Page #1
--------------------------------------------------------------------------
________________ गाद्यसंग्रहः साहस
Page #2
--------------------------------------------------------------------------
________________ Gadyasangraha Vol. IV part 1, an anthology of Upanishads and Darsanasthe works embodying the mystical and esoteric doctrines of ancient Hindu Philosophy; is compiled by Prof. Badarinath Shukla and edited by Prof. Jayamanta Misra. It includes excerpts from Mundakopanishad, Taittiriyopanishad, Chhandogyopanishad and Darsanas like Nyaya, Vaiseshika, Samkhya, Yoga, Mimansa; and Vedanta. The compilation provides deep and indepth knowledge of the three Upanishads and the six Darsanas. ISBN 81-7201-511-9 Rs. 120.00
Page #3
--------------------------------------------------------------------------
________________ साहित्यरत्नकोशे चतुर्थः खण्डः प्रथमो भागः गद्यसंग्रहः
Page #4
--------------------------------------------------------------------------
________________ अन्तरावणपत्रयोर्मुद्रिते भास्कर्यप्रतिचित्र आलिखितं दृश्यम्-त्रयो ज्यौतिषा नृपतये शुद्धोदनाय बुद्धजनन्या राज्या मायादेव्या दृष्टस्य स्वप्नस्य तात्पर्य व्याचक्षते / तदधः कश्चिल्लेखकस्तत् तात्पर्यव्याख्यानं पुस्तमारोपयति / संभाव्यते येदेतदेव भारतवर्ष लिपिकौशलस्य प्राचीनतमं चित्रार्पितं निदर्शनमिति / नागार्जुनीकोण्डातः (क्रैस्तवद्वितीयशताब्दी)। नवदेहलीस्थ-राष्ट्रियसंग्रहालय-सौजन्यात् /
Page #5
--------------------------------------------------------------------------
________________ साहित्यरत्नकोशे चतुर्थः खण्डः पथमो भागः गद्यसंग्रहः (उपनिषदादि-दार्शनिक-गद्य-ग्रन्थ-संगृहीतः) संकलयिता आचार्य बदरीनाथशुक्ल संपादयिता आचार्य जयमन्तमिश्रः साहित्य अकादेमी
Page #6
--------------------------------------------------------------------------
________________ Gadyasangraha - Vol.IV Part 1: an anthology of Upanishads and Darsanas compiled by Badarinath Shukla and edited by Jayamanta Misra, Sahitya Akademi, New Delhi (1996) Rs. 1201 - (c) Sahitya Akademi First Published 1996 Head Office Sahitya Akademi, Rabindra Bhavan, 35, Ferozeshah Road, New Delhi 110 001 Sales Swati, Mandir Marg, New Delhi 110 001 Regional Offices Jeevan Tara Building, 4th Floor 23A/44X, Diamond Harbour Road, Taratala, Calcutta 600 053 ADA Rangamandira, 109, J.C. Road, Bangalore 560 002 172, Mumbai Marathi Grantha Sangrahalaya Marg, Dadar, Bombay 400 014 Madras Office Guna Building, 2nd Floor, 304-305, Anna Salai, Teynampet, Madras 600 018 ISBN:81-7201-511-9 Price Rs. 120/ Typeset by Print Process Printed at : Nagri Printers, Naveen Shahdara, Delhi- 110032
Page #7
--------------------------------------------------------------------------
________________ अवतरणिका जगजीव-परमेश्वर-विषयक-जिज्ञासासमाधानार्थम् आदिकालतः प्रज्ञावन्तो मनीषिणो विश्वस्मिन् प्रयतमाना दरीदृश्यन्ते। जड-जीव-परमात्म-विवेचन-प्रधाने भारते तु महर्षीणाम्, आचार्याणाम्, नित्यानित्यविवेकशालिनां मतिमतां विदुषाञ्च मानसानि एतद्गभीर-विचारसागर-मन्थनपराणि प्राचीनकालादेव अवलोक्यन्ते। एतद्विचारसागरमथनसमुद्भूतानि दर्शनपथमागतानि विविधानि रत्नानि अद्यापि विनाशयन्ति जाड्यमोह-तमोनिवहम्, अपसारयन्ति नास्तिक मतमत्तङ्गज-तिमिर-निकरम् प्रकाशयन्ति च सदसद्विषयकं ज्ञानराशिम्।अनेन सदसद्विज्ञानेनसतो विशेषता, उपादेयता असतश्च तुच्छता, हेयता विज्ञायते मानव-जीवन-साफल्याय परमपुरुषार्थश्च अवाप्यते। जड-जीव-ब्रह्म-विषयकोऽयं विचारः मन्त्र-ब्राह्मणात्मके वेदे समुपलभ्यते। वेदस्य चरमांशे उपनिषद्रपे तु अयमेव विचारः प्राधान्यमाधत्ते। इममेव उपनिषद्पमाधारमवलम्ब्य गौतम-कणाद-कपिल-पतञ्जलि-जैमिनिबादरायण-महर्षिभिः तत्त्वदर्शिभिः न्याय-वैशेषिक-सांख्ययोग-मीमांसा-वेदान्तरूपाणि दर्शनशास्त्राणि प्रवर्तितानि। एतेषु च विशिष्टेषु सूत्ररूपनिबद्धेषु दर्शनेषु तत्त्वज्ञानशालिनाम् आचार्याणां भाष्याणि वार्त्तिकानि च दर्शनगूढरहस्यानि समुद्घाटयन्ति। तत्र न्यायदर्शने वात्स्यायन-भाष्यम्, उद्योतकरस्य वार्तिकम्, वाचस्पतिमिश्रस्य तात्पर्यम्, जयन्तभट्टस्य न्यायमञ्जरी, उदयनाचार्यस्य तात्पर्यपरिशुद्धिः, गङ्गेशोपाध्यायस्य तत्त्वचिन्तामणिः इत्यादीनि ग्रन्थरत्नानि गूढतत्त्वानि प्रकाशयन्ति; येन प्रमाण-प्रमेय-संशय-प्रयोजन-दृष्टान्त-सिद्धान्तावयव-तर्कनिर्णय-वाद-जल्प-वितण्डा हेत्वाभास-च्छल-जाति-निग्रहस्थानानां षोडशानां पदार्थानां यथार्थज्ञानात् परमपुरुषार्थस्य निःश्रेयसस्याधिगमो भवति। मिथ्याज्ञाननिवृत्तेश्च प्रवृत्ति-जन्मनोरभावात् आत्यन्तिक दुःखाभावो भवति। वैशेषिकदर्शनेप्रशस्तपादभाष्यम्, उदयनाचार्यस्य किरणावली,शङ्करमिश्रस्य उपस्कारः इत्येवमादयो ग्रन्थाः तत्त्वं समुद्घाटयन्ति, येन द्रव्य-गुण-कर्म
Page #8
--------------------------------------------------------------------------
________________ गद्यसंग्रहः सामान्य-विशेष-समवायाभावानां सप्तानां पदार्थानां साधर्म्यवैधाभ्यां यथार्थज्ञानात् परमपुरुषार्थस्यप्राप्तिर्भवति। सांख्यदर्शने ईश्वरकृष्णस्य सांख्यकारिका, गौडपादस्य युक्तिदीपिका, वाचस्पतिमिश्रस्य सांख्यकौमुदी, विज्ञानभिक्षोः सांख्यप्रवचनभाष्यम्', इत्यादीनि ग्रन्थरत्नानि विवेचनपूर्वकम् प्रकृतिपुरुषयोर्याथार्थ्यं प्रकाशयन्ति, येन विवेकज्ञानेन पुरुषार्थो लभ्यते। योगदर्शने व्यासभाष्यम्, वाचस्पतिमिश्रस्य तत्त्ववैशारदी, भोजस्य वृत्तिः, इत्यादयो ग्रन्थाः यम-नियमासन-प्राणायाम-प्रत्याहार-धारणा-ध्यानसमाधिरूपाणाम् अष्टाङ्गयोगानाम् अभ्यासस्य सम्यगुपायं प्रदर्शयन्ति तथा चित्तवृत्तिनिरोधरूपयोगेन ईश्वरप्राप्तिसौलभ्यं निरूपयन्ति। __ मीमांसादर्शने-शाबरभाष्यम् एतट्टीकाकार-भाट्टमतोद्भावक-कुमारिलभट्टस्य श्लोकवार्तिकम्, तन्त्रवार्तिकम्, पार्थसारथिमिश्रस्य तर्करत्नम् श्लोकवार्तिकटीका न्यायरत्नम्, माधवाचार्यस्य न्यायमालाविस्तरः सर्वदर्शनसंग्रहः, खण्डदेवमिश्रस्य भाट्टदीपिका; गुरुमतसंस्थापकस्य प्रभाकरमिश्रस्य शाबरभाष्यटीका बृहती, शालिकनाथमिश्रस्य बृहती टीका 'ऋजुविमला' इत्यादिविशिष्टरचना मीमांसायाः प्रयोजनं धर्माख्यविषयवस्तु, यज्ञादिकं कर्म, तजन्यमपूर्वम् तत्फलञ्चमीमांसन्ते। वेदान्तदर्शने अद्वैतवाद प्रतिपादकस्य शंकराचार्यस्य शारीरक भाष्यम् भेदाभेदवादप्रतिपादकस्य भास्कराचार्यस्य भास्करभाष्यम्, विशिष्टाद्वैतवादप्रतिपादकस्य रामानुजाचार्यस्य श्रीभाष्यम, द्वैतवादप्रतिपादकस्य मध्वाचार्यस्य पूर्णप्रज्ञभाष्यम् द्वैताद्वैतवादप्रतिपादकस्य निम्बार्काचार्यस्य वेदान्तपारिजातभाष्यम् शैवविशिष्टाद्वैतवादप्रतिपादकस्य श्रीकण्ठाचार्यस्य शैवभाष्यम्, वीरशैवविशिष्टाद्वैतवादप्रतिपादकस्य आचार्यश्रीपतेःश्रीकरभाष्यम्,शुद्धाद्वैतवादप्रतिपादकस्य वल्लभाचार्यस्य अणु-भाष्यम् अविभागाद्वैतवादप्रतिपादकस्य आचार्यविज्ञानभिक्षोः विज्ञानामृत-भाष्यम् अचिन्त्यभेदाभेदवादप्रतिपादकस्य आचार्यबलदेवविद्याभूषणस्य गोविन्दभाष्यम् इत्येवमादीनि भाष्याणि तान्येव ब्रह्म-जीव-जगद्-विषयकाणि तत्त्वानि विभिन्नरूपेणनिरूपयन्ति ब्रह्मप्रमोदार्णवमधिगन्तुं मार्गाणि प्रदर्शयन्ति। यथाहि गङ्गाद्याः सरितः सर्वाः विभिन्नमार्गः प्रवहमाना नामरूपे विहाय महार्णवं प्रविशन्ति, तथैव ऋजुकुटिलनानापथानुसारिणो
Page #9
--------------------------------------------------------------------------
________________ vii अवतरणिका विभिन्नप्रस्थानुगमिनो मानवास्तमेव ब्रह्मार्णवमधिगच्छन्तीतिमतंप्रदर्शयन्ति एतानि सर्वाणि शास्त्राणि। पूर्वोक्त-सूत्र-वार्तिक-भाष्य-टीका-व्याख्याकारेभ्योऽतिरिक्ता अपि अनेके मनीषिणः आचार्याः इमं विषयं विभिन्नरूपेणन्यरूपयन् निरूपयन्ति च, तत्र केचन देहात्मवादमपि स्थापयितुं चेष्टन्ते। प्रस्तुत संग्रहेऽस्मिन् आस्तिकमतप्रतिपादकगद्यानां संग्रहेण सह क्वचित् पूर्वपक्षस्थापनाय, क्वचिदप्रतिष्ठतर्कमूलकदेहात्मवादसंभाव्यता प्रदर्शनाय क्वचित् च मनोविनोदाय नास्तिकमतनिरूपकगद्यखण्डानामपि समावेशो वर्तते। 'गद्य-संग्रह'-कलेवरम् नानुभवतु तुन्दिलतादोषकष्टमिति विचार्य आचार्यशुक्ल महाभागः निम्नलिखितेभ्य एव दार्शनिकगद्यग्रन्थेभ्यः सम्बद्ध-विषयकगद्य-शकलानि समग्रहीत्। तत्र गृहीतगद्यग्रन्थानां कालिकपौर्वापर्यमनादृत्य प्रतिपाद्य-विषयक-सम्बन्धमेव समाद्रियत। एवञ्च संग्रहक्रमेण मुण्डक तैत्तिरीय-च्छान्दोग्योपनिषद्भ्यः, ब्रह्मसूत्रत्रशांकरभाष्य-भामतीभगवद्गीताशांकरभाष्य-रामानुजाचार्यकृतवेदार्थसंग्रह-श्रीभाष्य-तत्त्वप्रकाशिका पारिजातसौरभ-मध्वदर्शन-सर्वदर्शनसंग्रह-वल्लभवेदान्त-शुद्धाद्वैत-मार्तण्डप्रमेयरत्नार्णव-गौडीयवैष्णवदर्शन-भागवत-षट्सन्दर्भगततत्त्वसन्दर्भेश्वर प्रत्यभिज्ञाविमर्शिनी-महेश्वरानन्दकृत महार्थमञ्जरी-सौन्दर्यलहरीसांख्यतत्त्वकौमुदी-योगसूत्रभाष्य-न्यायदर्शनवात्स्यायनभाष्य-न्यायवार्तिकन्यायकुसुमाञ्जल्यात्मतत्त्वविवेक-न्यायमञ्जरी-प्रशस्तपादभाष्यमीमांसाशाबर भाष्य-हेमचन्द्राचार्यकृत-प्रमाणमीमांसा-हरिभद्रसूरिकृतशास्त्रवार्तासमुच्चय-जैनदर्शनस्याद्वादमञ्जरी-बौद्धदर्शनतत्त्वसंग्रह-सौगत-सिद्धान्तसारसंग्रह-श्री राखालदासकृत न्यायरत्न-तत्त्वसार-बदरीनाथशुक्लप्रणीत-निबन्धतत्त्वोपप्लवग्रन्थेभ्यो गद्यखण्डानि अत्र संगृहीतानि। संस्कृतवाङ्मये दार्शनिकविचाराणां क्षेत्राणि विशालानिसाधारणमानवैरगम्यानि सन्ति। तद्विचाराणामेकत्र संक्षेपेण संग्रहं कुर्वाणेन आचार्यवरेण बदरीनाथशुक्लमहाभागेन जिज्ञासूनां कृते कृतो महानुपकारः। गद्यरचनाविधानदृष्ट्या संग्रहेऽस्मिन्
Page #10
--------------------------------------------------------------------------
________________ viii गद्यसंग्रहः गद्यस्य सकलानां भेदानां चूर्ण-पद्य-गन्ध्युत्कलिकाप्रायरूपाणाम् उदाहरणानि समुपलभ्यन्ते। जगजीव परमेश्वर-जिज्ञासूनां जिज्ञासा-समाधानाय तत्त्वज्ञानपिपासूनां पिपासा-शमनाय च दार्शनिकगद्यसंग्रहोऽयंभूयादिति निश्चिन्वानः साहित्य अकादमी ति संस्थायाः अधिकारि-प्रमुखान् एतद्ग्रन्थ-प्रकाशनार्थं भूयोभूयोधन्यवादैः समाजयति जयमन्तमिश्रः
Page #11
--------------------------------------------------------------------------
________________ प्राक्तनं निवेदनम् प्रस्तुतदार्शनिकग्रन्थसंग्रहो दिल्लीस्थितायाः साहित्य-अकादेमी नाम्ना प्रसिद्धायाः साहित्यसंस्थाया आमन्त्रणमाधृत्य विहितः। अस्मिन् भारतस्य प्रमुखाणां संस्कृतभाषया लिखितानां दर्शनोत्कृष्टग्रन्थानां तादृशि गद्यानि संकलितानि येषां वाचने कष्टं श्रवणेकर्णकटुता चिन्तने मानस: क्लेशश्च नानुभूयेरन्। संकलने इदमपि ध्यातं यत् संगृहीतगद्यानां प्रतिपाद्यो विषयस्तद्भागादेवावगम्येत, तदवगतये ग्रन्थस्य भागान्तरं विशेषजिज्ञासानुदये नापेक्ष्येत, प्रतिगद्यशीर्षके तत्प्रतिपाद्यो विषयश्च संकेत्येत येन तं संक्षेपतो विज्ञायाध्येतारः पूर्णगद्याध्ययने सोत्कण्ठं प्रवर्तेरन्। गद्यानामुपन्यासक्रम इतिहासविदां दृष्टिं नापेक्ष्य दशमशताब्द्याः प्रसिद्धस्य श्रीमत उदयनाचार्यस्य "जन्मसंस्कारविद्यादेः शक्तेः स्वाध्यायकर्मणोः। ह्रासदर्शनतोह्रासः सम्प्रदायस्य मीयताम्" इति वचसा व्यज्यमानां "मानवचरित्रे आध्यात्मिकताक्षेत्रेचदेशोऽयमुत्तरोत्तरमपचीयमानो विद्यत" इति भारतीयमान्यतां स्वीकृत्य कृतो यः सम्भवतो बहुभ्यो न रोचेत। अत्र मया आत्मनो रुचिरेव प्रधानीकृता। एतदर्थं विद्वांसः क्षमादानार्थ साञ्जलिबन्धं प्रार्थ्यन्ते। संगृहीतानि गद्यानि नैगद्येन बुद्धिमतोऽध्येतॄन् स्वार्थमवबोधयितुं स्वयं सक्षमाणीति तदर्थं कञ्चन विस्तृतं परिचयं पार्थक्येन प्रदेयतयाऽनतिप्रयोजनकं मन्यमानस्तेभ्यो विरतोऽभूवम्। निर्दिष्टां भारतीयमान्यतामनुसृत्य कृतो गद्यसंग्रहोपन्यासक्रमो वक्ष्यमाणो विद्यते: 1. उपनिषद्भ्यः 2. वेदान्तस्य प्रमुखशाखानां विशिष्टग्रन्थतः 3. प्रत्यभिज्ञादर्शनग्रन्थतः 4. सांख्ययोगग्रन्थतः 5. न्यायवैशेषिकग्रन्थतः 6. पूर्वमीमांसाग्रन्थतः 7. जैनदर्शनग्रन्थतः 8. बौद्धदर्शनग्रन्थतः
Page #12
--------------------------------------------------------------------------
________________ गद्यसंग्रहः 9. मनआत्मवादिशश्रीराखालदासन्यायरत्नग्रन्थतः 10. मनस उपकरणत्वे देहस्यात्मत्वसाधकात् स्वग्रन्थतः 11. केवलस्य नित्यमनोरहितस्य देहस्यात्मत्ववादि चार्वाकमतानुसारिग्रन्थतः दर्शनजिज्ञासूनां सेवया स्वात्मानं धन्यं मन्यमानो बदरीनाथशुक्लः
Page #13
--------------------------------------------------------------------------
________________ विषयानुक्रमणिका v-viii ix-x 1-2 3-8 अवतरणिका प्राक्तनं निवेदनम् मुण्डकोपनिषदः द्वविद्ये परा अपरा च, अपराया विषयो जगत् पराया:विषयो जगत्कारणं ब्रह्म। 2. तैत्तिरीयोपनिषदः अधीतविद्यस्य गुरुकुलाद्गृहं प्रत्यावर्तमानस्य गुरुणाऽनु शासनम्। 3. आनन्दस्य मीमांसा ब्रह्मानन्द एव सर्वश्रेष्ठ आनन्दः। 4. छान्दोग्योपनिषदः पञ्चाग्निविधा-आदित्यः पर्जन्यः पृथिवी पुरुषः योषित् इति पञ्चाग्नयः। एकस्य ब्रह्मणो विज्ञानेन सर्वविज्ञानं भवति। सतो ब्रह्मतत्त्वादेव विश्वस्योद्भवः / भूमा सुखं नाल्पे सुखम्, भूमा च ब्रह्मैव य आत्मा सर्वेषां प्रजापतिः ...... आत्माज्ञानः 5. बृहदारण्यकोपनिषदः याज्ञवल्क्यस्य मैत्रेयी प्रत्युपदेशः।तिसृणामेषणानाम् निरसनात् ब्रह्मज्ञानम् ततो ब्रह्मत्वलाभः। प्रजाप्रतिना उपदिष्टस्य 'द' इत्येकमक्षरस्य ज्ञानेन देवेषु दमस्य, मनुषेषु दानस्य असुरेषु दयायाः शिक्षा। 6. शाङ्करब्रह्मसूत्रभाष्यात् लोकव्यवहारोऽध्यासमूलकः, अध्यासश्चमिथ्याज्ञानम्। चिदचिदोः अन्योऽन्यतादात्म्यग्रहणम्। तत्परिहारश्च .... अनुपपत्तिशङ्का ब्रह्मशास्त्रैकगम्यम् ,शास्त्रंचवेदान्तापरपर्यायम्उपनिषद्रूपम्। 8-10 11-13
Page #14
--------------------------------------------------------------------------
________________ xii गद्यसंग्रहः 15-16 16-17 18-19 7. भामतीग्रन्थात् असत् ख्यातिनिरासः ब्रह्मैवैकं सत्। तदन्यत् सर्वम् अनिर्वचनीयं सत्त्वासत्त्वाभ्याम् / 8. श्रीमद् भगवद्गीता-शांकरभाष्यात् वैदिकधर्मस्य द्वैविध्यम् प्रवृत्ति-निवृत्ति-लक्षणाभ्याम् / 9. श्रीरामानुजाचार्य कृत-वेदार्थ संग्रहात् सर्वं वेदान्तवाक्यजातं ब्रह्मानुभवज्ञापने प्रवृत्तम् / ज्ञानानन्दैकगुणो जीवः सर्वेषां समानः। अनन्तगुणगणागारो ....... भगवान् / पुरुषोत्तमो नारायणो भक्त्येकलभ्यः / 10. श्रीभाष्यात् अविद्या जगन्मूलम्, तन्निर्वहणाय निर्विशेषब्रह्मात्मैकत्वविद्या-प्रतिपत्तये सर्वे वेदान्ताः प्रवृत्ताः इत्यद्वैतवादिनां पूर्वपक्षः। अद्वैतवादिनां मायावादोपजीविनः पूर्वपक्षस्य खण्डनम्।प्रमाणाभावाद्वस्तुन निर्विशेषं किन्तु सविशेषमेव। अतो निर्विशेषं ब्रह्म नास्ति / निर्विकल्पक प्रत्यक्षमपि निर्विशेषं- नावगाहते। 11. तत्त्वप्रदीपिका चित्सुखीतः लक्षणप्रमाणाभ्यां भावाभावविलक्षणस्य अज्ञानस्य सिद्धिः। खण्डनखण्डखाद्यात् प्रमाणादीनां सत्त्वं स्वीकृत्यैव वादिभिः कथा प्रवर्तयितुं शक्येत्येतस्य खण्डनम्।अद्वैतं पारमार्थिकतया आविद्यकैस्तकैर्बाधितुमशक्यम् / अनुभवत्वस्य जातित्वनिरासः। अद्वैतसिद्धितः कथाप्रवृत्तये मध्यस्थेन विप्रतिपत्तिप्रदर्शनस्यावश्य- कर्तव्यतासाधनम् / दृष्टि सृष्टयुपपत्ति:- जगन्मिथ्यात्वसिद्ध्यनुगुणायाः दृष्टिसृष्टेः स्वरूपम् / 20-21 21-24 13. 25-26 .
Page #15
--------------------------------------------------------------------------
________________ xiii 26-27 15. 27-29 29-31 विषयानुक्रमणिका 14. रामानुजोक्तगीताभाष्यात् परब्रह्मभूतो भगवान् कृष्ण: युद्धाय अर्जुनस्य प्रोत्साहव्याजेन वेदान्तोक्तभक्तियोगमेवा-वतारयामासेति गीतोद्धारः। निम्बार्कवेदान्त-पारिजातसौरभात् अथातो ब्रह्मजिज्ञासा, जन्माद्यस्य यतः, शास्त्रयोनित्वात्, तत्तु समन्वयात् / 16. मध्वदर्शने-सर्वदर्शन-संग्रहात् तत्त्वमसीत्यादिवेदान्त वाक्य विषयकविचारः 17. वल्लभवेदान्ते शुद्धाद्वैत-मार्तण्डात् 32-33 तत्त्वमसीति वाक्यार्थविषयिणी विभिन्ना दृष्टिः। आचार्ये भगवत्त्वबुद्ध्या तद्भजनादेव पुरुषोत्तमो लभ्यः। 18. प्रमेयरत्नार्णवात्। 33-39 जगतो ब्रह्मरूपतैव सत्या, विभिन्नदृशाभानन्तु योग्यताभेदात्। भगवतः प्रतिमा भगवानेव, तत्रान्यथाबुद्धिः न कार्या / जीवस्वरूपम्। जीवो ब्रह्मणोऽभिन्नस्तस्याणुः अंशः, तस्य मोक्षप्राप्तिप्रकारो भेदश्च। मूल-स्वरूपम्। पुष्टिस्वरूपम् भगवतोऽनुग्रह एव पुष्टिः सा चतुर्विधपुरुषार्थसाधिका। पुष्टिमार्गस्थैःलभ्यस्य फलस्य स्वरूपम्। निरोधलीलायाः स्वरूपम् तस्यास्त्रैविध्यं च। 19. गौडीयवैष्णवदर्शने भागवत-षट्सन्दर्भे तत्त्वसन्दर्भात् 40-42 पुराणमपि वेदरूपतया प्रमाणम् ,गायत्रीमधिकृत्य प्रवर्तितं समाधौ वेदव्यासेन लब्धं भागवतमेव मूर्धन्यं प्रमाणम्। 20. प्रत्यभिज्ञादर्शने-ईश्वर-प्रत्यभिज्ञा-विमर्शिनीतः अभिनवगुप्ताचार्यस्य व्यवहारसाधनानांव्यवहर्तव्यविषयकमोहापसारणमात्रफलकत्वम्। भगवानेव ज्ञानस्मृत्यपोहनशक्तिभिः विश्वव्यवहारप्रवर्तकः। अन्यनिरपेक्षताया एव परमार्थत आनन्दरूपता,सा चाजडनिष्ठेवाप्रकाशेअहमाकारः प्रत्यवमर्श एव, नविकल्पः तत्राप्रकाशसम्भावनादेरसम्भवेन व्यपोहनीयाभावात्। परमेश्वर एव प्रमाता न देहादिः विश्वं तदन्तर्गतमेव। 42-47
Page #16
--------------------------------------------------------------------------
________________ 47-54 55-59 गद्यसंग्रहः 21. महेश्वरानन्दस्य -महार्थमञ्जरीतः आत्मनः परमेश्वराभेदविस्मरणादेव क्लेशः। जीवस्य प्रत्यभिज्ञैव शरणम्। समग्रप्रपञ्चः परमेश्वरप्रकाशात्मकतयाऽभिन्नः। सर्वज्ञः सर्वकर्ता पूर्णः स्वतन्त्रः परमात्मैव कलादिकञ्चकपञ्चकवशाद् जीवत्वमापद्यते। परमेश्वरोपासनाक्रमे प्राणायामस्य महत्त्वम्। हृदयं खलु प्रकाशविमर्शमेलापलक्षणम् अन्तस्तत्त्वम्, संसारव्यसननिवृत्तये तद्विषयेभ्यः परावृत्य प्रत्यगानन्दस्वरूपे स्वात्मनि योजनीयम्। 22. सौन्दर्यलहरीतः सादाख्या कला शुद्धविद्या सदाशिवेन मिलिता षड्विंशतत्त्वरूपतां भगवती एव परमात्मेत्येवं शिवशक्त्योरैक्यम्। त्रैवर्णिकैः श्रीचक्रस्य बाह्यपूजनं न कार्यं किन्तु तादात्म्यानुसन्धानात्मकमान्तरपूजनमेव कार्यम्। षड्विधैक्यानुसन्धानमहिम्ना गुरुकृपालब्धमहावेद्यमहिम्ना च भगवती मणिपूरे प्रत्यक्षा भवति। निर्दु:खस्य सायुज्यं प्राप्तस्य शिवशक्त्योरेकात्मतैव मुक्तिः। 23. न्यायदर्शने वात्स्यायनभाष्यात् ज्ञानस्य प्रामाण्यं प्रवृत्तिसामर्थ्यादनुमेयम्, ज्ञानस्यार्थगोचरत्वे प्रमाता, प्रमाणं, प्रमेयं, प्रमितिरिति विद्यासु अर्थतत्त्वं परिसमाप्यते, सद् असद् द्विविधं वस्तु, उभयमपि प्रमाणवेद्यम् / आत्मनोऽनुमापका हेतवः तत्प्रयोगप्रकार स्वदुः खाना-मात्यन्तिकनिवृत्तिमोक्षः, न तत्र सुखं तदभिव्यक्तिर्वा। ऋणक्लेशप्रवृत्तिभिः अपवर्गस्यानुपपत्तिशङ्का। ऋणादिभिः अपवर्गानुपपत्तिशङ्कापरिहारः। 24. न्यायवार्तिकात् दु:खं मुख्यगौणभेदादेकविंशतिप्रकारः। संसारोऽनादिः, तत्त्वज्ञानेन आत्मनो मूलस्य मिथ्याज्ञानस्य निवृत्तौ निवर्तते। 60-66 66-67
Page #17
--------------------------------------------------------------------------
________________ विषयानुक्रमणिका 67-73 73-77 25. सांख्यतत्त्वकौमुदीतः जिज्ञासितं ब्रुवन्नेव लोके आद्रियते, जिज्ञासितं दुःखत्रयाभिधातोपायं ब्रुवतः सांख्याचार्यस्य वचो नूनं श्रोतव्यम् / लोकदृष्टोपायात् दुःखं नैकान्ततोः निवर्तते।वेददृष्टादुपायादपि नैकान्ततो निवृत्तिःदु:खानाम्।प्रकृतिपुरुषयो:विवेकज्ञानादेव दु:खानामेकान्ततोनिवृत्तिः संभवति नान्यथा,उक्तविवेकज्ञानस्योपयोगः। अचेतनापि प्रकृतिः पुंसो मोक्षाय प्रवर्तते वत्सस्य जीवनाय गोः पय इव। 26. योगसूत्रभाष्यात् योगनिष्पत्तेः उपायः / वितर्कबाधने प्रतिपक्षभावनम्। संस्कारान् साक्षात्कृत्य योगीपूर्वं जन्म जानाति / संसारबीजक्षये धर्ममेध-समाधिर्जायते, तं प्राप्तस्य योगिनो ज्ञानस्य अनन्तो विस्तारो भवति, किमपि तस्य अज्ञातं नावशिष्यते। कूटार्थनित्यता पुंसः परिणामि नित्यता सत्त्वादिगुणानाम्। प्रकृते: विविच्य तिष्ठतः पुसः स्वरूपे प्रतिष्ठानरूपं कैवल्यं जायते। 27. न्यायकुसुमाञ्जलितः येन केनापिरूपेण ईश्वरः सर्वमान्यः, वास्तविकस्य तत्स्वरूपस्य निर्णयाय तदनुमानात्मकं मननमावश्यकम्। विश्वम्, अलौकिकहेतुकम्, अलौकिकहेतुश्च विहितनिषिद्धक्रियाजन्यं धर्माधर्माकमदृष्टम् / कर्मणांकालान्तरभाविफलजनकताया उपपत्तयेतदीयद्वार रूपेण अदृष्टस्याभ्युपगमोऽनिवार्यः / भावस्येव अभावस्यापि हेतुत्वं दुस्तर्कसिद्धम्। नित्यस्य विभोः कारणत्वांनुपपत्तिशङ्का तत्परिहारश्च। 28. न्यायकुसुमाञ्जलि-द्वितीयस्तबकात् धर्मसम्प्रदायः परमैश्वरैकमूलकः। सृष्टेः सादित्वमनुमानसाक्षिकं शास्त्रसाक्षिकञ्च / ब्रह्माण्डे विलीने तदन्तर्गतानां 78-82 82-88
Page #18
--------------------------------------------------------------------------
________________ xvi 93-100 गद्यसंग्रहः प्राणिनां दशा। वैदिकसम्प्रदाय स्य हासप्रकारवर्णनम्। वेदास्तित्वं महाजनपरिग्रहायत्तम्। धर्मसम्प्रदायप्रवर्तने ईश्वरादन्यो न विश्वासार्ह : 29. न्यायकुसुमाञ्जलि-तृतीयस्तबकात् 88-91 योग्यानुपलब्धेरेवाभावग्राहकतयाननुपलब्ध्या ईश्वराभावोग्रहणार्ह : अनुपलब्धिरेवभावग्राहिकेति चार्वाकमतम-- संगतम्। अनुपलभ्यमानोपाधिवशादनुमानप्रमाणानुप पत्तिशङ्का तत्परिहारश्च। 30. न्यायकुसुमाञ्जलि - पञ्चमस्तबकात् 91-93 वृद्धव्यवहारादीश्वरसिद्धिप्रकारः। वेदकर्तृत्वेनेश्वर सिद्धिः। कृत्स्नवेदप्रतिपाद्यतया ईश्वरसिद्धिः। 31. आत्मतत्त्वविवेकात् आत्मतत्त्वज्ञानादेव आत्यन्तिकी दु:खनिवृत्तिः / प्रयोजनानुरोधेनापोहस्वीकारनिरासः। बाह्यार्थ-भङ्गवादः। क्षणिकं विज्ञानमेव वस्तु, तदन्यत् सर्वमवस्तुभूतमिति बौद्धानां विज्ञानवादस्यालोचनम् / आत्मास्तित्वे प्रमाणम्। वेदागम एवं सर्वज्ञ-प्रणीतः। 32. न्यायमञ्जरीतः 101-110 पुरुषार्थकामैः शास्त्रस्यैव शरणं ग्राह्यम्। चतुर्दशविद्यास्थानानि-विद्यास्थानेषु मुख्यानां वेदानां प्रामाण्यप्रतिष्ठापकतया अक्षपादस्य न्यायशास्त्रमेव विद्यास्थानानां प्राणप्रदम्। पद-वाक्य-स्वरूप-निरूपणसन्दर्भ स्फोटविषयक-विस्तृतिपूर्वकं स्फोटसिद्धान्तस्य तत्प्रतिकूलमालोचनम्। 33 वैशेषिकदर्शने प्रशस्तपादभाष्यात् सृष्टिसंहारप्रकरणम् / आत्मप्रकरणम् / धमलक्षणम् / / अधर्मप्रकरणम् / संसारापवर्गप्रकरणम् / विशेषप्रकरणम् / समवायप्रकरणम् / 110-115
Page #19
--------------------------------------------------------------------------
________________ विषयानुक्रमणिका xvii 34. मीमांसादर्शने मीमांसाशाबरभाष्यात् 115-127 वेदमधीत्य समावर्तनात् पूर्वं धर्मो जिज्ञासितव्यः। यः पुंसां वेदवेद्यः श्रेयस्करः स धर्मः। शब्दप्रामाण्ये आक्षेपः।शब्दार्थसम्बन्धस्य अपौरुषेयतया शब्दप्रामाण्यस्य समर्थनम्। शब्दार्थसम्बन्धे आक्षेपः तत्परिहारञ्च, अक्षराणां शब्दत्वसमर्थनम्। आकृतेः गवादि शब्दार्थत्वसाधनम्। सम्बन्धकस्य पुंसोऽसिद्धया शब्दार्थसम्बन्धस्य अपौरुषेयत्वम् / वेदानुक्तानि कर्माणि नापेक्ष्याणि, इति पक्षोपस्थापनम्। वैदिककर्म स्मार्तकर्मकृतामभिन्नतया स्मार्तकर्मणांतदनुमितवेदमूलकतया प्रामाणिकत्वम्। श्रुतिविरुद्धाःस्मृतयोऽप्रमाणम्।औदुम्बर्या:सर्ववेष्टन-स्पर्शनयोः विकल्पविधित्वखण्डनम्। अपूर्वमाख्यातपदप्रतिपाद्यम्। अस्त्यपूर्वम्। 35. जैनदर्शने हेमचन्द्राचार्यकृत-प्रमाणमीमांसातः वस्तुनोऽनेकान्तात्मकता। व्याप्तिज्ञानौपयिकस्य ऊहज्ञानस्य स्वरूपम्। 36. हरिभद्रसूरिकृत-शास्त्रवार्तासमुच्चयात् 134-136 सुखदुःख-विवेकः। 37. जैनदर्शने स्याद्वादमञ्जरीतः 136-140 श्रीवर्धमानस्वरूपम्। सप्तभङ्गी। बौद्धदर्शने तत्त्वसंग्रह-प्रथमभागात् 140-142 शास्त्रारम्भे शास्त्रस्य आसाधारणक्रियात्मकं प्रयोजनं वक्तव्यम्। अनन्तैः गुणैः भगवतः स्तोतुमशक्यतया गुणविशेषेणैव स स्तोतव्यः तत्त्वसंग्रहद्वितीयभागात् रागादीनामात्मात्मीयग्रहमूलकत्वेन नैरात्म्यदर्शनान्निवृत्तिः। आत्मदर्शनं कल्पितविषयकतया दुर्बलत्वाद् अकल्पितविषयकेण बलवता नैरात्म्यदर्शनेनैव बाध्यते। 128-134 142-148
Page #20
--------------------------------------------------------------------------
________________ xviii 149-164 गद्यसंग्रहः 39. सौगतसिद्धान्तसारसंग्रहात् प्रतीत्यसमुत्पादस्य द्वैविध्यम् / सर्वधर्माणां मृषात्वं जानतः संसारो न भवति / शून्यताया निर्वाणत्वोक्त्या नास्तिक्यं न भवति।नास्तिकमाध्यमिकयोर्भेदः। निर्वाण बोधोपायतया संवृतिरभ्युपगन्तव्या।अशेषकल्पनाक्षयो निर्वाणं, सैवशून्यता। अन्यथात्वेन भावानां सस्वभावतासाधनम्।अव्यभिचारिणो धर्मस्यैव स्वभावतया अन्यथात्वं सस्वभावताबाधकम्। संसारिणोऽभावेन संसरणस्यासाम्भवतया नसंसारेण भावानां स्वभावः सिद्ध्यति।निर्वाणस्याभावेन तत्प्रतिद्वन्द्विकतयाऽपि संसारो न सिद्ध्यतिः अस्ति संसारः संभवति निर्वाणमितिग्रहोः मुमुक्षुभिस्त्याज्यः। यः स्वं परं च पश्यति सः संसारे विपद्यते, य आर्यसत्यानां यथार्थद्रष्टा स स्वपरयोरदर्शनेन मुच्यते। सर्वप्रपञ्चनिवृत्तिलक्षणाशून्यतैव निर्वाणं तच्च नैरात्म्यदर्शनाजायते। अधिकारिभेदेन आत्मनैरात्म्यादीनां मिथविरुद्धानामपि उपदेशस्य सार्थक्यम्। निषिद्धे निर्वाणे तदौपयिकबुद्धदेशनायाः धर्मसत्त्वादीनां वस्तुतोऽसत्त्वेन वैयर्थ्यशङ्कानिरासः। आध्यात्मिकस्य प्रतीत्यसमुत्पादस्य हेतूपनिबन्धेषु प्रत्ययोपनिबन्धेषु च न कस्यापि तत्कार्यकारित्वावबोधः। अविद्यायाः स्वरूपं तन्मूलाः क्लेशा उपक्लेशाश्च। 40. तत्त्वसारात् जीव विचारः। मनसोऽणुत्वम्। जीवस्वरूपम्। 41. आचार्य बदरीनाथ शुक्लप्रणीत-निबन्धात् आत्म-विचारप्रसङ्गे न्यायशास्त्रीयविचार-पद्धत्या देहात्म वादस्य सम्भाव्यता। 42. तत्त्वोपप्लवग्रन्थात् आत्मानुमानस्य निरासः। नैयायिकादि संमतस्यात्मानुमानस्य निरासः। तथागतसंमतस्यानुमानस्य निरासः शब्दप्रामाण्यनिरास: विवक्षासूचकत्वेन शब्दप्रामाण्यं स्वीकुर्वतां मतस्य खण्डनम्। 165-171 171-185 186-200
Page #21
--------------------------------------------------------------------------
________________ मुण्डकोपनिषदः द्वे विद्ये परा अपरा च, अपरायाः विषयो जगत्, परायाः विषयो जगत्कारणं ब्रह्म शौनको ह वै महाशालोऽङ्गिरसं विधिवदुपसन्नः प्रपच्छ। कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवतीति // 3 // तस्मै स होवाच। द्वे विद्ये वेदितव्ये इति ह स्म यद्ब्रह्मविदो वदन्ति परा चैवापरा च // 4 // तत्रापरा ऋग्वेदो यजुर्वेदः सामवेदोऽथर्ववेदः शिक्षा कल्पो व्याकरणं निरुक्तं छन्दो ज्योतिषमिति / अथ परा यया तदक्षरमधिगम्यते / / 5 / / यत्तद्देश्यमग्राह्यमगोत्रमवर्णमचक्षुःश्रोत्रं तदपाणिपादं नित्यं विभुं सर्वगतं सुसूक्ष्मं तदव्ययं यद् भूतयोनिं परिपश्यन्ति धीराः // 6 // यथोर्णनाभिः सृजते गृह्णते च यथा पृथिव्यामोषधयः संभवन्ति। यथा सतः पुरुषात्केशलोमानि तथाऽक्षरात्संभवतीह विश्वम् // 7 // तपसा चीयते ब्रह्म ततोऽन्नमभिजायते। अन्नात्प्राणो मनः सत्यं लोकाः कर्मसु चामृतम् / / 8 // यः सर्वज्ञः सर्वविद्यस्य ज्ञानमयं तपः। तस्मादेतद् ब्रह्म नाम रूपमन्नं च जायते // 9 // तैत्तिरीयोपनिषदः अधीतविद्यस्य गुरुकुलाद् गृहं प्रत्यावर्तमानस्य गुरुणाऽनुशासनम् वेदमनूच्याचार्योऽन्तेवासिनमनुशास्ति / सत्यं वद // धर्म चर / / स्वाध्यायान्मा प्रमदः // आचार्याय प्रियं धनमाहृत्य प्रजातन्तुं मा व्यवच्छेत्सी:। सत्यान्न प्रमदितव्यम्। धर्मान्न प्रमदितव्यम्। कुशलान्न प्रमदितव्यम्। भूत्यै न प्रमदितव्यम् / / स्वाध्यायप्रवचनाभ्यां न प्रमदितव्यम् // 1 // देवपितृकार्याभ्यां न प्रमदितव्यम्। मातृदेवो भव // पितृदेवो भव / आचार्यदेवो भव // अतिथिदेवो भव // यान्यनवद्यानि कर्माणि तानि सेवितव्यानि / नो इतराणि // यान्यस्माकं सुचरितानि तानि त्वयोपास्यानि // 2 // नो इतराणि // ये के चास्मच्छ्रेयांसो ब्राह्मणाः। तेषां त्वयाऽऽसनेन प्रश्वसितव्यम्। श्रद्धया देयम्। अश्रद्धयाऽदेयम्।, श्रिया देयम्। ह्रिया देयम्। भिया देयम्। संविदा देयम् // अथ यदि ते कर्मवि
Page #22
--------------------------------------------------------------------------
________________ गद्यसंग्रहः चिकित्सा वा वृत्तविचिकित्सा वा स्यात् // 3 // ये तत्र ब्राह्मणाः संमर्शिनः। युक्ता आयुक्ताः // अलूक्षा धर्मकामाः स्युः। यथा ते तत्र वर्तेरन्। तथा तेषु वर्तेथाः। एष आदेशः // एष उपदेशः // एषा वेदोपनिषत् // एतदनु-शासनम्। एवमुपासितव्यम् / एवमु चैतदुपास्यम् / / आनदस्य मीमांसा ब्रह्मानन्द एव सर्वश्रेष्ठ आनन्दः भीषाऽस्माद्वातः पवते / / भीषोदेति सूर्यः॥भीषाऽस्मादग्निश्चेन्द्रश्च // मृत्युर्धावति पञ्चमः // इति / सैषाऽऽनन्दस्य मीमांसा भवति // युवा स्यात्साधुः युवाऽध्यापकः।। आशिष्ठो द्रढिष्ठो बलिष्ठः॥ तस्येयं पृथिवी सर्वा वित्तस्य पूर्णा स्यात्। स एको मानुष आनन्दः / ते ये शतं मानुषा आनन्दाः स एको मनुष्यगन्धर्वाणामानन्दः॥ श्रोत्रियस्य चाकामहतस्य॥ते ये शतं मनुष्यगन्धर्वाणामानन्दः॥सएको देवगन्धर्वाणामानन्दः / श्रोत्रियस्य चाकामहतस्य / ते ये शतं देवगन्धर्वाणामानन्दाः / स एकः पितृणां चिरलोकलोकानामानन्दः // श्रोत्रिस्य चाकामहतस्य // ते ये शतं पितृणां चिरलोकलोकानामानन्दाः / स एक आजानजानां देवानामानन्दः / श्रोत्रियस्य चाकामहतस्य। ते ये शतमाजानजानां देवानामानन्दाः। स एकः कर्मदेवानां देवानामानन्दः // ये कर्मणा देवांनपियन्ति / श्रोत्रियस्य चाकामहतस्य // ते ये शतं कर्मदेवानां देवानामानन्दाः / स एको देवानामानन्दः // श्रोत्रियस्य चाकामहतस्य / ते ये शतं देवानामानन्दाः // स एक इन्द्रस्यानन्दः॥३॥श्रोत्रियस्य चाकामहतस्य / ते ये शतमिन्द्रस्यानन्दाः ॥स एको बृहस्पतेरानन्दः।। श्रोत्रियस्य चाकामहतस्य। ते ये शतं बृहस्पतेरानन्दाः। स एकः प्रजापतेरानन्दः। श्रोत्रियस्य चाकामहतस्य / ते ये शतं प्रजापतेरानन्दाः // स एको ब्रह्मणो आनन्दः / श्रोत्रियस्य चाकामहतस्य // 8 // स यश्चायं पुरुषे / / यश्चासावादित्ये / स एकः // स य एवंवित् / अस्माल्लोकात्प्रेत्य // एतमन्नमयमात्मानमुपसंक्रामति / एतं प्राणमयमात्मानमुपसंक्रामति // एतं मनोमयमात्मानमुपसंक्रामति' // एतं विज्ञानमयमात्मानमुपसंक्रामति / / एतमानन्दमयमात्मानमुपसंक्रामति / /
Page #23
--------------------------------------------------------------------------
________________ छान्दोग्योपनिषदः पञ्चाग्निविधा- आदित्यः, पर्जन्यः, पृथिवी, पुरुषः योषिद् इति पञ्चाग्नयः श्वेतकेतुर्हाऽऽरुणेयः पञ्चालानां समितिमेयाय, तं ह प्रवाहणो जैवलिरुवाच कुमारानु त्वाशिषत्पितेत्यनु हि भगव इति // 1 // वेत्थ यदि तोऽधि प्रजाः प्रयन्तीति / न भगव इति, वेत्थ यथा पुनरावर्तन्त 3 इति / न भगव इति, वेत्थ पथोर्देवयानस्य पितृयाणस्य च व्यावर्तना 3 इति / न भगव इति / / 2 / / वेत्थ यथाऽसौ लोको न संपूर्यत 3 इति / न भगव इति, वेत्थ यथा पञ्चम्यामाहुतावापः पुरुषवचसो भवन्तीति / नैव भगव इति // 3 // अथानु किमनु शिष्ठोऽवोचथा, यो हीमानि न विद्यात्कथं सोऽनुशिष्टो ब्रुवीतेति, स हाऽऽयस्तः पितुरर्धमेयाय तं होवाचाननुशिष्य वाव किल मा भगवानब्रवीदनु त्वाशिषमिति // 4 // पञ्च मा राजन्यबन्धुः प्रश्नानप्राक्षीत्तेषां नैकं च नाशकं विवक्तुमिति, स होवाच यथा मा त्वं तदैतानवदो यथाऽहमेषां नैकं च न वेद / यद्यहमिमानवेदिष्यं कथं ते नावक्ष्यमिति // 5 // स ह गौतमो राज्ञोऽर्धमेयाय, तस्मै ह प्राप्तायाहाँचकार, स ह प्रातः सभाग उदयाय, तं होवाच मानुषस्य भगवन्गौतम वित्तस्य वरं वृणीथा इति, स होवाच तवैव राजन्मानुषं वित्तं, यामेव कुमारस्यान्ते वाचमभाषथास्तामेव मे ब्रूहीति, स ह कृच्छ्री बभूव ॥६॥तं ह चिरं वसेत्याज्ञापयांचकार, तं होवाच यथा मा त्वं गौतमावदो यथेयं न प्राक् त्वत्तः पुरा विद्या ब्राह्मणान्गच्छति / तस्मादु सर्वेषु लोकेषु क्षत्रस्यैव प्रशासनमभूदिति तस्मै होवाच ॥७॥इति तृतीयः खण्डः असौ वाव लोको गौतमाग्निस्तस्यादित्य एव समिद्रश्मयो धूमोऽहरर्चिश्चन्द्रमा अङ्गारा नक्षत्राणि विस्फुलिङ्गाः // 1 // तस्मिन्नेतस्मिन्नग्नौ देवाः श्रद्धां जुह्वति तस्या आहुतेः सोमो राजा संभवति // 2 // इति चतुर्थः खण्डः // 4 // पर्जन्यो वाव गौतमाग्निस्तस्य वायुरेव समिदभ्रं धूमो विद्युदर्चिरशनिरङ्गारा ह्रादुनयो विस्फुलिङ्गाः // 1 // तस्मिन्नेतस्मिन्नग्नौ देवाः सोमं राजानं जुह्वति तस्या आहुतेर्वर्षं संभवति // 2 // इति पञ्चमः खण्डः // 5 // पृथिवी वाव गौतमाग्निस्तस्याः संवत्सर एव समिदाकाशो धूमो रात्रिरर्चिः
Page #24
--------------------------------------------------------------------------
________________ गद्यसंग्रहः दिशोऽङ्गाराः अवान्तरदिशो विस्फुलिङ्गाः // 1 // तस्मिन्नेतस्मिन्नग्नौ देवा वर्ष जुह्वति / तस्या आहुतेरन्नं संभवति / / 2 / / इति षष्ठः खण्डः // 6 // पुरुषो वाव गौतमाग्निस्तस्य वागेव समित्प्राणो धूमो जिह्वार्चिश्चक्षुरङ्गाराः श्रोत्रं विस्फुलिङ्गाः // 1 // तस्मिन्नेतस्मिन्नग्नौ देवा अन्नं जुह्वति तस्या आहुते रेतः संभवति // 2 // इति सप्तमः खण्डः // 7 // योषा वाव गौतमाग्निस्तस्या उपस्थ एव समिद्यदुपमन्त्रयते स धूमो योनिरर्चिर्यदन्तः करोति तेऽङ्गारा: अभिनन्दा विस्फुलिङ्गाः॥१॥ तस्मिन्नेतस्मिन्नग्नौ देवा रेतो जुह्वति तस्या आहुतेर्गर्भः संभवति // 2 // इत्यष्टमः खण्डः // 8 // इति तु पञ्चम्यामाहुतावापः पुरुषवचसो भवन्तीति स उल्बावृतो गर्भो दश वा नव वा मासानन्तः शयित्वा यावद्वाथ जायते // 1 // स जातो यावदायुषं जीवति तं प्रेतं दिष्टमितोऽग्नय एव हरन्ति यत एवेतो यतः संभूतो भवति // 2 // एकस्य ब्रह्मणो विज्ञानेन सर्वविज्ञानं भवति ॐ श्वेतकेतुर्हाऽऽरुणेय आस तं ह पितोवाच श्वेतकेतो वस ब्रह्मचर्य, न वै सोम्यास्मत्कुलीनोऽननूच्य ब्रह्मबन्धुरिव भवतीति // 1 // स ह द्वादशवर्ष उपेत्य चतुर्विशतिवर्षः सर्वान्वेदानधीत्य महामना अनूचानमानी स्तब्ध एयाय, तं ह पितोवाच // 2 // श्वेतकेतो यन्नु सौम्येदं महामना अनूचानमानी स्तब्धोऽस्युत तमादेशमप्राक्ष्यः येनाश्रुतं श्रुतं भवत्यमतं मतमविज्ञातं विज्ञातमिति कथं नु भगवः स आदेशो भवतीति // 3 // यथा सौम्यैकेन मृत्पिण्डेन सर्वं मृन्मयं विज्ञातं स्याद्वाचाऽऽरम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम् // 4 // यथा सोम्यैकेन लोहमणिना सर्वं लोहमयं विज्ञातं स्याद्वाचाऽऽरम्भणं विकारो नामधेयं लोहमित्येव सत्यम् // 5 // यथा सोम्यैकेन नखनिकृन्तनेन सर्वं काष्र्णायसं विज्ञातं स्याद्वावाचाऽऽरम्भणं विकारो नामधेयं कृष्णायसमित्येव सत्यमेवं सोम्य स आदेशो भवतीति // 6 // न वै नूनं भगवन्तस्त एतदवेदिषुर्यद्धयेतदवेदिष्यन् कथं मे नावक्ष्यन्निति भगवांस्त्वेव मे तद्ब्रवीत्विति तथा सोम्येति होवाच // 7 // इति प्रथमः खण्डः // 1 // सतो ब्रह्मतत्त्वादेव विश्वस्योद्भवः सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम् / त?क आहुरसदेवेदमग्र आसीदेकमेवाद्वितीयं तस्मादसतः सज्जायत // 1 // कुतस्तु खलु सोम्यैवं स्यादिति होवाच
Page #25
--------------------------------------------------------------------------
________________ छान्दोग्योपनिषदः कथमसतः सज्जायतेति / सत्त्वेव सोम्येदमग्र आसीदेकमेवाद्वितीयम् // 2 // तदैक्षत बहु स्यां प्रजायेयेति, तत्तेजोऽसृजत, तत्तेज ऐक्षत बहु स्यां प्रजायेयेति तदपोऽसृजत / तस्माद्यत्र क्व च शोचति स्वेदते वा पुरुषस्तेजस एव तदध्यापो जायन्ते // 3 // ता आप ऐक्षन्त बह्वयः स्याम प्रजायेमहीति ता अन्नमसृजन्त तस्माद्यत्र क्व च वर्षति तदेव भूयिष्ठमन्नं भवत्यद्भ्य एव तदध्यन्नाद्यं जायते / / भूमा सुखं, नाल्पे सुखं, भूमा च ब्रह्मैव य आत्मा सर्वेषाम् यदा वै सुखं लभतेऽथ करोति नासुखं लब्ध्वा करोति सुखमेव लब्ध्वा करोति खण्डः // 22 // ___ यो वै भूमा तत्सुखं नाल्पे सुखमस्ति, भूमैव सुखं भूमा त्वेव विजिज्ञासितव्य इति, भूमानं भगवो विजिज्ञास इति // 1 // इति त्रयोविंशः खण्डः // 23 // यत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूमाऽथ यत्रान्यत्पश्यत्यन्यच्छृणोत्यन्यद्विजानाति तदल्पं, यो वै भूमा तदमृतमथ यदल्पं तन्मयं, स भगवः कस्मिन्प्रतिष्ठित इति स्वे महिम्नि यदि वा न महिनीति // 1 // प्रजापतिः असुरप्रतिनिधिं विरोचनं सुरप्रतिनिधिमिन्द्रं चात्मानमुपदिदेश। विरोचनेन देहं एवात्मत्वेन ज्ञातः, इन्द्रेण च चिरंतप्त्वा सत्य आत्माज्ञातः। य आत्माऽपहतपाप्मा विजरो विमृत्युर्विंशोको विजिर्घोत्सोऽपिपासः सत्यकामः सत्यसंकल्प: सोऽन्वेष्टव्यः स विजिज्ञासितव्यः स सर्वांश्च लोकानाप्नोति सर्वांश्च कामान्यस्तमात्मानमनुविद्य विजानातीति ह प्रजापतिरुवाच // 1 // तद्धोभये देवासुरा अनुबुबुधिरे ते होचुर्हत तमात्मानमन्विच्छामो यमात्मानमन्विष्य सर्वांश्च लोकानाप्नोति सर्वांश्च कामानितीन्द्रो हैव देवानामभिप्रवव्राज विरोचनोऽसुराणां तौ हासंविदानावेव समित्पाणी प्रजापतिसकाशमाजग्मतुः // 2 // तौ ह द्वात्रिंशतं वर्षाणि ब्रह्मचर्यमूषतुस्तौ ह प्रजापतिरुवाच किमिच्छन्ताववास्तमिति, तौ होचतुर्य आत्माऽपहतपाप्मा विजरो विमृत्युर्विशोकोऽविजिघत्सोऽपिपासः सत्यकामः सत्यसंकल्पः सोऽन्वेष्टव्यः स विजिज्ञासितव्यः, स सर्वांश्च लोकानाप्नोति सर्वांश्च कामान् यस्तमात्मानमनुविद्य विजानातीति भगवतो वचो वेदयन्ते तमिच्छन्ताववास्तमिति // 3 // तौ ह प्रजापतिरुवाच य एषोऽक्षिणि पुरुषो
Page #26
--------------------------------------------------------------------------
________________ गद्यसंग्रहः दृश्यत एष आत्मेति होवाचैतदमृतमभयमेतद्ब्रह्मेत्यथ योऽयं भगवोऽप्सु - परिख्यायते यश्चायमादर्शे कतम एष इत्येष उ एवैषु सर्वेष्वन्तेषु परिख्यायत इति होवाच / / 4 / / इति सप्तमः खण्डः // 7 // उदशराव आत्मानमवेक्ष्य यदात्मनो न विजानीथस्तन्मे प्रब्रूतमिति, तौ होदशरावेऽवेक्षांचक्राते, तौ ह प्रजापतिरुवाच किं पश्यथ इति, तौ होचतुः सर्वमेवेदमावां भगव आत्मानं पश्याव आ लोमभ्य आ नखेभ्यः प्रतिरूपमिति // 1 // तौ ह प्रजापतिरुवाच साध्वलंकृतौ सुवसनौ परिष्कृतौ भूत्वोदशरावेऽवेक्षेथामिति / तौ ह साध्वलंकृतौ सुवसनौ परिष्कृतौ भूत्वोदशरावेऽवेक्षांचक्राते / तौ ह प्रजापतिरुवाच किं पश्यथ इति // 2 // तौ होचतुर्यथैवेदमावां भगवः साध्वलंकृतौ सुवसनौ परिष्कृतौ स्व एवमेवेमौ भगवः साध्वलंकृतौ सुवसनौ परिष्कृतावित्येष आत्मेति होवाचैतदमृतमयमेतद्ब्रह्मेति तौ ह शान्तहृदयौ प्रवव्रजतुः // 3 // तौ हान्वीक्ष्य प्रजापतिरुवाचानुपलभ्याऽऽत्मानमननुविद्य व्रजतो यतर एतदुपनिषदो भविष्यन्ति देवा वाऽसुरा वा ते पराभविष्यन्तीति, सह शान्तहृदय एव विरोचनोऽसुराज्जगाम तेभ्यो हैतामुपनिषदं प्रोवाचात्मैवेह महय्य आत्मा परिचर्यः आत्मानमेवेह महयन्नात्मानं परिचरन्नुभौ लोकाववासोतीमं चामुं चेति // 4 // तस्मादप्योहाददानमश्रद्धानमयजमानमाहुरासुरो बतेत्यसुराणां ह्येषोपनिषत्प्रेतस्य शरीरं भिक्षया वसनेनालंकारेणेति संस्कुर्वन्त्येतेन ह्यमुं लोकं जेष्यन्तो मन्यन्ते // 5 // इत्यष्टमः खण्डः / / 8 / / अथ हेन्द्रोऽप्राप्यैवदेवानेतद्भयं ददर्श यथैव खल्वयमस्मिन्छरीरे साध्वलंकृते साध्वलंकृतो भवति सुवसने सुवसन: परिष्कृते परिष्कृत एवमेवायमस्मिन्नन्धेऽन्धो भवति स्रामे सामः परिवृक्णे परिवृक्णोऽस्यैव शरीरस्य नाशमन्वेष नश्यति नाहमत्र भोग्यं पश्यामीति // 1 // स समित्पाणिः पुनरेयाय, तं ह प्रजापतिरुवाच मघवन्यच्छान्तहृदयः प्रावाजीः सार्धं विरोचनेन किमिच्छन् पुनरागम इति, स होवाच यथैव खल्वयं भगवोऽस्मिन्शरीरे साध्वलंकृते साध्वलंकृतो भवति सुवसने सुवसन: परिष्कृते परिष्कृत एवमेवायमस्मिन्नन्धेऽन्धो भवति स्रामे स्रामः परिवृक्णे परिवृक्णोऽस्यैव शरीरस्य नाशमन्वेष नश्यति नाहमत्र भोग्यं पश्यामीति ॥२॥एवमेवैष मघवन्निति होवाचैतं त्वेव ते भूयोऽनुव्याख्यास्यामि, वसापराणि द्वात्रिंशतं वर्षाणीति, स हापराणि द्वात्रिंशतं वर्षाण्युवास तस्मै होवाच / / 3 / / इति नवमः खण्डः // 9 //
Page #27
--------------------------------------------------------------------------
________________ छान्दोग्योपनिषदः य एष स्वप्ने महीयमानश्चरत्येष आत्मेति होवाचैतदमृतमभयमेतद्ब्रह्मेति स ह शान्तहृदयः प्रवव्राज, स हाप्राप्यैव देवानेतद्भयं ददर्श तद्यद्यपीदं शरीरमन्धं भवत्यनन्धः स भवति, यदि स्राममस्रामो नैवैषोऽस्य दोषेण दुष्यति // 1 // न वधेनास्य हन्यते नास्य साम्येण स्रामो, नन्ति त्वेवैनं विच्छादयन्तीवाप्रियवेत्तेव भवत्यपि रोदितीव, नाहमत्र भोग्यं पश्यामीति // 2 // स समित्पाणिः पुनरेयाय तं ह प्रजापतिरुवाच मघवन्यच्छान्तहृदयः प्रावाजी: किमिच्छन् पुनरागम इति स होवाच तद्यद्यपीदं भगवः शरीरमन्धं भवत्यनन्धः स भवति यदि स्राममस्रामो नैवैषोऽस्य दोषेण दुष्यति // 3 // न वधेनास्य हन्यते नास्य स्राम्येण स्रामो घ्नन्ति त्वेवैनं विच्छादयन्तीवाप्रियवेत्तेव भवत्यपि रोदितीव नाहमत्र भोग्यं पश्यामीत्येवमेवैष मघवन्निति होवाचैतं त्वेव ते भूयोऽनुव्याख्यास्यामि वसापराणि द्वात्रिंशतं वर्षाणीति स हाऽपराणि द्वात्रिंशतं वर्षाण्युवास तस्मै होवाच / / 4 / / इति दशमः खण्डः // 10 // तद्यत्रैतत् सुप्तः समस्तः संप्रसन्नः स्वप्नं न विजानात्येष आत्मेति होवाचैतदमृतमभयमेतद्ब्रह्मेति, स ह शान्तहृदयः प्रवव्राज, स हाप्राप्यैव देवानेतद्भयं ददर्श, नाह खल्वयमेवं संप्रत्यात्मानं जानात्ययमहमस्मीति नो एवेमानि भूतानि, विनाशमेवापीतो भवति, नाहमत्र भोग्यं पश्यामीति ॥१॥स समित्पाणिः पुनरेयाय तं ह प्रजापतिरुवाच मघवन्यच्छान्तहृदयः प्रावाजी: किमिच्छन्पुनरागम इति स होवाच, नाह खल्वयं भगव एवं संप्रत्यात्मानं जानात्ययमहमस्मीति नो एवेमानि भूतानि, विनाशमेवापीतो भवति नाहमत्र भोग्यं पश्यामीति / / 2 / / एवमेवैष मघवन्निति होवाचैतं त्वेव ते भूयोऽनुव्याख्यास्यामि नो एवान्यत्रैतस्माद्वसापराणि पञ्च वर्षाणीति स हापराणि पञ्च वर्षाण्युवास, तान्येकशतं संपेदुरेतत्तद्यदाहुरेकशतं ह वै वर्षाणि मघवान्प्रजापतौ ब्रह्मचर्यमुवास तस्मै होवाच // 3 // इत्येकादशः खण्डः // 11 // ___ मघवन्मयं वा इदं शरीरमात्तं मृत्युना तदस्यामृतस्याशरीरस्यात्मनोऽधिष्ठानमात्तो वै सशरीरः प्रियाप्रियाभ्यां न वै सशरीरस्य सतः प्रियाप्रिययोरपहतिरस्त्यशरीरं वाव सन्तं न प्रियाप्रियेस्पृशतः॥१॥अशरीरोवायुरभ्रं विद्युत्स्तनयित्नुरशरीराण्येतानि तद्यथैतान्यमुष्मादाकाशात्समुत्थाय परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यन्ते / / 2 / / एवमेवैष संप्रसादोऽस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यते, स उत्तमपुरुषः स तत्र पर्येति जक्षत्क्रीडरममाणः स्त्रीभिर्वा
Page #28
--------------------------------------------------------------------------
________________ गद्यसंग्रहः यानैर्वा ज्ञातिभिर्वा नोपजनं स्मरन्निदं शरीरं स यथा प्रयोग्य आचरणे युक्त एवमेवायमस्मिन्छरीरे प्राणो युक्तः॥३॥अथ यत्रैतदाकाशमनुविषण्णं चक्षुः स चाक्षुषः पुरुषो दर्शनाय चक्षुरथ यो वेदेदं जिघ्राणीति स आत्मा, गन्धाय घ्राणमथ यो वेदेदमभिव्याहराणीति स आत्माऽभिव्याहाराय वागथ यो वेदेदं शृणवानीति स आत्मा श्रवणाय श्रोत्रम् // 4 // अथ यो वेदेदं मन्वानीति स आत्मा मनोऽस्य दैवं चक्षुः, स वा एष एतेन दैवेन चक्षुषा मनसैतान् कामान् पश्यन् रमते य एते ब्रह्मलोके / / 5 // तं वा एतं देवा आत्मानमुपासते तस्मात्तेषां सर्वे च लोका आत्ताः सर्वे च कामाः स सर्वांश्च लोकानाप्नोति सर्वांश्च कामान्यस्तमात्मानमनुविद्य विजानातीति ह प्रजापतिरुवाच प्रजापतिरुवाच // 6 // बृहदारण्यकोपनिषदः याज्ञवल्क्यो मैत्रेयीं स्वपत्नीमुपदिदेश, आत्मैव प्रियः, अन्यत् सर्वं तदनुकूलतयैव प्रियम्, तज्ज्ञानादेव अमृतत्वं प्राप्यते न महताऽपि वित्तादिनामैत्रेयीति होवाच याज्ञवल्क्य उद्यास्यन्वा अरेऽहमस्मात्स्थानादस्मि हन्त तेऽनया कात्यायन्याऽन्तं करवाणीति // 1 // सा होवाच मैत्रेयी, यन्नु म इयं भगोः सर्वा पृथिवी वित्तेन पूर्णा स्यात्कथं तेनामृता स्यामिति, नेति होवाच याज्ञवल्क्यो यथैवोपकरणवतां जीवितं तथैव ते जीवितं स्यादमृतत्वस्य तु नाऽऽशाऽस्ति वित्तेनेति // 2 // सा होवाच मैत्रेयी येनाहं नामृता स्यां किमहं तेन कुर्यां यदेव भगवान्वेद तदेव मे ब्रूहीति // 3 // स होवाच याज्ञवल्क्यः प्रिया बतारे न:सती प्रियं भाषसे / एह्यास्स्व व्याख्यास्यामि ते, व्याचक्षाणस्य तु मे निदिध्यासस्वेति // 4 // न वा अरे पत्युः कामाय पतिः प्रियो भवन्त्यात्मनस्तु कामाय पतिः प्रियो भवति / न वा अरे जायायै कामाय जाया प्रिया भवन्त्यात्मनस्तु कामाय जाया प्रिया भवति / न वा अरे पुत्राणां कामाय पुत्राः प्रिया भवन्त्यात्मनस्तु कामाय पुत्राः प्रिया भवन्ति। न वा अरे वित्तस्य कामाय वित्तं प्रियं भवन्त्यात्मनस्तु कामाय वित्तं प्रियं भवति / न वा अरे ब्रह्मणः कामाय ब्रह्म प्रियं भवन्त्यात्मनस्तु कामाय ब्रह्म प्रियं भवति / न वा अरे क्षत्रस्य कामाय क्षत्रं प्रियं भवन्त्यात्मनस्तु कामाय क्षत्रं प्रियं भवति। न वा अरे लोकानां कामाय लोकाः प्रिया भवन्त्यात्मनस्तु कामाय लोकाः
Page #29
--------------------------------------------------------------------------
________________ बृहदारण्यकोपनिषदः प्रिया भवन्ति ।न वा अरे देवानां कामाय देवाः प्रिया भवन्त्यात्मनस्तु कामाय देवाः प्रिया भवन्ति ।नं वा अरे भूतानां कामाय भूतानि प्रियाणि भवन्त्यात्मनस्तु कामाय भूतानि प्रियाणि भवन्ति / न वा अरे सर्वस्य कामाय सर्वं प्रियं भवत्यात्मनस्तु कामाय सर्वप्रियं भवति।आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यो मैत्रेय्यात्मनो वा अरे दर्शनेन श्रवणेन मत्या विज्ञानेनेदं सर्वं विदितम् // 5 // ब्रह्म तं परादाद्योऽन्यत्राऽऽत्मनो ब्रह्म वेद, क्षत्रं तं परादाद्योऽन्यत्राऽऽत्मनः क्षत्रं वेद, लोकास्तं परादुर्योऽन्यत्राऽऽत्मनो लोकान्वेद देवास्तं परांदुर्योऽन्यत्राऽऽत्मनो देवान्वेद भूतानि तं परादुर्योऽन्यत्राऽऽत्मनो भूतानि वेद, सर्वं तं परादाद्योऽन्यत्राऽऽत्मनः सर्वं वेदेदं ब्रह्मेदं क्षत्रमिमे लोका इमे देवा इमानि भूतानीदं सर्वं यदयमात्मा // 6 // स यथा दुन्दुभेर्हन्यमानस्य न बाह्यान्छब्दान्छनुयाद्ग्रहणाय दुन्दुभेस्तु ग्रहणेन दुन्दुभ्याघातस्य वा शब्दो गृहीतः // 7 // स यथा शङ्खस्य ध्मायमानस्य न ब्राह्यान्छब्दान्छक्नुयादग्रहणाय शंखस्य तु ग्रहणेन शङ्खध्मस्य वा शब्दो गृहीतः॥८॥स यथा वीणायै वाद्यमानायै न बाह्यान्छब्दान्छनुयाद्ग्रहणाय वीणायै तु ग्रहणेन वीणावादस्य वा शब्दो गृहीतः॥९॥स यथाऽऽर्दैधाग्नेरभ्यातितात्पृथग्धूमा विनिश्चरन्त्येवं वा अरेऽस्य महतो भूतस्य निश्वसितमेतद्यदृग्वेदो यजुर्वेदः सामवेदोऽथर्वाङ्गिरस इतिहासः पुराणं विद्या उपनिषदः श्लोकाः सूत्राण्यनुव्याख्यानानि व्याख्यानान्यस्यैवैतानि सर्वाणि निश्वसितानि // 10 // तित्र एषणाः, पुत्रैषणा, वित्तैषणा लोकैषणा, ता निरस्य ब्रह्मज्ञानाय यतमानो ब्रह्म विदित्वा ब्रह्मत्वलाभः / स वा एष महानज आत्मा योऽयं विज्ञानमयः प्राणेषु य एषोऽन्तर्हदय आकाशस्तस्मिन्छेते सर्वस्य वशी सर्वस्येशानः सर्वस्याधिपतिः स न साधुना कर्मणा भूयान्नो एवासाधुना कनीयानेष सर्वेश्वर एष भूताधिपतिरेष भूतपाल एष सेतुर्विधरण एषां लोकानामसंभेदाय तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेनेतमेव विदित्वा मुक्तिर्भवति एतमेव प्रवाजिनो लोकमिच्छन्तः प्रव्रजन्ति। एतद्ध स्म वैतत्पूर्वे विद्वांसः प्रजां न कामयन्ते, किं प्रजया करिष्यामो येषां नोऽयमात्माऽयं लोक इति ते ह स्म पुत्रैषणायाश्च वित्तैषणायाश्च लोकैषणायाश्च व्युत्थायाथ भिक्षाचर्यं चरन्ति या ह्येव पुत्रैषणा सा
Page #30
--------------------------------------------------------------------------
________________ गद्यसंग्रहः वित्तैषणा या वित्तैषणा सा लोकैषणोभे ह्येते एषणे एव भवतः / स एष नेति नेत्यात्माऽगृह्यो न हि गृह्यतेऽशीर्यो न हि शीर्यतेऽसंङ्गो न हि सज्यतेऽसितो न व्यथते न रिष्यत्येतमु हैवैते न तरत इत्यतः पापमकरवमित्यतः कल्याणमकरवमित्युभे उ हैवैष एते तरितः नैनं कृताकृते तपतः // 22 // तदेतदृचाभ्युक्तम् / ___ एष नित्यो महिमा ब्राह्मणस्य न वर्धते कर्मणा नो कनीयान्। तस्यैव स्यात्पदवित्तं विदित्वा न लिप्यते कर्मणा पापकेनेति॥ तस्मादेवंविच्छान्तोदान्त उपरतस्तितिक्षुःसमाहितो भूत्वाऽऽत्मन्येवात्मानं पश्यति सर्वमात्मानं पश्यति नैनं पाप्मा तरति सर्वं पाप्मानं तरति नैनं पाप्मा तपति सर्वं पाप्मानं तपति विपापो विरजोऽविचिकित्सो ब्राह्मणो भवत्येष ब्रह्मलोकः सम्राडेनं प्रापितोऽसीति होवाच याज्ञवल्क्यः सोऽहं भगवते विदेहान् ददामि मां चापि सह दास्यायेति // 23 // स वा एष महानज आत्माऽनादो वसुदानो विन्दते वसु य एवं वेद // 24 // स वा एष महानज आत्माऽजरोऽमरोऽमृतोऽभयो ब्रह्मऽभयं वै ब्रह्मऽभयं हि वै ब्रह्म भवति य एवं वेद / / 25 // प्रजापतिना 'द' इत्येकमक्षरमुपदिष्टम्, तत एव देवैः दमस्य मनुष्यैः दानस्य असुरैः दयायाः शिक्षा प्राप्ता। त्रयः प्राजापत्याः प्रजापतौ पितरि ब्रह्मचर्यमूषुर्देवा मनुष्या असुराः उषित्वा ब्रह्मचर्यं देवा ऊचुर्ब्रवीतु नो भवानिति तेभ्यो हैतदक्षरमुवाच द इति व्यज्ञासिष्टा 3 इति व्यज्ञासिष्मेति होचुर्दाम्यतेति न आत्थेत्योमिति होवाच व्यज्ञासिष्टेति // 1 // अथ हैनं मनुष्या उचुर्ब्रवीतु नो भवानिति तेभ्यो हैतदेवाक्षरमुवाच द इति व्यज्ञासिष्टा 3 इति व्यज्ञासिष्मेति होचुर्दत्तेति नआत्थेत्योमिति होवाच व्यज्ञासिष्टेति // 2 // अथ हैनमसुरा ऊचुर्ब्रवीतु नो भवानिति तेभ्यो हैतदेवाक्षरमुवाच द इति व्यज्ञासिष्टा 3 इति व्यज्ञासिष्मेति होचुर्दयध्वमिति न आत्थेत्योमिति होवाच व्यज्ञासिष्टेति तदेतदेवैषा देवी वागनुवदति स्तनयित्नुर्द द द इति दाम्यत दत्त दयध्वमिति तदेतत्त्रयं शिक्षेद्दमं दानं दयामिति // 3 // इति द्वितीयं ब्राह्मणम् // 2 //
Page #31
--------------------------------------------------------------------------
________________ शाङ्करब्रह्मसूत्रभाष्यात् लोकव्यवहारोऽध्यासमूलकः, अध्यासश्च मिथ्याज्ञानम् प्रकृते चिदचिदोः अन्योन्यतादात्म्यग्रहणम् युष्मदस्मत्प्रत्ययगोचरयोर्विषयविषयिणोः तम:प्रकाशवद्विरुद्धस्वभावयोरितेरेतरभावानुपपत्तौ सिद्धायां तद्धर्माणामपि सुतरामितरेतरभावानुपपत्तिः , इत्यतोऽस्मत्प्रत्ययगोचरे विषयिणि चिदात्मके युष्मत्प्रत्ययगोचरस्य विषयस्य तद्धर्माणां चाध्यासः, तद्विपर्ययेण विषयिणस्तद्धर्माणां च विषयेऽध्यासो मिथ्येति भवितुं युक्तम् / तथाप्यन्योन्यस्मिन्नन्योन्यात्मकतामन्योन्यधर्मांश्चाध्यास्येतरेतराविवेकेन, अत्यन्तविविक्तयोर्धर्मधर्मिणोमिथ्याज्ञाननिमित्तः सत्यानृते मिथुनीकृत्य, अहमिदं ममेदमिति नैसर्गिकोऽयं लोकव्यवहारः / आहकोऽयमध्यासो नामेति। उच्यते-स्मृतिरूपः परत्र पूर्वदृष्टावभासः। तं केचिदन्यत्रान्यधर्माध्यास इति वदन्ति।केचित्तु यत्र यदध्यासस्तद्विवेकाग्रहनिबन्धनो भ्रम इति। अन्ये तु यत्र यदध्यासस्तस्यैव विपरीतधर्मत्वकल्पनामाचक्षते। सर्वथापि रजतवदवभासते, त्वन्यस्यान्यधर्मावभासतां न व्यभिचरति / तथा च लोकेऽनुभवः शुक्तिका हि रजतवदवभासते / एकश्चन्द्रः सद्वितीयवदिति / . तत्परिहारश्च चिद्रूपे ब्रह्मणि अचिद्रूपस्य विषयस्याध्यासानुपपत्तिशङ्का कथं पुनः प्रत्यगात्मन्यविषयेऽध्यासो विषयतद्वद्धर्माणाम्। सर्वो हि पुरोऽवस्थिते एव विषये विषयान्तरमध्यस्यति, युष्पत्प्रत्ययोपेतस्य च प्रत्यगात्मनोऽविषयत्वं ब्रवीषि। उच्यते-न तावदयमेकान्तेनाविषयः, अस्मत्प्रत्यगविषयत्यात्, अपरोक्षत्वाच्च प्रत्यगात्मप्रसिद्धः। न चायमस्ति नियमः पुरोऽवस्थिते एव विषये विषयान्तरमध्यसितव्यमिति।अप्रत्यक्षेऽपि ह्याकाशे बालास्तत्रमलिनताद्यध्यस्यन्ति। एवमविरुद्धः प्रत्यगात्मन्वप्यनात्माध्यासः। तमेतमेवंलक्षणमध्यासं पण्डिता अविद्येति मन्यन्ते। तद्विवेकेन च वस्तुस्वरूपावधारणं विद्यामाहुः। तत्रैवं सति यत्र यदध्यासस्तत्कृतेन दोषेण गुणेन वाऽणुमात्रेणापि स न संबध्यते
Page #32
--------------------------------------------------------------------------
________________ गद्यसंग्रहः तमेतमविद्याख्यमात्मानात्मनोरितरेतराध्यासं पुरस्कृत्य सर्वं प्रमाणप्रमेयव्यवहारा लौकिका वैदिकाश्च प्रवृत्ताः सर्वाणि च शास्त्राणि विधिप्रतिषेधमोक्षपराणि। ज्ञानेन हि प्रमाणेनावगन्तुमिष्टं ब्रह्म। ब्रह्मावगतिर्हि पुरुषार्थः, निःशेषसंसारबीजाविद्याद्यनर्थनिवर्हणात्। तस्माद्ब्रह्म जिज्ञासितव्यम्। अथाप्रसिद्धं नैव शक्यं जिज्ञासितुमिति। उच्यते-अस्ति तावद्ब्रह्म नित्यशुद्धबुद्धमुक्तस्वभावः, सर्वज्ञ, सर्वशक्तिसमन्वितम्। ब्रह्मशब्दस्य हि व्युत्पाद्यमानस्य नित्यशुद्धत्वादयोऽर्थाः प्रतीयन्ते बृंहतेर्धातोरर्थानुगमात् / सर्वस्यात्मत्वाच्च ब्रह्मास्तित्वप्रसिद्धिः। सर्वो ह्यात्मास्तित्वं प्रत्येति, न नाहमस्मीति / यदि हि नात्मास्तित्वप्रसिद्धिः स्यात् सर्वो लोको नाहमस्मीति प्रतीयात्। आत्मा च ब्रह्म यदि, तर्हि लोके ब्रह्मात्मत्वेन प्रसिद्धमस्ति ततो ज्ञातमेवेत्यजिज्ञास्यत्वं पुनरापन्नम् / न / तद्विशेष प्रति विप्रतिपत्तेः। देहमानं चैतन्यविशिष्टमात्मेति प्राकृता जना लोकायतिकाश्च प्रतिपन्नाः। इन्द्रियाण्येव चेतनान्यात्मेत्यपरे। मन इत्यन्ये। विज्ञानमात्रं क्षणिकमित्येके। शून्यमित्यपरे। अस्ति देहादिव्यतिरिक्तः संसारी कर्ता भोक्तेत्यपरे भोक्तैव केवलं न कर्तेत्येके। अस्ति तद्व्यतिरिक्त ईश्वरः सर्वज्ञः सर्वशक्तिरिति केचित्। आत्मा स भोक्तुरित्यपरे। एवं बहवो विप्रतिपन्ना युक्तिवाक्यतदाभाससमाश्रयाः सन्तः / तत्राविचार्य यत्किञ्चित्प्रतिपद्यमानो नि:श्रेयसात्प्रतिहन्येत अनर्थं चेयात्। तस्मात् ब्रह्मजिज्ञासोपन्यासमुखेन वेदान्तवाक्यमीमांसा तदविरोधितर्कोपकरणा निःश्रेयसप्रयोजना प्रस्तूयते / ब्रह्म शास्त्रैकगम्यम्, शास्त्रं च वेदान्तापरपर्यायम् उपनिषद्रूपम् शास्त्रयोनित्वात् // 3 // महत ऋग्वेदादेः शास्त्रस्यानेकविद्यास्थानोपबृंहितस्य प्रदीपवत्सर्वार्थविद्योतिनः सर्वज्ञकल्पस्य योनिः कारणं ब्रह्म। न हीदृशस्य शास्त्रस्य वेदादिलक्षणस्य सर्वज्ञगुणान्वितस्य सर्वज्ञादन्यतः संभवोऽस्ति। यद्यद्विस्तरार्थं शास्त्रं यस्मात्पुरुषविशेषात्संभवति, यथा व्याकरणादि पाणिन्यादे यैकदेशार्थमपि, स ततोऽप्यधिकतरविज्ञान इति प्रसिद्ध लोके। किमु वक्तव्यं अनेकशाखाभेदभिन्नस्य देवतिर्यङ्मनुष्यवर्णाश्रमादिप्रविभागहेतोः ऋग्वेदाद्याख्यस्य सर्वज्ञानाकरस्याप्रयत्नेनैव लीलान्यायेन पुरुषनिःश्वासवद्यस्मान्महतो भूताधोने: संभवः,-अस्य
Page #33
--------------------------------------------------------------------------
________________ भामतीग्रन्थात् महतो भूतस्य निःश्वसितमेतद्यद्ऋग्वेदः इत्यादिश्रुतेः-तस्य महतो भूतस्य निरतिशयं सर्वज्ञत्वं सर्वशक्तिमत्त्वं चेति। प्रवृत्तिनिवृत्तिविधितच्छेषव्यतिरेकेण केवलवस्तुवादी वेदभागो नास्ति इति, तन्न। औपनिषदस्य पुरुषस्यानन्यशेषत्वात् / योऽसौ उपनिषत्स्वेवाधिगतः पुरुषोऽसंसारी ब्रह्मस्वरूपः उत्पाद्यादिचतुर्विधद्रव्यविलक्षण: स्वप्रकरणस्थोऽनन्यशेषः, नासौ नास्ति नाधिगम्यत इति वा शक्यं वदितुम्, स एव नैति नैत्यात्मां इत्यात्मशब्दात्,आत्मनश्च प्रत्याख्यातुमशक्यत्वात्, य एव निराकर्ता तस्यैवात्मत्वात्। नन्वात्मा अहं प्रत्ययविषयत्वादुपनिषत्स्वेव विज्ञायत इत्यनुपपन्नम्।न।सत्साक्षित्वेन प्रत्युक्तत्वात्। नहि अहंप्रत्ययविषयकर्तृव्यतिरेकेण तत्साक्षी सर्वभूतस्थः सम एक: कूटस्थनित्यः पुरुषो विधिकाण्डे तर्कसमये वा केनचिदधिगतः सर्वस्यात्मा। अतः स न केनचित्प्रत्याख्यातुं शक्यो, विधिशेषत्वं वा नेतुम्। आत्मत्वादेव च सर्वेषां न हेयो नाप्युपादेयः। सर्वं हि विनश्यद्विकारजातं पुरुषान्तं विनश्यति। पुरुषो हि विनाशहेत्वभावादविनाशी, विक्रियाहेत्वभावाच्च कूटस्थनित्यः, अतएव नित्यशुद्धबुद्धमुक्तस्वाभावः। तस्मात् "पुरुषान्न परं किंचित्सा काष्ठा सा परा गतिः", "तं त्वौपनिषदं पुरुषं पृच्छामि" इति चौपनिषदत्वविशेषणं पुरुषस्योपनिषत्सु प्राधान्येन प्रकाश्यमानत्वमुपपद्यते। अतो भूतवस्तुपरो वेदभागो नास्तीति वचनं साहसमात्रम्। भामतीग्रन्थात् असख्यातिनिरासः, ब्रह्मैवैकं सत्, तदन्यत्सर्वम् अनिर्वचनीयं सत्त्वासत्वाभ्याम् एतदुक्तं भवति न प्रकाशमानतामात्रं सत्त्वं, येन देहेन्द्रियादेः प्रकाशमानतया सद्भावो भवेत्। नहि सर्पादिभावेन रज्वादयो वा स्फटिकादयो वा रक्तादिगुणयोगिनो न प्रतिभासन्ते, प्रतिभासमाना वा भवन्ति तदात्मानस्तद्धर्माणो वा। तथा सति मरुषु मरीचिचयमुच्चावचमुच्चलत्तुङ्गतरङ्गभङ्गमालेयमभ्यर्णमवतीर्णा मन्दाकिनी, इत्यभिसंधाय प्रवृत्तस्तोयमापीयापि पिपासामुपशमयेत्। तस्मादकामेनाप्यारोपितस्य प्रकाशमानस्यापिनवस्तुसत्त्वमभ्युपगमनीयम्।नच मरीचिरूपेण सलिलमवस्तुसत्,
Page #34
--------------------------------------------------------------------------
________________ 14 गद्यसंग्रहः स्वरूपेण तु परमार्थसदेव, देहेन्द्रियादयस्तु स्वरूपेणाप्यसन्त इत्यनुभवागोचरत्वात्कथमारोप्यन्त इति सांप्रतम्, यतो यद्यसन्तो नानुभवगोचराः, कथं तर्हि मरीच्यादीनामसतां तोयतयानुभवगोचरत्वम्, न च स्वरूपसत्त्वेन तोयात्मनापि सन्तो भवन्ति। यद्युच्येत नाभावो नाम भावादन्यः कश्चिदस्ति, अपितु भाव एव भावान्तरात्मनाऽभावः, स्वरूपेण तु भावः, यथाहु:- भावान्तरमभावो हि कयाचित्तुव्यपेक्षया इति, ततश्च भावात्मनोपाख्येयतयाऽस्य युज्येतानुभवगोचरता / प्रपञ्चस्य पुनरत्यन्तासतो निरस्तसमस्तसामर्थ्यस्य निस्तत्त्वस्य कुतोऽनुभवविषयभावः, कुतो वा चितात्मन्यारोपः / न च - विषयस्य समस्तसामर्थ्यस्य विरहेऽपि ज्ञानमेव तत्तादृशं स्वप्रत्ययसामर्थ्यासादितादृष्टान्तसिद्धस्वभावमेदमुपजातमसतः प्रकाशनं, तस्मादसत्प्रकाशनशक्तिरेवास्याविद्येति साम्प्रतं यतो येयमसरप्रकाशनशक्तिर्विज्ञानस्य, किं पुनरस्याः शक्यम् असदिति चेत्, किमेतत्कार्यमाहोस्विदस्या ज्ञाप्यम् / न तावत्कार्यम्, असतस्तत्त्वानुपपत्तैः / नापि ज्ञाप्यं, ज्ञानान्तरानुपलब्धेः, अनवस्थापाताच्च / विज्ञानस्वरूपमेवासतः प्रकाश इति चेत्, कः पुनरेष सदसतोः सम्बन्धः / असदधीननिरूपणत्वं सतो ज्ञानस्यासता सम्बन्ध इति चेत्, अहो बतायमतिनिर्वृत्तः प्रत्ययतपस्वी यस्यासत्यपि निरूपणमायतते, न च प्रत्ययस्तत्राधत्ते किंचित्, असतआधारत्वायोगात् / असदन्तरेण प्रत्ययो न प्रथत इति प्रत्ययस्यैवैष स्वभावो न त्वसदधीनमस्य किंचिदिति चेत्, अहो बतास्यासत्पक्षपातो यदयमतदुत्पत्तिरतदात्मा च तदविनाभावनियतः प्रत्यय इति / तस्मादत्यन्तासन्तः शरीरेन्द्रियादयो निस्तत्त्वा नानुभवविषया भवितुमर्हन्तीति / अत्र ब्रूमः- निस्तत्त्वं चेन्नानुभवगोचरः, तत्किमिदानीं मरीचयोऽपि तोयात्मना सतत्त्वाः, यदनुभवगोचराः स्युः / न सतत्त्वाः, तदात्मना मरीचीनामसत्त्वात् / द्विविधं च वस्तूनां तत्त्वंसत्त्वसमसत्त्वं च / तत्र पूर्वं स्वतः, परंतु परतः। यथाहः- स्वरूपपररूपाभ्यां नित्यं सदसदात्मके / वस्तुनि ज्ञायते किंचिद्रूपं कैश्चित्कदाचन / इति / तत्किं मरीचिषु तोयनिर्भासप्रत्ययस्तत्त्वगोचरः, तथा च समीचीन इति न भ्रान्तो नापि बाध्येत / अद्धान बाध्येत, यदि मरीचीनतोयात्मतत्त्वानतोयात्मनागृह्णीयात्, तोयात्मना तु गृह्णन्कथमभ्रान्तः कथं वाऽबाध्यः / हन्त तोयाभावात्मनां मरीचीनां तोयभावात्मत्वं तावन्न सत्, तेषां तोयाभावाभेदेन तोयभावात्मतानुपपत्तेः / नाप्यसत्, वस्त्वन्तरमेव हि वस्त्वन्तरस्यासत्त्वमास्थीयते भावान्तरमभावोऽन्यो न
Page #35
--------------------------------------------------------------------------
________________ श्रीमद्भगवद्गीताशांकरभाष्यात् ___15 कश्चिदनिरूपणात् इति वदद्भिः / न चारोपितं रूपं वस्त्वन्तरम् / तद्धि मरीचयो वा भवेत्, गङ्गादिगतं तोयं वा। पूर्वस्मिन्कल्पे मरीचय इति प्रत्ययः स्यान्न तोयमिति। उत्तरस्मिंस्तु गङ्गायां तोयमिति स्यात्, न पुनरिहेति। देशभेदास्मरणे तोयमिति स्यान्न पुनरिहेति। न च-इदमत्यन्तमसन्निरस्तसमस्तस्वरूपमलीकमेवास्त्वितिसांप्रतम्, तस्यानुभवगोचरत्वानुपपत्तेरित्युक्तमधस्तात्। तस्मान्न सत्, नाप्यसत् नापि सदसत्, परस्परविरोधादित्यनिर्वाच्यमेवारोपणीयं मरीचिषु तोयमास्थेयं, तदनेन क्रमेणाध्यस्तं तोयं परमार्थतोयमिव, अतएव पूर्वदृष्टमिव, तत्त्वतस्तु न तोयं न च पूर्वदृष्टं, किंत्वनृतमनिर्वाच्यम्। एवं च देहेन्द्रियादिप्रपञ्चोऽप्यनिर्वाच्यः, अपूर्वोऽपि पूर्वमिथ्याप्रत्ययोपदर्शित इव परत्र चिदात्मन्यध्यस्यत इति उपपन्नम्, अभ्यासलक्षणयोगात्। देहेन्द्रियादिप्रपञ्चोऽप्यनिर्वाच्यः, अपूर्वोऽपि पूर्वमिथ्याप्रत्ययोपदर्शित इव परत्र चिदात्मन्यध्यस्यत इति उपपन्नम्, अध्यासलक्षणयोगात्। देहेन्द्रियादिप्रपञ्चबाधनं चोपपादयिष्यते। चिदात्मा तु श्रुतिस्मृतीतिहासपुराणगोचरस्तन्मूलतदविरुद्धन्यायनिर्णीतशुद्धबुद्धमुक्तस्वभावः सत्त्वेनैव निर्वाच्यः। अबाधिता स्वयं प्रकाशतैवास्य सत्ता, सा च स्वरूपमेव चिदात्मनः, न तु तदतिरिक्तं सत्तासामान्यसमवायोऽर्थक्रियाकारिता वेति सर्वमवदातम्। स चायमेवं लक्षणकोऽध्यासोऽनिर्वचनीयः सर्वेषामेव संमतः, परीक्षकाणां तद्भदे परं विप्रतिपत्तिरित्यनिर्वचनीयतां द्रढयितुमाह-तं केचिदन्यत्रान्यधर्माध्यास इति वदन्ति। श्रीमद्भगवद्गीताशांकरभाष्यात् ॐ नमो भगवते वासुदेवाय / नारायणः परोऽव्यक्तादण्डमव्यक्तसंभवम् / अण्डस्यान्तस्त्विमे लोकाः सप्तद्वीपा च मेदिनी // द्विविधो वैदिको धर्मः प्रवृत्तिलक्षणो निवृत्तिलक्षणश्च, स सति हासे ईश्वरेण मनुजीभूय समर्थपुरुषोपदेशद्वारेण रक्ष्यते। स भगवान्सृष्ट्वेदं जगत्तस्य च स्थितिं चिकीर्षुः मरीच्यादीनग्रे सृष्ट्वा प्रजापतीन् प्रवृतिलक्षणं धर्मं ग्राहयामास वेदोक्तम्। ततोऽन्यांश्च सनकसनन्दनादीनुत्पाद्य
Page #36
--------------------------------------------------------------------------
________________ 16 गद्यसंग्रहः निवृत्तिलक्षणं धर्म ज्ञानवैराग्यलक्षणं ग्राहयामास। द्विविधो हि वेदोक्तो धर्मः प्रवृत्तिलक्षणो निवृत्तिलक्षणश्च जगतः स्थितिकारणम्। प्राणिनां साक्षादभ्युदयनिःश्रेयसहेतुर्यः स धर्मो ब्राह्मणाद्यैर्वर्णिभिराश्रमिभिश्च श्रेयोऽर्थिभिरनुष्ठीयमानः। दीर्पण कालेनानुष्ठातॄणां कामोद्भवाद्धीयमानविवेकविज्ञानहेतुकेनाधर्मेणाभिभूयमाने धर्मे प्रवर्धमाने चाधर्मे जगतः स्थितिं परिपिपालयिषुः स आदिकर्ता नारायणाख्यो विष्णु मस्य ब्रह्मणो ब्राह्मणत्वस्य रक्षणार्थं देवक्यां वसुदेवादंशेन कृष्णः किल संबभूव / ब्राह्मणत्वस्य हि रक्षणेन रक्षितः स्याद्वैदिको धर्मस्तदधीनत्वाद्धर्णाश्रमभेदानाम्। स च भगवान्जानैश्वर्यशक्तिबलवीर्यतेजोभिः सदा संपन्नस्त्रिगुणात्मिकां वैष्णवीं स्वां मायां मूलप्रकृतिं वशीकृत्याजोऽव्ययो भूतानामीश्वरो नित्यशुद्धबुद्धमुक्तस्वभावोऽपि सन्स्वमायया देहवानिव जात इव च लोकानुग्रहं कुर्वन् लक्ष्यते। स्वप्रयोजनाभावेऽपि भूतानुजिघृक्षया वैदिकं धर्मद्वयमर्जुनाय शोकमोहमहोदधौ निमनायोपदिदेश, गुणाधिकै र्हि गृहीतोऽनुष्ठीयमानश्च धर्मः प्रचयं गमिष्यतीति। तं धर्मं भगवता यथोपदिष्टं वेदव्यासः सर्वज्ञो भगवान्गीताख्यैः सप्तभिः श्लोकशतैरुपनिबबन्ध / / श्रीरामानुजाचार्यकृत-वेदार्थसंग्रहात् सर्वं वेदान्तवाक्यजातं ब्रह्मानुभवज्ञापने प्रवृत्तम् अस्य जीवात्मनोऽनाद्यविद्यासंचितपुण्यपापरूपकर्मप्रवाहहेतुकब्रह्मादिसुरनरतिर्यस्थावरात्मक चतुर्विधदेह प्रवेशकृततत्तदात्माभिमानजनितावर्जनीयभवभयविध्वंसनाय देहातिरिक्तात्मस्वरूप-तत्स्वभाव-तदन्तर्यामिपरमात्मस्वरूप-तत्स्वभाव-तदुपासन-तत्फलभूतात्मस्वरूपाविर्भावपूर्वकानवधिकातिशयानन्दब्रह्मानुभवज्ञापने प्रवृत्तं हि वेदान्तवाक्यजातम्-तत्त्वमसि, अयमात्मा ब्रह्म, य आत्मनि तिष्ठन्नात्मनोऽन्तरोऽयमात्मा न वेद यस्यात्मा शरीरं य आत्मानमन्तरो यमयति स त आत्माऽन्तर्याम्यमृतः, एष सर्वभूतानामात्माऽपहतपाप्मा दिव्यो देव एको नारायणः, तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेन, ब्रह्मविदाप्नोति परम्, तमेवं विद्वानमृत इह भवति, नान्यः पन्था अयनाय विद्यते इत्यादिकम्।
Page #37
--------------------------------------------------------------------------
________________ श्रीरामानुजाचार्यकृत-वेदार्थसंग्रहात् 17 ज्ञानानन्दैकगुणो जीवः सर्वेषां समानः जीवात्मस्वरूपं देवमनुष्यादिप्रकृतिपरिणामविशेषरूपनानाविधभेदरहितं ज्ञानानन्दैकगुणम्।तस्यैतस्यक्रमकृतदेवादिभेदेऽपध्वस्ते स्वरूपभेदो वाचामगोचरः स्वसंवेद्यः, ज्ञानस्वरूपमित्येतावदेवं निर्देश्यम् / तच्च सर्वेषामात्मनां समानम्। अनन्तगुणगणागारो नारायणः पुरुषोत्तमो भगवान् एवंविधचिदचिदात्मकप्रपञ्चस्योद्भवस्थितिप्रलयसंसारनिवर्तनैकहेतुभूतः समस्तहे यप्रत्यनीकतया (अनन्त) कल्याणैक तानतया च स्वेतरसमस्तवस्तुविलक्षणस्वरूपोऽनवधिकातिशयासंख्येयकल्याणगुणगणःसर्वात्मपरब्रह्म परज्योतिः-परतत्त्व परमात्म-सदादिशब्दभेदेर्निखिलवेदान्तवेद्यो भगवान्नारायणः पुरुषोत्तमः। ___ पुरुषोत्तमो नारायणो भक्त्येकलभ्यः सोऽयं परब्रह्मभूतःपुरुषोत्तमः, निरतिशयपुण्यसञ्चयक्षीणाशेषजन्मोपचितपापराशेः परमपुरुषचरणारविन्दशरणागतिजनिततदाभिमुख्यस्य, सदाचार्योपदेशोपबृंहितशास्त्राधिगत-तत्त्वयाथात्म्यावबोधपूर्वकाहरहरुपचीयमानशमदमतपश्शौचक्षमाऽऽर्जव-भयाभयस्थानविवेकदयाहिंसाद्यात्मगुणोपेतस्य, वर्णाश्रमोचितपरमपुरुषाराधनवेषनित्यनैमित्तिककर्मोपसंहतिनिषिद्धपरिहारनिष्ठस्य, परमपुरुषचरणारविन्दयुगलन्यस्तात्मात्मीयस्य, तद्भक्तिकारितानवरतस्तुतिस्मृतिनमस्कृतियजनकीर्तनगुणश्रवणवचनध्यानार्चनप्रणामादिप्रीतपरमकारुणिकपुरुषोत्तमप्रसादविध्वस्तस्वान्तध्वान्तस्य,अनन्यप्रयोजनानवरतनिरतिशयप्रियविशदतमप्रत्यक्षतापन्नानुध्यानरूपभक्त्येकलभ्यः। तदुक्तं परमगुरुभिः भगवद्रामानुजाचार्यपादै:उभयपरिकर्मितस्वान्तस्य ऐकान्तिकात्यन्तिकभक्तियोग लभ्यः /
Page #38
--------------------------------------------------------------------------
________________ 18 गद्यसंग्रहः श्रीभाष्यात् अविद्या जगन्मूलं, तन्निवर्हणाय निर्विशेषब्रह्मात्मैकत्वविद्या__ प्रतिपत्तये सर्वे वेदान्ताः प्रवृत्ता इत्यद्वैतवादिनां पूर्वपक्षः परमार्थतो निरस्तसमस्तभेदविकल्पनिर्विशेषचिन्मात्रैकरसकूटस्थनित्यसंविदेव भ्रान्त्या ज्ञातृज्ञेय ज्ञानरूपविविधविचित्रभेदा विवर्तत इति तन्मूलभूता विद्यानिवर्हणाय नित्यशुद्धबुद्धमुक्तस्वभावब्रह्मात्मैकत्वविद्याप्रतिपत्तये सर्वे वेदान्ता आरभ्यन्तेइति / / महासिद्धान्तः - अद्वैतवादिनां मायावादोपजीविनः पूर्वपक्षस्य खण्डनम् तदिदमौपनिषदपरमपुरुषवरणीयताहेतुगुणविशेषविरहिणामनादिपापवासनादूषिताशेषशेमुषीकाणामनधिगतपदवाक्यस्वरूपतदर्थयाथात्म्यप्रत्यक्षादिसकलप्रमाणवृत्ततदितिर्कव्यतारूपसमीचीनन्यायमार्गाणां विकल्पासहविविधकुतर्ककल्ककल्पितमिति, न्यायानुगृहीतप्रत्यक्षादिसकलप्रमाणकृतयाथात्म्यविद्भिरनादरणीयम्। प्रमाणाभावाद् वस्तु न निर्विशेषं किन्तु सविशेषमेव, अतो निर्विशेषं ब्रह्म नास्ति तथाहि-निर्विशेषवस्तुवादिभिर्निर्विशेषे वस्तुनीदं प्रमाणमिति न शक्यते वक्तुम्, सविशेषवस्तुविषयत्वात्सर्वप्रमाणानाम्। यस्तु स्वानुभवसिद्धमिति स्वगोष्ठीनिष्ठस्समयः, सोऽप्यात्मसाक्षिकसविशेषानुभवादेव निरस्तः, 'इदमहमदर्शम्' इति केनचिद्विशेषेण विशिष्टविषयत्वात्सर्वेषामनुभवानाम्। सविशेषोऽप्यनुभूयमानोऽनुभवः केनचिद्युक्त्याभासेन निर्विशेष इति निष्कृष्यमाणस्सतातिरेकिभिस्स्वासाधारणैस्स्वभावविशेषैर्निष्कृष्टव्य इति निष्कर्षहेतुभूतैस्सत्तातिरेकिभिस्स्वासाधारणैस्स्वभावविशेषेस्सविशेष एवावतिष्ठते। अतः कैश्चिद्विशेषैर्विशिष्टस्यैव वस्तुनोऽन्ये विशेषा निरस्यन्त इति, न क्वचिनिर्विशेषवस्तु-सिद्धिः। धियो हि धीत्वं स्वप्रकाशता च ज्ञातुर्विषयप्रकाशनस्वभावतयोपलब्धः। स्वापमदमूर्छासु
Page #39
--------------------------------------------------------------------------
________________ श्रीभाष्यात् 19 च सविशेष एवानुभव इति स्वावसरे निपुणतरमुपपादयिष्यामः। स्वाभ्युपगताश्च नित्यत्वादयोह्यनेके विशेषास्सन्त्येव। ते च न वस्तुमात्रमिति शक्योपपादनाः। वस्तुमात्राभ्युपगमे सत्यपि विधाभेदविवाददर्शनात्, स्वाभिमततद्विधाभेदेश्च स्वमतोपपादनात्। अतः प्रामाणिकविशेषैर्विशिष्टमेव वस्त्विति वक्तव्यम् / शब्दस्य तु विशेषेण सविशेष एव वस्तुन्यभिधानसामर्थ्यम्, पदवाक्यरूपेण प्रवृत्तेः। प्रकृतिप्रत्यययोगेन हि पदत्वम्। प्रकृतिप्रत्ययोरर्थभेदेन पदस्यैव विशिष्टार्थप्रतिपादनमवर्जनीयम्। पदभेदश्चार्थभेदनिबन्धनः। पदसयातरूपस्य वाक्यस्यानेकपदार्थ-संसर्गविशेषाभिधायित्वेन निर्विशेषवस्तुप्रतिपादनासामर्थ्यात् न निर्विशेषवस्तुनि शब्दः प्रामाणम्। निर्विकल्पकप्रत्यक्षमपि निर्विशेषं नावगाहते प्रत्यक्षस्य निर्विकल्पकसविकल्पकभेदभिन्नस्य न निर्विशेषवस्तुनि प्रमाणभावः। सविकल्पकं जात्याद्यनेकपदार्थविशिष्टविषयत्वादेव सविशेषविषयम्। निर्विकल्पकमपि सविशेषविषयमेव, सविकल्पके स्वस्मिन्ननुभूतपदार्थविशिष्टप्रतिसंधानहेतुत्वात्। निर्विकल्पकं नाम केनचिद्विशेषेण वियुक्तस्य ग्रहणम्, न सर्वविशेषरहितस्य, तथाभूतस्य कदाचिदपि ग्रहणादर्शनादनुपपत्तेश्च। केनचिद्विशेषेणेदमित्थमिति हि सर्वा प्रतीतिरुपजायते, त्रिकोणसास्नादिसंस्थानविशेषेण विना कस्यचिदपिपदार्थस्य ग्रहणायोगात्।अतो निर्विंकल्पकमेकजातीयद्रव्येषु प्रथमपिण्डग्रहणम् द्वितीयादिपिण्डग्रहणं सविकल्पकमित्युच्यते। तत्र प्रथमपिण्डग्रहणे गोत्वादेरनुवृत्ताकारता न प्रतीयते। द्वितीयादिपिण्डग्रहणे ष्वेवानुवृत्तिप्रतीतिः। प्रथमप्रतीत्यनुसंहितवस्तुसंस्थानरूपगोत्वादेरनुवृत्तिधर्मविशिष्टत्वं द्वितीयादिपिण्डग्रहणावसेयमिति, द्वितीयादिग्रहणस्य सविकल्पकत्वम्, सास्त्रादिवस्तुसंस्थानरूपगोत्वादेरनुवृत्तिर्न प्रथमपिण्डग्रहणे गृह्यत इति, प्रथमपिण्डग्रहणस्य निर्विकल्पकत्वम्, न पुनस्संस्थानरूपजात्यादेरग्रहणात्। संस्थानरूपजात्यादेरप्यैन्द्रियिकत्वाविशेषात्, संस्थानेन विना संस्थानिनः प्रतीत्यनुपपत्तेश्च प्रथमपिण्डग्रहणेऽपि संस्थानमेव वस्तु इत्थमिति गृह्यते। अतो द्वितीयादिपिण्डग्रहणेषुगोत्वादेरनुवृत्तिधर्मविशिष्टता संस्थानिवत्संस्थानवच्च सर्वदैव गृह्यत इति तेषु सविकल्पकत्वमेव / अतः प्रत्यक्षस्य कदाचिदपि न निर्विशेषविषयत्वम् /
Page #40
--------------------------------------------------------------------------
________________ 20 गद्यसंग्रहः तत्त्वप्रदीपिका-चित्सुखीतः लक्षणप्रमाणाभ्यां भावाभावविलक्षणस्य अज्ञानस्य सिद्धिः न तावल्लक्षणासंभवस्तथाहि- "अनादि भावरूपं यद्विज्ञानेन विलीयते तदज्ञानमिति प्राज्ञा लक्षणं संप्रचक्षते // 9 // " अनादित्वे सति भावरूपं विज्ञाननिरस्यमज्ञानमिति लक्षणमिह विवक्षितम् / न तावदिहाव्याप्तिः / सर्वेषामप्यज्ञानानामुक्तरूपत्रयानुगमात्। नाप्यतिव्याप्तिः। अनादेर्भावस्यात्मनो निवर्त्यत्वाभावेन ज्ञाननिवर्त्यत्वस्याप्यभावात्, तदन्यस्य च परमाणोस्तद्गत-श्यामत्वादेश्च स्वरूपतोनङ्गीकृतस्य दूरत एवानादित्वानङ्गीकारात्।नचासंभवित्वं, भावाभावविलक्षणस्याज्ञानस्याभावविलक्षणत्वमात्रेण भावत्वौपचारादात्मवदनादिभावत्वेनानिवर्त्यत्वानुमानानुपपत्तेः। नचैवंविधे मानासंभवः। यतः-देवदत्तप्रमा तत्स्थप्रमाभावातिरेकिण:। अनादेर्ध्वंसिनीमात्वादविगीतप्रमा यथा // 10 // विगीतं देवदत्तनिष्ठप्रमाणज्ञानं देवदत्तनिष्ठ प्रमाऽभावातिरिक्तानादेर्निवर्तकं प्रमाणत्वाद्यज्ञदत्तादिगतप्रमाणज्ञानवदित्यनुमानम्। ये तु प्रमा प्रमाप्रागभावनिवृत्तिरेव न तु निवर्तिकेति मन्यन्ते तान्प्रति, देवदत्तप्रमा तनिष्ठप्रमाभावातिरिक्तानादिनिवृत्तिरिति प्रयोक्तव्यम्। न चैतदसमवेतत्वमेत दन्यसमवेतत्वं वा तत्रोपाधिः। साध्याव्याप्तेः। एतत्समवेतसुखदु:खेच्छाद्वेषप्रयत्नानामेतन्निष्ठप्रमाभावातिरिक्तानादेःस्वप्रागभावस्य निवर्तकत्वेन साध्ये विद्यमानेपि त्वदुक्तोपाधेरभावात्। न च विवादपदमनादेर्भावस्य निवर्तकं न भवति पदार्थत्वात्संप्रतिपन्नवदिति प्रत्यनुमानविरोधः। सत्ताद्रव्यत्वाद्यनिवर्तकत्वेन सिद्धसाधनत्वात्। ननुसंप्रतिपन्नात्मादिपदार्थातिरिक्तस्य भावस्याभावातिरिक्तस्य चानादेर्न निवर्तकमिति विशेषणादिदमदूषणमिति चेन्न। तस्य तवाप्रसिद्ध-तयाऽप्रसिद्धविशेषणत्वापत्तैः / किं च "न किंचिदवेदिष" मिति परामर्शसिद्धसौषुप्तिकानुभवोऽप्यत्र प्रमाणम्। न च ज्ञानाभावविषयोऽयमनुभवः। अभावप्रतीतेर्धर्मिप्रतियोगिबोधपराधीनतया तदभावे तस्यानभवितुमयोग्यत्वात्। न च भेदसादृश्यादिवत्स्वरूपेणाभावस्यापि निर्विकल्पकबुद्धिबोध्यता। तथात्वे सादृश्यादिवदेव भावत्वापत्तेः, निर्विकल्पकबुद्धिबोध्यो भाव इति परैर्लक्षणाङ्गीकारात्। नायं सुषुप्तिकालीनानुभवजपरामर्श :, कितूत्थितस्येदानीमेव सौषुप्तिकज्ञानाभावानुमानमिति च न वाच्यम्। तदनुमाप
Page #41
--------------------------------------------------------------------------
________________ खण्डनखण्डखाद्यात् 21 कलिङ्गासिद्धेः। न च सामग्र्यभावो लिङ्गम्। तस्याप्यसिद्धेः। न च ज्ञानाभावेन तस्यानुमानम्। अन्योन्याश्रयतापत्तेः, सामग्रयभावाज्ज्ञानाभावानुमानं तदभावाच्च सामग्र्यभावानुमानमिति। नचैवं सति वेदान्तिनामपि ज्ञानाभावानुमानासंभवः। अवस्थाभेदसंभिन्नभावरूपाज्ञानसंवेदनादेव सुषुप्त्यवस्थायां तद्विरुद्धस्य ज्ञानस्य तत्सामग्र्याश्चाभावानुमानात्, त्वयापि गत्यन्तराभावादेवमेव ज्ञानाभावानुमानस्यावश्याभ्युपेयत्वात्। न चैवंविधमज्ञानमद्याप्यसिद्धमिति वाच्यम्। तत्प्रमाणस्य दर्शितत्वात्। त्वदुक्तमर्थे न जानामीति व्यवहारान्यथानुपपत्तिरपि भावरूपाज्ञानसद्भावे मानम्। न च प्रमाणतो न जानामीत्येवंपरतयापि व्यवहारोपपत्तिः। त्वदुक्तेऽर्थे प्रमाणज्ञानं मम नास्तीत्यस्य विशिष्टविषयज्ञानस्य प्रमात्वात्, तद्विशेषणतयार्थस्यापि प्रमाणेनाधिगतत्वात्, स्ववचनव्याघातापत्तेः। एतदतिरिक्तप्रमाणज्ञानं त्वदुक्तेऽर्थे मम नास्तीति वदतो वचनव्याघातदोषानुषङ्ग एवास्यापि ज्ञानस्य पूर्ववदेव प्रमाणजन्यत्वात्। न च सामान्यतः प्रमाणेनार्थस्याधिगमेऽपि विशेषानधिगमाददोषः। विशेषस्याप्यधिगमानधिगमयोः पूर्वोक्तदोषानतिवृत्तेः। ननु भावरूपमप्यज्ञानं ज्ञाननिरस्यमभ्युपगम्यते भवद्भिस्तत्कथं ज्ञायमानेऽर्थे न जानामीति व्यवहारः। मैवम्। अस्मन्मतेऽज्ञानस्य साक्षिसिद्धतया प्रमाणाबोध्यत्वात्, प्रमाणज्ञानोदयात्प्राकालेऽज्ञानं तद्विशेषितोऽर्थःसाक्षिसिद्धोऽज्ञात इत्यनुवादगोचरो भवति, भवति च प्रश्नार्ह इत्यविरोधात्। उक्तं च संप्रदायविद्भिः सर्वे वस्तु ज्ञाततया अज्ञाततया वा साक्षिचैतन्यस्य विषय एवेति। खण्डनखण्डखाद्यात् प्रमाणादीनां सत्त्वं स्वीकृत्यैव वादिभिः कथा प्रवर्त्तयितुं शक्येत्येतस्य खण्डनम् अथ कथायां वादिनो नियममेतादृशम् मन्यन्ते-प्रमाणादयः सर्वतन्त्रसिद्धान्ततया सिद्धाः पदार्थाः सन्तीति कथकाभ्यामभ्युपेयम् / / 4 // " तदपरे न क्षमन्ते / तथाहि प्रमाणादीनां सत्त्वं यदभ्युपेयम् कथकेन तत् कस्य हेतोः? किं तदनभ्युपगच्छद्भ्यां वादिप्रतिवादिभ्याम् तदेभ्युपगमसाहित्यनियतस्य वाग्व्यवहारस्य
Page #42
--------------------------------------------------------------------------
________________ गद्यसंग्रहः प्रवर्त्तयितुमशक्यत्वात्? उत कथकाभ्यां प्रवर्तनीयवाग्व्यवहारं प्रति हेतुत्वात्, उत लोकसिद्धत्वात्, अथवा तदनभ्युपगमस्य तत्त्वनिर्णयविजयफलातिप्रसज्जकत्वात् / / 5 // नतावदाद्यः। तदनभ्युपगच्छतोऽपिचार्वाकमाध्यमिकादेवाग्निस्तराणाम्प्रतीयमानत्वात्। तस्यैव वाऽनिष्पत्तौ भवतस्तन्निरासप्रयासानुपपत्तेः। सोऽयमपूर्वोवाक्स्तम्भनमन्त्रो भवताभ्यूहितः। नूनं यस्य प्रभावाद् भगवता सुरगुरुणा लोकायतकानि सूत्राणि न प्रणीतानि, तथागतेन वा मध्यमागमा नोपदिष्टाः, भगवत्पादेन वा बादरायणीयेषु सूत्रेषु भाष्यन्नाभाषि। नापि द्वितीयः। तथाहि स्यादप्येवं यदि कथकप्रवर्तनीयवाग्व्यवहारम्प्रति प्रमाणादीनाम् हेतुता तत्सत्त्वाऽननभ्युपगमे निवर्तेत। नत्वेवं सम्भवति। तथा सति तत्सखानभ्युपगन्तॄणां वाग्व्यवहारस्वरूपमेव न निष्पद्येत हे त्वनुपपत्तेः। उक्तश्चायमर्थो यन्माध्यमिकादिवाग्व्यवहाराणां स्वरूपापलापो न शक्यत इति // 14 // ___ अथ मन्यसे कथकवाग्व्यवहारम्प्रति हे तुत्वात् प्रमाणादीनां सत्वं, सखाच्चभ्युपगमः, यत्सत् तद् अभ्युपगम्यते इति स्थितेरिति। मैवम्। कस्यापि नियमस्थित्या प्रवृत्तायां कथायां कथकवाग्व्यवहारम्प्रति हेतुत्वात् प्रमाणादीनां सत्त्वं सखाच्चाभ्युपगमोभवता प्रसाध्यः // 15 // कथातः पूर्वं तत्त्वावधारणं वा परपराजयं वाऽभिलषद्भ्यां कथकाभ्यां यावता विनाऽभिलषितं न पर्यवस्यति तावदनुरोद्धव्यम्। तच्च व्यवहारनियमसमयबन्धादेव द्वाभ्यामपि ताभ्यां सम्भाव्यते इति व्यवहारनियमसमयमेव बध्नीतः // 16 // स च -प्रमाणेन तर्केण च व्यवहर्त्तव्यं वादिना। प्रतिवादिनापि कथाङ्गतत्त्वज्ञानविपर्ययलिङ्गप्रतिज्ञाहान्याद्यन्यतमनिग्रहस्थानं तस्य दर्शनीयम् / तव्युत्पादने प्रथमस्य भङ्गोव्यवहर्तव्यः / अन्यथातु द्वितीयस्यैव / तादृशेतरौ जेतृतया व्यवहर्तव्यौ। प्रामाणिकः पक्षः तात्त्विकतयाव्यवहर्त्तव्यःइत्यादिरूपः / / 17 // नापि तृतीयः। लोकव्यवहारो हि प्रमाणलोकव्यवहारो वा स्यात् पामरादिसाधारणव्यवहारो वा? नाद्यः, विचारप्रवृत्तिमन्तरेण तस्य दुर्निरूपत्वात्, तदर्थमेव च पूर्वं नियमस्य गवेषणात् / नापि द्वितीयः, शरीरात्मत्वादीनामपि तथा सति भवता स्वीकर्त्तव्यत्वापातात्। पश्चात् तद्विचारबाध्यतया नाभ्युपेयते इति
Page #43
--------------------------------------------------------------------------
________________ खण्डनखण्डखाद्यात् 23 चेत्, तर्हि प्रमाणादयोपि यदि विचारबाध्या भविष्यन्ति तदानाभ्युपेया एव, अन्यथा तूपगन्तव्या इति लोक व्यवहारसिद्धतया सत्त्वमभ्युपगम्यते इति तावन्न भवति / / 21 // नापि चतुर्थः। यादृशो भवता प्रमाणादीन्यभ्युपगम्य व्यवहारनियमः कथायामालम्ब्यते, तस्यैव प्रमाणादिसत्वासत्वानुसरणोदासीनैरस्माभिरप्यवलम्बनात्। तस्य यदि मां प्रति फलातिप्रसज्जकत्वं तदा त्वां प्रत्यपि समानः प्रसङ्गः // 22 // अद्वैतं पारमार्थिकतया आविद्यकैस्तकॆर्बाधितुमशक्यम् ननु किमद्वैतपरमार्थताभ्युपगमेन समाहितं भवति? यत उपजीव्यबाधादद्वैते प्रमां श्रुतिर्जनयितुं न शक्नोतीति ब्रूमः // 156 // मैवम् / अद्वैतं हि पारमार्थिकमिदं पारमार्थिकेन भेदेन बाध्येत, नत्वविद्या विद्यमानेन, तस्माद् अविद्याव्यवस्थितं भेदं तद्बोधं चोपजीवन्त्या न पारमार्थाद्वैतबुद्धरुपजीव्यत्वबाधः। यदि श्रुतिजन्या भवन्त्यप्यद्वैतबुद्धिः अविद्याविद्यमाना, तथापि तद्विषयस्तावत् परमार्थसदेवाद्वैतम् / विरोधेन च तस्याः बाध्यता, स च नास्तीति // 157 / / तस्मात् - पारमार्थिकमद्वैतं प्रविश्य शरणं श्रुतिः। बाधनादुपजीव्येन बिभेति न मनागपि // 23 // श्रुतिरपि तदाह द्वितीयाद्वै भयं भवतीति // 158 // तच्चाद्वैतं ब्रह्मैवेदं सर्वमिति' श्रुत्यर्थेन सहैक्यमापन्नं ब्रह्मैव स्यात्, विज्ञानमानन्दं ब्रह्मेति' च श्रुत्याज्ञानान्दात्मतया व्यवतिष्ठते। तेन यदिदमद्धतज्ञानं श्रुत्या जनितं तद्विज्ञानाद्वैतात्मन्येव निविशते // 159 // ननु कथं तस्य श्रुत्या जन्यत्वमुपपद्यते? सत्यम्, एवं स्यात्, यदि तस्य पारमार्थिकी श्रुत्या जन्यतापि स्यात्, अविद्याव्यवस्थिता तु तजन्यता न पारमार्थिकेनाजन्यत्वेन विरुद्धयते / / 160 / / अत एव श्रुत्येदमेकं साध्यते / यत्तु, तत्र यद्यकता भेदाभावो, यदि चैकत्त्वसंख्या, यदि वा ज्ञानात्मकत्वं, यदिवाऽन्य एवैकत्वनामा कश्चिदभेदापरपर्यायो धर्मस्तद्वत्वंबोध्यते,तच्चाद्वैतव्याघातकत्वान्न सेढुं शक्नोति, तदा तदपि निष्पीडनम् असहमानं तज्ज्ञानं श्रुतिजन्यत्वेन सहैव निवर्तताम्। यत्तु तादृशस्याद्वैतस्य धर्मस्य धर्मितया प्रमितं तन्मात्रमबाधादधिगतं, परमार्थतो व्यवतिष्ठताम् / न हि परमार्थ-शुक्ती रजततया प्रतीयते यदा, तदा बाधात्तत्र रजतत्वे व्यावर्त्तमाने धर्मिव्यक्तिरपि तदपराधान्निवर्तते // 161 //
Page #44
--------------------------------------------------------------------------
________________ गद्यसंग्रहः सेयमद्वैतबुद्धिन तर्कशतमवतार्यं प्राज्ञैरपनेया, यद् आह श्रुतिः- "नैषा सर्केण मतिरापनेयेति / " तस्मात् धीधनाः ! बाधनायाऽस्यास्तदा प्रज्ञा प्रयच्छथ क्षेप्तुं चिन्तामणिं पाणि-लब्धमब्धौ यदीच्छथ // 24 // 162 // सेयमद्वैतदृष्टिदृष्टार्थापि,यदाहुः- 'स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात्। तस्मात् ईश्वरानुग्रहादेषा पुंसामद्वैतवासना / महामयकृतत्राणा द्वित्राणां यदि जायते // 25 // 163 // तस्मात् आपाततोयदिदमद्वयवादिनीनाम् अद्वैतमाकलितमर्थतया श्रुतीनाम् / तत् स्वप्रकाशपरमार्थचिदेव भूत्वा, निष्पीडितादहह ! निर्वहते विचारात् // 26 // 164 // तदिदमेताभिरात्ममतसिद्धसद्युक्तिलक्षणोपपन्नाभिर्युक्तिभिरुपनीमानमद्वैतमविद्या-विलास-लालसोऽपि श्रद्दधातु तावद्भवान्, तदनु चानयैवोपनिषदर्थश्रद्धयाऽध्यात्म जिज्ञासमानः परमार्थतत्त्वं क्रमाद् वृत्तिव्यावृत्तचेताः स्वप्रकाशसाक्षिकं माक्षिकरसातिशायि स्वात्मनैवसाक्षात्करिष्यति। यथा च परिहतचापलमात्मत्त्वामृतसरसि निमज्य रज्यति निरायासमेवमानसंतथाऽहमकथयं नैषधचरितस्य परमपुरुषस्तुतौ सर्गे। अनुभवत्वस्य जातित्वनिरासः ति चेन्न। माघमासीयनिशावसाने सितासितसरित्सम्भेदनायिनः सत्यपिशब्दबलाद् भाविस्वकीयस्वर्गसुखसम्प्रत्यये सुखमनुभवामीतिप्रतीत्यनुदयात्, प्रत्युत शीतसम्भूतवेदनासम्वेदनादेव परस्त्रियञ्च सम्भुञ्जानस्याऽऽस्तिककामुकस्य शब्दाधीने सत्यपि भाविनरकगमनानुभवनीययातनाधिगमे दुःखमनुभवामीति मतेरनुत्पत्तेः, प्रत्युतामन्दमानन्दं सम्विदन् साम्प्रतसस्मीति प्रत्ययात्। यदि तु शब्दोपदर्शितव्याप्तिजमनुमानमनुभव एव स्यात्, तर्हि सुखं दुःखं वाऽनुभवामीति तयोः प्रत्ययः स्यात् / / 12 / /
Page #45
--------------------------------------------------------------------------
________________ अद्वैतसिद्धितः कथाप्रवृत्तये मध्यस्थेन विप्रतिपत्तिप्रदर्शनमस्यावश्य कर्तव्यतासाधनम् तत्राद्वैतसिद्धेद्वैतमिथ्यात्वसिद्धिपूर्वकत्वात् द्वैतमिथ्यात्वमेव प्रथममुपपादनीयम्। उपपादनंचस्वपक्षसाधनपरपक्षनिराकरणाभ्यां भवतीति तदुभयं बादजल्पवितण्डानामन्यतमां कथामाश्रित्य संपादनीयम् / तत्र च विप्रतिपत्तिजन्यसंशयस्य विचाराङ्गत्वान्मध्यस्थेनादौ विप्रतिपत्तिः प्रदर्शनीया। यद्यपि विप्रतिपत्तिजन्यसंशयस्य न पक्षतासंपादकतयोपयोगः,सिसाधयिषाविरहसहकृतसाधकमानाभावरूपायास्तस्या:संशयाघटितत्वात्, अन्यथा श्रुत्यात्मनिश्चयवतोऽनुमित्सया तदनुमानं न स्यात्। वाद्यादीनां निश्चयवत्वेन संशयासंभवादाहार्यसंशयस्यातिप्रसजकत्वाच्चः नापि विप्रतिपत्ते: स्वरूपत एव पक्षप्रतिपक्षपरिग्रहफलकतयोपयोगः, त्वयेदं साधनीयं' अनेनेदं दूषणीयमित्यादि-मध्यस्थवाक्यादेव तल्लाभेन विप्रतिपत्तिवैयर्थ्यात्, तथापि विप्रतिपत्तिजन्यसंशयस्यानुमित्यनङ्गत्वेऽपि व्युदसनीयतया विचाराङ्गत्वमस्त्येव। तादृशसंशयं प्रति विप्रतिपत्तेः क्वचिनिश्चयादिप्रतिबन्धादजनकत्वेऽपि स्वरूपयोग्यत्वात्।वाद्यादीनां च निश्चयवत्वे नियमाभावात् "निश्चितौ हि वादं कुरुते" इत्याभिमानिकनिश्चयाभिप्रायं, परपक्षमालम्ब्याप्यहंकारिणो विपरीतानिश्चय-वतो जल्पादौ प्रवृत्तिदर्शनात्। तस्मात् समयबन्धादिवत् स्वकर्त्तव्यनिर्वाहाय मध्यस्थेन विप्रतिपत्तिः प्रदर्शनीयैव। तत्र मिथ्यात्वे विप्रतिपत्तिः ब्रह्म-प्रमातिरिक्ताबाध्यत्वे सति सत्वेन प्रतीयत्यह चिद्भिन्नंप्रतिपत्योपाधौ वैकालिकनिषेधप्रतियोगिन वा, पारमार्थकित्वाकारेणोक्तनिषेधप्रतियोगि न वेति। अथ दृष्टिसृष्टयुपपत्तिः - जगन्मिथ्यात्वसिद्धयनुगुणायाः दृष्टिसृष्टेः स्वरूपम् शुक्तिरूप्यस्वप्नादिवत् दृष्टिसृष्ट्यन्यथानुपपत्त्यापि जगतो मिथ्यात्वसिद्धिः। अथ केयं दृष्टिसृष्टि:? (1) दृष्टिरेव सृष्टिरिति वा (2) दृष्टिव्यतिरिक्तसृष्टयभावो वा (3) दृष्टिव्यत्तिरेकेण सृष्ट्याभावो वा (4) दृष्टिसामग्री जन्यत्वं वा (5) दृष्टिसमानकालीनसृष्टिा (6) दृष्टिसमानसत्ताकसृष्टिर्वा (7) सदसद्विलक्षणत्वं वा
Page #46
--------------------------------------------------------------------------
________________ 26 गद्यसंग्रहः (8) त्रिविधसत्त्वबहिर्भूतत्वे सत्यसद्विलक्षणत्वं वा (9) अज्ञातसत्त्वाभावो वा (10) ज्ञातैकसत्वं वा / आद्ये वृत्तिरूपा, चैतन्यरूपा वा, दृष्टिरभिमता / प्रथमे चरमवृत्तिविषयब्रह्मणोऽपि दृष्टिसृष्ट्यापत्तिः / द्वितीये सर्वदापि सृष्ट्यापत्तिः / न द्वितीयः, चैत्रेण सृष्टो मया दृष्ट इति वैलक्षण्येन व्यवहारानुपपत्तेः / न तृतीयः, 'ज्ञातो घटो न ज्ञान' मिति अनुभवविरोधात् / न चतुर्थः एकसामग्रीप्रसूतत्वेन घटादेदृष्ट्यभिन्नत्वेनान्नन्तरोक्तदोषात्। न पञ्चमः,शाब्दादिज्ञानसमकालोत्पन्नघटादौ सिद्धसाधनात्, तद्वदन्यत्रार्थान्तरतापत्तेश्च। न षष्ठ : उभयसत्त्वेऽप्युपपत्तेः सिद्धसाधनात्। न सप्तमः यस्यैव मिथ्यात्वरूपत्वेन तत्साधनायैव तदुपन्यासानुपपत्तेः। नाष्टमः, त्रिविधसत्त्वमध्ये प्रातिभासिकसत्त्वस्याप्यन्तर्भावेन दृष्टिसृष्टिपक्षे तद्वति जगति तद्वहिर्भावानुपपत्तेः। न नवमः तुच्छसाधारण्यात्। न दशमः, सुखादौ सिद्धसाधनात्, तद्वदन्यत्रार्थान्तराच्चेति-चेन्न, दोषप्रयुक्तत्वनिबन्धनस्य ज्ञातैकसत्वस्याज्ञातसत्त्वाभावस्य वा, प्रतिपन्नोपाधिदृष्टिजन्यज्ञातैकसत्त्वस्य वा, द्रष्ट्यन्तरावेद्यत्वे सति ज्ञातैकसत्त्वस्य वा विवक्षितत्वात् / तथा च न सुखाद्यंशे सिद्धसाधनम्, तद्वदन्यत्रार्थान्तरं वा। रामानुजकृतगीताभाष्यम् परब्रह्मभूतो भगवान् कृष्णः युद्धाय अर्जुनस्य प्रोत्साहव्याजेन ___ वेदान्तोक्तं भक्तियोगमवतारयामासेतिगीतोद्धारः श्रियः पतिः, निखिलहेयप्रत्यनीककल्याणैकतानः, स्वेतरसमस्तवस्तुविलक्षणानन्तज्ञानानन्दैकस्वरूपः, स्वाभाविकानवधिकातिशयज्ञानबलैश्वर्यवीर्यशक्तितेजः प्रभृत्यसंख्येयकल्याणगुणगणमहोदधिः, स्वाभिमतानुरूपैकरूपाचिन्त्यदिव्याद्भुतनित्यनिरवद्यनिरतिशयौज्ज्वल्यसौन्दर्यसौगन्ध्यसौकुमार्यलावण्ययौवनाद्यनन्तगुणनिधिर्दिव्यरूपः, स्वोचितविविधविचित्रानन्ताश्चर्यनित्यनिरवद्यापरिमितादिव्यभूषणः, स्वानुरूपासंख्येयाचिन्त्यशक्तिनित्यनिरवद्यनिरतिशयकल्याणदिव्यायुधः, स्वाभिमतानुरूपनित्यानिरवद्यस्वरूपरूपगुणविभवैश्वर्यशीलाद्यनवधिकातिशयासंख्येयकल्याणगुणगणश्रीवल्लभः, स्वसंकल्पानुविधायिस्वरूपस्थितिप्रवृतिभेदाशेषशेषतै करतिरूपनित्यनिरवद्यनिरतिशयज्ञानक्रियैश्वर्याद्यनन्तगुणगणापरिमितसूरिभिरनवरताभिष्टुत
Page #47
--------------------------------------------------------------------------
________________ निम्बार्कवेदान्ते पारिजातसौरभात् चरणयुगलः,वाङ्मनसापरिच्छेद्यस्वरूपस्वभावः, स्वोचितविविधविचित्रानन्तभोग्यभोगोपकरणभोगस्थानसमृद्धानन्ताश्चर्यानन्तमहाविभवानन्तपरिमाणनित्यनिरवद्याक्षरपरमव्योमनिलयः, विविधविचित्रानन्तभोग्याभोक्तृवर्गपरिपूर्णनिखिलजगदुदयविभवलयलीलः, परं ब्रह्म, पुरुषोत्तमो नारायणः ब्रह्मादिस्थावरान्तमखिलं जगत्सृष्ट्रा स्वेन रूपेणावस्थितः,ब्रह्मादिदेवमनुष्याणां ध्यानाराधनाद्यगोचरः,अपारकारुण्यसौशील्यवात्सल्यौदार्यमहोदधिः,स्वमेव रूपंतत्तत्सजातीयसंस्थानं स्वस्वभावमजहदेव कुर्वन् तेषुतेषु लोकेष्ववतीर्यावतीर्य तैस्तैराराधितस्तत्तदिष्टानुरूपं धर्मार्थकाममोक्षाख्यं फलं प्रयच्छन्, भूभारावतारणापदेशेनास्मदादीनामपि समाश्रयणीयत्वायावतीर्यो| सकलमनुजनयनविषयतां गतः, पारावारनिखिलजनमनोनयनहारिदिव्यचेष्टितानि कुर्वन्, पूतना शकटयमलार्जुनारिष्टप्रलम्बधेनुककालियके शिकुवलयापीडचाणूरमुष्टिकतोसलकंसादीनिहत्य अनवधिकदयासौहार्दानुरागगर्भावलोकनालापामृतैर्विश्वमाप्याययन्, निरतिशयसौन्दर्यसौशील्यादिगुणगणाविष्कारेणाक्रूरमालाकारादीन् परमभागवतान् कृत्वा, पाण्डुतनययुद्धप्रोत्साहनव्याजेन परमपुरुषार्थलक्षणमोक्षसाधनतया वेदान्तोदितं स्वविषयं ज्ञानकर्मानुगृहीतं भक्तियोगमवतारयामास। निम्बार्कवेदान्ते पारिजातसौरभात् सू०-अथातो ब्रह्मजिज्ञासा // 1 / 1 / 1 // वाक्यार्थः अथाधीतषडङ्गवेदेन कर्मफलक्षयाक्षयत्वविषयकविवेकप्रकारकवाक्यार्थजन्यसंशयाविष्टेन तत एव जिज्ञासितधर्ममीमांसाशास्त्रेण तनिश्चितकर्मतत्प्रकारतत्फलविषयकज्ञानवता कर्मब्रह्मफलं सान्तत्वसातिशयत्वनिरतिशयत्वविषयकव्यवसायजातनिर्वेदेन भगवत्प्रसादेप्सुना तदर्शनेच्छालम्पटेनाचार्यैकदेवेन श्रीगुरुभक्त्येकहार्देन मुमुक्षुणाऽनन्ताचिन्त्यस्वाभाविकस्वरूपगुणशक्त्यादिभिवृहत्तमो यो रमाकान्तः पुरुषोत्तमो ब्रह्मशब्दाभिधेयस्तद् विषयिका जिज्ञासा सततं संपादनीयेत्युपक्रमवाक्यार्थः / सू०-जन्माद्यस्य यतः // 1 / 1 / 2 // वाक्यार्थः -तल्लक्षणापेक्षायां सिद्धान्तमाह अस्याऽचिन्त्यविचित्रसंस्थानसंपन्नस्यासंख्येयनामरूपादिविशेषाश्रयस्याचिन्त्यरूपस्य विश्वस्य सृष्टिस्थितिलया
Page #48
--------------------------------------------------------------------------
________________ 28 गद्यसंग्रहः यस्मात् सर्वज्ञाद्यनन्तगुणाश्रयाद् ब्रह्मेशकालादिनियन्तुर्भवगतो भवन्ति तदैव पूर्वोक्तनिर्वचनविषयं ब्रह्मेति लक्षणवाक्यार्थः। सू०-शास्त्रयोनित्वात् // 1 / 1 / 3 / / वाक्यार्थः किं प्रमाणकमित्याकांक्षायां सिद्धान्तमाह-शास्त्रमेव योनिस्तद्ज्ञप्ति कारणं यस्मिंस्तदेवोक्तलक्षणलक्षितं वस्तु ब्रह्मशब्दाभिधेयम्। सू०-तत्तु समन्वयात् / / 1 / 1 / 4 / / वाक्यार्थ: ननु समस्तस्यापि वेदस्य क्रियापरत्वेन तद्भिन्नविषयकाणां वेदान्तवाक्यानामप्यर्थवादवाक्यानां तत्प्राशस्त्यप्रतिपादनद्वारा परंपरया विधिवाक्यैकवाक्यतावत्क्रत्वङ्गकर्तृप्राशस्त्यप्रतिपादनेन विध्यैकपरत्वात् कथमिव शास्त्रैकप्रमाणकं ब्रह्मेति प्राप्ते राद्धान्तः-तज्जिज्ञास्यं विश्वकारणं शास्त्रप्रमाणकं ब्रह्मैव, न कर्मादि, तत्रैव प्रतिपादकतया संपूर्णस्यापि वेदस्य समन्वयात् मुख्यवृत्याऽन्वयः। यद्वा वेदेषु तस्यैव प्रतिपादकतया समन्वयादिति संक्षेपः। न च कर्मणि तत्समन्वयो वक्तुं शक्यः तस्य तु विविदिषोत्पादनेनैव नैराकाङ्क्ष्यात् क्रत्वङ्ग ब्रह्मेति तु बालभाषितम्। तस्य सर्वकर्मकादिकारकनियन्तृत्वेन स्वातन्त्र्यात् तत्फलदातृत्वाच्च प्रत्युत कर्मण एव विविदिषोत्पादनेन परंपरया तत्प्राप्तिसाधनीभूतज्ञानोत्पत्युपकारकत्वेन समन्वय इति निश्चीयते विविदिषा श्रुतेः / ननु प्रत्यक्षादिप्रमाणाविषयकत्ववच्छब्दप्रमाणाविषयत्वस्यापि श्रुतिसिद्धत्वान्न शास्त्रैकप्रमेयं ब्रह्मेति प्राप्ते ब्रूमः। जिज्ञास्यं ब्रह्मशास्त्रप्रमाणकमेव नान्यप्रमाणकम्। समस्त श्रुतीनां साक्षात्परंपरया वा तत्रैव समन्वयात्। तत्र लक्षणप्रमाणादिवाक्यानां स्वत एव, तविषयक्त्वेन शाण्डिल्य, पञ्चाग्निमधुविद्यादिवाक्यानां प्रतीकादिप्रकारकाणां च पंरपरया समन्वयः। यद्वा सर्वेषामपि वाक्यानां भिन्नप्रवृत्तिनिमित्तकत्वेऽपि साक्षादेव ब्रह्मणि समन्वयः। तत्तद्वाक्यविषयाणां सर्वेषामपि ब्रह्मात्मकत्वाविशेषेण मुख्यवाच्यत्वात् / न चैव विषयनिषेधपराणां बाधःशङ्कनीयः, तेषां ब्रह्मस्वरूपगुणादिविषयकेयत्तानिषेधपरत्वेन समविषयत्वात्। किं चात्र प्रष्टव्यो भवान् शब्दाऽविषयं ब्रह्मेति वाक्यस्य वाच्यं ब्रह्माभिप्रेतं न वेति? आद्ये वाच्यत्वसिद्धेरवाच्यत्वप्रतिज्ञाभङ्गः, द्वितीये सुतरां वाच्यतेति, तस्मात् सर्वज्ञः सर्वाचिन्त्यशक्तिविश्वजन्मादिहेतुः वेदैकप्रमाणगम्यः सर्वभिन्नाभिन्नो
Page #49
--------------------------------------------------------------------------
________________ माध्वदर्शने सर्वदर्शनसंग्रहात् भगवान् वासुदेवो विश्वात्मैव जिज्ञासाविषयस्तत्रैव सर्वंशास्त्रं समन्वेतीत्यौपनिषदानां सिद्धान्तः। . माध्वदर्शने सर्वदर्शनसंग्रहात् तत्त्वमसीत्यादेर्वेदान्तवाक्यजातस्य भङ्ग्यन्तरेणार्थान्तरपरत्वमुपपाद्य ब्रह्ममीमांसाविवरणव्याजेनानन्दतीर्थः प्रस्थानान्तरमास्थितः। तन्मते हि द्विविधं तत्त्वं स्वतन्त्रास्वतन्त्रभेदात्। तदुक्तं तत्त्वविवेके। स्वतन्त्रमस्वतन्त्रञ्च द्विविधं तत्त्वमिष्यते / स्वतन्त्रो भगवान् विष्णुर्निर्दोषोऽशेषसद्गुण // इति ननु सजातीयविजातीयस्वगतनानात्वशून्यं ब्रह्मतत्त्वमिति प्रतिपादकेषु वेदान्तेषु जागरूकेषु कथमशेषसद्गुणत्वं तस्य कथ्यत इति चेन्मैवं भेदप्रमापकबहुप्रमाणविरोधेन तेषां तत्र प्रामाण्यानुपपत्तेः। तथाहि प्रत्यक्षं तावदिदमस्माद्भिन्नमिति नीलपीतादेर्भेदमध्यक्षयति। अथ मन्येथाः किं प्रत्यक्ष भेदमेवावगाहते किं वा धर्मिप्रतियोगिघटितम्। न प्रथमः धर्मिप्रतियोगिप्रतिपत्तिमन्तरेण तत्सापेक्षस्य भेदस्याशक्याध्यवसायत्वात् / द्वितीयोऽपि धर्मिप्रतियोगिग्रहणपुर :सरं भेदग्रहणमथवा युगपत् तत्सर्वग्रहणम्। न पूर्वः बुद्धेविरम्य व्यापाराभावात् अन्योन्याश्रयप्रसङ्गाच्च। नापि चरमः कार्यकारण-बुद्ध्योर्योगपद्याभावात्। धर्मिप्रतीतिर्हि भेदप्रत्ययस्य कारणं सन्निहितेऽपि धर्मिणि व्यवहितप्रतियोगिज्ञानमन्तरेण भेदस्याज्ञातत्वेनान्वयव्यतिरेकाभ्यां कार्यकारणभावावगमात्। तस्मान्न भेदप्रत्यक्षं सुप्रसरमिति चेत् किं वस्तुस्वरूप-भेदवादिनं प्रति इमानि दूषणान्यु ष्यन्ते किं धर्मिभेदवादिनं प्रति। प्रथमे चोरापराधान्माण्डव्यपनग्रहन्यायात्तिः, भवदभिधीयमानदूषणानां तदविषयत्वात्। ननु वस्तुस्वरूपस्यैव भेदत्वे प्रतियोगिसापेक्षत्वं न घटते घटवत्, प्रतियोगिसापेक्ष एव सर्वत्र भेदः प्रथत इति चेन्न प्रथमं सर्वतो विलक्षणतया वस्तुस्वरूपे ज्ञायमाने प्रतियोग्यपेक्षया विशिष्टव्यवहारोपपत्तेः। तथाहि परिमाणघटितं वस्तुस्वरूपंप्रथममवगम्यते पश्चात् प्रतियोगिविशेषापेक्षया ह्रस्वं दीर्घमिति तदेव विशिष्य व्यवहारभाजनं भवति। तदुक्तं विष्णुतत्वनिर्णये, न च विशेषणविशेष्यतया भेदसिद्धिः। विशेषणविशेष्यभावश्च भेदापेक्षः, धर्मिप्रतियोग्यपेक्षया भेदसिद्धिः भेदापेक्षञ्च धर्मिप्रतियोगित्वमित्यन्योन्याश्रयतया भेदस्यायुक्तिः पदार्थस्वरूपत्वाद्-भेदस्येत्यादिना। अतएव
Page #50
--------------------------------------------------------------------------
________________ 30 गद्यसंग्रहः गवार्थिनो गवयदर्शनान्न प्रवर्त्तन्ते गोशब्दं च न स्मरन्ति। न च नीरक्षीरादौ स्वरूपे गृह्यमाणे भेदप्रतिभासोऽपि स्यादिति भणनीयं समानाभिहारादिप्रतिबन्धकमलाभेदभानव्यवहाराभावोपपत्तेः। तदुक्तम् अतिदूरात् सामीप्यादिन्द्रियघातान्मनोऽनवस्थानात् / सौक्ष्याद व्यवधानादभिभवात् समानाभिहाराच्चेति // अतिदूराद् गिरिशिखरवर्त्तितर्वादौ, अति सामीप्याल्लोचनाञ्जनादौ, इन्द्रियघाताद्दिद्युदादौ, मनोऽनवस्थानात् कामाद्युपप्लुतमनस्कस्य स्फीतालोकवर्त्तिनि घटादौ, सौक्ष्म्यात् परमाण्वादौ, व्यवधानात् कुड्याद्यन्तर्हिते, अभिभवात् दिवा प्रदीपप्रभादौ, समानाभिहारात् नीरक्षीरादौ यथावद्ग्रहणं नास्तीत्यर्थः। भवतु वा धर्मभेदवादस्तथापि न कश्चिद्दोषः धर्मप्रतियोगिग्रहणे सति धर्मभेदभानसम्भवात्। न च धर्मभेदवादे तस्य तस्य भेदस्य भेदान्तरभेद्यत्वेनानवस्था दुरवस्था स्यादित्यास्थेयं, भेदान्तरप्रसक्तौ मूलाभावात् भेदभेदिनौ भिन्नाविति व्यवहारादर्शनात्। न चैकभेदबलेनान्यभेदानुमानं दृष्टान्तभेदाविघातेनोत्थानदोषाभावात्। सोऽयं पिण्याकयाचनार्थे गतस्य खारिकातैलदातृत्वाभ्युपगम इव। दृष्टान्तभेदविमर्देत्वनुत्थानमेवान हि वरविघाताय कन्योद्वाहः। तस्मान्मूलक्षयाभावादनवस्था न दोषाय। अनुमानेनापि भेदाऽवसीयते। परमेश्वरो जीवाद्भिन्नः, तं प्रतिसेव्यत्वात् यो यं प्रति सेव्यः स तस्माद्भिन्नः यथा भृत्याद्राजा। न हि सुखं मे स्यात् दुःखं मे न मनागपि इति पुरुषार्थमर्थयमानाः पुरुषा:स्थपतिपदं कामयमानाः सत्कारभाजो भवेयुः प्रत्युत सर्वानर्थभाजनं भवन्ति। यःस्वस्यात्मनो हीनत्वं परस्य गुणोत्कर्षञ्च कथयति स स्तुत्यः प्रीतः स्तावकस्य तस्याभीष्टं प्रयच्छति। तदाह घातयन्ति हि राजानो राजाहमिति वादिनः।। ददत्यखिलमिष्टञ्च स्वगणोत्कर्षवादिनामिति // एकञ्च परमेश्वराभेदतृष्णया विष्णोर्गुणोत्कर्षस्य मृगतृष्णिकासमत्वाभिधानं विपुलकदलीफललिप्सया जिह्वाच्छेदनं हरति एतादृशविष्णुविद्वेषणादन्धतमसः प्रवेशप्रसङ्गात् / / मोक्षो हि सर्वपुरुषार्थान्तिमः। धर्मार्थकामास्त्वनित्याः। मोक्ष एव नित्यः। तस्मान्नित्यं तदर्थाय यतेत मतिमानर इति भाल्लवेयश्रुतेः।मोक्षश्च विष्णुप्रसादमन्तरेण न लभ्यते। यस्य प्रसादात् परमात्यत्स्वरूपात् तस्मात् संसारान्मुच्यते
Page #51
--------------------------------------------------------------------------
________________ माध्वदर्शने सर्वदर्शनसंग्रहात् 31 नावरेसुरानाराधयन्तोऽसो परमो विचिन्त्यो मुमुक्षुभिः कर्मपाशादमुष्मादिति नारायणश्रुतेः। तस्मिन् प्रसन्ने किमिहास्त्यलभ्यं सर्वार्थकामैरलमल्पकास्ते। समाश्रिताद् ब्रह्मतरोरनन्तात् निःसंशयं मुक्तिफलं प्रयात // इति विष्णुपुराणोक्तेश्च। प्रसादश्च गुणोत्कर्षज्ञानादेव नामेदज्ञानादित्युक्तम्। न च तत्त्वमस्यादितादात्म्यव्याकोपः श्रुतितात्पर्य्यापरिज्ञानविजृम्भणात्। आह नित्यपरोक्षन्तु तच्छन्दो ह्यविशेषितः / त्वंशब्दश्चापरोक्षार्थं तयोरैक्यं कथं भवेत् // आदित्यो यूप इतिवत् सादृश्यार्था तु सा श्रुतिरिति। तथा च परमा श्रुतिः। जीवस्य परमैक्यञ्च बुद्धिसारूप्यमेव वा। एकस्थाननिवेशो वा व्यक्तिस्थानमपेक्ष्य वा। न स्वरूपैकता तस्य मुक्तस्यापि विरूपतः / स्वातन्त्र्यापूर्णतेऽल्पत्वपारतन्त्रो विरूपतेति // अथवा तत्त्वमसीत्यत्र स एवात्मा स्वातन्त्र्यादिगुणोपेतत्वात् अतत्त्वमसि त्वं तन्न भवसि तहितत्वादित्येकत्वमतिशयेन निराकृतम्। तदाह अतत्त्वमिति वा क्लेदस्तेनैक्यं सुनिराकृतमिति / /
Page #52
--------------------------------------------------------------------------
________________ 32 गद्यसंग्रहः वल्लभवेदान्ते शुद्धाद्वैत-मार्तण्डात् तत्त्वमसीतिवाक्यार्थविषयिणी विभिन्ना दृष्टिः केचितत्त्वमसीतिवाक्यविषये तत्त्वम्पदे लक्षणां कैचित्तत्र डसो लुकं विदधते भाष्यं तु केचिञ्जगुः / केचिच्चेिद्विषयादभेदमपरे विन्दन्त्यतत्वं पदं सिद्धान्ते तु सुवर्णवज्जगदिदं ब्रह्मैव जीवस्तथा // 1 // अस्यार्थस्तु-केचिच्छङ्कराचार्याः, तच्छब्देन सर्वज्ञत्वादिविशिष्टं ब्रह्म, त्वं शब्देनाल्पज्ञत्वादिविशिष्टो जीवस्तयोरभेदो नसम्भवतीति भागयोःसर्वज्ञत्वाल्पज्ञत्वयोस्त्यागे केवलचिदंशमात्रग्रहणेनाभेदः। सोऽयं देवदत्त इतिवद्भागत्यागलक्षणां विदधते। केचिद् रामानुजमाध्यशैवाः तत्त्वमित्यत्र 'सुपां सुलुक्पूर्वसवर्णाच्छेयाडाड्यायाजाल' इति सूत्रेण डसो लुकं विदधते। तस्य त्वमसि तत्सम्बन्ध्यसि। सम्बन्धश्च सेव्यसेवकभावः। केचित् रामानुजादिमतव्याख्यातारो भाष्यं व्याकरणभाष्यं प्रातिपदिकनिर्देशे यां यां विभक्तिं बुद्धिरुपजायते सा सा आश्रयितव्येत्यचः परस्मिन्निति सूत्रे।तदिति प्रातिपदिकम्।तेन षष्ठीविभक्तेराश्रयणम्। अर्थः पूर्ववत् / केचिन्निम्बार्काश्चिद्विषयाच्चित्त-साधादभेदः। केचिन्माध्वैकदेशिन; अतत्त्वमसीति पदं छिन्दन्ति। अत्रार्थस्तु, तद् ब्रह्म त्वं नासि, किं तर्हि अजीवोऽसीत्यर्थः। सिद्धान्ते ब्रह्मवादिसिद्धान्ते / सुवर्णस्यांशाः सुवर्णरूपास्तथा ब्रह्मांशं जगद् ब्रह्मैव, तथा जीवोऽपि चिदंशो ब्रह्मानेन वाक्येन बोध्यत इत्यर्थः / / पुरुषोत्तमलाभः कथं, तत्राहःआचार्ये भगवत्त्वबुद्धया तद्भजनादेव पुरुषोत्तमो लभ्यः भक्त्या लाभो हि निर्दिष्टो भक्तिश्चाचार्यसंश्रयात् / श्रीमदाचार्यचरणभजनादेव नान्यथा // 88 // भक्त्येति। श्रीमदाचार्यचरणेत्यादि। अत्र क्रमस्तु, पूर्वं भगवत्कृपाकुरस्य स्वतः संस्कारेण भगवन्मार्गीयसङ्गादिना वा उद्बोधे मार्गेऽस्मिन् रुचिः। ततोऽस्मिन् प्रवेशेच्छा। तत्राप्यकुरस्य दृढत्वेऽस्मिन् मार्गे सर्वोत्तमत्वभानम्।
Page #53
--------------------------------------------------------------------------
________________ प्रमेयरत्नार्णवात् 22 प्रवेशश्च द्वारभूतश्रीमदाचार्यकुलगुरुद्वारा शरणागतिः। ततः शुद्धः श्रीकृष्णं भजेदिति सिद्धान्तात् सपरिकरस्य स्वस्य च शुद्धिरपेक्षिता। सा लोके दुर्घटाऽतो दारान् सुतान् गृहान् प्राणान् यत् परस्मै निवेदनमिति विधिपूर्वकं प्रसिद्धं समर्पणम्। तेन च, ब्रह्मसम्बन्धकरणादित्यादिवाक्येन सर्वदोषनिरासोक्तेः समर्पणोत्तरं सर्वत्र दोषाभावात् प्रतीयमानानां चाभासमात्रत्वाद् गङ्गाजलन्यायेन दोषाणां गौणभावाच्च सेवायामधिकारः। ततः सतां द्वारभूतश्रीगुरोर्वा सङ्गेन शिक्षया वा। श्रीमदाचार्यचरणेषु भगवदभेदबुद्धिः। सर्वोत्तमस्तोत्रादिभिस्तद्भजनम्। तत एतन्मार्गीयसङ्गेन भगवद्भजनस्वीयग्रन्थावलोकनश्रवणादिना प्रतिबन्धनिवृत्तौ दोषनिवृत्तिः। सेवोपयोगिगुणवृद्धिश्च। ततः सेवानैरन्तय सकुटुम्बस्य भगवत्प्राप्तिरिति। प्रमेयरत्नार्णवात् जगतो ब्रह्मरूपतैव सत्या, विभिन्नदशाभानन्तु योग्यताभेदात् अयं प्रपञ्चोऽधिकारभेदेन त्रिघा भासते। तत्र ब्रह्मभूतानां ब्रह्मात्मक एव शुद्धो भासते। यथा यस्मिन् क्षणे स एव शुक्लो गृह्यते, तद्वत्। शास्त्रोत्पन्नज्ञानिनां तु ब्रह्मधर्ममायाधर्मयुक्तस्तत्तद्धर्मसत्यत्वमिथ्यात्वविवेकपूर्वकं भासते। यथा पटस्वरूपौपाधिकहरितत्वयुक्तपटे गृहीतेऽपि पटगताऽऽकृत्यादीनां सत्यत्वम्, हरितताया मायिकत्वं बुद्ध्यते तद्वत्। अविवेकिनां तु ब्रह्मधर्ममायाधर्मयुक्तस्तत्तद्धर्माणामेवरूपज्ञानपुरःसरं भासते। यथा हरितकाचोपनेत्रयुतचक्षुषा बालेन गृहीतः पटस्तद्गताकृत्यादेरौपाधिकहरितत्त्वादेश्च सत्यत्वाऽवबोधपूर्वकं भासते तथा। एवं सति भान एव भेदः, न स्वरूपे। अतः प्रपञ्चस्य ब्रह्माभिन्नत्वात् सत्यत्वमङ्गीकार्यं श्रुतिशरणैः। ये पुनरुत्पत्तिविनाशकुत्सितत्वभेदादयो धर्माः प्रतीयन्ते, ते मायिका इति सुधीभिराकलनीयम्। भगवतः प्रतिमा भगवानेव, तत्रान्यथाबुद्धिः न कार्या भगवन्मूर्त्यादौ तु भिन्नः प्रकारः। तथाहि-भगवन्मूर्ति पश्यतो भक्तिरहितस्य बुद्धौ माया विषयतां सृजति, न तु भगवन्मूतौं विषयतां प्रक्षिपति। तत्र भगवद् गुणानामभिव्यक्ततया मायायाः प्रक्षेपसामर्थ्या भावात्। किन्तु तादृग्द्रष्टर्बुद्धावावरणस्य विद्यमानत्वाद् भगवन्मूर्तावन्यथा भानम्। वस्तुतस्तु तत्र
Page #54
--------------------------------------------------------------------------
________________ 34 गद्यसंग्रहः भगवत्त्वं निर्दुष्ट मेव। अत एव विष्णोर्वा वैष्णवानां कलिमलमथने पादतीर्थेऽम्बुबुद्धिरित्यादिवाक्येरन्यथाबुद्धेर्निन्दितत्वं श्रूयते। "शिलाबुद्धिर्न कार्या च तत्र नारद कर्हिचित्। ज्ञानानन्दात्मको विष्णुर्यत्र तिष्ठत्यचिन्त्यकृत्।" इत्यादिवचोभिस्तत्र भगवदावेशकथनात् प्रपञ्चवैलक्षण्यमङ्गीकार्यम्। मल्लिङ्गमद्भक्तजनदर्शनस्पर्शनार्चनमित्येकादशवाक्यात्। पूजनं प्रतिमायां तूत्तमं परिकीर्तितमिति कालनिर्णयदीपिकास्थविष्णुधर्मवाक्याच्च। निबन्धे न तदभावे स्वयं वापि मूर्तिं कृत्वा हरे: क्वचित् परिचर्या सदा कुर्यात् तद्रूपं तत्र च स्थितम्, इत्यस्य व्याख्याने, वस्तुविचारे सर्वस्यापि भगवद्रूपत्वाद्विशेषस्त्वयम्। एनम् उद्धरिष्यामीति, तदा मृदादेः प्रादुर्भूत इत्यादिना प्रपञ्चवैलक्षण्यस्योपपादितत्वाच्च। अत एव महता प्रबन्धेन मूर्तिपूजनं श्रीमद्भागवतैकादशस्कन्धे भगवता श्रीमदुद्धवं प्रत्युक्तमिति। जीवस्वरूपम् जीवो ब्रह्मणोऽभिन्नस्तस्याणुः अंशः, तस्य मोक्षप्राप्तिप्रकारो भेदश्च तत्र तत्त्वमसि श्वेतकेतो, एषोऽणुरात्मा, चेतसा वेदितव्यः, ममैवांऽशो जीवलोके, नाणुरतच्छ्रुतेरिति चेन्नेतराधिकारात्, न नौ पश्यन्ति कवयश्छिद्रं जातु मनागपीति श्रुतिगीताव्याससूत्रसमाधिभाषावाक्यैर्ब्रह्माभिन्नोऽणुब्रह्माउंशो जीव इति राद्धान्तः। तस्य चावस्थात्रयम्। शुद्धसंसाररिमुक्तभेदात्। तथाहि कारणभूतादक्षरब्रह्मणः सकाशाद्यथाग्नेः क्षुद्रा विस्फुलिङ्गा व्युच्चरन्तीति श्रुते: सच्चिदानन्दात्मकोऽणुरंशो निःसरति। व्युच्चरणानन्तरं कारणरूपाक्षरगतस्य, विशुद्धसत्त्वं तव धाम शान्तमित्यादिप्रमाणसिद्धस्य भगवद्धर्मात्मकस्य विशुद्धसत्वस्यांशभूतेन तादृक् सत्त्वेन भगवदिच्छया प्रबलीकृतेनानन्दांशस्तिरोभवति। तदा निरुपाधिकोऽणुरूपोऽक्षरांशश्चित्प्रधानस्तिरोहितानन्दो जीवशब्दवाच्यो भवति। तदुक्तं वेदस्तुतिसुबोधिन्याम्-स्वकृतपुरुष्वमीष्वित्यत्र, जीवो नाम भगवतश्चिदंश इति। स्फुटीकृतं च भाष्ये-आनन्दांशस्तु पूर्वमेव तिरोहितो येन जीवभाव इति। अत्र पूर्वमेवेत्यस्य भगवदैश्वर्याद्यंशभूतैश्वर्यादितिरोभावात् पूर्वमित्यर्थः। निबन्धे च, ततः साकारा भगवद्रूपा अपि उच्चनीचभावेच्छया निर्गता इति निराकारा जाता इत्युक्तम्। इहाकारशब्देनानन्दाकार उच्यते। आनन्दो ब्रह्मवादे आकारसमर्पक इति तत्र निर्णयात्।
Page #55
--------------------------------------------------------------------------
________________ प्रमेयरत्नार्णवात् 35 ननु व्यापकाद् ब्रह्मणो व्युच्चरणं न सम्भवतीति चेन्न। व्यापकत्वेऽपि विरुद्धधर्माश्रयतया, व्युच्चरन्तीति श्रुतिसिद्धस्य व्युच्चरणस्याङ्गीकारात्। एवं सति व्युच्चरणोपादानभूताद् ब्रह्मणो व्युच्चरतो ब्रह्मभूतस्य ब्रह्मभूते प्रदेशे ब्रह्मभूतं व्युच्चरणमित्युक्ते न कश्चिद्दोषः। सर्वं खल्विदं ब्रह्मेति श्रुतेः। तथैवोक्तं भगवता"यत्र येन यतो यस्य यस्मै यद्यथथा यदा। स्यादिदं भगवान् साक्षात् प्रधानपुरुषेश्वरः।" इति // अतो व्युच्चरणे सत्यानन्दांशतिरोधानाजीवत्वम्। व्युच्चरणोत्तरं आनन्दांशतिरोधाने सत्यविद्यासम्बन्धात् पूर्ववर्त्तिन्यामवस्थायां शुद्धजीव इति व्यवहारः। शुद्धत्त्वव्यवस्थितिरिति लक्ष्मीतन्त्रात् जीवे शुद्धत्वं त्वविद्यासम्बन्धराहित्यम्। ततोऽस्मिन्जीवरूपे भगवदंशे भगवदैश्वर्यादिषङ्गणांशभूतानामैश्वर्यादीनां हरीच्छया तिरोभावः। पराभिध्यानात्तु तिरोहितम्, ततो ह्यस्य बन्धविपर्ययाविति तत्वसूत्रात्। तदा तेषां मध्ये केषुचिज्जीवेषु रमणेच्छया विचारितस्य बहुत्वभवनस्य सिद्धये उच्चभावेच्छाविषयीभूतं मुक्त्यधिकाररूपं सूक्ष्मसद्वासनाविशिष्टं देवत्वं सम्पादयति भगवान्। तदैव जीवा मुक्तियोग्या भवन्ति।देवीसम्पद विमोक्षायेति भगवद्वाक्यात्। ततो ह्यविद्यासम्बन्धाद् बन्धः। बन्धोऽस्याऽविद्ययाऽनादिरिति वाक्यात्। अनादित्वं तु कार्यान्तरापेक्षया। अमरेष्वमरत्ववत्। तदुपपादितं विद्वन्मण्डने। ततो देहेन्द्रियान्त:करणाध्यासाः स्वरूपविस्मृतिश्चेत्यविद्यायाः पञ्चपर्वाणि। तैर्बद्धो दुःखितः। अस्य जीवसंसार उच्यत इति निबन्धात्। उच्यते, न तु जायते। अभिमत्यात्मकत्वात्। ततः सूक्ष्मस्थूलदेहसम्बन्धात् संसारिधर्मान् जन्ममरणादीन् अनुभवन् भगवत्कृपया सत्सङ्गादि लब्ध्वा पञ्चपर्वात्मिकां विद्यां प्राप्य परमानन्दलक्षणां मुक्तिं लभते। ___ "वैराग्यं सांख्ययोगौ च तपो भक्तिश्च केशवे। पञ्चपर्वेति विद्येयं यया विद्वान् हरिं विशेदिति" वाक्यात्। तत्र यावत् पञ्चपर्वात्मिकां विद्यां प्राप्नुयात्। तावत् संसारीति व्यवहारः। तदने मुक्त इति शास्त्रीयो व्यवहारः // सच मुक्तजीवो द्विविधः। जीवन्मुक्तो मुक्तश्चेति। तत्र सनकादयो गताविद्यास्ते जीवन्मुक्ता उच्यन्ते। ये तु व्यापिवैकुण्ठेतरभगवल्लोकवासिनस्ते मुक्ता इत्युच्यन्ते। ततः परमकृपया परममुक्तिस्तत्र तु शुद्धब्रह्मत्वमेवेति निर्णयः। केचिदुत्तमा देवास्तु सत्सङ्गादि प्राप्य मार्गरुचिजन्यश्रवणादिसमुद्भूतस्वतन्त्रभक्त्या फलरूपया नित्यलीलायां प्रविशन्ति। स तेषां मोक्षः।
Page #56
--------------------------------------------------------------------------
________________ 36 गद्यसंग्रहः मूलस्वरूपम् कृषि वाचकः प्रोक्तो णश्च निर्वृतिवाचकः / तयोरैक्यं परं ब्रह्म कृष्ण इत्यभिधीयते // परब्रह्मैव श्रीकृष्णः ॐ तत् सत् परं ब्रह्म कृष्णात्मको नित्यानन्दैकस्वरूपः सोऽहम् तद्गोपाल एव परं सत्यमबाधितमिति। परं ब्रह्मैतद् यो ध्यायति रसति भजतीत्यादिश्रुतेर्मत्तः परतरं नान्यत् किञ्चिदस्ति धनञ्जय, अक्षरादपि चोत्तम इति भगवद्वाक्याच्च श्रीकृष्णः परं ब्रह्मेति निष्कर्षः। अत एव परं ब्रह्म तु कृष्ण इति मुक्तावल्ल्यां श्रीमदाचार्यैरुक्तम्। स चापाणिपादो जवनो ग्रहीता, अप्राणो ह्यमनाः शुभ्र इत्यादि श्रुतेः प्राकृत पाणिपादादिरहितः सच्चिदानन्दविग्रहः। आनन्दं ब्रह्मणो रूपं, सच्चिदानन्दरूपाय कृष्णायाक्लिष्टकर्मणे। नमो वेदान्तवेद्याय गुरवे बुद्धिसाक्षिणे। सर्वतः पाणिपादं तदित्यादिश्रुतेरानन्दमूर्तिमजहदतिदीर्घतापम्, आनन्दमात्र-करपादमुखोदरादिरित्यादिपुराणतन्त्राभ्यामानन्दात्मककरणादिरूपो निष्कलं निष्क्रिय शान्तं सर्वकामः सर्वगन्धः, परास्य शक्तिर्विविधैव श्रूयते इत्यादिश्रुतिभिरप्राकृतधर्माधारः। तदुक्तं निबन्धे सर्वाधारं वक्ष्यमाणमानन्दाकारमुत्तमम् / प्रापञ्चिकपदार्थानां सर्वेषां तद्विलक्षणम् // इति // तथा च निषेधकश्रुतीनां प्रातीतिकप्राकृतधर्मविषयत्वं धर्मविधायकोपनिषद त्वप्राकृतनित्यश्रौतधर्माविषयत्वमिति, व्यवस्थया त्वविरोधोऽस्मत्सिद्धिान्ते। यदाह भगवान् भाष्यकार:-प्रतीतं च निषेध्यं नाप्रतीतं न श्रुतिप्रतीतमिति। स च परमकाष्ठापनः पुरुषोत्तमशब्दवाच्यः कृष्णः सदा प्रकटालौकिक सर्वधर्म नित्यसर्वलील:। दशमस्य विशुद्ध्यर्थं नवानामिह लक्षणमिति शुकवाक्यात्। यस्ट लीला नवविधाः स शुद्धः पुरुषोत्तम इति निबन्धात्। श्रीकृष्णः परमानन्द दशलीलायुतं सदेति स्पष्टमेव श्रीभागवतप्रकरणारम्भे निरूपितत्वाच्च। स हि द्विभुजचतुर्भुजादिरूपैर्वृहद्वनवृन्दावनव्यापिवैकुण्टादिषु तत्तद्धत : सह रममाणः सर्वदा विजयते। परिपूर्णतमः कृष्णो वैकुण्ठे गोकुले स्वयम् / चतुर्भुजश्च वैकुण्ठे गोकुले द्विभुजः स्वयम् // इति / /
Page #57
--------------------------------------------------------------------------
________________ प्रमेयरत्नार्णवात् पुष्टिस्वरूपम् भगवतोऽनुग्रह एव पुष्टिः, सा चतुर्विधपुरुषार्थसाधिका अथेदं विचार्यते। का पुष्टिः, कश्च पुष्टिमार्गः? इति। तत्र "पोषणं तदनुग्रहः" इति शुकवाक्यात्, "कृष्णानुग्रहरूपा हि पुष्टिः कालादिबाधिका" इति निबन्धोक्तत्वाच्चानुग्रहरूपो भगवद्धर्मः पुष्टि H / सा च विलक्षणा लौकिकालौकिकफलसाधिका। अतोऽधिकारविशेषे नि:साधने श्लाघ्यफलं जनयन्ती तेनैवानुमीयते। तदुक्तं निबन्धे- "अनुग्रहो लोकसिद्धो लोकसिद्धो गूढभावान्निरूपितः" इति / अर्थस्तु गूढभावादनुग्रहस्य गूढत्वाल्लोकसिद्धौ लोके उत्तमफलजननेन प्रकटीभूतोऽनुग्रहो निरूपितः षष्ठस्कन्धे वर्णितः। तत्कार्यं विवेचितमजामिलादिषु। यतो निन्दितकर्मनिरतः सङ्केतितभगवन्नाम्ना मोचितः। विश्वरूपदधीचिवृत्राणां कर्मिज्ञानिभक्तानां हन्सानिष्टफलभोगयोग्यः शक्रोऽपि पुष्ट्या रक्षितः। दितिगर्भो वज्रहतोऽपि न मृतः, प्रत्युत बहुत्वं सम्पन्नम्। अत एवोक्तम् एवमिन्द्रे महापुष्टिः सर्वबाधा निरूपिता। सर्वबाधकरूपा हि दैत्ये पुष्टिरथोच्यते // इति // महापुष्टित्वं तु-बलवत्प्रतिबन्धनिवृत्तिपूर्वकस्वपादावाप्तिसाधकत्वम्। सर्वबाधेत्यत्र सर्वशब्देन कालकर्मस्वभावा ग्राह्याः। तदिह कुत्सितकर्मणामनिष्टफलाजनकत्वेन तद्बाध इन्द्रे स्पष्टः। दितिगर्भप्रसङ्गे वज्रप्रहारस्य प्राणवियोगसाधकत्वस्वभावबाधो ज्ञेयः। न ममार दितेर्गर्भः श्रीनिवासानुकम्पया। बहुधा कुलिशक्षुण्णो द्रोण्यस्त्रेण यथा भवान् // इति वाक्यात्। एवमन्यत्रापि बोध्यम् / / इयं च पुष्टिश्चतुर्विधपुमर्थान्साधयति।अत एव सुबोधिन्यामुक्तम्-"सहसार्जुनो भगवदंशः पुष्ट्या राजा बभूव" इति। निबन्धे देवहूतिमुक्तिश्चपुष्टिकारिणिका निरूपिता। योगादीनां तु व्यापारत्वमुक्तमेव, अजामिलादिषु नामादीनामिव। तदुक्तं निबन्धे- "नामध्यानार्चनादिकं पुरस्कृत्य हरेवीर्यं नामादिषु निरूप्यते'' इति। इदं सामान्यानुग्रहस्वरूपम्, पुष्टिविशेषस्तु केवलं भगवत्स्वरूपफलिकां भक्तिं साधयति। अतस्तज्जन्या भक्तिः पुष्टिभक्तिरित्युच्यते। तदुक्तं सिद्धान्तमुक्तावल्याम्- "अनुग्रहः
Page #58
--------------------------------------------------------------------------
________________ 38 पुष्टिमार्गे नियामक इति स्थितिः" इति। पुष्टिमार्गे पुष्टिभक्तिमार्गे इत्यर्थः। तदनुग्रहैकलभ्यां भक्तिं च नुमस्तदीयांश्चेति भक्तिहेतुनिर्णयेऽपि। अत एव, भक्त्या कार्यरूपया पुष्टिविशेषोऽनुमीयते। तदुक्तं पुष्टिप्रवाहमर्यादानिरूपणे"भक्तिमार्गस्य कथनात् पुष्टिरस्तीति निश्चयः' इत्यारभ्य स एव भक्तियोगाख्य आत्यन्तिक उदाहृतः इत्यन्तम्, ग्रन्थादौ भागवते भक्तिमार्गस्य निर्गुणस्य निरूपणाद् भक्तिसत्तायां सिद्धायां तादृग्भक्त्या तत्कारणीभूता पुष्टिरनुग्रहरूप: भगवत्यस्तीति निश्चय इत्यर्थः। सापीशानुकथाशब्देन नवमस्कन्धे व्यवह्रियते। ईशस्यानुगामिनां कथा भगवच्छ्रवणादिरूपं चरित्रमित्यर्थः। तच्च द्विविधम्-मर्यादाभक्तिरूपं पुष्टि भक्तिरूपं च। तत्र विशेषानुग्रहजन्या या भक्तिःसा पुष्टिभक्तिः। तल्लक्षणं तु भगवत्स्वरूपातिरिक्तफलाकाङ्क्षारहितत्वे सति भगवत्स्वरूपात्मकफलाकाङ्क्षावत्त्वम्।अत एव अक्षण्वतां फलमित्यत्र स्वरूपस्यैव फलत्वं निरणायि। अत:पुष्टिमार्गीया न तदतिरिक्तं कामयन्ते। "न योगसिद्धिरपुनर्भवं वामय्यपितात्मेच्छति मद्विनान्यत्" इति भगवद्वाक्यात्। एतच्च"वीक्ष्यालकावृतमुखं तव कुण्डलश्रीतः" इति पुष्टिभक्तव्रजसुन्दरीवाक्ये स्पष्टम्। भक्तिहंसेच निरूपितम्'भक्तौ च न स्वरूपातिरिक्तफलकत्वम्' इत्यनेन। सा पुष्टि भक्तिश्चतुर्धा, प्रवाहपुष्टि भक्तिमर्यादापुष्टि भक्तिपुष्टिपुष्टि भक्तिशुद्धपुष्टि भक्तिभेदात्। पुष्टिमार्गस्थैः लभ्यस्य फलस्य स्वरूपम् अथ पुष्टिमार्गीयाणां फलं विचार्यते। तत्र प्रथमम् "भगवत्युत्तमश्लोके भवतीभिरनुत्तमा। भक्तिःप्रवर्तिता दिष्ट्या मुनीनामपि दुर्लभा।।" इत्युद्धववाक्यान्मार्गप्रवर्तक त्वेन मुख्यत्वात्तेषां व्रजभक्तानां फलप्रकारो लिख्यते। तत्र “निरोधोऽस्यानुशयनमात्मनः सह शक्तिभिः" इति द्वितीयस्कन्धीयशुकवाक्याच्छक्तिभिः सहितस्य भगवतः प्रपञ्चे क्रीडानिरोधः, आत्मशब्दस्य भगवद्वाचित्वात्। अनुशयनशब्देन तत्तल्लीलानु-रूपा स्थितिरुच्यते, न तु निद्रा। पुरुषशब्दे पुरि शयनं पुरुषस्योच्यते, पुरि शेते इति व्युत्पत्त्या। तत्र स्थितिरेव शीङ्धातोरर्थः, न तु निद्रा। एवमिहापि। अत एव सुबोधिन्यां निबन्धे च "निरोधोऽस्यानुशयनं प्रपञ्चे क्रीडनं हरेः। शक्तिभिर्दुर्विभा-व्याभिः कृष्णस्येति हि लक्षणम्।" इत्युक्तम्।
Page #59
--------------------------------------------------------------------------
________________ प्रमेयरत्नार्णवात् 39 निरोधलीलायाः स्वरूपं तस्यास्त्रैविध्यं च सा भगवतो निरोधरूपालीला त्रिविधा निरोध्यभक्तानां तामसराजससात्त्विकभेदेन त्रिविधत्वात् तत्तन्मनोरोधकतायै क्रियमाणा लोकानुसारिणी त्रिविधा भवति। "स्वभावस्यान्यथा भावो न वै शक्यः कथञ्चन अतस्त्रिविधजीवेषु त्रिविधा भगवत्कृतिः।" इति सुबोधिन्याम्। तया त्रिविधलीलया क्रियमाणा भक्तानां प्रपञ्चविस्मृतिपूर्विका भगवदासक्तिः। सापि निरोधशब्दवाच्या, नितरां रोधो निरोध इति व्युत्पत्तेः। रोधः कस्येत्यपेक्षायां भक्तानामिति पूर्वस्कन्धसङ्गत्या लभ्यते। अपादानापेक्षायां प्रपञ्चो ग्राह्यः, तथा सति प्रपञ्चाद्रोध इति सिद्धम् भक्ताः पूर्वत्र निर्दिष्टास्तेरोद्धव्या विमुक्तये। इति निबन्धात्। हरिणा ये विनिर्मुक्तास्ते मग्ना भवसागरे। ये निरुद्धास्त एवात्र मोदमायान्त्यहर्निशम् इति निरोधलक्षणग्रन्थाच्च। प्रपञ्चाद्रोधेऽपि- "कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन्। इन्द्रियार्थान् विमूढात्मा मिथ्याचारः स उच्यते।" इति न्यायेन प्रपञ्चस्मरणं चेन्न भगवल्लीलानुभावे मुख्योऽधिकारः स्यादतः प्रपञ्चविस्मरणमपेक्षितम्। तदुपसर्गेण लभ्यते। नितरां रोधो निरोध इति, प्रपञ्चास्फूर्तिरिति यावत्। कस्मिन्निरोध इत्यपेक्षायां भगवति निरोध इति। "कृष्णे निरुद्धकरणात्भक्ता मुक्ता भवन्ति हि" इति निबन्धात्। स हि परमरुच्युत्पादकलीलाजन्यत्वेन परमसुस्वरूपत्वादासक्तिरूपः। अन्यथा निग्रहमानं स्यात्। तत्तु न सुखकरम्, "मनोनिग्रहकर्षिता" इति वाक्यात्। प्रपञ्चविस्मृतावेव भगवत्सुखानुभवादासक्तिरूपत्वं सिद्धयति निरोधस्य। अतः प्रपञ्चविस्मृतिपूर्विका भगवदासक्तिनिरोधपदवाच्येति। इति नन्दादयो गोपाः कृष्णरामकथां मुदा / कुर्वन्तो रममाणाश्च नाविन्दन् भववेदनाम् // शय्यासनाटनालापस्नानक्रीडाशनादिषु / न विदुःसन्तमात्मानं वृष्णयः कृष्णचेतसः // इत्यादौ तथैव निरूपितत्वात्। तथा च प्रपञ्चविस्मृतिपूर्वकभगवदासक्तिसम्पादिका प्रपञ्चाधिकरणिका भगवल्लीला निरोधपदवाच्या। सेयं भगवद्धर्मः। तादृशलीलाजन्या प्रपञ्चविस्मृतिपूर्विका भगवदासक्तिनिरोधपद-वाच्या, सा जीवधर्मः / /
Page #60
--------------------------------------------------------------------------
________________ गद्यसंग्रहः गौडीयवैष्णवदर्शने भागवतषट्सन्दर्भे तत्त्वसन्दर्भात् पुराणमपि वेदरूपतया प्रमाणम् पुरुषस्य भ्रमादिदोषचतुष्टयदुष्टत्वात् सुतरामलौकिका चिन्त्यस्वभाववस्तुस्पर्शायोग्यत्वाच्च तत्प्रत्यक्षादीन्यपि सदोषाणि // ततस्तानि न प्रमाणानीत्यनादिसिद्धसर्वपुरुषपरम्परासु सर्वलौकिकालौकिक ज्ञाननिदानत्वाद-प्राकृतवचनलक्षणो वेद एवास्माकं सर्वातीतसर्वाश्रयसर्वाचिन्त्याश्चर्यस्वभाव वस्तु विविदिषतां प्रमाणम्। तच्चानुमतम्- 'तेर्काप्रतिष्ठानात्' (ब्र० सू० 2/1/11) इत्यादौ, 'अचिन्त्याः खलु ये भावा न तांस्तर्केण योजयेत्'। (म० भा० मी० 4/5/12) / 'इत्यादौ शास्त्रयोनित्वात्' (ब्र० सू० 1/1/3) इत्यादौ, श्रुतेस्तु शब्दमूलत्वात् (ब्र० सू० 2/1/27) इत्यादौ, पितृदेवमनुष्याणां वेदश्चक्षुस्तवेश्वर। श्रेयस्त्वनुपलब्धेऽर्थे साध्यसाधनयोरपि। (भा०११/२०/४) इत्यादौ च। तत्र च वेदशब्दस्य सम्प्रति दुष्पारत्वाद् दुरधिगमार्थत्वाच्च तदर्थनिर्णायकानां मुनीनामपि परस्परविरोधाद् वेदरूपो वेदार्थनिर्णायकश्चेतिहासपुराणात्मक: शब्द एव विचारणीयः। तत्र च यो वा वेदशब्दो नात्मविदितः सोऽपि तदृष्ट्याऽनुमेय एवेति सम्प्रति तस्यैव प्रमोत्पादकत्वं स्थितम्। तथा हि महाभारते मानवीये चइतिहासपुराणाभ्यां वेदं समुपबृंहयेत्। __ (म०भा० आ० 1/293) इति / / न चाऽवेदेन वेदस्य बृंहणं सम्भवति, न ह्यपरिपूर्णस्य कनकवलयस्य त्रपुणा पूरणं युज्यते। ननु यदि वेदशब्दः पुराणमितिहासञ्चोपादत्ते, तर्हि पुराणमन्यदन्वेषणीयम्, यदि तु न, न त_तिहासपुराणयोरभेदो वेदेन- उच्यते विशिष्टैकार्थप्रतिपादकपदकदम्बस्याऽपौरुषेयत्वादभेदेऽपि स्वरक्रमभेदाद् भेदनिर्देशोऽप्युपपद्यते। ऋगादिभिः सममनयोरपौरुषेयत्वेनाऽभेदो माध्यन्दिनश्रुतावेव व्यज्यते
Page #61
--------------------------------------------------------------------------
________________ गौडीयवैष्णवदर्शने - एवं वा अरेऽस्य महतो भूतस्यनिःश्वसितमेतद्यदृग्वेदो यजुर्वेदः सामवेदोऽथर्वाङ्गिरस इतिहासः पुराणम्। (बृ० 2/4/10) इत्यादिना। गायत्रीमधिकृत्यप्रवर्तितं समाधौ वेदव्यासेन लब्धं भागवतमेव मूर्धन्यं प्रमाणम्। अथ पुराणानामेवं प्रामाण्ये स्थितेऽपि तेषामपि सामस्त्येना प्रचरद्रूपत्वान्नानादेवताप्रतिपादकप्रायत्वाद् अर्वाचीनैः क्षुद्रबुद्धिभिरर्थो दुरधिगम इति तदवस्थ एव संशयः। यदुक्तं मात्स्ये पञ्चाङ्गञ्च पुराणं स्यादाख्यानमितरत् स्मृतम् / सात्त्विकेषु च कल्पेषु माहात्म्यमधिकं हरेः // राजसेषु च माहात्म्यमधिकं ब्रह्मणो विदुः / तद्वदग्नेश्च माहात्म्यं तामसेषु शिवस्य च // सङ्कीर्णेषु सरस्वत्याः पितॄणाञ्च निगद्यते // (म०पु० 53/65, 68, 69) इति। अत्राऽग्नेस्तत्तदग्नौ प्रतिपाद्यस्य तत्तद्यज्ञस्येत्यर्थः। शिवस्य चेति चकाराच्छिवायाश्च। सङ्कीर्णेषु-सत्त्वरजस्तमोमयेषु कल्पेषु बहुषु। सरस्वत्या नानावाण्यात्मकतदुपलक्षिताया नानादेवताया इत्यर्थः। पितृणाम्- "कर्मणा पितृलोकः' इति . श्रुतेस्तत्प्रापककर्मणामित्यर्थः। तदेवं सति तत्तत्कल्पकथामयत्वेनैव मात्स्य एव प्रसिद्धानां तत्तत्पुराणानां व्यवस्था ज्ञापिता। तारतम्यन्तु कथं स्यात्, येनेतरनिर्णयः क्रियेत।सत्त्वादितारतम्येनैवेति चेत्, “सत्वात् संजायते ज्ञानम्' (गी० 10/17) इति "सत्त्वं यद् ब्रह्मदर्शनम्" इति न्यायात् सात्विकमेव पुराणादिकं परमार्थज्ञानाय प्रबलमित्यायातम्। तथापि परमार्थेऽपि नानाभङ्गया विप्रतिपद्यमानानां समाधानाय किं स्यात्। यदि सर्वस्यापि वेदस्य पुराणस्य चार्थनिर्णयाय तेनैव श्रीभगवता व्यासेन ब्रह्मसूत्रं कृतम्, तदवलोकनेनैव सोऽर्थो निर्णेय इत्युच्यते, तर्हि नाऽन्यसूत्रकारमुन्यनुगतेर्मन्येत। किञ्च, अत्यन्तगूढार्थानामल्पाक्षराणां तत्सूत्राणामन्यार्थत्वं कश्चिदाचक्षीत। ततः कतरदिवाऽत्र समाधानं तदैव सार्थत्वं कश्चिदाचक्षीत। ततः कतरदिवाऽत्र समधानम्। तदेव समाधेयम्। यद्येकतममेव पुराणलक्षणमपौरुषेयं शास्त्रं सर्ववेदेतिहासपुराणानामर्थसारं ब्रह्मसूत्रोपजीव्यञ्च भवद् भुवि सम्पूर्णप्रचरद्रूपं
Page #62
--------------------------------------------------------------------------
________________ 42 गद्यसंग्रहः स्यात्। सत्यमुक्तम्। यत एव च सर्वप्रमाणानां चक्रवर्त्तिभूतमस्मदभिमतं श्रीमद्भागवतमेवोद्भावितं भवता। यत् खलु सर्वपुराणजातमाविर्भाव्य, ब्रह्मसूत्रञ्च प्रणीयाप्यपरितुष्टेन तेन भगवता निजसूत्राणामकृत्रिमभाष्यभूतं समाधिलब्धमाविर्भावितम्। यस्मिन्नेव सर्वशास्त्रसमन्वयो दृश्यते, सर्ववेदार्थसूत्रलक्षणां गायत्रीमधिकृत्य प्रवर्त्तितत्वात्। प्रत्यभिज्ञादर्शने अभिनवगुप्ताचार्यस्य ईश्वरप्रत्यभिज्ञाविमर्शिनीतः व्यवहारसाधनानां व्यवहर्तव्यविषयकमोहापसारणमात्रफलकत्वम् / स ईश्वरस्वभाव आत्मा प्रकाशते तावत्, तत्र च अस्य स्वातन्त्र्यम्-इति न केनचिद्वपुषा न प्रकाशते, तत्र अप्रकाशात्मनापि प्रकाशते प्रकाशात्मनापि, तत्रापि प्रकाशात्मनि सर्वथा प्रकाशात्मना प्रकाशो भागशो वा भागशः प्रकाशने सर्वस्य व्यतिरेकेण अव्यतिरेकेण वा, कतिपयस्य व्यतिरेकेण अव्यतिरेकेण वा, उक्तप्रकारपूर्णतया वा तदमी सप्त प्रकाराः। तत्र प्रथमः प्रकारो जडोल्लासः, अन्त्यः परमशिवात्मा, मध्यमा जीवाभासाः, सैव भगवतो माया विमोहिनी नाम शक्तिः, तद्वशात् प्रकाशात्मतया सततम् अवभासमानेऽपि आत्मनि भागेन अप्रकाशनवशाद् "अनुपलक्षिते" सर्वथा हृदयंगमीभावमप्राप्ते अत एव पूर्णतावभासनसाध्याम् अर्थक्रियाम् अकुर्वति, तत्पूर्णतावभासनात्मकाभिमानविशेषसिद्धये "प्रत्यभिज्ञा" व्याख्यातपूर्वाप्रदर्श्यते, कथं 'शक्तेः' ईश्वरनिष्ठत्वेन प्रसिद्धाया दृक्क्रियात्मिकाया 'आविष्करणेन' प्रदर्शनेन अभिमानसाध्यार्थक्रियाणां तदभिमानसिद्ध्या विना असिद्धेः, तथा न दृष्टान्तं दर्शयति। (तैस्तैरप्युपयाचितैः (४अ०३आ०१७ श्लो॰) / इति। एतदुक्तं भवति-न कारकव्यापारो भगवति, नापि ज्ञापकव्यापारोऽयम्, अपि तु मोहापसारणमात्रमेतत्, व्यवहारसाधनानां प्रमाणानां . तावत्येव विश्रान्तेः। घटोऽयमग्रगः प्रत्यक्षत्वात्-इत्यनेन हि घटो न ज्ञाप्यते प्रत्यक्षेणैव प्रकाशमानत्वात्, अन्यथा पक्षे हेत्वसिद्धेः, केवलं मोहमात्रमपसार्यते। यश्चायं मोहस्तदपसारणं च यत्, तदुभयमपि भगवत एव विजृम्भामात्रं, न तु अधिकं किंचित्।
Page #63
--------------------------------------------------------------------------
________________ प्रत्यभिज्ञादर्शने . भगवानेव ज्ञानस्मृत्यपोहनशक्तिभिः विश्वव्यवहारप्रवर्तकः "संवित् तावत् प्रकाशते" इति तावत् न केचित् अपह्नवते। सा तु संवित् यदि स्वात्ममात्रविश्रान्ता अर्थस्य सा कथं प्रकाशः? स हि अर्थधर्म एव तथा स्यात् ततश्च अर्थप्रकाशः तावत्येव पर्यवसितः,-इति गलितो ग्राह्यग्राहकभावः। अतोऽर्थप्रकाशरूपां संविदम् इच्छता बलादेव अर्थोऽपि तद्रूपान्तर्गत एव अङ्गीकर्तव्यः, स च अर्थप्रकाशो यदि अन्यश्च अन्यश्च, तत् न स्मरणम् उपपन्नम्,इति अत एक एव असौ,-इति एकत्वात् सर्वो वेद्यराशिः तेन क्रोडीकृतः,इत्येतदपि अनिच्छता अगीकार्यम्। एवमपि सततमेव उन्मनेन निमग्नेन वा विश्वात्मना प्रकाशेत, तथास्वभावत्वात्। न चैवम्, अत: स्वरूपान्तर्बुडितम् अर्थराशिम् अपरमपि भिन्नाकारम् आत्मनि परिगृह्य, कंचिदेव अर्थ स्वरूपात् उन्मग्नम् आभासयति,-इति आपतितम्। सैषा ज्ञानशक्तिः। उन्मनाभाससंभिन्नं च चित्स्वरूपं बहिर्मुखत्वात् तच्छायानुरागात् नवं नवं ज्ञानमुक्तम्। एवमपि नवनवाभासाः प्रतिक्षणम् उदयव्ययभाजः,-इति सैव व्यवहारनिवहहानिः। तेन क्वचित् आभासे गृहीतपूर्वं यत् संवेदनं बहिर्मुखम् अभूत्, तस्य यत् अन्तर्मुखं चित्स्वरूपत्वं तत् कालान्तरेऽपि अवस्थास्नु स्वात्मगतं तद्विषयविशेषे बहिर्मुखत्वं परामृशति,-इति एषा स्मृतिशक्तिः। यच्च तत् नवं भासयति स्मरति वा तत् वस्तुतः संविदा विश्वमय्या तादात्म्यवृत्ति,-इति विश्वमयं पूर्णमेव,-इति नवं न किंचित् आभासितं स्मृतं वा स्यात्। इदमपि प्रवाहपतितम् ऊरीकार्यम्-यत् किल तत् आभास्यते तत् संविदो विच्छिद्यते, संविच्च ततः, संविच्च संविदन्तरात्, संवेद्यं चसंवेद्यान्तरात्, नच विच्छेदनं वस्तुतःसंभवति,- इति विच्छेदनस्य अवभासमात्रम् उच्यते / न च तत् इयता अपारमार्थिकम्, निर्मीयमाणस्य सर्वस्य अयमेव परमार्थो यतः। एष एव परितश्छेदनात् परिच्छेद उच्यते, तदवभासनसामर्थ्यम् अपोहनशक्तिः। अनेन शक्तित्रयेण विश्वेव्यवहाराः। तच्च भगवत एव शक्तित्रयं-यत् तथाभूतानुभवितृ-स्मर्तृ-विकल्पयितृस्वभावचैत्रमैत्राद्यवभासनम्। स एव हि तेन तेन वपुषा जानाति, स्मरति विकल्पयति च। यथोक्तम् आचार्येणैव यद्यप्यर्थस्थितिः प्राणपुर्यष्टकनियन्त्रिते / जीवे निरुद्धा तत्रापि परमात्मनि सा स्थिता // इत्यादि। एतासां च ज्ञानादिशक्तीनाम् असंख्यप्रकारो वैचित्र्यविकल्पः,-इति तत्सामर्थ्य स्वातन्त्र्यम्, अपराधीनं पूर्ण महदैश्वर्यं तन्निर्मितब्रह्मविष्णुरुद्राद्यैश्वर्या
Page #64
--------------------------------------------------------------------------
________________ 44 गद्यसंग्रहः पेक्षया उच्यते। तदेव "चिद्वपुः" इत्येवं कृत्वा इयदायातम् 'विश्वरूपः' इति। तत एव च परिनिष्ठितैकरूपजडभाववैलक्षण्यात् ज्ञानादिशक्तियुक्ततामाहेश्वर्यम् उपसंप्राप्तः। एतदनुपगमे न किंचित् इदं भासेत,-इति प्रसङ्गः। भासते तु, तस्मात् एतत् अवश्यम् अङ्गीकर्त्तव्यम्,-इति प्रसङ्गविपर्ययः। अन्यनिरपेक्षताया एव परमार्थत आनन्दरूपता, सा चा जडनिष्ठैव चेतयति इत्यत्र या चितिः चितिक्रिया तस्याः प्रत्यवमर्श: स्वात्मचमत्कारलक्षण आत्मा स्वभावः, तथाहि-घटेन स्वात्मनि न चमत्क्रियते स्वात्मा न परामृश्यते न स्वात्मनि तेन प्रकाश्यते न अपरिच्छिन्नतया भास्यते ततो न चेत्यत इति उच्यते। चैत्रेण तु स्वात्मनि अहमिति संरम्भोद्योगोल्लासविभूतियोगात् चमत्क्रियते, स्वात्मा परामृश्यते स्वात्मन्येव प्रकाश्यते इदमिति यः परिच्छेद एतावद्रूपतया तद्विलक्षणीभावेन नील--पीत-सुख-दु:खतच्छून्यताद्यसंख्यावभासयोगेन आभास्यते, ततः चैत्रेण चेत्यते इति उच्यते। एवं च विमर्शः स्वात्मनि अविमर्शोऽपिस्वात्मनि इत्यसिद्धमेतत्।विमर्शो हि सर्वंसहः परमपिआत्मीकरोति, आत्मानं च परीकरोति, उभयम् एकीकरोति, एकीकृतं द्वयमपि न्यग्भावयति इत्येवं स्वभावः। प्रत्यवमर्शश्च अन्तरभिलापात्मकशब्दनस्वभावः, तच्च शब्दनं संकेतनिरपेक्षमेव अविच्छिन्नचमत्कारात्मकम् अन्तर्मुखशिरोनिर्देशप्रख्यम् अकारादिमायीयसांकेतिकशब्दजीवितभूतं, नीलम् इदं, चैत्रोऽहम् इत्यादिप्रत्यवमर्शान्तरभित्तिभूतत्वात्, पूर्णत्वात् परा, वक्ति विश्वम् अपलपति प्रत्यवमर्शन इति च वाक्, अत एव सा स्वरसेन चिद्रूपतया स्वात्मविश्रान्तिवपुषा उदिता सततम् अनस्तमिता नित्या अहमित्येव, एतदेव परमात्मनो मुख्यं स्वातन्त्र्यम् ऐश्वर्यम् ईशितृत्वम् अनन्यापेक्षित्वम् उच्यते। परापरं तु इदं भावरूपस्य प्रत्यवमर्शस्य अख्यातिप्राणस्य-उद्बोधमात्रेऽपि अहंभाव एव विश्रान्ते: श्रीसदाशिवादिभूमौ पश्यन्तीदशायाम्। अपरं तु इदं भावस्यैव निरूढौ मायागर्भाधिकृतानामेव विष्णुविरिञ्जेन्द्रादीनाम्, तत्तु एषां परमेश्वरप्रसादजमेव इति। अन्यनिरपेक्षतैव परमार्थत आनन्दः, ऐश्वर्यं, स्वातन्त्र्यं चैतन्यं च। तस्मात् युक्तमुक्तम् तेन जडात्स हि विलक्षणः / / ' इति / / .........
Page #65
--------------------------------------------------------------------------
________________ प्रत्यभिज्ञादर्शने प्रकाशे अहमाकारः प्रत्यवमर्श एव, न विकल्पः, तत्राप्रकाशसम्भावनादेरसम्भवेन व्यपोहनीयाभावात् प्रकाशस्य विशुद्धसंविद्रूपस्य देहादिसंस्पर्शेरनाबिलीभूतस्य य:आत्मा जीवितभूतः सारस्वभावो विच्छेदशून्योऽन्तरभ्युपगमकल्पोऽनन्यमुखप्रेक्षित्वस्वातन्त्र्यविश्रान्तिरूपः “अहमिति" प्रत्यवमर्श: असौ विकल्पो न भवति, विकल्पत्वाशङ्कायां बीजं दर्शयति-वाग्वपुरपीति। विषयरूपात् श्रोत्रग्राह्यात् शब्दादन्य एव अन्तरवभासमानः संविद्रूपावेशी शब्देनात्माभिलापो वागित्यनेनोक्त:-वक्ति अर्थ स्वाध्यासेन सोऽयमित्यभिसंबन्धेन, यदि वाग्वपु:-कस्मान्न विकल्प:? आहनह्यस्य विकल्पलक्षणमस्ति, तथाहि-विविधा कल्पना विविधत्वेन च शङ्कितस्य कल्पोऽन्यव्यवच्छेदनं विकल्पः, विविधत्वं च वह्नावनग्निसंभावनासमारोपनिरासे सति भवेत्, द्वयं वह्नयवह्निरूपमाक्षिपति, पेन विकल्पेऽवश्यं तच्च निश्चेतव्यम्अतश्च व्यपोहितव्यं भवति। तथा च भिन्नयोरवभासो हि स्याद्घटाघटयोर्द्वयोः। प्रकाशस्यैव नान्यस्य मेदिनस्त्ववभासनम् // 2 // घटे हि दृष्टे घटस्थान एवाघटोऽपि योग्यदेशाभिमतस्थानाक्रमणशीलो विज्ञानजनकः स्वकारणोपनीतः संभाव्यते पटादिस्वभावः, अतो घटाघटयोर्द्वयोरवभासस्य संभावनात् समारोप: सावकाशीभवति, अघटस्य सत्यारोपे निषेधलक्षणोऽपोहनव्यापार:-इति तदनुप्राणिता विकल्परूपता घट इत्येतस्य निश्चयस्य, “लिङ् संभावनायाम्''। यस्त्वयं प्रकाशो नाम तस्य स्थाने यः संभाव्यते स तावदप्रकाशरूपो न भवति-तुल्यकक्ष्यस्य हि संभावनं भवति, न च यत्प्रकाशेन कर्त्तव्यं तदप्रकाशस्य कदाचित् दृष्टं - संभावनारोपणादिबलादेव च अस्याप्रकाशरूपत्वं विघटेत, अत: प्रकाशतुल्यस्यान्यस्याप्रकाशरूपस्य मेदिनस्ततुल्पक यस्यापहनात्मकभेदनव्यापारासहिषपोरवभासनमेव नास्ति, तदभाव कस्यायोहनम्? अवभाससंभवेऽपि प्रकाशरूपत्व पेव। न च प्रकाशस्य स्वरूपदेशकालभेदो-येन द्वितीयः प्रकाश एकस्पाटपोहातेति हीति-यस्मात् एवं, ततो दुगभावादपोड़ागंभवे विकल्परूपत्वाभावान चि..यात्रे परामर्शात्मनि अहमिति प्रत्यवमर्श एव, न तु विकल्प:
Page #66
--------------------------------------------------------------------------
________________ गद्यसंग्रहः अहमित्यवमर्शो द्विधा-शुद्धो मायीयश्च, तत्र शुद्धो यः संविन्मात्रे विश्वाभिन्ने विश्वच्छायाच्छुरितस्वच्छात्मनि वा। अशुद्धस्तु वेद्यरूपे शरीरादौ। तत्र शुद्धेऽहंप्रत्यवमर्श प्रतियोगी न कश्चिदपोहि तव्यः संभवति-घटादेरपि प्रकाशसारत्वेनाप्रतियोगित्वेनानपोह्यत्वात्, इत्यपोह्यत्वाभावे कथं तत्र विकल्परूपता।अशुद्धस्तु वेद्यरूपेशरीरादौ अन्यस्माद् देहादेघटादेश्च व्यवच्छेदेन भवन् विकल्प एव-इति वाक्यार्थः। अक्षरार्थस्तु-चित्तत्वं प्रकाशमात्ररूपं हित्वा सदप्यपहस्तनया अप्रधानीकृत्य भिन्ने देहादावहमेव देहादिः नीलादौ प्रमेये प्रमाता-इत्यभिमानेन “योऽहं स्थूल" इत्यादिविमर्शः स विकल्प एव, न तु शुद्धं प्रत्यवमर्शमात्रम्। अत्र हेतु:-परो द्वितीयो देहादिर्घटादिश्च यः प्रतियोगी तुल्यकक्ष्योऽन्योन्यपरिहाराच्च विरुद्धस्तस्य योऽवभास:समारोपणलक्षणः, तस्माद्यतोऽसौ तन्निषेधानुप्राणितोऽहमित्यवमर्शो जातः, "अहं स्थूलो, न कृशो, न घटादिः" इति, शुद्धप्रकाशरूपस्य अपहस्तनमेव देहादेर्भेदे हेतुः, तदपहस्तेन तु परमेश्वरस्य स्वात्मप्रच्छादनेच्छारूपाभेदाप्रकाशनं भ्रान्तिरूपंप्रति स्वातन्त्र्यरूपा मायाशक्तिहेतुः, चिद्रूपस्य चापहस्तनं देहादेरेव अत्यन्तवेद्यभावस्य भिन्नस्यैव उपपत्तिशून्यतयैव प्रमातृताभिमानः। तथा च देहाभिमानभूमिकायां स्थिताश्चार्वाकाः "चैतन्यविशिष्टः कायः पुरुषः" इति कायमेव प्राधान्येनाहुः-स्त्रीबालमूर्खाणां तथाभिमानात्। ततोऽपि विवेकवन्तः पाकजोत्पत्तिपरिणामादिबलादस्थिरं शरीरं मन्वानाः प्राणशक्तिसमधिष्ठानेन च विना विकारशतावेशं शरीरस्य पश्यन्तो बुभुक्षापिपासायोगयोग्यं प्राणमेवात्मानं केचन श्रुत्यन्तविदो मन्यन्ते। ततोऽपि समधिकविवेकभाजः प्राणस्यापि अनित्यत्वादनुसंधानयोग्यतामपश्यन्तो ज्ञानसुखाद्याश्रयभूतां बुद्धिमेव काणादप्रभृतय आत्मानमाहुः। अपरे तु तस्य अपि योगिदशायां वेद्यभावादपरत्वं मन्यमानाः अंसवेद्यपर्वरूपं यन्न किंचिद्रूपं सकलवेद्यराशिविनिर्मुक्तं शून्यत्वान्नभस्तुल्यं न तु महाभूताकाशस्वभावंप्रमातृतत्वं शून्यब्रह्मवादिनः सांख्यप्रभृतय आहुः। तस्मिन्नपि वेद्ये शून्यान्तरं तत्रापि शून्यान्तरम् इति यावद् भेदः तावत्कल्पना न त्रुट्यति, तदर्थमाह "कल्पिते" इति। न चानवस्था परमार्थप्रकाशबलेन यतः सर्वस्य प्रकाशो न तु देहादिवशात्, तथात्वाभिमानमात्रं-देहादिः प्रमातेति, संकोचमात्ररूपं चित्तत्वं शून्यं भूतलं, यथा घटाभावः, संकोच:-अपरवेद्यांशच्छायाच्छुरितं तु चित्तत्त्वमेव बुद्धिप्राणदेहादि
Page #67
--------------------------------------------------------------------------
________________ महार्थमञ्जरीतः इति। अत एव भूमिकाविशेषा उत्तरोत्तरमारोहतां योगिनां जाग्रदादितया पिण्डस्थादितया चागमेषु भण्यन्ते, अपहस्तनं च व्याख्यास्यते कलोद्वलितमेतच्च चित्तत्त्वं कर्तृतामयम् / अचिद्रूपस्य शून्यादेर्मितं गुणतया स्थितम् // इति, तत् स्थितम्-अशुद्धः अहम्' इत्यवमवर्शो विकल्प एव् // परमेश्वर एव प्रमाता न देहादिः, विश्वं तदन्तर्गतमेव प्रकाशात्मा परमेश्वर एव यतो देहादिप्रमातृताभिमानदशायामपि वस्तुतः प्रमाता, एवम् इति अतो हेतोः इदं सिद्धं भवति स्मरणे अपोहनजीविते च विकल्पे अनुभवज्ञाने च अन्तराभासः प्रकाशविश्रान्तः स्थित एव, नात्र संशयः कश्चित्, यदि हि देहादिरेव परमार्थप्रमाता स्यात् तत् शरीरस्य प्राणस्य धियः शून्यस्य वा अन्तर्घटादि इति न किंचित् एतत् घटादिपरिहारेण देहावे: स्थितत्वात्। परमार्थप्रकाशस्तु सर्वंसहः इति तत्रान्तर्विश्वम्, इति अनायाससिद्धमेतत् / महेश्वरानन्दस्य महार्थमञ्जरीतः आत्मनः परमेश्वराभेदविस्मरणादेव क्लिश्यतो जीवस्य प्रत्यभिज्ञैव शरणम् योऽयं लोको दृश्यवर्गवैलक्षण्याद् द्रष्टुत्वधर्मा, तत एव परमेश्वरवदात्मनो विश्वशरीरत्वपञ्चकृत्यकारित्वाद्यैश्वर्ययोगेऽपि पशुत्वाभिमानी प्रमातृवर्गः, तस्यायं प्रायशः स्वभावो याक्तितत्वान्वेषणे परमेश्वराभिन्नोऽपि स्वयं स्वेच्छामात्रत्वादहम्भाववदिदम्भावमप्यवगाहमानस्य स्वस्य यद्धृदयमिच्छाज्ञानक्रियात्मकशक्तित्रितयमे लापल न रूपमन्तस्तत्वम्, तत्परामर्श प्रत्यौदासीन्यमवलम्बत इति। तच्च तस्य स्वचित्तस्वभावादापतितम्। चित्तं हि नाम चैतन्यपथावरोहाच्चेत्यसन्ञ्चयान्तश्चर्याचातुर्योपात्तसङ्कोचाचिच्छक्तिरित्यवधार्यते। चित्तमयत्वं चास्याऽवच्छिन्नस्य प्रमातुः"तन्मयो मायाप्रमाता" इति श्रीप्रत्यभिज्ञाहृदयमर्यादया संप्रतिपन्नम्। यतः श्रीशिवसूत्रेषु "चैतन्यमात्मा" इतिवत् “चित्तमात्मा" इत्यप्याणवदशौचित्येन पुनरुपदिष्टमिति स्वाभाविकमस्येदमौदासीन्यम्। अत एव चायं संसाराजननमरणादिरूपाल्लोकयात्राव्यवहाराद् बिभ्यद् “द्वितीयाद् वै
Page #68
--------------------------------------------------------------------------
________________ 48 गद्यसंग्रहः भयं भवति" इत्युपनिषत्प्रक्रियाया भेदप्रथोपारूढं चाकित्यमुद्वहन् मुह्यति। आत्मनः परमैश्वर्यावस्थास्मृतिप्रमोषादन्तः संक्लिश्यते। यथा सर्पदंशाभावेऽपि विषावेशशङ्काशाली स्वस्य मनसि सर्पभ्रमदायिनो रज्ज्वादेः पदार्थस्य वस्तुभूतस्वभावपर्यालोचनोपेक्षायां तात्त्विकसर्पदंशवन्मूर्च्छमरणादिकामन्तर्व्यथामुपगच्छति, तद्वदित्युपमया प्रतिपादितमर्थतत्त्वं हृदयङ्गमीक्रियते। उक्तरूपे चास्य मोहे स्वशक्तय एव प्रवर्तन्ते। ताश्च वाग्भूमौ परापश्यन्त्यादिभ्यां वाचि ब्राह्मीमाहेश्वर्यादयः।संवित्क्रमे स्वात्मस्फुरत्तासारा वामेश्वरीखेचर्याद्याः।प्राणपर्वणि चशरीरनिर्वहणोपक्षीणवृत्तयःप्राणापानप्रभृतयः। तासां ह्यहन्ते-दन्ताद्वितयावगाहनसामर्थ्यादात्मस्वरूपोन्मीलनवत् तदाच्छादनेऽप्यौचित्यमस्ति। यद्यप्यस्य पश्वभिमतस्यात्मन इच्छादिशक्तित्रितयानुप्राणनत्वमपरिहार्यम्, तथापि या एताः पारमैश्वर्यामवस्थायामप्रतिहतस्वातन्त्र्यलक्षणेच्छा विश्वभेदप्रथानुरूपेण सार्वज्योपबंहिता ज्ञानशक्तिः, तद्वत् सर्वकर्तृत्वात्मिका क्रियाशक्तिश्च, ता एव पशुदशायां कूर्माङ्गभङ्ग्या संकुचन्त्यः क्रमादपूर्णताख्यातिरूपमाणवम्, वेद्यभेदप्रथास्वरूपं मायीयम्,शुभाशुभानुष्ठानात्मकं कार्मणंचमलमुन्मीलयन्ति, ततश्चायंसंसारीत्युच्यते। एनमेव हि व्यामोहं प्रत्यूहयितुं सदाचार्यचरणराजीवसपर्या कार्यतोद्धोष्यते। यदा पुनः स एव लोकः स्वहृदयस्य वास्तवं स्वभावं पर्यालोचयितुमुन्मुखीभवति, तदा न कश्चित् संसारशब्दस्यार्थतयोपलभ्यते। स्वसंरम्भविजृम्भात्मकतयैवास्य विमृश्यमानत्वात्। यथोक्तमाचार्याभिनवगुप्तपादैः स्वतन्त्रः स्वच्छात्मा स्फुरति सततं चेतनशिवः पराशक्तिश्चेयं करणसरणिप्रान्तमुदिता। तदाभोगैकात्मा स्फुरति च समस्तं जगदिदं __न जाने कुत्रायं ध्वनिरनुपतेत् संसृतिरिति॥ इति // यथा चाद्वयोल्लासे भ्रमः संसारो यत् कथमिव भवेन्मुक्तिरमुत स्त्वितीयं या वाञ्छा बत जडधियां सा प्रसरति। त्वदन्यन्नास्तीति प्रभवदविकल्पाद्वयमतेः स्थिरीकारो मोक्षो द्वितयघटना संसृतिरतः // इति //
Page #69
--------------------------------------------------------------------------
________________ महार्थमञ्जरीतः यथा च संवित्प्रकाशे तस्माद् विकल्पः संशुद्धाद् विज्ञानान्नातिरिच्यते। तेनैव निर्विकल्पोऽयं विकल्पः स्वात्मनि स्थितः // इति // सर्वो विकल्पः संसार इत्युक्तेरयमाशयः। तदसत्त्वं सृतेः सत्त्वं शुद्धायाः संविदः स्थितम्॥ इति च। अत्राप्युक्त एव दृष्टान्तः। यथा-रज्वादितत्त्वावबोधे भुजङ्गादिभ्रान्त्यभावान्मूर्छाद्यनुभव इति। अयमर्थः- सर्वस्यापि जनस्य बाह्य व्यवहारव्यतिरेकेण स्वहदयोन्मुखः कश्चिदहमित्युद्योगः परिस्फुरति। स च जानामीति संविद्विशेषवपुरेवोपपद्यत इति ज्ञानशक्तेरनपह्नवः।जानामीत्यत्र विमर्शाकारसंरम्भरूपा काचित् क्रियाप्याक्षिप्ता। एतद् द्वितयानुप्राणनावस्था-यामिच्छाशक्तिव्यपदेश इत्यव्याकुलोऽयमिच्छाज्ञानक्रियासामरस्यात्मा स्वभावः, यो हृदयमिति व्यवह्रियते। तस्य च वस्तुनः पर्यालोचनायां वितर्क आत्मज्ञानम्' इति श्रीशिवसूत्रस्थित्या स एवाहं परमशिवभट्टारकः शक्तित्रितयवत्वादिति विमर्शलक्षणा शक्तिराविर्भवति। यदुद्देशेन "शक्त्याविष्करणेनेयं प्रत्यभिज्ञोपदिश्यते" इति श्रीप्रत्यभिज्ञोक्तिः।। समग्रप्रपञ्चः पारमेश्वरप्रकाशात्मकतयाऽभिन्नः, साम्भकुम्भादि - भेद व्यपदेश-सागरतरङ्गभङ्गया विभाग निबन्धनो न पृथक्त्वनिबन्धनः पृथक्त्वमेवाभेदविरोधि न विभागः ननु कथं भेदवादापवादः, येन विश्वस्वभावस्यैकरस्यं स्यादिति चेत्, उच्यते। कोऽयं भेदो नाम। किमन्योन्याभावः, उत वैधर्म्यम्, आहोस्वित् स्वरूपमेव। नाद्यः, स खलु स्तम्भः कुम्भो न भवति कुम्भश्च न स्तम्भ इत्येतादृशेन वपुषा द्वयोरन्योन्यतारूपमुपाधिमपेक्ष्यैवोत्पद्यते।सचविचार्यमाणस्तयोरन्यत्वेवीप्स्यमान एवाविर्भवति। तच्चान्यत्वं पदार्थानां स्वभावो वा, भेदनिबन्धनः कश्चिदुपाधिर्वा। यद्वा, तइँकत्वाक्रान्तानामपि भेदः प्रसज्येत। द्वितीयश्चेत्, तदन्यत्वं भेदे सत्येवोपपद्यते। भेदश्च नाद्यापि सिद्धस्वरूप इत्यात्माश्रयत्वमन्योन्याश्रयत्वं वा स्यात् / न द्वितीयः। वैधन॑ नाम स्तम्भादीनां स्तम्भत्वकुम्भत्वादिरूपोऽर्थः। तत्र स्तम्भेष्वेव स्तम्भत्वं कुम्भत्वं च कुम्भेष्वेवेति यदि किन्चिन्नैयत्वम्, तदुपपद्येत
Page #70
--------------------------------------------------------------------------
________________ गद्यसंग्रहः भेदः। नियामकं च न किन्चिदालोक्यते। नन्वस्ति दारुमयत्वं पृथुबुध्नोदराकारत्वं च तद्व्यवस्थापकमिति चेत्, न / तदसाधारण्येनाप्रतीतेः। तादृशी च प्रतीति: स्तम्भादीनां भेदे सत्येव सङ्गच्छेत। स च साध्यकोट्यारूढ इति पूर्ववदात्माश्रयत्वाद्यापातः / किञ्च दारुमयत्वादीनामपि भेदस्तत्तद्वैधात्मक इति परमाण्वन्तं पर्यालोचनायामामूलविपर्यासिन्यनवस्था स्यात् / नापि तृतीयः, स्वरूपं हि स्तम्भादेः स्वमनन्यस्वभावानुषक्तं / 'रूपमिति वक्तव्यम्, अन्यथा भावानां स्वभावसाङ्कर्यप्रसङ्गात्। अन्यस्वभावानुपरागश्च स्तम्भादेः किन्निबन्धन इत्यन्वेषणो तत्रापि भैदसद्भावादित्यैवौक्तियुक्तिमालम्बते।' स चाद्यापि मनोरथायमानस्वभाव इति प्राचीन एव दोषानुषङ्गः। किञ्च, स्वरूपमेव भावानां भेदश्चेत्, इदं रजतमित्यादिभ्रान्त्युल्लेखो दत्ताञ्जलिः स्यात्। तत्र हि शुक्तिकाया: स्वरूपं व्यक्तमेवाध्यक्षीक्रियते, रजततयाऽध्यवसीयते च। अख्यातिवादपदवीप्रस्थानेऽपि भ्रान्त्यात्मिकायाः प्रतीतेरेवापलापो न पुनस्तदनुगुणस्य व्यवहारस्यापीत्यभ्युपगन्तव्यम्।अपिचायं भेदो भावेष्वेव भासमानस्तत्तद्भावेभ्यः स्वयं भिन्नो वा न वा? न चेत्, अभेद एवेत्यापतति। भिन्नश्चेत्, सोऽपि भेदः कथमिति निरूप्यमाण उपर्युपरि भेदपरम्परापरिग्रहप्राचुर्यादनवस्थामेवोपस्थापयति। भेदश्चायं प्रकृत्या भिन्नस्य वा स्यात्, उताभिन्नस्यापि भावस्य। यदि भिन्नस्य, किमनेनागन्तुकेन भेदेन / कृतकारित्वं च महान् दोषः। अभिन्नस्य चेत्, व्यक्तं व्याघातः स्यात्। अन्यच्चेदमालोचनीयम्। स्तम्भात् कुम्भो भिन्न इत्यादिर्हि भेदव्यवहारः। तत्र भेदविषयनिर्देशार्थमनयोर्द्वयोरप्येकहृदयक्रोडीकार्यतया भाव्यम्। तथाभावे च तयोः, इदमस्मादिह पृथगिति बहिरङ्गुल्यभिनयक्रियाकल्पः। अन्तर्गतस्वभावस्तात्त्विकमनयोरभेदमाचष्टे॥ इत्यादिस्थित्या वस्तुभेदस्वभावत्वादभेद एव प्रतितिष्ठति। प्रयोगश्चात्र-यत् प्रकाशते तदेकप्रकाशात्मकम्, प्रकाशमानत्वात्। अहम्प्रत्यवमर्शवदिति। अत्र चोपाधिविधूननाडुपन्यासो ग्रन्थगौरवायेति बन्ध्योऽयं भेदवादास्वाददोहलप्रयासः। ननु स्तम्भः कुम्भ इत्यादिरन्योन्यमसङ्कीर्णो व्यवहारः कथमिति चेत्, भेदाभेदमर्यादयेति ब्रूमः। पारमेश्वरो हि प्रकाश: सर्वत्रापि प्रपञ्चे निर्विशेषमुन्मिषति, तस्यैव स्वातन्त्र्यात्।सागरतरङ्गभङ्गया स्तम्भःकुम्भ इत्यादिपृथग्व्यवहारोपपत्तिश्च। तीसतोऽत्रापि भेदवाददूषणापत्तिरिति चेत्, न ।शुद्धो हि भेदस्तादृशमपवादमनु
Page #71
--------------------------------------------------------------------------
________________ महार्थमञ्जरीतः ____51 भवति। अत्र त्वभेदोपश्लेषसौभाग्याल्लवणाकरावगाढसर्वलावण्यन्यायेन भेदोऽपि तद्वद् दूष्यतयैवावतिष्ठते। यदस्माभिर्विभागनिबन्ध एव भेदो विश्वस्याभ्युपागम्यते, नतु पृथक्त्वोपाधिकः,तयोद्धितीयेनैवाभेदस्य विरोधात्। ननु भेदानुषङ्गदौर्भाग्यादभेदस्यापि दृष्यत्वमिति विपर्ययः किं न स्यादिति चेत्, न / प्रकृतिर्हि विकृतिमनुगृह्णाति / तत्र चाभेदः प्रकृतिरन्यो विकृतिरित्यभ्युपगन्तव्यम्। यतो भिन्नानामपि पदार्थानां प्रातिस्विकेन रूपेणैक्यमपरिहार्यम् / तदेव चाभेद इति विश्वविलासस्यास्य वास्तव-स्वभावोऽयमभेद एवेत्यत्र न काचिदनुपपत्तिः / यदत्रैव वस्तुनि "एकमेवाद्वितीयं ब्रह्म","नेह नानास्ति किञ्चन" इत्यादयोऽनन्ता उपनिषद उन्मिषन्ति। ननु व्याहतोऽयमर्थो भेदश्चाभेदश्चेति चेत्? अन्त प्रकान्तं प्रसमृतमायुष्मता, एवमतिदुर्घटनकार्यघटनहे तोर्हि भगवतो माया नाम काचिदतिमहती शक्तिरस्तीत्यङ्गीक्रियते। एतेनाद्वैतमेव सर्वसारः सिद्वान्तः / तच्च पार्यन्तिकी प्रतिष्ठेति परावस्था। भेदाभेदस्तु व्यवहारसर्वस्वं निर्वहन् विश्वस्य विश्वोत्तीर्णस्य च सम्बन्धस्वभावो विजृम्भत इति परापरावस्था। भेदश्च विश्वोत्तीर्णपरमेश्वरप्रकाश-परामर्शप्रागल्भ्यपल्लवपरम्पराप्रायता। विश्ववैचित्र्यशिल्पकल्पनाचित्र-मण्डपायमानविभ्रमः प्रसर्पतीत्यपरावस्था। यासु क्रमात् सुप्रबुद्धः प्रबुद्धोऽप्रबुद्ध इति योगितारतम्यम्। आसु च सर्वास्वपि पारमेश्वरप्रकाशानुस्यूतेर्न क्वचिदपि वैलक्षण्यमित्यतिविचक्षणैकशिक्षणीयोऽयमास्माकीनः पक्ष इति / सर्वज्ञः सर्वकर्ता पूर्णः स्वतन्त्रः परमात्मैव कलादिकञ्चकपञ्चकवशाद् जीवत्वमापद्यते परमेश्वरो हि प्रकृत्या विश्वस्य कर्ता, ज्ञाता च, तत एवस्वातन्त्र्यात् पूर्णः स्वात्मतृप्तश्च, प्रार्थनीयाभावात्। स्वव्यतिरिक्तस्य स्वावच्छेदकस्य कस्यचिद् भावस्यासंभवान्नित्यःप्राक्प्रध्वंसाभावातिलची। तत एव संकोचलक्षणनियन्त्रणाशून्यश्च। तादृशोऽपि सन्नसौ याभिः शक्तिर्भिनिबन्धनीभूताभिर्विपरीत इव किञ्चित्कर्तृत्वादिधर्मयुक्त इवावभासते ताः पञ्च शक्तयो भवन्ति। तदुक्तं श्रीक्रमोदये रागो माया कलाऽविद्या नियतिः काल एव च। पञ्चवृत्त्याश्रयाः सर्वे पाशाश्चेति प्रकीर्तिताः // इति //
Page #72
--------------------------------------------------------------------------
________________ गद्यसंग्रहः ताश्च कला अविद्या राग:कालो नियतिरित्युच्यन्ते।कला तस्य किञ्चित्कर्तृत्वहेतुः। अविद्या किञ्चिज्ज्ञत्वकारणम्। रागो विश्वायेष्वभिषङ्गः। कालो भावानामवभासनानवभासनात्मा क्रमः। नियतिर्ममेदं न ममेदमित्यादिनियमहेतुः। एतत्पञ्चकं चागमेषु स्वरूपावरकत्वात् कञ्चकमित्युच्यते। एतदभावे हि पुरुष:परमेश्वरवदतिप्रकटबोधशक्तिः, पाषाणवदत्यन्तनिमग्नैश्वर्यो वा भवेत्। तत्र चरागोमायाऽविद्या कला काल इति क्रमेण पुरुषस्योर्ध्वाध: पर्वानुप्रवेशपरिहारात् त्रिशङ्कुवन्मध्यस्थानावस्थानं प्रति पृथिव्यप्तेजोवाय्वाकाश-रूपतया तासामुपयोगः। परमेश्वरोपासनाक्रमे प्राणायामस्य महत्त्वम् पारमेश्वरोपास्त्युन्मुखानां हि प्रमातॄणामयं स्वभावो यत् स्वात्मस्फुरत्ताविष्कारो परागमहिम्ना-तत्तत्प्रसरणप्रकारवैचित्र्याक्रान्तं प्रपञ्चोच्छ्रायं प्रवर्तयन्तो बहिरन्तविभागशून्यामलौकिकीमात्मभूमिमारुह्य महाचिदाह्लादचर्वणचातुर्य-मात्रसाराः स्वच्छन्दमासत इति। तत्र तैरूपास्त्युपक्रमे प्रकल्प्यमानः प्राणसंयमो नाम बुभुत्सुभिरित्थमवबोद्धव्यो यन्निजं सत्त्वम् उक्तरूपबलस्वभावः सद्भावः, तस्य विकल्पविक्षोभोपश्लिष्टतयैव सर्वदाऽनुभूयमानत्वादन्वयमात्रादेव तन्निबन्धनं किञ्चिदलौकिकमन्तस्तत्त्वमस्तीत्यध्वसीयते, न पुनर्व्यतिरेकद्वारापि! व्यतिरेकश्च नात्यन्तं व्यपोहकल्पनयोपपद्यते। केवलं सङ्कोचमात्रादुपचर्यते। अतश्च कार्योन्मुखः प्रयत्नो यः केवलं सोऽत्र लुप्यते। तस्मिन् लुप्ते विलुप्तोऽस्मीत्यबुधः प्रतिपद्यते॥ न तु योऽन्तर्मुखी भावः सर्वज्ञत्वगुणास्पदम्। तस्य लोपः कदाचित् स्यादन्यस्यानुपलम्भनात्॥ इति श्रीस्पन्दप्रक्रियाया वेद्यावरोहोन्मुख्यशालिनि स्वसामर्थ्यरूपे विभवे कललावस्थयाऽवस्थानात्मकं स्तैमित्यमनुभवत्यपि विश्वोत्तीर्णस्य स्वात्मपरिस्पन्दमयो विमर्श: विश्वस्यैव विलासं मे शरीरं चाश्नुते शिवः। शालामिव विशालां स्वामादर्श च यथा द्विपः॥ इत्यादिनीत्या दर्पणमण्डलान्तः प्रविष्टगन्धगजेन्द्राद्यनुसन्धानस्थानीयं पर्यालोचनम्। तदुपपादकतया बहिष्ठानां वेद्योल्लासस्वलक्षणानां वृत्तान्तानां भङ्गो
Page #73
--------------------------------------------------------------------------
________________ महार्थमञ्जरीतः 53 भञ्जनं स्तम्भनं प्राणायाम इति। तत्तद्विकल्पविक्षोभव्यतिरे के ऽपि स्वात्मस्फुरतानुसन्धानोपायः प्राणायाम इति यावत्। यथा श्रीस्वच्छन्देः अपसव्येन रेच्येत सव्येनैव तु पूरयेत्। नाडीनां शोधनं ह्येतन्मोक्षमार्गपथस्य तु॥ रेचनात् पूरणाद् रोधात् प्राणायामस्त्रिधा स्मृतः। सामान्याद् बहिरेते तु पुनश्चाभ्यन्तरे त्रयः // अभ्यन्तरेण रेच्येत पूर्यताभ्यन्तरेण तु / निष्कम्पं कुम्भकं कृत्वा कार्याश्चाभ्यन्तरास्त्रयः // इति // यथा - नाभ्यां हृदयसञ्चारान्मनश्चेन्द्रियगोचरात्। प्राणायामश्चतुर्थस्तु सुप्रशान्तपदे स्थितः // इति // "प्राक् संवित् प्राणे परिणता" इति स्थित्या सर्वस्यापि रेचनपूरकादिप्रपञ्चोपग्राह्यस्य वायुचक्रस्य प्राणमात्रानुप्राणनत्वात् प्राणस्येत्येकवचनोपन्यासः।। हृदयं खलु प्रकाशविमर्शमेलापलक्षणम् अन्तस्तत्त्वम्, संसारव्यसननिवृत्तये तद् विषयेभ्यः प्रत्यावृत्य प्रत्यगानन्दस्वरूपे स्वात्मनि योजनीयम् / (हन्त रहस्यं भणामो मूढा! मा भ्रमत गर्भगोलेषु। अत्यासन्नं हृदयं पर्यालोचयत तस्योद्योगम्॥) हे मूढाः! मायामोहमालिन्यकज्जलकलुषितात्मानः, तत एव शरीराद्यहन्तानुसन्धानवन्तः प्रमातारः। वयमेते केचन देशिककटाक्षपातप्रत्यशिक्षतात्मैश्वर्योच्छ्रायाः परानुजिघृक्षावेशवैवश्याक्रान्तचित्तवृत्तयश्च सन्त : तदेतत् परमं गुह्यं योगिनीनां मुखे स्थितम् / इति स्थित्या गोप्यमर्थतत्त्वं भणामो वैखरीवाक्पर्यन्तं परामृशामः। अन्याभिमुखीकारादुक्तरूपसंरम्भोपन्यासो हि तन्मनसिं तादृक्परामर्शार्पणं विना नसङ्गच्छते।अन्यथावैखर्या वैयर्थ्यप्रसङ्गादित्यामन्त्र्यमाणान् पुरुषविशेषानर्थतत्त्वं विञ्चित् परामर्शयाम इत्युक्तं भवति। तत्र भणितव्यमर्थमवस्थाप्य मध्ये
Page #74
--------------------------------------------------------------------------
________________ 54 गद्यसंग्रहः तदपरिज्ञानोपाधिकमुपद्रवाधिक्यं तत्परिज्ञानप्ररोचनातात्पर्येणोपपाद्यते- मा भ्रमत गर्भगोलेष्विति। किमिति जननीजठरगह्वरान्तर्वासक्लेशमनुभवताऽनायासेन कस्मिंश्चित् तत्प्रतीकारोपाये विद्यमानेऽपीति यावत्। मा भ्रमतेति गर्भगह्वरभ्रमणनिषेधाभिधानेन वक्ष्यमाणस्यार्थस्य तत्प्रतिबन्धपाटवं प्रत्यव्यभिचारो व्यज्यते। गर्भवासो ह्यपद्रवानुभूतीनां परा भूमिः। भ्रमणेन च तस्य "मातापितृसहस्राणि" इति न्यायादनेककालानुवृत्तत्वमाक्षिप्यते। तच्च जननम् - "जातस्य हि ध्रुवो मृत्युः" इति भगवद्गीतानीत्या, "विनाशाघ्रात उत्पादः' इति श्रीमत्क्षेमराजोक्त्या च मरणानुभूत्यविनाभूतं तदुभयान्तर्भूतं चाखिलमपि दु:खानुभूतिबाहुल्यमिति जन्ममय्या पीडया सर्वमपि संसारव्यसनमुपसंगृह्यते। यदाशयेनोक्तं श्री लघुभट्टारके : ज्ञात्वेत्थं न पुनः स्पृशन्ति जननीगर्भेऽर्भकत्वं नराः // इति // ___ अथ भणितव्यमेवार्थ भणितुमस्यात्यन्तसुलभत्वोपपादन द्वारा पीठिकांबध्नाति अत्यासन्नं हृदयमिति। यदि षडध्वोल्लाससमष्टिरूपस्य स्वशरीरस्यानुप्राणनतयाऽवतिष्ठमानमविकल्पावस्थायां तदुत्तीर्णोल्लेखं च सत्प्रकाशविमर्शद्वितयमेलापलक्षणमन्तस्तत्वं हृदयमित्युच्यते, तस्य पर्वताग्रनदीतीरादिवन्न कदाचिदनासत्तिशङ्का सम्भवति, स्वस्वरूपाविभिन्नत्वादेतदासर्त प्रत्यतिशयस्यानुभूयमानत्वात्। तादृशस्य चास्य य उद्योगो यतः कुतश्चिदप्याकारादौदासीन्यापहस्तनस्वभावमुद्यन्तृत्वम्, तत् परित इच्छाज्ञानक्रियापरिस्पन्दप्रवर्तिताशेषविश्वव्यवहारप्रथापरामर्शपूर्वकमालोचयत आत्मानुकूल्यादवलोकयध्वम्।यस्मिन्नेकत्रैवसाध्ये चतु:स्रोतः प्रवर्तिता मन्त्रतन्त्रादयः प्रभजानाभिव्यजन इव व्यजनवातायनवस्त्राञ्चलभस्त्रिकाफूत्कारप्रभृतयो बहुप्रकारमुपाया उपपाद्यन्ते। येन च क्षणमात्रानुबद्धे नापि जननमरणाद्यशेषोपद्रवव्युदासशाली जीवन्मोक्षलक्ष्मीमहोपभोगः संपद्यते। स चोद्योगः कदाचिदिन्द्रियपरिस्पन्दानुबन्धी क्रियाशक्तिस्फाररूपो रूपरसादिविषयग्रहणकौतूहलाबहिःप्रमेयशय्यामधिशय्य व्याक्षेपविभ्रममनुभवति, कदाचिच्च ज्ञानशक्त्यवष्टव्धो विषयेभ्यः प्रत्यावृत्य स्वात्ममात्र विश्रान्तिस्वभावां प्रत्यगानन्दसम्पदमुपभुङ्क्ते /
Page #75
--------------------------------------------------------------------------
________________ 55 सौन्दर्यलहरीतः सादाख्या कला - शुद्धविद्या सदाशिवेन मिलिता षड्विंशतत्त्वरूपतां भगवती एवं परमात्मेत्येवं शिवशक्तयोरैक्यम्। अत्रेदमनुसन्धेयम् -मूलाधारस्वाधिष्ठानमणिपूरानाहतविशुद्ध्याज्ञात्मकानि षट्चक्राणि / एतानि पृथिव्यग्निजलपवनाकाशमनस्तत्त्वात्मकानि। तानि तत्त्वानि तेषु चक्रेषु तन्मात्रतयाऽवस्थितानि / तन्मात्रास्तु गन्धरूपरसस्पर्शशब्दात्मकाः। आज्ञाचक्रस्थितेन मनस्तत्त्वेन एकादशेन्द्रियगणःसंगृहीतः। एवमेकविंशतितत्त्वानि प्रतिपादितानि। पत्या सह रहसि सहस्रपत्रे विहरसे इत्यनेन तत्त्वचतुष्टयं सूचितम्। तच्च मायाशुद्धविद्यामहेश्वरसदाशिवात्मकं तत्त्वचतुष्टयम्। एवं मिलित्वा पञ्चविंशतितत्त्वानि मायापर्यन्तानि मायया युक्तत्वात् प्राकृतानि। माया महेश्वरेण संयुक्ता सती तस्य जीवभावमापादयति। स जीवः प्राकृत एव। शुद्धविद्या तु सदाशिवेन युक्ता सती सादाख्या कलेति व्यवह्रियते। अतो भगवती चतुर्विंशतितत्त्वान्यतिक्रान्ता सदाशिवेन पञ्चविंशेन सार्धं विहरमाणा षड्विंशतत्त्वात्मतामापन्ना परमात्मेति गीयते। एतदुक्तं भवति-सादाख्या कला पञ्चविंशेन सदाशिवेन मिलिता षड्विंशा भवति, मेलनस्य तत्त्वान्तरत्वात्। न चोभयोर्मेलनमुभयात्मकम्। तस्य तादात्म्यरूपत्वात्- तत्त्वान्तरमेवेति रहस्यम्। यत्तु श्रुतिवाक्यं 'पञ्चविंश आत्मा भवति' इति तत्तु सदाशिवतत्त्वप्रतिपादनपरम्, न मेलनपरमिति ध्येयम। ननु वैन्दवस्थानं श्रीचक्रस्य मध्यस्थितं, शिवचक्राणां चतुर्णामुपरिशक्तिचक्राणां पञ्चानामधस्तादवस्थितत्वात्, सहस्रारपद्मस्य तु शिरःस्थितत्वात् सर्वेषामुपरि वर्तमानत्वात् तस्य वैन्दवस्थानत्वं नोपपद्यत इति चेत् :निशम्यतां भागवतमतरहस्यम्: चतुर्भिः शिवचक्रैश्च शक्तिचक्रैश्च पञ्चभिः। शिवशक्तिमयं ज्ञेयं श्रीचक्रं शिवयोर्वपुः॥ इत्यादौ शक्तिचक्राणि त्रिकोणाष्टकोणदशारद्वितयचतुर्दशकोणात्मकानि पञ्चचक्राणि। शिवचक्राणि तु अष्टदलषोडशदलमेखलात्रितयभूपुरत्रयात्कानीति।
Page #76
--------------------------------------------------------------------------
________________ गद्यसंग्रहः अतः शक्तिचक्राणां बाह्यतः शिवचक्राणि। शिवस्य शक्तिबाह्यत्वायोगात् तानि शिवचक्राणि बिन्दुरूपेणाकृष्य शक्तिचक्रान्तरे स्थापितानि। अत एव बिन्दुः शिवचक्रचतुष्टयात्मकः शक्तिचक्रेषु पञ्चसु व्यश्नुवानः समाप्त इति शिवशक्त्योरैक्यमिति केचित् / त्रैवर्णिकैः श्रीचक्रस्य बाह्यपूजनं न कार्य किन्तु तादात्म्यानु सन्धानात्मकमान्तरपूजनमेव कार्यम्। जनको ह वैदेहः अहोरात्रैः समाजगाम / / इति आम्नातम्। जनकः उत्पादकः श्रीविद्यायाः ऋषिः। विदेह एव वैदेहः मन्मथः। अहोरात्रैः अहोरात्रात्मकैः पञ्चदशाक्षरीमन्त्रवर्णैः दर्शादिपूर्णिमान्तकलात्मकैः समाजगाम, तं मन्त्रं आहतवानित्यर्थः / यस्तु मन्त्रं आहरति स ऋषिरित्युच्यते। अत एव अरुणोपनिषदि पुत्रो निर्ऋत्यां वैदेहः। निर्ऋत्याः लक्ष्म्याः। यद्वा-अनित्याः लक्ष्म्याः / पुत्र : वैदेहः मन्मथः।। अचेता यश्च चेतनः। अनङ्गत्वादेव चेतोरहितः।चेतनश्च सर्वभूतान्तर्यामित्वात्।सतं मणिमबिन्दत्। स:अनङ्गः तं प्रसिद्ध मणिं विद्यात्मकं रत्नं अविन्दत लब्धवान् अपश्यत्। असौ अनङ्ग अन्धोऽपि अपश्यदिति "अन्धो मणिमविन्दत्" इति वाक्यशेषबलात् लभ्यते। अत एव परचित्कलायाः विद्यायाः त्रिपुरसुन्दर्याः मन्मथः ऋषिरभूत्।। सोऽनगुलिरावय॑त्। सः मन्मथः अनङ्गत्वादेव अनङ्गुलिः आवयत् असीव्यत् सीवनान्तरकृत्यमाह सोऽग्रीवः प्रत्य॑मुञ्चत्। स मन्मन्थः अनङ्गत्वादेव अग्रीवः मणिसम्पादनफलं प्रत्यामोचनं अकरोत्, धृतवानित्वर्थः। विद्यारत्ने मणित्वारोपणस्य फलं धारणमेव न भवतीत्याह-सोऽजिह्वो असश्चत। सः अनङ्गः अनङ्गत्वादेव अजिह्वः जिह्वारहितः असश्चत अचोषत्, आस्वादितवानित्यर्थः॥ एतदुक्तं भवति-अनङ्गः पूर्वं विद्यारत्नं पञ्चाशद्वर्णात्मकं षोडशनित्यात्मकं षोडशकलात्मकं नानावेदेषु नानास्मृतिषु नानापुराणेषु नानाविधागमेषु विप्रकीर्ण दृष्टवान्। तदनन्तरं विप्रकीर्णं इमं मन्त्रं दृष्ट्वा सीवनं कृतवान्! पञ्चाशद्वर्णान् त्रिघा
Page #77
--------------------------------------------------------------------------
________________ सौन्दर्यलहरीतः 57 विभज्य खण्डत्रयं कृत्वा त्रिपुरसुन्दर्यादिषोडशनित्याः तत्र अन्तर्भाव्य प्रतिपदादितिथीन् षोडश तत्रैव अन्तर्भाव्य, पञ्चदशवर्णात्मकं त्रिखण्डं कृत्वा, तत्र सोमसूर्यानलात्मकतया ब्रह्मविष्णुमहेश्वरात्मकतया सत्त्वरजस्तमस्तत्त्वव्यवस्थिततया जाग्रत्स्वप्रसुषुप्त्यवस्थापन्नतया सृष्टिस्थितिलयहेतुभूततया निश्चित्य श्रीविद्यात्मके चतुर्थे खण्डे पञ्चदशकलानां अन्तर्भावं निश्चित्य भुवनेश्वरीप्रभृतीनां योगिनीविद्यानां नवानां त्रिकस्य त्रिकस्य एकैकह्रीङ्कारेण अन्तर्भावं अङ्गीकृत्य, सर्वभूतात्मकं सर्वमन्त्रात्मकं सर्वतत्त्वात्मकं सर्वावस्थात्मकं सर्वदेवात्मकं सर्ववेदार्थात्मकं सर्वशब्दात्मकं सर्वशक्त्यात्मकं त्रिगुणात्मकं त्रिखण्डं त्रिगुणातीतं सादाख्यापरपर्यायं षड्विंशशिवशक्तिसंपुटात्मकं निश्चित्य वर्णपञ्चदशकेन मूलविद्यां असीव्यत्। तदनन्तरं स्यूतं मन्त्रराजं ग्रीवायां धृतवान् चिरकालं ध्यानयोगेन पूजितवान्। तदन्तरं चन्द्रकलामृतास्वादं कृतवानिति सः मन्मथः ऋषिः अस्य मन्त्रस्येत्यर्थः। नैतमृषि विदित्वा नगरं प्रविशेत् / एवं ऋषि मन्मथं विदित्वा नगरं श्रीचक्रात्मकं न प्रविशेत् ऋषिज्ञानपूर्वकं श्रीचक्रात्मकं नगरं न पूजयेत्, बाह्यपूजां न कुर्यादिति निषेधविधिः, बाह्यपूजायामेव ऋषिच्छन्दः प्रभृतिज्ञानपूर्वकत्वम्। आन्तरपूजायां तादात्म्यानुसन्धानात्मिकायां ऋष्यादिज्ञानं नास्त्येव। उपयोगस्तु दूरत एव। अतो वस्तुसिद्धऋष्यादिपर्युदासमुखेन श्रीचक्रस्य बाह्यपूजनं त्रैवर्णिकैः न कर्तव्यमिति नियम्यते। तदुक्तं सनत्कुमारसंहितायाम्: बाह्यपूजा न कर्तव्या कर्तव्या बाह्यजातिभिः। सा क्षुद्रफलदा नृणां ऐहिकार्थैकसाधनात्॥ बाह्यपूजारताः कौलाः क्षपणाश्च कपालिकाः। दिगम्बराश्चेतिहासा वामकास्तन्त्रवादिनः॥ आन्तराराधनपरा वैदिका ब्रह्मवादिनः। जीवन्मुक्ताश्चरन्त्येते त्रिषु लोकेषु सर्वदा॥ इति // कौला:आधारचक्रपूजारताः। क्षपणकाः योषित्रिकोणपूजारता:। कापालिकाः दिगम्बराश्च उभयत्र निरताः। इतिहासाः भैरवयामलप्रामाण्यवादिनः। वामकाः तन्त्रवादिनः इत्येके वदन्ति, वामकेश्वरतन्त्रप्रामाण्यवादिनः। केवलचक्रपूजकाः ते वेदबाह्या इत्यन्वयः। आन्तरपूजारताः ब्रह्मवादिनः शुभागमतत्त्ववेदिनः।
Page #78
--------------------------------------------------------------------------
________________ गद्यसंग्रहः षड्विधैक्यानुसन्धानमहिना गुरुकृपालब्धमहावेद्यमहिम्ना च भगवती मणिपूरे प्रत्यक्षा भवति अत्र किंचित् उच्यते-समयिनां चतुर्विधैक्यानुसन्धानमेव भगवत्याः समाराधनमित्येतत् सर्वसम्मतम्।केचित्तु प्रौढा ऐक्यमाहुः। यथा-नादबिन्दुकलातीतं भागवतं तत्त्वमिति सर्वागमरहस्यम्।नादः परापश्यन्तीमध्यमावैखरीरूपेण चतुर्विधः इति प्रागेवोक्तम। परा त्रिकोणात्मिका, पश्यन्ती अष्टकोणचक्ररूपिणी,मध्यमा द्विदशाररूपिणी, वैखरी चतुर्दशाररूपिणी। शिवचक्राणां अत्रैव अन्तर्भाव: प्रतिपादित इति चतुश्चक्रात्मकं श्रीचक्रं नादशब्दवाच्यम्। बिन्दु म षट्चक्राणि मूलाधारस्वाधिष्ठानमणिपूरानाहतविशुद्ध्याज्ञात्मकानि बिन्दुशब्दवाच्यानि पूर्वमेव उक्तानि। कलाः पञ्चाशत्, षष्ट्युत्तरत्रिशतसङ्ख्याका वा / एवं नादबिन्दुकलातीता भगवतीति / सहस्रकमलं बिन्द्वतीतं वैन्दवस्थानात्मकं सुधासिन्ध्वपरपर्यायं सरधाशब्दवाच्यम् / नादातीतत्त्वं तु त्रिपुरसुन्दर्यादिशब्दाभिधेयम् दर्शादृष्ट्वा दर्शता 'इत्याद्यपरपर्याय' क ए ईलह्रीम् इत्यादिमन्त्रवर्णनात्मकपञ्चाशद्वर्णात्मकषष्ट्युत्तरत्रिंशत्सङ्ख्यापरिगणितमहाकालात्मकपञ्चदशकलातीता सादाख्या श्रीविद्यापरपर्याया चित्कलाशब्दवाच्या ब्रह्मविद्यापरपर्याया भगवती नादबिन्दुकलातीतं भागवतंतत्त्वमिति तत्त्वविद्रहस्यम्।अत्र नादबिन्दुकलानां परस्परैक्यानुसन्धानं षोढा भवतीति षोढा ऐक्यमाहुः। एवं भगवतीं षड्विधैक्येन सम्भाव्यपूजयित्वा सादाख्यायां विलीनो भवति / तदनन्तरं षड्विधैक्यानुसन्धानमहिम्ना गुरुकटाक्षसञ्जातमहावेधमहिना च भगवती झटिति मूलाधारस्वाधिष्ठानात्मकचक्रद्वयं भित्वा मणिपूरे प्रत्यक्षं प्रतिभाति। महावेधप्रकारः पूर्वं अभ्यासदशायां गुर्वैकपरतन्त्र:महाविद्यां गुरुमुखादेव स्वीकृत्य ऋषिच्छन्दोदेवतापूर्वकं मूलमन्त्रस्य शुष्कजपंगुरूपदिष्टमार्गेण कुर्वन् आश्वयुजशुक्लपक्षे महानवमीशब्दाभिधेयाष्टम्यां निशीथसमये गुरोः पदोपसङ्ग्रहणं कर्तव्यम्। तन्महिम्ना गुरोः तदानीं कर्तव्यहस्तमस्तकसंयोग-पुनर्मन्त्रोपदेश-षट्चक्रपूजाप्रकारोपदेश-षड्विधैक्यानुसन्धानोपदेशवशात् महावेधः शैवः सादाख्यायाः प्रकाशरूपो ‘जायते इति गुरुरहस्यम्। एवं महावेधे जाते भगवती मणिपूरे प्रत्यक्षा भवति। सा समाराध्या। अर्घ्यपाद्यादिभूषणप्रतिपादनपर्यन्तं पूजाकलापं मणिपूरे निर्वर्त्य अनाहतमन्दिरं भगवती नीत्वा, धूपादिनैवेद्यहस्तप्रक्षालनान्तं कर्मकलापं तत्रैव समाप्य, विशुद्धो
Page #79
--------------------------------------------------------------------------
________________ सौन्दर्यलहरीतः ___59 भगवतीं सिंहासनासीनां सखीभिः सल्लापात् सम्भाषमाणां शुद्धस्फटिकसदृशैः मणिभिः पूजयेत्। शुद्धस्फटिकसदृशमणयो न मौक्तिकादयः, किंतु तदीयषोडशदलगतषोडशचन्द्रकला इति रहस्यम्। एवं संपूज्य आज्ञाचकं नीत्वा देवी कामेश्वरी नीराजनविधिभिः अनेकैः संप्रीणयेत् / निर्दुःखस्य सायुज्यं प्राप्तस्य शिवशक्त्योरेकात्मतैव मुक्तिः जीवन्मुक्तानां अविद्यानिवृत्तावपि कुलालचक्रभ्रमणन्यायेन देहसंबन्धः। यथोक्तं षष्टितन्त्रे सप्तत्याम् सम्यज्ज्ञानाधिगमाद्धर्मादीनामकारणप्राप्तौ। तिष्ठति संस्कारवशाच्चक्रभ्रमवद्धृतशरीरः॥ इति / __ अत्र त्वद्भजनवानित्यत्र द्विविधं भजनं-षट्चक्रसेवात्मकं धारणात्मकं च। आद्यं निरूप्यते-आधारस्वाधिष्ठाने तामिस्रलोकत्वात् नोपास्ये। मणिपूरप्रभृतिसहस्रकमलपर्यन्तं पञ्च चक्राणि पूज्यानीति। तत्र मणिपूरकपूजापराणां साटिरूपा मुक्तिः। सार्टि म देव्याः पुरसमीपे पुरान्तरं निर्माय सेवां कुर्वाणस्य अवस्थितिः। संवित्कमलापूजारतानां सालोक्यमुक्तिः सालोक्यं नाम देव्याः पट्टणे निवासः। विशुद्धिचक्रोपासकानां सामीप्यमुक्तिः सामीप्यं नाम अङ्गसेवकत्वम्। अज्ञाचक्रोपासकानां सारूप्यमुक्तिः। सारूप्यं नाम समानरूपत्वम्। पृथग्देहधारित्वेनेति सायुज्या दः। एतत् चतुर्विधं गौणं बाह्यदुःखातिवर्तित्वमात्रात् मुक्तिरिति व्यपदिश्यते। परं तु सायुज्यात्मिकैव शाश्वती मुक्तिः सहस्रकमलोपासकानामेवेति। अत एव परानन्दाभिख्यं रसं यथायोग्यं त्वद्भजनवान् रसयति इति। अत्रेदं मततत्त्वम्-षट्कमलभेदमते सुखस्वरूपमेव मुक्तिः / सुखं तु लौकिकदृष्टान्तेन स्त्रीसंभोगात्मकमेव / लोकेऽपि स्त्रीसम्मेलनात् परं सुखं नास्ति। एवमत्यन्तदुःखच्छेदानन्तरंसायुज्यसंसिद्धौ शिवशक्तिसम्पुटान्तर्भावात् तदात्मिकैव मुक्तिरिति /
Page #80
--------------------------------------------------------------------------
________________ गद्यसंग्रहः न्यायदर्शने वात्स्यायनभाष्यात् ज्ञानस्य प्रामाण्यं प्रवृत्तिसामर्थ्यादनुमेयम्, ज्ञानस्यार्थगोचरत्वे प्रमाता प्रमाणं, प्रमेयं, प्रमितिरितिविद्यासु अर्थतत्त्वं परिसमाप्यते, सद् असद् द्विविधं वस्तु, उभयमपि प्रमाणवेद्यम् / प्रमाणतोऽर्थप्रतिपत्तौ प्रवृत्तिसामर्थ्यादर्थवत्प्रमाणम् / प्रमाणमन्तरेण नार्थप्रतिपत्तिः, नार्थप्रतिपत्तिमन्तरेण प्रवृत्तिसामर्थ्यम्।प्रमाणेन खल्वयं ज्ञाताऽर्थमुपलभ्य तमर्थमभीप्सति जिहासति वा। तस्येप्साजिहासाप्रयुक्तस्य समीहा प्रवृत्तिरित्युच्यते / सामर्थ्यं पुनरस्याः फलेनाऽभिसम्बन्धः / समीहमानस्तमर्थमभीप्सन् जिहासन् वा तमर्थमाप्नोति जहाति वा। अर्थस्तु सुखं सुखहेतुश्च, दु:खं दुःखहेतुश्च। सोऽयं प्रमाणार्थोऽपरिसङ्ख्येयः, प्राणभृद्भेदस्याऽपरिसङ्ख्येयत्वात् / अर्थवति च प्रमाणे प्रमाता प्रमेयं प्रमितिरित्यर्थवन्ति भवन्ति / कस्मात् ? अन्यतमापाये अर्थस्यानुपपत्तेः। तत्र यस्येप्साजिहासाप्रयुक्तस्य प्रवृत्तिः स प्रमाता, स येनाऽर्थं प्रमिणोति तत्प्रमाणं, योऽर्थः प्रमीयते तत् प्रमेयं, यत् अर्थविज्ञानं सा प्रमितिः, चतसृषु चैवंविधास्वर्थतत्त्वं परिसमाप्यते / / किं पुनस्तत्त्वम् ? सतश्च सद्भावोऽसतश्चाऽसद्भावः / सत्सदिति गृह्यमाणं यथाभूतमविपरीतं तत्त्वं भवति / असच्चाऽसदिति गृह्यमाणं यथाभूतमविपरीतं तत्त्वं भवति / __कथमुत्तरस्य प्रमाणेनोपलब्धिरिति? सत्युपलभ्यमाने तदनुपलब्धेः प्रदीपवत् / यथा दर्शकेन दीपेन दृश्ये गृह्यमाणे तदिव यन्न गृह्यते, तन्नास्ति यद्यभविष्यदिदमिव व्यज्ञास्यत, विज्ञानाभावान्नास्तीति (एवं प्रमाणेन सति गृह्यमाणे तदिव यन्न गृह्यते, तन्नास्ति / यद्यभविष्यदिदमिव व्यज्ञास्यत, विज्ञानाभावान्नास्तीति)। तदेवं सतः प्रकाशकं प्रमाणमसदपि प्रकाशयतीति / तत्राऽऽत्मा तावत्प्रत्यक्षतो न गृह्यते / स किमाप्तोपदेशमात्रादेव प्रतिपद्यत इति नेत्युच्यते / अनुमानाच्च प्रतिपत्तव्य इति / कथम् ?
Page #81
--------------------------------------------------------------------------
________________ न्यायदर्शने वात्स्यायनभाष्यात् आत्मनोऽनुमापका हेतवः, तत्प्रयोगप्रकारस्य इच्छाद्वेषप्रयत्नसुखदुःखज्ञानान्यात्मनो लिगमिति // 10 // यज्जातीयस्याऽर्थस्य सन्निकर्षात्सुखमात्मोपलब्धवान्, तज्जातीयमेवाऽर्थे पश्यन्नुपादातुमिच्छति, सेयमादातुमिच्छा एकस्यानेकार्थदर्शिनो दर्शनप्रतिसन्धानाद् भवन्ति लिङ्गमात्मनः ।नियतविषये हि बुद्धिभेदमात्रे न सम्भवति, देहान्तरवदिति। एवमेकस्याऽनेकार्थदर्शिनो दर्शनप्रतिसन्धानात् दु:खहेतौ द्वेषः / यज्जातीयोऽस्यार्थः सुखहेतुः प्रसिद्धस्तज्जातीयमर्थे पश्यन्नादातुं प्रयत्न H एकमनैकार्थदर्शिनं दर्शनप्रतिसन्धातारमन्तरेण न स्यात् / नियतविषये बुद्धिमात्रे न सम्भवति, देहान्तरवदिति / एतेन दुःखहेतौ प्रयत्नो व्याख्यातः / सुखदुःखस्मृत्या चाऽयं तत्साधनमाददानः सुखमुपलभते दुःखमुपलभते., सुखदु:खे वेदयते / पूर्वोक्त एव हेतुः / बुभुत्समानः खल्वयं विमृशति किंस्विदिति, विमृशंश्च जानीते इदमिति, तदिदं ज्ञानं बुभुत्साविमर्शाभ्यामभिन्नकर्तृकं गृह्यमाणमात्मलिङ्गम् / पूर्वोक्त एव हेतुरिति / तत्र देहान्तरवदिति विभज्यते / यथाऽनात्मवादिनो प्रतिसन्धीयेरन्, अविशेषात् / सोऽयमेकसत्त्वस्य समाचार: स्वयं दृष्टस्य स्मरणं, नाऽन्यदृष्टस्य नाऽदृष्टस्येति / एवं खलु नानासत्त्वानां समाचारोऽन्यदृष्टमन्यो न स्मरतीति / तदेतदुभयमशक्यमनात्मवादिना व्यवस्थापयितुमित्येवमुपपन्नमस्त्यात्मेति / दुखानामात्यन्तिकनिवृत्तिः मोक्षः, न तत्र सुखं तदभिव्यक्ति तदत्यन्तविमोक्षोऽपवर्गः // 22 // तेन दुःखेन जन्मना अत्यन्तं विमुक्तिरपवर्गः / कथम् ? उपात्तस्य जन्मनो हानम्, अन्यस्य चाऽनुपादानम् / एतामवस्थामपर्यन्तामपवर्ग वेदयन्तेऽपवर्गविदः / तदभयमजरममृत्युपदं ब्रह्म क्षेमप्राप्तिरिति / नित्यं सुखमात्मनो महत्त्ववन्मोक्षे व्यज्यते, तेनाऽभिव्यक्तेनाऽत्यन्तं विमुक्तः सुखी भवतीति केचिन्मन्यन्ते / तेषां प्रमाणाभावादनुपपत्तिः / न प्रत्यक्षं नानुमानं नागमो वा विद्यते नित्यं सुखमात्मनो महत्त्वान्मोक्षेऽभिव्यज्यत इति / नित्यस्याभिव्यक्तिः-सम्वेदनम्, तस्यहेतुवचनम् /
Page #82
--------------------------------------------------------------------------
________________ गद्यसंग्रहः नित्यस्याऽभिव्यक्तिः-संवेदनम्-ज्ञानमिति, तस्य हेतुर्वाच्यो यतस्त्वदुत्पद्यत इति / सुखवन्नित्यमिति चेत् / संसारस्थस्य मुक्तेनाऽविशेषः / यथा मुक्तः सुखेन तत्संवेदनेन च सन्नित्येनोपपन्नस्तथा संसारस्थोऽपि प्रसज्यत इति, उभयस्य नित्यत्वात् / अभ्यनुज्ञाने च धर्माधर्मफलेन साहचर्यं यौगपद्यं गृह्येत / यदिदमुत्पत्तिस्थानेषु धर्माधर्मफलं सुखं दु:खं वा संवेद्यते पर्यायेण, तस्य च नित्यसंवेदनस्य च सहभावो यौगपद्यं गृह्येत, न सुखाभावो नानभिव्यक्तिरस्ति, उभयस्य नित्यत्वात् / अनित्यत्वे हेतुवचनम्। अथ मोक्षे नित्यस्य सुखस्य संवेदनमनित्यम्, यत उत्पद्यते स हेतुर्वाच्यः। आत्ममन:संयोगस्य निमित्तान्तरसहितस्य हेतुत्वम्।आत्ममन:संयोगो हेतुरिति चेत् एवमपि तस्य सहकारि निमित्तान्तरं वचनीयमिति / धर्मस्य कारणवचनम् / यदि धर्मो निमित्तान्तरं ? तस्य हेतुर्वाच्यो यत्तु उत्पद्यत इति / ___ योगसमाधिजस्य कार्यावसायविरोधात्प्रक्षये संवेदननिवृत्तिः।यदि योगसमाधिजो धर्मो हेतुः? तस्य कार्यावसायविरोधात्प्रक्षये संवेदनमत्यन्तं निवर्तते / असंवेदने चाऽविद्यमानेनाऽविशेषः / यदि धर्मक्षयात्संवेदनोपरमो नित्यं सुखं न संवेद्यत इति ? किं विद्यमानं न संवेद्यते, अथाविद्यमानमिति नानुमानं विशिष्टेऽस्तीति / __ अप्रक्षयश्च धर्मस्य निरनुमानमुत्पत्तिधर्मकत्वात् / योगसमाधिजो धर्मो न क्षीयत इति नास्त्यनुमानम् / उत्पत्तिधर्मकमनित्यमिति विपर्ययस्य त्वनुमानम् / यस्य तु संवेदनोपरमो नास्ति तेन संवेदनहेतुर्नित्य इत्यनुमेयम् / नित्ये च मुक्तसंसारस्थयोरविशेष इत्युक्तम् / यथा मुक्तस्य नित्यं सुखं तत्संवेदनहेतुश्च, संवेदनस्य तु परमो नास्ति, कारणस्य नित्यत्वालं, तथा संसारस्थस्यापीति / एवं च सति धर्माधर्मफलेन सुखदुःखसंवेदनेन साहचर्यं गृह्यतेति / शरीरादिसम्बन्धः प्रतिबन्धहेतुरिति चेत् ? न, शरीरादीनामुपभीगार्थत्वात् विपर्ययस्य चाननुमानात् / स्यान्मतम्-संसारावस्थस्य शरीरादिसम्बन्धो नित्य
Page #83
--------------------------------------------------------------------------
________________ न्यायदर्शने वात्स्यायनभाष्यात् सुखसंवेदनहेतोः प्रतिबन्धकः, तेनाविशेषो नास्तीति / एतच्चायुक्तम्, शरीरादय उपभोगार्थास्ते भोगप्रतिबन्धं करिष्यन्तीत्यनुपपन्नम्, न चास्त्यनुमानमशरीरस्यात्मनो भोगः कश्चिदस्तीति / इष्टाधिगमार्था प्रवृत्तिरिति चेत् ? न, अनिष्टोपरमार्थत्वात् / इदमनुमानम्इष्टाधिगमार्थो मोक्षोपदेशःप्रवृत्तिश्च मुमुक्षूणां, नोभयमनर्थकमिति / एतच्चायुक्तम्, अनिष्टोपरमार्थो मोक्षोपदेशः प्रवृत्तिश्च मुमुक्षूणामिति / नेष्टमनिष्टेनाननुविद्धं सम्भवतीति इष्टमप्यनिष्टं सम्पद्यते, अनिष्टहानाय घटमान इष्टमपि जहाति, विवेकहानस्याशक्यत्वादिति / दृष्टातिक्रमश्च देहादिषु तुल्यः / यथा दृष्टमनित्यं सुखं परित्यज्य नित्यं सुखं कामयते, एवं देहेन्द्रियबुद्धीरनित्या दृष्टा अतिक्रम्य मुक्तस्य नित्या देहेन्द्रियबुद्धयः कल्पयितव्याः, साधीयश्चैवं मुक्तस्य चैकात्म्यं कल्पितं भवतीति / .. उपपत्तिविरुद्धमिति चेत् ? समानम् / देहादीनां नित्यत्त्वं प्रमाणविरुद्धं कल्पयितुमशक्यमिति ? समानं सुखस्यापि प्रमाणविरुद्धं कल्पयितुमशक्यमिति / आत्यन्तिकं च संसारदुःखाभावे सुखवचनादागमेऽपि सत्यविरोधः यद्यपि कश्चिदागम: स्यात् मुक्तस्यात्यन्तिकं सुखमिति ? सुखशब्द आत्यन्तिके दु:खाभावे प्रयुक्त इत्येवमुपपद्यते, दृष्टो हि दु:खादेरभावे सुखशब्दप्रयोगो बहुलं लोक इति / नित्यसुखरागस्याप्रहाणे मोक्षाधिगमाभावो रागस्य बन्धनसमाज्ञानात् / यद्ययं मोक्षो नित्यं सुखमभिव्यज्यत इति ? नित्यसुखरागेण मोक्षाय घटमानो न मोक्षमधिगच्छेत्, नाधिगन्तुमर्हतीति / बन्धनसमाज्ञातो हि रागः / न च बन्धने सत्यपि कश्चिन्मुक्त इत्युपपद्यत इति / प्रहाणे नित्यसुखरागस्याप्रतिकूलत्वम् / अथास्य नित्यसुखरागः प्रहीयते, तस्मिन्प्रहीणे नास्य नित्यसुखरागः प्रतिकूलो भवति ? यथैवं, मुक्तस्य नित्यं सुखं भवति, अथाऽपि न भवति, नास्योभयोः पक्षयोर्मोक्षाधिगमो विकल्पत इति / ऋणक्लेशप्रवृत्तिभिः अपवर्गस्यानुपपत्तिशङ्का ऋणक्लेशप्रवृत्त्यनुबन्धादपवर्गाभावः // 59 // ऋणानुबन्धात्रास्त्यपवर्गः। "जायमानो ह वै ब्राह्मणस्त्रिभि (@णै) ऋणवान्
Page #84
--------------------------------------------------------------------------
________________ गद्यसंग्रहः जायते ब्रह्मचर्येण ऋषिभ्यो, यज्ञेन देवेभ्यः, प्रजया पितृभ्य" इति ऋणानि, तेषाम-नुबन्धः स्वकर्मभिः सम्बन्धः कर्मसम्बन्धवचनात् "जरामर्थं वा एतत्सत्रं यदग्नि-होत्रं दर्शपूर्णमासा चेति जरया ह एष तस्मात्सत्राद्विमुच्यते मृत्युना ह वेति।" "ऋणानुबन्धादपवर्गानुष्ठानकालो नास्तीत्यपवर्गाभावः / क्लेशानुबन्धानास्त्य-पवर्गः / क्लेशानुबद्ध एवायं म्रियते क्लेशानुबद्धश्च जायते नास्य क्लेशानुबन्धविच्छेदे न गृह्यते / प्रवृत्त्यनुबन्धानास्त्यपवर्गः।" जन्मप्रभृत्ययं यावत्प्रायणं वाग्बुद्धि- शरीरारम्भणाविमुक्तो गृह्यते तत्र यदुक्तं "दुः खजन्मप्रवृत्तिदोषमिथ्याज्ञानाना- मुत्तरोत्तरापाये तदनन्तराभावादपवर्ग" इति तदनुपपन्नमिति / / 59 // " ऋणादिभिः अपवर्गानुपपत्तिशङ्कापरिहारः (भा०) अत्राभिधीयते / यत्तावद्ऋणानुबन्धादिति ऋणैरिव ऋणैरिति ... प्रधानशब्दानुपपत्तेर्गुणशब्दानुवादो निन्दाप्रशंसोपपत्तेः // 60 // ऋणैरिति नायं प्रधानशब्दः। यत्र खल्वेकः प्रत्यादेयं ददाति द्वितीयश्च प्रतिदेयं गृह्णाति तत्रास्य दृष्टत्वात् प्रधानमृणशब्दः।न चैतदिहोपपद्यते प्रधानशब्दानुपपत्तेः गुणशब्देनायमनुवाद ऋणैरिव ऋणैरिति / प्रयुक्तोपमं चैतद् यथाऽग्निर्माणवक इति / अन्यत्र दृष्टश्चायमृणशब्द इह प्रयुज्यते यथाग्निशब्दो माणवके / कथं गुणशब्देनानुवादः ? निन्दाप्रशंसोपपत्तेः / कर्मलोपे ऋणीव ऋणादानान्निन्द्यते कर्मानुष्ठाने च ऋणीव ऋणदानात्प्रशस्यते स एवोपमार्थ इति / जायमान इति गुणशब्दो विपर्ययेऽनधिकारात् / जायमानो ह वै ब्राह्मण इति च शब्दो गृहस्थः सम्पद्यमानो जायमान इति / यदायं गृहस्थो जायते तदा कर्मभिरधि-क्रियते मातृतो जायमानस्यानधिकारात् / यदा तु मातृतो जायते कुमारो न तदा कर्मभिरधिक्रियते अर्थिनः शक्तस्य चाधिकारात् / अर्थिनः कर्मभिरधिकारः कर्मविधो कामसंयोगस्मृतेः 'अग्निहोत्रं जुहुयात्स्वर्गकाम' इत्येवमादि / शक्तस्य च प्रवृत्तिसम्भवात् शक्तस्य कर्मभिरभिचारः प्रवृत्तिसम्भवात् / शक्तः खलु विहिते कर्मणि प्रवर्त्तते नेतर इति / उभयाभावस्तु प्रधानशब्दार्थे / मातृतो जायमाने कुमारे उभयमर्थिता शक्तिश्च न भवतीति / न भिद्यते च लौकिकाद्वाक्याद्वैदिकं वाक्यं प्रेक्षापूर्वकारिपुरुष प्रणीतत्वेन। तत्र लौकिकस्तावदपरीक्षकोऽपि न जातमात्रंकुमारकमेवं ब्रूयादधीष्व यजस्व ब्रह्मचर्यं चरेति ।कुत एष ऋषिरूपपन्नानवद्य
Page #85
--------------------------------------------------------------------------
________________ न्यायदर्शने वात्स्यायनभाष्यात् 65 वादी उपदेशार्थेन प्रयुक्त उपदिशति / न खलु वै नर्तकोऽन्धेषु प्रवर्त्तते न गायको बधिरेष्विति / उपदिष्टार्थविज्ञानं चोपदेश-विषयः / यश्चोपदिष्टमर्थं विजानाति तं प्रत्युपदेशः क्रियते न चैतदस्ति जायमानकुमारक इति / गार्हस्थ्यलिङ्गं च मन्त्रब्राह्मणं कर्माभिवदति / यच्च मन्त्रब्राह्मणं कर्माभिवदति तत्पत्नीसम्बन्धादिना गार्हस्थ्यलिङ्गेनोपपन्नं तस्माद् गृहस्थोऽयं जायमानोऽभिधीयते इति / ___ अर्थित्वस्य चाविपरिणामे जरामर्यवादोपपत्तिः।। यावच्चास्य फलेनार्थित्वं न विपरिणमते न निवर्तते तावदनेन कर्मानुष्ठेयमित्युपपद्यते जरामर्यवादस्तं प्रतीति / जरया ह वेत्यायुषस्तुरीयस्य चतुर्थस्य प्रवज्यायुक्तस्य वचनं जरया ह वा एष एतस्माद्विमुच्यते इति ।आयुषस्तुरीयं चतुर्थं प्रव्रज्यायुक्तं जरेत्युच्यते / तत्र हि प्रव्रज्या विधीयते अत्यन्तजरासंयोगे जरया ह वेत्यनर्थकम् / अशक्तो विमुच्यते' इत्येतदपि नोपपद्यते स्वयमशक्तस्य बाह्यां शक्तिमाह / 'अन्तेवासी वा जुहुयाद् ब्रह्मणा स परिक्रीतः, क्षीरहोता वा जुहुयाद्धनेन स परिक्रीत' इति / अथापि विहितं वानूद्येत कामाद्वार्थः परिकल्प्येत? विहितानुवचनं न्यायमिति। ऋणवानिवास्वतन्त्रो गृहस्थः कर्मसु प्रवर्तते इत्युपपन्नं वाक्यस्य सामर्थ्यम् / फलस्य हि साधनानि प्रयत्नविषयो न फलं, तानि सम्पन्नानि फलाय कल्पन्ते / विहितंच जायमानम् / विधीयते च जायमानं तेन यः सम्बद्ध्यते सोऽयं जायमान इति / प्रत्यक्षविधानाभावादिति चेद् ? न प्रतिषेधस्यापि प्रत्यक्षाभिधानाभावादिति / प्रत्यक्षतो विधीयते गार्हस्थ्यं ब्राह्मणेन, यदि चाश्रमान्तरमभविष्यत्तदपि व्यधास्यत् प्रत्यक्षतः, प्रत्यक्षविधानाभावान्नास्त्याश्रमान्तरमिति / न, प्रतिषेधस्यापि प्रत्यक्षतो विधानाभावात्।न,प्रतिषेधोऽपिवै ब्राह्मणेन प्रत्यक्षतो विधीयते नसन्त्याश्रमान्तराणि एक एव गृहस्थाश्रम इंति प्रतिषेधस्य प्रत्यक्षतोऽश्रवणादयुक्तमेतदिति / __ अधिकाराच्च विधानं विद्यान्तरवत् / यथा शास्त्रान्तराणि स्वे स्वेऽधिकारे प्रत्यक्षतो विधायकानि नार्थान्तराभावाद् एवमिदं ब्राह्मणं गृहस्थशास्त्रं स्वेऽधिकारे प्रत्यक्षतो विधायकं नाश्रमान्तराणामभावादिति / ऋग्ब्राह्मणं चापवर्गाभिधाय्यभिधीयते / ऋचश्च ब्राह्मणानि चापवर्गाभिवादीनि भवन्ति / ऋचश्च तावत् ... कर्मभिर्मृत्युमृषयो निषेदुः प्रजावन्तो द्रविणमिच्छमानाः / अथापरे ऋषयो मनीषिणः परं कर्मभ्योऽमृतत्वमानशुः / न कर्मणा न प्रजया धनेन त्यागेनैके
Page #86
--------------------------------------------------------------------------
________________ गद्यसंग्रहः अमृतत्वमानशुः / परेण नाकं निहितं गुहायां विभ्राजते यद्यतयो विशन्ति / वेदाहमेतं पुरुषं महान्तमादित्यवर्णं तमसः परस्तात् / तमेव विदित्वाऽतिमृत्युमेति नान्यः पन्था विद्यतेऽयनाय / अथ ब्राह्मणानि - "वयो धर्मस्कन्धा यज्ञोऽध्ययनं दानमिति प्रथमस्तप एव द्वितीयो ब्रह्मचर्याचार्यकुलवासीति तृतीयोऽत्यन्तमात्मानमाचार्यकुलेऽवसादयन्सर्वे एवैते पुण्यलोका भवन्ति ब्रह्मसंस्थोऽमृतत्वमेति / एतमेव प्रव्राजिनो लोकमभीप्सन्तः प्रव्रजन्तीति / अथो खल्वाहुः काममय एवायं पुरुष इति स यथाकामो भवति तथाक्रतुर्भवति यथाक्रतुर्भवति तथा तत्कर्म कुरुते यत्कर्म कुरुते तदभिसंपद्यते" इति कर्मभिःसंसरणमुक्त्वा प्रकृतमन्यदुपदिशन्ति इतिनु कामयमानोऽथाकामयमानो योऽकामो निष्काम आत्मकाम आप्तकामो भवति न तस्य प्राणा उत्क्रामन्ति इहैव समवलीयन्ते ब्रह्मैव सन् ब्रह्माप्येतीति / तत्र यदुक्तमृणानुबन्धादपवर्गाभाव इत्येतदयुक्तमिति / 'ये चत्वार : पथयो देवयाना' इति च चातुराश्रम्यश्रुतेरैकाश्रम्यानुपपत्तिः // 60 // न्यायवार्तिकात् दुःखं मुख्यगौणभेदादेकविंशतिप्रकारः संसारोऽनादिः तत्त्वज्ञानेन आत्मनो मूलस्य मिथ्याज्ञानस्य निवृत्तौ निवर्तते। पुरुषः पुनः चतुर्धा विद्यते प्रतिपन्नोऽप्रतिपन्नः सन्दिग्धो विपर्यस्तश्चेति। तत्र प्रतिपन्नः प्रतिपादयिता। इतरे सापेक्षाः सन्तः प्रतिपाद्याः। ते यदेन्द्रियार्थसन्निकर्षमपेक्षन्ते तदा प्रत्यक्षेण यदा लिङ्गदर्शनस्मृत्याद्यपेक्षन्ते तदानुमानेन यदा पुनरुपदेशमपेक्षन्ते तदा शास्त्रं प्रर्वतते श्रेयः पुनः सुखमहितनिवृत्तिश्च। तच्छ्रेयो भिद्यमानं द्वेधा व्यवतिष्ठते। दृष्टादृष्टभेदेन। दृष्टं सुखमदृष्टमहितनिवृत्तिः। अहितनिवृत्तिरप्यात्यन्तिकी अनात्यन्तिकी च। अनात्यन्तिकी कण्टकादेर्दुःखसाधनस्य परिहारेण आत्यन्तिकी पुनरेकविंशतिप्रभेदभिन्नदु:खहान्या। एकविंशतिप्रभेदभिन्नं पुनर्दुःखं शरीरं षडिन्द्रियाणि षड्विषयाः षड्बुद्धयः सुखं दुःखं चेति। शरीरं दु:खायतनत्वाद् दुःखम्। इन्द्रियाणि विषया बुद्धयश्च तत्साधनभावात् / सुखं दुःखानुषङ्गात्। दुःखं स्वरूपत इति / तस्य हानिर्धर्मा
Page #87
--------------------------------------------------------------------------
________________ न्यायवार्तिकात् ___67 धर्मसाधनपरित्यागेन अनुत्पन्नयोर्धर्मादधर्मयोरनुत्पादेन उत्पन्नयोश्चोपभोगात् प्रश्रयेणेति / पुरुषा रागादिमन्तो वीतरागाश्च / तत्र रागोविषयाभिष्वङ्गलक्षणः स एषामस्ति ते रागादिमन्तः / वैराग्यं पुनर्भोगानभिष्वङ्गलक्षणं तद्येषामस्ति ते वीतरागाः / प्रवृत्तेद्वैविध्यं पुरुषभेदानुविधानात् / तेषां पुरुषाणां प्रवृत्तयस्ताः पुरुषभेदमनुविधीयमाना उभयरूपा भवन्ति / वीतरागप्रवृत्तिरेकधा। तत्र या वीतरागाणां प्रवृत्तिः सा खल्वेकरूपा अनिष्टप्रतिषेधार्था अनिष्टं हास्याम इत्येव ते प्रवर्तन्ते / न पुनरेषां क्वचिदभिष्वङ्गोऽस्ति / __कः पुनरयं संसारः ? दु:खादीनां कार्यकारणभावः / स चानादिः / पूर्वापरकालानियमात् / न च शक्यं वक्तुं पूर्वं दुःखादयः पश्चान्मिथ्या-ज्ञानोत्पत्तिरिति, पूर्वं वा मिथ्याज्ञानं पश्चाद् दुःखादय इति न शक्यं वक्तुमिति / यदा तु तत्त्वज्ञानान्मिथ्याज्ञानमपैति / कथमपायः ? समानविषये तयोर्विरोधात् / यस्मान्मिथ्याज्ञानं तत्त्वज्ञानं च एकस्मिन् विषये विरुद्ध्येते, वस्तुनो द्वैरूप्यासम्भवात् / न ह्येकं वस्तु द्विरूपं भवति। तस्मान्मिथ्याज्ञानं तत्वज्ञानेन निवर्त्यत इति / कथं पुनः पूर्वोत्पत्रं मिथ्याज्ञानं पश्चादुत्पद्यमानेन तत्त्वज्ञानेन निवर्त्यते ? मिथ्याज्ञानस्याऽसहायत्वात् मिथ्याज्ञानमसहायमतो निवर्त्यते / सम्यग्ज्ञानस्य च विषयःसहायी भवति / कस्मात् / तथात्वेनावस्थानात्, तथाभूतोऽसौ विषयो तथा तत्र तत्त्वज्ञानमिति / प्रमाणान्तरानुग्रहाच्च, आगमानुमानादिप्रमाणं तत्त्वज्ञानस्य सहायो भवति / यदा ह्यनुमानागमयोः प्रतिसंहितयोर्विषयं भावयति समाहितोऽनन्यमनाश्चिन्तयति ततोऽस्य विपच्यमाने ध्याने विविक्तायां ध्यानभावनायां तस्मिन्नर्थे तत्त्वप्रतिबोधि ज्ञानं प्रत्यक्षमुत्पद्यत इति / सोऽयमागमानुमानप्रत्यक्षाणां विषयं प्रतिपद्यमानस्तत्त्वमेतदिति प्रतिपद्यते / तत्त्वप्रतिपत्तेरस्य मिथ्याज्ञानं निवर्तत इति / सांख्यतत्त्वकौमुदीतः जिज्ञासितं ब्रुवन्नेव लोके आद्रियते, जिज्ञासितं दुःख त्रयाभिधातोपायं ब्रुवतः सांख्याचार्यस्य वचो नूनं श्रोतव्यम् इह खलु प्रतिपित्सितमर्थं प्रतिपादयन् प्रतिपादयिताऽवधेयवचनो भवति प्रेक्षावताम् / अप्रतिपित्सितमर्थं तु प्रतिपादयन् 'नायं लौकिको नापि
Page #88
--------------------------------------------------------------------------
________________ 68 गद्यसंग्रहः परीक्षकः' इति प्रेक्षावद्भिरुन्मत्तवदुपेक्ष्येत / स चैषां प्रतिपित्सितोऽर्थो यो ज्ञातः सन् परमपुरुषार्थाय कल्पते / एवं हि शास्त्रविषयो न जिज्ञास्येत, यदि दुःखं नाम जगति न स्यात्, सद् वा न जिहासितम्, जिहासितं वा अशक्यसमुच्छेदम् / अशक्यसमुच्छेदता च द्वेधादुःखस्य नित्यत्वात्, तदुच्छेदोपायापरिज्ञानाद्वा। शक्यसमुच्छेदत्वेऽपि च शास्त्रविषयस्य ज्ञानस्यानुपायत्वाद्वा,सुकरस्योपायान्तरस्य सद्भावाद्वा / तत्र न तावद् दुखं नास्ति, नाप्यजिहासितम्' इत्युक्तम्-'दु:खत्रयाभिघाताद्' इति / दुःखानां त्रयं दुःखत्रयम् / __ तत् खलु आध्यात्मिकम्, आधिभौतिकम्,आधिदैविकञ्च इति / तत्राध्यात्मिकं द्विविधम्-शारीरं मानसं च / शारीरं वातपित्तश्लेष्मणां वैषम्यनिमित्तम्, मानसं कामक्रोधलोभमोह भयेाविषादविषयविशेषादर्शननिबन्धनम्। सर्वञ्चैतदान्तरिकोपायसाध्यत्वादाध्यात्मिकं दुःखम्। बाह्योपायसाध्यं दु:खं द्वधाआधिभौतिकम्, आधिदैविकञ्च। तत्राधिभौतिकं मानुषपशुमृगपक्षिसरीसृपस्थावरनिमित्तम्, आधिदैविकं तु यक्षराक्षसविनायकग्रहाद्यावेशनिबन्धनम् / तदेतत् प्रत्यात्मवेदनीयं दुःखं रजः परिणामभेदो न शक्यते प्रत्याख्यातुम् / तद् अनेन दुखत्रयेणान्त:करणवर्तिना चेतनाशक्तेः प्रतिकूलवेदनीयतयाऽभिसम्बन्धोऽभिघात इति / एतावता प्रतिकूलवेदनीयत्वं जिहासाहेतुरुक्तः / लोकदृष्टोपायात् दुःखं नैकान्ततो निवर्तते अयमर्थ:-अस्तु तर्हि दुःखत्रयम्, जिहासितं च तद् भवतु, भवतु च तच्छक्यहानम्, सहतां च शास्त्रगम्य उपायस्तद् उच्छेत्तुम् / तथाऽप्यत्रप्रेक्षावतां जिज्ञासा न युक्ता, दृष्टस्यैवोपायस्य तदुच्छेदकस्य सुकरस्य विद्यमानत्वात्, तत्त्वज्ञानस्य तु अनेकजन्माभ्यासपरम्परायाससाध्यतयाऽतिदुष्करत्वात् / तथा च लौकिकानामाभाणकः अक्के चेन्मधु विन्देत किमर्थं पर्वतं व्रजेत् // इष्टस्यार्थस्य संसिद्धौ को विद्वान् यत्नमाचरेत् // इति // सन्ति चोपायाः शतशः शारीरदुःखप्रतीकारायेषत्करा भिषजां वरैरुपदिष्टाः / मानसस्यापि सन्तापस्य प्रतीकाराय मनोज्ञस्त्रीपानभोजनविलेपन वस्त्रालङ्कारादिविषयसम्प्राप्तिरुपायः सुकरः। एवमाधिभौतिकस्यापि दुःखस्य
Page #89
--------------------------------------------------------------------------
________________ सांख्यतत्त्वकौमुदीतः नीतिशास्त्राभ्यासकुशलतानिरत्ययस्थानाध्यासनादिः प्रतीकारहेतुरीषत्करः। तथाऽऽधिदैविकस्यापि मणिमन्त्रौषधाधुपयोगः सुकरः प्रतीकारोपाय इति / / __ निराकरोति–'न' इति। कुतः? 'एकान्तात्यन्ततोऽभावात्' / एकान्तो दुःखनिवृत्तेरवश्यम्भावः, अत्यन्तो निवृत्तस्य दु:खस्य पुनरनुत्पादः, तयोरेकान्तात्यन्तयोरभाव एकान्तात्यन्ततोऽभावः / षष्ठी स्थाने सार्वविभक्तिकस्तसिः। एतदुक्तं भवति यथाविधिरसायनादिकामिनीनीतिशास्त्राभ्यासमन्त्राद्युपयोगेऽपि तस्य तस्याध्यात्मिकादेर्दु:खस्य निवृत्तेरदर्शनाद् अनैकान्तिकत्वम्, निवृत्तस्यापि पनरुत्पत्तिदर्शनाद अनात्यन्तिकत्वम्, इति सुकरोऽपि ऐकान्तिकात्यन्तिकदु:खनिवृत्तेर्न दृष्ट उपाय इति नापार्था जिज्ञासेत्यर्थः। वेददृष्टादुपायादपि नैकान्तो निवृत्तिः दुःखानाम् स्यादेतत् ।मा भूदृष्ट उपायः, वैदिकस्तु ज्योतिष्टोमादिः सहस्रसंवत्सरपर्यन्तः कर्मकलापस्तापत्रयमेकान्तमत्यन्तञ्चापनेष्यति। श्रुतिश्च-"स्वर्गकामो यजेत" इति // स्वर्गश्च यन्न दुःखेन सम्भिन्नं न च ग्रस्तमनन्तरम् / अभिलाषोपनीतं च तत् सुखं स्वः पदास्पदम् // इति // (तन्त्रवार्तिकम्) दुःखविरोधी सुखविशेषश्च स्वर्गः। स च स्वसत्तया समूलघातमपहन्ति दुःखम् / न चैष क्षयी / तथा हि श्रूयते-"अपामसोमममृता अभूम" इति (अथर्वशिरस 3) तत्क्षये कुतोऽस्यामृतत्वसम्भवः ? तस्माद्वैदिकस्योपायस्य तापत्रयप्रतीकारहेतोर्मुहूर्तयामाहोरात्रमाससंवत्सरनिर्वर्तनीयस्यानेकजन्मपरम्परायास सम्पादनीया विवेकज्ञानाद् ईषत्करत्वात् पुनरपि व्यर्था जिज्ञासा इत्याशक्याह दृष्टवदानुश्रविकः, स ह्यविशुद्धिक्षयातिशययुक्तः / तद्विपरीतः श्रेयान् व्यक्ताव्यक्तज्ञविज्ञानात् // 2 // 'दृष्ट-' इति। गुरुपाठादनुश्रूयते इत्यनुश्रवो वेदः / एतदुक्तं भवति- "श्रूयत एव परं न केनापि क्रियते" इति / तत्र भव आनुश्रविकः / तत्र प्राप्तो ज्ञात इति यावत्।
Page #90
--------------------------------------------------------------------------
________________ 70 गद्यसंग्रहः आनुश्रविकोऽपि कर्मकलापो दृष्टेन तुल्यो वर्तते, ऐकान्तिकात्यन्तिकदु:खप्रतीकारानुपायत्वस्योभयत्रापि तुल्यत्वात् / __यद्यपि च 'आनुश्रविकः' इति सामान्याभिधानम्, तथाऽपि कर्मकलापाभिप्रायं द्रष्टव्यम्, विवेकज्ञानस्याप्यानुश्रविकत्वात् / तथा च श्रूयते- 'आत्मा वाऽरे ज्ञातव्यः प्रकृतितो विवेक्तव्यः' (बृहदारण्यक 2/4/5), न स पुनरावर्तते न स पुनरावर्तते' (छान्दोग्य 8/15) इति / / अस्यां प्रतिज्ञायां हे तुमाह- ‘स ह्यविशुद्धिक्षयातिशययुक्तः' इति। 'अविशुद्धिः' सोमादियागस्य पशुबीजादिवधसाधनता / यथाऽऽह स्म भगवान् पञ्चशिखाचार्यः- 'स्वल्पसकरः सपरिहारः सप्रत्यवमर्षः' इति। 'स्वल्पसङ्करः' ज्योतिष्टोमादिजन्मनः प्रधानापूर्वस्य स्वल्पेन पशुहिंसादिजन्मनाऽनर्थहेतुनाऽपूर्वेण सङ्करः / 'सपरिहारः' कियताऽपि प्रायश्चित्तेन परिहर्तुं शक्यः। अथ च प्रमादतः प्रायश्चित्तमपि नाचरितं प्रधानकर्मविपाकसमये स पच्यते। (1) तथाऽपि यावदसावनघं सूते तावत् प्रत्यवमर्षेण सहिष्णुतया सह वर्तते इति 'सप्रत्यवमर्षः' / मृष्यन्ते हि पुण्यसम्भारोपनीतस्वर्गसुधामहाह्रदावगाहिनः कुशलाः पापमात्रोपसादितां दु:खवहिनकणिकाम् / न च- ‘मा हिंस्यात् सर्वा भूतानि' इति सामान्यशास्त्रं विशेषशास्त्रेण 'अग्निषोमीयं पशुमालभेत' इत्यनेन बाध्यते-इति युक्तम् / विरोधाभावात् / विरोधे हि बलीयसा दुर्बल बाध्यते। न चेहास्ति कश्चिद्विरोधः, भिन्नविषयत्वात् / तथाहि –'मा हिंस्याद्' इति निषेधेन हिंसाया अनर्थहेतुभावोज्ञाप्यते, न त्वक्रत्वर्थत्वमपि, "अग्नीषोमीयं पशुनालभेत" इत्यनेन वाक्येन च पशुहिंसायाः क्रत्वर्थत्वमुच्यते, नानर्थहेतुत्वाभावः, तथा सति वाक्यभेदप्रसङ्गात् / न चानर्थहेतुत्वक्रतूपकारकत्वयोः कश्चिद्विरोधोऽस्ति / हिंसा हि पुरुषस्य दोषमावक्ष्यति, क्रतोश्चोपकरिष्यतीति / क्षयातिशयौ च फलगतावप्युपाये उपचरितौ / क्षयित्वं च स्वर्गादेः सत्त्वे सति कार्यत्वादनुमितम् / ज्योतिष्टोमादयः स्वर्गमात्रस्य साधनम्, वाजपेयादयस्तु स्वाराज्यस्येत्यतिशययुक्तत्वम्। परसम्पदुत्कर्षो हि हीनसम्पदं पुरुषं दुःखाकरोति। 'अपाम सोममृमता अभूय' इति चामृतत्वाभिधानम् चिरस्थेमानमुपलक्षयति। यदाहुः
Page #91
--------------------------------------------------------------------------
________________ सांख्यतत्त्वकौमुदीतः 71 आभूतसम्प्लवं स्थानममृतत्वं हि भाष्यते / / इति अत एव च श्रुतिः- 'न कर्मणा न प्रजया धनेन त्यागेनैके अमृतत्वमानशुः। परेण नाकं निहितं गुहायां विभ्राजते यद्यतयो विशन्ति' इति (महानारायण, 10/5) तथा 'कर्मणा मृत्युमृषयो निषेदुः प्रजावन्तो द्रविणमीहमानाः। तथा परे ऋषयो ये मनीषिणः परं कर्मभ्योऽमृततत्वमानशुः' इति च // प्रकृतिपुरुषयोः विवेकज्ञानादेव दुःखानामेकान्ततो निवृत्तिः सम्भवति नान्यथा तदैतत् सर्वमभिप्रेत्याह- 'तद्विपरीतः श्रेयान्, व्यक्ताव्यक्तज्ञविज्ञानात्' इति / तस्मात् / आनुश्रविकाद् दु:खापघातकोषायातसोमपानादेरविशुद्धाद् (अनित्यसातिशयफलात्) विपरीतः विशुद्धः हिंसादिसङ्कराभावात्, नित्यसातिशयफलः, असकृत् पुनरावृत्तिश्रुतेः / न च कार्यत्वेनानित्यता फलस्य युक्ता भावरूपस्य कार्यस्य तथाभावात्, दुःखप्रध्वंसनस्य तु कार्यस्यापि तद्वैपरीत्यात् / न च दुःखान्तरोत्पादरूपकारणाप्रवृत्तौ कार्यस्यानुत्पादात् विवेकज्ञानोपजननपर्यन्तत्वाच्च कारणप्रवृत्तेः। एतच्चोपरिष्टादुपपादयिष्यते // अक्षरार्थस्तु-तस्मात् (आनुश्रविकाद् दुःकापघातकाद् हेतोः) विपरीतः (सत्त्वपुरुषान्यताप्रत्ययः साक्षात्कारो) दुःखापघातको हेतुः, अत एव श्रेयान् / आनुश्रविको हि वेदविहितत्वाद् मात्रया दु:खापघातकत्वाच्च प्रशस्यः। सत्त्वपुरुषान्यताप्रत्ययोऽपि प्रशस्यः। तदनयोः प्रशस्ययोर्मध्ये सत्त्वपुरुषान्यताप्रत्ययः श्रेयान् / उक्तविवेकज्ञानस्योपयोगः कुतः पुनरस्योत्पत्तिरित्यत आह-"व्यक्ताव्यक्तज्ञविज्ञानात्" इति / व्यक्तञ्च अव्यक्तञ्च ज्ञश्च व्यक्ताव्यक्तज्ञाः, तेषां विज्ञानम् विवेके न ज्ञानम्, व्यक्ताव्यक्तज्ञविज्ञानम् / व्यक्तज्ञानपूर्वकमव्यक्तस्य तत्कारणस्य ज्ञानम्, तयोश्च पारार्थेनात्मा परो ज्ञायते, इति ज्ञानक्रमेणाभिधानम् / एतदुक्तं भवतिश्रुतिस्मृतीतिहासपुराणेभ्यो व्यक्तादीन् विवेकेन श्रुत्वा, शास्त्रयुक्त्या च
Page #92
--------------------------------------------------------------------------
________________ गद्यसंग्रहः व्यवस्थाप्य, दीर्घकालादरनैरन्तर्यसत्कारसेविताद् भावनामयाद् विज्ञानादिति / तथा च वक्ष्यति एवं तत्त्वाभ्यासान्नास्मि न मे नाहमित्यपरिशेषम् / अविपर्ययाद्विशुद्धं केवलमुत्पद्यते ज्ञानम् // इति // (कारिका, 64) // 2 // अचेतनाऽपि प्रकृतिःपुंसो मोक्षाय प्रवर्तते वत्सस्य जीवनाय गोः पय इव। सर्गः महादादिभूम्यन्तः प्रकृत्यैव कृतो नेश्वरेण, न ब्रह्मोपादानो, नाप्यकारणः। अकारणत्वे ह्यत्यन्ताभावोऽत्यन्तभावो वा स्यात् / न ब्रह्मोपादानः, चितिशक्तेरपरिणामात् / नेश्वराधिष्ठितप्रकृतिकृतो, निर्व्यापारस्याधिष्ठातृत्वासम्भवात् / न हि निर्व्यापारस्तक्षा वास्याद्यधितिष्ठति // ननु प्रकृतिकृतश्चेत्, तस्या नित्यायाः प्रवृत्तिशीलाया अनुपरमात् सदैव सर्गः स्यादिति न कश्चिन्मुच्येतेत्यत् आह-"प्रतिपुरुषविमोक्षार्थं स्वार्थ इव परार्थ आरम्भ" इति / पथ्योदनकाम ओदनाय पाके प्रवृत्तः ओदनसिद्धौ निवर्तते, एवं प्रत्येकम्पुरुषान् मोचयितुम्प्रवृत्ता प्रकृतिर्यं पुरुषम्मोचयति तम्प्रति पुनर्न प्रवर्ततेतदिदमाह-"स्वार्थ इव" स्वार्थे यथा तथा परार्थे आरम्भ इत्यर्थः / / 56 // स्यादैतत्-"स्वार्थं परार्थं वा चेतनः प्रवर्तते / न च प्रकृतिरचेतनैवं भवितुमर्हति तस्मादस्ति प्रकृतेरधिष्ठाता चेतनः।नचक्षेत्रज्ञाश्चेतना अपि प्रकृतिमधिष्ठातुमर्हन्ति, तेषां प्रकृतिस्वरूपानभिज्ञत्वात्, तस्मादस्ति सर्वार्थदर्शी प्रकृतेरधिष्ठाता, स चेश्वर-इत्यत आह वत्सविवृद्धिनिमित्तं क्षीरस्य यथा प्रवृत्तिरज्ञस्य / पुरुषविमोक्षनिमित्तं तथा प्रवृत्तिः प्रधानस्य // 57 // 'वत्सविवृद्धिनिमित्तम्' इति। दृष्टमचेतनमपि प्रयोजनम्प्रति प्रवर्त्तमानम्, यथा वत्सविवृद्ध्यर्थं क्षीरमचेतनं प्रवर्तते / एवम्प्रकृतिरचेतनाऽपि पुरुषविमोक्षणाय प्रवर्तिष्यते। न च क्षीरप्रवृत्तेरपीश्वराधिष्ठाननिबन्धनत्वेन साध्यत्वान्न साध्यव्यभिचार इति,साम्प्रतम् / प्रेक्षावतः प्रवृत्तेः स्वार्थकारुण्याभ्यां व्याप्तत्वात् / ते चं
Page #93
--------------------------------------------------------------------------
________________ योगसूत्रभाष्यात् जगत्सर्गाद्यवर्तमाने प्रेक्षावत्प्रवृत्तिपूर्वकत्वमपि घ्यावर्तयतः / न ह्यवाप्तसकलेप्सितस्य भगवतो जगत् सृजत:किमप्यभिलषितम्भवति।नापि कारुण्यादस्य सर्गे प्रवृत्तिः, प्राक् सर्गाज्जीवानामिन्द्रियशरीरविषयानुत्पत्तौ दु:खाभावेन कस्य प्रहाणेच्छा कारुण्यम् ? सर्गोत्तरकालं दुःखिनोऽवलोक्य कारुण्याभ्युपगमे दुरुत्तरमितरेतराश्रयत्वं दूषणम्,-कारुण्येन सृष्टिः सृष्टयां च कारुण्यमिति। अपि चकरुणया प्रेरित ईश्वरःसुखिन एव जन्तून् सृजेन्न विचित्रान् / कर्मवैचित्र्याद्वैचित्र्यम् इति चेत् ? कृतमस्य प्रेक्षावत: कर्माधिष्ठान, तदनधिष्ठानमात्रादेवाचेतनस्यापि कर्मणः प्रवृत्युपपत्तेस्तत्कार्यशरीरेन्द्रियविषयानुत्पत्तौ दुःखानुत्पत्तेरपि सुकरत्वात् / प्रकृतेस्त्वचेतनायाः प्रवृत्तेर्न स्वार्थानुग्रहो न वा कारुण्यम्प्रयोजकमिति नोक्तदोषप्रसङ्गावतारः। पारार्थ्यमात्रन्तु प्रयोजकमुपपद्यते / तस्मात् सुष्टक्तम्'वत्सविवृद्धिनिमित्तम्' इति / / 57 // योगसूत्रभाष्यात् योगनिष्पत्तेः उपायः अभ्यासवैराग्याभ्यां तन्निरोधः // 12 // चित्नदीनामुभयतो वाहिनी / वहति कल्याणाय वहति पापाय च / या तु कैवल्यप्राग्भारा विवेकविषयनिम्ना सा कल्याणवहा, संसारप्राग्भाराऽविवेकविषयनिम्ना पापवहा / तत्र वैराग्येण विषयस्रोतःखिलीक्रियते, विवेकदर्शनाभ्यासेन विवेकस्रोत उद्घाट्यत इत्युभयाधीनश्चित्तवृत्तिनिरोधः // 12 // अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहाः यमाः। तत्राऽहिंसा सर्वथा सर्वदा सर्वभूतानामनभिद्रोहः / उत्तरे च यमनियमास्तन्मूलास्तत्सिद्धिपरतयैव तत्प्रतिपादनाय प्रतिपाद्यन्ते, तदवदातरूपकरणायैवोपादीयन्ते। तथा चोक्तम् “स खल्वयं ब्राह्मणो यथा यथा व्रतानि बहूनि समादित्सते तथा प्रमादकृतेभ्यो हिंसानिदानेभ्यो निवर्तमानस्तामेवावदातरूपामहिंसां करोति।" सत्यं यथार्थे वाङ्मनसे / यथादृष्टं यथानुमितं यथाश्रुतं वाङ्मनश्च। परत्र स्वबोधसंक्रान्तये वागुक्ता सा यदि न वाञ्छिता भ्रान्ता वा प्रतिपत्तिबन्ध्या वा भवेदिति। एषा सर्वभूतोपकारार्थं प्रवृत्ता न भूतोपघाताय। यदि चैवमप्यभिधीयमाना
Page #94
--------------------------------------------------------------------------
________________ 74 गद्यसंग्रहः भूतोधातपरैव स्यान्न सत्यं भवेत्, पापमेव भवेत्। तेन पुण्याभासेन पुण्यप्रतिरूपकेण कष्टतमं प्राप्नुयात्, तस्मात् परीक्ष्य सर्वभूतहितं सत्यं ब्रूयात् / स्तेयमशास्त्रपूर्वकं द्रव्याणां परतः स्वीकरणम् / तत्प्रतिषेधः पुनरस्पृहारूपमस्तेयमिति / ब्रह्मचर्य गुप्तेन्द्रियस्योपस्थस्य संयमः। विषयाणामर्जनरक्षणक्षयसङ्गहिंसादोषदर्शनादस्वीकरणमपरिग्रह इत्येते यमाः // 30 // वितर्कबाधने प्रतिपक्षभावनम् / यदास्य ब्राह्मणस्य हिंसादयो वितर्का जायेरन् हनिष्याम्यहमपकारिणमनृतमपि वक्ष्यामि, द्रव्यमप्यस्य स्वीकरिष्यामि, दारेषु चास्य व्यवायी भविष्यामि, परिग्रहेषु चास्य स्वामी भविष्यामीति / एवमुन्मार्गप्रवणवितर्क ज्वरेणातिदीसेन बाध्यमानस्तत्प्रतिपक्षान् भावयेत् / घोरेषु संसाराङ्गारेषुपच्यमानेन मया शरणमुपागतः सर्वभूतामयप्रदानेन योगधर्मः।सखल्वहं त्यक्त्वा वितर्कान् पुनस्तानाददानस्तुल्यः श्ववृत्तेनेति भावयेत् / यथा श्वावान्तावलेही तथा त्यक्तस्य पुनराददान इति / वितर्का हिंसादयःकृतकारितानुमोदिता लोभक्रोधमोहपूर्वका मृदुमध्याधिमात्रादुःखाज्ञानानन्तफला-इति प्रतिपक्षभावनम् / / तत्र हिंसा तावत्-कृतकारितानुमोदितेति त्रिधा / एकैका पुनस्त्रिधा-लोभेन मांसचर्मार्थेन, क्रोधनापकृतमनेनेति, मोहेन धर्मो मे भविष्यतीति / लोभक्रोधमोहाः पुनस्त्रिविधा मृदुमध्याधिमात्रा इति / एवं सप्तविंशतिभेदा भवन्ति हिंसायाः / मृदुमध्याधिमात्राः पुनस्त्रिविधाः-मृदुमृदुर्मध्यमृदुस्तीव्रमृदुरिति। तथा मृदुमध्यो मध्यमध्यस्तीवमध्य इति / तथा मृदुतीव्रो मध्यतीव्रोऽधिमात्रतीव्र इति / एवमेकाशीतिभेदा हिंसा भवति / सा पुनर्नियमविकल्पसमुच्च्यभेदादसंख्येया प्राणभृद्भेदस्यापरिसंख्येयत्वादिति। एवमनृतादिष्वपि योज्यम् / ते खल्वपि वितर्का:-दु:खाज्ञानानन्तफला इति प्रतिपक्षभावनम् / तथा च हिंसकस्तावत्प्रथमं वध्यस्य वीर्यमाक्षिपति ततश्च शस्त्रादिनिपातेन दुःखयति / ततो जीवितादपि मोचयति। ततो वीर्याक्षेपादस्य चेतनाचेतनमुपकरणं क्षीणवीर्यं भवति। दुः खोत्पादान्नरकतिर्यक्प्रेतादिषु दुःखमनुभवति। जीवितव्यपरोपणात्प्रतिक्षणं च जीवितात्यये वर्तमानो मरणमिच्छन्नपि दुःखविपाकस्य, नियतविपाकवेदनीयत्वात्कथंचिदेवोच्छसिति। यदिच कथंचित्पुण्यावापगता हिंसा भवेत्तत्र सुखप्राप्तो भवेदल्पायुरिति / एवमनृतादिष्वपि योज्यं यथासंभवम् एवम् वितर्काणां चामुमेवानुगतं विपाकमनिष्टं भावयन्न वितर्केषु मनः प्रणिदधीत / /
Page #95
--------------------------------------------------------------------------
________________ योगसूत्रभाष्यात् 75 संस्कारान् साक्षात्कृत्य योगी पूर्वं जन्म जानाति ___ संस्कारसाक्षात्करणात्पूर्वजातिज्ञानम् / / द्वौ खल्वमी संस्काराःस्मृतिक्लेशहेतवो वासनारूपाः विपाकहेतवो धर्माधर्मरूपाः। ते पूर्वभवाभिसंस्कृता:परिणामचेष्टानिरोधशक्तिजीवन धर्मवदपरिदृष्टाश्चितधर्माः। तेषुसंयमःसंस्कारसाक्षाक्रियायै समर्थः।नच देशकालनिमित्तानुभवैर्विना तेषामस्ति साक्षात्करणम् / तदित्थं संस्कारसाक्षात्करणात्पूर्वजातिज्ञानमुत्पद्यते योगिनः / परत्राप्येवमेव संस्कारसाक्षात्करणात्परजातिसंवेदनम् / __अत्रेदमाख्यानं श्रूयते-भगवतो जैगीषव्यस्य संस्कारसाक्षात्करणात् दशसु महासर्गेषु जन्मपरिणामक्रममनुपश्यतो विवेकजं ज्ञानं प्रादुरभवत् / अथ भगवानावट्यस्तनुधरस्तमुवाच- 'दशसुमहासर्गेषु भव्यत्वादनभिभूतबुद्धिसत्त्वेन त्वया नरकतिर्यग्गर्भसंभवं दुःखं संपश्यता, देवमनुष्येषु पुनः पुनरुत्पद्यमानेन सुखदु:खयोः किमधिकमुपलब्धमिति।' भगवन्तमावट्यं जैगीषव्य उवाच'दशसु महासर्गेषु भव्यत्वादनभिभूतबुद्धिसत्त्वेन मया नरकतिर्यग्भवं दुःखं संपश्यता देवमनुष्येषु पुनः पुनरुत्पद्यमानेन यत्किंचिदनुभूतं तत्सर्वं दु:खमेव प्रत्यवैमि'। भगवानावट्य उवाच- 'यदिदमायुष्मतः प्रधानवशित्वमनुत्तमं च संतोषसुखं किमिदमपि दुःखपक्षे निक्षिप्तमिति।' भगवाजैगीषव्य उवाच-विषयसुखापेक्षयैवेदमनुत्तमं संतोषसुखमुक्तम्, कैवल्यापेक्षया दु:खमेव। बुद्धिसत्त्वस्यायं धर्मस्त्रिगुणः। त्रिगुणश्च प्रत्ययो हेयपक्षे न्यस्त इति / दु:खरूपस्तृष्णातन्तुः। तृष्णादुःखसंतांनापगमात्तु प्रसन्नमबाधं सर्वानुकूलं सुखमिदमुक्तमिति / / ___ चतुष्पदी खल्वियं कर्मजातिः-कृष्णा, शुक्लकृष्णा, शुक्लाऽशुक्लाकृष्णा चेति / तत्र कृष्णा दुरात्मनाम् / शुक्लकृष्णा बहिः साधनसाध्या, तत्र परपीडानुग्रहद्वारेणैव कर्माशयप्रचयः / शुक्ला तपःस्वाध्यायध्यानवताम् / सा हि केवले मनस्यायत्तत्वाद बहिःसाधनाधीना नपरान्पीडयित्वा भवति ।अशुक्लाकृष्णा संन्यासिनां क्षीणक्लेशानां चरमदेहानामिति / तत्राशुक्लं योगिन एव फलसंन्यासादकृष्णं चानुपादानात् / इतरेषां तु भूतानां पूर्वमेव त्रिविधा इति / / __ मनो हि मन्तव्येनार्थेनोपरक्तम्। तत्स्वयंचविषयत्वाविषयिणा पुरुषेणाऽऽत्मीयया वृत्त्याऽभिसंबद्धम् / तदेतच्चित्तमेव द्रष्टदृश्योपरक्तं विषयविषयिनिर्भासं चेतनाचेतनस्वरूपापन्नम्, विषयात्मकमप्यविषयात्मकमिवाचेतनं चेतनमिव स्फटिकमणिकल्पं सर्वार्थमित्युच्यते / तदनेन चित्तसारूप्येण भ्रान्ताः केचित्तदेव
Page #96
--------------------------------------------------------------------------
________________ 76 गद्यसंग्रहः चेतनमित्याहुः / अपरे चित्तमात्रमेवेदं सर्वं नास्ति खल्वयं गवादिर्घटादिश्च सकारणो लोक इति / अनुकम्पनीयास्ते / कस्माद् ? अस्ति हि तेषां भ्रान्तिबीजं सर्वरूपाकारनिर्भासं चित्तमिति ।समाधिप्रज्ञायां प्रज्ञेयोऽर्थःप्रतिबिम्बीभूतस्तस्यालम्बनीभूतत्वादन्यः / स चेदर्थश्चित्तमात्रं स्यात्कथं प्रज्ञयैव प्रज्ञारूपमवधार्यत। तस्मात्प्रतिबिम्बोभूतोऽर्थः प्रज्ञायां येनावधार्यते स पुरुष इति / एवं ग्रहीतृग्रहणग्राह्यस्वरूपचित्तभेदात् त्रयमप्येत्जातितः प्रविभजन्ते ते सम्यग्दर्शिनस्तैरधिगतः पुरुष इति / संसारबीजक्षये धर्ममेधः समाधिर्जायते, तं प्राप्तस्य योगिनो ज्ञानस्य अनन्तो विस्तारो भवति, किमपि तस्य अज्ञातं नावशिष्यते। प्रसंख्यानेऽप्यकुसीदस्य सर्वथा विवेकख्यातेधर्ममेधः समाधिः / यदाऽयं ब्राह्मणः प्रसंख्यानेऽप्यकुसीदः ततोऽपि न किञ्चित् प्रार्थयते, तत्रापि विरक्तस्य सर्वथा विवेकख्यातिरेव भवतीति संस्कारबीजक्षयान्नास्य प्रत्ययान्तराण्युत्पद्यन्ते, तदास्य धर्ममेधो नाम समाधिर्भवति // ततः क्लेशकर्मनिवृत्तिः // तल्लाभादविद्यादयः क्लेशाः समूलकाषं कर्षिता भवन्ति / कुशला कुशलाश्च कर्माशयाः समूलघातं हता भवन्ति / क्लेशकर्मनिवृत्तौ जीवन्नेव विद्वान् विमुक्तो भवति कस्मात् / यस्माद् विपर्ययो भवस्य कारणम् / न हि क्षीणविपयर्य्ययः कश्चित् केनचित् क्वचिच्च जातो दृश्यत इति // तदा सर्वावरणमलापेतस्य ज्ञानस्यानन्त्याज्ञेयमल्पम् // सर्वैः श्लेशकर्मावरणैर्विमुक्तस्य ज्ञानस्यानन्त्यं भवति / आवरकेण तमसाभिभूतमावृतज्ञानसत्त्वं क्वचिदेव रजसा प्रवर्तितमुद्घाटितं ग्रहणसमर्थं भवति। तत्र यदा सर्वैरावरणमलैरपगतममलं भवति, तदा भवत्यस्यानन्त्यम्। ज्ञानस्यानन्त्याज्ज्ञेयमल्पं सम्पद्यते, यथाकाशे खद्योतः / यथेदमुक्तम् - अन्धो मणिमविध्यत् तमनगुलिरावयेत् / / अग्रीवस्तं प्रत्यमुञ्चत्तमजिस्वोऽभ्यपूजयत् इति / ततः कृतार्थानां परिणामक्रमसमाप्तिर्गुणानाम् //
Page #97
--------------------------------------------------------------------------
________________ योगसूत्रभाष्यात् 77 तस्य धर्ममेधस्योदयात् कृतार्थानां गुणानां परिणामक्रमः परिसमाप्यते / न हि कृतभोगापवर्गा: परिसमाप्तक्रमाः क्षणमप्यवस्थातुमुत्सहन्ते // कूटस्थनित्यता पुंसः परिणामिनित्यता सत्त्वादिगुणानाम् / द्वयी चेयं नित्यता-कूटस्थनित्यता, परिणामिनित्यता च। तत्र कूटस्थनित्यता पुरुषस्य, परिणामिनित्यता गुणानाम् / यस्मिन्परिणम्यमाने तत्त्वं न विहन्यते तन्नित्यत्वम् / उभयस्य च तत्त्वानभिघातान्नित्यत्वम् / तत्र गुणधर्मेषु बुद्ध्यादिषु परिणामापरान्तनिर्ग्राह्यः क्रमो लब्धपर्यवसानो, नित्येषु धर्मिषु गुणेष्वलब्धपर्यवसानः।कूटस्थनित्येषु स्वरूपमात्रप्रतिष्ठेषुमुक्तपुरुषेषुस्वरूपास्तिता क्रमेणैवानुभूयत इति तत्राप्यलब्धपर्यवसानःशब्दपृष्ठेनास्ति क्रियामुपादाय कल्पित इति / अथास्य संसारस्य स्थित्या गत्या च गुणेषु वर्तमानस्यास्ति क्रमसमाप्तिर्न वेति ? अवचनीयमेतत् / कथम्? अस्ति प्रश्न एकान्तवचनीयः-सर्वो जातौ मरिष्यति ओम् भो इति / अथ सर्वो मृत्वा जनिष्यत इति ? विभज्यवचनीयमेतत् / प्रत्युदितख्यातिः क्षीणतृष्णः कुशलो न जनिष्यते, इतरस्तु जनिष्यते / तथा मनुष्यजातिः श्रेयसी? न वा श्रेयसी इत्येवं परिपृष्टे विभज्यवचनीयः प्रश्नः, पशूनुद्दिश्य श्रेयसी, देवानृषींश्चाधिकृत्य नेति / अयन्त्ववचनीय प्रश्न: संसारोऽयमन्तवानथानन्त इति ? कुशलस्यास्ति संसारक्रमसमाप्तिर्नेतरस्येति अन्यतरविचारणे दोषः / तस्माद् व्याकरणीय एवायं प्रश्न इति // प्रकृतेः विविच्य तिष्ठतः पुंसः स्वरूपे प्रतिष्ठानरूपं कैवल्यं जायते। पुरुषार्थशून्यानां गुणानां प्रतिप्रसवः कैवल्यं स्वरूपप्रतिष्ठा वा चिति शक्तिरिति // कृतभोगापवर्गाणां पुरुषार्थशून्यानां यः प्रतिप्रसवः कार्यकारणात्मनां गुणानां, तत्कैवल्यम् / स्वरूपप्रतिष्ठा पुनर्बुद्धिसत्त्वानभिसंबन्धात्पुरुषस्य चितिशक्तिरेव केवला, तस्याः सदा तथैवावस्थानं कैवल्यमिति / /
Page #98
--------------------------------------------------------------------------
________________ 78 न्यायकुसुमाञ्जलितः येन केनापि रूपेण ईश्वरः सर्वमान्यः, वास्तविकस्य तत्स्वरूपस्य निर्णयाय तदनुमानात्मकंमननमावश्यकम् इह यद्यपि यं कमपि पुरुषार्थमर्थयमानाः शुद्धबुद्धस्वभाव इत्यौपनिषदाः, आदिविद्वान् सिद्ध इति कापिलाः, क्लेशकर्मविपाकाशयैरपरामृष्टो निर्माणकायम् अधिष्ठाय सम्प्रदायप्रद्योतकोऽनुग्राहकश्चेति पातञ्जला:, लोकवेदविरुद्धैरपि निर्लेपः स्वतन्त्रश्चेति महापाशुपताः, शिव इति शैवाः, पुरुषोत्तम इति वैष्णवाः, पितामह इति पौराणिकाः, यज्ञपुरुष इति याज्ञिकाः निरावरण इति दिगम्बराः, उपास्यत्वेन देशित इति मीमांसकाः, यावदुक्तोपपन्न इति नैयायिकाः, लोकव्यवहारसिद्ध इति चार्वाकाः किं बहुना, कारवोऽपि यं विश्वकर्मेत्त्युपासते, तस्मिन्नेवं जातिगोत्रप्रवरचरणकुलधादिवदासंसारं सुप्रसिद्धाऽनुभावे भगवति भवे सन्देह एव कुतः? किं निरूपणीयम्। तथापि न्यायचर्चेयमीशस्य मननव्यपदेशभाक्। उपासनैव क्रियते श्रवणानन्तरागता // 3 // श्रुतो हि भगवान् बहुशः श्रुतिस्मृतीतिहासपुराणेष्विदानी मन्तव्यो भवति / श्रोतव्यो मन्तव्यः इति श्रुतेः। आगमेनानुमानेन ध्यानाभ्यासरसेन च विधा प्रकल्पयन् प्रज्ञां लभते योगमुत्तममिति, स्मृतेश्च // तदिह संक्षेपतः पञ्चतयी विप्रतिपत्तिः। अलौकिकस्य परलोकसाधनस्याभावात् / अन्यथापि परलोकसाधनानुष्ठानसम्भवात्। तदभावावेदकप्रमाणसद्भावात्,, सत्त्वेऽपि तस्याप्रमाणत्वात्, तत्साधकप्रमाणाभावाच्चेति / विश्वम् अलौकिकहेतुकम्, अलौकिकहेतुश्च विहित निषिद्धक्रियाजन्यं धर्माधर्मात्मकमदृष्टम् तत्र न प्रथमः कल्पः / यतः। सापेक्षत्वादनादित्वाद्वैचित्र्याद्विश्ववृत्तितः / प्रत्यात्मनियमाद् मुक्तेरस्ति हेतुरलौकिकः // 4 //
Page #99
--------------------------------------------------------------------------
________________ न्यायकुसुमाञ्जलितः 79 न ह्ययं संसारोऽनेकविधदुःखमयो निरपेक्षो भवितुमर्हति / तदा हि स्यादेव न स्यादेव वा, न तु कदाचित् स्यात् / अकस्मादेव भवतीति चेन्न / हेतुभूतिनिषेधो न स्वानुपाख्यविधिन च / स्वभाववर्णना नैवमवधेर्नियतत्वतः // 5 // हेतुनिषेधे भवनस्यानपेक्षत्वेन सर्वदा भवनमविशेषात् / भवनप्रतिषेधे प्रागिव पश्चादप्यभवनमविशेषात् / उत्पत्तेः, पूर्वं स्वयमसतः स्वोत्पत्तावप्रभुत्वेन स्वस्मादिति पक्षानुपपत्तेः / पौर्वापर्य्यनियमश्च कार्यकारणभावः / न चैकं पूर्वमपरञ्च / तत्त्वस्य भेदाऽधिष्ठानत्वात् / अनुपाख्यस्य हेतुत्वे प्रागपि सत्त्वप्रसक्तौ पुनः सदातनत्वापत्तेः। विश्वं न दृष्टहेतुमात्रमूलकं तज्जन्मन्यदृष्टमावश्यमकम् अस्तु दृष्टमेव सहकारिचक्रं किमपूर्वकल्पनयेतिचेन / विफला विश्ववृत्तिों न दुःखैकफलाऽपि वा। दृष्टलाभफला नापि विप्रलम्भोऽपि नेदृशः // 8 // यदि हि पूर्वपूर्वभूतपरिणतिपरम्परामात्रमेवोत्तरोत्तरनिबन्धनं, न परलोकार्थी कश्चिदिष्टापूर्तयोः प्रवर्तेत / न हि निष्फले दुःखैकफले वा कश्चिदेकोऽपि प्रेक्षापूर्वकारी घटते, प्रागेव जगत् / लाभपूजाख्यात्यर्थमिति चेद्, लाभादय एव किन्निबन्धनाः? न हीयं प्रवृत्तिः स्वरूपत एव तद्धेतुः / यतो वाऽनेन लब्धव्यं यो देवं पूजयिष्यति / स किमर्थम् / ख्यात्यऽर्थमनुरागार्थञ्च / जनो दातरि मानयितरि च रज्यते / जनानुरागप्रभवा हि सम्पद इति चेत्, न / नीतिनर्मसचिवेष्वेव तदर्थं दानादिव्यवस्थापनात् / त्रैविधतपस्विनो धूर्तबका एवेति चेन्न / तेषां दृष्टसम्पदं प्रत्यनुपयोगात् / सुखार्थं तथा करोतीति चेन्न। नास्तिकैरपि तथा करणप्रसङ्गात् / सन्ध्योपासनवदितिचेद्, गुरुमतमेतन्न तु गुरोर्मतम् / ततो नेदमनवसर एवं वक्तुमुचितम् / वृद्धैर्विप्रलब्धत्वाद् बालानामिति चेन्न / वृद्धानामपि प्रवृत्तेः / न च विप्रलम्भकाः स्वात्मानमपि विप्रलभन्ते / तेऽपि वृद्धतरैरित्येवमनादिरिति चेत् / न तर्हि विप्रलिप्सुः कश्चिदत्र, यतः प्रतारणशङ्का स्यात् / इदम्प्रथम एव कश्चिदनुष्ठायापि धूर्तः पराननुष्ठापयतीतिचेत् / किमसौ सर्वलोकोत्तर एव, यः
Page #100
--------------------------------------------------------------------------
________________ गद्यसंग्रहः सर्वस्वदक्षिणया सर्वबन्धुपरित्यागेन सर्वसुखविमुखो ब्रह्मचर्येण तपसा श्रद्धया वा केवलपरवञ्चनकुतूहली यावज्जीवमात्मानमवसादयति / कथञ्चैनमेकं प्रेक्षाकारिणोऽप्युनुविदध्युः / केन वा निनायमीदृशस्त्वया लोकोत्तरप्रज्ञेन प्रतारक इति निर्णीतः ? न येतावतो दुःखराशेः प्रतारणसुखं गरीयः / यतः पाखण्डाभिमतेष्वप्येवं दृश्यते इति चेत्, ना हेतुदर्शनादर्शनाभ्यां विशेषात् / अनादौ चैवम्भूतेऽनुष्ठाने प्रतायमाने प्रकारान्तरमाश्रित्यापि बहुवित्तव्ययायासोपदेशमात्रेण प्रतारणा स्याद्, न त्वनुष्ठानागोचरेण कर्मणा। अन्यथा प्रमाणविरोधमन्तरेण पाखण्डित्वप्रसिद्धिरपि न स्यात् / / कर्मणां कालान्तरभाविफलजनकताया उपपत्तये तदीयद्वाररूपेण अदृष्टस्याभ्युपगमोऽनिवार्यः अस्तु दानाध्ययनादिरेवविचित्रो हेतुर्जगद्वैचित्र्यस्येतिचेन ।क्षणिकत्वादपेक्षितस्य कालान्तरभावित्वात् // चिरध्वस्तं फलायालं न कर्मातिशयं विना। सम्भागो निर्विशेषाणां न भूतैः संस्कृतैरपि // 9 // तस्मादस्त्यतिशयः कश्चित् / ईदृशान्येवैतानि स्वहेतुबलायातानि, येन नियतभोगसाधनानीति चेत्। तदिदममीषामतीन्द्रियं रूपं सहकारिभेदो वा? न तावदैन्द्रियकस्यातीन्द्रियं रूपम्। व्याघातात्। द्वितीये त्वपूर्वसिद्धिः। सिद्ध्यतु भूतधर्म एव गुरुत्वादिवदतीन्द्रियः।अवश्यं त्वयाऽप्येतदङ्गीकरणीयम् / कथमन्यथा मन्त्रादिभिः प्रतिबन्धः। तथाहि / करतलानलसंयोगाद् यादृशादेव दाहो न जायते। असति तु जायते / तत्र न दृष्टवैगुण्यमुपलभामहे / नापि दृष्टसाद्गुण्ये अदृष्टवैगुण्यं सम्भावनीयम् / तस्यैतावन्मात्रार्थत्वात्। अन्यथा, कर्मण्यपि विभागः कदाचिन्न जायेत। न च प्रतिबन्धकाभावविशिष्टा सामग्री कारणम् / अभावस्याकारणत्वात्। तुच्छो ह्यसौ। प्रतिबन्धकोत्तम्भकप्रयोगकाले च तेन विनापि कार्योत्पत्तेः। प्राक्प्रध्वंसादिविकल्पेन चानियतहेतुककिञ्चित्करत्वे चातीन्द्रियशक्ते :स्वीकारात्। मन्त्रादिप्रयोगे चेतरेतराभावस्य सत्त्वेऽपि कार्यानुदयात्। अतोऽतीन्द्रियं किञ्चिद्दाहानुगुणमनुग्राहकमग्नेरुन्नीयते, यस्यापकुर्वतां प्रतिबन्धकत्वमुपपद्यते। यस्मिन्नविकले कार्य जायते / यस्यैकजातीयत्वादनियतहेतुकत्वं निरस्यते इति। अत्रोच्यते //
Page #101
--------------------------------------------------------------------------
________________ 81 न्यायकुसुमाञ्जलितः भावस्येव अभावस्यापि हेतुत्वं दुस्तर्कसिद्धम् भावो यथा तथाऽभावः कारणं कार्यवन्मतः / प्रतिबन्धो विसामग्री तद्धेतुः प्रतिबन्धकः // 10 // नह्यभावस्याकारणत्वे प्रमाणमस्ति। न हि विधिरूपेणासौ तुच्छ इति स्वरूपेणापि तथा, निषेधरूपाऽभावे विधेरपि तुच्छत्वंप्रसङ्गात्। कारणत्वस्य भावत्वेन व्याप्तत्वात्तनिवृत्तौ तदपिनिवर्त्तते इति चेन्न।परिवर्त्तप्रसङ्गात्। अन्वयव्यतिरेकानुविधानस्य च कारणत्वनिश्चयहेतोभाववदभावेऽपि तुल्यत्वात्। अभावस्यावर्जनीयतया सन्निधिर्न तु हेतुत्वेनेति चेत्, तुल्यम्। प्रतियोगिनमुत्सारयतस्तस्यान्यप्रयुक्तः सन्निधिरिति चेत्, तुल्यम्। भावस्याभावोत्सारणं स्वरूपमेवेति चेदभावस्यापि भावोत्सारणं स्वरूपान्नाऽतिरिच्यते। तस्माद्यथा भावस्यैव भावो जनक इति नियमोऽनुपपन्नः, तथा भाव एव जनक इत्यपि। को ह्यनयोर्विशेषः। प्रतिबन्धकोत्तम्भकप्रयोगकाले तु व्यभिचारस्तदा स्यात्, यदि यादृशे सति कार्यानुदयस्तादृश एव सत्युत्पादः स्यात् / न त्वेवं तदाऽपि प्रतिपक्षस्याभावात् / असत्प्रतिपक्षो हि प्रतिबन्धकाभिमतो मन्त्रः प्रतिपक्षः। स च तादृशो नास्त्येव। यस्त्वस्ति, नासौ प्रतिपक्षः। तथापि विशेष्ये सत्येव विशेषणमात्राभावस्तत्र स चोत्तम्भकमन्त्र एवेत्यन्यैव सामग्रीति चेत। न। विशिष्टस्याप्यभावात् / न हि दण्डिनि सत्यदण्डानामन्येषां नाभावः, किन्तु दण्डाभावस्यैव केवलस्येति युक्तम्। यथा हि केवलदण्डसद्भावे उभयसद्भावे द्वयाभावे वा केवलपुरुषाऽभावः सर्वत्राविशिष्टः,तथा केवलोत्तम्भकसद्भावे प्रतिबन्धकोत्तम्भकसद्भावे द्वयाभावे वा केवलप्रतिबन्धकाभावोऽविशिष्ट इत्यवधार्यताम् / अथैवम्भूतसामग्रीत्रयमेव किं नेष्यते ? कार्यस्य तदद्यभिचारात् / जातिभेदकल्पनाया च प्रमाणाभावात्। यथोक्तेनैवोपपत्तेः।भावेवा काममसावस्तु, कानो हानिः। प्राक्प्रध्वंसविकल्पोऽपि नानियतहेतुकत्वापादकः, यस्मिन् सति कार्यं न जायते तस्मिन्नसत्येव जायते इत्यत्र संसर्गाभावमात्रस्यैव प्रयोजकत्वात् / नित्यस्य विभोः कारणत्वानुपपत्तिशङ्का तत्परिहारश्च / स्यादेतत् / अस्तु स्थिरं, तथापि नित्यविभोर्न कारणत्वमुपपद्यते / तथा ह्यन्वयव्यतिरेकाभ्यां कारणत्वमवधार्यते, नान्वयमात्रेण / अतिप्रसङ्गात् / न च
Page #102
--------------------------------------------------------------------------
________________ गद्यसंग्रहः नित्यविभूनां व्यतिरेकसम्भवः / न च सोपाधेरसावस्त्येवेति साम्प्रतम्, तथाभूतस्योपाधिसम्बन्धेऽप्यनधिकारात् / जनितो हि तेन स तस्य स्यात्, नित्यो वा ? न प्रथमः, पूर्ववत्, नापि द्वितीयः पूर्ववदेव / तथापि चोपाधेरेव व्यतिरेको न तस्य, अविशेषात् / तद्वत इति चेत् / न / स चोपाधिश्चेत्यतोऽन्यस्य तद्वत्पदार्थस्याभावात् / भावे वा, स एव कारणं स्यात् // अत्रोच्यते पूर्वभावो हि हेतुत्वं मीयते येन केनचित् / / व्यापकस्यापि नित्यस्य धर्मिधीरन्यथा न हि // 16 // भवेदेवं यद्यन्वयव्यतिरकावेव कारणत्वम् / किन्तु कार्यान्नियतः पूर्वभावः / स च क्वचिदन्वयव्यतिरेकाभ्यामवसीयते, क्वचिद्धर्मिग्राहकात् प्रमाणात् / अन्यथा कार्यात् कारणानुमानं क्वाऽपि न स्यात् / तेन तस्यानुविधानानुपलम्भात् / उपलम्भे, वा, कार्यलिङ्गानवकाशात्, प्रत्यक्षत एव तत्सिद्धेः तज्जातीयानुविधानदर्शनात् सिद्धिरन्यत्रापि न वार्यते / तथापि कोष्ठगत्यानुविहितान्वयव्यतिरेकमेव कार्यात् कारणं सिद्धयेत्, अन्यत्र तथा दर्शनादिति चेन / बाधेन सङ्कोचात् / विपक्षे बाधकाभावेन चाऽव्याप्तेः / दर्शनमात्रेण चोत्कर्षसमत्वात् / अस्य च ईश्वरे विस्तरो वक्ष्यते / सर्वव्यापकानां सर्वान् प्रत्यन्वयमात्राविशेषे कारणत्वप्रसङ्गो बाधकमिति चेत् / न / अन्वयव्यतिरेकवज्जातीयतया विपक्षे बाधकेन च विशेषेऽनतिप्रसङ्गात् / तथाहि, कार्यं समवायिकारणवदृष्टमित्यदृष्टाश्रयमपि तज्जातीयकारणकम्, आश्रयाभावे किं प्रत्यासन्नमसमवायिकारणं स्यात्, तदभावे निमित्तमपि किमुपकुर्यात् ? तथाचाऽनुत्पत्तिः सततोत्पत्तिर्वा सर्वत्रोत्पत्ति स्यात् / एवमपि निमित्तस्य सामर्थ्यादेवनियतदेशोत्पादे स एव देशोऽवश्यापेक्षणीयः स्यात् / तथा च सामान्यतो देशसिद्धावितरपृथिव्यादिबाधे तदतिरिक्तसिद्धिं को वारयेत् / एवमसमवायिनिमित्ते चोहनीये / न्यायकुसुमाञ्जलेः द्वितीयस्तबकात् धर्मसम्प्रदायः परमेश्वरैकमूलकः तदेवं सामान्यतः सिद्धे अलौकिके हेतौ तत्साधनेनावश्यं भवितव्यम् / न च तच्छक्यमस्मदादिभिर्द्रष्टम् / न चादृष्टेन व्यवहारः / ततो लोकोत्तरः सर्वानुभावी
Page #103
--------------------------------------------------------------------------
________________ न्यायकुसुमाञ्जलितः सम्भाव्यते / ननु नित्यनिर्दोषवेदद्वारको योगकर्मसिद्धसर्वज्ञद्वारको वा धर्मसम्प्रदायः स्यात्, किं परमेश्वरकल्पनयेति चेत् / अत्रोच्यते प्रमायाः परतन्त्रत्वात् सर्वप्रलयसम्भवात् / तदन्यस्मिन्ननाश्वासान्न विधाऽन्तरसम्भवः // 1 // सृष्टेः सादित्वमनुमानसाक्षिकं शास्त्रसाक्षिकञ्च सर्गादावेव किं प्रमाणमिति चेत् / विश्वसन्तानोऽयं दृश्यसन्तानशून्यैः समवायिभिरारब्धः। सन्तानत्वादारणेयसन्तानवत् / वर्तमानब्रह्माण्डपरमाणवः पूर्वमुत्पादितसजातीयसन्तानान्तराः। नित्यत्वे सति तदारम्भकवात् प्रदीपपरमाणुवदित्यादि / अवयवानामावापोद्वापादुत्पत्तिविनाशौ च स्यातां, सन्तानाऽविच्छेदश्चेति को विरोध इति चेन्न। एवं हि घटादिसन्तानाविच्छेदोऽपि स्यात्। विपर्ययस्तु दृश्यते। कादिभोगविशेषसम्पादनप्रयुक्तोऽसाविति चेन्न / व्यणुकेषु तदभावात् / तथा च तदवयवानामपगमाभावेऽनादित्वप्रसङ्गे व्यणुकत्वव्याघातः / तस्माद् यत्कायं यन्निबन्धनस्थिति, तदपगमे तन्निवृत्तिः / यद् यद्धेतुकं तदुपगमे तस्योत्पत्तिः / न च कार्यस्य स्थितिनिबन्धनं नित्यमेव / नित्यस्थितिप्रसङ्गात् / न च नित्य एव हेतुरकदाचित्कत्वप्रसङ्गात् / ब्रह्माण्डे विलीने तदन्तर्गतानां प्राणिनां दशा ईदृश्याञ्च वस्तुस्थितौ भोगोऽपि कर्मभिरेवमेव वस्तुस्वभावानतिक्रमेण सम्पादनीय इति व्यणुकवत् पिपीलिकाण्डादेब्रह्माण्डपर्यन्तस्यापि विश्वस्येयमेव गतिरिति प्रतिबन्धसिद्धिः / तथा च ब्रह्माण्डे परमाणुसाद्भवितरि परमाणुषु च स्वतन्त्रेषु पृथगासीनेषु तदन्तःपातिनः प्राणिगणाः क्व वर्त्तन्ताम्? कुपितकपिकपोलान्तर्ग-तोदुम्बरमशकसमूहवद्, दवदहनदह्यमान दारूदरविघूर्णमानधुणसङ्घातवत् प्रलयपवनोल्लासनीयौनिलनिपातिपोतसांयात्रिकसार्थवद्वेति // वैदिकसम्प्रदायस्य हासप्रकारवर्णनम् अपि च जन्मसंस्कारविद्यादेः शक्तेः स्वाध्यायकर्मणोः / हासदर्शनतो हासः सम्प्रदायस्य मीयताम् // 3 //
Page #104
--------------------------------------------------------------------------
________________ 84 गद्यसंग्रहः पूर्वं हि मानस्यः प्रजाः समभवन्, ततोऽपत्यैकप्रयोजनमैथुनसम्भवाः, ततः कामावर्जनीयसन्निधिजन्मानः, इदानीं देशकालाद्यव्यवस्थया पशुधर्मादेव भूयिष्ठाः। पूर्वं चरुप्रभृतिषु संस्काराः समाधायिषत, ततः क्षेत्रप्रभृतिषु, ततो गर्भादितः। इदानीन्तु जातेषु लौकिकव्यवहारमाश्रित्य / पूर्व सहस्रशाखो वेदोऽध्यगायि, ततो व्यस्तः, ततः षडङ्ग एकः / इदानीन्तु क्वचिदेका शाखेति पूर्वम् ऋतवृत्तयो ब्राह्मणाः प्राद्योतिषत, ततोऽमृतवृत्तयः,संप्रतिमृतप्रमृतसत्यानृतकुसीदपाशुपाल्यश्ववृत्तयो भूयांसः / पूर्वं दुःखेन ब्राह्मणैरतिथयोऽलभ्यन्त, ततः क्षत्रियातिथयोऽपि संवृत्ताः, ततो वैश्यावेशिनोऽपि, संप्रति शूद्रान्नभोजिनोऽपि / पूर्वममृतभुजः, ततो विघसभुजः, ततोऽन्नभुजः, संप्रत्यघभुज एव / पूर्व चतुष्पादधर्म आसीत्, ततस्तनूयमाने तपसि त्रिपात्, ततो म्लायति ज्ञाने द्विपात्, संप्रति जीर्यति यज्ञे दानैकपात् / सोऽपि पादो दुरागतादिविपादिकाशतदुः स्थोऽ श्रद्धामलकलङ्कितः कामक्रोधादिकण्टकशतजर्जरः प्रत्यहमपचीयमानवीर्यतया इतस्ततः स्खलन्निवोपलभ्यते / इदानीमिव सर्वत्र दृष्टान्नाधिकमिष्यते इति चेन। स्मृत्यनुष्ठानानुमितानां शाखानामुच्छेददर्शनात्। स्वातन्त्र्येण स्मृतीनामाचारस्य च प्रामाण्यानभ्युपगमात्। मन्वादीनामतीन्द्रियार्थदर्शने प्रमाणाभावात्। आचारात् स्मृतिः स्मृतेश्चाचार इत्यनादिताऽभ्युपगमे अन्धपरम्पराप्रसङ्गात्। आसंसारमनाम्नातस्य च वेदत्वव्याघातेनानुमानायोगात्। उत्पत्तितोऽभिव्यक्तितोऽभिप्रायतो वाऽनवच्छिन्नवर्णमात्रस्य निरर्थकत्वात्। यदि च शिष्टाचारत्वादिदंहितसाधनं कर्त्तव्यं वेत्यनुमितं किं वेदानुमानेन, तदर्थस्यानुमानत एव सिद्धेः।नच धर्मवेदनत्वादिदमेवानुमानमनुमेयो वेदः / प्रत्यक्षसिद्धत्वात् / अशब्दत्वाच्च / / अथ शिष्टाचारत्वात् प्रमाणमूलोऽयमिति चेत् / ततः सिद्धसाधनम्। प्रत्यक्षमूलत्वाभ्युपगमात् / तदसम्भवेऽप्यनुमानसम्भवात् / नित्यमज्ञायमानत्वात्तदप्रत्यायकं, कथमनुमानं, कथञ्च मूलमिति चेत् / वेदः किमज्ञायमानः प्रत्यायकोऽप्रत्यायकएव वा मूलं,येन जडतम !तमाद्रियसे ।अनुमितत्वाज्ज्ञायमान एव इति चेत् / लिङ्गमप्येवमेवास्तु / अनुमेयप्रतीते: प्राक्तनी लिङ्गप्रतीतिरपेक्षिता, कारणत्वात्, न तु पश्चात्तनीति चेत् / शब्दप्रतीतिरप्येवमेव। आचारस्वरूपेण शब्दमूलत्वमनुमीयते, तेन तु शब्देन कर्त्तव्यता प्रतीयते इति चेन्न ।आचारस्वरूपस्य
Page #105
--------------------------------------------------------------------------
________________ न्यायकुसुमाञ्जलितः 85 प्रत्यक्षसिद्धत्वेन मूलान्तरानपेक्षणात्। तस्मात् कर्त्तव्यतायां प्रत्यक्षाभावादप्रमिततया च शब्दानुमानानवकाशात् प्रत्यक्षश्रुतेरसम्भवाच्छिष्टाचारत्वेनैव कर्त्तव्यतामनुमाय तया मूलशब्दानुमानम्। तथा च किन्तेन? तदर्थस्य प्रागेव सिद्धेः। तथाप्यागममूलत्वेनैव तस्य व्याप्तेरिति चेत्। अतएव तर्हि तस्य प्रत्यक्षानुमानमूलत्वमनुमेयम्।आदिमतस्तत्वं स्यादयंत्वनादिरिति चेत्।आचारोऽपि तर्हि प्रथमतस्तथा स्यादयन्त्वनादिर्विनाऽप्यागमं भविष्यति। आचारकर्त्तव्यताऽनुमानयोरेवमनादित्वमस्तु किन्नश्छिन्नमिति चेत्। प्रथमं तावन्नित्यानुमेयो वेद इति / द्वितीयं च देशमेव धर्मप्रमाणमिति / अथायमाशयः- वैदिका अप्याचारा राजसूयाश्वमेधादयः समुच्छिद्यमाना दृश्यन्ते, यत इदानीं नानुष्ठीयन्ते। न चैते प्रागपि नानुष्ठिता एव। तदर्थस्य वेदराशेरप्रामाण्यप्रसङ्गात्। समुद्रतरणोपदेशवत्। न चैवमेवास्तु दर्शाद्युपदेशेन तुल्ययोगक्षेमत्वात्। एवं, पुनः स कश्चित् कालो भविता यत्रैते अनुष्ठास्यन्ते, तथाऽन्येऽप्याचाराः समुच्छेत्स्यन्ते अनुष्ठास्यन्ते चेति .न विच्छेदः। ततस्तद्वदागममूलतेतिचेत्। एवं तर्हि प्रवाहादौ लिङ्गाभावे कर्त्तव्यत्वागमयोरननुमानादसत्यां प्रत्यक्षश्रुतौ आचारसङ्कथाऽपि कथमिति सर्वविप्लवः। तस्मात् प्रत्यक्षश्रुतिरेव मूलमाचारस्य। सा चेदानीं नास्तीति शाखोच्छेदः। अधुनाऽप्यस्ति साऽन्यत्रेतिचेदत्र कथं नास्ति ? किमुपाध्याय-वंशानामन्यत्र गमनात्, तेषामेवोच्छेदाद्वा, आहोस्वित्स्वाध्यायविच्छेदात्? न प्रथमद्वितीयौ। सर्वेषामन्यत्र गमने उच्छेदे वा नियमेन भारतवर्षे शिष्ठाचारस्याप्युच्छेदप्रसङ्गात्। तस्याध्येतृसमानकर्तृकत्वात्। अन्यत आगतैराचारप्रवर्तने अध्ययनप्रवर्त्तनमपि स्यात्। न तृतीयः। आध्यात्मिकशक्तिसम्पन्नानामन्तेवासिनामविच्छेदे तस्यासम्भवात् / / वेदास्तित्वं महाजनपरिग्रहायत्तम् तस्मादायुरारोग्यबलवीर्यश्रद्धाशमदमग्रहणधारणादिशक्तेरहरहरपचीयमानत्वात् स्वाध्यायानुष्ठाने शीर्यमाणे कथञ्चिद् अनुवर्तते / विश्वपरिग्रहाच्च न सहसा सर्वोच्छेद इति युक्तमुत्पश्यामः। गतानुगतिको लोक इत्यप्रामाणिक एवाचारो, न तु शाखोच्छेदः। अनेकशाखागतेतिकर्तव्यतापूरणीयत्वात् / एकस्मिन्नपि कर्मण्यनाश्वासप्रगङ्गादिति चेत्।
Page #106
--------------------------------------------------------------------------
________________ 86 गद्यसंग्रहः एवं हि महाजनप्रपरिग्रहस्योपप्लवसम्भवे वेदा अपि गतानुगतिकतामेव लोकैः परिगृह्यन्ते इति न वेदाः प्रमाणं स्युः। तथा च वृश्चिकभिया पलायमानस्याशीविषमुखे निपातः। एतमेव च कालक्रमभाविनमनाश्वासमाशङ्कमानैर्महर्षिभिः प्रतिविहितमतेनोक्तदोषोऽपि। न चायमुच्छेदो ज्ञानक्रमेण येन श्लाध्य:स्यात् अपितु प्रमादमदमानालस्यनास्तिक्यपरिपाकक्रमेण / ततश्चोच्छेदानन्तरं पुनः प्रवाहः, तदनन्तरञ्च पुनरुच्छेद इति सारस्वतमिव स्रोतः / अन्यथाकृतहानप्रसङ्गात् / तथा भाविप्रवाहवद्भवन्नप्ययमुच्छेदपूर्वकं इत्यनुमीयते / स्मरति च भगवान् व्यासो गीतासु भगवद्वचनम् यदा यदा हि धर्मस्य ग्लानिर्भवति भारत / अभ्युत्थानमधर्मस्य तदाऽऽत्मानं सृजाम्यहम् // परित्राणाय साधूनां विनाशाय च दुष्कृताम् / धर्मसंस्थापनार्थाय सम्भवामि युगे युगे // इति कः पुनरयं महाजनपरिग्रहः ? हेतुदर्शनशून्यैर्ग्रहणधारणार्थानुष्ठानादिः / स ह्यत्र न स्याद् ऋते निमित्तम् / न ह्यत्रालस्यादिनिमित्तं, दुःखमयकर्मप्रधानत्वात्। नाप्यन्यत्र सिद्धप्रामाण्येऽभ्युपायेऽनधिकारेणास्मिन्नन्यगतिकतयाऽनुप्रवेशः / परैः पूज्यानामप्यऽत्राप्रवेशात् / नापि भक्ष्यपेयाद्यद्वैतरागः, तद्विभागव्यवस्थापरत्वात् / नापि कुतर्काभ्यासाहितव्यामोहः, आकुमारं प्रवृत्तेः / नापि सम्भवद्विप्रलम्भपाषण्डसंसर्गः, पित्रादिक्रमेण प्रवर्त्तनात् / नाऽपि योगाभ्यासाभिमानेनाव्यग्रताभिसन्धिः, प्राथमिकस्य कर्मकाण्डे सुतरां व्यग्रत्वात् / नापि जीविका, प्रागुक्तेन न्यायेन दृष्टफलाभावात् / नापि कुहकवञ्चना, प्रकृते तदसम्भवात् / सम्भवन्ति चैते हेतवो बौद्धाद्यागमपरिग्रहे / तथाहि / भूयस्तत्र कर्मलाघवमित्यलसाः।इत:पतितानामप्यनुप्रवेश इत्यनन्यमतिकाः। भक्ष्याद्यनियम, इति रागिणः स्वेच्छया परिग्रह इति कुतर्काऽभ्यासिनः। पित्रादिक्रमाभावात् प्रवृत्तिरिति पाषण्डसंसर्गिणः। उभयोरन्तरं ज्ञात्वा कस्य शौचं विधीयते, इत्यादिश्रवणादव्यग्रताऽभिमानिनः। सप्तघटिकाभोजनादिसिद्धर्जीविकेत्ययोग्याः।आदित्यस्तम्भनंपाषाणपाटनं
Page #107
--------------------------------------------------------------------------
________________ न्यायकुसुमाञ्जलितः शाखाभङ्गो भूतावेशः प्रतिमाजल्पनं धातुवाद इत्यादिबन्धनात् कुहकवञ्चिताः। ततस्तान् परिगृह्णन्तीति सम्भाव्यते / अतो न ते महाजनपरिगृहीता इति विभागः। धर्मसम्प्रदायप्रवर्तने ईश्वरादन्यो न विश्वासार्हः सन्तु कपिलादय एव साक्षात्कृतधर्माणः कर्मयोगसिद्धास्त एव संसाराङ्गारेषु पच्यमानान् प्राणिनः पश्यन्तः परमकारुणिकाः प्रियहितोपदेशेनानुग्रहीष्यन्ति, कृतं परमेश्वरेणानपेक्षितकीटादिसंख्यापरिज्ञानवतेति चेन्न / तदन्यस्मिन्ननाश्वासात् / तथा ह्यतीन्द्रियार्थदर्शनोपायो भावनेत्यभ्युपगमेऽपि नासौ सत्यमेव साक्षात्कारमुत्पादयति, यतः समाश्वसितः / प्रमाणान्तरसंवादादिति चेन्न / अहिंसादि हितसाधनमित्यत्र तदभावात् ।आगमोऽस्तीति चेन्न / भावनामात्रमूलत्वेन तस्याप्यनाश्वासविषयत्वात् / एकदेशसंवादेनापि प्रवृत्तिरिति चेन, स्वप्नाख्यानवदन्यथापि सम्भवात् / न चानुपलब्धेर्भावनाऽपि, चौरसादयोह्यपलब्धा एव भीरुभिर्भाव्यन्ते / न च कर्मयोगयोर्हितसाधनत्वं कुतश्चिदुपलब्धम् / न चैतयोः स्वरूपेणोपलम्भः क्वचिदुपयुज्यते, भावनासाध्यो वा / न चास्मिन्नन्वयव्यतिरेको सम्भवतः। देहान्तरभोग्यत्वात् फलस्य अप्रतीततया तदनुष्ठाने तदभावाच्च। न च कर्तृभोक्तृरूपोभयदेहप्रतिसन्धानादेव तदुपपद्यते।तदभावात् / न ह्येतस्य पूर्वकर्मणः फलमिदमनुभवामीति कश्चित् प्रतिसन्धत्ते / केचित्तथा भविष्यन्तीति सम्भावनामात्रेऽप्यऽनाश्वासात्। विनिगमनायां प्रमाणाभावात्। प्रतिपन्निशीथनिद्राणप्रातः प्रतिबुद्धसमस्तोपाध्यायवदन्योन्यसंवादात् कपिलादिषु समाश्वास इति चेन्न। एकजन्मप्रतिसन्धानवजन्मान्तरप्रतिसन्धाने प्रमाणाभावात्। तथापि च अधिकारिविशेषेण ब्राह्मणत्वाद्यप्रतिसन्धानेऽनुष्ठानरूपस्याश्वासस्याभावात् / न हि पूर्वजन्मनि मातापित्रोर्ब्राह्मण्यात्तदुत्तरत्र ब्राह्मण्यमिति नियमो, येन सर्गादौ वर्णादिधर्मव्यवस्था स्यात्। ईश्वरवददृष्टविशेषोपनिबद्धभूतविशेषानुपलम्भात्। अतीन्द्रियार्थदर्शित्वेचानाश्वासस्योक्तत्वात्। एतेन ब्रह्माण्डान्तरसञ्चारिवर्णव्यवस्थया सम्प्रदायप्रवर्तनमपास्तम्। सञ्चारशक्तेरभावात्। वर्षान्तरसञ्चरणमेव हि दुष्करं, कुतो लोकान्तरसञ्चारः, कुतस्तराञ्च ब्रह्माण्डान्तरगमनम्।अणिमादिसम्पत्तेरेवमपि स्यादिति चेन्न। तत्रापि प्रमाणाभावात् सम्भावनामात्रेण समाश्वासानुपपत्तेः। आद्यमहाजनपरिग्रहान्यथाऽनुपपत्तिरेवात्र प्रमाणमिति चेत्। एवम्भूतैककल्प
Page #108
--------------------------------------------------------------------------
________________ गद्यसंग्रहः नयैवोपपत्तौ भूयः कल्पनायां गौरवप्रसङ्गात् विदेहनिर्माणशक्तेरणिमादिविभूतेश्चावश्याभ्युपगन्तव्यत्वात् / अस्त्वेक एवेतिचेत्, न त_श्वरमन्तरेणान्यत्र समाश्वास इति / न्यायकुसुमाञ्जलेः तृतीयस्तबकात् योग्यानुपलब्धेरेवाभावग्राहकतयाननुपलब्ध्या ईश्वराभावो ग्रहणार्हः नन्वेतदपि कथं, तत्र बाधकसम्भवात् / तथा हि / यदि स्यादुपलभ्येत / अयोग्यत्वात् सन्नपि नोपलभ्यते इति चेदेवं तर्हिशशशृङ्गमप्ययोग्यत्वानोपलभ्यते इति स्यात् / नैतदेवम् / शृङ्गस्य योग्यतयैव व्याप्तत्वादिति चेत् / चेतनस्यापि योग्योपाधिमतयैव व्याप्तत्वात् तद्बाधे सोऽपि बाधित एवेति तुल्यम् / व्यापकस्वार्थाऽद्यनुपलम्भेनाप्यनुमीयते नास्तीति / को हि प्रयोजनमन्तरेण किञ्चित् कुर्यादिति / उच्यते योग्यादृष्टिः कुतोऽयोग्ये प्रतिबन्धिः कुतस्तराम् / क्वायोग्यं बाध्यते शृङ्ग क्वानुमानमनाश्रयम् // 1 // स्वात्मैव तावद् योग्यानुपलब्ध्या प्रतिषेद्धं न शक्यते, कुतस्त्वयोग्यः परमात्मा / तथाहि, सुषुप्त्यवस्थायामात्मानमनुपलभमानो नास्तीत्यवधारयेत् / कस्यापराधेन पुनर्योग्योऽप्यात्मा तदानीं नोपलभ्यते ? सामग्रीवैगुण्यात् / ज्ञानादिक्षणिकगुणोपधानो ह्यात्मा गृह्यते इत्यस्य स्वभावः / ज्ञानमेव कुतो न जायते इति चिन्त्यते / पश्चाद्वा कथमुत्पत्स्यते इति चेन्मनसोऽनिन्द्रियप्रत्यासन्नतयाऽजननात्तत्प्रत्यासत्तौ च पश्चाजननात् / अनुपलब्धिरेवभावग्राहिकेति चार्वाकमतमसङ्गतम् चार्वाकस्त्वाह, किं योग्यताविशेषाग्रहेण ? यन्नोपलभ्यते तन्नास्ति, विपरीत इति चेत् / नेदमनिष्टम् / तथाच लोकव्यवहारोच्छेद इति चेन्न / सम्भावनामात्रेण तत्सिद्धेः / संवादेन च प्रामाण्याभिमानादिति /
Page #109
--------------------------------------------------------------------------
________________ न्यायकुसुमाञ्जलितः 89 अत्रोच्यते दृष्टयदृष्ट्योः क्व सन्देहो भावाभावविनिश्चयात् / अदृष्टिबाधिते हेतौ प्रत्यक्षमपि दुर्लभम् // 6 // सम्भावना हि सन्देह एव / तस्माच्च व्यवहारस्तस्मिन् सति स्यात्। स एव तु कुतः? दर्शनदशायां भावनिश्चयात्, अदर्शनदशायामभावावधारणात् / तथा च गृहाद बहिर्गतश्चार्वाको बराको न निवर्तेत। प्रत्युत, पुत्रदारधनाद्यभावावधारणात् सोरस्ताडं शोकविकलो विक्रोशेत् / स्मरणानुभवान्नैवमिति चेन्न।प्रतियोगिस्मरण एवाभावपरिच्छेदात्, परावृत्तोऽपि कथं पुनरासादयिष्यति। सत्वादिति चेदनुपलम्भकालेऽपि तर्हि सन्तीति न तावन्मात्रेणाभावावधारणम्। तदैवोत्पन्ना इति चेन्न। अनुपलम्भन हेतूनां बाधात्।अबाधेवा स एव दोषः। अत एव प्रत्यक्षमपि न स्यात्, तद्धेतूनां चक्षुरादीनामनुपलम्भबाधितत्वात्। उपलभ्यन्त एव गोलकादय इति चेन। तदुपलब्धेः पूर्वं तेषामनुपलम्भात्। न च यौगपद्यनियमः। कार्यकारणभावादिति / एतेन, न परमाणवः सन्ति अनुपलब्धेः / न ते नित्या निरवयवा वा / पार्थिवत्वात् / घटादिवत् / न पाथ'सीयपरमाणुरूपादयो नित्याः, रूपादित्वात्, दृश्यमानरूपादिवत् / न रूपत्वपार्थिवत्वादि नित्याऽकार्यातीन्द्रियसमवायि जातित्वात् / शृङ्गत्ववत् / नेन्द्रियाणि सन्ति, योग्यानुपलब्धेः / अयोग्यानि च शशशृङ्गप्रतिबन्धिनिरसनीयानीत्येवं स्वर्गापूर्वदेवतानिराकरणं नास्तिकानां निरसनीयम् / मीमांसकश्च तोषयितव्यो भीषयितव्यश्चेति / अनुपलभ्यमानोपाधिवशादनुमानप्रमाणानुपपत्तिशङ्का तत्परिहारश्च यद्यैवमनुपलम्भेनादृश्यप्रतिषेधो नेष्यते, अनुपलभ्योपाधिप्रतिषेधोऽपि तर्हि नेष्टव्यः / तथाच कथं तथाभूतार्थसिद्धिरपि / अनुमानबीजप्रतिबन्धासिद्धेः / तदभावे शब्दादेरप्यभावः / प्रामाण्यासिद्धेः / सेयमुभयतः पाशा रज्जुः॥ अत्र कश्चिदाह / मा भूदुपाधिविधूननं, चतुः पञ्चरूपसम्पत्तिमात्रेणैव प्रतिबन्धनिर्वाहात् / तस्याश्च सपक्षासपक्षदर्शनादर्शनमात्रप्रमाणकत्वात् / यत्र तु 1. जलीय
Page #110
--------------------------------------------------------------------------
________________ 90 गद्यसंग्रहः तद्भङ्गः, तत्र प्रमाणभङ्गोऽप्यावश्यकः। न ह्यस्ति सम्भवो दर्शनादर्शनयोरविप्लवे हेतुरूपप्लवते इति। अप्रयोजकोऽपि तर्हि हेतुः स्यादिति चेत्, भूयो दर्शनाऽविप्लवे कोऽयमप्रयोजको नाम? न तावत् साध्यं प्रत्यकार्यमकारणं वा। सामान्यतो दृष्टानुमानस्वीकारात्। नाऽपि सामग्र्यांकारणैकदेशः। पूर्ववदभ्युपगमात्। नापि व्यभिचारी, तदनुपलम्भात्। व्यभिचारोपलम्भे वा स एव दोषः। न च शङ्कित व्यभिचारः। निर्बीजशङ्कायाः सर्वत्र सुलभत्वात् / नापि व्याप्यान्तरसहवृत्तिः। एकत्रापि साध्येऽनेकसाधनोपगमात्। नाप्यल्पविषयः,धूमादेस्तथाभावेऽपिहेतुत्वात्। ननु धूमो वह्निमात्रे अप्रयोजक एव, तन्निवृत्तावपि तदनिवृत्तेः। आर्टेन्धनवन्तं वह्निविशेष प्रति तु प्रयोजकः, तन्निवृत्तौ तस्यैव निवृत्तेरित्येतदप्य-युक्तम्। सामान्याप्रयोजकतायां विशेषसाधकत्वायोगात्तदसिद्धौ तस्यासिद्धि-नियमात्। सिद्धौ वासामान्यविशेषभावानुपपत्ते : नापि क्लृप्तसामर्थे ऽन्यस्मिन् कल्पनीयसामर्थ्योऽप्रयोजकः, नाशे कार्यत्वसावयवत्वयोरपि हेतुभावादिति। तदेतदपेशलम् / कथं हि विशेषाभावात्, कश्चित् व्यभिचरति कश्चिच्च नेति शक्यमवगन्तुम् / ततो निर्णायाकाभावे सति साहित्यदर्शनमेव शङ्काबीजमिति क्वासौ निर्बीजा / एवं सत्यतिप्रसक्तिरपि चार्वाकनन्दिनी नोपालम्भाय / स्वभावादेव कश्चित् किञ्चिद्व्यभिचरति, कश्चिच्च नेति स्वभाव एव विशेष इति चेत् / केन चिह्नन पुनरसौ निर्णेय इति निपुणेन भावनीयम् / भूयोदर्शनस्य शतशः प्रवृत्तस्यापि भङ्गदर्शनात् / यत्र भङ्गो न दृश्यते तत्र तथेति चेत् / आपाततो न दृश्यते इति सर्वत्र कालक्रमेणापि न द्रक्ष्यते इति को नियन्तेति / तस्मादुपाधितद्विरहावेव व्यभिचाराव्यभिचारनिबन्धनं, तदवधारणञ्चाशक्यमिति। ननु यः सर्वैः प्रमाणैः सर्वदाऽस्मादादिभिर्यद्वत्तया नोपलभ्यते नासौ तद्वान् / यथा बकः श्यामिकया, नोपलभ्यते च वह्नौ धूम उपाधिमत्तयेति शक्यमिति चेन्न। अस्याप्यनुमानतया तदपेक्षायामनवस्थानात्। "सर्वादृष्टेश्च सन्देहात् स्वादृष्टेर्व्यभिचारतः", सर्वदेत्यसिद्धेः। तादात्म्यतदुत्पत्तिभ्यां नियम इत्यन्ये / तत्र तादात्म्यं विपक्षे बाधका भवति। तदुत्पत्तिश्च पौर्वापर्येण प्रत्यक्षानुपलम्भाभ्याम्। न ह्येवं सति शङ्कापिशाच्यवकाशमासादयति, आशक्यमानकारणभावस्यापि पिशाचादेरेतल्लक्षणाविरोधेनैव तत्त्वनिर्वाहादिति। न। एवमप्युभयगामिनोऽव्यभिाचारनिबन्धनस्यैकस्याऽविवेचनात्, प्रत्येकं चाव्यापकत्वात्। कुतश्च कार्यात्मानौ कारणमात्मानञ्च न व्यभिचरत इति।
Page #111
--------------------------------------------------------------------------
________________ ___ न्यायकुसुमाञ्जलितः 91 तर्कस्य व्याप्तिग्रहणानुगुणताया उपपत्तिः अत्रोच्यते शङ्का चेदनुमाऽस्त्येव न चेच्छङ्का ततस्तराम् / व्याघातावधिराशङ्का तर्कः शङ्काऽवधिर्मतः // 7 // कालान्तरे कदाचित् व्यभिचरिष्यतीति कालं भाविनमाकलय्य शब्येत / तदाकलनञ्च नानुमानमवधीर्य कस्यचित् / मुहूर्त्तयामाऽहोरात्रपक्षमासर्वयनसंवत्सराऽऽदयो हि भाविनो भवन्मूहूर्ताद्यनुमेया एव / अनवगतेषु स्मरणस्याप्यनाशङ्कनीयत्वात् / अनाकलने वा, कमाश्रित्य व्यभिचारः शक्येत / तथा च सुतरामनुमानस्वीकारः / एवञ्च देशान्तरेऽपि वक्तव्यम् / / __ स्वीकृतमनुमानम् / सुहृद्भावेन पृच्छामः, कथमाशङ्का निवर्त्तनीया ? इति चेन्न।यावदाशङ्कं तर्कप्रवृत्तेः। तेन हि वर्तमानेनोपाधिकोटौ तदायत्तव्यभिचारकोटौ वाऽनिष्ठमुपनयतेच्छा विच्छिद्यते / विच्छिन्नविपक्षेश्च प्रमाता भूयोदर्शनोपलब्धसाहचर्यं लिङ्गमनाकुलोऽधितिष्ठति, अधिष्ठिताच्च करणात् क्रियापरिनिष्पत्तिरिति किमनुपपन्नम् / ननु तर्कोऽप्यविनाभावमपेक्ष्य प्रवर्त्तते, ततोऽनवस्थया भवितव्यम्। न / शङ्काया व्याघातावधित्वात् / तदेव ह्याशक्यते, यस्मिन्नाशक्यमाने स्वक्रियाव्याघातादयो दोषा नावतरन्तीति लोकमर्यादा / न हि हेतुफलभावो न भविष्यतीति शङ्कितुमपि शक्यते / तथा सति शङ्कव न स्यात्, सर्वं मिथ्या भविष्यतीत्यादिवत्। तथापि, अतीन्द्रियोपाधिनिषेधे किं प्रमाणमित्युच्यतामिति चेत् / न वै कश्चिदतीन्द्रियोपाधिः प्रमाणसिद्धोऽस्ति, यस्याभावे प्रमाणमन्वेषणीयम् / केवलं साहचर्ये निबन्धनान्तरमात्रं शक्यते, ततः शङ्कव फलतः स्वरूपतश्च निवर्तनीया / तत्र फलमस्याविपक्षस्यापि जिज्ञासा तर्कादाहत्य निवर्त्तते / ततोऽनुमानप्रवृत्तौ शङ्कास्वरूपमपीति सर्वं सुस्थम् / न्यायकुसुमाञ्जालेः पञ्चमस्तबकात वृद्धव्यवहारादीश्वरसिद्धिप्रकारः पदशब्देनात्र, पद्यते गम्यते व्यवहाराङ्गमर्थोऽनेनेति वृद्धव्यवहार एवोच्यते / अतोऽपीश्वरसिद्धिः। तथाहि। यदेतत् पटादिनिर्माणनैपुण्यं कुविन्दादीनां, अतोऽपाश्चमात्र, पद्यते गवहारादीश्वरसि
Page #112
--------------------------------------------------------------------------
________________ गद्यसंग्रहः वाग्व्यवहारश्च व्यक्तवाचां, लिपितत्क्रमव्यवहारश्च बालानां, स सर्वः स्वतन्त्रपुरुषविश्रान्तो व्यवहारत्वात्।निपुणतरशिल्पिनिर्मितापूर्वघटघटनानैपुण्यवत्, चैत्रमैत्रादिपदवत्, पत्राक्षरवत्, पाणिनीयवर्णनिर्देशक्रमवच्चेति। आदिमान् व्यवहार एवम्, अयन्त्वनादिरन्यथाऽपि भविष्यतीति चेन्न। तदसिद्धेः, आदिमतामेव साधयितुमयमारम्भः। न चैवं संसारस्यानादित्वभङ्गप्रसङ्गः। तथापि तस्याविरोधात्। न हि चैत्रादिव्यवहारोऽयमादिमानिति भवस्याप्यनादिता नास्ति तदनादित्वे वा न चैत्रादिपदव्यवहारोऽप्यादिमानिति / अस्त्वर्वाग्दर्शी कश्चिदेवात्र मूलमिति चेन्न। तेनाऽशक्यत्वात्। कल्पादावादर्शाभासस्याप्यसिद्धः। साधितौ च सर्गप्रलयौ। ननु व्यवहारयितृवृद्धः शरीरी समधिगतो, न च ईश्वरस्तथा, तत्कथमेवं स्यान्न। शरीरान्वयव्यतिरेकाऽनुविधायिनि कार्ये तस्यापि तद्वत्त्वात्। गृह्णाति हि, ईश्वरोऽपि कार्यवशाच्छरीरमन्तरान्तरा, दर्शयति च विभूतिमिति। अत्राप्यागमः पिताऽहमस्य जगतो माता धाता पितामहः / तथायदि ह्यहं न वर्तेयं जातु कर्मण्यतन्द्रितः / मम वानुवर्त्तन्ते मनुष्याः पार्थ सर्वशः // उत्सीदेयुरिमे लोका न कुर्यां कर्म चेदहम् // इति // एतेन, नमः कुलालेभ्यः करिभ्य इत्यादि यजूंषि बोद्धव्यानि // वेदकर्तृत्वेनेश्वरसिद्धिः श्रुतेः खल्वपि / तथाहि ।सर्वज्ञप्रणीता वेदाः वेदत्वात् / यत् पुनर्न सर्वज्ञप्रणीतं, नाऽसौ वेदों यथेतरवाक्यम् / ननु किमिदं वेदत्वं नाम ? वाक्यत्वस्यादृष्टविषयवाक्यत्वस्य च विरुद्धत्वात् / अदृष्टविषयप्रमाणवाक्यत्वस्य चासिद्धेः।मन्वादिवाक्ये गतत्वेन विरोधाच्चेति चेन्न / अनुपलभ्यमानमूलान्तरत्वे सति महाजनपरिगृहीतवाक्यत्वस्य तत्त्वात् / न ह्यस्मदादीनां प्रत्यक्षादि मूलम् / नापि भ्रमविप्रलिप्से, महाजनपरिग्रहादित्युक्तम् / नापि परम्परैव मूलं, महाप्रलये विच्छेदादित्युक्तम् / __ अन्वयतो वा / वेदवाक्यानि पौरुषेयाणि वाक्यत्वात्, अस्मादादिवाक्यवत् / अस्मर्यमाणकर्तृकत्वान्नैवमिति चेन्न / असिद्धेः।
Page #113
--------------------------------------------------------------------------
________________ 93 आत्मतत्त्वविवेकात् ___93 अनन्तरञ्च वक्त्रेभ्यो वेदास्तस्य विनिःसृताः / प्रतिमन्वन्तरं चैषा श्रुतिरन्या विधीयते // वेदान्तकृद्वेदविदेव चाहम्, इति स्मृतेः / तस्माद् यज्ञात् सर्वहुत ऋचः सामानि जज्ञिरे इत्यादिश्रुतिपाठकस्मृतेश्च / कृत्स्नवेदप्रतिपाद्यतया ईश्वरसिद्धिः श्रुतेः खल्वपि कृत्स्न एव हि वेदोऽयं परमेश्वरगोचरः / स्वार्थद्वारैव तात्पर्य्य तस्य स्वर्गादिवद्विधौ // 16 // न सन्त्येव हि वेदभागा यत्र परमेश्वरो न गीयते / तथाहि / स्रष्टुत्वेन पुरुषसूक्तेषु, विभूत्या रुद्रेषु, शब्दब्रह्मत्वेन मण्डलब्राह्मणेषु, प्रपञ्चं पुरस्कृत्य निष्प्रपञ्चतयोपनिषत्सु, यज्ञपुरुषत्वेन मन्त्रविधिषु, देहाविर्भावैरुपाख्यानेषु, उपास्यत्वेन च सर्वत्रेति / आत्मतत्त्वविवेकात् आत्मतत्त्वज्ञानादेव आत्यन्तिकी दुःखनिवृत्तिः इह खलु निसर्गप्रतिकूलस्वभावं सर्वजनसंवेदनसिद्धं दुःखं जिहासवः सर्व एव तद्धानोपायमविद्वांसोऽनुसरन्तश्च सर्वाध्यात्मविदेकवाक्यतया तत्त्वज्ञानमेव तदुपायमाकर्णयन्ति, न ततोऽन्यम्। प्रतियोग्यनुयोगितया च आत्मैव तत्त्वतो ज्ञेयः। तथाहि-यदि नैरात्म्यं, यदि वात्मास्ति वस्तुभूतः, उभयथापि नैसर्गिकमात्मज्ञानमतत्त्वज्ञानमेव इत्य प्येकवाक्यतैव वादिनामत आत्मतत्त्वं विविच्यते। तत्र बाधकं भवदात्मनि क्षणभङ्गो वा बाह्यार्थभङ्गो वा गुणगुणिभेदभङ्गो वा अनुपलम्भो वेति। प्रयोजनानुरोधेनापोहस्वीकारनिरासः अस्तु तर्हि प्रयोजानुरोधादपोहस्वीकारः, सर्वधर्मावाप्यत्वसिद्धिर्हि परमं प्रयोजनम्, कल्पनाजालविधूननेन गम्भीरोदारसमाधिसमधिगमादिति चेत्,
Page #114
--------------------------------------------------------------------------
________________ गद्यसंग्रहः निष्प्रमाणमिदं कः श्रद्दध्यात्? प्रमाणं चात्र न प्रत्यक्षानुमाने / आगमश्च न किञ्चिद् वदतीति त्वयैव ग्राहितः शिष्यः / न चैवं चेतनो ग्राहयितुमपि शक्यते, स्ववाग्विरोधस्योद्भटत्वात् / तथाहि शब्दस्य कस्यचिदपि वस्तुनि मानसिद्धा / बाधा विधिव्यवहृतिः क्वचिदस्ति नो वा ? अस्त्येव चेत्, कथमियन्ति न दूषणानि ? नास्त्येवचेत्, स्ववचनप्रतिरोधसिद्धिः॥इति तवैव विषयञ्चारमात्रेण श्लोकः / न चास्माकमिव तवाप्यत्र मूकतैव शरणम् / सर्वथा वचनविरोधे ह्यदासीनस्य / सा शोभते, न चात्र विधौ विरोधः कश्चित् / न च त्वमुदासीनः, प्रयोजने प्रवृत्तत्वात् / तस्मादलमङ्गलीदीपिकया ध्वान्तध्वंसविधिमनुष्ठायेति / आगमस्य तत्त्वार्थपरिस्पर्शित्वविरोधे न स्वर्गापवर्गार्थिनां प्रवृत्तिः सिध्यतीति प्रयोजनमस्मद्विचारस्यैव परं सुन्दरम् / ___ तस्माच्छब्दैः किं वाच्यमित्यनुयोगे किं प्रतिभासात् ? अथाध्यवसायात् ? यद्वा तत्त्वतः ? इति विकल्पे विकल्पस्थोऽन्यापोढाकारः, अन्यापोढस्वलक्षणं, न किञ्चिदिति यत् क्रमेण प्रयुक्तम्-तत्र प्रथमे समयविपर्यासः, विकल्पाकारस्य समयाविषयत्वात् / द्वितीये तु प्रवृत्तिविपर्यासः, अदृष्टे नियामकाभावात् / तृतीये स्ववानिरोधः, अस्यैवार्थस्यानेन तत्त्वतावचनात् / अवचने वा तत्त्वतोऽनुत्तरत्वादित्युपसंहारः। तत् सिद्धमेतत्, न क्षणिकत्वमात्मनि बाधकमिति। अथ बाहूयार्थभगवादः क्षणिकं विज्ञानमेव वस्तु, तदन्यत् सर्वमवस्तुभूतमिति बौद्धानां विज्ञानवादस्यालोचनम् विज्ञानवादिनि जागरूके बाह्यमेव नास्ति, कुत आत्मेति चेत्, स तावदिदं पृष्टो व्याचष्टाम्-किं ते ग्राह्यग्राहकभागयोः परमार्थसतोरेवाभेदो विवक्षितः ? उताहो अभिन्नजातीयत्वम्? अथ ग्राह्यांशस्यालीकत्वमिति ?
Page #115
--------------------------------------------------------------------------
________________ आत्मतत्त्वविवेकात् 95 तत्र प्रथमे साध्ये यः कश्चिद्धेतुरुपादीयते सहोपलम्भनियमो वा, ग्राह्यत्वं वा, प्रकाशमानत्वं वा, स व्यक्तमाभासः। तथाहि नीलधवलादिपरस्परविरुद्धाकारनिकरावगाहि विज्ञानमनुभूयते, तदिदं तस्य स्ववधाय कृत्योत्थापनम् / यदि हि मिथः प्रत्यनीकधर्मानुल्लिखेत्, कथमेकं सत् तदात्मकं भवेत् ? न चेदुल्लिखेत् कथं तदाकारं नाम? स्वसंवेदनस्यानुल्लिखितरूपाभावात् / बाह्यस्यैवंविधविरुद्धधर्माध्यासाद्भयम्, तथात्वेऽप्यभेदेऽर्थक्रियाचेतनप्रवृत्तीनां सङ्करप्रसङ्गात्, विवेचनानुपपत्तिप्रसङ्गाच्च, न विज्ञानस्य / न हि तस्यार्थक्रियाधीनं सत्त्वम्, अपि तु प्रतिभासमात्राधीनम् / नापि तत्रार्थक्रियार्थिनः काचित् प्रवृत्तिः, स्वरसवाहिविज्ञानप्रवाहातिरिक्ताया अर्थक्रियायास्तदर्थिनश्चाभावात् / विवेचनाभावश्च परमो निर्वाहः, स्वसंविदितद्रूपत्वादिति चेत्। तत् किमङ्ग ! परिणतशान्तेराश्रमपदमिव विज्ञानमासाद्य व्यालनकुलादेरिव नीलधवलादेः शाश्वतिकविरोधत्यागः / निभृतवैराणां तत्फलत्यागो वा ? ___ न तावत् प्रथमः, परस्परनिषेधविधिनान्तरीयकविधिनिषेधयोरविरोधे जगति विरोधोच्छेदप्रसङ्गात् / न चैवमस्त्वित्युत्तरेऽपि निर्वृत्तिः, कथमप्युक्तरूपतया अनिवृत्तेः, तावन्मात्रशरीरत्वाच्च विरोधस्य / तत्सिद्धिरेव च भेदसिद्धिः / अतो न द्वितीयोऽपि। यस्तु बाह्ये विरोधपरिपालनाय विशेषो दर्शितः, स तेषामेवास्तु / यदि हि विरुद्धधर्माध्यासस्य भेदसाधकत्वं प्रति समाश्वासः, किमर्थक्रियाप्रतिनियमोपन्यासेन? न चेत्, तथापि किं तेन? सोऽपि ह्यर्थक्रिययोर्विरुद्धधर्माध्यासेन भेदे सति स्यात्। अन्यच्च, यथा बाह्येऽर्थक्रियाप्रतिनियमो न स्यादिति दण्डस्तथा ज्ञानेऽपि प्रतिभासनियमो न स्यादिति दण्ड एव। एतेन स्वप्नजागरावस्थयोरविशेष इति निरस्तम्। असत्ख्यातेश्च निराकृतत्वात्, अन्यथाख्यातेश्च तत्त्वख्यातिव्यवस्थामन्तरेणानुपपत्तेरिति / सा च यदि जागरेऽपि न स्यात्, न स्यादेवेति। तथापि कथमनयोरवस्थयोर्विभागः कर्तव्य इति चेन्न, लोकसिद्धत्वात्। किमनयोर्लक्षणमिति चेत्, कर्तृकर्मकरणकालप्रबन्धबाधःकाकतालीयसंवादवत् स्वप्रस्य, प्रबन्धे काकतालीयः कस्यचिदेव विषयस्य बाधो जागरस्येति /
Page #116
--------------------------------------------------------------------------
________________ 06 गद्यसंग्रहः एतेन बाध्यप्रबन्धोऽवस्थाविशेष:स्वप्रः,प्रबन्धबाधकादिर्बाध्यमानप्रबन्धान्तो जागरितमित्यपि द्रष्टव्यमित्येषा दिक् / तस्मात् तथ्यमेव विश्वम्, मन्दप्रयोजनत्वात्तु सत्वरैर्मुमुक्षुभिरुपेक्षितमिति युक्तमुत्पश्यामः। तर्हि नैयायिकानां जगत्परिरक्षणे कोऽयमभिनिवेशातिशय इति चेत्, सहसैव तदुपेक्षायां न्यायाभासावकाशे प्रमाणमात्र विप्लवो भवेत् / तथा च न्यायरुचिः प्रेक्षावान् न तत्त्वमधिगच्छेदिति भियेति / ___ आत्मास्तित्वे प्रमाणम् अथात्मसद्भावे किं प्रमाणम् ? प्रत्यक्षमेव तावत्, अहमिति विकल्पस्य प्राणभृन्मात्रसिद्धत्वात् / न चायमवस्तुकः सन्दिग्धवस्तुको वा, अशाब्दत्वादप्रतिक्षेपाच्च / न च लैङ्गिकः, अननुसंहितलिङ्गस्यापि स्वप्रत्ययात् / न च स्मृतिरियम्, अननुभूते तदनुपपत्तेः। अनादिवासनावशादनादिरयमवस्तुको विकल्प इत्यपि न युक्तम्, नीलादिविकल्पसाधारण्यात् / इह वासनामुपादायानाश्वासे प्रमाणान्तरेऽपि कः समाश्वासो यतो नीलादिविकल्पेषु समाश्वासः स्यात्। तस्माद् वासनामात्रवादं विहायागन्तुकमपि किञ्चित् कारणं वाच्यम्, तच्चाप्तानाप्तशब्दौ वा लिङ्गतदाभासौ वा प्रत्यक्षतदाभासौ वेति। तत्र यथा प्रथममध्यमप्रकाराभावान्नीलविकल्पश्चरमं कल्पमालम्बते, तथाऽहमिति विकल्पोऽपि। तत्रायं प्रत्यक्षपृष्ठभावित्वे साक्षादेव सवस्तुकः, तदाभासे तु मूलेऽस्य पारम्पर्यात् सवस्तुतेति। न च बाह्यप्रत्यक्षनिवृत्तावेव, निर्मूलत्वम्, बुद्धिविकल्पस्यापि तथात्वप्रसङ्गात्। तत्र स्वसंवेदनं मूलमिहापि मानसप्रत्यक्षमिति न कश्चिद् विशेषः। अस्तु तावदसौ सर्वज्ञः कर्ता, वक्ता तु कथमिति चेत्, न, वचनशक्तौ सत्यां परार्थंकतानत्वात्, यो हिताहितविभागं विद्वान्, परार्थाभिप्रायः सन् (स) स्थानकरणपाटवे सत्यविदुषेऽवश्यमुपदिशेत्, यथा अन्धाय दक्षिणेन याहि वामेन मा गाः इति पृथग् जनोऽपि, तथा भगवानिति।
Page #117
--------------------------------------------------------------------------
________________ आत्मतत्त्वविवेकात् 97 स्थानकरणपाटवमसिद्धं देहाभावात्, तेषां ताल्वादिविवृतादिरूपत्वात्। न च तदन्तरेण वर्णनिष्पत्तिः, तदुत्पत्तेरवधारणात्। न च तत्कारणान्यनधितिष्ठतः तत्कर्तृत्वमीश्वरस्यापीति चेत्, न, यस्य कार्यस्य यत् कारणमन्वयव्यतिरेकसिद्धं तत्कारणाधिष्ठानयोः स्थूलसिद्ध्यर्थं तदवयवपरम्पराकारणाधिष्ठानवदवश्यम्भावनियमात्। न च सर्वत्र कार्ये काय:कारणमितिप्रागुपेक्षितः। पितृत्वाद् बोपदेशानुमानम्। वेदागम एवं सर्वज्ञप्रणीतः तथापि कतम आगमस्तेन प्रणीत इति चेत् वेदायुर्वेदादिरित्यरिकरिकर्णज्वरः सिंहनादः। तथाहि, न तावदयमायुर्वेदोऽप्रमाणम्,संवादस्य प्रायिकत्वात्। विसंवादस्य काकतालीयतया कर्तृकर्मसाधनवैगुण्यहेतुकत्वात्। पुनस्तत्साद्गुण्ये तत एव फलसिद्धेः। न च निर्मूलस्तथा भवितुमर्हति, अतिप्रसङ्गात्।। न चान्वयव्यतिरेक भावोऽस्य मूलम्, आवापोद्वापेन योगानामनन्त तयाऽर्वाचीनेनाशक्यत्वात्। विषादौ तथाकरणे बहुतरानर्थप्रसङ्गात्। कः प्रेक्षावाननाकलितवस्तुतत्त्वः पाटनप्लोषणच्छेदनक्षारणशिरावेधनलङ्घनादि योग्यायै? कारयेत्, कुर्याद् वा। न चोपदेशस्योपदेशपारम्पर्यमानं मूलम्, अवश्यमुपदेशस्य क्वचित् प्रमाणे विश्रान्तेरिति हि व्याप्तः / न च नित्यागमसम्भवो वाक्यत्वात् / तस्मादतीन्द्रियार्थदर्शिपूर्वकोऽयमिति परिशेषः / तथा चानेन दृष्टान्तेन महाजनपरिगृहीतत्वाद् वेदा अपि सर्वज्ञपूर्वका इत्युन्नीयते / ननु महच्छब्दोऽत्र यदि प्रामाणिकवचनस्तदा सन्दिग्धासिद्धविशेषणो हेतुः। अथ बह्वर्थः? तदा सुगताद्यागमैरनेकान्तः। तेषामपि वा सर्वज्ञपूर्वकत्वमिति चेत्, न, बहुत्वातिशयस्य विवक्षितत्वात्। कोऽतिशयः? सर्वदर्शनान्त:पातित्वम्। कस्तैः परिग्रहः? तदर्थानुष्ठानं, स्वीकृतव्यवहारव्याकरणादिपालनीयत्वं, स्वीकृतप्रामाण्यायुर्वेदादिस्वीकृतार्थत्वं च / 1. योग्यायै-शिक्षायै इति।
Page #118
--------------------------------------------------------------------------
________________ गद्यसंग्रहः तथाहि, नास्त्येव तद्दर्शनं यत्र सांवृतमित्युक्त्वापि गर्भाधानाद्यन्त्येष्टिपर्यन्तां वैदिकी क्रियां जनो नानुतिष्ठति, स्पृश्यास्पृश्यादिविभागं वा नानुमनुते, व्यतिक्रमे चाऽऽचमनादिप्रायश्चित्तं वा नानुतिष्ठति। न सर्वत्र सर्वो जन एवमिति चेत्, मा भूत्। न हि सर्वै रोगिभिरायुर्वेदार्थो नानुष्ठीयत इति न तस्य महाजनपरिग्रहः, अपि तु सर्वदर्शनान्त:पातिभिरित्येव। तथापि न सर्वो वेदार्थ एवमिति चेत्, मा भूत्। न हि सर्वो वैद्यकार्थ एवमपि तु कश्चित् केनापि। एवं तर्हि सौगताद्यागमार्थोऽपि कश्चिदहिंसादिः सर्वदर्शनान्त:पातिभिरनुष्ठीयत एव कैश्चिदिति सोऽपि महाजनपरिगृहीतः स्यात्, न, सन्देहात्। किमयमहिंसादिर्वैदिक एवार्थो विडालवतन्यायेन श्रद्धाऽऽपादनाय शौद्धोदनिप्रभृतिभिरुपनिबद्धः? आहो स्वयं दृष्ट एवेति? न तावत् स्वयं दृष्टः, श्रमणकाद्यागमसाधारणत्वात्। यस्त्वसाधारणो मण्डलीकारणादिः केशोल्लुञ्चनादिर्वा, नासौ सर्वेरनुष्ठीयते। वैदिकस्तु असाधारण एवं निषेकादिस्तथेति। अपि च वाचकापभ्रंशविभागोऽस्तु न वा, तद्व्यवहारस्तावत् सवैरेव तीर्थिकैरविगानेन स्वीकृतः। तथा शिक्षाज्योतिश्छन्दोनिगमनिरुक्ताद्यर्थश्च / तेषां च वेदरक्षैव परमं प्रयोजनमिति / स्यादेतत्, व्याकरणादीनि तावत् सर्वैरभ्युपगतार्थानि, वेदा अपि तैः पालनीया भवन्तु। त एवेति कुतः? संसारमोचकागमोऽपि तत्पालनीयः किन्न स्यादिति चेत्, न तत्कर्तृभिस्तथानभ्युपगमात्, अव्युत्पादनात्, असाधारणलिङ्गाभावात्, विरुद्धलिङ्गसद्भावाच्च। न हि वेदशब्दार्थाविव सुगताद्यागमासाधारणशब्दा वनुरुध्य तेषां प्रवृत्तिर्यत एवमुनीयेत, प्रत्युत विरोध एव,तैस्तदप्रामाण्यव्युत्पादनात्। तस्मात् सर्वाभ्युपेतव्यवहारव्याकरणादिपालनीयत्वमपि वेदानामेव नान्येषाम्। सर्वाभ्युपेतप्रामाण्यैरायुर्वेदादिभिः स्वीकृतश्चैषामर्थः, प्रतिपदं तदीयशान्तिकपौष्टिकप्रायश्चित्ततपोजपदानहोमाधुपदेशात्।। न चैषभागस्तत्राप्रमाणमेव, तुल्ययोगक्षेमत्वात्। एतदेवासिद्धम्, प्रक्षेपस्यापि सम्भवादिति चेत्, न, अध्येत्रध्यापयितृसंप्रदायाविच्छेदात्। "अन्यथाकरणे चास्य बहुभ्यः स्यानिवारणम्" इति न्यायात् / तस्मादेवंरूपोऽपि महाजनपरिग्रहो वेदानामिति / सोऽयमीदृशो महाजनपरिग्रहोऽसर्वज्ञपूर्वकत्वेऽसंभवन् सर्वज्ञपूर्वकत्वेन व्याप्यते /
Page #119
--------------------------------------------------------------------------
________________ आत्मतत्त्वविवेकात् 99 न्यायमतसिद्धं मोक्षस्वरूपमेव वास्तवम् कः पुनरयं मोक्षः। आत्यन्तिकी दुःखनिवृत्तिरात्मनः। किमात्यन्तिकत्वम्। तज्जातीयात्यन्ताभावविशिष्टत्वम्। तेषामभावः कथम्। कारणमात्रोच्छेदात्। अपुरुषार्थेऽयमिति चेत्, न, असत्यस्याकाम्यस्याशक्यस्य दुरन्तस्य तथा भावात्। न त्वयं तथा। सत्योऽयम् प्रमाणासिद्धत्वात् सर्वैरभ्युपगमात्। काम्यश्च, दुःखस्य स्वभावहेयत्वात्। सुखार्थं तद्धानमिति चेत्, न, अतद्धेतुत्वात्। व्याप्तेरिति चेत्, न असिद्धेः। न हि दुःखाभावः सुखेन व्याप्यत इति। सुखं तावत्तेन व्याप्यत इति चेत्, तर्हि सुखे सत्यवश्यं दुःखाभावो भवेदिति सुखप्रार्थनेति विपरीतापत्तिः। नावेद्यत्वादसौ काम्य इति चेत्, न, दुःखार्तानां तदभाववेदनमनभिसन्धायैव तजिहासादर्शनात्। कथमन्यथा देहमपि जह्यः। अविवेकिनस्त इति चेत्, किमत्र विवेकेन? इष्यमाणतामात्रानुबन्धित्वात् पुरुषार्थत्वस्य, गम्यागम्ययोः कामवत्। बहुतरानर्थप्रसक्तिशङ्कया शास्त्रमनुकूलयन्तस्त इतरेभ्यो भिद्यन्ते? अपि चैवं कण्टकादिजन्यदुःखनिवृत्तिरपि पुरुषार्थो न स्यात्, अवेद्यत्वात्। प्रथमं विद्यते तावदसाविति चेत्, तुल्यं मोक्षेऽपि। नाध्यक्षेणेति चेत्, तर्हि दुरितक्षयकामस्य कर्मानुष्ठानानर्थक्यप्रसङ्गः, तदभावतत्फलाभावयोरप्यनध्यक्षत्वात्। उपलब्धियोग्यतापन्नानिष्टनिवृत्तिरूपत्वादयमदोष इति चेत्, तुल्यम्। दुःखवत् सुखस्याप्युच्छेदादकाम्योऽयमिति चेत्, न, तृष्णया दोषतिरस्कारेण प्रवृत्तिवदलंप्रत्ययेन गुणतिरस्कारान्निवृत्तेरपि दर्शनात्। मधुविषसंपृक्तमन्नमत्रोदाहरणम्। सन्ति च केचनालंप्रत्ययवन्तः। न च समत्वम्, दुःखस्यैव प्राचुर्यात्, दुःखे सुखहेत्वननुषङ्गेऽपि सुखे दुःखहेत्वनुषङ्गनियमात्। तथाहि न्यायोपार्जितेष्वेव विषयेषु कियती सुखखद्योतिका कियन्ति चार्जनरक्षणादिभिर्दुःखदुर्दिनानि। अन्यायोपार्जितेषु यद् भविष्यति तन्मनसापि चिन्तयितुमशक्यम्।विदाङ्कुर्वन्तु चसन्तो यदि कण्टकादिजन्येषुदुःखेषुलेशतोऽपि सुखानुषङ्गः। अस्ति च स्वर्गादिसुखेष्वपि बहुलो दुःखशल्यसम्भेदः। अत एव विविच्य भुज्यतां तुषतण्डुलवदित्यशक्यमिति। शक्यश्चायं, निवर्त्यत्वात्। स्वतन्त्रश्च, अपरावृत्तेरनर्थवासनानुकूलाभिसन्धित्वाच्चेति।
Page #120
--------------------------------------------------------------------------
________________ 100 गद्यसंग्रहः नित्यं तु सुखं न सत्यम्, योग्यानुपलम्भबाधितत्वात्। श्रुतिस्तत्र मानमिति चेत्, न, योग्यानुपलब्धिबाधिते तदनवकाशात् अवकाशे वा ग्रावप्लवनश्रुतेरपि तथाभावप्रसङ्गात्। नापि काम्यं, सदातनत्वात्। न हि यद् यस्यास्ति स तत्कामयते। भ्रान्तेरेवम्, कण्ठस्थचामीकरवदिति चेत्, न स्वसंवेद्ये तदभावात्। नापि शक्यम्, न हि तन्निवर्यं नित्यत्वात्। नापि विकार्यम्, अपरिणामित्वात्। नापि संस्कार्यम्, अनाधेयातिशयत्वात्। न प्राप्यम्, नित्यसम्बन्धकत्वात्। न ज्ञेयम्, ज्ञानस्यापि नित्यत्वात्। अनित्यत्वे वा शरीरादिकाराणापाये - तदनुत्पतेः। उत्पत्तौ वा तेषामकारणत्वप्रसङ्गात्। तथा च सर्वः सर्वदर्शी स्यात्, आत्ममनः संयोगादेः सर्वत्राविशेषात्। ज्ञानज्ञेययोर्नित्यत्वेऽपि तत्सम्बन्धो जन्यते,सच षट्पदार्थव्यतिरेकादुत्पन्नोऽपि न निवर्तते ध्वंसवदिति चेत्, न, भावाभावयोः प्रकारान्तराभावात्। तत्रस नाभावः,प्रतियोग्यनुपपत्तेः। भावत्वेत्ववश्यमुत्पन्नो निवर्तेत,उपाध्यन्तराभावात्। अविद्याविध्वंसनमेव तत्प्राप्तिरिति चेत्, अत्र न नो विवादः / न ह्येकविंशतिप्रभेदभिन्नदुःखव्यतिरिक्ता अविद्या नाम / तद्विध्वंसनञ्च पुरुषार्थ इति प्रतिपादनादिति। दुरन्तं च तत्, तदभिसन्धेः सुखसंस्कारसहकारितया तदुद्भवे विशिष्टसुखाभिलाषिणो वैषयिकेऽपि प्रवृत्तिसंभवात्। 'अलाभेमत्तकाशिन्या दृष्टा तिर्यक्षु कामिता' इत्युदाहरणादिति। स्यादेतत्, आत्मा तु किं स्वप्रकाशसुखस्वभावोऽन्यथा वेति पृच्छामः। श्राद्धोऽसि चेदुपनिषदः पृच्छ। मध्यस्थोऽसि चेत्, अनुभवं पृच्छ। नैयायिकोऽसि चेत्, न वैषयिकसुखज्ञानस्वभाव इति विनश्चिनुयाः।
Page #121
--------------------------------------------------------------------------
________________ 101 न्यायमञ्जरीतः पुरुषार्थकामैः शास्त्रस्यैव शरणं ग्राह्यम् इह प्रेक्षापूर्वककारिणः पुरुषार्थसम्पदमभिवाञ्छन्तः तत्साधनाधिगमोपायमन्तरेण तदवाप्तिममन्यमानास्तदुपायावगतनिमित्तमेव प्रथममन्वेषन्ते,दृष्टादृष्टभेदेन च तद्विविधः पुरुषार्थस्य पन्थाः तस्य दृष्टे विषये रुचिः प्ररूढवृद्धव्यवहारसिद्धान्वय-व्यतिरेकाधिगतसाधनभावे भोजनादावनपेक्षितशास्त्रस्यैव भवति प्रवृत्तिः, न हि मलिनः स्नायात्, बुभुक्षितो वाऽश्नीयादिति शास्त्रमुपयुज्यते, अदृष्टे तु स्वर्गापवर्गमात्रे नैसर्गिकमोहान्धतमसविलुप्तालोकस्यलोकस्य शास्त्रमेव प्रकाशः, तदेव सकल-सदुपायदर्शने दिव्यं चक्षुरस्मदादेर्न योगिनामिव योगसमाधिजज्ञानाद्युपायान्तरमपीति तस्मादस्मदादेः शास्त्रमेवाधिगन्तव्यम्। चतुर्दश विद्यास्थानानि :विद्यास्थानेषु मुख्यानां वेदानां प्रामाण्यप्रतिष्ठापकतया अक्षपादस्य न्यायशास्त्रमेव विद्यास्थानानां प्राणप्रदम् तच्च चतुर्दशविधं यानि विद्वांसश्चतुर्दशविद्यास्थानान्याचक्षते, तत्र वेदाश्चत्वारः प्रथमोऽथर्ववेदः द्वितीय ऋग्वेदः तृतीयो यजुर्वेदः चतुर्थःसामवेदः, एते चत्वारो वेदाः साक्षादेव पुरुषार्थसाधनोपदेशस्वभावाः अग्निहोत्रं जुहुयात्स्वर्गकामः आत्मा ज्ञातव्य इत्यादिश्रुतेः, स्मृतिशास्त्रमपि मन्वाद्युपनिबद्धमष्टकाशिखाकर्मप्रपाप्रवर्तनादिपुरुषार्थसाधनोपदेश्येव दृश्यते ,अश्रूयमाणफलानामपि कर्मणां फलवत्ता विधिवृत्तपरीक्षायां वक्ष्यते, सर्वो हि शास्त्रार्थः पुरुषार्थपर्यवसायी न स्वरूपनिष्ठ इति, इतिहासपुराणाभ्यामपि उपाख्यानादिवर्णनेन वैदिक एवार्थः प्रायेण प्रतन्यते, यथोक्तम् - इतिहासपुराणाभ्यां वेदं समुपद्व्हयेत् / बिभेत्यल्पश्रुताद्वेदो मामयं प्रतरिष्यतीति // तदेवं वेदपुराणधर्मशास्त्राणां स्वत एव पुरुषार्थसाधनोपदेशस्वभावत्वाद्विद्यास्थानत्वम्, अङ्गानि व्याकरणज्योति:शिक्षाकल्पच्छन्दोनिरुक्तानि वेदार्थोपयोगिपदादिव्युत्पादनद्वारेण विद्यास्थानत्वं प्रतिपद्यन्ते, तेषामङ्गसमाख्यैव
Page #122
--------------------------------------------------------------------------
________________ 102 गद्यसंग्रहः तदनुगामितां प्रकटयति, विचारमन्तरेणा-व्यवस्थितवेदवाक्यार्थानवधारणान्मीमांसा वेदवाक्यार्थविचारात्मिका वेदाकरस्येतिकर्तव्यतारूपमनुबिभर्तीति विद्यास्थानतां प्रतिपद्यते, तथा च भट्टः धर्मे प्रमीयमाणे तु वेदेन करणात्मना / इतिकर्तव्यताभागं मीमांसा पूरयिष्यति // अतएव सप्तममङ्गमिति न गण्यते मीमांसा प्रत्यासन्नत्वेन वेदैकदेशभूतत्वात्, विचारसहायो हि शब्दःस्वार्थ निरकाझं प्रबोधयितुं क्षमः, न्यायविस्तरस्तु मूलस्तम्भभूतः सर्वविद्यानां वेदप्रामाण्यहेतुत्वात्, वेदेषु हि तार्किकरचितकुतर्कविप्लावितप्रामाण्येषु शिथिलितास्थाः कथमिव बहुवित्तव्ययायासादिसाध्यं वेदार्थानुष्ठानमाद्रियेरन् साधवः, किं वा तदानीं स्वामिनि परिम्नाने तदनुयायिना मीमांसादिविद्यास्थानपरिजनेन कृत्यमिति, तस्मादशेषदुष्टतार्किकोपमर्दद्वारकदृढतरवेदप्रामाण्यप्रत्ययाधायिन्यायोपदेशक्षममक्षपादोपदिष्टमिदंन्यायविस्तराख्यंशास्त्रं प्रतिष्ठाननिबन्धनमिति परं विद्यास्थानम् / ननु वेदप्रामाण्यनिर्णयप्रयोजनश्चेन्न्यायविस्तरः कृतमनेन मीमांसात एव तत्सिद्धः, तत्र ार्थविचारवत्प्रामाण्यविचारोऽपि कृत एव, सत्यम्, स त्वानुषङ्गिकः तत्र मुख्यस्त्वर्थविचार एव, पृथक्प्रस्थाना हीमा विद्याः सा च वाक्यार्थविद्या न प्रमाणविद्येति, न च मीमांसकाः सम्यग् वेदप्रामाण्यरक्षणक्षमां सरणिमवलोकयितुं कुशलाः कुर्तककण्टकनिकरनिरुद्धसञ्चरमार्गाभासपरिभ्रान्ताः खलु ते इति वक्ष्यामः, न हि प्रामाणान्तरसम्वाददायमन्तरेण प्रत्यक्षादीन्यपि प्रमाणभावं भजन्ते किमुत तदधीनवृत्तिरेष शब्दः, शब्दस्य हि समयोपकृतस्य बोधकत्वमात्रं स्वाधीनमर्थ-तथात्वेतरत्वपरिनिश्चये तु पुरुषमुखप्रेक्षित्वमस्यापरिहार्यम्, तस्मादाप्तोक्तत्वादेव शब्दः प्रमाणीभवति नान्यथेत्येतच्चास्मिन्नेव शास्त्रे व्युत्पादयिष्यते। नन्वक्षपादात्पूर्वं कुतो वेदप्रामाण्यनिश्चय आसीत्, अत्यल्पमिदमुच्यते, जैमिनेः पूर्वं केन वेदार्थो व्याख्यातः, पाणिनेः पूर्वं केन पदानि व्युत्पादितानि, पिङ्गलात्पूर्वं केनच्छन्दांसि रचितानि, आदिसर्गात्प्रभृति वेदवदिमा विद्याः प्रवृत्ताः, संक्षेपविस्तरविवक्षया तु तांस्तांस्तत्र कर्तनाचक्षते।
Page #123
--------------------------------------------------------------------------
________________ न्यायमञ्जरीतः 103 पद वाक्य-स्वरूप-निरूपण सन्दर्भ स्फोटविषयकविस्तृतिपूर्वकं स्फोटसिद्धान्तस्य तत्प्रतिकुलमालोचनम् | किं पुनरिदं पदं नाम किं च वाक्यमिति, उक्तमत्रवर्णसमूहः पदं पदसमूहो वाक्यमिति। नन्वेतदेव न क्षमन्ते न हि वर्णानां समूहः कश्चिदस्ति वास्तवः, तेन कुतस्तत्समूहः पदं भविष्यति, तदभावाच्च नेतरां पदसमूहो वाक्यमवकल्पते, न च वर्णानां व्यस्तसमस्तविकल्पोपहतत्वेन वाचकत्वमुपपद्यते तस्मादन्य एव स्फोटात्मा शब्दोऽर्थप्रतिपादक इति प्रतिजानीते। नन्वेवमस्तु स्फोटोऽन्य एवार्थप्रतिपादको भवतु का क्षतिर्नैयायिकानाम्, कथं न क्षतिः आप्तप्रणीतत्वेन हि शब्दस्य प्रामाण्यम् तैरुक्तम्, स्फोटस्य च नित्यत्वेन न आप्तप्रणीतत्वमतश्च यस्यानित्यत्वं वर्णात्मनः शब्दस्य साधितं नासावर्थप्रतीतिहेतुरतो न प्रमाणम्, यश्चार्थप्रतीतिहेतुः स्फोटात्मा शब्दस्तस्य नानित्यत्वं न चाप्तप्रणीतत्वमित्यस्थाने नैयायिकाः क्लिष्टा भवेयुः, तस्मादनित्यानां वर्णानामेव वाचकत्वं प्रतिष्ठापनीयं पराकरणीयश्च स्फोट इति। तदुच्यते, गकारादिवर्णावगमे सत्यर्थप्रतीतेर्भावात्तदभावे चाभावात्तेषामेवार्थप्रत्यायनसामर्थ्यम्, ते एव च श्रवणकरणकावगमगोचरतया शब्दव्यपदेशभाज इति न प्रतीत्यनुपारूढः स्फोटो नाम शब्दः कश्चित्प्रत्यक्षानुमानातीतः परिकल्पनीयः। वर्णानामर्थबोधकत्वस्य निराकरणम्: आह कथमेवं भविष्यति दूरापेता इमे मनोरथाः, कुतो वर्णानामर्थप्रत्यायकत्वं ते हि वर्णा गकारादयोऽर्थं प्रतिपादयन्तः समस्ताः प्रतिपादयेयुः व्यस्ता वा, न तावदव्यस्ताः एकैकवर्णाकर्णने सत्यप्यर्थप्रतीतेरनुत्पादात्, सामस्त्यं वर्णानां नास्त्येव, तद्धि सत्तामात्रेण वा स्यात्प्रतीयमानत्वेन वा, नैयायिकपक्षे तावत्सत्तया योगपद्यमविद्यमानम् आशुविनाशितः शब्दस्य दर्शितत्वात्। अथापि मीमांसकमतेन नित्यः शब्द इष्यते, तत्रापि सत्तया यौगपद्यस्य सकलवर्णसाधारणत्वात्केन वर्णसमुदायेन कोऽर्थः प्रत्याय्येतेति नावधार्यते।
Page #124
--------------------------------------------------------------------------
________________ 104 गद्यसंग्रहः __ अथोच्यते न चक्षुरादीनामिव वर्णानां कारकत्वं येनागृहीतानामेव सतां यौगपद्यमात्रमर्थप्रत्ययनाङ्गं स्यात्, ज्ञापकत्वात्तेषां गृहीतानां सतां धूमादिवत्प्रत्यायकत्वमिति प्रतीतावेव सामस्त्यमुपयुज्यते इति। एतदप्यघटमानम्, प्रतीतिसामस्त्यं हि किमेकवक्तृप्रयुक्तानां वर्णानामुत नानापुरुषभाषितानाम्, तत्रानेकपुरुषभाषितानां कोलाहलस्वभावत्वेन स्वरूपभेद एव दुरवगम इति कस्य सामस्त्यमसामस्त्यं वा चिन्त्येत, सत्यपि वा तथाविधे सामस्त्ये नास्त्येवार्थप्रतीतिः, एकवक्तृप्रयुक्तानां तु प्रयत्नस्थानकरणक्रमापरित्यागादवश्यम्भावी क्रमः, क्रमे च सत्येकैकवर्णकरणिकार्थप्रतीतिः प्राप्नोति, न चासौ दृश्यते इति व्यस्तसमस्तविकल्पानुपपत्तेर्न वर्णा वाचकाः, वर्णविषया अपि बुद्ध्यस्तथैव विकल्पनीयाः, ता अपि न युगपत्सम्भवन्ति क्रमे च सत्येकैकवर्णबुद्धेरर्थसम्प्रत्ययः प्रसज्यते इति।। यदप्युच्यते पूर्वपूर्ववर्णजनितसंस्कारसहितोऽन्त्यवर्णः प्रत्यायक इति तदप्ययुक्तम्, संस्कारो हि नाम यदनुभवजनितस्तद्विषयमेव स्मरणमुपजनयति न पुनरर्थान्तरविषयं ज्ञानमिति, स्मृतिद्वारेण तीर्थप्रत्यायकोऽसौ भविष्यतीति चेत् एतदपि नास्ति, ज्ञानयोगपद्यप्रसङ्गादन्त्यवर्णज्ञानानन्तरं हि पूर्ववर्णस्मरणमिव समयस्मरणमपि तदैवापतति ततश्च ज्ञानयोगपद्यम्, न च क्रमोत्पादे किञ्चित्का णमुत्पश्यामः, अथापि तेन क्रमेण भवेतां तथाऽपि तदानीमन्त्यवर्णज्ञ नमुपरतमिति कस्य साहायकं पूर्ववर्णस्मृतिर्विदधातीति, एतच्चानेकपूर्ववर्णविषयामेकां स्मृतिमभ्युपगम्योक्तं न पुनरेका सर्ववर्णगोचरा स्मृतिः, कुतः भिन्नोपलम्भसंभूतवासनाभेदनिर्मिताः / भवेयुः स्मृतयो भिन्ना न त्वेकाऽनेकगोचरा // अथ वदेत्संकलनाज्ञानमेकं सदसद्वर्णगोचरं भविष्यति, तदुपारूढाश्च वर्णा अर्थ प्रत्याययिष्यन्तीति तदपि दुराशामात्रम्, तथाविधज्ञानोत्पत्तौ कारणाभावात्, न चेन्द्रियमतीतवर्णग्रहणसमर्थं न संस्कारो वर्तमानग्राही भवति, न च युगपदिन्द्रियं संस्कारश्चेमां बुद्धिं जनयतः संस्कारस्य सहचरदर्शनाद्याहितप्रबोधस्य सतः स्मरणमात्रजन्मनि नितिसामर्थ्यस्येन्द्रियेण व्यापाराभावात्, तस्मान्न वर्णा वाचकाः।
Page #125
--------------------------------------------------------------------------
________________ न्यायमञ्जरीतः 105 अतश्चैवंयदि ते वाचका भवेयुर्विपरीतक्रमप्रयुक्ता अप्यर्थं गमयेयुःक्रमश्चेदपेक्ष्यते स व्यतिरिक्ताव्यतिरिक्ततया चिन्तनीयः, अव्यतिरेके ते एव ते वर्णा इति कथं नबोधका:व्यतिरेकेतु किमप्यधिकंवाचकमभ्युपगतं भवतीति मत्पक्षमाजिगमिषति भवान्। ननु व्युत्पत्तिवशेन शब्दोऽर्थप्रत्यायकतामुपयाति व्युत्पत्तौ च यावन्तो यत्क्रमका वर्णा यमर्थमभिवदन्तो दृष्टास्ते तावन्तस्तत्क्रमकास्तमर्थमभिवदिष्यन्तीति किं विकल्पमालया, तदुक्तम् - यावन्तो यादृशा ये च यदर्थप्रतिपादने। वर्णाः प्रज्ञातसामर्थ्यास्ते तथैवावबोधका // इति तदुच्यते, व्युत्पत्तिरेवेयं विचारणीया वर्तते, परावगतिपूर्विका हि शब्दव्युत्पत्तिः। परावगतौ च के कियन्तः कथं कमर्थं प्रतिपादयन्तोऽनेन दृष्टा येभ्यः तथैव तमर्थं प्रतीयादिति दुरधिगमा हि वर्णवर्तनी / यावन्तो यादृशा ये चेत्येवं तावत्प्रभाषसे / कियन्तः कीदृशाः के चेत्येवं यावन्न पृच्छ्यसे // अनुमानेन स्फोटस्य साधनम् - तस्मात्सर्वप्रकारमवाचका वर्णाः, अस्ति चेयं शब्दादुच्चारितात्तदर्थावगतिर्न चेयमकरणिकैव भवितुमर्हति तदस्याः करणं स्फोट इति, कार्यानुमानमिदमस्तु परिशेषानुमानंवा अर्थापत्तिर्वा सर्वथाऽर्थप्रतीतिलक्षणकार्यवशात्कल्प्यमानंतत्करणं स्फोट इत्युच्यते स च निरवयवो नित्य एको निष्क्रमक इति न वर्णपक्षक्षपणदक्षदूषणपात्रतां प्रतिपद्यते, अतश्च स्फोटोऽर्थप्रतिपादकः। अपि च तार्किकाणामनुमानप्रियत्वात्तत्परितोषायेदमनुमानमभ्यधायि न परमार्थतः, परमार्थतस्तु श्रोत्रे प्रत्यये प्रतिभासमानः प्रत्यक्ष एव स्फोटः। __ आह किमिदमपूवं तस्कराचरितं वर्तते, वर्णाः प्रत्यक्षमुपलभ्यमाना अपि दुर्भगा न प्रत्यक्षाः, स्फोटः पुनरनवभासमानोऽपि सुभगः प्रत्यक्ष इति। उच्यते न ब्रूमः वर्णा न प्रत्यक्षा इति ते पुनरसन्तोऽपि उपाधिवशाद्वदनदैर्ध्यादिवदवभासन्ते, शब्दस्त्वेको निरवयवः प्रतीयते, तथा च पदमिति वाक्यमित्येकाकारप्रतीतिरस्ति, न च भिन्ना वर्णास्तस्यामालम्बनीभवन्ति, न हि सामान्यप्रत्ययो व्यक्त्याल्बनोऽवयविप्रत्ययो वाऽवयवालम्बनः, न च
Page #126
--------------------------------------------------------------------------
________________ 106 गद्यसंग्रहः सेनावनादिबुद्धिवदयथार्था पदवाक्यबुद्धिः बाधकाभावात्, एकार्थप्रत्यायकत्वोपाधिकृतेयमेकाकारा बुद्धिरिति चेदेकार्थप्रतीतिरिदानी कुतस्त्या, पदवाक्यप्रतीतिपूर्विका हि पदार्थवाक्यार्थप्रतीतिः, पदार्थवाक्यार्थप्रतीत्याख्यकार्यै क्याच्च पदवाक्यबुद्धिरेकाकारेति दुरुत्तरमितरेतराश्रयत्वम्, औपाधिकत्वं च सामान्यावयविबुद्धरपि सुवचम्, बाधसन्देहरहित प्रतीतिदाढ्यात्तत्रपरिहार इति चेत्तदितरत्रापि समानम् तस्मात्पदबुद्धेः पदस्फोटो वाक्यबद्धेश्च वाक्यस्फोटो विषय इति प्रत्यक्ष एव स्फोटः, तत्र पदस्फोटात्पदार्थप्रतिपत्तिः वाक्यस्फोटाच्च वाक्यार्थप्रतिपत्तिः। वाक्यस्फोटसाधनम्: आह यदि निरवयवः स्फोटात्मा शब्दो भवति, वाक्यमपि शब्द एव तस्य पदात्मकास्त्ववयवा मा भूवन्, तस्य चेत्पदात्मानोऽवयवा भवन्ति पदस्यापि तर्हि वर्णात्मानोऽवयवा भवन्तु। उच्यते किञ्चिदुष्ठसितमेव मे हृदयम्, मन्ये भविष्यत्यायुष्मतो विवेकालोको बोध्यमानो भोत्स्यसे किंचित्, ध्वन्युपाधिभेदप्रवृत्तवर्णभेदावभासविप्रलब्धबुद्धिं भवद्विधं बोधयितुं पदस्फोट एव निरवयवोऽस्माभिर्दर्शितः, परमार्थतस्तु पदस्फोटो वाक्यावयवभूतो नास्त्येव, निरवयवमेव वाक्यं निरवयवस्यैव वाक्यार्थस्य बोधकम्, यथा पदस्यावयवा न सन्ति तथा वाक्यस्यावयवाः पदानीति, तथा चाहुः वाक्ये पदानामसत्त्वादसत्त्वं तदर्थे पदार्थानां निरवयवो वाक्यवाक्यार्थो इति अवयवकल्पनायां हि यथा वाक्यस्यावयवाः पदानि पदानामवयवा वर्णा एवं वर्णानामप्यवयवैर्भवितव्यं तदवयवानामप्यवयवान्तरैरित्यानन्त्यात्काव्यवस्था स्यात्, वर्णान्प्राप्यतु यद्यवयवकल्पनातो विरन्तव्यं तद्वाक्ये एव विरम्यताम्, एकघटनाकारा हि वाक्यार्थबुद्धिस्तथाविधादेव वाक्यादुत्पत्तुमर्हति, वृद्धव्यवहारादि शब्दार्थ व्युत्पद्यन्ते व्यवहर्तारः तत्रास्य पदस्य प्रयोग एव न केवलस्य दृश्यते व्यवहारानङ्गत्वात् वाक्यं तु प्रयोगार्ह मिति तत्रैव व्युत्पत्तिः, तत एवार्थसम्प्रत्ययः,अवयवप्रतिभासस्तु भ्रममात्रमर्थोऽपिवाक्यस्यैक एव नरसिंहाकारः, जात्यन्तरं हि नरसिंहो नाम तत्र न नरार्थो नापि सिंहार्थः। एवं पदार्थेभ्योऽन्य एव वाक्यार्थः पानकादिवत् यथा पानकं शर्करानागकेशरमरिचादिभ्योऽर्थान्तरमेव, यथा च सिन्दूरहरिताललाक्षादिभ्यऽर्थान्तरमेव
Page #127
--------------------------------------------------------------------------
________________ न्यायमञ्जरीतः _107 चित्रम्, यथा वा षड्जर्षभगान्धारधैवतादिभ्योऽर्थान्तरमेव ग्रामरागः तथा पदेभ्यो वाक्यं पदार्थेभ्यो वाक्यार्थः। स्फोटस्य ब्रह्मरूपत्वम्: ननु यथा पदेषु वर्णा न सन्ति, वाक्येषु पदानि न सन्ति, तथा महावाक्येष्ववान्तरवाक्यान्यपि न स्युः ततः किं महावाक्यान्यपि प्रकरणापेक्षया न तात्त्विकानि स्युः ततः किं प्रकरणान्यपि शास्त्रापेक्षया न स्युः ततोऽपि किम् एकमेवेदं शास्त्रतत्त्वम् अविभागमद्वयमापतति। उच्यते यदि तत्त्वं पृच्छसि बुद्ध्यसे वा साधो शब्दब्रह्मवेदमद्वयमनासविद्यावासनोपप्लवमानभेदमर्थभावेन विवर्तते न तु वाचकाद्विभक्तं वाच्यमपि नाम किं चिदस्ति, तस्मात्काल्पनिक एव वाच्यवाचकविभागोऽयमविद्यैव विद्योपाय इत्याश्रीयते, वाग्रूपता तत्त्वम् सर्वत्र प्रत्यये तदनपायात्, यथोक्तम्। वाग्रूपता चेदुत्क्रामेदवबोधस्य शाश्वति / न प्रकाशः प्रकाशेत सा हि प्रत्यवमर्शिनीति // सा चेयं वाक् त्रैविध्येन व्यवस्थितैवावभासते वैखरी मध्यमा पश्यन्तीति, तत्रेयं स्थानकरणप्रयत्नकमव्यज्यमानगकारादिवर्णसमुदायात्मिका या वाक् सा वैखरीत्युच्यते, विखर इति देहेन्द्रियसंघात उच्यते, तत्र भवा - वैखरी तदुक्तम् स्थानेषु विव्रते वायौ कृतवर्णपरिग्रहा। वैखरी वाक् प्रयोक्तृणां प्राणवृत्तिनिबन्धनेति // या पुनरन्तः संकल्प्यमानक्रमवती श्रोत्रग्राह्यवर्णरूपाऽभिव्यक्तिरहिता वाक्या मध्यमोच्यते, तदुक्तम् - केवलं बुद्ध्युपादाना क्रमरूपानुपातिनी। प्राणवृत्तिमतिक्रम्य मध्यमा वाक् प्रवर्तते // इति // या तु ग्राह्यभेदक्रमादिरहिता स्वप्रकाशसंविद्रूपा वाक्या पश्यन्तीत्युच्यते, तदुक्तम् अविभागात्तु पश्यन्ती सर्वतः संहृतक्रमा। स्वरूपज्योतिरेवान्तः सूक्ष्मा वागनपायिनीति //
Page #128
--------------------------------------------------------------------------
________________ 108 गद्यसंग्रहः तदलमतिप्रसक्तानुप्रसक्त्या, द्राधीयती चर्चेयम् प्रकृतान्तरायकरिणीति न प्रतन्यते, इह त्वेतावतैव पुनः प्रयोजनम् वर्णपदपूर्वको व्यवहारो न भवतीति वाक्येन लोके व्यवहारात्तस्य चावयवावयविव्यवस्थानुपपत्तेर्निर्भागमेव तद्वाचकं निर्भागश्च तस्य वाच्योऽर्थइति, अवान्तरवाक्यमपि प्रयोगयोग्य व्यवहारकारणमिति तन्न निहते अविद्यावस्थेयं वर्तते, तत्रेयं व्यवहारवर्तनी यथादृश्यमानैवास्तु, विद्यायां सर्वमेवेदमसारमिति, पदेन वर्णेन वा व्यवहाराभावात्तस्य केवलस्याप्रयोगत्तत्स्वरूपमस्यामपि दशायां न वास्तवमिष्यते इति। तस्मादेकः क्रमविरहितः कल्पितासद्विभागो वाक्यस्फोटो जनयति मतिं तादृशीं स्वाभिधेये / वर्णास्त्वेते प्रकृतिलघवः कल्पनैकप्रतिष्ठाः तस्मिन्नर्थे विदधति धियं नेत्यलं तत्कथाभिः॥ स्फोटनिराकरणोपक्रमः अत्राभिधीयते, किमयमनुमानमहिम्ना स्फोटाऽभ्युपगमः प्रत्यक्षप्रतीतिबलवत्तया वा, न तावदनुमानतः स्फोटस्वरूपमुपपादयितुं पार्यते परिदृश्यमानविशिष्टानुपूर्वीकवर्णकलापकरणेनार्थप्रतीतेर्घटमानत्वात्। वर्णानां वाचकत्वस्य समर्थनम् : ननु व्यस्तसमस्तादिविकल्पैरुत्सादितं वर्णानां वाचकत्वम्, नैतद् दुर्विकल्पास्ते व्यस्तानां तावद्वाचकत्वं नेष्यते वर्णानां समस्ता एव ते वाचकाः। __ यत्तु तत्सामस्त्यं नास्ति क्रमभावित्वादिति तदसत्, क्रमभाविनापि समस्तानां कार्यकारिणामनेकशो दर्शनात्, यथा युगपद्भाविनःसमास्त्रयो ग्रावाण: एकामुखां घारयन्तो दृश्यन्ते तथा क्रमभाविनोऽपि समस्ता ग्रासा एकां तृप्तिमुत्पादयन्तो दृश्यन्ते, एकस्मिन्नपि हि ग्रासे हीयमाने न भवति तादृशी तृप्ति: अतः समस्ता एव ते ग्रासाः तृप्तेः कारणम्, न च समस्ता अपि ते ग्रासाः युगपत्प्रयोक्तुं शक्याः तथैकानुवाकग्रहणे संस्थानां क्रमभाविनीनामपि सामस्त्ये सति सामर्थ्यमेकया संस्थया विना तदामुखीकरणासम्भवात् एवं तावल्लोके सामस्त्यं क्रमधाविनां दृष्टम्, वेदेऽपि दर्शपूर्णमासाभ्यामितीतरेतरयोगशंसिना द्वन्द्वेन समर्पितसाहित्यानामानेयादियागानां पक्षद्वये प्रयोज्यत्वेन चापरिहार्यक्रमाणामेकाधिकारसम्पादकत्वं दृष्टम्, तथा ऐन्द्रवायवं गृह्णाति, आश्विनं गृह्णाति इति
Page #129
--------------------------------------------------------------------------
________________ न्यायमञ्जरीतः 109 सोमग्रहणाभ्यासानां समस्तानां क्रमभाविनां चैकप्रधाननिर्वर्तकत्वं दृष्टमित्यतश्च नायं विरोधः सामस्त्यं च क्रमभावित्वं चेति, एवं क्रमवर्तिनोऽपि वर्णा एवार्थाभिधायिनो भविष्यन्ति। वाक्यार्थबोधोपपादनम् :__ आह यदीमाः सर्वा एव तान्त्रिकरचिताः कल्पना न साधीयस्यश्चेदात्मीया काचन निर्दोषा साध्वी कल्पना निवेद्यताम्, उच्यते न वयमात्मीयामभिनवां कामपि कल्पनामुत्पादयितुं क्षमाः न हीयं कविभिः पूर्वेरदृष्टं सूक्ष्मदर्शिभिः / शक्ता तृणमपि द्रष्टुं मतिर्मम तपस्विनी // कस्तर्हि विद्वन्मतितर्कणीयग्रन्थोपबन्धे तव दोहदोऽयम् / न दोहदः पर्यनुयोगभूमिः परोपदेशश्च न तस्य शान्तिः // राज्ञा तु गहरेऽस्मिन्नशब्दके बन्धने विनिहतोऽहम् / ग्रन्थरचनाविनोदादिह हि मया वासरा गमिताः // तथापि वक्तव्यं कथं वर्णेभ्यो वाक्यार्थप्रतीतिरिति, उच्यते, चिरातिक्रान्तत्वमचिरातिक्रान्तत्वं वा न स्मृतिकारणं संस्कारकरणकं हि स्मरणं भवति तच्च सद्यःप्रलीने चिरप्रलीने वा न विशिष्यते इत्येवं पूर्वेषां पदानां चिरतिरोहितानामपि व्यवहितोच्चारितानामपि संस्कारात्स्मरणं भविष्यति अन्त्यपदस्यानुभूयमानत्वोपगमे ज्ञानयोगपद्यादिप्रमादप्रसङ्ग इति वरमन्त्यपदमपि स्मर्यमाणमस्तु, स्मृत्यारूढान्येव सर्वपदानि वाक्यार्थमवगमयिष्यन्ति, तत्र चेयं कल्पना वर्णक्रमेण तावत्प्रथमपदज्ञानं ततः संकेतस्मरणं संस्कारश्च युगपद्भवतः, ज्ञानयोहि यौगपद्यं शास्त्रे प्रतिषिद्धं न संस्कारज्ञानयोः, ततः पदार्थज्ञानं तेनापि संस्कारः पुर्ववर्णक्रमेण द्वितीयपदज्ञानं ततः संकेतस्मरणं पूर्वसंस्कारसहितेन च तेन पटुतरः संस्कारः पुनः पूर्ववर्णक्रमेण तृतीयपदज्ञानं संकेतस्मरणं पूर्वसंस्कारापेक्षः पटुतरः संस्कार इत्येवं पदज्ञानजनिते पीवरे संस्कारे पदार्थज्ञानजनिते च तादृशि संस्कारे स्थितेऽन्त्यपदार्थज्ञानानन्तरं पदसंस्कारात्सर्वपदविषयस्मृतिः पदार्थसंस्काराच्च पदार्थविषया स्मृतिरिति संस्कार क्रमात्क्रमेण द्वे स्मृती भवतः, तत्रैकस्यां स्मृतावुपारूढः पदसमूहो वाक्यमितरस्यामुपारूढः पदार्थसमूहो वाक्यार्थः /
Page #130
--------------------------------------------------------------------------
________________ 110 गद्यसंग्रहः ननु स्मृतेरप्रमाणत्वादप्रमाणमिदानी वाक्यार्थप्रतिपत्तिः, मैवम् तथा सम्बन्धग्रहणाद्यत्र ह्यन्यथा सम्बन्धग्रहणमन्यथा च प्रतिपत्तिः तत्रायं दोषः, यथा धूमे गृहीतसम्बन्धे नीहारादहनानुमितो, इह तु क्रमवर्तिनां वर्णानामन्यथा प्रत्ययासम्भवद्यथैव व्युत्पत्तिस्तथैव प्रतीतिरिति न किंचिदवद्यम्, अचिरनिर्वृत्तानुभवसमनन्तरभाविनी च स्मृतिरनुभवायते। अथ वा कृतं स्मरणकल्पनयान्त्यपदार्थज्ञानानन्तरं सकलपदार्थविषयो मानसोऽनुव्यवसायः शतादिप्रत्ययस्थानीयो भविष्यति, तदुपारूढानि पदानि वाक्यं तदुपारूढश्च पदार्थो वाक्यार्थः, तथाविधश्च मानसोऽनुव्यवसायः सकलालोकसाक्षित्वादप्रत्याख्येयः। वैशेषिकदर्शने-प्रशस्तपादभाष्यात् सृष्टिसंहारप्रकरणम् : इहेदानीं चतुर्णा महाभूतानां सृष्टिसंहारविधिरुच्यते / ब्राह्मण मानेन वर्षशतान्ते वर्तमानस्य ब्रह्मणोऽपवर्गकाले संसारखिन्नानां सर्वप्राणिनां निशि विश्रामार्थं सकलभुवनपतेर्महेश्वरस्य संजिहीर्षासमकालं शरीरेन्द्रियमहाभूतोपनिबन्धकानां सर्वात्मगतानामदृष्टानां वृत्तिनिरोधे सति महेश्वरेच्छात्माणुसंयोगजकर्मभ्यः शरीरेन्द्रियकारणाणुविभागेभ्यस्तत्संयोगनिवृत्तौ तेषामापरमाण्वन्तो विनाशः, तथा पृथिव्युदकज्वलनपवनानामपि महाभूतानामनेनैवक्रमेणोत्तरस्मिन्ननुत्तरस्मिन् सति पूर्वस्य पूर्वस्य विनाशः, ततः प्रविभक्ताः परमाणवोऽवतिष्ठन्ते धर्माधर्मसंस्कारानुविद्धा आत्मानस्तावन्तमेव कालम्। ततः पुनः प्राणिनां भोगभूतये महेश्वरसिसृक्षानन्तरं सर्वात्मगतवृत्तिलब्धादृष्टापेक्षेभ्यस्तत्संयोगेभ्यः पवनपरमाणुषु कर्मोत्पत्तौ तेषां परस्परसंयोगेभ्यो व्यणुकादिप्रक्रमेण महान् वायुः समुत्पन्नो नभसि दोधूयमानस्तिष्ठति। तदनन्तरं तस्मिन्नेव वायावप्येभ्यः परमाणुभ्यस्तेनैव क्रमेण महान् सलिलनिधिरुत्पन्नः पोप्लूयमानस्तिष्ठति। ___ तदनन्तरं तस्मिन्नेव पार्थिवेभ्यः परमाणुभ्यो महापृथिवी संहताऽवतिष्ठते। तदनन्तरं तस्मिन्नेव महोदधौ तेजसेभ्योऽणुभ्यो व्यणुकादिप्रक्रमेणोत्पन्नो महाँस्तेजोराशिः केनचिदनभिभूतत्वाद्देदीप्यमानस्तिष्ठति।
Page #131
--------------------------------------------------------------------------
________________ प्रशस्तपादभाष्यात् 111 एवं समुत्पन्नेषु चतुषु महाभूतेषु महेश्वरस्याभिध्यानमात्रात् तैजसेभ्योऽणुभ्यः पार्थिवपरमाणुसहितेभ्यो महदण्डमारभ्यते। तस्मिंश्चतुर्वदनकमलं सर्वलोकपितामहं ब्रह्माणं सकलभुवनसहितमुत्पाद्य प्रजासर्गे विनियुके। स च महेश्वरेण विनियुक्तो ब्रह्माऽतिशयज्ञानवैराग्यैश्वर्यसम्पन्नः प्राणिनां कर्मविपाकं विदित्वा कर्मानुरूपज्ञानभोगायुषः सुतान् प्रजापतीन् मानसान् मनुदेवर्षिपितृगणान् मुखबाहूरूपादतश्चतुरो वर्णानन्यानि चोच्चावचानि च सृष्ट्वाऽऽशयानुरूपैर्धर्मज्ञानवैराग्यैश्वर्यैः संयोजयतीति। आत्मप्रकरणम् : आत्मत्वाभिसम्बन्धादात्मा। तस्य सौक्ष्म्यादप्रत्यक्षत्वे सति करणैः शब्दाधुपलब्ध्यनुमितैः श्रोत्रादिभिः समधिगमः क्रियते,-वास्यादीनां करणानां कर्तृप्रयोज्यत्वदर्शनात्, शब्दादिषु प्रसिद्ध्या च प्रसाधकोऽनुमीयते।। न शरीरेन्द्रिमनसामज्ञत्वात्। न शरीरस्य चैतन्यं घटादिवद्भूतकार्यत्वात् मृते चासम्भवात्। नेन्द्रियाणां करणत्वात्, उपहतेषु विषयासान्निध्ये चानुस्मृतिदर्शनात्। नापि मनसः करणान्तरानपेक्षित्वे युगपदालोचनस्मृतिप्रसङ्गात्, स्वयं करणभावाच्चापरिशेषादात्मकार्यत्वात् तेनात्मा समधिगम्यते ।शरीरसमवायिनीभ्यां चहिताहितप्राप्तिपरिहारयोग्याभ्यां प्रवृत्तिनिवृत्तिभ्यां रथकर्मणा सारथिवत् प्रयत्नवान् विग्रहस्याधिष्ठाताऽनुमीयते, प्राणादिभिश्चेति। कथं? शरीरपरिगृहीते वायौ विकृतकर्मदर्शनाद्भरत्राध्मापयितेव, निमेषोन्मेषकर्मणा नियतेन दारुयन्त्रप्रयोक्तेव, देहस्य वृद्धिक्षतभग्नसंरोहणादिनिमित्तत्वात् गृहपतिरिव, अभिमतविषयग्राहककरणसम्बन्धनिमित्तेन मन:कर्मणा गृहकोणेषु पेलकप्रेरक इव दारकः, नयनविषयालोचनानन्तरं रसानुस्मृतिक्रमेण रसनविक्रियादर्शनादनेकगवाक्षान्तर्गतप्रेक्षकवदुभयदर्शी कश्चिदेको विज्ञायते। सुखदुःखेच्छाद्वेषप्रयत्नैश्च गुणैर्गुण्यनुमीयते। ते च न शरीरेन्द्रियगुणाः, कस्मात्? अहङ्कारेणैकवाक्यताभावात् प्रदेशवृत्तित्वादयावहव्यभावित्वाद् बाह्येन्द्रियाप्रत्यक्षत्वाच्च तथाऽहंशब्देनापि पृथिव्यादिशब्दव्यतिरेकादिति। तस्य गुणाः बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मसंस्कारसंख्यापरिमाणपृथक्त्वसंयोगविभागा। आत्मलिङ्गाधिकारे बुद्ध्यादयः प्रयत्नान्ताः सिद्धाः। धर्माधर्मावात्मान्तरगुणानामकारणत्ववचनात्। संस्कारः स्मृत्युत्पत्तौ कारण
Page #132
--------------------------------------------------------------------------
________________ 112 गद्यसंग्रहः वचनात्। व्यवस्थावचनात् संख्यापृथक्त्वमप्यत एव। तथा चात्मेतिवचनात् परममहत्परिमाणम्। सन्निकर्षजत्वात् सुखादीनां संयोगः। तद्विनाश्कत्वाद्विभाग इति। धर्मलक्षणम् : धर्मः पुरुषगुणः। कर्तुः प्रियहितमोक्षहेतुः अतीन्द्रियोऽन्त्यसुखसंविज्ञानविरोधीपुरुषान्त:करणसंयोगविशुद्धाभिसन्धिजः वर्णाश्रमिणां प्रतिनियतसाधननिमित्तः। तस्य तु साधनानि श्रुतिस्मृतिविहितानि वर्णाश्रमिणां सामान्यविशेषभावेनावस्थितानि द्रव्यगुणकर्माणि। तत्र सामान्यानि-धर्मे श्रद्धा अहिंसा भूतहितत्वं सत्यवचनमस्तेयं ब्रह्मचर्यमनुपधा क्रोधवर्जनमभिषेचनं, शुचिद्रव्यसेवनं विशिष्टदेवताभक्तिरुपवासोऽप्रमादश्च। ब्राह्मणक्षत्रियवैश्यानाभिज्याध्ययनदानानि। ब्राह्मणस्य विशिष्टानि प्रतिग्रहाध्यापनयाजनानि स्ववर्णविहिताश्च संस्काराः। क्षत्रियस्य सम्यक्प्रजापालनमसाधुनिग्रहो युद्धेष्वनिवर्तनं स्वकीयाश्च संस्काराः / वैश्यस्य क्रयविक्रयकृषिपशुपालनानि स्वकीयाश्च संस्काराः। शूद्रस्य पूर्ववर्णपारतन्त्र्यममन्निकाश्च क्रियाः। आश्रमिणां तु ब्रह्मचारिणो गुरुकुलनिवासिनःस्वशास्त्रविहितानि गुरुशुश्रूषाग्नीन्धनभैक्ष्याचरणानि मधुमांसदिवास्वप्नाञ्जनाभ्यञ्जनादिवर्जनं च। विद्याव्रतस्नातकस्य कृतदारस्य गृहस्थस्य शालीनयायावरवृत्त्युपार्जितैरथैर्भूतमनुष्यदेवपितृब्रह्माख्यानां पञ्चानां महायज्ञानां सायम्प्रातरनुष्ठानम् एकाग्निविधानेन पाकयज्ञसंस्थानां च नित्यानां शक्तौ विद्यमानायामग्न्याधेयादीनां च हविर्यसंस्थानामग्निष्टोमादीनां सोमयज्ञसंस्थानांचा ऋत्वन्तरेषु ब्रह्मचर्यमपत्योत्पादनं च। ब्रह्मचारिणो गृहस्थस्य वा ग्रामान्निर्गतस्य वनवासो वल्कलाजिनकेशश्मश्रुनखरोमधारणं च। वन्यहुतातिथिशेषभोजनानि वानप्रस्थस्या त्रयाणामन्यतमस्य श्रद्धावत:सर्वभूतेभ्यो नित्यसमभयं दत्त्वा संन्यस्य स्वानि कर्माणि यमनियमेष्वप्रमत्तस्य षट्पदार्थप्रसंख्यानाद्योगप्रसाधनं प्रव्रजितस्येति। दृष्टं च प्रयोजनमनुद्दिश्यैतानि साधनानि भावप्रसादं चापेक्ष्यात्ममनसोः संयोगाद्धर्मोत्पत्तिरिति। अधर्मप्रकरणम् : अधर्मोऽप्यात्मगुणः। कर्तुरहितप्रत्यवायहेतुरतीन्द्रियोऽन्त्यदुःखसंविज्ञानविरोधी। तस्य तु साधनानि शास्त्रे प्रतिषिद्धानि धर्मसाधनविपरीतानि हिंसानृतस्तेयादीनि
Page #133
--------------------------------------------------------------------------
________________ प्रशस्तपादभाष्यात् 113 विहिताकरणम् प्रमादश्चैतानि दुष्टाभिसन्धिं चापेक्ष्यात्ममनसोः संयोगादधर्मस्योत्पत्तिः। संसारापवर्गप्रकरणम् : अविदुषो रागद्वेषवतः प्रवर्तकाद्धर्मात् प्रकृष्टात् स्वल्पाधर्मसहितात् ब्रह्मेन्द्रप्रजापतिपितृमनुष्यलोकेष्वाशयानुरूपैरिष्टशरीरेन्द्रियविषयसुखादिभिर्योगो भवति। तथा प्रकृष्टादधर्मात् स्वल्पधर्मसहितात् प्रेततिर्यग्योनिस्थानेष्वनिष्ष्टशरीरेन्द्रियविषयदुःखादिभिर्योगो भवति। एवं प्रवृत्तिलक्षणाद्धर्मादधर्म'सहितादेवमनुष्यतिर्यनारकेषु पुनः पुनः संसारबन्धो भवति। ज्ञानपूर्वकात्तु कृतादसङ्कल्पितफलाद्विशुद्धे कुले जातस्य दुःखविगमोपायजिज्ञासोराचार्यमुपसङ्गम्योत्पन्नषट्पदार्थतत्त्वज्ञानस्याज्ञाननिवृतौ विरक्तस्य रागद्वेषाद्यभावात् तजयोधर्माधर्मयोरनुत्पत्तौ पूर्वसञ्चितयोश्चोपभोगान्निरोधे सन्तोषसुखं शरीरपरिच्छेदं चोत्पाद्य रागादिनिवृत्तौ निवृत्तिलक्षणः केवलो धर्मः परमार्थदर्शनजं सुखं कृत्वा निवर्तते।तदा निरोधात् निर्बीजस्यात्मनःशरीरादिनिवृत्तिः पुनः शरीराद्यनुत्पत्तौ दग्धेन्धनानलवदुपशमो मोक्ष इति। विशेषप्रकरणम् : अन्तेषु भवा अन्त्याः स्वाश्रयविशेषकत्वाद्विशेषाः। विनाशारम्भरहितेषु नित्यद्रव्येष्वण्वाकाशकालदिगात्ममनस्सु प्रतिद्रव्यमेकैकशो वर्तमानाः अत्यन्तव्यावृत्तिबुद्धिहेतवः। यथाऽस्मदादीनांगवादिष्वश्वादिभ्यस्तुल्याकृतिगुणक्रियावयवसंयोगनिमित्ता प्रत्ययव्यावृत्तिर्दृष्टा गोः शुक्लः शीघ्रगतिः पीनककुमान् महाघण्ट इति। तथास्मद्विशिष्टानां योगिनां नित्येषु तुल्याकृतिगुणक्रियेषु परमाणुषु मुक्तात्मनमस्सु च अन्यनिमित्तासम्भवादयेभ्यो निमित्तेभ्यः प्रत्याधारं विलक्षणोऽयं विलक्षणोऽयमिति प्रत्ययव्यावृत्तिः देशकालविप्रकर्षे च परमाणौ स एवायमिति प्रत्यभिज्ञानं च भवति तेऽन्त्या विशेषाः। यदि पुनरन्त्यविशेषमन्तरेण योगिनां योगजाद्धर्मात् प्रत्ययव्यावृत्तिः प्रत्यभिज्ञानं न स्यात् ततः किं स्यान्नैवं भवति / यथा च योगजाद्धर्मादशुक्ले शुक्लप्रत्ययः सञ्जायते अत्यन्तादृष्टे च प्रत्यभिज्ञानम्। यदि स्यान्मिथ्या भवेत् तथेहाप्यन्त्यविशेषमन्तरेण योगिनां न योगजाद्धर्मात् प्रत्ययव्यावृत्तिःप्रत्यभिज्ञानं वा भवितुमर्हति।
Page #134
--------------------------------------------------------------------------
________________ 114 गद्यसंग्रहः अथान्त्यविशेषेष्विव परमाणुषु कस्मान्न स्वतः प्रत्ययव्यावृत्तिः कल्प्यते इति चेन्न तादात्म्यात्। इहातदात्मकेष्वन्यनिमित्तः प्रत्ययो भवति यथा घटादिषु प्रदीपात् न तु प्रदीपे प्रदीपान्तरात्। यथा गवाश्चमांसादीनां स्वत एवाशुचित्वं तद्योगादन्येषां तथेहापि तादात्म्यादन्त्यविशेषेषु स्वत एव प्रत्ययव्यावृत्तिः तद्योगात् परमाण्वादिष्विति। समवायप्रकरणम् : अयुतसिद्धानामाधार्याधारभूतानां यः सम्बन्ध इहप्रत्ययहेतुः स समवायः। द्रव्यगुणकर्मसामान्यविशेषाणां कार्यकारणभूतानामकार्यकारणभूतानां वाऽयुतसिद्धानामाधार्याधारभावेनावस्थितानामिहेदमितिबुद्धिर्यतो भवति यतश्चासर्वगतानामधिगतान्यत्वानामविष्वग्भावः ससमवायाख्यः सम्बन्धः। कथम्? यथेह कुण्डे दधीतिप्रत्ययःसम्बन्धे सति दृष्टस्तथेह तन्तुषु पटः इह वीरणेषु कटः इह द्रव्ये गुणकर्मणी इह द्रव्यगुणकर्मसु सत्ता इह द्रव्ये द्रव्यत्वम् इह गुणे गुणत्वम् इह कर्मणि कर्मत्वम् इह नित्यद्रव्येऽन्त्या विशेषा इति प्रत्ययदर्शनादस्त्येषां सम्बन्ध इति ज्ञायते। __न चासौ संयोगः सम्बन्धिनामयुतसिद्धत्वात्। अन्यतरकर्मादिनिमित्तासम्भवात् विभागान्तत्वादर्शनादधिकरणाधिकर्तव्ययोरेव भावादिति। स च द्रव्यादिभ्यः पदार्थान्तरं भाववल्लक्षणभेदात् / यथा भावस्य द्रव्यत्वादीनां स्वाधारेषु आत्मानुरूपप्रत्ययकर्तृत्वात् स्वाश्रयादिभ्यः परस्परतश्चार्थान्तरभावः तथा समवायस्यापि पञ्चसु पदार्थेष्विवेतिप्रत्ययदर्शनात् तेभ्यः पदार्थान्तरत्वमिति ।नचसंयोगवन्नानात्वं भाववल्लिङ्गाविशेषात् विशेषलिङ्गाभावाच्च तस्माद्भाववत्सर्वत्रैकः समवाय इति। ननु यद्येकः समवायो द्रव्यगुणकर्माणां द्रव्यत्वगुणत्वकर्मत्वादिविशेषणैः सह सम्बन्धैकत्वात् पदार्थसङ्करप्रसङ्ग इति, न आधाराधेयनियमात्। यद्यप्येकः समवायः सर्वत्र स्वतन्त्रः तथाप्याधाराधेयनियमोऽस्ति। कथम्? द्रव्येष्वेव द्रव्यत्वं गुणेष्वेव गुणत्वं कर्मस्वेव कर्मत्वमिति / एवमादि कस्मात्? अन्वयव्यतिरेकदर्शनात्। इहेतिसमवायनिमित्तस्य ज्ञानस्यान्वयदर्शनात् सर्वत्रैकः समवाय इति गम्यते। द्रव्यत्वादिनिमित्तानां व्यतिरेकदर्शनात् प्रतिनियमो ज्ञायते। यथा कुण्डदध्नोः
Page #135
--------------------------------------------------------------------------
________________ मीमांसा-शाबर-भाष्यात् 115 संयोगैकत्वे भवत्याश्रयाश्रयिभावनियमः। तथा द्रव्यत्वादीनामपि समवायैकत्वेऽपि व्यङ्ग्यव्यञ्जकशंक्तिभेदादाधाराधेयनियम इति। सम्बन्ध्यनित्यत्वेऽपि न संयोगवदनित्यत्वं भाववदकारणत्वात्। यथा प्रमाणतः कारणानुपलब्धेर्नित्यो भाव इत्युक्तम् तथा समवायोऽपीति। न ह्यस्य किञ्चित् कारणं प्रमाणत उपलभ्यते इति। कया पुनर्वृत्त्या द्रव्यादिषु समवायो वर्तते। न संयोगः सम्भवति तस्य गुणत्वेन द्रव्याश्रितत्वात्। नापि समवायस्तस्यैकत्वात् न चान्या वृत्तिरस्तीति। न तादात्म्यात्। यथा द्रव्यगुणकर्मणां सदात्मकस्य भावस्य नान्यः सत्तायोगोऽस्ति। एवमविभागिनो वृत्त्यात्मकापत्तिः अत एवातीन्द्रियः सत्तादीनामिव प्रत्यक्षेषुवृत्यभावात्स्वात्मगतसंवेदनाभावाश्चातस्मादिहबुद्ध्यनुमेयः समवाय इति। मीमांसादर्शने-मीमांसा-शाबर-भाष्यात वेदमधीत्य समावर्तनात्पूर्वधर्मो जिज्ञासितव्यः लोके येष्वर्थेषु प्रसिद्धानि पदानि तानि सति संभवे तदर्थान्येव सूत्रेष्वित्यवगन्तव्यम्, नाध्याहारादिभिरेषां परिकल्पनीयोऽर्थः परिभाषितव्यो वा। एवं वेदवाक्यान्येवैभिर्व्याख्यायन्ते, इतरथा वेदवाक्यानि व्याख्येयानि स्वपदार्थाश्च व्याख्येया इति प्रयत्नगौरवं प्रसज्येत। तत्र लोकेऽयम् अथ शब्दो वृत्तादनन्तरस्य प्रक्रियार्थो दृष्टः। न चेह किंचिद् वृत्तमुपलभ्यते, भवितव्यं तु तेन, यस्मिन् सत्यनन्तरं धर्मजिज्ञासाऽवकल्पते। तथाहि प्रसिद्धपदार्थकः स कल्पितो भवति। तत्तु वेदाध्ययनम्। तस्मिन् हि सति सोऽवकल्पते। नैतदेवम्, अन्यस्यापि कर्मणोऽनन्तरं धर्मजिज्ञासा युक्ता, प्रागपि च वेदाध्ययनात्। उच्यते-तादृशीं तु धर्मजिज्ञासामधिकृत्याथशब्दं प्रयुक्तवानाचार्यः, या वेदाध्ययनमन्तरेण न संभवति। कथम्? वेदवाक्यानामनेकविधो विचार इह वर्तिष्यते। अपि च, नैव वयमिह वेदाध्ययनात् पूर्वं धर्मजिज्ञासायाः प्रतिषेधं शिष्यः, परस्ताच्चाऽऽनन्तर्यम्। नह्येतदेकवाक्यं पुरस्ताच्च वेदाध्ययनात् धर्मजिज्ञासां प्रतिषेधिष्यति, परस्ताच्चाऽऽनन्तर्यं प्रकरिष्यति। भिद्येत हि तथा वाक्यम्। अन्यथा
Page #136
--------------------------------------------------------------------------
________________ 116 गद्यसंग्रहः हि वचनव्यक्तिरस्य पुरस्ताद् वेदाध्ययनाद्धर्मजिज्ञासां प्रतिषेधति, अन्या च परस्तादानन्तर्यमुपदिशति। वेदानधीप्त्य इत्येकस्यां विधीयतेऽनूद्याऽऽनन्तर्यविपरीतमन्यस्याम्, अर्थकत्वाच्चैकवाक्यतां वक्ष्यति। किं त्वधीते वेदे द्वयमापतति। गुरुकुलाच्च समावर्तितव्यं, वेदवाक्यानि च विचारयितव्यानि। तत्र 'गुरुकुलान्मा समावर्तिष्ट' कथं नु वेदवाक्यानि विचारयेदित्येवमर्थोऽयमुपदेशः। यद्येवम्, न तर्हि वेदाध्ययनं पूर्वं गम्यते। एवं हि समामनन्ति 'वेदमधीत्य स्नायात्' इति। इह च वेदमधीत्य स्नास्यन् धर्मं जिज्ञासमान इममाम्नायमतिक्रामेत्। न चाऽऽम्नायो नामातिक्रमितव्यः। तदुच्यते-अतिक्रमिष्याम इममाम्नायम्, अनतिक्रामन्तो वेदमर्थवन्तं सन्तमनर्थकमवकल्पयेम। दृष्टो हि तस्यार्थः कर्मावबोधनं नाम। न च तस्याध्ययनमात्रात् तत्रभवन्तो याज्ञिकाः फलं समामनन्ति। यदपि च समामनन्तीव, तत्रापि द्रव्यसंस्कारकर्मसु परार्थत्वात् फलश्रुतिरर्थवादः स्यात् (जै. सू. 4 / 3 / 1) इत्यर्थवादतां वक्ष्यति। - * न च 'अधीतवेदस्य स्नानानन्तर्यमेतद् विधीयते'। नात्राऽऽनन्तर्यस्य वक्ता कश्चिच्छब्दोऽस्ति। पूर्वकालतायां क्त्वा स्मर्यते, नाऽऽनन्तर्ये। दृष्टार्थता चाऽध्ययनस्याऽऽनन्तर्ये व्याहन्येत। लक्षणया त्वेषोऽर्थः स्यात्। न च इदं स्नानमदृष्टार्थं विधीयते, किं तु लक्षणयाऽस्नानादिनियमस्य पर्यवसानं वेदाध्ययनसमकालमाहुः 'वेदमधीत्य स्नायात्'-गुरुकुलान्मा समावर्तिष्ट इत्यदृष्टार्थतापरिहारायैव। तस्माद्वेदाध्ययनमेव पूर्वमभिनिर्वर्त्यानन्तरं धर्मो जिज्ञासितव्य इत्यथशब्दस्य सामर्थ्यम्।नचबमोऽन्यस्य कर्मणोऽनन्तरं धर्मजिज्ञासा न कर्त्तव्येति। किंतु वेदमधीत्य त्वरितेन न स्नातव्यम्, अनन्तरं धर्मो जिज्ञासितव्य इत्यथशब्दस्यार्थः। अत:शब्दो वृत्तस्यापदेशको हेत्वर्थः। यथा क्षेमसुभिक्षोऽयमतोऽहमस्मिन् देशे प्रतिवसामीति।एवमधीतो वेदो धर्मजिज्ञासायां हेतु तः।अनन्तरं धर्मो जिज्ञासितव्य इति, अतः शब्दस्य सामर्थ्यम्। धर्माय हि वेदवाक्यानि विचारयितुमनधीतवेदो न शक्नुयात्। अतः एतस्मात् कारणादनन्तरं धर्मजिज्ञासितुमिच्छेदित्यतः शब्दस्यार्थः। धर्माय जिज्ञासा धर्मजिज्ञासा। सा हि तस्य ज्ञातुमिच्छा। स कथं जिज्ञासितव्यः? को धर्मः कथं लक्षणः कान्यस्य साधनानि कानि साधनाभासानि किं
Page #137
--------------------------------------------------------------------------
________________ मीमांसा-शाबर-भाष्यात् 117 परश्चेति।तत्र को धर्मः कथंलक्षण इत्येकेनैव सूत्रेण व्याख्यातम्-चोदनालक्षणोऽर्थो धर्मः (1 / 1 / 2) इति। कान्यस्य साधनानि कानि साधनाभासानि किं परश्चेति शेषलक्षणेन व्याख्यातम्। क्व पुरुषपरत्वं क्व वा पुरुषो गुणभूत इत्येतासांप्रतिज्ञानां पिण्डस्यैतत्सूत्रम्- “अथातो धर्मजिज्ञासा" इति। ___धर्मः प्रसिद्धो वा स्यादप्रसिद्धो वा? स चेत्प्रसिद्धो, न जिज्ञासितव्यः। अथाप्रसिद्धो नितराम् / तदेतदनर्थकं धर्मजिज्ञासाप्रकरणम्। अथवाऽर्थवत्। धर्म प्रति हि विप्रतिपन्ना बहुविदः, केचिदन्यं धर्ममाहुः केचिदन्यम्। सोऽयमविचार्य प्रवर्तमानः कंचिदेवोपाददानो विहन्येत अनर्थं च ऋच्छेत्। तस्माद् धर्मो जिज्ञासितव्य इति / / 1 // ___ यः पुंसां वेदवेद्यः श्रेयस्करः स धर्मः स हि निःश्रेयसेन पुरुषं संयुनक्तीति प्रतिजानीमहे / तदभिधीयते - चोदनालक्षणोऽर्थो धर्मः // 2 // चोदना इति क्रियायाः प्रवर्तकं वचनमाहुः। आचार्य्यचोदितः करोमिति हि दृश्यते। लक्ष्यते येन तल्लक्षणम्। 'धूमो लक्षणमग्नेः' इति हि वदन्ति। तथा यो लक्ष्यते, सोऽर्थः पुरुषं निःश्रेयसेन संयुनक्तीति प्रतिजानीमहे। चोदना हि भूतं भवन्तं भविष्यन्तं सूक्ष्मव्यवहितं विप्रकृष्टमित्येवञ्जातीयकमर्थं शक्नोत्यवगमयितुम्, नान्यत् किञ्चनेन्द्रियम्। नन्वतथाभूतमप्यर्थं ब्रूयाच्चोदना। यथा यत्किञ्चन लौकिकं वचनम् 'नद्यास्तीरे फलानि सन्ति' इति। तत् तथ्यमपि भवति, वितथमपि भवतीति। उच्यते विप्रतिषिद्धमिदमुच्यते-ब्रवीति वित्तथञ्चेति। ब्रवीति इति-उच्यतेऽवबोधयति, बुध्यमानस्य निमित्तं भवतीति। यस्मिंश्च निमित्तभूते सति अवबुध्यते, सोऽवबोधयति। यदि च चोदनायां सत्यामग्निहोत्रात् स्वर्गो भवतीति गम्यते कथमुच्यते न तथा भवतीति? अथ न तथा भवतीति कथमवबुध्यते? असन्तमर्थमवबुध्यते इति विप्रतिषिद्धम्। न च, स्वर्गकामो यजेत' इत्यतो वचनात् सन्दिग्धमवगम्यतेभवति वा स्वर्गो, न वा भवतीति। न च निश्चितमवगम्यमानमिदं मिथ्या स्यात्। यो हि जनित्वा प्रध्वंसते नैतदेवमिति, स मिथ्या प्रत्ययः। न चैष कालान्तरे पुरुषान्तरे अवस्थान्तरे देशान्तरे वा विपर्येति, तस्मादवितथः। यत्तु लौकिकं वचनं, तच्चैत् प्रत्ययितात् पुरुषात् इन्द्रियविषयं वा, अवितथमेव तत्।
Page #138
--------------------------------------------------------------------------
________________ 118 गद्यसंग्रहः अथाऽप्रत्ययितात् अनिन्द्रियविषयं वा, तावत् पुरुषबुद्धिप्रभवमप्रमाणम्। अशक्यं हि तत् पुरुषेण ज्ञातुम् ऋते वचनात्। अपरस्मात् पौरुषेयाद् वचनात् तदवगतमिति चेत्, तदपि तेनैव तुल्यम्। नैवञ्जातीयकेष्वर्थेषु पुरुषवचनं प्रामाण्यमुपैति, जात्यन्धनामिव वचनं रूपविशेषेषु। नन्वविदुषामुपदेशो नाऽवकल्पते, उपदिष्टवन्तश्च मन्वादयः, तस्मात् पुरुषात् सन्तो विदितवन्तश्च। यथा चक्षुषा रूपमुपलभ्यते, इति दर्शनादेवावगतम् उच्यते-उपदेशा हि व्यामोहादपि भवन्ति / असति व्यामोहे वेदादपि भवन्ति। अपि च पौरुषेयाद्वचनाद् एवमयं पुरुषो वेद' इति भवति प्रत्ययः नैवमयमर्थः' इति विप्लवते हि खल्वपि कश्चित् पुरुषोक्ताद् वचनात् प्रत्ययः। न तु वेदवचनस्य मिथ्यात्वे किञ्चन प्रमाणमस्ति। __ननु सामान्यतो दृष्टं पौरुषेयं वचनं वितथमुपलभ्य वचनसाम्यादिदमपि वितथमवगम्यते।न,अन्यत्वात्। न ह्यन्यस्य वितथभावेऽन्यस्य वैतथ्यं भवितुमर्हति, अन्यत्वादेव। न हि देवदत्तस्य श्यामत्वे यज्ञदत्तस्यापि श्यामत्वं भवितुमर्हति। अपि च पुरुषवचनसाधावेदवचनं वितथमिति अनुमानव्यपदेशादवगम्यते। प्रत्यक्षस्तु वेदवचनेन प्रत्ययः। न चानुमानं प्रत्यक्षविरोधि प्रमाणं भवति। तस्माच्चोदनालक्षणोऽर्थः श्रेयस्करः। एवं तर्हि श्रेयस्करो जिज्ञासितव्यः, किं धर्मजिज्ञासया? उच्यते-य एव श्रेयस्करः, स एव धर्मशब्देनोच्यते। कथमवगम्यताम्? यो हि यागमनुतिष्ठति, तं धार्मिकः' इति समाचक्षते। यश्च यस्य कर्ता स तेन व्यपदिश्यते। यथा-पाचको लावकः इति। तेन यः पुरुषं निःश्रेयसेन संयुनक्ति, स धर्मशब्देनोच्यते। न केवलं लोके, वेदेऽपि 'यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन् (ऋ०१०। 90 / 16)' इति यजतिशब्दवाच्यमेव धर्म समामनन्ति। शब्दप्रामाण्ये आक्षेपः ननु प्रत्यक्षादीन्यन्यानि भवन्तु नाम प्रमाणानि, शब्दस्तु न प्रमाणम्। कुत:? 'अनिमित्तं विद्यमानोपलम्भनत्वात् / अनिमित्तम् अप्रमाणं शब्दः / यो ह्यपलम्भनविषयो नोपलभ्यते, स नास्ति / यथा शशस्य विषाणम् / उपलम्भकानि चेद्रियाणि पश्वादीनाम्। न च पशुकामेष्टयनन्तरं पशव उपलभ्यन्ते। अतो नेष्टिः पशुफला। कर्मकाले च फलेन भवितव्यम्। यत्कालं हि मर्दनं, तत्कालं मई
Page #139
--------------------------------------------------------------------------
________________ मीमांसा-शाबर-भाष्यात् 119 नसुखम् ‘कालान्तरे फलं दास्यति' इति चेन, न कालान्तरे फलमिष्टेः इत्यवगच्छामः। कुतः? यदा तावदसौ विद्यमानाऽऽसीत् तदा फलं न दत्तवती। यदा फलमुत्पद्यते, तदाऽसौ नास्ति। असती कथं दास्यति? अपि च, तत्काल एव फलं श्रूयते। यागः करणमिति वाक्यादवगम्यते। कारणं चेदुत्पन्नं कार्येण भवितव्यमिति / प्रत्यक्षं च फलकारणमन्यदुपलभामहे। न च दृष्ट कारणे सत्यदृष्टं कल्पयितुं शक्यते, प्रमाणाभावात्। एवं दृष्टापचारस्य वेदस्य स्वर्गाद्यपि फलं न भवतीति मन्यामहे / दृष्टविरुद्धमपि भवति किञ्चिद्वचनम्। पात्रचयनं विधायाह- स एष यज्ञायुधी यजमानोऽञ्जसा स्वर्ग लोकं याति' इति प्रत्यक्षं शरीरं व्यपदिशति। न च तत् स्वर्ग लोकं यातीति, प्रत्यक्षं हि तद्दह्यते। न चैष याति' इति विधिशब्दः। एवञ्जातीयकंप्रमाणविरुद्धं वचनमप्रमाणम्। 'अम्बुनिमज्जन्त्यलाबूनि, ग्रावाणःप्लवन्ते' इति यथा। तत्सामान्यादग्निहोत्रादिचोदनास्वप्यनाश्वासः। तस्मान्न चोदनालक्षणोऽर्थो धर्मः (1 / 1 / 2) // शब्दार्थसम्बन्धस्य अपौरुषेयतया शब्दप्रामाण्यस्य समर्थनम् 'औत्पत्तिकस्तु शब्दस्यार्थेन सम्बन्धस्तस्य ज्ञानम्।' तुशब्दः पक्षं व्यावर्त्तयति। अपौरुषेयः शब्दस्यार्थेन सम्बन्धः। तस्याग्निहोत्रादिलक्षणस्यार्थस्य ज्ञानं प्रत्यक्षादिभिरनवगम्यमानस्य। तथा च चोदनालक्षणः सम्यक् संप्रत्यय इति। पौरुषेये हि शब्दे यः प्रत्ययः, तस्य मिथ्याभाव आशङ्कयेत, परप्रत्ययो हि तदा स्यात्। अथ शब्दे ब्रुवति कथं मिथ्येति? न हि तदानीमन्यतः पुरुषाद् अवगतिमिच्छामः। ब्रवीतीत्युच्यते, बोधयति बुद्ध्यमानस्य निमित्तं भवतीति। शब्दे च निमित्ते स्वयं बुद्धयते। कथं विप्रलब्धं ब्रूयाद्, नैतदेवमिति। न चास्य चोदना 'स्याद्वा न वेति' सांशयिकं प्रत्ययमुत्पादयति। न च मिथ्यैतदिति कालान्तरे देशान्तरेऽवस्थान्तरे पुरुषान्तरे वा पुनरव्यपदेश्यप्रत्ययो भवति। योऽप्यस्य प्रत्ययविपर्यासं दृष्ट्वाऽत्रापि विपर्यसिष्यतीत्यानुमानिक:प्रत्यय उत्पद्यते,सोऽप्यनेन प्रत्यक्षेण प्रत्ययेन विरुद्धयमानो बाध्यते। तस्माच्चोदनालक्षण एव धर्मः। शब्दार्थसम्बन्धे आक्षेपः तत्परिहारञ्च स्यादेतदेवं, नैव शब्दस्यार्थेन सम्बन्धः। कुतोऽस्य पौरुषेयता अपौरुषेयता वेति? कथम्? स्याच्चेदर्थेन सम्बन्धः, क्षुरमोदकशब्दोच्चारणे मुखस्य पाटनपूरणे
Page #140
--------------------------------------------------------------------------
________________ 120 गद्यसंग्रहः स्याताम्। यदि संश्लेषलक्षणं सम्बन्धमभिप्रेत्योच्यते, कार्यकारणनिमित्तनैमित्तिकाऽऽअयिभावादयस्तु सम्बन्धाः शब्दस्यानुपपन्ना एवेति। उच्यते-यो ह्यत्र व्यपदेश्यः सम्बन्धस्तमेकं न व्यपदिशति भवान्-प्रत्याय्यस्य प्रत्यायकस्य च यः संज्ञासंज्ञिलक्षण इति।आह-यदि प्रत्यायकःशब्दः, प्रथमश्रुतः किं न प्रत्याययति? उच्यते-सर्वत्र नो दर्शनं प्रमाणम्। प्रत्यायक इति हि प्रत्ययं दृष्ट्वाऽवगच्छामः, न प्रथमश्रुत इति। प्रथमश्रवणे प्रत्ययमदृष्ट्वा, यावत्कृत्वः श्रुतेन 'इयं संज्ञा अयं संज्ञी' इत्यवधारितं भवति, तावत्कृत्वः श्रुतादर्थावगम इति? यथा चक्षुर्द्रष्ट न बाह्येन प्रकाशेन विना प्रकाशयतीत्यद्रष्ट न भवति। यदि प्रथमश्रुतो न प्रत्यायति, कृतकस्तर्हि शब्दस्यार्थेन सम्बन्धः। कुतः? स्वभावतो ह्यसम्बन्धावेतौ शब्दार्थों, मुखे हि शब्दमुपलभामहे, भूमावर्थम्। शब्दोऽयं न त्वर्थः, अर्थोऽयं न शब्द इति च व्यपदिशन्ति। रूपभेदोऽपि भवति-"गौः" इतीमं शब्दमुच्चारयन्ति, सास्नादिमन्तमर्थमवबुध्यन्ते इति। पृथग्भूतयोश्च यः सम्बन्धः, स कृतको दृष्टः। यथा रज्जुघटयोरिति // ____ अक्षराणां शब्दत्वसमर्थनम् अथ गौरित्यत्र कः शब्दः। गकारौकारविसर्जनीया इति भगवानुपवर्षः। श्रोत्रग्रहणे ह्यर्थे लोके शब्दशब्दः प्रसिद्धः। ते च श्रोत्रग्रहणाः। यद्येवम्, अर्थप्रत्ययो नोपपद्यते। कथम्? एकैकाक्षरविज्ञानेऽर्थो नोपलभ्यते। न चाक्षरव्यतिरिक्तोऽन्यः कश्चिदस्ति समुदायो नाम, यतोऽर्थप्रतिपत्तिःस्यात्।यदा गकारो न तदा औकारविसर्जनीयौ, यदौकारविसर्जनीयौ न तदा गकारः। अतो गकारादिव्यतिरिक्तोऽन्यो गोशब्दोऽस्ति, यतोऽर्थप्रतिपत्तिः स्यात्। अन्तर्हिते शब्दे स्मरणादर्थप्रतिपत्तिश्चेत्, न, स्मृतेरपि क्षणिकत्वादक्षरैस्तुल्यता। पूर्ववर्णजनितसंस्कारसहितोऽन्त्यो वर्णः प्रत्यायक इत्यदोषः। नन्वेवं 'शब्दार्थं प्रतिपद्यामहे' इति लौकिकं वचनमनुपपन्नं स्यात्। उच्यते यदि नोपपद्यते, अनुपपन्नं नाम। न हि लौकिकं वचनमनुपपन्नमित्येतावता प्रत्यक्षादिभिरनवगम्यमानोऽर्थः शनोत्युपगन्तुम्। लौकिकानि वचनान्युपपन्नार्थान्यनुपपन्नार्थानि च दृश्यन्ते। यथा-'देवदत्त !गामभ्याज' इत्येवमादीनि, 'दश दाडिमानि षडपूपाः' इत्येवमादीनि च।
Page #141
--------------------------------------------------------------------------
________________ मीमांसा-शाबर-भाष्यात् 121 ननु च शास्त्रकारा अप्यैवमाहुः- 'पूर्वापरीभूतं भावमाख्यातेनाचष्टे व्रजति पचति इत्युपक्रमप्रभृत्यपवर्गपर्यन्तम् (नि०११)' इति यथा। न शास्त्रकारवचनमप्यलमिममर्थमप्रमाणकमुपपादयितुम्। अपि च, नैवैतद् अनुपपन्नार्थम्। अक्षरेभ्यः संस्काराः, संस्कारादर्थप्रतिपत्तिरिति सम्भवत्यर्थप्रतिपत्तावक्षराणि निमित्तम्। गौण एवार्थप्रतिपत्तौ शब्द इति चेद्, न गौणोऽक्षरेषु निमित्तभावः, तदभावे भावात्, तदभावे चाऽभावात्। अथापि गौण: स्यात्, न गौणः शब्दो मा भूदिति प्रत्यक्षादिभिरनवगम्यमानोऽर्थः शक्यः परिकल्पयितुम्। न हि 'अग्निर्माणवक' इत्युक्ते 'अग्निशब्दो गोणी मा भूद्' इति ज्वलन एव माणवकः इत्यध्यवसीयते। न च प्रत्यक्षो गकारादिभ्योऽन्यो गोशब्द इति, भेददर्शनाभावात्, अभेददर्शनाच्च। गकारादीनि हि प्रत्यक्षाणि। तस्माद् "गौः" इति गकारादिविसर्जनीयान्त पदम् अक्षराण्येव। अतो न तेभ्यो व्यतिरिक्तमन्यत् पदं नामेति। ननु 'संस्कारकल्पनायामप्यदृष्टकल्पना।' उच्यते-शब्दकल्पनायां सा च शब्दकल्पना च। तस्मादक्षराण्येवपदम् // आकृतेः गवादिशब्दार्थत्वसाधनम् अथ 'गौः' इत्यस्य शब्दस्य कोऽर्थः? सास्नादिविशिष्टाऽऽकतिरिति ब्रूमः। नन्वाकृति:साध्याऽस्ति वा न वा इति। न प्रत्यक्षा सती साध्या भवितुमर्हति। रुचकः स्वस्तिको वर्द्धमानक इति हि प्रत्यक्षं दृश्यते। व्यामोह इति चेत्, नासति प्रत्ययविपर्यासे व्यामोह इति शक्यते वक्तुम्।असत्यप्यर्थान्तरे एवञ्जातीयको भवति प्रत्ययः-पङ्क्तियूथं वनमिति यथेति चेत् न, असम्बद्धमिदं वचनमुपन्यस्तम्। किम्? 'असति वने वनप्रत्ययो भवतीति।' प्रत्यक्षमेवाऽऽक्षिप्यते, वृक्षा अपिनसन्तीति / यद्येवं,प्रत्युक्तःसमाहायानिकःपक्षः। अथकिमाकृतिसद्भाववादी उपालभ्यते, सिद्धान्तान्तरं ते दुष्यति इति, वनेऽसत्यपि वनप्रत्ययः प्राप्नोतीति। एवमपि, प्रकृतं दूषयितुमशक्नुवतस्तत्सिद्धान्तान्तरदूषणे निग्रहस्थानमापद्यते। असाधकत्वात्। स हि वक्ष्यति-दुष्यतु यदि दुष्यति। किं तेन दुष्टेन अदुष्टेन वा प्रकृतं त्वया साधितं भवति, मदीयो वा पक्षो दूषितो भवतीति। न च वृक्षव्यतिरिक्तं वनं यस्मान्नोपलभ्यते, अतो वनं नास्तीत्यवगम्यते। यदि वने अन्येन हेतुना सद्भावविपरीतः प्रत्यय उत्पद्यते, मिथ्यैव वचनप्रत्यय इति। ततो वनं
Page #142
--------------------------------------------------------------------------
________________ 122 गद्यसंग्रहः नास्तीत्यवगच्छामः। न च गवादिषु प्रत्ययो विपर्येति। अतो वैषम्यम्। अथ अनादिषु नैव विपर्येति, न ते न सन्तीति। तस्मात् असम्बद्धः पंक्तिवनोपन्यासः। अत उपपन्नं जैमिनिवचनम्-आकृतिः शब्दार्थ इति। यथा च आकृतिः शब्दार्थस्तथोपरिष्टान्निपुणतरमुपपादयिष्याम (द्र० 1 / 3 अधि०९) इति / / सम्बन्धकस्य पुंसोऽसिद्धया शब्दार्थसम्बन्धस्य अपौरुषेयत्वम् अथ सम्बन्धः क इति? यच्छब्दे विज्ञाते अर्थो विज्ञायते। स तु कृतक इति पूर्वमुपपादितम्। तस्मान्मन्यामहे-केनापि पुरुषेण शब्दानामर्थेन सह सम्बन्धं कृत्वा संव्यवहा वेदा:प्रणीता इति। तदिदानीमुच्यते-अपौरुषेयत्वात् सम्बन्धस्य सिद्धमिति। कथं पुनरिदमवगम्यते, अपौरुषेय एष सम्बन्ध इति? पुरुषस्य सम्बन्धुरभावात्। कथं सम्बन्धो नास्ति? प्रत्यक्षस्य प्रमाणस्याभावात्, तत्पूर्वकत्वाच्चेतरेषाम्। ननु चिरवृत्तत्वात् प्रत्यक्षस्याविषयो भवेदिदानीन्तनानाम्। न हि चिरवृत्तः सन् न स्मर्येत। न च हिमवदादिषु कूपारामादिवदस्मरणं भवितुमर्हति। पुरुषवियोगो हि तेषु भवति, देशोत्सादेन कुलोत्सादेन वा। न च शब्दाऽर्थव्यवहारावियोगः पुरुषाणामस्ति। वेदानुक्तानि कर्माणि नापेक्ष्याणि, इति पक्षोपस्थापनम् एवं तावत् कृत्स्नस्य वेदस्य प्रामाण्यमुक्तम्। अथेदानीं यत्र न वैदिकं शब्दमुपलभेमहि, अथ च स्मरन्ति-एवमयमर्थोऽनुष्ठातव्यः, एतस्मै च प्रयोजनाय इति। किमसौ तथैव स्यान्न वेति? यथा-अष्टकाः कर्त्तव्याः, गुरुरनुगन्तव्यः, तडागं खनितव्यम्, प्रपा प्रवर्त्तयितव्या, शिखाकर्म कर्त्तव्यमित्येवमादयः। तदुच्यते - धर्मस्य शब्दमूलत्वादशब्दमनपेक्षं स्यात् // 1 // (पू०) धर्मस्य शब्दमूलत्वादशब्दमनपेक्षं स्यादिति। शब्दलक्षणो धर्म इत्युक्तम्चोदनालक्षणोऽर्थो धर्मःइति।अतो निर्मूलत्वान्मापेक्षितव्यमिति। ननुये विदुरित्थमसौ पदार्थ: कर्त्तव्य इति, कथमिव ते वदिष्यन्त्यकर्त्तव्य एवायमिति? स्मरणानुपपत्त्या। न ह्यननुभूतोऽश्रुतो वाऽर्थः स्मर्यते। न चास्यावैदिक-स्याऽलौकिकस्य च स्मरणमुपपद्यते, पूर्वविज्ञानकारणाभावादिति। या हि बन्ध्या स्मरेत् - 'इदं मे दौहित्रकृतमिति', न मे दुहिताऽस्तीति मत्वा, न जातुचिदसौ प्रतीयात्'सम्यगेतज्ज्ञानमिति'।
Page #143
--------------------------------------------------------------------------
________________ मीमांसा-शाबर-भाष्यात् 123 एवमपि यथैव पारम्पर्येणाऽविच्छेदाद् 'अयं वेदः' इति प्रमाणम् एषा स्मृतिः, एवमिदमपि प्रमाणं भविष्यतीति। नैतदेवम्। प्रत्यक्षेणोपलब्धत्वाद् ग्रन्थस्य, नानुपपन्नं पूर्वं विज्ञानम्। अष्टकादिषु त्वदृष्टार्थेषु पूर्वविज्ञानकारणाभावाद् व्यामोहस्मृतिरेव गम्यते। तद् यथा कश्चिज्जात्यन्धो वदेत्-स्मराम्यहमस्य रूपविशेषस्येति।कुतस्ते पूर्वविज्ञानमिति चपर्यनुयुक्तो जात्यन्धमेवाऽपरं विनिर्दिशेत्। तस्य कुतः? जात्यन्धान्तरात्। एवं जात्यन्धपरम्परायामपि सत्यां नैव जातुचित् संप्रतीयुर्विद्वांसः सम्यग्दर्शनमेतदिति। अतो न आदर्तव्यमेवजातीयकमनपेक्षं स्यादिति / / 1 // वैदिककर्मस्मातकर्मकृतामभिन्नतया स्मार्त्तकर्मणां तदनुमित वेदमूलकतया प्रामाणिकत्वम् अपि वा कर्तृसामान्यात् प्रमाणमनुमानं स्यात् // 2 // (उ०) __ अपि वेति पक्षो व्यावर्त्यते। प्रमाणं स्मृतिः / विज्ञानं हि तत्, किमित्यन्यथा भविष्यति? पूर्वविज्ञानमस्य नास्ति, कारणाभावादिति चेत्।अस्या एवस्मृतेढिम्नः कारणमनुमास्यामहे। तत्तु नानुभवनम्, अनुपपत्त्या। न हि मनुष्या इहैव जन्मन्यैवम् जातीयकमर्थमनुभवितुं शक्नुवन्ति। जन्मान्तरानुभूतं च न स्मर्यते। ग्रन्थस्तु अनुमीयेत कृतसामान्यात् स्मृतिवैदिकपदार्थयो:तेनोपपन्नो वेदसंयोगस्त्रैवर्णिकानाम्। ननु नोपलभन्ते एवञ्जातीयकं ग्रन्थम्। अनुपलभमाना अप्यनुमिमीरन्। विस्मरणमप्युपपद्यते। इति तदुपपन्नत्वात् पूर्वविज्ञानस्य त्रैवर्णिकानां स्मरतां विस्मरणस्य चोपपन्नत्वाद् ग्रन्थानुमानमुपपद्यते। इति प्रमाणं स्मृतिः // श्रुतिविरुद्धाः स्मृतयोऽ प्रमाणम् श्रुतिविरोधेस्मृत्यप्रामाण्याधिकरणम् // 2 // अयं यत्र श्रुतिविरोधस्तत्र कथम्? यथा-औदुम्बर्याः सर्ववेष्टनम् औदुम्बरी स्पृष्ट्वोद्गायेद् इति श्रुत्या विरुद्धम्। अष्टाचत्वारिंशद्वर्षाणि वेदब्रह्मचर्यचरणम्, जातपुत्रः कृष्णकेशोऽग्नीनादधीत इत्यनेन विरुद्धम्। क्रीतराजको भोज्यान्न इति। तस्मादग्नीषोमीये संस्थिते यजमानस्य गृहेऽशितव्यम् इत्यनेन विरुद्धम्। तत् प्रमाणम्, कर्तृसामान्यात्। इत्येवं प्राप्ते ब्रूमः
Page #144
--------------------------------------------------------------------------
________________ 124 गद्यसंग्रहः विरोधे त्वनपेक्ष्यं स्यादसति ह्यनुमानम् // 3 // (उ०) // अशक्यत्वाद् व्यामोह इत्यवगम्यते। कथमशक्यता? स्पर्शविधानान्न सर्वा शक्या वेष्टयितुम् , उद्गायता स्प्रष्टुञ्च। तामुदगायता स्प्रष्टव्यामवगच्छन्तः केनेमं सम्प्रत्ययं बाधेमहि। सर्ववेष्टनस्मरणेनेति ब्रूमः। ननु निर्मूलत्वाद् व्यामोहस्तत् स्मरणमिति। वैदिकं वचनं मूलं भविष्यतीति। भवेद् वैदिकं वचनं मूलम्, यदि स्पर्शनं व्यामोहः। अव्यामोहे त्वशक्यत्वादनुपपन्नम्। यथाऽनुभवनमनुपपन्नमिति न कल्प्यते, तथा वैदिकमपि वचनम्। कथं तर्हि सर्ववेष्टनस्मरणम्? व्यामोहः। कथं व्यामोहकल्पना श्रौतविज्ञानविरोधात्। औदुम्बर्याः सर्ववेष्टनस्पर्शनयोः विकल्पविधित्वखण्डनम् अथ किमर्थं नेमौ विधी विकल्प्यते, व्रीहियववद् बृहद्रथन्तरवद्वा? नासति व्यामोहविज्ञाने विकल्पो भवति। यदि सर्ववेष्टनविज्ञानं प्रमाणम्, स्पर्शनं व्यामोहः। यदि स्पर्शनं प्रमाणम्, स्मृतिळमोहः। विकल्पं तु वदन् स्पर्शनस्य पक्षे तावत् प्रामाण्यमनुमन्यते। तस्य च मूलं श्रुतिः। सा चेत् प्रमाणमनुमता, न पाक्षिकी। पाक्षिकं च सर्ववेष्टनस्मरणं पक्षे तावन्न शक्नोति श्रुतिं परिकल्पयितुम् स्पर्शविज्ञानेन बाधितत्वात्। ततश्च अव्यामोहे च तस्मिन्नशक्या श्रुतिः कल्पयितुम्। न चाऽसावव्यामोहः पक्षे, पक्षे व्यामोहो भविष्यतीति। यदेव हि तस्यैकस्मिन् पक्षे मूलम्, तदेवेतरस्मिन्नपि। एकस्मिश्चेत् पक्षे न व्यामोहः, श्रुतिप्रामाण्यतुल्यत्वादितरत्राप्यव्यामोहः। न चासावेकस्मिन् पक्षे श्रुतिर्निबद्धाक्षरा हि सा न प्रमादपाठ इति शक्या गदितुम्। तेन नैतत्पक्षे विज्ञानं व्यामोहात् पक्षान्तरं संक्रान्तमित्यवगम्यते। तत्र दुःश्रुतस्वप्नादिविज्ञानमूलत्वं तु सर्ववेष्टनस्येति विरोधात् कल्प्यते। न हि तस्य सति विरोधे प्रामाण्यमभ्युपगन्तव्यम्इति किञ्चिदस्ति प्रमाणम्।तस्माद्यथैवैकस्मिन् पक्षे न शक्या श्रुतिः कल्पयितुम्, एवमपरस्मिन् पक्षे, तुल्यकारणत्वात्। अपि च-इतरेतराश्रयेऽन्यतः परिच्छेदात्। केयमितरेतराश्रयता? प्रमाणायां स्मृतौ स्पर्शनं व्यामोहः, स्पर्शने प्रमाणे स्मृतिळमोह:। तदेतदितरतराश्रयं भवति। तत्र स्पर्शनस्य क्लृप्तं मूलम्, कल्प्यं स्मृतेः। सोऽसावन्यतः परिच्छेदः- कल्प्यमूलत्वात् स्मृतिप्रामाण्यमनववक्लृप्तम्। तदप्रामाण्यात् स्पर्शनं न व्यामोहः। तदव्यामोहात् स्मार्त्तश्रतिकल्पनाऽनुपपन्ना प्रमाणाभावात्। नन्वेवं सति
Page #145
--------------------------------------------------------------------------
________________ मीमांसा-शाबर-भाष्यात् 125 व्रीहिसाधनत्व-विज्ञानस्याऽप्यव्यामोहाद् यवश्रुतिर्नोपपद्यते। सत्यं नोपपद्यते, यद्यप्रत्यक्षा स्यात्। प्रत्यक्षा त्वेषा। न हि प्रत्यक्षमनुपपन्नं नामास्ति। द्वयोस्तु श्रुत्योर्भावाद् द्वे ह्येते वाक्ये। तत्रैकेन केवलयवसाधनता गम्यते, एकेन केवल व्रीहिसाधनता। न च वाक्येनावगतोऽर्थोऽपनूयते। तस्माद् व्रीहियवयोरुपपन्नो विकल्पः, बृहद्रथन्तरयोश्च। तस्मादुक्तम्-श्रुतिविरुद्धा स्मृतिरप्रमाणमिति।अतश्च सर्ववेष्टनादि नादरणीयम् // 3 // हेतुदर्शनाच्च // 4 // (उ०) // लोभाद्वास आदित्समाना औदुम्बरी कृत्स्नांवेष्टितवन्त:केचित्।तत् स्मृतेर्बीजम्। बुभुक्षमाणाः केचित् क्रीतराजकस्य भोजनमाचरितवन्तः। अपुंस्त्वं प्रच्छादयन्तश्चाष्टाचत्वारिशद्वर्षाणि वेदब्रह्मचर्यं चरितवन्तः। तत एषा स्मृतिरित्यवगम्यते।। अपूर्वमाख्यातपद-प्रतिपाद्यम् तत्र प्रथमं तावदिदं चिन्त्यते-प्रथमाध्याये इदमुक्तम्-चोदनालक्षणोऽर्थो धर्मः (1 / 1 / 2) / चोदना च क्रियाया अभिधायकं वाक्यम्। वाक्ये च पदानामाः / तत्र किं पदेन पदेन धर्म उत सर्वैरेक एवेति? किं तावत् प्राप्तम्? प्रतिपदं धर्मः, इत्येवं प्राप्त उच्यते, यदा एकस्मादपूर्वं तदाऽन्यत् तदर्थं भविष्यति। एवमल्पीयस्यदृष्टानुमानप्रसंगकल्पना भविष्यति। तस्मादेकमपूर्वम्। यदा एकं तदा सन्देहः-किं भावशब्देभ्यः, उत द्रव्यगुणशब्देभ्य इति? कः पुनर्भावः, के च ते पुनर्भावशब्दा इति? यजति-ददाति जुहोतीत्येवमादयः। ननु-यागदानहोमशब्दा एते, न भावशब्दाः नैतदेवम्। यागादि शब्दाश्चैते भावशब्दाश्च। यज्याद्यर्थश्चातोऽवगम्यते, भावयेदिति च। तथा यजेत, यथा किञ्चिद् भवतीति। तेनैते भावशब्दाः। द्रव्यगुणशब्देभ्यो द्रव्यगुणप्रत्ययः, न भावनायाः। अतस्ते न भावशब्दा इति। किं तावत् प्राप्तम्? अविशेषेणेति। तत उच्यतेभावार्थाः कर्मशब्दास्तेभ्यः क्रिया प्रतीयेत, एष ह्यर्थो विधीयते // 1 // भावार्थाः कर्मशब्दाः, तेभ्यः क्रिया प्रतीयेत, 'यजेत' इत्येवमादिभ्यः। कुतः? भावार्थत्वादेवाय आहुः-'किमपि भावयेद्' इति, ते स्वर्गकामपदसम्बन्धात्
Page #146
--------------------------------------------------------------------------
________________ 126 गद्यसंग्रहः स्वर्गं भावयेदिति ब्रूयुः। तस्मात् तेभ्यः क्रिया प्रतीयेत-फलस्य क्रिया करणं निष्पत्तिरिति। ते च यागदानहोमसम्बद्धाः, स्वर्गस्योत्पत्तिं वदन्ति। कुतः? एष ह्यर्थो विधीयते। यथा-यागादिना। स्वर्गकाम: केन भावयेत् स्वर्गम्? यागादिनेति। यस्य च शब्दस्यार्थेन फलं साध्यते, तेनाऽपूर्वं कृत्वा नान्यथेति। ततोऽपूर्वं गम्यते। अतो यस्तस्य वाचकः शब्दस्ततोऽपूर्वं प्रतीयत इति। तेन भावशब्दा अपूर्वस्य चोदका इति ब्रूमः। न तु कश्चिच्छब्दः साक्षादपूर्वस्य वाचकोऽस्ति। भावार्थे किमपि भावयितव्यम्, स्वर्गकामस्य च केनापि भाव्यतेति। तयोर्नष्टाश्वदग्धरथवत् सम्प्रयोगः। यजेत इत्येवमादयःसाकाङ्क्षाः / यजेत, किं केन कथमिति? स्वर्गकाम इत्यनेन प्रयोजनेन निराकाङ्क्षाः। नैवं द्रव्यगुणशब्दाः। तस्मात् भावार्थाः कर्मशब्दा अपूर्वं चोदयन्तीति। अस्त्यपूर्वम् - कथं पुनरिदमवगम्यते-अस्ति तदपूर्वमिति / उच्यते - चोदना पुनरारम्भः // 5 // चोदनेत्यपूर्वं ब्रूमः। अपूर्वं पुनरस्ति। यत आरम्भः शिष्यते-स्वर्गकामो यजेतेति। इतरथा हि विधानमनर्थकं स्यात्। भङ्गित्वाद् यागस्य। यद्यन्यदनुत्पाद्य यागो विनश्येत्, फलमसति निमित्ते न स्यात्। तस्मादुत्पादयतीति। यदि पुनः फलवचनसामर्थ्यात्तदेव न विनश्यतीति कल्प्यते? नैवं शक्यम् न हि कर्मणोऽन्यद् रूपमुपलभामहे। यदाश्रयं देशान्तरं प्रापयति, तत् कर्मेत्युच्यते। न तदात्मनि समवेतम्। स्वर्गतत्वादात्मनः। सर्वत्र कार्योपलम्भः सर्वत्र भावे लिङ्गम्। ननु तदेव देशान्तरादागमनस्य? नासति आगमने किञ्चिद्विरुद्धं दृश्यते। यत्र समवेतमासीत्, तद्विनष्टं द्रव्यम्। तस्य विनाशात्तदपि विनष्टमित्यवगम्यते। आश्रयोऽप्यविनष्ट इति चेत् न भस्मोपलम्भनात्। सत्यपि भस्मन्यस्तीति चेत् न, विद्यमानोपलम्भनेऽप्यदर्शनात्। फलक्रिया लिङ्गमिति चेत्, एवं सत्यदर्शने समाधिर्वक्तव्यः।सौम्यादीनाम् अन्यतमद्भविष्यतीति यदि चिन्त्यते, कल्पितमेवं सति किञ्चिद् भवतीति। तत्रापूर्वं वा कल्प्येत, तद्वा इति। अविशेषकल्पनायामस्ति हेतुः, न विशिष्टकल्पनायाम्। अनाश्रितं कर्म भविष्यतीति चेत्, तदपि तादृशमेव। स्वभावान्तर
Page #147
--------------------------------------------------------------------------
________________ मीमांसा-शाबर-भाष्यात् 127 कल्पनेन देशान्तरं न प्रापयिष्यतीति तादृशमेव। तस्माद् भङ्गी यजिः। तस्य भङ्गित्वादपूर्वमस्तीति / किं चिन्तायाः प्रयोजनम्? यदि द्रव्यगुणशब्दा अप्यपूर्वं चोदयन्तिद्रव्यगुणापचारे न प्रतिनिधिरूपोदातव्यः, यथा तर्हि पूर्वः पक्षः। यदि तर्हि सिद्धान्तः द्रव्यं गुणं वा प्रतिनिधाय प्रयोगोऽनुष्ठातव्य इति।
Page #148
--------------------------------------------------------------------------
________________ 128 गद्यसंग्रहः जैनदर्शने हेमचन्द्राचार्यकृतप्रमाणमीमांसातः वस्तुनोऽनेकान्तात्मकता प्रमाणस्य विषयो द्रव्यपर्यायात्मकं वस्तु // 30 // ११८-प्रत्यक्षस्य प्रकृतत्वात्तस्यैव विषयादौ लक्षयितव्य प्रमाणस्य इति प्रमाणसामान्यग्रहणं, प्रत्यक्षवत् प्रमाणान्तराणामपि विषयादिलक्षणमिहैव वक्तुं युक्तमविशेषात्तथा च लाघवमपि भवतीत्येवमर्थम्। जातिनिर्देशाच्च प्रमाणानां प्रत्यक्षादीनां विषयः' गोचरो 'द्रव्यपर्यायात्मकं वस्तु'। द्रवति तांस्तान् पर्यायान् गच्छति इति द्रव्यं ध्रौव्यलक्षणम्। पूर्वोत्तरविवर्त्तवर्त्यन्वयप्रत्ययसमधिगम्यमूर्ध्वतासामान्यमिति यावत्। परियन्त्युत्पादविनाशधाणो भवन्तीति पर्याया विवर्ताः। तच्च ते चात्मा स्वरूपं यस्य तत् द्रव्यपर्यायात्मकं वस्तु, परमार्थसदित्यर्थः, यद्वाह वाचकमुख्यः- 'उत्पादव्ययध्रौव्ययुक्तं सद्' (तत्त्वा० 5/29) इति, पारमर्षमपि उपन्ने इवा विगेमेइ वा धुवेइ वा इति। ११९-तत्र द्रव्यपर्यायकग्रहणेन द्रव्यैकान्तपर्यायैकान्तवादिपरि कल्पितविषयव्युदासः आत्मग्रहणेन चात्यन्तव्यतिरिक्तद्रव्यपर्यायवादिकाणादयोगाभ्युपगतविषयनिरासः। यच्छ्रीसिद्धसेनः दोहिं वि नएहिं नीयं सत्यमुलूएण तहवि मिच्छत्तं / नं सविसयप्पहाणत्तणेण अन्नोन्ननिरविक्ख // // सन्म० 3/49 त्ति / / 30 / / १२०-कुतः पुनर्द्रव्यपर्यायात्मकमेव वस्तु प्रमाणानां विषयो न द्रव्यमानं पर्यायमात्रमुभयं वा स्वतन्त्रम्? हत्याह अर्थक्रियासामर्थ्यात् // 31 // 121- 'अर्थस्य' हानोपादानादिलक्षणस्य 'क्रिया' निष्पत्तिस्तत्र 'सामर्थ्यात्' द्रव्यपर्यायात्मकस्यैव वस्तुनोऽर्थक्रियासमर्थत्वादित्यर्थः // 31 // १२२-यदि नामैवं ततः किमित्याह तल्लक्षणत्वाद्वस्तुनः // 32 //
Page #149
--------------------------------------------------------------------------
________________ जैनदर्शनेहेमचन्द्राचार्यकृप्रमाणमीमांसातः 129 123- तद् 'अर्थक्रियासामर्थ्य लक्षणम्' असाधारणं रूपं यस्य तत् तल्लक्षणं तस्य भावस्तत्त्वं तस्मात्। कस्य ? 'वस्तुनः' परमार्थसतो रूपस्य। अयमर्थःअर्थक्रियार्थी हि सर्वःप्रमाणमन्वेषते,अपि नामेत: प्रमेयमर्थक्रियाक्षमं विनिश्चित्य कृतार्थो भवेयमिति न व्यसनितया। तद्यदि प्रमाणविषयोऽर्थोऽर्थ-क्रियाक्षमो न भवेत्तदा नासौ प्रमाणपरीक्षणमाद्रियेत। यदाह अर्थक्रियाऽसमर्थस्य विचारैः किं तदर्थिनाम्। षण्ढस्य रूपवैरूप्ये कामिन्याः किं परीक्षया // ॥प्रमाणवा० 11215 इति / / 124- तत्र न द्रव्यैकरूपोऽर्थोऽर्थक्रियाकारी, स ह्यप्रच्युतानुत्पन्नस्थिरैकरूपः कथमर्थक्रियां कुर्वीत क्रमेणाक्रमेण वा?, अन्योन्यव्यवच्छेदरूपाणां प्रकारान्तरासम्भवात्। तत्र नक्रमेण, स हि कालान्तरभाविनी क्रिया प्रथमक्रियाकाल एव प्रसह्य कुर्यात् समर्थस्य कालक्षेपायोगात्, कालक्षेपिणो वाऽसामर्थ्यप्राप्तेः। समर्थोऽपि तत्तत्सहकारिसमवधाने तं तमर्थं करोतीति चेत्, न तर्हि तस्य सामर्थ्यमपरसहकारिसापेक्षवृत्तित्वात्, 'सापेक्षमसमर्थम्' (पात० महा० 3-18) इति हि किं नाश्रौषी:? न तेन सहकारिणोऽपेक्ष्यन्तेऽपि तु कार्यमेव सहकारिष्वसत्स्वभवत् तानपेक्षत इति चेत्, तत्किं स भावोऽसमर्थः? समर्थवत्, किं सहकारिमुखप्रेक्षणदीनानि तान्युपेक्षते न पुनर्झटिति घटयति?। ननु समर्थमपि बीजमिलाजलादिसहकारिसहितमेवारं करोति नान्यथा, तत् किं तस्य सहकारिभिः किञ्चिदुपक्रियेत, न वा ? नो चेत्, स किं पूर्ववन्नोदास्ते। उपक्रियेत चेत्, स तर्हि तैरुपकारो भिन्नोऽभिन्नो वा क्रियत इति निवर्चनीयम्। अभेदे स एव क्रियते इति लाभमिच्छतो मूलक्षतिरायाता। भेदे स कथं तस्योपकारः? किं न सह्यविन्ध्यादेरपि?। तत्सम्बन्धात्तस्यायमिति चेत्, उपकार्योपकारयोः कः सम्बन्धः? न संयोगः, द्रव्ययोरेव तस्य भावात्। नापि समवायस्तस्य प्रत्यासत्तिविप्रकर्षाभावेन सर्वत्र तुल्यत्वान्न नियतसम्बन्धिसम्बन्धत्वं युक्तम्, तत्त्वे वा तत्कृत उपकारोऽस्याभ्युपगन्तव्यः, तथा चसत्युपकारस्य भेदाभेदकल्पना तदवस्थैव। उपकारस्य समवायादभेदे समवाय एव कृतः स्यात्। भेदे पुनरपि समवायस्य न नियतसम्बन्धिसम्बन्धत्वम्। नियतसम्बन्धिसम्बन्धत्वे समवायस्य विशेषणविशेष्यभावो हेतुरिति चेत्, उपकार्योपकारकभावाभावे तस्यापि
Page #150
--------------------------------------------------------------------------
________________ 130 गद्यसंग्रहः प्रतिनियमहेतुत्वाभावात्। उपकारे तु पुनर्भेदाभेदविकल्पद्वारेण तदेवावर्तते। तन्नैकान्तनित्यो भावः क्रमेणार्थक्रियां कुरुते। 125- नाप्यक्रमेण न ह्येको भावः सकलकालकलाभाविनीयुगपत् सर्वाः क्रियाः करोतीति प्रातीतिकम्। कुरुतां वा, तथापि द्वितीयक्षणे किं कुर्यात्?। करणे वा क्रमपक्षभावी दोषः। अकरणेऽनर्थक्रियाकारित्वादवस्तुत्वप्रसङ्ग:इत्येकान्तनित्यात् क्रमाक्रमाभ्यां व्याप्तार्थक्रिया व्यापकानुपलब्धिबलात् व्यापकनिवृत्तौ निवर्तमाना व्याप्यमर्थक्रियाकारित्वं निवर्तयति तदपि स्वव्याप्यं सत्त्वमित्यसन् द्रव्यैकान्तः। ___ १२६-पर्यायैकान्तरूपोऽपि प्रतिक्षणविनाशी भावो न क्रमेणार्थक्रियासमर्थो देशकृतस्य कालकृतस्य च क्रमस्यैवाभावात्। अवस्थितस्यैव हि नानादेशकालव्याप्तिर्देशक्रमः कालक्रमश्चाभिधीयते। न चैकान्तविनाशिनि साऽस्ति। यदाहुः यो यत्रैव स तत्रैव यो यदैव तदैव सः / न देशकालयोर्व्याप्तिर्भावानामिह विद्यते // 127- न च सन्तानापेक्षया पूर्वोत्तरक्षणानां क्रमः सम्भवति, सन्तानस्याऽवस्तुत्वात्। वस्तुत्वेऽपि तस्य यदि क्षणिकत्वं न तर्हि क्षणेभ्यः कश्चिद्विशेषः। अथाक्षणिकत्वम्, सुस्थितः पर्यायैकान्तवादः यदाहः अथापि नित्यं परमार्थसन्तं सन्ताननामानमुपैषि भावम् / उत्तिष्ठ भिक्षो! फलितास्तवाशाः सोऽयं समाप्तः क्षणभड्गवादः // (न्याय म०पृ० 464) इति / / 128- नाप्यक्रमेण क्षणिकेऽर्थक्रिया सम्भवति। स ह्येको रूपादिक्षणो युगपदनेकान् रसादिक्षणान् जनयन् यद्येकेन स्वभावेन जनयेत्तदा तेषामेकत्वं स्यादेकस्वभावजन्यत्वात्।अथनानास्वभावैर्जनयति-किञ्चिदुपादानभावेन किञ्चित् सहकारित्वेन, ते तर्हि स्वभावास्तस्यात्मभूता अनात्मभूता वा? अनात्मभूताश्चेत्, स्वभावहानिः। यदि तस्यात्मभूताः, तर्हि तस्यानेकत्वं स्वभावानां चैकत्वं प्रसज्येत। अथ य एवैकत्रोपादानभावः स एवान्यत्र सहकारिभाव इति न स्वभावभेद इष्यते, तर्हि नित्यत्वैकरूपस्यापिक्रमेण नानाकार्यकारिणःस्वभावभेदः कार्यसाकर्यं चमा भूत्। अथाक्रमात्क्रमिणामनुप्तत्तेर्नेवमिति चेत्, एकोनंशकारणात् युगपदनेककारणसाध्यानेककार्यविरोधात् क्षणिकानामप्यक्रमेण कार्यकारित्वं मा
Page #151
--------------------------------------------------------------------------
________________ 131 भूदिति पर्यायैकान्तादपि क्रमाक्रमयोर्व्यापकयोर्निवृत्त्यैव व्याप्याऽर्थक्रियापि व्यावर्तते। तद्यावृत्तौ च सत्त्वमपि व्यापकानुपलब्धिबलेनैव निवर्तत इत्यसन् पर्यायैकान्तोऽपि। 129- काणादास्तु द्रव्यपर्यायावुभावप्युपागमन् पृथिव्यादीनि गुणाद्याधाररूपाणि द्रव्याणि, गुणादयस्त्वाधेयत्वात्पर्यायाः। ते च केचित् क्षणिकाः, केचिद्यावद्र्व्यभाविनः, केचिन्नित्या इति केवलमितरेतरविनिलुंठितधमिधर्माभ्युपगमान्न समीचीनविषयवादिनः। तथाहि- यदि द्रव्यादत्यन्तविलक्षणं सत्त्वं तदा द्रव्यमसदेव भवेत्।सत्तायोगात् सत्त्वमस्त्येवेति चेत्, असतां सत्तायोगेऽपि तर्हि किं शिखण्डिना सत्तायोगेन? सत्तायोगात् प्राक्भावो न सन्नाप्यसन्, सत्तासम्बन्धात्तु सन्निति चेत्, वाङ्मात्रमेतत्, सदसद्विलक्षणस्य प्रकारान्तरस्यासम्भवात्। अपि च पदार्थः सत्ता योगः इति न त्रितयं चकास्ति। पदार्थसत्तयोश्च योगो यदि तादात्म्यम्, तदनभ्युपगमबाधितम्। अतएव न संयोगः, समवायस्त्वनाश्रित इति सर्वं सर्वेण सम्बनीयान्न वा किञ्चित् केनचित्। एवं द्रव्यगुणकर्मणां द्रव्यत्वादिभिः, द्रव्यस्य द्रव्यगुणकर्मसामान्यविशेषैः, पृथिव्यप्तेजोवायूनां पृथिवीत्वादिभिः, आकाशादीनां च द्रव्याणां स्वगुणैर्योगे यथायोगं सर्वमभिधानीयम्, एकान्तभिन्नानां केनचित् कथञ्चित् सम्बन्धायोगात् इत्यौलूक्यपक्षेऽपि विषयव्यवस्था दुःस्था / ___ 130- ननु द्रव्यपर्यायात्मकत्वेऽपि वस्नुनस्तदवस्थमेव दौस्थ्यम्, तथाहिद्रव्यपर्याययोरैकान्तिकभेदाभेदपरिहारेण कथञ्चिद्भेदाभेदवादःस्याद्वादिभिरुपेयते, न चासौ युक्तो विरोधादिदोषात्-विधिप्रतिषेधरूपयोरेकत्र वस्तुन्यसम्भवानीलानीलवत्? / / 1 / / अथ केनचिद्रूपेण भेदः केनचिदभेदः, एवं सति भेदस्यान्यदधिकरणमभेदस्य चान्यदिति वैयधिकरण्यम् // 2 // यं चात्मानं पुरोधाय भेदो यं चाश्रित्याभेदस्तावप्यात्मानौ भिन्नाभिन्नावन्यथैकान्तवादप्रसक्तिस्तथा च सत्यनवस्था // 3 // येन च रूपेण भेदस्तेन भेदश्चाभेदश्च येन चाभेदस्तेनाप्यभेदश्च भेदश्चेति सङ्करः // 4 // येन रूपेण भेदस्तेनाभेदो येनाभेदस्तेन भेद इति व्यतिकरः // 5 // भेदाभेदात्मकत्वे च वस्तुनो विविक्तेनाकारेण निश्चेतुमशक्तेः संशयः // 6 // ततश्चाप्रतिपत्तिः // 7 // इति न विषयव्यवस्था // 8 // नैवम्,
Page #152
--------------------------------------------------------------------------
________________ 132 गद्यसंग्रहः प्रतीयमाने वस्तुनि विरोधस्यासम्भवात्। यत्सन्निधाने यो नोपलभ्यते स तस्य विरोधीति निश्चीयते। उपलभ्यमाने च वस्तुनि को विरोधगन्धावकाश:? नीलानीलयोरपि यद्येकत्रोपलम्भोऽस्ति तदा नास्ति विरोधः / एकत्र चित्रपटीज्ञाने सौगतैर्नीलानीलयोर्विरोधानभ्युपगमात्, योगैश्चैकस्य चित्रस्य रूपस्याभ्युपगमात्, एकस्यैव च पटादेश्चलाचलरक्तारक्तावृतानावृतादिविरुद्धधर्माणामुपलब्धेः प्रकृते को विरोधशङ्कावकाश:? एतेन वैयधिकरण्यदोषोऽप्यपास्तः, तयोरेकाधिकरणत्वेन प्रागुक्तयुक्तिदिशा प्रतीते : / यदप्यनवस्थानं दूषणमुपन्यस्तम् तदप्यनेकान्तवादिमतानभिज्ञेनैव, तन्मतं हि द्रव्यपर्यायात्मके वस्तुनि द्रव्यपर्यायावेव भेदः भेदध्वनिना तयोरेवाभिधानात्, द्रव्यरूपेणाभेद इति द्रव्यमेवाभेदः एकानेकात्मकत्वाद्वस्तुनः / यौ च सङ्करव्यतिकरौ तौ मेचकज्ञाननिदर्शनेन सामान्यविशेष दृष्टान्तेन च परिहृतौ। अथ तत्र तथाप्रतिभासः समाधानम्,परस्यापि तदेवास्तु प्रतिभासस्यापक्षपातित्वात्। निर्णीते चार्थे संशयोऽपि न युक्तः, तस्य सकम्पप्रतिपत्तिरूपत्वादकम्पप्रतिपत्तौ दुर्घटत्वात् / प्रतिपन्ने चवस्तुन्यप्रतिपत्तिरिति साहसम्। उपलब्ध्यभिधानादनुपलम्भोऽपि न सिद्धस्ततो नाभाव इति दृष्टेष्टाविरुद्धं द्रव्यपर्यायात्मकं वस्त्विति / / 32 // 131- ननु द्रव्यपर्यायात्मकत्वेऽपि वस्तुनः कथमर्थक्रिया नाम? सा हि क्रमाक्रमाभ्यां व्याप्ता द्रव्यपर्यायैकान्तवदुभयात्मकादपि व्यावर्तताम्। शक्यं हि वक्तुमुभयात्मा भावो न क्रमेणार्थक्रियां कर्तुं समर्थः, समर्थस्य क्षेपायोगात्। न च सहकार्यपेक्षा युक्ता, द्रव्यस्याविकार्यत्वेन सहकारिकृतोपकारनिरपेक्षत्वात्। पर्यायाणां च क्षणिकत्वेन पूर्वापरकार्यकालाप्रतीक्षणात्। नाप्यक्रमेण, युगपद्धि सर्वकार्याणि कृत्वा पुनरकुर्वतोऽनर्थक्रियाकारित्वादसत्त्वम्, कुर्वतः क्रमपक्षभावी दोषः। द्रव्यपर्यायवादयोश्च यो दोषः स उभयवादेऽपि समानः प्रत्येकं यो भवेद्दोषो द्वयोर्भावे कथं न स:? इति वचनादित्याह - पूर्वोत्तराकारपरिहारस्वीकारस्थितिलक्षणपरिणामेनास्यार्थक्रियोपपत्तिः // 33 // 132- 'पूर्वोत्तरयोः' आकारयोः 'विवर्तयोर्यथासख्येन यौ' परिहारस्वीकारौ 'ताभ्यां स्थितिः सैव', 'लक्षणम् ' यस्य स चासौ परिणामश्च, तेन 'अस्य' द्रव्यपर्यायात्माकस्यार्थक्रियोपपद्यते।
Page #153
--------------------------------------------------------------------------
________________ जैनदर्शने हेमचन्द्राचार्यकृप्रमाणमीमांसातः 133 133- अयमर्थः- न द्रव्यरूपंन पर्यायरूपं नोभयरूपं वस्तु, येन तत्तत्पक्षभावी दोषः स्यात्, किन्तु स्थित्युत्पादव्ययात्मकं शबलं जात्यन्तरमेव वस्तु। तेन तत्तत्सहकारिसन्निधाने क्रमेण युगपद्वा तां तामर्थक्रियां कुर्वतः सहकारिकृतां चोपकारपरम्परामुपजीवतो भिन्नाभिन्नोपकारादिनोदनानुमोदनाप्रमुदितात्मनः उभयपक्षभाविदोषशकाकलकाऽकान्दिशीकस्य भावस्य न व्यापकानुपलब्धिबलेनार्थक्रियायाः, नापि तद्याप्यसत्त्वस्य निवृत्तिरिति सिद्धं द्रव्यपर्यायात्मकं वस्तु प्रमाणस्य विषयः // 33 // व्याप्तिज्ञानौ पयिकस्य ऊहज्ञानस्य स्वरूपम् उपलम्भानुपलम्भनिमित्तं व्याप्तिज्ञानम् ऊहः // 5 // 17- 'उपलम्भः' प्रमाणमात्रमत्र गृह्यते न प्रत्यक्षमेव अनुमेयस्यापि साधनस्य सम्भवात्, प्रत्यक्षवदनुमेयेष्वपि व्याप्तेरविरोधात्। 'व्याप्तिः' वक्ष्यमाणा तस्या 'ज्ञानम्' तद्ग्राही निर्णयविशेष 'ऊहः'। १८-न चायं व्याप्तिग्रहः प्रत्यक्षादेवेति वक्तव्यम्। नहि प्रत्यक्षं यावान् कश्चिद् धूमः स देशान्तरे कालान्तरे वा पावकस्यैव कार्यं नार्थान्तरस्येतीयतो व्यापरान् कर्तुं समर्थं सन्निहितविषयबलोत्पत्तेरविचारकत्वाच्च। 19- नाप्यनुमानात्, तस्यापि व्याप्तिग्रहणकाले योगीव प्रमाता सम्पद्यत इत्येवंभूतभारासमर्थत्वात्।सामर्थ्येऽपि प्रकृतमेवानुमानंव्याप्तिग्राहकम्, अनुमानान्तरं वा ? तत्र प्रकृतानुमानात् व्याप्तिप्रतिपत्तावितरे तराश्रयः। व्याप्तौ हि प्रतिपन्नायामनुमानमात्मानमासादयति, तदात्मलाभे च व्याप्तिप्रतिपत्तिरिति। अनुमानान्तरात्तु व्याप्तिप्रतिपत्तावनवस्था तस्यापि गृहीतव्याप्तिकस्यैव प्रकृतानुमानव्याप्तिग्राहकत्वात्। तद्व्याप्तिग्रहश्च यदि स्वत एव, तदा पूर्वेण किमपराद्धं येनानुमानान्तरं मृग्यते। अनुमानान्तरेण चेत्, तर्हि युगसहस्रेष्वपि व्याप्तिग्रहणासम्भवः। २०-ननु यदि निर्विकल्पकं प्रत्यक्षमविचारकम् तर्हि तत्पृष्ठभावी विकल्पो व्याप्तिं ग्रहीष्यतीति चेत्, नैतत्, निर्विकल्पकेन व्याप्तेरग्रहणे विकल्पेन ग्रहीतुमशक्यत्वात् निर्विकल्पकगृहीतार्थविषयत्वाद्विकल्पस्य। अथ निर्विकल्पकविषयनिरपेक्षोऽर्थान्तरगोचरो विकल्पः, स तर्हि प्रमाणमप्रमाणं वा?
Page #154
--------------------------------------------------------------------------
________________ 134 गद्यसंग्रहः प्रमाणत्वे प्रत्यक्षानुमानातिरिक्तं प्रमाणान्तरं तितिक्षितव्यम्। अप्रामाण्ये तु ततो व्याप्तिग्रहणश्रद्धाषण्ढात्तनयदोहदः। एतेन-"अनुपलम्भात् कारणव्यापकानुपलम्भाच्च कार्यकारणव्याप्यव्यापकभावावगमः" इति प्रत्युक्तम्, अनुपलम्भस्य प्रत्यक्षविशेषत्वेन कारणव्यापकानुपलम्भयोश्च लिङ्गत्वेन तजनितस्य तस्यानुमानत्वात्,प्रत्यक्षानुमानाभ्यांचव्याप्तिग्रहणे दोषस्याभिहितत्वात्। २१-वैशेषिकास्तु प्रत्यक्षफलेनोहापोहविकल्पज्ञानेन व्याप्तिप्रतिपत्तिरित्याहुः। तेषामप्यध्यक्षफलस्य प्रत्यक्षानुमानयोरन्यतरत्वे व्याप्तेरविषयीकरणम्, तदन्यत्वे च प्रमाणान्तरत्वप्रसक्तिः। अथ व्याप्तिविकल्पस्य फलत्वान्न प्रमाणत्वमनुयोक्तुं युक्तम्, न, एतत्फलस्यानुमानलक्षणफलहेतुतया प्रमाणत्वाविरोधात् सन्निकर्षफलस्य विशेषणज्ञानस्येव विशेष्यज्ञानापेक्षयेति / ___ २२-यौगास्तु तर्कसहितात् प्रत्यक्षादेष व्याप्तिग्रह इत्याहुः। तेषामपि यदि न केवलात् प्रत्यक्षाद्याप्तिग्रहः किन्तु तर्कसहकृतात् तर्हि तर्कादेव व्याप्तिग्रहोऽस्तु। किमस्य तपस्विनो यशोमार्जनेन, प्रत्यक्षस्य वा तर्कप्रसादलब्धव्याप्तिग्रहापलापकृतघ्नत्वारोपेणेति?। अथ तर्क: प्रमाणं न भवतीति न ततो व्याप्तिग्रहणमिष्यते। कुतःपुनरस्य न प्रमाणत्वम्, अव्यभिचारस्तावदिहापि प्रमाणान्तरसाधारणोऽस्त्येव? व्याप्तिलक्षणेन विषयेण विषयवत्वमपि न नास्ति। तस्मात् प्रमाणान्तरागृहीतव्याप्तिग्रहणप्रवणः प्रमाणान्तरमूहः // 5 // हरिभद्रसूरिकृतशास्त्रवार्तासमुच्चयात् सुख-दुःख-विवेकः। ननु ‘स्वर्गे सुखम्' इत्यत्र न विप्रतिपत्तिरस्ति, सिद्धौ तु सुखे न मानमस्ति, सुखत्वावच्छेदेन धर्मजन्यत्वावधारणात्। न च विजातीयादृष्टानां विजातीयसुखहेतुत्वात्, तत्तत्कर्मणामेवादृष्टरूपव्यापारसम्बन्धेन तद्धेतुत्वाद् वा सामान्यतो हेतुत्वे मानाभाव इति वाच्यम्, तथापि विशेषसामग्रीविरहेण मोक्षसुखानुत्पत्तेः। न च 'नित्यं विज्ञानमानन्दं बह्म' इति श्रुतिरेवात्र मानम्, न च नित्यसुखे सिद्धे ब्रह्माभेदबोधनं, तद्बोधने च नित्यसुखसिद्धिरिति परस्पराश्रय इति वाच्यम्,स्वर्गत्वमुपलक्षणीकृत्य स्वर्गविशेषे यागकारणताबोधवत् सुखत्वमुपलक्षणीकृत्य सुखविशेषे ब्रह्माभेदोपपत्तेः।
Page #155
--------------------------------------------------------------------------
________________ हरिभद्रसूरिकृतशास्त्रवार्तासमुच्चयात् 135 (स्या०) यद्वा नित्यं सुखं बोधयित्वा तत्र ब्रह्माभेदो विधिनैव बोध्यते, न च वाक्यभेदः, वाक्यैकवाक्यत्वात्। न च आनन्दम्' इत्यत्र नपुंसकलिङ्गत्वानुपपत्तिः छान्दसत्वात्। न च 'आनन्दं ब्रह्मणोरूपं तच्च मोक्षे प्रतिष्ठितम्' इति भेदपरषष्ठ्यनुपपत्तिः, 'राहोः शिर' इतिवदभेदेऽपि षष्ठीदर्शनाद् , इति वाच्यम्, आत्मनोऽनुभूयमानत्वेन नित्यसुखस्याप्यनुभवप्रसङ्गात्, सुखमात्रस्य स्वगोचरसाक्षात्कारजनकत्वनियमात्। न च 'आत्माऽभिन्नतया सुखमनुभूयत एव, सुखत्वं तु तत्र नानुभूयते, देहात्माभेदभ्रमवासनादोषाद्, आत्यन्तिकदुःखोच्छेदरूपव्यञ्जकाभावाद् वेति' वाच्यम्, आत्मसुखयोरभेदे सुखत्वस्यात्मत्वतुल्यव्यक्तिकत्वेनात्मत्वान्यजातित्वासिद्धेः। ___ (स्या०) किञ्च, एवं सर्वाभेदश्रुत्या दुःखमपिसुखंस्यात्, सिद्धार्थत्वेनाऽप्रामाण्यं चोभयत्र तुल्यम् , इति चेत्? अत्रोच्यते-प्रेक्षावत्प्रवृत्त्यन्यथानुपपत्तिरेव सिद्धिसुखे मानम्। न च क्षुदादिदुः खनिवृत्त्यर्थमन्नपानादिप्रवृत्तिवदत्रोपपत्तिः, तत्रापि सुखार्थमेव प्रवृत्तेः। अन्यथाऽस्वादुपरित्यागस्वादूपादानानुपपत्तेः,अभावे विशेषाभावेन कारणविशेषस्याऽप्रयोजकत्वात्। न च चिकित्सास्थलीयप्रवृत्तिवदुपपत्तिः, तत्रापि दु:खध्वंसनियतागामिसुखार्थितयैव प्रवृत्तेः। न च प्रायश्चित्तवदत्र दुःखद्वेषयोरनिष्टेरेव प्रवृत्तिरिति वाच्यम्,तत्राऽप्यभिमताऽऽगामिबोधिहेतुकर्मक्षयार्थतयैव प्रवृत्तेः। __ (स्या०) किं च, दुःखाभावदशायां 'सुखं नास्ति' इति ज्ञाने कथं प्रवृत्तिः, सुखहानेरनिष्टत्वात्? न च वैराग्याद् न तदनिष्टत्वप्रतिसन्धानम्, विरक्तानामपि प्रशमप्रभवसुखस्येष्टत्वात्, अनुभवसिद्धं खल्वेतत्। किं च, दु:खे द्वेषमात्रादेव यदि तन्नाशानुकूलः प्रयत्नः स्यात् तदा मूर्छादावपि प्रवृत्तिः स्यात्। जायत एव बहुदु:खग्रस्तानां मरणादावपि प्रवृत्तिरिति चेत्?न, विवेकिप्रवृत्तेरेवात्राधिकृतत्वात्। अतः सुष्ठच्यते दुःखाभावोऽपि नावेद्यः पुरुषार्थतयेष्यते। न हि मूर्छाद्यवस्थार्थं प्रवृत्तो दृश्यते सुधीः // इति // 'दु:खं मा भूत्' इत्युद्दिश्य प्रवृत्तेर्दु:खाभाव एव पुरुषार्थः, तज्ज्ञानं त्वन्यथासिद्धमिति चेत्? सत्यम्, अवेद्यस्य तस्य ज्ञानादिहानिरूपानिष्टानुविद्धतया
Page #156
--------------------------------------------------------------------------
________________ 136 गद्यसंग्रहः प्रवृत्यनिर्वाहकत्वात्। एतेन वर्तमानोऽप्यचिरमनुभूयते' इति निरस्तम्,तथावेद्यताया मुर्छाद्यवस्थायामपि सम्भवात्। यत्तु सशरीरं वाव सन्तं प्रियाप्रिये न स्पृशतः इति श्रुतेर्मुक्तौ सुखाभावसिद्धिः, द्वित्वेनोपस्थितयोः प्रियाप्रिययोः प्रत्येकं निषेधान्वयादिति, तदसत्, प्रियाप्रियोभयत्वावच्छिन्नाभावस्यैवात्र विषयत्वात्, द्वित्वस्याख्यातान्विताभावप्रतियोगिगामितयैवोपपत्तेः। उपपादितं चैतदन्यत्र। न चेदेवम् सुखमात्यन्तिकं यत्र बुद्धिग्राह्यमतीन्द्रियम् / तं वै मोक्षं विजानीयाददुष्प्राप्यमकृतात्मभिः // इत्यादि वचनविरोधः॥ __ (स्या०) न च शरीरादिकं विना सुखाद्यनुत्पत्तिर्बाधिका, शरीरादेर्जन्यात्मविशेषगुणत्वावच्छिन्नं प्रत्येव हेतुत्वात्, तत्र च जन्यत्वस्य ध्वंसप्रतियोगित्वरूपस्येश्वरज्ञानादेरिव मुक्तिकालीनज्ञानसुखादेरपि व्यावृत्तत्वादिति। जैनदर्शने स्याद्वादमञ्जरीतः इह हि विषमदुःखभाररजनितिमिरतिरस्कारभास्करानुकारिणा वसुधातलावतीर्णसुधासारिणीदेश्यदेशनावितानपरमाईतीकृतश्रीकुमारपाललक्ष्मीपालवर्तिताभयदानाभिधानजीवातु संजीवितनानाजीवप्रदत्ताशीर्वादमाहात्म्यकल्पावधिस्थायिविशदयश:शरीरेण निरवद्यचातुर्विद्यानिर्माणैकब्रह्मणा श्रीहेमचन्द्रसूरिणा जगत्प्रसिद्ध श्रीसिद्धसेनदिवाकरविरचितद्वात्रिंशद्वात्रिंशिकानुसारि श्रीवर्धमानजिनस्तुतिरूपमयोगव्यवच्छेदान्ययोगव्यवच्छेदाभिधानं द्वात्रिंशिकाद्वितयं विद्वज्जनमनस्तत्त्वावबोधनिबन्धनं विदधे।तत्र च प्रथमद्वात्रिंशिकायाःसुखोन्नेयत्वाद् तद्व्याख्यानमुपेक्ष्य द्वितीयस्यास्तस्या नि:शेषदुर्वादिपरिषदधिक्षेपदक्षायाः सुखोन्नेयत्वाद् तद्व्याख्यानमुपेक्ष्य द्वितीयस्यास्तस्या नि:शेषदुर्वादिपरिषदधिक्षेपदक्षायाः कतिपयपदार्थविवरणकरणेन स्वस्मृतिबीजप्रबोधविधिर्विधीयते। तस्याश्चेदमादिकाव्यम् - अनन्तविज्ञानमतीतदोषमबाध्यसिद्धान्तममर्त्यपूज्यम् / श्रीवर्धमानं जिनमाप्तमुख्यं स्वयम्भुवं स्तोतुमहं यतिष्ये // 1 //
Page #157
--------------------------------------------------------------------------
________________ जैनदर्शनेस्याद्वादमञ्जरीतः 137 श्रीवर्धमानं जिनमहं स्तोतुं यतिष्य इति क्रियासम्बन्धः। किं विशिष्टम्? अनन्तम्-अप्रतिपाति,वि-विशिष्टं सर्वद्रव्यपर्यायविषयत्वेनोत्कृष्टं, ज्ञानं-केवलाख्यं विज्ञानम्,ततोऽनन्तं विज्ञानं यस्य सोऽनन्तविज्ञानस्तम्। तथा अतीता:- नि:सत्ताकोभूतत्वेनातिक्रान्ताः,. दोषारागादयो यस्मात् स तथा तम्। तथा अबाध्यःपरै बोधितुमशक्यः, सिद्धान्तः-स्याद्वादश्रुतलक्षणो यस्य स तथा तम्। तथा अमर्त्या :- देवाः, तेषामपि पूज्यम्-आराध्यम्॥ अत्र च श्रीवर्धमानस्वामिनो विशेषणद्वारेण चत्वारो मूलातिशयाः प्रतिपादिताः। तत्रानन्तविज्ञानमित्यनेन भगवतः केवलज्ञानलक्षणविशिष्टज्ञानानन्त्यप्रतिपादनाद् ज्ञानातिशयः। अतीतदोषमित्यनेनाष्टादशदोषसंक्षयाभिधानाद् अपायापगमातिशयः। अबाध्यसिद्धान्तमित्यनेन कुतार्किकोपन्यस्तकुहेतुसमूहाशक्यबाधस्याद्वादरूपसिद्धान्तप्रणयनभणनाद् वचनातिशयः। अमर्त्यपूज्यमित्यनेनाकृत्रिमभक्तिभरनिर्भरसुरासुरनिकायनायकनिर्मितमहाप्रातिहार्य सपर्यापरिज्ञानात् पूजातिशयः। अत्राह परः। अनन्तविज्ञानमित्येतावदेवास्तु, नातीतदोषमिति। गतार्थत्वात्। दोषात्ययं विनाऽनन्तविज्ञानत्वस्यानुपपत्तेः। अत्रोच्यते। कुनयमतानुसारिपरिकल्पिताप्तव्यवच्छेदार्थमिदम्। तथा चाहुराजीविकनयानुसारिणः - ज्ञानिनो धर्मतीर्थस्य कर्तारः परमं पदम् / गत्वाऽगच्छन्ति भयोऽपि भवं तीर्थनिकारतः // इतिः तन्नूनं न तेऽतीतदोषाः। कथमन्यथा तेषां तीर्थनिकारदर्शनेऽपि भवावतारः। आह। यद्येवमतीतदोषमित्येवास्तु, अनन्तविज्ञानमित्यतिरिच्यते। दोषात्ययेऽवश्यंभावित्वादनन्तविज्ञानत्वस्य / न। कैश्चिद्दोषाभावेऽपि तदनभ्युपगमात्। तथा च वैशेषिकवचनम्: सर्वं पश्यतु वा मा वा तत्त्वमिष्टं तु पश्यतु / कीटसङ्ख्यापरिज्ञानं तस्य नः क्वोपयुज्यते // तथा तस्मादनुष्ठानगतं ज्ञानमस्य विचार्यताम् / प्रमाणं दूरदर्शी चेदेते गृध्रानुपास्महे //
Page #158
--------------------------------------------------------------------------
________________ 138 गद्यसंग्रहः तन्मतव्यपोहार्थमनन्तविज्ञानमित्यदृष्टमेव। विज्ञानानन्त्यं विना एकस्याप्यर्थस्य यथावत् परिज्ञानाभावात्। तथा चार्षम् ___ 'जे एगं जाणइ, से सव्वं जाणइ, जे सव्वं जाणइ से एगं जाणइ।।' तथा एको भावः सर्वथा येन दृष्टः सर्वे भावाः सर्वथा तेन दृष्टाः। सर्वे भावाः सर्वथा येन दृष्टा एको भावः सर्वथा तेन दृष्टः॥ ननु तबाध्यसिद्धान्तमित्यपार्थकम्। यथोक्तगुणयुक्तस्याव्यभिचारिवचनत्वेन तदुक्तसिद्धान्तस्य बाधाऽयोगात्। न। अभिप्रायाऽपरिज्ञानात्। निर्दोषपुरुषप्रणीत एवाबाध्यः सिद्धान्तः / नापरेऽपौरुषेयाद्याः असम्भवादिदोषाऽघ्रातत्वात्, इति ज्ञापनार्थम्। आत्ममात्रतारकमूकान्तकृत्कैवल्यादिरूपमुण्डकेवलिनो यथोक्तसिद्धान्तप्रणयनाऽसमर्थस्य व्यवच्छेदार्थं वा विशेषणमेतत्॥ __अन्यस्त्वाह। अमर्त्यपूज्यमिति न वाच्यम्। यावता यथोद्दिष्टगुणगरिष्ठस्य त्रिभुवनविभोरमर्त्यपूज्यत्वं कथञ्चन व्यभिचरतीति। सत्यम्। लौकिकानां हि अमर्त्याः पूज्यतया प्रसिद्धाः, तेषामपि भगवानेव पूज्य इति विशेषणेनानेन ज्ञापयन्नाचार्यः परमेश्वरस्य देवाधिदेवत्वमावेदयति / / इदमत्र हृदयम्। यथा किल संसारिणः सुखदुःखे परस्परानुषक्ते स्यातां, न तथा मुक्तात्मनः किन्तु केवलं सुखमेव। दुःखमूलस्य शरीरस्यैवाभावात् सुखं त्वात्मस्वरूपत्वादवस्थितमेव। स्वस्वरूपावस्थानं हि मोक्षः। अत एव चाशरीरमित्युक्तम्। आगमार्थश्चायमित्थमेव समर्थनीयः / यत एतदर्थानुपातिन्येव स्मृतिरपि दृश्यते। सुखमात्यन्तिकं यत्र बुद्धिग्राह्यमतीन्द्रियम् / तं वै मोक्षं विजानीयाद् दुष्प्रापमकृतात्मभिः // न चायं सुखशब्दो दुःखाभावमात्रे वर्तते। मुख्यसुखवाच्यतायां बाधकाभावात्। अयं रोगाद् विप्रमुक्तः सुखी जात इत्यादिवाक्येषु च सुखीति प्रयोगस्य पौनरुक्त्यप्रसङ्गाच्च। दु:खाभावमात्रस्य रोगाद् विप्रमुक्त इतीयतैव गतत्वात्। ___ न च भवदुदीरितो मोक्षः पुंसामुपादेयतया संमतः। को हि नाम शिलातल्पापगतसकलसुखसंवेदनमात्मानमुपपादयितुं यतेत। दु:खसंवेदनरूपत्वादस्य सुखदु:खयोरेकस्याभावेऽपरस्यावश्यम्भावात्। अत एव त्वदुपहासः श्रूयते
Page #159
--------------------------------------------------------------------------
________________ जैनदर्शनेस्याद्वादमञ्जरीतः 139 वरं वृन्दावने रम्ये क्रोष्टत्वमभिवाञ्छितम् / म तु वैशेषिकी मुक्तिं गौतमो गन्तुमिच्छति // सोपाधिकसावधिकपरिमितानन्दनिष्यन्दात् स्वर्गादप्यधिकं तद्विपरीतानन्दमम्लानज्ञानं च मोक्षमाचक्षते विचक्षणाः। यदि तु जडः पाषाणनिर्विशेष एव तस्यामवस्थायामात्मा भवेत्, तदलमपवर्गेण। संसार एव वरमस्तु। यत्र तावदन्तरान्तरापि दुःखकलुषितमपि कियदपि मुखमनुभुज्यते। चिन्त्यतां तावत् किमल्पसुखानुभवो भव्य उत सर्वसुखोच्छेद एव। अथास्ति तथाभूते मोक्षे लाभातिरेक: प्रेक्षादक्षाणाम्। ते ह्येवं विवेचयन्ति। संसारे तावद् दुःखास्पृष्टं सुखं न सम्भवति, दु:खं चावश्यं हेयम्, विवेकहीनं चानयोरेकभाजनपतितविषमधुनोरिव दुःशकम्, अत एव द्वे अपि त्यज्येते। अतश्च संसाराद् मोक्षः श्रेयान्। यतोऽत्र दुःखं सर्वथा न स्यात्। वरमियती कादाचित्कसुखमात्रापि त्यक्ता, न तु तस्याः दुःखभार इयान् व्यूढ इति। तदेतत्सत्यम्। सांसारिकसुखस्य मधुदग्धधाराकरालमण्डलाग्रग्रासवद् दुःखरूपत्वादेव युक्तैव मुमुक्षूणां तजिहासा, किन्त्वात्यन्तिकसुखविशेषलिप्सूनामेव। इहापि विषयनिवृत्तिजं सुखमनुभवसिद्धमेव, तद् यदि मोक्षे विशिष्टं नास्ति, ततो मोक्षो दुःखरूप एवापद्यत इत्यर्थः। ये अपि विषमधुनी एकत्र सम्पृक्ते त्यज्येते, ते अपि सुखविशेषलिप्सयैव। किञ्च, यथा प्राणिनां संसारावस्थायां सुखमिष्टं दुःखं चानिष्टम्, तथा मोक्षावस्थायां दुःखनिवृत्तिरिष्टा, सुखनिवृत्तिस्त्वनिष्दैव। ततो यदि त्वदभिमतो मोक्षः स्यात्, तदा न प्रेक्षावतामत्र प्रवृत्तिः स्यात्। भवति चेयम्। ततः सिद्धो मोक्षः सुखसंवेदनस्वभावः प्रेक्षावत्प्रवृत्तेरन्यथानुपपत्तेः। अथ यदि सुखसंवेदनैकस्वभावो मोक्षः स्यात् तदा तद्रागेण प्रवर्तमानो मुमुक्षुर्न मोक्षमधिगच्छेत्। न हि रागिणां मोक्षोऽस्ति रागस्य बन्धनात्मकत्वात्। नैवम् सांसारिकसुखमेव रागोबन्धनात्मकः विषयादिप्रवृत्तिहेतुत्वात्। मोक्षसुखे तु रागः तन्निवृत्ति हेतुत्वाद् न बन्धनात्मकः। परां कोटिमारूढस्य च स्पृहामात्ररूपोऽप्यसौ निवर्तते 'मोक्षेभवे च सर्वत्र नि:स्पृहो मुनिसत्तमः' इति वचनात्। अन्यथा भवत्पक्षेऽपि दु:खनिवृत्त्यात्मकमोक्षाङ्गीकृतौ दुःखविषयं कषायकालुष्यं केन निषिध्येत। इति सिद्धं कृत्स्नकर्मक्षयात् परमसुखसंवेदनात्मको मोक्षो, न बुद्धयादिविशेषगुणोच्छेदरूप इति।
Page #160
--------------------------------------------------------------------------
________________ 140 गद्यसंग्रहः __ अथ केऽपि सप्तभङ्गाः, कश्चायमादेशभेद इति उच्यते। एकत्र जीवादौ वस्तुनि एकैकसत्त्वादिधर्मविषयप्रश्नवशाद् अविरोधेन प्रत्यक्षादिबाधापरिहारेण पृथग्भूतयोः समुदितयोश्च विधिनिषेधयो: पर्यालोचनया कृत्वास्याच्छब्दबलान्वितो वक्ष्यमाणैः सप्तभिः प्रकारैर्वचनविन्यास:सप्तभङ्गीति गीयते। तद्यथा। स्यादस्त्येव सर्वमिति विधिकल्पनया प्रथमो भङ्गः॥१॥स्यान्नास्त्येव सर्वमिति निषेधकल्पनया द्वितीयः // 2 // स्यादस्त्येव स्यान्नास्त्येवेति क्रमतो विधिनिषेधकल्पनया तृतीयः // 3 // स्यादवक्तव्यमेवेति युगपद्विधिनिषेधकल्पनया चतुर्थः // 4 // स्यादस्त्येव स्यादवक्तव्यमेवेति विधिकल्पनया युगपद्विधिनिषेधकल्पनया च पञ्चमः॥५॥स्यान्नास्त्येव स्यादवक्तव्यमेवेति निषेधकल्पनया युगपद्विधिनिषेधकल्पनया च षष्ठः // 6 // स्यादस्त्येव स्थान्नास्त्येव स्यादवक्तव्यमेवेति क्रमतो विधिनिषेधकल्पनया युगपद्विधिनिषेधकल्पनया च सप्तमः // 7 // __ इयं च सप्तभङ्गी प्रतिभङ्गं सकलादेशस्वभावा विकलादेशस्वभावा च। तत्र सकलादेशःप्रमाणवाक्यम्। तल्लक्षणं चेदम्-प्रमाणप्रतिपन्नानन्तधर्मात्मकवस्तुनः कालादिभिरभेदवृत्तिप्राधान्याद् अभेदोपचाराद् वा यौगपद्येन प्रतिपादकं वचः सकलादेशः। अस्यार्थ:- कालादिभिरष्टाभिः कृत्वा यदभेदवृत्तेधर्मधमिणोरपृथग्भावस्य प्राधान्यं तस्मात् कालादिभिर्भिन्नात्मनामपि धर्मधर्मिणामभेदाध्यारोपाद् वा समकालमभिधायकं वाक्यं सकलादेशः। तद्विपरीतस्तु विकलादेशो नववाक्यमित्यर्थः। अयमाशयः- यौगपद्येनाशेषधर्मात्मकं वस्तु काचादिभिरभेदप्राधान्यवृत्त्याऽभेदोपचारेण वा प्रतिपादयति सकलादेशः, तस्य प्रमाणाधीनत्वात्। विकलादेशस्तु क्रमेण भेदोपचाराद् भेदप्राधान्याद्वा तदभिधत्ते, तस्य नयात्मकत्वात्। बौद्धदर्शने तत्त्वसंग्रह-प्रथमभागात् शास्त्रारम्भे शास्त्रस्य असाधारणक्रियात्मकं प्रयोजनं वक्तव्यम् 'शास्त्रेषु हि परं प्रवर्तयितुकामो वक्ता शास्त्रादौ प्रयोजनमभिधत्ते, न व्यसनितया' इति / कथं च परः प्रयोजनोपदेशाच्छास्त्रेषु प्रवर्तितो भवति ? यदि तद्गतमेव प्रयोजनमभिधीयते, नान्यगतम्, न हि अन्यगतप्रयोजनाभिधानादन्यत्र प्रेक्षावतः प्रवृत्तिर्भवेत् / विशिष्टार्थप्रतिपादनसमर्थं च वचनं शास्त्रमुच्यते, नाभिधेयमात्रम् ?
Page #161
--------------------------------------------------------------------------
________________ बौद्धदर्शने तत्त्वसंग्रह-प्रथमभागात् 141 नापि शब्दमात्रमर्थप्रतिपादनसामर्थ्यशून्यम्, अतो नाभिधेयादिगतं प्रयोजनमुपदर्शनीयम्। यत्पुनराचार्येण 'सम्यग्ज्ञानपूर्विका सर्वपुरुषार्थसिद्धि' (न्या० वि० 1-1) इति यत् प्रयोजनं निर्दिष्टम्, तत् प्रयोजनप्रयोजनस्य कथनम्, नाभिधेयस्य प्रयोजनम्, सम्यग्ज्ञानव्युत्पत्तेरे व सम्यग्ज्ञानशब्देन विवक्षितत्वात्। सम्यग्ज्ञानव्युत्पत्तिपूर्विकेत्यर्थः। एवं सति तन्निर्दिष्टमित्येतत्प्रयोजनाभिधानं सङ्गतार्थं भवेत्, अन्यथा दुःश्लिष्टमेव स्यात्। तच्च प्रयोजनं शास्त्रस्य त्रिविधम्-क्रियारूपम्, क्रियाफलम्, क्रियाफलस्य फलम्। तथा हि-शास्त्रस्य परप्रतिपादनायारभ्यमाणस्य कारणत्वं वा भवेत्, कर्तृत्वं वा, कर्तृकरणयोश्च साधनत्वान्न यथोक्तप्रयोजनव्यतिरिक्तं प्रयोजनमस्ति, क्रियापेक्षत्वात् साधनस्यात्रिविधस्यापिच क्रियादेस्तदविनाभावित्वात्तत्प्रयोजनत्वं युक्तमेव।साक्षात्पारम्पर्यकृतस्तु विशेषः। फलाख्यं तु प्रयोजनं प्रधानम्, तदर्थत्वात् क्रियारम्भस्य। तत्र सर्ववाक्यानां स्वाभिधेयप्रतिपादनलक्षणा क्रिया साधारणा, सा चातिप्रतीतया न प्रयोजनत्वेनोपदर्शनीया, तस्यां शास्त्रस्य व्यभिचाराभावात्। अनभिधेयत्वाशङ्काव्युदासार्थमुपदर्शनीयेति चेत्? न, अभिधेयकथनादेव तदाशङ्काया व्युदस्तत्वात्। नाप्यभिधेयविशेषप्रतिपिपादयिषया तदुपदर्शनम्, अभिधेयविशेषकथनादेव तस्य प्रतिपादितत्वात्। तस्मादसाधारणा या क्रिया सोपदर्शनीया। सा त्वस्य शास्त्रस्य विद्यत एव तत्त्वसंग्रहलक्षणा, यतोऽनेन शास्त्रेण तेषां तत्त्वानामिततस्ततो विप्रकीर्णानामेकत्रबुद्धौ विनाभिवेशलक्षणः संग्रहः क्रियते, अतस्तामेव संग्रहशब्देन दर्शितवान्। अनन्तैः गुणैः भगवतः स्तोतुमशक्यतया गुणविशेषेणैव स्तोतव्यः, स च प्रकृते प्रतीत्यसमुत्पाददेशनयैव। अथापरिमितगुणगणाधारे भगवति किमिति प्रतीत्यसमुत्पाददेशनयैव स्तोत्राभिधानम्? तदेतदचोद्यम्, सर्वत्रैव तुल्यपर्यनुयोगत्वात्। न च शक्यमपरिमितगुणोद्भावनया पूजाभिधानं कर्तुमिति गुणैकदेशोद्भावनयैव सा विधेया। तेन प्रतीत्यसमुत्पाददेशनोद्भावनया वा सा विहिता, अन्यथा वेति न कश्चिद्विशेषः।
Page #162
--------------------------------------------------------------------------
________________ 142 गद्यसंग्रहः तथाप्युच्यते विशेषः। तथाहि-यथाभूतगुणसम्पद्योगाद्यभ्युदयनि:-श्रेयसप्रापणतो जगतः शास्ता भवति भगवान्, स एवाभ्युदयनिःश्रेयसार्थिनां भगवच्छरणादिगमनहेतुरभिधानीयः। प्रतीत्यसमुत्पाददेशनया चाभ्युदयादिसम्प्रापको भगवान्। तथाहि-अविपरीतप्रतीत्यसमुत्पाददेशनातस्तदर्थावधारणात् सुगतिहेतुरविपरीतकर्मफलसम्बन्धादिसम्प्रत्यय उपजायते, पुद्गलधर्मनैरात्म्यावबोधश्च निःश्रेयसहेतुः श्रुतचिन्ताभावनाक्रमेणोत्पद्यते, तदुत्पत्तौ ह्यविद्या संसारहेतुर्विवर्तते / तन्निवृत्तौ च तन्मूलं सकलं क्लेशज्ञेयावरणं निवर्त्तत इति सकलावरणविगमादपवर्गसम्प्राप्तिर्भवति। तेन प्रतीत्यसमुत्पाददेशनाप्रधानमिदं भगवतः प्रवचनरत्नमित्यविपरीतप्रतीत्यसमुत्पादाभिधायित्वेन भगवतः स्तोत्राभिधानम्। तत्त्वसंग्रहद्वितीयभागात् रागादीनामात्मात्मीयग्रहमूलकत्वेन नैरात्म्यदर्शनान्निवृत्तिः। क्लेशज्ञेयावरणप्रहाणतो हि सर्वज्ञत्वम्, तत्र क्लेशा एव रागादयो भूतदर्शनप्रतिबन्धभावात् क्लेशावरणमुच्यते, दृष्टस्यापि हेयोपादेयतत्त्वस्य यत् सर्वाकारापरिज्ञानं प्रतिपादनासामर्थ्यं च तज्ज्ञेयावरणम्। तत्र क्लेशावरणस्य नैरात्म्यप्रत्यक्षीकरणात् प्रहाणिः। ज्ञेयावरणस्य तु तस्यैव नैरात्म्यदर्शनस्य सादरनिरन्तरदीर्घकालाभ्यासात्। तथाहि- अमी रागादयः क्लेशा वितथात्मदर्शनमूलका अन्वयव्यतिरेकाभ्यां निश्चिताः, न बाह्यार्थबलभाविनः, यतः सत्यपि बाह्यार्थे नायोनिशोमनस्कारमन्तरेणोत्पद्यन्ते / विनापि चार्थे नायोनिशोविकल्पसम्मुखीभावे समुत्पद्यन्ते। न च यत् सद्सत्तानुविधायि न भवति तत्तत्कारणं युक्तम्, अतिप्रसङ्गात्। नाप्येते परपरिकल्पितात्मसमवायिनः, तस्यात्मनो निरस्तत्वात्। सत्वपि वा तस्मिन्नित्यं रागादीनामुत्पत्त्यनपायप्रसङ्गात्। उत्पत्तिस्थितिकारणस्याविकलस्यात्मनः सर्वदा सन्निहितत्वात्। परैरनाधेयातिशयस्य तदपेक्षानुपपत्तेश्चेति बहुधा चर्चितमेतत्। आत्मदर्शनं कल्पितविषयकतया दुर्बलत्वाद् अकल्पित विषयकेण बलवता नैरात्म्यदर्शनेनैव बाद्धते सदसतोश्चाश्रयणनिषेधादयुक्तमेषां क्वचित् समवायित्वमित्यतो न नित्यहेतुप्रतिबद्धात्मस्थितयः। नापि बाह्यार्थबलभाविनः, किन्त्वभूतात्मदर्शन
Page #163
--------------------------------------------------------------------------
________________ तत्त्वसंग्रहद्वितीयभागात् 143 बलसमुद्भावितः। तथाहि-अहमित्यपश्यतो नात्मस्नेहो जायते, नापि ममेत्यगृह्णत आत्मसुखोत्पादानुकूलत्वेनागृहीते वस्तुन्यात्मीयत्वेनाभिष्वङ्गः समुद्भवति। द्वेषोऽपि न हि क्वचिदसक्तस्यात्मात्मीयप्रतिकूलत्वेनागृहीते वस्तुनि प्रादुर्भावमासादयति, आत्मीयानुपरोधिनि तदुपरोधप्रतिधातिनि च तस्यासम्भवात्। एवं मानादयोऽपि वाच्याः। तस्मादनादिकालिकं पूर्वपूर्वसजातीयाभ्यासजनितमात्मदर्शनमात्मीयग्रहं प्रसूते, तौ चात्मात्मीयस्नेहम्, सोऽपि द्वेषादिकम्इत्यन्वयव्यतिरेकाभ्यामात्मग्रहादात्मात्मीयग्रहमूलत्वमेषां स्फुटतरमागोपालाङ्गनमवसितमेव। आत्मदर्शनविरुद्धं च नैरात्म्यदर्शनं, तद्विपरीताकारालम्बनत्वात्। अनयोर्हि युगपदेकस्मिन् सन्ताने रजौ सर्पतज्ज्ञानयोरिव सहावस्थानमैक्यं च विरुद्धम्। अतो नैरात्म्यदर्शनस्यात्मदर्शनविरोधात् तन्मूलैरपि रागादिभिःसहविरोधो भवति, दहनविशेषे शीतकृतरोमहर्षादिविशेषस्य। तेन सर्वदोषविरोधिनैरात्म्यदर्शने प्रत्यक्षीकृते सति न तद्विरुद्धोरागादिदोषगणोऽवस्थानं लभते तिमिरवदालोकपरिगते देश इति। अतो नैरात्म्यदर्शनात् क्लेशावरणप्रहाणं भवति। प्रयोगः- यत्र यद्विरुद्धवस्तुसमवधानम्, न तत्र तदपरमवस्थितिमासादयति, यथा दीपप्रदीपप्रभाप्रसरणसंसर्गिणी धरणितले तिमिरम्। अस्ति च दोषगणविरुद्धनैरात्म्यदर्शनसमवधानं प्रत्यक्षीकृतनैरात्म्यदर्शने पुंसीति विरुद्धोपलब्धिः। __ स्यादेतत्-यथा नैरात्म्यदर्शनसमाक्रान्ते चेतसि विरुद्धतयाऽऽत्मदर्शनस्योत्पत्तुमनवकाशः, तथा नैरात्म्यदर्शनस्याप्यात्मदर्शनसमाक्रान्ते,मनसि, विरोधस्य तुल्यत्वात्, ततश्च कस्यचिन्नैरात्म्यदर्शनस्यासम्भवादसिद्धो हेतुः / सम्भवतु वा नैरात्म्यदर्शनम्, तथाप्यनयोर्विरोधे सत्यपि नात्यन्तं बाध्यबाधभावः सिद्ध्यति, यथा-रागद्वेषयोः, सुखदुःखयोर्वा, यतोऽत्यन्तप्रहाणमिह साधयितुमिष्टम्, न तु तावत्कालसमुदाचारमात्रमिति। अतोऽनैकान्तिकता हेतोः। दृश्यन्ते च प्रतिदिनमनुमानबलावधारितसमस्तवस्तुगतनैरात्म्यतत्त्वानामपि लतामखण्डितमहिमानो रागादयः समुदयमासादयन्त इत्यतोऽपिहेतो.कान्तिकेति? नैतदस्ति, यदि नैरात्म्यविकल्पस्योत्पादोऽप्रहीणक्लेशस्य सन्ताने न संभवेत्। तदा न सम्भवेन्नैरात्म्यदर्शनोदयावकाशः, यावताऽनुभवसिद्धस्तावन्नैरात्म्यविकल्पसम्मुखीभावः सर्वेषामेव। स एव च भावनया कामिनीविकल्पवत् प्रकर्ष
Page #164
--------------------------------------------------------------------------
________________ 144 गद्यसंग्रहः गमनसम्भवादन्ते स्फुटप्रतिभासतया,प्रमाणप्रतीतार्थग्राहितया च प्रत्यक्षतामापद्यत इति कथं नैरात्म्यदर्शनोदयासम्भवः। __ अपिच-यथाऽन्धकारपरिगते देशे कालान्तरेण प्रकाशोदयावकाशसम्भवस्तथा, इहापि किं न सम्भाव्यते। न चाप्येवं शक्यं वक्तुम्- सैव तादृशी भावना न कस्यचित् सम्भवति, या तथा भूतप्रत्यक्षज्ञानफला भवेदिति, तादृशी भावना न कस्यचित् सम्भवति, या तथा भूतप्रत्यक्षज्ञानफलाभवदिति, यतोऽसम्भवे कारणं वचनीयम्। तथाहि भावनायामप्रयोगे सर्वेषामेवानर्थित्वं वा कारणं भवेत्, प्रेक्षावतः प्रवृत्तेरर्थितया व्याप्तत्वात्? सत्यप्यर्थित्वे प्रहेयस्वरूपापरिज्ञानाद्वा न प्रवर्त्तते प्रेक्षावान्, अनितिस्वरूपस्य दोषस्य हातुमशक्यत्वात्? सत्यपि तत्स्वरूपज्ञाने नित्यत्वं वा दोषाणां पश्यंस्तत्प्रहाणाय न यत्नमारभते, नित्यस्य प्रहाणासम्भवात्? असत्यपि वा नित्यत्वे निर्हेतुकत्वमेषामवगम्य निवर्त्तते, स्वतन्त्रस्यासम्भवदुच्छेदत्वात्? सत्यपिवा कारणवत्त्वे तत्कारणस्वरूपानिश्चयादपि नाद्रियते भावनायाम्, अविज्ञातनिदानस्य व्याधेरिव प्रहातुमशक्यत्वात् भवतु वा तत्कारणपरिज्ञानम्, किं तत्कारणं नित्यमवगम्य नोत्सहते तत्प्रहाणाय प्रेक्षापूर्वकारी, अविकलकारणस्य प्रतिबद्धमशक्तेः? अनित्यत्वेऽपि वा तत्कारणस्य दोषाणां प्राणिधर्मतामवेत्य न प्रयतते, स्वभावस्य हातुमशक्यत्वात्? अस्वभावत्वेवादोषाणां क्षयोपायासम्भवान् निवर्त्तते, नापायविकलस्योपेयसम्प्राप्तिरस्ति? एतत्त्वेऽपि चोपायस्य तदपरिज्ञानादसम्भवत्तदनुष्ठानो भवेत्, अपरिज्ञातस्वरूपस्यानुष्ठानासम्भवात्? परिज्ञानेऽपि वा लङ्घनादिव व्यवस्थितोत्कर्षतया जन्मान्तरासम्भवेन वा भावनाया अत्यन्तप्रकर्षमसम्भावयन्नाभियोगवान् भवति? भवतु वाऽत्यन्तप्रकर्षगमनमसम्भवात् प्रतिपक्षोदयेन दोषाणां क्षयः, तथापि ताम्रादिकाठिन्यवत् पुनरपि दोषोदयं सम्भावयन्नाभियोगमारभत इति? तत्र न तावदनर्थित्वं सिद्धम् / तथाहि-येतावज्जात्यादिदु:खोत्पीडितमानसाः संसारादुत्त्रस्तमनसस्तदुपशममात्मनः प्रार्थयन्ते, तेषां श्रावकादिबोधनियतानां संसाराद् भयमेव नैरात्म्यभावनार्थित्वनिमित्तम्। ये तु गोत्रविशेषात् प्रकृत्यैव परहितकरणैकाभिरामाः संस्कारादिदुःखतात्रितयपरिपीडितं जगदवेक्ष्य कृपापरतन्त्रतया तदुःखदुःखिनःस्वात्मनि व्यपेक्षामपास्य सकलानेव संसारिण आत्मत्वेनाभ्युपगतास्तत्परित्राणाय प्रणिदधते, तेषां करुणैव भावना प्रवृत्तिनिमित्तम्,
Page #165
--------------------------------------------------------------------------
________________ तत्त्वसंग्रहद्वितीयभागात् 145 परोक्षेपयतद्धेतोस्तदाख्यानस्य दुष्करत्वात्। परहितकरणेन प्रेक्षावत: किंप्रयोजनमिति चेत्? न, तदेव प्रयोजनमिष्टलक्षणत्वात्तस्यान चाप्रेक्षावत्त्वप्रसङ्गः, परिकल्पितात्मग्रहनिबन्धनत्वादात्महितकरणाभिनिवेशस्य सकलसाधुजनसम्मतत्वात्, स्वफलानुबन्धित्वाच्च परहितकारणस्य। अपि च-भावनाप्रवृत्तावर्थित्वासम्भवोऽत्र प्रतिपादयितुमारब्धः, तद्यदि नामाप्रेक्षावत्त्वं तस्य भवेत् किमियता प्रवृत्तावनर्थित्वं तस्य स्यात्। तस्मादिदमेव वक्तव्यम्-परहितकरणाय नैव कश्चित् प्रवर्त्तते प्रयोजनाभावादिति। तत्र चोक्तम्। अपि च-यथा केचिदुपलभ्यन्तेऽतितरामभ्यस्त घृण्या अकारणमेव परव्यसनाभिरामाः परदुःख सुखिनः, तथा केचिदभ्यस्तकारुण्याः परसुखाभिरामाः परदुःख दुःखिनः प्रयोजनान्तरमन्तरेणापि भवतीति किं न सम्भाव्यम्। नापि दोषस्वरूपापरिज्ञानम्, यतोऽभिष्वगपरिघातात्सात्मीयोनत्याद्याकरण रागद्वेषमोहमानमदेामात्सर्यादयः क्लेशोपक्लेशगणा विदितस्वरूपा एवोदयन्ते व्ययन्ते च। नापिचते नित्याः, कादाचित्कतया संवेद्यमानत्वात्। अत एव नाहेतुकत्वमेषाम्, अहेतोरनपेक्षितत्वेन देशकालस्वभावनियमायोगात्। अतोऽपि नित्यहेतुत्वमेषां प्रतिक्षिप्तम्, तत्कारणस्यात्मादेः सदा सन्निहितत्वादनाधेयातिशयस्य परैः सहकारिनिरपेक्षत्वात्। तन्मात्रभाविनां सर्वदा युगपच्चोत्पत्तिप्रसङ्गात्। अतः सामर्थ्यादनित्यहेतव एवैते। अनित्योऽपि हेतुरेषां विदितस्वरूप एव, आत्मात्मीयविपर्यासहेतुकत्वाद् रागादेर्दोषगणस्य तदन्वयव्यतिरेकानुविधानादिति पूर्वं प्रतिपादितत्वात्। नापि प्राणिधर्मत्वमेषाम्, तस्यैव धर्मिणोऽसिद्धेः। नहि प्राणी नाम धर्मी विद्यते कश्चित्, यस्यामी रागादयो धर्मा भवेयुः। केवलमिदम्प्रत्ययतामात्रमिदम्, विकल्पसमारोपितत्वाद् धर्मधर्मिव्यवहारस्य। अथ चित्तस्वभावत्वेन तत्रोत्पत्त्या वा प्राणिधर्मत्वमेषाम्, तथाप्यसिद्धिरनैकान्तिकश्च। तथाहि-विषयविषयिभावमिच्छता चित्तं विषयग्रहणस्वभावमभ्युपेयम्, अन्यथा विषयज्ञानयोर्न विषयविषयिभावः। अर्थग्रहणस्वभावत्वेनाङ्गीक्रियमाणे यस्तस्य स्वभावस्तेनैवात्मनोऽशोऽर्थस्तेन गृह्येत इति वक्तव्यम्, अन्यथा कथमसौ गृहीतः स्यात्। यद्यसताऽऽकारेण गृह्येत, ततश्च विषयविषयिभावो न स्यात्।तथाहि- यथा ज्ञानं
Page #166
--------------------------------------------------------------------------
________________ 146 गद्यसंग्रहः विषयीकरोत्यर्थं न तथा सोऽर्थः, यथा सोऽर्थो न तथा तं विषयीकरोतीति निर्विषयाण्येव ज्ञानानि स्युः। ततश्च सर्वपदार्थासिद्धिप्रसङ्गः। तस्माद्भूतविषयाकारग्राहिताऽस्य स्वभावो निज इति स्थितम्। भूतश्च स्वभावो विषयस्य क्षणिकानात्मादिरूप इति प्रतिपादितमेतत्। तेन नेरात्म्यग्रहणस्वभावमेव चित्तम्, नात्मग्रहणस्वभावम्। यत् पुनरन्यथास्वभावोऽस्य ख्यातिः, तदा तां स सामर्थ्यादागन्तुकप्रत्ययबलादेवेत्यवतिष्ठते, न स्वभावत्वेन, यथा रज्ज्वां सर्पप्रत्ययस्य। अत एव क्लेशगणोऽत्यन्तसमुद्धतोऽपि नैरात्म्यदर्शनसामर्थ्यमस्योन्मूलयितुमसमर्थः, आगन्तुकप्रत्ययकृतत्वेनादृढत्वात्। नैरात्म्यज्ञानंतु स्वभावत्वात्प्रमाणसहायत्वाच्च बलवदिति तुल्येऽपि विरोधित्वे आत्मदर्शने प्रतिपक्षो व्यवस्थाप्यते।न चात्मदर्शनं तस्य, तद्विपरीतत्वात्। यस्यापि न बाह्योऽर्थोऽस्तीतिपक्षः, तस्यापि मते नैरात्म्यग्रहणस्वभावमेव ज्ञानम्, नात्मदर्शनात्मकम्, तस्यात्मनोऽसत्वात्। तथा हि-यदि नाम तेन विषयस्याभावात् तदग्रहणात्मकं ज्ञानं नेष्ट म्, स्वसंवेदानात्मकं तु तदवश्यमगीकर्तव्यम्, अन्यथा ज्ञानस्यापि व्यवस्था न स्यात्। स चात्मा विद्यमानेनैवात्माद्वयादिरूपेण संवेद्यः नान्यथा, पूर्ववद्दोषप्रसगात्। तस्मात् प्राणिधर्मत्वमेषामसिद्धम्। नापि तत्रोत्पद्यत इत्येतावता स्वभावत्वे परिकल्पिते प्रहाणासम्भवः, अनेकान्तात्। तथाहि-रज्ज्वां सर्पज्ञानमुत्पद्यते, अथ च तत्सम्यग्ज्ञानोत्पादानिवर्त्तते। नापि क्षयोपायासम्भवः, स्वहेतुविरुद्धस्वभावपदार्थाभ्यासस्य क्षयोपायत्वेन सम्भवात्। तथाहि-ये सम्भवत्स्वहेतुविरुद्धस्वभावभ्यासाः, ते सम्भवदत्यन्तसन्तानविच्छेदाः, तद्यथा व्रीह्यादयः, तथा चामी रागादय इति सम्भवत्येवैषां क्षयोपायः। ___ नापि तदपरिज्ञानम्, यतो हेतुस्वरूपज्ञानादेव यत् तद्विपरीतालम्बनाकारं वस्तु स तस्य प्रतिपक्ष इति स्फुटमवसीयत एव। नैरात्म्यदर्शनं च तत्र विपरीतालम्बनाकारत्वात् प्रतिपक्ष इति प्रदर्शिमेतत्। नापि लङ्घनादिवद् व्यवस्थितोत्कर्षता, पूर्वपूर्वाभ्यासाहितस्य स्वभावत्वेनानपायादुत्तरोत्तरप्रयत्नस्यापूर्वविशेषाधानैकनिष्ठत्वात्, स्थिराश्रयत्वात्,
Page #167
--------------------------------------------------------------------------
________________ तत्त्वसंग्रहद्वितीयभागात् 147 पूर्वसजातीयबीजप्रभवत्वाच्च प्रज्ञादेः। न त्वैवं लङ्घनादिरिति पश्चात् प्रतिपादयिष्यते। नापि जन्मान्तरासम्भवः, पूर्वजन्मप्रसरस्य प्रसाधितत्वात्। नापि ताम्रादिकाठिन्यादिवत् पुनरुत्पत्तिसम्भवो दोषाणाम्, तद्विरोधिनैरात्म्यदर्शनस्यात्यन्तसात्म्यमुपगतस्य सदाऽनपायात्। ताम्रादिकाठिन्यस्य हि यो विरोधी वह्निस्तस्य कादाचित्सन्निहितत्वात् काठिन्यादेस्तदभाव एव भवत: पुनस्तदपायादुत्पत्तिर्युक्ता, न त्वेवं मलानाम्।अपायेऽपि वा मार्गस्य भस्मादिभिरनैकान्तान्नावश्यं पुनरुत्पत्तिसम्भवो दोषाणाम्, तथाहिकाष्ठादेरग्निसम्बन्धाद् भस्मसाद्भूतस्य तदपायेऽपि न प्राक्तनरूपानुवृत्तिः, तद्वद् दोषाणामपीत्यनैकान्तः। किञ्च-आगन्तुकतया प्रागप्यसमर्थानां मलानां पश्चात्सात्मीभूतं तन्नैरात्म्यं बाधितुं कुतः शक्तिः। न हि स्वभावो यत्नमन्तरेण निवर्तयितुं शक्यते। न च प्राप्यपरिहर्त्तव्ययोर्वस्तुनोर्गुणदोषदर्शनमन्तरेण प्रेक्षवतां हातुम्, उपादातुं वा प्रयत्नो युक्तः। न च विपक्षस्यात्मनः पुरुषस्य दोषेषु गुणदर्शनम्, प्रतिपक्षे वा दोषदर्शनं सम्भवति, अविपर्यस्तत्वात् / न हि निर्दोष वस्तुविपर्यस्तधियो दुष्टत्वेनोपाददते, नापि दुष्टं गुणवत्त्वेन। न च नैरात्म्यदर्शनस्य कदाचित् दुष्टता, सर्वोपद्रवरहितत्वेन गुणवत्त्वात्। तथाहि-नि:शेषरागादिमलस्यापगमान्न भूतार्थदर्शननिबन्धोपद्रवः। नापि रागादिपर्यवस्थानकृतः कायचित्तपरिदाहोपद्रवोऽस्ति। नापि जन्मप्रतिबद्धो व्याधिजराद्युपद्रवः, जन्महेतोः क्लेशस्याभावात्। नापि साश्रवसुखोपभोगवद् वैरस्योपद्रवः, प्रशमसुखरसस्यैकान्ततयाऽनुद्वेगकरत्वात्। तन्नास्य हानाय यत्नो युक्तः। अपि तु यदि भवेदपरिहाणायैव भवेत्, बुद्धेः प्रकृत्या गुणपक्षपातात्। - नापि दोषोपादानामप्रयत्नः, तेषां सर्वोपद्रवास्पदत्वेन दुष्टत्वात् / तस्मात् सम्भाविनी नैरात्म्यभावना। तस्याश्च प्रकर्षपर्यन्तगमनात् स्फुटप्रतिभासज्ञानफलत्वं दृष्टम्, यथा कामिनीं भावयतः कामातुरस्य। तथाहि तस्य सविभ्रमाः पश्याम्युपगृह इत्येवं वाचः कायव्यापाराश्चाभिप्रायानुरूपाः साक्षात्कारिनिबन्धनाः प्रवर्त्तन्ते। तस्मान्नासिद्धो हेतुः। नाप्यनैकान्तिकः, यतो नैरात्म्यदर्शनस्य भूतार्थविषयत्वेन बलवत्वम्, आत्मदर्शनस्य तु विपर्ययाद् विपर्यय इति भवति विपक्षप्रतिपक्षभावः। रागद्वेषयोरप्यभूतात्मग्रहसंस्पर्शेन प्रवृत्तेन तयोविरुद्धरूपग्रहणनिमित्तौ विपक्षप्रतिपक्षभावः।
Page #168
--------------------------------------------------------------------------
________________ 148 गद्यसंग्रहः नापि विपर्यासात्, अविपर्यासकृतोर्द्वयोरपि विपर्यस्तत्वात्। नाप्यनयोर्विरोधः सिद्धः द्वयोरप्यात्मग्रहै कयोनित्वात्, कार्यकारणभावाच्च तथाहि-सत्यात्मात्मीयाभिष्वङ्गे तदुपरोधिनि द्वषो जायते, नान्यथा। न चाभिनकारणयोः कार्यकारणभूतयोर्बाध्यबाधकभावो युक्तः, यथा वह्निभूमयोरेकेन्धनप्रभवयोः, यथा वात्मग्रहस्नेहयोः, अतिप्रसङ्गात्। युगपदनुत्पत्तिस्तु तदुपादानचित्तस्य युगपत् सजातीयचित्तद्वयाक्षेपासामर्थ्यात्। नापि सुखदुःखयोः परस्परं विरोधः, तथाहि द्विविधै सुखदुःखे-मानसे, विषयजे च। तत्र ये तावन्मानसे, तयोर्द्वषानुनयसम्प्रयोगित्वाद् रागद्वेषाभ्यामेकयोगक्षेमतया तद्विपर्यस्तत्वमभिन्नात्मरूपग्राहित्वमात्मग्रहैकयोनित्वं कार्यकारणभावश्चेति न परस्परं विरोधः सम्भवति। ये च विषयजे, तयोरपि परस्परं कारणभेदाप्रतिनियमान्न विरोधः। तथा हि-यत एव सुखमुत्पद्यते तत एवातिसेव्यमानत्वाद् दुःखमपीति नानयोःकारणभेदप्रतिनियमोऽस्ति, न त्वेवं नैरात्म्यदर्शनस्येतरेण। किञ्च-द्वयोरप्यनयोर्विषयबलभावित्वेन तुल्यबलत्वम्, नतु मार्गदोषयोः, मार्गस्यैव भूतार्थविषयत्वेन बलवत्त्वात्, न दोषाणाम्। अपि खलु सुखदुःखे अचिरस्थितिके, न तु पुनरैवं नैरात्म्यदर्शनम्, तस्य सात्मत्वेन सदानपायादिति पूर्वमुक्तम्, अतो न व्यभिचारः। युगपदनुत्पत्तेस्तु कारणमुक्तम्। यत् पुनरुक्तम्-अनुमानबलावधारितरात्म्यानामपि समुत्पद्यन्ते रागादय इति, तदयुक्तम्, यस्माद् भावानामयं स्फुटप्रतिभासतया निरात्मकवस्तुसाक्षात्कारिज्ञानमविकल्पकं प्रमाणप्रसिद्धार्थविषयतया चाभ्रान्ततन्नैरात्म्यदर्शनमात्मदर्शनस्यात्यन्तोन्मूलनप्रतिपक्षो वर्णितः, न श्रुतचिन्तामयम्। यस्मादनादिकालाभ्यासादत्यन्तोपारूढमूलत्वान्मलानां क्रमेणेव विपक्षवृद्ध्याऽवहसतां क्षयः, न तु सकृच्छ्रवणेन / यथा शीतस्पर्शस्य वह्निरूपसम्पर्कमात्रान्न क्षयः। न चापि श्रुतचिन्तामयनैरात्म्यज्ञानसम्मुखीभावे सति रागादिसमुदयः सिद्धो येन व्यभिचारः स्यात्।तथाहि-समुत्पन्नं रागादिपर्यवस्थानमशुभादिमनस्कारबलेन विनोदयन्त्येव सौगताः। अत एवाखण्डितमहिमत्वमेषामसिद्धम्। विरोधोऽपि नैरात्म्यदर्शनेनैषामत एव व्यवस्थाप्यते, तत्सम्मुखीभावे सत्यपकर्षात्। तथा हि यदुपधानादपकर्षधर्माणस्ते तदत्यन्तवृद्धौ निरन्वयसमुच्छित्तिधर्माणो भवन्ति, यथा सलिलादिवृद्धावग्निज्वाला। नैरात्म्यज्ञानोपधानाच्चापकर्षधर्माणो दोषा इति तदत्यन्तवृद्धौ कथमवस्थां लभेरन्। अतो नानैकान्तिकता हेतोः। सपक्षे भावाच्च न विरुद्धता।
Page #169
--------------------------------------------------------------------------
________________ 149 सौगतसिद्धान्तसारसंग्रहात्– प्रसन्नपदा माध्यमिकवृत्तिः प्रतीत्यसमुत्पादो द्विविध सांवृतः पारमार्थिकश्च आद्यः संसाररूपः द्वितीयो निर्वाणरूपः अत्र अनिरोधाद्यष्टविशेषणविशिष्ट : प्रतीत्यसमुत्पादः शास्त्राभिधेयार्थः। सर्वप्रपञ्चोपशमशिवलक्षणं निर्वाणंशास्त्रस्य प्रयोजनम्।प्रतीत्यशब्दोऽत्र ल्यबन्तः प्राप्तावपेक्षायां वर्तते। समुत्पूर्वः पदिः प्रादुर्भावे वर्तते / ततश्च हेतुप्रत्ययापेक्षो भावानामुत्पादः प्रतीत्यसमुत्पादार्थः। 'अस्मिन् सतीदं भवति, ह्रस्वदीर्घ यथा . सति।' हेतुप्रत्ययापेक्षं भावानामुत्पादं परिदीपयता भगवता (बुद्धेन) अहेत्वेकहेतुविषमहेतुसंभूतत्वं स्वपरोभयकृतत्वं च भावानां निषिद्धं भवति। तनिषेधाच्च सांवृतं स्वरूपमुद्भासितं भवति। स एवेदानीं सांवृतः प्रतीत्यसमुत्पादः। स्वभावेनानुत्पन्नत्वात् आर्यज्ञानापेक्षया नास्मिन् निरोधो विद्यते। यथा च निरोधादयो न सन्ति प्रतीत्यसमुत्पादस्य तथा सकलशास्त्रेण प्रतिपादयिष्यति। यथावस्थितप्रतीत्यसमुत्पाददर्शने सति आर्याणामभिधेयादिलक्षणस्य प्रपञ्चस्य सर्वथोपरमात् स एव प्रतीत्यसमुत्पादःप्रपञ्चोपशम इत्युच्यते।ज्ञानज्ञेयव्यवहारनिवृत्तौ जातिजरामरणादि निःशेषोपद्रवरहितत्वात् शिवः। (स एवेदानीं पारमार्थिकः प्रतीत्यसमुत्पादः)। सर्वधर्माणां मृषात्वं जानतः संसारो न भवति नन्वेवं सति यन् मृषा, न तदस्तीति, न सन्त्यकुशलानि कर्माणि। तदभावान् न सन्ति दुर्गतयः। न सन्ति कुशलानि कर्माणि, तदभावान् न सन्ति सुगतयः। सुगतिदुर्गत्यसंभवाच्च नास्ति संसार इति सर्वारंभवैयर्थ्यमेव स्यात्। उच्यते। संवृतिसत्यव्यपेक्षया लोकस्येदं सत्याभिनिवेशस्य प्रतिपक्षभावेन मृषार्थता भावानां प्रतिपाद्यतेऽस्माभिः। नैव त्वार्याः कृतकार्याः किंचिदुपलभन्ते यन् मृषाऽमृषा वा स्यादिति। अपि च येन हि सर्वधर्माणां मृषात्वं परिज्ञातं किं तस्य कर्माणि सन्ति संसारो वास्ति।
Page #170
--------------------------------------------------------------------------
________________ 150 गद्यसंग्रहः शून्यताया निर्वाणत्वोक्त्या नास्तिक्यं न भवति न वयं नास्तिका:। अस्तित्वनास्तित्वद्वयवादनिरासेन तु वयं निर्वाणपुरगामिनमद्वयपथं विद्योतयामः। न च कर्मकर्तृफलादिकं नास्तीति ब्रूमः। किं तर्हि? नि:स्वभावमेतदिति व्यवस्थापयामः। तस्माद् द्वयवादिनां स्वभावानभ्युपगमात् शाश्वतोच्चन्दर्शनद्वयप्रसङ्गो नास्तीति विज्ञेयम्। शून्यतैव सर्वप्रपञ्चनिवृत्तिलक्षणत्वान् निर्वाणमित्युच्यते। नास्तिकमाध्यमिकयोर्भेदः अत्रैके परिचोदयन्ति नास्तिकाविशिष्टा माध्यमिका इति। नैवम्। कुतः? प्रतीत्यसमुत्पादवादिनो हि माध्यमिकाः सर्वमेवेहलोकपरलोकं निःस्वभावं वर्णयन्ति। नास्तिकास्तु ऐहिकलौकिकं वस्तुजातं स्वभावत उपलभ्य पदार्थापवादं कुर्वन्ति। संवृत्या माध्यमिकैरस्तित्वेनाभ्युपगमान्न (नास्तिकै:) तुल्यता। वस्तुतस्तुल्यतेति चेत्। यद्यपि वस्तुतोऽसिद्धिस्तुल्या तथापि प्रतिपत्तृभेदादतुल्यता। यथा हि कृतचौर्यं पुरुषमेकः सम्यगपरिज्ञायैव तदमित्रप्रेरितस्तं मिथ्या व्याचष्टे चौर्यमनेन कृतमिति। अपरस्तु साक्षाद् दृष्ट्वा दूषयति। तत्र यद्यपि वस्तुतो नास्ति भेदस्तथापि परिज्ञातृभेदादेकस्तत्र मृषावादीत्युच्यते अपरस्तु सत्यवादीति। निर्वाणबोधोपायतया संवृतिरभ्युपगन्तव्या समन्ताद् वरणं संवृत्तिः। अज्ञानं हि समन्तात् सर्वपदार्थतत्त्वानाच्छादनात् संवृतिरित्युच्यते। परस्परसंभवनं वा संवृतिरन्योन्यसमाश्रयेण। अथवा संवृत्तिः संकेतो लोकव्यवहारः। स चाभिधानाभिधेयज्ञानज्ञेयादिलक्षणः। कुतस्तत्र परमार्थे वाचां प्रवृत्तिः कुतो वाज्ञानस्य। स हि परमार्थोऽपरप्रत्ययः शान्तः सर्वपपञ्चातीतः।सनोपदिश्यते नापिचज्ञायते।किंतुलौकिकव्यवहारमनभ्युपगम्याशक्य एव परमार्थो देशयितुम्। अदेशितश्च न शक्योऽधिगन्तुम्। अनधिगम्य च परमार्थं नशक्यं निर्वाणमधिगन्तुम्। तस्मान् निर्वाणाधिगमोपायत्वादवश्यमेव यथावस्थिता संवृतिरादावेवाभ्युपेया भाजनमिव सलिलार्थिनेति। अशेषकल्पनाक्षयो निर्वाणं, सैव शून्यता भावरूपेणाऽभावरूपेण वा गृह्यमाणा शून्यता ग्रहीतारं विनाशयति / तदास्य मिथ्यादृष्टिरापाद्यते। यस्येयं शून्यता क्षमते तस्य सर्वे लौकिकाः संव्यवहाराः
Page #171
--------------------------------------------------------------------------
________________ सौगतसिद्धान्तसारसंग्रहात् 151 युज्यन्ते।आगमनगमनभावजन्ममरणपरम्परारूपो य आजवंजवीभाव:स कदाचिद् हेतुप्रत्ययसामग्रीमाश्रित्यास्तीति प्रज्ञाप्यते। दीर्घह्रस्ववत्। कदाचिदुत्पद्यते इति प्रज्ञप्यते प्रदीपप्रभावद् बीजांकुरत्वात्। प्रतीत्यसमुत्पादस्यैव यथावदविपरीतभावनातोऽविद्या प्रहीयते। प्रहीणाविद्यस्य च संस्कारादयो निरुध्यन्ते। वस्तुतस्तु निर्वाणे न कस्यचित् प्रहाणं नापि कस्यचिद् निरोध इति विज्ञेयम्। ततश्च निः शेषकल्पनाक्षयरूपमेव निर्वाणम्। तदेव शून्यता। अन्यथात्वेन भावानां सस्वभावतासाधनम् यदि भावानां स्वभावो न स्यात्, तदानीं नैवैषामन्यथात्वमुपलभ्येत। उपलभ्यते च परिणामः। तस्मात्स्वभावानवस्थायित्वमेव सूत्रार्थ इति विज्ञेयम्। इतश्चैतदेवम्। यस्मात् अस्वभावो भावो नास्ति भावानां शून्यता यतः // यो ह्यस्वभावो भावः, स नास्ति। भावानां च शून्यता धर्म इष्यते। न च असति धर्मिणि तदाश्रितो धर्म उपपद्यते। न हि असति वन्ध्यातनये तच्छ्यामतोपपद्यत इति। तस्मादस्त्येव भावानां स्वभाव इति / अव्यभिचारिणो धर्मस्यैव स्वभावतया अन्यथात्वं सस्वभावताबाधकम् इह हि यो धर्मो यं पदार्थं न व्यभिचरति, स तस्य स्वभाव इति व्यपदिश्यते, अपरप्रतिबद्धत्वात्। अग्रौष्ण्यं हि लोके तदव्यभिचारित्वात् स्वभाव इत्युच्यते / तदेव औष्ण्यमप्सूपलभ्यमानं परप्रत्ययसंभूतत्वात्कृत्रिमत्वान्न स्वभाव इति। यदा चैवमव्यभिचारिणा स्वभावेन भवितव्यम्, तदा अस्य अव्यभिचारित्वादन्यथाभावः स्यादभावः। न हि अग्निः शैत्यं प्रतिपद्यते। एवं भावानां सति स्वभावाभ्युपगमेऽन्यथात्वमेव न संभवेत्। उपलभ्यते चैषामन्यथात्वम्। अतो नास्ति स्वभावः। संसारिणोऽभावेन संसरणस्यासम्भवतया न संसारेण भावानां स्वभावः सिद्धयति विद्यत एव भावानां स्वभावः, संसारसद्भावात्। इह संसरणं संसृतिःगतेर्गत्यन्तरगमनं संसार इत्युच्यते। यदि भावानां स्वभावो न स्यात्, कस्य गतेर्गत्यन्तरगमनं संसारः
Page #172
--------------------------------------------------------------------------
________________ 152 गद्यसंग्रहः स्यात्? न हि अविद्यमानानां बन्ध्यासूनुसंस्काराणां संसरणं दृष्टम्। तस्मात् संसारसद्भावात् विद्यत एव भावानां स्वभाव इति। उच्यते। स्याद्भावानां स्वभावः, यदि संसार एव भवेत्। न त्वस्ति। इह यदि संसारः स्यात्, स नियतं संस्काराणां वा भवेत् सत्त्वस्य वा? किं चात:? उभयथा च दोष इत्याह संस्काराः संसरन्ति चेन्न नित्याः संसरन्ति ते / संसरन्ति च नानित्याः सत्त्वेऽप्येष समः क्रमः // 1 // तत्र यदि संस्काराः संसरन्तीति परिकल्प्यते, किं ते नित्याः संसरन्ति उत अनित्या:? अत्र न नित्याः संसरन्ति निष्क्रियत्वात्, अनित्यानां च घटादीनां सक्रियत्वोपलम्भात्। अथानित्याः, ये हि अक्रियाः, ते उत्पादसमनन्तरमेव विनष्टाः। ये च विनष्टाः, कुतस्तेषामविद्यमानत्वाद् बन्ध्यासूनुसंस्काराणामिव क्वचिद् गमनम्? इत्येवमनित्यानामपि नास्ति संसारः। सत्यं संस्कारा न संसरन्ति उत्पत्तिविधुरत्वात्, किं तर्हि सत्त्वः संसरतीति। उच्यते। सत्त्वेऽप्येष समः क्रमः। सत्त्वः संसरतीत्युच्यमाने किमसौ नित्यः संसरति, उत अनित्यः, इति विचार्यमाणे य एव संस्काराणां संसरणानुपपत्तिक्रमः, स समत्वात्सत्त्वेऽपि समो निपतति। तस्मात्सत्त्वोऽपि न संसरति। नैव हि सत्त्वसंस्काराणां संसारानुपपत्तिक्रमः समो भवितुमर्हति, यस्मादिह संस्काराणां नित्यानित्यभूतानां संसरणं नास्तीत्युक्तम्। न चैवमात्मा नित्यानित्यभूतः। तस्य हि स्कन्धेभ्यस्तत्त्वान्यत्वावक्तव्यतावत् नित्यत्वेनानित्यत्वेनाप्यवक्तव्यता व्यवस्थाप्यते। तस्मादात्मैव संसरतीति न चोक्तदोषप्रसङ्ग इति। उच्यते - पुद्गलः संसरति चेत्स्कन्धायतनधातुषु / पञ्चधा मृग्यमाणोऽसौ नास्ति कः संसरिष्यति // 2 // यदि पुद्गलो नाम कश्चित् स्यात्, स संसरेत्। न त्वस्ति। यस्मात् स्कन्धायतनधातुषु पञ्चधा मृग्यमाणो नास्ति। कथं कृत्वा? इन्धनं पुनरग्निर्न नाग्निरन्यत्र चेन्धनात् / नाग्निरिन्धनवान्नानाविन्धनानि न तेषु सः॥ (मध्यमकशास्त्र-१०/१४) / अग्नीन्धनाभ्यां व्याख्यात आत्मोपादनयोः क्रमः // (मध्यमकशास्त्र-१०/१५) //
Page #173
--------------------------------------------------------------------------
________________ सौगतसिद्धान्तसारसंग्रहात् 153 इत्येवं स्कन्धायतनधातुस्वभाव आत्मा न भवति। नापि तेभ्यो व्यतिरिक्तः। न स्कन्धायतनधातुमान्। न स्कन्धायतनधातुष्वात्मा। नात्मनि स्कन्धायतनधातवः। इत्येवं पञ्चधा मृग्यमाण आत्मा न संभवति पूर्वोदितेन न्यायेन। यश्चेदानीं स्कन्धायतनधातुष्वेवं विचार्यमाणः पञ्चधा न संभवति, स कथमविद्यमानः संसरिष्यतीति? एवमात्मनोऽपि नास्ति संसारः, बन्ध्यासुतस्येव अविद्यमानत्वात् // 2 // निर्वाणस्याभावेन तत्प्रतिद्वन्द्विकतयाऽपि संसारो न सिद्धयति विद्यत एव संसारः, प्रतिद्वन्द्विसद्भावात्। इह यो नास्ति, न तस्य प्रतिद्वन्द्वी विद्यते, तद्यथा बन्ध्यासूनोरिति। अस्ति च संसारस्य प्रतिद्वन्द्वि निर्वाणम्। तस्मादस्ति संसार इति। उच्यते। स्यात्संसारः, यदि तत्प्रतिद्वन्द्वि निर्वाणं स्यात्। न त्वस्तीत्याह संस्काराणां न निर्वाणं कथंचिदुपपद्यते / सत्त्वस्यापि न निर्वाणं कथंचिदुपपद्यते // यदि निर्वाणं न किंचित् स्यात्, तत् परिकल्प्यमानं संस्काराणां नित्यानां वा परिकल्प्येत अनित्यानां वा। तत्र नित्यानामविकारिणां किं निर्वाणं कुर्यात्? अनित्यानामपि असंविद्यमानानां किं निर्वाणं कुर्यादिति सर्वं पूर्वेण तुल्यम्। न कथंचिदिति न केनापि प्रकारेणेत्यर्थः। अथ सत्त्वस्य निर्वाणं परिकल्प्यते, तदपि नित्यस्य वा अनित्यस्य वा पूर्ववन्नोपपद्यते // अथ नित्यानित्यत्वेनावाच्यस्य परिकल्प्यते, नन्वेवं सति निर्वाणेऽप्यात्मास्तीत्यभ्युपेतं भवति संसार इव। अपि चासोपादानस्यैवात्मनःअवाच्यता युज्यते। नचनिर्वाणे उपादानमस्तीति कुतोऽस्य अवाच्यता? भवतु वा तत्त्वान्यत्वावाच्यता आत्मनः, अपितु किमसौ निर्वाणेऽस्ति उत नास्ति। यदि अस्ति, तदा मोक्षेऽपि तस्य सद्भावान्नित्यता स्यात्। अथ नास्ति, तदा अनित्य आत्मा स्यात्। ततश्च तत्त्वान्यत्वावाच्यतावन्नित्यानित्यत्वेनापि आत्मनः अवक्तव्यतेति न स्यात् / अथ निर्वाणेऽपि आत्मनः अस्तित्वनास्तित्वेनावाच्यतेव इष्यते, एवमपि किमसौ विज्ञेयः, अथ न? यदि विज्ञेयः, न तर्हि निरुपादानोऽसावात्मा निर्वाणे विज्ञेयत्वात् संसार इव / अथ न विज्ञायते, तत्रासौ अविज्ञेय स्वरूपत्वात् खपुष्पवन्नास्त्येवेति कुतोऽस्य अवाच्यता? तदेवं निर्वाणमपि नास्ति। तदभावान्नास्ति संसार इति।
Page #174
--------------------------------------------------------------------------
________________ 154 गद्यसंग्रहः अस्ति संसारः सम्भवति निर्वाणमिति ग्रहो मुमुक्षुभिस्त्याज्यः यदि भवतैव संसारनिर्वाणे निषिद्धे, बन्धमोक्षौ च प्रतिषिद्धौ, य एष संसारविनिर्मुमुक्षूणामविद्यासान्द्रान्धकारविविधकुदर्शनकठिनातिदीर्घलतासंछादितसत्पथं जात्यादिविविधापर्यन्तव्यसनानिष्टतरविपुलविपाकफलदानुशयविषवृक्षसंकुलं विंशतिशिखरसमुन्नततरातिपृथुसत्कायदृष्टिमहाशैलपरिवेष्टितसर्वदिङ्मुखं विषयसुखाशातिपिच्छिलविपुलमहातटविवरवाहितृष्णानदीमहापरिखं संसारमहाटवीकान्तारं निस्तितीप्रूणां परमाश्वासकरः, कुशलो महाधर्मच्छन्दः, कदा नु खल्वहमनुपादानो निर्वास्यामि, कदा नु मे निर्वाणं भविष्यतीति, ननु स व्यर्थक एव संजायते, यश्चाप्येवमुत्पादितकुशलामलविपुलधर्मच्छन्दानां कल्याणमित्रसंसेवादानशीलश्रुतचिन्ताभावनादिक्रमोनिर्वाणप्राप्तये, ननु तस्यापि वैयर्थ्य स्यादिति। उच्यते। यो ह्येवं निःस्वभावेषु सर्वभावेषु प्रतिबिम्बमरीचिकाजलालातचक्र स्वप्रमायेन्द्रजालसदृशेषु आत्मात्मीयस्वभावरहि तेषु विपर्यासमात्रानुगमात् तामेव सत्कायदृष्टिम् अहं ममेत्यहंकारममकारसमुदाचारपरिग्रहेणोत्पाद्य मन्यते : निर्वास्याम्यनुपादानो निर्वाणं मे भविष्यति / इति येषां ग्रहस्तेषामुपादानमहाग्रहः // अहमनुपादानः सर्वोपादानरहितो निर्वास्यामि, मम चैवं प्रतिपन्नस्य निर्वाणं भविष्यतीति, एवं येषां मुमुक्षूणां ग्राहो भवति, ननु तदेव अहंकारममकाराख्यं सत्कायदृष्ट्युपादानमेषां महाग्रहो भवति, न चैवंविधमहाग्रहाभिनिविष्टानां शान्तिः संभाव्यते। निरवशेषाग्रहप्रहाणेनैव मोक्षावाप्तये यावदहममेति ग्राहाभिनिवेशः, यावच्च निर्वाणं नाम अस्तीति ग्राहाभिनिवेशः, यावच्च उपादानत्यागाभिनिवेशः, तावन्नियतमेव अनुपायेन निर्वाणं प्रार्थयतां सर्वे एवारम्भा व्यर्था भवन्ति। तस्मान्मुमुक्षुणा सर्वमेतत् परित्याज्यम्। यः स्वं परं च पश्यति सः संसारे विपद्यते, य आर्यसत्यानां यथार्थद्रष्टा स स्वपरयोरदर्शनेन मुच्यते अथ खलु भगवान् मझुश्रियं कुमारभूतमेतदवोचत्चतुर्णामार्यसत्यानां यथाभूतार्थादर्शनाच्चतुर्भिर्विपासैर्व्यस्तचित्ताः सत्त्वाः एवमिममभूतं संसारं नातिक्रमामन्ति। एवमुक्ते मञ्जुश्री:कुमारभूतो भगवन्तमेतदवोचत्
Page #175
--------------------------------------------------------------------------
________________ सौगतसिद्धान्तसारसंग्रहात् 155 दर्शयतु भगवान् कस्योपलम्भतः सत्त्वाः संसारं नातिक्रामन्ति। तत् कस्य हेतोः? यो हि मज्जुश्रीरात्मानं परं च समनुपश्यति, तस्य कर्माभिसंस्कारा भवन्ति। बालो मज्जुश्रीरश्रुतवान् पृथग्जन:अत्यन्तापरिनिर्वृत्तान् सर्वधर्मानप्रजानान: आत्मानं परं च उपलभते। उपलभ्य अभिनिविशते। अभिनिविष्टः सन् रज्यते दुष्यते मुह्यते। स रक्तो दुष्टो मूढः सन् त्रिविधं कर्म अभिसंस्करोति कायेन वाचा मनसा। सः असत्समारोपेण विकल्पयति-अहं रक्तः, अहं द्विष्टः, अहं मूढः इति। तस्य तथागतशासने प्रव्रजितस्य एवं भवतिअहं शीलवान्, अहं ब्रह्मचारीति। अहं संसारं समतिक्रमिष्यामि। अहं निर्वाणमनुप्राप्स्यामि। अहं दु:खेभ्यो मोक्ष्यामि। स विकल्पयति-इमे कुशला धर्माः, इमेऽकुशला धर्माः, इमे धर्माः प्रहातव्याः, इमे धर्माः साक्षात्कर्तव्याः, दुःखं परिज्ञातव्यम्, समुदयः प्रहातव्यः, निरोधः साक्षात्कर्तव्यः, मार्गो भावयितव्यः। स विकल्पयति-अनित्याः सर्वसंस्काराः, अदीप्ता:सर्वसंस्काराः,यन्न्वहं सर्वसंस्कारेभ्यः पलायेयम्। तस्य एवमवेक्षमाणस्य उत्पद्यते निर्वित्सहगतो मनसिकारः अनिमितपुरोगतः। तस्यैवं भवति-एषा सा दुःखपरिज्ञा येयमेषां धर्माणां परिज्ञा। तस्यैवं भवति-यन्वहं समुदयं प्रजहेयम्।स एभ्यो धर्मेभ्य आतीयते जेह्रीयते वितरति विजुगुप्सते उल्लस्यति संत्रस्यति संत्रासमापद्यते। तस्यैवं भवति-इममेषां धर्माणां साक्षात्क्रिया। इदं समुदयप्रहाणं यदिदमेभ्यो धर्मेभ्योऽीयना विजिगुप्सना। तस्यैवं भवति-निरोधः साक्षात्कर्तव्यः। समुदयं कल्पयित्वा निरोधं संजानाति। तस्यैवं भवति-एषा सा निरोधसाक्षाक्रिया। तस्यैवं भवतियन्नूनमहं मार्गं भावयेयम्।सएको रहोगत: तान् धर्मान् मनसि कुर्वन् शमथं प्रतिलभते। तस्य तेन निर्वित्सहगतेन मनसिकारेण शमथ उत्पद्यते। तस्य सर्वधर्मेषु चित्तं प्रतिलीयते प्रतिवहति प्रत्युदावर्तते, तेभ्यश्चार्तीयते जेह्रीयते, अनभिनन्दनाचित्तमुत्पद्यते। तस्यैवं भवति-मुक्तोऽस्मि सर्वदुःखेभ्यः। न मम भूय उत्तरं किंचित्करणीयम्। अर्हनस्मि। इत्यात्मानं संजानाति। स मरणकालसमये उत्पत्तिमात्मनः समनुपश्यति। तस्य कांक्षा च विचिकित्सा च भवति बुद्धबोधौ। स विचिकित्सापतितः कालगतो महानिरयेषु प्रपतति। तत्कस्य हेतोः? यथापीदमनुत्पन्नान् सर्वधर्मान् विकल्पयित्वा तथागते विचिकित्सा विमतिं चोत्पादयति। अथ खलु मज्जुश्री: कुमारभूतो भगवन्तमेतदवोचत्-कथं पुनर्भगवंश्चत्वारि आर्यसत्यानि द्रष्टव्यानि? भगवानाह-येन मज्जुश्रीरनुत्पन्नाः सर्वसंस्कारा दृष्टाः,
Page #176
--------------------------------------------------------------------------
________________ 156 गद्यसंग्रहः तेन दुःखं परिज्ञातम्। येन असमुत्थिताः सर्वधर्मादृष्टाः, तस्य समुदयः प्रहीणः। येन अत्यन्तपरिनिवृत्ताः सर्वधर्मा दृष्टाः, तेन निरोधः साक्षात्कृतः। येन अत्यन्तशून्याः सर्वधर्मादृष्टाः, तेन मार्गो भावितः। येन मुज्जुश्रीरेवं चत्वारि आर्यसत्यानि दृष्टानि, स न कल्पयति न विकल्पयति इमे कुशला धर्माः, इमेऽकुशला धर्माः। इमे धर्माः प्रहातव्याः, इमे धर्माः साक्षात्कर्तव्याः। दुःखं परिज्ञातव्यम्। समुदयः प्रहातव्यः, निरोधः साक्षात्कर्तव्यः, मार्गो भावयितव्य इति। तत्कस्य हेतोः? तथाहि-सतं धर्मं न समनुपश्यति यं परिकल्पयेत्। बालपृथग्जनास्तु एतान् धर्मान् कल्पयन्तो रज्यन्ति च द्विषन्ति च मुह्यन्ति च। स न कंचिद्धर्ममाव्यूहति निर्वृहति। तस्य एवमनाव्यूहतोऽनिर्वृहतः त्रैधातुके चित्तं न सज्जति, अजातं वा / सर्वत्रैवाधातुकं समनुपश्यति। आत्मनो भावाभावपरीक्षणम् यदि क्लेशाः कर्माणि च देहाश्च कर्तारश्च फलानि च सर्वमेतन्न तत्त्वम्, केवलं तु गन्धर्वनगरादिवदतत्त्वमेव सत् तत्त्वाकारेण प्रतिभासते बालानाम्, किं पुनरत्र तत्त्वम्, कथं वा तत्त्वस्यावतार:इति? उच्यते। आध्यात्मिकबाह्याशेषवस्त्वनुपलम्भेन अध्यात्मं बहिश्च यः सर्वथा अहंकारममकारपरिक्षयः, इदमत्र तत्त्वम्। तत्त्वावतारः पुनः सत्कायदृष्टिप्रभवानशेषान् क्लेशांश्च दोषांश्च धिया विपश्यन् / आत्मानमस्या विषयं च बुद्धा योगी करोत्यात्मनिषेधमेव // (मध्यमकावतार- 6/120) // इत्यादिना मध्यमकावताराद्विस्तरेणावसेयः। कायदृष्टिमूलकमेवसंसारमनुपश्यन् आत्मानुपलम्भाच्च सत्कायदृष्टिप्रहाणं तत्प्रहाणाच्च सर्वक्लेशव्यावृत्तिं समनुपश्यन् प्रथमतरमात्मानमेवोपपरीक्षते, कोऽयमात्मा नामेति, योऽहंकारविषयः। स चायमहंकारस्य विषयः परिकल्प्यमानःस्कन्धस्वभावो वा भवेत्स्कन्धव्यतिरिक्तो वा? तत्र यदि स्कन्धा आत्मेति परिकल्प्यते, तदा उपदयव्ययभाग् उत्पादी च विनाशी च आत्मा प्राप्नोति, स्कन्धानामुदयव्ययभावत्वात्। न चैवमिष्यते, आत्मानेक (त्व) दोषप्रसङ्गात्।
Page #177
--------------------------------------------------------------------------
________________ सौगतसिद्धान्तसारसंग्रहात् 157 एवं तावत् स्कन्धा आत्मा न भवति। स्कन्धव्यतिरिक्तोऽपि न युज्यते। यदि हि स्कन्धेभ्योऽन्य आत्मा भवेत्, अस्कन्धलक्षणो भवेत्। यथाहि गौरन्योऽश्व: न गोलक्षणो भवति, एवमात्मापि स्कन्धव्यतिरिक्तः परिकल्प्यमानः अस्कन्धलक्षणो भवेत्। तत्र स्कन्धाः संस्कृतत्वात् हेतुप्रत्ययसम्भूता उत्पादस्थितिभङ्गलक्षणाः। तत्र अस्कन्धलक्षणं आत्मा भवन् भवन्मतेन उत्पादस्थिति भङ्गलक्षणायुक्तः स्यात्। यश्चैवंभवति, स: अविद्यमानत्वादसंस्कृतत्वाद्वा खपुष्पवनिर्वाणवद्वा नैव आत्मव्यपदेशं प्रतिलभते, नाप्यहंकारविषयत्वेन युज्यते, इति स्कन्धव्यतिरक्तोऽप्यात्मान युज्यते। सर्वप्रपञ्चनिवृत्तिलक्षणा शून्यतैव निर्वाणं तच्च नैरात्म्यदर्शनाजायते आत्मानुपलम्भादात्मप्रज्ञप्त्युपादानं स्कन्धपञ्चकमात्मीयमिति सुतरां नोपलभन्ते। यथैव हि दग्धे रथे तदङ्गान्यपि दग्धत्वानोपलभ्यन्ते, एवं योगिनो यदैव आत्मनैरात्म्यं प्रतिपद्यन्ते, तदैव आत्मीयस्कन्धवस्तुनैरात्म्यमपि नियतं प्रतिपद्यन्ते। अथैव हि ग्रीष्मे मध्याह्नकालावसानमासादितस्य विघन नभोमध्यदेशमाचिकंसोरीषत्परिभ्रम्यमानपटुतरहुतभुग्विश्वततस्फुलिङ्गानिव विरूक्षतरमहीमण्डलोत्तापनपरान् प्रदीप्तकिरणस्य किरणान् प्रतीत्य विरूक्षतरमवनिदेशं चासाद्य विपरीतं च दर्शनमपेक्ष्य सलिलाकारा मरीचय उपलभ्यमाना विदूरदेशावस्थितानां जन्मवतामतिप्रसन्नाभिनीलजलाकारं प्रत्ययमादधति न तु तत्समीपगतानाम्, एवमिहापि यथावस्थितात्मात्मीयपदार्थतत्त्वदर्शनविदूरदेशान्तरस्थितानां संसाराध्वनिवर्तमानानामविद्याविपर्यासानुगमान्मृषार्थ एव स्कन्धसमारोप:सत्यतः प्रतिभासमानः पदार्थतत्त्वदर्शनसमीपस्थानां न प्रतिभासते। एवं तावत् कर्मक्लेशा विकल्पतः प्रवर्तन्ते। ते च विकल्पाः अनादिमत्संसाराभ्यस्ताद् ज्ञानज्ञेयवाच्यवाचककर्तृकर्मकरणक्रियाघटपटमुकुटरथरूपवेदनास्त्रीपुरुषलाभालाभसुखदुःखयशोऽयशोनिन्दाप्रशंसादिलक्षणाद्विचित्रात्प्रपञ्चादुपजायन्ते। स चायं लौकिकः प्रपञ्चो निरवशेषः शून्यतायां सर्वस्वभावशून्यतादर्शने सति निरुध्यते। कथं कृत्वा? यस्मात्सति हि वस्तुन उपलम्भे स्याद् यथोदितप्रपञ्चजालम्। न हि अनुपलभ्य बन्ध्यादुहितरं रूपलावण्ययौवनवतीं तद्विषयं प्रपञ्चमवतारयन्ति रागिणः। न च अनवतार्य प्रपञ्चं तद्विषयमयोनिशो विकल्पमवतारयन्ति। न च अनवतार्य कल्पनाजालम्
Page #178
--------------------------------------------------------------------------
________________ 158 गद्यसंग्रहः अहंममेत्यभिनिवेशात् सत्कायदृष्टिमूलकान्क्लेशगणानुत्पादयन्ति। न च अनुत्पाद्य सत्कायदृष्ट्यात्मकान् क्लेशगणान् कर्माणि शुभाशुभानि कुर्वन्ति। न च अकुर्वाणाः कर्माणि जातिजरामरणशोकपरिदेवदुःखदौर्मनस्य (उपायासादिरूपं) एकजालीभूतं संसारकान्तारमनुभवन्ति। एवं योगिनोऽपि शून्यतादर्शनावस्था निरवशेषस्कन्धधात्वायतनानि स्वरूपतो नोपलभन्ते। न च अनुपलभमाना वस्तुस्वरूपं तद्विषयं प्रपञ्चमवतारयन्ति। न च अनवतार्य तद्विषयं प्रपञ्चं विकल्पमवतारयन्ति। न च अनवतार्य विकल्पम् अहंममेत्यभिनिवेशात् सत्कायदृष्टिमूलकं क्लेशगुणमुत्पादयन्ति। न च अनुत्पाद्य सत्कायदृष्ट्यादिकं क्लेशगणं कर्माणि कुर्वन्ति। न च अकुर्वाणाः जातिजरामरणाख्यं संसारमनुभवन्ति। तदेवम् अशेषप्रपञ्चोपशमशिवलक्षणांशून्यतामागम्य यस्मादशेषकल्पनाजालप्रपञ्चविगमो भवति, प्रपञ्चविगमाच्च विकल्पनिवृत्तिः, विकल्पनिवृत्त्या च अशेषकर्मक्लेशनिवृत्तिः, कर्मक्लेशनिवृत्त्या च जन्मनिवृत्तिः, तस्मात् शून्यतैव सर्वप्रपञ्चनिवृत्तिलक्षणत्वान्निर्वाणमित्युच्यते। यथोक्तं शतके धर्मं समासतोऽहिंसा वर्णयन्ति तथागताः / शून्यतामेव निर्वाणं केवलं तदिहोभयम् // इति // (चतुः शतक-१२/२३) // अधिकारिभेदेन आत्मनैराम्यादीनां मिथो विरुद्धानामपि उपदेशस्य सार्थक्यम् इह ये (आत्माभावविपर्यास) कुदर्शनघनतिमिरपटलावच्छादिताशेषबुद्धिनयनतया लौकिकावदातदर्शनविषयानतिक्रान्तमपि भावजातमपश्यन्तो व्यवहारसत्यावस्थिता एव सन्तः क्षितिसलिलज्वलनपवनाभिधानतत्त्वमात्रानुवर्णनपरा मूलौदनोदककिण्वादिद्रव्यविशेषपरिपाकमात्रप्रत्ययोत्पन्नमदमूर्छादिसामर्थ्यवशेषानुगतमद्यपानोपलम्भवत् कललादिमहाभूतपरिपाकमात्रसंभूता एव बुद्धीरनुवर्णयन्तः पूर्वान्तापरान्तापवादप्रवृत्ताः सन्तः परलोकमात्मानं चापवदन्तेनास्त्ययं लोकः, नास्ति परलोकः, नास्ति सुकृतदुष्कृतानां कर्मणां फलविपाकः, नास्ति सत्त्व उपपादकः, इत्यादिना। तदपवादाच्च स्वर्गापवर्गविशिष्टेष्टफलविशेषाक्षेपपराङ्मुखाः सततसमितमकुशलकर्माभिसंस्करणप्रवृत्ता नरकादिमहाप्रपातपतनाभिमुखाः। तेषां तदसद् द्दष्टिनिवृत्त्यर्थं चतुरशीतिचित्त
Page #179
--------------------------------------------------------------------------
________________ सौगतसिद्धान्तसारसंग्रहात् _159 चरितसहस्रभेदभिन्नस्य सत्त्वधातोर्यथाशयानुवर्तकैरशेषसत्त्वधातूत्तारणाक्षिप्तप्रतिज्ञासंपादनतत्परैः प्रज्ञोपायमहाकरुणासंभारपुरःसरैर्निरुपमैरेकजगद्वन्धुभिर्निरवशेषक्लेशमहाव्याधिचिकित्सकैर्महावैद्यराजभूतैर्लीनमध्योत्कृष्टविनेयजनानुजिघृक्षया हीनानां विनेयानामकुशलकर्मकारिणामकुशलादि निवर्तयितुं बुद्धैर्भगवद्भिः क्वचिदात्मेत्यपि प्रज्ञपितं लोके व्यवस्थापितम्। अहेतुवादप्रतिषेधोपपत्तिश्च कर्मकारकपरीक्षातः, नाप्यहेतुतः इत्यतः, मध्यमकावताराच्च विस्तारेण वेदितव्येति तत्प्रतिषेधार्थं नेह पुनर्यत्न आस्थीयते। ये तु सद्भूतात्मदृष्टिकठिनातिदीर्घशिथिलमहासूत्रबद्धा विहंगमा इव सुदूरमपि गताः कुशलकर्मकारिणोऽकुशलकर्मपथव्यावृता अपि न शक्नुवन्ति वेधातुकभवोपपत्तिमतिवाह्य शिवमजरममरणं निर्वाणपुरमभिगन्तुम्, तेषां मध्यानां विनेयानां सत्कायदर्शनाभिनिवेशशिथिलीकरणाय निर्वाणाभिलाषसंजननार्थं बुद्धैर्भगवद्भिर्विनेयजनानुग्रहचिकीर्षुभिरनात्मेत्यपि देशितम्। ये तु पूर्वाभ्यासविशेषानुगतगम्भीरधर्माधर्मोपलब्धबीजपरिपाकाः प्रत्यासन्नवर्तिनि निर्वाणे तेषामुत्कृष्टानां विनेयानां विगतात्मस्नेहानां परमगम्भीरमौनीन्द्रप्रवचनार्थतत्त्वावगाहनसमर्थानामधिमुक्तिविशेषमवधार्य ___ बुद्धरात्मा न चानात्मा कश्चिदित्यपि देशितम् // यथैव हि आत्मदर्शनमतत्त्वम्, एवं तत्प्रतिपक्षभूतमपि अनात्मदर्शनं नैव तत्त्वमिति। एवं नास्त्यात्मा कश्चित्, न चाप्यनात्मा कश्चिदस्तीति देशितम्। ___ महाकरुणोपायमहामेघपटलनिरन्तरावच्छादिताकाशधातुपर्यन्तदिङ्मण्डलानां रागादिक्लेशगणसमुदाचारातितीक्ष्णतरादित्यमण्डलोपतापितजगजातिजरामरणदुःखदहनसंतापोपशमतत्पराणां सतताविरतयथानुरूपचरितप्रतिपक्षसद्धर्मदेशनामृतधारापातैः यथानुरूपविनेयजनकुशलमूलशस्यौषधिफलफुल्ललतोत्पन्नातिवृद्ध्यनुजिघृक्षूणां सद्धर्मामृतमहावर्षवर्षिणां सम्यक्संबुद्धमहानागानामत्राणामलौकिकत्राणामनाथनाथानां सकललोकनाथानामेतत् तत्सद्धर्मामृतं सकलत्रैधातुकभवदुःखक्षयस्वभावं यथोपवर्णितेन न्यायेन एकत्वान्यत्वरहितं शाश्वतोच्छेदवादविगतं च विज्ञेयम्। एतद्धर्मतत्त्वामृतप्रतिपन्नानां श्रावकाणां श्रुतचिन्ताभावानाक्रमात् प्रवर्तमानानां शीलसमाधिप्रज्ञात्मकस्कन्धत्रयामृतरसस्य उपयोगानियतमेव जरामरणक्षयस्वभावनिर्वाणाधिगमो भवति।अथापिकथंचिदिह
Page #180
--------------------------------------------------------------------------
________________ 160 गद्यसंग्रहः अपरिपक्व कुशलमूलतया श्रुत्वाप्येतत् सद्धर्मामृतम्, दृष्ट एव धर्मे न मोक्षमासादयन्ति, तथापि जन्मान्तरेऽपि अवश्यमेषां पूर्वहेतुबलादेव नियता सिद्धिः संपद्यते। यथोक्तं शतके इह यद्यपि तत्त्वज्ञो निर्वाणं नाधिगच्छति / प्राप्नोत्ययत्नतोऽवश्यं पुनर्जन्मनि कर्मवत् // (चतुः शतक-८/२२) / अहो बत हता प्रत्याशा अस्माकम्, ये हि नाम वयं स्वविकल्पविकल्पितातिकठिनकुदर्शनमालुतालताजालावबद्धेषु निर्वाणपुरगाम्यविपरीतमार्गगमनपरिभ्रष्टेषु अनतिक्रान्तसंसाराटवीकान्तारदुर्गेषु कणभक्षाक्षपाददिगम्बरजैमिनिनैयायिकप्रभृतिषु तीर्थंकरेषुअविपरीतस्वर्गापवर्गमार्गोपदेशाभिमानिषुस्पृहां परित्यज्य निरवशेषान्यतीर्थ्यमतान्धकारोपघातकं स्वर्गापवर्गानुगाम्यविपरीतमार्गसंप्रकाशकं सद्धर्मदेशनातिपटुतरकिरणव्याप्ताशेषाशामुखं विविधविनेयजनमतिकमलकुड्मलविबोधनतत्परं यथावदवस्थितपदार्थतत्त्वार्थभाजनानाममलैकचक्षुर्भूतं सकलजगच्छरण्यभूतमद्वितीयं दशबलवेशारद्यावेणिकबुद्धधर्मामलमण्डलं महायानमहानयसारथिवरं सप्तबोध्यङ्गोत्तुङ्गतुरंगपदातियोजितं सकलत्रिभुवनजनजातिजरामरणसंसारकान्तारसरिदुच्छोषणतत्परं चतुरसममारारातिसमरशरसंपातविजयिनं सकलजगदसद्ग्राहराहुग्रहविग्रहोद्ग्रहनिरासिनं तथागतसवितारमज्ञानघनगहनान्धकारनिराकरणाय मोक्षार्थिनोऽनुत्तरसम्यक्संबोध्यर्थिनः शरणं प्रतिपन्नाः, तस्य च त्वया एवं शून्यमुपादानमुपादाता च सर्वशः। प्रज्ञप्यते च शून्येन कथं शून्यस्तथागतः // इत्यादिना स्वभावतोऽसत्त्वं ब्रुवता भवता हता अस्माकं मोक्षप्रत्याशा अनुत्तरसम्यक्संबोध्यागमाभिलाषःइति।तदलं भवतातथागतमहादित्यप्रच्छादकेन आकालिकघनघनावलीविसरणेन जगदन्धकारोपमेनेति। उच्यते। अस्माकमेव हता प्रत्याशा भवद्विधेष्वबुधजनेषुयेहि नाम भवन्त:मोक्षकामतया अन्यतीर्थ्यमतानि परित्यज्य भगवन्तं तथागतमपि अविपरीतं परमशास्तारं प्रतिपद्य परमगम्भीरमनुत्तरं सर्वतीर्थ्यवादासाधारणं नैरात्म्यसिंहनादमसहमानाः कुरङ्गमा इव स्वाधिमुक्तिदरिद्रतया विविधकुदृष्टिव्यालमालाकुलं विपर्यस्तजनानुयातं तमेव महाघोर
Page #181
--------------------------------------------------------------------------
________________ सौगतसिद्धान्तसारसंग्रहात् 161 संसाराटवीकान्तारचारकानुगमार्गमवगाहन्ते। न हि तथागता: कदाचिदप्यात्मनः स्कन्धानां वा अस्तित्वं प्रज्ञपयन्ति। यथोक्तं भगवत्याम् बुद्धोऽप्यायुष्मन् सुभूते मायोपमः स्वप्नोपमः / बुद्धधर्मा अप्यायुष्मन् सुभूते मायोपमाः स्वप्नोपमाः / इति // ॥अष्टसाहस्रिका-३९ / / इह हि भगवता उषितब्रह्मचर्याणां तथागतशासनप्रतिपन्नानां धर्मानुधर्मप्रतिपत्तियुक्तानां पुद्गलानां द्विविधं निर्वाणमुपवर्णितं सोपधिशेषं निरुपधिशेषम्। तत्र निरवेशषस्य अविद्यारागादिकस्य क्लेशगणस्य प्रहाणात् सोपधिशेषं निर्वाणमिष्यते। तत्र उपधीयतेऽस्मिन्नात्मस्नेहः इति उपधिः। उपधिशब्देन आत्मप्रज्ञप्तिनिमित्ताः पञ्चोपादानस्कन्धा उच्यन्ते। शिष्यत इति शेषः, उपधिरेव शेषः उपधिशेषः, सह उपधिशेषेण वर्तते इति सोपधिशेषम् / किं तत्? निर्वाणम्। तच्च स्कन्धमात्रकमेव केवलं सत्कायदृष्ट्यादि क्लेशतस्कररहितमवशिष्यते निहताशेषचौरगणग्राममात्रावस्थानसाधर्म्यण। तत् सोपधिशेषं निर्वाणम्। यत्र तु निर्वाणे स्कन्धपञ्चकमपि नास्ति, तन्निरुपधिशेषं निर्वाणम्। निर्गतः उपधिशेषोऽस्मिन्निति कृत्वा। निहताशेषचौरगणस्य ग्राममात्रस्यापि विनाशसा धर्मेण। यदि एतन्निर्वाणं नैवाभावरूपं नैव भावरूपमस्तीति कल्प्यते, केन तदानीं तदित्थंविधं नोभयरूपं निर्वाणमस्तीति अज्यते गृह्यते प्रकाशते वा? किं तत्र निर्वाणे कश्चिदेवंविधः प्रतिपत्तास्ति, अथ नास्ति? यदि अस्ति, एवं सति निर्वाणेऽपित त्वात्मा स्यात्। न चेष्टम्, निरुपादानस्यात्मनोऽस्तित्वाभावात्। अथ नास्ति, केनैतदित्थंविधं निर्वाणमस्तीति परिच्छिद्यते? संसारावस्थितः परिच्छिनत्तीति चेत्, यदि संसारावस्थितः परिच्छिनत्ति, स किं विज्ञानेन परिच्छिनत्ति, उत ज्ञानेन? यदि विज्ञानेनेति परिकल्प्यते, तन्न युज्यते / किं कारणम् यस्मानिमित्तालम्बनं विज्ञानम्, न च निर्वाणे किंचिनिमित्तमस्ति, तस्मान्न तत्तावद्विज्ञानेनालम्ब्यते। ज्ञानेनापि न ज्ञायते। किं कारणम्? यस्माद् ज्ञानेन हि शून्यतालम्बनेन भवितव्यम् तच्च अनुत्पादरूपमेवेति, कथं तेनाविद्यामानस्वरूपेण नैवाभावो नैव भावो निर्वाणमिति गृह्यते, सर्वप्रपञ्चातीतरूपत्वाद् ज्ञानस्येति / तस्मान्न केनचिनिर्वाण नैवाभावो नैव भावो इत्यज्यते / अनज्यमानमप्रकाश्यमानमगृह्यमाणं तदेवमस्तीति न युज्यते।
Page #182
--------------------------------------------------------------------------
________________ 162 गद्यसंग्रहः निर्वाणे निषिद्धे तदौपयिकबुद्धदेशनायाः धर्मसत्त्वादीनां ___ वस्तुतोऽसत्त्वेन वैयर्थ्यशङ्कानिरासः यदि एवं भवता निर्वाणमपि प्रतिषिद्धम्, ननु च य एष भगवता अनन्तचरितसत्त्वराश्यनुवर्तकेन विदिताविपरीतसकलजगदाशयस्वभावेन महाकरुणापरतन्त्रेण प्रियैकपुत्रकप्रेमानुगताशेषत्रिभुवनजनेन चरितप्रतिपक्षानुरूपो धर्मो देशितो लोकस्य निर्वाणाधिगमार्थम्, स एव सति व्यर्थ एव जायते। उच्यतेयदि कश्चिद्धर्मो नाम स्वभावरूपतः स्यात्, केचिच्च सत्त्वास्तस्य धर्मस्य श्रोतारः स्युः, कश्चिद्वा देशिता बुद्धो भगवन्नाम भावस्वभावः स्यात्, स्यादेतदेवम्। यदा तु सर्वोपलम्भोपशमः प्रपञ्चोपशमः शिवः। न क्वचित्कस्यचित्कश्चिद्धर्मो बुद्धेन देशितः // तदा कुतोऽस्माकं यथोक्तदोषप्रसङ्गः? इह हि सर्वेषां प्रपञ्चानां निमित्तानां य उपशमोऽप्रवृत्तिस्तन्निर्वाणम्। स एव चोपशमः प्रकृत्यैवोपशान्तत्वाच्छिवः। वाचामप्रवृत्तेर्वा प्रपञ्चोपशमश्चित्तस्याप्रवृत्तेः शिवः। क्लेशानामप्रवृत्त्या वा जन्मनोऽप्रवृत्त्या शिवः। श्लेशप्रहाणेन वा प्रपञ्चोपशमो निरवशेषवासनाप्रहाणे शिवः। ज्ञेयानुपलब्ध्या वा प्रपञ्चोपशमो ज्ञानानुपलब्ध्या शिवः। यदा चैवं बुद्धा भगवन्तः सर्वप्रपञ्चोपशान्तरूपे निर्वाणे शिवेऽस्थानयोगेन नभसीव हंसराजाः स्थिताः स्वपुण्यज्ञानसंभारपक्षपातवाते वातगमने वा गगनस्याकिंचनत्वात्, तदा सर्वनिमित्तानुपलम्भान्न क्वचिद्देवेषु वा मनुष्येषु वा न कस्यचिद्देवस्य वा मनुष्यस्य वा न कश्चिद्धर्मः सांक्लेशिको वा वैयवदानिको वा देशित इति विज्ञेयम्। यथोक्तमार्यतथागतगुह्यसूत्रे-"यां च रात्रिंशान्तमते तथागतोऽनुत्तरांसम्यक्संबोधिमभिसंबुद्धः, यां च रात्रिमनुपादाय परिनिर्वास्यति, अत्रान्तरे तथागतेनैकमप्यक्षरं नोदाहृतं न व्याहृतं नापि प्रत्याहरति नापि प्रव्याहरिष्यति। अथ च यथाधिमुक्ताः सर्वसत्त्वा नानाधात्वाशयास्तां तां विविधां तथागतवाचं निश्चरन्तीं संजानन्ति / तेषामेवं पृथक पृथग्भवति-अयं भगवानस्मभ्यमिमं धर्म देशयति, वयं च तथागतस्य धर्मदेशनां शृणुमः। तत्र तथागतो न कल्पयति न विकल्पयति। सर्वकल्पविकल्पजालवासना प्रपञ्चविगतो हि शान्तमते तथागतः।"
Page #183
--------------------------------------------------------------------------
________________ 163 सौगतसिद्धान्तसारसंग्रहात् आध्यात्मिकस्य प्रतीत्यसमुत्पादस्य हेतूपनिबन्धेषु प्रत्ययोपनिबन्धेषु च न कस्यापि तत्तत्कारिकार्यत्वावबोधः एवमाध्यात्मिकोऽपि प्रतीत्यसमुत्पादो द्वाभ्यामेव कारणाभ्यामुत्पद्यते। कतमाभ्यां द्वाभ्याम्? हेतूपनिबन्धतःप्रत्ययोपनिबन्धतश्च। तत्राध्यात्मिकस्य प्रतीत्यसमुत्पादस्य हेतूपनिबन्धः कतमः? यदिदमविद्याप्रत्ययाः संस्काराः, संस्कारप्रत्ययं विज्ञानम्, विज्ञानप्रत्ययं नामरूपम्, नामरूपप्रत्ययं षडायतनम्, षडायतनप्रत्ययः स्पर्शः, स्पर्शप्रत्यया वेदना, वेदनाप्रत्यया तृष्णा, तृष्णा-प्रत्ययमुपादानम्, उपादानप्रत्ययो भवः, भवप्रत्ययाजातिः,जातिप्रत्ययाजरामरणशोकपरिदेवदुःखदौर्मनस्योपायासाः संभवन्ति। एवमस्य केवलस्य महतो दुःखस्कन्धस्य समुदयो भवति। अविद्या चेन्नाभविष्यन्नैव संस्काराः प्रज्ञास्यन्ते। एवं यावज्जातिश्चेन्नाभविष्यजरामरणं न प्रज्ञास्यते। अथवा सत्यामविद्यायां संस्काराणामभिनिर्वृत्तिर्भवति। एवं यावज्जात्यां सत्यां जरामरणस्याभिनिर्वृत्तिर्भवति। अत्राविद्याया नैवं भवति अहं संस्कारानभिनिर्वतयामीति। संस्काराणामपि नैवं भवति वयमविद्ययाभिनिर्वर्तिता इति। एवं यावजातेरपि नैवं भवति अहं जरामरणमभिनिवर्तयामीति। जरामरणस्यापि नैवं भवत्यहं जात्याभिनिर्वर्तितमिति। अथ चसत्यामविद्यायां संस्काराणाभिनिर्वत्तिर्भवति प्रादुर्भावः। एवं यावज्जात्यां सत्यां जरामरणस्याभिनिर्वृत्तिर्भवति प्रादुर्भावः। एवमाध्यात्मिकस्य प्रतीत्यसमुत्पादस्य हेतूपनिबन्धो द्रष्टव्यः। कथमाध्यात्मिकस्य प्रतीत्यसमुत्पादस्य प्रत्ययोपनिबन्धो द्रष्टव्य इति? षण्णां धातूनां समवायात्। कतमैषां षण्णां धातूनां समवायात्? यदिदं पृथिव्यप्तेजोवाय्वाकाशविज्ञानधातूनां समवायादाध्यात्मिकस्य प्रतीत्यसमुत्पादस्य प्रत्ययोपनिबन्धो द्रष्टव्यः। तत्राध्यात्मिकस्य प्रतीत्यसमुत्पादस्य पृथिवीधातुः कतमः? यः कायस्य संश्लेषात्कठिनभावमभिनिवर्तयति, अयमुच्यते पृथिवीधातुः। यःकायस्यानुपरिग्रहकृत्यं करोति, अयमुच्यतेऽब्धातुः। यःकायस्याशितभक्षितं परिपाचयति, अयमुच्यते तेजोधातुः। यः कायस्य आश्वासप्रश्वासकृत्यं करोति, अयमुच्यते वायुधातुः। यः कायस्यान्तःशोषीर्यमभिनिवर्तयति,अयमुच्यते आकाशधातुः। यो नामरूपमभिनिवर्तयति नडकलापयोगेन पञ्चविज्ञानकायसंयुक्तं सास्त्रवं च मनोविज्ञानम्, अयमुच्यते भिक्षवो विज्ञानधातुः। तत्र असतामेषां प्रत्ययानां कायस्योत्पत्तिर्न भवति। यदा त्वाध्यात्मिकः पृथिवीधातुरविकलो
Page #184
--------------------------------------------------------------------------
________________ 164 गद्यसंग्रहः भवति, एवमप्तेजोवाय्वाकाशविज्ञानधातवश्चाविकला भवन्ति, ततः सर्वेषां समवायात्कायस्योत्पत्तिर्भवति। तत्र पृथिवीधातो व भवति अहं कायस्य कठिनभावमभिनिवर्तयामीति। अब्धातो वं भवति-अहं कायस्यानुपरिग्रहकृत्यं करोमीति। तेजोधातो वं भवति-अहं कायस्याशितपीतखादितं परिचाययामीति। वायुधातो वं भवति-अहं कायस्याश्वासप्रश्वासकृत्यं करोमीति।आकाशधातो वं भवति-अहं कायस्यान्तः शोषीर्यमभिनिवर्तयामीति। विज्ञानधातो.वं भवतिअहं कायस्य नामरूपमभिनिवर्तयामीति। कायस्यापि नैवं भवति अहमेमिः प्रत्ययैर्जनित इति। अथ च पुनः सतामेषां प्रत्ययानां समवायात्कायस्योत्पत्तिर्भवति। तत्र पृथिवीधातुर्मात्मा न सत्त्वो न जीवो न जन्तुर्न मनुजो न मानवो न स्त्री न पुमान् न नपुंसकं न चाहं न मम न चान्यस्य कस्यचित्। एवमब्धातुस्तेजोधातुर्वायुधातुराकाशधातुर्विज्ञानधातु त्मा न सत्त्वो न जीवो न जन्तुर्न मनुजो न मानवो न स्त्री न पुमान् न नपुंसकं न चाहं न मम न चान्यस्य कस्यचित्। अविद्यायाः स्वरूपं तन्मूलाः क्लेशा उपक्लेशाश्च तत्र अविद्या कतमा? या येषामेवं षण्णां धातूनामेकसंज्ञा पिण्डसंज्ञा नित्यसंज्ञा ध्रुवसंज्ञा शाश्वतसंज्ञा सुखसंज्ञा आत्मसंज्ञा सत्त्वसंज्ञा जीवपुद्गलमनुजमानवसंज्ञा अहंकारसंज्ञा ममकारसंज्ञा एवमादि विविधमज्ञानम्। इयमुच्यतेऽविद्येति। एवमविद्यायां सत्यां विषयेषु रागद्वेषमोहाः प्रवर्तन्ते। तत्र ये रागद्वेषमोहा विषयेषु, अमीसंस्कारा इत्युच्यन्ते।वस्तुप्रतिविज्ञप्तिर्विज्ञानम्।विज्ञानसहभुवश्चत्वारः स्कन्धा अरूपिणः उपादानाख्याः, तन्नामरूपं चत्वारि महाभूतानि, तानि चोपादाय रूपम्। तच्च नाम तच्च रूपम्। ऐकध्यमभिसंक्षिप्य तन्नामरूपम्। नामरूपसंमिश्रितानीन्द्रियाणि षडायतनम्। त्रयाणां धर्माणां सन्निपातः स्पर्शः। स्पर्शानुभवो वेदना। वेदनाध्यवसानं तृष्णा। तृष्णावैपुल्यमुपादानाम्। उपादाननिर्जातं पुनर्भवजनकं कर्म भवः। भवहेतुकः स्कन्धप्रादुर्भावो जातिः। जातस्य स्कन्धस्यपरिपाको जरा। जीर्णस्य स्कन्धस्य विनाशो मरणम् प्रियमाणस्य संमूढस्य साभिष्वङ्गस्यान्तर्दाहः शोकः। शोकोत्थमालपनं परिदेवः। पञ्चविज्ञानकायसंयुक्तमसातमनुभवनं दुःखम्। मनसा संयुक्तं मानसं दुःखं दौर्मनस्यम्। ये चाप्यन्ये एवमादय उपक्लेशास्ते उपायासा इति।
Page #185
--------------------------------------------------------------------------
________________ 165 तत्त्वसारात् सुबुधमुदभिलाषाद्भट्टपल्लीस्थवासः स्थिरगिरिशपदाशः श्रीलराखालदासः / रचयति नवयुक्तया न्यायरत्नंसयत्नं सदयहृदयरम्यं तत्त्वसारात्मरत्नम् // 9 // अथारभ्यते-जीव:सर्वमूर्तसंयोगी परममहान् एकदाऽवस्थितयावच्छरीरभेदेन भिन्नः स एव च स्वर्गनरकादिभोक्ता। मनस्त्वणुतरं पदार्थान्तरं शरीरभेदेन भिन्नं ज्ञानादेः करणञ्च न तु महत्त्वपरिमाणाश्रयश्चैतन्याद्याश्रयञ्च। एतदेवोक्तं प्राचीनैः- 'अयोगपद्याज् ज्ञानानां तस्याणुत्वमिहेष्यते।' अपि च मनोऽपि न तथा ज्ञानाद्यनध्यक्षं तदा भवेदिति / ' इति प्राचीननैयायिकसम्प्रदायसम्मतजीवनिष्कर्षः। अथ नव्यनैयायिकमतम् / मनसामेव चैतन्यं तत्रैवेच्छादिका गुणाः / अहम्प्रतीतिस्तत्रैव न तु जीवान्तरस्थितिः // 10 // अयमाशयः- ज्ञानेच्छाद्वेषादृष्टकृतिभावना मनसामेवगुणाः। एतद्गुणगणधर्मितया मनसामेव साधनीयत्वात्। न पुनस्तद्धर्मितया जीवान्तरसिद्धिरपिगौरवान्मानाभावाच्च। अत एव "भव हृदय साभिलाषं सम्प्रति सन्देहनिर्णयो जातः। आशङ्कसे यदग्निं तदिदं स्पर्शक्षमरत्नम्॥" इति भगवत्कालिदासकाव्यमपि साधु सङ्गच्छते। अन्यथाऽभिलाषवत्त्वस्य आशङ्कारूपज्ञानवत्त्वस्य च मनसि बाधेन तदीयकाव्यवाक्यस्य बाधितार्थकत्वं प्रसज्येत। अत एव भारतपुराणमहाकाव्यादिष्वपि मनसामेव ज्ञानहर्षादित्त्वं बोधयन्ति बहुतरवाक्यानीति दृश्यते।तेष्वेव तादृशगुणवत्त्वं श्रुतिरपि प्रमापयति। श्रुतिर्यथा- "कामः सङ्कल्पो विचिकित्सा श्रद्धाऽ श्रद्धाधृतिर्टी(रधृतिर्भीरेतत् सर्वं मनस एवेति।" न च मनसा वेत्तीत्यादिव्यवहारस्यापि सर्वसिद्धतया तबलात् मनसि ज्ञानकरणत्वस्यैव प्रतिपत्तेः कर्तृत्वकरणत्वयोस्तु परस्परविरोधेन तदाश्रयकञन्तरस्वीकारावश्यकत्वंस एव त्वतिरिक्तो जीव:प्रकारान्तरेण तदनिर्वाहादिति वाच्यम्,-"आत्मानमात्मना वेत्सि सृजस्यात्मानमात्मने"त्यादिकालिदासाद्युक्ति
Page #186
--------------------------------------------------------------------------
________________ 166 गद्यसंग्रहः दर्शनेन तयोर्विरोधे मानाभावात्। तद्दर्शनेन च प्रसिद्धनिबन्धकारैर्जगदीशतर्कालङ्कारैरपि शब्दशक्तिप्रकाशिकायां तयोरेकत्र सत्त्वं स्वीकृतम्। अतो नापसिद्धान्तभीतिरपि। एवम् अहं शरीरी त्वञ्च सुखीत्यादिप्रतीतिविषयो मन एव। जन्मान्तरीणशरीरपरिग्रहः स्वर्गनरकादिभोगकैवल्यादिकञ्च मनसामेव। न च 'वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोऽपराणि। तथा शरीराणि विहाय जीर्णान्यन्यानि संयाति नवानि देही' त्यादि श्रीभगवद्वचनस्थक्त्वाप्रत्ययश्रवणेन गृहीतशरीरपरित्यागानन्तरमेव शरीरान्तरपरिग्रहः प्रतिपाद्यते, स च जीवानां विश्वव्यापित्वं विना न हि सम्भवति स्वकर्मवशेनाऽतिदूरवर्तिस्वर्गनरकस्थानदेशान्तरेषु त्वरितगतिशीलानामपि मनसां शरीरान्तरपरिग्रहे कालविलम्बापत्तेरिति . वाच्यम्, एकशरीरपरित्यागानन्तरमेव शरीरान्तरपरिग्रह इति नियमे मानाभावात्। अन्यथा 'ऋतञ्च सत्यञ्चे'- त्यादिश्रुत्या मन्वादिना च प्रलयस्य प्रलयोत्तरं शरीरपरिग्रहस्य च प्रतिपादनं विरुध्येताप्रलये जन्यद्रव्यमात्रस्याऽसत्त्वेन तदुत्तरकाले शरीरपरिग्रहे पूर्वशरीरानन्तर्यव्याघातस्य सर्वैरेव स्वीकृतत्वात्। परन्तु 'न स्नानमाचरेद् भुक्त्वा', 'प्रात:सन्ध्यां ततः कृत्वा सङ्कल्पं बुध आचरेत्'। इत्यादौ क्त्वाप्रत्ययोऽप्युत्तरकालार्थको न त्ववहितोत्तरार्थक इति। 'वासांसि जीर्णानी' त्यादिवचनेनापि मनसामेव जीवत्वं प्रतिपादितं न तु विश्वव्यापिनाम्। तथा सति शरीराणां तादृशजीवाच्छादकत्वविरहेण वसने तद्दृष्टान्तताऽनुपपत्तेः। अथ मनसामणुतरत्वेन तदाश्रितसुखादीनामप्रत्यक्षत्वापत्तिः षड्विधप्रत्यक्ष एवाश्रयमहत्त्वस्य हेतुत्वात्। अन्यथा परमाणुव्यणुकतदाश्रितगुणादीनामपि प्रत्यक्षं वारयितुं न हि शक्येत। इति चेन्न महत्त्वाऽनाश्रयस्पर्शवदन्यपरिमाणतः / प्रत्यक्षं जायते सर्वं महत्त्वादेव तन्न तु // 2 // अयमाशयः- प्रत्यक्षसामान्यं प्रति महत्त्वानाश्रया ये स्पर्शवन्तोऽवच्छेदकतासम्बन्धेन तद्भेदवत्परिमाणत्वेनैव हेतुत्वं स्वीक्रियते, न तु महत्त्वत्वेन। तथा च मनसामणुत्वेऽपि स्पर्शवत्त्वविरहेण उक्तपरिमाणरूपकारणसत्त्वात् तदीयसुखादिप्रत्यक्ष निराबाधमेव। परमाणूनांव्यणुकानाञ्च स्पर्शवत्वेन महत्त्वानाश्रयत्वेन च उक्तकारणविरहात् तेषां तदाश्रितगुणानाञ्च न प्रत्यक्षम्।
Page #187
--------------------------------------------------------------------------
________________ तत्त्वसारात् 167 व्यासज्यवृत्तिधर्मावच्छेदेनैको गच्छति न द्वावित्यादिवत् परमाण्वादावपि स्पर्शसत्त्वेऽपि निरुक्तस्पर्शवदन्यत्वस्यापिसम्भवात् तादृशभेदत्वेन कारणत्वमपहाय गुरुणापि तादृशभेदवत्परिमाणत्वेन कारणत्वमभिहितम्। न चावच्छेदकतासम्बन्धेन तादृशभेदवत् परिमाणत्वेनेव तादृशभेदवदेकत्वजातिमत्वेनापि हेतुत्वस्य वक्तुं शक्यतया विनिगमनाविरहप्रसङ्गो दुर्वार इति वाच्यम्, यतो महत्त्वरूपनिखिलपरिमाणेषु अयन्थासिद्धिशून्यत्वं महत्त्वत्वेन प्रत्यक्षहेतुतावादिभिरपि स्वीकृतम्, अतस्तेषु तत् क्लृप्तमेव परन्त्वस्मन्मते मनः परिमाणेष्वेव कतिपयेषु तत् कल्प्यम्। तादृशैकत्वत्वेन कारणताकल्पनेतु सर्वेष्वेव तादृशैकत्वेषु तत्तदन्यथासिद्धिशून्यत्वं कल्पनीयम्, एवञ्चापेक्षाकृतक्लृप्तपदार्थघटितकारणत्वकल्पनसम्भवे कल्पनाबाहुल्यभिया न तादृशैकत्वत्वेन कारणत्वकल्पनंसम्भवदुक्तिकम्। एकं द्रव्यमितिवत् एको गुण एका क्रिया एका जातिरभावोऽयमेक इत्यादिप्रतीतेरपि स्वारसिकतया गुणादिष्वपि संख्यावत्त्वं निराबाधमेव। एवञ्च द्रव्यमात्रावस्थायिपरिमाणापेक्षया एकत्वानामसंख्यतेति तन्निबन्धनधर्मिगौरवेण तादृशैकत्वेषु प्रत्यक्षकारणता कल्पनाया असम्भवाच्च। व्यासज्यावृत्तिधर्मावच्छेदेन भेदानभ्युपगमे तु प्रत्यक्ष प्रति महत्त्वशून्यस्पर्शवदभेदत्वेनैव स्वरूपसम्बन्धेन हेतुत्वं न तु प्रोक्तंपरिमाणत्वेनेति। अथ भवदुक्तकारणतायामवच्छेदकगौरवात् विशेष्यविशेषणभावे विनिगमनाविरहेण कारणताबाहुल्याच्च मानसप्रत्यक्षे क्रियाभेदस्य कारणताकल्पनापत्तेश्च महत्त्वत्वेन एकमेव हेतुत्वं कल्पयितुमुचितम्। अतः सुतरामेवाऽतिरिक्तजीवाः सेत्स्यन्ति। इति चेन्न स्वाऽनाश्रये सुखादीनां वारणाय भवन्मते। कार्यकारणभावाश्च तत्रैवातीव लाघवम् // 12 // अयमाशयः- तत्तद्व्यक्तिसमवेतानां जन्यानामन्येषूत्पादवारणार्थं स्वसमवेतत्वावच्छिन्नं प्रति तत्तद्व्यक्तित्वेन सर्वस्यैव समवेतानामधिकरणस्य हेतुतायाः सर्वमत एव स्वीकरणमस्ति। एवञ्च अतिरिक्तजीवकल्पनेऽनन्तजीवमन्तर्भाव्यापि जीवसप्तसंख्यकतत्तद्व्यक्तित्वेन कारणताकल्पनामावश्यकम्। अन्यथा एक जीवसमवेतानां जीवान्तरेषु जननमापद्येत। न च मनसां सुखादिमत्त्व
Page #188
--------------------------------------------------------------------------
________________ 168 गद्यसंग्रहः स्वीकर्तृमतेऽप्येकमनः समवेतसुखादीनां मनोरूपजीवान्तरेषूत्पादवारणार्थं जीवान्तरवादिसमान एव कार्यकारणभाव इत्येतन्मते स्व लाघवम्। प्रत्युत प्रागुक्तरीत्या परिमाणस्य प्रत्यक्षकारणतायां क्रियाभेदस्य मानसकारणतायाञ्च गौरवमेव पर्य्यवसितमिति वाच्यम्, मन:पदार्थानां सर्वसम्मततया तदीयक्लृप्तगुणकर्मणां स्वानधिकरणेषूत्पादवारणार्थमुभयवादिसम्मतकारणतयैव तद्गतसुखादीनामपि एकैकसमवेतत्वनिर्वाहेणाऽनन्तकार्यकारणभावकल्पनकृतगौरवाऽनवकाशात्। एवञ्च प्रोक्तगुरुरूपेणापि परिमाणस्य प्रत्यक्षकारणतायाः क्रियाभेदस्य मानसकारणतायाश्च कल्पनेऽप्यनन्तातिरिक्तजीवान्तर्भावेणोक्तकारणतातोऽतीव लाघवम्। अथ मनो न पदार्थान्तरमपि तु पवनपरमाणुरेव तत्, इति भवदुक्तप्रकारेण परिमाणस्य प्रत्यक्षकारणताकल्पनेऽपि मनसो महत्त्वशून्यत्वेन स्पर्शवत्त्वेन च प्रोक्तपरिमाणरूपकारणविरहात्तद्गतसुखाद्यप्रत्यक्षापत्तिः। इति चेन्नः त्रुटौ द्रव्यस्य विश्रामात् व्यणुकादेरलीकता। प्रत्यक्षे षड्विधे तस्मात् परिमाणं न कारणम् // 13 // अयमाशयः- त्रुटिपर्य्यन्तानामेव मनोभिन्नाऽविभुद्रव्यत्वस्वीकारात्व्यणुकानां तदवयवपरमाणूनाञ्चालीकतैव। अतः प्रत्यक्षे परिमाणस्य कारणतैव नास्ति। परमाण्वादिसत्त्व एव तत्प्रत्यक्षवारणस्यैव महत्त्वत्वेन कारणताकल्पनप्रयोजनत्वात्। नच प्रत्यक्षविषयद्रव्यं सावयवं विभुत्वाऽन्यमहत्त्ववत्वात् घटपटादिवदित्यनुमानेन पक्षीभूतत्रुटीनामवयवाः साधनीयाः, त एव चातीन्द्रिया व्यणुकसंज्ञकाः। ततः प्रत्यक्षविषयस्यावयवाःसावयवा:महदवयवत्वात् कपालतन्त्वादिवत् इत्यनुमानेन व्यणुकानामप्यवयवाः साध्येरन्। त एव परमाणुनामकाः। एवञ्चानुमानसिद्धपरमाण्वादीनां प्रत्यक्षवारणार्थं महत्त्वत्वेन कारणताकल्पनावश्यकतया मनसां सुखादिमत्वे तेषां परमाणुरूपत्वेन तदीयसुखादीनामप्रत्यक्षापत्तिरिति वाच्यम्, प्रत्यक्षविषयद्रव्यं महत्त्वशून्यासमवेतं जात्यन्यत्वे सति बाह्यप्रत्यक्षविषयत्वात् घटपटादितदीयगुणपवनस्पर्शशब्दादिवदित्याद्यनुमानसाम्राज्येन त्रुटीनां महत्त्वशून्यासमवेतत्वसिद्धावर्थत एव व्यणुकपरमाण्वसिद्धेः। न चैवमपीदृशानुमानेन
Page #189
--------------------------------------------------------------------------
________________ तत्त्वसारात् 169 पवनीयव्यणुकादीनामलीकता नायाति पवनानां प्रत्यक्षाविषयत्वात्। एवञ्च तदीयव्यणुकादिस्पर्शस्य स्पर्शनवारणार्थं प्रत्यक्षे महत्त्वस्य हेतुत्वमवश्यमभ्युपेतव्यमिति वाच्यम्, एतावता वरं स्पार्शन एव महत्त्वस्य कारणताया वक्तव्यत्वात्। वायोरपि स्पार्शनस्वीकारेणोक्तानुमानकवलितत्वाच्च। वायोरप्रत्यक्षमते द्रव्यं महत्वशून्या- / समवेतं परिमाणवत्त्वात् त्रुट्यादिकं महत्त्वशून्यासमवेतं महत्त्वत्त्वाद्वेत्यनुमानेन सर्वमामञ्जस्यात्। न च व्यणुकादिसिद्धयनुगुणानुमानयोरपि प्राग्दर्शितत्वेन तबलेनापि न कथं तेषां सिद्धिर्भवेदिति वाच्यम्, सत्पप्रतिपक्षसम्बलनेद्वयोरेवासिद्या व्यणुकाद्यसिद्धावेव पर्यवसानात् भवदभिप्रेतानुमानप्रणाल्या परमाणूनामप्यवयवस्य साधयितुं शक्यतया उक्तानुमानविषयहेतोरप्रयोजकत्वशङ्काकवलितत्वाच्च।अथाऽनवस्थाभयेन परमाणूनामवयवाः सेद्धं नार्हन्ति अन्यथा मेरुसर्षपयोः साम्यं प्रसज्येत। इति चेत्, परमाणूनां सावयवत्वसिद्धावेव भवतामनवस्थाप्रसङ्गभयं त्रुटीनां पुनरप्रामाणिकावयवादिसिद्धौ न तथा प्रसङ्गः। अस्य तुरहस्यं भवन्त एवानुभवितुंप्रभवःसन्तु।वस्तुतस्तु अस्मत्प्रदर्शितोक्तानुमानेन प्रोक्तासमवेतत्वसिद्धौ द्वयणुकाद्यनन्तपदार्थान्तराऽकल्पनकृतं लाघवम्। युष्मत्प्रदर्शितानुमानेन तु अनन्ततत्कल्पनप्रयुक्तमहागौरवमित्यादिप्रतिसन्धानरूपतर्कस्यास्मदभिमतसिद्ध्यनुगुणत्वात्। __एवञ्च प्रत्यक्षे परिमाणस्य कारणतैव नास्तीति किं महत्त्वानुसन्धानेन। मानसे क्रियाभेदत्वरूपगुरुधर्मेण कारणत्वावश्यकत्वेऽपि परस्परानधिकरणेषु समवेतकार्योत्पादवारणार्थं भवन्मतेऽनन्तकार्यकारणभावकल्पनकृतं गौरवं सुदृढमेव। तार्किकेषु सुप्रसिद्धनिबन्धनकृद्भीरघुनाथशिरोमणिभिः स्वकृते पदार्थखण्डनग्रन्थेद्व्यणुकानां परमाणूनाञ्चाप्रामाणिकत्वमुक्तम्।अतस्तदनङ्गीकारे नापसिद्धान्तभीतिरपि। (1) अत्र यत्तु "तत्त्वसारविचार" ग्रन्थे ".... त्रुटि त्यणुकत्रसरेणुशब्दानां पर्यायता सर्वसम्मता। शब्दे पर्यायत्वं च एकार्थवाचकत्वे सति विभिन्नानुपूर्वीकत्वम्। तथा च त्रयः अणवो विद्यन्ते यस्मिन् स त्रयणुकस्य सावयत्वमव्याहतमेव। अत्राणुपदं व्यणुकपरम्। एवं द्वौ अणू विद्येते यस्मिन् स व्यणुक इति व्युतपत्त्या लब्ध व्यणुकस्यापि सावयत्वम्। अत्राणुपदं परमाणुपरमतः परमाणावेव विश्रामो न त्रुटाविति।" इत्युक्तम्, तत्तुच्छम्, यतस्त्रयणुकपद्स्य
Page #190
--------------------------------------------------------------------------
________________ 170 गद्यसंग्रहः अथ व्यणुकादिरूपाऽणुतरद्रव्यमप्रामाणिकं भवेच्चेद् भवतु तत्स्वीकारपक्ष एवास्माभिरपि प्रत्यक्षे महत्त्वस्य कारणत्वं व्यवस्थापितम्। तदनङ्गीकारे तु जीवस्यातिरिक्तत्वपक्षेऽपि महत्त्वस्य कारणत्वं परित्याज्यमेव। तथा च मनसां जीवत्वे तदीयकर्मपरत्वापरत्ववेगाख्यगुणानां मानसवारणार्थं मानसं प्रति क्रियाभेदपरत्वभेदापरत्वभेदवेगभेदानां कारणत्वकल्पने तासां बाहुल्यमवच्छेदकगौरवञ्च। अतस्तत्तद्गुणशून्याचञ्चलजीव एव कल्पयितुमुचितः। एवं स्वसमवेतत्वावच्छिन्नं प्रति प्रत्येकजीवानां कारणत्वकल्पनकृतोदीच्यगौरवप्रतिसन्धानमपि नातिरिक्तजीवकल्पनां प्रतिबन्धुं प्रभवेत्। यतस्तादृशजीवसिद्धिमूलकमेवोक्तगौरवं प्रतिसन्धीयते सिद्धस्त्वपलपितुं न हि शक्यते। अत एवानन्तसंयोगतद्ध्वंसप्रागभावकल्पननिबन्धनोदीच्यगौरवज्ञानसम्भवेऽपि एकधर्मिणि गगनसंयोगादेर्नानात्वं प्रथमतः कार्यकारणभावकल्पनलाघवबलेन साधितं सकलसाम्प्रदायिकैः। इति चेन्न - अनध्यक्षाददृष्टादेर्यतो जीवगमानसे। अवच्छिन्नतया देहहेतुता सर्वसम्मता // 14 // परिभाषया त्रुटिरूपतादृनिरवयवद्रव्यबोधकत्वसम्भवेन नानुपपत्तिगन्धोऽपि। एवम् "पृथित्यादिनिरुपणावसरे सा द्विविधा नित्याऽनित्याचा परमाणुलक्षणा नित्या इत्यादिभाष्योक्तेश्च परमाणुसिद्धिरप्रत्यूहा। तथा च त्रुटावेव विश्राम इति वदन् न केवलं नव्यः किन्तु दीधितिकारोऽपि परास्तः।" तत्रस्य इत्यपिप्रलापः प्रलाप एव। यतो दर्शनस्य युक्तिशाखत्वात् न हि कस्यचिद ग्रन्थकत्तुर्विरुद्धोक्तिर्वस्तुसाधिका भवितुमर्ह ति। भाष्याधुक्तत्वेनैव परमाणु सिद्धौ तत्साधकानुमानप्रदर्शनप्रयासो वैफल्यमापद्येत। तथा च महर्षीणामपि कपिलकणादादीनां मतखण्डने परमास्तिकाः शङ्कराचार्यादयो भियमणीयसीमपि नासादितवन्तः। अत एव 'अहरहः सन्ध्यामुपासीते' त्याज्ञाशास्त्रोपदेशकाले नोपलभ्यते युक्तिमयसूक्तिलेशोऽपि। इत्थं च गोतमादीनां बिधिनिषेधबोधकालौकिकवाक्याऽस्वीकरण एव दोषः, न तु तदुक्त युक्तिशास्नाऽनङ्गीकारे। तदुक्तं विष्णुपुराणे - न ह्याप्तवादा नभसो निपतन्ति महासुराः / युक्तिमद्वचनं ग्राह्यं मयाऽन्यैश्च भवद्विधैः / (तृतीयांशः, 18 अ., 29 शलो.)
Page #191
--------------------------------------------------------------------------
________________ तत्त्वसारात् 171 अयमाशयः- भावनाख्यसंस्कारधर्माधर्मरूपाऽदृष्टात्मगतपरिमाणैकत्वादिमानसवारणार्थमुक्तप्रत्येकधावच्छिन्न-भेदहेतुत्वकल्पनापेक्षया जीवसमवेतेषु संवेदनविषयाणामिच्छाद्वेषसुखदुःखकृतिमतीनामेव देहरूपद्रव्यावच्छिन्नत्वस्य सर्वानुभवसिद्धतया जीवसमवेतानां द्रव्यसमवेतानां वा मानसं प्रति देहत्वेन द्रव्यत्वेन वा धर्मेण अवच्छिन्नत्वसम्बन्धेन एकमेव हेतुत्वं भवताऽप्यङ्गीकृतम्। अस्मन्मतेऽपि तेनैव कारणबलेन सुखादीनामेव प्रत्यक्षं न तु मनसःकादीनामपि तदीयेषु तेषु शरीरानवच्छिन्नत्वस्य सर्वसम्मतत्वात्। एवञ्चाऽनन्तातिरिक्तजीवानामकल्पनकृतंलाघवं सुदृढमेवान चात्मत्वजातिमानसे व्यभिचारापत्तिभयेन प्रोक्तकार्यकारणभावो न केनाऽप्यनुमत इति वाच्यम्, आत्मत्वसाक्षात्कारस्यैवाऽनभ्युपगमात् यस्मिन् साक्षात्कारे व्यभिचारमाशङ्कसे। अन्यथा साक्षात्कृतवस्तुनः सुखादेरिव विवादाऽनर्हतया तादृशजातौ विवादास्पदत्वभङ्गः प्रसज्येत। ज्ञानवत्त्वादिनाऽऽत्मव्यवहारमुपपाद्य गदाधरभट्टाचार्येणाऽनुमितिग्रन्थे आत्मत्वजातेरनङ्गीकाराच्च। एवम् आत्मत्वजातिस्वीकारेऽप्यात्मनि सत्ताद्रव्यत्वजातिसत्त्वेऽपि च तदंशे साक्षात्कारो न केनाऽप्यनुमतः सत्ताद्रव्यत्वजातिप्रत्यक्षे तन्न्यूनवृत्तिजातिसाक्षात्कारस्य हेतुत्वात्। अत एव घृतजतुप्रभृतिषु द्रव्यत्वन्यूनवृत्तिजाते:साक्षात्कारविरहेण द्रव्यत्वं न प्रत्यक्षसिद्धा जातिरिति प्रचीनैरुक्तम्, अपि तु तास्वलौकिकी विषयतैव। अत एव 'धर्माधर्माश्रयोऽध्यक्षो विशेषगुणयोगतः'। इति। 'मनोग्राह्यं सुखं दुःखमिच्छा द्वेषो मतिः कृतिः'। इति च प्राचीनरुक्तम्। सुखत्वादिवददृष्टात्वादिसाक्षात्कारापत्तिस्तु योग्यवृत्तित्वाभावाद्वारणीया। एवमतिरिक्तजीवकल्पनपक्षे सुषुप्त्यादिदशायां ज्ञानवारणाय तत्तत्पुरुषीयसुखाद्यन्यविषयकज्ञानसामान्यं प्रति ज्ञानासामान्यं प्रति वा तत्तत्पुरुषीयत्वङ्मनोयोगत्वेन गुरुरूपेण हेतुत्वे गौरवम्। अस्मन्मते तदनन्तर्भाव्य समवायेन ज्ञानसामान्यं प्रति त्वक्संयोगत्वरूपलघुरूपेणैव हेतुत्वं कल्पनीयमिति मनोजीवत्वपक्ष एव साधीयान्।
Page #192
--------------------------------------------------------------------------
________________ 172 गद्यसंग्रहः आचार्यबदरीनाथशुक्लप्रणीतनिबन्धात् न्यायशास्त्रीयविचारपद्धत्या देहात्मवादस्य सम्भाव्यता (विषयोऽयं भारतीयदार्शनिकानुसन्धानपरिषदा सारनाथे समायोजितायां न्यायपण्डितगोष्ठ्याम् आचार्यबदरीनाथशुक्लेन प्रस्तुतो विद्वद्भिः साभिनिवेशं. सम्यक् चर्तितश्च) न्यायवैशेषिकशास्त्रयोः प्रामणिकग्रन्थानां पर्यालोचनेन आत्मनो विषये एष निष्कर्षः प्राप्यते यत् आत्मा क्षित्यप्तेजोमरुद्व्योमदिक्कालमनोभ्यो भिन्नं नवमं द्रव्यम्। स च द्विविधः - जीवात्मा परमात्मा च। तत्र जीवात्मा प्रतिशरीरं भिन्नः शरीरेन्द्रियमनःप्राणेभ्यो व्यतिरिक्तः सर्वं मूर्तद्रव्यसंयोगी कर्तृत्वभोक्तृत्वाश्रयः कृत्स्नैर्मूर्तद्रव्यैः संयुज्यमानोऽपि पूर्वार्जितादृष्टवशात् येन देहे न सह विजातीयसंयोगलक्षणं भोगनियामकसम्बन्धं लभते, तेनैव देहेन पूर्वकर्मणाम् उच्चावचानि सुखदुःखात्मकफलानि भुङ्क्ते। नवनवानि च कर्माणि कुर्वन् पुण्यपापापरपर्याय धर्माधर्मयोः स्वकीयं कोषम्वर्द्धयते। अभिनवैः अनुभवैः उत्पाद्यमानं संस्कारराशिञ्च उपचिनुते। सर्वेष्वेषु कर्मसु तदीयादृष्टाकृष्टं मनः तस्य साचिव्यं बिभर्ति। जीवात्मा हि तन्नये ज्ञानेच्छाद्वेषप्रयत्नधर्माधर्मभावनासुखदुः खात्मकानाम् नवविशेषगुणानां संख्यापरिमाणपृथक्त्वसंयोगविभागाभिधानाम् पञ्चसामान्यगुणानाञ्चाश्रयः, स्वकीयकर्मानुसारेण विविधासु योनिषु जायते। . मनुष्यशरीरेण च स्वात्मतत्त्वसाक्षात्कारमासाद्य अपवर्गापरनाम्नो निः श्रेयसस्याधिकारी देहि-प्राणि-जीवप्रभृति शब्दैः व्यपदेश्यश्च। परमात्मा पुनः जीवात्मभ्यो भिन्नः, अद्वितीयः, जगत्कर्ता, वेद प्रणेता, स्वोपासनया च जीवेभ्यो भौमदिव्यसुखप्रदाता, जीवानाञ्च तदर्जितकर्मफलभोगे मोक्षलाभेचतेषां सहायक: नित्यज्ञानेच्छाप्रयत्नानां संख्यापरिमाणपृथक्त्वसयोगविभाग-सहितानां नवगुणानामाधारः। ईश्वर-प्रभु-भगवत्प्रभृतिशब्दैः व्यपदेश्यः। सृष्टिरक्षासंहारकर्मानुरोधेन ब्रह्मविष्णुशङ्करसंज्ञाभिः बोध्यश्च। बाल्ये अनुभूतस्य वार्धक्ये स्मरणानुपपत्या मृतदेहे च अविद्यमानतया ज्ञानं न देहाश्रितम्। ज्ञानमूलकत्वादेव अन्येऽपि विशेषगुणा: न देहाश्रिता। एकेन इन्द्रियेण
Page #193
--------------------------------------------------------------------------
________________ आचार्यबदरीनाथशुक्लप्रणीतनिबन्धात् 173 अनुभूतस्य तदिन्द्रियनाशेऽपि स्मरणस्य जायमानतया एकदेहे अनेक ज्ञानिनां सत्त्वे तेषां विपरीतासु दिक्षु युगपद् देहनयनप्रवृत्तिसंभवेन देहोन्मथनापत्त्या च ज्ञानादिकम् नेन्द्रियाश्रितम्।मनसोऽणुतया ज्ञानादीनां तदाश्रितत्वे तेषां प्रत्यक्षानुपपत्त्या ज्ञानादयो न मनोनिष्ठाः। किन्तु एभ्यो भिन्नः आत्मैव ज्ञानादीनामाश्रयः। अचिन्त्यते-न्यायवैशेषिकग्रन्थेषु उपलभ्यमान एष आत्मवादो विमृश्यमानो नावकाशं लभते, मनसः सहयोगेन शरीरस्यैव आत्मत्वाभ्युपगमसंभवात्। तथाहि आत्मा नातिरिक्तं द्रव्यम्। देहमनोभ्यामेव तत्साधनीयस्य निखिलप्रयोजनस्य निर्वर्तयितुं शक्यत्त्वात्। तदेवमेतनये देह एव बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नानां प्रत्यक्षयोग्यगुणानामाश्रयः। अयोग्यानां धर्माधर्मभावनानामाश्रयो मनः। पृथिव्याः विशेषगुणानां कारणगतैः सजातीयगुणैः पाकेन वा उत्पाद्यमानतया बुद्ध्यादयः पार्थिवस्य मनुष्यादिदेहस्य विशेषगुणाः न भवितुमर्हन्ति, देहावयवानां जड़तया बुद्ध्यादिराहित्येन तदीयगुणैः देहे बुद्ध्यादीनामुत्पत्त्यसम्भवात्। पाकेनापि देहे तदुत्पत्तेः पाकजगुणानां सजातीयगुणध्वंसपूर्वकतया दुर्घटत्वात्, इति न शक्यम्, बुद्ध्यादीनां शरीरस्य सामान्यगुणत्वाभ्युपगमात्। पृथिव्याः सामान्यगुणानामुत्पत्तौ च अवयवगतसजातीयगुणानां पाकस्य वा अनपेक्षितत्वेन शरीरे अन्यसामान्यगुणानामिव बुद्ध्यादीनामपि प्रकारान्तरेण उत्पत्तिसंभवात्। बुद्ध्यादीनां शरीरस्य सामान्यगुणत्वाभ्युपगमे रूपादीनामिव यावच्छरीरं तदवस्थानमपि नापादयितुं शक्यम्। शरीरगतानां संयोगादिसामान्यगुणानामिव तद्गतानां बुद्ध्यादिसामान्यगुणानामपि शरीरसत्त्वे निवृत्तिसम्भवात्। बुद्ध्यादीनां शरीरगुणत्वे तेषां कुतो न तदीयविशेषगुणत्वमिति न शङ्कनीयम्, विशेषगुणलक्षणेन तत्संग्रहासम्भवात्। तथाहि विशेषगुणत्वं नाम-द्रव्यविभाजकोपाधिविशिष्टजातिमद्गुणत्वम्।वैशिष्टयञ्च स्वाश्रयवृत्तितावच्छेदकत्वस्वनाश्रयवृत्तितानवच्छेदकत्त्वोभयसम्बन्धेन।गन्धत्वंरूपत्वव्याप्य नीलत्वादिकम् अनुष्णाशीतस्पर्शत्वव्याप्यं पाकजन्यतावच्छेदकंवैजात्यम्,अभास्वरशुक्लत्वव्याप्यं पाकजन्यतावच्छेदकं वैजात्यम्, मधुरत्वव्याप्यं पाकजन्यतावच्छेदकं वैजात्यञ्च उक्तोभयसम्बन्धेन द्रव्यविभाजकोपाधिना पृथिवीत्वेन विशिष्टं भवतीति तदाश्रयाः
Page #194
--------------------------------------------------------------------------
________________ 174 गद्यसंग्रहः गन्धादयः पृथिव्याः विशेषगुणाः। शीतत्वस्य स्नेहत्वस्यसांसिद्धिकद्रवत्वत्वस्य पाकजन्यतानवच्छेदकस्य मधुरत्वव्याप्यवैजात्यस्य च द्रव्यविभाजकोपाधिना जलत्वेन उक्तसम्बन्धाभ्यां विशिष्टतया तद्वन्तः शीतादयः जलस्य विशेषगुणाः उष्णत्वस्य भास्वरशुक्लत्वस्यच उक्तसम्बन्धाभ्यांद्रव्यविभाजकोपाधिना तेजसत्वेन विशिष्टतया तद्वन्त: उष्णादयः तेजसो विशेष गुणाः। पाकजन्यतानवछेदिकायाः अनुष्णाशीतस्पर्शत्वव्याप्याया:जाते: द्रव्यविभाजकोपाधिना वायुत्वेन विशिष्टतया तद्वान् अपाकजानुष्णाशीतस्पर्श: वायोः विशेषगुणः। शब्दत्वस्य द्रव्यविभाजकोपाधिना आकाशत्वेन उक्तसम्बन्धाभ्यां विशिष्टतया तवान् शब्दः आकाशस्य विशेषगुणः। बुद्ध्यादीनां देहगतत्वे तेषां पार्थिवजलीयतैजसवायवीयदेहेषु वृत्तितया बुद्धित्वादिजातयः पृथिवीत्वादिषु न केनापि द्रव्यविभाजकोपाधिना उक्तसम्बन्धद्वयेन विशिष्टाः, अतएव तद्वतां बुद्ध्यादीनां पृथिव्यादिविशेषगुणत्वासंभवेन बुद्ध्यादयो शरीरस्य न विशेषगुणाः अपि तु सामान्यगुणा एव इति सुस्पष्टम्। धर्माधर्मभावनानामेतन्मते मनोनिष्ठतया धर्मत्वादिजातीनां द्रव्यविभाजकोपाधिना मनस्त्वेन उक्तसम्बन्धाभ्यां विशिष्टतया तद्वन्तो धर्मादयः मनसो विशेषगुणाः। बुद्ध्यादीनां शरीरगुणत्वे रूपादीनामिव तेषामपि चक्षुरादिभिः ग्रहणेन भाव्यमित्यपि न शङ्कार्हम्, शरीरगुणानां केनचिदेकेनैवेन्द्रियेणग्रहणमिति नियमाभावेन चक्षुषा रूपस्य, त्वचा स्पर्शस्य, घ्राणेन गन्धस्य, रसनया रसस्य, इव मनसा बुद्ध्यादेः ग्रहणाभ्युपगमे बाधकाभावात्। शरीरगुणानां बाह्येन्द्रियेणैव ग्रहणमिति नियमेन मनोग्राह्याणां बुद्ध्यादीनां शरीरगुणत्वं न संभवतीत्यपि न वक्तुमर्हम्, शरीरस्य ज्ञानादिमत्वे तद्ग्राहकस्य मनसोऽपि बाह्यद्रव्यगुणग्राहकतया बहिरिन्द्रियशब्दव्यपदेश्यत्वत्स्य स्वीकारसम्भवात्। तस्य अन्तरिन्द्रियशब्दव्यपदेशस्य अन्तस्थितत्वमात्रानुरोधित्वात्। किञ्च शरीरस्य बहिर्भागे विद्यमानानामेव गुणानां बहिरिन्द्रियग्राह्यत्वनियमः, बुद्ध्यादयस्तु शरीराभ्यन्तरभागे जायन्ते, अतस्तद्ग्रहणार्थम् अन्तरिन्द्रियस्यैव आवश्यकतया न रूपादीनामिव शय्यादिसंयोगादीनामिव वा बहिरिन्द्रियेण ग्रहणमापादयितुं शक्यम्।
Page #195
--------------------------------------------------------------------------
________________ आचार्यबदरीनाथशुक्लप्रणीतनिबन्धात् 175 अयमाशयः- सांख्यदर्शने इन्द्रियाणां ज्ञानकर्मरूपप्रयोजनभेदेन द्विविधतया उभयविधेन्द्रियाणां सहकारितया यथा मनः ज्ञानेन्द्रियकर्मेन्द्रियोभयात्मकमुच्यते। तथैव बुद्ध्यादेः देहादिगुणत्वे मनः बाह्यद्रव्यगुणग्राहकतया बहिरिन्द्रियं शरीराभ्यन्तरस्थितया अन्तरिन्द्रियञ्च वक्तुं शक्यम्।शरीरस्य ज्ञानादिमत्वे रूपादयो यथा अन्येन दृश्यन्ते तथैव तस्य ज्ञानादयोऽपि अन्येन अनुभूयरेन् इत्यपि न शङ्कयम्।एकशरीरगतस्य रूपादेःअन्यशरीरस्थचक्षुरादिभिः सन्निकृष्टत्वेन अन्येन तद्ग्रहणसम्भवेऽपि एकशरीरगतस्य ज्ञानादेः अन्यशरीरस्थेन अणुना मनसा असन्निकृष्टतया उक्तापत्त्यसम्भवात्। प्रत्यक्षानुभवस्य इन्द्रियसन्निकृष्टमात्रविषयकत्वात्। शरीरस्य ज्ञानादिमत्त्वे बाल्ये अनुभूतस्य वार्धक्ये स्मरणानुपपत्तिः बालवृद्धशरीरयोः भिन्नतया बालशरीरानुभवजन्यसंस्कारस्य वृद्धशरीरे अभावात् इत्येषापि शङ्का नोचिता। शरीरात्मवादे शरीरगतेनानुभवेन संस्कारोत्पत्तेः मनसि स्वीकारेण बालशरीरगतमनसो वृद्धशरीरेऽपि सत्त्वेन मनोनिष्ठसंस्कारमहिम्ना बाल्येऽनुभूतस्य वृद्धशरीरेऽपि स्मरणस्योत्पत्तिसम्भवात्। देहात्मवादे अनुभवस्य संस्कारं प्रति स्वाश्रयविजातीयसंयोगसम्बन्देन संस्कारस्य च स्मृति प्रति स्वाश्रयविजातीयसंयोगसम्बन्धेन हेतुत्वाभ्युपगमात्। इन्द्रियैः सह शरीरावयवैः वा सह मनसो यः संयोगः स न मनोदेहसंयोगगतसंयोगत्वव्याप्यवैजात्यभाजनम्। अतो न इन्द्रियेषु शरीरावयवेषु वा संस्कारस्य स्मृतेर्वा उत्पत्त्यापत्तिः। वर्तमानशरीरसहयोगिनो मनसःतच्छरीरजन्यादृष्टवशाद् उत्पन्ने नितान्तं नूतनबालशरीरेऽपि विजातीयसंयोगेन प्रविष्टतया तत्रापि पूर्वशरीरानुभूतार्थस्य स्मरणोत्पत्तौ बाधकाभावेन सद्यो जातस्य शिशोः स्तन्यपाने प्रवृत्तिरपि निर्बाधा, पूर्वशरीरस्थमनसः पूर्वशरीरगतस्तन्यपानेष्टसाधनताऽनुभवजन्यसंस्कारवतः शिशुशरीरे अनुप्रविष्टतया तनिष्ठोक्तसंस्कारमहिम्ना तत्र स्तन्यपानेष्टसाधनता स्मरणस्य निरुपद्रवत्वात्। देहात्मवादे पूर्वशरीरेणानुभूतार्थस्य उत्तरशरीरेण स्मृतेरुपगमे चैत्रेणानुभूतस्य मैत्रे स्मरणापत्तिरित्यपि नापादयितुं शक्यं, चैत्रानुभवजन्यसंस्कारस्य चैत्रमनस्येव सत्त्वात् तस्य च मैत्रशरीरेऽसत्त्वात्। वर्तमानदेहस्वरूप आत्मा आजीवनं विविधेषु कर्मसु व्यापृतो भवति, न च समेषां कर्मणां फलं लभते।मृते तस्मिन् तदभुक्तफलककर्मणां वैयर्थ्यरूपं कृतहानं
Page #196
--------------------------------------------------------------------------
________________ 176 गद्यसंग्रहः नूतनदेहस्वरूप आत्मा च जन्मकालादेव सुखदुःखात्मकानि फलानि भुङ्क्ते इति अकृतकर्मणामपि फलोदयरूपोऽकृताभ्यागमश्च देहात्मवादे दुष्परिहरे इत्यपि न वक्तुमर्ह, वर्तमानशरीरेण कृतानामभुक्तफलानां कर्मणां धर्माधर्मव्यापारभाजनस्य तदधिष्ठातृ मनसो नूतने तदर्जितादृष्टजनिते देहे प्रवेशेन तत्र तत्कर्मणां फलभोगसंभवेन तेषां सार्थक्यात् सर्वथा नूतने देहेऽपि पूर्वदेहकृतकर्मणामेव फलोदयेनाकृताभ्यागमस्याभावाच्च। देहात्मवादे नायं नियमो यद् यः यत्कर्म करोति स एव तत्फलं भुङ्क्ते, तस्यातिरिक्तात्मवादस्य चिरप्ररूढवासनामूलकतया प्रकृतवादेऽनभ्युपगमात्। तत्स्थाने यन्मनोऽधिष्ठितेन देहेन यत्कर्म क्रियते तत्फलं तन्मनोऽधिष्ठितेनैव देहेन भुज्यते इति नियमोपगमात्। मनसि देहादिष्ठातृत्वं देहानुयोगिकविजातीयसंयोगप्रतियोगित्वं देहस्य मनोऽधिष्ठितत्वं च मनः प्रतियोगिकविजातीयसंयोगानुयोगित्वम्। शरीरेण कृतयोः विहितनिषिद्धकर्मणोः मनस्यसत्त्वेन कुतस्तत्र ताभ्यां पुण्यपापोदयः, कथञ्च मनोनिष्ठाभ्यां ताभ्यां तदहिते नूतने शरीरे सुखदुःखात्मकफलोदय इत्यपि नाशङ्कितुं शक्यम्। शरीरकर्मणः स्वाश्रयविजातीयसंयोगेनादृष्टं प्रति मनोनिष्ठादृष्टस्यापि तादृशसम्बन्धेन सुखदुःखात्मकफलं प्रति कारणत्वोपगमेनोक्तशङ्काया अनवकाशत्वात्। अनुभवसंस्कारस्मृतिषु कर्मादृष्टफलेषु च साक्षात् सामानाधिकरण्येन कार्यकारणभावस्य उक्तसम्बन्धेन तेषु कार्यकारणभावापेक्षया लघुतया तदनुरोधेनातिरिक्तात्मवाद एव स्वीकर्तुमुचित इति वचनमपि न चारुतामञ्चति, क्लृप्तपदार्थाश्रयेणैव लघुगुरुकार्यकारणभावपक्षयो रूपस्थितौ लघुकार्यकारणभावस्यादरात्। यथा मीमांसकमते 'साध्य व्याप्यो हेतुः', 'हेतुमान् पक्ष' इति द्वयोः ज्ञानयोः वादिप्रतिवादिसम्मतयोः अनुमितिं प्रति कारणता, नैयायिकनये च 'साध्यव्याप्यहेतुमान् पक्ष' इति ज्ञानस्य वादिप्रतिवादिसम्मतस्यानुमितिं प्रति कारणतेति पक्षद्वयोपस्थितौ लाघवेन नैयायिकसम्मत एव कार्यकारणभावो मन्यते। तन्मते कार्यकारणतावच्छेदकगर्भे तत्तत्पुरुषाप्रवेशात्, समवायसम्बन्धेनानुमितिं प्रति तज्ज्ञानस्य हेतुत्वभ्युपगमे नान्यदीयात्तादृशज्ञानादन्यस्यानुमित्यापत्तेरसम्भवात्।
Page #197
--------------------------------------------------------------------------
________________ आचार्यबदरीनाथशुक्लप्रणीतनिबन्धात् 177 मीमांसकमते च एकस्य व्याप्तिग्रहे अन्यस्य पक्षधर्मताग्रहे एकत्र हेतौ व्याप्तिग्रहे अन्यहेतौ पक्षधर्मताग्रहे ऽनुमित्यापत्तिवारणाय तत्तत्पुरुषीयतत्साध्यपक्षहे तुकानुमित्तौ तत्तत्पुरुषीयतद्धेतु धर्मिकतत्साध्यव्याप्तिग्रहस्य तत्तत्पुरुषीयतत्पक्षधर्मिकतद्धेतुमत्ताग्रहस्य चहेतुतायाअभ्युपगन्तव्यतया पुरुषभेदेन कार्यकारणभावानन्त्यप्रयुक्तगौरवान्मीमांसकसम्मत:कार्यकारणभावस्त्यज्यते।यथा वा अन्यधर्मितावच्छेदकयोग्यताज्ञानादपरधर्मितावच्छेदकशाब्दबोधापत्तिवारणाय कार्यकारणभावावच्छेदकगर्भे धर्मितावच्छेदकनिवेशस्यावश्यकतया शाब्दबोध योग्यताज्ञानयो: आत्मनिष्ठप्रत्यासत्या कार्यकारणभावो धर्मितावच्छेदकभेदमूलकानन्त्यप्रयुक्तगौरवग्रस्तः। धर्मितावच्छेदकनिष्ठप्रत्यासत्या च तयोःकार्यकारणभावः एकपुरुषीययोग्यताज्ञानादपरपुरुषस्य शाब्दबोधापत्तिपरिहाराय तत्त्पुरुषीयत्वगर्भोऽपि तत्तत्पुरुषातिरिक्तधर्माणां कार्यकारणभावावच्छेदकगर्भेऽप्रवेशेन लाघव ललित इति आत्मनिष्ठप्रत्यासत्या तयोः कार्यकारणभावमस्वीकृत्य धर्मितावच्छेदकनिष्ठप्रत्यासत्यैव तयोः कार्यकारणभावः स्वीक्रियते। प्रकृते तु नैषा स्थितिः, अतिरिक्तात्मनः, वादिप्रतिवादिभ्यामनभ्युपगतत्वेन अनुभवसंस्कारस्मृतिषु कर्मादृष्ट फलेषु च साक्षात् सामानाधिकरण्येन हेतुहेतुमद्भावपक्षः प्राप्त एव नास्ति, तत्प्राप्तये चानन्तानां विभुद्रव्यात्मकानां जीवानां कल्पना चातीवगौरवग्रस्ता,अतःतेषु उक्तसम्बन्धेन कार्यकारणभावात्मन एकमात्रपक्षस्यैव प्राप्ततया तदभ्युपगम एवं न्याय्यः। किञ्च अतिरिक्तात्मवादे 'अहं गच्छामि' 'अहं जानामि' इत्यादिप्रयोगेषु आख्यातार्थभेदकल्पनाप्रयुक्तमपि गौरवम् दुर्वारम्। प्रथमस्थले कृतेः द्वितीयस्थले च आश्रयत्वस्य आख्यातार्थतायाः स्वीकार्यत्वात्। देहात्मवादे च उभयत्र आश्रयत्वमात्रस्यैव तदर्थत्वसंभवात्। किञ्च चैत्रादिपदस्य शरीरगतचैत्रत्वादि जातिप्रवृत्तिनिमित्तकतया चैत्रादिपदार्थस्य शरीररूपतया 'चैत्रो गच्छति' इति वाक्यतः चैत्रे गमनाश्रयत्वबोधोपपत्तिसंभवेऽपि 'चैत्रो जानाति' इति वाक्यतः चैत्रे ज्ञानाश्रयत्वबोधस्य अतिरिक्तात्मवादे दुर्घटत्वम्। 'ज्ञा'- धातूत्तराऽख्यातस्यावच्छेदकत्वमर्थमङ्गीकृत्य तद्वाक्यतः यथार्थशाब्दबोधोदयः नोपपादयितुं शक्यः, तथा सति ईश्वरीयज्ञानस्य नित्यतया अनवच्छिन्नत्वेन "ईश्वरः सर्वं
Page #198
--------------------------------------------------------------------------
________________ 178 गद्यसंग्रहः जानातीति" वाक्यार्थबोधस्यानुपपत्तिप्रसङ्गात्। चैत्रादिपदानां स्वाश्रयत्वस्वाश्रयावच्छेद्यत्वान्यतरसम्बन्देन शरीरगतचैत्रत्वादिजातिप्रवृत्ति निमित्तकत्वाऽभ्युपगमेन शरीरात्मोभयपरतामभ्युपेत्य आख्यातस्य च आश्रयत्वार्थकतां स्वीकृत्यापि 'चैत्रोगच्छति', 'चैत्रो जानाति' इत्येतद् वाक्यार्थबोधः नोपपादयितुं शक्यते। 'चैत्रो न जानातीति' वाक्यार्थबोधस्य सत्त्वेऽपि 'चैत्रो जानातीति' बोधस्याऽऽपत्तिप्रसङ्गात्, प्रथमस्य शरीरमाश्रित्य द्वितीयस्य च आत्मानमाश्रित्य द्वयोरपि युगपदुत्पत्तिसंभवात्। देहात्मवादमाश्रित्य कश्चिदेवमाशङ्कते यत् संस्कारस्य स्वाश्रयसंयोगसम्बन्धेन स्मृतिं प्रति कारणत्वे तेन सम्बन्धेन तस्य शरीरनिष्ठताया इव इन्द्रियनिष्टताया अपि सत्त्वेन इन्द्रियेऽपि स्मृत्युत्पादापत्तिः। इन्द्रियेऽपिस्मृत्याश्रयत्वस्वीकारे ज्ञानाश्रयत्वेन तस्याप्यात्मत्वापत्तिः। परिमियं शङ्का नोचिता, इन्द्रियदेहावयवादिव्यावृत्तेन स्वाश्रयविजातीयसंयोगेनैव संस्कारं प्रत्यनुभवस्य स्मृति प्रति च संस्कारस्य हेतुत्वोपगमेनोक्तापत्त्यसम्भवात्। अत एव घटपटादिष्वपि मनस्संयोगसंभवेन तत्रापि स्मृतेरुत्पत्तेः सम्भाव्यतया तेषामपि आत्मत्वापत्तिरित्यपि नाशङ्कितुं शक्यम्, कारणतावच्छेदकसम्बन्धतयाऽभ्युपगतस्य मनोविजातीयसंयोगस्य तेष्वभावात्। समानकालीनत्वैकज्ञानविषयत्वादीनामपिस्वाश्रयसंयोगसमकक्षतया तत्सम्बन्धैरपि स्मृति प्रति संस्कारस्य हेतुत्वापत्त्या सम्पूर्णस्य जगत एव ज्ञानाश्रयत्वेन आत्मत्वापत्तिशङ्का तु शङ्कितुः दुस्साहसमात्रसूचिका, अतिरिक्तात्मवादे मूर्तद्रव्यमाने आत्मनः संयोगसत्त्वेऽपि तत्समकक्षस्य समानकालीनत्वादिसम्बन्धस्यापि घटादिषु सत्वेऽपि यथा न घटाद्यवच्छेदेन आत्मनि ज्ञानोत्पत्तिः, अपितु तत्तदात्मविजातीयसंयोगाश्रयतत्तदेहावच्छेदेनैव ज्ञानोत्पत्तिर्भवतीति शरीरस्यैव ज्ञानाद्यवच्छेदकत्वं न घटपटादीनाम्, तथैव देहात्मवादे मनस्संयोगस्य तत्तुल्यस्य सम्बन्धान्तरस्य च घटपटादिषु सत्वेऽपि न तत्र स्मृत्याद्युत्पत्तिः। किन्तु संस्काराद्याश्रय मनसो विजातीयसंयोगाश्रये शरीर एव स्मृत्याद्युत्पत्तिः, इति तत्त्वस्य अनायासवेद्यस्य अज्ञानमूलकत्वादुक्तशङ्कायाः।
Page #199
--------------------------------------------------------------------------
________________ आचार्यबदरीनाथशुक्लप्रणीतनिबन्धात् 179 देहात्मवादमाक्षेप्तुकामः कश्चिदेवं ब्रूते यत् देहमनोभ्यां जीवात्मनो निराकरणप्रयास:देहमनसोरुभयोरात्मत्वाभ्युपगमे पर्यवस्यति।नचैवंस्वीकर्तुमर्हम्, देहस्यानित्यतया मनसश्च नित्यतया आत्मनि विरुद्धयोः नित्यत्वानित्यत्वयोः समावेशप्रसङ्गात्। 'कदाचिदहं नित्यः', 'कदाचिदहं नश्वर' इत्यनुभवविरुद्धस्य प्रतीतिभेदस्य प्रसङ्गाच्च परमिदं वचनं न चारु, देहात्मवादे गौतमेन "इच्छाद्वेषप्रयत्नसुखदुःखज्ञानान्यात्मनो लिङ्गम्' इति सूत्रेण आत्मलिङ्गतया उक्तानामिच्छादिगुणानां देहात्मवादे देह एव स्वीकारेण तत्रैव आत्मत्वस्य मनसि चतदाश्रयत्वमस्वीकृत्य धर्माधर्मभावनामात्राभ्युपगमेन तदुपकरणत्वस्य स्वीकृत्य देहमनोभ्यां जीवात्मनो निराकरणप्रयासस्य देहमनसोरुभयोरात्मत्वाभ्युपगमपर्यवसायिता बुद्धरनवधानमूलकत्वात्। मनसोऽणुपरिमाणतया तस्य शरीरव्यापित्वाभावेनानखशिखान्तं समग्रं शरीरं व्याप्य उत्पत्तिमत्त्वेनानुभूयमानायाः बुद्धेः समग्रशरीरव्यापिनः अतिरिक्तात्मनोऽस्वीकारे देहात्मवादे उपपत्तिर्न भवितुमर्हतीति शङ्काऽपि नोचिता। अतिरिक्तात्मवादे आत्ममनस्संयोगस्य एकदा शरीरस्य कस्मिंश्चित् मनस्सम्मिते भाग एव सत्वेऽपि यथा समग्रंशरीरं व्याप्य उत्पत्तिमत्तयाऽनुभूयमाना बुद्धिरुपपद्यते। तथैव देहात्मवादेऽपि तदुपपत्तिसंभवे बाधकाभावात्। आपामरसाधारणानुभवानुसारं मनः अन्तरिन्द्रियम्। 'मनसा करोमि', 'मनसा अवधारयामि' इत्यादि प्रतीतिबलेन च करणमात्रमतः करणमात्रस्य तस्यात्मत्वाभ्युपगमःसर्वलोकसिद्धस्यात्मकर्तृत्वाभ्युपगमस्य विरुद्ध इति शङ्काऽपि नोचिता, देहात्मवादे देहमात्रस्यैवात्मत्वं मनसश्च तदुपकरणत्वमात्रम् नात्मत्वमिति पूर्वमेव स्पष्टीकृतत्वात्। मनोगतस्यादृष्टस्य शरीरे चैतन्याधायकत्वस्वीकारे मृतशरीरे नियमतः चैतन्याभावानुपपत्तिः। शरीरमरणोत्तरमपि चैतन्याधायकादृष्टविशिष्टस्य मनसः विद्यमानत्वादिति शङ्का तु न सुलभाऽवकाशा, शरीरस्य मरणकाल एव नियमेन तेन सह मनसः सम्बन्धविनाशस्य अतिरिक्तात्मवादे शरीरस्य मरणकाल एव तेन सह आत्मनो विजातीयसंयोग विनाशस्येव जायमानत्वात्।
Page #200
--------------------------------------------------------------------------
________________ 180 गद्यसंग्रहः यदि शरीरमात्मा तर्हि 'राहोः शिर' इतिवद् मम शरीरमित्यादिप्रयोगाणां भाक्तत्वेन कथञ्चित् समर्थनेऽपि अहं शरीरमित्येतादृशप्रयोगः कदापि कुतो न प्रवर्तते इत्येष प्रश्नः, दुरुत्तर इति कथनमपि नौचित्यमञ्चति, शब्दप्रयोगस्य शब्दार्थज्ञानाधीनतया अहं शरीरमिति ज्ञानाभावेन तादृशप्रयोगस्य प्रवृत्त्यभावात्। शरीरस्यात्मत्वे तादृसं ज्ञानमेव कुतो न जायते इत्यपि न शङ्कितुं शक्यम्। अहमर्थस्य स्वगतयोग्यगुणाश्रयेणैव ग्राह्यत्वनियमेन 'अहं स्थूलः', 'अहं कृशः', 'अहं सुखी', 'अहं दुःखी' इत्यादिरूपेणैव अहमाकारज्ञानस्य आनुभाविकत्वेन अहं शरीरमित्याकारकज्ञानस्यातिरिक्तात्मवादे अहमात्मेति ज्ञानस्येव अनुदयात्। अतिरिक्तात्मवादेऽपि अहमात्मेत्यनुभवस्य आपामरसाधारण्येन स्वीकरणं न सम्भवति, अन्यथा तस्य विवादविषयत्वानुपपत्तेः। अतएवोक्तम् भाषापरिच्छेदे . विश्वनाथेन- 'अध्यक्षो विशेषगुणयोगत:' - योग्यविशेषगुणस्य ज्ञानसुखादेः सम्बन्धेन आत्मनः प्रत्यक्षत्वं सम्भवति नान्यथा। क्षिप्तविक्षिप्तादिचित्तभूमिषु शरीरावयवेभ्यःसमग्रात् शरीराच्च सर्वानुभवसिद्ध आत्मबुद्धेरपसारः देहात्मवादे समर्थयितुं न शक्य एषापि चिन्ता निराधारा। देहात्मवादेऽपि तादृशीनां चित्तभूमीनां सम्भवेन तन्मूलकस्य उक्तात्मबुद्धेरपसारस्य सम्भवे बाधकाभावात्। अहं वा नवेति न कश्चित् सन्दिग्धे, शरीरमात्मा वा नवेति विचारवन्तो मनीषिणोऽपि संशेरते, यदि शरीरमेवात्मा तदा तन्नात्मत्वसन्देहे कुतो न कस्यापि अहं वा न वेति सन्देह इति प्रश्नोऽपि नोचितः, यतः अतिरिक्तात्मवादे शरीरमनात्मेति निश्चय:देहात्मवादे चशरीरमात्मेति निश्चयः,अतो वादद्वय एवोक्तसन्देह आहार्यः, अहमाकारनिश्चयश्चानाहार्यः, अतिरिक्तात्मवादे देहात्मवादे चोभयत्र समानः। सच अहंवा नवेति संशयस्य विरोधी, अत:शरीरे आहार्यात्मत्वसन्देहेऽपि अहमाकारनिश्चयस्य निर्बाधतया तत्प्रतिबन्धवशान्नोदेतुमर्हति तादृशः संशयः। अत्रायमाशयो यत् अहमिति शब्दस्योच्चारणक व अहमर्थो भवति, अतोऽतिरिक्तात्मवादे अहमिति शब्दप्रयोक्ता अतिरिक्त आत्मा अहमर्थः, देहात्मवादे अहमिति शब्दप्रयोक्ता देहः अहमर्थः। उभयोरेव स्वस्वमतानुसारेण अहमर्थस्य
Page #201
--------------------------------------------------------------------------
________________ आचार्यबदरीनाथशुक्लप्रणीतनिबन्धात् 181 अस्तित्वं निश्चितमत: अहमस्मि वा न वेति स्वरूपे पर्यवसायिनः अहं वा न वेति संशयस्य अहमस्मीति निश्चयप्रतिबध्यतया न तदुत्पत्तिसंभवः, शरीरे आत्मत्वस्योक्ताहार्यसंशये सत्यपि अहमस्मीति निश्चयस्य अक्षुण्णत्वात्। शरीरमेव अहं शरीरं वा न वेति विमृशतीति कथनं देहात्मवादेऽतिविचित्रमिति वचनमपि देहात्मवादाक्षेप्तुर्न चारुतां धत्ते, यतोऽतिरिक्तात्मवादे अहं न शरीरमिति निश्चयः, देहात्मवादे च अहं शरीरमिति निश्चयः, अत उभयोरेव वादयोरुक्तविमर्शस्याहार्यत्वेन देहात्मवादे शरीरस्य अहं शरीरं वा न वेति विमर्शकर्तृत्वकथनं कुतो विचित्रमिति स एव वक्तुमर्हति। __ अहमिति प्रतीतिः कदाचित् मूर्धतो जायते, कदाचित् तदीयमजातन्तुभ्यो जायते, अतोदेहात्मवादे अहं मे मूर्धा मजातन्तवो वा एतादृशानुभवस्योदयोऽनिवार्य इति कथनमपि न पाण्डित्यानुरूपम्, मूर्धादितो जायमानाया अपि प्रतीतेस्ततो भिन्ने देहाभिधे अवयविन्येव विद्यमानतया तस्यैवाहमर्थत्वात् अहमर्थताया ज्ञानाश्रयत्वनियतत्वात्। अहंप्रतीतिः अन्यसकलशरीरसुखदुःखादिप्रतीतिभ्यो नितरां भिन्नेति सर्वानुभवगोचरा, अतः शरीरतो मनस्तोऽपि भिन्नं किमपि तस्या अधिष्ठानमावश्यकमिति कथनमपि न मनीषानुरूपम्, केवलाया 'अहम्' इत्याकारायाः प्रतीतेरतिरिक्तात्मवादिभिरप्यस्वीकारात्, अहमिति शब्दजबोधस्तु अहमुच्चारयितृनिष्ठो देहात्मवादे अहमुच्चारयितरि देहेऽधिश्रित एवेति कुतस्तस्या अधिष्ठानान्तरापेक्षेति दुर्ग्रहम्। स्वप्नसदृशीषु कासुचित् चैतन्यावस्थासु बाह्यपदार्थानां स्वशरीरस्यापि च सत्यत्वं सन्दिग्धं तिरोहितं विपर्यस्तं प्रतिषिद्धं च भवदुपलभ्यते। परमात्मनः सत्यत्वं तथा भवन्नोपलभ्यते। यदि शरीरमेव आत्मा तदा तस्यापि सत्वं कुतो न तादृशं भवदुपलभ्यते, एषा शङ्कापि निःसत्त्वा, सतां पदार्थानां सत्यतायास्तथाप्रतीते: भ्रमतया चादृशदोषजन्यत्वं तादृशदोषेणैव तत्काले शरीरे आत्मत्वबुद्धेः प्रतिबन्धेनानात्मरूपतया शरीरस्य सत्यतायाः सन्दिग्धत्वाद्यसम्भवात्। सत्यं शरीरमेव आत्मा, न तौ मिथोऽन्यौ, किन्तु चेष्टाश्रयत्वलक्षणं शरीरत्वं ज्ञानाद्याश्रयत्वरूपमात्मत्वं परस्परं भिन्नम्। उक्तासु चैतन्यावस्थासु तादृश
Page #202
--------------------------------------------------------------------------
________________ 182 गद्यसंग्रहः प्रतीत्याधायकदोषवशान्न तदानीं देहे आत्मत्वबुद्धिः किन्तु शरीरत्वस्यैव बुद्धिरतः शरीरत्वेन गृह्यमाणस्यैव देहस्य सत्यत्वं सन्दिग्धत्वादिभाक् न तु आत्मत्वेन गृह्यमाणस्येति विभावनीयम्। देहात्मवादेशरीरस्य सुखसमृद्धिसम्पन्नतासम्पादनमेव परमः पुरुषार्थः, तदुपेक्षया लोककल्याणायखेदस्वीकारे दृश्यमाना मानवप्रवृत्तिः अस्मिन् वादे कथमुपपद्येत। अयं प्रश्नोऽपि देहात्मवादे न दुरुत्तरः, यतो यथा अतिरिक्तात्मवादे लोकप्रवृत्तिः प्रायेण स्वस्य सुखिताया निर्दु:खतायाश्च सम्पादनायैव भवति।कतिपयविवेकिनामेव च स्वसुखनिरभिलाषतापूर्वकं लोकहिताय खेदस्वीकारे प्रवृत्तिः भवति तथैव देहात्मवादेऽपि तदुत्पत्तौ न कश्चित् प्रत्यूहः। अतिरिक्तात्मवादी यथा स्वभिन्नानां हिताय स्वसुखाभिलाषं शिथिलीकृत्य प्रवर्तते, खेदं च सहते तथैव देहात्मवादी अपि यदि सुशिक्षितः सुसंस्कृतो विवेकी तदी स्वसुखे निरभिलाषः सन् स्वभिन्नानां देहात्मनां हिताय प्रवर्तिष्यत एव खेदं च सहिष्यत एव, संसारेऽस्त्येव विपुलो देहात्मवादिवर्गः, यस्य सदस्येषु बहवो लोकहिताय आत्मनो महान्तं धनराशिमुत्सृज्य विद्यालयचिकित्सालयादीनां निर्मापणे आनन्दमनुभवन्ति। कश्चिद् विपश्चिदेवमाशङ्कते यद् देहात्मवादे अदृष्टभावनयोर्मनोनिष्ठत्वस्वीकारे सुषुप्तौ मनसः पुरीतत्यां प्रवेशे तत्काले श्वासप्रश्वासयो: गति: दुरुपपादा स्यात्, अतोऽदृष्टाद्याश्रयस्यातिरिक्तात्मनः स्वीकार आवश्यकः, तत्सत्वे तत् प्रयत्नेन श्वासप्रश्वासयो: गतिसम्भवात्, परमेषाऽपिशङ्का निर्जीवप्रायैव, त्वङ्मनस्संयोगस्य ज्ञानमात्र प्रत्येव कारणत्वात्।सुषुप्तौ ज्ञानानुदयादेव तन्मूलकेच्छाद्वेषादीनामनुदयस्य सुसम्पन्नत्वात्। जीवनयोनियत्नस्य श्वासादिगतिसम्पादकस्य ज्ञानानपेक्षतया जीवनादृष्टमात्रमूलकतया पुरीतति स्थितस्यापि मनसो जीवनादृष्टजन्येन शरीरयत्नेन श्वासादीनां गत्युपपादनसम्भवात्। देहात्मवादे आजीवनं मनुष्यस्य कर्मव्यावृत्तिः नोपपद्यते, चरमे वयसि क्रियमाणानां तत्काल एवं फलाजनकानां कर्मणां जीवने फलप्राप्तेरसम्भाव्यत्वात् इत्यपि न शङ्कनीयम्। स्वतोऽधिकजीविनामुत्तरकाले जनिष्यमाणानां च तादृशकर्मफलप्राप्त्यभिप्रायेण आप्राणान्तं कर्मव्यावृतेः सम्भवात्। मनुष्यः स्वस्य
Page #203
--------------------------------------------------------------------------
________________ आचार्यबदरीनाथशुक्लप्रणीतनिबन्धात् 183 लाभायैव कार्यं कुरुत इति न वक्तुं शक्यम्, लोकहितार्थमपि बहुषु कार्येषु मनुष्यस्य प्रवृत्तिदर्शनात्। यानि लोकहितावहानि कार्याणि कर्तुः वर्तमाने जीवने तल्लाभाय न भवन्ति, तत्साध्यपुण्यस्य जन्मान्तरे फलाशयैव तानि कार्याणि क्रियन्ते इत्यपि वक्तुं न शक्यं, वर्तमानजीवनान्तमेव स्वास्तित्वं मन्यमानैः जन्मान्तरे विश्वासरहितैरप्यनेकैः आजीवनं क्रियमाणानां परैरेव प्राप्यलाभानां बहुवित्तव्ययायाससाध्यकार्याणां प्रत्यक्षसिद्धत्वात्। 'शरीरं परार्थं सङ्घातरूपत्वात् शय्यावत्' इत्यनुमानेन सिद्ध्यन् परः शरीरभिन्न आत्मा न वाङ्मात्रेण युक्त्याभासजालेन वा निराकर्तुं शक्य इत्यपि वक्तुमनर्हम्, परार्थत्वस्य दुर्वचत्वात्। तथाहि परार्थत्वं यदि स्वभिन्नस्य भोगसाधनत्वं तदा दृष्टान्ते शय्यादौ तदुर्घटम्।स्वभिन्नतया उक्तानुमानात् पूर्वमात्मनःग्रहीतुमशक्यत्वात्, शरीरादे:ग्रहणे चातिरिक्तात्मवादे तदीयभोगाप्रसिद्धः। परार्थत्वं यदि भोगानाश्रयत्वे सति भोगसाधनत्वं तदा पक्षे शरीरे हेत्वसिद्धिः अतिरिक्तावयविवादे शरीरस्य सङ्घातानात्मकत्वात्। यदि सङ्घातत्वं त्यक्त्वा जन्यत्वं हेतुरुच्येत तदा व्याप्यत्वासिद्धिः जडत्वस्योपाधित्वात्। देहात्मवादे यागादिषु प्रवृत्तिरनुपपन्नेत्यपि न वक्तुं युक्तम्, वर्तमानजीवन एव फलप्रदेषु पुढेष्ट्यादियागेषु प्रवृत्तौ बाधकाभावात्। ये यागाः स्वर्गफलकतया निर्दिष्टाः तेष्वपि प्रवृत्तिर्नानुपपन्ना यथावर्णितस्य स्वर्गस्य सर्वस्पृहणीयतया देहात्मवादिनामपि तत्कामनाया:सम्भवेन तदर्थं तादृशयागेष्वपि प्रवृत्तिसम्भवात्। यदि देहात्मवादे सति देहे स्वर्गो न लभ्यते, मा लभ्यताम्, आनुषङ्गिकं लोकप्रशस्त्यादिफलं तु लभ्यते एव, उद्देश्यभूतं फलमपि कर्तृदेहस्थितमन:प्रवेशास्पदे उत्तरभाविनि देहे भवितैव, परेभ्यो लाभप्रदेषु कर्मस्वपि सहृदयानां प्रवृत्तिबाहुल्यस्य लोकसिद्धतया तादृशयागेष्वपि मानवप्रवृत्तिः सुघटैव। देहात्मवादे पुनर्जन्म नोपपद्यत इत्यपि शङ्का नोद्भावयितुमर्हा, अतिरिक्तात्मवादेऽपिपुनर्जन्मनः समर्थनासम्भवात् स्वाधिकरणक्षणध्वंसानधिकरण क्षणसम्बन्धरूपस्य जन्मनो नित्यात्मनो दुर्घटत्वात्, तदधिकरणस्य सर्वस्यैव क्षणस्य पूर्वपूर्वतदधिकरणक्षणध्वंसाधिकरणतया तस्य स्वाधिकरण
Page #204
--------------------------------------------------------------------------
________________ 184 गद्यसंग्रहः क्षणध्वंसानधिकरणक्षणाऽप्रसिद्धः। यदि च नवोत्पन्नेन देहेन आत्मन आद्यो विजातीयः संयोग एव तजन्मत्वेनोपचर्यते तदा तादृशो जन्मोपचारो मनोद्वारेण देहात्मवादेऽपि शक्योपपत्तिक एव, तद्वादे देहस्य तथा जन्माभावेऽपि तज्जन्यादृष्टविशिष्टमनसो भाविना नवेन देहेन सह तादृशसम्बन्धसंभवात्। तादृशसम्बन्धस्यैव तज्जन्मत्वेनाचरितुं शक्यत्वात्। देहात्मवादे बन्धमोक्षव्यवस्थाया अनुपपत्तिरपि नापादयितुं शक्या, शरीरान्तरभोग्यफलौपयिकादृष्टजनककर्मकर्तृत्वमेव बन्धः, तदभाव एव मोक्ष इत्येवं बन्धमोक्षयोः निर्वचनसम्भवात्। तथाहि यस्मिन् देहे न देहात्मत्वस्वरूपतत्त्वस्य योगप्रभवः साक्षात्कारः स शरीरान्तरभोग्यफलौपयिकादृष्टजनककर्मकर्तृत्वाद् बद्धः। यश्च तादृशं तत्त्वं साक्षात्कृत्य तादृशकर्मविमुखः स मुक्तः। बद्ध इव मुक्तोऽपि यदि निरन्वयं नश्यत्येव तदा कुतः कोऽपि देहो मुक्तये तत्त्वसाक्षात्काराय वैषयिकं सुखमुपेक्षेत इत्यपि न शङ्कनीयम्, अतिरिक्तात्मवादेऽपि मुक्तात्मनो मृतोपमतया तादृश्याः शङ्कायाः सम्भवात्। देहगतानुभवजन्यं संस्कारं देहकृतकर्मजन्यमदृष्टं च वहतो नित्यस्य मनसः सम्बन्धेन नवनवेषु देहेषु पूर्वपूर्वदेहैरनुभूतस्यार्थस्य स्मरणं कृतकर्मणां फलभोगंचोपपाद्य देहात्मवादस्थापनया न कोऽपि लाभः इत्यपि वचो नोचितम्। न्यायवैशेषिकनये नित्यानां विभूनामनन्तजीवात्मनां स्वीकारेण तदपेक्षया देहात्मवादे बहुलाघवात्। अतिरिक्तात्मवादे च विभूनां नित्यानाञ्च जीवात्मनामनन्तैः मूर्तद्रव्यैः अनन्तैः कालक्षणैश्च सहानन्तसम्बन्धानां तदुत्त्पत्यादीनाञ्च कल्पनीयतया बहुगौरवात्। किञ्चातिरिक्तात्मवादे प्राणिनां पूर्वार्जितकर्मादृष्टतन्त्रतया स्वस्थितिपरिवर्तनेऽस्वातन्त्र्येण परैः क्रियमाणस्यशोषणस्योत्पीडनस्य च मौनभावेनाभ्युपगमो दुर्निवारः, विषमायाः सामाजिक्या आर्थिक्याश्च व्यवस्थायाः प्रजासुखसौविध्योदासीनस्य क्रूरस्य शासनतन्त्रस्य वा उन्मूलने शोषितस्य पीडितस्य च समुदायस्य प्रवृत्तिः दुर्घटा, किन्तु देहात्मवादे नैषा स्थितिः, यतो देहात्मवादे मनुष्यस्यैष बोधः सुकरो यत् स इदम्प्रथमतया उत्पन्नः, नास्ति तस्य किमपि पूर्वकृतमीदृशं कर्म यदनुरोधात् तेन परैः क्रियमाणं शोषणमुत्पीडनञ्च स्वकर्मफलं
Page #205
--------------------------------------------------------------------------
________________ आचार्यबदरीनाथशुक्लप्रणीतनिबन्धात् 185 मत्वा निष्क्रियभावेन सह्येत। फलतया देहात्मवादी समुदायः स्वस्थितिपरिवर्तने स्वतन्त्रतया प्रवर्तितुं शक्नोति, तथा प्रवर्तमानश्च न्यायपूर्णां परस्परहितावहां सामाजिकीमार्थिकी शासनिकीञ्च व्यवस्था सम्पाद्य सुन्दरतरं विश्वं निर्मातुं प्रभवति। देहात्मवादे स्वसुखस्यैव सर्वैः काम्यतया मरणोत्तरं च स्वकर्मणामुत्तरदायित्वस्याभावेन निरङ्कुशीभूय मनुष्यः स्वसुखार्थमेव प्रवर्तेत, परार्थञ्च न चेष्टेत। परोत्पीडनेनैव यदि स्वाभ्युदयः साध्यस्तदा ततोऽपि न विरमेद् इत्यपि नाशङ्कनीयम्, लोकहिताय सोढक्लेशानां मृतपुंसां लोकेजायमानायाःसम्मानचर्चाया इतिहासग्रन्थेषु तेषां सबहुमानमुल्लेखस्य च दर्शनेन स्वसुखाभिलाषशिथिलीकरणपूर्वकं लोकहितावहकर्मसु प्रवृत्तिसम्भवेनोक्तुदुष्प्रवृत्त्यभिवृद्धिभयस्य निरवेकाशत्वात्। देहात्मवादेऽपरोऽप्येको गुणोऽयमस्ति यन्मनुष्यः अनैतिकं कदाचारकलुषितं स्वार्थप्रधानं जीवनं यापयतां जनानां लोकनिन्दां वीक्ष्य मरणोत्तरं त्रुटिपरिहारस्यावसराभावेन वर्तमानदेहपातात्पूर्वमेव आत्मनो जीवनं नैतिकं निर्दोषं च यापयितुंसचेष्टो भवितुमर्हति।अतिरिक्तात्मवादे च भाविनिजन्मनि वर्तमानजीवनस्य त्रुटीनां परिहारस्यावसरप्राप्तिसम्भावनया वर्तमान जीवनं सांसारिकसुखोपभोगेन नेतुकामः तादृशसुखार्थमपेक्षितायाः समृद्धेः सम्पादनाय अन्यायपूर्णे कर्मण्यपि प्रवर्तितुमर्हति, तदेवंतेहात्मवादे जीवने नैतिकताप्रतिष्ठापनस्याधिकतरं सम्भाव्यतया एष वाद एव लोकमङ्गलाय उपादेयतां धत्ते इत्यतीव सुस्पष्टम्।' (1) देहात्मवाद-साधकानि यावन्ति समाधानानि अत्र निबन्धे प्रदर्शितानि तान्येतानि परमाचार्यैः देहात्मवाद-निरसन-प्रसङ्गे दूषितानि। देहातिरिक्तसच्चिदानन्दस्वरूपस्य आत्मनो निरूपका: दर्शनसिद्धान्ताः संग्रहेऽस्मिन् पूर्वं साधु प्रतिपादिताः। अतस्ते तत्र द्रष्टव्याः।
Page #206
--------------------------------------------------------------------------
________________ 186 गद्यसंग्रहः तत्त्वोपप्लवग्रन्थात् 1. आत्मानुमानस्य निरासः 1. नैयायिकादिसंमतस्यात्मानुमानस्य निरासः / तथा, (आत्मा)नुमान(नं) सुखद्वेषा(ष)ज्ञानादिना न संभवति, तेन सह सम्बन्धानवगमात्, तदनवगतौ च अनुमानानर्थक्यम् / किं चात्र साध्यते? किम्ज्ञानसुखादीनाम् आश्रितत्वम्, आहोस्विद् आश्रयाश्रितं वा ज्ञानस्वरूपम् ? त(अ)थाश्रितत्वं साध्यते; तदा आत्म(मा) नैवाऽवबोधितः, ततोऽन्यत्वाद् आश्रितत्वस्य। अथ आत्मा साध्यते; तदेवं भवति-अस्ति आत्मा विज्ञानात्, न च व्यधिकरणस्य गमकत्वं विद्यते। अथ आश्रितं ज्ञानस्वरूपं साध्यते; तच्च प्रत्यक्षेणावगतम्। अन्योऽनुमानस्य विषयो वक्तव्यः। कथं ज्ञानसुखादि आत्मसम्बन्धित्वेन व्यपदिश्यते-किं सत्तामात्रेण, आहो तज्जन्यतया, तज्जनकत्वेन वा, तत्समवायित्वेन वा, तत्स्वरूपतादात्म्याद्वा? तद्यदि सत्तामात्रेण सुखं विज्ञानं वा आत्मनोऽपदिश्यते; तदा आत्मवत् सर्वे भावाश्चेतनाः स्युः विज्ञानसत्ताऽविशेषात्। तथा, सर्वे सुखिनो भवेयुः, आनन्दसत्ताऽविशेषात्। अथ तजन्यतया विज्ञानमात्मनोऽपदिश्यते ; तदा नयनालोकपटा: चेतनाः स्युः, तैर्जन्यमानत्वाऽविशेषात्। अथ तजनकत्वेन तस्य इति चेत् ; तदयुक्तम्, न विज्ञानेन आत्मा उत्पाद्यते भवतां पक्षे, उत्पादने वा स्मरणानुपपत्तिः। __ अथ आत्मसमवायित्वेन विज्ञानम् आत्मनोऽपदिश्यते; न, तदभावात्। भवतु वा, समवाये(यो) हि अखण्डितात्मा सर्वात्मवस्त्रादिसाधारणः। ततः सर्वे चेतनाः स्युः। अथ विज्ञानोपलक्षितस्य नान्यत्र संभवोऽस्ति; तदयुक्तम्, तद् उपलक्षितस्य अन्यत्र संभवात्, तत्संभवश्च तस्य एकत्वात्। असंभवे वा समवायानेकत्वप्रसङ्गः, असमवायित्वं वाऽन्येषाम्। तथा, विज्ञानसमवाय आत्मनः समवायः किम्-सत्तामात्रेण, आहोस्विद् आत्मजनकत्वेन, तजन्यत्वेन, तत्समवायित्वेन, आत्मस्वरूपतादात्म्याद्वा? तद्यदि सत्तामात्रेण आत्मनः समवायोऽपदिश्यते; तदा ज्ञानसमवायसत्ताऽविशेषात् सर्वेषां ज्ञानसमवायित्वप्रसङ्गः। अथ तज्जन्यत्वेन; तदयुक्तम्, नहि आत्मना समवायोत्पादनं क्रियते नित्यत्वाभ्युपगमात्। अथ तज्जनकत्वेन आत्मनः समवायः; तदनुपपन्नम्,
Page #207
--------------------------------------------------------------------------
________________ तत्त्वोपप्लवग्रन्थात् 187 आत्मनो नित्यत्वात्। अथ आत्मनि समवेतः तेन आत्मसमवायोऽभिधीयते; तदयुक्तम्, समवायान्तरानभ्युपगमात्। अथ आत्मतादात्म्येन वर्त्तत इति आत्मसमवायः उच्यते; तदा आत्मा विद्यते नान्यः समवायोऽस्ति तत्स्वभावानुप्रवेशात्। एवं विज्ञानानन्दादीनां समवायसम्बन्धेन न नियतात्मव्यपदेश उपपद्यते। अथ आत्मतादात्म्येनोपजायमानं विज्ञानानन्दादिकम् आत्मनोऽपदिश्यते; तदा विकारी प्राप्नोति अनया भङ्ग्या आत्मा। ततश्च स्मरणानुमानप्रत्यभिज्ञानानुपपत्तिः। इतोऽपि आत्मा सुखादिकार्याधिकरणोऽवगन्तुं न पार्यते; किं तेनात्मना अनुपजातातिशयेन तापादि कार्य क्रियते, आहोस्विद् उपजातातिशयेनापि, किं व्यतिरिक्तोपजातातिशयेन, अव्यतिरिक्तोपजातातिशयेन वा? तद्यदि अनुपजातातिशयेन उत्पाद्यते तापादि कार्यम् ; तदा सर्वदा कुर्यात्, अनुपजातबलस्य कार्यकारणाभ्युपगमात्, न तापादि विकलः स्यात्, समं सुखादि कार्य प्रसज्यते। अथ अव्यतिरिक्तोपजातातिशयेन उत्पाद्यते तापादि कार्य, तदा अव्यतिरिक्तोपजातातिशय इति किं भणितं भवति? आत्मा उपजायते। ततश्च स्मरणानुमानप्रत्यभिज्ञानानुपपत्तिः।। __ अथ व्यतिरिक्तोपजातातिशयेन जन्यते तापादि कार्यम्; स तेनात्मना सह सम्बद्धो वा, न वा? यदि न सम्बद्धः; स तस्यातिशयः कथम्? __ अथ सम्बद्धः किम्-जनकत्वेन, अथ जन्यत्वेन, तत्समवायित्वेन वा? तद्यदि जनकत्वेन सम्बद्धः तदा आत्मा तेनातिशयेन उत्पद्यते इति स्मरणानुपपत्तिः। अथ जन्यत्वेन; सोऽपि तेन कथमुत्पाद्यते? किम्-अनुपजातातिशयेन, व्यतिरिक्तोपजातातिशयेन वा-इति प्राप्ता प्रश्नपरम्परा। अथ तत्समवायित्वेन; न, तस्य सर्वसाधारणत्वात्, तदभावाच्च। ___ अथ एककार्यजनकत्वेन सम्बद्धः; तदेवेदं चिन्तयितुमारब्धम्-किमिदं जनकत्वं नामेति? किंच, यदेव अनुपजातेऽतिशये आत्मनो रूपं तदेव जातेऽपि, तत् कथं कार्यं कुर्यात् ? अथ पूर्वरूपस्यातादवस्थ्यम्;सुस्थितं नित्यत्वम् ! अथ तादवस्थ्यम्; तथापि न करोति कार्यम्। एवं नैयायिकादिमतेन आत्मन उपभोगस्मरणादिकं न जाघटीति।
Page #208
--------------------------------------------------------------------------
________________ 188 गद्यसंग्रहः 2. जैनमते उपभोगाद्यनुपपत्तिप्रकटनेन आत्मानुमाननिराससूचना / यस्यापि देहपरिमाणमात्र आत्मा, तस्यापि सुखदु:खोपभोगानुभवस्मरणानुपपत्तिः। कथम्? उपपाद्यते-सुखादिकार्यम् आत्मनो भिन्नम्, अभिन्नम्, भिन्नाभिन्नं वा? तद्यदि भिन्नम्; तकिम्-सत्तामात्रेण, तज्जन्यत्वेन, तजनकत्वेन, तत्समवायित्वेन वा-इति पूर्वोक्तं दूषणमनुसृत्य वक्तव्यम्। __ अथ अभिन्नं सुखदु:खोपभोगस्मरणादिकार्यमुत्पद्यते; एवं तर्हि आत्मा उत्पद्यते। तदुत्पत्तौ स्मरणानुमानानुपपत्तिः, सुखादिवद् आत्मनो नानात्वोपपत्तेः। अथ एक एव आत्मा; सुखादेरप्येकता प्राप्ता। ततश्च एकत्वे अनुभवस्यैवावस्थानाद् अनुमानस्मरणानुपपत्तिः। अथ नानात्वं सुखादीनाम्; आत्मनोऽपि तदेवापद्यते, तदव्यतिरेकात्। अथ सुखादिभेदेऽपि आत्मा नैव भिद्यते; तदा सुखादितादात्म्यं न लभ्यते। अथ सुखादितादात्म्यम् ; तदा एकता नोपपद्यते, सुखादिवत् नानात्मोपपत्तेः / अथ भिन्नाभिन्नं सुखादिकार्यं तेन नोदितं दूषणमिति चेत्; कथम्? किम् आकारान्यत्वेन, आहोस्वित् कार्यान्यत्वेन, कारणान्यत्वेन वा? तद्यदि आकारान्यत्वेन आत्मनो भिद्यते सुखादिकार्यम् ; तदयुक्तम्,आकारान्यत्वं हि अन्योन्याकारपरिहारेण स्वात्मना व्यवस्थितम्, अभेदपर्युदासेन भिन्नबुद्धिविषयत्वेनावस्थितेरेकत्वानुपपत्तिः। एकत्वं हि एकस्वभावता, एकस्वाभाव्ये हि नानास्वभावता नोपपद्यते, नानास्वाभाव्ये हि एकस्वभावता नोपपद्यते-अन्योन्याकारपरिहारेण एतावाकारौ व्यवस्थितौ। अथ कारणान्यत्वेन भेदपरिकल्पना; तदयुक्तम्, भिन्नादपि कारणादभिन्न कार्य दृष्टम्। मृत्पिण्डदण्डाद्यनेकं कारणम् अखण्डितं कार्यं जनयति। तथा एकेनापि कारणेन अनेकं कार्यं जन्यमानं दृष्टं घटादि। तेन न कारणभेदेन वस्तूनां भेदः, नापि कार्यभेदेन, अपि तु आकारभेदेनैव भेदः। स च आकारभेदः अस्ति सुखात्मनोः, कथमभेद:? किंच, येनैव आकारेण सुखम् आत्मनो भिद्यते तेनैव आकारेण भिन्नम्, आहोस्विद् आकारान्तरेण? तद्यदि तेनैवाकारेण अभिन्नम्; तस्य तावेदकान्ताऽभेदः प्रतिपन्नो भवति भवता। अथ आकारान्तरेण अभिन्नम्; आकारान्तरं सुखं न भवति, तदभेदेऽपि सुखस्य भेदात्।
Page #209
--------------------------------------------------------------------------
________________ तत्त्वोपप्लवग्रन्थात् 189 3. प्रसङ्गात् जैनाभिमतस्यानेकान्तवादस्य निरसनम् / एवं च स्थिते- 'तदेव नित्यं तदेव चानित्यम्' इत्येतन्नोपपद्यते, सुखात्मनोर्भेदात्। अनाद्यन्ता सत्ता नित्या, आद्यन्तवती चाऽनित्या। तथा- 'पररूपतयाऽसत्त्वं स्वरूपेण सत्त्वम्' इत्येतदपि न संभवति। पररूपेण न भावः नाप्यभावः, अपि तु स्वेन रूपेण भाव एकात्मकः-एकं हीदं वस्तूपलभ्यते, तच्चेदभावः किमिदानीं भावो भविष्यति? तद्यदि पररूपतयाऽभावः; तदा घटस्य घ(प)टरूपता प्राप्नोति, यथा पररूपतया भावत्वेऽङ्गीक्रियमाणे पररूपानुप्रवेशः, तथा अभावत्वेप्यङ्गीक्रियमाणे पररूपानुप्रवेश एव। ततश्च सर्वं सर्वात्मकं स्यात्। अथ पररूपस्याभावः ; तदविरोधि त्वैकत्वं तस्याऽभावः। न हि तस्मिन सति भवान् तस्यानुपलब्धेन॒ष्टा, अन्यथा हि आत्मनोप्यभावो भवेत्। अथ आत्मसत्ताऽविरोधित्वेन स्वात्मनोऽभावो न भवत्येव; परसत्ताविरोधित्वात् परस्याप्यभावो न भवति। अथापराकारतया नोपलभ्यते तेन परस्य भावो न भवति; अभावाकारतया च अनुपलब्धेः परस्याभावोऽपि न भवेत्। अथ अभावाकारतया उपलभ्यते ; तदा भावोन्यो नास्ति, अभावाकारान्तरितत्वात्-अभावस्वभावावगाहिनाऽवबोधेन अभाव एव द्योतितो न भावः। यथा सुखावगाहकेन विज्ञानेन सुखमेवाऽवद्योतितं न दुःखम्। अथ सुखज्ञानेन दुःखमपि गृह्यते; तदिदानीं सुखदुःखयोरेकता प्राप्नोति। ततश्च पर्यायरूपतया भेदाभ्युपगमो हीयते-अभिन्नात्मकं जगत् स्यात्। एवं च स्थिते यदुक्तम् भागे सिंहो नरो भागे योऽर्थो भागद्वयात्मकः / तमभागं विभागेन नरसिंहं प्रचक्षते // इति, तन्न प्राप्नोति विश्वस्याऽखण्डरूपत्वात् / एतदपि न वक्तव्यम् एको भावः सर्वभावस्वभावः, सर्वे भावा एकभावस्वभावाः / एको भावस्तत्त्वतो येन दृष्टः सर्वेभावास्तत्त्वतस्तेन दृष्टाः // अथ पर्याया इतरेतरात्मना भिद्यन्ते सर्वभावानाम् ; एवं तर्हि भावाऽभावपर्याययोरपि भेदोऽस्तु / इमामेव मूर्खतां दिगम्बराणामङ्गीकृत्य उक्तं सूत्रकारेण-यथा नग्न ! श्रव(म)णक ! दुर्बुद्धे ! कायक्लेशपरायण ! / जीविकार्थेऽपि चारम्भे केन त्वमसि शिक्षितः ॥॥छ /
Page #210
--------------------------------------------------------------------------
________________ 190 गद्यसंग्रहः 4. सांख्यमतेऽपि भोगानुपपत्तिप्रदर्शनेनात्मानुमाननिरासः / तथा सांख्यमतेनापि आत्मनो भोगो नैव सम्पद्यते भोगत्य आत्मनि अवृत्तेः। भोगशब्देन सुखमभिधीयते, तत्संवेदनं वा? तदुभयं बुद्धौ वर्त्तते नात्मनि, एवं च व्यवस्थिते बुद्धर्भोक्तृत्वं नात्मनः। अथ बुद्धिगतेनापि भोगेनैव आत्मनो भोक्तृत्वमभिधीयते; तदा बुद्धिगतेन कर्तृत्वेन आत्मनः कर्तृत्वं प्रसज्यते। ततश्च "कर्ता न भवति" इत्येतन्न वक्तव्यम्। अथ आत्मनि कर्तृत्वस्याऽवृत्ते:अकर्ता इत्यपदिश्यते; भोगस्पाप्यतद्वृत्तेः संभुग् न भवत्यात्मा। अथ अस्ति कर्तृत्वं यदि नाम औपचारिकम्, यथा भृत्ये जयपराजयौ वर्तमानौ स्वामिनि उपचर्येते तथा बुद्धौ वर्तमानं कर्तृत्वं पुंसि उपचर्यते; यद्येवम् भोगोऽपि बुद्धौ वर्तमानः पुरुषस्यौपचारिकः प्राप्तः। औपचारिकोपि आत्मनि न संभवति; अन्यत्र मुख्यतयाऽनभ्युपगमात्। भोगाऽभावे च आत्मनो मोक्षचिन्ता न कर्त्तव्या। बन्धनवान् मुच्यते। न चात्मनि बन्धनमस्ति। भोगो हि बन्धनम्। स चात्मनि नैव विद्यते, तदभावात् मोक्षोऽपि निरुपपत्तिकः। तथा, आत्मनोऽस्तित्वं न सिद्ध्यति भोक्तृत्वस्याभावे। भोग्येन भोक्तुरनुमानम्। यथा सूपादिमात्रं भोक्त्रविनाभूतं दृष्टम्, तथा प्रधान सविकारं भोग्यं तेन भोक्ताऽनुमीयते; एतच्चायुक्तम् आत्मनो भोक्तृत्वाभावे कथं भोग्येन आत्माऽनुमीयते, आत्मना सह भोग्यस्यसम्बन्धानवगते:? तदनवगतिश्च आत्मनःप्रत्यक्षाविषयत्वात्। तदविषयत्वं च विशेषेऽनुगमाभावः' इत्युक्तम् / अथ प्रत्यक्षेण आत्मा अवधार्यते; तदा प्रत्यक्षविषयत्वेन आत्मनः समानता प्रत्यक्षानुमानविषयत्वेन, ततश्च सिद्धसाध्यता। सूपादि भोक्त्रविनाभूतं दृष्टम्; तत्किम्-देहादिव्यतिरिक्तभोक्तृविनाभूतं दृष्टम्, आहोस्विद् देहमात्रभोक्त्रविनाभूतं दृष्टम्? तद्यदि देहादिव्यतिरिक्तभोक्तृविनाभूतं दृष्टम्; तदा दृष्टान्तोऽपि दार्टान्तिकप्रतितुल्यः, आत्मनोऽतीन्द्रियत्वेन। अथ प्रत्यक्षेणावधारित आत्मा; तदा सिद्ध आत्मा, किमनुमानेन? . - अथ देहमात्रभोक्त्रविनाभूतं दृष्टम्; तदा देहविकाराणां भोगयोगेन नात्मनः सिद्धिः। भवतु वा आत्मनो भोगः, तथापि अकृत-कृताभ्यागमनाशदोषप्रसङ्गः -अकृतस्य कर्मणः फलमभ्येति आत्मनः, कृतस्य च कर्मणः फलं न सम्पद्यते
Page #211
--------------------------------------------------------------------------
________________ तत्त्वोपप्लवग्रन्थात् _191 बुद्धिः। यदि च अकृतस्य कर्मणः फलमभ्येति; तदा मुक्तात्मनामपि तत्फलं स्यात्, आत्मवृत्तिनियमहेतोरभावात्। ततश्चाऽकैवल्यप्रसङ्गः। 5. सांख्यसंमतस्य कैवल्यस्यानुपपत्तिकत्वोपपादनम् / इतश्च कैवल्यं नोपपद्यते, भोग्यभोजकयोरवस्थानात्। न हि भवतां पक्षे सदात्मानं परित्यजति भोग्यम्। येनाकारेण आत्मनो भोग्यत्वेनावस्थितम्, नहि तदाकारमतिवर्त्तते, आत्मनो भोक्तृत्वाकारस्य अनतिवृत्तेः। अतिवृत्तौ च आत्मोच्छेदप्रसङ्गः // छ / 6. वेदान्तसंमतस्यानन्दरूपकैवल्यस्यायुक्तिकताप्रदर्शनम् / येऽपि आनन्दरूपमात्मनः कैवल्यमभिदधति तेऽपि युक्तिवादिनो न भवन्ति। कथम्? यद्यात्मनः आनन्दरूपं स्वसंवेद्यं च; तदा संसारावस्थायामपि तत् वेद्यं प्रसक्तम्। ततश्च मोक्षार्थप्रयासो निष्फलः। अथ संसारावस्थायां न वेद्यते अनादिमलावगुण्ठितमात्मनः स्वरूपम्, यथा पटान्तरिते घटे घटबुद्धिर्न भवति, एवं मललिप्ते आत्मनि आत्मबुद्धिर्न भवति; तदेतदयुक्तम्, दृष्टान्तदार्टान्तिकयोः वैषम्यात्-पटान्तरिते घटे घटबुद्धिर्न भवति पटान्तर्धाने सति इन्द्रियेण साकं सम्बन्धो नास्ति तद्भावाद् घटे नेन्द्रियजं विज्ञानं सम्पद्यते।इह तु पुनःमलावगुण्ठनेन कस्यव्यवधानं क्रियते? नवेद्यवेदकयोर्व्यवधानं क्रियते। वेद्यं वेदकं च आत्मस्वरूपमेव-यथा बौद्धानां स्वसंवेद्यं विज्ञानम्, तच्च विषयसद्भावेऽपि वेद्यते तदभावेऽपि वेद्यते, य (त) थात्मनः स्वसंवेद्यं स्वरूपं मलसद्भावेऽपि वेद्यते तदसद्भावेऽपि वेद्यते, मलस्याऽकिंचित्करत्वाद् आत्मनोऽर्थान्तरत्वेनाऽवस्थानात्। अथ तादात्म्येन स्थितानि मलानि; तदा 'मलानि अपनीयन्ते' किमुक्तं भवति? आत्माऽपनीयते। ततश्च मोक्षाभावप्रसङ्गः // छ / 7. मीमांसकमतेनापि आत्मानुमानस्यासंभवित्वप्रकटनम् / 'तथा मीमांसकमतेनापि आत्मानुमानं न प्रवर्त्तते, प्रमाणान्तरानवधारितार्थविषयत्वाभ्युपगमात् प्रमाणानाम्। नियतविषयाणि हि प्रमाणानि प्रतिपद्यन्तेप्रत्यक्षावसेये नानुमानं प्रवर्त्तते, अनुमानावसेये च प्रत्यक्षं न प्रवर्त्तते। ततश्च इतरेतरव्यावृत्तिविशेषविषयाणि।तदयु(तदु)क्तम्-"विशेषेऽनुगमाभावः"विशेषो नियतप्रमाणग्राहयोऽर्थः, तथाभूतेऽर्थेऽङ्गीक्रियमाणे अनुमानस्याऽनुगमाभावः। अनुगमः सम्बन्धः, तद्ग्रहणानुपपत्तिः।
Page #212
--------------------------------------------------------------------------
________________ 192 गद्यसंग्रहः अथ प्रत्यक्षाद्यवधारितेप्यर्थे अनुमानं प्रवर्तते; नन्वेवं प्रत्यक्षानुमानसाधारणोऽर्थः प्रसक्तः। साधारणता समानता। "सामान्ये सिद्धसाध्यता" प्रत्यक्षावगतत्वात्। अनधिगतार्थगन्तृविशेषणं च अपार्थकम्। अथवा, सामान्ये सिद्धे साधनम् इत्यन्योऽर्थः। सामान्ययोः गम्यगमकभावोऽभ्युपगम्यते मीमांसकेन। न च तत् सामान्यं विद्यते, यथा च न विद्यते तथा प्रागेवोदितम्। ततश्च सिद्धस्य साधनम्-विद्यमानस्य साधनम् / न च अग्नित्वमस्ति। तदभावे कस्येदं ज्ञापकम्? अथवा, सिद्धं साधनं सिद्धसाधनम् इत्यन्योऽर्थः। विद्यमानं साधनम्। न च धूमत्वसामान्यमस्ति। तच्च(त्व) विद्यमानं सामान्यम्। कथं सामान्यं साधनं भवितुमर्हति? अथवा, सिद्धसाधनम्-ज्ञातमनुमानं साधनं भवति, न च धूमत्वं ज्ञातं स्वयमसत्त्वात्, अथवा ग्रहणोपायाभावात् तस्य अनुस्यूतं रूपम्। न च तत् आत्मन्यनुस्यूतम्। नापि एकस्यां व्यक्तौ अपि तु बह्वीषु व्यक्तिषु। न च बह्वप्यो व्यक्तय उपलभ्यन्ते, अपि तु एकैव धूमव्यक्तिरुपलभ्यते। न च एकस्यां व्यक्तौ अनुगतात्मतया सामान्यसंवित्तिरस्ति। न चाकारान्तरसामान्यम् // छ / / 2. आप्तोक्तत्वेन शब्दं प्रमाणीकुर्वतां मतस्य निरासः / अन्ये तु आप्तोक्तत्वेन प्रामाण्यमुशन्ति। आप्ताः साक्षात्कृतधर्माणः। तैर्यदुक्तं सममाप्तं तत्किलाविसंवादकम्। "क्षीणदोषोऽनृतं वाक्यं न ब्रूयाद् हेत्वसंभवात्"। तदेतदयुक्तम्, आप्तस्य अत्यन्ताऽप्रत्यक्षतया तदायत्तताया अनधिगतेः। वीतरागज्ञापकं च अनुमानं न विद्यते तस्य अप्रमाणत्वात्। भवतु वा आप्तोक्तत्वम्; प्रामाण्ये किमायातम्? किं सत्तामात्रेण प्रामाण्यम्, विज्ञानजनकत्वेन वा? यदि सत्तामात्रेण ; तदयुक्तम्; अकारकस्य प्रामाण्याऽयोगात्। अथ विज्ञानजनकत्वेन प्रामाण्यम्;तत्किम् एकलस्य, सहकारिकारणोपचरितस्य वा? तद्यदि एकलस्य ; तदयुक्तम्, स्वयमनभ्युपगमात्, क्रमयोगपद्यासंभवाच्च। ___ अथ सहकारिक(का)रणोपचरितेन जन्यते; यद्येवं तदा सहकारिकारणं दुष्टमप्यभ्येति, तदनुरोधेन विपरीतमपि ज्ञानं जनयति आप्तोक्तत्वे सत्यपि। यथा
Page #213
--------------------------------------------------------------------------
________________ तत्त्वोपप्लवग्रन्थात् 193 अभिनवकम्बलसम्बन्धिनं माणवकं दृष्ट्वा प्रवक्ता वाक्यमुच्चारयतिनवकम्बलकोऽयं माणवकः इति; श्रोता तु अधर्ममनःक्षोभादिना निमित्तेन नवत्वसंख्यायुक्तकम्बलसम्बन्धिनप्रतिपद्यते। तथा प्रतारणबुद्ध्या नवत्वसंख्यायुक्तकम्बलसम्बन्धी माणवक इत्युक्ते अवदातकर्मानुरोधेन प्रतिपत्ता अभिनवकम्बलसम्बन्धिनं प्रत्येति, तथा वेदवाक्यानामपिअवदातेतरकर्मानुवेधेन विपरीतार्थावबोधोत्पादकत्वमुपपद्यते। तथा, भूतोपघातचेतोविक (का) रमन:- क्षोभादिना वा निमित्तेन // छ / / 1. अपौरुषेयत्वेन वेदस्य प्रामाण्यं स्वीकुर्वतां मतस्य व्युदासः / __ अन्ये तु कुमतिमतानुसारिणो वदन्ति- वेदस्य प्रामाण्यमन्यथा-अपौरुषेयत्वेन। पुरुषा हि रागादिविपरीतचेतसो विपरीतमुपपादयन्ति, न च वेदविधातृसंभवोऽस्ति। तदुक्तम्-नित्यो वेदः अस्मर्यमाणकर्तृ(क)त्वात् व्योमादिवत्। वेदवेधसोऽपगमे तदायत्ता दोषा व्यपगता भवन्ति। ते हि विधातृसत्तानुवर्तिनः तदव(प)गमे कथमवतिष्ठेरन्। तेषामपाये कथमप्रमाणमाशंक्यते वेदः। यदुक्तम् दोषाः सन्ति न सन्तीति पौरुषेयेषु युज्यते / वेदे कत्रभावात्तु दोषाशंकैव नास्ति नः // (तत्त्वसं. का. 2895) चौदनाजनिता बुद्धिः प्रमाणं दोषवर्जितैः / कारणैर्जन्यमानत्वात् लिङ्गाप्तोक्ताक्षबुद्धिवत् // ___(श्लोकवा. सू. 2. श्लो. 184) न च चोदनाजनितं विज्ञानं सन्दिग्धम्, किंस्वित् इत्यनेनाकारेणानुपजायमानत्वात्। न चेदं भ्रान्तं देशान्तरादावबाध्यमानत्वात्। यत् देशान्तरादौ बाध्यते तत् मिथ्या, यथा मरीचिनिचये अम्बुज्ञानम्, कालान्तरे च बाधा यथा आरक्तपटे हाटकविज्ञानमित्येवमादि, नचेदं भ्रान्तं तथा, तस्मादवितथम्। यत्तावदुक्तम्-'नित्यो वेदः कर्चस्मरणात्'; तदयुक्तम्, कूपारामादिभिरनैकान्तिकत्वात्। तेषां हि कर्त्ता न स्मर्यते अथच अनित्यत्वम्।अथदेशकालोच्छेदात् तत्र कर्तुरस्मरणम्; एवं तर्हि अविशेषाभिहितेऽर्थे विशेषमिच्छतो हेत्वन्तरं नाम निग्रहस्थानम्। अथवा सत्यपि विशेषणोपादाने हेतोः विपक्षगमनं न निवारयितुं पार्यते, यथा कृतकत्वविशेषणोपादानेऽपि न प्रमेयत्वस्य व्यावृत्तिरस्ति। अथ कृतकत्वम्;
Page #214
--------------------------------------------------------------------------
________________ 194 गद्यसंग्रहः तदेव गमकं व्यावृत्तत्वात्। न येकस्य व्यावृत्तौ अन्यस्य व्यावृत्तिरस्त्यतिप्रसंगात्। किंच, साध्यविरुद्ध हेतो:(तौ) किं विशेषणोपादनम्, तद्विपरीते वा? तद्यदि विरुद्ध; तदाऽनर्थकं विशेषणोपादानम्। अथ अविरुद्धेऽप्येवमेव-नहि विशेषणेन विरुद्धस्वभावता व्यावर्त्तते, यथा कृतकत्वविशेषणोपादानेऽपि न चाक्षुषत्वस्य शब्दे वृत्तिलाभः। तथा देशकु (का)लोच्छे दाभाव विशेषणोपादानेऽपि अस्मर्यमाणकर्तृ(क)त्वस्य न विपक्षाद् व्यावृत्तिरस्ति। असिद्धोऽप्ययं हेतुः यस्मात्स्मरन्ति एव कर्तारं काणादाः। तथा लौकिका अपि बहुलं वक्तारो भवन्तिब्रह्मणा वेदाः प्रणीताः' इति। अपि च किमशेषजनस्मरणनिवृत्तिरिह हेतुत्वेन विवक्षिता,आहोस्वित् कतिपयपुरुषस्मरणविनिवृत्तिः? तद्यदि सकलजनस्मरणविनिवृत्तिः ; तदाऽसिद्धा, अवधारयितुमशक्यत्वाच्च अर्वाग्भागविद्भिः। अवधारणे वा त एव सर्वज्ञाः स्युः अर्वाग्भागविदो न भवेयुः। __ अथ कतिपयपुरुषापेक्षया; तदानैकान्तिको हेतुः, विद्यमानकर्तृकेष्वपि कर्ता न स्मर्यते कैश्चित्। अन्यच्च, कतिपयैः पुरुषैर्न स्मर्यते-अर्थादापद्यते-पुरुषान्तरस्मर्यमाणकर्तृको वेदः, विशेषप्रतिषेधस्य शेषाभ्यनुज्ञाविषयत्वात्। न च पुरुषजन्यत्वेन वेदस्याऽप्रामाण्यम्, अपि तु पुरुषदोषोत्पाद्यत्वेन। अतः स एव अपनेयः न पुरुषव्यापारः / अथ पुरुषस्य दोषाधिकरणत्वे तज्जन्यत्वे दोषजन्यत्वमप्याशंक्यत इति चेत् ; यद्येवम् इन्द्रियाणामपि दोषाधिकरणत्वेन तदुत्पादितविज्ञानानामप्रामाण्यं न च अस्मर्यमाणकर्तृकत्वेन वेदशब्दानामपौरुषेयत्वसंसिद्धिः, अन्यथापि अस्मर्यमाणकर्तृकत्वमुपपद्यते-केनापि विदग्धमतिना वेदसन्दोहमुत्पाद्य आत्मा अपह्नयते-'नाहं वेदानां विधाता' इति।। भवतु वा अपौरुषेयो वेदः; प्रामाण्ये किमायातम्? अथ पुरुषव्यावृत्त्या तद्दोषव्यावृत्तिबिन्धनं प्रामाण्यम् ; तव्यावृत्त्या तद्गुणव्यावृत्तिनिबन्धनमप्रामाण्यं किन्नेष्यते? अथ पुरुषगतगुणदोषव्यावृत्तौ निस्सर्गगुणानुवेधेन प्रामाण्यमिष्यते; पुरुषगुणदोषव्यावृत्तौ निसर्गर्दोषानुवेधेन अप्रामाण्यं किन्न गीयते? अपि च यथा अपौरुषेयत्वे सत्यपि रागादिदोषसम्बन्धिता उपलभ्यते, तथा वेदेऽपि भविष्यति।
Page #215
--------------------------------------------------------------------------
________________ तत्त्वोपप्लवग्रन्थात् 195 किंच, अपौरुषेयत्वेन कर्तृदोषापगमः कृतः, श्रोतृदोषास्तु केनापनीयते। तथा हि-अर्थप्रतिपत्तौ तानपेक्ष्य विपरीतां प्रतिपत्तिमभिनिवर्तयिष्यति। ततश्च नित्यानामपि कर्तृकर्मणां दुष्टसहकारिकारणानुवेधेन विपर्ययादिज्ञानहेतुत्वमुपपद्यते न वाक्यानां प्रमाणप्रतिलम्भः। यदप्युक्तम्-'देशान्तरादावबाध्यमानत्वात् प्रमाणं चोदनाजनिता बुद्धिः'तदयुक्तम्, स्मृतेर्बाधारहितत्वेऽपि अप्रमाणत्वात्। किंच, बाधाशब्देन विपरीतविज्ञानमपदिश्यते, तच्च नोत्पद्यते-किं चोदनाजनितविज्ञानस्य यथार्थत्वेन उत तदुत्पादककारणवैकल्येन इति सन्दिह्यते। अपि च, बाधारहितत्वेऽप्यप्रमाण्यं दृष्टं-बाधकविज्ञानोत्पत्तेः पूर्वम्। बाधाऽप्युपजायमाना कालविकल्पेन उपजायते क्वचिदर्धमासेन क्वचिन्मासव्यवधानेन क्वचिच्च अब्दद्वयत्रयव्यवधानेन, अन्यत्र तु कारकवैकल्यान्नैव संपत्स्यते। न चैतावता प्रमाणं, चोदनाजनिता बुद्धिः।। __किंच, बाधारहितत्वमपि किम्-अशेषपुरुषापेक्षया कतिपयपुरुषापेक्षया वा? यद्यशेषपुरुषापेक्षया; तदावगन्तुं न शक्यते, परचित्तवृत्तीनां दुरन्वयत्वात्। अथ कतिपयपुरुषापेक्षया बाधारहितत्वम्; तदाऽनैकान्तिको हेतु:-यथा असत्योदके जातोदकबुद्धिः तस्माद्देशात् देशान्तरं यदा प्रयाति तत्रैव दशार्धतामुपयाति, न च तस्य बाधकं विज्ञानमुत्पन्नम्। किमेतावता तत् प्रमाणं भवतु? अथवा चोदनाजनितविज्ञानस्य निर्विषयत्वमेव भ्रान्तत्वम्, चोदनाजनितविज्ञानसमानकालीनकर्त्तव्यतारूपार्थस्याऽसंभवात्। संभवे वा चोदनावचसो वैकल्यम, वितानक्रियाविलोपः। अथ न विद्यते कर्त्तव्यतारूपोऽर्थः, कथं चोदनावचनोद्भूतं विज्ञानं न मिथ्या? अन्यथा केशोण्डुकसंविदो मिथ्यात्वं न भवेत्। अथ तस्या (:) प्रतीयमानार्थाऽसंभवेन मिथ्यात्वम्; तदिहापि तदेवास्तु। अथ चोदनाजनितविज्ञानार्थस्य पुनः सद्भावो भवति तेन तस्य यथार्थत्वम्। न तु केशोण्डुकविज्ञानस्य कदाचिदपि सद्भावोऽस्ति। सोऽयं विषभक्षणेन परं प्रत्याययति तपस्वी। चोदनार्थस्य पश्चाद्भवनं तद्विज्ञानानुपयोगि, तस्मिन् काले ज्ञानस्य अस्तमित्वात्, विज्ञानकाले च अर्थस्य(स्या)संभवात्। अथवा, इयमेव बाधा यदुत असंभाव्यमानार्थस्य प्रतिपादकत्वं यथा तन्तुतुरि-कारकोपनिपाते सति वस्त्रादिकार्यमुपजायमानं दृष्टम्। पुनः पटार्थिने
Page #216
--------------------------------------------------------------------------
________________ 196 गद्यसंग्रहः उपदेशो दीयते-'तन्तूनामुपादानं कुरुष्व' इति। न त्वेवं सप्ततन्त्ववदातकर्मणोः साध्यसाधनसम्बन्धावधारणम्, नापूर्वम्, येनात्र उपदेशस्य साफल्यं भवति। एवं तावदुक्तेन न्यायेन शब्दानां वाचकत्वेन प्रामाण्यं न युज्यते। 2. विवक्षासूचकत्वेन शब्दप्रमाण्यं स्वीकुर्वतां मतस्य खण्डनम् / अथ विवक्षासूचकत्वेन लिङ्गभूतस्य प्रामाण्यम् / तदुक्तम्- 'विवक्षाप्रभवा हि शब्दाः तामेव संसूचयेयुः' इति। तदेतदयुक्तम्, यथा हेतुफलभावो नास्ति सौगते मते तथा प्रागेव प्रपञ्चितम् // छ / 3. साधुपदादर्थप्रतिपत्तिं वर्णयतां वैयाकरणानां मतस्य निरासः / अन्ये तु साधुपदशब्दादर्थप्रतिपत्तिं वर्णयन्ति। साधुत्वं च लक्षणयोगित्वेन। लक्षणं च सूत्राण्येव, लक्ष्यं गौरित्यादिपदम्। अथ किमिदं नाम यल्लक्षणेन परमर्षिगदितेन सूत्रकलापेन लक्ष्यते? किंगकारादयो वर्णाः, वर्णेभ्योऽर्थान्तरं वा पदं स्फोटरूपम्? तद्यदि वर्णाः; ते किं नित्याः सन्तः पदसंज्ञा भवन्ति, उत उपजननधर्मका:? तद्यदि नित्याः कूटस्था सन्तो वर्णाः पदसंज्ञा भवन्ति; तत्रे किं व्यस्ताः, समुदिता वा? तद्यदि व्यस्ताः ; सनातना एते पदसंज्ञा भवन्ति, तदा गवर्णेनैव केवलेन गोऽर्थप्रतिपादनं क्रियते, ओकारेण वा अर्थप्रतिपादनं क्रियते। ततश्च पूर्वापरवर्णोच्चारणानर्थक्यम्। न चात्रैकस्मिन् वर्णे विभक्तयन्तता अस्ति, अपि तु वर्णकदम्बके विभक्तयुत्पादाभ्युपगमात्। ___ अथ समुदितानां पदसंज्ञा / तदयुक्तम् "बहूनां संघातशब्दवाच्यत्वम्, न ह्येकस्मिन् संघातशब्दप्रयोगोऽस्ति, अपितु गकारौकारविसर्जनीयेषु समुदायशब्दः प्रयुज्यते।" तदयुक्तम्, वर्णानां नानाता विद्यते।.वर्णो हि अवर्णात् वर्णात्मतया व्यावर्त्तते वर्णान्तरात्तु कथं व्यावर्त्तते? किं वर्णाकारतया अवर्णात्मतया वा? तद्यदि वर्णाकारतया व्यावर्त्तते; तदाऽन्येषां वर्णरूपता न प्राप्नोति नीरतीरादेरिव। अथ अवर्णात्मतया व्यावर्त्तते; तदा(5)वर्णात्मता व्यावर्त्तते उक्तानामिव, ततश्चैक एव वर्णात्मा जगति संजातः। तस्य गोऽर्थवाचकत्वं न युज्यते सुप्विभक्त्यनुपपत्तेः। नापि वर्णानां नित्यत्वप्रत्यायकं प्रमाणमस्ति, एवं प्रत्यक्षादीनामप्रामाण्यप्रतिपादनात्। तीव्रमन्दात्मतया गवर्णस्य नानात्वोपलब्धेः गकारोऽपि भेदवान् न गकारे(रै)कत्वम्।
Page #217
--------------------------------------------------------------------------
________________ तत्त्वोपप्लवग्रन्थात् 197 अथव्यञ्जकवशेन तीव्रमन्दादिबुद्धेरुत्पत्तिः न गवर्णस्य भेदोऽस्ति ; तदयुक्तम्, गवर्ण एव प्रतीयते तीव्रमन्दाद्यात्मतया न व्यञ्जकानि गवर्णबुद्धिर्वा। यदि व्यञ्जकभेदेन तीव्रमन्दादिभेदपरितृप्तिः क्रियते गवर्णात्मा तु न भिद्यते; तदा गकारादिविभागोऽपि व्यञ्जकभेदनिबन्धनोऽभ्युपगन्तव्यः, वर्णात्मा त्वेक एव / ततश्च गवार्थप्रतिपत्तिर्न प्राप्नोति एकस्मिन् वर्णे सुप्विभक्तयनुपपत्तेः। किंच, भिन्नाकारतया प्रतीयमानस्य यद्येकत्वमभ्युपगम्यते; नानेकं जगत् स्यात्, अभिन्नात्मके च जगति मानमेयव्यवस्थैव हीयते। न च नित्यस्य अनुपजातविकारस्य विज्ञानोदयदानसामर्थ्यमस्ति। अथ क्रियते; किमनुपजातातिशयेन वा, अव्यतिरिक्तोपजातातिशयेन वा, व्यतिरिक्तोपजातातिशयेन वा? तद्यदि अनुपजातातिशयेन क्रियते; तदा सर्वदा कुर्यात् एकस्मिन् वा काले कुर्यात् तद्देहमात्रानुबन्धेना(न) कालविलम्बनायोगात्। __ अथ अव्यतिरिक्तोपजातातिशयेन क्रियते; तथापि सनातना वर्णाः, अव्यतिरिक्तातिशयकरणपक्षे स एवोपजायते, फलानिष्पत्तिकरणस्वरूपाऽनतिवृत्तेः। अथ व्यतिरिक्तोपजातातिशयेन क्रियते ; तस्यातिशयः कथम्? यो यस्य केनापि सम्बन्धेन न सं(०न्धेन सं)बन्ध्यते स तस्यातिशयः। यदि च अन्तर्हि तवर्णस्मरणविशिष्टोऽन्त्यो वर्ण: पदम्; तस्यापि स्मरणकाले तिरोहितत्वादवाचकत्वम्- 'तस्य व्यञ्जकानां क्षणिकत्वात् क्षणोपलब्धिः' इति वचनात्। यदि वर्णा व्यञ्जकैर्व्यज्यन्ते तदा समानदेशावस्थितं समानेन्द्रियग्राह्याणां प्रतिनियतव्यञ्जकत्वेनेष्टम् एकान्तर्गतोदककनकादीनां वदन्ति वैशेषिकाः। अथ अनित्या वर्णाः पदसंज्ञा भवन्तीति चेत्; तत्रापि किं व्यस्ताः, समस्ता वा? तद्यदि व्यस्ताः ; तदा गकारौकारविसर्जनीयान्यतमे वर्णे न विभक्तयुत्पादोऽस्ति, उत्पादे वा एको वर्ण: वाचकः स्यात्-वर्णान्तरोच्चारणानर्थक्यम्। अथ वर्णसमुदायः पदम्; प्रतिक्षणध्वंसिनां समुदायार्थो वक्तव्यः, बहूनामवस्थितरूपाणां समुदायो लोके दृष्टः, न च वर्णानां भूयस्त्वमस्ति उक्तान्यायात्। किंच अन्त्यवर्णग्रहणानन्तरं पूर्ववर्णस्मरणम्, पूर्ववर्णस्मरणानन्तरम् अन्त्यवर्णे ज्ञानम्, ततश्चास्य अर्थप्रतिपत्तिकाले पदं (न) विद्यते तेनाऽपदिकाऽर्थप्रतिपत्तिः स्यात्।
Page #218
--------------------------------------------------------------------------
________________ 198 गद्यसंग्रहः न च कार्यरूपता वर्णानां विद्यते। सती सत्ता संवेद्यते। विज्ञानोत्पत्तेः पूर्व वेद्यस्य सत्ता, पश्चाद्विज्ञानम्। तद्वेद्यं किम् अधुनोत्पन्नं विषयतां याति, चिरोत्पन्नम्, अनुत्पन्नं वा? नालमालोचयितुं ज्ञानम्, तत्स्वरूपमात्रास्तित्वविधायकत्वेन तदुत्पत्तेः। न च तत्कारणं विद्यते। ननु प्रयत्नादिकं विद्यते; तदयुक्तम्, तेषां प्रयत्नादीनां स्वरूपं कथं गृह्यते-किं सत्तामात्रेण, कारकत्वेन वा? तद्यदि सत्तामात्रेण; तदा जनकं रूपं न स्यात्। अथ कारकत्वेन गृह्यते; किम् आत्मजनकत्वेन, आहोस्विद् अन्यजनकत्वेन? तद्यदि आत्मजनकत्वेन गृह्यते ; तदात्मा तेनोत्पाद्यते न वर्णः। अथ अन्यजनकत्वेन अवधार्यते; तदा अन्यस्य सत्ता सिद्धा / ता(नया)क्षिप्तान्यसद्भाव एव सद्भावोऽस्याध्यवसीयते, ततः तत्समानकालीनत्वेन हेतुफलभावाऽसिद्धिः। किंच, पूर्वापरभावेन हेतुफलभावः, किंवा पूर्वापरग्रहणेन? तद्यदि पूर्वापरभावेन हेतुफलभावः; तदा ज्ञानं विना 'अस्ति' कथं ज्ञायते? ज्ञानाभावेनाऽज्ञाने किं पूर्वोत्पन्नौ सहोत्पन्नौ वा? अथ पूर्वापरग्रहणेन हेतुफलभावव्यवस्था इति; तदयुक्तम्, अनियतं ग्रहणं दृष्टम्-कार्यं दृष्ट्वा कारणं गृह्णाति, कारणं दृष्ट्वा कार्य गृह्णाति, उभयं च युगपत् गृह्णाति। एवं च स्थिते न हेतुफलभावविनिश्चयोऽस्ति। तदभावान्नाऽनित्या वर्णाः पदं भवितुमर्हति। अथ वर्णेभ्योऽर्थान्तरभूतं पदं वर्णव्यङ्ग्यस्फोटरूपमभ्युपगम्यते। वर्णानां किल अर्थप्रत्यायकत्वं व्यस्तसमस्तानां संभवति, अस्ति च सा अर्थप्रतिपत्तिः तेन अर्थान्तरभूतं वर्णेभ्यः पदं विद्मः। अभिन्नाकारा च प्रतिपत्तिवर्णेष्वनुपपन्ना तेन वर्णेभ्यो भिन्नम् अभिन्नाकारं पदमध्यवसीयते। यत्तावदुक्तम्-'अर्थप्रतिपत्त्यन्यथानुपपत्त्या पदमवगम्यते' तदयुक्तम्, अर्थापत्तेः प्रामाण्यमेव नास्ति। यथा च न विद्यते तथा प्रागेव प्रपञ्चितम्। न च पदेन सह प्रतिबद्धा अर्थप्रतिपत्तिः अवगतपूर्वा येन अन्यकारणपरिहारेण पदं बोधयति / प्रत्यक्षं च प्रमाणमेव न भवति। कथं तत् पदप्रतिपादनाय अलम्? न च नित्यस्य विज्ञानाद्यर्थक्रियाकरणसामर्थ्यमस्ति। एवं लक्ष्यभूतं पदं न विद्यते। तदभावान्निविषयं पारमार्थ(मर्ष)लक्षणमिति।
Page #219
--------------------------------------------------------------------------
________________ तत्त्वोपप्लवग्रन्थात् 199 अपि च, यानि लक्षणपराणि सूत्राणि तेषां लक्षणं विद्यते, न वा? यदि विद्यते; तत्रापि अन्यद् अत्रापि अन्यद् इत्यनिष्ठायांचन किंचित् पदं ज्ञानं(तं)स्यात्। अथ न विद्यते; किमेवं तर्हि तेषां साधुत्वं न विद्यते? अथ लक्षणाभावेऽपि तेषां साधुत्वं विद्यते; एवं गावीगोणीगोपुत्तलिकेत्येवमादीनामपि अपभ्रंसा(शा)नां लक्षणाभावेऽपि साधुत्वं भविष्यति। अथ लक्षणाभावान्न गाव्यादीनां साधुत्वम् तदा सूत्रपदानामपि तदभावादेव असाधुत्वम्। अपि च, यदि नाम लक्षणविकलता शब्दस्य; तदा किं भवति? किमुच्चारयितुर्मुखभङ्गः संपद्यते, शब्दस्य वा अवाचकत्वम्, अर्थस्य वा रूपविपर्यासो जायते, किं वा अपशब्दप्रतिपादितार्थस्य अर्थक्रियाकर्तृत्वं हीयते, अपशब्दोच्चारणे सति अमङ्गलोदयो वा भवति? तद्यदि तावत् प्रवक्तृमुखभङ्गो भवति गावीशब्दोच्चारणे सति ; तदैते बहुलं गावीशब्दोच्चारणं कुर्वाणाः समुपलभ्यन्ते प्रवक्तारः, न च तेषां मुखभङ्गः समुपलभ्यते। अथ गावीशब्दस्य वाचकत्वं नोपपद्यते; तदयुक्तम्, गावीशब्देन बहुलं व्याहरन्ति प्रमातारः। अथ गोऽर्थप्रतिपित्सूनां गावीशब्दश्रवणानन्तरं गोशब्दे स्मृतिरुपजायते स च गवाद्यर्थवाचकं इति चेत्; तदयुक्तम्, म्लेच्छादीनां साधुशब्दपरिज्ञानाभावात् कथं तद्विषया स्मृति:? तदभावे न गोऽर्थप्रतिपत्तिः स्यात्। अथ अर्थस्य रूपविपर्यासो भवति; तदयुक्तम्, न गावीशब्देन अभिधीयमानस्य गोरूपता व्यावर्त्तमाना दृष्टा। अथ अर्थक्रियाकर्तृत्वं हीयते; तदयुक्तम्, गावीशब्देन अभिधीयमानस्य वाहदोहप्रसवसामर्थ्यं नातिवर्त्तते गोपिण्डस्य। अथ गावीशब्दोच्चारणादमङ्गलोदयो भवति, न तु वाचकत्वं निराक्रियते असाधु शब्दस्य। तदुक्तम् अपशब्दोनुमानेन वाचकः कैश्चिदिष्यते / वाचकत्वाऽविशेषेऽपि नियमः पुण्यपापयोः // तदयुक्त म् , तेन सह प्रतिबन्धाभावात्। न पापास्तित्वग्राह कं प्रमाणमस्ति। अन्यथैव काले च न म्लेच्छि(त)व्यमिति नियमोऽभ्युपगम्यते। न च शुद्धम्, अन्यत्र पण्डितानामपि व्यवहारोदयदानदर्शनात्।
Page #220
--------------------------------------------------------------------------
________________ 200 गद्यसंग्रहः तदेवमुपप्लुतेष्वेव तत्त्वेषु अविचारितरमणीयाः सर्वे व्यवहारा घटन्त इति। 1. तस्या-भावः इत्यनयोर्मध्ये लुप्तो नकारो दृश्यते। अत्र कदाचित् ग्रन्थकारेण पूर्वं 'तस्य न भावः' इति लिखितं स्यात्। अथ च पश्चात् तं नकारं लुप्त्वा केनचित् 'तस्याऽभाव' इति कृतं स्यात्। 2. यद्यत्र 'नाकाल' इत्येव शुद्धः पाठः स्यात् तदा ईषत्कालार्थकम् 'आ' पदं सन्धिगतं बोध्यम्। ___3. विद्यमानानामपि तत्त्वानां विज्ञैः स्वीकृतानामपि सिद्धान्तानामन्यथैव दर्शनं कर्तुं बद्धपरिकरस्य पण्डितं मन्यस्य मतं मनो विनोदायात्र संगृहीतमित्यनुमीयते।
Page #221
--------------------------------------------------------------------------
________________ The compiler of the present volume Prof.(late) Badarinath Shukla was an outstanding scholar in Sanskrit Literature specialized in sastras. An authority in Indian Philosophy Prof. Shukla had presented quite a number of papers in seminars conducted by Indian Council for Philosophical Research and other institutions. He was the Vice-Chancellor of Sampurnanand Sanskrit University, Varanasi. Prof. Jayamanta Misra (b. 1925) the editor of the compilation is an eminent scholar in Sanskrit. Hindi and Maithili. The winner of President of India's Certificate of Honour (1986), Prof. Misra has a long tenure of teaching experience in various institutions and retired from service after serving the Kameshwara Singh Darbhanga Sanskrit University as Vice-Chancellor (1980-85). He has authored quite a few publications which includes the Sahitya Akademi Award-winning book Kavita Kusumanjali in Maithili.
Page #222
--------------------------------------------------------------------------
_