Book Title: Nyayadipika
Author(s): Dharmbhushan Yati, Shreelal Shastri
Publisher: Pannalal Jain
Catalog link: https://jainqq.org/explore/022446/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ ० 96 Saapas Se सनातन जैनग्रंथमाला । १० आचार्यवर्य श्रीधर्म भूषणयतिविरचिता न्यायदीपिका । प्रकाशिकाभारतीयजैनसिद्धांतप्रकाशिनीसंस्था । Page #2 -------------------------------------------------------------------------- ________________ गधन्मेंट कालिकात्तासंस्कृत न्यायप्रथमपरीक्षापाठ्यग्रंथः।। - - - - ममोऽनेकांताय । मनातनजैनग्रंथमाला। भीधर्मभूषणयतिविरचिता न्यायदीपिका। काव्यतीर्थ-श्रीश्रीलाल व्याकरणशास्त्रिणा संशोधिता। श्रीभारतीयजैन सिद्धांतप्रकाशिनीसंस्थायाः महामत्रिणा पन्नालाल जैनेन प्रकाशिता कात्रीस्थ-चंद्रप्रभायंत्र लयस्य प्रबंधकेन श्रीगौरीशंकरलालेत मुद्रापिता। वीरनिर्वाण संवत् २४४१ । खीष्टान्दः १९१५ । | प्रथमावृत्तिः] [मूल्यमाणकचतुष्क Page #3 --------------------------------------------------------------------------  Page #4 -------------------------------------------------------------------------- ________________ लक्षणात्मकशब्दानामनुक्रमः । पृ.सं. पं.सं. पृ.सं. पं.सं. माप्तः ३९ ३२ भकिचित्करहेत्वाभासः ३६ १७ भतिच्याप्तिः २ १७ अन्वयव्यतिरेकी हेतुः २९ १५ अनभ्यवसायः ३ ९ । उद्देशः अनात्मभूतं २ र उपनयः अनुमानं अनैकान्तिकहेत्वाभासः ३६ १ । केक्लव्यतिरेकी हेतुः ३० अर्थः १०३ | केवलान्वयी हेतुः २९ अवक्तव्यनयः अवप्रहः १० २४ गुणः भवधिज्ञानं अवाय: भव्यासि असंभवः १४२ अखिदहेत्वामासः ३४ १७/ द्रव्यार्थिकनयः ४२६ दृष्टान्तः भागमः ३८ २२ आत्मभूत २ ७ धारणा ४० २१ Page #5 -------------------------------------------------------------------------- ________________ ( २ ) पृ.सं. पं.सं. पृ.सं. पं.सं. व्याप्तिः नयः... ४२४ | व्याप्तिः २४ ७ १८ ७ निकमनं ३८ २० विकलज्ञानं १२२ विपर्ययः प्रतिज्ञा विरुद्धहेत्वाभासः ३४ २४ प्रत्यभिज्ञानं १७ ७ प्रत्यक्षप्रमाणं. ८३ स्मृतिः प्रमाणं स्वार्थानुमानं २२ १० परार्थानुमानं २३२० सकलज्ञानं १२ ८ परीक्षा २ २२ सत् परोक्षज्ञानं १५ संशयः साध्यः २१ १३ पारमार्थिकप्रत्यक्षं ११ २४ साधनं २१ १२ सांव्यवहारिकप्रत्यक्ष १० २० मनःपर्ययज्ञानं १२५ हेत्वाभासः ३४ १५ लक्षणं २४ ८ ४१५ Page #6 -------------------------------------------------------------------------- ________________ ० नमः सिद्धेभ्यः । सनातन जैन ग्रंथमाला | १० श्रीधर्मभूषणयतिविरचिता न्यायदीपिका | श्रीवर्धमानमर्हतं नत्वा बालप्रबुद्धये । विरच्यते मित स्पष्ट संदर्भन्यायदीपिका ॥१॥ I " प्रमाणनयैरधिगमः" इति महाशास्त्रतत्त्वार्थसूत्रं । तत्खलु परमपुरुषार्थनिःश्रेयससाधनसम्यग्दर्शनादिविषयभूतर्ज, वादितवाधिगोपायनिरूपणपरं । प्रमाणनयाभ्यां हि विवेचिता जीवादयः सम्यगधिगम्यते । तद्व्यतिरेकेण जीवाद्यधिगमे प्रकारांतरासंभवात् । तत एव जीवाद्यधिगमोपायभूती प्रमाणनयावपि विवेक्तव्यौ । तद्विवेचनपराः प्राक्तनग्रंथाः संयेव, तथापि केचिद्विस्तृता: केचिगंभीरा इति न तत्र बालानामधिकारः । ततस्तेषां सुखेोपायेन प्रमाणनयात्मकन्यायस्वरूपप्रतिबोधकशास्त्राधिकार संपत्तये प्रकरणमिदमारभ्यते । इह हि प्रमाणनयविवेचनमुद्देश लक्षणनिर्देश परीक्षाद्वारेण क्रियते । अनुद्दिष्टस्य लक्षणनिर्देशानुपपत्तेः । अनिर्दिष्टलक्षणस्य परीक्षितुमश - Page #7 -------------------------------------------------------------------------- ________________ सनातनजैनग्रंथमालायां क्यत्वात् । अपरीक्षितस्य विवेचनायोगात् । लोकशास्त्रयोरपि तथैव वस्तुविवेचनप्रसिद्धेः । ___ तत्र विवेक्तव्यनाममात्रकथनमुद्देशः । व्यतिकीर्णवस्तुव्यावृत्तिहेतुर्लक्षणं । तदाहुर्तिककारपादाः - "परस्परव्यतिकरे सति येनान्यस्वं लक्ष्यते तल्लक्षणं" इति । द्विविधं लक्षणमात्मभूतमनात्मभूतं चेति । तत्र यद्वस्तुस्वरूपानुप्रविष्टं तदात्मभूतं । यथाग्नेरौष्ण्यं । औष्ण्यं ह्यग्नेःस्वरूपं तदग्निमबादिभ्यो व्यावर्तयति । तद्विपरीतमनात्मभूतं यथा-दंडः पुरुषस्य । दडिनमानयत्युक्ते हि दंडः पुरुषाननुप्रविष्ट एव पुरुषं व्यावर्तयति । तद्भाष्यं “तत्रात्मभूतमग्नेरौष्ण्यमनात्मभूतं देवदत्तस्य दंडः” इति । असाधारणधर्मवचनं लक्षणमिति केचित् । तदनुपपन्न,-- लक्ष्यधर्मिवचनस्य लक्षणधर्मवचनेन सामानाधिकरण्याभावप्रसंगात् । दंडादेरतद्धर्मस्यापि लक्षणत्वाच्च । किं च अव्याताभिधानस्य लक्षणाभासस्यापि तथात्वात् । तथा हि-त्रयो लक्षणाभासभेदाः । अव्याप्तमतिव्याप्तमसंभवि चेति । तत्र लक्ष्यैकदेशवृत्त्यव्याप्तं, यथा-गोः शावलेयत्वं । लक्ष्यालक्ष्यवृत्त्यतिव्याप्तं, यथा-तस्यैव पशुत्वं । बाधितलक्ष्यवृत्त्यसंभवि यथा नरस्य विषाणित्वं । अत्र हि लक्ष्यैकदेशवर्तिनः पुनरव्याप्तस्यासाधारणधर्मत्वमस्ति न तु लक्ष्यभूतगोमात्रव्यावर्तकत्वं । तस्माद्यथोतमेव लक्षणं । तस्य कथनं लक्षणनिर्देशः ॥ . विरुद्धनानायुक्तिप्राबल्यदौर्बल्यावधारणाय प्रवतमाना विचारः परीक्षा । सा खल्वेवं चेदेवं स्यादेवं चेदेवं स्यादित्येवं प्रवर्तते । प्रमाणनयोरप्युदशः सूत्र एव कृतः । लक्षणमिदानी निर्देष्टव्यं परीक्षा च यथोचित्यं भविष्यति । उद्देशानुसारेण लक्षणकथनमिति न्यायात्प्रधानत्वेन प्रथमोद्दिष्टस्य प्रमाणस्य तावल्क्षणमनुशिष्यते, Page #8 -------------------------------------------------------------------------- ________________ न्यायदीपिका। सम्यग्ज्ञानं प्रमाणं । अत्र प्रमाणं लक्ष्यं । सम्यग्ज्ञानत्वं तस्य लक्षणं। गोरिव सास्नादिमत्त्वं, अग्नेरिवौष्ण्यं । अत्र सम्यक्पदं संशयविपर्ययानध्यवसायनिरासाथ क्रियते । अप्रमाणत्वादेतेषां ज्ञानानामिति । तथा हि विरुद्धानेककोटिस्पर्शि ज्ञानं संशयः । यथाऽयं स्थाणुर्वा पुरुषो वेति । स्थाणुपुरुषसाधारणोर्ध्वतादिदर्शनात्तद्विशेषस्य वक्रकोटरशिरःपाण्यादेः साधकप्रमाणस्याभावादनेककोट्यवलंबित्वं ज्ञानस्य । विपरीतैककाटिनिश्चयो विपर्ययः । यथा शुक्तिकायामिदं रजतमिति ज्ञानं । अत्रापि सादृश्यादिनिमित्तवशाच्छुक्तिविपरीते रजते निश्चयः । किमित्यालोचनमात्रमनध्यवसाय: । यथा पथि गच्छतस्तृणस्पशादिज्ञानं । इदं हि नानाकोट्यवलंबनाभावान्न संशयः । विपरातैककोटिनिश्चयाभावान्न विपर्ययः । इति पृथगेव । एतानि च स्वविषयप्रमितिजनकत्वाभावादप्रमाणानि ज्ञानानि भवंति, सम्यग्ज्ञानानि तु न भवंतीति सम्यक्पदेन व्युदस्यते ॥ ज्ञानपदेन प्रमातुः प्रमितेश्च व्यावृत्तिः । अस्ति हि निर्दोषत्वेन तत्रापि सम्यक्त्वं, न तु ज्ञानत्वं ।। ननु प्रमितिकर्तुः प्रमातुतृित्वमेव न ज्ञानत्वमिति, यद्यपि ज्ञानपदेन प्रमातुर्व्यावृत्तिस्तथापि प्रमितिर्न व्यावर्तयितुं शक्या, तस्या अपि सम्यग्ज्ञानत्वादिति चेद् भवेदेवं यदि भावसाधनमिह ज्ञानपदं । करणसाधनं खल्वेतज्ज्ञायतेऽनेनेति ज्ञानमिति। "करणाधारे चानट्!' २।३। ११२ इति करणऽप्यनद्प्रत्ययानुशासनात् । भावसाधनं तु ज्ञानपदं प्रमितिमाह । अन्यद्धि भावसाधनात्करणसाधनं पदं । एवमेव प्रमाणपदमपि प्रमीयतेऽनेनेति करणसाधनं कर्तव्यं, अन्यथा सम्यग्ज्ञानपदेन सामानाधिकरण्याऽघटनात् । न प्रमितिक्रियां प्रति यत्करणं तत्प्रमाणमिति सिद्धं । तदुक्तं प्रमाणनर्णये "इदमेव हि प्रमाणस्य प्रमा १ जनेंद्रव्याकरणस्येदं सूत्रं । Page #9 -------------------------------------------------------------------------- ________________ सनातनजैनग्रंथमालायां णत्वं यत्प्रमितिक्रियां प्रति साधकतमत्वेन करणत्वं" इति । . नन्वेवमप्यक्षलिंगादावतिव्याप्तिलक्षणस्य तत्रापि प्रमितिरूपं फलं प्रति करणत्वात् । दृश्यते हि-चक्षुषा प्रमीयते, धूमन प्रमीयते, शब्देन प्रमीयते इति व्यवहारः इति चेन्न, अक्षादेः प्रमिति प्रत्यसाधकतमत्वात् । तथा हि प्रमितिः प्रमाणस्य फलमिति न कस्यापि विप्रतिपत्तिः । सा चाज्ञाननिवृत्तिरूपा, तदुत्पत्तौ करणेन भवता सता तावदज्ञानविरोधिना भवितव्यं । न चाक्षादिकमज्ञानविरोधि, अचेतनत्वात् । तस्मादज्ञानविरोधिनश्चेतनधर्मस्यैव करणत्वमुचितं । लोकेऽप्यंधकारविघटनाय तद्विरोधी प्रकाश एवोपास्यते, न पुनर्घटादि, तदविरोधित्वात्। किंचास्वसंविदितत्वादक्षादेर्नार्थप्रमितौ साधकतमत्वं स्वावभासनाशक्तस्य परावभासकरवायोगात् । ज्ञानं तु स्वपरावभासकं प्रदीपादिवत्प्रतीत । ततः स्थितं प्रमितावसाधकतमत्वादकरणमक्षादय इति । चक्षुषा प्रमीयते इत्यादिव्यवहारे पुनरुपचारः शरणं। उपचारप्रवृत्तौ च सहकारित्वं निबंधनं । न हि सहकारित्वेन तत्साधकमिदमिति करणं नाम, साधकविशेष्यस्यातिशयवतः करणत्वात् । तदुक्तं जैनेंद्रे “साधकतम करणः " तस्मान लक्षणस्याक्षादावतिव्याप्तिः । ___ अथापि धारावाहिकबुद्धिष्वतिव्याप्तिस्तासां सम्यग्ज्ञानत्वात् । न च तासामार्हतमते प्रामाण्याभ्युपगम इति । उच्यते एकस्मिन्नेव घटे घटविषयाज्ञानविघटनार्थमाये ज्ञाने प्रवृत्ते तेन घटप्रमिता सिद्धायां पुनर्घटोऽयं घटोयमित्येवमुत्पन्नान्युत्तरोत्तरज्ञानानि खलु धारावाहिकज्ञानानि । न ह्यषां प्रमिति प्रति साधकतमत्वं प्रथमज्ञानेनैव प्रमितेः सिद्धत्वात् । कथं तत्र लक्षणमतिव्याप्नोति तेषां गृहीतग्राहित्वात् । ननु घटे दृष्टे पुनरन्यव्यासंगे पश्चाद् घट एव दृष्टे पश्चात्तमं ज्ञानमप्र Page #10 -------------------------------------------------------------------------- ________________ न्यायदीपिका। माणं प्राप्नोति धारावाहिकवदिति चेन्न दृष्टस्यापि मध्ये समारोपे सत्यदृष्टत्वात् । तदुक्तं "दृष्टोऽपि समारोपात्ताहक्” इति । एतेन निर्विकल्पके सत्तालोचनरूपे दर्शनेऽप्यतिव्याप्तिः परिहता । तस्याव्यवसायरूपत्वेन प्रमितिं प्रति करणत्वाभावात् । निराकारस्य दर्शनस्य ज्ञानत्वाभावाच्च । "निराकारं दर्शनं साकारं ज्ञानं" इति प्रवचनात्। तस्मात् प्रमाणस्य सम्यग्ज्ञानमिति लक्षणं नातिव्याप्तं नाप्यव्याप्तं लक्ष्ययोः प्रत्यक्षपरोक्षयोाप्यवृत्तेः । नाप्यसंभवि लक्ष्यवृत्तेरबाधितत्वात् । किमिदं प्रमाणस्य प्रामाण्यं नाम ? प्रतिभातविषयाव्यभिचारित्वं । तस्योत्पत्तिः कथं ? स्वत एवेति मीमांसकाः। प्रामाण्यस्य स्वत . उत्पत्तिरिति ज्ञानसामान्यसामग्रीमात्रजन्यत्वमित्यर्थः । तदुक्तं, "ज्ञानोत्पादकहेत्वनतिरिक्तजन्यत्वमुत्पत्तौ स्वतस्त्वं" इति । न ते मीमांसकाः ज्ञानसामान्यसामग्न्याः संशयादावपि ज्ञानविशेषे सत्त्वात् । वयं तु बेमहे-ज्ञानसामान्यसामग्याः साम्येऽपि संशयादिरप्रमाणं, सम्यग्ज्ञानं प्रमाणमिति विभागस्तावदनिबंधनो न भवति । ततः संशयादौ यथा हेत्वंतरमप्रामाण्ये दोषादिकमंगीक्रियते तथा प्रमाणेऽपि प्रामाण्यनिबंधनमन्यदवश्यमभ्युपगंतव्यं, अन्यथा प्रमाणाप्रमाणविभागानुपपत्तेः । एवमप्यप्रामाण्यं परतः प्रामाण्यं तु स्वत इति न वक्तव्यं, विपर्ययेऽपि समानत्वात् । शक्यं हि वक्तुमप्रामाण्य स्वतः प्रामाण्यं तु परत इति । तस्मादप्रामाण्यवत्प्रामाण्यमपि परत एवोत्पद्यते । न हि पटसामान्यसामग्री रक्तपटे हेतुस्तद्वन्न ज्ञानसामान्यसामग्री प्रमाणज्ञाने हेतुः, भिन्नकार्ययोर्भिन्नकारणप्रभवत्वावश्यंभावात् । कथं तस्य ज्ञप्तिः ! अभ्यस्ते विषये स्वतः, अनभ्यस्ते तु परतः। कोऽयमभ्यस्तो विषयः को वाऽनभ्यस्तः ? उच्यते-परिचित Page #11 -------------------------------------------------------------------------- ________________ सनातन जैन ग्रंथमालायां स्वग्रामतटाकजलादिरम्यस्तः, तद्व्यतिरिक्तोऽनभ्यस्तः । किमिदं स्वत इति किं नाम परत इति ? ज्ञानज्ञापकादेव प्रमाणस्य ज्ञप्तिः स्वत इति । ततोऽतिरिक्ताद् ज्ञप्तिः परत इति । तत्र तावदभ्यस्तविषये जलमिदमिति ज्ञाने जाते ज्ञानस्वरूपज्ञतिसमय एव तद्गतं प्रामाण्यमपि ज्ञायत एव, अन्यथोत्तरक्षण एव निश्शंकप्रवृत्तेरयोगात् । अस्ति हि जलज्ञानोत्तरक्षण एव निश्शंका प्रवृत्तिः । अनभ्यस्ते तु विषये जलज्ञाने जाते जलज्ञानं मम जातमिति ज्ञानस्वरूपनिर्णयेऽपि प्रामाण्यनिर्णयोऽन्यत एव । अन्यथोत्तरकाले संदेहानुपपत्तेः । अस्ति हि संदेहो जलज्ञानं मम जातं तकि जलमुत मरीचिकेति । ततः कमलपरिमलशिशिरमंद मरुत्त्रचारप्रभृतिभिरवधारयति । प्रमाणं - प्राक्तनं जलज्ञानं, कमलपरिमलाद्यन्यथानुपपत्तेरिति । उत्पत्तिवत्प्रामाण्यस्य ज्ञप्तिरपि परत एवेति यौगाः । तत्र प्रामायस्योत्पत्तिः परत इति युक्तं । ज्ञप्तिः पुनरभ्यस्तविषये स्वत एवेति स्थितत्वाज्ज्ञप्तिरपि परत एवेत्यवधारणानुपपत्तिः । ततो व्यवस्थितमेतत्प्रामाण्यमुत्पत्तौ परत एव ज्ञप्तौ तु कदाचित् स्वतः कदाचित् परत इति । तदुक्तं प्रमाणपरीक्षायां ज्ञप्तिं प्रति प्रमाणादिष्टसंसिद्धिरन्यथातिप्रसंगतः । प्रामाण्यं तु स्वतः सिद्धमभ्यासात्परतोऽन्यथा ॥१॥ इति । तदेवं सुव्यवस्थितेऽपि प्रमाणस्वरूपे दुरभिनिवेशवशं गतैः सौगतादिभिरपि कल्पितं प्रमाणलक्षणं सुलक्षणमिति येषां भ्रमस्ताननुगृह्णीमः । तथा हि - " अविसंवादि ज्ञानं प्रमाणं" इति बौद्धाः । तदिदमविसंवादित्वमसंभावित्वादलक्षणं । बौद्धेन हि प्रत्यक्षमनुमानमिति प्रमाणद्वयमेवानुमन्यते । तदुक्तं न्यायविंदौ “द्विविधं सम्य Page #12 -------------------------------------------------------------------------- ________________ न्यायदीपिका। रझानं प्रत्यक्षमनुमानं च" इति। तत्र न तावत्प्रत्यक्षस्याविसंवादित्वं, तस्य निर्विकल्पकत्वेन स्वविषयानिश्चायकस्य समारोपविरोधित्वाभाचात् । नाप्यनुमानस्य, तन्मतानुसारण तस्याप्यपरमार्थभूतसामान्यगोचरत्वादिति । "अनधिगततथाभूतार्थनिश्चायकं प्रमाणं" इति भाट्टाः । तदप्यव्याप्तं, तैरेव प्रमाणत्वेनाभिमतेषु धारावाहिकज्ञानेष्वनधिगततथाभूतार्थनिश्चायकत्वाभावात् । उत्तरोत्तरक्षणविशेषविशिष्टार्थावभासकत्वेन तेषामनधिगतार्थनिश्चायकत्वं नाशंकनीय, क्षणानामतिसूक्ष्माणामालक्षयितुमशक्यत्वात् । "अनुभूतिः प्रमाणं" इति प्राभाकराः । तदप्यसंगतं, अनुभूतिशब्दस्य भावसाधनत्वे करणलक्षणप्रमाणाव्याप्तेः, करणसाधनत्वे तु भावलक्षणप्रमाणाव्याप्तेः, करणभावयोरुभयोरपि तन्मते प्रामाण्याभ्युपगमात् । तदुक्तं शालिकानाथेन “यदा भावसाधनं तदा संविदेव प्रमाणं करणसाधनत्वे त्वात्मनः सन्निकर्षः” इति । __ "प्रमाकरणं प्रमाणं” इति नैयायिकाः। तदपि प्रमादकृतं लक्षणमीश्वराख्ये तदंगीकृत एव प्रमाणे अव्याप्तेः । अधिकरणं हि महेश्वरः प्रमायाः न तु करणं । न चायमनुक्तोपालंभ: "तन्मे प्रमाणं शिवः” इति यौगाग्रसरेणोदयनेनोक्तत्वाच्च । तत्परिहाराय केचन बालिशाः साधनाश्रययोरन्यतरत्वे सति प्रमाव्याप्तं प्रमाणमिति वर्णयंति.। तथापि साधनाश्रयान्यतरपालोचनायां साधनमाश्रयो वेति फलति । तथा च परस्पराव्याप्तिलक्षणस्य । ____ अन्यान्यपि पराभिमतानि प्रमाणस्य सामान्यलक्षणान्यलक्षण - स्वादुपेक्ष्यंते । तस्मात्स्वपरावभासनसमर्थ सविकल्पमगृहीतग्राहकं सम्यग्ज्ञाममेवाज्ञानमर्थे निवर्तयत्प्रमाणमित्याहतं मतं । इति प्रथमः प्रकाशः। Page #13 -------------------------------------------------------------------------- ________________ सनातन जैनग्रंथमालायां अथ द्वितीयः प्रकाशः । अथ प्रमाणविशेषस्वरूप प्रकाशनाय प्रस्तूयते - प्रमाणं द्विविध प्रत्यक्षं परोक्षं चेति । तत्र विशदप्रतिभासं नाम प्रत्यक्षं । इह प्रत्यक्षं लक्ष्यं, विशदप्रतिभासत्वं लक्षणं । यस्य प्रमाणभूतस्य ज्ञानस्य प्रतिभासो विशदस्तत्प्रत्यक्षमित्यर्थः । किमिदं विशदप्रतिभासत्वं नाम ? उच्यते, – ज्ञानावरणस्य क्षयाद्विशिष्टक्षयोपशमाद्वा शब्दानुमानाद्यसंभवि यन्नैर्मल्यमनुभवसिद्धं । दृश्यते खल्वग्निरस्तीत्याप्तवचनाद्भमादिलिंगाच्चोत्पन्नाज्ज्ञानादयमग्निरित्युत्पन्नस्यैद्रियिकस्य ज्ञानस्य विशेषः । स एव नैर्मल्यं वैशद्यं स्पष्टत्वमित्यादिभिः शब्देरभिधीयते । तदुक्तं भगवद्भिरकलंकदेवैर्न्यायविनिश्चये-“प्रत्यक्षलक्षणं प्राहुः स्पष्टं साकारमंजसा " इति । विवृतं च स्याद्वादविद्यापतिना " निर्मलप्रतिभासत्वमेव स्पष्टत्वं । स्वानुभवप्रसिद्धं चैतत्सर्वस्यापि परीक्षकस्येति नातीव निर्बाध्यते " इति । तस्मात् सुष्ठकं विशदप्रतिभासात्मकं ज्ञानं प्रत्यक्षमिति । "कल्पनापोढमभ्रांतं प्रत्यक्षं" इति ताथागताः । अत्र हि कल्पनापोढपदेन सविकल्पकस्य व्यावृत्तिः, अभ्रांतमिति पंदन त्वाभासस्य । तथा च, समीचीनं निर्विकल्पकं प्रत्यक्षमित्युक्तं भवति । तदेतद्बलचेष्टितं । निर्विकल्पकस्य प्रामाण्यमेव दुर्लभं, समारोपाविरोधित्वात् । कुतः प्रत्यक्षत्वं व्यवसायात्मकस्यैव प्रामाण्यव्यवस्थापनात् । ननु 'निर्विकल्पकमेव प्रत्यक्षप्रमाणमर्थजत्वात् । तदेव हि परमार्थे सत् स्वलक्षणजन्यं, न तु सविकल्पकं, तस्यापरमार्थभूतसामान्यविषयत्वेनार्थ जत्वाभावात्' इति चेन्न, अर्थस्यालोकवन्ज्ञानकारणत्वानुपपत्तेः । Page #14 -------------------------------------------------------------------------- ________________ न्यायदीपिका। सद्यथा- अन्वयव्यतिरेकगम्यो हि कार्यकारणभावः । तत्रालोकस्तावन्न ज्ञानकारणं तदभावेपि नक्तंचराणां मार्जारादीनां ज्ञानोत्पत्तेः, तद्भावेऽपि चूकादीनां तदनुत्पत्तेः । तद्वदर्थोपि न ज्ञानकारणं, तदभावेपि केशमशकादिज्ञानोत्पत्तेः । तथा च, कुतोर्थजत्वं ज्ञानस्य ? तदुक्तं परीक्षामुखे “नालोको कारणं" इति । प्रामाण्यस्य चाव्यभिचार एव निबंधनं, न त्वर्थजन्यत्वं, स्वसंवेदनस्य विषयाजन्यत्वेपि प्रामाण्याभ्युपगमात । न हि किंचिस्वस्मादेव जायते। नम्वतजन्यस्यान्यस्य कथं तत्प्रकाशकत्वमिति चेत्,-घटाद्यजन्यस्यापि प्रदीपस्य तत्प्रकाशकत्वं दृष्टा संतोष्टव्यमायुष्मता । अथ कथमयं विषयं प्रति नियमः ? यदुक्तं घटज्ञानस्य घट एव विषयो, न पर इति । अर्थजवं हि विषयं प्रति नियमकारणं, तजन्यत्वात् । यद्विषयमेव चैतदिति । तत्तु भवता नाभ्युपगम्यते । इति चेत् , योग्यतैव विषयं प्रति नियमकारणमिति ब्रूमः । ___ का नाम योग्यतेति, उच्यते-स्वावरणक्षयोपशमः । तदुक्तं"स्वावरणक्षयोपशमलक्षणयोग्यतया हि प्रतिनियतमर्थ व्यवस्थापयति" इति । एतेन तदाकारत्वात्तत्प्रकाशकत्वमित्यपि प्रत्युक्तं, अतदाकारस्यापि प्रदीपादेस्तत्प्रकाशकत्वदर्शनात् । ततस्तदाकारवत्तजन्यत्वमप्रयोजकं प्रामाण्ये । सविकल्पकविषयभूतस्य सामान्यस्य परमार्थत्वमेवाबाधितत्वात् । प्रत्युत सौगताभिमत एव स्वलक्षणे विवादः । तस्मान्न निर्विकल्पकरूपत्वं प्रत्यक्षस्य सन्निकर्षस्य च योगाभ्युपगतस्याचेतनत्वात्कुतः प्रमितिकरणत्वं कुतस्तरां प्रमाणत्वं कुतस्तमा प्रत्यक्षत्वं ! किं च रूपप्रमितेरसन्निकृष्टमेव चक्षुर्जनकं । अप्राप्यकारित्वा Page #15 -------------------------------------------------------------------------- ________________ सनातनजैनग्रंथमालायां सस्य । ततः सन्निकर्षाभावेपि साक्षात्कारिप्रमोत्पत्तेर्न सन्निकर्षरूपतैव प्रत्यक्षस्य । न चाप्राप्यकारित्वं चक्षुषोऽप्रसिद्धं, प्रत्यक्षतस्तथैव प्रतीतेः । ननु प्रत्यक्षागम्यामपि चक्षुषो विषयप्राप्तिमनुमानेन । साधयिष्यामः परमाणुवत् । यथा प्रत्यक्षासिद्धोपि परमाणुः कार्यान्यथानुपपत्त्यानुमानेन साध्यते, तथा चक्षुः प्राप्तार्थप्रकाशकं बहिरिद्रियत्वात्त्वगिंद्रियवदित्यनुमानात्प्राप्तिसिद्धिः । प्राप्तिरेव हि सन्निकर्षः । ततो न सन्निकर्षस्याव्याप्तिरिति चेन्न, अस्यानुमानाभासत्वात् । तद्यथा- चक्षुरित्यत्र कः पक्षोऽभिप्रेतः, किं लौकिकं चक्षुरुतालौकिकं ? आये-हेतोः कालात्ययापादष्टत्वं गोलकाक्षस्य चक्षुषो विषयप्राप्तः प्रत्यक्षबाधितत्वात् । द्वितीये त्वाश्रयासिद्धः, अलौकिकस्य चक्षुषोऽद्याप्यसिद्धेः । शाखासुधादीधितिसमानकालग्रहणाद्यन्यथानुपपत्तेः चक्षुरप्राप्यकारीति निश्चीयते । तदेवं सन्निकर्षाभाबेपि चक्षुषा रूपप्रतीतिर्जायते इति सन्निकर्षोऽव्यापकत्वात् प्रत्यक्षस्य स्वरूपं न भवतीति स्थितं । अस्य च प्रमेयस्य प्रपंचः प्रमेयकमलमार्तंडे सुलभः । संग्रहग्रंथत्वात्तु नेह प्रतन्यते । एवं च न सौगताभिमतं निर्विकल्पक प्रत्यक्षं । नापि योगाभिमत इंद्रियार्थसन्निकर्षः । किं तर्हि ! विशदप्रतिभासं ज्ञानमेव प्रत्यक्षं सिद्धं । तत्प्रत्यक्षं द्विविधं सांव्यवहारिकं पारमार्थिकं चेति । तत्र देशतो विशदं सांव्यवहारिकं प्रत्यक्षं । यज्ज्ञानं देशतो विशदमीषन्निर्मलं तत्सांव्यवहारिकप्रत्यक्षमित्यर्थः । तच्चतुर्विध-अवग्रहः, ईहा, अवायो, धारणा चेति । तत्रंद्रियार्थसमवधानसमनंतरसमुत्थसत्तालोचनानंतरभावी सत्तावांतरजातिविशिष्टवस्तुग्राही ज्ञानविशेषोऽवग्रहः । यथाऽयं पुरुष Page #16 -------------------------------------------------------------------------- ________________ न्यायदीपिका । ११ इति । नायं संशयः, विषयांतरव्युदासेन स्वविषयनिश्चायकत्वात् । तद्विपरीतलक्षणो हि संशयः । यद्राजवार्तिकं "अनेकार्थानिश्चितापर्युदासात्मकः संशयः, तद्विपरीतोऽवग्रहः" इति । भाष्यं च "संशयो हि निर्णयविरोधी न त्ववग्रहः" इति । अवग्रहगृहीतार्थसमुद्भूतसंशयनिरासाय यत्न ईहा । यथा पुरुष इति निश्चितेऽर्थे किमयं दाक्षिणात्य उतौदीच्य इति संशये सति दाक्षिणात्येन भवितव्यमिति तन्निरासायेहाख्यं ज्ञानं जायत इति । भाषादिविशेषनिर्ज्ञानाद्याथात्म्यावगमनमवायः । यथा दाक्षिणात्य एवायमिति । कालांतराविस्मरणयोग्यतया तस्यैव ज्ञानं धारणा । यद्वशादुत्तरकालेपि स इत्येवं स्मरण जायते । ननु पूर्वपूर्वज्ञानगृहीतार्थग्राहकत्वादेतेषां धारावाहिकवदप्रामाण्यप्रसंग ः इति चेन्न विषयभेदेनागृहीतग्राहकत्वात् । तथाहि - योऽ • वग्रहस्य विषयो नासावीहायाः । यः पुनरीहाया नायमवायस्य यश्चावायस्य नैष धारणाया इति परिशुद्धप्रतिभानां सुलभमेवैतत् । तदेतदवग्रहादिचतुष्टयमपि यदेंद्रियेण जन्यते तदेंद्रिय प्रत्यक्षमित्युच्यते यदा पुनरनिंद्रियेण तदानिंद्रियप्रत्यक्षं गीयते । इंद्रियाणि स्पर्शनरसनघ्राणचक्षुः श्रोत्राणि पंच । अनिंद्रियं तु मनः । तद्दूयनिमित्तकमिदं लोकसंव्यवहारे प्रत्यक्षमिति प्रसिद्धत्वात्सांव्यवहारिकप्रत्यक्षमुच्यते । तदुक्तं "इंद्रियानिंद्रियनिमित्तं देशतः सांव्यवहारिकं ” इदं चामुख्यप्रत्यक्षमुपचारसिद्धत्वात् । वस्तुतस्तु परोक्षमेव मतिज्ञानत्वात् । कुतो नु खल्वेतन्मतिज्ञानं परोक्षमित्युच्यते " आये परोक्षं" इति सूत्रणात् । आये मतिश्रुते परीक्षमिति हि सूत्रार्थः । उपचारमूलं पुनरत्र देशतो वैशद्यमिति कृतं विस्तरेण । सर्वतो विशदं पारमार्थिकं प्रत्यक्षं । यज्ज्ञानं साकल्येन स्पष्टं Page #17 -------------------------------------------------------------------------- ________________ १२ सनातनजैन ग्रंथमालायां तत्पारमार्थिकप्रत्यक्षं मुख्यप्रत्यक्षमिति यावत् । तद् द्विविधं सकलं वि. कलं च । तत्र कतिपयविषयं विकलं । तदपि द्विविधमवधिज्ञानं मनःपर्ययज्ञानं चेति । तत्रावधिज्ञानावरणक्षयोपशमाद्वी-तरायक्षयोपशमसहकृताज्जातं रूपिद्रव्यमात्रविषयमवधिज्ञानं । मनःपर्ययनानावरणवीर्यातरायक्षयोपशमसमुत्थं परमनोगतार्थविषयं मनःपर्ययज्ञानं । मतिज्ञानस्येवावधिमनःपर्यययोरवांतरभेदास्तत्त्वार्थवार्तिकराजवार्तिकश्लोकवार्तिकभाष्याभ्यामवगंतव्याः ।। सर्वद्रव्यपर्यायविषयं सकलं । तच्च घातिसंघातनिरवशेषघातनात्समुन्मीलितं केवलज्ञानमेव “सर्वद्रव्यपर्यायेषु केवलस्य" इत्याज्ञापितत्वात् । तदेवमवधिमनःपर्ययकेवलज्ञानत्रयं सर्वतो वैशद्यात्पारमार्थिकं प्रत्यक्षं । सर्वतो वैशा चात्ममात्रसापेक्षत्वात् । नवस्तु केवलस्य पारमार्थिकत्वमवधिमनःपर्यययोस्तु न युक्तं विकलत्वादिति चेन्न साकल्यवैकल्ययोरत्र विषयौपाधिकत्वात् । तथाहि, सर्वद्रव्यपर्यायविषयमिति केवलं सकलं । अवधिमनः पर्ययौ तु कतिपयविषयत्वाद्विकलौ । नैतावता तयोः पारमार्थिकत्वच्युतिः, केवलवत्तयोरपि वैशा स्वविषये साकल्येन समस्तीति तावपि पारमार्थिकावेव । ___ कश्चिदाह “अक्षं नाम चक्षुरादिकमिंद्रियं तत्प्रतीत्य यदुत्पद्यते तदेव प्रत्यक्षमुचितं नान्यत्" इति तदप्यसत् । आत्ममात्रसापेक्षाणामवाधिमनःपर्ययकेवलानामिंद्रियनिरपेक्षाणामपि प्रत्यक्षत्वाविरोधात् । स्पष्टत्वमेव हि प्रत्यक्षत्वप्रयोजकं नेंद्रियजन्यत्वं । अत एव हि मतिश्रुतावविमनःपर्ययकेवलानां ज्ञानत्वन प्रतिपन्नानां मध्ये "आद्ये परोक्षं" "प्रत्यक्षमन्यत्" इत्याद्ययोर्मतिश्रुतयोः परोक्षत्वकथनमन्येषां त्ववधिमनःपर्ययकेवलानां प्रत्यक्षत्ववाचोयुक्तिः । Page #18 -------------------------------------------------------------------------- ________________ न्यायदीपिका। कथं पुनरेतेषां प्रत्यक्षशब्दवाच्यत्वमिति चेत् रूढित इति ब्रूमः । अथवा अक्ष्णोति व्याप्नोति जानातीत्यक्ष आत्मा तन्मात्रापेक्षोत्पत्तिकं प्रत्यक्षमिति किमनुपपन्न ! तर्हि इंद्रियजन्यमप्रत्यक्षं प्राप्तमिति चत् हंत विस्मरणशीलत्वं वत्सस्य । अवोचाम खल्वोपचारिकं प्रत्यक्षत्वमक्षजज्ञानस्य ततस्तस्याप्रत्यक्षत्वं कामं प्राप्नातु, का नो हानिः ? एतेनामेभ्यः परावृत्तं परोक्षमित्यपि प्रतिविहितं । अवैशद्यस्यैव परोक्षलक्षणत्वात् । स्यादेतत् 'अतींद्रियं प्रत्यक्षमस्तीत्यतिसाहसमसंभावितत्वात् । यद्यसंभावितमपि त गगनकुसुमादिकमपि कल्प्यं स्यात् । न स्याद्गगनकुसुमादिरप्रसिद्धत्वात् अतींद्रियप्रत्यक्षस्य तु प्रमाणसिद्धत्वात् । तथा हि- केवलज्ञानं तावत्किंचिज्ज्ञानां कपिलसुगतादीनामसंभवदप्यर्हतः संभवत्येव । सर्वज्ञो हि स भगवान् । ननु सर्वज्ञत्वमेवाप्रसिद्धं किमुच्यते सर्वज्ञोऽर्हन्निति कचिदप्यप्रसिद्धस्य विषयविशेषे व्यवस्थापयितुमशक्तरिति चेन्न, सूक्ष्मांतरितदूरार्थाः कस्यचित्प्रत्यक्षा अनुमेयत्वादग्न्यादिवदित्यनुमानात्सर्वज्ञत्वसिद्धेः । तदुक्तं स्वामिभिर्महाभाष्यस्यादावाप्तमीमांसाप्रस्तावे"सूक्ष्मांतरितदूरार्थाः प्रत्यक्षाः कस्यचिद्यथा । अनुमेयत्वतोऽग्न्यादिरिति सर्वज्ञसंस्थितिः" ॥१॥ सूक्ष्माः स्वभावविप्रकृष्टाः परमाण्वादयः, अंतरिताः कालविप्र. कृष्टा रामादयः, दूरार्थी देशविप्रकृष्टा मेर्वादयः एते स्वभावकालदेशविप्रकृष्टाः पदार्था धर्मित्वन विवक्षितास्तेषां कस्यचित्प्रत्यक्षत्वं साध्यं । इह प्रत्यक्षत्वं प्रत्यक्षज्ञानविषयत्वं । विषयिधर्मस्य विषयेऽप्युपचारोपपत्तेः। अनुमेयत्वादिति हेतुः, अग्न्यादिदृष्टातः । अग्न्यादावनुमेयत्वं कस्यचिप्रत्यक्षत्वेन सहोपलब्धं परमाण्वादावपि कस्यचित्प्रत्यक्षत्वं साधयत्येव । Page #19 -------------------------------------------------------------------------- ________________ सनातनजैन ग्रंथमालायां न चाण्वादावनुमेयत्वमप्रसिद्ध, सर्वेषामप्यनुमेयमात्रे विवादाभावात् । अस्त्वेवं सूक्ष्मादीनां प्रत्यक्षत्वसिद्धिद्वारेण कस्यचिदशेषविषयं प्रत्यक्षज्ञानं । तत्पुनरतींद्रियमिति कथं ? इत्थ-यदि तज्ज्ञानमैंद्रियिकं स्यादशेषविषयं न स्यात् , इंद्रियाणां स्वयोग्यविषय एव ज्ञानजनकत्वशक्तेः सूक्ष्मादीनां च तदयोग्यत्वादिति । तस्मात्सिद्धं तदशेष. विषयं ज्ञानमतींद्रियमेवेति। अस्मिंश्चार्थे सर्वेषां सर्वज्ञवादिनां न विवादः यद्वाह्या अप्याहुः “अदृष्टादयः कस्यचित्प्रत्यक्षाः प्रमेयत्वात्' इति । नन्वस्त्वेवमशेषविषयसाक्षात्कारित्वलक्षणमतींद्रियप्रत्यक्षज्ञानं, तच्चाहत इति कथं ? कस्यचिदिति सर्वनामःमान्यज्ञापकादिति चेत् , सत्यं, प्रकृतानुमानात्सामान्यतः सर्वज्ञत्वसिद्धिः । अर्हत एतदिति पुनरनुमानांतरात् । तथा हि- अर्हन् सर्वज्ञो भवितुमर्हति निर्दोषत्वात् । यस्तु न सर्वज्ञो नासो निर्दोषो, यथा रथ्यापुरुष इति केवलव्यतिरोकिलिंगकमनुमानं । ___ आवरणरागादयो दोषास्तेभ्यो निष्क्रांतत्वं हि निर्दोषत्वं । तत्खल्लु सर्वज्ञमंतरेण नोपपद्यते किंचिज्ज्ञस्यावरणादि दोषरहितत्वविरोधात् । ततो निर्दोषत्वमर्हति विद्यमानं सार्वइयं साधयत्येव । निर्दोषत्वं पुनरहत्परमेष्ठिनि युक्तिशास्त्राविरोधिवाक्त्वासिध्यति । युक्तिशास्त्राविरोधिवाक्त्वं च तदभिमतस्य मुक्तिसंसारतत्कारणत्वस्यानेकधर्मात्मकचेबनाचेतनात्मकतत्त्वस्य प्रमाणाबाधितत्वात्सुव्यवस्थितमेव । एवमपि सर्वज्ञत्वमर्हत एवेति कथं कपिलादीनामपि संभाव्यमानत्वादिति चेदुच्यते-कपिलादयो न सर्वज्ञाः सदोषत्वात् , सदोषत्वं तु तेषां न्यायागमविरुद्धभाषित्वात् । तच तदभिमतमुक्त्यादितत्त्वस्य सर्वथैकांतस्य च प्रमाणबाधितत्वात् । तदुक्तं स्वामिभिरेव "स त्वमेवासि निर्दोषो युक्तिशास्त्राविरोधि वाक। Page #20 -------------------------------------------------------------------------- ________________ न्यायदीपिका | अविरोधो यदिष्टं ते प्रसिद्धेन न बाध्यते ॥ १ ॥ त्वन्मतामृतबाह्यानां सर्वथैकांतवादिनां । आप्ताभिमानदग्धानां स्वेष्टं दृष्टेन बाध्यते ॥ २ ॥" १५ इति कारिकाद्वयेनैतयोरेव परात्माभिमततत्त्वबाधाबाधयोः समर्थनं प्रस्तुत्य भावैकांते इत्युपक्रम्य स्यात्कारः सत्यलांछन इत्यंत आप्तमीमांसासंदर्भ इति कृतं विस्तरेण । तदेवमतींद्रियं केवलज्ञानमर्हत एवेति सिद्धं । तद्वचनप्रामाण्याच्चावधिमनः पर्यययोरतींद्रिययोः सिद्धिरित्यतींद्रियप्रत्यक्षमनवद्यं । ततः स्थितं सांव्यवहारिकं पारमार्थिक चेति द्विविधं प्रत्यक्षमिति । इति द्वितीय प्रभास Quसन सम्र अथ तृतीयेशु अथ परोक्षप्रमाणनिरूपणं प्रक्रम्यते पतिको अत्र परोक्षं लक्ष्यं, अविशदप्रतिभासत्वं लक्षणं । यस्य ज्ञानस्य प्रतिभासो विशदो न भवति तत्परोक्षप्रमाणमित्यर्थः । वैशद्यमुक्तलक्षणं । त्वताऽन्यदवैशद्यमस्पष्टत्वं । तदप्यनुभवसिद्धमेव । या सामान्यमात्रविषयत्वं परोक्षप्रमाणमिति केचित् तन्न प्रत्यक्षस्येव परोक्षस्यापि सामान्य विशेषात्मकवस्तुविषयत्वेन तस्य लक्षणस्यासंभवात् । तथा हि । घटादिविषयेषु प्रवर्तमानं प्रत्यक्षप्रमाणं तद्गतं सामान्याकारं घटत्वादिकं व्यावृत्ताकारं च व्यक्तिरूपं युगपदे प्रकाशयदुपलब्धं तथा परोक्षमपि । इति न सामान्यमात्रवि - यत्वं परोक्षलक्षणं । अपि त्ववैशद्यमेव । सामान्यविशेषयोरेकतरविषयत्वे तु प्रमाणत्वस्यैवानुपपत्तिः, सर्वप्रमाणानां सामान्यविशेषात्मकवस्तुविषयत्वाभ्यनुज्ञानात् । तदुक्तं Page #21 -------------------------------------------------------------------------- ________________ सनातनजैनग्रंथमालायां " सामान्यविशेषात्मा तदर्थो विषयः” इति । तस्मात्सुष्ठुक्तं 'अविशदावभासनं परोक्ष' इति । तत्पंचविधं-स्मृतिः प्रत्यभिज्ञानं तर्कोऽनुमानमागमश्चेति । पंचविधस्याप्यस्य परोक्षस्य प्रत्ययांतरसापेक्षत्वनैवोत्पत्तिः । तद्यथा, स्मरणस्य प्राक्तनानुभवापेक्षा, प्रत्यभिज्ञानस्य स्मरणानुभवापेक्षा, तर्कस्यानुभवस्मरणप्रत्यभिज्ञानापेक्षा, अनुमानस्य च लिंगदर्शनाद्यपेक्षा, आगमस्य शब्दश्रवणसंकेतग्रहणाद्यपेक्षा । प्रत्यक्षं तु न तथा स्वातंत्र्येणैवोत्पत्तेः । स्मरणादीनां प्रत्ययांतरापेक्षा तु तत्र तत्र निवेदयिष्यते। ___ तत्र का नाम स्मृतिः । तदित्याकारा प्रागनुभूतवस्तुविषया स्मृतिः । यथा स देवदत्त इति । अत्र हि प्रागनुभूत एव देव- . दत्तस्तत्तया प्रतीयते, तस्मादेषा प्रतोतिस्तत्तोल्लेखिन्यनुभूतविषया च, अननुभूते विषये तदनुत्पत्तेः । तन्मूलं चानुभवो धारणारूप एव । अवग्रहाद्यनुभूतेऽपि धारणाया अभावे स्मृतिजननायोगात् । धारणा हि तथा आत्मानं संस्करोति यथासावात्मा कालांतरेऽपि तस्मिन् विषये ज्ञानमुत्पादयति । तदेतद्धारणाविषय समुत्पन्नं तत्तोल्लेखिज्ञानं स्मृतिरिति सिद्धं । नन्वेवं धारणागृहीत एव स्मरणस्योत्पत्तौ गृहीतग्राहित्वादप्रामाण्यं प्रसज्यत इति चेन्न, विषयविशेषसद्भावादीहादिवत् । यथा हि-अवग्रहादिगृहीतविषयाणामीहादीनां विषयविशेषसद्भावात्स्वविषयसमारोपव्यवच्छेदकत्वेन प्रामाण्यं तथा स्मरणस्यापि धारणागृहीतविषयप्रवृत्तावपि प्रामाण्यमेव । धारणाया हीदंतावच्छिन्नो विषयः, स्मरणस्य तु तत्तावच्छिन्नः । तथा च स्मरणं स्वविषयास्मरणादिसमारोपव्यवच्छेदकत्वात्प्रमाणमेव । तदुक्तं प्रमेयकमलमार्तडे "विस्मरणसंशयविपर्यासलक्षणः समारोपोऽस्ति तन्निराकरणाच्चास्याः स्मृतेः Page #22 -------------------------------------------------------------------------- ________________ न्यायदीपिका। प्रामाण्यं" इति । यदि चानुभूते प्रवृत्तमित्येतावता स्मरणमप्रमाणं स्यात्तर्हि-अनुमितेऽग्ना पश्चात्प्रवृत्तं प्रत्यक्षमप्यप्रमाणं स्यात् । ____अविसंवादित्वाच्च प्रमाणं स्मृतिः प्रत्यक्षादिवत् । न हि स्मृत्वा निक्षेपादिषु प्रवर्तमानस्य विषयविसंवादोस्ति । यत्र त्वस्ति विसंवादस्तत्र स्मरणस्याभासत्वं प्रत्यक्षाभासवत् । तदेवं स्मरणाख्यं पृथक् प्रमाणमस्तीति सिद्धं । अनुभवस्मृतिहेतुकं संकलनात्मकं ज्ञानं प्रत्यभिज्ञानं । इदंतोल्लखि ज्ञानमनुभवः । तत्तोल्लखि ज्ञानं स्मरणं । तदुभयसमुत्थं पूर्वोत्तरेक्यसादृश्यवैलक्षण्यादिविषयं यत्संकलनरूपं ज्ञानं जायते तत्प्रत्यभिज्ञानमिति ज्ञातव्यं । यथा स एवायं जिनदत्तो, गोसदृशो गवयो, गोविलक्षणो महिष इत्यादि । ___अत्र हि पूर्वस्मिन्नुदाहरणे जिनदत्तस्य पूर्वोत्तरदशाद्वयव्यापकमेकत्वं प्रत्यभिज्ञानस्य विषयः, तदिदमेकत्वप्रत्यभिज्ञानं । द्वितीय तु पूर्वानुभूतगोप्रतियोगिकं गवयनिष्ठं सादृश्यं । तदिदं सादृश्यप्रत्यभिज्ञानं । तृतीये तु पुनः-प्रागनुभूतगोप्रतियोगिकं महिषनिष्ठं वैसादृश्यं । सदिदं वैसादृश्यप्रत्यभिज्ञानं । एवमन्येऽपि प्रत्यभिज्ञानभेदा यथाप्रतीति स्वयमुत्प्रेक्ष्याः । अत्र सर्वत्रापि अनुभवस्मृतिसापेक्षत्वात्तद्धेतुकलं । केचिदाहुः "अनुभवस्मृतिव्यतिरिक्तं प्रत्यभिज्ञानं नास्ति" इति तदसत, अनुभवस्य वर्तमानकालवर्तिविवर्तमात्रप्रकाशकत्वं, स्मृतेश्वातीतविवर्तद्योतकत्वमिति तावद्वस्तुगतिः । कथं नाम तयोरतीतवर्तमानकालसंकलितैक्यसादृश्यादिविषयावगाहित्वं । तस्मादस्ति स्मृत्यनुभवातिरिक्तं तदनंतरभावि संकलनज्ञानं । तदेव प्रत्यभिज्ञानं । अपरे त्वेकत्वप्रत्यभिज्ञानमभ्युपगम्यापि तस्य प्रत्यक्षतर्भावं कल्पयंति । तद्यथा, यदिद्रियान्वयव्यतिरेकानुविधायि नत्प्रत्यक्षमिति ताव Page #23 -------------------------------------------------------------------------- ________________ सनातनजैनग्रंथमालायां प्रसिद्धं । इंद्रियान्वयव्यतिरेकानुविधायि चेदं प्रत्यभिज्ञानं तस्मात् प्रत्यक्षमिति । तन्न, इंद्रियाणां वर्तमानदशापरामर्शमात्रोपक्षीणत्वेन वर्तमानातीतदशाव्यापकैक्यावगाहित्वाघटनात् । न ह्यविषयप्रवृत्तिरिंद्रयाणां युक्तिमती, चक्षुषा रसादेरपि प्रतीतिप्रसंगात् । ननु सत्यमेतदिद्रियाणां वर्तमानदशावगाहित्वमेवेति, तथापि तानि सहकारिसमवधानसामर्थ्याद्दशाद्वयव्यापिन्येकत्वेपि प्रतीतिं जनयंतु, अंजनसंस्कृतं चक्षुरिव व्यवहितेऽर्थे । नहि चक्षुषो व्यवहितार्थप्रत्यायनसामर्थ्यमस्ति, अंजनसंस्कारवशात्तु तथात्वमुपलब्धं । तद्वदेव स्मरणादिसहकृतानींद्रियाण्येव दशाद्वयव्यापकमेकत्वं प्रत्यापयिष्यं. तौति किं प्रमाणांतरकल्पनाप्रयासेनेति, तदप्यसत् । सहकारिसहस्रसमवधानेऽप्यविषये प्रवृत्तेरयोगात् । चक्षुषो हि अंजनसंस्कारादिः सहकारी स्वविषये रूपादावेव प्रवर्तको न त्वविषये रसादौ । अविषयश्च पूर्वोत्तरावस्थाव्यापकमकेत्वमिंद्रियाणां । तस्मात्त. प्रत्यायनाय प्रमाणांतरमन्वेषणीयमेव । सर्वत्रापि विषयविशेषद्वोरण प्रमाणभेदव्यवस्थापनात् । - किंचास्पष्टेवयं तदेवेदमिति प्रतिप्रत्तिः, तस्मादपि न तस्याः प्रत्यक्षेऽतर्भाव इति । अवश्यं चैतदेवं विज्ञेयं चक्षुरादेरैक्यप्रतातिजननसामर्थ्य नास्तीति । अन्यथा लिंगदर्शनव्याप्तिस्मरणादिसहकृतचक्षुरादिकमेव वयादिलिंगिज्ञानं जनयेदिति नानुमानमपि पृथक प्रमाणं स्यात् । स्वविषयमात्र एव चरितार्थत्वाच्चक्षुरादिकमिंद्रियं न लिंगिनि प्रवर्तितुं प्रगल्भमिति चेत प्रकृतेन किमपराद्धं ? ततः स्थितं प्रत्यभिज्ञानाख्यं पृथक्प्रमाणमस्तीति । सादृश्यप्रत्यभिज्ञानमुपमानाख्यं पृथक् प्रमाणमिति केचित् कथयति तदसत, स्मृत्यनुभवपूर्वकसंकलनज्ञानत्वेन प्रत्यभिज्ञानत्वानतिवृत्तेः । Page #24 -------------------------------------------------------------------------- ________________ १९ न्यायदीपिका। अन्यथा गोविलक्षणो महिष इत्यादिविसदृशत्वप्रत्ययस्य इदमस्माद्दरमित्यादेश्च प्रत्ययस्य सप्रतियोगिकस्य पृथकप्रमाणत्वं स्यात्। ततो वैसादृश्यादिप्रत्ययवत् सादृश्यप्रत्ययस्यापि प्रत्यभिज्ञानलक्षणाक्रांतत्वेन प्रत्याभिज्ञानत्वमेवेति प्रामाणिकपद्धतिः । ___ अस्तु प्रत्यभिज्ञानं, कस्तर्हि तर्कः ? व्याप्तिज्ञानं तर्कः । साध्यसाधनयोगम्यगमकभावप्रयाजको व्यभिचारगंधासहिष्णुः संबंधविशेषो व्याप्तिरधिनाभाव इति च व्यपदिश्यते । तत्सामर्थ्यात्खल्वन्यादि धूमादिरेव गमयति नतु घटादिस्तदभावात् । तस्याश्चाविनाभावापरनाम्न्या व्याप्तः प्रमितौ यत्साधकतमं तदिदं तर्काख्यं पृथक प्रमाणमित्यर्थः । तदुक्तं श्लोकवार्तिकभाष्ये “साध्यसाधनसंबंध्यानविवृत्तरूपे हि फले साधकतमस्तर्कः" इति। उह इति तर्कस्यैव व्यपदेशांतरं स च तर्कस्तां व्याप्ति सकलदेशकालोपसंहारेण विषयीकरोति । किमस्योदाहरणं ! उच्यते, यत्र यत्र घूमवत्वं तत्र तत्राग्निमत्त्वमिति । अत्र हि धूमे सति भूयोग्न्युपलंभे 'सर्वत्र सर्वदा धूमोऽग्निं न व्यभिचरति' एवं सर्वोपसंहारेणाविनाभाविज्ञानं पश्चादुत्पन्नं तर्काख्यं प्रत्यक्षादेः पृथगेव । प्रत्यक्षस्य सन्निहितदेश एव धूमाग्निसंबंधप्रकाशनान्न व्याप्तिप्रकाशकत्वं । सर्वोपसंहारवती हि व्याप्तिः। ____ ननु यद्यपि प्रत्यक्षमात्रं व्याप्तिविषयीकरणे सक्तं न भवति तथापि विशिष्ठं प्रत्यक्षं तत्र शक्तमेव । तथा हि महानसादौ तावत्प्रथम धूमाग्न्योर्दर्शनमेकं प्रत्यक्षं । तदनंतरं भूयो भूयःप्रत्यक्षाणि प्रवर्तते । तानि च प्रत्यक्षाणि न सर्वाणि व्याप्तिविषयीकरणे समर्थानि, अपि तु पूर्वपूर्वानुभूतधूमाग्निस्मरणतत्सजातीयत्वानुसंधानरूपप्रत्यभिज्ञानसहकृतः कोपि प्रत्यक्षविशेषो व्याप्तिं गृहाति । तथा च, स्मरणप्रत्यभिज्ञानसहकृते प्रत्यक्षविशेषे व्याप्तिविषयीकरणसमर्थे किं तर्का Page #25 -------------------------------------------------------------------------- ________________ २० सनातनजैनग्रंथमालायां ख्येन पृथक्प्रमाणेनेति केचित्, तेऽपि न्यायमार्गानभिज्ञाः "सहकारिसहस्रसमवधानेऽप्यविषये प्रवृत्तिन घटते" इत्युक्तत्वात् । तस्माप्रत्यक्षेण व्याप्तिग्रहणमसमंजसं । इदं समंजसं-स्मरणं प्रत्यभिज्ञानं भूयोदर्शनरूपं प्रत्यक्षं च मिलित्वा तादृशमकं ज्ञानं जनयंति यद्व्याप्तिग्रहणसमर्थमिति तर्कश्च स एव । अनुमानादिकं तु व्याप्तिग्रहणं प्रत्यसभाव्यमेव । बौद्धास्तु प्रत्यक्षपृष्ठभावी विकल्पो व्याप्तिं गृह्णातीति मन्यते । त एवं प्रष्टव्याः, स हि विकल्पः किमप्रमाणमुत प्रमाणमिति । यद्यप्रमाणं कथं नाम तद्गहीतायां व्याप्ती समाश्वासः ! अथ प्रमाणं किं प्रत्यक्षमथवाऽनुमानं? न तावत्प्रत्यक्षमस्पष्टप्रतिभासत्वात्, नाप्यनुमानं लिंगदर्शनाद्यनपेक्षत्वात् । ताभ्यामन्यदेव किंचित्प्रमाणमिति चेदागतस्तर्हि तर्कः । तदेवं तर्काख्यं प्रमाणं निर्णीतं । इदानीमनुमानमनुवर्ण्यते । ___साधनात्साध्यविज्ञानमनुमानं । इहानुमानमिति लक्ष्यानिर्देशः, साधनात्साध्यविज्ञानमिति लक्षणकथनं । साधनाद्भूमादेलिंगात्साध्ये. ऽग्न्यादौ लिंगिनि यद्विज्ञानं जायते तदनुमानम् । तस्यैवाग्न्यायव्युत्पत्तिविच्छित्तिकरणत्वात् । न पुनः साधनज्ञानमनुमानं, तस्य साधनाव्युत्पत्तिविच्छेदमात्रोपक्षीणत्वेन साध्याज्ञाननिवर्तकत्वायोगात् । ततो यदुक्तं नैयायिकैः "लिंगपरामर्शोऽनुमान" इति अनुमानलक्षणं तदविनीतविलसितमिति निवेदितं भवति । वयं त्वनुमानप्रमाणस्वरूपलाभे व्याप्तिस्मरणसहकृतो लिंगपरामर्शः करणमिति मन्यामहे । स्मृत्यादिस्वरूपलाभे अनुभवादिवत् । तथा हि, धारणाख्योऽनुभवः स्मृतौ हेतुः । तादात्विकानुभवस्मृती प्रत्याभज्ञाने, स्मृतिप्रत्यभिज्ञानानुभवाः साध्यसाधनविषयास्तकें। तद्वलिंगज्ञानं व्याप्तिस्मरणादिसहकृतमनुमानोत्पत्तौ निबंधनमित्येतत्सुसंगतमेव । . Page #26 -------------------------------------------------------------------------- ________________ २१ न्यायदीपिका। ननु भवतां मते साधनमेवानुमाने हेतुन तु साधनज्ञानं, साधनात्साध्यविज्ञानमनुमानमिति वचनादिति चेन्न, साधनादित्यत्र निश्चयपथप्राप्ताद्भूमादेरिति विवक्षणात् । अनिश्चयपथप्राप्तस्य धूमादेः साधनत्वस्यैवाघटनात् । तथा चोक्तं श्लोकवार्तिके "साधनात्साध्यविज्ञानमनुमानं विदुर्बुधाः" इति । साधनाज्ज्ञायमानाद्भूमादेः, साध्येऽग्न्यादौ लिंगिनि यद्विज्ञानं तदनुमानं । अज्ञायमानस्य तस्य साध्यज्ञानजनकत्वे हि सुप्तादीनामगृहीतधूमादीनामप्यग्न्यादिज्ञानोत्पत्तिप्रसंगः । तस्माज्ज्ञायमानलिंगकारणकस्य साध्यज्ञानस्यैव साध्याव्युत्पत्तिनिराकारकत्वेनानुमानत्वं । न तु लिंगपरामर्शादेरिति बुधाः प्रामाणिका विदुरिति वार्तिकार्थः। किं तत्साधनं यद्धेतुकं साध्यज्ञानमनुमानमिति चेदुच्यते निश्चितसाध्यान्यथानुपपत्तिकं साधनं । यस्य साध्याभावासंभवनियमरूपा व्याप्त्यविनाभावद्यपरपर्याया साध्यान्यथानुपपत्तिस्तख्येिन प्रमाणेन निर्णीता तत्साधनमित्यर्थः । तदुक्तं कुमारनंदिभट्टारकैः “अन्यथानुपपत्त्येकलक्षणं लिंगमभ्यत" इति । ____किं तत्साध्यं यदविनाभावः साधनलक्षणं ! उच्यते । शक्यमभिप्रेतमप्रसिद्ध साध्यं । यत्प्रत्यक्षादिप्रमाणाबाधितत्वेन साधयितुं शक्यं, वाद्यभिमतत्वेनाभिप्रेतं, संदेहाद्याक्रांतत्वेनाप्रसिद्धं, तदेव साध्यं । अशक्यस्य साध्यत्वे वह्नयनुष्णत्वादेरपि साध्यत्वप्रसंगात् । प्रसिद्धस्य साध्यत्वे पुनरनुमानवैयर्थ्यात् । तदुक्तं न्यायविनिश्चये "साध्यं शक्यमभिप्रेतमप्रासद्धं ततोऽपरं । साध्याभासं विरुद्धादि साधनाविषयत्वतः ॥ इति । अयमर्थः-यच्छक्यमाभिप्रेतमप्रासद्धं तत्साध्यं । ततोऽपरं साध्याभासं । किं तत् ! विरुद्धादि । विरुद्ध प्रत्यक्षादिबाधितं । आदिशब्दा Page #27 -------------------------------------------------------------------------- ________________ २२ सनातन जैन ग्रंथमालायां दनाभिप्रेतं प्रसिद्धं चेति । कुत एतत् ? साधनाविषयत्वतः साधनेन . गोचरीकर्तुमशक्यत्वात् । इत्यकलंकदेवानामभिप्रायलेशः, तदभिप्रायसाकल्यं तु स्याद्वादविद्यापतिर्विवेद । सधानसाध्यद्वयमधिकृत्य श्लोकवार्तिकं च - - "अन्यथानुपपत्त्येकलक्षणं तत्र साधनं । साध्यं शक्यमभिप्रेतमप्रसिद्धमुदाहृतं " ॥ इति तदेवमविनाभावैकलक्षणात् साधनाच्छक्याभिप्रेताप्रसिद्धरूपस्य साध्यस्य ज्ञानमनुमानमिति सिद्धं । तदनुमान द्विविधं स्वार्थं परार्थे च । तत्र स्वयमेव निश्चितात्साधनात्साध्यज्ञानं स्वार्थानुमानं । परोपदेशमनपेक्ष्य स्वयमेव निश्चिताप्राक्तर्कानुभूतव्याप्तिस्मरणसहकृताद्भूमादेः साधनादुत्पन्नं पर्वतादौ धर्मिण्यग्न्यादेः साध्यस्य ज्ञानं स्वार्थानुमानमित्यर्थः । यथा पर्वतोऽयमग्निमान्धूमवत्त्वादिति । अयं हि स्वार्थानुमानस्य ज्ञानरूपस्यापि शब्देनोल्लेख:, यथायं घट इति शब्देन प्रत्यक्षस्य पर्वतोयमग्निमान्धूमवत्त्वा दित्यनेन प्रकारेण प्रमाता जानातीति स्वार्थानुमानस्थितिरवगंतव्या । अस्य च स्वार्थानुमानस्य त्रीण्यंगानि-धर्मी, साध्यं, साधनं च । तत्र साधनं गमकत्वेनांगं । साध्यं तु गम्यत्वेन । धर्मी पुनः साध्यधर्माधारत्वेन । आधारविशेषनिष्ठतया हि साध्यसिद्धिरनुमानप्रयोजनं, 1 धर्ममात्रस्य तु व्याप्तिनिश्चयकाल एव सिद्धत्वात्, यत्र यत्र धूमवत्त्वं तत्र तत्राग्निमत्त्वमिति । पक्षो हेतुरित्यंगद्वयं स्वार्थानुमानस्य, साध्यधर्मविशिष्टस्य धर्मिणः पक्षत्वात् । तथा च स्वार्थानुमानस्य धर्मिसाध्यसाधनभेदाश्रण्यिंगानि पक्षसाधनभेदादंगद्वयं चेति सिद्धं विवक्षाया वैचित्र्यात् । पूर्वत्र हि धर्मिधर्मभेदाविवक्षा । उत्तरत्र तु तत्समुदायविवक्षा । स एव धर्मित्वेनाभिमतः प्रसिद्ध एव । तदुक्तमभियुक्तैः “प्रसिद्धो धर्मों” इति । Page #28 -------------------------------------------------------------------------- ________________ न्यायदीपिका। प्रसिद्धत्वं च धर्मिणः कचित्प्रमाणात्वचिद्विकल्पाकचित्प्रमाणविकल्पाभ्यां । तत्र प्रत्यक्षाद्यन्यतमावधृतत्वं प्रमाणप्रसिद्धत्वं । अनिश्चितप्रामाण्याप्रामाण्यप्रत्ययगोचरत्वं विकल्पप्रसिद्धत्वं । तवयविषयत्वं प्रमाणविकल्पप्रसिद्धत्वं । तत्र प्रमाणसिद्धो धर्मी यथा घूमवत्त्वादग्निमत्त्वे साध्ये पर्वतः खलु प्रत्यक्षेणानुभूयते। विकल्पसिद्धो यथा, सर्वज्ञः अस्ति सुनिश्चितासंभवद्बाधकप्रमाणत्वादित्यस्तित्वे साध्ये सर्वज्ञः । अथवा खरविषाणं नास्तीति नास्तित्वे साध्ये खरविषाणं । सर्वज्ञो ह्यस्तित्वसिद्धः प्राङ्, न प्रत्यक्षादिप्रमाणसिद्धः । अपि तु प्रतीतिमात्रसिद्ध इति विकल्पसिद्धोऽयं धर्मी। तथा खराविषाणमपि नास्तित्वासिद्धेः प्राग् विकल्पसिद्धं । उभयसिद्धो धर्मी यथा शब्दः परिणामी कृतकत्वादित्यत्र शब्दः । स हि वर्तमानः प्रत्यक्षगम्यः, भूतो भविष्यंश्च विकल्पगम्यः । स सर्वोऽपि धर्माति प्रमाणविकल्पसिद्धो धर्मी । प्रमाणोभयसिद्धयोः साध्यं कामचारः । विकल्पसिद्धे तु धर्मिणि सत्तासत्तयोरेव साध्यस्वमिति नियमः, तदुक्तं "विकल्पसिद्धे तस्मिन्सत्तेतरे साध्ये" इति । तदेवं परोपदेशानपेक्षिणः साधनाद् दृश्यमानाद्धर्मिनिष्ठतया साध्ये यद्विज्ञानं तत्स्वार्थानुमानमिति स्थितम् । तदुक्तं "परोपदेशाभावेऽपि साधनात्साध्यबोधनं । यद्रष्टुर्जायते स्वार्थमनुमानं तदुच्यते' । इति । परोपदेशमपेक्ष्य साधनात्साध्यविज्ञानं तत्परार्थानुमानं । प्रति. ज्ञाहेतुरूपपरोपदेशवशाच्छ्रोतुरुत्पन्नं साधनात्साध्यविज्ञानं परार्थानुमानमित्यर्थः । यथा पर्वतोऽयमग्निमान् भवितुमर्हति धूमवत्त्वान्यथानुपपत्तेरिति वाक्ये केनचित्प्रयुक्ते तद्वाक्याथं पर्यालोचयतः स्मृतव्याप्तिकस्य श्रोतुरनुमानमुपजायते । Page #29 -------------------------------------------------------------------------- ________________ २४ . सनातनजैनग्रंथमालायां परोपदेशवाक्यमेव परार्थानुमानमिति केचित, त एवं प्रष्टव्याः, तत्किं मुख्यानुमानमथवा गौणानुमानमिति ! न तावन्मुख्यानुमानं, वाक्यस्याज्ञानरूपत्वात् । गौणानुमानं तद्वाक्यमिति त्वनुमन्यामहे, तत्कारणे तव्यपदेशोपपत्तेरायुर्वै घृतमित्यादिवत् । तस्यैतस्य परार्थानुमानस्यांगसम्पत्तिः स्वार्थानुमानवत्परार्थानुमानप्रयोजकस्य च वाक्यस्य द्वाववयवौ, प्रतिज्ञा हेतुश्च । __तत्र धर्मधर्मिसमुदायरूपस्य पक्षस्य वचनं प्रतिज्ञा । यथा पर्वतोऽयमग्निमानिति । साध्याविनाभाविसाधनवचनं हेतुः। यथा धूमवत्त्वान्यथानुपपत्तेरिति, तथैव धूमवत्त्वोपपत्तेरिति वा । अनयोर्हेतुप्र. योगयोरुक्तिवैचित्र्यमात्रं । पूर्वत्र धूमवत्त्वान्यथानुपपत्तेरिति । अयमर्थःयूमवत्त्वस्यांग्निमत्त्वाभावेऽनुपपत्तेरिति निषेधमुखेन प्रतिपादनं । द्वितीये तु तथैव धूमवत्त्वोपपत्तरिति अथमर्थ:-अग्निमत्त्वे सत्येव धूमवत्त्वोपपत्तरिति विधिमुखेन कथन । अर्थस्तु न भिद्यते, उभयत्राप्यविनामाविसाधनाभिधानाविशेषात् । ततस्तयोर्हेतुप्रयोगयोरन्यतर एव वक्तव्य उभयप्रयोगे पौनरुक्त्यात् । तथा चोक्तलक्षणा प्रतिज्ञा, एतयोरन्यतरो हेतुप्रयोगश्चेत्यवयवद्वयं परार्थानुमानवाक्यस्येति, व्युत्पन्नस्य श्रोतुस्तावन्मात्रेणैवानुमित्युदयात् । नैयायिकास्तु परार्थानुमानप्रयोगस्य यथोक्ताभ्यां द्वाभ्यामवयवाभ्यां सममुदाहरणमुपनयो निगमनं चेति पंचावयवानाहुः । तथा च ते सूत्रयंति "प्रतिज्ञाहेतूदाहरणोपनयनिगमनान्यवयवाः" इति । तांश्च ते लक्षणपुरस्सरमुदाहरति । तद्यथा-"पक्षवचनं प्रतिज्ञा, यथा पर्वतोयमग्निमानिति । साधनत्वप्रकाशनार्थ पंचम्यतं लिंगवचनं हेतुः, यथा धूमयत्त्वादिति । व्याप्तिपूर्वकदृष्टांतवचनमुदाहरणं । यथा यो यो घूमवानसावसावाग्निमान्यथा महानसः । इति साधोदाहरणं।यो योऽग्निमान Page #30 -------------------------------------------------------------------------- ________________ न्यायदीपिका।। भवति स से धूमवान्न भवति यथा महाह्रदः । इति वैधयॊदाहरणं । पूर्वत्रोदाहरणभेदे हेतोरन्वयव्याप्तिः प्रदर्यते । द्वितीये तु व्यतिरेकव्याप्तिः । तद्यथा-अन्वयव्याप्तिप्रदर्शनस्थानमन्वयदृष्टांतः । व्यतिरेकव्याप्तिप्रदर्शनप्रदेशो व्यतिरेकदृष्टांतः। एवं दृष्टांतद्वैविध्यात्तद्वचनस्योदाहरणस्यापि द्वैविध्यं बोद्धव्यं । अनयोश्चोदाहरणयोरन्यतरप्रयोगेणेव पर्याप्तवादितराप्रयोगः । दृष्टांतापेक्षया पक्षहेतोरुपसंहारवचनमुपनयः तथा चायं धूमवानिति । हेतुपूर्वकं पक्षवचनं निगमनं, तस्मादग्निमानेवेति। एते पंचावयवाः परार्थानुमानप्रयोगस्य । तदन्यतमाभावे वीतरागकथायां विजिगीषुकथायां वा नानुमितिरुदेति" इति नैयायिकानामभिमतं । तदेतदविमृश्याभिमननं । वीतरागकथायां तु प्रतिपाद्याशयानु. रोधेनावयवाधिक्येऽपि विजिगीषुकथायां प्रतिज्ञाहेतुरूपावयवद्वयेनैव पर्याप्तेः किमप्रयोजनैरन्यैरवयवैः । तथा हि, वादिप्रतिवादिवोः स्वमतस्थापनार्थ जयपराजयपर्यंत परस्परं प्रवर्तमान वाग्व्यापारो विजिगीषुकथा। गुरुशिष्याणां विशिष्टविदुषां वा रागद्वेषरहितानां तत्त्वनिर्णयपर्यंते परस्परं प्रवर्तमानो वाव्या. पारो वीतरागकथा। तत्र विजिगीषुकथा वाद इति चोच्यते। केचिद्वीतरागकथा वाद इति कथयति तत्पारिभाषिकमेव । नहि लोके गुरुशिष्यादिवाग्व्यापारे वादव्यवहारः, विजिगीषुवाग्व्यवहार एव वादत्वप्रसिद्धः यथा स्वामिसमंतभद्राचार्यैः सर्वे सर्वथैकांतवादिनो वादे जिता इति । तस्मिंश्च वादे परार्थानुमानवाक्यस्य प्रतिज्ञा हेतुरित्यवयवद्वयमेवोपकारक, नोदाहरणादिकं । तद्यथा, लिंगवचनात्मकेन हेतुना तावदवश्यं भवितव्यं । लिंगज्ञानाभावेऽनुमितेरेवानुदयात् । पक्षवचनरूपया प्रतिज्ञयापि च भवितव्यं, अन्यथाऽभिमतसाध्यनिश्चयाभावे साध्यसंदेहवतः श्रोतुरनुमित्यनुदयात् । तदुक्तं " एतद् द्वयमेवानु. Page #31 -------------------------------------------------------------------------- ________________ २६ सनातन जैन ग्रंथमालायां मानांगं, इति । अयमर्थः – एतयोः प्रतिज्ञाहेत्वोर्द्वयमेवानुमानस्य परार्थानुमानस्यांगं । वादे इति शेषः । एवकारेणावधारणपरेण नोदाहरणादिकमिति सूचितं भवति । व्युत्पन्नस्यैव हि वादाधिकारः । प्रतिज्ञाहेतुप्रयोग मात्रेणैवोदाहरणादिप्रतिपाद्यस्यार्थस्य गम्यमानस्य व्युत्पन्नेन ज्ञातुं शक्यत्वात् । गम्यमानस्याप्यभिधाने पौनरुक्त्यप्रसंगात् । स्यादेतत् । प्रतिज्ञाप्रयोगेऽपि पौनरुक्त्यमेव, तदभिधेयस्य पक्षस्यापि प्रस्तावादिना गम्यमानत्वात् । तथा च लिंगवचनलक्षणो हेतुरेक एव वादे प्रयोक्तव्यः” इति वदन् बौद्धः पशुरात्मनो दुर्विदग्धतामुघोषयति । हेतुमात्रप्रयोगे व्युत्पन्नस्यापि साध्यसंदेहानिवृत्तेः । तस्मादवश्यं प्रतिज्ञा प्रयोक्तव्या । तदुक्तं "साध्यसंदेहापनोदार्थं गम्यमानस्यापि पक्षस्य वचनं” इति । तदेवं वादापेक्षया परार्थानुमानस्य प्रतिज्ञाहेतुरूपमवयवद्वयमेव, न न्यूनं नाधिकमिति स्थितं । प्रपंच: पुनरवयवविचारस्य पत्रपरीक्षायामीक्षणीयः । वीतरागकथायां तु प्रतिपाद्याशयानुरोधेन प्रतिज्ञाहेतू द्वाववयवौ, प्रतिज्ञाहेतूदाहरणानि त्रयः, प्रतिज्ञाहेतूदाहरणोपनयाश्चत्वारः, प्रतिज्ञाहेतूदाहरणोपनयनिगमनानि वा पंचेति यथायोग्यं प्रयोगपरिपाटी । तदुक्तं कुमारनंदिभट्टारकैः " प्रयोगपरिपाटी तु प्रतिपाद्यानुरोधत: इति । तदेवं प्रतिज्ञादिरूपात्परोपदेशादुत्पन्नं परार्थानुमानं । तदुक्तं"परोपदेशसापेक्षं साधनात्साध्यवेदनं । श्रोतुर्यज्जायते सा हि परार्थानुमितिर्मता ॥ " ܕܪ तथा च स्वार्थं परार्थं चेति द्विविधमनुमानं साध्याविनाभावनिश्चयैकलक्षणाद्धेते।रुत्पद्यते । इत्थमन्यथानुपपत्येकलक्षणो हेतुरनुमितिप्रयोजक इति प्रथिते प्यार्हतमते तदेतदवितर्कयान्येऽन्यथाप्याहुः । तत्र तावत्ताथागता: Page #32 -------------------------------------------------------------------------- ________________ न्यायदीपिका। "पक्षधर्मत्वादित्रितयलक्षणाल्लिंगादनुमानोत्थानं" इति वर्णयति । तथा हि " पक्षधर्मत्वं सपक्षे सत्त्वं विपक्षाघ्यावृत्तिरिति हेतोस्त्रीणि रूपाणि । तत्र साध्यधर्मविशिष्टो धर्मी पक्षः, पथा धूमध्वजानुमाने पर्वतः । तस्मिन् व्याप्य वर्तमानत्वं हेतोः पक्षधर्मत्वं । साध्यसजाबीयधर्मा धर्मी सपक्षः । यथा तत्रैव महानसः । तस्मिन्सर्वत्रैकदेशे या वर्तमानत्वं हेतोः सपक्षे सत्त्वं । साध्यविरुद्धधर्मा धर्मी विपक्षः । यथा तत्रैव महाह्रदः, तस्मात्सर्वस्माद् व्यावृत्तत्वं हेतोर्विपक्षाव्यावृत्तिः। तानीमानि त्रीणि रूपाणि मिलितानि हेतोर्लक्षणं । अन्यतमाभावे हेतोराभासत्वं स्यात्" इति । __ तदसंगतं, कृत्तिकोदयादेर्हेतोरपक्षधर्मस्य शकटोदयादिसाध्यगमकत्वदर्शनात् । तथा हि, शकटं धर्मि मुहूर्ताते उदेष्यति कृत्तिकोदयादिति । अत्र हि, शकटः पक्षः, मुहूताते उदयः साध्या, कृत्तिकोदयो हेतुः । नहि कृत्तिकोदयो हेतुः पक्षीकृते शकटे वर्तते । अतो न पक्षधर्मः । तथाप्यन्यथानुपपत्तिबलाच्छकटोदयाख्यं साध्यं गमययेव । तस्माद्बौद्धाभिमतं हेतोर्लक्षणमन्याप्तं । नैयायिकास्तु पाश्चरूप्यं हेतोळक्षणमाचक्षते । तथा हि, पक्षधर्मत्वं सपक्षे सत्त्वं विपक्षाव्यावृत्तिरबाधितविषयत्वमसत्प्रतिपक्षत्वं चेति पञ्चरूपाणि । तत्राद्यानि त्रीण्युक्तलक्षणानि । साध्यविपरीतनिश्चायकप्रबलप्रमाणरहितत्वमबाधितविषयत्वं तादृशसमबलप्रमाणशून्यत्वमसत्प्रतिपक्षत्वं । तद्यथा, पर्वतोयमग्निमान् धूमवत्त्वात् । यो यो धूमवान् स सोऽग्निमान्, यथा महानसः।यो योऽग्निमान् न भवति स स धूमवान् न भवति, यथा महाहदः । तथा चायं धूमवांस्तस्मादनिमानेवेति । अत्र हि अग्निमत्त्वेन साध्यधर्मेण विशिष्टः पर्वताख्योधर्मी पक्षः। Page #33 -------------------------------------------------------------------------- ________________ सनातन जैनग्रंथमालायां - " " धूमवत्वं हेतुः । तस्य च तावत्पक्षधर्मत्वमस्ति पक्षीकृते पर्वते वर्तमानत्वात् । सपक्षे सत्त्वमप्यस्ति सपक्षे महानसे वर्तमानत्वात् । ननु केषुचित्सपक्षेषु घूमवत्त्वं न वर्तते, अंगरावस्थापन्नाग्निमत्सु प्रदेशेषु धूमाभावादिति चेन्न, सपक्षैकदेशवृत्तेरपि हेतुत्वात् । सपक्षे सर्वत्रैकदेशे वा वृत्तिर्हेतोः सपक्षे सत्त्वमित्युक्तत्वात् । विपक्षाद्व्यावृत्तिरप्यस्ति धूमवत्त्वस्य सर्वमहाहृदादिविपक्षाद्व्यावृत्तेः । अबाधितविषयत्त्रमप्यस्ति घूमवत्त्वस्य हेतोर्यो विषयोऽग्निमत्त्वाख्यं साध्यं तस्य प्रत्यक्षादिप्रमाणाबाधितत्वात् । असत्प्रतिपक्षत्वमप्यस्ति अग्निरहितत्वसाधकसमबलप्रमाणासंभवात् । तथा च पांच रूप्य सम्पत्तिरेव धूमवत्त्वस्य साध्यसाधकत्वे निबंधनं । एवमेव सर्वेषामपि सद्धेतूनां रूपपंचकसम्पत्तिरूहनीया । तदन्यतमविरहादेव खलु पंच हेत्वाभासाः, असिद्धविरुद्धानैकांतिककालात्ययापदिष्टप्रकरणसमाख्याः संपन्नाः । तथा हि, अनिश्चितपक्षवृत्तिरसिद्धः । यथा अनित्यः शब्दश्चाक्षुषत्वात् । अत्र हि चाक्षुषत्वं हेतुः पक्षीकृते शब्दे न वर्तते, श्रावणत्वात् शब्दस्य । तथा च पक्षधर्मत्वविरहादसिद्धत्वं चाक्षुषत्वस्य । साध्यविपरीतव्याप्तो विरुद्धः । यथा नित्यः शब्दः कृतकत्वादिति । कृतकत्वं हेतुः साध्यभूतनित्यत्वविपरीतेनानित्यत्वेन व्याप्तत्वात्, सपक्षे च गगनादावविद्यमानत्वाद्विरुद्धः । सव्यभिचारोऽनैकांतिकः । यथा अनित्यः शब्दः, प्रमेयत्वादिति । प्रमेयत्वं हि हेतुः साध्यभूतमनित्यत्वं व्यभिचरति, गगनादौ विपक्षे नित्यत्वेनापि सहवृत्तेः । ततो विपक्षाद्व्यावृत्त्यभावादनैकांतिकः । बाधितविषयः कालात्ययापदिष्टः यथाऽग्निरनुष्णः पदार्थत्वादिति । अत्र पदार्थत्वं हेतुः स्वविषयेऽनुष्णत्वे उष्णत्वमाहंकण प्रत्यक्षण बाधिते प्रवर्तमानोऽबाधितविषयत्वाभावात्कालात्ययापदिष्टः । Page #34 -------------------------------------------------------------------------- ________________ न्याय दीपिका । २९ प्रतिसाधनप्रनिरुद्धो हेतुः प्रकरणसमः । यथा अनित्यः शब्दो नित्यधर्मरहितत्वादिति । अत्र हि नित्यधर्मरहित्वादिति हेतु: प्रतिसाधन प्रतिरुद्धः । किं तत्प्रतिसाधनमिति चेत्, नित्यः शब्दोऽनित्यधर्मरहितत्वादिति नित्यत्वसाधनं । तथा चासत्प्रतिपक्षत्वाभावाच प्रकरणसमत्वं नित्यधर्मरहितत्वादिति हेतोः । तस्मात्पांच रूप्यं हेतोर्लक्षणमन्यतमाभावे हेत्वाभासत्व प्रसंगादिति सूक्तं । हेतुलक्षणरहिता हेतुवदवभासमानाः खलु हेत्वाभासाः । पंचरूपान्यतमशून्यत्वाद्धेतुलक्षणरहितत्वं कतिपयरूपसम्पत्तेर्हेतुवदवभासमानत्वमिति वचनादिति । तदेतत्तदपि नैयायिकाभिमननमनुपपन्नं, कृत्तिकोदस्य पक्षधर्मरहितस्यापि शकटोदयं प्रति हेतुत्वदर्शनात् पांघरूप्यस्याव्याप्तेः । किं च केवलान्वयिकेवलव्यतिरेकिणोर्हेत्वोः पांच रूप्याभावेऽपि ममकत्वं तैरेवांगीक्रियते । तथा हि-ते मन्यंते, त्रिविधो हेतुः - अन्वयव्यतिरेकी, केवलान्वयी, केवलव्यतिरेकी चेति । तत्र पंचरूपोपपन्नोऽन्वयव्यतिरेकी, यथा शब्दोऽनित्यो भवितुमर्हति कृतकत्वात् । यद्यत्कृतकं तत्तदनित्यं यथा घटः । यद्यदनित्यं न भवति तत्तत्कृतकं न भवति, यथाऽऽकाशं । तथा चायं कृतकः, तस्मादनित्य एवेति । अत्र शब्दं पक्षीकृत्यानित्य साध्यते, तत्र कृतकत्वं हेतुः । तस्य पक्षीकृतशब्दधर्मत्वात्पक्षधर्मत्वमस्ति । सपक्षे घटादौ वर्तमानत्वात्, विपक्षे गगनादाववर्तमानत्वादन्वयव्यतिरेकित्वं । " पक्षसपक्षवृत्तिर्विपक्षवृत्तिरहितः केवलान्वयी । यथाऽदृष्टादयः कस्यचित्प्रत्यक्षाः, अनुमेयत्वात् यद्यदनुमेयं तत्तत्कस्यचित्प्रत्यक्षं । यथाऽग्न्यादिरिति । अत्र 'अदृष्टादयः' पक्षः, कस्यचित्प्रत्यक्षत्वं साध्यं, अनुमेयत्वं हेतुः, अग्न्याद्यन्वयदृष्टांत: । अनुमेयत्वं हेतुः पक्षी Page #35 -------------------------------------------------------------------------- ________________ सनातनजैनग्रंथमालायां कृतेऽदृष्टादौ वर्तते, सपक्षभूतेऽग्न्यादौ वर्तते, सतः पक्षधर्मत्वं सपक्षे सत्त्वं चास्ति । विपक्षः पुनरत्र नास्त्येव, सर्वस्यापि पक्षसपक्षांतर्भावात् । तस्माद्विपक्षाव्यावृतिर्नास्त्येव, घ्यावृत्तरवधिसापेक्षत्वादवधिभूतस्य च विपक्षस्याभावात् । शेषमन्वयव्यतिरेकिवद्रष्टव्यं । पक्षवृत्तिर्विपक्षव्यावृत्तः सपक्षरहितो हेतुः केवलव्यतिरेकी । यथा जीवच्छरीरं सात्मकं भवितुमर्हति प्राणादिमत्वात् । यद्यत्सात्मक न भवति तत्तत्प्राणादिमन्न भवति, यथा लोष्ठमिति । अत्र जीवच्छ. रीरं पक्षः, सात्मकत्वं साध्य, प्राणादिमत्त्वं हेतुः, लोष्ठादिय॑तिरोकि दृष्टांतः । प्राणादिमत्त्व हेतुः पक्षीकृते जीवच्छरीरे वर्तते । विपक्षाच्च लोष्ठादेावर्तते । सपक्षः पुनरत्र नास्त्येव । सर्वस्यापि पक्षविपक्षांतर्भावादिति । शेषं पूर्ववत् । ___ एवमेतेषां त्रयाणां हेतूनां मध्येऽन्वयव्यतिरेकिण एव पांचरूप्यं, केवलान्वयिनो विपक्षव्यावृत्यभावात्, केवलव्यतिरेकिणः सपक्षसत्त्वाभावाच्च नैयायिकमतानुसारेणैव पांचरूप्यन्यभिचारः । अन्यथा. नुपपत्तेस्तु सर्वहेतुव्याप्तत्वाद्धेतुलक्षणत्वमुचितं । तदभावे हेतोः खसाध्यगमकत्वाघटनात् । ___ यदुक्तमसिद्धादिदोषपंचकनिवारणाय क्रमेण पंचरूपाणीति तन्न, अन्यथानुपपत्तिमत्त्वेन निश्चितत्वस्यैवास्मदभिमतलक्षणस्य तन्निवारकत्वसिद्धेः । तथा हि, साध्यान्यथानुपपत्तिमत्त्वे सति निश्चयपथप्राप्तवं खलु हेतोर्लक्षणं साध्याविनाभावित्वेन निश्चतो हेतुरिति वच. . नात् । न चैतदसिद्धस्यास्ति, शब्दानित्यत्वसाधनायाभिप्रेतस्य चाक्षुपत्लादेः स्वरूपस्यैवाभावे कुतोन्यथानुपपत्तिमत्त्वेन निश्चयपथप्राप्तिः । ततः साध्यान्यथानुपपत्तिमत्त्वेन निश्चयपथप्रप्त्यभावादेवास्य हे. वाभासत्वं, न तु पक्षधर्मत्वाभावात् अपक्षधर्मस्यापि कृत्तिकोदयादेर्य Page #36 -------------------------------------------------------------------------- ________________ न्यायदीपिका । ३१ थोक्तलक्षणसम्पत्तेरेव सद्धेतुत्वप्रतिपादनात् । विरुद्धादेस्तु तदभावः स्पष्ट एव । नहि विरुद्धस्य व्यभिचारिणो बाधितविषयस्य सत्प्रतिपक्षस्य वाम्यथानुपपत्तिमत्त्वेन निश्चयपथप्राप्तिरस्ति । तस्माद्यस्यान्यथानुपपत्तिमत्वं सति योग्यदेशे निश्चयपथप्राप्तिरस्ति स एव सद्धेतु:, अपरस्तदाभास इति स्थितं । किंच गर्भस्थो मैत्रतनयः श्यामो भवितुमर्हति मैत्रतनयत्वात् सम्प्रतिपन्नमैत्रतनयवदित्यत्रापि त्रैरूप्यपांच रूप्ययोर्बोद्धयोगाभिमतयो - रतिव्याप्तेरलक्षणत्वं । तथा हि परिदृश्यमानेषु पंचसु मैत्रपुत्रेषु श्यामतामुपलभ्य तद्गर्भगतमपि विवादापन्नं पक्षीकृत्य श्यामत्वसाधनाय प्रयुक्तो मैत्रतनयाख्यो हेतुराभास इति तावत्प्रसिद्धं । अश्यामत्वस्यापि तत्र संभावितत्वात् । तत्संभावना च श्यामत्वं प्रति मैत्रतनयत्वस्या - न्यथानुपपत्त्यभावात् । तदभावश्च सहक्रमभावनियमाभावात् । यस्य हि धर्मस्य येन धर्मेण सहभावनियमः स तं गमयति, यथा शिंशपात्वस्य वृक्षत्वेन सहभावनियमोऽस्तीति शिशपात्यहेतुवृक्षत्वं गमयति । यस्य येन क्रमभावनियमः स तं गमयति, यथा धूमस्याग्न्यनंतर भावनियमोस्तीति धूमोनिं गमयति । नहि मैत्रतन - यत्वस्य हेतुत्वाभिमतस्य श्यामत्वेन साध्यत्वाभिमतेन सहभावः क्रमभावो वा नियमोsस्ति, येन मैत्रतनयत्वं हेतुः श्यामत्वं साध्यं गमयेत् । यद्यपि सम्प्रतिपन्नमैत्रपुत्रेषु मैत्रतनयत्वश्यामत्वयोः सहभावोस्ति, तथापि नासौ नियतः, मैत्रतनयत्वमस्तु श्यामत्वं मास्तु इत्येवंरूपे विपक्षे बाधकाभावात् । विपक्षबाधकप्रमाणबलात्खलु हेतुसाध्ययोर्व्याप्तिनिश्चयः । व्याप्तिनिश्चयतः सहभावः क्रमभावो वा, सहक्रमभावनियमो ऽविनाभाव इति वचनात् । विवादाध्यासितो वृक्षो भवितुमर्हति, शिशपात्वात् । या या शिपा स स वृक्षः, यथा सम्प्रतिपन्न Page #37 -------------------------------------------------------------------------- ________________ ३२ सनातन जैन ग्रंथमालायां इति । अत्र हि हेतुरस्तु साध्यं मा भूदित्येतस्मिन् विपक्षे सामान्यविशेषभावभंगप्रसंगे बाधकः । वृक्षत्वं हि सामान्यं शिशपात्वं तद्विशेषः । न हि विशेषः सामान्याभावे संभवति । न चैत्रं मैत्रतनयत्वमस्तु श्यामत्वं मास्त्वित्युक्ते किंचिद्वाधकमस्ति तस्मान्मैत्रतन्रयत्वं हेत्वाभास एव । तस्य तावत्पक्षधर्मत्वमस्ति, पक्षी - कृते गर्भस्थे तत्सद्भावात् । सपक्षेषु संप्रतिपत्रेषु तस्य विद्यमानत्वात्सपक्षे सत्त्वमप्यस्ति । विपक्षेभ्यः पुनरश्यामेभ्यश्चैत्रपुत्रेभ्यो व्यावर्त - 1 मानत्वाद्विपक्षाद्व्यावृत्तिरस्ति । विषयबाधाभावादबाधितविषयत्वमस्ति । नहि गर्भस्थस्य श्यामत्वं केनचिद्वाध्यते । असत्प्रतिपक्षत्वमप्यस्ति, प्रतिकूल स्वमबल प्रमाणाभावात् । इति पांचरूप्यसम्पत्तिः । त्रैरूप्यं तु सहस्त्रे शतन्यायेन सुतरां सिद्धमेव । ननु च न पांच रूप्यमात्रं हेतोर्लक्षणं । किं तर्हि ? अन्यथानुपपम्युपलक्षणमिति चेत्तर्हि सैवैकां नलक्षणमस्तु । तदभावे पाञ्चरूप्य स - पत्तावपि मैत्रतनयत्वादौ न हेतुत्वं । तत्सद्भावे पांच रूप्याभावेऽपि कृतिकोदयादौ हेतुत्वमिति । तदुक्तं - "अन्यथानुपपन्नत्वं यत्र तत्र त्रयेण किं । नान्यथानुपपन्नत्वं यत्र तत्र त्रयेण किं ॥” इति बौद्धान् प्रति । योगान् प्रति तु — " अम्यथानुपपन्नत्वं यत्र किं तत्र पंचभिः । मान्यथानुपपन्नत्वं यत्र किं तत्र पंचभिः || १ ||" इति । सोयमन्यथानुपपत्तिनिश्चयैकलक्षणो हेतुः संक्षेपतो द्विविधः । विधिरूपः प्रतिषेधरूपश्चति । विधिरूपोऽपि द्विविधो विधिसाधकः प्रतिषेधसाधकश्चेति । तत्राद्योऽनेकधा तद्यथा कश्चित्कार्यरूपो यथा पर्वतोऽयमग्निमान्धूमवत्त्वान्यथानुपपत्तेरित्यत्र धूमः । धूमो ह्यग्नः कार्यभूतस्तदभावेऽनुपपद्यमानोऽग्निं गमयति । कश्चित् कारणरूपः यथा Page #38 -------------------------------------------------------------------------- ________________ न्यायदीपिका। वृष्टिर्भविष्यति विशिष्टमेघान्यथानुपपत्तेरिति । अत्र मेघविशेषो हि वर्षस्य कारणं स्वकार्यभूतं वर्षे गमयति । ननु कार्य कारणानुमापकमस्तु कारणाभावे कार्यस्यानुपपत्तेः । कारणं तु कार्याभावेऽपि संभवति, यथा धूमाभावेऽपि संभवन् वह्निः सुप्रतीतः । अत एव न वहिणूंमं गमयति इति चेत् तन्न, उन्मीलितशक्तिकस्य कारणस्य कार्याव्यभिचारित्वेन कार्य प्रति हेतुत्वाविरोधात् । कश्चिद्विशेषरूपो, यथा वृक्षोऽयं शिंशपात्वान्यथानुपपत्तेरिति । अत्र शिंशपा हि वृक्षविशेषः सामान्यभूतं वृक्षं गमयति । न हि वृक्षाभावे वृक्षविशेषो घटते इति । कश्चित्पूर्वचरो, यथा उदेष्यति शकटं कृत्तिकोदयान्यथानुपपतेरित्यत्र कृत्तिकोदयः । कृत्तिकोदयानंतरं मुहूर्ताते नियमेन शकटोदयो जायते, इति कृत्तिकोदयः पूर्वचरो हेतुः शकटोदयं गमयति । कश्चिदुत्तरचरो, यथा उदगाद्भरणी प्राक्कृत्तिकादयान्यथानुपपत्तेरित्यत्र कृत्तिकोदयः। कृत्तिकोदयो हि भरण्युदयोत्तरचरस्तं गमयति । कश्चित्सहचरो, यथा मातुलिंगं रूपवद्भवितुमर्हति रसवत्त्वान्यथानुपपत्तेरित्यत्ररसः । रसो नियमेन रूपसहचरितस्तदभावेऽनुपपद्यमानस्तं गमयति । एतेषूदाहरणेषु भावरूपानेवाग्न्यादीन्साधयंतो धूमादयो हेतवो भावरूपा एवेति विधिसाधकावधिरूपाः। एत एवाविरुद्धोपलब्धय इत्युच्यते । एवं विधिरूपस्य हेतोर्विधिसाधकाख्य आयो भेद उदाहृतः । द्वितीयस्तु निषेधसाधकाख्यः । विरुद्धोपलब्धिरिति तस्यैव नामांतरं । स यथा, नास्य मिथ्यात्वमास्तिक्यान्यथानुपपत्तरित्यत्रास्तिक्यं । आस्तिक्यं हि सर्वज्ञवीतरागप्रणीतजीवादितत्त्वार्थरुचिलक्षणं । तन्मिथ्यात्ववतो न संभवतीति मिथ्यात्वाभावं साधयति । यथा वा, नास्ति वस्तुनि सर्वथैकान्तः, अनेकांतात्मकत्वान्यथानुपपत्तरित्यत्रा- . Page #39 -------------------------------------------------------------------------- ________________ ३४ सनातनजैनग्रंथमालायां नेकांतात्मकत्वम् । अनेकांतात्मकत्वं हि वस्तुन्यबाधितप्रतीतिविषयत्वेन प्रतिभासमानं सौगतादिपरिकल्पितसर्वथैकांताभावं साधयत्येव । ननु किमिदमनेकांतात्मकत्वं ! यद्बलाद्वस्तुनि सर्वथैकांताभावः साध्यते इति चेदुच्यते । सर्वस्मिन्मपि जीवादिवस्तुनि भावाभावरूपत्वमेकानेकरूपत्वं नित्यानित्यरूपत्वमित्येवमादिकमनेकांतात्मकत्वं । एवं विधिरूपो हेतुर्दर्शितः। प्रतिषेधरूपोऽपि हेतुर्द्विविधो, विधिसाधकः प्रतिषेधसाधकश्चेति । तत्राद्यो यथा, अस्त्यत्र प्राणिनि सम्यक्त्वं विपरीताभिनिवेशाभावात् । अत्र विपरीताभिनिवेशाभावः प्रतिषेधरूपः सम्यक्त्वसद्भावं साधयति इति प्रतिषेधरूपो विधिसाधको हेतुः । द्वितीयो यथा, नास्त्यत्र धूमः अग्न्यनुपलब्धेरिति । अत्र ह्यग्न्य. भावः प्रतिषेधरूपो धूमाभावं प्रतिषेधरूपमेव साधयतीति प्रतिषेधरूपप्रतिषधसाधको हेतुः । तदेवं विधिप्रतिषेधरूपतया द्विविधस्य हेतोः कतिचिदवांतरभेदा उदाहृताः । विस्तरतस्तु परीक्षामुखतः प्रतिपत्तव्याः। इत्थमुक्तलक्षणा हेतवः साध्यं गमयंति, नान्ये, हेत्वाभासत्वात् । के ते हेत्वाभासा इति चेदुच्यन्ते । हेतुलक्षणराहता हेतुवदवभासमाना हेत्वाभासाः। ते चतुर्विधाः-आसिद्धविरुद्धानकांतिकाकिंचित्करभेदात्। तत्रानिश्चयपथप्राप्तोऽसिद्धः। अनिश्चयपथप्राप्तिश्च हेतोःस्वरूपाभावनिश्चयात्तत्स्वरूपसंदेहाच्च । स्वरूपाभावनिश्चय स्वरूपासिद्धः। स्वरूपसंदेहे संदिग्धासिद्धः। आद्यो यथा,परिणामी शब्दश्चाक्षुषत्वादिति । शब्दस्य हि श्रावणत्वाच्चाक्षुषत्वाभावो निश्चित इति स्वरूपासिद्धश्चाक्षुषत्वहेतुः । द्वितीयो यथा, धूमवाष्पादिविवेकानिश्चये कश्चिदाह अग्निमानयं प्रदेशो धूमवत्त्वादिति । अत्र हि धूमवत्त्वं हेतुः संदिग्धासिद्धस्तत्स्वरूपे संदेहात्। साध्यविपरीतव्याप्तो विरुद्धः । यथाऽपरिणामी शब्दः कृतकत्वात् । कृतकत्वं ह्यपरिणामित्वविरोधिना परिणामित्वेन व्याप्तम् । पक्षसपक्षविपक्षवृत्तिरनैकांतिकः । स द्विविधो, निश्चितविपक्षवृत्तिकः Page #40 -------------------------------------------------------------------------- ________________ न्यायदीपिका। शकितविपक्षवृत्तिकश्चेति । तत्राद्यो यथा, धूमवानयं प्रदेशोऽग्निमत्त्वादिति । अत्राग्निमत्त्वं हेतुः पक्षीकृते संदिह्यमानधूमे पुरोवर्तिनि प्रदेशे वर्तते, सपक्षे धूमवति महानसे च वर्तते । विपक्षे धूमरहितत्वेन निश्चितेंऽगारावस्थापन्नाग्निमति प्रदेशे वर्तते । इति निश्चयान्निश्चितविपक्षवृत्तिकः। __ द्वितीयो यथा, गर्भस्थो मैत्रतनयः श्यामो भवितुमर्हति मैत्रतनयत्वादितरतनयवदिति । अत्र हि मैत्रतनयत्वं हेतुः पक्षीकृते गर्भस्थे वर्तते, सपक्षे इतरतत्पुत्रे वर्तते, विपक्षे अश्यामे वर्तते । नापीति शंकाया अनिवृत्तेः शंकितविपक्षवृत्तिकः। अपरमपि शंकितविपक्षवृत्तिकस्योदाहरणं । सर्वज्ञो न भवति वक्तृत्वाद्रथ्यापुरुषवदिति। वक्तृत्वस्य हि हेतोः पक्षीकृतेऽर्हति, सपक्षे रथ्यापुरुषे यथा वृत्तिरस्ति तथा विपक्षे सर्वज्ञेऽपि वृत्तिः संभाव्यते, वक्तृत्वज्ञातृत्वयोरविरोधात् । यद्धि येन सह विरोधि तत्खलु तद्वति न वर्तते । न च वचनज्ञानयोलॊके विरोधोऽस्ति, प्रत्युत ज्ञानवत एव वचनसौष्ठवं स्पष्टं दृष्टं । ततो ज्ञानोत्कपवति सर्वज्ञे वचनोत्कर्षे कानुपपत्तिरिति । ___ अप्रयोजको हेतुरकिंचित्करः । स द्विविधः, सिद्धसाधनो बाधितविषयश्च। तत्राद्यो यथा, शब्दः श्रावणो भवितुमर्हति शब्दत्वादिति । अत्र श्रावणत्वस्य साध्यस्य शब्दनिष्ठत्वेन सिद्धत्वाद्धतुराकंचित्करः । बाधितविषयस्त्वनेकधा। कश्चित्प्रत्यक्षबाधितविषयः । यथा, अनुष्णोऽनिर्द्रव्यत्वादित्यत्र द्रव्यत्वहेतुः । तस्य विषयत्वेनाभिमतमनुष्णत्वमुष्णत्वग्राहकेण स्पार्शनप्रत्यक्षेण बाधितं । ततः किंचिदपि कर्तुमशक्यत्वादकिंचित्करो द्रव्यत्वहेतुः। कश्चित्पुनरनुमानबाधितावषयः। यथा, अपरिणामी शन्दोऽकृतकत्वादिति । अत्र परिणामी शब्दः प्रमेयत्वादित्यनुमानेन बाधितविषयत्वं । कश्चिदागमबाधितविषयः। यथा, प्रेत्यासुखप्रदो धर्मः पुरुषाश्रितत्वादधर्मवदिति । अत्र धर्मः सुखप्रद इत्यागमः । तेन बाधितवि Page #41 -------------------------------------------------------------------------- ________________ ३६ सनातनजनग्रंथमालायां षयत्वं हेतोः । कश्चित्स्ववचनबाधितविषयः । यथा, मे माता वंध्या पुरुषसंयोगेऽप्यगर्भत्वात् प्रसिद्धवंध्यावत् । एवमादयोऽप्यकिंचित्करविशेषाः स्वयमूह्याः। तदेवं हेतुप्रसंगाद्धेत्वाभासा अवभासिताः। ननु व्युत्पन्नं प्रति यद्यपि प्रतिज्ञाहेतुभ्यामेव पर्याप्त । तथापि बालबोधार्थमुदाहरणादिकमभ्युपगतमाचार्यैः । उदाहरणं च सम्यग्दृष्टांतवचनं । कोऽयं दृष्टांतो नामेति चेदुच्यते। ___ व्याप्तिसंप्रतिपत्तिप्रदेशो दृष्टांतः। व्याप्तिर्हि साध्ये वयादौ सत्येव साधनं धूमादिरस्ति, असति तु नास्तीति साध्यसाधननियतता साहचर्यलक्षणा । एनामेव साध्यं विना साधनस्याभावादविनाभावमिति च व्यपदिशति । तस्याः संप्रतिपत्तिर्नाम वादिप्रतिवादिनोर्बुद्धिसाम्यं । सैषा यत्र संभवति स संप्रतिपत्तिप्रदेशो महानसादिर्हदादिश्च, तत्रैव घूमादौ सति नियमेनाग्न्यादिरस्त्यग्न्याधभावे नियमेन धूमादिर्नास्तीति संप्रतिपत्तिसंभवात् । तत्र महानसादिरन्वयदृष्टांतः, अत्र साध्यसाधनयोर्भावरूपान्वयसंप्रतिपत्तिसंभवात् । हृदादिस्तु व्यतिरेकदृष्टांतः, अत्र साध्यसाधनयोरभावरूपव्यतिरेकसंप्रतिपत्तिसंभवात् । दृष्टांतौ चैतौ, दृष्टावंतौ धौं साध्यसाधनरूपौ यत्र स दृष्टांत इत्यर्थानुवृत्तेः। उक्तलक्षणस्यास्य दृष्टांतस्य यत्सम्यग्वचनं तदुदाहरणं । न च वचनमात्रमयं दृष्टांत इति किन्तु दृष्टांतत्वेन वचनं । तद्यथा, यो यो धूमवानसावसावग्निमान्, यथा महानस इति । यत्राग्निास्ति तत्र धूमोऽपि नास्ति, यथा महाह्रद इति च । एवंविधेनैव वचनेन दृष्टांतस्य दृष्टांतत्वेन प्रतिपादनसंभवात् । उदाहरणलक्षणरहित उदाहरणवदवभासमान उदाहरणाभासः । उदाहरणलक्षणराहित्यं च द्वेधा संभवति, दृष्टांतस्यासम्यग्वचनेनादृष्टांतस्य सम्यग्वचनेन वा । तत्रायं यथा, यो यो वह्निमान् स स Page #42 -------------------------------------------------------------------------- ________________ न्यायदीपिका । ३७ घूमवान्, यथा महानस इति, यत्र यत्र घूमो नास्ति तत्र तत्र अग्निर्नास्ति, यथा महाहृद इति च व्याप्यव्यापकयोर्वैपरीत्येन कथनं । ननु किमिदं व्याप्यं व्यापकं नामेति चेदुच्यते । साहचर्यनियमरूपां व्याप्तिक्रियां प्रति यत्कर्म तद्व्याप्यं । विपूर्वादापेः कर्मणि यविधानाद्व्याप्यमिति सिद्धत्वात् । तत्तु व्याप्यं धूमादि । एनामेव व्याप्तिकियां प्रति यत्कर्तृ तद्व्यापकं । व्यापेः कर्तरि ण्वौ सति व्यापकमिति सिद्धेः । एवं सति घूममग्निर्व्याप्रोति, यत्र घूमो वर्तते तत्र नियमेनाग्निर्वर्तते इति यावत्सर्वत्र धूमवति नियमेनाग्निदर्शनात् । धूमस्तु न तथाग्निं व्याप्नोति, तस्यांगारावस्थस्य धूमं विनापि वर्तमानत्वात् । यत्राग्निर्वर्तते तत्र धूमपि नियमेन वर्तते इत्यसंभवात् । , नन्वार्देधनमग्निं व्याप्नोत्येव धूम इति चेदू ओमिति ब्रूमहे । यत्र यत्राविच्छिन्नमूलो घूमस्तत्र तत्राग्निरिति यथा तथैव यत्र यत्रादेंधनोऽग्निस्तत्र तत्र धूम इत्यपि संभवात् । वह्निमात्रस्य तु धूमविशेषं प्रति व्यापकत्वमेव, अनुमातुस्तावन्मात्रापेक्षत्वात् । ततो यो यो धूमवानसावसावग्निमान् यथा महानस इत्येवं सम्यग्दृष्टांतवचनं वक्तव्यं । विपरीतवचनं तु दृष्टांताभास एवेत्ययमसम्यग्वचनरूपोऽन्वयदृष्टांताभासः । व्यतिरेकव्याप्तौ तु व्यापकस्याग्नेरभावो व्याप्यः, व्याप्यस्य घूमस्याभावो व्यापकः । तथा सति यत्र यत्राग्न्यभावस्तत्र तत्र धूमाभावो, यथा ह्रद इत्येवं वक्तव्यं । विपरीतकथनं त्वसम्यग्वचनत्वादुदाहरणाभास एव । अन्वयव्याप्तौ व्यतिरेकदृष्टांतवचनं, व्यतिरेकव्याप्तावन्वयदृष्टांतवचनं चोदाहरणाभासौ । स्पष्टमुदाहरणं । ननु गर्भस्थः श्यामो मैत्रतनयत्वात्सांप्रतमैत्रतनयवदित्याद्यनुमानप्रयोगे पंचसु मैत्रतनयेष्वन्वयदृष्टांतेषु यत्र यत्र मैत्रतनयत्वं तत्र तत्र श्यामत्वमित्यन्वयव्याप्तेः, व्यतिरेकदृष्टांतेषु गौरेष्वमैत्रतनयेषु सर्वत्र यत्र यत्र श्यामत्वं नास्ति तत्र तत्र मैत्रतनयत्वं नास्तीति Page #43 -------------------------------------------------------------------------- ________________ ૨૮ सनातन जैन ग्रंथमालायां व्यतिरेकव्याप्तेश्च संभवान्निश्चितसाधने गर्भस्थ मैत्रतनये पक्षे साध्य - भूतश्यामत्वसंदेहस्य गुणत्वात्सम्यगनुमानं प्रसज्येतेति चेन्न । दृष्टांतस्य विचारांतर बाधितत्वात् । तथा हि साध्यत्वेनाभिमतमिदं हि श्यामरूपं कार्यं सत् स्वसिद्धये कारणमवेक्षते । तच्च कारणं न तावन्मैत्रतनयत्वं विनापि तदिदं पुरुषांतरे श्यामत्वदर्शनात् । न हि कुलालचक्रादिकमंतरेणापि संभविनः पटस्य कुलालादिकं कारणं । एवं मैत्रतनयत्वस्य श्यामत्वं प्रत्यकारणत्वे निश्चिते यत्र यत्र मैत्रतनयत्वं न तत्र तत्र श्यामत्वं किंतु यत्र यत्र श्यामत्वस्य कारणं विशिष्टनामकर्मानुगृहीतशाकाद्या हारपरिणामस्तत्र तत्र तस्य कार्यं श्यामत्वमिति सामग्रीरूपस्य विशिष्टनामकर्मानुगृहीतशाकाद्याहारपरिणामस्य इमामत्वं प्रति व्याप्यत्वं । स तु पक्षे न निश्चीयते इति संदिग्धासिद्धः । मैत्रतनयत्वं त्वकारणत्वादेव श्यामत्वं कार्य न गमयेदिति । 1 कश्चिन्निरुपाधिकसंबंधो व्याप्तिरित्यभिधाय साधनाव्यापकत्वे सति साध्यसमवाप्तिरुपाधिरित्यभिधत्ते । सोयमन्योन्याश्रयः । प्रपंचि - तमेतदुपाधिनिराकरणे कारुण्यकलिकायामिति विरम्यते । साधनवत्तया पक्षस्य दृष्टांतसाम्यकथनमुपनयः । तथा चायं धूमवानिति । साधनानुवादपुरस्सरं साध्यनियमवचनं निगमनं । तस्मादग्निमानेबेति । अनयोर्व्यत्ययेन कथनमनयोराभासः । इत्यवसितमनुमानं । अथागमो लक्ष्यते । आप्तवाक्यनिबंधनमर्थज्ञानमागमः । अत्रागम इति लक्ष्यं । अवशिष्ट लक्षणं । अर्थज्ञानमित्येतावदुच्यमाने प्रत्यक्षादावतिव्याप्तिः, अत उक्तं वाक्यनिबंधनमिति । वाक्य निबंधनमर्थज्ञानमागम इत्युच्यमानेऽपि यादृच्छिक संवादिषु विप्रलंभवाक्यजन्येषु सुप्तोन्मत्तादिवाक्यजन्येषु वा नदीतीरफलसंसर्गादिज्ञानेष्वतिव्याप्तिः । अत उक्तमाप्तेति । आप्तवाक्यनिबंधनज्ञान मित्युच्यमानेऽपि आप्तवाक्यकर्मके श्रावणप्रत्यक्षेऽतिव्याप्तिः, अत उक्तमर्थेति । अर्थ Page #44 -------------------------------------------------------------------------- ________________ न्यायदीपिका। स्तात्पर्यरूप इति यावत् । तात्पर्यमेव वचसीत्यभियुक्तवचनात्। तत आप्तवाक्यनिबंधनमर्थज्ञानमित्युक्तमागमलक्षणं निर्दोषमेव । ___ यथा “सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः" इत्यादिवाक्यार्थज्ञामं सम्यग्दर्शनादीन्यनेकानि मोक्षस्य सकलकर्मक्षयस्य मार्ग उपायो, नतु मार्गाः, ततो भिन्नलक्षणानां दर्शनादीनां त्रयाणां समुदितानामेव मार्गत्वं, न तु प्रत्येकमित्ययमर्थः । मार्ग इत्येकवचनप्रयोगस्तात्पर्यसिद्धः, अयमेव वाक्यार्थः अत्रैवार्थे प्रमाणसाध्यसंशयादिनिवृत्तिः प्रमितिः । ___ कः पुनरयमाप्त इति चेदुच्यते । आप्तः प्रत्यक्षप्रमितसकलार्थवे सति परमहितोपदेशकः । प्रमितेल्यादावेवोच्यमाने श्रुतकेवलिध्वतिव्याप्तिः, तेषामागमप्रमितसकलार्थत्वात् । अत उक्तं प्रत्यक्षेति । प्रत्यक्षप्रमितसकलार्थ इत्येतावदुच्यमाने सिद्धेष्वतिव्याप्तिः, अत उक्तं परमेत्यादि । परमं हितं निःश्रेयसम् । तदुपदेश एव अर्हतः प्रामुख्येन प्रवृत्तिः । अन्यत्र तु प्रश्नानुरोधादुपसर्जनत्वेनेति भावः । नैवं विधः सिद्धपरमेष्ठी, तस्यानुपदेशकत्वात् । ततोऽनेन विशेषणेन तत्र नातिव्याप्तिः । आप्तसद्भावे प्रमाणमुपन्यस्तं । नैयायिकाद्यभिमतानामाप्ताभासानामसर्वज्ञत्वात्प्रत्यक्षप्रमितेत्यादिविशेषणेनैव निरासः । ननु नैयायिकाभिमत आप्तः कथं न सर्वज्ञः ! इति चेदुच्यते तस्य ज्ञामस्यास्वप्रकाशकत्वादेकत्वाच्च विशेषणभूतं स्वकीयं ज्ञानमेव न जानातीति तद्विशिष्टमात्मानं सर्वज्ञोऽहमिति कथं जानीयात् ? एवमनात्मज्ञोयमसर्वज्ञ एव । प्रपंचितं च सुगतादीनामाप्ताभासत्वमाप्तमीमांसाविवरणे श्रीमदाचार्यपादरिति विरम्यते । वाक्यं तु तंत्रां. तरसिद्धमिति नेह लक्ष्यते । __ अथ कोयमर्थो नाम ? उच्यते । अर्थोऽनेकांतः । अर्थ इति लक्ष्यनिर्देशः, अभिधेय इति यावत् । अनेकांत इति लक्षणकथनं । अनेके Page #45 -------------------------------------------------------------------------- ________________ ४० सनातन जैन ग्रंथमालायां अंता धर्माः सामान्यविशेषपर्याया गुणा यस्येति सिद्धोऽनेकांतः । तत्र सामान्यमनुवृत्तस्वरूपं, तद्धि घटत्वं पृथुबुध्नोदराकारः, गोत्वमिति स्वास्नादिमत्वमेव । तस्मान्न व्यक्तितोत्यंतमन्यन्नित्यमेकमनेकवृत्ति । अन्यथा " न याति न च तत्रास्ते न पश्चादस्ति नाशवत् । जहाति पूर्वं नाधारमहो व्यसनसंततिः " ॥ इति दिङ्नागदूषण दूषितगणप्रसरप्रसंगात् । पृथुबुध्नोदराकारादिदर्शनानंतरमेव घटोऽयं गौरयमित्याद्यनुवृत्तप्रत्ययसंभवात् । विशेषोऽपि स्थूलोऽयं घटः सूक्ष्म इत्यादिव्यावृत्तप्रत्ययावलंबनं घटादिस्वरूपमेव । तथा चाह भगवान्माणिक्यनंदिभट्टारकः " सामान्यविशेषात्मा तदर्भ : " इति । 1 पर्यायो द्विविधः, अर्धपर्यायो व्यंजनपर्यायश्चेति । तत्रार्थपर्यायो भूतत्व भविष्यत्त्वसंस्पर्शरहित शुद्ध वर्तमानकालत्वावच्छिन्नं वस्तुस्वरूपं । तदेतदृजुसूत्रनयविषयमामनंत्यभियुक्ताः । एतदेकदेशावलंबिनः खलु सौगताः क्षणिकवादिनः । व्यंजनं व्यक्तिः, प्रवृत्तिनिवृत्तिनिबंधनजला। नयनाद्यर्थक्रियाकारित्वं । तेनोपलक्षितः पर्यायो व्यंजनपर्यायो- मृदादेः पिंडस्थासकोशकुसूलघटकपालादयः पर्यायाः । यावद्रव्यभाविनः सकलपर्यायानुवर्तिनो गुणाः । वस्तुत्वरूपरसगंधस्पर्शादयः । मृद्रव्यसंबंधिनो हि वस्तुत्वादयः पिंडादिपर्यायाननुवर्तते, न तु पिंडादयः स्थासादीन् । तत एव पर्यायाणां गुणेभ्यो भेदः। यद्यपि सामान्यविशेषौ पर्यायौ तथापि संकेत प्रहणनिबंधनस्य शब्दव्यवहारविषयत्वा (दा) गमप्रस्ताव तयोः पृथनिर्देशः । तदनयेोगुणपर्याययाद्रव्यमाश्रयः " गुणपर्ययवद् द्रव्यं" इति आचार्यानुशासनात् । तदपि सत्त्वमेव "सत्त्वं द्रव्यं" इत्याकरजवचनात् । तदपि जीवद्रव्यमजीवद्रव्यं चेति संक्षेपतो द्विविधं । द्वयमप्येतदुत्पचिविनाशस्थितियोगि “उत्पादव्ययत्रौव्ययुक्तं सत्" इति निरूपणात् । • Page #46 -------------------------------------------------------------------------- ________________ न्यायदीपिका। तथा हि,जीवद्रव्यस्य स्वर्गप्रापकपुण्योदये सति मनुष्यस्वभावस्य व्ययः, देवस्वभावस्योत्पादः, चैतन्यस्वभावस्य ध्रौव्यमिति, जीवद्रव्यस्य सर्वथैकांतरूपत्वे पुण्योदयवैफल्यप्रसंगात्। सर्वथा भेदे पुण्यवानन्यः फलवानन्य इति पुण्यसंपादनवैयर्थप्रसंगात् परोपकारस्याप्यात्मसुकृतार्थमेव प्रवर्त्तमानत्त्वात् । तस्माज्जीवद्रव्यरूपेणाभेदः । मनुष्यपर्यायदेवपर्यायरूपेण भेद इति प्रतिनियतनयनिरस्तविरोधौ भेदाभेदौ प्रामाणिकावेव । तथैवाजीवद्रव्यस्य मृद्र्व्यस्यापि मृदः पिंडाकारस्य व्ययः, पृथुबुध्नोदराकारस्योत्पादः, मृद्रूपस्य ध्रुवत्वमिति, सिद्धमुत्पादादियुक्तत्वमजीवस्य । स्वामिसमंतभद्राचार्याभिमतमतानुसारी वामनोपि सदु. पदेशात्प्राक्तनमज्ञानस्वभावं हंतुमुपरितननयमर्थज्ञानस्वभावं स्वीकतुं च यः समर्थ आत्मा स एव शास्त्राधिकारीत्याह "न शास्त्रमसद्व्येष्वर्थवत्' इति । तदेवमनेकांतात्मकं वस्तु प्रमाणवाक्यविषयत्वादर्थत्वेनावतिष्ठते । तथा च प्रयोगः, सर्वमनेकांतात्मकं, सत्त्वात, यदुक्तसाध्यं न तन्नोक्तसाधनं यथा गगनारावंदमिति । ___ ननु यद्यप्यरविंदं गगने नास्त्येव तथापि सरस्यस्तीति ततो न सत्त्वहेतुव्यावृत्तिश्चत्तर्हि तदेतदरविंदमाधिकरणविशेषापेक्षया सदसदात्मकमनेकांतमित्यन्वयदृष्टांतत्वं भवतव प्रतिपादितमिति संतोष्टव्यमा. युष्मता । उदाहृतवाक्येनापि सम्यग्दर्शनज्ञानचारित्राणां मोक्षकारणत्वमेव न संसारकारणत्वमिति विषयविभागेन कारणाकारणात्मकत्वं प्रतिपद्यते । सर्व वाक्यं सावधारणमिति न्यायात् । एवं प्रमाणसिद्ध. मनेकांतात्मकं वस्तु । __ नया विभज्यंते, ननु कोयं नयो नाम? उच्यते । प्रमाणग्रहीतार्थैकदेशग्राही प्रमातुरभिप्रायविशेषो नयो “नयो ज्ञातुरभिप्रायः" इत्यभिधानात् । स नयः संक्षेपण द्वेधा-द्रव्यार्थिकनयः पर्यायार्थिकनयश्चेति । तत्र द्रव्यार्थिकनयः द्रव्यपर्यायरूपमेकानेकात्मकमनेकांतं Page #47 -------------------------------------------------------------------------- ________________ सनातन जैन ग्रंथमालायां प्रमाणप्रतिपन्नमर्थं विभज्य पर्यायार्थिकनयविषयस्य भेदस्योपसर्जनभावनावस्थानमात्रमभ्यनुजानन्स्वविषयं द्रव्यमभेदमेव व्यवहारयति नयांतरविषयसापेक्षः सन्नय इत्यभिधानात् । यथा सुवर्णमानयेति । अत्र द्रव्यार्थिकनयाभिप्रायेण सुवर्णद्रव्यानयनचोदनायां कटकं कुंडलं केयूरं चोपनयन्नुपनेता कृती भवति, सुवर्णरूपेण कटकादीनां भेदाभावात् । द्रव्यार्थिकनयमुपसर्जनीकृत्य प्रवर्तमानं पर्यायार्थिकनयमवलंब्य कुंडलमानयेत्युक्ते न कटकादौ प्रवर्तते, कटकादिपर्यायस्य ततो भिन्नत्वात् । ततो द्रव्यार्थिकनयाभिप्रायेण सुवर्ण स्यादेकमेव । पर्यायार्थिकनयाभिप्रायेण स्यादनेकमेव । क्रमेणोभयनयाभिप्रायेण स्यादेकमनेकं च । ર युगपदुभयनयाभिप्रायेण स्यादवक्तव्यं । युगपत्प्राप्तेन नयद्वयेन विविक्तस्वरूपयोरेकत्त्रानेकत्वयोर्विमर्शाभावात् । न हि युगपदुपनतेन शब्दद्वयेन घटस्य प्रधानभूतयो रूपत्वरसत्वयोर्विविक्तस्वरूपयोः प्रतिपादनं शक्यं । तदेतदवक्तव्यस्वरूपं तत्तदभिप्रायैरुपनतेनैकस्वादिना समुचितं स्यादेकमवक्तव्यं, स्यादनेकमवक्तव्यं, स्यादेकानेकमवक्तव्यमिति स्यात् । सैषा नयविनियोगपरिपाटी सप्तभंगीत्युच्य - ते । भंगशब्दस्य वस्तुस्वरूपभेदवाचकत्वात् । सप्तानां भंगानां समाहारः सप्तभंगीति सिद्धेः । नन्वेकत्र वस्तुनि सप्तानां भंगानां कथं संभव इति चेत्, यथैकस्मिन् रूपवान् घटः रसवान् गंधवान् स्पर्शवानिति पृथग्व्यवहारनिबंधना रूपत्वादिस्वरूपभेदाः संभवति तथैवेति संतोष्टव्यमायुष्मता । एवमेव परमद्रव्यार्थिकनयाभिप्रायविषयः परमद्रव्यसत्ता, तदपेक्षयैकमे वाद्वितीयं ब्रह्म, नेह नानास्ति किंचन, सद्रूपेण चेतनानामचेतनानां च भेदाभावात्, भेदे तु सद्विलक्षणत्वेन तेषामसत्त्वप्रसंगात् । ऋजुसूत्रनयस्तु परमपर्यायार्थिकः । स हि भूतत्वभविष्यत्वा Page #48 -------------------------------------------------------------------------- ________________ म्याथदीपिका । ४३ भ्यामपरामृष्टं शुद्धवर्तमानकालावच्छिन्नं वस्तुरूपं परामृशति । तन्नयाभिप्रायेण बौद्धाभिमतक्षणिकत्वसिद्धिः । एते बयाभिप्रायाः सकलस्वविषयाशेषात्मकमनेकांतं प्रमाणविषयं विभज्य व्यवहारयति । स्यादेकमेव द्रव्यात्मना वस्तु, नो नाना । स्यान्नानैव पर्यायामनो नैकमिति । तदेतत्प्रतिपादितमाचार्यसमंतभद्रस्वामिभिः " अनेकांतेोऽप्यनेकांतः प्रमाणनयसाधनः । अनेकांतः प्रमाणात्ते तदेकांतोर्पितान्नयात् ॥ १ ॥” इति । अनियतानेकधर्मवद्वस्तुविषयत्वात्प्रमाणस्य नियतैकधर्मवद्वस्तुषिषयत्वाच्च नयस्य । यद्येनामार्हतीं सरणिमुहुंध्य सर्वथकमेवाद्वितीयं ब्रह्म नेह नानास्ति किंचन, कथंचिदपि नाना नेत्याग्रहः स्यात्तदेतदर्थाभासः । एतत्प्रतिपादकमतिवचनमागमाभासः, प्रत्यक्षेण सत्यं भिदा तत्वं भिदेत्यादिनागमेन च बाधितविषयत्वात् । सर्वथा भेद एव न कथंचिदप्यभेद इत्यत्राप्येवमेव विज्ञे, सद्रूपेणापि भेदेऽसत : अर्थक्रियाकारित्वासंभवात् । ननु प्रतिनियताभिप्रायगोचरतया पृथगात्मनां परस्परसाहचर्यानपेक्षाणां मिथ्याभूतानामेकत्वादीनां धर्माणां साहचर्यलक्षणसमुदायोऽपि मिथ्यैवेति चत्तदंगीकुर्महे, परस्परोपकार्योपकारकभावं विना स्वतंत्रतया नैरपेक्ष्या - पेक्षायां पटस्वभावविमुक्तस्य तंतुसमूहस्य शीतनिवारणाद्यर्थक्रियावदेकत्वामेकत्वानामर्थक्रियायां सामर्थ्याभावात्कथांचिन्मिथ्यात्वस्यापि संभवात् । तदुक्तमीप्तमामांसायां स्वामिसमंतभद्राचार्यैः । "मिथ्यासमूहो मिथ्याचेन्न मिथ्यैकांततास्ति नः । निरपेक्षा नया मिथ्याः सापेक्षा वस्तुतोऽर्थकृत् ॥ १॥ इति । ततो नयप्रमाणाभ्यां वस्तुसिद्धिरिति सिद्धः सिद्धांत: । इति पर्याप्तमागमप्रमाणं । इति तृतीयः प्रकाशः । इति श्रीपरमार्हताचार्यधर्मभूषणयतिविरचिता न्यायदीपिका समाप्ता । Page #49 -------------------------------------------------------------------------- ________________ नये नियम । - सनातनजेनग्रंथमालामें सब ग्रंथ भाषाटीकासहित और चुन्नीलालजैनग्रंथमालामें केवल भाषा के छपेंगे । अब अंक न निकालकर पूरे ग्रंथ छपेंग और १) रु. डिपाजिटका भेजकर पक्के ग्राहक बननेबालोंको ग्रंथ तैयार होतेही सनातनजैनग्रंथमालाके पौनी कीमतसे और चुन्नीलालजैनग्रंथमालाके आधी कीमतसे सब ग्रंथ वी. पी. द्वारा भेजते रहेंगे । अजैनी असमर्थ विद्वानविद्यार्थियोंको बिनामूल्य । पहिलेके छपे संस्कृत ग्रंथ भी पक्के ग्राहकोंको पौनी कीमतसे भेजे जायगे । और___ जो महाशय एकमुस्त ५०) रुपये दान करके इस संस्थाके स्थायी सहायक बनेंगे, उन्हें अबसे छपनेवाले हर एक ग्रंथकी एक एक प्रति विनामूल्य पोष्टेजमात्रके वी. पी. से भेजी जायगी। विक्रयार्थ तैयार ग्रंथ । आप्तपरीक्षासटीक व पत्रपरीक्षा मूल २) समयप्राभृत दो संस्कृतटीकासहित ५) तत्त्वार्थराजवार्तिकपूर्वार्द्ध ५) उत्तरार्द्ध ५) पूर्ण ९) आप्तमीमांसाभाष्य टीका और प्रमाणपरीक्षासहित २) शब्दार्णवचंद्रिका (सटीक जैनेंद्रव्याकरण) ५) शन्दानुशासन (शाकटायनलघुवृत्ति) १ खंड २) जैनेंद्रप्रक्रिया पूज्यपाद गुणनंदिकृत १) शाकटायनधातुपाठ 14) जिनशतक संस्कृत भाषा दो टीकासहित ॥) धर्मरत्नोद्योत दोहे चौपाई १) धर्मप्रश्नोत्तर (प्रश्नोत्तरश्रावकाचार) वचनिका २) महावीरचरित्र ) न्यायदीपिका मूल ।) परीक्षामुख हिंदी और बंगानुवाद सहित ।) संस्कृतप्रवेशिनी छपरही है। पन्नालाल जैन महामंत्री-मारतीयजैनसिद्धांतप्रकाशिनीसंस्था, ठि० मदागिन जैनमंदिर पोष्ट-बनारस सिटी । Page #50 -------------------------------------------------------------------------- ________________ संस्कृतप्रवेशिनी। विदित हो कि वर्तमानके समस्त विद्वानोंने निश्चय किया है कि-जबतक प्राचीन संस्कृत साहित्यका पुनरुद्धार व प्रचार न होगा तबतक हमारे देशकी, समाजकी उन्नति होना दुःसाध्य है। इसलिये अनेक विद्वान संस्कृत साहित्यके प्रचारार्थ प्राचीन कठिन साधनोंकी जगह नये 2 ढंगकी पुस्तकें रच रच कर संस्कृत साहित्यकी उन्नति करनेने लगे हैं भारतीयजैनसिद्धांत प्रकाशिनी संस्था व जैनमित्रमंडलीने भी संस्कृत विद्याकी उन्नति करनेवाले नये 2 ग्रंथ प्रकाशित करनेका प्रयत्न करना प्रारंभ किया है / अनेक महाशय प्राचीन व्याकरणोंकी पद्धतिको क्लिष्ट व रटंत विद्या समझकर संस्कृतविद्या पढने में पश्चात्पद हो जाते हैं इसलिये संस्कृतमें सुगमतासे प्रवेश करानेकेलिये हमने आजतक छपेहुये समस्त व्याकरण संबंधी ग्रंथोंका मंथन करके यह संस्कृतप्रवेशिनी नामकी पुस्तक नवीन पद्धतिसे बहुत ही सुगमरीतिसे बनवाकर प्रकाशित की है। इसके पढनेमें व्याकरणके कठिन सूत्र व नियमादि कुछ भी रटने नहिं पडते / इसमें आये हुये कुछ शब्द व धातुओंका अर्थ मनन करने मात्रसे ही संस्कृतमें अनुबाद करना, संस्कृत भाषामें वार्तालाप करना व संस्कृत काव्योंका पठनपाठन बहुत ही सुगम हो जाता है। विशेषता इसमें यह है कि-क्या लड़के क्या स्त्री क्या वृद्धपुरुष सब ही बिना गुरुके इसे पढकर संस्कृत साहित्यमें प्रवेश कर सकते हैं। जिनको संस्कृतमें वार्तालाप, संस्कृतसे भाषा व भाषासे संस्कृतमें अनुबाद करना वा संस्कृतके बडे 2 काव्य पढने हों अथवा बंगाल बिहार उडीसा आदि संस्कृत यूनिवर्सिटियोंमें व्याकरण काव्यकी मध्यमा परीक्षा देना हो तथा संस्कृतके साथ इंट्रेस एफ्० ए० बी० ए० परीक्षा देना हो, वे सबसे पहिले इस पुस्तकको पढ लें, उनके लिये संस्कृतकी ये सब परीक्षायें सुगम हो जायगी / मूल्य प्रथम भागका 1) रु० दूसरे भागका 1) रु० मिलनेका पतामैनेजर-जैन मित्रमंडली, पो० बाघबाजार, कलकत्ता।