Page #1
--------------------------------------------------------------------------
________________
MACAKAKAKOXCACACARICO
GOOGKOIROG
नमोऽनेकांताय । वार्यवर्य श्रीधर्मभूषणयतिविरचिता
न्यायदीपिका।
- --
प्रकाशकःजैन-साहित्य-प्रसारक कार्यालय, हीराबाग, पोष्ट गिरगांव, बम्बई ।
- olalpep
मुद्रकःमंगेश नारायण कुळकर्णी, कर्नाटक प्रेस, ३१८ ए ठाकुरद्वार, बम्बई ।
*S प्रथमावृत्तिः-१००० प्रति ।
PCCCCCCOROKORNOKOKKOKKOKO
श्रावण, वीर नि० सं०२४५२॥ अगस्त, सन् १९२६ ई०
मूल्यमाणकपंचकं। RIGAROGRDGADIOGADGAGडार
Page #2
--------------------------------------------------------------------------
________________
कान नमः सिद्धेभ्यः । श्रीधर्मभूषणयतिविरचिता -
न्यायदीपिका ।
巡
श्रीवर्धमानमर्हतं नत्वा बालप्रबुद्धये ।
विरच्यते मितस्पष्टसंदर्भन्यायदीपिका ॥ १ ॥ " प्रमाणनयैरधिगमः" इति महाशास्त्रतत्त्वार्थसूत्रं । तत्खलु परमपुरुषार्थनिःश्रेयससाधनसम्यग्दर्शनादिविषयभूतजीवादितत्त्वाधिगमोपायनिरूपणपरं । प्रमाणनयाभ्यां हि विवेचिता जीवादयः सम्यगधिगम्यंते । तद्व्यतिरेकेण जीवाद्यधिगमे प्रकारांतरासम्भवात् । तत एव जीवाद्यधिगमोपायभूतौ प्रमाणनयावपि विवेक्तव्यौ । तद्विवेचनपराः प्राक्तनग्रंथाः संत्येव, तथापि केचिद्विस्तृताः केचिद्गंभीरा इति न तत्र बालानामधिकारः । ततस्तेषां सुखोपायेन प्रमाणनयात्मकन्यायस्वरूपप्रतिबोधकशास्त्राधिकारसंपत्तये प्रकरणमिदमारभ्यते । इह हि प्रमाणनयविवेचनमुद्देश- लक्षणनिर्देश- परीक्षाद्वारेण क्रियते । अनुद्दिष्टस्य लक्षणनिर्देशानुपपत्तेः । अनिर्दिष्टलक्षणस्य परीक्षितुमशक्यत्वात् । अपरीक्षितस्य विवेचनायोगात् । लोकशास्त्रयोरपि तथैव वस्तुविवेचनप्रसिद्धेः ।
तत्र विवेक्तव्यनाममात्रकथनमुद्देशयनस्यतिकीर्णवस्तुष्यावृत्तिहेतुलक्षणं । तदाहुर्वार्तिककारपाठा परस्परध्यतिको सति येनान्यत्वं लक्ष्यते तल्लक्षणं” इति ।
Page #3
--------------------------------------------------------------------------
________________
न्यायदीपिका।
द्विविधं लक्षणमात्मभूतमनात्मभूतं चेति । तत्र यद्वस्तुस्वरूपानुप्रविष्टं तदात्मभूतं । यथाग्नेरौष्ण्यं । औष्ण्यं ह्यग्नेः स्वरूपं तदग्निमबादिभ्यो व्यावर्तयति । तद्विपरीतमनात्मभूतं यथा-दंडः पुरुषस्य । दंडिनमानयेत्युक्ते हि दंडः पुरुषाननुप्रविष्ट एव पुरुषं व्यावर्तयति । तद्भाष्यं “तत्रात्मभूतमग्नेरौष्ण्यमनात्मभूतं देवदत्तस्य दंडः' इति ।
असाधारणधर्मवचनं लक्षणमिति केचित् । तदनुपपन्नं,
लक्ष्यधर्मिवचनस्य लक्षणधर्मवचनेन सामानाधिकरण्याभावप्रसंगात् । दंडादेरतद्धर्मस्यापि लक्षणत्वाच्च । किं च अव्याप्ताभिधानस्य लक्षणाभासस्यापि तथात्वात्
तथा हि-त्रयो लक्षणाभासभेदाः। अव्याप्तमतिव्याप्तमसंभवि चेति । तत्र लक्ष्यैकदेशवृत्त्यव्याप्तं, यथा--गोः शावलेयत्वं । लक्ष्यालक्ष्यवृत्त्यतिव्याप्तं, यथा--तस्यैव पशुत्वं । बाधितलक्ष्यवृत्त्यसंभवि, यथा नरस्य विषाणित्वं । अत्र हि लक्ष्यैकदेशवर्तिनः पुनरव्याप्तस्यासाधारणधर्मत्वमस्ति न तु लक्ष्यभूतगोमात्रव्यावर्त्तकत्वं । तस्माद्यथोक्तमेव लक्षणं । तस्य कथनं लक्षण-निर्देशः ।
विरुद्धनानायुक्तिप्राबल्यदौर्बल्यावधारणाय प्रवर्तमानो विचारः परीक्षा । सा खल्वेवं चेदेवं स्यादेवं चेदेवं स्यादित्येवं प्रवर्तते । प्रमाणनययोरप्युद्देशः सूत्र एव कृतः । लक्षणमिदानीं निर्देष्टव्यं, परीक्षा च यथौचित्यं भविष्यति । उद्देशानुसारेण लक्षणकथनमिति न्यायात्प्रधानत्वेन प्रथमोद्दिष्टस्य प्रमाणस्य तावल्लक्षणमनुशिष्यते,
सम्यग्ज्ञानं प्रमाणं । अत्र प्रमाणं लक्ष्यं । सम्यग्ज्ञानत्वं तस्य लक्षणं । गोरिव सास्नादिमत्त्वं, अग्नेरिवौष्ण्यं । अत्र सम्यक्पदं संशयविपर्ययानध्यवसायनिरासाय क्रियते । अप्रमाणत्वादेतेषां ज्ञानानामिति । तथा हि
विरुद्धानेककोटिस्पर्शि ज्ञानं संशयः । यथाऽयं स्थाणुर्वा पुरुषो वेति । स्थाणुपुरुषसाधारणोर्ध्वतादिदर्शनात्तद्विशेषस्य वक्रकोटरशिरःपाण्यादेः साधकप्रमाणस्याभावादनेककोट्यवलंबित्वं ज्ञानस्य । विपरीतैककोटिनिश्चयो
Page #4
--------------------------------------------------------------------------
________________
प्रथमः प्रकाशः। विपर्ययः । यथा शुक्तिकायामिदं रजतमिति ज्ञानं । अत्रापि सादृश्यादिनिमित्तवशाच्छुक्तिविपरीते रजते निश्चयः । किमित्यालोचनमात्रमनध्यवसायः । यथा पथि गच्छतस्तुणस्पर्शादिज्ञानं । इदं हि नानाकोव्यवलंबनाभावान संशयः । विपरीतैककोटिनिश्चयाभावान्न विपर्ययः । इति पृथगेव । एतानि च स्वविषयप्रमितिजनकत्वाभावादप्रमाणानि ज्ञानानि भवंति, सम्यग्ज्ञानानि तु न भवंतीति सम्यक्पदेन व्युदस्यते ॥ ज्ञानपदेन प्रमातुः प्रमितेश्च व्यावृत्तिः । अस्ति हि निर्दोषत्वेन तत्रापि सम्यक्त्वं, न तु ज्ञानत्वं ।
ननु प्रमितिकर्तुः प्रमातुतृित्वमेव न ज्ञानत्वमिति, यद्यपि ज्ञानपदेन प्रमातुर्व्यावृत्तिस्तथापि प्रमितिर्न व्यावर्तयितुं शक्या, तस्या अपि सम्यग्ज्ञानत्वादिति चेद् भवेदेवं यदि भावसाधनमिह ज्ञानपदं । करणसाधनं खल्वेतज्ज्ञायतेऽनेनेति ज्ञानमिति । " करणाधारे चानट्" २।३।११२ इति करणेऽप्यनट्प्रत्ययानुशासनात् । भावसाधनं तु ज्ञानपदं प्रमितिमाह । अन्यद्धि भावसाधनात्करणसाधनं पदं । एवमेव प्रमाणपदमपि प्रमीयतेऽनेनेति करणसाधनं कर्तव्यं; अन्यथा सम्यग्ज्ञानपदेन सामानाधिकरण्याऽघटनात् । तेन प्रमितिक्रियां प्रति यत्करणं तत्प्रमाणमिति सिद्धं । तदुक्तं प्रमाणनिर्णये " इदमेव हि प्रमाणस्य प्रमाणत्वं यत्प्रमितिक्रियां प्रति साधकतमत्वेन करणत्वं" इति ।
नन्वेवमप्यक्षलिंगादावतिव्याप्तिलक्षणस्य तत्रापि प्रमितिरूपं फलं प्रति करणत्वात् । दृश्यते हि-चक्षुषा प्रमीयते, धूमेन प्रमीयते, शब्देन प्रमीयते इति व्यवहारः, इति चेन्न; अक्षादेः प्रमिति प्रत्यसाधकतमत्वात् । तथा हि-- प्रमितिः प्रमाणस्य फलमिति न कस्यापि विप्रतिपत्तिः । सा चाज्ञाननिवृत्तिरूपा, तदुत्पत्तौ करणेन भवता सता तावदज्ञानविरोधिना भवि
१ जैनेंद्रव्याकरणस्येदं सूत्र।
Page #5
--------------------------------------------------------------------------
________________
न्यायदीपिका ।
तव्यं । न चाक्षादिकमज्ञानविरोधि, अचेतनत्वात् । तस्मादज्ञानविरोधिनश्चेतनधर्मस्यैव करणत्वमुचितं । लोकेऽप्यंधकारविघटनाय तद्वि रोधी प्रकाश एवोपास्यते, न पुनर्घटादि, तदविरोधित्वात् ।
किंचास्वसंविदितत्वादक्षादेर्नार्थप्रमितौ साधकतमत्वं, स्वावभासनाशक्तस्य परावभासकत्वायोगात् । ज्ञानं तु स्वपरावभासकं प्रदीपादिवत्प्रतीतं । ततः स्थितं प्रमितावसाधकतमत्वादकरणमक्षादय इति । चक्षुषा प्रमीयते इत्यादिव्यवहारे पुनरुपचारः शरणं । उपचारप्रवृत्तौ च सहकारित्वं निबंधनं । न हि सहकारित्वेन तत्साधकमिदमिति करणं नाम, साधकविशेष्यस्यातिशयवतः करणत्वात् । तदुक्तं जैनेंद्रे " साधकतमं करणम् तस्मान्न लक्षणस्याक्षादावतिव्याप्तिः ।
""
अथापि धारावाहिकबुद्धिष्वतिव्याप्तिस्तासां सम्यग्ज्ञानत्वात् । न च तासामार्हतमते प्रामाण्याभ्युपगम इति । उच्यते । एकस्मिन्नेव घटे घटविषयाज्ञानविघटनार्थमाद्ये ज्ञाने प्रवृत्ते तेन घटप्रमितौ सिद्धायां पुनर्घटोऽयं घटोयमित्येवमुत्पन्नान्युत्तरोत्तरज्ञानानि खलु धारावाहिकज्ञानानि । न ह्येषां प्रमितिं प्रति साधकतमत्वं प्रथमज्ञानेनैव प्रमितेः सिद्धत्वात् । कथं तत्र लक्षणमतिव्याप्नोति तेषां गृहीतप्राहित्वात् ।
ननु घटे दृष्टे पुनरन्यव्यासंगे पश्चाद् घट एव दृष्टे पश्चात्तमं ज्ञानमप्रमाणं प्राप्नोति धारावाहिकवदिति चेन्न, दृष्टस्यापि मध्ये समारोपे सत्यदृष्टत्वात् । तदुक्तं " दृष्टोऽपि समारोपात्तादृक् " इति । एतेन निर्विकल्पके सत्तालोचनरूपे दर्शनेऽप्यतिव्याप्तिः परिहृता । तस्याव्यवसायरूपत्वेन प्रमिर्ति प्रति करणत्वाभावात् । निराकारस्य दर्शनस्य ज्ञानत्वाभावाच्च । " निराकारं दर्शनं साकारं ज्ञानं " इति प्रवचनात् । तस्मात् प्रमाणस्य सम्यग्ज्ञानमिति लक्षणं नातिव्याप्तं नाप्यव्याप्तं लक्ष्ययोः प्रत्यक्षपरोक्षयोव्र्व्याप्यवृत्तेः । नाप्यसंभवि लक्ष्यवृत्तेरबाधितत्वात् ।
किमिदं प्रमाणस्य प्रामाण्यं नाम ? प्रतिभातविषयाव्यभिचारित्वं ।
Page #6
--------------------------------------------------------------------------
________________
प्रथमः प्रकाशः।
तस्योत्पत्तिः कथं ? स्वत एवेति मीमांसकाः । प्रामाण्यस्य स्वत उत्पत्तिरिति ज्ञानसामान्यसामग्रीमात्रजन्यत्वमित्यर्थः । तदुक्तं, “ ज्ञानोत्पादकहेत्वनतिरिक्तजन्यत्वमुत्पत्तौ स्वतस्त्वं " इति ।
न ते मीमांसकाः ज्ञानसामान्यसामग्न्याः संशयादावपि ज्ञानविशेषे सत्त्वात् । वयं तु ब्रूमहे-ज्ञानसामान्यसामग्न्याः साम्येऽपि संशयादिरप्र. माणं, सम्यग्ज्ञानं प्रमाणमिति विभागस्तावदनिबंधनो न भवति । ततः संशयादौ यथा हेत्वंतरमप्रामाण्ये दोषादिकमंगीक्रियते तथा प्रमाणेऽपि प्रामाण्यनिबंधनमन्यदवश्यमभ्युपगंतव्यं, अन्यथा प्रमाणाप्रमाणविभागानुपपत्तेः ।
एवमप्यप्रामाण्यं परतः प्रामाण्यं तु स्वत इति न वक्तव्यं, विपर्ययेऽपि समानत्वात् । शक्यं हि वक्तुमप्रामाण्यं स्वतः प्रामाण्यं तु परत इति । तस्मादप्रामाण्यवत्प्रामाण्यमपि परत एवोत्पद्यते । न हि पटसामान्यसामग्री रक्तपटे हेतुस्तद्वन्न ज्ञानसामान्यसामग्री प्रमाणज्ञाने हेतुः, भिन्नकार्ययोर्मिनकारणप्रभवत्वावश्यंभावात् ।
कथं तस्य ज्ञप्तिः ? अभ्यस्ते विषये स्वतः, अनभ्यस्ते तु परतः । कोऽयमभ्यस्तो विषयः को वाऽनभ्यस्तः ? उच्यते ।-परिचितस्वग्रामतटाक जलादिरभ्यस्तः, तद्वयतिरिक्तोऽनभ्यस्तः । किमिदं स्वत इति किं नाम परत इति ? ज्ञानज्ञापकादेव प्रमाणस्य ज्ञप्तिः स्वत इति । ततोऽतिरिक्ताद् ज्ञप्तिः परत इति ।
तत्र तावदभ्यस्तविषये जलमिदमिति ज्ञाने जाते ज्ञानस्वरूपज्ञप्तिसमय एव तद्गतं प्रामाण्यमपि ज्ञायत एव, अन्यथोत्तरक्षण एव निश्शंकप्रवृत्तेरयोगात् । अस्ति हि जलज्ञानोत्तरक्षण एव निश्शंका प्रवृत्तिः । अनभ्यस्ते तु विषये जलज्ञाने जाते जलज्ञानं मम जातमिति ज्ञानस्वरूपनिर्णयेऽपि प्रामाण्यनिर्णयोऽन्यत एव । अन्यथोत्तरकाले संदेहानुपपत्तेः । अस्ति हि संदेहो जलज्ञानं मम जातं तत्कि जलमुत मरीचिकेति । ततः कमलपरि
Page #7
--------------------------------------------------------------------------
________________
न्यायदीपिका। मलशिशिरमंदमरुत्प्रचारप्रभृतिभिरवधारयति ।-प्रमाणं-प्राक्तनं जलज्ञानं, कमलपरिमलाद्यन्यथानुपपत्तेरिति ।
उत्पत्तिवत्प्रामाण्यस्य ज्ञप्तिरपि परत एवेति यौगाः। तत्र प्रामाण्यस्योत्पत्तिः परत इति युक्तं । ज्ञप्तिः पुनरभ्यस्तविषये स्वत एवेति स्थितत्वाज्ञप्तिरपि परत एवेत्यवधारणानुपपत्तिः । ततो व्यवस्थितमेतत्प्रामाण्यमुत्पत्तौ परत एव, ज्ञप्ती तु कदाचित् स्वतः कदाचित् परत इति । तदुक्तं प्रमाणपरीक्षायां ज्ञप्ति प्रति
प्रमाणादिष्टसंसिद्धिरन्यथातिप्रसंगतः।
प्रामाण्यं तु स्वतः सिद्धमभ्यासात्परतोऽन्यथा ॥ १॥ इति ।। तदेवं सुव्यवस्थितेऽपि प्रमाणस्वरूपे दुरभिनिवेशवशंगतैः सौगतादिभिरपि कल्पितं प्रमाणलक्षणं सुलक्षणमिति येषां भ्रमस्ताननुगृह्णीमः । तथा हि“ अविसंवादि ज्ञानं प्रमाणं" इति बौद्धाः । तदिदमविसंवादित्वमसंभवित्वादलक्षणं । बौद्धेन हि प्रत्यक्षमनुमानमिति प्रमाणद्वयमेवानुमन्यते । तदुक्तं न्यायविंदौ “द्विविधं सम्यग्ज्ञानं प्रत्यक्षमनुमानं च" इति । तत्र न तावत्प्रत्यक्षस्याविसंवादित्वं, तस्य निर्विकल्पकत्वेन स्वविषयानिश्चायकस्य समारोपविरोधित्वाभावात् । नाप्यनुमानस्य, तन्मतानुसारेण तस्याप्यपरमार्थभूतसामान्यगोचरत्वादिति।
“ अनधिगततथाभूतार्थनिश्चायकं प्रमाणं” इति भाट्टाः । तदप्यव्याप्तं, तैरेव प्रमाणत्वेनाभिमतेषु धारावाहिकज्ञानेष्वनधिगततथाभूतार्थनिश्चायकत्वाभावात् । उत्तरोत्तरक्षणविशेषविशिष्टार्थावभासकत्वेनते षामनधिगतार्थनिश्चायकत्वं नाशंकनीयं, क्षणानामतिसूक्ष्माणामालक्षयितुमशक्यत्वात्।
“अनुभूतिः प्रमाणं " इति प्राभाकराः । तदप्यसंगतं, अनुभूतिशब्दस्य भावसाधनत्वे करणलक्षणप्रमाणाव्याप्तेः, करणसाधनत्वे तु भावलक्षणप्रमाणाव्यातेः, करणभावयोरुभयोरपि तन्मते प्रामाण्याभ्युपगमात् । तदुक्तं शालिकानाथेन " यदा भावसाधनं तदा संविदेव प्रमाणं करणसाधनत्वे त्वात्मनः सन्निकर्षः " इति ।
Page #8
--------------------------------------------------------------------------
________________
द्वितीयः प्रकाशः। "प्रमाकरणं प्रमाणं" इति नैयायिकाः । तदपि प्रमादकृतं लक्षण. मीश्वराख्ये तदंगीकृत एवं प्रमाणे अश्याप्तेः । अधिकरणं हि महेश्वरः प्रमायाः न तु करणं । न चायमनुक्तोपालंभः " तन्मे प्रमाणं शिवः " इति यौगाप्रेसरेणोदयनेनोक्तत्वाच । तत्परिहाराय केचन बालिशाः साधनाश्रययोरन्यतरत्वे सति प्रमाव्याप्तं प्रमाणमिति वर्णयति । तथापि साधनाश्रयान्यतरपालोचनायां साधनमाश्रयो वेति फलति । तथा च परस्पराव्याप्तिर्लक्षणस्य । __ अन्यान्यपि पराभिमतानि प्रमाणस्य सामान्यलक्षणान्यलक्षणत्वादुपेक्ष्यते । तस्मात्स्वपरावभासनसमर्थ सविकल्पमगृहीतग्राहकं सम्यग्ज्ञानमेवाज्ञानमर्थे निवर्तयत्प्रमाणमित्यार्हतं मतं ।
इति प्रथमः प्रकाशः।
अथ द्वितीयः प्रकाशः। अथ प्रमाणविशेषस्वरूपप्रकाशनाय प्रस्तूयते--प्रमाणं द्विविधं प्रत्यक्ष परोक्षं चेति ।
तत्र विशदप्रतिभासं नाम प्रत्यक्षं । इह प्रत्यक्ष लक्ष्यं, विशदप्रतिभासत्वं लक्षणं । यस्य प्रमाणभूतस्य ज्ञानस्य प्रतिभासो विशदस्त प्रत्यक्षमित्यर्थः ।
किमिदं विशदप्रतिभासत्वं नाम ? उच्यते,-ज्ञानावरणस्य क्षयाद्विशिष्टक्षयोपशमाद्वा शब्दानुमानाद्यसंभवि यन्नैर्मल्यमनुभवसिद्धं । दृश्यते खल्वनिरस्तीत्याप्तवचनाद्भूमादिलिंगाच्चोत्पन्नाज्ञानादयमग्निरित्युत्पन्नस्यदियिकस्य ज्ञानस्य विशेषः । स एव नैर्मल्यं वैशा स्पष्टत्वमित्यादिभिः शब्दैरभिधीयते । तदुक्तं भगवद्भिरकलंकदेवैन्यायविनिश्चये-" प्रत्यक्षलक्षणं प्राहुःस्पष्टं साकारमंजसा " इति । विवृतं च स्याद्वाद विद्यापतिना “ निर्मलप्रतिभासत्वमेव स्पष्टत्वं । स्वानुभवप्रसिद्धं चैतत्सर्वस्यापि परीक्षकस्येति नातीव निर्बाध्यते” इति । तस्मात् सुष्ठुक्तं विशदप्रतिभासात्मकं ज्ञानं प्रत्यक्षमिति ।
Page #9
--------------------------------------------------------------------------
________________
न्यायदीपिका। “ कल्पनापोढमभ्रांतं प्रत्यक्षं " इति ताथागताः । अत्र हि कल्पनापोढपदेन सविकल्पकस्य व्यावृत्तिः, अभ्रांतमिति पदेन त्वाभासस्य । तथा च, समीचीनं निर्विकल्पकं प्रत्यक्षमित्युक्तं भवति । तदेतद्बालचेष्टितं । निर्विकल्पकस्य प्रामाण्यमेव दुर्लभं, समारोपांविरोधित्वात् । कुतः प्रत्यक्षत्वं व्यवसायात्मकस्यैव प्रामाण्यव्यवस्थापनात् । - ननु · निर्विकल्पकमेव प्रत्यक्षप्रमाणमर्थजत्वात् । तदेव हि परमार्थ सत् स्वलक्षणजन्यं, न तु सविकल्पकं, तस्यापरमार्थभूतसामान्यविषयत्वेनार्थजत्वाभावात् ' इति चेन्न, अर्थस्यालोकवज्ञानकारणत्वानुपपत्तेः। .. तद्यथा-अन्वयव्यतिरेकगम्यो हि कार्यकारणभावः । तत्रालोकस्तावन्न ज्ञानकारणं तदभावेपि नक्तंचराणां मार्जारादीनां ज्ञानोत्पत्तेः, तद्भावेऽपि घुकादीनां तदनुत्पत्तेः । तद्वदर्थोपि न ज्ञानकारणं, तदभावेपि केशमशकादिज्ञानोत्पत्तेः । तथा च, कुतोर्थजत्वं ज्ञानस्य ? तदुक्तं परीक्षामुखे " नार्थालोको कारणं " इति । प्रामाण्यस्य चार्थाव्यभिचार एव निबंधनं, न त्वर्थजन्यत्वं, स्वसंवेदनस्य विषयाजन्यत्वेपि प्रामाण्याभ्युपगमात् । न हि किंचित्स्वस्मादेव जायते । ___ नन्वतजन्यस्यान्यस्य कथं तत्प्रकाशकत्वमिति चेत्,-घटाद्यजन्यस्यापि प्रदीपस्य तत्प्रकाशकत्वं दृष्ट्वा संतोष्टव्यमायुष्मता । अथ कथमयं विषयं प्रति नियमः ? यदुक्तं घटज्ञानस्य घट एव विषयो, न पर इति । अर्थजत्वं हि विषयं प्रति नियमकारणं, तजन्यत्वात् । यद्विषयमेव चैतदिति । तत्तु भवता नाभ्युपगम्यते । इति चेत् , योग्यतैव विषयं प्रति नियमकारणमिति ब्रूमः ।
का नाम योग्यतेति, उच्यते--स्वावरणक्षयोपशमः । तदुक्तं " स्वावरणक्षयोपशमलक्षणयोग्यतया हि प्रतिनियतमर्थ व्यवस्थापयति " इति । एतेन तदाकारत्वात्तत्प्रकाशकत्वमित्यपि प्रत्युक्तं, अतदाकारस्यापि प्रदीपादेस्तत्प्रकाशकत्वदर्शनात् । ततस्तदाकारवत्तजन्यत्वमप्रयोजकं प्रामाण्ये ।
Page #10
--------------------------------------------------------------------------
________________
द्वितीयः प्रकाशः ।
सविकल्पकविषयभूतस्य सामान्यस्य परमार्थत्वमेवाबाधितत्वात् । प्रत्युत सौगताभिमत एव स्वलक्षणे विवादः । तस्मान्न निर्विकल्पकरूपत्वं प्रत्यक्षस्य सन्निकर्षस्य च योगाभ्युपगत्वस्याचेतनत्वात्कुतः प्रमितिकरणत्वं कुतस्तरां प्रमाणत्वं कुतस्तमां प्रत्यक्षत्वं ?
किं च रूपप्रमितेरसन्निकृष्टमेव चक्षुर्जनकं, अप्राप्यकारित्वात्तस्य । ततः सन्निकर्षाभावेपि साक्षात्कारिप्रमोत्पत्तेर्न सन्निकर्षरूपतैव प्रत्यक्षस्य । न चाप्राप्यकारित्वं चक्षुषोऽप्रसिद्धं प्रत्यक्षतस्तथैव प्रतीतेः । ननु प्रत्यक्षा-गम्यामपि चक्षुषो विषयप्राप्तिमनुमानेन साधयिष्यामः परमाणुत्रत् । यथा प्रत्यक्षासिद्धोपि परमाणुः कार्यान्यथानुपपत्त्यानुमानेन साध्यते, तथा चक्षुः प्राप्तार्थप्रकाशकं बहिरिंद्रियत्वात्त्वगिंद्रिय वदित्यनुमानात्प्राप्तिसिद्धिः । प्राप्तिरेव हि सन्निकर्षः । ततो न सन्निकर्षस्याव्याप्तिरिति चेन्न, अस्यानुमानाभासत्वात् ।
:
तद्यथा - चक्षुरित्यत्र कः पक्षोऽभिप्रेतः, किं लौकिकं चक्षुरुतालौकिकं ? -आधे - हेतोः कालात्ययापदिष्टत्वं गोलकाक्षस्य चक्षुषो विषयप्राप्तेः प्रत्यक्षबाधितत्वात् । द्वितीये त्वाश्रयासिद्धः, अलौकिकस्य चक्षुषोऽद्याप्यसिद्धेः । शाखासुधादीधितिसमानकालग्रहणाद्यन्यथानुपपत्तेः चक्षुरप्राप्यकारीति निश्चीयते । तदेवं सन्निकर्षाभावेपि चक्षुषा रूपप्रतीतिर्जायते इति सन्निकर्षोsव्यापकत्वात् प्रत्यक्षस्य स्वरूपं न भवतीति स्थितं ।
अस्य च प्रमेयस्य प्रपंच: प्रमेयकमलमार्तंडे सुलभः । संग्रह ग्रंथत्वात्तु नेह प्रतन्यते । एवं च न सौगताभिमतं निर्विकल्पकं प्रत्यक्षं । नापि योगाभिमत इंद्रियार्थसन्निकर्षः । किं तर्हि ? विशदप्रतिभासं ज्ञानमेव प्रत्यक्षं सिद्धं ।
तत्प्रत्यक्षं द्विविधं सांव्यवहारिकं पारमार्थिकं चेति । तत्र देशतो विशदं सांव्यवहारिकं प्रत्यक्षं । यज्ज्ञानं देशतो विशदमीषन्निर्मलं तत्सांव्यवहारिकप्रत्यक्षमित्यर्थः । तच्चतुर्विधं - अवग्रहः, ईहा, अवायो, धारणा चेति ।
Page #11
--------------------------------------------------------------------------
________________
न्यायदीपिका। .. तत्रंद्रियार्थसमवधानसमनंतरसमुत्थसत्तालोचनानंतरभावी सत्तावांतरजातिविशिष्टवस्तुमाही ज्ञानविशेषोऽवग्रहः । यथाऽयं पुरुष इति । नायं संशयः, विषयांतरव्युदासेन स्वविषयनिश्चायकत्वात् । तद्विपरीतलक्षणो हि संशयः । यद्राजवार्तिकं " अनेकार्थानिश्चितापर्युदासात्मकः संशयः, तद्विपरीतोऽवग्रहः " इति । भाष्यं च " संशयो हि निर्णयविरोधी न त्ववग्रहः " इति। ___ अवग्रहगृहीतार्थसमुद्भूतसंशयनिरासाय यत्न ईहा । यथा पुरुष इति निश्चितेऽर्थे किमयं दाक्षिणात्य उतौदीच्य इति संशये सति दाक्षिणात्येन भवितव्यमिति तन्निरासायेहाख्यं ज्ञानं जायत इति । भाषादिविशेषनिर्लानाद्याथात्म्यावगमनमवायः। यथा दाक्षिणात्य एवायमिति । कालांतराविस्मरणयोग्यतया तस्यैव ज्ञानं धारणा । यद्वशादुत्तरकालेपिस इत्येवं स्मरणं जायते । ___ ननु पूर्वपूर्वज्ञानगृहीतार्थग्राहकत्वादेतेषां धारावाहिकवदप्रामाण्यप्रसंगः इति चेन विषयभेदेनागृहीतग्राहकत्वात् । तथाहि-योऽवग्रहस्य विषयो नासावीहायाः, यः पुनरीहाया नायमवायस्य, यश्चावायस्य नैष धारणाया इति परिशुद्धप्रतिभानां सुलभमेवैतत् । तदेतदवग्रहादिचतुष्टयमपि यदेंद्रियेणजन्यते तदेंद्रियप्रत्यक्षमित्युच्यते यदा पुनरनिंद्रियेण तदानिंद्रियप्रत्यक्षं गीयते ।
इंद्रियाणि स्पर्शनरसनघ्राणचक्षुःश्रोत्राणि पंच । अनिद्रियं तु मनः । तद्वयनिमित्तकमिदं लोकसंव्यवहारे प्रत्यक्षमिति प्रसिद्धत्वात्सांव्यवहारिकप्रत्यक्षमुच्यते । तदुक्तं " इंद्रियानिद्रियनिमित्तं देशतः सांव्यवहारिकं " इदं चामुख्यप्रत्यक्षमुपचारसिद्धत्वात् । वस्तुतस्तु परोक्षमेव मतिज्ञानत्वात् । कुतो नु खल्वेतन्मतिज्ञानं परोक्षमित्युच्यते " आद्ये परोक्षं" इति सूत्रणात् , आये मतिश्रुते परोक्षमिति हि सूत्रार्थः । उपचारमूलं पुनरत्र देशतो वैशद्यमिति कृतं विस्तरेण ।
सर्वतो विशदं पारमार्थिकं प्रत्यक्षं । यज्ज्ञानं साकल्येन स्पष्टं तत्पारमार्थिकप्रत्यक्षं मुख्यप्रत्यक्षमिति यावत् । तद् द्विविधं सकलं विकलं
Page #12
--------------------------------------------------------------------------
________________
द्वितीयः प्रकाशः। च । तत्र कतिपयविषयं विकलं । तदपि द्विविधमवधिज्ञानं मनःपर्ययज्ञानं चेति । तत्रावधिज्ञानावरणक्षयोपशमाद्वी-तरायक्षयोपशमसहकृताज्जातं रूपिद्रव्यमात्रविषयमवधिज्ञानं । मनःपर्ययज्ञानावरणवीर्यातरायक्षयोपशमसमुत्थं परमनोगतार्थविषयं मनःपर्ययज्ञानं । मतिज्ञानस्येवावधिमनःपर्यययोरवांतरभेदास्तत्त्वार्थवार्तिकराजवार्तिकश्लोकवार्तिकभाष्याभ्यामवगंतव्याः । __ सर्वद्रव्यपर्यायविषयं सकलं । तच्च घातिसंघातनिवशेषघातनात्समुन्मीलितं केवलज्ञानमेव " सर्वद्रव्यपर्यायेषु केवलस्य " इत्याज्ञापितत्वात् । तदेवमवधिमनःपर्ययकेवलज्ञानत्रयं सर्वतो वैशद्यात्पारमार्थिकं प्रत्यक्षं । सर्वतो वैशा चात्ममात्रसापेक्षत्वात् ।
नन्वस्तु केवलस्य पारमार्थिकत्वमवधिमनःपर्यययोस्तु न युक्तं विकलत्वादिति चेन्न साकल्यवैकल्ययोस्त्र विषयौपाधिकत्वात् । तथाहि, सर्वद्रव्यपर्यायविषयमिति केवलं सकलं । अवधिमनःपर्ययौ तु कतिपयविषयत्वाद्विकलौ । नैतावता तयोः पारमार्थिकत्वच्युतिः, केवलवत्तयोरपि वैशचं स्वविषये साकल्येन समस्तीति तावपि पारमार्थिकावेव ।
कश्चिदाह " अक्षं नाम चक्षुरादिकमिंद्रियं तत्प्रतीत्य यदुत्पद्यते तदेव प्रत्यक्षमुचितं नान्यत्" इति तदप्यसत् । आत्ममात्रसापेक्षाणामवधिमनःपर्ययकेवलानामिंद्रियनिरपेक्षाणामपि प्रत्यक्षत्वाविरोधात् । स्पष्टत्वमेव हि प्रत्यक्षत्वप्रयोजकं नेंद्रियजन्यत्वं । अत एव हि मतिश्रुतावधिमनःपर्ययकेवलानां ज्ञानत्वेन प्रतिपन्नानां मध्ये “ आये परोक्षं " " प्रत्यक्षमन्यत्" इत्याद्ययोर्मतिश्रुतयोः परोक्षत्वकथनमन्येषां त्ववधिमनःपर्ययकेवलानां प्रत्यक्षत्ववाचोयुक्तिः ।
कथं पुनरेतेषां प्रत्यक्षशब्दवाच्यत्वमिति चेत् रूढित इति ब्रूमः । अथवा अक्ष्णोति व्याप्नोति जानातीत्यक्ष आत्मा तन्मात्रापेक्षोत्पत्तिकं प्रत्यक्षमिति किमनुपपन्नं ? तर्हि इंद्रियजन्यमप्रत्यक्षं प्राप्तमिति चेत् हंत विस्मरणशीलत्वं वत्सस्य । अवाचामः खल्वौपचारिकं प्रत्यक्षत्वमक्षज
Page #13
--------------------------------------------------------------------------
________________
१२
न्यायदीपिका |
ज्ञानस्य ततस्तस्याप्रत्यक्षत्वं कामं प्राप्नोतु, का नो हानिः ! एतेनाक्षेभ्यः परावृत्तं परोक्षमित्यपि प्रतिविहितं । अवैशद्यस्यैव परोक्षलक्षणत्वात् ।
स्यादेतत् ' अतींद्रियं प्रत्यक्षमस्तीत्यतिसाहसमसंभावितत्वात् । यद्य- संभावितमपि कल्प्येत गगनकुसुमादिकमपि कल्प्यं स्यात् । न स्याद्गगनकुसुमादिरप्रसिद्धत्वात् अतीन्द्रियप्रत्यक्षस्य तु प्रमाणसिद्धत्वात् । तथा हि — केवलज्ञानं तावत्किचिज्ज्ञानां कपिलसुगतादीनामसंभवदप्यर्हतः
- संभवत्येव । सर्वज्ञो हि स भगवान् ।
1
ननु सर्वज्ञत्वमेवाप्रसिद्धं किमुच्यते सर्वज्ञोऽर्हन्निति कचिदप्यप्रसिद्धस्य . विषयविशेषे व्यवस्थापयितुमशक्तेरिति चेन्न, सूक्ष्मांतरितदूरार्थाः कस्य. चित्प्रत्यक्षा अनुमेयत्वादग्न्यादिवदित्यनुमानात्सर्वज्ञत्वसिद्धेः । तदुक्तं स्वामिभिर्महाभाष्यस्यादावाप्तमीमांसाप्रस्तावे -
" सूक्ष्मांतरितदूरार्थाः प्रत्यक्षाः कस्यचिद्यथा । अनुमेयत्वतोऽग्न्यादिरिति सर्वज्ञसंस्थितिः ॥ १ ॥”
सूक्ष्माः स्वभावविप्रकृष्टाः : परमाण्वादयः, अंतरिताः कालविप्रकृष्टा - रामादयः, दूरार्था देशविप्रकृष्टा मेर्वादयः एते स्वभावकालदेशविप्रकृष्टाः पदार्था धर्मित्वेन विवक्षितास्तेषां कस्यचित्प्रत्यक्षत्वं साध्यं । इह प्रत्यक्षत्वं प्रत्यक्षज्ञानविषयत्वं । विषयिधर्मस्य विषयेऽप्युपचारोपपत्तेः । अनुमेयत्वादिति हेतु:, अन्यादिदृष्टांतः । अग्न्यादावनुमेयत्वं कस्य चित्प्रत्यक्षत्वेन • सहोपलब्धं परमाण्वादावपि कस्यचित्प्रत्यक्षत्वं साधयत्येव ।
न चाण्वादावनुमेयत्वमप्रसिद्धं, सर्वेषामप्यनुमेयमात्रे विवादाभावात्। अस्त्वेवं सूक्ष्मादीनां प्रत्यक्षत्व सिद्धिद्वारेण कस्यचिदशेषविषयं प्रत्यक्षज्ञानं । तत्पुनरतींद्रियमिति कथं ? इत्थं यदि तज्ज्ञानमैंद्रियिकं स्यादशेषविषयं न स्यात्, इंद्रियाणां 'स्वयोग्यविषय एव ज्ञानजनकत्वशक्तेः सूक्ष्मादीनां च तदयोग्यत्वादिति । तस्मा• त्सिद्धं तदशेषविषयं ज्ञानमतीन्द्रियमेवेति । अस्मिश्चार्थे सर्वेषां सर्वज्ञवादिनां न • विवादः । यद्वाह्या अप्याहुः "अदृष्टादयः कस्यचित्प्रत्यक्षाः प्रमेयत्वात् " इति ।
Page #14
--------------------------------------------------------------------------
________________
.
१३
द्वितीयः प्रकाशः। नन्वस्त्वेवमशेषविषयसाक्षात्कारित्वलक्षणमतींद्रियप्रत्यक्षज्ञानं, तच्चाहत इति कथं ? कस्यचिदिति सर्वनाम्नः सामान्यज्ञापकादिति चेत्, सत्यं, प्रकृतानुमानात्सामान्यतः सर्वज्ञत्वसिद्धिः । अर्हत एतदिति पुनरनुमानांतरात् । तथा हि-अर्हन् सर्वज्ञो भवितुमर्हति निर्दोषत्वात् । यस्तु न सर्वज्ञो नासौ निर्दोषो, यथा रथ्यापुरुष इति केवलव्यतिरेकिलिंगकमनुमानं । __ आवरणरागादयो दोषास्तेभ्यो निष्क्रांतवं हि निर्दोषत्वं । तत्खलु: सर्वज्ञमंतरेण नोपपद्यते किंचिज्ज्ञस्यावरणादिदोषरहितत्वविरोधात् । ततो निर्दोषत्वमर्हति विद्यमानं सार्वइयं साधयत्येव । निर्दोषत्वं पुनरर्हत्परमेष्ठिनि युक्तिशास्त्राविरोधिवाक्त्वात्सिध्यति । युक्तिशास्त्राविरोधिवाक्त्वं च तदभिमतस्य मुक्तिसंसारतत्कारणत्वस्यानेकधर्मात्मकचेतनाचेतनात्मकतत्त्वस्य प्रमाणाबाधितत्वात्सुव्यवस्थितमेव ।
एवमपि सर्वज्ञत्वमर्हत एवेति कथं कपिलादीनामपि संभाव्यमानत्वादिति चेदुच्यते-कपिलादयो न सर्वज्ञाः सदोषत्वात् , सदोषत्वं तु तेषां न्यायागमविरुद्धभाषित्वात् । तच्च तदभिमतमुक्त्यादितत्त्वस्य सर्वथैकांतस्य च प्रमाणबाधितत्वात् । तदुक्तं स्वामिभिरेव
"स त्वमेवासि निर्दोषो युक्तिशास्त्राविरोधिवाक् । अविरोधो यदिष्टं ते प्रसिद्धेन न बाध्यते ॥ १ ॥ त्वन्मतामृतबाह्यानां सर्वथैकांतवादिनां ।
आप्ताभिमानदग्धानां स्वेष्टं दृष्टेन बाध्यते ॥ २॥" इति कारिकाद्वयेनैतयोरेव परात्माभिमततत्त्वबाधाबाधयोः समर्थनं प्रस्तुत्यः भावैकांते इत्युपक्रम्य स्यात्कारः सत्यलांच्छन इत्यंत आप्तमीमांसासंदर्भ इति कृतं विस्तरेण । तदेवमतीन्द्रियं केवलज्ञानमर्हतं एवेति सिद्धं । तद्वचनप्रामाण्याचावधिमनःपर्यययोरतीन्द्रिययोः सिद्धिरित्यतीन्द्रियप्रत्यक्षमनवा । ततः स्थितं सांव्यवहारिकं पारमार्थिक चेति द्विविध प्रत्यक्षमिति ।
. इति द्वितीयः प्रकाशः।
Page #15
--------------------------------------------------------------------------
________________
न्यायदीपिका।
अथ तृतीयः प्रकाशः। _ अथ परोक्षप्रमाणनिरूपणं प्रक्रम्यते । अविशदप्रतिभासं परोक्षं । अत्र परोक्षं लक्ष्यं, अविशदप्रतिभासत्वं लक्षणं । यस्य ज्ञानस्य प्रतिभासो विशदो न भवति तत्परोक्षप्रमाणमित्यर्थः । वैशद्यमुक्तलक्षणं । ततोऽन्यदवैशद्यमस्पष्टत्वं । तदप्यनुभवसिद्धमेव ।
सामान्यमात्रविषयत्वं परोक्षप्रमाणमिति केचित् , तन्न प्रत्यक्षस्येव परोक्षस्यापि सामान्यविशेषात्मकवस्तुविषयत्वेन तस्य लक्षणस्यासंभवित्वात् । तथा हि । घटादिविषयेषु प्रवर्तमानं प्रत्यक्षप्रमाणं तद्गतं सामान्याकारं घटत्वादिकं व्यावृत्ताकारं च व्यक्तिरूपं युगपदेव प्रकाशयदुपलब्धं तथा परोक्षमपि । इति न सामान्यमात्रविषयत्वं परोक्षलक्षणं । अपि त्ववैशद्यमेव । __सामान्यविशेषयोरेकतरविषयत्वे तु प्रमाणत्वस्यैवानुपपत्तिः, सर्वप्रमाणानां सामान्यविशेषात्मकवस्तुविषयत्वाभ्यनुज्ञानात् । तदुक्तं “ सामान्यविशेषात्मा तदर्थो विषयः ” इति । तस्मात्सुष्ठुक्तं " अविशदावभासनं परोक्षम् " इति । ___ तत्पंचविधं-स्मृतिः प्रत्यभिज्ञानं तर्कोऽनुमानमागमश्चेति । पंचविधस्याप्यस्य परोक्षस्य प्रत्ययांतरसापेक्षत्वेनैवोत्पत्तिः । तद्यथा, स्मरणस्य प्राक्तनानुभवापेक्षा, प्रत्यभिज्ञानस्य स्मरणानुभवापेक्षा, तर्कस्यानुभवस्मरणप्रत्यभिज्ञानापेक्षा, अनुमानस्य च लिंगदर्शनाद्यपेक्षा, आगमस्य शब्दश्रवणसंकेतग्रहणाद्यपेक्षा । प्रत्यक्षं तु न तथा स्वातंत्र्येणैवोत्पत्तेः । स्मरणादीनां प्रत्ययांतरापेक्षा तु तत्र तत्र निवेदयिष्यते । ___ तत्र का नाम स्मृतिः । तदित्याकारा प्रागनुभूतवस्तुविषया स्मृतिः । यथा स देवदत्त इति । अत्र हि प्रागनुभूत एव देवदत्तस्तत्तया प्रतीयते । तस्मादेषा प्रतीतिस्तत्तोल्लेखिन्यनुभूतविषया च, अननुभूते विषये तदनुत्पत्तेः । तन्मूलं चानुभवो धारणारूप एव । अवग्रहाद्यनुभूतेऽपि धारणाया अभावे रतिजननायोगात् । धारणा हि तथा आत्मानं संस्करोति यथासावात्मा
Page #16
--------------------------------------------------------------------------
________________
तृतीयः प्रकाशः। कालांतरेऽपि तस्मिन् विषये ज्ञान-मुत्पादयति । तदेतद्धारणाविषयं समुत्पन्नं तत्तोल्लेखि ज्ञानं स्मृतिरिति सिद्धं ।
नन्वेवं धारणागृहीत एव स्मरणस्योत्पत्तौ गृहीतग्राहित्वादप्रामाण्यं प्रसज्यत इति चेन, विषयविशेषसद्भावादीहादिवत् । यथा हि-अवग्रहादिगृहीतविषयाणामीहादीनां विषयविशेषसद्भावात्स्वविषयसमारोपव्यवच्छेदकत्वेन प्रामाण्यं तथा स्मरणस्यापि धारणागृहीतविषयप्रवृत्तावपि प्रामाण्यमेव । धारणाया हीदंतावच्छिन्नो विषयः, स्मरणस्य तु तत्तावच्छिन्नः । तथा च स्मरणं स्वविषयास्मरणादिसमारोपव्यवच्छेदकत्वात्प्रमाणमेव । तदुक्तं प्रमेयकमलमार्तडे "विस्मरणसंशयविपर्यासलक्षणः समारोपोऽस्ति तन्निराकरणाचास्याः स्मृतेः प्रामाण्यं " इति । यदि चानुभूते प्रवृत्तमित्येतावतां स्मरणमप्रमाणं स्यात्तर्हि-अनुमितेऽनौ पश्चात्प्रवृत्तं प्रत्यक्षमप्यप्रमाणं स्यात् । - अविसंवादित्वाच्च प्रमाणं स्मृतिः प्रत्यक्षादिवत् । न हि स्मृत्वा निक्षेपादिषु प्रवर्तमानस्य विषयविसंवादोस्ति । यत्र त्वस्ति विसंवादस्तत्र स्मरणस्याभासत्वं प्रत्यक्षाभासवत् । तदेवं स्मरणाख्यं पृथक् प्रमाणमस्तीति सिद्ध ।
अनुभवस्मृतिहेतुकं संकलनात्मकं ज्ञानं प्रत्यभिज्ञानं । इदंतोल्लेखि ज्ञानमनुभवः । तत्तोल्लेखि ज्ञानं स्मरणं । तदुभयसमुत्थं पूर्वोत्तरैक्यसादृश्यवैलक्षण्यादिविषयं यत्संकलनरूपं ज्ञानं जायते तत्प्रत्यभिज्ञनामिति ज्ञातव्यं । यथा स एवायं जिनदत्तो, गोसदृशो गवयो, गोविलक्षणो महिष इत्यादि । ___ अत्र हि पूर्वस्मिन्नुदाहरणे जिनदत्तस्य पूर्वोत्तरदशाद्वयव्यापकमेकत्वं प्रत्यभिज्ञानस्य विषयः, तदिदमेकत्वप्रत्यभिज्ञानं । द्वितीये तु पूर्वानुभूत. गोप्रतियोगिकं गवयनिष्ठं सादृश्यं । तदिदं सादृश्यप्रत्यभिज्ञानं । तृतीये तु पुनःप्रागनुभूतगोप्रतियोगिकं महिषनिष्ठं वैसादृश्यं । तदिदं वैसादृश्यप्रत्यभिज्ञानं । एवमन्येऽपि प्रत्यभिज्ञानभेदा यथाप्रतीति स्वयमुत्प्रेक्ष्याः । अत्र सर्वत्रापि अनुभवस्मृतिसापेक्षात्वात्तद्धेतुकत्वं ।
केचिदाहुः “ अनुभवस्मृतिव्यतिरिक्त प्रत्यभिज्ञानं नास्ति' इति तद
Page #17
--------------------------------------------------------------------------
________________
न्यायदीपिका। सत्, अनुभवस्य वर्तमानकालवर्तिविवर्तमात्रप्रकाशकत्वं, स्मृतेश्चातीतविवर्तद्योतकत्वमिति तावद्वस्तुगतिः । कथं नाम तयोरतीतवर्तमानकालसंकलितैक्यसादृश्यादिविषयावगाहित्वं । तस्मादस्ति स्मृत्यनुभवातिरिक्तं तदनंतरभावि संकलनज्ञानं । तदेव प्रत्यभिज्ञानं । ___ अपरे त्वेकत्वप्रत्यभिज्ञानमभ्युपगम्यापि तस्य प्रत्यक्षंतर्भाव कल्पयंति । तद्यथा, यदिद्रियान्वयव्यतिरेकानुविधायि तत्प्रत्यक्षमिति तावत्प्रसिद्धं । इंद्रियान्वयव्यतिरेकानुविधायि चेदं प्रत्यभिज्ञानं तस्मात् प्रत्यक्षमिति । तन्न, इंद्रियाणां वर्तमानदशापरामर्शमात्रोपक्षीणत्वेन वर्तमानातीतदशाव्यापकैक्यावगाहित्वाघटनात् । न ह्यविषयप्रवृत्तिरिंद्रयाणां युक्तिमती, चक्षुषा रसादेरपि प्रतीतिप्रसंगात् ।
ननु सत्यमेतदिद्रियाणां वर्तमानदशावगाहित्वमेवेति, तथापि तानि सहकारिसमवधानसामर्थ्याद्दशाद्वयव्यापिन्येकत्वेपि प्रतीति जनयंतु, अंजनसंस्कृतं चक्षुखि व्यवहितेऽर्थे । नहि चक्षुषो व्यवहितार्थप्रत्यायनसामर्थ्यमस्ति, अंजनसस्कारवशात्तु तथात्वमुपलब्धं । तद्वदेव स्मरणादिसहकृतानींद्रियाण्येव दशाद्वयव्यापकमेकत्वं प्रत्याययिष्यंतीति किं प्रमाणांतरकल्पनाप्रयासेनेति, तदप्यसत्।
सहकारिसहस्रसमवधानेऽप्यविषये प्रवृत्तेरयोगात् । चक्षुषो हि अंजनसंस्कारादिः सहकारी स्वविषये रूपादावेव प्रवर्तको न त्वविषये रसादौ । अविषयश्च पूर्वोत्तरावस्थाव्यापकमेकत्वमिंद्रियाणां । तस्मात्तत्प्रत्यायनाय प्रमाणांतरमन्वेषणीयमेव । सर्वत्रापि विषयविशेषद्वारेण प्रमाणभेदव्यवस्थापनात् । __किंचास्पष्टैवेयं तदेवेदमिति प्रतिप्रत्तिः, तस्मादपि न तस्याः प्रत्यक्षेऽतर्भाव इति । अवश्यं चैतदेवं विज्ञेयं चक्षुरादरैक्यप्रतीतिजननसामर्थ्य नास्तीति । अन्यथा लिंगदर्शनव्याप्तिस्मरणादिसहकृतचक्षुरादिकमेव वयादिलिंगिज्ञानं जनयेदिति नानुमानमपि पृथक् प्रमाणं स्यात् । स्वविषयमात्र एव चरितार्थत्वाचक्षुरादिकमिंद्रियं न लिंगिनि प्रवर्तितुं प्रगल्भमिति चेत्
Page #18
--------------------------------------------------------------------------
________________
तृतीयः प्रकाशः। प्रकृतेन किमपराद्धं ? ततः स्थितं प्रत्यभिज्ञानाख्यं पृथक्प्रमाणमस्तीति ।
सादृश्यप्रत्यभिज्ञानमुपमानाख्यं पृथक् प्रमाणमिति केचित् कथयति तदसत्, स्मृत्यनुभवपूर्वकसंकलनज्ञानत्वेन प्रत्यभिज्ञानत्वानतिवृत्तेः । अन्यथा गोविलक्षणो महिष इत्यादिविसदृशवप्रत्ययस्य इदमस्माइरमित्यादेश्च प्रत्ययस्य सप्रतियोगिकस्य पृथक्प्रमाणत्वं स्यात्। ततो वैसादृश्यादिप्रत्ययवत् सादृश्यप्रत्ययस्यापि प्रत्यभिज्ञानलक्षणाक्रांतत्वेन प्रत्यभिज्ञानत्वमेवेति प्रामाणिकपद्धतिः।
अस्तु प्रत्यभिज्ञानं, कस्तर्हि तर्कः ? व्याप्तिज्ञानं तर्कः । साध्यसाधनयोर्गम्यगमकभावप्रयोजको व्यभिचारगंधासहिष्णुः संबंधविशेषो व्याप्तिरविनाभाव इति च व्यपदिश्यते । तत्सामर्थ्यात्खल्वग्न्यादि धूमादिरेव गमयति नतु घटादिस्तदभावात् । तस्याश्चाविनाभावापरनाम्न्या व्याप्तेः प्रमितौ यत्साधकतम तदिदं तर्काख्यं पृथक् प्रमाणमित्यर्थः । तदुक्तं श्लोकवार्तिकभाष्ये “ साध्यसाधनसंबंध्यज्ञाननिवृत्तरूपे हि फले साधकतमस्तर्कः " इति । ऊह इति तर्कस्यैव व्यपदेशांतरं। स च तर्कस्तां व्याप्ति सकलदेश. कालोपसंहारेण विषयीकरोति ।
किमस्योदाहरणं ? उच्यते, यत्र यत्र धूमवत्त्वं तत्र तत्राग्निमत्त्वमिति । अत्र हि धूमे सति भूयोग्न्युपलंभे ' सर्वत्र सर्वदा धूमोऽग्नि न व्यभिचरति ' एवं सर्वोपसंहारेणाविनाभाविज्ञानं पश्चादुत्पन्नं तर्काख्यं प्रत्यक्षादेः पृथगेव । प्रत्यक्षस्य सन्निहितदेश एव धूमाग्निसंबंधप्रकाशनान्न व्याप्तिप्रकाशकत्वं । सर्वोपसंहारवती हि व्याप्तिः । - ननु यद्यपि प्रत्यक्षमात्रं व्यातिविषयीकरणे शक्तं न भवति तथापि विशिष्टं प्रत्यक्षं तत्र शक्तमेव । तथा हि महानसादौ तावत्प्रथमं धूमाग्न्योदर्शनमेकं प्रत्यक्षं । तदनंतरं भूयो भूयः प्रत्यक्षाणि प्रवर्तते । तानि च प्रत्यक्षाणि न सर्वाणि व्याप्तिविषयीकरणे समर्थानि, अपि तु पूर्वपूर्वानुभूतधूमाग्निस्मरणतत्सजातीयत्वानुसंधानरूपप्रत्यभिज्ञानसहकृतः कोपि प्रत्यक्षविशेषो व्याप्तिं गृह्णाति । तथा च, स्मरणप्रत्यभिज्ञानसहकृते प्रत्यक्षविशेषे
Page #19
--------------------------------------------------------------------------
________________
न्यायदीपिका। व्याप्तिविषयीकरणसमर्थे किं तर्काख्येन पृथक्प्रमाणेनेति केचित्, तेऽपि न्यायमार्गानभिज्ञाः " सहकारिसहस्रसमवधानेऽप्यविषये प्रवृत्तिर्न घटते" इत्युक्तत्वात् । तस्मात्प्रत्यक्षेण व्याप्तिग्रहणमसमंजसं। इदं समंजसं-स्मरणं प्रत्यभिज्ञानं भूयोदर्शनरूपं प्रत्यक्षं च मिलित्वा तादृशमेकं ज्ञानं जनयति यद्वयाप्तिग्रहणसमर्थमिति, तर्कश्च स एव । अनुमानादिकं तु व्याप्तिग्रहणं प्रत्यसंभाव्यमेव ।
बौद्धास्तु प्रत्यक्षपृष्ठभावी विकल्पो व्याप्तिं गृह्णातीति मन्यते । त एवं प्रष्टव्याः, स हि विकल्पः किमप्रमाणमुत प्रमाणमिति । यद्यप्रमाणं कथं नाम तद्गृहीतायां व्याप्तौ समाश्वासः ? अथ प्रमाणं किं प्रत्यक्षमथवाऽनुमानं ? न तावत्प्रत्यक्षमस्पष्टप्रतिभासत्वात् , नाप्यनुमानं लिंगदर्शनाद्यनपेक्षत्वात् । ताभ्यामन्यदेव किंचित्प्रमाणमिति चेदागतस्तर्हि तर्कः । तदेवं तर्काख्यं प्रमाणं निर्णीतं । इदानीमनुमानमनुवर्ण्यते । ____ साधनात्साध्यविज्ञानमनुमानं । इहानुमानमिति लक्ष्यनिर्देशः, साधनात्साध्यविज्ञानमिति लक्षणकथनं । साधनाद्भुमादेलिंगात्साध्येऽग्न्यादौ लिंगिनि यद्विज्ञानं जायते तदनुमानम् । तस्यैवाग्न्याद्यव्युत्पत्तिविच्छित्तिकरणत्वात् । न पुनः साधनज्ञानमनुमानं, तस्य साधनाव्युत्पत्तिविच्छेदमात्रोपक्षीणत्वेन साध्याज्ञाननिवर्तकत्वायोगात् । __ ततो यदुक्तं नैयायिकैः " लिंगपरामर्शोऽनुमानं " इति अनुमानलक्षणं तदविनीतविलसितमिति निवेदितं भवति । वयं त्वनुमानप्रमाणस्वरूपलाभेव्याप्तिस्मरणसहकृतो लिंगपरामर्शः करणमिति मन्यामहे । स्मृत्यादिस्वरूपलाभे अनुभवादिवत् । तथा हि, धारणाख्योऽनुभवः स्मृतौ हेतुः । तादात्विकानुभवस्मृती प्रत्यभिज्ञाने, स्मृतिप्रत्यभिज्ञानानुभवाः साध्यसाधनविषयास्तकें । तद्वलिंगज्ञानं व्याप्तिस्मरणादिसहकृतमनुमानोत्पत्तौ निबंधनमित्येतत्सुसंगतमेव ।
ननु भवतां मते साधनमेवानुमाने हेतुर्न तु साधनज्ञानं, साधनात्सा
Page #20
--------------------------------------------------------------------------
________________
तृतीयः प्रकाशः।
ध्यविज्ञानमनुमानमिति वचनादिति चेन, साधनादित्यत्र निश्चयपथप्राप्ताभृमादेरिति विवक्षणात् । अनिश्चयपथप्राप्तस्य धूमादेः साधनत्वस्यैवाघटनात् । तथा चोक्तं श्लोकवार्तिके " साधनात्साध्यविज्ञानमनुमानं विदुर्बुधाः" इति । साधनाज्ञायमानाडूमादेः, साध्येऽग्न्यादौ लिंगिनि यद्विज्ञानं तदनुमानं । अज्ञायमानस्य तस्य साध्यज्ञानजनकत्वे हि सुप्तादीनामगृहीतधूमादीनामप्यग्न्यादिज्ञानोत्पत्तिप्रसंगः । तस्माज्ज्ञायमानलिंगकारणकस्य साध्यज्ञानस्यैव साध्याव्युत्पत्तिनिराकारकत्वेनानुमानत्वं । न तु लिंगपरामर्शादेरिति बुधाः प्रामाणिका विदुरिति वार्तिकार्थः ।
किं तत्साधनं यद्धेतुकं साध्यज्ञानमनुमानमिति चेदुच्यते निश्चितसाध्यान्यथानुपपत्तिकं साधनं । यस्य साध्याभावासंभवनियमरूपा व्यायविनाभावाद्यपरपर्याया साध्यान्यथानुपपत्तिस्तकांख्येन प्रमाणेन निर्णीता तत्साधनमित्यर्थः । तदुक्तं कुमारनंदिभट्टारकैः “ अन्यथानुपपत्त्येकलक्षणं लिंगमभ्यत" इति । _ किं तत्साध्यं यदविनाभावः साधनलक्षणं ? उच्यते । शक्यमभिप्रेतमप्रसिद्ध साध्यं । यत्प्रत्यक्षादिप्रमाणाबाधितत्वेन साधयितुं शक्यं, वाद्यभिमतत्वेनाभिप्रेतं, संदेहाद्याक्रांतत्वेनाप्रसिद्धं, तदेव साध्यं । अशक्यस्य साध्यत्वे वह्नयनुष्णत्वादेरपि साध्यत्वप्रसंगात् । प्रसिद्धस्य साध्यत्वे पुनरनुमानवैयर्थ्यात् । तदुक्तं न्यायविनिश्चये
" साध्यं शक्यमभिप्रेतमप्रसिद्धं ततोऽपरं ।
साध्याभासं विरुद्धादि साधनाविषयत्वतः ॥ इति ।" अयमर्थः-यच्छक्यमभिप्रेतमप्रसिद्धं तत्साध्यं । ततोऽपरं साध्याभासं । किं तत् ? विरुद्धादि । विरुद्धं प्रत्यक्षादिबाधितं । आदिशब्दादनभिप्रेतं प्रसिद्धं चेति । कुत एतत् ? साधनाविषयत्वतः साधनेन गोचरीकर्तुमशक्यत्वात् । इत्यकलंकदेवानामभिप्रायलेशः, तदभिप्रायसाकल्यं तु स्याद्वादविद्यापतिर्विवेद । साधनसाध्यद्वयमधिकृत्य श्लोकवार्तिकं च
Page #21
--------------------------------------------------------------------------
________________
२०
न्यायदीपिका।
“अन्यथानुपपत्त्येकलक्षणं तत्र साधनं ।
साध्यं शक्यमभिप्रेतमप्रसिद्धमुदाहृतं ॥” इति तदेवमविनाभावैकलक्षणात् साधनाच्छक्याभिप्रेताप्रसिद्धरूपस्य साध्यस्य ज्ञानमनुमानमिति सिद्धं ।
तदनुमानं द्विविधं स्वार्थ परार्थं च । तत्र स्वयमेव निश्चितात्साधनात्साध्यज्ञानं स्वार्थानुमानं । परोपदेशमनपेक्ष्य स्वयमेव निश्चितात्प्राक्तर्कानुभूतव्याप्तिस्मरणसहकृताद्धमादेः साधनादुत्पन्नं पर्वतादौ धर्मिण्यग्न्यादेः साध्यस्य ज्ञानं स्वार्थानुमानमित्यर्थः । यथा पर्वतोऽयमग्निमान्धूमवत्त्वादिति । अयं हि स्वार्थानुमानस्य ज्ञानरूपस्यापि शब्देनोल्लेखः, यथायं घट इति शब्देन प्रत्यक्षस्य; पर्वतोयमग्निमान्धूमवत्त्वादित्यनेन प्रकारेण प्रमाता जानातीति स्वार्थानुमानस्थितिरवगंतव्या ।
अस्य च स्वार्थानुमानस्य त्रीण्यंगानि-धर्मी, साध्यं, साधनं च । तत्र साधनं गमकत्वेनांगं । साध्यं तु गम्यत्वेन । धर्मी पुनः साध्यधर्माधारत्वेन । आधारविशेषनिष्ठतया हि साध्यसिद्धिरनुमानप्रयोजनं, धर्ममात्रस्य तु व्याप्तिनिश्चियकाल एव सिद्धत्वात् , यत्र यत्र धूमवत्त्वं तत्र तत्राग्निमत्त्वमिति । ___ पक्षो हेतुरित्यंगद्वयं स्वार्थानुमानस्य, साध्यधर्मविशिष्टस्य धर्मिणः पक्षत्वात् । तथा च स्वार्थानुमानस्य धर्मिसाध्यसाधनभेदात्त्रीण्यंगानि, पक्षसाधनभेदादंगद्वयं चेति सिद्धं, विवक्षाया वैचित्र्यात् । पूर्वत्र हि धर्मिधर्मभेदविवक्षा । उत्तरत्र तु तत्समुदायविवक्षा । स एव धर्मित्वेनाभिमतः प्रसिद्ध एव । तदुक्तमभियुक्तैः " प्रसिद्धो धर्मी " इति । . प्रसिद्धत्वं च धर्मिणः कचित्प्रमाणात्कचिद्विकल्पात्कचित्प्रमाणविकल्पाभ्यां । तत्र प्रत्यक्षाद्यन्यतमावधृतत्वं प्रमाणप्रसिद्धत्वं । अनिश्चितप्रामाण्याप्रामाण्यप्रत्ययगोचरत्वं विकल्पप्रसिद्धत्वं । तद्वयविषयत्वं प्रमाणविकल्पप्रसिद्धत्वं ।
तत्र प्रमाणसिद्धो धर्मी यथा धूमवत्त्वादग्निमत्त्वे साध्ये पर्वतः खलु
Page #22
--------------------------------------------------------------------------
________________
तृतीयः प्रकाशः।
२१
प्रत्यक्षेणानुभूयते । विकल्पसिद्धो यथा, सर्वज्ञः अस्ति सुनिश्चितासंभवद्वाधकप्रमाणत्वादित्यस्तित्वे साध्ये सर्वज्ञः । अथवा खरविषाणं नास्तीति । नास्तित्वे साध्ये खरविषाणं । सर्वज्ञो ह्यस्तित्वसिद्धेः प्राङ् न प्रत्यक्षादिप्रमाणसिद्धः । अपि तु प्रतीतिमात्रसिद्ध इति विकल्पसिद्धोऽयं धर्मी । तथा खरविषाणमपि नास्तित्वसिद्धेः प्राग विकल्पसिद्धं ।
उभयसिद्धो धर्मी यथा शब्दः परिणामी कृतकत्वादित्यत्र शब्दः । स हि वर्तमानः प्रत्यक्षगम्यः, भूतो भविष्यंश्च विकल्पगम्यः । स सर्वोऽपि धर्माति प्रमाणविकल्पसिद्धो धर्मी । प्रमाणोभयसिद्धयोः साध्यं कामचारः । विकल्पसिद्धे तु धर्मिणि सत्तासत्तयोरेव साध्यत्वामति नियमः, तदुक्तं " विकल्पसिद्धे तस्मिन्सत्तेतरे साध्ये” इति । तदेवं परोपदेशानपेक्षिणः साधनाद् दृश्यमानाद्धर्मिनिष्ठतया साध्ये यद्विज्ञानं तत्स्वार्थानुमानमिति स्थितम् । तदुक्तं
" परोपदेशाभावेऽपि साधनात्साध्यबोधनं । __ यद्रष्टुर्जायते स्वार्थमनुमानं तदुच्यते ॥” इति । परोपदेशमपेक्ष्य साधनात्साध्यविज्ञानं तत्परार्थानुमानं । प्रतिज्ञाहेतुरूपपरोपदेशवशाच्छोतुरुत्पन्नं साधनात्साध्यविज्ञानं परार्थानुमानमित्यर्थः । यथा पर्वतोऽयमग्निमान् भवितुमर्हति धूमवत्त्वान्यथानुपपत्तेरिति वाक्ये केनचित्प्रयुक्ते तद्वाक्याथै पालोचयतः स्मृतव्याप्तिकस्य श्रोतुरनुमानमुपजायते । ___ परोपदेशवाक्यमेव परार्थानुमानमिति केचित् , त एवं प्रष्टव्याः, तत्कि मुख्यानुमानमथवा गौणानुमानमिति ? न तावन्मुख्यानुमानं, वाक्यस्याज्ञानरूपत्वात् । गौणानुमानं तद्वाक्यमिति त्वनुमन्यामहे, तत्कारणे तद्वयपदेशोपपत्तेरायुर्वं घृतमित्यादिवत् । तस्यैतस्य परार्थानुमानस्यांगसम्पत्तिः, स्वार्थानुमानवत्परार्थानुमानप्रयोजकस्य च वाक्यस्य द्वाववयवौ, प्रतिज्ञाहेतुश्च । ___ तत्र धर्मधर्मिसमुदायरूपस्य पक्षस्य वचनं प्रतिज्ञा । यथा पर्वतोऽयमग्निमानिति । साध्याविनाभाविसाधनवचनं हेतुः । यथा धूमवत्त्वान्य
Page #23
--------------------------------------------------------------------------
________________
न्यायदीपिका। थानुपपत्तेरिति, तथैव धूमवत्त्वोपपत्तेरिति वा । अनयोहेतुप्रयोगयोरुक्तिवैचित्र्यमात्रं । पूर्वत्र धूमवत्त्वान्यथानुपपत्तेरित्ययमर्थः-धूमवत्त्वस्यानिमत्त्वाभावेऽनुपपत्तेरिति निषेधमुखेन प्रतिपादनं । द्वितीये तु तथैव धूमवत्त्वोपपत्तेरिति अयमर्थः-अग्निमत्त्वे सत्येव धूमवत्त्वोपपत्तेरिति विधिमुखेन कथनं । अर्थस्तु न भिद्यते, उभयत्राप्यविनाभाविसाधनाभिधानाविशेषात् । ततस्तयोर्हेतुप्रयोगयोरन्यतर एव वक्तव्य उभयप्रयोगे पौनरुक्त्यात् । तथा चोक्तलक्षणा प्रतिज्ञा, एतयोरन्यतरो हेतुप्रयोगश्चेत्यवयवद्वयं परार्थानुमानवाक्यस्येति, व्युत्पन्नस्य श्रोतुस्तावन्मात्रेणैवानुमित्युदयात् ।
नैयायिकास्तु परार्थानुमानप्रयोगस्य यथोक्ताभ्यां द्वाभ्यामवयवाभ्यां सममुदाहरणमुपनयो निगमनं चेति पंचावयवानाहुः । तथा च ते सूत्रयंति " प्रतिज्ञाहेतूदाहरणोपनयनिगमनान्यवयवाः" इति । तांश्च ते लक्षणपुरस्सरमुदाहरति । तद्यथा-" पक्षवचनं प्रतिज्ञा, यथा पर्वतोयमग्निमानिति । साधनत्वप्रकाशनार्थ पंचम्यंतं लिंगवचनं हेतुः, यथा धूमवत्त्वादिति । व्याप्तिपूर्वकदृष्टांतवचनमुदाहरणं । यथा यो यो धूमवानसावसावग्निमान्यथा महानसः इति साधर्योदाहरणं । यो योऽग्निमान्न भवति स स धूमवान्न भवति यथा महाहृदः इति वैधोदाहरणं । पूर्वत्रोदाहरणभेदे हेतोरन्वयव्याप्तिः प्रदर्श्यते । द्वितीये तु व्यतिरेकव्याप्तिः । तद्यथा-अन्वयव्याप्तिप्रदर्शनस्थानमन्वयदृष्टांतः । व्यतिरेकव्याप्तिप्रदर्शनप्रदेशो व्यतिरेकदृष्टांतः । एवं दृष्टांतद्वैविध्यात्तद्वचनस्योदाहरणस्यापि द्वैविध्यं बोद्धव्यं । अनयोश्चोदाहरणयोरन्यतरप्रयोगेणैव पर्याप्तत्वादितराप्रयोगः । दृष्टांतापेक्षया पक्षहेतोरुपसंहारवचनमुपनयः, तथा चायं धूमवानिति । हेतुपूर्वकं पक्षवचनं. निगमनं, तस्मादग्निमानेवेति । एते पंचावयवाः परार्थानुमानप्रयोगस्य । तदन्यतमाभावे वीतरागकथायां विजिगीषुकथायां वा नानुमितिरुदेति " इति नैयायिकानामभिमतं । तदेतदविमृश्याभिमननं । वीतरागकथायां तु प्रतिपाद्याशयानुरोधेनावयवाधिक्येऽपि विजिगीषुकथायां प्रतिज्ञाहेतुरूपाव
Page #24
--------------------------------------------------------------------------
________________
तृतीयः प्रकाशः। . २३ यवद्वयेनैव पर्याप्तेः किमप्रयोजनैरन्यैरवयवैः । ___ तथा हि, वादिप्रतिवादिनोः स्वमतस्थापनार्थ जयपराजयपर्यंतं परस्परं प्रवर्तमानो वाग्व्यापारो विजिगीषुकथा । गुरुशिष्याणां विशिष्टविदुषां वा रागद्वेषरहितानां तत्त्वनिर्णयपर्यंतं परस्परं प्रवर्तमानो वाग्व्यापारो वीतरागकथा । तत्र विजिगीषुकथा वाद इति चोच्यते । केचिद्वीतरागकथा वाद इति कथयति तत्पारिभाषिकमेव । नहि लोके गुरुशिष्यादिवाग्व्यापारे वादव्यवहारः, विजिगीषुवाग्व्यवहार एव वादत्वप्रसिद्धेः यथा स्वामिसमंतभद्राचार्यैः सर्वे सर्वथैकांतवादिनो वादे जिता इति । ___ तस्मिंश्च वादे परार्थानुमानवाक्यस्य प्रतिज्ञा हेतुरित्यवयवद्वयमेवोपकारकं, नोदाहरणादिकं । तद्यथा, लिंगवचनात्मकेन हेतुना तावदवश्यं भवितव्यं । लिंगज्ञानाभावेऽनुमितेरेवानुदयात् । पक्षवचनरूपया प्रतिज्ञयापि च भवितव्यं, अन्यथाऽभिमतसाध्यनिश्चयाभावे साध्यसंदेहवतः श्रोतुरनुमित्यनुदयात् । तदुक्तं " एतद्वयमेवानुमानांगं," इति । अयमर्थः-एतयोः प्रतिज्ञाहेत्वोयमेवानुमानस्य परार्थानुमानस्यांगम् । वादे इति शेषः । एवकारेणावधारणपरेण नोदाहरणादिकमिति सूचितं भवति । व्युत्पन्नस्यैव हि वादाधिकारः । प्रतिज्ञाहेतुप्रयोगमात्रेणैवोदाहरणादिप्रतिपाद्यस्यार्थस्य गम्यमानस्य व्युत्पन्नेन ज्ञातुं शक्यत्वात् । गम्यमानस्याप्यभिधाने पौनरुत्तयप्रसंगात ।
स्यादेतत् । प्रतिज्ञाप्रयोगेऽपि पौनरुक्त्यमेव, तदभिधेयस्य पक्षस्यापि प्रस्तावादिना गम्यमानत्वात् । तथा च, “लिंगवचनलक्षणो हेतुरेक एव वादे प्रयोक्तव्यः" इति वदन् बौद्धः पशुरात्मनो दुर्विदग्धतामुद्घोषयति । हेतुमात्रप्रयोगे व्युत्पन्नस्यापि साध्यसंदेहानिवृत्तेः । तस्मादवश्यं प्रतिज्ञा प्रयोक्तव्या । तदुक्तं " साध्यसंदेहापनोदाथै गम्यमानस्यापि पक्षस्य वचनं " इति । तदेवं वादापेक्षया परार्थानुमानस्य प्रतिज्ञाहेतुरूपमवयवद्वयमेव, न न्यूनं, नाधिकमिति स्थितम् । प्रपंचः पुनरवयवविचारस्य पत्रपरीक्षायामीक्षणीयः ।
Page #25
--------------------------------------------------------------------------
________________
२४
याचदीपिका।
.
वीतरागकथायां तु प्रतिपाद्याशयानुरोधेन प्रतिज्ञाहेतू द्वाववयवौ, प्रतिज्ञाहेतूदाहरणानि त्रयः, प्रतिज्ञाहेतूदाहरणोपनयाश्चत्वारः, प्रतिज्ञाहेतूदाहरणोपनयनिगमनानि वा पंचेति यथायोग्यं प्रयोगपरिपाटी । तदुक्तं कुमारनंदिभट्टारकैः " प्रयोगपरिपाटी तु प्रतिपाद्यानुरोधतः ” इति । तदेवं प्रतिज्ञादिरूपात्परोपदेशादुत्पन्नं परार्थानुमानम् । तदुक्तं
“परोपदेशसापेक्षं साधनात्साध्यवेदनं ।
श्रोतुर्यज्जायते सा हि परार्थानुमितिर्मता ॥" तथा च स्वार्थ पंरा चेति द्विविधमनुमानं साध्याविनाभावनिश्चयैकलक्षणाद्धेतोरुत्पद्यते ।
इत्थमन्यथानुपपत्त्येकलक्षणो हेतुरनुमितिप्रयोजक इति प्रथितेऽप्याहतमते तदेतदवितान्येऽन्यथाप्याहुः । तत्र तावत्ताथागताः-"पक्षधर्मत्वादित्रितयलक्षणालिंगादनुमानोत्थानं " इति वर्णयति । तथा हि " पक्षधर्मत्वं सपक्षे सत्त्वं विपक्षाद्वयावृत्तिरिति हेतोस्त्रीणि रूपाणि । तत्र साध्यधर्मविशिष्टो धर्मी पक्षः, यथा धूमध्वजानुमाने पर्वतः । तस्मिन् व्याप्य वर्तमानत्वं हेतोः पक्षधर्मत्वं । साध्यसजातीयधर्मा धर्मी सपक्षः । यथा तत्रैव महानसः । तस्मिन्सर्वत्रैकदेशे वा वर्तमानत्वं हेतोः सपक्षे सत्त्वम् । साध्यविरुद्धधर्मा धर्मी विपक्षः । यथा तत्रैव महाह्रदः, तस्मात्सर्वस्माद् व्यावृत्तत्वं हेतोर्विपक्षाव्यावृत्तिः । तानीमानि त्रीणि रूपाणि मिलितानि हेतोर्लक्षणम् । अन्यतमाभावे हेतोराभासत्वं स्यात्' इति । __तदसंगतं, कृत्तिकोदयादेहेतोरपक्षधर्मस्य शकटोदयादिसाध्यगमकत्वदर्शनात् । तथा हि, शकटं धर्मि मुहूर्तोते उदेष्यति कृत्तिकोदयादिति । अत्र हि, शकटः पक्षः, मुहूर्तते उदयः साध्यः, कृत्तिकोदयो हेतुः, नहि कृत्तिकोदयो हेतुःपक्षीकृते शकटे वर्तते। अतो न पक्षधर्मः। तथाप्यन्यथानुपपत्तिबलाच्छकटोदयाख्यं साध्यं गमयत्येव । तस्माद्वौद्धाभिमतं हेतोर्लक्षणमव्याप्तम् ।
नैयायिकास्तु पाञ्चरूप्यं हेतोर्लक्षणमाचक्षते । तथा हि, पक्षधर्मत्वं
Page #26
--------------------------------------------------------------------------
________________
तृतीयः प्रकाशः। सपक्षे सत्त्वं विपक्षाद्वयावृत्तिरबाधितविषयत्वमसत्प्रतिपक्षत्वं चेति पञ्चरू. पाणि । तत्राद्यानि त्रीण्युक्तलक्षणानि । साध्यविपरीतनिश्चायकप्रबलप्रमाण. रहितत्वमबाधितविषयत्वं, तादृशसमबलप्रमाणशून्यत्वमसत्प्रतिपक्षत्वम् । तद्यथा, पर्वतोयमग्निमान् धूमवत्त्वात् । यो यो धूमवान् स सोऽग्निमान् यथा महानसः, यो योऽग्निमान् न भवति स स धूमवान् न भवति, यथा महाह्रदः । तथा चायं धूमवांस्तस्मादग्निमानेवेति ।
अत्र हि अग्निमत्त्वेन साध्यधर्मेण विशिष्टः पर्वताख्यो धर्मी पक्षः । धूमवत्त्वं हेतुः । तस्य च तावत्पक्षधर्मत्वमस्ति, पक्षीकृते पर्वते वर्तमानत्वात् । सपक्षे सत्त्वमप्यस्ति, सपक्षे महानसे वर्तमानत्वात् । ननु केषुचित्सपक्षेषु धूमवत्त्वं न वर्तते, अंगारावस्थापन्नाग्निमत्सु प्रदेशेषु धूमाभावादिति चेन, सपक्षैकदेशवृत्तेरपि हेतुत्वात् । सपक्षे सर्वत्रैकदेशे वा वृत्तिहेतोः सपक्षे सत्त्वमित्युक्तत्वात् । विपक्षाद्वयावृत्तिरप्यस्ति, धूमवत्त्वस्य सर्वमहाह्रदादिविपक्षाद्वयावृत्तेः । अबाधितविषयत्वमप्यस्ति धूमवत्वस्य हेतोर्यो विषयोऽग्निमत्वाख्यं साध्यं तस्य प्रत्यक्षादिप्रमाणाबाधितत्वात् । असत्प्रतिपक्षत्वमप्यस्ति अग्निरहितत्वसाधकसमबलप्रमाणासंभवात् । तथा च, पांचरूप्यसम्पत्तिरेव धूमवत्त्वस्य साध्यसाधकत्वे निबंधनम् । एवमेव सर्वेषामपि सद्धेतूनां रूपपंचकसम्पत्तिरूहनीया । ___ तदन्यतमविरहादेव खलु पंचहेत्वाभासाः, असिद्धविरुद्धानेकांतिककालात्ययापदिष्टप्रकरणसमाख्याः संपन्नाः। तथा हि, अनिश्चितपक्षवृत्तिरसिद्धः । यथा अनित्यः शब्दश्चाक्षुषत्वात् । अत्र हि चाक्षुषत्वं हेतुः पक्षीकृते शब्दे न वर्तते, श्रावणत्वात् शब्दस्य । तथा च पक्षधर्मत्वविरहादसिद्धत्वं चाक्षुषत्वस्य । साध्यविपरीतव्याप्तो विरुद्धः । यथा नित्यः शब्दः कृतकत्वादिति । कृतकत्वं हेतुः साध्यभूतनित्यत्वविपरीतेनानित्यत्वेन व्याप्तत्वात् , सपक्षे च गगनादावविद्यमानत्वाद्विरुद्धः ।
सव्यभिचारोऽनैकांतिकः । यथा अनित्यः शब्दः, प्रमेयत्वादिति ।
Page #27
--------------------------------------------------------------------------
________________
न्यायदीपिका। प्रमेयत्वं हि हेतुः साध्यभूतमनित्यत्वं व्यभिचरति, गगनादौ विपक्षे नित्यत्वेनापि सहवृत्तेः । ततो विपक्षाद्वयावृत्त्यभावादनैकांतिकः । बाधितविषयः कालात्ययापदिष्टः, यथाऽग्निरनुष्णः पदार्थत्वादिति । अत्र पदार्थत्वं हेतुः स्वविषयेऽनुष्णत्वे उष्णत्वग्राहकेण प्रत्यक्षेण बाधिते प्रवर्तमानोऽबाधितविषयत्वाभावात्कालात्ययापदिष्टः ।।
प्रतिसाधनप्रतिरुद्धो हेतुः प्रकरणसमः । यथा अनित्यः शब्दो नित्यधर्मरहितत्वादिति । अत्र हि नित्यधर्मरहित्वादिति हेतुः प्रतिसाधनेन प्रतिरुद्धः । किं तत्प्रतिसाधनमिति चेत् , नित्यः शब्दोऽनित्यधर्मरहितत्वादिति नित्यत्वसाधनम् । तथा चासत्प्रतिपक्षत्वाभावात् प्रकरणसमत्वं नित्यधर्मरहितत्वादिति हेतोः ।
तस्मात्पांचरूप्यं हेतोर्लक्षणमन्यतमाभावे हेत्वाभासत्वप्रसंगादिति सूक्तम् , हेतुलक्षणरहिता हेतुवदवभासमानाः खलु हेत्वाभासाः । पंचरूपान्यतमशन्यत्वाद्धेतुलक्षणरहितत्वं कतिपयरूपसम्पत्तेर्हेतुवदवभासमानत्वमिति वचनादिति । तदेतत्तदपि नैयायिकाभिमननमनुपपन्नं, कृत्तिकोदयस्य पक्षधर्मरहितस्यापि शकटोदयं प्रति हेतुत्वदर्शनात् पांचरूप्यस्याव्याप्तेः । ___किं च केवलान्वयिकेवलव्यतिरेकिणोर्हेत्वोः पांचरूप्याभावेऽपि गमकत्वं तैरेवांगीक्रियते । तथा हि—ते मन्यते, त्रिविधो हेतुः-अन्वयव्यतिरेकी, केवलान्वयी, केवलव्यतिरेकी चेति । तत्र पंचरूपोपपन्नोऽन्वयव्यतिरेकी, यथा शब्दोऽनित्यो भवितुमर्हति कृतकत्वात् । यद्यत्कृतकं तत्तदनित्यं, यथा घटः । यद्यदनित्यं न भवति तत्तत्कृतकं न भवति, यथाऽऽकाशं । तथा चायं कृतकः, तस्मादनित्य एवेति । अत्र शब्दं पक्षीकृत्यानित्यत्वं साध्यते, तत्र कृतकत्वं हेतुः । तस्य पक्षीकृतशब्दधर्मत्वात्पक्षधर्मत्वमस्ति । सपक्षे घटादौ वर्तमानत्वात् , विपक्षे गगनादाववर्तमानत्वादन्वयव्यतिरेकित्वम्।
पक्षसपक्षवृत्तिर्विपक्षवृत्तिरहितः केत्रलान्वयी । यथाऽदृष्टादयः कस्यचिप्रत्यक्षाः, अनुमेयत्वात् । यद्यदनुमेयं तत्तत्कस्यचित्प्रत्यक्षम् , यथाऽग्न्यादि
Page #28
--------------------------------------------------------------------------
________________
तृतीयः प्रकाशः। रिति । अत्र 'अदृष्टादयः' पक्षः, कस्यचित्प्रत्यक्षत्वं साध्यं, अनुमेयत्वं हेतुः, अग्न्याद्यन्वयदृष्टांतः । अनुमेयत्वं हेतुः पक्षीकृतेऽदृष्टादौ वर्तते, सपक्षभूतेऽग्न्यादौ वर्तते, ततः पक्षधर्मत्वं सपक्षे सत्त्वं चास्ति । विपक्षः पुनरत्र नास्त्येव, सर्वस्यापि पक्षसपक्षांतर्भावात् । तस्माद्विपक्षाद्वयावृत्तिस्त्येिव, व्यावृत्तेरवधिसापेक्षत्वादवधिभूतस्य च विपक्षस्याभावात् । शेषमन्वयव्यतिरंकिवद्रष्टव्यम् ।
पक्षवृत्तिर्विपक्षव्यावृत्तः सपक्षरहितो हेतुः केवलव्यतिरेकी । यथा. जीवच्छरीरं सात्मकं भवितुमर्हति प्राणादिमत्त्वात् । यद्यत्सात्मकं न भवति तत्तत्प्राणादिमन्न भवति, यथा लोष्ठमिति । अत्र जीवच्छरीरं पक्षः, सात्मकत्वं साध्यं, प्राणादिमत्त्वं हेतुः, लोष्ठादिर्व्यतिरेकिदृष्टांतः। प्राणादिमत्त्वं हेतुः पक्षीकृते जीवच्छरीर वर्तते । विपक्षाच्च लोष्ठादेावर्तते । सपक्षः पुनरत्र नास्त्येव । सर्वस्यापि पक्षविपक्षांतर्भावादिति । शेषं पूर्ववत् । ___ एवमेतेषां त्रयाणां हेतूनां मध्येऽन्वयव्यतिरेकिण एव पांचरूप्यं, केवलान्वयिनो विपक्षव्यावृत्त्यभावात् , केवलव्यतिरकिणः सपक्षसत्त्वाभावाच्च नैयायिकमतानुसारेणैव पांचरूप्यव्यभिचारः । अन्यथानुपपत्तेस्तु सर्वहेतुच्याप्तत्वाद्धेतुलक्षणत्वमुचितम् । तदभावे हेतोः स्वसाध्यगमकत्वाघटनात् ।
यदुक्तमसिद्धादिदोषपंचकनिवारणाय क्रमेण पंचरूपाणीति तन्न, अन्यथानुपपत्तिमत्त्वेन निश्चितस्यैवास्मदभिमतलक्षणस्य तन्निवारकत्वसिद्धेः । तथा हि, साध्यान्यथानुपपत्तिमत्त्वे सति निश्चयपथप्राप्तत्वं खलु हेतोर्लक्षणं, साध्याविनाभावित्वेन निश्चितो हेतुरिति वचनात्। न चैतदसिद्धस्यास्ति, शब्दानित्यत्वसाधनायाभिप्रेतस्य चाक्षुषत्वादेः स्वरूपस्यैवाभावे कुतोन्यथानुपपत्तिमत्त्वेन निश्चयपथप्राप्तिः । __ततःसाध्यान्यथानुपपत्तिमत्त्वेन निश्चयपथप्राप्त्यभावादेवास्य हेत्वाभासत्वं, न तु पक्षधर्मत्वाभावात् , अपक्षधर्मस्यापि कृत्तिकोदयादेर्यथोक्तलक्षणसम्पत्ते-- रेख सद्धेतृत्वप्रतिपादनात् । विरुद्धादेस्तु तदभावः स्पष्ट एव । नहि विरुद्धस्य
Page #29
--------------------------------------------------------------------------
________________
न्यायदीपिका । .
व्यभिचारिणो बाधितविषयस्य सत्प्रतिपक्षस्य वान्यथानुपपत्तिमत्वेन निश्च- यपथप्राप्तिरस्ति । तस्माद्यस्यान्यथानुपपत्तिमत्त्वे सति योग्यदेशे निश्वयपप्राप्तिरस्ति स एव सद्धेतु:, अपरस्तदाभास इति स्थितं ।
किच गर्भस्थो मैत्रतनयः श्यामो भवितुमर्हति मैत्रतनयत्वात् सम्प्रतिपन्नमैत्रतनयवदित्यत्रापि त्रैरूप्यपांच रूप्ययोर्बोद्धयौगाभिमतयोरतिव्याप्तेरलक्षणत्वं । तथा हि परिदृश्यमानेषु पंचसु मैत्रपुत्रेषु श्यामतामुपलभ्य तगर्भगतमपि विवादापन्नं पक्षीकृत्य श्यामत्वसाधनाय प्रयुक्तो मैत्रतनयाख्यो तुराभास इति तावत्प्रसिद्धं, अश्यामत्वस्यापि तत्र संभावितत्वात् । तत्संभावना च श्यामत्वं प्रति मैत्रतनयत्वस्यान्यथानुपपत्त्यभावात् । तदभावश्च सहक्रमभावनियमाभावात् ।
२८
"
यस्य हि धर्मस्य येन धर्मेण सहभावनियमः स तं गमयति, यथा शिशपात्वस्य वृक्षत्वेन सहभावनियमो ऽस्तीति शिशपात्वहेतुर्वृक्षत्वं गमयति । यस्य येन क्रमभावनियमः स तं गमयति, यथा धूमस्याग्न्यनंतर भावनियमस्तीति धूमोनिं गमयति । नहि मैत्रतनयत्वस्य हेतुत्वाभिमतस्य श्यामत्वेन साध्यत्वाभिमतेन सहभावः क्रमभावो वा नियमोऽस्ति, येन मैत्रतनयत्वं हेतुः श्यामत्वं साध्यं गमयेत् ।
यद्यपि सम्प्रतिपन्नमैत्रपुत्रेषु मैत्रतनयत्वश्यामत्वयोः सहभावोस्ति, तथापि नासा नियतः, मैत्रतनयत्वमस्तु श्यामत्वं मास्तु इत्येवंरूपे विपक्षे बाधकाभावात् । विपक्षबाधकप्रमाणबलात्खलु हेतुसाध्ययोर्व्याप्तिनिश्चयः । व्याप्ति निश्चयतः सहभावः क्रमभावो वा, सहक्रमभावनियमो ऽविनाभाव इति वचनात् । विवादाध्यासितो वृक्षो भवितुमर्हति, शिंशपात्वात् । या या शिंशपा स स वृक्षः, यथा संप्रतिपन्न इति । अत्र हि हेतुरस्तु साध्यं मा भूदित्येतस्मिन् विपक्षे सामान्यविशेषभावभंगप्रसंगो बाधकः । वृक्षत्वं हि सामान्यं शिशपात्वं तद्विशेषः । न हि विशेषः सामान्याभावे संभवति । न चैवं मैत्रतनयत्वमस्तु श्यामत्वं मास्त्वित्युक्ते किंचिद्वाधकमस्ति
Page #30
--------------------------------------------------------------------------
________________
तृतीयः प्रकाशः। तस्मान्मत्रतनयत्वं हेत्वाभास एव । तस्य तावत्पक्षधर्मत्वमस्ति, पक्षीकृते गर्भस्थे तत्सद्भावात् । सपक्षेषु संप्रतिपन्नेषु तस्य विद्यमानत्वात्सपक्षे सत्त्वमप्यस्ति । विपक्षेभ्यः पुनरश्यामेभ्यश्चैत्रपुत्रेभ्यो व्यावर्तमानत्वाद्विपक्षाद्वयावृत्तिरस्ति । विषयबाधाभावादबाधितविषयत्वमस्ति । नहि गर्भस्थस्य श्यामत्वं केनचिद्बाध्यते । असत्प्रतिपक्षत्वमप्यस्ति, प्रतिकूलसमबलप्रमाणाभावात् । इति पांचरूप्यसम्पत्तिः । त्रैरूप्यं तु सहस्र शतन्यायेन सुतरां सिद्धमेव ।
ननु च न पांचरूप्यमात्रं हेतोर्लक्षणं । किं तर्हि ? अन्यथानुपपत्त्युपलक्षणमिति चेत्तर्हि सैवैकांतलक्षणमस्तु । तदभावे पाञ्चरूप्यसम्पत्तावाप मैत्रतनयत्वादौ न हेतुत्वं । तत्सद्भावे पांचरूप्याभावेऽपि कृत्तिकोदयादौ हेतुत्वमिति । तदुक्तं" अन्यथानुपपन्नत्वं यत्र तत्र त्रयेण किं
नान्यथानुपपन्नत्वं यत्र तत्र त्रयेण कि ॥ यौगान् प्रति तु
" अन्यथानुपपन्नत्वं यत्र किं तत्र पंचभिः । - नान्यथानुपपन्नत्वं यत्र किं तत्र पंचभिः ॥ १॥” इति ।
सोयमन्यथानुपपत्तिनिश्चयैकलक्षणो हेतुः संक्षेपतो द्विविधः । विधिरूपः प्रतिषेधरूपश्चेति । विधिरूपोऽपि द्विविधो विधिसाधकः प्रतिषेधसाधकश्चेति । तत्राद्योऽनेकधा, तद्यथा।-कश्चित्कार्यरूपो, यथा पर्वतोऽयमग्निमान्धूमवत्त्वान्यथानुपपत्तेरित्यत्र धूमः । धूमो ह्यग्नेः कार्यभूतस्तदभावेऽनुपपद्यमानोऽग्निं गमयति । कश्चित् कारणरूपः यथा वृष्टिर्भविष्यति विशिष्टमेघान्यथानुपपत्तेरिति । अत्र मेघविशेषो हि वर्षस्य कारणं स्वकार्यभूतं वर्षे गमयति।
ननु कार्य कारणानुमापकमस्तु कारणाभावे कार्यस्यानुपपत्तेः । कारणं तु कार्याभावेऽपि संभवति, यथा धूमाभावेऽपि संभवन् वहिः सुप्रतीतः ।
Page #31
--------------------------------------------------------------------------
________________
३०
न्यायदीपिका। अत एव न वहिणूंमं गमयति इति चेत् तन्न, उन्मीलितशक्तिकस्य कारणस्य कार्याव्यभिचारित्वेन कार्य प्रति हेतुत्वाविरोधात् । कश्चिद्विशेषरूपो, यथा वृक्षोऽयं शिशपात्वान्यथानुपपत्तेरिति । अत्र शिंशपा हि वृक्षविशेषः सामान्यभूतं वृक्षं गमयति । न हि वृक्षाभावे वृक्षविशेषो घटते इति।
कश्चित्पूर्वचरो, यथा उदेष्यति शकटं कृत्तिकोदयान्यथानुपपत्तेरित्यत्र कृत्तिकोदयः । कृत्तिकोदयानंतरं मुहूर्ताते नियमेन शकटोदयो जायते, इति कृत्तिकोदयः पूर्वचरो हेतुः शकटोदयं गमयति । कश्चिदुत्तरचरो, यथा उदगाद्भरणी प्राकृत्तिकोदयान्यथानुपपत्तरित्यत्र कृत्तिकोदयः । कृत्तिकोदयो हि भरण्युदयोत्तरचरस्तं गमयति । कश्चित्सहचरो, यथा मातुलिंगं रूपवद्भवितुमर्हति रसवत्त्वान्यथानुपपत्तेरित्यत्र रसः । रसो नियमेन रूपसहचरितस्तदभावेऽनुपपद्यमानस्तं गमयति । ___ एतेषूदाहरणेषु भावरूपानेवाग्न्यादीन्साधयंतो धूमादयो हेतवो भावरूपा एवेति विधिसाधकविधिरूपाः । एत एवाविरुद्धोपलब्धय इत्युच्यते । एवं विधिरूपस्य हेतोर्विधिसाधकाख्य आद्यो भेद उदाहृतः ।
द्वितीयस्तु निषेधसाधकाख्यः । विरुद्धोपलब्धिरिति तस्यैव नामांतरं । स यथा, नास्यं मिथ्यात्वमास्तिक्यान्यथानुपपत्तरित्यत्रास्तिक्यं । आस्तिक्यं हि सर्वज्ञवीतरागप्रणीतजीवादितत्वार्थरुचिलक्षणं । तन्मिथ्यात्ववतो न संभवतीति मिथ्यात्वाभावं साधयति । यथा वा, नास्ति वस्तुनि सर्वथैकान्तः, अनेकांतात्मकत्वान्यथानुपपत्तेरित्यत्रानेकांतात्मकत्वम् । अनेकांतास्मकत्वं हि वस्तुन्यबाधितप्रतीतिविषयत्वेन प्रतिभासमानं सौगतादिपरिकल्पितसर्वथैकांताभावं साधयत्येव ।
ननु किमिदमनेकांतात्मकत्वं ? यद्बलाद्वस्तुनि सर्वथैकांताभावः साध्यते इति चेदुच्यते । सर्वस्मिन्नपि जीवादिवस्तुनि भावाभावरूपत्वमेकानेकरूपत्वं नित्यानित्यरूपत्वमित्येवमादिकमनेकांतात्मकत्वं । एवं विधिरूपो हेतुर्शितः । प्रतिषेधरूपोऽपि हेतुर्द्विविधो, विधिसाधकः प्रतिषेधसाधक
Page #32
--------------------------------------------------------------------------
________________
तृतीयः प्रकाशः। श्चेति । तत्राद्यो यथा, अस्त्यत्र प्राणिनि सम्यक्त्वं विपरीताभिनिवेशाभावात् । अत्र विपरीताभिनिवेशाभावः प्रतिषेधरूपः सम्यक्त्वसद्भावं साधयति इति प्रतिषेधरूपो विधिसाधको हेतुः ।
द्वितीयो यथा, नास्यत्र धूमः अग्न्यनुपलब्धेरिति । अत्र ह्यग्न्यभावः प्रतिषेधरूपो धूमाभावं प्रतिषेधरूपमेव साधयतीति प्रतिषेधरूपप्रतिषेधसाधको हेतुः । तदेवं विधिप्रतिषेधरूपतया द्विविधस्य हेतोः कतिचिदवांतरभेदा उदाहृताः । विस्तरतस्तु परीक्षामुखतः प्रतिपत्तव्याः । इत्थमुक्तलक्षणा हेतवः साध्यं गमयंति, नान्ये, हेत्वाभासत्वात् ।
के ते हेत्वाभासा इति चेदुच्यन्ते । हेतुलक्षणरहिता हेतुवदवभासमाना हेत्वाभासाः। ते चतुर्विधाः-असिद्धविरुद्धानेकांतिकाकिंचित्करभेदात् । तत्रानिश्चयपथप्राप्तोऽसिद्धः । अनिश्चयपथप्राप्तिश्च हेतोः स्वरूपाभावनिश्चयात्तत्स्वरूपसंदेहाच्च । स्वरूपाभावनिश्चये स्वरूपासिद्धः । स्वरूपसंदेहे संदिग्धासिद्धः । आयो यथा, परिणामी शब्दश्चाक्षुषत्वादिति । शब्दस्य हि श्रावणत्वाच्चाक्षुषत्वाभावो निश्चित इति स्वरूपासिद्धश्चाक्षुषत्वहेतुः । द्वितीयो यथा, धूमबाष्पादिविवेकानिश्चये कश्चिदाह अग्निमानयं प्रदेशो धूमवत्त्वादिति । अत्र हि धूमवत्वं हेतुः संदिग्धासिद्धस्तत्स्वरूपे संदेहात् ।।
साध्यविपरीतव्याप्तो विरुद्धः । यथाऽपरिणामी शब्दः कृतकत्वात् । कृतकत्वं ह्यपरिणामित्वविरोधिना परिणामित्वेन व्याप्तम् । पक्षसपक्षविपक्षवृत्तिरनैकांतिकः । स द्विविधो, निश्चितविपक्षवृत्तिकः शंकितविपक्षवृत्तिकश्चेति । तत्राद्यो यथा, धूमवानयं प्रदेशोऽग्निमत्त्वादिति । अत्राग्निमत्त्वं हेतुः पक्षीकृते संदिह्यमानधूमे पुरोवर्तिनि प्रदेशे वर्तते, सपक्षे धूमवति महानसे च वर्तते । विपक्षे धूमरहितत्वेन निश्चितेंऽगारावस्थापन्नाग्निमति प्रदेशे वर्तते । इति निश्चयानिश्चितविपक्षवृत्तिकः । _ द्वितीयो यथा, गर्भस्थो मैत्रतनयः श्यामो भवितुमर्हति मैत्रतनयत्वादितरतनयवदिति । अत्र हि मैत्रतनयत्वं हेतुः पक्षीकृते गर्भस्थे वर्तते, सपक्षे
Page #33
--------------------------------------------------------------------------
________________
न्यायदीपिका। इतरतत्पुत्रे वर्तते । विपक्षे अश्यामे वर्तते नापीति शंकाया अनिवृत्त: शंकितविपक्षवृत्तिकः । अपरमपि शंकितविपक्षवृत्तिकस्योदाहरणं । अर्हन् सर्वज्ञो न भवति वक्तृत्वाद्र्थ्यापुरुषवदिति । वक्तृत्वस्य हि हेतोः पक्षीकृतेऽर्हति, सपक्षे रथ्यापुरुषे यथा वृत्तिरस्ति तथा विपक्षे सर्वज्ञेऽपि वृत्तिः संभाव्यते, वक्तृत्वज्ञातृत्वयोरविरोधात् । यद्धि येन सह विरोधि तत्खलु तद्वति न वर्तते। न च वचनज्ञानयोर्लोके विरोधोऽस्ति, प्रत्युत ज्ञानवत एव वचनसौष्ठवं स्पष्टं दृष्टं । ततो ज्ञानोत्कर्षवति सर्वज्ञे वचनोत्कर्षे कानुपपत्तिरिति । __ अप्रयोजको हेतुरकिंचित्करः । स द्विविधः, सिद्धसाधनो बाधितविषयश्च। तत्राद्यो यथा, शब्दः श्रावणो भवितुमर्हति शब्दत्वादिति । अत्र श्रावणत्वस्य साध्यस्य शब्दनिष्ठत्वेन सिद्धत्वाद्धेतुरकिंचित्करः । बाधितविषयस्त्वनेकधा । कश्चित्प्रत्यक्षबाधितविषयः । यथा, अनुष्णोऽग्निर्द्रव्यत्वादित्यत्र द्रव्यत्वहेतुः । तस्य विषयत्वेनाभिमतमनुष्णत्वमुष्णत्वग्राहकेण स्पार्शनप्रत्यक्षेण बाधितं । ततः किंचिदपि कर्तुमशक्यत्वादकिंचित्करो द्रव्यत्वहेतुः । कश्चित्पुनरनुमानबाधितविषयः । यथा, अपरिणामी शब्दोऽकृतकत्वादिति । अत्र परिणामी शब्दः प्रमेयत्वादित्यनुमानेन बाधितविषयत्वं । __ कश्चिदागमबाधितविषयः । यथा, प्रेत्यासुखप्रदो धर्मः पुरुषाश्रितत्वादधर्मवदिति । अत्र धर्मः सुखप्रद इत्यागमः । तेन बाधितविषयत्वं हेतोः । कश्चित्स्ववचनबाधितविषयः यथा मे माता वंध्या पुरुषसंयोगेऽप्यगर्भवात् प्रसिद्धवंध्यावत् । एवमादयोऽप्यकिंचित्करविशेषाः स्वयमूह्याः । तदेवं हेतुप्रसंगाद्धत्वाभासा अवभासिताः । ननु व्युत्पन्नं प्रति यद्यपि प्रतिज्ञाहेतुभ्यामेव पर्याप्तं । तथापि बालबोधार्थमुदाहरणादिकमभ्युपगतमाचार्यैः । उदाहरणं च सम्यग्दृष्टांतवचनं । कोऽयं दृष्टांतो नामेति चेदुच्यते । __व्याप्तिसंप्रतिपत्तिप्रदेशो दृष्टांतः । व्याप्तिर्हि साध्ये वह्नयादौ सत्येक साधनं धूमादिरस्ति, असति तु नास्तीति साध्यसाधननियतता साहचर्यलक्षणा। एनामेव साध्यं विना साधनस्याभावादविनाभावमिति च व्यपदि
Page #34
--------------------------------------------------------------------------
________________
तृतीयः प्रकाशः ।
३३
शंति। तस्याः संप्रतिपत्तिर्नाम वादिप्रतिवादिनोर्बुद्धिसाम्यं सैषा यत्र संभवति स संप्रतिपत्तिप्रदेशो महानसादिर्हृदादिश्च तत्रैव धूमादौ सति नियमेनाग्न्यादिरस्त्यग्न्याद्यभावे नियमेन धूमादिर्नास्तीति संप्रतिपत्तिसंभवात् ।
तत्र महानसादिरन्वय दृष्टांतः, अत्र साध्यसाधनयोर्भावरूपान्वयसंप्रतिपत्तिसंभवात् । हृदादिस्तु व्यतिरेकदृष्टांतः, अत्र साध्यसाधनयोरभावरूपव्यतिरेकसं प्रतिपत्तिसंभवात् । दृष्टांतौ चैतौ दृष्टावंतौ धर्मों साध्यसाधनरूपौ यत्र स दृष्टांत इत्यर्थानुवृत्तेः । उक्तलक्षणस्यास्य दृष्टांतस्य यत्सम्यग्वचनं तदुदाहरणं । न च वचनमात्रमयं दृष्टांत इति किन्तु दृष्टांतत्वेन वचनं । तद्यथा, यो यो धूमवानसावसावग्निमान् यथा महानस इति । यत्राग्निर्नास्ति तत्र धूमोऽपि नास्ति, यथा महाहृद इति च । एवंविधेनैव वचनेन दृष्टांतस्य दृष्टांतत्वेन प्रतिपादनसंभवात् ।
ܕ
उदाहरणलक्षणरहित उदारणवदवभासमान उदाहरणाभासः । उदाहरणलक्षणराहित्यं च द्वेधा संभवति, दृष्टांतस्यासम्यग्वचनेनादृष्टांतस्य सम्यग्वचनेन वा । तत्राद्यं यथा, यो यो वह्निमान् स स धूमवान्, यथा महानस इति, यत्र यत्र धूमो नास्ति तत्र तत्र अग्निर्नास्ति, यथा महाहद इति च व्याप्यव्यापकयोर्वैपरीत्येन कथनं ।
ननु किमिदं व्याप्यं व्यापकं नामेति चेदुच्यते । साहचर्यनियमरूपां व्याप्तिक्रियां प्रति यत्कर्म तद्वयाप्यं । विपूर्वादापेः कर्मणि ण्यविधानाद्वयाप्यमिति सिद्धत्वात् । तत्तु व्याप्यं धूमादि । एनामेव व्याप्तिक्रियां प्रति यत्कर्तृ तद्व्यापकं। व्यापेः कर्तरि ण्वौ सति व्यापकमिति सिद्धेः । एवं सति धूममग्निर्व्याप्नोति, यत्र धूमो वर्तते तत्र नियमेनाग्निर्वर्तते इति यावत्सर्वत्र धूमत्रति नियमेनाग्निदशर्नात् । धूमस्तु न तथाग्निं व्याप्नोति, तस्यांगारावस्थस्य धूमं विनापि वर्तमानत्वात् । यत्राग्निर्वर्तते तत्र धूमोपि नियमेन वर्तते इत्यसंभवात् । नम्वाद्वैधनमग्निं व्यामोत्येव धूम इति चेद् ओमिति ब्रूमहे । यत्र यत्रा - विच्छिन्नमूलो धूमस्तत्र तत्राग्निरिति यथा तथैव यत्र यत्राद्र्धनोऽग्निस्तत्र तत्र
3
Page #35
--------------------------------------------------------------------------
________________
३४
न्यायदीपिका ।
धूम इत्यपि संभवात् । वह्निमात्रस्य तु धूमविशेषं प्रति व्यापकत्वमेव, अनुमातुस्तावन्मात्रापेक्षत्वात् । ततो यो यो धूमवानसावसावग्निमान्, यथा महानस इत्येवं सम्यग्दृष्टांतवचनं वक्तव्यं । विपरीतवचनं तु दृष्टांताभास एवेत्ययमसम्यग्वचनरूपोऽन्वयदृष्टांताभासः । व्यतिरेकव्याप्तौ तु व्यापकस्याग्रभावो व्याप्यः, व्याप्यस्य धूमस्याभावो व्यापकः तथा सति यंत्र यत्राग्न्यभावस्तत्र तत्र धूमाभावो, यथा हृद इत्येवं वक्तव्यं । विपरीतकथनं त्वसम्यग्वचनत्वादुदाहरणाभास एव । अन्वयव्याप्तौ व्यतिरेकदृष्टांतवचनं, व्यतिरेकव्याप्तावन्वयदृष्टांतवचनं चोदाहरणाभासौ | स्पष्टमुदाहरणं ।
ननु गर्भस्थः श्यामो मैत्रतनयत्वात्सांप्रत मैत्रतनयवदित्याद्यनुमानप्रयोगे पंचसु मैत्रतनयेष्वन्वयदृष्टांतेषु यत्र यत्र मैत्रतनयत्वं तत्र तत्र श्यामत्वमित्य - म्वयव्याप्तेः, व्यतिरेकदृष्टांतेषु गौरेष्वमैत्रतनयेषु सर्वत्र यत्र यत्र श्यामत्वं नास्ति तत्र तत्र मैत्रतनयत्वं नास्तीति व्यतिरेकव्याप्तेश्च संभवान्निश्चितसाधने गर्भस्थमैत्रतनये पक्षे साध्यभूतश्यामत्व संदेहस्य गुणत्वात्सम्यगनुमानं प्रसज्येतेति - चेन्न । दृष्टांतस्य विचारांतर बाधितत्वात् । तथा हि साध्यत्वेनाभिमतमिदं हि श्यामरूपं कार्ये सत् स्वसिद्धये कारणमवेक्षते । तच्च कारणं न तावन्मैतनयत्वं विनापि तदिदं पुरुषांतरे श्यामत्वदर्शनात् । न हि कुलालचक्रादिक मंतरेणापि संभविनः पटस्य कुलालादिकं कारणं । एवं मैत्रतनयत्वस्य श्यामत्वं प्रत्यकारणत्वे निश्चिते यत्र यत्र मैत्रतनयत्वं न तत्र तत्र श्यामत्वं किंतु यत्र यत्र श्यामत्वस्य कारणं विशिष्टनामकर्मानुगृहीतशाकाद्याहारपरिणामस्तत्र तत्र तस्य कार्ये श्यामत्वमिति सामग्रीरूपस्य विशिष्टनामकर्मानुगृहीतशाकाद्याहारपरिणामस्य श्यामत्वं प्रति व्याप्यत्वं । स तु पक्षे न निश्चीयते इति संदिग्धासिद्धः । मैत्रतनयत्वं त्वकारणत्वादेव श्यामत्वं कार्य न गमयेदिति ।
कश्चिन्निरुपाधिकसंबंधो व्याप्तिरित्यभिधाय साधनाव्यापकत्वे सति साध्यसमवाप्तिरुपाधिरित्यभिधत्ते । सोयमन्योन्याश्रयः । प्रपंचितमेतदुपाधिनिराकर काकाकायामिति विरम्यते । साधनवत्तया पक्षस्य दृष्टांत साम्यक
Page #36
--------------------------------------------------------------------------
________________
तृतीयः प्रकाशः।
३५
कथनमुपनयः, तथा चायं धूमवानिति । साधनानुवादपुरस्सरं साध्यनियमवचनं निगमनं, तस्मादग्निमानेवेति । अनयोर्व्यत्ययेन कथनमनयोराभासः । इत्यवसितमनुमानं । ___ अथागमो लक्ष्यते । आप्तवाक्यनिबंधनमर्थज्ञानमागमः । अत्रागम इति लक्ष्यं । अवशिष्टं लक्षणं । अर्थज्ञानमित्येतावदुच्यमाने प्रत्यक्षादावतिव्याप्तिः, अत उक्तं वाक्यनिबंधनमिति । वाक्यनिबंधनमर्थज्ञानमागम इत्युच्यमानेऽपि यादृच्छिकसंवादिषु विप्रलंभवाक्यजन्येषु सुप्तोन्मत्तादिवाक्यजन्येषु वा नदीतीरफलसंसर्गादिज्ञानेष्वतिव्याप्तिः, अत उक्तमाप्तेति । आप्तवाक्यनिबंधनज्ञानमित्युज्यमानेऽपि आप्तवाक्यकर्मके श्रावणप्रत्यक्षेऽतिव्याप्तिः,अत उक्तमर्थेति । अर्थस्तात्पर्यरूप इति यावत् । तात्पर्यमेव वचसीत्यभियुक्तवचनात् । तत आप्तवाक्यनिबंधनमर्थज्ञानमित्युक्तमागमलक्षणं निर्दोषमेव ।
यथा “ सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः" इत्यादिवाक्यार्थज्ञानं । सम्यग्दर्शनादीन्यनेकानि मोक्षस्य सकलकर्मक्षयस्य मार्ग उपायो, न तु मार्गाः, ततो भिन्नलक्षणानां दर्शनादीनां त्रयाणां समुदितानामेव मार्गत्वं, न तु प्रत्येकमित्ययमर्थः । मार्ग इत्येकवचनप्रयोगस्तात्पर्यसिद्धः, अयमेव वाक्यार्थः, अत्रैवार्थे प्रमाणसाध्यसंशयादिनिवृत्तिः प्रमितिः । ___ कः पुनरयमाप्त इति चेदुच्यते । आप्तः प्रत्यक्षप्रमितसकलार्थत्वे सति परमहितोपदेशकः । प्रमितेत्यादावेवोच्यमाने श्रुतकेत्रलिष्वतिव्याप्तिः, तेषामागमप्रमितसकलार्थत्वात् । अत उक्तं प्रत्यक्षेति । प्रत्यक्षप्रमितसकलार्थ इत्येतावदुच्यमाने सिद्धेष्वतिव्याप्तिः, अत उक्तं परमेत्यादि । परम हितं निःश्रेयसम् । तदुपदेश एव अर्हतः प्रामुख्येन प्रवृत्तिः । अन्यत्र तु प्रश्नानुरोधादुपसर्जनत्वेनेति भावः । नैवंविधः सिद्धपरमेष्ठी, तस्यानुपदेशकत्वात् । ततोऽनेन विशेषणेन तत्र नातिव्याप्तिः । आप्तसद्भावे प्रमाणमुपन्यस्तं । नैयायिकायभिमतानामाप्ताभासानामसर्वज्ञत्वात्प्रत्यक्षप्रमितेत्यादिविशेषणेनैव निरासः ।
Page #37
--------------------------------------------------------------------------
________________
न्यायदीपिका।
" ननु नैयायिकाभिमत आप्तः कथं न सर्वज्ञः ? इति चेदुच्यते तस्य ज्ञानस्यास्वप्रकाशकत्वादेकत्वाच्च विशेषणभूतं स्वकीयं ज्ञानमेव न जानातीति तद्विशिष्टमात्मानं सर्वज्ञोऽहमिति कथं जानीयात् ? एवमनात्मज्ञोयमसर्वज्ञ एव । प्रपंचितं च सुगतादीनामाप्ताभासत्वमाप्तमीमांसाविवरणे श्रीमदाचार्यपादैरिति विरम्यते । वाक्यं तु तंत्रांतरसिद्धमिति नेह लक्ष्यते । ___ अथ कोयमर्थो नाम ? उच्यते । अर्थोऽनेकांतः । अर्थ इति लक्ष्यनिर्देशः, अभिधेय इति यावत् । अनेकांत इति लक्षणकथनं । अनेके अंता धर्माः सामान्यविशेषपर्याया गुणा यस्यति सिद्धोऽनेकांतः । तत्र सामान्यमनुवृत्तस्वरूपं, तद्धि घटत्वं पृथुबुध्नोदराकारः, गोत्वमिति सास्नादिमत्वमेव; तस्मान्न व्यक्तितोत्यंतमन्यन्नित्यमेकमनेकवृत्ति । अन्यथा " न याति न च तत्रास्ते न पश्चादस्ति नाशवत् । जहाति पूर्व नाधारमहो व्यसनसंततिः " । इति दिङ्नागदूषणदूषितगणप्रसरप्रसंगात् । पृथुबुध्नोदराकारादिदर्शनानंतरमेव घटोऽयं गौरयमित्याद्यनुवृत्तप्रत्ययसंभवात् । विशेषोऽपि स्थूलोयं घटः सूक्ष्म इत्यादिव्यावृत्तप्रत्ययावलंबनं घटादिस्वरूपमेव । तथाचाह भगवान्माणिक्यनंदिभट्टारकः “सामान्यविशेषात्मा तदर्थः" इति । __पर्यायो द्विविधः, अर्थपर्यायो व्यंजनपर्यायश्चेति । तत्रार्थपर्यायो भूतत्वभविष्यत्त्वसंस्पर्शरहितशुद्धवर्तमानकालत्वावच्छिन्नं वस्तुस्वरूपं । तदेतहजुसूत्रनयविषयमामनंत्यभियुक्ताः । एतदेकदेशावलंबिनः खलु सौगताः क्षणिकवादिनः । व्यंजनं व्यक्तिः, प्रवृत्तिनिवृत्तिनिबंधनजलानयनाद्यर्थक्रियाकारित्वं । तेनोपलक्षितः पर्यायो व्यजनपर्यायो-मृदादेः पिंडस्थासकोशकुसूलघटकपालादयः पर्यायाः । ___ यावद्रव्यभाविनः सकलपर्यायानुवर्तिनो गुणाः । वस्तुत्वरूपरसगंधस्पर्शादयः । मृद्र्व्यसंबंधिनो हि वस्तुत्वादयः पिंडादिपर्यायाननुवर्तते, न तु पिंडादयः स्थासादीन् । तत एव पर्यायाणां गुणेभ्यो भेदः । यद्यपि
Page #38
--------------------------------------------------------------------------
________________
तृतीयः प्रकाशः।
३७ सामान्यविशेषौ पर्यायौ तथापि संकेतग्रहणनिबंधनस्य शब्दव्यवहारविषयत्वादागमप्रस्तावे तयोः पृथनिर्देशः । तदनयोर्गुणपर्याययोर्द्रव्यमाश्रयः "गुणपर्ययवद् द्रव्यं" इति आचार्यानुशासनात् । तदपि सत्त्वमेव “सत्त्वं द्रव्यं" इत्याकरजवचनात् ।
तदपि जीवद्रव्यमजीवद्रव्यं चेति संक्षेपतो द्विविधं । द्वयमप्येतदुत्पत्तिविनाशस्थितियोगि "उत्पादव्ययध्रौव्ययुक्तं सत्" इति निरूपणात् । तथा हि, जीवद्रव्यस्य स्वर्गप्रापकपुण्योदये सति मनुष्यस्वभावस्य व्ययः, देवस्वभावस्योत्पादः, चैतन्यस्वभावस्य ध्रौव्यमिति, जीवद्रव्यस्य सर्वथैकांतरूपत्वे पुण्योदयवैफल्यप्रसंगात् । सर्वथा भेदे पुण्यवानन्यः फलवानन्य इति पुण्यसंपादनवैयर्थ्यप्रसंगात् परोपकारस्याप्यात्मसुकृतार्थमेव प्रवर्त्तमानत्त्वात्। तस्माज्जीवद्रव्यरूपेणाभेदः, मनुष्यपर्यायदेवपर्यायरूपेण भेद, इति प्रतिनियतनयनिरस्तविरोधौ भेदाभेदौ प्रामाणिकावेव । तथैवाजीवद्रव्यस्य मृद्रव्यस्यापि मृदः पिंडाकारस्य व्ययः, पृथुबुध्नोदराकारस्योत्पादः, मृद्रपस्य ध्रुव चमिति, सिद्धमुत्पादादियुक्तत्वमजीवस्य । स्वामिसमंतभद्राचार्याभिमतमतानुसारी वामनोपि सदुपदेशात्प्राक्तनमज्ञानस्वभावं हंतुमुपरितननयमर्थज्ञानस्वभावं स्वीकर्तुं च यः समर्थ आत्मा स एव शास्त्राधिकारीत्याह “न शास्त्रमसद्रव्येष्वर्थवत्" इति । तदेवमनेकांतात्मकं वस्तु प्रमाणवाक्यविषयत्वादर्थत्वेनावतिष्ठते । तथा च प्रयोगः, सर्वमनेकांतात्मकं, सत्त्वात् , यदुक्तसाध्यं न तन्नोक्तसाधनं यथा गगनारविंदमिति ।
ननु यद्यप्यरविंदं गगने नास्त्येव तथापि सरस्यस्तीति ततो न सत्त्वहेतुव्यावृत्तिश्चेत्तर्हि तदेतदरविंदमधिकरणविशेषापेक्षया सदसदात्मकमनेकांतमित्यन्वयदृष्टांतत्वं भवतैव प्रतिपादितमिति संतोष्टव्यमायुष्मता । उदाहृतवाक्येनापि सम्यग्दर्शनज्ञानचारित्राणां मोक्षकारणत्वमेव न संसारकारणत्वमिति विषयविभागेन कारणाकारणात्मकत्वं प्रतिपद्यते, सर्व वाक्यं सावधारणमिति न्यायात् । एवं प्रमाणसिद्धमनेकांतात्मकं वस्तु। . .
Page #39
--------------------------------------------------------------------------
________________
न्यायदीषिका ।
नया विभज्यंते, ननु कोयं नयो नाम ? उच्यते । प्रमाणगृहीतार्थंकदेशमाही प्रमातुरभिप्रायविशेषो नयो “नयो ज्ञातुरभिप्रायः' इत्यभिधानात्। स नयः संक्षेपेण द्वेधा-द्रव्यार्थिकनयः पर्यायार्थिकनयश्चेति । तत्र द्रव्यार्थिकनयः द्रव्यपर्यायरूपमेकानेकात्मकमनेकांत प्रमाणप्रतिपन्नमर्थ विभज्य पर्यायार्थिकनयविषयस्य भेदस्योपसर्जनभावनावस्थानमात्रमभ्यनुजानन्स्वविषयं द्रव्यमभेदमेव व्यवहारयति नयांतरविषयसापेक्षः सन्नय इत्यभिधानात् । यथा सुवर्णमानयेति । अत्र द्रव्यार्थिकनयाभिप्रायेण सुवर्णद्रव्यानयनचोदनायां कटकं कुंडलं केयूर चोपनयन्नुपनेता कृती भवति, सुवर्णरूपेण कटकादीनां भेदाभावात् । द्रव्यार्थिकनयमुपसर्जनीकृत्य प्रवर्तमानं पर्यायार्थिकनयमवलंब्य कुंडलमानयेत्युक्ते न कटकादौ प्रवर्तते, कटकादिपर्यायस्य ततो भिन्नत्वात् । ततो द्रव्यार्थिकनयाभिप्रायेण सुवर्ण स्यादेकमेव, पर्यायार्थिकनयाभिप्रायेण स्यादनेकमेव, क्रमेणोभयनयाभिप्रायेण स्यादेकमनेकं च।
युगपदुभयनयाभिप्रायेण स्यादवक्तव्यं, युगपत्प्राप्तेन नयद्वयेन विविक्तस्वरूपयोरेकत्वानेकत्वयोविमर्शाभावात् । न हि युगपदुपनतेन शब्दद्वयेन घटस्य प्रधानभूतयो रूपत्वरसत्वयोर्विविक्तस्वरूपयोः प्रतिपादनं शक्यं । तदेतदवक्तव्यस्वरूपं तत्तदभिप्रायैरुपनतेनैकत्वादिना समुचितं स्यादेकमवक्तव्यं, स्यादनेकमवक्तव्यं, स्यादेकानेकमवक्तव्यमिति स्यात् । सैषा नयविनियोगपरिपाटी सप्तभंगीत्युच्यते । भंगशब्दस्य वस्तुस्वरूपभेदवाचकत्वात् । सप्तानां भंगानां समाहारः सप्तभंगीति सिद्धेः ।
नन्वेकत्र वस्तुनि सप्तानां भंगानां कथं संभव इति चेत्, यथैकस्मिन् , रूपवान् घटः रसवान् गंधवान् स्पर्शवानिति पृथग्व्यवहारनिबंधना रूपत्वादिस्वरूपभेदाः संभवंति तथैवेति संतोष्टव्यमायुष्मता । एवमेव परमद्रव्यार्थिकनयाभिप्रायविषयः परमद्रव्यसत्ता, तदपेक्षयैकमेवाद्वितीयं ब्रह्म, नेह नानास्ति किंचन, सद्रूपेण चेतनानामचेतनानां च भेदाभावात् , भेदे तु सद्विलक्षणत्वेन तेषामसत्त्वप्रसंगात् ।
Page #40
--------------------------------------------------------------------------
________________
तृतीयः प्रकाशः। ऋजुसूत्रनयस्तु परमपर्यायार्थिकः । स हि भूतत्वभविष्यत्वाभ्यामपरामृष्टं शुद्धवर्तमानकालावच्छिन्नं वस्तुरूपं परामृशति । तन्नयाभिप्रायेण बौद्धाभिमतक्षणिकत्वसिद्धिः । एते नयाभिप्रायाः सकलस्वविषयाशेषात्मकमनेकांतं प्रमाणविषयं विभज्य व्यवहारयति । __स्यादेकमेव द्रव्यात्मना वस्तु, नो नाना । स्यान्नानैव पर्यायात्मनो नैकमिति । तदेतत्प्रतिपादितमाचार्यसमंतभद्रस्वामिभिः "अनेकांतोsप्यनेकांतः प्रमाणनयसाधनः । अनेकांतः प्रमाणात्ते तदेकांतोर्पितानयात् ॥ १॥” इति । अनियतानेकधर्मवद्वस्तुविषयत्वात्प्रमाणस्य नियतैकधर्मवद्वस्तुविषयत्वाच्च नयस्य । यद्येनामाहती सरणिमुलंध्य सर्वथैकमेधाद्वितीयं ब्रह्म नेह नानास्ति किंचन, कथंचिदपि नाना नेत्याग्रहः स्यात्तदेतदर्थाभासः । एतत्प्रतिपादकमतिवचनमागमाभासः, प्रत्यक्षेण सत्यं भिदा तत्त्वं भिदेत्यादिनागमेन च बाधितविषयत्वात् । ___ सर्वथा भेद एव न कथंचिदप्यभेद इत्यत्राप्येवमेव विज्ञेयं, सद्रूपेणापि भेदेऽसतः अर्थक्रियाकारित्वासंभवात् । ननु प्रतिनियताभिप्रायगोचरतया पृथगात्मनां परस्परसाहचर्यानपेक्षाणां मिथ्याभूतानामेकत्वादीनां धर्माणां साहचर्यलक्षणसमुदायोऽपि मिथ्यैवेति चेत्तदंगीकुर्महे, परस्परोपकार्योपकारकभावं विना स्वतंत्रतया नैरपेक्ष्यापेक्षायां पटस्वभावविमुक्तस्य तंतुसमूहस्य शीतनिवारणाद्यर्थक्रियावेदकत्वानेकत्वानामर्थक्रियायां सामर्थ्याभावास्कथंचिन्मिथ्यात्वस्यापि संभवात् । तदुक्तमाप्तमीमांसायां स्वामिसमंतभद्रा'चार्यैः । “मिथ्यासमूहो मिथ्याचेन मिथ्र्यकांततास्ति नः । निरपेक्षा नया मिथ्याः सापेक्षा वस्तुतोऽर्थकृत् ॥ १॥"इति । ___ ततो नयप्रमाणाभ्यां वस्तुसिद्धिरिति सिद्धः सिद्धांतः । इति पर्याप्तमागमप्रमाणं ।
इति तृतीयः प्रकाशः । इति श्रीपरमार्हताचार्यधर्मभूषणयतिविरचिता न्यायदीपिका समाप्ता ।
Page #41
--------------------------------------------------------------------------
________________
mm
md
लक्षणात्मकशब्दानामनुक्रमः। पृष्ठसं०, पंक्तिसं०॥
पृष्ठसं०, पंक्तिसं. अकिञ्चित्करहेत्वाभासः ३२ ८ धारणा अतिव्याप्तिः २ ११ नयः
३८ १ अन्वयव्यतिरेकी हेतुः २६ १८ निगमनं ३५ १ अनध्यवसायः
२ प्रतिज्ञा
२१ २४ अनात्मभूतं
२ ३ प्रत्यभिज्ञानं १५ १५ अनुमानं
१३ प्रत्यक्षप्रमाणं अनैकान्तिकहेत्वाभासः ३१
प्रमाणं अर्थः
परार्थानुमान अवक्तव्यनयः
परीक्षा अवग्रहः
१ परोक्षज्ञानं अवधिज्ञानं
| पारमार्थिकप्रत्यक्षं अवायः
मनःपर्ययज्ञानं अव्याप्तिः
लक्षणं असंभवः
व्याप्तिः असिद्धहेत्वाभासः
विकलज्ञानं आगमः
विपर्ययः आत्मभूतं
विरुद्धहेत्वाभासः आप्तः
३५ १७ ईहा उद्देशः
स्वार्थानुमानं सकलज्ञानं
कलनानं उपनयः
११ ६ केवलव्यतिरेकी हेतुः २७ ७ सत्
३७ ६ केवलांन्वयी हेतुः २६ २४ संशयः
२ २३ २३ साध्यः १९ १४ १७ ७ साधनं
३७ ३ सांव्यवहारिकप्रत्यक्षं ९ २४ द्रव्यार्थिकनयः ३८ ४ हेत्वाभासः ३१. ९ दृष्टान्तः ३२ २३ हेतुः २१ २५
MMMMMMM.02022 woman 420 2 242
2. 2MMM22 MMM2230222222424
24ARAMM24/2012
स्मृतिः
गुणः तके:
द्रव्यः
Page #42
--------------------------------------------------------------------------
________________ पठनक्रमकी पुस्त जैन सिद्धांत। गोमट्टसार-जीवकांड-साथ जैनेन्द्र गोमट्टसार-कर्मकांड-साथ छपता है। लघुसिर મીચા, जैनसिद्धांत-प्रवेशिका शब्दार्ण જ્ઞાભ ડી तत्वार्थराजवार्तिकालंकार 4) सिद्धांत तत्वार्थश्लोकवार्तिकालंकार 4) सिद्धांत तत्वार्थसूत्र-सार्थ पंचाध्यायी-मूल // ), सार्थ 5 // ) पंचास्तिकाय-सार्थ | अमरकोष-मूल // ), शब्दानुक्रमणिव प्रवचनसार-सार्थ सहित ), सार्थ वृहदूद्रव्यसंग्रह धनंजयनाममाला-सार्थ सर्वार्थसिद्धि विश्वलोचनकोष-सार्थ 16 समयप्राभृत-दो सं० टीकासंयुक्त 3 // ) बृहदूजैनशब्दार्णव-प्र० खंड ..3) न्याय। काव्य, चम्पू और अलंकार। अष्टसहस्री 3) अलंकारचिंतामणि आप्तपरीक्षा-मूल-) सार्थ / -) गद्यचिंतामणि आप्तमीमांसा-मूल-), भाषा) जयकुमार-सुलोचना ) आप्तमीमांसा–प्रमाणपरीक्षा 1) जीवंधरचम्पू परीक्षामुख–सार्थ ),) धर्मशर्माभ्युदय प्रमेयरत्नमाला-भाषा ) पाश्वांभ्युदय प्रमेयकमलमार्तड 4) वाग्भट्टालंकार-सटीक सप्तभंगीतरंगिणी-सार्थ ) क्षत्रचूडामणि-जीवंधरचम्पूसहित 2) अन्य सब प्रकारके जैन-ग्रंथोंके मिलनेका पता:मैनेजर-जैनसाहित्यप्रसारक कार्यालय, हीराबाग, पोष्ट गिरगांव, बम्बई / आभार। कलकत्ताकी श्रीभारतीयजैन सिद्धांतप्रकाशिनी संस्था द्वारा प्रकाशित संस्करण परसे हमने इसे प्रकाशित किया है। अतएव हम उक्त संस्थाके आभारी हैं। श्रीमान् पंडित खूबचंदजी शास्त्रीने इसका प्रूफ संशोधन करनेका कष्ट उठाया है। इसके लिये हम उनके भी आभारी हैं। प्रकाशक।