्टान्तरसाध्याऽप्रसिद्विघटितत्वात् । अतःसाध्यग्रहाऽविरोधित्वनिवेशः । "Aho Shrutgyanam" Page #186 -------------------------------------------------------------------------- ________________ अनुमानगादाधर्या सामान्यनिरुक्तिप्रकरणम् गादाधरी भिचारत्वादिसत्त्वेन तद्घटकव्यभिचारादेव्यभिचारत्वादिना तत्सजातीयतया तत्संग्रहानुपपत्तेः । नच स्ववृत्तियावद्धत्वाभासविभाजकरूपेण साजात्यं विवक्षणीयं, त. थाच बाधादिघटकव्यभिचारादौ बाधत्वाद्यसत्त्वान्न तादृशबाधादिसजाती * चन्द्रकला * व्यभिचारत्वं तत्समानाधिकरणं ताशवाधत्वरूपस्वावच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदकं यत् धूमव्यभिचारिवाहित्वं तदवच्छिन्नविषयकप्रतीतिविषयतावच्छेदकताशबाधत्वरूपस्वावच्छिन्नाऽविषयक्रप्रतीतिविषयतावच्छेदकत्वस्य निरुक्तबाधत्वे विरहात् तस्य लक्षणघटकतादृशयद्रूपपदेन धर्तमशक्यत्वात् स्वपदेनैव तादृशबाधत्वस्योपादानसम्भवादित्याह व्यभिचारेति ।। तद्धटकेति तादृशबाधघटकेत्यर्थ कम् । तत्संग्रहेति व्यभिचारघटितबाधाऽव्याप्ते. रित्यर्थः । ननु प्रतियोगिनि स्वत्वान्तर्भावपक्षे स्ववृत्तिहेत्वाभासविभाजकरूपत्वव्यापकं यत् स्वावच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदकं रूपं तदवच्छिन्नविषयकप्रतीतिविषयतावच्छेदकं यत् स्वं तादृशस्वावच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदकत्वमेव यद्रूपे विशेषणं देयम्, व्यापकता च स्वावच्छिन्नविषयित्वावच्छिन्न प्रतिबन्धकतावच्छेदकविषयितानिरूपकतावच्छेदकत्वसम्बन्धेन । तथाच न व्यभिचारघटितबाधादाकव्याप्तिः, व्यभिचारघटितबाधत्ववृत्तिहेत्वाभासविभाजकरूपत्वस्य बाधत्वेऽपि सत्वेन तत्र व्यभिचारत्वस्योक्तसम्बन्धेन विरहात् व्यभिचारत्वस्य तादृशबाधत्ववृत्तिहेत्वाभासविभाजकरूपत्वाऽव्यापकत्वादित्याशंकते नचेति । वाच्यमितिपरेणान्ययः ।। स्ववृत्तीति । तादृशबाधत्वादिवृत्तिहेत्वाभासविभाजकरूपत्वव्यापकत्वमित्यर्थः । यावत्पदस्य व्यापकत्वार्थकत्वादित्याशयः। तादृशबाधेति व्यभिचारघटितबाधेत्यर्थकम् । * कलाविलासः स्ववृत्तियावद्धत्वेति । ननु धूमव्यभिचारिमत्वरूपस्वसजातीयविशिष्टान्तरधूमध्यभिचारिवह्नित्वरूपव्यभिचारत्वघटितं यत् स्वं धूमव्यभिचारिवह्निमत्वं तदवच्छिन्नाविषयकप्रतीतिविषयतावच्छेदकत्वस्य धूमाभाववद्धमव्यभिचारिवह्निमत्त्वरूपबाधत्वे विरहात् व्यभिचारघटितबाधेऽव्याप्तिरशक्यपरिहारेतिचेन्न , स्वसजातीयविशिष्टान्तरघटित यत् स्वं तदघटितत्वपदेन तदवच्छिन्नविषयित्वाऽव्यापकीभूतविषयिताशून्यज्ञानीयत्वोपलक्षितविषयितावत्त्व तदवच्छिन्न विषयकत्वोभयाभावयत्प्रतीतिविषयतावरुछेदकत्वस्य विवक्षितस्वात् , निरुक्तव्यभिचारघटितबाधविषयकप्रतीतेः धूमव्यभि "Aho Shrutgyanam" Page #187 -------------------------------------------------------------------------- ________________ चन्द्रकला - कलाविलासाख्यटीकाद्वयोपेतम् * गादाधरी * यत्वम्, अतस्तत् संग्रहसम्भव इति वाच्यम्, एवं सति बाधविशिष्टव्यभि चारादौ स्ववृत्तिबाधत्वव्यभिचारत्वादियावद्धर्मेण सजातीयविशिष्टान्तरस्य व्यभिचारविशिष्टबाधादेः प्रसिद्धावपि तद्घटितत्वाऽसत्त्वेन तत्रातिव्याप्तेः । तस्मात् व्यभिचारादिवटितबाधादेः संग्रहप्रकारोऽये प्रदर्शनीय एवाssदरणीयः । १७१ * चन्द्रकला * समाधानमाह एवं सतीति । स्ववृत्तियावद्धेत्वाभासविभाजकरूपेण साजात्यविवक्षणे सतीत्यर्थः । स्ववृत्तीति । व्यभिचारघटितबाधवृत्तित्राधत्वव्यभिचारत्वादियावद्धर्मेणेत्यर्थः । तदूर्घटितत्वेति व्यभिचारविशिष्ट बाघघटितत्वस्याऽसत्त्वेनेत्यर्थः । अतिव्याप्तेरिति । स्ववृत्तिहेत्वाभास विभाजकरूपत्वव्यापकत्वस्य स्वावच्छिन्नाविषयकप्रतीतिविषयतावच्छेदकधर्मविशेषणत्वे बाधविशिष्टव्यभिचारेऽतिव्याप्तिः, बाघविशिष्टव्यभिचारत्वरूपस्ववृत्तिचाधत्वादि प्रत्येकसमानाधिकरणं न व्यभिचारत्वं नवा बाघत्वम्, अपितु बाघविशिष्टव्यभिचारत्वरूपत्वावच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदकं व्यभिचारविशिष्टबाघत्वमेव, तदवच्छिन्न विषयकप्रतीतिविषयतावच्छेदकत्वस्य च बाधविशिष्टव्यभिचारत्वेऽसत्त्वात् स्वपदेन बाधविशिष्टव्यभिचारत्वस्योपादातुमशक्यत्वात् प्रमेयत्वविशिष्टव्यभिचारत्वस्य तादृशत्वेन स्वपदग्राह्यत्वसम्भवेऽपि तदवच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदकयद्रूपपदेन बाधविशिष्टव्यभिचारत्वोपादानस्यावश्यकत्वादिति भावः । अग्रे = अत्रवदन्तिकल्पे । आदरणीय इति । तथाच प्रतिबन्धकताघटितलक्षणे व्यभिचारघटितबाधादावव्याप्तिवारणप्रयासो निरर्थक इत्याशयः । * कलाविलासः चारिवह्निमत्त्वावच्छिन्न विषयकत्वेऽपि तादृशवह्निमच्चावच्छिन्न विषयित्वाऽव्यापकीभूतविषयिताशून्यज्ञानीयत्वोपलक्षितविषयितावत्त्वविरहेण तत्रोभयाभावस्याक्षतत्वातू । प्रमेयत्वविशिष्टिव्यभिचारविषयकमतीतौ तादृशोभयस्यैव सत्त्वेन न तत्रातिव्याप्तिरिति माञ्चः । ननु हेत्वाभासविभाजकरूपाणि यावन्ति तत्प्रत्येकाश्रयीभूतं यत् विशिष्टान्तरं द्घटितं यत् स्वं तदघटितत्व निवेशादेव बाधविशिष्टव्यभिचारे नातिव्याप्तिः, बाधविशिष्टव्यभिचारस्यापि बाधत्व- व्यभिचारस्वादिप्रत्येकाश्रयीभूतबाधव्यभिचारघटितस्वात्, व्यभिचारघटितबाधत्वं तु नैतादर्श स्वम्, तदाश्रयवृत्तिबाधत्वाश्रयबाधरूप "Aho Shrutgyanam" Page #188 -------------------------------------------------------------------------- ________________ १७२ अनुमानगादार्या सामान्यनिरुक्तिप्रकरणम् * दीधितिः * तेन प्रमेयत्वादिविशिष्टे व्यभिचारादौ नातिप्रसङ्गः । ___ * गादाधरी * मेयत्वविशिष्ट व्यभिचारादौ = ताशव्यभिचारत्वाद्यवच्छिन्ने, नातिप्रसङ्गः = न दोषत्वप्रसङ्गः । अत्र मेयत्वविशिष्टव्यभिचारो दोषः इत्यादिव्यवहाराभावान्नेष्टापत्तिः सम्भवति । न च विशिष्टव्यभिचारादौ शुद्धव्यभिचारत्वादिना दोषत्वस्याक्षततयोक्तविशेषणदानेऽपि ताशुव्यवहारापत्तिदुर्वा रैवेति, तवेष्टापत्तौ च व्यर्थं विशेषणमिति वाच्यम् , दोषादि पदस्य निरुक्तविशेषणावच्छिन्नानुमितिप्रतिबन्धकतावच्छेदकस्वावच्छिन्ननिरूपितविषयिताकत्वेनान्वयितावच्छेदक * चन्द्रकला * ननु प्रमेयत्वविशिष्टव्यभिचारस्य दोषत्वमिष्टमेवेति विशिष्टान्तराऽघटितत्वविशेषणदानमनर्थकमित्यत आह अत्रेति । निरुक्तलक्षणे इत्यर्थः ।। __ननु व्यभिचारो दोष इति व्यवहारस्य प्रामाणिकतया प्रमेयत्वविशिष्टव्यभिचारो दोष इत्यस्यापि व्यवहारस्य प्रामाणिकत्वमवश्यमभ्युपगन्तव्यम् , तथाचेष्टापत्तौ विशिष्टान्तराऽघटितत्व विशेषणं व्यर्थ स्यादित्याशंक्य समाधत्ते दोषादिपदस्येति । दोषव्यवहारविषयस्येत्यादिः । निरुक्तति । स्वावच्छिन्नाऽविषयकप्रतीतिविपयतावच्छेदकप्रकृतानुभितिप्रतिब ॐ कलाविलासः विशिष्टान्तरघटितत्वस्य तत्राऽसत्वात् इति चेन्न , यादृशस्थलविशेषे प्रमेयत्वविशिष्टव्यभिचारविपयकं ज्ञानं कदाचित् वह्नयभावविशिष्टहद विषयकमेव भवति कदाचिच्च वह्नित्वेन घटाद्यवगाहि वह्नयभाववद्धदविषयकमेव जायते नत्वनयोरन्यतरानवगाह्यपि भवति, तादृशस्थले प्रमेयत्वविशिष्टव्यभिचारेऽतिव्याप्तयापत्तेः, तादृशविशिष्टान्तरबाधघटितस्वात्मकबाधत्वावच्छिन्नाऽविषयकवह्नित्वेन घटावगाहिवह्नयभाववद्ध्रदविषयकप्रमेयत्वविशिष्टव्यभिचारविषयकप्रतीतिविषयतावच्छेदकत्वस्य प्रमेयत्वविशिष्टव्यभिचाररवेऽनपायादिति ध्येयम् । अथ हृदे वह्निसाधने धूमो दुष्ट इत्यादिवाश्यात् हृदविशेष्यकवह्निप्रकारकतादृशधूमप्रकारकानुभितिप्रतिबन्धकतानतिरिक्तवृत्तिस्वावेच्छिन्नविपयिताकधर्मावच्छिनसम्बन्धी धूम इत्याकारकबोधजननसम्भवेऽपि पर्वते वह्निसाधने धूमो न दुष्ट इत्यादिव्यवहारानुपपत्तिः, तादृशस्थले पर्वतविशेष्यकवलयादिप्रकारकानुमितिप्रतिबन्धकतानतिरिक्तवृत्तिविषयिताकधर्मस्यैवाप्रसिद्धतया तदवच्छिन्नसम्बन्धित्वा "Aho Shrutgyanam" Page #189 -------------------------------------------------------------------------- ________________ चन्द्रकला-कलाविलासाख्यटीकाद्वयोपेतम् १७३ * गादाधरी धर्मबोधकताया व्युत्पन्नतया प्रकृते च मेयत्वविशिष्टव्यभिचारत्वादिरूप. स्यान्वयितावच्छेदकस्योक्तविशेषणासत्त्वेनातिप्रसङ्गाभावादिति हृदयम् । नन्वाश्रयासिद्धथादिस्थल पक्षतावच्छेदकाभाववत्पक्षकत्वादिकमेव दोपस्तस्यैव हेतुनिष्ठतया हेतोदुष्टत्वव्यवहारनिर्वाहकत्वात् , तादृशधर्मस्य च * चन्द्रकला* न्धकतानतिरिक्तवृत्तिविषयतानिरूपकतावच्छेदकधर्मावच्छिन्नाऽविषयकप्रतीतिविषयता - वच्छेदकत्वरूपस्वपदार्थविशेषणविशिष्टान्तराऽघटितत्वावच्छिन्नस्वावच्छिन्ननिरूपिता या प्रकृतानुमितिप्रतिबन्धकतानतिरिक्तवृत्तिविषयिता सा यस्य स्वस्य एवम्भूतं यत् स्वं तत्वेन दोषान्वयितावच्छेदकतादृशस्वपदार्थबोधकताया इत्यर्थः ।। _प्रमेयत्वविशिष्टव्यभिचारत्वं नैतादृशं स्वमित्याह प्रमेयत्वेति । उक्तविशेषणविरहेण - विशिष्टान्तराऽघटितत्वविशेषणविरहेण । अतिप्रसंगाभावात् - प्रमेयविशिष्टव्यभिचारो दोष इति व्यवहारापत्तिविरहात् । व्यवहारं प्रति व्यवहत्तव्यज्ञानस्य जनकतया तादृशदोषव्यवहारेऽपि दोषत्वावच्छिन्नज्ञानस्य हेतुताया आवश्यकतया विशिष्टान्तराऽघटितत्वविशिष्टदोषतावच्छेदकतादृशव्यभिचारत्वज्ञानाऽसम्भवान्न प्रमेयत्वविशिष्टव्यभिचारो दोष इति व्यवहारः इति तु तत्त्वम् । एवञ्चेत्यादिदीधितिमवतारयति नन्वाश्रयाऽसिद्धथेति । काञ्चनमयपर्वतो वह्निमान् धूमादित्यादिस्थले काञ्चनमयत्वाऽभावविशिष्टपर्वतस्य आश्रयासिद्धिरूपदोषत्वाभ्युपगमे तादृशपर्वतस्य धूमरूपहेताववत्तमानतया धूमस्य दुष्टत्वानुपपत्तिः स्यात् , काञ्चनमयत्वाभावविशिष्टपर्वतकत्वस्य धूमादिहेतुनिष्ठत्वेऽपि तस्य काञ्चनमयस्वाभावविशिष्टपर्वतरूपविशिष्टान्तरघटिततया लक्ष्यत्वमेव न सम्भवतीति कस्याश्रयासिद्धित्वं स्वीकरणीयमित्यभिप्रायबानाहेतिसमुदितग्रन्यतात्पर्यम् । ____ * कलाविलासः * भावस्य तदवच्छिन्न सम्बन्धिभेदस्य वा नगा बोधयितुमशक्यत्वादिति चेदत्र केचित्-पर्वते वह्निसाधने धूमो न दुष्ट इत्यादावनन्यगत्या स्वज्ञानविषयप्रकृतहेतुतावच्छेदकत्वसम्बन्धेन स्ववृत्तितावच्छेदकत्वोपलक्षितधर्मावच्छिन्नविषयिस्वव्यापकत्वाभाववत्प्रकृतानुमितिप्रतिबन्धकताको धूम इत्याकारकस्यैव वोधस्य स्वीकारात् प्रथमं स्वपदं वयभावादिपरं, द्वितीयञ्च स्वपदं हेतुपरमित्याहुः। अन्ये तु पर्वते वह्विसाधने धूमो न दुष्ट इत्यादौ दुषधात्वर्थः प्रतिबन्धकत्वमात्रम्, तत्र अनुमित्यर्थकसाधनपदोत्तरसप्तम्यर्थनिरूपितत्वस्यान्वयः, तादृशनिरूपितत्वान्वितप्रतिबन्धकतायाश्च स्वानतिरिक्तवृत्तिविषयितानिरूपकतावच्छेदकध "Aho Shrutgyanam" Page #190 -------------------------------------------------------------------------- ________________ १७४ अनुमानगादाधर्या सामान्यनिरुक्तिप्रकरणम् दीधि तः एवञ्च पक्षतावच्छेदकादिविरहविशिष्टः पक्षः, पक्षनिष्टस्तद्विरहो वा, ® गादाधरी तादृशाऽभाववपक्षादिरूपतादृशविशिष्टान्तरघटिततयाऽव्याप्तिरित्यत आह एवश्चेति । तादृशविशेषणदाने चेत्यर्थः। आदिपदात् साध्यादिपरिग्रहः । पर्वतादिधर्मिककाम्चनमयत्वादिविशिष्टबुद्धौ पर्वतः काञ्चनमयत्वाभाववानित्यादिधर्मिविशेष्यकनिश्चयस्येव पवते काञ्चनमयत्वं नास्तीत्यादिध: म्मिविशेषणकनिश्चयस्यापि विरोधित्वमानुभविकमतस्तद्विषयस्यापि दोषत्व. माह पक्षनिष्ठ इति । आधेयतासम्बन्धेन पक्षविशिष्ट इत्यर्थः । समुच्चयार्थको वाकारः । * चन्द्रकला * तादृशेति विशिष्टान्तराऽघटितत्वविशेषणदाने चेत्यर्थः । तथाच तादृशस्थले काञ्चनमयत्वाभावविशिष्टपर्वत एवाश्रयाऽसिद्धिरिति न विशाष्टान्तरघटितत्वशंकापीति हृदयम् । साध्यादिपरिग्रह इति । तथाच साध्यतावच्छेदकाभावविशिष्टसाध्यमेव साध्याऽप्रसिद्धिः नतु तादृशसाध्यकत्वं, येन विशिष्टान्तरघटितत्वशंका पुनः स्यादिति तात्पर्यम् । __ ननु पर्वतः काञ्चनमय' इत्याकारकवुद्धौ काञ्चनमयत्वाभावविशिष्टपर्वतनिश्चयस्यैव प्रतिबन्धकतया पर्वतनिष्ठकाञ्चनमयत्वाभावनिश्चयस्यातथात्वात् कथं पर्वतादिनिष्ठकाञ्चनमयत्वाभावस्य दोषत्वं दीधितिकृताऽभिहितमित्यत आह पर्वतादिधर्मिकेति । पर्वतादिविशेष्यकेत्यर्थकम् । पर्वते काञ्चनमयत्वं नास्तीति । पर्वतनिष्ठः काञ्चनमयत्वाभाव इत्यादिपर्वतनिष्टप्रकारताकनिश्चयस्यापीत्यर्थः । विरोधित्वम् - प्रतिबन्धकत्वम् । आनुभविकमिति । तादृशनिश्चयोत्तरं काञ्चनमयत्वप्रकारकपर्वतविशेष्यकज्ञानस्यानुत्पाददर्शनादित्याशयः । तद्विषयस्य काञ्चनमयत्वाभावः पर्वते इत्याकारकज्ञानविषयविशिष्टस्य अपि । आधेयतेति । स्वरूपसम्बन्धावच्छिन्नेत्यादिः। ननु काञ्चनमयत्वाभावविशिष्ट पर्वत-पर्वतविशिष्टकाञ्चनमयत्वाभावयोद्धयोरेवाश्रयासिद्धितया तद्विरहो वेल्यत्र वाकारो निरर्थकः, पूर्वस्य व्यवच्छेदाऽसम्भवादतआह वाकार इति । तथाचोक्तसमूहस्यैव दोषत्वसूचनाय वाकार इति भावः । * कलाविलासः विच्छिन्नसम्बन्धित्वसम्बन्धावच्छिन्नप्रतियोगिताकत्वसम्बन्धेन नअर्थाभावेऽन्वयः, ताशाभावस्य निष्टार्थाश्रयेऽन्वयः, श्राश्रयस्य चाभेदेन प्रथमान्तार्थे धूमादावित्या "Aho Shrutgyanam" Page #191 -------------------------------------------------------------------------- ________________ चन्द्रकला-कलाविलासाख्यटीकाद्वयोपेतम् * दीधितिः * साध्याभावववृत्ति साधनं, साधनववृत्तिस्साध्याभावो वा हेतुदोषः । येन केनापि सम्बन्धेन * गादाधरी * साधनवद्वृत्तिः साध्याभाव इति। साधनधर्मिकसाध्याभावववृत्तित्वप्रकारकज्ञानं साधनधर्मिकव्याप्तिमप्रतिबन्धकम् । साधनवति साध्याभाव इति ज्ञानेऽपि साधने साध्याभावववृत्तित्वं तुल्यवित्तिवेद्यतया नियमतो भासत इति तदपि व्याप्तिज्ञानप्रतिबन्धकमितिमताभिप्रायेण । तादृशज्ञाने नियमतस्तदभानेऽपि मणिमन्त्रादिन्यायेन तस्यासमानविशेष्यकस्यापि व्याप्तिज्ञानप्रतिबन्धकत्वमिति प्राचीनमताभिप्रायेण वा । दोष इति ! नतु पक्षतावच्छेदकाभाववत्पक्षकत्वादिमिति शेषः । तथाचालक्ष्यत्वान्न तत्राव्याप्तिरिति भावः ।। ननु पक्षतावच्छेदकाभाववत्पक्षादीनां हेत्ववृत्तित्वात् कथं हेतौ दुष्टताव्यवहार इत्यत आह येन केनापीति । एकज्ञानविषयत्वादिने ॐ चन्द्रकला हेतुमनिष्ठसाध्याभावस्य व्यभिचारत्वं संगमयति साधनधर्मिकेति । प्रकृतहेतुविशेष्यकेत्यर्थकम् । साधनववृत्तीति । श्राधेयतासम्बन्धेन हेतुमद्विशेषणकः साध्याभाव इत्यर्थः । इति ज्ञानेपि = इत्याकारकनिश्चयेऽपि । साधने = हेतौ। तुल्यवित्तीति । स्वप्रयोजकसामग्रीजन्यग्रहविषयतया एकज्ञानविषयतया वेत्यर्थः। __ भासत इति । हेतुमनिष्ठसाध्याभाव इत्याकारकज्ञानकाल एव तादृशज्ञानीयसाध्याभावविशेष्यतानिरूपितस्वरूपसम्बन्धावच्छिन्नाधेयत्वसम्बन्धावच्छिन्नप्रकारतानिरूपितहेतुतावच्छेदकसम्बन्धावच्छिन्नावच्छेदकता-साध्याभावववृत्तित्वप्रकारतानिरूपितविशेष्यत्वावच्छिन्ना तादृशावच्छेदकतात्वादित्याकारकं समूहालम्बनं तादृशं हेतुनिष्ठसाध्याभावववृत्तित्वावगाहिज्ञानं भवतीति हृदयम् । ___ मतान्तरमाह तादृशज्ञान इति । साधनवन्निष्ठसाध्याभाव इत्याकारकशाने इत्यर्थः । नियमत इति । अनुमानादिनेत्यादिः । तदभानेऽपि = हेतौ साध्याभाववद्वृत्तिल्वाऽविषयकत्वेऽपि । तस्य = हेतुमति साध्याभाव इति निश्चयस्य । तथाच हेतुमनिष्ठसाध्याभावस्य प्राचीनमतमवलम्ब्यव दोषत्वमभिहितमिति भावः। शेषं पूरयति लत्विति । तत्र = पक्षतावच्छेदकाभाववत्पक्षकत्वे । काञ्चनमयः पर्वतो वह्निमान् धूमादित्यादौ काञ्चनमयत्वाभाववत्पर्वतस्यैव लक्ष्यतया आश्रयासिद्धित्वे ताशपर्वतस्य धूमादिहेतावसत्त्वात् हेतोर्दुष्टत्वव्यवहारो न स्यात् , व्यवहतव्यज्ञानाऽसम्भवादित्याक्षिप्य येन केनापीति दीधितिमुत्थापयति नन्विति । कथमिति । कारणाभावादित्यादिः । "Aho Shrutgyanam" Page #192 -------------------------------------------------------------------------- ________________ १७६ अनुमानगादाधयाँ सामान्यनिरुक्तिप्रकरणम् दीधितिः तद्वांश्च प्रकृतहेतुर्दुष्टः। 8 गादाधरी 8 त्यादिः । तद्वान् तदवच्छिन्नः, दुष्टः= दुष्टपदप्रतिपाद्यः । तथाच हेतौ तादृशदोषानधिकरणत्वेऽपि न क्षतिः । दुष्ट इत्यादौ सामान्यतः सम्बन्धिन एव निष्ठार्थत्वत् । एवं च एकज्ञानविषयत्वादिना वह्नयभाववद्हृदादिरूपदोषस्य धूमादौ सत्त्वेऽपि पर्वतादौ वह्नयादिसाधने तस्य दुष्टत्वव्यवहारविषयतायास्तद्रूपावच्छिन्नपक्षसाध्यहेतुवाचकपदसमभिव्याहारस्थले तद्रूपावच्छिन्नपक्षसाध्यहेतुकानुमितिप्रतिबन्धकतावच्छेदकस्वावच्छिन्ननिरूपितविषयिताकधम्र्मावच्छिन्नसम्बन्धी दुष्टपदेन बोध्यते, ईदृशव्युत्पत्त्या पूर्ववद्वारणेऽपि पूर्ववदेव वह्निना धूमसाधने रासभो दुष्ट इत्यादिव्यवहारो निरुक्तदोषमात्रस्य दुष्टत्वव्यवहारविषयतावच्छेदकत्वे दुर्वार इति प्रकृतहेतुतावच्छेदकविशिष्टसम्बन्धो निष्ठार्थतावच्छेदको वाच्यः । * चन्द्रकला दुष्टपदेति दुष्टपदजन्यप्रतीतिविषयतावानित्यर्थः । हेतोः-धमादेः। ताहशेति काञ्चनमयत्वाद्यभाव विशिष्टपर्वतादिरूपदोषानधिकरणत्वेऽपीत्यर्थः । सम्बन्धिनः = सम्बन्धमात्रविशिष्टस्य । निष्ठार्थत्वात् = दूषधातूत्तरनिष्ठाप्रत्ययार्थत्वात् । नन्वेकज्ञानविषयतासम्बन्धेन दोषसम्बन्धिन एव दुष्टत्वे वह्नयभाववान् हृदो धुमश्चेत्याकारकैकसमूहालम्बनशानविषयताया धूमे सत्वेऽपि पर्वतादौ वह्निसाधने धूमो दुष्ट इतिव्यवहारो यदि न सम्भवति, तादृशस्थले पर्वतपक्षकवह्निसाध्यकधमहेतुकानुमितिप्रतिबन्धकतानतिरिक्तवृत्तिविषयितानिरूपकतावच्छेदकधर्मावच्छिन्नसम्बन्धी धूम इत्येवं समुदितशब्दार्थतया तादृशनिरूपकतावच्छेदकधर्माऽप्रसिद्धथा तादृशवाक्यार्थज्ञानाऽसम्भवेन व्यवहर्त्तव्यज्ञानाऽभावात् , तथापि वह्निना धूमसाधने रासभो दुष्ट इतिव्यवहारापत्तिः स्यात् , वह्निहेतुकधूमसाध्यकानुमितिप्रतिबन्धकतानतिरिक्तवृत्तिविषयितानिरूपकतावच्छेदकधूमाभाववद्वृत्तित्वविशिष्ट वह्नित्वावच्छिन्नस्य रासभविषयकसमूहालम्बनैकज्ञानविषयतासम्बन्धन सम्बन्धिताया रासभे सत्त्वेन व्यवहर्त्तव्यज्ञानरूपकारणवाधाऽसम्भवादित्याशंक्य प्रकृतहेतुरित्युक्तिं समर्थयति एवञ्चत्यादिना ! सम्बन्धिमात्रस्य निष्ठार्थत्वे इत्यर्थः । तद्पावच्छिन्नेति । पक्षतावच्छेदकावच्छिन्न पक्षकसाध्यतावच्छेदकावच्छिन्नसाध्यकहेतुतावच्छेदकावच्छिन्नहेतुकानुमितिप्रतिबन्धकतानतिरिक्तवृत्तिविषयितानिरूपकतावच्छेदकस्वात्मकधर्मावच्छिन्न सम्बन्धबोधकत्वव्युत्पत्त्येत्यर्थः । निरुक्तति । लक्षणाकान्तदोषमात्रस्येत्यर्थः । एकज्ञानविषयतासम्बन्धेनेत्यादिः । प्रकृतहेतुतेति । स्वज्ञानविषयप्रकृतहेतुतावच्छेदकवत्त्वसम्बन्ध इत्यर्थः । "Aho Shrutgyanam" Page #193 -------------------------------------------------------------------------- ________________ चन्द्रकला-कलाविलासाख्यटीकाद्वयोपेतम् ® गादाधरी 8 एतल्लाभाय प्रकृतहेतुरित्युक्तम् । हृदे वह्नः साधने धूमो दुष्ट इत्यत्र ह्रदत्वावच्छिन्नपक्षकवह्नित्वावच्छिनसाध्यकधूमत्वावच्छिन्नलिङ्गकानुमितिप्रतिवन्धकतावच्छेदकस्वावच्छिन्न - विषयिताकधविच्छिन्नसम्बन्धी धूम इत्यन्वयबोधः, तत्र प्रतिबन्धकतावच्छेदकस्वावच्छिन्नविषयिताकधर्मविशिष्ट एवं दुषधातोरर्थः , साधनपदं लक्षणया धूमत्वावच्छिन्नहेतुकानुमितिपरं, तत्र हद इति सप्तम्यन्ताथलदत्वावच्छिन्नपक्षकत्वस्य, वह्नरिति षष्ठयन्तार्थस्य वह्नित्वावच्छिन्नसाध्यकत्वस्य चान्वयः, तादृशानुमित्यन्यितसप्तम्यर्थनिरूपितत्वस्य दुषधात्वथैकदेशे प्रतिबन्धकत्वेऽन्वयः । एवञ्च पर्वते वह्नः साधने धूमो दुष्ट इत्यत्र पर्वतत्वावच्छिन्न पक्षकवह्नित्वावच्छिन्नसाध्यकधूमत्वावच्छिन्नहेतुकानुमितिप्रतिबन्धकतावच्छेदकस्वावच्छिन्नविषयताकधमविशिष्टसम्बन्धी धूम इत्येव प्रतीयते, तत्र तादृशधम्मश्चाप्रसिद्ध एवेति न तथा व्यवहारः । ॐ चन्द्रकला प्रकृतहेतुरित्युक्तमिति । तथाच स्वज्ञान विषयप्रकृतहेतुतावच्छेदकवत्वसम्बन्धेन दोषवत एव दुष्टत्वाम्युपगमे न वह्निना धूमसाधने रासभो दुष्ट इतिव्यवहारापत्तिः, धूमाभाववद्वृत्तित्वविशिष्ट वह्नित्वावच्छिन्नरूपदोषस्य स्वज्ञानविषयप्रकृतहेतुतावच्छेदकवत्त्वसम्बन्धेन रासभे विरहात् व्यवहतव्यज्ञानस्यैवाऽसम्भवादिति भावः । हृदो वह्निमान् धूमादित्यादौ हृदे वह्नःसाधने धूमो दुष्ट इतिव्यवहारोपपत्तये हृदपदोत्तरं सप्तम्यर्थो विशेष्यत्वं तत्र हृदत्वरूपपक्षतावच्छेदकावच्छिन्ननिरूपिताधेयतासम्बन्धेन प्रकृत्यर्थस्य ह्रदादेरन्वयः, वह्नरित्यत्र षष्ठयों विधेयत्वम् , सत्र वह्नित्वरूपसाध्यतावच्छेदकावच्छिन्ननिरूपिताधेयतासम्बन्धेन वह्नः प्रकृत्यर्थस्यान्वयः तादृशहदान्वितविशेष्यत्व-वह्नयन्धितविधेयत्वयोश्च निरूपकत्वसम्बन्धेन लाक्षणिकधूमत्वावच्छिन्न हेतुकानुमितिपरायां साधनपदार्थीभूतायां तादृशानुमितावन्वयः, तादृशानुमित्यर्थकसाधनपदोत्तरसप्तम्यर्थनिरूपितत्वस्य च प्रतिचन्धकतानतिरिक्तवृत्तिविषयितानिरूपकतावच्छेदकधर्मावच्छिन्नार्थकदुषधात्वर्थेकदेशे प्रतिबन्धकतायामन्वयः, दूषधातूत्तरनिष्ठाथस्य स्वज्ञानविषयप्रकृतहेतुतावच्छेदकवत्त्वरूपसम्बन्धविशिष्टस्य सम्बन्धिनोऽभेदेन प्रथमान्तार्थे धूमेऽन्वयःस्वीकरणीयः । तथाच ह्रदत्वावच्छिन्नपक्षकवह्नित्वावच्छिन्नसाध्यकधूमत्वावच्छिन्नहेतुकानुमितिनिरूपित प्रतिबन्धकतानतिरिक्तवृत्तिविषयितानिरूपकता - वच्छेदकवह्नयभावविशिष्टहदत्वरूपस्वात्मकधर्मावच्छिन्नस्य स्वज्ञानविषयप्रकृतहेतुतावच्छेदकवत्वरूपसम्बन्धवदभिनो धूम इत्यन्वयबोधस्तत्र पर्यवसितः । "Aho Shrutgyanam" Page #194 -------------------------------------------------------------------------- ________________ १७८ अनुमानगादाधर्या सामान्यनिरुक्तिप्रकरणम् * दीधितिः * यादृशधम्मिणि यादृशधर्मवत्ताज्ञानमनुमितिप्रतिबन्धकं तस्य धर्मिणस्तादृशधर्मवत्त्वं हेतुदोष इत्यपि कश्चित् । * गादाधरी 8 पक्षविशेषादिकमनन्तर्भाव्य धूमो दुष्ट इति व्यवहारस्त्वबाधित इष्यत एवेति दिक् । साधननिष्ठ साध्याभाववद्वृत्तित्वादेरेव व्यभिचारतया प्रसिद्धिन तु तद्विशिष्ट साधनादेरतो न तस्य दोषत्वमिति कश्चिदाह । व्याचष्टेऽपि लक्षणमन्यथैव, अन्यथातिप्रसङ्गात् । तादृशव्याख्यामुपन्यस्यति यादृशेति । यद्रूपावच्छिन्नेत्यर्थकम् । ज्ञानम् = ज्ञानत्वावच्छिन्नम् । तस्य .ध. मिणः = तद्धर्मावच्छिन्नस्य, तेन सम्बन्धेनेति शेषः । तादृशधर्मवत्त्वम् =तद्रूपावच्छिन्नधर्मवत्त्वम् । • चन्द्रकला + तथासति पर्वते वह्नः साधने धूमो दुष्ट इतिव्यवहारो न सम्भवति, तत्र दूषधास्वर्थस्य ताशप्रतिबन्धकतावच्छेदकविषयिताकधर्मावच्छिन्नस्याऽप्रसिद्धथा वाक्यार्थाप्रसिद्धय॑वहर्त्तव्यज्ञानाऽसम्भवादित्येवं हृदे इत्यादितो न तथा व्यवहार इत्यन्तसमुदितग्रन्थतात्पर्यम् । नन्वेवं पक्षविशेषादिकं परित्यज्य केवलं धूमो दुष्ट इतिव्यवहारः स्यादित्यत अाह पक्षेति । तथाच तादृशव्यवहार इष्ट एवेति भावः। यादृशे धर्मिणोत्यादिदीधितिकारोक्तलक्षणोस्थितौ वीजमाह साधनेति । हेतुनिष्टत्वविशिष्ट साध्याभाववद्वृत्तित्वादेरेव व्यभिचारत्वं नतु साध्याभावववृत्तित्वविशिष्टहेतोस्तथात्वम् इति कस्यचिन्मतमित्याशयः । अतः = साधननिष्ठसाध्याभाववद्वृत्तित्वादेर्व्यभिचारतः। तस्य = साध्याभावववृत्तित्वविशिष्टसाधनस्य ।। ननु यद्रूपावच्छिन्नविषयकनिश्चयत्वव्यापकमित्यादि पूर्वोक्तलक्षणेनैवोपपत्ती निरुक्तलक्षणान्तरानुसरणमनर्थकमित्यत आह अन्यथेति । पूर्वोक्तलक्षणार्थस्यादरे इत्यर्थः । अतिप्रसंगादिति । यद्रूपावच्छिन्नविषयकनिश्चयत्वव्यापकं प्रकृतानुमितिप्रतिबन्धकत्वं तद्रूपवत्त्वमितिपूर्वोक्तलक्षणादरे साध्याभाववद्वृत्तित्वविशिष्टहेतावतिव्याप्तिः स्यात् , निरुक्तहेतुविषयकनिश्चयत्वव्यापकतायाः व्याप्तिविषयकंप्रकृतानुमितिप्रतिबन्धकतायां सर्ववादिसिद्धत्वादतः प्रकारान्तरेणैव लक्षणं वक्तव्यमिति भावः । ज्ञानत्वावच्छिन्नम् = निश्चयत्वावच्छिन्नम् । तेन तादृशदोषविषयकसंशयादिकमादाय नाऽसम्भवः । तद्रूपावच्छिन्नधमवत्त्वमिति । तथाच यद्रूपावच्छिन्न विशेष्यकयत्सम्बन्धावच्छिन्न "Aho Shrutgyanam' Page #195 -------------------------------------------------------------------------- ________________ चन्द्रकला-कलाविलासाख्यटीकाद्वयोपेतम् __ * गादाधरी साधनादिविशेषणकसाध्याभावववृत्तित्वादिविशेष्यकज्ञानस्य व्याप्त्यादिज्ञानप्रतिबन्धकत्वेऽपि सापाभाववद्वृत्तित्वादेराधेयतासम्बन्धेन साधनीयत्वादिकं न दोषः, साधनादेः साध्याभाववद्वृत्तित्वादिधर्मताविरहात् । ॐ चन्द्रकला यादशधर्मप्रकारताकनिश्चयत्वेन प्रकृतानुमितिप्रतिबन्धकत्वं तेन सम्बन्धेन तद्रूपावच्छिन्नवृत्तित्वविशिष्टतद्रूपावच्छिन्नवत्त्वं हेतुदोषः इति पर्यवसितः लक्षणार्थः । __धूमवान् वह्नरित्यादौ वह्नित्वावच्छिन्ने धर्मिणि स्वरूपेण धूमाभावववृत्तित्वधर्मप्रकारकनिश्चयस्य प्रकृतानुमिति प्रतिबन्धकतथा स्वरूपेण वह्नित्वावच्छिन्नवृत्तित्वविशिष्टधूमाभावववृत्तित्ववस्त्रे लक्षणसमन्वयः । एवं हृदत्वावच्छिन्ने स्वरूपेण वह्नयभावत्वावच्छिन्नप्रकारकनिश्चयस्यापि हृदादिधर्मिकवहाद्यनुमितिप्रतिबन्धकतया हृदत्वावच्छिन्ननिष्ठ बह्नयभावत्वावच्छिन्न यत्त्वेऽपि लक्षणसमन्वयो बोध्यः । ननु धूमवान् वह्ररित्यादौ धूमाभाववद्वृत्तित्वे वह्नित्वावच्छिन्नवत्वमपि दोषः स्यात् , धमाभावववृत्तित्वं वह्नावित्याकारकधूमाभाववद्वृत्तित्वविशेष्यकाधेयतासम्बन्धावच्छिन्नवह्नित्वावच्छिन्नप्रकारकनिश्चयस्यापि वह्निधर्मिकधूमव्याप्तिविषयकप्रकृतानुमितिप्रतिबन्धकतया तादृशे वृत्तित्वे धर्मिणि वह्नित्वावच्छिन्नवत्त्वस्याक्षतत्वादित्यत आह साधनादीति । आधेयतासम्बन्धेन वह्नयादिविशेषणकधूमाद्यभावव वृत्तित्वादिविशेष्यकनिश्चयस्येत्यर्थः । आदिना हृदादिविशेषणकवह्नयभावादिविशेष्यकनिश्चयादेः परिग्रहः ।। साध्येति । धूमाद्यभावववृत्तित्वादेरित्यर्थः । श्रादिपदात् साध्याभावादेः परिग्रहः । साधनीयत्वादिकम् = आधेयतासम्बन्धेन वह्नयादिविशिष्टत्वम् । श्रादिना हृदादिरूपपक्षोयत्वपरिग्रहः। साधनादेः = वह्नयादिरूपहेतोः । अादिना पश्चादेरुपग्रहः । साध्येति । धूमावभाववत्तित्वादिधमताविरहादित्ययाः । अत्राप्यादिना साध्याभावादिरूपवह्नयभावादिपरिग्रहः । आधेयतासम्बन्धस्य वृत्त्यनियामकतया तेन सम्बन्धेन वृत्तिमत्त्वरूपधर्मत्वाऽप्रपद्या साध्याभावववृत्तित्वे धर्मिणि यादृशधर्मवत्ताज्ञानस्येत्यनेन ग्राधेयतासम्बन्धेन ढयादिमत्त्वस्योपादानाऽसम्भवाद् वह्नयादेरतादृशवृत्तिस्वधर्मताया वक्तुमशक्यत्वा. इतिभावः। निश्चयत्वावच्छिन्नत्वं प्रतिबन्धकतायां विवक्षितम् , तच्च निश्चयत्वनिष्ठावच्छेदक.. "Aho Shrutgyanam" Page #196 -------------------------------------------------------------------------- ________________ अनुमानगादाधयां सामान्यनिरुक्तिप्रकरणम् * गादाधरी - अत्राप्यवच्छेदकत्वं पूर्ववन्नतु स्वरूपसम्बन्धविशेषः । पक्षतावच्छेदकावच्छिन्ननिष्ठकेवलाभावत्वावच्छिन्नवत्त्वादावतिप्रसङ्गात, तदवच्छिन्नधर्मिक तद्रूपावच्छिन्नवत्ताज्ञानत्वस्यापि प्रतिबन्धकतावच्छेदककोटिप्रविष्टत्वात् , अवच्छेदकतापर्याप्तिविवक्षण तु ह्रदत्वावच्छिन्ननिष्ठवह्नयभावत्वाद्यवच्छिन्नवत्त्वेऽव्याप्तः, वह्नित्वादिना घटाद्यवगाहिनो हृदो न वह्निमानित्यादिनिश्चयस्य हृदो वह्निमानित्याद्यनुमितिप्रतिबन्धकतया हृदत्वावच्छिन्नबिशेष्यकवास्तववह्नयभावत्वावच्छिन्नप्रकारकनिश्चयत्वेन न प्रतिबन्धकता, अपि तु तद्विशेष्यकवह्नित्वावच्छिन्न प्रकारतानिरूपिताभावत्वावच्छिन्नप्रकारताकनिश्चयत्वेनैवातस्तादृशमेव रूपं प्रतिबन्धकतावच्छेदकतापर्याप्त्यधिकरणं न तु ह्रदत्वावच्छिन्नधम्भिकवलयभावत्वावच्छिन्नप्रकारकत्वमिति यदुरूपपदेन वह्नयभावत्वाद्यपादानं न सम्भवति, * चन्द्रकला तानिरूपकत्वम् , अत्रावच्छेदकत्वं यदि स्वरूपसम्बन्धरूपं तदा हृदो वह्निमानित्यादौ हृदनिष्ठाऽभावत्वावच्छिन्नवत्त्वेऽतिव्याप्तिः, हृदधर्मिकवह्नयाद्यनुमितिप्रतिबन्धकतायाः ह्रदत्वावच्छिन्ने धर्मिणि अभावत्वावच्छिन्नविषयत्वावच्छिन्नताया अपि स्वीकरणीयत्वात् । नच यद्पावच्छिन्नविशेष्यतानिरूपितयद्रूपावच्छिन्नप्रकारत्वं प्रकृतानुमितिप्रतिबन्धकतावच्छेदकतावच्छेदकतापर्याप्त्यधिकरणं तद्रूपावच्छिन्ने तद्रूपावच्छिन्नवत्त्वं हेतु. दोष इत्युक्तौ न हृदनिष्ठाभाववत्त्वेऽतिव्यातिः, हृदविशेष्यतानिरूपितवह्नयभाववत्त्वा. वच्छिन्नप्रकारताया एव ताशप्रतिबन्धकतावच्छेदकतापर्याप्त्यधिकरणतया तादृशाभावत्वावच्छिन्नप्रकारतायाश्चाऽतथात्वादिति वाच्यम् , तथासति हृदनिष्ठवह्नयभाववत्वेऽव्याप्त्यापत्तेः । ह्रदत्वादिना पदार्थान्तरावगाहिभ्रमादिसाधारण्यानुरोधेन वह्नित्वावच्छिन्नप्रकारतानिरूपिताभावत्वावच्छिन्नविशेष्यत्वावच्छिन्नप्रकारतानिरूपितहदत्वावच्छिन्न विषयताया एव प्रतिबन्धकतावच्छेदकतापर्याप्त्यधिकरणतया हृदनिष्ठवह्नयभावत्वावच्छिन्नविषयतायास्तथात्वस्य वक्तुमशक्यत्वादित्याह अत्राप्यवच्छेदकत्वमित्यादि । निरुक्तलक्षणेऽप्यवच्छेकदत्वमित्यर्थः । तद्रूपेति । अभावत्वावच्छिन्नवत्त्वानिश्चयस्यापीत्यर्थः । अव्याप्तौ हेतुमाह यतः वह्नित्वादिनेति । तादृशमेव रूपम् = हृदादिविशेष्यकवह्नित्यावच्छिन्नप्रकारतानिरूपिताभावत्वावच्छिन्नप्रकारताकत्वम् । वह्नयभावत्वाद्युपादानमिति । नचैवं पूर्ववदसम्भवसम्भवेऽव्यातिदान "Aho Shrutgyanam" Page #197 -------------------------------------------------------------------------- ________________ चन्द्रकला कलाविलासाख्यटीकाद्वयोपेतम् * गादाधरी * पर्वतो वह्नयभाववानित्यादौ पर्वतत्वावच्छिन्ननिष्ठ व हित्वावच्छिन्नरूपबाधादेरसंग्रहभयेन यद्रूपावच्छिन्ने धर्मिणि यद्रूपावच्छिन्नप्रकारतानिरूपितयद्रूपावच्छिन्न प्रकार ताक निश्चयत्वेन प्रतिबन्धकता तद्रूपविशिष्ट तद्रूपावच्छिन्न विशेषिततद्रूपावच्छिन्नवत्त्वं दोष इत्यादिविवक्षाया असम्भवात् । अत्र साधननिष्ठ साध्याभाववद्वृत्तित्वादेरिव साध्याभावववृत्तिसाधनादेरपि दोषत्वे क्षतिविरहात् एतावानायासोऽनर्थक इत्यस्वरसः कश्चिदित्यनेन सूचितः । यथाव्याख्यातयथाश्रुतार्थे निर्वह्निः पर्वतो वह्निमानित्यादौ प्रकृतपक्ष - तावच्छेदकविशिष्टे प्रकृतसाध्यतावच्छेदकावच्छिन्नप्रकारकानुमितेरप्रसिद्धयाऽव्याप्तिर्दर्शयिष्यते, तत्र विशिष्य पक्षतावच्छेदकाद्यप्रवेशे * चन्द्रकला मनुचितमितिवाच्यम्, पर्वतो वह्नयभाववानित्यत्र पर्वतनिष्ठवह्निमत्त्रे लक्षणसमन्वयसम्भवात् तत्र वह्नित्वादिना पदार्थान्तरावगाहिज्ञानस्याऽप्रतिबन्धकतया विशिष्ट विषयकत्वेनैव वह्निमत्पर्वत निश्चयस्य तादृशानुमितिप्रतिबन्धकताया आवश्यकत्वादिति वदन्ति । ननु स्वरूपसम्बन्धरूप प्रतिबन्धकतावच्छेदकत्वनिवेशेऽपि न हृदादिनिष्ठाभाववच्चेऽतिव्याप्तिः यद्रूपावच्छिन्न विशेष्यतानिरूपितं यद्रूपावच्छिन्नप्रकारतानिरूपितयद्रूपावच्छिन्न प्रकारत्वं प्रकृतानुमितिप्रतिबन्धकतायाः स्वरूपसम्बन्धरूपावच्छेदकतावत् तद्रूपावच्छिन्ने तद्रूपावच्छिन्न विशिष्ट तद्रूपावच्छिन्नवत्त्वं हेतुदोष इति विवक्षया हृदनिष्ठवह्निविशेषिताभाववत्त्वस्यैव दोषत्वसम्भवादित्याशंकते पर्वत इति । असंग्रहभयेन = अव्याप्तिभयेन । तथाचोक्तरीत्या स्वरूपसम्बन्ध रूपावच्छेदकत्वविवक्षणे पर्वतो वह्नय भाववानित्यत्र पर्वतनिष्ठवह्नित्वावच्छिन्नवत्त्वरूपवाधेऽव्याप्तिः, पर्वतधर्मिकवलयभावानुमितिम् प्रति निरुक्तवाधनिश्चयस्य पर्वतविशेष्यकवह्नित्वावच्छिन्न प्रकारताकत्वेनैव प्रतिबन्धकतया ताशय पावच्छिन्न प्रकारतानिरूपितयद्र पावच्छिन्नप्रकारताकत्वेनाऽतथात्वात् रूपद्वयस्यैवाऽप्रसिद्धेरिति भावः । कश्चिदित्युक्तं समर्थयति साधननिष्ठेति । तथाचोभयोरेव लक्ष्यतया पूर्वोक्तलक्षणमेव सम्यगिति हृदयमितिदिक् । दर्शयिष्यते, दीधितिकृतेति शेषः । तत्र = अनुमितौ । पचतावच्छेदकान्वयि विषयत्वं सप्तम्यर्थः । विशिष्येति पक्षतावच्छेदकतापर्याप्त्यधिकरणत्वेनेत्यादिः । " Aho Shrutgyanam" १८१ तत्र Page #198 -------------------------------------------------------------------------- ________________ अनुमानगादाधयों सामान्यनिरुक्तिप्रकरणम् * दीधितिः * अथ पर्वतत्वेन पक्षत्वे वह्नित्वेन साध्यत्वे विशिष्टधूमत्वेन च हेतुत्वे पर्वताः काञ्चनमयत्वचिरहः, हृदस्य वह्निधूमशून्यत्वम् , *गादाधरी * नाऽप्रसिद्धिरतस्तनिवेशप्रयोजनमाह अथेति । पर्वतादेः काञ्चनमयत्वविरह इत्यादी सर्वत्र न दोष इति सम्बध्यते । तथा च पक्षतावच्छेदकाद्यप्रवेशे पूर्वोक्तयुक्तथाऽसम्भवात् , तद्वारणाय यतकिश्चिद्धर्मावच्छिन्नपक्षसाध्यहेतुकानुभितिसामान्यप्रतिबन्धकत्वमेव निवेश्यमिति पर्वतो वह्निमान् धूमादित्यादौ पर्वतादिनिष्ठ काञ्चनमयत्वाभावादावतिव्याप्तिः, तस्यापि काञ्चनमयत्वादिसहितपर्वतत्वादिरूपयत्किञ्चिद्वविच्छिन्नपक्षसाध्यहेतु - कानुमितिप्रतिबन्धकज्ञानविषयत्वादिति भावः । आदिपदश्च वस्त्वन्तरसंग्राहकम् । प्रकृतानुमित्यविषयपदार्थाभावेऽतिव्याप्ति सूचयित्वा तद्विषयसाध्याद्यभावे तां सूचयति हदस्येति । ह्रद निष्ठं वह्निशून्यत्त्वं धूमशून्यत्वञ्चेत्यर्थः । हृदादिनिष्ठाभावेऽतिव्याप्तिसूचनश्च * चन्द्रकला * नाऽप्रसिद्धिरिति । पक्षतावच्छेदकतापर्याप्त्यधिकरणधर्मावच्छिन्नपक्षाद्यप्रवेशे निर्वह्निः पर्वतो वह्निमानित्याकारकानुमितेरप्रसिद्धिसम्भवेऽपि पर्वतो वह्निमानित्याकारकानुमिते प्रसिद्धयाऽप्रसिद्धयभिधानमसंगतं स्यादिति भावः । तन्निवेशेति । पक्षतावच्छेदकतायाः पर्याप्यधिकरणत्वादिनिवेशनप्रयोजनमित्यथः । यकिञ्चिद्धर्मावच्छि. नपक्षकानुमितिसामान्यप्रतिबन्धकत्व निवेशे पर्वतो वह्निमान् धूमादित्यादौ काञ्चन. मयत्वाभावविशिष्टपर्वते वह्नयभावविशिष्ट हदे धूमाद्यभावविशिष्ट-हृदादौ चातिव्याप्तिः, काञ्चनमयपर्वतो वह्निमान् वह्निव्याप्यधूमवान् ताशपर्वत इत्याकारिकायाः -हदो वह्निमान् वह्निव्यायधूमवांश्चेत्याकारिकाया अन्यनुमितेः यत्किञ्चिद्धर्मावच्छिन्नपक्षकानुमितित्वेन धत्तुं शक्यतया तादृशानुमितिप्रतिवन्धकतायाः काञ्चनमयत्वाद्यभावविशिष्टपर्वतादिनिश्चये सत्त्वादतः पक्षतावच्छेदकतापर्याप्त्यधिकरणधर्मावच्छिन्नविशेप्यकत्वस्यानुमिती निवेशः इत्येवं भावमाह तथाचेति ! वस्त्वन्तरेति । घटत्वादिसंग्राहकमित्यर्थः । प्रकृतेति । पर्वतो वह्निमानित्याका. रकप्रकृतानुमित्यविषयीभूतं यत् काञ्चनमयत्वं तदभावेऽतिव्याप्तिमित्यर्थः । तद्विषयेति प्रकृतानुमितिविषयेत्यर्थकम् । पक्षनिष्ठविशेष्यताकत्वस्याप्यनिवेशसूचनाय हदादौ वहयभावेऽतिव्याप्तिरित्याह हृदादीति । "Aho Shrutgyanam" Page #199 -------------------------------------------------------------------------- ________________ चन्द्रकला-कलाविलासाख्यटीकाद्वयोपेतम् १८३ * दोधितः पर्वतस्य महानसीयवतिधूमविरहित्वम् , मेयत्वस्य गादाधरी प्रकृतपक्षतावच्छेदकावच्छिन्नप्रकृतपक्षकत्वरूपसमुदायदलायैवानिवेशे बोध्यम् । महानसीयेति । महानसीयवह्नयभावो महानसीयधूमाभावो वेत्यर्थः। अनातिव्याप्तिसूचनञ्च प्रकृतसाध्यतावच्छेदक-प्रकृतहेतुतावच्छेदकयोरनिवेशे बोध्यम् । इदमुपलक्षणम्-साध्यहेत्वोरनिवेशेऽपि जलत्वाभावादावतिव्याप्तिर्बोध्या, प्रकृतहेतुतावच्छेदकावच्छिन्नहेतुकत्वानिवेशे पक्षधर्मताज्ञानप्रतिबन्धकतामादायातिव्याप्ति सू चयित्वा व्याप्तिज्ञानप्रतिबन्धकतामादायातिव्याप्ति सूचयति मेयत्वस्येति । वह्निव्यभिचार इत्यनेनान्वयः । अत्रातिव्याप्तिस्तादृशदलसमुदायस्यैव अनिवेशे बोध्या । ॐ चन्द्रकला साध्यहेतुनिष्ठप्रकारताकानुमितिनिवेशेऽपि न निस्तारः, पर्वतो महानसीयवह्निमान् वह्निव्याप्यमहानसीयधूमवांश्चेत्याकारकानुमितिप्रतिबन्धके महानसीयवह्नयभाववान् महानसीयधूमाभाववान् वेत्याकारकनिश्चयविषये महानसीयवह्नयाद्यभावविशिष्ट पर्वतादावतिव्याप्त्यापत्तरित्याह अत्रेति । महानसीयवह्नयभावविशिष्टपर्वते महानसीयधूमाभावविशिष्टे तत्र चातिव्याप्त्यभिधानमित्यर्थः । प्रकृतेति । केवलसाध्यादिनिष्ठप्रकारताकानुमितिमात्रविवक्षणे साध्यतावच्छेदकहेतुतावच्छेदकयोरप्रवेश इत्यर्थः । बोध्यमिति । साध्यतावच्छेदकतापर्याप्त्यधिकरणत्वादिनिवेशे तु न तत्राऽतिव्याप्तिः, पर्वतादौ वह्नयादेः साध्यतास्थले वह्नित्वमात्राद्यवच्छिन्नप्रकारताकानुमितेरेव साध्यतावच्छेदकतापर्याप्त्यधिकरणधर्मावच्छिन्नानुमितित्वेन तत्र महानसीयवह्नयाद्यभावविशिष्टपर्वतादिनिश्चयस्याप्रतिबन्धकत्वादित्याशयः। यत्किञ्चिद्धर्मावच्छिन्नप्रकारताकानुमितिनिवेशे पर्वतो जलत्ववान् वह्निव्याप्यजलत्ववान् वेत्याकारकानुमितिविरोधिनि जलवाभाववत्पर्वतादावतिव्याप्तिरित्याह इदमुपलक्षणमिति । हेतुतावच्छेदकावच्छिन्नप्रकारताकत्वानिवेशे हेतुमत्पक्षशानविरोधिनि महानसीयघूमायभाववत्पर्वते यथाऽतिव्याप्तिस्तथा व्याप्तिज्ञानविरोधिन्यपि वह्नयभावववृत्तिमेयत्वेऽपि अतिव्याप्तिः वह्निव्याप्यमेयत्ववान् पर्वत इत्याकारकानुमितिमादाय सम्भवतीति सूचयति प्रकृतहेतुतेति । अत्राऽतिव्याप्तिः वह्निव्यभिचारिमेयत्वेऽतिव्याप्तिः । तादृशेति । यकिञ्चिद्ध विच्छिन्नसाध्यव्याप्यप्रकारताकानुमितिमात्र निवेश एव तादृशमेयत्वादावतिव्यासिरिति भावः। "Aho Shrutgyanam" Page #200 -------------------------------------------------------------------------- ________________ १८४ अनुमानगादाधयां सामान्यनिरुक्तिप्रकरणम् 8 दीधितिः छ केवलधूमस्य चा वहिव्यभिचारो, विशिष्टधूमस्य वा पर्वतीयवह्निव्यभिचारो न दोपः । लदा तत्सम्बन्धेन तत्र तस्य हेतो? त्वम्, अतस्तद्धविच्छिन्नतत्पशकतधर्मावच्छिन्नतत्साध्यकतद्धविच्छि * गादाधरी * प्रकृतहेतुकत्वनिवेशेऽपि एतदोषस्य शक्यवारणतया हेतुतावच्छेदकनिवेशनायाह केवलधूमस्येति । वह्निशून्यदेशान्तर वृत्तिधूमव्यक्तिव्यावत्तकविशेषणानवच्छिन्नेत्यर्थः। साध्यतावच्छेदकानिवेशे पूर्व साध्यवत्ताज्ञानविरोधिन्यतिव्याप्तिर्दर्शिता, इदानी व्याप्तिज्ञानविरोधिन्यतिव्याप्तिं दर्शयति विशिष्टधूमस्य वा पर्वतीयवह्निव्यभिचार इति । दोषलक्षण इव दुष्टलक्षणेऽपि पक्षतावच्छेदकादिनिवेशस्यावश्यकतां दर्शयति न वा तत्सम्बन्धेनेति । तत्र = पर्वतत्वावच्छिन्ने वह्नित्वावच्छिन्नवह्निसाधने । तस्य-विशिष्टधूमत्वावच्छिन्नस्य । पक्षादौ पक्षतावच्छेदकादेर्याशसम्बन्धेन विशेषणत्वं यत्रोभिमतं तत्र तत्सम्बन्धेन तदवच्छिन्नत्वं निवेश्यमिति सूचयितुं तत्पक्ष. केत्युक्तम् , पक्षतावच्छेदकादिनिवेशे पक्षादिनिवेशस्याप्रयोजकत्वादिति । * चन्द्रकला हेतुतावच्छेदकमनिवेश्य तादृशहेतुनिष्ठप्रकारताकानुमितिनिवेशे तु वह्नयभाववठ्ठत्तित्वविशिष्ट केवलधूमेऽतिव्याप्ति संगमयति केवलधूमस्येति । वह्निशून्येति । वह्नयभाववान् यो देशः प्रभाभण्डलादिः तत्र वर्तमानधूमव्यक्ताववर्त्तमानं यत् विशेषणं सामानाधिकरण्यसम्बन्धेन पर्वताद्यन्यतमत्वं तदनवच्छिन्नधूमस्यैव कैवल्यमित्यथः । साध्यव्याप्येत्यत्र व्याप्त्यंशे निरूपितत्वसम्बन्धावच्छिन्न साध्यनिष्ठप्रकारताकत्वमात्रनिवेशे पर्वतीयवह्निव्याप्यतादृश विशेषणावच्छिन्नधूमवान् पर्वत इत्याकारकानुमितिप्रतिबन्धकनिश्वयविषये पर्वतीयवह्नयभाववत्तित्वविशिष्टतादृशविशिष्टधूमेऽतिव्याप्तिमा पर्वतीयेति । दोषवत्त्वं दुयत्वमित्यत्रापि दुष्टलक्षणे प्रकृतपक्षसाध्यादिनिवेशप्रयोजनं समर्थयति दोषलक्षण इवेति । तथाच दुष्टलक्षणे पक्षतावच्छेदकाद्यप्रवेशे पर्वतो वह्निमान् धूमादित्यादौ काञ्चनमयत्वाभावविशिष्ट पर्वतादेः स्वज्ञान विषयप्रकृतहेतुतावच्छेदकबत्त्वसम्बन्धेन धूमादौ सत्त्वात् पर्वतत्वावच्छिन्ने वहत्वावच्छिन्नसाधने धमो दुष्ट इति व्यवहारापत्तिरशक्यवारणा स्यादतो दुष्टलक्षणेऽपि पक्षतावच्छेदकादिप्रवेश आवश्यक इति भावः । तद्धर्मावच्छिन्नतत्पक्ष केत्यत्र तत्पक्षकत्वाभिधानप्रयोजन दर्शयति पक्षतेति । "Aho Shrutgyanam" Page #201 -------------------------------------------------------------------------- ________________ चन्द्रकला-कलाविलासाख्यटीकाद्वयोपेतम् * दोधितिः* नतद्धेतुकानुमितिप्रतिबन्धकत्वम् वाच्यम् । तथाच निर्वह्निः पर्वतो वह्निमान् पर्वतावृत्तिवह्निमान् वा तद्व्यभिचारिणः, *गादाधरी * वाच्यम् = तद्पावच्छिन्नपक्षसाध्यहेतुकदोषलक्षणे निवेशनीयम् । तथाचेति । निर्वह्निः पर्वतो वह्निमान् इत्यत्र पक्षतावच्छेदकनिर्वह्नित्वविशिष्टपर्वते वह्निवैशिष्ट्यावगाहित्वमनुमितेने सम्भवति, स्व. विरोधिधर्मधर्मितावच्छेदककस्वप्रकारकानाहाय्यज्ञानस्यानभ्युपगमात् । पर्वतः पर्वतावृत्तिवह्निमान् इत्यत्र पर्वते पर्वतावृत्तित्वरूपसाध्यतावच्छेदकावच्छिन्न प्रकारकत्वमनुमितेन सम्भवति स्वस्मिन् स्वावृत्तित्व:द्यवच्छिन्नप्रकारकानाहार्यज्ञानस्याननुभविकत्वात् । एवं पर्वतो वह्निमान् वह्निव्यभिचारिण इत्यत्र वह्निव्यभिचारित्वरूपहे. तुतावच्छेदकावच्छिन्ने वह्निव्याप्यत्ववैशिष्ट्यावगाहित्वमनुमितेन सम्भवतोति पूर्वोक्तयुक्तः । ॐ चन्द्रकला तथाच पक्षतावच्छेदकताघटकसम्बन्धेन पक्षतावच्छेदकावच्छिन्नत्वस्य साध्यतावच्छेदकताघटकसम्बन्धेन साध्यतावच्छेदकावच्छिन्नत्वस्य हेतुतावच्छेदकताघटकसम्बन्धेन हेतुतावच्छेदकावच्छिन्नत्वस्य च प्रवेशलाभाय तत्पक्षकेत्याद्यभिधानम् , अन्यथा हदो वह्निमान् इत्यादौ कालिकादि सम्बन्धेन दत्वाद्यवच्छिन्नानुमिति सामान्यान्तर्गतायां कालो वह्निमानित्यनुमितो वह्नयभावविशिष्ट-हदादिनिश्चयस्याऽप्रतिबन्धकतया सर्वत्राऽसम्भवापत्तिः स्यादिति हृदयम् । पक्षतावच्छेदकाद्यवच्छिन्नविशेष्यताकत्वादिविशिष्टाया अनुमितेरेव लक्षणघटकत्वे निर्वह्निः पर्वतो वह्निमान् धूमादित्यादौ दोघेऽव्याप्तिः, निर्वह्निपर्वतविशेष्यकवह्निप्रकारकानुमितेरप्रसिद्धत्वादित्याह स्वविरोधीति । स्वं वह्नयादिप्रकारस्तद्विरोधी तद्विशिष्टबुद्धिप्रतिबन्धकतावच्छेदकप्रकारिताकधर्मवान् बढ्यभावादिः स एव धर्मितावच्छे. दकं यस्य तादृशस्वप्रकारकज्ञानस्य । तादृशज्ञानस्यानाहायंत्वानभ्युपगमादित्यर्थः । स्वरिमन्निति । स्वं विशेष्यीभूतः पर्वत! दिः तत्र तदवृत्तित्वावच्छिन्नप्रकारताकज्ञानस्याप्याहार्यत्वस्यानुभविकत्वेन तस्यानाहार्यस्याननुमविकत्वादित्यर्थः । वह्निव्यभिचारिणः = वह्नयमावववृत्तिधर्मात् । वहिव्याप्यत्वेति । वह्नयभाववदवृत्तिधर्मवत्त्वावगाहित्यमित्यर्थः । पूर्वोक्तति । स्वविरोधिधर्मधर्मितावच्छेदककवह्नयभाव. "Aho Shrutgyanam" Page #202 -------------------------------------------------------------------------- ________________ १८६ अनुमानगादाधयां सामान्यनिरुक्तिप्रकरणम् * दीधिति पर्वतावृत्तेर्वा धर्मादित्यादौ न कोऽपि हेत्वाभासः स्यात् , तादृशानुमितेरप्रसिद्धत्वात् । छ गादाधरी पर्वतो वह्नमान् पर्वतावृत्तेरित्यत्र पर्वते पर्वतावृत्तित्वरूपहेतुतावच्छेदकावच्छिन्नवैशिष्ट्यावगाहित्वं नानुमितेः सम्भवति उक्तयुक्तरिति यथाविवक्षितानुमित्यप्रसिद्धिप्रयोजकभेदेन नानास्थलेऽव्याप्तिकथनम् । न कोपि हेत्वाभासः स्यादिति । तथाचापाथेकरूपनिग्रहस्थानत्वेन तथा प्रयोक्तुनिग्रहोपपत्तावपि निर्वह्नित्वेन पर्वते वहः साधने धूमो दुष्ट इत्यादिव्यवहारो दुरुपपाद इति भावः । तादृशानुमितेः = तथाविवक्षितानुमितेः । अप्रसिद्धत्वादिति । आहायपरोक्षज्ञानानभ्युपगमादिति भावः । ___* चन्द्रकला * बवृत्तित्वप्रकारकज्ञानस्यानाहार्यस्यानुपगमादितियुक्तरित्यर्थः । उक्तयुक्तः - स्वस्मिन् स्वाऽवृत्तित्वावच्छिन्नप्रकारकज्ञानस्यानाहार्यस्याननुभविकत्वादिति युक्तः । यथाविवक्षितेति । पक्षः साध्यवान् साध्यव्याप्यहेतुमांश्चेत्याकारकविवक्षितानुमितेरप्रसिद्धिप्रयोजकत्वं यथा साध्याभावधर्मितावच्छेदककसाध्यप्रकार कज्ञानत्वं तथा पक्षे पक्षावृत्तित्वाद्यवच्छिन्नप्रकारकज्ञानत्वादिकमपीति विभिन्न प्रयोजकज्ञापनाय नानास्थले दीधितिकृताऽव्याप्तिः प्रदर्शितेतितार्पयम् । ननु यादृशबोधत्वावच्छेदेनाहार्यत्वं तादृशबोधेच्छयोच्चरितशब्दस्यैवाऽपार्थकनिग्रहस्थानत्वेन निर्वह्निर्वह्निमानित्यादिवाक्यप्रयोक्तु निग्रहोपपत्तिसम्भवे हेत्वाभास. रूपनिग्रहस्थानाऽसत्त्वेऽपि न क्षतिरित्यतो भावमाह तथाचेति । तथा प्रयोक्तः = निरुक्तवाक्यप्रयोक्तः । दुरुपपाद इति । तथाच निर्वह्नित्वेन पर्वते वह्निसाधने धूमो दुष्ट इत्यादिव्यवहारोपपत्यर्थमेव तादृशस्थले धूमादेः दुष्टस्वमावश्यकमिति भावः ! तथाविवेति । वहिव्याप्यधूमवान् वह्निमांश्च निर्वहिपर्वत इत्याकारकानुमितेरित्यर्थः । श्राहार्येति । अनुमिति शाब्दबोधादेराहार्यत्वानभ्युपगमादित्यर्थः, तेन न प्रतियोग्यप्रसिद्धिरितिध्येयम् । अत्रवदन्तीत्यादिना दोधितिकृदभिहितलक्षणघटकोत्तरपदोत्तरद्वितीयाविभक्ति "Aho Shrutgyanam" Page #203 -------------------------------------------------------------------------- ________________ चन्द्रकला-कलाविलासाख्यटीकाद्वयोपेतम् * दीधितिः * अत्र वदन्ति-यछिषयकनिश्चयस्य विरोधिविषयताप्रयुक्तस्तदुत्तरम * गादाधरी* यद्विषयकनिश्चयस्येति । यद्पावच्छिन्नविषयकनिश्चयस्येत्यथः । उत्तरपदस्य उत्तरकालीनाथ कतया तदुत्तरमितिधातूपस्थाप्यानुमितिरूपक्रियाविशेषण मतो द्वितीया । अग्रिमकल्पे तादृशज्ञानरूपक्रियाविशेषणमतो ज्ञानपदमपि सार्थकम् । तत्पदश्च ताशनिश्चयपरामर्थकम् , उत्तर पदच्चाऽव्यवहितोत्तरार्थकम् , कालाधनोरत्यन्तसंयोगे इत्यनेन द्वितीया अधिकरणे, ® चन्द्रकला समर्थयति उत्तरपदस्येति । लक्षणघटकस्येत्यादिः । उत्तरकालीनार्थकतयेति । तथाचोत्तरकालीनाऽभेदान्वयबोधो धात्वर्थीभूतायामनुमितौ निर्विवाद इति भावः। अग्रिमकल्पे = अनाहार्य मानसज्ञाने इत्यादौ । सार्थकमिति । उत्तरपदोत्तर द्वितीयाविभक्तिसमर्थनार्थमेव ज्ञानपदमन्यथा अनाहार्यमानसे इत्युक्तावपि सामञ्जस्यसम्भवात् ज्ञानपदं निरर्थकं स्यादिति हृदयम् । इत्यनेन = इतिसूत्रेण । उत्तरपदस्योत्तरकालोनार्थकत्वे अधिकरणे द्वितीया न सम्भवतीत्यत आह उत्तरपदस्येति । कलाविलासः ॐ हरिति दिक । अत्र वदन्ति कल्पे काञ्चनमयदो वह्निमान् जलादित्यत्र काञ्चनमयस्वव्यापकीभूताभावप्रतियोगिजलादावतिव्याप्तिवारणाय तृतीयक्षणसाधारणाव्यव. हितोत्तरत्वस्य लक्षणे निवेश्यतया असाधारण्येऽव्याप्तिः, तद्विषयकनिश्चयाव्यवहितोत्तरानुमितौ तादृशोभयाभावाऽसत्त्वादिति चेन ? साध्यव्यापकोभूताभावप्रतियोगिप्रकृतहेतुमत्पक्ष ज्ञान भिन्नत्व-साधारण्यविपषितावत्वैतदुभयाभाववद्यद्रूपाव - च्छिन्नविषयिताशालिनिश्चयाव्यवहितोत्तरानुमितिसामान्ये तादृशोभयाभावस्य विवक्षितत्वात् । श्रव्यापकोभूतविषयिताशून्यज्ञानीयत्वञ्च यद्रूपावच्छिन्न विपयितायामुपलक्षण विधयैव निवेश्यम् । एवञ्च वहिव्यापकीभूताभावप्रतियोगि जलं वह्निव्यापकीभूताभावप्रतियोगिजलवांश्च हद इतिसमूहालम्चनज्ञानमादायैव असाधारण्ये लक्षणसमन्वयसम्भवः, तज्ज्ञानीयवति व्यापकीभूताभावप्रतियोगिजलवद्ध्रदविषयितायां वक्ष्यमाणविरोधिविपयितात्वस्थाप्यक्षतत्वादित्यवधेयम् । अत्र कल्पे तृतीयक्षणसाधारणाव्यवहितोत्तरत्वञ्च स्वध्वंसाधिकरणकालध्वंसानधिकरणत्वे सति स्वाधिकरणकालध्वंसाधिकरणत्वरूपम्, स्वं यद्पावच्छिन्न विषयफनिश्चयः । कालावनोरत्यन्तेति । ननु यद्पावच्छिन्नविषयकनिश्चयपदेन नानाविध "Aho Shrutgyanam" Page #204 -------------------------------------------------------------------------- ________________ १८८ अनुमानगादाधर्या सामान्यनिरुक्तिप्रकरणम् * दीधितिः * नुमितावनाहाय॑मानसज्ञाने वा पक्षतावच्छेदकविशिष्टपक्षे साध्यतावच्छेदकविशिष्टसाध्यवैशिष्ट्याचगाहित्वस्य साध्यतावच्छेदकविशिष्टसाध्यनिरूपितव्याप्तिविशिष्टहेतुमत्तावगाहित्वस्य च द्वयोर्व्यतिरेकस्तत्त्वं हेतुदोषत्वम् । * गादाधरी* उत्तरपदस्य उत्तर कालपरत्वादिति तु न युक्तं, व्यापकतात्मकायात्यन्तसंयोगस्य प्रकृतेऽविवक्षितत्वादिति । अनुमितो-अनुमितिसामान्ये । द्वयोयतिरेकः इत्यभिसम्बन्धः। तत्त्वम् - तद्रूपावच्छिन्नत्वम् । अत्र च तज्ज्ञानानन्तर ज्ञाननिष्ठतादृशोभयाभावे तज्ज्ञानीयाया एव विरोधिविषयितायाः प्रयोजकत्वात विरोधिविषयितायां तादृशनिश्चयीयत्वकथनं स्वरूपकीर्तनमात्रं न तु तल्लक्षणघटकम् , * चन्द्रकला * उत्तरपदस्योत्तरकालपरत्वं स्वीकृत्य तादृशकालत्वव्यापकताया अनुमित्यादौ विवक्षाप्रयोजनाऽभावादाह प्रकृत इत्यादि । अनुमितिसामान्य इति । सामान्यपदोपादानप्रयोजनम् अग्रे प्रदर्शनीयमेवादरणीयम् ।। ननु विरोधिविषयिताप्रयुक्तत्वनिवेशेनैवोपपत्तौ यद्विषयकनिश्चयस्य विरोधिविषयितेत्यादिना तादृशविषयितायां यद्विषयकनिश्चयीयत्वाभिधानमनर्थकमित्यत आह अत्रचेति । निरुक्तलक्षणे चेत्यर्थः । तज्ज्ञानेति । बाधादिनिश्चयोत्तरजातानुमित्यादौ वत्तमाने प्रकृतपक्षादौ प्रकृतसाध्याद्यवगाहित्वघटितोभयाभावे इत्यर्थः । तज्ज्ञानीयायाः = तादृशबाधादिनिश्चयीयायाः। प्रयोजकत्वात् = प्रयोजकत्वनियमात् । मात्रपदव्यवच्छेद्यमाह नत्विति । लक्षणघटकमिति । तथाच केवल वि * कलाविलासः काले वर्तमानस्य नानानिश्चयस्यैव बोधात् यथोक्तनिश्वयोत्तरकालस्वस्थ नानाकालेषु वर्चमानतया तत्र च कस्या अप्यनुमितिव्यक्तरसवात् तादृशकालत्वव्यापकत्वस्यानुमितौ विवक्षणेऽसम्भवसम्भवे तादृशव्यापकत्वस्याऽविवक्षितत्वाभिधानमसंगतमितिचेन्न ? यद्रूपावच्छिन्नविषयकनिश्चयविशिष्टानुमितिसामान्ये विरोधिविषयिताप्रयुक्ततादृशोभयाभावस्य विवक्षितत्वात् । वैशिष्ट्यञ्च स्वाव्यवहितोत्तरकालत्वव्यापकत्वसम्बन्धेन । एवञ्च यत्किञ्चिन्निश्चयमादायैव लक्षणसमन्वयसम्भवात् तादृशव्यापकत्वस्याऽविवक्षितत्वमुक्तमिति ध्येयम् । नचानुमितेरपि जन्यतया तादृशनिश्चयाव्यव "Aho Shrutgyanam" Page #205 -------------------------------------------------------------------------- ________________ १८६ चन्द्रकला-कलाविलासाख्यटीकाद्वयोपेतम् ® गादाधरी तथा च यद्पावच्छिन्ननिश्चयाव्यवहितोत्तरानुमितिसामान्यस्य विरोधिविषयिताप्रयुक्तोभयाभाववत्त्वं, ताशरूपावच्छिन्नत्वं दोषत्वमिति समुदितार्थः । * चन्द्रकला* रोधिविषयिताप्रयुक्तत्यमात्रमेव तादृशोभयाभावे विवक्षितं नतु तादृशनिश्चयीयविरोधिविषयिताप्रयुक्तत्वमपि तत्र निवेश्यमिति भावः ।। ___ समुदितलक्षणार्थमाह तथाचेति । तथाच यद्र पावच्छिन्न विषयकनिश्चयाऽन्यवहितोत्तरानुमितिसामान्ये लौकिकसन्निकर्षाऽजन्यदोषविशेषाजन्यज्ञानसामान्ये वा विरोधिविषयिताप्रयुक्तः प्रकृतपक्षतावच्छेदकावच्छिन्नविशेष्यतानिरूपितप्रकृतसाध्यतावच्छेदकावच्छिन्नप्रकारताकत्व-तादृश विशेष्यतानिरूपितप्रकृतसाध्यतावच्छेदकावच्छि - न्नप्रकारतानिरूपितव्याप्तित्वावच्छिन्न विषयतानिरूपितहेतुतावच्छेदकावच्छिन्नप्रकारताकत्वोभयाभावस्तद्र पवत्त्वं हेत्वाभासत्वमिति समुदितलक्षणार्थः पर्यवसितः । __ भवति हि ह्रदो वह्निमान् इत्यत्र वह्नयभावविशिष्ट-हदरूपबाधे लक्षणसमन्वयः, वहयभावविशिष्ट-हदत्वरूपवाधत्वावच्छिन्नविषयकनिश्चयाव्यवहितोत्तरानुमितिसामान्यान्तर्गता घटाद्यनुमितयो वह्निव्यायधूमानुमितयश्च, नतु हृदादौ वह्नयाद्यनुमितिस्तादृशी, तादृशानुमिती तादृशबाधनिश्चयस्य प्रतिबन्धकत्वात् निरुक्तघटाद्यनुमितिले बसिव्यायधमाद्यनुमितिषु च प्रकृतपक्षविशेष्यतानिरूपित प्रकृतसाथ्यव्याप्य हेतु प्रकारताकत्वसत्त्वेऽपि प्रकृतपक्षीभूतहृदादिविशेष्यतानिरूपितप्रकृतसाध्यीभूतवह्निप्रकारताकत्वविरहस्य विरोधिविषयिताप्रयुक्तस्य सत्त्वेनोभयाभावस्य तत्राऽशतत्वात् , वह्नयभावविशिष्टहदत्वरूपवाधत्वस्यैव यद्रूपान्तर्गतत्वात् । * कलाविलासः * हितोत्तरकालात्मकानुमितिसामान्ये तादृशोभयाभावनिवेशेनैवोपपत्तौ तादृशनिश्चयाव्यवहितोत्तरकालवृत्तित्वार्थकतादृशकालीनत्वाभिधानमनुचितमिति वाच्यम्, तादृशकालीनत्वस्य तादृशनिश्चयाव्यवहितोत्तरकालोत्पन्नत्वार्थकत्वात् , अन्यथा यत्रापेक्षाबुद्धयात्मिका पक्षःसाध्यवान साध्यव्याप्यहेतुमांश्चेत्याकारिकानुमितिः ततो लौकिक. सन्निकर्पजन्यो बाधनिश्चयस्तत्र बाधेऽव्याप्स्यापत्तिः स्यात्, तादृशबाधनिश्चयाव्यवहितोत्तरकालात्मिकायां तादृशकालवृत्तित्वविशिष्टायां वा निरुक्तानुमितौ तादृशोभयाभावस्याऽसत्वात् । तादृशनिश्चयाव्यवहितोत्तरकालोत्पन्नानुमितिनिवेशे तु न तादृशबाधेऽव्याप्तिः, तादृशबाधनिश्चयोत्तरोत्पन्नत्वस्य तादृशापेक्षावुद्धयारिमकायामनुमितौ विरहात् तस्य घटाद्यनुमितौ सत्वेऽपि तत्र तादृशोभयाभावस्याक्षतत्वात् । "Aho Shrutgyanam" Page #206 -------------------------------------------------------------------------- ________________ १६० अनुमानगादाधयां सामान्यनिरुक्तिप्रकरणम् ® गादाधरी ® वह्नयभावविशिष्टह्रदत्वावच्छिन्नविषयकनिश्चयानन्तरं ह्रदो वह्निमान वह्निव्याप्यधूमांश्चैत्याकारकानुमितेः कदाचिदप्यनुत्पत्त्या घटाधनुमितयः एव तादृशनिश्चयाव्यवहितोत्तरानुमितिसामान्यान्तर्गतास्तासु च हृदंत्वादिविशिष्टे यत् वह्नित्वाद्यवच्छिन्नवैशिष्ट्यावगाहित्वं, वह्नित्वावच्छिन्नवह्निव्याप्तिविशिष्टधूमत्वावच्छिन्नवैशिष्ट्यावगाहित्वश्व, तदुभयाभाववत्त्वमक्षतमेव, तत्र तादृशनिश्चयीयविरोधिविषयिताप्रयुक्तत्वमपि, स्वनिष्ठप्रतिबन्धकतावच्छेदकधर्मस्य स्वानन्तरोत्पन्नज्ञाननिष्ठप्रतिबध्यतावच्छेदकधमाभावप्रयोजकत्वात्, तत्र ह्रदत्वादिविशिष्टविशेष्यकत्वावच्छिन्नवह्निस्वादिविशिष्टप्रकारकत्वावच्छिन्नप्रतिबध्यतानिरूपित प्रतिबन्धकतावच्छेदकीभूताया ह्रदत्वावच्छिन्नविशेष्यकत्वावच्छिन्नवह्नित्वावच्छिन्नाभावीयप्रकारितायास्तादृशवह्नित्वादिविशिष्टप्रकारकत्वघटितोभयाभावे तथात्वात् । * चन्द्रकला * एवं हृदो वह्निमान् धूमादित्यादौ धूमाभावविशिष्टह्रदत्वरूपस्वरूपासिद्धित्वावच्छिन्न विषयकनिश्चयोत्तरं जायमानायां हृदो वह्निमान् हृदो घटवान्वेत्याद्याकारकानुमितौ हृदादिधर्मिकवह्नयादिप्रकारकत्वसत्त्वेपि वह्निव्याप्यधूमप्रकारकत्वविरहेण ताहशोभयाभावस्य तत्र वत्तेमानतया धूमाभावविशिष्टह्रदरूपस्वरूपासिद्धावपि लक्षणसमन्वयः। धूमवान वह्नरित्यादौ धूमाभावववृत्तित्वविशिष्ट वह्निरूपव्यभिचार निश्चयोत्तरं व्यभिचारनिश्चयप्रतिबध्याया धूमव्याप्तिविषयकधूमव्याप्यवह्निमानयमित्याकारकानुमितेरनुत्पत्त्या तादृशनिश्चयोत्तरमुत्पन्नास्वन्यास्वनुमितिषु धूमव्याप्यवह्निप्रकारकत्वाभावेन तादृशोभयाभावस्यानपायात् धूमाभावववृत्तित्वविशिष्ट वह्निरूपव्यभिचारेऽपि लक्षणसमन्वयो बोध्या, एवमन्यत्राऽपि । स्वयमपि लक्षणसमन्वयमाह वह्नयभावेति । तादृशवाधनिश्चयानन्तरमित्यर्थः । कदाचिदप्यनुत्पत्त्येति । हृदादिधर्मिकवह्नयाघभावनिश्चयस्य हृदादिधर्मिकवह्नयाधनुमितिप्रतिबन्धकत्वादित्याशयः । हृदो वह्निमानित्यत्र वलयभाव विशिष्टह्रदरूपवाधविषयिताया विरोधिविषयितात्वं सम्पादयति स्वनिष्ठेति । स्वं तादृशबाधनिश्चयःतनिष्ठो यो हृदधर्मिकवह्नयादिप्रकारकबुद्धिनिरूपित प्रतिबन्धकतावच्छेदकविषयितात्मको धमस्तस्येस्यर्थः । स्वानन्तेति । तादृशवाधनिश्चयोत्तरोत्पन्नघटाद्यनुमितौ वर्तमानो यः तादृशनिश्चयप्रतिबध्यतावच्छेदकस्य हृदधर्मिकवहिप्रकारताकत्वस्याऽभावस्तं प्रति "Aho Shrutgyanam" Page #207 -------------------------------------------------------------------------- ________________ १९१ चन्द्रकला-कलाविलासाख्यटीकाद्वयोपेतम् गादाधरी न च तादृशविशिष्टप्रकारकत्वमात्रं न विपरीतनिश्चयप्रतिबध्यतावच्छेदकम् , अपि तु तद्विशेषितानाहायज्ञानत्वं, तत् कथं तत्प्रकारकत्वाभावस्य तथाविधविरोधिविषयिताप्रयुक्तत्वमिति वाच्यम् , 8 चन्द्रकला प्रयोजकत्वादित्यर्थः । तथात्वात् = प्रयोजकत्वात् । तथाच हृदविशेष्यकवह्निकारकबुद्धिप्रतिबन्धकतावच्छेदिकाया वयभावविशिष्टहदरूपबाधविषयितायाः तादृशनिश्चयोत्तरोत्पन्नघटाद्यनुमितौ वर्तमानो यो हृदविशेष्यकत्रह्निप्रकारकत्वरूपतादृशनिश्चयप्रतिवध्यतावच्छेदकधर्मघटितोभयाभावः तं प्रति प्रयोजकतया तादृशबाधनिश्चयीयविषयिताया विरोधिविषयि तात्वं निर्विवादमिति भावः । ननु वह्नयभाववान् हुद इत्याद्याकारकनिश्चयोत्तरं वह्निमान् हृदो वह्नयभाववानित्याद्याकारकाहार्यज्ञानोपपत्तये विशेष्यकवह्निप्रकारकत्वविशिष्टानाहार्यज्ञानत्वमेव तादृशनिश्चयप्रतिबध्यतावच्छेदकं वाच्यम् , एवञ्च कथं वह्नयभाव विशिष्टहदरूपबाधादौ लक्षणसमन्वयः? वह्नयमावविशिष्टहृदादिविषयिताया हृदविशेष्यकवह्निप्रकारकत्वविशिष्टानाहार्यज्ञानस्वरूपतादृशबाधनिश्चयप्रतिवध्यतावच्छेदकधर्माभावं प्रत्येव प्रयोजकतया हृदविशेष्यकवहिप्रकारकत्वघटितोभयाभावाऽप्रयोजकत्वादित्युभयाभावे विरोधिविषयिताप्रयुक्तत्वविरहादित्याशंकते नचेति । वाच्यमितिपरेणान्वयः । ताहशेति । हृदादिविशेष्यकवह्नयादिप्रकारकत्वमात्रमित्यर्थः। विपरीतेति । वह्नयभावविशिष्टहदादिरूपयाधादिनिश्चयप्रतिबध्यतावच्छेदकं नेत्यर्थः । तद्विशेषितेति । हृदादिविशेष्यकवयादिप्रकारकत्व विशिष्टानाहायज्ञानत्वमित्यर्थः । तत्प्रकारकेति । हृदविशेष्य कवलयादिप्रकारकत्वाभावस्येत्यर्थः । तथाविधेति । वह्नयभावविशिष्टहृदादिनिरूपितविषयितात्मकविरोधिविषियताप्रयुक्तत्वमित्यर्थः । हृदादौ वह्नयाद्यभावनिश्चयप्रतिबध्यतावच्छेद कताया हृदादिविशेष्यकवह्नयादिप्रकारकत्वे विरहादित्याशयः । यो विशिष्टाभावस्य प्रयोजकःस विशेष्यवति वर्तमानस्य विशेषणाभावस्यापि प्रयोजको भवतीति नियमात् हृदविशेम्पकवह्नयादिप्रकारकत्वविशिष्टानाहार्यज्ञानत्वाभावप्रयोजिकाया वह्नयायभावविशिष्टहृदादिविषयिताया विशेष्यीभूतानाहायज्ञानत्वविशिष्टायां घटाद्यनुमितौ वर्तमाने विशेषणीभूतहदादिविशेष्यकवह्नयादिप्रकारकत्वस्याभावेऽपि प्रयोजकताया आवश्यकतया तादृशप्रकारकत्वघटितोभयाभावे वह्नयाद्यभाव "Aho Shrutgyanam" Page #208 -------------------------------------------------------------------------- ________________ अनुमानगादाधों सामान्यनिरुक्तिप्रकरणम् ®गादाधरी विशिष्टाभावप्रयोजकस्य विशेष्यवनिष्ठविशेषणाभावप्रयोजकत्वात् अनाहार्यज्ञानत्वाद्याश्रयानुमितिनिष्ठतादृशविशिष्ट प्रकारकत्वाभावस्य विरोधिविषयिताप्रयुक्तत्वाततेरिति हृदो वह्निमान् धूमादित्यादौ वह्नयभावविशिष्टहदत्वाद्यवच्छिन्ने लक्षणसमन्वयः । निर्वह्निः पर्वतो वह्निमानित्यादी तादृशानुमितेरप्रसिद्धावपि वह्निमत्पर्वतादिरूपाश्रयासिद्धथादिविषयकनिश्चयानन्तरप्रसिद्धवटाद्यनुमितिषु अन्यत्र प्रसिद्धपक्षतावच्छेदकविशिष्टविषयकत्वावच्छिन्नसाध्यतावच्छेदकविशिष्टप्रकारकत्वघटितोभयाभाववत्वमक्षतमेवेति तत्र लक्षणसमन्वयः । न चाहार्यज्ञानमात्रे प्रसिद्धस्य निर्वह्निपर्वतत्वावच्छिन्नविशेष्यकवह्निप्रकारकज्ञानत्वस्य बिरोधिविषयकज्ञानप्रतिबध्यतानवच्छेदकतया ताह. शधर्मावच्छिन्ने वह्नयादिप्रकारकत्वस्याभावे विरोधिविषयताप्रयुक्तत्वम * चन्द्रकला * विशिष्टहदादिरूपत्राधादि विषयिताप्रयुक्तत्वस्याऽक्षतत्वादिस्येवं समाधो विशिष्टेति । ताराप्रकारकत्वविशिष्टानाहार्यज्ञानत्वाभावप्रयोजकस्येत्यथः । विशेष्येति । अनाहार्यज्ञानत्ववनिष्ठविशेषणीभूततादृशप्रकारकत्वाभावप्रयोजकस्वादित्यर्थः । अनाहार्येति । घटाद्यनुमित्यादिनिष्ठस्य हृदादिविशेष्यकवह्नयादिप्रकारकत्वरूपविशेषणाभावस्येत्यर्थः । लक्षणसमन्वय इति । एवमन्यत्राऽपि अनयैव रीत्या विरोधिविषयिताप्रयुक्तत्वं तादृशोभयाभावस्य सुसम्पादनीयमिति हृदयम् । निर्वतिःपर्वतो वह्निमान् धूमादित्यादी वह्निमत्पर्वतरूपाश्रयासिद्धिनिश्चयाव्यवहितोत्तरं निर्वह्निःपर्वतो वह्निमान् वह्निन्यायधूमवानित्याद्याकारकाहार्यज्ञानात्मकानुमितेरप्रसिद्धतया उत्पादाऽसम्भवेऽपि तदुत्तरोत्पन्नघटपटाद्यनुमितित्रु तादृशाहार्यज्ञाने प्रसिद्धस्य निर्वह्निपर्वत विशेष्यकवह्निप्रकारकत्वस्य वह्निव्याप्यधूमप्रकारकत्वस्य चाभावसत्त्वात् तादृशाश्रयाऽसिद्धौ निरुक्तरीत्या लक्षणसमन्वयं प्रदय शंकते नचेति । वाच्यमितिपरेणान्वयः। __ तथाच प्रतिबन्धकतावच्छेदकवियिताया एव प्रतिबध्यतावच्छेदकधर्भाभावप्रयोजकतया आहायज्ञानस्याप्रतिबध्यत्वात् तन्मात्रप्रसिद्धस्य वह्नयभाववत्पर्वतविशेव्यकवह्निप्रकारकत्वादेःकस्याऽपि प्रतिष व्यतानवच्छेदकत्वेन पह्निमत्पर्वत विषयिताप्रयुक्तत्वस्य निर्वहिपर्वतविशेष्यकवह्निप्रकारकत्वघटितोयाभावे विरहात् कथं तादृशाश्रयासिद्धौ लक्षणसमन्वय इति समुदितग्रन्थतात्पर्यम् । यो व्यापकाभावस्य प्रयोजकःस व्याप्याभावस्याऽपि प्रयोजको भवतीति निय "Aho Shrutgyanam" Page #209 -------------------------------------------------------------------------- ________________ चन्द्रकला कलाविलासाख्यटीकाद्वयोपेतम् १९३ * गादाधरी 8 प्रामाणिकमिति वाच्यम् , तादृशज्ञानत्वस्य प्रतिबध्यतानवच्छेदकत्वेऽपि तयापकस्य पर्वतत्वावच्छिन्ने वह्नित्वावच्छिन्नाभावप्रकारकज्ञानत्वस्यैव वह्निविशिष्टपर्वतविषयकज्ञानप्रतिबध्यतावच्छेदकतया व्यापकाभावप्रयोजकस्य सुतरां व्याप्याभावप्रयोजकतया तादृशविशिष्टविशेष्यकत्वावच्छिन्नवह्नयादिप्रकारकत्वाभावे तादृशदोषविषयिताप्रयुक्तत्वस्यावश्यकत्वात् । न च विरोधिज्ञानोसत्त्वेऽपि निवह्निः पवतो वह्निमानित्यादिज्ञानस्यानाहायस्यानुत्पत्त्या इच्छादिघटिततादृशाहाय्यज्ञानसामग्रथमावस्यैव निवह्नित्वविशिष्टे वह्निवैशिष्टयावगाहित्वाभावप्रयोजकत्वं न तु विरोधिविषयित्वस्य, कचिदप्यक्लुप्तत्वादिति वाच्यम् , ॐ चन्द्रकला 0 मात् वह्निमपर्वतरूपाश्रयासिद्धिनिश्चयप्रतिबध्यतावच्छेदकस्य पवन विशेष्यकवह्नयभावप्रकारकत्वस्याऽभावंप्रति तादृशाश्रयाऽसिद्धिविषयितायाः प्रयोजकतया पर्वतविशेध्यकवह्नयभावप्रकारकत्वस्य च निर्वह्निपर्वत विशेष्यकवह्निप्रकारकत्वव्यापकत्वेन व्यापकाभावप्रयोजकोभूतायास्तादृशाश्रयासिद्धिविषयिताया व्यायीभूतस्य निर्वहिप तविशेष्यकवहिप्रकारकत्वघटिततादृशोभयस्याऽभावं प्रत्यपि प्रयोजकतायाः स्वीकरणीयतया निरुक्तोभयाभावे विरोधिविधयिताप्रयुक्तत्वस्य निर्विवादत्वात्तत्र लक्षणसमन्वयइत्याह तादृशज्ञानत्वस्येति । निर्वह्निविशेष्य कवहितकारकशानत्वस्येत्यर्थः । प्रतिबध्यतेति । कस्यापीत्यादिः । तद्व्यापकस्य = निर्वह्निविशेष्यकवह्निप्रकारकशानत्यव्यापकस्य । तादृशविशिष्टेति। निहित्वविशिष्टपर्वतेत्यर्थकम् । ताहशेति । वह्निमत्पर्वतात्मकाश्रयासिद्धिरूपदोषविषयिताप्रयुक्तत्वस्येत्यर्थः । आवश्यकस्वादिति । तथाच क तत्राऽव्याप्ति रिलि भावः । ननु निर्वह्निविशेप्यकवह्निप्रकारकशानं जायतामित्याकारिकाया इच्छाया वह्निमान् पर्वत इत्याकारकविरोधिनिश्चयस्य च शून्यतादशायां निर्वह्निःपर्वतो वलिमानित्याकारकाहार्यज्ञानस्यानुत्पाददर्शनात् तादृशेच्छादीनामाहार्यज्ञानसामग्रीत्वं वाच्यम्, एवञ्च सामग्ययभावप्रयुक्त एव निर्वह्निपर्वतविशेष्यकवहिप्रकारकत्वरूपाहार्यज्ञानस्वाभावः नतु वह्निमत्पर्वत विषयितारूपविरोधिविषयिताप्रयुक्तः, तथाच निरुक्तोभयाभावे विरोधिविषयिताप्रयुक्तत्वविरहेण तादृशाश्रयाऽसिद्धावव्याप्तिरित्याशंकते नचेति । वाच्यमितिपरेणान्वयः। कचिदम्यलातत्यादिति । विरोधिविषयितात्वेन प्रयोजकताया इत्यादिः। तथाच वह्निमत्पर्वतरूपाश्रयाऽसिद्धावव्याप्तिरस्त्येवेति १३ "Aho Shrutgyanam" Page #210 -------------------------------------------------------------------------- ________________ १९४ अनुमानगादाधयां सामान्यनिरुक्तिप्रकरणम् ®गादाधरी अभावाधिकरणतायामेव विरोधिविषयताप्रयुक्तत्वस्य निवेश्यतया अधिकरणतायाश्चाभावाभेदेप्यधिकरणभेदेन भिन्नतया विरोधिज्ञानानन्तरोत्पन्नज्ञाने ताशवैशिष्टयावमाहित्वाभावाधिकरणतायां विनिगमनाविरहेण पूर्वज्ञानीयविरोधिविषयिताया अपि प्रयोजकत्वात् ।। यद्विषयिताप्रयुक्तस्तादृशोभयाभावस्तत्त्वमित्येतावन्मात्रे कृते हृदो वह्नयभाववानित्यादिज्ञानीयवह्नयभावादिविशिष्टह्रदादिविषयिताया इव तदन्तःपातिवह्नयभावत्वादिविशिष्टविषयिताया अपि प्रतिबन्धकतावच्छेदककोटिप्रविष्टतया प्रतिबध्यतावच्छेदकस्य हृदत्वादिविशिष्ट वह्नयादिवैशिघ्यावगाहित्वस्य बिरहप्रयोजकतया बाधायेकदेशे वह्नयभावादिरूपविशिटेऽतिव्याप्तिरिति यद्विषयकनिश्चयाव्यवहितोत्तरानुमितिसामान्यस्य विरोधिविषयिताप्रयुक्तोभयाभाववत्वं निवेशितम् । * चन्द्रकला * हृदयम् । अभावाधिकरणतायाम् प्रकृतपक्षविशेष्यकप्रकृतसाध्यप्रकारकत्व-प्रकृतसाध्यव्याप्यप्रकृतहेतुप्रकारकत्वरूपोभयाभावाधिकरणतायाम् । नन्वेवमधिकरणतायां विरो धिविषयिताप्रयुक्तत्वविवक्षणेऽपि कथं तत्र नाव्यासिरित्यत आह अधिकरणतायाश्चेति । तादृशोभयाभावाधिकरणलायाश्चेत्यर्थः । प्रयोजकत्वादिति । तथाच बलिमपर्वतनिश्चयोत्तरोत्पन्न बटाद्यनुमितिनिठायां निर्वहिरर्वतविशेष्यकवह्निप्रकारकस्वटितताहशोमयाभावाधिकरणतायाम् पूर्वज्ञानीयाश्रयाऽसिद्धिविषयिताया अपि विनिगमनाविरहेण प्रयोजकत्वे बाधकाभावात् निरुतोभयाभावाधिकरणतायां विरोधिविषयिताप्रयुक्तत्वस्याक्षततया तादृशाश्रयाऽसिद्धावव्यातिवारणसम्भत्रे पूर्वोक्ताशंका न युक्तत्याशयः। यद्पावच्छिन्नविषयकनिश्चयाऽव्यवहितोत्तरानुमितिसामान्ये इत्यनभिघाय यद्पावच्छिन्नविषयिताप्रयुक्तः प्रकृतपक्षविशेष्यकप्रकृतसाध्यप्रकारकत्व-प्रकृतसाध्यव्याप्यहेतुप्रकारकनोभयाभावस्तद्रपवत्त्वमित्युक्तौ हृदो वह्निमान् धूमादित्यादौ बा. धायकदेशे केवल सहयभावादावतिव्याप्तिः, पूर्वोक्तयुक्त्या वह्नयभावत्वावच्छिन्न विषयताया अपि हृदादिविशेष्यकवन्यादिप्रकारव बुद्धिप्रतिबन्धकतावच्छेदकल्या तत्प्रयुक्तत्वस्य हृदधर्मिकवनिप्रकारकत्वाभावे आवश्यकत्वेन तादृशप्रकारकत्वघटितोभयाभावे:पि वन्यभावत्वावच्छिन्नविषयितापयुक्तत्वस्य निराबाधत्वात् यद्रुपपदेन केवलवन्यभावत्वस्यापि धत्तं शक्यत्वात् । यद्यपि यद्रूपावच्छिन्न विषयितासामान्यप्रयुक्तस्तादृशोभयाभावस्तद्रूपवत्वमितिविवक्षणे न केवलवहन्यभावादावतिव्याप्तिः, वन्य "Aho Shrutgyanam" Page #211 -------------------------------------------------------------------------- ________________ चन्द्रकला-कलाविलासाख्यटीकाद्वयोपेतम् १९५ 8 गादाधरी , न च यादृशविशिष्टविषयितासामान्यप्रयुक्तस्तादृशोभयाभावस्ताहशत्वमित्येव सम्यक् , ह्रदत्वादिविशिष्टविषयितासामान्यान्तर्गतायां हद इत्यादिज्ञानीयविषयितायामुभयाभावप्रयोजकत्वासत्वादतिव्याप्तरनवकाशादिति वाच्यम् , पाषाणमयो न वह्निमानितिज्ञानसहितस्य पर्वतः पाषाणमय इति ज्ञानस्य पवतो वह्निमानितिज्ञानप्रतिबन्धकतया ज्ञानभेदेन विषयिताभेदाभावात् पाषाणमयत्वविशिष्टपर्वतादिविषयितासामान्यस्यैव उभयाभावप्रयोजकत्वात् पाषाणमयत्वविशिष्टपर्वतादावतिव्याप्तदुरित्वात् । हृदो वह्नयभावधानित्यादिह्रदादिविषयकनिश्चयानन्तरोत्पन्नघटाद्यनुमि * चन्द्रकला * भावत्वावच्छिन्नविषयितासामान्यान्तर्गताया वहन्यभाव इत्याकारकशानीयविषयिताया हृदादिधर्मिकवन्यादिप्रकारकबुद्धिप्रतिबन्धकतानवच्छेदकतया तत्प्रयुक्तत्वस्य हृदविशेष्यकवह्निप्रकारकत्वघटिततादृशोभयाभावे विरहात् प्रतिबन्धकतावच्छेदकविषयिताप्रयुक्तत्वस्यैव प्रतिबध्यतावच्छेदकधर्माऽभावेऽभ्युपगमात् यद्पपदेन वहन्यभावत्वस्योपादानाऽसम्भवादित्युच्यते, तथाप्येतद्विवक्षणं न सम्भवति, पर्वतो वह्निमान् धूमादित्यादौ पाषाणमयत्ववत्पर्वतेऽतिव्याप्त्यापत्तेः, पाषाणमयो न वह्निमान् इत्याकारकज्ञानसमानकालीनपर्वतश्च पाषाणमय इत्याकारकशानीयपाषाणमयत्ववत्पर्वतविषयितायास्तादृशज्ञानाऽसमानकालीनज्ञानीयपाषासमयत्ववत्पवंतविषयिताया ऐक्येन पाषाणमयत्ववत्पर्वतविषयितासामान्यस्यैव पर्वतादिविशेष्यवह्निप्रकारकबुद्धिप्रतिबन्धकतावच्छेदकत्वेन पाषाणमयत्ववत्पर्वतवियितासामान्यप्रयुक्तत्वस्यैव पर्वतादिविशेध्यकववन्यादिप्रकारकत्वघटितोभयाभावे सत्त्वात् पाषाणमयत्ववत्पर्वतत्वस्य यद्रूपपदेन धत्त शक्यत्वात् इत्येवं यद्विषयिताप्रयुक्तस्तादृशोभयाभाव इत्यादिनाऽशंक्य पाषाणमयत्वविशिष्टपर्वतादावतिव्याप्तेढुंरत्वादित्यन्तेन समाहितम् । तथाच यद्रूपावच्छिन्नविषयकनिश्चयोत्तरमनुमितिसामान्ये इत्युक्तौ तु न बाधाद्येकदेशेऽतिव्याप्तिनवा पर्वतो वह्निमान् धूमादित्यादौ पाषाणमयत्ववत्पर्वतेऽतिव्याप्तिः, * कलाविलासः * पाषाणमयत्वविशिष्टपर्वतेति । अथ निरुक्तकल्पे निर्वह्निःपर्वतो वह्निमानित्यत्र पाषाणमयत्ववत्पर्वतेऽतिव्याप्तिर्दुर्वा रैव, निर्वह्निःपर्वतो वह्निमानित्याकारकज्ञानस्याहार्यतयाऽनुमितित्वाऽसम्भवात्, पाषाणमयत्ववत्पर्वतनिश्चयोत्तरानुमितिसामान्यपदेन घटाद्यनुमित्यादेरेव धत्तुं शक्यतया तच निर्वह्निपर्वते वह्निवैशि९ट्यावगाहित्वघटितोभयाभावस्य विरोधिविषयिताप्रयुक्तस्य सत्त्वात, पाषाणमयो न "Aho Shrutgyanam" Page #212 -------------------------------------------------------------------------- ________________ १६ अनुमानगादाधर्या सामान्यनिरुक्तिप्रकरणम् * गादाधरी तौ विरोधिविषयिताप्रयुक्तोभयाभावसत्त्वात् केवलहदादावतिव्याप्तिरतः सामान्य पदं पूरितम् । तथासति हृदादिनिश्चयानन्तरोत्पन्नानुमितिसामान्यान्तर्गतायां हद इत्यादिनिश्चयानन्तरजात-ह्रदो वह्निमान् वह्निव्याप्य. धूमवांश्चत्याद्यनुमितौ विरोधिविषयिताप्रयुक्ततादृशोभयाभावासत्त्वान्नातिव्याप्तिः । ह्रदत्वादिना वह्नयभावविशिष्टहदादिविषयकनिश्चयानन्तरमुक्तसमूहालम्बनानुमित्युत्पत्त्या तादृशविशिष्टस्यापि दोषत्वानुपपत्तिरतो य * चन्द्रकला * वहथभाव इत्याकारकनिश्चयोत्तरानुमितिसामान्यान्तर्गतायां ह्रदो वह्निमान् वह्निव्याप्यधूमवानित्यनुमितौ हृदविशेष्यकरह्निप्रकारकत्वधटिततादृशोभयाभावस्य पाषाणभयत्ववत्पर्वतनिश्चयोत्तरानुमितिसाभान्यान्तर्गतायां पर्वतो वह्निमान् वहिव्याप्यधूमवांश्चेत्याद्याकारकानुमितौ च पर्वतविशेष्यकवह्निप्रकारकत्वघटिततादृशोभयाभावस्य विरहेण वह्नयभावत्वादेर्यद्रूपानन्तर्गतत्वादिति तु परमार्थः ।। ननु यद्रूपावच्छिन्नविषयकनिश्चयाव्यवहितोत्तरानुमितौ तादृशोभयाभावविवक्षणेनैव सामञ्जस्ये तादृशनिश्चयोत्तरानुमितिसामान्ये उभयाभावनिवेशो निरर्थक इत्यत आह वह्नयभावनानिति । तथाच सामान्यपदानुपादाने हृदो वह्निमान् धूमादित्यादौ वह्नयभावविशिष्टह्रदादिरूपवाधायेकदेशे वह्नयभावादी पुनरतिव्याप्तिःस्यात् , वलयमावत्वावच्छिाविषयकनिश्चयाव्यवहितोत्तरयत्किञ्चद्घटाद्यनुमितौ हृदविशेष्यकवह्निप्रकारकत्वाभावस्य वह्नयभावविषयितारूपविरोधिविषयिताप्रयुक्तस्य सत्त्वेन ताहशोभयाभावस्य वर्तमानत्वादितिभावः । सामान्यपदोपादाने तु न तत्रातिव्याप्तिरित्याह तथा सतीति । सामान्यपदोपादाने सतीत्यर्थः। नातिव्याप्तिरिति । वह्नयभाव * कलाविलासः * वह्निमान् पर्वतश्च पायाणमय इत्याकारकज्ञानविशिष्टज्ञानस्य पर्वतादौ वह्निप्रकारकबद्धिविरोधितया व्यापकाभावप्रयोजकस्य पापाणमयत्ववत्पर्वतविपयित्वस्य सुतरां व्याप्याभावस्याऽपि प्रयोजकत्वादिति चेञ्च ? यद्पावच्छिन्नविषयकनिश्चयोत्तरानुमितित्वव्यापकत्वस्य विरोधिविपग्रिताम्रयुक्तत्वस्य च तादृशोभयाभावाधिकरणतायामेव विवक्षितत्वात् । तथाच ज्ञानविशिष्टज्ञानाव्यवहितोत्तरोत्पन्नघटाधनुमितिनिष्ठोभयाभावाधिकरणतायामेव पापाणमयत्ववत्पर्वतविषयिताप्रयोज्यत्वस्याम्युपगम्यमानतया पापाणमयो न वह्निमानितिज्ञानाऽसमालकालीनपाषाणमयत्ववत्पर्वतविषयकनिश्चयोत्तरजातघटायनुमितिनिष्टोभयाभाबाधिकरणतायाम् पाषाणमयत्ववत्पर्वतविपश्रिताप्रयोज्यत्वस्याऽसत्वादिति ध्येयम् । "Aho Shrutgyanam" Page #213 -------------------------------------------------------------------------- ________________ चन्द्रकला-कलाविलासाख्यटीकाद्वयोपेतम् १९७ * गादाधरी * त्पदं यद्रूपावच्छिन्नपरतयोपवर्णितम् । वलयभावविशिष्टलदादिविषयकस्य ह्रदो वह्निमान्नवेत्यादिज्ञानस्यानन्तरं तादृशलमूहालम्बनानुमित्युत्पत्त्या तद्दोषतादवस्थ्यमतो निश्चयेति । अनाहाययोप्रामाण्यज्ञानानास्कन्दितसंशयान्यज्ञानपरं, तेनाहार्य्यस्याप्रामाण्यज्ञानास्कन्दितस्यापि दोषविषयकनिश्चयस्यानन्तरं तादृशानुमित्युत्पत्तावपि न क्षतिः । * चन्द्रकला इत्याकारकवह्नयभावत्वावच्छिन्नविषयकनिश्चयाव्यवहितोचरानुमितिसामान्यान्तर्गतायां हृदो वह्निमान् वह्निव्याप्यधूमवांश्चेत्याकारकानुमितौ ह्रदविशेष्यवाह्निप्रकारकत्व-वह्निव्याप्यधूमप्रकारकत्वयोरभावविरहान्न वह्नयभावत्यविशिष्टेऽतिव्यातिरित्यर्थः । यद्विषयकनिश्चयस्येत्यत्र यत्पदस्य यद्पायच्छिन्नपरत्वानभिधाने ह्रदो वह्निमान् धूमादित्यादौ वह्नभावविशिष्टहृदादिरूपबाधादौ सर्वत्राऽसम्भवः स्यात् , द्रव्यत्वादिना वह्नयभावविशिष्टहृदादिनिश्चयस्यापि यद्विषयकनिश्चयपदेन चत्त शक्यतया तव्यवहितोत्तरानुमितिसामान्यान्तर्गतायां हृदो वह्निमान् वह्निन्यायधूमवानित्यनुमितौ तादृशोभयाभावस्यासत्त्वात् निर्वह्निः पर्वतो वह्निमानित्यादावपि द्रव्यत्वावच्छिन्नह्निमत्पर्वतविषयिताया वह्नयभावप्रकारकबुद्धौ प्रतिबन्धकतानवच्छेश्कया तस्या विरोधिविषयितात्वाऽसम्भवेन तत्प्रयुक्तत्वस्य तादृशोभयाभावे विरहात् तथाविधाश्रयाऽसिद्धावपि लक्षण गमनाऽसम्भवात् इत्याह यद्रपावच्छिन्नपरतयेति । वह्नयभाव-ह्रदत्वादिरूपयद्रूपावच्छिन्नपरतयेत्यर्थकम् । तथाच वह्नयभाव-हृदत्वादिरूपधर्मद्वयावच्छिन्नविषयकनिश्चयाव्यवहितो. त्तरं हृदो वह्निमानित्याद्यनुमित्यनुत्पत्त्या न कोऽपि दोष इति तात्पर्यम् । निश्चयपदं विहाय यद्रूपावच्छिन्न विषयकज्ञानस्य तदुत्चारमनुमितावित्युक्तौ हृदादौ वयादिसाध्यकस्थले वन्यभावविशिष्टहदादिरूपबाधादावव्याप्तिः, हृदो वह्निमान्नवेत्याकारकसंशयस्य वहन्यभाववान् हृद इतिज्ञानभप्रमेत्याकारकाप्रामाण्यज्ञानास्कन्दितवन्यभाववद्हृदज्ञानस्य वह्निमान् हृदो वह्नयभाववानित्याकारकाहार्यज्ञानस्य च वन्यभावविशिष्ट हदत्वरूपयद्रूपावच्छिन्नविषयकतया तादृशसंशयाव्यवहितोत्तरोत्पन्नानुमितिसामान्यान्तर्गतायां -हदो वह्निमान् वह्निव्याप्यधूमवानित्यनुमितौ हृदादिविशेष्यकवह्नयादिप्रकारकत्वघटितोभयाभावस्यासत्त्वात् । अतः अनाहार्याऽप्रामाण्यज्ञानानास्कन्दितसंशयान्यज्ञानपरं यद्विषयकनिश्चयस्येत्यत्र निश्चयपदमभिहितमित्याह वह्नयभावेति । न क्षतिरिति । नाव्याप्तिरित्यर्थः। दोषविषयकसंशयादेः सार्वत्रिकत्वे प्रमाणाभावेनाऽसम्भवासम्भवादितिध्येयम् । यद्विषयकनिश्चयाव्यवहितोत्तरत्वमनुमि "Aho Shrutgyanam" Page #214 -------------------------------------------------------------------------- ________________ १९८ अनुमानगादाधर्या सामान्यनिरुक्तिप्रकरणम् गादाधरी छ दोषविषयकनिश्चयनाशे सति तादृशानुभितेरुत्पत्त्या तद्दोपापत्तिरतोऽन्यवधाननिवेशः । एवं दोषविषयकलौकिकनिश्चयाव्यवहितपूर्वमनुमित्युत्पत्या तद्दोषः स्यादिति उत्तरेति । तत्सामानाधिकरण्यमनुमितौ निवेश्यमत एकस्य बाधनिश्चयानन्तरमन्यस्यानुमितावपि न क्षतिः । * चन्द्रकला ** तावनिवेश्य तादृशनिश्चयोत्तरमनुमितिसामान्ये इत्युक्तौ हदो वह्निमानित्यादौ वह्नयभावविशिष्ट-हदादिरूपबाधादौ सर्वत्राऽसम्भवः, तादृशनिश्चयस्य विनाशानन्तरं प्रतिबन्धकविरहेण समुत्पन्नायां -दो वह्निमान् वह्निव्याप्यधूमवानित्याद्यनुमिती निरुत्तोभयाभावस्याऽसत्वात् तादृशनिश्चयाव्यवहितोत्तरमनुमितिसामान्ये इत्युक्तौ तु नासम्भवः, वह्नयभावविशिष्टहृदादिनिश्चयस्य हृदादिधर्मिकवह्नयादिप्रकारकबुद्धिप्रतिबन्धकतया तदुत्तरं तादृशानुमितेरुत्पादाऽसम्भवादित्याह दोषविषयकेति । ताह. शेति । पक्षादिविशेष्यकसाध्यादिप्रकारकानुमित्युत्पत्त्यर्थः । अत्र तादृशनिश्चयाव्यवहितोत्तरत्वं तृतीयक्षणसाधारण स्वध्वंसाधिकरणकालध्वंसानधिकरणत्वे सति स्वाधिकरणकालध्वंसाधिकरणल्वरूपमित्यन्यत्र स्फुटीभविष्यति । ननु यद्पावच्छिन्नविषयकनिश्चयाव्यवहितानुमितिसामान्य एवोमयाभावो निवेश्यतां व्यर्थ तादृशोत्तरपदोपादानमित्यत आह एवमिति । या शस्थले वह्नयभावविशिष्टहृदविषयको लौकिकनिश्चयो जातस्तादृशस्थले वह्नयभावविशिष्टहदात्मकबाधादिदोषेऽव्याप्ति:, लौकिकनिश्चयात्मकज्ञानस्य कस्याप्यप्रतिवध्यतया हृदो वह्निमान् वह्निव्याप्यधूमवानित्याकारकानुमित्यव्यवहितोत्तरमपि हृदो वन्यभाववानित्याकारकलौकिकनिश्चयसत्त्वे बाधकाभावात् तादृशलौकिकनिश्चयाव्यवहितपूर्वक्षणोत्पन्नायां तादृशहदादिविशेष्यकवहन्याधुनुमितौ तादृशोभयाभावविरहादिति भावः । तद्दोषः = निरुक्ताव्याप्तिरूपो दोषः। तदुत्तरेति । तादृशनिश्चयाव्यवहितोत्तरमिति वक्तव्यमित्यर्थः । हृदो वन्यभाववानित्याकारकलौकिकान्यनिश्चयपूर्व हृदादौ वन्यायनुमित्युत्पादे तादृशबाधनिश्चय एव व्याहन्येत, निरुक्तानुमितेः निरुक्तबाधबुद्धिप्रतिबन्धकत्वात् , तथाच काव्याप्तिरित्यतो निश्चये लौकिकत्वमुक्तमिति बोध्यम् । ननु चैत्रस्य वह्नयभाववद्धदादिनिश्चयदशायां मैत्रस्य हृदो वह्निमान वह्निव्याप्यधूमवानित्यनुमित्युत्पत्त्या तत्र तादृशोभयाभावविरहात् बाधादाव्याप्तिरत अाह तत्सामानाधीति । यद्रूपावच्छिन्न विषयकनिश्चयसामानाधिकरण्यमित्यर्थः । एकस्य चैत्रादेः । अन्यस्य = मैत्रादेः । न क्षतिः : न बाधादावव्याप्तिः । नत्वसम्भवः, निर्वहःपर्वतो वह्निमानित्यादौ वह्निमत्पर्वतरूपाश्रया "Aho Shrutgyanam" Page #215 -------------------------------------------------------------------------- ________________ चन्द्रकला-कलाविलासाख्यटीकाद्वयोपेतम् १९९ * गादाधरी * बाधादिनिश्चयानन्तरं पक्षतावच्छेदकावच्छन्ने साध्यादिप्रकार कल्याहाय्यस्य लौकिकस्य च प्रत्यक्षस्य उत्पत्त्या ज्ञानसामान्यमुपेक्ष्यानुभितिसामान्यनिवेशः। यत्पक्षकयत्साध्यकयद्धतुकस्थले यादृशदोषविषयकनिश्चयानन्तरं कस्याप्यनुमितिर्न जाता तत्र वादृशानुमितेरप्रसिद्वयाऽव्याप्तिरतोऽनुमितिस्थलेऽनाहाय्यदोषविशेषाजन्यज्ञानं निवेश्य कल्पान्तरमाहानाहार्येति । तथा च यत्र तादृशानुमित्यप्रसिद्धिस्तत्र तथाविधमानसोपनीतभानादिक" मादायैव लक्षणं सङ्गमनीयमिति भावः।। बाधादिनिश्चयानन्तरं आहार्यसाध्यादिप्रकारकप्रत्यक्षोत्पत्त्यात भवं ऽव्याप्तिर्चेत्यत हाहानाहार्येति । शक न पीत इत्यादिनिश्चयानन्तरं * चन्द्रकला सिद्धौ लक्षणगमनसम्भवात् , चैत्रीयाश्रयासिद्धिनिश्च यदशायां मैत्रस्यापि निर्वहिपचतविशेष्यकानुमित्यप्रसिद्धरित्युक्तत्वादिति ध्येयम् । अनुमितिमनिवेश्य यद्पावच्छिनविषयकनिश्चयोत्तरज्ञानसामान्ये इत्युक्तौ हदो वह्निमानित्यादौ वह्नयभावविशिष्ट हृदा. दिरूपबाधादावसम्भवः, बाधादिनिश्चयाव्यवहितोत्तरोत्पन्नज्ञानसामान्यान्तगते वह्निमान् हृदो वह्नयभाववानित्याकारकाहार्यज्ञाने लौकिकनिश्चयात्मकवह्नि मद्ध्दज्ञाने वा हृदादिविशेष्यकवह्नयादिप्रकारकत्वघटितादृशोभयाभात्रा ऽसत्त्वादतस्तादृशज्ञानसामान्य इत्यनभिधाय तादृशानुमितिसामान्ये इत्युक्तमित्याह बाधादिनिश्चयेति । अादिना व्यभिचारादिपरिग्रहः। अनाहार्य मानसशाने वेतिकल्पान्तरोत्थितौ बोनमाह यत्साध्यकेति । यादृशदोषेति यादृशबाधादिदोषार्थकम् । तत्र = तादृशस्थले। तादृशेति । बाधादिदोषविषयकनिश्चयानन्तरमित्यादिः । घटादिविषयार्थकम् । अव्याप्तिरिति सवव तादृशानुमित्यप्रसिद्धरप्रामाणिकत्वात् या शस्थल इत्यादिनाऽज्याति रेवाभिहितेत्यवधेयम् । नन्वेवमनाहार्यदोषविशेषाजन्यज्ञानसामान्यनिवेशे वा कथं तादृशस्थलीयदोषे नाऽध्यातिरित्यतो भावमाह तथाचेति । यत्र = यादृशस्थले, तत्र = ताशस्थले । तथाविधेति । दोषविषयकनिश्चयानन्तरम् । घटादिविषय कशानलक्षणासन्निकर्षजन्यप्रत्यक्षादिकमादायैवेत्यर्थः । आदिपदात् तथाविधशाब्दबोधादेरुपग्रहः । लक्षणं संगमनीयमिति । बाधादिदोषविषयकनिश्चयाव्यवहितोत्तरोत्पन्नतादृशप्रत्यक्षादौ तथाविधोभयाभावस्याक्षतत्वादित्याशयः । मानसज्ञाने अनाहार्यत्वविशेषणोपादानप्रयोजनमाह बाधादीति । श्रादिना व्यभिचारिदोषान्तरपरिग्रहः । तेन नानिमासम्भवइत्यस्याऽसंगतिः । सर्वत्र दोषविषयकनिश्चयानन्तरं पाहायपक्षादिविशेष्यकसाध्यादिप्रकारकज्ञानोत्पादे प्रमाणाऽभावादाह अव्याप्तिर्वेति । तथाच याहशदोषविषयक "Aho Shrutgyanam" Page #216 -------------------------------------------------------------------------- ________________ २०० अनुमानगादावर्यां सामान्यनिरुक्तिप्रकरणम् * गादाधरी शङ्खादौ पीतत्वादिप्रकार कस्य दोषविशेषजन्यचाक्षुपादेरुत्पत्त्या शङ्खः पीतः शङ्खत्वादित्यादिस्थलीय बाधादावव्याप्तिरतो मानसेति । मानसपदं दोषविशेषाजन्यज्ञानपरं तेन नाहं गौर इत्यादिनिश्चयानन्तरं मिथ्याज्ञानजन्यथासनादिरूपदोषविशेषजन्यात्म विशेष्यकगौरत्वादिप्रकार क्रमानसज्ञानस्योत्पत्तावपि अहं गौर आत्मत्वादित्यादिस्थलीयबाधादौ नाव्याप्तिः । एतेन यादृशपक्षसाध्यहेतुकस्थले यद्विषयक निश्चयानन्तरं विरोधिसामप्रयादिवशेन मानसज्ञानं कदापि न जातं तत्राव्याप्तिरित्यपि निरस्तम् । तत्राप्यनुमितिशाब्दबोधादिकमादाय लक्षणगमनसम्भवात् । पक्षतावच्छे ॐ चन्द्रकला निश्चयानन्तरं श्राहार्यपक्षादिविशेष्यकं साध्यादिप्रकारकं साध्यव्याप्य हेत्वादिप्रकारकञ्च ज्ञानमुत्पद्यते तादृशदोषेऽव्याप्तिरिति भावः । नन्वाहार्य मानसज्ञानसामान्ये तादृशोमयाभावनिवेशेऽपि शंखः पीतः शंखत्वादित्यादौ पीतत्वाभाववान् शंख इत्याकारकत्राघनिश्चयानन्तरं पिचादिदोषवशात् 'शंखः पीतः पीतत्वव्याप्यशंसत्ववाँश्चे' त्याकारकप्रत्यक्षे तादृशोभयाभावविरहेण पीतत्वाभावविशिष्टशंखरूपबाधाव्या तेर्मानसपदेन कथञ्चिद्वारणेऽपि ग्रहं गौर ग्रात्मत्वादित्यादौ गौरत्वाभावविशिष्टात्मरूपबाधाऽव्याप्तिदुवारा स्यात्, निरुक्तबाघनिश्चयोत्तरं मिथ्याज्ञानजन्यवासनारूप दोषवशात् अहं गौरः गौरत्वव्याप्यात्मत्ववांश्चेत्याकारकानाहार्य मानसज्ञानोत्पत्तेरावश्यकतया तत्र प्रकृतपक्षविशेष्यकप्रकृतसाध्यादिप्रकारकrवघटितोभयाभावविरहादतो मानसपदं दोषविशेषाजन्यज्ञानपरमेव वक्तव्यमित्याह शंखो न पीत इत्यादितो बाधादौ नाव्याप्तिरित्यन्तम् । एतेनेति । मानसपदस्य दोषविशेषाऽजन्यज्ञानपरत्वव्याख्याकरणेनेत्यर्थः । विरोधीति चाक्षुषादिसामग्रीवशेने - त्यर्थः । तत्र=तादृशदोषे । दोषविशेषाजन्यज्ञानविवक्षणे न तादृशदोषेऽव्याप्तिरित्याह तत्रेति । यादृशस्थले दोषविषयक ज्ञानोत्तरं मानसज्ञानं न जातं तादृशस्थले इत्यर्थः । प्रथमदलं विहाय पक्षे साध्यव्याप्यहेतुमत्त्वावगाहित्वाभावमात्र प्रवेशे बाघ - सत्प्रतिपक्षादावव्याप्तिः, बाधादिनिश्चयाव्यवहितोत्तरोत्पन्नायां साध्यव्याप्यहेतुमान् पक्ष इत्याकारकानुमितौ पक्षे साध्यव्याप्यहेतुवैशिष्ट्या वगाहित्याभावस्यासत्वात् । एवं द्वितीयदलम् परित्यज्य पक्षे साध्यवैशिष्ट्यावगाहित्वाभावमात्रनिवेशे व्यभिचारविरोधस्वरूपासिद्ध्यादावव्याप्तिः, व्यभिचारादिनिश्चयानन्तरं समुत्पन्ना पक्षः साध्यवानत्याकारकानुमितौ पक्षे साध्यवैशिष्ट्या वगाहित्वाभावविरहादित्याह पक्षतेति । " Aho Shrutgyanam" Page #217 -------------------------------------------------------------------------- ________________ चन्द्रकला-कलाविलासाख्यटीकाद्वयापेतम् ॐ गादाधरी दकेत्यादिदलद्वयनिवेशस्य व्यावृत्तिः पूर्वोक्तरीत्या बोध्या । विरोधिविषयताप्रयुक्तत्वनिवेशप्रयोजनं स्वयमेवाग्रे वदयति । यत्र विषयविशेषे समूहालम्बनज्ञानं न कस्यापि जातं तत्र पक्षतावच्छेदकविशिष्टे साध्यवैशिष्टचावगाहित्व विशिष्टसाध्यव्याप्तिविशिष्टहेतु वैशिष्टयावगाहित्वाभावरूपविशिष्टाभावाप्रसिद्धयाऽव्याप्तिरतो विशिष्टाभावमुपेक्ष्योभयाभावनिवेशः कृतः । तादृशोभयाभावप्रयोजकविरोधिविषयितावत्त्वं यद्रूपविशिष्टविषयकत्वव्यापकं तद्रूपावच्छिन्नत्वं दोषत्वमित्यस्य * चन्द्रकला * २०१ पक्षतावच्छेदकसाध्यतावच्छेदकादिव्यावृत्तिरपि पूर्ववदेव बोध्या, अन्यथा हृदो वह्नय माववानित्यादिवाघनिश्चयोत्तरोत्पन्नानुमितिसामान्यान्तर्गतायां द्रव्यं वह्निमत् पक्षतावच्छेदकाद्यघटितयन्यादिप्रकारकत्व वह्निव्याप्यधूमवच्चेत्याकारकानुमितौ घटितोभयाभावविरहात् पूर्ववदेव बाधादावव्याप्ति संगः स्यादित्यवधेयम् । वक्ष्यतीति दीधितिकार इति शेषः । ननु यद्रूपावच्छिन्न विषयकनिश्चयान्यवहितोत्तरानुमितिसामान्ये प्रकृतपक्षविशेष्यकप्रकृतसाध्यप्रकारकत्व विशिष्टतादृशसाध्यव्याप्यहेतुप्रकारकत्वाभावरूपविशिष्टाभाव एवं विवक्ष्यतां किं तादृशोभयाभावनिवेशेन ? उभयाभावस्य तादृशसाध्यप्रकारकत्वत्व - तादृशहेतु प्रकारकत्व त्योभयत्वै तत् त्रितयनिष्ठावच्छेदकताक प्रतियोगिताकत्वेन गुरुत्वादित्यत आह यत्रेति । यादृशस्थले इत्यर्थः । विषयविशेषे = पक्षादिविषयविशेषे । विषयित्वं सप्तम्यर्थः, तस्य च समूहालम्बनज्ञानेऽन्वयः । तादृशेति पक्षः साध्यवान् साध्यव्याप्य हेतुमांश्चेत्याकारक समूहालम्बनज्ञानमित्यर्थः । तत्र = तादृशस्थले । अव्याप्तिरिति । विशिष्टाभावघटितलक्षणाडव्यासिरित्यर्थः । उभयेति । तादृशसाध्यप्रकारकत्वघटितोभयाभावो निवेशित इत्यर्थः । तथाच विशिष्टाभावस्य लघुत्वेऽपि यादृशस्थले पक्षः साध्यवान् साध्यव्याप्यहेतुमांश्चेत्याकारकं समूहालम्बनं ज्ञानं न कस्यापि पुरुषादेजति तादृरास्थले पक्षविशेष्यकसाध्य प्रकारकत्वविशिष्टताह शहेतुप्रकारकत्वाऽप्रसिद्ध्या तादृशविशिष्टाभावस्य दोषविषयक निश्चयो तर मनुमितौ वक्तुमशक्यत्वादव्याप्तिरतः प्रत्येकज्ञाने प्रसिद्धस्य तादृशसाध्यादिप्रकारकत्वादेरुभयस्याऽभाव एव वक्तव्यः, लाघवन्त्यकिञ्चित्कमिति भावः ! तादृशोभयेति । प्रकृतपक्षविशेष्यकप्रकृतसाध्यप्रकारकत्व - प्रकृतसाध्यव्याप्यहेतुपकारकत्वोभयाभावप्रयोजकीभूता या विरोधिविषयिता तद्वत्त्वमित्यर्थः । यदरूपेति । "Aho Shrutgyanam" Page #218 -------------------------------------------------------------------------- ________________ अनुमानगादाधय सामान्यनिरुक्तिप्रकरणम् * कलाविलासः * तादृशोभयाभावेति । नचात्र कल्पे पर्वतों वह्निमान् धूमादित्यादौ पापाणमयत्ववत्पर्वतेऽतिव्याप्तिः, पाषाणमयत्ववत्पर्वतत्वावच्छ्रिज्ञ विषयिताव्यापकत्वस्य तादृशोभयाभावप्रयोजक विरोधिविषयितावत्त्वे सच्वादिति तादृशातिव्याप्तिं विहाय यथासन्निवेशे न वैयर्थ्याभित्यभिधानमसंगतमिति वाच्यम्, तादृशोभयाभावप्रयोजकतावच्छेदकवियितात्वावच्छिन्नाधिकरणत्वं यद्रूपावच्छिन्न विषयिताव्यापक मित्यत्यैव विवक्षणीयत्वात् तादृशाधिकरणतायाः पाषाणमयो न वह्निमान् इत्याकारकज्ञानविशिष्टपर्वतश्च पाषाणमय इत्याकारकज्ञान एवं वर्तमानतया तादृशज्ञानाऽसमानकालीनपाषाणमयः पर्वत इत्याकारकज्ञानेऽपि पापाणमयत्ववत्पर्वत विषयितायाः सत्त्वेन तत्र तादृशोभयाभावप्रयोजकविरोधिविपयितावच्वत्य विरहात् तादृशव्यापकत्वर्भगस्यावश्यकत्वात् । अन्ये तु तादृशोभयाभावप्रयोजकविरोधिविपयितावत्त्वमित्यादिना तादृशोभयाभावप्रतियोगितावच्छेदककोटौ यद्रूपावच्छिनांशे यद्रूपावच्छिन्नवैशिष्ट्याव ग्राहित्वं प्रविष्टं तद्रूपावच्छिन्ने तद्रूपावच्छिन्नाभाव-तद्वयाप्यान्यतरविषयितावत्त्वम् यद्रूपावच्छिन्नविपयित्वव्यापकमित्यस्य विवक्षितत्वाच कोऽपि दोष इत्याहुः । ननु तादृशोभयाभावप्रयोजक विरोधिविषयितावत्त्वं सद्रूपावच्छिन्न विपयित्वसमानाधिकरणं तद्रूपवत्त्वमित्यस्यैव सम्यक्त्वे व्यापकत्वनिवेशनमफलमितिचेन्न, घटविषयकत्रथभाववद्ह्रदविषयकसमूहालम्बनज्ञानमादाय वटेऽतिव्यायापत्तेः, विषयित्व सामानाधिकरण्यस्य तादृशोभयाभावप्रयोजक विरोधिविपयितावच्चे/ सच्चात् । घट. २०२ नचाव्यापकीभूतविषयिताशून्यत्वविरहादेव न तादृशसमूहालम्बनज्ञानमादाय घटेऽतिव्याप्तिरिति वाच्यम्, याद्दशस्थलविशेषे वचभाववद्भद इति ज्ञानं कदाचिद् घटविषयकं कदाचिच्च पटविषयकमित्यन्यतर विषयकमेव भवति, यदा न भवति तदाप्रामाण्यज्ञानास्कन्दितमेव भवति, तादृशस्थले अव्यापकीभूतविपयिताशून्याप्रामाण्यज्ञानानास्कन्दितवह्न्यभाववद्वदनिश्चयाऽप्रसिद्धा ताशहदरूपबाधेऽव्याप्तिवारणायाव्यापकीभूतविषयिताशून्यज्ञानीयत्वोपलक्षितत्वस्यैव यद्रूपावच्छिन्नविषयितायां विवक्षणीयतया समूहालम्बनतादृशज्ञानीयघटविषयितामादाय घटेऽतिष्यातेरवारणात् । नच तथापि स्वविषयिताप्रयोज्येत्यादिना स्वपदेन घटस्योपादानाऽसम्भवात् कथं घटेऽतिव्याप्तिः सम्भवतीति वाच्यम्, स्वविषयिताप्रयोज्य विशिष्टान्तरविषयिताप्रयोज्योभयाभावप्रयोजकाभावाधिकरणताकं यद् यत् स्वं तदघटितत्वस्य प्रतियोगिकोटौ स्वत्वमन्तर्भाव्य निवेशनीयत्वात् । अन्यथा विरोधिविषयितापदानुपादाने वस्तुमानेऽतिव्याप्तयभिधानस्याऽसंगतिः तु विवेचनीयम् | स्यादिति "Aho Shrutgyanam" Page #219 -------------------------------------------------------------------------- ________________ चन्द्रकला-कलाविलासाख्यटीकाद्वयोपेतम् * दीधितिः * पक्षतावच्छेदक वैशिष्ट्यादिकञ्चवैज्ञानिकं न तुः वास्तविकं ग्राह्मम् । ॐ गादावरी सम्यक्त्वेऽपि यथासन्निवेशे न वैयर्थ्यम् । ननु काञ्चनमयः पर्वतो वह्निमानित्यादौ पक्षतावच्छेदकविशिष्टपक्षाद्यप्रसिद्धया विशिष्टपक्षे विशिष्टसाध्यादिवैशिट्यावगाहित्वाद्यप्रसिद्धिरित्याश्रयासिद्ध्यादावव्याप्तिरित्यत आह पक्षतावच्छेदकेति । आदिपदात् साध्यतावच्छेदक वैशिष्टयादिपरिग्रहः । वैज्ञानिकमिति । तत्तत्प्रकारेण ज्ञायमानत्वरूपमित्यर्थः, तथा च पर्वतादेः काञ्चनमयत्वादिवैशिवास्तविकस्य विरहेऽपि तेन रूपेण ज्ञायमानत्वमादाय ष्टयस्य २०३ * चन्द्रकला लक्ष्यतावच्छेदकत्वेनाभिमतधर्मार्थकम् । सम्यक्त्वेऽपीति । अव्याप्त्यादिदोषरहितत्वेनेत्यादिः । हृदो बहूनिमानित्यदौ हृदविशेष्यकवन्यादिप्रकारकत्वघटिततादृशो भयाभावप्रयोजकबहून्यभाववद्दादिविषयितारूपविरोविविषयितावत्त्वस्य वन्यभावविशिष्टहृवत्वावच्छिन्नविषयिताव्यापकतया यद्रूपपदेन वहन्यभावविशिष्टहदत्वादेरुपादानसम्भवात् तत्र तादृश यद्रूपमादाय बाधादौ लक्षणसमन्वयः । एवमन्यत्राऽपि । केवलहृदत्वावच्छिन्नविषयितासामानाधिकरण्यस्य पाषाणमयत्ववत्पर्वतत्वावच्छि न्नविषयिता सामानाधिकण्यस्य च वन्यभाववद्वदादिज्ञानान्तर्भावेन तादृशोभयाभावप्रयोजकविरोधिविषयितायां सत्त्वात् बाधाद्येकदेशे पाषाणमयत्ववत्पर्वतादौ चातिव्याप्तिरतो यद्रूपावच्छिन्नविषयितासामानाधिकरण्यमुपेक्ष्य तादृशविषयिताव्यापकत्वनिवेश इति ध्येयमधिकमन्यत्रानुसन्धेयम् । यथासन्निवेश इति । यद्रूपावच्छिन्न विषयकनिश्चयोत्तरमनुमितिसामान्ये तादृशोभयाभावादेः सन्निवेशे इत्यर्थः । न वैयर्थ्यमिति । निरुक्तलक्षणस्य लक्षणान्तरत्वेन तादृशानुमितिसामान्ये उभया भावघटितलक्षणात्मकधर्मसामानाधिकरण्यस्य निरुक्तलक्षणात्मकधर्मे विरहात् स्वसामानाधिकरण्यचरितव्यर्थताया यथाश्रुतलक्षणस्यासम्भवादिति हृदयम् | वैज्ञानिकत्वं निर्वक्ति तत्प्रकारेति । काञ्चनमयत्वादिप्रकारेणेत्यर्थः । तेन रूपेण = काञ्चनमयत्वादिना । ननु ताशवैज्ञानिकत्वं यदि पक्षतावच्छेदकादिप्रकारेण ज्ञानविषयत्वमात्रं तदा हृदो वह्निमानित्यादौ वह्न्न्यभावविशिष्टहृदरूपत्राधादौ सर्वत्राऽसम्भवः, ताहराबाथादिनिश्चयाऽव्यवहितोत्तरोत्पन्नायां हृदों द्रव्यं जलमयो वहूनिमान् वहूनिव्याप्यधूमवां " Aho Shrutgyanam" Page #220 -------------------------------------------------------------------------- ________________ २०४ भनुमानगादाचया सामान्यनिरुक्तिप्रकरणम् ॐ गादाधरी लक्षणसमन्वय इति भावः । न च हृदो न वह्निमानित्यादिनिश्चयानन्तरं जायमाने लदो द्रव्यं जलमयो वहिमानित्याद्याकार कसमूहालम्बने ह्रदत्वादिना ज्ञायमाने वलयादिवैशिष्ट्यावगाहित्वासत्वादसम्भव इति वाच्यम् , पक्षतावच्छेदकान्निा या पक्षनिष्ठविशेष्यता तन्निरूपिता या साध्यत्तावच्छेदकावच्छिन्ना साध्यप्रकारता या च साध्यतावच्छेदकावच्छिन्नसाध्यप्रकारतानिरूपित्तव्याप्यत्वप्रकारतानिरूपितहेतुतावच्छेदकाव - च्छिन्नप्रकारता तत्प्रतियोगित्वयोरगाहित्वान्तद्वयेन विवक्षणात , विशिष्टविषयाप्रसिद्धावपि पर्वताचशे काञ्चनमयत्वाद्यवगाहिभ्रमविषयताया ब्यधिकरणकाचनमयत्वाद्यवच्छिन्नायाः प्रसिद्धया लक्षासमन्वयात् । ध्याप्तिप्रकारतास्थले च निरूप्यनिरूपकभावापन्ना व्याप्तियटकतत्तत्पदार्थ • * चन्द्रकला * श्चेत्याकारिकायां समूहालम्बमानुभितो ह्रदत्यप्रकारे निरुक्तसमूहालम्बनज्ञानविषये जलमये वह निवैशिष्ट्यावगाहित्वस्य बहनिव्यायधूमवैशिष्ट्यावगाहित्वस्य च सत्त्वेन तादृशोभयामावविरहात् इत्याशंकते नवेति । वाच्यमितिपरेणान्वयः । उत्तरयति पक्षतेति । पन्नतावच्छेदकावच्छिन्न पक्षनिष्ठविशेष्यतानिरूपितसाध्यतावच्छेदकावच्छिनप्रकारताकत्व-साध्यतावच्छेदकावच्छिन्ननिरूपितत्यसंसविच्छिन्न प्रकारतानि पितव्याप्तित्वावच्छिन्न विशेष्यत्वावच्छिन्नप्रकारतानिरूपितहेतुतावच्छेदकावच्छिन्न विशेष्यत्वाव - च्छिन्नप्रकारताकत्वोभयाभावस्यैव दीधितिग्रन्थेन विवक्षपोयतया नोक्ताऽसम्भवः, हृदो द्रव्यं जलमयी वहनिमानित्यादिसमूहालम्बनशाने हदत्वावच्छिन्नविशेष्यतानिरूपितवनित्वावच्छिन्नप्रकारताकत्वविरहेण तत्र ताहशोभयाभावस्याक्षतत्वादिति समुदितता पर्यम् । ननु धूमवान् वर्ने रित्यादौ धूमाभाववृत्तित्वविशिश्व निरूपव्यभिचारेऽव्याप्तिः, वह निव्यापकधूमसामानाधिकरण्यरूपव्याप्तरप्रसिद्ध्या तादृशव्यभिचारनिश्चयोत्तरानुमितौ साध्यव्यातिवरितोनयामावस्य वक्तमशक्यत्वादित्यत आह व्याप्तिप्रकारतेति । व्याप्तिप्रकारताघटितोमयाभावनिवेशस्थाने इत्यर्थः । निरूप्येति । तथाच हेतुतावच्छेदकावच्छिन्न प्रकारतानिरूपिताधिकरण विशेष्यत्वावच्छिन्नप्रकारता. निरूपितवृत्तित्वनिष्ठविशेष्यत्वावच्छिन्नप्रकारतानिरूपिताभावनिष्ठविशेष्यत्वावच्छिन्नप्रकारतानिरूपितप्रतियोगित्वनिष्ठविशेष्यत्वावच्छिन्न प्रकारतानिरूपितावच्छेदकत्वनिष्ठविशेष्यत्वावच्छिन्नप्रकारतानिरूपिताभावनिष्ठविशेष्यत्वावच्छिन्नप्रकारतानिरूपितसाध्यता "Aho Shrutgyanam" Page #221 -------------------------------------------------------------------------- ________________ चन्द्रकला-कलाविलासाख्यटीकाद्वयोपेतम् २०५ * दीधितिः ॐ व्याप्तिश्चान्वयतो व्यतिरेकतश्च ग्राह्या, गादाधरी प्रकारता निवेशनीया । तेन धूमवान् बह्नरित्यादी वहिव्यापकधूमसागानाधिकरण्यरूपव्याप्तरप्रसिद्धावपिन क्षतिः। नन्वत्र व्याप्तिपदेनान्वयव्याप्तिश्चेद्विवक्ष्यते तदा व्यतिरेकव्याप्तिज्ञानविरोधिनि साध्यादिनिष्ठाभावाप्रतियोगित्वादिश्चपानुपसंहारित्वेऽव्याप्तिरतज्ज्ञा नस्यान्वयव्याप्तिज्ञानाविरोधित्वात् , व्यतिरेकव्याप्तिविवक्षणे च हेतुनिष्ठसाध्याभावववृत्तित्व-साध्यतावच्छेदकनिष्ठहेतुसमानाधिकरणाभावप्रतियोगितावच्छेदकत्वादावव्याप्तिः, तज्ज्ञानस्य ग्राह्याभावाद्यनवगाहितया व्यतिरेकव्याप्तिज्ञानबिरोधित्वे मानाभावादत आह व्याप्तिश्चेति । अन्वयतः = ॐ चन्द्रकला वच्छेदकनिष्ठविरोष्यत्वावच्छिन्नप्रकारतानिरूपितसाध्यनिष्ठविशेष्यत्वावच्छिन्नप्रकारतानिरूपिताधिकरण निष्ठविशेष्यत्वावछिन्नप्रकारताान रूपित वृत्तित्वनिष्ठविशेष्यत्यावच्छिन्नप्रकारलानिरूपित हेतुनिष्ठविशेष्यत्वावञ्चिन्नप्रकारताकत्व लटितोमयाभावो निवेशनीयः । एवञ्च धूमान् वह्वरित्या अखर इताशयातेप्रसिद्धाबपि निरुक्तरीत्या भ्रमीयतादृश हेतुप्रकालाकारस्य प्रसिद्धतया लाटतोमामावस्य व्यभिचारनिश्चयोतरानुमितौ सुलभतान तत्शलोयत्यागिनासदाववाहिनिभावः । तेन - निरूप्यनिरूपकभावापन्नव्यातिपरकतावत्पदार्थप्रकारताविषक्षणेन । अहिव्यापकेति । वह्निनिष्ठवहिमवृत्त्य नाव: तियोगितानवच्छेद कधूमत्वावच्छिनसामानाधिकरण्यरूपाया व्यातेरित्यर्थः । न क्षतिः = न व्यभिचारादावव्यातिः । नन्चति । एतल्लक्षणे इत्यर्थः । व्यातिपदार्थान्वयि घटकल्यं सप्तम्यर्थः । व्यतिरेकेति। हेतुनिष्ठसाध्यामावव्यापकामा प्रतियोगित्वरूपव्यतिरेकव्यातिज्ञानप्रतिबन्धकज्ञानविषयीभूते इत्यर्थः । यादव । साध्याभावव्यापकाभावाप्रतियोगित्वविशिष्टहेतुरूपानुपसंहारित्वे इत्यर्थः। न तु अगावाप्रतियोगित्वविशिष्टसाध्यमप्यनुपसंहारित्वं, तस्य व्यतिरेव्याप्तिगहाधिरोपित्वात्, व्यतिरेकव्याप्तिग्रहे साध्याभावस्य भानेऽपि तन्न प्रतियोगित्वस्य संसर्गतयत्र भानादिति ध्येयम् । व्यतिरे केति । व्याप्तिपदेनेत्यादिः । तुनिष्ठेति । साध्याभाववद्वृत्तित्वविशिष्ट हेतुरूपव्यभिचारे हेतुमान्नष्ठागावप्रतियोगितावच्छेदकत्वविशिष्टसाध्यतावच्छेदकरूपव्यभिचारादौ अव्याप्तिरित्यर्थः । तज्ज्ञानल्य : निरुक्तव्यभिचारादिज्ञानस्य । ग्राह्यति । ग्राह्योभूतव्यतिरेकव्याप्त्या देरभावानवगाहितयेत्यर्थः। व्यतिरेकेति । "Aho Shrutgyanam" Page #222 -------------------------------------------------------------------------- ________________ २०६ अनुमानगादाधयाँ सामान्यनिरुक्तिप्रकरणम् ® दीधितिः ® तादृशावगाहित्वप्रसिद्धिराहार्यज्ञान एवाभ्युपेतव्या, अनन्यगतिकत्वात् । गादाधरी अन्वयनिरूपिता, प्रकृतहेतुनिष्ठा साध्यनिरूपितेति यावत् , सा चात्यन्ताभावान्योन्याभावभेदेन भिन्ना अव्यभिचरितत्व-हेतुव्यापकसाध्यसामानाधिकरण्यरूपा नानाविधैव ग्राह्या, अतोऽत्यन्ताभावादिगर्भव्याप्तिज्ञाने अन्योन्याभावादिगर्भव्यभिचारज्ञानस्य व्यापकत्वादिज्ञाने साध्याभावववृत्तिहेत्वादिज्ञानस्य ग्राह्याभावाद्यनवगाहितया अविरोधित्वेऽपि न क्षतिः । व्यतिरेकतः-व्यतिरेकनिरूपिता, साध्याभावव्यापकीभूताभावप्रतियोगित्वरूपा, ग्राह्या व्याप्तिपदेन विवक्षणीया, तथा च तत्तद्व्याप्तिप्रकारतानिरूपितहेतुतावच्छेदकावच्छिन्नप्रकारताप्रतियोगित्वकूटाभावो निवेशनीय इति भावः । ननु निर्वह्निः पर्वतो वह्निमानित्यादौ पक्षतावच्छेदकविशिष्टे साध्यतावच्छेदकविशिष्टवैशिष्टयाचगाहित्वमेवाप्रसिद्धमिति तत्र कथं लक्षणसमन्वय इत्यत आह तादृशावगाहित्वप्रसिद्धिरिति । ___ चन्द्रकला मरिणमन्त्रादिन्यायेनेत्यादिः । इदन्तु तत्त्वम् , प्रकृतपक्षे प्रकृतसाध्यवैशिष्ट्यावगाहित्वप्रकृतसाध्यव्याप्यहेतुवैशिष्ट्यावगााह्त्वोभयाभाव इत्यादौ साध्यनिरूपिता व्या:सर्यदि साध्याभावव्यापकाभावप्रतियोगिहेतुरूपव्यतिरेकव्याप्तिस्वरूपा तद। सर्वमनित्यं प्रमेयस्वादित्यादौ नित्यत्वब्यापकीभूताभावाप्रतियोगिल्वविशिष्टहेतुरूपानुपसंहारित्वे लक्षणसमन्वयसम्भवेऽपि धूमवान् वहेरित्यादौ धूमाभावववृत्तित्वविशिष्टवह्नयादिरूपव्यभिचारादावव्याप्तिः, निरुक्तव्यभिचार निश्चयस्य व्यतिरेक व्याप्तिग्रहाऽप्रतिबन्धकतया ताहशनिश्चयोचरजातायां अयं धूमवान् धूमव्यतिरेकव्यातिविशिष्टवह्निमांश्चेत्याकारकानुमितौ तादृशोभयाभावस्याऽसत्वात् । यदि च तादृशी व्याप्तिरन्वयव्याप्तिस्तदा व्यभिचारादौ लक्षणसमन्वयसम्भवेऽपि तादृशनित्यत्वव्यापकीभूताऽभावाप्रतियोगित्वविशिष्टप्रमेयत्वरूपेऽनुपसंहारित्वेऽव्याप्तिः साथ्याभावववृत्तित्वादिरूपान्वयव्याप्तिज्ञान प्रति निरुक्तानुपसंहारित्वनिश्चमस्याऽप्रतिबन्धकतया तादृशनिश्चयाव्यवहितोत्तरोत्पन्नानुमितिसामान्यान्तर्गतायां सर्वमनित्यं अनित्यत्वान्वयव्याप्तिविशिष्टप्रमेयत्ववच्चेत्यनुमितौ तादृशोभयाभावविरहादिति । प्रकृतसाध्यनिरूपिता हेतुनिष्ठान्वयव्याप्तिस्तु हेतुव्यापकसाध्यसामानाधिकरण्यरूपा "Aho Shrutgyanam" Page #223 -------------------------------------------------------------------------- ________________ . चन्द्रकलाकलाविलासाख्यटीकाद्वयोपेतम् २०७ ® दीधितिः 8 एवञ्च वस्तुमात्रनिश्चयानन्तरं निर्वह्नित्वविशिष्ट वढेरग्रहऽपि न क्षतिस्तस्य विरोध्यविषयकत्वात् । गादाधरी आहार्यज्ञान एवेति । निर्वहित्वविशिष्टपर्वते वह्निप्रत्यक्षं जायतामित्याकारकेच्छाजन्यप्रत्यक्ष एवेत्यर्थः । विरोधिविषयिताप्रयुक्तत्वनिवेशनप्रयोजनमाह एवञ्चति । विरोधिचिपयिताप्रयुक्तत्वनिवेशे चत्यर्थः । न क्षतिः-न निर्वह्निः पर्वतो वह्निमानित्यादौ घटादावतिव्याप्तिः । तस्य = घटादिनिश्चयस्य, विरोध्यविषयकत्वात् = स्वानन्तरोत्पन्नानुमितिसामान्यनिष्ठतादृशोभयाभावप्रयोज * चन्द्रकला * साध्याभावववृत्तित्वादिरूपा साध्याभावववृत्ति भिन्नत्वादिरूपा च नानाविधा । सुतरां व्यभिचारोऽपि नानाविधः, हेतुव्यापकसाध्यसामानाधिकरण्यज्ञानं प्रति साध्याभाव-बद् वृतित्वविशिष्ट हेतुरूपव्यभिचारज्ञानस्य तादृशव्याप्तिघटकपदार्थाभावानवगाहितया अप्रतिबन्धकत्वेऽपि न तत्तव्यभिचारेऽव्याप्तिः । यद्पावच्छिन्नविषयकनिश्चयाव्यवहितोचरानुमितिसामान्ये विरोधिविषयिताप्रयुक्तः प्रकृतपक्षविशेष्यकप्रकृतलाध्यप्रकारकत्व-प्रकृलसाध्यनिरूपिततत्चद्व्याप्तिप्रकारतानिरूरूरूपितप्रकृतहेतुप्रकारता कलक्टोभयाभाबरूद्रूपबामित्यस्यैव लक्षणार्थतया एक. विधव्यभिचारनिश्चयाव्यवहितोचरानुमितिसामान्ये ताशकूटस्याऽसत्वेन तत्रोमयामावस्याक्षतत्वात् इत्येवं 'अन्वयतः' इत्यादितः 'इतिभाव' इत्यन्तसमुदितग्रन्थतात्पर्यम् । ननु आहायज्ञानमात्र निर्वहिपर्वते वह्निवैशिष्ट्यावगाहित्वादेः प्रसिद्धिसम्भवेऽपि तत्राहागत्वमेव कर समर्थनीयमित्यतः आहार्यपदार्थ वक्ति निर्वह्नित्वेति । तथाच विरोधि निश्चयकालीननिरुक्तच्छाजन्यज्ञानत्वमेव तत्राहार्यत्वमितिभावः । तादृशोभयाभावे विरोधिविषयिताप्रयुक्तत्वदलानुपादाने निह्निः पर्वतो वह्निमानित्यादौ बटेऽतिव्याप्ति :. घटत्वावच्छिन्नविषयकनिश्चयाव्यवहितोचराहाकारानुमितेरप्रसिद्धतया तादृशघटपटाअनुमितिसामान्य एव निर्वहिपर्वतधमिकवहिप्रकारकत्वघटितोभयाभावस्य सत्त्वादित्येवं विरोनिविषयिताप्रयुक्तत्वनिवेशप्रयोजनप्रदर्शनपरम् एवञ्चत्यादिदीधितिग्रन्थमवतारयति विरोधीति । विरोधिपदप्रयोजनन्वये दीधितिकृतैव स्वयं प्रदर्शयिष्यते । स्वानन्तरेति । स्वं घटादिनिश्चयस्तदुत्तरघटपटाद्यनुमितिसामान्यनिष्ठस्य निर्व "Aho Shrutgyanam" Page #224 -------------------------------------------------------------------------- ________________ २०८ अनुमानगादाधर्यां सामान्यनिरुक्तिप्रकरणम् ॐ दोधितिः एवं साध्यनिश्चयोत्तरं तस्याननुमितावपि मानसज्ञानाविरोधित्वात् । गादाधरी 1 लम्बनात्मकघाटिदिनश्चयानन्तरजातज्ञाननिष्ठतादृशोभयाभाववत्त्वस्य कविरोधिविषयिताकत्वविरहात् वह्निमत्पर्वतादिविषयकसमूहा ज्ञानीयविरोधिविषयिताप्रयुक्तत्वेऽपि घटादिनिश्चयाव्यवहितोत्तरानु मिर्विरोध विषयिताप्रयुक्तो भयाभाववत्त्वविरहान्नातिव्याप्तिरितिभावः प्रयोज्यप्रयोजकभावश्चानुभवसिद्धः स्वरूपसम्बन्धविशेषः । विरोधिपदप्रयोजनमाह एवमिति । अननुमितावपीति । न क्षतिः, तस्य विरोध्यविष चन्द्रकला त 1 ह्निपर्वतधर्मिकवह्निप्रकारकत्वघटिततादृशोभयाभावस्य प्रयोजकविरोधिविषयिताकत्वविरहादित्यर्थः । प्रतिबध्यतावच्छेदकधर्माभावं प्रत्येव प्रतिबन्धकतावच्छेदकविषयितायाः प्रयोजकतया निरुक्ताहार्यज्ञानत्वव्यापिकायाः कस्या अपि विषयिताया घट "Aho Shrutgyanam" निश्चयप्रतिबध्यतावच्छेदत्वाऽसम्भवादित्याशयः । यद्यपि वह्निमान् पर्वतो घटश्चत्याकारकसमूहालम्बन वह्निमत्पर्वतविषयक घटत्वावच्छिन्नविषयक निश्चयाव्यवहितोत्तरानुमितौ वर्त्तमानस्य तादृशोभयाभावस्य अनुमितिपूर्वोत्पन्नसमूहालम्बन चिषयिताप्रयुक्ततया घटादावतिव्याप्ति दुर्वा रेत्युच्यते, तथापि यद्रूपावच्छिन्न विषयक निश्चयाव्यवहितोत्तरानुमितिसामान्यनिष्ठोमयाभाव एव विरोधविषयिताप्रयुक्तत्वस्य निवेशनीयतया न घटादावतिव्याप्तिः, समूहालम्बनानात्मकघटादिविषयकनिश्चयाव्यवहितोत्तरानुमितेरपि घटत्वरूपयद्रूपावच्छिन्न विषयकनिश्चया व्यवहितोत्तरानुमितिसामान्यान्तर्गततया तन्निष्ठोभयाभावे विरोधिविषयिताप्रयुक्तत्वस्यात्सत्त्वादिति भावमाह वह्निमत्पर्वतेति । ननु घटनिश्चयाव्यवहितोत्तरानुमितिनिष्ठे निर्वह्निपर्वतविशेष्यकवह्निप्रकारकत्वघटितोभयाभावे घटादिविषयितायाः प्रयोजकत्वाभावे किं मानमित्यत आह प्रयोज्योत । तथाचैतज्ज्ञाने इथं विषयिता वर्त्तते अत एवैतज्ज्ञानाव्यवहितोत्तरज्ञाने तादृशोभयाभावो निर्विवाद इत्यनुभवात् एतज्ज्ञानोयविषयिता प्रयोजिका, ताहोभयाभावश्च प्रयोज्य इत्याकारकानुभवसिद्धमेव प्रयोजकत्वं प्रयोज्यत्वञ्चेति भावः । घटादिनिश्चयोत्तरजातानुमितिनिष्ठस्य निर्वह्निपर्वतविशेष्यकवह्निप्रकारकत्वघटितोभयाभावस्य घटविषयताप्रयोज्यत्वविरहेणैव घटादावतिव्याप्तिवारणासम्भवे विषयितायां विरोधित्वविशेषणं व्यर्थमित्यतो विरोधिपदव्यावृत्तिप्रदर्शनपरां दीधितिं व्याचष्टे न क्षतिरिति । Page #225 -------------------------------------------------------------------------- ________________ २०९ चन्द्रकला-कलाविलासाख्यटीकाद्वयोपेतम् ® गादाधरी यकत्वादित्यनुषज्यते । न क्षतिः = न साध्यवत्पक्षेऽतिव्याप्तिः । विरोधिविषयितापदेन ताहशोभयाभावप्रतियोगितावच्छेदककोटौ य. द्रूपावच्छिन्नांशे यद्रूपावच्छिन्नवैशिष्टयावगाहित्वं निविष्टं तद्रूपावच्छिन्नविषयितानिरूपिततद्रूपावच्छिन्नाभाव-तव्याप्यान्यतरविषयितायाः साध्य * चन्द्रकला * अतिव्याप्तिरिति । विषयितायां विरोधित्व विशेषणानुपादाने पर्वतो वह्निमान् धूमादित्यादौ सिद्धिविषये वह्निमत्पर्वतेऽतिव्याप्तिः, वह्निमत्पर्वतनिश्चयस्य सिद्धिविधया पर्वतधर्मिकवह्निविधेयकानुमितिप्रतिबन्धकतया तादृशनिश्चयाव्यवहितोत्तरघटपटाद्यनुमितिसामान्यनिष्ठस्य पर्वतविशेष्यकवह्निप्रकारकत्वघटितोभयाभावस्य वह्निमत्पर्वतविषयिताप्रयुक्तत्वादतो विरोधित्वमवश्यं विषयिताया वक्तव्यमिति भावः । ननु सिद्धिविषयिताया अपि पक्षधर्मिकसाध्यानुमितिप्रतिबन्धकतावच्छेदकतया विषयितायां विरोधिस्वविशेषणोपादानेऽपि न सिद्धिविषये साध्यवत्पक्षेऽतिव्याप्तिवारणं सम्भवतीत्यत आह विरोधीति । विरोधिपदोपादानबलेनेत्यर्थः । तादृशोभयति । प्रकृतपक्षविशेष्यतानिरूपितप्रकृतसाध्यप्रकारकत्व-प्रकृतसाध्यव्यायहेतुप्रकारस्वरूपोभयाभावप्रतियोगितावच्छेदककोटावित्यर्थः । यद्पेति । यद्रू पावच्छिन्नविशेष्यतानिरूपितयद्रूपावच्छिन्नप्रकारकत्वमित्यर्थः। तद्रूपेति । तद्रूपावच्छिन्नविषयितानिरूपिता या तद्रूपावच्छिन्नाभाव-तद्रूपावच्छिन्नाभावव्याप्यान्यतरविषयिता सैव विरोधिविषयिताशब्दार्थः । ___* कला वलासः ॐ न साध्यवत्पक्षेऽतिव्याप्तिरिति । ननु पर्वतो वह्निमानित्याकारकसाध्यनिश्चयोत्तरं वह्निमानु पर्वतो रूपवानित्यनुमितेरुत्पादात् सिद्धिप्रतिबध्यतावच्छेदक साध्यविधेयत्वमेव वाच्यं न तु साध्यप्रकारकत्वम्, तथाच कथं साध्यवत्पतेऽतिव्याप्तिः ? प्रतिबध्यतावच्छेदकधर्माभावं प्रत्येव प्रतिबन्धकतावच्छेदकविषयितायाः प्रयोजकतया साध्यप्रकारकत्वघटितोभयाभावं प्रति साध्यवरपक्षविषयिताया अप्रयोजकत्वादितिचेन्न, यादृश सिद्ध्युत्तरं तत्प्रकारकं ज्ञानं कदापि न जातं तादृशसिद्धिप्रतिबध्यतावच्छेदकतायाः लाघवात् तत्प्रकारताया एव स्वीकरणीयतया तादृशसिद्धिविषये साध्यवत्पक्षेऽतिव्याप्तेरेव ग्रन्थतात्पर्यस्यावश्यकत्वात् । अत्र वदन्तिकल्पे यदि प्रयोजकतैक्यं स्यात् तदा वह्नयभाववजलववृत्तिजलवज्रदेऽतिव्याप्तिवारणाय विशिष्टद्वयाऽघटितत्वमपि निवेश्यमित्यप्याहुः । १४ "Aho Shrutgyanam" Page #226 -------------------------------------------------------------------------- ________________ २१० अनुमानगादाधों सामान्यनिरुक्तिप्रकरणम् गादाधरीविशिष्टपक्षविषयता-साध्यतावच्छेदकावच्छिन्नप्रकारतानिरूपितपक्षताव. च्छेदकावच्छिन्नविशेष्यताबहिर्भूतविषयताया वा विवक्षितत्वादिति भावः। न च सिषाधयिषाधीनायां साध्यनिश्चयानन्तरं समूहालम्बनानुमितौ तादृशोभयाभावासत्त्वात् सिद्धिविषयेऽतिप्रसङ्ग एव नास्ति, एवं पक्षे साध्यनिश्चयोत्तरं तदतिरिक्ताविषयकसाध्यविषयकानुमितेरनुत्पादेऽपि पक्षांश साध्यांशे वाऽधिकावगाहिन्या अनुमितेः साध्यधर्मितावच्छेदककान्यविधे ॐ चन्द्रकला तथाच काञ्चनमयपर्वतो वह्निमानित्यत्र काञ्चनमयत्वाभावविषयिता काञ्चनमयत्वाभावव्याप्यविषयिता च विरोधिविषयिता, हृदो वह्निमानित्यादौ तु हृदविषयिता. निरूपितवह्नयभावविषयिता तादृशवह्नयभावव्याप्यविषयिता च विरोधिविषयितापदेनोपादेयेति भावः। लाघवादन्यथा निर्वक्ति साध्यतेति । साध्यतावच्छेदकावच्छिन्न प्रकारतानिरूपितपक्षतावच्छेदकावच्छिन्नविषयिताभिन्नाया विषयितायाः तादृशविषयित्वावच्छिन्नभेदप्रतियोगितानवच्छेदिकाया वा विषयिताया विरोधिविषयितापदेन विवक्षितत्वादित्यर्थः । तथाच न सिद्धिविषये साध्यवत्पक्षेऽतिव्याप्तिः, वह्निमत्पर्वतविषयिताया वह्नयभाव-तद्वयाप्यान्यतरविषयितानात्मकतया साध्यवत्पक्षविषयिताभिन्नत्वाभाववत्तया च तस्या विरोधिविषयितानात्मकत्वादित्याशयः। ननु पर्वतो वह्निमान् धूमादित्यादौ पर्वतो वह्निमानित्याकारकनिश्चयरूपसिद्धिविषये वह्निमत्पर्वतेऽतिव्याप्तिरेव न सम्भवति, पर्वते वह्नयनुमिति यतामित्याकारकसिषाधयिषाधीनायां पर्वतो वह्निमानित्यादिनिश्चयोत्तरोत्पन्नायां पर्वतो वह्निमान् वह्निव्याप्यधूमवांश्चेत्याकारकसमूहालम्बनानुमितौ पर्वतादिविशेष्यकवह्निप्रकारकत्वघटितोभयाभावविरहात् । यद्यपि यादृश सिद्धयात्मकपरामर्शपूर्वक्षणे अव्यहितोत्तरक्षणे वा सिषाधयिषैव नोत्पन्ना तादृशसिद्धिविषये साध्यवत्पक्षेऽतिव्याप्तिरित्युच्यते, तथापि न निस्तारः, पर्वतो वह्निमानितिसिद्ध्युत्तरं पर्वतो वह्निमानित्याकारकस्वसमानविषयकानुमित्यनुत्पादेऽपि तादृशसिद्ध्युत्तरं नीलपर्वतो वह्निमान् पर्वतो नीलवह्निमान् वह्निव्याप्यधूमवांश्चेत्याकारकानुमितेः वह्निमान् पर्वतो रूपवानित्याकारिकायाश्चानुमितेरुत्पत्त्या तत्र तादृशोभयाभावविरहादिति विरोधिपदं व्यर्थमित्याशंकते नचेति । वाच्यमितिपरेणान्वयः । सिषाधयिषाया अनुत्पादस्थले साध्यवत्पक्षेऽतिव्याप्तिवारणमसम्भवीत्याशंकायामाह एवमिति । तदतिरिक्वेति सिद्धिविषयातिरिक्तार्थकम् । अधिकेति । नोल "Aho Shrutgyanam" Page #227 -------------------------------------------------------------------------- ________________ २११ चन्द्रकला-कलाविलासाख्यटीकाद्वयोपेतम् * गादाधरी * यकानुमितेः साध्यावच्छिन्नपक्षविधेयकानुमितेश्वोत्पत्त्या तत्रोभयाभावासत्त्वादपि नातिप्रसक्तिरिति वाच्यम् , यत्र विषयविशेषे सिषाधयिषाबलात् सिद्ध्युत्तरं तादृशानुमितिः कदापि न जाता तत्रैवातिव्याप्तिसम्भवात् । द्वितीयकल्पे विषयितामात्रं निवेश्यं न तु विरोधिविषयितापर्यन्तमित्याशयेनाह मानसज्ञान इति । साध्यनिश्चयस्येत्यादिः । अत्र प्रमेयत्वविशिष्टव्यभिचारादिवारणाय * चन्द्रकला * पर्वतो वह्निमान् पर्वतो नीलवह्निमानित्याकारकानुमितेरित्यर्थः । ___ पक्षतावच्छेदकतापर्याप्त्यधिकरणधर्माद्यवच्छिन्न विशेष्यतानिरूपितसाध्यतावच्छे - दकतापर्याप्त्यधिकरणधर्माद्यवच्छिन्न प्रकारकत्वघटितोभयाभावस्यावश्यं विवक्षणीयतया सिद्ध्युत्तरं पक्षाग्रंशेऽधिकावगाहिन्या अनुमितेरुत्पादेऽपि सिद्धिविषयेऽतिव्यासिवारणं न सम्भवतीत्यतः साध्यधर्मितेत्युक्तम् । वह्निमान् पर्वतो रूपवानित्यनुमितेरित्यर्थकम् । साध्यावच्छिन्नेति । अयं वह्निमत्पर्वतवानित्यनुमितेरित्यर्थः । तत्र = निरुक्तानुमितौ । नातिप्रसंगप्रसक्तिरिति । तथाच विरोधित्वं विषयिताविशेषणं निरर्थकमिति भावः। उत्तरयति यत्रेति । यादृशस्थलविशेषे इत्यर्थः । तादृशानुमितिः-अधिकावगाहिनी साध्यधर्मितावच्छेदककान्यविधेयिका साध्यावच्छिन्नपक्षविधेथिका चानुमितिः । तत्रैव = तादृशस्थलविशेष एव । अतिव्याप्तिसम्भवादिति । सिद्धिविषये साध्यवत्पक्षेऽतिव्याप्तिरिति तादृशातिव्याप्तिवारणायव विरोधिपदं सार्थकमित्याशयः। द्वितीयकल्पे = यद्रूपावच्छिन्नविषयकनिश्चयोत्तरमनाहार्यमानसज्ञाने इत्यादिकल्पे । साध्यनिश्चयस्येत्यादिरिति । साध्यविधेयताकानुमिति प्रत्येव साध्यनिश्चयस्य प्रतिबन्धकतया वह्निमत्पर्वतनिश्चयोत्तरोत्पन्ने पर्वतो वह्निमान् वह्निव्याप्यधूमवांश्चेत्याकारकमानसप्रत्यक्ष तादृशोभयाभावविरहादेव साध्यवत्पक्षेऽतिव्याप्तिवारसम्भवे द्वितीयकल्पे विषयितायां विरोधित्व विशेषणमनुपादेयमेवेति भावः । ननु निरुक्तात्रवदन्तिकल्पेऽपि प्रमेयत्वविशिष्ट व्यभिचारेऽतिव्याप्तिः, प्रमेयत्वविशिष्टव्यभिचारत्वावच्छिन्नविषयकनिश्चयोचरानुभितेः पक्षः साध्यवानित्याकारकत्वसम्भवेऽपि व्यभिचारनिश्चयस्य व्याप्तिग्रहं प्रति प्रतिबन्धकतया साध्यव्याप्यहेतुमानित्याकारकत्वाऽसम्भवात् तादृशघटाद्यनुमितौ च यथोक्तोभयाभावस्याऽक्षतत्वादित्यत आह मेयत्वेति । मेयत्वविशिष्टव्यभिचारादीत्यत्रादिपदात् प्रमेयत्वविशिष्टवाधादिपरिपहः। "Aho Shrutgyanam" Page #228 -------------------------------------------------------------------------- ________________ अनुमानगादाधर्यां सामान्यनिरुक्तिप्रकरणम् * गादाधरी यथाश्रुत विशिष्टान्तराघटितत्वनिवेशे उपदर्शितव्यभिचारघटितबाधाव्याप्तः, विशिष्टान्तरविषयित्वा प्रयोज्यस्वविषयिताप्रयोज्यतादृशोभयाभाप्रयोजकाभावाधिकरणताकत्वरूपं तादृशविशेषणं निवेशनीयम् । " २१२ * चन्द्रकला यथाश्रुतेति । स्वावच्छिन्नाविषयकप्रतीतिविषयतावच्छेदकम् अथच यद्रूपावच्छिन्नविषयक निश्चयाव्यवहितोत्तरमनुमितिसामान्ये विरोधिविषयिताप्रयुक्तोभयाभावस्तादृशं यद्रूपं तद्रूपावच्छिन्नाविषयकप्रतीतिविषयतावच्छेदकं यत् स्वं तादृशस्वावच्छि न्नविषयक निश्चयाव्यवहितोत्तरानुमितिसामान्ये विरोधिविषयिताप्रयुक्तो निरुक्तोभयाभावस्तादृशस्ववत्त्वं यदि विशिष्टान्तराऽघटितत्वसहितलक्षणार्थस्तदा प्रमेयत्वविशिष्ट स्थात्, व्यभिचारे नातिव्याप्तिः, प्रमेयत्वविशिष्टव्यभिचारत्वावच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदकं यत् अत्रवदन्तिकल्पोक्तलक्षणाश्रयीभूतं व्यभिचारत्वं तदवच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदकत्वस्य प्रमेयत्वविशिष्टव्यभिचारत्वेऽसत्त्वात् स्वपदेन तस्यो - पादातुमशक्यत्वादिति चेत् ? पूर्वोक्तरीत्या धूमव्यभिचारिवह् निमान् धूमवान् वनेरित्यादौ धूमाभाववद्धूमव्यभिचारिवह् निमद्रूपव्यभिचारघटित वाघेऽव्याप्तिः तादृशवाघत्वावच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदकं यत् धूमव्यभिचारिवह्नित्वम् अथ च निरुक्तात्रवदन्तिकल्पोक्तलक्षणाश्रयीभूतं तदवच्छिन्नाविषयकप्रतीतिविषयतावच्छेदकत्वस्य तादृशवाघत्वे विरहात् धूमाभाववद्धूमव्यभिचारिवहूह्निमत्त्वरूपवाघत्वस्यापि स्वपदेनोपादानाऽसम्भवादतोऽन्यादृशमेव विशिष्टान्तराऽघटितत्वं यद्रूपविशेषणमाह विशिष्टान्तरेति । स्वावच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदकावच्छिन्नार्थकम् । वस्तुतो निरुक्तविशिष्टान्तराघटितत्वघटकं स्वपदं लक्ष्यतावच्छेदकत्वेनाभिमतधर्मपरं नतु लक्ष्यत्वेनाभिमतव्यक्तिपरम्, तथासति व्यभिचारस्य प्रमेयत्वविशिष्टव्यमिचारात्मकतया विशिष्टान्तरत्वाऽसम्भवेन विशिष्टव्यभिचारेऽतिव्याप्तिः स्यात् । तथाच स्वावच्छिन्न विषयितात्वावच्छिन्न प्रयोजकता निरूपितप्रयोज्यतावती स्वावच्छिन्नाविषयकप्रतीतिविषयतावच्छेदकयद्रूपावच्छिन्न विषयकनिश्चयाव्यवहितोत्तरानुमि छ कलाविलासः छ I स्वविषयिताप्रयोज्येति । पर्वतत्वसामानाधिकरण्येन धूमसाध्यकवह्निहेतुकस्थले मेयत्वविशिष्टव्यभिचारेऽतिव्याप्तिः पर्वतो धूमाभाववानित्याकारकबाधभ्रमनिश्चयोत्तरानुमितिनिष्ठो भयाभावप्रयोजक-पक्षे साध्यवैशिष्टयावगाहित्वाभावाधिकयरणता विशिष्टान्तरव्यभिचारविषयित्वाऽप्रयोज्यत्वस्य सत्वात् पर्वतो धूमवान् · "Aho Shrutgyanam" Page #229 -------------------------------------------------------------------------- ________________ चन्द्रकला-कलाविलासाख्यटीकाद्वयोपेतम् २१३ गादाधरी प्रमेयत्वविशिष्टव्यभिचारादिविषयिताप्रयो ॐ चन्द्रकला लिसामान्ये विरोधिविषयिताप्रयुक्तो यो निरुक्तोमयाभावः तद्पावच्छिन्नविषयितात्वावच्छिन्नप्रयोजकतानिरूपितप्रयोज्यत्वाभाववती या तादृशोभयाभावप्रयोजकाभावाधिकरणता सा यस्य स्वस्य एवम्भूतं यत् स्वं तादृशस्ववत्त्वं विशिष्टान्तराऽघटितत्वघटितसमुदितलक्षणार्थः पर्यवसितः । प्रमेयत्वविशिष्टव्यभिचारत्वं नैतादृशं स्वं तदवच्छिन्नविषयिताप्रयोज्यायाः प्रकृतसाध्यव्याप्यहेतुप्रकारकत्वाभावाधिकरणतायाः तादृशस्वावच्छिन्नाऽविषयकप्रतीतिविष. यतावच्छेदकम् अथ च निरुक्तलक्षणाश्रयीभूतं यद् व्यभिचारत्वं तदवच्छिन्नविषयिताप्रयोज्यतया विशिष्टान्तरव्यभिचारविषयित्वाऽप्रयोज्यतायास्तत्र विरहात् । ___धूमव्यभिचारिवानिमान् धूमवान् वनॆरित्यादौ तु धूमाभाववभूमव्यभिचारिमत्त्वरूपव्यभिचारघटितबाधत्वमेव स्वपदेन धतुं शक्यम् , तादृशबाधत्वावच्छिन्नविषयिताप्रयोज्यायाः . उभयाभावप्रयोजकप्रकृतपक्षविशेष्यकप्रकृतसाध्यप्रकारकत्वाभावाधिकरणतायाः तादृशबाधत्वावच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदकं यत् निरुक्तलक्षणाश्रयोभूतं धूमव्यभिचारिवह्नित्त्वं तदवच्छिन्न विषयित्वाप्रयोज्यताया निराबाघत्वात् प्रकृतहेतौ प्रकृतसाध्यव्याप्यत्वावगाहित्वाभावाधिकरणताया एव धूमव्यभिचारिवह्निविषयिताप्रयोज्यत्वनियमादिति न प्रमेयत्वविशिष्टव्यभिचारेऽतिव्याप्तिनवा व्यभिचारघटितबाधेऽव्यातिरित्याह प्रमेयत्व विशिष्टेति । * कलाविलासः * वह्वरित्यादौ बाधादिरूपविशिष्टान्तरस्य चाऽप्रसिद्धत्वात् विशिष्टान्तरविषयित्वाs. प्रयोज्योभयाभावप्रयोजकाभावाधिकरणताकत्वेन स्वपदेन प्रमेयत्वविशिष्टव्यभिचारस्वस्यैवोपादातुं शक्यत्वात् , अतः स्वविषयिताप्रयोज्येति । पक्षे साध्यवैशिष्टयावगहिस्वाभावाधिकरणतायाञ्च मेयत्वविशिष्टव्यभिचारविषयिताप्रयोज्यत्व विरहारदुपादाने न तत्रातिव्याप्तिः । स्वविषयिताप्रयोज्यत्वमपि स्वविषयितास्वव्यापकरूपावच्छिन्नप्रयोजकतानिरूपितप्रयोज्यत्वं वक्तव्यम्, अन्यथा धूमव्यभिचारिवह्निमान धूमवान् बढेरित्यादौ धूमव्यभिचारिवह्निमत्यतिव्याप्तिः, स्वात्मकधूमव्यभिचारिवह्निमत्वाव. छिन्नविषयिताप्रयोज्यायाम् पक्षे साध्यवैशिष्ट यावगाहित्वाभावाधिकरणतायां यत्किञ्चिविशिष्टान्तरविपयितात्वव्यापकरूपावच्छिन्न व्यभिचारविषयित्वाप्रयोज्यतवसवेन स्वपदेन धूमव्यभिचारिवलिमरवस्यैवोपादातुं शक्यत्वात् । तनिवेशे च न तत्रातिव्याप्तिः, बाधविषयितानन्तापातिधूमन्यभिचारिवतिमद्विषयितासाधारण "Aho Shrutgyanam" Page #230 -------------------------------------------------------------------------- ________________ अनुमानगादाधय सामान्यनिरुकिप्रकरणम् * गादाधरी * ज्याया उक्तोभयाभावप्रयोजकव्याप्त्याद्यवगाहित्वाभाववत्तायाः शुद्धव्यभि चारादिविषयिताप्रयोज्यत्वनियमेन प्रमेयत्वविशिष्टव्यभिचारादौ न विशि २१४ ष्टान्तरविषयित्वाप्रयोज्यस्वविषयिताप्रयोज्यनिरुक्तोभयाभावप्रयोजकाभावाधिकरणताकत्वमिति नातिप्रसङ्गः । उपदर्शितव्यभिचारादिघटितवाधादिविषयिताप्रयोज्यायाः पक्षे साध्यावगाहित्वाद्यभावाधिकरणतायास्तघटकव्यभिचारादिविषयित्वाप्रयोज्यतया तत्संग्रहः । * चन्द्रकला I उक्तोभयाभावेति । प्रकृतपक्षे प्रकृतसाध्य वैशिष्ट्या वगाहित्य-प्रकृतसाध्यव्याप्यहेतुवैशिष्ट्य वगाहित्वो भयाभावार्थकम् । शुद्धेति । विशिष्टान्तरीभूतेत्यादिः । नातिप्रसंगइति । स्वपदेन प्रमेयत्वविशिष्टव्यभिचारत्वस्योपादानाऽसम्भवादित्याशयः । तत्संग्रहः = व्यभिचारघटितबाघसंग्रहः । * कलाविलासः * ताद्दशरूपावच्छिन्नप्रयोज्यत्वस्य पक्षे साध्यवैशिष्ट्यावगाहित्वाभावाधिकरणतायामसत्त्वात् । तादृशोभयाभावप्रयोजकं यत्तन्निरूपिताधिकरणतानिवेशेनैवोपपत्तौ श्रभावत्वेनाभावनिवेशनं निरर्थकमिति चेन्न, प्रमेयत्वविशिष्टव्यभिचारेऽतिव्यासवापत्तेः, मेयत्वविशिष्टव्यभिचारविषयकस्मृतिनिष्ठाया मेयस्वविशिष्ट व्य भिचारविषयित्वाधिकरणतायाः विरोधिविपयित्वाधिकरणत्वविधया तादृशोभयाभावप्रयोजकीभूतायाः संस्कारीयमेयत्वविशिष्टव्यभिचारविषयिताप्रयोज्यत्वस्य विशिष्टान्तरव्यभिचारविषयितात्वव्यापकरूपावच्छिन्नाऽप्रयोज्यत्वस्यापि केवलव्यभिचारविषयक - संस्कारात् मेयत्वविशिष्टव्यभिचारविषयकस्मृतेरनुत्पादेनैवावश्यकतया स्वपदेन मेथत्वविशिष्टव्यभिचारस्वस्य तु शक्यत्वादतोऽभावपदम् । तथाचाभावपदोपादानान्न तत्रातिव्याप्तिः । अभावत्वावच्छिन्नाधिकर णसात्वावच्छिन्नप्रयोजकताया एव विवक्षितत्वात् इति ध्येयम् । नच तथापि तादृशाभावनिरूपितं यत् तत्कत्वमेव निवेशनीयमधिकरणतात्वेनाधिकरणतानिवेशनमनर्थकमिति वाच्यम्, पर्वतो वह्निमान् पक्षे साध्यवैशिष्टयावगाहित्वाभावादित्यादौ मेयत्वविशिष्टवह्नयभाववद्वृत्तितादृश हेतुरूपव्यभि चारेऽतिव्याप्तचापत्तेः तादृशस्मृतिनिष्ठायां तादृशविषयितायां उभयाभावप्रयोजकाभावनिरूपितायां पूर्ववदेव संस्कारीयस्वविषयिताप्रयोज्यत्वस्य विशिष्टान्तरविषयित्वाऽप्रयोज्यत्वस्य च सश्वात् । श्रथ "Aho Shrutgyanam" Page #231 -------------------------------------------------------------------------- ________________ २१५ चन्द्रकला-कलाविलासाख्यटीकाद्वयोपेतम् ® गादाधरी 8 न च विशिष्टपक्षे विशिष्टसाध्यवत्ताग्रहप्रतिवन्धकतावच्छेदिकायास्ताहशबाधादिविषयतान्तःपातिव्यभिचारादिविषयिताया अपि तादृशबाधादि • चन्द्रकला . ननु व्यभिचारघटितबाधे कथं लक्षणसमन्वयः प्रतिबन्धकतावच्छेदकविषयिताप्रयोज्यताया एव प्रतिबध्यतावच्छेदकधर्माभावाधिकरणतायाः स्वीकरणीयतया धूमाभाववधूमव्यभिचारिवह्निमत्त्वावच्छिन्नरूपराधनिश्चयाव्यवहितोत्तरजायमानानुमितिनिष्ठायां उभयाभावप्रयोजकपक्षधर्मिकसाध्यप्रकारकत्वाभावाधिकरणतायां धूमाभावादिविषयिताया इव धूमव्यभिचारविशिष्टवह्निविषयितारूपबाधविषयितान्तःपातिपक्षतावच्छेदककोटिप्रविष्ट विषयिताया अपि प्रयोजकताया आवश्यकत्वात् पक्षधर्मिकसाध्यप्रकारकबुद्धिप्रतिबन्धकतावच्छेदकताया धूमव्यभिचारविशिष्टवह्निविषयितायामप्यनपायात् । तथा चोक्तमाधत्वावच्छिन्नविषयिताप्रयोज्यत्वस्येव विशिष्टान्तरतावच्छेदकधूमव्यभिचारविशिष्ट वद्वित्वावच्छिन्नविषयिताप्रयोज्यत्वस्यापि तादृशोभयाभावप्रयोजकपक्षधर्मिकसाध्यप्रकारकत्वाभावाधिकरणतायां सत्त्वेन स्वावच्छिन्नविषयिताप्रयोज्यविशिष्टान्तरतावच्छेदकरूपावच्छिन्नव्यभिचारविषयत्वाऽप्रयोज्योभयाभावप्रयोजकाभावाधिकरणताकत्वस्य तादृशबाधत्वे विरहात् स्वपदेन धूमाभावपळूमव्यभिचारिवह्निमत्त्वरूपबाधत्त्वस्योपादानाऽसम्भवादित्याशंकते नचेति । वाच्यमिति परेणान्वयः । विशिष्टेति। धूमव्यभिचारिवह्निमत्त्वावच्छिन्ने पक्षे इत्यर्थः। विशिष्टसाध्येति धूमत्वविशिष्टधूमार्थकम् । तादृशबाधादीति धूमाभाववद्धूम *कलाविलासः * अत्रवदन्तिकल्पेऽपि विशिष्टद्वयाऽघटितत्वनिवेशनमावश्यकमन्यथा विशिष्टान्तररूपे प्रकृतलक्षणाश्रयत्वनिवेशादेव जलवद्धदविषयिताया विशिष्टान्तरविषयितास्वाभावेन वह्वयभाववजलवद्वृत्तिजलवद्धदेऽतिव्याप्तिः स्यात् । नचैवं जलाभाववान् हृदो वह्निमान् जलादित्यत्र वह्विव्यापकीभूताभावप्रतियोगिजलरूपाऽसाधारण्येऽव्याप्तिः, जलवद्धदविषयिताया विशिष्टान्तरविषयितापदेन धर्तुं शक्यत्वादि. तिवाच्यम् , विशिष्टान्तरविषयिताप्रयोज्यस्वविषयिताप्रयोज्यतादृशोभयाभावप्रयोजकाभावाधिकरणताकं यद् यत् स्वं तदघटितत्वस्यैव प्रतियोगिकोटौ स्वत्वमन्तर्भाव्य निवेशनीयत्वात् , तत्रच तादृशोभयाभावप्रयोजकाभावाधिकरणतायां ताशासाधारण्यनिश्चयाव्यवहितोत्तरज्ञानवृत्तितत्तदधिकरणताभेदस्य विवक्षणीयतया असाधारपयेऽव्यातेरसम्भवात् । एवं गगनाभाववदभाववत्कालीनो घटो गगनवानित्यत्र वा. "Aho Shrutgyanam" Page #232 -------------------------------------------------------------------------- ________________ २१६ अनुमानगादाधयां सामान्यनिरुक्तिप्रकरणम् ___ * कलाविलासः * धेऽव्याप्तिवारणाय तादृशोभयाभावप्रयोजकाभावाधिकरणतायां तादृशवाधनिश्चयाव्यवहितोत्तरज्ञानवृत्तितत्तदधिकरणताभेदोऽपि निवेश्यः । नच बाधसत्प्रतिपक्षोभयविषयकसमूहालम्बननिश्चयोत्तरज्ञानवृत्त्यधिकरणतायां विशिष्टान्तरविषयिताप्रयोज्यस्व-स्वविषयिताप्रयोज्यत्वोभयसत्त्वेन बाधस्यापि स्वपदार्थतया तदघटितत्वविरहात् तत्राऽध्याप्तिरिति वाच्यम् , स्वविपयिताप्रयोज्योभयाभावप्रयोजकाभावाधिकरणतास्वव्यापकत्वविशिष्टान्तरविषयिताप्रयोज्यताकं यद् यत् स्वं तदघटितत्वस्यैव विवक्षणीयत्वात् , बाधविषयिताप्रयोज्याधिकरणतात्वव्यापकत्वस्य विशिष्टान्तरविषयिताप्रयोज्यत्वेऽसत्वात् , मेयत्वविशिष्टबाधत्वादेरेव स्वपदेनोपादेयतया कस्यापि दोपस्याऽसम्भवादित्यस्मद्गुरुचरणाः । अत्र कल्पे स्वसजातीयविशिष्टान्तराघटितत्वमित्यत्र साजात्यं स्ववृत्ति पक्षे साध्यावगाहित्वाभावाधिकरणता-हेतुधर्मिकव्याप्तयवगाहित्वाभावाधिकरणतेत्याद्यन्यतमाधिकरणतावस्वरूपम् , वृत्तित्वं अधिकरणतावत्त्वञ्च स्वप्रयोजकविषयितानिरूपकतावच्छेदकरवसम्बन्धेनेति ध्येयम् । केचित्तु निरुक्तकल्पे विशिष्टद्वयाऽघटितत्वनिवेशो नास्ति, ज्ञानविशिष्टज्ञानत्वेन प्रतिबन्धकतास्थले विशिष्टद्वयविषयितायां प्रयोजकताद्वयमतो निरुक्तोभयाभावप्रयोजकाभावाधिकणतायां जलवद्धदरूपविशिष्टान्तरविषयिताप्रयोज्यत्वान्न वह्नयभा. ववजलवद्वृत्तिजलवद्धदादावतिव्याप्तिः । नचैवमसाधारण्येऽव्याप्तिः, हेतुमत्पक्षविपयिताया अपि तादृशविशिष्टान्तरविषयितात्वादिति वाच्यम्, विशिष्टान्तराऽघटितत्वपदेन तादृशव्यापकरूपानवच्छिन्नस्वविषयितानिष्टप्रयोजकतानिरूपितप्रयोज्यतावद्यथोक्तोभयाभावप्रयोजकाभावाधिकरणताकत्वस्य निवेशनीयत्वात् अत एव हृदस्वावच्छेदेन वह्निसाध्यकस्थले हृदत्वावच्छेदेन वह्नयभावस्य बाधत्वानुपपत्तिः, तादृशोभयाभावप्रयोजकाभावाधिकरणतायां हृदत्वसामानाधिकरण्येन वह्नयभावविशिष्टहृदरूपविशिष्टान्तरविषयिताप्रयोज्यत्वस्य सत्वादित्यपि परास्तम् , ह्रदत्वावच्छेदेन वाधविषयितानिष्ठप्रयोजकतायां निरुक्तविशिष्टान्तरविषयितात्वव्यापकरूपानवच्छिन्नस्वविरहादित्याहुस्तच्चिन्त्यम् । वस्तुतो ह्रदत्वावच्छेदेन वह्निसाध्यकस्थले हदरवावच्छेदेन वन्यभावस्याऽलक्ष्यस्वमेव । तत्र हृदत्वसामानाधिकरण्येन वह्वयभावस्यैव बाधत्वमभ्युपगन्तव्यम, तत एव बाधेन दुष्ट इतिव्यवहारस्याऽप्युपपरोः । तथाच छ विशिष्टान्तरघटितत्वशंकाऽपि? "Aho Shrutgyanam" Page #233 -------------------------------------------------------------------------- ________________ चन्द्रकला-कलाविलासाख्यटोकाद्वयोपेतम् २१७ * गादाधरी * विषयिताप्रयोज्यायां विशिष्टपक्षे विशिष्टसाध्यवैशिष्ट्याद्यवगाहित्वाभावाधिकरणतायां प्रयोजकतया तादृशवाधादेदुःसंग्रह इति वाच्यम् , यत्किञ्चिद्विशिष्टान्तरविषयितात्वव्यापकरूपावच्छिन्नाप्रयोज्यतानिवेशेन तत्संग्रहसम्भवात् , व्यभिचारादिविषयिताया बाधविषयतान्त:पातिविपयितामात्रवृत्तिरूपेणैव उपदर्शितसाध्यवत्ताग्रहप्रतिबन्धकतावच्छेदकतया तेनैव ॐ चन्द्रकला व्यभिचारिवह्निमत्स्वरूपबाधाद्यर्थकम् । समाधत्ते यकिञ्चिदिति । तथा च स्वावच्छिन्नविषयिताप्रयोज्या या स्वावच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदक. निरुक्तलक्षणाश्रयीभूतो यत्किञ्चिद्विशिष्टान्तरतावच्छेदकधर्मः तदवच्छिन्नविषयितात्वव्यापकरूपावच्छिन्नाऽप्रयोज्या तादृशोभयाभावप्रयोजिकाभावाधिकरणता सा यस्य स्वस्य एवम्भूतं यत् स्वं ताहशस्ववत्वमेव लक्षणार्थो वक्तव्यः । तथा च न व्यभिचारघटितबाधेऽव्याप्तिःधूमाभाववद्धमव्यभिचारिवह्निमत्त्वरूपतादृशवाधत्वावच्छिन्नविषयिताप्रयोज्यायास्तादृशोभयाभावप्रयोजकपक्षविशेष्यकसाध्यप्रकारकत्वाभावाधिकरणताया वाधविषयितान्तःपातिब्यभिचारविषयिताप्रयोज्यत्वेऽपि तादृशबाधत्वरूपस्वावच्छिन्नाऽविषयकप्रतोतिविषयतावच्छेदकयकिञ्चिद्वयभिचारत्वरूपविशिष्टान्तरतावच्छेदकधर्मावच्छिन्न विषयितात्वव्यापकं यत् निरुक्तबाधविषयितानन्तःपातिव्यभिचारविषयितासाधारण सामान्यतो व्यभिचारविषयि * कलाविलासः * एतेन केषाञ्चिन्मैथिलानां हृदत्वावच्छेदेन वह्विसाध्यकस्थले तदवच्छेदेन वह्नयभावववदस्य दोषत्वसम्पादनाय विशिष्टान्तरतावच्छेदकघटकीभूतायां प्रतिबन्धकतायां स्वावच्छिन्नविषयिताव्यापकत्व-स्वावच्छिन्नविषयिताव्यापिका या सामा. नाधिकरण्यमात्रेणानुमितिप्रतिबन्धकता तदन्यत्वोभयसम्बन्धावच्छिन्नप्रतियोगिताकस्वाभाववरवरूपविशेषणदानं प्रतिबन्धकताघटितलक्षणेऽप्यनादेयम्, तस्यालचयतया सत्संग्राहकविशेषणदानस्याऽनौचित्यादिति ध्येयम् । यत्किञ्चिद्विशिष्टान्तरेति । ननु व्यभिचारविषयितानिष्ठप्रयोजकतावच्छेद कीभूतनिरवच्छिन्नवतित्वनिष्ठावच्छेदकताकतादृशविषयितात्वस्य जातिमान् धूमन्यभिचारीत्यादिज्ञानीयविषयितासाधारणव्यभिचारादिरूपविशिष्टान्तरविषियितात्वाऽव्यापकतया मेयत्वविशिष्टव्यभिचारेऽतिव्याप्तिः । अतः तद्वारणाय यत्किञ्चिद्विशिष्टान्तरविषयित्त्वाव्यापकीभूतविषयिताशून्यज्ञानीयविषयितात्वव्यापकत्वमेव विवक्ष "Aho Shrutgyanam" Page #234 -------------------------------------------------------------------------- ________________ २१८ अनुमानगादाधयों सामान्यनिरुक्तिप्रकरणम् * गादाधरी , रूपेण तादृशसाध्यावगाहिताविरहवताप्रयोजकत्वात्तादृशस्य च रूपस्य बाधादिविषयतानन्तःपातिव्यभिचारादिविषयतासाधारणव्यभिचारादिरूपविशिष्टविषयतात्वाव्यापकत्वात्तदुव्यापकरूपावच्छिन्नाप्रयोज्यत्वस्य उक्तबाधादिविषयिताप्रयुक्तसाध्यावगाहित्वाभाववत्तायामक्षतत्वात् ।। मेयत्वविशिष्टव्यभिचारादिविषयिताया येन रूपेण व्याप्त्यादिग्रहप्रतिबन्धकतावच्छेदकता तद्रूपेण निरुक्तविषयतात्वव्यापकेन मेयत्वविशिष्टव्य * चन्द्रकला * तात्वं तदवच्छिन्नप्रयोज्यत्वविरहादेव स्वपदेन तादृशबाधत्वस्योपादानसम्भवादित्याह बाधादीति । बाधघटकव्यभिचारविषयितामात्रवृत्तितद्वयभिचारविषयितात्धेन रूपेणेत्यर्थः। तादृशस्य च = यतूकिञ्चिद्वयभिचारविषयितात्वव्यापकस्य च । अक्षतत्वादिति । उक्त विवक्षया न व्यभिचारघटितबाधे अव्याप्तिशंकाऽपि सम्भवतीति हृदयम् । प्रमेयत्वविशिष्टव्यभिचारत्वन्तु नैतादृशं स्वम्, प्रमेयत्वविशिष्टव्यभिचारत्वाब. च्छिन्नविषयकनिश्चयाव्यवहितोत्तरजायमानानुमिति निष्ठायाः तादृशोभयाभावप्रयोजकप्रकृतसाथ्यव्याप्तिघटिततादृशव्याप्तिविशिष्टहेतुप्रकारकत्वाभावाधिकरणताया व्याप्तिग्रहप्रतिबन्धकतावच्छेदकव्यभिचारविषयितावृत्तिप्रमेयत्वविशिष्टव्यभिचारविषयितात्वा - वच्छिन्नप्रयोज्यतया यकिञ्चिविशिष्टान्तरशुद्धव्यभिचारविषयितात्वव्यापकतादृशव्यभिचारविषयितात्वावच्छिन्नप्रयोज्यत्वस्याप्यावश्यकत्वादित्याह प्रमेयत्वविशिष्टेति । येन रूपेण = व्यभिचारविषयितात्वेन रूपेण । * कलाविलासः * णीयम् । तथाच तादृशविशिष्टान्तरविषयित्वाव्यापकीभूतविषयिताशून्यज्ञानीयविषयित्वाऽप्रयोज्यत्वस्य निवेशनेनैव बाधविषयितान्तःपातिव्यभिचारविषयितामादायव्यभिचारघटितबाधेऽव्याप्तिवारणसम्भवे ताशविशिष्टान्तरविषयितात्वव्यापकत्वनिवेशो व्यर्थ इति चेन्न, जलवज्जलं जलाभाववत् अवृत्तिजलवज्जलादित्यत्र जलवजलवज्जलरूपबाधेऽव्याप्तयापत्तेः। तत्र जलस्वरूपपक्षतावच्छेदकेन घटावगाहिजलवजलवजलमितिबाधज्ञानीयविषयिताया जलरज्जलवद्रूपविशिष्टान्तरविषयित्वाव्यापकीभूतविपयिताशून्यज्ञानीयतया तद्वृत्तिबाधविषयितात्वावच्छिन्नप्रयोज्यत्वस्य स्वविषयिताप्रयोज्यत्वस्य च द्वयोःसाध्यवैशिष्टयावगाहित्वाभावाधिकरणतायां सच्चादतो व्यापकत्वपर्यन्तानुसरणमिति ध्येयम् । "Aho Shrutgyanam" Page #235 -------------------------------------------------------------------------- ________________ चन्द्रकला कलाविलासाख्य टीकाद्वयोपेतम् गादाधरी २१९ भिचारादिविषयताप्रयोज्यव्याप्त्याद्यवगाहित्याभाववत्तायां नियमतः प्रयोजकत्वान्नातिप्रसङ्गावकाशः । बाधसत्प्रतिपक्षादिविषयकज्ञानस्य नानाविधबाधविषयकज्ञानस्य वा नन्तरं जायमानायामनुमितौ या बाधादिविषयताप्रयोज्याऽभावाधिकरणता तस्या विशिष्टान्तरविषयिताप्रयोज्यत्वेऽपि स्वपूर्ववर्त्तिज्ञानीयविरोधिविषयताया एव स्वनिष्ठप्रतिबध्यतावच्छेदकधर्माभावाधि * चन्द्रकला व्याप्त्येति । साध्यव्याप्तिघटिततादृशव्याप्तिविशिष्ट हेतुमत्तावगाहित्वाभावाधिकरणतायामित्यर्थः । नातिप्रसंगेति । व्यभिचारविषयितात्वेन व्याप्तिग्रहप्रतिबन्धकतावच्छेदकतया तेनैव रूपेण यत् किञ्चिद्विशिष्टान्तरविषयितात्वव्यापकेन प्रतिबध्यतावच्छेदकव्याप्त यवगाहित्वाभावाधिकरणताप्रयोजकत्वं निर्विवादमिति नातिप्रसंग इत्यर्थः । सामान्यतो विशिष्टान्तरविषयितान्वव्यापकं रूपमप्रसिद्धं स्यात्, निरुकव्यभिचारघटितबाधादिविशिष्टान्तरव्यभिचारसत्प्रतिपक्षादिविषयितात्वसमानाधिकरणव्यभिचारादिविषयितात्वे सत्त्वत्, एकमात्रदोषस्थलेऽपि विपरीतदोषतद्वयादिविषयिता साधारणविशिष्टान्तरविषयितात्वव्यापकतायाः कुत्राप्यभावादतो यत् किञ्चित्त्वं विशिष्टान्तरविशेषणमितिध्येयम् । भेदप्रतियोगितावच्छेदकत्वस्यैव ननु हृदो वह्निमान् धूमादित्यादौ वह्न्यभावविशिष्टहृदादिरूपवाधादावव्याप्तिः वह्नयभाववान् ह्रदो वह्नयभावव्याप्यवांश्चेत्याकारकबाघसत्प्रतिपक्षविषयक समूहालम्भननिश्चयाव्यवहित्तोत्तरजायमानायां हृदो वह्नचभाववान् हृदवृत्तितावांश्च वह्नयभाव इत्याकारकनानाविधबाधविषयक निश्चयाव्यवहितोत्तरजायमानायाञ्च घटाद्यनुमितौ वर्त्तमाना या तादृशोभयाभावप्रयोजकद्ददविशेष्य कवह्नि प्रकारकत्वाभावाधिकरणता तत्र तादृशविशिष्टान्तरवच भावव्याप्यवत्सत्प्रतिपक्षविषयिताप्रयोज्यत्वस्यैव सत्त्वेन स्वावच्छिन्न विषयिताप्रयोज्यस्वावच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदक निरुक्तलक्षणाश्रयीभूतययोक्तसत्प्रतिपक्षतावच्छेदकरूपाद्यवच्छिन्नविषयिताप्रयोज्यताया अक्षततया स्वपदेन तादृशबाधत्वादेरुपादान [सम्भवादित्याह बाधेति 1 तस्याः = पक्षे साध्यवैशिष्ट्या वगाहित्वाभावाधिकरणतायाः । नेयमव्याप्तिरित्याह स्वपूर्ववर्त्तीति । स्वं वह्नयाद्यभावविशिष्टहृदादिरूपैकविधबाधादिमात्रविषयकनिश्चयाव्यवहितोरजायमानघटाद्यनुमितिः, तत्पूर्ववर्त्तितादृशबाघज्ञानीयविरोधिविषयिताया एवेत्यर्थः । स्वनिष्ठेति । घटाद्यनुमितिनिष्ठायाः "Aho Shrutgyanam" Page #236 -------------------------------------------------------------------------- ________________ २५० अनुमानगादाधर्या सामान्यनिरुक्तिप्रकरणम् * गादावरी करणताप्रयोजकत्वात्तत्रैकैकविधबाधादिज्ञानानन्तरं जातज्ञाने या तत्तद्वाधादिविषयिताप्रयोज्या पक्षे साध्यवैशिष्ट्या वगाहित्वाभावाधिकरणता तस्या विशिष्टान्तरविषयित्वाप्रयोज्यतया बाधादौ लक्षणसमन्वयः । व्यभिचारघटितबाधादिविषयिताप्रयोज्याया दीधितिकारोक्तोभयाभावाधिकरणताया व्याप्त्याद्यवगाहिताविरद्दप्रयोज्यत्वेन यत् किश्विद्विशिष्टान्तरविषयितात्वव्यापकरूपावच्छिन्नबाधादिविषयतानन्तः पातिव्यभिचारा दिविषयिताप्रयोज्यत्वनियमात्तत् संग्रहाय तादृशोभयाभावप्रयोजकाभा * चन्द्रकला तादृशबाधनिश्चयप्रतिबध्यतावच्छेदकस्य हृदविशेष्यकवह्निप्रकारकत्वस्य अभावाधिकरणतायाः प्रयोजकत्वादित्यर्थः । एकैकविधेति । तथाच हृदो वह्निमानित्यादा वह्नयभावविशिष्टहृदादिरूपैकविधबाधादौ नाव्याप्तिः, ताहशैकविधबाघमात्रविषयक निश्चयाव्यवहितोत्तरानुमित्यादौ वर्त्तमानाया हृदधर्मिकवह्नयादिप्रकारकत्वाभावाधिकरणतायाः तादृशबाघविषयितामात्रप्रयोज्यतया विशिष्टान्तरसत्प्रतिपक्षविषयिताप्रयोज्यत्वविरहात्, तादृशै कविधवाधादिमात्रविषयकनिश्चयमादायैव सर्वत्र लक्षणसमन्वयसम्भवादिति भावः । तस्याः = तत्तद्वाधादिविषयिताप्रयोज्यायास्तादृशावगाहित्वाभावाधिकरणतायाः । बाधादाविति । आदिना सत्प्रतिपक्षादिपरिग्रहः । लक्षणसमन्वय इति । उक्त विवक्षयेत्यादिः । ननु स्वविषयिताप्रयोज्यत्वस्य विशिष्टान्तरविषयित्वाऽप्रयोज्यत्वस्य च तादृशोभयाभावाधिकारणतायां निवेशेनैवोपपपत्तौ तादृशोभयाभावप्रयोजकाभावाधिकरणतायां तन्निवेशनमनर्थकमित्यत आह व्यभिचारेति । धूमाभाववद्धूमव्यभिचारिवह्निमद्रूपबाधादिविषयिताप्रयोज्याया इत्यर्थः । दीधितीति । प्रकृतपक्षे प्रकृतसाध्यवैशिष्ट्या वगाहित्व - प्रकृतसाध्यव्याप्यप्रकृतहेतुवैशिष्ट्या वगाहित्वोभयाभावाधिकरणताया इत्यर्थः । व्याप्त्यवगाहितेति । निरुक्तबाधस्य व्यभिचारघटिततया व्यभिचारनिश्चय प्रतिबध्यतावच्छेदकतायाश्च व्याप्त्यवगाहितायां वर्त्तमानतया तादृशाधिकरणताया व्यात्यवगाहित्वाभावप्रयोज्यत्वस्यावश्यकत्वेनेत्यर्थः । बाघविषयितान्तः पातिव्यभिचारविषयितात्वरूप यत् किञ्चिद्विशिष्टान्तरविषयितात्वव्यापकव्यभिचारविषयितात्वावच्छिन्नप्रयोज्यत्वं सुतरामेव तादृशोभयाभावाधिकरणतायामित्याह यत् किञ्चिदिति । तत्संग्रहाय = व्यभिचारघटितवाधादिसंप्रदाय । "Aho Shrutgyanam" Page #237 -------------------------------------------------------------------------- ________________ चन्द्रकला-कलाविलासाख्यटीकाद्वयोपेतम् २२१ * गादाधरी - वाधिकरणतापर्यन्तनिवेशः । तथासति दर्शितोभयाभावाधिकरणताया उक्तरूपावच्छिन्नव्यभिचारादिविषयित्वप्रयोज्यत्वनियमेऽपि तादृशोभयाभावप्रयोजकसाध्यादिमत्तावगाहित्त्वाभावाधिकरणताया उक्तरूपावच्छिन्नव्यभिचारादिविषयत्वाप्रयोज्यत्वेन ताशबाधादेः संग्रहः। __बाधादिविषयिताप्रयोज्यस्य साध्यादिमत्तावगाहिताविरहस्य सत्प्रतिपक्षादिरूपविशिष्टान्तरविषयताप्रयोज्यत्वनियमादसम्भवः स्यादित्युभयाभावप्रयोजकाभावे विशिष्टान्तरविषयत्वाप्रयोज्यत्वमनिवेश्य तादृशाभावाधिकरणतायां तन्निवेशः। तथा सति अधिकरणताया अधिकरणभेदेन * चन्द्रकला * तन्निवेशे तु न ताशबाधादेरसंग्रह इत्याह तथासतीति । उभयाभावप्रयोजकाभावाधिकरणतायां तादृशप्रयोज्यत्वाऽप्रयोज्यत्वयोनिवेशे सतीत्यर्थः । दर्शितोभयेति । पते साध्यवैशिष्टयावगाहित्व-साध्यव्याप्यहेतु शिष्टयावगाहित्वोमयाभावाधिकरणताया इत्यर्थः । तादृशेति । निरुक्तोभयाभाव प्रयोजकपक्षधर्मिसाध्यप्रकारकत्वाभावाधिकरणताया इत्यर्थः । उक्त. रूपेति । यत्किञ्चिद्विशिष्टान्तरविषयितात्वव्यापकव्यभिचारविषयितात्वावच्छिन्नाऽप्रयोज्यत्वेनेत्यर्थः। तादृशबाधादेः संग्रहः = व्यभिचारघटितबाधादेः संग्रहः। निरुक्तोभयाभावस्य पक्षधर्मिकसाध्यप्रकारकत्व-साध्यव्याप्यहेतुप्रकारकत्वोभयाभावात्मकतया तदधिकरणतायां विशिष्टान्तरव्यभिचारविषयितात्वेन व्यभिचारविषयिताप्रयोज्यत्वस्य सत्त्वेऽपि धूमाभाववद्धमव्यभिचारिवह्निमद्रूपबाधनिश्चयाव्यवहितोत्तरजातायां घटाद्यनुमितौ तादृशोभयाभावप्रयोजकपक्षधर्मिकधूमरूपसाध्यप्रकारकत्वाभावाधिकरणतायां यत्किञ्चिद्विशिष्टान्तरव्यभिचारविषयितात्वव्यापकव्यभिचारविषयितात्वावच्छिन्नप्रयोज्यताविरहेण स्वपदेन निरुक्तबाधत्वस्यैव धत्त शक्यतया व्यभिचारघटितबाधादावव्याप्तिवारणार्थमेवोभयाभावाधिकरणतायां तादृशप्रयोज्यस्वाऽप्रयोज्यत्वमनिवेश्य तादृशोभयाभावप्रयोजकाभावाधिकरणतायामेव तन्निवेश इत्याशयः ।, नच स्वविषयिताप्रयोज्योभयाभावाधिकरणताकत्वेऽसति तादृशविशिष्टान्तरविषयित्वाऽप्रयोज्योमयाभावप्रयोजकाभावाधिकरणताकत्वविवक्षणे न कोऽपि दोष इति वाच्यम् , एकत्र तादृशप्रयोज्यत्वाऽप्रयोज्यत्वविवक्षणे अनुगमे लाघवसम्भवादितिध्येयमधिकमन्यत्रानुसन्वेयम् । "Aho Shrutgyanam" Page #238 -------------------------------------------------------------------------- ________________ १९९ अनुमानगादाधर्यां सामान्यनिरुक्तिप्रकरणम् * गादाधरी * भिन्नतया पूर्ववर्त्तिनिष्ठप्रतिबन्धकतावच्छेदकधर्म्मस्यैव तदुत्तरोत्पन्ननिष्ठप्रतिबध्यतावच्छेदकधम्र्माभावाधिकर णताप्रयोजकत्वेन बाधादिनिश्चयानन्तरोत्पन्नानुमितिनिष्ठ साध्यादिमत्त्वावगाहित्वाभावाधिकर णतायां प्रतिपक्षान्यादृशबाधादिविषयताया अप्रयोजकत्वेन सामञ्जस्यात् । * चन्द्रकला * स इदमत्रावधेयम् । यथोक्तविशिष्टान्तराऽघटितत्वविवक्षणे विरोधिविषयिताप्रयुक्तत्वदलव्यावृत्तिर्न संगच्छते, निर्वह्निः पर्वतो वह्निमानित्यत्र घटादावतिव्याप्तिवारणायैव विरोधिविषयिताप्रयुक्तत्वदलस्य निवेशिततया घटादिविषयिताप्रयोज्योभयाभावप्रयोजकाभावाधिकरणत्वाऽप्रसिद्धया स्वपदेन घटादेरुपादातुमशक्यत्वात् । प्रतियोगिकोटौ स्वत्वमन्तर्भाव्य स्वावच्छिन्न विषयिताप्रयोज्यविशिष्टान्तरतावच्छेदकरूपावछिन्नविषयताप्रयेज्योभयाभावप्रयोजकाभावाधिकरणताकं यत् यत् स्वं तत्तदवछिन्नविषयकत्वाभावकूटवत्प्रतीतिविषयतावच्छेदकयद्रूपावच्छिन्न विषयकनिश्चयाव्य वहितोत्तरानुमितिसामान्ये विरोधिविषयिताप्रयुक्तनिरुक्तोभयाभावस्तद्रूपवत्त्वं लक्षणार्थो वक्तव्यः, स्वं लक्ष्यतानवच्छेदकत्वेनाभिमतप्रमेयत्वविशिष्टव्यभिचारत्वादिकम् एवञ्च घटत्वादेस्तादृशयद्रूपपदेनोपादानसम्भवात् तत्रातिव्याप्तिवारणार्थमेव विरोधिविषयिताप्रयुक्तत्वदलमिति । " अतः यथाविवक्षितयथोक्त लक्षणादरे निर्वह्निः पर्वतो वहिमान् धूमादित्यादौ वह्निमत्पर्वतरूपाश्रयासिद्धि निश्चयाव्यवहितोत्तरोत्पन्नघटाद्यनुमितिनिष्ठाया निर्वह्निपर्वतविशे व्यकवह्निप्रकारकत्वव्यापकस्य "Aho Shrutgyanam" पर्वतविशेष्यकवह्नयभावप्रकारकत्वस्याऽभावाधिकरणतायाः तादृशाश्रयासिद्धिविषयिताप्रयोज्यत्वेन व्याप्यीभूतस्य तादृशोनुमितिनिष्ठाया निर्वह्निपर्वतविशेष्यकवह्निप्रकारकत्वाभावाधि करणताया अपि तादृशाश्रयासिद्धिविषयिताप्रयोज्यत्वस्यावश्यकतया वह्निमत्पर्वतरूपाश्रयाऽसिद्धौ लक्षणसमन्वयसम्भवेऽपि निर्वह्निर्वह्निमान् धूमादित्यादौ वह्नयभावविशिष्टवह्नय भाववद्रूपबाधे निरुक्तलक्षणस्याऽव्याप्तिर्दुवरा स्यात् । तादृशवाघनिश्चयस्य कुत्राऽपि बुद्धावप्रतिबन्धकतया तन्निष्ठविषयिताप्रयोज्यत्वस्योभयाभावे तदधिकरणतायां वा विरहात् निर्वह्निविशेष्यकर्वाह्नप्रकारकत्वस्य चाहार्य ज्ञानमात्रनिष्ठतया कस्याऽपि प्रतिबध्यतानवच्छेदकत्वेन तदभावाधिकरणताया निरुक्त बाघविषयित्वाऽप्रयोज्यत्वात् प्रतिबध्यतावच्छेदकधर्माभावं प्रत्येव प्रतिबन्धकतावच्छेदकविषयितायाः प्रयोजकत्वाभ्युपगमादित्याशंकते Page #239 -------------------------------------------------------------------------- ________________ २२३ चन्द्रकला-कलाविलासाख्यटीकाद्वयोपेतम् * गादाधरी * अथैतादृशोभयाभाववत्वघटितलक्षणकरणेऽपि केवलनिहित्वादिपक्षतावच्छेदककवह्नथादिसाध्यकस्थलीयनिवह्निनिष्ठवह्नयभावादिरूपबाधादिरूपदोषऽव्याप्तिस्तादृशबाधादिरूपदोषज्ञानस्याप्रतिबन्धकतया तदीयविषयतायाः प्रतिबन्धकतानवच्छेदकतया तथाविधोभयाभवाप्रयोजकत्वात् , तस्य दोषत्वानुपगमे तत्र हेतोदुष्टत्वव्यवहारानुपपत्तो, इष्टापत्तौ तु निवह्निः पवतो वह्निमानित्यादावपि तत्सम्भवेन एतादृशप्रयासवैफल्यात्। न च तत्र अभाववान् वह्निमानित्यनाहाय्यज्ञानस्य प्रसिद्धथा तत्प्रतिबन्धकीभूताभाववान् निव्वह्रिरित्यादिज्ञानविषय एव दोष इति वाच्यम् , * चन्द्रकला . अथैतादृशेति । विशिष्टान्तराऽघटितत्वघटितैतादृशार्थकम् । केवलेति । वह्नयभाववन्मात्रपक्षकवयादिसाध्यकस्थलीये वढ्यभावविशिष्टवयभाववद्रूपबाधादिदोषेऽव्याप्तिरित्यर्थः। अादिना सत्प्रतिपक्षपरिग्रहः। तदीयेति बाधनिश्चयीयार्थकम् । तस्य = बाधादेः। तारशहेतौ- वह्नयभाववत्पक्षकातिसाध्यकस्थलीयधूमादिहेतौ। दुष्टत्वेति । निर्वह्रौ वह्निसाधने धूमो दुष्टहतिव्यवहारानुपपरित्यर्थः। ननु तादृशव्यवहारस्तु नेष्यत एवेत्यत आह इष्टापचौ चेति । तथाच निर्वह्निः पर्वतो वह्निमान् धूमादित्यादावपि हेतौ दुष्टत्वव्यवहारस्यावश्यमनभ्युपगम्यमानतया अत्र वदन्तीत्यादिना गुरुतरलक्षणानुसरणं निरर्थकमिति भावः । ___ ननु निर्वह्निनह्निमानित्यादौ वह्नयभावविशिष्ट वह्नयभाववतो न बाधदोषत्वमपितु वह्नयभावविशिष्टाभाववत एव तथात्वं वक्तव्यम् , ताशबाधनिश्चयोत्तरजातघटाद्यनुमितिनिष्ठाया निर्वह्निविशेष्यकवह्निप्रकारकत्वव्यापकस्याऽभाववद्विशेष्यकवह्निप्रकारकत्वस्याभावाधिकरणतायाः तादृशबाधनिश्चयप्रतिबध्यतावच्छेदकस्य अभाववद्विशेध्यकवह्निप्रकारकत्वस्याभावाधिकरणतात्मकतया तस्या अभाववन्निष्ठवह्नयभावविषयिताप्रयोज्यत्वेन तादृशानुमितिनिष्ठाया व्याप्योभूतस्य निर्वह्निविशेष्यकवहिंप्रकारकत्वस्य भावाधिकरणताया अपि वलयभावविशिष्टाभाववद्रूपबाधविषयिताप्रयोज्यत्वस्यावश्यकत्वादिति तटस्थः शंकते नचेति । वाच्यमितिपरेणान्वयः । तत्र = निर्व हियह्निमानित्यादिस्थले । विषय एवेति । वह्नयभावविशिष्टाभाववत एवेत्यर्थः । "Aho Shrutgyanam" Page #240 -------------------------------------------------------------------------- ________________ २२४ अनुमानगादाधर्या सामान्यनिरुक्तिप्रकरणम् ____ गादाधरी अभाववत्वसामानाधिकरण्येन निवह्नित्वग्रहस्य ताशवह्निमत्त्वग्रहाविरोधित्वात्, अभाववत्त्वावच्छेदेन वह्नयादिमत्ताग्रहविरोधित्वेऽपि ताहशवह्नया. दिमत्तावगाहित्वस्य वह्नयभावादिमत्त्वरूपपक्षतावच्छेदकविशिष्टे साध्यवै. शिष्टयावगाहित्वाव्यापकतया तदवच्छिन्ननिरूपितप्रतिबन्धकतावच्छेदक ® चन्द्रकला ® अभाववत्वसामानाधिकरण्येन वढयभावशिष्टाभावक्त एव दोषत्वं स्वीकरणीयम् अभाववत्वस्य पर्वतादावपि सत्त्वेन तत्र वलयभावस्य विरहात् अभाववत्त्वावच्छेदेन वह्नयभाववैशिष्टचाऽप्रसिद्धया तदवच्छेदेन वह्नयभावस्य दोषत्वाऽ. सम्भवादेवञ्चाऽभाववत्त्वसामानाधिकरण्यावगाहिवह्नयभावनिश्चयप्रतिबध्यतावच्छेदकमभाववत्त्वावच्छेदेन बयभावप्रकारकत्वमेव, तदभावं प्रत्येव तादृशबाधनिश्चयविषयितायाः प्रयोजकतया निर्वह्निविशेष्यकवह्निप्रकारकत्वाभावाधिकरणतायास्ताशवाधनिश्चयविषयित्वाऽप्रयोज्यत्वात् अभाववत्त्वावच्छेदेन वहिप्रकारकत्वस्य निर्वही वहथवगाहित्वाऽव्यापकत्वात् । ___ अभाववत्त्वसामानाधिकरण्येन वह्नयवगाहित्वस्य निर्वह्निधर्मिकवह्निप्रकारकत्वव्यापकत्वेऽपि तस्याऽभाववत्त्वसामानाधिकरण्येन वह्नयभावरूपभवदभिमतबाधनिश्चयप्रतिबध्यतानवच्छेदकतया तदभावाधिकरणताया निरुक्तवाधनिश्चयविषयिताप्रयोज्यत्वाऽसम्भवादित्य कामेनाऽपि वह्नयभावविशिष्टवह्नयभाववत एव दोषत्वस्यावश्यकतया भवति तत्राऽव्याप्तिरित्येवं समाधत्ते अभाववरवेति । शुद्धस्वरूपेणाभाववति वह्वयभावप्रकारकनिश्चयस्येत्यर्थः । ताशेति । अभाववत्त्वसामानाधिकरण्येन अभाववति शुद्धसंयोगेन वह्निप्रकारकत्वस्य निर्वह्निविशेष्यकवह्निप्रकारकत्वव्यापकत्वेऽपि तदभावाधिकरणताया अभाववत्त्वसामानाधिकरण्येन वह्नयभावप्रकारकनिश्चयीयविषयिताप्रयोज्यत्वविरहान्नाभाववत्त्वसामानाधिकरण्येन वह्नयभावादेदोषत्वमपि वक्त शक्यमितिभावः । अभाववत्त्वावच्छेदेनेति । अभाववत्त्वव्यापकवह्निप्रतियोगिकसंयोगेनाभाववान् बह्निमान् इत्याकारकग्रहप्रतिबन्धकत्वेऽपोत्यर्थः । अभाववत्त्वसामानाधिकरण्येन निर्वह्नित्वग्रहस्येति पूर्वेण सम्बन्धः । तादृशेति अभाववत्त्वावच्छेदेन वह्वयादिमत्तावगाहित्वस्येत्यर्थः। पक्षतेति । निर्वह्नित्वविशिष्टे वह्नयवगाहित्वाऽव्यापकतयेत्यर्थः । तदवच्छिन्नेति । अभाववत्त्वावच्छेदेन वह्निप्रकारकत्वावच्छिन्नप्रतिबध्यतानिरूपितप्रतिबन्धकतावच्छेदकाभाववत्त्वसामानाधिकरण्यावगाहिवह्नयभावनिश्चयीयविषयिताया इत्यर्थः । "Aho Shrutgyanam" Page #241 -------------------------------------------------------------------------- ________________ चन्द्रकला-कलाविलासाख्यटीकाद्वयोपेतम् २२५ गादाधरी* विषयितायास्तथाविधोभयाभावाप्रयोजकत्वात् तद्विषयस्य दोषत्वानुपपत्तः, अभाववत्त्वावच्छेदेन निहित्वग्रहस्य भ्रमरूपतया तद्विषयविशिष्टस्याप्रसिद्धः। एवं वह्निमानिवह्निरित्यादिस्थलीयदोषे नितरामव्याप्ति वह्निमनिष्ठवह्निमत्त्वादेरेव तत्र दोषत्वसम्भवात् , तद्विषयकस्य ज्ञानस्य कचिदपि प्रतिबन्धकत्वायोगात् । एवं यत्र निर्वह्निः पवतो वह्निमानित्यादौ पर्वतत्वादिसामानाधिकरण्येन वह्नयभावादिमत्त्वस्य पक्षतावच्छेदकघटकता तत्र पव्वतत्वसामानाधिकरण्येन वहथादिमत्वं न दोषः, विशिष्टपक्षप्रहाद्यविरोधित्वेनाश्रयासिद्ध्यादिरूपत्वानुपपत्तः, उक्तरीत्यैतल्लक्षणानाकान्लत्वाच्च । * चन्द्रकला छ तथाविधेति । निवह्नित्वविशिष्ट वहिवैशिष्टयावगाहित्वघटितोभयाभावाप्रयोजकत्वादित्यर्थः। व्यापकाभावप्रयोजकस्यैव व्याप्याभावप्रयोजकतया अभाववत्त्वावच्छेदेन वह्नयवगाहित्वस्य निर्वह्रौ वढयवगाहित्वाव्यापकतया पक्षे साध्यवैशिष्टयावगाहित्वघटितोभयाभावप्रयोजकत्वम् अभावत्वसामानाधिकरण्येन वयभावविषयितायां न सम्भवतीति हृदयम् । नन्वेवमभाववत्वावच्छेदेनैव वलयभावविशिष्टाभाववतो दोषत्वमस्त्वित्यप्त आह अभाववत्स्वेति । अभावत्वव्यापकवह्नयभावप्रतियोगिकस्वरूपेण अभाववान् वह्वयभाववानित्याकारकग्रहस्येत्यर्थः । तद्विषयेति भ्रमविषयेत्यर्थकम् । अप्रसिद्धेरिति । तथाच निर्वहिर्वह्निमानित्यत्र वह्नयभावविशिष्टवह्नयभावक्त एव दोषतया निरुक्तलक्षणस्य तत्राऽव्याप्तिदुर्वा रैवेति भावः । निरुक्तलक्षणे दोषान्तरमप्याह एवमिति । तथाच वह्निमान् वह्नयभाववानित्यत्र वह्निविशिष्टवह्निमद्रूपबाधेऽप्युक्तलक्षणस्याव्याप्तिः, वह्निमान् वह्रिमानित्याकारकवाधनिश्चयस्य कुत्रचिदपि ज्ञानेऽप्रतिबन्धकतया तत्प्रतिबध्यतावच्छेदकधर्मस्याप्रसिद्धत्वात् प्रतिबध्यतावच्छेदकधर्माभावं प्रत्येव प्रतिबन्धकतावच्छेदकविषयितायाः प्रयोजकत्वस्य पूर्वमुक्तत्वादित्याशयः। दोषान्तरमप्याह एवमिति । यत्र = यादृशस्थले । पर्वतत्वादीति । शुद्धस्वरूपेण वह्नयभावादिमत्वस्येत्यर्थः । तत्र-तादृशस्थले । पर्वतत्वसामानाधिकरण्येन वढयभावादिमत्त्वरूपविशिष्टपक्षग्रहप्रतिबन्धकतावच्छेदकविषयिताकत्वविरहेणेत्यर्थः। आश्रयाऽसिद्धिरूपतानुपपत्तेरिति । विशिष्टपक्षग्रहविरोधिन एवाश्रयाऽसिद्धिरूपत्वादिति भावः ।। उक्तरीत्या = निर्वह्निर्वह्निमानित्यादी बाधादावव्याप्तिदानरीत्या। एतल्लक्षणेति । अत्र वदन्तीत्यादिनाऽभिहितलक्षणानाक्रान्तत्वादित्यर्थः । १५ "Aho Shrutgyanam" Page #242 -------------------------------------------------------------------------- ________________ अनुमानगादाधर्या सामान्यनिरुक्तिप्रकरणम् * गादावरी * पर्व्वतत्वाद्यवच्छेदेन वह्नपादिमवञ्चाप्रसिद्धम्, वह्निशून्यपव्वतादेरपि सत्त्वात् । नापि पर्व्वतत्वादिसामानाधिकरण्येन, निर्व्वह्निपर्व्वतत्वाद्यवच्छेदेन वा वह्नयभावादिमत्त्वरूपबाधादिदोषः । तथज्ञानस्य पक्षतावच्छेदकविशिष्टे साध्यवैशिष्टयावगाहित्वव्यापकविषयताघटितधर्मावच्छिन्नाप्रतिबन्धकतया तत्र लक्षणगमनायोगात् । नापि पर्व्वतत्वावच्छेदेन वह्न्यभावादिमत्वम्, अप्रसिद्धत्वादिति न कोऽपि दोषः स्यात् । २२६ * चन्द्रकला * ननु ताशस्थले पर्वतत्वावच्छेदेन वह्निमत्त्वस्यैवाश्रयासिद्धित्वं वक्तव्यम्, तस्य च पर्वतत्वसामानाधिकरण्येन वह्नद्यभावरूपपचतावच्छेदकविशिष्टपक्षग्रह विरोधित्वेनाश्रयासिद्धिरूपतया निरुक्तलक्षणाक्रान्तत्वस्यापि सम्भवादित्यत आह पर्वत्वाद्येति । पर्वतत्वव्यापक वह्निप्रतियोगिकसंयोगेन वह्निमत्त्वञ्चेत्यर्थः । अप्रसिद्धमिति । पर्वतत्वस्य वह्नयभाववति पर्वतेऽपि वत्तमानतया तत्र वह्निमत्त्वज्ञानस्य भ्रमरूपतया तद्विषयविशिष्टस्याऽप्रसिद्धत्वान्न तद्विषयस्वापि दोषत्वं सम्भवतीतिहृदयम् । पर्यंतत्वावच्छेदेन वह्नयादिमत्त्वस्याप्रसिद्धौ हेतुमाह वहिशून्येति । वह्नयभाववदर्थकम् | तु पर्वतत्वसामानाधिकरण्येन वह्नयभावादेः पचतावच्छेदकतास्थले आभयासिद्धैर्दोषत्वाऽसम्भवेऽपि तादृशपर्वते वह्निसाध्यकस्थले पर्वतत्वसामानाधिकरण्येन वह्नयभावादिमत्पर्वतादेः वह्नद्यभावविशिष्टपर्वतत्वावच्छेदेन वहयभावविशिष्टवह्निशून्यपर्वतादेरेव वा तत्र बाघत्वं स्वीकरणीयमितिदोषसम्भवादेव हेतौ दुष्टत्वव्यवहारोऽपि निर्विवाद एवेत्यत आह नापीति । निषेधे हेतुमाह तज्जानस्येति । तादृशबाधादिनिश्चयस्येत्यर्थः । पक्षतेति । भावविशिष्ट पर्वते वह्निवैशिष्टयावगाहित्वव्यापकविषयिताघटितं यत् पर्वतत्वसामानाधिकरण्येन वयवगाहिबुद्धित्वं तदवच्छिन्नप्रतिबध्यतानिरूपित प्रतिबन्धकताशून्यत्वेनेत्यर्थः । लक्षणगमनायोगादिति । व्यापकाभावप्रयोजकस्यैव व्याप्याभावप्रयोजकतया निर्वपिर्वते वह्निवैशिष्टयावगाहित्वव्यापकस्य पर्वतत्वसामानाधिकरण्येन पर्वतधर्मिकवह्निप्रकारकत्वस्य पर्वतत्व सामानाधिकरण्येन वह्नयभावादिमत्पर्वतादिरूपताहराबाधादिनिश्चयप्रतिबध्यतानवच्छेदकत्वेन बाधविषयितायास्तादृशव्यापकाभावाऽप्रयोजकत्वेन व्याप्यीभूतस्य पक्षे साध्यवैशिष्टथावगाहित्वादेरभावं प्रत्यप्यप्रयोजकत्वाचादृशस्भले न कस्यापि दोषत्वं सम्भवतीति तात्पर्यम् । ननूक्तस्थले पर्वतत्वावच्छेदेन वह्नयभाववत्त्वस्यैव बाघत्वमस्त्वित्यत श्राह नापीति । "Aho Shrutgyanam" Page #243 -------------------------------------------------------------------------- ________________ चन्द्रकला-कलाविलासाख्यटीकास्योपेतम् २२७ -गादाधरो * यत्त प्रयुक्तत्वं व्यापकत्वम् , यद्विषयकनिश्चयनिष्ठविरोधिविषयिताया उभयाभावव्याप्यत्वञ्च स्वाभयताहशनिश्चयाव्यवहितोत्तरानुमितित्वसम्बन्धेन, तादृशसम्बन्धलाभायैव तदुत्तरमनुमितावित्युक्तम् । एवञ्च विरोधिविषयकयद्विषयकनिश्चयाव्यवहितोत्तरानुमितित्वव्यापकस्तादृशोभयाभावस्तत्त्वम् इति पय॑वसितम् । एवञ्च निर्वह्निवहिमानित्यादिस्थलीयबाधादिस्थलीयबाधादिविषयितायां स्वरूपसम्बन्धरूपोभयाभावप्रयोजक * चन्द्रकला - निषेधे हेतुमाहाऽप्रसिद्धत्वादिति । वह्निविशिष्टपर्वतादेरपि सत्त्वादिति हृदयम् । तत्र-पर्वतत्वसामानाधिकरण्येन वह्नयभावपक्षतावच्छेदककवह्निसाध्यकस्थले। न कोऽपि दोषः स्यादिति । तथाचोक्तलक्षणाभिधानमप्यनुचितमिति भावः। निर्वहनिर्वहनिमानित्यादौ बाधादावव्यातिवारणाय प्रकारान्तरेण विरोषिविषयिताप्रयुक्तत्वं व्याचक्षाणानां मतं दूषयितुमुपन्यस्यति यत्त्विति। तादृशोभयाभावे यद्रपावच्छिन्नविषयकनिश्चयनिष्ठविरोधिविषयिताव्यापकत्वं यदि विरोधिविषयिता-- प्रयुक्तत्वं तदा तादृशविषयितायां तादृशोभयाभावव्याप्यत्वस्यावश्यकत्वादाहोभयेति । तादृशोभयवदवृत्तित्वरूपव्याप्यत्वघटकवृत्तित्वञ्चेत्यर्थः । स्वाश्रयेति । स्वं विरोधिविषयिता ! ___ तथा च हृदो वनिमानित्यादौ हृदविशेष्यकवनिप्रकारकत्व-व निव्याप्यधूमप्रकारकत्वोभयवति हृदो व निमान् वहनिव्याप्यधूमवांश्चेत्याकारकज्ञाने वन्यभाववद्हृदविषयितात्मकविरोधिविषयितायाः स्वाश्रयवहन्यभावविशिष्टहृदनिश्चयाव्यवहितोत्तरानुमितित्वसम्बन्धेनावतमानतया तस्यास्ताहशोभयाभावव्याप्यत्वं निर्विवादमिति भावः। एवञ्चति । विरोधिविषयिताप्रयुक्तत्वस्य तादृशविषयिताव्यापकत्वार्थकत्वे चेत्यर्थः । विरोधीति । विरोधिविषयकयद्पावच्छिन्नविषयकनिश्चयाव्यवहितोत्तरानुमितित्वव्यापकः प्रकृतपक्षे प्रकृतसाध्यवैशिष्टयावगाहित्व-प्रकृतसाध्यव्याप्यप्रकृतहेतुवैशिष्टधावगाहित्वोभयाभावस्तद्र पवत्वं हेत्वाभासत्वमिति पर्यवसितमित्यर्थः । निवंह निर्वह निमानित्यादौ वन्यभावविशिष्टवन्यभाववद्र पबाधे पर्यवसितलक्षणसंगतिमाह एवञ्चति । निरुक्तस्य लक्षणार्थतायाः पर्यवसितत्वे चेत्यर्थः । निर्वह्निरिति । वन्यभाववनिष्ठवन्यभावादिरूपबाधादेविषयितायामित्यर्थः । स्वरूपेति । अनुभषसाक्षिकेत्यादिः। "Aho Shrutgyanam" Page #244 -------------------------------------------------------------------------- ________________ २२८ अनुमानगादाधयां सामान्यनिरुक्तिप्रकरणम् गादाधरी स्वासम्भवेऽपि उभयाभावप्रतियोगितावच्छेदककोटौ यद्रूपावच्छिन्नविशे. ध्यकयद्रूपावच्छिन्नप्रकारकत्वं निविष्टं तद्रूपावच्छिन्नविशेष्यकतघ्पावच्छिनाभाव-तव्याप्यान्यतरप्रकारकत्वस्यैव विरोधिविषयत्वार्थकतया तत्र लक्षणं सुसमन्वयमेव ताशप्रयोजकत्वस्यानिवेशात् । नचैवं तत्र वस्तुमात्रेऽतिव्याप्तिदुबारैव, तादृशोभयाभावस्य विरोधिविषयकसमूहालम्बनरूपघटादिविषयकनिश्चयाव्यवहितोत्तरानुमितित्वव्यापकताया अवतत्वादिति वाच्यम् , विरोधिविषयितानतिरिक्तवृत्तिर्य .चन्द्रकला सुसमन्वयमेवेति । निर्वह्निर्वह्निमानित्यादिस्थलीयवहथभावविशिष्टवलयभाववद्रूपबाधादिविषयिताया अपि निर्वह्नित्वविशिष्ट वह्निवैशिष्टयावगाहित्वघटितोभयाभावप्रतियोगितावच्छेदककोटिप्रविष्टत्वस्य तादृशावगाहित्वनिष्ठतया तादृशवह्नयभावावच्छिन्ने वह्नयभावविषयितात्वेन विरोधिविषयितात्मकतया तादृशबाघविषयिताशालिनिश्चयाव्यवहितोत्तरघटाद्यनुमितित्वव्यापकत्वस्य यथोक्तोभयाभावे सत्वात् वह्नयभावविशिष्टवनयभाववद्रूपबाधादी लक्षणं सुसमन्वेयमित्यर्थः । तादृशेति स्वरूपसम्बन्धरूपार्थकम् । नन्वेवं निर्वह्निर्वह्निमानित्यादौ घटादावुदासीनेऽतिव्याप्तिः वह यन्यभावविशिष्टवलयभाववद्विषयकघटादिविषयकसमूहालम्बननिश्चयाव्यवहितोत्तरानुमितित्वव्यापकत्वस्य निर्वह्निविशेष्यकवह्निप्रकारकत्वघटितोभयाभावे वर्तमानत्वादित्याशंकते नचैवमिति । एवम् = निरुक्तरीत्या विरोधिविषयिताप्रयुक्तत्वविवक्षणे । __ अक्षतत्वादिति । तादृशसमूहालम्बननिश्चयाव्यवहितोत्तरं वहथभाववान् वहनिमानित्याकारकाहार्यानुमितेरप्रसिद्धतया तादृशघटाद्यनुमितौ च यथोक्तोमयाभाववत्त्वसत्त्वे बाधकामावादित्याशयः । उत्तरयति विरोधिविषयितेति । स्वव्यापकयथाविवक्षितविरोधिविषयिताकयद्पावच्छिन्नविषयिताशालिनिश्चयस्येत्यर्थः। स्वं लक्ष्यतावच्छेदकत्वेनामिमतमद्रपावच्छिन्नविषयित्वम् । विरोधिविषयित्वाभाववदवृत्ति यद्पावच्छिन्नविषयित्वमिति तु नार्थः, विशेष्यवृत्तिपदार्थस्य विशिष्टानुयोगिकाभावानभ्युपगमादसम्भवापत्ति. रित्यस्य पूर्व स्वयमुक्तत्वादितिध्येयम् । एवञ्च निर्वह्निर्वहिमानित्यत्र न घटादावतिव्याप्तिः घटत्वावच्छिन्नविषयिताया वढयभावविशिष्टवलयभाववदविषयकसमूहालम्बनानात्मकेऽपि घटशाने वर्तमान "Aho Shrutgyanam" Page #245 -------------------------------------------------------------------------- ________________ चन्द्रकला-कलाविलासाख्यटीकाद्वयोपेतम् * गादाधरी द्विषयिता तच्छालिनिश्चयस्य निश्चयान्तेन विवक्षणाद् घटादिविषयितायास्तत्र निरुक्तविरोधिविषयितानतिरिक्तवृत्तित्वविरहात् । २२६. नचैवं विरोधिविषयितानतिरिक्तवृत्तिर्यदीयविषयिता तत्त्वमित्येतावतैव सामञ्जस्ये शेषवैयर्थ्यमिति वाच्यम्, 8 चन्द्रकला तथा तत्र तादृशवह्नयभावादिविषयितात्मक विरोधिविषयिताविरहेण घटविषयिताव्यापकत्वस्य विरोधिविषयितायामसत्त्वात् स्वपदेन घटविषयिताया उपादानाऽसम्भवादित्याह घटादिविषयिताया इति । तत्र = निर्वह्नि वह्निमानित्यत्र | ननु यद्रूपावच्छिन्न विषयिताव्यापकं तादृशविरोधिविषयित्वं तद्रूपवत्त्वं हेत्वाभासत्वमित्युक्तावेव घटादावतिव्याप्तिवारणसम्भवे तादृशयद्रूपावच्छिन्नविषयिताशालिनिश्वयाव्यवहितोत्तरानुमितित्वव्यापकतादृशोभयाभावपर्यन्तनिवेशनं निरर्थकमित्याशंकते नचैवमिति । एवम् = विरोधिविषयितानतिरिक्तवृत्तित्वस्य यद्रूपावछिन्नविषयितायां विवक्षणे । शेषेति तादृशविषयिताशालिनिश्चयाव्यवहितोत्तरानुमितित्वव्यापको भयाभावपर्यन्तस्य वैयर्थ्यमित्यर्थः । यद्यपि व्यापकताघटकाभावभेदेन वैयर्थ्यं न सम्भवतीत्युच्यते तथापि श्रनुचितगौरवग्रस्तं लक्षणं न युक्तमित्याशयेन वैयर्थ्याभिधानमिति ध्येयम् । यद्रूपावच्छिन्न विषयिताव्यापक विरोधिविषयिताकत्वार्थकविरोधिविषयितानतिरिक्तवृत्तित्वविशिष्टा यद्रूपावच्छिन्नविषयिता भवति तद्रूपवत्त्वमेतावन्मात्रस्य लक्षणार्यत्वे पर्वतत्वसामानाधिकरण्येन वह्निसाध्यकधूमरूपसद्धेतौ पर्वतत्वसामानाधिकरण्येन पर्वतनिष्ठवहयभावादेर्दोषत्वापत्तिः स्यात् । निरुक्तवढ्यभावविषयितायास्तादृशोभयाभावप्रतियोगितावच्छेदककोटिप्रविष्टावगाहिताकस्य पर्वतत्वावच्छिन्ने वह्नयादेरभावविषयितात्मकतया विरोधिविषयितापदेन धत्त" शक्यतथा तस्याश्च पर्वतत्वसामानाधिकरण्येन पर्वतादिनिष्ठवह्नयभावत्वाद्यवच्छिन्नविषषिताव्यापकत्वस्यानपायात् द्र प पपदेन तादृशवढ्यभावत्वादेरुपादानसम्भवात् । विरोधिविषवितानतिरिक्त वृत्तियद्रूपावच्छिन्नविषयिताशालिनिश्चयाव्यवहितोत्तरानुमितित्वव्यापकोभयाभावपर्यन्तनिवेशे पर्वतनिष्ठवह्नयभावादावतिव्याप्तिः, तु न तत्र पर्वतत्व सामानाधिकरण्येन विरोधिविषयितानतिरिक्तवृत्तिनिरुक्तवह्रय "Aho Shrutgyanam" Page #246 -------------------------------------------------------------------------- ________________ २३० अनुमानगादाधर्या सामान्यनिरुक्तिप्रकरणम् गादाधरी यत्र पर्वतत्वोदिसामानाधिकरण्येन वह्नयादेः साध्यता तत्र पर्वतत्वादि. सामानाधिकरण्येन वह्नयभावादिमत्त्व विषयिताया निरुक्तविरोधिविषयिवानतिरिक्तवृत्तितया तत्रातिव्याप्तिवारकतया शेषसार्थक्यात् । तदुपादाने तादृशवयभावादिमत्त्वविषयकनिश्चयानन्तरं पर्वतत्वादिसामानाधिकरएयेन वह्नथाद्यनुमित्युत्पत्त्या तादृशानुमितौ तथाविधोभयसत्त्वेनातिव्याप्त्यनवकाशादिति, तत्तुच्छम् , निर्वहिः पर्वतो वह्निमानित्यादौ यत्र पर्वतत्वादिसामानाधिकरएयेन वह्नयभावादेः पचतावच्छेदकता तत्र पर्वतत्वसामानाधिकरण्येन वहयादिमत्त्वस्य विशिष्टपक्षमहाविरोधित्वादाश्रयासिद्ध्यनात्मकहेत्वाभा. चन्द्रकला भावत्वावच्छिन्नविषयिताशालिनिश्चयाव्यवहितोत्तरानुमितित्वस्य पर्वतत्वसामानाधिकरण्येन पर्वतो वह्निमान् वहिव्याप्यधूमवांश्चेत्याकारकानुमितावपि सत्वेन तत्र पर्वतपर्मिकवसिप्रकारकत्वघटितोभयाभावविरहेण तादृशानुमितित्वव्यापकत्वस्य ताहशोभयाभावेऽभावादित्येवं समाधत्ते यत्रेत्यादि । यादृशस्थले इत्यर्थः। . पर्वतत्वादीति संयोगत्वमात्रावच्छिन्नसंयोगसम्बन्धेनेत्यर्थः । तत्रातीति । पर्वतत्वसामानाधिकरण्येन पर्वतनिष्ठवह्नयभावादावतिव्याप्तिवारकतयेत्यर्थः । शेषसार्थक्यात् = तादृशानुमितित्वव्यापकोभयाभावपर्यन्तस्य सार्थक्यसम्भवात् । शेषोपादाने तु कथं तत्र नातिव्याप्तिरित्यत श्राह तदुपादाने इति । शेषोपादाने इत्यर्थः । पर्वतत्वादीति पर्वतत्वादिसामानाधिकरण्येन वह्नयभावादिनिश्चयस्व पर्वतत्वादिसामानाधिकरण्येन वह्नयाद्यनुमितिप्रतिबन्धकत्वं न सम्भवतीति हृदयम् । तथाविधोभयेति पर्वतविशेष्यकवह्निप्रकारकत्वघटितोभयसत्वेनेत्यर्थः । निरुक्तं मतं दूषयति तत्तच्छमिति। यत्र- यादृशस्थले। पर्वतत्वेति शुद्धस्वरूपेणेत्यर्थः । विशिष्टपक्षेति । पर्वतत्वसामानाधिकरण्येन वहथभाववत्पर्वतग्रहप्रतिबन्धकतावच्छेदकविषयिताकत्वविरहेणेत्यर्थः । पर्वतत्वसामानाधिकरण्येन वह्नयादिमस्वस्याश्रयासिद्धिभिन्नत्वस्यावश्यकतवा हेत्वाभासान्तरत्वस्य चासम्भवान्न तस्य लक्ष्यत्वमपि सम्भवतीत्याह हेत्वाभासेति । पञ्चहेत्वाभासातिरिक्त हेत्वाभासत्वापत्तिभयेनेत्यर्थः। तेन हेत्वाभासान्तरवस्याप्रसिद्धावपि न क्षतिरिति ध्येयम्। "Aho Shrutgyanam" Page #247 -------------------------------------------------------------------------- ________________ चन्द्रकला-कलाविलासाख्यटीकाद्वयोपेतम् २३१ * गादाधरी * सान्तरताभयेनासम्भवल्लक्ष्यभावस्य निरुक्तविरोधिविषयितानतिरिक्तवृत्ति. विषयिताकतयाऽतिव्याप्तः । तादृशोभयाभावप्रतियोगितावच्छेदकगर्भ यद्रूपविशिष्ट येन सम्बन्धेन यद्पावच्छिन्नवैशिष्ट्यावगाहित्वं निविष्टं तद्रूपावच्छिन्नविशेष्यकतत्संसर्गकतद्रूपावच्छिन्नप्रकारकानुमितित्वावच्छिन्नप्रतिबध्यतानिरूपितप्रतिबन्धकतावच्छेदकत्वरूपविरोधित्वस्य वि. * चन्द्रकला ___ यतो न तस्य हेत्वाभासान्तरत्वमत एवासम्भवल्लक्ष्यभावस्येत्याह असम्भवेति ताशवह्निमत्पर्वतस्य हेत्वाभासत्वस्येष्टत्वसम्भव एव तस्य लक्ष्यत्वमविवादमि भावः। निरुक्तति । उभयाभावप्रतियोगितावच्छेदककोटावित्यादिनाऽभिहितविरो विषयितानतिरिक्तवृत्तिविषयिताकतयेत्यर्थः। पर्वतत्वसामानाधिकरण्येन वह्निमर स्येति पूर्वेण सम्बन्धः। अतिव्याप्तेरिति । पर्वतत्वसामानाधिकरण्येन घहिमत्त्वावच्छिन्नविर निश्चयोचरं निर्वह्निः पर्वतो वह्निमानित्याकारकाहार्यानुमितेरप्रसिद्धतया ताह! धनुमितौ च यथोक्तोभयाभावस्याक्षतत्वात् भवति पर्वतत्वसामानाधिकरण्येन भावादेः पक्षतापच्छेदकस्थले पवंतत्वसामानाधिकरण्येन वहिमपर्वतादावतिर्य नैतन्मतं युक्तमित्याशयः। अन्यादृशविरोधिविषयिताविवक्षणे न निरुक्तातिव्याप्तिरित्याह ताः तथा च प्रकृतपक्षविशेष्यकतत्तद्विशेष्यतानिरूपितप्रकारतावच्छेदकसंसर्गा प्रकृतसाध्यादिप्रकारकप्रकृतसाध्यव्याप्यहेतुप्रकारकानुमितित्वावच्छिन्नप्रतिवर्ष रूपितप्रतिबन्धकतावच्छेदकविषयितैव विरोधिविषयिता, एवञ्च पर्वतलं घिकरण्येन वह्नयभावस्य पक्षतावच्छेदकत्वेऽपि न पर्वतत्वसामाना। वहिमत्त्वस्य . दोषत्वम् , पर्वतत्वसामानाधिकरण्यावगाहिवलयभावप्रकार' प्रतिबन्धकतावच्छेदकतायाः पर्वतत्वसामानाधिकरण्येन वतिमत्त्वावच्छिन्नति मभावादित्युक्तावपि न निस्तारः। पर्वतस्वसामानाधिकरण्येन वह्निसाध्यकधूमादिसतिस्थले पर्वतर घिकरण्येन वह्नयभावादेर्दोषतावारणायैव शेषसार्थक्यस्य पूर्वम निरुक्तरीत्या विरोधिविषयितानिर्वचने तत्सार्थक्यानुपपत्तो पर्वतत्वसार एयेन वह्नयभावत्वावच्छिन्नविषयितायाः पर्वतनसामानाधिकरण्याचं "Aho Shrutgyanam" Page #248 -------------------------------------------------------------------------- ________________ २३२ अनुमानगादाधयाँ सामान्यनिरुक्तिप्रकरणम् * गादाधरी षयितायां निवेशे तु शेषवैयर्यम् , उक्तरीत्या निर्वह्निर्वह्निमानित्यादिस्थलीयदोषेऽव्याप्तिश्च । यत्तु पक्षतावच्छेदकविशिष्टे निरुक्तसाध्यहेतुवैशिष्ट्यावगाहिनिश्चयावृत्तिविषयितैव विरोधिविषयितापदार्थः । तथाच यनिरूपिततादृशवि *चन्द्रकला. नुमितिप्रतिबन्धकतानवच्छेदकत्वादिति यद्रूपावच्छिन्नविषयिताव्यापकं निरुक्तविरोधिविषयित्वं तद्रूपवत्वमित्यस्यैव सम्यक्त्वे तादृशविषयिताशालिनिश्चयाज्यवहितोत्तरानुमितित्वव्यापकोभयाभावात्मकशेषवैययस्य ध्रौव्यादितु तु शेषवैयादेत्यन्तसमस्तग्रन्यतात्पर्यम् । .. नन्वेवं पर्वतो वहिमान् धूमादित्यादौ पाषाणमयत्ववत्पर्वतादावतिव्याप्तिः, माणमयस्ववत्पर्वतत्वावच्छिन्नविषयितासामान्यस्यैव पूर्वोक्तयुक्तया पर्वतादिध वह्नयाद्यनुमितिप्रतिबन्धकतावच्छेदकतया पाषाणमयत्ववत्पर्वतादेविरोधिविषवि. पतिरिक्तविषयिताकत्वादतः शेषोपादानमावश्यकम्, तथाच नातिव्याप्तिः, पाषाणममात्पर्वतनिश्चयोत्तरानुमितित्वस्य पर्वतो वह्निमानित्याद्यनुमितावपि सत्वेन तत्र भयाभावविरहादित्यतो दोषान्तरमाह उक्तरीत्यति । प्रव्याप्तिरिति । तयाचोक्तरीत्या विरोधिविषयितानिर्वचने निर्वह्निर्वह्निमावयभाववन्निष्ठवह्नधभावरूपवाधेऽव्याप्तिः, निरुक्तंबाधविषयितायाः कस्या मेल्यादेः प्रतिबन्धकतानवच्छेदकतया तस्या विरोषिविषयितापदेनोपादातु वादिति भावः। भावालान्तरमपि दूषयितुमुपन्यस्वति यविति । विरोधिविषयितापदार्थ निर्वक्ति मना पक्षतावच्छेदकावच्छिन्नविशेष्यतानिरूपितप्रकृतसाध्यप्रकारताकप्रकृतसा प्रकृतहेतुप्रकारकनिश्चयनिरूपितवृत्तित्वाभाववती या विषयिता सैवेत्यर्थः । दितलक्षणार्थमाह तथाचेति । निरुक्तरीत्या विरोषिविषयिताविवक्षणे यनिरूपितेति। अत्र यत्पदं यद्रूपपरम् , अमेऽपि तत्त्वमित्स्य तद्रूपवत्त्वजन यत्पदस्य अखण्डव्यक्ति परत्वेऽपि न दोषकदेशे केबलहदादावतिव्याप्ति शेषोपा" वंतग्रहा वह्नयालिम् । प च यद्पावच्छिन्ननिरूपितनिरुक्तपक्षे साध्यहेतुवैशिष्ट्यावगाहिनिश्चयारेखामसेताशालिनिश्चयाव्यवहितोत्तरानुमितित्वव्यापकः प्रकृतपक्षविशेष्यकप्रकृतध्येयम रकस्व-प्रकृतसाध्यन्यायप्रकृतहेतुप्रकारकत्वोभयाभाधः सद्रूपवत्त्वं हेत्वा "Aho Shrutgyanam" Page #249 -------------------------------------------------------------------------- ________________ २३३ चन्द्रकला कलाविलासाख्यटीकाद्वयोपेतम् * गादाधरी षयिताशालिनिश्चयोत्तरानुमितित्वव्यापक उभयाभावस्तत्त्वमिति समुदितार्थः । निश्चयत्वं च विशेषणविशेष्यतावच्छेदकभावानापन्नविरोधिकोटिद्वयप्रकारकैकधर्मिविशेष्यकज्ञानान्यज्ञानत्वम् । कोटिद्वये विशेषणविशे. 8 चन्द्रकला भासत्वमिति समुदितलक्षणार्थः । भवति हि ह्रदो वह्निमानित्यादौ वह्नयभावविशिष्टह्रदादिरूपवाधादी लक्षणसमन्वयः, बाधादिरूपतदभावनिश्चयस्य कार्यकालवृत्तितयाऽपि तत्प्रकारकवुद्धिप्रतिबन्धकतया हृदो वहयभाववान् हृदो वह्निमान् वह्निव्याप्यधूमवांश्चेत्याकारकसमूहालम्बनज्ञानानुत्पत्त्या वह्नयभावविशिष्टह्रदत्वावच्छिन्ननिरूपितविषयिताया हृदधर्मिकवहयादिप्रकारकनिश्चयाऽवृतित्वेन तस्या विरोधिविषयितात्मकतया तच्छालिनिश्चयाव्यवहितोत्तरघटाद्यनुमितित्वव्यापकत्वस्य हृदादिधर्मिकवह्नयादिप्रकारकत्वघटितोभयाभाबे सत्त्वात्। निश्चयत्वस्याहार्यज्ञानसाधारण्ये निर्वह्निः पर्वतो वह्निमानित्यादौ दोघे लक्षणसमन्वयो न सम्भवतीत्यत आह निश्चयत्वळचेति । तादृशेत्यादिः । विशेषणेत । विशेषणत्व-विशेष्यतावच्छेदकत्वशून्यं यत् विरोधिकोटिद्वयं तत्प्रकारकैकधर्मिकं यज्जानं तदन्यज्ञानत्वं निश्चयत्वमित्यर्थः । एतेन संशयान्यज्ञानत्वमेव तादृशनिश्चयत्वमिति फलितम् । ननु कोटिद्वये विशेषणत्व-विशेष्यतावच्छेदकत्वशून्यत्वविशेषणमुपेक्ष्य विरोधिकोटिद्वयप्रकारकैकधर्मिकज्ञानान्यज्ञानत्वमात्रमेव निश्चयत्वं लाघवात् वक्तव्यमित्यत आह कोटिद्वय इति । * कलाविलासः * तथाच तादृशोभयाभावप्रतियोगितावच्छेदकविशेष्यताविशिष्टप्रकारतावत्वं विरोधिविषयित्वम्, वैशिष्ठ्यञ्च स्वावच्छेदकावच्छिन्नविशेष्यतानिरूपितत्व-स्वावच्छेदकावच्छिन्नविशेष्यतानिरूपितप्रकारतावच्छेदकधर्मवत्वोभयसम्बन्धेन । धर्मवरवञ्च स्वावच्छिन्नरव-स्वावच्छिमव्याप्यतवावच्छिन्नत्वान्यतरसम्बन्धेनेति वदन्ति । निश्चयत्वञ्चति । प्रकारताविशिष्टप्रकारसाशालिज्ञानभिन्नज्ञानत्वं निश्चयत्वम्, वैशिष्ठ्यं स्वनिरूपकज्ञानीयस्व-स्वावच्छेदकधर्मावच्छिन्नविरोधितावच्छेदकधर्मावच्छिन्नत्व-स्वनिरूपितविशेष्यतावच्छेदकतापर्याप्त्यधिकरणधर्मावच्छिन्नविशेष्यतानिरूपितस्वैतत्रितयसम्बन्धेनेतिभावः । "Aho Shrutgyanam" Page #250 -------------------------------------------------------------------------- ________________ २३४ अनुमानगादाधयाँ सामान्यनिरुक्तिप्रकरणम् * गादाधरी ध्यतावच्छेदकभावानापन्नत्वनिवेशात् निर्वह्निः पर्वतो वह्निमानित्यादौ पक्षतावच्छेदकविशिष्टे साध्यादिवैशिष्ट्यग्रहस्य एकत्र विरोधिद्वयप्रकारकत्वनियमेऽपि न ताशवैशिष्ट्यावगाहिनिश्चयाऽप्रसिद्धिः।। यदीयविषयता तादृशनिश्चयाऽवृत्तिस्तत्त्वमित्येतावति कृते हृदो व. हिव्याप्यधूमवानित्यादी हृदादिनिष्ठवह्नयभावादिमत्त्वेऽतिव्याप्तिः, वह्नथादिव्याप्यवत्तानिश्चयस्यापि वयादिनिश्चयवत्कायसहभावेन वयभावादिप्रहविरोधित्वाद्वयभावादिमत्त्वविषयतायास्तादृशनिश्चयावृत्तित्वादिति न शेषवैयर्थ्यमिति । * चन्द्रकला * तथाच कोटिद्वये विशेषणत्व-विशेष्यतावच्छेदकत्वशून्यत्वविशेषणपरित्यागे निर्वहिपर्वतो वह्निमान् धूमादित्यादौ वहिमपर्वतरूपायाऽसिद्धावव्याप्तिः, निर्वहिपर्वतो वहिमानित्याकारकस्य पक्षे साध्यादिवैशिष्ट्यावगाहिज्ञानस्यापि विरोधिवह्नयभाववह्निप्रकारकज्ञानस्वरूपतया तदन्यत्वस्य तत्र विरहेण पक्षे साध्यादिवैशिष्ट्यावगाहिनिश्चयस्यैवाऽप्रसिद्धरित्याह निर्वह्निरिति । __ न तादृशेति । निर्वहिपर्वतो वह्निमानितिशानस्य वह्वयमावनिष्ठविशेष्यतावच्छेदकताकत्वेन वह्निनिष्ठविशेषणताकत्वेन च तादृशविशेष्यतावच्छेदकत्वादिशून्यं यत् श्रयं वह्निमान्नवेखाकारकं कोटिद्वयावगाहिसंशयात्मकं ज्ञानं तदन्यत्वस्व निर्वहिपर्वतो वह्निमानित्यादिक्षाने सत्वेन तस्य तादृशनिश्वत्रत्वोपपत्तिरिति भावः । नन्वेवं यद्रूपावच्छिन्ननिरूपिता विषयिता पक्षे साध्य-साध्यव्याप्यहेतुवैशिष्ट्यावगाहिताहशनिश्चयनिरूपितवृत्तित्वाभाववती तद्रूपवत्वमित्यस्यैव निर्दोषत्वसम्भवे तादृशनिश्चयावृत्तिविषयिताशालिनिश्चयाव्यवहितोत्तरानुमितित्वव्यापकताहशोमयाभावपर्यन्तनिवेशनं निरर्थकमित्याह यदीयेति । न शेषवैयर्थ्यमिति । तथाच यथोक्तोभयाभावपर्यन्ताऽनिवेशे हृदो वहिव्याप्यधूमवानित्यादौ वड्यभावविशिष्टहृदादापतिव्याप्तिः, तदभावनिश्चयवत् तदभावव्याप्यप्रकारकनिश्चवस्यापि कार्यकालवृत्तितया तत्प्रकारकबुद्धिप्रतिबन्धकतया हृदो वह्नयमाववान् वहिव्याप्यधूमवानित्याकारकस्य पक्षे साध्यवैशिष्ट्याधगाहिसमूहालम्बनज्ञानस्योत्पादाऽसम्भवात् वहिव्याप्यप्रकारकज्ञानस्य वह्नयभावबुद्धिप्रतिबन्धकत्वात् वहयभाववद्हृदत्वावच्छिन्नविषयितायाः तादृशनिश्चयावृत्तित्वेन यद्रपपदेन तादृशहदत्वस्यैवोपादानसम्भवात् । "Aho Shrutgyanam" Page #251 -------------------------------------------------------------------------- ________________ २३५ चन्द्रकला कलाविलासाख्यटीकाद्वयोपेतम् * गादाधरी. तदपि न, वद्विव्याप्यवान् वह्विव्याप्यव्याप्यवांश्च हृदो वह्वयभाववानित्येताहशाहाय॑ज्ञानोपगमेन वहयभावादिमत्त्वविषयिताया वह्निव्याप्यादिमत्त्वनिश्चयवृत्तितया उक्तातिव्याप्त्यनवकाशेन शेषसार्थक्यानुपपत्तेः। वहिमान्वहिव्याप्यवांश्च ह्रदो वह्नयभाववानित्येताहशाहार्यसाध्या * चन्द्रकला * ताहशनिश्चयावृत्तिविषयिताशालिनिश्चयोत्तरानुमितित्वव्यापकोभयाभावरूपशेषोपादाने तु न तत्रातिव्याप्तिः, वहृयभाववढ्दत्वावच्छिन्नताहशविषयिताशालितथाविघनिश्चयाव्यवहितोत्तरानुमितित्वस्य हृदो वह्निव्याप्यधूमवान् तादृशधूमव्याप्यतद्व्यक्तित्ववांश्चेत्याकारकानुमितावपि वर्तमानतया तत्र तादृशोभयाभावविरहात् वहयभावनिश्चयस्य वह्निन्यायप्रकारकबुद्धावप्रतिबन्धकत्वादिति तु समुदितग्रन्थतात्पर्यम्। निरुक्तमपि मतं दूषयति तदपि नेति । यद्यपि निर्वह्निर्वह्निमानियादौ वयभावविशिष्टवतयभाववद्रूपबाधे लदणसमन्वयमनुकत्वा निरुक्तमते दूषणाभिधानमयुक्तं तथापि वक्ष्यमाणरीत्या तत्राप्यव्याप्तेरावश्यकत्वात्तत्र लक्षणसमन्वयो नाभिहितः इति ध्येयम् । निरुक्तमतस्याऽसमीचीनने हेतुमाह वह्निव्याप्यवानिति । हृदो वहिव्याप्य. धूमवानित्यत्र वढयभाववह देऽतिव्याप्तिवारणायैव शेषसार्थक्यस्याभिधानमसंगतं स्यात्, शेषानुपादानेऽपि तत्रातिव्यातेरसम्भवात् वह्निव्याप्यधूमवान् तादृशधूमव्याप्यवांश्च न्हदो वह्नयभाववानिल्याकारकस्य पते साध्यादिवैशिष्ट्यावगाह्याहार्यज्ञानस्यापि ताशकोटिद्वयावगाहिसंशयान्यनिश्चयात्मकतया तत्र वह्वयभावविशिष्ट-हदादिविषयि. ताया वर्तमानतयैव तादृशविरोधिविषयिताभिन्नतया तामादाय तत्रातिव्याप्तिवारणसम्भवे तादृशविरोधिविषयिताशालिनिश्चयाव्यवहितोत्तरानुमितिस्वव्यापकोभयाभावरूपशेषोपादानस्य निरर्यकत्वापत्तेरिति तात्पर्यम् । नन्वेवं शेषोपादानमेव माऽस्तु यद्रूपावच्छिन्ननिरूपितविषयिता पक्षे साध्यादिवैशिष्ट्यावगाहिताहशनिश्चयनिरूपितवृत्तित्वाभाववती तद्रूपवत्वमात्रस्यैव लक्षणार्थतायाः सर्वसामञ्जस्यादित्यत आह वह्निमानिति । तथाचोक्तविवक्षयापि न निस्तारः, हृदो वह्निमानित्यादौ वलयभाववन्ददादिरूपमाधादौ सर्वत्राऽसम्भवापत्तेः, वहिमान् वहिव्याप्यवांश्च हृदो वयभाववानित्याकारकाहार्यशानस्यापि कोटिद्वयावगाहिसंशयान्यताहशनिश्चयत्वेन धत्तुं शक्यतया तत्र "Aho Shrutgyanam" Page #252 -------------------------------------------------------------------------- ________________ २३६ अनुमानगादाधर्या सामान्यनिरुक्तिप्रकरणम् * गादाधरी दिवैशिष्ट्य निश्वये हृदो वह्निमानित्यादिस्थलीयबाधादिविषयितायाः सत्वेनासम्भवप्रसङ्गाच्च । वह्नथादिरूपधर्मितावच्छेद कानवच्छिन्नवह्नयभावादिविशेषितदादिनिरूपित विषयितायाः साध्यादिनिश्चयावृत्तित्वेऽपि घटादिनिरूपिताया अपि दोषविशेषावच्छिन्नाया विषयितायाः साध्यादिनिश्वयावृत्तितया घटादावुदासीनेऽतिव्याप्तिवारणाय यादृशविशिष्टविषयितासामान्यं तादृशनिश्चयावृत्ति तादृशविशिष्टनिरूपितविषयिताया एव वि रोधिविषयितेत्यनेन विवक्षणीयतया अप्रतीकारात् । चन्द्रकला वह्नयभाववद्दत्वावच्छिन्न विषयिताया वृत्तेः वह्नयभावादि विशिष्ट हदादिविषयितायां यथोक्तविरोधिविषयितात्वविरहादिति भावः । यदिच यत् किञ्चिदूवह्निरूपधर्मानवच्छिन्नवह्न्यभावविशिष्ठ इद विषयिताया वह्निमान्वह्निव्याप्यवश्च दो वह्नयभाववानित्याहार्य व निधर्मितावच्छेदककतादृशनिश्वयावृत्तितया नोक्ताऽसम्भवः सम्भवति तदा निरुक्तरीत्या हदो वह्निमानित्यादौ घटादावुदासीनेऽतिव्याप्तिः, वह्न्न्यभावादिविशिष्टहदादिविषयकघटादिविषयकसमूहालम्बनशानोयत्वविशिष्टयत् किञ्चिद्घटादिविषयिताया वह्नयभाववद् इदविषयित्वावच्छिन्नाया न्ददादिघर्मिकाचादिप्रकारकतादृश निश्चयावृत्तित्वादित्यतो यद्रूपावच्छिन्ननिरूपित विषयितासामान्यं प्रकृतपचे साध्यादिवैशिष्ट्यावगाहियथोक्तनिश्चया. वृत्तीत्यस्य विवक्षणान्नोत्तातिव्याप्तिः, घटविषयितायाः पदे साध्यवैशिष्ट्यावगाहिघटविषयकसमूहालम्बनतादृशनिश्चयवृत्तित्वेन तस्या विरोधिविषयितानात्मकत्वात् । एवञ्चासम्भववारण मशक्यं वह्न्यभावविशिष्ट हद विषयितासामान्यान्तर्गताया वह्न्न्यादिरूपधर्मिंतावच्छेदकाद्यवच्छिन्नवहूनिमान् वहूनिव्याप्यवांश्च हदो वन्यभाववानित्याकारकाहार्यंज्ञानीयवहून्याद्यभावविशिष्टहदादिविषयिताया निरुक्ताहार्यज्ञानाहमके पक्ष साध्यादिवैशिष्ट्यावगाहितादृश निश्चये वर्त्तमानत्वादित्याह वह्नधादीति । आदिना व्याप्त्यादेः परिग्रहः । यादृशेति यद्रूपावच्छिन्ननिरूपित विषयितात्वव्यापकं ताहशनिश्चयावृत्तित्वमित्यर्थः, सामान्यपदस्य व्यापकत्वार्थकत्वात् । श्रप्रतीकारादिति पूर्वोक्ताऽसम्भवस्य वारयितुमशक्यत्वादित्यर्थः । ननु भ्रमान्यवृत्तियद्रूपावच्छिन्ननिरूपितविषयितात्वव्यापकं तादृशनिश्चयाऽवृत्तिस्वं तद्रूपावच्छिन्नविषयिताया एव विरोधिविषयितेत्यनेन विवक्षणीयतया न कोऽपि "Aho Shrutgyanam" Page #253 -------------------------------------------------------------------------- ________________ चन्द्रकला-कलाविलासाख्यटीकाद्वयोपेतम् ® गादाधरी भ्रमान्यवृत्तियदीयविषयितासामान्यं ताडशनिश्चयावृत्ति तदीयविषयिताविवक्षणेन निर्वाहेऽपि विरोधियद्विषयिताशालिनिश्चयोत्तरानुमितिसामान्ये द्वयोव्य॑तिरेक इत्यनभिधाय यद्विषयकनिश्चयस्येत्यादिवकाभिधानस्य ग्रन्थकारीयरीतिविरुद्धत्वात् । एतेन विषयिताया उभयाभावप्रयोजकत्वं तादृशोभयाभावप्रतियोगितावच्छेदकं यद्रूपविशिष्टे येन सम्बन्धेन यद्रूपावच्छिन्नवैशिष्ट्याबगाहित्वघटितं तद्रूपावच्छिन्नविशेष्यकतत्संसर्गकतद्रूपावच्छिन्नप्रकारकत्वविशेषितेनानुमितित्वेनानाहाय्यलौकिकसन्निकर्षाधजन्यज्ञानत्वेन वा अवच्छिना या प्रतिबध्यता तनिरूपितप्रतिबन्धकतावच्छेदकत्वम् । ® चन्द्रकला 'दोषः, श्राहार्यज्ञानस्य भ्रमात्मकतया तदन्यवृत्तिवन्यभावविशिष्टहृदादिविषयितायाएव तादृशविषयितासामान्यान्तर्गततया तस्याश्च निरुक्तपक्षघमिकसाथ्यादिप्रकारकाहायज्ञानेऽसत्वान्नाऽसम्भवा, व्यापकत्वार्थकसामान्यपदोपादानेन न घटादावुदासीनेऽतिव्याप्तिरिति भ्रमान्येत्यादिनाऽशंक्य समाधानमाह विराधोति । तादृशेत्यादिः। ग्रन्थकाररीतिविरुद्धत्वादिति । तथाच यद्विषयकनिश्चयस्य विरोधिषिषयिताप्रयुक्तत्यादिदीधितिकारोक्तलक्षणस्य निरुतार्थकत्वाभिधानं न समीचीनमिति भावः। एतेनेति । निर्वनिर्वनिमानित्यादिस्थलीयदोषेऽव्याप्तिभयेनेत्यर्थः । समुदितार्थमाह एवळचेति । तथाच यद्रूपावच्छिन्ननिरूपितविषयिता निरुक्तोभयाभावप्रतियोगितावच्छेदकं यद्रूपावच्छिन्नांशे यद्पावच्छिन्नवैशिष्ट्यघटितं तद्रूपावच्छिन्नविशेष्यकतद्रूपावच्छिन्नप्रकारकलौकिकसन्निकर्षदोषविशेषाजन्यबुद्धित्वावच्छि - * कलाविलासः - भ्रमान्यवृत्तीति । ननु निर्वह्निःपर्वतो वह्निमानित्यादौ यत्र पर्वतत्वसामानाधिकरण्येन वह्नयभावस्य पक्षतावच्छेदकता तत्र पर्वतत्वसामानाधिकरण्येन वह्निमत्पर्वतस्य दोषत्वापत्तिः, भ्रमान्यवृत्तिनिरुक्तविशिष्टविषयितासामान्यस्यैव यथोक्तनिश्चयावृत्तित्वात् , तादृशविशिष्टविषयकनिश्चयोत्तरघटाद्यनुमितिसामान्ये तादृशोभयाभावस्यापि सत्त्वादिति चेदत्र केचित्-सम्बन्धप्रकारकसाधारणभ्रमत्वस्यानुगततया वृक्तुमशक्यत्वात् तसद्ममभिन्नत्वमेव निवेशनीयम्, तथाच पर्वतत्वसामानाधिकरण्येन वह्वयभावावगाहितादृशभ्रमभेदस्याऽनिवेशात् भ्रमान्यवृत्तितादृशविशिष्टविषयितायाःपूर्वोक्तनिश्चयवृत्तित्वं निराबाधमिति तत्रातिण्याक्षरसम्भवादित्याहुः । "Aho Shrutgyanam" Page #254 -------------------------------------------------------------------------- ________________ २३८ अनुमानगादाधयां सामान्यनिरुक्तिप्रकरणम् • गादाधरी. एवञ्च याहशविशिष्टविषयिता निरुक्ततथाविधोभयाभावप्रयोजकताश्रयस्तादृशत्वमेव लक्षणम् । विषयितादौ विरोधित्वादिकथनन्तु स्वरूपाख्यानमात्रमेव इति प्रलपितमप्यनादेयमेव । निव्वहिष्वह्निमानित्यादिस्थलीयदोषस्य उक्तयुक्त्या दुःसङ्ग्रहात् । अत्र केचित् कश्चिदित्यन्ताग्रिमकल्प इवात्रापि कल्पे न दीधितिकृतो निर्भरः, निर्वहिव हिमानित्यादिस्थलीयदोषासङ्ग्रहेणास्वरसस्याग्रिमकल्पे कश्चिदित्यनेनेवात्रापि कल्पे वदन्तीत्यनेन सूचितत्वात् । निर्भरस्तु केचि. दित्यादिकल्पे एव । अत एव तत्र प्रकर्षबोधनाय प्राहुरित्युक्तमिति । चन्द्रकला न्नप्रतिबध्यतानिरूपित प्रतिबन्धकतावच्छेदकीभूता सती निरुक्तोभयाभावप्रयोजकता. श्रयस्तद्रपवत्वं हेत्वाभासत्वमिति समुदितलक्षणार्थः पर्यवसितः। नन्वेवं विषयितायां. विरोधित्वाभिधानं निरर्थकमित्यत आह विषयितादाविति । स्वरूपाख्यानमिति । निरुक्तप्रतिवन्धकतावच्छेदकताया विषयिताया विवक्षणादित्याशयः। प्रलपितमप्यनादेयमिति । तथा च पूर्वोक्तस्य लक्षणार्थत्वे अन्यत्र लक्षणसमन्वयसम्भवेऽपि निर्वनिनिमानित्यादौ वन्यभावविशिष्टवन्यभाववद्रूपबाधेडव्याप्तिः, ताहशोभयाभावप्रतियोगितावच्छेदकस्य वहन्यभाववतिव हनिवैशिष्ट्यावगाहित्वषटिततया वन्यभाववद्विशेष्यकवनिप्रकारकानुमितेस्तादृशदोषाधजन्यज्ञानस्य चाऽप्रसिरितिभावः। ___ यद्विषयकनिश्चयस्येत्यादिकल्पोत्तरकल्पस्यान्ते कश्चिदित्युक्तम् , यद्विषयकेत्यादिकल्पे च अत्रवदन्तीत्युक्तं दीधितिकृता, सुतरामुभयकल्पे एव निर्वइनिर्वह निमानित्यत्र वहन्यभाषविशिष्टवन्यभाववद्रूपबाधेऽव्याप्तिरित्यस्वरसः निक्क्तोभयकल्पे दोधितिकृतैव सूचित इति केचिद्वदन्ति, तन्मतमुपन्यस्यति अत्रकेचिदिति । अध्याहृताहु. रित्यनेनान्वयि इति बोध्यम् । सूचितत्वादिति । दीधितिकृतेतिशेषः । ननु तर्हि किं हेत्वाभासस्य लक्षणमेव न सम्भवतीत्यत आह निर्भरस्त्विति । केचिदित्यादोति । यादृशपक्षेत्यादिकल्प एवेत्यर्थः । तत्र = वाहपत्यादिकल्पे । इत्युक्तमिताति . पाहुरितिशेषः । निरुक्ताऽस्वरसस्य दीधितिकाराभिप्रेतत्वे मानाभावात् केचिदित्युक्तमिति ध्येयमिति दिक् । "Aho Shrutgyanam" Page #255 -------------------------------------------------------------------------- ________________ चन्द्रकला-कलाविलासाख्यटीकाद्वयोपेतम् २३६ गादाघरी ॐ परे तु घटाभावादिधम्मितावच्छेदककवहथादिमत्त्वज्ञानम्प्रति तद्धर्मि - चन्द्रकला घटाभावादिधर्मितावच्छेदककानाहार्यवन्यादिप्रकारकबुद्धौ घटाभावादिधर्मितापच्छेदककवन्याद्यभावादिप्रकारकतादृशनिश्चयस्थ प्रतिबन्धकत्वाभ्युपगमे घटाभावपटाभावादिरूपधर्मितावच्छेदकमेदेन हृदत्वजलस्वादिरूपधर्मितावच्छेदक. मेदेन चानन्तप्रतिबध्यप्रतिबन्धकमावस्य कल्पनीयतया महागौरवं स्यादतो धर्मितावच्छेदकमनिवेश्य धर्मितावच्छेदकतासम्बन्धेन अनाहार्यवहनिप्रकारकबुद्धित्वावछिन्न प्रति धर्मितावच्छेदकतासम्बन्धेन तादृशवहन्यभावादिप्रकारकनिश्चयत्वेन लाघवात् प्रतिबन्धकत्वं कल्पनीयम् , तत एव घटाभाववान वहन्याधभाववान् इति निश्चयकाले घटाभाववान् वह निमानित्यनाहार्यबुद्धिप्रतिबन्धोपपत्तिः, धर्मितावच्छेदकतासम्बन्धेन वन्यभावनिश्चयस्य घटाभावादी सत्वात् । नचैवं चैत्रस्य घयभाववान वहन्यभाववानितिनिश्चयदयायां मैत्रस्य धर्मिताव. च्छेदकतासम्बन्धेन घटाभावादी घहन्यादिप्रकारकज्ञानानुत्पादवारणाय धर्मितावच्छे. दकतासम्बन्धेन तत्पुरुषीयतादृशवन्यादिप्रकारकबुद्धित्व-तत्पुरुषीयताहशवहन्यभावादिप्रकारकनिश्चयत्वाम्यामेव प्रतिबध्यप्रतिबन्धकमावस्यावश्यं कल्पनीयतया पुरुष भेदेन भवन्मते प्रतिबध्यप्रतिबन्धकमावस्यानन्त्यापचिरिति वाच्यम्, तत्पुरुषस्य धर्मितावच्छेदकस्थले तत्पुरुषत्वावच्छिन्नविशष्यकतादृशवन्यादिप्रकारकबुद्धित्वादिना प्रतिवध्यप्रतिबन्धकमावस्य भवताऽपि कल्पनीयतया तत्पुरुषनिवेशस्योभयमत. सिद्धत्वादिति ध्येयम् । __एवञ्च न निर्वह्निर्वह्निमानित्यादौ वन्यभावविशिष्टवन्यभाववद्रूपबाधादापव्यातिः, वहन्यभाववान् वहन्यभावधानित्याकारकबाधनिश्चयोत्तरमनाहायवटाभाववान् वहनिमानितिज्ञानस्यैवोत्पत्त्या तादृशज्ञाने वहन्यभावादिधर्मितावच्छेदककत्वाभावं प्रति तत्पूर्वोत्पन्नवहन्यभाषवान् वन्यभाववानित्याकारकज्ञानीयवन्यभावनिष्ठधर्मितावच्छेदकत्वाख्यसांसर्गिकविषयताया एव प्रयोजकतायाः स्वीकरणीयतया वहन्यभावधर्मितावच्छेदककत्वस्य च निव निविशेष्यकवनिप्रकारकत्वव्यापकतया व्यापकाभावप्रयोजकीभूतावास्तादृशधर्मितावच्छेदकत्वाख्यविषयताया व्याप्यीभूतनिर्वहनि. विशेष्यकवह निप्रकारकत्वघटितोभयाभावप्रयोजकताया निर्विवादत्वादिति केषाञ्चिन्मतं प्रदर्शयति परेरिवति । कलाविलासः - परेविति । अन्न कल्पे चैत्रीयवह्वयभावविशिष्टइदनिश्चयोत्तरं मैनीयवदिमका "Aho Shrutgyanam" Page #256 -------------------------------------------------------------------------- ________________ २४० अनुमानगादाधयों सामान्यनिरुक्तिप्रकरणम् • गादाधरी. तावच्छेदककवह्नयभावादिमत्त्वज्ञानप्रतिबन्धकत्वे कल्पनीये धम्मितावच्छदुकभेदेन तदकल्पनप्रयुक्तलाघवानुरोधेन धम्मितावच्छेदकमनिवेश्यानाहार्य्यवह्नयादिविशिष्टबुद्धित्व-वर्यभावादिनिश्चयत्वाभ्यां समानधम्मिताव. च्छेदकत्वप्रत्यासत्त्यैव प्रतिवध्यप्रतिवन्धकमावः कल्प्यते । एवञ्च तद्देशनिष्ठस्य स्वफूवत्तिप्रतिबन्धकज्ञाननिरूपितप्रतिबन्धकतावच्छेदकसम्बन्ध - चन्द्रकला. धर्मितावच्छेदकेति । घटाभावपटाभावादिरूपधर्मितावच्छेदकमेदेनेत्ययः । प्रतिषध्येति । प्रतिबध्यत्वं प्रतिबन्धकत्वञ्चेत्यर्थः । कल्प्यत इति । अनाहार्यवहनिप्रकारकबुद्धित्वेन प्रतिबध्यत्वं ताशवन्यभावप्रकारकनिश्चयत्वेन प्रतिबन्धकत्वं तयोरवच्छेदकसम्बन्धस्तु धर्मितावच्छेदकत्वाख्य इति कल्प्यते इत्यर्थः । निर्वहनिर्वनिमानित्यत्र बाघेऽव्यातिं वारयति एवम्चेति । निरुक्तरीत्या प्रतिबध्य प्रतिबन्धकभावकल्पने चेत्यर्थः । तदेशेति। घटाभावादिनिष्ठस्येत्यर्थः । पूर्ववर्तीत । पूर्वोत्पन्नज्ञानात्मकघटाभावा दिधर्मितावच्छेदककतत्प्रकारकबुद्धिप्रति कलाविलासः 8 रकह्रदविशेष्यकबुद्धयुत्पादात् तत्पुरुषीयतादशवह्निप्रकारकबुद्धौ धर्मितावच्छेदकतासम्बन्धेन तत्पुरुषोयवलयभावप्रकारकनिश्चयस्य प्रतिवन्धकत्वं वक्तव्यम् । एवं जातिमान् वह्नयभाववानितिनिश्चयोत्तरं कालिकेन हृदस्व विशिष्टे वह्नयभावनिश्चयोत्तरमपि समवायादिना हृदत्वविशिष्टे वह्निप्रकारकज्ञानोत्पादात् स्वीयप्रकारतानिरूपितधर्मितावच्छेदकताघटकसम्बन्धावच्छिन्ननिरवच्छिन्नधर्मितावच्छेदकतासम्बन्धेन वह्नयादिप्रकारकबुद्धौ तादृशधर्मितावच्छेदकतासम्बन्धेन वयाद्यभावनिश्चयस्य प्रतिबन्धकत्वं विवक्षणीयम्, जातिमान् वयभाववानितिनिश्चयस्य जातिमान वह्निमानितिज्ञानप्रतिबन्धकत्वानुरोधात् धर्मितावच्छेदकतायां निरवच्छिन्नत्वमनिवेश्य पृथगेव प्रतिबध्यप्रतिबन्धकभावः कल्पनीयः । अन्यत् स्वयमूहनीयम् । अवच्छेदावच्छेदेन वह्वयादिप्रकारकवुद्धिं प्रत्येतन्मते प्रतिबन्धकस्वकल्पनं न सम्भवतीति तु नाशंकनोयम् ? वह्निप्रकारकबुद्धेः स्वीयप्रकारतावच्छेदकसंसर्गतानिरूपितसंयोगत्वनिष्ठावच्छेदकतानिरूपितप्रतियोगिकत्वनिष्ठावच्छेदकतानिरूपितवहिनिष्ठावच्छेदकतानिरूपितव्यापकत्वनिष्ठावच्छेदकतानिरूपितावच्छेदकत्वसमानाधिकरणधर्मितावच्छेदकत्वसम्बन्धेन प्रतिबध्यप्रतिबन्धकमावस्य कल्पयितुं शक्यत्वादिति ध्येयम् । "Aho Shrutgyanam Page #257 -------------------------------------------------------------------------- ________________ चन्द्रकला-कलाविलासाख्यटीकाद्वयोपेतम् २४१ गादाधरी स्य उत्तरवर्तिज्ञाननिष्ठप्रतिबध्यतावच्छेदकसम्बन्धेन तद्देशासम्बन्धित्वं प्रति प्रयोजकतया वलयभावादिनिष्ठवह्नयभावादिप्रकारकज्ञानीयधम्मितावच्छेदकताख्यविषयतायास्तदुत्तरोत्पन्नानाहार्यवह्नयादिप्रकारकज्ञानस्य वह्नथभावादिधम्मितावच्छेदककत्वविरहप्रयोजकत्वाद्वथभावादिविशिष्ट वतयादिवैशिष्ट्यावगाहित्वविरहस्य क्यभावादिधम्मितावच्छेदकताकवहृयभावादिप्रकारकनिश्चयविषयित्ताप्रयुक्तत्वमक्षतमेवेति तादृशनिश्चयविषयस्य दोषत्वमव्याहतमेव । * चन्द्रकला * बन्धकनिरूपित प्रतिबन्धकतावच्छेदकधर्मितावच्छेदकत्वादिसम्बन्धस्येत्यर्थः । उत्तरवर्तीति । प्रतिबन्धकीभूतज्ञानाव्यवहितोत्तरजायमानाऽप्रतिबध्यज्ञाननिष्ठमित्यर्थः। प्रतिबध्यतेति । धर्मितावच्छेदकत्वादिसम्बन्धेनेत्यर्थः । तद्देशाऽसम्बन्धित्वम् = घटामावादाववर्तमानत्वम् । प्रकृतस्थले लक्षणसमन्वयमाह वन्यभावादीति । नन्वेवं घटाभाववान् वहन्यभाववानित्याकारकज्ञाने वन्यभाववान् वन्यभाववानितिनिश्चयोत्तरोत्पन्ने वन्यभावधर्मितावच्छेदककत्वाभावप्रयोजकताया धर्मितावच्छेदकत्वाख्यसांसर्गिकविषयतायां सत्वेऽपि पक्षे साध्यादिवैशिष्ट्यावगाहित्वघटिततादृशोभयाभावप्रयोजकतायास्तत्र विरहात् कथं तत्र बाधे लक्षणसमन्वय इत्यत आह वहन्यभावादीति । तथा च वन्यभावधर्मितावच्छेदककत्वस्य निर्वह् निविशेष्यकवह निप्रकारकत्वव्यापकतया व्यापकाभावप्रयोजकीभूतायास्तादृश विषयितायास्तादृशव्याप्याभावस्यापि प्रयोजकताया निर्विवादतया तत्र लक्षणसमन्वयो निराबाध इति भावः । वह्नयभावादीति । वहन्यभावप्रकारकत्व व निव्याप्यधूमप्रकारकत्वोभयाभावस्येत्यर्थः । तादृशेति वन्यभाववान् वन्यभाववानित्याकारकनिश्चयविषयस्वेत्यर्थः । __ननूक्तरीत्या . अनाहार्यधन्यादिप्रकारकबुद्धौ ताशवन्यभावादिप्रकारकनिश्चयस्य प्रतिबन्धकत्वाभ्युपगमे यादृशस्थले प्रथमं घटाभाववान् वहुन्यभाववानितिनिश्चयस्ततो निर्वनिनिष्ठविशेष्यताकवह निप्रकारकज्ञानं जायतामितीच्छा ततो घटाभाववद्विशेष्यकवह निप्रकारकज्ञानेच्छायामसत्यामपि पूर्वोक्तच्छाबलात् निर्वनिर्वह निमान् घटाभाववांश्च वनिमानित्याकारकसमूहालम्बनज्ञानापत्तिः, घटाभाववान् वन्यभाववानित्याकारकनिश्चयस्य धर्मितावच्छेदकतासम्बन्धेन १६ "Aho Shrutgyanam" Page #258 -------------------------------------------------------------------------- ________________ २४२ अनुमानगादाधों सामान्यनिरुक्तिप्रकरणम् गादाधरी नच धम्मितावच्छेदकनिष्ठपत्यासत्या विपरीतज्ञानस्य प्रतिबन्धकत्वे निस्वह्निविशेष्यकवह्निज्ञानं जायतामित्याकारकेच्छाजन्यनिवह्निव्वेंह्निमान् घटाभाववांश्च बह्निमानित्याद्यांशिकाहाय्य॑ज्ञानस्य विपरीतज्ञानप्रतिबध्यतावच्छेदकानाक्रान्ततया घटाभाववान् वह्नयभाववानित्यादिनिश्चयकाले तथाविधेच्छासत्त्वे घटाभावविशिष्टविशेष्यकवह्निज्ञानं जायतामित्याकारकेच्छां विनैव तादृशज्ञानापत्तिरिति वाच्यम्, यतः सामान्यतो वह्नया __चन्द्रकला घटाभावादी सत्वेऽपि तस्य तादृशसम्बन्धेन अनाहार्यवह निप्रकारकबुद्धावेव प्रतिबन्धकतया निरुक्तसमूहालम्बनज्ञानस्याहार्यत्वेन तत्प्रतिबन्धकतायास्तत्र विरहात् तदानीं तादृशसमूहालम्बनज्ञानोत्पत्तौ बाधकान्तरस्य वक्तुमशक्यत्वादित्याशंकते नचेति । वाच्यमितिपरेणान्वयः । धर्मितेति । धर्मितावच्छेदकतासम्बन्धेनेत्यर्थः । विपरीतज्ञानस्य = तदभावप्रकारकनिश्चयस्य । प्रतिबन्धकत्व इति । अनाहार्यतत्प्रकारबुद्धीत्यादिः । वन्यभाववद्विशेष्यकत्वावच्छेदेनाहार्यत्वं घटाभाववद्विशेष्यकत्वावच्छेदेन चानाहार्यत्वमित्यांशिकसमहालम्बनज्ञानोत्पादापत्ति प्रदर्शयति निवतीति । तथाविधेति । वन्यभाववन्निष्ठविशेष्यताकवह निप्रकारकशानं जायतामि. त्याकारकेच्छासत्त्वे इत्यर्थः। घटाभाववद्विशेष्यकवह निप्रकारकशानं जायतामित्याकारकेच्छासत्त्वे तादृशसमूहालम्बनज्ञानोत्पादस्येष्टत्वादाह घटाभावेति । तादृशेति । निर्वहनिर्वहनिमान् घटाभावांश्च वह्निमानित्याकारकज्ञानोत्पादापत्तिरित्यर्थः।। ___अत्राऽनाहार्यत्वं न श्राहार्यज्ञानभिन्नत्वम् वन्यादिज्ञानेच्छाविशिष्टं यत् तदन्यत्वं वा येनताशशानोत्पादापत्तिः स्यात्, अपि तु स्वनिरूपितज्ञाननिष्ठविषयतानिरूपिता या निरूपकत्वसम्बन्धावच्छिन्नविशेष्यत्वनिष्ठावच्छेदकता तन्निरूपितनिष्ठत्वसम्बन्धावच्छिन्नावच्छेदकतानिरूपितावच्छेदकत्वसम्बन्धावच्छिन्नप्रतियोगिताकेच्छाभावस्य या तादृशेच्छारूपस्वाव्यवहितप्राक्क्षणावच्छिन्नाधिकरणता तद्विशिष्टधर्मितावच्छेदकतासम्बन्धेन वयादिप्रकारकबुद्धिं प्रति तादृशधर्मितावच्छेदकतासम्बन्धेन वहन्याद्यभावप्रकारकनिश्चयत्वेनैव प्रतिबन्धकतायाः कल्पनीयतथा न तादृशज्ञानोत्पादापत्तिः । निर्वह निनिष्ठविशेष्यताकवनिप्रकारकज्ञानं जायतामितीच्छाया यत् ज्ञाननिष्ठं स्वविषयत्वं तन्निरूपितनिर्वनिनिष्ठविशेष्यत्वनिष्ठावच्छेदकतानिरूपितनिष्ठत्वसम्बन्धा. "Aho Shrutgyanam" Page #259 -------------------------------------------------------------------------- ________________ २४३ चन्द्रकला-कलाविलासाख्यटीकाद्वयोपेतम् * गादाधरी * दिज्ञानेच्छाविशिष्टान्यत्वरूपमनाहार्यत्वं न प्रतिवध्यतावच्छेदककोटौ निवेशनोयम् , किन्वाहाय्यज्ञानोत्पत्त्यर्थ विशेष्यतानिष्ठं यत्स्वविषयतावच्छेदकत्वं तदवच्छेदकतावच्छेदकत्वसम्बन्धावच्छिन्नप्रतियोगिताकवतयादिज्ञानेच्छाविरहस्य या स्वाव्यवहितप्राक्क्षणावच्छिन्नाधिकरणता तद्विशिष्ट. धम्मितावच्छेदकताया एव प्रतिवध्यतावच्छेदकसम्बन्धत्वमुपेयते, * चन्द्रकला 0 वच्छिन्नवहन्यभाववनिष्ठावच्छेदकतानिरूपितवन्यभावनिष्ठावच्छेदकत्वसम्बन्धेन ताहशेच्छाया वहन्यभावे वर्तमानतया तेन सम्बन्धेन तदभावस्य घटाभावादी सत्वेन तादृशेच्छाव्यवहितप्राकक्षणावच्छिन्नताशाभावाधिकरणताविशिष्टधर्मितावच्छेदकतासम्बन्धेन वन्यभावनिश्चयस्य घटाभावे सत्त्वान्न तत्र तेन सम्बन्धेन वहनिप्रकारकज्ञानोत्पादःकथमपि सम्भवतीति समाधत्ते यत इत्यादि। किन्वाहार्येति । विरोधिज्ञानदशायामित्यादिः । स्वविषयतेति । स्वमिच्छा तन्निरूपिता या विषयता तदवच्छेदकत्वमित्यर्थः । स्वाऽव्यवहितेति इच्छाव्यवहितार्थकम् । निर्वह्निनिष्ठविशेष्यताकवलज्ञानं जायतामित्याकारकेच्छाव्यवहितोत्तरं स्वसामग्रीसमावेशादाहायवह्निज्ञानोत्पादस्यावश्यकतया तदानीं घटाभाववान् वन्यभाववानिति ज्ञानोत्पत्तिरेव न सम्भवतीत्यतः स्वाऽव्यवहितप्राक्क्षणेति । स्वपूर्वप्रहरकालीनताहशघन्यभावनिश्चयस्य वह निज्ञानाऽप्रतिबन्धकतया तदानीं तत्सत्त्वे तादृशवन्यादिसमूहालम्बनज्ञानोत्पादस्येष्टत्वात् स्वाऽव्यवहितपर्यन्तानुसरणमिति ध्येयम् । उपेयत इति। प्रतिबन्धकतावच्छेदकसम्बन्धत्वमपि तस्यैवेत्यवधेयम् । ननु तादृशेच्छाविरहस्य स्वाव्यवहितप्राकक्षणावच्छिन्नाधिकरणताविशिष्टधर्मितावच्छेदकत्वसम्बन्धस्य प्रतिबध्यतावच्छेदकत्वसम्बन्धत्वोपगमेऽपि यादृशस्थलविशेषे प्रथममेघ निर्वहनिनिष्ठविशेष्यताकवनिज्ञानं जायतामितीच्छा ततः क्षणमात्र कुतश्चित्प्रतिबन्धकादिवशात् निर्वहनिवनिमानित्याकारकाहार्यज्ञानस्य नोत्पादः अपितु तादृशेच्छाद्वितीयपणे घटाभाववान् वन्यभाववानिति ज्ञानोत्पत्तिस्तदनन्तरं निवनिर्वनिमान् घटाभाववांश्च बनिमानितिज्ञानोत्पादापत्तिदुवारा स्यात् । निरुक्तेच्छाभावस्य तादृशेच्छाव्यवहितप्राक्क्षणावच्छिन्नाधिकरणताया घटाभावे विरहेण तद्विशिष्टधर्मितावच्छेदकताया अपि तत्र विरहात् तादृशविशिष्टधर्मिताघच्छेदकतासम्बन्धेन घटाभावादौ वह्नयभावनिश्चयस्याऽसत्त्वात् तादृशकिञ्चिदंशे "Aho Shrutgyanam" Page #260 -------------------------------------------------------------------------- ________________ २४४ अनुमानगादाधयों सामान्यनिरुक्तिप्रकरणम् * गादाधरी ताशेच्छाविरहस्य प्रतिवन्धकविशेषणस्वमेव वा विशेषणताविशेषधर्मितावच्छेदकतासम्बन्धघटितसामानाधिकरण्यसम्बन्धेनोपगन्तव्यम् , उक्त. स्थले च घटाभावादी तादृशेच्छाविरहस्य सत्त्वान्नोक्तापत्तिरधिकमन्यत्रा. नुसन्धेयमिति वदन्ति । * चन्द्रकला * आहार्यात्मकघटाभावावच्छिन्नविशेष्यकवनिप्रकारकज्ञानोत्पत्तौ बाधकामावादित्यत:कल्पान्तरमाह ताशेच्छेति । स्वविषयतानिरूपितविशेष्यत्वनिष्ठावच्छेदकतानिरूपितावच्छेदकतानिरूपितावच्छेदकत्वसम्बन्धावच्छिन्नप्रतियोगिताकेच्छामावस्येत्यर्थः । प्रतिबन्धकेति तदभावादिनिश्चयविशेषणत्वमेवेत्यर्थः । एक्कारात् तादृशाधिकरणताविशिष्टधर्मितावच्छेदकतायाः प्रतिबध्यतावच्छेदकसंसर्गत्वव्यवच्छेदः। तथा च धर्मितावच्छेदकत्वसम्बन्धेन वयादिप्रकारकबुद्धित्वावच्छिन्नं प्रति स्वनिरूपितविषयतानिरूपितविशेष्यत्वनिष्ठावच्छेदकतानिरूपितनिष्ठत्वसम्बन्धावच्छिन्नावच्छेदकतानिरूपितावच्छेदकत्वसम्बन्धावच्छिन्नप्रतियोगिताकेच्छाभावविशिष्टवहन्याद्यभावनिश्चयस्य धर्मितावच्छेदकतासम्बन्धेन प्रतिबन्धकत्वं कल्पनीयम्, ताशाभाववैशिष्टयं वहन्याधभावनिश्चये च स्वरूपसम्बन्धेन यत् स्वाधिकरणं तन्निरूपितधर्मितावच्छेदकत्वसम्बन्धावच्छिन्नवृत्तित्वसम्बन्धेन तादृशवृत्तित्वस्यैव सामानाधिकरण्यसम्बन्धरूपस्वमित्याशयः । विशेषणतेति । स्वरूपधर्मितावच्छेदकत्वघटितस्वाधिकरणवृत्तित्त्वरूपसामानाधिकरण्यसम्बन्धेनोपगन्तव्यमित्यर्थः । नोक्तापत्तिरिति । तथाच निर्वनिविशेष्यकवह निज्ञानं जायतामित्याकारकेच्छायाः पूर्व परतो वा यदि घटाभाववान् वन्यभाववानिति निश्चयो जायते तदापि तादृशनिश्चयसत्त्वदशायां निर्वनिर्वहनिमान् घटाभाववांश्च वह निमानित्याकारकांशिकाहार्यात्मकसमूहालम्बनस्यापि नापत्तिः, निरुक्तच्छायाः ताहशसम्बन्धेन वन्यभाव एव सत्त्वेन तादृश सम्बन्धेन तदभावस्य स्वरूपसम्बन्धेन घटाभावादी धर्मितावच्छेदकतासम्बन्धेन वन्यभावनिश्चयस्य च तत्र वर्तमानतया सामानाधिकरण्यसम्बन्धेन तादृशेच्छाभावविशिष्टवन्यभावनिश्चयस्य धर्मितावच्छेदकतासम्बन्धेन घटाभावादी सत्त्वात् घटाभावादौ वहनिज्ञानप्रतिबन्धकसद्भावस्यावश्यकतया न तत्र कथमपि वनिशानापत्तिः सम्भवतीति भावः । अन्यत्र - प्रतिबन्धकतावादादिग्रन्थे । वृत्त्यनियामकसम्बन्धस्याभावप्रतियोगिता "Aho Shrutgyanam" Page #261 -------------------------------------------------------------------------- ________________ २४५ चन्द्रकला-कलाविलासाख्यटीकाद्वयोपेतम् * चिन्तामणि: * ज्ञायमानं सदनुमितिप्रतिबन्धकं यत् तत्त्वं वा । * दीधितिः * तादृशपक्षे ताशसाध्यवैशिष्टयस्य तादृशसाध्यनिरूपितव्याप्तिविशिष्टतादशहेतुवैशिष्टयस्य चावगाहिनो ज्ञानस्य यद्विषयकं ज्ञानं विरोधिविषयकं तत्त्वम् , * गादाधरी ॐ निळह्निः पर्वतो वह्निमानित्यादिस्थलीयदोषसाधारण्याय प्रकारान्तरेण लक्षणं वर्णयतां केषाश्चिन्मतमाह ताशपक्ष इति । पक्षतावच्छेदकविशिष्ठपक्ष इत्यर्थः। तादृशसाध्येति । साध्यतावच्छेदकविशिष्टसाध्येत्यर्थः। तादृशहत्विति ! हेतुतावच्छेदकविशिष्टहेत्वित्यर्थः, ज्ञानस्य विरोधिविषयकं यद्विषयकंज्ञानमिति योजना । ज्ञानम्-ज्ञानसामान्यम् , तेन घटादिविषयकस्य यस्य कस्यचित् समूहालम्बनज्ञानस्य तादृशज्ञानविरोधिबाधादिविषयकत्वेऽपि नातिप्रसङ्गः। चन्द्रकला नवच्छेदकल्वे वृत्तिताघटकसम्बन्धत्वाभावे च नोक्तरीत्या प्रतिबध्यप्रतिबन्धकभावकल्पनमसम्भवीत्याशयेन वदन्तीत्युक्तमितिध्येयम् । अधिकमन्यत्रानुसन्धेयमित्यास्तां विस्तरः । निर्वतिरिति । निर्वहनिः पर्वतो वह निमानित्यादिस्थलीयदोषादौ हृदो वह निमान् इत्यादिस्थलीयदोषादौ च वर्तमानत्वसम्पादनायेत्यर्थः । लक्षणम् = मूलोक्तद्वितीयलक्षणम् । पक्षे साध्यवैशिष्ट्यावगाहि-साध्यव्याप्यहेतुवैशिष्ट्यावगाहिज्ञानस्य विरोधिविषयकं यद्विषयकज्ञानसामान्यं तत्त्वमित्यत्र सामान्यपदव्यावृतिमाह तेनेति । सामान्यपदोपादानेनेत्यर्थः । तथा च सामान्यपदानुपादाने हृदो वनिमानित्यादौ घटादाबतिव्याप्तिः वहन्यभाववान् हृदो घटश्चेत्याकारकसमूहालम्बनघटादिविषयकयत्किञ्चि जज्ञानस्यापि हृदे वहन्यादिवैशिष्ट्यावगाहिज्ञानस्य विरोधिविषयकत्वात् यत्पदेन घटादेरप्युपादानसम्भवादिति भावः । तादृशज्ञानेति प्रकृतपक्षे प्रकृतसाध्यादिवैशिष्ट्यावगाहिज्ञानेत्यर्थकम् । नातिप्रसंग इति घटादावित्यादिः । ननु सामान्यपदोपादानेऽपि कथं घटादौ नातिव्याप्तिरित्यत आह "Aho Shrutgyanam" Page #262 -------------------------------------------------------------------------- ________________ २४६ अनुमानगादाधयां सामान्यनिरुक्तिप्रकरणम् * गादाधरी स्वावच्छिन्नविषयकत्वव्यापकतादृशज्ञानविरोधिविषयिताकधम्मवत्वमिति तु फलितार्थः। अत्र च वियितानिष्ठं स्वरूपसम्बन्धात्मकतादृशज्ञानविषयविषयकग्रहप्रतिबन्धकतावच्छेदकतात्मकतादृशज्ञानविरोधित्वमेव निवेशनीयम् , न तु विषयनिष्ठं निर्वाच्यतादृशज्ञानविरोधित्वम् , तस्यैव लक्षणत्वसम्भवेन शेषवैयर्थ्यप्रसङ्गात् । अत्र च विषयनिष्ठस्य निर्वाच्यतादृशज्ञानविरोधित्वस्येव तदपक्षया लघुतया * चन्द्रकला * स्वावच्छिन्नेति । स्वं दोषतावच्छेदकत्वेनाभिमतो धर्मः । तथाच तादृशस्वावच्छिन्नविषयकत्वव्यापकं यत् प्रकृतपक्षे प्रकृतसाध्यवैशिष्ट्यावगाहिप्रकृतहेतुवैशिष्ट्यावगाहिज्ञानविरोधिविषयित्वं तद् यस्य एवम्भूतं यत् स्वं तादृशस्ववत्त हेत्वाभासत्वमिति मूलोक्तद्वितीयलक्षणस्य फलितार्थःपर्यवसितः। तथाच न घटेऽतिव्याप्तिः, घटत्वावच्छिन्नविषयकत्वस्य घट इत्याकारकाऽसमूहालम्बनशानेऽपि सत्त्वात् तत्र च हृदादौ वन्यादिवैशिष्ट्यावगाहिज्ञानविषयविषयकगृहविरोधिविषयिताविरहेण घटत्वावच्छिन्नविषयकत्वव्यापकतायाः तादृशज्ञानविरोधिविषयितायामभावात् स्वपदेन घटत्वस्योपादातुमशक्यत्वादिति तु परमार्थः । अत्र चेति निरुक्तलक्षणे चेत्यर्थः । घटकत्व सप्तम्यर्थः, अस्य च तादृशज्ञानविरोधित्वमित्यनेनान्वयः । स्वावच्छिन्नविषयकत्वव्यापकत्वविवक्षणादेव दौषैकदेशेऽतिव्यातिवारणसम्भवे विषयितानिष्ठानतिरिक्तवृत्तित्वरूपप्रतिबन्धकतावच्छेकत्वनिवेशस्य प्रयोजनाभावादाइ स्वरूपेति । तादृशेति पक्षे साध्यादिवैशिष्ट्यावगाहिज्ञानेत्यर्थकम् । विषयनिष्ठम् = दोषादिविषये वर्तमानम् । तादृशज्ञानविरोधित्वम् = पक्षे साध्यादिवैशिष्ट्यावगाहिज्ञानविषयविषयकग्रहप्रतिबन्धकताबच्छेदकवियिताकत्वरूपं विरोधित्वम् । तस्यैव - निरुक्तविरोधित्वस्यैव । शेषवैयर्थ्यप्रसंगादिति । पक्षे साध्यवैशिष्ट्यावगाहिसाध्यव्याप्यहेतुवैशिष्ट्यावगाहिशानविषयविषयक ग्रहप्रतिबन्धकतावच्छेदकविषयितानिरूपकत्वादिरूपं विषयनिष्ठज्ञानविरोधित्वं हेत्वाभासत्वमित्युक्तावेव सर्वसामञ्जस्ये तादृशज्ञानस्य यद्विषयक ज्ञानं विरोधिविषयकमितिशेषोपादानं निरर्थकं स्यादित्याशयः । विषयनिष्ठ मेव ताशज्ञानविरोधित्वं लाघवात् वक्तव्यमित्याहात्रचेति । निरुक्तलक्षणे चेत्यर्थः। । लघुतयेति । स्वावच्छिन्नविषयकत्वादिव्यापकतयाः "Aho Shrutgyanam" Page #263 -------------------------------------------------------------------------- ________________ चन्द्रकला-कलाविलासाख्यटीकाद्वयोपेतम् २४७ * दोधितिः * तादृशज्ञानविरोधित्वं वा हेतुदोषत्वम् । ज्ञानविरोधित्वञ्च तद्विषयविषयकग्रहविरोधिग्रहविषयत्वम् ।। गादाधरी तदेवाह तादृशज्ञानवि रोधित्वं वेति । तादृशज्ञानविरोधित्वं यदि ताहज्ञानप्रतिबन्धकतावच्छेदकस्वावच्छिन्नविषयिताकधर्मवत्त्वं तदा पूर्वनिरुक्तयथाश्रतमूलार्थ एव पर्यवसानात् निर्वह्निः पर्वतो वह्निमानित्यादिस्थलीयदोषाव्याप्तितादवस्थ्यमिति तन्निर्वक्ति ज्ञानविरोधित्वञ्चेति । तद्विषयविषयकेति । तथाच निर्वह्निः पर्वतो वह्निमानित्यादौ तादृशज्ञानविरोधिज्ञानाप्रसिद्ध्यापि चन्द्रकला * विरोधिविषयितायां निवेशापेक्षया विरोधित्वघटकप्रतिबन्धकतायां तन्निवेशस्यैव लघुत्वात् । ____एवञ्च सति स्वावच्छिन्नविषयकत्वव्यापकी भूतं यत् तादृशज्ञानविषयविषयकग्रहप्रतिबन्धकत्वं तदवच्छेदकविषयितानिरूपकतावच्छेदकस्ववत्वं समुदितलक्षणार्थ इति भावः । ज्ञानविरोधित्वञ्चेत्यादिदीधितिमवतारयति तादृशज्ञानेति । पक्षे साध्यहेतुवैशिष्ट्यावगाहिज्ञानविरोधित्वं यदीत्यर्थः । तादृशेति । यद्पावच्छिन्नविषयकत्वव्यापकं पक्षे साध्यवैशिष्ट्यावगाहि-साध्यव्याप्यहेतुवैशिष्ट्यावगाहिज्ञानप्रतिवन्धकत्वं तद्रूपवत्त्वमित्यर्थः । पूर्वनिरुक्तति । पूर्वोक्तमूललक्षणार्थस्यैव पर्यवसितत्वे । निर्वह्निरिति । तादृशस्थले पक्षतावच्छेदकविशिष्टे साध्यवैशिष्ट्यावगाहिज्ञानस्याहार्यत्वेन तादृशज्ञान प्रतिबन्ध कत्वस्यैवाऽप्रसिद्धः, तत्स्थलीयवह निमपर्वतरूपाश्रयासिद्धिरूपदोषेऽव्याप्तिवारणमशक्यं स्यादित्यर्थः । तन्निर्वक्ति = तादृशज्ञानविरोधित्वं निर्वक्ति, दीधितिकार इति शेषः । प्रकृतपक्षविशेष्यकप्रकृतसाध्यप्रकारकप्रकृतसाध्यव्याप्यप्रकृतहेतुप्रकारकज्ञानविषयविषयकग्रहप्रतिबन्धकतानतिरिक्तवृत्तिविषयितानिरूपकतावच्छेदकधर्मवत्त्वरूपलक्षणा. विवक्षणे तु न निर्वह्निःपर्वतो वह्निमान् इत्यत्र वह्निमत्पर्वतरूपाश्रयासिद्धावव्याप्तिः. तादृशपक्षे साध्यादिवैशिष्टयावगाहिज्ञानविषयीभूतवन्यभाववत्पर्वतविषयक: यः पर्वतो वलयभाववानित्याकारकग्रहस्तत्प्रतिबन्ध कतानतिरिक्तवृत्तिवह्निमत्पर्वतविषयितानिरूपकतावच्छेदकताशपर्वतत्वस्य वह्निमत्पर्वते सत्त्वादित्याह तथाचेति । निरुक्तरीत्या तादृशज्ञानविरोधित्वस्य विवक्षणे चेत्यर्थः । "Aho Shrutgyanam" Page #264 -------------------------------------------------------------------------- ________________ अनुमानगादाधर्यां सामान्यनिरुक्तिप्रकरणम् * दीधितिः * एवंविधैव रीतिरुत्तरत्र सर्वत्र सव्यभिचारलक्षणादावनुसर्त्तव्या इत्यपि केचित् । २४८ गादाधरी तद्विषयविषयकस्य निर्वह्निः पर्वत इति ज्ञानस्य प्रतिबन्धकं यद्वह्निमान् पर्वत इति ज्ञानं तद्विषयतामादायैव वह्निमत्पर्वतादिरूप तत्स्थलीयाश्रयासिद्ध्यादौ लक्षणसमन्वयः । अथ घटवभूतलादिरूपोदासीनपदार्थविषयकसमूहालम्बनात्मक पक्ष * चन्द्रकला # तद्विषयेति । निर्वह्निः पर्वतो वह्निमान् वह्निव्याप्यधूमवांश्चेत्याकारकज्ञानवियविषयकस्येत्यर्थः । लक्षणसमन्वय इति । तथाचोक्तरीत्या विरोधित्वनिर्वचने न कोऽपि दोष इति भावः । यद्यप्युक्तरीत्या लक्षणार्थस्य निर्वचनेऽपि पर्वतो वह्निमान् हृदो वह्निमान् वेत्यादौ सर्वत्र घटाभाववद्भूतलादावुदासीनेऽतिव्याप्तिः हृदो वह्निमान् वह्निव्याप्यधूभवान् घटवच्च भूतलमित्याकारकस समूहालम्बनज्ञानविषयविषयको यो घटवद् भूतलमितिग्रहस्तत्प्रतिबन्धकतानतिरिक्तवृत्तिविषयितानिरूप रुतावच्छेदकघटाभाववद्भूतलत्वस्य तादृशभूतले सत्त्वात् प्रकृतपक्ष विशेष्यकप्रकृतसाध्यप्रकारकप्रकृतसाध्यव्याप्यहेतुप्रकारकग्रहत्वव्यापकविषयिताशालिबुद्धित्वावच्छिन्न प्रतिवध्यतानिरूपित प्रतिबन्धकतानतिरिक्तवृत्तिस्वावच्छि न्नविषयिताकर्मवच्वविवक्षणे घटवद्भूतलादिविषयिताया हृदादिविशेष्य कव हुन्यादिप्रकारकमहत्वस्य घटव द्भूतलाद्यविषयकासमूहालम्बनज्ञाननिष्ठस्याव्यापकतया तस्यास्तादृशग्रहत्वव्यापकविषयितापदेन धत्तुमशक्यत्वेन घटाभाववद्भूतलादावतिव्याप्तिवारणसम्भवेऽपि निर्वह्निः पर्वतो वह्निमान् इत्यादौ वह्निमत्यर्वतरूपाश्रयाऽसिद्भावव्यातिः, आदार्यज्ञानसामग्रीप्रयोज्याया एव वन्यभाववत्पर्वतविषयिताया निर्वह्निपर्वतविशेष्यकवह्नि प्रकारकग्रहत्वव्यापकतया तस्याश्चाहार्य ज्ञानमात्रनिष्ठत्वेन तदवच्छिन्नप्रतिवध्यत्वाऽप्रसिद्धत्वात् अनादार्यज्ञानीयवह्न्यभाववत्पर्वतविषयिताया वह्निमत्यर्वत निश्चय प्रतिवध्यतावछेदकत्वेऽपि तस्यास्तादृशपक्षविशेष्य कसाध्यादिप्रकारकमहत्याव्यापकतया तत्प्रतिवध्यतावच्छेदकताया अकिञ्चित्करत्वादित्याशंकते अथेति । "Aho Shrutgyanam" तत्र Page #265 -------------------------------------------------------------------------- ________________ चन्द्रकला कलाविलासा टीकाद्वयोपेतम् * गादाधरी * तावच्छेदकावच्छिन्नविशेष्य कसाध्यतावच्छेदकविशिष्टसाध्य तद्व्याप्यहे - तुप्रकारकज्ञानविषयविषयकघटवद्भूतलादिज्ञानप्रतिबन्ध कज्ञानविषयघटा - भाववद्भूतलादावतिव्याप्तिः । न च पक्षतावच्छेदकावच्छिन्न विशेष्यकसाध्यतावच्छेदकविशिष्टसाध्यतन्निरूपितत्र्याप्तिविशिष्टहेतुतावच्छेदकाव कावच्छिन्न २४९ घट प्रकारकमहत्व व्यापक विषयिताघटितधर्म्मावच्छिन्नप्रतिबध्यतानिरूपितप्रतिबन्धकतावच्छेदकस्वावछिन्न विषयिताकधर्मवत्त्वनिवेशान्न दोष:, वदुभूतलादिविषयितायास्तादृशग्रहत्वा व्यापकत्वादिति वाच्यम, यत्तः प वर्व्वताद्यंशे वह्निमत्ताद्यनवगाहिनो निवह्निः पर्व्वत इति ज्ञानस्य या वह्निप्रकारकत्वाद्यनिरूपिता निव्र्व्वह्नित्वादिप्रकारितानिरूपितपर्व्वतादिविषयिता सैवानाहाय्र्यत्वविशिष्टतया वह्निमान् पर्वत इत्यादिज्ञानप्रतिबध्यतावच्छेदिका, तस्याश्च निर्वह्निः पर्वतो वह्निमानित्याहार्य्यज्ञानसाधारण्ये मानाभावात् आहाय्यज्ञानसामग्य्यास्तादृशविषयिताप्रयोजकत्वासिद्धेः । विपरीतज्ञानाभावघटितायास्तादृशविषयिताप्रयोजकानाहाय्र्यज्ञानसा मग्न्याश्चाद्दार्थ्यज्ञानाजनकत्वात् तादृशग्रहत्वव्यापिका च वह्निमत्वादिप्रकारितानिरूपिता तादृशपर्वतादिविषयिता, सा च न प्रतिवध्यतावच्छेदिति निर्वह्नित्वादिप्रकारितानिरूपितपर्वतादिविषयितात्वेन नि " * चन्द्रकला # घटाभाववद्भूतले तिव्याप्तिवारणाय नचेत्यादिनाऽमिहितायाः शंकायाः समाघानमाइ यत इत्यादि । सैव = वह्निप्रकारित्वाद्य निरूपिता वहून्यभावप्रकारितानिरूपित पर्वतत्वावच्छिन्न विषयितैव । तस्याः = - वह्निप्रकारित्वाद्यनिरूपितायात्तादृशपर्वतविषवितायाः । मानाभावे हेतुमाह आहार्येति । विपरीतेति तदभावनिश्चयाभावघटिताया वह्निप्रकारित्वाद्यनिरूपितानाहार्यज्ञानीश्रवह्नयभाववत्पर्वतविषयिताप्रयोजकसामग्र्याः श्राहार्यज्ञानीयविषयितां प्रत्यप्रयोजकत्वादित्यर्थः । "Aho Shrutgyanam" - - सा च = वह्नयादिप्रकारितानिरूपितवहून्यभाववत्पर्वतविषयिता च । निर्वह्निः पर्वतो वह्निमानित्याकारकग्रहे सामान्यतो वह्नयभाववत्पर्वतविषयितात्वावच्छिन्नाभावस्याऽसत्त्वात् तादृशविषयितात्वेन श्रानाहार्यज्ञानीयवह्नयभाववत्पर्वतविषयिताऽपि तादृशग्रहत्वव्यापिकेति तादृशविषयित्वावच्छिन्नप्रतिबध्यतामादायैव वह्निमत्पर्वतरूपाश्रयाऽसिद्धौ नाव्याप्तिरित्याह निर्वहित्वेति । वह्नयभावादीत्यर्थकम् | Page #266 -------------------------------------------------------------------------- ________________ अनुमानगादावर्यां सामान्यनिरुकिप्रकरणम् * गादाधरी * वह्निः पर्वत इत्यादिज्ञानीयविषयितापि तथाविधमहत्वव्यापिकेति चेत् ? तर्हि विषयितात्वादिना घटवद्भूतलादिविषयितानामपि तद्व्यापकतया उदासीन पदार्थ वारणमशक्यमिति चेत् ? मैवम्, यद्रूपावच्छिन्ने यद्रूपावनिप्रकारकत्वत्वावच्छिन्नं तादृशग्रहत्वव्यापकं तद्रूपावच्छिन्नविशेष्यक - तद्रूपावच्छिन्नप्रकारकयत्वावच्छिन्नप्रतिबध्यतानिरूपित प्रतिबन्ध विवक्षणी २५० कतावच्छेदकस्वावच्छिन्ननिरूपितविषयिताकधर्मवत्त्वस्य यतया सर्वसामञ्जस्यादिति दिक् । * चन्द्रकला * विषयितात्वेति । तथा च वभावादिप्रकारितानिरूपितपर्वतत्वाद्यवच्छिन्न विषयितात्वेन निर्वह्निपर्वतादिविशेष्य कवह्निप्रकारकमहत्वव्यापकताया अनाहार्यज्ञानीयवह्रयभाववत्पर्वत विषयितायामप्यभ्युपगमे हृदो वह्निमानित्यादौ घटाभाववद्भूतलेऽतिव्याप्तितादवस्थ्यं स्यात्, विषयितात्वेन घटवद्भूतल विषयिताया पदादिविशेष्यक वह्नयादिप्रकारकमहत्वव्यापकतया तदवच्छिन्नप्रतिवध्यतानिरूपितप्रतिबन्धकतानतिरिक्तवृत्तिविषयिता निरूप कतावच्छेदकघटाभाववद्भूतलादिमत्त्वस्य घटाभाववद्भूतलादौ सत्त्वादित्युच्यते तदा त्वादिकायाः मैवमिति । यद्रूपावच्छिन्न इत्यादि । यद्रूपावच्छिन्न विशेष्यतानिरूपितयद्रूपावच्छिन्नप्रकार ताकत्वत्वावच्छिन्नं प्रकृतपक्षे प्रकृतसाध्य प्रकारक प्रकृतसाध्यव्याप्यहेतुप्रकारकग्रहत्वव्यापकं तद्रूपावच्छिन्न विशेष्यताकतद्रूपावच्छिन्नप्रकारताक हत्यावच्छिन्नप्रतिवध्यतानिरूपित प्रतिबन्धकतानतिरिक्तवृत्तिस्वावच्छिन्न विषयिताकधर्मवत्त्व हेत्वाभासत्वमिति विवक्षणीयतयेत्यर्थः । सर्वसामञ्जस्यादिति । निरुक्तविवक्षया हृदो वह्निमानित्यादौ न घटाभाववद्भूतलादावतिव्याप्तिः ह्रदविशेष्यकवयादिप्रकारकग्रहत्वस्य घटवद्भूतलाद्यविषयका समूहालम्बनेऽपि दो वह्निमानित्याकारकज्ञाने वर्त्तमानतया तत्र भूतलत्वावच्छिन्नविशेष्यकघटत्वावच्छिन्नप्रकारकत्वस्य विरहेण तादृशप्रकारकत्वत्वावच्छिन्नस्य पक्षविशेष्यकसाध्यादिमहत्वाऽव्यापकत्वात् भूतलत्वावच्छिन्न विशेष्यकघटत्वावच्छिन्नप्रकारताकग्रहत्वावच्छिन्नप्रतिबध्यताया लक्षणाऽघटकत्वात् । नवा निर्वह्निः पर्वतो वह्निमानित्यादौ वह्निमत्पर्वतरूपाश्रयाऽसिद्धावव्याप्तिः, निर्वह्निः पर्वतो वह्निमान् वह्निव्याप्यधूमवांश्चेत्याकारकमहे पर्वतविशेष्यकवलयभावप्रकारकत्वत्वावच्छिन्नस्याभावविरहेण तस्थ तादृशवह्निमहत्वव्यापकत्त्वस्य " Aho Shrutgyanam" समाधानमाह Page #267 -------------------------------------------------------------------------- ________________ चन्द्रकला-कलाविलासाख्यटीकाद्वयोपेतम् २५१ * दीधितिः * केचित्तु यादृशपक्षकयादृशसाध्यकयादशहेतो यावन्तो दोषाः * गादाधरो अत्र चास्वरससूचनाय केचिदिति । स च उक्तयुत्तया निह्निवह्निमानित्यादिस्थलीयदोषासंग्रहण । न च धम्मितावच्छेदकत्वप्रत्यासत्त्या वह्निप्रकारज्ञानं प्रति वह्नयभावप्रकारकज्ञानस्य प्रतिबन्धकतामते निर्वहिर्वह्निमानित्येतादृशज्ञानसमानविषयकानाहाय्यवह्निमानित्याकारकज्ञानप्रतिबन्धकतामादाय लक्षणसमन्वयस्तत्रापि सम्भवतीति वाच्यम् , तादृशमताश्रयणे पर्वतो .. वह्निमानित्यादौ वह्नयभाववढ्दादेर्दोषताप्रसङ्गात् । यादृशेति सर्वत्र यद्रूपावख्छिन्नार्थकम् ।। ®चन्द्रकला निर्विवादतया तादृशवह्नयभावप्रकारकत्वावच्छिन्न प्रतिबध्यतानिरूपित प्रतिबन्धकतावच्छेदकविषयिताकत्यस्य वह्निमत्पर्वतेऽनपायात् । हृदादौ वह्नयादिसाध्यकस्थले तु हृदविशेष्यकवढ्यादिप्रकारकत्वत्वापच्छिन्नस्यैव तादृशसाध्यग्रहत्वव्यापकतया तदवच्छिन्नप्रतिबध्यतामादायव वह्नयभावविशिष्टहृदादिरूपबाधादी लक्षणसमन्वय इति तु तत्त्वम् , ___ अत्र च तादृशप्रकारकग्रहत्वावच्छिन्नत्वं प्रतिबध्यतायां तादृशग्रहत्त्वव्यापकत्वं तेन काञ्चनमयह्रदो वह्निमान् इत्यादौ वह्नयभाववद्ह्रदरूपबाधनिश्चयप्रतिवध्यतावच्छेदककोटौ काञ्चनमयत्वावच्छिन्नह्रदविशेष्यकहिप्रकारकमहत्वस्याऽप्रवेशेऽपि न क्षतिरिति ध्येयमितिदिक् । निरुक्तमतेऽस्वरसं प्रदर्शयति अत्रचेति । निरुक्तमते चेत्यर्थः । तथा च निरुक्तस्य लक्षणार्थताभ्युपगमेऽपि निर्वह्निर्वह्निमानित्यादौ वह्नयभावविशिष्टवहथभाववद्रूपबाधेऽव्याप्तिः, निर्वह्निविशेष्य कवह्निप्रकारकग्रहत्त्वव्यापकं यत् वह्नयभावावच्छिन्ने वह्निप्रकारकत्वं तदवच्छिन्न प्रतिबध्यत्वाप्रसिद्धः तस्याहायज्ञानमात्रनिष्ठत्वादित्याह स चोक्तति । अस्वरसश्चोक्तयुक्तथेत्यर्थः । शंकते नचेति । वाच्यमितिपरेणान्वयः । धर्मितावच्छेदकतासम्बन्धेन वह्निप्रकारका ज्ञानं प्रति तेन सम्बन्धेन बढ्यभावप्रकारकज्ञानस्य प्रतिबन्धकत्वे न वह्नयभावविशिष्टवह्नयभाववत्यव्यातिः, निर्वह्निर्वह्निमानित्याकारकज्ञानविषयविषयकग्रहपदेन पर्वतविशेष्यकवहिप्रकारका हस्याप्युपादानसम्भवात् तत्प्रतिबन्धकतावच्छेदकवढयभावविषयिताकत्वस्य तादृशबाधे सत्वादितिभावः । "Aho Shrutgyanam" Page #268 -------------------------------------------------------------------------- ________________ अनुमानगादाधर्या सामान्यनिरुक्तिप्रकरणम् * दीधितिः * सम्भवन्ति तावदन्यान्यत्वम्, * गादाधरी * तावदन्यान्यत्वमिति । यत्रच यादृशपक्षसाध्यहेतुकस्थले यादृशदोषज्ञानस्य प्रतिवध्यज्ञानं प्रसिद्ध्यति, यथा निर्वह्निः पर्वतो वह्निमान् धूमादित्यादौ वह्निविशिष्टपर्वतादिरूपाश्रयासिद्धि-धूमाभावविशिष्टनिर्वह्निपर्वतादिरूपस्वरूपासिद्ध्यादीनां ज्ञानस्य तत्र तादृशदोषाणां ग्राह्याभात्र तद्व्याप्यरूपतघटकभेदेन विशेषणविशेष्यभावभेदेन च भिन्नानामनुगतेन विशिष्ट - पक्षे विशिष्टसाधनवैशिष्टयग्रह विरोधित्वरूपासिद्धित्वादिनैव तावदन्यान्यत्वघटकभेदप्रतियोगिवि २५२ * चन्द्रकला * धर्मितावच्छेदकतासम्बन्धेन निरुक्तरीत्या प्रतिबध्य प्रतिबन्धकभावकल्पने पर्वतो वह्निमान् धूमादित्यादौ वह्नयभावविशिष्टहृदादावतिव्याप्तिः, पर्वतविशेष्यकवह्निप्रकारकज्ञानसमानाकारकस्य हृदो वह्निमानित्यादिग्रहस्य प्रतिबन्धकतावच्छेदकविषयिताकत्वस्य तत्र सत्त्वादिति समाधत्ते तादृशेति । निरुक्तरीत्या प्रतिबध्य प्रतिबन्धकभावमभ्युपगच्छतां मताश्रयणे इत्यर्थ इति दिक् । काञ्चनमयपर्वतपक्षकस्थले पर्वतादिपचादौ दोषस्याऽप्रसिद्धत्वात् यादृशेत्यादिकं यद्रूपावच्छिन्नार्थकतया व्याचष्टे सर्वत्रेति । तथा च पक्षतावच्छेदकावच्छिन्नपक्षकसाध्यतावच्छेदकावच्छिन्न साध्यक हेतुतावच्छेदकावच्छिन्न हे तावित्यर्थ करणान्न कुत्राऽपि दोषाणामप्रसिद्धिरिति भावः । लाघवमभिप्रेत्याह श्रत्र चेति । निरुक्तलक्षणे चेत्यर्थः । प्रतिबध्यज्ञानस्य प्रसिद्धिं दर्शयति यथेति । ग्राह्याभावेति । प्रतिवध्यत्वेनाभिमतज्ञानीय प्रकारीभूतस्य वस्तुनो योऽभावस्तद्वयाप्यभेदेनेत्यर्थः । विशेष्येति । विशेष्यत्वविशेषणत्वभेदेन चेत्यर्थः । प्रकृते च वह्निमत्पर्वत- वह्निव्याप्यवत्पर्वत-धूमाभावविशिष्टनिर्वह्नि धूमाभावव्याप्यविशिष्टनिर्वह्निपर्वतवृत्तिवह्नयादि - निर्वह्निवृत्तिधूमाभावादयो दोषाः ग्राह्याभावतद्वयाप्यादिभेदेन बोध्याः । विशिष्टपक्ष इत्यादि । पक्षतावच्छेदकावच्छिन्न विशेष्यतानिरूपित हेतुतावच्छेदकावच्छिन्न प्रकारता शालिग्रहत्वव्यापक प्रतिबध्यतानिरूपित प्रतिबन्धकतानतिरिक्तवृत्तिस्वावच्छिन्नविषयिताकधर्मरूपाऽसिद्धित्वादिनैवेत्यर्थः । तावदन्येति । तावदु भिन्नभिन्नत्वघटकप्रथममेदप्रतियोगिविघयेत्यर्थः । " Aho Shrutgyanam" Page #269 -------------------------------------------------------------------------- ________________ चन्द्रकला-कलाविलासाख्यटीकाद्वयोपेतम् २५३ गादाधरी धया निवेशो, न तु वह्निविशिष्टपर्वतत्व-निधूमत्त्वविशिष्टनिर्वह्नित्वादिना, प्रयोजनविरहात् , यत्स्थलीययाहशदोषविषयकज्ञानस्य प्रतिवध्यज्ञानमप्रसिद्धम् , यथा निर्वह्निर्वह्निमानित्यदिस्थलीयस्य च बाधादेनिस्य, तस्थलीयतादृशदोषाणामगत्या वह्नयभावविशिष्टनिर्वद्वित्ववह्नयभावव्याप्यविशिष्टनिवह्नित्व - निर्वह्निनिष्ठवह्नयभावत्व-- निर्वह्निनिठवह्नथभावव्याप्यत्वादिना चाननुगतरूपणव निवेशः। अत्र च विशिष्टभिनभिन्नत्वस्य शुद्धविशिष्टसाधारणतया सर्वमाकाशवदित्यादावाकाशाभावविशिष्टसर्वादिरूपबाधादिभिन्नत्वस्याप्रसिद्धतया च तत्तद्विशिष्टनि ॐ चन्द्रकला निवेश इति । तथाच निर्वह्निः पर्वतो वह्निमान् धूमादित्यादौ निर्वह्निः पर्वतो धूमवानित्याकारकग्रहविरोधिताहशाऽसिद्धित्वावच्छिन्नभिन्नभिन्नत्वमेव लक्षणमित्याशयः। तादृशस्थले अननुगतग्राह्याभाव-तद्वयाप्यादिभिन्न भिन्नत्वनिवेशस्तु प्रयोजनाभावाद् गौरवाच न कत्तव्य इत्याह नस्विति ।। नन्वेवं तत्तद्दोषभिन्न भिन्नत्वं कुत्र वक्तव्यमित्याकांक्षायामाह यादृशेति । यद्पावच्छिन्नपक्षसाध्यकहेतावित्यर्थः । दोषविषयकेति । बाधादिदोषविषयकनिश्चयस्येत्यर्थः । यतूस्थलीयेति - निर्वह्निः पर्वतो वह्रिमानित्यादिस्थलीयेति । बाधादेर्शानस्य = वह्नयभावविशिष्टवह्नयभावादिमपर्वतादिरूपबाधादिनिश्चयस्य । अगत्येति । निर्वह्निः पर्वतो वह्निमानित्यादिशानस्याहार्यतया तद्विरोधित्वस्याप्रसिद्धया तादृशबाधादावनुगतधर्मस्याऽसम्भवेनोपायान्तराऽभावादिति भावः । निवेश इति । तावभिन्न भिन्नत्वघटकप्रथमभेदप्रतियोगिविधयेत्यादिः । तथा च तत्तद्दोषभिन्न भिन्नत्वमेव तादृशस्थले लक्षणमित्याशयः। ननु यदि तावद्दोषभिन्न भिन्नत्वं लक्षणं तदा हृदो वह्निमानित्यादौ बाधायेकदेशे केवलहदादावतिव्याप्तिः, वह्नयभावविशिष्टहृदादेः शुद्धह्वदाद्यभिन्नतया तादृशविशिष्टहृदादिरूपदोषभिन्नत्वस्य शुद्धहदे विरहात् तादृशदोषादिभिन्नघटादिभिन्नत्वस्यैव केवलहदादौ सत्त्वात् । . केवलहदादौं वहयभावविशिष्टहृदादिभिन्नत्वाभ्युपगमें तत्रातिव्याप्तिवारणेऽपि सर्वमाकाशवदित्यत्राकाशाभाववत्सर्वरूपबाधेऽव्याप्तिः, अाकाशाभाववत्सर्व भिन्नत्वस्याप्रसिद्धया तावद्भिन्नभिन्नत्वस्य तत्र वक्तुमशक्यत्वात् आकाशाभावविशिष्टसर्वत्वस्य सर्वत्र विद्यमानतया केवलान्वयित्वादित्याह अनचेति । निरुक्तलक्षणे चेत्यर्थः।। निरक्तातिव्याप्त्यव्याप्ती वारयति तत्तद्विशिष्टेति । तथा च दोषादौ न "Aho Shrutgyanam" Page #270 -------------------------------------------------------------------------- ________________ २५४ अनुमानगादाधयां सामान्यनिरुक्तिप्रकरणम् छ गादाधरी रूपितविषयितान्यतमविषयितानिरूपकतावच्छेदकतापर्याप्त्यधिकरणधर्मव. त्वमेवाभिमतम् । श्रयञ्च प्रकारो यादृशपक्षसाध्यहेतुकस्थले उक्तसमूहालम्बनानुमितेरप्रसिद्धिस्तत्रैवादरणीयः। यत्रतु तत्प्रसिद्धिस्तत्र लाघवाद्यथाश्रतमूललक्षणमेव साधीयः । शब्दाभेदस्याकिश्चित्करतायाः स्वयमेव वक्ष्यमाणत्वादित्यवधेयम् । चन्द्रकला तत्तद्दोषभिन्नभिन्नत्वं किन्तु दोषादिनिरूपितविषयितायामेव तत्तद्विशिष्ट निरूपितविषयिताभिन्न भिन्नत्वं वक्तव्यम् । तथासति तादृशविशिष्टदोषादिनिरूपिततावद्विषयिताभिन्नभिन्नविषयितानिरूपकतावच्छेदकधर्मवत्वमित्यस्यैव लक्षणार्थतया न बाधैकदेशे केवलहदादावतिव्याप्तिः, वह्नयभावविशिष्टहृदादिनिरूपितविषयिताभिन्नभिन्न विषयितानिरूपकतावच्छेदकत्वस्य वह्नयभावविशिष्टहृदत्वादावेव वर्तमानत्वात् केवलहृदत्वाद्यवच्छिन्नविषयिताया वह्नयभावविशिष्टहदत्वाद्यवच्छिन्नविषयितातो भिन्नत्वात् ।। न वा आकाशाभाववत्सर्वरूपबाधेऽव्याप्तिः, आकाशाभाववत्सर्वत्वावच्छिन्ननिरूपितविषयिताभिन्नत्वस्य घटत्वावच्छिन्नविषयितायां सत्त्वेन तभिन्नत्वस्य च ताशसर्वत्वावच्छिन्नविषयितायामनपायादिति तात्पर्यम् । ___ अयञ्च प्रकारः = निरुक्ततावदन्यान्यत्वादिरूपलक्षणात्मकप्रकारः । उक्तसमूहेति । पक्षः साध्यवान् साध्यव्याप्यहेतुमांश्चेत्याकारिकाया अनुमितेरित्यर्थः। तत्र= निर्वह्निः पर्वतो वह्निमान् निर्वहिर्वह्निमानित्यादिस्थले। आदरणीय इति । उपायान्तराभावादित्यादिः । यत्र तु = हृदो वह्निमानित्यादिस्थले तु । तत्प्रसिद्धिः = निरुक्तसमूहालम्बनानुमितिप्रसिद्धिः । लाघवादिति । तावदन्यान्यत्वस्य भेदद्वयगर्भत्वेन तदपेक्षया हृदो वद्विमानित्यादौ यद्रूपावच्छिन्नविषयकत्वव्यापकं प्रकृतानुमितिप्रतिबन्धकत्वं तद्रूपवत्त्वार्थकमेव पूर्वोक्तं मूललक्षणमादरणीयमित्यर्थः। नन्वेनं लक्षणस्य नानात्वं दुर्वारभित्यत आह शब्दाभेदेति । लक्ष्यभेदेन लक्षणनानात्वस्य दीधितिकृतैवान वक्ष्यमाणतया लक्षणस्य लक्ष्यभेदेन नानात्वमिष्टमेव सुतरां लक्षणात्मकशब्दाभेदोऽकिञ्चित्कर इति भावः। महानसत्ववान् पर्वतो वह्निम न् धूमादित्यादौ महानसत्वाभावविशिष्टपर्वतादेरिव पर्वतवृत्तिमहानसत्वाभावादेर्महानसत्वाभावव्याप्यविशिष्टपर्वतादेरपि आश्रयासिद्धित्वेन "Aho Shrutgyanam" Page #271 -------------------------------------------------------------------------- ________________ चन्द्रकला कलाविलासाख्यटीकाद्वयोपेतम् * दीधितः एकमात्रदोषस्थले च तत्त्वमेव हेत्वाभासत्वम् । गादाधरी २५५ च यत्राश्रयासिद्धयादि रेकविध एव दोषः प्रतिबध्यज्ञानञ्च प्रसिद्धं महानसत्ववान् पर्वतो वह्निमान्धूमादित्यादौ तत्र विशिष्टपक्षग्रह विरोधित्वादिरूपाश्रयासिद्धित्वादेरेव दोषसामान्यलक्षणत्वमुचितं न तु महानसत्वाभावविशिष्ट पर्वतत्वाद्यवच्छिन्नतादृशाभावव्याप्यविशिष्टपर्वतत्वाद्यवच्छिन्नभिन्नभिन्नत्वस्य निरुक्तसमूहालम्बनानुमितिविरोधित्वस्य गौरवादित्याशयेनाह एकमात्रदोषस्थल इति । एकविध एव यत्र दोषस्तद्विषयक ज्ञानप्रतिबध्यज्ञानञ्च प्रसिद्ध, तादृशस्थल इत्यर्थः । तेन ग्राह्याभाव- तद्व्याप्यभेदेन विशेषण- विशेष्यभावभेदेन च सर्वत्र दोषाणां नानात्वसम्भवादेकमात्रदोषस्थलस्याप्रसिद्धत्वेऽपि पर्वतान्यः पर्वतो वह्निमान् धूमादित्यादावेकविध मात्रदोषस्थले ग्राह्याभाव-तद्व्याप्यरूपघटकादिभेदेन विभिन्नाश्रयासिद्ध्यादीनामनुगमकरूपाभावेनान्यतमत्वस्य लक्षणताया आवश्यकत्वेऽपि न क्षतिः । तत्त्वम् = तादृशत्वं निरुक्ताश्रयासिद्धित्वादिकमिति यावत् । * चन्द्रकला * तत्तदनन्तदोषभिन्नभिन्नत्वस्य पक्षः साध्यवान् साध्यव्याप्यहेतुमांश्चेत्या कारकानुमितिप्रतिबन्धकतानतिरिक्तवृत्तिविषयितानिरूपकतावच्छेदकधर्मवत्त्वस्य लक्षणार्थत्वे गौरवं स्यादतस्तादृशस्थले पक्षतावच्छेदकविशिष्ट पक्षग्रहत्वावच्छिन्नप्रतिबध्यता निरूपित प्रतिबन्धकतावच्छेदकस्व । वच्छिन्न विषयिताकधर्मवत्त्वमेव लक्षणार्थं इत्याशयवतां दीधितिकृतामेकमात्रेत्यादिग्रन्थं व्याचष्टे एकविध एवेति । दोषतावच्छेदकमात्रधर्मविशिष्ट एवेत्यर्थः । "Aho Shrutgyanam" च यत्र = यादृशस्थले । तद्विषयकेति । एकविधदोषविषयकनिश्चयस्य प्रतिबध्यज्ञानमित्यर्थः । तेनेति । यत्र एकविध एव दोष इत्याद्यर्थंकरणेनेत्यर्थः । तथाच महानसत्ववान् पर्वतो वह्निमान् धूमादित्यादावपि महानसत्त्वाभावव्याप्यविशिष्टपर्वत - पर्वतवृत्तिमहान सत्वाभावादिभेदेन दोषाणामानन्त्यादेकमात्रदोषस्थले इत्यभिधानं दीधितिकारस्यासंगतं स्यादतः एकमात्र दोषतावच्छेदकधर्मावच्छिन्न दोषस्थले इत्यर्थंकरणेऽपि न निस्तारः, पर्वतान्यः पर्वतो वह्निमान् धूमादित्यादौ पर्वतान्यत्वाभाव-तद्व्याप्यादिविशिष्टपर्वतादेः आश्रयासिद्धित्वरूपैकमात्रधर्मावच्छिन्नस्यैव दोषतया Page #272 -------------------------------------------------------------------------- ________________ २५६ अनुमानगादाधयां सामान्यनिरुक्तिप्रकरणम् ® गादाधरी इदमुपलक्षणम् । यत्र परामर्शविरोधिनो व्यभिचार-विरोधासिद्धयस्त्रयो दोषा न तु बाध-प्रतिरोधौ पर्वतो वह्निमान् हृदत्वादित्यादौ परामशविरोधित्वमेव सामान्यलक्षणम् , यत्र च बाध-प्रतिरोधासिद्धयो दोषाः न तु व्यभिचारविरोधौ हृदो वह्निमान् धूमात् काञ्चनमयह्रदो वह्निमान् धूमात् हृदः काञ्चनमयवह्निमान् धूमात् ह्रदो वह्निमान् काश्चनमयधूमादित्यादौ च तत्र विशिष्टपक्षे विशिष्टसाध्य-विशिष्टसाधनयोवैशिष्ट्यावगाहि यज् ज्ञानं तद्विरोधित्वमेव तथा । * चन्द्रकला. तत्र पर्वतान्यत्वाभावविशिष्टिपर्वत • ताशाभावव्याप्यविशिष्टपर्वतादिभिन्नभिन्नत्वस्यैव लक्षणार्थताया अावश्यकत्वात् पर्वतान्यत्वविशिष्टपर्वतज्ञानस्याहार्यतया तद्विरोधित्वेन समुदायाश्रयासिद्धरुपादानाऽसम्भवादतो दोषविषयकज्ञानस्य यत्र प्रतिवध्यज्ञानं प्रसिद्धं तत्रैव विशिष्टपक्षग्रह धिरोधित्वरूपं तत्त्वं लक्षणमितिव्याख्यातमिति भावः । __ लाघवादाह इदमुपलक्षणमिति । यत्र = यादृशस्थले । नतु बाधप्रतिरोधौ = न तु बाधसत्प्रतिपक्षौ । पर्वत इति । अत्र वह्नयभावववृत्ति हृदत्वं व्यभिचारः। वलयधिकरणवृत्तित्वाभावविशिष्टं वहिव्यापकीभूताभावप्रतियोगित्वविशिष्टं वा ह्रदत्वं विरोधः । हृदत्वाभाववत्पवतः स्वरूपासिद्धिरितिबोध्यम् । परामर्शविरोधित्वमेवेति । साध्यनिरूपिततत्तव्याप्त्यवच्छिन्नप्रकृतहेतुप्रकारकप्रकृतपक्षविशेष्यकलौकिकसन्निकर्षाद्यजन्यग्रहत्वव्यापकप्रतिबध्यतानिरूपित प्रतिबन्धकत्वं यद्रूपावच्छिन्नविषयकनिश्चयत्वव्यापकं तद्रूपवत्त्वमेव हेत्वाभासत्वमित्यर्थः। बाधप्रतिरोधेति । बाधसत्प्रतिपक्षेत्यर्थकम् । हृदो वह्निमान् धूमादित्यत्र वह्नयभावविशिष्टह्रदो बाधः, वह्नयभावव्याप्यविशिष्टहृदः सत्प्रतिपक्षः धूमाभावविशिष्टहदश्च स्वरूपाऽसिद्धिः । काञ्चनमयहृदो वह्निमान् धूमादित्यादौ काञ्चनमयत्वाद्यभावविशिष्टह दादिकमाश्रयासिद्धिः । हृदः काञ्चनमयवह्निमान् धूमादित्यादौ काञ्चनमयत्वाद्यभावविशिष्टवह्नयादिकम् साध्याऽप्रसिद्धिः । ह्रदो वह्निमान् काञ्चनमयधूमादित्यादौ काञ्चनमयत्वाभाववभूमादिकं साधनाऽप्रसिद्धिरित्यवगन्तव्यम् । विशिष्टपक्ष इति । पक्षतावच्छेदकावच्छिन्नविशेष्यतानिरूपितसाध्यतावच्छेदकावच्छिन्नप्रकारताकत्वे सति हेतुतावच्छेदकावच्छिन्नप्रकारताकग्रहत्वव्यापकप्रतिबध्यतानिरूपितप्रतिबन्धकतानतिरिक्तवृत्तिविषयितानिरूपकतावच्छेदकधर्मवत्त्वमेव तथा = सामान्यलक्षण । "Aho Shrutgyanam" Page #273 -------------------------------------------------------------------------- ________________ चन्द्रकला-कलाविलासाख्यटीकाद्वयोपेतम् दीधितिः स चातिरिक्त एवान्योन्याभाव इति न वैयर्थ्यम् ___ गादाधरी एवं यत्र व्यभिचारासिद्धी एव दोषौ काश्चनमयः पर्वतो धूमवान् वढेरित्यादौ तत्र विशिष्टपक्षविषयक-व्याप्तिविशिष्टसाधनग्रहविरोधित्वादिकं तथेत्यपि बोध्यम् । ननु तत्तद्धर्मावच्छिन्नभिन्नभिन्नत्वरूपलक्षणघटकतत्तद्ध आणां भागासिद्धतया हेत्वाभाससामान्येतरभेदाननुमापकत्वेऽपि व्यभिचारावारकतया तदितरांशवैयमित्यत आह सचेति । स चान्योन्यामावोऽतिरिक्त एवेति योजना । स च = तत्तद्धर्मावच्छिन्नप्रतियोगिताकमेदकूटावच्छिन्न प्रतियोगिताकः भेदः, अतिरिक्तः तत्तद्धर्मातिरिक्तः, तथा च चन्द्रकला काञ्चनमयपर्वतो धूमवान् वर्तरित्यादौ काञ्चनमयत्वाभावादिमत्पर्वतादिराश्रयाऽसिद्धिः, धूमाभावववृत्तित्वविशिष्टवह्रथादिय॑भिचार इत्यपि बोध्यम् तत्र = तादृस्थले । विशिष्टपक्ष इति । पक्षतावच्छेदविशिष्टपक्षविषयकः प्रकृतसाध्यव्यातिविशिष्टहेतुविषयकश्च यः पक्षतावच्छेदकविशिष्टपक्षः प्रकृतसाध्ययाप्यो हेतुरित्याकारकग्रहस्तादृशग्रहत्वव्यापकप्रतिबध्यतानिरूपित प्रतिबन्धकतानतिरिक्तवृत्तिविषयितानिरूपकतावच्छेदकधर्मवत्त्वादिकमित्यर्थः । आदिपदात् दोषद्वयस्थलेऽपि अनयव रीत्या लक्षणं वक्तव्यमिति सूचितम् । तथा सामान्यलक्षणम् । सचातिरिक्त एवेत्यादिदोधितिमवतारयति नन्वित्यादि । अयमभिप्रायः, दोषाः स्वेतरभिन्नाः बाधत्वादिमत्त्वात् स्वरूपासिद्धिमत्त्वाद्वत्यादिहेतोः दोषात्मकपक्षकदेशे बाधातिरिक्तसत्त्वेन भागासिद्धिसम्भवेऽपि यत्र यत्र बाधत्वादिकं तत्र तत्रैव दोषेतरभेदसत्त्वेन व्यभिचाराऽप्रसक्तया ताशबाधत्वादिरूपतत्तधर्मावच्छिन्नमिन्नभिन्नत्वरूपनिरुक्ततरभेदानुमापकलक्षणात्मकहेतोयर्थं स्यात् , निरुक्तभिन्नभिन्नत्वस्य तत्तद्धर्मरूपतया तादृशभिन्नभिन्नत्वत्वरूपस्वसमानाधिकरणप्रकृतसाध्यीभूतेतरभेदव्याप्यतावच्छेदकतत्तद्धर्मत्वादिघटितस्ववत्त्वस्य । ताहशभिन्नभिन्नत्वरूपहेतौ सत्त्वात् तस्येतरभेदानुमापकत्वाऽसम्भवात् व्यभिचाराऽवारकस्यैव व्यर्थत्वादिति । तत्तद्धर्मातिरिक्तः = तत्तद्वाधत्वाद्यतिरिक्तः । उपसंहरति तथाचेति । तत्तद्धर्मावच्छिन्नभेदकूटावच्छिन्नप्रतियोगिताकभेदस्य तत्तद्धर्मातिरिक्तत्वे चेत्यर्थः। कलाविलासः - तथाच धर्मिभेदान वैयमिति । अत्र तादृशान्यतमस्य तादात्म्यसम्बन्धे. "Aho Shrutgyanam" Page #274 -------------------------------------------------------------------------- ________________ २५८ अनुमानगादाधयां सामान्यनिरुक्तिप्रकरणम् • गादाधरी - धर्मिभेदान्न वैयर्थ्यम् । तत्तद्धर्मावच्छिन्नभेदमात्रावच्छिन्न प्रतियोगिताकान्योन्याभावस्य स्वप्रतियोगितावच्छेदकीभूतभेदप्रतियोगितावच्छेदकतत्तद्धमस्वरूपत्वेऽपि तादृशभेदकूटावच्छिन्नप्रतियोगिताकभेदत्वस्य नानाधर्मषु कल्पनापेक्षया तद्विशिष्टस्यैकस्य भेदस्य लाघवेन कल्पयितुं युक्तत्वादित्यभिप्रायः। चन्द्रकला. धर्मिभेदान्न वैयर्थ्यमिति । तथाच स्वसमानाधिकरणप्रकृतसाध्यव्याप्यता. वच्छेदकधर्मान्तरघटितस्ववत एव व्यर्थतया तत्तद्धर्मावच्छिन्नभेदकूटावच्छिन्नप्रतियोगिताकभेदस्य तत्तद्धर्मातिरिक्तभेदस्वरूपत्वे स्वपदेन तादृशभेदकूटावच्छिन्नप्रतियोगिताकभेदत्वरूपहेतुतावच्छेदकस्योपादानमेव न सम्भवति, तत्सामानाधिकरण्यस्य तत्तधर्मत्वात्मकबाधत्वत्वादौ विरहात् इतरभेदव्याप्यतावच्छेदकस्वसमानाधिकरणधर्मान्तरस्यैवाप्रसिद्धस्तादृशभेदत्व-तत्तद्धर्मत्वयोविभिन्नघमिवृत्तित्वादिति तु परमार्थः । ननु घटत्वाद्यवच्छिन्नभेदावच्छिन्न प्रतियोगिताकभेदस्य घटत्वादिस्वरूपताया श्रावश्यकतया तत्तद्वाधत्वस्वरूपासिद्धित्वावच्छिन्नभेदकूटावच्छिन्नप्रतियोगिताकभेदस्यापि तत्तद्वायत्वादिस्वरूपत्वमेव स्वीकरणीयमितिधर्मभेदाभावान्निरुक्तलक्षणात्मकहेतोवययं दुरिमित्यत पात तत्तद्धर्मेति । घटत्वाद्यवच्छिन्नभेदमात्रावच्छिन्नप्रतियोगिताकभेदस्येत्यर्थः। घटभेद-पटत्योभयघद्भेदस्य घटातिरिक्तमठादावपि वर्तमानतया तादृशोभयावच्छिन्नभेदस्य घटत्वरूपता न सम्भवतीत्यतो भेदमात्रावच्छिन्नेत्युक्तमिति ध्येयम् । स्वप्रतियोगितेति । स्वं चरमभेदः तत्प्रतियोगितावच्छेदकीभूतो यः प्रथमभेदः तत्प्रतियोगितावच्छेदकतत्तद्धर्मात्मकत्वेऽपीत्यर्थः । तादृशेति । बाधत्वव्यभिचारत्वादिरूपतत्तद्धर्मावच्छिन्नभेदकूटावच्छिन्न प्रतियोगिताकभेदत्वस्येत्यर्थः । नाना धर्मेषु = बाधत्वव्यभिचारत्वादिषु । तद्विशिष्टेति । भेदत्वविशिष्टेत्यर्थकम् । तथाच तादृशभेदकूटावच्छिन्नभेदत्वविशिष्टस्य तादृशभेदरूपधर्मिणस्ताहशतत्तधर्मत्वविशिष्टतत्तद्धर्मातिरिक्तत्वस्यावश्यं स्वीकरणीयतया धर्मिभेदान्न वैवर्थ्यमित्याशयः। __® कलाविलासः नैवेतरभेदानुमापकत्वं बोध्यम् । एवञ्चान्योन्याभावस्य तद्धर्मभिन्नत्वेऽपि हेतुतावच्छेदके सामानाधिकरण्यस्य सत्वात् धर्मिभेदादित्यभिधानमसंगतमिति तु चिन्तनीयम्। "Aho Shrutgyanam" Page #275 -------------------------------------------------------------------------- ________________ २५६. चन्द्रकला कलाविलासाख्यटीकाद्वयोपेतम् २५६ * दीधितिः . पञ्चविधभेदोक्तिस्तु तत्सम्भवस्थलाभिप्रायण, * गादाधरो * एतच्च यथाश्रताभिप्रायेण, तत्तद्धर्मावच्छिन्ननिरूपितविषयितान्यतमविषयितानिरूपकतावच्छेदकधर्मवत्त्वस्य लक्षणत्वे चाधिकविकासकतया विशेषणसार्थक्यमित्यवधेयम् । ननु साध्यादिभेदेन लक्षणभेदे दो वह्निमान् धूमादित्यादिस्थलीयस्य लक्षणस्य पञ्चविधहेत्वाभाससाधारएयासम्भवात्तादशलक्षणाक्रान्तानां पञ्चविधत्वोत्तथसङ्गतिरित्यत आह पञ्चविधभेदोक्तिरिति । पञ्चविधत्वोक्तिरित्यर्थः । तत्सम्भवस्थलेति । यत्र पञ्चा ॐ चन्द्रकला एतच्चेति निरुक्तवैयाभिधानश्चेत्यर्थः। यथाश्रतेति । स्वावच्छिन्नाविषयकप्रतीतिविषयतावच्छेदकस्वसमानाधिकरणप्रकृतसाध्यव्याप्यतावच्छेदकीभूतो यो धर्मस्तदवच्छिन्नविषयकप्रतीतिविषयतावच्छेदकस्ववत्त्वस्य यथाश्रुतवेयर्थ्यलक्षणाभिप्रायेणेत्यर्थः । तत्तद्धर्मेति । तत्तद्धर्मावच्छिन्नविषयिताभिन्न भिन्न विषयितानिरूपकतावच्छेदकधर्मवत्त्वस्येत्यथः । लक्षणत्वे - लक्षणार्थत्वे । अधिकेति । स्वव्यापकप्रकृतसाध्यव्याप्यतावच्छेदकधर्मान्तरघटितस्यैव वैयर्यलक्षणस्य वक्तव्यतयेत्यर्थः । विशेषणेति । तत्तद्धर्मावच्छिन्नभेदकूदावच्छिन्नभेदरूपलक्षणात्मकेतरभेदानुमापकहेतोः तत्तद्धर्मावच्छिन्नविषयितान्यतमविषयितानिरूपकताघच्छेदकधर्मवत्त्वरूपलक्षणात्मकतादृशहेतोर्वा सार्थक्यमित्यर्थः । __ द्रव्यं गुणकर्मान्यत्वे सति समवेतादित्यत्र गुणत्वस्य द्रव्यत्वव्याप्यतावच्छेदकतया समवेतवसमानाधिकरणतया च तद्घटितनिरुक्तसमवेतत्ववतो हेतोव्यथतापत्त्याव्यर्थतावच्छेदकत्वेनाभिमतस्वव्यापकधर्मान्तरघटितस्ववत एव व्यर्थताया वक्तव्यतया निरुक्तस्थले वैयर्थ्याशंकोदय एव न सम्भवति, तादृशभेदकूटावच्छिन्नभेदस्य तत्तद्धमस्वरूपत्वेऽपि तादृशभेदत्वव्यापकत्वस्य तत्तद्धमत्वरूपवाघत्ववादी विरहात् तादृशभेदत्वस्य व्यभिचारत्वादावपि सत्त्वात् । एवं तादृशान्यतमविषयितानिरूपकतावच्छेदकत्वत्यापि व्यभिचारत्वबाधत्वादिसाधारणतया तद्वयापकत्वस्यापि तत्तद्धर्मत्वेऽभा. वात् न लक्षणात्मकहेतोर्वैयर्थ्यमित्यभिप्रायः । ___ हृदो वह्निमान् धूमादित्यादौ हेत्वाभासपञ्चकस्याऽसम्भवात् तत्स्थलोयलक्षणस्य पञ्चविधभेदघटितत्वमयसम्भवीत्याशंक्य पञ्चविधेत्यादिदीधितिमवतारयति नन्विति । पञ्चविधत्वोक्तिः- पञ्चविधत्वाभिधानम् । "Aho Shrutgyanam" Page #276 -------------------------------------------------------------------------- ________________ २६० अनुमानगादाधयों सामान्यनिरुक्तिप्रकरणम् * दीधितिः ध्यभिचारादेः साध्यादिभेदनियन्त्रितत्वात् शब्दाभेदमात्रस्य चाकिञ्चित्करत्वादिति प्राहुः ।। ___® गादाधरी नामेव हेत्वाभासानां सम्भवः गौरश्वो घटत्वादित्यादौ तस्थलीयलक्षणाक्रान्तस्य पञ्चविधत्वाभिप्रायेणेत्यर्थः । ननु लक्षणाननुगमादितरभेदानुमाने भागासिद्धिरित्यत आह व्यभिचारादेरिति । साध्यादिभेदनियन्त्रितत्वात साध्यादिभेदनियन्त्रितलक्ष्यतावच्छेदकत्वात् , तथाच लक्षणस्येव लक्ष्यतावच्छेदकस्याप्यननुगमान्न भागासिद्धिरिति भावः । नन्वेवमप्यनुगतोक्तयसम्भवान्नायं प्रकारः साधीयानित्यत आह शब्दाभेदमात्रस्येति । चन्द्रकला. गौरश्व इत्यादि । अत्र अश्वत्वाभावववृत्ति घटत्वं व्यभिचारः, अश्वत्वाधिकरणवृत्तित्वाभावविशिष्टघटत्वं विरोधः, घटत्वाभावविशिष्टो गौः स्वरूपासिद्धिः, अश्वत्वाभाववद्गोबर्बाधः, अश्वत्वाभावव्याप्यवांश्च गौः सत्यतिपक्षहति पञ्चानां हेत्वाभासानामत्र समावेशात् निरुक्तस्थलाभिप्रायेणैव पञ्चविधत्वाभिधानं न तु सर्वत्रेति भावः। लक्षणाननुगमादिति । लक्षणस्य नानात्वे हृदो वह्निमान् धूमादित्यादिस्थलीयलक्षणस्थतत्चद्दोषभिन्न भिन्नत्वस्य दोषात्मकपक्षकदेशे व्यभिचारादौ विरहात् भवति भागासिद्धिरिति नन्वित्यादिशंकाया अभिप्रायः । साध्यादीति । आदिना हेतोः परिग्रहः । व्यभिचारादेरित्यत्रादिना बाधादेः परिग्रहः । व्यभिचारादेः साध्यादिभेदेन भिन्नत्वस्यावश्यकत्वादाह तथाचेति । न भागासिद्धिरिति । हृदो वह्निमान् धूमादित्यादौ दोषसामान्यस्य न पक्षत्वं किन्तु तत्स्थलीयतत्तद्दोषादेरेव, तत्र च तत्स्यीयतत्तद्दोषभिन्न भिन्नत्वस्याननुगतस्यापि लक्षणस्य सत्त्वान्न भागासिद्धिरित्यर्थः । __ तथा च लक्षणवत् लक्ष्यतावच्छेदकस्याप्यननुगततया तत्तदोषाः स्वेतरभिन्ना: बाधत्वाद्यवच्छिन्नो वा स्वेतरभिन्न: बाघत्वाद्यवच्छिन्नभिन्नत्वादित्याकारकेतर. भेदानुमानस्यैव पर्यवसिततया न कोऽपि दोष इति भावः। शब्दाभेदस्येति । लक्षणात्मकशब्दस्य अभेदः ऐक्यं तस्येत्यर्थः । अकिश्चित. करत्वादिति । निरुक्तलक्षणस्यकताया वक्तुमशक्यत्वादित्याशयः। .. ____ इदन्तु तत्तद्धर्मावच्छिन्नभेदकूटावच्छिन्नभेदवद्धर्मवत्त्वरूपं लक्षणं दोषाः स्वेतर. भिन्नाः तादृशभेदवद्धर्मवत्वादित्याकारकेतरमेदानुमाएकमेव, नतु दोषपदशक्यतावच्छे "Aho Shrutgyanam" Page #277 -------------------------------------------------------------------------- ________________ चन्द्रकला-कलाविलासाख्यटीकाद्वयोपेतम् २६१ गादाधरी 8 इदं पुनरिहावधेयम् । तावदन्यान्यत्वमितरभेदानुमापकमेव न तु दोषपद. प्रवृत्ति निमित्तम् , तथासति निर्वह्नित्वविशिष्टे वह्निसाधने धूमो दुष्ट इत्यादौ दुष्टपदस्य ववथभावविशिष्टिनिवह्नित्वाद्यवच्छिन्नान्यतमवदर्थक तया निर्वह्नित्वविशिष्टे वह्निसाधने इत्यादेरनन्वितार्थकत्वप्रसङ्गादप्रसिद्ध्या तस्य हेवन्वयिनिवह्नित्वविशिष्टविशेष्यकवह्नयनुमितिप्रयोजकत्वार्थकत्वासम्भवात् , किन्तु अभावप्रयोजकभ्रमान्यवृत्तिविषयितानिरूपकवत्त्वमेव तथा, उक्तस्थले च प्रकारता, प्रकारतानिरूपितव्याप्तिप्रकारतानिरूपितधूमस्वावच्छिन्नप्रकारता चोभयमेव साधनपदार्थः । प्रकारतारूपसाधनपदार्थेऽपरपदार्थैकदेशव्याप्तिप्रकारतानिरूपकप्रकार चन्द्रकला दक दोषव्यवहारोपयिक वक्तव्यम् , तथासति वह्नयभाववस्वावच्छिन्ने वह्रिसाधने धूमो दुष्ट इत्यादी दुष्ट इत्यस्य वह्नयभाववन्निष्ठवह्नयभावादिभिन्नभिन्नवदर्थकताया आवश्यकतया निर्वद्वित्वविशिष्टे वह्निसाधने इत्यादिसमुदायार्थस्य अन्वयानुपपत्तिः स्यादित्याहेदम् पुनरिहेति ।। ___एवकारल्यवच्छेद्यमाह नस्विति । दोषपदप्रवृत्तिनिमित्तं दोषपदशक्यतावच्छे. दकं दोषव्यवहारौपयिकमितियावत् । निषेधे हेतुमाह तथासतीति । निरुक्तलक्षणस्य दोषपदप्रवृत्तिनिमित्तत्वाभ्युपगमे सतीत्यर्थः । अधिकमभिहितं प्राक् । ननु निर्वद्विस्वविशिष्टे वह्निसाधने धूमो दुष्ट इत्यादौ दुष्टपदस्य वह्नयभावघनिष्ठवड्यभावाद्यन्यतमवदर्थकत्वेऽपि न निर्वह्नित्वविशिष्टे इत्यादेरनन्वयप्रसंगा, अनुमित्यर्थकसाधनपदोत्तरसप्तम्या: प्रयोजकत्वार्थ स्वीकृत्य निर्वह्निविशेष्यताकवड्यनुमितिप्रयोजकताया धूमेऽन्वयसम्भवादित्यत आह अप्रसिद्धयेत्यादि । तस्य = निर्वह्नित्वविशिष्टे वह्निसाधने इत्यादिसमुदायस्य । तथाच निर्वद्विविशेष्यकवविज्ञानस्याहार्यत्वेन तस्यानुमितित्वं न सम्भवदुक्तिकमपीति हृदयम् । ननु तर्हि तत्र कीदृशान्वयबोधोऽभ्युपगन्तव्य इत्यत आह किन्वित्यादि । तथा = दुष्टत्वम् । उक्तस्थले = निर्नह्नित्वविशिष्टे वह्नःसाधने धूमो दुष्ट इत्यादिस्थले । अपरपदार्थैकदेशेति, प्रकारतानिरूपितव्याप्तिप्रकारतानिरूपितहेतुप्रकारतारूपसाधनपदार्थैकदेशीभूतायां प्रथमप्रकारतायाञ्च । स्वरूपसम्बन्धेनेति अन्वय इतिशेषः। "Aho Shrutgyanam" Page #278 -------------------------------------------------------------------------- ________________ अनुमानगादाधयाँ सामान्यनिरुक्तिप्रकरणम् * गादाधरी तायाञ्च षष्ठयन्तवह्निपदप्रतिपाद्यस्य वह्निनिष्ठत्वस्य स्वरूपसम्बन्धेन, साध. नपदार्थोक्तप्रकारताद्वये च सप्तम्यन्तार्थस्य निर्वह्नित्वविशिष्टविशेष्यताया निरूपितत्वसम्बन्धेनान्वयः, साधनपदोत्तरसप्तम्या निरूपकत्वं द्वित्वश्चार्थः, निरूपकत्वे च निरुक्तसाधनपदार्थयोः पृथगन्वयः, तदन्वितनिरूपकत्वे च द्वित्वान्वयः, द्वित्वान्वितताहशनिरूपकत्वयोश्च दोषपदार्थघटकाभावेऽन्वयः, तथाच निर्वह्नित्वविशिष्टविशेष्यतानिरूपितवह्निप्रकारतानिरूपकस्वस्य तादृशविशेष्यतानिरूपिता या वहिप्रकारतानिरूपितव्याप्तिप्रकारतानिरूपितधूमत्वावच्छिन्नप्रकारता तन्निरूपकत्वस्य च द्वयोरभावप्रयोजकभ्रमान्यवृत्तिविषयितानिरूपकवानित्येवान्वयबोधः । प्रतिबन्धकीभूतभ्रम ॐ चन्द्रकला निर्वह्नित्वविशिष्टे इत्यत्र सप्तम्यर्थो विशेष्यत्वं तत्रच निर्वह्नित्वविशिष्टस्याधेयतथा, वहरित्यत्र षष्ठयर्थनिष्ठत्वे तु वह्निपदार्थस्य निरूपितत्वसम्बन्धेनान्वयो बोध्यः । निरुक्तति प्रकारतायाः प्रकारतानिरूपितव्याप्तिप्रकारतानिरूपितहेतुप्रकारतायाश्च पृथगन्वय इत्यर्थः । तदन्वितेति तादृशप्रकारताद्वयान्वितेत्यर्थकम् । द्वित्वान्वय इति । स्वरूपसम्बन्धेनेत्यादिः । अभावेऽन्वयः इति प्रतियोगितासम्बन्धेनेत्यादिः । समुदितपदार्थान्वयबोधमाह तथाचेति । निरुक्तक्रमेण समस्तपदार्थनिर्वचने चेत्यथः । ननु अभावप्रयोजकभ्रमान्यवृत्तिविषयितानिरूपकपर्यन्तस्य दुषधात्वर्थत्वे सम्बधिनश्च तत्र प्रत्ययार्थत्वेऽपि विषयितायां भ्रमान्यवृत्तित्वविशेषणं निरर्थकमित्यत आह प्रतिबन्धकीभूतेति । अनुमितिप्रतिबन्धकतावान् यो भ्रमस्तदोयविष ___ * कलाविलासः * तथाच निर्वह्नित्वेति । नव निर्वहिर्वह्निमान् इत्यादिस्थले पूर्व विरोधिविषयिताया अप्रसिद्धरेवाशंकिततया कथमुक्तशाब्दबोधः समीचीन इति वाच्यम्, परे तु कल्पाभिप्रेतप्रतिबध्यप्रतिबन्धकमावस्येदानीमप्यादरणीयतया प्रयोज्य प्रयोजकभावाभिधानस्य समीचीनत्वसम्भवादिति दिक् । इतिश्रीमदुदासीनपरमहंसपरिव्राजकाचार्यवर्य - श्रीमत्स्वामिजयरामदासभगवत्पादशिष्य-समस्तभारतवर्षप्रसिद्धसिन्धुमहा-नदान्तर्वति-साधुवेलातीर्थाधीश पदवाक्यप्रमाणपारावारीण-स्वामिश्रीमद्हरिनामदासविरचिता हेत्वाभाससामान्यनिरुक्तः कलाविलासनामिका टीका समाप्ता । "Aho Shrutgyanam" Page #279 -------------------------------------------------------------------------- ________________ चन्द्रकला-कलाविलासाख्यटीकाद्वयोपेतम् २६३ गादाधरी विषयितानिरूपकाभावादिमत्त्वमादाय पर्वते वह्निसाधने धूमो दुष्ट इत्यादिप्रयोगवारणाय विषयितायां भ्रमान्यवृत्तित्वं निवेशितम् । दोषघटके केवलसाध्याभावादौ दोषव्यवहाराभावात् अत्रायं दोष इत्यादौ स्वविषयकनिश्चयाव्यवहितोत्तरानुमितिनिष्ठतादृशोभयाभावाधिकरणतात्वव्यापक विरोधिविषयिताप्रयोज्यताकधर्म एव दोषपदार्थ इति दिक् । * चन्द्रकला यितानिरूपकवहन्यभावादिमत्त्वमादायेत्यर्थः । श्रादिना पर्वतादेः परिग्रहः । भ्रमान्यवृत्तित्वमिति । विषयितायां भ्रमान्यवृत्तित्वविशेषणानुपादाने पर्वते चह्न साधने धूमो दुष्ट इतिप्रयोगापत्तिः स्यात् तत्रापि धूमे पर्वतविशेष्यतानिरूपितवहिप्रकारतानिरूपकत्व- तादृशविशेष्यतानिरूपितवनिप्रकारतानिरूपितव्यातिप्र. कारतानिरूपितहेतुप्रकारतानिरूपकत्वयोर्द्वयोरभावप्रयोजिका या वयभाववान् पर्वत इत्याकारकभ्रमीयविषविता तन्निरूपकवह्नयभावादेः स्वज्ञानविषयप्रकृतहेतुता. वच्छेदकवत्त्वसम्बन्धवत्त्वस्यानपायादतो भ्रमान्यवृत्तित्वं तादृशविषयितायां देयम् , तथा सति नोक्तप्रयोगापत्तिः, निरुक्तविषयितायाः पर्वतादौ वह्नयभावप्रकारकभ्रमवृत्तित्वादित्याशयः । नन्वेवम् अभावप्रयोजकभ्रमान्यवृत्तिविर्षायतानिरूपकस्य दोषपदार्थत्वे हृदो वहिमानित्यादौ वयादिकं दोष इतिव्यवहारापत्तिः, वन्यादिविषयिताया अपि हृदादिधर्मिकवन्याद्यनुमितिप्रतिबन्धकतावच्छेदकतया वह्नयादावपि तादृशोभयाभावप्रयोजकभ्रमान्यवृत्तितादृश विषयितानिरूपकत्वस्य सत्त्वात् प्रतिवन्धकतावच्छेदकविषयिताप्रयुक्तत्वस्य दोषतावच्छेदकधर्माभावे स्वीकरणीयत्वादित्याह दोषघटकेति । अत्र = हेतो। इत्यादौ= इत्याकारकव्यवहारस्थले स्वविषयकेति । अत्र स्वपदं दोषतावच्छेदकत्वेनाभिमतधर्मपरं न तु दोषत्वेनाभिमतव्याप्तिपरम् , अग्रेच धर्मपदं धर्मवदथकम् , तेन विशिष्टदोषस्य विशेष्यमात्रात्मकत्वेऽपि न क्षतिः, नवा घटत्वाभाववदाकाशादेवृत्तिमत्त्वलक्षणधर्मत्वाभावेऽपि आकाशपक्षकघटत्वादिसाध्यकस्थले तस्य दोषत्वानुपपत्तिरितिध्येयम् । तथा स्वावच्छिन्नविषयकनिश्चयाव्यवहितोत्तरानुमितौ या तादृशोभयाभावाधिकरणता तादृशाधिकरणतात्वव्यापकीभूता या विरोधिविषयितानिष्ठप्रयोजकतानिरूपिता प्रयोज्यता सा यस्य स्वस्य एवम्भूतस्वात्मकधर्मवानेव दोषपदार्थ इत्यर्थः । "Aho Shrutgyanam' Page #280 -------------------------------------------------------------------------- ________________ २५४ अनुमानगादाधयों सामान्यनिरुक्तिप्रकरणम् * दीधितिःस्यादेतत् , शब्दोऽनित्यः शब्दत्वात् , इत्यत्रासाधारणेऽव्याप्तिः 8 गादाधरी असाधारण्यस्य पक्षवृत्तित्वे सति साध्यव्यापकीभूताभावप्रतियोगितात्मकस्य, सत्प्रतिपक्षस्य च पक्षनिष्ठसाध्याभावव्याप्यवस्वरूपस्य बुद्धंविरोधिविषयकतया साध्यवत्ताज्ञानविरोधित्वं निविवादमेव । एकच तज्ज्ञानदशायां हेतोरनुमित्यजनकत्वात्तबुद्धः प्रतिबन्धकत्वमावश्यकमित्येतादृशयथाश्रतार्थपरस्य दशाविशेषे इत्यादिमूलस्यानुस्थितिः, अन्यथा साधारण्यादिज्ञानस्य प्रतिबन्धकताया अपि व्यवस्थापयितुमुचितत्वादतस्तादृशमूलमन्यथा व्याख्यातुमवतरणिकामाह स्यादेतदिति । इत्यत्रासाधारणे-एतत्स्थलीयासाधारण्यरूपदोषप्रकारकहेतुविशेष्यकभ्रम - विषये सर्वसाध्यवद्वथात्तत्वात्मके। अव्याप्तिरिति । तद्विषयकत्वस्य निरुक्ता नुमित्यप्रतिबन्धकहेत्वविषयकज्ञानसाधारणतया तादृशप्रतिबन्धकतातिरिक्तवृत्तित्वादिति भावः । ननु केवलं सर्वसाध्यवव्यावृत्तत्वं न दोषः अपि तु साधनवृत्तित्वविशेषितम् तादृशविशिष्टविषयकत्वन्तु न प्रतिबन्धकतातिरिक्त * चन्द्रकला तृतीयलक्षणव्याख्यानन्तु तृतीयमपीत्यादिना स्वयमेव पूर्वमुक्तमतो नेह वितन्यते, अत्र निवेद्विवह्निमान् धूमादित्यादी अत्रायं दोष इति व्यवहारो न स्यात् , तत्र विरोषिविषयितायाः पूर्वोक्तयुक्त्याऽप्रसिद्धत्वादिति तु विभावनीयमित्यलं पल्लवितेन । __स्यादेतदित्वाद्यवतरणं संगमयति असाधारण्यस्येति । बुद्धः = निश्चयस्य । विरोधिविषयकतया = साध्याभावव्याप्यक्त्वावगाहितया । तद्रुद्धः = असाधारण्यादिबुद्धः । अन्यथेति । दशाविशेषे इत्यादिमूलस्य प्रत्येकज्ञानस्य अनुमितिप्रतिबन्धकत्वव्यवस्थापनपरत्वे इत्यर्थः । उचितत्वादिति । तथाच केवलासाधारण्यादि. ज्ञानस्य तथात्वाभिधानमयुक्तमिति भावः । श्रव्याप्तिमुपपादयति तद्विषयकत्वस्येति । सर्वसाध्यवव्यावृत्तत्वावच्छिन्नविषय. कत्वस्येत्यर्थः । सर्वसाध्यवव्यावृत्तत्वमात्रस्य लक्ष्यत्वे तत्राव्यातिः,तादृशव्यावृत्तत्वावच्छिन्नविषयकत्वस्य हेत्वविषयककेवलव्यावृत्तत्वावच्छिन्नविषयकेऽपि निश्चये वर्तमानतया तत्राऽनुमितिप्रतिबन्धकताविरहेण तद्विषयकत्वव्यापकतायाः प्रकृतानुमितिप्रतिबन्धकतायामसत्वात् । हेतुनिष्ठसर्वसाथ्यवद्व्यावृत्तत्वन्तु अप्रसिद्धम्, अनित्यत्ववति शब्दे शब्दत्वस्य वृत्तरित्यवश्य हेत्वघटितस्यैव तस्य लक्ष्यत्वादितिभावः । "Aho Shrutgyanam" Page #281 -------------------------------------------------------------------------- ________________ चन्द्रकला-कलाविलासाख्यटीकाद्वयोपेतम् २६५ दीधितिःसर्वसाध्यवव्यावृत्तेस्तत्रासत्त्वात् , एवं शब्दोऽनित्यः कृतकत्वादित्यस्य सत्प्रतिपक्षे नित्यत्वव्याप्याद्रव्यद्रव्यत्वादावपि पक्षस्य तद्वत्ता * गादाधरी * वृत्तीत्यत आह सर्वेति । तत्र = हेतो, असत्त्वात् = अवृत्तः, साध्यवति पक्ष हेतोवृत्तरिति शेषः, तथा च तादृशविशिष्टस्याप्रसिध्द्या तस्य दोषत्वासम्भवेन प्रसिद्धस्याविशिष्टसाध्यवव्यावृत्तत्वस्यैव तत्र दोषताया आवश्यकत्वमिति भावः। अद्रव्यद्रव्यत्वादाविति = असमवेतद्रव्यत्वादावित्यर्थः। असमवेतत्वस्य ध्वंससाधारणतया नित्यत्वव्याप्यत्वासम्भवाद्विशेष्यांशनिवेशः । अत्राप्यनन्तरमव्याप्तिरित्यनुषज्यते, तद्विषयक्त्वस्य पक्षाविषयकज्ञानसाधारणतया प्रतिबन्धकतातिरिक्तवृत्तित्वादिति भावः । ननु केवलं नित्यत्वव्याप्याद्रव्यत्वादिकं न तत्र दोषः, अपि तु पक्षनिष्ठतद्वत्तव, तादृशविशिष्टविषयकत्वच प्रतिबन्धकतानतिरिक्तवृत्त्येवेत्यत आह पक्षस्येति । तथाच पक्षघटितविशिष्टाप्रसिध्द्या पक्षाघटितस्यैव दोषत्वमावश्यकमिति भावः। तयोःतादृशस्थलीयदोषत्वेनाभिमतयोरुक्तधमयोः । शब्दो नित्यः शब्दत्वादित्यादौ शब्दत्वादिविशेष्यकनित्यत्वव्यावृत्तवादिज्ञानविषयविशिष्टस्य प्रसि ___* चन्द्रकला * साध्यवति =अनित्यत्ववति । पक्षे = शब्दे । हेतोः= शब्दत्वस्य । असमवेतेति । शब्दपक्षकानिस्यत्वसाध्यकेत्यादिः। नित्यत्वेति । अनित्यत्वरूपसाध्यस्य योऽभावः नित्यत्वं तद्व्याप्यत्वाऽसम्भवादित्यर्थः विशेष्यांशनिवेशः = द्रव्यत्वांश निवेशः। असमवेतद्रव्यस्वस्य गगनादावेव सत्त्वेन तत्र नित्यत्वव्याप्यत्वं निर्विवाद. मित्याशयः। नित्यत्वध्याप्याऽसमवेतद्रव्यत्वेऽप्यव्यातिमुपपादयति तद्विषयकत्वस्येति । नित्यत्वव्यातिविशिष्टाऽसमवेतद्रव्यत्वविषयकत्वस्येत्यर्थः । तादृशेति नित्यत्वव्याप्याऽसमवेतद्रव्यत्वादिमत् शब्दरूपपक्षविषयकत्वं तु इत्यर्थः । दोषत्वमावश्यकमिति । तयाच तत्र तत्राव्याप्तिरेवेति भावः। उक्तधर्मयोः = सर्वसाध्यवव्यावृत्तस्व-नित्यत्वव्याप्याऽसमवेतद्रव्यत्वयोः । इत्यादौ = इत्याद्यसद्धतौ। "Aho Shrutgyanam" Page #282 -------------------------------------------------------------------------- ________________ २६६ अनुमानगादाधयों सामान्यनिरुक्तिप्रकरणम् ® चिन्तामणि : 8 दशाविशेषे हेत्वोरेवाऽसाधारणसत्प्रतिपक्षयोराभासत्वात् तबुद्धेरप्यनुमितिप्रतिबन्धकत्वम् । ® दीधितिः ® विरहादित्याशंकां तयोरलक्ष्यत्वेन निराकुरुते दशाविशेष इति । हेत्वोः = सद्धत्वोः, असाधारणः = पक्षमात्रवृत्तिः, सन् प्रतिपक्षो विरोधिपरामर्शो यस्य स तथा, तयोर्दशाविशेषे हेतौ सर्वसाध्यवद्व्यावृत्तत्वस्य पक्षे साध्याभावव्याप्यवत्त्वत्य च भ्रमदशायाम्, आभासत्वात् = अनुमित्यजनकत्वात् , * गादाधरी ध्द्या सत्राव्याप्तः शङ्कानास्पदत्वादलक्ष्यत्वाभ्युपगमेन तत्परीहारस्यात्यन्ता. सम्भवदुक्तिकत्वात् हेतुपदं सद्धेतुपरतया व्याचेष्टे हेत्वोरिति । सद्धत्वोः साध्यवव्यावृत्तत्वादिरूपासाधारण्यस्य साध्याभावव्याप्यवत्पक्षकत्वरूपसत्प्रतिपक्षितत्वस्य चासम्भवादसाधारणसत्प्रतिपक्षपदे अन्यथा व्याचष्ट असाधारण इति । तथा = प्रकृते सत्प्रतिपक्षपदार्थः। सद्धत्वोदुष्टत्वरूपाभासत्वायोगादाभासपदमन्यथा व्याचष्टे आभासत्वादिति । ___तबुद्धरित्यत्र. तत्पदस्य हेतुपरत्वं न सम्भवति, सत्प्रतिपतस्थले प्रतिबन्धकज्ञानस्य हेतुविषयकत्वानियमाद्धतुविषयकत्वकथनस्याप्रयोजकत्वाद् बुद्धिपदस्यापि बुद्धिसामान्यपरत्वं न सम्भवति हेत्वादिमात्रविषयकज्ञानस्याप्रतिबन्धकत्वादतस्तत्पदस्य हेतुपक्षोभयपरतया बुद्धिपदस्थ * चन्द्रकला शंकानास्पदत्वादिति । शब्दो नित्यः शब्दत्वादित्यादौ नित्यत्ववव्यावृतत्वत्वविशिष्टशब्दत्वरूपस्य विशिष्टस्य प्रसिद्धत्वात् तस्य लक्ष्यत्वात् तत्र दुष्टत्वस्याप्यावश्यकत्वादित्यभिप्रायः। हेतुपदमिति | मौलमित्यादिः। मूलस्थासाधारणसत्प्रतिपक्षपदस्य पक्षमात्रवृत्तिः सन् प्रतिपक्ष इत्याद्यर्थकत्वाभिधानप्रयोजनमाह सद्धत्वोरित्यादि । शब्दपक्षकानित्यत्वासाध्यकशब्दत्वाऽसमवेतद्रव्यत्वयोर्हेत्वोरित्यर्थः । हेतुविषयकत्वाऽनियमादिति । साध्याभावव्याप्यवत्पक्षस्य हेत्वघटितस्यापि सत्प्रतिपक्षत्वादितिभावः । हेत्वादिमात्रेति । केवलं हेतुरित्याकारकशानस्येत्यर्थः । तत्पदस्य तद्बुद्धरित्या "Aho Shrutgyanam" Page #283 -------------------------------------------------------------------------- ________________ चन्द्रकला-कलाविलासाख्यटीकाद्वयोपेतम् २६७ दीधितिः तबुद्धः = हेत्वादौ साध्यवव्यावृत्तत्वादिबुद्धेः प्रतिबन्धकत्वं परमायाति न तु तपियस्य दोषत्वम् , असत्यात , अन्यथा वाधभ्रमेणानुमित्यनुदयात् तस्यापि दोषत्व गादाधरी ७ साध्यतयावृत्तत्त्व-साध्याभावव्याप्यनत्त्वाबपाहिबुद्धिपरतया तद्बुद्धिपदं हेतुविषयकसाध्यवयावृत्तित्व पक्षविषयकसाध्याभावव्याप्यवचाबुद्धिपरतया व्याचष्टे तद्बुद्धरिति । तयोरलक्ष्यतालाभाय हेत्वोरनन्तरं श्रुत एवकारोऽत्र योजनीय; । तदर्थमन्तर्भाव्य व्याचष्टे प्रतिबन्धकत्वं परमायातीति । परम् केवलम् । एवकारव्यवच्छेद्यं स्फुण्यति नस्विति । तद्विषयस्य = तादृशबुद्धिविषयस्य, दोषत्वम् - दोषलक्षणलक्ष्यत्वम् , अस. स्वात् = लक्ष्यताप्रयोजकस्यासत्त्वात् , प्रतिबन्धकीभूतज्ञानप्रमावस्यैव तद्विषयलक्ष्यताप्रयोजकत्वादितिभावः। असत्वात् =विशिष्टस्याप्रसिद्धत्वादिति तु नाथः, एकदेश एवाव्याप्तराशलिलया विशिष्टाप्रसिद्धस्तदलय. तानिर्वाहकत्वविरहेणानुपयोगात्, अन्यथाप्रति पन्धकीभूतभ्रमविषयस्यापि दोषत्वे, बाधभ्रमेण = पक्षे साध्याभावभ्रमेण । * चन्द्रकला * दिमौलतत्पदस्य । तदर्थमन्तर्भाव्य = श्रुतैवकारार्थमन्तर्भाव्य । तादृशबुद्धीति सर्वाsनित्यत्वव्यावृत्तशब्दत्वज्ञानविषयस्य नित्यत्वव्याप्यासमवेतद्रव्यत्वादिमच्छब्दज्ञानविषयस्य चेत्यर्थः । लक्ष्यताप्रयोज केति । यत्र दोषतावच्छेदकत्वेनाभिमतं विशिष्टं रूपं तत्रैव लक्ष्यत्वमिति हृदयम् । ननु तर्हि लक्ष्यताप्रयोजक किमित्याकांक्षयामाह प्रतिबन्धकीभूतेति । तद्विषयस्य प्रतिबन्धकीभूतज्ञानविषयस्य । तथाच प्रकृतानुमितिप्रतिबन्धकीभूतज्ञाननिष्ठं प्रमात्वमेव तद्विषयस्य लक्ष्यताप्रयोजकमितिभावः । एकदेश एव = केवलसर्वसाध्यवद्ध्यावृत्तत्वादावेव । तदलक्ष्यतेति । सर्वसाध्यवव्यावृत्तत्वरूपैकदेशनिष्ठालक्ष्यतेत्यर्थकम् ! दीधितिस्थान्यथापदार्थ व्याचष्टे प्रतिबन्धेति । साध्याभावभ्रमेणेति । पर्वतो वह्निमान् धूमादित्यादौ पर्वतादौ वह्नयाद्यभावभ्रमेणेत्यर्थः । तस्येति तत्पदस्य भ्रमपरामर्शकत्वे असंगतिः, ज्ञानस्यादोषत्वात्, घन्यभावविशिष्टपर्वतादेश्चाप्रसिद्धया परामर्शाऽसम्भवादाह तद्विषयेति । ताहशभ्रमविषयेत्यर्थकम् । "Aho Shrutgyanam" Page #284 -------------------------------------------------------------------------- ________________ अनुमानगादाधयों सामान्यनिरुक्तिप्रकरणम् * दीधितिः . स्यात् , को हि साध्याभाव-तव्याप्यवत्ताभ्रमयोरनुमितिविरोधित्वे विशेषः । नियुक्तिकस्तु प्रवादो न श्रद्धेयः। यत्तु ज्ञानस्य यदनुमितिप्रतिबन्धकतावच्छेदकंतद्वत्वम् तत्प्रकारका प्रमाविषयत्वञ्च लक्षणार्थः। ___ * गादाधरी नन्वेवमुक्तस्थले दशाविशेषे हेतोर्दुष्टताप्रवादो नोपपद्यत इत्यत आह नियुक्तिकस्त्विति । उपदर्शितस्थलेऽपि दशाविशेषे हेतोर्दुष्टत्वमङ्गोकुर्वन्तस्तत्साधारण्याय लक्षणमन्यथा व्याचक्षते ये तन्मतमुपन्यस्य दूषयति यत्त्विति । "ज्ञानस्येति" षष्ठयन्तार्थस्य यत्पदार्थेऽन्वयः, तथा च ज्ञानसम्बन्धित्वविशिष्टं यद्रूपावच्छिन्नं यत्किञ्चित्सम्बन्धेन अनुमितिप्रतिबन्धकतावच्छेदकमित्यर्थः । अत्राप्यवच्छेदकत्वं अनितिरिक्तवृत्तित्वम् , उक्तयुक्तः । ® चन्द्रकला दशाविशेषे = भ्रमदशायाम् । हेतोः = निरुक्तशब्दत्वादिहेतोः। अन्यत् सुगमम् । उपदर्शितेति । शब्दोऽनित्यः शब्दत्वात् इत्यादिस्थले दशाविशेषे == सर्वसाध्यवयावृत्तत्वरूपाऽसाधारण्यभ्रमदशायाम् , शब्दादौ पक्षे नित्यत्वव्याप्यासमवेतद्रव्यत्वभ्रमदशायाश्च । हेतोः = शब्दत्वादेः । तत्साधारण्याय - निरुक्तशब्दत्वादिसधेतुसाधारण्याय। लक्षणार्थमाह तथाचेति । ज्ञानेति निश्चयेत्यर्थकम् , तेन न दोषादिविषयक. संशयादिकमादायासम्भव इति ध्येयम् । तथा च यकिञ्चित्सम्बन्धेन निश्चयसम्बन्धि सदेव यदपावच्छिन्नम् प्रकृतानुमितिप्रतिबन्धकतावच्छेदकं भवति तद्रूपावच्छिन्नवत्त्वं हेतौ दुष्टत्वमिति फलितम् । हृदो वनिमान् धूमादित्यादौ प्रमात्मकघन्यभाववहृदनिश्चये विषयितासम्बन्धेन वहन्यभाववढ्दादेः सत्त्वेनैव तस्य ह्रदर्मिकवहन्याद्यनुमितिप्रतिबन्धकता. वच्छेदकतया तद्वत्त्वमादाय धूमादेर्दुष्टत्वमेवमन्यत्रापीति भावः । उक्तयुक्तरिति । हृो वह्निमानित्यादौ वन्यभाववढ्दनिश्चयनिष्ठायां विषयितासम्बन्धेन वन्यभावादेरपि प्रतिबन्धकतायामवच्छेदकत्वात् बाधाये देशकेवलवहन्यभावादिमत्त्वमादाय धूमस्य दुष्टत्वापत्तिः स्यादतोऽत्र प्रतिबन्धकतावच्छेदकत्वमनतिरिक्तवृत्तित्वरूपं वक्तव्यम् , तथा सति केवलवन्यभावादेविषयितासम्बन्धेन "Aho Shrutgyanam" Page #285 -------------------------------------------------------------------------- ________________ चन्द्रकला-कलाविलासाख्यटीकाद्वयोपेतम् २६६ • दीधितिः - तच्च द्विविधम् , विषयरूपं साधारण्यादि, __ * गादाधरी * तत्पदमुभयत्र तद्रूपविशिष्टपरम् । लक्षणार्थ = व्युत्क्रमेण लक्षणयोरर्थः । नन्वेतातैव कथं दर्शितसत्प्रतिपक्षादौ लक्षणसमन्वयः, तत्र प्रतिबन्धकतावच्छेदकीभूतविशिष्टविषयकत्वस्याप्रसिद्धः, कथं वा व्यभिचारादिकमादाय सव्यभिचारादावेव लक्षणगमनं व्यभिचारादिविषयकत्वस्यैवप्रतिबन्धकतावच्छेदकतया व्यभिचारदेरतथात्वादित्यत आह तच्चेति । ताशप्रतिवन्धकतावच्छेदकचेत्यर्थः। * चन्द्रकला * वह्नयभाव इत्याकारकनिश्चयेऽपि वर्तमानतया तत्रानुमितिप्रतिबन्धकताविरहेण वढ्यभावदेविषयितासम्बन्धेन प्रतिबन्धकतातिरिक्तवृत्तित्वान्न तमादाय धूमस्य दुष्टत्वं सम्भवतीत्यभिप्रायः । यत्पदस्य यद्पावच्छिन्नपरत्वे अग्रिमतत्पदस्यापि तद्रूपावच्छिन्नपरताया अावश्यकत्वादाह तत्पदमिति । तद्वत्वमित्यत्र तत्प्रकारकेत्यत्र च. तत्पदमित्यर्थः । यत्पदस्याखण्डयद्व्यक्तिपरत्वे तु बाधायेकदेशकेवलहृदादिमित्वमादाय हेतोदु. ष्टत्वं स्यात् , शुद्धस्य विशिष्टानतिरिक्तत्त्वादिति हृदयम् । व्युत्क्रमेणेति । शब्दोऽनित्यः शब्दत्वादित्यादौ प्रथम द्वितीयलक्षण एव सर्वसाध्यवयावृत्तत्वादावन्याप्तेराशंकिततया तादृशाव्याप्तिवारणार्थ प्रथमं प्रथमलक्षणस्यार्थमनभिधाय व्युत्क्रमेण प्रथम द्वितीयलक्षणस्यार्थो दीधितिकृतामिहितस्ततस्त स्प्रकारकेत्यादिना प्रथमलक्षणस्यार्थ इतितु तत्त्वम् । विषयिताहियत्किञ्चितत्सम्बन्धेन शानसम्बन्धि सत् यद्रूपावच्छिन्नं प्रकृतानुमिति. प्रतिबन्धकतानतिरिक्तवृत्ति तद्रूपावच्छिन्नप्रकारकप्रभाविशेष्यत्वं दुष्टत्वमिति तु प्रथमलक्षणस्यार्थः इत्यवधेयम् । । तच्चेति दीधितिमवतारयति नन्वतेति । तत्र सर्वसाध्यषदव्यावृत्तशब्दस्वादिभ्रमे । सव्यभिचारादौ-धूमसाध्यकवह्नयादौ । अतथात्वादिति । तथाच व्यभिचारविषयकत्वस्य ज्ञाननिष्ठतया हेताक्सत्त्वात व्यभिचारिणि हेतौ लक्षणसमन्वयो न स्यादिति भावः। तादृशेति । ताशप्रतिबन्धकतानतिरिक्तवृत्ति चेत्यर्थः । नतु वैज्ञानिकमिति । बाघस्यले साध्याभावस्य वैज्ञानिकत्वे पर्वतो वह्निमान् धूमादित्यादौ बाधनभमादाय "Aho Shrutgyanam" Page #286 -------------------------------------------------------------------------- ________________ २७० अनुमानगादाधयों सामान्यनिरुक्तिप्रकरणम् * दोधितिःबाधे च प्रमितसाध्याभाववान् पक्षः, तद्विषयकत्वेन ज्ञानस्यानुमितिप्रतिबन्धकत्वात् । अविषयरूपञ्च विरोधिसामग्रीकालीनत्वादिकम् , तद्वत्त्वञ्च ज्ञानस्येव तद्विषयस्य हेतोरपीति । * गादाधरी भ्रमात्मकबाधप्रतिबन्धकतामादायापादितायाः सद्धतोर्दुष्टताया असम्भव स्पष्टीकत्तु माह बाधे चेति । बाधज्ञाननिष्ठप्रतिबन्धकतायाञ्चेत्यर्थः, अवच्छेदक इति शेषः। पक्षस्य वास्तवं साध्याभाववत्त्वं निविशते न तु वैज्ञानिकमिति सूचयितुं प्रमितेति । तद्विषयस्यावच्छेदकत्वे युक्तिमाह तद्विषयकत्वेनेति । तथाच विषयविषयकत्वस्येव विषयस्यापि विषयितया अवच्छेदकत्वमक्षतमिति भावः। विरोधिसामग्रीकालीनत्वादीति । विरोधिकोट्यनुमितिसामग्रीकालीनत्वेन परामशीदेः प्रतिबन्धकत्वमित्यभिमानः, तथाच तदादायैव सत्प्रतिपक्षिते असाधारणे च सद्धेतौ दुष्टत्वमिति भावः। ननु ज्ञाननिष्ठं विरोधिसामग्रीकालीनत्वमादाय कथं हेतोदुष्टत्वं तस्य ज्ञान एव सत्त्वादित्याशङ्का परि हरति तद्वत्त्वेति । तद्विषयस्य हेतोरपीति । तत्कालनिरूपिताघेयतात्मकस्य * चन्द्रकला* हेतोर्दुष्टत्वापत्तिः स्यादतो नत्वित्युक्तमितिध्येयम् । व्यभिचारादेः साध्याभाववत्पक्षादेरपि प्रतिबन्धकतावच्छेदकत्वं व्यवस्थापयितुं भावमाह तथाचेति । विषयितया = विषयितासम्बन्धेन । ___ परामर्शादेरिति । अादिना सर्वसाध्यवद्द्यावृत्तत्वज्ञानपरिग्रहः । नित्यत्वव्याप्यासमवेतद्रव्यत्ववान् शब्द इत्याकारकनिधयादेरित्यर्थः । तदादायैव = विरोधिकोट्यनुमितिसामग्रीकालीनत्वमादायव । सद्धेतौ = अनित्यत्वसाध्य कशब्दत्वादौ । दशाविशेषे = असाधारण्यादिभ्रमकाले। ज्ञाननिष्ठेति परामर्यादिनिष्ठेत्यर्थकम् । हेतोः= तादृशशब्दत्वादेः। तस्य = विरोधिकोट्यनुमितिसामग्रीकालीनत्वस्व । ननु तादृशसामग्रीकालीनत्वं ताशसामग्रोकालनिरूपिताधेयत्वं तच्चाधेयव्यक्तिभेदात् भिन्नमेव, तथाच परामशरूपज्ञाननिष्ठाधेयतायाः परामर्श एवं विद्यमानतया कथं तादृशकालीनत्वमादाय शब्दनादावसाधारणे लक्षणसमन्वयः ? परामर्शनिष्ठस्य तादृशसामग्रीकालीनत्वरूपतत्कालनिरूपिताधेयत्वस्य शब्दत्वादौ विरहादित्यत आह तत्कालेति : ताहशसामग्रीकालेत्यर्थकम् । "Aho Shrutgyanam" Page #287 -------------------------------------------------------------------------- ________________ २७१ चन्द्रकला-कलाविलासाख्यटोकाद्वयोपैतम् २७१ * दीधितिः - तन्न, तद्वत्त्वं हि हेतो भेदेन, बाधे तदभावात् । अत एव नाश्रयतया, ___ * गादाधरी * तत्कालीनत्वस्याधेयभेदेन भेदानभ्युपगमात् , अभ्युपगमे वा आधेयतासम्बन्धेन तत्कालस्यावच्छेदकतया तमादायैव लक्षणसमन्वयादिति भावः । नाभेदेनेति । विवक्षितुं शक्यमिति शेषः । साध्याभावववृत्तित्वादिविशिष्टसाधनरूपदोषस्याभेदसम्बन्धेन हेतौ सत्वात्तेन सम्बन्धेन तद्वत्त्वविवक्षायां न व्यभिचारादावप्रसक्तिरतः बाधे तदभावादितिः वह्नयभाववदुहृदादिरूपबाधे धूमादिरूपहेत्वमेदासत्वादित्यर्थः तथा च तत्राव्याप्तिरिति भावः अत एवम्बाधेऽव्याप्तेरेव,नाश्रयतया तद्वत्वम् * चन्द्रकला * भेदानभ्युपगमादिति । तथा च परामर्शरूपज्ञाननिष्ठतादृशसामग्रीकालनिरूपिताधेयतातः शब्दत्वादिनिष्ठतादृशाधेयताया भेदविरहात् तादृशसामग्रीकालनिरूपिताधेयत्वरूपताहशसामग्रोकालीनत्वमादायव शब्दत्वादिसद्धतौ दशाविशेषे लक्षणसमन्वय इति भावः। ननु तत्कालनिरूपिताधेयताया श्राधेयव्यक्तिभेदेन भेदानभ्युपगमे परामर्शादिनिष्ठविरोध्यनुमितिसामग्रोकालोनत्ववत् शब्दत्वमित्यपि प्रमाप्रतीतिः स्यादतोऽवच्छेदकमेदेनाधेयताभेदोऽवश्यं स्वीकरणीय इत्यत आह अभ्युपगमे वेति । तत्कालनिरूपिताधेयत्वस्येत्यादिः। अवच्छेदकतयेति । तथाच प्राधेयतासम्बन्धन विरोधिकोट्यनुमितिसामग्रीकालववेनैव परामदेरनुमितिप्रतिबन्ध कतया तादृशकालस्य चाधेयतासम्बन्धेन परामशं इव शब्दत्वादावप्यक्षतत्वात् तत्र लक्षणसमन्वय इति तु परमार्थः । तमादायैव = तादृशसामग्रीकालमादायैव । लक्षणेति । शब्दत्वादिसद्धतावित्यादिः ज्ञाननिष्ठानुमितिप्रतिबन्धकतावच्छेदकलां यदि हेतावभेदेन तदा धूमवान् वह्नरित्यादौ धूमाभावववृत्तित्वविशिष्टवह्निरूपतादृशप्रतिबन्धकतावच्छेदकव्यभिचाराभेदस्य वह्निरूपहेतौ सत्वेन तत्र लक्षणसमन्वयसम्भवेऽपि हृदो वह्निमान् धूमादित्यादौ बाधिते धूमादिहेतावव्यातिः, वह्नयभावविशिष्टहदरूपबाधाभेदस्य धूमादौ विरहात् । निरुक्तबाधितहेतावव्यासिभयेन आश्रयतासम्बन्धेनापि तद्वत्वं वक्तुमशक्यम् , धढ़यभावविशिष्टहृदाश्रयताया धूमेऽभावादित्याह साध्याभावेति । ननु समूहालम्बनेकज्ञानविषयत्वसम्बन्धेन वह्नयभावविशिष्टहृदाश्रयताया धूमे "Aho Shrutgyanam" Page #288 -------------------------------------------------------------------------- ________________ अनुमानगादाधर्या सामान्यनिरुक्तिप्रकरणम् ® दीधितिः वह्निव्यभिचारिद्रव्यत्वादिमति धूमेऽतिप्रसङ्गाच्च, साध्याभाववत्पक्षस्येव साध्याभावववृत्तिहेतोऑनस्य प्रतिबन्ध गादाधरी विविक्षाहमिति शेषः।धूमादेवहयभाववद्हादाद्यनाश्रयतया एकज्ञानविषयत्वादिरूपसम्बन्धस्य आधारत्वानिर्वाहकत्वादिति मावः। अव्याप्तिमुक्त्वा अतिव्याप्तिमप्याह वह्निव्यभिचारीति । ननु हेतुनिष्ठसाध्यभावववृत्तित्वा. दिरूपविषय एव प्रतिवन्धकतावच्छेदको न तु तद्विशिष्टद्रव्यत्वादिः तदाश्रयश्च न धूमादिरित्याशङ्का निराकरोति साध्याभाववदिति । साध्याभावववृत्तिहेतोनिस्येति = तादृशहेतुविषयकज्ञानस्येत्यर्थः। तथा च वयभावववृत्तिद्रव्यत्वादिकमपि विषयतया अवच्छेदकमिति भावः। ननु धूमादेस्ताहशधर्मवत्त्वेऽपि वह्नौ साध्ये धूमो दुष्ट इत्यादिव्यवहारस्य नापत्तिसम्भवः, उक्तयुक्त्या तद्धतुकानुमितिविरोधिरूपवत्त्वस्यैव तत्र दुष्टताव्यवहारनियामकत्वात् , अन्यथा तवाप्यप्रतीकारा चन्द्रकला सत्त्वात् कयमाश्रयत्वसम्बन्धेन तद्वत्वोक्तो बाधितहेतावव्याप्तिरित्यत आह एकशाने. ति । समूहालम्बनवाधबाधितविषयकैकज्ञानेत्यर्थकम् । आधारत्वेति । तादृशैकज्ञानविषयत्वस्य वृत्त्यनियामकतया तेन सम्बन्धेनाश्रयस्वस्यैवाप्रसिद्धिरिति हृदयम् ।। अव्याप्तिमिति । श्राश्रयतयेत्यादिः । अतिव्याप्तिमप्याहेति। वह्निमान् द्रव्यत्वादित्यादौ वयभाववद्वृत्तित्वविशिष्टद्रव्यत्वरूपव्यभिचारस्य श्राश्रयतासम्बन्धेन वह्निसाध्यकधूमादावपि सत्त्वेन तत्र सद्धतावतिव्याप्तिमध्याहेत्यर्थः । ___ तदाश्रयः = केवलवढयभावववृत्तित्वस्याश्रयः । न धूमादिरिति । तथाच कथं धूमादिसद्धेतावतिव्याप्तिरिति भावः । विषययेति । विषयितासम्बन्धेन ज्ञाननिष्ठं सदेव तादृशद्रव्यत्वं प्रतिबन्धकतावच्छेदकमेवेत्यर्थः। तद्धेतुकेति । वह्रिसाध्यकधूमादिहेतुकानुमितिप्रतिबन्धकतावच्छेदकताशरूपवत्त्वस्यैवेत्यर्थः। वह्निमान् धूमादित्यादौ च ताशरूपमेवाप्रसिद्धमित्याशयः। अन्यथेति । तद्धतुकानुमितिविरोधिरूपवत्त्वस्य दुष्टताव्यवहारनियाभकत्वानभ्युपगमें इत्यर्थः । तवापि = दोषवत्वं दुष्टत्वमिति वदतोऽपि । अप्रतीकारादिति । "Aho Shrutgyanam" Page #289 -------------------------------------------------------------------------- ________________ चन्द्रकला - कलाविलासाख्य टीकाद्वयोपेतम् * दीधितिः * कत्वात् साधारण्यादि विषयकत्वस्य ज्ञाननिष्ठस्यैव प्रतिबन्धकतावच्छेदकत्वात् । सत्तादिसाध्यके ज्ञाने अतिप्रसङ्गाच्च यथाकथञ्चित् तद्वत्त्वस्य चातिप्रसञ्जकत्वात्, विरोधिसामग्रीसमवहितोऽपि च लिङ्गपरामर्शो * गादाधरी * दित्यतोऽन्यत्रातिप्रसङ्गमाह साधारण्यादिविषयकत्वस्येति । ज्ञाननिष्ठस्य ज्ञानवृत्तित्वविशिष्टस्य । सत्तादीति । सत्तावान् ज्ञानादित्यादौ ज्ञानहेतुकसत्ताद्यनुमितिप्रतिबन्धकतावच्छेदकं ज्ञानांशे सत्ताद्यभाववद्वृत्तित्वावगाहित्वमादाय सत्वे साध्ये ज्ञानं दुष्टमित्यादिव्यवहारापत्तेरित्यर्थः । येन केनापि सम्बन्धेन तद्वत्त्वं विवक्षणीयमित्यपि दूषयति यथाकथविदिति । अतिप्रसञ्जकत्वादिति । उक्तधर्ममादाय सत्तादिसाध्यकज्ञाने धूमाद्यंशे यद्वहयभावववृत्तित्वावगाहित्वम्, एकज्ञानविषयत्वादिसम्बन्धेन तद्ववमादाय वह्रयादिसाध्यकधूमादावपि दुष्टत्वव्यवहारापत्त रित्यर्थः । सत्प्रतिपक्षस्थले विरोधि सामग्री समकालीनत्वेन प्रतिबन्धकतामादाय यल्लक्षणसमुपपादितं तद् दूषयति विरोधिसामग्रीति । * चन्द्रकला * २७३ = वह्न्यभाववद्वृत्तिस्वविशिष्टद्रव्यत्वरूपव्यभिचारदोषवत्त्वस्य श्राश्रयतया एकज्ञानविषयतथा वा धूमादौ सत्त्वात् वह्निसाघने घूमो दुष्ट इतिव्यवहारापत्तेरशक्यवारयत्वादित्यर्थः । सत्तासाध्यकज्ञानरूपसद्धेतावतिव्यातिमुपपादयति ज्ञानांशे इत्यादि । ज्ञानं दुष्टमिति । ज्ञानहेतुकानुमितिप्रतिबन्धकतावच्छेदकं यत् ज्ञाननिष्ठं सत्ताऽभाववट्टत्तित्वविषयकत्वं तस्य ज्ञान एवानपायादिति भावः । तद्वत्त्वम् = तादृशानुमितिप्रतिबन्धकतावच्छेदकवत्वम् । उक्तधर्मेति । ज्ञाननिष्ठसत्ताभाववद्वृत्तित्व विषयकत्वरूपधर्ममादायेत्यर्थः । दुष्टत्वव्यवहारापत्तेरिति । वह्नयभाववद्वृत्तित्वं धूमश्चेत्याकारकैक समूहालम्बनविषयताया धूमे सत्वात् तेन सम्बन्धेन धूमाद्यंशे वहयभाववद्वृत्तित्वावात्वस्यापि धूमे वर्त्तमानत्वादित्याशयः । " Aho Shrutgyanam" विरोधिकोट्यनुमितिसामग्रीकालीनत्वेन परामर्शादेः प्रतिबन्धकतानिराकरणपरं स्वसाध्येति दीधितिग्रन्थं व्याचष्टे स्वजन्येति । तादृशसामग्रीकालीनपरामर्शजन्यैत्यथकम् । एकस्मिन्नेव परामर्शे स्वसाध्यानुमितिकारणत्वं तत्प्रतिबन्धकत्वञ्च Page #290 -------------------------------------------------------------------------- ________________ अनुमानगादाधर्या सामान्यनिरुक्तिप्रकरणम् ● दीधितिः ● न स्वसाध्यकानुमितेः प्रतिबन्धको मणिसमवहितो वह्निरिव दाहस्य । * गादाधरी न स्वसाध्यकानुमितेः प्रतिबन्धक इति = न स्वजन्यानुमितिप्रतिबन्धक इत्यर्थः । कारणत्वप्रतिबन्धकत्वयो रेकत्रानभ्युपगमादिति हृदयम् । विभिन्नरूपेण तदुभयस्यैकत्रोपगमे प्रतिबन्धिसूचनायाह मणीति । न प्रतिबन्धक इत्यनुषज्यते । तथाच विरोधि कोट्यनुमितिसामग्रीकालीनत्वेन परामर्शस्य स्वसाध्य कानुमितिप्रतिवन्धकत्वे मणिसमवहितत्वेन वह्नपादीनामपि दाहप्रतिबन्धकत्वापत्तिः । मणिसमवहितत्वापेक्षया लाघवेन मणित्वेनैत्र प्रतिबन्धकता कल्प्यते इति चेत्, तर्हि विरोधिसामग्रीकालीनत्वापेक्षया लाघवात् तादृशसामग्रीत्वेन विरोधिपरामर्शत्वेनैव वा प्रतिबन्धकत्वं प्रकृतेऽपि कल्पयितुमुचितमिति कथं विरोधिसामग्रीकालीनत्वमादाय लक्षणं सङ्गमनीयं तस्य प्रतिबन्धकतातिरिक्तवृत्तित्वा दिति भावः । २७४ * चन्द्रकला * सर्वानुभवविरुद्धमित्याह कारणत्वेति । एकत्र तयोः समावेशाभ्युपगमे तु सुन्दोपसुन्दन्यायेन परस्परं व्याहन्येतेति भावः । नन्वेकरूपेण कारणत्वप्रतिबन्धकत्वयो रेवानभ्युपगमः परामर्शत्वेन स्वसाध्यानुमितिकारणतायाः विरोधिकोट्यनुमितिसामग्रीकालीनत्वेन तु तादृशानुमिति - प्रतिबन्धकतायास्तत्राभ्युपगमे न कोऽपि दोष इत्येवम् श्राशंक्य मणीत्यादिदीषितिग्रन्थमवतारयति विभिन्नेति । परामर्शत्वेन कारणतायाः विरोधिसामग्रीकालीनत्वेन तत्रैव परामर्श प्रतिबन्धकतायाः स्वीकारे दोषमाह तथाचेति । विभिन्नरूपेण कारणत्वप्रतिबन्धकत्वयोरभ्युपगमे चेत्यर्थः । दाहप्रतिबन्धकत्वापत्तिरिति । तथाच वह्नित्वेन दाहकारणत्वं मणिसमवहितत्वेन च वह्नौ दाहप्रतिबन्धकत्वं यथा न स्वीकरणीयं तथा विरोधिसामग्रीकालीनत्वेनापि स्वसाध्यानुमितिजनकीभूतस्य परामर्शस्य तादृशानुमितिप्रतिबन्धकत्वं न कल्पयितुं शक्यमिति भावः । ननु मणित्वापेक्षया मणिसमवहितत्वस्य गुरुतयैव न दाहप्रतिबन्धकतावच्छेदकत्वं युक्तमित्याशंकां निराकरोति इति चेदिति । लाघवं प्रदर्शयति । तादृशसामग्रीत्वेनेति । विरोधिकोट्यनुमितिसामग्रीत्वे नेलार्थः । इति तु मिश्रमतम् । दीषितिकारमतमाह विरोधीति । तस्य = विरोधिसामग्रीकालीनत्वस्य । तथाच "Aho Shrutgyanam" Page #291 -------------------------------------------------------------------------- ________________ चन्द्रकला कलाविलासाल्यटीकायोपेतम् * दीधितिः अथ यद्धर्म्मविशिष्टज्ञाने सत्यवश्यमनुमितिप्रतिबन्धः तदेवात्र प्रतिबन्धकतावच्छेदकमुक्तम् भवति च प्रतिबन्धकीभूतविरोधिसाम , * गादाधरी * २७५ कानुत्पत्तिव्याप्यतावच्छेदकत्वरूपम् प्रतिबन्धकतावच्छेदकत्वमेवात्र विवक्षितं न तु कारणीभूताभावप्रतियोगितावच्छेदकत्वरूपम्, तच्च विरोधि - सामग्रीकालीनत्वेऽप्यक्षतमेवेत्याह अथेत्यादिना । यद्धर्मेति = यादृशधर्मविशिष्टनिश्चयाव्यवहितोत्तरक्षणत्वव्यापकोऽनुमित्यनुत्पादस्ता दृशरूप परमेवेत्यर्थः । निश्चयत्वनिवेशात् बाधादिविषयक संशयसंस्काराव्यवहितोत्तरक्षणे कदाचिदनुमित्युत्पादेऽपि न क्षतिः । अत्र = एतल्लक्षणे, प्रतिबन्धकता - वच्छेदकमुक्तम् = प्रतिबन्धकतावच्छेदकपदेन विवक्षितम् । भवति चेति | विरोधिकोट्यनुमितिसामग्य्याः प्रतिबन्धकत्वकथनं प्रतिबन्धकसमवहिता * चन्द्रकला विरोधिसामग्रीकालीनत्वस्य प्रकृतानुमितिप्रतिबन्धकतातिरिक्तवृत्तित्वं सुतरामेव निर्विवाद मित्यसाधारणादौ दश विशेषेऽपि भवन्मते लक्षणसमन्वयो न सम्भवतीति हृदयम् । विरोधिकोट्यनुमितिसामग्री कालीनत्वविशिष्टपरामर्शादेरवश्यं स्वसाध्यानुमितिप्रतिबन्धकत्वं वक्तव्यम्, तादृशविशिष्टपरामर्शसत्त्वे तादृशानुमितेरनुदयात् याहशधर्मविशिष्टनिश्वयाव्यवहितोत्तरक्षणत्वावच्छेदेनानुमित्यनुत्पत्तिस्तादृशधर्मस्वापि प्रति• बन्धकतावच्छेदकत्वात् । नचैवं मणिसमवहितत्वेनापि वहयादेः दाहप्रतिबन्धकत्वापत्तिरिति वाच्यम्, इष्टत्वादित्याशयवतां दीधितिकृताम् अथेत्यादिशंकाग्रन्थं व्याख्यातुमुपक्रमते कार्येति । तच्च = कार्यानुत्पादव्याप्यतावच्छेदकत्वञ्च । यादृशेति । तथाचैतन्मते हृदो वह्निमानित्याद्यनुमितिप्रतिबन्धकतावच्छेदकत्वं वह्न्यभावविशिष्टहृदादेरेव विषयितासम्बन्धेन तद्विशिष्टनिश्चयाव्यवहितोत्तरक्षणत्व व्यापकतायास्तादृशानुमित्यनुत्पादे - क्षतत्वात् । . एवञ्च वह्नयभावविशिष्टहदादिकमादायैव तादृशस्थले हेतोर्दुष्टत्वमित्याशयः । निश्चयपदव्यावृत्तिमाह निश्चयत्वेति । नक्षतिः न सम्भवः । व्यापकत्वनिवेशात् पर्वतो वह्निमान् धूमादित्यादौ न पूर्वोक्तयुक्त्वा पाषाणमयत्ववत्सर्वतादिकमादाय धूमस्य दुष्टत्वापत्तिरितिध्येयम् । विरोधिकोट्यनुमितिसामग्रीकालीनत्वस्य दोघितिकृदुक्तं व्यवस्थापयति विरोधीति ! "Aho Shrutgyanam" यथोक्तप्रतिबन्धकतावच्छेदकत्वं Page #292 -------------------------------------------------------------------------- ________________ अनुमानगादाधयां सामान्यनिरुक्तिप्रकरणम् • दीधितिःप्रीकालीनत्वादिविशिष्टपरामर्श तथा इति चेत् ? न वा कालादिसाधारणकारणघटिता सामग्री क्वापि प्रतिबन्धिका, विशेषतस्तत्र तत्सत्त्वे कार्योत्पादस्य दुरित्वात् , किन्तु विरोधिपरामर्शस्तथा । •गादाधरीव्यवहितोत्तरक्षणे कार्यानुत्पादस्यावश्यकतया विरोधिसामग्रीकालीनत्वस्य निरुक्तप्रतिबन्धकतावच्छेदकताया आवश्यकत्वदर्शनाय । तथा-- अवश्यमनुमित्यनुत्पादः। विरोधिसामग्याः प्रतिबन्धकत्वं यदुक्तं तदेवादी दूषयति नवेति । नहीत्यर्थः । कालादीति । घटितान्तं हेतुगर्भविशेषणम् , तथा च कारणसमुदायः सामग्री, सा च कचिदपि न प्रतिबन्धिका, कालादिसाधारणकारणानामपि तदन्तर्निविष्टत्वात् , तेषाश्च प्रतिबन्धकतावच्छेदककोटौ निवेशस्य निष्फलत्वात्, प्रतिवध्यकार्येऽपि तेषामनुगुणत्वादित्यर्थः। सत्प्रतिपक्षस्थले विरोधिकोट्यनुमितिसामग्यास्तकोट्यनुमितिप्रतिबन्धकत्वमत्यन्तासम्भवदुक्तिकमेव, तत्र फलानुत्पादेन सामग्या एवासस्वादित्याह विशेषत इत्यादिना । तत्र-सत्प्रतिपक्षस्थले, सामग्री न प्रतिबन्धिकेत्यनुषज्यते । कार्योत्पादस्य दुर्वारत्वात्-सामग्प्याः काय्यनियतत्वादिति भावः। ननु तर्हि तत्र परामर्शादिरूपानुमितिहेतुसत्त्वादनुमितिः कथं नोत्पद्यत इत्यत आह किन्विति । विरोधिपरामर्शः= साध्याभावव्याप्यवत्तानिश्चयः, तथा = अनुमितिप्रतिबन्धकः। * चन्द्रकला. अावश्यकत्वदर्शनाय -अवश्यं तत्र प्रतिबन्धकतावच्छेदकत्वमस्तीति प्रदशनाय । तयाच ताहशसामग्रीकालीनत्वमादायव दशाविशेषे सद्धती लक्षणं संगमनीयमिति हृदयम् । हेतुगर्भेति । यतः कालादीनां न प्रतिबन्धकत्वमत एवेत्यर्थकम् । कालादिसाधारणकारणघटिततादृशसामग्रीकालीनत्वस्य प्रतिबन्धकतावच्छेदकत्वं निराकरोति तथाचेति । तेषाम् = कालादीनाम् । तेषामनुगुणत्वात् = कालादीनामनुमित्यादिकार्यप्रयोजकत्वात् । तत्र = सत्प्रतिपक्षस्थले । फलानुत्पादेन = विरोधिकोट्यनुमित्यनुदयेन । सामग्रयाः कार्यनियतत्वादिति । तथाच तादृशसामग्रीसत्त्वे सत्पतिपक्षितत्वमेव हेतौ दुलभमिति भावः । तत्र - सत्प्रतिपक्षस्थले । अनुमितिप्रतिबन्धक इति । तद्वत्ताबुद्धौ तदभावनिश्चयस्येव तदभावव्याप्यनिश्चयस्यापि प्रतिबन्धकतया सत्प्रतिपक्षतादशायाम् उभयपरामर्शस्यैव परस्परानुमितिप्रतिबन्धनिर्वाह "Aho Shrutgyanam" Page #293 -------------------------------------------------------------------------- ________________ चन्द्रकला-कलाविलासाख्यटीकाद्वयोपैतम् २७७ * दीधितिः * यदि च तत्सत्त्वेऽपि तत्साध्ये बाधावतारे नानु मितिप्रतिबन्धः प्रामाणिकस्तदा अप्रामाण्यग्रहाभावस्येव तदभावस्यापि वैशिष्ट्यन्तन निवेश्यताम् , ® गादाधरी ननु यत्र वह्नयभावव्याप्यवत्तापरामर्शः वह्नयभावाभाववान् पक्ष इति बाधनिश्चयश्च वर्त्तते तत्र वह्निव्याप्यवत्ताज्ञानेन वह्नयनुमितिजन्यत इत्यनुभवसिद्धम् , विरोधिपरामर्शमात्रस्य प्रतिबन्धकत्वे च तन्नोपपद्यते इत्यत आह यदि वेति । तत्सत्त्वेऽपि = विरोधिपरामर्शसत्त्वेऽपि, तत्साध्ये बाधावतारे = तादृशपरामर्शानुमेयविरोधिकोटेः पक्षेऽभावनिश्चयदशायाम् , नानुमितिप्रतिबन्धः=न प्रकृतसाध्यानुमित्यनुत्पादः । अप्रामाण्यग्रहाभावस्ये. त्यनन्तरं वैशिष्ट्यमित्यनुषज्यते । तदभावस्य = विरोधिकोटिविरहनिश्चयाभावस्य, तत्र-विरोधिपरामर्शप्रतिबन्धकतावच्छेदकगर्भे । निवेश्यतामिति । अत्र विपरीतकोटिव्याप्यवत्तापरामर्शदशायां तत्कोटिविरहनिश्चयसत्त्वे तत्परामर्श भ्रमत्वग्रहानन्तरमेवानुमितिनं त्वन्यथेति भ्रमत्वग्रहाभाववैशिष्ट्यनिवेशेनैवोपपत्तौ तादृशबाधग्रहाभाववैशिष्ट्यनिवेशो व्यर्थ इत्यनिर्भरसूचनाय यदि चेत्युक्तम् । ॐ चन्द्रकला 8 इत्यभिप्रायः। किन्वित्यादिदीधितिमवतारयति नन्विति । यत्र = यादृशस्थले। अनुभवसिद्धमिति । वढयभावव्याप्यवत्तापरामर्शस्य स्वसाध्यवाधेन हीनबलत्वादिति तात्पर्यम् । वढयभावव्याप्यवान् वहिव्याप्याश्च पर्वत इत्याकारकपरामर्शद्वयकाले वह्नयभावाभाववानिति वह्नयभाववाधनिश्चयसत्वेऽपि वह्नयनुमित्युत्पादस्य सविवादतवा दीधितौ यदिचेत्युक्तमित्यवधेयम् । पक्षे = पर्वतादौ । अभावेति । वहृयाद्यभावाभावनिश्चय इत्यर्थः। परामर्शप्रतिबन्धकतावच्छेदकगर्भ इति । अप्रामाण्यज्ञानाभावविशिष्टतदभावव्याप्यवत्तानिश्चयस्य यथा तत्प्रकारकबुद्धिप्रतिबन्धकत्वं तथा स्वसाध्यवाधनिश्चयाभावविशिष्टस्यापि तस्य तत्प्रतिबन्धकत्वं कल्पनीयमिति तादृशवाधनिश्चयाभावस्यापि प्रतिबन्धकतावच्छेदकत्वमावश्यकमित्यर्थः । यदीत्याद्यभिधानप्रयोजनमाह अत्रेति । दीधितिग्रन्थे इत्यर्थः। विपरीतेति। वहयाद्यभावव्याप्यवत्तापरामर्शदशायामित्यर्थः। तत्कोटोति । वह्वयाद्यभावाभावनिश्चयसत्त्वे इत्यर्थः। तत्परामर्श इति । वहयाद्य. "Aho Shrutgyanam" Page #294 -------------------------------------------------------------------------- ________________ २७८ अनुमानगादाधयों सामान्यनिरुक्तिप्रकरणम् * दीधितिःयथा च भ्रमप्रमासाधारणविरोधिपरामर्शसत्वे नानुमितिस्तथा तथाविधवाधादिग्रहपीत्यतिप्रसङ्गः । न चातीतादौ लिङ्गे विरोधिपरामर्शकालीनत्वमपि। गादाधरी अप्रामाण्यग्रहाभाववैशिष्ट्यस्य दृष्टान्तविधया प्रतिबन्धकतावच्छेदकत्वश्च दर्शितम् । नन्वस्तु विरोधिपरामर्शमात्रं प्रतिबन्धकं तथापि तद्धटितविरोधिसामग्रीकालीनज्ञानस्य फलानुत्पादनियतत्वात्तादृशसामग्रीकालीनत्वस्य निरुक्तप्रतिबन्धकतावच्छेदकत्वं दुरपह्नवमेव, एवंविरोधितथाविधपरामर्शकालीनत्वमादायापि दशाविशेषे सत्प्रतिपक्षितस्य हेतोर्दुष्टत्वमुपपद्यत एवेत्यतो विरोधिपरामर्शकालीनत्वसमशीलबाधादिभ्रमकालीनत्वमादाय सद्धतावतिप्रसङ्गमाह यथाचेति । तथाविधेति=विरोधिभ्रमप्रमासाधारणेत्यर्थः । अपीत्यनन्तरं नानुमितिरित्यनुषज्यते, तथाच वाशबाधादिकालीनत्वमपि निरुक्तप्रतिबन्धकतावच्छेदकत्ववद्भवत्येवेत्यतोऽतिप्रसङ्ग इति । बाधादेरनित्यदोषतायाः केनाप्यनुपगमे न इष्टापत्त्यनवकाशादिति भावः । विरोधिपरामर्शकालीनत्वमादाय सर्वत्र सत्प्रतिपक्षिते दुष्टत्वं नोपपादयितुं शक्यत इत्याह न चेति । नहीत्यर्थः। अतीतादाविति । तथाचाती * चन्द्रकला - भावव्याप्यवत्तापरामर्श अप्रामाण्यग्रहानन्तरमेव वहयाद्यनुमितिरित्यर्थः । दृष्टान्तविधयेति । अप्रामाण्यग्रहाभावस्य प्रतिबन्धकतावच्छेदकत्वं सर्ववादिसिद्धमित्याशयः । फलानुत्पादनियतत्वात् = फलानुत्पत्तिव्याप्यत्वात् । सद्धतावतिप्रसंगमाहेति । भ्रमप्रमासाधारणविरोधिकोटिपरामर्शघटितसामग्रीकालोनत्वेन परामर्शस्य स्वसाध्यानुमितिप्रतिबन्धकस्वाभ्युपगमे पर्वतो पह्निमान् धूमादित्यादावपि धूमस्य दुष्टस्वापत्तिः, तुल्ययुक्त्वा वह्नयभाववत्पर्वतरूपवाघभ्रमकालोनत्वेनापि वहिव्याप्यवत्तापरामर्शस्य वह्नयाद्यनुमितिप्रतिबन्धकताया आवश्यकतया ताहशभ्रमकालीनत्वस्य धूमादिनिष्ठत्वे वाधकाभाषादित्यभिप्रायः । "Aho Shrutgyanam" Page #295 -------------------------------------------------------------------------- ________________ चन्द्रकला-कलाविलासाख्यटीकाद्वयोपेतम् २७९ * दीधितिः * यदपि यद्विषयकत्वेन ज्ञानस्य अनुमितिप्रतिबन्धकत्वं तद्वत्त्वमेव दुष्टत्वं वाच्यम् , सत्प्रतिपक्षे च विरोधिव्याप्त्यादिकमेव तथा, गादाधरी तादिसद्ध तौ विरोधिपरामर्शदशायां भवन्मतसिद्धं सत्प्रतिपक्षितत्वं नोपपद्यत इति भावः । __ सत्प्रतिपक्षिते सद्धेतौ विरोधिव्याप्यवत्पक्षस्याप्रसिद्धावपि प्रतिबन्धकीभूतभ्रमविपयप्रसिद्धविरोधिव्याप्त्यादिरेव दोष इति मतं दूषयति यदपोति । यद्विषयकत्वेनेति तृतीयार्थः स्वरूपसम्बन्धरूपावच्छेदकरवं न स्वनतिरिक्तवृत्तित्वम्, तथासति विरोधिव्याप्त्यादेर्दोषत्वानुपपत्तः । प्रतिबन्धकतायां ज्ञाननिष्ठत्वविशेषणं कामिनीजिज्ञासादिनिष्ठप्रतिबन्ध. कतावच्छेदकधर्मेऽतिप्रसङ्गवारणाय । चन्द्रकला मनु वाधादिभ्रमकालीनत्वमादायापि हेतौ दुष्टस्वमिष्टमेवेत्वत प्राह वाधादे. रिति । नोपपद्यत इति । अतीतादिसद्धतौ विरोधिकोट्यनुमितिसामग्रीकालीनत्वस्य विरहात् हेतोरेवातीतत्वादिति भावः । सद्धतौ- तादृशशब्दत्वादौ । विरोधीति नित्यत्वव्याप्यासमवेतद्रव्यत्वादिमछब्दस्याऽप्रसिद्धावपीत्ययः । दोषत्वानुपपत्तरिति । विरोधिव्याप्तिविषयकत्वस्य हेत्वाद्यविषयकेऽपि ज्ञाने वर्तमानतया तत्राऽनुमितिप्रतिबन्धकत्वविरहेण विरोधिव्यात्यादिविषयकत्वस्यानुमितिप्रतिबन्धकतातिरिक्तवृत्तिस्वात् विरोधिव्याप्त्यादेयंत्पदेनोपादानाऽसम्भवादिति तु तत्त्वम् । विरोधिव्याप्त्यादेवि पक्षधर्मताया अपि अनुमितिप्रतिबन्धकतानिरूपितस्वरूपसम्बन्धरूपावच्छेदकतावत्वात् पक्षधमतापरिग्रहाय व्याप्त्यादिरेवेत्यत्रादिपदम् । एतच्चाने स्फुटीभविष्यति । ननु यद्विषयकत्वेनानुमितिप्रतिबन्धकस्वमित्युक्तावेव सामञ्जस्ये शानस्य इत्यत्र ज्ञानपदं व्यर्थमित्यत अाह ज्ञाननिष्ठत्वेति । निश्चयनिष्ठत्वेत्यर्थकम् । ___ कामिनीज्ञानान्यज्ञानमात्र प्रत्येव कामिनीजिज्ञासायाः प्रतिबन्धकतया ज्ञानपदामुपादाने कामिनीजिज्ञासानिष्ठा या प्रकृतानुमितिप्रतिबन्धकता तदधच्छेदकतायाः फामिनीत्वे कामिनीज्ञानत्वे वा सत्त्वेन तत्र दोषलक्षणस्वातिव्याप्तिः, ताहशधर्मवति च दुष्टलक्षणस्वातिव्यातिरिस्याह कामिनीति । "Aho Shrutgyanam" Page #296 -------------------------------------------------------------------------- ________________ अनुमानगादाधय सामान्यनिरुक्तिप्रकरणम् * दीधितिः * तद्वत्वमपि हेतोस्तज्ज्ञानरूपसम्बन्धेन तस्य समूहालम्बनरूपतया हेतुद्वयविषयकत्वादिति । ༢=。 * गादाधरी ननु विरोधिको टिव्याप्यत्वस्य पर्व्वतो वह्निमान् धूमात् पर्व्वतो न वह्निमान् जलत्वादित्यादौ प्रतिबन्धकीभूतज्ञानविषयसमवायादिसम्बन्धावच्छि पक्षधर्म्मतायाश्च प्रकृते हेतावभावात् कथं तस्य दुष्टत्वमत आह तद्वत्त्वमपीति । विरोधिव्याप्त्यादिमत्वमपीत्यर्थः । तज्ज्ञानरूपेति = स्वविषयकज्ञानविषयतात्मकेत्यर्थः । सम्बन्धविशेषस्याविवक्षितत्वादिति भावः । तादृशसम्बन्धवत्तां प्रकृतहेतावुपपादयति तस्येति । विरोधिव्याप्त्यादिज्ञानस्येत्यर्थः । समूहालम्बनरूपतयेति । न चैवं क्रमिकपरामर्शद्वयस्थले सत्प्रतिपक्षतानुपपत्तिरिति वाच्यम्, * चन्द्रकला * तद्वत्त्वमपीत्या देवतरणमाह नन्विति । तथा च पर्वतो वह्निमान् धूमात् पर्वती वह्न्यभाववान् जलत्वादित्यादौ धूमादेः जलत्वादेश्च सत्प्रतिपचितत्वं न स्यात् श्रनुमितिप्रतिबन्धकतावच्छेदकत्वविरोधिवह्निव्याप्यत्वस्य जलले वह्नयभावव्याप्यत्वस्य च धूमे विरहात्, संयोगसम्बन्धावच्छिन्नपर्वतवृत्तितात्मक पक्षधर्मतायाः समवायसम्बन्धावच्छिन्नपर्वतवृत्तितात्मक पक्षधर्मतायाश्च परस्परानुमितिप्रतिबन्धकतावच्छेदकविषयताश्रवत्वेऽपि तादृशसमवायावच्छिन्नपर्वतवृत्तिताया धूमे तादृशसंयोगावच्छिन्नपर्वतवृत्तितायाश्च जलत्वेऽसत्त्वात् सम्बन्धान्तरावच्छिन्नपर्वतवृत्तितायाश्च परस्परानुमित्यविरोधित्वादित्याशयेन दीधितिकार श्राह तद्वत्त्वमपोतीति भावः । स्वविषयकेति । स्वं विरोधिव्याप्तयादिः तद्विषयकं यत् प्रकृतहेतुविषयकं समूहालम्बनज्ञानं तद्विषयतात्मक सम्बन्धेनेत्यर्थः । सम्बन्धविशेषस्येति । संयोगस्वरूपादेरित्यर्थः । तथाच वह्निव्याप्यधूमवान् वहयभावव्याप्यजलत्ववांश्च पर्वत इत्याकारकसमूहालम्बनविरोधिव्याप्तिविषयक ज्ञानविषयताया घूमे जलवे च सत्त्वेन तादृशविषयतात्मक सम्बन्धेन विरोधिव्याप्तिसम्बन्धिताया धूमे जलवे चानपायातोर्दुष्टत्वं निर्विवादमित्याशयः । ननु यत्र प्रथमं वह्निव्याप्यधूमवान् पर्वत इतिज्ञानं ततो वह्नयभावव्याप्य - "Aho Shrutgyanam" Page #297 -------------------------------------------------------------------------- ________________ चन्द्रकला-कलाविलासाख्य टीकाद्वयोपेतम् * दीधितिः * साध्याभाववत्पक्षविषयकत्वेन साध्या तदपि तुच्छम्, भाववत्पक्षज्ञानप्रमात्वविषयकत्वेन वा ज्ञानस्य प्रतिबन्धकत्वं तस्य च साध्यवत्यपि पक्ष सम्भवादतिव्याप्तेः । २८१ * गादाधरी तत्रापि तादृशव्यापत्यादिप्रकृतहेतुविषयक परमेश्वरज्ञानादिकमादाय तद्वत्तोपपत्तेः । साध्याभाववत् पक्षविषयकत्वेन = साध्याभावप्रकारकपक्षावगाहित्वेन । साध्याभाववत्पक्षज्ञानेति = साध्याभावप्रकारकपक्षज्ञानांशे प्रमात्यविषयकत्वे नेत्यर्थः । मतभेदेन विकल्पः, तस्य = तादृशज्ञानस्य, साध्यवत्यपि पक्षे = पक्षे साध्यवत्यपि सति, पक्षस्य साध्यवत्त्वे सत्यपीति यावत् । पर्व्वतो वह्निमान् धूमादित्यादौ भ्रमात्मकवाघादिज्ञाननिष्ठप्रतिबन्धकतावच्छेदकविषयितानिरूप कवह्नयभावादेः स्वविषयकज्ञानविषयत्वादिसम्बन्धेन वैशिष्ट्यस्य हेतौ सत्त्वादिति भावः । * चन्द्रकला * जलवांश्च पर्वत इतिज्ञानं समूहालम्बनानात्मकमेव जातं तत्र हेतोर्दुष्टता न स्यात् परस्परानुमितिविरोधिव्यासया दिविषयतायाः परस्परहेतावसत्त्वादिति न चैवमित्यादि - नाऽशंक्य समाधत्ते तत्रापीति । क्रमिकपरामर्शद्वयस्थलेऽपीत्यर्थः । 1 तद्वत्त्वोपपत्तेरिति । तादृशक्रमिकपरामर्शस्थले तत्पुरुषस्य विरोधिव्याप्तयादिविषयक समूहालम्बनज्ञानोत्यादेऽपि वह्निव्याप्तिप्रकारकधूमविशेष्य कवहयभावव्याप्तिप्रकारकजलत्वविशेष्य कपरमेश्वरीयविरोधिव्याप्तयादिविषयकज्ञानविषयतायाः प्रकृतहेतुनिष्ठतया तादृश विषयतात्मक सम्बन्धेन विरोधिव्याप्तयादिमत्त्वस्य प्रकृतहेतावनपायान्न क्रमिकपरामर्शस्थलेऽपि सत्प्रतिपक्षतारूपदुष्टत्वानुपपत्तिरित्यभिप्रायः । तदपि तुच्छमित्यादिदीधितिं व्याचष्टे साध्याभावप्रकारेणेति । साध्याभावत्वावच्छिन्नप्रकारताकपक्षविषयताकत्वेनेत्यर्थः । मतभेदेन = मिश्रादिमतभेदेन । तादृशज्ञानस्य = साध्याभाववत्पक्षावगाहिज्ञानस्य । श्रतिव्यातिं संगमयितुं भावमाह पर्वत इति । यद्विषयकत्वं प्रकृतानुमितिप्रतिबन्धकतानिरूपितस्वरूप सम्बन्धरूपावच्छेदकतावत् तद्वत्त्वं दुष्टत्वमित्युक्तौ हृदो वह्निमानित्यादौ वह भावादिविषययितायाः तादृशप्रतिबन्धकतावच्छेदकतया तद्विषयकहेतुविषयक समूहालम्बनज्ञानविषयतात्मकसम्बन्धेन वह्नयाद्यभावादिमत्त्वस्य प्रकृत "Aho Shrutgyanam" Page #298 -------------------------------------------------------------------------- ________________ २८२ अनुमानगादाधों सामान्यनिरुक्तिप्रकरणम् * दीधितिः * विशिष्टविषयकत्वेन प्रतिवन्धकत्वम्, विशिष्टञ्च गादाधरी इदमुपलक्षणम्-वह्निमान धूमादित्यादी विरोधिपरामर्शशून्यकालेऽपि तद्विषयकविरोधिव्याप्त्यादिकमादायापि हेतोदुष्टत्वप्रसङ्गो बोध्यः, तत्रापि पक्षांशे तद्विशिष्टविशेषण कसमूहालम्बनज्ञानसम्बन्धेन हेतौ तद्वैशिष्ट्यसम्भवात् । __ अनतिरिक्तवृत्तित्वरूपमेवावच्छेदकत्वं विवक्षणीयमित्यभिप्रायेण बाधभ्रमप्रतिबन्धकतामादायातिप्रसङ्गाय उद्धारमाशङ्कते विशिष्टेति । साध्या. भावविशिष्टपक्षविषयकत्वमेव प्रतिबन्धकतानतिरिक्तवृत्ति न तु साध्याभावादिमात्रविषयकत्वमित्यर्थः । विशिष्टश्च = साध्याभावविशिष्टपक्षश्च, * चन्द्रकला हेतौ वर्तमानतया तस्य पूर्वोक्तक्रमेण सत्प्रतिपक्षितसद्धेतोरपि दुष्टत्व-सम्भवेऽपि पर्वतो वह्निमान् धूमादित्यादौ धूमेऽतिव्यातिः, पर्वतो वह्नयभाववानित्याकारकभ्रमीयवह्नयभावविषयिताया श्रपि पर्वतधर्मिकवह्नयनुमितिप्रतिबन्धकतावच्छेदकतया तादृशवह्नयभावविषयकधूमविषयकसमूहालम्बनज्ञानविषयतात्मकस्वविषयकज्ञानविषयत्वसम्बन्धेन वह्नयभावादिमत्त्वस्य धूमे सत्त्वादित्यभिप्रायः ।। निरुक्तलक्षणकत नये विरोधिपरामर्शद्वयसंवलनादेव सद्धतौ सत्प्रतिपक्षत्वमिष्टं नतु विरोधिपरामर्शशून्यकाले, तथा सत्यपि विरोधिपरामर्शशून्यकाले तन्मते पर्वतो वह्निमान्धमादित्यादौ धूमादिसद्धतावतिव्यातिः, विरोधिव्याप्तथादिविषयकधूमादिविषयकसमूहालम्बनशानविषयत्वसम्बन्धेन विरोधिव्यातयादिमत्वस्य धूमादौ अक्षतत्वादिस्याह इदमुपलक्षणमिति । तद्विषयकेति धूमादिविषय केत्यर्थकम् । अतिव्याप्तिमुपपादयति तत्रापीति । धूमादिहेतावपीत्यर्थः । तद्वैशिष्ट्यसम्भवात् = विरोधिव्याप्तयादिमत्त्वसम्भवात् ।। __ यादृशधिशिष्टविषयकनिश्चयत्वं प्रकृतानुभितिप्रतिबन्धकतानतिरिक्तवृत्ति तादृशविशिष्टवत्त्वं दुष्टत्वमित्यभिधाने पर्वतो वह्निमान् धमादित्यादौ केवलवह्नय. भावमादाय धूमादेदुष्टत्ववारणसम्भवेऽपि सत्प्रतिपक्षसंवलनदशायां भवन्मतसिद्धस्य सीतोर्तुष्टत्वस्यानुपपत्तिः,विरोधिव्याप्तयादिविषयकत्वस्थ प्रतिबन्धकतातिरिक्तवृत्तित्वात् साध्याभावव्याप्यविशिष्टपक्षस्य चाप्रसिद्धत्वाद् यादृश विशिष्टपदेन तस्योपादानासम्भवादित्याह अनतिरिक्तति । "Aho Shrutgyanam" Page #299 -------------------------------------------------------------------------- ________________ चन्द्रकला-कलाविलासाख्यटीकाद्वयोपेतम् २८३ * दीधितिः * तत्राप्रसिद्ध मिति चेत , तत्किं सर्वत्र सत्प्रतिपक्षे साध्याभावव्याप्यवान्पक्षः प्रसिद्धः । यथाकथश्चित्सम्बन्धेन तद्वत्त्वञ्चातिप्रसक्तं, धूमादेरपि ज्ञानरूपेण तदाश्रयत्वादिना वा सम्बन्धेन व्यभिचारा. दिमत्त्वात् । * गादाधरी तत्र = बाधभ्रमस्थले, सत्प्रतिपक्षस्थले सर्वत्र ताशविशिष्टं प्रसिद्धमित्यभिमानः । भ्रमं निराकरोति तक्किमिति । पक्षावृत्तिसाध्यकसत्प्रतिपक्षे साध्याभावव्याप्यविशिष्टपक्षस्य प्रसिद्धत्वात् सर्वत्रेति । सत्प्रतिपक्षो सत्प्रतिपक्षतया भवन्मतसिद्धे इत्यर्थः । प्रसिद्ध इति । तथाचानतिरिक्तवृत्तित्वरूपमवच्छेदकत्वं विवक्षितुमशक्यमिति दर्शितातिव्याप्तिर्दुबारैवेति भावः । तद्वत्त्वघटकसम्बन्धं वितापि दूषयति यथाकथचिदिति। अतिप्रसक्तम् = सद्धेतुसाधारणम् , तथाच पर्वतादौ वह्नयादिमत्त्वे साध्ये धूमादौ दुष्टताव्यवहारापत्तिरिति भावः। ताहशसम्बन्धस्य धूमादिरूपसद्ध तुसा. धारणत्वं स्फुठयति धूमादेरिति । ज्ञानरूपेण = स्वविषयकज्ञानविषयत्वेन तदाश्रयत्वादिना, आदिना एककालीनत्वादिपरिग्रहः, व्यभिचारादि. मत्त्वात् = वह्नयभावववृत्तित्वसत्त्वात् । ननु यादृशसम्बन्धावच्छिन्नयतप्रकारतानिरूपितधम्मिविशेष्यताशालित्वेन ज्ञानस्य प्रतिबन्धकत्वं तेन सम्बन्धेन तद्वत्त्वमेव दुष्टत्वमिति वा ® चन्द्रकला सर्वत्रेत्यभिधानप्रयोजनमाह पक्षावृत्तीति । हृदादिपक्षकवयादिसाध्यकसत्प्रतिपक्षे इत्यर्थः । सत्प्रतिपक्षितसद्धेतौ दुष्टत्वानुपपत्तिभयेनैवानतिरिक्तवृत्तित्वरूपप्रतिबन्धकताघच्छेदकताया निवेशाऽसम्भवादाह तथाचेनि । दर्शितातिव्याप्तिः = पर्वतो वह्निमान् धमादित्यादौ बाघभ्रमीयकेवलवहथभावादिमत्वमादाय धूमादावतिव्यातिः। दूषयतीति । तद्वस्वघटकसम्बन्धोऽपि वक्तुमशक्य इत्याशयः। यथाकथञ्चित्सम्बन्धेन तद्वत्त्वाभिधाने अतिव्याप्तिमुपपादयति तथाचेति । तथा च स्वविषयज्ञानविषयत्वसम्बन्धेन आश्रयत्वसम्बन्धेन एककालीनत्वसम्बन्धेन वा वह्नयभावववृत्तित्वादेः धमादिसद्धेतौ सत्त्वात् तस्यापि दुष्टत्वं भवन्मते दुरिमितिभावः । वादशसम्बन्धेत्यादिदीधितिमवतारयति नन्विति । तेन सम्बन्धेन = ताहश "Aho Shrutgyanam' Page #300 -------------------------------------------------------------------------- ________________ २८४ अनुमानगादाधयाँ सामान्यनिरुक्तिप्रकरणम् * दीधितिः * यादशसम्बन्धावगाहित्वेन ज्ञानस्य प्रतिबन्धकत्वं तेन तद्वत्त्वञ्च न सर्वत्र सत्प्रतिपक्षिते हेतावस्ति च क्वचित् सद्धताविति कृतं पल्लवितेन । * गादाधरी* च्यम् । एवकच स्वरूपसम्बन्धावच्छिन्नसाध्याभावववृत्तित्वादिप्रकारतानिरूपितहेतुविशेष्यताशालित्वेनैव व्यभिचारादिज्ञानस्य प्रतिबन्धकतया तेन सम्बन्धेन तद्वत्त्वस्य च प्रकृतहेतावभावात् नातिव्याप्तिरित्याशङ्को निराकुरुते यादृशेति । सर्वत्र सत्प्रतिपक्षित इति । ह्रदो वह्निमान् धूमादित्यादिस्थले धूमादिरूपहेतौ व्याप्यताघटकसमवायादिसम्बन्धेन वह्नयभावव्याप्यधूमत्वादिमत्तायाः सत्त्वात् सर्वत्रेत्युक्तम् । क्वचित् सद्ध ताविति । सद्धतुतादशायां क्वचिदित्यर्थः । पर्वतो वह्निमान् धूमादित्यादौ विरोधिपरामर्शासमवधानदशायामपि प्रतिबन्धकतावच्छेदकप्रकारताश्रयवहथभावसव्याप्यादेः तादृशप्रकारतावच्छेदकस्वरूपादिसम्बन्धेन धूमादिवृत्तित्वादिति भावः। यत्तु-ज्ञानसम्बन्धेन तद्वत्त्वमेव दुष्टत्वम् , ज्ञानञ्च विशिष्टव्यवहाराद्य *चन्द्रकला. प्रकारतावच्छेदकस्वरूपसम्बन्धेन । तद्वत्वस्य = वह्नयभाववद्वात्तित्वादिमत्त्वस्य । हेतौ वहिसायकधमादिसद्धती। व्याप्यताघटकेति । हृदो वह्निमान् धूमवत इत्यादौ जलत्वादेः समवायसम्बन्धेन वह्नय भावव्याप्यतया तेन सम्बन्धेन वह्नयभावव्याप्यस्य धूमवत्पर्वतादौ विरहात् तादृशधूमधदादेदुष्टत्वानुपपत्तिरित्यर्थः । सर्वत्रेत्युक्ति समर्थयति ह्रदो वह्निमानिति । ___ क्वचित् सद्धतावप्यतिव्याप्ति योजयति सद्ध तुतादशायामिति । विरोधिपरामशद्वयशून्यतादशायामित्यर्थः । धूमादिवृत्तित्वादिति । तादृशप्रकारतावच्छेदकस्वरूपसम्बन्धेन वढयभावस्म समवायसम्बन्धेन वह्नयभावव्याप्यस्य धूमत्वादेः धूमादी वर्तमानत्वादित्यर्थः । ___ इदमुपलक्षणम् , यत्सम्बन्धावच्छिन्नेत्यादिना दुष्टत्वनिर्वचने धमत्ववान् पर्वतो पह्निमान् धूमादित्यादौ धूमादेर्दुष्टत्वं न स्यात् तादृशप्रकारतावच्छेदकस्वरूपसम्बन्धेन धमत्वाभावस्य धूमेऽसत्त्वादित्यपि द्रष्टव्यम्। प्रकारान्तरानुसरणे तु अन्यत्राप्यव्यासिरतिव्याप्तिर्वा न सम्भवतीति ध्येयम् । कस्यचिन्मतं दूषयितुमपन्यस्यति यत्त्विति । ज्ञानसम्बन्धेन - स्वविषयकज्ञान "Aho Shrutgyanam" Page #301 -------------------------------------------------------------------------- ________________ चन्द्रकला कलाविलासाख्यटीकाद्वयोपेतम् * गादाधरी * नुरोधात् कदाचिदेव क्वचिदेव कस्यचित् सम्बन्धः एवञ्च विरोधिव्याप्त्यादेर्ज्ञानं विरोधिपरामर्शदशायामेव प्रकृतहेतौ तत्सम्बन्धः, तदैव तत्र दुष्टताव्यवहारात्, साध्याभावादेर्ज्ञानन्तु तत्र न कदाचिदपि तथा, पर - मेश्वरादिसाधारणं साध्याभावविशिष्टपक्षादेर्शानन्तु तत्र सर्वदैव इति । तत्त हास्यास्पदमेव सकलाभियुक्त पुरुषसाधारणस्य नियतव्यवहारस्यासिद्धत्वात् वासनाविशेषवतां तादृशव्यवहारस्य विपरीतस्यापि सम्भवात् ज्ञानस्य नियतसम्बन्धत्वासाधकत्वादिति । २८५ * चन्द्रकला वषयतात्मकसम्बन्धेन । तद्वत्त्वम् = तादृशविरोधिव्याप्यादिमत्त्वम् । कस्यचित् सम्बन्ध इति । न तु सर्वदा सर्वस्येति शेषः । तथाच विरोधिपरामर्शशून्यतादशायां न सद्धेतावतिव्याप्तिः, तदानीं तादृशज्ञानविषयत्वादेः सम्बन्धत्वाकल्पनात्, एवं बाघभ्रमस्थलेपीत्याह एवञ्चेति । क्वचिदेव कस्यचित् तादृशज्ञानविषयत्वादेः सम्बन्धता कल्पने चेत्यर्थः । तदैव = विरोधिपरामर्शदशायामेव । ननु बाघस्य नित्यदोषतया कदाचित्तस्य तादृशसम्बन्धत्वमप्रसिद्धमित्यत श्राह साध्येति । तथा = सम्बन्धः । सर्वदैवेति । तथा च बाधस्थले स्वविषयकज्ञानविषयत्वादेः सर्वदैव सम्बन्धता वाच्या, तत्र सर्वदैव हेतोर्दुष्टत्वादिति भावः । यदा यत्र हेतौ यस्य दुष्टताव्यवहारस्तदा तत्रैव ज्ञानस्य तदीयसम्बन्घतेति व्यवहारस्य ज्ञाननिष्ठसम्बन्धतासाधकत्वं ส सम्भवतीत्याशयेन दूषयति हास्यास्पदमेवेति । निरुक्तमतस्य दास्यास्पदत्वे युक्तिमाह सकलेति । सकलमतमतान्तरवादिपुरुपादौ वर्तमानस्येत्यर्थः । नियतेति । ज्ञाननिष्ठसम्बन्धताव्याप्यस्व व्यवहारस्याऽसिद्धत्वादित्यर्थः । वासनेति मिथ्याज्ञानादिजन्य संस्कारवतां पुरुषाणामित्यर्थः । तादृशेति दुष्टेऽप्यदुष्टत्वव्यवहारस्य सम्भवादित्यर्थः । ज्ञानस्येत्यादि । ज्ञाननिष्ठं यत् व्यवहारव्यापकत्वेनाभिमतं सम्बन्धत्वं तत्साधकत्वाभावादित्यर्थः । व्यवहारस्येति शेषः । तथाच मतान्तरवादिनां पुरुषाणामपि नियमेन एक एव व्यवहारो भवतीति न वक्तुं शक्यते, मिथ्याधीजन्य संस्कारवतां दुष्टेऽदुष्टत्वस्य दुष्टे दुष्टत्वस्य व्यवहारदर्शनातू व्यवहारस्य ज्ञाननिष्ठसम्बन्धत्वाव्याप्यत्वात् एवञ्च बाघादिभ्रममादाय सद्धेता "Aho Shrutgyanam" Page #302 -------------------------------------------------------------------------- ________________ २८६ अनुमानगादाघयां सामान्यनिरुक्तिप्रकरणम् * चिन्तामणिःयद्यपि बाधसत्प्रतिपक्षयोः प्रत्यक्षशाब्दज्ञानप्रतिबन्धकत्वान्न लिङ्गामासत्वम्, तथापि ज्ञायमानस्याऽऽभासस्याऽत्र लक्षणम् । * दीधितिः ** यद्यपीति । स्थाणुत्वाभावस्य तद्व्याप्यकरादेश्च निश्चये स्थाणुत्व. प्रत्यक्षशाब्दयोरनुदयात् । • गादाधरी. यद्विषयकत्वेनेति यथाश्रतकल्पे कामिनीजिज्ञासादिविषये अतिव्याप्तिरित्यसाधारणप्रतिबन्धकताघटितमेव लक्षणं करणीयं तत्रैवाशङ्कते मूले यद्यपोति । समाधानमपि ज्ञायमानं सदित्यादितृतीयलक्षणाभिप्रायेण "तथापी" त्यादिनेति बोध्यम् । बाध-सत्प्रतिपक्षज्ञानयोः प्रत्यक्षशाब्दज्ञानप्रतिबन्धकत्वमभिधाय बाध-सत्प्रतिपक्षयोरनुमितिमात्रवृत्तिधर्मावच्छिन्नप्रयोज्यतानिरूपितप्रयोजकताश्रयाभावप्रतियोगिज्ञानविषयत्वस्वरूपं लिङ्गासाधारणदोषत्वं न सम्भवतीत्याक्षिप्तं मणिकृता, तादृशप्रतिबन्धकतायाञ्च युक्ति!क्तति न्यूनतापरीहाराय तत्र युक्तिमाह दोधितौ स्थाणुस्वाभावस्येति । स्थाणुत्वप्रत्यक्षशाब्दयोरिति । समानधम्मितावच्छेदककस्य स्थाणुत्वप्रकारकस्य, लौकिक सन्निकर्षाद्यजन्यप्रत्यक्षस्य शाब्दरय चेत्यर्थः । * चन्द्रकला * वतिव्याप्तिदुर्वा रैवेति भावः । लिंगज्ञानजन्यज्ञानमात्रवृत्तिवर्मावच्छिन्नप्रयोज्यतानिरूपितप्रयोजकतावदभावप्रतियोगिज्ञानविषयत्वम् लिंगाभासत्वम्, तच्च वाधे सत्प्रतिपक्षे च न सम्भवति, बावसत्प्रतिपक्षनिश्चयस्य लौकिकसन्निकर्षाद्यजन्यप्रत्यक्षशाब्दादिप्रतिबन्धकतया तदभावस्य तादृशबुद्धिमात्रप्रयोजकत्वेन लिंगजन्यज्ञानमात्रावृत्तिधर्मावच्छिन्ननिरूपितप्रयोजकतायास्तत्र विरहात् इत्याक्षेपस्य मूलोक्तस्य शाब्दादिप्रतिबन्धकतायां युक्तिप्रदर्शनेन प्रामाणिकत्वं कुर्वतां दीधितिकृतां स्थाणुत्वेति ग्रन्थं व्याचष्टे समानेति । लौकिकसन्निकर्षादिजन्य प्रत्यक्षस्य बाधसत्प्रतिपक्षनिश्चयाऽप्रतिवध्यत्वादाह लौकिकेति । शाब्दस्य =शाब्दबोध स्य समानधर्मितावच्छेदककस्येतिपूर्वेणान्वयः । शान्दबोधं प्रत्यपि यदि वाधनिश्चयस्य तदभावव्याप्यनिश्चयस्य च प्रतिबन्धकत्वं तदा नरशिरःकपालं शुचि प्राण्यंगत्वादित्यादौ कर्मानधिकारप्रयोजकस्पर्शाभाववस्वरू "Aho Shrutgyanam" Page #303 -------------------------------------------------------------------------- ________________ चन्द्रकला-कलाविलासाख्यटीकाद्वयोपेतम् २८७ * दीधितिःनचैवं नरशिरःकपालं शुचि प्राण्यङ्गत्वादित्यादिनाप्यागमनतिरोधः स्यात् , तत्रानुकूलतर्काभावेन बलवत्त गादाधरी एवम् शाब्दबुद्धौ बाध-तदभावव्याप्यवत्ताज्ञानयोः प्रतिबन्धकत्वे । नरशिरः कपालमिति । नरशिरःकपालस्य शुचित्वानुमापकेन तद्धर्मिकप्राण्यगत्वपरामर्शन स्वतः फलद्वारा चागमजन्याशौचबोधविरोधः स्यादित्यर्थः। स चानुभवविरुद्धः, तत्र प्राण्यङ्गत्वज्ञानदशायामपि शाब्दाशौचज्ञानस्यानुभवसिद्धत्वादिति भावः । समाधत्ते तत्रेति । तादृशाशौचज्ञानप्राक्काल इत्यर्थः। अनुकूलतर्का पशुचित्वव्याप्यप्राण्यङ्गत्ववत् नरशिरःकपालम् इत्याकारकपरामशदशायां निरुक्तपरामर्शजन्यतादृशशुचित्वनिश्चयरूपानुमितिदशायां वा तादृशनिश्चयाव्यवहितोत्तरक्षणे सर्वानुभवसिद्धस्य चितिं च चितिकाष्ठञ्च मृतांगञ्चत्याद्यागमजन्यस्य कर्मानधिकारप्रयोजकस्पर्शामाववत्त्वाभाववत्त्वरूपाशुचित्ववोधस्य उत्पाद एव न स्यात् , पूर्वमशुचित्वव्याप्यत्वादिनिश्चयस्य शान्दादिप्रतिबन्धकस्य सत्त्वादितिदीधितिकृतां शंकाशयं प्रदर्शयति एवमित्यादि । नद्धर्मिकेति । तादृशकपालधर्मिकेत्यर्थकम् । स्वतः- तादृशपरामर्शतः । परामर्शसत्त्वदशायां वाधकान्तरविरहेणावश्यमेव कार्यमुत्पद्यते इत्यत आह फलद्वारा वेति । तादृशपरामर्शजन्यशुचित्वानुमितिद्वारा वेत्यर्थः । स च =अागम• जन्याऽशुचित्ववोधश्च । केवलं नरशिरःकपाले प्राण्यङ्गत्वज्ञानमात्रन्तु नाशुचित्त्वशाब्दवोधं प्रतिबध्नाति अपितु शुचित्वव्याप्ति विशिष्टप्राण्यङ्गत्वस्य कपालादौ ज्ञानमेव तथा, एवञ्चागमजन्याशुचित्ववोधात् पूर्व अनुकूलतर्काभावेन बलवत्तरप्रमाणागमस्य सत्त्वेन च प्राण्यजवादी शुचित्वव्यासिनिश्चय एव न भवति, व्याप्तिनिश्चयाभावे शुचित्वानुमितेरप्यनुदयेन अशुचित्ववोधात् पूर्व शुचित्वरूपाशुचित्वाभावव्याप्यनिश्चयस्य तजन्यस्य अशुचित्वाभावरूपशुचित्वात्मकवाधनिश्चयस्य चोत्पादाऽसम्भवात् प्रतिबन्धकाभावे. नागमजन्यवोधः सम्भवत्येवेत्याह समाधत्ते इति । तादृशेति आगमजन्येत्यर्थकम् । अनुमितेः पूर्वमेव बलवत्तरागमजन्याशु. चित्ववोघस्योत्पच्या तेनैव प्रतिबन्धादुत्तरकालं न शुचि "Aho Shrutgyanam Page #304 -------------------------------------------------------------------------- ________________ २९ अनुमानगादाधयों सामान्यनिरुक्तिप्रकरणम् * दोधितिःरागमविरोधेन चा व्याप्तिनिश्चयस्यानुत्पत्तेरिति भावः। ___® गादाधरी भावेन व्याप्तिनिश्चयस्य बलवत्तरागमविरोधेनानुमितेरनुत्पत्तेरिति योजना। एवञ्च वास्तवव्याप्यधर्मस्य येन केनापि रूपेण ज्ञानमेव न विरोधि, अपि तु व्याप्यत्वरूपेण, अत्र च प्राण्यङ्गत्वस्य ज्ञानेऽपि व्याप्तिग्राहकतर्कविरहेण व्यभिचारशङ्कया शौचव्याप्यत्वेन तज्ज्ञानं न सम्भवति, कारणान्तरविरहेण यत्र व्यभिचारशङ्काविरहस्तत्र कथश्चिव्याप्तिप्रहेऽपि गृहीतप्रामाण्यकागमतात्पय्यविषयविपरीतविषयकत्वेन तत्राप्रामाण्यं गृह्यते, तथाच तादृशप्राण्यगत्वज्ञानं न शौचानुमितिजनने शाब्दाशौचज्ञान ॐ चन्द्रकला त्वानुमितिरित्याह व्याप्तिनिश्चयस्येत्यादि । येन केनापि = हेतुतावच्छेदकादिरूपेणापि । ज्ञानमेव =निश्चय एव । विरोधि - प्रतिबन्धकम् । तद्भानम् = प्राण्यङ्गत्वज्ञानम् । ननु याहशस्थलविशेषे कस्यचित् व्यभिचारसंशयकारणस्य विरहादेव क्यभिचारशंका नोत्पद्यते ताहशस्थले शुचित्वव्याप्तिनिश्चयस्य ताहशव्याप्तिविशिष्टप्राण्यङ्गत्वनिश्चयजन्यशुचित्वानुमितेश्वोत्पत्या तदुत्तरक्षणे अाग. मजन्याऽशुचित्वबोधो न स्यादित्यत आह कारणान्तरेति । दोषादिघटितेत्यादिः । अनुकूलतकस्य साक्षादेव व्याप्तिनिश्चयहेतुत्वमते तद्विरहदशायां व्याप्तिनिश्चयोत्पादो न सम्भवतीत्यतः कथरिवदिति । अनुकूलतर्फप्रयो. ज्यव्यभिचारसंशयाभावस्य व्यभिचारज्ञानाभावस्यैव वा व्यातिनिश्चयहेतुत्वे तु व्यभिचारशंकाविरहदशायां भवति व्याप्तिनिश्चय इति भावः।। - गृहीतेति । गृहीतप्रामाण्यकागमे यत्तात्पर्य तद्विषयीभूताशुचित्वबोधविषय. विपरीतशुचित्वरूपविषयसाधकत्वेनेत्यर्थः । तत्र = व्याप्तिज्ञाने । अप्रामाण्यम् = अप्रमाणत्वम् । भावमाह तथाचेति । तादृशप्राण्यङ्गत्वज्ञानम् -शुचित्वव्याप्यप्राण्यङ्गत्ववत् कपालमित्याकारकमप्रामाण्यज्ञानास्कन्दितज्ञानम् । न शुचित्वेति । अप्रामाण्यज्ञानानास्कन्दितस्यैव परामर्शस्यानुमितिहेतुत्वादिति भावः । शाब्दाऽशौचेति । अशुचित्वबुद्धिं प्रत्यपि अप्रामाण्यज्ञानानास्कन्दितं तदभावव्याप्यवत्तानिश्चयात्मकशुचित्वव्याप्यप्राण्यङ्गत्ववत् नरशिरःकपालमित्याका. रकशानं प्रतिबन्धकमित्याशयः । "Aho Shrutgyanam" Page #305 -------------------------------------------------------------------------- ________________ लाविलासाख्यटीकाद्वयोपेतम् * गादाधरी * प्रतिबन्धे वा प्रभवतीति समुदितार्थः । आगमे प्रामाण्यग्रहश्च शिष्टपरिग्र हादिनैव भवति, यावच्च तादृशपरामर्शे नाप्रामाण्यं गृह्यते तावन्न भवत्येवागमप्रवृत्तिरिति भावः । यद्वेत्यादिग्रन्थेन चन्द्रकला-कला बाधादिज्ञानस्यानुमित्यतिरिक्तज्ञानाप्रतिबन्धकत्वं व्यवस्थाप्य बाधादेर्लिङ्गासाधारणदोषत्वमेवोपपादितम् मूलकृता, तन्न सङ्गच्छते, बाधितार्थस्य शाब्दबोधाभ्युपगमेऽनुमितेरप्यनपराधात्तत्राप्रामाण्यग्राहकतया बाधादिग्रहस्य प्रवृत्त्यादिविरोधितोपपत्तेरित्युक्त कल्पे ग्रन्थकृतोऽ २८९ • चन्द्रकला ● समुदितार्थः = समुदितग्रन्थतात्पर्यम् । तथाच व्यभिचारसंशयाभावात् व्याप्तिग्रहोत्पादेऽपि तादृशव्याप्तिग्रहस्योक्तयुक्त्याऽप्रामाण्यज्ञानास्कन्दिततया तेन शौचानुमितेरुत्पादस्याशौचशाब्दस्यानुत्पादस्यासम्भवात् भवति शाब्दाशौचबोध इति भावः । 1 शिष्टेति । तथाचायमागमः प्रमाणम्, शिष्टपरिगृहीतत्वात् शिष्टपुरुषीयप्रवृत्तिजनकज्ञानजनकत्वात् इदमागमजन्यज्ञानम् प्रमा शिष्टप्रवृत्तिजनकत्वादिति वानुमा नमित्यभिप्रायः । 3 ननु कारणान्तरविरहेण तादृशव्याप्तिग्रहे परामर्शे वा यदा श्रप्रामाण्यग्रहस्यैवनोत्पादस्तदाऽगमजन्याऽशुचित्वबोधो न स्यादित्यत श्राह यावच्चेति । तथा च तदानीमागम जन्यबोधो न भवत्येव । अतएवोक्तम् तावन्न भवत्येवागमप्रवृत्तिरिति शुचित्वव्याप्यवत्तापरामर्शेऽप्रामाण्यग्रहानुत्पादे तादृशपरामर्शेन तजन्यशुचित्वानुमित्यैव वा शाब्दाशौचबोध प्रतिबन्धसम्भवात् कुतः प्रवृत्तिरिति तु समुदिततात्पर्यम् । वाघनिश्चयस्य तदभावव्याप्यवत्तानिश्चयस्य चानुमितिमात्रं प्रत्येव प्रतिबन्धकत्वं न तु प्रत्यक्ष शाब्दादिप्रतिबन्धकत्वम्, बाधादिनिश्चयदशायां प्रत्यक्षादेरुत्पादेऽपि न तद्विषयादौ प्रवृत्तिः, बाधनिश्चयादिना उत्पन्नप्रत्यक्षादौ अप्रामाण्यग्रहस्यैव जननात् प्रमाज्ञानस्यैव प्रवृत्तिजनकत्वादिति तु यद्वेत्यादिना मणिकृताभिहितम्, तत्र संगच्छते, उपनयसन्निकर्षजन्यप्रत्यक्षे शाब्दबोधे च बाधादिनिश्चयस्यान्यप्रतिबन्धकतायाः स्वयं वक्ष्यमाणत्वादतो यद्वत्याद्यभ्युपगममात्रमितिदीधितिग्रन्थस्य यथोक्तमेवावतरणमाह वाधादीति । बाधादिनिश्चयस्य शाब्दबोधप्रतिबन्धकत्वे युक्तिमप्याह बाधितार्थस्येत्यादि । तत्र = अनुमितौ । ग्रन्थकृतः = मूलकारस्य 1 समानेन्द्रियजन्यबाध निश्चयस्य प्रत्यक्षप्रतिबन्धकतया बाघनिश्चयसामान्यस्य "Aho Shrutgyanam" Page #306 -------------------------------------------------------------------------- ________________ अनुमानगादाधर्यां सामान्यनिरुक्तिप्रकरणम् * चिन्तामणिः * यद्वा प्रत्यक्षादौ बाधेन न ज्ञानं प्रतिबध्यते, किन्तूत्पन्नज्ञानेऽप्रामाण्यं ज्ञाप्यते, अनुमितौ तूत्पत्तिरेव प्रतिबध्यते । ते च सव्यभिचारविरुद्ध सत्प्रतिपक्षाऽसिद्धबाधिताः पञ्च । इति श्रीमद्गङ्गेशोपाध्यायविरचिते तत्वचिन्तामणौ अनुमानाख्यद्वितीयखण्डे हेत्वाभाससामान्यनिरुक्तिः समाप्ता । * दीधितिः * ૬૦ त्याद्यभ्युपगममात्रं प्रत्यक्षं प्रत्यानुमानिकवाधादिनिश्चयस्याप्रतिबन्धकत्वेऽपि शब्द प्रति प्रतिबन्धकत्वात् । योग्यताज्ञानेनान्यथासिद्ध वात् * गादाधरी * निर्भरमाह यद्वत्यादीति । नन्वानुमानिक बाधादिनिश्चयदशायामपि लौकिकसन्निकर्षादितः प्रत्यक्ष निश्चयोत्पत्त्या बाघनिश्चयसामान्यस्य प्रत्यक्षप्रतिबन्धकत्वं न सम्भवतीत्यनुमित्य साधारणप्रतिबन्धकत्वं बाघनिश्चयत्वावच्छिन्नस्याक्षतमतो यद्विषयकनिश्चयत्वेनानुमित्य साधारणप्रतिबन्धकत्वं तद्वत्त्वस्य लक्ष्यताप्रयोजकत्वाभिप्रायेण यद्वत्यादिग्रन्थस्य बाधे लक्ष्यतो. पपादकत्वं सुसङ्गच्छते इत्यत श्राह प्रत्यक्ष प्रतीति । समानेन्द्रियजन्यबाध निश्चयसत्त्वे लौकिकप्रत्यक्षस्याप्यनुत्पत्तेरानुमानिकेति बाधनिश्वयविशेषणम् । शाब्दं प्रतीति । तथाच तावतैव लिङ्गासाधारणदोषत्वव्याघात इति भावः । तत्रापि तदप्रतिबन्धकत्वमाशङ्कते योग्यतेति । अन्यथासिद्धत्वादिति । बाधादिनिश्चयदशायां योग्यताज्ञानरूपकारणविरहेणैव शाब्दबोधानुत्पाद ● चन्द्रकला * प्रत्यक्ष प्रतिबन्धकत्वमसम्भवि, आनुमानिकवाघनिश्चयदशायाम् प्रत्यक्षोत्पादस्यावश्यकत्वादिति बाधादे: अनुमितिमात्र विरोधितया तस्य लिङ्गासाधारणदोषत्वं निर्विवादमिति तु न शक्यम्, शाब्दं प्रति बाधादेविरोधित्वादेव तस्यानुमितिमात्राविरोधित्वात् इति दीधितिकारारायं प्रदर्शयति तथाचेति । तावतैव = शाब्दं प्रति बावादिनिश्चयस्य प्रतिबन्धकत्वादेव । तत्रापि = शाब्दबोsपि । शाब्दबोधानुत्पादेति । बावादिनिश्चयस्यैव कत्वादित्याशयः । योग्यताज्ञानप्रतिबन्ध "Aho Shrutgyanam" Page #307 -------------------------------------------------------------------------- ________________ २९१ चन्द्रकला-कलाविलासास्यटीकाद्वयोपेतम् २९१ दीधितिः ॐ तदभावो न तत्र हेतुरिति चेदेवमप्युपनीतभानविशेष प्रति तत्त्वेन हेतुताया दुर्वारत्वात् । इति महामहोपाध्याय-श्रीरघुनाथशिरोमणिभट्टाचार्यविरचिता __हेत्वाभासे सामान्यनिरुक्तिदीधितिः समाप्ता । * गादाधरी * निर्वाहादिति भावः । तदभावः = बाधादिनिश्चयाभावः, तत्र = शाब्दबुद्धौ । यद्यपि योग्यबाधसंशयद्वितीयक्षणे स्मरणाद्यात्मकयोग्यतानिश्चये सति तद्वितीयक्षणे शाब्दज्ञानवारणाय तदभावस्य शाब्दबोधहेतुत्वस्यावश्यकत्वम् , तथापि बाधादिज्ञानम्य शाब्दाप्रतिबन्धकत्वेऽपि निविवादोपनीतभाने विशेषप्रतिबन्धकतयैव बाधादेर्लिङ्गासाधारणदोषत्वनिराकरणसम्भवात्तत्रैव तन्निराकरोति एवमपीति । उपनीतभानविशेषम् = दोषविशेषाजन्योपनीतभानविशेषम्, तत्त्वेन = बाधनिश्चयाद्यभावत्वेन । दुरित्वादिति । बाधादि निश्चयदशायामनुमितेरिव तादृशोपनीतभानानुत्पादयस्य सर्वानुभवसिद्धत्वादिति भावः । इति महामहोपाध्याय-श्रीगदाधरभट्टाचार्यविरचिता हेत्वाभाससामान्य निरुक्तिदीधितिविवृतिः समाप्ता । * चन्द्रकला * योग्यतासंशयस्य ग्राह्यसंशयात्मकतया तस्य प्रत्यक्षादिप्रतिबन्धकल्वात् स्मरणाद्यात्मकेति । श्रादिना श्रानुमानिकबाधादिनिश्चयपरिग्रह । तदभावस्य = बाधादिनिश्चयाभावस्य । तथापि बाधादेन लिङ्गाऽसाधारणदोषत्वम् उपनीतप्रत्यक्ष प्रति तस्य प्रतिबन्धकत्वादित्यादिदोधिति व्याचष्टे तत्त्वेनेति । तादृशोपनीतेति दोषविशेषाजन्योपनीतेत्यर्थकम् , अन्यत् सुगममितिदिक । इति श्रीमदुदासीनपरमहंसपरिव्राजकाचार्यवयं-श्रीमत्स्वामिजयरामदासभगवत्पादशिष्य - समस्तभारतवर्षप्रसिद्ध-सिन्धुमहानदान्तर्वत्ति - श्रीसाधुवेलातीर्थाधीशपदवाक्यप्रमाणपारावारीण-स्वामिश्रीहरिनामदासविरिचता हेत्वाभाससामान्यनिरुक्ति. चन्द्रकला टीका समाप्ता । "Aho Shrutgyanam" Page #308 -------------------------------------------------------------------------- ________________ "Aho Shrutgyanam