Book Title: Mandan Granth Sangraha Part 01
Author(s): Mandan Mantri
Publisher: Laherchand Bhogilal Shah
Catalog link: https://jainqq.org/explore/020469/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीहेमचन्द्राचायग्रन्थावली मण्डनबन्धसंग्रह श्रीहेमचन्द्राचार्य सभा-पाटण, For Private and Personal Use Only Page #2 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नम्र सूचन इस ग्रन्थ के अभ्यास का कार्य पूर्ण होते ही नियत समयावधि में शीघ्र वापस करने की कृपा करें. जिससे अन्य वाचकगण इसका उपयोग कर सकें. श्रीहेमचन्द्राचार्यग्रन्थावली. नं. ७.८.९.१०.११.. महेश्वरकविकृतकाव्यमनोहरः तथा मण्डनमन्त्रिकृतमण्डनग्रन्थसंग्रहः (१.) {१ कादम्बरीमण्डन-२ चम्पूमण्उन-३ चन्द्रबिजयप्रबन्ध ४ अलंकार मण्डनानि.) श्रीमत्पन्यासश्रीनीतिविजयसमुपदिष्ट-भिन्नभिन्न द्रव्यसहायकेभ्यो लब्ध्वा द्रव्यसहाय्य पट्टनस्थश्रीहेमचन्द्राचार्यसभाया: सेक्रेटरी'शा. लहेरचन्द भोगीलाल' इत्यनेन ___ प्रकाशितः श्रावक पण्डित-वीरचन्द्र-प्रभुदासाभ्यां च संशोधितः संवत् १९७४. वीर संवत् २४४४. सन १९१८. प्रत. ३०.. मूल्यम्-० १२-०. For Private and Personal Use Only Page #3 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आदिमग्रन्थचतुष्टयं अहम्मदावाद - 'पांचकुवा' प्रत्यासन्न 'सत्यविजय' मुद्रणयन्त्राधिपतिना 'शा. सांकलचंद हरिलालेन ' मुद्रितं, अलङ्कारमण्डनं च अहम्मदावाद - ' ढीकवा चोकी' प्रत्यासन्न ' शांतिविजय मुद्रणाधिपतिभ्यां ईश्वरलाल केशवलाल - माणेकलाल माधवलालाभ्यां मुद्रितम् । For Private and Personal Use Only " Page #4 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीमत्पन्यास श्रीनीतिविजय महाराज समुपदिष्ट द्रव्य सहायकनामावली. १ शा. सरूपचन्द घेलचन्द रणुज ) काव्यमनोहरः कादम्बरीदर्पणम् २ शा. वाडीलाल वस्ताचन्द पाटण | चम्पूमण्डनम् ( वसावाड़ो ) } ७ काव्यमण्डन. ९ उपसर्गमण्डन - .. ३ शा. केशवलाल रतनचन्द पाटण | चन्द्रविजय प्रबन्धः ( फोफलीयावाडो) अलङ्कार मण्डनम् } (श्री हेमचन्द्राचार्य ग्रन्थावलीमां तैयार थतां ग्रंथो . ) १ बृहद्महार्णवन्यास. २ धर्मपरिक्षा. ४ तिलकमंजरीसार. ३ चतुर्विंशतिप्रबन्ध. ५ अनेकान्तवादप्रवेश. ११ जीवानुशासन. १३ सम्मतितर्क - भाग - २. ६ प्राकृतव्याकरण. ८ संगीतमण्डन. १० शृङ्गारमण्डन १२ नाभेयनेमिद्विसंधानकान्य १४ तिलकमंजरीकथासारांश, (गुणशती). For Private and Personal Use Only Page #5 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( २ ) श्री हेमचन्द्राचार्यमन्थावली: श्रीमद्बाहडसङ्घपो विजयते येनायमाप्तः सुतः || ५ || साजननी जिनेश्वरमहाभक्त्युल्लसन्मानसा सद्दानत्रततत्परा मतिमती सौभाग्यशीलालया । नित्यं जीवदयाकुला गुणनिधिः प्राप्तो ययाऽसौ महान् सत्पुत्रः कुलमण्डनं श्रुतपरः सद्भूरिभाग्योदयः ॥ ६ ॥ संहृष्टाः सुहृदः समागतरुचो धन्यं कुलं ख्यातितं मन्यन्ते गुणशालिनि प्रियसुते संजात एवातुले । वित्तापूर्णकृतार्थिनः समुदितप्रख्यात सद्भूतयो धर्माधर्मविचारणैकनिपुणाः शीलोल्लसन्मानसाः किं धात्रा कृत एष निर्जरतरुः चिन्तामणिर्वाऽथवा किं वा कामगवी कृता जनपदे किं तोयदो वाऽपरः । कामो मलयाचलः किमथवा किं वा सुमेरुर्महान् क्षीरोदः किमुवा कलानिधिरहो कि भास्करः सद्गुणैः ||८|| यस्याङ्गे घटितं त्वयः सुकनकं संजायते नेकशः सोऽयं वा किमुवा जिनेश्वरमहाभक्तः कलौ निर्मितः । कि कर्णः किमुवा विरोचनसुतः किं वाऽर्जुनो विक्रमी प्राहुर्यस्य बुधा: सुजन्मकरणे ह्येवं शुभैर्लक्षणैः ॥९॥ ॥ युग्मम् ॥ एतैरुक्तमिदं सुनामकरणं यन्निश्चितं मण्डनस्त्वित्येवाद्भुतरामणीयकयुतं तत्सार्थकं सन्ततम् । कर्तृत्वं कुरुते हि मण्डनविभ्रुर्नामानुरूपं महत् बालत्वादि विवेक सत्यविमलं तद्वर्ण्यते वै मया ॥ १० ॥ बालत्वे स चकार खेलनमथो नानाविधैः क्रीडितैः साकं सच्छिशुभिस्ततोऽधिकवपुः किञ्चित्प्रबुद्धः शनैः । विद्यारम्भमत करोत्यनुदिनं प्रज्ञान्वितः सादरः पाठज्ञस्तु यथाक्रमं विदितवाकाव्याभिधानानि च ॥ ११ ॥ For Private and Personal Use Only Page #6 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीहेमचन्द्राचार्यअन्यावली. (३) जाग्रद्व्याकरणश्च नाटकशुभालङ्कारविज्ञस्तथा सङ्गितातुलकोविदः प्रविलसद्गम्भीरशास्त्रान्वितः । चातुर्यैकनिवासभूमिरतुलैः प्राप्तोन्नतिः सद्गुणैः । श्रीमालान्वयवर्द्धनोऽमलमतिः श्रीमण्डनो राजते ॥ १२ ।। उदीरिता या गणकैर्महत्यो यज्जातके पश्चदशोपमा हि । मायापृथक्त्वेन विवर्ण्यते ताः श्रीमण्डनस्येप्सितदायकस्य ॥१३।। शाखी जडोऽन्यः परिपालितस्तु कोलाहलैर्दत्तफलो द्विजेभ्यः । कृतः स नाके विधिना गुणोनः सदाफलोऽयं भुवि सद्गुणस्तु॥१४॥ ज्ञात्वा पशुं कामगीं स वेधा तदाश्रितं कामदुर्घ गुणं तु । संहृत्य पश्चात्खलु मण्डनं तं कामप्रदं क्षोणितले चकार ॥१५॥ चिन्तामणिश्चिन्तितमेव दाता ज्ञातृत्वहीनः प्रतिभाति नाके । गुणाधिको विश्वसजा कृतोऽसौ चिन्तामणिनिविवेकपूर्णः ॥१६॥ मेघः किरत्यूषरभूमिकायां क्लिष्ट्वा जगत्यां सुतडिल्लताभिः । नायं तथा वर्षति हृष्टचेता हेमाम्बुदृष्ट्या बुधभूमिकासु ॥१७॥ विचिन्त्यमानो हृदि दाहकारी कामस्तदर्थ वितनुः पृथिव्याम् । धात्रा कृतोऽसौ सुतनुः प्रियाणां कृपाकुलेनातिसुखप्रदाता ॥१८॥ फूत्कारमुश्चद्वहलाहिभीतेरसेव्यमानो मलयाचलः सः । जातस्तथाऽयं न भवत्यनेकसद्भिः सुसेव्योऽनुचरैश्च तादृक् ।।१९।। चामीकरैः पूर्णतमः सुमेरुः स्वगोत्रजातावुपकारहीनः । नायं तथा सर्वसमृद्धियुक्तः साकं सुहृद्भिः खलु नन्दतीह ॥२०॥ रत्नाकरश्चेति हि कर्णपेयं यच्छ्यते नाम परं हि सिन्धोः । व्यर्थं तदेतं कृपणातिभावाद्भवत्यवश्यं न तथाऽस्य दातुः ॥२१॥ सणं लधुर्यः क्षणवर्द्धमानः पक्षकशुद्धः स विधुः कलङ्की । नायं तथा भाति कलाभिगामी दिने दिने निर्मलचारुवेषः ॥२२॥ अस्ताभिगामी चलनेन खिन्नः तीत्रैमयूखैर्भुवनानुतापी। मित्रस्तथा नात्मभुवा कृतोऽसावहन्निशं सोऽभ्युदयेन पूर्णः॥२३॥ For Private and Personal Use Only Page #7 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 8 ) काव्यमनोहरम्. संघट्टनाग्रस्य भवत्यनेकमयः सुवर्ण न तु दूरसंस्थम् । स्पर्शादयं भाति जनं सुरायं दृष्ट्यैव दृष्टं किल यः करोति || २४|| सुझः करोत्येव परां सुभक्ति जिनेश्वरस्यामिततेजसश्च । यस्य प्रसादाद्विपुलां सुभूति यः प्राप्तवान्पुण्यसमुहजन्मा ||२५|| सुवर्णदानैर्विनयैर्विवेकैः सत्यप्रतिज्ञा विमलैर्वचोभिः | युक्तोऽपि चैषश्चतुराननेन कर्णाधिको निर्मित एव भूमौ ॥ २६ ॥ दैतेयसंतानभवो ह्यधर्मी बलिः सुरोपद्रवकारकश्च । विराजतेऽसौ न तथा सुधर्मा सुवंशजातेाऽमरपूजकस्तु ॥ २७ ॥ स्वविक्रमैर्बन्धुजनाभिहन्ता पार्थः पुरा पाण्डुसुतः पृथिव्याम् । जातस्तथाऽयं न तु बन्धुमोदी पराक्रमैर्निज्जितवैरिवर्गः ||२८|| एवंविधैः पूर्णगुणैः प्रशस्तो विराजते मण्डननामधेयः । मनोभिरामं कलयौवनं वै कामालयं यात उदारकेलि ||२९|| प्रगल्भतं तस्य विवाहयोग्यं वयः समालोक्य मनोहरं सत् । तज्ज्ञातिवर्णः कुलशीलपूर्णा वाञ्छन्ति संबन्धमनेन सार्द्धम् ||३०|| ये प्रेषितास्तैर्गुरुविप्रवर्याः संबन्धमेनं बहुधा विचिन्त्य । ते आगतास्तद्गुरुसन्निधानं सम्बन्धमार्य बहु वक्ष्यमाणाः || ३१॥ इत्थं समाकर्ण्य वचस्त्वमीषामाज्ञां ददात्येष विवाहकार्ये । वैवाहिकी चार समृद्धिरिष्टा कार्येति युष्माभिरसंशयं तु ||३२|| किं वर्ण्यते तस्य वरं विभुत्वं पद्मालया यस्य गृहे वसन्ती । विवाहसामग्र्यविधेः तदानीं व्ययाय नित्योत्सवमानसस्य ||३३|| अन्तःपुरं चित्रविचित्रितं तत्समृद्धितं यस्य विभूतिभिः सत् । सत्तोरणं पल्लवतोयपूर्णसुवर्णकुम्भविलसत्यताकम् ॥ ३४ ॥ सत्काचबद्धाऽऽङ्गणभूमिभागं रत्नप्रदीपावलिभिः प्रशस्तम् । वादित्र घोषैर्घनगज्जिताभैः सुशोभितं कोविदमन्त्रपूतम् ||३५|| सीमन्तिनी गायनपूर्यमाणं सन्मागधोदीरितमङ्गलाढयम् । कर्पूरकृष्णागुरुचन्दनाद्यैः सुधूपितं धूपवरैस्तथान्यैः || ३६ | For Private and Personal Use Only Page #8 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीहेमचन्द्राचामान्यावली. (५) जातीलसत्केतकमल्लिकाभिः वरप्रसूनैश्च शुभैः सुवासम् । सन्नारिकेलक्रमकैः तथाज्यैः ताम्बूलफौः सतताभितमम् ॥३७॥ वधूजनैर्भूषणराजमान विराजितं तत्र सदनं तदानीम् । विभाति पत्तोर्णवरैर्वितानैर्मुक्ताफलापूरितचारुमध्यैः ॥ ३८॥ अन्तकुलकम् ।। एवंविधं सर्वसमृद्धियुक्तं गेहं घुभाभ्यां प्रथमं विधाय । सुहृज्जनानन्दकरं मियो हि विवाहकार्ये तदनुप्रतम् ॥ ३९ ॥ शुभे सुलग्ने गणकैर्विचिन्त्ये सौम्यग्रहरिष्टबलैर्बलिष्ठे । श्रीमण्डनः कामरूचिः प्रयातः तदालयं पाणिनिपीडनाय ॥४०॥ दुकूलयुग्मातचारुवेषः श्रीगन्धककोलकलेपिताङ्गः। धम्मिल्लभारान्तरसाधुमाल्यः स्फुरत्नभालङ्करणैर्वरेण्यः ॥ ४१ ।। मुक्तावलीनिर्मलकण्ठभूषो माणिक्यसत्काश्चनकुण्डलाढ्यः। केयूररत्नोजितबाहुबल्लिन राजमानः सततं वधूभिः ॥ ४२ ॥ सञ्चामरैः काञ्चनपूर्णदण्डै रत्नार्चिषाऽलङ्कृतदिग्विभागैः । संवीज्यमानोऽनुपरैरुदारः प्रयातवित्तैर्जयशब्दपूर्वैः ॥ ४३॥ शुभातपत्रेण करोधृतेन यः सेवकैः कार्यपरैः तदन्यैः। लब्धातिमानैरधिगम्यमानः महर्षरोमाञ्चितयात्रवल्लिः ॥४४॥ व्यावलानैर्निजितकृष्णसारे डिण्डीरपिण्डामलविग्रहेऽस्मिन् । पल्याणसंशोभितपृष्ठभागे समीरवेगे तुरगे निषण्णः ॥ ४५ ॥ पृदङ्गभेरीपटहैमहद्भिः सदिण्डिमैः कांस्यविशेषनादैः । वादित्रभेदैः सकलैः पुरस्तात्स्ववाहिनीभिर्महितश्च युक्तः ॥४६॥ शालान्तरान्तर्गतदृष्टिपातः कान्ताजनैः संततपीयमानः। वरेण्यलावण्यविशेषतुष्टैस्तत्कालमेवोज्झितगेहकार्यैः ॥ ४७ ॥ ॥ आदिकुलकम् ॥ श्रीमण्डनस्याजितनित्यकीर्तेातं हि पाणिग्रहणं तदानीम् । कुलोचिताचारयुतं विशिष्ट नीतम्बिनीभिर्द्विजपुण्यमन्त्रैः ॥४८॥ For Private and Personal Use Only Page #9 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir . (६) काव्यमनोहरम्. बाला क्षौमनिवासिनी सुवदना भृङ्गालिका रोहिणी कण्ठालम्बिततारहारवदना त्रस्यत्कुरङ्गीक्षणा । स्फूर्जदाहुसुकणा रणझणन्मञ्जीरपादा लसद् भालपान्तसुपत्रिका प्रविलसनासाचलन्मौक्तिका ॥४९॥ हेमाम्भोरुहचारुगात्रलतिका लज्जाभरैः संनता सिन्दूरारुणसत्सवालनिकरोद्यताधरोष्ठी शुभा । पुष्पाकीर्णशिरोरुहाऽलसगतिः पञ्चास्यमध्यातुला श्रीसद्धनाधिपमण्डनेन रमणी तत्कालमालोकिता ॥५०॥ ॥युम्मम् ॥ तौ दम्पती भूषणभूषिताङ्गो संलज्जमानौ नितरां चकास्तः । अन्योऽन्यलावण्यभरेण हृष्टावनेकतोषान्वितचित्तवृत्ती.॥५१॥ अर्थिवजाः कार्यमिदं गरिष्ठं जातं समाकर्ण्य तु याचितुं ते । श्रीमण्डनं दानगुणाद्वितीयं समागता मण्डपवेदिकायाम् ॥५२॥ विराजते सा चतुरङ्गपूर्णा सभा सभाग्येन तु मण्डनेन । कलावतेवातितरां त्रियामाऽऽकारपसनाम्बरकारिणैव ॥५३॥ मध्येसभं संततसंस्थितोऽयं शृणोति सर्वास्तु कलाविशेषान् । स्तुतः प्रबन्धैः कविभिः सुकाव्यैर्गाथादिभिःमाकृतकैरुदारः ॥५४॥ बुधैस्तु नैयायिकमुख्यकों वैशेषिक दृविशेषविज्ञैः । वेदान्तविद्भिः स्तुत एष सांख्यैः प्राभाकरैः संततमेव बौद्धैः ॥५५॥ स्तुतस्तथाऽयं गणितज्ञकैस्तु भूगोलविद्भिः शकुनाभिरामैः। प्रश्नप्रभेदैः सुमुहूर्तविज्ञैः पाटीबृहज्जातककोविदैश्च ॥ ५६ ॥ देशर्तुकालप्रकृतिप्ररोगवयश्चिकित्साखिललक्षणः । असाध्यसाध्यादिरसक्रिया द्यः सभायां खलु सेव्यतेऽसौ॥५७॥ साहित्यविद्भिः पतिनायिकादिप्रदेशसल्लक्षणकोविदेश्व । मुभावयोषित्रियकेलिरज्यद्विलासवद्भिःस्तुतिभिः स्तुतःसः॥५८। विषादमुख्यस्वरगायनैश्च लघुगुतातिप्लुततालभेदैः । For Private and Personal Use Only Page #10 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीहेमचन्द्राचार्यग्रन्थावली. (७ ) श्रीरागपूर्वप्रथितातिरागोल्लसन्मतैः सेव्यते एष एभिः ॥५९॥ कैवारदक्षा विरदप्रसन्ना देशान्तरमाप्तसुभूतिमानाः । ब्रह्माद्यपूर्वचनैः सुहृष्टाः सन्मागधास्तं सततं स्तुवन्ति ॥६०॥ इति रुचिरवचोभिः सादरं स्तूयमानः प्रतिदिनमतिदेवारख्यातितो भूभुजेषु । . वितरति बहुधा यन्मण्डनो हृष्टचेताः तदखिलमिदमग्रे वर्ण्यते सन्मयैतत् ॥ ६१॥ इतिश्रीकाव्यमनोहरे महाकाव्ये महेश्वरकृतौ श्रीमण्डनजन्मा दिगुणवर्णनो नाम प्रथमः सर्गः ॥ अथोच्यते याचकपुङ्गवेभ्यो विहायित यद्वितरिष्यतेऽसौ । भुवं ददाति प्रथमं षडङ्गविद्भयः कषायांशुकभूषितेभ्यः ।।१।। ये कुण्डले रत्नमणिप्रसन्नमुक्ताफलादीपितकेशपाशे । अनेन दत्ते श्रुतिपारगेभ्यः ताभ्यां नृपायन्त्यतिविस्मयं हि ॥२॥ चामीकरालकृतपुष्परागे ददात्यसौ दोष्कटके कविभ्यः । शुभाङ्गुलीभूषणमन्यदेव दशावधानातिकुतूहलेभ्यः ॥३॥ सदोचितज्ञः शकुनप्रहृष्टः सांवत्सरेभ्यो वितरत्यसौ तु । दुकुलयुग्मानि सकाञ्चनानि दृष्ट्वा जना विस्मयमाशु याताः॥४॥ असौ सदा यच्छति सद्भिपरभ्यो वित्तं च पत्तोर्णसुकञ्चकानि । महौषधध्वस्तगदव्रजेभ्यस्तूर्णप्रचूर्णारचिनाशकेभ्यः ॥ ५॥ साहित्यविद्भ्यः प्रथितानि दत्ते मञ्जिष्ठवासांसि गभिरचेताः । कलावतां कल्पितदायकोऽसौ श्रीमण्डनः सर्वदिगन्तकीर्तिः ॥६॥ सङ्गीतशास्त्रमखरेभ्य एभ्यो मुक्तावलीकाश्चनतोडरांश्च । तद्गीतसंगीतमना ददाति विज्ञानपूर्णः श्रुतपारगामी ॥ ७ ॥ राजन्यसंसद्बहुकीर्तिकृद्भ्यः सुरङ्गचामीकरचामराणि । यच्छत्यसौ सन्ततकीर्तिकामः सेवापराणां प्रथमं ददानः ॥८॥ त्यागोदयं यस्य विलोक्य याता वैदेशिका दैन्यतमोऽपहन्तुम् । For Private and Personal Use Only Page #11 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अहो ! किमाश्चर्यमिदं हि दृष्टं (८) काव्यमनोहरम्. समस्तदिग्मण्डलचारिणो ये राजन्यसन्मानधनेन पूर्णाः ॥९॥ यत्यागमेघोदय एव याते तृप्त्यन्वितो याचकचातकौघः। विलोक्यते कीर्तितडिल्लताभिः सुगजिते वर्द्धितभूरिसस्ये ॥१०॥ यत्यागचन्द्रोदय एव जाते विकासमायाति धनांशुभिस्तु । स गम्भीरविद्वत्कुमुदौघ एवामितमभे तोषितसचकोरे ।। ११ ॥ यस्यागशीतांशुकलोदयेन बुधोदधिः शास्त्रसुवारिपूर्णः । चयमिदं हि दृष्टं दारिद्रयवेलामभिलङ्गन्तेऽसौ ॥१२॥ विभ्राजते याचकमण्डलीयं सन्मानदानप्रणतिप्रसन्ना । श्रीमण्डनेनामितदायिना वै यथौषधीशेन महोडमाला ॥१३।। यथान्यदेशीय इहागतो यः सद्याचकौघो बहुदानमानः। गतो दिशं स्वां पृथुकीर्तिकारः प्रत्येकतस्तस्य वदन गुणादीन् । एके गता वर्णितुमस्य दानं प्राची सुराजन्यकदम्बकाढ्याम् । प्रयागतीर्थादिसुसेव्यमानां मुमुक्षुभिर्भासितपत्तनौघाम् ॥१५॥ केचित्प्रयाता ज्वलनाभिरामामाशां महिपालयशःप्रसन्नाम् । विस्फारितुं कीर्तिमनेकधाऽस्य तदत्तनानाविधभूतितुष्ठाः ॥१६॥ केचित्सुहृष्टा दिशि दक्षिणस्यां स्थित्या वदन्त्यस्य गभीरतां ते। ये प्रेषिताश्चैलतुरङ्गहेमचामीकरोद्भासितकुण्डलाढयाः ॥ १७ ॥ अन्ये तु याता ककुभं तदन्यां सुशोभितां कौङ्कणराजन्दैः। स्तोतुं महौचित्यमनेकवारं मनोरथाधिक्यविहायितस्य ॥१८॥ ये वायवीं वै गमितास्तु कष्टां सुतीर्थपुण्यां नृपतिप्रसन्नाम् । मातृत्वमहबहुवर्ण्यमानमर्थिवजा मुक्तदरिद्रसङ्घाः ॥ १९ ॥ याता उदीचीमपरेऽर्थिनस्तु मूर्ताभिषिक्तमचुरा सुखराम् । सौजन्यमस्यामितदायकस्य स्तुत्यं विधातुं परिपूर्णकामाः ॥२०॥ पिनाकपाणिमथितां च काष्ठां ये मस्थिता वाचकवास्तु । गुणातिबाहुल्यमनेकधाऽस्य कई मामासुराय एव ।। २१ ॥ दिल्मण्डलीकीर्तितकीर्तिपुर समस्त विहिरोन्नति सः। For Private and Personal Use Only Page #12 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीहेमचन्द्राचार्य ग्रन्थावली. ( ९ ) सङ्घाधिपो मण्डननामधेयो विद्योतते याचककल्पशास्त्री ||२२|| विहायितं वर्णितमात्मशक्त्या मया श्रुताविष्कृतबुद्धिनाऽस्य । अथोच्यते त्वन्यतरत्प्रमेयं शृङ्गारपूर्व खलु वर्णनं सत् ॥ २३॥ इति विमलकलानां पोषको याचकानां द्रविणवसनमानैस्तोषकः सत्कवीनाम् । वचनशरणभाजां रक्षकखासितानां स जयति गुणवर्यो मण्डनो मन्मथाभः ॥ २४ ॥ इतिश्रीकाव्यमनोहरे महाकाव्ये महेश्वरकृतौ श्रीमण्डनत्यागवर्णनो नाम द्वितीयः सर्गः ॥ उच्यतेऽथ मया त्वस्य गरिष्ठालयवर्णनम् । तद्वत्तदनु लावण्यं कामिनीकुर्द्दनं तथा ॥ १ ॥ निर्मितं शिल्पिकारैस्तत्सूत्रधारणकोविदैः । अन्तःपुरं ततो न्यस्तं तत्पार्श्वे चोपकारिका || २ || चित्रशालागृहं कोणे वामे दक्षिण के परम् । रचितं स्तम्भसंलग्नै रम्यं कृत्रिमपुत्रकैः ॥ ३ ॥ पुरतो वाजिशालास्तु कृताः शिल्पविचक्षणैः । राजमानाः शुभैः स्तम्भैर्महितैश्चारुचित्रितैः ॥ ४ ॥ महानसं पृष्ठतस्तु तदग्रे भोजनालयम् । पानीयशालिकोपेतं कृतं तैः शिल्पिभिः शुभैः ॥ ५ ॥ महद्यत्नकृतं तस्य सञ्च्चामीकरराजितम् । सभागृहं तु सर्वाग्रे संवृतं कोशमन्दिरैः ॥ ६ ॥ प्रासादो रचितश्चाराचानाकुशलिभिः शुभः । गुरूणामपि देवानां पूजनार्थमहर्निशम् ॥ ७ ॥ एवमन्तःपुरं चारु रचितं सूत्रधारकैः । तहतोत्तमनेपथ्यैः पश्चाचित्रविचित्रितैः ॥ ८ प्राङ्गणं काचबद्धं च गृहान्तर्भूमिका तथा । For Private and Personal Use Only Page #13 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( १० ) काव्यमनोहरम्. वदन्यैः कृतमेवास्य स्वविद्याकुशलैः सदा ॥ ९ ॥ सौवर्णैः कलशैः पूर्ण तद्राजसदनं महत् । भासते चारुभिश्वान्यैरङ्कितं तोरणध्वजैः ॥ १० ॥ पुनरुक्तं न वक्तव्यं गेहवर्णनमुत्तमम् । शिल्पिशास्त्रप्रकारेण पुरोक्तं नहि यन्मया ॥ ११ ॥ क्रीडोद्यानवनं तस्य सव्ये पक्षिविराजितम् । अन्वितं पादपैरिष्टैर्वर्ण्यते तदिदं मया ॥ १२ ॥ यस्मिन्वने सुफलिताः सहकारास्तथाऽपरे । जम्बूमहीरुहा रम्यास्तथा धात्रीसुशाखिनः ॥ १३ ॥ पनसाः पूगवृक्षाश्च नालिकेरसुपादपाः । खर्जूरीदाडिमीद्राक्षामातुलिङ्गीद्रुमादयः ॥ १४ ॥ पुष्पिताः शाखिनस्त्वन्ये चम्पकाः काञ्चनाह्वयाः । चकुलाः पाटलाशोकनागचम्पकमुख्यकाः ॥ १५ ॥ haniमालतीक्षा मल्लिका शतपत्रिकाः । अन्या नानाविधा रम्या लम्भिताः पुष्पजातयः ॥ १६ ॥ चनान्तर्वापिका रम्या राजहंसैः सुशोभिता । अम्भोरुहैश्च विशदैर्गुञ्जद्भ्रमरभूषितैः ॥ १७ ॥ इत्यन्तःपुरं रम्यं पूर्णित परमर्द्धिभिः । चकास्ति विभ्रुना तेन मण्डनेन सुमण्डितम् ॥ १८ ॥ एकस्मिन्दिवसे तस्य क्रीडोद्यानवनं प्रति । आगतो मण्डनस्त्वेष लीलयालङ्कृतो युवा ॥ १९ ॥ रोचिष्णुं सर्वभूषाभिरागतं मण्डनं विभुम् । विलोक्य विडला जाताः कामिन्यः कुसुमेषुणा ||२०|| उपायं कुर्वते नार्येा वशीकर्तुममुं तदा । नर्तक्यः प्रथमं रम्यास्तत्सङ्गोत्सुकमानसाः ॥ २१ ॥ पारधं नर्त्तनं तामिश्रितमोहन भेषजम् । For Private and Personal Use Only Page #14 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीहेमचन्द्राचार्यप्रथावली. (११ तद्योग्यसमुदायेन भावगर्भसुबुद्धिभिः ॥ २२ ॥ बिभर्ति मुरजं काचित्कट्यां वादनहेलया। करास्फालनलोलाङ्गकम्पितोरुपयोधरा ॥ २३ ॥ कया चिद्गीयते गेयं गम्भीरस्वरया तदा । वीणां कुचतटे न्यस्य त्वेकतन्त्री सुभावया ॥२४॥ लघुद्रुतप्लुतोद्भेदं तालं गृह्णाति गायिका। मन्द्रतारसुगायन्ती वादयन्ती यथोचितम् ॥ २५ ॥ कराभ्यां वंशमादाय गुञ्जभ्रमरनादवत् । पुरयन्ती विभात्येषा सुस्वरं रामणीयकम् ॥ २६ ॥ कांस्यं वाद्यविशेषं हि कराभ्यां वाद्यतेऽज्यया। कामिन्या विलसन्नेत्रवक्रालोकनभावया ॥ २७ ॥ चतुर्विधेन वाधेन भावगर्भेण नृत्यति । नर्तकी चारुनेपथ्या नर्तनालोलसुस्तनी ॥ २८ ॥ नृत्यन्ती हस्तकेनैव दण्डकेन च शोभिना । लासिका राजते सैषा खञ्जरीटमचारिणी ॥ २९ ॥ गेयानुसारि वाद्यं वै नृत्यं वाद्यानुसारि च । कृतं ताभिः सुवेषाभिस्तेन मूतों रसोऽभवत् ॥ ३०॥ आसां गेयेन वाद्येन नृत्येनापि सुतोषितः । ददाति बहलं वित्तं ताभ्यो वै न तु सङ्गमम् ॥ ३१ ॥ चलदृष्टिं स्फुरवाई रतिकामामशङ्किताम् ।। व्यावलाद्गमनां नारी परकीयां जहाति च ॥ ३२॥ स्वपल्यामनरक्तेन चारुमन्मथमूर्त्तिना । मण्डनेन स्वकीया सा रतिभावैर्विलोकिता ॥३३॥ लावर्ण्य वर्ण्यते तस्या मया सर्वाङ्गजं महत् । कामिन्या गुणशालिन्याः पृथक्त्वेन यथाक्रमम् ॥ ३४ ॥ राजते कबरी तस्याः षट्पदामलरुग्मती । For Private and Personal Use Only Page #15 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१२) काव्यमनोहरम्. कालिन्दीजलकल्लोलशोभासन्ततिधारिणी ॥ ३५ ॥ भ्रूमङ्गो रचितस्तस्याः वेधसा स तु दृश्यते । शरासनं हि तद्वक्त्रे निक्षितं स्वभुवेति किम् ? ॥ ३६ ॥॥ आकर्णव्यापिनी नेत्रे नीलोत्पलदलामले । चकितणीसुदृष्ट्य भ्राजेते मदनायुधे ॥ ३७॥ रदनाः खलु भान्त्यस्याः पक्वदाडिमबीजभाः। हास्यपर्यस्तरुचयो लघवः समपनायः ॥ ३८ ॥ ओष्ठाघरौ विभासेते प्रवालविशदौ स्त्रियाः। परिचुम्बनवेलायां प्रियदन्तक्षताङ्कितौ ॥ ३९ ॥ द्विजराजगुणोपेतं मुखं तस्या विराजते । सुधाधरं रुचा स्निग्धं पत्रिकाएं सुशीतलम् ॥४०॥ आजानुयायिनौ वाहू प्रियालिङ्गनतत्परौ । वेधसा तस्कृतौ यत्नात्सुधापूर्णघटाविव ॥ ४१ ॥ मृगेन्द्रमध्या सा भाति कणितामलमेखला। अङ्गना केलिसु प्रीतिनिम्ननाभिः कृशोदरी ॥ ४२ ॥ तस्या उरू विभासेते सरलौ करभाकृती। कनकोत्तमवर्णाभौ रम्भास्तम्भानुकारिणौ ॥ ४३ ॥ राजमाने रुवा जले स्थूले नैव तथा कुशे । तस्याः सुन्दरलीलायाः कोमले वर्तुलाश्चिते ॥४४॥ रक्तोत्पलनिभावशी राजेते योषितः शुभौ । यावकोद्भासितौ रम्यौ विस्फूजन्नखरच्छवी ॥ ४५ ॥ लावण्यमधिकं तस्या वर्णितुं नैव शक्यते । यथापति मया तद्विवणितं साधु धीमताम् ॥ ४६ ॥ शृङ्गारो विविधस्तरमा मद्यते निखिलो मया । सर्वलावण्यसशेष गुणबाहुल्यसन्मतेः ॥ ४७ ॥ अलकाली द्विधा तस्याः सख्या भारया रुता । For Private and Personal Use Only Page #16 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीहेमचन्द्राचार्यग्रन्थावली. (१३) पश्चाद्भालस्थले न्यस्ता कस्तुरी पत्रिकातुला ॥ ४८ ॥ सख्या नूनं कृते रम्ये चित्तभेदनसायके । नरत्तारेक्षणे तस्याः शलाकाञ्जनरेखया ॥ ४९ ॥ अथितः कबरीभारः कुसुमोत्तमसञ्चयैः। मुक्ताफलमयी मूनि जालिका वेष्टिता ततः ।। ५० ॥ वेशितं मौक्तिकं चारु नासिकाग्रे तु वर्तुलम् । ओष्ठस्योपरिजाताचिःप्रस्फुरल्लोलविग्रहम् ।। ५१॥ ताम्बूलं दत्तमस्यै तु सख्या तेन प्रभाऽभवत् । दाडिमीपुष्पवन्नूनं कर्पूरमचुरं चिरम् ॥ ५२ ॥ कण्ठे मुक्तावली तस्याः निक्षिप्ता कुचलम्बिनी । अन्ये नानाविधा हारा योजितास्तदनुक्रमम् ॥ ५३ ॥ रचितं कञ्चुकं सख्या तदङ्गे चन्दनैः शुभैः । कुडमागुरुकस्तुरीयक्षकई ममिश्रितः ॥ ५४॥ केयूरे योजिते बाहोः प्रकोष्ठे कङ्कणे तथा । सख्याङ्गुलीषु च न्यस्तमङ्गुलीयकसन्दकम् ॥ ५५ ॥ मञ्जीरे पादयोः स्निग्धे न्यस्ते शिजारवाहिते। तया काञ्चनशोभाऽऽढये मौक्तिकालीविराजिते ॥ ५६॥ दुकूलवसना योषित् पिकमजुलवादिनी । तन्वङ्गी स्मितनिस्यास्या हंसवारणगामिनी ॥ ५७ ॥ सर्वालङ्कारपूर्णाङ्गी सर्पलावण्यसुन्दरी । ख्यातसर्वगुणोपेता भाति वल्लभकाङ्क्षिणी ॥ ५८ ॥ शय्यालये प्रदीपाभे नानाचित्रविचित्रिते। धूपगन्धिनि पत्तोर्णविताने संस्थिता निशि ॥५९॥कुलकम् ॥ 'पल्यडू पुष्पसंभारो गजदन्तविनिर्मिते । शिक्षः कर्पूरचूर्णन मिश्रितो रतये तया ॥६० ॥ रामो विरामः मूतश्च प्रसूतः महरा इमे । For Private and Personal Use Only Page #17 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१४) काव्यमनोहरम्. चत्वारो राम एतेषां सम्भोगाय निगद्यते ॥ ६१ ॥ रामे यामेतिपश्यन्ती पत्यागमनमुत्तमम् । दृशं द्वारे दधात्येषा जातरोमाञ्चकम्पना ॥ ६२ ॥ एतस्मिन्समये जाते मण्डनः केलितत्परः । आगतो मन्दिरं तस्याः सख्याहूतः शुचिस्मितः ॥ ६३ ।। कन्दर्पस्यास्त्रविद्येव मूर्ता व्यामोहिनी परा। दृष्टा लावण्यपूर्णाङ्गी रम्भेव रतिकामुका ॥ ६४ ॥ आदावालिङ्गितौत्सुक्याच्चुम्बिता तदनन्तरम् । योषोपभोगिता तेन मण्डनेन मनोहरा ॥ ६५ ॥ एवंविधानामबलाजनानां मनोरथः सिद्धयति येन सोऽयम्। सङ्घाधिपो मण्डननामधेयः कन्दर्पलावण्यतनुश्चकास्ति॥६६॥ इतिश्रीकाव्यमनोहरे महाकाव्ये महेश्वरकृतौ श्रीमण्डनकेलिवर्णनो नाम तृतीयः सर्गः॥ अथोच्यते सहतुवर्णनं हि यथाक्रमं कोविदतोषदायि । उरूपभोगांश्चमथाधिगम्य श्रीमण्डनस्यातिविभोगिनस्तु ॥ १ ॥ तेषामृतूमा प्रथमं वरिष्ठा शरन्मनोज्ञाऽतिकुतूहलादया। निगद्यते पाण्डुरमेघमाला श्रीमन्महातोषविधायिनी च ॥२॥ स्वच्छोदकाः सत्पुलिनास्तटिन्यो यस्मिन्नृतौ पावननामधेयाः । याताःप्रसादं मुनिसेव्यमानाः पुरोज्झिताः पङ्कमलाऽऽविलाद्भिः।। सरांसि पत्रोत्पलपूरितानि ध्रुवं निषेवन्त इहैव हंसाः । मुदान्विता निर्मलतोयतोषान्महीतलोल्लासभरेण पूर्णाः ॥ ४ ॥ श्यामायदत्तौ परितोभिरामाः छायामती गौरपयोधराभ्याम् (!)। प्रफुल्लकाशांशुकराजमाना वसुन्धरा भाति वराङ्गनेव ॥ ५॥ निशीथिनी चन्द्रिकया महत्या विराजते कौतुकदायिनीव । कामातुराणामभिसारिकाणां सङ्केतवाञ्छाऽकुलदुर्मतीनाम् ॥६॥ प्रावट तमोविस्मृतचन्द्रिकामा भ्रान्त्या गजावक्रितभण्डयेव । For Private and Personal Use Only Page #18 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री हेमचन्द्राचार्यग्रन्थावली. ( १५ ) स्पृशन्ति दन्तद्वयमाभयात्ते नीतं किमेतन्न तु वेति शुक्लयाम् (१) ॥७॥ कुर्वन्ति लाङ्गूलविलोकनानि द्रष्टुं चमर्यः सितचामराणि । नीतानि किंवा ननु वक्रमुख्यो विधूदये यत्र विजृम्भमाणे ॥८॥ भ्रान्त्या कचोले पय इत्यभीष्टं मत्वा विडालो लिहति प्रकामम् । विधुप्रभाभूषितमध्यदेशे यस्मिन्नृतौ सद्रजताभिरामे ॥ ९॥ महीरुहप्रोतमयूखजालान् भ्रान्त्या विशानां हि लुनन्ति हंसाः । उन्मीलिते यत्र तु शीतरश्मौ नूनं शरत्कालजनप्रियेऽपि ॥ १० ॥ एवंविधं भ्रान्तिकरं सुधांशुं विजृम्भितं प्रेक्ष्य विभूषणार्याः । वाञ्छन्ति सङ्केतमिहात्मसृष्टं कान्तेन दत्तं ह्यभिसारिकास्ताः ॥ ११ ॥ सुधोपमं सर्वरसाभियुक्तमनं निधायोत्तमहेमपात्रे । व्रजन्ति ताः स्वं रमणं महान्तं संकल्पलभ्यं रुचिरं यदतौ ॥ १२ ॥ कृष्णांशुकाश्चन्दनपात्रहस्तास्ताम्बूलयुक्ताश्चकितं व्रजन्त्यः | स्निग्धाननाः सर्वविभूषिताङ्ग्यो मुक्ताभिरामामलहारपूर्णाः ॥ १३ ॥ ते कामिनस्ताः प्रसमीक्ष्य योषाः समागताः सात्विककायपूर्णाः । उदीरयन्त्यो वचनं प्रियाणामग्रेऽद्य भीता इति कम्पमानाः || १४ || गाढं प्रियालिङ्गनजाततोषाः सङ्केतके वै रतिमापुरेताः । यस्मिन्नृतौ कौतुक नित्यपूर्णे विवर्णिते काव्यमनोहरेऽस्मिन् ॥ १५ ॥ दीपोत्सवेऽस्यास्तु भवन्ति तुष्टा नीराजमाना धनिनः प्रियाभिः । सुवर्णपात्रार्पितचैलपूगदीपच्छदाकुङ्कमिताक्षताभिः ॥ १६ ॥ वाणिज्यकाराश्च वहन्ति चिन्तां देशान्तरं गन्तुमभीष्टकामाः । नानासुवस्त्रहरणाय हृष्टा यस्मिनृतौ वाञ्छितलाभसङ्घाः ॥ १७॥ यस्यागमे भूपतयो महान्तः प्रस्थानमिच्छन्ति रिपून्विजेतुम् । सैन्यैर्बलिष्ठैश्चतुरङ्गपूर्णैरत्युद्धताः पालितशूरसङ्घाः ॥ १८ ॥ व्रजन्ति तेऽमी परराष्ट्रमुग्रं कृत्वा पदातीन्पुरतश्च वाहान् । स्तम्बेरमास्तद्द्वयपृष्ठतस्तु वादित्रघोषैः कृतवैरिकम्पाः ॥ १९॥ आच्छादितं वै खुरपांसुभिः खं तुरङ्गमाणां जवमाश्रितानाम् । · For Private and Personal Use Only Page #19 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१६) काव्यमनोहरम्. राज्ञां ध्वजैश्चापि लसहुकूलर्जयाभिलाषाकुले संमुखीनाम् ॥२०॥ निःशाणभीमध्वनिभिस्त्वमीषां भीतोजनो गच्छति वै दिगन्तान्। गच्छन्तमेनं प्रसमीक्ष्य भूपा युयुत्सया यान्त्यनुयायिनस्तान्।॥२१॥ ते स्थायिनो भूपतयः समस्तान् सेनापतीन्स्वानिति भाषयन्ति । इमे तु याताः किमहो ! विधेयं विचार्य चित्ते झटिति ब्रुवन्तु॥२२॥ हे स्वामिनस्त्वद्य विलोकनीयं युष्माभिरत्यन्तकुतूहलं सत् । ध्रुवं भटानां परिपालितानामेषां ज्वलच्छस्त्रभृतां समाजौ ॥२३॥ स्वस्वामिनामग्रत एवमुक्त्वा ते वाहिनीशाः प्रसभं तदानीम् । कुर्वन्ति सम्भारमनेकधा हि युद्धाय योग्यं विलसत्पताकाः ॥२४॥ तेषां तु योधाः प्रथमं प्रवृत्ताः सज्जान्विधातुं करिणो बलिष्ठान् । मदोत्कटानडशमुग्रधारं करे दधानाः पृथुसाहसाढ्याः ॥ २५॥ आरोहण कर्तुमतिप्रभावाः पल्याणतां सन्ततविक्रमौघैः । गृह्णन्ति दीक्षामतिसङ्गराय विचिन्त्य देवीं कुलपूजितां स्वाम् ॥२६॥ संनद्धबद्धं खलु सैन्यमेतत्तुरङ्गसद्वारणपत्तिभिश्च । विलोक्य राजन्यगणः सरोषात्स्वाज्ञां तु यच्छत्यनुजीवकेभ्यः॥२७ पुरो हि दृश्यन्त इमे नृपालाः करायुधा हन्तुमभीष्टकामाः । स्थिराः किमर्थ ननु यूयमेते कुर्वन्तु युद्धं रिपुभिः सहेतैः ॥२८॥ वाहाधिरूढास्तुरगोनिषण्णान्पदातयः पत्तिजनान्समस्तान् । गजोपविष्टाः पृथुवारणस्थान्मिथो हि निघ्नन्ति युयुत्सया ते॥२९॥ भल्लैः करालैः करवालवृन्दैः चापप्रमुक्तैः शरसञ्चयैश्च । निघ्नन्ति सर्वेऽपि परस्परं ते सुकीर्तिकामा विजिगीषवश्च ॥३०॥ खड्गप्रहारैस्त्रुटितानि भूमौ शिरांसि सेनाद्वयसंस्थितानाम् । पतन्ति केषांचिदतः कबन्धाः संभिन्नगात्रोद्गतशोणिताश्च ॥३१॥ केषांचिदत्रायुधसंहतानां महाहवे पादकटिमकोष्ठाः।। पतन्ति चान्ये क्षुभिताः प्रहारैर्धावन्ति वीरान्विनिहन्तुमुग्रान॥३२॥ द्विधाकृताः केचिदथारिवर्गाः करोल्लसच्चापविमुक्तबाणैः । For Private and Personal Use Only Page #20 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीहेमचन्द्राचार्यग्रन्थावली. ( १७ ) कम्पन्त एते पतितास्तदानीं भल्लक्षताः क्रन्दनविह्वलाश्व ॥ ३३॥ रे रे भटाः ! प्राणमुचः स्मस्तान् किमर्थमस्मान्महता तिरोपात् । यूयं शरण्या इति केचिदाहुर्भयेन दीनोत्तरभाषमाणाः । ३४ ॥ पदातिसद्वारणवाजियोधकलेवरोद्दारणजातरक्तः । मही तदानीं खलु भीषणेयं जाता तथा भैरवखेलनैश्च ॥ ३५ ॥ ः शिवाभिर्भषणैश्च काकैः सद्योगिनीभिश्च पिशाचिनीभिः । जाता तदा घोरतरा भ्रमद्भिर्विहङ्गमैश्चाप्यमितै रणोर्वी ॥ ३६ ॥ भूतानि तेषामतिसङ्गरेऽस्मिन् आगत्य खादन्त्यधितृप्ति मांसम् । तथा तदन्यानि पिबन्ति नूनं भूयिष्ठतोषाद्रुधिरं समाजौ ॥३७॥ नृत्यन्ति चान्यानि महच्छिरांसि पाणौ गृहीत्वा बहुखेलनाय । भीमान्त्रमालाकृतचारुहारसुशोभितान्याहतमर्द्दलानि ॥ ३८ ॥ क्रीडन्ति गायन्ति वदन्ति भूतान्यनेकधा चात्यतितोषितानि । शस्त्रैः सुगीतैर्वचनानि यस्मिन्तृप्तानि सन्तापितषीरमांसैः ॥३९॥ ये संहता सङ्गरभूमिकायां महाभटाः शस्त्रवरैः सुखङ्गैः । व्रजन्ति ते खलु नाकलोकं विमानमारुह्य सहाङ्गनाभिः ||४०|| अन्ये रणात्कापुरुषा दिगन्तान्धावन्ति निस्त्यक्त समस्त सैन्याः । तृषातुराः साध्वसकम्पमानाः विकीर्णकेशाः पतितांशुकाच ॥४१॥ तत्रापरे ते स्वपुरीः प्रयान्ति जयश्रिया विस्तृतकीर्तयो ये । उक्ताशिषो विप्रवरैः प्रियाभिर्नीराजमानाः कनकाम्बरौघैः || ४२ ॥ पौरादरैर्वर्द्धितचित्तसौख्याः स्वराजगेहं प्रविशन्ति भूपाः | तदागमानेकमहोत्स्वाङ्कं महर्द्धिसंघातविराजमानाः ॥ ४३ ॥ अन्तःपुरस्थान्नृपतीञ्जलाद्वैर्दुर्वाङ्कुरैस्तानभिषेकयन्ति । द्विजोत्तमा वै कृतचारुयज्ञास्तत्कालयोग्यैर्बहलैर्हविभिः || ४४ ॥ मूर्द्धाभिषिक्तास्तदनन्तरं ते स्वीयान्यपत्यानि कुतूहलेन । उत्सङ्गमारोप्य लसन्मुखानि चुम्बन्ति बाल्याभरणाश्चितानि ॥४५॥ ते भावगर्मैर्विलसद्वचोभिः शृण्वन्ति वार्ता प्रमदाजनानाम् | For Private and Personal Use Only Page #21 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१८) काव्यमनोहरम्. अभीष्टपत्यागमनोत्सवानां विलोलचैलाश्चलगूढवाचाम् ॥ ४६॥ एवंविधं यद्गमनं नृपाणां यस्मिन्नृतौ तत्कथितं मयाऽत्र । अन्यत्तथावर्णनमिष्टमस्ति ग्रन्थस्य बाहुल्यभयान चोक्तम् ॥४७॥ अथोच्यतेर्तुमहितो मयायं हेमन्तनामा वनिताप्रियश्च । कन्दर्पयोषापरधन्यलोकश्रीमल्लसन्मानसकारकश्च ॥ ४८ ॥ इति शरदमभीष्टां चारुहेमन्तमुक्त्वा___प्यमलविविधभोगेर्नामराणां महान्तम् । वदति शिशिरमुख्यं सद्वसन्तानुगं च । खलु महितगुणाढयं वर्णनं काव्यकारः ॥ ४९ ॥ ऋतुद्वयेऽस्मिन् कथिते मयेवं श्रीमण्डनो भोगपुरन्दरः सः। नयत्यभीष्टं समयं सुकीर्तिः सदा यथाकालमृतूपभोगैः ॥५०॥ इतिश्रीकाव्यमनोहरे महाकाव्ये महेश्वरकृतौ श्रीमण्डनऋतुद्वयो . पभोगवर्णनो नाम चतुर्थः सर्गः ॥ अथोच्यतेर्तुः शिशिराभिधानः कन्दर्पबाहुल्यकरो जनानाम् । हिमप्रभाकम्पितसवलोको वराङ्गनायोषितकामकेलिः ॥१॥ दिनानि यस्मिन्विलघूनि सत्यं भवन्ति तृष्णादरसूचकानि । महावनीशोद्भवसत्प्रतापैर्यथारिन्दानि भयाकुलानि ॥२॥ खाद्यानि लेह्यान्यपि चोष्यपेया न्यन्नानि धन्याः खलु भुञ्जतेऽस्मिन् । कोष्णानि नूनं रुचिकारकाणि विशेषतः षड्सपोषितानि ॥३॥ हिमं यदीयं क्षपयन्ति धन्याः शय्यासु चोष्माञ्चिततूलिकासु । योषाकुचालिङ्गनसन्ततोष्णैर्दिनेषु धूपार्चितवह्निभिश्च ॥ ४ ॥ वसन्तनामाऽयमृतुर्महीयाभिगद्यतेजा सुजनाभिरामः । वनस्थलीभासितपल्लवायः पिकादिपक्षिव्रजतोषकारी ॥५॥ महीरुहाः पल्लविताः समस्ता यस्यागमे सर्ववनस्थलीयम् । For Private and Personal Use Only Page #22 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीहेमचन्द्राचार्यग्रन्थावली. ( १९) पलाशजम्बूसहकारतालतमालशालप्रमुखास्तदन्ये ॥६॥ उदुम्बराशोकसुपाटलादिजम्भीरसच्चम्पककाञ्चनाख्याः । धात्रीसु वृक्षाः पनसास्तदन्ये बन्धुकरमद्रुमपिप्पलाश्च ॥ ७ ॥ वटास्तथान्ये बकुलाभिधेयाः सद्देवदारूत्तमकोविदाराः । मन्दारवृक्षाः ककुभास्तदन्येऽम्लिकाः सुशाला बदरीद्रुमाश्च ॥८॥ अन्ये वसन्तागमभासमानाः प्रियङ्गबिल्वाः खदिराः करञ्जाः । सन्मातुलिङ्गीतरुदाडिमेया नानाविधाः पादपजातयश्च ॥९॥ आदिकुलकम् ।। एतद्गुणां पादपमण्डली सत्फलप्रमूनारुणपल्लवान्याम् । विलोक्य याता बहवो विहङ्गाः पुंस्कोकिलावत्किर सारिकाद्याः ॥ १० ॥ कुहूकुहूः सन्ततमित्युदारवाचं वितन्वन्ति महोत्स्वैयें । पुस्कोकिलाश्रुतसुमञ्जरीस्ते लुनन्ति चञ्च्चा मुषिता इहतौ ॥११॥ आरामनानाविधसत्तरूणां यथाभिलाषं फलपल्लवांश्च । विहङ्गमौघाः किल भुञ्जतेऽस्मिन्वसन्तनित्योत्सवमानसाश्च ॥१२॥ फलानि पक्वानि महातरूणामदन्ति सर्वाः शुकसारिकास्ताः । परस्परं शब्दितजाततोषाः कण्डूयमानाङ्गविशेषविनाः ॥ १३ ॥ यथापियं सर्वविहङ्गमास्ते लिहन्ति मुश्चन्ति फलानि रुच्या । नानाविधान्युत्तमगन्धचारुसुगन्धितान्यादरकारकाणि ॥ १४ ॥ यथाप्रकारं हि वसन्तकाले क्रीडन्ति धन्या वनवापिकासु । सुवर्णसर्वाभरणान्विताभिः स्वकामिनीभिः कुचसनताभिः ॥१५॥ सिञ्चन्ति नार्यः स्वपतीन्सुहेमशृङ्गार्पितानेकसुगन्धितोयैः । यस्मिन्वसन्तवनवापिकायां क्रीडाकुलाः सस्तनितम्बवस्त्राः ॥१६॥ चापीजलासिञ्चितमूर्तयस्ता विमृष्टसर्वातुलपत्रवल्लयः । कान्ताः प्रियालोकनजातलज्जा मजन्ति तोयेज्जवप्रकाशात् ॥ विहारदृष्टावयवैः प्रियाणां ते कामिनस्तत्समये युवानः । . For Private and Personal Use Only Page #23 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (२०) काव्यमनोहरम्. कामातुराः सात्विकभावभाजो याताः सुखेलाः सुरताभिवाञ्छाः॥ आलिङ्गनायोत्सुकजातपाणीपतीन्रमण्यो दिनजातलज्जाः। व्यग्रानिहत्ता विदधत्यनेकवार्ताभिरिष्टोदकसिञ्चनैश्च ॥ १९ ॥ मुश्चन्ति धैर्य सुरताभिलाषात् व्यग्रीकृतास्ते बहुशोऽङ्गनाभिः । स्वकामिनीवाक्यमुदीरयन्तो लज्जाभिनम्राः किमितीह यूयम् ॥२० वदन्ति नारीः प्रति कामिनस्ते हास्यं विधायातुलवाग्विलासैः । रात्रौ न लज्जा दिवसे किमेतत्किलेति युष्माकमलज्जितानाम्॥ सखीजने पश्यति चारु वारिविहारमेनं दिनकौतुकेन । यूयं कथं त्वथ कामकेलिं हे स्वामिनस्त्वद्य गता निशा किम् ॥ परस्परं भाषणजातलज्जास्ता योषितः केलिपराः प्रियेभ्यः । आलिङ्गनाधादरसंयुतानि ददत्यनेकानि वसन्तकाले ॥२३॥ एवं परं कौतुकमत्यभीष्टं यस्मिनृतौ दृश्यत एव चान्यत् । स्मस्तमेतत्कुतुकं विनोदात्सदोऽपभुते किल मण्डनोऽयम् ॥२४॥ ऋतुद्रयेऽस्मिन्कथिते मयैवं श्रीमण्डनो भोगपुरन्दरः सः । नयत्यभीष्टं समयं सुकीर्तिः सदा यथाकालमृतूपभोगैः ॥२५॥ इति श्रीकाव्यमनोहरे महाकाव्ये महेश्वरकृतौ श्रीमण्डनापर ___ ऋतुद्वयोपभोगवर्णनो नाम पञ्चमः सर्गः ॥ अथोच्यनेर्तुस्त्वपरो मयायं ग्रीष्माभिधेयो महदुष्णभीमः । सुशीतलेच्छाजनको गवाक्षानिजानुगानेकसुधान्यलोकः ॥ १॥ ग्रीष्ये महविधिराजकन्याः कुर्वन्ति शैत्याभरणानि रुच्या।। उष्णातुराः कञ्चुकमुश्चमानाः प्रस्वेदसर्वाविलगात्रवल्लयः॥२॥ सुशीतलालङ्करणानि धत्तेकर्पूरकृष्णागुरुचन्दनायैः । लिप्ताङ्गचल्ली शुभराजकन्या तन्मध्यगा काचिदिहागतेऽस्मिन् ॥३॥ पद्यानना मोक्तिकतारहारा सा मानिनी चन्दनकचकाढया । श्वेतस्रजाऽलङ्कृतविग्रहेयं विभाति यस्मिन्नतिकामुकेव ॥ ४ ॥ सा काचबदाङ्गणभूमिकायां मनं निघायास्तरणं तनोति । For Private and Personal Use Only Page #24 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीहेमचन्द्राचार्यग्रन्थावली. (२१) निदाघतप्ता नवपल्लवानां चन्द्रोदये यत्र विजृम्भमाणे ॥५॥ सखीजनैः सा बहु वीज्यमाना तोयान्वितैः सद्वयजनैनिशायाम् । पत्यागमं पश्यति मञ्चकस्था सा राजपुत्री परिता सखीभिः ॥६॥ विलोकयन्ती रमण क्षपायां राजन्यवंश्या गुणशीलपूर्णा । आज्ञां ददत्यालिगणेभ्य एभ्यस्त्वाकारितुं स्वं पतिमात्तकामा।।७।। आकारितः सर्वविभूषिताङ्गो रत्युत्सुकश्चारुदुकूलधारी । कन्दर्पलावण्यतनुः प्रियोऽस्याः समागतः प्राङ्गणमङ्गनायाः ॥८॥ आलोक्य मञ्चात्सहसोत्थिता सा तमागतं वल्लभमायताक्षी । पत्यग्रतो वाक्यमुदीरयन्ती विलम्ब एवं किमहो ! प्रियाच ॥९॥ गते मदीये दिवसे प्रिय ! त्वं नैवागतोऽस्यद्य किमत्र कार्यम् । तत्रैव गच्छेति तमाह वाक्यं सा भामिनी कम्पपराधरोष्ठी॥१०॥ एतत्समाकर्ण्य वचस्तदीयं गतः सुहये रमणोऽन्यनायो । विवादजातारुणलोचनः सद्गत्युच्चलत्कुण्डलउत्तमाभः ॥ ११ ॥ महाभिमानान्नृपजा तदानीं वजन्तमेनं पतिमत्युदारम् । ब्रवीति नैवातिरुषारुणाक्षी कम्पातुरा कर्कशवादिनी च ॥१२॥ गतेऽन्यकान्ताभवनं तदानीं स्वनायके मन्मथचारुवेषे । जाता पुरन्ध्री विरहाकुलाङ्गी भिन्नाऽतितीक्ष्णैर्मदनेषुभिःसा ॥१३ नरेन्द्रजाता विरहानुतापैः सन्तापिता रोदिति हि प्रगूढम् । अधोमुखी यत्र निरुद्धकण्ठी सखीमुखालोकनजातलज्जा ॥१४॥ विचिन्तयन्ती लिखति क्षितिं सा तदाङ्गना पत्युरनादरं तम् । भुजाङ्गुलीभिर्विलसन्नखाभिर्यस्मिनृतौ विस्मयकारिका तु॥१५॥ चिन्तातुरा मन्मथतापखिमा मुश्चत्यनेकानि विभूषणानि । मुक्तावलीमुख्यमहत्कृतानि सन्दह्यमाना विरहानलेन ॥१६॥ तद्वैपरीत्यं बहलं कृशाङ्गया जातं परिस्कारगणस्य तत्र । तापापहं वस्तु शरीरदयं यदृश्यते चेति नृपाङ्गनायाः ॥१७॥ त्यक्तं तया धैर्यमनबाणेविभिन्नमा गतसाधुमत्या । For Private and Personal Use Only Page #25 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( २२ ) काव्यमनोहरम्. विभाषयन्त्या वचनं विरुद्धं त्वेवंविधां तां प्रवदन्ति सख्यः ॥ १८ ॥ हे राजकन्ये ! हठतस्तयोच्चैरनादरो यस्तव एष पत्युः । तस्य प्रसादात्सकलोऽनुतापः प्राप्तोऽयमङ्गान्तरवर्त्तमानः ॥ १९ ॥ सख्यो हि युष्माभिरनेकवारं निवेद्य पत्युः प्रणतिं मदीयाम् । उपाय उच्चैर्विविधैर्विधेयो येनायमीड्यो गृहमेति भर्त्ता ॥ २० ॥ पत्या विना मां विरहाकुलाङ्गीं दहन्ति शैत्यान्यपि भूषणानि । कर्पूरकृष्णागुरुचन्दनाद्यान्यनेकधा कोमलपल्लवाश्च ॥ २१ ॥ स्थिरं तदैतत्खलु जीवितं मे यदा प्रियो मद्गृहमेष्यतीदम् । आल्यग्रतः सेति वदत्युदारं यस्मिन्नृतौ कौतुकनित्यपूर्णे ॥ २२ ॥ चः समाकर्ण्य तदीयमित्थमाल्यः प्रयाताः पतिगेहमस्याः । तदाऽभिनेतुं रतिकामुकायाः कन्दर्पसन्तापितमानसायाः ॥ २३ ॥ गदन्ति तास्तद्धवमार्त्तचित्तं हे कान्त ! सा ते रमणी मृगाक्षी । त्वया विना तिष्ठति देहमात्रा व्रजेति तन्मन्दिरमार्त्तिपूरः ॥ २४ ॥ कान्तोऽभिलाषादभिमानमस्यास्त्यत्त्वागतस्तत्सदनं नरेन्द्रः । सोऽयं तदाहूत उदारचेता अत्युत्सुकः सान्विकपूर्णकायः ॥२५॥ तमागतं वल्लभमात्मगेहं प्रेक्ष्याङ्गना सा गमिताऽऽदरेण । आलिङ्गितुं स्वामिनमाशु तुष्टा यस्मिनृतौ वाञ्छितपूर्वकामा ||२६ तौ दम्पती स्वं विरहं महान्तं परस्परं सद्दचसौ ब्रुवाते । फुल्लनीलोत्पलपत्रनेत्रौ मुदान्वितौ मञ्जुलवादिनौ च ॥ २७ ॥ अयोच्यते सन्मृतुरेव सोऽयं वर्षाभिधेयः प्रमदोत्सवाढ्यः । अनेकचिन्ताकुलजातलोको देशान्तरस्थागमनाभिरामः ॥ २८ ॥ व्यग्रा इहौ धनिनः समस्ताः पयोधरासारभयाद्विधातुम् । अनङ्गभीमायुधखिन्नदेहाः प्रगूढगेहं प्रमदामहेच्छाः ॥ २९ ॥ यस्यागमे चातकमण्डलीयं नदत्यनेकैर्विरुतैर्महद्भिः । विलोकयन्ती जलद सुपूर्ण तडिल्लताविस्फुरणाङ्कितं च ॥ ३० ॥ कुर्वन्ति केकां रुचिरां मयूराः श्रुत्वा तदानीं घनगर्जितानि । For Private and Personal Use Only Page #26 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीहेमचन्द्राचार्यग्रन्थावली. नृत्यन्ति चान्येऽतुलपिच्छभारमूर्ध्वं विधायातिकुतूहलेन ॥३१॥ पुरातितप्ता धरणी महोष्णरुलासमासारभरेण याति । यस्मिन्नृतौ बालतृणाङ्करम्या पङ्काकुला गर्जितद१राळ्या ॥३२॥ गुञ्जन्ति लोलभ्रमराः परागं नूनं निषेवन्त इहागतेऽस्मिन् । सुगन्धिनीनां जनतोषदानां सत्केतकीनां विलसदलानाम् ॥३३॥ यस्यागमे वै पथिकाङ्गनौघः पत्यागमं पश्यति सादरेण । अनेकसंवत्सरजातचिन्तस्त्वज्ञातकौशल्यशुभप्रतीतिः ॥ ३४ ॥ तासां तदानीं पथिकाङ्गनानां भाग्योत्कटानां रमणाः प्रयाताः । देशान्तरानेकसुवस्तुपूर्णाः सञ्जातनित्योत्कटलाभसङ्काः ॥३५॥ तासां तु मध्ये वनितापि काचित्रष्टुं प्रवृत्ति रमणस्य याता। नाद्यागतो मे रमणोऽत्र यूयं देशान्तराद् ब्रूत किमर्थमेवम् ॥३६॥ ते पृच्छ्यमानाः प्रवदन्ति नारी प्रियः कुतोऽज्ञातगतिर्गतस्तै । न ज्ञायतेऽस्माभिरिति प्रिया विलज्जितां बाष्पनिरुद्धकण्ठीम् श्रुत्वा तदीयं वचनं विरुद्ध भूमौ लुठत्यद्भुतदुःखपूर्णा । विशीर्णसर्वाभरणा रुदन्ती सा कामिनी धूसरगात्रवलिः ॥३८॥ सुखातिबाहुल्ययुतानि पत्युः स्मरत्यनेकानि वचांसि योषा। उक्तान्यनेकानि तदा विविक्ते सुकोमलान्यादरपूरितानि ॥३९॥ तं तारहारं असमीक्ष्य योषिभृशं तदानीं कुरुते विलापम् । आरोपितो यः प्रणयेन कण्ठे विद्योतमानो मणिरत्नभाभिः ॥४०॥ मुक्तावलीपूरितसर्वखण्डं दुकूलरम्यं मृदुकञ्चुकं तत् । विलोक्य सा रोदिति गाढमेव विभाविहीनं पतितं यदये ॥४१॥ कर्णार्पिते काश्चनचारुपत्रे त्यक्ते तया दुःखितया तदानीम् । रत्नप्रभाभूषितगेहमध्ये विभावरीकल्पितसत्पदीपे ॥ ४२ ॥ पत्या विनेयं कुसुमाभिरामा कथं विभासेत ममाद्य शय्या । कर्पूरचूर्णपचुरेति चित्ते विचार्य दूरं पतिता पृथिक स्ववल्लभेना तिसुखप्रदेन धिग् जीवितं मे विगुणं विनैव । For Private and Personal Use Only Page #27 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (२४) ___ काव्यमनोहरम्. विचारयन्ती विहृदि प्रपन्ना समुत्थिता साऽतिविलम्ब्य धैर्यम्॥४४॥ व्रजाम्यहं तवसति क्षणेन वह्नौ निपत्यामिषवत्सुदीप्ते । पुरः सखीनामुदिता तदानीमित्यं सती सामुदितापि वक्ति ॥४५॥ प्रबोधिता सा वनिता सखीभिस्तावत्तिरस्कृत्य वचोभिरेवम् । अत्रागमिष्यत्यचिरात्पतिस्ते मुञ्चाधुना शकममुं प्रिये! त्वम्॥४६॥ एवंविधे दुःसमयेऽतिभूते समागतः स्वं निलयं गृहेशः । द्वीपान्तरानीतविभूतिपूर्णो महोत्सवैः सत्पुलकाकुलाङ्गः ॥४७॥ योषा प्रवृत्तिं तव नोहि लब्धा दुःखातुरा मुञ्चितभूषणेयम् । गाहं रुदन्तीति च कान्त ! कान्त ! तिरस्कृतास्माभिरियं तदानीम् ॥४८॥ वृत्तं यदेतत्कथितं तदने तच्छ्रयमाणः परिचारिकाभिः।। तूष्णीं स्थितोऽसौ बहुविस्मयेन ब्रीडानतो लोचनपूरिताश्रुः॥४९॥ विबोधिताऽनेन वधुरभीष्टा यदुःसहं संप्रति दुःखमाप्तम् । मुञ्चाधना तत्सकलं मदर्थमिति प्रिया सा गमिता प्रसादम ॥५०॥ व्यग्रा इहत्तौं कृषिकारका वै कृषि विधातुं परमोत्सवाढ्याः । बीजादिकान्संग्रहिणः समन्ताद गोपालकाः क्षेत्रविशुद्धिकाराः।। क्षेत्रं विशुद्ध प्रथमं विधाय वपन्ति बीजानि यथाक्रम ते । सस्यस्य निष्पत्तिं समीक्ष्यमाणा यस्मिनृतौ सस्यफलाप्तिकामाः॥ बीजानि तान्यकरितानि दृष्ट्वा कुर्वन्ति रक्षां महतीं सदा ते । पवादितः सन्ततवीक्ष्यमाणा यस्मिनृतौ स्वान्तमहोत्सवाङ्काः।।५३ सस्यं सगर्भ किल जातमात्रं पक्षादितस्ते विदधत्यनेकाम् । चिन्तां महातोषितमानसास्तु समीक्ष्यमाणाः फलहेतवेऽपि ॥५४॥ एवंविधोक्ता ध्रुवमात्मशक्त्या प्रावृण्मया सा विबुधानुभाजा । मधुव्रतालीविलसत्कदम्बो प्रसूनरुतः सुविभाति यस्याम् ॥५५॥ ऋतुद्येऽस्मिन्कथिते मयैवं श्रीमण्डनो भोगपुस्दन्रः सः। नयत्यभीष्टं समयं सुकीर्तिः सदा यथाकालमृतूपभोगैः ॥५६॥ For Private and Personal Use Only Page #28 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीहेमचन्द्राचार्यग्रन्थावली. (२५) इति श्रीकाव्यमनोहरे महाकाव्ये महेश्वरकृतौ श्रीमण्डनऋतुद्वय वणनो नाम षष्ठः सर्गः ॥ श्रीमन्मण्डनसड्डपस्य रुचिरां वंशप्रशस्तिं परा मुक्त्वा वर्णनमेतदेव विविधं विद्वन्मनस्तोषदम् । रम्ये काव्यमनोहरे विरचिते व्याख्यातसन्नायके तन्नानाविधदानमानविनयपीतिप्रहृष्टः कविः ॥ १ ॥ यदुद्भवाः पुण्यधियो महान्तः कीर्त्यश्चिता जीवदयाकुलाङ्काः । नन्दन्ति जन्याः स तु लोकमध्ये श्रीमालवंशो जयति प्रकामम्॥र गोत्रे स्वर्णगिरीयके समभवज्जावालसत्पत्तने । ___ ह्याभूरित्यभिधानभन्मतिमतां वर्यः प्रधानेश्वरः। श्रीसोमेश्वरभूभुजः प्रतिदिनं यातोन्नतिः ख्यातिते व्यापारे निखिले सुकीर्तिविमले लोकोत्सवालङ्कते ॥३॥ तस्यात्मजस्त्वभयदोऽभवत्र वंशे यानन्दनामनृपतेःसकलप्रधानम् चातुर्यनिर्मलगुणोत्तमकमकीर्तिः सद्याचकौघसततामितदत्तभूतिः।। यो गुर्जरान्नृपवराद्विजयश्रियं वै लेभेऽभ्यमित्र इह धैर्यगुणैःप्रशस्तः। जावालनाम्नि नगरे सबभूव वर्षे श्रीमनिकेतनविभासितदिग्विभागे।। तस्मादभूदम्बडनामधेयः स्वविक्रमैस्तजितवैरिवर्गः।.. योऽरोपयत्स्वर्णगिरौ गरिष्ठे राजन्यवर्ये वरविग्रहेशम् ॥६॥ समजनि कुलप्रदीपः तदङ्गजः सहणपालनामेड्यः । यो मोजदीननृपतेर्लेभे सर्वप्रधानमुख्यत्वम् ॥ ७ ॥ कच्छपतुच्छाहृयजं देशं नद्धं नृपालसैन्यैस्तु । क्रन्दितजनकारुण्यात्स्वव्यापारविमोचयामास ॥ ८॥ एकोत्तरशतताान्पवनाधिपभूभुजे प्रीत्या । स ददौ तेनातिमुदा तस्मै दत्तामरत्तवाः सप्त ॥ ९ ॥ आसीत्ततो वंशधुरं दधानो नैणाभिधानो गुणकीयमानः । श्रीमत्सुरत्राणपरंपराईजलालदीनार्पितसर्वमुद्रः ॥ १० ॥ For Private and Personal Use Only Page #29 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (२६) काव्यमनोहरम्. यात्रां व्यधाद्यो जिनचन्द्रसूरिमुख्यैर्महद्भिर्गुरुभिः समं यः । सिद्धाचले रैवतनामधेये तीर्थेऽथिभिः सन्ततयाच्यमानः ॥११॥ तस्याभत्तनयो दसाजरिति यो नान्ना गरिष्ठः सतां ___नूनं संपति चण्डराउलमहद्राज्ये प्रधानेश्वरः । तद्वच्छ्रीतुगलकसाहिनृपतिर्यस्मै ददौ सादरं ४५ श्रीमन्मेरुतमानदेशममलं त्वाकारयित्वाऽऽत्मनि ॥ १२ तत्सुनुरासीन्महितः सुधर्मा वीकाहयः सर्वदिगन्तकीर्तिः। श्रीवीतरागातुलपादपो दिने दिने निश्चितचित्तवृत्तिः ॥ १३ ॥ शक्तिसाहं निबद्धं तु सप्तभूपैः समन्वितम् ।। पादलक्षाद्रिभोक्तारं मोचयेद्योऽधिकारवान् ॥ १४ ॥ सर्व तदुचितं ज्ञात्वा पातसाहेन रञ्जितः । अतिमानेन सोऽप्यस्य गाजिद्रं प्रत्यरोपयत् ॥ १५ ॥ यश्चित्रकूटे बहलं जनेभ्यो दुर्भिक्षपीडाकुलितेभ्य एव । अदान्मुदा सस्यमनेकवारं ज्ञात्वा परां जीवदयां हि वंशे ॥१६॥ नान्द्रीयदेशेऽभवदार्यवृत्तः श्रीगोपिनाथाखिलराज्यमन्त्री । तत्कुक्षिजः सञ्चितकीर्तिवित्त: श्रीमण्डनाख्यो गुरुदेवभक्तः।।१८ नत्वा गुरुभ्यः प्रथम क्रमेण श्रीशान्तिनाथस्य महीयसो हि । विम्बं प्रतिष्ठापयत्युत्तमा प्रहादनाख्ये पुटभेदनेऽपि ॥ १८ ॥ सङ्घाधिपः सो हि बभूव दत्त्वा सङ्घाय वस्त्रद्रव्यघोटकांश्च । उद्यापनान्युत्तमशीलपूर्णः सुकीर्तिकामः कृतवान्महीयान् ॥१९॥ पुण्यशाला: कृतास्तेन सञ्चामीकरभूषिताः। गुरूणां हि निवासार्थ देवानामपि तादृशम् ॥ २० ॥ श्रीमज्झञ्झणसङ्घपस्य तु ज्यन्येते सुता मण्डपे । श्रीमच्चाहडस-पस्तदनुजः श्रीवाहडाख्यस्ततः । श्रीमद्देहडसङ्घपोतिरुचिरः श्रीपत्रसडाधिप- . स्त्वाल्हाख्यः पृथुसङ्कपश्च महितः श्रीपाहुसङ्गाधिपः ॥२१|| For Private and Personal Use Only Page #30 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीहेमचन्द्राचार्यग्रन्थावली. (२७) श्रीचाहडस्य तनयौ सनयौ सवेषौ चन्द्रश्चकास्त इति चानुजखेमराजः । राजन्मयूखमणिकाञ्चनकुण्डलाढयौ __ कन्दपेचारुतनुसंनिभविग्रहौ च ॥ २२ ॥ रापल्यभिधानके पुरवरे श्रीचाहडः सडपो यात्रां संविदधे तथार्बुदगिरौ तीर्थे व्ययं तादृशम् । सर्वागतसडपालनपरो वंशे प्रयातोन्नतिः वितर्वाजिभिरंशुकैबहुविधैः संपूरयन्तं पृथक् ।। २३ ।। श्रीमद्वाहडसङ्घपस्य तनयौ द्वावुत्तमाभौ भृशम् _ राजेते तु समुद्रसङ्घप इति ख्यात्या विशिष्टो भुवि । श्रीमन्मण्डनसङ्घपस्तदनुजः श्रीमालभूषामणिः दारिद्रयौघतमःप्रचण्डतरणिः सत्सरिचिन्तामणिः ॥२४॥ श्रीबाहडः संविदधे सुतोषाद्यात्रां गिरौ रैवतनामधेये । सङ्घाधिपत्यं प्रथमं विधाय वित्तस्तुरङ्गैर्बहुचारुचेलैः ॥२५॥ श्रीदेहडस्य तनयोऽपि जयत्यभीष्टः श्रीधन्यराज इति विस्तृतनामधेयः । लावण्यमन्मथतनुगुणराजमानः केयूररत्नमणिशोभितपादपद्मः ॥२६॥ श्रीनेमिनाथतनयेऽर्बुदनामधेये (?) यात्रांव्यधान्महितदेहडसङ्कपः सः । अत्यन्तसङ्घपरिपालनधीरचेता____ चातुर्यवर्यपरिपूरितदिग्विभागः ॥ २७ ॥ श्रीकेशिराजनृपति हरिराजसंझं भूपं तथाह्यमरदासमहीपतिं च । योऽमोचयद्धहलशृङ्खलपीडिताङ्गं सर्वोपकारकरणेविलसत्सुकीर्तिः ॥ २८ ॥ सोऽयं वराटलूणारबाहडोत्तमजन्मनाम् । लोकानामुपकारार्थ मोचयद्वन्धनानि वै ॥ २९ ।। For Private and Personal Use Only Page #31 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १९८) काव्यमनोहरम्. श्रीपद्यसङ्घाधिपतिश्चकार यात्रां मनोज्ञां निजदेवभक्त्या । पार्श्वनाथस्य च कामदस्य व्यापारसंप्रीणितपातसाहिः॥३० श्रीमङ्गलाख्ये नगरे सुयात्रा सुतीर्थ आल्हाभिधसङ्घपालः । दानंददानः सततंजनेभ्यो वित्तौघपूर्णः प्रथितः पृथिव्याम्॥३॥ जीरापल्लीमहातीथ मण्डपं तु चकार सः। उत्तोरणं महास्तम्भ वितानांशुकभूषितम् ॥ ३२ ॥ श्रीपाहुसङ्घाधिपतिश्चकार यात्रा स्वकीयैर्गुरुभिः समं सः दानाय तुष्टो जिनभद्रमुख्य रादिपल्यर्बुद नामतीर्थे ॥ ३३ ॥ एवंविधाः षट्तनया महान्तो जयन्ति ते झझणसङ्घपस्य। सम्पन्न वित्ताः सचिवाःसमस्ताः षुन्दालिमस्यार्जितकीर्तिस डगः । एबकुले श्रीजिनवल्लभाख्यो गुरुस्ततः श्रीजिनदत्तसरिः। सुपर्वमूरिस्तदनुक्रमेण बभूव वो बहलैस्तपोभिः ॥ ३५ ॥ बनोऽभवच्छ्रीजिनचन्द्रसूरिः जिनादिसूरिजिनपद्मनामा । बतो गुरुः श्रीजिनलब्धिसरिस्ततोऽभवच्छ्रीजिनराजसरिः॥३६ भयत्यतः श्रीजिनभद्रसूरिः श्रीमालवंशोद्भवदत्तमानः। मम्मीरचारुश्रुतराजमानः तीर्थाटनैः सन्ततपूतमूर्तिः ॥३७॥ क्रमेणैवंविधेनैव गुरवः पट्टभाजिनः। राजन्ते वरभक्त्या मे पूजिता ये तदन्वये ॥ ३८ ॥ संविधानुक्रमराजमाने वंशे गरीयान्किल मण्डनोऽयम् । मुहाजनैनन्दति सार्द्धमेव परोपकारकविचारचेताः ॥ ३९ ॥ बिनप्रसादात्सकलोन्नतिस्ते भूयाद्गभीरस्य च पुण्यसिन्धोः। आचन्द्रतारं भुवि मोदमानः श्रीमान्यशस्वी भव मण्डन ! त्वम्॥४० सेन्यः सेवानुगानामगणितधनदो याचकानां पराणाम् जेता नीतावभिज्ञः सफलितवचनः सत्सभास्तूयमानः । मम्मीदायधैर्यप्रभृतिबहुगुणैः ख्यातितः सर्वदिक्षु __स्मालोके सश्चिरायुर्भवतु गुणनिधिर्मण्ड नो वैवदान्यः॥४१ चातुर्याधिगतो यथोचितकृतिधर्मेककृत्यादरो For Private and Personal Use Only Page #32 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीहेमचन्द्राचार्यग्रन्थावली. (२९) विप्राणामनुपूजको यशसि सुप्रीतिः शुचिर्भाषणः । शक्त्याधिक्यधनार्थिदोऽमलमतिर्मानोन्नतिः सन्ततम् दीर्घायुभव मण्डन ! क्षितितले कीत्र्येकचित्तः सदा ॥४॥ सुश्रीकः श्रुतपारगः सुवचनः सत्यप्रतिज्ञः सदा साहित्यामृतलालसो बहुमतः सङ्गीतशास्त्रादरः। दातृत्वैकनिधिर्गुणैकजलधिश्चातुर्यचर्यावधि स्त्वायुष्मान्भव मण्डनावनितले संस्तूयमानो बुधैः ॥४३॥ हेमाद्रेगिरयो गरुत्मत इमाः पक्षालयो भास्वद स्तेजांस्यादिकिररय सूकरगणा वृक्षाः सुरद्रोरिव । श्रीमन्मण्डन ! निम्नगा जलनिधेचिन्तामणेः परतरा ___ यस्यायान्ति गुणैर्नृपा ननु तुलां स त्वं चिरायुभव ॥४॥ दानेनार्थिजनाः कृता नृपतिवत्प्रौढ्या कृता दीनवत् ज्ञातृत्वेन विवादिनः प्रतिदिन येन क्षणानिर्जिताः । ऐश्वर्येण जिताः समस्तधनिनो व्यापारसन्मण्डिनो ___ जीयान्मण्डनसङ्खपः स तु मुदा दारिद्रयदुःखापहः॥४५॥ सोऽयं नन्दतु मण्डनः क्षितितले देवाः स्वहस्तार्चिता येनोखूपसुगन्धचन्दनमहत्पुष्पोपहाराक्षतैः । साकं पुत्रकलत्रसेवकजनस्तादृहद्भिर्मुदा दुर्गे मण्डपनामधेयरुचिरे सौधप्रभादीपिते ॥ ४६ ॥ एवंविधं काव्यमनोहरं वै महेश्वरेणात्ममतिप्रभावात् । अकारि यत्नेन महीयसेदं श्रीमण्डनेन्द्राय विदेऽभिधातुम् ॥४॥ इतिश्री काव्यमनोहरे महाकाव्ये महेश्वरकृतौ श्रीमण्डनवंशवर्णो नाम सप्तमः सर्गः॥ संवत १५०४ वर्षे मार्गशिर्षकृष्णपक्षषष्ठयां रवौ दिने लिखि विनायकदासकायस्थेन ॥ For Private and Personal Use Only Page #33 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्रीहेमचन्द्राचार्यग्रन्थावली. www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॐ अर्हम् मण्डनग्रन्थाङ्कः मण्डकादम्बरीदर्पणम् ॥ महस्तन्मङ्गलं नित्यं भूयसे श्रेयसेऽस्तु वः । कामं पुष्णाति यत्पुंसां कामवर्जितमप्यहो ! ॥ १ ॥ वंश: सोनगिरो नाम वर्द्धते वसुधातले । श्रीमाल इति विख्यातः श्रूयते यः शुभावहः ॥ २ ॥ प्रसन्नमधुरोदारप्रकृतिर्व्या[व्या ] सभूतलः । महतां मन्त्रिरत्नानामाकरो यः प्रशस्यते ॥ ३ ॥ नत्रासीच्झणो नाम विशुर्विश्रुतवैभवः । जाते यस्मिन्जगत्सर्वं महन्मङ्गलमन्वभूत् ॥ ४ ॥ चाडप्रमुखास्तस्य शाश्वतौदार्यशालिनः । पडभूवन्सुता मूर्त्ताः षड्गुणा इव मन्त्रिणः ॥ ५ ॥ चाहडस्यानुजस्तेषु बाहडो मन्त्रिपुङ्गवः । वसन्त इव कालेषु माननीयोऽभवद्गुणैः ॥ ६ ॥ मान एव धनं बन्धुरतिथिर्दानमा [म]र्जनम् । तस्य धर्मवृत्तस्य बभूवुर्विश्रुता भुवि ॥ ७ ॥ तस्याभूत्तनयो नाम्ना मण्डनो विश्वमण्डनः । शोभते यः शुभोदारः स्वयंवरपतिः श्रियः ॥ ८ ॥ महालक्ष्मीसरस्वत्योर्बद्धसापत्न्यवैरयोः । For Private and Personal Use Only Page #34 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ (२) वर्द्धते महती स्पर्धा मन्दिरे यस्य बन्धुरं ॥ ९ ॥ तरुच्छायेव तप्तस्य तृषितस्येव दीर्घिका । निर्द्धनस्येव च निधिर्जगतो योऽद्य जायते ॥ १० ॥ सर्वज्ञचूडामणिना सर्वपापापहारिणा । सदानन्दकृता येन द्विचन्द्रं दृश्यते जगत् ॥ ११ ॥ कृतिनो रूढसत्त्वस्य कृष्णस्येवाच्युतात्मनः । भ्राता समधरो यस्य बलभद्र इवाभवत् ॥ १२ ॥ महीतलमहेन्द्रस्य मालवानामधीशितुः । स मन्त्री समभूत्याज्ञो वाचांपतिरिवोज्ज्वलः ॥ १३ ॥ न भ्रातृषु न मित्रेषु न ज्ञातिषु न बन्धुषु । भवत्युर्वीपतेरस्य तस्मिन्यत्प्रेमशाश्वतम् ॥ १४ ॥ स कदाचिन्नृपः सायं समये शर्वरीमुखे । विद्यानिधिममुं प्राह विद्वद्गोष्ठीमधिष्ठितः ॥ १५ ॥ कादम्बरीकथाबद्धकौतुकं हृदयं मम । कदापि कालो न श्रोतुं निविष्टस्य नृरक्षणे ॥ १६ ।। तदिदानीं त्वया सम्यक् सा संक्षेपेण कथ्यताम् । मतिवैभवनिस्तीर्णवाङ्मयेन ममाग्रतः ॥ १७ ॥ इत्येवमर्थितो राज्ञा माज्ञेषु प्रथमेन सः। बद्धाञ्जलिरिदं प्राह मण्डनो मन्त्रिशेखरः ॥ १८ ॥ कादम्बरीकथा स्वामिन् ! महती च महाभूता। सा संक्षिप्यैव कथिता बाणेनापि महाधिया ॥ १९ ॥ देवी कादम्बरी दिव्या चन्द्रापीडः सचन्द्रमः । तयो वावधिः शङ्के गौरवेषु गुणेषु च ॥ २० ॥ तथापि शासनाद्देव ! तव संक्षिप्य तां कथाम् । वक्ष्ये वाचां न गण मर्पणीयं महाजनैः ॥ २१ ॥ बाणस्य वर्मना गन्तुर्मम मास्त्वपराधिता। For Private and Personal Use Only Page #35 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (३) मतङ्गजमतं वर्म मशकैः किं नु वय॑ते ? ॥ २२ ॥ श्रीमानभूदुज्जयिन्यां तारापीडाभिधो नृपः। आमेरुलङ्कमखिलामवनीमन्वभुङ्ग यः ॥ २३ ॥ कूले कूले पयोधीनां कुञ्ज कुळे च भूभृताम् । गीयते यस्य गीर्वाणगणैर्गुणवतो यशः ॥२४॥ यस्य यात्रासु धरणी रमणीव रजस्वला । अभ्यषेचि द्विषामौरसूत च सुतां श्रियम् ॥ २५॥ पीताम्भसि वियत्सिन्धौ यस्य यात्रासु पांसुभिः । तत्र स्वर्णसरोजानि दधुः स्थलसरोजताम् ॥ २६ ॥ मुक्तकोशे मुहुर्यस्य कृपाणे कृतिनो रणे । मुक्तकोशाः स्वयं चापि बभूवुरतिभूभुजः ॥ २७ ॥ ततो विलासवत्याख्या तस्य सर्वगुणोत्तरा । बभूव महिषी पत्युः पशूनामिव पार्वती ॥ २८ ॥ सर्वसौभाग्यसरणिः सौन्दर्यामृतचन्द्रिका । रराज सा रतिपतेः शक्तिमूर्तेव मोहिनी ॥ २९ ॥ समानगुणशालिन्या सदृशोदाररूपया । तया चकाशे भूपालः पौर्णमास्येव चन्द्रमाः ॥ ३० ॥ शुनासीरनिभस्यास्य शुकनास इति श्रुतः । वाचांपतिरिवान्योऽभून्मन्त्री मन्त्रविदां वरः ॥ ३१ ॥ पाणेभ्योऽपि प्रियतमं प्रतिरूपमिवात्मनः भूमेरशिभोक्तारं वितेने तं विशांपतिः ॥ ३२ ॥ वशिष्ठादलघिष्ठस्य तस्य रुन्धत्यरुन्धतीम् । मनोरमेति नाम्नासीन्मन्त्रिणो वामलोचना ॥ ३३ ॥ विभुस्तस्मिन्स विन्यस्तविश्वभारो विचक्षणे । शेषन्यस्तधुरः सोरेरन्वहं सुखमन्वभूत् ॥ ३४ ॥ स पात्रं सर्वसौख्यानां भवन्नपि च पार्थिवः। For Private and Personal Use Only Page #36 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सुखं न लेभे सुचिरं सुतजन्मसमुद्भवम् ॥ ३५ ॥ नृपः कदाचिन्निविण्णो निरपत्यतयात्मनः । बभूव चिन्ताविवशः सह देव्या च मन्त्रिणा ॥ ३६ ।। किर्चिता न कृतिनः किं सत्कर्म कृतं नवा । कि न पात्रे कृतं दानं किं मे वन्ध्यत्वकारणम् १ ॥३७॥ पुत्रस्त्रायत इत्येव पुन्नाम्नो नरकात्पितॄन् । स न चेदस्मि गर्योऽहमुभयोरपि लोकयोः ॥ ३८ ॥ किमैश्वर्येण किं दारैः किं राज्येन किमायुषा ? | कुलधर्वाहकः कोपि न चेल्लभ्येत नन्दनः ॥ ३९ ॥ अपुत्रिणः परार्थोऽयमाधिपत्यपरिग्रहः । मन्ये वर्षधरस्येव सत्कलत्रोपसङ्ग्रहः ॥ ४० ॥ विभुत्वं पुत्रहीनस्य विधवाकण्ठभूषणम् । भस्मन्येव हुतं भाग्यं सम्पत्काननचन्द्रिका ॥४१॥ पुत्रात्मनि पुमर्थेऽस्मिन्पौरुषाणामगोचरे । विना मम गतिर्नान्या भवं भक्तातिभञ्जनम् ॥ ४२ ॥ निश्चिन्त्यैवं नृपः पन्या सचिवेन च संयुतः । तपश्चरितुमारेभे महेशन्यस्तमानसः । ॥४३॥ ततः कदापि सर्वाँ स्वप्ने स्वं विशदाननम् अपश्यदैन्दवं विम्बमवनीपालवल्लभा ॥४४॥ कयापि करयोर्दत्तं पुण्डरीकं प्रहष्टया । ददर्श इयिता चापि शुकनासस्य शोभनम् ॥ ४५ ॥ ततः सा नृपतेः पत्नी तपसां महतां फलम् । वभार गर्भ चन्द्रस्य बिम्ब वीचिरिवाम्बुधेः ॥ ४६॥ आनन्दनमशेषाणामगाभरणमद्भुतम् । दिने दिने"......"यं दधौ दौर्हदलक्षणम् ॥ ४७ ॥ रुरुचे रोमलतिका तस्या मध्ये तनीयसी । For Private and Personal Use Only Page #37 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (५) शशिनः सत्त्वभूतस्य निशेव निकटस्थिता ॥ ४८ ॥ विधोर्गर्भस्य तस्यांशुभरिताविव पाण्डुरौ । स्तनौ नीलमुखौ तस्यास्तदकेनेव मुद्रितौ ।। ४९ ॥ अलसस्निग्धताराक्षमानीलस्तनचूचुकम् । आलक्ष्यमध्यमवहद्वपुः पत्नी च मन्त्रिणः ॥ ५० ॥ ततोऽभिजाते दिवसे सुलग्ने शुभशालिनि । अमृत चन्द्रमैन्द्रीव दिशा देवी विभोः सुतम् ॥ ५१ ।। तस्मिन्नेव दिने सा च मन्त्रिपत्नी मनोरमा । मणि महाधिवेलेव सुषुवे सुतमुज्ज्वलम् ।। ५२ ॥ जगदानन्दजलधौ निमग्नमिव निर्भरम् । तत्सन्तानोदयादासीत्समस्तमुदितोत्सवम् ।। ५३ ॥ ऋणेन मुक्तो रुरुचे पितॄणां पृथिवीपतिः । परिवेषपरित्यक्तः पद्मिनीनामिवेश्वरः ॥ ५४ चन्द्रोपमं नृपः पुत्रं चन्द्रापीडामिधं व्यधात । मन्त्री च वंशोचितया वैशम्पायनमाख्यया ॥ ५५॥ चन्द्रापीडानुगं चक्रे शुकनासः स्वमात्मजम् । पुष्पवद्भयामिवाकाशं ताभ्यां राजकुलं बभौ ॥ ५६ ॥ विधाय विद्याभवनं विभुस्तस्य पुराद्धहिः । अशिक्षयदमुं तत्र गुरुभिर्गुरुवत्सलम् ॥ ५७ ।। शस्त्रेष्वस्त्रेषु वाहेषु शास्त्रेष्वपि सुशिक्षितः । स यथा समभूत्तस्य सखापि च तथाऽभवत् ।। ५८ ।। तत इन्द्रायुधं नाम पिता प्रजविन हयम् । तत्रैव प्राहिणोदस्मै समुद्रात्कञ्चिदुद्गतम् ॥ ५९ ॥ विहङ्गानामिव पतिं तुरङ्गाकारधारिणम् । उच्चैःश्रवसमुद्रीक्ष्य हसन्तमिव हेषया ॥६० ॥ युग्मम् ।। For Private and Personal Use Only Page #38 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ६ ) तमश्ववर्यमाश्वर्यवपुषं वायुरंहसम् । समीक्ष्य चन्द्रापीडो अहो ! न भविता सोऽयमश्वजातिसमुद्भवः । देवो यः कश्विदेव स्याच्छापात्तुरगतां गतः ।। ६२ ॥ सविस्मयमचिन्तयत् ॥ ६१ ॥ अमुमत्यद्भुताकारमदत्वा नूनमम्बुधिः । उचैःश्रवसमुत्पाद्य वृत्रारार्ति व्यलोभयत् ॥ ६३ ॥ इत्येवं चिन्तयन्नत्वा तमारुह्य तरस्विनम् । पितुः पार्श्व ययुः पाकहतेव पतिमभ्रमोः ॥ ६४ ॥ अवलोक्य ततः पुत्रमासेचनकदर्शनम् । जैवातृकमिवाम्भोधिजहर्ष जगतीपतिः ॥ ६५ ॥ ततः स सत्त्वजनुषा वयसा भूषितोऽभवत् । भुजाभ्यां भूरि साराभ्यां भूमेरुद्रहनक्षमः ॥ ६६ ॥ ततः स शुकनासेन संमन्त्र्य सह मन्त्रिणा । अकरोदस्य विधिवयौवराज्येऽभिषेचनम् ॥ ६७ ॥ बन्दीकृतां विजित्याजौ कुलूतेन्द्रकुमारिकाम् । पत्रलेखां नृपः प्रादात्तस्मै ताम्बूलदायिनीम् ॥ ६८ ॥ स पत्रलेखा पार्श्वे सञ्चरन्त्या निरन्तरम् । रराज राजतनयो राजलक्ष्म्येव मूर्त्तया ॥ ६९ ॥ अथापरेद्युर्हरितां विजयाय नृपात्मजः । वरूथिनीरजः पीतवारिराशिः स निर्ययौ ॥ ७० ॥ तस्मिन्निर्गच्छति तदा बलेन महतान्वितै । चचाल सकला चोर्वी चलाचलकुलाचला ॥ ७१ ॥ शुकनाससुतोऽप्यस्य मुहूर्तविरहाक्षमः । अन्वगादवनीपालपुत्रं तं पत्रलेखया ॥ ७२ ॥ कमप्युन्मूलयन्नन्यं कमपि प्रतिरोपयन् । कस्मादपि हरन्नर्थ कारासु कमपि क्षिपन् ॥ ७३ ॥ For Private and Personal Use Only Page #39 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (७) ऐन्द्री पूर्वमथागस्त्यभूषणीं वारुणी ततः । अनन्तरमुदिची च स जगाम शनैर्दिशः ॥ ७४ ॥ चतुर्भिरङ्गैर्हरितश्च चतस्रोऽपि विजित्य सः । चतुराननवयेन चतुरो यशसाऽभवत् ॥ ७५ ।। चतुर्भिर्वत्सरैः सर्वा स विजित्यैवमुर्वरीम् । वास हैमजडं भेजे शूरः स्वर्णपुराभिधम् ॥ ७६ ॥ तत्र जित्वा रियून्सर्वान्सुचिराध्वश्रमादितम् । बलं विश्रामयामास कश्चित्कालमुदारधीः ॥ ७७ ॥ तत. कदाचिन्मृगयां तत्राद्रेस्तटकानने । आतन्वानोऽयमद्राक्षीदद्भुतं किन्नरद्वयम् ॥ ७८ ॥ वपुषा मनुषाकारं मुखेन तुरगाति । तद्दष्टवा हृदयं तस्य बभूवोदितविस्मयम् ॥ ७९ ॥ तद्ग्रहीतुमनास्तावत्कुमारः कुतुकावेहम् । विमुक्तकुशयेवाश्चवेगादूरमधावयत् ।। ८० ॥ तथा स तरसा वाजी ययावुर्घोल्लसत्सटः । यथा न याति पुरतो मनश्चास्य महोद्यमम् ।। ८१ ॥ महत्या वाञ्छयाविष्टो वाजिना वायुरंहसा । अत्यवाहयदानीतः पन्थानं पञ्चयोजनम् ॥ ८२ ॥ इदं गृहीतमित्येव तस्यानुद्रवतः पुरः । अद्रेः शिखरमत्युच्चमश्वोऽगम्यमवाप तत् ॥ ८३॥ स विकृष्य कुशां तावद्वारयन्सत्वरं हयम् । करेणास्फालयन्कण्ठे विहस्यैवमचिन्तयत् ॥ ८४ ॥ अकस्मादागतमियमहो मदविवेकिता। महद्रमिदं वर्त्म वनं मानुषवजितम् ॥ ८५ ॥ किमस्मिन्कृतवानस्मि कौतुकं किन्नरद्वये । गृहीतेनागृहीतेन किं वानेन प्रयोजनम् ॥ ८६ ॥ For Private and Personal Use Only Page #40 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (८) क्वाहं क्व नु बलं क्वाध्या क्व गन्तव्यमितः परम् । शिबिरं प्रति यास्यामि वर्मना केन वा पुनः १ ॥ ८७ ॥ गृहीत्वा यदि गमिष्यामि वर्त्म वाजिखुराङ्कितम् । तन्न दृश्यते पाषाणैः पर्णैरपि परिस्तृतम् ॥ ८८॥ विधिनाश्चमुखव्याजात्सत्यं नीतोऽस्मि सम्पति । भवन्ति भाजनान्येवमापदामविवेकिनः ॥ ८९ ॥ तुरगस्तृषितः सोऽयमहमप्यधिकश्रमः पूषा ललाटं तपति पूर्वभागोज्झितं दिनम् ॥ ९० ॥ इति संचिन्तयन्नेव सलिलान्वेषतत्परः। शनैः सञ्चारयत्नश्वं चचार परितः श्रमी ॥९१ ॥ चरन्नितस्ततस्तत्र बने खिन्नः पदे पदे । कालेन महता कश्चित्पन्थानं पर्यलोकयत् ॥ ९२ ॥ विकीर्ण मिश्रशैवालणालैरर्द्धखण्डितैः । पङ्किलस्थलमार्दाभिः करिणां पदपतिभिः ॥ ९३ ॥ पथानन पर हृष्यन्नतीत्य स्तोकमन्तरम् । अपश्यदमलोदारवारिपूरं महत्सरः ॥ ९४ ॥ समुद्रस्येव हृदयं मानसस्येव मातृकाम् । सरितां जारमिव तत्सवितारमिवाम्भसाम् ॥ ९५ ॥ रविरथ्यतुरङ्गाणां खुरकुद्दालकुटनैः । अधस्त्रुटितमाकाशखण्डमेकमिव च्युतम् ॥ ९६ ॥ अम्भोभिररविन्दानां मकरन्दसुगन्धिभिः । अम्बुमानुषयोषाणामधिवासितकुन्तलम् ।। ९७ ॥ सञ्चरत्याः सदा नैजसरोजविपिने श्रियः । दधन्नूपुरनिःस्वानधियं कारण्डनिःस्वनैः । ॥ ९८ ॥ अपतस्वच्छसलिलमन्तराकीर्णशैवलम। विधोबिम्बमिवाकाशाच्च्युतं सुस्पष्टलाञ्छनम् ॥ ९९ ॥ For Private and Personal Use Only Page #41 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (९) कर्णानुकूलशकुनिकलकोलाहलाकुलम् । कौरवाणामिव स्थानं सञ्चरद्धार्तराष्ट्रकम् ॥ १० ॥ स्वच्छां वरपरिष्कारपयोधरभरश्रियाम् । आतन्वदाशासु दृशामादर्शश्रियमद्भुताम् ॥ १०१ ।। तमालतालहिन्तालकृतमालाभिद्रुमैः । विविधैर्बहुभिः पूर्णवेलावनिविराजितम् ।। १०२ ॥ प्रत्युद्वजदिवाम्भोजबन्धुभिः वीचिमारुतैः । सर्वेन्द्रियानन्दकरं स ननन्दाभिवीक्ष्य तत् ॥ १०३ ॥ ततोऽवतीर्य तुरगाद्विपर्याणं विधाय तम् । भूमौ विलुठितं कृत्वा व्यगाहयदमुं जलम् ॥ १०४॥ परितः परिमृश्याङ्गं पाणिभ्यामात्मनो विभुः । अश्वमारचितस्नानमपाययत पुष्करम् ॥ १०५॥ तत उत्तीर्य सलिलान्मृणालानि विखण्डय च । तमालच्छायमाश्रित्य विशश्राम विभुः क्षणम् ॥ १०६ ॥ अथाकर्णितमश्वेन शश्वदुत्कर्णशालिना । स कण्ठतन्त्रीस्वरयोरशृणौदैक्यमद्भुतम् ॥ १०७ ॥ तदुद्भवं ततो ज्ञातुं व्रजन्नारुह्य वाहनम् । ददर्शास्योत्तरे तीरे शूलिनः शून्यमालयम् ॥ १०८ ॥ बद्ध्वा क्वापि बहिर्वाहं बद्धविस्मयमानसः । प्रविश्य दृष्ट्वा प्राणसीत्तत्र शम्भु चतुर्मुखम् ॥ १०९ ॥ देवस्य दक्षिणे भागे ददृशे कापि तस्थुषी । गायन्ती कौमुदी गौरा तरुण्यपि तपस्विनी ॥ ११ ॥ शवगर्भादिवोद्भूता चन्द्रबिम्बादिवोदिता । श्वेतद्वीपादिवानीता श्वेतिम्नामिव देवता ॥ १११ ॥ सर्वानवद्यहृयाङ्गी तरुणी च तपस्विनीम् । विसिमिये विलोक्याथ चिन्तामन्तरघत्त च ॥११२।। For Private and Personal Use Only Page #42 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वपुर्महाद्भुतमिदं वयो मदनवर्द्धनम् । किं वा कारणमेतस्यास्तपश्चरणसाहसे ॥ ११३ ॥ अनुरूपमदृष्ट्वैकमथवा वरमात्मनः तपश्चरति तं लब्धं शङ्के चन्दार्द्धशेखरात् ॥११४॥ विचिन्त्यैवं विधिबलं निन्दन्नेव नृपात्मजः । गीतान्ते किमपि प्रष्टकामः क्षणमुपाविशत ॥११५॥ ततः सा नियमान्ते तं स्निह्यन्ती स्निग्धया दृशा। स्वागतादिवचःपूर्वमनयन्निजमाश्रमम् ॥ ११६ ॥ तत्र सा फलमूलाद्यैस्तस्यातिथ्यं यथाविधि । कृत्वा तेन कृतानुज्ञा तच्छेषं समभुङ्ग च ॥ ११७ ॥ कुतोऽसि क्व नु गन्तासि कुत्रत्योऽसि च कोऽसि च । वद भद्रेति पृच्छन्त्यै सर्व तस्यै ततोऽब्रवीत् ॥११८॥ श्रुत्वा शुभनिधेरस्य कुलं नाम च वैभवम् । दृष्ट्वा रूपं च शीलं च दधौ मनसि विस्मयम् ॥११९।। ततो निगदितात्मीयवृत्तान्तो नृपनन्दनः । तस्याः पप्रच्छ बालायाः तपश्चरणकारणम् ॥ १२० ॥ सा तेन पृष्टा वज्रेण ताडितेवाश्रुलोचना । दीर्घमुष्णं च निःश्वस्य दधौ कामपि दुईशाम् ॥१२१॥ किं मया कृतमित्यन्तःखिन्नेनाश्वासितामुना। वक्तुमारभतात्मीयं वृत्तमाजन्मसम्भवम् ॥ १२२ ॥ भद्र ? पापीयसी साहं वक्ष्ये किंवात्र मङ्गलम् । तथापि तव वाञ्छां चेत्को दोषः शृणु कथ्यते ॥१२३।। अस्ति राजा चित्ररथो मित्रभूतो बिडौजसः राजा गन्धर्वलोकस्य सर्वस्यापि धुरन्धरः ॥ १२४ ॥ चक्रे चैत्ररयं नाम नन्दनादपि नन्दनम् । कैलासमेखलायां यः कमप्याराममद्भुतम् ॥ १२५ ॥ For Private and Personal Use Only Page #43 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (११) हेमकूटतटे कृत्वा हेमकुटाभिधं पुरम् । देवो यस्मै ददाविन्द्रः स्वयं स्वर्गमिवापरम् ।। १२६ ।। दृष्ट्वा दिवस्पतेः सख्युर्मानसाख्यं महासरः । वितेने तत्पतिद्वन्द्वि येनाच्छोदमिदं सरः॥ १२७ ।। तस्य हंस इति ख्यातो भ्राता भ्राजिष्णुविक्रमः। यौवराज्याधिपत्यस्थो ज्ञायते ज्ञातिवंशजः ॥ १२८ ।। तस्य हंसस्य गौरीति चन्द्रपादसमुद्भवा । बभूव महिषी मान्या शचीव शतयज्वनः ॥ १२९ ॥ तस्याहमभवं कन्या गौर्यामर्यमतेजसः । महता श्वेतवर्णेन महाश्वेतेति नाम मे ॥ १३० ॥ पितृभ्यां पुत्रहीनाभ्यां पुत्र इत्येव मानिता । अभूवमथ कालेन शनैरुन्मुक्तशैशवा ॥ १३१ ॥ ततः प्रादुरभूत्कालो मधुर्वनविभूषणम् । कूलंकषी कृतानङ्गकोलाहलकुतूहलः ॥ १३२ ॥ उद्भिन्नस्तबकोदारस्तनीनामुज्ज्वलश्रियाम् । लतानामासललितः प्रथमावविभ्रमः ॥ १३३ ॥ अकारि नूनमानङ्गमध्यापयितुमागमम् । झङ्कारछद्मना भृङ्गरोंकारध्वनिरुच्चकैः ॥ १३४ ॥ मनोभवमहाराजमणिकाहलपूर्वहः । पञ्चमः परपुष्टानां कञ्चकारणकार्मुकम् ? ॥ १३५ ॥ अविकुर्वदनङ्गेन वस्तुनासीन्महीतले। . दधुर्येन दिने तत्र तरवोऽपि गुणान्तरम् ।। १३६ ।। सपल्लवैः सप्रसवैः सामोदैः सालिकोकिलैः । सहकारैः कृतानङ्गसहकारैर्बभूविरे ॥ १३७ ॥ क्वचिन्मुखरकोकिलं वचनमाद्यदिन्दिरम् । क्वचित्सुरभिमारुतं क्वचनपुष्पितानोकहम् ॥१३८॥ For Private and Personal Use Only Page #44 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१२) मनोहरमितस्ततो विहरमाणरागिव्रजम् । वनं तदिदमन्वहं मदयति स्म यूनां मनः ॥१३९ ।। इतिश्रीमण्डनकादम्बरीदर्पणे प्रथमः परिच्छेदः समये तत्र संवृद्धसकलोद्यानसम्पदि । सह मात्रा सरः स्नातुमच्छोदमिदमागमम् ॥ १ ॥ मातयत्राम्भसि स्नान्त्यां माधवारम्भमण्डितम् । च्यचरं वीक्षमाणाहं वनमेतन्मनोहरम् ॥ २॥ अथाघ्राय नवं कश्चिदामोदमनिलाहृतम् । ततः शतपदीमात्रं समगच्छं तदुत्सुका ॥३॥ सश्चरन्त्या मया तत्र पञ्चेषुरिव मूर्तिमान् । अलक्षि कश्चिदाश्चर्यविग्रहो मुनिनन्दनः ॥ ४ ॥ सख्युः सवयसो हस्तं समालम्ब्य सविभ्रमम् । वर्तमानो मधुरिव माधवेन बनान्तरे ॥ ५॥ चीतकामोचितेनैव वेषेण व्रतशालिना। कूलंकषभुजोन्मेषं कुर्वाणः कुसुमायुधम् ॥ ६ ॥ मुनिवेषधरो मूर्त्या विलास इव विग्रही । अनुतिष्ठनिवानङ्गब्रह्मचर्यात्मकं व्रतम् ॥ ७ ॥ व्याकुर्वनिव वेषेण व्रतिना रूपहारिणा । अदृष्टपूर्वमद्वैतमर्थयोः काममोक्षयोः ॥ ८ ॥ मदनस्येव मदनो विभ्रमस्येव विभ्रमः । सौन्दर्यस्येव सौन्दर्य यौवनस्येव यौवनम् ॥ ९ ॥ कयापि सौरभाकृष्टकाननान्तरभृङ्गया । कान्तया वनमञ्जर्या कलितोतंसभूषणः ॥ १० ॥ ततस्तमीक्ष्यमाणायाः कौतुकान्मुनिनन्दनम् । मम प्राप्तावकाशोऽभून्मानसे मकरध्वजः ॥ ११ ॥ स च चान्द्रीमिव कलां दृष्ट्वा दिष्ट्याथ मां युवा । For Private and Personal Use Only Page #45 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१३) विमुक्तनिजमर्यादो बभूवाब्धिरिवाकुलः ॥ १२ ॥ स व्याप सव्यनिर्मुक्तैस्तावत्संमोहनैः शरैः । समयजस्तदानङ्गः समं लक्षीचकार नौ ॥ १३ ॥ अन्योऽन्यमोहनास्त्राभ्यामावाभ्यामावयोर्मनः । सहसा मोहयामास संत्यक्तस्वायुधः स्मरः ॥ १४ ॥ ततोऽहमेत्य तौ नत्या तन्मित्रमिदमब्रुवम् । क एष कस्य तनयः कस्येयं कलिकेति च ? ॥ १५ ॥ स चाह श्रूयतां बाले ! यदि शुश्रूषसे स्फुटम् । श्रीमान्मुनिः श्वेतकेतुः श्रूयते स्वविभूषणम् ॥ १६ ॥ तमभ्रसरसि स्नान्तं दृष्टवा तत्राब्जवर्तिनी । असूत श्रीरमुं पुत्रं तत्सौन्दोदितस्मरा ॥ १७ ।। पुण्डरीकाभिधः सोऽयं पुण्डरीके यतोऽभवत् । कपिञ्जलोऽस्य कौमारादारभ्य सुहृदस्म्यहम् ।। १८ ।। इदानीमिन्द्रसदनादेष नन्तुमुपागतः । कैलासमौलिकलितकल्याणायतनं महः ॥ १९ ॥ दृष्ट्वैनं दिविषत्पूज्यं देवी नन्दनदेवता। कर्णे कल्पद्रुकलिकामकरोदस्य सादरम् ॥ २० ॥ तस्मिन्नेवं वदत्येव सस्मितं स युवाऽब्रवीत् । यदि कौतुकमेतस्यां तब दास्यामि गृह्यताम् ॥ २१ ॥ इत्युक्त्वा स्वयमभ्येत्य स्त्रकर्णात्स्वेदशालिना । निदधे निजहस्तेन मम श्रवसि मञ्जरीम् ॥ २२ ॥ न विवेद तदा पाणिच्युतां स्कटिकमालिकाम् । अनयं हारपदवीमहमादाय तां द्रुतम् ॥ २३ ॥ तावत्समेत्य सहसा मातुर्मामाह चेटिका । स्नाता देवी त्वमायाहि स्नानार्थ भर्तृदारिके ! ॥ २४ ॥ इत्याकर्ण्य वचस्तस्या मातुर्वशविलीनया । For Private and Personal Use Only Page #46 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१४) मया गन्तमपक्रान्तं तत्र संस्थाप्य मानसम॥ २५ ॥ मनसा शून्यमिव च वर्तमानं पदे पदे । ततस्तं कुपितः प्राह कामलोलं कपिञ्जलः ॥ २६ ॥ क्व विरक्तिः क्व विषयः क्व समाधिः क्व लोकता । क्व प्रबोधः क्व वा मोहः क्व तपः क्व नु वा रतिः॥२७॥ किमेवं क्षणमात्रेण जायसे विषयैर्जितः । त्वमप्येवं यदि सखे ! किं तपोभिः किमागमैः ॥ २८ ।। कथं करतलभ्रष्टां कण्ठे च कलितां त्वया । अक्षमालामजानानो वर्तसे स्मरमोहितः ॥ २९॥ इति श्रुत्वा विलक्षो मां मन्वीथा मैवमाः सखे !। अथवा नैव सोढाऽहमक्षमालाहरामिमाम् ॥ ३०॥ इति कुप्यन्निव प्राह स च मां तरले ! त्वया । अदत्त्वा नैव गन्तव्यं ममाक्षलतिकामिमाम् ॥ ३१ ॥ निशम्य तन्निवृत्याहं चक्षुनिक्षिप्य तन्मुखे । समुत्कृष्याक्षमालेति हारमेव ममार्पयम् ।। ३२ ॥ स च मन्मुखविन्यस्तनिजनेत्राञ्चलो युवा । मम मुक्तावलीमेव मेने स्वामक्षमालिकाम् ॥ ३३ ॥ हाराक्षलतयोरासीत् परिदृत्तिर्यथावयोः । तस्मिन्नवसरे जाता तथैव मनसोरपि ॥ ३४ ॥ ततोऽहं सविधं प्राप्य मातुः स्नात्वा सरोवरे । तेन चोरितचित्तैव तया सदनमभ्यगाम् ॥ ३५ ॥ सखीः सर्वा बहिष्कृत्य तत्र तल्पकसाक्षिणी । अनङ्गदुर्विलासानामभवं पात्रमादिमम् ॥ ३६ ॥ मुषितेव प्रसुप्तेव मूच्छितेव मृतेव च । अवाच्यामचिकित्स्यां च तादृशीमगमं दशाम् ॥ ३७॥ ततस्तरलिकां दृष्ट्वा सखीं तत्र विलम्बिताम् । For Private and Personal Use Only Page #47 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१५) तत्करे स इमां मह्यं विलिख्या- वितीर्णवान् ॥ ३८ ॥ हारापदेशतो मम हरहर ! निक्षिप्य वागुरां कण्ठे । अयि सुमुखि ! मन्मथ स्वयमपहर्त प्राणहरणमुद्युते॥३९॥ इति शश्वदिमामार्यो पठन्त्या मे पदे पदे । मनो बभूव महता शोकेन चुलुकीकृतम् ॥ ४० ॥ क्षणं तल्पे क्षणं सौधे क्षणमुद्यानवीथिषु । न मे कामाद्यमानायाः बभूव क्वापि विश्रमः ॥४१॥ न हारो न तुषाराम्बु न मृणालं न चन्दनम् । बभूवुविरहार्तायाः सन्तापशमनानि मे ॥ ४२ ॥ चिन्तातूलिकयां चित्तफलकान्तर्विलिख्य तम् । अवेक्षमाणा व्यनयमहःशेषं तमातुरा ॥ १३ ॥ ततस्तरलिकासायं तस्य मित्रं कपिञ्जलः । समेत्य सदनद्वारि वसतीति ममाब्रवीत् ॥ ४४ ॥ समाहूतो मया तावत्समानोत्कण्ठया मिथः । सख्युः प्रारभताख्यातुं सर्वपृष्टः स चेष्टितम् ॥४५॥ त्वयि यान्त्यां तदा तत्र चरन्तं तमितस्ततः । दृष्ट्वाहं प्रणयात्कोपं दर्शयनिदमब्रुवम् ॥४६ ॥ त्वमेवं यद्यहं नात्र स्थास्यामीति तवान्तिके । निकृत्य कुत्राप्यगमं भावं तस्य परीक्षितुम् ॥४७॥ मय्यप्यन्तर्हिते दूरं मदनालसमानसः । स कामी सत्वरं प्रापत्पदवीं त्वत्परिष्कृताम् ॥ ४८ ॥ ततः क्षणवियोगातस्तस्याहं पुनरागतः । तत्रादृष्ट्वा सवयसमभूवमतिविह्वलः ॥४९॥ समन्तादपि चान्विष्य सरस्तीरलतागृहे । निषीदन्तं विषीदन्तं तं क्वापि समवैक्षिषि ॥५०॥ विमुक्तमिन्द्रियग्रामैः विनाकृतमिवासुभिः । For Private and Personal Use Only Page #48 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भूताविष्टमिव भ्रान्तचेतनं विवशाकृतिम् ॥ ५१ ॥ प्राबोधयममुं भूयो वचनैः सनिदर्शनैः। स चानुल्लवितानङ्गशासनः प्राह सस्मितम् ॥ ५२ ॥ साफल्यमुपदेशानां तस्मिन्यस्य वशे मनः।। मनो मम पराधीनं मन्मथाकुलितात्मनः ॥ ५३ ॥ यदीह स्निह्यति भवान्येन केनापि वर्त्मना । सखे ! यथाहं जीवामि तथा प्रयततामिति ॥५४ ।। इति श्रुत्वा कमेष्यामि का चिकित्साऽस्य का गतिः। इति संचिन्तयन्नासं कर्तव्ये कातरश्विरम् ॥ ५५ ॥ श्रूयन्त इतिहासेषु विरहे याः प्रतिक्रियाः । ताः सर्वास्तापशान्त्यर्थं तस्याकार्ष समाहितः ॥ ५६ ॥ मृदुलैर्विहिताः शय्याः पद्मिनीगर्भपल्लवैः । मृणालचलयैश्चैव वितेने वपुरावृत्तम् ॥ ५७ ॥ सौरभ्यशालिभिः किं च सान्दैश्चन्दनपल्लवैः । आविःस्वेदममुष्याङ्गमवीजयमनुक्षणम् ॥ ५८॥ पाणियन्त्रेण निष्षिष्य पटीरतरुपल्लवम् । नत्र संमिश्य कर्पूरं चर्चितं सकलं वपुः ॥ ५९ ।। तैस्तैः शीतोपकरणैरपि ताम्यन्तमातुरम् । तमवेत्य त्वदायत्तजीवितं त्वामुपागमम् ॥६० ॥ प्रानिःश्वसितप्रायसञ्चारैः स तु वर्तते । इतःपरं भवत्येव प्रमाणमिह कर्मणि ॥ ६१ ॥ इत्युक्त्वा पूषणि ययौ पश्चिमाचलभूषणे । नित्य सन्ध्यानियमः सीदतः सख्युरन्तिकम् ॥६२ ॥ ततोऽहमपि तस्याज्ञां कर्तुं कौतुकशालिनी । अभूवमनुचिन्त्यार्ता पितृभ्यां परतन्त्रताम् ॥ ६३ ॥ अथ शश्वनहालोकबाणविद्ध इवांशुमान् । For Private and Personal Use Only Page #49 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( १७) अवाप शनकैरस्तमसृजेवारुणाकृतिः ॥ ६४ ॥ समान्तरमितेनेव रागपूरेण पूरितम् । सायं सन्ध्यात्तं व्योम सकलं समलक्ष्यत ॥६५॥ अनुक्षणं मां मुद्यन्तीमवेक्षितुमिवाक्षमाः। पद्मिन्यः परमैक्ष्यन्त मीलदजविलोचनाः ॥ ६६ ॥ महता मोहजालेन मदीयमिव मानसम् । तमसाऽजनि सान्द्रेण सर्व कञ्चुकितं जगत् ॥ ६७ ॥ मम मत्वेव विफलं माहेन्द्री दिङ् मनोरथम् । संजहास समालक्ष्यचन्द्रबिम्बोदयच्छलान् ॥ ६८ ॥ सर्वत्र तमसा व्यूह संहरन्नपि चन्द्रमाः। ममोत्पादयति स्मान्तर्महन्मोहमयं तमः ॥ ६९ ।। सन्तप्यमाना शशिनो मयूखैवांडवोपमः ।। दुरन्तया दुर्दशया गृहीवा समचिन्तयम् ॥ ७० ॥ चन्द्रमास्तापयेदेष कालकूटनिभैः करैः।। मामिवाद्य मयिन्यस्तजीवितं जीवितेश्वरम् ॥ ७१ ॥ मन्मथो वपुषा तस्य विजितो बद्धमत्सरः । सहायं चन्द्रमासाद्य शङ्के तं प्रहरिष्यति ॥ ७२ ॥ स च स्यादियता कान्तः कालेन कलुषो मयि । बिभेति न च पित्रोमें महती विरहव्यथा (?) ॥ ७३ ॥ सञ्चिन्त्यैवं तरलिकाद्वितीया केनचित्पथा । बद्धाभिसारिकावेषा निरगच्छं निकेतनात् ॥ ७४ ॥ अभूदभिसरन्त्या मे कर्णान्ताकृष्टकार्मुकः । प्रदर्शयन्पुरो मार्ग पञ्चेषः पदवीसवः ।। ७५ ॥ तदा में सविधं भर्तुः प्रयान्त्या अपि सादरम् । पदे पदे परमभूद्वैमनस्यमकारणम् ॥ ७६ ॥ अपि सर्वाणि शकुनान्यशंसनशुभोदयम् । For Private and Personal Use Only Page #50 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१८) दधौ स्पन्दं पतदिव दक्षिणं मुहुरीक्षणम् ॥ ७७ ॥ विशङ्कमाना बहुशः स्थित्वा स्थित्वा पदे पदे । जातभीतिरभूवं च जनदर्शनशङ्कया ॥ ७८ ॥ ततः प्रयान्ती शनकैमूकमञ्जीरमेखलम् । कपिञ्जलस्याशृणवं क्रन्दितं कर्णदारुणम् ॥ ७९ ॥ हा हन्त ! हा गुणनिधे ! हा सखे ! हा सखिप्रिय ! । वयस्यं मामनापृच्छ्य क्व यासि कुपितोऽसि किम् ? ॥८॥ पूर्णकामोऽसि पुष्पेषो ! कृतार्थोऽसि क्षपाकर ! विधे ! त्वं भव विश्रान्तो वः प्रियं किमतः परम् ॥८॥ धिक् पापे ? त्वां महाश्वेते ! शपाम्यद्य सहस्रधा । त्वदुपेक्षणतो ह्येतत्कुलमुन्मूलितं गुरोः ॥ ८२ ॥ प्रलापमवकण्यैवं प्राणैर्मुक्तेव सत्वरम् । तल्लतासदनद्वारं पापं प्रस्खलितैः पदैः ॥ ८३ ॥ तत्रान्तरे तमद्राक्षं प्रियं प्राणैः समुज्झितम् । शयानमङ्के सुहृदः स्वपन्तमिव मूर्छया ॥ ८४ ॥ निशीथिनीपतिमिव निष्पीडितसुधारसम् । भस्मशेषमिवाङ्गारं हिमच्छन्नमिवारुणम् ॥ ८५ ॥ तं दृष्ट्वा प्राणसंत्यक्तं लतेव पवनाहता । निपत्य भुवि निःसंज्ञा व्यलपं शोकवितला ॥ ८६ ॥ ततः प्रबुध्य सुचिरात्संत्यक्तपरिदेविताम् । सखीमवोचं संनद्धा प्रियानुगमनं प्रति ।। ८७ ॥ किं रोदनेन किं शोकैः किंवा प्रलपितैश्च मे ? । तयैव तानि कार्याणि स्थास्नुर्यास्यादितः परम् ? ॥८८॥ मयैव मारितः सोऽयं वल्लभो मन्दभाग्यया। तदेनमनुयास्यामि सखि ! संगृह्यतां चिता ॥८९॥ मम प्रतिज्ञामित्येवमवकर्ण्य कपिञ्जलः । For Private and Personal Use Only Page #51 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( १९ ) महादुःखमगात्तत्र वयस्यमरणादपि ।। ९० ॥ तस्मिन्नवसरे चन्द्रबिम्बात्कश्चिद्विनिर्गतः। दिव्याकृतिः पुमान्दो| पुण्डरीकमुदक्षिपत् ॥११॥ तमादाय पुनर्गच्छन्दिवं दत्तपथः सुरैः। कृतस्मितो मामवदत्किमेतदिति विस्मिताम् ॥ ९२ ॥ वत्से ! मागाः शुचं भूयो भविताऽनेन सङ्गमः । तनुं न मुञ्च तावत्वं तपश्चर समाहिता ॥ ९३ ॥ इत्थमाश्वस्य मामिन्दुमण्डलं स पुनर्ययो । तमाश्लिष्य दृढं दोया दधदिग्व्यापिदीधितीः ।। ९४ ।। ममादाय वयस्यं क्व यासीति क्रुधान्वितः । तं दिव्यमन्वगावद्धदृढवल्कः कपिञ्जलः ॥ ९५ ॥ इत्थमुक्त्वा गते तस्मिन् दिव्ये पुंसि दृढव्रता। विश्वस्य तस्य वचनं विधृतविविधस्पृहा ॥ ९६ ॥ तपश्चरन्ती वर्तेऽत्र पित्रोः प्रेमानपेक्षिणी । सखीद्वितीया तस्यैव पत्युरुज्जीवनोत्सुका ।। ९७ ॥ इतः पूर्वमिदं वृत्तमितः किंवा भवेदिति । विधित्ति स एवं यो विलोभ्य विदधाति माम् ॥९८॥ इत्थमुक्त्वा पुनश्चापि रुदन्ती राजनन्दनः । नेत्रे विमृज्य निःसीमबाष्पे तामिदमब्रवीत् ॥ ९९ ॥ भद्रे ! त्वं मा कृथाः शोकं मरुतां न मृषा गिरः । हरदग्धोऽपि मदनो लेभे रत्या किं न पुरा ? ॥१०॥ दिव्येन केनचिदेहो दयितस्य हतो यतः । ततस्ते भविता सत्यं पुनरुज्जीवितः पतिः ॥१०॥ तामित्याश्वास्य तत्रैव विधिं सान्ध्यं विधाय च । अपृच्छत्तां पुनः शय्यामधिष्ठाय शिलामयीम् ॥१०२॥ सा ते तरलिका क्वाय सखी दुःखैकसाक्षिणी। For Private and Personal Use Only Page #52 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( २० ) इति पृष्टा समाचष्ट सा स्मितमुखाम्बुजा || १०३ ।। पूर्वमावेदितोष राजा चित्ररथो मया । तस्य कादम्बरीत्यस्ति नाम्ना कन्या मम स्वसा ॥ १०४ ॥ कान्तिचेत्कमला यस्याः काया यमवलम्बताम् । कलत्रमपि कामस्य दृश्येत दिनदीपिका ( ? ) || १०५ ।। सा सद्गुणानामवधिः सौन्दर्योदधिचन्द्रिका । स्वापि स्वामिकन्यापि ममासीद्वत्सला सखी ॥ १०६ ॥ सा मे तपस्यया खिन्ना संविदं व्यतनीदिमाम् । सखीनामपि सर्वासां पुरः पित्रोरसन्निधौ ॥ १०७ ॥ महाश्वेता यदा तस्मै करं दास्यति कामिने । करं दास्यामि कस्मैचिदहं तस्मादनन्तरम् || १०८ ॥ इति प्रतिज्ञां श्रुत्वास्याः तां निवर्तयितुं मया । प्रेषयामासतुः कञ्चित्पितरौ वेत्रिणं मम ॥ १०९ ॥ तेन क्षीरोदनाम्ना सा तदर्थं प्रेषिता मया । प्रातरेष्यति च मे तत्सन्देशं निवेदितुम् ॥ ११० ॥ श्रुत्वेति वचनं तस्यास्तदारभ्योदितस्पृहः । कादम्बर्या कथंचिच्च तां निशामत्यवाहयत् ॥ १११ ॥ ततस्तरलिका प्रातस्तस्याः सन्देशधारिणी । केयूरकेन भृत्येन कादम्बर्या सहाययौ ॥ ११२ ॥ चन्द्रापीडं तमालोक्य सा दूरादेव तत्सखी । मासमेव संजज्ञे पुण्डरीकाङ्गहारिणम् ॥ ११३ ॥ ततो नत्वा महाश्वेतां तावुभौ च शशंसतुः । कादम्बर्या निगदितं संविदोऽनतिलङ्घनम् ॥ ११४ संचिन्त्य तस्याः सा चान्तः संविदः प्रतिमोचनम् । शक्यं कर्तुमनेनेति सस्मितं तं ततोऽब्रवीत् ॥ ११५ । यद्येव पितरावस्या यास्यतो महतीं शुचम् । For Private and Personal Use Only Page #53 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( २१ ) तद्गत्वा संविदो बालां विनिवर्तयितास्म्यहम् ॥ ११६ ॥ किमप्यन्यन्महाभाग ! क्रियतां भवतापि च । यदि ते मयि वात्सल्यं इत:कार्यक्षतिर्न चेत् ॥ ११७ ॥ दृष्ट्वा कादम्बरीं त्वं च दृष्टिसाफल्यमाप्नुहि । किञ्चित्त्वदर्शनात्सा च कृतार्थयतु लोचने ॥ ११८॥ सा कान्तिशीलसौजन्यसौन्द्रर्यप्रमुखैः गुणैः । भवादृशां भवत्येव प्रेक्षणीयेषु वस्तुषु ॥ ११९ ।। इति श्रुत्वा प्रतिश्रुत्य तां व्रजन्ती स कौतुकी। अन्वगारुह्य तुरगं हेमकूटपुरं ययौ ॥ १२० ॥ पुरं तदखिलोदारं पुरन्दरपुरोपमम् । चित्रं चैत्ररथं दृष्ट्वा प्रहृष्टः प्राप विस्मयम् ॥ १२॥ सन्ध्यायमानमभितः सान्द्रमणिमरीचिभिः । मध्ये तत्र महोछ्रायं महामेरुमिवापरम् ॥ १२२ ।। संचरत्तारकाचन्दसौधमण्डलवेदिकम् । गेहं गन्धर्वराजस्य जगाहे जातविस्मयः ॥ १२३ ॥ तत्र चित्राः समुल्लय सप्तकक्षास्तया समम् । ददर्श दक्षिणराजमन्दिरस्य महाद्भुतम् ॥ १२४ ॥ नवरत्नमयं सर्वनयनानन्दवर्द्धनम् । कन्यकागृहमैन्द्रेण धन्वनेव विनिर्मितम् ॥ १२५॥ युग्मम् । तत्र मुक्तामये कापि मध्ये महति मण्डपे । शरदम्बुदगर्भस्थं समाजमिव विद्युताम् ॥ १२६ ॥ सान्ततः पल्लवितं सान्दैराभरणांशुभिः । वीरुधामिव विद्योति कुलं कुसुमपल्लवैः ॥ १२७ ॥ तन्वपास्तसुरस्त्रैणमन्ववायमिव श्रियः । मन्यमानमनङ्गेन कन्यकाबन्दमैक्षत ॥ १२८ ॥ अथ नरपतिनन्दनस्तदानीमभिनवयौवनरूपभूषणानाम् । For Private and Personal Use Only Page #54 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( २२ ) परिषदमवलोक्य कन्यकानामपर इवाभवदन्यतन्त्रभावः१२९ इति मण्डनकादम्बरीदर्पणे द्वितीयः परिच्छदः । तत्र दुग्धाब्धिविमलं मुक्तापर्यङ्कमास्थिताम् । श्रियं विष्णोरिवान्यत्र शेषपर्यङ्कमीयुषीम् ॥ १॥ पल्लवारुणया पादच्छायया सविधस्थलीम् । पादपीठं वितन्वानां परितः पद्मिनीमयम् ॥ २ ॥ पुष्पायुधपुरद्वारं मणितोरणमङ्गलम् । कदलीकाण्डचारुभ्यामुरुभ्यामुपचिन्वतीम् ॥ ३ ॥ जघनेन जितानङ्गपर्यङ्कपरमश्रिया । स्वलावण्यसुधाम्भोधेः पुष्णन्तीं पुलिनश्रियम् ॥ ४॥ अत्युन्नतस्तनोद्वाहादस्तीत्युह्यमचाक्षुषम् । अनङ्गस्याङ्गमपरं वहन्तीं मध्यमद्भुतम् ॥ ५ ॥ बिभ्राणामभ्रतटिनीविपुलाजमविभ्रमम् । नाभीमनङ्गराजस्य दधानां गृहदीर्घिकाम् ॥ ६ ॥ कुचकुम्भस्य तारुण्यकुञ्जरस्येव शुण्डया । कन्दर्पखड्गलतया रोचिष्णुं रोमलेखया ॥७॥ कुचेन पद्मकोशेन कोकद्वन्द्वस्पृहाकृता । प्रदर्शयन्ती प्रत्यक्षं पद्मिनीभावमात्मनः ॥ ८ ॥ अभिपूर्णश्रिया नित्यमनिमीलनहारिणा । आननेन वितन्वानामरतिं चन्द्रपद्मयोः ॥९॥ विद्रुमद्रोहजनुषा बिम्बीफलविडम्बिना । रम्येणाधररागेण रञ्जयन्तीमिव स्मरम् ॥ १० ॥ मुक्ताविद्रुमयोरैक्यपिशुनेन प्रसर्पता। मन्दस्मितेन मधुरमालपन्तीमिवालिभिः ॥ ११ ॥ नेत्रेण स्निग्धदीर्पण नीलोत्पलनिभत्विषा । मदनस्यापि मदनं सृजन्तीमिव चेतसि ॥१२॥ For Private and Personal Use Only Page #55 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( २३ ) कल्हारगर्भ करीबन्धनं हारि विभ्रतीम् । वाणैः पूर्णमिवानङ्गतूणीरं शोणितारुणैः ॥ १३ ॥ मुखलावण्यनिः स्यन्दमुक्तानासाविभूषणम् । कपोलकान्तिविफलमणिताडङ्कभूषणम् ॥ १४ ॥ समयौवनरूपाभिः सखीभिरभितोवृताम् । परितां पुष्पवल्लीभिः पारिजातलतामिव ।। १५ ।। के पूरकं पुरोयतं कृतकौतूहलं मुहुः । पृच्छन्तीमात्मनः प्रेमगर्भमेव मिथः कथाम् ॥ १६ ॥ विद्युन्मध्यादिवोदीर्णी विद्रुमादिव निर्मिताम् । आविर्भूतामिवाम्भोजादरुणादिव चोत्थिताम् ॥ १७ ॥ अङ्गीकृताङ्गनारूपां शृङ्गारस्येव देवताम् । ददर्श दीर्घसौभाग्यां देवीं चित्ररथात्मजाम् ॥ १८ ॥ ॥ कुलकम् ॥ सर्गाभ्यासफलं धातुः साम्राज्यं शम्बरद्विषः । सौन्दर्यमयमेतस्या वपुर्वीक्ष्य ननन्द सः ॥ १९ ॥ चक्षुरञ्जलिना शश्वत्पिवन्कादम्बरीं पुनः । उवाह मोहमुत्कूलरागचिन्तामधत्त सः ॥ २० ॥ अहो ! सुकृतमस्माकमासीनाजन्मनः फलम् । अदृष्टपूर्वा यदियमङ्गनासृष्टिरक्ष्यते ॥ २१ ॥ श्रियः सृष्टिकृताभ्यास विधिर्नूनं व्यधादिमाम् । न चेदेतादृशं तस्य कथं जायेत कौशलम् ॥ २२ ॥ अङ्गैराश्चर्यमधुरैरस्यास्तुलयितुं मया । यदि यत्किञ्चिदुद्येत तदेव न तु पातकम् || २३ || इदमेतादृशं गात्रं यदि जायेत योषिताम् । शङ्के पङ्केरुहादीनां युक्ता स्यादुपमेयता ॥ २४ ॥ कर्पूरममलं सान्द्रममृतं कान्तिरैन्दवी । For Private and Personal Use Only Page #56 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( २४ ) बन्दो मरुन्नतः पौष्पं सर्गेऽस्याः साधनानि किम् ॥ २५ ॥ कचिन्नभः कचिच्चन्द्रः कचिदब्जं कचित्सरः । अस्याः सर्गविधौ नूनमपरः स्यात्सरोजभूः ॥ २६ ॥ संमोहनी मन्मथस्य शक्ति: किंवा शरीरिणी । इन्द्रियाकर्षणे पुंसामियं किमधिदेवता ॥ २७ ॥ इति संचिन्तयन्नेनां वीक्षमाणः स विस्मयी । निमेषवत्तामस कुन्निनिन्द निजनेत्रयोः ॥ २८ ॥ सा चाप्रतिमरूपं तं दृष्ट्रा पुंसृष्टिभूषणम् । बभूव विस्मयवती विवशा च मनोभुवा ॥ २९ ॥ चमत्कुर्वाणयोरेवमितरेतरमीक्षितैः । बुद्ध इव पुष्पेषुः प्रहृष्यन्नुदभूत्तयोः ॥ ३० ॥ ततः सत्वरमुत्थाय महाश्वेतां प्रणम्य सा । परिष्वज्य च पर्यङ्कमध्यारोपयदात्मनः ॥ ३१ ॥ कृतातिथ्यः कृती सोऽपि तत्सख्या मदलेखया । तस्यै स्नेहाञ्जलिं चक्रे सा च नुन्नास्य तेजसा ॥ ३२ ॥ तत्पर्यङ्कशिरोभागे स्थापितं रत्नविष्टरं । निर्दिशन्ती नृपसुतं महाश्वेता जगाद ताम् ॥ ३३ ॥ अभिद्रे ! कुमारोऽयमत्रन्तीभर्त्तुरात्मजः । चन्द्रापीडः स्वयं नाम्ना सरलश्चन्द्रमा इव ॥ ३४ ॥ विजये हरितामत्र विचरन्मृगयां वने । पुण्यैः पराकृतैः मान्मम पूर्वेद्युराश्रमम् ॥ २५ ॥ तव संदर्शनाया पार्थितः प्रणयान्मया । ममानुज्ञाय वचनं तवालङ्कुरुते सभाम् ॥ ३६ ॥ आराधनीयो यस्माकमखिलैरप्ययं गुणैः । भजन्ति भवनं दिष्ट्या पुरुषाः पुनरीदृशः ||३७|| इत्थं वदन्त्यां सा तस्यामेकान्ताभ्युदितस्पृहा । For Private and Personal Use Only Page #57 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( २५ ) तथैव तस्थौ सवीडं साशंसेय॑ च सस्मितम् ॥३८॥ अनादृत्य सखीवाचमनालप्य च सारिकाम् । अविज्ञाय च कर्तव्यमनाज्ञाप्य च चेटिकाः ॥ ३९ ॥ विधाय पार्श्वस्थितया बीटी चेटिकयाऽपिताम् । प्रसारितेन हस्तेन स्पृशन्त्यपि न गृह्णती ॥ ४० ॥ मोहेनाचान्तचित्तेव मुषितेव च मूर्च्छया। लीडेव चानुरागेण लुण्टितेव स्मराग्निना ॥ ४१ ॥ वचसा हंसदुहितुः मानिना पूर्वमेव सा। ततश्च प्रादाद्धस्तेन तस्मै ताम्बूलबीटिकाम् ॥ ४२ ॥ तत्र कन्यागृहोपान्तवर्तिन्युद्यानपर्वते । अकरोदस्य वसतिमात्मनः केलिमन्दिरे ॥ ४३ ॥ ततश्चित्ररथं तातं मातरं मदिरामपि। द्रष्टुकामा ययौ तावन्महाश्वेता गृहं तयोः ॥ ४४ ॥ तावत्कादम्बरी तस्मिन्क्षणे खिन्ना वियोगतः । तं द्रष्टुं सौधमारोहत्सममाप्तसखीजनैः ॥ ४५ ॥ तत्रस्था केलिशैलस्थं तमपश्यत्तलोदरी। स च तां शश्वदुत्कूलविस्मयोत्फुल्लया दृशा ॥ ४६ ।। परस्परे तौ पश्यन्तौ परस्परसविस्मयौ । विधेविधानचातुर्य-समं चमदकुर्वताम् ॥ ४७ ॥ साभिलाषैः सप्रणयैः साभिप्रायैश्च सत्रपैः । अथावोचतुरन्योन्यमाकारन्ताववेक्षितैः ॥४८॥ सर्वमन्तर्गतं वृत्तं तत्तद्वयाकुर्वती तयोः । दृष्टिमध्ये ययौ दूत्यं यातायातं वितन्वती ॥ ४९ ।। तावीक्ष्यमाणावन्योन्यं तथैव लिखिताविध । तिष्ठन्तौ दिनशेषं तावतीतं नावगच्छताम् ॥ ५० ॥ अथावरुह्य सा सौधान्महाश्वेतानुरोधिनी । For Private and Personal Use Only Page #58 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( २६ ) तस्मिन्विन्यस्तचितैव चक्रे स्नानादिकाः क्रियाः ॥५१॥ सायं भुक्तवते तस्मै सा ततो मदलेखयां । हारं कमपि नीहारगौराकारमदापयत् ॥ ५२ ॥ कादम्बर्यास्ततः कान्तिगुणगौरवचिन्तया । अन्यतन्त्रात्मनस्तावदहःशेषः समत्यगात् ॥ ५३ ॥ तयोः सन्नद्धपञ्चेषुव्यथयोर्बद्धरागयोः। कथं कथंचित्सा रात्रिः कालरात्रिरिवागमत् ॥ ५४ ॥ ततः प्रातः स्वशिविरं कृच्छ्रादनुमतस्तया । केयूरकमुखैः कैश्चिद्गन्धर्वैरन्वितो ययौ ॥ ५५ ॥ ददर्शाच्छोदतीरस्थं स गच्छन्सैन्यमात्मनः । आगतं निजमध्वानमवेत्याश्वखुराङ्कितम् ।। ५६ ॥ सर्वैः प्रत्युद्गतस्तत्र सवैशम्पायनादिभिः । विनिवर्त्य च गन्धर्वान्विवेश पटमण्डपम् ॥ ॥ ५७ ॥ स पत्रलेखया पृष्टः सायं सवयसः पुरः । आरभ्य किन्नरद्वन्द्वमखिलं वृत्तमब्रवीत् ॥ ५८ ॥ महाश्वेतामयं तावन्मनो मारादितं वहन् । स वैशम्पायनस्तस्य सखाऽन्तः समतप्यत ॥ ५९॥ अथापरेधुरागत्य विभुं केयूरकोऽब्रवीत् । दिदृक्षते पुनर्देव ! भवन्तं भर्तृदारिका ॥ ६ ॥ सर्वथा तत्र भवता सा परिष्क्रियतां स्थली । इत्याहूतो ययौ सोऽथ तुरगी पत्रलेखया ।। ६१ ॥ तत्र कन्यागृहं प्राप्य तामनङ्गज्वरातुराम् । शयानां पुष्पशयने ददर्श हिमवेश्मनि ॥ ६२ ॥ विधीयमानैर्बहुधा सखीभिस्तापशान्तये । अपि शीतोपकरणैरभिटद्धस्मरवराम् ॥ ६७ ॥ कल्पितोचितसत्कारस्तल्पादुस्थितया तया । For Private and Personal Use Only Page #59 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( २७ ) पादर्शयत्पत्रलेखां बह्वमन्यत सा च ताम् ॥ ६८ ॥ ततः स्वविपयं तस्या जिज्ञासुर्मदनज्वरम् । स स्मितोदरमधुरं साकूतं समभाषत ॥ ६९ ॥ काऽयं ज्वरः कुरङ्गाक्षि ! मदनामोदमावहन् । पुष्पेषुपातितमहो ! वपुस्ताम्यति तावकम् ॥ ७० ॥ इमां वक्रोक्तिमेतस्य श्रुत्वा सा च शुचिस्मिता । वदनं मदलेखायाः सख्या साकूतमैक्षत ।। ७१ ॥ सा तयोविदिताहृतव्यापाराथ विचक्षणा । उवाच मधुरोदारमुचितं तावदुत्तरम् ॥ ७२ ॥ कुमार ! विषमो ह्यस्याः कोप्यदृष्टपुराज्वरः। मन्ये चित्तभुवः क्षोभाकि न जायेत केवलम् १ ॥ ७३ कलये गात्रमेतस्या. कुसुमादपि कोमलम् । तस्याधुना कथं शंस कुसुमेषुसहिष्णुता ॥ ७४ ॥ भवानेव हि जानाति भैषज्यं तदितः परम् । भवतः स्पर्शमात्रेण स्वैरमस्याः सुखं भवेत् ।। ७५ ॥ इत्याकर्ण्य विदग्धोक्तिमेतस्याः स्मिताननः । मदनाग्निं पुरस्कृत्य तामुपायंस्त चेतसा ॥ ७६ ॥ तत्रैवं मधुरालापैः कृत्वा क्षणमवस्थितिम् । कृच्छ्रात्तया कृतानुज्ञः कृती स्वं शिविरं ययौ ॥७७।। इयं प्रातरितो यायादित्येवं याचितस्तया। तथेति पत्रलेखां तां चक्रे तत्सविधस्थिताम् ॥ ७८ ॥ स प्राप्तशिविरस्तावत्सन्देशं पितुरागतम् । ददर्श दृष्टमात्रेण तूणमागम्यतामिति ॥ ७९ ॥ ततश्चोरितचित्तोऽपि स चित्ररथकन्यया । पितुर्वृत्तमजानानः प्रास्थित प्रेमदुःखितः ॥ ८॥ मिथः प्राह स निर्गच्छन्मेघनादं चम्पतिम् । For Private and Personal Use Only Page #60 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( २८ ) अयि ! केयूरकः प्रातरागच्छेत्पत्रलेखया ॥ ८१ ॥ ततो यात्राप्रणामादि देव्यै मम निवेदय । त्वं च कैश्चिद्दिनैरेहि पुरो मां पत्रलेखया ॥ ८२ ॥ इत्थमादिश्य पार्श्वस्थं वैशम्पायनमाह च । अद्य गच्छाम्यहं तातपादालोकनकौतुकी ॥ ८३ ॥ प्रस्थाप्य मेघनादेन पत्रलेखां पुरः पुरीम् । विश्रामयन्पथि बलं शनैरेहि पुरीमिति ॥ ८४ ॥ तथैवारुह्य तुरगं निवृत्य निखिलान्नृपान । परिमेयपरीवारः प्राप कैश्चिद्दिनैः पुरीम् ॥ ८५ ॥ तारापीडः समाकर्ण्य प्राप्तं प्रमदवान्सुतम् । प्रत्युद्यो पुरस्कृत्य शुकनासं स्वबन्धुभिः ॥ ८६ ॥ चिराध्वन्यतया श्रान्तां पश्चाद्विश्राम्य वाहिनीम् । वैशम्पायनमायान्तं तरि तृभ्यां न्यवेदयत् ॥ ८७ ॥ ततः सुचिरसन्दृष्टैर्बन्धुभिर्वहुमानितः । कादम्बर्याः स्मरन्नेव तस्थौ तत्र स्मरातुरः ॥ ८८ ॥ ततः सा मेघनादेन पत्रलेखा पुरस्कृता । कुमारविरहक्षामा दिवसैः कैश्चिदाययौ ॥ ८९ ॥ साथ कादम्बरीं तस्मै शशंस दृढसंज्वराम् । अनुक्षणमनङ्गेन प्रापितप्राणदुर्दशाम् ॥ ९० ॥ सन्दिष्टं च तया तस्याः स निशम्य समाकुलः । महतीमगमच्चिन्तां मदनेनाप्यनुद्यतः (१) ॥ ९१ ॥ कथञ्चिन्नीतदिवसः स पित्रोरुपलालनैः । कल्पवत्कलयामास तल्पसाक्षिव्यथो निशाम् ॥ ९२ ॥ स चित्ररथकन्यायाः सन्देशं चरितानि च । नवं नवमिवामाक्षीत्पत्रलेखां पदे पदे ॥ ९३ ॥ न स्नानं नोज्ज्वलं वासो नानुलेपो न भूषणम् । For Private and Personal Use Only Page #61 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( २९) न निद्रा चाभवन्नस्य स्वप्नेऽपि मुखहेतवः ॥ ९४ ॥ न नृत्ये नैव गीतेषु न वीणायां न वेणुषु । सक्तः स केवलं तत्र बन्दीव विदधे स्थितिम् ॥ ९५ ॥ स कदाचित्ततः शिप्रासैकतोपान्त्यभूमिषु । विनेष्यन्विरह श्रान्तिं व्यचरत्पत्रलेखया ॥ ९६ ॥ सत्र रिनुगतं तुरङ्गैस्त्वरितक्रमैः । स केयूरकमायान्तं ददर्शाध्वकृशाकृनिम् ॥ ९७ ।। स तेन कृतसत्कारः सदनोद्यानवर्तिना। पृष्टः करुणमाचष्ट कादम्बर्या चेष्टितम् ।। ९८॥ देवाकर्णय दत्वैनां मेघनादकर मया। निवृत्तेनात्र भवतो वृत्तं देव्यै निवेदितम् ॥ ९९ ॥ महाश्वेता तदाकर्ण्य महादुःखमुपेयुषी। अगावैराग्यतो देवीमनापृच्छय स्वमाश्रमम् ॥ १० ॥ देवी धिकष्टमित्येव दवालीडेव वल्लरी । निपत्य भुवि निःसंज्ञा निष्प्राणेवाभवच्चिरम् ।। १०१॥ ततः सा किञ्चिदुन्मील्य तालवृन्तानिलादिभिः । मदलेखे ! कुमारेण कृतमन्यः करोनि किम् ॥ १०२ ॥ इत्युक्त्वा जातवैवर्ष्या प्रस्थाप्य सकला: सखीः । कृतावगुण्ठना तल्पे तथैवापनयदिनम् ॥ १०३ ॥ ततः परेधुरारभ्य तस्या गाढतरोज्वरः । विशेषतः शोषयति मृणालमृदुलं वपुः ॥ १०४ ॥ न हर्ये न हिमागारे न तल्पे न सखीजने । न वापीषु न चोद्याने तापस्तस्याः प्रशाम्यति ॥१०५॥ लिखिताविव लक्ष्येते करावस्याः कपोलयोः । सहजेवाश्रुधारा च सन्ततं दृश्यते दशोः ॥ १०६ ॥ करुणं रुदती कामं मूच्र्छा मुहुरुपेयुषी। For Private and Personal Use Only Page #62 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (३०) सा निशां चक्रवाकीभिः समं नयति सव्यथा ॥१०॥ चन्द्रालोकादपि विषं चन्दनादपि पावकम् । बोधादपि पुनर्मूर्छा भूयः सा बहु मन्यते ॥ १०८ ॥ कोलाहलैः कोकिलानां दत्तकर्णज्वरादिव । उद्वेगं भृशमुद्यानविहारेषु बिभर्ति सा ॥ १०९ ॥ विवर्णविकलस्रस्तविवशखिन्नविग्रहा । मुग्धा स्मरभुजङ्गेन मुहुर्दष्टेव मुह्यति ॥ ११० ॥ चलन्ति स्थानतो गन्तुं प्राणास्तस्याः प्रतिक्षणम् । तान्निरुद्ध पुनः कण्ठे तावत्त्वदर्शनस्पृहा ॥ १११ ॥ त्वदीयनामग्रहणैस्त्वद्गुणानां च वर्णनैः। त्वत्सम्बन्धिभिरालापैः सा पत्ते तत्र जीवितम् ॥ ११२ ।। इत्थमेनां त्वदाधीनप्राणां प्रसवसायकः । सन्तापयति ते रूपाविजितो बद्धमत्सरः ॥ ११३ ॥ इति तन्मुखतः श्रुत्वा कामं कादम्बरीकथाम् । तथैव तस्थौ मोहेन चित्रन्यस्त इव क्षणम् ॥ ११४ ॥ पूर्वमेव स्मरात्तस्य पुनस्तस्या व्यथाश्रुतिः । तरोवाभितप्तस्य वज्रपात इवाभवत् ॥ ११५ ॥ तस्याः सन्देशवचनं तज्ज्वरस्य संवृद्धये। अभ्युक्षणमिवाज्येन ज्वलतो जातवेदसः ॥ ११६ ॥ ततः केयूरकं प्राह परवानस्मि पातकी । किं करोमि कृतं पश्य विधिना वामवृत्तिना ? ॥ ११७ ॥ दुस्त्यजं प्रेम देव्याच दुस्त्यजाऽऽज्ञा पितुश्च मे । संकटे पतितः सोऽस्मि परितापैकभाजनम् ॥ ११८ ॥ संयोज्य तत्र नौ पूर्व पुनरेवं वियोज्य च । व्यथयन्विधिचण्डालो न जाने किं करिष्यति ? ॥११९॥ तथापि येन केनापि वर्त्मना मदिरेक्षणाम् । For Private and Personal Use Only Page #63 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ३१ ) प्रयतिष्ये पुनर्द्रष्टुं प्राणैः कण्ठगतैरपि ॥ १२० ॥ इत्थमन्योन्यवचनींता तत्र निशाऽमुना । अश्रावि च बलं प्रातरथो दशपुरागतम् ॥ १२१ ।। कृताश्वासः कृती तावत्केयूरकमुवाच तम् । दर्शनं भविता देव्या दैवादासन्नमेव मे ॥ १२२ ॥ सपत्रलेखस्त्वं गत्वा देवीमाश्वासय द्रुतम् । इत्यादिश्यावसाहाय्यं मेघनादं व्यधात्तयोः ॥१२३।। प्रस्थाप्य तान्प्रतिययौ प्रत्यूषे सैन्यमात्मनः । तत्र केनापि न ज्ञातःसुहृदंद्रष्टुमुत्सुकः ॥ १२४ ॥ स वैशम्पायनगृहं पृच्छन्प्रतिपदं जनान् । क्व वैशम्पायनाति केनाप्याक्षिप्तवागभूत् ॥ १२५ ।। हा क्व यात प्राप्तशोको जज्ञे (स ) स्वसैनिकैः । वैशम्पायनवृत्तान्तं विचित्रं वक्तुमक्षमः ॥ १२६ ॥ नत्वा ततो नरेन्द्रं तं पृच्छन्तं सुहृदं प्रियम् । शशंसुरेवं सत्रासं सशोकं च सविस्मयम् ॥ १२७ ।। देव ! दैवान्न ते सख्युन किश्चित्कुशलेतरम् । मा कृथा मनसि क्षोभं वदामस्तस्य चेष्टितम् ॥ १२८ ।। स वैशम्पायनस्तत्र भवतो निर्गमात्परम् । सकौतुकं सरस्तीरे बभ्राम विरहार्तवत् ॥ १२९ ॥ तत्र नष्टमिवान्विष्यन्स्मरन्निव च विस्मृतम् । भ्रान्त्वा सुचिरमध्यास्त क्यचित्तीरलतागृहम् ॥ १३० ।। स्थितं चिराय तत्रैवतव ब्रम सविस्मयाः। इतो गन्तव्यमुत्तिष्ठ सख्युराज्ञां विधत्स्वते ॥ १३१ ॥ इत्थमुक्तो जगादास्मान्यूयमद्यैव गच्छत । चलितु नैव शक्नोमि पदं चास्मात्प्रदेशतः ॥ १३२ ॥ को हेतुरिति नो जाने सख्यैव शतधा शपे। For Private and Personal Use Only Page #64 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ३२) इतो यदा चलिष्यामि तदा मे प्राणसंशयः ॥ १३३ ॥ कस्य दुष्कर्मणः पाकात्कस्य वाथ विधेर्वलात् । सुहृदालोकसौख्यस्य दूरेऽस्मि धृतदुर्दशम् ॥ १३४ ॥ तद्गत्वा तातपादेभ्यः सुहृदे च सुजन्मने । निवेदयत निर्हेतुमीदृशी मम दुर्दशाम् ॥ १३५ ॥ इत्युक्ता वयमेतेन विधिना विह्वलाशयाः । सान्त्वनस्तर्जनैश्चापि शतधा बोधयाम तम् ॥ १३६ ॥ तत्सर्वमभवत्तस्मिन् भस्मन्येव परं हुतम् । कृताहारश्च तत्रासीत्फलाद्यैः प्रार्थितश्विरम् ॥ १३७ ॥ ततस्त्रिदिवसादू तं दृष्ट्वा तादृशस्थितिम् । संस्थाप्य तस्य रक्षायै तत्सैन्यं वयमागताः ॥ १३८ ।। इत्याकर्ण्य सुहृदवृत्तमसंभाव्यं कथास्वपि । विभुर्वभूव प्रथमं पात्रं प्रेमशोकयोः ॥ १३९ ॥ सुहृदः शोकजनकमपि वृतान्तमद्भुतम् । मेने कादम्बरीमाप्तिकारणं पुनरात्मनः ॥ १४० ॥ ततो निवृत्य स ययौ शुकनासस्य मन्दिरम् । समाश्वासयता राज्ञा पल्या चापि परिष्कृतम् ॥१४॥ हा वत्स ! हन्त ! केयमकालेन वनवासिता । पितरौ तौ परित्यज्य किं तपोभिः कृतैः फलम् ? ॥१४२।। इत्याक्रन्दितमाकर्ण्य तन्मातुः शोकविह्वलः । ददर्श सचिवं तत्र वर्तमानं महीभुजा ॥ १४३ ॥ ततस्तं प्रणतं दृष्ट्वा तनूज धरणीपतिः । जातमन्युर्जगादैवं शोकावेगसमाकुलः ॥ १४४ ॥ वत्स ! बालो वनं प्राप्तो वैशम्पायन एष यत् । तवैव दोषस्तत्मन्ये कथ्यतां तत्र कारणम् ॥ १४५ ॥ इति तां वाचमाक्षिप्य शुकनासस्तमब्रवीत् । For Private and Personal Use Only Page #65 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ३३ ) कुमारोपरि कौलीनमारोपितममर्षयत् ॥ १४६ ॥ देव ! त्वत्तोऽपि दयया कुमारो यतिरिच्यते । तस्मिन्या प्रीतिरेतस्य सा न देव्यां न च त्वयि ॥१४७॥ सर्वानवद्यचारित्रः कृती कृतयुगोचितः । मैवं वाच्योन भवता दोषस्तस्यैव दुर्मतेः ॥ १४८॥ पुंसः पुराकृतैः पापकर्मभिः कामचारिणः । शत्रवः पुत्रतामेत्य दुःखयन्ति दुरीहिताः ॥ १४९ ॥ चन्द्रापीडं समाक्षिप्य स्तनं प्रस्नुतमात्मनः । अपाययत देवीयं अमुना तच्च विस्मृतम् ॥ १५० ॥ किं कृतो हीनकक्षायां कुमारादपि च त्वया । किं नार्चयन्ति भूपालाः कृतपणतयो भुवि ? ॥ १५१ ॥ किं नैश्वर्यं किं न राज्यं किमून त्वत्प्रसादतः । मन्दभाग्यो वने वासं सर्व संत्यज्य वाञ्छति ॥ १५२॥ किमन्यत्केलिसुहृदं स्वामि च सुखावहम् । स चन्द्रापीडमुन्मुच्य वृताः किं न जायते ? ॥ १५३ ॥ य ईदृशगुणः पापः पित्रोः शोकानलेन्धनम् । शुकवत्पाठितः सोऽयं शुकजातौ पतिष्यति ॥ १५४ ॥ इति शोकाकुलस्यास्य वाचं श्रुत्वा महीपतिः । तमाह शापो न शिशौ कार्यः कोपेऽपि च त्वया ॥१५५॥ सर्वथात्र तमानीय तस्य विज्ञाय निश्चयम् । अनुरूपं विधास्यामो मनः शोकाय मा कृथाः ॥ १५६ ॥ तस्मिन्नेवं वदत्येव कुमारो रचिताञ्जलिः । असहिष्णुरमुं प्राह दोषं विन्यस्तमात्मनि ॥ १५७ ॥ आनेष्याम्यहमेवैनमनुज्ञा तात ! दीयताम् । न चेन्नराः करिष्यन्ति मय्येवापयशो महत् ॥ १५८॥ इति ब्रुवाणं नृपतिरेतदानयनोत्सुकः । For Private and Personal Use Only Page #66 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ३४ ) तमन्वमंस्त निर्गन्तुं सचिवन्यस्तजीवितः ॥ १५९ ॥ विधिना मन्त्रिपुत्रस्य वैराग्यजनुषाऽमुना । कादम्बरी करानीतामात्मनस्ताममन्यत ॥ १६० ॥ अपरेद्युरथ प्रातः ससैन्यः शासनात्पितुः । निर्ययौ निर्भरानन्दपूर्णेन मनसा पुरात् ॥ १६९ ॥ मनसानुभवमेव मदनोन्मेषशालिना । कादम्बरी दिनैः कैश्चिन्महद्वर्त्मात्यलयत् ॥ १६२ ॥ ददर्श सख्युर्वृत्तज्ञं पथि तं पत्रलेखया । त्रिभिरध्वभिरच्छोदान्मेघनादं निवर्त्तितम् ॥ १६३ ॥ ततो गच्छत एवास्य सकलाशानिरोधकः । कालदूत इव प्राप कालस्तनितक्रियः ॥ १६४ ॥ तं हनिष्यन्नभः सर्पः स पुरोवातपूत्क्रियः । विद्युन्मणीनभ्रफणानुदस्यन्भृशमुज्जहौ (१) ॥ १६५ ॥ नृत्तलोलैः शिखिकुलनींपैर्निर्निद्रकौरकः । सान्द्राभिवाम्बुधाराभिश्रकम्पे तस्य मानसम् || १६८ || शिथिलरथ निबन्धं शीर्णपर्याणवाहम् प्रतिदिनमपि पश्चालम्बिपादातमेषः । अविरचितनिवासः क्वाप्यनेहस्यमुष्मिन् अथ बलमव कर्षन्यापदच्छोदतीरम् ॥ १६९ ॥ इति श्रीमण्डनकादम्बरीदर्पणे तृतीयः परिच्छेदः ततस्तत्मावृषा वीतसवशोभं सरोवरम् । शोकाक्रान्तमिवालक्ष्य शोच्यावस्थमलक्षत || १ || तं द्रष्टुकामः प्रथमं सखायं सरसस्तटे । हयमारुह्य सौत्सुक्यमन्वियेष समन्ततः ॥ २ ॥ तत्र कुत्राप्यनालोक्य पर्यट्य परितः श्रमी । For Private and Personal Use Only Page #67 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ३५ ) महाश्वेतामुखादेनं श्रोतुं प्राप तदाश्रमम् ॥ ३ ॥ सत्रापश्यत्तरलिकाधारितां दुःखवारिधौ । मज्जन्तीं तां महाश्वेतां प्रपच्छ च पराकुलः ॥ ४ सा समाश्वसिता तेन पृष्टा च प्रेमशालिना । saat विरसं प्राह बाष्पगर्भितया गिरा ।। ५ ।। कथं वा श्रावयिष्यामि कल्याणप्रकृतेस्तव । कृतं मया कितवया कुमार ! कुशलेतरम् || ६ || पुण्डरीकेन यत्पूर्व महाभाग ! ममाभवत् । तत्तादृशमिदं चान्यदकस्मादागतं मम ॥ ७ ॥ श्रुत्वा केयूरकमुखावां पितुः प्राप्तमन्तिकम् । कादम्बपत मुमूर्च्छवि मूच्छिता ॥ ८ ॥ ततस्तव प्रयाणेन तस्यास्तापनव्याकुला । तामनापृच्छय वैराग्यादहमाश्रममागमम् ॥ ९ ॥ अथालक्षि मया कश्चिदेकाकी ब्राह्मणो युवा । आयुष्मत्सदृशाकारो भूताविष्ट इव भ्रमन् ॥ १० ॥ सज्ञातपूर्व इव मां समुपेत्य शनैर्युवा । कुर्वन्कूलंक प्रेम कामी मामिदमब्रवीत् ॥ ११ ॥ क्व तपः कठिनं वाले ! क्व वा ते कोमला तनुः । क्व वा ग्रीष्मातपो घोरः क्व वा चान्द्री कला नवा १ ॥ १२ ॥ तपसा तापयसि चेन्मृणालमृदुलं वपुः । देयं निवासलिलं देवायापि मनोभुवे ॥ १३ ॥ अथवा मोहनैरस्त्रैरवधुयैक्षवं धनुः । तपोवने तवैवास्तां वल्कली मकरध्वजः ॥ १४ ॥ ततोऽनुरूपं रमणमङ्गीकृत्य त्वमञ्जसा । सफलीकुरु तारुण्यं भूरिलावण्यभूषणम् ॥ १५ ॥ वदन्तमेवं तरुणं मदनार्त्तमहं रुषा । For Private and Personal Use Only Page #68 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ३६ ) 'ढता पुण्डरीके दूरं सख्या न्यवारयम् ।। १६ ।। तस्मिन्नेव दिने रात्रावुदिते रजनीकरे । स्मरन्त्याः पुण्डरीकस्य निद्राऽभून्नेत्रयोर्न मे ॥ १७ ॥ वत्स तरुण गाढं तापितश्चित्तजन्मना । समेत्य सविधे तस्थावभूच्च हृदि मे भयम् ॥ १८ ॥ स्त्वं किमत्र ते कार्यमिति पृष्टो भिया मया । जातकम्पो जगादैवं कामार्त्तः कलिताञ्जलिः ॥ १९ ॥ क्वचित्कामः क्वचित्सोमः क्वचिन्मन्दानिलश्व माम् । तापयति चकोराक्षि ! रक्ष मां शरणागतम् ॥ २० ॥ इत्युतमर्यादामुक्ति तस्यावकर्ण्य ताम् । आत्मानमपि नाजानं ज्वलन्तीव रुपा क्षणम् ॥ २१ ॥ तत इन्दोरभिमुखा पुण्डरीकं विभाव्य तम् । आचम्य जलमादाय कामण्डलकमत्रवम् ॥ २२ ॥ यद्यहं न प्रमाद्यामि पुण्डरीकमनुव्रता । भवेत्तारापते ! सत्या भगवन्मम भारती || २३ ॥ शुकस्येव श्रुतं यस्य कामाचाराय कल्पते । सोऽयं शुभेतराचारः शुक एव भवेदिति ॥ २४ ॥ ततः स मदिरा किंवा स्वदुष्कर्मफलेन वा । पपात पादयोर्वज्रघातेनेव पराहतः || २५ || मृतस्तदैव विधिना विभा विरहार्त्तया । आयुष्मन्मित्रमाख्याहि शोचन्त्या तस्य सेनया || २६॥ इत्थमायुष्मतो मित्रवियोगप्रतिपादिनी । तदा प्रभृति शोकान्धौ तरामि हितजीविता || २७ ॥ श्रुत्वेति वृत सुहृदः स्वभावविरसं शुचा । पफाल हृदयं तस्य पद्मकोशमिवौषसा ॥ २८ ॥ तावत्पतन्तमालिङ्गन्य धारयन्ती तमाकुला । For Private and Personal Use Only Page #69 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ३७ ) हा कष्टमिति हंसम्य पर्यदीदिवदात्मजः ॥ २९ ।। दृष्ट्वा तस्य दशां कष्टां सर्वे तदनुयायिनः ।। चक्रन्दुर्दारुणं शोकात्पुत्रा इव पितुः क्षये ॥३०॥ हा हताः स्मो वयं सर्व हा विधे कि कृतं गया ? | अनाचारस्तवैवायमाः पापं दुष्टतापसि ! ॥ ३१ ॥ हा नाथ ! किमिदं वृद्धी विहाय पिनराविमौ । अनाथानपि नः म त्वमधुना क्व नु गच्छसि ॥ ३२॥ क्व ते प्रसन्नमुग्वना का ते मधुरभाषिता । क्य नीतिः क्व नु पाण्डित्यं कर प्रतापः क्व वा यशः ॥३३॥ क्षितिरेषा भगवतः किं नु वैधव्यभाजनम् । क्व वा गतिमहालक्ष्म्याः कमालम्बेत भारती ।। ३४ ॥ इत्थं विलप्य बहुधा नत्र सर्वे चमूचराः । स्वैः स्वैरेवायुधैगसन्स्वयं सह मुमूर्षवः ॥ ३५ ॥ तस्मिन्नवसरे तत्र देवी चित्ररथात्मजा । पत्रलेखामुखाच्छ्रुत्वा पत्युरागमनं ध्रुवम् ॥ ३६ ।। तो पत्रलेखामालम्ब्य सख्या च मदलेखया। समागमन्महाश्वेतासंदर्शनकृतच्छला ॥ ३७ ।। तदवस्थं तमालोक्य तत्र सा पतिता भुवि । मूर्छामये मुहुर्ध्वान्ते ममज्ज मनसोज्झिता ।। ३८ ॥ ततः कादम्बरी वीतमोहा स्मेरमुखाम्बुजा । अनुयानपरा तस्थावनुन्मुक्ताश्रुलोचना ॥ ३९ ॥ दृष्ट्वा मनोरथपति देवाप्तं मातदुर्दशम् । द्रवत्स्वेदसुधाइँण परं पस्पर्श पाणिना ॥ ४० ॥ तत्करामृतसम्पर्कसञ्जातपुलकाङ्करात् । तस्याङ्गात्सहसा ज्योतिरुदभून्महदुज्वलम् ॥ ४१ ॥ दिवि तहदये देहिविकीर्णस्मितचन्द्रिकम् । For Private and Personal Use Only Page #70 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ३८ ) कादम्बरीदत्तदृष्टि शशंस च तदग्रजाम् ॥ ४२ ॥ वत्से ! किं नु महाश्वते ! भवती वेत्यमुं जनम् । पूर्वमाश्वासयंस्त्वां यः पौण्डरीकं हरन्वपुः ॥ ४३ ॥ ममाङ्गमविनाशीदं वह्निसान्मा विधीयताम् । कादम्बरी करस्पर्शात्काममस्त्विदक्षतम् ॥ ४४ ॥ कादम्बर्या ममाप्रत्युज्जीवं तत्प्रतिपाल्यताम् । भविता पुण्डरीकेण तवाप्युपगमश्विरात् ॥ ४५ ॥ इत्युक्त्वाऽन्तरिते तस्मिन्सर्वे विस्मयनोऽभवन् । मेने कादम्बरी विघ्नं प्रियानुगमनं प्रति ॥ ४६ ॥ ततः सा पत्रलेखा तु किमतः परमावयोः । इतीन्द्रायुधमाकृष्य पपाताच्छोदपाथसि ॥ ४७ ॥ सरसस्तावदुदभूत्सलिलार्द्रजटाधरः । वल्कली मधुर स्मेरवदनः स कपिञ्जलः ॥ ४८ ॥ तमालोक्य महाश्वेता सहर्ष जातविस्मया । कपिञ्जलोऽयमुदकात्कथमागतवानहो ! ॥ ४९ ॥ इति सत्वरमुत्थाय प्रत्युद्गम्य प्रणम्य ताम् । कादम्बर्याः पुरः प्राह कपिञ्जलमुदञ्जलिः ॥ ५० ॥ महाभाग ! वदाशेषमधुना ज्ञायते मया । क्व नाथः पुण्डरीको मे को वा दिव्याकृतिः पुमान् ? | तमनुद्रुत्य यातेन किमकारि त्वया ततः । इति पृष्टस्ता सर्वमाचष्ट स्पष्टमादितः ॥ ५२ ॥ शृणु भद्रे ! ननु तदा सख्युर्गात्रापहारिणम् । तमनुद्रुत्य पुरुषं दिव्यं दिवमुपागमम् ॥ ५३ ॥ स पुनस्तारकाचक्रं समतिक्रम्य सत्वरम् ।. चान्द्रं लोकमगात्सान्द्रसुधासुरभिदिङ्मुखम् ॥ ५४ ॥ महोदयायां सदसि तत्रात्यद्भुतसम्पदि । 1 For Private and Personal Use Only Page #71 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ३९ ) तं निक्षिप्य सुधागर्भे पर्यङ्के मामभाषत ॥ ५५ ॥ शृणु भद्राधुना वृत्तं सहृदस्ते कपिञ्जलः । अस्य लोकस्य नाथं मामवेहि हरभूषणम् ॥ ५६ ॥ सुहृत्सोऽयं तवासन्नमरणो मदनार्दितः । त्वयि क्वापि गते कोपादशपन्मामनागसम् ॥ ५७ ॥ यदेवं विरहक्लिन्नं मां मारयसि चन्द्रमः !। तवापि च दशा सेयं भूयाजन्मनि जन्मति ॥ ५८ ॥ श्रुत्वेति सोऽहं कुपितः शापं दत्तमकारणम् । तमेव तस्मै व्यतरं शापं मामदायि यः॥ ५९॥ जन्मनीति द्विरुक्तं यच्छापं तेन प्रयच्छता । तस्माद्वयोधरालोके भवितव द्विरुद्भवः ॥ ६ ॥ मन्मयूखभवा गौरी महाश्वेता तदात्मजा । तदाश्वास्य मुमूर्षु तां वपुर्जामातुरानयम् ॥ ६१ ॥ इतो जन्मद्वयं नीत्वा यावदेष्यति तामयम् । अविनाशि भवेदङ्गं तावदस्यामृतद्रवैः ॥ ६२ ॥ तदद्य भारत वर्षे तारापीडो धरापतिः । तपस्यति तनूजार्थी तस्य यास्यामि पुत्रताम् ॥ ६३ ॥ सुहृत्ये शुकनासस्य सुजातयशसो भुवि । तन्मन्त्रिणस्तनूजत्वं प्राप्य मे भविता सखा ॥ ६४ ॥ त्वमेतत्सुहृदो वृत्तं तत्पित्रे श्वेतकेतवे । विज्ञाप्य विधिवत्तेन कर्मायुष्यं च कारय ॥ ६५॥ इत्यादिष्टः शशाङ्केन सुहृद्विरहशून्यधीः । वजन्कश्चित्तपस्यन्तमत्यलयमम्बरे ॥६६॥ स रुष्टो मां शशापाथ दुर्विनीतस्तुरङ्गवत् । मामुल्लखितवान्येन ततस्त्वं तुरगो भव ॥ ६७ ॥ इति श्रुत्वा मयि कृतपणतो माह शान्तधीः । For Private and Personal Use Only Page #72 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (४०) तस्यान्तस्तव शापान्तो भवेद्य किल वक्ष्यसि ॥ ६८॥ इन्दुरुज्जयिनीभर्तुरूपयास्यति पुत्रताम् । तस्य याहि तुरङ्गत्वं सख्या तव चरिष्यतः ॥ ६९॥ तथेति शिरसा तस्य वहन्नाज्ञां महामुनेः। मन्बा शापममुं लाभसम्भोधेरपतं जले ॥ ७० ॥ उपेत्याथ तुरङ्गस्वमुदभूवं पयोदधेः । कश्चिद् गृहीत्वा मां पादात्तारापीडाय भूपतिः ॥ ७१॥ मामिन्द्रायुधनामानं मारुतोलद्ध्यरंहसम् । तारापीडस्तनूजाय चन्द्रापीडाय दत्तवान् ।। ७२ ।। चन्द्रापीडः शशी तस्य स वैशम्पायनः सखा । शप्तस्त्वया शुकतया पुण्डरीकः प्रियो हि ते ॥ ७३ ॥ तदिदानीमहं तस्य चरितं श्वेतकेतवे । मुक्तशापो निगदितुं यास्यामीत्यगमदिवम् ।। ७४ ॥ हा नाथ ! हा त्वदापत्तिकरी जन्मान्तरेऽपि च । जीवामि हतजीवेयं इत्यात विललाप सा ।। ७५ ॥ कादम्बरी च कान्तस्य तस्य चन्द्रात्मनो वपुः । तच्छासनेन रक्षन्ती पितुः पाप न मन्दिरम् ॥ ७६ ॥ ततस्त्वरितकं नाम दूतं चित्ररथात्मजा । प्राहिणोत्पुत्रवृत्तान्तं तारापीडाय वेदितुम् ।। ७७ ।। तच्छ्रुत्वा मुतयोवृत्तं सामात्यो नृपतिः शुचा । संत्यक्तराज्यः सविधं पुत्रस्याप प्रियासखः ॥ ७८ ।। तमक्षताकृति पुनः पुत्रं दृष्ट्वा प्रजापतिः । विधूतोज्जीवनाशङ्को मेने जीवन्तमेव तम् ॥ ७९ ॥ निरीक्ष्य च स्नुषां तत्र नृपश्चित्ररथात्मजाम् । तद्रूपगुणसौभाग्याविस्मितो बहमन्यत ॥ ८ ॥ तपश्चरन्तं तं तत्र पुत्रस्योज्जीवनावधि । For Private and Personal Use Only Page #73 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ४१ ) भक्त्या पर्यचरत्सा च श्वसुरं स्वयमन्वहम् ॥ ८१ ॥ चन्द्रापीडाहायचन्द्रः स पुनः शूद्रकाह्वयः । जन्मद्वितीयं जायायां विदधे विदिशापतेः ॥ ८२ ॥ चन्द्रापीडस्य या विद्या यद्रूपं ये च ते गुणाः । तथैव तस्मिन्नभवन्शूद्रकेऽपि शुभावहाः || ८३ ॥ पितुरन्त शनैः प्राप्तराज्योऽयं प्रौढयौवनः । सत्सु सत्स्वपि दारेषु विमुख विषयेष्वभूत् ॥ ८४ ॥ स विश्वविजयी सर्वनरेन्द्रा चितपादुकः । - आसेतोरा च कैलासादशेषामशिषद्भुवम् ॥ ८५ ॥ शापेन हंसदुहितुः ततो विन्ध्यवनान्तरे । शुकनाससुतः प्राप शुकतां शाल्मलिद्रुमे ॥ ८६ ॥ जननी जातमात्रेऽस्य विधिनाऽऽप परासुताम् । पिता स्वपक्षे निक्षिप्य मातेवावर्द्धयच्च तम् ॥ ८७ ॥ ततो ant मृगयुरारुह्य तं कविच्छाल्मलिद्रुमम् । अपातयदधस्तस्मादखिलान्शुकपोतकान् ॥ ८८ ॥ 'पक्षगर्भात्पितुरधः पतितोऽयं शुकार्भकः । । अभूदगोचरस्तस्य गुप्तः पत्रान्तरे क्वचित् ॥ ८९ ॥ गते तस्मिन्गृहीत्वाथ शुकानन्यान्स्वगोचरान् । निर्गत्य विलुण्ठना स तृषितो दीर्घिकासुतः (१) ॥ ९० आतपातमवेक्ष्यैनमजातग रुदञ्चलम् । जहार जातकारुण्यो हारीतः स्नातुमागतः ।। ९१ ॥ जावालिर्जनकस्तस्य तेन नीतं दयालुना । शुकाकममुं दृष्ट्वा सकिञ्चिदवोचत ।। ९२ ॥ शुक एष स्वयं भुङ्क्ते स्वस्य दुष्कर्मणः फलम् । विवेकहीनो विपदां परं पात्रं भदेदिति ॥ ९३ ॥ ततः स पृष्टो मुनिभिस्तं पुरस्कृत्य विस्मितैः । For Private and Personal Use Only Page #74 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ४२ ) जन्मद्वितयज वृत्तं तस्याह सकलं मुनिः ॥ ९४ ॥ शुको जाबालिकथितजन्मद्वितयचेष्टितः । सस्मार सहसा हंसदुहितुर्दुःसहस्मरः ॥ ९५ ॥ सखा कपिञ्जल: क्वाध चन्द्रापीडः क्व वा सखा । इति संचिन्तयन्नेव तस्थौ तत्रैव तदिनम् ॥ ९६ ॥ अपरेारथागत्य तमाश्चास्य कपिञ्जलः ॥ त्वमाशापान्तमत्रैव तिष्ठेन्युक्त्वा ययौ दिवम् ॥९७४ चन्द्रापीडं सखायं च महाश्वेतां च वल्लभाम् । स्मरन्नेवावसत्तत्र यावत्पक्षसमुद्गमम् ॥ ९८ ॥ अथ हंससुतां द्रष्टुं प्रस्थितः प्राप्तपक्षतिः । जनगमेन केनापि जगृहे पथि खेदितः ॥ ९९ ॥ स प्राप्य सान्द्रपिशितचिक्कणं क्वापि पक्षणम् । शुकं तं स्वामिकन्याय व्यतरद्विहलाशयम् ॥ १०० ॥ अकरोदमुमादाय सा च चण्डाल कन्यका । पञ्जरेस्थिमये क्वापि रचितघ्राणसंज्वरे ॥ १०१॥ अपरेयुरथालक्षि पक्वणं पुरमद्भुतम् । तदेवसौरभोद्गारि पञ्जरं मणिपिञ्जरम् ॥ १०२ ॥ ततः शुकं तमादाय प्रातश्चण्डालकन्यका। विदिशाधिपतेः पाप शूद्रकस्य सभा शुभाम् ॥१०३॥ संचरन्तीमिव लतां स्तनस्तबकशालिनीम् । पत्युजगाम तां तत्र नृपनेत्रालिमालिका ॥ १०४ ॥ मणिश्यामां लसत्पाणिशुकां शोणस्तनांशुकाम् । जनङ्गमीसमामेतां मतङ्गकुलदेवताम् ॥ १०५ ॥ स्वामिन्नेष शुको वेत्ति स्वजन्मान्तरचेष्टितम् । इति पञ्जरमुद्घाट्य तस्मै साथ ददौ शुकम् ॥ १०६ ॥ स ततः पृच्छते तस्मै शुको जाबालितः श्रुतम् । For Private and Personal Use Only Page #75 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (४३) शशंस सकलं वृत्तं चन्द्रापीडस्य चात्मनः ॥ १०७॥ जगाद जन्मान्तरजवृत्तंश्रवणविस्मितम् । किश्चित्कृतस्मिता साथ चण्डालतनया नृपम् ॥१०८॥ चन्द्रापीडाभिधानो यश्चन्द्रः कादम्बरीसखः। अवगच्छ तमात्मानमधुना शूद्रकाहयम् ॥ १०९ ॥ शापान्तसमयः सोऽयं तवास्य च समागतः । जानीहि जननीमस्य महीवल्लभ ! मां श्रियम् ॥११०।। जातिस्मरत्वं जाबालेरविनीतोऽयमागतः । पुनर्द्रष्टुं महाश्वेतां प्रस्थितः प्रणयातुरः ॥ १११ ॥ आगताऽहममुं रो मादिष्टा श्वेतकेतुना । न चेदितोपि नीचत्वमेव यास्यति कामुकः ॥११२॥ आक्रान्तिपरिहारार्थ जातिर्जानङ्गमी च मे । तव ज्ञापयितुं नीतः सोऽयं जन्मान्तरस्थितिम् ॥११३।। इत्थमुक्त्वा नृपं लक्ष्मीरुत्पपात स्वरुच्चकैः ।। विलुम्पन्ती दिशो विद्युत्पिङ्गेन स्वाङ्गरोचिषा ॥११४॥ कादम्बरी पुरस्कृत्य कर्णान्ताकृष्टकार्मुकः । अतुदन्मदनस्तावदमुं संमोहनैः शरैः ॥ ११५॥ शुकं च शूद्रकं चाथ प्राणान्तं प्रहरिष्यतः । सहायो पदनस्यासीत्समयः सौरभोत्तरः ॥ ११६ ॥ ततः शरीरमुन्मुच्य शूद्रकस्य सुधाकरः आपदच्छोदतीरस्थं चन्द्रापीडस्य तद्वपुः ॥११७॥ तत्र कादम्बरी तस्मिन्समये काममोहिता । परिरेभे वपुस्तस्य परासोः पत्युरादरात् ॥ ११८ ॥ स तावदधुना तन्धि ! स्वैराश्लेषसुखेन ते । उज्जीवितोऽस्म्यहमिति वदन्नभवदुत्थितः ॥ ११९ ॥ सुहृत्तस्यापि शुकतां विहाय पितृगौरवात् । For Private and Personal Use Only Page #76 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ४४ ) अविशञ्चन्द्रलोकस्थमात्मनो बिम्बमादिमम् ॥१२०॥ हारं स हंसदुहितुर्वहन्कण्ठे मनोहरम् । कपिञ्जलकरालम्बी वसुधामवतीर्णवान् ॥ १२१ ॥ तारापीडः समाश्लिष्य पुत्र प्रत्याप्तजीवितम् । आननन्द चिरानष्टमन्धो नेत्रमिवागतम् ॥ १२२ ॥ शुकनासस्य या प्रीतिरपूर्वा पूर्वमात्मजे । पुण्डरीकात्मनि पुनस्तत: शतगुणाऽभवत् ॥ १२३ ॥ श्रुत्वा जामातरौ मुक्तशापावुज्जीवितौ पुनः । इंसचित्ररथौ हेमकूटं निन्यतुरागतौ ॥ १२४ ॥ सुतयोरुभयोस्तत्र स्वैश्वयोचितमेव तौ। अनुकूले दिने ताभ्यामथाग्राहयतां करौ ॥ १२५ ॥ जातपहर्षो जामात्रे राज्यं चित्ररथो ददौ । इंसोऽपि यौवराज्यं स्वं पुण्डरीके न्यबीविशत् ॥ १२६ ।। इत्थं कादम्बरी दैवात्सत्यापनमनोरथा । चन्द्रं साश्रुमुखी प्राह सानुतापातमानसा ॥ १२७ ॥ सर्वे समागता यूयं नाथ ! जन्मद्वयागताः । 'पत्रलेखां न पश्यामि सखी प्रेमाणसंमिताम् (१) ॥१२८॥ इति ब्रुवाणामिन्दुस्तामवोचदमलस्मितः । प्रिये ! सा रोहिणी प्राप्ता महीमद्विरहाक्षमा ॥ १२९ ॥ विमुक्तदेहा चाच्छोदे विपदानि मे पुनः । अनुवर्तितुमैच्छन्मामन्यस्मिन्नपि जन्मनि ॥ १३० ॥ मानुषं वपुरास्थाय भूयः किंवा प्रयोजनम् । त्वमत्रास्वेति सान्त्वेन निर्गतां तां न्यवारयम् ॥१३१॥ सोऽहं सुधामये तत्र शुभे वपुषि सत्यपि । त्वत्कृते प्राप्तवानस्मि वपुरेतच्च मानुषम् ॥ १३२ ॥ इत्यं सा भर्तुराकर्ण्य वाचं मधुरपेशलाम् । For Private and Personal Use Only Page #77 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (४५) विस्मयाकृष्टहृदया बहमन्यत रोहिणीम् ॥ १३३ ।। तारापीडं तपस्यन्तं सावरोधं समन्त्रिणम् । प्रत्यहं चार्चयच्चन्द्रः पुण्डरीकपुरःसरः ॥ १३४॥ कदाचिदुज्जयिन्यां च कदाचिच्चान्तिके पितुः । कदाचिच्चन्द्रलोके च कदाचिच्च त्रिविष्टपे ॥ १३५ । कदाचिद्धेमकूटे च कादम्बर्या स कौतुकी। सह दारेण सह सख्या च व्यहार्षीद्विधुरन्वहम् ।।१३६॥ इत्थं पूर्णमनोरथः स वयसा निर्मुक्तशाप:शशी पित्रोः प्रेमपुरःसरं विरचयन्नभ्यर्चनामन्वहम् । कादम्बर्यनुकूलकामललितस्वेच्छोपभोगक्रमो दीव्यन्मेव दिवि क्षितावपि दधावानन्दकोटि पराम् ॥१३७॥ इति श्रीमन्मण्डनमन्त्रीन्द्रविरचिते मण्डनकादम्बरीदर्पणे चतुर्थः परिच्छेदः । समाप्तोऽयंमण्डनकादम्बरीदर्पणः। कादम्बरीकथासूक्तिमञ्जरीमण्डनोदिता। कर्णावतंसपदवीं कवीनामवगाहताम् ॥ ॥१॥ लिखितं विनायकदासकायस्थेन । संवत. १५०४ वर्षे कार्तिक शुक्ल अष्टमीमङ्गलदिने। For Private and Personal Use Only Page #78 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अर्हम् श्रीहेमचन्द्राचार्यग्रन्थावली. ९. मण्डनग्रन्थाङ्क: २. श्रीचम्पूमण्डनम् S १. मधूचाम् कमलयुगल बुद्धया सेवकानां सुरसमधुरवाचां दत्तमानुषजन्म । परिजनहततृष्णे ! नौमि कृष्णेऽद्यमातस्तव चरणसरोजद्वन्द्वमानन्दहेतुम् ॥ १ ॥ कारुण्यपूर्णकलशा इव शारदेन्दु कुन्दप्रसूनधवलाः कमलायताक्षाः । विक्षालिताञ्जनगिरीन्द्रसमानमुद्र पापा जयन्ति जगतीह जिना जलाच्छाः ॥ २ ॥ कारुण्यपीयुषरसप्रणाली दुर्वारसंसारपयोधिपाली । या जीवसंजीवनरम्यशीला दृष्टिर्जिनानां जयतीन्दुलीला ||३|| निर्मदान्शर्मदान्वन्दे सन्तः सन्तापहारिणः । जगज्जनितशृङ्गारान्मुक्ताहारानिवोज्ज्वलान् ॥ ४ ॥ सदाचाररतां चारुरससन्दोहदायिनीम् । मन्दा निन्दन्ति तान्वन्दे ये गां गङ्गामिवोज्ज्वलाम् ॥ ५ ॥ प्रायश्चित्तातिविमुखा गोः पदच्छेदकारिणः । अशुद्ध रक्तरसनाः सन्ति पुण्यजनः क्वचित् ॥ ६ ॥ अस्ति विस्तीर्णकीर्णगुणगणकिरणपटलपटलितनिखिलधरणिखण्डप्रचण्डतरप्रकाशाडम्बरितम्, अम्बरद्योतिमार्त्तण्ड ॥ For Private and Personal Use Only Page #79 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२) श्रीचम्पूमण्डनम्. पडलायमानम् , यशःप्रकाशनिर्मलितदिक्कुलाचलवलयम् , विकलङ्ककुल तिलकम् , श्रीमालकुलम् । तत्र निबिडदैन्यनिगडखण्डनो बाहडनामा सङ्घपतिरप्रतिम आसीत् । तस्यात्मपन्या सन्मानदः समस्तवस्तुनिर्वेशायतमालवदेशाचलमण्डपमरमण्डनायमानो विनोदमोदमानो जलद इवाखण्डताण्डवितसहलकलाधरशिखण्डमण्डलीको मण्डननामा सङ्घपतिः ।। सोऽहं वच्मि कथां नेमेः सुवर्णा गुणधारिणीम् । मालावत्कोमलग्रन्थां सद्यः सन्तापहारिणीम् ॥१॥ कोमला पदविन्यासरसालङ्कारशालिनी । करोति कस्य नाह्रादं चम्पूश्च प्रमदा सदा ॥ २ ॥ चम्पूमण्डनमानन्दपीयूषरसपूरितम् । करोति कस्य नो चित्तचकोरं चन्द्रिकोपमम् ॥ ३॥ नित्यं पूर्वकवीन्द्रकाव्यसरसीहंसीकृतं यः पुरा तेषां मद्वचसो विलासरसिकं चित्तं कथं जायते ? । श्रीमन्नेमिकथाकथानकमिति श्रोष्यन्ति पुण्याशयाः काव्यं मे सुधियोऽथवा परगुणं स्फारं विधातुं बुधाः॥४॥ सतां कृपावलोकेन काव्यं सौभाग्यभाग् भवेत् । चन्दनान्तर्गतं दारु चारुतामेति चान्दनीम् ॥ ५॥ जयति विजयवर्द्धनमिति नगरं गरिमाणमुद्रहत्पूर्वम् । यत्र विचित्रविलोकी लोकः शोकं जहात्यक्ष्णाम् ॥ ६॥ यत्र जनपदो निर्जरजनसन्तानसुधर्मालङ्कृतः स्वर्गसुखमुमबति । यत्र नित्यं सुपर्णवाहनाश्चैत्या मधुसुहृदोऽपि मधुसदना इवाभान्ति । यत्र पक्षिणो विचारज्ञा हंसाः सुमतयो माय । यत्र सदा वसन्तो वने लोकाश्च नगरे सुखिनः । यत्र बारिकाः सकमलाः सर्वजनाश्च । यत्र माकाराः समाः कृतव For Private and Personal Use Only Page #80 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीहेमचन्द्राचार्यग्रन्थावली. (३ ) सतयः पाणिनश्च । यत्र तडागाः सदा सवनाः पुरप्रान्तभूमयश्च । यत्र क्रीडामयूराः सकलापाः पौराश्च । यत्र सशालानि गृहाणि बनानि च । यत्र सवारणानि गजमन्दिराणि राजद्वाराणि च । नमदो गजेन्द्रेषु, न तु पौरेषु । यत्र त्रुटिर्गान्धिकहट्टेषु, न तु मी । यत्र हृदयभेदो मुक्ताफलेषु, न तु नागरेषु । यत्र भङ्गो । सिनीभ्रूवल्लरीषु, न तु शूरेषु । यत्र चाञ्चल्यं सुन्दरीणां क्षेषु, न तु पौरहृदयेषु। यत्र न कोऽप्यमीअमीशब्दः, एरं बहुवचने जनानाम् । यत्र कोशो महान्सरोजवनेषु मन्दिरेषु च पौराणाम् । यत्र विनीताः पुरवासिनः कृपालुकृषीवलक्षेत्रे कलमादयश्च । यत्र जीवनदाः सदा लोकाः पयोदाश्च । यत्र सुनीलाः कृतसरित इक्षुभूमयो मरकतस्थल्यश्च प्रासादमालानाम्। यत्र ऊर्मिवत्यो नद्यः,न तु जनताः । यत्र काठिन्यं क्रीडापर्वतेषु, न च जनानां स्वान्तेषु । यत्र भयं भीतिशब्दे, न तु पौराणां मध्ये । यत्र त्रासो रत्नेषु रत्नवेदिभिरेव दृश्यते, न च कस्यापि वैरिणः। तत्रासीत्समुद्र इव गम्भीरगुणः समुद्रविजयो नाम राजा । अपि चयस्य क्षमेश्वरवरस्य सदैव कीर्ति माकर्ण्य कर्णपुटकीकृतचित्तवृत्तिः । आनन्दतुन्दिलतया किल निश्चलं स द्विश्वं न निश्वसिति कुड्मलिताक्षिपद्मम् ॥ १॥ किंचदण्डेन यस्य क्षयिता नृपाला धरातलं सम्प्रति पालयन्तः। श्रियं दधुः स्नेहलिनां निकामं मात्सर्यमुत्साय निजं बलानाम् ॥ २ ॥ For Private and Personal Use Only Page #81 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ( ४ ) अन्यच्च श्री चम्पूमण्डनम्. दुर्गाण्यदुर्गाणि कृतानि येन तुरङ्गमाणां खुरघट्टनेन । पुराण्यरण्यान्यरिभूभृतां च www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रयाणनिः शाणभियागतानाम् ||३|| अद्यापि गायन्ति यशांसि यस्यमहीपते भूमिपुरन्दरस्य । कृपाणवज्रेण विदारिताना मालोक्य पक्षान्परभूधराणाम् ॥ ४ ॥ सकलसामन्तसेनाचक्राक्रमणसुविक्रमेण तेन सह सहजकोपकोपितः कोपि नाभूदरातिः सङ्ग्रामेच्छुः नवखण्डमण्ड - लदलमण्डितकनकगिरिशिखर केसरपुञ्ज भासिनि भूत्रलयकुवलये । भोगचञ्चचञ्चरीकेण, विमल यशोविनाशिततमोराशिविशदीकृतदिग्वधूवदनकैरवसमूहेन कैरविणीधवेन निजकरवज्रपञ्जरनिर्जरीकृतशरणागतच कोरकुलदुःखभञ्जनेन, स्वकरसमर्पितामितधनधनदीकृतयाचकलोकपिनाकपाणिना धनुर्धरेण, तेन शिवादेवीति नाम्ना शिवस्वरूपा पतिव्रताssर्या भार्या परिणीता || अपि च अन्यच श्यामलकमलद्वितयं कनकघटाविन्द्रनीलनीलमुखौ | घटितौ काञ्चनवल्ल्यां कल्याणमयीति सा देवी ॥१॥ तस्यास्त्रपां लाजकुली कुलीनगुणान्वितायाः किमुशिक्षतेस्म । तया विनीतत्वमघारि तत्त्वात् कथं लताभ्यः फलसंनताभ्यः ॥ विकचकमलविमलकान्तिवदनारविन्दमन्दीकृतेन्दुमण्डल, For Private and Personal Use Only Page #82 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीहेमचन्द्राचार्यग्रन्थावली. (५) खण्डितसौभाग्यभाग्योदयमात्सर्याश्चर्यकरी, स्थलकमलिनीक दिवसरात्रिविकासिनी, मणिन् पुरझणत्कारच्छलविलोलराजहंसनिःस्वना, अशोकलतेव पद्मरागसरागाङ्गुलीकिसलयविलासयुता, कर्पूरकदलिकेवाभ्यन्तरलीनविचाररूपकर्पूरपूरगर्मी, सुपर्णीव वर्यमुखशुक्तिसम्पुटविमलवचनमुक्ताफलपटेलशृङ्गारितसेवकजना, भारतीव मनोहरार्थालङ्कारालङ्कृतजनसौभाग्यदा, कल्पवल्लीवानल्पदातृत्वगुणगरिमधुरा, पतित्रसाव्रताचरणशुद्धान्तःकरणवर्या,पर्याकुलितधर्मकर्मस्थापनशर्मदा, पतिव्रतान्दवन्द्यपदारविन्दा, सरस्वतीवानवद्यविद्या ज्ञानचातुर्यमनोहरा। अपि चचरणकमलरागं पद्मरागप्रकाशं घनतिमिरप्रकाशं केशपाशं किलास्याः । रचयितुरिह धातुः पौनरुक्त्यं प्रयातं मणिगणतिमिराणां निष्फलारम्भमाजाम् ॥१॥ श्रीसारस्वतमण्डनस्य विदुषां सन्तोषदस्यानुजे चातुर्योचितकाव्यमण्डनधृतभ्रातृत्वसंराजिते । श्रीमन्मण्डनविन्दुना विरचिते श्रीमालवंशेन्दुना चम्पूमण्डननामनीह पटलो ग्रन्थेऽयमाद्योऽभवत् । २. ततस्तयोः शिवादेवीसमुद्रविजययोः परस्परं स्नेहभराकृष्टत्रिविष्टपमुख्यसौख्ययोः समस्तवस्तुसार्थिकप्रार्थनयोः समुल्लसितसदयहृदययोः पवित्रीकरणयोर्मिलितयोः कमलिनीभान्वोरिव महामहानि दिनानि महान्त्यपि तनून्यगमन् । ततःसपर्यायो वसन्तो राजेव स्वजनपरिवारेण संवृतो प्रवकृते कामिनीसभ्रूभङ्गविभ्रमोपदेष्टा,कष्टानि वारयन्निववियुक्तवधूवरप्रण For Private and Personal Use Only Page #83 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ६ ) श्री चम्पूमण्ड नम्. कोपपन्नानि, परपुष्टपटु पटहनिनादमन्दी कृतस्ववैरिवैराग्यधरपुरुषपरुषाभिमानः, प्रस्थितषट्पदपदातिभारपद भर दलिताकुलितवनघनकुसुमस्तोमसमुद्धतधूलिचटुलपटलस्थगि तदिगन्तः, समन्तान्पत्र मानसामन्तसमानीतचन्दनतरुपल्लव परिमलमहामलः, वनवेगवेल्लत्कनककदलिकादलराजिध्वजविराजितः पराजितप लायमानमहामानकवचधरतपोधनयोधः, लतावधूपलवान्विधूनयन्मलयानिलकरेण, अतुच्छकुसुमगुच्छघन स्तनमण्डलान्युद्घाटय न, हसन्निवनवविकसितपुष्पसमूहेन, हेलया कामीव समीहितमनोऽ भिलाषमखण्डितं कुर्वन, दूत इव सर्वकामिमिथुनानि विघटि तानि घटयन, विटपिभिर्महाविटपभुजैराबद्ध दलपुटाञ्जलिभिरालिङ्गितवल्लिबल्ल भैरमितपरोपकारतुष्टेने मरकृत इव । तंत्र बहुला भ्रमरकुलाकुला याचकजनसङ्कुला उदारा नरा इव, मकरन्दजलवर्षिणः क्षीणजला जलदा इव, चूततरवः सरवकोकिलनिनादविडम्बितकादम्बिनीनिर्घोषाः मधुरमधुसन्तोषाद घूर्णिता इव मलयानिलाग्दोलिताः कुसुमरागरक्ताः किंशुकाः मत्ता इवारेजुः । , तत्र कनककुरवककुसुमनिक निष्कासितजाम्बुनदाः प्रमदाः, बकुलकलिकादाममन्दीकृतधामविशालमुक्ताफलहाराः, मनोहराणि कुसुमाम्बराणि दधानाः क्रीडन्त्यः कान्तैः सह कुसुमसमयमेव केवलं मन्यमानाः मानमपहाय ससारं संसारं विचार्य नार्यः कुसुमशरशरजालजर्जरितमहाहङ्कारग्रन्थयः, कामकेलिमनुभवन्ति स्म सुस्मितमुख्यः सर्वाः । अपि च असमकुसुमभाराविद्धभुग्नद्रुशाखः परिमलभरलुभ्यन्भ्राम्यदिन्दिन्दिरौघः । तनुतरदल रागाताम्रनम्राम्ररम्यः For Private and Personal Use Only Page #84 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीहेमचन्द्राचार्यग्रन्थावली. (७) कलगलकुलगीतः प्राप रूपं वसन्तः ॥ १॥ अन्यच्चउनियत्पुलकाभचारुकलिकापुञ्जान्दधानाः परं दन्तच्छिन्नसुकोमलाधरसमारक्तप्रवालाकुराः। कम्पेनाकुलितास्तदागमपदासङ्गेन संवर्धिना मुग्धानामदधुः श्रियं मधुकराश्लिष्टा लता सकताः अथ तरुणजनमनःसुखकरणम्,अङ्गनानां रमणसमागमनसंशयनिवारणम् , अस्तमनमारब्धम् स्वरयदिव दिवसे परस्परावलोकनस्नेहलान, निशागमनसमुत्सुकान,भोगाभरणधरणाय प्रियान्, जलनिधिमधिगम्य रवेविम्ब कमनीयकुङ्कमाभमरुचत्, अपरदिशावध्वा इव वदनं मधुपानरक्तायाः । __अपि च-ततो जरत्कुञ्जरनिभपुञ्जितमिवाञ्जनम् , रञ्जितजगत्रयम् , निर्जितसमस्तज्योतिः, अर्जितम् , अकाण्डदण्डितपुण्डरीकपटलपाण्डिम, दिनसङ्गतरथाङ्गयुगयोगभङ्गसमुद्भवत्कुन्दारधृतघनघृणपतिनादरुदितमयनदीतटम् , त्रस्यद्भिरिव दिवसपतिधृतानादैररविन्दैःकृतमुकुलच्छलाञ्जलिपुटः प्रणम्यमानमिव, श्यामलितकुमुदवनजनितनीलोत्पलभ्रान्ति, दिनादयमुदितकोकयुगक्षणशोकहरम्, प्रचण्डतरचण्डकिरणपरम्परादीपमालासङ्गमितगगनमण्डलखपरोद्धान्तम्, भ्रमरवणं कजलमिव तमः समस्तमाच्छादयति स्म । अपिच लोकबन्धुरधुना विगतोऽयं यद्भयान्मम पदं न कदाचित् । इत्युदीक्ष्य नु तमः शरभेद्य छिन्नकज्जलनिभं प्रससार॥१॥ अपि च चोरयन्मृगदृशां मणिहारान्सश्चरत्सुदृढमन्दिरमध्ये । दृश्यमेव जनतानयनानां धीरचोरवदचिन्त्यमलध्यम् ॥२॥ For Private and Personal Use Only Page #85 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (८) श्रीचम्मपूण्डनम्. अन्यच उदयति दयिते ततो निशायास्तरलकराड्डुरगौरवर्णविश्वे । दिनसमयधियेव चापराधात्तिमिरभरः प्रययौ दरीगिरीणाम्।। यत्र निर्मलगुणाः शशिमुख्या नाशयन्ति जगतां पटुतापम् । भ्रान्तिदस्य निजमार्गगामिनां दुर्जनस्य तिमिरस्य कथा का ततः प्रकटीबभूव चन्द्ररुचिः, विचित्रधवलिमधवलितगिरिशिखरपरम्परा,शरदिव दिवससमानकमनीयकान्तिः, ध्वान्तौघमेघपटलानि दूरीकृत्य गौरीकृतनभोमण्डला,जननयनकमलान्युब्लासयन्ती, जनपदहृदयानि सुखधराणि कुर्वती,धरायै मुक्ताफलनिचोलमिव प्रकाशमपेयन्ती। सखीस्नेहविशेषेण सपरिवारेण कुसुमशरेण वैरिणो विजेतुं प्रस्थितेन विनिवेशः कृत इव भूप्रदेशः। यत्र सितपटकुटीनिभाः पटीयांसः पर्वताः,गन्धवहाव धूतद्रुमशाखास्तारवेषा गङ्गातरङ्गचारुचामरश्रियं भेजुः । काञ्चनाचलविशालदण्डं गगनमण्डलं सितातपत्रमिव लक्ष्यते स्म । विस्मयोऽभवगिरिजाजलधिजयोः कर्पूरगौरावेव हरिहराववलोक यन्त्योः । वल्लभवेश्मगच्छन्तीनां वल्लभानां संभाव्यते गमनं मणिमञ्जीरधीरध्वनिश्रवणेनैव, सान्द्रचन्द्रकिरणावलीकवलितानामलक्ष्याणामीक्षणैः। अपिचजलमपि निखिलं ततो नदीनां विशदतया विजहास दुग्धसिन्धुम् । किल कुलमखिलं च कोकिलानां ___ मधुरगिरेन्दुसितान् निनिन्द हंसान् ॥१॥ अन्यच्चहिमकरकरशुभ्राश्चक्रुरुच्चैश्चकोरा दिशि दिशि मदधारा पारणं वारणानाम् । For Private and Personal Use Only Page #86 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री हेमचन्द्राचार्यग्रन्थावली. दिनमिति कथयन्तश्चन्द्रिकाद्रावपाण्डु निशमतिमुदमापुचक्रवाका वराकाः || २ || अपिच स्मरसमरभुवा श्रमेण खिन्नं स्वकरकृतामृतसेचनेन चन्द्रः । जगदतिगतखेदमादधौ यत् परसुखदाः प्रभवो भवन्ति नित्यम् ||३|| श्री सारस्वतमण्डनस्य विदुषां सन्तोषदस्यानुजे चातुर्योचितकाव्यमण्डनधृतभ्रातृत्वसंराजिते । श्रीमन्मण्डनविन्दुना विरचिते श्रीमालवंशेन्दुना चम्पूमण्डननामनीह पटलो ग्रन्थे द्वितीयोऽभवत् ॥ ३. पूर्वस्मिन्नचलासने मणिमये तिष्टन्दिशो रज्जयन् सर्वाः स्वेन गुणेन भूमिवलयं निःशेषमानन्दयन् । कोशानुद्घटयन्करेण कमलोल्लासं च विस्तारयन् ( ९ ) राजा नव्य इवोदितोऽवनिभृतां भानुः कृशानुद्युतिः ॥ १ ॥ रजनिकर करनिकरकुञ्चित विशालकमलमुकुल बृहत्कारागृह - निबद्धमधुकरबन्दिनो दिनोदये मुञ्चन, चतुरखेग तुरगसङ्गमितरथto भूधरशिरः पथं कृत्वा सत्वरं पश्चिमदिशं विजेतुं जिगमिषुः, कोविदवृन्दवर्णितानवद्यगुणगणगरिमधरो, धरोदयाय दयापरो, द्विजचक्र कृतानन्द, सकलधर्मकर्मपालनाय कृतावतारः, दाहोतीर्णसुवर्णागण्यकिरणचयेन गिरीन्द्रान् काञ्चनाचलनिभान्कुर्वन, सर्वभूवलयं हेमजलजरजः पिञ्जरितमिव प्रकाशयन् । अपि च सरसिजमुखा भृङ्गेक्षणा पयोधरानमन्त्यः परिमलभरानद्धा हंसागमेन रम्यलीलाः । For Private and Personal Use Only Page #87 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१०) श्रीचम्पूमण्डनम्. रवरमणकरासङ्गमोदं वहन्त्य एव नित्य पुरयुक्तयो रेजुर्गेहे सरस्थो नलिन्यः ॥१॥ अथ प्राप्तो निदाघकालः काल इव पथिकविशाललोचनानाम् , आलानमिव विषमवारणस्य, क्षीणबलहेतुः, तृषाकुलानि वनचरकुलानि मृगजलनदीजललोलुपानि लुब्धक इव निपातयन् , द्रुतं द्रुतं द्रुतशातकुम्भरसप्रणालिकामिवांशुमालिकां विस्तारयन् सुवर्णकार इव, समस्तजलाशयशोषितजलो वडवानल इव जलनिधिमवमत्य आयातः, शीतलानपि मलयाचलानिलान् अङ्गसङ्गेनानलनिभान्कुर्वन् विरहानलतप्तो विरहीव, खदिराङ्गारस्फुलिङ्गकणनिभान्यभीक्ष्णं तीक्ष्णदाहानि कामिनो हाररत्नानि दीपयन् दीपिका इव, ज्वलन्तीदिशो दर्शयन् पथिकजनं वनखण्डवहिरिव.पृथकटाहसमान जलाशयाप्रकटतटान्स्फुटीकुर्वन् किश्चिदवशिष्टजलान् चुल्लीज्वलन इव । तस्मिन्काले दाहमपनेतुं शिवादेव्या सह समुद्रविजयो नाम राजा जलयानपत्रबहुलच्छायमतुच्छाच्छजलं क्रीडातडागमवगादुमगमत् , अनुचरीणां सुन्दरीणां लीलाचलच्चरणमणिनूपुरनिःस्वानानाकर्ण्य सन्जीकृतकर्णपुटानि बालमरालकुलानि दधानं मुखं समागतान्यहंसधिया प्रत्युद्गमनधृतचापलानि, विलासिनीनां लीलाकमलभ्रमणानिवारितानां मुखपरिमलवितानां रोलम्बानां पटलान्युपरीन्द्रनीलकान्तीनि समालोक्य जलदमण्डलभियोड्डीनकलहंसकुलम् , परस्परं कुरङ्गलोचनानां सेचनारकमलास्फालनसमुच्छलितम् , कल्लोलविक्षालितनयनोत्पलकज्जलसुनीलकान्ति कालिन्दीजलमिव जलं दधानम् , राजयन्तं यदुराजमिव कान्तामण्डलान्तरालगतं तल्लोचनाञ्चलसंवलितं श्यामलम् । For Private and Personal Use Only Page #88 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीहेमचन्द्राचार्यग्रन्थावली. (११) अपि चहारानुग्रथितान्विशालविगलन्मुक्ताफलान्खेलनात विन्यस्तं स्तनमण्डले प्रचलितं वासो विदुर्न स्त्रियः। धोतं चाधररागमङ्गविगतं श्रीखण्ड सौरभं वातान्तःकुसुमप्रकीर्णकबरीभारं तरन्तं जले ॥१॥ अपि चपरस्परनिषेचनकणितकङ्कणारावतो विलोलजलनिःसरत्तरलवीचिकास्फालनात् । दधुर्वियति मण्डलं प्रचलिता मराला भिया सितातपनिवारणं धृतमिवाङ्गनानां स्फुटम् ॥ २ ॥ ततो ययौ राजा जलकेलिमनुभूय भूयः कान्तासखः, सुखविकसितमुखकमलः, ललनाकरतलसमुललितचामीकरदण्डचारूचामरयुगलेन वीज्यमानस्तडागतरङ्गयुगेनेव चामरीकृतशरीरेण बहुकालखेलनघनस्नेहसमाकृष्टमानसेन, विकचारविन्दलोचना नयन्सन्सुरसाः, सरसो नीरमवगाह्य तीराभिमुखो गजेन्द्र इनोनिद्रकमलाः कमलिनीः कर्षन् वर्षन्तीलकणानगणान् । पुरसुन्दरीभिरवलोक्यमानः, प्रखरशेखरमाणिक्यचयसंवलितोंऽशुमालीवांशुचयैरनुमितः, प्रोत्फुल्लबदनपद्माभिः पद्मिनीभिश्रानुगतः, स्वशरीरमरीचिसञ्चयेनेन्द्रनीलवातायनानि पुरमन्दिराणां चामीकरनिर्मितानीव कुर्वन् , दिवसविरामसमये स्वराजमन्दिराणीन्द्रचापमुद्रामणिगणरचिततोरणानि विवेश । अपि चइन्दुः सुन्दरवेष एष पुरुषाकारं विकृत्यागतो दृष्टिश्चामृतवृष्टिरस्य जगदानन्दाय संभाव्यते । कान्ता चास्य निशा विशालनयना श्यामाभिरामाकृतिः पौराणामिति संस्तुतः कलगिरा राजा विवेशालयम् ॥१॥ For Private and Personal Use Only Page #89 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१२) श्रीचम्पूमण्डनम्. द्विरदरदच्छेदसमानविशदकुसुमोत्तरच्छदेऽनल्पपरिमले शयने शयाना, परिचारिकाजनवालव्यजनवीज्यमाना, शचीसमानानन्तभोगभासमाना, विशालहर्म्यचन्द्रशालायां चन्द्रकान्तस्थूले पार्वणपीयूषमयूखपीयूषस्यन्दशिशिरतरे प्रासादतले कनकगौरशरीरा, गगातरङ्गाभमच्छमतुच्छकान्ति वासो वसाना, चम्पककलिकेव चन्द्रकिरणावरणा, शिवादेवी; निशागमनसमये स्वप्ने ददर्श द्विजमेकम् , आदर्शसदृशकान्ति कुङ्कमरागपिञ्जरितकर्पूरपरागसुन्दरमधोवासो वसानम् , क्षीरोदधिवीचीसमीचीनमरीचिरुचिरमुपरिवसनं परिदधानम् , काश्चनचम्पककुसुमधामान मिव क्षीरसमुद्रतो द्रुतमुपगतम् ; विद्रुतनिद्रामध्यमोहरूपतमोभरम् , परम्, प्रकाशकरम् , करे विधृत्य स्वरागरञ्जितभूमण्डलम् , चिरत्नं रत्नत्रितयं कौस्तुभशुभशोभमुपस्थितम् । अन्यच्च-तेन तद्रत्नत्रयं त्रिलोकदुर्लभमचिन्त्यप्रभं तस्याः करे दत्त्वा 'स्वीक्रियताम् इत्यवादि मुदितमनसा निशावसान एव केवलम् । ततः प्रभातमभवत् , राजभवनघनमङ्गलसूर्यस्वनपूर्यमाणदिङ्मुखमुखरिताखिलकुलशिखरिशिखरम् , उदितदिनकरतरलकरप्रकरसङ्गभङ्गुरपलायमानतिमिरपटलश्यामलीकृतापरदिङ्मुखमण्डलम् , मलिनम् , अपराङ्गनावदनविम्बमिव दिवसपतौ परिणीतप्राचीतरुणीरक्ते, रजनिकरजनितदुर्वियोगकोकयुगसङ्गपरमरमणीयकान्ति, कान्तानां निशि कुसुमशरसमरखेदच्छेदकारि, सन्तापहारि, स्फुटत्कमलकुड्मलदलदलनमिलितसुरभि, किश्चिद्भिनविटपिविटपपटुच्छदपुटमन्दमन्दपवमानम् । अन्यच्च-शिवादेवी विचिन्तयामास लोककृता किं न कृता निद्रा चिरवासिनी मनीषितदा । यस्यामभ्यन्तरलभ्यं कीहक्गगोचरं रत्नम् ॥१॥ For Private and Personal Use Only Page #90 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीमचन्द्राचार्यग्रन्थावली. (१३) अपि चविकसितमुखपद्मा सद्म विद्यागणानां हसितविजितपु ल्ल मल्लिकावु ड्मलश्रीः । अचकथदथ राज्ञे सर्वविज्ञेयधात्रे परिजनमनवा स्वमवृत्तान्तमेनम् ।। २॥ श्रीसारस्वतमण्डनस्य विदुषां सन्तोषदस्यानुजे चातुर्योचितकाव्यमण्डनधृतभ्रातृत्वसंराजिते । श्रीमन्मण्डनविन्दुना विरचिते श्रीमालवंशेन्दुना चम्पूमण्डननामनीह पटलो ग्रन्थे तृतीयोऽभवत् ।। राजापि चिरं स्वगतं विचिन्त्यापि प्रतीत्येकं नवमाचार्यत्रर्यमाकार्य तदागतं स्वमार्थमथ कथयति स्म विस्मितमना बहुनाऽऽदरेण । आवायर्योऽपि विचार्य स्वमकार्य चिरं दथ्यो निमीलितनयनकमलः,संकुचितनिर्वातकुमुदकुड्मलो हूद इव निश्चलो निस्तरङ्गतया, विवेकाविवेकक्षीरनीरभरपृथक्करणप्रवीणसविनोदमनोरूपविलसद्राजहंसः, रत्नाकर इव निर्मलतरविचारचारुरत्नभूषितगर्भगृढसारो नानामतिसरित्समूहमोहनप्रौटः, चन्द्रकान्त इव निर्मलकान्तिः सज्जनवचनपूर्णचन्द्रसन्तोषतूर्णद्रवत्करुणारससन्दोहः, तापमोहखिन्नजनवदनकैरवगर्भभानुजनितसंकोचमोचनपरमवचनपीयूषः पार्वणशर्वरीश इव शिवामेवमुवाच च । अपि च शुभाय संभाव्यत एव सत्यं स्वामस्य वृत्तं भवता यदुक्तम् । - रत्नस्य संदर्शनतरतु रत्नलाभः परं ते भविता नृपालः॥१॥ अपि च फलं किलैतत्पकट पटीयो निगद्यतेऽद्य क्षितिपानवधम् । त्रिलोकसौन्दर्यधरं पवित्रं पुत्रं भवान्प्रापयति रत्नलाभात्॥२॥ अपि च For Private and Personal Use Only Page #91 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१४) श्रीचम्पूमण्डनम्. अशोकचारुपसवारुणाभ्यां चक्रे कराभ्यां ललिताङ्गलिभ्याम् । अन्थि पटान्ते शकुनप्रवीणः स पूज्यमाचार्यमपूपुजच्च ॥ ३॥ ___ ततः कनककेतकीकेतकमुकुलगर्भदलद्विगुणितविमलकान्तिना वदनारविन्देनेन्दीवरसुन्दरेक्षणेन लक्षिता, तस्य भूभर्तुः पत्नी, बभूवान्तर्वत्नी, रत्नगर्भा इवानर्थ्यरत्नगर्भभूषिता अन्तनिलीनपीनरत्नगुणादभ्रविभ्रममयी,शरन्निशा इव उन्निद्रमुखचन्द्रमण्डलकिरणमण्डलीप्रोज्ज्वलीकृतोच्चञ्चुकुचयुगलतुन्दिलनिश्चलचकोरयुग्मसङ्गमशोभमाना, अलसगमना, त्रिभुवनभरधरगर्भोद्वहनप्रयत्नभारभङ्गरमध्यप्रदेशा, विशाललोललोचनकमलानुमितामितविक्लवा, घनसारवल्लीवान्तीनघनसारपूर्णगौरवा, परिमललुब्धमिवानिलमिलनक्षुब्धमिन्द्रनीलसुनीलमलियुगलं सुविभ्रमवद् भ्रमरद्वन्दं वहन्ती, समस्तवस्तुप्रार्थनासफलितमनोरथा सती; अप्राप्य वस्तुकथापि कर्णान्तराले नासीत्तस्याः । तदपि दोहदार्थमेवं समर्थयति स्म विस्मितस्य राज्ञः सुज्ञस्य पुरस्तात् । धव-खदिर-धन्वन-पलास-पनस-तिनिस - तिन्दुक-तिलक-बिभीतक-भल्लातक-कम्पिल्ल-बिल्व--कदम्ब-राजकदम्ब तुङ्ग-नागरङ्ग-पुन्नाग--सिन्दुवार-वरण--कर्णिकार-सहकार काञ्चनार-काश्चन-मुचुकुन्द-मकरन्द-प्रियाल-शाल-सरलरक्तफल-नक्तमालविशालच्छायासु, स्यन्दमानामन्दमकरन्दलवोत्कुल्लवनमल्लिकाकुञ्जलीनसमुज्जृम्भितमञ्जुलगुञ्जरञ्जितनिश्चलहरिणयुथासु, द्विरदमदभ्रान्तभ्रमरभरचरणाघातजारतनिझरीतीरकरञ्जमञ्जरीरजःपाण्डुरितशिखण्डिमण्डलीषु, निष्काननत्वात् सदाफलबदरिकातलपतितबदरपटलपटुतरेखीफलमुदितमुनिकन्यासु वन्यासु रिरंसुरहम् । अपि चभूपतिः स मुमुदे कुमुदाक्षीदोहदेन यतिसूनुशंसिना।। अकुरो मरुवकस्य धरान्तर्लक्ष्यते परिमलेन धरण्याः ॥१॥ For Private and Personal Use Only Page #92 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra अपि च www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीहेमचन्द्राचायेग्रन्थावली. विकचकमललीलाशालिरम्याननश्रीर्विमलजलसमानमोल्लसच्चित्तवृत्तिः । सर इव नरपालः पालयन्बालमेघ प्रसवदिवसमासीदुन्मुखस्तन्मुखस्य || २ || , ( १५ ) अपि च अर्थेन किं दुर्मदमेदुरेण किं विद्यया मत्सर निन्द्यया च । स्यादङ्गजः कल्मषभङ्गजन्मा वदन्निदं प्राप मुदं महीपः ||३|| तनयजननकाले स्तोक एवावशिष्टे वदनमभवदस्य प्रोद्यदुत्तालभासि । उदयसमयरुडे वासरेशप्रकाशे कमलमित्र विशालं किञ्चिदुद्भिन्नकोशम् ॥ ४ ॥ किच- अपांसुलमृदुलतालवृन्ता निलसमानपवमानशोभमाने, मन्दारकुसुमामन्द तर मोदस्य न्दिमु दिनहु दिरधारासम्पातचारुसम्पत्तौ प्रबलमङ्गलतूर्यनिनादानन्दित दिवौकसि, पुण्डरीक पटलपाण्डुरवर्णप्रसन्नदशदिशि, प्रोल्लसितजनवदनकमले, विमलोद्भासिभास्करमहसि दुर्द्धरभूभारधरणव्याकुलाङ्ग समुच्छ्वसितनागकुले, दुर्नयशासनकम्पमानपवमानहताश्वत्थदलली लोल्लसितनिश्चलधरणिमण्डले, आखण्डलमेरिताखिलजनाद लोपिदिव्यतूर्यध्वनिपूर्यमाणदश दिङ्मुखे, चन्दनरसामन्द सेक विराजितपौराङ्गणे, आनन्दसम्भ्रमस विभ्रमनगरनायकागणे, प्रतिमन्दिरर चितोचि - तमणिमयतोरणे, दरिद्रमुद्रयाचक लोकशोकहरजे, प्रतिचत्वरं त्वरितमङ्गलमालिका विकासिपुण्ययुवतिजने, कुसुमभरनमितकलितवन्ध्यवने, समुज्जृम्भितमधुरगन्धर्वललितरागे, घनानन्दिल त्रिभुवने, शुभदिने, शिवादेवी सुतमजनयत्, नयनसुखदेदीप्यमानशरीरतेजःपुररञ्जितधरणिमण्डलम्, कुतूहलेन बालवेषधरं कनकधराधरमित्र । For Private and Personal Use Only Page #93 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१६) श्रीचम्पूमण्डनम्. कर्पूरपूरगौराङ्गमिन्दीवरविलोचनम् । मन्दीचकार नृपतिस्तं विलोक्यान्यलोकताम् ॥ १ ॥ मपि च तस्य क्षितीशस्य पुरातनेन पुण्येन लब्धेन सुदुर्लभेन। बभौ ततस्तेन सुतेन राजी निधानकुम्भेन धरेव भव्या ॥२॥ अपि च असौ धर्मार्थचक्रस्य भारोद्धरणधीरधीः । अतस्तं नेमिरित्याह राजा सञ्जातकौतुकः ॥ ३ ॥ स भुवनभवनान्तस्थो निमलयन् दश दिशो महाभित्तीः । वर्द्धयति स्म स्मृद्धिं दीप इव दशाविशालरुचिः ॥ ४ ॥ अपि चगण इव गणनानां तेजसां देहधारी ज्वलन इव परेषां सैन्यवन्यापहारी । इति जगति जनानां पश्यतां भ्रान्तिकारी _व्यरुचदति स नेमिः क्रिडयाश्चर्यकारी ॥ ५ ॥ किञ्च-असौ बालकशृङ्गारभङ्गीमङ्गीकृत्य सवीडं क्रीडन् , पितृमानसे मुदं वर्द्धयन् , हृदयानन्दनकोमलशब्दसुखं ददानः, कुड्डमरागरक्तचरणकमलतलः, पक्षद्वयराजमानस्तु राजमानसजीवनशृङ्गारः, परिजनकरकमलवनघनसङ्गशोभमानः, बालमराल इव रराज । शुक इव शिक्षितवचनानुवदननिपुणः, सज्जनमनोरञ्जनमधुरवचनविलासः पिक इव, राजाङ्गणे विस्तारितकर्पूरलिधूसरगात्रमादधानः, धात्रीकरविरचितदुष्टजनदृष्टिपातबन्धनमृगमदपङ्कतिलकचारुललाटफलकः, सूक्ष्मज्ञशकलक्ष्मलाञ्छितः शशलाञ्छन इव, कलङ्कबुद्धिभ्रान्तजनवचनभ्रममपनेतुमुज्ज्वलनिष्कलङ्कशरीरः समागत इव स्वर्गात , भूभागं मणिमय For Private and Personal Use Only Page #94 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीहेमचन्द्राचार्यग्रन्थावली. (१७) मन्दिराङ्गणे रङ्गन् ,अङ्गसङ्गतां निजच्छायाम् आयाहि'इतिवदन् , सदनस्थजनं सहसा हासयांचकार । धावन्मणिनूपुरवं पृथक्कृत्वा ‘देहि' इति धाव्या सह विवदमानः, मणिस्थलसङ्क्रान्तमात्मानमवलोक्याहर्तुकामः, धाव्यङ्गुलीमवलम्ब्य विलम्बितगमनः, मनोरथं वर्द्धयन् नेमिः, अमितगुणः, पितुहृदयस्थं खेदं दूरीचकार इति, किं पुनर्दुःखमित्यक्षरद्वयमपि विस्मारयति स्म । किश्च-ततो भोगातिरिक्तमाल्यमिव बाल्यमपहाय तारुण्यमङ्गीचकार । दर्जनभवल्लभोपालवाय धमकेतशिखे इव नवनवस्फुटितकन्दलीसुनीले श्मश्रुणी बभार । अमन्दकान्तिजाम्बुनदशिलाविशालवक्षःस्थलोडविडम्बिमुक्ताफलहारः, परमरमणीयजानुचरसरलदोर्दण्डभूषितमणिमयबाहुभूषणः, सुवर्णकदलीश्लाघालड्डिजवायुगलतरङ्गिताङ्गशृङ्गारितचैलः, शीलविलम्बिताम्भोधिगाम्भीर्यधैर्यः, फलभरनमिततरुवर इव विनीतः, शीतकर इव सकलजनालादकरः, पञ्चानन इव सञ्चारितभयारिकलभभग्नाभिमानः, काश्चनाचल इव काञ्चनविनिमयोर्जद्भुजयुगकल्पद्रुमद्वयसमाश्रितः । अपि च औदार्य सुरभूरुहाज्जलनिधेर्गाम्भीर्यमर्यादित ___ लावण्यं कुसुमायुधान्मुनिजनात्कारुण्यमत्युत्तमात् । आदाय क्षितिमण्डले तनुभृदाऽऽनन्दाय वन्द्याकृते र्धाता तस्य चकार कारणपटोर्जन्मात्र सन्मानिनः ॥१॥ अपि च कन्दर्पदर्प विफलीचकार रूपेण कोपेन बलं नृपाणाम् । विश्वंभराभारधरः स्थिरश्रीनेमिर्भुजङ्गेन्द्रसमानबाहुः ॥२॥ अन्यच्चयशःसमुज्ज्वाल्य दिशोऽस्य राज्ञः कर्पूरपूरीकृतमेदिनीभृत् । For Private and Personal Use Only Page #95 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१८) श्रीचम्पूमण्डनम्. दिवे सरीसर्ति च मर्त्यलोकात् कलङ्किनो नाशयितुं कलङ्कम्॥३॥ अपि चयदानवारिसरितः परितः पुनन्ति लोका जलं जलनिधेरपि पूरयन्ति । यदत्तकाश्चनविवृद्धसमृद्धयश्व सर्वेऽर्थिनोऽपि किल दातृगुणं भजन्ते ॥४॥ किञ्च यस्याङ्गसङ्गेन पुन: पटीरः पटीयसो भूधरसौख्यमाप । कर्थितो येन पुरा पुरारिर्भुजङ्गसंसर्गमपास्य तं च ॥५॥ सकलगुणनिधानं सन्निधानं दधानं हृदयगतसुधानां निर्मलानां बुधानाम् । सति महति समुत्थेऽगण्यतारुण्यरूपे __ तदपि सपदि नेमि मानयामासुराः ॥ ६॥ श्रीसारस्वतमण्डनस्य विदुषां सन्तोषदरयानुजे चातुर्योचितकाव्यमण्डनधृतभ्रातृत्वसंराजिते । श्रीमन्मण्डनविन्दुना विरचिते श्रीमालवंशेन्दुना चम्पूमण्डननामनीह पटलो ग्रन्थे चतुर्थोऽभवत् । विविधकलाधरविबुधमागधवर्णितगुणम् , कीर्तिवालमल्लिकापरिमलपरिमलितदिगन्तवलयं शरत्कालमिव,यशश्चन्दनपरिमलमिलितामितवेतालिकललितालिमालिकमलयाचलमिव, तमाकर्ण्य वर्ण्यमानमहिमानम् , अनन्तलावण्यसम्पन्नम् , सम्पद्विनिमयपरायणम् , नेमिनाथम् सञ्जातकौतुकः, तदर्शनविद्धतृष्णः, अथ कृष्णोऽनिसौहार्दाकुर्दनसमुत्सुकः, विस्मयकारिपवित्रचरित्रभाजनम् , आयान्तम् , इयेष । किञ्च-ततो दूतोऽस्य शीघ्रगामी समीर इव, मनोवाहमारुख For Private and Personal Use Only Page #96 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीहेपचन्द्राचार्यग्रन्थावली. (१९) शैलान् लीलयैवोल्थ्य विजयवर्द्धनं पुरं ययौ । अध्वानमनल्पमल्पमेव मन्यमानः, समुद्रविजयं राजानं प्राप्य, 'जय' इति वाचमुच्चार्य प्राञ्जलिः प्रणम्य, सम्यक् तं कृष्णोदन्तं न्यवेदयत् । __राजापि सञ्जातानन्दः कृष्णोदन्तमाकर्ण्य पार्वणचन्द्रमण्डलगलत्पीयूषसुखदं निर्भरमानन्दजलभरिताम्भोधिरिव रराज । निजान्तःकरणसमुच्छ्वसितप्रचुररोमाञ्चसञ्चयकञ्चुकीकृतशरीरो धराधर इवाम्भोधरकालस्फुटत्कुड्मलकदम्बकुसुमनद्धः, निर्भरमानर्तितमनोमयूरः, स्फुरल्लोचनचातकयुगशृङ्गारितः,तुङ्गगङ्गाजलर्निर्मलो जलद इव, स त्वरयामाप नेमि कुमारं सुहृत्स्नेहवर्द्धिष्णुं विष्णुं प्रति। किञ्च-स नेमिः समूतं रथं कृत्वा समारूढः प्रौढः मूर्य इनातिवर्यकान्तिः द्वारावतीं पुरं प्रति चलितः । अपि चजननयनसरोजान्यजसोल्लासयन्सन् चतुरनगरमध्यं भासयन्भासमुहैः । स्फुटकरपुटभृद्भिवन्धमानो जनौधैः तरलतुरगवेगात्सङ्गतो नो रजोभिः ॥ १ ॥ अपि चपवनमनुसरद्भिः कृष्णसारैरिवांशु क्षुरतरलितपांशुप्रांशुरोपात्त्यजद्भिः । सपदि वरतुरङ्गरुह्यमानो व्यपश्य त्रसितमणिसुरेखाकारवेषा वनालीः ॥२॥ अन्यच्चतव रथपथभूमेरुद्धतं धृलिजालं प्रचलदचलशृङ्गाच्चातका विक्षमाणाः । For Private and Personal Use Only Page #97 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (२०) श्रीचम्पूमण्डनम्. नवजलदमुदोऽमी संनदन्त्येवमाचं स्मितविकसितवक्त्रं नेमिमाहाथ सूतः ॥ अपि च विषमसमभूमिसमुच्छलञ्चपलतुरगवेगोत्पतन्तीभिः पतन्तीभिश्च रथशृङ्गारचामरपरम्पराभिः स्वयं विज्यमानो भगवान् गङ्गातरङ्गसङ्गीकृतो हिमाचल इव निर्मलकान्तिर्विलसति । पश्यन्नश्यद्रुतगन्धवाहवृद्धगमनवाहूवाहितरथचक्रविघटितहाटकवर्णधरणिखण्डसमुड्डीनपीनरजोमण्डलम् , अर्द्धदण्डमातपत्रमिव, तव पृष्टतोऽदभ्रम् , अभ्रगतं भ्रमति । ___ अमी समीरयायिनो हरिणाः समीरास्फालनेन स्फालन्तः; भवतोऽतिचपलपलायमानरथयुगसङ्घटितस्कन्धवृद्धकोपस्तब्धकर्णदलतुरगगमनानि शिक्ष्यमाणा इव; निम्नाभिमुखमभिसरन्तः वेगमुकुलीकृतकर्णाः, भङ्गवर्णाः, तब रथवाहाः कालिन्दीज प्रवाहा इव नयनालक्ष्या लक्ष्यन्ते । विशालवंशविवरगतसमीरध्वनिमाकर्ण्य कर्णसुखमविलोलश्रवणदलमुक्तधराधरं लिखितप्रख्याङ्ग मृगद्वन्द्वमानन्दमयमाहतुकामो व्यामोहकृन्मगादनश्चित्रस्थल इव पुरतस्तिष्ठति । वेष्टितानां च भोगैर्भोगिनः स्वबन्धनानि मन्दीकुर्वन्ति चन्दनानां किरातिकाकेशपाशानवलोक्य कलापिकलापभ्रमेण पुरो वनखण्डे । इतो दंष्ट्राड्डरोत्खातगुन्द्राङ्कुरा द्राक महामहा अहङ्कारिणः स्यन्दननादमाकर्ण्य स्पोद्धतसटाः कालायसशैलानुकारिणः क्रोडाः क्रीडन्त्येषु पल्वलजलेषु । इतः कण्डूविडम्बितकृतघृष्टविटपिकुसुमकुड्मलनिश्चलैः समुच्छलद्भिभ्रमरैः पटुकटमदलुब्धैर्विद्राविता द्रुतं द्रवन्ति दन्तिनो जलाशयान्मति विवशा निदाघतप्ता इव । इतश्च गङ्गातरङ्गसीकरशिशिरास्तरलयन्तो नबैलाश्चलान् कमलपरिमलशालिनोमी भवदूदनसौरभ्यलोभिन इव वान्ति मन्दमन्दमनिलाः । For Private and Personal Use Only Page #98 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीहेमचन्द्राचार्यग्रन्थावली. (२१) पुरः स्फुरति गौतमी चटुलभङ्गरगजल , स्फुटत्कुमुदकुमलाकुलितचक्रचक्राङ्किता । पयःप्लवनसङ्कुचन्नलिनकोशसन्दर्शना ____ निशागमनसंभ्रमाञ्चलचकोरसङ्घाश्रिता ॥१॥ अपि चस्फटिकमणिरुचस्तटे तटिन्याः कमलभुजो विलसन्ति तापसेन्द्राः । बहुलधृतघृणा द्रुमान्तरान्त ___स्तदनुचरा विचरन्ति राजहंसाः ॥ २ ॥ अपि च-- स्फुटमनुतटमेतत्कन्दलीकन्दलीनं मुनिजनकरगर्भग्रासनिस्त्रासमास्ते । हरितहरिणयूथं श्यामलालोलनेत्रै-- नलिनचरमधूचां भृङ्गिकाभ्रान्तिदायि : ३॥ अपि तुमृदुपवनवेल्लत्पल्लवोत्रासितानां . हरितरुचिनिकुञ्ज मञ्जुलं वझुलानाम् । अनुतटघटितानां पेशलैरिन्द्रनीलः ___कलयति किल शोभाविभ्रमं कुटिमानाम् ॥४॥ कनककमलधूलीधूसरा राजहंसा __विदधनि च सुपर्णस्वर्णवर्ण तटस्थाः । जलमपि न पिबन्तः प्रेक्ष्य चैतांस्त्यजन्ति स्थलमितनिचुलानां वायुवेगा भुजङ्गाः ॥५॥ मपि चइह कचलोपसमूहा निर्भरकरुणारसैभरिताः। भ्रमयन्तश्चमराली मन्दं मन्दं पदं दधति ॥६॥ For Private and Personal Use Only Page #99 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( २२ . ) श्री चम्पूमण्डनम्. इह नगरबधूनां शिञ्जितं नूपुराणां सपदि मुदितचित्ता राजहंसा निशम्य । तदनु परिसरन्तो मत्तहंसी निनादभ्रममधिगतवः तो मन्दिरेष्वापतन्ति ||७|| पुरतो द्वारावतीसौधानां रुद्धांशुमा लिरथपथा अभ्रपभ्रंलिहा अमी चामीकरकलशाः कनकविहङ्गा इवोडीना आदृष्टिपातं निरन्तरा दीप्यन्ते । दिव्यमणिमन्दिरपताकाश्च गगनचुम्बन चपलाः विक्षिप्तपक्षपक्षिश्रियमाश्रयन्ति । समदमदगलबृंहितानि कलभवृन्दचीत्कृतानि चान्तरतरलतुरङ्ग हे षितानि विपणिगतापणिकलोकक्रयविक्रयसम्भ्रमवचनानि चाकयन्ते । देवालयोद्धूमितधूप धूममण्डलानि बहुपरिमलानि चन्दनाचलानिलाः परस्परं विभागभाजिन इव विभज्य दिशि दिशि नयन्ति । तुङ्गववल गृहवातायनस्था अन्तरिक्षकमलिन्य इव कमलबदना मदनातिगर्विताः समन्तात् दृश्यन्ते । इतः पद्मरागमरकतपणीनां तोरणानि गगनमण्डलमाखण्डलधनुले खाङ्कितमिव रवरुद्भासयन्ति । इतः पौराणामक्षीणान्तरिन्दिराणां मणिमन्दिराणां इरिन्मणिशिलानि बद्धस्थलान्यङ्गणानि क्रीडाबालम रालमालिकानां शैवलजलाशयधियं वर्द्धयन्ति । अत्र निवासस्तम्भनिषण्णोत्पक्षपक्षाघातविक्षेपयञ्झम्पितश्येनझम्पाप्रकम्पाकुलितस्तम्भसमुद्धान्तानि शरदभ्र शोभाविभ्रमायमाणानि गगनोदरे चापाराणि पारापतमण्डलानि निर्भरं भ्रमन्ति । अत्र चन्द्रचूडनिविडतप: खण्डनभूतदण्डस्तु कुण्डलीकृतकोदण्डः स्वगुरुनगरगर्वधरः परमरूपसम्पन्न एवावसन्नतपोधनजनमानः सुखेन खेलति रतिपतिः । अत्र कनकघटितघटी निभतुङ्गत र शृङ्गतुलितकलधौतशैलशिवरपरम्परासु प्रतोलिकासु सततगतिरपि सततं सञ्चरन् विलम्बमान एवाम्बरान्तराले जर्जरितशरीरः कष्टेन तिष्ठति । For Private and Personal Use Only Page #100 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीहेमचन्द्राचार्यग्रन्थावली. (२३) अत्र प्रतोलिकाशृङ्गे विश्रान्तहयस्य सप्तहयस्य हयानवलोक्य जलदमण्डलोद्भर्जितान्क्रीडाशिखण्डिनस्ताण्डवाडम्बरिताः शिखण्डमण्डपान्मण्डलयन्त्युच्चतरप्रासादशिखरनिवासर्रासकाः । अत्र मुक्ताफलधवलकिरणा धवलयन्तो गगनमण्डलमिन्दूपलपासादशैला द्रवन्तश्चन्द्रकरैनिशि दिनकरकरसङ्गसमुच्छलत्तुहिनजलकलोलस्य तुहिनाचलस्य शोभां बिभ्रति । उपान्ते च उपवनराजयो दृश्यन्ते । जयोज कुसुमशरस्य । कुसुमधनुष्टङ्कारवशकाकुलिताः, कुसुमलतोद्भ्रान्तभ्रमरहुङ्कारपकायमानाः नगराङ्गनानां नयनोपान्तसम्पातकम्पायमानाः अरण्यानीषु हरिणीलोचनाञ्चलश्रेणीभिरपि मुहुर्मुह्यन्ति तपोधनसमूहाः। चञ्चुपुटजर्जरितवर्जूरीपक्कफलगलद्रसास्वादनिर्जरीकृतशरीराः कीराः, पण्डिता इवाखण्डितं सुभाषितानि पठन्तस्तु लुठन्तः पादपपल्लवेषु, अभिनवगोष्ठीभिश्च रमयन्ति पथिकान् शमयन्ति च तेषां चिरभ्रमणश्रमान् । पटुतरविटपिकोटरान्तरालगता: किरातानभिसरतः सारिका धर्मोपदेशे स्थापयन्त्यो वनदेवतावचनविलासभ्रान्तिमुत्पादयन्ति । इह निर्भरमटन्षट्पदपदसंघट्टविघटितकनककेतकीपटुकुड्मलसमुश्छललिपटलपांसुलासु वनस्थलीषु वेल्लदुत्फुल्लवल्लिकाजाल जटिलतरुपल्लवोल्ललितनानाविहङ्गभृङ्गसङ्गभङ्गुरकुसुमभरगलदुत्तालमकरन्दजलकल्लोलकर्दमकई मिलासु कुर्दनगमना मजन्त इव पवना मन्द मन्दमुच्चलन्ति । इह मृदुलपवमानवलनकिश्चित्कणितवीणाकलकणनमूढमनसो मत्तमधुकरीशाङ्कृतिभ्रमझम्पितान्वीणासु पततः मधुकरान्समन्तात्समालोक्य किमरा किमरीभिःसहासमालपन्ति । अपि चभवति मधुरगीतं कोकिलानां कुलानां - विटपिदलपुटाली ताललीलां दधाति । For Private and Personal Use Only Page #101 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (२४ ) श्रीचम्पूमण्डनम्. इह च कुसुमवल्लीमन्दमान्दोलयन्सन् स्वयमपि नटवेषं नाटयत्येष वायुः ॥१॥ अपि च नन्दनमिव वनमेतद्यत्र नराः किन्नरा इवाभान्ति । स्वरप्रवीणा वीणां कणयन्तो मधुरनिस्वानाम् ॥२॥ अपि चइनि निगदिति सूते यावदुन्मेषमात्रं __रथनगणितभूमिारिकामाप नेमिः । तमभिमुखमयासीत्केशवः स्यन्दनेन प्रबलममिततूर्य सैन्यमादाय मोदात् ॥ ३॥ श्रीसारस्वतमण्डनस्य विन्दुषां सन्तोषदस्यानुजे चातुर्योंचितकाव्यमण्डनधृतभ्रातृत्वसंगजिते। श्रीमन्मण्डनविन्दुना विरचिते श्रीमालवंशेन्दुना चम्पूमण्डननामनीह पटलो ग्रन्थेऽभवत्पञ्चमः ।। उत्तीर्णयोरथपथादथ सम्भ्रमेण श्रीकृष्णनैमिनृपयोश्चिरकालमासीत् । आलिङ्गतोस्तदनुकज्जलहेमभूभृत् ___ सङ्गस्य कान्तिरसितातिपीतभासोः ॥१॥ अपि च नेमिमात्मरथं नीत्वा हेमचम्पकभासुरम् । पुरं निन्ये तमालेभे विद्युद्योतमिवाम्बुदः ॥२॥ अपि च-- लोकानेकान्तसुभगान् सन्ननांश्च समन्ततः । आलोकयन्नथ प्राप्तो नेमिनाथश्चतुष्पथम् ॥३॥ अपि चनीराजनाविराजितवदनः सदनेषु कृष्णनाथस्य । For Private and Personal Use Only Page #102 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीहेमचन्द्राचार्यग्रन्थावली. ( २५ ) यदुजननयनानन्दश्चन्द्र इव नवोऽभवन्नेमि ॥४॥ अपि च सवृष्णिना कृष्णेन सह नानाक्रीडनेन क्रीडतस्तस्य प्रचण्डदोर्दण्डमण्डपविश्रान्तसौन्दर्यशौर्यश्रीपरमरमणीयाधारस्य कुमारनेमेविवाहकार्य निष्पादयितुं मुदितमनाः सपदि शिवादेवीं समुद्रविजयराजानमयमाह्वयांचक्रे उपक्रान्तकौतुकश्चक्रपाणिः । शिवादेवीसमुद्रविजययोर्दुतमायातयोस्तयोरपि दर्शनेनानन्दमयो भवति स्म सुस्मितमुखः कृष्णः।। अपि च दुर्जयगर्वपर्वतायमानसर्वमानवपतिमानविक्रमाखण्डखण्डनाखण्डलोग्रस्य उग्रसेनस्य कन्या राजिमतीति नाम्ना आम्नायशुद्धचारुगुणा वर्ण्यते स्म कयाप्युग्रसेनशुद्धान्तवध्वा । तथाहि-कुडमाङ्कपकिलमिवेलातलमस्याश्चरणरागरञ्जितं शृङ्गारितमिव निपतितकोकनददलभङ्गभ्रान्त्या षट्पदमालिकाभिरभिगम्यते, बालिकाभिश्च नम्यते । कनकनूपुरच्छद्मना चरणपाद्वन्द्वंनिषेव्यते, सुवर्णेनाङ्गकान्तिविजितवर्णनास्याः प्रसादमासादयितुम् । अस्या बाहुयुगभ्रूयुगलेन काञ्चनेन्द्रनीलवल्लीद्वयशोमां विभज्य भज्यते । अस्या बिम्बाधरद्वन्द्वबिम्बं विकासिहासधवलिमधबलितवक्षःस्थलतरलेन्द्रनीलहारमभ्यन्तरोद्भिन्नकुसुमसमुहं बालप्रवालयुगलं हसति । सरलः कुन्तलकलापः कालिन्दीजलमिन्दीबरं हसति लोचनश्रीश्च । अस्याः सहासेन वचनविलासेन निर्मलसुधाकल्लोलधवलधाम्ना सह स्पर्द्धमान इन्दुः सुधाबिन्दुयते। अस्याः कोमलकरतलरागमवलोक्य माणिक्यचयः स्वरङ्गमङ्गीकरोति, लज्जामवजानन् तदुपलकुलसहजकाठिन्यम् ।। ...मस्याः स्थलकमलिनीकोमलशरीराया नितम्बंबिम्बनिसम्पमानमेखलेन्द्रनीलमालिका अन्तःकिश्चित्क्वणकिङ्किणीन-- For Private and Personal Use Only Page #103 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( २६ ) श्रीचम्पूमण्डनम्. गत्कारधारिणी परिमललुब्धेन्दिन्दिरसुन्दरदामरमणीयतामबकम्बयति। अपिचअस्या दृष्टिरनञ्जनापि मधुपश्रेणीसमैणीदशः कण्ठे मौक्तिकमालिका जनदृगान्दोलाय दोलायते । मालप्तिः सुमनोहरा मधुलसत्सङ्गीतभृङ्गीम्वनिः मूर्तिः सन्नतिशालिनी स्मरधनुर्वल्लीव सल्लीलया ॥१॥ इत्यगण्यलावण्यचन्द्रोदयभूषणां क्षणदामिव राजिमति संवर्ण्य साऽवरोधवधूचकोरी विरराम । अन्यच तमेव देवकीसूनुः कन्यामन्यां जगत्रयात् । नेमये समये तस्मिन्नुग्रसेनमथार्थयत् ॥ १ ॥ अपि च प्रार्थनां नान्यथा चक्रे चक्रपाणेः कृपानिधेः । उग्रसेनो विनोदाम्बुपूर्णोऽम्बुद इवोल्लसन ॥२॥ विवाहकौतूहललोलचित्तोऽभवत्सुतायास्तदनुग्रसेनः । द्वारावतीं वृष्णिपतिर्ययौ च प्रमोदसूर्योल्लसदाननाब्जः ॥३॥ अन्यच्च-ततः कन्याविवाहसमये उग्रसेननृपानन्दपूर्णेन्दुमहोदये परममुदितजनतावदनकुमुदवनमुनिद्रमुद्रमभवत्, द्राक् मधुरतरं सरोवरायमाणं मथुरापुरं च । नानाविधविवाहविध्युक्तकर्म निर्माण निपुण रमणीगण सञ्चरणासश्चरणक्षणकङ्कणमञ्जुशिजाननूपुरकलकलभ्रियमाणगर्भमभूत् अन्तःपुरं च । अगण्यपुण्यपुरन्ध्रीसान्द्रधवलध्वनिमङ्गलवाद्यनादगर्जिनप्रासादशैलमालम् , विनोदमोदमाननगराङ्गनाजनारब्धमृदुमृदुमृदन्मृदङ्गलास्योल्लासितराजाङ्गणम्, नानालङ्कारशृङ्गारितचतुरपौरपरम्पराअपरिमलबहलितवीथिकासनाथम् , रसालतरुदलनीलिमविर For Private and Personal Use Only Page #104 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीहेमचद्राचार्यग्रन्थावली. ( २७ ) म्बिमहानीलशकलललिततोरणमालिफाविराजिराजपथम्, उचितरचितहासगोष्ठीभासमानसानन्दसमानजनरदनचन्द्रिकाकान्तिमण्डलचन्द्रमण्डलितमण्डपतलम् , मण्डपायमानगगनविडम्प्युदण्डमण्डितरुचिरोल्लोचपवनवेल्लत्पल्लवोल्लत्कीलितकलधौतक्षुद्रघण्टिका-- पटुक्वणितपूर्णीकृताधोगायकवांशिकवेणुश्रुतिसंदर्भम् , नीलमणिमाणिक्यमुक्ताफलतोरणमालाकिरणचयरञ्जितमन्दिराजिररचिताभङ्गचारुचतुष्कनिष्कलङ्कभूप्रदेशम् । ___ इति व्यतिकरेऽन्तःपुरे महामहानसमध्येऽध्यक्षसुपकाररचिता विशालकनकशिलातलकण्डितसमिता पिण्डनिर्मितडिण्डीरपाण्डरमण्डकराशयोऽभूवन , तुहिनाचलनिर्मलाः, घृतपुराश्च कर्पूरपरागपाण्डुराश्चन्द्रमण्डलानि विडम्बयन्तोऽन्तरुदारशर्करापूरशुद्धसुधारसाः, लड्डुकाश्चामृतगड्डका इव स्वादुमृदवः सर्वान्नप्रसन्नकलशा इव, मधुशीर्षकशिखरिणीपानकानि जिहारञ्जनानि नानाव्यञ्जनानि च । किश्च-एतस्मिन्नन्तरे वरागमनतरलमनस्कः स्फुरल्लोचनाम्भोजस्तु भोजयामासोग्रसेनो व्यग्रमनाः अष्टवान् सकलसामग्र्याय्यमतिविधिना साधुनाऽऽत्मवर्येण सह विहितकुलधर्मारम्भः शुभवेलायाम् । अन्यच्च-तत्र विचित्रसद्दकमोदकादनमोदमानाः, उत्फुल्लोदरगल्लाः, कल्याणकथाः कथयन्तः सन्तः सन्तोषमापुः । केचिदकष्टं घृतान्तर्घष्ठजरितलड्डूकचूर्णान्यदन्तः, दन्तोत्पीडितसकिसर्पत्सर्पिष्पवाहा घृतवाहा इव रेजुः । कासांचिदवरोधवधूनां मेखला अपि न ननन्दुः शिञ्जितानि विस्मृता इवोदररुद्धावकाशाः। अपि चहेमस्तम्भिनि मण्डपे मरुबकमाचीनपीनद्युतो कर्पूरागरुपुष्पसौरभमिलभृङ्गौघतूर्यध्वनौ । For Private and Personal Use Only Page #105 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( २८ ) श्रीचम्पूमण्डनम्. यावत्तिष्ठति भूपतिः स वरमाख्यातुं समभ्यागतो दूतः श्रीहरिणा समुद्रविजयक्ष्मापेण संप्रेषितः॥१॥ अपि चवर इह मथुराया वाह्यदेशं प्रपन्नो वचनमिति च तस्याकर्ण्य दूतस्य वेगात् । निजगणपरिवृत्तः प्रोन्नदद्वर्यतूर्यः प्रतिगमनमकार्षीदुग्रसेनः ससैन्यः ॥ २॥ अपि चनेमि समुद्रविजयं कृष्णं चालोक्य भूपतिः । अवातरद्रथासैस्तु समालिङ्गि यथाक्रमम् ॥३॥ अपि च तस्मिंस्ततस्ते मिलिता विरेजुर्वन्धूपमाःस्नेहलदृग्विलासाः। धर्मार्थकामा इव मोक्षयुक्ताःकालेन केनापि वियुक्तयुक्ताः॥४। अपि चवरं पुरस्कृत्य ततो वरेण्यं त्रयः पुरं ते विविशुनरंन्द्राः । हिमाद्रिमर्वजनपर्वतानां शोभांदधाना:पुर इन्दुभाजाम्॥५॥ हयरथगजपत्तिस्फारनिर्घोषभृद्भया __ मुभयबलभराभ्यां मीलिताभ्यां तु भेजे । सुहृदुपगमाभ्यां प्राच्यवाच्यम्बुधीनां _ छविरविरलभङ्गप्रोच्छलनिस्वनानाम् ॥ ६॥ ततश्च कनकगिरिशिखरगरिमधराः काञ्चनोपकार्याः । पर्याकुला:उद्यकिरणरत्नगणतोरणध्वजराजिभिः॥७॥ ददावुग्रसेननृपतिर्वरनिवेशाय वराय सकलमपि सैन्यमन्यघदूनां यथायोग्यभोग्येषु स्थानेषु न्यवेशयत् । श्रीसारस्वतमण्डनस्य विदुषां सन्तोषदस्यानुजे चातुर्योचितकान्यमण्डनधृतभ्रातृत्वसंराजिते। For Private and Personal Use Only Page #106 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीहेमचन्द्राचार्यग्रन्थावली; ( २९ ) श्रीमन्मण्डनविन्दुना विरचिते श्रीमालवंशेन्दुना चम्पूमण्डननामनीह पटलो ग्रन्थेऽभवत्षष्ठमः ॥ अपि च ततो लुलद्विचित्रपत्रपाश्याः, शोभिमुक्ताफलवालपाश्याः, भूषाभूषितशिरोरुहाः, महतां महिलाशालिन्यः, प्रोल्लीलवाहीकगन्धसारघनसारसारगन्धबहलिताः, पतिव्रताः पुत्रवत्यः सत्यवचना उदर्तनाभ्यङ्ग राजिमत्यै चक्रः, शातकुम्भकुंभनिर्मलजलवर्षिभिश्चतुर्भिः । सा च राजिमती दिग्वनीताप्रान्तमिलि. तचतुरम्बुदाम्बुधारासिक्तकाञ्चनवल्लरी इव सुन्दरी व्यरुचत् , अन्तर्मिलजलबिन्दुचारुचन्द्रककबरीकलापधरी मयूरी इव निर्भरमानन्दभरिना नेमिकान्ताम्बुवाहोदये महोत्साहमये अच्छतरांशुका निर्णीरितशरीरा स्फुरदुरुचामीकरकान्तिः विमुक्तविलम्बमानलम्बालकमकरा चरन्ती काञ्चनकमलिनी इवोपरिमिलत्पटलितरोलम्बमालिकासमुहा। अपि चततस्तरलितमना अपि सा प्रसादसुमुखी चन्द्रमुखीभिः परिकर्मनर्मधारिणीभिर्धर्मचारिणीभिस्तिरस्करिणीमाबध्य चकितहरिणीविशाललोचना। .. इति व्यतिकरे निष्पादिताद्वर्तनकलधौतकलशस्नाननेपथ्यविधानः, स्वरूपसम्पन्निधानविधुरितमथुरा पुरवधूसमालोकनदरिद्रमुद्रनयनमहादरिद्रः, ताण्डवितरत्नकुण्डलकान्तिमण्डलमण्डलितकपोलस्थलः, स्फुटद्रत्नकिरीटज्योतिष्पटलपटलितछत्रतलः, नभःखण्डसङ्गतमार्तण्डविडम्बिशरीरः, स्फुरच्छरीरमरीचिवीचिकासमीचीनमाणिक्यसुवर्णालङ्कारः, नेमिनाथस्तुङ्गं तुरङ्गमारुरोह मोहनमूर्तिर्जननयनानाम् । अपि चपटुतरपटहानां झल्लरीमर्दलानां For Private and Personal Use Only Page #107 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ३० ) श्रीचम्पूमण्डनम्. प्रबलमदगलानां घण्टिकानां च नादैः । किमिति चकितचित्तान्दोलितैर्ना कलोकैर्वर इति मधुरश्री मिरालोक्यते स्म ॥ १ ॥ निरन्तरं यादवराजसैन्यमोल्लासिसामन्तधृतातपत्रैः । निःशेषमन्तर्मुषितार्करश्मि घरातलं मण्डयितुं नु रेजे ॥ २ ॥ तत्र चरगजरथाश्वपदातिभारक्षुण्णक्षितिप्रचलितो रजसां महौघः । सद्यो मुषाण किल चौर इवार्करश्मि रत्नानि सम्प्रति दिवापि निरीक्षमाणः ||३|| अपि च ययावथो मण्डपमुग्रसेनमहीपतेर्ने मिरतुल्यरूपः । अनर्घ्य लावण्यविमोहितानां दृक्सन्निपातैः सह माथुराणाम् ४ अपि च स मण्डपद्वारिगतः प्रमोदान्दार घोरान्हृदयप्रमेदि । पशून्गले गाढतरं प्रबद्धान्समीक्ष्य नेमिर्विषसाद साधुः ||५॥ अपि च अमी निर्यदसवः पशवः कथं समानीताः ? शङ्खभिः सह प्रभिन्नहृदयाः, बद्धाः, बन्धनिरुद्ध गलकन्दलसमुच्छलत्कीलय:, लालप्रवाहान्वमन्तः, समन्ततः प्रततं निष्पीडितकण्ठघोरतरघर्षररवाद् ‘भवादुपरम' इति मां कथयन्तः, इव 'अद्य नित्यजीवितम् ' इति पृच्छन् स्वच्छचित्तो नेमिः कृष्णेनाभिहितः प्राचूर्णकाय भवते प्राघूर्णकाचारार्थमुपालम्भः संभविष्यत्येतेषामिति संभाव्यते । अपि च विवाहमाङ्गल्यं शल्यमिति ब्रुवाणः करुणापरायणः समुद्रविजयतनयोऽपि चेतसि विचिन्तयन्नाह - जलशादवलसंदृद्धान् पशून्शून्यनिवासिनः । For Private and Personal Use Only Page #108 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir A श्रीहेमचन्द्राचार्यग्रन्थावली. (३१) विनाऽपराधं बाधन्ते दुष्टाः कष्टं जीवितम् ।।१।। अन्यथ कुमदोदरमन्दिरतो येन लब्धोऽर्कतोऽपि सन्तापः । सोऽपि निपतितो भृङ्गस्तुङ्गत्विषि गहनजे दहने ॥ २ ॥ स एवं विचार्य परमार्यधैर्यः सूर्य इवास्ताचलात्तुङ्गात्तुरङ्गादवतीर्य द्रुतं दुद्राव । प्रमोदशून्यानि राजन्यानि नलिनवनानीव मलिनानि तमोवृतानीव श्यामायमानानि वनानीव दवदहनलान्तानि दुःखीकुर्वन् जीवव्रजानां मूर्छाप्रपन्नानां घन इव जीवनं विक्लान्तानां सस्यानामात्मानं दर्शयन्नदर्शनं गतवान् । अन्यच्च अत्रान्तरे राजिमती गौरी पूजयन्ती पवनाहता वैजयन्तीव पपात 'वरोगतः' इति विलपन्ती जनतामालोक्य चण्डवाताहता कनककदलीव भूयसा धरणिपातेन मुहुर्मुमोह । ततोदभ्रभ्रम कोलाहलाभिरङ्गनाभिर्जलार्द्रतालवृन्तशीतलानिलैर्विनीतमूर्छा व्यबुध्यत मृतोत्थितेव ' हा दैव किम् ' इति विलपन्ती मातापिबोर्हदयशिलाशकलकारिणी दकिकेव मुहुर्विललाप । अपिच अधुना प्रिय ! हा विहाय मामपराधेन विना गतोऽसि किम्। करुणा त्वयि चेद्गरीयसी मयि काठिन्यमकारि किं पुनः॥१॥ "विधिना किल वैरिणाऽमुना विहिताहं न मृतान जीविता। पतितापि विलमवल्कला द्रुमशाखेव कुठारखण्डिता ॥२॥ अपि च अपि देव ! मया हाऽभव्यया प्रतिकूलं रचितं महत्तव । अधुनैव विवाहयोगतो विगतो राज्यमपास्य यद्भवान ॥३॥ For Private and Personal Use Only Page #109 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ३२) श्रीचम्पूमण्डनम्. अपि चप्रिय ! शून्यमिदं त्वया विना यदुराजन्यमवेक्ष्यते जनः । जलसेकविवर्जितं स्थले कमलानामिव वृन्दमाकुलम् ॥४॥ अपि चउपलादपि योषितः परं कठिना इत्यवगम्यतेऽधुना । तव निर्गमशोकयन्त्रिकानिहतं मे हृदयं न भिद्यते ॥५॥ इति बहु विलपन्ती राजिमत्याकुलाङ्गी नयनयुगलनीरैः पङ्किलीभूतभूमिः । अगमदनु च नेमि तं स्मरन्ती च चित्ते · द्युतिरिव नलिनीशं प्रस्थितं पश्चिमायाम् ॥६॥ प्रचण्डमार्तण्डकरातपतप्तशर्करिलज्वलदिलातलजनितस्फोटदूषिताभ्यां पद्भयां स्खलन्ती राजिमती पृष्टत आयान्तीमालोक्य कूर्मकवचकठिनहृदयो नेमिर्मुहुः पलायनपरो बभूव ।। अन्यच्च-तस्मिन्वने विशीर्णद्रमपर्णराशिक्लिप्तमार्गप्रदेशे अज्ञातमार्गा मुक्तकेशी सा दुःखिता टिट्टीभीव पटुना शद्वेन पुनर्विललाप कम्पमाना शोकस्फुटितहृदया। अपि च चलानिलान्दोलितपल्लवं त्यजनिजं तारतुषारवाष्पतः तदुःखतोऽतोषधरं रुरोद किं निशम्य परिदेवनं वनम् ॥१॥ अपि च रैवतकगिरेरुपान्तं प्राप्तो नेमिस्ततो ददर्श, हृदयामरकं वनम्, चश्चरीकचरणदलितदलकनकचम्पकबहुलमुकुलबहुलसमुच्छलितरजःपुञ्जपिञ्जरिततरुवलयमलयपवनमन्दमन्दान्दोलितमाकन्दराजिमञ्जरीपल्लव गल दमल मकरन्द लव कृता स्वाद मुदितमेदुरभ्रमदलसविलसद्भुमरमधुरझाङ्कारदुःखविकारहारि, कुसुमभरामितनमिततरूवरच्छादित धरातल समासीनकिन्नर गणवीणा द For Private and Personal Use Only Page #110 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीहेमचन्द्राचार्य ग्रन्थावली. ( ३३ ) नसमाकर्णनलीन कर्णविस्मृतान्यपथमृगयूथमृगमदपरिमलब - इलधृतमदमदनकोदण्डदण्डितसर्व गर्वधरारातिगर्वधनम्, घनतरघनसार वल्लरीपरी तदिनकरकर जाल मञ्जुकुञ्जनिली नतपोधनध्यानवर्द्धनम्, अमितलवङ्गलतालिङ्गिततुङ्गपूगतरुतरुणजनमनोवि - नोदकारि, विसारिवारिनिर्झरझम्पिताने क पक्षिकुलकोमलकलकलानन्दि, प्रबलतरुदलनिबिड पटुसम्पुटमन्दिरसुप्तेन्दिन्दिरयोगिजनानन्दकरम्, कर्पूरकदलिकाव नविकासि कर्पूरगन्धबन्धननि'पन्देन्द्रनीलमुद्रालिमालिकाहार बुद्धियक्षबालिकासमूहमोहनम् । अपिच कोकिलालापमाधुर्यदुःखवैधुर्यदायकम् । आलोकयन्वनं नेमिययौ रैवतकं गिरिम् ॥ १ ॥ निर्मलजलच्छायाहारि स्फुटत्स्फटिकतटरुचिरचितदिवानिशम्, निशाकरोदयमभ्रभङ्गितुङ्गशृङ्गसङ्गिशातकुम्भकुम्भनिभभा• नुविम्वमादधानम्, अतुलकलधौतकलसलसन्तम्, श्रीभगवतो जिनेश्वरस्य प्रासादमित्र प्रसादमापन्नम्, उपरिमिलज्जलदपटलविशालरचितातपत्रस फलितधराधिनाथशब्दम्, शिखरपरम्परामचल दुत्तालनिर्झर जलकल्लोल बहुलकलकलभ्रियमाणकन्दरामन्दनिनादमन्दितचतुरुदधिसमुच्छल द्वेला चटुलतरङ्गरिङ्गणध्वनिम् इन्द्रनीलमयसुनीलनितम्ब स्थलगगनाधिरुढ प्रौढमरोहसमूहसमुत्पादितश्यामलवनराजिधियम्, प्रबलमणिशिलास्फालनजर्जरितनिर्झरजललवपटलाकाण्डमण्डितप्रावृडाडम्बरम्, अम्बरचुम्बिजम्बुपुष्पस्तबकलम्बमानरोलम्बमालम्, मञ्जरितकरञ्जमञ्जरीरञ्जः पञ्जरितविविधतरुवनमञ्जुशिञ्जानकपिञ्जलकुलम्, सर्वर्त्तसमम् । " इति व्यतिकरे दुर्द्धरकान्तारान्ते संचरणे सति मणिशिलाशकलतिक्ष्णधाराव्रणदलितजपाकुसुमदलसदृश चरणकमलतल For Private and Personal Use Only Page #111 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ३४ ) श्रीचम्पूमण्डनम्. गलदहलशोणितरञ्जितरैवतपर्यन्तमार्गा'हादेव' इत्यार्तस्वरां सुकुमारां राजिमतीमतिविवशां हृदयान्तराले ध्यानाधीनभर्तृपदयुगलं चिन्तयती ज्ञानदृशा विलोक्य नेमिः करुणापरायणः सेवकलोकशोकहरणः प्रकटीबभूव । मपि चतस्य वीक्ष्य शशिबिम्वविनिद्रं प्रस्फुरदद्युतिमयूखविभूषम् । सुस्मितं वदनमाशु मुमोच क्लेशमन्धतमसं सहसा सा ॥१॥ अपि च तेन साकमिति सा च बभाषे संनिपत्य पदपङ्कजमूले । अष्टजन्मजनितो ननु सार्थः त्यज्यते किमधुना किल नाथ॥२॥ अपि चबाले ! बालमृगाक्षि ! मा कुरु मृषा दुःखाभिभूतं मनः पूर्व चापि तपश्चचार भवती सार्दै मया तत्स्मर । आत्मज्ञानमुपेत्य सत्यवचसा श्रीनेमिना नोदिता प्राप्ता राजिमती परं पदमथो नेमिः स्थितो रैवते ॥३॥ मुमुदे तत्र तुङ्ग स शृङ्गमारुह्य भूपतिः । विडम्बयन्भानुविम्बगुदयाचलसंस्थितम् ॥ ४ ॥ अपि चनिःस्नेहोऽप्यक्षयज्योतिर्निर्दशोऽपि दशान्तरम् । आदधानो महाधर्यः शून्यदीप इवावभो ॥५॥ अन्तर्लीनमहाज्योतिर्निश्चलः शिखरे गिरेः । कुन्दद्युतिः शरत्काले विद्युद्गर्भ इवाम्बुदः ॥ ६ ॥ अपि चतृष्णाहरो निराधारो जीवत्राणपरायणः । कृपाजलभराधारस्तडाग इव निर्मलः ॥ ७ ॥ For Private and Personal Use Only Page #112 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीहेमचन्द्राचार्यग्रन्थावली. ( ३५ ) आत्मानो मञ्मणस्यामितगुणनिधयश्चाहडो बाहडाख्यो विख्यातो देहडोऽथ क्षितितलसुखदा पनसिंहोऽहराजः । पाहश्चैते जिनेशप्रणतिपरिणता मण्डपे धर्माः श्रीमन्नालमसाहिक्षितिपतिविषये मुख्यतामेत्य रेजुः ॥८॥ तेषां सोनगिरान्वस्य विलसद्भूषामणीनामिह श्रीमद्भाहडसन्नाथतनयः श्रीमण्डनाख्यकविः । चम्पूमण्डनमेतदार्यचरितश्चक्रे परं पावनं ___सद्यस्तद्विदुषां सुखाय भवतान्नेमेःप्रसादश्रिया॥९॥ श्रीसारस्वतमण्डनस्य विदुषां सन्तोषदस्यानुजे. चातुर्योंचितकाव्यमण्डनधृतभ्रातृत्वसंराजिते । श्रीमन्मण्डनविन्दुना विरचिते श्रीमालवंशेन्दुना चम्पूमण्डननामनीह पटलो ग्रन्येऽभवत्सप्तमः ॥ संवत १५०४ वर्षे मार्गशिर्षकृष्णप्रतिपदि बुद्धदिने लिखितं __ विनायकदासेन । संवत १५०४ वर्षे शाके १३६८ प्रवर्त्तमाने आषाढशुक्लत्रयो दश्यांसोमदिने तारापुरस्थाने पुस्तकमलेखि शुभं भवतु । ---- -- For Private and Personal Use Only Page #113 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अहम् :श्रीहेमचन्द्राचार्यग्रन्थावली. मण्डनग्रन्थाङ्कः श्रीचन्द्रविजयप्रबन्धः कदाचिदाप्तैः कविभिः समेतो वाचांनिधिर्मण्डनमन्त्रिराजः । सायं दिने सौधगृहाङ्गणस्थः साहित्यगोष्ठी सरसामकार्षीत् ॥१॥ -सभामिवालोकयितुं तदीयां कलानिधिः कौशलशालिनी ताम् । कृताभिलाषः किल गन्तुमैच्छत्समुन्नतं पूर्वमहीध्रसौधम् ॥ २॥ ततो दररस्ततमिस्रकेशा प्रवृद्धसत्त्वा प्रमदेव भूयः । अन्तर्वहन्ती हरिणाङ्कबिम्बं पौरन्दरी पाण्डुमुखी दिशाऽऽसीत्।।३।। सद्भिः सनाथीकृतमभ्ररङ्गं संप्राप्स्यतश्चन्द्रमसो नटस्य । तिरस्करिण्या धृत एव मध्ये पुरः स्फुरन्त्या प्रभया बभासे ॥४॥ माविबभूव प्रथमाब्धिगर्भात् प्रालेयभानोः प्रथमो मयूखः । दिग्योषितो दर्शितपूर्वशैलकुचश्रियः क्षौमदशामकर्षः (कार्षीत)॥५॥ चन्द्रः कलामात्रतया समुद्यन्याचीदिशो भालरुचिं व्यतानीत् । काचित्पुनस्तत्र कलङ्करेखा कस्तूरिकाचित्रकतामयासीत् ॥६॥ कयाप्यराजत्कलया सुधांशोः पूर्वोत्थया पुष्करभागलक्ष्मीः ।। प्रदोषकालप्रियसङ्गमेन नवोदितेनेव नखक्षतेन ॥ ७॥ अशङ्कयतैतत्कलयाभिवीक्ष्यं बिम्बं विधो सुरदीप्तिरेखम् । जनैर्जगत्सर्वमिदं जिगीषोराकर्णकृष्टं धनुरात्मयोनेः ॥ ८॥ दुवाति यां यां दिवसेष्ववस्थां पक्षे सिते पञ्चदशी दिनान्तम् । वां तामवस्थां सकलामयासीदुयन्नुडूनामुदधेरधीशः ॥९॥ गोत्तरश्री रमणो रजन्याः शनैः शनैरुढसमग्रबिम्बः । For Private and Personal Use Only Page #114 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (२) श्रीचन्द्रविजयप्रबन्धः पूर्णोपमः पुष्करलोचनानां वक्त्रैरराजन्मदरागरम्यः ॥ १० ॥ उत्कूलमुच्चैरुदधिं वितन्वनरागेण साकं रमणीजनानाम् । मानेन निर्भिद्य महान्धकारान् चन्द्रः स्मरेणैव समुल्ललास ॥११॥ आवर्त्तवेगादमृतांशुरासीत् पयोधिमध्ये परिपूर्णमानः । प्राप्यास्तमासाद्य पुनः समक्षं पितुः प्रहर्षादिव जातवृत्तः ॥१२॥ प्राप्तोदयो मां प्रतिपद्य पूर्व भास्वानभूदस्तगतो भवत्याम् । इत्येवमिन्दोरुदयापदेशात्माची प्रतीचीमहसत्स्फुटेा ॥ १३ ॥ हन्तुं प्रदृप्तानसुरान्धकारानम्भोधिना सत्वरमच्युतेन । विमुक्तमासीद्वियदन्तराले समुज्ज्वलं चक्रमिवेन्दुबिम्बम् ॥१४॥ महेन्द्रदिङ्मौक्तिककर्णयन्त्रं मनोभुवो माङ्गलिकातपत्रम् । जगत्रयीनङ्गमदर्पणं तद्धिम्बं सुधांशोविमलं व्यराजत् ॥ १५ ॥ तारास्थिमालाशतभूषितायाः कालान्धकारस्तनकञ्चुकायाः। कपाललीलामवहत्कलावान् कापालिकीवेषजुषो रजन्याः॥१६॥ स तारकाभिः सह वार्चिमध्ये बिम्बं गतो व्यैक्षत शीतभानुः । शङ्खो हरेः पूर्वमिवाभिवीतो मुक्ताभिरात्मोदरनिर्गताभिः ॥१७॥ पत्युनिशायाः परिपाण्डुभासो मध्ये कलङ्को मणिभङ्गनीलः । वियत्पथो विभ्रमपङ्कजस्य तस्यातनोत्षट्पदजाललीलाम् १८॥ राजत्कलङ्कङतिराजबिम्बं तुषारगौरं सुतरामराजत् । आपूर्णिमाकालमिवात्तमुद्रं सुधाभिपूर्ण कलशं सुराणाम् ॥१९॥ मृणालगौरा मृगलाञ्छनस्य सम्पर्कभाजस्तमसा मयूखाः । शम्भोः कपदोपगता इवासन् नभःस्त्रवन्त्या नववारिपूराः ॥२०॥ पुष्पेषुणा पुष्करभित्तिमध्ये विलम्बितं विश्वजयैकसाह्यम् । त्वचेव क्लुप्तं फलकं सुधांशोर्बिम्बं विरेजे विमलाभिरामम्॥२१॥ बिम्बं तदन्तर्विलसत्कलडूं समुज्ज्वलं चन्द्रमसो व्यराजत् । मुक्तामयं मुद्रितमिन्द्रनीलैः पुरःस्थितं पेटमिव क्षपायाः ॥२२॥ For Private and Personal Use Only Page #115 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री हेमचन्द्राचार्य ग्रन्थावली. ( ३ ) पातालतः पन्नगराजकन्यापर्यायपाणिद्वितयाभिघातात् । कामं जनः कन्दुकमुत्पतन्तं विधोरशङ्किष्ट चिराय बिम्बम् ||२३|| चन्द्रस्य धाराचषकस्य मध्ये सुधारसं शोधयति स्म रात्रिः । चन्द्रातपः छद्मनि निःसृतेऽस्मिन् कल्कं कलङ्कं कलयेव शिष्टिम् ॥ नमः पयोधौ नवमौक्तिकानां ताराकुलच्छद्यतया स्थितानाम् । प्रमृतिशुक्तेरकरोत्प्रतीति मध्यस्थितं मन्मथबन्धुबिम्बम् ॥ २५ ॥ निहन्यमाना निधिना कलानां निशान्धकारा इव वेपमानाः । समीरणैः संततकम्पितानां छायास्तरूणां तरला व्य[वि]रेजुः ॥२६॥ दलान्तराद्दीधितयस्तरूणामनुष्णभानोरभितः पतन्त्यः | चकोर चञ्चपुटखण्डनेन कीर्णा इवासन्किरणस्य लेशाः ||२७|| सिंहेन शीतद्युतिना विभिन्नकुम्भे तमिस्रात्मनि कुञ्जरेन्द्रे | तत्कुम्भमध्योदितमौक्तिकानां शोभामकुर्वन्नुडुमण्डलानि ॥ २८ ॥ आलिप्तसान्द्रामरचन्दनानामशेषमुक्तामयभूषणानाम् । अद्वैतताऽऽसीदमृतांशुपातैरदृष्टिहेतोरभिसारिकाणाम् ॥ २९ ॥ परं वितन्वन्परितापमेव पदे पदे पान्थविलासीनीनाम् । स कालकूटेन सहोदरत्वं प्रायो हिमांशुः प्रकटं व्यतानीत् ॥ ३० ॥ गवाक्षमार्गेण गृहान्तरेषु कलानिधेः केऽपि कराः पतन्तः । तत्र व्यराजंस्तरलेक्षणानां विमोहनायेव वियोगभाजाम् ||३१| तेजस्तिरस्कृत्य चिरं परेषां वियत्सभायां विहिताधिराज्यः । राजा रजन्या सहितो रमण्या पश्चागिरिं सौधमग द्विहर्तुम् ||३२|| जैवातृको जालिकवत्समन्तात् विक्षिप्य विस्तारितमंशुजालम् । सङ्ग्रह्य ताराशफरानशेषान पुनर्ययौ पुष्करतः परस्तात् ॥ ३३॥ सोमेन रात्रिः सुचिरोपभुक्ता समुच्छ्वसन्तीव मुहुः समीरैः । विच्छायतारा प्रसवान्धकारकेशा भृशं खेदवतीव जाता ||३४॥ विकर्त्तने क्वापि गते विलासी तस्यावरोधे विहरन्नभोऽन्ते । समीक्ष्य शङ्केतमुपेतमिन्दुर्भयादगात्पश्चिमवर्त्मनैव ॥ ३५ ॥ For Private and Personal Use Only Page #116 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ४ ) श्रीचन्द्रविजयप्रबन्धः पथा चरन्येन पपात पूषा तमेव दैवात्समुपेत्य भूयः । पपात चन्द्रोऽपि परं पतिष्णोर्नश्येद्विवेको ननु जानतो ऽपि ॥ ३६ ॥ प्राचीं विहाय प्रथमोपपत्रां प्राप्तं सरागं प्रतिगृह्य पूर्वम् | वेश्येव कृत्वा विवसुं क्रमेण विवासयामास विधुं प्रतीची ||३७|| निधिः कलानामपि निर्मलेोऽपि सतां पुरोगोऽपि समुज्ज्वलोsपि पतिर्द्विजानामपतत्किमन्यत्स वारुणीसङ्गमुपेत्य चन्द्रः ||३८|| अनुद्रुतः सन्किरणैरनूरोरपांनिधि पश्चिममन्तरिक्षात् । विगाह्य तद्वीचिषु विम्बलक्ष्याद्भया दिवाकंपत यामिनीशः ॥ ३९ ॥ तनु निजरिपुं तं चन्द्रमाक्रम्य भानुः सकलमपि च हत्वा तस्य चैश्वर्य जातम् । अपरशिखरिशृङ्गादात्मपादोपधातैः पयसि चरमसिन्धोः पातयामास भूयः ॥ ४० ॥ चन्द्रं समालोक्य स मण्डनेन्द्रः चण्डत्विषा खण्डितसर्वलक्ष्मीम् ॥ तस्यैव संदर्भात वाञ्छां जयं वर्णयितुं सुधांशोः ॥४१॥ इति श्रीमालकुलतिलकस्य मण्डनामात्यस्य कृतौ चन्द्रविजये प्रस्तावना नाम प्रथमः पटलः ॥ अस्त्यम्बुराशिः पतिरापगानां महानसे मन्मथशासनस्य । सत्त्वाधिकं यं समुपेत्य शैला दीव्यन्ति दम्भोलिभयानभिज्ञाः॥ १ ॥ जाया हरेर्यज्जलमानुषीका फेनानि पीयूषरसो यदीयः । चिन्तामणिर्यत्मिकताविशेषो मन्दाकिनी यस्य च वामनेत्रा ॥२॥ उदारवृत्तेरुदधेरमुष्मादुष्णांशुरुञ्चैरुदभूदुदग्रः । पिता च यस्याम्बुनिधिः प्रतापं शुष्यत्यलं सोडुमशक्त एव ॥ ३ ॥ arrat मण्डलमात्मरक्तं नवोदये दर्शितसौम्यवृत्तिः । पश्चात्तापेन निरूढमूल: सर्व करैस्तापयति स्म लोकम् ॥ ४ ॥ स कौशिकोन्मेषहरप्रतापः सर्वात्यलङ्घयुग्रकरप्रचारः । दिने दिने दावइवात्तमूर्तिर्दशास्यवद्दर्शयति स्मतैक्ष्ण्यम् ॥ ५ ॥ For Private and Personal Use Only Page #117 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री हेमचन्द्राचार्यग्रन्थावली. ( ५ ) समाहरन्सारमशेषमुर्व्याः करैः प्रकामं कठिनायमानैः । सतां समुल्लासहर प्रवृतिः कस्यापि नानन्दकरो बभूव ॥ ६ ॥ स जातमात्रः सविता पयोधेः सकाशमुन्मुच्य समग्रगर्वः । सर्वत्र सोऽहं सवितेति नाम पुनः समुद्घोषयति स्म पूषा ॥ ७॥ उन्मेषदः पङ्कजमण्डलानामुन्मार्गवर्त्ती स्वयमुग्रतेजाः । सपद्मिनीभिः सह पुष्पिणीभिः सदा विज सरसाभिरर्कः॥८॥ संत्यज्य सर्वाभ्युदयस्य हेतुं प्राचीं दिशं प्राक्तनधर्मपत्नीम् । स पश्चिमामेव समाजगाम पतिष्यतां पापरता हि वृत्तिः ॥ ९ ॥ स वारुणीसङ्गवशेन सद्यस्त्यक्ताम्वरस्थैर्य विना कृतश्रीः । मदेन मन्दीभवदात्मतेजाः पाश्चात्यभात्रं पतितः प्रपेदे ॥ १० ॥ पुत्रस्य पूष्णः पुनरेष वृत्तिमेतादशीं वारिधिरीक्षमाणः । अमन्यतात्मानमपत्यहीनं वन्ध्यत्वमेवालमसाधुपुत्रात् ॥११॥ ततः कुलोत्तारकमेकमन्यं लब्धं कुमारं रमणो नदीनाम् । स्वमध्यभाजं सुचिरं तपोभिः मुरारिमाराधयति स्म शङ्के ॥ १२॥ ततश्चिरात्सत्त्वनिधेरमुष्य पुराकृतैः पुण्यतपोविशेषैः । चन्द्रस्तनूजः सकलोत्तरश्रीरूम्र्म्याभिधायामुदभूद् गृहिण्याम् ॥ १३॥ तं जातमात्रं तनयं पयोधिः विलोक्य शश्वद्विमलप्रकाशम् । उदूहृद्धिः स्वयमुत्सवेन वभार विश्वाधिक महर्षम् ॥ १४ ॥ तमङ्कमारोप्य तरङ्गहस्तैः पुष्यत्पयोबुद्बुदरोमहर्षः । स लालयामास तदोपगृह्य सरित्पतिः सान्द्रतरप्रमोदः || १५॥ स जातसंस्कारविधिः क्रमेण प्राच्या दिशा प्रेमजुषेव धात्र्या । अवतादाय पितुः सकाशात्कुमुद्वतीनामधिपः कुमारः ॥ १६ ॥ समेधयन्ती चरमाथ सन्ध्या धात्रेयिका दत्तकरावलम्बा । सञ्चारयामास तटाजिरेषु बालं निशावल्लभमम्बुराशेः ॥ १७ ॥ अन्ते वसन्नभ्यधिकोन्नतस्य गुरोश्वरायोदयपर्वतस्य । पुत्रो निधेः प्रौढवपुर्जलानां पूर्णः कलाभिः प्रवभूव कालात् ॥ १८॥ For Private and Personal Use Only Page #118 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (६) श्रीचन्द्रविजयप्रबन्धः कलानिधिः कामुकचक्रवर्ती कान्त्या स्फुरन्त्या कमलेक्षणानाम् । कासां न चित्ते विषमेऽपि भयः......" "॥१९॥ स शीतभानुं सवितुः प्रियं तं समीक्ष्य चण्डातिराहितेjः । तमेव हन्तुं समुपोढवैराशङ्के सदा रन्ध्रसमीक्ष्यकोऽभूत् ॥२०॥ तमूढवैरं शशलाञ्छनोऽपि विलोकयन्नात्मनि वीतभक्तिः । विपत्तिमाशङ्कय निजाममुष्मात्तत्याज तस्मिन् सहवासमेव ॥२१॥ स हन्तुमेनं तमसौ च हन्तुं परस्परं बद्धरुषावभूताम् । एकामिषत्वं हि सहोदराणां तनोति सापत्न्यमनर्थहेतुम् ॥२२॥ ततः प्रदोषस्य सुतां निशम्य पत्युर्महाभाग्यदलक्षणाढ्याम् । यूनः करे योजयितुं विधोस्तां निशाममुं नीरनिधिर्ययाचे ॥२३॥ तथेति तस्मै तनयां प्रदातुं निशामनेनाध्वनि नीयमानाम् । रुरोध सोमस्य रिपुर्विवस्वान् प्रदोषशत्रोः प्रियमित्रमह्नः ॥२४॥ तामुष्णभासा तनयां निरुद्धां श्रुत्वा प्रदोषाधिपतेः स्वकान्ताम् । बलेन हत्तुं विभुराचकाङ्क्ष वैरस्य मूलं वनिता हि पुंसाम्॥२५॥ सुधाकरः स्वं श्वशुरं तमेव वरूथिनीनामधिपं विधाय । प्रास्थापयत्तान्प्रतिरोद्धमुर्त्या करप्रचारान्कठिनांशवीयान् ॥२६॥ सच्चक्रयुक्तः शशलाञ्छनोऽपि सायं मुहर्त सकलाभिनन्छ । प्रस्थापितस्तद्विजयाय पित्रा प्रापोदयाद्रेः कटकं प्रहृष्टः ॥२७॥ विसृज्य पूर्व विधुरंशुदूतं विषादिनीं तां विरहेण रात्रिम् । श्वसत्समाश्वासयति स्म यूनोः सन्देशवार्ता खलु सङ्गकल्पा।।२८॥ सर्व जगचन्द्रमसो गुणेन बद्धं जहर्षांशुमतो विपत्तौ । खरैः प्रतापैः कठिनात्मनोऽत्र को वा विपत्तौ कुशलाय साह्यः॥ चन्द्रं समाकर्ण्य निजं सपत्नं स तारकासनिकमापतन्तम् । स्वयं च तस्याभिमुखो बभूव स योद्धकामः शतपत्रबन्धुः ॥३०॥ वृद्धोऽपि विश्वेन सगुज्झितोऽपि वीतप्रतापोऽपि रुषा विवस्वान् । तेनैव योद्धा स बभूव राज्ञा सदाभिमानकधना हि शूराः ॥३१॥ For Private and Personal Use Only Page #119 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीहेमचन्द्राचार्यग्रन्थावली. (७) समन्ततो व्योमनि सञ्चरन्तः सायं विहङ्गाः स्वनिवासलोलाः । सन्धिं तयोः कर्तुमिव प्रवृत्ताः महाजना मध्यगता इवासन॥३२॥ काकाचरन्तः कतिचिनभोऽन्ते तयोद्वयोरन्तर एव विश्वम् । ग्रहीतुकामैः कितवैस्तमोभिः समीक्षणायेव चरा विमुक्ताः ॥३३॥ चन्द्रस्य भानोश्च तदाभिमुख्यात्समन्ततःकेऽपि कराश्चरन्तः । परस्परं हन्तुमथोत्थिताभ्यां शरा विमुक्ता इव शातशाताः।।३४॥ विचेष्टितव्याकुलराजहंसं विभिन्नचक्रं व्यथमानकोशम् । बलं समाक्रम्य विकर्तनस्य संकोचयामास सहस्रपत्रम् ॥३५॥ संरम्भभीताः शशलाञ्छनस्य संत्यज्य कान्तामपि चक्रवाकाः। चमूचरास्त्यक्तसहस्रपत्रकोशा ययुः क्वाप्यरुणस्य कोशाः॥३६।। मृगाङ्कमुक्तैर्विशिर्मयूखैर्विकर्तनस्याशु विभिन्नमूर्तेः । आरञ्जितेवास्रपरम्पराभिः पूर्वेतरा पुष्करभूमिरासीत् ॥३७॥ शशाङ्कमुक्तैःशतशो निशातर्वाणविभिन्ना इव भानुजालैः। शनैः शनैः सारसबान्धवस्य खजा बभूवुनिकराः कराणाम्॥३८॥ तेजोनिधिस्तीव्रकरोद्धतोऽपि स्थातुं न शक्तोऽजनि तत्पुरस्तात् । काले नियत्या कलितानुकूल्ये कः कं न शत्रु कलयेदधस्तात् ॥३९॥ संत्यज्य राज्यं सकलं नभोऽन्तं विच्छायतामेन्य विशेषशोच्यः । स दीधितीभिः सह सुन्दरीभिः समाप भानुश्चरमाद्रिदुर्गम् ॥४०॥ सतां ध्रुवं सारसमुद्यतानां सम्पद्विपत्योः सदृशेव रीतिः । यदस्तमेत्याप्युदयस्थकल्पं प्रकाशमर्कः प्रकटीचकारः ॥४१॥ वितन्वते विप्रतिपत्तिमार्या विपद्गते नैव विभौ कृतज्ञाः । द्विना यदक दधदर्घ्यहस्ता ववन्दिरे सादरमस्तभाजम् ।। ४२ ॥ पराजितः पङ्कजबन्धुरेषः पत्या रजन्याः परिहीणतेजाः । समुद्र एवापतितुं चकाङ्क्ष पराभिभूतेर्मरणं हि मान्यम् ॥४३॥ विजित्य चन्द्रं पुनराधिपत्यं प्रभाकरः प्राप्तुमुदूढकामः । ततान शैलाभृगुपातमुच्चैः मानी स्पृहां वैरिजयाय धत्ते ॥४४॥ For Private and Personal Use Only Page #120 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (८) काव्यमनोहरम्. समस्तदिग्मण्डलचारिणो ये राजन्यसन्मानधनेन पूर्णाः ॥९॥ यत्यागमेघोदय एव याते तृप्त्यन्वितो याचकचातकौघः । विलोक्यते कीर्तितडिल्लताभिः सुगजिते वर्द्धितभूरिसस्ये ॥१०॥ यत्यागचन्द्रोदय एव जाते विकासमायाति धनांशुभिस्तु । स गम्भीरविद्वत्कुमुदौघ एवामितप्रभे तोषितसच्चकोरे ॥ ११ ॥ यत्यागशीतांशुकलोदयेन बुधोदधिः शास्त्रसुवारिपूर्णः । अहो ! किमाचर्यमिदं हि दृष्टं दारिद्रयवेलामभिलड्डन्तेऽसौ ॥१२॥ विभ्राजते याचकमण्डलीयं सन्मानदानप्रणतिप्रसन्ना। श्रीमण्डनेनामितदायिना वै यथौषधीशेन महोडमाला ॥१३॥ यथान्यदेशीय इहागतो यः सद्याचकौघो बहुदानमानः । गतो दिशं स्वां पृथुकीर्तिकारः प्रत्येकतस्तस्य वदन गुणादीन । एके गता वर्णितुमस्य दानं प्राची सुराजन्यकदम्बकाढ्याम् । प्रयागतीर्थादिसुसेव्यमानां मुमुक्षुभिर्भासितपत्तनौघाम् ॥१५॥ केचित्प्रयाता ज्वलनाभिरामामाशां महिपालयशःप्रसन्नाम् । विस्फारितुं कीर्तिमनेकधाऽस्य तद्दत्तनानाविधभूतितुष्ठाः ॥१६॥ केचित्सुदृष्टा दिशि दक्षिणस्यां स्थित्वा वदन्त्यस्य गभीरतां ते । ये प्रेषिताश्चैलतुरङ्गहेमचामीकरोद्भासितकुण्डलाढयाः ॥ १७ ॥ अन्ये तु याता ककुभं तदन्यां सुशोभितां कौङ्कणराजवृन्दैः। स्तोतुं महौचित्यमनेकवारं मनोरथाधिक्यविहायितस्य ॥१८॥ ये वायवीं वै गमितास्तु कष्टां सुतीर्थपुण्यां नृपतिप्रसन्नाम् । ज्ञातृत्वमर्हद्बहुवर्ण्यमानमर्थिवजा मुक्तदरिद्रसङगः ॥ १९॥ याता उदीचीमपरेऽर्थिनस्तु मूर्ताभिषिक्तप्रचुरां सुपुराम् । सौजन्यमस्यामितदायकस्य स्तुत्यं विधातुं परिपूर्णकामाः ॥२०॥ पिनाकपाणिप्रथितां च काष्टां ये प्रस्थिता याचकपुङ्गचास्तु । गुणातिबाहुल्यमनेकधाऽस्य कर्तुं शुभमाप्तसुराय एव ।। २१॥ दिङ्मण्डलीकीर्तितकीर्तिपूरः समस्तविद्वद्विहितोन्नतिः सः । For Private and Personal Use Only Page #121 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीहेमचन्द्राचार्यग्रन्थावली. (९) पूर्वाचलप्रस्थसभामुखस्थं प्रदोषवेलौषधिदीपिकाभिः । अनुष्णभानोरवदातकीर्तेरारार्तिकं मङ्गलमाततान ॥ ५८॥ महोदधेरुद्धतवारितूर्य मध्यस्फुरन्मङ्गलरत्नदीपम् । तत्र स्थितो वीचिविलासिनीनां विलोक्य नृत्तं मुमुदे सुधांशुः॥५९॥ ततः समानीयत शर्वरी सा पित्रा प्रदोषेण विधोः सकाशम् । श्यामा चिराविष्कृतसान्ध्यरागा तमिस्रकेशा चलतारहारा ॥६॥ तस्याः करग्राहविधि स कर्तुं चन्द्रः स्वयं सम्भृतरागबन्धः । सहैव कालेन पुरोहितेन समुज्ज्वलां व्योमसभां प्रपेदे ॥६१ ॥ विकीर्णतारा प्रसवोपहारं विराजमानग्रहरत्नदीपम् । विभावरीचन्द्रमसोविरेजे वैवाहिक मण्डपमन्तरिक्षम् ॥ ६२॥ क्वचिद्गुरुः क्वापि कविः सभायां क्वचिद्बुधः क्वापि च पार्थिवाद्याः। समन्ततः साधुकृतोपचारा सेवामतन्वन्त चिराय राज्ञः ॥ ६३॥ तिरस्करिण्यामुभयोधृतायां मध्येसभं सान्द्रतमिस्रमय्याम् । अपाकृतायामभिलाषपूर्वमन्योन्यमालोक्य ननन्दतुस्तौ ॥६४॥ सान्ध्यांशुवह्नौ समयानुकूलं विकीर्णतारानवलाजमुष्टी। वितेनतुर्विश्वजनाभिनन्द्यौ विभावरीचन्द्रमसौ विवाहम् ॥६५॥ इत्येवमासाद्य निशीथिनी तामिन्धानतेजःप्रसरः कलावान् । निरङ्कुशानन्दकरो जनानां नेत्रोत्स्वं निर्भरमाततान ॥ ६६ ॥ सन्ताप्य लोकं सकलं करैः स्वैः पपात भास्वानिति पापभीरुः। सन्मार्गवर्ती स करैरतीक्ष्णैः स्मस्तमानन्दयति स्म चन्द्रः ॥६॥ कथं नु वक्ष्यामि कलासु तस्य पल्सुमहत्पाटवमौषधीनाम् । सर्वज्ञनामा स शिवोऽपि येन सदा कलामस्य दधाति मूर्ना॥६८॥ दक्षात्मजा दीव्यदुदाररूपा साक्षात्सगर्भा शिववल्लभायाः। तस्यानुरूपाऽजनि धर्मपत्नी रोहिण्यभिख्या रुचिराऽपरा च॥६९।। कुमुदतीनां कुलयोषितां मे तापप्रदास्तु तपनस्य भार्या । इति प्रकुप्यन्नयमिन्दुराततॊ पादाहतैः पङ्कजिनीमकार्षीत् ॥७॥ For Private and Personal Use Only Page #122 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( १० ) श्रीचन्द्रविजयप्रबन्धः रामः शशी रावणमुष्णभानुं निहत्य निस्तीर्य पयोधिपूर: । सीतां समाश्वास्य पुनस्त्रियामां कामं व्यधात्कौशिकमात्तहर्षम् ।। ७१ पक्षेऽवदाते परितोषभाजो वृद्धिः परार्ध्या विबुधैकभोज्या । जैवातृकस्यास्य जगत्रयेऽपि प्रशस्यमाना प्रबभूव कामम् ॥७२॥ तीक्ष्णोऽयमित्येव शिवप्रकाशः स्थितः स्वयं सत्पथ एव नित्यम् । विश्वप्रशस्तेऽपि विना चकार मित्रे मृगाङ्को मुदमुज्ज्वलात्मा ॥७३॥ बुधेन भूयो गुरुणा सनाथां समुल्लसन्मङ्गलकाव्यसक्तिम् । समग्रसारस्य गुणाभिरामश्चक्रे सतां सन्ततमेष गोष्टीम् ॥ ७४ ॥ शङ्के सपत्नाभिमतः प्रभ्रूणां वज्र्यो भवेदात्मकुलोद्भवोऽपि । अजो यदब्जेषु निराकार प्रीति प्रभावल्लभवान्धवेषु ॥७५॥ आनन्दयन्लोकमशेषमेष विषाददाताऽजनि विप्रियाणाम् । को वा न लोके कुशलाभिलाषी राजा विदध्यादहितोपतापम्॥७६॥ कलानिधेरस्य बभूव कस्य सन्दर्शनात्कौतुकशालि चेतः । दृष्ट्वा यतस्तं दृषदोऽपि काचित् द्रुतं द्रुतान्तःकरणा बभूवुः ॥७७॥ राजानमेनं रचितप्रवृत्ति सन्मार्गमध्ये समवेक्ष्य हर्षात् । कामं दधुः कैरवमण्डलानि कूलंकषां कोशविलासलीलाम् ॥७८॥ विम्वच्छलाद्वयाप्य सरोवरेषु विस्फूर्जदिन्दीवरकैरवेषु । म्लानारविन्दप्रकरं व्यहार्षीत्तारावरोधानुगतः सुधांशुः ॥ ७९ ॥ पूर्वाचलप्रस्थवनान्तरेषु दधत्स्वयं दीपकमेणपोतम् । वितत्य सर्वत्र मरीचिजालं विभुर्वितेने मृगयाविहारम् ॥ ८० ॥ मुहुर्मृगाङ्कोऽपि वनान्तरेषु विक्षिप्य विक्षिप्य मयूखवाणान् । समन्ततः सञ्चरन्तोऽन्धकारवराहयूथानवधीत्सलीलम् ॥ ८१ ॥ निकुञ्जमध्यान्निपतद्भिरन्तः करेषुजालैर्गिरिकन्दरासु । पुन: पुन: शीतकरः प्रसुप्तान्प्रबोधयामास मृगन्द्रपोतान् ॥८२॥ कलानिधिस्तत्र करावघातैर्निर्भिद्य निर्भिद्य तमोगजेन्द्रान । तत्कुम्भजातैरिव मौक्तिकौघैस्ताराकुलैर्भूषयति स्म रात्रिम् ||८३ ॥ For Private and Personal Use Only Page #123 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीहेमचन्द्राचार्यग्रन्थावली. (११) ततः शनैरुज्झितपूर्वशैलवनान्तरो वल्लभया रजन्या। . विलकामो वियदन्तगेहं विकीर्णताराकुसुमं प्रपेदे ॥ ८४ ॥ तया पुनस्तत्र विहृत्य कामं संस्तीर्णलीलाशरदभ्रतल्पे । सञ्जातवेदः किल सानुरागः स वारुणीं प्राप पुनः शशाङ्कः ॥८५॥ स वारुणी संप्रतिपद्य चन्द्रो माद्यन्निवोद्यन्मदरागबन्धः । तल्पे तटे पश्चिमपर्वतस्य पपात पादस्स्वलनोपयुक्तः ॥ ८६॥ समुल्लसभन्दनवाटिकासु सान्द्रेन्दुकान्तोपलशालिनीषु । तस्यास्तशैलस्य तटस्थलीषु सहैव पत्न्या निशया स रेमे ॥८७॥ तत्र स्थितः शक्रदिशारमण्याः पयोधरे पूर्वगिरौ सलीलाम् । करैर्निजैः कामसखो वितेने पटीरगौरैरनुलेपलक्ष्मीम् ॥ ८८ ।। तस्याग्रसानोरवतीर्य मन्दं स शर्वरीदत्तकरावलम्बः । परिस्फुरत्पल्लवपुष्परम्यं पर्यन्तसीमावनमाससाद ॥ ८९ ॥ चचार तत्सानुवनान्तरेषु स तारकाभिः सह वल्लभाभिः । पुरस्कृतः प्रेमजुषा रजन्या पुष्पोपचारक्रिययैव चन्द्रः ॥ ९ ॥ करास्तदीयाः कलिकान्तरेषु पुष्पापचायाय किल प्रविष्टाः। वितेनिरे तद्विपिनद्रुमाणां पुङ्खानुपुङ्खां प्रसवस्य लक्ष्मीम् ॥११॥ तत्रोपविष्टश्चरमाद्रिसानो क्षणं सुधांशुः क्षणदासहायः। व्यलोकयद्विद्रुमवल्लरीभिरापाटलं पश्चिममम्बुराशिम् ॥ ९२ ॥ महानसं तं मरुतामुदारं मन्दाकिनीमङ्गलसूत्रमूलम् । मधुद्विषो वासगृहं महाब्धि मुदं दधौ विक्ष्य मुहुः कलावान् ॥१३॥ ततः स पुष्पापचयोपजातपरिश्रमः पश्चिमवारिराशेः । जले विहन्तु जनिताभिलाषस्तत्सैकतानां सविधं प्रपेदे ॥ ९४ ॥ स विभ्रमोद्यच्चटुलोर्मिजालविकीर्णमुक्ताफलमेदुरेषु । कलानिधिविभ्रमकन्दवत्सु चचार तत्सैकतमण्डलेषु ॥ ९५ ॥ वियत्पथोल्लङ्घविशेषखिन्नो विभुर्विशश्राम विभावरीषु । समुल्लसच्छीकरकोरकाढयैः समीरणैः सागरवीचिजातैः ॥१६॥ For Private and Personal Use Only Page #124 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१२) श्रीचन्द्रविजयप्रबन्धः ततः शनैः सैष कृतानुरागस्तारावरोधैः शतशः परीतः । जलावगाहं जलधेरकार्षीद्विह कामो विभुरोषधीनाम् ॥ ९७ ।। स तारकाभिः सह तत्र वाः समन्ततो वारि चरन्मृङ्गाकः। शको हरेः पूर्वमिवाभिवीतो मुक्ताभिरात्मोदरनिःसृताभिः ।।९८॥ आरुह्य चारुह्य हठात्सलीलमाक्रम्य लोलामथ वीचिमब्धेः। स तारकाभिः सह तत्र रागी चकार दोलाविहति शशाङ्कः।।१९।। तदनु तुहिनरोचिस्तारकासुन्दरीभिः ___ परिकलितविहारः पश्चिमाम्भोधिमध्ये । सकलमपि च जित्वा शेषलोकान्धकार पुनरुदयगतः सन्पूर्वशैलं प्रपेदे ॥ १० ॥ इति श्रीमालकुलतिलकस्य मण्डनामात्यस्य कृतौ चन्द्रविजयो नाम प्रबन्धः समाप्तः कार्तिकशुक्लाष्ठम्यां बुद्धदिने लिखितं विनायकदासेन । 0000. POOR - -- - For Private and Personal Use Only Page #125 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीहेमचन्द्राचार्यग्रन्थावली. ११. ॐ अहम् मण्डनग्रन्थाङ्कः ४. । श्री अलङ्कारमण्डनम् । जिनेन्द्रपादाब्जरजःपवित्रं कुर्यात्मसन्न हृदयं सदा वः नभास्थलं ध्वान्तसमूहरुद्धं चन्द्रस्य धामेव सुधासवर्णम् ॥१॥ कोदण्डिनी ताण्डविकुण्डलाभां समाश्रयामो हृदये दयालुम् । खण्डेन्दुचूडस्य दृढाभिमानशरव्यखीण्डस्फुटटीग्वलासाम् ॥२॥ अथ काव्यप्रशंसागङ्गातरङ्गान्नहि पापहारि न सुभ्रुवां विभ्रमतो मनोज्ञम् । न गुञ्जतो मञ्जु मधुव्रतानां श्राव्यं न काव्यादपरं सुखाय।॥३॥ काव्याब्धिगर्भाच्छरदभ्रशुभ्रो विज्जृम्भते चारुयश शशाङ्कः । ततः कवीन्द्रास्त्रिदशान्विशन्तः सुधौघकलोलभुजि भजन्ते ॥४॥ नचित्तशुद्धया न च योगबुद्धया न दिव्यदृष्ट्या न च भूरि दिष्ट्या । ब्रह्मप्रबोधादपि दुर्विबोध कायं हि नव्यं रचयन्ति केचित् ॥५॥ नाप्येकपयं कुरुतेऽनवयं निहत्य निन्यं पिशुनस्तु शास्त्रम् । न जीवयत्येकमपीह जीवं विनाशयत्याशु बहून्मुजङ्गः ॥६॥ नव्येन काव्येन सतां प्रमोदः सदा विषादस्तु भवेत्खलानाम् । द्राक्षा हि साक्षादमृतोपमेया भजन्ति कीरा न तु सारमेयाः॥७॥ कविवाणीविलासिन्यो विलासान्येन विभ्रति । परोपकरणार्थाय कुर्वेऽलङ्कारणण्डनम् ॥ ८॥ अथ काव्यलक्षणम् सालङ्कारगुणा सार्थाऽदोषा वाक् काव्यमुच्यते । मुख्यध्वन्युत्तमं काव्यं गौणध्वनि तु मध्यमम् ॥ ९ ॥ चित्र शब्दार्थयोर्यत्तद्ध्वनिहीनं तथाऽधमम् । For Private and Personal Use Only Page #126 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री अलङ्कारमण्डनम्. मुख्यचनियथा विदितमदनसौख्याऽनर्थ्यलावण्यपूर्णा - त्वमसि स च युवा स्त्रीचित्तचौरो विदग्धः । विजनमथ पदं तन्नित्यवैचित्यदायि __ व्रज सखि ! सहसा मे जीवितं रक्षणीयम् ॥ १॥ अमुख्यध्वनिर्यथाचन्द्रे प्रबुद्धे स्वमरिचिरोचिरुद्भासितक्ष्मातलदुर्गमार्गे । म्लानाननाऽभूत्तरुणी क्षणेन चौर्येण कान्तं प्रति गन्तुकामा ॥२॥ शब्दचित्रं यथा उद्वेल्लत्पल्लवोल्लीलवल्लीसंलीनषट्पदः। अनिलोलासिबकुलगन्धः सुरभिरागतः ॥ ३ ॥ अर्थचित्रं यथारक्ते दिनेशदयिते सति पश्चिमायां सन्ध्याऽरुणा प्रकुपितेव दिनावसाने । शान्तालिकोकिलकुलध्वनिता विभाति मौनव्रतं विदधतीव वनस्थलीयम् अथ काव्योत्पत्तिमाहकाव्यस्य हेतुः प्रतिभा सर्वशास्त्रावलोकनम् । गुरूणां निकटेऽभ्यासः काव्यकृज्जनमित्रता ॥ १० ॥ देशभाषापरिज्ञानं कविच्छायोपजीवनम् । सदसल्लोकचातुर्य छन्दोबन्धनमेव च ॥११॥ नव्यार्थानां च घटना समस्या पूरणं तथा । अर्थसङ्कलना चैव वस्तुरूपविवेकिता ॥ १२ ॥ अथकाव्यशिक्षामाह यमकश्लेषचित्रार्थे सदृशौ तु वबौ डलौ । अनुस्वारविसगाभ्यां चित्रभङ्गो न जायते ॥ १३ ॥ For Private and Personal Use Only Page #127 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री अलङ्कारमण्डनम्. यमके वबौ सदृशौ यथा.. परिणेतुं गतः कृष्णो रुक्मिणी कन्यकां वरः । . रुरुचे भानुना तुल्यः स्वर्णवर्णनिभाम्बरः ॥ ५ ॥ डलो यथापायादुमेशः सुभगं दधानः सदा जटाबन्धभरं कडारम् । यस्तोत्रगीतिः क्रियते मनोज्ञा प्रसिद्धगन्धर्वगणैः कडारम् ॥ ६ ॥ श्लेषे यथा न-बन्धनं गृहे यस्य स गृही सुखमेधते । तथैव स महायोगी सद्यस्वत्त्वमवाप्नुयात् ॥ ७ ॥ चित्रे यथा- सदा विडम्बना याताः सर्वे देव ! तवारताः । जडवनिर्मलाचारा जववस्वे कृताः सुराः ॥ ८॥ संसृत्याडम्बरहरं जडसन्त्यागभासुरम् । जडसंकासहद्धीरं जिनं भज विजं नृज ! ॥ ९ ॥ अयं छुरिकाबन्धः छत्रं वा ॥ अथ रीतित्रयमाह माधुर्यदैस्तु वैदर्भी गौडीयोजःप्रकाशकः । पाश्चाली चापरैवर्णैरिति रीतित्रयं मतम् ॥ १४ ॥ वैदर्भी यथा अनिलान्दोलिता मन्दं मन्द माकन्दमञ्जरी। सुन्दरीव प्रियाश्लिष्टा चकम्पे मधुवर्षणी ॥ १० ॥ गौडीया यथागोपीपयोधरसमुच्चरदुश्वगन्ध लुब्धान्धषट्पदभरोज्झितपङ्कजेषु । स्वाङ्गप्रभाद्विगुणनीलिमभासुरेषु रेमे हरिः प्रमुदितो यमुनाजलेषु ॥ ११ ॥ For Private and Personal Use Only Page #128 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ४ पाञ्चालीमाह www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री अलङ्कारमण्डनम्. अलिमालेव तरला सरलौ दृग्विलासिनि । कोकिलाला मधुरा वाचा ते वरानने ! ।। १२ । जिनपादाब्जभृङ्गेण मण्डनेन विनिर्मिते । आदिमोऽयं परिच्छेदो गतोऽलङ्कारमण्डने ॥ १५ ॥ २. अथ दोषानाद यज्ज्ञानेन विना काव्यं यद्रत्नमिव नो जनाः । गृह्णन्ति दुर्निरीक्ष्यांस्तानादौ दोषान्वदाम्यहम् ॥ १ ॥ दोषास्त्रिविधा विज्ञेयाः पदवाक्यार्थसंभवाः । पददोषास्तत्राऽश्लीलमप्रतीतं हतार्थकम् ॥ २ ॥ अविमृष्टविधेयांशं च्युतसंस्कृत्यवाचकम् । ग्राम्यानुचितनेयार्थ क्लिष्टसन्दिग्धमेव च ॥ ३ ॥ श्रुतिकट्वप्रयुक्तं चाथासमर्थ निरर्थकम् । विरुद्धमतिकृत्तं तु समासगतमुच्यते ॥ ४ ॥ उदाहरणानि - अश्लीलं यथा - लज्जानिन्दाऽशुभार्थप्रकाशकम् । यथाकूपकान्तर्गतो धीमान्पयो गृह्णाति शीतलम् । तन्वङ्गयाः केशराजीयमिन्द्रनीलधनुष्प्रभम् ॥ १ ॥ कश्चित्सुरुचिराचारः सततं सर्वसंमतः । धर्मार्थकाममोक्षाणां धर्मात्मा पञ्चतां गतः ॥ २॥ अतीतम् - यन्न सर्वत्र संमतम् । यथा सदा सदाहारविहारशीलनं विहाय धृत्वा तरुवल्कलानि च । वने वसन्श्वापदवृन्दमध्यगो निराशयो योगिजनो न सीदति ॥ ३ ॥ For Private and Personal Use Only Page #129 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री अलङ्कारमण्डनम्. आशय'शब्दो योगशास्त्र एवाशावाचकः, न त्वन्यत्र ॥ यत्र प्रसिद्धोऽर्थो द्वितीयेनार्थेन हन्यते । तद्यथाजपाकुसुमसंकाशप्रस्फुरच्चारुरोचिषा । रक्ताजलिपुटेनार्थ दत्ते सूर्याय भूपतिः ॥ ४ ॥ अत्र 'अरुणाञ्जलिपुटेन' इति प्रकृतोऽर्थः 'रक्ताञ्जलिपुटेन, शोणिताञ्जलिपुटेन' इति निहतः ॥ अविमृष्टविधेयांशम्-अमुख्यत्वेन निर्दिष्टो विधेयोऽशो यत्र तत् । यथा स्फुरत्प्रसूनस्तबकस्तनमण्डलसन्नता । प्रियभृङ्गसमाश्लिष्टा भाति कान्ता लाऽधुना ॥ ५ ॥ अत्र 'लता कान्ता' इति भाव्यम्, यतो लतैव कान्ता' इत्युच्यते॥ च्युतसंस्कृतिः-व्याकरणदुष्टम् । यथा शृङ्गारभङ्गी तन्वनि ? तव वर्द्धति साम्प्रतम् । ततोऽनुमीयते प्रेम प्रियस्य सुतरां त्वयि ॥६॥ अवाचकम्-प्रभूतार्थवक्तुमसमर्थम् । यथालोलापाङ्गैरङ्गनानां शरीरी लुभ्यत्येवानङ्गसौख्यप्रवीणः ।। तद्वत्सान्दैश्चान्द्रपीयूषवहर्षोल्लीलः पारणेच्छुश्चाकोरः ॥ ७ ॥ __ अत्र शरीरी' शब्देन कवेराभिप्नायः ‘कामी', तं 'शरीरी' इति वक्तुं समर्थः ॥ ग्राम्यम्-लोकदुष्टम् । यथाकटिविशाला तरुणि ! त्वदीया काञ्चीनिनादं प्रतिपादमेति । स्तनौ च मत्तद्विपकुम्भपीनौ तद्भारतः किं कृश अष मध्यः॥८॥ अनुचितार्थम्-औचित्यार्थरहितम् । यथाभुजार्जितालययशःस्वरूपबीजप्रवापाय नृपालमौलौ । हलीव सङग्रामधरातले त्वमुन्मूलयस्येव रिपुद्रुमालीम् ॥ ९॥ For Private and Personal Use Only Page #130 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६ श्री अलङ्कारमण्डनम्. नेयार्थम् – स्वमतिप्रकॢप्तार्थम् । यथाबधान तुरगं चन्द्रचूडे मूढ ! विशेषतः । क्षणं प्रक्षाल्य वदनं शीतलं विपिनं पिब ।। अत्र ''चन्द्रचूडस्य स्थाणु: ' इत्यभिधानम्, अनेन स्वमत्य * स्थाणौ हयं बधान ' इति कथयति ॥ क्लिष्टम् - यस्यार्थः कुशेनावगम्यते । यथा-सैंहिकेयाभिधानं यद्दधाति तदरिप्रभा । सन्दिग्धं यथा- १० ॥ जयत्यानन्ददा नित्यं कामिनां भुवनत्रये ॥ ११ ॥ अत्र 'राहोरभिधानं तमो दधाति, तमसो वैरी चन्द्रः; तस्य प्रभा' इति । स्नेहोल्लासेन वर्द्धन्ते बालकास्तव भामिनि ! । किं पुनर्भाक्ति नम्रास्ते चण्डि ! चण्डाट्टहासके ! ॥ १२ ॥ अत्र ' अर्भकाः ? किंवा कचाः ? ' इति सन्दिग्धः ॥ श्रुतिकटु - निष्ठुराक्षरत्वात्कर्णोद्वेजनम् । यथा निर्मृष्टतरुणीगर्वदुष्टपुष्टमनेोभुवा । परपुष्ट विघुष्टेन मूर्च्छिताः पथिकाङ्गनाः ॥ १३ ॥ अप्रयुक्तम् - यथोचितार्थमपि कविभिरप्रयुक्तम् । जुहोति चन्द्रस्य चकोरी यतोऽन्यदस्या न हि पारणार्थे । चन्द्रोऽपि तस्या हरति प्रपीडां परस्य सन्तोषकरा हि सन्तः । १४ अत्र ' जुहोति ' इति भक्षणार्थे केनापि न प्रयुक्तः ॥ असमर्थम् - यस्मै प्रयुक्तमर्थं वक्तुमसमर्थम् । यथा यथाविधि विधिज्ञाता ज्ञातॄणां धुरि पूजितः । जुहोति गां द्विजायासौ राजा धर्मपरायणः || १५ ॥ अस्य ' हवनार्थे प्रसिद्धिः, तमेवार्थं वक्ति, न तु दानार्थम् इति । अत अव ' ब्राह्मणाय गां ददाति' अमुं वक्तुमसमर्थम् ॥ For Private and Personal Use Only Page #131 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री अलङ्कारमण्डनम्. निरर्थकम् - अर्थहीनाक्षरकृतपादपूरणमात्रम् । यथायत्करोत्करभीतानामालिङ्गत्यबला स्वयम् । वन्देऽहं कुमुदानन्दं सदैव हि च वै तु हीति ॥ १६ ॥ विरुद्धम् - असकृदुक्तमात्रमेवान्यथामतिप्रकाशकम् । यथासदा सुखं तव गिरा कार्याचन्तां करोषि मे । सम्बन्धाय कुलीनानां मतिस्तव महामते ! ॥ १७ ॥ अत्र 'सदा असुखम्, अकार्यचिन्ता, कुलीनानां सम्बन्ध:सम्यग्बन्धनम्' इति प्रतीतिः । ॥ इति पददोषाः || अथ वाक्यदोषाः ७. उपहतलुप्तविसँगै न्यूनाधिककथितपदं च हृतवृत्तम् । पतत्प्रकर्षविसन्धी विरुद्धवर्ण समाप्तपुनराप्तम् ॥ ५॥ भग्नप्रक्रममक्रममर्धान्तरैकवाचकम् । (?) अनभिहितवाच्यं प्रसिद्धिहतमपदस्थ पदसमाससंकीर्णे । गर्भित मतपरार्थमभवन्मतयोगं तु दुर्वाक्यम् || ६ || उपहत लुप्तविसर्गम्-लुप्तविसर्गता विसर्गस्योकारत्वं च । यथामन उद्यमसक्तं ते हरिध्यानाय केवलम् । मन्त्रो विचित्रो भवतो राजते देव ! नित्यशः ॥ १८ ॥ न्यूनपदं यथा चन्द्र ! वारय तवांशुमालिकां यक्षिणोति किल बालिकामिमाम् । नोचितं तु भवतां शुभस्थितेरध्वनीनसदृशां प्रपीडनम् ॥ १९ ॥ अत्र ' भवताम्' इति वचसा ' तव' इति न्यूनम् ॥ अधिकपदं यथा अयं युवा मन्मथमूर्त्तिकान्तस्त्वमेव कान्ताऽस्तु समागमोऽद्य । ततो युवां प्रेम परस्परं स्याद्यथा रथाङ्गाभिधयोरनल्पम् ॥ २० ॥ अत्र ' मूर्त्तिः' इति ॥ For Private and Personal Use Only Page #132 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ? ८ श्री अलङ्कारमण्डनम्. चन्द्रविम्बमानं ते वदनं मृगलोचने ! | सुधास मानवचनैर्यज्जीवयसि मामिह ॥ २१ ॥ अत्र ' समानम्' इति ॥ हतवृत्तम् - लक्षणहीनमप्राप्तगुरुभावान्तलघु रसप्रतिकूलवृत्तं च । क्रमेणोदाहरणानि - लक्षणहीनं यथा www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कथितादं यथा जगत्युदारः प्रसरीसरीति गुणगणस्ते शशिकान्तितुल्यः । यथा खेरंशुचयो विचित्रचरित्रकारी कमलोदरेषु ॥ २२ ॥ अत्र ' गुणगण' इति ॥ अप्राप्तगुरुभावान्तलघु यथा अभ्युदिते दिवसेश्वर बिम्बं नश्यति प्रतिदिशं तिमिरौघः । विजृम्भते परिमल: कमलानां शोभते भ्रमरगुञ्जितमेव ॥ २३ ॥ अत्र ' व ' इति ॥ रसप्रतिकूलवृत्तं यथा किन्नरकण्ठविडम्बनगीता चन्द्रकरव्रजभासुरहासा | मन्मथबाणसमान विलासा मुग्धवधूरियमेति सुवेषा ।। २४ ।। अतद्वृत्तं शृङ्गारे हास्यप्रदम् ॥ पतत्कर्षम् - पतितः प्रकर्ष आरम्भवैचित्र्यं यत्र तत् । यथा- प्रस्फुरत्तरलचन्द्रचन्दनव्याकुलीकृतविलोललोचना | कम्पते सपदि सा तु कामिनी मन्मथेन विरहेऽतिपीडिता |२५| अत्र प्रथमार्द्धे दार्व्यम्, अपराद्धे शैथिल्यम् ॥ विसन्धिः - वैरूप्यं विश्लेषोऽश्लीलता च । अनुक्रमे णोदाहरणानि - वैरूप्यं यथा अत्यन्तं मृदुचाङ्गया नन्विन्द्रोऽपि प्रलोभितः । किं नास्ति चन्द्रमस्यद्य सम्पूर्णे प्रियदर्शने ॥ २६ ॥ For Private and Personal Use Only Page #133 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री अलङ्कारमण्डनम्. विश्लेषो यथा- बुद्धिशक्ती अनन्ते ते । इति अश्लीलता यथा रम्या वागण्डजोत्तमे ...............। भक्तिश्च भवतोऽनन्तपदभक्तस्य किं पुनः ॥ २७ ॥ विरुद्धवर्णम्-वीररसोत्कर्षदा वर्णाः शृङ्गारे, शृङ्गारोत्कर्षदा वीरे च। उदाहरणं यथाकालिन्द्यां सह कृष्णेन दृप्तकन्दर्पकुईनम् । हरिणाक्ष्योऽधिकाङ्क्षन्ते कटाक्षक्षेपदक्षिणाः ॥२८॥ अत्र कठिना वर्णा न भव्याः । तथा चवीरे-नृसिंहकरजावल्या शोणितौधेन शोणया। रत्नपत्क्येव रुरुचे हिरण्यकशिपोरुरः ॥२९॥ अत्र बन्धशैथिल्यम् , मृदुवर्णना च न भव्या, बन्धशैथिल्यात् , वीररसत्वात् ॥ समाप्तपुनरात्तं यथा कमलोडीनमधुपः कज्जलांशुरिवोद्धतः । कुरङ्गलोचनापाङ्गः पातु वोऽनङ्गसायकः ॥ ३०॥ अत्र 'कुरङ्गलोचनापाङ्गो वः पातु' इत्यत्रैव समाप्तम् , पुनश्च अनङ्गसायकः' इति कथिते पुनरात्तम् ॥ भग्नप्रक्रमम्-भग्नः प्रक्रम आरम्भो यत्र, तत् । यथा प्राणेश्वरो गन्तुकामो यास्यन्ति मम चासवः । कर्तव्यं किं मया देव ! शिशिरे मदनोत्करे ॥ ३१ ॥ अत्र 'प्राणा अपि गन्तुकामा' इति भाव्यम् ॥ अक्रमम्-न विद्यते क्रमो यत्र, तत् । यथा द्वाविमौ दुःखितौ लोके हितायान्यस्य देहिनः । साधुश्च मधुरालापी दुर्वचाश्च खलो जनः॥ ३२ ॥ For Private and Personal Use Only Page #134 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री अलङ्कारमण्डनम्. ___ अत्र ‘खलो जनश्च' इति भाव्यम् , ' दुवर्चाश्च' इत्यत्र 'च' कारो न युक्तः । अर्धान्तरैकवाचकं यथा उन्निद्रमजरीगन्धप्रलुब्धमधुपावली । कलगुजेन वाचालो रसालो नु वदत्यसौ ॥ ३३ ॥ अत्र 'मधुपावली, कलगुजेन' इति द्वयोः सन्धौ एकवाचकम् । अनभिहितवाच्यम्-यत्रावश्यं वाच्यं नोक्तम् । यथायस्याः पवित्रसरितः सलिलस्य बिन्दु जन्मार्जितं निखिलपातकमुच्छि नत्ति । सा सूर्यजा वद कथं घननीरमध्ये स्नातस्य कल्मषभरं न करोति दूरम ॥ ३४ ॥ अन 'बिन्दुरपि ' इति भाव्यम् ।। मसिद्धिहतं यथारखो गजानां बधिरीकरोति त्रैलोक्यमप्येषु महाहवेषु । कल्पान्तकालोत्थघनाघनानां स्फूरन्महागर्जितगर्वलोपी॥३५॥ ___अत्र 'रवः' इति प्रसिद्धिहतम् । यत:-'घनानां स्तनितम् गजानां हितम्' इत्यादि प्रसिद्धम् । वस्तु मण्डूकमहकादिध्येव प्रसिद्धः ॥ अपदस्थपदसमासं यथास्वर्भानुना नो कवलीकृतोऽसि निःशेषपीतोऽसि सुरैः कथं नो । जगाद काचिच्छशिना सहेति स्फूरत्स्मरस्फारशरप्रभिन्ना ॥३६॥ __ अत्रान्त्ये पदे समासो न युक्तः । संकीर्णम्-यत्रान्यवाक्यपदान्यन्यवाक्यान्तरं प्रविशन्ति, तत् । गाहते कमलमध्यगोचराः शेरते गगनमण्डलमिन्दुः। षट्पदास्तुहिनबिन्दुभीरवः संविशन्ति विधुराश्च मन्दिरम् ।३.७१ For Private and Personal Use Only Page #135 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री अलङ्कारमण्डनम्. अत्र 'गगनमण्डलमिन्दुर्गाहते' ' षट्पदाः कमलमध्यगोचराः सन्त शेरते' इत्यव्यस्तं भाव्यम् ।। गर्भितम्-यत्र वाक्यान्तरमेव वाक्यान्तरं प्रविशति, तत् । यथा परदुःखकृतां पुंसां रौरवेषु महास्थितिः । सत्यमेतत्पुराणोक्तमाचन्द्रार्क तु जायते ॥ ३८ ॥ अत्र ' स्थितिर्जायते' संलग्नमेव भाव्यम् ।। अमतपरार्थम्-अमतः प्रकृतविरुद्धः परार्थों यत्र, तत् । यथा त्वत्खड्गवल्ली भात्येषा कामिनीव महीपते ! । अरिरक्तौघसिन्दूरमांसकमचन्दना ॥ ३९ ॥ अत्र 'रक्तं सिन्दूरं मांस चन्दनम्' इत्युक्ते शृङ्गाररसस्य प्रतिकूलता। अभवन्मतयोगम्-अभवन्-असिद्धो मतोऽभीष्टः योगः- सम्बन्धो ___यत्र, तत् । यथास्वगुणोदधिसंवृद्धो दानवारिविराजितः । यशश्चन्द्रः प्रकाशेन प्रौढः कस्यापि देहिनः ॥४०॥ अत्र देहिनो गुणोदधिसंवृद्धः' अवं न लगति, 'यशश्चन्द्रस्य' एव लगति ॥ ॥ इति वाक्यदोषाः ॥ अथार्थदोषा उच्यन्तेअपुष्टो व्याहतः कष्टः पुनरुक्तश्च दुष्क्रमः । प्रसिद्धिविद्याविरुद्धः सन्दिग्धोऽथानवीकृतः ॥७॥ प्रकाशितविरुद्धश्चाहेतुरश्लील अव च ।। साकाङ्क्षोऽपदमुक्तस्तु त्यक्तानुखीकृतः पुनः ॥८॥ विध्यनुवादायुक्तः सहचरभिन्नस्तथा पुन म्यः । दुष्टोऽर्थोऽपि सनियमानियमविशेषाविशेषान्यः ॥९॥ For Private and Personal Use Only Page #136 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री अलङ्कारमण्डनम् . अपुष्टो यथा पुष्पदन्तो जयत्येष सुरासुरनिषेवितः । तपतीतीरपानीयनीरजैः पूजितो द्विजैः ॥४१॥ अत्र 'तीरपानीयादयः' शब्दाः परस्परमर्थपुष्टिदा न भवन्ति व्याहतो यथा तडागभवतः पद्माः सन्ति पद्मालयप्रियाः । तथापि मत्प्रियावक्त्रपने पद्मास्थितिप्रिया ॥ ४२ ॥ अत्र पूर्वार्द्धपद्मशब्देन वक्त्रपद्मशब्दार्थो व्याहतः ॥ कष्टो यथाउपवनघनवाटिकासु तस्मिन्कुसुमितकुखरजो विवेश नेत्रे । स्मरगज इव कामदुगेमध्ये युगचरितातरकिन्नराङ्गनानाम् ॥४३॥ अत्र 'युगचरितम्' अनेन द्वन्द्वसम्भोगः, 'कुजरजः 'अनेन लतागुल्मप्रसूनपरागः; इति कष्टः ।। पुनरुक्तो यथा नैव वक्ति परुषाक्षरपङिक्त नाशयत्यविदितः परकार्यम् । द्वेष्टि साधुचरितानि खलोऽसौ तत्सुखं क पिशुने सति पुंसाम् ॥४४॥ 'दुर्जनः' इत्युक्ते पुनः ‘पिशुनशब्दः' पुनरुक्तः ॥ दुष्क्रमो यथा कृत्वा देवार्चनं साधो ! बलिदानं ततः शुभम् । सिद्धये कुरु कार्यस्य स्नानसन्ध्यादिकं विधिम् ॥ ४५ ॥ प्रसिद्धिविरुद्धो यथा अपहाय मधुव्रतोऽधुना नलिनी दुर्लभसौरभप्रदाम् । विटवञ्चदुलः पटीरजां भजते कोमलपुष्पमालिकाम् ॥ ४६ ।। विद्याविरुद्धो यथा राहुप्रस्तो निशानाथो यावदेव प्रजायते । तावदेव जनः स्नाति कश्रिदाग्रहकारकः ॥ ४७ ॥ For Private and Personal Use Only Page #137 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३ श्रीअलङ्कारमण्डनम्. प्रासे स्नानम् , न तु प्रासात्पूर्वम् ; इति विद्याविरुद्धः ॥ सन्दिग्यो यथा--.. कीर्तिः प्रयाति भवतः सहसैव राजन देशान्तरं प्रकुपितेव तवातिदानात् । समामरङ्गनिहतारिसहस्रखिन्नः कोशं प्रविश्य शममेति च खड्ग अषः ॥ ४८ ॥ अत्र 'तवातिदानात्खण्डनात्प्रकुपिता देशान्तरं याति' इति सन्दिग्धः॥ अनवीकृतो यथाकिमधुना वनवासरतेन मे किमधुना जनमध्यगतेन मे ।। किमधुना धनसङ्ग्रहणेन मे स्मर हरस्य पदाम्बुजभाजिनः ॥४९॥ अत्र 'किमधुना' पुनः, इति । प्रकाशितविरुद्धो यथा औदार्यस्योपरि नृप ! त्वया प्रीतिभृता भृशम् । . तस्मात्क्रुद्धमिवानर्घ्य धनं याति दिशो दश ॥ ५० ॥ .. अत्र 'क्रुद्धं सद्धनं दिशो दश याति' इति प्रकाशितो विरोधः॥ अहेतुर्यथा तव परिमलमात्रादपि कुसुमायुधदीपनं सदा भवति । तरुणीविलासगुरुरासि परिहर भुजगान्पटीरसरवे ! ॥ ५१ ॥ अत्र भुजगनिराकरणे हेतुक्तिः ॥ अश्लीलो यथा- .. यस्य स्यात्कुटिलैः साकं सङ्गः स्तब्धस्य नित्यशः । छिद्रप्रवेशिनस्तस्य पतनं भवति ध्रुवम् ॥ ५२ ॥ For Private and Personal Use Only Page #138 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir .१४ श्रीअलङ्कारमण्डनम्. साकाक्षो यथा मत्तो जलदसमूहो दृप्ता नृत्यन्ति केकिससाताः । अध्वगमूढ ! कथं तां सहसे कान्तां विदेशगताम् ॥ ५३ ॥ ‘कान्तां त्यक्तुं कथं सहसे' इत्याकाक्षते ॥ अपदमुक्तो यथामित्रं कृष्णो यस्य बन्धुश्च धर्मस्तातः शक्रो विक्रमोऽलौकिकश्च । न स्यादन्यः फाल्गुनाद्वलादेवो देवोऽप्येवं सर्वशक्त्याभियुक्तः।।५।। अत्र 'न स्यादन्यः' इत्यनेनैव सिद्धे 'देवोऽप्येवम्' इति अपदमुक्तः ॥ त्यक्तानुस्वीकृतो यथा यद्गुणाः कर्णकुहरे सजनानां तु शेरते । स अव पुरुषो लोके गुणगौरवभूषितः ॥ ५५ ॥ अत्र 'गुणगौरवभूषितः' इति ।। विष्यभुवादायुक्तो यथा सरस्वति ! नमोऽस्तु ते विहर वक्त्रपकरहे __ महेशगुणवर्णनामृतरसप्रमोदोद्धते । मदान्धजनसर्पिणि प्रणयमाशु निन्दापदे त्यजाशु भज गोष्ठिका सुजनसङ्गमे सङ्गमे ॥ ५६ ॥ 'मदान्धजनसपिणि ' इत्यावश्यकार्थादन्योऽर्थों विध्यर्थादन्यः, इति । सहचरभिभो यथादानेन दाता कपटेन चौरः शौर्येण वीर्यो यशसा नपालः। सत्येन योगी कृपया द्विजन्मा रूपातिरेकं जगति प्रयाति ॥ ५७ ॥ अत्र 'कपटेन' चौरः' इति ॥ For Private and Personal Use Only Page #139 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ग्राम्यो यथा सनियमान्यो यथा www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीमलङ्कारमण्डनम्. पुत्रमाताऽसि मे कान्ते ! त्वत्तुण्डं कुण्डलोपमम् । स्वगस्यानर्गलाऽसीति श्रोत्रियेणोच्यतेऽङ्गना ।। ५८ ।। दत्तं धनं तदपि ते हृदि नो विकाशः । प्रीतिः कृता त्वयि तथापि न निर्मलत्वम् । निष्पादितं तदपि कार्यशतं न वेत्सि सत्या तवाद्य खलता खल ! भूषणाय || ५९ ॥ अत्र ' खलतैव ' इति सनियमत्वं वाक्यम् ॥ अनियमपरिवृतो यथा धनेन किल्बिषाssरम्भो विद्ययैव मदोद्वतिः । वाचया मित्रनिन्दा च तस्य पुंसः भुतेन किम् || ६० ॥ अ ' विद्यया अव' इति नियमो न वाच्यः ॥ विशेषपरिवृतो यथा सत्सङ्गमे कस्य न चित्तशुद्धिरसत्पदे कस्य न पापबुद्धिः । भवोद्भवे कस्य न भूरि दुःखमुप्रार्चने कस्य सुखं न पुंसः ॥ ६१ ॥ अत्र ' उप्रार्चने ' इति सामान्यं न वाच्यम् ॥ अविशेषाम्यो यथा जनाः कुर्वन्तु माऽवशां कवीन्द्राणां कथंचन । कृष्णद्वैपायनात्किं न कृष्णपाण्डवकीर्त्तनम् ॥ ६२ ॥ अत्र एकस्माद् इति सामान्यं वक्तव्यम् ॥ " धनुयहस्तक टकके किकेकादयः पुनः । सान्निध्यवाचिनः शब्दा उत्कर्ष प्रतिपत्तिदाः || १० | १५ For Private and Personal Use Only Page #140 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीअलङ्कारमण्डनम्. यथा धनुारोहणं वीर ! कुरु सयामकोविद ! । तथा च हस्तस्य तस्याः कटकं श्लथत्वं तन्व्या गतं त्वद्विरहाकुलायाः । अद्यापि नो यास्यसि चेनृशंस ! प्राणाः पतिष्यन्ति च तेन साकम् ॥ ६३ ।तथा च श्रूयन्ते केकिनां केका नृत्यतां शिखरे गिरेः। इत्याधन्यदपि ज्ञातव्यम् ॥ इति श्रीजिनभक्तन मण्डनेन विनिर्मिते । द्वितीयोऽयं परिच्छेदो जातोऽलङ्कारमण्डने ॥ ११ ॥ अथ गुणानाह पुष्पमालेव ललिता गुम्फिता भाति भारती । यैर्मनोहारिभिस्तेऽद्य कथ्यन्ते प्रभवो गुणाः ॥१॥ समतौदार्यमाधुर्यसौकुमार्यप्रसन्नताः। समाधिश्लेषकान्त्योजांस्यर्थव्यक्तिर्पणा दश ॥ २ ॥ बन्धस्य साम्यं समता यथा परिजनघनवृन्दा नन्दिनी चारुवृन्दा वनतरुगतगोपीमण्डली मण्डलं या । समदजलदकान्तिः सा समायातु नित्यं तनुहृदयपयोज मजला देवता मे ॥ १॥ For Private and Personal Use Only Page #141 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra यथा - श्रीअलङ्कारमण्डनम्. तदौदार्य पदान्तरैः । अर्थाधिक्यं पदानां स्याद्यत्रैकत्र गुम्फितैः ॥ ३ ॥ यथा हेलाविकाशितविलासपयोजपुञ्ज गन्धप्रलुब्धमधुपत्रजगुजरम्यम् । सद्यो विनाशितजगत्रयतीव्रतापं पापं हरत्वविरलं तपतीजलं वः ॥ २ ॥ अत्र ' हेला' क्रीडा ' सद्यः' ' प्रलुब्धः' इत्यादिपदान्तरैर न्येषामर्थ पुष्टिः ॥ मधुरार्थप्रकाशित्वं तन्माधुर्य जगुर्बुधाः । www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dogg तव करसरोजवर्त्ती क्रीडाशुकशावको मया साकम् । चुचुम्बिषति तवाधरमिन्दुमुखि ! पक्कबिम्बसमम् ॥ ३ ॥ यच्च मन्जुलवर्णत्वं सौकुमार्यं तदुच्यते ॥ ४ ॥ यथा- यथा स्थलनिपतितच श्वञ्चन्द्रिका विम्बबुद्धधा चरणनखमयूखाञ्चुम्बतीयं चकोरी । तव सुपदपदवीं चालक्तकार्द्राङ्करक्तामरुणनलिनपङ्क्तिर्भ्रान्तितः श्यामलेली ॥४॥ आशुस्फुरणमर्थस्य कथ्यते सा प्रसन्नता । श्रीभैरवो जयति भूमिपतिः प्रसन्नः । समाधिरन्यस्य गुणारोपोऽन्यस्मिन्स उच्यते ॥ ५ ॥ १७ For Private and Personal Use Only Page #142 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीअलङ्कारमण्डनम्. यथा अस्यां दिशि विशालाक्षि ! प्रसरन्ति कराकुराः । शशिनो मानिनीमानजयिनः किं विधीयते ॥ ५ ॥ अत्र वृक्षवल्लीमुख्यानामकुराः, तदारोपश्चन्द्रकरेषु; यतश्चन्द्रकरेष्वाकुरा न संभवन्ति ॥ पदानि गुम्फितानीवैकस्मिन्श्लेषः स उच्यते ॥ यथा येनानय॑पराक्रमेण दलिताः सामरङ्गे रय स्त्रातास्त्राणपरायणेन मरणात्पाण्डोरखण्डं सुताः । वसाकर्षणविह्वला कुरुसभामध्योद्धृता द्रौपदी चेतस्तं भज जन्मखण्डनविदं गोविन्दमानन्ददम् ॥६॥ बन्धस्योज्ज्वलता कान्तिः ......... ॥६॥ यथाकर्पूरपुखोज्वलकान्तिपूरगौरीकृताशेषदिगन्तरालः । अनन्तचन्द्रोदयबुद्धिदायी दिवानिशं शं दिशतान्महेशः ॥ ७ ॥ समासचारुता गधपये ओजस्तदुच्यते । यथागोपीपयोधरसमुच्चरदुञ्चगन्धलुब्धान्धषट्पदभरोज्झितपङ्कजेषु । स्वाङ्गप्रभाद्विगुणनीलिमभासुरेषु रेमे हरिः प्रमुदितो यमुनाजलेषु८ गूढतार्थसम्पत्तेरर्थव्यक्तिरुदाहता ॥ ७ ॥ यथा उभिद्रचन्द्रिकाधौतध्वान्तमहातसुन्दरे । कश्चित्सोधतले कामी कामिन्या सह खेलति ॥ ९॥ इति श्रीजिनभक्तेन मण्डनेन विनिर्मिते । तृतीयोऽयं परिच्छेदो जातोऽलकारमण्डने ॥ ८॥ For Private and Personal Use Only Page #143 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीअलङ्कारमण्डनम् - १९ सालकाराऽपि नो भाति तरुणी विभ्रमर्विना । तथा रसैविना काव्यमतस्तान्बमहेऽधुना ॥ १॥ विभावैरनुभावश्च सात्त्विकैर्व्यभिचारिभिः । स्थायी रत्यादिको भावो जनितो रस उच्यते ॥२॥ शृङ्गारहास्यकरुणा रौद्रवीरभयानकाः । बीभत्साद्भुतशान्ताख्या नवते कथिता रसाः ॥३॥ तत्र शृङ्गारलक्षणम् परस्परं नायिकानायकयोवृत्तिः, शृङ्गार उच्यते । सम्भोगो विप्रलम्भश्च द्विधा स परिकीर्तितः ॥४॥ सम्भोगस्योदारहणं यथाअलीकवार्ताकथनच्छलेन कर्णेऽनुवेलं लगति प्रियायाः । कश्चित्कृती चुम्बनलोभसौख्यात्पुरः सखीनां मुकुलीकृतास्यः ॥१॥ विप्रलम्भमाह इर्ष्याभिलाषविरहशापदेशान्तरोद्भवः । पञ्चधा विप्रलम्भस्तु कथितः पूर्वसूरिभिः ॥५॥ इर्ष्याभवो यथा लुप्ताङ्गरागारुणनेत्रपचं विलोक्य कान्तं दयिता निशान्ते । हरोद हस्तस्थकपोलदेशविनिर्गलत्कजलदूषिताश्रु ॥२॥ अभिलाषभवो यथास्वप्ने ममासीनयनाभिरामा कामातुरस्य प्रसरत्कुचश्रीः । जीवामि चेत्सा तरुणी भुजाभ्यामालिङ्गति प्रतिधरा मृगाक्षी ।। For Private and Personal Use Only Page #144 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir .२० श्रीअलङ्कारमण्डनम्. विरहजो यथाआसीत्रियामा त्रियुगा वियुक्तयोः स्त्रीपुंसयोर्मन्मथबाणभिन्नयोः। प्रेम्णा दिवा कोपपदाधिरूढयोरथाङ्गनाम्नोरिव वीतनिद्रयोः ॥४॥ एकजो यथासम्भोगसम्भारमसौ विधाय प्रतीक्ष्यमाणा दयितस्य मार्गम् । दिनावसानोत्सुकचित्तवृत्तिर्बाला किल व्याकुलतां प्रपेदे ॥ ५ ॥ शापजो यथापरस्परं स्नेहरसाकुलत्वात्कोकाविवोत्कण्ठितचित्तवृत्ती । वने मुनेः शापभयावलेपान्माद्री च पाण्डुर्विवशावभूताम् ॥६॥ देशान्तरसमुद्भवो यथाकान्तोऽन्यदेशे तरुणं वयश्चा परस्परं प्रेम हृदि प्रभूतम् । कालो वसन्तो मदनः सगर्वः प्राणप्रयाणं भविता तरुण्याः ॥७॥ अथ हास्यादीनां क्रमादुदाहरणनि । हास्यो यथाधूर्तेन केनापि विनीतवस्त्रा पण्याङ्गना रोदिति राजमार्गे । नमा निचोलं दधती करेण पृष्ठे विलम्बिप्रविलोलवेणी ॥ ८ ॥ करुणो यथाक्वासि जानकि ! कुरङ्गलोचने स्वप्नदर्शनमपि प्रयच्छ मे। इत्युदीर्णवचसाश्रुवर्षिणा राघवस्य हृदयं व्यदीर्यत ॥ ९ ॥ रौद्रो यथारक्तोत्पलाताम्रविशालनेत्रत्रिशूलधाराप्रविदारितारिः।। नृसिंहवत्प्रस्फुरताधरौष्टो बटुः प्रतिज्ञापटुवाक् सुराणाम् ॥१०॥ वीरो यथा आनन्दितः सपदि सङ्गररङ्गभूमौ । बाहुद्वयस्फुरणभिन्नसुवारबाणः । For Private and Personal Use Only Page #145 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीअलकारमण्डनमू. DY. कालिन्दिकाजलतरङ्गचलत्कृपाण आश्चत्तुरङ्गमधिरोहति भूतनाथः ॥ ११ ॥ भयानको यथा मेखलाघण्टिकानादमुखरीकृतदिङ्मुखः । बटुर्जगति नो याति पावकाभोर्ध्वमूर्ध्वजः ॥ १२ ॥ बीभत्सो यथाखादन्ति मांसानि पिबन्त्यमृति भूता मधूनीव कपालपात्रे । अद्भुतो यथाबाल्येऽपि येनावधि पूतनाऽस्य कृष्णस्य वर्ण्यः किमतः प्रभावः । शान्तो यथाआपादमूलं नमयन्ति केचिच्छिन्दन्ति केचित्तु वचः कुठारैः । तथापि नो वक्ति किमप्यसाधु क्षमाधरो वृक्ष इवैष साधुः ॥१३ देवतामुनिगुर्वादौ रतिर्भावो निगद्यते । व्यभिचारी तथा मुख्यो यः स भावः प्रकीर्तितः ॥६॥ देवतारतियथारागस्य यस्यास्ति तवाभिधानमालप्तितस्तस्य ममातिसौख्यम् । स चेत्स्वयं लोचनगोचरस्त्वं श्रीभैरव ! स्याः किमतो वदामि॥१४॥ मुख्यो व्यभिचारी यथायावदेव सखि ! चिन्तयाम्यहं प्राणनाथमथ पापकारिणा । पुष्पबाणनिचयेन वर्षता मन्मथेन शकलीकृतं मनः ॥१५॥ अत्र विषादः ॥ अथ रसाभासानाहरसाभावाश्च ये धर्मास्तदाभासास्तु ते स्मृताः । For Private and Personal Use Only Page #146 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २२ श्रीअलकारमण्डनम्. रसाभासो यथा एकं दृशा सफलयत्यपरं वचोभ रालिङ्गनेन हसनेन यमस्ति सक्ता । कापट्यसम्भ्रमविधानविचित्रचित्ता ___ सा बाणिनी भवति कस्य सुखाय पुंसः ॥ १६ ॥ भावाभासो यथा साध्वीं विलोक्य रुचिरा चिरकालमेकः .. षिङ्गो निजं सपदि निन्दति जन्मकर्म ! यन्मन्मयो मम वशीकुरुते न चैनां - चीर्ण तदेव निगदमिति मूढचेताः ॥ १७ ॥ अत्र मुख्यो व्यभिचारी विषादः ॥ शान्तिः शवलता सन्धिर्भावस्य रसपुष्टये ॥ ७॥ भावस्य शान्तिर्यथाभर्तुर्मार्ग वीक्षमाणा मृगाक्षी मेघालोके कम्पते स्म नताङ्गी । आसीत्तस्मिन्मेघकाले मनोऽस्याः रम्योल्लासं विस्फुरद्वाहुवल्या।।१८। अत्र भयमुत्पनमुत्साहेन शान्तम् ॥ भावशबलता यथाधिगयौवनं किमधुनाऽस्य मधोविधेयं गन्तव्यमद्य कुसुमेषुशखजात्क्व ? । तस्याधमस्य दिवसाः किममी लगन्ति मोहं गताऽध्वगवधूरिति सभिगद्य ॥ १९ ॥ अत्र ‘धिग्यौवनम्' इति शोकः, ' मधीः किं विधेयम् ' इति क्रोधः, 'कुसुमेषु शराक्व गन्तव्यम्' इति भयम् , ' तस्थाधमस्य दिवसाः' इति निन्दा, किं लगन्ति' इति चिन्ता।, एवं भावानां शबलता-मिश्रणम् ॥ For Private and Personal Use Only Page #147 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीअलङ्कारमण्डनम्. २३ भावसन्धिर्यथाकरोमि किश्चिदयितो मदीये पादे पतिष्यत्यपराधभीतः। द्रक्ष्यामि देवादहमेव चैनं तत्पादपये प्रणिपत्य वक्ष्ये ॥ २० ॥ भत्र चिन्तौत्सुक्ययोः सन्धिः ॥ अथ रसदोषाः व्यभिचारिरसस्थायिनारायभिधानतः । क्रियते या रसव्यक्ती रसदोषः स उच्यते ॥८॥ व्यभिचारिनाना रसव्यक्तियथासश्रमा सुगमनेऽपि सखेदा गोष्ठिकासु तव मूछितमोहा । दर्शनार्थमथ सा च सचिन्ता विस्मृता किमधुना हरिणाक्षी ? २१ अत्र एवं भाब्यम्मन्दमन्दगमनेऽपि सखेदा गोष्ठिकासु तव मूञ्छितमूर्छा । ध्यानमिष्टहृदया भक्तोऽसौ दर्शनाय शठ ! मा त्यज बालाम् २२ स्थायिनाम्ना रसव्यक्तिर्यथा उत्साहस्तव समामे क्रोधो रिपुयशस्सु च । रतिौरश्रियः सङ्गे त्वं जितात्माऽसि भूपते ! ॥२३॥ अत्र 'उत्साहः ''क्रोधः' रतिः' इति स्थायिन उक्ताः ।। रसनाम्ना रसव्यक्तिर्यथा आनन्दितचकोरौघे चलत्स्वैरिणिकागणे ।। उदिते चन्द्रमस्यासीद्रसः कश्चन कामिषु ।। २४ ॥ शृङ्गारादिनाम्ना रसव्यक्तिर्यथाव्याधस्य बाणेन विभिन्नदेहमार्तस्वरं वीक्ष्य वने द्रवन्तम् । मृगं विनिर्यदुधिरौघरक्तं मुनिर्व्यरोदीत्करुणेन पूर्णः ॥२५॥ अत्र 'करुणेन' इति। For Private and Personal Use Only Page #148 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २४ श्रीअलङ्कारमण्डनम्. अधुना एतेषां रसानां स्थायिभावानाह-रतिर्हासच शोक कोधोत्साहो भयं तथा । जुगुप्सा विस्मयश्वेति स्थायिभावाः प्रकीर्त्तिताः ॥ ९ । अथ व्यभिचारिणः । निर्वेदग्लानिशङ्काख्यास्तथाऽसूयामदश्रमाः । आलस्यं चैव दैन्यं च चिन्ता मोहः स्मृतिर्धृतिः ॥ १० ॥ व्रीडा चपलता हर्ष आवेगो जडता तथा । गर्वो विषाद औत्सुक्यं निद्राऽपस्मार अव च ॥ ११ ॥ सुप्तं प्रबोधो हर्षश्चाप्यवहित्थमथोग्रता | मतिर्व्याधिस्तथोम्मादस्तथा मरणमेव च ॥ १२ ॥ सचैव वितर्कश्च विज्ञेया व्यभिचारिणः । त्रयत्रिंशदमी भावाः समाख्यातास्तु नामतः ॥ १३ ॥ इतिश्रीजिनभक्तेन मण्डनेन विनिर्मिते । चतुर्थोऽयं परिच्छेदो जातोऽलङ्कारमण्डने ॥ १४ ॥ ५. कोमला सुरसा वाणी वनितेव मनोहरा । जायते यैरलङ्कारानधुना कथयामि तान् ॥ १ ॥ अथालङ्कारोद्देशः पुनरुक्तवदाभासो वक्रोक्तिश्चित्रमेव च । अनुप्रासश्च यमकं श्लेषो मूर्द्धन्यड़ियाः ॥ २ ॥ अथार्थालङ्कयाजाती रूपकाख्यं तथोपमा । मालोपमानन्वयश्चोपमेयप्रचुरोपमाः ॥ ३ ॥ उपमेयोपमा चैवोपमानमचुरोपमा । उत्प्रेक्षाऽपहनुतिः श्लेषोऽतिशयोक्तिस्तु दीपकम् ॥ ४॥ For Private and Personal Use Only Page #149 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीअलङ्कारमण्डनम्मोला दीपकदृष्टान्तौ प्रतिवस्तूपमा तथा । अप्रस्तुतप्रशंसा च व्यतिरेको विभावनां ।। ५ ।। विशेषोक्तिर्विनोक्तिश्व पर्यायोक्तः समुच्चयः ॥ व्याजस्तुतिः सहोक्तिश्व परिवृत्तिस्तु तद्गुणः ॥६॥ निदर्शना यथासमयं भ्रान्तिमांस्तुल्ययोगिता । पर्यायश्च तथाऽन्योऽन्यं विरोधः स्मरणं पुनः ॥७॥ सन्देहाख्यस्तथाssक्षेप सङ्गतिर्विषमोऽभिधः । व्याजोक्त्यर्थान्तरन्यासौ प्रत्यनीकं च भाविकम् ॥८॥ उदात्तमधिकं चैवमनुमानम तद्गुगः । एकावली मीलितं च सारः सामान्यकं तथा ॥ ९॥ व्याघातः परिसङ्ख्या च समं कारणमालिका | समाधिश्व समासोक्तिः सूक्ष्मं परिकरस्तथा ॥ १०॥ संसृष्टिः शङ्करश्वाथानिश्चयाख्यः स्मृता अमी । पुनरुक्तवदाभासो यथा अर्थ एक इवाभाति शब्दानां भिन्नरूपिणाम् । पुनरुक्तवदाभासः कथ्यते सोऽशन्दयोः ॥ ११ ॥ यथा--- घनजलदश्यामाङ्गः सकमलपुण्डरीकनिभनयनः । निर्मलमानसचित्तः श्रीकृष्णो हरतु पापं वः ॥ १ ॥ अथ वक्रोक्तिमाह प्रस्तुतार्थादन्यार्थः क्रियते बुद्धिवैभवात् । भङ्गश्लेषेण काका वा वक्रोक्तिः सा निगद्यते ॥ १२ ॥ ङ्गेन यथा कल सबलोऽसि त्वं कास्ते मयि हलायुधः । ननु कान्तोच्यते राम्रो वेत्सि दाशरथिं प्रिये ! ॥ २ ॥ For Private and Personal Use Only Page #150 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २६ श्रीअलङ्कारमण्डनम्। श्लेषेण यथा दृष्टो हरिः किमु हयो न विधुः किमिन्द्! माधवः कथमहो! सुरमिः प्रवृद्धः । ___ नासौ धनञ्जयसखः पवनः किमुग्रो गोप्यः परस्परमिति प्रवदन्ति हास्यात् ॥ ३ ॥ काका यथा सौजन्यसिन्धुस्त्वमसि परेषामुपकारकः । त्वञ्चित्तवृत्तिः सर्वत्र ज्ञायते न पुनः खला ।। ४ ।। चित्रमाह तचित्रं यत्र वर्णाः स्युः पद्माद्याकृतिगोचराः । तथा मात्राच्युतं वर्णच्युतं चाश्चर्यकृच्च यत् ॥ १३ ॥ सदाऽसौ रसालः परं भाति नीलः पिकानां शुभाडम्बरेणातिशाल: नवैः पल्लवैलम्बमानविलोलः समं पक्षिनीडप्रभाभिर्विशालः ॥५॥ मात्राच्युतं यथा मुक्तानां परमाधारः सदार्याकान्तिवर्द्धनः । कंपुरधामधवलो हारः कस्मै न रोचते ॥ ६ ॥ अत्र — हारः हर' इति ॥ वर्णच्युतं यथा स्थायी जगत्रये नित्यं चर्चया प्रकटीकृतः । सर्वज्ञानन्दजननो जयत्येको रसः शिवः ॥ ७ ॥ अत्र 'रकारलोपः, स शिवः' इति । विसर्गश्चित्रभङ्गकृन्न ।। अनुप्रासो यथातुल्यवर्णाक्षरयुतावथातत्पदतत्पदौ । छेकलाटावनुप्रासौ स्यातां गुणविभूपितौ ॥ १४ ॥ For Private and Personal Use Only Page #151 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २७ श्रीअलङ्कारमण्डनम्. छेकानां यथा कृष्णस्तष्णाधरो रेमे कामेन सह राधया । , इन्दिन्दिर इवानन्दी कालिन्दीकमलोत्करे ॥ ८ ॥ लाटानां यथा इन्दुमिन्दुधरो देवो भूषणं भूषणोचितम् । चक्रे तत्साधु साधूनां सङ्गतिमिलनैः सह ॥ ९ ॥ यमकमाह भिन्नार्थानामक्षराणामावृत्तिः समताभृताम् । यमकं पादतद्भागगोचरं स्यादनेकधा ।। १५ ।। तद्यथाकान्तेयमुच्चैः शिखरी विभाति विभाति यस्मिंश्च मधोः सुकान्ते । इति, इत्थं वातिष्ठति सभासमानः सभासमानः क्षितीन्द्रौघः। नमयंश्वामरराजी चामरराजी सदा कृष्णः ॥ १० ॥ आयन्तययकं यथा- विराजति रयत्नमकालजलदध्वनिम् । उत्क्षेपणास्पक्षजातः पवनस्ते विराजति ॥ ११ ॥ अन्तयमकं यथासुरवनं वनजायतलोचनो वनितया प्रहितः प्रययौ हरिः । सततमुल्वणगन्धसुशोभितं समदनं मदनन्दितषट्पदम् ॥१२॥ अनेन प्रकारेणानेकधा ज्ञातव्यम् ॥ श्लेषमाह अर्थभेदेन भिन्नत्वं वर्णालिष्टास्तु विभ्रति । यत्रोच्यते स श्लेषाख्यो वर्णलिङ्गपदादिभिः ॥ १६ ॥ For Private and Personal Use Only Page #152 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २८ श्रीअलङ्कारमण्डनम्. वर्णेन यथाकान्तः कदा यास्यति पक्षिराज! साकं शुकेनति निगद्य सद्यः । तल्पस्थिता मोहमगान्मृगाक्षी सजायते कस्य सुखं वियोगे १३ अत्र वियोगो विरहः, पक्षे-पक्षियोगः । लिङ्गन यथा उन्निद्रपुण्डरीकाभे शङ्करध्यानतत्परे । दिशतां शं शिवागङ्गे श्रीहरेरथ चक्षुषी ॥१४॥ पदेन यथा कमलाऽऽलिङ्गितो नित्यं महानीलप्रभाधरः । जलप्रवाहः कालिन्याः पापं हरतु वा हरिः ॥ १५॥ जातियथा यथोचित्त्य क्रियारूपवर्णनं यत्र वस्तुनः । स्वभावोक्तिर्वालमत्तत्रस्ताादेषु मनोहरा ॥ १७ ॥ अङ्गणोद्भूतधूलीभिधूसराङ्गप्रभाधरः । अव्यक्तमधुरालापो हसन् राजति बालकः ॥ १६ ॥ मते यथा लोलोलुपो ममधुप ! त्वमिह प्रयास सौसौरमं ररमसात्प्रसतं च सीधु । नोनो तितिष्ठसि गिरा निनिवारितोऽपि सातायाम्यररविन्दद्लैर्न वेत्सि ॥ १७ ॥ पाने मत्तायाः कस्याश्चिदुक्तिरियम् । अस्ते यथा पारिप्लवाक्षिकमलोद्धृत्तकर्णयुग्मः सत्यक्तवक्त्रगतदर्भदलः क्षणेन । For Private and Personal Use Only Page #153 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीअलकारमण्डनम्. २९ संमृग्य चित्रमृगमेष विषादमाप्तः सद्यः पलायनमतिं कुरुते कुरङ्गः ॥ १८ ॥ व्याधस्योक्तिरियम् । वस्तुद्वयस्य साधादभेदो रूपकं स्मृतम् । समस्तव्यापकमथासमस्तव्यापकं तु तत् ॥ १८ ॥ समस्तव्यापकं यथा तारावलीविमलमौक्तिकभूषिताङ्गी चन्द्रप्रभाधवलचन्दनचारुलेपा । सन्ध्याभवाऽरुणिमकुङ्कुमसूक्ष्मरेखा द्योकामिनी दिवसकान्तमपेक्षतेऽसौ ॥ १९ ॥ असमस्तं यथा किं करिष्यति रे दुष्टसंसार ! तव चेष्टितम् । । श्यामलः कृष्णजलदः सदा जीवनदोऽस्ति नः ॥२०॥ अथोपमामाह उपमा कथ्यते साम्यमुपमानोपमेययोः । वाचकमत्ययाव्ययतुल्यार्थसपासमा ॥ १९ ॥ यस्योपरि यथेवायाः स्युस्तस्यैवोपमानता । निष्फलीयति संसारं निःसारीयति जीवितम् । लोष्ठीयति निधानं च जनः श्रीपतिसेवकः ॥ २१ ॥ यथा च व्योमायते प्रबलनीलिम यस्य वक्षो दीप्तो दिनेश इव राजति कौस्तुभाख्यः । पद्यानुजः स्फुरति यस्य गभीरनाभिभृङ्गस्थितिः कमल जश्व हरिः स पातु ॥ २२ ॥ For Private and Personal Use Only Page #154 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३० श्रीअलङ्कारमण्डनम्. अव्ययेन यथा सचन्दने भात्युरासे श्रीहरेवनमालिका । मुक्ताफलनिभे गङ्गाजले कालिन्दिका यथा ॥ २३ ॥ अकदेशवर्तिनीमुपमामाह स्यादेकदेशवर्त्तिन्युपमा धर्मार्थप्रकाशने ॥ २० ॥ पुण्डरीकयुगेनेव नेत्रद्वन्द्रेन माधवः । अम्भसेव सुशीलेन तेजसा यमुनौघवत् ।। २४ ॥ अथ मालोपमा मालोपमोपमेयस्योपमानत्वं यथोत्तरम् । तव भारतीव मूर्त्तिमूर्तिरिख च भारती । सुवर्णयुता लक्ष्मीरिव ते दृष्टिईम्वलक्ष्मीहरे ! सुभगा ॥ २५ ॥ अनन्वयो यथा अनन्वयोपमैकस्यैवोपमानोपमेयता ॥ २१ ॥ यथा श्रीरामभवतो मूतिर्भवन्मूर्तिरिवोत्तमा । यस्या गुणा इव गुणा: सन्ति नान्ये जगत्रये ॥ २६ ॥ उपमेयप्रचुरोपमा बहूपमेया कथितोपमेयप्रचुरोपमा । चेष्टितानि हसितानि भाषितान्युत्तमानि यदि मन्यसे खल! तत्त्वविच्छिवरमेशभाजिनां तर्हि नास्ति तव संमृतेर्भयम् ॥२७॥ उपमेयोपमा चाक्यद्वयविपर्यासे उपमेयोपमोच्यते ॥ २२ ॥ गङ्गेव निर्मला कीर्तिः कीत्तिवन्निर्मला मतिः । सविवच्चोज्वला वाणी हरे ! तव सुखप्रदा ॥ २८ ।। For Private and Personal Use Only Page #155 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्रीलङ्कारमण्डनम्. उपमानमचुरोपमा बहूपमाना कथितोपमानमचुरोपमा । गङ्गेव वाचेव सुधेव मूर्त्ता पापज्ञता मूर्त्तभयोपहर्त्री । कर्पूरगौरस्य सुमौलेर्मूर्त्तिः शिवायास्तु जगत्रयस्य ॥ २९ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्प्रेक्षामाह अर्थस्य वर्त्तमानस्य क्रियते घटनाऽन्यथा ॥ २३ ॥ यत्र तदुद्योतिभिः शब्दैरुत्प्रेक्षा सा स्मृता यथा । पदनखकिरणावलीव गङ्गा स्फुरति हरे तत्र भूतले वलन्ती । समुदितमित्र तिग्मरश्मिबिम्बं लसति च वक्षास कौस्तुभाख्यरत्नम् अपह्नुतिः अपह्नुतिर्निराकृत्योपमेयं साध्यतेऽन्यथा ॥ २४ ॥ कृष्णस्य नेयं वपुषोऽस्ति कान्तिः श्यामा जगत्या वनपुण्यमूर्तेः । प्रपश्यत : प्रेमभरेण गोपीजनस्य नीलः किल दृष्टिपातः || ३१ || अथवा चरणकमलसेवागोचराणां नराणां त्रिदशपदविभूत्यै दर्शिताचिन्त्यशक्ति | भजत भजत लोकाः कृष्णवेषस्य दम्भादमृतममृतमेतन्मर्त्यलोकेऽवतीर्णम् ॥ ३२ ॥ श्लेषमाह - श्लेष अकार्थवाचित्वेऽप्यनेकार्थमवर्त्तनम् । चन्द्रोन्नतिकरो गङ्गातरङ्गालिङ्गितः सदा । अन्तर्लीनरमानाथो गम्भीरो राजते हरः ॥ ३३ ॥ अतिशयोक्तिः ३१ उपमेयमनुक्त्वैवोपमानस्यैव निश्चयः । यदि योगे द्वितीया च तृतीया प्रस्तुतान्यता || २५॥ For Private and Personal Use Only Page #156 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीअलङ्कारमण्डनम्. कार्यकारण योश्चैव परस्परविपर्ययः । चतुर्थ्यतिशयोक्तिः सातिशयार्थश्च पञ्चमी ॥ २६॥ क्रमेण उदाहरणानि श्यामलकमलद्वितयं कनकघटाविन्द्रनीलनीलमुखौ।। घटितौ काञ्चनवल्लयां कल्याणमयीति सा देवी ॥ ३४॥ यदियोगेयद्यञ्जनाद्ररुपरि प्रभूतं हेम्नो रजः स्याच्छुरितं नितान्तम् । तदानुकुर्यात्तव पीतचैलप्रभा घनश्यामलरुक्मिणीशः ॥ ३५ ॥ प्रस्तुतान्यता यथा अन्यादृशः स्फुरति यस्य महान्प्रभाव: चातुर्यमप्यसदृशं घटना तथान्या । अन्यद्वपुश्च महतामपि चित्तचौरं संज्ञायते जगति कैरपि गोपवेषः ।। ३६ ॥ कार्यकारणविपर्ययो यथाभीमात्मजाया हृदि ते गुणौघश्चके पदं पूर्वमपूर्वसौख्यः । ततस्त्वमिन्दीवरसुन्दराभो मनस्विनीमानहरो मुरारे ! ॥ ३७॥ अतिशयार्थो यथाश्रीरामचन्द्र ! भवतोऽद्य सविक्रमाङ्का गीतिं निशम्य सुरकिन्नरसुन्दरीभ्यः । चन्द्रे नुदत्यपि मुदा स्वरसौख्यलुब्धो रात्रिं चतुर्युगधरां कुरुते कुरङ्गः ॥ ३८ ॥ दीपकं प्रस्तुतान्यता सकृद्धर्मस्य वर्तनम् । कारकस्य सकृत्तिरमितासु क्रियासु च ॥ २७ ॥ माला गुणावहं चेत्स्यादेतदेवोत्तरोत्तरम् । For Private and Personal Use Only Page #157 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीअलकारमण्डनम्. कवेरसवती वाणी स्वर्णदी धर्म निर्णयः ।। श्रीकृष्णस्य पदद्वन्द्वमधमाय न रोचते ॥ ३९ ।। दोलायते बिभेत्याशु विलोकयति कम्पते। गच्छति स्विद्यति चमूररीणां कृष्णदर्शने ॥ ४० ॥ मालादीपकं यथात्वत्तो बाहुबहुतश्चक्रमुग्रं चक्राद्विर्य विर्यतो दैत्यनाशः । तस्माल्लोको लोकतः सौख्यमेकं वृद्धं कृष्णेति त्वयि मापतीन्द्रे ४१ समानधर्मोपमेयोपमानमतिबिम्बनम् । दृश्यतेऽत्र स प्रोक्तो दृष्टान्तस्तु मनीषिभिः ॥ २८ ॥ पुण्डरीकनयनस्य दर्शने याति पापमखिलं किल जन्तोः । उद्यते दिवसनाथमण्डले ध्वान्तमेति भुवनत्रितयस्य ॥ ४२ ॥ इवादिभिर्विना यत्र वस्तुनः प्रतिवस्तुना । साम्यं प्रकाश्यते सा तु प्रतिवस्तूपमा मता ॥ २९ ॥ यथाचन्द्रोऽङ्गतापं हरति प्रकामं ददाति तोयं जलदः सदैव । सूर्यस्तमो हन्ति किमत्र चित्रं परोपकारे महतां स्वभावः ॥४३॥ निर्वापकोऽयमेवैको जलधेरभवच्छशी । वसन्ते पुष्पिताः सर्वे तर वः किं सुगन्धयः ।। ४४ ॥ अप्रस्तुतेन यत्र स्यात्मशंसा प्रस्तुतस्य तु । अप्रस्तुतप्रशंसा सा कथिता बहुभेदगा ॥ ३० ॥ अभन्सुपक्वानि फलानि तोयं पिबन्सदा निर्झरजं सुशीतम् । बिभ्रन्मुदा तारववल्कलानि वने सुखं तापसवृन्दमेति ॥ ४५ ॥ व्यतिरेकमाह साधारणगुणैः साम्ये वस्तुनोः सति यद्यपि । आधिक्यं तत्र मुख्यस्य व्यतिरेकः स कथ्यते ॥ ३१ ॥ For Private and Personal Use Only Page #158 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीअलकारमण्डनम्. गर्वमावह सुन्दरि ! योवनमथ चन्द्रमाः क्षयं याति । पुनरभ्युदेति चन्द्रः तारुण्यं क्वापि तन्नास्ति ॥ ४६॥ यथा बाश्रीकृष्णनाथ ! भवतः पदयुग्ममेत त्पङ्केरुहद्वयमिदं च समं वदन्ति । आद्यं विनाश्य जडमुल्लसति प्रभावा दन्यद्विशुष्यति जडेन विना किमेतत् ॥ ४७ ॥ विभावनामाह कारणेन विना यत्र फलव्यक्तिर्विलोक्यते । विपावनेत्यलङ्कारं तं वदन्ति मनीषिणः ॥ ३२ ॥ निमन्त्रकं किल वशीकरणं जनाना माघूर्णनं मृगदशां च निरासवं यत् । संजीवनं तनुभृतां विगतामृतं च । रूपं रमेश ! तव गोचरमस्ति कस्य ॥४८॥ विशेषोक्तिः सत्यां कारणसामय्यां कार्य यत्र न दृश्यते । विशेषोक्तिरनुक्तोक्ताचिन्त्यहेतुश्च सोच्यते ॥ ३३ ॥ उक्तहेतुर्यथा-- सजीवयति यः कामं राहुग्रस्तोऽपि नित्यशः । मानिनीगर्वदलनोऽचिन्त्यशक्तिरयं शशी ।। ४९ ।। अचिन्त्यहेतुर्यथा-- सुजनो विभवविहीनो यद्यपि धात्रा धरातले रचितः । तदपि च परोपकारं कुरुते चित्तेन वाचा वा ॥५०॥ For Private and Personal Use Only Page #159 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीअलङ्कारमण्डलम्. यंत्रान्यन विनाऽन्यो न शोभते वेतरं विना। भात्यन्या सा निगदिता विनोक्तिस्तु मनीषिभिः ॥३४॥ कारण्येन विना साधुस्साधुनाऽथ विनैव तत् । अतथ्यं कथ्यते लोकैहरिसेवारसोन्मुखैः ॥५१॥ अन्येन विनापि शोभते । तद्यथा-- विभवेन विनैव योगिनः सुभगत्वं दधते जगत्रये । कनकाभरणं प्रकाशते मणिसङ्गेन विनापि सुन्दरम् ॥५२॥ विवक्षितोऽर्थो वाक्येषु व्यङ्गत्वेनोपलक्ष्यते । यत्र मास्तु कथिता पर्यायोक्तिरियं यथा ॥ ३५ ॥ चरन्तीनां वनान्तेषु त्वद्भिया सह वल्लभैः । कङ्कणेषु रिपुस्त्रीणां रवः प्रीतिं चकार न ॥ ५३॥ यथा वाकोदण्डकर्षणदृढेन गुणेन यासां नीताः क्षयं प्रियतमाः समरान्तराले । हारस्थितानपि गुणान्हरिणायताक्ष्यः । छिन्दन्ति तेऽद्भुतामदं यदुराजसिंह ! ॥५४॥ सिद्धिहेतौ प्रस्तुतस्य बहवो हेतवो यदि । यस्मिन्भवन्ति स बुद्धैः समुच्चय उदाहतः ॥ ३६॥ विरहव्यथा सुमहती चेतो दुर्वारमुत्सुकत्वधिया ।। वननिभो घनशब्दः काठनः सखि ! वल्लभः पथिकः ।५५) व्याजस्तुतिमाह निन्दादम्भात्स्तुतिर्यत्र स्तुतिदम्भाच सा पुनः । व्याजस्तुतिमलङ्कारमामनन्ति तु तं बुधाः ॥३७॥ For Private and Personal Use Only Page #160 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीलङ्कारमण्डनमः त्वं निलपोऽसि दयितां पदयोः पतन्ती नापक्षसे मृगशं किमसौ पुनश्च । त्वां नैव मुञ्चति शठं हृदयारविन्दागोविन्द ! नास्ति भवता सदृशोऽत्र लोके ॥ ५६ ॥ अथवा चरणकमलसेवा कारयस्येव नित्यं क्षणमपि च सुखं नः संभृते! ददासि । किमपरमधुना ते कथ्यते श्रीमुरारे ! तदपि हृतमानत्यं जीवितं चास्मदीयम् ॥ ५५ ॥ स्तुतिदम्भानिन्दा यथा अलमिह खल! चिन्ताव्याकुलत्वेन नित्यं श्रुतिपटलगतं ते रोचते भूपतिभ्यः । तव जगति जनोऽसौ वश्य अवेत्यवश्यं भयमपि सुजनानां त्वद्वचः सञ्चयेन ॥ ५८ ॥ सहोक्तिमाह सहार्थस्य बलाबत्र भवेदुभयवाचकम् । एकार्थबोधकं तत्तु सा सहोक्तिरतु कथ्यते ॥ ३८ ॥ प्रतापेन सहानन्दं सद्यः शमयसि द्विषाम् । असुभिः सह सर्वस्वं हरे ! हरसि वाऽसताम् ।। ५९ ॥ परिवृत्तिमाह न्यूनस्य वा समस्य स्यादन्योऽन्यं परिवर्तनम् । अर्थस्य यत्रालङ्कारः परिवृत्तिरसौ मता ॥ ३९ ॥ दत्त्वा निजं जीवितमेणदृष्टया कान्ताय तस्यापहृतं च चेतः ।। बाहुग्रहं तस्य विधाय कण्ठे तद्बाहुबन्धोऽथ पुनहीतः ॥ ६० ॥ For Private and Personal Use Only Page #161 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीअलङ्कारमानम् अत्र आधाझै न्यूनेन परिवृत्तिः उत्तरार्द्ध समेन । तगुणाह संत्यज्यान्यगुणं यस्मिन्नन्यस्य गुणसङ्गमात् । तद्गुणवं वस्तु याति स तद्गुण इति स्मृतः ॥ ४०॥ गतमपि किल नीलिमानमङ्गात्सपदि हरेः सितचन्दनस्य लेपात् । रचयति पुनरेव गोपिकानां नयनरुचिः पतिताऽलिमालिकामा ।६। निदर्शनामाह निदर्शनाऽभवन्वस्तुंसयोग उपमाकरः । यथा तव क चातुर्यमिदं क स धूर्तो रमापतिः । मृणालतन्तुना बाले ! करिणं रोद्भुमिच्छसि ॥ ६२ । पंथी अजनमृते सुनीले सुन्दरि ! तव लोचनद्वये स्फुरतिः । मधुकरयुगलनिषेवितकमलश्रियमाननं श्रयति ॥ ६३ ॥ अपरांमाह क्रिययैव स्वरूपस्य स्वकारस्यावगम्यते । सम्बन्धः साऽपरा प्रोक्ता विद्वद्भिस्तु निदर्शना ॥४१॥ सं भजेयुरधमा ध्रुवमेतदुल्लसन्नपि च वारिजपुजः। सेव्यते सुमालिनैर्मधुलिभिः पङ्कभाग्भवति यः श्रियमाप्त्वा ।६४। यथासलयमाह क्रमिकाणां यथासंख्यमर्था यत्र निबद्धयते । क्रमेण तयथासंख्यमलङ्कारस्तु कथ्यते ॥ ४२ ॥ For Private and Personal Use Only Page #162 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 1458 ३८ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीलङ्कारमण्डनम्. धर्मस्तपस्विषु पवित्रनृपेषु चार्थः कामोऽङ्गनासु किल योगिजनेषु मोक्षः । कारुण्यतो नयपदात्सुभगाकृति स्वाच्छान्तेर्हरे ! जगति भसि चतुर्विधस्त्वम् ॥ ६५ ॥ सादृश्याज्जायते यत्र निश्चयोऽन्यवस्तुनः । अन्यस्मिन्वस्तुनि प्रोक्तोऽलङ्कारो भ्रान्तिमान्यथा ॥ ४३ ॥ आरक्तमधुरं दृष्ट्वा तव सुन्दरि ! सुन्दरम् । बन्धुजीवस्य कुसुमभ्रान्त्या भृङ्गः पतत्यसौ ॥ ६६ ॥ तुल्यक्रियादिसामग्र्या यत्र साम्ये प्रकल्प्यते । वस्तुद्वयस्य सा तुल्ययोगिता कथ्यते बुधैः ॥ ४४ ॥ सुन्दरि ! तव वंदनमिदं चन्द्रोऽनुकरोति तुल्यसामर्थ्यम् । चरणयुगं सुकुमारं कोकनदद्वन्द्वमेव तथा ।। ६७ ।। अथवा अथवा मृदूनि पुंसां हृदयानि यस्मिन्प्रोताभिकान्ते सगुणस्तवैव । मुक्ताफलानामथ कोमलानामन्तर्गतो विश्वमनोभिरामः ॥ ६८ ॥ सततं पङ्कलिप्तानां तापव्याकुलचेतसाम् । भालनाय हरे ! तोयं त्वदर्जलदस्य च ॥ ६९॥ पर्यायमाह - यत्रैकमेव यमेव वस्तु स्यात्क्रिययाऽनेकवस्तुषु । स पर्यायस्त्वनेकं स्यादेकस्मिन्सोऽन्य उच्यते ॥ ४५ ॥ काठिन्यं हृदयस्य ते कुचयुगं धत्ते कटाक्षस्ततः सद्यः प्राणहरस्ततोऽप्यतिबलस्तारुण्यगर्वो महान् । For Private and Personal Use Only Page #163 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीअलङ्कारमण्डन अभ्यासं तु परस्परोत्तरमिति त्वदुर्जनाः कुर्वते कान्तेऽसौ परमामृतोऽधरमणिः सौजन्यमालम्बते ॥७॥ अस्मिन्ननेकानि यथाकारुण्यं परमं परोपकरणव्यापारचिन्ता सदा ऽनिच्छा वस्तुनि दुर्लभेऽपि विभवत्यागे समासक्तता एते यस्य गुणा लसन्ति हृदये धन्यात्मनः सोऽनिशं गोविन्दस्य पदारविन्दयुगले भृङ्गत्वमापद्यते ॥ ७१ । अन्योऽन्यमाह अन्योऽन्यं वस्तुनोर्यत्र क्रियया रम्यता भवेत् । तदन्योऽन्यमिति ख्यातोऽलङ्कारः कोविंदैर्यथा ॥४६॥ रचयति यमुनाजलं मुरारेर्द्विगुणितनीलिमशोभमङ्गमाशु । . हरिरपि तदथो शरीरकान्त्या रुचिरतरं महतां स्वभाव अवम् ७२ अथ विरोधमाह यत्र शब्दार्थरचितं विरुद्धत्वं प्रकाशते । अतत्त्वतस्तु तं पार्विरोधाख्यं मनीषिणः ॥ ४७॥ चन्द्रोज्वलोऽपि रक्तस्तव पदकमलेऽस्मि देव गोविन्द !। जडमपि भवतः पदगं बुद्धिकरं योगिनां भवति ॥ ७३ ।। यथा इन्दुकराः शरपाताश्चन्दनरसबिन्दवः स्फुलिङ्गौघाः। मम जीवितेश चेतस्यभवन्भवतोवियोगात्तौ ॥ ७४ ।। अथवाविरहानलदलिते मे मनसि महानसौ कान्तसन्तापः । रिमन्निवासरसिकश्चित्रं यजीवितोऽसि पुनः ।। ७५ ॥ For Private and Personal Use Only Page #164 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pasa ३ श्रीअलङ्कारमण्डनम् धर्मस्तपस्विषु पवित्रनृपेषु चार्थः कामोऽङ्गनासु किल योगिजनेषु मोक्षः कारुण्यतो नयपदात्सुभगाकृति- . स्वाच्छान्तेहरे ! जगति भसि चतुर्विधस्त्वम् ॥ ६५ ॥ सादृश्याज्जायते यत्र निश्चयोऽन्यवस्तुनः । अन्यस्मिन्वस्तुनि प्रोक्तोऽलङ्कारो भ्रान्तिमान्यथा ॥४३॥ आरक्तमधुरं दृष्ट्वा तव सुन्दरि ! सुन्दरम् । बन्धुजीवस्य कुसुमभ्रान्त्या भृङ्गः पतत्यसौ ॥ ६६ ॥ तुल्यक्रियादिसामय्या यत्र साम्य प्रकल्प्यते । वस्तुद्वयस्य सा तुल्ययोगिता कथ्यते बुधैः ॥ ४४ ॥ सुन्दरि ! तव वंदनमिदं चन्द्रोऽनुकरोति तुल्यसामर्थ्यम् । चरणयुगं सुकुमारं कोकनदद्वन्द्वमेव तथा ॥ ६ ॥ अथवामृदूनि पुंसां हृदयानि यस्मिन्प्रोताभिकान्ते सगुणस्तवैव । मुक्ताफलानामथ कोमलानामन्तर्गतो विश्वमनोभिरामः ॥६८।। अथवा सततं पङ्कलिप्तानां तापव्याकुलचतसाम् । झालनाय हरे ! तोयं त्वदङ्ग्रेजलदस्य च ॥ ६९ ॥ पर्यायमाह.. यत्रैकमेव वस्तु स्यात्क्रिययाऽनेकवस्तुषु । स पर्यायस्त्वनेकं स्यादेकस्मिन्सोऽन्य उच्यते ।। ४५ ॥ काठिन्यं हृदयस्य ते कुचयुगं धत्ते कटाक्षस्ततः सद्यः प्राणहरस्ततोऽप्यतिबलस्तारुण्यगर्यो महान् । For Private and Personal Use Only Page #165 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्रीअलङ्कारमण्डनम्. अभ्यासं तु परस्परोत्तरमिति त्वद्दुर्जनाः कुर्वते कान्तेऽसौ परमामृतोऽधरमणिः सौजन्यमालम्बते ॥ ७० ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अकस्मिन्ननेकानि यथा कारुण्यं परमं परोपकरणव्यापारचिन्ता सदाऽनिच्छा वस्तुनि दुर्लभेऽपि विभवत्यागे समासक्तता / एते यस्य गुणा लसन्ति हृदये धन्यात्मनः सोऽनिशं गोविन्दस्य पदारविन्दयुगले भृङ्गत्वमापद्यते ॥ ७१ ॥ अन्योऽन्यमाह अन्योऽन्यं वस्तुनोर्यत्र क्रियया रम्यता भवेत् । तदन्योऽन्यमिति ख्यातोऽलङ्कारः को विदेर्यथा ॥ ४६ ॥ रचयति यमुनाजलं मुरारेर्द्विगुणितनीलिमशोभमङ्गमाशु | हरिप तदथो शरीरकान्त्या रुचिरतरं महतां स्वभाव अवम् ७२ अथ विरोधमाह - यथा यत्र शब्दार्थरचितं विरुद्धत्वं प्रकाशते । अस्वतस्तु तं प्राहुर्विशेधाख्यं मनीषिणः ॥ ४७ ॥ चन्द्रोज्वलोsपि रक्तस्तव पदकमलेऽस्मि देव गोविन्द ! | जडमपि भवतः पदगं बुद्धिकरं योगिनां भवति ॥ ७३ ॥ * अथवा इन्दुकराः शरपाताश्चन्दनरसबिन्दवः स्फुलिङ्गौघाः । मम जीवितेश चेतस्यभवन्भवतो वियोगात्तौ ॥ ७४ ॥ ३९ विरहानलदलिते मे मनसि महानसौ कान्तसन्तापः तस्मिन्निवासरसिकश्चित्रं यज्जीवितोऽसि पुनः ॥ ७५ ॥ For Private and Personal Use Only Page #166 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीअलङ्कारमण्डनम् स्मरणमाह अनुभूतेन सदृशे दृष्टे वस्तुनि जायते । केनचियत्र धर्मेण स्मृतिस्तत्स्मरणं स्मृतम् ॥४८॥ कान्तावियोगव्याथितो निकामं दृष्ट्वोदितं पार्वणशर्वरीशम् । संस्मृत्य त्यस्या वदनेन्दुबिम्बमालव्य धैर्य किल जीवितः सः ७६ सन्देहमाह एतदेतच्चेति बुद्धया यत्र वस्तुनि संशयः । स सन्देहस्तु भेदोक्तावभेदोक्तौ च दृश्यते ॥ ४९ ॥ ... चन्द्रः सोऽयं चेत्कलको न देहे मेघः किं नो शक्रकोदण्डयुक्तः । शर्वश्वेत्किं तद्गुणैर्नानुयाप्तः त्वां दृष्ट्वैवं देव ! सर्वे वदन्ति ७७ किं बालमेघो गगनावतीर्णः किं कज्जलाद्रिनरवेषधारी । • इत्यं कवीन्द्राः सरसोक्तिदक्षास्त्वां पुण्डरीकाक्ष ! विलक्षयन्ति ७८ आक्षेपमाह निषेधो वक्ष्यमाणोक्तविषयोऽत्र दृश्यते । प्रस्तुतस्य स आक्षेपो विद्वद्भिः परिकीर्तितः ॥ ५० ॥ ___. अन्तर्गृहं विश मृगाक्षि ! विना प्रियेण गोत्रं दहन्ति मलयाचलचारुतास्ते । नो चेदथोदितभृगावकरप्रभिन्ना वेगादसूस्त्यज शठः स समैति यावत् ।। ७९ ॥ अपि भिन्नस्थिती धर्मों साध्यसाधमतां गतौ । एकत्र यत्र दृश्यते सा सङ्गतिरुदाहता ।। ५१ ॥ त्वत्कृपाणप्रभा श्यामा मूर्ध्नि स्फुरति वैरिणाम् । दृश्यन्ते च कथं चण्डि : तद्रामाः कालिकावृताः ८० ॥ For Private and Personal Use Only Page #167 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीलङ्कारमण्डनम्. यथावायस्यैव शल्यं हृदये प्रविणं तस्यैव पीडेति तदन्यथेश !। मिन्दन्ति बाणास्तव वैरिवर्गास्तदङ्गनानामसवः प्रयान्ति ॥८॥ विषममाह द्वयोरघटमानत्वायोगस्त्वाश्चर्यकारकः । यत्रोच्यते तं विषममलङ्कारं तु मेनिरे ।। ५२ । केदं ममोरः कठिनं क ते पादाम्बुजं मृदु । मा पीडा तव विप्रेति कृष्णः श्रीवत्समावदत् ।। ८२ ॥ व्याजोक्तिमाह मिषेण केनचियत्र वस्तुरूपपलोपनम् । असावलकृतिः पाझैाजेक्तिरिति कथ्यते ॥ ५३ ॥ सख्याः पुरः कुचतटे करजं स्वकीये व्यालोक्य कापि तरुणी त्रपितेत्यवादीत् ।। चौतोऽपि चन्दनरसैः सखि ! कुडकुमाङ्को नायं प्रलुप्यति कथं कथयास्य हेतुम् ॥ ८३ ॥ अर्थान्तरन्यासमाह सामान्येन विशेषो वा विशेषेण तदुच्यते । कथ्यतेऽर्थान्तरन्यासः सधद्विाऽअधर्मतः ॥ ५४ ॥ कालोपहतभाग्यानां सुधा सापि विषायते । विरहव्याकुलहृदश्चन्द्रमा ह्यनलोपमः ॥ ८४ ॥ प्रत्यनीकमाह अशक्तो द्वन्द्विनो वैरे यस्तत्सम्बनिनं पुनः । पीडयेच्च तदुत्कर्ष प्रत्यनीकं तदुच्यते ॥ ५५ ॥ For Private and Personal Use Only Page #168 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ४२ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री अलङ्कारमण्डनम्. संनिर्जितो हरिणशावविशालनेत्रे त्वन्मध्यमेन तनुमध्यधरो मृगेन्द्रः । शक्नोति नो तव विरुद्धमयं विधातुं त्वनेत्रचित्रनयनां हरिणी क्षिणोति ॥ ८५ ॥ त्वत्पादपद्मे नयनाभिरामे तादृकपयोजद्वयमिन्दुवक्त्रे ! | तत्सेवकं कर्त्तुमिदं च पादैः सन्तापयत्येष रुषा मृगाङ्गः ८६ भाविकमाह प्रत्यक्षा इव दृश्यन्ते यत्रार्था भूतभाविनः । तद्भाविकमिति प्राहुरलङ्कारविदो यथा ।। ५६ । आसीनृसिंहस्य तवातिसेवा संभाव्यते साधुधियेति साधो ! । वनेष्यति स्वस्य पदारविन्दद्वन्द्वान्तिकं सोऽद्य ममेति बुद्धिः ॥ ८७ उद्दातमाह बाहुल्यमति वस्तूनां यत्रोदात्तं तदुच्यते । राजाङ्गणं तव करीन्द्रमदाम्बुधारपङ्काविलं परिजनाङ्घ्रिविलेपभीत्या । मुक्ताफलप्रकरशर्करिलं विभाति रत्नोपलामल निबद्धमिदं मुरारे ! ।। ८८ ।। अधिकमाह यत्राधारोऽथवाऽऽधेयमाधाराधेययोर्महत् । महतोरपि जायेत लघुत्वेऽप्यधिकं तु तत् ॥ ५७॥ रत्नाकर ! महत्त्वं ते वर्ण्यते किमतः परम् । यस्मिन्विशालाः सरितो मान्ति त्रैलोक्यसम्भवाः । For Private and Personal Use Only Page #169 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीअलङ्कारमण्डमम्. यत्कुक्षिदेशे लसति जगदप्यणुसन्निभम् । स मुरारिः स्थितो यत्र तत्साधोानसं महत् ॥ ८९ ।। अनुमानमाह साध्यसाधकयोक्तिः प्रकटा यत्र दृश्यते । अनुमानमलङ्कारं तं वदन्ति विचक्षणाः ॥ ५८ ।। भ्रूवल्लरीपल्लवविभ्रमस्ते यस्योपरिष्टात्स तु दैन्यमुक्तः। , . सजायते कृष्ण ! ततस्त्वदीया दास्येव लक्ष्मीः किल दृश्यतेऽसौ९० अतद्गुणमाह संभवत्यपि योग्यत्वे वस्तुनाऽन्यस्य वस्तुनः । गुणेन नैव रज्येत यत्र सोऽतद्गुणः स्मृतः ॥५९॥ मृदुकुसुम सम कुरङ्गदृष्टे ! तव हृदयं कठिनत्वमेति नैव । यदपि च कठिनस्तनद्वयेन प्रतिदिवसं निकटस्थितेन युक्तम् ॥९॥ एकावलीमाह आद्यस्य सति चारुत्वे तथाप्युत्तरमुत्तरम् । रम्यता क्रियतेऽर्थस्य कथितैकावलीति सा ॥६०॥ तरुणी भूरिचातुर्या चातुर्य दीप्तमन्मथम् । मन्मथोऽमोघसन्धानो वैराग्यं क्वाद्य योगिनाम् ॥९२।। मीलितमाह यस्मिन्सदृशचिह्नन वस्तुना वस्तु गोप्यते । सहजेनाथवाऽन्येन तन्मीलितामिति स्मृतम् ।।६।। त्वलोचने कोपसमुद्भवोऽपि रागोऽधरस्थः स न दृश्यतेऽद्य । कान्तेऽतिपानान्मधुनः सुरक्ते वक्रेन्दुबिम्बे हरिणायताक्षि ! ॥९३॥ For Private and Personal Use Only Page #170 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीअलकारमण्डनम्. सारमाह यत्रोत्तरोत्तरं सारासारं सारं तु पूर्वतः । निश्चीयते स साराख्योऽलङ्कारः समुदाहृतः ॥६२॥ राज्येषु विमवः सारं विभवे च महाव्ययः । महाव्यये च धर्मार्थो धर्मार्थे पात्रसङ्गमः ॥ ९४ ॥ सामान्य माह वस्त्वन्तरेण प्रकृतं वस्तु यत्र मलोप्यते । अन्योऽन्यगुणसादृश्यात्तत्तु सामान्यमुच्यते ॥६३॥ कनकमन्दिरमध्यगतं हरं तदमितांशुकसंवलितं पुनः नहि ददर्श गिरेस्तनया क्षणं क्षणमपि प्रहितेक्षणसत्वरा ॥९५|| व्याघातमाह एकेन कृतमन्याहगन्येन क्रियतेऽन्यथा । तेनैव साधनेनासौ व्याघातः परिकीर्तितः ॥६४॥ . • वचसा निर्मिता निन्दा वचसैव निराकृता । यै ते तु स.धवो धन्याः खलगवापहारिणः ॥९६।। परिसंख्यामाह प्रश्नादप्रश्नतो वापि यत्किश्चिद्वाक्यमुच्यते । अन्यस्य तु निरासाय परि संख्या स्मृतेति सा ॥६५॥ किं शीतलं ? हिमकरस्य कराः किमच्छं ___ साधोर्मनः किममृतं ? कमलेशनाम । किं दुखहारि ? हरपादपयोजसेवा यच्छीलनेन न पुनर्मनुजत्वमस्ति ।। ९७ ।। · भूषणं विदुषां किं ? वाक् , न रत्नं स्वर्णसङ्गतम् ।। For Private and Personal Use Only Page #171 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीअलङ्कारमण्डनम्. महतां किं धनं ? कीर्तिनिधयो न रमापतेः ॥ ९८॥ अनृजुत्वं तव दृशि तत्स्तब्धत्वं तव कुचद्वये कठिने । मन्दत्वं गतिविभवे हरिणाक्षि ! न दृश्यतेऽन्यत्र ॥ ९९ ॥ क्लेशः संमृतिभंजने न चिन्तने त्रिपुरवैरिणो। महतां चिन्ता तत्त्वविवेके न कामिनीसङ्गमे कृतिनाम् ॥१०॥ सममाहपरस्परं तु साम्येन योगः सम्भाव्यते यदि । लाध्यत्वाद्वस्तुनोयंत्र समं तत्परिकीर्तितम् ।। ६६ ॥ त्वं रूपसम्पदनुपम्यशरीरयष्टि रिन्दीवराभरुचिराङ्गरुचिश्च कृष्णः । योगो युवां भवति चेद्यमुनातटेऽस्मिन् दग्धो हरेण किल जीवति पञ्चबाणः ॥ १०१॥ कारणमालामाह यत्रान्त्यमन्त्यं पूर्वस्य पूर्वस्यार्थस्य कारणम् । पदा भवति सा मोक्ता बुधैः कारणमालिका ॥६॥ साधुत्वं ज्ञायते पुण्यात्पुण्यं तत्साधुसङ्गमात् । साधुसङ्गो हरिप्राप्त्या तदवाप्तिस्तु योगतः ॥ १०२ ॥ समासोक्तिमाह यत्रान्यस्यापदेशेन क्रियतेऽन्यस्य निश्चयः । कथ्यते सा समासोक्तिर्यथाऽलङ्कारकोविदैः ॥६॥ कोमलामिह रसालकमालां पीननव्यफलसंनमिताङ्गीम् । संविहाय पिक ! यासि दुरात्मन्वञ्चितोऽसि किल त्वद्विधिनैव।।१०३।। For Private and Personal Use Only Page #172 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीअलकारमण्डनम्. समाधिमाह यत्सिध्यति सुखेनैव कारणान्तरयोगतः । कारणेऽपि सति प्रोक्तः स समाधिस्तु कोविदैः ॥६९| अद्याजिगमिपुः कान्तः प्राप्तोऽयं दिवसोऽवधेः । उज्जृम्भितश्च भगवान्वसन्तो. मम भाग्यतः ।।१०४|| सूक्ष्ममाह केनचियत्र धर्मेण गूढोऽर्थः संप्रकाश्यते । कस्यचित्पतिपत्त्यर्थ सूक्ष्मं तत्परिकीर्तितम् ॥७॥ निमील्य नयनद्वन्द्वं परितस्तु विभ्रमय्य कराङ्गुलिकाम् । स्वैरिणिका प्रियपुरतश्चन्द्रं ममार्ज भालगं काचित् ॥१०॥ परिकरमाह भाषितं यदभिप्राययुक्तैस्तु स्याद्विशेषणैः। अलङ्कारः परिकरः स बुधैः कथ्यते यथा ॥७१॥ अलकृता चन्द्रमुखी सुवेषा. चेतोहरा मन्मथगोष्ठिकाभिः। प्रेमाञ्चिता यवनशालिरूपा सा कामिनी कस्य मुदे न पुंसः ॥१०६ संसृष्टिमाह स्थितिरेकत्र यत्र स्यादनेकासां तु भेदतः । अलकृतीनां संसृष्टिः कथिता सा बुधैर्यथा ॥ ७२ ॥ वर्षतीव सुधां देव ! विबुधानन्ददायिनी। तव वाकचन्द्रिका चन्द्रतुल्यवक्त्रप्रकाशिता ॥ १०७ ॥ अत्र 'सुधां वर्षतीव' इति उत्प्रेक्षा, 'विबुधानन्ददायिनी ! इति श्लेषः, 'वाक्चन्द्रिका।' इति रूपकम् , ' चन्द्रतुल्यवक्त्रप्रकाशिता' इत्युप्रमा, एतेऽलङ्कारा अस्मिन् श्लोके मुख्याः परस्परं दृश्यन्ते। For Private and Personal Use Only Page #173 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir গীসন্তান ४७ श्रेय सङ्करमाह यत्राङ्गाङ्गित्वभेदेन स्वातन्त्र्यं नैव दृश्यते । अलङ्कृतीनां विद्वद्भिः स सङ्कर इति स्मृतः ॥ ७३ ।। तवाधरं बिम्बफलोपमं प्रिये ! दशत्यसौ कीरयुवा दिवानिशम् । भृगोऽप्यथो हास्यसितं विलोकय न्सुसौरभं पुष्पधिया प्रयात्ययम् ॥ १०८ ।। अत्र स्त्रियं प्रति कान्तस्योक्तिः। 'बिम्बफलोपमम्' इत्युपलिङ्कारः, 'शुको दशति' इति भ्रान्तिमान , यतः शुकस्य चित्ते रक्तत्वाभ्रान्तिः; 'हास्यसीतम्' इत्युक्तेऽतद्गुणः, 'अयं भृङ्गोऽ ने प्रयाति' इति समासोक्तिः, इत्यलङ्काराणां सङ्करः । अथानिश्रयमाह अकस्य यत्र स्वीकारे साधकं वाथ बाधकम् । न लभ्यते स कथितोऽनिश्चयाख्यो मनीषिभिः ।।७४।। अब्जमेतत्कुरङ्गानि ! हृदयाहाददायकम् । विजृम्भते चकोरस्य कुर्वदेतस्य पारणम् ।। १०९ ॥ * अब्जम्' इति चन्द्रपङ्कजयोः श्लेषः, किंबा वक्र विज़म्भते ? । समासोक्तिः, 'एतस्य चकोरस्य पारणां कुर्वत्' इति अप्रस्तुशंसा, अत्र कश्चिदलङ्कारः कस्यापि साधको न कस्यापि बाधको स्ति । इति श्रीजिनभक्तन मण्डनेन विनिर्मिते । पञ्चमोऽयं परिच्छेदो जातोऽलङ्कारमण्डने ॥ ७५॥ For Private and Personal Use Only Page #174 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीअलङ्कारमण्डनम्. आरमाकीनसरस्वतीविलसितान्युच्छङ्खलास्ते खेला निन्दन्वेव मदान्ध्यवन्ध्यमतयस्तेषां न दुःखानि नः। संतुष्यन्तु महाजना हि भुजगप्रामोज्झते चन्दने की हानिर्मलयाचलस्य ललितश्चेत्तत्र भोक्ताऽनिलः ॥११०॥ इत्यलङ्कारमण्डनं समाप्तम् । संवत् १५०४ वर्षे मार्गशिर्षक पश्चम्यां शनौ दिने लिखितं विनायकदासकायस्थेन । For Private and Personal Use Only Page #175 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only