Book Title: Dhanya Shalibhadra Mahakavyam
Author(s): Purnabhadra Gani
Publisher: Jindattasuri Gyanbhandar
Catalog link: https://jainqq.org/explore/020307/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SSSSSSSSSSEISISTERS C. श्रीजिनदत्तसूरि प्राचीन पुस्तकोद्धार-फन्ड ग्रंथांक:४० . अहम् ॥ श्रीमजिनपतिमूरिशिष्यपूर्णभद्रगणिविरचितम् ॥ ॥ धन्यशालिभद्र महाकाव्यम् ॥ - जैनाचार्यश्रीमजिनकपाचन्द्रसूरीश्वराणाम् सदुपदेशेन कोटा निवासी दीवान बहादुर शेठ केसरिसिंगजी बुद्धिसिंगजी द्रव्य साहाय्येन इदं पुस्तकं जेनाचार्य श्रीमजिनकृपाचंद्रमूरीश्वराणां शिष्येण प्रवर्तक मुनि सुखसागरेण संशोधितम् प्रकाशकः-श्रीजिनदत्तमरि ज्ञानभंडार-सुरत. प्रतयः ५०० WEIGHBSESSE6666666ED For Private and Personal Use Only Page #2 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only Page #3 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra धन्यशाली भद्र ॥ १ ॥ www.kobatirth.org ॥ अर्हम् ॥ श्रीमजिनपतिसूरि शिष्य पूर्णभद्रगणि विरचितम् ॥ धन्यशालिभद्र - माहाकाव्यम् ॥ नमः सर्वज्ञाय । श्रीनाभिनन्दनो भास्वान्, सत्पथं प्रथयत्वसौ । गोभिराविश्वकारार्थान, यः सचम हरिं यः प्रीणयामास, मधुरैर्वचनामृतैः । श्रीमान् पार्श्वजिनो नेमि-वीरः स भवतोऽवतात् ॥ २ ॥ मनोरमपदन्यासा, सदङ्गरुचिरा सदा । नन्द्याद्गीर्विशदश्लोका, जिनमूर्त्तिरिवामला ॥ ३ ॥ वाग्मिग्रामशिरोरत्नं, वन्देऽमयैश्वरस्तुतम् । भक्त्या सुमेधसां धुर्य श्रीमज्जिनपतिं गुरुम् ॥ ४ ॥ इति स्तुत्यस्तुतिक्षुण्ण - प्रत्यूहव्यूहसम्भवः । ग्रथयामि कथापीठं, सूत्रधार हवादितः ॥ ७ ॥ मानुष्यं प्राप्य दुःप्रापं, भ्रष्टं रत्नमिवाम्बुधौ । धर्म एव विधातव्यो, नरैः स्वहितकामिभिः ॥ ६ ॥ दानशील तपोभाव — भेदैः, स च चतुर्विधः । कथितस्तीर्थनाथायै - निःश्रेयससुखप्रदः ॥ ७ ॥ तत्र शीलं सुदुः पालं. गृहिभिगृहसंस्थितैः । बाह्यमाभ्यन्तरं चैव तपोऽप्यत्यन्तदुश्चरम् ॥ ८ ॥ Acharya Shri Kailassagarsuri Gyanmandir १ प्रभुपक्षे वाणिभिः, सूर्यपक्षे च किरणैः २ सज्जना एव चक्रवाकास्तान् अभिनन्दयतीत्येवं शीलः ३ फणीन्द्रम् पार्श्वः, कृष्णं नेमिः शक्रन्द्र । वीरः प्रीणयामासेत्यन्वयः ४ सरस्वती देवीं. ५ वक्तृसमूहमुकुटम्. ६ पूज्यस्तवेन नाशितो विघ्नसमूहस्य संभवो येन सः For Private and Personal Use Only महाकाव्यम् सर्गः १ ॥ १ ॥ Page #4 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra धन्यशाली भद्र ॥ २ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कुटुम्बचिन्तनव्यग्र - मानसानां निरन्तरम् । सदारम्भप्रवृत्तानां भावनापि सुदुर्लभा ॥ ९ ॥ तस्माद्दानं गृहस्थाना—मुचितं रुचितं हितं । भवसर्वङ्कषं हेतु-र्मयममृतश्रियः ॥ १० ॥ धन्यश्च शालिभद्रश्च कृतपुण्यादयो नराः । साधुदानप्रभावेण बभूवुः सुखभाजनम् ॥ ११ ॥ सरसानि चरित्र, णि, तेषामेकैकशोऽपि हि । खण्डाज्यपायसानीव, किं पुनर्मिलितान्यहो ॥ १२ ॥ आदौ धन्यमुनेस्तत्र चरितं परिकीर्त्यते । शालिभद्रचरित्रेग, पवित्रेग विमिश्रितम् ॥१३॥ तथाहिजम्बूद्रीपाभिधो द्वीपो, विद्यते क्षितिमण्डले । सर्वद्वीपसमुद्राणां मध्यवर्ती महालयः ॥ १४ ॥ सम्पूर्ण पूर्णिमाश्वेत- चिर्मण्डलसन्निभः । विष्कम्भायामतो लक्षं, योजनानां प्रमागतः ॥ १५ ॥ सहस्रदशकेनाधो, योजनानां विसारिणा । मध्ये योजनलक्षोचे-नेन्द्रशैलेन शोभितः ॥ १६ ॥ वज्रमय्या जगत्या च योजनाष्टकतुङ्गया । सर्वदिक्षु परिक्षिप्तः, प्राकारेणेव सत्पुरम् || १७ || वर्षेः सप्तभिराकीर्णः, षड्भिः कुलमहीधरैः । सूर्ययेन्दुयुगल - समुद्योतित भूतलः ॥ १८ ॥ पञ्चभिरादि कुलकम् । तत्र दक्षिणतो मेरो द्वीपान्तेऽम्भोधिसन्निधौ । समारोपित जीवस्य, कोदण्डस्याकृतिं दधत् शतानि पञ्च षड् विंशत्यधिकानि कलाश्च षट् । योजनानां प्रमाणेन मितं विष्कम्भतस्तथा ॥ २० ॥ पूर्वापरायतेनान्त-विनिपत्य समांशतः । कुड्येनेश्वरसव, वैतान्येन विधाकृतम् ॥ २१ ॥ १ मनुष्यदेव मोक्ष लक्ष्म्याः २ महान् आलय प्रासाद इव आलय: महालय:. ३ श्वेतरोचिश्चन्द्रः. ४ इन्द्रशैलो मेरु:. For Private and Personal Use Only महाकाव्यम् सर्गः १ ॥ २ ॥ Page #5 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धन्यशाली महाकाव्यम् सर्गः १ ॥३॥ सहस्रयोजनायामा-त्तदर्ध चैव विस्तृतात् । हिमवत्पर्वतोर्द्धस्था-नदात्पद्माभिधानतः ॥ २२ ॥ पूर्वपश्चिमयोारा, निर्गत्य शतपञ्चकं । योजनानां परावृत्य, दक्षिणाभिमुखं ततः ॥२३ ।। तावदेव त्रयोविंश-त्यधिकं च कलात्रिकं । पर्वतादिनिपत्याधो, गङ्गासिन्ध्वाख्यकुण्डयोः ॥ २४ ॥ निर्गत्य दक्षिणद्वारा, भित्त्वा वैतायभूधरं । यावद्दक्षिणखण्डाई, पूर्वापरमुख ततः ॥२५ ।। तरलोन्वितहारस्य, वक्षःस्थलकृतस्थितेः । विश्वम्भरामहेलाया, विभ्रतीभ्यामिह श्रियम् ॥ २६ ॥ गङ्गासिन्धुस्रवन्तीभ्यां, वहन्तीभ्यां निरन्तरं । षटवण्डं भारतं क्षेत्र, विहितं किल वर्तते ॥ २७ ॥ नवभिःकुलकम्।।तत्र दक्षिणखण्डेषु, मध्यखण्डं मनोहरं । यत्राहच्चक्रवल्या , उत्पद्यन्ते नरोत्तमाः २८ जिनविम्बमिवद्वेधा, नगरं सुप्रतिष्ठितम् । तत्राभूत्सुमनोमाला-कलितं दोषवार्जनम् ॥ २९ ॥ जितशत्रुपस्तत्र, सुचरित्रो नयान्वितः । जिनागम इव श्रीमान , संदङ्गरुचिरोऽभवत् ॥ ३०॥ अभूत्तस्यप्रिया रम्यं-दालङ्कारधारिणी । धारिणी नाम हृद्येव, सुकवेः काव्यपद्धतिः॥ ३१ ॥ १ चपलहारस्य श्रियं शोभाम्. २ पृथ्वीरूपस्त्रियाः ३ नाम्नागुणेन च. ४ जिनबिम्ब सुमनसां पुष्पाणां मालाभिः सहित | नगरं च सुबुद्धिमलोकसमूहेन सहितम्. ५ सप्तनयभङ्गया सहितो जिनागमः, नृपश्च राजनीत्यान्वितः. ६ मनोहरगात्रेण रुचिरो नृपः, सुद्वादशाङ्गया रुचिरो जिनागमः. ७ रम्यान् पादयोरलकारान धारयतीति तथा प्रिया, काव्यपद्धतिः रम्यान् पदानि चालङ्कारांश्च धारयति - For Private and Personal Use Only Page #6 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandit धन्यशाली KAR BElमहाकाव्यम् सगः१ ॥४ ॥ दानशौण्डकरस्तत्र. भद्रजातिः शुभोन्नतिः । इभ्यो नाम यथार्थोऽभू-नैगमः सामंजोपमः ।। ३२ ॥ भार्या तस्याभवल्लक्ष्मी-लक्ष्मीरिव मनोरमा । केवलं चञ्चला लक्ष्मीः, सा प्रकृत्या स्थिरा सदा ॥३३॥ धनचन्द्रो धनसारो, धनदेवो धनावहः । स्तम्भा इव गृहाधारा-श्चत्वारः सूनवस्तयोः ॥ ३४ ॥ धनश्रीसुन्दरीभद्रा, सुनन्दानां निजाङ्गजान् । समयौवनरूपाणां पाणिमग्राहय्यत्पिता ॥ ३५॥ इतश्च नगरे कापि, कोप्यभूत्कुलपुत्रकः । सभार्यः साङ्गजन्मा च, स्वकर्मनिरतः सुखी ॥ ३६॥ अथानित्यस्वभावत्वा-संसारे वस्तुसन्ततेः । मृत्युपर्यवसानत्वा-दुत्पन्नानां शरीरिणाम् ।। ३७ ॥ कर्मणां च विचित्रत्वा-दसाध्यव्याधियोगतः । पश्यतामपि बन्धूनां, विपेदे कुलपुत्रकः ॥ ३८ ॥ ततः सा मृतकृत्यानि, चकारात्यन्तदुःखिता । कालेन च विशोकाभू-संसारस्थितिरीदृशी ॥३९॥ तथापि पत्यभावेन, सूनोरपि लघुत्वतः । अपूर्वोपार्जनाभावात् , पूर्ववित्तव्ययादपि ॥ ४० ॥ लक्ष्मीणां चंचलत्वेन, प्रक्षीणविभवा सती । बन्धुभिः परिभूता सा चिन्तयामास चेतसि ॥ ४१॥ तिष्ठद्भिः प्राप्यते यत्र, बन्धुभ्योपि पराभवः । न तत्र युज्यते स्थातु-मभिमानवतामिति ॥ ४२ ॥ ततः सा तत्पुरं हित्वा, शीघ्रमेव स्वमङ्गजम् । जीवितव्यमिवादाय, सुप्रतिष्ठितमाययो । ४३॥ तत्र चेश्वरगेहेषु, गृहकर्म चकार सा । तर्णकांचारयामास, तत्पुत्रोऽत्रस्तमानसः ॥ ४४ ॥ १ दाने निपुणो हस्तो यस्य, पक्षे मदनावे निपुणः शुण्डादण्डोयस्य. २ गजोपम,. For Private and Personal Use Only Page #7 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धन्यशाली भद्र बालोऽपि हि कृपालुत्वा-त्तत्र तत्र जगाम सः। यत्र यत्र वनोद्देशे, हरितानि जलानि च ॥ ४५ ॥ महाकाव्यम् प्रकृत्या मञ्जभाष्येष, न तथाऽसत्यभाषणः । तर्णकांस्तर्जयामास, न जघानातिनिष्ठुरम् ॥ ४६॥ | सर्गः १ केवलं तत्सुखेनैव, गमनागमने अपि । विधेऽसौ भवन्त्येव, भाविभद्राः सुचेष्टिताः॥४७॥ नानामहीरुहां शोभां, फलपुष्पसमुद्गमैः । जनयन्नुल्ललासाथ, वसन्तसमयोऽन्यदा ॥४८॥ आम्रभक्षणसन्तुष्टाः, कूजन्ति स्म व प्रियाः। गायन्यः पञ्चमोद्गारैर्यशांसीव यशस्विनाम् ॥ ४९ ॥ रंणन्मञ्जीररोचिष्णु-कान्तापादाहति विना । अशोकोऽसूत पुष्पाणि, समन्तात्पल्लवैः समम् ॥५०॥ सेकामकामिनीश्लेषा-दृते कुरुबकस्तरुः । प्रसूनैरभितः पूर्णो, बभूवातिसुगन्धिभिः ॥५१॥ प्रयुक्ता योगचूर्णस्य, गुटिकाः शङ्कगरिणा। नूनं जगदशीका, बभ्रमुर्भमरालयः ॥५२॥ चन्दनद्रुमसम्बन्धा-सुगन्धाः शीतलाः स्फुटं । सुखयन्तस्तनुं यूनां, दक्षिणा वायवो वपुः ॥५३॥ लोलासु दोलासुमनोहरास्वा-रूढास्तरुण्योभृशमुच्छलन्त्यः ।गायन्त्य उच्चैःशुभवेषभूषा, यूनांमनांसिप्रसंभहरन्ति र उदारशृङ्गारधरा रमण्यो-ऽपरास्तुहल्लीसकरासकेन । हारार्द्धहारादिकृताङ्गभूषाः, समुल्ललन्त्यो नन्तुःप्रमोदात् ५ हलधरादिनराः पुनरुद्धतं, नन्तुरूलभुजाः कलगीतयः। कचिदधःकृतहस्ततलाश्चिरं, विविधवेषभृतः प्रमदान्विताः इति वसन्तऋतो रमतेतरां, प्रमुदितः स्म पुरोपवने जनः । न च विवेद गतं समयं सुर-व्रज इवोत्पुलको वननन्दने १ कोकिलाः. २ रणन्नुपुरेण शोभमानस्य प्रमदापादस्याघातेन विनैव. ३ कामातुरप्रमादाया आलिंगनाद्विना. ४ स्मरेण. ५ बलात्. ६ मधुरगाना ७ रोमाञ्चितः.. For Private and Personal Use Only Page #8 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धन्यशाली भद्र DEमहाकाव्यम् सः१ इतश्च नगरात्तस्मा-ड्रोज्यमादाय पुष्कलं । तत्रैवोद्यानिको कर्तु-माजग्मुः केचिदीश्वराः ॥८॥ तत्र केपि जनाः शालि-दालिभोज्यं घृतान्वितं । रुचिरैर्व्यञ्जनैः सार्द्ध, भुञ्जते स्मातिसुन्दरम् ॥ ५९ ।। खण्डखाद्यादि पक्वान्नं, सुगन्धि स्वादु कोमलं । क्वचिद्दध्योदनं चारु, जीरकाद्यतिरोचकम् ॥ ६॥ पायसं घृतखण्डापि-स्वादीयोऽत्यन्तबन्धुरम् । अन्ये चास्वादयामासुः, स्वेच्छयाऽनुत्सुकास्तदा ॥६॥ एवं नानाविधं भोज्यं, भुञ्जानं वीक्ष्य तं जनम् । सर्वतोऽपि विशेषेण, पायसं परमादरात् ॥ २॥ वत्सीयः कुलपुत्रोऽसौ, बालकोऽपि विवेकभाक् । तर्णकांश्चारयंस्तत्र. चिन्तयामास मानसे ॥६॥युग्मं जनः सोपि धन्योऽयं, कृतपुण्योऽन्यजन्मनि । नूनमेतस्य लोकस्य, सफलं जन्मजीवितम् ।। ६४ ॥ रमते यः प्रमोदेन, स्वादु भुंक्त ददाति च । अहं त्वधन्यो य-नैमि, स्वोदरम्भरतामपि ॥ ६५ ॥ इत्यसौ चिन्तयन्नेव, गत्वा च निजमन्दिरं । जनयित्रीमुवाचैवं, मातर्मे देहि पायसम् ॥६६॥ ततो निःस्वतयोन्मील-त्पूर्वश्रीविरहव्यथा । उच्चैःस्वरमरोदीत्सा, शल्येनेवातिपीडिता ।। ६७ ॥ आकर्ण्य प्रतिवेश्मिन्य-स्तस्यास्तं रुदितारवं । आगत्य मन्दिरं सद्यो-ऽपृच्छन् किमिति रोदिषि ॥६८॥ पायसं याचते सूनु-स्तन्नास्ति मम साम्प्रतं । तत्कुतोऽस्मै ददे तेन, रोदिमीति जगाद सा ।। ६९ ॥ ततस्तस्यै ददुः प्राति-वेश्मिक्यो दुग्धतन्दुलान् । सर्पिः खण्डमखण्डं द्रा-गानीय स्वस्ववेश्मतः ॥७॥ १प्राप्नोमि. For Private and Personal Use Only Page #9 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandi धन्यशाली महाकाव्यम् 5 सर्गः १ ॥७ ॥ प्रसाध्य पायस माज्यं, स्थाले चिक्षेप तस्य सा । उपरिष्टाद घृतं खण्डं, गृहमध्येऽविशत्ततः ॥७॥ अस्मिंश्चावसरे तत्र, गुप्तित्रयपवित्रितः। ज्ञानदर्शनचारित्र-रत्नत्रितयभूषितः ।। ७२ ॥ ईर्यासमितिसम्पन्नो, मासक्षपणपारणः (णे)। नाम्नापि सुस्थितः साधु-गजगाम क्षमानिधिः ।७३।युग्म तं तथा मुनिमालोक्य. यालो रोमाश्चमुद्रहन् । विकसबदनाम्भोज-चिन्तयामास हृद्यसौ ॥ ७४ ।। अहो वृष्टिरनभ्रेयं, मरौ सकमलं सरः । आययौ यदयं साधु-मम दृष्टिपथेऽधुना ।। ७५ ।। तन्मन्ये मम भाग्यानि, जागरुकाणि साम्प्रतं । किमपुण्यवतो गेहे, कल्पवृक्षः प्ररोहति ? ।। ७६ ॥ यतः-सत्पात्रं महती श्रद्धा, काले देयं यथोचितं । धर्मसाधनसामग्री, धन्यस्येयं प्रजायते ॥ ७७ ॥ पायसं श्रेयसे स्वस्य, तस्मादस्मै महात्मने । प्रयच्छामीदमेवाह-मिति संचिन्तयंस्ततः ॥ ७८ ॥ उत्तस्थौ स्थालमादाय, मुदाऽसावब्रवीदिदम् । भगवन्ननुगृह्णीष्व, पायसग्रहणेन माम् ॥७९॥ ततोऽसौ सुस्थितः साधु-रेषणागतमानसः । द्रव्यादिपूपयुक्तात्मा, पतंदग्रहमधारयत् ॥ ८ ॥ कृतार्थोऽस्मीति चित्तेन, भावनां भावयन्नसौ । सत्पात्राय ददौ तस्मै, सम्पूर्णमपि पायसम् ।। ८१ ॥ नत्वा तेन विमृष्टोऽसौ, लोल्यादिपरिवर्जितः । स्वस्थानं सुस्थितो गत्वा, बुभुजे भोजनं मुनिः ।।८२॥ निर्निदानेन दानेन, तेन पुण्यानुवन्धिना । चमत्कारकरान् भोगा-नर्जयामास बालकः ॥ ८ ॥ १ पात्रम् For Private and Personal Use Only Page #10 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra धन्यशाली भद्र - ॥ ८ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ततोऽसौ स्थालमादाय, भाविभद्रशुभाशयः । तत्रैवोपाविशद्याव - तावन्माताऽऽययौ वहिः ॥ ८४ ॥ दृष्ट्वा तद्भाजनं रिक्तं भुक्तमेतेन पायसं । मन्यमाना जनित्री सा, प्रचिक्षेप पुनः पुनः ॥ ८५ ॥ रसलौल्यवशादेष, आकंठ बुभुजे ततः । तावत्सुस्वाप सोऽत्यन्तं, यावत्सन्ध्या समागता ॥ ८६ ॥ यावत्तस्य प्रसुप्तस्य, नाजग्मुस्तर्णका बहिः । उपालभन्त तत्स्वामि-जनास्तं तावदेत्य च ॥ ८७ ॥ ततः सोपि समुत्थाय, शीघ्रमेव बहिर्ययौ । यावन्तस्तर्णका लब्धा, ददावानीय तावतः ॥ ८८ ॥ भूयो जगाम वत्सीयो, धनं वत्सान्विलोकितुम् । यावदास्ते परिभ्राम्यन, व्यग्नस्वान्त इतस्ततः ॥८९॥ तावदस्तमनुप्राप्ते, सूरे सचक्रमोदिनि । स्फुरद्धामनि निस्तन्द्रे, सर्वदोषापहारिणि ।। ९० ।। साधाविव पदार्थौघ प्रकाशनपरायणे । जाड्यध्वंसकरे शश्व – द्विकसत् कमलाकरे ॥ ९१ ॥ दुर्जनानां यथावृन्द-मन्धकरणमुच्चकैः । व्यजृम्भततरां सूची - भेद्यं जगति शार्वरम् ॥९२॥ त्रिभिर्विशेषकम् अधोद्यानवनोद्देशे, वनस्पत्यादिवर्जिते । प्रासुके प्राण्यसंसक्ते, स्त्रीपण्डकपशुज्झिते ॥ ९३ ॥ साधवः शुद्धचारित्राः पावयन्तो महीतलं । मासकल्पविहारेण, समागम्यावतस्थिरे ॥ ९४ ॥ युग्मं ॥ ते सन्ध्यावश्यकं कृत्वा, कृत्वा स्वाध्यायमण्डलीं । संलीना वदनद्वारे, दधाना मुखवस्त्रिकाम् ॥९५॥ मुक्ता निद्राप्रमादेन, विकथाभिर्विवर्जिताः । सिद्धान्तं गुणयामासुः, सुधामधुरया गिरा । ९६ ।। १ शोभनचक्रवाकपक्षिहर्षप्रदे, पक्षे सज्जनसमूहद्दर्षप्रदे. २ सर्वरात्रिनाशके, पक्षे सर्वदोषनाशके. ३ साधुपक्षे कमलाशा लक्ष्मी.. For Private and Personal Use Only महाकाव्यम् सर्गः १ ॥ ८ ॥ Page #11 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandi पन्यशाली भद्र महाकाव्यम् | सर्गः १ अथ सर्व गृहारम्भ, प्रविहाय प्रयत्नतः । साधुपादान्नमस्कर्तु-माजग्मुः केऽप्युपासकाः ॥ ९७ ॥ पञ्चाङ्गप्रणिपातेन, तेऽनगारान् ववन्दिरे । साधवोऽपि ददुस्तेभ्यो, धर्मलाभाशिर्ष शुभाम् ॥ ९८॥ ते बद्धाञ्जलयो नम्र-मूर्धानः शुद्धभूतले । श्रावकानप्यनुज्येष्ठं, वन्दित्वोपाविशंस्ततः ॥ ९९।। स तदा कुलपुत्रोऽपि, भ्राम्यंस्तत्र समाययौ । दृष्ट्वा हृष्टमनाः साधून, प्रणम्य समुपाविशत् ॥१०॥ ततस्तन्मध्यतः साधुः, परोपकृतिलालसः। गीतार्थो देशनालब्धिसम्पन्नो देशानां व्यधात् ॥१शातथाहिक्षान्तिर्दिवमार्जवं च सततं मुक्तिस्तपः संयमः, सत्यं शौचमकिञ्चनत्वमतुलं सब्रह्मचर्य तथा । कर्तव्यं यतिनामयं दशविधोधर्मोऽचिरान्मुक्तिदो, ज्ञेयो द्वादशधा क्रमेण शिवदः सुश्रावकाणां पुनः।। सम्यक्त्वमूलानि निकेतभाजा-मणुव्रतानीह भवन्ति पञ्च । गुणव्रतानां त्रितयं च शिक्षा-व्रतानि चत्वारि सुखप्रदानि या वोतरागेऽर्हति देवबुद्धि-गुरौ विश्रुद्ध गुरुतामनीषा । धमऽहंदुक्तऽपि च धर्मबुद्धिः, सम्यक्त्वमेतत्कथितं जिनेन्द्रैः ॥ ४ ॥ अदेवतायां किल देवबुद्धि-गुरावशुद्धे गुरुतामतिश्च । अशुद्धधर्मेऽपि च धर्मबुद्धि-मिथ्यात्वमेतद्भणितं मुनीन्द्रैः॥ विधात्रिधादिना स्थूला-अवेभ्यो विनिवर्त्तनम् । अणुव्रतानि पंचवं, प्राहुस्तीर्थकरादयः ॥६॥ नामतस्तानि चामनि, भवन्ति गृहिणामिह । अहिंसासूनृतास्तैन्य-ब्रह्मचर्यापरिग्रहाः ॥७॥ १ गृहीणाम् For Private and Personal Use Only Page #12 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra धन्यशाली भद्र ॥ १० ॥ www.kobatirth.org सीमा कृता यत्र समस्तदिक्षु, न लङ्घयते दिव्रतमेतदाहुः । तद्वाह्यजीवक्षयसंनिवृत्तेर्गुणव्रतं चायमिदं गृहित्वे यत्तु प्रमाणं क्रियतेऽत्र भोगो—पभोगयोः शक्तिवशान्नरेण । भोगोपभोगाख्यमिदं द्वितीयं, गुणव्रतं स्यादिह कर्मतोऽन्यत् ॥ ९ ॥ स्वार्थाय या जीवबधादि चेष्टा, सोऽर्थाय दण्डोऽत्र ततः परो यः । सोऽनर्थदण्डो विरतिस्ततो या, गुगयतं तद्गृहिणां तृतीयम् ॥ १० ॥ त्यक्तार्त्तरौद्रस्य निशांन्तभाजः, साव करमों पर तस्य तस्य । मुहर्त्तनात्रं समतास्थितिर्या, तदत्र सामायिकमामनन्ति गुणवते दिक्परिमाणताम-न्यङ्गीकृतं यत्परिमाणमस्य । संक्षेपणादह्नि तथा निशायां, देशावका शत्रतमामनन्ति यस्मिंश्चतुर्थादितपोविधानं, पर्वस्ववद्यस्य विधेर्निषेधः । ब्रह्मक्रिया निःप्रतिकर्मता च, तत्यौषधाख्यं व्रतमदिशन्ति चतुर्विधाहारनिवासवस्त्र पात्रादिदानं क्रियतेऽतिथिभ्यः । यच्छ्राव केणा तिथिसम्बिभागवतं तदाहुर्जगतामधीशाः इत्थं बभाषे द्विविधोपि धर्मोऽचिराचिरेणाप्यपवर्गहेतुः । अध्बेव तुङ्गाद्रिसुदुर्गमोऽन्यो, न तादृशोऽभीष्टपुराप्ति ( स्ति ) कर्त्ता ॥ १५ ॥ न कर्तुमीश्महे साधु-धर्म श्राद्धा बभाषिरे । हस्तिपल्ययनं वोढुं सहन्ते किमु रासभाः ॥ १६ ॥ भगवन्विद्यतेऽस्माकं, कुलक्रमसमागतः । श्रावकाणामयं धर्मः क्रमान्निर्वाणकारणम् ॥ १७ ॥ १ उपशमयतः Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only महाकाव्यम् सगः १ ॥ १० ॥ Page #13 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandir धन्यशाली ॥११॥ केवलं देवपूजादि-नियमः सम्प्रदीयताम् । ततः साधुरपि प्राह, सोपंहमिदं वचः ॥ १८ ॥ 13महाकाव्यम् देवपूजा गुरूपास्तिः. स्वाध्यायः संयमस्तपः । दानं चेति गृहस्थानां, षट् कर्माणि दिने दिने ।। १९ ॥ | सर्गः १ ततः साधुवचः सम्यक, प्रतिपद्य प्रणम्य च । ते हृष्टमनसोऽत्यन्तं, जग्मुर्वेश्म निजं निजम् ॥ २०॥ 1 ॥११॥ पूर्वमेव मुनिदानतोऽप्यसौ,मार्दवादृजुनया च बालकः । शुद्धशीलविकलोऽपि मानवे-वायुराजयदतीवभोगभाक् । स प्रणम्य मुनिपाइपङ्कजं काननं सुगहनं महीरहैः । श्वापदैरविरलैर्भयानकं, तर्णकाननुययौ विमार्गितुम् ॥२२॥ अथोवीमिव भिन्दानं लम्बलालताडनैः । ज्वलद्दीपशिखाकल्प-चक्षुयुगलतारकम् ॥ २३ ॥ क्रकचकरदन्ताग्रं, हीरकांकूरदंष्टकम् । प्रज्वलज्ज्वलनज्वाला-वलीसोदरकेसरम् ॥ २४ ॥ शिलाविशालवक्षस्कं, वज्रमध्यकृशोदरम् । चामीकराङ्कुशाकार-नखलाङ्गलधारिणम् ।। २५ ॥ महाबुक्कारवापूर्णा-शेषदिच्चक्रवालकम् । तत्कालदलितोदाम मातङ्गामुक्करालितम् ॥ २६ ॥ प्रसारितमुखकोडं, पञ्चवक्त्रं स बालकः। यमराजमिवायान्तं, सम्मुखीनमवैक्षत ।२७॥पञ्चभिः कुलकम् ततो वेपथुमानेष, विविक्षुरिव भूतलं । कान्दिशीको मृगशिशु-रिव यावदवास्थित ॥२८॥ तावदेनमवलोक्य सिंहराट, नीचकर्मनिरतं सुदुःखितं । एतदङ्गपरिहारतो ध्रुवं, शर्मवानयमसौ भविष्यति ॥ १ श्लाघासहितम् २ सिंहम् For Private and Personal Use Only Page #14 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धन्यशाली भद्र महाकाव्यम् सगे:१ चेतसेति परिचिन्त्य तत्क्षणा-यात्तवक्त्रकुहगे दृढक्रमः । पादतीक्ष्णत्तखरामपशुभि-जीवितव्यतरुमस्य चिच्छिदे ॥ ३० ॥ त्रिभिर्विशेषकम् ॥ स स्मरन्सन्मुनि चेत-स्यपध्यानविवर्जितः । विपद्य नगरे तस्मिन्नुदपद्यत शुद्धधीः ।। ३१॥ इभ्यस्य मन्दिरे लक्ष्म्याः , पत्न्याः कुक्षिसरोवरे । पंक्षद्वयविशुद्धोऽसौ, राजहंसश्रियं दधत् ॥३२॥आदियुग्म।। गर्भस्थितेऽप्यवर्द्धिष्ट, श्रीरस्मिन्मन्दिरे पितुः । विध्वंसयति दौर्गत्यं, सुकृतां हि समागमः ॥ ३३ ॥ ततश्च नवभिर्मासै-दिनैः सार्धेश्च सप्तभिः । उच्चस्थैर्ग्रहसन्दोहै:, शुभलग्नोदयेपि च ॥३४॥ सर्वलोकचमत्कार-कारिरूपसमन्वितं । असूत तनयं लक्ष्मी-लक्ष्मीरिव मनोभवम् ॥३॥युगलम् ततो मङ्गलगीतानि, जगुः सधवयोषितः । शखिकाः पूरयामासुः, शङ्कयुग्ममुरुस्वरम् ॥ ३६ ॥ ततः कुमारिका काचि-दिभ्यमागत्य वेगतः। जगाद व से श्रेष्टिन् , प्रधानसुतजन्मना ।। ३७ ॥ उत्कृष्टकुकुमक्षोदः, पिङ्गमङ्गं विधाय सः। तस्याः कण्ठे(पि) निचिक्षेप, पुष्पमालां विकस्वराम् ३८ तथा तस्यै प्रधानानि, वस्त्राण्याभरणानि च । ददौ ताम्बूलयुक्तानि, स प्रीतः सुतजन्मना ॥ ३९ ॥ पुत्रजन्मोत्सवप्रीत-रानीतं स्वजनादिभिः । स वस्त्राक्षतपात्रादि, प्रेतीयेष निरन्तरम् ॥ ४० ॥ चारुपुगफलान्येष नागवल्लीदलैः सह । ताम्बूलं प्रत्यदातेभ्यः, क्रमज्ञा हि विचक्षणाः ॥४१॥ १ मातापितृकुलविशुद्धः, राजहंस उज्ज्वलपक्षद्वयः. २ जग्राह For Private and Personal Use Only Page #15 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir د धन्यशाली महाकाव्यम् 16 सर्गः१ ॥१३॥ الالحا अन्येभ्यो भट्टचहादि-याचकेभ्यो यथोचितम् । दानं ददावसौ सन्तो नोचितस्थितिभेदिनः ॥ ४२ ॥ एवं स्थितिकृतस्तस्य, दिनानि व्यतिचक्रमुः। एकादश ततः प्राप्ते, द्वादशे दिवसे मुदा ॥ ४३ ॥ इभ्यस्ततो विधायाशु-विशुद्धिं मृतिकर्मणः । बन्धूनाविधैर्भोज्यै- जयामास भक्तितः ॥ ४४ ।। ततः सुखासनस्थेभ्यः, स्वजनेभ्यो वितीर्य सः । नानावस्त्राणि ताम्बूलं, तत्पुरः सोऽब्रवीदिदम् ।४५। । गर्भस्थितेऽप्यवर्द्धन्त, धनधान्यादिकाः श्रियः। नाले निखन्यमाने च, भूमौ विवरमध्यतः ॥ ४६ ।। आविगसीन्निधिभूरि-दीनारपरिपूरितः यतोऽस्मि(स्म)न्मन्दिरे बाल-स्तस्माद्धन्योऽस्तु नामतः।४७ अवक्रः सर्वथाप्येष, वर्द्धमानो दिने दिने । बभूवोपचितश्चित्रं, द्वितीयाचन्द्रमा इव ॥ ४८ ॥ अथाष्टवार्षिकस्यास्य, कलाग्रहणयोग्यताम् । विज्ञायेभ्योऽर्पयामास, कलाचार्याय तं सुतम् ॥ ४२ ॥ धन्योऽप्यावर्जयामास, प्रज्ञया विनयेन च । अतिपाठादरेणापि, कलाचार्यस्य मानसम् ॥५०॥ कलाचार्योऽपि यत्नेन, तथासौ तमपीपठत् । यथा स स्वल्पकालेन, जग्राह सकलाः कलाः ॥५१॥ सीमन्तिनीजनमन:-कैरवाकरशीतगुः। सर्वकार्यक्षमं धन्यः, क्रमेण प्राप यौवनम् ॥५२॥ बहुमानो विशेषेण, तस्मिन्पित्रोरजायत । सत्स्वप्यन्येष्वपत्येषु, तौ हि तदगुणवेदिनौ ॥५३॥ ईर्ष्या विदधिरे पुत्रा, धनचन्द्रादयस्ततः । अपत्यत्वे समानेऽपि, विशेषोऽत्र किमित्यहो ॥ ५४॥ १ द्वितीयाचन्द्रो वक्रः सन् वर्धते, अयं तु अवक्रः सन् वर्धते इत्याश्चर्यम्. २ वशीचकार. ३ शीतगुः चन्द्रः اور المشاهير الهلال For Private and Personal Use Only Page #16 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धन्यशाली महाकाव्यम् सगें:१ ॥१४॥ ॥१४॥ पितरौ तानवादिष्टां, भोः पुत्राः पुण्यवानयम् । इभ्यत्वं नाममात्रेण, समभूत्प्रथमं हि नः ॥१५॥ साम्प्रतं पुनरेतस्य, पुण्याख्यस्यानुभावतः । सार्थकं वयमिभ्यत्वं, प्राप्ता लक्ष्मीप्रवर्द्धनात् ॥५६॥ ततोऽवोचन्त ते लक्ष्मीः , पुण्यैः कस्यापि वर्द्धते । इति ज्ञानादृते सम्यक ज्ञातुं न खलु पार्यते ।५७। पिताह स्वं परीक्षध्वं, पुण्यं प्रत्येकमेव भोः। द्वात्रिंशतं समादाय, रूपकाणामिमा सुताः ॥५८॥ रूपकाणि गृहीत्वा ते, ययुर्विपणिवीथिकाम् । निजपुण्यं परिज्ञातुं, कुर्वते क्रयविक्रयान् ॥ ५९॥ वक्रोदरयहच्छंगं, बलिष्ठं कर्कटेक्षणं । वृत्तग्रीवं महामेष, श्वेतं मांसलविग्रहम् ॥६॥ उज्वलैश्चित्रितं दृष्ट्वा, वर्णकैगैरिकादिभिः। जग्राह तत्र मूल्येन, धन्यस्तैरेव रूपकैः ॥ ६१ ॥युग्मं।। तत्रारूढः स तेजस्वी, बिभ्राणः काञ्चनश्रियम् । यथा वहिदिशः स्वामी, राजमार्गमवातरत् ।। ६२॥ तत्राभिमुखमागच्छन् , जितशत्रुमहिपतेः । कुमारो राजपालाख्यो, नीतिमानब्रवीदिदम् ॥ ६३ ॥ श्रेष्ठ्यङ्गज त्वं निजमेनमेडकं, किं योधयस्युन्मदमुग्रतेजसा । ममैडकेनेति जगाद धन्यको, भवत्विदं किन्तु पणो विधीयताम् ।। ६४ ॥ यस्यैडको जेष्यति तेन लभ्यः, पणो(णे)ऽत्र दीनारसहस्रमेकम् । एवं भणित्वोपवनं गतौ तौ, सकौतुकोत्तालजनेन युक्तौ ॥ ६५॥ १ अस्माकम्. २ कर्कटो जीवविशेषः तस्य नेत्रमिव नेत्रं यस्य. For Private and Personal Use Only Page #17 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धन्यशाली महाकाव्यम् सर्गः१ ॥ १५॥ अन्योन्यं तावयुध्येतां, सहर्षामर्षडम्बरौ । जितो धन्यस्य मेषेणे-तरः पुण्यं हि सिद्धिदम् ।। ६६ ॥ दीनाराणां ततो दत्वा, सहस्रं श्रेष्ठसूनवे । धीरधीस्तं समापृच्छथ, कुमारः स्वगृहं ययौ ॥ ६७ ।। दीनाराणां सहस्रेण, जितेन सममेडकम् । धन्यः स्वगृहमागल, जनकाय ददौ गुणी ॥ ६८ ॥ धनचन्द्रादयः सर्वे, कुर्वाणाः क्रयविक्रयान् । समस्तमतिनिन्युस्ते, वासरं श्रेष्ठिसूनवः ।। ६९ ॥ तथापि नाभवल्लाभो, मूलच्छेदोऽभवत्परम् । केन कर्मपरीणामः, शक्यते कर्तुमन्यथा ॥ ७० ॥ निर्लक्षणा विलक्षास्ते, पितुरन्तिकमाययुः । जनकेनाप्युपालब्धाः, सामर्षा (र्षम् ) इदमृचिरे ॥ ७१ ॥ लाभो घुणाक्षरन्यायादेवमेवाभवद्यदि । धन्यस्यास्य तदात्रायं, पुण्यवानियताऽपि किम् ॥ ७२ ॥ अथ विज्ञाय सामर्षी-श्चतुरश्चतुरोऽपि तान् । प्रत्येक रूपकाणां च, षष्ठिं श्रेष्टी पुनर्ददौ ॥ ७३ ॥ जगाद च पुनर्गत्वा, व्यवसायमनिन्दितम् । निजपुण्यपरीक्षार्थ, यूयं कुरुत सादरम् ॥ ७४ ।। गत्वा विपणिवीथीं ते, विदधुः क्रयविक्रयान् । लाभो नाभूत्परं तेषां, विचित्रा कर्मणां गतिः ॥ ७५ ॥ धन्योऽगात्षष्ठिमादाय, रूपकाणां पुरादहिः । साथै तत्राददे खट्वां, तैरत्यन्त मनोहराम् ॥ ७६ ।। आनीय मन्दिरे मातु-रर्पयामास तामसौ । यावन्निरूपयामास, वहां सम्यक् जनन्यपि ॥ ७७॥ तावदेकत्र देशेऽस्या, अद्राक्षोद गुप्तकीलिकाम् । आचकर्ष ततस्तां सा, बभूव विवरं ततः॥७८ ॥ १ मुदा इति प्रत्यन्तरम्. २ जनसमूहे. यद्वा ' सोऽथ ' इति पाठः ३ रूपक:. For Private and Personal Use Only Page #18 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandi धन्यशाली महाकाव्यम् सर्ग:१ ॥१६॥ तत्रापश्यदमूल्यानि, रत्नानि प्रवराणि सा । उद्योतमन्धकारेऽपि सुतरां यानि कुर्वते ॥ ७९ ॥ गृहीत्वा तानि सर्वाणि, कौतुकेनोच्चखान सा । पर्यङ्ककीलिकाः सर्वाः, किं किं लोभो न कारयेत् ॥ ८॥ सर्वत्रानयरत्नानि दृष्ट्वा चेतस्यचिन्तयत् । महाधनस्य कस्यापि, पर्योऽयमहो ध्रुवम् ॥ ८१ ॥ परलोकमनुप्राप्ते. तस्मिंस्तत्स्वजनैरयम् । तत्स्वरूपमजानानैः ब्राह्मणाय समर्पितः ।। ८२॥ द्विजेनाप्यनभिज्ञेन, विक्रीतो रूपकैरपि । पार्श्वे मदीयपुत्रस्य, धन्यस्यास्य महामतेः ॥ ८३ ॥ तन्नुन मन्दभाग्येभ्यो, याति श्रीविपुलापि हि । पूर्वोपार्जितपुण्याना-मायाति श्रीः स्वयम्वरा ॥ ८४ ॥ तदयं मम पुत्रोऽपि, धन्यो भाग्यनिधिधुवम् । सम्पदः स्वयमायान्ति, यस्य क्लेशं विनापि हि ॥ ५ ॥ यामिनीयामयुग्मेन, युक्तं सकलवासरम् । व्यतीयायान्यपुत्राणां, कुर्वतां क्रयविक्रयान् ॥ ८६ ।। न कपर्दकमानं ते, लेभिरे केवलं क्षयः । मूलस्याप्यभवत्पुण्या-पुण्ययोरन्तरं महत् ॥ ८७ ॥ पितृभ्यामथ ते प्रोक्ताः, कुलाभ्युदयकारकः । वत्सा! धन्योऽयमस्माकं, पुण्यैरेवोदपद्यत ।। ८८ ॥ तदत्र भवतां कर्नु, वैमनस्यं न युज्यते । श्रीखण्डतरुरेकोऽपि, वनं सुरभयत्यलम् ।। ८९ ॥ इत्येवमपि ते प्रोक्ता, नैव मुश्चन्ति मत्सरम् । प्रायेण विरला भूमो, गुणिनां गुणवेदिनः ॥९॥ यतः-नागुणी गुणिनं वेत्ति, गुणी गुणिषु मत्सरी । गुणी गुणप्रियश्चेति, विरलः सरलाशयः॥९॥ धनचन्द्रप्रिया ज्ञात्वा, धन्यं प्रति समत्सरान् । जिघांसून् सकलान् भ्रातृ-श्चिन्तयामास चेतसि ॥१२॥ For Private and Personal Use Only Page #19 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandie धन्यशाली भद्र महाकाव्यम् सर्गः १ रक्षणीयं प्रयत्नेन, नररत्नमिदं मया । यथा तथेति निश्चित्य, धन्यायासौ न्यवेदयत् ॥९३ ॥ महात्मन् सोदराः सर्वे, त्वयि द्विष्टा जिघांसवः । अदो निवेदितं यत्ते, रोचते तत्कुरु द्रुतम् ॥१४॥ अहो मोहस्य माहात्म्यं, यदेते सोदरा अपि । भ्रात्रे निरपराधाय, मां गृह्यन्ति बालिशाः ॥१५॥ यावन्नैते स्वचित्तानु-रूपं किमपि कुर्वते । तावन्मे युज्यते कर्तु, देशान्तरमितः पुरात् ॥ ९६ ॥ इति सञ्चिन्त्य धन्योऽसौ, खड्गमादाय पाणिना । पितृभ्यामप्य विज्ञातो, विभावर्या विनिर्ययौ ९७ सोऽसहायो महाबाहु-मार्ग गच्छति निर्भयः । द्वितीयः किमु कोऽपि स्या-दने सञ्चरतो हरेः॥१८॥ गच्छतोऽपान्तरालेऽस्य, ग्रामः कोऽपि समागमत् । कुटुम्बिभिः समाकीर्णः, समृद्धैर्गोधनादिभिः ९९ हलेनोध्धुरधुर्येण, कृषन्तं क्षेत्रमञ्जसा । धन्यः परिसरे तस्या-पश्यदेकं कृषीवलम् ॥ २० ॥ श्रेष्ठिसूनुस्तमप्राक्षीद्-गम्भीरमृदुभाषया । भो भद्र ! ब्रह्ययं पन्थाः, कां पुरीमुपतिष्ठते ॥१॥ ततस्तद्वचनं श्रुत्वा, कर्णयोरमृतं स्रवत् । रूपंचाद्भुतमालोक्य, मनसासौ विसिष्मिये ॥२॥ ततोऽभिमुखमागत्य, प्राञ्जलिः स कृषीबलः। धन्यं प्रति जगादेवं, क्षेत्रेऽस्मिन् पश्य वर्त्तते ॥३॥ सरलः सहकारोऽय-मुन्नतः सुमनःप्रियः । भवानिवातिसंच्छायो, महाशाखासमन्वितः॥४॥ तस्मादिह महाभाग, क्षणं विश्रम्यतामिति । अभ्यर्थितः स तेनैवं, जगामाम्रतरोस्तलम् ॥५॥ १ बलवदृषमेण. २ आम्रवृक्षः ३ देवानां सजनानां वा प्रियः, ४ शीतलच्छायावान, पक्षे सत्कांन्तिर्भवान्. For Private and Personal Use Only Page #20 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra धन्यशाला भद्र ।। १८ ।। www.kobatirth.org कस्मिदुत्सवे तत्र, भक्तमादाय पायसम् । खण्डाज्ययुक्तमागच्छत्, कृषीवलसधर्मिणी ॥ ६ ॥ तामवादीत्कर्षकोऽपि प्रियेऽमुं भोजयातिथिम् । गुणी प्रोघूर्णकः काले, यतः पुण्यैरवाप्यते ॥ ७ ॥ ततः प्रीता सती सा तं भोजयामास पायसं । चकर्ष कर्षकः क्षेत्रम्, बुभुजे यावदिभ्यस्ः ॥ ८ ॥ तथैव कर्षतस्तस्या --लगत्सीरंमुखं मुखे । महानिधानकुम्भस्य, भूम्यन्तर्वर्त्तिनस्ततः ॥ ९ ॥ यावन्निरूपयत्येष, भूमिं शब्दानुसारतः । तावद्दीनारसम्पूर्ण, स निधानमवैक्षत ॥ १० ॥ भुक्तोत्थितस्य धन्यस्य, समीपं स कृषीबलः । ततो निधानमादाय, सप्रमोदः समागमत् ॥ ११ ॥ यद्धाञ्जलिरुवाचैवं गृहाणाऽनुगृहाण माम् । महापुण्यनिधे पुण्यं, स्वकीयमित्र पुष्कलम् || १२ || धन्यः किमिदमित्यूचे, स प्रोचे कर्षता मया । तव प्रभावतोऽयैव सम्प्राप्तोऽयं महानिधिः ॥ १३ ॥ भवेयुर्भागधेयानि, यदि मेऽत्र महामते । क्षेत्रं कर्षन् सदाप्येनं पूर्वमेवाप्नुयामहम् ॥ १४ ॥ पुण्यैर्म मायमायुष्मं - वेत्प्रादुरभविष्यत । एतावद्दिवसैरेव, नालप्स्यत मया किमु || १५ || पाठान्तरम् || तस्मात्त्वदीयमेवेदं निधानं स्वीकुरु द्रुतम् । पुरुषोत्तम एवाहः, कौस्तुभस्य महामणेः || १६ || श्रुत्वा हलधरस्यापिं, वचश्चातुर्यमद्भुतम् । धन्योऽतिमुदितः प्राहा मृतद्रवमिव स्रवत् ॥ १७ ॥ अहो विचारचातुर्य - महो वैनयिकी क्रिया । अहो निर्लोभतास्यैव ( तातेच), यन्निधिं न जिघृक्षति (सि) १ अतिथिः २ इलस्याप्रभागः ३ निधिम् ४ ग्रहीतुमिच्छति. For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir भार महाकाव्यम् सर्गः १ ॥ १८ ॥ Page #21 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra धन्यशाली भद्र - ॥ १९ ॥ www.kobatirth.org पुण्यैरहमिहायात -- स्वदीयैरेव साम्प्रतम् । तुभ्यं प्रदत्तमेवैनं, भद्रादत्स्व त्वमेव हि ॥ १९ ॥ ततस्तं निधिमादाया - विज्ञातोऽन्यैर्जनैर्मुदा । सधन्यः सप्रियञ्चापि निजं धाम जगाम सः ॥२०॥ धन्यस्य सम्पर्कमवाप्य तत्र, कृषीवलोऽभूदितरेभ्य आढ्यः । चिन्तामणेर्योग इहाङ्गभाजां दारिद्र्यमुद्राम्प्रणिहन्ति किं न ॥ २१ ॥ ॥ इति श्री धन्यशालिभद्रमहर्षिचरिते धन्यपूर्वभव सुप्रतिष्ठपुरनिर्गमन कृषीवलगृहावस्थानवर्णनो नाम प्रथमः परिच्छेदः ॥ १ ॥ TRIR For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir महाकाव्यम् सर्गः १ ॥ १९ ॥ Page #22 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra धन्यशाली भद्र ॥ २० ॥ www.kobatirth.org ॥ अथ द्वितीय सर्गः ॥ इतश्च भरतेऽत्रैव, पूर्वदिङ् मुखमण्डनम् । देशोऽस्ति मगधाभिख्यो, विख्यातो जगतीतले ॥ १ ॥ तत्रासीद्विबुधाजि, वृषीध्यासितमूर्जितम् । पुरं राजगृहं नाम, दिविर्षनगरोपमम् ॥ २ ॥ यत्र प्राग्जन्ममित्रेण, मेतार्यस्य दिवौकसा | बुध्ध्याऽभयकुमारस्य, प्राकारोऽकारि काञ्चनः ॥ ३ ॥ स शशास विशामीश - स्तत्पुरं श्रेणिकाभिधः । येन श्रीमन्महावीर - पादाब्जे भ्रमरायितम् ॥ ४ ॥ सर्व्वदेवाभंयोपेतः, क्षमाभृन्मौलिमण्डनः । यः श्रीवीर इवेहाभू-दग्रे च भविता जिनः ॥ ५ ॥ चारुशालीनताशीला - लङ्कारालङ्कृताः सदा । रूपसौन्दर्यसंयुक्ताः सर्व्वाज्ञाज्ञापरायणाः ॥ ६ ॥ सुनन्दा चेल्लणादेवी, धारिणीति सुविश्रुताः । समस्तान्तः पुरश्रेष्ठा - स्तिस्रस्तस्याभवन् प्रियाः | ७|युग्मम् सुनन्दा श्रेष्ठीसः सूनुं, द्वेधाऽभयमजीजनत् । रामं शत्रुमनः शल्यं कौशल्येवादद्भुतश्रियम् ॥ ८ ॥ अजीजनत् कुणिकमात्मजातं, प्राक्चेलणा हलविल्लकाभ्यां । लङ्काधिनार्थं किल कुम्भकर्ण - विभीषणाभ्यामिह कैकसीव ॥ ९ ॥ मेघकुमारनामानं धारिणी सुषुवे सुतं । प्रस्फूर्जतेजसं चारु, रत्नं रोहणभूरिव ॥ १० ॥ अथात्रैव पुरे श्रेष्ठी, श्रेष्ठो नैगमसन्ततेः । गोभद्राख्यो धनेनोचे -रासीद्वैश्रवणोपमः ॥ ११ ॥ Acharya Shri Kailassagarsuri Gyanmandir १ पण्डितैः पक्षे देवैः शोभितम् २ वृषो धर्मः पक्षे इन्द्रः तत्सहितम् ३ स्वर्गोपमम् ४ अभयकुमारेण सहितः श्रेणिकः, पक्षे भयरहितः श्रीवीरः. ५ राज्ञां शीर्षमंडनः मुकुटरूपः ६ सुन्दरे लज्जालुताशीले एवालङ्कारी ताभ्यामलंकृताः ७ नाम्ना गुणेन वअभयः तम् ८ कुबेरसदृशः For Private and Personal Use Only महाकाव्यम् सर्गः २ ॥ २० ॥ Page #23 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobalrm.org Acharya Shri Kailassagarsuri Gyanmandir धन्यशाली २५ महाकाव्यम् सर्गः२ ॥२१॥ Jel॥२१॥ तस्याऽभून्नामतो भद्रा भंद्रानेकपगामिनी । नीरागाङ्गी सती भार्या, चन्द्रार्द्धरुचिरालिका ॥ १२॥ फलपुष्पप्रधानानां, वृक्षाणां मेघवत्तथा । नाना कुसुमपालोऽभू-र वृद्धिकृत्तत्र मालिकः ॥ १३ ॥ बकुलश्रीतिविख्याता, नाम्ना तस्य सम्मिणी । वरशीलसुगन्धाख्या, बकुलश्रीरिवाभवत् ॥१४॥ इतश्च धारिणी देवी, श्रेणिकस्य महीभृतः। मेनेव सुषुवे पुत्री, सुरूपां सर्वमङ्गलाम् ॥१५॥ अथ ज्ञाताङ्गजाजन्मा, काचिदागत्य चेटिका । सुनिर्मलगुणश्रेणि-श्रेणिकाय व्यजिज्ञपत् ॥ १६ ॥ स्वामिन्मेघ प्रसूर्देवी, धारिणी वरतेजसम् । सुखेन सुषुवे कन्यां, द्यौरिवाचिररोचिषम् ॥ १७ ॥ तदाकर्ण्य वचस्तस्याः, प्रमोदभरपूरितः । आदिदेश पुरारक्ष, श्रेणिको नरपुङ्गवः ॥१८॥ मन्त्रिणः सार्थवाहस्य, श्रेष्टिनो वणिजोऽथवा । द्विजस्योद्यानलस्या-परस्यापीह कस्यचित् ॥ १९ ॥ भार्याऽमुष्याम्विभावो, या काचित्सुषुवे सुताम् । पणवाघोषणापूर्व, ज्ञात्वा तां मे निवेदय ॥२०॥ पटहाघोषणेनासा-वारक्षः पुरुषैनिजैः । घोषयित्वा परिज्ञाय, नरेन्द्राय व्यजिज्ञपत् ॥ २१ ॥ देव त्वन्नगरे भद्रा, गोभद्रश्रेष्ठिनः प्रिया । भार्या कुसुमपालस्य, बकुलश्रीरपीतराः ॥ २२॥ सुषुवाते निशीथिन्या-मुभये अपि कन्यके । स्फुरत्तेजोभरे मुक्ता-शुक्तीमुक्त इवामले ॥२शायुग्मम्।। नगरारक्षक भूयो, भूमिपालोऽभ्यधादिति । गत्वा तो पुनराख्याहि, गोभद्रोद्यानपालको ॥ २४ ॥ १ भद्रजाति गजगामिनी. २ अष्टमीचन्द्रवत् मनोहरं कपालं यस्याः सा. ३ बकुलवृक्षशोभा. ४ विद्युतम्. For Private and Personal Use Only Page #24 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra धन्यशाली भद्र ॥ २२ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आतव्ये निजे कन्ये, विशुद्धे सूतके सति । धारिणीकुक्षि जातायाः सुताया मम सन्निधौ ॥ २५ ॥ स्निग्धाः सख्यो भविष्यन्ति, यस्मादेताः परस्परम् । ततस्तेन विनिर्दिष्टं, राजादिष्टं पुरस्तयोः ॥२६॥ ततः सूतकसंशुद्धिं कृत्वा कतिपयैर्दिनैः । निन्यतुः सह धात्रीभ्यां तौ पुत्र्यौ श्रेणिकान्तिके ||२७|| तासां रूपं समालोक्य, मुदितो नृपपुङ्गवः । नामानि कर्तुमारेभे परमोत्सवपूर्वकम् ॥ २८ ॥ मुखलक्ष्म्या जयत्येषा, सोमंश्रियमपीह यत् । सोमश्रीत्यभिधाऽमुष्या - स्तदस्तु दुहितुर्मम ॥ २९ ॥ सुन्दरी मृर्तिरेतस्याः, सुन्दरी लक्षणैरपि । सुन्दरीत्याख्ययाऽस्त्वेषा, भद्रागोभद्रयोः सुता ॥ ३० ॥ यतोभात्यधुना वर्या, कण्ठेस्याः कुसुमावली । सुता कुसुमपालस्य, ततोस्तु कुसुमावली ॥ ३१ ॥ सान्वयानीति नामानि विधाय वसुधाधवः । अलङ्कारादिभिः कन्याः, सत्कृत्य विससर्ज ताः॥ ३२॥ अवर्धन्त गतापायं कन्यकाः स्वेषु वेश्मसु । कन्दरेषु सुवर्णाद्रेः सुखं कल्पलता इव ॥ ३३ ॥ बभूवुर्वर्द्धमानास्ताः, कलादानोचितास्ततः । कलाचार्यांय पाठार्थ, (समये) तममेवाऽऽर्पयन्नृपः ||३४|| इतश्च गङ्गापुलिनविस्तीर्णे, पार्श्वद्वयसमुन्नते । मध्यभागे विनम्रे च, हंसतुलोपधानके ॥ ३५ ॥ श्वेतपदांशुकाच्छन्ने, नवनीतम्रदीयसि । तल्पेऽनल्पसुखे सुप्ता, भद्रा गोभद्रवल्लभा ॥ ३६ ।। स्वस्थानी नाति निद्राणा, शालिक्षेत्रं फलोल्वणम् । यामिन्याः पश्चिमे यामे, दृष्ट्वा स्वप्रमजागरीत् |३७| त्रिभिर्विशेषकं । १ चन्द्रशोभाम् २ नते. For Private and Personal Use Only महाकाव्यम् सर्गः २ ॥ २२ ॥ Page #25 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra धन्यशाली भद्र ॥ २३ ॥ www.kobatirth.org पं त्यक्त्वाssसने स्थित्वा, भद्रा पञ्चनमस्कृतिम् । उदैरंयदुदारेण, स्वरेणालस्य वर्जिता ||३८|| ततः स्वप्रमनुस्मृत्या-भ्युत्थाय गतसंभ्रमा । हंसगत्यनुकारिण्या, गत्याऽऽगात्पत्युरन्तिकम् ॥ ३९ ॥ युग्मम् तैस्तैर्मनोमहानन्द - दायिभिर्मधुरैः स्वरैः । पतिं सा बोधयामास, कोकिलालापकोमलैः ॥ ४० ॥ स्वामिन् वासगृहे सुसा, स्वप्नेऽपश्यमहं निशः । पश्चिमे प्रहरे शालि-क्षेत्रं भूरिफलान्वितम् ॥४१॥ स्वप्नस्य तदिहैतस्य विशिष्टं किं फलं मम । भविष्यत्यनवद्यस्य, प्रसद्य प्रतिपादय ॥ ४२ ॥ हृष्टः प्रोवाच गोभद्रो, भद्रां भद्राकृतिः सुधीः । प्रिये! स्वप्नस्त्वयाऽलाभि, भद्रो भद्रेभगामिनि ॥ ४३ ॥ सर्वाङ्गसुभगो भोगी, भाग्यवान् श्रिय आश्रयः । स्वप्नस्यास्य प्रभावेण, सनुस्तव भविष्यति ||४४ ॥ इति भर्तृवचः श्रुत्वाऽवद्भद्रा कृताञ्जलिः । यथाssस्थे त्वं तथा नाथ, भूयादवितथं मम ॥ ४५ ॥ इत्युदित्वा ततो भद्रा, प्रमोदभरनिर्भरा । बबन्ध शकुनग्रन्थि, प्रत्यक्षं भर्तुरेव हि ॥ ४६ ॥ स्वस्थानमेव रात्र्यन्तं जाग्रती साऽयवाहयत् । सत्कथाभिः पवित्राभि-गुरूणामहतामपि ॥ ४७ ॥ ततः प्रभृति दधे सा, गर्भमन्यूनलक्षणम् । मुक्ताशुक्तिपुटीबोचे - मुक्ताफलमनुत्तमम् ॥ ४८ ॥ भद्रायाः सान्द्र भद्रायाः, सुभगं भावुकान्यथ । गर्भानुभावतः सर्वा व्यङ्गोपाङ्गानि जज्ञिरे ॥ ४९ ॥ आपाण्डुरस्फुरद्गण्ड —स्थलं वदनमण्डलम् । शरदुतेजितज्योति - चन्द्रविम्यश्रियं दधौ ॥ ५० ॥ १ अगणयत्. २ कथय ३ वदसि ४ न विद्यत उत्तमं यस्मात् सर्वोत्तममित्यथ: ५ अति कल्याणवत्याः ६ सौभाग्यवन्ति. For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir महाकाव्यम् सर्गः २ ॥ २३ ॥ Page #26 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandit धन्यशाली महाकाव्यम् सर्गः २ भद्र ॥२४॥ ॥२४॥ अभूतामुज्ज्वले नेत्रे, विशाले श्यामतारिके। पुण्डरीके इवोत्फुल्ले, अन्तर्धाम्यन्मधुव्रते ॥५१॥ लम्बलोले श्रवःपाल्यौ, त्यक्ताष्टापदकुण्डले । स्मरखे इवाभातां, सुसंस्थानमनोहरे ॥५२॥ कुचौ शिंतिमुखौ गौरी, लावण्यामृतपूरितौ । स्वर्णकुम्भाविव श्यामा-म्भोजच्छन्नौ विरेजतुः ॥५३॥ उदरं गूढगर्भत्वा-नैव तत्याज तानवम् । भवन्ति मातरो गूढ-गर्भा यत्पुण्यशालिनाम् ॥५४॥ गतिरप्यलसा तस्या, राजहंस्या इवावभौ । वचोऽपि मधुरं श्रुत्यो-रमृतस्यन्दि चाऽभवत् ॥५५॥ ईक्षणक्षणदायीनि, लक्षणानीतराण्यपि । सुन्दराण्यभवंस्तस्या, देहे गर्भप्रभावतः ॥५६॥ न स्निग्धै तिरुक्षश्च, नात्युशै तिशीतलैः । नैव तिक्तैनचात्यम्ले- क्षारैर्न च नीरसैः ॥७॥ किन्तु मष्टैहितैः पथ्यै-मधुरैर्मुखरोचकैः । मनःप्रहादिभिर्देह-सुखदैः सर्वदैव हि ॥ ५८ ॥ अशनैः पानकैः खाद्यैः, स्वाद्यैरत्यन्तसुन्दरैः । गर्भ तं वर्द्धयामास, श्रेष्टिपत्नी प्रयत्नतः ॥ ५९॥ त्रिभिर्विशेषकम् ॥ ऋषभादिमहावीर-पर्यन्तानामिहार्हताम् । पुण्डरीकेन्द्रभूत्यादि-महर्षीणां कदाचन ॥ ६ ॥ सीताञ्जनासुभद्रादि सतीनां च कदापि हि । पवित्राणि चरित्राणि, श्रुश्रावासौ प्रमोदिनी।६रायुग्मम् कदाचित्कलगीतानि, गुरूणामहतामपि । सा पिबत्यमृतानीव, श्रवःपत्रपुटैः स्फुटम् ॥ १२ ॥ कदाचिन्नर्तकीनृत्य-महारादिबन्धुरम् । हावभावमनोहारि, पश्यति निश्चलासना ॥ ६३ ॥ १ मधुवता भ्रमरा २ कर्णसमीप भागौ,३ त्यक्तसुवर्णकृण्डले ४ कामदोले ५ श्याममुखौ ६ कृशत्वम् ७ नेत्रोत्सवदायीनि ८ शोधितैः For Private and Personal Use Only Page #27 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra धन्यशाली भद्र ॥ २५ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कदाचिचित्रशालासु चरितानि महात्मनाम् । समयं व्यतिचक्राम, वीक्षमाणा सुखेन सा ॥ ६४ ॥ त्रिभिर्विशेषकम् ॥ अत्रान्तरे च गोभद्रः, श्रेष्ठी भूरिधनोऽपि सन् । प्रतस्थेऽम्भोधियात्रायां, वित्ताशा हि बलीयसी ६५ यतो न गणयत्येव, गेहत्यागं सुदुष्करम् । न च वल्लभया सार्धं, दुस्सहं विरहानलम् || ३६ || न चानेकविधं मार्ग - ष्टमत्यन्तदारुणम् । प्रणाशं न च निद्रायाः, क्षपायां वासरेऽपि वा ॥६७॥ शीतवातातपक्षुत्तृण्महाक्लेशोद्भवं न च । तस्कराणामवस्कन्दं विलुणुनभयं न च ॥ ६८ ॥ सिंहादिश्वापदेभ्यस्तु, कूरेभ्योऽपि न साध्वंसम् । किं भूयसा निजस्यापि, शरीरस्थ परिक्षयम् ॥६९ ॥ देशाद्देशान्तरं भ्राम्य – न्नजस्रं पृथिवीतले । लोभभूताभिभूतः सन्मनुष्यो धनहेतवे ॥ ७० ॥ षड्भिरादिकुलकम् ।। शकटोष्ट्रबलीवर्दा - येषु प्रवहणेषु सः । चतुर्धा भाण्डमादाया- रोपयामास भूरिशः ॥ ७१ ॥ सन्तान वृद्धनारीभिः कृतकौतुकमङ्गलः । शकुनेध्वनुकूलेषु चचाल विपुलाशयः ॥ ७२ ॥ वाहनेष्वतिभारं ना - रोपयत् करुणानिधिः । उत्प्रयाणकमतन्वन् स्थाने शब्पाम्बुशालिनि ॥ ७३ ॥ मेनुका श्रेष्ठी महेभ्यैरतिसङ्कुलम् । पुरं श्रीनिलयं प्राप— डुपकण्ठं महोदधेः ॥ ७४ ॥ दिनानि कतिचित्तत्र स्थित्वा श्रेष्ठी सुखेन सः । केशांचिन्मक्षु भाण्डानां, चकार क्रयविक्रयम् ॥ सम्प्राप्तोचितलाभोऽपि प्रचुरद्रव्यलिशया । परतीरोचितं भाण्डं, यानपात्रे न्यधन्न सः ॥ ७६ ॥ १ भयम्. २ वाहनेषु. ३ तृणजलवति ४ शीघ्रम्. For Private and Personal Use Only महाकाव्यम् सर्गः २ ।। २५ ।। Page #28 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धन्यशाली महाकाव्यम् सर्गः२ ॥२६॥ गोभद्रः शुभवेलाया-मर्चित्वाम्भोधिदेवताम् । यानयात्रं समारोह-तदैवोक्षिप्तनांगरम् ॥ ७७ ॥ पोतः प्रतिपगामिन्यां, वेलायामतिवेगतः । प्रणुन्नः कर्णधारेण, गन्तुं प्रववृतेश्वुधौ ।। ७८ ॥ इतश्च भद्रा गोभद्र-प्रिया राजगृहे पुरे। सल्लक्षणमधाद्गर्भ, व्यक्तं द्योरिव वारिदम् ॥ ७९ ॥ श्रीमजिनेन्द्रचैत्येषु, श्रीराजगृहवर्तिषु । कारयामि जिनार्चानां, स्नानमा च भक्तितः ॥ ८॥ मुनिभ्यो गुणपात्रेभ्यः, स्वहस्तेन ददाम्यहम् । शुद्धानपानपात्राणि, वस्त्राणि बहुमानतः ।। ८१॥ समानधार्मिकेभ्यश्च, दानं यच्छामि यत्नतः । दीनानाथादिजन्तुभ्य-स्तूर्णमेवोचितं स्विति ॥ ८२ ॥ दोहदोऽभूत्तृतीयेऽस्या, मासे गर्भानुभावतः । अकारि सर्वमप्येत-तुष्टया विधिना तया ॥८३ ।' इत्थं पूरितदोहदा प्रमुदित-स्वान्ता प्रशान्ताकृतिः, शश्वद्धर्मपरायणा परिजनस्यानन्दमातन्वती। सा मासैनवभिस्तथा व्यतिगतैः सार्द्धर्दिनैः सतभिः, पुत्रं मित्रंमिवाजनिष्ट विमलं प्राचीव तेजोनिधिम् ॥८४॥ तारुण्याश्चितविग्रहाः स्मरभरपोद्दामधामश्रियः, स्मेरद्वक्त्रसरोमहा मणिमयालङ्काररोचिष्णवः । गायन्त्यस्तनयोत्सवे प्रमुदिता वामभुवस्तीर्थकृ-जन्मायातककुक्कुमार्य इव ता अत्यद्भुता भ्रजिरे ॥५॥ पुत्रोत्पत्या शालिकाः श्रेष्ठीपत्न्याः, प्रीताः सन्तो यौगपद्येन सद्यः। शयन् वादयामासुरुचः, प्रत्यारावैः पूरयन्तो दिगन्तान ।। ८६ ॥ १ प्रतिकूलगामिन्याम्. २ प्रेरितः. ३ सूर्यम्. For Private and Personal Use Only Page #29 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandit धन्यशाली ॥२७॥ बारे सूतिगृहस्य यूपमुसले पार्श्वदयेऽतिष्ठिपत् , काचिबद्धकुलाना धववती शीलाञ्चिता पुंत्रिणी। ऊ/कृत्य सुधारसैर्धवलिते सिन्दरिकालङ्कृते, शङ्ग बालकचारुकीर्तिसुकृते साक्षाल्लसत्तेजसी ।। ८७ ।। महाकाव्यम् भद्रायाः श्रेष्ठिभार्यांया, ज्ञात्वा पुत्रसमुद्भवम् । अहोय सुन्दरी धात्री, समुपेत्य स्मितानना ||८८ ॥ 10] सगः २ राज्ञे विज्ञपयामास, श्रेणिकाय कृताञ्जलिः । स्वामिस्त्वन्नगरे श्रेष्ठ-श्रेटिनोऽद्य सधर्मिणी ॥ ८९ ॥ ISC॥२७॥ गोभद्रस्य विभावर्या, गते यामदये सति । सर्वलक्षगसम्पूर्ण, सुखेन सुषुवे सुतम् ॥ ९ ॥ तस्मात्वं वर्द्धसे नाथ, जयेन विजयेन च । पौरागामुदयो योऽत्र, नपस्याभ्युदयाय सः ॥११॥ गर्भस्थस्याऽस्य पाथोधि-यात्रांतात उपागमत् । बान्धवास्तद्विधिसन्त, उत्सवं भवदाज्ञया ।।१२।। ततस्तस्यै ददौ तुष्टि-दानं श्रेणिकभूपतिः । तदाज्ञयोत्सवश्चक्रे, भद्रागोभद्रयान्धवैः ।। ९३ ॥ प्राज्ञं दैवज्ञमाहय, प्रवेश्य स्वगृहेऽथ ते । दत्त्वा ताम्बूलमप्राक्षु-लिकस्य शुभाशुभम् ॥ १४ ॥ स बभाषे विभाव्याथ, लग्ने ग्रहबलावलम् । शुभग्रहबले लग्ने, जातोऽयं पुण्यवाञ्छिशुः॥ ९५ ।। गम्भीरिमजिताम्भोधि-धीरताऽधरिताचलः। धीविधूतसुराचार्यो, वर्यचर्यो भविष्यति ॥९६॥ ततस्तैः पिञ्जरं कृत्वा, तदङ्गं कुङ्कुमद्रवैः । परिधाप्यातिमूल्यानि, वनरत्नानि सादरम् ॥९७ ॥ कण्ठे पुष्पस्रज क्षिप्त्वा, दत्वा ताम्बूलमुल्वणम् । देवतेवार्चितस्तुष्टो, निज धाम जगाम सः॥९॥युग्मम्॥ १ भर्तृमती. २ पुत्रपती. ३ शोघ्रम् ४ विधातुमिच्छन्ति. For Private and Personal Use Only Page #30 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra धम्यशाली भद्र ॥ २८ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शिशोराराधनायेवा - दितीऽपि स्वाम्बुजच्छदैः । लक्ष्म्येव निर्मिता भाति, द्वारे वन्दनमालिका ९९ दत्त्वा कल्याणपात्राणि, पूर्णपात्राणि सादरम् । पुरेभ्याः प्रेषयामासुः स्ववधूर्निजवेश्मतः ॥ १०० ॥ ताः पुनः पुररथ्यासु, प्रमोदभरनिर्भराः । लीलाञ्चितं सञ्चरन्त्यः सर्वाभरणभूषिताः ॥ १ ॥ विहिताद्भुतनेपथ्या, रणणितनपुराः । स्वरूपनिर्जितानङ्ग-कान्ताश्चन्द्रसमाननाः ॥ २ ॥ यूनां मनसि कुर्वाणाः, किं लावण्यापगा इमाः । देवता इति सन्देहं प्रापुर्गोभद्रमन्दिरम् ॥ ३ ॥ त्रिभिर्विशेषकम् ॥ आदायाक्षतपात्राणि, तासामास्यानि कुंकुमैः । विवराणि विधायोच्चै – देखा ताम्बूलमनम् ||४|| तैः प्रहस्य विसृष्टास्ता, विस्मयस्मेरमानसाः । श्रृंगारसागरज्योत्स्नाः प्रापुः स्वं स्वं निकेतनम् ||५ ॥ युग्मम् ॥ विज्ञातपुत्रजन्मानः, स्वशालाभ्यः प्रमोदिनः । प्रोद्दामगतिभिः सार्धं, सहषैस्तुरगैरिव ॥ ६ ॥ उच्चैः स्वरं घोषयन्तस्तै श्रद्वैः सूतिमातृकाम् । ययाश्रुतिमुपाध्याय - कुञ्जराः समुपाययुः ||७||युग्मम् || क्षिप्त्वा छात्रोत्तमांगेषु तैलं मङ्गलहेतवे । कुंकुमेन समालिप्तास्ताम्बूलवसनार्चिताः ॥ ८ ॥ सुधियस्तेऽप्युपाध्यायाः सचट्टास्तुष्टिभाजनम् । यक्षवत्सपरीवारा, जग्मुः शालां निजां निजाम् ॥ ९ ॥ युग्मम् ॥ कथित्वा नव्यकाव्यानि सप्रभाः काव्यवत् कचित् । अप्रतिस्खलितं प्रोच्चैः, पेठुर्मङ्गलपाठकाः ॥१०॥ afersस्तूरिकादृटः (क्लुप्त ) - स्थासकालङ्कतालिकाः । जगुः कर्णामृतस्यन्दि गायनाः किन्नरा इव ११ १ छात्र For Private and Personal Use Only महाकाव्यम् सर्गः २ ॥ २८ ॥ Page #31 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धन्यशाली भद्र महाकाव्यम् सर्गः२ ॥ २९॥ المال وتقلل الفن الفن الملل المحافل السلطانيليا والثالثة परिस्फूर्जत्प्रतिध्वानः, पूरयन्तीव रोदसी । युगपद्वादयामासु-र्यतूर्याणि तौर्यिकाः ॥ १२ ॥ कचिद् गृहबहिभूमि-प्रदेशेषु सुगन्धिभिः । जलैः सिक्तेषु मुक्तेषु भूयसा रजसाभितः ॥ १३ ॥ शल्योज्झितेष्ववक्रेषु, सर्वत्राऽविषमेषु च । सर्वसङ्गविमुक्तानां मुनीनां मानसेष्विव ॥ १४ ॥ पटुपाटपदिष्ठे तु (?) मृदङ्गे मंजु गुञ्जति । मन्दिरोद्यानमायूर-ताण्डवाडम्बराम्बुदे ॥ १५ ॥ जिनसन्मुनिसद्भूत-गुणोत्कीर्तनपूर्वकम् । मन्द्रतारतरोद्गानै-युगपद्दत्ततालिकाः ॥ १६ ॥ नानावेषजुषो योषा, भूरिभूषणभूषिताः । अकार्षुमण्डलीनृत्य, हर्षोत्कर्षपुषो मिथः ॥१७॥पञ्चभिःकुलम् भंद्रा कल्पलतेवादा-दर्थिभ्यो दानमद्भुतम् । इयं लोकस्थितिर्दान-मव्ययं पुत्रजन्मनि ॥ १८ ॥ गीतैर्मङ्गलपाठक प्रपठनैश्चद्योटोद्घोषणै-ओम्यद्वामविलोचनाजनरणन्मञ्जीरमंजुकणैः । दीनानाथवनीपकार्थनरवैस्तूपस्वनैश्चोध्धुरैः । शब्दाद्वैतमिवाभवजनिमंहे सूनोस्तदा श्रेष्ठिनः ॥१९॥ एकादश दिनानित्थं, क्रमेण व्यतिचक्रमुः । कुर्वतामुत्सवं तेषां, प्रमोदादेकयामवत् ॥ २०॥ ततोह द्वादशे कृत्वा, सूतकस्य विशोधनम् । बभूवुः शुचिभूतास्ते, स्नानकर्मादिपूर्वकम् ॥२२॥ प्रविधायाहतां स्नात्रं, वस्त्रस्रक्चन्दनादिभिः। भद्रा सर्वेषु चैत्येषु विधिनाऽर्चामचीकरत् ॥ २२ ॥ तत्पुरो बलिमाधाय, भक्त्या देवानवन्दत । विधाप्य प्रेक्षणं रम्य, साधुपाश्रयमाययौ ॥ २३ ॥ १ आकाशपृथिव्यौ. २ 'पटिप्ठेत्तर्मुद' प्रत्यन्तरपाठोऽपि न सम्यग्ज्ञायते. ३ सुन्दरदीर्घतरगानः ४ स्त्रियः ५ वामविलोचना .. मनोहराक्ष्यः त्रिय इति यावत्. ६ वनीपका भिक्षुकाः. जन्मोत्सवे. ८ एकप्रहरवत्.. ی For Private and Personal Use Only Page #32 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra धन्यशा भद्र॥ ३० ॥ www.kobatirth.org + वन्दित्वा सुव्रतान् सूरीन् भद्राड्योचत्कृताञ्जलिः । प्रसय भगवन् क्षिप्र - मास्माकीने निकेतने २४ प्रासुकस्यैष गीयस्य, स्वजनार्थं कृतस्य च । जिवृक्षयाऽन्नपानादेः, प्रेष्यन्तां यतिपुङ्गवाः ॥ २५ ॥ युग्मम् ॥ धर्मलाभं वितीर्योचु-स्ते भद्रे तव मन्दिरे । वर्तमानेन योगेनाss - गमियन्त्यव साधवः ||२६|| सूरीन् प्रणम्य साध्वीश्च, न्यमन्त्रयत कोविदा । भक्त्या हृष्टमना भद्रा, श्रावकाणां क्रमो ह्ययम् । २७ सधवाभिर्महेलाभि— गायन्तीभिः समन्विता । शङ्खे स्वनति गम्भीरे, वाद्यमाने च सूर्यके ॥ २८ ॥ सलीलगमना पत्नो-त्सङ्गविन्यस्त बालका । भद्रा प्राप निजं धाम, द्वारविन्यस्त तोरणम् ॥२९॥ युग्मम् ॥ मित्रज्ञातिपुरज्येष्ठा, भोजनाय निमन्त्रिताः । भद्रया सादरं तेऽपि, समाजग्मुस्तदैव हि ॥ ३० ॥ विष्टरेषु प्रधानेषु, ते क्रमेणोपवेशिताः । भाजनानि च सर्वेषां सा प्रत्येकमदीदपत् ॥ ३१ ॥ तदर्श सूपकलम - शालिप्रभृति भोजनम् । सर्पिः सुगन्धि बंहोयो, वरशालनकानि च ॥ ३२ ॥ मृदुमण्डकवृन्दानि, नानापक्कान्नसंहतीः । मोदकान् खण्डखाद्यानि, विशालाः सुकुमारिकाः ॥३३॥ दघ्नो दुग्धस्य तक्रस्य, संस्कृतस्य घनस्य च । दध्योदनस्य भाण्डानि, द्राक्षादेः पानकस्य च ॥ ३४ ॥ इत्यादि भक्तपानादि, तत्र भोजनमण्डपे । समुपाढौकयद्भद्रा, श्रेष्ठिनी विपुलाशया ।। ३५ ।। तस्मिंश्चावसरे तत्र, साधुयुग्मं समागमत् । दृष्ट्वा तन्मुमुदे भद्राऽम्भोधिवेलेव शीतम् ॥ ३६ ॥ १ ग्रहीतुमिच्छया २ प्रमदाभिः ३ आसनेषु ४ प्रभूततरम्. ५ चन्द्रम् For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir महाकाव्यम् सर्गः २ ॥ ३० ॥ Page #33 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra धन्यशाली भद्र॥ ३१ ॥ www.kobatirth.org अभ्युत्थानमथाधाय, सम्मुखीना ययौ ततः । शिरस्यञ्जलिसश्लेषं चकार विनयेन सा ॥ ३७ ॥ स्वयमासनमानीय, प्रभोऽस्मिन्नुपविश्यताम् । प्रसथेति भणित्वा साऽऽसनं तत्पुरतोन्यधात् ||३८|| भक्त्या च वन्दनं कृत्वा, रोमाञ्चाञ्चितविग्रहा । प्रवर्द्धमानसञ्चेतः - परिणामा सती सती ॥ ३९ ॥ सर्वदोषविशुद्धं तद् गृहीत्वाऽन्नादि पुष्कलम् । प्रसद्य भगवन्नेत-द् गृह्यतामित्युवाच सा । ४० | युग्मम् । द्विचत्वारिंशता दोषे - विशुद्धं तद्विभाव्य तौ । धारयामासतुः पात्रा - ण्येषणादत्तमानसौ ॥ ४१ ॥ निचिक्षेप ततस्तत्र, भक्तपानादिकं बहु । मुनीनामिच्छया भद्रा, प्रकृत्योदारमानसा ॥ ४२ ॥ तत्र विस्मयमानेषु समस्तेष्वपि बन्धुषु । मुदाऽनुमोदमानेषु तामेवं पार्श्ववर्तिषु ॥ ४३ ॥ धन्या पुण्येयमस्याश्च, लब्धं जन्म जीवितम्। दानं यैवंविधा हृष्टा, सत्पात्रेभ्यः प्रयच्छति |४४|युग्मम् न केवलं स्वयं पुण्य - मर्जयन्ती तदा भृशम् । अन्येषामपि जन्तूनां भव्यानां तत्र पश्यताम् ॥ ४५ ॥ विनयेनावनम्राङ्गयष्टिः श्रेष्टितधर्मिणी । अवन्दत पुनर्भक्त्या, वाचंयमशिरोमणी ॥ ४६ ॥ युग्मम् ॥ समादाय ततो भक्त - मीर्यासमितिसङ्गतौ । गन्तुं प्रववृताते तौ, राजहंसाविवामलौ ॥ ४७ ॥ भद्रावि श्रेष्ठिनी भक्त्या, तौ मुनी बहुमानतः । कियन्तमपि भूभाग - प्रनुगम्य न्यवर्त्तत ॥ ४८ ॥ कारमा, साध्वीभ्योऽपि प्रमोदतः । दानं दस्वाऽनुगम्याथ, बान्धवादीनभोजयत् ॥४९॥ १ पोढा सत्कारोऽयं पूर्वोक्त १३७-१३८-१३९ श्लोकषु द्रष्टव्यः For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir महाकाव्यम् सर्गः २ ॥ ३१ ॥ Page #34 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra धन्यशाली भद्र॥ ३२ ॥ www.kobatirth.org भुक्तोत्तरं च सर्वास्तान् कृताचमनकर्मणः । शुचिभूतांस्ततः श्रेष्ठि-भायैकत्रोपवेश्य च ॥ ५० ॥ यथौचित्येन सत्कृत्य, ताम्बूलवसनादिभिः । श्रेष्ठिनी समुवाचैवं कृत्वोत्संगे निजं शिशुम् ५१युग्मम् मम कुक्षौ समुत्पन्नो, यदायं बालकस्तदा । पुष्पितं फलितम् शालि-क्षेत्र भद्राभिसूचकम् ॥ ५२ ॥ स्वप्ने दृष्ट्वा प्रबुद्धास्मि, गुरुदेवप्रसादतः । शालिभद्राभिधस्तस्मा दस्त्वयं सान्वयः शिशुः ॥५३ युग्मम् ॥ ततो भद्राभिधायैवं, नामाधानमहोत्सवं । लालनाय स्वपुत्रस्य, धात्रीः पञ्च न्यधादसौ ॥ ५४ ॥ लघ्वपत्या बहुक्षीरा, बलिष्ठा रोगवर्जिता । हितैषिणी सदा सूनो -भूव स्तनदायिनी ॥ ५५ ॥ नवनीतमृदुस्पर्शाs - मलपाणिपादाम्बुजा । अङ्गसंवाहना दक्षा -ऽभवन्मज्जनकारिका ॥ ५६ ।। विचित्रचित्रविच्छित्ति — कर्मकौशलशालिनी । लघुहस्ता विहस्ताऽऽसी - त्प्रसोधनविधायिनी ५७ मंजुलालापिनी नाना- देश भाषाविशारदा । चाक्रीडनकाऽभिज्ञाऽभवत्क्रीडाविधायिनी ॥ ५८ ॥ शिरीषपुष्पमृद्वङ्गी, सुसंस्थानाङ्गसङ्गता । स्थिरात्मनसनाथाऽऽसी - द्वालकोत्सङ्गधारिणी ॥ ५९ ॥ यथावसरमेवैता, लालयन्ति स्म बालकम् । बालत्वे शक्रसन्दिष्टा, अर्हन्तमिव देवताः ॥ ६० ॥ इतश्च श्रेष्ठिगोभद्रः, समुद्रे पोतमाश्रितः । गच्छन्संप्राप गम्भीरं, यावन्नक्राकुलं जलम् ॥ ६१ ॥ तावद्देवस्य वैषम्या – दनित्यत्वाच्च वस्तुनः । निमित्तादेर्विसंवादा-दुत्पाता बहवो भवन् ॥ ६२ ॥ १ विच्छित्तिः रचना. २ पण्डिता. ३ अलङ्कारकारिका. For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir महाकाव्यम् सर्गः २ ॥ ३२ ॥ Page #35 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandir धन्यशाली भद्र महाकाव्यम् सर्गः २ ॥३३॥ J कथम्?-उत्तालहस्तविक्षेपर्नन्तुर्दिवि देवताः। तर्जयन्त्य इवाम्भोधी, वणिजः पोतमाश्रितान् ॥६॥ अकस्मादेव भूयस्यो, दिवाप्यम्बरमण्डलात् । ज्योतिर्विमानखण्डाभाः, पेतुरुक्ताः समन्ततः ॥१४॥ तदा रजस्वलात्वेन, समस्ता विदिशो दिशः। बभूवुर्मलिनाः सद्यो, वणिगक्षेममूचिकाः ॥६५॥ धूमकेतुमिव श्याम, खेऽभ्रखण्डमरिष्टकृत् । दृष्ट्वा सांयात्रिकाश्चित्ते, चुक्षुभुभ्रमितेक्षणाः ॥६६॥ विदधद्गाढमुत्कम्प, तेषामुत्पश्यतामपि । वितस्ताराभ्रखण्डं त-तत्साध्वसमिव क्षणात् ॥ ६७ ॥ जगजे जलदस्तेषां हृदयं स्फोटयन्निव । मत्तद्विप इव क्रुद्धः, पोतंप्रतिगजेक्षणात् ।। ६८ ॥ तन्मध्ये प्रास्फुरच्छम्पा-ऽवदाता चञ्चला मुहुः । अस्थैर्य सूचयन्तीव, समुद्रोद्भवसम्पदाम् ॥ ६ ॥ क्षोभयन्तः समुद्राम्भः, पातयन्तस्तरदुमान् । प्रतिकूलाः समन्ताच्च, प्रचण्डा वायवो वः ॥ ७० ॥ धातैः प्रक्षुभितादग्धे-कच्छलन्ति स्म वीचयः । वज्रघाताहता दीर्घाः, स्कटिकाद्रेः शिला इव ॥७१॥ गर्भङ्गस्ताडितोत्पात-निपातौ कुर्वती दधौ । कुंदिमे करघातेनो-ल्ललत्कन्दुकविभ्रमम् ॥ ७२ ॥ खेचरी सिद्धविद्येव, कचिदुत्पुप्लुवे भुवः । सा पपाताम्बराभोगा-द्रष्टविद्येव कुत्रचित् ॥ ७३ ॥ पलायिष्ट कचिय-भीतेव भुजगागना । महाजनरवत्रस्ता, दधावाश्वेव सा कचित् ।। ७४ ।। अनतिव्यक्तसूत्कारं, काम शब्दायते स्म सा । क्वचिद् गुरुजनैर्दृष्ट-व्यलीकेव कुलाङ्गना ॥ ७ ॥ १ घूलियुक्तत्वेन, २ विस्तारं प्राप. ३ लघुप्रतिगजनिरीक्षणात्. ४ विद्युत.५ तरङ्गाः ६ तरङ्गैः । बद्धभूमितले. ८ गरुडाद्भीता सर्पिणीव ९ दृर्ष कुकर्म यस्याः Fer Private and Personal Use Only Page #36 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra धम्पशाली भद्र॥ ३४ ॥ www.kobatirth.org क्वचित्सा पीतमद्येव, जुघूर्णेवातिवेगतः । निरालम्बा निराधारा, पपाताम्वरतः क्वचित् ॥ ७३ ।। क्वाप्यम्भोग्रन्थिभेदेन, प्रगलज्जलबिन्दुभिः । नवोपरतकान्तेव, स्थूलाश्रूणि मुमोच सा ॥ ७७ ॥ नौरन्तस्थ जनाकन्दै – विलापानकृत क्वचित्। परराजच चक्राऽऽ - क्रान्तेवेह महापुरी ॥ ७८ ॥ सशोकलोकसम्पर्काच्छुशोचैव कदापि सा । क्षीणपूर्वार्जितश्रेयो-निचयेव सुराङ्गना ॥ ७९ ॥ नावमेवं समालोक्य, तदन्तर्वर्त्तिभिर्नरैः । भयोद्धान्तमनोनेत्रैः स्मर्यन्ते स्मेष्टदेवताः || ८० || असारं तत्र भाण्डञ्च कैश्चिदक्षिप्यताम्बुधौ । प्रक्षेपबलिरम्भोधि - देवीभ्य इव यत्नतः ॥ ८१ ॥ अधोमुखाः प्रलम्ज्यन्ते, नांगराः स्माभितो नरैः । यानपात्रात्पयोराशौ घण्टा इव मतङ्गजात् ॥८२॥ मुकुन्दस्कन्दरुद्राणी — क्षेत्रपालादिदेवताः । उपायाच्यन्त कैश्विद्धि योजिताञ्जलिसम्पुटैः ॥ ८३ ॥ तथापि प्राप्य कूटस्य, संसर्ग दैवयोगतः । सद्यो विजघटे पोतो, विधुरे दुर्जनो यथा ॥ ८४ ॥ भग्ने पोते सध्वजेन, कूपकेनाप्यभज्यत । छिन्ने मूले द्रुमाग्रेण, स्थीयते किं सवीरुधा ॥ ८५ ॥ भाण्डं ममज्ज निःशेषं, वणिग्भिः सममम्बुधौ । किं निराधारमाधेय-मेवमेवावतिष्ठते ।। ८६ ।। तदा च पोतभङ्गेन, भयादाकुलमानसः । सम्यक्त्वं मलिनीकृत्य, वैचित्र्यात्कर्मणां गतेः ॥ ८७ ॥ पञ्चत्वं श्रेष्टिगोभद्रः प्राप्याकूरवारिणि । भवनाधिपदेवेषु, देवभूयमुपाययौ ॥ ८८ ॥ १ सद्योमृतपतिका २ कष्टे. ३ लतासहितेन. ४ अकूपारः समुद्रः ५ देवभूमिम्. For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir महाकाव्यम् सर्गः २ ।। ३४ ।। Page #37 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धन्यशाली 4 महाकाव्यम् सर्ग:२ JI||३५॥ ततश्च सोऽवधिज्ञान-प्रयोगमकरोत्तदा । यावदम्भोधिमध्ये स्वं, भिन्नपोतमबुध्यत ॥ ८९॥ तरन्तं चैक्षताम्भोधौ, कार्य मीनमिव स्वकम् । ददर्श च गृहे भार्या, प्रसूतोत्तनवासकाम् ॥ ९ ॥ मुनिदानार्जितागण्य-पुण्यावर्जितचेतसः । तस्य प्रादुरभूत्स्नेहो, महीयानङ्गजे निजे ॥११॥ अत्रान्तरे च भद्रायाः, केनाप्येत्य निवेदितम् । गोभद्रः पञ्चतामाप्तः, पोतभङ्गेऽम्बुधाविति ॥ ९२ ॥ वचसा तेन सा सद्यः, पपात भुवि मूर्छिता । दष्टा भुजङ्गमेनेव, कालदारुणमूर्तिना ॥ १३ ॥ बन्धुभिर्लम्भिता सज्ञां, प्रयोगैश्चन्दनादिभिः। नरेन्द्ररिवं सद्योगै-महामन्त्रौषधादिभिः ॥१४॥ ततश्च विललापैवं, भद्राऽतिकरुणस्वरम् । त्वया कि मे हृतो भर्ता, रे दैवात्यन्तनिघृण ॥१५॥ हा नाथ रजनीनाथ-वदानन्दप्रदायिनः । अकाण्डमृत्युस्ते कोऽयं, सर्वस्यापि भयङ्करः ॥१६॥ ममोपरि कृपा नास्ति, यदि ते क्रूरकर्मणः। रे दैव तत्किमेतस्मिन् , बालकेऽपि न विद्यते ॥९७ ॥ मुक्तकण्ठं महाक्रन्दं, साश्रुपातं च कुर्वती । श्रेष्ठिनी पातयामास, बन्धून शोकमहार्णवे ॥२८॥ अन्येषामपि बन्धूनां, प्रत्येक क्रन्दनात्तदा । रसान्तरतिरस्कारि-शोकाद्वैतमिवाभवत् ।।९९ ॥ अर्हचक्रिवलाराति-बलाच्युतमुखा अपि । हतकेन कृतान्तेन नीयन्तेऽन्त हहा हठात् ॥ ॥२०० अकस्मादापतत्येष, मृत्युः सर्वशरीरिणाम् । अतः सद्धर्मकर्मव, सदा कार्य विवेकिभिः ।। २०१॥ १ विषयः २ बलारातिः इन्द्रः. ३ अच्युतो वासुदेवः. For Private and Personal Use Only Page #38 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra धन्यशाली भद्र॥ ३६ ॥ www.kobatirth.org इत्थं कथयता बन्धु - वर्गेण प्रतिबोधिता । लौकिकाचारमखिलं बन्धुभिः सह साकरोत् ।। २०२ । सद्धर्मनिरता सबै गृहकार्य च कुर्वती । कियत्यपि गते काले, शोकं स्तोकीचकार सा ॥ २०३ ॥ इतश्च ववृधे शालिभद्रोऽपि निजमन्दिरे । कल्पशाखीव हेमाद्रि कन्दरे निरुपद्रवम् ॥ २०४ ॥ सञ्चचार स बन्धूना - मङ्कादङ्कं निरन्तरम् । वर्षनङ्गेषु सर्वेषां संस्पर्शन सुधामिव ॥ २०५ ।। धात्रीभिर्लाल्यमानं तं वर्द्धमानमहर्निशं । मूर्त्तिमन्तमिव स्वार्थ-मपश्यन् बान्धवा मुदा ॥ २०६ ॥ सुसाधुदानार्जितपुण्यपुण्या-कृष्टः सदास्य व्यतनोदभीष्टम् । गोभद्रजीवामर एयभाग्ययुक्तस्य देवा अपि किङ्कराः स्युः || २०७ ।। इति श्रीधन्यशालिभद्रमहर्षिचरिते राजगृहे राजश्रेष्ठिमालिककन्यासोमश्रीसुन्दरीकुसुमावलीजन्मसखीभाव शालिभद्रोत्पत्तिगोभद्रश्रेष्ठिसमुद्रारोहणप्रवहणभङ्गदेवत्वावासिपुत्रानुकम्पनाभीष्टकरणव्या वर्णनो नाम द्वितीयः परिच्छेदः ॥ २ ॥ For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir महाकाव्यम् सर्गः २ ।। ३६ ।। Page #39 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailasesgarseri Gyanmandie धन्यशाली भद्र महाकाव्यम् hel सर्गः ३ १५॥ ३७॥ . अथ तृतीयः सर्गः प्रारभ्यते ॥ अथेभ्यश्रेष्ठिसूर्धन्यः, कृषीवलमदोऽवदत् । पुरं राजगृहं गन्तु-मिच्छाम्यस्मि महामते ॥१॥ ततः कृषीवलेनापि, सतर्ण जगृहे धनुः। धन्येनापि निजं खड्ग-रत्रमुल्बणमाददे ॥२॥ तेनानुगम्यमानोऽसौ, देशसन्धिमुपागतः । धन्यो निवर्तयामास, कर्षकं स्वगृहं प्रति ॥३॥ चचाल स्वयमेकाकी, निर्भयः स महामनाः । प्राप कुसुमपालस्या-रामं राजगृहाहहिः ॥ ४ ॥ पावत्तत्र क्षणं सोऽस्थात्तावत्तदनुभावतः । बभूवोपवनं रम्यं, दलपुष्पफलादिभिः ॥५॥ आगात् कुसुमपालाख्य-स्तत्रैवोद्यानपालकः । ददर्श यावदाराम-मकस्मादतिवन्धुरम् ॥ ६॥ ततोऽसौ विस्मयापन्न-श्चिन्तयामास चेतसि । आश्चर्य यदिहाकस्मा-दभूदारामरम्यता ॥७॥ ततश्चखान सक्षोणी, स्थानकानि कियन्त्यपि । यावद् दूणां रोपणाया-पश्यत्तावन्महानिधीन॥८॥ ततोऽचिन्तयदेवं स, पूर्वमेवाखनं क्षितिम् । निध्यालोकः परं नाभू-त्तत्कि कारणमित्यहो ॥९॥ एवं चिन्तयतस्तस्य, धन्यः श्रेष्ठिसुतः पुरः । अपतच्चक्षुषोर्मार्गे, पुण्यराशिरिवागवान् ॥१०॥ उद्यानपालको धन्य-मानन्दस्यन्दिनं दृशोः। विलोक्य हृदये प्रीत-श्चिन्तयामासिवानिति ॥११॥ अयं गुणनिधिः कश्चि-दित्याऽऽकृत्याऽवसीयते । यत्राकृतिर्गुणास्तत्र, वसन्तीति श्रुतिर्यतः ॥१२॥ १अहम् For Private and Personal Use Only Page #40 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धन्यशाली भद्र॥३८॥1JE महाकाव्यम् सर्गः३ ॥ ३८॥ J नूनमस्य प्रभावोऽयं, यदारामस्य रम्यता। यन्निधानोपलम्भश्च, किं किं पुण्याद्भवेन हि ॥ १३ ॥ इति सश्चिन्त्य हृष्टोऽसौ, धन्याभ्यर्णमुपाययौ । पप्रच्छ कुशलोदन्तं, स्वागतालापपूर्वकम् ॥ १४॥ कस्याद्यातिथयो ययं, नगरेऽस्मिन्भविष्यथ । ततो युष्माकमेवेति, श्रेष्ठितूनुस्तमब्रवीत ॥१५॥ तदाहं भाग्यवानं, यद्यागच्छसि मद्गृहम् । कि.मपुण्यवतो धान्नि, कल्पवृक्षःप्ररोहति ॥ १६ ॥ तस्मात्प्रसादमाधाय, ममोपकृतिकाम्यया । निजपाइप्रसङ्गेन, पवित्रीकुरु मे गृहम् ॥ १७ ॥ एवमभ्यर्थितो यत्ना-तेन सार्द्ध चचाल सः । सन्तो हि प्रार्थनाभङ्गं, कुर्वते न कदाचन ॥ १८ ॥ गच्छन्नसो सरांस्युचः, सपद्मान्यमलानि च । एक्षिष्टालब्धमध्यानि, मनांसीव महात्मनाम् ।। १० ।। कचित्पुष्करिणीधन्यो, नानाविभ्रमबन्धुराः । नितम्बिनीग्विापश्य-चञ्चच्चारुपयोधराः ॥ २० ॥ उद्यानालीः कचित्कान्ता, बहुधा विपीडिताः। स पण्यरमणीश्रेणी-रिवापश्यत्सकौतुकम् ॥ २१ ॥ नानारत्नसुवर्णादि-पूर्णा हट्टपरम्पराः । धनदश्रीगृहश्रेणी-रिवादाक्षीत्स बन्धुराः ॥ २२ ॥ धनिनां रम्यहाणि, तुङ्गानि विपुलानि च । सोऽपश्यद्भवनाधीश-भवनानीव शोभया ॥ २३ ॥ सोऽर्हचैत्यानि तुङ्गानि, चन्द्रांशुविशदानि च । ददर्श कीर्तिकूटानि, प्रीतस्तत्कारिणामिव ॥ २४ ॥ दिवो देव्यः किमायाताः, किममूरसुराङ्गनाः । इत्यपश्यत्स पूर्नारी-वर्यसौन्दर्यशालिनीः ॥ २५ ॥ १ इन्द्रपुत्रः २ स्त्रीपक्ष पयोधरों स्तनो, वापीपक्षे पयांसि जलानि धरन्तीति ताः ३ उद्यानश्रेणीः वृक्षरीडिताः शोभिताः, पणागनाश्च विटेरैः पीडिता आश्लिष्टाः ४ वैश्याओंणी.. For Private and Personal Use Only Page #41 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धन्यशाली महाकाव्यम् सर्गः ३ ॥ ३९ ॥ ॥३९॥ सुवेषाकृतिसंस्थानान्, सोऽपश्यन्ननलकृतान् । दिवः समागतान देवा-निव द्रष्टुं पुरश्रियम् २६ पश्यन्नेवं पुरं रम्यं, भ्रष्टस्वःखण्डसन्निभम् । समं कुसुमपालेन, धन्धस्तद्गेहमाययौ ॥ २७ ॥ ततः कुसुमपालोऽपि, प्रोवाच प्रेयसीं निजाम् । प्रिये प्राघूर्णकः पुण्यवानयं गुणवानिति ॥ २८ ॥ अतः स्नानादिकां काय-स्थितिमेनं महामतिम् । कारयित्वा महत्या च, प्रतिपत्याशु भोजया२९।युग्मम् बकुलश्रीस्ततो हृष्ट-चित्सा धन्यस्य सर्वदा । सर्व सम्पादयामास. मातेवात्यन्तवत्सला ॥ ३० ॥ अचिन्त्यधामा निश्चिन्त-मानसः प्रीतिनिर्भरः। तत्रैवेभ्यसुतस्तथौ, स स्वकीय इवौकसि ॥३१॥ इतश्च तत्र सोमश्री-सुन्दरीकुसुमावलीः । श्रेणिकावनिपश्रेष्ठिगोभद्रारामिकाङ्गजाः ।। ३२ ॥ कलाकलापं सकलं, पाठयित्वा कलागुरुः। श्रेणिकायार्पयामास, विचक्षणशिरोमणिः ॥३शायुग्मम् भूरिस्वर्णमहारत्न-वरेण्यवसनादिभिः । भूषयित्वा कलाचार्य, विससर्ज नराधिपः ॥ ३४॥ अतिस्निग्धा वयस्यास्ता-स्तिस्रोऽपि हि परस्परम् । क्रीडन्त्येकत्र तिष्ठन्त्यः, प्रायो विविधखेलनैः ३५ यौवनाभिमुखास्तिस्रोऽ-प्यन्यदैकत्र संस्थिताः। परस्परावियोगाय, प्रतिज्ञामिति चक्रिरे ॥३६॥ एकोऽस्माभिर्विधातव्यो, भर्ता स्वस्यावियुक्तये । सुखेनैकत्र तिष्ठामो वयं येन परस्परम् ॥३७॥ एवं कृतप्रतिज्ञास्ताः, पूर्यमाणमनोरथाः । मनःसङ्कल्पमात्रेण, तस्थुर्देव्य इवावनौ ॥ ३८॥ धन्यः कुसुमपालस्य, गृहे तिष्ठन् कलानिधिः । नानाप्रकारभङ्गीभि-जग्रन्थ कुसुमस्रजः ॥३९॥ For Private and Personal Use Only Page #42 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धन्यशाली महाकाव्यम् | सर्ग:३ ॥४०॥ ॥४०॥ J मालावैचित्र्यमालोक्य, मुदिता कुसुमावली । ददौ नीत्वा सखीभ्यां ता, रणदभृङ्गकुलाकुलाः ४० मालानां गुम्फनं दृष्ट्वा-ऽदृष्टपूर्वमिवाद्भुतम् । पप्रच्छतुस्ततस्तां ते, केनैताः सखि निर्मिताः ४१ सा जगाद गृहेऽस्माकं, धन्याख्योऽस्त्यागतोऽतिथिः । तेनैताः निर्मिता सख्यौ, विचित्रा कुसुमस्रजः ।। सख्यौ स गुणरत्नानां, साक्षानिधिरिवाक्षयः। चारुगम्भीरिमाम्भोधि-धीरताधरिताचलः ४३ वदान्यतागुरुर्धीमान , सौभाग्यामृतसागरः । अगण्यपुण्यलावण्या-कीर्णकायो महाभुजः ४४ लोचनानन्द निस्यन्दी, शारदश्चन्द्रमा इव । तरुणस्तरुणीस्वान्ता-म्भोजोज्जम्भणभास्करः४५ स्वर्णचूर्णवपुर्वणः, श्लाघ्यसर्वाङ्गसंस्थितिः । इहानगोऽगवानङ्ग-रूपेण स विभाव्यते ॥ ४६॥ चतुर्भिश्च कुलकम् ॥ सोमश्रीः सुन्दरी चाथ, तद्गुणश्रवणेन्दुना । प्रोल्लासितमनोऽम्भोधी, सानुरागे जजल्पतुः ५७ सखि धन्या त्वमेवैका, दृष्ट्या दृष्टो यया ह्यसौ । प्राप्यते किमपुण्येन, मरौ पद्मसरः कचित् ४८ धन्ये जातानुरागाथ, सोमश्रीर्गुणरागिणी । रतिं न लभते क्वापि, शफरीव स्थलगता ४९ नैच्छदाहारमाधातुं, न पातुं पानकायपि । नालङ्कर्तुमलङ्कारान, सा स्मरव्याधियाधिता ५० न स्नानं नाङ्गसंस्कार, विधातुमुदयच्छत । परं स्वेदमुवाहाङ्गे, कम्पं मुर्ति निरन्तरम् ५१ मुमोचोच्छवासनिःश्वासा-नत्युष्णान शोषकारिणः । वाष्पप्लुतेक्षणा तल्पे, पतति स्मातिनिःसहा सखीभिर्वहुधोक्तापि, जजल्प न च किञ्चन । चेन्जल्पति तदा शून्य-मसम्बद्धास्फुटाक्षरम् ५३ For Private and Personal Use Only Page #43 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra धन्यशाली भद्र॥ ४१ ॥ www.kobatirth.org तामेवं कन्यां धात्री, विलोक्याकुलमानसा । तत्र चैकान्तमाधाया- पृच्छन्मधुरया गिरा ॥५४॥ कोऽपि किं बाधते व्याधि-र्वरसेऽतुच्छस्तवाधुना । किं वान्यत्कारणं किञ्चि धेनैवं पुत्रि विद्यसे । ५५ । अकस्मादेव ते कस्मादवस्थाऽभवदीदृशी । ममात्मनिर्विशेषायाः, पुरस्ताद् ब्रूहि बालिके ।। ५६ ।। सम्पादयिष्यामि तवाभीष्टं क्षणादपि । अविज्ञातरुजः कर्त्तु, पार्यते न प्रतिकियाम् ॥ ५७ ॥ सोमश्रीस्तामुवाचैव, विहस्याकर्णयाम्बिके । न व्याधिर्वाधते कोऽपि हेतुर्नान्योऽस्ति केवलम् ||५८|| माद्य पुरतो धन्याभिधो धीमान् गुणी युवा । अतिथिः कुसुमावल्या, वर्णितः खगृहागतः ॥५९॥ तद्गुणश्रवणाभास्मन्ननुरागोऽम्य मेऽभवत् । तदप्राप्तावसुस्याहं त्वं प्रमाणमतः परम् ॥ ६० ॥ ततः सा प्रत्युवाचैवं, त्वं खेदं पुत्रि मा कृथाः । यतिष्येऽहं तथा शीघ्रं यथेष्टं ते भविष्यति ॥ ६१ ॥ इत्युदित्वा च धारिण्यै, सा तदाकृतमब्रवीत् । तत्सर्व्वं धारिणी देवी, श्रेणिकाय व्यजिज्ञपत् ॥ ६२ ॥ ततः श्रीश्रणिको राजा, कौतुकौत्तानमानसः । धन्यमाजूहवत्प्रीत्यो- यानपालस्य मन्दिरात् ।। ६३ ।। धन्यस्यागच्छतो रूप- मालोक्याचिन्तयन्नृपः । किं जयंन्तोऽयमेतीन्द्र- पार्श्वात्केनापि हेतुना ॥ ६४ ॥ किंवा नागकुमारोऽय - मायाति पृथिवीतलात् । नित्यान्धकारसम्पूर्णे, तत्र स्थातुमिवाक्षमः ॥ ६५ ॥ धन्योऽप्यभ्यर्णमागत्व, प्राञ्जलिः प्राणमन्नृपं । महाकुलीना विनया— लङ्कारा हि निसर्गतः ॥ ६६ ॥ १ इन्द्रपुत्रः. For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir महाकाव्यम् सर्गः ३ ॥ ४१ ॥ Page #44 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra धन्यशाली भद्र॥ ४२ ॥ www.kobatirth.org ततः कुसुमपालेन, विज्ञप्तो मगधाधिपः । सहागतेन धन्योऽयं, खामिन्नमति सादरम् ॥ ६७ ॥ ततो नृपुङ्गवश्विते - चिन्तयन्मम पुत्रिका । स्थानेऽनुरागमाधते, पद्मिनीव प्रभोकरे ॥ ६८ ॥ रूपमप्रतिमं यस्य, देहसौन्दर्यमद्भुतं । तन्नूनमस्य सोमश्रीः, योग्या श्रीः श्रीपतेरिव ॥ ६९ ॥ निश्चित्येति निजे चित्ते, धन्यमाह नरेश्वरः । त्वं विवाहय मत्पुत्री - मायुष्मन्नति सुन्दरीम् ॥ ७० ॥ धन्योऽभ्यधात्सुधां श्रुत्योः स्यन्दमान इव प्रभो । युष्माकं वचनं केन, पार्यते कर्त्तुमन्यथा ॥ ७१ ॥ किंतु ॥ जातिविशुद्धे हि कुलं विशालं, रूपं मनोहारि सुचारु शीलं । विद्यानवद्या च गुणा वरस्य, स्युः श्लाघनीया क्षितिपाधिनाथ ॥ ७२ ॥ एषां च मध्याद्भवतां न कोऽपि, गुणो मदीयः प्रवरः प्रतीतः । अतः कथं मे स्वसुताप्रदान-मज्ञातपूर्वाय विधीयतेऽत्र ॥ ७३ ॥ Acharya Shri Kailassagarsuri Gyanmandir धन्यं प्रति प्राह ततो धराधिपस्त्वया प्रक्लृप्तं वरपुष्पगुम्फनम्। दृष्ट्वानुरागानुगताऽभवत्त्वयि, प्रदीयते तुभ्यमतः सुता मया ७४ यचोच्यतेऽज्ञातगुणाय महां, किं दीयते स्वारुहेति वाक्यम्। तत्राकृतेर्ज्ञायत एव पुंसां, प्रायो गुणौघः सुकुलं च तस्मात् ७५ तस्मान्मयेमां परिदीयमाना - मङ्गीकुरु त्वं गुणरत्नसिन्धो । भवद्गुणाकर्णनजातरागां, यथैव रामो जनकस्य पुत्रीम् ॥७६३ || इत्युक्तोऽसौ नरेन्द्रेण तूष्णीमालम्व्य लज्जया । स्थितः शालीनता येन, पुंसां प्रवरभूषणम् ॥ ७७ ॥ १ सूर्ये, २ कृष्णस्य. ३ कर्णयोः ४ पुत्री. ५ गुणसमूहात्. ६ लज्जालुता For Private and Personal Use Only महाकाव्यम् सर्गः ३ ॥ ४२ ॥ Page #45 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra धन्यशाली भद्र ॥ ४३ ॥ www.kobatirth.org ततस्तदेव देवज्ञो, राज्ञा विज्ञानसागरः । उक्तः कन्याविवाहस्य, ब्रूहि मे लग्नवासरम् ॥ ७८ ॥ गणयित्वा ततः सोऽपि, जगाद नृपतेः पुरः । इतो दिनात्तृतीयेऽहि, विद्यते लग्नमुत्तमम् ॥ ७९ ॥ सर्वदोष विशुद्धेऽस्मिन् लग्ने कन्यां विवाहय । ईदृग्लग्नं धराधीश, यतः पुण्यैरवाप्यते ॥ ८० ॥ ततस्तं तुष्टिदानेन, तोषयित्वा विसृज्य च । भूपतिः कर्तुमारेभे, पाणिग्रहमहोत्सवं ॥ ८१ ॥ अत्रान्तरे च विज्ञात- स्वकीयोद्वाहनिर्णया । धात्रीमुखेन सोमश्रीः, श्रेणिकाय व्यजिज्ञपत् ॥८२॥ तातास्माकं प्रतिज्ञाऽऽसी - रसखीनां तिसृणामपि । पतिरको विधातव्य, इति स्वस्यावियुक्तये ॥ ८३ ॥ अयमेव पतिस्तस्मात्सख्योरितरयोर्यथा । भवेत्तथा प्रसीदेति श्रुत्वा नृपतिरब्रवोत् ॥ ८४ ॥ यद्येवं रुचितं तस्यास्तदाऽस्तु किमु दूषणम् । सपत्नीनामिह प्रेमा तिशेते स्वर्गसम्पदम् ॥ ८५ ॥ भद्रां कुसुमपालं च समाहूय नृपोऽभ्यधात् । युष्मदङ्गजयोः सोम - श्रियञ्चैकोऽस्तु वल्लभः ॥ ८६ ॥ येनैकत्र सुखेनैवावतिष्ठन्ते परस्परम् । तौ ज्ञातपुत्र्यभिप्राया— वेवमस्त्वित्यवोचताम् ॥ ८७ ॥ ततो नैमित्तिकादिष्टे, वासरे स्वजनादिकान् । सत्कृत्य बहुमानेन यथार्ह भोजनादिभिः ॥ ८८ ॥ शुभे लग्ने मुहर्ते च भद्रारामिकभूभृतः । इभ्याङ्गजेन कन्यानां पाणिमग्राहयन्मुदा ॥ ८९ ॥ युग्मम् ॥ नालङ्कारवत्रादीन, कन्यकाभ्यां वराय च । ददतुर्विविधान् प्रीतौ श्रेष्ठिन्युद्यानपालकौ ॥ ९० ॥ जामात्रे कन्यकाभ्यो नृपतिरपि ददौ स्वर्णकोटीश्चतस्रो, मुक्ताहारार्द्धहारादमुकुटशिरोरत्नसत्कुण्डालदीन For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir महाकाव्यम् सर्गः ३ ॥ ४३ ॥ Page #46 -------------------------------------------------------------------------- ________________ Shri Mahavidin Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandir धन्यशाली ॥४४॥ | हस्त्यश्वस्यन्दनादीन विविधजनपदोदभूतदासी प्रभेदान, प्रासादं सप्तभूमं स्खलितरविरधं चारुशालं विशालम् ॥ ९॥ महाकाव्यम् भूयोदेशभवं च किङ्करगणं पयङ्कशय्यासना-दर्शाच्छादनभाजनानि रुचिराण्यग्थोपधानानि च । सर्गः३ मानागोकुलसंकुलान् वरतरान् प्राज्यप्रपुष्टान् व्रजान , ग्रामानृद्धिसमृद्धलोककलितान सुक्षेत्ररम्यान बहून्।९।आदियुग्मम् 18 NE J EL||४४॥ | असहायो विदेशस्थः, पुण्यात्प्रापमह श्रियम् । तस्मात्पुण्यार्जने यत्नः, कर्तु मे युज्यतेऽधुना ॥९३ ॥ | अद्यते च पुनः पुण्यं, गुरूगां पर्युपासनात् । गुरवोऽपि च निग्रन्था. निर्ममत्वा अवश्चकाः ॥९४ ॥ इति संश्चिन्य धन्योऽसौ सुवताचार्यप्तन्निधौ । जगाम बहुमानेन, प्रणम्योपाविशत्पुरः ॥ ९५ ।। ततः श्रीसुव्रताचार्यो, धन्याय जिनदेशितम् । विविधं धर्ममाचख्यौ, स्वर्गमोक्षसुखप्रदम् ॥ ९६ ॥ |सोपि सदर्शनोपेतं, गृहिधर्ममुपाददे । आत्मानं सत्यनामानं, बहमस्त चिराय च ॥ १७ ॥ सुव्रतांधियुगं नत्वो-पागम्य निजमन्दिरम् । सन्तुष्टहृदयो भार्याः, (भार्य) प्रोवाचैवं महामनाः ॥२८॥ सुव्रताचार्यपादान्ते-उलब्धपूर्वमिवोत्तमम् । सुध्रुवोऽद्य मयाऽलाभि, धर्मरत्नमिहार्हतम् ॥ ९९ ॥ ततो जगाद सोमश्री-विकसत्मुखपङ्कजा । स्वामिन् भद्रतरं जातं, जाता ययूयमाहताः ॥ १० ॥ ममैतस्याश्च सुन्दः , कुलक्रमसमागतः । धर्मोऽयं कुसुमावल्या-स्त्वस्मत्संसर्गतोऽस्ति यत् ॥ १॥ तदेवमेकचित्तत्वे सर्वेषामप्यवाधिताः । सम्पत्स्यते त्रिवर्गोऽपि, लोकव्यसुखप्रदः ॥ २ ॥ ततश्च सह पत्नीभिः, प्रासादे सप्तभूमिके । त्रायस्त्रिंशसुपर्बेव, ललति स्म स लीलया ॥ ३ ॥ For Private and Personal Use Only Page #47 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagersuri Gyanmandie धन्यशाली भद्र॥४५॥10 महाकाव्यम् सर्गः३ ॥४५॥ तत्रचोत्पाट्यमानेऽपि, कीले धन्यस्य पुण्यतः । आविरासन्निधानानि, चक्रिणो दिगजये यथा ॥४॥ अथ रत्नप्रदीपेन, थोतिते वासमन्दिरे । रात्री पर्यशय्याया-मासित्वेभ्यसुतः सुधीः ॥५॥ पत्नीभद्रासनासीनाः, कविदेव्युपमाः पुनः। प्रश्नोत्तराणि पप्रच्छ, विनोदोऽयं विपश्चिताम् वायुग्मम्।। प्रगल्भा राजपुत्रीत्वा-दधक्तमस्खलिताक्षरम् । पपाठ प्रथमं तत्र, सोमश्रीः श्रेणिकाजा॥७॥ अभिलषति किं तृष्लाकान्तो नृपस्य च कं जनो, वितरति सदा किं चाजय्यं सरागिनरिह । सुरसमुदयाः कीदृक्ष वा नमन्ति मुनि मुदा, प्रवदति विधिः कीदृग्जैन मतं भुवि विश्रुतम् ।। ८ ।। कुशाग्रीयधियां वेद्यं चलहिन्दुततावली । व्यक्ताततततंरूपोत्युक्त्वा मा वल्लभाननम् ॥९॥ स प्रमोदमवैक्षिष्ट, ततोऽवोचत्सतामिति । व्यक्तं करणदं कान्ते, दुर्गमं किमिहाधुना ॥१०॥ अथोवाच वणिकपुत्री, सुन्दरी रूपसुन्दरी । पठ्यमानं मया नाथ, भव्यं प्रश्नोत्तरं शृणु ॥११॥ वदत्वर्थः प्रेमोबहति परमं को मधुरिपो, तथा सीतासूनुभुवि निगदितः कीदृश इह । शितिब्रूते भूपं सुनयनिपुणं वाञ्छति च का, समाख्याति क्रीडा धरणिदुहितुः कः किल पिता ॥१२॥ चलद्विसर्ग जात्या, निसर्गसुभग प्रिय । ततावलिः स्फुटातात-ततश्चेत्यनुबुध्यताम् ॥ १३ ॥ ततः श्रेष्ठिसुतोऽवोच-प्रिये प्रश्नोत्तरं वरं । यतोऽत्र रामजनक, इत्युत्तरमनुत्तरम् ॥ १४ ॥ कुसुमावल्यथ माह, साहङ्कारं भवादृशां । विद्वत्ता कीरशी स्वामि-नीदृशैर्विदितैरपि ॥ १५ ॥ For Private and Personal Use Only Page #48 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir महाकाव्यम् सर्गः३ ॥ ४६॥ मदुक्तं यदि जानीथ, ज्ञास्यते च तदा ध्रुवम् । इत्युक्त्वा सापठसूर्ण-मिति पण्डितमानिनी ॥१६॥ धन्यशाली ब्रूतो धान्यविशेषपङ्कजभ्रुवौ कस्तीवपिडाकरो, भाषन्ते च महिमहामिह भिदः कीदृग्नपो दुर्जयः। भद्र श्लेषे धातुरभाणिको जलचरोविःषद्यदोषस्तथा, वक्त्याख्यातिकमादिमं च वचनं किम्वर्तमानाश्रित।। ॥४६॥ गतं पुनर्गतं प्रत्या-गतं प्रश्नोत्तरं ह्यदः । व्यक्तव वर्तते नाथ ततालीति ततातनी ॥ १८ ॥ : ईदृशानी विदन्त्येवा ऽस्मदीया गोदुहोऽपि हि । किं बमोतः प्रतीतैव प्रियाते तलिकावली ॥१९॥ कर्णाञ्जलिपुटैः पीत्वा स्वभर्तुर्वचनामृतम् । प्रमोदपूर्णचित्तास्ता स्तिस्रोऽपि मधुरस्वरम् ॥ २० ॥ विनयेनाञ्जलिं वध्वा प्रोचु युगपदेव तं। किमपि त्वमपि स्वामिन् पठ प्राज्ञशिरोमणे ॥२१।।युग्मम् ततस्तद्वचसा सोपि प्रोन्मीलनीतभाकुरः। सुवर्णमृदुदुर्भेदं प्रश्नोत्तरमदोपठत् ॥ २२ ॥ लोकेन प्रार्थ्यते का जगति निगदितः कोमहीरुद्विशेषः, किं वा रूपं स्त्रियां सौ भवति ननु तदः शब्दशास्त्रप्रसिद्ध । कः शब्दो भर्तृवाची परगुणनुतिभिः के प्रहृष्यन्ति चित्ते, ध्यातव्याः के गदौघप्रशमनपरमेष्टिष्वहो पञ्चमाः स्युः ॥२३॥ Dबियस्तं दिः समस्तं च प्रश्नोत्तरमिदं प्रियाः । ताततश्चेति रूपेह प्रस्फुटैव ततीवली ॥ २४ ॥ |प्रश्नोत्तरमिदं श्रुत्वा चिन्तयन्त्यो मुहुर्मुहुः । तास्तिस्रोऽपि क्षणं चक्रुः, मिथो मुखनिरीक्षणम् ॥ २५ ॥ स्थित्वा मनाक विहस्योचुः, सर्वायुगपदेव ताः । नूनमात्मानुरूपास्ते, नाथेष्टा इह साधवः ॥ २६ ॥ एवं प्रकारैर्विविधैबिनो दैविचक्षणाभिःसहधर्मिणीभिः।क्रीडनसाविभ्यसुतःसुखेन, मुदात्यनेषीत्कतिचिदिनानि ॥२७॥ For Private and Personal Use Only Page #49 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandi महाकाव्यम् सर्गः ३ ॥४७॥ धन्यशाली शालिभद्रकुमारोऽथ, वर्द्धमानोऽष्टवार्षिकः । बभूव वजनानन्ता-नन्दसन्दाहवर्द्धनः ॥२८॥ स्वस्मिन्नेव गृहे भद्रा, पाठनायात्मजन्मनः । स्वप्रज्ञास्तसुराचार्य, कलाचार्य समानयत् ॥ २९॥ ॥४७॥ तत्पार्चे यत्नतो धीमा-धीयानः स आददे । साक्षीकृतकलाचार्यो, लीलया सकलाः कलाः ॥३०॥ रामाजनमनोऽम्भोधि-क्षोभचन्द्रोदयोपमम् । तारुण्यं पुण्यलावण्य-पीयूषाश्चितमाप सः॥३१॥ सर्वलोकप्रियो भोगी, दानशौण्डो दयापरः। दाक्षिण्यामृतपाथोधि-विनीतवनीयो नयी ॥ ३२॥ परोपकारप्रवणः प्रियधर्मा प्रियंवदः । शालिभद्रकुमारोऽभू-यौवनेऽपि विवेकभाक् ॥३३॥युग्मम्।। छत्राकारोत्तमानः शितिरुचिरकचः पूर्णचन्द्रार्द्धभालो, भुग्नलिग्धासितषः कुवलयनयनः पूर्वमेन्दपमास्यः । चिम्बोष्टश्चारुनासो विशंदरदततिः स्कन्धलग्राग्रकों, व्यूढोरेस्को वृषांसो दिरदकरभुजः पल्लवाताम्रपाणिः ॥ ३४ ॥ दीर्घश्लाघ्याङ्गुलीको विमलकररुहश्रेणिरुहीप्रपार्श्व-चश्चदम्भोलिमध्यो वरतरकदलीस्तम्भरम्योरुयुग्मः ।। सारसस्त्रीसुजन्धाद्वितय उपचितोन्नम्रकूर्मोन्नतांत्रिः, सुश्लिष्टालक्ष्यगुल्फोऽरुणचरणनखो वर्नुलारक्तपालिः ॥ ३५ ॥ नानाभूषणभूषितः परिहितप्रोदामदिव्यांशुकः, सच्छायोऽथिसमूहचिन्तितमनोऽ-भीष्टार्थसम्पादकः ।... क्रीडन्मित्रवरैय॑लोकि युगपद्-वात्रिंशताश्रेष्ठिभि-मूर्तो जङ्गमकल्पपादप इव श्रीशालिभद्रः क्षितौ ।३त्रिभिर्विशेषक। ततस्ते श्रेष्टिनस्तस्य, रूपाचाक्षिप्तमानसाः । सममेव समाजग्मुः, श्रेष्टिगोभद्रमन्दिरम् ॥ ७ ॥ १ उत्तमा शीर्षम् २ शितयः स्यामाः सुन्दराश्च केशा यस्य सः ३ निर्मलदन्तणिः ४ विशालयक्षाः ५ वृषभवत् अंसौ st यस्य सः ६ दम्भोलिः बज्रम्. For Private and Personal Use Only Page #50 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir धन्यशाली भद्र॥४८॥10 महाकाव्यम सर्गः३ || ४८॥ J भद्रयासनदानायै-स्ते कृतप्रतिपत्तयः । कन्याद्वात्रिंशतं दातुं, तामयाचन्त सूनवे ॥ ३८॥ दृढमीतमना भद्रा, पुरस्तेषाममम्यत । विवाहं शालिभद्रस्य, कन्याभिर्युगपदभृशम् ॥ ३९॥ विशालकुलसम्भूता, विश्रुद्धतरजातिकाः । प्रोट्रिनोदग्रतारुण्या, वर्यसौन्दर्यशालिनीः ।' ४०॥ राकानिशाकराकारा-नना नलि नंलोचनाः । सत्कुन्दकलिकादन्ता, इभकुम्भपयोधराः ॥४१॥ चचदलित्रयोपेता, वज्रमध्यतनूदराः । रम्भास्तम्भोपमानोरू-स्त्रिदिवेशवधूपमाः ॥४२॥ द्वात्रिंशतमिमाः कन्याः शालिभद्रेणसादरं । पर्यणाययदेकत्र, लग्ने भद्राप्रमोदतः॥४३॥चतुभि:कलापकम् गोभद्रजीवदेवोऽथ, विबुध्यावधिना सुतम् । बात्रिंशतेभ्यकन्याभिः, कृतपाणिगृहोत्सवम् ॥४४॥ शीघ्रं भवनवासिन्यो, देवेभ्यः सपरिच्छदः । मुनिदानार्जितागण्य-पुण्याकृष्टः समाययो ।४५/युग्मम् रम्यं विस्तीर्णमुत्तु प्रासादं सप्तभूमिकं । स चक्रे शालिभद्रार्थ, सुरप्रासादसन्निभम् ॥ ४६॥ तत्राधभूमिकाधस्ता-दश्वेभकरभादिकाः । यध्यन्ते यत्र धार्यन्ते, शकटस्यन्दनादयः ॥ ४७ ॥ प्रांशुरनमयस्तम्भा, विस्तीर्णायतसत्तलः। यानशाला विशालास्ता-श्चक्रेऽसावसुरेश्वरः ॥ ४८ ॥ मञ्जिष्ठादीनि भाण्डानि, स्थाप्यन्ते यत्र सर्वदा । ऊर्ध्वमादिभुवश्चक्रे, स शालास्तत्र बन्धुराः ॥४९॥ द्वितीयायां पुनर्भूमो, दासीदासादिसंहतेः । भोजनादिक्रियास्थाना-न्यतिरम्याणि स व्यधात् ॥ १कमलाक्षीः For Private and Personal Use Only Page #51 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra धन्यशाली भद्र॥ ४९ ॥ www.kobatirth.org तृतीयायां रसवती - स्थानानि स्थगिकालयान् । गवाक्षजालकालीढाः, प्राज्याः पानीयशालिकाः ५१ चतुः चासनखाप-स्थान भोजन मण्डपान् । वस्त्रालङ्काररत्नादि - भाण्डागाराणि निर्ममे ॥ ५२ ॥ युग्मम् प्रधानानेकधारन - मयार्हद्विम्ब हेतवे । देवालयं च चक्रेऽसौ निजचैत्यगृहोपमम् ॥ ५३ ॥ पञ्चम्यां तु वसन्तादि- समस्त ऋतुसम्भवैः । नानाविधफलोपेते - नापुष्पमनोहरैः ॥ ५४ ॥ महीरुहगणैर्गुच्छ - लतागुल्मैश्व सुन्दरम्। आराममतिविस्तीर्ण, विदधे स सुखाकरम् ॥५५ ॥ युग्मम्॥ तदन्तर्मणिसोपान - शालिनीर्विमलाम्भसः । क्रीडापुष्करिणीर्वापी-नीलरक्तसिताम्बुजाः ॥२६॥ क्रीडाक्षोणिभृतो रम्यान, वनस्खण्डोपशोभितान् । स्फाटिकान्स चकारोचैः, कैलासाचलसन्निभान् निगूढजलसञ्चार — निपतन्नीरशीकरान् । स धारामण्डपांश्चक्रे, वर्षाभ्रैरिव निर्मितान् ॥ ५८ ॥ एवमन्यान्यपि क्रीडा — स्थानानि विविधान्यसौ । विदधे शालिभद्राय, पुण्यं हि जयति क्षितौ ॥५९॥ षष्ठभूमौ वासगृहं, वासवागारसन्निभम् । शालिभद्राय चक्रेऽसौ, चित्रशाला दिबन्धुरम् ॥ ६० ॥ पार्श्वेऽपवरकस्तस्य चक्रे द्वात्रिंशतं तथा । द्वात्रिंशतः कलवेभ्यो ऽसुरस्तत्प्रतिरूपकान् ॥ ६१ ॥ वासवेश्मनि विस्तीर्ण, गङ्गापुलिनसन्निभम् । पार्श्वतोऽभ्युन्नतं किञ्चि - गम्भीरं मध्यभागतः ॥ ६२ ॥ 'नवनीतवन्मृद्वीभिस्तूलिकाभिस्समन्वितम् । द्वात्रिंशतोपधानादि-वस्तुभिश्चापि सङ्गतम् ॥६३॥ विचित्रचित्रविच्छित्ति-चित्रितं नेत्रहर्षदम् । वर्ये पर्यङ्कमार्याय, शालिभद्राय सोऽकरोत् ||६४|| त्रिभिर्विशेषकम् ॥ For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir महाकाव्यम् सर्गः ३ ॥ ४९ ॥ Page #52 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धन्यशाली महाकाव्यम् | सर्गः३ ॥५०॥ चक्रे पर्यङ्कमेकैकं, तूलिकाथुपशोभितम् । प्रत्येकं च कलत्राणां, खोत्पादशयनोपमम् ॥ ६५॥ सप्तम्यां भूमिकायां च, ममृणं मणिकुटिमम् । निर्ममेऽसौ सुराधीशो लीलाचक्रमणोचितम् ६६ चक्रे नाभिप्रमाणां च, वेदिकां सर्वतोऽपि सः । रत्नजालान्तरोपेतां, जगतीवेदिकोपमाम् ॥७॥ तस्याश्चोपरिसदवृत्तान , स्फाटिकान्कपिशीर्षकान् । शालिभदास्यशोभांस्तान , बाह्यचन्द्रानिवागतान पुण्याकष्टोऽप्सुरोऽस्मे स वितरति वरं प्रत्यहं चाङ्गरागं, वस्त्रालङ्कारपुष्पाण्यमृतरसफलाहारमग्यं ततश्च । निर्विघ्नं क्रीडति स्म त्रिदशपतिरिव प्रेयसीभिः सदाऽसौ , भद्रा व्यापारमन्यं स्वयमपि सकलं गेहसत्कं चकार ॥१९॥ अथेभ्यतनयो धन्यो, भोजनानन्तरं सुधीः । समादाय च ताम्बूलं, वातायनमुपाविशत् ॥ ७० ॥ यावत्पश्यति तत्रस्थः, पुरश्रियमसौ ततः । ददर्श खगृहच्छायो-पविष्टं वृद्धयोर्युगम् ॥ ७१ ॥ तच्चाहाराधभावेन, कृशं विच्छायतांगतम्। ग्रीष्मतप्तं मृगद्वन्हें, वृक्षच्छायामिवाश्रितम् ॥ ७२ ॥ आदियुग्मम् ।। ततः सोऽचिन्तयदहो, अनौचित्यं विधेरदः । स्वकुक्षिभरणाशक्ता-श्चिरञ्जीवन्ति यनराः ॥ ७३ ।। अथवा न विधेर्दोषो, दोषः खल्वनयोरयम् । तारुण्येऽपि तपस्तप्त, यन्न मुक्त्वा गृहाश्रमम् ॥७॥ अथवा नानयोर्दोषो, दोषोऽत्र श्रीमतामयम् । एवंविधानपीक्षित्वा, यद भृशं नोपकुर्वते ॥ ७ ॥ किश्चामू पश्यतो दृष्टि-मम लियति सादरम् । दृष्टपूर्वाविवैतौ मे, मनः सुखायतोऽधिकम् ॥७६॥ इत्यसौ चिन्तयन्नेवो-पलक्ष्य पितराविति । अत्यन्तं पीडितश्चित्ते, संस्मृत्य विभवं तयोः ॥ ७७ ॥ कापखालालकर For Private and Personal Use Only Page #53 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandir धन्यशाली महाकाव्यम् सर्गः ३ कस्य कस्य न जायन्ते, संसारे विपदोऽथवा । किन्तु कार्यः स्ववन्धूना-मुपकारो महात्मभिः ॥७८॥ तदहो किं ममानेन, धनेन बहुनाऽपि हि । नोपयोगं प्रयात्युच्चैः, स्वबन्धूनामपीह यत् ॥ ७९ ॥ विमृश्येति झगित्येव, प्रतिहारं समादिशत् । भो भो वृद्धयुगं तिष्ठ-त्युपविष्टं गृहान्तिके ॥८॥ स्नपयित्वाऽऽदरेणैत-ड्रोजयित्वा विशेषतः । परिधाप्य सुवस्त्राणि, समानय ममान्तिकम् ॥८१॥ तं प्रणम्य प्रतीहारो, विनिर्गत्य गृहाहहिः । स्वर्णदण्डकरः शीघ्र, गत्वा ताविदमब्रवीत् ॥ ८२ ।। जामाता नृपतेरेष, युवामाकारयत्यतः । समागच्छतमुत्थाय, प्रत्यासन्नं गृहान्तरम् ॥ ८३ ॥ कान्दिशिको चकम्पाते, तद्वचःश्रवणाच तौ। आपद्गता हि पश्यन्ति, सर्वतो व्यसनोदयम् ॥८४॥ चिन्तयामासतुश्चैव-महो नौ मन्दपुण्यता । विदेशागमनेऽप्येवं, रति यन्न लभावहे ।। ८५ ॥ चिन्तयन्ताविति प्रोचे, प्रतिहारो महामनाः । आर्यों मा कुरुतां भीति, प्रीत्या हाययति घसौ ॥८६॥ ततः क्षणं समाश्वस्य, तद्वाक्यश्रवणादिमौ । मन्दं मन्दं समं तेन, गृहाभ्यन्तरमीयतुः ॥ ८७॥ स्नापितो भोजितौ तेन, वितीर्य वरवाससी । उपधन्यं समानीया-सने तावुपवेशितौ ।। ८८ ॥ ततस्तावब्रवीद्धन्यः, सुधामधुरया गिरा । आर्यों कुतः समायातो, जानीतो वेह कञ्चन ॥ ८९॥ ततस्तायुचतुः श्रीमन् , सुप्रतिष्ठपुरादिह । अचैवावां समायाती, जानीतो(वो)ऽत्र न कश्चन ॥ ९॥ सभायामिह किं कोऽपि, दृष्टपूर्वोऽस्ति वामिति । उक्त धन्येन साकृतं, चिरं संवीक्ष्य सस्पृहम् ९१ For Private and Personal Use Only Page #54 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धन्यशाली महाकाव्यम् Bal सर्ग:३ JE|| ५२॥ ॥५२॥ धनिना जन्तयन्नेव, बाप्पप्लुतविलाधन । दुर्दशेयं महाका गृहेऽस्माकं, त वृद्धाऽवोचल्लघुः पुत्रो, ममासीत्पश्चमो गुणी । धन्य इत्याख्यया तस्या-नुरूपो लक्ष्यते भवान् ॥१२॥ अथासावासनं मुक्त्वा, पपात पितृपादयोः। यत्सर्वाभरणेभ्योऽपि, विनयो भूषणं परम् ॥ ९३ ॥ धनिनां सुखिनामेषां, त्वया रे दैव निर्दय । ईदृशी दुर्दशा कष्टां, कुर्वता किमुगर्जितम् ।।९४ ॥ इतिसंचिन्तयन्नेव, बापप्लुतविलोचनः । जगाद जननीं धन्यः, सखेदो गद्दाक्षरम् ॥९५||युग्मम्।। सुप्रतिष्ठपुरस्थानां, भवतां तादृशे धने । दुर्दशेयं महाकष्टा, मातर्निपतिता कथम् ॥ ९६ ॥ माता प्राह श्रियः पुसां, जायन्ते वत्स पुण्यतः। आविर्भूते गृहेऽस्माकं, तदा पुण्यवति त्वयि ॥२७॥ निपानमिव मण्डूकाः, सरः पूर्णमिवाण्डजाः । संश्रिता गृहमस्माक-महंपूविकया श्रियः ॥१८॥ भवति प्रोषिते वत्स, प्रोषिताः सम्पदोऽपि हि । रवी क्षेत्रान्तरं प्राप्ते, तद्भासः किमिहासते ॥१९॥ किश्चिञ्चौरई किश्चिद्, व्यवहारे च विप्लुतं । किञ्चित्पण्याङ्गनायूता-सक्तैः पुत्रैविनाशितम्॥२०॥ ज्येष्ठपुत्रापराधात्स्वं, किश्चिद्राजकुले गतं । एक सर्वस्वनाशेन, दुर्दशेयमजायत ॥१॥ ततश्च विभवाभावा-रपुरे तत्र पराभवः । प्रावृतत्प्राकृतेभ्योऽपि, दारियं ह्यापदां पदम् ॥ २॥ न स्थातुं शक्यते तत्र, क्षणमात्रं ततो वयं । सकुटुम्या इहायाताः, पुण्यदृष्टो भवानपि ॥ ३॥ धन्यस्ततो जगादेवं, भ्रातरः काम्ब ते मम । वर्तन्ते सह पत्नीभिः-र्धनचन्द्रादयोऽधुना ॥४॥ १ सामान्यजनेभ्यः For Private and Personal Use Only Page #55 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra धन्यशाली भद्र॥ ५३ ॥ www.kobatirth.org उवाच जननी वत्स, सोदराणामपि त्वया । ग्राह्यं तेषां न नामापि, कर्मणा वैरिणो हि ते ॥५॥ मातर्यपि ते वैरं वहत्यज्ञतया मयि । तथापि न मया कार्यो, रोषस्तेध्विति सोऽभ्यधात् ॥६॥ ततः सा चिन्तयामास, भुव्यहो महदन्तरं । यस्मादेकोदरोत्पन्ना एकत्रैव प्रवर्द्धिताः ॥ ७ ॥ एके कुटिलतोपेता, अपरे सरलाः पुनः । जायन्ते स्वप्रकृत्यैव वदर्या इव कण्टकाः ॥ ८ ॥ इति सा चिन्तयित्वोचे, वत्स तिष्ठन्ति ते वने । तदाद्दानाय स प्रेषीत्प्रतीहारं ततस्तदा ॥ ९ ॥ ततस्तेन समाहताः सभार्या अपि ते वनात् । लज्जावनतमूर्द्धानो, धन्यं समुपतस्थिरे ॥ १० ॥ धन्येनापि च सम्भाष्य, प्रियालापेन तेऽभितः । सञ्चक्रिरे महामूल्यै - र्वस्त्रादिभिरनुत्तमैः ॥ ११ ॥ स्थाने तथाविधान् भ्रातृन्, धन्योऽसौ यदपूजयत् । अपकारमपाकृत्य, महान्तो पकुर्वते ||१२|| अत्रान्तरे समागत्य, सोमश्रीप्रमुखाः प्रियाः । प्रणेमुः श्वशुरादीनां चरणौ भर्तुराज्ञया ॥ १३ ॥ अधाशीर्भिरमोघाभि-स्तेऽपि ता अभ्यनन्दिषुः । यथानुरूपसत्कारे, कुलीनानां क्रमो ह्ययं ॥ १४ ॥ उपकारं स्मरन्नेष, ज्येष्ठभ्रातुः सधर्मिणीम् । सच्चकार विशेषेण, भूषणाद्यैर्धन श्रियम् || १५ || विहितं येन केनापि कालेनापि महीयसा । विस्मरन्ति महान्तो हि, नोपकारं कदाचन ॥ १६ ॥ ततोऽसावृणमोक्षाय, पितरौ जिनदेशिते । धर्मे संस्थापयामास, सतामेष क्रमो यतः ॥ १७ ॥ धन्यप्रभावतः सर्व्वे, भ्रातरः स्वच्छतां ययुः । पद्माकराः शरस्काले, कुंम्भयोनेरिवोदयात् ||१८|| १ अगस्त्यस्य For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir महाकाव्यम् सर्गः ३ ॥ ५३ ॥ Page #56 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra धन्यशाली भद्र॥ ५४ ॥ www.kobatirth.org धन्यस्तांस्तादृशान् ज्ञात्वो-पदिश्य जिनदेशितं । धर्मे चास्थापयद्यस्मा - दिष्टं धर्मे नियोजयेत् १९ तुतोष न तथा धन्यो, भार्यालाभादिभिः सुधीः । पित्रादिनिजबन्धूनां यथा धर्मे नियोजनात् ॥ दृष्ट्वोपकारितां तस्या- पकर्त्तारोऽपि सोदराः । मात्सर्य तत्यजुर्यस्माद् गुणाः संवननं परम् ॥२१॥ कृतकृत्योऽहमित्येष मन्वानः श्रेष्ठिनन्दनः । निरतो धर्मकृत्येषु, दिवसानत्यवायत् ॥ २२ ॥ दत्त्वाथ विभवं प्राज्यं निजग्रामेषु सादरं । स प्रीतहृदयो भ्रातृ - नाधिपत्ये न्यवीविशत् ॥ २३ ॥ श्रीजैनधर्म स्वयमादधानः, कुत्र्वैश्च यत्नात्पितृपर्युपास्तिम् । त्रिवर्गबाधापरिहारतोऽसौ कालं व्यतीयाय सह प्रियाभिः इति श्रीधन्यशालिभद्रमहर्षिचरिते धन्यमालाकारकुसुमपालगृहावस्थान श्रेणिकराजगोभद्रश्रेष्टिकुसुमपालमालाकारकन्यापरिणयन समृद्धिप्राप्तिजिनधर्मांवातिशालिभद्रविवाह जनकजीवदेवनिर्मितसप्तभूमिप्रासादादिकथनधन्य मातृपितृभ्रात्रादिमीलकतत्समृद्विदानजिनधर्मप्रापणस्वयंधम्र्मानुष्ठानप्रवृत्तित्र्यावर्णनो नाम तृतीयः परिच्छेदः ॥ ३ ॥ १ वशीकरणम् Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only महाकाव्यम् सर्ग: ३ ॥ ५४ ॥ Page #57 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra धन्यशाली भद्र॥ ५५ ॥ www.kobatirth.org ॥ अथ श्रीचतुर्थः सर्गः प्रारभ्यते ॥ अथान्यदा पुरे तत्र, ग्रीष्मर्त्तावपि शीतलान् । उष्मलानपि शीत, वातपित्तकफापहान् ॥ १ ॥ षट्खण्डभरतस्वामि — स्त्रीरत्नसदृशान् बहून् । वरेण्यानतिविस्तीर्णा - नजीर्णान् रत्नकम्बलान् ॥२॥ सत्पुण्यनर भोगाह - नेपालविषयोद्भवान् । लाभार्थिनः समादाय, वणिजः केचनाययुः । ३ । त्रिभिर्विशेषकम् रत्नकम्बलहस्तास्ते, प्रत्यहं प्रतिमन्दिरम् । विक्रेतुं वणिजस्तत्र, नगरे परिवभ्रमुः ॥ ४ ॥ तेभ्यो नैकोsपि केनापि, जगृहे धनिनाऽपि हि । महामूल्यपदार्थानामथिनो विरलाः खलु ॥५॥ ततः श्रेणिकराजस्था-सीनस्यास्थानमण्डपे । सुधर्मायामिवेन्द्रस्यो- पतस्थुर्वणिजः किल ॥ ६ ॥ ततः प्रणम्य पादौ ते, श्रेणिकस्य महीपतेः । सादरं दर्शयामासुः सनत्तान् रत्नकम्बलान् ॥ ७ ॥ श्रेणिकोऽपि वणिग्व-नववीसृष्टमानसः । भो भो भद्राः किमेतेषां मूल्यं कथयत द्रुतम् ||८|| एवमाज्ञापिता राज्ञा, ते क्षणेन विचक्षणाः । एकैको लक्षमूल्योऽय - मिति राज्ञे व्यजिज्ञपन ॥९॥ तच्छ्रुत्वा चकितो भूपः प्राह भो रत्नकम्बलान् । महार्घानिह युष्माकं ग्रहीतुं कः क्षमो जनः |१०| इति राज्ञा विसृष्टास्ते, विमनस्का वगिग्वराः । सभातो निर्ययुः कृत्यं, किमन्यत्पर्वणीदृशे ॥ ११ ॥ किं कुर्मः कुत्र गच्छामो, दर्शयामोऽत्र कस्य वा । इति चिन्तयतां तेषां मनस्येवमभूत्तदा ॥ १२ ॥ १ श्रेष्ठान् २ नूतनान् १ प्रस्तावे For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir महाकाव्यम् सर्गः ४ ॥ ५५ ॥ Page #58 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandit पन्यशाली महाकाव्यम् | सर्गः४ श्रीमतः शालिमद्रस्य,श्रेष्टिपुत्रस्य मन्दिरम् । श्रूयतेऽत्र महाभूति-कलितं विश्रूतं भुवि ॥१३॥ गच्छामस्तत्र चेद्रा-श्रेष्ठिन्यौदार्यशालिनी। गृह्णीयान्नोपभोगार्हाः, कंदर्यावर्यवस्तुनः ॥ १४ ॥ आगत्यान्तःपुरे काचि-चेटिका श्रेणिकान्तिकात् । कम्बलाग्रहणोदन्त, चेल्लाणायै न्यवेदयत् ॥१५॥ विमृज्य परिषल्लोक-मुत्थायास्थानमण्डपात् । तदैवं वसुधाधीशो-ऽप्यगादन्तःपुरं किल ॥१६॥ चेल्लणोवाच किं स्वामिन् , युष्माभिर्मम हेतवे । नाग्राहि कम्बलः कोऽपि, किं नाहं तव वल्लभा १७ स्वामिन् कृपणता केयं, निःस्वस्येव तवेदृशो। उदारचरिता यस्मा-भवन्ति पृथिवीभुजः ॥ १८ ॥ तथा नाथ तव ख्याति, ये श्रुत्वेह समागताः । वणिज स्तत्पुरो यूयं, लघूभूतास्तदग्रहात् ॥ १९ ॥ यत्र यत्र भ्रमिष्यन्ति, नैगमास्तत्र तत्र ते । अकीर्तिपटहं स्वामिन , वादयिष्यन्ति तेऽन्वहम् ॥२०॥ यदि मूल्यं न ते नाथ, विद्यते तदिमां मम । रत्नावलि समादाया-दत्स्वैकं रत्नकम्बलम् ॥ २१॥ मा भवन्तु गताशास्ते, समागत्य तवान्तिकं । अभीष्टं पूरयन्त्येव, कल्पकृक्षा इवोत्तमाः ॥२२॥ इत्येवं कथिते देव्या, श्रेणिकः पृथिवीपतिः। तदैवाकारयामास, रत्नकंबलनेगमान् ॥ २३ ॥ भो भद्रा मम मूल्येन, दध्वं रत्नकम्बलम् । एकं दीनारलक्षेणे-त्युक्ता राज्ञाऽवदन्निदम् ॥ २४ ॥ स्वामिनितो विनिर्गत्य, कम्बलाविक्रये वयम् । विषण्णाः शालिभद्रस्य सर्वेऽगच्छाम मन्दिरम् ॥२६ १ कृपणा, २ सभामण्डपात् For Private and Personal Use Only Page #59 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धन्यशाली पहाकाव्यम् सर्गः४ JEE||५७॥ रत्नकम्बलकास्तत्र, भद्रया शीलभद्रया । यथोक्तेनैव मूल्येन, सर्वेऽग्राहिषत प्रभो ॥ २६ ॥ चेल्लणा च तदाकर्ण्य, रोषविस्फुरिताधरा । जगाद पृथिवीनाथं, सनिष्टुरमिदं वचः ॥ २७ ॥ यादृशी वाणिजस्त्रीणां, तादृश्यपि न विद्यते । क्षत्रियप्रवरस्थापि, तव स्वामिन्नुदारता ॥ २८ ॥ ततः प्रेष्य प्रतीहारं, शालिभद्रगृहे तदा । अयाचि कम्बलं भद्रा, श्रेणिकेन महीभुजा ॥ २९ ।। भद्रे येऽद्य त्वया क्रीताः, कम्बलास्तेषु कश्चन । एक मूल्येन मे देहि, रत्नकम्बलमुत्तमम् ॥३०॥ भद्रोचे कम्बला येऽद्य, क्रीताश्छिन्नास्तदैव ते । शालिभद्रकलत्राणां, पादप्रोज्छनहेतवे ॥३१॥ पूर्वोपात्तास्तु सन्त्येते, प्रकटीभूततन्तवः । किञ्चित्कंसारिकाकीटै-भक्षितत्वात् कचित् कचित् ।। शय्यामारोदुकामानां, वधूनां वासमन्दिरे दुन्वन्त्यघितलं पद्म-दलवत्कोमलं यतः ॥ ३३ ॥ अच्छिन्नाः सन्खतस्ते चे-दुपकुर्वन्ति भूपतेः । मूल्यं विनापि ग्रह्यतां, धन्यं यदुपयोगि वः ३४ एवमुक्तः प्रतीहारः, समागत्य नृपान्तिक । यदुक्तं भद्रया तत्र, तदाख्यत्पृथिवीभुजे ॥ ३५ ॥ अत्रान्तरे नरेन्द्रस्य, पादयन्दनहेतवे । तत्राभयकुमाराख्यः, सुतामात्यः समाययौ ॥ ६ ॥ तं स्वस्याशेषकार्येषु, प्रच्छनीयं विशेषतः । बृहस्पतिमिवेन्द्रस्य, सर्वबुद्धिमहानिधिम् ॥ ७ ॥ पप्रच्छोवीपतिः प्रीतः, कीदृशो विभवोदयः । श्रूयते शालिभद्रस्य, श्रीदस्येव महानिति ।।८ायुग्मम् पश्चशत्या अमाखानां, धुरीणः क्षीणदूषणः । तज्ज्ञोऽभयकुमारोऽपि, जगाद पृथिवीपतिम् ३९ For Private and Personal Use Only Page #60 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandir धन्यशाली भद्र॥५८॥ महाकाव्यम् सर्गः४ J.|५८॥ जन्मान्तरार्जितागण्य-पुण्येनाद्भुतवैभवः । स्वामिस्त्वनगरे जज्ञे, भद्रागोभद्रनन्दनः ॥४०॥ रमतेऽसौ स्वपत्नीभिः, प्रासादे देवनिम्मिते । अप्सरोभिरिव स्वर्गे, निश्चिन्तस्त्रिदशेश्वरः ४१ इत्यादि शालिभद्रस्य, वर्णनं स्वसुताननात् । श्रुत्वा प्रतीये भूपाल, आप्ते प्रत्येति को न हि ॥ अहो धन्योऽहमित्येव-मचिन्तयदसौ तदा । निवसन्ति यदीक्षा, वणिजोऽपि हि मत्पुरे ॥४॥ पश्यामि शालिभद्रं चे-इद्रागजमहं तदा । भद्रं स्यादिति सश्चित्य, सोत्कण्ठस्तस्य दर्शने ॥४४॥ आहूत्यै शालिभद्रस्य, प्रधानपुरुषं ततः । तदेव प्रेषयामास, श्रीश्रेणिकमहीपतिः ॥ ४५ ॥ सोऽपि तद्गृहमायात-स्तमपश्यन्नूवाच ताम् । भद्रेऽहं प्रेषितो राज्ञा, शालिभद्रं दिढेक्षुणा ॥४६॥ त्वरितं शालिभद्रं त-स्प्रेषयोशिसन्निधौ । येन तद्दर्शनात्स्वामी, लभते प्रमदोदयम् ॥४७॥ भद्रापि तमुवाचैवं, भूपतेस्त्वं निवेदय । अप्रसादो विधातव्यो, नाम्मासु स्वामिना यतः ॥ ४८ ॥ सुकुमारशरीरोऽयं, शालिभद्रो ममानजः । पादमप्यसहो दातुं, पहिरेष स्वमन्दिरात् ॥ ४९ ॥ कदाचिन्नेक्षते योऽर्क-चन्द्रयोर्मण्डले अपि । कथंकारं समायातु, युष्माकं स निकेतनम् ॥५०॥ इत्युक्तो भद्रया सोऽथ, समागत्य नृपान्तिकम् । स्वरूपं शालिभद्रस्य, निजगाद यथाश्रुतम् ५१ अत्वरिष्टतरां राजा, ततस्तद्दर्शनं प्रति । अहो पुण्यस्य सौभाग्य-कारिता काऽप्यलोकिकी ५२ १ द्रष्टुमिच्छता २ हषादयम् For Private and Personal Use Only Page #61 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धन्यशाली 57 भूयोऽपि तन्मुखेनैव, नृपो भद्रामभानयत् । यद्येवं गृहमप्येत्य, पश्यामि तत्र नन्दनम् ॥ ५३ ॥ महाकाव्यम् भद्रभद्रोवाच कृतोऽयं मे, प्रसादो भूभुजा महान् । केवलं कतिचित्स्वामी, वासराणि प्रतीक्षताम् ५४ सर्गः ४ शोभां राजपथादीनां, यावन्निवर्तयाम्यहम् । सामग्री च गृहे यावत्प्रभोरागमनोचिताम् ॥ ५५ ॥ J६ ॥ ५९॥ ततोऽभ्युपगते राज्ञा, तथाऽऽज्ञाप्यन्त पुरुषाः। कुरुध्वमानृपागारा-च्छोभा यावद् गृहं मम ५६ ततः केचिन्नरा मार्ग, तृणकाष्टोपलोज्झितम् । जन्मोत्सवे जिनेन्द्राणां, चक्रुर्वायुकुमारवत् ॥ ५७ ॥ विरजीचक्रिरे केचि-द्राजमार्ग समन्ततः । वाचंयमाः कुशाग्रीय-धियो भव्यमनो यथा ।५८ सद्गन्धोदकपूरेण, सिषिचुः केऽपि भूतलम् । जिनज्ञानोत्सवे मेघ-कुमारा इव सर्वतः । ५९ । अभ्युनतस्तम्भशिरोनिविष्ट-विशिष्ट काष्ठावलिसत्प्रतिष्ठाः।आच्छादिताश्वारूविचित्र भक्ति-वस्त्रैः समन्तादरवेदिकान्ताः सदविक्षेपसहावभाव-प्रनृत्यमानाद्भुतपण्ययोषाः । गुञ्जन्मृदङ्गोधुरनादपूर्णा, गन्धर्वमन्द्रध्वनिगीतरम्याः। ६१ । मचातिमञ्चा विवुधोपशाभिता-काशिरे राजपथेऽन्तरान्तरा । दिवौकसां प्रेक्षणमण्डपा ध्रुवं, समागताः स्वर्गपुरादिलातलम् ॥३२त्रिभिर्विशेषकम् । स्थूलातिवृत्तामलमोक्तिकस्रजः, प्रलम्बमानाः कचिदन्तरान्तरा। नक्षत्रमाला इव भास्वरा वभुः, पुरः श्रियं द्रष्टुमिवागता दिवः ॥ ६३ ॥ १ आगत्य २ स्वीकृते ३ साधवः ४ तीक्ष्यबुद्धयः ५ दीप्तिमत्यः For Private and Personal Use Only Page #62 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandit महाकाव्यम् सर्गः४ वितेनिरे तत्र विचित्रवस्त्रै-वितानमालाः पुरुषैः समन्तात् । तथा यथा नैव बभूव भूनी, प्रभाकरस्यापि करप्रचारः धन्यशाली 36 | प्रत्यापणं तोरणमौलिलोल-माणिक्यधामास्ततमःप्रचारम् । अलक्षिताहाक्षगदाविशेषं, केचित्पचक्रुर्वरहदृशोभाम् भद्र भृङ्गाः क्वणन्तो मधुरं नितान्तमुन्निद्रसत्पुष्पगृहाणि भेजुः । तथा यथा गीतमृदा वेणु-वीणास्वनानाममवद्धिलोपः॥६६॥ ॥६ ॥ दन्दऽह्यमानागुरुचन्द्रसान्द्र-धूमैःसुगन्धीकृतराजमार्गाः।क्वाप्यन्तरन्तः शुभधूपघट्योऽ-स्थाप्यन्त संस्थाननितान्तसुस्थाः॥ स आपणो नास्ति न यत्र तोरणः, स तोरणो नास्ति न यत्र पुत्रिकाः । ता पुत्रिका नैव न या विरेजिरे, स्त्रियः सचित्ता इव चाम्यौवनाः ॥ ६८ ॥ तयौवनं नास्ति न यत्र रूपं, रूपं न तद्यत्सुभगत्वहीनम् । सौभाग्यमप्यस्ति न तद्यदत्र, मनो न यूनां हरते नितान्तम् इति विधाप्य नृपाध्वपरिस्कियां, जनमनाकुमुदाकरचन्द्रिकाम् । गृहमपि द्रुतमेव हि भद्रया, प्रविधे कमनीयतमं श्रिया ॥ ७० ॥ तथाहि-विशालगोपुरद्वार-बद्धवन्दनमालिकम् । नीलाम्भोरुहसच्छिन्न-पूर्णकुम्भोपशोभितम् ७१ विशालैनिर्मलेलोक-लोचनानन्ददायिभिः । चञ्चच्चन्द्रोदयैः कान्तं, सान्द्रेश्चन्द्रोदयैरिव ।। ७२ ।। लम्बमानोल्लसत्कान्तिसन्मुक्ताफलमालिकम् । विकस्वरसुगन्धाढ्य कुसुमस्रङमनोहरम् ॥ ७३ ॥ चारूमुक्ताफलश्रेणी-स्वस्तिकालकृताङ्गणम् । सुगन्धद्रव्यनिष्पन्न-धूपधूमौघवासितम् ॥ ७४ ॥ १ उल्लोचश्रेणयः २ बाहुल्येन For Private and Personal Use Only Page #63 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandi बन्यशाली भद्र॥ ६१॥ महाकाव्यम् सर्गः ४ JE||६१॥ इत्थं विचित्रभङ्गीभिरलार्य निजं गृहम् । भद्रा प्रेषीपाहत्यै, प्रधानपुरुषामिजान् ॥ ७५॥ गत्वा राजकुलं स्थित्वा, पुरतः पृथिवीपतेः। बद्धाञ्जलिपुटाः प्रोचुः, सादरं विनयेन ते ॥ ७६ ॥ नाथोचितपरीवारः, शालिभद्रगृहाङ्गणम् । प्रसद्यालकुरु स्वाइघि-पजैरमलेरलम् ।। ७७ ॥ ततः श्वेतं चतुर्दन्तं, गज सेचनकाभिधम् । विहितस्फार शृङ्गारो-ऽधिरूढश्चेल्लणान्वितः ॥ ७८ ।। अभ्रमूवल्लभाध्यासि-शचीसखशचीपतेः। भृशं विभ्रममाब्रिन-च्चचाल श्रेणिको नृपः ॥७९॥युग्मम्। ततोऽभयकुमाराद्याः, कियन्तोऽपि तमन्वयुः । मन्त्रिणस्तुरगारूढाः, सामानिकसुरा इव ।। ८० ।। स्वसिंहद्वारमारभ्य, यावद्भद्रानिकेतनम् । रमणीयतया साक्षात्, स्वर्गदेशमिव च्युतम् ।। ८१ ।। चक्षुर्मनाश्रुतिघ्राण-शरीराहादकारिणम् । विसिमियेतरां राज-मार्गमालोकयन्नृपः ॥८॥युग्मम् दर्शयन्मार्गविच्छित्ति-र्यभाषे चेल्लाणां नृपः । पश्य प्रिये वणिक्पल्या, वैभवं पुण्यसम्भृतम् ।।८।। नृपः पश्यन्ननेकानि, कौतुकानि पदे पदे । शालिभद्रगृहदारं, प्रापच्छूिततोरणम् ॥ ८४ ।। ध्यक्षताज्यसम्पूर्ण-पात्रसन्दर्शनादिना । चक्रिरे भद्रया तत्र, मानल्यान्यवनीपतेः॥ ८॥ अत्यन्तोसुक्मातङ्गान् , जामानिव पर्वतान् । विशन्नथ महीनाथो, ददर्शोभयपार्श्वयोः ।। ८६ ॥ काम्बोजादीन्विचित्राङ्गा-मार्तण्ड तुरगोपमान । कचिनितर्वर्णयामास, नृपस्तुझांस्तुरनमान् ॥ ८७ ॥ १ ऐरावणारूडेन्द्राणीसहितेन्द्रस्य. २ मार्गरचनाः. ३ ददर्श. For Private and Personal Use Only Page #64 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पन्यशाली महाकाव्यम् सर्गः४ ॥ ६२॥ ॥ ६२॥ सरोराजीमिव कापि, सचक्रां तुझ्वेदिकाम् । श्रेणिकः सदगुणश्रेणिः, स्यन्दनालीमवैक्षत ॥ ८८ ॥ चमत्कारकरी लक्ष्मी, पश्यन्नेवं नरेश्वरः । अनेकमणिसोपाना-मारुरोहाद्यभूमिकाम् ॥ ८९ ॥ तत्रागण्यानि पण्यानि, बहुमूल्यान्यनेकधा । अनिन्दितानि विद्यन्ते, स्थाने स्थाने समन्ततः ॥१०॥ चारूमुकवृन्दानि, नालिकेरीफलानि च । कुत्रचिद्गणयन्त्युच्चै-स्वरितं त्वरितं नराः ॥९१ ॥ आरोप्यते तुलायां च, धरिमद्रव्यसञ्चयः । कुङ्कुमादि परिच्छेत्तुं, विशुध्यर्थमिव क्वचित् ।। ९२ ।। कृष्णजीरकधान्याक-मरिचाद्या उपस्कराः । धान्यानि च प्रमीयन्ते, कुत्रचिणिगादिभिः ॥ १३ ॥ अनेकभायः कापि, लम्बिताहारयष्टयः । निर्मला व्योमगङ्गायाः, प्रवाहाः इव रेजिरे ॥ १४ ॥ अत्यन्तममृणीकृत्य, घर्ष घर्ष कचिन्नरैः । निर्मलीकृत्य विध्यन्ते, प्रवालशकलान्यलम् ।। १५ ।। वैडूर्यादीनि रत्नानि, कापि साराणि साधुभिः । भव्यानामिव चेतांसि, क्रियन्तेऽपमलान्यहो ॥२६॥ अशेषदोषनिर्मुक्तं, जातरूपं कषादिभिः । परीक्ष्यादीयते कापि, सद्धर्म इव पण्डितैः ॥२७॥ अभातां क्वचिनास्तीणे, कस्तूरी हिमवालुके । निरस्यन्त्यावघं नृणां, सूर्यजनुसुते इव ॥१८॥ क्वचित्पांशुकादीनि, पञ्चवर्णानि सादरम् । सहस्त्राणि परीक्ष्यन्ते, वणिक्पुत्रैरनेकधा ॥१९॥ १ क्रमुकाणि पूगीफलानि. २ अतिमृदृकृत्य. ३ मलरहितानि. ४ सुवर्णम्. ५ कस्तूरी कृष्णवर्णा, हिम च श्वतं तयोर्वालुके. | ६ सूर्यसुता यमुनानदी कृष्णजला, जनुसुता गहानदी श्वेतजला.... For Private and Personal Use Only Page #65 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailasagarsuri Gyanmandie पन्यशाली भद्र॥६३॥ DEमहाकाव्यम् सर्गः४ Jel॥६३॥ Twww एवमन्यानि पण्यानि, निचीयन्तेतरां कचित् । कानिचित्कापि गोप्यन्ते, प्रदीयन्ते च कानिचित् १०० इत्येवमादिभिः पण्यैः, संयुक्तामादिभूमिकाम् । वीक्षमाणः क्षमानाथः, पण्यवीथीमिवायताम् ॥१॥ बैडूर्यमणिसोपामां, द्वितीयामय भूमिकाम् । सुखेनाध्यारुरोहोचैर्गजेन्द्रोऽधित्यकामिव ॥२॥ दास्यो दासास्तथा कर्म-कर्यः कर्मकरा अपि । पिबन्तः केऽपि पानीयं, कुर्वाणाः केऽपि भोजनम् ॥३॥ भुक्त्वा पीत्वा गवाक्षेषु, स्वपन्तः केऽपि केचन । इतस्ततो वितन्वाना, एहिरे याहिराः क्रियाः ॥४॥ स्वेच्छया केऽपि वलान्तः, प्रोदामा इव वाजिनः । तुष्टचिताः सुपुष्टाङ्गाः, प्रेक्ष्यन्ते तत्र भूभुजाः ॥२॥ त्रिभिविशेषकम् ततः शोणमणीं दृष्ट्वा, रोहणश्रेणिकां भुवम् । तृतीयामारुरोहासो, विस्मयोत्फुल्ललोचनः ॥६॥ शास्त्रार्थनिपुणास्तत्र, सूपकारा बुधा इव । चक्रू रसवतीमेदान, धृत्तिग्रन्थानिवोज्ज्वलान् ॥७॥ सुगन्धिश्वेतसच्छालि-दालिप्रभृतिभोजनम् । प्राज्यमाहादित स्वान्त, निर्ममुः केऽपि बल्लेवाः ॥८॥ विशालान्यैशलानच्छा-खण्डान्मण्डकानपि । क्वचिन्निर्मापयामासु-श्चन्द्रमण्डलसन्निभान् ॥९॥ व्यञ्जनानि रसायानि, विनिर्माय प्रभूतशः। केऽपि सञ्चस्करुः क्वापि, काव्यानि कवयो यथा ।१०। हैयङ्गवीनहविषा परिपच्य केचित्, पक्वान्नभेदनिकरान्विदधुर्विचिवान् । केचिन्मनोनयनमोदकमोदकांश्च, बद्धोत्करान् हिमगिरेरिव-चारुकूटान् ॥ ११ ॥ १ पर्वतस्योपरितनी भूमीम् २ टीकाग्रन्थान् ३ सूदाः For Private and Personal Use Only Page #66 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धन्यशाली भद्र महाकाव्यम् सर्ग:४ ॥ ६४॥ स्थूलपूगीफलान्याशु दलीकृत्य समांशतः । सान्द्रचन्द्रोदकेनार्दीचक्रिरे तनियुक्तकाः ॥ १२ ।। प्रत्यग्रेर्नागवल्लीनां, विशालैः संदलैर्दलैः । ववन्धुर्थीटकान्युश्च-स्तद्व्यापारनियोगिनः ॥ १३ ॥ कस्तूरिकाकुल्कुमचन्दनानां, कर्पूरपूरेण विमिश्रितानाम् । विलेपनैबिभ्रति भाजनानि, केचिन्नरास्तद्विषये नियुक्ताः॥१४॥ एवंविधं तृतीयाया, भूमेः पीठं व्यलोकयत् । चतुर्थी रिष्टसोपाना-मारोह भुवं नृपः ॥ १५ ॥ तत्र प्रधानलोकानां, विशालाः स्वापमण्डपाः । चक्षुर्मनोहरैश्चित्रै-श्चित्रिताश्चित्रकर्मभिः ॥ १६ ॥ आकीर्णा वर्यपर्य–विस्तीर्णैर्विविधैस्तथा । नवनीतमृदुस्पर्श-हंसतूल्युपधानकैः ॥ १७ ॥ कान्तरत्नमयस्तम्भा, वैडूर्यमणिकुहिमाः। विरेजिरे निर्जराणा-मुपपातगृहा इव ।१८ात्रिभिर्विशेषकम् उपवेशनशालाश्च, स्पष्टस्फाटिकवेदिकाः । रत्नसिंहासनस्वर्णपादपीठोपशोभिताः ॥ १९ ॥ नानामणिशिलाबद्ध-विशालधरणीतलाः । निर्जराणां महास्थान-समा इव वभुस्तराम् ॥२०॥युग्मम् द्वीपान्तरागतैः सूर्य-नूनं द्रष्टुं गृहश्रियम् । रेजुः प्रत्याहतस्वर्ण-स्थाले जनमण्डपाः ॥ २१ ॥ रूप्यस्वर्णादिनिवृत्त, रम्यैः कचोलकादिभिः। आसनैर्विविधैश्चापि, तेऽभितो रेजिरे तदा ॥ २२ ॥ रनकाञ्चनसोपानं, । जात्यस्वर्णमहीतलम् । शातकुम्भमयस्तम्भ-न्यस्तवैडूर्यतोरणम् ॥ २३ ॥ पद्मरागेन्द्रनीलादि-मयाईद्विम्बभूषितम् । गृहस्योत्तरपूर्वस्या, वर्तते चैत्यमन्दिरम् ॥२४॥युग्मम्।। मण्डीकृत्य समभागेन. २ गाढकर्पूररसेन. ३ तमालपत्रसहितः, ४ पक्तिस्थापितसुवर्णस्थालेः. ५ शातकुम्भ सुवर्णम. For Private and Personal Use Only Page #67 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धन्यशाली भद्र महाकाव्यम् सर्गः ४ Pl॥६५॥ पूर्वस्यां चामरत्नानि विद्यन्ते कोशवेश्मसु । तानि यान्यन्धकारेऽपि, समुद्योतं वितन्वते ॥२५॥ तत्र श्रेणिकराजस्य, सिंहासनमदापयत् । चेल्लणायाः पुनर्भद्रा-सनं भद्रा स्वपूरुषैः ॥२६॥ तत्राभयकुमारादि-मन्त्रिणामप्यदापयत् आसनानि यथोचित्यमौचित्यं हि परो गुणः ॥२७॥ ततः सुखासनासीन:, श्रेष्ठिनी क्षितिपोऽवदत् । शालिभद्रः स्फुरद्रो, भद्रे कास्ते सुतस्तव ॥२८॥ स्वामिन् युष्मत्पदाम्भोजो-पचारे विहिते सति । स्वस्वामिदर्शनायाशु, शालिभद्रः समेष्यति ॥२९॥ परमद्य प्रमोदाय, प्रभो मेऽनुग्रहं कुरु । स्नानादिभिरिति प्राह, भद्रा श्रेणिकभूपतिम् ॥३०॥ सदोषरोधशीलत्वा-तद्वचोऽमस्त भूपतिः। महान्तोऽगण्यदाक्षिण्य-पुण्यात्मानो भवन्ति यत् ॥३१॥ विविक्ते चेल्लणां स्थाने, स्थापयित्वा विलासिनीः। तस्या आज्ञापयन्द्रा-ऽभ्यङ्गोवर्तनहेतवे ॥३२॥ लक्षपाकादिकं तैलं निर्मलं घाणतर्पणम् । चूर्णानि च सुगन्धीनि, सूक्ष्माण्यतिमृदूनि च ॥३३॥ प्रवरद्रव्यसंयोग-निर्मितानि विचक्षणः। ताभ्यःसमर्पयामास, श्रेष्ठिनी विपुलाशया ॥३४॥ युग्मम्।। कृत्वाभ्यङ्गं शरीरेऽस्या, हस्तैः कमलकोमलैः। संवाहनामिमांश्चक्रुश्चेल्लणायाश्चतुर्विधाम् ।।३।। शश्वत्पिष्टातकक्षोदै-निर्मलैस्तदनन्तरम् । तस्या उद्धर्तयामासु-विलासिन्योऽभितस्तनुम् ॥३६॥ इत्थं राजाऽपि तदाचा, मर्दयित्वाङ्गमर्दकैः । सुकुमारकरैइछेकैरवर्तनमकार्यत ॥३७॥ विशालामलशुभ्रांशु-कान्तरत्नमहाश्मभिः । निर्मितारोहणश्रेणी-स्पष्टस्फाटिककुटिमाम् ॥३८॥ لالالالالالالالالالالالاللالا طالبانی دراوس For Private and Personal Use Only Page #68 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धन्यशाली भद्र॥६६॥ महाकाव्यम् सगे:४ JET॥६६॥ पश्चमीमारुरोहासौ, सार्द्ध चेल्लणया भुवम् । श्रीकण्ठ इव पार्वत्या, कैलासाचलचूलिकाम् ॥३९॥युग्मम्।। सर्वद्भवपुष्पौध-फलसश्चयसङ्कुलम् । सच्छायनागपुन्नाग-बकुलाशोकचम्पकम् ॥ ४० ॥ ऊर्ध्व रुद्धार्कचन्द्रांशु, स्पृहणीयं दिवोकसाम् । तदा माधिभूस्तत्रा-लुलुके नन्दनं वनम् ।४शयुग्मं। आच्छादनशिलासूच्चैः, स्तम्भदेशेषु भित्तिषु । न्यस्तरत्नकरध्वस्त-ध्वान्ते तत्र वनान्तरे ॥४२॥ चन्द्रकान्तमणिग्राव-क्लप्तपर्यन्तवेदिका । चश्चत्काश्चनसोपान-शालिनी विपुलाऽऽयता ॥४३॥ संचारितापनीताम्बुः, कीलिकादिप्रयोगतः । नानारत्नौघनिवृत्त-प्रवेशोन्नततोरणा ॥४४॥ क्रीडापुष्करणी रम्या, रमणीयतया ध्रुवम् । निरस्तसुमनोवापी, विमला शुशुभेतराम् ॥४५॥ चतुर्भिश्च कुलकं ॥ तस्यां घनरसक्रीडां, कर्तु द्रागवतेरतुः । चेल्लणाश्रेणिको सिन्धौ, लक्ष्मीनारायणाविव ॥४६॥ पूर्व कुङ्कुमक्लप्ताङ्ग-रागं तन्मिथुनं तरत् । चक्रद्वन्द्वमिवोत्तप्त-स्वर्णचूर्णप्रभं बभौ ॥४७॥ ततोऽवदातसर्वाङ्ग-मारक्तचरणाधरम् । धारयामास तदद्वन्द, राजहंसयुगश्रियम् ॥४८॥ अभ्रमूस्वदिपद्वन्द-मिव तन्मिथुनं तदा । करोल्लालनतोऽम्भोभिः, परस्परमवाकिरत् ॥४९॥ कचिद् भूपभुजादण्डा-स्फालनादुच्छ्रितोमिभिः । हृत्वा स्म प्राप्यते तीरं, रिक्ता नौरिव चेल्लणा ॥२०॥ चेल्लणोन्नतवक्षोज-क्षोभितोदकवीचिभिः। भूपोऽपि प्रापि तत्तीरं, पोतो नीरनिधाविव ॥११॥ १ नरेन्द्रः २ तिरस्कृतदेववापी. For Private and Personal Use Only Page #69 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra धन्यशाली भद्र ॥ ६७ ॥ www.kobatirth.org कुर्वाणस्य जलक्रीडा - मेवं भूपस्य निर्भराम् | सन्मुद्रारत्नमङ्गुल्याः पपातालक्षितं जले ॥ ५२ ॥ यावन्निरीक्षते ताव- दद्गुलीं स्वां नराधिपः । पश्यति स्म विशोभां तां च्युतरत्नामिवोर्मिकाम् ॥ ५३ ॥ ततस्तमतिसम्भ्रान्तं भूपति तरलेक्षणम् । दृष्ट्वा भद्राऽप्यसम्भ्रान्ता, प्राह किं किमिति प्रभो ॥५३॥ मुद्रारत्नं ममागुल्याः परिभ्रष्टमलक्षितम् । निर्भरं क्रीडतो वाप्या-मिति भद्रां नृपाऽऽवदत् ॥५४॥ मुद्रारत्नोपलम्भार्थ, भट्टा दासी मथादिशत् । क्रीडापुष्करिणीनीरं, हले सञ्चारयान्यतः ॥ ५५ ॥ ततश्चकर्ष पानीयं कीलिकाकर्षणेन सा । सद्यः सस्फुरमन्त्रेण, सिद्धमन्त्रेव योगिनी ॥ ५६ ॥ राजाऽलङ्काररत्नांशु - चितं पुष्करिणीतलम् । पयः पूर्णमिवापश्यद्वतेऽप्यन्यत्र वारिणि ॥५७॥ मुद्रारत्नं च तत्स्वर्णमणिभूषान्तरस्थितम् । पिकपोतमिवाऽशोमं, चक्रवाकौघमध्यगम् ||१८|| या काकमिवाकान्तं सुवर्णान्तर्व्यवस्थितम् । अङ्गारमित्र निस्तेजो, ददर्श श्रेणिकः पुरः || ५९ ॥ युग्मं || प्रासीसरत्करं यावदादातुं नृपतिस्तकत् । स्नुषानिर्माल्यमस्पृश्य मिति भद्रा न्यवारयत् । ६०|| ततश्च ज्ञापयामास, श्रेष्टिनी निजचेटिकाम् । क्षालयित्वा हले मुद्रा-रत्नमर्पय भूभुजे ॥ ६१ ॥ तदेवादाय साय चेटी, क्षालयित्वाऽमलैर्जलैः । मुद्रारत्नमदाभस्मै, शीघ्रमालिप्य चन्दनैः ||३२|| शालिभद्रवधूटीनां निर्माल्याभरणान्यसौ । दृष्ट्वा सविस्मयो भूप - वेलणामुखमैक्षत ||३३|| रत्न कम्बलसत्कनि, पादप्रोञ्छनकान्यहो । क्रियन्तेऽत्र पुरे स्त्रीणां नैगमानामपि प्रभो ॥६४॥ For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir महाकाव्यम् सर्गः ४ ॥ ६७ ॥ Page #70 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धन्यशाली भद्र॥ ६८॥ महाकाव्यम् म सर्गः४ ||६८॥ CrimOODommema धराधिनाथभाया, अपि प्रावरणाय सः। न मेऽस्तीति पुरावादी-रत्र किं वक्ष्यसि प्रिये ॥६५॥ पुष्करिण्याः कृतक्रीडा, समं चेल्लणया नृपः । ऐरावत इवाऽभ्रम्वा, सलीलमथ निर्ययौ ॥६६॥ गन्धकाषयिकावस्त्र-मुपानाय्याशु भद्रया । निर्जला कार्यते तस्य, तनुर्वापी यथा पुरा ॥६७।। विलेपनमुपानीय, गोशीर्षादिकमुत्तमम् । परिवारसमेतस्य, विलिप्याझं महीपतेः ॥१८॥ नानादेशोद्भवैर्वस्त्रै-श्वारुचीनांशुकादिकैः । नरेन्द्र सपरीवारं, श्रेष्टिनी पर्यधापयत् ॥६९।। अत्रान्तरे च विज्ञप्तः, सूपकारेण भूपतिः । प्रस्तावो देवपूजायाः, समभूदधुना प्रभो ॥७॥ अवतीर्य धराधीश-श्चतुर्थीमथ भूमिकाम् । द्वारमुद्घाटयामास, तीर्थकृच्चैत्यसद्मनः ॥७|| तत्राहत्प्रतिमाः स्वर्ण-रत्नमय्यो मनोहराः। दृष्ट्वाऽतिमुदितो भूप-श्चिन्तयामास चेतसि ॥७२॥ धन्यस्तावदयं शालि-भद्रो भद्रात्मजः सुधीः । यस्येचैत्यसामग्री, लोचनानन्ददायिनी ॥७३॥ धन्योऽहमीदृशा यस्य, वणिजः पुण्यभाजनम् । धार्मिका धनवन्तो य-तत्सुवर्णस्य सौरभम् ।।७४॥ पुष्पदन्तात्पुरो वाम-स्कन्धपृष्ठे दशा दधत् । एकशाटयुत्तरासङ्गं, विदधे वसुधाधवः ॥७॥ बध्वाञलिनमन्बुच्चै-जयेति मुहुरुद्गृणन् । प्रविवेश विशामीश-स्तीर्थकृद्धेश्मनोऽन्तरम् ॥७६।। अत्रान्तरे निजैर्मत्यैर्भद्रा भद्राभिलाषिणी । पूजोपकरणं सर्व, पुष्पादिकमढौकयत् ॥७७।। करप्रक्षालनं कृत्वा मुखकोशं विधाप्य च । निर्माल्ययित्वा सर्वार्चाः, ससम्भ्रमममार्जयत् ।।७८।। هیان ساناهیان بیانابینایان For Private and Personal Use Only Page #71 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra धन्यशाली भद्र — ॥ ६९ ॥ www.kobatirth.org ततः स्नानं जिनानां स्वर्णकुम्भैर्महीपतिः । स्वयं शक्र इवाकार्षीत्, सहर्षो गन्धवारिभिः ॥ ७९ ॥ गोशीर्षचन्दनेनाङ्ग-रागं कृत्वा विशेषतः । सद्गन्धैर्विविधैः पुष्पै - भूपस्ताः पर्यपूपुजत् ॥ ८० ॥ कालागुर्वादिसद्रव्य - निष्पन्नं धूपमुत्तमम् । दग्ध्वा सुगन्धमाधन्त, गर्भागारं नरेश्वरः ॥ ८१ ॥ अखण्डैस्तन्दुलैः कुन्द-कोशसब्रह्मचारिभिः । मङ्गलानि लिलेखाष्टौ स्पष्टं तुष्टः पुरो नृपः ॥ ८२ ॥ पूजामेवं विधायोच्चैः, सन्त्यज्यार्हदवग्रहम् । दक्षिणेन जिनाचया स्तस्थौ श्रेणिकभूपतिः ॥ ८३ ॥ अवग्रहश्च सिद्धान्ते, त्रिविधो गणधारिभिः । जघन्यमध्यमोत्कृष्ट-भेदेन प्रतिपादितः ॥ ८४ ॥ षष्टिस्तप्रमाणेऽसावुत्कृष्टोऽवग्रहो मतः । जघन्यो मवहस्तस्तु ज्ञेयः शेषस्तु मध्यमः ॥ ८५ ॥ निरीक्ष्य चक्षुषा भूमिं वस्त्रान्तेन प्रमृज्य च । उत्तरासङ्गमाधन्त, पूर्ववन्नरपुङ्गवः ॥ ८६ ॥ ततो ननाम पञ्चाङ्ग – प्रणिपातेन भूपतिः । जानुद्रयं करद्वन्द्व-मुत्तमाङ्गं च पञ्चमम् ॥ ८७ ॥ ततः संवेगजनकै- रसमानगुणस्तवैः । नृपतिः स्तोतुमारेभे, त्रैलोक्याधिपति जिनम् ॥ ८८ ॥ त्वया रागोरगो नाथ, वक्रः क्रूरोऽतिदारुणः । विनंतानन्दनेनेव, सत्पक्षेण न्यहन्यत ॥ ८९ ॥ द्वे द्वेषमत्यन्त- रोषणं भीषणं भवान् । अतिप्रौढबलः स्वामिन्, महाभट इवाजयत् । ९० ॥ प्रभो मोहपिशाचोऽयं, छलान्वेषी न्यगृह्यत । त्वया सस्फुरमन्त्रेण, मान्त्रिकेणेव धीमता ॥ ९१ ॥ १ गरुडेन. For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir महाकाव्यम् सर्गः ४ ॥ ६९ ॥ Page #72 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra धन्यशाली भद्र॥ ७० ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कषाया हन्तुमारब्धा - स्त्वयाऽनन्तानुबन्धिनः । मिथ्यात्वमाश्रिताः स्वामिंस्तेनैव संह जघ्निरे ।। ९२ ।। स्वामिष्टमहाप्राति-हार्याच त्वयि राजते । कर्माष्टकक्षये शक्ति, ब्रुवाणेव तवाद्भुताम् ॥ ९३ ॥ वागेकानेकसन्देहान् देहिनां हन्ति ते विभो। भवादृशानां महिम, कः परिच्छेतुमीश्वरः ।। ९४ ।। यन्न प्रकाश्यतेऽक - वस्तृद्दामस्वधामभिः । तदप्यालोक्यते तेन, ज्ञानेन निखिलं तव ।। ९५ ।। भवन्ति हि प्रसादासे, सर्वाभीष्टार्थसिद्धयः । तत्प्रसीद ममाभीष्टं, पूर्णभद्रं कुरु द्रुतम् ॥ ९६ ॥ इत्थं स्तुत्वा जिनाधीश-मसमानगुणस्तवैः । पञ्चभिर्दण्डकैश्चैत्य-वन्दनं च प्रचक्रमे ॥ ९७ ॥ वामं जानुं समाकुञ्च्य, दक्षिणं न्यस्य भूतले । पुरो वस्त्राचलेनाय्यं, स्थगयन्त्रचिताञ्जलिः ॥ ९८ ॥ न्यस्तदृष्टिर्जनाचयां, सुव्यक्तं योगमुद्रया । शक्रस्तवमसौ भूपो, भक्त्या शक्र इवापठत् ॥९९॥ युग्मं प्रतिक्रामत्य सावीर्या - पथिकां विधिना ततः । पुनः शक्रस्तवं पूर्व - रीत्याऽपाठीनरेश्वरः ॥ १०० ॥ रोमाञ्चितवपुर्भूपो योगमुद्रादिपूर्वकं । वक्ष्यमाणक्रमेणाथ, विदधे चैत्यवन्दनाम् ॥ १ ॥ तत्राया जिनमुद्राख्या, योगमुद्राऽभिधाऽपरा । मुक्ताशुक्तिस्तृतीया तु, तिम्रो मुद्राः प्रकीर्तिताः ॥ २ ॥ शक्रस्तवे योगमुद्रा, जिनमुद्रा तु वन्दने । मुक्ताशुक्त्यभिधा मुद्रा, प्रणिधानविधौ भवेत् ॥ ३ ॥ कृपापरायणस्वान्ताः, श्रीमन्तः पूर्वसूरयः । पञ्चभिर्दण्डकैवेत्य वन्दनामेवमूचिरे ॥ ४ ॥ शक्रस्तवस्तावदिहादिदण्डक-स्तस्याभिधाने विधिरेष गीतः । भून्यस्तजानुः करसम्पुटी च स न्यस्तदृष्टिर्जिनबिम्ब एषः ५ For Private and Personal Use Only महाकाव्यम् सर्गः ४ ॥ ७० ॥ Page #73 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra धन्यशाली भद्र॥ ७१ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ततः प्रतिक्रामति साधुरीय, श्राद्धोऽपि वा यद्भणितं श्रुतेऽदः । श्रीचैत्यसाध्वालय भक्तपान - कृत्येष्विहेय, परिशोधयन्ति ।। शक्रस्तवं पठेदादौ, ततोऽभ्युत्थाय संयतः । पादयोर्जिनमुद्रांच, योगमुद्रां च हस्तयोः ॥ ७ ॥ विधाय सूत्रमाकृष्य, चैत्यवन्दनसंज्ञितम् । कायोत्सर्ग ततः कुर्यान्नमस्कारं च चिन्तयेत् ॥ ८ ॥ परमेष्ठिस्तुतिं दत्त्वा विम्वनाथस्तुतिं ततः । लोकोद्योतकरं ब्रूयात्कायोत्सर्गस्तुति ततः ॥ ९ ॥ ज्ञानस्तवं समाकृष्य, कुर्यादुत्सर्गमाहतः । चिन्तयेच नमस्कारं स्तुतिं दद्याच्छुतस्य तु ॥ १० ॥ सिद्धस्तवेsपि सर्गः, स्तुतिश्च परमेष्टिषु । वैयावृत्यकरादेश्व स्तुतिः शक्रस्तवस्तथा ॥ ११ ॥ एतेनैव प्रकारेण, पुनरावर्त्य वन्दयेत् । सर्वचैत्य यतीन्नत्वा, स्तोत्रं पठति सादरम् ॥ १२ ॥ शक्रस्तवं पुनर्भक्त्या, ततः पठति पञ्चमम् । प्रणिधानं ततः कुर्याद्भवाशंसा विवर्जितः ॥ १३ ॥ मोक्षाशंसा तु यश्नोक्ता, निदानं बोधिलाभवत् । पूर्वसूरिभिराख्याता, सामाचारीयमीदृशी ॥ १४ ॥ न निषिद्धा च गीतार्थ-राश्रिता व बहुश्रुतैः । निरवद्या ततो मान-मन्येषामपि देहिनाम् ॥ १५ ॥ फलमेतस्य सर्वस्य, मोक्ष एव न चेदसौ । स्वर्भोगाः सुकुले जातिः प्रव्रज्या मोक्ष एव तु ॥ इह लोकेऽपि चैतस्य फलमाहुर्मनीषिणः । राजतस्करवयादेर्न हानिरुपजायते ॥ १७ ॥ पूज्यः सतां मतो राज्ञां भोगी स्वामी च सम्पदाम् । पुत्रदारप्रियो नित्यं श्रेष्ठकर्मातुशीलकः ॥ १८ ॥ रं प्रमाणम् १६ ॥ For Private and Personal Use Only महाकाव्यम् सगः ४ ॥ ७१ ॥ Page #74 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धन्पशाली भद्र॥७२॥ महाकाव्यम् | सर्गः४ JB७२॥ اقفا فيفيالكافيخاف الليالي الاوفيلمبردار اور बन्दकः स्यादगारी चे-दथापि यतिपुङ्गवः । तस्यापि भूमिकौचित्या-दनुत्कलमिदं भवेत् ॥ १९॥ कृतश्रीतीर्थनाथार्चा-स्नानार्चाचैत्यवन्दनः। धन्योऽहमिति मन्वान-श्चैत्यतो निरगान्नृपः ॥ २० ॥ सपरिवारमामन्त्र्य, तदेवादरतः स्वयम् । उपाधीशदुर्वीशं. भद्रा भोजनमण्डपे ॥ २१ ॥ तत्र तावत्समानीत-मादितश्चर्वणं प्रभोः । रूप्यकच्चोलकेपूच्चैः, कृत्वा नानाविधं बहु ॥ २२ ।। नालिकेरीफलास्थूला-चिरन्तनदलोत्करान् । चारुकर्पूरसन्मिश्र-खण्डपिण्डदलावली ॥ २३ ।। पक्कदाडिमबीजानि, राजादनफलानि च । रसाढ्या मृदुमृवीकाः, काव्यमाला इवोज्ज्वलाः ॥ २४ ॥ ईदग्विधं चर्वणीय-मन्यदप्युपढौकितम् । सर्वेभ्योऽपि यथोचित्यं, ददौ तत्पृथिवीपतिः ॥ २५ ॥ सुसंस्कृतेक्षुखर्जूर-नारङ्गाम्रफलादिकम् । भूयिष्ठ श्रेष्ठिनी श्रेष्ठ, ततश्चोष्यमढौकयत् ।। २६ ॥ सा पक्वशर्करोत्पन्नं, चातुर्जातकसम्भृतम् । बुभुक्षोद्दीपनं तीक्ष्णं, ततो लेखमनाययत् ।। २७ ॥ अशोकवत्तिकासेवा-खण्डखाचकमोदकान् ।घृतपूर्णाश्च सुस्निग्धान, फेणिकाः सुकुमारिकाः॥२८॥ इत्यादिकं च पक्वान्नं, नानाभेदं प्रभूतशः । ततश्चानाययामास, श्रेष्ठिन्यौदार्यशालिनी ॥ २९ ॥ ततः सूपोदनं निस्त्वक, वरान् कलमतन्दुलान् । सद्गन्धं शारदं सपि नाशालनकानि च ॥३०॥ अनेकद्रव्यसंयोग-निष्पादितमनोहरा । उपनीता ततः पेया, परिणामविधायिनी ॥ ३१ ॥ भाजनान्यपनीतानि, ततो दक्षिणतः स्थिते । हस्तप्रक्षालनं चक्रुः, श्रेणिकाद्याः पतद्गृहे ॥ ३२ ॥ For Private and Personal Use Only Page #75 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra धन्यशाली भद्र - ॥ ७३ ॥ www.kobatirth.org ततो नानाविधा दन्ते, विच्छित्तीरतिबन्धुराः । तद्भाजने निचिक्षेप, सा शालीन्मण्डकादि च ॥ ३३ ॥ भुक्ते सत्यपनीतानि, भाजनानि पुनस्ततः । हस्तप्रक्षालनं सर्वे, पूर्ववच्चक्रिरे ततः ॥ ३४ ॥ कर्पूरशर्करामिश्र - मवित्रं श्रेष्टिनी ततः | सत्पयः पारिहहीना-मवर्त्तमुपानयत् ॥ ३५ ॥ नृपप्रभृतिसर्वेषां पीते दुग्धे सति क्षणात् । अदत्ताचमनं भद्रा, दुग्धान्तं भोजनं यतः ॥ ३६ ॥ सर्वे ते जगृहुर्दन्त-शलाकां तदनन्तरम् । ततः सुगन्धचूर्णेन, हस्तोद्वर्त्तनमादधुः ॥ ३७ ॥ साssनाय्याम्भस्ततः कोष्णं, तेषां हस्तानधावयत् । करेभ्यो धान्यदध्यादे—गन्धापगमहेतवे ॥ ३८ ॥ हस्त निर्मार्जनाहे तो — ददौ भद्राऽतिकोमलम् । गन्धकाषायिकावस्त्रं, समुत्तस्थौ नृपस्ततः ॥ ३९ ॥ विस्तीर्णे श्रेष्टिनी प्रेक्षा- मण्डपे नृपतेस्ततः । रत्नविद्योतिताशास्यं सिंहासनमदापयत् ॥ ४० ॥ चारुकर्पूरकस्तूरी— चन्दनादिविलेपनम् । पुष्पताम्बूलसंयुक्त-मानीतं भद्रया ततः ॥ ४१ ॥ ततो विदग्धनर्तक्या, गायनैर्वाद कैरपि । प्रेक्षणं कर्तुमारेभे, सुरसं गीतकोपमम् ॥ ४२ ॥ अत्रान्तरेऽवदद् भूपो, भद्रे क्वास्ति तवात्मजः । तमहं द्रष्टुमिच्छामी-क्षणानन्दक्षपाकरम् ॥ ४३ ॥ स्वामिन्नेष समायाति, शालिभद्रो ममाङ्गजः । युष्मत्पादाम्बुजं द्रष्टुमित्युदित्वा महीपतिम् ॥ ४४ ॥ एकान्तरितशोणाश्म - स्फटिकारोहणावलिम् । रक्तश्वेताम्बुज-श्रेणिं, वहन्तीमिव लम्बिनीम् ॥ ४५ ॥ १ निश्रेणिम् For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir महाकाव्यम् सर्गः ४ ॥ ७३ ॥ Page #76 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धन्यशाली भद्र॥ ७४॥ महाकाव्यम् सर्गः४ ॥ ७४॥ साकाoयापODow हावतंसशोभायै, नृपागममहोत्सवे। आरुरोहाङ्गजाहत्य, श्रेष्ठिनी षष्ठभूमिकाम्।४५॥त्रिभिर्विशेषकम् आगच्छन्ती समालोचय, शालिभद्रःखमातरम् । सम्मुखीनां समुत्तस्थौ, बिनीता हि कुलोद्भवाः ।। प्रणम्य चरणौ तस्याः, स प्रोचे रचिताञ्जलिः । मेघगम्भीरवाग्मातः, किमागमनकारणम् ।। ४७॥ चतुर्थी भूमिमागच्छ, वत्साऽतुच्छमतेऽधुना । श्रेणिकं तत्र पश्येति, जगाद जननी सुतम् ॥४८॥ समर्घ वा महार्घ वा, जानास्यम्ब त्वमेव हि । करिष्ये किमहं तत्रे-त्युवाच जननी स तु ।। ४९ ॥ शालिभद्रं ततो भद्रा, प्रत्युवाच प्रियम्बदा । क्रेतव्यं विस्तु नो किश्चि-त्तद्वत्स खस्थमानस ॥५०॥ स्वाम्यसो भवतोऽन्येषा-मप्यागात्तव मन्दिरम् । श्रेणकः सद्गुणश्रेणि-स्त्वद्दर्शनकुतृहली ॥५१॥ ततस्तद्वचनं श्रुत्वा, शालिभद्रो व्यचिन्तयत् । ममापीहाऽपरःस्वामो-त्यश्रुतं श्रूयते वचः ॥५२॥ अथवाऽकृतसम्पूर्ण-धर्माणां जन्मिनामिह । प्राप्तायां भोगसम्पत्ता-वपि स्यात्परतन्त्रता ॥ ५३ ॥ तस्मादस्मादृशां काम-भोगजम्यालसङ्गिनाम् । युक्ताऽन्यतन्त्रता गर्ता शुकराणामिवाऽवनौ ॥ ५४ ॥ अत एव महात्मानो, मुनयो भोगसम्पदः । विहाय जगृहुर्दीक्षां, सर्वदुःखक्षयावहाम् ॥ ५५॥ तमीभिरलं भौगै- गिभोगोपमैर्मम । ग्रहीष्यामि व्रतं तृर्ण, श्रीवीरस्वामिसन्निधौ ॥५६॥ एवमत्यन्तसंवेग-भावितात्मा महामनाः । स मातुरुपरोधेना-वतरीतुं प्रचक्रमे ।। ५७॥ १ जम्बालः पङ्कः For Private and Personal Use Only Page #77 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धन्यशाली भद्र॥ ७५ ॥ महाकाव्यम् सर्गः ४ ॥७५॥ लोकपालका لالالالالالالالالالا सद्यः क्लसागरागोऽसौ, वृन्दारकविलेपनैः । भव्यैर्दिव्यैरलङ्कारैः, सर्वाङ्गेषु विभूषितः ।। ५८॥ प्रधानैर्देवदृष्यैश्च, कृता कल्पप्रसाधनः । एवं परिष्कृताङ्गाभिः, पत्नीभिरभितो वृतः॥ ५९॥ शारदः किमयं चन्द्र-स्ताराभिः परिवारितः । सलीलगमनः किंवा, देवदन्ती वशान्वितः ॥ ६॥ किमु कल्पलतायुक्तो, जङ्गमः कल्पपादपः । अप्सरोभिर्वृतः शक्रः, स्वर्गादवतरत्यसौ ॥ ६१ ॥ जनयन्निति सन्देह, जनानां श्रेष्ठिनन्दनः । रूपनिर्जितकन्दर्प-श्चतुर्थो:मवातरत् ॥ ६२॥ पश्चभिाकुलकम् ॥ स्फुरत्परिमलोद्गार-वासिताशेषदिग्मुखं । सभार्य तं समायान्तं, निर्वाचिन्तयन्नृपः ॥ ६३ ॥ अहो सुचीर्णपुण्यानां, किमसाध्यं शरीरिणां। वणिग्मात्रोऽप्यसौ येना-नुकरोति सुरश्रियम् ।। ६४ ॥ ततश्चाभ्यर्णमभ्येत्य, समं चेल्लणया नृपम् । प्रणनाम सभार्योऽपि, शालिभद्रो महाभुजः ॥ ६५ ।। समालिंग्य निजोत्सने, भूपतिस्तं न्यवीविशत् । द्वात्रिंशत्तत्सर्मिण्यो, निषेदुरुपचेल्लणम् ॥६६॥ राज्ञा विस्मितचित्तेन, जल्पितोऽपि न जल्पति । किन्तु म्लनास्यपद्मोऽसौ, बाष्पापूर्णेक्षणोऽभवत्॥ ततः क्षणान्तराद्रा, प्राहैनं विमुज प्रभो । मानुष्यं माल्यगन्धादि, नैवैष सहते यतः ।। ६८ ॥ वर्णचूर्णप्रसूनानि, दिव्यानि प्रतिवासरम् । सर्व सम्पादयत्यस्य, देवभूयं गतः पिता ।। ६९॥ भुंक्त स्वामिन्नयं देव-कुरूणां फलसञ्चयम् । पानीयमपि तत्रत्यं, पिबत्यमरदौकितम् ॥ ७० ॥ १ अकल्पो धेशः For Private and Personal Use Only Page #78 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धन्यशाली महाकाव्यम् सगे:४ || ७६॥ ॥७६॥ बालाजी नाथैकदिनभुक्तानि, वस्त्राण्याभरणानि च । नोपभुक्त सपत्नीको, द्वितीयदिवसेप्यसौ ॥ ७१ ॥ ततो न क्षमते स्थातु-मयं हि सुखलालितः। प्रसद्य स्वामिनः पादा, विसृजन्त्वविलम्बितम् ॥ ७२ ।। ततश्च श्रेणिकः प्राहा-नभिज्ञा (ज्ञां) चेल्लणा (णां) धुवम् । अपूर्वः कोऽपि सत्पुण्य-महिमा हि महीयसाम् ।। ७३ ॥ अहो सत्पात्रदानस्य, कस्याप्येवमिदं फलम् । तपसो वा सुचीर्णस्य, यदेवं किङ्कराः सुराः ।। ७४ ॥ तत्त्वं वत्स समुत्तिष्ट, गच्छ स्थानं समीहितम् । आरुरोह ततः शालि-भद्रोऽसौ षष्ठभूमिकाम् ॥ ७ ॥ श्रेणिकोऽपि समुत्थाय-जगामाधस्तनीं भुवम् । ततः सलीलगमनः, कुञ्जरः पर्वतादिव ।। ७६ ।। ततो वस्त्राणि रत्नानि, हस्तिनोऽश्वान् स्थानपि । प्राभृतं ढोकयामास, भद्रा श्रेणिकभूभुजे ॥ ७७ ।। श्रेणिकं तदगृहन्तं, प्राह भद्रातिगौरवात् । न मे देव मनःस्वास्थ्य-मेवमेवोपपद्यते ॥ ७८ ।। तत्सद्योऽनुगृहाणैतदङ्गीकरणतोऽत्र मां । मन्त्रिणोऽप्यूचिरे देव, भद्राया क्रियतां वचः॥ ७९ ॥ ततस्तदुपरोधेन, मन्त्रिवाक्याच्च तन्नृपः । प्रतिजग्राह सन्तो हि, स्युर्दाक्षिण्यपरायणाः ।। ८० ॥ ततः सेचनकारूढः, समं चेल्लणया नृपः । अमात्यादिपरिवारो, जगाम निजमन्दिरम् ॥ ८१ ॥ भद्रा सनोपयामास, हडशोभांशुकादिकम् । चातुरी परमैषा हि, यत्कालोचितकारिता ॥ ८२॥ यावच्छ्रेष्ठिसुतस्तस्थो, भागतृष्णापराङ्मुखः। तावत्कल्याणमित्रेणा-भाष्यतागत्य केनचित् ।। ८३ ।। समुद्र इव गम्भीरो, गुरुसत्त्वसमन्वितः । सुमेरुरिव मध्यस्थः, स्थैर्यवान् विषुधप्रियः ॥ ८४ । Meaneminine For Private and Personal Use Only Page #79 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra धन्यशाली भद्र॥ ७७ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अहः पतिरिवौजखी, विध्वंसिततमस्ततिः । शरच्चन्द्र इवामन्दा – नन्दसन्दोहवर्द्धनः ॥ ८५ ॥ गन्धहस्तीव विक्षिप्त - परवादिमतङ्गजः । मृगेन्द्र इव दुर्धर्षो ऽन्येषां प्रौढपराक्रमः ।। ८६ ।। राजहंस इवात्यन्त - शुद्धपक्षद्वयोदयः । पुंस्कोकिल इव श्रोतृ-श्रवः सुखकरध्वनिः ॥ ८७ ॥ महापृथ्वीपतिरिव, प्रधानविपुलक्षमः । प्रावृड्धाराधर इव, निर्वापितमहीतलः ॥ ८८ ॥ मेघनिर्घोषगम्भीर – घोषोत् घोरतपोनिधिः । धर्मघोषोऽभिधानेन, सूरिः सूरिगुणोत्तरः ॥ ८९ ॥ साधुकल्पविहारेण, विहरन्नाययाविह । अवातरच सोऽचैव चैत्ये गुगशिलाभिधे ॥ ९० ॥ सप्तभिःकुलकम् || सान्तःपुरपरीवारः, समं नागरिकैरपि । निर्ययौ श्रेणिकस्तस्य, वन्दनार्थं महीपतिः ॥ ९१ ॥ तदाकर्ण्याशु सानन्दः, स्यन्दनं श्रेष्ठिनन्दनः । आरुह्य सपरीवारो, निर्ययावार्यचर्यया ॥ ९२ ॥ श्रेणिको नागराः श्रेष्ठि-नन्दनो भक्तिनिर्भरम् । दत्त्वा प्रदिक्षणास्तिस्रः, सूरिपादान् ववन्दिरे ॥ ९३ ॥ सूरिः श्रीधर्मघोषोऽपि चक्रिशक्रशिवश्रियाम् । कारणं सर्वजन्तुभ्यो, धर्मलाभाशिषं ददौ ॥ ९४ ॥ यथास्थानोपविष्टेषु सर्वेषु मुनिपुङ्गवः । देशनां कर्त्तुमारेभे भवनिर्वेदकारिणीम् ॥ ९५ ॥ कोटिं वराटिकाहेतोः कोऽपि हारयते यथा । वैडूर्याख्यं महारत्नं, भिन्द्यात्सूत्रकृते कुधीः ।। ९६ ॥ लोहार्थमथवा नावं, स्फोटयत्यबुधोऽम्बुधौ । गोशीर्षचन्दनं भस्म कृते मुग्धा दहत्यलम् ॥ ९७ ॥ कर्पूरकाननं छिन्द्यात्कोद्रवावृतिहेतवे । धूतं जात्यसुवर्ण च पूत्कृत्य गमयत्यधीः ॥ ९८ ॥ For Private and Personal Use Only महाकाव्यम् सर्गः ४ || 99 || Page #80 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धम्यशाली ॥ ७८॥ एवं मानुष्यकं जन्म, धर्मसाधनसंयुतम् । असारविषयासक्ता, मा नाशयत मानवाः ॥ ९९।। महाकाव्यम् विज्ञायावसरं श्रेष्टि-सुतः संवेगवानसौ । अपृच्छन्मुनिनेतारं, प्रस्तावज्ञा हि धीधनाः ॥२०॥ स्वामिन्नान्यः कथं स्वामी, भवत्यत्र परत्र च । धनिनामपि नृणां हि, दुःखाय परतन्त्रता ॥२०१।। सर्गः४ J5 || ७८॥ जगदुः सूरयो धर्म-घोषास्तं श्रेष्ठिनन्दनम् । इहामुत्र न तेषां स्युः, स्वामिनः प्रव्रजन्ति ये ॥२०२।। प्रत्युत स्वामिभावं ते, लभन्ते सर्वदेव हि । सुरासुरनरेद्राणां, सेव्यन्ते तैश्च सादरम् ।।२०३।। यद्येवमहमप्यम्यां, गत्वा स्वं भगवन् गृहम् । अनुज्ञाप्य ग्रहीष्यामि, प्रवज्यामिति सोऽवदत् ॥२०४।। प्रमादो न विधातव्यः, कर्तव्यः शीघमुद्यमः । इत्युक्तं सूरिणा येन, धर्मस्य त्वरिता गतिः ॥२०॥ व्याख्यावसाने नरपुङ्गवाद्याः, प्रणम्य सूरेश्चरणारविन्दम् । श्रीजैनधर्मश्रवणप्रमोदा-दपूर्णचित्ता निजधाम जग्मुः।।२०६॥ इति श्रीधन्यशालिभद्रमहर्षिचरिते श्रीराजगृहे रत्नकम्बलवाणिजकागमनादिशालिभद्रगृहश्रीश्रेणिकसमागमनकर्णकटुकान्यस्वाम्याकर्णनाविर्भूतभावनानन्तरकल्याणमित्रनिवेदितागमन श्रीधर्मघोषाचार्यसमीपधर्म श्रवणपर्यन्त शालिभद्रवृत्तान्त व्यावर्णनो नाम चतुर्थः परिच्छेदः For Private and Personal Use Only Page #81 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagersuri Gyanmandi पहाकाव्यम् धन्यशाली JE -अथ श्रीपञ्चमो परिच्छेदः प्रारभ्यते| अथ श्रीश्रेष्ठितनयः, प्रणम्योचे स्वमातरम् । अद्य श्रीधर्मघोषाख्य-मुनीश्वरमुखाम्बुजात् ॥२॥ ॥७९॥ सगः | धम्मो निश्शेषदुःखौघा-कुरपूरानलोपमः । निर्वाणसुखलाभस्यो-पायभूतः श्रुतो मया ॥२॥ युग्मम्॥ BET॥७९॥ स मह्यमरुचद्वाद, मातः! श्रीमूरिणोदितः । शर्कराघृतसम्मिश्र, क्षुधितायेव पायसम् ॥ ३॥ भद्राह वत्स तद्वं, यच्छतो रुचितश्च ते । धर्मोऽसावाहतो यस्मा-पितुस्तस्यासि नन्दनः ॥ ४ ॥ इल्याकर्णितधर्माण, शालिभद्रं निजागजम् । प्रशशंसेति भद्राऽपि, प्रमोदभरपूरिता ॥५॥ यद्येवं तहि मातस्त्वं, प्रसद्यानुमनुष्व माम् । गृहीत्वाऽहं परिव्रज्यां, विधास्याम्यात्मनो हितम् ॥ ६॥ आकर्ण्य कर्णकटुकं, वचः सूनोजनन्यथ । मूर्छया न्यपतद् भूमौ, सर्वाङ्गप्वपि निस्सहा ॥ ७ ॥ ततः शीताम्धुना सिक्ता, व्यजनेन च वीजिता । सा लब्ध्वा चेतनामा शु, सुदीनवदनाम्धुजा ॥८॥ बाष्पविन्दन्विमुञ्चन्ती, व्याहरद्गद्गादाक्षरम् । त्वमेको दुर्लभः सूनु-र्ममोन्दुम्बरपुष्पवत् ।'९॥ ततो यावदहं वत्स, करोमि प्राणधारणम् । मा गृहाण व्रतं ताव-दिति माताऽब्रवीत्सुतम् ॥१०॥ पुत्रः-पक्काम्रफलवद्याति, जीवितं जन्मिनामतः । न ज्ञायतेऽत्र कः पूर्व, को वा पश्चाविपद्यते ॥११॥ माता-सुरूपमरुजं तेऽङ्ग, लक्षितं च सुलक्षणैः । तद्वत्स लालयापूर्व- गाजैर्देवताहतैः ॥ १२ ॥ पुत्रः-अम्बाशुचिरयं कायः, शुच्यपीहांशुकादिकम् । दूषयत्यम्बु जीमूता-द्भवमूषरभूरिव ॥ १३ ॥ For Private and Personal Use Only Page #82 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra धन्यशाली भद्र॥ ८० ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अकस्मादापतत्यस्मिन् शरीरे रोगसन्ततिः। सरंघासन्ततिस्तीक्ष्णा, यथा स्वमधुमण्डपे ॥ १४ ॥ अपकघटवारीव, न विश्रम्भस्य भाजनम् । अत्यन्तासारतापेतं, शरीरं देहिनामदः ॥ १५ ॥ प्रतिबन्धस्तदत्राम्ब, क्रियते को विवेकिभिः । केवलं धर्म आधातुं, युज्यते तेन मुक्तिदः ।। १६ ।। माता - द्वात्रिंशतानुरक्ताभिः प्रेयसीभिरनिन्दितान् । भुङ्क्ष्व भोगान्युवा यावत्तावद्वत्स गृहस्थितः ॥ १७ ॥ पुत्रः - अम्बाशुचिसमुत्थेषु पर्यन्ते दारुणेषु च I को भोगेषु रतिं कुर्या - नरकासुखहेतुषु ॥ १८ ॥ माता – दुर्वर्णस्वर्णमाणिक्य - कांस्यदृष्यादिकोऽस्ति ते । आसप्तमकुलं यावदर्थो दानादिषु क्षमः ॥ १९ ॥ इच्छदभ्यो वाञ्छितं वत्स, यच्छातुच्छं महेच्छ तम् । यथारुचि विधेहि त्वं विलासांस्तेन चाभुतान् ॥ २० ॥ पुत्रः --- राजतस्करदायादा, मृत्युवैश्वानरादयः 1 सन्त्यस्य वैरिणस्तस्मात्कोऽर्थे मातर्विमुह्यति ॥ २१ ॥ माता - बाहुभ्यामतिगम्भीर -स्तरणीयो महार्णवः । अत्युग्रखड्गधारायां, गन्तव्यं चाप्रमादतः | प्रतिस्रोतः पथेनेह, तरीतव्याऽमरापगा 1 एकाकिना विजेतव्य-मजय्यारिबलं हठात् । राधावेधो विधातव्यो, पुत्र ग्राह्यातिदुर्ग्रहा 1 इत्येवमादिदृष्टान्ते--यतीनां दुष्करं व्रतम् ॥ २५ ॥ १ मक्षिकाश्रेणिः २ नरकदुःखकारणेषु ३ दुर्वर्ण रूप्यम् ४ पेया ५ अग्निज्वालाश्रेणिः ६ गङ्गा ७ देवगिरिः मेरु ८ एकाग्रचित्तेन 1 वोलुकाकवलास्वाद- धर्वगीयो निरन्तरम् ॥ २२ ॥ पांतच्या लीलया वत्स, वैश्वानरशिखावली ॥ २३ ॥ तुलया तोलनीयश्च, सुमनोधरणीधरः यत्नेनानन्यचेतसा ॥ २५ ॥ ॥ २४ ॥ जगज्जयपताकेह, For Private and Personal Use Only महाकाव्यम् सर्ग: ५ ।। ८० ।। Page #83 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धन्यशाली महाकाव्यम् सगे:५ ॥८१॥ ॥ यतः-महाव्रतानि तुगानि, वोढव्यानि निरन्तरम् । पश्च मेरुपमान्यत्र, नृक्षेत्रेणेव, साधुना ॥ २६ ॥ रजनीभोजनत्याग-व्रतं षष्ठमपि स्फुटम् । मानुषोत्तरवत्तेन, धार्य तेषां वृ(व)तेः समम् ॥ २७॥ तथा संयमदेहस्य, मातृवद्वत्स वत्सलाः । पालनीयाः सदेवास्मिन् , बादं समितिगुप्तयः ॥ २८॥ निर्ममत्वं स्वदेहेऽपि, कर्त्तव्यमिह संततं । सर्वदा स्वपनं भूमो, यावजीवममन्जनम् ॥ २९ ॥ द्विचत्वारिंशता भिक्षा-दोषैः शश्वदक्षितः। प्राणयात्रनिमित्तं च, ग्राह्यः पिण्डोऽपि साधुभिः।। कदाचित्याप्यते सोपि, कदाचित्परमन्दिरे । न प्राप्यते ततश्चेतो-म्लानिः कार्या कदापि न ॥३१॥ केशोद्धरणमाधेयं, मासाद्याः प्रतिमास्तथा । षष्ठाष्टमादिकं कार्य, तपश्चात्रातिदुष्करम् ॥ ३२ ॥ इति दुष्करता वत्स, व्रतस्य प्रतिपादिता । जिनाधीऔरती धम्मै, गृहस्थोचितमाचर ॥ ३३ ॥ पुत्रः-कातराणामिदं मातदुष्करं सर्वमेव हि । निःस्पृहाणां निजाङ्गेऽपि, धैर्योद्यमवतां न तु ॥ ३४॥ तथा-समुत्तुङ्गतया ताव-द्रारोहः सुराचलः । गुरुतागाधताभ्यां च, दुर्लङ्घयस्तावदम्बुधिः ॥ ३५ ॥ तावन्मातुमिदं व्योम, विस्तीर्णत्वान्न शक्यते । पार्यते तावदेवाप्तुं, पर्यन्तो नावनेरपि ॥ ३६ ॥ दुर्भदस्तावदेवात्र, कर्मग्रन्धिरपि स्फुटं । यावन्नारभ्यते धीरे-नरैरक्षोभ्यमानसः ॥ ३७॥ तस्माद् व्रतविधौ मात-नुष्करत्वं न मे हृदि । धैर्यावलम्यननोचैः, किमपि प्रतिभासते ॥ ३८ ॥ तन्मातरनुजानीहि, मामितो व्रतहेतवे । भवावासाद्विभेम्यस्मिं, पावकादिव केसरी ॥ ३९ ॥ १ अहम् مقاليد الاستقبالیحاتناوال For Private and Personal Use Only Page #84 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir महाकाव्यम् धन्यशाली भद्र।।८२॥ ॥ २॥ انشالليالطلبات العالمي للاولادونجور माता-यद्यप्येवमिदं वत्स, तथापि परिकर्मणां । विधेहि स्वशरीरस्य, भोगापरिहारतः॥४०॥ सुकुमारशरीरोऽभू-प्रकृत्यैव यतो भवान् । प्रकृष्टदेवभोगाडै लालितश्च विशेषतः ॥४१॥ अतो देवाहृतान् गन्ध-माल्यभोज्यादिकांस्त्यज । मनुजानां सहस्वैतां-स्तथा सम्बोधय प्रियाः ॥४२॥ पुरान्तर्वर्तिचैत्यानि, पूजय प्रतिवासरं । सत्साधुवन्दनाहेतो-व्रज त्वं तदुपाश्रयम् ।। ४३ ।। सामायिकाद्यनुष्ठानं यथावसरमाचर । एवमभ्यासतो वत्स, प्रव्रज्या सुकरा तव ॥ ४४ ॥ विनयी शालिभद्रोऽपि, प्रतिशुश्राव तद्वचः। न कदापि वचो मातुलैवयन्ति हि सत्सुताः॥ ४५ ॥ अथासौ कर्तुमारेभे, वपुषः परिकर्मणां । तत्याज त्रिदशाहार-गन्धमाल्यादि सर्वथा ॥ ४६॥ मनुष्याहारभोगादि-परिकर्मणि चिन्तिते । प्रणम्य पितरं भक्त्या, विससज प्रमोदभाक।। ४७॥ मर्त्यसम्बन्धिभोगाङ्ग-परिमाणमसौ व्यधात् । द्वात्रिंशतश्च तूलीना-मेकैकां मुमुचेऽन्वहम् ॥ ४८ ॥ शालिभद्रोऽन्यदा सिंहा-सना सीनो निजाः प्रियाः। आहूय प्रावदत्सर्वाः, सुधामधुरया गिरा ॥४९॥ भो भोः पद्मावतीमुख्याः, श्रूयतां कुलबालिकाः । क्षणं चावहितीभूय, मदीयं वचनं स्फुटम् ॥५०॥ विनयेनाञ्जलिं वध्ध्वा, ततस्ता इदमूचिरे । अस्मानाज्ञापयत्वार्यपुत्रः प्रीतिकरः सताम् ॥ ५१॥ ततः श्रीशालिभद्रोऽपि, प्रोचे प्राज्ञशिरोमणिः। संसारे प्राणिनः प्रायः सर्वऽपि विषयैषिणः ॥६॥ १ सावधानाः भूत्वा انميات للعالم الثالث الثاننللطة التالشلل العام الحالا For Private and Personal Use Only Page #85 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra धन्यशाली भद्र॥ ८३ ॥ www.kobatirth.org विषयाश्च भवन्त्यत्र, धनेन हृदयेशिताः । धनं च प्रप्यते प्रायः पापारम्भपरिग्रहैः ।। ५३ ।। कर्मबन्धः पुनस्तेभ्यो भवेत्संसारकारणम् । तत्र चानन्तदुःखानि नरकादिषु देहिनाम् ॥ ५४ ॥ भार्यास्ततो रदज्योत्स्ना - धवलीकृतदिङ्मुखाः । भर्तुर्वचोऽमृतातृप्ता, विहस्येषद्वभाषिरे ॥ ५५ ॥ आर्यपुत्र विनारम्भं, भोगाः सन्त्यद्भुतास्तव । यत्पिता पूरयत्येतान् पुण्याद्देवत्वमाश्रितः ।। ५६ ।। ततो नाथ कथं कर्म-बन्धस्ते सम्भविष्यति । तद्भावे च दुःखानि, भविष्यन्ति कथं ननु ॥ ५७ ॥ शालिभद्रोप्युवाचैव-माभियोगिककर्मणः । बन्धः स्याद्देवतानीतं भुञ्जानस्य ममानिशम् ॥ ५८ ॥ विषयाः खत एबैते, मानसोन्मादहेतवः । पातयन्ति ध्रुवं जन्तून् भीषणे नरकावटे ।। ५९ ।। अत एव विहाय विषयानष्टौ चक्रिणः सीरिणो व्रतम् । गृहीत्वा लेभिरे मोक्षं, द्वौ चैकश्व सुरालयम् सुन्दर्यस्तदलं भोगैः, परंप्रेष्यत्वहेतुभिः । आदास्येऽहं परिव्रज्यां येनान्यः स्यान्न मे प्रभुः ॥ ६१ ॥ युष्मासु याश्च सभ्रूणा, बालवत्साश्च या पुनः । देशतस्ता गृहे धर्म-मम्यापार्श्वे प्रकुर्वताम् ॥ ६२ ॥ तिष्ठत्येव गृहे प्राज्यं धनमासप्तसन्ततेः । दानभोगक्षमं तेन कुर्वीध्वं हितमात्मनः ॥ ६३ ॥ अन्याः पुनर्मया सार्द्ध — मङ्गीकुर्वन्तु सद्व्रतम् । धर्मो ह्ययं कुलश्रीणां यत्प्रेयाननुगम्यते ॥ ६४ ॥ इत्यञ्जसा यथौचित्यं सम्बोध्ध सकलाः प्रियाः । एकैकाममुचद्भार्या, शालिभद्रो दिने दिने ॥ ६५ ॥ अथ राजगृहक्रीडा - शैलवैभारभूषणे । श्रीमद्गुणशिलोद्याने, श्रीवीरः समवासरत् ॥ ६६ ॥ १ दासत्वकारणः २ सगर्भाः For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir महाकाव्यम् सर्गः ५ ॥ ८३ ॥ Page #86 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra धन्यशाली भद्र ॥ ८४ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir माणिक्यस्वर्णदुर्वर्णव प्रत्रयविराजितम् । देवैराधायि समय- सरणं तत्र तादृशम् ॥ ६७ ॥ प्राचीनद्वारमार्गेण, प्रविश्येह प्रदक्षिणाम् । दत्वा चोपाविशत्सिंहासनं श्रीवीरतीर्थकृत् ॥ ६८ ॥ अत्रान्तरे समागत्यो — द्यानपालेन भूपतिः । विज्ञप्तस्तीर्थनाथस्या- गमनेन प्रमोदिना ॥ ६९ ॥ वित्तीयद्यानपालाय, भूपतिः परितोषिकं । चचाल सपरिवार - स्तीर्थनाथमुपासितुम् ॥ ७० ॥ अन्येऽपि सचिवश्रेष्ठि – प्रमुखाः पुरवासिनः । जिनेन्द्रं वन्दितुं चेलु- र्यथा राजा तथा प्रजाः ७१ इतभ्याङ्गजो धन्यः, शालिभद्रस्वसुः पतिः । ज्येष्ठाया सुन्दरीनाग्न्या, जामाता भूपतेरपि ॥७२ || जगाद सुन्दरीं स्नानसामग्रीं कुरु मे प्रिये । गच्छामो वन्दितुं येन श्रीवीरजिननायकम् ॥ ७३ ॥ युग्मम् ॥ सम्पाद्य नानसामग्री, समग्रामपि सुन्दरी । अभ्यङ्गं कर्तुमारेभे, धन्यस्य स्वयमेव सा ॥ ७४ ॥ लक्षपाकादिना तैले-नाभ्यां मृदुपाणिका । सा यावत्पृष्ठिदेशेऽस्य, विधत्ते स्मातियत्नतः ॥ ७५ ॥ तावन्निपेतुरक्षिभ्यां कवोष्णा बिन्दवोऽम्बुनः । ततो निरूपयामासो- परिष्टादिभ्यनन्दनः ॥ ७६ ॥ हा प्रिये किमिदं कोऽपि, किमाज्ञां कुरुते न ते । किम्वा त्वां विप्रियं कोऽपि, ब्रूते परिजनादि हि (बु) मात्रा स्वस्रा च जामेय्या, यद्युक्ता परुषं प्रिये । तत्क्षन्तव्यं त्वयैवेह, लोकस्यैषा स्थितिर्यतः ७८ इत्युक्ते तेन साऽवोच - नाथ मे कुरुते वचः । परीवारजनः सर्वो, न मां कोऽप्यपभाषते ॥ ७९ ॥ १ दुर्वर्णरूप्यम् २ ददर्श २ भगिनी पुत्र्या For Private and Personal Use Only महाकाव्यम् सर्ग: ५ ॥ ८४ ॥ Page #87 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra धन्यशाली भद्र॥ ८५ ॥ www.kobatirth.org किन्त्वेक एव हि भ्राता, शालिभद्राऽभिधोऽस्ति मे । एकैकतूलिकात्यागं करोति व्रतवाञ्छया ||८०|| आगते तु महावीरे, सम्प्रत्यादास्यते व्रतम् । इति हेतोरभूदश्रुपातो मे जीवितेश्वर ।। ८१ । तथा नाथ कियन्तोऽन्ये, सन्तीह भ्रातरो मम । येषामनुभविष्यामि, शोभोत्कर्ष क्षणांदिषु ॥ ८२ ॥ ततश्चेभ्याङ्गजः प्राह यद्येवं तर्हि मा प्रिये । कुरुष्व त्वं मनःखेदं भ्राता कापुरुषस्तव ॥ ८३ ॥ एकैकतूलिकां मुञ्चन् कथमादास्यते व्रतम् । सत्पुरुषाः शुभे कार्ये, न क्षिपन्त्यपि हि क्षणम् ॥ ८४ ॥ इति स्वभर्तुर्वचनं, सा निशम्य सनर्मकं । अभाषातेर्ष्यया नाथ, सत्पुरुषस्त्वमेव हि ॥ ८५ ॥ यस्त्वमेकपदेनैव परित्यज्याखिलां श्रियम् । सनत्कुमारचक्रीव, व्रतमङ्गीकरिष्यसि ॥ ८६ ॥ अन्ये अपि धर्मिण्या - वूचतुर्नर्मपूर्वकम् । भद्रं भद्राङ्गजा छूते, स्वामिन् भद्राभिलाषिणी ॥ ८७ ॥ सुतनु स्नापय क्षिप्रं येन श्रीवीरसन्निधौ । पश्यथ प्रव्रजन्तं मां त्यक्ताशेषपरिग्रहम् ॥ ८८ ॥ इयत्कालं भवत्यो मे, व्रताग्रहणहेतवः । भवतीष्वनुकूलासु, सुग्रहं व्रतमय मे ॥ ८९ ॥ इति पत्युर्वचः श्रुत्वा, ताः प्रोचुर्गतसम्मंदाः । स्वामिंस्त्वयि परिहास, एषोऽस्माभिर्व्यधीयत ॥ ९० ॥ परिहासगिरां स्वामिन्, कियदन्तं गमिष्यसि । न दृष्टः परिहासो हि, स्वभत्र सह योषिताम् ॥९१॥ तन्नाथास्मान् श्रियश्चैवं, मा त्याक्षीर्नित्यलालिताः । भवतोऽप्याश्रितत्यागे, भविष्यत्यगशो महत् ॥ १ उत्सवादिषु २ सोपहासम् ३ गतहर्षाः For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir महाकाव्यम् सर्ग: ५ ॥ ८५ ॥ Page #88 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra धन्यशाली भद्र॥ ८६ ॥ www.kobatirth.org ततस्ताः प्रत्युवाचैवं, श्रीमानिभ्याङ्गजः सुधीः । सुन्दर्यः श्रूयतां वाक्यं, सुस्थीभूय क्षणं मम ॥ ९३ ॥ युष्मन्नर्मवचोऽप्येत - तत्त्वमित्यहमात्तवान् । औषधं हि तदेवेह, येन व्याधिः प्रशाम्यति ॥ ९४ ॥ तथा स्त्रियः श्रचापि विद्युतोऽपि हि चञ्चलाः । यद्यात्मना न मुच्यन्ते मुच्यते च तदा स्वयम् तदेतासां परित्यागा - दीक्षां निर्वाणकारिणीम् । आददानस्य कीदृग्मे — शो हन्त भविष्यति ।। कल्मषस्यैकमित्राणि, श्रेयश्चैकवैरिणः, दुर्गतेश्चैकवर्त्तन्यैः । कामभोगा इमे ध्रुवम् ॥ ९६ ॥ विहाय तदमून पापां - रिछत्वा मोहमहातरुम् । क्लेशजालमहाव्याधि- परमौषधसन्निभान् ॥९७॥ श्रयध्वमधुना सार्द्धं, मया यूयं महाव्रतान् । कुलधर्मः कुलास्त्रीणां पतिवृत्तानुवर्त्तनम् ||१८|| युग्मं ॥ पीत्वा पतिमुखाम्भोजा - इचो मधुरसं शुभं । तुतुषुर्म जुलालायाः, प्रियाभूङ्गाङ्गना इव ॥ २९ ॥ मूर्द्धन्यञ्जलिसंश्लेष, कृत्वोदुर्विनयेन ताः । आज्ञां स्वामिन्विधास्यामो भवदीयामसंशयम् ॥१००॥ सम्बोध्येति प्रियाः स्नात्वा कृतकौतुकमङ्गलः । रथं सज्जं विधत्तेत्यादिदेशासौ नियुक्तकान् ॥ १ ॥ तदैव शालिभद्राय, सन्दिदेश निजैर्नरैः । वैभारभूधरे धन्य-चैत्ये गुणशिलाभिधे ॥ २ ॥ श्री वीरचरणाम्भोजं, वन्दितुं प्रचलत्यसौ । अधिरुह्य रथं शीघ्रं तत्त्वमागच्छ सम्प्रति ||३|| युग्मम् || ततो धन्यः समारूढो, रथं श्वेततुरङ्गमम् । सौम्यमूर्त्तिश्चचालाथ, साक्षादिव कलानिधिः ॥ ४ ॥ शालिभद्रः स्फुरत्तेजा, नीलाइवैरुपशोभितम् । चारुस्यन्दनमारुह्य चचलार्कश्रियं दधत् ॥ ५ ॥ पापस्य २ वर्तनी मार्गः For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir महाकाव्यम् सर्ग: ५ ॥ ८६ ॥ Page #89 -------------------------------------------------------------------------- ________________ Acharya Shri Kailassagarsuri Gyanmandit Shri Mahavir Jain Aradhana Kendra www.kobatirth.org धन्यशाली भद्र महाकाव्यम् सर्गः ५ ॥८७॥ नृपतिर्मन्त्रिसामन्त-श्रेष्ठिप्रमुखनागरैः । युक्तो नानाविधप्राज्य-यानारूढश्चलन् पथि ॥ ६ ॥ छत्रत्रितयमालोक्य, पुरो जिनवरोपरि । त्रैलोक्योपरिवर्तित्वं, प्रख्यापयदिव प्रभोः॥७॥ मुमुदे सपरीवारो, यानेभ्योऽवततार च । क्रमेण प्राप समव-मृतिद्वारं नरेश्वरः ॥८॥त्रिभिर्विशेषकम् कृपाणं तत्र तत्याज, पादुके छत्रमुन्नतम् । नृपश्चामरयोईन्वं, किरीटं चोत्तमाङ्गतः ॥ ९॥ पविशन्नुत्तरद्वारा, समालोके जगत्प्रभोः । स्वमूर्द्धन्यञ्जलिं बध्ध्वा, ननाम नरपुङ्गवः ॥ १० ॥ ततः प्रदक्षिणां दत्त्वा, प्रणम्य जगदीश्वरं । निषसाद नृपः पूर्वोत्तरस्यां दिशि भूतले ॥ ११ ॥ अन्येऽपीन्द्रादयः सर्वे, यथास्थानमुपाविशन् । ज्योत्स्ना प्रिया इवास्येन्दु, वीक्षमाणा जिनेशितुः १२ अथ योजनगामिन्या, वाण्या सर्वाङ्गितुल्यया । पीयूवमिव वर्षन्त्या, प्रारेभे देशनां प्रभुः॥ १३ ॥ एकेन्द्रियादिजीवेषु, भ्रमतामिह देहिनाम् । अनन्तं कालमश्रान्तं, नरत्वमतिदुर्लभम् ।। १४ ॥ मनुजत्वेऽपि सम्प्राप्ते, क्षेत्रमार्य सुदुर्लभम् । जन्नना यदलङ्कार्य-मार्यवयर्जिनादिभिः ॥ ९५॥ आर्यक्षेत्रसमुत्पत्ता-वपि जातिर्दुरासदा । महाप्रभावरत्नानां क्षिप्तौ वानिरिवोत्तमा ॥ १६ ॥ जातावपि कुलं श्रेयः श्रेयोयोग्यं सुदुर्लभम् । जगद्वित्तेन येनास्याः सोरभं यात्यवन्द्यताम् ॥ १७॥ कुलेप्यक्षतपश्चाक्ष-भावः पुण्यैरवाप्यते । यत्राकृतिर्गुणास्तत्रे-त्युक्तः सदगुणमन्दिरम् ॥१८॥ १ चकोराः २ उत्तमम् ३ धर्मयोग्यम् ४ जाते. For Private and Personal Use Only Page #90 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धन्यशाली भद्र॥८८॥ महाकाव्यम् सर्ग:५ ||८८॥ पञ्चाक्षत्वेऽपि चारोग्यं, दुरापं जनताप्रियम् । तदिना सर्वसामग्री, चतुर्वर्गेऽपि निःफलाः ।। १९ ।। आरोग्येऽपि प्रियं सर्वप्राणिनामायुरेव हि । जीवितव्य कृते जन्तु-र्यद्राज्यमपि मुश्चति ॥ २० ॥ दीर्धेऽप्यायुषि सद्धर्म-बुद्धिः शुद्धा गवेव्यते । तया विना यदज्ञान-कष्टं सर्वा अपि क्रियाः२१॥ धर्मवुद्धावपि श्लाघ्या, सद्गुरोर्वचनश्रुतिः सा तां विना निर्लवण-रसवत्लादिसोदरा ॥ २२ ॥ आप्तवाक्यमपि श्रुत्वा-ऽवग्रहस्तत्त्वगोचरः । श्रेयान् यतो विपर्यासो, जायते विपदे नृणाम् ।। २३ ॥ अवग्रहेऽपि या श्रद्धा, तत्त्वनिश्चयगोचरा । संसारदुःखविच्छेदे, निदानं सैव देहिनाम् ।। २४ ।। ज्ञात्वा श्रद्धाय तत्त्वानि, संयमः समनुष्ठितः । अक्षेपमोक्षदः पुंसां, सामग्येषा शुभश्रियाम् ॥२५॥ यथोत्तरं सुदुःयापा, दृष्टान्तै-चोल्लकादिभिः । प्राप्ता भवद्भिरप्येषा, सफलीक्रियतां ततः ।। २६ ।। श्रुत्वा श्रीमन्महावीर-स्वामिनो देशनागिरः। तुतुषुः पीतपीयूषा, इव सर्वे सभासदः ॥ २७ ।। अथाभ्युत्थाय सर्वेऽपि, प्रणम्य जगतां गुरुम् । कृतकृत्या इवाविक्ष-नगरं श्रेणिकादयः॥ २८ ॥ नत्वोचतुर्जिनाधिश-मिभ्यगोभद्रनन्दनौ । धर्मोऽयमरुचन्नाथो-पदिष्टोऽतिशयेन नौ ।। २९ ॥ तद्यावद्वेश्मनः स्वास्थ्य, कुर्वश्चेत्यादिसत्क्रियाम् । तावदङ्गीकरिष्याव:, संयम युज्मदन्तिके।। ३०॥ भगवांस्तावुवाचवं, युक्तं भव्याङ्गिनामदः । भो भद्रौन विधातव्या, प्रतिबन्धो गृहादिषु ॥ ३१॥ १ चतुर्धर्गा इति प्रत्यन्तरे نما ستفحالمقالالالالالالالالالاالل ه For Private and Personal Use Only Page #91 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandir धन्यशाली भद्र॥ ८९॥ ل يه महाकाव्यम् सर्गः ५ ॥ ८९॥ يعني لو أن العالم العارفنا الكنعانية فنان لنفتاليا والقنا الله ततस्तौ स्वगृहे गत्वा, रथयात्रापुरस्सरम् । व्यधत्तां जिनचेत्येषु, पूजामष्टाहिकादिकाम् ॥ ३२ ॥ नियुचाते स्म चैत्यानां, निश्रासु प्रचुरं धनम् । सुश्रावकान् समाहय, तेषां प्रत्यक्षमेव हि।।३३।। ददतुः श्रावकेभ्योऽपि वाञ्छिताभ्यधिकं धनम् । सुस्थचित्ता यथा तेऽपि, चैत्यचिन्तां प्रकुर्वते॥ साधारणं दशक्षेच्या-स्तेषामायत्तमेव हि । चक्रतुर्वसुभूयिष्ठं, शासनोन्नतिहेतवे ॥ ३५ ॥ गत्वोद्यानवनं नत्वा, स्वयमेवातिभक्तितः । स्वामिनो गृहचैत्यानि, वन्दध्वमिति सादरम्।। ३६ ॥ आहूय सपरिवारान् , समस्तान्गणधारिणः । समग्रार्यायुतां चार्य-चन्दनां निजसद्मनि ॥ ३७॥ चतुर्विधेन भक्तन, प्रासुकेनोत्तमेन तौ । प्रतिलम्भयतः स्मोच्चै-वस्त्रैः पात्रश्च कम्बलैः ॥ ३८ ॥ तदा तत्र समाइय, श्रावकान् श्राविका अपि । पूजयामासतुः प्राज्य-स्ताम्बूलवसनादिभिः ॥३९॥ पटहाघोषणापूर्व, दीनादिभ्योऽपि सर्वतः । उचितं वस्त्रभोज्यादि, दापितं चामुकम्पया ॥ ४०॥ अमारिघोषणापूर्व, प्रकृतिभ्योऽपि भोजनम् । अष्टाहिकादिनेबूच्चै-जीवघातनिवृत्तये ।। ४१ ॥ अन्यतीर्थिकलिङ्गिभ्योऽप्यन्नाच्छादनमात्रकम् । माध्यस्थ्यसूचकं दत्तं, शासनोन्नतिहेतवे ॥ ४२ ॥ यतस्तेभ्योऽधिकं दत्तं, मिथ्यात्वस्याभिवृद्धये । क्षीरदानमिवाहिन्यो, लोकापकृतये भवेत्॥ ४३ ।। राजानं सपरीवारं, बहुमानपुरस्सरम् । स्ववन्धून् पुरलोकांश्च, समाष्टय शुभे दिने ॥ ४४ ॥ सहस्रनरवोढव्ये, पताकावलिसकुले । मनोज्ञरूपकाकीर्णे, विस्तीर्णे बरवेदिके ॥ ४५ ॥ For Private and Personal Use Only Page #92 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धन्यशाली ॥९ ॥ चारुचामीकरस्तम्भ-विनिवेशिततोरणे । कारयामासतुः स्वैः स्वैः, शिबिके तो नियुक्तकैः ॥४६॥त्रिभिर्विशेषकम्।। 36 रत्नसिंहासने रम्ये, तयोर्मध्ये निवेशिते । तयोश्चोभयतः महाकाव्यम् स्वर्ण-भद्रासनपरम्पराः ॥ ४७ ।। | सर्ग:५ शालिभद्रः स्फुरद्रः, कृतस्नानविलेपनः । जङ्गमः कल्पशाखीव, दिव्यालङ्कारवस्त्रभृत् ॥ ४८॥ IBE || ९०॥ शिचिकामारुरोह स्वा-मलचके बरासनं । तस्य दक्षिणतो भद्रा, भद्रासनमुपाविशत् ।। ४९॥ व्रतं जिघृक्षवो भार्या, वस्त्रालङ्कारभूषिताः । विकसत्पुण्डरीकाक्ष्यश्चात्युज्ज्वलमुखश्रियः ॥५०॥ अम्बधात्री पुनर्वाम-पार्श्वे भद्रासने स्थिता । रजोहरण पात्रादि--पटलान्यथ बिभ्रती ॥५१॥ पृष्टतश्चारुवेषाऽन्या-ऽवतस्थे छत्रधारिणी । श्वेतचामरधारिण्यौ, तस्थतुः पार्श्वयोर्द्धयोः ॥ ५२ ॥ विहितस्फोरशृङ्गाराभृङ्गारं बिभ्रतीतरा । जात्यस्वर्णमयं पूर्ण, वारिणा पुरतः स्थिता ॥ ५३ ॥ वीणावेणुमृदङ्गादि-वादकैः कलगायनैः । नर्तकीभिरपि प्रेक्षा, प्रारेभे नाटयचुञ्चुभिः॥५४॥ धन्योऽप्यध्यारुरोहैव-मेवाथ शिबिकां निजाम् । सिंहासनमलङ्कृत्य, पूर्वाशाभिमुखोऽभवत् ।। दक्षिणे तस्य सोमश्रीः, सुन्दरी कुसुमावली । तस्थुस्तिस्रः कुटुंबिन्यः, प्रवज्याग्रहणोद्यताः ॥५६॥ तस्थौ पटलमादाय, वामे कुलमहत्तरा । पार्श्वे चामरधारिण्यो, पृष्टतः छत्रधारिणी ॥ ५७ ॥ पुरः सीमन्तिनी चैका, दधती कनकालुकाम् । शुशुभे दिक्कुमारीव, जिनजन्ममहोत्सवे ॥५८॥ १ कलशम् २ सुवर्णकलशम वादक साबिका दिली । तस्याबामरधारिण्याशिव, जिन For Private and Personal Use Only Page #93 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailasesgarseri Gyanmandie महाकाव्यम् सर्गः ५ ॥९१ ॥ धन्यशाली JE पुरश्चोभयतश्चक्रुः, प्रेक्षणं गायनादयः । सुरसंगीतकं देव-गन्धर्वा इव बन्धुरम् ॥ ५९॥ भद्र पठत्सु यन्दिवृन्देषु, नव्यकाव्यानि यत्नतः। स्वस्ति स्वस्तीति जल्पत्सु, तारतारं द्विजन्मसु॥ ॥९१॥ गायनेष्वपि गायत्सु, पुरतो मधुरस्वरम् । किंनरेविव लोकानां, जन्यत्सु मनोमुदम् ॥ ६१ ॥ | भेरीमाङ्कारनादेधुमधुमधुमितैर्मर्दलस्यातितारै-लाम्लांम्लां कांस्यतालातुलकलतलमोत्तालतालादिनादैः । | निःसंख्यै शङ्खशब्दैः पटुपटहरवैः काहलोच्चैः स्वरैश्च, प्रस्फूजन्तौषिकेषु प्रतिरवफलनाद्रोदसों पूरयत्सु ॥ २ ॥ धन्यस्येभ्यसुतस्य निर्मलमतेः श्रीशालिभद्रस्य च, प्रत्येकं शिविके विमानसदृशौ सद्यः सहस्रं नराः । दिव्यालङ्कृतिधारिणःसमवयोऽवस्थोन्नतत्वान्विता-स्तुष्टास्तुल्यमनोरमांशुकवराः कल्पाः समुचिक्षिपुः६३चतुर्भिःकुल. ततो निजनिजाद गेहा-च्चेलतुव्रतसत्वरौ । मिलितो राजमार्ग चा-लङ्कृते तोरणादिभिः॥ तदा चावधिना ज्ञात्वा, पुत्रनिष्क्रमणोत्सवम् । आगात्तातसुरः प्रीतः, क्रमः सम्यगदृशां ह्ययम् ॥ भुवं गन्धोदकेनासा, सिषेच व्योमसंस्थितः । वृष्टि दशार्द्धवर्णानां पुष्पाणां सर्वतोऽकरोत् ॥६६॥ चेलोत्क्षेपं गन्धवृष्टिं, दीनाराणां प्रवषर्णम् । लोकदारियविच्छेदि, चकार त्रिदशोत्तमः ॥ ६७ ।। तकिङ्कराः पुनर्योनि, ताडयन्ति म दुन्दुभीन् । जुघुषुः साध्वहो साधु, व्रतोत्साहोऽनयोरिति ।। ततोऽनुगम्यमानौ तौ श्रेणिकेन महीभुजा । सहामात्यपुरश्रेष्ठै-इचतुरङ्गवलेन च ॥ ६९ ॥ १ समर्थाः For Private and Personal Use Only Page #94 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www.kobatrth.org धन्यशाली भद्र॥९२॥ PE महाकाव्यम् सगं:५ |॥९२॥ कृतार्थों पुण्यवन्तौ च, सुलब्धजनुषाविमौ । विहायैवंविधां लक्ष्मी, गृहीतो यो व्रतश्रियम्॥७॥ अर्हच्छासनमेवैकं, क्षितौ जयति निर्मलम् । एवंविधा महात्मानो, रमन्ते यत्र तखतः ।। ७१ ॥ इति लोकगिरः पुण्याः, शृगवन्तौ श्रोत्रहर्षदाः । पदे पदे प्रतीच्छन्ती, सार्था[U] लोकाक्षताजलीन् ॥ ७२ ॥ जनयन्ती महोत्साहं, भव्यानां धर्मकर्मणि । प्रापतुः श्रेष्टिपुत्रौ तौ, चैत्यं गुणशिलाभिधम् ।। छत्रातिच्छत्रमालोक्य, पुरतस्त्रिजगत्पतेः मुमुदाते भृशमुभौ, चकोगविव शीतगुम् ॥ ७४ ।। भक्त्याथ शिविकाभ्यां तो, सभाववतेरतुः । विमानाभ्यां सदेवीका-वाद्यस्वर्गाधिपाविव ।।७५|| प्रविश्याथोत्तरद्वारा, दत्त्वा तिस्रः प्रदिक्षिणाः । श्रीवीरस्वामिनं श्रेष्ठि-सुतौ भक्त्या प्रणेमतुः ॥७६।। अथ भद्रा पुरस्कृत्य शालिभद्रं सधन्यकम् । तद्भार्याश्वातिसंविग्ना, वीरनाथं व्यजिज्ञपत् ॥ ७७ ॥ भगवन्नेष पुत्रो मे, जामाता चैष पुण्यवान् । युष्मत्पादान्तिके दीक्षां, सकलत्रो जिघृक्षतः ॥ ७४ ॥ तद्भगवन् भवाम्भोधी, कर्णधारोपमो भवान् । दीक्षापोतप्रदानेन सभार्यो तारयत्विमौ ।। ७९ ॥ भगवानप्युवाचैवं, धीरगम्भीरया गिरा । युक्तमेतादृशामेत-द्रे भद्राभिलाषिणाम् ।। ८०॥ सतश्चोत्तरपूर्वस्यां, दिशि सवे ससम्भ्रमम् । त्यक्त्वा शेषानलङ्कारान् केशोद्धरणमादधुः॥ ८१ ॥ स्थूलमुक्ताफलाकारान् वाष्पविन्दन्विमुञ्चती। सहसलक्ष्मणा केशान , प्रतीच्छन्तीव वाससा।।८२॥ १ सुलब्धजन्मानौ. For Private and Personal Use Only Page #95 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धन्यशाली भद्र॥ ९३॥ भद्रा सर्वानुवाचैवं, श्रेष्ठिनी गदगदाक्षरम् । तेषामुत्साहमाधातुं, हर्षशाकसमाकुला ॥ ८३ ॥ | महाकाव्यम् यतितव्यममुत्रार्थे, घटितव्यं विशेषतः । प्रमादो न विधातव्यो, भवद्भिर्मोक्षकाइक्षिभिः॥४४॥ त्रिभिविशेषकम्॥ " सर्गः ५ साधुवेषमथादाय, भुवनाधिपतेः पुरः । गोभद्रेभ्याङ्गजौ शालिभद्रधन्याभिधानको ॥ ८५॥ 1 ॥ ९३ ॥ उपस्थितौ सपत्नीको, शुशुभाते महौजसौ । मूर्तिमत्कीर्तिभिर्युक्तो, यशोधर्माविवाऽमलौ ॥ सत्सामायिकसत्रस्यो-चारणापूर्वकं विभुः । सर्वेभ्योऽपि ददौ दीक्षां, कामण्यामृतसागरः ॥ उपबृहां ततस्तेषामेवं चक्रे जिनेश्वरः । भो भो धन्याः सुपुण्याश्च, यूयमेव क्षिताविह ॥ यतोऽयं दुस्तरस्ताव-संसारापारनीरधीः । भूयो भूयः समुत्पत्ति-स्तावद भूयिष्ठयोनिषु ॥ ८९ ॥ तावद् दुःखान्यनेकानि, दारुणानि महीतले । यावन्न शुद्धचारित्र-लाभः सम्पद्यते नृणाम् ॥१०॥ सोमश्रीसुन्दरीपद्मा-वत्याद्या नवदीक्षिताः । आर्थिका भगवानार्य-चन्दनायै समाप्र्पयत ॥९१ ॥ प्रणम्य खामीनं भद्रा, श्रेणिको नागरा अपि । प्रमोदकौतुकापूर्णा, ययुः स्वं स्वं निकेतनम्॥ प्रत्यहं राजहंसोधैः, सेव्यमानपदाम्बुजः । दिनानि कतिचित्तत्र, जिनोऽस्थान्मान मोपमः ॥१३॥ परोपकृतयेऽन्यत्र, स्वामि साधुगणान्वितः । विजहार महान्तो हि, परोपकृतिकर्मठाः ॥१४॥ धन्यश्च शालिभद्रश्च, सुधर्मस्वामिसन्निधौ । क्रमादेकादशाङ्गानि, पठतः स्म समाहिती ॥१५॥ कनकावलिरत्नावलि-भद्र-महाभद्र-सर्वतो-भद्राः। प्रतिमा भिक्षुप्रतिमा, दाददशसंख्या निराशंसम् For Private and Personal Use Only Page #96 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 13 महाकाव्यम् धन्यशाली भद्र॥९४॥ عود सर्ग:५ ॥ ९४॥ ع و तथा संवत्सरं नाम, गुणरत्नपदादिकम् । सिंहनिक्रीडितं वेधा, तप्यते स्म महामुनी ।। २७ ।। षष्ठाष्टमे च दशम-द्वादशके पक्षपक्षयुगले च । मासयमासत्रय-मासचतुष्कादिकं च तपः॥९८॥ विधाय तावनिर्विणो, पारणं चक्रतुर्मुनी । निर्निदानमनोवृत्ती, निश्चलावचलाविव ॥ ९९ ।। युग्मम् अभूतां तपसाऽनेन, दुष्करेण महीयसा | कृशाङ्गलतिकावेतो, जीर्णस्थागृपमौ मुनी ॥ १०॥ भगवानथ सिद्धार्थ-पार्थिवान्वयभूषणः । सप्तहस्तप्रमाणाङ्ग-यष्टिरष्टापदद्युतिः ॥१॥ आकाशचारिणा पूर्ण-चन्द्रबिम्बानुकारिणा । विस्तीर्णेनोकतेनोव-मातपत्रेण शोभितः ॥२॥ चारुचामरयुग्मेन, कौमुदीन्दुकराता । बीज्यमानो नभस्थेन, प्रभुः प्रचलता स्वयम् ॥ ३ ॥ रत्नसिहासनेनोच्चैः, पादपीठोपशोभिना । तन्वानो विभुराश्चय, लोकानां व्योमगामिनाम् ॥ ४॥ नेताऽहनेक एवेति, नूनमूर्वीकृतेन खे । धर्मेणेन्द्रध्वजेनोच्चै-भुजेनैवोपशोभितः॥५॥ पुरः प्रचलता धर्म-चक्रेण सेवितः प्रभुः । विजेतुं क्रूरकर्मारि-चक्रं चक्रीव दिग्जये ॥६॥ दिवि दुन्दुभिभिस्तारं, ध्वनपिशोभितः । स्तूयमानगुणः स्वामी, मागधैरिव साधुभिः ॥७॥ नवभिः स्वर्णकमले।, श्रीयमाणपदः प्रभुः। तल्लक्ष्माजश्रियः प्राप्तः, स्वधुनीनलिनैरिव ॥८॥ अहंपूर्विकया देवैः, सेव्यमानश्च कोटिशः । सौरभादिगुणाकृष्टः, पद्माकर इवालिभिः ॥९॥ सौम्याकृतिरसौ श्वेत-वासोभिर्मुनिभिर्वृतः । स्फाटिकरिव नक्षत्र-विमानैश्चन्द्रमण्डलः ॥१०॥ १ सुवर्णकान्तिः ل الافلاكا للانتقالات العام علی For Private and Personal Use Only Page #97 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra धन्यशाली भद्र ॥ ९५ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शमयन् भीति मारीती- विहारभुवि सद्विभुः । मार्तण्डमण्डलः शश्व - इन्धकारततीरिव ॥ ११ ॥ जिनो निवर्तयन्वैरं नित्यवैरवतामपि । तीव्रव्याधिमिव प्रौढ-वैद्यो रोगितमताम् ॥ १२ ॥ सर्वतो विरतिं देश विरति जिनपुङ्गवः । ददन्नरेश्वरादिभ्यो, विजहार महीतलम् ॥ १३ ॥ त्रयोदशभिःकुलकम् ।। तथाहि — केवलज्ञानिना स्वेन, भ्रात्रा वल्कलचीरिणा । समुत्पादितसंवेगं वालपुत्रार्पितश्रियम् ॥ १४ ॥ प्रसन्नचन्द्रनामानं पृष्ठचम्पाधिपं विभुः । प्रव्रज्यां ग्राहयामास, सोमचन्द्रनृपाङ्गजम् ॥ १५ ॥ युग्मम् कौशाम्बीनामधेयायां, पुर्या वत्साख्यनीवृति । मृगावतीं शतानीक -पत्नीं दीक्षाभिलाषिणीम् ॥ १६ ॥ सहाङ्गारवतीमुख्य — कलत्रैरष्टभिर्वरैः 1 चण्डप्रोतभूपस्य दीक्षामग्राहयत्प्रभुः ॥ १७ ॥ श्री पोलाशपुरोधाने, श्रीवणे नन्दनोपमे । बालायाबालभावाय, तद्भवामृतगामिने ॥ १८ ॥ विजयोर्वीशपुत्राय, श्रीदेविकुक्षिजन्मने । षड्वर्षायातिमुक्ताय ददौ दीक्षां जिनेश्वरः ॥ १९ ॥ युग्मम् ॥ आनन्दाख्यं गृहपति, वाणिज्यग्रामवासिनम् । भगवन् श्रावकीचक्रे - द्वादशव्रतधारिणम् ॥ २० ॥ अङ्गालङ्कारभूतायां, चम्पायां बोधितोऽहर्ता | कुटुम्बी कामदेवाख्यो, बभूव श्रावको गुणी २१ काशीजनपदे वाराणस्यां तु चुलनीपिता । सुरादेवश्च सम्बोध्य जिनेन श्रावकीकृतौ ॥ २२ ॥ पुर्यामालम्भिकायां च कुटुम्व्येष महर्द्धिकः । अर्हता चुल्लशतको बोधितः श्रावकोऽभवत् ॥ २३॥ १ मोक्षगामिने For Private and Personal Use Only महाकाव्यम् सर्ग: ५ ॥ ९५ ॥ Page #98 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra धन्यशाली भद्र॥ ९६ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पञ्चालेषु च काम्पिल्ये, कुटुम्बी कुण्डकोलिकः । संबोधितो जिनेन्द्रेण, निश्चलः श्रावकोऽभवत् ॥ स्वामिना वर्धमानेन भावितात्मार्हदागमे । चक्रे सद्दालपुत्राख्यः पोलाशपुरसंस्थितः ॥ २५ ॥ नन्दिनीलतिकातात श्रावस्त्यां श्रवकीकृतौ । कुणालाख्ये जनपदे, योधयित्वार्हता स्वयम् ॥ सर्वे पञ्चदशे वर्षे ज्येष्ठपुत्रे गृहश्रीयम् । निवेश्य प्रतिमाः कृत्वा, मासं चानशनं व्यधुः ॥ विंशतिं श्रावकत्वं तु वर्षाणि प्रतिपाल्य च । चतुः पल्योपमायुष्क - देवेषूत्पत्तिमासदन् ॥ २८ ॥ एकावतारिणश्चैते, नव सौधर्मतश्च्युताः । प्राप्य जन्म विदेहेषु, यास्यन्ति पदमव्ययम् ॥ २९ ॥ सोवीराभिधदेशेषु पुरे वीतभयाभिधे । प्रद्योतस्य विजेतारं, भूपमौद्रायणाभिधम् ॥ ३० ॥ बद्धकोटीरभूपेषु, पश्चिमं व्रतधारिणम् । दीक्षामग्राहयत्स्वामी, श्रीवीरश्वरमो जिनः ॥ ३१ ॥ युग्मम् ॥ सिद्धार्थनन्दनः श्रीमा-नुज्जयिन्यामवन्तिषु । चण्डप्रद्योत भूपालं श्रावकत्वमलम्भयत् ॥ ३२ ॥ विहरन्नन्यदा साधुसाध्वीसंघसमावृतः । कौशाम्ब्या बहिरुद्याने, श्रीवीरः पुनरागमत् ॥ ३३ ॥ तत्र पश्चिमपौरुष्यां, सद्धर्मं दिशति प्रभौ । अनन्तकालादाश्चर्य कारिणौ चन्द्रभास्करौ ॥ ३४ ॥ मृगावत्या दिनभ्रान्त्या, निश्यवस्थानकारिणौ । सविमानौ समागत्य, वन्दित्वोपास्य च प्रभुम् ॥ तावत्कालसमाक्रान्ति- योग्ये गगनमण्डले । गत्वा भूयोऽवतस्थाते, तौ नियत्या नियन्त्रितौ ३० ॥ त्रिभिर्विशेषकम् || कदाचिद्विहरन्नहै— नगरे पोतनाभिधे । भूयः सुभूमिभागाख्यो- पवने समवासरत् ॥ ३७ ॥ For Private and Personal Use Only महाकाव्यम् सर्ग: ५ ॥ ९६ ॥ Page #99 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra धन्यशाली भद्र॥ ९७ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तत्र शालो महीपालो, महाशालानुजान्वितः । सूनुः प्रसन्नचन्द्रस्य, नरेन्द्रस्य जिनान्तिके ॥ ३८ ॥ पिठरस्य यशोमत्याः सुतं गागलिसंज्ञकम् । भागिनेयं निजे राज्येऽभिषिच्य व्रतमग्रहीत् ॥ ३९ ॥ तमोध्वंसं वितन्वानो, दोषोदयमपक्षिपन् । सद्भव्यजीवरांजीवराजीं च प्रतिबोधयन् ॥ ४० ॥ स्फूरजङ्गामण्डलः प्रातः, स्तूयमानः पुरस्थितैः । अहंपूर्विकया देवैर्जाग्रजयजयारवैः ॥ ४१ ॥ श्रीमद्राजगृहोद्याने, वैभारोदयपर्वते । विहृत्यानेकदेशेपू दियाय जिन भास्करः ॥ ४२ ॥ त्रिभिर्विशेषकम् ॥ श्री शालिभद्रघन्यौ च, विहरन्तौ सहार्हता । आजग्मतुर्मुनी तत्र, तपसा शोषिताङ्गको ॥ ४३ ॥ समवसरण चक्रे देवः सुचारु चतुर्विधैर्जिन पतिरुपाविक्षत्तस्यान्तरे हरिविष्टरे । स नगरजनो ज्ञात्वा तीर्थाधिपागमनं नृपः सपदि समुदागच्छाद्धर्म दिदेश विभुर्द्विधा ॥ ४४ ॥ चतुर्विंशतिकोटीनां हिरण्यस्याधिभूपतिः । त्रयोदशकलत्राणां, महाशतकसंज्ञकः ॥ ४५ ॥ शुद्धसद्धर्मपीयूष पीत्वा गृहपतिः सुधीः । श्रीवीर मुखशीतांशोः, कामं हृटश्वकोरवत् ॥ ४६ ॥ समुत्थाय नमस्कृत्य, निबद्धाञ्जलिसम्पुटः । विनयेन महाभक्त्या, श्रीवीराय व्यजिज्ञपत् ॥ ४७ ॥ त्रिभिर्विशेषकम् ॥ स्वामिनेते यथा धन्य - शालिभद्रातिमुक्तकाः । शालभूपमहाशालो- दायनावनिपादयः ॥ ४८ ॥ लाचलटलिष्टं जरतृणमिव क्षणात् । प्रविहाय वरां लक्ष्मी - भिन्द्रपद्माविडम्बिनीम् ॥ ४९ ॥ १ राजीवं कमलम् For Private and Personal Use Only महाकाव्यम् सर्ग: ५ ॥ ९७ ॥ Page #100 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra धन्यशाली भद्र॥ ९८ ॥ www.kobatirth.org चिरकालोपभुक्तांच, स्वावासान् पङ्कसङ्कुलान् । राजहंसा इवात्यन्त- शुद्धपक्षद्वयान्विताः ॥ ५० ॥ युष्मदघ्रियुगं पङ्कविकलं कमलाङ्कितम् । चारित्राश्रयणेनेश ? शिश्रियुर्मानसोपमम् ॥ ५१ ॥ न क्षमोऽस्मि तथेदानीं कर्त्तुं भुवनबान्धव । किमङ्गपङ्गुरारोदु-मलं मेरुमहीधरम् ।। ५२ ।। अतः सम्यक्त्वमूलानि व्रतानि गृहमेधिनाम् । द्वादशारोपय स्वामि-विधाय करुणां मयि ॥ भगवांस्त्रशलेयोऽपि तस्याभीष्टमपूरयत् । महान्तः प्रार्थनाभङ्ग, न कदापि हि कुर्वते ॥ ५४ ॥ पूर्वोक्तेषु नवस्वेष, दशमः श्रावको गुणी । उपाशकदशाङ्गोको, विदेहेषु च सेत्स्यति ॥ ६५ ॥ ततो नत्वा जनाधीश, नराधीशः सनागरः । अर्हद्वाक्यामृतातृप्तः प्रविवेश पुरं मुदा ।। ५६ ।। अथो तृतीयपौरुष्यां, भिक्षार्थ विहितोद्यमौ । षष्ठपारणके धन्य- शालिभद्रौ महामुनी ॥ ५७ ॥ विनयेनावनम्राङ्गावात्तपात्रौ प्रचक्रतुः । उपयोगं समागत्य पुरतस्त्रिजगत्प्रभोः ॥५८॥ युग्मम् ।। भगवानथ सर्व्वज्ञः सर्व्वदर्शी गुणं विदन । शालिभद्रं प्रति प्राह, स्रवन्निव सुधारसम् ॥ ५९ ॥ शालिभद्र महर्षेऽथ, पारणा मातृपार्श्वतः । पुरे राजगृहेऽमुष्मिन् भविष्यति तवोत्तमा ॥ ६० ॥ इच्छामीति भणन् शालिभद्रवाचंयमस्ततः । धन्येन मुनिना सार्द्धं, चचाल नगरं प्रति ॥ ६१ ॥ युगमात्रान्तरे दृष्टि, निक्षिपन्तौ पदे पदे । शोधयन्तौ क्षिति नेत्रे व्याक्षिप्तावनुद्धतौ ।। ६२ ॥ उच्चनीचकुले–रेषणागतमानसौ भ्रमन्तौ प्रापतुर्भद्रा — मन्दिरद्वारि तौ मुनी ॥ ६३ ॥ 1 For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir महाकाव्यम् सर्ग: ५ ॥ ९८ ॥ Page #101 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धन्यशाली भद्र॥ ९९ ॥ JEमहाकाव्यम् सगः५ ॥९९ ॥ فقدان ا لانسان الفنان المال السنه المياه अत्यन्ततपसा क्षाम-देहत्वादुपलक्षितौ । न केनापि महर्षी ता, कृतरूपान्तराविव ।। ६४ ॥ श्रीमद्राजगृहक्रीडा-शैलचलावलम्बिनि । आगाद् गुणशिलोद्याने, वीरः साधुगणावृतः॥६५॥ आगतौ च मुनी धन्य-शालिभद्रौ भविष्यतः । त्वर्यतां त्वर्यतां भो भो-स्तेषां वन्दनहेतवे ॥६६॥ भद्रेति सपरीवारा, व्याकुला गमनार्थिनी । नाज्ञासीत्तौ समायातौ, स्वगृहेऽपि तपस्विनौ ॥ ६७ ॥ तत्र व्यग्रतया तौ तु, न कोऽपि प्रत्यलम्भयत । क्षणमात्रमवस्थाय, न्यवर्त्ततां शुभाशयौ ॥ ६८ ॥ ईर्यासमितिसम्पन्नौ, गच्छन्ती पुरगोपुरे । प्रापतुर्मध्यभाग तौ, यावत्तावत्तयोः पुरः॥ ६९ ॥ काचिदाभीरवृद्धस्त्री, तक्रविक्रयकारिणी । सुस्निग्धदधिसम्पूर्ण स्थालिशोभितमस्तका ॥ ७० ॥ नयोरासनसर्वार्थ-सिद्धिश्रीसुखसङ्गमे । मङ्गलं सूचयन्तीव सम्मुखीना समाययौ ॥७१।। युग्मम् ।। वीक्षमाणा च सा शालि-भद्रं पुत्रमिव स्वकम् । आनन्दाश्रुपयःपूर -परिप्लुतविलोचना ।। ७२ ॥ हर्षात्कर्षवशोद्भिन्न-रोमाश्चाश्चितविग्रहा । बभूव प्रस्रवस्निग्ध-दुग्धधारपयोधरा ।। ७३ ॥युग्मम्।। ततश्चैतौ नमस्कृत्य, गृहीत्वा दधिभाजनम् । गृहीतं भगवन्तो वां दधीदमिति साऽब्रवीत् ॥ ७४ ॥ द्रव्यादिपूपयोगं तो, विधाय मुनिसत्तमौ । धारयामासतुः पात्रं रागाषितमानसौ ॥ ७५ ।। दृष्टचित्ता निचिक्षेप प्राज्यं तदधि तत्र सा । पर्याप्तिमिति कृत्वाती, जग्मतुर्वीरसन्निधौ ॥ ७६ ॥ तर्यापथिकी साधू प्रतिक्रम्य पुरः प्रभोः । कायोत्सर्गेऽतिचारं च, गमनागमनोद्भवम् ॥ ७७॥ For Private and Personal Use Only Page #102 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandit धन्यशाली भद्र ॥१०॥ विचिन्त्य दधि च स्वान्ते सुसमाहितमानसौ । ऋजुप्रज्ञावनुबिग्नौ तदालोचयतः स्म तो।७८ायुग्मम् प्रणम्य स्वामिनं शालि-भद्रसाधुः कृताञ्जलिः । निजगाद जगन्नाथ, मातृतः पारणं तव ॥ ७९ ॥ Diहाकाव्यम् भविष्यतीति युष्माभिः, कथितं मे पुरा प्रभो ?। आवश्यकी विधायेतः; पर्यटन्तौ गृहे गृहे ।।८०॥ सर्ग:५ स्वामिन्नावां गतौ तत्र, न केनाप्युपलक्षितो। अनासादितमिक्षौ च निर्गतौ तनिकेतनात् ॥ ८१ ॥ JE ||१००॥ आगच्छद्भ्यामिहावाभ्या-मन्तरे व्यतरहधि । काचिद् वृद्धा ततो नाथ!मातृतः पारणा कथम्? ||८२॥ श्रीवर्द्धमानोऽपि हि सर्ववेदी, जगाद तुभ्यं मुनिशालिभद्र? । ददे दधि प्रीतहृदा ययाद्य, धन्याभिधाने(ना)ऽन्यजनौजनित्री इति श्रीधन्यशालिभद्रमहर्षिचरिते निजमातृपुरो जिनधर्मश्रवणकथनव्रतग्रहणमुत्कलनादिगृहीतव्रतभगवत्प्रतिपादितजननीहस्तपारणकाऽनासादिततद्भिक्षकृततद्विषयप्रश्नपर्यन्तश्रीधन्यशालिभद्रवृत्तान्तव्यावर्णनो नाम पञ्चमः परिच्छेदः ॥५॥ १ अन्यजन्मनि पूर्वजन्मनि २ माता। For Private and Personal Use Only Page #103 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra धन्यशाली भद्र112 211 www.kobatirth.org ॥ अथ षष्ठो सर्गः प्रारभ्यते ॥ व्रतेऽथ भगवान्कोऽपि, पुरे काप्यभवन्नृपः । तस्यासीत्सेवकः कोऽपि, विनीतः क्षत्रियो गुणी ॥१॥ पत्नी धन्याऽभवत्तस्य, सुतः सङ्गमकाभिधः । सुखेनैवातिचक्राम तेषां कालः कियानपि ॥२॥ अन्यदा दुर्निषेधोsस्य, सेवकस्योदभून्महान् । कायक्लेशकरः कोऽपि, व्याधिः शत्रुरिवोत्कटः ॥ ३॥ ततः प्रारेभिरे तस्य, सर्वस्थाम्ना भिषग्वराः । चिकित्सां महतीं कर्त्तुं द्विषतः सुभटा इव ॥४॥ तथापि न न्यवर्तिष्ट, मनागपि महामयः । किन्त्वेष पश्यतां तेषां तेन मृत्युमनीयत ॥ ५ ॥ विललाप ततो धन्या, सशोका करुणस्वरा । जीवितव्यं यतः स्त्रीणां भर्तजीवितमेव हि ॥ ६ ॥ विदधे मृतकृत्यानि, दीनास्यात्यन्तदुःखिता । कियत्यपि गते काले, निःशोका साऽभवत्ततः ॥७॥ तत्राशक्नुवती स्थातुं संस्थिते प्राणवल्लभे । शालिग्राममगाद्वालं, पुत्रं सादाय सङ्गमम् ॥ ८ ॥ गृहकर्माणि सा चक्रे, तत्र चेश्वरसद्मसु । तेषामेव च तत्पुत्रो, वत्सरूपाण्यचारयत् ॥ ९ ॥ अथान्यदा यहिभूमौ तर्णकांश्चारयन्नसौ । प्रासुकस्थण्डिले जीव संसक्तिपरिवर्जिते ॥ १० ॥ तप्यमानं तपस्तीव्रं शान्तं सूर्यावलोकिनम् । मूर्त्त धर्ममिवापश्य-प्रलम्बितभुजं मुनिम् ॥ ११ ॥ ततः सङ्गमको गोधुक, मुमुदे मुनिदर्शनात् । भाविभद्रा हि तुष्यन्ति, साधुनिर्वर्णनाद् ध्रुवम् ॥१२॥ १ मृते. २ साधुदर्शनात्. For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir महाकाव्यम् सर्गः ६ ॥१०१॥ Page #104 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandit धन्यशाली भद्र महाकाव्यम् सर्गः६ IBE ॥१.२॥ ॥१०२॥ ف قال فالاوفتا وقنا وقنا المعادلات القفطا तस्प वाचंयमस्यैव, प्रणनाम पदाम्बुजम् । मस्तकस्पृष्टभूपृष्टो, भक्तिनिर्भरमानसः ॥ १३ ॥ पूर्व सन्मुनिसम्पर्का-भावितोऽपि विवेकभाक् । विशिष्टज्ञानहीनोऽपि, साधूपासनतत्परः ॥१४॥ कायोत्सर्गस्थितस्यैव, यतिनः पादमर्दनात् । असौ विश्रामणां चक्रे, प्रबुद्ध श्रावको यथा ॥ १५॥ युग्मम् धन्योऽस्मि कृतपुण्योऽस्मि, कृतार्थोऽस्मीह निश्चितम् । योहं वाचंयमस्यास्य, निःपकं पादपङ्कजम् ॥१६॥ पश्यामि प्रातरुत्थाय, भृङ्गवत्प्रतिवासरम् । इति चिन्तयतस्तस्य कियन्तोऽपि ययुर्दिनाः ॥१७॥ कायोत्सर्गेण तिष्ठन्तं, सर्वदा वीक्ष्य तं मुनिम् । प्रविशन्तमनालोक्य, भिक्षार्थ ग्राममध्यतः ॥१८॥ नित्यमासेवमानेना-ज्ञायि सङ्गमकेन तु । विधत्ते पारणां नैव, महात्माऽयमिति ध्रुवम् ॥१५॥ युग्मम् मद्देहे तदयं साधुः, पारणां कुरुते यदि । तदालं पुण्यवानस्मी त्यचिन्तयदहर्निशम् ॥ २०॥ अथान्येयुरभूत्कोऽपि, शालिग्रामे महोत्सवः । पायसं राध्यते तत्र, लोकैः सद्मनि समनि ॥२१॥ सङ्गमस्तर्णकांस्त्यक्त्वा, बहिः साधुमुपास्य च । तदा ग्राममुपागच्छन्, भुज्यमानं गृहे गृहे ॥२२॥ पायसं प्राज्यखण्डाज्य-सन्मिश्रमवलोकयन् । मातृपाश्चै निजे गेहे, भोजनार्थमुपागमत् ॥२३॥युग्मम् ययाचे पायसं सोऽम्बां, परमान्नाभिलाषुकः । सा जगाद दरिद्राऽस्मि, परमान्नं कुतोऽस्ति मे ॥२४॥ तथाप्यज्ञतया तेन, याच्यमाना निरन्तरम् । पूर्वावस्थां स्मरन्ती सी, रुरोदोच्चैःस्वरं ततः ॥२५॥ तस्याः रुदितमाकर्ण्य, प्रातिवेश्मिकयोषितः। आसन सशोकास्तत्कष्टानुविद्धहृदया इव ॥ २६॥ هنا For Private and Personal Use Only Page #105 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandit धन्यशाली भद्र ॥१०३॥ JE महाकाव्यम् सर्गः६ । ॥१०॥ PAdappOADलाजल शीघ्रं तद्नेहमागत्य, पप्रच्छु?ःखकारणम् । धन्या ताभ्याऽभ्यधत्तवं, सशोका दुःखकारणम् ॥२७॥ अस्ति नास्तीत्यसौ गेहे, नवेत्यज्ञतया सुतः । ययाचे पायसं याद, दुःखेनारोदि तन्मया ॥२८॥ यद्येवं तर्हि मारोदी-र्दास्यामोऽयेव ते वयम् । क्षीरतण्डुलखण्डाद्या-नीति तास्तां बभाषिरे ॥२९॥ स्वगृहेभ्यः समानीय, दुग्धादीनि प्रभूतशः । धन्याय प्रतिवेश्मिन्यो, ददुः कल्पलता इव ॥३०॥ ततो धन्यां समस्तास्ता, एवं सदयमूचिरे । निष्पाद्य पायसं प्राज्य, पूरयास्य मनोरथम् ॥३१॥ विधाय पायसं रम्य, धन्योपावेशयत्सुतम् । खण्डाज्यप्राज्यमुत्कृष्टं, तत्स्थाले तन्निचिक्षिपे ॥३२॥ कृत्येन केनचिद्धन्या, प्रविवेश गृहान्तरम् । कृत्यानि च दरिद्राणा-ममिवृत्तानि सर्वदा ॥३३॥ मासक्षपणमाधाया-त्रान्तरे स मुनिर्वनात् । अनाकुलात्मा भिक्षायै, शालिग्राममथाविशत् ॥३४॥ पर्यटनुच्चनीचेषु, कुलेष्वागा-त्स तद्गृहम् । नौरिवोत्तारणायास्य, भवागाधपयोनिधेः ॥३५॥ अकस्मादेव निर्वर्ण्य, मुनि निजगृहाङ्गणे । व्यकल्पयदसौ चित्ते हर्षोत्कर्षवशादिति ॥ ३६॥ संचेताः किमयं चिन्ता-मणिश्चिन्तितवस्तुदः । अपशुः कामधुगधेनुः, किमसौ गुणमन्दिरम् ॥३७॥ जङ्गमः किमयं कल्प-शाखी सङ्कल्पितावहः । दृश्यते यत्स एवैष, मुनिर्मासमुपोषितः ॥३८॥ भद्रं भद्रतरं भद्र-तमं यन्मे गृहाङ्गणम् । तमो नुदन् पुपावैष, स्वंपादैर्मुनिभास्करः ॥ ३९ ॥ १ दृष्ट्वा. २ सजीव. ३ सूर्यपले स्वकिरणः. For Private and Personal Use Only Page #106 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra धन्यशाली गद्र ॥ १०४ ॥ www.kobatirth.org पुण्योदया दिहायातो, ममैवायं मुनिर्ध्रुवम् । किमपुण्यवतो गेहूं, लक्ष्मीरेति स्वयम्वरा ॥४०॥ अत्युत्तममिदं पात्रं, मच्चित्तमपिनिर्मलम् । श्रेष्ठं देयञ्च भूयिष्ठं तदेतत्रितयं मया ॥ ४१ ॥ अलभ्यत महापुण्यै - यौगपद्येन साम्प्रतम् । कृतकृत्यो भवाम्येत - दत्वैतस्मै महात्मने ॥ ४२ ॥ इति सङ्गमकचित्ते, विचिन्त्योत्थाय तत्क्षणात् । गृहीत्वा पायसस्थाल -मुपसाधु समागमत् ॥४३॥ अमन्दानन्दसन्दोहो— निरोमाञ्चकञ्चुकः । सोऽब्रवीद्भगवन्नेतद्गृहाणेति प्रसव मे ॥ ४४ ॥ ज्ञात्वोल्लसत्परीणामं कामं सङ्गमकं मुनिः। । स्वं पात्रं धारयामास तस्यानुग्रहहेतवे ॥ ४५ ॥ सम्विभागं प्रयच्छेति, भाषमाणेऽपि सन्मुनौ । साधुपात्रे स चिक्षेप, परमान्नमशेषतः ॥ ४६ ॥ सम्यक्त्वा भावतो दान - प्रभावान्मानवेष्वसौ । बबन्धायुर्महाभोगं, सन्मध्यमगुणान्वितः ॥४७॥ नत्वा विसर्जितास्तेन, गत्वा स्थानं निजं मुनिः । विधिना विदधे तेन, पारणं सुसमाहितः ॥४८॥ धन्यंमन्यः स वत्सीयो, यथास्थानमुपाविशत् । अत्रान्तरे च धन्यापि, निरगान्मन्दिरान्तरात् ॥४९॥ रहितं परमान्नेन, विलोक्य सुतभाजनम् । मन्ये भुक्तमनेनेति, साक्षिपत्पायसं पुनः ॥५०॥ प्रागप्राप्तमिवाकण्ठ - मतृप्तः पायसं स तु । बुभुजे लौल्यतस्तुल्यं, लौल्यं हि निखिलाङ्गिनाम् ॥५१॥ भुक्त्वा सङ्गमकस्तूर्ण, वर्ण्यवर्णाश्च तर्णकान् । आदाय बहिरागच्छ तस्यैषा जीविका यतः ॥ ५२ ॥ तत्र चालोकयामासं, तमेव मुनिपुङ्गवम् । कायोत्सर्गेण तिष्ठन्तं निश्चलं शैलराजवत् ॥५३॥ For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir महाकाव्यम् सर्गः ६ ॥१०४॥ Page #107 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पन्यशाली महाकाव्यम् ॥१०५॥ १०५ P-pwwe बालभावेऽप्यतन्द्रालुदयालुस्तकानसौ । सर्वाङ्गुर पूरायां, भूमौ नीत्वाऽमुक्ततः ॥ ५४ ॥ आजगाम मुनेः पादान, सेवितुं पुनरेव सः। मानसस्याम्बुजान पङ्क-प्रोज्झितान् कल हंसवत्॥ ५५ ॥ धन्योऽस्म्यात्य मुनेयन, प्रापि पादयुगं मया । तृषितेनेव पान्थेन, मरौ सकमलं सरः ॥ ५६ ॥ इत्थमध्यवसायो ऽस्य, ववृधे सुतरां शुभः । लभ्यानुसारतो भावो, जीवानां जायते यतः॥५७॥ तत्रैव निइयभूत्सस्या-जीग वायुनिरोधतः । प्रायोऽत्याहारतः पुंसा-मजीर्णमुपजायते ॥ ५८ ॥ सस्मार मुनिमेवासी, पीडितोऽपि तया रुजा । प्रायेणासन्नमोक्षाणां, विपद्यपि शुभं मनः॥५९ ॥ स त्वं समकश्चात-रौद्रध्यानविवर्जितः । शुभेनाध्यवसायेन, बाल एव विपन्य च ॥ ६ ॥ पुरे राजगृहेऽमुष्मिन, गोभद्रष्टिनो गृहे । पल्या भद्राभिधानायाः, पुत्रत्वेनोदपद्यथाः ॥३१॥युग्मं। सशोका विललापो-र्धन्या पुत्रवियोगतः । पत्यभावे हि मारीणां, सुतस्नेहो महत्सरः ॥ १२ ॥ कियत्यपि गते काले, सा श्लथीभूतपुत्रशुक् । चकारेश्वरगेहेषु, गृहकर्माणि पूर्ववत् ॥ ६३ ॥ अतीव चतुरा शुद्ध-शीला सा कर्म कुर्थती। अत्यन्तं तोषयामास, स्वामिनीः सर्वसद्मनाम् ॥ ६४ ॥ कर्ममूल्यं ततस्तस्यै, ददुः समधिकं च ताः । स्तोकस्तोकेन चैधिष्ट, कालेन कियताऽपि सा ॥ ६५ ॥ वर्द्धमानं बभूवास्या, द्रव्यं गोक्रयणोचितम् । विन्दुना बिन्दुना हन्त, भ्रियते हि सरोवरः ।। ६६ ॥ कुण्डोध्नीः समादाय, वित्तेन कियताऽपि हि । दुग्धदध्याज्यतकाणि, तासां सा नगरादिषु ॥२७॥ For Private and Personal Use Only Page #108 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धन्यशाली भद्र॥१०६॥ महाकाव्यम् सर्गः६ hal१०६॥ قلنا ليك فيف नीत्वा विक्रीय विक्रीय, मूल्येन प्रतिवासरम् । पुण्योदयात्कमेणाथ, यभूव बहुगोधना ॥६॥युग्मं। धन्या दधि समादाय, पुरेऽत्राय समाययो । निर्यान्तं त्वां पुरादृष्ट्वा, दध्नेव प्रत्यलम्भयत् ।। ६९ ।। तन्मुने शालिभद्राद्य, यया तुभ्यं ददे दधि । जज्ञे सा सान्वया धन्या, माता ते पूर्वजन्मनः ॥७॥ भण्यमानं निजं चित्रं, चरित्रं चरमार्हता । शालिभद्रमुनिः श्रुत्वा, पूर्वी जाति समस्मरत् ।। ७१ ॥ प्रणम्य स्वामिनं शालिभद्रवाचंयमोऽब्रवीत् । यथात्थ त्वं जगन्नाथ, तत्तथैवेत्यसंशयम् ॥ ७२ ॥ जातिस्मरणतो यस्मा-दहमप्यात्मनो भवम् । प्राक्तनं संस्मराम्येष, श्रद्दधे भवतां वचः॥ ७३ ॥ गत्वैकान्ते जिनेन्द्रेणा-नुज्ञातो तावुभावपि । तेन दघ्नेव शुद्धेन, चक्रतुः पारणं मुनी ॥ ७ ॥ ततस्तावतिसंविग्नौ, श्रीजिनेन्द्रस्य सन्निधौ । आगत्यावोचतां भूयो, विनयेन विभुं मुनी ॥ ७६ ॥ यावदस्त्यावयोः किश्चि-तपःक्षामाङ्गयोबलम् । प्रकुर्वोऽनशनं तावत्सवाज्ञा स्याद्यदि प्रभो ॥ ७७ ॥ सर्वज्ञोऽप्याचचक्षेऽथा-राधकत्वं विदस्तयोः । युक्तं युष्मादृशां कर्तु-मेतन्मोक्षाभिलाषिणाम् ॥७८|| ततोऽहंतः समक्षं तो, महर्षी सकलान्यपि । नत्वातिचारस्थानान्या-लोचयामासतुस्तराम् ।। ७९ ।। क्षमपामासतुः सर्वान, भ्रमणान् श्रमणीरपि । गतशल्यमनोवृत्ती, निवृत्ती पापवृत्तितः ॥ ८॥ बैभारपर्वतस्यैक-देशे शुद्धशिलातलम् । निर्भीकैः स्थविरैर्युक्तो, स्वाम्यादिष्टैः स्म गच्छतः ॥ ८॥ निरीक्ष्य चक्षुषा पूर्व-मुभावपि महामुनी । रजोहरणमादाय, प्रमृज्य च शिलातलम् ॥ ८२॥ سلطالسلالالالالالالالفعالنشاماد بلال For Private and Personal Use Only Page #109 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra धन्यशाली भद्र॥१०७॥ www.kobatirth.org जीविते मरणे तुल्यौ, समौ च सुखदुःखयोः । पादपोपगमं नामा-नशनं श्रयतः स्म तौ॥ ८३॥ युग्मं ॥ स्नुषाप्रमुखलोकेन, वृता भद्रा नदागमत् । लक्ष्मीरिव जिनाधीशं वन्दितुं सपरिच्छदा ॥ ८४ ॥ वन्दित्वा सपरीवारा, जिनेन्द्रं सपरिच्छदम् । मुनियुग्ममपश्यन्ती, पप्रच्छ श्रेष्टिनी प्रभुम् ॥ ८५ ॥ कुत्र तो भगवन् शालिभद्रघन्यो महामुनी । नायातौ हेतुना केन, भिक्षार्थं मम मन्दिरम् ॥ ८६ ॥ बभाषे श्रीमहावीर स्तौ गतो ते निकेतनम् । लक्षितौ न त्वया किन्तु, व्यग्रयाऽत्र समागमे ॥ ८७ ॥ स्वरसूनोः शालिभद्रस्य, जननी पूर्वजन्मनः । ताभ्यां दधि ददौ धन्या, चक्रतुः पारणं च तौ ॥ ८८ ॥ साम्प्रतं तु महासत्वौ, गत्वा वैभारकन्दरे । द्वावपि प्रतिपेदाते ऽनशनं मुनिसत्तमौ ॥ ८९ ॥ तदाssकर्ण्याशु भद्रापि, श्रेष्ठिनी सकुषा ययौ । तत्रैवानशनं यत्र, प्रपेदा ते तपस्विनौ ॥ ९० ॥ अत्रान्तरे जनाधीश वन्दना हेतवे पुनः । आययौ श्रेणिको भूपः, क्रमो भाक्तमतां ह्ययम् ॥ ९१ ॥ वन्दित्वा स्वामिनं मुग्यो- ज्ञत्वा चामशनं नृपः । अन्वगाच्छ्रेष्टिनीं भद्रां वन्दनाहेतवे तयोः ॥९२॥ तत्र च श्रेष्ठिनी भद्रा, निखलाड़ी शिलातले । वाचंयमः वपश्यत्ता-वमना निर्मिताविव ।। ९३ ।। वन्ययमानावपि तया, न किञ्चिदपि जल्पतः । सर्वचेष्टापरित्यागः पादपोपगमे यतः ॥ ९४ ॥ वीक्षमाणा तयोः कष्टं स्मरन्ती च तयोः सुखम् । व्यञ्जयन्ती सुतस्नेह, श्रेष्ठिनी सस्नुषापि हि ।। ९५ ।। मुक्तकण्ठं रुरोदोचे, रोदयन्तीव सर्वतः । वैभाराद्रेः प्रतिध्वानैर्गम्भीरा अपि कन्दराः || ९६ ॥ युग्मं ॥ For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir महाकाव्या सगः ६ 1120011 Page #110 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धन्यशाली JE महाकाव्यम् सर्गः६ | ॥१०८॥ ॥१०८॥ و باورند दुष्कराध्यवसायेन, तयोरत्यन्तपीडिता । विलापानिति सा कर्तु-मारेभे शोकविहाला ॥ ९७ ॥ गृहमप्यागतौ वत्सौ, न ज्ञातौ मन्दभाग्यया । दृष्टौ मया न दृष्टयापि, युवां नैवाभिवन्दितौ ।। ९८ ॥ स्थित्वा सुरकृते रम्ये, प्रासादे सप्तभूमिके । अरण्ये स्थास्यते वत्स, त्वया व्यालाकुले कथम्।। ९९ ।। यात्रिंशत्तूलिकासूच्चै-स्तथाऽसुप्था यथासुखम् ।सुप्यते च कथं वत्स, कर्कशेऽस्मिन् शिलातले॥१०॥ कृत्वा विलेपनं वत्स, देवानीतैविलेपनैः । स्वेदपङ्कोऽधुना गात्रे, धार्यते दुःसहः कथम् ॥ १॥ आकर्ण्य काकलीगीतं, त्वं श्रुत्योरमृतं स्रवत् । वत्स घूकशिवारावान, कथमाकर्णयिष्यसि ॥२॥ आसीत्ते तादृशी भक्ति-मयि वत्साधुना तु माम् । विलापान्कुर्वतीमित्थं, न दृष्ट्याऽप्यवलोकसे॥३॥ अथ चैवंविधा एव, बान्धवेतरयोरपि । भवन्ति गतसङ्गत्वा-साधवस्तुल्यचेतसः ॥४॥ तथापि त्वं ममानन्दं, दृशोरुत्पादयिष्यसि । निजदर्शनमात्रेण, पुरेत्यासीन्मनोरथः॥५॥ अनेन पुनरारम्भे-णाल्यागविधायिना । तं मे मनोरथं वत्स, साम्प्रतं भक्तमुद्यतः॥६॥ करोषि यत्तपस्तत्र, नान्तरायं करोमि ते । कर्कशेयं शिला किन्तु, त्यक्त्वेमां तदितो भव ॥७॥ विलापान्कुर्वतीमेव-मादिकानवलोक्य ताम् । अस्थाने विद्यते भद्रे, किं त्वयेत्यवदन्नृपः॥ ८॥ यस्याः सुतोऽग्रहीदीक्षा, त्यक्त्वेन्द्र श्रीसमां श्रियम् । सा त्वं पुत्रवतीष्वेका, पताकां परमामगाः॥९॥ तत्ववेदी सुतस्तेऽसो, महासत्त्वशिरोमणिः। शिश्राय स्वामिपादाब्ज, नि:पक राजहंसवत्॥१०॥ منان الشاب العجالب ال For Private and Personal Use Only Page #111 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धन्यशाली भद्र॥१.९॥ महाकाव्यम् सर्गः ६ | ॥१.९॥ सूनुस्तेऽसौ बीरशिष्याऽनुरूपं तप्यते तपः । तप्यते तु स्वया मुग्धे, मुधैव स्त्रीस्वभावतः ॥ ११ ॥ भद्रे धन्यौ कृतार्थों ते, जामातृतनयाविमौ । आराध्यते यकाभ्यां तू-समार्थ प्रतिपत्सितः ।।१२।। तथा पुरप्रवेशेऽद्या-तिसध्या वर्ततेऽधुना । तद्गम्यते समुत्तिष्ठ, नगरे निजवेश्मनि ॥ १३॥ इत्यादि मधुरालापैः, श्रेणिकः पृथिवीपतिः । सशोकां श्रेष्ठिनी भद्रा, सवधूकामबूषुधत् ॥ १४ ॥ अभिवन्ध ततो भद्रा, वाचंयमशिरोमणी । रुदितक्षीणकण्ठाऽगा-द्विमनस्का मिजं गृहम् ।। १५ ॥ भेम्भासारोऽपि तौ साधू, वन्दित्वा सपरिच्छदः । अहक्तिपवित्रात्मा, प्रविवेश निजं गृहम्॥१६॥ तो पुनः सम्यगाराध्या-नशन सुसमाहितौ । धन्यश्च शालिभद्रश्च, मुनी पञ्चत्वमापतुः ॥ १७ ॥ अवबुध्यानयोः काल-गमनं स्थविरास्ततः । निर्वाणप्रत्ययं चक्रुः, कायोत्सर्गमभीरवः ॥ १८ ॥ पादमूले जिनेन्द्रस्य, ते समेत्य प्रणम्य च । निवद्धाञ्जलयो नम्र-मूर्धान इदमूचिरे ॥ १९॥ भगवन् भवतां शिष्यो, तौ प्रकृत्यैव भद्रको । आराध्यानशनं सम्यकीर्तिशेषत्वमापताम् ॥ २० ॥ अथेन्द्रभूतिर्भगवान्, प्रथमो गणभृवरः । निजरूपपराभूता-नुत्तरस्वर्गनिर्जरः ॥ २१ ॥ समचतुरस्त्रं संस्था-नमुत्तमं धारयंश्चतुर्ज्ञानी । वर्षभनाराचा-भिधानसंहननवलशाली ॥ २२ ॥ श्रीपृथ्वीवसुभूत्या-जन्मा सप्तकरोच्छूयः । चारुचामीकरच्छायः, स्वर्णाद्रिरिव जङ्गमः ॥ २३ ॥ १ श्रेणिकः HEADLI.BUDDOOOoral For Private and Personal Use Only Page #112 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धन्यशाली महाकाव्यम् सर्गः६ |॥११॥ ॥११॥ अभ्युत्थायाभिवन्द्योचै-रहतोऽधिजलेरुहम् । गोत्रेण गौतमः श्रीमान् , योजिताञ्जलिसम्पुटः ॥२४॥ समस्तश्रुतपाथोधि-पारदृश्वा विन्नपि । विनीतविनयोऽप्राक्षी-जिनेन्द्रमविदन्निव पञ्चभिः कुलकम् ॥ २५ ॥ विनेयौ भवता शालि-भद्र धन्यौ जगत्पते । चमत्कारकरीं त्यक्त्वा सम्पदं ब्रतमाश्रितो षष्ठाष्टमादिकं भद्र-महाभद्रादिकं तथा । तप्येते स्मनिराशंसं, तपोऽप्यत्यन्तदुष्करम् ॥ २७॥ अधीत्यैकादशाङ्गानि, गीतार्थों तु बभूवतुः । निष्कलङ्कं निरुद्विग्नौ, पालयामासतुव्रतम् ॥ २८ ॥ पादपोपगमं नाम, पर्यन्तेऽनशनं श्रितो । प्रकृत्या भद्रको शील-कलितौ विनयान्वितौ ॥ २९ ॥ शुभेनाध्यवसायेन; पूरयित्वायुरात्मनः । उत्पेदाते जगन्नाथ, क कदा सेत्स्यतश्च तौ ॥ ३०॥ ततः श्रीमान्महावीरः, प्रावृडम्भोधरध्वनिः । निजगादेन्द्रभूते मे, शिष्यौ मुनिगुणान्वितौ ॥३१॥ उपरिष्ठात्सहस्रांशु-पीयूषांशुविमानयोः । ऊर्ध्व मेरुगिरेरूवं, कल्पद्वादशकादपि ॥ ३२॥ अवेयकसुरावासा-नतिक्रम्य नव क्रमात् । विष्कम्भायामतो लक्ष-योजनप्रमितेऽभितः ॥ ३३ ॥ वृत्ते सर्वार्थसिद्धाख्ये-जघन्योत्कृष्टजीविते । एकद्वारे विमानेऽस्मिन्ननुत्तरसुवासिके ॥ ३४ ॥ अहमिन्द्रो त्रयस्त्रिंशत्सागरप्रमितायुषौ । त्रिदशौ समजायेतां, रनिमानसिताङ्गको ॥ ३४ ॥ १ बमुष्टिः दस्तो रस्निः, तत्प्रमाणं सित चोज्ज्वल म ययोस्तो. Titanबालककाकाove SANDEEPELOpenDDULA For Private and Personal Use Only Page #113 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagersuri Gyanmandit पन्यशाली भद्र॥११॥ आयुः सुखेन परिपूर्य समग्रमस्मा-पच्युत्वा विदेहविजये सुकुले समृद्धे । जन्माऽऽप्य सर्वविरतिं प्रतिपाल्य सम्य-गासाद्य केवलमलं शिवमाप्स्यतस्तो ॥ ३५ ॥ ज्ञात्वव निनिदानव्रतिषितरणतः सच्चमत्कारकारि-श्रीसम्प्राप्ति नरत्वेऽनुपमसुररमा सङ्गम स्वर्गलोके। सर्वोपाधिप्रमुक्तातुलममृतसुखं चेभ्यगोभद्रमुन्धोः, पात्रेभ्यो दत्त दानं ननु सकलशिवान्याप्तुमिष्टानि वश्चेत् ॥ ३७॥ नम्यं पूज्यमनेकनिर्मलयशःशीलं सुरेन्द्रस्तुतं, सद्वर्णद्गुणदं जिनं कलरवं दुःकृच्छभङ्गप्रदम् । मित्रं भव्यतमस्त मिस्रलवने शान्तं सुपाणि ध्रुवं, वन्देऽमानमहिंसकं भ्रमिगदातङ्कच्छिदं सुस्तवम्॥३८॥ महाकाव्यम् सर्गः ६ ॥११॥ इति श्रीधन्यशालिभद्रमहर्षिचरिते शालिभद्रपूर्वजन्मभणनादिधन्यशालिभद्रसर्वार्थसिद्धिगमनमहाविदेहविजयभाविमुक्तिप्राप्तिफलप्रतिपादनपर्यन्तल्यावर्णनो नाम पष्टः परिच्छेदः। समाप्त चेदं धन्यशालिभद्रमुनिपुङ्गवयोश्चरित्रमिति । अनुष्टुभां १४६० ॥ १ निदानरहितमुनिदानतः. २ मोक्षसुखम्. ३ भव्यलोका ज्ञानरूपान्धकारदलने मित्रं सूर्यसमानम्. For Private and Personal Use Only Page #114 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www.kobatirth.org प्रशस्तिः धन्यशाली 36 PEमहाकाव्यम् सर्गः६ ॥११२॥ ॥११॥ श्रीमद्गुर्जरभूमिभूषणमणी श्रीपत्तने पत्तने, श्रीमहर्लभराजराजपुरतो यश्चैत्यवासि द्विपान् । निर्लोब्यागम हेतुयुक्तिनखरैर्वासं गृहस्थालये, साधूनां समतिष्ठपन्मुनिमृगाधीशोऽप्रधृष्यः परैः ॥१॥ सरिः स चान्द्रकुलमानसराजहंसः, श्रीमज्जिनेश्वर इति प्रथितः पृथिव्याम् । जज्ञे लसचरणरागभृदिशुद्ध-पक्षद्वयः शुभगति सुतरां दधानः ॥ २ ॥ सच्छिष्यो जिनचन्द्रसरिरमृतज्योतिर्नवीनोऽभव-त्पद्मोड़ासनभृत् कलङ्कविकलो दोषोदयध्वंसनः सुस्थैर्यो जडिमापहारचतुरः सच्चक्रमोदावहो, दूरीभूततमोवृतिनकुटिलो न व्योमसंस्थानकृत् ॥३॥ अन्योऽपि शिष्यतिलकोऽभयदेवमूरिः, श्रीमजिनेश्वरगुरोः श्रुतकेतुरासीत् । पञ्चाशकाष्टकनवारगमनोज्ञटीका-कारः सुचारुधिषणः सुमनः प्रपूज्यः ॥ ४ ॥ आकाभयदेवसूरिसुगुरोः सिद्धान्ततत्वामृतं, येनाज्ञायिन संगतो जिनगृहे वासो यतीनामिति। सं त्यक्त्वा गृहमेधिगेहषसतिर्मिर्दूषणा शिश्रिये, सूरिःश्रीजिनवल्लभोऽभवदसौ विख्यातकीर्तिस्ततः।५ र नामान्तं चक्र' इति प्रत्यन्तरम्. २ चरणं चारित्र, पादश्व. For Private and Personal Use Only Page #115 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra धन्यशाली भद्र ॥११३॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बाल्ये भारवांस्ततः समुद्गाज्जिनदत्तसूरि-व्यारविन्दचयबोधविधानदक्षः । गावः स्फुरन्ति विधिमार्गविकासनैक-तानास्तमोविदलनप्रवणा यदीयाः ॥६॥ श्रीजिनदत्तसूरिविभुभिर्ये दीक्षिताः शिक्षिता, दत्त्वाचार्यपदं स्वयं निजपदे तैरेव संस्थापिताः । ते श्रीमजिनचन्द्रसरिगुरवोऽपूर्वेन्दुबिम्बोपमा, न ग्रस्ता तमसा कलङ्कविकलाः क्षोणौ बभूवुस्ततः ॥ ७ ॥ यैर्वादीन्द्रकद्रदर्पदलने सिंहैरिव स्फूर्जितं, मोहध्वान्तविनाशने भुवि सदा सूर्यैरिवोज्जृम्भितम् । भव्यप्राणिसमूहकैरववने चन्द्रैरिवेोद्गतं । ते श्रीमजिनपत्याभिख्यगुरवोऽभूवन् यतीशोत्तमाः ॥ ८ ॥ तेषु स्वर्गाधिरूढेष्वह बहुगुणस्तद्विनेयावतंसः, साधुर्वीरप्रभाख्यः सकलगणधुरा धुर्यव योजितश्रीः आचार्यैः सर्वदेवैर्विहितगुरपदोऽधिष्ठितस्तन्महिम्ना, नामानं लम्भितः श्रीवसतिनिवसतिस्थापनाचुञ्चभूरेः ॥ ९ ॥ श्रीचन्द्रगच्छमभिनन्दति शास्ति पाति, तीर्थ प्रभावयति सम्मति जैनचन्द्रम् । यः श्रीजिनेश्वर इवाप्रतिमैर्वचोभि-वृत्तैरिव त्रिभुवनं पृणति प्रसीतः ॥ १० ॥ | तदाज्ञया सद्गुणसर्वदेवाचार्यैः समं जैसलमेरुदुर्गे । स्थितो गिरैषां स्वपरोपकारहेतोः समाधि मनसोऽभिलव्यन् ॥ ११ ॥ शर वसु रविसङ्घये (१२८५) वैक्रमे वत्सरेऽस्मिन्, षति तपसि मासे शुक्लपक्षे दशम्यांम् । जिनपनि गुरुशिष्यः पूर्णभद्राभिधानो गणिरकृत चरित्रं धन्यगोभद्रमन्वोः ॥ १२ ॥ For Private and Personal Use Only 兆美眺美美美美美 महाकाव्यम् सर्गः ६ | ॥११३॥ Page #116 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra धन्यशाली भद्र॥११४॥ www.kobatirth.org (१४९०) चरितमिदमखिलनिर्मल-विद्याकृपारपारदृश्वानः । वाचकमुख्याः सूरप्रभाभिधाः शोधयाञ्चक्रुः ।। १३ ।। धन्यसाधुमुनिशालिभद्रयोः, प्रीतिकारि चरितं विधाययत् । पुण्यमत्र समुपार्जितं मया, स्यात्ततो जगदिदं सुखास्पदम् ॥ गगनसरसि यावन्निर्मले शारदेन्दुः कलयति कलहंसस्फारलीलातिरेकम् । जगति जयति (तु) तावत्पव्यमानं सुधीभिः सुचरितमिदमुच्चैर्धन्यगो भद्रन्वोः ॥ १५ ॥ इति ग्रन्थकारप्रशस्तिः । ॥ इति श्रीधन्यशालिभद्रचरितं समाप्तम् ॥ Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only महाकाव्यम् सर्गः ६ ॥ ११४ ॥ Page #117 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandit 听听听听听听听听听听听听听听听听听听听555555听听听听听听听听听 塞 VSTH II等 佔555555555555555555555555555555555 会不会从会会会会认定机会从安全运会入会会规定从容认会 For Private and Personal Use Only