Page #1
--------------------------------------------------------------------------
________________
XanxxxnxxcooDXXCCXXCCXES
जैनतत्त्वज्ञानम्।
XXXXXXXXXXXXXXXHDXXXX
ERXonxxaoxxaoxxnxxcimxxnxxanxxaoxxxxxxxxxxxx
.XXnxxaomXER
-विजयधर्मसूरिः।
ExaoxxxxxxxxxxxxxconoxxcmXX...
Page #2
--------------------------------------------------------------------------
________________
— सूरतनिवासि-श्रेष्ठिछगनलाल-| प्रेमचंदस्य भार्यायाः स्वर्गतायाः 'पार्वती'नान्याः
श्रेयोऽर्थमुपहारः प्रति संख्या १०००
_This essay was written in 1917 at the request of the secretary of the Bhandarkar Research Listitute.
. 0EEEED
Printed by Ramchandra Yesu Shedge, at the Nirnaya-sagar Press, 23, Kolbhat Lane, . Bombay.
Published by Sheth Premachandra Ratanji, for Yashovijaya-Granthamala,
Bhavnagar.
Page #3
--------------------------------------------------------------------------
________________
-अहरा पूज्यपाद-शान्तमूर्तिश्रीवृद्धिचन्द्रगुरुभ्यो नमः ।
जैनतत्त्वज्ञानम् ।
यच्चैतन्यमहोग्रतः प्रतिहताः सर्वेऽपि तेजस्विनो ___ यच्छक्तेः पुरतः समस्तभुवनस्थामाऽप्यकिश्चित्करम् । विश्वैश्वर्यसुखाकरोऽपि च यदानन्दोदधौ बिन्दुवद्
यश्चिन्ता-श्रुतिगोचरोऽपि नतरां प्रत्यक्षगम्यः पुनः॥१॥ तस्मै जगद्विचित्राय जगदीशाय शम्भवे । ब्रह्मणे परमेशाय सद्भक्त्या विदधे नमः ॥२॥
(युग्मम् ) अयं तावदारम्भः सङ्केपेण परिदर्शयितुं जैनदर्शनतत्त्वम् । दर्शनानि च षटू । यदाहुः श्रीहरिभद्रसूरयः षड्दर्शनसमुञ्चये
"बौद्धं नैयायिकं साङ्ख्यं जैनं वैशेषिकं तथा ।
जैमिनीयं च नामानि दर्शनानाममून्यहो!” ॥ अस्य च जैनदर्शनस्य प्रकाशयिता परमात्मा रागद्वेषाद्यान्तररिपुजेतृत्वादन्वर्थक"जिन"नामधेयः । जिनोऽर्हन् स्याद्वादी तीर्थकर इति चानन्तरम् । अत एव तत्प्रकाशितं दर्शनमपि जैनदर्शनमहत्वचनं जैनशासनं स्याद्वाददृष्टिरनेकान्तवाद इत्याद्यभिधानैर्व्यपदिश्यते।
अत्र दर्शने नव तत्त्वानि-पदार्थाः परिकीर्तिताः सन्ति । तानि
Page #4
--------------------------------------------------------------------------
________________
चामूनि । जीवोऽजीवः पुण्यं पापमाश्रवः संवरो निर्जरा बन्धो मोक्षश्चेति । यदाह जैनागमः श्रीसूत्रकृताङ्गसूत्रम्
"नत्थि जीवा अजीवा वा णेवं सन्नं निवेसए ।
अस्थि जीवा अजीवा वा एवं सन्नं निवेसए" ॥ तत्र चेतनालक्षणो जीवः । चैतन्यं ज्ञानमुपयोग इति हि पर्यायाः; सर्वत्रापि चेतनावत एव जीवस्य भावात् , चेतनाया जीवस्वरूपत्वात् , जडमात्रस्य चेतनाराहित्याच्च । अनेनैव जड़-चेतनयोमुख्यत्वेन भेदसिद्धिः । ज्ञानरूपत्वेऽपि जीवस्य यन्न भवति सकलवस्तुविषयक आलोकस्तत्रेदं कारणं वेदितव्यम्-अनादिकालविपरिवर्तमानविविधकर्मसन्ततिभिः सामस्त्येन सम्बद्ध एव जीवः; एताभिश्च कर्मसन्ततिभिः समाच्छादितत्वान्न शक्नोति समस्तपदार्थान् साक्षात्कर्तुम् । तदुक्त
"न सर्वमपि वेत्त्येष प्राणी कर्मावृतो यथा ।
नार्कस्याऽभ्राभिभूतस्य प्रसरन्त्यभितः प्रभाः" ॥ तथा च कर्मप्रतिबन्धराहित्य एव सति निरभ्रदिनकर इव सर्वत्र प्रकाशमयो भवितुमर्हति जीवः ।
तत्र जीवा द्विविधाः, मुक्ताः संसारिणश्च । मुक्ताः सकलकर्मपरिक्षयेण सिद्धनिरञ्जनपरब्रह्मस्वरूपं प्राप्ताः । संसारिणः पुनः कर्मप्रतिबद्धाः । तेऽपि द्वेधा, स्थावरास्त्रसाश्च । तत्र स्थावराः पृथ्वीजलतेजोवायुवनस्पतिभेदभिन्नाः पञ्चधा । सा द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियपञ्चेन्द्रियभेदैश्चतुर्धा । तत्र घर्षणच्छेदनादिमिर
१ इत्यादिगाथाकदम्बकं द्वितीयश्रुतस्कन्धे पञ्चमाध्ययने। २ श्रीविनयविजयोपाध्यायकृतलोकप्रकाशे द्रव्यलोके द्वितीयसर्गे ७० ।
उम्
Page #5
--------------------------------------------------------------------------
________________
चैतन्यमप्राप्तानां पृथिव्यादीनां पञ्चानां त्वगिन्द्रियस्यैव सद्भावेनैकेन्द्रियत्वम् । एते चैकेन्द्रियाः प्रत्येकं द्वेधा, सूक्ष्मा बादराश्च । सूक्ष्माख्यनामकर्मोदयात् सूक्ष्माः । ते च सकललोकव्यापिनः । सकललोकाकाशस्तै वैः परिपूरित आस्त इत्यर्थः । बादराख्यनामकर्मोदयाद् बादराः । ते च प्रतिनियतस्थलवर्तिनो गम्याः । तत्र सूक्ष्मत्वं प्रतीतम् । बादरत्वं च स्थूलत्वम् । स्पर्शनरसनेन्द्रियाभ्यां द्वीन्द्रियाः कृमिपूतरकचन्दनकशङ्खकपर्दजलौकाप्रभृतयः। स्पर्शनरसनघ्राणैस्त्रीन्द्रिया कुन्थुमत्कुणयूकामत्कोटकेन्द्रगोपकादयः । स्पर्शनरसनघ्राणनेत्रैश्चतुरिन्द्रिया भ्रमरमक्षिकामशकवृश्चिकप्रमुखाः। स्पर्शनरसनघ्राणनेत्रश्रोत्रैः पञ्चेन्द्रियाश्चतुर्धा, तिर्यञ्चो मनुष्या नारका देवाश्च । तत्राऽद्या मीनभकरगजसारसहंसादयः । मनुष्या: प्रतीताः । नारका अधोलोकवर्तिनः । देवाः प्राधान्येनोर्ध्वलोकवर्तिनः । केचिद् भवनपत्यादयो देवा अधोलोकेऽपि । द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियाणां त्रयाणां विकलेन्द्रियसंज्ञास्ति ।
एकेन्द्रिया विकलेन्द्रियाश्च विशिष्टमनोज्ञानरहितत्वेनासंज्ञिन उच्यन्ते; यस्मात् ते सम्मूर्च्छिमाः, गर्भजत्वाभावात् । देवा नारकाश्वोपपातजा उक्ताः । देवा हि देवशय्याभ्यन्तर उपपतन्ति । नारकाच वजकुब्यस्थवातायनसदृशनिष्कुटेषु । तिर्यक्षु च केचिद् गर्भजाः केचित् सम्मूछिमाश्च । मनुष्यास्तु गर्भजाः । ये तु श्लेष्मादिषु गर्भजमनुष्यसम्बन्धिषु धर्मचक्षुरदृश्या अन्तर्मुहूर्तभवस्थितिका मनुष्यजातीया उत्पद्यन्ते ते सम्मूच्छिमा एव । देवगतौ देवा देव्यश्च सन्ति, न कश्चिनपुंसकः । नारकाः सम्मूच्छिमाश्च नपुंसका एव । सम्मूछिमव्यतिरिक्ताश्च तिर्यञ्चो मनुष्याश्च पुंस्त्रीनपुंसकाः।। १ सूक्ष्मबादरनामधेये कर्मणी वक्ष्यमाणाष्टविधकर्माऽन्तर्गतनामकर्मभेदी ।
Page #6
--------------------------------------------------------------------------
________________
जीवानां शरीरं पश्वधा - औदारिकं वैक्रियमाहारकं तैजसं कार्मणं च । तत्र प्रथमं मनुष्यपश्वादीनां सर्वेषां देवनारकव्यतिरिक्ता - नाम् । वैक्रियं च न्हस्वदीर्घदृश्याऽदृश्यभूचरखेचराविनानाविधरूपकरणसमर्थ भव ( जन्म ) स्वभावतो देवानां नारकाणां च । तथाविधशक्तिमहिम्ना मनुष्यादेरपि । आहारकं वपुश्चेतुर्दशपूर्व विद्याबलेन सकलपदार्थान् समधिगच्छतां महापुरुषाणां परमर्षीणां भवति । एतेन च जीवन्मुक्तानां देहवतां सर्वज्ञपरमात्मनां पुरस्सरं प्रेषितेन सूक्ष्मार्थसन्देहापगमो भगवन्महर्द्धिदर्शनं च शक्यते कर्तुम् । तैजसकार्मणे च सर्वस्य संसारिजीवस्य भवतः । तैजसेन भुक्ताहारपरिपाकादिकार्यं भवति । कार्मणं शरीरं पुनः क्षीरनीरवद् अन्योन्यं परिश्लिष्टा जीवप्रदेशैः कर्मप्रदेशा एव । एतद्बलेन जीवस्य भवान्तरे गतिर्भवति ।
1
तथाविधानां पृथिव्यादीनां सचेतनत्वं दुर्गममपि युक्ति - शास्त्रबलेन शक्यते प्रतिपत्तुम् । तत्र वनस्पतेस्तावत् सचेतनत्वं स्फुटत्वात् समर्थ्यते । मूले सिक्तेषु तरुषु यो रसः फलादिषु स्फुटतया परिदृश्यते, असौ नोच्छ्रासमन्तरेणोर्ध्वं प्रसप्र्तुमर्हति; अस्मदादिषूच्छ्वासे सत्येव रसप्रसर्पणोपलम्भात् । मृत्तिकादावुच्छ्वासाभावे रसप्रसर्पणाभावाच । तस्माद् रसप्रसर्पणेनाक्षिप्यमाण उच्छ्वासस्तरुषु निःसन्देहं सात्मकत्वं प्रसाधयति । एवं नृणामिव द्रणामपि दोहदोत्पत्तिदर्शनात् संकोचविकासादिसंज्ञाबलाच्च वनस्पतीनां चेतनावत्त्वं सुश्रद्धानम् । पृथिव्यादीनामपि सात्मिका पृथ्वी विद्रुमशिलादिरूपा, छिन्नाया अप्यस्याः पुनस्तत्स्थान एव समानजातीयाङ्कुरोत्थानाद्, अर्शोऽङ्कुरवत् । भौममम्भः सचेतनं क्षतभूसजातीयस्य स्वभावस्य सम्भवाद्, दर्दुरवत् ।
१ दृष्टिवादो नाम शास्त्रमासीत् । तस्य चतुर्दशपूर्वात्मको विभागः ।
Page #7
--------------------------------------------------------------------------
________________
नाभसमपि जलं सात्मकम् ; अभ्रादिविकारे स्वत्तः सम्भूय पाताद्, मीनादिवत् । तेजः सात्मकम्, आहारोपादानात् तद्वृद्धौ विकारविशेषोपलब्धेश्च, नरवत् । सचेतनो वायुः, अन्यप्रेरितत्वे सति तिर्यग्गतिमत्त्वाद् गोवत् — इत्यादिप्रमाणबलेनागमवचनाच्च सचेतनतां कक्षीकुर्वन्ति धीराः ।
ये तु जीवपदार्थमेव नेच्छन्ति तेषां बन्धमोक्षादिव्यवस्थानुपपत्तिः । इष्टापत्तौ जगद्वैचित्र्यं कस्माच्छक्येतोपपादयितुम् । एको राजा एको रकः, कश्चिद् धनी कश्चिद् दरिद्रः, अन्यो नीरोगः परो रोगी, अपरः प्रज्ञावान् इतरोऽतिस्थूलमतिः; इत्याद्येवमनन्तविश्ववैचित्र्यं जीवपदार्थमपले पुषामशक्यं साधयितुम् । आत्माभिसंश्लिष्टकर्मवैचित्र्यव्यतिरेकेण तदनुपपत्तेः । यदाह प्रथमकर्मग्रन्थे प्रथमगाथावृत्तौ श्रीमान् देवेन्द्रसूरिः——
"क्ष्माभृद्रङ्ककयोर्मनीषिजडयोः सद्रूपनीरूपयोः श्रीमद्दुर्गतयोर्बलाबलवतोर्नीरोगरोगार्तयोः ः।
सौभाग्यासुभगत्वसङ्गमजुषोस्तुल्येऽपि नृत्वेऽन्तरं
यत्तत्कर्मनिबन्धनं तदपि नो जीवं विना युक्तिमत् " ॥ १॥
ननु पृथिव्यादिभूतेभ्यो गुडपिष्टोदकादिभ्यो मदशक्तिरिव चेतना समुद्भवतीति मतं तदपि न विचारसहम् । अचेतनेभ्यो भूतेभ्योतनोत्पत्तिविरोधात् । अन्यथा घटादीनामपि सचेतनत्वप्रसक्तेः । पृथिव्यादिचतुष्टयस्य विशिष्टाभिसम्बन्धे सति चेतनाविर्भाव इति चेन्न; यो येषां न धर्मस्तेषां सत्यपि सम्बन्धे तद्धर्मप्रादुर्भावाभावात् । प्रत्यक्षसिद्धो ह्ययमर्थः । न हि तिलव्यतिरिक्तेभ्यः केभ्यश्चिदपि तैलप्रादुर्भावः । नास्ति च पृथिव्यादिः प्रत्येकं चेतनाधर्मवान्,
.
Page #8
--------------------------------------------------------------------------
________________
नातस्तत्सम्बन्धेऽपि चेतनोद्भवो युक्तिमान् । मदशक्तिदृष्टान्तोऽप्ययुक्तः, मदशक्तेरचेतनत्वेनाचेतनेभ्यः पिष्टोदकादिभ्य उत्पादस्य युक्तखेऽपि जडेभ्यो भूतेभ्यश्चैतन्यशक्त्युत्पादस्याऽसिद्धेः । एतेन देहामनोरक्याभिमानोऽपि प्रत्युक्तः । मृतदेहे चेतनानुपलम्भात् । इन्द्रियाण्येवात्मेत्यपि न युक्तम् ; चक्षुर्दृष्टस्यार्थस्य चक्षुर्व्यपगमे स्मरणानुपपत्तेः । न हि चक्षुद्देष्टमर्थमन्यदिन्द्रियं क्षमते स्मर्तुम् ; अन्यदृष्टस्यार्थस्यान्येन स्मरणायोगात् । तस्माद् इन्द्रियव्यतिरिक्तममुमेकं पदार्थमभ्युपगन्तुमर्हन्ति प्रेक्षावन्तः, यो हि ज्ञानस्वरूपो येन च प्रेरितानि करणानि स्वखविषयं परिच्छेत्तुं प्रभवन्ति, यः पुनरेकस्येन्द्रियस्य व्यपगमेऽपि तदुपलब्धमर्थ स्मृतिविषयीकरोति; स एव देहादिव्यतिरिक्तो जीवपदार्थः । उक्तं च न्यायदर्शने गौतमीये तृतीयाध्यायस्य प्रथमाह्निके प्रथमसूत्रम्-"दर्शनस्पर्शनाभ्यामेकार्थग्रहणात्"। ___ उक्तो जीवः । अथाजीवतत्त्वव्याख्यावसरः । अजीवस्य लक्षणं चेतनात्यन्ताभावः । जडोऽचेतनोऽजीव इति चानान्तरम् । स च पञ्चधा-धर्मास्तिकायोऽधर्मास्तिकाय आकाशास्तिकायः पुद्गलास्तिकायः कालश्च । अत्रास्तिकायो नाम प्रदेशसमूहात्मकः । प्रदेशसमूहात्मकाः पदार्थाः पञ्चैव सन्ति-जीवो धर्मोऽधर्म आकाशं पुद्गलश्च । तत्र प्रत्येकं जीवस्यासंख्येयाः प्रदेशाः, एतावन्तश्च धर्मस्याऽधर्मस्य च । आकाशस्याऽनन्ताः प्रदेशाः । पुद्गलस्य पुनः संख्येया असंख्येया अनन्ताश्च । कालस्तु प्रदेशरहितः; अनागतस्य कालस्याऽनुत्पन्नत्वाद्, उत्पन्नस्य च विनष्टत्वाद्, वर्तमानस्य च समयस्य प्रदेशराहित्यात् । एवं च पञ्चास्तिकाया ज्ञेयाः। तदात्मकोऽयं लोकः । अत्र धर्माधौं न पुण्यपापरूपौ शुभाशुभरूपौ जीवसम्बद्धाऽदृष्टरूपौ वा
Page #9
--------------------------------------------------------------------------
________________
प्रत्येतव्यौ, किन्तु लोक आकाशवद् व्यापकावेतन्नामानौ पदार्थों जैनप्रवचने प्रज्ञप्तौ । तत्सद्भावे किं प्रमाणमिति चेद्, आगम एव प्रमाणम् । खीकुर्वते हि सर्वेऽपि दार्शनिकाः स्वस्वाभिमतमागमं प्रमाणम् । न हि स्वर्गनरकाद्यतीन्द्रियपदार्थाभ्युपगम आगममन्तरेण वर्तते किञ्चिच्छरणम् । स्वर्गाद्यनुमापकान्यप्यनुमानप्रमाणानि न खातव्येण चित्ताश्वासहेतवः, किन्वागमप्रमाणस्य सकाशाल्लब्धप्रसादान्येव भवन्ति । ननु जैनदर्शनादन्यत्र न कापि दर्शने धर्माधर्मों पदार्थों खीचक्राते, ततः कथमागममात्रेण तत्राश्वाससम्भवः ? । युक्तिं हि काश्चिदाचक्षीतेति चेत् , तविधेयमिदम् । गतिलक्षणस्तावद् धर्मास्तिकायः । प्रमाणं चात्र गतिपरिणतयोर्जीवपुद्गलयोरलोके गमनविरहान्यथानुपपत्तिः । न चालोकाभिमुख्यविरहादेव तत्राऽगतिरिति वक्तव्यम् ; सिद्ध-परमाण्वादीनामलोकाभिमुखत्वात् । न च क्रियाविशेषे देशविशेषस्य हेतुत्वादलोकदेशस्य गत्यहेतुत्वेनैवोपपत्तौ व्यर्थी धर्माधर्मपरिकल्पनेति युक्तं वक्तुम्; सहकारिण एव तत्र विशेषकत्वात् । सहकारिणमन्तरेण केवलदेशत्वरूपेण हेतुताकल्पनायां मानाभावात् । स्थितिलक्षणोऽधर्मास्तिकायः । तत्रापि स्थितिपरिणतयोर्जीवपुद्गलयोरलोके स्थितिविरहान्यथानुपपत्तिः प्रमाणम् । अयं भावः । स्वभावतः संचरतां जीवपुद्गलानां पानीयमिव मीनानां धर्मास्तिकायः साहायकं करोति । अधर्मास्तिकायः पुनस्तेषामेव, मीनानां स्थलबत् पान्थानां छायावद् वा स्थितौ सहायो भवति । इदं तात्पयम्नातिस्थितिपरिणामे सत्येवैतौ सहायौ; अन्यथा जीवादीनां सदा गति-स्थितिप्रसङ्गात्; एतयोर्लोकव्यापिनोः सदा सत्त्वात् ।
इदं चात्र ध्येयम् । अर्हप्रवचने लोकोऽलोकश्चेति द्वौ प्रज्ञप्तौ ।
Page #10
--------------------------------------------------------------------------
________________
तत्र लोकश्चतुदशरज्ज्वात्मको जीवाजीवैश्च संव्याप्तः । लोके पुनस्रयो विभागाः । ऊर्ध्वलोकोऽधोलोकस्तिर्यग्लोकश्च । ऊर्ध्वाधोलोकयोर्देवनारकनिवासः प्रागुक्त एव । तिर्यग्लोकः पुनरयं यत्राऽस्मदादयो वर्तन्ते । भारतवर्षादिक्षेत्रसमूहात्मको योजनशतसहस्रविष्कम्भो वृत्तो यस्य नाभौ मेरुर्वर्तते, एवम्भूतश्च जम्बूद्वीपः । असौ तद्विगुणविष्कम्भेण लवणसमुद्रेण परिवेष्टितः । एवंरीत्याऽसंख्येया द्वीपा उत्तरोत्तरसमुद्रेण परिवेष्टिताः । ते असंख्येया द्वीप-समुद्रा द्विद्विगुणविष्कम्भा वलयाकृतयो वेदितव्याः । अयं सर्वोऽपि तिर्यग्लोकः । इत्येवमुक्तो लोकः । अलोकः पुनः केवलाकाशात्मकः । अलोके हि जीवपुद्गला धर्माधौं च न सन्ति, किन्तु केवलमाकाशमेव । एवं च धर्माधर्मानभ्युपगमे लोकालोकव्यवस्था न स्यात् ; जीवपुद्गलानां सर्वत्राऽप्यस्खलद्गत्यादिसम्भवेनालोकत्वेनाभिमतस्यापि लोकत्वप्रसंगप्राप्तेः । धर्माधर्मसद्भावे तु यत्रैव लोके तौ स्तः, तत्रैव पुद्गलानां गत्यादिसम्भवात् तदन्यत्र जीवादिगमनाभावेन केवलाकाशरूपत्वप्राप्तेः सुतरामलोकत्वसिद्धिः । अलोकश्चानन्तः । सर्वव्यापि • सर्वाधारः स्वप्रतिष्ठमनन्तप्रदेशमाकाशं प्रसिद्धमेवे । दिक् तु नार्था
१ लोकस्य चतुर्दश भागाः क्रियन्ते, ते प्रत्येकं-रज्जुनाम्नोच्यन्ते ।
२ लोकसम्बद्ध आकाशो लोकाकाशः। अलोकसम्बद्ध आकाशोऽलोकाकाशः। एवं चैकमप्याकाशं धर्मास्तिकायादिसम्बन्धसत्त्वासत्त्वाभ्यां द्वेधा विभज्यते । आकाशं खल्ववकाशदम् । अलोके पुनर्जीवपुद्गलानामभावादवकाशदायित्वगुणश्वरितार्थो न भवत्याकाशस्य । न च तद्गुणस्याऽचारितार्थ्यऽलोकाकाशस्याकाशत्वं भज्येत । अलोकाकाशो ह्यवकाशं दातुं सर्वदा स्थित एव, परं तत्रावकाशग्राहकएव कश्चिन्न स्यात् तद्यस्य कोऽपराधः। यदि जीवादिपदार्था अलोकेऽभविष्यन्, अवश्यमसौ तेषामदास्यताऽवकाशम् । अतोऽवकाशग्राहकाभावकारणेनाचरितार्थनाप्यवकाशदत्वगुणेनालोकाकाशस्य सुस्थमाकाशवम् ।
Page #11
--------------------------------------------------------------------------
________________
न्तरमाकाशात् । वर्तनादिलक्षणः कालः । वर्तना च नवपुराणादिप. रिणामः । तत्र चार्धतृतीयद्वीपसमुद्रान्तर्वति कालद्रव्यं हेतुः।
स्पर्शरसगन्धवर्णवन्तः पुद्गलाः । ते द्विधा । अणवः स्कन्धाश्च । तत्र स्कन्धात् पृथग्भूता अबद्धा अप्रदेशाः परमाणवः । द्वौ प्रदेशावारभ्य संख्येया असंख्येया यावदनन्ताश्च प्रदेशा यत्र सन्ति ते द्विप्रदेशिकाः संख्येयप्रदेशिका असंख्येयप्रदेशिका यावदनन्तप्रदेशिकाः स्कन्धा उच्यन्ते । अत्रेदं ज्ञेयम् । यो घटपटादिस्कन्धेषु सम्बद्धः परमोऽणुः स प्रदेश उच्यते । स्कन्धात् पृथग्भूतस्तु स एव परमाणुः । जीवादीनां प्रदेशास्तु जीवादिभ्योऽभिन्ना न पृथगू भवितुमर्हन्ति । यथा पृथग्भूतः केवलः परमाणुः स्वतनद्रव्यमेवाथ च स्कन्धसम्बन्धे सति प्रदेशशब्देन व्यपदिश्यते तथा जीवादिप्रदेशाः स्वतत्रतया द्रव्याणि न । अत एव पुद्गलप्रदेशेभ्यो जीवादिप्रदेशानां विजातीयत्वं विज्ञेयम् । अत एव च जीवादिप्रदेशाः परस्परं सम्बद्धा एकीभूता इव सर्वदाऽवतिष्ठन्ते । ___ उक्तोऽजीवपदार्थः । वस्तुत एतौ द्वावेव पदाौँ । नाभ्यामतिरिच्यते कश्चिदर्थः। ये च धर्माधर्माकाशकालपुद्गलजीवा उक्ताः, तानि षड्द्रव्याण्यपि पूर्वोक्तरीत्या जीवाजीवान्तर्भूतान्येव । यान्यपि पुण्यादितत्वानि दर्शयिष्यन्ते तान्यपि यथासम्भवं जीवाजीवयोरन्तर्भवन्ति न पृथग्भवितुमर्हन्ति । ज्ञानादिरूपादिगुणानामुत्क्षेपणादिकर्मणां च
१ जम्बूद्वीपः, तद्वेष्टको लवणोदधिः, तद्वेष्टको धातकीखण्डः, तत्परिवेष्टकः कालोदधिः, तद्वेष्टकस्य पुष्करावर्तस्याऽर्धभागः। एवं च द्वौ समुद्रौ, साधों द्वौ द्वीपौ; तथा चार्धस्तृतीयो द्वीपो ययोस्तावर्धतृतीयौ द्वीपौ तौ च समुद्रौ चार्धतृतीयद्वीपसमुद्रौ । इदमेव च नरक्षेत्रं पञ्चचत्वारिंशल्लक्षयोजनप्रमाणम् ।
२ आदिपदाद् धर्माधर्माकाशाः ।
Page #12
--------------------------------------------------------------------------
________________
कश्चिदभेदेन जीवाजीवद्रव्यान सर्वथा पृथग्भावः साधीयान् । सामान्यविशेषावपि वस्तुस्वरूपावेव । समवायसम्बन्धोऽपि नैयायिकवैशेषिकाभिमतो न द्रव्याद् भेदेन स्थातुमर्हति । अभावं तु भावात्मकमाचक्षत एवाहताः। यदाङस्तार्किकसार्वभौमाः श्रीयशोविजयगगयो न्यायोलोके-'एवमप्यभावस्याधिकरणात्मत्वसिद्धिः । एवं च स्थितेऽपि द्वौं पदार्थाविति सिद्धान्ते गोबलीवर्दन्यायेन विशेषप्रतिपत्यर्थ संसारनैर्गुण्योपदर्शनद्वारेण निःश्रेयसमार्गसम्मुखीकरणाथै च युक्त एव पृथगुपन्यासः पुण्यादितत्त्वानाम् ।
तत्र पुण्यं वगैश्वर्यादिप्रशस्तफलसम्पादनप्रगुणाः प्रशस्ता जीवाभिसंसृष्टाः कर्मवर्गणोः । तद्विपरीतं पापम् । आश्रूयतेऽनेन कर्मलक्षणमुदकं जीवरूपतडागे इत्याश्रवः । कर्मोपादानहेतुरित्यर्थः । कर्मोपादानं च मिथ्यात्वाविरतिकषाययोगैर्भवति । तत्र मिथ्यात्वं वस्तुस्वरूपाद्विपरीतप्रतिभासः। हिंसानृतस्तेयाब्रह्मपरिग्रहेभ्यो न विरतिरविरतिः। कषायाः क्रोधमानमायालोभाः। मनोवाक्कायव्यापारा योगाः । शुभा योगाः पुण्यस्य, अशुभा योगाः पापस्य हेतवोऽवसेयाः । संवरः पूर्वोक्तानां मिथ्यात्वादीनां कर्मोपादानहेतूनां निरोधः । अयमर्थः । यथा सरोवरोऽप्रतिरुद्धारैः प्रविष्टेन जलप्रवाहेण परिपूर्यते, प्रतिरुद्धेषु तु द्वारेषु मनागपि न तत्र जलप्रवेशः; यथा वा यानपात्रे रन्ध्रद्वारेण जलं प्रविशति, कृते तु रन्ध्रपिधाने न तत्प्रवेशः; एवंरीत्या आश्रवद्वारैरप्रतिरुद्धैः कर्मद्रव्यप्रवेश आत्मनि भवति, सम्यग्दर्शनविरतिक्षमादिगुप्तिभिश्च क्रमेण पूर्वोक्तानां मिथ्यात्वादीनामाश्रवद्वाराणां १ मुद्रितपुस्तके दशमपत्रे प्रथमपृष्ठ उपान्त्यपतौ । २ वर्गणा समुदायः। ३ आगम्यत आनीयत इति यावत् ।
Page #13
--------------------------------------------------------------------------
________________
प्रतिरोधे कृते न मनागप्यात्मनि कर्मद्रव्यं प्रविशति । तथा हि । सम्यग्दर्शनेन पूर्वोक्तलक्षणमिथ्यात्वाद्विपरीतलक्षणेन मिथ्यात्वं निगृह्यते । हिंसादिविरत्या च तदविरतिः प्रतिरुध्यते । क्षमया क्रोधो मृदुत्वेन मान आर्जवभावेन माया संतोषेण च लोभः पराभूयते । मनोगुप्त्या मनोयोगनिग्रहः । वाग्गुप्त्या वाग्योगनिरोधः । कायगुप्त्या च काययोगप्रतिरोधः।
उक्तावाश्रवसंवरौ । निर्जरा तपसा कर्मनिर्जरणम् । देशतः कर्मोपक्षयः । अथ बन्धतत्त्वम् । अञ्जनचूर्णपूर्णसमुद्गकवद् निरन्तरं पुद्गलनिचिते लोके कर्मयोग्यपुद्गलैरात्मनः क्षीरनीरवद् वह्नयःपिण्डवद् वान्योन्याभिसंश्लेषात्मकः सम्बन्धो बन्धः। स चतुर्धा-प्रकृतिः स्थितिरनुभागः प्रदेशश्च । तत्र प्रकृतिरष्टधा । ज्ञानावरणं दर्शनावरणं वेदनीयं मोहनीयमायुष्कं नाम गोत्रमन्तरायं च । तत्र चक्षुरावारकपटादिवद् ज्ञानावारकं कर्म ज्ञानावरणम् । एतस्यैव कर्मणो महिना विदुषोऽपि कदाचित् स्मृतिभ्रंशादयो जायन्ते । यथा यथा परिपुष्टं भवत्येतत्कर्म, तथा तथा ज्ञानमात्रा हासमापद्यते । यथा यथा चेदं कर्म शिथिलीभवति, तथा तथा ज्ञानप्रकाशो विशेषतः प्रसरति । सामस्त्येन चास्य कर्मणः परिक्षये सकलपदार्थप्रकाशः प्रादुर्भवति । दर्शनावारकं कर्म दर्शनावरणम् । एतत्कर्मबलेन निद्रादयो भवन्ति । अन्धत्वषधिरत्वादिकमप्येतन्निबन्धनम् । सुखासुखजननस्वभावं कर्म वेदनीयम् । अत एव तत् सातवेदनीयमसातवेदनीयमिति द्वेधा । मदिरावद् मोहयमानं कर्म मोहनीयम् । यथा मदिरापानाद् विमूढीभूतः पुमांस्तत्त्वविवेकविकलो भवति, तथा मोहनीयकर्मणापि प्राणी सदसत्स्वरूपपरिज्ञानशून्यो भवति । एतद् द्विधा-दर्शनमोहनीयं चा
Page #14
--------------------------------------------------------------------------
________________
१२
रित्रमोहनीयं च । प्रथमं त्रेधा मिथ्यात्वं सम्यक्त्वं मिश्रं च । तत्र प्रथमे द्वे प्रागुक्ते । मिश्रं पुनर्गुणस्थानक्रमारोद्दे श्रीरत्नशेखरसूरिराह" जात्यन्तरसमुद्धतिर्वडवाखरयोर्यथा ।
गुडदनोः समायोगे रसभेदान्तरं यथा” | " तथा धर्मद्वये श्रद्धा जायते समबुद्धितः । मिश्रोऽसौ भण्यते तस्माद्भावो जात्यन्तरात्मकः " ॥
अथवा नालिकेरद्वीपवासिनो मोदकादाविव सत्यमार्गे न रागो न च द्वेष इत्येवम्भूतो योऽध्यवसायः, तद् मिश्रमोहनीयमित्यप्याहुः । अयमत्र भावार्थ : —— मिथ्यात्वपुद्गलकदम्बकं मदनकोद्रवन्यायेन परिशोधितं सद् विकाराजनकत्वेन शुद्धं सम्यक्त्वमुच्यते । तदेव मिथ्यात्वपुद्गलकदम्बकं किञ्चिद्विकारजनकत्वेनार्धविशुद्धं सद् मिश्रमुच्यते । यदा तु सर्वथाऽप्यशुद्धं तत्, तदा मिध्यात्वमिति । चारित्रमोहनीयं पुनः क्रोधादिकषाय- हास्यादिनोकषायरूपम् । तत्र क्रोधादिकषायाश्चत्वारः प्रागुक्ताः । हास्यादयस्तु नव - हास्यं रतिररतिर्भयं शोको जुगुप्सा पुरुषवेद: स्त्रीवेदो नपुंसकवेदश्च । एते कषायसहचारित्वान्नोकषाया उच्यन्ते, नोशब्दस्य साहचर्यवचनत्वात् । कषायोद्दीपनाद्वा नोकषायाः । आयुष्कर्म सुरनरतिर्यङ्नरकायुर्भेदाच्चतुर्विधम् । नामकर्म समासतो द्विधा - शुभमशुभं च; व्यासतस्तु नानाविधम् । यथा चित्र - कृद् विविधं चित्रं निर्माति तथा नामकर्मापि अयं मनुष्योऽयं बलवानयं पशुरसौ निर्बलः स रूपवानेष कुरूपोऽसौ सुस्वरः स दुःखर इत्याद्यनेकप्रकारं विपरिणामं जीवेषूपजनयति । गोत्रं कर्म द्वेधा । उच्चगोत्रं नीचगोत्रं च । उच्चनीचगोत्रव्यवहार : सर्वत्र प्रकारान्तरेण
१ धर्मद्वय इति सत्यतत्त्वेऽसत्यतत्त्वे च ।
Page #15
--------------------------------------------------------------------------
________________
१३
सम्भवति । अन्तरायं कर्म पभ्वधा । तत्र सत्यपि देये वस्तुनि, आगते च गुणवति पात्रे जानन्नपि दानफलं यदुद्द्यानोत्सहते दातुं तद्दानान्तरायम् । तथा विशिष्टेऽपि दातरि विद्यमानेऽपि च देये वस्तुनि या वाकुशलोऽपि याचको न लभते यदुद्द्यात्, तल्लाभान्तरायम् । यस्योदयात् सत्यपि विभवादौ सम्पद्यमानेऽपि चाहारमात्यादौ विरतिहीनोऽपि न भुङ्क्ते तद् भोगान्तरायम् । सदपि वस्त्राभरणादि नालमुपभोक्तुं यस्योदयात् तदुपभोगान्तरायम् । यदुदयाच्च बलवा - नीरोगोऽपि तृणकुब्जीकरणेऽप्यशक्तः स्यात् तद्वीर्यान्तरायम् ।
अथ केन प्रकारेण पूर्वोक्तं कर्माष्टकं बध्यते तदुपदर्श्यते । ज्ञानस्य ज्ञानवतां ज्ञानसाधनानां च दर्शनस्य दर्शनवतां दर्शनसाधनानां च मात्सर्याऽन्तरायोपघातादिकरणेन ज्ञानावरणदर्शनावरणयोर्बन्धः ।
दुःखशोक तापाक्रन्दनवधपरिदेवनान्यात्मपरोभयस्थान्यसातवेदनीयस्य कर्मणो बन्धहेतवः । भूतानुकम्पादानक्षान्त्यादयः सातवेदनीयस्य । परमर्षीणां धर्मशास्त्रस्य देवतादीनां चावर्णवादो दर्शनमोहनीयस्य । कषायोदयात् तीव्रसंक्लिष्टपरिणामश्चारित्रमोहनीयस्य । बह्वारम्भपरिग्रहत्वं नारकस्यायुषः । माया तैर्यग्योनस्य । अल्पारम्भपरिग्रहत्वं स्वभावमार्दवार्जवं च मानुषायुषः । सरागसंयमदेशसंयमबालतपआदयो देवायुषः 1 मनोवाक्काययोगवक्रत्वपरप्रतारणादयो ऽशुभस्य नाम्नः । विपरीतं शुभनाम्नः । परनिन्दात्मश्लाघासदसद्गुणाच्छाद्
१. क्रियते, कषायादिदोषैः कर्मद्रव्यमात्मना बध्यते इति कर्म । तच्च पुद्गलरूपम् । अत एव निगडादिनेव कर्मणा बध्यते जीवः । नैयायिकास्तु जीवस्य गुणः कर्म, सौगताः वासनास्वरूपं कर्म, कापिलाः पुनः प्रकृतिविकारः कर्म । ब्रह्मवादिनश्चाविद्याखभावं कर्म, इति परिभाषन्ते । परन्तु पूर्वोक्ताऽनुभवेन पौगलिक रूपमेव कर्म, इति सिद्धान्त आर्हतानाम् ।
Page #16
--------------------------------------------------------------------------
________________
नोद्भावने च नीचगोत्रस्य । विपरीताश्वोच्चगोत्रस्य । विघ्नकरणमन्तरायस्य । - उक्तः प्रकृतिबन्धः । स्थितिबन्धस्तु आत्मगृहीतानां कर्मपुद्गलानां स्थितिकालनियमनम् । आद्यानां तिसृणां कर्मप्रकृतीनामन्तरायस्य चोत्कृष्टा स्थितित्रिंशत्सागरोपमकोटीकोट्यः। सप्ततिसागरोपमकोटीकोट्यो मोहनीयस्य । नामगोत्रयोविंशतिः सागरोपमकोटीकोट्यः । आयुष्कस्य त्रयस्त्रिंशत्सागरोपमाणि । जघन्या स्थितिः पुनर्वेदनीयस्य द्वादश मुहूर्ताः। नामगोत्रयोरष्टौ । शेषाणामन्तर्मुहूर्तम् । कर्मपुद्गलानामेव शुभोऽशुभो वा घायघाती वा यो रसः स एवानुभागबन्धो वा रसबन्धो वा । कर्मपुद्गलानामेव स्थितिरसनिरपेक्षं दलिकसंख्याप्राधान्येनैव यद् ग्रहणमसौ प्रदेशबन्धः। प्रकृतिस्थितिरसप्रदेशाश्च मोदकद्दाष्टन्तेन भाव्याः। तद्यथा । मोदको वातपित्तकफान्यतमविनाशिद्रव्योत्पन्नस्तदन्यतमं यथोपशमयति, एवं ज्ञानावरणादिकर्मणोऽपि ज्ञानाच्छादनस्वभावा प्रकृतिः । एवं शेषमप्यूह्यम् । स एव मोदको यथा मासं पक्षमेकदिनमपि वा तिष्ठति, तथैव कर्मणोऽपि ज्ञानावरणादेस्त्रिंशत्सागरोपमकोटीकोट्यादिः स्थितिः । रसः पुनर्मोदके स्निग्धमधुरादिरूप एकगुणो द्विगुणत्रिगुणोऽपि वा भवति, तथैव कर्मणोऽप्येकस्थानिकद्विस्थानिकत्रिस्थानिकादिरूपः । प्रदेशा यथा मोदका
- १ सागरोपमोऽतिदीर्घतमः कालविशेषः । अस्य खरूपं पश्चमकर्मग्रन्थे देवेन्द्रसूरिनिर्मिते द्रष्टव्यम् ।
२ कोच्या गुणिता कोटी कोटीकोटी। . ३ अतिसूक्ष्मतमः कालः समयशब्देनोच्यते, यस्मात् सूक्ष्मसमयो नास्ति । नवभ्यः समयेभ्य एकसमयोनमुहूर्तान्तं यावदन्तमुहूर्त भवति ।
Page #17
--------------------------------------------------------------------------
________________
एकप्रमृतिप्रमाणाः प्रसूतिद्वय-त्रय-सेतिकादिप्रमाणा वा भवन्ति, तथा कर्मण्यप्यल्पबहुबहुतमादिरूपा वेदितव्याः। ___ नवमं तत्त्वं मोक्षः । सकलकर्मक्षयो मोक्षः । स च केवलज्ञाने सत्येव । केवलज्ञानं च ज्ञानावरणदर्शनावरणान्तरायाणां मोहनीयकर्मप्रक्षयादनु प्रक्षये जाते प्रादुर्भवति । एतत्कर्मचतुष्काच्छेषं कर्मचतुष्कमघातिशब्देनोच्यते । अघातिकर्माणि भवाधारत्वाद्भवोपग्राहिशब्देन व्यपदिष्टानि । सत्स्वेतेषु हि भवरूपः प्रासादोऽवतिष्ठते । एषां च प्रक्षये स प्रासादस्तक्षणमेव भज्यते । __केवलज्ञानिनो द्वेधा-तीर्थङ्कराः सामान्यकेवलिनश्च । येषां तीर्थकरनामकर्मोदयो नास्ति ते केवलिनः सामान्यकेवलिन उच्यन्ते । ये तु तीर्थकरनामकर्मोदययुक्ताः, ते तीर्थक्करा ईश्वराः परमेश्वराः । तीर्थ प्रवचनं तत्प्रकाशकत्वात् तीर्थकरत्वम् ; तीर्थ साधुसाध्वीश्रावकाविकालक्षणश्चतुर्विधः सङ्घः, तत्स्थापकत्वाद्वा तीर्थकरत्वम् । तीर्थकराश्च तीर्थकरनामकर्मोदयमहिना परमातिशयसाम्राज्यचमत्कृतसकलसुरासुरनरेन्द्रयोगीन्द्राः देवेन्द्ररहमहमिकया परिषेव्यमाणा धर्मदेशनाद्वारेण जगजनाननुगृह्णन्ति । एतेषां परमात्मनां शिष्यीभूयैतेषामुपदेशमवलम्ब्य ये महाप्राज्ञा विशिष्टशक्तिसम्पन्नाः परमपुण्यभाजो द्वादशाङ्गी प्रथ्नन्ति, ते गणधरा उच्यन्ते । अङ्गानि चामूनि-आचाराझं सूत्रकृताङ्गं स्थानाङ्गं समवायाङ्ग भगवती ज्ञातधर्मकथोपासकदशाऽन्तकृद्दशाऽनुत्तरोपपातिकदशा प्रश्नव्याकरणं विपाको दृष्टिवादश्चेति । तत्र दृष्टिवादो व्यवच्छिन्नः । शेषाणि चाङ्गानि तत्कालापेक्षया सङ्क्षिप्तानि वर्तन्ते सम्प्रति । अन्यान्यप्युपाङ्गादीनि बहून्यागमशास्त्राणि गणधरशिष्य-प्रशिष्यगुम्फितानि सन्ति वर्तमाने ।
स च केवली भगवान् आयुःसमाप्तौ सत्यामघातिकर्मप्रक्षय एव
Page #18
--------------------------------------------------------------------------
________________
देहपजरान्निर्गत्य समश्रेण्यो याति यावल्लोकान्तमेकसमयेन; तथाखाभाव्यात् । लोकान्तात् परतो धर्मास्तिकायाभावान गमनसम्भवः । कोकान्तादधःपातोऽपि गुरुत्वाभावादसम्भवः। प्रेरकाभावाञ्च तिर्यग्गतिरप्यसम्भविनी । ऊर्ध्वमधस्तिर्यग्गमनं हि जीवानां कर्मजन्यम् । क्षीणसकलकर्मणां पूर्णब्रह्मणां सिद्धानां तु स्वभावत एवोर्ध्वगतिः । ते सिद्धाः कुत्र समवस्थिताः ? इत्यत्राह भगवानुमास्वातिस्तत्त्वार्थसूत्रपर्यन्ते
"मनोज्ञा सुरभिस्तन्वी पुण्या परमभासुरा ।
प्राग्भारा नाम वसुधा लोकमूर्ध्नि व्यवस्थिता” ॥ "नृक्षेत्रतुल्यविष्कम्भा सितच्छत्रनिभा शुभा।
ऊर्ध्व तस्याः क्षितेः सिद्धा लोकान्ते समवस्थिताः" ॥ घातिकर्मचतुष्कप्रक्षये क्रमतश्चत्वारोऽक्षय्याः सदावस्थायिनो गुणाः सम्पद्यन्ते । तथा हि । ज्ञानावरणविध्वंसे केवलज्ञानं दर्शनावरणविनाशे केवलदर्शनं मोहनीयनिर्घाते परमोज्ज्वलं चारित्रम् अन्तरायप्रक्षये अनन्तवीर्यम्। एते गुणास्तु जीवन्मुक्तानां देहवतां प्रत्यक्षीकारनिर्देश्यानां परमात्मनां घातिकर्मप्रक्षयसमुत्थाः सम्भवन्त्येव । आयु:समाप्तौ चाघातिकर्मप्रक्षयजन्या अन्ये पुनरनन्तसुखादिगुणा अमीषां प्रादुर्भवन्ति । मुक्तीभूतानां भगवतां परब्रह्मणां देहेन्द्रियाद्यभावाद् ऐन्द्रियकसुखासम्भवेऽप्यात्मस्वभावं सुखमाविर्भवति। तस्यानन्तभागेऽपि सकलभुवनेन्द्राणामैश्वर्यसुखमहाकरो नोपपद्यते । अकर्मकीभूतः परमात्मा न पुनः कर्मवानर्हति भवितुम् । न हि क्षीरात् समुद्धृतमाज्यं पुनः क्षीरतां व्रजति । यथा च रसेन्द्रेण नीताः शातकुम्भतां धातवो न पुनरावृत्तये भवन्ति, एवमकर्मकीभूतो निरखनः सिद्धो न भवेत् पुनः कथमपि कर्मवान् । एतेनेदमपि प्रज्ञप्तं
Page #19
--------------------------------------------------------------------------
________________
भवति-मुक्तिं प्राप्य न पुनरधोऽवतारः सम्भवति । आह च महर्षिरुमास्वातिर्वाचकमुख्यस्तत्त्वार्थसूत्रपर्यन्ते- "दग्धे बीजे यथाऽत्यन्तं प्रादुर्भवति नाङ्कुरः।
कर्मबीजे तथा दग्धे न रोहति भवाङ्करः” ॥ परमात्मानो हि परमवीतरागाः, न तस्मादेषां संसारेण किमपि प्रयोजनं येन पुनः संसारमाविशेयुरिति जैनसिद्धान्तः । इदमपि जैनसिद्धान्ताभिमतम्-कर्मक्षयस्य करणेन भवतीश्वरः, न पुनर्नित्यमुक्तः कश्चिदेकः सनातन ईश्वरः। उक्तं हि सम्मतिप्रकरणवृत्तौ न्यायचक्रवर्तिना श्रीमदभयदेवसूरिणा- "तन्न रागादिक्लेशविगमः स्वभावत एवेश्वरस्येति युक्तम्” । उपायबलेन ह्युपेयसिद्धिः, उपायव्यतिरेकेणोपेयसिद्धेरसम्भवात् ; तथाचेश्वरत्वमपि यदि नोपायसिद्धं तर्हि सर्वेषामपि तत्सम्भवः स्याद् न वा कस्यापि । उक्तं हि सौगतेन धर्मकीर्तिनाऽपि
"नित्यं सत्त्वमसत्त्वं वाऽहेतोरन्यानपेक्षणात् ।
अपेक्षातो हि भावानां कादाचित्कत्वसम्भवः” ॥ अत एव जैना ईश्वरं प्रतिपद्यमानाः सेवमाना उपासीना ध्यानगोचरीकुर्वाणा अपि नाचक्षते जगत्कर्तारम् । तेषां ह्ययमेवाऽभिप्रायः-परमवीतरागस्येश्वरस्य न किञ्चित् जगत्सृष्टौ प्रयोजनं सम्भ वति; परमकृतार्थत्वात् । न च निष्प्रयोजनस्य जगत्सृष्टिचेष्टोपपत्तिमती । ईश्वरस्यानादितया स्वीकर्तृणां जगतोऽप्यनादित्वेन स्वीकारे न किञ्चिद् दूषणापातः । प्रतिक्षणं विपरिणममानमपि जगद् द्रव्यशक्तितः सनातनमेव; समूलनाशायोगात् । मुक्तेरनादित्वेन च मुक्ति१ मुद्रितपुस्तक १२१ पृष्ठे ।
Page #20
--------------------------------------------------------------------------
________________
स्थानामप्यनादित्वात् सुतरामीश्वरस्याऽनादित्वसिद्धिर्जुनप्रवचनेऽपि । मुक्तेरनादित्वादेव च संसारस्याऽप्यनादित्वं सुतरां सिध्यति । ___ईश्वरस्य वीतरागत्वेन निग्रहानुग्रहकारित्वाभावेऽपि तदुपासना परमावश्यकी। शुद्धालम्बनेन मनसः शुद्धिभावेन सर्वार्थसिद्धेः । यादृशं ह्यालम्बनं तथारूप उपरागो मनस्युपजायते । यथा चाग्निं सेवमानस्य शीतार्तिरुपशाम्यति तद्वद्वीतरागं परमेश्वरमुपासीनस्य सगार्तिरुपशाम्यति । . अन्यच्च आर्हतानामयं मूलमन्त्रः- सर्वे खलु भावाः स्याद्वादमुद्राङ्किताः; स्याद्वादमन्तरेण वस्तुस्वरूपानुपपत्तेः । स्याद्वादो हि सापेक्षतयैकस्मिन् धर्मिणि सदसत्त्वनित्यानित्यत्वाद्यनेकधर्माभ्युपगमः। सर्व हि वस्तु स्वरूपेण सत् पररूपेण चासत् , कटक-कुण्डलादिपर्यायेण चानित्यं स्वर्ण-मृत्तिकादिमूलद्रव्येण च नित्यं सर्वेषां प्रतीतिपथमारोहति । इदं च तत्त्वं श्रीहरिभद्रसूरिपादैरनेकान्तजयपताकायां बहु विवेचितमस्तीति तद्विषयिणी जिज्ञासा तत एव सम्यगुपशाम्यति । . अधिकजिज्ञासुमहाशयै नतत्त्वज्ञानविषये कर्मग्रन्थ-तत्त्वार्थसूत्र-लोकप्रकाश-विशेषावश्यकादयो ग्रन्था अवलोकनीयाः । इह त्वेतावदेव वक्तुमुचितं मत्वा विरमति
विजयधर्मसूरिः।
Page #21
--------------------------------------------------------------------------
Page #22
--------------------------------------------------------------------------
_