Page #1
--------------------------------------------------------------------------
________________
路路路路路路路路路路路路路路路
. ।। श्रीवर्द्धमान-सत्य-नीति-हर्षसूरि-जैनग्रन्थमाला नं. १९ ॥ भेट] अहम् ॥
[भेट बान्द्रकुल-तपागच्छ-संविग्नशाखाग्रणी जिनागमरहस्यवेदी सुविहित । आचार्य श्री विजयहर्षसूरीश्वर सद्गुरुभ्यो नमः ॥
॥ श्री श्रुतघरपूर्वाचार्य प्रणीत
ETERMIRMERIKISTERNMENTEREST
॥ धर्मोपदेश संग्रह ॥
-:प्रकाशक :लवारनीपोळ जैन उपाश्रयना सेक्रेटरी शाह वाडीलाल महोकमभाई वकील-अहमदाबाद.
वीर सं. २४८६ वि. सं. २०१६ ] प्रति ५०० [सत्य सं. २६० ईस्वी सं. १९६० 路路路路路路路路路路路
Page #2
--------------------------------------------------------------------------
________________
॥२॥
आभार प्रदर्शन
R
आ पुस्तक प्रकाशित करवामां सवारनीपोळ जैन उपाश्रयना ज्ञान द्रव्यमाथी उपाश्रयना ट्रस्टीओए आर्थिक सहाय आपी छे ते बदल तेमनो आभार मानवामां आवे छे.
ली. प्रकाशक
-61-97--7RECI1661
ORRRRRRRRRLS
मुद्रक : पंडित मफतलाल झवेरचंद गांधी, नयन प्रिन्टींग प्रेस, ढींकवानी वाडी रीचीरोड पुल नीचे, अमदावाद.
Page #3
--------------------------------------------------------------------------
________________
धर्मोपदेश11311
1-1-1
बे बोल
प्रामाणिक पुरुषनुं कथन तेने उपदेश कहेवामां आवे छे आ प्रामाणिक पुरुषो दुनियादारी ना होय तेनुं उपदेश कथन नीतिमां समाय छे. जे प्रामाणिक पुरुषो लोकोत्तर छे तेनुं उपदेश कथन धर्म-आगम कहेवाय छे. आ आगमवचन एज धर्मवचन अने धर्मोपदेश छे. आ धर्मोपदेश ठेर ठेर शास्त्रमां गुंथायेल छे.
आ ग्रन्थ कोई स्वतंत्र ग्रन्थ नथी परंतु जुदा जुदा ग्रन्थोमांथी धर्मोपदेशने लगतो जीवन उपयोगी संग्रह करवामां आग्यो छे. शास्त्रमां ठेर ठेर जे नवनीत वेरायेल छे ते नवनीत अहिं एकटुं करवामां आव्युं छे.
जीवनमां प्रयाण करनार साधकने एक ज सूक्त जीवननो मार्गदर्शक बने छे. आवा अनेक उपयोगी को अहं आपवामां आव्यां छे.
आ ग्रन्थ व्याख्यान उपयोगी अने जीवन उपयोगी पण छे. वांचक तेनो लाभ उठावे ते भावना.
प्रकाशक -
८२२८२०
संग्रह
Page #4
--------------------------------------------------------------------------
________________
षमोपदेश
___ पृष्ठ
पंक्ति
॥४॥
A- R
कामभोगेभ्यः
जनकोऽन्येद्य व्यतिकरे
बहुसोवि
द्विपक्षे उत्फुल्ललोचनः मोचिता
अशुद्ध कामभागेभ्यः बहुसावि द्विट्पस उत्फुल्ललोवनः माचिता तदुस्तस्यै भूमृताद्यप वर्गिका संग्रम अपेक्ष्य दुष्कर्मकमुपकार मादवं जाणि
অর্ড जनकाज्येद्यु व्यकरे सुहृदा घरको कुटिलालाचन माक्षः सहसात्पन्न राजान लोभस्यकस्य सैतोषाऽऽस्वाद न मुक्त प्रातःकाला श्वक
RHEART
भूभृताद्यप वर्णिका संग्राम
घराका कुटिलालोचना मोक्षः सहसोत्पन्न राजानं लोभकस्यैकस्य संतोषाऽऽस्वादर्ज न मुक्ते प्रातःकालो
RECECALCULABOURSS
१२
११
३० ३१
दुष्कर्म नुपकार
मार्दवं जोणि
२२
५
श्चके
Page #5
--------------------------------------------------------------------------
________________
॥५॥
--
अशुद्धं तमन्याऽयं
स्पर्शनमिदिप्यम्
विमुच्योच जातुवित्
दशद
समायाताः
मनसे
युवया
नाप्नाति
लभ्यते
ततयो
चेतानिरोदनं
नयराजमनं
शुद्धं तमन्योऽन्य ३४
३
स्पर्शनमिन्द्रियम् ३६ ९
१०
विमुच्योच्चै
जातुचित्
दशधा
समायतः
मानसे
युवयो
प्राप्नोति
लभ्यते
तमायो
चेतोनिरोधनं
नयराजमानं
पृष्ठ पक्ति
३६
३७
३७
४०
४०
४१
४२
४२
६३
४३
४६
१२
८
९
१
२
१३
६
७
१
अशुद्धं
याsनेन
धमवासना
भुक्त्योत्थिया
दुःशीलोमिभि
दध्ये
स्वगुणवणक
सहस्रषु
सुरः
मला बुहन्नद्
पानीयादूरत
दिना जतं
तत्रानान्यूय
शुद्धं
योऽनेन
पृष्ठ पंक्ति
४८
धर्मवासना ४९
दौस्थ्ये
स्वगुण वर्णक
सहस्रषु
सुरः
मला बुन्धाद्
पानीया दूरत
दिनार्जितं
तत्रानाय्य
भुक्त्वोत्थितो ५१ २ दुःशीलैर्लोभि ५२
मिश्रौरः
*
५२
५२
५४
५४
14229
२
६०
६२
७
99 mg or
の
の
३
५
५७ ११
५९ १२
१०
প
Page #6
--------------------------------------------------------------------------
________________
शुद्धं
धर्मोपदेश
पृष्ठ पंक्ति ६२ ८ ६० ११
६
1-99-6-SARKARI
७९
१४
अशुद्ध चाम्भोभिभि
चाम्मोभि सत्यकार
सत्यकार मैथुनान
मैथुनात् बालु
वालु
स्त्रीभक्ष्य जनितोत्रत
जनितोत्तम असंबद्ध २५मो श्लोक भुलथी छपायो छे कममो
कर्मतो स्ताक
अशुद्ध वसत्यशन मंगीकृत्यशु तत्रता कल्याणाथ आहवानाथ श्रीहीरीसूरेः जगद् गुरू सम्मायत्री पाटमहात्सर्व
शुद्ध वसत्यशन ७५ मंगीकृत्याशु ७६ तत्रतो कल्याणाय आहेबानाय श्रीहोरसूते जगद्गुरु ९२ लम्भयित्री ९३ पाटमहोत्सव ९४
७०४
७४४
स्तो
Page #7
--------------------------------------------------------------------------
________________
धर्मोपदेश
॥१॥
भईम् वर्धमान-सत्य-नीति-हर्षसरि जैन ग्रन्थमाला ग्रन्थाङ्कः नं. १९ चान्द्रकुल तपागच्छसंविग्नशाखाग्रणी तीर्थोदारक आचार्य श्री विजयनीतिसूरीश्वरसद्गुरुभ्यो नमः
श्रुतधर पूर्वाचार्य प्रणीतधर्मोपदेशसंग्रहः
| चिदानंदस्वरूपाय, रूपातीतायतायिने ॥ परमज्योतिषे तस्मै नमः श्री परमात्मने ॥१॥ | पश्यन्ति योगिनो यस्य, स्वरूपं ध्यानचक्षुषा ॥ दधानाः मनसः शुद्धि तं स्तुवे परमेश्वरम् ॥२॥
जन्तवः सुखमिच्छन्ति निस्तुषं तच्छिवे भवेत् ॥ तद्ध्यानात् तन्मनःशुद्धया कषायविजयेन सा ॥३॥ स इन्द्रियजयेन स्यात् सदाचारादसौ भवेत् ॥ स जायते सूपदेशान्नृणां गुणनिवन्धनम् ॥४॥
Page #8
--------------------------------------------------------------------------
________________
॥२॥
KARNAKARSASAKSex
अस्मिन्नसारसंसारे सर्वेऽपि जन्तवः पाणिनः निस्तुषं सुखमिच्छन्ति तत्सुखं शिव मोक्षे भवेत् , स मोक्ष: शुभध्यानास्प्राप्यते, ध्यानं च मनःशुद्धथा भवति, सा मनःशुद्धिः कषायविजयेन भवति, सः कषायविजयः इन्द्रिजयेन स्यात् , स इन्द्रियजयः सदाचारात् भवति असौ सदाचार. गुणनिबन्धनं नृणां सदुपदेशात् जायते ॥
१. संसारे दुःखं मोक्षे च सुखं तत्र तावत् संसारस्वरूपमाहआधिव्याधिजरामृत्युज्वालाशतसमाकुलः । मदीप्ताङ्गारकल्पोऽयं, संसारः सर्वदेहिनाम् ॥ १ ॥ न युज्यते तद् विदुषा, प्रमादोऽत्र मनागपि । कः प्रमाद्यति बालोऽपि, निशोल्लध्ये मरुस्थले १ ॥२॥ संसाराब्धाविहाऽनेकयोन्यावर्ताकुले जनः । दुर्लभं मानुषं जन्म, महारत्नमिवोत्तमम् ॥३॥ परलोकसाधनेन, मानुष्यमपि देहिनाम् । पादपो दोहदेनेव, सफलीभवति ध्रुवम् ॥ ४ ॥ आपातमात्रमधुराः, परिणामेऽतिदारुणाः । शठवाच इवाऽत्यन्तं, विषया विश्ववश्वकाः ॥ ५॥ पदार्थानामशेषाणां, संसारोदरवर्तिनाम् । *संयोगा विप्रयोगान्ताः, पतनान्ता इवोच्छ्याः ॥६॥ आयुर्धनं यौवनं च, स्पर्द्धयेव परस्परम् । सत्वरं गत्तराण्येव, संसारेऽस्मिन् शरीरिणाम् ॥ ७॥ संसारस्याऽस्य गतिषु, चतसृष्वपि जातुचित् । नाऽस्त्येव सुखलेशोऽपि, स्वादु नीरं मराविव ॥८॥
* संयोगः स्युर्वियोगान्ताः सं १॥+ अय श्लोकः पा. पुस्तके न दृश्यते ॥ १ जन्तोः ।
Page #9
--------------------------------------------------------------------------
________________
धर्मोपदेश
॥३॥
मंग्रह
तथाहि क्षेत्रदोषेण, परमापार्मिकैरपि । मिथश्चाऽऽक्लिश्यमानानां, नारकाणां कुतः मुखम् ॥९॥ शीतवातातपाम्भोभिर्वधवन्धक्षुदादिभिः । विविधं वाध्यमानानां, तिरश्चामपि किं सुखम् ? ॥१०॥ गर्भवासजनिव्याधि-जरादारिद्यमृत्युजैः । क्रोडीकप्तानामसुखैर्मनुष्याणां कुतः सुखम् १ ॥११॥ अन्योऽन्यमत्सरामर्षकलहच्यवनाऽसुखैः । मुखलेशोऽपि नैवाऽस्ति, कदाचित् घुसदामपि ।। १२ ।। अज्ञानाञ्जन्मिनो भूयो, भूयः संसारसम्मुखम् । अथापि परिसर्पन्ति, नीचाभिमुखमम्बुवत् ॥१३॥ तद् भव्याश्चेतनावतो, निजेनाऽनेन जन्मना । मा पोषयत संसारं, दुग्धेनेव भुजङ्गमम् ॥ १४ ॥ संसारवासनं दुःखं, विचार्य तदनेकधा । सर्वात्मनाऽपि मोक्षाय, यतचं हे विवेकिनः! ॥१५॥ गर्भवासभवं दुःखं, नरकाऽसुखसन्निभम् । संसारवन्न मोक्षेऽस्ति, जीवानां हन्त ! जानुचित् ॥१६॥ घटीमध्याकृष्यमाणनारकार्तिसहोदरा । नेह प्रसवजन्माऽपि, जायते जातु वेदना ॥१७॥ बहिरन्तःपरिक्षिप्तशल्यतुल्या भवन्ति च । नाऽऽधयो व्याधयो नापि, तत्र बाधानिवन्धनम् ॥१८॥ अग्रदूती कृतान्तस्य, तेजःसर्वस्वतस्करी । पराधीनत्वजननी, न जरा तत्र सर्वथा ॥१९॥ सजायते नारकिकतिर्यग्नृधुसदामिव । न तत्र मरणं भूयो, भवभ्रमणकारणम् ॥२०॥ किन्तु तत्र महानन्दं, सुखमद्वैतमव्ययम् । रूपं च शाश्वतं ज्योतिः, केवलालोकभास्करम् ॥२१॥
१ अङ्कस्थापितानाम् ।
Page #10
--------------------------------------------------------------------------
________________
44449
*36*%
२. ध्यानस्वरूपं
स च मोक्षः ध्यानात् सम्प्राप्यते अतो ध्यान स्वरूपमाह -
दुरन्तदुःखपरम्परानिमित्तमार्त्तरौद्रध्यानद्वयं परित्यज्य समग्र श्रेयः परम्पराहेतुभूते धर्मध्यानशुक्लध्यानरूपे शुभध्याने मनो विधेयं यतः + अट्टेणं तिरियगई, रुद्दज्झाणेण गम्मए निरयं । धम्मेण देवलोए, सिद्धिगई सुकझाणेणं ॥ १ ॥ तल्लक्षणं यथा - सद्दाइ विसयगिद्धो, सद्धम्मपरं मुद्दो पमायपरो । जिणमयमणविक्खंतो, वह अमि झामि ॥२॥ परवसणं अभिनिदिय, निरविक्खो निरओ निरणुतावो । हरिसिजह कयपावो, रुदज्झाणोवगय चित्तो ॥ ३ ॥ जिणसाहूगुण कित्तणपसंसणा दाणविण संपुष्णो । सुअसीलसंयमरओ, धम्मज्झाणी मुणेयव्त्रो || ४ || अह खंतिमद्दवजवमुसीओ जिणमपपहाणाओ । आलंबणेहिं जेहिं, सुकज्झागं समारुहः ॥ ५ ॥ चतुर्धा तु शुभ ध्यानं, पिण्डस्थादिविभेदतः । निश्छद्यसाम्यसंभूतं, भव
+ आर्सेन तिर्यग्गतिः रौद्रध्यानेन गच्छति नरकम् । धर्मेण देवलोके, सिद्धिगतिः शुक्लध्यानेन ॥ २ ॥ शब्दादिविषयगृद्धः सद्धर्भपराङ्मुखः प्रमादपरः । जिनमतमनपेक्षमाणो वर्तते आर्तें ध्याने ॥ ३ ॥ परव्यसनमभिनन्दयिता निरपेक्षो निर्दयों निरनुतापः । हृष्यति कृतपापो रौद्रध्यानोपगतचित्तः ॥ ४ ॥ जिनसाधुगुणोत्कीर्तनप्रशसनः दानविनयसंपूर्णः । श्रुतशीलसंयमरतः धर्मध्यानी ज्ञातव्यः || ५ || अथ क्षान्तिमार्दवार्जवमुक्तयो जिनमते प्रधानाः । आलम्बनैयः शुक्लध्यानं समारोहति ॥ ६ ॥
Page #11
--------------------------------------------------------------------------
________________
धर्मोपदेश
11411
कोटिरोsपहम् ॥ ५ ॥ यतः - झाणं चउन्विहं होइ, तत्थ पिंडत्थयं पयत्थं च । रूवत्थं रूवाईय, एएसिमिमं च वक्खाणं ॥ ६ ॥ देहत्थं गयकम्मं, चंदाभं नाणिणं विऊ जत्थ । परमेसरीयं अप्पं, पिच्छइ तं होइ पिंडत्थं ॥ ७ ॥ मन्तक्खराणि सारीर उमपत्ते चितए जत्थ । जोगी गुरूवएसा, पयत्थमिह वुच्चर तं तु ॥ ८ ॥ पणतीस सोल छप्पण, चउ दुगमेगं च जाव झाह । परमेट्ठिवाययाणं, अन्नं च गुरूवएसेणं ॥ ९ ॥ तत्र पञ्चपरमेष्ठिपदैः ३५, अरिहंत सिद्धआयरिय उवज्झायसाहु १६, अरिहंतसिद्ध ६, असिआउसा ५, अरिहंत ४, सिद्ध २, अ० १, अथवा ॐ, तत्र अकारो लक्षयोजनप्रमाणः सुवर्णा
मृत भावी स्वभावस्थो ध्येयः, ॐकारः काञ्चनाभो लोकालोकप्रमाणः विद्यासहस्रस्थानं सर्वदेवपूज्यः सर्वशान्तिकरः पञ्चपरमेष्ठिप्रथमाक्षरसंभवः सर्वदा ध्येयः, जं पुण सपाडिहेरं, समुसरणत्थं जिणं परमनाणिं । पडिमाइसमारोविय, झाय तं होइ रुवत्थं ॥ १० ॥ जं परमानंदमयं परमप्पाणं निरंजणं सिद्धं । झाए परमयोगी, रुबाईयं तमिह झाणं ॥ ११ ॥ ध्यानं विधित्सता ज्ञेयं, ध्याता ध्येयं तथा फलम् । सिद्धयन्ति न हि सामग्री, विना कार्याणि कर्हिचित् ॥ १२ ॥ इन्द्रियैः
* ध्यानं चतुर्विधं भवति, तत्र पिण्डस्थं च । रूपस्थं रूपातीतं एतेषामिदं च व्याख्यानम् ॥ ८ ॥ देहस्थं गतकर्माणं चन्द्राभं ज्ञानिनं विद्वान् यत्र । परमैश्वर्यमात्मानं प्रेक्षते तद्भवति पिण्डस्थम् ॥ ९ ॥ मन्त्राक्षराणि शारीरपद्मपत्रेषु चिन्तयेद्यत्र । योगी गुरूपदेशात् पदस्थमिहोच्यते तु || १० || पश्चत्रिंशतं षोडशष्ट् पञ्च चत्वारि द्वे एकं च यावष्ध्यायत । परमेष्ठिवाचकानामन्यच्च गुरूपदेशेन ॥ ११ ॥ यत्पुनः सप्रतिहार्ये समवसरणस्थं जिनं परमज्ञानिनम् । प्रतिमादिसमारोपितं ध्यायति तद्भवति रूपस्थम् ॥ १२ ॥ यत्परमानन्दमयं परमात्मानं निरंजनं सिद्धम् । ध्यायति परमयोगी, रूपातीतं तदिह ध्यानम् ॥ १३ ॥
संग्रह
Page #12
--------------------------------------------------------------------------
________________
॥६॥
सममाकृष्य, विषयेभ्यः स्वमानसम् । धर्मध्यानकृते तस्मान्मनः कुर्वीत निश्चलम् ॥ १३ ॥ विरतः कामभागेभ्यः, स्वशरीरेsपि निःस्पृहः । संवेगद निर्ममः, सर्वत्र समतां भयेत् ॥ १४ ॥ सुमेरुरिव निष्कम्पः शशीवानन्ददायकः । समीर इव निस्सङ्गः सुधीर्ध्याता प्रशस्यते ॥ १५ ॥ आत्मनश्चिन्मयं रूपं परब्रह्मैकतां गतम् । स्वदेहस्थं सदा ध्येयं, सुधियोपाधिवर्जितम् ॥ १६ ॥ निवेश्य हृदयाम्भोजे, पदानि परमेष्ठिनाम् । तद्वर्णं लयलीनात्मा, ध्यायेतानन्दमेदुरः ॥ १७ ॥ अर्हन्तं कर्मनिर्मुक्तं, केवळ ज्ञानभास्करम् । आसीनं समवसृतौ प्रातिहार्यविराजितम् ॥ १८ ॥ ध्यानालम्बनतां नीत्वाऽथवा मूर्ती - जिने शितुः । मनसः स्थिरतां कुर्यानिर्विकल्पं समाधिमान् ||१९|| क्रमेणाभ्यासयोगेन, सम्यग्योगविदग्रणीः । संध्यायेत्परमास्मानं, निराकरं निरञ्जनम् || २० || मच्छन्नपाप्मनः शुद्धिरिहाधिव्याधिनिर्गमः । परत्र परमैश्वर्ये, पदस्थध्यानसिद्धितः ॥ २१ ॥ अतीतानागतार्थानां वेदिताऽष्टसमृद्धयः । विन्दुनादवपुःशुद्धिः, पिण्डस्थध्यानयोगतः ॥ २२ ॥ रूपस्थध्यानली - नात्मा, क्लिष्टकर्मक्षयात् शमी । लभते केवलज्ञानं, प्राणी पुण्याढयभूपवत् || २३ || रूपातीतपदं ध्यायन्निष्कषायो विकल्प - मुक् । ध्याता रूपविनिर्मुक्तश्चिदानन्दमयो भवेत् ।। २४ ।। तथा सुभाव केणाप्येतत्स्थानकं कुर्वता प्रमादपरिहारार्थं रागद्वेषपरिहाररूपं बहुशोऽपि सामायिकत्रतं विधेयं यतः - * जीवो पमायबहुलो, बहुसावि य बहुविहेसु अत्थेसु । एएण कारणं, बहुसो सामाइयं कुञ्ज ।। २५ ।। जो समो सव्वभूएसु, तसेसु थावरेसु अ । तस्स सामाइयं होइ, इइ केवलि* जीवः प्रमादबहुलो बहुशोऽपिच बहुबिहेष्वर्थेषु । एतेन कारणेन बहुशः सामायिकं कुर्यात् ॥ २६ ॥ यः समः सर्वभूतेषु त्रसेषु स्थावरेषु च । तस्य सामायिकं भवति इति केवलिभाषितम् ॥२६॥
Page #13
--------------------------------------------------------------------------
________________
धर्मोपदेश
11611
भासियं ।। २६ ।। जन्मलक्षव्रतैरुयैर्यन्नैव क्षीयते क्वचित् । मनः शमरसे लग्नं, तत्कर्म क्षपयेत्क्षणात् ॥ २७ ॥ शुक्ललेश्या - विशुद्धात्मा, शुभध्यानसमाधिमान् । लभते तीर्थ कृलक्ष्मीं, हरिवाहनभूपवत् ॥ २८ ॥
ध्यानोपरिहरिवाहन नृपकथा
श्रीसाकेतपुरे पुण्यनृपोऽभूद्धरिवाहनः । विवस्वानिव तेजस्वी, सच्चक्रानन्दिमण्डलः ॥ २९ ॥ युवराजोऽभवन्मेघवाहनस्तस्य सोदरः । विदुषां विद्विषां चक्रे, स वीरः सर्वदादरम् ॥ ३० ॥ नानाकीडारसास्वादविवशात्मा विशांपतिः । प्रमादपरवान् धर्मं, न करोत्यर्हतो दितम् ॥ ३१ ॥ यतः -
* आस्समोहना, थंभा कोहा पमाय किविणत्ता । भयसोगा अन्नाणा, वक्खेवकुऊहलारमणा ॥ ३२ ॥ एएहिं कारणेहिं, लडूण दुल्लर्हपि मणुअत्तं । न लहइ सुई हियकरिं, संसारुत्तारिणि जीवो ॥ ३३ ॥ तत्रान्यदा चतुर्ज्ञानी, भव्याम्भोरुहभास्करः । शीलभद्राह्वयः सूरिश्वरः समवासरत् ॥ ३४ ॥ युवराजस्तमानन्तुं विनीतः समुपागमत् । स भाद्धश्रेष्ठिसामन्तव्यवहारिपुरस्कृतः || ३५ || निर्माय द्वादशावर्त्तवन्दनां विधिना पुरः | गुरुस्तस्योपविष्टस्य यावद्धमै प्रकाशयेत् १ विद्वत्पक्षे शश्वदादरं द्विट्पक्ष नित्यं भयं. * आलस्य १ मोहः २ अवज्ञा ३ स्नम्भः ४ कोध: ५ प्रमादः ६ कृपणत्वम् ७। भयं ८ शोकः ९ अज्ञानं १० व्याक्षपः १९ कुतूहलं १२ रमणम् १३ ॥३२॥ एतैः कारणैर्लध्वाऽपि सुदुर्लभं मनुजत्वम् । न श्रुतिं हितकरी संसारोचारिणीं जीवः ॥ ३३ ॥
संग्रह
Page #14
--------------------------------------------------------------------------
________________
||८||
।। ३६ ।। भवितव्यतया तावन्नरेन्द्रो वाजिकेलये । व्रजंस्तत्रागतोऽश्रौषीद्विरं तेषां सुधाश्रवाम् || ३७ ॥ वाजिक्रीडां परित्यज्य, विस्मितात्मा नरेश्वरः । तत्रागत्य पदाम्भोजं, ववन्दे वन्दे विनयी गुरोः || ३८ ॥ यतः - विनयं राजपुत्रेभ्यः, पण्डितेभ्यः सुभाषितम् । अनृतं द्यूतकारेभ्यः, स्त्रीभ्यः शिक्षेच्च कैतवम् ॥ ३९ ॥ प्रतिध्वनिविधायिन्या, सुधासोदरया गिरा । तदग्रे विदधे धर्मदेशनां श्रीगुरुस्तदा ॥ ४० ॥
आर्यदेशकुलरूपबलायुर्बुद्धिबन्धुरमवाप्य नरस्त्वम् । धर्मकर्म न करोति नडो यः पोतमुज्झति पयोधिगतः सन् ॥४१॥ वनवैभव, चिन्तातुरेण सुकृतं न कृतं कदाचित् ।
वैवाहिक व्यतिकराकुलितस्य तस्य, नो पाणिपीडनविधिः स्मृतिमाजगाम ।। ४२ ॥ आदित्यस्य गतागतैर रहः संक्षीयते जीवितं, व्यापारैबैहुभारकर्मगुरुभि कालो न विज्ञायते । दृष्ट्वा जन्मजराविपत्तिमरणं त्रासश्च, नोत्पद्मते, पीत्वा मोहमयीं प्रमादमदिरा मुन्मत्तभूतं जगत् ॥ ४३ ॥ विषयाः पञ्च निद्राश्च चतस्रो विकथास्तथा । कषायाः षोडश द्वेधा, मद्यं चेति जिनोदितैः ॥ ४४ ॥ द्वारैर्द्वात्रिंशतोत्सिक्तं, प्रमादं हन्ति यो रिपुम् । सोऽत्र मगधवेश्येव, लभते विजयध्वजम् ।। ४५ ।। युग्मं ।
अभूद्राजगृहे पुण्यलक्ष्मीलीलागृहे पुरे । वेश्या मगधसेनाख्या, विख्याता रूपसंपदा ||४६ || अन्या विज्ञाननृत्यादिकलानां कुल मन्दिरम् | सुरेन्द्रसुन्दरीतुल्या, नाम्ना मगधसुन्दरी ॥ ४७ ॥ परस्परं तयो रूपसौन्दर्याखर्वगर्वयोः । निजानेककलाभ्यासे, विवादोऽभूद्दिवानिशम् ॥ ४८ ॥ ततो भूपादिभिः प्रोचे, तयोर्दर्पाभिभूतयोः । दर्शयतां कलां स्वां स्वां, संसदः
Page #15
--------------------------------------------------------------------------
________________
संग्रह
पुरतोऽधना ॥४९॥ ततो मगधसेना स्वं, गीतनृत्यादिकौशलम् । संसदोऽदर्शयत्तस्या, विस्मयो नामवत्परम् ॥५०॥ धर्मोपदेश॥९॥
सर्वानाद्भुतसौभाग्या, कलां दर्शयितुं निजाम् । रामण्डपमायासीत्ततो मगधसुन्दरी ॥ ५१ ॥ रत्नस्वर्णाचलङ्कारस्फारोदारवपुःश्रियम् । उत्फुल्ललोचनः कस्को, नापश्यद्विस्मयेन ताम् ? ॥५२॥ विषमिश्रमहामूचि-संयुताय तु तद्भुवि । कणिकारद्वपुष्पाणि, न्यग्मुखानि दुराशया ।। ५३ ॥ कलिकाः सहकारणां, तेषामुपरि सर्वतः । मोचिता गुरुणा स्वेन, तया मगधसेनया ॥ ५४ ॥ विमुच्य कर्णिकाराणि, सौरभ्यनिभृतान्यपि । पतन्तीं भ्रमरणिं, प्रत्याम्रकलिकोत्करम् ॥५५॥ माता मगधसुन्दर्या, विदग्धाऽऽवलिमण्डनम् । निधाय कथयामास, गीतमध्येन तद्यथा ॥ ५६ ॥ भ्रमराः कर्णिकाराणि, दरतः सुरभीण्यपि । विमुच्य सहकाराणां, मञ्जरी समुपासते ॥५७ ।। अर्थतः त्रिभिर्विशेषकम् ।। विज्ञाय तदभिप्राय, | साऽपि वक्रोक्तिकोविदा। अपमत्ततया तानि, परित्यज्याखिलान्यपि ।। ५८ ॥ सृजन्ती चरणन्यासं, गीतनृत्यकला
निजाम् । अदर्शयत्तया तत्र, दक्षा मगधसुन्दरी ॥५९॥ अमन्दानन्दनिस्पन्द-मन्ना राजादयो यथा । हेममाणिक्यरत्नानि, है। तदुस्तस्यै यथोचितम् ।।६०॥ त्रिभिर्विशेषकं ॥ कलावतीषु सर्वासु, तथा पण्याङ्गनास्वसौ । छत्रचामरसंयुक्तां, लेभे जयपता
किकाम् ॥ ६१ ॥ लोके मगधसेना तु, भूमृताधपमानिता । स्वनाट्यगुरुणा साकं, लेभे सर्वत्र लाघवम् ॥६२ ॥ एवं यः पुण्यकार्येषु, न प्रमादं सृजेजनः । सोऽभीष्टां लभते सिद्धि, सुखसंभारशालिनीम् ॥ ६३ ॥ निशम्येति गुरोः पार्श्वे, संवेगरससागरः । शिश्राय संयम राजा, निजान्तःपुरसंयुतः ॥ ६४॥ युवराजस्ततो राज्येऽभिषिक्तः सचिवादिभिः। राजेन्द्रलक्षणश्रेणिलक्षितो मेघवाहनः ॥६५॥ नरवाहनराजर्षि, वन्दित्वा मेघवाहनः । सद्दर्शनसखं भाद्धधर्ममार्गमशिनियत् ॥६६॥
१ झवु-टपक.
SONOMOUSCUCUCHER
NAGARIHARANA
Page #16
--------------------------------------------------------------------------
________________
॥१०॥
अधीत्य द्वादशानि, राजर्षिस्तत्वविद् गुरोः । श्रीमद्राव्यमुनीन्द्रस्य, समिपे श्रुतवानिति ॥ ६७॥ विंशतिस्थानकान्येव, तीर्थकृत्पदसंपदः । आश्रया (वा) मुनिमिः ख्याता, द्विक्तिमयात्मनः ॥ ६८॥ तेषु प्रयोदशस्थाने, शुमध्यानं निरन्तरम् । विधेयं श्रीमता सम्पग, साम्यवासितचेतसा ॥६९॥ रुवा योगी कषायप्रसरमतिबलानिन्द्रियाश्वाभियम्य, त्यक्त्वा व्यासङ्गमन्यं परमसुखपदमाप्तये बद्धबुद्धिः। कृत्वा चित्तं स्थिरं स्वं शमरसकलितं सत्वमालम्ब्य गाद, ध्यानं ध्यातुं यतेत प्रतिदिनममलं शुद्धधर्मा मुनीन्द्राः ॥७॥ आत्मन्येव मनो नियुज्य विषयद्वाराणि सर्वात्मना, योगेन प्रति रुद्धय शुद्धपति पुनर्योगीश्वरः कोऽपि यः । तस्य स्यादमनस्कतापरिचयात् पञ्चेन्द्रियस्याप्यहो, स्पष्टानिन्द्रियता मनः स्थिरतरं तत्त्वावबोधोदयः ॥७१ ॥ ध्यानाभ्यासाद्विषयविमुखोद्भूतसाम्योपयुक्तादात्मारामस्तदनु तनुते शाश्वतं स्वस्य तेजः।। तस्य ज्ञान प्रभवति विषं व्याधयो वा न जन्तोः, देहेमुक्तः स भवति ततः कोऽपि कोकोत्तरश्रीः ।। ७२ ॥
इत्याकर्ण्य गुरोर्वाचं, स्थानं कुर्वस्त्रयोदशम् । अप्रमत्तः शुभध्यानं, विदधे सर्वदापि सः ॥७३।। निष्कषायमना मौनी, | निस्पृहैकशिरोमणिः । सर्वसङ्गविमुक्तात्मा, कायोत्सर्गासनोऽनिशम् ॥७४॥ शुक्ललेश्यान्वितो योगी, सुखदुःखसमाश्रयः ।। दाइहापि परमानन्दगिकामन्वभूदसौ ॥७५॥ अन्यदा त्रिदशस्थामी, प्रशंसां तस्य निममे । अक्षोभ्योऽयं मुनिानान्नून है| नाकिशतैरपि ।। ७६ ।। पौलोमी भुवमायाताऽश्रद्दधाना हरेर्वचः । ततो देवाङ्गनावृन्द, मोहसैन्यमिवोत्कटम् ।। ७७ ।। गीत.
नृत्यकलाकेलिं, दर्शयदर्शनमियम् । आविष्कृत्य मुनेस्तस्य, पुरः स्फुरदुरुधुति ॥ ७९ ॥ षण्मासी क्षोभयामास, स्वानोपा
Page #17
--------------------------------------------------------------------------
________________
धर्मो देश॥१॥
HOCACARALIK
| अप्रकाशनैः। दुष्प्रापैर्देहिनामल्पसत्त्वानां च पहावहैः ॥७९॥ त्रिभिर्विशेषकं ॥ नासाग्रन्यस्तनेत्रस्य, न परं तस्य हूँ| सन्मुनेः । क्षणमात्रमपि स्वान्तं, क्षोभमाप मानगपि ॥ ८० ।। इन्द्राग्रमहिषो प्रादुर्भूय भूयः स्वशक्तितः । ततो राजर्षिमा || संग्रह नम्य, ययौ घाम सुधाभुजाम् ॥ ८१॥ स्वसत्तीकृत्य तीर्थेशर्म शर्माद्भुतं ततः। सनत्कुमारे देवोऽभूत्, राजर्षिर्वासवोपमः ॥ ८२ ॥ ततश्च्युतो विदेहोरों, कल्पनाकल्पपादपः । भावी जिनेश्वरः श्रीमान् , राजा श्रीहरिवाहनः ॥ ८३ ॥ निर्जराया निमित्तेषु, समता स्याद् गरीयसी । यया मुहुत्तमात्रेण, जन्तुर्याति पवित्रताम् ॥ ८४॥ यतः-प्रणिहन्ति क्षणादेन, साम्यमालम्ब्य कर्म तत् । यत्र हन्यानरस्तीवतपसा जन्मको टिभिः ॥८५॥ श्रुत्वेति वृत्तं हरिवाहनस्य, सम्यक शुमध्यानफलोज्ज्वलस्य | तीर्थकरश्रीसुखसाधनेषु, पदेषु चेतो रमयत्वमीषु ।। ८६॥
इति हरिवाहननृपकथानकं ॥
__ मनः शुद्धिस्वरूपम् तध्यानं मनसः शुद्धया भवति मनसः शुद्धः स्वरूपमाहमनःक्षपाचरो भ्राम्य-अपशकु निकुरशः। प्रपातयति संसारावर्तगर्ने जगत्रयीम् ॥१॥ तप्यमानांस्तपो मुक्तौ, गन्तुकामान् शरीरिणः । वात्येव तरलं चेतः, क्षिपन्त्यन्यत्र कुत्रचित् ॥२॥ अनिरुदमनस्कः सन् , योगश्रद्धा दधाति यः। पद्धयां जिगमिषुम, स परिव हस्यते ॥३॥
साल का विस्तार काचित् ॥ २॥
Page #18
--------------------------------------------------------------------------
________________
॥१२॥
मनोरोधे निरुध्यन्ते, कर्माण्यपि समन्ततः । अनिरुद्धमनस्कस्य, प्रसरन्ति हि तान्यपि ॥ ४ ॥ मनः कपिरयं विश्व- परिभ्रमणलम्पटः । नियन्त्रणीयो यत्नेन, मुक्तिमिच्छुभिरात्मनः ॥ ५ ॥ दीपिका खल्वनिर्वाणा, निर्वाणपथदर्शिनी । एकैव मनसः शुद्धिः समानाता मनीषिभिः ॥ ६ ॥
उ०- ज्ञाने ध्याने दाने, माने मौने सदोद्यतो भवतु । यदि निर्मलं न चित्तं तदा हुतं भस्मनि समग्रम् ॥ १ ॥ सत्यां हि मनसः शुद्ध, सन्त्य सन्तोऽपि यद्गुणाः । सन्तोऽप्यसत्यां नो सन्ति, सैव कार्या बुधैस्ततः ॥ ७ ॥ शुद्धिविभ्राणा, ये तपस्यन्ति मुक्तये । त्यक्त्वा नावं भुजाभ्यां ते, तितीर्षन्ति महार्णवम् ॥ ८ ॥ तपस्विनो मनः शुद्धि विनाभूतस्य सर्वथा । ध्यानं खलु मुधा चक्षु-विकलस्येत्र दर्पणः ॥ ९ ॥ तदवश्यं मनःशुद्धिः, कर्तव्या सिद्धिमिच्छता । तपः श्रुतयममायैः, किमन्यैः कायदण्डनैः ॥ १० ॥
जयसेनाप्रबन्धः
et जयसेनायाः प्रबन्धोऽभिधीयते -
उञ्जयिन्यां संग्रमः शूरो नृपोऽभूत् । तत्र वृषभश्रेष्ठो । तस्य कलत्रं जयसेना सम्यक्त्वगुणविशिष्टा पत्यनुगाऽभवत् । परं वन्ध्यत्वदोषान्विता । सा स्वामिनं प्रत्येकदा प्राह - "स्वामिन् सन्तानार्थ विवादं कुरु । पुत्रं विना नौ कुलं न शोभते । यदुक्तम्
Page #19
--------------------------------------------------------------------------
________________
धर्मोपदेश॥१३॥
************
" यत्र नो स्वजनसंगतिरुच्चैर्यत्र नो लघुलघूनि शिशूनि । यत्र नास्ति गुणगौरवचिन्ता, हन्त तान्यपि गृहाण्यगृहाणि ॥ १।"
श्रेष्ठिना भणितं-"भो भद्रे! त्वयोक्तं सत्यं, परं विषयादिसुखनिरपेक्षं मच्चित्तं वर्तते"। तयोक्तं-'स्वामिन् ! सन्ता. नार्थ न दुष्टमिदं । ततः श्रेष्ठी मौनं कृत्वा स्थितः । तया कस्यचिदिभ्यस्य कन्यां गुणसुन्दरीं याचयित्वा परिणायितः । ततः शनैर्जयसेना सपल्या सर्व गृहभारमारोप्य स्वयं धर्माभिमुखी जाता । क्रमेण गुणसुन्दर्याः पुत्रोऽभूत । एकदा । श्रियया निजां सुतां प्रत्युक्तं-'भोः पुत्रि! तव सुखमस्ति ? गुणसुन्दर्या प्रोक्तं--'हे मातः! सपल्युपरि मां दत्वा किं सौख्यं पृष्टसि ? प्रथमं मुंडनं कृत्वा पश्चान्नक्षत्रं पृष्ठसि, जलं पीत्वा गृहं च । ममेषन्मात्रमपि सौख्यं नास्ति । मम मियोऽपि सपल्या रक्तोऽस्ति' । बन्धुश्रियोक्तं--"हे वत्से ! रागेण कलया च तया यदि वृद्धोऽसौ वाह्यते तदाऽपरस्य किं ? । यदुक्तम्
वायुना यत्र नीयन्ते कुअराः षष्टिहायनाः। गावस्तत्र न गण्यन्ते मशकेषु च का कथा ॥१॥
तथापि हे पुत्रि! त्वं स्वस्था भव । त्वत्सपत्नीविनाशोपायं करिष्ये । त्वं भर्तुगृहे व्रज"तत एकदा भिक्षार्थमागतं रुद्रमृतिमिव सातिशयं कापालिकं दृष्ट्वा स्वकार्यकरणायानेकरसयुतानं दत्तं तस्मै । यत:--
कार्यार्थी भजते लोको न कश्चित् कस्य चित् मियः । वत्सः क्षीरक्षयं दृष्ट्वा परित्यजति मातरम् ॥१॥ सोऽपि नित्यं भिक्षार्थमेति । सा नवनवां भिक्षां ददाति । एकदा प्रत्युपकाराय तामाह-'हे मातर्यत्तव कार्य
**
**
Page #20
--------------------------------------------------------------------------
________________
112311
स्यात्तत्कथय, यथाहं करोमि । तया सगद्गदकण्ठं पुत्रीदुःखं कथितं । तच्छ्रवाह योगी - "हे मातर्जयसेनां मंत्रेण हत्वा मद्भगिनीं सुखिनीं न करोमि तदाग्नि प्रविशामि " । इति सन्धां कृत्वा स्मसाने गतः । ततचतुर्दश्यां प्रेतवने एकं मृतकमा
पूजयित्वा वैताली विद्याजापेन तेन तच्छवे वेताली प्रत्यक्षीकृता । सा तं प्रत्याह- 'हे योगीन् ! यत्कार्य तत्समादिश' । तेनोक्तं-- 'हे महाविद्ये ! जयसेनां मारय' । तथेति स्वीकृत्य तत्समीपे समागत्य यावद्विलोकयति तावत्तां सम्यक्त्वस्थिरचित्तां कायोत्सर्गस्थां दृष्ट्वा सा वेताली धर्ममहिम्ना विगतामर्षा तां प्रदक्षिणीकृत्य व्याघुट्य वने गता । तां विकरालां दृष्ट्वा योगी भयेन पलायितः । तेनान्येद्यु : द्वितीयवारं प्रेरितापि तस्यां विरूपं कर्तुमक्षमाट्टाट्टहास सुक्त्वा गता । एवं वारत्रयमभूत् । चतुर्थवेलायां निजावसानभयेन योगीनोक्तं- 'भो देवि ! द्वयोर्मध्ये या दुष्टा तां शीघ्रं मारय' । ततो देवगुरुभक्तां जयसेनां विमुच्य कायचिन्तार्थमुत्थितां तां प्रमादिनीं गुणसुन्दरीं खङ्गेन विनाश्य साधकाज्ञया सा स्वस्थाने गता । ततो जयसेना कायोत्सर्गं समाप्य बहिरागता तां सपत्नीं तथाभूतां वीक्ष्य चिन्तयतिस्म -- ' अहो पूर्वकर्मतो मे एष कलंकः समायातः' । एवं विचिन्त्योपद्रवक्षयार्थं पुनः स्मरणं चकार । इतः प्रत्यूषे रजन्यां किं वृत्तमिति गवेषणार्थ - सुका बन्धुश्रीः पुत्रीगृहे समागता । पुत्री कालकृतां दृष्ट्वा पुत्कारं कृत्वा नृपं प्रत्याह-- 'हे राजन् ! मम सुता जयसेनया सपत्नीति मत्सरेण हता । ततो राज्ञा रुष्टेनाकारिता । पृष्टा सती यावन्न वदति तावच्छासन देव्या प्रेर्यमाणो योगी नगरमध्ये वदन् राजसंसदि सहसा स्वकीयं रौद्ररूपं प्रकटीकृत्य प्राह-- ' निष्कलंकां जयसेनां मुक्त्वा समत्सरा गुणसुन्दरी मया निहता 'इत्युक्त्वा सर्वे स्त्ररूपं प्रोक्तम् । देवतया सा पुष्पादिभिः पूजिता । बन्धुश्रीर्नगराभिघाटिता । ततो राज्ञा जयसेनां
++++++++
Page #21
--------------------------------------------------------------------------
________________
धर्मोपदेश
प्रत्युक्तं--'भोः साधि! बद, जगत्सु को धर्मः श्रेष्ठः? सा प्राह--"जैनाते सर्वेऽप्येकान्तिनः स्याद्वादराद्धान्ताज्ञान न्याय्याः, बहुदोषक्षितत्वात"। इति श्रुत्वा पुनर्नृपः पपछ--'हे शीलसुगन्धे! गंगापयागादितीर्थेषु मध्ये किं तीर्थ तारक ?' सा माह-- 'हे नृप ! अष्टषष्टितीर्थानि लोके सन्ति, तानि न स्वात्मधर्मसमर्थकानि । तीर्थ त्वेकः सिद्धाचल एव । यत्र गिरौ कार्तिक शुक्लपूर्णिमादिने द्राविडवालिखिलौ दशकोटिमुनिभिः सह मुक्तिं गतौ। फाल्गुन शुक्ल दशमीदिने नमिविनम्याख्यौ द्विकोटिमुनिभिः सह सिद्धौ । फाल्गुनशुक्लाष्टमीदिने श्रीयुगादिदेवः नवनवतिपूर्ववारान् यावदत्र समागात् । श्रीशान्तिजिनेनात्र चातुर्मासकं कृतं । तदा सप्तदशकोटिनरा मुनिलिङ्गेन तथा गृहिलिङ्गेन सिद्धाः । तथा च द्वितीयजिन हस्तदीक्षितसाधवः पश्चनवतिसहस्रमिता अत्र वर्षाकाले स्थिताः । तेषु मध्ये कार्तिकशुक्लपूर्णिमादिने दशसहस्रमिताः केवलं प्राप्य सिद्धाः आश्विनशुक्लराकायां पञ्च पाण्डवा विंशतिकोटिव्रतिभिः सह सिद्धाः। फाल्गुनशुक्लत्रयोदशीदिने शाम्बप्रद्युम्नकुमारी सार्वत्रिकोटिमुनिभिः सह सिद्धौ ॥ श्री कालस(कालिक)मुनिः सहस्रसंयमिभिः सह सिद्धः। श्रीसुभद्रमुनिःहै सप्तशतयतिभिः सह सिद्धः श्रीरामचन्द्रः पच्चकोटिभिः सह, श्रीरामभ्राता भरतस्त्रिकोटिभिः सह, श्रीवसुदेवस्य द्वासप्ततिसहस्रखिमध्ये पञ्चत्रिशित्सहनस्त्रियः सिद्धगिरौ मुक्तिं गता ।। सप्तत्रिशत्सहस्रस्त्रियोऽन्यत्र सिद्धि मापुः । देवकीरोहिण्यौ तु आगामिकाले जिनत्वं प्राप्स्यतः। सुकोशलर्षिाघीकृतोपसर्गेण पंगुलगिरौ सिद्धः । इत्याद्यनन्तसाधवोऽत्र सिद्धाः सेत्स्यन्ति च । तथा श्रीचत्रपूर्णिमादिनेत्र गिरौ श्रीपुंडरीकगणभृत् पञ्चकोटिमुनिभिः सह सिद्धः। अतो हे नृप ! समस्ततीर्थयात्राफलं सकृत् शत्रुजयतीर्थे दृष्टे स्यात्" । इति श्रुत्वा नृपादयः सर्वेऽपि श्रीजिनशासनधर्म श्रीसिद्धाचलं तीर्थ
HARELUGU
Page #22
--------------------------------------------------------------------------
________________
॥१६॥
च स्वीचक्रुः । ततो राज्ञा सा समहं गृहे प्रेषिता । क्रमेण प्रव्रज्यां संगृह सा वर्णनीयपदमवाप ।
स्याहादराद्धान्तविचारचेताः, कुदर्शनाशंसनमुक्तरागा। जयादिसेना मनसः प्रशस्त्या, क्रमेण सानन्तसुखं समाप ॥१॥
क्रोधविजयः सा मनःशुद्धिः कषायविजयेन भवति, ते च कषायाः चत्वारः सन्ति तत्रादौ-क्रोधस्वरूपमाहस्युः कषायाः क्रोधमान-मायालोमाः शरीरिणाम् । चतुर्विधास्ते प्रत्येक, भेदैः संज्वलनादिभिः॥१॥ पक्षं संज्वलनः प्रत्या-ख्यानो मासचतुष्टयम् । अप्रत्याख्यानको वर्ष, जन्मानन्तानुबन्धकः ।।२।। वीतरागयतिश्राद्ध-सम्यग्दृष्टित्वघातकाः । ते देवत्व-मनुष्यत्व-तिर्यक्त्वनरकप्रदाः ॥३॥ तत्रोपतापकः क्रोधः, क्रोधो वैरस्य कारणम् । दुर्गवर्तनीक्रोधः क्रोधः शममुखार्गला ॥४॥ उत्पद्यमानः प्रथम, दहत्येव स्वमाश्रयम् । क्रोधः कृशानुवत्पश्चादन्यं दहति वा न वा ॥५॥
आ०-अजितं पूर्वकोट्या यद्-वरष्टभिरूनया। तपस्तत् तत्क्षणादेव, दहति क्रोधपावकः॥६॥ शमरूपं पय: प्राज्य-पुण्यसंभारसंचितम् । अमर्षेविषसंपर्का-दसेव्यं तत्क्षणाद् भवेत् ॥७॥ चारित्रचित्ररचना, विचित्रगुणधोरणीम् । समुत्सर्पन क्रोषधूमः, श्यामलीकुरुतेतराम् ॥ ८॥ यो वैराग्यशमीपत्र-पुटैः समरसोऽर्जितः । शाकपत्रपुटाभेन, क्रोधेनो
KEECHESTRACT
Page #23
--------------------------------------------------------------------------
________________
धर्मोपदेश-द ॥१७॥
त्सच्यते स किम् ॥९॥ प्रबर्धमानः क्रोधोऽयं, किमकार्य करोति न। अज्ञे हि द्वारका द्वैपा-यनक्रोधानले समित ॥१०॥ क्रुभ्यतः कार्यसिद्विर्या, न सा क्रोधनिबन्धना । जन्मान्तरार्जितो स्वि-कर्मणः खलु तत्फलम् ॥११॥ स्वस्य लोकदयोच्छित्यै, नाशाय स्वपरार्थयोः । धिगहो! दधति क्रोध, शरीरेषु शरीरिणः ।१२॥ क्रोधान्धाः पश्य निघ्नन्ति, पितरं मातरं गुरुम् । मुहृदं सोदरं दारा-नात्मानमपि निघृणाः ॥१३॥ क्रोधवास्तदद्वाय, शमनाय शुभात्मभिः । श्रयणीया क्षमबैक, संयमारामसारणिः ॥१४॥
आ०-अपकारिजने कोपो निरोद्धं शक्यते कथम् । शक्यते सत्वमाहात्म्याद्-यद्वा भावनयाऽनया ॥१५॥ अङ्गी-|* कृत्यात्मनः पापं, पो मां बाधितुमिच्छति । स्वकर्मनिहि(ह)तायास्मे, कः कुप्येद् बालिशोऽपि सन् ॥१६॥ प्रकुप्याम्यपकारिभ्य-इति चेदाशयस्तव । तत् किं न कुप्यसि स्वस्य, कर्मणे दुःखहेतवे ॥१७।। अपेक्ष्य लोष्टक्षेप्तारं, लोष्टं दशति मण्डलः। मृगारिः शरमप्रेक्ष्य, शरक्षेप्तारमृच्छति ॥१८॥ यः परः प्रेरितः क्रुरे-मा कुप्यति कर्मभिः । तान्युपेक्ष्य परे क्रुध्यन् , किं भये भषणभियम्।।१९।। श्रूयते श्रीमहावीरः, क्षान्त्यै म्लेच्छेषु जग्मिवान् । अयत्नेनागतां धान्ति, वोढुं किमिव नेच्छसि ॥२०॥ त्रैलोक्यप्रलयत्राण-क्षमाश्चेदाश्रिताः क्षमाम् । कदलीतुल्यसत्त्वस्य, क्षमा तवन किं क्षमा!॥२१॥ तथा किं नाकृथाः पूण्य, यथा कोऽपिन बाधते ? । स्वप्रमादमिदानीं तु, शोचमकीकुरु क्षमाम् ॥२२॥ क्रोधान्धस्य मुनेश्चण्ड-चण्डालस्य च नान्तरम्। तस्मात् क्रोधं परित्यज्य, भजोज्ज्वलधियां पदम् ॥२३॥ महर्षिः क्रोधसंयुक्तो-निष्क्रोधः कूरगड्डुकः । ऋषि मुक्त्वा देवताभि-र्ववन्दे कूरगइडुक: २४॥ अरुन्तुदैवचःशस्त्र-स्तुधमानो विचिन्तयेत् । चेत् तथ्यमेतत् का कोपो-ऽथ मिथ्योन्मत्तभाषितम् ॥२५॥ वधायो
Page #24
--------------------------------------------------------------------------
________________
॥१८॥
पस्थितेऽन्यस्मिन्, हसेद् विस्मितमानसः । वधे मत्कर्मसंसाध्ये, वृथा नृत्यति बालिशः ||२५|| निहन्तुमुद्यते ध्याये - दायुषः क्षय एष नः । तदसौ निर्भयः पापात् करोति मृतमारणम् ॥ २७ ॥ सर्वपुरुषार्थचौरे, कोपे कोपो न चेत् तव । धिक् त्वां स्वल्पापराधेऽपि परे कोपपरायणम् ॥ २८ ॥ सर्वेन्द्रियग्लानिकरं विजेतुं, कोपं प्रसर्पन्तमिवोग्रसर्पम् । विद्यां सुधीर्जाङ्गुलिकीमिवान-वद्यां क्षमां संततमाद्रियेत ||२९||
क्रोधोपरि रविप्रकथा
सौ क्रोधदवानलोऽङ्गिनां, प्रज्वालयत्यद्भुतपुण्यकाननम् । आसेवितो यः स्वपरोपतापकृत् भवेदिहामुत्र च सूरविप्रवत् ॥ १ ॥
श्रीवसन्तपुरे राजा, बभूव कनकप्रभः । सर्वाधिकारी सर्वेष्टः सुयशास्तत्पुरोहितः ॥ १ ॥ सुरस्तस्य सुतोऽत्यन्तकोपनः कलहप्रियः । योऽग्निवत् प्रज्वलन्नेव नित्यं तिष्ठनि दुष्टधीः || २ || पितरि स्वतेऽन्येद्युः, कोपनत्वेन तत्सुतम् । मुक्त्वा पुरोहितपदे, भूभुजाऽन्यो निवेशितः ।। ३ ।। ततः स द्वेषमापन स्तच्छिद्राणि गवेषयन् । नानाव्यापादनोपायांस्तत्र भूपे व्यचिन्तयत् ॥ ४ ॥ दोहनावसरेऽन्येद्यु — लेत्तया तं जघान गौः । तेन मम्महिता सा तु बराकी मूर्च्छिता मृता ॥ ५ ॥ आः ! किमेतत्कृतं पाप !, गौरियं मारिता कुतः । इत्यादि यत्तञ्जल्पन्ती, हतानेन स्वपत्न्यपि ॥ ६ ॥ जाते कलकले तत्र, प्राप्तैर्नृपभटैरयम् । निबध्योषनृपं नीतः सोऽपि तं वध्यमादिशत् ॥ ७ ॥ नानाविडम्बनापूर्वं ते नयन्ति
9646
Page #25
--------------------------------------------------------------------------
________________
धर्मोपदेश॥ १९ ॥
1
पुराद्बहिः । तावत्तत्पुण्ययोगेन, तापसः कोऽप्युपाययौ ॥ ८ ॥ स तानुवाच भो भद्राः !, कोऽयं किमिति मार्यते । ऊचुस्तेयेष पुंरूपो, राक्षसः कोऽपि विद्यते ॥ ९ ॥ कृपया मोचितस्तेन, स तेभ्यः सामयुक्तिभिः । सुरोऽपि तापसीं दीक्षा - मादत्ते स्म तदन्तिके ॥ १० ॥ तप्त्वा तपांसि भूयांसि तस्यैव नृपतेर्वधे । कृत्वा निदानं स मृतो, जातो वायुकु कुमारकः ॥ ११ ॥ वसन्तपुरमागत्य तं भूपप्रमुखं जनम् । रजोभिः स्थगयामास, कटरे ! कोपविप्लवः ॥ ११ ॥ च्युवा ततोऽभूचण्डालः, प्रथमं नरकं ततः । जगाम कोपकिम्पाक-पादपच्छायमाश्रयन् ।। १३ ॥ ततो दृग्विषसर्पो ऽभूद्वितीये नरके ततः । ततोऽप्यनन्तसंसारं भ्रान्तः कोपविडम्बितः || १४ || भूयस्यथ गते काले, श्रीपुरे रत्नभूभृतः । सूरजीवोsभवदग्रामा-ध्यक्षो ब्राह्मणनन्दनः ॥ १५ ॥ तथैव कोपनत्वेन स नृपेण सहान्यदा । कुर्वाणः कलहं राज-भटेरुल्लम्बितो वने ॥ १६ ॥ चतुर्ज्ञानधरं तत्र प्राप्तं मुनिवरं तदा । आगतो वन्दितुं राजाऽशृणोत्तद्देशनामिति ॥ १७ ॥ भोः भोः ! भीमभवारण्ये, स्थिताः किं १ नश्यत द्रुतम् । यद्वद्भवैरा धावन्ति, वैरिणो वोऽनुगामिनः ॥ १८ ॥ वैरिणः क इति क्ष्माप - पृष्टो ज्ञानी पुनर्जगौ । कषायास्तेष्वपि क्रोधो, धत्ते वैरिषु धुर्यताम् ॥ १९ ॥ योऽयमुल्लम्बितो वृक्षे, पुरस्ताद्वीक्ष्यते नरः । इदं क्रोधफलं विद्धि. सर्वानर्थनिबन्धनम् || २० || सूरजन्मप्रभृतिकं तच्चरितं तदाऽखिलम् । श्रुत्वा ज्ञानिमुनिप्रोक्तं, प्रतिबुद्धा नृपादयः ॥ ११ ॥ केचित्तस्यान्तिके दीक्षां श्राद्धधर्म च केचन । स्वीकृत्याभिग्रहादींश्च, स्वस्वकार्याण्यसाधयन् ॥ २२ ॥ सूरजीवोऽपि स क्ष्माप-च्छोटितः शान्ततां भजन् । दीक्षामादाय सञ्जातः सर्वसौख्यैकभाजनम् ॥ २३ ॥ स्त्रीरूपाऽपि क्षमवैका, क्रोधयोधं जयत्यमुम् । गुणाः परे तु तं जेतुं, पुंरूपा अपि न क्षमाः ॥ २४ ॥ आक्रुष्टोऽपि हतो वापि न बालैः
संग्रह
Page #26
--------------------------------------------------------------------------
________________
कलहायते । मुनिः संसारभीरुत्वा-दन्यथा तत्समो भवेत् ॥२५॥ श्रूयते हि पुरा साधु-मेकसुग्रतपःपरम । देवता काचिद. भ्येत्यो-पास्ते तद्गुणरजितः ॥२६॥ साधो ! सुखेन चारित्रं, तव निहते सदा । वपुरस्ति निरावाधं, नाप्यन्यः कोऽप्युपद्रवः ॥२७॥ देवो नरो वा यः कश्चि-द्विरूपं कुरुते तव । तदा वाच्यं ममेत्यादि-वार्ता नित्यं चकार सा ॥ २८ ।। निःस्पृहो मुनिरप्याह, न मे किचन दुष्करम् । यतः सन्तोषिणः सौख्यं, यत्तचक्रभृतोऽपि न ॥२९॥ पारणाहेऽन्यदा गच्छ-नगरान्तः स संयतः । अमङ्गलधियाभ्याप्त-द्विजेनकेन कुट्टितः ॥ ३० ॥ मुनिरप्युच्छलन्मन्यु-मुष्टिभिस्तमताडयत् । मुष्टामुष्टि तयोरेवं, चिरं युद्धमजायत ॥३१॥ भोजनानन्तरे देवी, पप्रच्छ कुशलादिकम् । रुष्टः सोऽप्याह तत्र त्वं, नागता किं त्वयाऽधुना? ॥३२॥ मुने? तत्राहमायाता, परं स्वं नोपलक्षितः । उभयोर्युदयमानत्वात-दानी समता बभूत् ॥३३॥ क्षमातपोभ्यां युक्तत्वात् , क्षमाश्रमण उच्यते । तयोरेकतरस्यापि, नाशे नाम्नो निरर्थता ।' ३४॥ इत्थं तया साधुरयं प्रबोधितो, बभूव चारित्रिजनावतंसकः । तत्क्रोधयोधो विजीगीषुभिर्भवं, जेतव्य एवोच्चपदस्पृहा यदि ॥२५॥
मानविजयः विनयश्रुतशीलाना, त्रिवर्गस्य च घातकः । विवेकलोचनं लुम्पन्, मानोऽन्धकरणो नृणाम् ॥ १॥ जातिलाभकुलेश्वर्य-चलरूपतपः श्रुतैः । कुर्वन् मदं पुनस्तानि, हीनानि लभते जनः ॥२॥
आ०-जातिभेदान् नेकविधा-नुत्तमाघममभ्यमान् । दृष्टा को नाम कुर्वीत, जातु जातिमदं सुधीः ।।। उत्तमां
Page #27
--------------------------------------------------------------------------
________________
घोपदेश॥२१॥
TERRORGEOUGBOX
जातिमाप्नोति, हीनामाप्नोति कर्मतः । तत्राशापतिकी जाति, को नामासाप माद्यतु ॥४॥ अन्तरायक्षयादेव, लाभो | भवति नान्यथा । ततश्च वस्तुतत्त्वज्ञो, न लाभमदमुद्हेत् ॥ ५ ॥ परप्रसादशक्त्यादि-भवे लामे महत्यपि । न लाभमद
मृच्छन्ति, महात्मानः कथञ्चन ॥६॥ अकुलीनानपि प्रेक्ष्य, प्रज्ञाश्रीशीलशालिनः । न कर्तव्यः कुलमदो-महाकुलभवैरपि | ॥७॥ कि कुलेन कुशीलस्य, सुशीलस्यापि तेन किम् । एवं विदन् कुलमदं, विदध्याद् न विचक्षणः ॥८॥ श्रुत्वा त्रिभुवनैश्चर्य-संपद वज्रधारिणः । पुरग्रामधनादीना-मैश्वर्ये कोदृशो मदः ॥९॥ गुणोज्जलादपि भ्रश्येद्-दोषवन्तमपि श्रयेत् कुशीलस्त्रीवदैश्चर्य, न मदाय विवेकिनाम् ॥१०॥ महाबलोऽपि रोगाथै-रवलः क्रियते क्षणात् । इत्यानित्ये बले पुंसां, युक्तो बलमदो न हि ॥११॥ बलवन्तोऽपि जरसि, मृत्यो कर्मफलान्तरे । अवलाश्चेत् ततो हन्त !, तेषां बलमदो मुधा ॥१२॥ सप्तधातुमये देहे. चयापचयधर्मिणि । जरारुजाभिभाव्यस्य, को रूपस्य मदं बहेत् ॥१३॥ सनत्कुमारस्य रूपं, तत्क्षयं च विचारयन् । को वा सकर्णः स्वप्नेऽपि, कुर्याद् रूपमदं किल ॥१४॥ नाभेयस्य तपोनिष्टां, श्रुत्वा वीरजिनस्य च । को नाम स्वल्पतपसि, स्वकीये मदमाश्रयेत् ॥१५॥ येनैव तपसा त्रुटयेत् , तरसा कर्मसंचयः । तेनैव मददिग्धेन, वर्धते कर्मसंचयः ॥१६॥ स्वबुद्ध्या रचितान्यन्यैः, शास्त्राण्याघ्राय लीलया। सर्वज्ञोऽस्मीति मदवान् , स्वकीयाङ्गानि खादति ॥१७॥ श्रीमदुगणधरेन्द्राणां श्रुत्वा निर्माणधारणे । कः श्रयेत श्रुतमदं, सकर्णहृदयो जनः॥१८॥
उ०-द्रमकैरिव च दुष्कर्मक-मुपकारनिमित्तकं परजनस्य । कृत्वा यत् वाल्लभ्यक-मवाप्यते को मदस्तेन ॥१९॥ ॐा गर्व परप्रसादात्मकेन, वाल्लभ्यकेन यः कुर्यात् । तद्वाल्लभ्यकविगमे, शोकसमुदयः परामृशति ॥२०॥ ग्रहणोद्ग्राहणनवकृति
Page #28
--------------------------------------------------------------------------
________________
॥२२॥
विचारणार्थावधारणायेषु । बुद्धथङ्गविधिविकल्पेष्वनन्तपर्यायवृद्धेषु ॥२१॥ पूर्वपुरुषसिंहाना, विज्ञानाविशयसागरमनन्तम् । ज्ञात्वा सांप्रतपुरुषाः, कथं स्वबुदया मदं यान्ति ! ॥२२॥ उत्सर्पयन् दोषशाखा-गुणमूलान्यधा नयन् उन्मूलनीयो मानद्र-स्तन्मादवसरित्प्लवैः॥ २३॥
आo-मार्दवं नाम मृदुता, तच्चौद्धत्यनिषेधनम् । मानस्य पुनरौद्धत्यं, स्वरूपमनुपाधिकम् ॥२४॥ अन्तः स्पृशेद् यत्र यत्रौ-दत्यं जात्यादिगोचरम् । तत्र तस्य प्रतीकार-हेतोर्दिवमाश्रये ॥२५॥ सर्वत्र मादव कुर्यात् , पूज्येषु तु विशेषतः येन पापाद् विमुच्येत, पूज्यपूजाव्यतिक्रमात् ॥२६॥ मानाद् बाहुबलिदो-लताभिरिव पाप्मभिः । मादवाद तत्क्षणं मुक्त: सघः संजातकेवलः ॥२७॥चक्रवर्ती त्यक्तसनो-वैरिणामपि वेश्मसु । भिक्षायै यात्यहो! मान-च्छेदायामृदु मार्दवम ॥२८॥ चक्रवर्त्यपि तत्काल-दीक्षितो रसाघवे । नमस्यति त्यक्तमान-श्चिरं च वरिवस्यति ॥२९॥ एवं च मानविषयं परिमृश्य, दोषं, ज्ञात्वा च मार्दवनिषेवण गुणौघम् । मानं विहाय यतिधर्मविशेषरूप, सद्यः समाश्रयत मार्दवमेकतानाः ॥३०॥
मानोपरि उज्झितकुमार कथा मानोऽपि मान्योऽस्त मनस्विनां कथं. विडम्बयनष्टविधाभिरगिनः॥१॥
यं प्राप्य सक्ष्मापतिपत्र उज्झिता-भिधोऽपि जज्ञे निजजीवितोज्झितः ॥१॥ अष्टविधमदफलं चेदम्
CARRIERॐ
Page #29
--------------------------------------------------------------------------
________________
धर्मोपदेश॥२३॥
रजाभोगे तिसिआ, अट्टवसट्टा पढंति तिरिए । जाईमएण मत्ता, किमिजाई चैव पार्वति ॥ १ ॥ कुलमत्त सीआसे, उट्टाईजाणि जंति रूमए । बलमत्तावि पर्यंगा, बुद्धिमए बुकडा हुंति ॥ २ ॥ रिद्धिमए साणाई, सोहग्गमरण सप्पकागाई | लाभमएण बद्दल्ला, हवंति इअ अट्टमयदुट्ठा || ३ || इति श्रीमहापुरुषरित्रे ॥
राजा नन्दिपुरे रत्न- सागे नीतिलतावनम् । सिञ्चन्नम्बुद वत्सर्व- तापनिर्वापकोऽभवत् ॥ १ ॥ तस्य प्रेमलता राज्ञी, साक्षात्प्रेमलतेव या । कोऽपि जीवोऽन्यदा तस्याः, गर्भे समुदपद्यत ॥ २ ॥ अशुभा दोहदास्तस्याः, जातास्तदनुभावतः । नृपव्यापादनस्तैन्य- वञ्चनोलम्बनादयः ॥ ३ ॥ जातमात्रशेऽपि बालोऽसौ प्रच्छन्नं त्याजितस्तया । बहिर्बलिष्ठायुष्कत्वाद्वको न मृतः परम् ॥ ४ ॥ एकेन वणिजा दृष्टो, गृहीतश्च दयालुना । अर्पितो निजभार्यायै, पालयामास सापिं तम् ॥ ५ ॥ कृतोज्झिताभिधः पित्रा, लुब्ध उज्झित इत्ययम् । मनोरथेन महता, जातः पञ्चषवार्षिकः ॥ ६ ॥ अहमेव पटुः प्राज्ञो, धनवान बलवानपि । केऽमी वराका मनुजाः, मत्पुरः किङ्कारा इव ॥ ७ ॥ इत्यहङ्कारपूरेण, तृणीकृतजगत्रयः । दिवसा तिचक्राम स शैलस्तम्भसन्निभः ॥ ८ ॥ मातृपित्रोर्देवगुर्यो-र्न प्रणाममसौ व्यधात् । नित्यमुत्तान एवास्ते, दुर्विनीतशिरोमणिः ।। ९ ।। तमाह जनकाऽन्येद्यु-र्वत्स ! विद्यामठं व्रज । पठ ग्रन्थान्मुञ्च शाठ्यं, विनयं कुरु पाठके ॥ १० ॥ अलं मे गलशोषेण, प्राज्ञः प्रागप्यहं यतः । वराकः स उपाध्यायः, कि मे कर्त्ताऽधिकं वद ॥ ११ ॥ वणिजामचमाचारः, इत्यादि बहुचादुभिः । प्रेषितो लेखशालायां मातृकादि पपाठ च ॥ १२ ॥ अपराधे क्वचिच्चैष, कलाचार्येण ताडितः । तावचमाह रे भिक्षा-चर! त्वं मां न वेत्सि किम् ? || १२ || पाठनेन तवानेन, किमित्यादि वदन्नयम् । रोषेण सहसोत्थाय, तं जघान
संग्रह
Page #30
--------------------------------------------------------------------------
________________
॥२४॥
चपेटया ॥१४॥धृत्वा केशेषु दुष्टात्मा, तमुच्चासनसंस्थितम् । पातयामास भूमौ स, किमकृत्यं न पापिनाम् ॥१५॥ झाते व्यकरे तत्र, स आहुतः क्षमाभुजा। भाषितः किमरे मूर्ख !, पण्डितः कुट्टितस्त्वया ॥१६॥ सम्रक्षेपं साभिमानं, भूपं स माह दुर्मतिः। स मनाक् शिक्षितो मिक्षा-चरस्तत्किन्तु दुषणम् ॥१७॥ अन्योऽपि यदि कश्चिन्मां, धिक्कत तादृर्श फलम् । स प्राप्स्यतीति सोल्लण्ठ-मुवाच गतभीतिवत् ॥ १८॥ क्रुद्धेन क्ष्माभुजा धृत्वा, गलेऽसौ कर्षितः पुरान् । बाल-4 इत्याभिया किन्तु, वराको नहि मारितः ॥१९॥ इह लोकेऽप्यहङ्कार-फलमालोक्यतां बुधाः!। वियोगः स्वजनैर्भूपाऽपमानो वनवासिता ॥२०॥ यथा चक्री मनुष्येषु, त्रिदशेषु पुरन्दरः। तथा गुणेषु सर्वेषु, धौरेयी विनयः स्मृतः ।। २१ ।। अथोज्झितकुमारोऽपि, पर्यटन्विकटाटवीः ॥ तापसाश्रममायात-स्तपोधनसमाकुलम् ॥२२॥ असौ पयस्तिकां बद्ध्वा, तेषामग्रे निविष्टवान् । ननाम न शठस्तैर-प्युक्तं मैवमुपाविश ॥२३॥ ततोरुष्टः परित्यज्य, तदाश्रममविश्रमम् । अरण्यानी भ्रमन्नेष, सिंहमेकं व्यलोकत ॥ २४॥ पुच्छमुच्छाल्य, सिंहोऽपि, क्ष्वेडाडम्मरभीषणः । तमभ्यधावत क्रुद्धः, सोऽपि मानी व्यचिन्तयन् । २५॥ आः!क एष पशुः किं वा, नश्यतेऽस्माद्वराकतः । लोका अपि हसिष्यन्ति, मां पशोरपि विभ्यतम् | ॥२६ ।। इत्यहङ्कारतस्तस्मा-दनश्यंस्तेन मारितः । शास्त्रेऽपि श्रुयते हो वं, मणुाण अहियरो ॥ २७॥ स जातो गर्दभरत
स्मात् , करभस्तुरगस्ततः । तत्रैव नगरे भूयः, पुरोहितसुतोऽभवत् ।।२८।। भूत्वापि सर्वविद्यानां, पारगः स मृतस्ततः । | तत्रैव नगरे जातो, डुम्बोऽहङ्कारदोषतः ॥ २९॥ यथा यथा पुरोधास्तं, पश्यत्यस्य तथा तथा । स्नेहः स्याद् दुस्त्यजे येन, स्नेहवरे पुरातने ॥ ३०॥ अन्येद्युस्तत्पुरप्राप्तकेवलज्ञानिनोऽन्तिके । पुरोहितस्तत्स्नेहस्य हेतुं पप्रच्छ सोऽप्यवक ।। ३१ ।।
Page #31
--------------------------------------------------------------------------
________________
धर्मोपदेश॥२५॥
CHAKRAM
मूलादारभ्य तत् वृत्त-महङ्कारविपाकजम् । मानेन के न पीडयन्ते. पाणिनः पण्डिता अपि ॥३२॥ श्रुत्वा पुरोहितस्तेन, ज्ञानिना गदितं वचः । भवाद्विरक्तः प्रवन्य, तदन्ले पाप निर्वतिम् ॥ ३२॥ उज्झितोऽपि सुगति गतवान् श्री-धर्ममाईतमवाप्य गुरुभ्यः । तेन मानव ! न मानविपक्षो, मान्य एष भरता भवबीजम् ॥३४॥
___ मायाविजयः असूनृतस्य जननी, परशुः शीलशाखिनः । जन्म भूमिरविद्यानां, माया दुर्गतिकारणम् ॥१॥ कौटिल्यपटवः पापा-मायया बकवृत्तयः । भुवनं वश्चयमाना-वनयन्ते स्वमेव हि ॥२॥
आ०-कूटपागण्ययोगेन-उछलाद् विश्वस्तपातनात् । अर्थलोभाच राजानो-पश्यन्तेऽखिलं जनम् ॥३॥ तिल. कैर्मद्रया मन्त्रैः, क्षामतादर्शनेन च । अन्तःशून्या बहिःसारा-वश्यन्ते द्विजा जनम् ॥४॥ कूटाः कूटतुलामाना-शुक्रिया. | कारियोगतः । वनयन्ते जन मुग्धं, मायाभाजो वणिग्जनाः ॥५॥ जटामौण्डयशिखाभस्म-वल्कनाम्यादिधारणैः । मुग्धं भादं गर्धयन्ते, पाखण्डा हदि नास्तिकाः ॥६॥ अरक्ताभिर्भावहाव-लीलागतिविलोकनैः । कामिनो रञ्जयन्तीभिर्वेश्याभिवंच्यते जगत् ॥७॥ प्रतार्य कूटैः शपथैः, कृत्वा कूटकपर्दिकाम् । धनवन्तः प्रतार्यन्ते, दुरोदरपरायणैः ॥८॥ दम्पती पितरः पुत्राः, सोदाः सुहृदो निजाः । ईशा भृत्यास्तथान्येऽपि, माययाऽन्योन्यवञ्चकाः ।९॥ अर्थलुब्धा गतघृणाबन्दकारा मुलिम्लुचाः। अहर्निशं जागरूका-पछलयन्ति प्रमादिनम् ॥१०॥ कारवश्चान्त्यजाश्चैव, स्वकर्मफलजीविनः । माय
Page #32
--------------------------------------------------------------------------
________________
॥२६॥
यालीकशपथैः कुर्वते साधुवञ्चनम् ||११|| व्यन्तरादिकुपोनिस्था, दृष्ट्वा प्रायः प्रमादिनः । क्रूरा छलैर्बहुविधै- बधन्ते मानवान् पशून् || १२ || मत्स्यादयो जलचरा - छलात् स्वापत्यमक्षकाः । बध्यन्ते धीवरैस्तेऽपि माययाऽऽनायपाणिभिः ||१३|| नानोपायैर्मृगयुभिर्वञ्चनप्रवणैर्जडाः । निबध्यन्ते विनाश्यन्ते, प्राणिनः स्थलचारिणः || १४ || नमश्वरा भूरिमेदाचरकालावकादयः । बध्यन्ते माययाऽत्युयैः, स्वल्पकप्रासगृध्नुभिः || १५|| तदेवं सर्वलोकेऽपि परवञ्चकता पराः । स्वस्य धर्मेस गर्ति च नाशयन्तः स्ववञ्चकाः ॥ १६ ॥ तिर्यग्जातेः परं बीज-मपवर्गपुरार्गला । विश्वासमदावाग्निमया हेवा मनीषिभिः ||१७|| मल्लिनाथः पूर्वभवे, कृत्वा मायां तनीयसोम् । मायाशल्य मनुत्खाय, स्त्रीखं प्राप जगत्पतिः ||१८|| दार्जवमहौषध्या, जगदानन्दहेतुना । जयेञ्जगद्रोहकरीं, मायां विषधरीमिव ॥ १९॥
आ० - आर्जवं सरलः पन्था मुक्तिपुर्याः प्रकीर्तितः । आचारविस्तरः शेषो बाद्या अपि यदुचिरे ॥ २० ॥ सर्व जिझं मृत्युपदमार्जवं ब्रह्मणः पदम् । एतावज्ञानविषयः, प्रलापः किं करिष्यति १ ॥ २१ ॥ इति ॥ भवेयुरार्जवजुषो - लोकेऽपि प्रीतिकारणम् । कुटिलादुद्विजन्ते हि जन्तवः पन्नगादिव || २२|| अजिह्मचित्तवृत्तीनां भवत्रासस्पृशामपि । अकृत्रिमं मुक्तिसुखं, स्वसंवेद्यं महात्मनाम् ॥ २३॥ कौटिल्यशकुना क्लिष्ट-मनसां वञ्चकात्मनाम् । परव्यापादनिष्ठानां, स्वप्नेऽपि स्यात् कुतः सुखम् ||२४|| समग्र विद्यावैदुष्ये ऽधिगतासु कलासु च । धन्यानामुपजायेत. बालकानामिवाजैवम् ||२५|| अज्ञानामपि बालाना-मार्जवं प्रीतिहेतवे । किं पुनः सर्वशास्त्रार्थ- परिनिष्टितचेतसाम् १ ||२६|| स्वाभाविकी हि ऋजुता, कृत्रिमा कुटिलात्मता । ततः स्वाभाविकं धर्मे, हिस्वा कः कृत्रिमं श्रयेद् १ ||२७|| छलपैशुन्य क्रोक्तिञ्चनाप्रवणे जने । धन्याः
+---+
Page #33
--------------------------------------------------------------------------
________________
धर्मोपदेश॥२७॥
COLORCEL
केचिद् निर्विकाराः, सुवर्णप्रतिमा इन ॥२८॥ श्रुताब्धिपारमाप्तोऽपि, गौतमो गणभृद्वरः। अहो ! शेक्ष इवाश्रौषी-दार्जवाद | भगवगिरः ॥२९।। अशेषमपि दुष्कर्म, ऋमालोचनया क्षिपेत् । कुटिलाळावनां कुर्व-भल्पीयोऽपि विवर्धयेत् ॥३०॥ काये वचसि चित्ते च, समन्तात् कुटिलात्मनाम् । न मोक्षः किन्तु माक्ष: स्यात् , सर्वचाकुटिलात्मनाम् ॥३१॥ इति निगदितमयं | कर्मकौटिल्यभाना-मृजुपरिणतिभाजां चानचं चरित्रम् । तदुभयमपि बुद्धया संस्पृशन् मुक्तिकामो, निरुपममृजुभ है| संश्रयेच्छुद्धबुद्धिः ॥ ३२॥
मायापिशाचीविवशा नरा ये, स्वाथै कनिष्ठाः परवञ्चनानि ।
सृजन्ति तेऽधोगतयो भवन्ति, निदर्शनं त्वत्र स पापबुद्धिः॥१॥ पुरे श्रीनिलके द्रव्यो-पार्जनकपरायणौ । धर्मबुद्धिः पापबुद्धि-रभूतां वणिजावुभौ ।। १॥ ऋजुस्वभावस्तत्राय:, सर्वेषां हितचिन्तकः । द्वितीयः कपटी मायी, विश्वस्तस्याऽपि बञ्चकः ॥२॥ तयोप्यभवन्मैत्री, वाणिज्यं तन्वतोमिथः । लोको वदत्ययं योगः, काष्टक्रकवसन्निभः ॥ ३॥ तथापि धर्मबुद्धिस्तं, न त्यजत्युत्तमत्वतः । अशोभाकृदपि त्याज्या, कलङ्कः शशिना किमु ॥ ४ ॥ अन्यदा व्यवसायाथै, तौ गतौ क्वापि पत्तने । वणिजां क्षीणवित्तानां, व्यवसायो हि कामधुक् ॥ ५॥ पृथ'पृथगुपाज्यतौ, दीनाराणां सहस्रकम् । प्राग्वद्वक्रेतरस्वान्तौ, वलितौ स्वपुरं प्रति ॥ ६॥ आसने स्वपुरे प्राप्ते, शठोऽशठमभाषत । एतावदखिलं वित्तं, पुरान्तर्गृह्यते कुतः ॥ ७॥ कियनिधीयतेऽत्रा-बसरे लास्यते पुनः। राजदायाददस्युभ्यो, भयं वित्तस्य नैकथा ॥ ८॥ श्रुत्वेति सरलस्वान्तो, वित्तं पञ्चशतीमितम् । न्यास्थत्तत्रैव तच्चतः-प्रत्ययाय
Page #34
--------------------------------------------------------------------------
________________
॥२८॥
पराऽपि च ।। ९ ।। आगतौ स्वगृहे वर्द्धा-पनकं च तयोरभूत । कियद्दिनान्तरे वित्तं तद्भूस्थं पापधीरलात् ॥ १० ॥ अथावसरमासाद्य, पापबुद्धिस्तमत्रवीत् । आगच्छ मित्र ! तद्वित्तं यथा सम्प्रति गृह्यते ॥ ११ ॥ स्थानद्वयं तदालोक्य, रिक्तं प्राह स पापधीः । आः केनापि हृतं वित्त- मावयोर्जीवितोपमम् ॥ १२ ॥ तं धिगस्तु स पापात्मा, प्रियतां किं करिष्यते । त्रिलापान्कुत्रिमानेवं स सत्यानिव निर्ममे ॥ १३ ॥ अथाऽब्रवीत् स पापात्मा, धामिकं धर्म्मबुद्धिकम् । रे धम्म ! रे दुष्ट !, तववैतद्विजृम्भितम् ॥ १४ ॥ धर्म्मबुद्धिरपि माह, भ्रातः ! किमिदमुच्यते । नेदृशं मादृशं कर्म, किन्तु कस्यापि पापिनः ॥ १५ ॥ जातो विवाद उभयोर्गतौ गजकुले च तौ । पापबुद्धिस्तदा प्राह, चौरोऽयं धर्म्मबुद्धिकः || १६ || हुर्नियोगिनः साक्षी, युवयोः कोऽपि विद्यते । पापबुद्धिरभाषिष्ट, साक्षिणो बननाकिनः ॥ १७ ॥ शुद्धबुद्धिर्धर्म्मबुद्धि - स्तदा
चिन्तयत् । अहो ! धृष्टत्वमेतस्य, अहो कपटपाटवम् ॥ १८ ॥ मम श्रीधर्म एवात्र सखाऽन्यैः किं सहायकैः । प्रातः | परीक्षा कर्त्तव्येत्यादि भूपादयोऽब्रुवन् ।। १९ ।। पापबुद्धिस्ततः प्राह, रात्रौ स्वजनकं प्रति । प्रारब्धोऽयं मया कूट - कलहो निखिलोऽपि हि ||२०|| कथं कर्त्तासि तातेनेत्युक्तः स प्राह दुष्टधीः । त्वं तात ! विपिने गत्वा, प्रविश क्वापि कोटरे ||२१|| राजादीनां पृच्छतां च, स्वया वाच्यमिति प्रगे । निष्कलङ्कः पापबुद्धि-धर्म्मबुद्धिस्तु तस्करः || २२ ॥ तेनेतिशिक्षितस्तातस्तथैव निखिलं व्यधात् । प्रत्यूषे मिलिते लोके, स ऊचे च तथैव तत् ॥ २३ ॥ इतस्ततो विलोकन्ते, न च पश्यन्ति कञ्चन । लोकाः सर्वेऽपि सार्या स्तूर्णमुत्कर्णतां दधुः ॥ २४ ॥ सहसात्पन्नबुद्धिस्तु, धर्मबुद्धिस्तदाऽवदत् । राजान प्रति देवेदं, कोटरं ज्लालयिष्यते ॥ २५ ॥ देवो वा मानवो वापि यथा प्रत्यक्षतां व्रजेत् । इत्युक्वा सहसोत्थाय यावतज्ज्या
Page #35
--------------------------------------------------------------------------
________________
धर्मोपदेश
॥२९॥
संग्रह
लयत्यसौ ॥ २६ ॥ तावत्स जनकस्तस्मा-त्कोटरानिर्गतः क्षणात । कर्मणा प्रेरितो जीको, जनन्या उदारदिव ॥२७॥ तदानीं तं नृपोऽन्छदरे ! किमिदमद्भुतम् । सोऽपि वृत्तान्तमाचस्यौ, दुःसुतप्रेरणादिकम् ॥ २८ ॥ तं तत्सुतं च ते लोकाः, धिक्कुर्वन्तीति रे ! युवाम् । अकृशाथामिदं किं य-न्मित्रेऽपि द्रोहकारिता ॥ २९ ॥ पापबुद्धिस्ततो राज्ञा, मार्यमाणोऽपि वारितः । लगित्वा पादयोधर्म-बुद्धिना शुद्धबुदिना ॥ ३०॥ धर्मबुद्धस्तदा श्लाघां, निन्दा पापमतेस्तथा। भूपाद्याश्चक्रिरे माया, कटरेऽत्रैव दुःखदा ।। ३१ ॥ एवं बभूवाऽशठवक्रभावयुग, तन्मित्रयुग्मं सुखदुःखभाजनम् । मायां भुजङ्गीमिव दतस्ततो-ऽवदातचित्तास्त्यजत द्रत जनाः ॥३२॥
लोभविजयः आकरः सर्वदोषाणां, गुणग्रसनराक्षसः । कन्दो व्यसनवल्लीनां, लोभः सर्वार्थबाधकः ॥१॥ धनहीनः शतमेकं, सहसं शतवानपि । सहस्राधिपतिलक्षं, कोटिं लक्षेश्वरोऽपि च ॥ २॥ कोटीश्वरी नरेन्द्रत्वं, नरेन्द्रश्चक्रवर्तिताम् । चक्रवर्ती च देवत्वं, देवोऽपीन्द्रत्वमिच्छति ॥३॥ इन्द्रत्वेऽपि हि संपाते, यदृच्छा न निवर्तते । मुले लघीयांस्तल्लोभः सराव इव वर्धते ॥४॥
___ आ०-हिंसेव सर्वपापानां, मिथ्यात्वमिव कर्मणाम् । राजयक्ष्मेव रोगाणां, लोमा सर्वागसां गुरुः ॥५॥ अहो लोभस्य साम्राज्यमेकछत्रं महीतले । तरवोऽपि निधि प्राप्य, पादैः प्रच्छादयन्ति यत् ॥६॥ अपि द्रविणलोभेन, ते द्वित्रि
Page #36
--------------------------------------------------------------------------
________________
॥३०॥
चतुरिन्द्रियाः । स्वकीयान्यधितिष्ठन्ति प्राग्निधानि मूर्च्छया ॥७॥ भुजङ्गगृहगोधा - मुख्याः पंचेन्द्रिया अपि । धनलोमेन लीयन्ते, निधानस्थान भूमिषु ||८|| पिशाचमुद्गलप्रेत-भूतयक्षादयो धनम् । स्वकीयं परकीयं वाऽप्यधितिष्ठन्ति लोभतः ॥९॥भूषणोद्यानवाप्याद्रौ मूच्छितास्त्रिदशा अपि । च्युत्वा तत्रेव जायन्ते, पृथ्वी काया दियो निषु ||१०|| माप्पोपशान्तमोत्वं क्रोधादिविजये सति । लोभांशमात्रदोषेण पतन्ति यतयोऽपि हि ॥ ११ ॥ एकामिषाभिलाषेण, सारमेया इव द्रुतम् । सोदर्या अपि युध्यन्ते, धनले जिघृक्षया ॥ १२॥ लोभाद् ग्रामाद्रिसीमान- मुद्दिश्य गतसौहृदाः । ग्राम्या नियुक्ता राजानोवैरायन्ते परस्परम् ||१३|| हासशोकद्वेषहर्षा - नसतोऽप्यात्मनि स्फुटम् । स्वामिनोऽग्रे लोभवन्तो नाटयन्ति नटा इव ||१४|| आरभ्यते पूरयितुं, लोभगर्तो यथा यथा । तथा तथा महच्चित्रं, मुहुरेष विवर्धते || १५ || अपि नामैष पूर्येत, पयोभिः पयसां पतिः । न तु त्रैलोक्यराज्येऽपि प्राप्ते लोभः प्रपूर्यंते || १६|| अनन्ता भोजनाच्छाद - विषयद्रव्यसञ्चयाः । भुक्तातथापि लोभस्य, नांशोऽपि परिपूर्यते ||१७|| लोभस्त्यक्तो यदि तदा, तपोभिरफलैरलम् । लोभस्त्यक्तो न चेत् तर्हि, तपोभिरफलैरलम् ||१८|| मृदित्वा शास्त्रसर्वस्वं मयैतदवधारितम् । लोभस्यकस्य हानाय प्रयतेत महामतिः ||१९||
लोभसागरमुद्वेल-मतिवेलं महामतिः । संतोषसेतुबन्धेन, प्रसरन्तं निवारयेत् ॥ २०॥
आ० - यथा नृणां चक्रवर्ती, सुराणां पाकशासनः । तथा गुणानां सर्वेषां सन्तोषः प्रवरो गुणः ॥२१॥ सन्तोषयुक्तस्य यते-रसंतुष्टस्य चक्रिणः । तुलया संमितो मन्ये, प्रकर्षः सुखदुःखयोः ॥२२॥ स्वाधीनं राज्यमुत्सृज्य, संतोष ऽमृततृष्णया । निस्सङ्गत्वं प्रपद्यन्ते, तत्क्षणाच्चक्रवर्तिनः ||२३|| निवृत्तायां धनेच्छायां पार्श्वस्था एव संपदः । अङ्गुल्या पिहिते
Page #37
--------------------------------------------------------------------------
________________
धर्मोपदेश॥३१॥
कर्णे, शद्बाद्वैतं विजृम्भते ||२४|| संन्तोषसिद्धौ संसिद्धाः प्रतिवस्तुः विरक्तयः । अक्ष्णोः पिधाने पिहितं ननु विश्वं चराचरम् ॥२५॥ किमिन्द्रियाणां दमनैः, किं कायपरिपीडनैः १ । ननु संतोषमात्रण, मुक्ति श्री मुखमीक्ष्यते ||२६|| जीवन्तोऽपि विमुक्तास्ते, ये मुक्तिसुखशालिनः । किं वा विमुक्तः शिरसि, शृङ्गं किमपि वर्तते १ ॥२७॥ कि रागद्वेषसंकीर्णे, किं वा विषयसंभबम् । येन संतोषज सौख्यं, हीयेत शिवसौख्यतः १ ||२८|| परप्रत्यायनासारैः, किं वा शास्त्रसुभाषितैः १ । मीलिताक्षा । विमृशन्तु, सेतोपाऽऽस्वादजं सुखम् ||२९|| चेद् कारणानुकारीणि, कार्याणि प्रतिपद्यसे । संतोषानन्दजन्मा तन्- मोक्षानन्दः प्रतीयताम् ||३०|| ननु तीव्रं तपःकर्म, कर्मनिर्मूलनं जगुः । सत्यं तदपि संतोष-रहितं विफलं विदुः ॥ ३१ ॥ कृषिसेवापाशुपाल्य वाणिज्यैः किं सुखार्थिनाम् । ननु संतोषपानात् किं नात्मा निर्वृतिमाप्यते १ ||३२|| यत् संतोषवतां सौख्यं, तृणसंस्तरशायिनाम् । क्ा तत् संतोष धन्यानां तूलिकाशायिनामपि ||३३|| असंतुष्टास्तृणायन्ते, धनिनोऽपीशिनां पुरः । शिनोऽपि तृणायन्ते, संतुष्टानां पुरः स्थिताः ||३४|| आयासमात्रं नश्वर्य - वक्रिशक्रादिसंपदः । अनायासं च नित्यं च, सुखं संतोषसंभवम् ||३५|| इति प्रत्यादेष्टुं निखिलमपि लोभस्य ललितं, मयोक्तः संतोषः परमसुखसाम्राज्यसुभगः । कुरुध्वं लो माग्निप्रसारपरितापं शमयितुं, तदस्मिन् संतोषामृतरसमये वेश्मनि रतिम् ॥ ३६ ॥
भोर सागर श्रेष्ठ कथा
यो द्वादशं यावदुपागतो गुण-स्थानं निषेधं स्थिरसंविदः सृजेत ।
क
संग्रह
Page #38
--------------------------------------------------------------------------
________________
॥३२॥
इहाप्यमुत्रापि विडम्पयेत्र के, स लोभवैरी किल सागरं यथा ॥१॥
सागरः सादरो द्रव्यो-पार्जने धर्मवर्जितः । अभृच्छ्रीमन्दिरे श्रेष्ठी, द्रव्यकोट्याएकमभुः ॥ १॥ परं कदर्यमर्दन्यो, मन मुक्ते न ददाति च । कपाटपिहितं प्रायो, द्वारं तस्य सदा भवेत् ॥ २॥ गृह एव स्थितस्यास्य, दृष्टौ कोऽपि करोति न ।।
भोजनस्नानदानादि, याचकः कोऽपि नेति च ॥३॥ कमला गृहीणी तम्य, देविलस्तनयस्तयोः। विमला तत्मिया सर्वे -ऽप्येते तच्चकिताः सदा ॥४॥ तत्र श्वश्रू-वधू द्वौ ते, मंत्रतंत्रविशारदे । अनेकाभिः कुविद्याभिः, स्वैराचारे बभूवतुः ॥५॥ योगिन्येकाऽन्यदा तस्य. विजने गृहमागता । श्वश्र्वधूभ्यां सा पृष्टा, सादरं नतिपूर्वकम् ॥६॥ स्वामिन्यत्र गृहे दत्त-द्वारे | त्वं कथमागता । साप्याह मम विद्यास्ति, साधारा व्योमगामिनी ॥ ७॥ ताभ्यां तस्याश्च सा विद्या, गृहीता बहुमानतः। 3
एकं च शुषिरं दारु, विद्यते तद्गृहे महत् ।।८।। तस्मिमारुह्य तद्दत्त-मन्त्रशक्त्या च ते उभे । निशीथसमये यातः, क्रीडार्थ स्वेप्सितेपदे ॥ ९॥ एकदा कायचिन्तार्थ, निशीथे पुत्र उत्थितः। सुप्ताशेषजनेऽद्राक्षी-कौतुक रहसि स्थितः ॥१०॥ श्वश्रवध्वौ तदोत्थाय, सौत्सुक्यं निभृतक्रमम् । त्वर्यतां त्वर्यतामेव-मूचतुश्च मिथो सुदा ॥ ११॥ सोऽप्यभूयावदुत्कर्णः, | श्वश्रस्तावदुवाच ताम् । अरे ! काष्ठमिदं शीघ्रं, सज्जीकुरु पुरो भव ॥१२॥ आत्मनामस्ति गन्तव्यं, दूरे तन्मा विलम्बय । इत्युक्त्वा ते उभे तत्रा-रूढे तन्मन्त्रपूर्वकम् ॥ १३ ॥ तत उत्पतिते व्योम्नि, न्यन्तर्याविव ते उभे । इत्याश्चयं तदालोक्यऽचिन्तयदेवलस्तदा ॥ १४॥ अहो! किमेते शाकिन्यौ, पापिन्यो पतिवधिके । गते कुत्र कदा पश्चा-देते चात्रागमिष्यत: ॥१५॥ इत्यसौ जाग्रदेवास्थात् , तत्र ते यावदागते। ततः क्षणान्तरे जातः, प्रातःकाला विकस्वरः॥१६॥ स तयोस्तादृशं
Page #39
--------------------------------------------------------------------------
________________
धर्मोपदेश॥३३॥
x-xx
वृत्तं, न कस्यापि न्यवेदयत् । परेषां दूषणानीव, प्रायश्चित्तप्रदो गुरुः ||१७|| स कौतुकी द्वितीये तु दिने जाते तमोभरे । प्रागेव शुषिरे तत्र, प्रौढे काष्ठे प्रविष्टवान् ।। १८ ।। तथैवारुह्य ते तत्र, जग्मतुः स्वेप्सितं पदम् । प्रवृत्ते क्रीडितुं मुक्त्वा, तत्काष्ठं क्वापि भूतले ।। १९ ।। अन्या अपि स्त्रियः सन्ति, मिलितास्तत्र भूरिशः । चिरं क्रीडारसस्ताभिः - वक्र तत्राऽवि शङ्कितम् ।। २० ।। तत्कोटराद्विनिर्गत्य कुमारोऽपि भ्रमन् क्वचित् । स्वर्णेष्टिकाभिराकीर्ण- मिष्टिकापाकमैक्षत ॥ २१ ॥ उत्फुल्लनयनश्चेत - स्यचिन्तयदयं तदा । स्वर्णद्वीपो ह्ययं नूनं श्रूयते यो जनोक्तिभिः ।। २२ ।। यः प्राप्य क्लेशकोटीभनिःस्वैः स्वप्नेऽपि नेक्ष्यते । अयत्नेनापि सम्प्राप्तो मया भाग्यं महन्मम ॥ २३ ॥ द्वित्राः स इष्टिकाः साराः, संतोषी जगृहे ततः । मनस्वी नहि लोभी स्यात्, सति लाभेऽपि भूयसि ॥ २४ ॥ तथैव कोटरे तत्र, स संलीनवपुः स्थितः । स्वाङ्गोपाङ्गानि सङ्कोच्य, प्रावृषीव महामुनिः ।। २५ ।। क्रीडिला सुचिरं ते अ-प्यागते तत्र निर्भये । तथैवोत्पतिते व्योम्नि क्रमाच्च गृहमागते ॥ २६ ॥ प्रातःकाले कुमारस्त - वृत्तज्ञापनपूर्वकम् । स्वपित्रेऽदर्शयत्स्वर्ण, विस्मितः सोऽपि तं जग ॥ २७ ॥ अरे मूर्ख ! त्वया स्तोक-मिदमात्तं कथं दद्दा ! यत्नं विनापि हस्तासं धनं को नाम मुञ्चति ॥ २८ ॥ अद्याई तत्र यास्यामि, तल्लास्यामि यथेप्सितम् | दारिद्रये द्रावयिष्यामि, निश्चिन्ता हि भवादृशाः ||२९|| इत्युक्त्वोत्थितवान् श्रेष्टी, लोभक्षोभवशंवदः । तद्ध्यानलीन स्तदह-न्यभूत्तन्दुलमत्स्यवत् ॥ ३० ॥ निशीथिन्यां तथैवैष तत्काष्ठान्तः प्रविष्ठवान्, प्रास्थितः सह ताभ्यां च तं प्रदेशमुपागमत् ॥३१॥ ततो निर्गत्य पुत्रोक्ता - भिज्ञानादि स्मरन् हृदि । इष्टकापाकमद्राक्षीत्, प्रत्यक्षमिव रैगिरिम् ।। ३२ ॥ हृष्टस्तद्दर्शनाच्छ्रेष्ठी, ह्यसन्तुष्टः स इष्टिकाः । गृहीत्वा तत्तथा बभ्रे, कष्टेनामात्स्वयं यथा
संग्रह
Page #40
--------------------------------------------------------------------------
________________
॥३४॥
॥ ३३ ॥ तथैव श्वश्रवध्वौ ते, चलिते स्वपुरीमभि । उदन्वदुपरि प्राप्ते, यावत्तावद्वधुरव ॥ ३४ ॥ केनापि हेतुना मातः !, काष्ठमद्य महाभरम् । न चळत्यग्रतः शीघ्रं श्वश्ररप्याह तां प्रति ||३५|| अरे ! त्यत्रैतदचैव यच्चैतत् प्रेक्ष्यतेतरत् । गृहाण काष्ठं तद्यावो, यथा शीघ्रं पुरे निजे || ३६ || अथ भीतोऽवदच्छ्रेष्टी मा मां क्षिपतमम्बुधौ । उपलक्ष्य तमन्याऽन्यं, ते ब्रूतस्त्वं क्व रे इह ? ।। ३७ ॥ सुतरां क्रूपिते तस्मा द्विगोपनभयादिमे । सकाष्ठं तं परित्यज्य, तत्र ते गृहमागते ॥ ३८ ॥ अन्यत्राप्युक्तम् —
अतिलोभो न कर्त्तव्यो, लोभं नैव परित्यजेत् । अतिलोभाभिभूतात्मा, सागरः सागरेऽपतत् ॥ १ ॥
क्रमेण ज्ञातवृत्तान्तो, भीतस्ताभ्यां सुतोऽपि सः । परिव्रज्यामुपादाय, जातः सुखनिकेतनम् || ३९ || लोभस्याप्येवमाकर्ण्य, विपाकं विबुधा जनाः । संतोषामृतपूरेणाऽऽत्मानं सिञ्चत सर्वदा ।। ४० ।।
इन्द्रियविजयः
सः कषायजयः इन्द्रियजयेन स्यात् अतः इन्द्रियजयमाह
विनेन्द्रियजयं नैव कषायातुमीश्वरः । हन्यते हैमनं जाड्यं न विना ज्वलितानलम् ॥ १ ॥ अदान्तैरिन्द्रियहयै - वलैरपथगामिभिः । आकृष्य नरकारण्ये, जन्तुः सपदि नीयते ॥ २ ॥ इन्द्रियैर्विजितो जन्तुः, कषायैरभिभूयते । वीरैः कृष्टेष्टकः पूर्व, वप्रः कैः कैनं खण्डद्यते ? ॥ ३ ॥
Page #41
--------------------------------------------------------------------------
________________
धर्मोपदेश
||३५||
कुलघाताय पाताय, बन्धाय च वधाय च । अनिर्जितानि जायन्ते, करणानि शरीरिणाम् ॥ ४ ॥
आ० – इन्द्रियैः स्वार्थविवशैः, कस्को नैव विडम्ब्यते । अपि विज्ञातशास्त्रार्था - श्रेष्टन्ते बालका ईव ॥ ५ ॥ किमतोऽपि घृणास्थानमिन्द्रियाणां प्रकाश्यते । यद् बन्धौ बाहुबलिनि, भरतो ज्यत्रमक्षिपत् ||६|| जयो यद् बाहुबलिनि, भरते च पराजयः । जिताजितानां यत्सर्व- मिन्द्रियाणां विजृम्भितम् ॥ ७ ॥ यच्छत्राशस्त्रि युध्यन्ते, चरमेऽपि भवे स्थिताः । दुरन्तानामिन्द्रियाणां महिम्नाऽनेन लज्जिताः ॥ ८ ॥ दण्डचन्तां चण्डचरितै- रिन्द्रियैः पशवो जनाः । शान्तमोहाः पूर्वविदो, दण्डयन्ते यत् तदद्भुतम् ॥ ९ । जिता हृषीकैरत्यन्तं देवदानवमानवाः । जुगुप्सितानि कर्माणि, ही । तन्वन्ति तपस्विनः ||१०|| अखाद्यान्यपि खादन्त्य पेयान्यपि पिबन्ति च । अगम्यान्यपि गच्छन्ति, हृषीकवशगा नराः ॥ ११ ॥ वेश्यानां नीचकर्माणि, दास्यान्यपि च कुर्वते । कुलशीलोज्झितास्त्यक्त- करुणैः करणैर्हताः || १२ || परद्रव्ये परस्त्रीषु, मोहान्धमनसां नृणाम् । या प्रवृत्तिः सेन्द्रियाणा - मतन्त्राणां विजृम्भितम् ॥ १३ ॥ पाणिपादेन्द्रियच्छेद मरणानि शरीरिभिः । प्राप्यन्ते यद्वशात् तेभ्यः, करणेभ्यो नमोनमः || १४ | विनयं ग्राहयन्त्यन्यान्, ये स्वयं करणैर्जिताः । पिधाय पाणिना वक्त्र, तान् हसन्ति विवेकिनः ||१५|| आविरिञ्चादा च कीटाद्, ये केचिदिह जन्तवः । विमुच्यैकं वीतरागं, ते सर्वेऽपीन्द्रियैर्जिताः ॥ १६ ॥ वशास्पर्शसुखास्वाद - प्रसारितकरः करी । आलानबन्धन क्लेश-मासादयति तत्क्षणात् ।। १७ ।। पयस्यगाधे विचरन, गिलन् गलगतामिषम् मैनिकस्य करे दीनो-मीनः पतति निश्चितम् ॥ १८ ॥ निपतन् मत्तमातङ्ग - कपोले गंधलोलुपः । कर्णेतालतलाघाताद्, मृत्युमामोति षट्पदः ।। १९ ।।
46496+
संग्रह
Page #42
--------------------------------------------------------------------------
________________
॥३६॥
कनकच्छेदसंकाश-शिखाऽऽलोकविमोहितः । रभसेन पतन दीपे, शलभो लभते मृतिम् ॥२०॥ हरिणो हारिणी गीति-माकर्णयितमुद्धरः। आकर्णाकृष्टचापस्य, याति व्याधस्य वेध्यताम् ॥२१॥ एवं विषय एकैकः, पञ्चत्वाय निषेवितः । कथं हि युगपत् पञ्च, पञ्चत्वाय भवन्ति न? ॥२२॥ तदिन्द्रियजयं कुर्याद्, मनःशुद्धया महामतिः। यां विना यमनियमैः, कायक्लेशो वृथा नृणाम् ॥ २३ ॥
आ०-अनिजितेन्द्रियग्रामो, यतो दुःखैः प्रबाध्यते । तस्माजयेदिन्द्रियाणि, सर्वदुःखविमुक्तये ॥२४॥ न चेन्द्रियाणां विजयः, सर्वथैवाप्रवर्तनम । रागद्वेष विमुक्या तु, प्रवृत्तिरपि तञ्जयः ॥२५।। अशक्यो विषयोऽस्प्रष्टु-मिन्द्रियैः स्वसमीपगः। रागद्वेषौ पुनस्तत्र, मतिमान् परिवर्जयेत् ॥२६॥ हताहतानीन्द्रियाणि, सदा संयमयोगिनाम् । अहतानि हितार्थेषु, हतान्यहितवस्तुषु ॥२७॥ जितान्यक्षाणि मोक्षाय, संसारायाऽजितानि तु । तदेतदन्तरं ज्ञात्वा, यद् युक्तं तत् समाचर ॥२८॥ मर्श मृदौ च तूल्यादे-रुपलादेश्च कर्कशे । भव रत्यरती हित्वा, जेता स्पर्शनमिििद्रयम् ॥२९॥ रसे स्वादौ च भक्ष्यादे-रितरस्मिन्नथापि वा। प्रीत्यपीती विमुच्योच्च-जिह्वेन्द्रियजयी भव ॥३०॥ प्राणदेशमनुमाप्ते, शुभे गन्धेऽपरत्र वा। ज्ञात्वा वस्तु परिणाम,घाणेन्द्रियजयं कुरु ॥३१॥ मनोज्ञ रूपमालोक्य, यदि वा तद्विलक्षणम् । त्यजन् हर्षे जुगुप्सां च, जय त्वं चक्षुरिन्द्रियम् ॥३२॥ स्वरे श्रव्ये च वीणादेः, खरोष्टादेश्च दुःश्रवे । रतिं जुगुप्सां च जयन्, श्रोत्रेन्द्रियजयी भव ॥३३॥ कोऽपि | नास्तीह विषयो, मनोज्ञ इतरोऽपि वा । इन्द्रियैर्नोपभुक्त-स्तत्स्वास्थ्यं किं न सेव्यते ? ॥३४॥ शुभा अप्यशुभायन्ते, शुभा. का यन्तेऽशुभा अपि । विषयास्तत् क्त्र रज्येत विरज्येत क्व चेन्द्रियैः ॥३५॥ स एव रुच्यो द्वेष्यो वा, विषयो यदि हेतुतः ।
Must90484 TAGS
Page #43
--------------------------------------------------------------------------
________________
धर्मोपदेश
॥३७॥
AISHAHA
संग्रह
शुभाशुभत्वं भावानां, तन तत्वेन जातचित् ॥३६॥ एवं विमृश्य विषयेषु शुभाशुभत्व-मौपाधिकं तदविमुक्तिविरक्तचेताः । हन्तेन्द्रियार्थमधिकृत्य जहीति राग, द्वेषं तथेन्द्रियजयाय कृताभिलापः ॥ ३७॥
। इन्द्रियजयोपरि सुभानुकथा । अत्रार्थे सुभानुसंबन्धश्वायम्
भरतक्षेत्रे मगधदेशे सुवापुरीशोऽरिदमनभूपः, धारिणी भार्या, तयोः पुत्रः सुभानुः कुमारः सुरवद्भासुरो यौवनं प्राप । जनकेन रूपलावण्यःकलावत्य एकशतकन्याः परिणायिताः। ताभिः सह विषयान् भुअमानो भानुकुमारः सुखेन दिनानिर्वाहयति । एकदा श्रीसंभवजिनागमनं वनपालमुखादशणोत् । तथाहि सूत्रम्-"अणेगेहिं केवलिहि अणेगेहिं विउलमइहिं अणेगेहिं देवदेवीहि संपरिवुडो मिरिसंभवो अरिहा सव्वन्नू सचदंसी आगासगएणं चक्कणं" इत्यादि वर्ण्यम् । तदा शतस्त्रीपरिवृतः कुमारो महर्या श्रीसेनाङ्गजं समवसरणस्थं प्रणम्य विनयेन तस्थौ। श्रीजिनेन धर्म उपदिष्ट:-"सर्वधर्मेषु मुख्यहेतुः परभावग्रहणत्याग एव ज्ञेयः। तत्र स्वद्रव्य-स्वक्षेत्र-स्वकाल-स्वभावत्वेन स्यादस्तीति प्रथमभङ्गगृहीतात्मपरिणामः स्वात्मनि वर्तमानः स्वधर्मः, तस्य समवायत्वेनाभेदात् न त्यागः, अनादिमिथ्यादृष्टिलकुदेवादिरक्तत्वाधप्रशस्तवस्तुग्रहणस्य त्यागो मतः । तत्र नामतः त्यागः शब्दालापरूपः, स्थापनात्यागो दशदयतिधर्मपूजनादौ स्थाप्यमानः, द्रव्यत्यागो बाह्यवृत्ये. न्द्रियाभिलाषाहारोपधिप्रमुखाणां त्यागः, भावतोऽभ्यन्तररागद्वेषमिथ्यात्वाद्याश्रवपरिणतित्यागः, नामस्थापनां यावत्
D
HA***067
Page #44
--------------------------------------------------------------------------
________________
R
॥३८॥
नैगमसंग्रहो, व्यवहारो विषगरलानुष्ठानेन, ऋजुमूत्रेण (:) कटुविपाक भीत्या, शब्दसमभिरूढौ तदेतृतया, एवंभूतस्त्यागः सर्वथा वर्जनं वर्जना यत्नेन" । इत्याद्यनेकयुक्तिगर्भितमुपदेशं श्रुत्वा भानुकुमारस्तीर्थकरचरणावभिवन्द्य चारित्रमोहक्षयोपशमेन | जातविरतिमतिर्भणति स्म-" हे नाथ! अशरणशरण! महासार्यवाह ! भवसमुद्रनिर्यामक ! मम सर्वविरतिसामायिकमुपदिश,
येन विषयकषायत्यागो वर्धते"। एवं निशम्याहता सामायिकचारित्रं दत्तम् । गृहीतव्रतः श्रमणो जातः । स कुमारो मृतः । तत्र तज्जनकः सपरिकर आगतः सुतं मृतं वीक्ष्य विषण्णोऽभूत् । जननी विलापं वितन्वती क्रन्दन्ती रुदनं चकार । तदा ज्ञटित्येव देवत्वं लब्ध्वा समागात् सो जिनाभ्यणे । तौ पितरौ विलपन्तौ दृष्ट्वा भणति-"किमेतादृशं दुःखम् ? यज्जिनचरणौ परमसुखदायको लब्ध्वा रुदनं कुरुथः १"। तावूचतु:-"अस्मत्सुतः परमवल्लभो विपन्नः, तस्य वियोगो जातः, तदुःखं दुःसहम्" । सुरः पाह-“हे नृप! शृणु, तस्य शरीरं तवेष्टं तदैतत्तत्पतितकलेवरे रागं कुरु । हे मातः! त्वं कथं पुनर्विलपसि ? तव पुत्रः क कस्मिन् स्थले शरीरे वा जीवे वा ? द्वावपि तव पुरो वर्तेते, न युक्तं रोदनम्" । ततो जनकोऽवदव"नोऽत्र रागोऽस्माकं प्रसरति"। सुरोऽवदत्-" तर्हि स्वार्थ एव सर्वेष्विष्टः, परं परमार्थस्तु न, तदा सर्वमनित्यमेव, व्यलीकमेव संबन्धव्युहमवस्तु, युवां कथं मुह्यथः ? सर्वो लौकिक संबन्धो भ्रमरूप एव । यत:
युष्माकं सङ्गमोऽनादिर्बन्धोऽनियतात्मनाम् । ध्रुवैकरूपान् शीलादिवन्धनित्यं समाश्रये ॥१॥
हे बन्धवः! युष्माकं सबन्धोऽनादिरसंयतात्मनां भवति । अधुना ध्रुवकरूपान् शीलादिबन्धून् शीलशमदमादिबन्धून् हितकारकान् नित्यं सदा समाश्रये ( अहम् )।
SAIRECA+
Page #45
--------------------------------------------------------------------------
________________
धर्मोपदेश
॥३९॥
कान्ता मे समतैवैका, ज्ञातयो मे समक्रियाः । बाह्यवर्गमिति त्यक्त्वा, धर्मसन्यासवान् भवेत् ॥ २ ॥
औदयिकसंपदं विहाय क्षयोपशमजां स्वीयां साधनसंपदं पामोति, तदन क्षायिकाभेदरत्नत्रयीरूपां प्रामोति"। इत्यादिना प्रबुद्धं सर्वकुटुम्बं श्रीमत्संभवजिनपार्श्व प्रवज्यां प्रतिपनं महानन्दमसाधयत् ।
सम्यक्तिरोभूननिजात्मधर्म, आविर्भवत्येव प्रशस्तयोगात् । त्यागोऽप्रशस्तस्य सुभानुबच्च, शीघ्र विधेयोऽपररागकस्य ॥१॥
RECORCex
सदाचारस्वरुपम् स इन्द्रियजयः सदाचारत भवति अत: सदाचारमाह
लोकापवादभीरुत्वं दीनाभ्युद्धरणादरः । कृतज्ञता सुदाक्षिण्यं सदाचारः प्रकीर्तितः ॥१॥ सर्वत्र निन्दासंत्यागो वर्णवादस्तु साधुषु । आपधदैन्यमत्यन्तं तद्वत्संपदि नम्रता ॥२॥ प्रस्तावे मितभाषित्वमविसंवादनं तथा । प्रतिपत्रक्रिया चेति कुलधर्मानुपालनम् ॥३॥ असव्ययपरित्यागःस्थाने चैव क्रिया सदा । प्रधानकार्य निर्बन्धः प्रमादस्य विसर्जनम् ॥ ४॥ लोकाचारानुवृत्तिश्च सर्वत्रौचित्यपालनम् ! प्रवृत्तिहिते नेति प्राणः कण्ठगतैरपि ॥५॥ इत्यादि।
एवं वाविण्युच्चैः स्थेय पदमनुविधेयं च महता, प्रिया न्याय्या वृत्तिमलिनमसुभङ्गेऽप्यसुकरम् ।
Page #46
--------------------------------------------------------------------------
________________
||४०||
असन्तो नाभ्यर्थ्याः सुहृदपि न याच्यः कृशधनः सतां केनोद्दिष्टं विषममसिधाराव्रतमिदम् ॥ १ ॥ ईयं च शिष्टाचारप्रशंसा धर्मबीजाधानतया प्रेत्यधर्मप्राप्तिहेतुतया परमपदहेतुर्भवति, चौरोदाहरणेन । तथापुरि राजाऽस्ति जितारिर्नाम विश्रुतः । जिनधर्मरसोल्लासः सद्भूतगुणसन्निधिः ||१|| श्रेष्ठिनौ धनयक्षा तत्राभूतां महर्द्धिकौ । धनस्य धर्मपालोऽभून्नन्दनः कुलनन्दनः ||२|| यक्षस्य वसुपालश्च वसुवृद्धिविधायकः । क्रमेण यौवनं प्राप्तौ तौ द्वावपि मनोहरम् || ३ || जन्मान्तरीयसंस्कारादाबालत्वात्तयोरभूत् । क्षीरनीरवदत्यन्तं मैत्री विस्मयकारिणी ॥ ४ ॥ रोचते च यदेकस्य तदन्यस्यापि रोचते । ततो लोके गतौ ख्यातिमेकचित्तात्रिमाविति ॥ ५ ॥ ततः कुलोचितं कर्म कुर्वतो र्यान्ति वासराः । अन्यदा श्रीमहावीरस्तत्रागाद्विश्ववत्सलः || ६ || देवैः समवसरणं कृतम् । कौशाम्बीशोऽपि वन्दनार्थं समायाताः सपौरजनः । तावपि श्रेष्ठिनः मृनू कुतूहलपरायणौ वन्दनार्थं गतौ । प्रारब्धा धर्मदेशना श्रीजिनेन ॥ ततस्तयोर्वणि मनोरेकस्य तज्जिनोदितम् । श्रद्धानमार्गमायाति भाव्यते च स मनसे || ७ || स्फाराक्षो मस्तकं धुन्वन् कर्णपर्णपुटार्पितम् । रोमाञ्चितः पिवत्युच्चैर्जिनवाक्यं यथाऽमृतम् ॥ ८ ।। तदन्यस्य तदाभाति वालुकाका लोपमम् । अन्योन्यस्य च तौ भावं लक्षयामासतुस्तराम् ।। ९ ॥ व्याख्याभुवः समुत्थाय जग्मतुर्भवनं निजम् । तत्रको व्याजहारैवं भ्रातस्त्वं भावितः किल ॥ १० ॥ जैनवाचा न चाहं भोस्तदत्र किमु कारणम् ? । एकचित्ततया ख्यातावावां लोके इयच्चिरम् ।। ११ ।। इदानीमत्र संजातं विभिन्नं चित्तमावयोः । तदत्र कारणं किं स्यादन्यो वक्ति स्म विस्मितः ||१२|| सत्यमेवं ममाप्यत्र विकल्पः संप्रवर्त्तते । केवलं केवली नूनं निश्चयं नौ करिष्यति ॥ १३ ॥ स एव प्रश्नितोऽत्रार्थे तद्यातास्त्र तदन्तिके । एवं तौ निश्वयं
Page #47
--------------------------------------------------------------------------
________________
धर्मोपदेश
॥४१॥
कृत्वा मातर्यातो तदन्तिकम् ।। १४ । पपच्छतुस्तमागध्य विनयेन स्वसंशयम् । सोऽप्युवाच पुरैकेन श्लाषितो युवयोमुनिः || ॥ १५ ॥ तथा हि____ आस्तां युवा क्वचिद्ग्रामे द्रनिकस्य तनूद्भवौ । कालक्रमेण तारुण्यं लावण्यपदमागतौ ।।१६।। संजाततद्विकारौ च जाती भूतेरभावतः । तथा मनोरथाः किशिम पूर्यन्ते कथश्चन ॥१७॥ अनार्य कार्यमारब्धौ कत्तुं चौथै ततोऽन्यदा। ग्रामान्तरे हृता गावो गत्वा रात्रावतित्वरी॥१८॥ दण्डपाशिकलोकेन भवन्तौ त्रासितो ततः । प्रारब्धौ नष्टुमेकोऽथ साधुः शैलगुहागतः ॥१९॥ ध्यानमौनक्रियालग्नो युवाभ्यां समदृश्यत । ततश्च धर्मपालस्य जीवेनेदं व्यचिन्त्यत ॥२०॥ अहो! सुलब्धं जन्मास्य प्रशस्याचारसमनः । यदित्थं निर्भयः शान्तम्त्यक्तसङ्गोऽवतिष्ठते ॥२१॥ वयं पुनरधन्यानामधन्या धनकाक्षया। विदधाना विरुद्वानि पराभवपदं गताः ॥२२॥ धिक्कारोपहतात्मानो यास्यामः कां गति मृताः१। ही जाता दुःखभावेन लोकद्वयविराधकाः ॥२३॥ तदेवं निर्मलं साधोवृत्तं वारितकल्मषम् । विपरीतमतोऽस्माक-मस्मात् कल्याणकं कुतः ॥२४ । अन्यः पुनरुदास नः समभृत्तं मुनि प्रति । गुणरागादवापैको बोधिबीजं न चापरः ॥ २५॥ ततस्तनकषायत्वाद्भवन्तौ दानतत्परौ । नरजन्मोचितं कर्म बद्ध नन्तावनिन्दितम् ॥२६।। मृत्वा युवां समुत्पन्नावतावत्र वणिकसुतौ। जातावनिन्दिताचारौ वणिग्धर्म| परायणौ ॥२७॥ एकस्येह तदेतस्य जातं बीजस्य तत्फलम् । सद्बोधरूपमन्यस्य निर्वीजत्वेन नाभवत् ॥ २८॥ एवं पूर्वभवादि श्रुत्वा जातिस्मरणं प्राप्तः संजातप्रत्ययश्च भावतो जिनोद्दिष्टधर्मपरः सिद्धिं यास्यति । अपरस्य च बोधिबीजभूतशिष्टाचारमाध्यस्थ्यादपि संसार एव ।।
CAM-90-91-99-
C400
Page #48
--------------------------------------------------------------------------
________________
118211
इति परिभाव्य सम्यक् शिष्टाचारगुणादिप्रशंसावता भाव्यं सुश्रावकेनेति । यतः - अकुर्वन्नपि सत्पुण्यं शिष्टाचारप्रशंसया । दम्भसंरम्भुमुक्तात्मा प्राणी प्राप्नाति तत्फलम् ॥ १ ॥ विभ्राणोऽपि गुणश्रेणीरन्येषु गुणमत्सरी । निमञ्जत्येव संसारे मुग्धो दुःखाकुलाशयः ॥ २ ॥ अतो विवेकज्ञजनेन शिष्टाचार - प्रशंसाप्रवणेन भाव्यम् । विशुद्धधर्मोज्ज्वल की र्त्तिलामा - भिलाषिणाऽत्रोचितवृत्तियुक्त्या ॥ १ ॥ ॥ श्री आचारोपदेशः ॥
असौ सदाचारो गुणनिबन्धनं नृणां सदुपदेशाज्जायते, तत्र श्री आचारोपदेशमाह -
सुबुद्धिः सुपदेशेन ततोऽपि च गुणोदयः । इत्याचारोपदेशाख्यग्रंथः प्रारभ्यते मया || १ || सदाचारविचारेण रुचिरश्चतुरोचितः । देवानंदकरो ग्रंथः श्रोतव्योऽयं शुभात्मभिः || २ || पुद्गलानां परावर्तैर्दुर्लभं जन्म मानुषम् । लब्ध्वा विवेकिना धर्मे विधेयः परमादरः ||३|| धर्मः श्रुतोऽपि दृष्टोऽपि कृतोऽपि कारितोऽपि च । अनुमोदितोऽपि नियतं पुनात्यासप्तमं कुलम् ॥४॥ बिना त्रित्रर्ग विफलं पुंसो जन्म पशोरिव । तत्र स्यादुत्तमो धर्मस्तं विना न यतः परौ ॥ ५ ॥ मानुष्यमार्यदेशश्च जातिः सर्वाक्षपाटवम् । आयुश्च प्राप्यते तत्र कथंचित्कर्मलाघवात् || ६ || प्राप्तेषु पुण्यतस्तेषु श्रद्धा भवति दुर्लभा । ततः सद्गुरुसंयोगो कम्यते गुरुभाग्यतः ॥ ७ ॥ लब्धं हि सर्वमप्येतत्सदाचारेण शोभते । नयेनेव नृपः पुष्पं गंधेनाज्येन भोजनम् ॥८॥
Page #49
--------------------------------------------------------------------------
________________
धर्मोपदेश॥४३॥
शास्त्रदृष्टेन विधिना सदाचारपरो नरः । परस्पराविरोधेन त्रिवर्ग साधयेत्सदा ||९|| तुर्ये यामे त्रियामाया ब्राह्म मुहूर्त्ते कृतोद्यमः । निद्रां सुधीः पंचपरमेष्ठिस्तुतिं पठन् ॥ १० ॥ वामा वा दक्षिणा वापि या नाडी बहते सदा । शय्योत्थितस्तमेवादौ पादं दद्याद्भुवस्तले || ११|| मुक्त्वा शयनवस्त्राणि परिधायाऽपराणि च । स्थित्वा सुम्थान के धीमान् ध्यायेत्यंचनमस्क्रियाम् ॥ १२ ॥ उपविश्य च पूर्वाशाभिमुखो वाप्युदङ्मुखः । पवित्रांगः शुचिस्थाने जपे मंत्रं समाहितः ॥ १३ ॥ अपवित्रः पवित्रो वा सुस्थितो दुःस्थितोऽपि वा । ध्यायन्पंचनमस्कारं सर्वपापैः प्रमुच्यते ॥ १४ ॥ अंगुल्यग्रेण यज्जतं यजतं मेरुलंचने । संख्याहीनं च यज्जतं पफलं भवेत् ||१५|| जपो भवेत् त्रिधोत्कृष्टमध्यमाधमभेदतः । पद्मादिविधिना मुरूयोऽपरः स्याज्जपमालया ॥ १६ ॥ विना मौनं विना संख्यां विना चेतानिरोधनम् । विना स्थानं विना ध्यानं जघन्यो जायते जपः ॥ १७ ॥ ततो गत्वा मुनिस्थानमथवात्मनिकेतनम् । निजपापविशुद्धयः कुर्यादावश्यकं सुधीः || १८ || रात्रिकं स्याद्देवसिकं पाक्षिकं चातुर्मासिकम् । सांवत्सरं चेति जिनैः पंचधावश्यकं कृतम् ॥ १९ ॥ कृतावश्यककर्मा च स्मृतपूर्वकुलक्रमः । प्रमोदमेदुरस्त्रांतः कीर्त्तयेन्मंगलस्तुतिम् ॥२०॥
मंगलं भगवान् वीरो मंगल गौतमः प्रभुः । मंगलं स्थूलभद्राद्या जेनो धर्मोऽस्तु मंगलम् ||२१|| नाभेयाद्या जिनाः सर्वे भरताद्याश्च चक्रिणः । कुर्वंतु मंगलं सीरिविष्णवः प्रतिविष्णवः ॥११९२ ॥ नाभिसिद्धार्थभूपाचा जिनानां पितरः समे । पालिताखंड साम्राज्या जनयंतु जयं मम ॥२३॥ मरुदेव त्रिशलाद्या विख्याता जिनमातरः । त्रिजगज्जनितानंदा मंगलाय भवंतु मे ॥ २४ ॥
****6***
संग्रह
Page #50
--------------------------------------------------------------------------
________________
9
4-
॥४४॥
A
श्रीपुंडरीकेंद्रभूतिप्रमुखा गणधारिणः । श्रुतकेवलिनोऽन्येऽपि मंगलानि दिशंतु मे ॥२५॥ ब्राझीचंदनवालाद्या महासत्यो महत्तराः । अखंडशीललीलाढ्या यच्छंतु मम मंगलम् ॥२६॥ चक्रेश्वरीसिद्धायिकामुख्या: शासनदेवताः । सम्यग्दृशां विघ्नहरा रचयंतु जयश्रियम् ॥ २७॥ कपर्दिमातंगमुग्ख्या यक्षा विख्यातविक्रमाः । जैनविघ्नहरा नित्यं देयासुमंगलानि मे ॥२८॥ यो मंगलाष्टकमिदं पटुधीरधीते पातर्नरः सुकृतभावितचित्तवृत्तिः। सौभाग्यभाग्यकलितो धुतसर्वविघ्नो नित्यं स मंगलमलं लभते जगस्याम् ॥ २९ ॥
ततो देवालये यायात्कृतनषेधिकी क्रियः । त्यजन्नाशातनाः सर्वास्त्रि प्रदक्षिणयेन्जिनम् ॥३०॥ विलासहासनिष्ठयतनिद्राकलादुःकथाः जिनेंद्रभवने जयादाहारं च चतुर्विधम् ॥३१॥ नमस्तुभ्यं जगन्नाथेत्यादि स्तुतिपदं वदन् । फलमक्षतपूर्ण | वा ढोकयेच्छीजिनाग्रतः ॥३२॥ रिक्तपाणिर्न पश्येत राजानं दैवतं गुरुम् । नैमित्तिकं विशेषेण फलेन फलमादिशेत् ॥३४॥ दक्षिणवामांगगतो नरनारीजनो जिनम् । वंदतेऽवग्रह मुक्त्वा षष्टिं नव करान् विभोः ॥३४॥ ततः कृतोत्तरासंगः स्थित्वा सद्योगमुद्रया । ततो मधुरया वाचा कुरुते चैत्यवंदनम् ॥३५॥ उदरे कूपरे न्यस्य कृत्वा कोशाकृती करौ । अन्योऽन्यांगुलिसंश्लेषाद्योगमुद्रा भवेदियम् ॥३६॥ पश्चाभिजालयं गत्वा कुर्यात्माभातिकी क्रियाम् । विदधीत गेहचिंतां भोजनाच्छादनादिकाम् | ॥३७॥ आदिश्य स्वस्वकार्येषु, बंधून कर्मकरानपि । पुण्यशालां पुनर्यायादष्टभिर्धीगुणयुतः ॥३८॥ शुश्रुपा श्रवणं चैव | ग्रहणं धारणं तथा। उद्दोऽपोहोऽर्थविज्ञान तत्त्वज्ञानं च धीगुणाः ॥३९॥ श्रुत्वा धर्म विजानाति, श्रुत्वा त्यजति दुर्मतिम् ।
-SARI+%
Page #51
--------------------------------------------------------------------------
________________
धर्मोपदेश
118411
श्रुत्वा ज्ञानमवाप्नोति श्रुत्वा वैराग्यमेति च ॥४०॥ पचाङ्गप्रणिपातेन, गुरुन् साधून् परानपि । उपविशेनमस्कृत्य त्यज भाशातनां गुरोः ॥ ४१ ॥ उत्तमांगेन पाणिभ्यां, जानुभ्यां च भुवस्तलम् । विधिना स्पृशतः सम्यक् पंचाङ्गपणतिर्भवेत् ॥४२॥ पर्यंस्तिकां नबध्नीयात् न च पादौ प्रसारयेत् । पादोपरि पदं नैत्र दोर्मूलं न प्रदर्शयेत् ||४३|| न पृष्ठे न पुरो नापि पार्श्वयोरुभयोरपि । स्थेयानाला पयेदन्यमागतं पूर्वमात्मना ॥ ४४ ॥ सुधीगुरुमुखन्यस्तदृष्टिरेकाग्रमानसः । शृणुयाद्धर्मशास्त्राणि भावभेदविचक्षणः ॥५५॥ अपाकुर्यात्स्वसंदेहान् जाते व्याख्याक्षणे सुधीः । गुहद्गुणगातृभ्यो दद्याद्दानं निजोचितम् ||४६ || अकृतावश्यको दत्ते गुरूणां वंदनानि च । प्रत्याख्यानं यथाशक्त्या विदध्या द्विर तिमियः ॥४७॥ तिर्यग्योनिषु जायतेऽविरता दानिनोऽपि हि । गजाश्वादिभवे भोगान् भुंजाना बंधनान्वितान् ||४८ || न दाता नरकं याति न तिर्यग् विरतो भवेत् । दयालुर्नायुषा हीनः सत्यवक्ता न दुःस्वरः ॥ ४९ ॥ तपः सर्वाक्षसारंगवशीकरणवागुरा । कषायतापमृद्वीका कर्माजीर्णहरीतकी ॥५०॥ यद्दूरं यदूगराध्यं दुर्लभं यत्सुरैरपि । तत्सर्वं तपमा साध्यं तपो हि दुरतिक्रमम् ॥ ५१ ॥ चतुष्पथमथो यायात्कृतधर्मविधिः सुधीः । कुर्यादथर्जनोपायं व्यवसायं निजं निजम् ॥ ५२|| सुहृदामुपकाराय बंधूनामुदयाय च । अर्च्छते विभवः सद्भिः स्वोदरं को विभर्ति न ||२३|| व्यवसायभवा वृत्तिरुत्कृष्टा मध्यमा कृषिः । जघन्या भुवि सेवा तु भिक्षा स्यादधमाधमा ॥ ५४ ॥ व्यवसायमतो नीचं न कुर्यान्नापि कारयेत् । पुण्यानुसारिणी संपन्नः पापाद्वर्द्धते क्वचित् ॥५५॥ बह्वारंभ महापाप यद्भवेञ्जनगर्हितम् । इहामुत्र विरुद्धं यत्तत्कर्म न समाचरेत् ||५६ || लोहकारचर्मकारमद्यकृत्तैलिकादिभिः सत्यप्यर्थागमे कामं
* द्रक्ष ।
संग्रह
Page #52
--------------------------------------------------------------------------
________________
॥४६॥
व्यवसायं परित्यजेत् ॥५७॥ एवं चरन् प्रथमयामविधिं समयं श्राद्धो विशुद्धहृदयो नयराजम नम् । विज्ञानमानजनरंजनसावधानो, जन्मद्वयं विरचयेत्सफलं स्वकीयम् ॥५८॥
श्री चारित्रसुररगणिविरचिते - आचारोपदेशे प्रथम प्रहर वर्ग प्रथमवर्गः ।
अथ द्वितीयो वर्गः ।
अथ स्वमंदिरं यायाद् द्वितीये प्रहरे सुधीः । निर्जन्तुभुवि पूर्वाशाभिमुखः स्नानमाचरेत् ॥ १॥ सप्रणालं चतुः पङ्कं स्नानार्थं कारयेदरम् । तदुघृते जले यस्माज्जंतुबाधा न जायते ॥ २॥ रजस्वला स्त्री मलिन-स्पर्शं जाते च सूतके । मृतस्वजनकार्ये च सर्वांगस्नानमाचरेत् || ३ || अन्यथोत्तमांगवर्जं वपुः प्रक्षालयेत्परम् । कत्रोष्णेनाल्पपयमा देवपूजाकृते कृती ||४|| चंद्रादित्यकरस्पर्शात्पवित्रं जायते जगत् । तदाधारं शिरो नित्यं पवित्रं योगिनो विदुः ||५|| दयासाराः सदाचारास्ते सर्वे धर्महेतवे । शिरःप्रक्षालनान्नित्यं जीवोपद्रवो भवेत् ||६|| नापवित्रं भवेच्छीर्ष नित्यं वस्त्रेण वेष्टितम् | अध्यात्मनः स्थितेः शश्वन्निर्मल
धारिणः || || स्नाने येऽतिजलोत्सर्गाद् धनंति जंतून् बहिर्मुखाः । मलिनीकुर्वते जीवं शोधयंतो वपूर्हि ते ॥ ८ ॥ विहाय पोतिकं वस्त्रं परिधाय जिनं स्मरन् । यावज्जलाद्रौ चरणौ तावत्तत्रैव तिष्ठति ॥९॥ अन्यथा मलसंश्लेषादपावित्र्य पुनः पदोः । लग्नजीवघातेन भवेद्वा पातकं महत् ॥ १० ॥ गृह चैत्यांतिक गत्वा भूमिसंमार्जनादनु । परिधायार्चावस्त्राणि मुखकोशं
१ " स्युः सर्वे " इत्यादि पाठः । २ " गृहचैव्याम्यर्ण " इत्यादि पाठः ।
Page #53
--------------------------------------------------------------------------
________________
धर्मोपदेश
॥४७॥
दधात्यथ ॥११॥ मनोवाक्कायवस्त्रेषु भूपूजोपस्करस्थितौ । शुद्धिः सप्तविधा कार्या देवतापूजनक्षणे ॥१२॥ पुमान् परिदधेन खो-वस्त्रं पूजाविधौ क्वचित । न नारी नरवस्त्रं तु कामरागविवर्द्धनम् ॥१३॥ भंगारानीतनीरेण संस्नाप्यांगं जिनेशितुः । रूक्षीकृत्य सुवस्त्रेण पूजां कुर्यात्ततोष्टधा ॥१४॥
॥ अथ पूजाष्टकम् ॥ सच्चंदनेन घनसारविमिश्रितेन, कस्तूरिकाद्रवयुतेन मनोहरेण । रागादिदोषरहितं महितं सुरेन्द्रः, श्रीमज्जिनं त्रिजगती-पतिमर्चयामि ॥१५॥ चंदनपूजा ॥१॥ जातिजपावकुलचंपकपाटलायै-मैदारकुंदशतपत्रवरारविंदैः ।। संसारनाशकरणं करुणप्रधानं, पुष्पैः परैरपि जिनेंद्रमहं यजामि ॥१६॥ पुष्पपूजा ॥२॥ कृष्णागुरुपरचितं सितया समेतं, कर्परपूरसहित विहितं सुयत्नात् । धूपं जिनेंद्रपुरतो गुरुतोषतोऽहं, भक्त्योत्क्षिपामि निजदुष्कृतनाशनाय ॥१७॥ धूपपूजा ॥३॥ ज्ञानं च दर्शनमथो चरणं विचित्य, पुंजत्रयं च पुरतः प्रविधाय भक्त्या। चोखाक्षतैश्च करणैरपरैरपीह, श्रीमंतमादिपुरुषं जिनमर्चयामि ॥१८॥ अक्षतपूजा ॥४॥
सम्बालिकेरपनसामलबीजपूर-जंबीरपूगसहकारमुखेः फलस्तैः। १" चोखाक्षतैः" इत्यादि पाठः ।
Page #54
--------------------------------------------------------------------------
________________
॥४८॥
+++
स्वर्गाद्य नल्पफलदं प्रमदप्रमोदा देवाधिदेवमसमप्रशमं महामि ॥ १९ ॥ फलपूजा ||५|| सम्मोहकैर्वटकमंड कशा लिदालि- मुख्यर संख्यरसशालिभिरन्नभोज्यैः ।
यथाविरहितं स्वहिताय नित्यं तीर्थाधिराजमहमादरतो यजामि ||२०|| नैवेद्यपूजा || ६ || विश्वस्तपापडलस्य सदोदितस्य, विश्वावलोकन कलाकलितस्य भक्त्या । उद्योतयामि पुरतो जिननायकस्य, दीपं तमः प्रशमनाय शमांबुराशेः ||२१|| दीपपूजा ॥७॥ तीर्थोदकैर्धुतमलैरमलस्वभावं शश्वन्नदीनदसरोवरसागरोत्थैः ।
दुर्वारमारमद मोह महाहितार्क्ष्य, संसारतापशमनाय जिनं यजामि ||२२|| जलपूजा ॥८॥ पूजाष्टकस्तु तिमिमामसमामधीत्य, याऽनेन चारुविधिना वितनोति पूजाम् ।
भुक्त्वा नरामरसुखान्यविखंडितानि धन्यः सुत्रासमचिराल्लभते शिवेऽपि ॥ २३ ॥ इति पूजाकष्टम् ॥
शुचिपदेशे निःशल्ये कुर्यादेवालयं सुधीः। सौधे याता वामभागे सार्द्धहस्तोच्च भूमिके ॥ २४ ॥ पूर्वाशाभिमुखोऽर्चाकृदुत्तराभिमुखोऽथवा । विदिग्भिः सह नियतं दक्षिणां वर्जयेद् दिशाम् ।। २५ ।। पूर्वस्यां लभ्यते लक्ष्मीरनौ संताप संभवः । १ " पूर्वस्यां लभते लक्ष्मीमग्नौ संताप संभवं " इत्यादि पाठः ।
Page #55
--------------------------------------------------------------------------
________________
धोपदेश ॥४९॥
संग्रह
RA
दक्षिगस्यां भवेन्मृत्युनैऋते स्यादपद्रवः ॥२६॥ पश्चिमायां पुत्रःखं वायव्यां स्यादसंततिः। उत्तरस्यां महालाभ ईशान्यां धमवासना ॥ २७ ॥ अंनिजानुकरांशेषु मस्तके च यथाक्रमम् । विधेया प्रथम पूजा जिनेन्द्रस्य विवेकिभिः ॥२८॥ सञ्चन्दनं सकाश्मीरं विनाएं न विरच्यते । ललाटे कण्ठे हृदये जठरे तिलकं पुनः ॥२९॥ प्रभाते शुद्धवासेन मध्याह कुसु. | मेस्तथा। संध्यायां धूपदीपाभ्यां विधेयार्चा मनीषिभिः॥३०॥ नेकपूष्पं द्विधा कुर्यात्र च्छिन्याकलिकामपि । पत्रपंकजमेदेन हत्यावत्यातकं भवेत् ॥२१॥ हस्तात्पस्वलितं पुष्पं लग्नं पादेऽथवा भुवि । शीर्षोपरिंगतं यच्च तत्पजाई न कहिंचित् ॥३२॥ स्पृष्टं नीचजनैर्दष्टं कीटैः कुवसनेधुतम् । निर्गंधमुग्रगन्धं च तस्याज्यं कुसुमं समम् ।।३३।। वामांगे धूपदाहः स्यात्
बीजपुरं तु सन्मुखम् । हस्ते दद्याजिनेंद्रस्य नागवल्लीदलं फलम् ॥३४॥ स्नात्रैश्चन्दनदीपधूम्कुसुमनैवेद्य नीरध्वज, सिरक्षतपूग६ पत्रसहिनैः सत्को शवृया फलैः। वादिध्वनिगीतनृत्यनुतिभित्रैरै चामरे-भूषाभिश्व किलकविंशतिविधा पूजा भवेदईतः
॥३६॥ इत्येकविशतिविधां रचपंति पूजा, भव्याः सुपर्वदिवसेऽपि च तीर्थयोगे। पूर्वोक्तचारुविधिनाष्टविधां च नित्यं यद्यदरं तदिह भाववशेन योज्यम् ॥३६॥ ग्रामचैत्यं ततो यायाद्विशेषामलिप्सया । त्यजन्नशुचिमध्वानं धौतवस्त्रेण शोभितः ॥३॥ यास्यामीति हृदि ध्यायश्चतुर्थफलमश्नुते । उत्थितो लभते षष्ठं त्वष्टमं पथि च ब्रजन् ॥३८|| दृष्टे चैत्येऽच दशमं द्वारे द्वादशमं लभेत् । मध्ये पक्षोपत्रासस्य मासस्य स्याजिनार्चने ।।३९।। तिस्रो नैषेधिकीः कृत्वा चैत्यांतः प्रविशेत्सुधीः । चैत्यचिंता विधाय.थ पूजयेच्छी जिनं मुदा ॥४०॥ मुलनायकमर्चित्वाष्टपाहत्पतिमाः पराः पूजयेच्चारुपुष्पौधेः मृष्ट्वा चान्तर्बहिः स्थिताः
१" स्यादीशान्यां धर्मवासना " इति पाठः सम्यक् ।
KACCIActer
Page #56
--------------------------------------------------------------------------
________________
....-..-
॥५०॥
--
-
--
CA-
*
*
*
॥४१॥ अवग्रहाद्वहिर्गत्वा वंदेताहतमादरात् । विधिना पुरतः स्थित्वा रचयेच्चैत्यवंदनम् ।।४२।। एकशक्रस्तवेनाद्या द्वाभ्यां भवति मध्यमा । पंचभिस्तूत्तमा ज्ञेया जायते सा त्रिधा पुनः ||४|| स्तुतिपाठे योगमुद्रा जिनमुद्रा च बंदने । मुक्ताशुक्तिमुद्रा तु पणिधाने प्रयुज्यते ॥४४॥ उदरे कूपरे न्यस्य कृत्वा कोशाकृती करौ । अन्योन्यांगुलिसंश्लेषाद्योगमुद्रा भवेदियम् ॥४५॥ | पुरों गुलानि चत्वारि पश्चादनानि तानि तु । अवस्थितिः पादयोर्या जिनमुद्रेयमीरिता ।।१६॥ समौ च गर्भितौ हस्ती ललाटे यत्र योजयेत् । मुक्ताशुक्तिकमुद्रा सा प्रणिधाने प्रयोजना ॥ ४७ । नत्वा जिनवरं याय द्वदन्नावश्यिका गृहम । अश्नीयाद् बंधुभिः साध भक्ष्याभक्ष्यविचक्षणः ॥४८॥ अधौतपादः क्रोधांधो वदन् दुर्वचनानि यत । दक्षिणाभिमुखो भुक्तं तत्स्याद्राक्षसभोजनम् ॥ ४९॥ पवित्रांगः शुभे स्थाने निविष्ठो निश्चलासने । स्मृतदेवगुरुभुक्ते तत्स्यान्मानव भोजनम् ॥५०॥ स्नात्वा देवान् समभ्यर्च्य नत्वा पूज्यजनान् मुदा । दत्वा दानं सुपात्रेभ्यो भुक्त भुक्तं तदुत्तमम् ॥ ५१॥ भोजने मैथुने स्नाने वमने दंतधावने । विडुत्सर्गे निरोधे च मौनं कुयान्महामतिः ।। ५२ ॥ आग्नेयी नेऋत्यं भुक्तौ दक्षिणां वर्जयेद्दिशम् । संध्ये ग्रहणकालं च स्वजनादेः शवस्थितिम् ॥ ५३॥ कार्पण्यं कुरुते यो हि भोजनादौ धने सति । मन्ये मंदमतिः सोऽत्र
देवाय धनमर्जति ॥ ५४ ॥ अज्ञातभाजने नावाद ज्ञाति भ्रष्टगृहेऽपि च । अज्ञातानि निषिद्धानि फलान्यन्यानि च त्यजेत | ॥ ५५ ॥ बालस्त्रीभ्रूगगोहत्याकृनामाचारलोपिनाम् । स्वगोत्रभेदिनां पंक्तौ जानन्नोपविशेसुधीः ॥ ५६ ।। मद्यं मांस |
नवनीतं मधूदुंबरपंचकम् । अनंतकायमज्ञातफलं रात्रौ च भोजनम् ।। ५७ ।। आमगोरसमंपृक्तं द्विदलं पुष्पितौदनम् । दध्यहतियातीतं क्वथितान्नं च वर्जयेत् ।। ५८ ॥ जंतमिश्रं फलं पूष्प पत्रं चान्यदपि त्यजेत् । संधानमपि संसक्तं जिनधर्मपरा यणः ।। ५९ ॥ भोजनं च विडत्सग कुर्यादतिचि नहि । वारिपान तथा स्नानं पुनः स्थिरतया सृजेत् ।। ६० ॥ भोजनादौ
*
RECRUARY
*
*
Page #57
--------------------------------------------------------------------------
________________
धर्मोपदेश॥५२॥
विषमं भोजन शिपम् । मध्ये पीयूषसदृशं वारिपानं भवेदहो ॥ ६१ ॥ अजीर्णे भोजनं जचात् कालेऽश्नीयाच्च साम्यतः । क्वोत्थितो वक्त्रशुद्ध पत्रपूगादिभिः सृजेत् ॥ ६२ ॥ विवेकवान् न तांबुलमनियाद्विचरन् पथि । पूगाद्यमक्षतं तैर्दन्तु पुण्यवत् ॥ ६३ ॥ भोजनादनु नो स्वप्याद्विना ग्रीष्मं विचारवान् । दिवा स्वपयतो देहे जायते व्याधिसंभवः ॥ ६४ ॥ ॥ इति श्री रत्नसिंहसूरिश्वरशिष्य श्रीचारित्र सुंदरगणिविरचिते आ. द्वितीयो वर्गः ॥ २ ॥ । अथ तृतीयो वर्गः ।
ततो गेह श्रियं पश्यन् विद्वद्गोष्ठीपरायणः । सुतादिभ्यो ददच्छिक्षां सुखं तिष्ठेद् घटीद्वयम् ॥ १ ॥ आत्मायत्ते धनादिके । विज्ञाताखिलतत्वानां नृणां न स्याद् गुणच्युतिः ॥ २ ॥ गुणैरुत्तमतां यादि वंशहीनोऽपि मानवः । पंकजं धियते मूर्ध्नि पंकः पादेन घृष्यते ||३|| न खानिरुत्तमानां स्यात् कुलं वा जगति कचित् । प्रकृत्या मानवा एव गुणैर्जाता जगन्नुताः ||४|| सत्वादिगुणसंपूर्णो राज्याईः स्थाद्यथा नरः । एकविंशतिगुणः स्याद्धर्मार्हो मानवस्तथा ॥५॥ यथा - * १ अक्षुद्रहृदयः २सौम्यो ३ रूपवान् ४जनवल्लभः । ५अक्रूरो ६भवभीरुश्वशठो७ ८दाक्षिण्यवान् सदा ||६|| ९ अपत्रपिष्णुः १० सदयो ११मध्यस्थः १२ सौम्यदृक् पुनः । १३ गुणरागी १४सत्कथादय: १५मपी १६ दीर्घदपि ||७|| १७वृद्धानुग
* वर्तमानकालना केटलाक श्रावकना २१ गुणो-१ उद्धतवंदणिया, २ फोगटफुणिया, ३ बात बनावणिया, ४ द्रग्डोलणिया, ५ माथा उकालणिया, ६ सीसच डावणिया, ७ कानको कणिया, ८ डोलाचडावणिया, ९ प्रश्न पुछणिया, १० असत्यचालणिया, ११ चरवला फेवणिया, १२ टीकाकाढगिया, १३ कांनफुंकणिया, १४ आंख मारणिया, १५ भूमिरुंधणिया, १६ विषउडालणिया, १७ पुंठ फुंकणिया, १८ आदेशमांगणिया, १९ निंदा करणिया, २० छिद्र जोवणिया, २१ खळेल घालणिया, - जुना पाना उपरथी उतारो करेल .
संग्रह
Page #58
--------------------------------------------------------------------------
________________
॥५२॥
76440UCCU
१८विनीतः १९कृतज्ञः२०परहितोऽपि च । २१लब्धलक्षो धर्मरत्नयोग्योऽमिमिर्गुणैर्भवेत् ॥८॥xप्रायेण राजदेशस्त्रीभक्तवार्ता त्यजेत्सुधीः । यतो नार्थागमो कश्चित्प्रत्युतानर्यसंभवः ॥९॥ सुमित्रर्बुन्धुभिः सादं कुर्याद्धर्मकां मिथः । तद्विद्भिः सह शास्त्रार्थरहस्यानि विचारयेत् ॥१०॥ पापबुद्धिर्भवेद्यस्मात् वर्जयेत्तस्य संगतिम् । कायेन वचनेनापि न्यायं सुंचेन कर्हि चित् ॥११॥ अवर्णवादं कस्यापि न वदेत्तमाग्रणीः। पित्रोमुरोः स्वामिनोऽपि राजादिषु विशेषतः ॥१२॥ मलिनधर्मनिन्दकैः । दुःशीलोमिभिश्चौरैः संगति वर्जयेदलम् ।।१३।। अज्ञातप्रतिभूः कीत्र्यै अज्ञातस्थानदो गृहे । अज्ञातकुल-है संबंधी अज्ञातभृश्यरक्षकः ॥१४॥ स्वस्यो कोपकर्ता च २स्वस्योल सिक्ग्रिही। स्वस्योध्वं गुणग: च स्यौरवं भृत्यसंग्रही ॥१५॥ उद्धाराणमोक्षार्थी भोक्ता भृत्यस्य दण्डनात् । दस्थ्ये पूर्वाजिताशंसी स्वयं स्वगुणवणकः॥१६॥ *णाद्धर्म विजानाति त्याज्यं दत्ते भने सति । विरोधं स्वजनैः साद स्नेहं च कुरुते परैः । १७॥ उक्त्वा स्वयं च हसति यत्सत्खादति बक्ति च । इहामुत्र विरुद्धानि मूखंचिह्नानि संत्यजेत् ॥१८॥ न्यायाजितधनश्चर्यामदेशाकालयोस्त्यजन् । राजविद्वेषिभिः
x“प्रायो न राजेदशस्त्रीभक्तवार्ता सृजेत्सुधीः" इत्यपि पाठः। १ पोताना वडील उपर कोप करनार, २ पोताना प्रिय माणसनी 31 साये झगडो करनार, ३ पोताथी अधिक गुणी साथे विवाद करनार अने ४ उंचा दरज्जाना माणसोने नोकर राखनार. * "ऋणाद्धर्मावदाती
च" इत्यपि पाठः । १ इह स्वामिद्रोह-मित्रद्रोह-विश्वस्तवञ्चनाचौर्यादिगार्थोपार्जनोपायभूतः स्वस्ववर्णानुरूपः सदाचारो न्यायस्तेन सम्पन्न उपागतो विभवः सम्पद्यस्य सः, तथा शुद्धव्यवहारोपार्जितो हि विभव इहलोकसुखायाशङ्कनीयतया स्वशरीरेण तत्फलपरिभोगामित्रस्वजनादौ संविभागकरणाच्च । यदाह
RECHARSHAN
Page #59
--------------------------------------------------------------------------
________________
+
संग्रह
धर्मोपदेश-18| संग विरोध च घनैः समम् ॥१९॥ ॥५३॥
सर्वत्र शुचयो धीराः सकर्मबलगविताः । कुकर्मनिहतात्मानः पापाः सर्वत्र शकिताः ॥१॥ इहान्यायप्रवृत्तौ पुरुषस्य द्विविधाभिशङ्कनीयता, भोक्तु ग्यविभवस्य च। तत्र भोक्तुः परद्रव्यद्रोहकार्ययमित्येवं दोषसंभावनलक्षणा । | भोग्यस्य पुनः परद्रव्यमिदमित्थमनेन भुज्यते, इत्येवंरूपा। तत्प्रतिषेधादनभिशङ्कनीयता, तया । अत्रायं भावः-न्यायोपार्जितवित्तव्ययं कुर्वाणो न केनापि कदाचित्किञ्चिदभिशक्यते । एवं चाव्याकुलचेतसः प्रशस्तपरिणतेरिहलोकेऽपि महान् सुखलाभः सर्वत्र यशःप्रशंशाप्रातिश्च । परलोकहिताय च सत्पात्रादिषु विनियोगेन पुण्यानुबन्धिपुण्यप्राप्तिहेतुत्वात् दीनानाथादिषु कृपया वितरणाच्च । इह न्यायार्जितवित्त
सत्पात्रादिविनियोगाभ्यां चतुर्भङ्गी यथा-"न्यायागतविभवसत्पात्रविनियोगः !" अयं चाक्षेपेण पुण्यानुबन्धिपुण्यहेतुत्वात् । सुदेवत्वभोगभूमिः टू मनुष्यसम्यक्त्वादि प्राप्यासन्नसिद्धिफलो धनसार्थवाहशालिभद्रादिवत् । यदाह
परितुलियकप्पपायवचिन्तामणि कामधेणुमाहप्पं । दाणाओ सम्मतं, पत्तं धणसत्यवाहेणं ॥१॥ यद्वा नन्दिषेणादिवत्
क्वापि संनिवेशे कोऽपि ब्राह्मणो धनौधैधनदस्पर्डी यज्ञप्रारम्भे ब्राह्मणलक्षभोज्यं प्रारब्धवान् । तत्र सहाय्यार्थ कमपि जैन दानरुचिं निःस्वब्राह्मणं लक्षभोज्यसमाप्तावुद्धरितं धनाज्यादि तुभ्यं दास्यामीति प्रतिज्ञाय स्थापितवान् । क्रमेण लक्षभोज्यसंपूर्ते शेष तन्दुलादिकं न्यायागतं प्रासुकं मत्वा निःस्वद्विजेनाचिन्ति; यदुतैतत्क्वापि सत्पात्राय दीयते तदा बहुफलं जायते । यत :
"नायागयाणं कप्पणिज्जाणं अन्नपाणाइदव्वाणं पराए भत्तीए आयानुग्गहबुद्धीए संजयाणं दाणं अतिहिसंविभागो मुक्खफलो।"
Page #60
--------------------------------------------------------------------------
________________
॥५४॥
RESPELLS0
तदनु तेन दयाब्रह्मचर्यादिगुणवन्तः कियन्तः साधर्मिका भोजनाय निमन्त्रिताः, तद्भोजनावसरे च कश्चिन्महाव्रती मासक्षपणपारणे समागात् । तेन द्विजेन सत्कारश्रद्धापूर्वकं तदन्नापानादि तस्मै दत्त, एतेभ्योऽप्ययं यती विशेषपात्रमिति निश्चित्य । उक्तं च
मिथ्यादृष्टि सहस्रेषु, वरमेको ह्यणुव्रती । अणुव्रतीसहस्रषु, वरमेको महाव्रती ।
महाबति सहस्रेषु, वरमेको हि तात्त्विकः । तात्त्विकस्य समं पात्रं, न भूतं न भविष्यति ॥ २॥ कालेनायुः परिसमाप्तौ स पात्रदानदाता तद्दानमहिम्ना प्रथमकल्पे सुर: समजनि । ततश्च्युत्वा राजगृहे श्रेणिक सुतो निन्दिषेणनामा जातः । यौवने पञ्चशतराजकन्यापाणिग्रहणम् । २दोगुन्दुकदेव इव मनोरमविषयसुखोदधिमम आस्ते । इतश्च स लक्षभोज्यकारी विप्रः पापानुवन्धिपुण्यपोषकस्तादग्निर्विवेकदानाबहुभवेषु किञ्चिद्भोगादिसुखानि भुक्त्वा क्वाप्यरण्ये हाती जातः । पूर्वयूथेशविनाशितानेकहस्तिसुतया करिण्या यूथेशं वञ्चयित्वा तापसाश्रमे जनितो मुक्तश्च । तत्र तापसकुमारैः सह वृक्षसेचनाचापसैः कृतसेचनकनामाऽभूत् । अन्यदा पितरं | यूथेशं हत्वा हस्तिनीयूथं गृहीतवान । मातुश्च प्रपञ्चं ज्ञातपूर्वी तापसाश्रमं बभज । तापसैः खिनैः श्रेणिकस्य स गजो दर्शितः । स चैवंभूतः । यथा- --
तुङ्गः सप्तकरान् दी| नवहस्तांस्त्रीन विस्तृतः । दशहस्तपरिणाहो विंशत्या भूषितो नखैः ।।१।। आरोपितधनुवंशःप्रोच्चैः कुम्भो लघुगंले । मधुपिङ्गलनेत्रश्च चञ्चश्चन्द्रोज्ज्वलद्युतिः ॥२।
चत्वारिंशत्समधिकचतुःशतसुलक्षगः । स द्विपो भद्रजातीयः सप्ताजसुमतिष्ठितः ॥३॥ १" नन्दिषेणो नाम्ना" । २" दागन्दुक""दोगुन्दक"। ३ “खेदितेः"।
SECURIOUSA
Page #61
--------------------------------------------------------------------------
________________
धर्मोपदेश
॥५५॥
श्रणिकेनापि कथंचिद् धृत्वा पट्टहस्ती कृतः । राजयोग्याहाराच्छादनादिभिः परिचर्यमाणः सुखी जातः । अथान्यदा तापसैरस्मदाश्रम - भञ्जनफलमेतदिनि स्मारितमर्मा स्तम्भमुन्मूल्य निर्गतः । पुनस्तापसा श्रमो भग्नः पृष्टौ श्रेणिकः सपरिकरः । हस्ती १ दुर्दमः । केनापि वशीकर्तुमशक्यः । नृपादेशेन नन्दिषेण कुमारेण हक्कितः सन् तं कुमारं दृष्ट्वा ममैष क्यापि सम्बन्धीती हापोहवशाज्जातजातिस्मृतिः शान्स एव तस्थौ । ततः कुमारेणानीयालानस्तम्भे निबद्धः श्रेणिकादीनां विस्मयश्च ।
अत्रान्तरे वैभारगिरौ श्रीवीरजिनः सम वसृतः । श्रेणिकाभयनन्दिषेणादयो वन्दनार्थं प्राप्ताः । धर्मदेशनान्ते स्वामिपार्श्वे पृच्छा हस्त्युपराभादि विषया । कथितश्च जिनेन पूर्वभवलक्षभोज्यसाबुदानादिव्यतिकरः । पुनरागामिभवप्रश्ने जिनः प्राह - राजन् ! न्यायागतवित्तसुपात्र विनियोगेन नन्दिषेणकुमारोऽनेकान् देवमनुजादि महाभोगान् भुक्त्वा संयमं प्राप्य देवभूयं प्राप्तः क्रमेण सिद्धिसुखमवाप्यतीति । गजजीवस्तु ताद्रव्यपात्राविवेचकतया दानादिना भोगान् प्राप्तवान, परं प्रेत्य प्रथम रकगामीति श्रुत्वा प्रबुद्धः श्राद्धधर्म प्रपन्नः । क्रमेण दीक्षां गृह्णन् देवतया तवाद्यापि भोगकर्म बह्रस्तीति वचोभिर्निषिद्धोऽपि प्रवज्यां जग्राह । प्राक्तननिकाचितभोगकर्मोदयप्ररितो वेश्यागृहे १२ वर्षाणि तस्थौ प्रतिदिनं दश दश प्रबोधकृत् इत्यादि नन्हिषेणकथाऽन्यतो ज्ञेया ॥
इत्थं गृही दानविधौ विधिज्ञो, न्यायार्जितार्थः शुभपात्रपोषी ।
आवाप्य भोगान सुभगान् क्रमेण, सिद्धिश्रियः संश्रयते सुखानि ॥ १ ॥
" न्यायागतद्रव्यय तत्पात्र पोषरूपो द्वितीयः " यत्र तत्र भवेषु भोगमात्रफलोऽपि प्रान्ते विरसफल एव, लक्षभोज्यकृद् ब्राह्मणवत् । यदाह१ " दुर्मत्तः " ।
संग्रह
Page #62
--------------------------------------------------------------------------
________________
॥५६॥
"दानेन भोगानामोति यत्र तत्रोपपद्यते"। "अन्यायात विभव सत्पात्रपरिपोषरूपः तृतीयः" सुक्षेत्रोप्तसामान्यवीजफलप्ररोहादिवदायती सुखप्रसवानुवन्धितया राज्ञां व्यापारिणं बह्वारम्भोपार्जितद्रव्याणां चानुज्ञातः । यत:
खलोऽपि गवि दुग्धं स्यादुग्धमप्युरगे विषम् । पात्रापात्रविशेषेण तत्पात्रे दानमुत्तमम् ॥१॥
सा साई तंपि जलं पत्तविसेसेण अंतरं गुरुवं । अहिमुहपडिय गरलं सिप्पउडे मत्तियं जाइ ॥२॥ अन्यथा महारम्भानुचितवृत्तिमलितं द्रव्यं सुक्षेत्रवापादि विना दुर्गतिफलमेव ममणादिवद् । यत:
ववसायफलं विहवो विहवस्स फलं सुपत्तविणिोगो, तय भावे ववसाओ विहवोऽवि य दुग्गइनिमित्तं ॥१॥ अन्यायार्जितार्थकुपात्रपोषादिरूपश्चतुर्थः" इह साधुजनगर्हितत्वात्परत्र कुतिनिबन्धनत्वाच्च त्याज्य एव विवेकिनाम् । यत :
अन्यायोपात्तवित्तस्य, दानमत्यन्तदोषकृत् । धेनुं निहत्य तन्मांसाक्षाणामिव तर्पणम् ॥१॥ अन्यायोपार्जितै वित्तैर्यच्छादं क्रियते जनः । तृप्यन्ते तेन चाण्डाला बुक्कसा दासयोनयः ॥२॥
दत्तः स्वल्पोऽपि भद्राय स्यादर्थो न्यायसंगतः । अन्यायातः पुनर्दत्तः पुष्कलोऽपि फलोज्झितः॥३॥ अन्यायवृत्त्या ऽर्जितवित्तं लोकद्वयेऽप्यहितायैव । यत:-इह हि लोकविरुद्धकारिणो वधबन्धादयो दोषाः, परत्र नरकपतनादयश्च । यद्यरिकस्यचित्पापानुबन्धिपुण्यकमा फलादैहलौकिकी विपन्न दृश्यते, तथाऽप्यायत्यामवश्यम्भाविन्येव । यदाह
पापेनैवार्थरागान्धः फलमामोति यत्क्वचित् । बडिशामिषवत्तत्तमविनाश्य न जीर्यति ॥१॥ १"जाय" । २ “बला-।
Page #63
--------------------------------------------------------------------------
________________
धर्मोपदेश||५७॥
संग्रह
उक्तं च
अन्यायोपात्त वित्तेन यो हितं हि समीदते । भक्षणात्कालकूटस्य सोऽभिवाञ्छति जीवितुम् ॥ २॥ तथा इहान्यायार्जितार्थोपजीविनो गृहस्थादेः प्रायोऽन्यायकलहाहङ्कारपापबुद्धिप्रवृत्तिरेव, रङ्कश्रेष्ठयादिवत् | यथा
मरुस्थस्या पल्लीग्रामे काकूपातको भ्रातरौ । तयोः कनीयान् धनी । ज्यायांस्तु निःस्वत्वेन तद्गृहे भृत्यवृत्त्या निर्वहते । एकदा वर्षारात्रौ है। दिवसकर्मपरिश्रान्तः काकूयाको रात्रौ प्रसुप्तः । पातकेनाभिदधे-प्रातः । स्वकेदाराः पयःपुरैः स्फुटितसेतवः, तब तु निश्चिन्तता इत्युपालब्धः ।
स तदा त्यक्तस्रस्तरः स्वं दरिद्रिणं परगृहकर्मकारिणं निन्दन् कुद्दालं लात्वा यावत्तत्र याति तावत्कर्मकरान स्फुटितसेतुबन्धरचनापरान दृष्ट्वा, के यूयमिति पृष्टाः । भवद्भातुः कामुकाः इति तैरुक्ते क्वापि मदीयास्ते सन्ति ? इति पृष्टे वलभीपुर्या सन्तीति ते प्राहुः ।।
अथ कालक्रमेण प्रस्तावं प्राप्य वलभ्यां गतः सकुटुम्बः । तत्र गोपुरासन्नवास्याभीराणां संनिधौ निवसन अत्यन्तकृशतया तै रङ्क इति दत्ताभिधानस्तार्णमुटजं कृत्वा तेषामवष्टम्भेनाट्ट मण्डयित्वा तस्थौ । एकदा कश्चित् कार्पटिकः कल्पप्रमाणेन रैवतशैलादलाबुना सिद्धरसमादाय मार्गे काकूतुम्बीति सिद्धरसादशरीरिणी वाणीं निशम्य जातभोर्वलभीपरिसरे तस्य सच्छद्मनो वणिजः सद्मनि तदलाबुम्तत्रोपनिधी. चक्रे । स स्वयं सोमनाथयात्रार्थ गतः। कस्मिन्नपि पर्वणि पाकविशेषाय चुल्ली नियोजितायां तापिकायामलाबुरन्ध्र द्गलितरसबिन्दुना हिरण्यमयीं निभाल्य स वणिक तं सिद्धरसं निर्णीय तदलाबुसहितं गृहसारमन्यत्र स्थापयित्वा स्वगृहं प्रज्वालितवान् । अपरस्मिन् गोपुरे गृहं कृत्वा स्थितः ।
तत्र निवसता प्राज्याज्यकयकारिण्याः स्वयं घृतं तोल्यस्तदक्षीणतादर्शनाद् घृतपात्राधः कृष्णचित्रककुण्डलिकां निश्चित्य केनापि छद्मना तां गृहीतवान् । एवं कपरकूटतुलमानव्यवहारादिभिः पापानुबन्धिपुण्यबळेन व्यवसायपरस्य रश्रेष्ठिनो मिरितं बहु द्रव्यम् ।
Page #64
--------------------------------------------------------------------------
________________
॥५८॥
एकदा कश्चित्स्वर्णसिद्धिकर्ता मिलितः । सोऽपि कपटवृत्त्या वञ्चितो गृहीता सुवर्णसिद्धिः । एवं त्रिविधसियाऽनेककोटिधनेश्वरो जातः | परमन्याचार्जितविभवपरिशीलनेन पूर्व निर्धनस्य पश्चाद्धनसम्पत्त्युत्सेकतया च क्वापि तीर्थे सत्पात्रेऽनुकम्पास्थाने वा स्वश्रियो न्यासो दूरे तिष्ठतु, प्रत्युत सकललोकोच्चाटन-नवनवकरवर्द्धनाऽहङ्कारपोसान्यधनिस्पर्धीमत्सरादिमिस्तां रमां कालरात्रिरूपां लोकायाऽदर्शयत् । __अथान्यदा स्वसुतारत्नखचितकङ्कतिकायां राज्ञा स्वपुत्रीकृते गर्गितायां तद्विरोधात्स्वयं म्लेच्छमण्डले गत्वा कनककोटीदत्वा मुगलान् समानयत् । तैर्देशभने कृते रथेन राज्ञः सूर्यमण्डलागच्छत्तुरगरक्षान् करवितरणैर्विभिद्य कूटप्रपञ्चः कारितः पुरा हि राजा सूर्यवरप्राप्तं दिव्यतुरङ्गमारोहति तदनु सङ्केतितपुरुषैः पञ्चशब्दवादनं क्रियते । तुरगे व्योम्नि याति । तमारूढो नृपो वैरिणो हन्ति । संग्रामसमाप्तौ तुरगः सूर्यमण्डलं प्रविशति । तदा च रङ्कभेदितपञ्चशब्दवादकै राज्ञस्तुरगारोहणात् पूर्वमेव पञ्चशब्दनादः कृतः । तुरगः समुड्डीय गतः । शिलादित्यनृपः किंकर्तव्यतामूढस्तैर्निजने । तदनुसुखेन वलभीमङ्गः सूत्रितः । उक्तं च
पणसयरी वाससय तिमिसयाई अइक्कमेऊणं । विक्कमकाला उ तओ वलहीभंगो समुष्पन्नो ॥१॥ मुद्गला अपि रणे पातयित्वा मारिताः।
एवमन्यायवित्तविलसिंत ज्ञात्वा न्यायार्थार्जनपरैभाव्यम् । तथा व्यवहारापरिहारार यातवित्तोपजीविनां पिण्डप्रकृतिधर्मकर्मादयोऽपि शुद्धा एव । यदागम :
१ इतोऽग्रे-" इति रश्रेष्ठिसम्बन्धः" इत्यधिकम् । २ इतोऽग्रे.-"ऽव्यवहारपरिहार-" इत्यधिकम् ।
5+4+4+4+4+4+4+4+4+4+4+4
Page #65
--------------------------------------------------------------------------
________________
धर्मोपदेश
॥५९॥
वारसुद्वी धम्मस्त मूलं सम्बन्नुमासए । वत्रहारेणं तु सुद्धेणं अत्थसुद्धी जओ भवे ॥ १ ॥ सुद्वेण चैव अत्थेण आहारो होइ सुद्धओ । आहारेणं तु मुद्धेणं देहसुद्धी जओ भवे ॥२॥ व्याख्या— शुद्धेनैव चार्थेनाह । रोशनादिः शुद्धो निर्दोष:, तेन पुनः शुद्धेन देहशुद्धिः बाह्यमलसद्भावे जिनाज्ञावर्तित्वेन कर्ममला
पगमात् ।
सुद्धे चैव देहे धम्मजुग्गो य जायई । जं जं कुणइ किञ्च तु तं तं से सफलं भवे ॥३॥
शुद्धेनैव च देहेन धर्मयोग्यो जायते गृहस्थः । यथा हि प्रक्षालिताङ्गः सदलङ्कारार्हो भवति यथाऽयमपीत्थं शुद्धदेहो धर्मरत्नालङ्कार योग्यः ततश्च यद्यत्करोति कृत्यं देवार्चादानानुष्ठानादिकं तत्तत्तस्य सकलं स्वर्गमोक्षफलदमेव भवेत् । अथ व्यतिरेकमाह —
अन्नहा अफलं होइ जं जं किच्चं तु सो करे । ववहारसुंद्धिरहिओ य धम्मं खिसावए जओ || ४ || खिसया यस्स्यात्तदाह
धम्मखिसं कुर्णताणं अपणो य परस्य । अबोही परमा होइ इइ सुत्ते विभासियं ॥ ५ ॥
osts यादृविध आहारस्तादृगेव पिण्डप्रकृतिबन्धः । यथा तुरङ्गमा बाल्ये महिष्याः पीतपयस्काः पयसि पतन्ति, गवां पीतदुग्धाः पानीयादूरतएव तिष्ठन्ति । तथा मनुष्योऽपि बाल्याद्यवस्था भुक्ताहारानुसारिप्रकृति । अतो न्यायार्जितार्थ एव धर्मवृद्धिहेतुः । तथाऽन्यायोपाजिंतं वर्षादिप्रान्ते राज चौराभिजलादिभिर पहियमाणत्वान्न चिरस्थायि नाऽपि स्वदेहभोगपुण्यव्ययादिहेतुरपि । उक्तं च
1
१ इतोऽवाक - " गर्हत्यविवेकि लोकैरिति ” इत्यधिकम् ॥
संग्रह
Page #66
--------------------------------------------------------------------------
________________
॥६०॥
अन्यायोपार्जितं वित्तं दशवर्षाणि तिष्ठति । प्राप्त त्वेकादशे वर्षे समूलं च विनश्यति ॥१॥ वश्वकश्रेष्ठिन इव
क्वापि संनिवेशे हेलाकः श्रेष्ठी, हली भार्या, भलाकः सुतः । श्रेष्ठी मधुरालाप-कूटतुलामान-नवपुराणादिमीलन-रसभेद-चौरापहृतादानादि पापव्यवहारप्रकारैर्मुग्थयामटलोकवञ्चनवृत्त्या धनार्जकः । स हि परवञ्चनया परमार्थतः १स्वात्मवश्चक एव । यत:
कौटिल्यपटवः पापा मायया बकवृत्तयः । भुवनं वश्चयमाना वश्चयन्ते स्वमेव हि ॥१॥ मिलितमपि द्रव्यं वर्षप्रान्तेऽन्यायायातत्वाच्चौराग्निराजादिभिरपहियते, गृहे न किमपि मिलत्ये कत्र । क्रमेण सुतो यौवने ग्रामान्तरवासिसुश्रावकश्रेष्ठिसुतां परिणायितः । वधूगुहे समायाता । श्राविका ज्ञातधर्मा । श्रेष्ठिनोऽर्ट गृहासन्नम् । श्रेष्ठी ग्रहणदानाद्यबसरे पूर्वसंकेतितप श्चपोकरत्रिपोकरमानश्कसम्वन्धेन 'सुतस्यापि पश्चपोकररूपापरनामाह्वानं करोति । क्रमेण लोकैतिवृत्तान्तैर्वञ्चकश्रेष्ठीति नामान्तरं दत्तं श्रेष्ठिनः । एकदा बध्वा भर्ती पृष्टः । कस्मात्तातो युष्मानपरनाम्नाऽऽकारयति ? तेन सर्वोऽपि व्यवसायव्यतिकरोऽकथि । वध्वा धर्मार्थिन्या श्रेष्ठि विज्ञप्तः । एवं पापव्यवहारादिनााजतं वित्तं न धर्मकर्मणे, नापि भोगाय, गृहेऽपि न तिष्ठति । ततो उन्यायार्थार्जनं श्रेयः । श्रेष्ठिनोक्तं कथं निर्वाहः ? न्यायेन व्यवहरतो लोकः४ कोऽपि न विश्वसिति । वध्वोक्तं स्वल्पमपि व्यवहारशुद्धं बहु बहु मिलति तिष्ठति च । सुक्षेत्रोप्तबीजबहुफलं, निःशंकतया भोगादिप्राप्तेर्मनसः सुखसमाधिलाभश्च । यदि न प्रत्ययो भवता तदा षण्मासी यावत्कुटवृत्तिपरिहारेण न्यायवृत्त्या व्यवसायं कुरुध्वम् । ततो वधूवचसा श्रेष्ठी तथा चके। षण्मास्यां पञ्चसेरमितं स्वर्णमर्जितम् । सलवादित्वसत्यकारितत्वादिना ग्राहका:
१ " स्वार्थवश्चकः" । २ " नासक" । ३ " ऽन्यायान्नार्थार्जनं श्रेयः" । ४ “लोके"।
Page #67
--------------------------------------------------------------------------
________________
धर्मोपदेश॥६२॥
सर्वेऽपि तस्यैवाट्टे गृह्णन्ति ददति च । लोके कोर्तिः सर्वेषां विश्वासश्च । स्वर्णमानीय वध्वाः समर्पितम् । वधूः प्राह - परीक्षां करुत | ततः पश्ञ्चसेरी कारिता । चर्म वेष्टितां स्वनामाङ्कां च कारयित्वा त्रिदिनीं राजपथे मुमोच । केनापि न दृष्टा । ततो लात्वा क्वापि महाजलाशये क्षिप्ता, मत्स्येन गलिता । मत्स्योऽपि कस्यचिज्जालिकस्य जाले पपात । पाटनानन्तरं निर्गता पञ्चसेरी । नानोपलक्ष्य श्रेष्टिनोट्टे मात्स्यिनानीता, किञ्चिद्दत्वा गृहीता । वधूवचसि प्रत्ययो जज्ञे ।
ततः शुद्ध व्यवहारपरेण बहुवित्तान्युपार्जयन सप्तक्षेत्र्यामनेकधा व्ययं कुर्वन् प्रौढ़ि परां प्राप । तदनु सर्वोऽपि लोकः शुक्लद्रव्यमेतस्येति कृत्वा व्यवसायाद्यर्थं कलान्तरादिना गृहाति । प्रवहणपूरणेऽपि तस्यैव द्रव्यं विघ्ननिवृत्त्यर्थं क्षिप्यते । कालेन तन्नाम्नाऽपि सर्वत्र वृद्धि कृत्याऽद्यापि प्रवहणचालनावसरे "हेलउ हेलउ" इति लोकाः कथयन्ति ॥
एवं शुद्धव्यवहार इहापि प्रतिष्ठाहेतुः । तस्मान्न्याय एव परमार्थतोऽर्थोपार्जनोपायोपनिषत् । उक्तं चसुधीरर्थार्जने यत्नं कुर्यान्न्यायपरायणः । न्याय एवानपायोऽयमुपायः सम्पदां यतः ॥ १ ॥
तथा
बरं विभव वन्ध्यता सुजनभावभाजां नृणा-मसाधुचरितार्जिता न पुनरूर्जिताः सम्पदः । कृशत्वमपि शोभते सहजमायतौ सुन्दरं, विपाक विरसा न तु श्वयथुसंभवा स्थूलता ॥१॥
विहाराऽऽहार-व्याहार-व्यवहारास्तपस्विनाम् । गृहिणां तु व्यवहार एव शुद्धो विलोक्यते ॥२॥ तथाऽन्यायोपलक्षणाद्देवद्रव्यज्ञानपाषण्डिपार्श्वस्थादिधनेन व्यवसायकरणं, व्याजेन ग्रहणाद्यपि महादोषकृत् । यदाह
संग्रह
Page #68
--------------------------------------------------------------------------
________________
॥६२॥
997-
A ULOAD
अन्यायदेवपापण्डितद्धनानां धनेन यः । वृद्धिमिच्छति मुग्धोऽपौ विषमत्ति जिजिविषुः ॥१॥ लौकिकेऽपि
देवद्रव्येण या वृद्धिगुरुद्रव्येण यद्धनम् । तद्धनं कुलनाशाय मृतोऽपि नरकं व्रजेत् ॥१॥ प्रभास्वे मा मतिं कुर्यात्माणैः कण्ठगतैरपि । अग्निदग्धाः प्ररोहन्ति प्रभादग्धो न रोहति ॥२॥
प्रभास्वं ब्रह्महत्या च दरिद्रस्य च यद्धनम् । गुरुपत्नी देवद्रव्यं स्वर्गस्थमपि पातयेत् ॥३॥ अत्र लौकिकी कथा । पुरा श्रीरामराज्ये
एकदा कुक्कुरः कश्चिनिविष्टो राजवर्त्मनि । केनचिद्बह्मपुत्रेण कर्करेण हतः श्रुतौ ॥१॥ था नियेल्लोहितो न्यायस्थानं गत्वा निविष्टवान् । भूपेनाइय पृष्टोऽवग निरागाः किमह हतः ॥२॥ तद्धातकं ब्रह्मपुत्र तत्रानान्थ्य नृपोऽब्रवीत् । असौ त्वद्धातको ब्रुहि कोऽस्य दण्डो विधीयते ॥३॥ वाऽवोचदत्र रुद्रस्य माठापत्ये नियोज्यताम् । क एष दण्डो राज्ञेति पृष्टः श्वा च पुनर्जगौ ॥४॥ मागहं सप्तजन्मभ्यः पूजयित्वा सदा शिवम् । देवस्वभीत्या प्रक्षाल्य पाणी भोजनमाचरम् ॥५॥ स्त्यानाज्यमन्यदा लिङ्गंपूरणे लोकढौकितम् । विक्रीणानस्य काठिन्यामखान्तः प्राविशन्मम ॥६॥ विलीनमुष्णभुक्तेनाजानता तन्मयाहृतम् । तेन दुष्कर्मणा सप्तकृत्वो जातोऽस्मि मण्डलः ।। सप्तमेऽस्मिन् भवे राजन् । जाता जातिस्मृतिर्मम । अधुना त्वत्प्रभावेणोत्पमा वाय मानुषी मम ॥८॥
Page #69
--------------------------------------------------------------------------
________________
धर्मोपदेश॥६३॥
संग्रह
RECORRRRRRRRHEAK
एवमज्ञानतो भुक्तं, देवस्वं दुःखकारणम् । रक्षणीयमतस्तद्धि विवेकज्ञैः स्वशक्तितः ॥९॥
न विषं विषमित्याहुर्देवस्वं विषमुच्यते । विषमेकाकिन इन्ति देवस्वं पुत्रपौत्रकम् ॥१०॥ स्मृतौ ॥
नन्वेवं व्यवहार प्रतिषेधे गृहस्थस्य वित्तप्राप्तिरेव न भविष्यति, तत्कथं निर्वाहव्यवच्छेदे धर्महेतुश्चित्तसमाधिलाभः स्यात् ! इत्याशङ्क्याह - न्याय एव बाप्त्युपनिषत्परा, न्याय एव च परमार्थतोऽर्थोपार्जनोपायरहस्यम् । यदाह
निपानमिव मण्डूकाः सरःपूरमिवाण्डजाः । शुभकर्मणिमायान्ति विवशाः सर्वसम्पदः ॥१॥ तथा
नोदवानर्थितामेति न चाम्भोभिभिने पूर्यते । आत्मा तु पात्रतां नेयः पात्रमायान्ति संपदः ॥१॥ शुद्धव्यवहारश्चतुर्की । यदुक्तम्
उजुववहारो चउहा जहत्थभणणं १ अवंचिगा किरिया । हुंतावायपगासण ३ मित्तीभाव य सम्भावा ४ ॥१॥ ऋजुरकुटिलः शुद्धो व्यवहाराख्यगुणस्तुचतुर्दा । यथा यथार्थभणनमविसंवादिवचनं धर्मक्रयविक्रयसाशिव्यवहारादौ । अयं भाव :
परवंचणबुद्धीए धम्ममधम्मं च जाणिऊण सया । न भणंति भावसड्ढा भणति सच्चं च महुरं च ॥१॥ कयविक्कयसट्टीसुवि ऊणब्भहियं कहति न हु अग्छ । सक्खित्तेवि निऊला न अन्नहा वाइणो हुति ॥२॥ रायसभाइगयावि हु जणं न संति अलियभणिएहिं । धम्मोवहासजणगं वयणं वजंति धम्मरया ॥३॥
CHANGACANCH
Page #70
--------------------------------------------------------------------------
________________
॥६४॥
कमलश्रेष्ट्यादिवत् । तथा " अवश्चिका किया " परव्यसनाहेतुका मनोवाक्कायव्यापाररूपा चेष्टा ॥ यदुक्तम्
तप्प विगविणा तुलापलाईहिं ऊगमन्महियं । लिंतो दितोपि परं न वंचए सुद्धधम्मत्थी ॥१॥ अवञ्च कोपलक्षणात् स्तेनाहृततत्प्रयोगादेरपि वर्जनं अष्टादशप्रसिद्धिपरित्यागपूर्वकम् । ताश्चेमाः
चौर १ चौरापको २ मन्त्री ३ मेदशः ४ काणकक्रयी ५ अन्नदः ६ स्थानद ७ चैव चौरः सप्तविधः स्मृतः ॥ १ ॥ तत्र काणकक्रयी बहुमूल्यमपि अल्पमूल्येन चौराहृतं काणकं हीनं कृत्वा क्रीणाति ।
भळनं १ कुशलं२ तर्जा३ राजभोगो४ऽवलोकनम् ५ । अमार्गदर्शनं शय्या ७ पदभङ्ग७ स्तथैव च ॥ १ ॥ विश्रामः ९ पादपतन १० मासनं ११ गोधनं १२ तथा । खण्डस्य खादनं १३ चैत्र तथाऽन्यम्माहरा जिकम १४ ॥२॥
पद्या १५ ग्न्यु १६ दक १७ रज्जूनां १८ प्रदानं ज्ञानपूर्वकम् । एताः प्रसिद्धयो ज्ञेया अष्टादश मनीषिभिः || ३|| तत्र ' भलनं ' न भेतव्यं भवता तद्विषयेऽहमेव भविष्यामीत्यादिवाक्यैश्वोर्यविषयं प्रोत्साहनम् १ | " कुशलं " मिलितानां सुखदुःखादितद्वार्ताप्रभः २ । " तर्जा " हस्तादिना चौर्य प्रति प्रेषणादिसंज्ञाकरणम् ३ । " राजभोगो " राजभोगद्रव्यापह्नवः ४ । 'अवलोकनं ' हरतां चौराणामुपेक्षा बुद्ध्या दर्शनम् ५। 'अमार्गदर्शन' चौरमार्गपृच्छकानां मार्गान्तरकथनेन तदज्ञापनम् ६ । ' शय्या ' शयनीयार्पणादि । ' पदभङ्गः पश्चाच्चतुष्पदप्रचारादिद्वारेण ८ । 'विश्राम' स्वगृह एव वास काद्यनुज्ञा ९ । ' पादपतनं' प्रणामादिगौरवम् १० । ' आसनं ' विष्टरदानम् ११ । ' गोपनं ' चौरापह्नवः १२ ।' खण्डखादनं ' खण्डमण्डका दिभक्तदानम् १३ । 'महाराजिकं' लोकप्रसिद्धम् १४ । 'पद्याग्न्युदकरज्जूनां प्रदानं" इति प्रक्षालनाभ्यंगाभ्यां दूरमार्गागमन जनितश्रमापनोदित्वेन पादेभ्यो हितं पद्यमुष्णजलतैलादि तस्य दानं
Page #71
--------------------------------------------------------------------------
________________
धर्मोपदेश॥६५॥
१३ । पाकाद्यर्थं चाग्नेः समर्पणम् १६ | पानाद्यर्थं शीतोदकस्य १७ । चौरापहृतच्चतुष्पदादिबन्धनार्थ रज्जूनां च प्रदानं १८ । ज्ञानपूर्वकं चेति सर्वत्र योज्यम्, अज्ञानपूर्वकस्याऽनपराधत्वात् । 'हुंतावायपगासण' इति अशुद्धव्यवहारकृतो ये भाविनोऽपाया अनर्थ राजदण्डनरकपातादयस्तेषां प्रकाशनं प्रकटनम् । भद्र ! मा कृथाः पापानि चौर्यादिनि, इहामुत्र चानर्थकारीणीति परेभ्यः प्रतिपादनमेवं प्रकारेण । तथा हिअनारण वित्तं दव्वमसुद्धं असुद्वदव्वेणं । आहारोवि असुद्धो तेण असुद्धं सरीरंपि ॥१॥
देहेण असुद्वेणं जं जं किअइ कयावि सुहकिच्चं । तं तं न होई सहलं बीयं पित्र उसरनिहितं ॥ २ ॥
तथा “ मितीभावो य सब्भावा" इति मित्रस्य भावः कर्म वा मैत्री, तस्या भावो भवनं निष्कपटतया । सुमित्रयन्निष्कपटमैत्री करोतीत्यर्थः । न तु कपटमैत्री दर्शयन् जनं वञ्चयति । एवं हि गोमुखव्याप्रवृत्त्या व्यवहरन् सर्वेषामविश्वासस्थानं पापभाक् च भवेदिति ज्ञात्वा चतुर्द्धा ऋजुभ्यवहारः स्याद्विवेकी । अयं च व्यवसायव्यवहारः
ऋयाणकेष्वद्दष्टेषु न सत्यङ्कारमर्पयेत् । दद्याच्चेद्बहुभिः सार्द्धमिच्छेल्लक्ष्मीं वणिग् यदि || १ || कुर्यात्तत्रार्थसम्बन्धमिच्छेद्यत्र न सौहृदम् । यदृच्छया न तिष्ठेच्च प्रतिष्ठाभङ्गभीरुकः ||२|| व्यापारिभिश्च विप्रैश्व सायुधैश्च वणिग्वरः । श्रियमिच्छन्न कुर्वीत व्यवहारं कदाचन ॥३॥ नटे पण्याङ्गनायां च द्यूतकारे विटे तथा । दद्यादुद्धारके नैव धनरक्षापरायणः || ४ || धर्मबाधाकरं यच्च यच्च स्यादयशस्करम् । भूरिलाभमपि ग्राह्यं पण्यं पुण्यार्थिभिर्न तत् ॥ ५॥ धनं यश्वाते किंचित्कूटमानतुलादिभिः । नश्येत्तन्नैव दृश्येत तप्तपात्रेऽम्बुविन्दुवत् || ६ ||
44444
संग्रह
Page #72
--------------------------------------------------------------------------
________________
॥६६॥
भाव्यं प्रतिवा नैव दाक्षिण्येन न साक्षिणा । कोज्ञपानादिकं चैव न कर्त्तव्यं यतस्ततः ॥७॥ धातुवादादिसम्बन्धाद्धनमीहते । स मषीकूचकैर्षा धवलीकर्तुमिच्छति |८||
इह प्रायो लोभाकुलिततया बद्द्वारम्भश्रावकानुचितद्विपद चतुष्पद लोहगुली तिलादिकु वस्तु व्यवसाययन्त्रकर्मादिकुव्यापारधर्मकर्मव्यय संक्षेपादिप्रकारैः क्रियमाणेन धनवृद्धिर्जायते, शुभकर्मोपचितधर्मानुसारित्वात्तस्याः । यतः -
यत्नानुसारिणी विद्यालक्ष्मीः पुण्यानुसारिणी । दानानुसारिणी कीर्तिर्बुद्धिः कर्मानुसारिणी ॥ १ ॥ अत्र घनश्रेष्ठिज्ञातम् -
काञ्चनपुरे सुन्दर श्रेष्ठिभूः घनश्रेष्ठी । ९९ लक्षधनत्वामि । ५५ लक्षाः पूर्वजकमागताः । ४४ लक्षास्तत्पित्राऽर्जिताः । पितरि स्वर्गते तेन श्रेष्ठिना कोटिं कर्तुमिच्छता गृहधर्मादिव्ये लक्षमेकं न्यूनं कृतं, तथाऽपि वर्षान्ते लेखके विलोकिते केषाञ्चिकयाणकाणां समभवनादिना तावदेव धनं नाधिककमभूत् । ततो देशान्तरेषु १५ कर्मादान प्रकारैर्व्यवसायं वितन्वता समधिककोटिरप्यर्जिता । पश्चादागच्छतो मार्गे भिल्लैः सर्व लुण्टितम् । किञ्चिदाभरणादिसारं गुप्तीकृतं तल्लात्वा गृहे समायातः । पुनर्लेखके तावदेव । ततो महालोभाकुलमनाः पल्ल्यादिप्रत्यन्तग्रामेषु चौरानीतवस्तुसमर्ध्यादान चौरप्रदानविरुद्धराज्यातिक्रमादिभिः सपाद कोटिमुपार्जितवान् । क्वापि ग्रामे वह्निना सर्वे ज्वलितम् । गृहागतः स्वनिदापरो मित्रेण जिनदत्तेन बोधितः । हे सुहृत् मा कुव्यवसायेन द्रव्यहानि धर्महानि च कुरु । गृहादिव्ययमपि तावन्तमेव कुरु । ततस्तथा कृत्वा व्यवहरति एकदा कोटीध्वजवतां लक्षेश्वरैरभ्युत्थानादिप्रतिपत्ति क्रियमाणां दृष्ट्वा " साहण-वाहण - पाहण " इति भूरिद्रव्यार्जनप्रकारत्रयं श्रुत्वा पूर्वं तुरगव्यवसायो मण्डितः । पश्चान्मित्रादिभिर्वार्यमाणोऽपि पोते चटितः । बहुकोटिमितं द्रव्यमर्जितम् । पश्चादागच्छन् भग्नपोतो लब्धफल
Page #73
--------------------------------------------------------------------------
________________
12 संग्रह
धर्मोपदेश
॥७॥
कश्चोदधिमुत्तीर्य गृहमागतः । लेखके पुनः ९९ लक्षा एव । कोटिमूल्यस्य रत्नस्य जङ्घायां गुप्तीकृतस्य वपुस्तापादिनाऽल्पमूल्यभवनात् । ततः || श्रान्तः पुण्यपरः समधिकगृहधर्मादिव्यपरोऽभवत् । तथाकरणे च गृड्वस्तूनां महर्च्यतया कतिभिदिनैः कोटिरपि मिलिता । ततोऽनेकप्रासादजीर्णोद्धारजिनप्रतिमाप्रतिष्ठादिप्रौदपुण्योद्यतस्य कोटिः समधिकैव जायते, न तु न्यूना, “सर्वत्र वृद्धिः सृजतां सुधर्मम् , इत्युक्तेः क्रमेण सुपुत्रनियूंढगृहभारश्चारित्री जातः । दुस्तपस्तपोभिः क्षीणकर्मा केवली जातः, शिवं प्राप्तः।
एवमतिक्लेशादिपरिहारेण शुद्धव्यवहारमेवानुशीलयतः प्रायोऽर्थवृद्धिः । विभवत्वं च गार्हस्थ्ये प्रधान कारणमित्यादौ न्यायसम्पन्नविभव इत्युक्तम् ॥
इत्थं न्यायोपगतविभवः पुण्यकार्याण्यनेकान्यातन्यानो विशदविधिना प्राप्तकीर्तिप्रतिष्ठाः ।
लोके श्लाघापदमधिगतः शुद्धगाईस्थ्यधर्म योग्यः प्रोक्तो मुनिभिरुदयत्सद्विवेकिसवेकः ॥१॥ आचारोपदेशः अन्यगोत्रैः कृतोद्वाहा कुलशीलसमैः समम् । सुपातिवेश्मिके स्थाने कृतवेश्मान्वितः स्वकैः ॥२०॥ उपलुप्तं त्यजन् स्थान है कुर्वन्नायोचितं व्ययम् । वेषं वित्तानुसारेणाप्रवृत्तो जनगर्हिते ॥२१॥ देशाचारं चरन् धर्मममुश्चन्नाश्रिते हिते । बलाबलं विदन् जानन् विशेषं च हिताहितम् ॥ २२ ॥ वशीकृतेन्द्रियो देवे गुरौ च गुरुभक्तिमान् । यथावत् स्वजने दीनेऽतियो
१"व्यवसायं" इत्यपि ।
Page #74
--------------------------------------------------------------------------
________________
| च प्रतिपत्तिकृत् ॥ २३ ॥ एवं विचारचातुर्य रचयंश्चतुरैः समम् । कियतीमतिक्रमन् वेलां शृण्वन् शास्त्राणि वा भणन् |
॥२४॥ कुर्वीतार्थार्जनोपायं न तिष्ठेदेवतत्परः । उपक्रमं विना भाग्यं पुंसां फलति न क्वचित् ॥२५।। शुद्धेन व्यवहारेण व्यवहारं सृजेत्सदा। कूटतोल कूटमानं कूटलेख्यं च वर्जयेत् ॥२६॥ अंगारवनशकटभाटकस्कोटजीविका । दन्तलाक्षारसकेशविषवाणिज्यकानि च ॥२७॥ यन्त्रपीडा निलछिनमसती पोषण तथा। दवदानं सर शोष इति पञ्चदश त्यजेत् ।।२८।। लोहं मधूकपुष्पाणि मदनं माक्षिकं तथा । वाणिज्याय न गृण्डियाकन्दान पत्राणि वा सुधीः ॥ २९॥ स्थापयेत्फाल्गुनादुवं न तीलानतसीमपि । गुडटुप्परकादीनि जन्तुनानि घनागमे ॥ ३० ॥ शकटं वा पलिवान् नैव प्राषि वादयेत् ॥ प्राणिहिंसाकरं प्रायः कृषिकर्म न कारयेत् ॥ ३१ ॥ विक्रीणीयात्माप्तमूल्यं न वान्छेदधिकाधिकम् । अतिमूल्यकृतां प्रायो मूलनाशः प्रजायते ॥ ३२ ॥ उद्धारके न प्रदद्यात्सति लाभे महत्यपि । ऋते ग्रहणकाद् व्याजे न प्रदद्याद्धनं खलु ॥३३॥ जानन् स्तेनाहृतं नैव गृहियाद्धर्ममर्मवित् । वर्जयेत्तत्प्रतिरूपं व्यवहारं विचारवान् ॥३४॥ तष्करैरन्त्यजेधूतमलिनैः पतितः समम् । इहामुत्रहितं वाञ्छन् व्यवहारं परित्यजेत् ॥ ३५ ॥ विक्रीमानः स्ववस्तूनि वदेत् रेकूटक्रयं नहि । आददानोऽन्यसतानि सत्यकारं न लोपयेत् ॥ २६ ।। अदृष्टवस्तुनो नैव साटकं दृढयेद् बुधः । स्वर्णरत्नादिकं पायो नाददीतापरीक्षितम् ।। ३७॥ राजतेजो विना न स्यादर्थापन्निवारणम् । नृपाद्याननुसरेत्तत्पारवश्यमनाश्रयन् ॥ ३८ ॥ तपस्विनं कवि वैद्य मर्मज्ञं भोज्यकारकम् । मान्त्रिकं निजपूज्यं च कोपयेजातु नो बुधः ॥ ३९ ॥ अतिक्लेशं च धर्मातिक्रमणं नीचसेवनम् ।
१'जातु' इत्यपि पाठः । २ जुठो खरीदी ।
KOREACHERWk
Page #75
--------------------------------------------------------------------------
________________
धर्मोपदेश॥६९॥
विश्वस्तघातकरणं नाचरेदर्थनत्परः || ४० || आदाने च प्रदाने च न कुर्यादुक्तलोपनम् । प्रतिष्ठां महतीं याति नरः स्ववचने स्थिरः ||४१ || धीरः स्ववस्तुनाशेऽपि पालयेद्धि निजां गिरम् । नाशयेत्स्वल्पलाभार्ये वसुवत्स्यात्स दुःखितः ॥४२॥ एवं व्यवहारपरो यामं तुयै च यापयेत् । वैकालिककृते गच्छेदथो मन्दिरमात्मनः ||४३| एकाशनादिकं येन प्रत्याख्यानं कृतं भवेत् । आवश्यककने सायं मुनिस्थानमसौ व्रजेत् ॥ ४४ ॥ दिवसस्याष्टमे भागे कुर्याद्वैकालिकं सुधीः । प्रदोषसमये नैव निश्यद्यामैत्र कोविदः || ४५ ॥ चत्वारि खलु कर्माणि सन्ध्याकाले विवर्जयेत् । आहारं मैथुनं निद्रां स्वाध्यायं च विशेषतः ।। ४६ ।। आहाराजायते व्याधिर्मैथुनान्गर्भदुष्टता । भूतपीडा निद्रया स्यात् स्वाध्यायाद् बुद्धिहीनता ||४७|| प्रत्याख्यानं द्युचरिमं कुर्याद्वैकालिकादनु । द्विविधं त्रिविधं चापि चाहारं वर्जयेत्समम् ॥ ४८ ॥ अहो मुखेऽवसाने च यो द्वे द्वे घटिके त्यजेत् । निशाभोजनदोषज्ञो ( विज्ञेयः ) पुण्यभाजनम् ॥ ४९ ॥ करोति विरति धन्यो यः सदा निशि भोजनात्। सोऽर्द्ध पुरुषायुष्कस्य स्यादवश्यमुपोषितः ॥ ५० ॥ वासरे च रजन्यां च यः खादन्नेव तिष्टति । शृपुच्छ परिभ्रष्टः स्पष्टं स पशुरेव हि ।। ५१ ।। उलूककाकमार्जारगृध्र शम्बरस्कराः | अहिवृश्चिक गोधाश्च जायन्ते रात्रिभो - जनात् ।। ५२ ।। नैवाहुतिर्न च स्नानं न श्राद्धं देवतार्चनम् । दानं वा विहितं रात्रौ भोजनं तु विशेषतः ।। ५३ ॥ एवं नद्यचतुरोऽपि यामान् । नयाभिरामः पुरुषो दिनस्य । नयेन युक्तो विनयेन दक्षो भवेदसावच्युतसौख्यभाग वै ॥ ५४ ॥ ॥ इति श्री रत्नसिंहसूरीश्वर शिष्य श्री चारित्र सुन्दरगणि विरचिते आचारोपदेशे तृतीयो वर्गः ॥ १ वसुनामक नृपवत् । २ " व्यवहार पर " इत्यपि पाठः । ३ सांजे बालु करवाने माटे ।
संग्रह
Page #76
--------------------------------------------------------------------------
________________
॥७
॥
॥ अथ चतुर्थों वर्गः ॥ प्रक्षाल्य स्वल्पनीरेण पादौ हस्तौ तथा मुखम् । धन्यमन्यः पुनः सायं पूजयेच्छी जिनं मुदा ॥१॥सक्रियासहितं ज्ञानं जायते मोक्षसाधकम् । जानन्निति पुनः सायं कुर्यादावश्यकक्रियाम् ॥२॥ क्रियैव फलदा लोके न ज्ञानं फलदं मतम् । यतः स्वाभक्ष्यभेदज्ञो न ज्ञानात्सुखितो भवेत् ॥ ३॥ गुर्वभावे निजे गेहे कुर्वीतावश्यक सुधीः । विन्यस्य स्थापनाचार्य नमस्कारावलीमथ ॥ ४॥ धर्मात्सर्वाणि कार्याणि सिद्धयन्तीति विदन् हृदि । सर्वदा तद्गतस्त्रान्तो धर्मवेला न लंघयेत् ॥ ५ ॥ अतीतानागतं कर्म क्रियते यजपादिकम् । वापिते घोषरक्षेत्रे धान्यवन्निष्फलं भवेत् ॥ ६ ॥ विधि सम्यक् प्रयुञ्जीत कुर्वन् धर्मक्रियां सुधीः । हीनाधिकं सृजन् मन्त्रविधि य:खितो भवेत् ॥ ७॥ धर्मानुष्ठानबैतथ्यात्प्रत्युतानर्थ संभवः । रौद्ररन्ध्रादिजनको दुःप्रयुक्तादिवौषधात् ॥ ८॥ वैयावृत्यकृतं श्रेयोऽक्षयं मत्वा विचक्षणः । विहितावश्यक श्राद्धः कुर्याद्विश्रामणां गुरोः ॥९॥ वस्त्रातमुखा मौनी हरन् सर्वांगज श्रमम् । गुरुं संवाहयेद्यत्नात्पादस्पर्श त्यजन्निजम् ॥१०॥ ग्रामचैत्ये जिनं नत्वा ततो गच्छेत्स्वमन्दिरम् । प्रक्षालितपदः पञ्चपरमेष्ठिस्तुति स्मरेत् ॥११॥ अर्हतः शरणं सन्तु सिद्धाश्च शरणं मम । शरणं जिनधर्मो मे साधवः शरणं सदा ॥ १२॥ नमः श्रीस्थूलभद्राय कृतभद्राय तायिने । शीलसन्नाहमाधृत्य यो जिगाय स्मरं स्यात् ।। १६ ।। गृहस्थस्यापि यस्यासीच्छीललीला बृहत्तरा । नमः सुदर्शनायास्तु सदृर्शनकृतश्रिये ॥१४॥ धन्यास्ते कृतपुण्यास्ते मुनयो जितमन्मथाः । आजन्म निरतीचारं ब्रह्मचर्य चरन्ति ये ॥१५॥
Page #77
--------------------------------------------------------------------------
________________
संग्रह
धर्मोपदेश-४ निःसत्वो भूरिकर्माहं सर्वदाप्यजितेन्द्रियः। नेकाहमपि यः शक्तः शीलमाधातमुत्तमम् ॥१६॥ संसार ! तव निस्तारपदवी ॥७१॥ | न दवीयसी । अन्तरा दुस्तरा न स्युर्यदि रे मदिरेक्षणाः ॥१७ ॥ अनृतं साहसं माया मूर्खत्वमतिलोभता । अशौचं
निर्दयत्वं च स्त्रीणां दोषाः स्वभावजाः॥ १८॥ या रागिणि विरागिण्यः स्त्रियस्ताः कामयेत कः । सुधीस्ता कामयेन्मुक्ति या विरागिणि रागिणी ।। १९ ॥ एवं ध्यायन् भजेन्निद्रां स्वल्पकालं समाधिमान् । भज्जेन्न मैथुनं धीमान् धर्मपर्वसु कर्हि चित् ॥ २०॥ नातिकालं निषेवेत प्रमीलां धीनिधिः पुनः । अत्यादृता भवेदेषा धर्मार्थसुखनाशिनी ॥ २१॥ अल्पाहारा अल्पनिद्रा अल्पारम्भपरिग्रहाः । भवन्त्यल्पकषाया ये ज्ञेयास्तेऽल्पभवभ्रमाः ॥ २२ ॥ निद्राहारभयस्नेहलजाकामकलिक्रुधः । यावन्मात्रा विधीयन्ते तावन्मात्रा भवन्त्यमी ॥ २३ ॥ विघ्नवातलता नेमि श्रीनेमि मनसि स्मरन् । स्वापकाले नरो नैव दुःस्वप्नैः परिभूयते ॥ २४ ।। अश्वसेनावनीपालवामादेवीतनूरुहम् । श्रीपाश्चै संस्मरन् नित्यं दुःस्प्नं नैष पश्यति ॥ २५ ॥ श्रीलक्ष्मणांगसंभूतं महसेननृपाङ्गाजम् । चन्द्रप्रभं स्मरन् चित्ते सुखनिद्रा लभेरसौ ।। २६ ॥ सर्वविघ्राहिगरुडं सर्वसिद्धिकरं परम् । ध्यायन् शान्तिजिनं नैति चौरादिभ्यो भयं नरः॥ २७ ।। इत्यवेत्य दिनकृत्यमशेषं श्राद्धवर्गजनितोतततोपम् । यच्चरमिह परत्र च लोके कीर्तिमेति पुरुषो धुतदोषम् ॥ २८ ॥
RAHARASHTRA
RRRRRRRRCH
॥ इति श्री रत्नसिंहसूरीश्वरशिष्य श्रीचारित्रसुन्दरगणिविरचिते आचारोपदेशे चतुर्थो वर्गः ॥
Page #78
--------------------------------------------------------------------------
________________
119211
॥ पञ्चमवर्गः ॥
1
लब्ध्वैतन्मानुषं जन्म सारं सर्वेषु जन्मसु । सुकृतेन सदा कुर्यात्सकलं सफलं सुधीः ॥ १ ॥ निरन्तरकृताद्धर्मात्सुखं नित्यं भवेदिति । अवन्ध्यं दिवसं कुयादानध्यानतपः श्रुतैः ॥ २ ॥ आयुषस्तृतीये मागे जीवोऽन्त्य समयेऽथवा । आयु शुभाशुभं प्रायो बध्नाति परजन्मनः ॥ ३ ॥ आयुस्तुतीयभागस्थः पर्वत्रस्त्रेषु पञ्चसु । श्रेयः समाचरन् जन्तुर्वभात्यायुर्निजं ध्रुवम् ॥ ४ ॥ जन्तुराराधयेद्धमै द्विविधं द्वितीयादिने । सृजन सुकृतसंघातं रागद्वेषद्वयं जयेत् ॥ ५ ॥ पञ्चज्ञानानि लभते चारित्राणि व्रतानि च । पञ्चमीं पालयन् पञ्च प्रमादान् जयति ध्रुवम् ॥ ६ ॥ दुष्टाष्टकर्म नाशायाष्टमी भवति रक्षिता । स्यात्प्रवचनमातृणां शुद्धयेऽष्टमदान् जयेत् ॥ ७ ॥ एकादशांगानि सुधीराराधयति निश्चितम् । एकादश्यां शुभं तन्वन् श्रावकमतिमास्तथा ॥ ८ ॥ चतुर्दशरज्जू परिवासमासादयत्यहो । चतुर्दश्यामाराधयन्पूर्वाणि च चतुर्दश ॥ ९ ॥ एकैकोच - फलानि स्युः पञ्चपर्वाण्यमूनि वै । तदत्र विहितं श्रेयोऽधिकाधिकफलं भवेत् ॥ १० ॥ धर्मक्रियां प्रकुर्वीत विशेषात्पर्ववासरे। आराधयन्नुत्तरगुणान् वर्जयेत्स्नानमैथुने ॥ ११ ॥ विदध्यात्पौषधं धीमान् मुक्तिवश्यौषधं परम् । तदशक्तौ विशेषेण श्रयेत्सामायिकव्रतम् ॥ १२ ॥ चयवनं जननं दीक्षा ज्ञानं निर्वाणमित्यहो । अर्हतां कल्याणकानि सुधीराराधयेत्तथा ॥ १३ ॥ एकस्मिन्नैकाशनकं द्वयोर्निर्विकृतेस्तपः । त्रिष्वाचामलं सपूर्वार्द्ध चतुर्षुपोषितं सृजेत् ॥ १४ ॥ सपूर्वार्द्धमुपवासं पुनः पञ्च तेष्विति । पञ्चभिर्वत्सरैः कुर्यात्तानि चोपोषितैः सुधीः ।। १५ ।। अदादिपदस्थानि विंशतिस्थानकानि च । कुर्वीत विधिना
Page #79
--------------------------------------------------------------------------
________________
॥७३॥
संग्रह
ACC- 1
skin.
| धन्यस्तपसैकाशनादिना ॥१६॥ ततो विधिध्यानपरो योऽमून्याराधयत्यहो । लभते तीर्थकृन्नामकर्माशर्महरं परम् ॥ १७ ॥
उपवासेन यः शुक्लामाराधयति पञ्चमीम् । सार्द्धानि पञ्चवर्षाणि स लभेत्पञ्चमी गतिम् ॥ १८ ॥ उद्यापनं व्रते पूर्ण कुर्याद्वा द्विगुणं व्रतम् । तोदिनप्रमाणानि भोजयेन्मानुपाणि च ॥ १९ ।। कारयेत्पश्च पच्चोच्चै नोपकरणानि च । पञ्चम्युद्यापने तद्वच्चैत्योपकरणान्यपि॥२०॥ पाक्षिकावश्यक तन्वन् चतुर्दश्यामुपोषितम्। पक्षं विशुदं तनुते द्विधापि श्रावको निजम् ॥२१॥ त्रिषु चतुर्मासिकेषु कुर्यात् षष्टं तपः सुधीः । ज्येष्टपर्वण्यष्टमं च तदावश्यकयुक सृजेत् ।। २२ ।। अष्टाहिकासु सर्वासु विशेपात्पर्ववासरे। आरंभान वर्जयेत् देहे खण्डनोत्पेषणादिकान् ॥२३॥ पर्वणि अणुयाज्ज्येष्ठे श्रीकल्पं स्वच्छमानसः । शासनो-3 सर्पणां कुर्वन्नमारि कारयेत्पुरे । २४ ॥ श्राद्धो विधाय सद्धर्मकर्म नो निर्वृतिं व्रजेत् । अतृप्तमानसः कुर्याद्धर्मकर्माणि | नित्यशः ॥२५॥ ज्येष्ठे पर्वणि श्रीकल्पं सावधानं शणोति यः। अन्तर्भवाष्टकं धन्यं स लभेत्परमं पदम् ॥२६ ।। सम्यक्त्वसेवनान्नित्यं सद्ब्रह्मव्रतपालनात् । यत्पुण्यं जायते लोके श्रीकल्पश्रवणेन तत् ॥ २७। दानस्तपोभिर्विविधैः सत्तीर्थोपासनरहो । यत्पापंक्षीयते जन्तोस्तत्कल्पश्रवणेन वै ॥ २८ ॥ मुक्तः परं पदं नास्ति तीर्थ शत्रुभयात्परम् । सद्दर्शनात्परं तचं शास्त्रं कल्पात्परं न हि ॥ २९ ॥ अमावास्यापतिपदोदीपोत्सव दिनम्थयोः । प्राप्तनिर्वाणसद्भानौ स्मरेच्छीवीरगौतमी ॥३०॥ उपवामदयं कृत्वा गौतम दीपपर्वणि । यः स्मरेत्स लभेन्नूनमिहामुत्र महोदयम् ॥३१॥ स्वगृहे ग्रामचैत्ये च विधिनार्चा जिनेशितुः । कृत्वा मङ्गलदीपं चाश्नीयात्सार्द्ध स्वबन्धुभिः ॥ ३२॥ कल्याणकं जिनानां हि परमे दिनपंचके निजशक्त्या सदार्थिभ्यो दद्यादानं यथोचितम् ॥ ३३॥ इत्थं सुपर्व विहितोत्तमकृत्यचा-चारमचारपिहिताश्रववर्गमार्गः।
0ty
Page #80
--------------------------------------------------------------------------
________________
1७४||
u
-SCRECI-RITERN
भादः समृद्धविधिवर्द्धित शुद्धबुद्धि-भुक्त्वा सुपर्वसुखमेति च मुक्तिसौख्यम् ॥ ३४॥ ॥ इति भीरत्नसिंहसूरीश्वरशिष्य श्रीचारित्रसुन्दरगणिविरचिते आचारोपदेशे पश्चमो वर्गः ।।
॥ षष्ट वर्गः। ___ श्रादो विधायः सदमै कमतो निर्वृतिं व्रजेत् । अतृप्तमानसः कुर्याद्धर्मकर्माणि नित्यशः ॥१॥ धर्मादधिगतैश्वियों | Pा धर्ममेव निहन्ति यः । कथं शुभायतिसवी स्वस्वामिद्रोहपातकी ॥२॥ दानशीलतपोभावभेदैर्धर्मश्चतुर्विधः। आराध्यः ||
सुधिया शश्वद्भुक्तिमुक्तिफलमदः॥३॥ देयं स्तोकादपि स्ताकं न व्यपेक्षो महोदयः । इच्छानुरूपो विभवः कदा कस्य र भविष्यति ॥ ४॥ ज्ञानवान ज्ञानदानेन् , निर्भयोऽभयदानतः । अन्नदानात्सुखी नित्यं नियाधिर्मेषजाद्भवेत् ।।५।। कीर्तिः & संजायते पुण्यान्न दानाद्यञ्च कीर्तये । कैश्चिद्वितीर्यते दानं ज्ञेयं तद् व्यसनं बुदैः॥ ६॥ दातुर्दानमपापाय ज्ञानिनां न |8|
प्रतिग्रहः । विषशीतापही मन्त्रबन्हौ किं दोषमाजिनौ ॥ ७ ॥ व्याजे स्याद् द्विगुणं वित्तं व्यसाये चतुर्गुणम् । क्षेत्रे शतगुणं ! ६ मोक्तं पात्रेऽनन्तगुणं भवेत् ॥ ८॥ चैत्यप्रतिमापुस्तक श्रीसंघभेदरूपेषु । क्षेत्रेषु सप्तसु धनं वपेद् भूरिफलाप्तये ॥९॥
चैत्यं यः कारयेद्वन्यो जिनानां भक्तिभावितः । तत्परमाणुसंख्यानि पल्यान्येष सुरो भवेत् ॥१०॥ यत्कारितं चैत्यगृह तिष्ठेद्यावदनेहसम् । स तत्समयसंख्यानि वर्षाणि त्रिदशो भवेत् ॥ ११ ॥ सुवर्णरूप्यरत्नमयीं दृषल्लेपमयीनपि । कारयेघोहतां मूी स वै तीर्थकरो भवेत् ॥ १२॥ अंगुष्ठमात्रामापि यः प्रतिमा परमेष्ठिनः । कारयेदाप्य शक्रत्वं सलमत्परम
Page #81
--------------------------------------------------------------------------
________________
संग्रह
धमोरदेश
७ ॥
R-A-A-CA-
648:044-458794-994-+
पदम् ॥१३॥ धर्मदुमूलं सच्छास्त्रं जानन् मोक्षफलमदम् । लेखयेद्वाचयेद्यच्च शणुयाद्धाशुद्धिकृत ॥१४॥ लेखयित्वा च शास्त्राणि यो गुणिभ्यः प्रयच्छति । तन्मात्राक्षरसंख्यानि वर्षाणि त्रिदशो भवेत् ॥१५॥ ज्ञानमक्ति विधत्ते यो ज्ञानविज्ञानशोभितः। प्रामोति स नरःप्रान्ते केवलिपदमव्ययम् ॥१६॥ रनिदानं सर्वसौख्यानामन्नदानं विभावयन् । साधर्मिकाणां वात्सल्यं कुर्याच्छक्त्या स मां प्रति ॥ १७ ॥ वात्सल्यं बन्धुमुख्यानां संसारार्णवमञ्जनम् । तदेव समधर्माणां संसारोदधितारकम् ॥ १८ ॥ प्रतिवर्ष संघपूजां शक्त्या कुर्याद्विवेकवान् । प्रासुकानि श्रीगुरुभ्यो दद्याद्वस्त्राणि भक्तितः ।। १९ । वसत्यशनपानानि पात्रवस्त्रौषधानि च । चेन्न पर्यापविभवो दद्यात्तदपि शक्तितः ।। २०॥ सत्पात्रे दीयते दानं दीयमानं न हीयते । कूपारामगवादीनां ददतामेव सम्पदः ॥२१॥ प्रदत्तस्य च भुक्तस्यर दृश्यते :महदन्तरम् । प्रभुक्तं जायते वर्णों दत्त भवति चाक्षयम् ॥ २२ ॥ आयासशतलन्धस्य प्राणेभ्योऽपि गरीयसः । दानमेवैक वित्तस्य गतिरन्या विपत्तयः ।। २३॥ क्षेत्रेषु सप्तसु वपन न्यायोपात्त निजं धनम् । साफल्यं कुरुते भादो निजयोर्धनजन्मनोः॥२४॥
॥ इति श्रीरत्नसिंहसूरीश्वरशिष्यश्रीचारित्रगणिविरचिते आचारोपदेशे षष्ठो वर्गः ।।
आचार्यश्री विजयहर्षसूरीश्वर-लघुजीवनप्रभा । एतस्यामायभूमौमरुधरविषये थांवलाख्ये प्रसिद्ध । ग्रामे धर्मे जिनोक्ते चलजिवणिजो दतचिताः पवित्राः॥ आस१ ' यातु ' पाठः । सम्यक् । २ 'निधान' इत्यपि पाठः ।
HIGARH
Page #82
--------------------------------------------------------------------------
________________
॥७६॥
तद्धर्मपत्नी विनयगुणयुता स्वामिसंसर्गसौम्या । भूरीदेवीति नाम्नाऽभवद विसरला जैनधर्मप्रवीणा ॥ १॥ क्ष्मावेदाङ्केन्दुमाने (१९४१ ) धवलदयुते फाल्गुने बाणतिथ्याम् । मासेऽब्दे वैकमाख्ये सुषुव इति सुतं गुर्विणी भूरिदेवी | तत्सुनो नामधेयं मृदुतिनो नामसंस्कारकाले । पित्रा शुद्धे मुहूर्ते निजकुलविधिना कारितं हुकूमचंदः ॥ २ ॥ बालोऽथवै शैशवशालिनीं सः । सदा वयस्यैर्मिलितोऽपि लीलाम् || प्राग्जन्म संस्कारबलेन मुक्त्वा ऽभवत्सुविद्याध्यनप्रसक्तः ॥ ३ ॥ सविधा समधित्य लौकिकगुरोः पार्श्वे स वैराग्यभाक् । पित्रादिप्रतिबोधितोऽपि सततं धर्मैकध्याने रतः । गाईस्यारुचिको मुनीश्वरसमः सद्भावनां ध्यायति । श्रीमद्भागवती भवोदधितरी दीक्षाकदोदेष्यति ॥ ४ ॥ ध्यात्वेति श्राद्धवर्यः शमरसजलधि शोधयन् सौम्यमूर्ति - मज्ञानध्वान्तभानुं गुरुममलहृदं गौर्जरीं भूमिमाप || " दाहोदग्राममध्ये कतिपय दिवसैवागतो हुकुमचंदः । आचार्यो नीति र सुनिगणसहितांस्तत्र दृष्ट्वा जहर्ष ॥ ५ ॥ सूरीश्वरं तं विधिनर्षियुक्तं । प्रदक्षिणीकृत्य प्रणम्य चोवे ||
कृपालो भवामिध्या-दीक्षां प्रदायाशु समुद्धरत्वं ॥ ६ ॥ नागेबेन्दु (१९५८) वर्षे विमलदलयुते फाल्गुने स्कन्दतिथ्याम् । ग्रामे दाहोद नाम्नि प्रथमत्रयसि वै हुक्मि चंदोऽयमेव || आचार्याणां समीपे गुरुभिरथसमं नीतिसूरीश्वराणामङ्गीकृत्य शु दीक्षां व्यहरदिति ततोऽन्यत्र कल्पो मुनीनाम् ॥७॥ प्रप्त विद्योऽतिगंभीरः श्रीहर्षविजयो मुनिः ॥ राधनपुरमायातविहरन् गुरुभिः समम् ॥ ८ ॥ व्योमयेङ्कहिमांशु (१९७०) वर्षक्रमिते मार्गेसिते वै दले । मासेविश्वतिथौ च राधनपुरे श्री सद्गुरोः सन्निधौ ॥ तत्रैवाथमुनीश्वगे गणिदं राका तिथौ प्राप्तवान् । पन्यासास्पपद भूषितोऽभवदपि प्रौढप्रतापो मुनिः || ९ || वर्षेष्टनानिधि चन्द्रमिते फलोद्यां । षष्ठ्यां तिथौ सितदले शुभशुक्रमासे || श्री नीतिसरिसुगुरोः कृपया नगर्यो ।
१. सं. १९५८ मां गणिपदेहता |
Page #83
--------------------------------------------------------------------------
________________
मंत्रह
धर्मोपदेश119.911
1-ORGEOGe%2-%
Ai%C4%AEk
सूरीश्वरास्पदमपिरलचकारः॥१०॥ बृहस्पतिसमं ज्ञाने राकेन्दमिवनिर्मलम् । प्रतापे भानतुल्यं तं क्षमायां पृथिवीनीभम् | ॥ ११॥ समुद्रमिव गांभीर्य, दयामृति तपस्विनम् ॥ सत्यधर्मोपदेष्टारं । भवसागरतारकम् ।। १२॥ विजयहर्षसूरीशं, षटः त्रिंशद्गुणसंयुतम् । श्रीमन्महेन्द्रसूरीशः शान्तो ज्ञानतपोनिधिः ॥ १३ ।। शास्त्रपारंगतः सौम्यः, कल्याणसरिपुङ्गवः ।। पन्यासपदसंमान्यो, मङ्गलविजयोगणिः॥१४॥ सुमतिःपूर्णानन्दो जिनेन्द्र विजयस्तथा एषा शिष्यावलिर्भक्त्या मुहुः स्तौतिसदा गुरुम् ॥ १५॥ बाणेन्दुखाक्षिमित (२०१५) वैक्रमवत्सरेत-तीयादिने गुरुवराय तपस्यमासे । शुक्ले जिनेन्द्रविजयेन कृतापिता च । श्री हर्षसूरिसुगुरोलंघु जीवनामा ॥ १६ ॥
॥ जगद्गुरु भट्टारक श्री होरविजयसूरीश्वर संक्षिप्त जीवनचरितम् ॥ महजगत्तापनिरासहेतुं, परोपकारार्थधृतावतारम् । श्रीनीतिसूरीश्वरपूज्यपादं, नमामि वागबुद्धिविर्वधनार्थम् ॥१॥ प्रारंभः- वैराग्यपूर्णहृदयाः त्यक्तमूर्छा जगृहुश्च चारित्रम् ।। सुविहितसाधुप्रभवः श्री हीरविजयसूरीन्द्राः ॥२॥ अस्तिश्री गुर्जरदेशे तारंगगिरि नामकं । तीर्थ तस्याधित्यकायां कैलाशशिखरोन्नतम् ॥३॥ शृङ्गं कोटिशीलानाम मुनिमोक्षपदायकम्। नागेन्द्रैस्सेवितस्तत्र भुक्तिमुक्तिप्रदायकः ॥४॥ शंखेश्वर पार्श्वनाथो भगवान् राजते स्वयम् । तं समानचतुः पूर्व नमिविनमिकिन्नरौ ॥५॥ ततस्ता प्रतिमामिन्द्रः स्वर्गे सम्पूज्य शास्त्रवत् । गिरनारगिरेः कुटे स्थापयामास तां तदा ॥६॥ सूर्याचन्द्रमसौ तस्मात् स्थानान्नीत्वा स्वधामनि । समानयं गिरेः कुटे स्थापनां चक्रतुः पुनः॥७॥ तत्रता धरणेन्द्रो हि समानीतः
श्री पूज्य विजय जिनेन्द्रसूरि-धनारीवाला
Page #84
--------------------------------------------------------------------------
________________
॥७८॥
R-SARONIR-REGISTRUECRECIASIA
स्वधामनि । ततः श्रीनेमिवचनात् श्री कृष्णः स्वयमेव हि ॥ ८॥ समानीनाय तां मूर्ति खंभाते सुमनोहरे । नगरे राजते तू | मूर्तिः पार्श्वनाथस्य मजुला ॥९॥ ईदृक् पुण्यप्रदे देशे गुर्जरेऽतिमनोहरा । प्रह्लादनपुरी नाम्नी नगरी वर्तते शुभा ॥१०॥ तत्रौसवालसंभूतः कुरासाहाख्य श्रेष्ठिकः । आसीत् भार्या तस्य नाथी नाम्नी कील पतिव्रता ॥ ११॥ अधिकाशीत्रिके | पञ्चदशे हि शतके सं. १५८३ खलु। मार्गशुक्लनवम्यां तु कुअर स्वप्न सूचितम् ॥१२। हीरं कुमारं सुषुवे नाथी भूमिविभूषणम् । | क्रमेणवर्द्धमानोऽसौ कुमारो युवकोऽभवत् ।। १३॥ एकदा स कुमारो वि-जयदानमुखाच्छ्तम् । सन्ध्यारागमिव प्राणाचंचलाश्शीघ्रगामुकाः ॥१४॥ नदीवेगमिवास्थैर्यम् यौवनं खलु प्राणिनाम् । विद्युद्वच्च लालक्ष्मीः क्षणादेव विनश्यति
॥१५॥ अतः सर्वास्ववस्थासु नरैश्च हितमिच्छुभिः। जीवरक्षामयःकार्यो धर्मों जिनेन्द्रभाषितः ॥ १६ ॥ आसाद्यते | भवाम्भोधौ भ्रमद्भिर्यत्कथंचन । मूढैस्तत्माप्य मानुष्यं हारयध्वं मुधैव मा ।।१७।। श्रुत्वोपदेशमेतादृग् हीरः प्रमुदितो गृहम् । |
जगाम पश्चात पितरौ क्रमेण स्वर्गति ययौ ॥१८॥ ततः कुमारो दीक्षार्थ विमला भगिनीस्वकाम् । निदेशायाऽर्थयत् भ्रातुः श्रुत्वेदं वचनं हि सा ॥ १९ ।। नायं कालो हि दीक्षायाः भ्रात: किं त्वं प्रभाषसे । परिणीय नितम्विन्या सह रंस्त्र चिरसुखम् ॥२०॥ वार्धक्ये वयसि प्राप्ते यदीच्छा वर्तते तव । दीक्षितम्सन् गृहं त्यक्त्वा गमिष्यसि यथासुखम् ॥ २१॥ तदाकर्ण्य कुमारोऽसौ भगिनि प्रत्युवाच च ॥२२॥ दर्भाग्रभागस्थितवारिबिन्दु, समं चलं जीवनमित्यवेहि । लक्ष्मी चला वै कुलटाऽङ्गनेव, नाटयस्य पात्रेव जनस्य प्रीतिः॥२३॥ एवं बहुविधोपायैः स्वजनाननुज्ञाप्य च । दीक्षायै प्राप्य चाज्ञां मगिन्याः सुखपूर्वकम् ॥२४॥ पणवत्याधिके पश्चदशे हि शतके खलु । ऊर्जे कृष्णे द्वितीयायां गुरुवारे शुभग्रहे ॥२५॥ गुरुणा
RECI-9-60-90%
ARRER
Page #85
--------------------------------------------------------------------------
________________
॥७९॥
धर्मोपदेश- दीक्षितो हीरो हीरzति नामकः । अभूल्लोके सुविख्यातः शातिं च परमाययौ ॥ २६ ॥ गुरूणैव ततो जैनधर्मशास्त्रं च दर्शनम् । सर्वे चाधीतवान् सम्यग्र भक्तियुक्तेन चेतसा ।। २७ ।। यत्र देशे हि माणिक्यनाथाख्य ऋपमः स्वयम् । विराजते पाश्वदेवाऽन्तरिक्षच सदैव हि ।। २८ ।। योऽन्तरिक्षः पार्श्वदेवः कल्याणाथ शरीरीणाम । वसुन्धरातोऽतीवोच्चैः स्थाने चै विराजते ॥ २९ ॥ तथा कटकग्रामे सर्वसामर्थ्यवान् किलः । कटकपार्श्वनाथः स्वामी चैव विराजते ||३०|| अस्मिन्नै जनपदे सोपुरे खलु । आदीश्वरमभो जीवत् - स्वामिनः प्रतिमाऽस्ति च ।। ३१ ।। अत्र देशे देवगिरिं पुरस्थात् कस्यचिद् द्वजात् । अधीत्य तर्कशास्त्रादिन् हीगेऽभ्यगात् गुरोः कुलम् ||३२|| गुरुः प्रमुदितो भूत्वा श्रीहीरं विदुषांवरम् । उपाध्यायपदेनाथ समानयत सत्वरम् ||३३|| दशाधिके षोडशेव्दे शतके च ततः खलु । पौषशुक्ले हि पञ्चम्यां द्दीरं सूरिपदं ह्यदात् ||३४|| सूरेः पदे प्रतिष्ठाप्य मुनिं हीरं बुधोत्तमम् । गुरुः विहारं कृतवान् देशदेशान्तरे ततः ॥ ३५ ॥ एकदा अकबरो भूपः सभायां बहुपण्डितान् आहूय प्रश्नं कृतवान् सुधर्मविषये खलु ॥ ३६ ॥ ततो वै पण्डितास्सर्वे स्वस्वस्यवर्णनम् । निजबुध्या समालोच्य कृतवान् बुधसंसदि ||३७|| सम्राट्सभायां तत्रैकः पण्डितः किल शास्त्रवित् । सर्वशास्त्रमत्रतारं हीरसूरि प्रशंसवान् ||३८|| राजन् यथा त्वं भूपेषु सर्वेषु मुक्कुटोऽसि च । तथा सर्वेषु प्राज्ञेषु होरोऽपि मुकुटायितः ॥ २९ ॥ श्रुत्वा वाक्यं पण्डितस्य सार्वमौमो अकबरः । आह्वानाथ हीरमूरे राज्ञापत्रं विलिख्य च ॥ ४० ॥ प्रेषयामास दूतोद्वौ अविलम्बितमेव हि । लाटदेशस्य गान्धारं नगरं प्राप्य तौ तदा ॥ ४१ ॥ श्रीहोरीमूरेः सेवायाम् आज्ञापत्रं ददौ किल । दूताननाच्च विज्ञप्तिं श्रुत्वा सर्वेऽपि श्रावकाः ॥ ४२ ॥ गुरुमृचुः सविनयं भक्तियुक्तेन चेतसा । यथा केशीगणधरः प्रदेशीम
54-%
संग्रह
Page #86
--------------------------------------------------------------------------
________________
116011
प्रतिबोधितम् ॥ ४३ ॥ तथा भवानपि गुरो ! सम्राजं प्रतिबोधय । यथाचार्यो हेमचन्द्रः कुमारं प्रतिबोधितम् ॥ ४४ ॥ तथाsकरसम्राजं ज्ञानं देहि जगद्गुरो । महात्मानां विभूतिर्हि विश्वोषकृतये खलु ॥ ४५ ॥ एतादृशं वचः श्रुत्वा श्रीसंघस्य मनोरमम् । श्रीहीरमूरिस्त्वरया बिहारं कृतवान् ततः ॥ ४६ ॥ यदा च राजनगराभ्यास ( अमदावाद ) मापञ्जगद्गुरुः । श्रुत्वा चागमनं तस्य साहिबखानः पुरेश्वरः || ४७|| हस्तिवाजिरथैरश्वारोहैः सैन्यैश्च पुष्पकलैः । प्रत्यानेतु गुरुं भक्तियुक्तेन पुरतो ॥ ४८ ॥ गत्वा समीपं प्राञ्जलिना प्रार्थना कृतवानिदम् । स्वामिन्नकवराज्ञप्तो द्रव्याश्वरथकुञ्जरान् ॥ ४९ ॥ उपायनं करोम्यद्य स्वीकृत्य माम् कृतार्थय। निशम्य साहिबखानस्य बच्चो हि मुनिपुङ्गवः ॥ ५० ॥ निष्परिग्रहवा श्राह मतो नाङ्गिकरोमि । इत्युक्तः प्रस्थितो हीरो गिरिमाबु प्रति खलु ॥ ५१॥ तत्र श्वेतो यत्नेन निर्मितं सुमनोहरम् । श्वेताश्वगजसंयुक्तं जिनचैत्यं ददर्श ह ।। ५२ ।। ततः सूरीश्वरो वस्तुपालेन च विनिर्मितम् । रुचिरं चैत्यमागत्य नेमिनाथं ददर्श ह ।। ५३ ।। तत्रतो विहरन् मार्गेऽचलं दुर्गमवाप्तवान् । चतुर्वदनमृषभस्वामिनं तंत्र वन्दितम् ॥ ५४ ॥ पञ्चाश्चगणक
समागत्य यतीश्वरः । कारितं धनाशाहेन चैत्यं वन्दे सभक्तिकम् ॥ ५५ ॥ तस्मिन् चैत्ये चतुर्मूर्तिधर युगादिदेवकम् | फलवर्धिपार्श्वनाथं मेडतानगरे स्थितम् ॥ ५६ ॥ उभौ चिंचौ च वन्दित्वा बिहार' कृतवास्ततः । फतेहपुर सकाशमागत्य - विश्रमं व्यधात् ॥ ५७ ॥ थानसिंहाभिधस्तत्र राजराजस्य सेवकः । यः प्रत्यहं श्रीफलं च सम्राजे झर्पयन्नृपः ॥ ५८ ॥ सूरीश्वरस्यागमनं सम्राजेऽकबराय च । न्यवेदयत श्रीसंघः थानसिंहश्व सत्वरम् ॥ ५९ ॥ ततोः नृपाज्ञया संघं सैन्यवाद्यादिभिस्सह । शाखापुर्थी राजधान्यां सूरिं प्रावेशयन्मुदा ।। ६० । सार्वभौमगुरुः शेखः सर्वशास्त्र विचक्षणः । सरिमानांय
Page #87
--------------------------------------------------------------------------
________________
धर्मोपदेश116211
यामास स्वगृहं भक्तिपूर्वकम् ।। ६१ ।। शेखेन सह धर्मस्य वार्ता कृत्वा यतीश्वरः । निखलं संगय तस्य चोन्मुमोच मुनीश्वरः ।। ६२ ।। ततः सूरिः सार्वभौमनिकटं चागमत्खलु । सम्राट् विनययुक्तः सन् नाना प्रश्नान् चकार स ॥ ५३ ॥ तेषां प्रत्युतरं दत्वा जिनधर्मस्य लक्षणम् । सम्यक् च बोधयामास शास्त्रदृष्टया यतीश्वरः ॥ ६४ ॥ गुरोर्वाक्यामृतं पित्वा साम्राटक रस्तदा । दयाधर्माद्रहृदयः अतीव च ननन्द सः ||६५ ।। भूयस्ततः सार्वभौमः सूरिं प्रत्याहसादरम् । गुरो निजाइघिकमलात् पूतयस्व नृपासनम् || ६६ ॥ सूरिस्ततः प्राह नृपं जिनधर्ममनुसरन् । राजन् कदाचित् तदधः भवेयुः कीटजन्तवः ।। ६७ ।। बिना अवलोकनं नैव पादं दातुं समुत्सहे । तनिशम्य गुरोर्वाक्यं प्रशशंस नृपो बहु ॥ ६८ ॥ एवं धर्मरहस्यं हि बोधयित्वा नृपं गुरुः । समागच्छत्पुरीं रम्यां आगरां विहरन् ततः ।। ६९ ।। चातुर्मासं व्यतीयाय तत्रैव मुनिपुङ्गवः । चिन्तामणेः पार्श्वनाथप्रतिमां तत्र वै गुरुः ।। ७० ।। स्थापयामास विधिवन् महारम्भोत्सवादिभिः । चातुर्मासोत्तर सूरिः फतेहपुरमागतः ॥ ७१ ॥ सुरेरागमनं श्रुत्वा सम्राडकनरस्तदा । द्रव्याश्वरथहस्त्याचा उपदाश्चरणे न्यधात् ॥ ७२ ॥ नाङ्गिचकार सूरिस्ताः नृपः प्राह मुनिं पुनः । मत्तः कियत् गृहित्वा मां कृतार्थय यतीश्वर ॥ ७३ ॥ एवं मुहुर्मुहु भूपः प्रार्थनां कृतवान् मुनिं । ततोऽब्रवीन्मुनिश्रेष्ठः सार्वभौममिदं वचः ॥ ७४ ॥ यदीच्छा वर्तते राजन मां दातुं किंचिदप्यथ । मे सन्ति पक्षिणस्तान् हि मोचय ||७५ || मूरेरनुज्ञामधिगम्य राजा उन्मोचितः सर्वविहंगमान् हि । पर्युषणस्थे च दिने हिंसा सम्पालनार्थे च ददौ निदेशम् । ७६ ।। षड्गव्युत्यामभिव्याप्ते डामराख्ये सरोवरे । मीनादि सर्वजन्तुनाम बधार्थ निदेशितः ॥ ७७ ॥ ततः पुनः प्राह नृपः सूरिं विनयसंयुतः । अद्यप्रभृत्यहमपि भवन्तमिव सर्वदा ॥ ७८ ॥ मृगयादि
संग्रह
Page #88
--------------------------------------------------------------------------
________________
||८२॥
SAMRORS-
जीवहिं मां न करिष्यामिम्यहं खलु । इयमेव ममेच्छास्ति निर्भया:सर्वजन्तवः। विचरन्तु यथासौख्यं क्रीडन्तु च समन्ततः ॥ ७९ ॥ मृगया जजिया शत्रुञ्जयाख्या ये करा अभृत् । स तानुन्मोचयामास सर्याज्ञामधिगम्य च ।।८०॥ एवं नाना धर्म कार्ये नृपं संयोज्य सुरिराट् । प्रचक्रमे विहारं च देशेऽन्यस्मिंस्ततः क्रमात् ॥ ८१ । तदा सम्राडकवरः हीरसुरीश्वर मुनिम् । जगद गुरुरिदं पूज्यं उपाधि प्रददे किल ।। ८२ ।। एवं बहुविधान् देशान् विहृत्य श्रीजगद्गुरुः । आजगाम पुरी
रम्याम् मथुराख्यां क्रमेण हि ।। ८३ ॥ तत्र श्रीसंघसहितो महदुत्सव संयुतः । पार्श्वनाथ प्रभोर्यात्रां चक्रे चारणवत्तया ५ ॥८४॥ श्री जम्बुपभावादीनां मुनीनाम् शान्तचेतसाम् । सप्तविंशतिपञ्चशतस्तूपान् वन्दे च भावतः॥८॥ ततो गोपालगोत्रस्थ
आदीशं ऋषभेश्वरम् । पश्चाशद् द्विरदाकर ववन्दे श्रीयतीश्वरः ॥ ८६ ॥ तत्रतो दरकाणाख्यां पुरी चागत्य सुरीराट् । वरकाणकनामानं पार्श्वनाथं नतिं व्यधात् ।। ८७ ॥ पश्चात् कृत्वा विहारंच सिद्धाचलमुपेत्य च । दर्शनं नमनं कृता विजहार गुरुः पुनः ॥ ८८ ॥ एवं विहारं कुर्वाणः पुरमजयमागतः । एकदा स गुरुवरः पार्श्वनाथाऽजयस्य च ॥८९॥ चरित्रं भावयामास श्रीसंघनिकटे हीदम् । कश्चित् श्रेष्ठी सिन्धुमथा व्यापारार्थ जगाम च ।। ९० ॥ देवयोगादकस्मादिलं वृष्ट्युत्पातमभूत् बहु । निजनौकास्थ लोकानां संहारः संप्रति ध्रुवम् ॥ ९१ ॥ यदैवं चिन्तयन् श्रेष्ठी मनः शोकाणं वेऽभवत् । तदैव पद्मावत्या देव्या आकाशगीरभूत् ।।१२।। अस्मिन्नभ्यन्तरे श्रेष्ठिन् दुःखसागरमन्थिकाम् । श्रीपार्श्वनाथ पतिमामस्ति तां निजनाविकैः ॥९३॥ उदारयित्ता चान7 नावि संस्थाप्य यत्नतः कल्पद्रपर्णपिटके स्थितां तां प्रतिमा पुनः। ॥९४॥ तटस्थद्विपमानीय दिगजयायागतः खलु । भूपं चाजयनामानं दद्यात्तं पिटकं तदा।।९५।। त्रिभिर्विशेषकं मूर्तरस्याः स्नात्रकेन
RECOGERMIREC155
NAGAR
Page #89
--------------------------------------------------------------------------
________________
धर्मोपदेश॥८३॥
(कं - जलं) राजा रोगात् विमुच्यते । करिष्यसि यदैव त्वं सर्वान् विघ्नान् विनाशये ॥ ९६ ॥ एवं देव्याः वचः श्रुत्वा नाविकेन निजेन सः । निस्सारयित्वा पिटकं नावि संस्थापितश्च तां ॥ ९७ ॥ तदैवोपद्रवास्सर्वे विलयं प्रापुरर्णवे । सम्प्रत्यपि सिन्धौ चेद विघ्नसम्भावना भवेत् पार्श्वनाथाज्जयाख्यस्य स्मरणात् सा विनश्यति ॥ ९८ ॥ ततः स द्विपमागत्य श्रेष्ठ सम्प्राप्य तं नृपम् । उक्त्वा सर्वमुदन्तं च नृपाय पिटकं ददौ ।। ९९ ।। ततो नृपोऽजयाख्ये हि नगरे सुमनोहरम् । चैत्यं निर्मापयित्वा च महाईमणिसंयुतम् ॥ १०० ॥ निस्सार्यपिटकान मूर्ति चैत्ये संस्थापितं तदा । मूर्तेः स्नात्रः जलेनैव व्याधिमुक्तोऽभवन् नृषः ।। १०१ ।। युग्मं अजयः पार्श्वनाथो हि इति नाम पुराऽभवत् । अधुनाऽजार नाम्ना च ग्रामवासेन वै पुनः ॥१०२॥ अजाराख्य पार्श्वनाथो विख्यातोऽस्ति महीतले । अस्य विस्तरवृतान्त जिज्ञासा यदि जायते । शत्रुञ्जयम - हात्म्येन ज्ञातव्यं विबुधैरिति ॥ १०३ ॥ दीक्षितानन्तरं सुरि विदधे यत्तपोमुदा । वक्ष्यमाणप्रकारेण गणयाम्यधुना हि तत् ॥ १०४ ॥ सूरीन्दुरेकाशनकं न यावज्जीवं जहौ न्यायमिव क्षितीन्द्रः । पञ्चापि चासौ विकृतीर हासीद्गुणान् स्मरस्येव परात्रभृषुः ॥ १०५ ॥ द्रव्याणि वल्भावसरे व्रतीन्द्रः, सदाददे द्वादश नाधि कानि । किं भावनाः पोषयितुं विशिष्य, भवाब्धिपारमतिसम्भयित्रीः ॥ १०६ ॥ स्वपापालोचपदे सूरिः त्रिशतीमुपोषणानां व्यतानीत्, सपादां द्विशतीं षष्ठानकरोत् चतुर्विंशतित्रिक ध्यातुमना अष्टमानां द्वासप्तति निर्मिमीते स्म, पुनराचाम्सहस्रयुग्मं चक्रे पुनत्रिंशत्याऽऽचाम्लकैवि शतिस्थानकान्यातनेतु स्म, पुनर्द्विसहस्रनिर्विकृतीश्चक्रे । पुनः स एकदृत्तिः एकस्मिन् वारके पात्रे यत्रानवच्छिन्नं पानीयान्नादिकं पतेत् सा एकदत्तिरुच्यते, यमि चेकमेव सिक्थं भुज्यते नान्यत् तदेकमित्रधं तत्प्रमुखानि तीव्राणि तपांसि चक्रे । पुनः सहस्रत्रयोत्तर
१ - भाजनावसरे ।
96-196-1967
संग्रह
Page #90
--------------------------------------------------------------------------
________________
॥८४॥
षट्शतानि उपवासान् चकार । पुनः प्रथममुपवास्तत एक भुक्तं तत आचाम्लं पुनरूपोषणं, एवं त्रयोदश मासान् याबद् विजयदान गुरोस्तपो विदधे ।
द्वाविंशन्मासपर्यन्तं वहन् योगमनुतरम् । तीव्र तपश्च विदधे मुमुक्षु पंतिराट् ततः ।। १०७ ।। सुरिमन्त्रं समाराध्य यावन् मासत्रयं पुनः । चतुष्कोटि प्रमाणं हि स्वाध्यायं व्यदधात् गुरुः ॥ १०८ ॥ जिनमूर्तिप्रतिष्ठां च पचाशद् कृतं तथा । इति नाना विधान धर्मकार्यं कृत्वा यतीश्वरः ॥ १०९ ॥ | द्विपञ्चाशत् समधिके षोडशे शतके किल । श्रादशुक्ल एकादश्यां महामन्त्र स्मरन् शुभम् ॥ ११० ॥ ऊनायां नगरे रम्ये नाकं प्राप यतीश्वरः ॥
॥ इति श्री जगद्गुरु भट्टारक हीरविजय सूरीश्वर संक्षिप्त जीवनचरितस्य पूर्वाधः ।। प्रान्तियशासकस्योपरि प्रभावः कलाखानः
अभ्ररामरसैके च १६३० शतके श्री जगद्गुरुः । यदाऽगच्छत् पाटणहि नगरं सुमनोहरम् || १ || तदा विजयसेनस्य सूरेः पाटमहात्सवं । अत्रत्य हेमराजाख्यो जैनामात्यश्च श्रावकः || २ || वहुद्रव्यव्ययं कृत्वा शुभकार्यमचीकरत् । तदा पाटणपुर्वीच शासकासीत् कलाखानः ||३|| अत्याचारेणास्य सर्वास्त्रस्ता अनुवद् बहु । सूरेः पाण्डित्यमाकर्ण्य तेन संमिलितुं पुनः || ४ || प्रतिहारं प्रेषयित्वा आह्वयन् मुनिपुंगवम् । कलाखानो हि प्रथमं सुरिं संस्कृत्य सूनृता ॥ ५ ॥ ततः पप्रच्छ सुरिं यत् गुरो सुर्यशशाङ्कयोः । वर्तते चोपरिस्तात्कः तन्ममाचक्ष्व सस्फुटम् || ६ || उच्चैः शीतरुचिश्वास्ति नीचैरस्ति दिवाकरः । इति सुरेर्वचः श्रुत्वा शासकः पुनरब्रवीत् ॥ ७ ॥ मम शास्त्रे भास्करं च उपरिस्थं हि वर्णितम् ।
Page #91
--------------------------------------------------------------------------
________________
R
धर्मोपदेश
॥८५॥
ECRUCTURESHERE
गुरुस्तदाकर्ण्य भूयः कलारखानमुवाच च ॥८॥ सर्वज्ञो नास्मि मच्छास्त्रे यथोक्तं तत समीरितम् । यथाऽऽख्यातं भवच्छास्त्रे तथवाऽङ्गीकुरुष्व त्वम् ।।९।। सुरेर्वचनमाकर्ण्य किंचित् कालं विचिन्त्य च । कलाखानोऽब्रवीत् भूयः यथार्थो हि भवद् वचः | ॥१०॥ संभाषणाद् दर्शनाच्चसन्तुष्टोऽस्मि जगद्गुरो। सेवा मदनुरुपां हि कथयस्व महामते! ।।११।। आजीवनं संयतानां जनानां पापकरिणां । उन्मोचनार्थ सूरिहि कलाखानं न्यवेदयत् ॥१२॥ गुरोरनुनया सोऽपि मोचितस्तान् च संयतान् । आमासंजीवहिसायाः निषेधश्च कृतः खलु ॥१३॥
खानखाना सम्राट् समागमान्मुक्ता यदा सूरीश्वरः किल । प्रास्थाञ्चगुर्जर देश मेडता नगरे स्थितः ॥१४॥ इदानि खान-टू | खाना च आसीत् तत्रैव पत्तने । यश्चसूरीश्वरगुणैः आसीद परिचितः पुरा ॥१६।। मरेरागमनं ज्ञात्वा तमाहूय च सत्कृतम् । से तत ईश स्वरूपं हि बोद्धम् प्रश्नमिदं व्यधात् ॥१६॥ अरूपी रूपवान् वासि ईश्वरो हि जगद्गुरो!। यद्यरूपी भवेदीशः तदा मूर्तश्च पूजनम् ॥१७॥ कथं तद् घटते धीमान् निबोधय यथाविधि । इश्वरस्मरणे मृतिः प्रधानं चास्ति कारणम् ॥१८॥ शासकस्य पचः श्रुत्वा सरिः माह सयुक्तिकम् । यथा चित्रं चित्रमतां स्मरणं कारयेन्ननु ॥१९॥ तथा मृतिमूर्तिमतां स्मरणे कारणम् खलु । सच्छास्त्रं वाचयित्वा च कथयन्ति जना इदम् ॥ २०॥ इश्वरोक्तमिदम् वाक्यं विषयेऽस्मिन् विचारय । यान्यासीदीशवाक्यानि अग्रे लीनानि तत्क्षणम् ॥२१॥ स्वीकर्तव्योऽत इशस्य वाक्यमूर्तिरियं खलु । श्रुत्वेदं खानखानाऽऽह
RECRUARKURA
Page #92
--------------------------------------------------------------------------
________________
॥८६॥
1-9636
मूर्तिरस्तु यथोदितम् ||२२|| मूर्तेः पूजनतः सूरे ! किं फलं तच्च ब्रूहि मे । गुरुस्तदा पुनः माह खानखानां प्रति द्रुतम् ||२३|| जनाः मूर्तेः पूजनेन दर्शनेन तथा खलु । पूतयन्ति स्वमात्मानं स्मरन्ति च विभोर्गुणान् ||२४|| स्मृत्वा तदनुसरन्ति धर्मः एव परः स्मृतः । यथा नराणां संसर्गः प्रवृत्तिस्तद् हृदस्तथा || २५ || गणिकासमीपेयानाद् मनो हि मलिनं भवेत् । मनोमलिनतामेत्र पापमुक्त मनिषिभिः ||२६|| एवं मूर्तेः पूजनेन तथा सन्दर्शनेन च । अन्तः पवित्रतामेति धर्मरूपमियं ननु ||२७|| महत्वं मूर्तिपूजायाः एवं सूरिरजिज्ञपत् । खानखाना तदाकर्ण्य प्रसन्नः सन्नुवाच तम् ||२८|| यत्प्रशंसत्यकचर यथार्थ तन्न संशयः । खानखाना ततः किंचित् ग्रहीतुमाग्रहः कृतः ||२९|| स्वाचारं ज्ञापयित्वा च सूरिः किंचिनस्वीकृतः । खानखानोपरीत्थं हि स्वप्रभावं व्यतानयत् ||३०||
महाराव सुरतान
विहरन् यदाऽगमत् सूरिः सिरोही नगरे किल । तदा तत्र महाराव आसीत् सुरतान भूपतिः ||३१|| प्रतिबोध्य स्वोपदेशान्नृपं सूरिनेकधा । अत्याचाराः प्रजानां चाऽरोधयन्नीतिसूरिणा ||३२|| अनुष्ठितं महत्कार्यं यदन्यत्तन्निबोधये । सुरतानो महारावः निमित्तेन च केनचित् ||३३|| कारागारे निक्षेप निर्दोषान् शतश्रावकान् । श्री संघहृदये तस्मात् महादुःखमजायत ||३४|| सूरीश्वरोऽपि श्रुत्वेदं चिन्तां प्राप परां खलु । तेषामुन्मोचनार्थं चाचिन्तयत् युक्तिमन्वहम् ||३५|| एकदा सुरि-यतयः विडुत्सृज्याऽगताः पुनः । अकृत्वेरियावहियां संलग्नाः स्वस्वकर्मणि ॥ ३६ ॥ ज्ञात्वा सुरिरिदं वृत्तं
Page #93
--------------------------------------------------------------------------
________________
धर्मोपदेश
116211
सर्वान् साधुन समादिशत् । आयंबिलं विधातव्यः श्वः सर्वे यतिनः खलु ||३७|| प्रायश्चित्तमिदं सर्वे स्वीचक्रुः साधवो मुदा । परे च दिवसे सर्वे साधवः सुरिशडपि ||३८|| आयंबिलं तपश्चक्रे: स्वपापक्षयहेतवे । आयंबिलतपस्यायामासीत् श्रद्धा गुरोः सदा ||३९|| महत् कार्यचिकीर्षायां सुरेरेष विनिश्चयः । आयंबिलं विद्यायैव कार्य प्रारभते हि तत् ||४०|| अत आयं - बिलं कृत्वा गत्वा सुरतान संनिधिम् । कारागारे संयतानां श्रावकानां विमुक्तये ||४१ | | उपदेशं ददौ सुरिः सुरतानं नराधिपम् । उपदेशप्रभावेण महारावश्च सत्वरम् ||४२|| प्रभावितो हि तान् सर्वान् मोचयामास श्रावकांन् ।
सुलतान हविवलः
विहारमेकदा कृत्वा सूरिः खंभातमागतः | हवीवलाख्यो यवनः आसीदत्र तदा मदी ||४३|| सूरिद्विट् महीनामा - saलोsप्यासीत् च पत्तने । तस्य प्रेरणया म्लेच्छो ग्रामान्निष्कासयद् गुरुम् ॥ ४४ ॥ अनेन जैनजातौच हाहाकारमभूद् बहु । ये चासन् साधस्तत्र सर्वगच्छानुयायिनः || ४५ || गुरुणा सह ते चापि पत्तनाद् बहिरागताः । अपमाने प्रतिकारं क धनविजय मुनिः ॥ ४६ ॥ विहारं सततं कृत्वा सम्राजमगमद् द्रुतम् । तदोपाध्यायपदभाक् शान्तिचन्द्रो यतीश्वरः ॥ ४७ ॥ आसीदकबरासन्ने सर्वशास्त्रविदग्रणिः । ततः स निखिलं वृत्तं श्रावयामास तं यतिम् ॥ ४८ ॥ समस्तं वृत्तमाकर्ण्य शान्तिचन्द्रो मुनीश्वरः । गत्वा चाकबरासन्नं न्यवेदयत तं नृपम् ॥ ४९ ॥ सम्राड् निशम्य तं वृत्तं कुपितः सन्नुवाच च । सूरीश्वरः तिरस्कर्त्ता बधाई इति मे मतिः ॥ ५० ॥ मन्निदेशादतस्तस्य वध भवतु सत्वरम् । आज्ञापत्रं गृहीत्वैतद् यतिर्धन
संग्रह
Page #94
--------------------------------------------------------------------------
________________
॥८८॥
S-CEREBRUGESHTAGE
बिजयो द्रुतम् ॥५१॥ गुर्जरे मूरिनिकटमागमद् बहुहर्षितः। श्रुतवृत्ताः श्रावकाचाभुवन् हर्षसमाप्लुताः॥५२॥ यदाज्ञासीदिमं वृत्तं सुलतानो हविवलः पश्चातापेन हृदयमताप्सीत्तस्य दुर्मतेः ॥५३।। किंकरोमि क्व गच्छामि त्राणं मम कथं | भवेत् ।। सम्राडकवरोप्येवं संमानयति यं यतिम् । मयाऽपमानितः मूरिः स जगजमपूजितः ॥ ५४॥ एवं बहुविधा चिन्तां कृत्वा सुलतानशासकः । मूर्ति चानयितुं भूयः खंभातनगरे खलु ॥ ५५ ॥ हस्त्यश्वसैन्यसंयुक्तः स्वयमेव हवीवलः । गत्वा गुरोश्च पुरतः स्वागतीकृत्य सादरम् ॥५६॥ जगद्गुरोश्च चरणे पपात विनयान्वितः। तत आनीय नगरं साञ्जलिः स हवीबलः ॥ ५७ ।। जगद्गुरुमुवाचेदं वचनं विनयान्वितम् । गुरोममापराधोऽत क्षमस्व करुणाकर ! ॥५८ ॥ नाग्रे तिरस्करिष्यामि कंश्चिचापि महात्मनः । प्रतिज्ञास्याम्यहं चाद्य ईशनाम पुरस्सरम् ॥ ५९॥ एवं विनयसंयुक्तां प्रार्थनां तस्य | भृभृतः । श्रुत्वा सूरिगतामर्षः सुलतानपुवाच च ॥६०॥ नास्ति दुर्भावना काचिन मम स्वान्ते हवीबलः । मानापमानयोस्तुल्या साधूनां चित्तवृत्तयः ॥६१॥ गुरोर्वचनमाकर्ण्य प्रसन्नोऽभूद् हवीवलः । ततः स सूरे ाख्यानं श्रोतुम् नित्यमुपाश्रये ॥६२।। आजगामैकदा सूरेरानने मुखवस्त्रिकाम् । संवेष्ट्य वाचयन् शास्त्रं दृष्ट्वा सुलतान शासकः ॥६३॥ वस्त्रं मुखोपरि कथं बना. सीति प्रपच्छ सः पुस्तकोपरि निष्ठीव पतनादशुचि भवेत् ॥ ६४॥ अतो चनाम्यहं वस्त्रमितिम्ररिर्जगाद च । श्रुत्वोत्तरं समुचितं मुदितोऽभूद् हवीवलः ॥६५॥ ततो जगद्गुरुं सुरिं प्रार्थयामास साञ्जलिम् । यत् किश्चिश्चास्ति मद्योग्य कार्यमाझापयस्व तत् ।। ६६ ।। कारागृहे संयतानां जनानां मोचनाय च । अनुशिष्टं सुरीशेन सुलतानो इवीवलः ॥ ६७॥ तन्निदेशानुसारेण मोचयामास संयतान् । जीवहिंसानिषेधोऽपि कृतस्तेन च पत्तने ।। ६८ ।।
Page #95
--------------------------------------------------------------------------
________________
धर्मोपदेश
॥८९॥
1-3बद्र
आजमखानः
अष्टाचत्वारिंशदधिके षोडशे शतके खलु । अहमदावादनाम्नी पुरीमायात् सुरीश्वरः ||६९|| तदा चाजमखानाख्यः एतत्प्रान्तियशासकः । जगद्गुरौ च श्रद्धालुरासीदत्रैव पत्तने ॥ ७० ॥ गन्तुं सौराष्ट्रसंग्रामे आसीत् सन्नद्ध एकदा । तदैव धनविजयस्तं मिलित्वाऽब्रवीदिदम् ॥ ७१ ॥ गिरनारादि तीर्थानि सम्राजाचार्पितः किल । आज्ञापत्रं चास्ति तस्य जानात्येव भवानपि ॥ ७२ ॥ अतो हि निखलांस्तीर्थान् प्रदापयितुमर्हसि । इति सन्दिश्य गुरुणा प्रेषितोऽहं तवान्तिके ॥ ७३ ॥ श्रुत्वा यतेर्वचः खानः उत्तरं प्रददाविदम् । कथयित्वा मत्प्रणामं गुरुं पश्चान्निवेदय ||७४ || यास्यामि साम्प्रतं युद्धे प्रत्यागत्य ततः पुनः । भवतः सर्वकार्याणि करिष्यामि न संशयः ।। ७५ ।। ततश्च धनविजयः सूरीश्वरमुपागमत् । प्रतिष्ठतिस्म सौराष्ट्रमाजमखानः ससैनिकः ॥ ७६ ॥ जामनगरप्रभुं तत्र शत्रुशल्यं विजित्य च । पश्चाज्जूनागढ जेतुं अभीयाय स शासकः ॥ ७७ ॥ विजयं प्राप्य तत्रापि आजमखानो महाबळी अहमदावादपुरी परावृत्याऽगमत् पुनः ॥ ७८ ॥ तत्रागत्यैव प्रथममाह्वयश्च जगद्गुरुम् । धनसोमाख्यशिष्याभ्यां सह सूरीश्वरः कील || ७९ || आजमखानस्य प्रासादं अगमत् सुमनोहरम् । तत्रागतं गुरुं दृष्ट्वा सत्कृत्य विधिपूर्वकम् ॥ ८० ॥ आजमखानोऽब्रवीद् वाक्यं सूरिं विनयसंयुतं चिरात् सत्सुक आसम् भगदर्शनलद्धये ॥ ८१ ॥ अद्याऽभिलाषा सफला सफलं मम जन्म च । यत् सामतं भवन्तं हि पश्यामि चिरकाङ्क्षितम् ॥ ८२|| विवेकयुक्तं वचनमेवमुक्त्वा स शासकः । प्रपच्छ यन्महाराजा । भवदूधर्मप्रवर्तकः ॥ ८३ ॥ कोऽस्ति ? तस्यावता -
संग्रह
Page #96
--------------------------------------------------------------------------
________________
118011
रस्य कियत्कालमभूत्तथा । तद्वाक्यमाकर्ण्य गुरुरुत्तरं प्रददाविदम् ॥ ८४ ॥ प्राक्सहस्रद्वयादन्दादस्यानुर्व्यामवातरत् । स चतुर्विंशतितमो महावीराख्य तीर्थकृत् ॥ ८५ ॥ एतत्प्रदर्शितं वर्त्ममनुसराभ्यहं किल । अतो वयं महावीर - साधुनाम्ना हि कथ्यते ॥ ८६ ॥ अहिंसा सत्यमस्तेय ब्रह्मचर्यापरिग्रहाः । एतानि पञ्चवतानि पालयामः सदा वयम् ॥ ८७ ॥ द्रव्यक्षेत्र - कालमावान् संविचार्य पदे पदे । महावीरोक्त पन्थानमनुसराम्यहं सदा ||८८ || अस्माद् भगवतः पूर्वं त्रयोविंशतिसंख्यकाः । ऋषभप्रमुखा तीर्थंकरा भूम्यामवातरन् ||८९|| तेषां तीर्थंकराणां च सञ्जातेषु सि( क्षि) तौकिल । असंख्येयानि वर्षाणि व्यती
न शासक १ ॥९०॥ खानस्तत् वाक्यमाकर्ण्य मुदितस्सन्नुवाच च । दीक्षां गृहणन् कियद् वर्षमभूत्तव जगद्गुरो ॥९१॥ अभूदन्दं द्विपञ्चाशद् दीक्षीते मयि शासक ! | कदाप्यस्मिन्नतरे किमीश्वरस्य च दर्शनम् ।। ९२ । चमत्कारोऽथवा कविल ब्धोऽत्र भवता नवा । खानश्रेष्ठ ! जगन्मध्ये नैवागच्छति चेश्वरः ।। ९९ ।। ततः कथं दर्शनं स्यादिति सम्यग विचारय । पितृमातृस्वसृपुत्रदारा स्वजनबान्धवान् ॥ ९४ ॥ कुटुम्बान्निखिलांस्त्यक्त्वा साध्वभूवं ततः पुनः । चमत्कुर्यामहं लोकान् किमर्थं पावन ॥ ९५ ॥ न काइक्षे राज्यमतुलं नैव भोगाः सुखानि च । ततः कथं चमत्कारः कर्तव्याऽस्मादृशैः जनैः ॥ ९६ ॥ तथाप्यद्यापि संसारे विद्या चमत्कारिकाकिल । विद्यते किन्तु ज्ञातारः तस्याः प्रायो न सन्ति हि ॥ ९७ ॥ क्का स्ति कालिकाचार्य इष्टका हेम चाकरोत् । यन्निष्ठीवनैव व्याधिं देहिनां व्युमुचत्तनुम् ॥ ९८ ॥ वैद्यः सनत्कुमारः स इदानीं कुत्र विद्यते । एतादृशाः बहुविधाः विद्यावन्तश्च साधवः ।। ९९ ।। आसन पुराऽत्र संसारे स्वचमत्कारकारकाः । परन्तु ते विचार्यैवं नाऽध्यापयन्त सन्ततिम् ।। १०० ।। पठित्वा गर्वयुक्तो हि स्वसाधुत्वं च त्यक्ष्यति । अद्यापि वेद्यति
Page #97
--------------------------------------------------------------------------
________________
धर्मोपदेश॥९१॥
संग्रह
COMR
कोऽपि सत्यसन्धश्च सर्वदा। साधुधर्म चरित्रं च दृढः सन् पालयेत्तदा ॥१.१॥ इच्छानुसारिकार्यस्य भवेत सिद्धिर्न संशयः। यतो निर्मलचारित्र्यवतां किञ्चिन्न दुर्लभः॥१०२।। इश भक्तिसाधु धर्मः पालयामश्च यद् वयम् । एतदीश्वरसान्निध्यकरणाय शनैः
शनैः ॥१.३॥ युक्तिमद् वचनं सुरेः श्रुत्वा यवनशासक। सहास्यां श्रावयामास कथामेवं जगद् गुरुम् ॥१०४॥ एकदा. | ऽययवनयोरन्योन्यं कलहोऽभवत् । ईशान्तिकं वयं गन्तुमर्हाम इति हिन्दवः।।१०५।। यवनाश्च तथैवोचुः एवं वादो घजायत । परिणामे निश्चयोऽभूत् उभयोः पक्षयोः किल । एकैको हि नरो यात समीपमीश्वरस्य च ॥१०६॥ तयोर्यदीयः पुरुषः ईशं गत्वा तदाङ्कितम् । चिह्नं नीत्वाऽऽगमिष्यति स पक्षस्तथ्यभाय भवेत् ॥१०७॥ तत आर्येषु विद्वान हि एको. गन्तुं समुद्यतः निजदेहं परित्यज्य प्रतस्थावीश समिषिद् ॥१०८ ॥ अग्रे गच्छन् महद् घोरमरण्यं समुपस्थितम् । तदुल्लभ्यं पुरो गन्तुं न शशाक स मानुषः ॥१०९ ॥ अतः परावृत्य तत-रागमद् हिन्दु पुरुषः । लोकाश्च कथयामास मिलि| त्वेश्वरमागतः ॥ ११ ॥ परन्तु चिन्ह नापितवान् अतो नाविश्वसअनः । ततः । किलेको यवनो देहं त्यक्त्वेश्वरं गत २॥ १११ ।। पुरो गच्छन् दाङमाऽऽम्रजम्बुद्राक्षादिपादपान् । सुवर्णनिर्मितं हय महाईमणिसंयुतम् ॥ ११२॥ हेमसिंहासनं
चापि सोऽपश्यत् सुमनोहरम् । तत्र सिंहासने रम्ये उपविष्टं जगत्पतिम् ॥११३॥ फिरस्तानामकैः सैन्यैर्विविधैः परिवेष्टितम् । एवं भूतं चेश्वरं स दृष्ट्वा शीघ्रं प्रणम्य च ॥११४॥ लोकमत्ययदाढ्याथै नीत्वैकं मरीचं पुनः । परावृत्य ततस्तूर्णमाजगाम स्थधाम सः॥११५॥ सिद्धयत्यनेन वृत्तेन यच्च यवनमन्तरा । नहि कोऽपीश्वरासन्नं गन्तुं शक्नोति निश्चितम् ॥११६॥ खानस्येमा वचः श्रुत्वा सूरिरन्येऽपि साधवः । कुयुः प्रहासमखिलम् चागतं मुनिमण्डलम् ॥११७।। हसन्तस्तान् समालोक्य खानो
A
-3-
AUGk
Page #98
--------------------------------------------------------------------------
________________
॥९२॥
sriजगद्गुरुम् । कथं हास्यं प्रकुरुवे कारणं वद सद्गुरो ।। ११८|| कथा यदुक्ता भवता अस्ति सा हास्यकारिका । विवेकी as मां हि कथां सत्यं वदेत् किल ॥ ११९ ॥ इमं देहं समुत्सृज्य गन्तुमीश्वरसनिधिम् । इत्यादि यास्त्वयोक्ता हि कथाः सा च खपुष्पवद् ॥ १२० ॥ एवं हि विविधैस्तर्केः । सहितं चोतरं गुरुम् । श्रुत्वा खानः प्रमुदितः प्रशसंस गुरुम् बहु ॥ १२१ ॥ ततः सोऽमार्थयत् सुरिं विनयं ख्यापयन्निदम् । आज्ञापयस्व मद्योग्यं कार्य सुरीश यद् भवेत् ॥ १२२ ॥ उन्मोचनाथ जगडू - साहाख्य श्रावकस्य च । श्रीसूरिः कथयामास आजमखानं हि शासकम् ।। १२३ ।। गुरोराज्ञानुसारेण स च कारागृहान्निजात् । भावकं मोचयामास लक्षदंडाच्च मोचितः ॥ १२४ ॥ जगड साहमुक्तेन खानात् सुरेः प्रभावतः । अमदाबाद श्रीसंघे महान् इषोऽभ्यनायत ||१२५ || आनन्दोत्फुल्लनयना श्रावका निखिलाः खलु । चक्रुर्महोत्सवं रम्यं व्ययम् कृत्वा बहून् धनान् ॥ १२६ ॥ एवमाजमखानस्य श्रद्धा भक्तिश्च द्वे अपि । गुरौ श्री हीरसुरीन्द्रे ववृद्धे चोत्तरोत्तरम् ॥ १२७॥ एकपञ्चाशदधिके षोडशे शतके खलु । ऊनाख्यनगरे सुरिश्रातुर्मास्यं यदाऽकरोत् ॥ १२८ ॥ तदाऽव्याजमखानोहि 'मक्का' तीर्थान्निवृत्य च । जगद्गुरोदर्शनार्थमागमद् भक्तिप्रेरितः ॥ १२९ ॥ मुद्रा सप्तशतीं तेन उपहारीकृतः कील | नाङ्गीचकार यति यदा मुद्रां तदा ह्यसौ ।। १३० ।। अन्यद्धार्मिक कार्ये मुद्रायाश्च व्ययं व्याधात् । ततः श्रुत्वोपदेशं च मुदितस्सन् गृहं ययौ ।। १३१ ।।
कासिमखानः
वैक्रमे षोडशकोनचत्वारिशत् १६४९ शताब्दके । पाटनाख्यं हि नगरं जगाम श्री जगद्गुरुः || १३६ || तदाऽस्य
Page #99
--------------------------------------------------------------------------
________________
धर्मोपदेश॥९३॥
I
नगरस्यासीत् कासिमखानाख्यशासकः । 'सैयद मुहम्मद' सुतो यश्वयुद्धे विशारदः || १३७|| कालेऽस्मिन्नेवोभौ साधू तेजसामलसागरौ । केनापि हेतुनाऽभूतां समुदयाद् निराकृतौ ॥ १३८ ॥ रुग्णं कासिमखानं चामिलतां कुपितौ यती । तयोचिकित्सया रोगः नष्ठोऽभूत् शासकस्य च ।। १३९ । निरामयः स खानश्च मुदितस्तावुवाच च । मदहं युवयोः कार्यमस्ति निदेश || १४ || द्यावयोः प्रसन्नस्त्वं तदा विज्ञापय श्री गुरुम् । आत्रयोः समुदाये च प्रवेशयितुमर्हसि ॥ १४१ ॥ कासिमखानः सूरिराजमाह्वयामास सत्वरम् । जगद्गुरुः सुरिरपि आगमत् खानसन्निधिम् ॥ १४२ ॥ दृष्ट्वा मुनीन्द्र ं च तत्प्राभव विमोहितः । यथोचितं स सत्कृत्य प्रेम्णाऽऽलापमकुर्वत || १४३ || आभाषण प्रसंगे च सुरिश प्रोवाच शासकम् । खान श्रेष्ठ ! महाभाग ! जीवहिसां परित्यज || १४४ || धरायां कः किलैताद्ग्र जीवं यो नात्ति मानुषः । प्रकृत्या सिद्धमेवैतद् जीवो जीवस्य भक्षणम् ॥ १४६ ॥ वहूनामन्न - जीवानामशनादेक स्तुष्यति । भुक्त्वैकं जीवं बहवः पुष्यन्त्यङ्गानि प्राणिनः ॥१४६॥ बहुजीववधादेकजीवहिंसा गरीयसी । अतः किमिति श्रीमद्भिर्जीवहिंसा निषिध्यते ॥ १४७॥ शृणु खान ! महाभाग ! इश्वरोक्तं इदं वचः । अनुकम्पाविधानं हि जीवेषु निखिलेषु च ॥ १४८ ॥ द्विविधौ भूतले जीव स्थावरोन्यस्त्रसाभिधः । स्वयमेव च ये जीवा गन्तुं नाईति कुत्रचित् ॥ १४९ ॥ | स्थावरास्ते समाख्याता खान तच्छ्रयतां यथा । पृथिवी सलिलं तेजो वायुश्वाथ वनस्पतिः ॥ १५० ॥ एतेषां ये च जीवाः स्युः स्थावरास्ते प्रकिर्तिताः । निजप्रभावतो ये न गन्तुमईन्ति प्राणिनः ॥ १५१ ॥ त्रसाः किले समाख्यातास्ते जीवा नामतो यथा । तिर्यक् मनुष्य नारक देवलोकेषु ते स्थिताः ।१५२। स्थावराणां च जीवानां भवत्येकं किलेन्द्रियम् । द्वित्रिचतुःपञ्चेन्द्रियवन्तो भवन्ति च ॥ १५३ ॥ एकेन्द्रियाद्वीन्द्रिया हि
संग्रह
Page #100
--------------------------------------------------------------------------
________________
॥१४॥
द्वीन्द्रियाश्च त्रिकेन्द्रियाः। जीवारनुक्रम पुण्यवन्तः किल भवन्ति हि ॥१५४॥पञ्चेन्द्रियाः सन्ति जीवाः पशुमादयः खलु । तेष्वपि मनुजाः पुण्यवन्तः पशोरपेक्षया ॥१५५॥ धर्मन्यूनाधिकान् मल् अपि भूपाश्च निधनाः । गृहस्थाः साधवः केऽपि सन्त्येतत्सुकृतीफलम् ॥१५६।। पशोरमस्य जीवानां समं विज्ञाय यो नरः । भुनक्ति च पशोर्मीसं नृमांस नाति स कथम् ! |॥१५७।। यतस्तद् बुद्धथनुसारेण मनुजान्नपशुस्थिताः । जीवाः समानाः सन्तीति नादृतव्यं च तद् वचः ॥१५८॥ किन्तु
सर्वेषु जीवेषु पुण्यस्योपचयापचयम् । अस्त्यतोऽल्पपुण्यवतां वधे पापं च स्वल्पकम् ॥१५९॥ सिद्धयत्येवं च सुतरां अल्पपुण्यात्मभि र्यदा। कार्य सिद्धयेत्तर्हि वधानहा॑तिपुण्यभाक् ॥१६०॥ एवं यदाऽन्नरस्माकम् कार्य सिध्यति शोभनम्। तदाऽधिकेन्द्रियाणां हि सानां भक्षणं वृथा ॥१६१॥ अन्यच्चेश्वरनिर्दिष्टा दया मांसभुजां हृदि । न जायते कथमपि जानीहीदं च निश्चितम् ॥१६२॥ एवं हीरोपदेशेन कासिमखानश्च शासकः । ननन्द तस्य हृदये दयाप्याविरभूद् बहु ॥१६३।। ततः सुरीश्वरःखानं महिषाऽजापतत्रिणाम । हिसानिवारणार्थाय संयतानां च बन्दिनाम् ॥१६४॥ उन्मोचनाय च तथाऽजिज्ञपच्चाविलम्बितम् ।सुरेरनुज्ञया खानः उक्तं कार्यमनुष्ठितः ॥१६५।। पश्चात् स खानो गच्छात्तौ पहिर्भूती यती पुनः । स्वगच्छे ग्रहणार्थाय मार्थयामास तं गुरुम् ॥१६६। खानपार्थनया सरिर्दयाद्रहृदयेन च । मावेशयत् पुनर्गच्छे तेज सामलरो॥१६७।। एवं सरीश्वरो हीर: कासिमखानं च शासकम् । उपदिश्य यथायोग्य जगामोपाश्रयं ततः ॥ १६८॥
सुलतानो मुरादः पश्चाशदधिके वर्षे षोडशे शव के यदा। पाटनस्य महासंधैस्संयुतः श्रीजगद्गुरुः ॥ १६९॥ श्रीसित्ताचलयात्रार्य
Page #101
--------------------------------------------------------------------------
________________
धर्मोपदेश
॥९५॥
संग्रह
गच्छन्ननु क्रमेण च । मार्गेऽमदावादनाम नगर बागमत्तदा ॥१७०॥ मुरादनामा सुलतानः ससंघ मुनिपुङ्गवम् । सत्कारमकरोत्वाढं तथाऽर्चीद् बहुद्रव्यकैः ॥१७१ ॥ ततो गुरूपदेशं सः श्रोतुमीहामदर्शयत् । सरीश्वरोऽपि विविधानुपदेशान् चकार तम् ।। १७२ ॥ गुरोर्व्याख्यानमाकर्ण्य तद्दिने स हि शासकः । जीवहिंसानिषेधश्च कृतो निमुलपत्तने ॥ १७३॥ एवं कतिपयान् अन्यान् शासकान् श्री जगद्गुरुः । उपदिश्य भृशं जीवदयाकार्य व्यवादिति ॥१७३॥
दीक्षादानम् . समप्रवृत्तिः समयो नाभूत् कश्चित् कदापि च । यदा यस्यैव कार्यस्य भवेदावश्यकता बहु ॥१७५।। तस्मिभेव प्रवृत्तिर्हि लोकानां भवति ध्रुवम् । तादश्येव तदा बुद्धिः प्रकृत्या जायते स्वयम् ॥१७६॥ दर्शनोदयकालो हि यदाग| च्छति भूतले । निर्माणं मन्दिराणां प्रतिष्ठा त्रिदिवौकसाम् ॥१७७॥ महोत्सवसमारम्भो संघप्रस्थापनं तथा। इत्यादिशुभकार्येषु प्रवृत्ति भवति नृणाम् ॥१७८॥ ज्ञानोदस्य काले तु ज्ञानविस्तारकारिका । पाठशाला ग्रन्थशाला विश्वविद्यालयादयः ॥१७९॥ संस्थापयन्ति च जनाः शालाज्ञामप्रचारिकाः। चारित्रस्योदयाः कालो यदागच्छति भृतले ॥१८०॥ साधूनां हि तदा वृद्धिः सर्वत सम्भवन्ति च । चक्रमषोडशे सप्तदशे च शतके खलु ॥१८१॥ चारित्र्योदय कालोहि आसीदस्मिश्च भारते ॥
Page #102
--------------------------------------------------------------------------
________________ 1999 SENTER 1999 // इति श्रीमद् जगद्गुरुहीरविजयसूरीश्वरस्य चरित्रं सम्पूर्णम् // PROO ANDRAKASKELEASKEXNXXXPRESESEXESEXSEELTERESTERESTEDY