Page #1
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir . / / कोबातीर्थमंडन श्री महावीरस्वामिने नमः / / / / अनंतलब्धिनिधान श्री गौतमस्वामिने नमः / / / / गणधर भगवंत श्री सुधर्मास्वामिने नमः / / / / योगनिष्ठ आचार्य श्रीमद् बुद्धिसागरसूरीश्वरेभ्यो नमः / / / / चारित्रचूडामणि आचार्य श्रीमद् कैलाससागरसूरीश्वरेभ्यो नमः / / आचार्य श्री कैलाससागरसूरिज्ञानमंदिर पुनितप्रेरणा व आशीर्वाद राष्ट्रसंत श्रुतोद्धारक आचार्यदेव श्रीमत् पद्मसागरसूरीश्वरजी म. सा. जैन मुद्रित ग्रंथ स्केनिंग प्रकल्प ग्रंथांक :1 जी जैन आराधना महावीर कोबा. 2 अमृतं तु विद्या तु श्री महावीर जैन आराधना केन्द्र शहर शाखा आचार्यश्री कैलाससागरसूरि ज्ञानमंदिर कोबा, गांधीनगर-श्री महावीर जैन आराधना केन्द्र आचार्यश्री कैलाससागरसूरि ज्ञानमंदिर कोबा, गांधीनगर-३८२००७ (गुजरात) (079) 23276252, 23276204 फेक्स : 23276249 Websit: www.kobatirth.org Email : Kendra@kobatirth.org आचार्यश्री कैलाससागरसरि ज्ञानमंदिर शहर शाखा आचार्यश्री कैलाससागरसूरि ज्ञानमंदिर त्रण बंगला, टोलकनगर परिवार डाइनिंग हॉल की गली में पालडी, अहमदाबाद - 380007 (079)26582355 For Private And Personal Use Only
Page #2
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only
Page #3
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // श्रीगुरुचरणारविन्दाभ्यां नमः॥ सिद्धान्तकौमुदीसहिता // बालमनोरमा॥ येनाभरसमाम्नायमधिगम्य महेश्वरात् / कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः / / 1 // येन धौता गिरः पुंसां विमलैशब्दवारिभिः / तमश्चाज्ञानजं भिन्नं तस्मै पाणिनये नमः // 2 // वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिम / पाणिनि सूत्रकारं च प्रणतोऽस्मि मुनित्रयम् // 3 // श्रौत्रार्हन्तीचणैर्गुण्यैर्महर्षिभिरहर्दिवम् / तोष्टूय्यमानोऽप्यगुणो विभुर्विजयतेतराम् // 4 // अस्तु नमः पाणिनये भूयो मुनये तथास्तु वररुचये / किञ्चास्तु पतञ्जलये शब्दब्रह्मात्मने च धूर्जटये // 1 // व्याख्याता बहुभिः प्रौढरेषा सिद्धान्तकौमुदी / वासुदेवस्तु तद्वयाख्यां वष्टि बालमनोरमाम् // 2 // मङ्गलादीनि मङ्गळमद्धयानि मङ्गळान्तानि च शास्त्राणि प्रथन्ते वीरपुरुषाणि भवन्त्यायुष्मत्पुरुषाणि चाद्धयेतारश्च मङ्गळयुक्तास्स्युरिति भाष्यप्रमाणकं ग्रन्थमद्धये विघ्नविघातादिप्रयोजनाय कृतं मङ्गळं शिष्यशिक्षायै ग्रन्थतो निबध्नाति ।श्रौत्रेति ॥वेदाद्धयेता श्रोत्रियः / श्रोत्रियञ्छन्दोऽधीत इति वेदपर्यायात् छन्दश्शब्दात् द्वितीयान्तादधीत इत्यर्थे घन्प्रत्ययः / प्रकृतेः श्रोत्रादेशश्च निपातितः। श्रोत्रियस्य भावः श्रोत्रम् / श्रोत्रियस्य यलोपश्चेत्यणि इकारादुत्तरस्य For Private And Personal Use Only
Page #4
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदीसहिता पूर्वार्धे कथितास्तुर्यपञ्चमाद्धयायवर्तिनः / प्रत्यया अथ कथ्यन्ते तृतीयाद्धयायगोचराः // 5 // यकाराकारसंघातस्य लोपे इकारस्य यस्येतिचेति लोपः / अर्हति आर्यैः प्रशस्यमानेषु वेदविहितकर्मसु योग्यो भवतीत्यर्हन् / अर्हः प्रशंसायामिति शतृप्रत्ययः / अर्हतो भावः आर्हन्ती अर्हतो नुम्चेति घ्यजि आदिवृद्धौ प्रकृतेर्नुमागमे षित्वान्डीषि हलस्तद्धितस्येति यकारलोपे यस्येतिचेत्यकारलोपः / स्त्रीत्वं लोकात्। श्रौत्रञ्च आर्हन्ती च श्रौत्रार्हन्त्यौ / ताभ्यां वित्ताः श्रौत्रार्हन्तीचणाः। तैरिति विग्रहः / तेन वित्तश्चुञ्चुपचणपाविति चणम् / वेदाद्धयेतृत्वेन वेदविहितकर्मयोग्यतया च प्रसिद्धेरिति यावत् / गुण्यैरिति // नित्यानित्यवस्तुविवेकः, इहामुत्रार्थफलभोगविरागः, शमदमादिसम्पत्तिः, मुमुक्षुत्वं, इत्यादिप्रशस्तगुणसम्पन्नैरित्यर्थः / रूपादाहतप्रशंसयोरिति सूत्रे अन्येभ्योऽपि दृश्यत इति वार्तिकेन यप् प्रत्ययः / तद्भाष्ये गुण्या ब्राह्मणा इत्युदाहरणात् / महर्षिभिरित // महान्तश्च ते ऋषयश्चेति कर्मधारयः / आन्महत इत्यात्वम् / अतितपस्विभिरित्यर्थः / अहर्दिवमिति // अहश्च दिवाचेति वीप्सायां अचतुरेत्यादिना द्वन्द्वो निपातितः / अहन्यहनीत्यर्थः / तोष्ट्रय्यमानोऽपीति // छुञ् स्तुती, सकर्मकः, गुणवत्त्वेनाभिधानं स्तुतिः / अभिधानक्रियानिरूपितं कर्मत्वमादाय देवान् स्तोतीत्यादौ द्वितीया / न तु गुणाभिधानमेव स्तुतिः / तथा सति गुणस्य धात्वर्थोपसंगृहीतत्वेनाकर्मकत्वापत्तेः / धात्वादेष्षस्स इति षकारस्य सकारे षत्वनिवृत्तौ धातोरेकाच इति भृशाथै यडि अकृत्सार्वधातुकयोरिति दीर्घ सन्यङोरिति द्वित्वे शपूर्वाः खय इति सकारस्याभ्यासगतस्य लोपे गुणो यङ्लुकोरित्यभ्यासोकारस्य गुण ततः परस्य सस्य आदेशप्रत्यययोरिति षत्वे श्रुत्वेन तकारस्य टकारे तोष्ट्रयति यहन्तात् सनाद्यन्ता इति धातुसंज्ञकात् कर्मणि लटइशानचि आनेमुगिति मुगागमे सार्वधातुके यगिति यकि यडोऽकारस्य अतो लोप इति लोपे तोष्ट्रय्यमान इति रूपम् / भृशं स्तूयमानोऽपीत्यर्थः / अचिन्त्यजगद्रचनाद्यनन्तगुणसम्पन्नतया भृशं सङ्कीर्त्यमानोऽपीति यावत् / अगुण इति // निर्गुण इत्यर्थः / साक्षी चेता केवलो निर्गुणश्चेत्यादिश्रुतेरिति भावः / निर्गुणस्य गुणवत्वेन कथनात्मिका स्तुतिविरुद्धत्यापातप्रतिपन्नं विरोधमपिशब्दो द्योतयति / गुणानां व्यावहारिकसत्यत्वेऽपि पारमार्थिकत्वाभावान विरोध इत्युत्तरमीमांसायां स्पष्टम् / विभुरिति / / सर्वव्यापकः परमेश्वर इत्यर्थः / विजयतेतरामिति // जिजये अकर्मकः / उत्कर्षेण वर्तनं जयः / विपराभ्याओरित्यात्मनेपदम् / तिडश्चत्यतिशायने तरप् / किमेत्तिडव्ययेति तरबन्तात् स्वार्थे आम्प्रत्ययः / 'तद्धितश्चासर्वविभक्ति' रित्यत्र तसिलादिषु परिगणनादामन्तमव्ययम् / सर्वोत्कर्षण वर्तत इत्यर्थः / न च विजयत इति समुदायस्यातिङन्तत्वात् कथन्ततस्तरविति वाच्यम् / वि इति हि भिन्नं पदम् / तिङन्तोत्तरपदसमासस्य छन्दोमात्रविषयत्वात् / ततश्च जयत इत्यस्मादेव तरप् / न च जयत इत्यस्य विपराभ्याछुरिति कृतात्मनेपदस्य विशब्दसापेक्षत्वादसामर्थ्य शङ्कयम् / वीत्युपसर्गस्य द्योतकत्वेन पृथगर्थविहीनतया तत्सापेक्षत्वाभावात् तिङन्तस्य प्रधानतया तस्य विशब्दापेक्षत्वेऽपि बाधकाभावाचेत्यलम् / / वृत्तकथनपूर्वकं वर्तिष्यमाणनिरूपणं प्रतिजानीते / पूर्वार्ध इति // तुर्यश्चतुर्थः / चतुर For Private And Personal Use Only
Page #5
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बालमनोरमा अथ तिङन्तभ्वादिप्रकरणम्। तबादौ दश लकारा: प्रदर्श्यन्ते / लट् / लिट् / लुट् / लुट् / लेट् / लोट् / लङ् / लिङ् / लुङ् / लङ् / एषु पञ्चमो लकारश्छन्दोमात्रगोचरः / 2151 / वर्तमाने लट् / (3-2-123) वर्तमानक्रियावृत्तेर्धातोर्लट् स्यात् / अटावितौ / 2152 / लः कर्मणि च भावे चाकर्मकेभ्यः / ( 3-4-69) लकारा: सकर्मकेभ्यः कर्मणि कर्तरि च स्युरकर्मकेभ्यो भावे कर्तरि च / इछयतावाद्यक्षरलोपश्चेति चतुरशब्दाद्यत्प्रत्ययः / प्रकृतेश्चकाराकारसंघातलोपश्च / पूर्वार्धे चतुर्थ पञ्चमायायवर्तिनः प्रत्ययाः कथिता इत्यन्वयः / स्पृशोऽनुदके विनित्यादितार्तीयांककतिपयप्रत्ययोपन्यासस्तु प्रासङ्गिक इति भावः / अथेति॥ चतुर्थपञ्चमाद्धयायवर्तिप्रत्ययनिरूपणानन्तरं तृतीयाद्धयायगोचराः प्रत्ययाः कथ्यन्त इत्यन्वयः / तृतीयाद्धयायस्य गोचराः प्रतिपाद्यतया विषयाः तृतीयायायविहिना इति यावत् / कृत्यु णचः स्त्रियामअित्यादितद्धितव्युत्पादनन्तु प्रासङ्गिकमिति भावः // 2 // तत्रेति // निर्धारणसप्तम्यन्तात्त्रल / तेषु तृतीयाद्धयायवर्तिप्रत्ययेष्वित्यर्थः / दशेति // अनुबन्धभेदाल्लकारभेद इति भावः / पञ्चम इति // लेडित्यर्थः / छन्दोमात्रेति // लिङथे लेडिल्यत्र छन्दसि लुङ्ललिटः, इति पूर्वसूत्रात् छन्दसत्यनुवृत्तेरिति भावः / एतेन लेडपाणि इह कुतो न प्रदश्यन्त इति शङ्का निरस्ता। वर्तमान इति॥धातोरिति सूत्रमातृतीयाद्धयायसमाप्तेरधिकृतम् / वर्तमान इति तत्रान्वेति। वर्तमानेऽर्थे विद्यमानाद्धातोः लडिति लभ्यते / फलितमाह / वर्तमानक्रियावृत्तेरिति // धात्वर्थक्रियाया वर्तमानत्वन्तु अतीतानागतभिन्नकालवृत्तित्वम् / कालस्य तु वर्तमानत्वं अतीतानागतभिन्नकालत्वम् / भूतभविष्यतोः प्रतिद्वन्द्वो वर्तमानः काल इति भाष्यम् / वर्तमानत्वञ्च न प्रत्ययार्थभूतकादिविशेषणम् / अर्तातपाकादिक्रिये कर्तरि पचति इत्याद्यापत्तेः। किन्तु धात्वर्थविशेषणमेव वर्तमानत्वम्। लट् तु तस्य द्योतक एव / अटाविताविति // न च अकार उच्चारणार्थ एवास्त्विति वाच्यम् / लिडादिवलक्षण्याय तस्यावश्यकत्वात् / तथाच तस्य इत्संज्ञां विना निवृत्युपायाभावात् इत्संज्ञैवादर्तव्येति भावः / लः कर्मणीति // वाक्यद्वयमिदं सूत्रम् / ल: कर्मणि चेति प्रथमं वाक्यम् / ल इति प्रथमाबहुवचनान्तं / चकारेण कतरि कृदित्यतः कर्तरीत्यनुकृष्यते। धातोरित्यधिकृतम्। लकाराः कमणि कर्तरि च धातोस्स्युरिति लभ्यते। सकर्मकधातुविषयमेवेदम् / अकर्मकेषु कर्मणीत्यस्य बाधि For Private And Personal Use Only
Page #6
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदीसहिता [भ्वादि 2153 / लस्य / (3-4-77) अधिकारोऽयम् / 2154 / तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिवहि महिङ् / (3-4-78) एतेऽष्टादश लादेशाः स्युः / 21.55 / लः परस्मैपदम् / (1-4-99) लादेशाः परस्मैपदसंज्ञाः स्युः / 2156 / तङानावात्मनेपदम्। (1-4-100) तङ् प्रत्याहारः शानच्कानचौ चैतत्संज्ञाः स्युः / पूर्वसंज्ञापवादः / तत्वात् / तदाह / लकारास्सकर्मकेभ्यो धातुभ्यः कर्मणि कर्तरि च स्युरिति // एवञ्च सकर्मकेभ्यो भावे लकारा न भवन्ति। सकर्मकेभ्योऽपि भावलकारप्रवृत्ती तु देवदत्तेन घटं क्रियत इत्यादो भावलकारेण कर्मणोऽनभिहितत्वात् द्वितीया स्यादिति भावः / भावे चाकर्मकेभ्य इति द्वितीयं वाक्यम् / अत्रापि चकारेण कतैवानुकृष्यते। न तु कर्म। असम्भवात् / तदाह / अकर्मकेभ्यो भावे कर्तरिचेति // अनाकर्मकग्रहणेन अविवक्षितकर्मका अपि गृह्यन्ते / तेन देवदत्तेन भुज्यत इत्यत्र सतोऽप्योदनरूपकर्मणः अविवक्षायां भावे लकारोऽस्त्यवेत्यन्यत्र विस्तरः / लस्येति // धातोरित्यधिकृतम् / अकारो न विवक्षितः / तेन लिडादीनामपि संग्रहः / चूडाल इत्यादौ च नातिप्रसङ्गः। तिप्तसिति // तिम् , तस् , झि, सिप , थस् , थ, मिप , वस, मस् , त, आताम् , झ, थास् , आथाम् , ध्वम् , इट् , वहि, महिङ् / एषां समाहारद्वन्द्वात् प्रथमैकवचनम् / लस्येति स्थानषष्ठयन्तमधिकृतम् / तेन आदेश इति लभ्यते। फलितमाह / एत इति // तसादौ रुत्वाभाव आषः / तिबादी पकारानुबन्धप्रयोजनन्तु द्वेष्टीत्यादौ सार्वधातुकमपिदिति डित्वनिवृत्यर्थम् / तदुदाहरणेषु स्पष्टीभविष्यति / ल इति // ल इति स्थानषष्ठी / आदेश इत्यद्धयाहार्यम् / तदाह / लादेशा इति / तङिति // तच आनश्चेति द्वन्द्वः / प्रत्याहार इति // त आतामिति तशब्दमारभ्य महिङिति ङकारणेति शेषः / तदाह / तादिनवकमिति // इह पूर्वसूत्राल्ट इत्यनुवर्तते / ततश्च आनग्रहणेन शानच्कानचावेव गृह्यते / न तु ताच्छील्यवयोवचनशक्तिषु चानशिति विहितश्चानशपि / तस्य लादेशत्वाभावात् / तेन परस्मैपदिभ्योऽपि चानश् सिद्धयति। निम्नाना इत्यादौ / तदाह / शानच् कानचौ चेति / एतत्संज्ञा इति // आत्मनेपदसंज्ञाका इत्यर्थः / पूर्वसंक्षेति // परस्मैपदसंज्ञापवाद इत्यर्थः / एवञ्च तिबादिनवके परस्मैपदसंज्ञा For Private And Personal Use Only
Page #7
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम] बालमनोरमा 2157 / अनुदात्तङित आत्मनेपदम् / (1-3-12) अनुदात्तेत उपदेशे योङित्तदन्ताच्च धातोर्लस्य स्थान आत्मनेपदं स्यात् / 2158 / स्वरितजितः कर्चभिप्राये क्रियाफले / (1-3-78) स्वारतेतो भितश्च धातोरात्मनेपदं स्यात्कर्तृगामिनि क्रियाफले / 2159 / शेषात्कर्तरि परस्मैपदम् / (1-3-79) आत्मनेपदनिमित्तहीनाद्धातोः कर्तरि परस्मैपदं स्यात् / नियमात / पर्यवस्यति / अथ कस्माद्धातोः परस्मैपदम् कस्मादात्मनेपदमित्याकांक्षायामाह / अनुदात्तेति // अनुदात्तश्च इच अनुदात्तडी / ताविती यस्य सः अनुदात्तडित / तस्मात् अनुदात्तडितः। द्वन्द्वान्ते श्रूयमाणं इच्छब्दः प्रत्येकं सम्बद्धयते। अनुदात्तेतः डितश्चेति लभ्यते। उपदेशेऽजनुनासिक इदित्यम्मात् मण्डूकप्लुत्या उपदेश इत्यनुवृत्तम् ङित इत्यनेन सम्बध्यते / नत्वनुदात्त इत्यनेन / उपदेशादन्यत्र अनुदात्तस्येत्संज्ञाया अप्रसक्तत्वेनाव्यभिचारात् / भूवादयो धातव इत्यस्मान्मण्डूकप्लुत्या धातव इत्यनुवृत्तम् पञ्चम्या विपरिणतम् अनुदात्तेता डिता च विशेष्यते / तत्रानुदात्तेदंशे तदन्तविधेः प्रयोजनाभावात् डिदंशे तदन्तविधिः / तदाह / अनुदात्तेत इत्यादिना। लस्यस्थान इति // आत्मनेपदग्रहणलभ्यमिदम् / तिङ लादेश उपदेशे किम् / चुकुटिषति। अत्र गाङ्कुटादिभ्य इति सन आतिदेशिकमव डित्वम्। नत्वौपदेशिकम्। धातोः किम् / अदुद्रुवत् / अत्र णिश्रीति चङन्तानात्मनेपदम् / डिदंशे तदन्तविद्धयभावे तु चोभूयत इत्यादी सनाद्यन्ता इति धातुसंज्ञकात् यङन्तादात्मनेपदं न स्यात् / डित इत्येवोक्तो तु यङो डित्वेऽपि तदन्तस्य धातोर्डित्वाभावादात्मनेपदं न स्यात् / स्वरितभित इति // खरितश्च ञ् च स्वरितत्रौ तो इतो यस्य तस्मादिति बहुव्रीहिः। इच्छब्दःप्रत्येकं सम्बध्यते / तदाह। स्वरितेतो जितश्चेति ॥धातोरित्यनन्तरं लस्य स्थान इति शेषः / कर्तारमभिप्रेति गच्छतीति कभिप्रायम् / कर्मण्यण् / तदाह / कर्तृगामिनीति // एवञ्च होता याज्यया यजतीत्यादौ यागफलस्य स्वर्गस्य यजमानगामित्वेन होतृगामित्वाभावात् नात्मनेपदम् / तथा वेतनेन यज्ञदत्तभृतोदेवदत्तः पचतीत्यत्रापि पाकफलस्य भोजनस्य पक्तृगामित्वाभावानात्मनेपदम् / दक्षिणादिलाभस्तु न फलम् / लोकतो वेदतो वा यदुद्देशेन क्रियाप्रवृत्तिः तस्यैवात्र कियाफलशब्देन विवक्षितत्वात् / कर्तृगामिफलकक्रियावृत्तेधीतोरित्यर्थः / आत्मनेपदन्तु धात्वर्थफलस्य कर्तृगामित्वं द्योतयतीत्यलम् / शेषात्कर्तरीति // अनुदात्तडित इति स्वरितजित इति चोक्तात् आत्मनेपद विषयादन्यश्शेषः / तदाह / आत्मनेपदनिमित्तहीनादिति // अनेन भूधातोः कर्तरि लस्य परस्मैपदं सिद्धम् / तत्र तिबादिनवके युगपत् पर्यायेण एकद्विवादिकतिपयरूपेण वा प्राप्ते युष्मद्युपपदे समानाधिकरणे स्थानिन्यपि मद्धयमः / अस्मद्युत्तमः / शेषे प्रथमः / इति व्यवस्था For Private And Personal Use Only
Page #8
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदीसहिता [भ्वादि 2160 / तिङस्त्रीणि त्रीणि प्रथममद्यमोत्तमाः। (1-4-101) तिङ उभयोः पदयोस्त्रयस्त्रिकाः क्रमादेतत्संज्ञाः स्युः / 2161 / तान्येकवचनद्विवचनबहुवचनान्यकशः। (1-4-102) लब्धप्रथमादिसंज्ञानि तिङस्त्रीणि त्रीणि वचनानि प्रत्येकमेकवचनादिसंज्ञानि स्युः / 2162 / युष्मद्युपपदे समानाधिकरणे स्थानिन्यपि मध्यमः / तिवाच्यकारकवाचिनि युष्मदि प्रयुज्यमानेऽप्रयुज्यमाने च मद्धयमः स्यात् / 2163 / प्रहासे च मन्योपपदे मन्यतेरुत्तम एकवच्च / (1-4-106) वक्ष्यन् प्रथमादिसंज्ञां तावदाह / तिङस्त्रीणीति॥तिङः षट त्रिकाः संज्ञास्तु तिस्र इति यथासंख्यासम्भवादेकैकस्य त्रिकस्य तिसृषु संज्ञासु प्राप्तास्वाह / तिङ उभयोः पदयोरिति // ल: परस्मैपदमित्यतः परस्मैपदमिति तङानावात्मनेपदमित्यत आत्मनेपदमिति चानुवृत्तम् षष्ठयन्ततया विपरिणम्यते / ततश्च परम्मैपदात्मनेपदयोरुभयोरपि प्रत्येकं त्रयस्त्रिकास्सन्तीति यथासंख्यम्प्रथमादिसंज्ञाः प्रवर्तन्त इति भावः। प्रथमादिषु पुरुषसंज्ञा तु प्राचीनाचार्यशास्त्रसिद्धेति बोद्धयम् / अथ प्रथमादिपुरुषेषु एककस्मिन् पुरुष प्रत्ययविकात्मके युगपत् पर्यायेण वा एकैकप्रत्यये प्राप्ते ड्येकयोर्द्विवचनैकवचने / बहुषु बहुवचनमिति व्यवस्थार्थमेकवचनादिसंज्ञामाह / तानीति // तच्छब्देन पूर्वसूत्रोपात्तानि प्रथममद्धयमोत्तमाख्यानि तिङस्त्रीणि त्रीणि परामृश्यन्ते / तदाह / लब्धप्रथमादिसंज्ञानीति // एकश इत्यस्य विवरणं प्रत्येकमिति / संख्यैकवचनाच्च वाप्सायामिति शसिति भावः / युष्मदीति // उपोच्चारितम्पदमुपपदम् / युष्मदि समापाचारिते सतीत्यर्थः / समानमेकमधिकरणं वाच्यं यस्येति विग्रहः / सामानाधिकरण्यञ्च युष्मदस्तिङः स्थानीभूतलकारेण विवक्षितम् / लः परस्मैपदमित्यतस्तदनुवृत्तेः। तथा च फलितमाह / तिड्याच्यकारकवाचिनि युष्मदीति // स्थानं प्रसङ्गः अस्यास्तीति स्यानी तस्मिन् प्रसक्ते सतीत्यर्थः / प्रसङ्गश्च तदर्थावगतौ सत्यां वक्त्रा अप्रयोग एव पर्यवस्यति। तथा च स्थानिनीत्यनेन उपपदभूते युष्मदि प्रयोग विना स्वार्थम्बोधयति सतीत्यर्थः पर्यवस्यति। तदाह / अप्रयुज्यमान इति // स्थानिनीत्यनुक्तौ युष्मद्युपपदे प्रयुज्यमान एव मद्धयमस्स्यात् / ततश्च राम पाहीत्यादौ अव्याप्तिस्स्यात् / अपिना लब्धमाह / प्रयुज्यमानेऽपीति // युष्मद्युपपदे स्थानिनीत्येवोक्ती राम त्वं पाहीत्यादी युष्मत्प्रयोगे मद्धयमो न स्यात् / अतोऽपिग्रहणमिति भावः / अत्वं त्वं सम्पद्यत इत्यत्र तु न मद्धयमपुरुषः / तत्र युष्मच्छब्दस्य गौणत्वात्। भवानागच्छतील्यादौ भवच्छब्दयोगे तु न मद्धयमपुरुषः। युष्मच्छब्दस्य सम्बोद्धयैकविषयत्वात् / भवच्छब्दस्य तु स्वभावेन सम्बोद्धयासम्बोद्धयसाधारणत्वादित्यलम् / प्रहास इति॥ वाक्यद्वयमिदं सूत्रमा प्रहासे च मन्योपपदे इति प्रथमं वाक्यम्। मध्यम इत्यनुवर्तते। मनधातुः श्यन्विकरण: उपपदं यस्येति बहुव्रीहिः। मन्यपदश्रवणबलात् For Private And Personal Use Only
Page #9
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा मन्यधातुरुपपदं यस्य धातोस्तस्मिन्प्रकृतिभूते सति मद्धयमः स्यात्परिहासे गम्यमाने / मन्यतेस्तूत्तमः स्यात्स चैकार्थस्य वाचकः स्यात् / 2164 / अस्मद्युत्तमः। (1-4-107) तथाभूतेऽस्मद्युत्तमः स्यात् / 2165 / शेषे प्रथमः। (1-4-108) मद्धयमोत्तमयोरविषये प्रथम: स्यात् / 'भू 1 सत्तायाम' / कर्तृविवक्षायां भू ति इति स्थिते / 2166 / तिशित्सार्वधातुकम् / (3-4-113) तिङ: शितश्च धात्वधिकारोक्ता एतत्संज्ञाः स्युः / 2167 / करि शप् / (3-1-68) कञर्थे सार्वधातुके परे धातोः शप्स्यात् / शपावितौ / धाताविति विशेष्यं लभ्यते / तदाह / मन्यधातुरित्यादिना / तस्मिन् प्रकृतिभूते सतीति // तस्माद्धातोलस्य स्थाने इत्यर्थः / मद्ध्यमस्स्यादिति // अस्मद्युपपद इति शेषः / अस्मद्युत्तम इत्युत्तरसूत्रात्तदनुवृत्तेः / एवञ्च उत्तमपुरुषापवादोऽयं मद्धयमविधिः / मन्यतेरुत्तम एकवच्चेति द्वितीयं वाक्यम् / तद्व्याचष्टे। मन्यतेस्तूत्तमस्स्यादिति // युष्मद्युपपद इति शेषः / पूर्वसूत्रात्तदनुवृत्तेः / सचेति // सः मन्यतेरुत्तमपुरुषः द्वित्वबहुत्वयोरपि एकवचनं लभत इत्यर्थः / मद्धयमोत्तमयोर्व्यत्यासार्थमिदम् / एतत्सर्वमनुपदमेवोदाहरणे स्पष्टीभविष्यति / अस्मद्यत्तम इति।तथाभूत इति॥तिवाच्यकारकवाचिनि प्रयुज्यमाने अप्रयुज्यमाने चेत्यर्थः। शेष इति॥ उक्तान्मयमोत्तमविषयादन्यश्शेषः। तदाह। मद्धयमोत्तमयोरावषय इति। त्वम् अहञ्च पचाव इत्यत्र तु परत्वादुत्तमपुरुष एव / न तु मद्धथमः / देवदत्तस्त्वञ्च पचथ इत्यत्रापि न प्रथमपुरुषः / युष्मदस्सत्वेन शेषत्वाभावादित्यलम् / भूसत्तायामिति // वर्तत इति शेषः / भ्वादिगणे प्रथमो धातुरयम् / तत्र भू इत्येव गणे पाठः / अर्थनिर्देशस्त्वाधुनिक इति वक्ष्यते / यद्यपि सत्ता जातिः न क्रिया। तथापि आत्मधारणं सत्तेत्युच्यते। खरूपेणावस्थानमिति यावत् / कर्तृविवक्षायामिति // वर्तमानसत्तावृत्तेर्भूधातोः कर्तरि लटि आत्मनेपदनिमित्तहीनतया परस्मैपदे तिवादिनवके तत्रापि युष्मदस्मत्सामानाधिकरण्याभावात् प्रथमपुरुषत्रिके तत्रापि कर्तुरेकत्वविवक्षायां तिपि सति भूति इति स्थिते प्रक्रिया वक्ष्यत इत्यर्थः // तत्र सार्वधातुककार्य वक्ष्यन् सार्वधातुकसंज्ञामाह / तिङशिदिति॥ धातोरित्यधिकृतम् / तदाह / धात्वधिकारोक्ता इति। तेन हरीनित्यत्र शसस्सार्वधातुकत्वंन / अन्यथा तिड्शित्सार्वधातुकमिति शसस्सार्वधातुकत्वात् सार्वधातुकमपिदिति ङित्वे घेर्डितीति गुणः स्यात् / कर्तरीति ॥सार्वधातुके यगित्यस्मात् सार्वधा For Private And Personal Use Only
Page #10
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बालमनोरमा [भ्वादि 2168 / सार्वधातुकार्धधातुकयोः / (7-3-84) अनयोः परयोरिहाङ्गस्य गुणः स्यात् / अवादेशः / भवति / भवतः / 2169 / झोऽन्तः / (7-1-3) प्रत्ययावयवस्य झस्यान्तादेश: स्यात् / ' अतो गुणे' (191) / भवन्ति / भवसि / भवथः भवथ / 2170 / अतो दी| यञि। (7-3-101) अतोऽङ्गस्य दीर्घः स्याद्यबादौ सार्वधातुके परे / भवामि / भवावः / भवामः / स भवति / तौ भवतः / ते भवन्ति / त्वं भवसि / युवां भवथः / यूयं भवथ। तुक इत्यनुवर्तते। धातोरेकाचो हलादेरित्यस्माद्धातोरिति। तदाह / कर्बर्थ इत्यादिना॥तिङि परे धातोर्विहितानां प्रत्ययानां शबादीनां विकरणसंज्ञा प्राचीनाचार्यसिद्धा। शपाविताविति॥ शकारपकारौ लशक्वतद्धित इति हलन्त्यमिति चेत्संज्ञकावित्यर्थः / ततश्च शपि शकारपकारयोः लोपे अकारमात्र शिष्यत इत्यर्थः। भू अति इति स्थिते। सार्वधातुक इति // इको गुणवृद्धी इति परिभाषया इक इत्युपस्थितेन अङ्गस्येत्यधिकृतं विशेष्यते। तदन्तविधिः / मिदेगुण इत्यस्मात् गुण इत्यनुवर्तते तदाह / अनयोरित्यादिना // तथा च ऊकारस्य गुण: ओकारः। अवादेश इति ॥ओकारस्येति शेषः / तथा च परिनिष्ठितं रूपमाह / भवतीति / भवत इति॥ कर्तृद्वित्वविवक्षायां भू धातोर्लट: तसादेशे शपि गुणे अवादेशे सकारस्य रुत्वविसर्गाविति भावः / कर्तृबहुत्वविवक्षायां भूधातोर्लटः झि इत्यादेशे शपि गुणे अवादेशे च कृते। झोन्त इति // झः अन्तः इति छेदः। झ इति षष्ठयन्तम्। आदेशे तकारात् अकार उच्चारणार्थः / आयनेयी इति सूत्रात् प्रत्ययग्रहणमनुवर्तते / नत्वादिग्रहणमपि। अस्वरितत्वात् / अनुवृत्तं च प्रत्ययग्रहणमवयवषष्ठयन्तमाश्रीयते / तदाह / प्रत्ययावयव स्येति। झस्य झकारस्येत्यर्थः। अन्तादेशः स्यादिति ॥अन्त इत्ययमादेशः स्यादित्यर्थः / प्रत्ययावयवस्येति किम् / उज्झिता। अत्र धात्ववयवस्य झकारस्य न भवति। आदिग्रहणानुवृत्ती तु शयान्तै इति न सिद्धयति। अन्तादेशात्प्रागेवान्तरङ्गत्वाल्लेटोऽडाटावित्याटिकृते झकारस्य प्रत्ययादित्वाभावात् इति भाष्ये स्पष्टम् / एवञ्च भव झि इत्यत्र झकारस्य अन्त इत्यादेशे भव अन्ति इति स्थिते अतो गुण इति द्वयोरकारयोस्सवर्णदीर्घापवादे पररूपे कृते भवन्तीति रूपमित्यर्थः। अन्तादेशे प्रथमाकारोच्चारणन्तु लुग्विकरणे द्विषन्तीत्यादी अकारश्रवणार्थम् / भवसीति // मद्धयमपुरुषैकवचने सिपि शपि गुणे अवादेशे रूपम् / भवथ इति // मध्यमपुरुषद्विवचने थसि शपि गुणे अवादेशे रुत्त्वविसर्गयोश्च रूपम् / न विभक्तौ तु स्मा इति सस्य नेत्वम्। भवथेति॥मद्धयमपुरुषबहुवचने थादेशे शपि गुणे अवादेशे रूपम् / उत्तमपुरुषैकवचनेऽपि शपि गुणे अवादेशे भवमि इति स्थिते। अतो दीर्घ इति // अङ्गस्येत्यधिकृतम् अता विशेष्यते। तदन्तविधिः / तुरुस्तुशम्यम इत्यतस्सार्वधातुक इत्यनुवृत्तम् याविशेष्यते / तदादि विधिः / तदाह / अदन्तस्येत्यादिना / For Private And Personal Use Only
Page #11
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा अहं भवामि। आवां भवावः। वयं भवामः। एहि मन्य ओदनं भोक्ष्यस इति भुक्त: सोऽतिथिभिः / एतमेत वा मन्ये ओदनं भोक्ष्येथे। भोक्ष्यध्वे / भोक्ष्ये / भोक्ष्यावहे / भोक्ष्यामहे / मन्यसे। मन्येथे। मन्यध्वे / इत्यादिरर्थः / युष्मद्युपपदे' (2162) इत्याद्यनुवर्तते तेनेह न। एतु भवान्मन्यते ओदनं भोक्ष्य इति / भुक्तः सोऽतिथिभिः / 'प्रहासे' किम् / यथार्थकथने मा भूत्। एहि मन्यस ओदनं भोक्ष्य इति भुक्त: सोऽतिथिभिरित्यादि। 2171 / परोक्षे लिट् / (3-2-115) भूतानद्यतनपरोक्षार्थवृत्तेधीतोलिट् स्यात् / लस्य तिबादयः / 2172 / लिट् च। (3-4-115) भवामीति // न च भूधातोर्विहितलादेशं प्रति भूधातुरेवाङ्गम् / न तु भवेति विकरणान्तमिति वाच्यम्। यस्मात्प्रत्ययविधिस्तदादिप्रत्ययेऽङ्गमित्यत्र तदादिग्रहणेन विकरणविशिष्टस्यापि अङ्गत्वात् / भवावो, भवाम इति // लस्य वसि मसि च शपि गुणे अवादेशे अतो दीर्घे रुत्वे विसर्गे च रूपे। न विभक्ताविति सस्य नेत्वम्। अथ प्रथममध्यमोत्तमपुरुषव्यवस्थामुक्तां स्मारयितुमाह / स भवतीत्यादि ॥अथ प्रहासे चेति सूत्रस्योदाहरति / एहीति // सर्वेषु भुक्तवत्सु भोक्तुमागतं जामातरं प्रति परिहासाय प्रवृत्तमिदं वाक्यम् / भो जामातः, एहि आगच्छ, ओदनं, भोक्ष्य, इति त्वम्मन्यसे, नैताक्तमित्यर्थः / कुत इत्यत आह / भुक्तस्सोऽतिथिभिरिति // स ओदनः अतिथिभिर्भक्षित इत्यर्थः / अत्र भुजेरुत्तमपुरुषे प्राप्ते मद्धयमः पुरुषः। मन्यतेस्तु मद्धयमपुरुषे प्राप्ते उत्तमः पुरुषः / एतं, एतवेति // हे जामातरौ आगच्छतम्। ओदनं भोक्ष्यावह इति मन्येथे इत्यर्थः / भो जामातरः ओदनं भोक्ष्यामह इति मन्यध्वे इति चोभयत्रापि भुजेरुत्तमे प्राप्ते मद्धयमः / मन्यतेस्तु मद्धयमे प्राप्ते उत्तमः / द्वित्वबहुत्वयोरेकवचनञ्च / इत्यादीति // एहि एतं एतवा मन्ये जलं पास्यावः पास्याम इत्यादि संग्रहः। मन्ये इत्युत्तमपुरुषैकवचनान्तम् व्याचष्टे मन्यस इत्यादिना / अनुवर्तत इति // प्रहासेचेति सूत्र इति शेषः / एतु भवानिति // युष्मद्भवतोः पर्यायत्वाभावस्यानुपदमेवोक्तत्वादिति भावः / इति लट्प्रक्रिया // परोक्षे लिडिति // अनद्यतने लडित्यस्मादनद्यतन इत्यनुवर्तते / भूते इत्यधिकृतम् / परोक्षत्वं धात्वर्थविशेषणम् / तदाह / भूतानद्यतनेत्यादिना // अतीतरानेरन्त्ययामेन आगामिराराद्ययामेन सहितो दिवसः अद्यतन इति लुङ्सूत्रभाष्ये कैय्यटे च स्थितम् / परोक्षत्वन्तु वर्षशतवृत्तत्वमित्येके / वर्षसहस्रवृत्तत्वमित्यपरे / यहवृत्तत्वं त्रयहवृत्तत्वं चेत्यन्ये / कुज्यकटाद्यन्तरितत्वमितीतरे / एते पक्षा भाष्ये स्थिताः / तत्र प्रयोक्तुरिन्द्रियागोचरत्वं परोक्षत्वमित्येव सर्वसम्मतमित्यलम् / लस्य तिवादय इति॥ तिबादिनवकमित्यर्थः। लिट्चेति॥ लिडिति लुप्त For Private And Personal Use Only
Page #12
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदीसहिता [भ्वादि लिडादेशस्तिडार्धधातुकसंज्ञ एव स्यान्न तु सार्वधातुकसंज्ञः। तेन शबादयो न / 2173 / परस्मैपदानां णलतुसुस्थलथुसणल्बमाः / (3-4-82) लिटस्तिबादीनां नवानां णलादयो नव स्युः / 'भू' 'अ' इति स्थिते / 2174 / भुवो वुग्लुङ्लिटोः / (6-4-88) भुवो वुगागमः स्यात् / लुङ्लिटोरचि। नित्यत्वाद् बुग्गुणवृद्धी बाधते। 2175 / एकाचो द्वे प्रथमस्य / (6-1-1) 2176 / अजादेईितीयस्य / (6-1-2) इत्यधिकृत्य। स्थानषष्टयन्तम्। तिशित्सार्वधातुकमित्यस्मात् तिडित्यनुवर्तते। आर्धधातुकं शेष इत्यस्मादार्धधातुकमिति। तदाह / लडादेशस्तिङिति // एकसंज्ञाधिकारबहिर्भूतत्वात् सार्वधातुकसंज्ञाया अपि समावेशे प्राप्ते आह / आर्धधातुकसंज्ञ एवेति // लडइशाकटायनस्यैवेति सूत्रादेवकारानुवृत्तेरिति भावः / तेनेति // सार्वधातुकत्वाभावेन तन्निमित्ताः शपश्यनादयो न भवन्तीत्यर्थः / परस्मैपदानामिति // लिटस्तझयोरित्यस्मात् लिट इत्यनुवृत्तिमभिप्रेत्याह। लिटस्तिबादीनामिति // णलादय इति // णल , अतुस् , उस् , थल, अथुस् , अ, णल्, व, म, इत्येते नव यथासंख्यं स्युरित्यर्थः / तत्र तिपो णल् सर्वादेशः / न च णकारलकारयोश्चुटू इति हलन्त्यमिति च इत्संज्ञकत्वाल्लोपे कथमनेकाल्त्वमिति वाच्यम् / सर्वादेशत्वात्प्राक णल: प्रत्ययत्वाभावेन चुटू इत्यस्याप्रवृत्तेः / णित्वन्तु जुहावेत्यादौ वृद्धयर्थम् / लित्वं तु लिस्वरार्थम् / ननु मद्धयमपुरुषबहुवचनथस्य विधीयमानः अकारः अलोन्त्यस्येत्यन्त्यस्य स्यात् / अकारस्य अकारविधिस्तु यथासंख्यापादनार्थ इति चेत् / सत्यम् / द्वयोरकारयोः पररूपेण अ इति सूत्रनिर्देशादनेकाल्त्वात् सर्वादेशत्वमिति भाष्ये स्पष्टम् / न च अतुसादीनामादेशत्वात् पूर्व विभक्तित्वाभावेन न विभक्ताविति निषेधाभावात् सकारस्येत्वन्दुर्वारमिति वाच्यम् / सकारादुपरि सकारान्तरस्य संयोगान्तलोपेन लुप्ततया श्रूयमाणसकारस्योपदेशेऽन्त्यत्वाभावादित्यलम् / भुवोवुगिति / अचीति // अचिश्नुधात्वित्यतस्तदनुवृत्तेरिति भावः / अचीति किम् / अभूत् / ननु णलि परत्वात् वुकं बाधित्वा अचोणितीति वृद्धिस्स्यात् / बभूविथेत्यत्र तु सार्वधातुकार्धधातुकयोरिति गुणस्स्यादित्यत आह / नित्यत्वादिति // कृतयोरपि गुणवृध्योरेकदेशविकृतन्यायात् वुक् प्रवर्तते / अकृतयोरपि प्रवर्तते / ततश्च कृताकृतप्रसङ्गी यो विधिस्सनित्य इति न्यायेन वुक् गुणवृद्धी बाधत इत्यर्थः / वुकि ककार इत् उकार उच्चारणार्थः / कित्वादन्तावयवः / भूव् अ इति स्थिते / एकाच इति। अजादेरिति। इत्यधिकृत्यति // षष्ठाद्धयायारम्भे द्वे इमे सूत्रे / ते च न विधायके / अतिप्रसङ्गात् / किन्तु For Private And Personal Use Only
Page #13
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा 2177 / लिटि धातोरनभ्यासस्य / (6-1-8) लिटि परेऽनभ्यासधात्ववयवस्यैकाचः प्रथमस्य द्वे स्त आदिभूतादचः परस्य तु द्वितीयस्य / 'भूव्' 'भूव्' 'अ' इति स्थिते। 2178 / पूर्वोऽभ्यासः। (6-1-4) ध्यङस्सम्प्रसारणमित्यतः प्राक् अनुवयते एवेति भावः / लिटि धातोरिति // एकाचो द्वे प्रथमस्येत्यधिकृतम्। धातोरित्यवयवषष्ठी। तदाह / धात्ववयवस्येति // एकाच इति प्रथमस्येति च धात्ववयवस्य विशोषणम् / एकः अच् यस्येति तद्गुणसंविज्ञानो बहुव्रीहिः / तथा च लिटि परे अभ्यासभिन्नस्यैकाच्कस्य प्रथमस्य धात्ववयवस्य द्वे उच्चारणे स्त इत्यर्थः / एकाच इत्यत्र कर्मधारयाश्रयणे तु पपाचेत्यादि न सिध्येदिति भाष्ये स्पष्टम् / अजादेर्द्वितीयस्येत्यप्यधिकृतम् / तत्राच्चासावादिव अजादिः तस्मादिति कर्मधारयात् पञ्चमी / तदाह / आदिभूतादचः परस्य तु द्वितीयस्येति / एकाच इति शेषः / अजादिधात्ववयवस्य एकाचश्चेत् द्वित्वम् तर्हि द्वितीयस्यैवैकाचो द्वित्वम् / न तु प्रथमस्येति यावत् / अत्र द्वे इत्यनन्तरमुच्चारणे इत्यध्याहृत्यैकाचः प्रथमस्येति कृयोगलक्षणषष्ठीञ्चाश्रित्य द्विः प्रयोग एवात्र विधीयते / न स्थानषष्ठीमाश्रित्यादेशपक्ष इति प्रकृतसूत्रभाष्ये प्रपञ्चितम् / आदेशप्रत्यययोरिति सूत्रभाष्येऽपि द्विः प्रयोगपक्ष एवोक्तः / तदिह विस्तरभयानलिखितम् / पपाच इयायेत्यादौ प्रथमत्वमेकाच्कत्वं द्वितीयत्वञ्च व्यपदशिवत्वेन बोद्धयम् / अजादेरिति बहुव्रीह्याश्रयणे तु, इन्द्रमात्मन इच्छति इन्द्रीयति तमिच्छति इन्दिन्द्रीयिषतीत्यादौ नन्द्रास्संयोगादय इति दकारस्य द्वित्वनिषेधश्च स्यात् / तत्राजादेरित्यनुवृत्तेः / धातोरिति किम् / तदभावे हि लिटि परे यः प्रथमः एकाच तस्य द्वे इत्यर्थः स्यात् / एवं सति पपाचेयादावेव स्यात् / न तु जजागारेत्यादाविति भाष्ये स्पष्टम् / न च पपाचेत्यादी लिटि धातोरिति द्वित्वे कृते लक्ष्ये लक्षणस्येति न्यायेन पुनर्द्वित्वस्याप्रसक्तेरनभ्यासग्रहणं व्यर्थमिति वाच्यम् / यङन्तात् सन्यङोरिति यनिमित्तकद्वित्वविशिष्टात् सनि सन्निमित्तकद्वित्वनिवृत्तये सन्नन्तात् सन्यङोरिति कृतद्वित्वाणिचि लुङि चडिः कृते चङीति द्वित्वनिवृत्तये चानभ्यासग्रहणस्यावश्यकत्वात् / भाष्ये तु कृष्णो नोनाव वृषभो यदीदमित्यादी नुधातोर्यङन्तात् सन्यङोरिति कृतद्वित्वात् नोनूय इत्यस्मात् लिटि कास्प्रत्ययादाममन्त्रे लिटीति मन्त्रपर्युदासादामभावे यस्य हल इति यकारलोपे अतो लोपे तिपो गलि वृद्धावावादेशे नोनावेत्यत्र लिटि धातोरिति द्वित्वनिवृत्तये अनभ्यासग्रहणमित्युक्त्या अनभ्यासग्रहणमनर्थकम् / छन्दसि वा वचनादित्युक्तम् / यडन्तात् सनि सन्नन्ताणिचि चट् लोके नास्त्येवेति तदाशय इति शब्देन्दुशेखरे स्पष्टम् / प्रकृते च भूव अ इत्यत्र चत्वार एकाचः। तत्र भू इति प्रथमः। ऊन् इति द्वितीयः / ऊ इति व्यपदेशिवद्भावेन तृतीयैकाच् / भूव इति समुदायस्तु चतुर्थः / तत्र समुदाये द्विरुच्यमाने सर्वे अवयवाः द्विरुच्यन्त इति भूव इति समुदायस्यैव द्विवचनमिति भाष्ये स्पष्टम् / तदाह / भूव भूव अ इति स्थित इति // अत्र भूव् इत्यस्य एकाचः धात्ववयवत्वं प्रथमत्वञ्च व्यपदेशिवत्वाद्बोध्यम् / पूर्व इति // अत्रेति // एकाचो द्वे प्रथमस्येति For Private And Personal Use Only
Page #14
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Acharya Shri Kalassage सिद्धान्तकौमुदीसहिता [भ्वादि अत्र ये द्वे विहिते तयोः पूर्वोऽभ्याससंज्ञः स्यात्। 2179 / हलादिः शेषः / (7-4-60) अभ्यासस्यादिर्हल्शिष्यतेऽन्ये हलो लुप्यन्ते। इति वलोपः / 2180 / हवः / (7-4-59) अभ्यासस्याचो ह्रस्व: स्यात्। 2181 / भवतेरः / (7-4-73) भवतेरभ्यासोकारस्य 'अ' स्याल्लिटि। 2182 / अभ्यासे चर्च / (8-4-54) अभ्यासे झलां चरः स्युर्जशश्च / झशां जश:, / खयां चरः। तत्रापि प्रकृतिजशां प्रकृतिजशः प्रकृतिचरां प्रकृतिचर इति विवेकः / आन्तरतस्यात्। षाष्ठद्वित्वप्रकरण इत्यर्थः / तेन सर्वस्य द्वे इत्यादिविहितस्य द्वित्वस्य न संग्रहः / कस्य पूर्व इत्याकांक्षायां द्वे इत्यनुवृत्तं षष्टया विपरिणतं सम्बद्धयते / तदाह / ये द्वे विहिते तयोरिति / हलादिरिति // अत्र लोपोऽभ्यासस्येत्यस्मादभ्यासस्येत्यनुवर्तते / शिष्यत इति शेषः कर्मणि घञ्। शिषधातुरितरनिवृत्तिपूर्वकावस्थितौ / तदाह / अभ्यासस्येत्यादिना। इति वलोप इति // भूव भूव इत्यत्र अभ्यासवकारस्य लोप इत्यर्थः / भू भूव् अ इति स्थिते / हख इति // अत्र लोपोऽभ्यासस्येत्यतः अभ्यासस्येत्यनुवर्तते / हुस्वश्रवणादचश्चेति परिभाषया अच इत्युपस्थितम् / तदाह / अभ्यासस्याच इति // भू भूव अ इति स्थितम् / यद्यपि भवतेर इति वक्ष्यमाणाकारविधिनैव सिद्धमिदम् / तथापि लुलावेत्याद्यर्थमावश्यकमिदम् अत्रैव न्याय्यत्वादुपन्यस्तम्। भवतेर इति॥ भवते: अ इति छेदः भवतेरिति रितपा निर्देशः / भूधातोरित्यर्थः। इश्तिपौ धातुनिर्देशे इत्युक्तेः / अत्र लोपोऽभ्यासस्येत्यस्मादभ्यासस्येत्यनुवर्तते / व्यथो लिटि दीर्घ इत्यस्मात् लिटोति भूधातोरभ्यासस्य भवनकारः अलोत्यस्येत्यन्त्यस्योकारस्य भवति / तदाह / अभ्यासोकारस्यति // नानथकेऽलोन्त्यविधिरिति तु नेह प्रवर्तते / अनभ्यासविकार इत्युक्तः / भ भू व् अ इति स्थिते / अभ्यास इति // झलाञ्जशझशीत्यस्मात् झलामित्यनुवर्तते / चकारेण जश समुच्चीयते / तदाह / अभ्यासे झलामित्यादिना. // झलश्चतुर्विंशतिः / तत्र शषसाः शरः / तेषामभ्यासे लोपो वक्ष्यते / शपूर्वाः खय इति हकारस्य त्वभ्यासे कुहोश्चुरिति श्चुत्वं वक्ष्यते / एवञ्च झल्षु झयो विंशति रिहाभ्यासगताः स्थानिनो लभ्यन्ते / तेषां मद्धथे कस्य चरः कस्य जशः इत्याकांक्षायामाह / झशां जश इति // वर्गाणान्तृतीयचतुथी झशः / तेषां जशः जबगडदा इत्यर्थः / यद्यद्वाः स्थानिनः तत्तद्वर्या आदेशा इत्यपि बोद्धयम् / खयाञ्चर इति // वर्गाणां प्रथमद्वितीयाः For Private And Personal Use Only
Page #15
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा 13 2183 / असिद्धवदताभात् / (6-4-22) इत ऊर्ध्वमापादपरिसमाप्तेराभीयम् समानाश्रये तस्मिन्कर्तव्ये तदसिद्धं स्यात् / इति वुकोऽसिद्धत्वादुवङि प्राप्ते / खयः तेषां चर: चटतकपा इत्यर्थः / अत्रापि यद्यद्वर्याः स्थानिनः तत्तद्वा आदेशा इत्यपि बोद्धयम् / तत्रापीति // तेष्वपि वर्येषु प्रकृत्या स्वभावेन जशामेव सतां प्रकृत्या स्वभावेन जश एव सन्तस्तत्तद्वर्या आदेशास्स्युः / एवं प्रकृत्या स्वभावेन चरामेव सतां प्रकृत्या स्वभावेन चर एव सन्तस्तत्तद्वा आदेशास्स्युरित्यर्थः / पर्जन्यवल्लक्षणप्रवृत्तेरिति भावः / कुत इयं व्यवस्थेत्यत आह / आन्तरतम्यादिति // झशां जशाञ्च घोषसंवारनादप्रयनसाम्यम् / खयां चराञ्च श्वासाघोषविवारप्रयत्नसाम्यम् / तत्तद्वर्याणां तत्तद्वर्या आदेशा इत्यत्र तु स्थानसाम्यन्नियामकं बोद्धयम् / तथा च प्रकृते अभ्यासभकारस्य बकारे सति बभूव अ इति स्थिते अचिश्नुधात्वित्युवङादेशमाशङ्कितुमाह / असिद्धवदिति // षष्ठस्य चतुर्थपादे इदं सूत्रम् / इनान्नलोप इति सूत्रात् पूर्वं पठितम्। आभादित्यभिविधावाङ् भस्येत्याधिकारमभिव्याप्येत्यर्थः / भाधिकारश्च आपादपरिसमाप्तरिति सिद्धान्तः / तथा च आपादपरिसमाप्तेरिति लभ्यते। विहितं कार्यमिति शेषः। किमारभ्येत्याकांक्षायामुपस्थितत्वादस्मादेवसूत्रादूर्द्धमिति लभ्यते। ततश्च इनान्नलोप इत्यारभ्यापादसमाप्तेः विहितं यदाभीयं कार्यं तदसिद्धवद्भवति। प्रवृत्तमप्यप्रवृत्तं भवतीत्यर्थः / अधिकारसूत्रमिदमुत्तरत्र इनान्नलोप इत्यादी प्रतिसूत्रमुपतिष्ठते / तथा च यद्यत्सूत्रे इदमनुवर्तते तत्तदाभीयकार्ये कर्तव्ये इति लभ्यते / एवञ्च इनान्नलोप इत्यादितत्तदाभीयं कार्य भानलोप इत्याद्याभीये कार्ये कर्तव्ये असिद्धवदित्यर्थः पर्यवस्यति / अत्रेत्यनेन निमित्तसप्तम्यन्तेनत्वसिद्धीभवतः कार्यस्य यनिमित्तं तन्निमित्तके कार्ये कर्तव्ये सतीत्यर्थलाभात् समानाश्रये कार्ये कर्तव्ये सतीति लभ्यते। एतत्सर्वं भाष्ये स्थितम् / तदाह / इत ऊद्धमित्यादिना। तस्मिन्निति // आभीये कर्तव्ये सतीत्यर्थः / एधि शाधीत्युदाहारणम् / अत्र ध्वसोरेद्धावभ्यासलोपश्चेत्यस्तेरेत्वस्य शाहाविति शास्तेः शाभावस्य चाभीयत्वेनासिद्धत्वात् हुझल्भ्योहेर्धिरिति हेर्धित्वमाभीयं प्रवर्तते। तथा जंघहीत्याद्यप्युदाहरणम् / हनधातोर्यङ्लुगन्तात् लोण्मध्यमपुरुषैकवचने सिपो हिभावे अनुदात्तोपदेशेति नलोपस्याभीयस्यासिद्धत्वादतोहेरित्याभीयो लुङ्न भवति / समानाश्रय इति किम् / पपुष इत्यत्र पाधातोलिट: कसौ लिटिधातोरिति द्वित्वे अभ्यासहस्त्रे वस्वन्तात् द्वितीयाबहुवचने शसि वसोस्सम्प्रसारणमाभीयमातोलोप इटि चेत्यालोपे आभीये कर्तव्ये असिद्धन्न भवति / आलोपः क्वसौ, सम्प्रसारणन्तु शसीति भिन्नाश्रयत्वात् / आभीय कर्तव्ये इति किम् / अभाजि राग इत्यत्र भञ्जश्चिणि रओर्घत्रि च कृते / रञ्जेश्च, घनि च भावकरणयोरिति नलोपस्याभीयस्यानाभीयायामुपधावृद्धौ कर्तव्यायानासिद्धत्वम् / आभादित्यभिविधिः किम् / भाधिकारात् प्रागित्युक्ते भूयानित्यत्र बहोर्लोपो भूच बहोरिति बहोभूभावस्य ओर्गुणे कर्तव्ये असिद्धत्वन स्यात् / भस्येति सूत्रादूर्ध्वभावित्वादित्यलम् / इति वुकोऽसिद्धत्वादिति // वुक आभीयस्य अचि श्नुधात्वि For Private And Personal Use Only
Page #16
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदीसहिता [भ्वादि बुग्युटावुवयणोः सिद्धौ वक्तव्यौ / बभूव / बभवतुः।बभवुः। 2184 / आर्धधातुकस्येड्वलादेः / (7-2-35) वलादेरार्धधातुकस्येडागमः स्यात् / बभूविथ / बभूवथुः / बभूव / बभूव / बभूविव / बभूविम। 2185 / अनद्यतने लुट् / (3-3-15) भविष्यत्यनद्यतनेऽर्थे धातोलृट् स्यात् / / 2186 / स्यतासी ललुटोः / (3-1-33) 'ल' इति लङ्लटोग्रहणम् / धातोः स्यतासी एतौ प्रत्ययौ स्तो ललुटोः परतः / शबाद्यपवादः / त्युवङि आभीये कर्तव्ये असिद्धतया ऊकारस्योवडिः लघूपधगुणे बभोवेति प्राप्ते सतीत्यर्थः / वुग्विधिस्तु गुणवृद्धिबाधकत्वेन चरितार्थ इति भावः / वुग्युटावुवङयणोरिति // यथासंख्यमन्वयः / बभूवेति // णलो णित्वन्तु जगादेत्यादौ वृद्धयर्थम् / बभूवतुरिति / तस अतुसादेशे वुगादि पूर्ववत् / सकारस्य रुत्वविसौ / बभवुरिति // झेरुसादेशे वुगादि पूर्ववत् / सिपस्थलि बभू थ इति स्थिते / आर्धधातुकस्येति // नेड्डशिकृतीत्यस्मादनुवृत्यैव सिद्धेरिहेड्ग्रहणन्नकार्यमिति नेडशीति सूत्रभाष्ये प्रत्याख्यातम् / आर्धधातुकस्येति किम् / जुगुप्सति / अत्र गुप्तिज किद्भयः इति सनो धातोरित्यधिकृत्य विहतत्वाभावान्नार्धधातुकत्वं / बभूविथेति // सिपस्थलि तस्य इडागमे बुगादि पूर्ववत् / बभूवथुरिति / थसः अथुसादेशे वुगादि पूर्ववत् / सकारस्य रुत्वविसौं / बभूवेति // मद्धयमपुरुषबहुवचनस्य अकारस्सर्वादेश इति परस्मैपदानां णलतुसित्यत्रोक्तम् / बुगादि पूर्ववत् / बभूवेति // मिपो लि बुगादि पूर्ववत् / बभूविवेति // वसो वादेश वलादित्वादिडागमे युगादि पूर्ववत् / नचात्र श्रयुकः कितीतीडागमनिषेधश्शङ्कथः / कृसभृवृस्तुद्रुश्रुवो लिटीति क्रयादिनियमादिसिद्धेः / बभूविमेति // मसो मादेशे इडागमे वुगादि पूर्ववत् // इति लिटप्रक्रिया // अनद्यतन इति // धातोरित्यधिकृतम् / भविष्यति गम्यादयः इत्यतः भविष्यतीत्यनुवर्तते / भविष्यत्यनद्यतन इति धात्वर्थेऽन्वेति। तदाह / भविष्यत्यनद्यतन इति ॥अनद्यतनशब्दस्तु परोक्षे लिडित्यत्र व्यारव्यातः / उटावितौ / लुटस्तिबादयः / भू ति इति स्थिते कर्तरि शबिति शपि प्राप्ते। स्यतासी इति॥स्यश्च तासिश्चेति द्वन्द्वात् प्रथमाद्विवचनम् / तासेरिकार उञ्चारणार्थः। ल लुट् अनयोर्द्वन्द्वात् सप्तमीद्विवचनम् / ग्रहणमिति // लस्वरूपस्योभयत्राविशि For Private And Personal Use Only
Page #17
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा 15 2187 / आर्धधातुकं शेषः / ( 3-4-114) तिशिद्भयोऽन्यो धात्वधिकारोक्त: प्रत्यय एतत्संज्ञः स्यात् / इट् / 2188 / लुटः प्रथमस्य डारौरसः / (2-4.85) 'डा' 'रौ' 'रस्' एते क्रमात्स्युः / डित्त्वसामर्थ्यादभस्यापि टेर्लोपः / 2189 / पुगन्तलघूपधस्य च / (7.3-86) पुगन्तस्य लघूपधस्य चाङ्गस्येको गुणः स्यात्सार्वधातुकार्धधातुकयोः / येन नाव्यवधानं तेन व्यवहितेऽपि। वचनप्रामाण्यात् / तेन भिनत्तीत्यादावनेकव्यवहितस्येको न गुणः / 'भवित्' 'आ' अत्रेको गुणे प्राप्ने / ष्टत्वादिति भावः। धातोरित्यधिकृतं तदाह। धातोरिति // भू तास् ति इति स्थिते। आर्धधातुकमिति // तिशित्सार्वधातुकामति पूर्वसूत्रोपात्ततिशिदन्यश्शेषः तदाह / तिहशिद्भयोऽन्य इति / विहित इति // धातोरित्यधिकृतम् विहितविशेषणमाश्रीयत इति भावः / एवञ्च जुगुप्सतीत्यादौ गुप्तिज़ किद्भय इत्यादि विहितसनादीनां धातोरित्युच्चार्य विहितत्वाभावेन आर्धधातुकत्वाभावादिडागमो न भवति / एतत्संज्ञस्स्यादिति // आर्धधातुकसंज्ञक इत्यर्थः / इडिति // तास् प्रत्ययस्योक्तसूत्रेणार्धधातुकत्वात् स्वतो वलादित्वाच्च आर्धधातुकस्येड्वलादरितीडागम इत्यर्थः। भू इ तास् ति इति स्थिते / ऊकारस्य गुणे अवादेशे च भविता स् इति स्थिते। लुटःप्रथमस्येति ॥डा रौ रस् एषां द्वन्द्वात् प्रथमाबहुवचनम्। लुट इति स्थानषष्ठी। लुडादेशस्य प्रथमपुरुषस्येत्यर्थः। क्रमादिति // यथासंख्यलभ्यम्। ननु परस्मैपदस्य त्रयः प्रथमाः आत्मनेपदस्य च त्रयः प्रथमा इति स्थानिनः षट् आदेशास्तु वय इति कथं यथासंख्यमिति चेन्न। डाच रौच रस् चेति कृतद्वन्द्वानां डारौरसश्च डारौरसश्चेति एकशेषमाश्रित्य भाष्ये समाहितत्वात् / डाभावस्य चादेशत्वात् प्राक् प्रत्ययत्वाभावेन चुटू इत्यस्याप्रवृत्या सर्वादेशत्वम् / सति च तस्मिन् प्रत्ययत्वाच्चुटू इति टकारस्येत्संज्ञेति भाष्ये स्पष्टम् / एवंच भू ता स् आ इति स्थिते प्रक्रियां दर्शयति / डित्वसामर्थ्यादिति // डाभावस्य कप्रत्ययावधिषु स्वादिष्वनन्तर्भूतत्वेन तस्मिन् परे भत्वाभावेऽपि डित्वसामर्थ्यात् टेरिति टिलोप इत्यर्थः / तथाच भवित् आ इति स्थिते / पुगन्तेति // मिर्गुण इत्यतः गुण इत्यनुवर्तते / अङ्गस्येत्यधिकृतमवयवषष्टयन्तमाश्रीयते / पुगन्तलघूपधस्येति तद्विशेषणम् / पुक् अन्तो यस्य तत् पुगन्तम् / लध्वी उपधा यस्य तल्लघूपधम् / पुगन्तञ्च लघूपधञ्चेति समाहारद्वन्द्वात् षष्टी / इको गुणवृद्धी इति परिभाषया इक इत्युपस्थितं स्थानषष्ठयन्तमाश्रीयते / तदाह / पुगन्तस्येत्यादिना / अंगस्येक इति // अङ्गावयवस्येत्यर्थः / द्वेष्टि द्वेष्टा इत्यायुदाहरणम् / नन्वत्रागावयवस्येकः तदुपरितनहला व्यवधानात् सार्वधातुकपरत्वाभावात् कथमिह इको गुण For Private And Personal Use Only
Page #18
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदीसहिता [भ्वादि 2190 / दीघीवेवीटाम् / (1-1-6) दीधीवेव्योरिटश्च गुणवृद्धी न स्तः / भविता / 2191 / तासस्त्योर्लोपः / (7-4-50) तासेरस्तेश्च लोप: स्यात्सादौ प्रत्यये परे / 2192 / रि च / (7-4-51) रादौ प्रत्यये प्राग्वत् / भवितारौ / भवितारः / भवितासि / भवितास्थः / भवि इत्यत आह / येन नेति // येन स्थान्युत्तरवर्णेन परनिमित्तस्य नाव्यवधानं व्यवधानं अवर्जनीयमिति यावत् / तेन वर्णेन व्यवहितेऽपि परनिमित्त कार्य भवतीत्यर्थः / कुत इत्यत आह / वचनप्रामाण्यादिति // तथाविधवर्णव्यवधाने कार्यप्रवृत्तौ वचनारम्भस्यैव प्रमाणत्वादित्यर्थः / लघूपधस्यहीको गुणो विधीयते / उपधात्वञ्चान्त्यादल: पूर्वस्यैव भवति / ततश्चेक उपर्यन्त्यस्य वर्णस्याभावे इक उपधात्वाभावाल्लघूपधस्याङ्गस्य गुणविधानं निर्विषयमेव स्यात् / अतस्तद्यवधानं सोढव्यमिति भावः / ननु व्यवहितस्यापीको गुणप्रवृत्यभ्युपगमे भिनत्ति च्छिनत्तीत्यादौ इकारस्यापि गुणस्स्यादित्यत आह / तेनेति // अवर्जनीयव्यवधानस्यैवाश्रयणेनेत्यर्थः / उपधात्वस्यैकमेव वर्णमुपरितनमादाय सम्भवादनेकवर्णव्यवधानं नादर्तव्यामिति भावः / गुणे प्राप्ते इति // भवित् आ इति स्थिते डाभावसम्पन्नस्याकारस्य स्थानिवत्वेन सार्वधातुकतया तस्मिन् परे भवित् इत्यङ्गावयवस्योपधाभूतस्येकारस्य गुणे प्राप्ते सतीत्यर्थः / न च भूधातोर्विहितं सार्वधातुकं प्रति भूधातुरेवाङ्गम् / न तु भवित् इति विकरणविशिष्टमिति वाच्यम्। अङ्गसंज्ञारम्मे तदादिग्रहणेन विकरणविशिष्टस्याप्यङ्गत्वात् / दीधीव इति // दीधीङ् दीप्तिदेवनयोः / वेवीङ् वेतिना तुल्ये। दीधिश्च वेवीश्च इट्चेति द्वन्द्वात् षष्ठी। इको गृणवृद्धी इत्यतो गृणवृद्धी इति। न धातुलोप इत्यतो नेति चानुवर्तते। तदाह / दीधीवेव्योरित्यादिना ॥अथ प्रथमपुरुषद्विवचने तसि परे शबपवादे तासि इडागमे ऊकारस्य गुणे अवादेशे तसो रौभावे भवितास् रौ इति स्थिते रिचेति सकारस्य लोपं वक्ष्यन् तत्रानुवृत्तिप्रतिपत्तये तत्पूर्वसूत्रमुपन्यस्यति / तासस्त्योरिति // तास्चास्तिश्चेति द्वन्द्वात् षष्ठी। सस्यार्धधातुक इत्यतोऽनुवृत्तेन सीति सप्तम्यन्तेनाधिकृताङ्गाक्षिप्तप्रत्ययस्य विशेषणात् तदादिविधिः / तदाह / तासेरित्यादि // अस्तेरिति रितपा निर्देशः / अस् धातोरित्यर्थः। अलोऽन्त्यस्येत्यन्त्यस्य लोपः। भवितासीत्यनुपदमेवोदाहरणं वक्ष्यते। रिचेति ॥तासस्त्योर्लोप इति सूत्रं अस्ति वर्जमनुवर्तते। रीत्यनेनाङ्गाक्षिप्तप्रत्ययस्य विशेषणात्तदादिविधिः / तदाह / रादाविति / प्राग्वदिति // तासेर्लोप इत्यर्थः / अस्तिस्तु नानुवर्तते / ततो रादिप्रत्ययस्यासम्भवात् / आर्धधातुके तस्य भूभावविधानात् / एवञ्च भवितास् रावित्यत्र सलोपे सति रूपमाह / भविताराविति / भवितार इति // झौ तासि इडागमे ऊकारस्य गुणे अवादेशे झेः रस् इत्यादेशे तासस्सकारस्य लोपे रसस्सकारस्य रुत्वविसर्गाविति भावः / For Private And Personal Use Only
Page #19
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम] बालमनोरमा ताम्थ / भविताम्मि / भविताम्वः / भविताम्म: / 2193 / लट् शेषे च / ( 3-3-13) भविष्यदर्थाद्धाातोलृट् स्याक्रियार्थायां क्रियायामसत्यां सत्यां च / स्य इद / भविष्यति / भविष्यतः / भविष्यन्ति / भविष्यसि / भविष्यथः / भविष्यथ / भविष्यामि / भविष्यावः / भविष्यामः / 2 194 / लोट च / ( 3-3-162) विध्यादिष्वर्थेषु धातोर्लोट म्यान / 2195 / आशिषि लिङलोटौ / (3-3-173) 2196 / एरुः। (3-4-86) भवितासीति // सिपि तासि इडागमे ऊकारस्य गुणे अवादेशे नासस्त्योरिति सकारस्य लोप इति भावः / भवितास्थ इति // थाम तासि इडागमे गुणे अवादेशे थसः मस्य रुत्वविसर्गाविति भावः / भवितास्थेति / बहुवचने थे नासि इटि गुणावादेशी / भवितास्मीति // मिपि नायि इटि गुणावादेशो। भवितास्व इति // वमि नामि इटि गुणे अवादेशे रुत्ववियौं / एवं मसि भवितास्म इति रूपम / इति लुटप्रक्रिया // लडिति // धातानित्यधिकृतम / भविष्यनि गम्यादयः इत्यतो भविष्यतीत्यनुवृत्तम धात्वर्थेऽन्वेति / तदाह / भविग्यदर्थाद्धातोः लट स्यादिति // तुमुनण्वुल। क्रियायां कियार्थायामिति पूर्वसूत्रे कियाथीयां क्रियायामित्यर्थनिर्देशः स्थितः ततोऽन्यश्शेषः / क्रियार्थायां क्रियायां अमत्यामिति लभ्यते। चकारात् क्रियार्थायां क्रियायां सत्यामित्यपि लभ्यते। नदाह / क्रियार्थायां क्रियायां असत्यां सत्याश्चेति // ननु लट् इत्येव सूत्रमस्तु / शेष चेनि मास्तु / भविष्यदर्थाद्धातोः लुट इत्येतावनैव क्रियार्थायां क्रियायां असत्यां सत्याञ्च लटो लाभ इति चेत भैवम / 'शयिष्यत इति स्थायत' इत्यादी भावकोंः तुमुन् ण्वुल्भ्यां लुटो बाधाभावार्थत्वात् / न च वासरूपविधिना तत्सिद्धिश्शङ्कया / क्तल्ल्युट तुमुन खलर्थेषु वा सरूपविधिनास्तीति तनिषेधादित्यास्तां तावत् / स्थ इडिति // लटस्तिपि स्यतासी ललुटोरिति स्यप्रत्ययः / तस्य वलाद्यार्धधातुकत्वान इडागम इत्यर्थः / भविष्यतीति स्य प्रत्ययस्य इटि ऊकारभ्य गुणे अवादेशे प्रत्ययावयवत्वात मकारस्य षत्वे भविष्यतीति रूपमित्यर्थः / नमादी भविष्यत इत्याद्य येवं योज्यम / भविष्यामात्यादी अनो दीर्घा यीति दीर्घः // इति लट प्रक्रिया // लोटचेति // विधिनिमन्त्रणामन्त्रणाधीष्टसम्प्रश्नप्रार्थनेषु इत्यनुवर्तते / तदाह / विध्यादिष्विति // विध्यादिशब्दा अनुपदमेव लिविधौ व्याख्यास्यन्ते / आशिषीति // आशिष्यपीत्यर्थः / आशायनमाशी: दृष्टप्राप्माच्छा / लोटस्तिपि विशेषमाह / परिति // ": For Private And Personal Use Only
Page #20
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदीसहिता [भ्वादि लोट इकारस्य उ: स्यात् / भवतु / 2197 / तुह्योस्तातडाशिष्यन्यतरस्याम्। (7-1-35) आशिषि तुह्योस्तातका स्यात् / अनेकाल्त्वात्सर्वादेशः / यद्यपि * ङिञ्च' (43) इत्ययमपवादस्तथाप्यनन्यार्थङित्त्वेष्वनडादिषु चरितार्थ इति गुणवृद्धिप्रतिषेधसम्प्रसारणाद्यर्थतया सम्भवत्प्रयोजनकारे तातङि मन्थरं प्रवृत्तः परेण बाध्यते / इहोत्सर्गापवादयोरपि समवलत्वात् / भवतात् / उः इति च्छेदः / एरिति षष्ट्यन्तम् / इवर्णस्येति लभ्यते / लोटो लडदित्यतो लोट इत्यनुवतते / तदाह / लोट इति / भवत्विति // तिपि शपि गुणे अवादेशे तिप इकारस्य उकारः / अथाशिषि लोटो विशेषमाह / तुह्योरिति // तुश्च हिश्च तुही तयोरिति विग्रहः / तातडि डकार इत / अकार उच्चारणार्थः / तादित्यादेशदिशध्यते / ननु किमस्य अनेकालत्वात्सर्वादेशता उत डित्वादन्तादेशतेत्यत आह / अनेकाल्त्वात् सर्वादेश इति // ननु डिच्चेत्यस्य सर्वादेशापवादतया अनादेरिव तातडोऽप्यन्त्यादेशत्वमेवोचितमित्याशङ्कते / यद्यपि डिच्चेत्ययमपवाद इति // परिहरति / तथापीति // परेण वाध्यते इत्यन्वयः / तातङादेशे डिच्चेत्ययं विधिः अनेकाल शित् सर्वस्येति परेण बाध्यत इत्यर्थः / ननु परनित्यान्तरङ्गापवादानामुनरोत्तरं बलीय इति परापेक्षया अपवादस्य प्रबलत्वात् डिच्चेत्यन्तादेशत्वमेव तातडि युक्तमित्यत आह / तातङि मन्थरं प्रवृत्त इति // डिच्चेति विधिरिति शेषः / तातविषये डिच्चेति विधिमन्थरम्प्रवृत्त इति हेतोः परेण सर्वादेशविधिना बाध्यत इत्यर्थः / कुतो मन्दप्रवृत्तिकत्वभित्यत आह। अनन्यार्थेत्यादिना॥ अन्तादेशत्वादन्योऽर्थो यस्य ङित्त्वस्य न विद्यते नदनन्यार्थम् / तथाविधं ङित्वं येषान्तेषु अनादिषु डिच्चेति विधिः चरितार्थः / लब्धप्रयोजनक इति कृत्वा मन्दम्प्रवृत्त इत्यर्थः / तातडो डित्वन्तु अन्तादेशत्वापेक्षया अनन्या नेत्याह / सम्भवत्प्रयोजनङकारे इति // सम्भवन्ति प्रयोजनानि अन्यानि यस्य सः सम्भवत्प्रयोजनः / तथाविधः डकारः यस्य तथाविधे तातडीत्यर्थः। कथं सम्भवत्प्रयोजनकत्वमित्यत आह / गुणवृद्धिप्रतिषेधसम्प्रसारणाद्यर्थतयोते // द्विष्टादित्यादी लघूपधादिगुणनिषेधः / स्तुतात् युतादित्यादावुतोवृद्धि कि हलीति विहिताया वृध्देनिषेधः / वशकान्तौ उष्टादित्यत्र अहिज्यावयीति सम्प्रसारणम् / आदिना ब्रूतादित्यत्र व ईडितीटोऽभावस्य संग्रहः / ननु तातविषये डिच्चेति विधिमन्दम्प्रवर्तताम् / अथापि परनित्यान्तरङ्गापवादानामुत्तरोत्तरं बलीय इति न्यायेन परस्यापि सर्वादेशविधेरपवादभूतेन डिच्चेत्यनेन बाध एवोचित इत्यत आह / इहेति // इह तातविषये अनेकालशित्सर्वस्येति सामान्यशास्त्रस्य डिच्चेति विशेषशास्त्रस्य च समबलत्वात् / सामान्यशास्त्रं विशेषशास्त्रेण न वाध्यत इत्यर्थः / अयं भावः / अपवादशास्त्रस्य परनित्यान्तरङ्गापेक्षया प्राबल्ये निरवकाशत्वमेव बीजम् / प्रकृते च डिच्चेति विधिः अनादिडित्वमन्तादेशत्वैकप्रयोजनकम्। प्रयोजनान्तरविरहेण निरवकाशत्वात् / अटिति परिगृहणन् कृतार्थतामनुभवन तातडो हित्वम प्रयोजनान्तरसत्वेन सावकाशन्वादुपेक्षन इति। For Private And Personal Use Only
Page #21
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा 2198 / लोटो लङ्कृत् / (3-4-85) लोटो लङ इव कार्य स्यात् / तेन तामादयः सलोपश्च / तथा हि / 2199 / तस्थस्थमिपां तांतंतामः। ( 3-4-101) ङितश्चतुर्णामेषां तामादय: क्रमात्स्युः / 2200 / नित्यं ङितः / ( 3-4-99) सकारान्तस्य ङिदुत्तमस्य नित्यं लोप: स्यात् / * अलोऽन्त्यस्य' (42) इति सस्य लोपः / भवताम् / भवन्तु / 2201 / सद्यपिच्च / ( 3-4-87 ) तदुक्तं भाष्य / ङित्त्वस्य सावकाशत्वाद्विप्रतिषेधात्तात सर्वादेश इत्यभिधाय विस्तरभिया विरम्यते / भवतादिति // आशिषि लोटस्तिपि शपि गुणे अवादेशे उकारे तोस्तातङ् सर्वादेशः / कारइत् / द्वितीयतकारादकारउच्चारणार्थः / लोटो लङदिति // लङ इव लङ्कृत् / तत्र तस्येवेति षष्ठयन्ताद्वतिः / तदाह / लोटो लङ इवेति // ननु तर्हि लुङ् लङ् लुङ्वडुदात्त इत्यडागमोऽपि स्यादित्यत आह / तेनेति // लङ इति स्थानषष्टयन्तात् वतिप्रत्ययाश्रयणेनेत्यर्थः / अडागमस्तु न लङो विधीयते। किन्तु लङि अङ्गस्येति भावः / केन तामादयः / केन वा सलोप इत्यत आह / तथाहीति // तामादयस्सलोपश्च यथा ज्ञायन्ते तथा स्पष्टमुच्यन्त इत्यर्थः / तस्थ इति // तस् थस् थ मिप , एषां द्वन्द्वात् षष्ठीबहुवचनम / ताम तम त अम , एषां द्वन्द्वात प्रथमावहुवचनम् / नित्यं डित इत्यस्मात् डित इत्यनुवर्तते / तदाह / ङितश्चतुर्णामिति // डितो लकारस्य आदेशभूतानामित्यर्थः / क्रमादिति // यथासंख्यसूत्रलभ्यमिदम् / नित्यति इति // उत्तमपुरुषएवास्य सूत्रस्य प्रयोजनं / प्रसङ्गादिहोपन्यस्तम् / स उत्तमस्येति सूत्रमनुवर्तते / नत्र स इति षष्टयन्तम / तेन उत्तमो विशेष्यते / तदन्तविधिः / इतश्च लोप इत्यत। लोप इत्यनुवर्तते / तदाह / सकारान्तस्य ङिदुत्तमस्येति // ङितो लकारस्य य आदेशः उत्तमपुरुषः तस्येत्यर्थः / वैतोन्यत्रेत्यस्माद्वाग्रहणानुवृत्तिनिवृत्तये नित्यग्रहणम् / अलोऽन्त्यस्येत्यन्त्यलोपः / भवतामिति // लोटस्तस / तस्य तामादेशः / शप् गुणावादेशौ / न च तामादेशस्य सर्वादेशत्वात् प्राक् विभक्तित्वाभावान्न विभक्तों तु स्मा इति निषेधाभावात् मकारस्येत्संज्ञा शंक्या / संयोगान्तलोपेन मकारान्तरप्रश्लेषेण उपदेशेऽन्त्यत्वाभावात् / भवन्त्विति // लोटो झेः अन्तादेशे शपि गुणे अवादेशे द्वयोरकारयोः पररूपे एरुरितीकारस्य उकारे भवन्त्विति रूपम् / अथ लोट: सिपि शपि गुणावादेशयोः भव सि इति स्थिते / सेहीति // हि इति लुप्तप्रथमाकम / लोटो लदिल्यतो लोट इत्यनुवर्तते / तदाह / For Private And Personal Use Only
Page #22
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदीसहिता [भ्वादि लोट: सहि: स्यात्सोऽपिञ्च / 1202 / अतो हेः। (6-4-105) अतः परस्य हेर्लुक्स्यात् / भव-भवतात / भवतम् / भवन | 2203 / मेनिः। ( 3-4-89) लोटो मेनि: म्यान / 2204 / आडुत्तमस्य पिच्च / (3-4-92) लोडुत्तमस्याडागमः स्यात्स पिच / हिन्योमत्वं न / इकारांच्चारणसामात / भवानि / भवाव / भवाम / 2205 / अनद्यतने लङ् / (3-2-111) लोटस्सेरिति / स्तुहत्यिादी सिप्स्थानिकस्य हेः पित्वात् सार्वधातुकमपिदिति द्वित्वाभावात् / गुणे प्राप्ते अपिद्वचनम् एवञ्च डिद्वत्वात विङतिचेति गुणो न / सेहि डिच्चेत्येव तु न सूत्रितम् / पितस्सिप अनुदात्तस्य स्थाने हेरप्यनुदात्तत्वापत्तेः। भव हि इति स्थिते / अतो हेरिति / अत इति पञ्चमी / हेरिति षष्ठी। चिणो लुगित्यतो लुगिन्यनुवर्तते / तदाह / अतः परस्येति / भवेति // हिविधानन्तु स्तुहात्याद्यमिति भावः / भवतादिति // आशिषि लोटः सिपि तस्य सेटपिञ्चति हिभावे शपि गुणावादशयोः अतो हेगिति लुकम्परत्वान बाधित्वा तुह्योरिति पक्ष तातङिति भावः / भवतमिति // थांग पि गुण अवादश च भव श्रस इति स्थिते लोटो लडदिति लङत्वात्तस्थामपामिति थसः तमादेश रूपम् / एवं / भवतेति॥ थस्य तादेश इति विशेषः / लोटो मिपि शपि गुणे अवादेशे मिपः नस्थस्थमिपामित्यमादेशे प्राप्ते। मेर्निरिति // लोटो लङदित्यतः लोट इत्यनुवर्तते / तदाह / लोटो मेरिति // भव नि इति स्थिते। आडुत्तमस्येति // लोटो लङ्कदित्यतः लोट इत्यनुवर्तते / तदाह। लोडुत्तमस्येति // स्तवानि स्तवावेत्यादौ सार्वधातुकमपिदिति हित्त्वनिवृत्यर्थम् पिद्ववचनं / यद्यपि मिप्स्थानिकस्य न: पित्त्वात्तदागमस्यापि सिद्धं पित्त्वं तथापि वसमसोराडागमस्याङित्त्वार्थम् पिदिति वचनम् / ननु स्तुहि भवानीत्यत्र एरुरित्युत्वं कुतो न स्यादित्यत आह / हिन्योरुत्वन्नेति / सामर्थ्यादिति॥अन्यथा हुनु इत्येव विदयादिति भावः / भवानीति॥आडागमे सवर्णदीर्घः / नचात्र लङद्धावादितश्चेति लोपइशयः / इकारोच्चारणसामात / अन्यथा मोन इत्येव विदध्यान / एवं हेपि बोध्यं / यद्यपि भवानीत्यादावतो दा! यानि इत्येव दीर्घसिद्धराडागमविधिः व्यर्थः / तथाऽपि स्तवानीत्याद्यर्थमावश्यकमिहापि न्याय्यत्वादुपन्यस्तम् / भवावेति // लोटो वस गुणावादेशौ आडागमः सवर्णदीर्घः / लद्भावात नित्यं डित इति सकारलोपः / एवं ममि भवामति रूपं / इति लोट प्रक्रिया // अनद्यतन इति // धातोिित भूत For Private And Personal Use Only
Page #23
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम बालमनोरमा अनातनभूतार्थवृत्तातोलस्यान् / 220 6 / लुङ्लङ्लुङ्क्षवडुदात्तः (6-4-71) एषु परेष्वङ्गस्याडागमः स्यात् सचोदात्तः / 2207 / इतश्च ( 3-4-100) दिता लस्य परम्मैपदमिकागन्तं यत्तदन्तस्यलोप: स्यात्। अभवन / अभवताम / अभवन् / अभवः / अभवतम / अभवत। अभवम / अभवाव। अभवाम / 2208 / विधिनिमन्त्रणामन्त्रणाधीष्टसम्प्रश्नप्रार्थनेषु लिङ् / (3-3-161) ध्वर्थेषु द्योत्येषु वाच्यषु वा लिङ स्यात् / विधिः प्रेरणम् , भृत्यादेनिकृष्टस्य इति चाधिकृतम् / भूत इति धात्वर्थे अन्वति / तदाह / अनद्यतनभतार्थवृत्तेरिति // लुङ्लङिति // अङ्गस्येत्यधिकृतम् / तदाह / एषु परेषु अंगस्येति // अन्तरङ्गत्वात् नित्यत्वात्परत्वाच्च यथायथं तिपि शपि विकरणे गुणे अवादेशे विकरणविशिष्टस्याङ्गस्य अडागमः। लावस्थायामेवाडागम इति तु पक्षान्तरं भाष्ये स्थितम् / इतश्चेति // लस्येत्याधिकृतम्। इतश्च लोपः परम्मैपदेष्वित्यस्मात लोप इति परम्मैपदेविति चानुवर्तते / परस्मैपदेष्वित्येतत् षष्ट्या विपरिणम्यते / तदाह / डितो लस्येत्यादिना // अलोऽन्त्यस्यत्यन्त्यस्य लोपः। तदाह / अभवदिति / अभवतामिति // लडस्तसः तामादेशः शप गुणावादेशो अट् / अभवन्निति // झरन्तादेशः / शप गुणावादेशो। अट् इतश्चेति इकारलोपः / तकारस्य संयोगान्तलोपः / अभव इति / सिपि शपि गुणे अवादेश अटि इकारलोपे रुत्वविसौं / अभवतमिति // थसस्तमादेशः / शप गुणावादशे अट / अभवतेति // यस्य तादेशे शपि गुणे अवादेशे अटि / अभवमिति // मिप अमादेशे शपि गुणे अवादेशे पूर्वरूपम् / अभवावेति // वसि शॉप गुणावादेशी। अट अती दी| यीनि दीर्घः / नित्यङ्कित इति सकारलोपः / एवं मसि अभवामेति रूपम / इति लङ् प्रक्रिया // विधिनिमन्त्रणेति // ननु विध्यादयो हि न लिङो वाच्याः / ल: कर्मणि च भावे चेति सूत्रेण कर्तृकर्मभावानां लकारवाच्यत्वबोधनात् / नच ल: कर्माण चेति शास्त्रं लिव्यतिरिक्तलकारविषयकमेवास्त्विति वाच्यम् / तथा सांत यजेतेत्यादो कर्तृवाचकत्वाभावेन शबाद्यनापत्तरित्यत आह / द्योत्येष्विति // ल: कर्मणि चेति सूत्रं सामान्यविषयञ्चदपि विर्धािनमन्त्रणेति विशेषशास्त्रेण न बाध्यते / अविरोधात् / तथाच विध्यादिविशिष्टकादिषु लिङिति फलतीति मत्वाह / वाच्येषु वेति // पक्षद्वयमपादं भाष्ये स्थितम् / विधिः प्रेरणमिति भाष्यम् / अर्थतस्संगृह्णाति / विधिः प्रेरणमिति // ननु निमन्त्रणादानामपि प्रेरणान्तर्भावात्पीनरुक्त्यमित्यतो व्याचष्टे / भृत्यादनिकृष्टस्य प्रवर्त. नमिति / तद्यथा भृत्यं म्वामी वदति / भवान् वस्त्रं क्षाळयदिति / आमन्त्रणात् भेदं दर्शायतुं For Private And Personal Use Only
Page #24
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदीसहिता [भ्वादि प्रवर्तनम् / निमन्त्रणं नियोगकरणम् , आवश्यके श्राद्धभोजनादौ दौहित्रादः प्रवर्तनम् / आमन्त्रणं कामचारानुज्ञा / अधीष्टः सत्कारपूर्वको व्यापारः / ' प्रवतनायां लिङ् , इत्येव सुवचम / चतुर्णा पृथगुपादानं प्रपञ्चार्थम् / 2209 / यासुट परस्मैपदेषूदात्तो ङिच्च / ( 3-4-103) लिङ: परस्मैपदानां यासुडागमस्स्यात्स चोदात्तो ङिच्च / ङित्वोक्तायते 'क्वचिदनुबन्धकार्येऽप्यनल्विधाविति प्रतिषेधः' इति / श्रादेशस्य शानचरिशत्त्वमपीह लिङ्गम् / निमन्त्रणशब्दं व्याचष्टे / निमन्त्रणं नियोगकरणमिति // नियोगशब्दस्य प्रेरणशब्दपर्यायत्वभ्रमं वारयति / आवश्यके श्राद्धादौ दौहित्रादेः प्रवर्तनमिति // त्रीणि श्राद्धे पवित्राणि दौहित्रः कुतपस्तिलः, इत्यादि वचनादिति भावः / तद्यथा दौहित्रादीन् प्रति इह श्राद्धे भवान् भुञ्जीतेति। आमन्त्रणं कामचारानुक्षेति॥ यथेच्छं क्रियतामित्यभ्यनुज्ञानमित्यर्थः / अधीष्टः सत्कारपूर्वको व्यापार इति // भाष्यवाक्यमिदम् / सत्कृत्यप्रवर्तनमित्यर्थः / अधिपूर्वकस्येषधातो वे क्तान्तस्योपसर्गवशादस्मिन्नर्थे वृत्तिः / अत एव भाष्यप्रयोगादधीष्टशब्दस्य पुंस्त्वम् / अधीष्टमित्येव क्वचित्पाठः / माणवकं भवानध्यापयेदित्युदाहरणम् / इदं कार्य नवेति विचार्य निर्धारणम् सम्प्रश्नः / यथा। किम्भोः व्याकरणं भवानर्धायीतेति / प्रार्थनं याच्या / यथा / भवाननं में दद्यादिति। सुवचमिति // प्रवर्तनात्वस्य विध्यादिचतुषु अनुस्यूतत्वादिति भावः / प्रवृत्यनुकूलव्यापारः प्रवर्तना / तत्र प्रवृत्तिः शिष्यादिनिष्ठा / तदनुकूलव्यापारस्तु प्रेरणात्मकः प्रवर्तयितृगुर्वादिनिष्टः / विस्तरस्तु मजूषायां द्रष्टव्यः / चतुर्णामिति // विधिनिमन्त्रणामन्त्रणाधीष्टानामित्यर्थः / अथ लिङस्तिपि इतश्चेतीकारलोपे शपि गुणे अवादेशे भव त् इति स्थिते / यासुडिति // लिङः सीयुडित्यतः लिङ इत्यनुवर्तते / षष्ट्यर्थे सप्तमी / तदाह / लिङः परस्मैपदानामिति // सीयुटोऽपवादः / यासुटि टकार इत् / उकार उच्चारणार्थः / टित्वात् तिबादीनामाद्यवयवः / अवयवे डित्वञ्च आनर्थक्यात्तदङ्गन्यायेन समुदाये आगमविशिष्टतिबादौ विश्राम्यति / आगमा अनुदात्ता इति यासुटः अनुदात्तत्वे प्राप्ते उदात्तवचनं / इदमेव वचनमागमा अनुदात्ता इत्यत्र ज्ञापकमिति भाष्यम् / स्तुयात् स्तुयातामित्यादी गुणादिनिषेधार्थ यासुटो ङित्ववचनम् / ननु यदागमा इति न्यायेन यासुडागमो लिङादेशपरस्मैपदावयवः / ततश्च स्थानिवत्वेनैव ङित्त्वसिद्धेः यासुटो डित्वविधिय॑थः / न च स्थानिभूतलिङो ङकारस्याल इत्त्वेन गुणनिषेधविधावाश्रयणादनल्विधाविति निषेधश्शयः / घुमास्थागापाजहातिसां हलीति विङति विहितस्य ईत्वस्य नल्यपीति निषेधेन लिङ्गेनानुबन्धकार्ये अनल्विधाविति निषेधाभावज्ञापनादित्यत आह / ङित्वोक्तेरिति / क्वचिदनुबन्धकार्येऽपि अनल्विधाविति निषेध इति // यासुटो ङित्वेन ज्ञायत इत्यन्वयः / तथा च एतद्द्वापनार्थ For Private And Personal Use Only
Page #25
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम] बालमनोरमा 2210 / सुट् तिथोः / ( 3-4-107) लिङस्तकारथकारयोः सुट् स्यात् / सुटा यासुट न बाध्यते / लिडो यासुट तकारथकारयोः सुडिति विषयभेदात् / ___ 2211 / लिङः सलोपोऽनन्त्यस्य / ( 7.2.79) सार्वधातुकलिङोऽनन्त्यस्य सस्य लोप: स्यात्। इति सकारद्वयस्यापि निवृत्तिः / सुट: श्रवणं त्वाशीलिङि / स्फुटतरं तु तत्रात्मनेपदे / मेव यासुटो डित्वमिति भावः / ज्ञापनफलन्तु वक्ष्यमाणेत्यत्र डीबभावः / अन्यथा लुडादेशस्य शानच: स्थानिवत्त्वेन टित्वात् डीप स्यात् / ननु क्वचिदनुबन्धकार्येऽप्यनल्विधाविति निषेध इत्यत्र यासुटो डित्ववचनं न ज्ञापकम् / अनुबन्धकार्ये सर्वत्र अनल्विधाविति निषेधाभावे सत्यपि यासु. टो डित्वस्य तिपसिमिबागमयासुटो ङित्त्वार्थमावश्यकत्वात्। नहि लिडादेशत्वेऽपि तिपसिमिपां डित्त्वं स्थानिवत्वलभ्यम् / हलइनश्शानज्झाविति सूत्रभाष्ये डिच्च पिन्न पिच्च ङिन्नेति प्रपञ्चिनत्वादित्यस्वरसादाह / नश्शानचः शित्वमपीह लिंगमिति // इह अनुबन्धकार्येऽपि वचिदनल्विधाविति निषेधोऽस्तीत्यस्मिन्नर्थे श्नः श्नाप्रत्ययस्य यः शानजादेशः हल:नश्शानज्झाविति विहितः तस्य शित्वमपि लिङ्गम् / ज्ञापकमित्यर्थः / अन्यथा स्थानिवत्वेनैव तस्य शित्त्वसिद्धेस्तद्वचनं व्यर्थ स्यादिति भावः / अत्र च यद्वक्तव्यन्तत् स्त्रीप्रत्ययनिरूपणे वक्ष्यमाणेत्यत्र प्रपञ्चितम् / तथा च प्रकृते भव यास त् इति स्थिते / सुडिति // लिङसीयुडित्यतः लिङ इत्यनुवर्तते। तिश्च थश्चेति द्वन्द्वात् षष्ठीद्विवचनम् / इकार उच्चारणार्थः / तदाह / लिङस्तकारेति / / मुटि टकार इत् उकार उच्चारणार्थः / भव यास् स् त् इति स्थितम् / नन्विह परेण सुटा यामुट: कथन्न वाधः / भवेयुरित्यादौ परम्मैपदेषु यासुविधेः चरितार्थत्वादिल्याशङ्कय निराकरोति / सुटा यासुट न बाध्यत इति // तत् कुत इत्यत आह / लिङो यासुट इति / लिङस्सीयुट यासुडागमश्च / लिङादेशैकदेशस्य तकारस्य सुडागम इति विषयभेदादित्यर्थः। तथा च यौगपद्यासम्भवात् विप्रतिषेधाभावान्न परेणापि सुटा यासुटो बाध इति भावः। लिङ इति // सेति लुप्तषष्टीकं पदम / रुदादिभ्यस्सार्वधातुक इत्यतस्सार्वधातुक इत्यनुवृत्तम् षष्ट्या विपरिणम्यते / तदाह / सार्वधातुकलिङ इति / सकारद्वयस्यापीति // अविशेषात् सकारद्वयस्यापि युगपल्लोपः प्रवर्तते / लक्ष्ये लक्षणस्य सकृदेव प्रवृत्तिरिति तु पयायेण पुनः प्रवृत्तिनिवृत्तिपरमिति भावः / यद्यपि भव यास् स् त् इत्यत्र स्कोरित्येव सिद्धयति / तथापि भवेयुरित्याद्यर्थ सूत्रम / ननु मुटो लोपे किमर्थस्सुनिधिरित्यत आह / सुटः श्रवणन्त्वाशीलिङीति // भूयास्तामित्यादौ लिङाशिषात्यार्धधातुकत्वेन तत्र सकारलोपस्याप्रसक्तेरिति भावः / व्यञ्जनपरस्यैकस्यानेकस्य वोच्चारणे विशेषाभाव इति भाध्यादाह / स्फु. टतरन्त्विति // तत्रापि आशिषि लिङ्यपि एधिषीष्टेत्यादावात्मने पदे स्फुटतरं सकारद्र्यस्य श्रवणमित्यर्थः / तत्र यामुटः अभावेन सलोपाभावेन च सुट एव मकारस्य पृथक स्पष्टं श्रवण For Private And Personal Use Only
Page #26
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 24 सिद्धान्तकौमुदीसहिता [भ्वादि 2212 / अतो येयः / (7.2.80) अतः परस्य सार्वधातुकावयवस्य 'या' इत्यस्य इय् स्यात् / गुणः / यलोपः / भवेत् / ‘सार्वधातुक-' इति किम् / चिकर्ष्याित् / मध्ये पवादन्यायेन हि अतो लोप एव बाध्येत / भवेदित्यादौ तु परत्वादीर्घः स्यात् / भवेताम् / सम्भवादिति भावः। तथाच भव यात् इति स्थिते / अत इति // या इति लुप्तषष्टीकं पदम् / अत इति पञ्चमी परस्येत्यध्याहार्यम् / इय इत्यत्राकार उच्चारणार्थः / रुदादिभ्य इत्यस्मात् सार्वधातुक इत्यनुवृत्तम् अवयवषष्ठया विपरिणम्यते। ताह। अतः परस्येत्यादिना॥भव इय त इति स्थितम / गुण इति // आदगुण इत्यनेनेति शेषः। भवेथ त इति स्थितम / यलोप इति // लोपो व्योरि. त्यनेनेति शेषः / भवेदिति // यलोपात प्राक हलठ्यादिलोपस्मंयोगान्तलोपश्च न शङ्कयः / अन्नरङ्गत्वेन यलोपस्य पूर्वम्प्रवृत्तेः संयोगान्तलोपस्य त्रैपादिकत्वेनामिद्धत्वाचेति भावः। सार्वधातुके किमिति // रुदादिभ्य इत्यतस्सार्वधातुक इत्यनुवृतिलभ्यं मार्वधातुकावयवस्येति किमर्थमित्यर्थः / भूयादित्यादावाशीलिङि आर्धधातुके अतः परत्वाभावादेव इयादेशाभावसिद्धेः सार्वधातुकग्रहणानुवृत्तिर्व्यर्थेत्याशयः। चिकीर्ष्यादिति // कृञधातोस्सन्नन्तात आशीलिङि तिबादी चिकीर्ष यादिति स्थिते अतो लोप इत्यकारलोपे चिकीयादिति रूपम् / तत्र अतो येय इत्यत्र सार्वधातुकग्रहणाननुवृत्तौ चिकीर्षयादिति स्थिते अतो येय इति इयादेशे आद्गणे यलोपे चिकीयेदिति स्यात् / सार्वधातुकग्रहणानुवृत्ती तु न दोषः / आशार्लिङादशस्य निङ: लिटाशिषीत्यार्थधातुकतायाः वक्ष्यमाणत्वादिति भावः / ननु आशिषि लिढि चिकीर्षयादिति स्थिते नित्यत्वात अतो लोप इति अकारलोपे मनि अतः परत्वाभावादेव अतो येय इत्यस्याप्रवृत्तेः तत्र सार्वधातुकग्रहणानुवृत्तिर्व्यथैवेत्यत आह / मध्येऽपवादन्यायेन ह्यतो लोप एव बाध्येतेति // षस्य चतुर्थपादे अतो लोप इति सूत्रम् / सप्तमस्य द्वितीयपादे अतो येयेति सूत्रम / सप्तमस्य चतुर्थपादे तु अतो दीर्घा यजीति सूत्रमिति स्थितिः / तत्र आशीलिडि आधधातुके चिकीर्षयादित्यत्राल्लोपप्राप्त्या विधिलिडि तु भवयादित्यत्र अतो दीर्घप्राप्त्या च इयादेशस्य निरवकाशत्वेन बाध्यसामान्यचिन्तामाश्रित्यापवादतया तेन अन्यतरस्मिन बाध्ये सति मयेऽपवादाः पूर्वान्विधीन बाधन्ते नोत्तरानिति न्यायेनातो लोप एव बाधमर्हति / न तु अतो दीर्घ इत्यर्थः / एवञ्चार्धधातुके चिकीर्षयादिति स्थिते अतः परत्वादियादेश: प्रसज्येतेत्यतिव्याप्तिस्स्यादिति स्थितम् / एवञ्चाव्याप्तिरपीत्याह / भवेदित्यादाविति // अतः परस्य इयादेशविधौ सार्वधातुकग्रहणाननुवृत्तौ विधिलिङस्तिपि सार्वधातुके भव यादिति स्थिते इयादेशम्परत्वात् बाधित्वा अतो दीर्घो यनीति यादी मार्वधातुके परे अतो विधायमानो दीर्घस्स्यात् / ततश्च अतः परत्वाभावादियादेशो न स्यादित्यव्याप्तिस्म्यादित्यर्थः / नच इयादेशस्य निरवकाशत्वात दीर्घवाधकत्वं शङ्कयम् / चिकीर्ष्यादित्यार्धधातुके दीर्घप्राप्त्ययोग्ये इयादेशस्य सावकाशत्वादिति भावः / भवेतामिति // तमम्तामादेशे शपि गुणे अवादेशे यामुडागमे मटि गकारद्वयलोपे या For Private And Personal Use Only
Page #27
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा 25 2213 / झेर्जुस् / (3-4.108) लिङो झेर्नुस् स्यात् / ज इत् / 2214 / उस्यपदान्तात् / ( 6-1-96) अपदान्तादवर्णादुसि परे पररूपमेकादेश: स्यात् / इति प्राप्ते / परत्वान्नित्यत्वाच्च अतो येयः' (2212) इति प्राञ्च: / यद्यप्यन्तरङ्गत्वात्पररूपं न्याय्यं / तथाति ‘यास्' इत्येतस्य ‘इय्' इति व्याख्येयम् / एवं च सलोपस्यापवाद - ----- इत्यस्य इयादेशे आद्गणे यलोपः / अथ लिडो झेझेन्त इति प्राप्ते / झेर्जुसिति // लिङसीयुडिल्यतो लिङः इत्यनुवर्तते / तदाह / लिङो झेरिति // अनेकालत्वात्सवादेशः / ज इदिति // जुसः स्थानिवत्त्वेन प्रत्ययत्वात् चुट् इति जकार इत्संज्ञक इत्यर्थः / उसि शपि गुणे अवादेशे यासुटि सकारलोपे भव या उसिति स्थिते इयादेशं बाधित्वा पररूप प्रवृत्तिं शङ्कितुमाह / उसीति // एकः पूर्वपरयोरित्यधिकृतम् / आद्गण इत्यस्मादादित्यनुवतते / एडि पररूपमित्यस्मात्पररूपमिति / तदाह / अवर्णादुसीति // उसि यः अच् उकारः तस्मिन् परत इत्यर्थः / इको यणचीत्यतः अचीत्यनुवृत्तेः / यद्यपि उसः कृत्स्नस्याकारस्य च उसित्येकादेशेऽपि रूपन्तुल्यम् / तथापि अकस्सवणे दीर्घ इत्यादावुत्तरत्राचीत्यावश्यकमवाप्यनुवर्तत इति बोद्धयम् / भिन्युरित्याधुदाहरणम् / इति प्राप्त इति // भव या उसित्यत्रा कारस्योकारस्यचादगुणम्बाधित्वा एकस्मिन्नुकारे पररूप प्राप्ते सतीत्यर्थः / सति च पररूपे पा इत्यस्याभावात् इय् न स्यादिति मन्यते / परत्वादिति // पररूपापेक्षया इयादेशः परः नित्यश्च / अकृते कृते च पररूपे प्रवृत्तेः / कृते पररूपे य् इत्यस्यैकदेशविकृतन्यायेन एकादेशस्य पूर्वान्तवत्त्वेन वा इयादेशस्य निर्बाधत्वात् / ततश्च पररूपम्बाधित्वा इयादेशे भवेयुरिति रूपमिति प्राचीनाः मन्यन्त इत्यर्थः / ननु पररूपमङ्गाधिकारस्थत्वाभावात् अङ्गानपेक्षत्वात् अन्तरङ्गं / इयादेशस्तु आङ्गत्वात् प्रकृतिप्रत्ययोभयसापेक्षत्वात् बहिरङ्गम् / ततश्च परान्नित्यादपीयादेशात् पररूपस्यान्तरणतया बलवत्त्वात् पररूपमेव इह स्यादिति शङ्कते। यद्यपीति // परिहरति / तथापीति // अतः यास् इयः इति पदच्छदः / यासिति लुप्तषष्ठीकं पदम् / ततश्च अतः परस्य यासित्येतस्य इय् स्यादिति व्याख्येयमित्यर्थः / ननु लिङस्सलोपोऽनन्त्यस्येति सकारस्य लोपः इयादेशम्बाधित्वा नित्यत्वात् प्राप्नोतीति ततश्च यास् इत्यस्य इय् इति कथमित्यत आह / एवञ्चेति // यासिति सकारान्तस्य इयादेशविधिसामर्थ्यादेव सकारलोपं बाधित्वा प्रागेव यासिति सकारान्तस्य इयादेशो भवतीत्यर्थः / तथा च सकारावस्थायां अवर्णात्परत्वाभावेन पररूपस्याप्रवृत्तिरिति भावः / ननु यदि या स् इयः इति च्छेदः, तदा सकारस्य रुत्वे, भोभगो इति यत्वे, लोपश्शाकल्यस्येति तस्य लोपे, अतो या इयः इति स्यात् / आद्गुणे कर्तव्ये यलोपस्यासिद्धत्वादित्यत आह / For Private And Personal Use Only
Page #28
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Acharya Shri Kallas सिद्धान्तकौमुदीसहिता भ्वादि इय् / 'अतो येयः' (2212) इत्यत्र तु सन्धिरार्षः / भवेयुः / भवेः। भवेतम्। भवेत / भवेयम् / भवेव। भवेम / 2215 / लिङाशिषि / (3-4-116) आशिषि लिङस्तिङार्धधातुकसंज्ञः स्यात् / 2216 / किदाशिषि / (3-4-104) आशिषि लिङो यासुट् कित्स्यात् / 'स्को:-' (380) इति सलोपः / __2217 / किति च / (1-1-5) सन्धिरार्ष इति। आनेमुगिति सूत्रे भाष्ये तु अतो या इय इत्येव सूत्रपाठो लक्ष्यते / भवे. रिति // सिपि, शपि, गुणः / अवादेशः / इतश्चेति इकारलोपः / यासुडागमः / सकारद्वयस्य लोपः। इयादेशः / आद्गुणः। यलोपः। रुत्वविसौं / एवं थसः तमादेशे थस्य तादेशे च, भवेतम्। भवेतेति च रूपम्। भवेयमिति // मिपि अमादेशः / शप् / गुणः। अवादेशः / यासुट्। सलोपः। इयादेशः / आद्गुणः / भवेवेति // वस् शप् गुणावादेशौ। नित्यङ्कित इति सकारलोपः / यासुट् / सलोपः / इयादेशः / आद्गणः यलोपः। एवं मसि भवेमेति रूपम् / इति विधिलिङ् प्रक्रिया // अथाशीलिङि विशेषमाह / लिङाशिषीति // लिङिति लुप्तषष्ठीकं पदम् तिशित्सार्वधातुकमित्यतस्तिडित्यनुवर्तते / तदाह / आशिषिलिङस्तिङिति। सार्वधातुकसंज्ञापवादोऽयम् / ततश्च सार्वधातुकसंज्ञाकार्य शबादि न भवति / किदाशिषीति // लिङस्सीयुडित्यतः लिङ इत्यनुवर्तते / यासुट् परस्मैपदेष्वित्यतः यासुडिति च / तदाह / आशिषि लिङ इति // यासुट् परस्मैपदेष्विति ङित्वस्यापवादः / यद्यपि डित्वेनैव गुणनिषेधस्सिध्यति / तथापि इज्यादित्यादौ वचिस्वपियजादीनां कितीति सम्प्रसारणाद्यर्थ कित्वमावश्यकम् इह न्याय्यत्वादुपन्यस्तम् / अथ आशिषि लिङस्तिपि आर्धधातुकत्वात् शबभावे इतश्चेतीकारलोपे यासुडागमे अतः परत्वाभावात् सार्वधातुकत्वाभावाच इयादेशाभावेसुटि भूयास् स् त् इति स्थिते प्रक्रियामाह / स्कोरिति / सलोप इति // लिङस्सलोप इत्यस्य सार्वधातुकविषयत्वात् स्कोरिति सुटः पदान्तसंयोगादित्वात् लोपः / ततः यासुटस्सस्यापि पदान्तसंयोगादित्बादेव लोपः / न तु झल्परसंयोगादित्वेन यासुटस्सस्य लोपे सुट: सस्य पदान्तसंयोगादित्वाल्लोप इति युक्तम् / तथासति झल्परसंयोगादिलोपस्यासिद्धत्वेन संयोगान्तलोपापत्तेः / भ्रष्ट इत्यादौ सावकाशस्य झल्परसंयोगादिलोपस्य संयोगान्तलोपाबाधकत्वादिति शब्दरत्ने विस्तरः / एवं च भूयास् स् त् इति स्थिते सकारद्वयस्य निवृत्तौ भूयादिति रूपम् / तत्र सार्वधातुकार्धधातुकयोरिति गुणे प्राप्ते / किति चेति // गङ् एषां समाहारद्वन्द्वः कात्पूर्व गकारस्य चर्बेन निर्देशात् गल्ङ् च इत् यस्येति विग्रहः / द्वन्द्वान्ते श्रूयमाण इच्छब्दः प्रत्येकमन्वेति / तथा च गिति किति For Private And Personal Use Only
Page #29
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा गिकिन्डिन्निमित्त इग्लक्षणे गुणवृद्धी न स्त: / भूयात् / भूयास्ताम् / भूयासुः / भूयाः / भूयास्तम् / भूयास्त / भूयासम् / भूयास्व / भूयास्म / 2218 / लुङ् / ( 3.2-110) भूतार्थवृत्तेर्धातोर्लुङ् स्यात् / 2219 / माङि लुङ् / (3-3-175) सर्वलकारापवादः / डिति चेति लभ्यते / निमित्तसप्तम्येषा / इको गुणवृद्धी इत्यनुवर्तते / चकार इत्यर्थे / इक इत्युच्चार्य विहिते इति लभ्यते / न धातुलोप आर्धधातुक इत्यतः नेत्यनुवर्तते / तदाह / गित्किन्डिन्निमित्ते इत्यादिना // गितीत्यनुक्तौ तु ग्लाजिस्थश्च गस्नुरिति ग्स्नुप्रत्यये जिष्णुरित्यत्र गुणनिषेधो न स्यात् / न च ग्स्नुप्रत्ययः किदेव क्रियतामिति वाच्यम् / तथा सति घुमास्थेति किति विहितस्य ईत्वस्य प्रसङ्गात् / यदितु गिति किति डिति परतो गुणवृद्धी न स्तः इति व्याख्यायेत, तदा च्छिन्नं भिन्नमित्यत्र क्तप्रत्यये परे लघूपधगुणनिषेधो न स्यात् / स्थानिभूतस्येकः हला व्यवधानात् / नच येननाव्यवधानन्यायश्शयः / चितंस्तुतमित्यादावव्यवहिते चरितार्थत्वात् / यदि च इको न गुणवृद्धी इत्येव व्याख्यायेत न विग्लक्षणे इति, तदा लिगोरपत्यं लैगवायनः, नडादित्वात् फक् , इह आदिवृद्धरोर्गुणस्य च वस्तुगत्या इक्स्थानिकत्वात् निषेधस्स्यादित्यलम् / भूयादिति // इहार्धधातुकत्वाल्लिंडस्सलोप इत्यस्याप्रवृत्तेः स्कोरिति सलोप इत्युक्तम् न विस्मर्तव्यम् / न चैवमपि संयोगादिलोपस्यासिद्धत्वाद्धल्यादिलोपः स्यादिति वाच्यम्। सुटि यासुटि च सति ताभ्यां विशिष्टस्यैव प्रत्ययत्वेनापृक्तत्वाभावादित्यलम् / भूयास्तामिति // आशिषि लिङस्तसस्तामादेशे आर्धधातुकत्वात् शबभावे यासुडागमे अतः परत्वाभावादियादेशाभावे सुटि झल्परसंयोगादित्वेन यासुटस्सकारस्य लोपः गुणनिषेधश्च / भूयासुरिति // झेर्जुसि यासुडागमे गुणनिषेधे रूपम् / भूया इति // आशीर्लिङस्सिपि इतश्रेतीकारलोपः यासुटः स्कोरिति सलोपः, गुणनिषेधः, रुत्वविसौं / भूयास्तमिति // थसस्तमादेशे यासुटि गुणनिषेधः / एवं थस्य तादेशेऽपि भूयास्तेति रूपम् / भूयासमिति // मिपः अमादेशे यामुटि गुणनिषेधः / भूयास्वेति // लिङो वस् नित्यं ङित इति सकारलोपः / यासुट् / गुणनिषेधः / एवं मसि भूयास्मेति रूपम् / इत्याशीर्लिप्रक्रिया। लुङिति॥धातोरिति भूत इति चाधिकृतम् / तदाह / भूतार्थवृत्तेरिति / माङि लुङिति // माङि प्रयुज्यमाने धातोर्लङ् स्यादित्यर्थः / ननु लुङ् इत्युदाहृतसूत्रेणैव सिद्धेः किमर्थमिदमित्यत आह / सर्वलकारापवाद इति // मास्त्वित्यादौ तु मा इत्यव्ययान्तरं प्रतिषेधार्थकमित्याहुः / आङ् माङोश्चेति सूत्रभाष्ये तु ङितो माशब्दस्य निर्देशात प्रमाच्छन्द इत्यत्र न भवतीत्युक्तम् / माशब्दस्याव्ययान्तरस्य सत्त्वे तु तदेवोदाहियेत।मास्त्वित्यत्र For Private And Personal Use Only
Page #30
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदीसहिता [भ्वादि 2220 / स्मोत्तरे लङ् च / (3-3-176) स्मोत्तरे माङि लङ् स्याल्लुङ् च / 2221 / च्लि लुङि ( 3-1.43) __ शबाद्यपवादः / 2222 / च्लेः सिच् / (3-1-44) इचावितौ। 2223 / गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु / (2-4-77) एभ्यः सिचो लुक्स्यात् / गापाविहेणादेशपिबती गृह्यते / 2224 / भूसुवोस्तिङि / (7-3-88) 'भू' 'सू' एतयोः सार्वधातुके तिङि परे गुणो न स्यात् / 2225 / अस्तिसिचोऽपृक्ते / ( 7-3-96) तु अस्त्विति विभक्तिप्रतिरूपकमव्ययमित्यन्ये। स्मोत्तर इति // चकारात् माङि लुडित्यनुकृष्यते। स्म इत्यव्ययं उत्तरं यस्मादिति विग्रहः। तदाह / स्मोत्तरे माङीति // अयमपि सर्वलकारापवादः। लिलुङीति॥ चिल इति लुप्तप्रथमाकं लुङि परे धातोः चिलप्रत्ययः स्यादित्यर्थः / शबाद्यपवाद इति // आदिना श्यनादिविकरणसंग्रहः / च्लेस्सिजिति / इताविति // चित् स्वरश्चित्त्वस्य प्रयोजनं / इदित्त्वस्य तु अमंस्तेत्यत्र अनिदितां हल उपधाया इत्युपधालोपस्याप्रवृत्तिः प्रयोजनम् / गातिस्थेति // गाति स्था घु पा भू एषां द्वन्द्वात् पञ्चमीबहुवचनम्। परस्येति शेषः। सिच इति षष्टी। गातीति रितपा निर्देशात् गाधातोर्ग्रहणम् / घु इत्यनेन दाधाघ्वदाबिति घुसंज्ञकयोः दाधातोर्धाधातोश्च ग्रहणम् / ण्यक्षत्रियार्षभितो यूनिलुगणिजोरित्यस्माद्वयवहितादपि लुगित्यनुवर्तते / जुहोत्यादिभ्यः श्लुरित्यव्यवहितमपि श्लुग्रहणं नानुवर्तते / व्याख्यानात्। तदाह / एभ्यास्सिच इत्यादिना / गापाविहेति // इह गातिस्थेति सूत्रे गातीत्यनेन पाग्रहणेन च इणो गालुङीति लुग्विकरणस्येणो गादेशः शब्विकरण: पिबादेशयोग्यः पाधातुश्च गृह्यते इत्यर्थः / गापोहणे इपिबत्योर्ग्रहणमिति भाष्यादिति भावः / तथाच लुङस्तिबादेशे इतश्चेति इकारलोपे शबपवादे चिलप्रत्यये तस्य सिचि तस्य लुकि अडागमे अभूत इति स्थिते पित्वात् ङित्त्वाभावे सार्वधातुकार्धधातुकयोरिति गुणे प्राप्ते / भूसुवोरिति // मिर्गुण इत्यतो गुण इति, नाभ्यस्तस्याचि पितीत्यतो नेति सार्वधातुक इति चानुवर्तते / तदाह / एतयोरिति // भू सू इत्यनयोरित्यर्थः / इह घूङ् प्राणिगर्भविमोचन इति लुग्विकरणस्थस्यैव ग्रहणम् / न तु सुवति सूयत्योश्शविकरणश्यन्विकरणयोरपि / तत्र तिङो विकरणेन व्यवधानात् / अथ अभूत् इत्यत्र तकारस्येडागममाशङ्कितुमाह / अस्ति सिच इति // अस्तिश्च सिच्चेति समाहारद्व For Private And Personal Use Only
Page #31
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Acharya Sh प्रकरणम् ] बालमनोरमा 'सिच् च ' अस्' चेति समाहारद्वन्द्वः / सिच्छब्दस्य सौत्रं भत्वम् / अस्तीत्यव्ययेन कर्मधारयः / ततः पञ्चम्या: सौवो लुक् / विद्यमानात्सिचोऽस्तेश्च परस्यापृक्तहल ईडागमः स्यात् / इति ईट् न। इह सिचो लुप्तत्वात् / अभूत् / 'हल:' किम् ऐधिपि / ' अपृक्तस्य' इति किम / ऐधिष्ट / अभूताम् / 2226 / सिजभ्यस्तविदिभ्यश्च / ( 3-4-109) सिचोऽभ्यस्ताद्विदेश्च परस्य ङित्संबन्धिनो झर्जुस् स्यात् / इति प्राप्ते / __2227 / आतः। (3-4-110) न्द्वात पञ्चमी / ध्रुव ईडित्यत ईडित्यनुवर्तते / तस्मादित्युत्तरस्यति परिभाषया पञ्चमी / अपृक्तस्येति षष्ठी प्रकल्पयति / ततश्च अस्तेस्सिचश्च परस्यापृक्तस्य ईडागमस्स्यादिति प्राचीना व्याचक्षते / तथा सति लुङि अस्ते भावे अभूदिति न स्यात्। भूभावस्य स्थानिवत्त्वेन अस्तितया तत्रापृक्तस्य हल ईडागमस्य दुर्वारत्वात् / तथा अगात् अस्थात् अपादित्यादावपि गातिस्थेति सिचो लुक्यपि स्थानिवत्त्वेन सिचः परत्वादीडागमस्स्यात् / अतः प्रकारान्तरेण व्याचष्ठे। सिच्च अस चेत्यादिना // ननु सिचस शब्दे सिच्शब्दस्य पूर्वखण्डस्यान्ततिविभक्त्या पदत्त्वाचोः कुरिति कुत्त्वप्रसङ्ग इत्यत आह / सिचशब्दस्य सौत्रं भत्त्वमिति // तथा च भत्त्वेन पदत्त्वस्य बाधानकुत्त्वमिति भावः / ननु सिचसशब्दे अस इत्यनेनैवास्तेलीभात् अस्तिग्रहण किमर्थमित्यत आह / अस्तीत्यव्ययेन कर्मधारय इति // अस्तीति विभक्तिप्रतिरूपकमव्ययं / लुप्तसुविभक्तिकं विद्यमानार्थकं / तेन सिचस्शब्दस्य कर्मधारय इत्यर्थः / तथा च अस्तिसिचस् इत्येकं पदमिति स्थितं / ततः पञ्चम्यास्सौत्रो लुगिति // सुपां सुलुगित्यनेनेति शेषः / तथा च अस्ति सिच इति पदात् लब्धार्थमाह / विद्यमानात्सिचोऽस्तेश्च परस्येति। हल इति // उतो वृद्धिलकि हलील्यतोऽनुवृत्तस्य हलीत्यस्य षष्टया विपरिणाम इति भावः / इती नेहेति // अनेन सूत्रेण अभूत् इत्यत्र ईडागमो नेत्यर्थः / कुत इत्यत आह / सिचो लुका लुप्तत्वादिति // विद्यमानत्वविशेषणेन लुप्तात्सिचः परस्य नेति भावः / एवञ्च / अगादित्यादावपि लुप्तात्सिचः परस्य अस्तेर्लुङि कृतभूभावात्परस्य च नेत्युक्तप्रायम्। ऐधिषीति। एधधातो ङि उत्तमपुरुषैकवचनं / इट् / अत्र इकारस्य सिचः परत्त्वेऽपि हल्त्वाभावात् ईडागमो नेति भावः / ऐधिष्टेति // एधधातो ङि प्रथमपुरुषैकवचनम् / अत्र त इत्यस्य सिचः परत्वेऽपि एकाल्प्रत्ययत्वाभावेनापृक्तत्वाभावात् ईडागमो नेति भावः / अभूतामिति॥ लुङस्तसि तस्य तामादेशः / च्ले:सिच / अट। गुणनिषेधः। सिजभ्यस्तेति // झर्जुसिति सूत्रमनुवर्तते। नित्यङ्कित इत्यतः ङित इति च। तदाह / सिचोऽभ्यस्तादित्यादिना। इति प्राप्तइति // लिङो झेर्जुसिति शेषः / आत इति // झर्जुसिति सूत्रमनुवर्तते / आतस्सिलुगन्तादिति वक्तव्यमिति वार्तिकं भाष्ये पठितम् / ततश्च सिज्लुकि यदाकारान्तं तस्मात्परस्य झेर्जुसिति For Private And Personal Use Only
Page #32
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदीसहिता [भ्वादि सिज्लुक्यादन्तादेव झेर्जुस् स्यात् / अभूवन / अभूः / अभूतम् / अभूत ।अभूवम् / अभूव / अभूम। 2228 / न माङयोगे। ( 6.4.74) अडाटौ न स्त: / मा भवान भूत् / मास्म भवत् भूद्वा / 2229 / लिनिमित्ते लङ क्रियातिपत्तौ / (3-3-139) हेतुहेतुमद्भावादिलिङ्किीमत्तं तत्र भविष्यत्यर्थे लङ् स्यान्क्रियाया अनिष्पत्तौ गम्यमानायाम् / अभविष्यत् / अभविष्यताम् / अभविष्यन् / अभविष्यः / अभविध्यतम् / अभविष्यत / अभविष्यम् / अभविष्याव / अभविष्याम / / लभ्यते / सिजभ्यस्तेति पूर्वसूत्रेणैव सिद्धे नियमार्थमिदम् / तदाह / सिज्लुक्यादन्तादेवेति / अभूवन्निति // झिः फिलः सिच् लुक् अट झोन्तः इतश्चेति इकारलोपः / तकारस्य संयोगान्तलोपः / भुवो वुग्लुड्लिटोरिति बुक् / सिज्लुकि आतः परस्यैवेति नियमात् सिजभ्यस्तेति न जुसिति भावः / अभूरिति // सिप चिल: सिच् लुक् अट रुत्त्वविसौं / अभूतमिति // थसस्तम् / च्लेस्सिजादेशः / सिज्लुक् / अट्। गुणनिषेधः / एवं थस्य तादेशे अभूतेति रूपम् / अभूवमिति // मिप् अम् च्लि: सिच् लुक् अट वुक् / अभूवेति // वस् च्लि: सिच् लुक् अट् नित्यति इति सकारलोपः गुणनिषेधः / एवं मसि अभूमेति रूपम् / अथ माङि लुङि विशेषमाह / न माङयोग इति // शेषपूरणेन सूत्रं व्याचष्टे / अडाटौ न स्त इति // लुङ् लङ् लुङ्वडुदात्त इत्यतः, आडजादीनामित्यतश्च, तदनुवृत्तेरिति भावः / मा भवान् भदिति // माभूदित्यत्र अडागमे सति असति च विशेषाभावात् भवत्पदस्य मध्ये प्रयोगः / अथ स्मोत्तरे लड्चेत्यस्य उदाहरति / मास्मभव द्वेति // एवं बहुवचने मास्म भवन् मास्म भूवनिति चोदाहरणम् बोद्धयम् / इति लुङ् प्रक्रिया // लिनिमित्त इति / हेतुहेतुमद्भावादीति // हेतुहेतुमतोर्लिङ् / इच्छार्थेषु लिङ्लोटावित्यादिलिनिमित्तं लकारार्थप्रक्रियायां स्पष्टीभविष्यति / भविष्यदर्थ इति // भविष्यति मर्यादावचन इत्यतः तदनुवृत्तेरिति भावः / क्रियातिपत्तिपदं व्याचष्टे / क्रियाया अनिष्पत्ताविति // सुवृष्टिश्चेदभविष्यत तदा सुभिक्षमभविष्यत् / इत्यदाहरणम बोध्यम् / अभविष्यदिति // लुङ् तिप् इतश्चेतीकारलोपः / स्यतासी लुलुटोरिति शबपवादः स्यप्रत्ययः। वलादिलक्षण: इट् / गुणावादेशौ / षत्वम् / अभविष्यतामिति // तसस्तामादेशः / स्यः अट् इट् गुणावादेशौ षत्वम् / अभविष्यन्निति // झिः स्यः अट् इट् गुणावादेशौ / झोऽन्तः इति झेरन्तादेशः इतश्चेतीकारलोपः / तकारस्य संयोगान्तलोपः / षत्वम् / अभावष्य इति // सिप स्यः अट् इट् गुणः अवादेशः इतश्चेतीकारलोपः षत्वम् / रुत्वविसौं / अभविष्यतमिति // थसस्तमादेशः स्यः अट् इट् गुणावी षत्वम् / एवं थस्य तादेशादि पूर्ववत् / अभविष्यमिति / मिप् अम् स्यः अट् इद गुणावौ इतश्चेतीकारलोपः / For Private And Personal Use Only
Page #33
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्]] बालमनोरमा 2230 / ते प्राग्धातोः / (1-4-80) ते गत्युपसर्गसंज्ञका धातोः प्रागेव प्रयोक्तव्याः / 2231 / आनि लोट् / (8-4-16) उपसर्गस्थानिमित्तात्परस्य लोडादेशस्यानीत्यस्य नस्य णः स्यात् / प्रभवाणि / दुरः षत्वणत्वयोरुपसर्गत्वप्रतिषेधो वक्तव्यः। दुःस्थितिः / दुर्भवानि / . अन्तः शब्दस्यांकिविधिणत्वेषूपसर्गत्वं वाच्यम् / ____ अन्तर्धा / अन्तर्धिः / अन्तर्भवाणि / / 2232 / शेषे विभाषाऽकखादावषान्त उपदेशे / (8-4-18) उपदेशे कादिखादिषान्तवर्जे गदनदादेरन्यस्मिन्धातौ पर उपसर्गस्थान्निमित्तात्परस्य नेर्नस्य णत्वं वा स्यात् / प्रणिभवति-प्रनिभवति / इहोपसर्गाणामसमस्तत्वेऽपि संहिता नित्या / तदुक्तम्षत्वम् / अभविष्यावेति // वस् स्यः अट् इट् नित्यं डित इति सकारलोपः / अतो दीर्घः / षत्वम् / एवं मसि अभविष्यामेति रूपम् / इति लङ्प्रक्रिया // अथ प्रसङ्गादाह / ते प्रागिति // ते इत्यस्य विवरणम् / गत्युपसर्गसंज्ञा इति // उपसर्गाः क्रियायोगे गतिश्चेति प्रकृतत्वादिति भावः / प्रागेवेति // न परतः नापि व्यवहिता इत्यर्थः / इह धातोः प्रागेव प्रयुज्यमाना गत्युपसर्गास्स्युरिति संज्ञानियमपक्षोऽपि भाष्ये स्थितः। आनि लोडिति // लोडिति आनीति च लुप्तषष्टीकम् पदम् / रषाभ्यां णोन इत्यनुवर्तते। उपसर्गादसमासेपीत्यतः उपसर्गादिति च। तदाह / उपसर्गस्थानिमित्तादिति // रेफषकारात्मकादित्यर्थः / असमानपदत्वार्थ आरम्भः / अट्कुप्वानुम्व्यवायेपीति सूत्रं णत्वप्रकरणे सर्वत्र भवतीति भाष्यम् / दुरः षत्वेति / षत्वणत्वयोः कर्तव्ययोः दुर उपसर्गत्वप्रतिषेध इत्यर्थः / दुःस्थितिरिति / अत्रोपसर्गात् सुनोतीति षत्वं न भवति / दुर्भवानीति / अत्रानि लोटि णत्वन्न भवति / अन्तश्शब्दस्येति // अविधौ किविधौ णत्वे च कर्तव्ये अन्तर् इत्यस्य उपसर्गत्वमित्यर्थः / प्रादित्वाभावादप्राप्ते वचनम् / अन्तर्धेति // स्त्रियामित्यधिकारे धाधातोः आतश्चोपसर्गे इत्यङ् / टाप् / अन्तर्धिरिति // उपसर्गे घोः किः / अन्तर्भवाणीति // आनि लोडिति णत्वम् / शेषे विभाषेति // अकखादाविति च्छेदः / नेर्गदनदेति पूर्वसूत्रोक्तधातुभ्योऽन्यश्शेषः / तदाह / गदनदादेरन्यस्मिन्निति // ननु णत्वप्रकरणं संहिताधिकारस्थं ततश्चाविवक्षितायां संहितायां उपसर्गात्परत्वाभावात् णत्वाभावः / विवक्षितायान्तु णत्वमिति विकल्पसिद्धेः किमिह विभाषाग्रहणेनेत्यत आह / इहोपसर्गाणामिति। उक्तमिति / / For Private And Personal Use Only
Page #34
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 2 सिद्धान्तकौमुदीसहिता [भ्वादि m संहितैकपदे नित्या नित्या धातूपसर्गयोः / नित्या ममासे वाक्ये तु सा विवक्षामपेक्षते / / इति / सत्ताद्यर्थनिर्देशश्चोपलक्षणम् / यागात्स्वर्गो भवतीत्यादावुत्पद्यत इत्याद्यर्थात् / उपसर्गास्त्वर्थविशेषस्य द्योतकाः / प्रभवति / पराभवति / सम्भवति / अनुभवति। अभिभवति / उद्भवति / परिभवतीत्यादौ विलक्षणार्थावगतेः / उक्तं च उपसर्गेण धात्वर्थो बलादन्यत्र नीयते / प्रहाराहारसंहारविहारपरिहारवत् / / इति / / 'एध 2 वृद्धौ' / कत्थन्ताः षट्त्रिंशदनुदात्तेतः / 2233 / टित आत्मनेपदानां टेरे / ( 3.4.79) टितो लस्यात्मनेपदानां टेरेत्वं स्यात् / एधते / हरिणेति शेषः / अत्र एकपद इत्यनेन अखण्डं पदं विवक्षितम् / नित्यासमास इति लिङ्गात् / अखण्डत्वञ्च पदभिन्नोत्तरखण्डत्वम् / तथा राजीयतीत्यादौ अतो गुण इति शपा पररूपं एकादेशः पक्षे न स्यात् / अर्थनिर्देशश्चेति // धातुपाठे भू सत्तायामित्याद्यर्थनिर्देश इत्यर्थः / उपलक्षणमिति // प्रदर्शनमात्रमित्यर्थः / नन्वर्थान्तरपरिसङ्ख्या कुतो न स्यादित्यत आह / यागादिति // ननु यागात् स्वर्गों भवतीत्यादी उत्पन्यादी लक्षणा कुतो न स्यादिति वाच्यम् / प्रयोगप्राचुर्यसत्वात् / पाणिनिर्हि धातुपाटे धातून कांश्चिदर्थसहितान कांश्चिदर्थरहितान् पठतीति चुटू इति सूत्रभाष्ये स्थितम् / न चातिप्रसङ्गश्शयः / अनेकार्था अपि धातवो भवन्तीति भाष्ये अपिशब्देन प्रयोगानुसारित्वावगतेः / सर्वेषु धातुष्वर्थनिर्देशस्त्वाधुनिकः / एवञ्च सेधतेर्गताविति सूत्रे गतावित्युपादानात् षिधगत्यामित्यर्थनिर्देशः अपाणिनीय एवेति दिक् / ननु भूधातोः केवलस्योत्पत्याद्यर्थकत्वे उद्भवतीत्यादी उपसर्गा व्यर्थी इत्यत आह / उपसर्गास्त्विति // उपसर्ग विनाऽपि भूधातोरुत्पत्याद्यर्थप्रतीतेः उद्भवतीत्यादौ प्रयुज्यमाना अप्युपसर्गा द्योतका एव न तु वाचका इति भावः / द्योतकत्वं वा तेषां किमर्थ स्वीकार्यमित्यत आह / प्रभवतीत्यादि // प्रभवः प्रकाशः उत्पत्तिः शक्तिर्वा / सम्भवः सम्भावना / पराभवः पराजयः / अनुभवः उपभोग: / अभिभवः हिंसा / उद्भवः उत्पत्तिः / परिभवः तिरस्कारः / उक्तश्चेति // हरिणेति शेषः / प्रहारः कशाद्याधातः / आहारो भक्षणम् / संहारः वधः / विहारः क्रीडा / परिहारः परित्याग: / इति भधातुप्रक्रिया // एधवृद्धाविति // जायते, आस्ति, विपरिणमते, वर्धते; अपक्षीयते, विनश्यतीति षट् भावविकाराः / तत्र चतुर्थावस्था वृद्धिः उपचयः / कत्थन्ता इति // कत्थ इलाघायामित्यन्ता इत्यर्थः / अनुदात्तेत इति // ततश्च एतेभ्य आत्मनेपदमेवेति भावः / तत्र एथ् इत्यस्मात् कर्तरि लटि तस्यात्मनेपदप्रथमपुरुषैकवचने तादेशे शपि एधत इति स्थिते / टित इति // टेः एरिति च्छेदः लस्येत्यधिकृतम् / तदाह / टितो लस्येति // आदेशानामिति For Private And Personal Use Only
Page #35
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा 33 2234 / सार्वधातुकमपित् / (1-2-4) ___ अपित्सार्वधातुकं ङिद्वत्स्यात् / 2235 / आतो डितः। (7-2-81) अतः परस्य ङितामाकारस्य इय् स्यात् / एघेते / एधन्ते / 2236 / थासः से। ( 3-4.80) टितो लस्य थास: से स्यात् / एधसे / एधेथे / एधध्वे / अतो गुणे' (191) एधे / एधावहे / एधामहे / 2237 / इजादेश्च गुरुमतोऽनृच्छः। (3-1-36) इजादिर्यो धातुर्गुरुमानृच्छत्यन्यस्तत आम्स्याल्लिटि / 'आमो मकारस्य नेत्त्वम्' / आस्कासोराम्विधानाज्ज्ञापकात् / शेषः / अत्रात्मनेपदशब्देन तदेव गृह्यते नत्वानोऽपि / तेन पचमानो यजमान इत्यादावेत्वं नेति भाष्ये स्पष्टम् / एधत इति // अत्र तकारादकारस्य व्यपदेशिवद्भावेनान्त्यादित्वेन टित्वादे त्वम् / अथ लट: प्रथमपुरुषद्विवचने आतामित्यादेशे टित आत्मनेपदानामिति आम एत्वे शपि एध आते इति स्थिते ङित्कार्य वक्ष्यन् ङित्त्वमाह / सार्वधातुकमपिदिति // गाङ्कुटादिभ्य इत्यतो डिदित्यनुवर्तते / अडितो ङित्त्वं वास्तवं न सम्भवतीति डिद्वदिति लभ्यते / तदाह / डिद्वदिति / आतो ङित इति // ङित इत्यवयवषष्टी / अतो येय इत्यस्मात् अत इति पञ्चम्यन्तं, इय इति प्रथमान्तं चानुवर्तते / यकारादकार उच्चारणार्थः / तदाह / अतः परस्येति // हितामित्यनन्तरं अवयवस्यति शेषः / एधेते इति // एध आते इति स्थिते, आकारस्य इय् , आद्गणः, लोपो व्योवलीति यकारलोपइति भावः / एधन्त इति // लटः प्रथमपुरुषबहुवचने झादेशे परे शपि झकारस्य अन्तादेशे पररूपे टेरेत्वमिति भावः / अथ लटो मध्यमपुरुषै. कवचने थासादेशे कृते टितआत्मनेपदानामित्येत्वे प्राप्ते। थासस्स इति // से इति लुप्तप्रथमाकम् / एधस इति // थासि शपि थासः सेभावः / एधेथ इति // लटो मध्यमपुरुषद्विवचने आथामादेशे शपि आम एत्वे आकारस्य इयादेशे गुणे यलोपे इति भावः / एधध्व इति // लटो मध्यमपुरुषबहुवचने ध्वमादेशे शपि टेरेत्वे रूपम् / लट उत्तमपुरुषैकवचने इडादेशे एत्वे शपि एध ए इति स्थिते प्रक्रियां दर्शयति / अतो गुणे इति // अतो गुण इति पररूपे वृध्यपवादे कृते सति एधे इति रूपमित्यर्थः / एधावह इति // लट उत्तमपुरुषद्विवचने वहि इत्यादेशे टेरेत्वे शपि अतो दीर्घः / एधामह इति // लट उत्तमपुरुषबहुवचने महि इत्यादेशे टेरेत्वे शपि अतो दीर्घः / महिङिति डकारस्तप्रत्याहारार्थः / इति लटप्रक्रिया॥ इजादेरिति // नञः ऋच्छ इत्यनेन समासे अनुच्छ इत्यस्मात् पञ्चमी / धातोरेकाच इत्यतो धातोरित्यनुवर्तते / कास्प्रत्ययादित्यतः आमिति लिटीति चानुवर्तते / तदाह / इजादि For Private And Personal Use Only
Page #36
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 34 सिद्धान्तकौमुदीसहिता [भ्वादि 2238 / आमः। (2-4-81) आमः परस्य लेलृक्स्यात् / 2239 / कृञ्चानुप्रयुज्यते लिटि / (3.1-40) आमन्ताल्लिट्पराः कृभ्वस्तयोऽनुप्रयुज्यन्ते / ‘आम्प्रत्ययवत्कृत्रोऽनुप्रयोगस्य' (2240) इति सूत्रे कृग्रहणसामर्थ्यादनुप्रयोगोऽन्यस्यापीति ज्ञायते / तेन 'कृभ्वस्तियोगे-' (2117) इत्यत: 'कृषो द्वितीय-' (2129) इति अकारेण प्रत्याहाराश्रयणात्कृभ्वस्तिलाभः / तेषां क्रियासामान्यवाचित्वादाम्प्रकृतीनां रित्यादिना / आस्कासोरिति // कास् प्रत्ययादाममन्त्रे लिटीति, दयायासचेति च, कास धातोः, आस्धातोश्च, लिटि आम् विहितः / तत्र मकारस्य इत्संज्ञकत्वे मिदचोऽन्त्यात पर इति आकारादाकारान्तरं स्यात् / ततश्च सवर्णदीर्घ कृते कास् आस इत्येव भवतीति आं विधिरनर्थकस्स्यात् / अत आमो मकारस्य नेत्संज्ञेति विज्ञायते इत्यर्थः / तथाच एधू आम् ल इति स्थिते / आम इति // मन्त्रे घसह्वरेत्यतः लेरिति, ण्यक्षत्रियार्षजित इत्यतः लुगिति चानुवर्तते / तदाह / आमः परस्य लेरिति // अत्रेदमवधेयम् / कृन्मेजन्त इत्यत्र कृद्यो मान्तस्तदन्तमव्ययामिति व्याख्याने एधामित्यादि नाऽव्ययं, लिट एव कृत्त्वात् तस्य च मान्तत्वाभावात् / तथाच प्रत्ययलक्षणेन कृदन्तत्वात् प्रातिपदिकत्वे स्वाद्युत्पत्ती आम इति लुक् / लेरिति तु नानुवर्तते / मान्तं कृदन्तमव्ययमिति व्याख्याने तु प्रत्ययलक्षणेन कृदन्तत्वात् एधामिति मान्तमव्ययम् / ततस्सुबुत्पत्ती अव्ययादाप्मुप इति लुक् / आम इत्यनेन तु परिशेषाल्लेरेव लुक्सिद्धेर्लेरिति नानुवर्तनीयम् / आमः परस्य लेरिति विवरणवाक्ये तु लेरिति स्पष्टार्थमेव / एवञ्च एधामित्यव्ययं नवेति पक्षद्वयं / उभयथाऽपि सुबन्तं पदमिति भाष्ये स्पष्टम् / कृञ्चेति // कास्प्रत्ययादामित्यतः आमित्यनुवृत्तं पञ्चम्या विपरिणम्यते / प्रत्ययग्रहणपरिभाषया तदन्तं गृह्यते / लिटि परे यः कृञ् सः अनुप्रयुज्यत इत्यन्वयः। फलितमाह / आमन्ताल्लिट्परा इति // लिशिरस्का इत्यर्थः / कृभ्वस्तय इति // कृजित्यनेन कृभ्वस्तीनां ग्रहणमिति भावः / अनुप्रयुज्यन्त इति // प्रशब्दादनुशब्दाचाऽव्यवहिताः पश्चात्प्रयुज्यन्त इत्यर्थः / विपर्यासनिवृत्यर्थ व्यवहितनिवृत्यर्थ चेति वार्तिकात् भाष्याच्च / एवञ्च तं पातयाम्प्रथममास पपात पश्चात् / प्रभ्रंशयां यो नहुषं चकारेत्यादि प्रयोगाः प्रामादिका एव / धातोराम् स्यात् / कृञ्चानुप्रयुज्यत इत्युक्तसमुच्चयार्थश्चकारः / ननु कृल एवानुप्रयोगश्रवणात् कथं भ्वस्त्योरप्यनुप्रयोग इत्यत आह / आम्प्रत्ययवदित्यादिना // कृञ्चानुप्रयुज्यत इत्यत्र कृत्र एकस्यैवानुप्रयोगविधौ सति आम्प्रत्ययवदिति सूत्रे अनुप्रयुज्यमानस्येत्यस्य कृत्र इति विशेषणं व्यर्थं स्यात् / धात्वन्तरस्यानुप्रयोगाप्रसक्तेः / ततश्च कृत्र इति विशेषणादन्यस्यापि अनुप्रयोगो विज्ञायत इत्यर्थः / ननु कृञोऽन्यस्याप्यनुप्रयोगो विज्ञायताम्। भ्वस्त्योरपीत्येव कुत आयातमित्यत आह / तेनेति // कृग्रहणेनेत्यर्थः / प्रत्याहाराश्र For Private And Personal Use Only
Page #37
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा विशेषवाचित्वात्तदर्थयोरभेदान्वयः / सम्पदिस्तु प्रत्याहारेऽन्तर्भूतोऽप्यनन्वितार्थत्वान्न प्रयुज्यते / कृञस्तु क्रियाफले परगामिनि परस्मैपदे प्राप्ते / 224 0 / आम्प्रत्ययवत्कृञोऽनुप्रयोगस्य / (1-3-63) आम्प्रत्ययो यस्मादित्यतद्गुणसंविज्ञानो बहुव्रीहिः / आम्प्रकृत्या तुल्यमनुप्रयुज्यमानात्कृञोऽप्यात्मनेपदं स्यात् / इह 'पूर्ववत्' इत्यनुवर्त्य वाक्यभेदेन सम्ब यणादिति // एतच भाष्ये स्पष्टम / नन्वनुप्रयुज्यमानानां कृभ्वस्तीनां आम्प्रकृतिभूतानां कथमन्वय इत्यत आह / तेषामित्यारभ्याभेदेनान्वय इत्यन्तन // सामान्यविशेषयो. रभेदान्वयस्य न्याय्यत्वादिति भावः / कृल इव भ्वस्त्योरपि क्रियासामान्यवाचित्वात् / धातूनामनेकार्थत्वात् ज्ञेयम् / ननु कृभ्वस्तियोग इत्यस्य कृो द्वितीयेत्यस्य च सूत्रस्य मध्ये 'अभिविधौ सम्पदा च' इति पठितम / एवञ्च कृअप्रत्याहारे सम्पदोऽपि कुतो न ग्रहणमित्यत आह। सम्पदिस्त्विति / अनन्वितार्थत्वादिति // सिद्धस्य वस्तुनो रूपान्तरापत्तिस्सम्पदेरर्थः / एधादिधातोस्त्वामप्रकृतिभूतस्य वृध्यादिरर्थः / तयोरुभयोरपि विशेषरूपत्वेन सामान्यविशेषभावाभावेन अभेदान्वयासम्भवादित्यर्थः / अत एव कृभ्वस्तीनां ग्रहणमिति भाष्यं सङ्गगच्छत इति भावः / ननु आमप्रत्ययवदिति कृत्र आत्मनेपदविधायकसूत्रं वक्ष्यमाणं व्यर्थम / स्वरितत्रित इत्येव तत्सिद्धेरित्याशङ्कयाह / कृभ्वस्तीति / आम्प्रत्ययवदिति // अनुदात्तङित इत्यत आत्मनेपदमित्यनुवर्तते / तत्राम्प्रत्ययस्यात्मनेपदाभावादाह / आम् प्रत्ययो यस्मादित्यतद्गणसंविज्ञानो बहुव्रीहिरिति॥ तस्य अन्यपदार्थस्य गुणा: विशेषणानि वर्तिपदार्थरूपाणि तेषां संविज्ञानं क्रियान्वयितया ज्ञानं न विद्यते यस्य बहुव्रीहेः सः अतद्गणसंविज्ञानः / यथा चित्रगुमानयेति। अत्र हि पुरुषस्यैवान्यपदार्थस्य क्रियान्वयः / न तु चित्राणां गवामपि। तथा च प्रकृते आम प्रत्ययविनिर्मुक्तः आमप्रत्ययप्रकृतिभूतः एधादिधातुरेव आम्प्रत्ययशब्देन लभ्यत इति भावः / आम्प्रत्ययवदिति // तृतीयान्ताद्वतिः / अनुप्रयुज्यत इत्यनुप्रयोगः / कर्मणि घञ् / पञ्चम्यर्थे षष्टी / तदाह / आम् प्रकृत्येत्यादिना // आम्प्रकृतेभुवितुं योग्यं यदात्मनेपदं तत् अनुप्रयुज्यमानात् कृतोऽपि स्यादिति यावत् / अत्र न प्रत्याहारग्रहणम् / अनुप्रयोगस्येत्येव सिद्धे कृग्रहणादिह न प्रत्याहारग्रहणमिति भाष्यम् / परगामिन्यपि क्रियाफले कृञ्धातोरात्मनेपदार्थोऽयमारम्भः / इन्दाञ्चकारेत्यादौ तु परगामिनि क्रियाफलेनानात्मनेपदम् / आम्प्रकृतेः 'इदि परमैश्वर्य' इति धातोरात्मनेपदाभावात् तस्य परस्मैपदित्वात् एतदर्थमेव आम्प्रत्ययवदित्युपात्तम्। नन्विन्दाञ्चकारेत्यादौ मास्त्वनेन सूत्रेण परगामिनि क्रियाफले आत्मनेपदम् / आत्मगामिनि तु क्रियाफले खरितजित इत्यात्मनेपदं दुर्वारम् / अस्य सूत्रस्य एधाञ्चक इत्यादौ परगामिनि क्रियाफले आत्मनेपदस्खाप्राप्तस्य विधान एव समर्थतया आत्मगामिनि क्रियाफले खरितत्रित इति प्राप्तस्यात्मनेपदस्य निवारणे सामर्थ्याभावादित्यत आह / इहेति // इह आमप्रत्ययवत् कृमोऽनुप्रयोगस्येति सूत्रे 'पूर्ववत् सनः' इति पूर्वसूत्रात् पूर्ववदित्यनुवर्त्य For Private And Personal Use Only
Page #38
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदीसहिता [भ्वादि द्धयते / पूर्ववदेवात्मनेपदं न तु तद्विपरीतमिति। तेन कर्तृगेऽपि फले इन्दांचकारेत्यादौ न तङ् / 2241 / लिटस्तझयोरेशिरेच्। ( 3-4-81) लिडादेशयोस्तझयोः * एश्' इरेच्' एतौ स्त: / एकारोच्चारणं ज्ञापकं तङादेशानां टेरेत्वं न' इति / तेन डारौरसां न / 'कृ' 'ए' इति स्थिते / 2242 / असंयोगाल्लिट्दित् / (1-2-5) असंयोगात्परोऽपिल्लिवित्स्यात् / कृिति च' (2217) इति निषेधात् ‘सार्वधातुकार्धधातुकयोः' (2168) इति गुणो न / द्वित्वात्परत्वाद्यणि प्राप्ने / 2243 / द्विवचनेऽचि / (1-1-59) आम्प्रत्ययवत् कृतोऽनुप्रयोगस्यत्येकं वाक्यं, पूर्ववत् कृतोऽनुप्रयोगस्येति अन्यद्वाक्यमिति, बाक्यद्वयं सम्पाद्यम् / तत्र पूर्ववदिति तृतीयान्ताद्वतिः / पूर्वेण पूर्वप्रयुक्तेन एधादिधातुना तुल्यमित्यर्थः / तत्र वाक्यद्वयस्य समानार्थकत्वे वैयर्थ्यात् द्वितीयं वाक्यं नियमार्थ सम्पद्यते। पूर्ववदेव आत्मनेपदं न तु तद्विपरीतमिति / एवञ्च पूर्बवाक्येन एधाञ्चक्रे इत्यादी कृत्रः परगामिन्यपि क्रियाफले आत्मनेपदविधिः / द्वितीयवाक्येन तु इन्दाञ्चकारेत्यादौ कर्तृगामिनि क्रियाफले स्वरितजित इत्यात्मनेपदस्य निवृत्तिः फलति। तदाह / तेनेति // द्वितीयवाक्येनेत्यर्थः / नतङिति॥ न आत्मनेपदमित्यर्थः / एवञ्चानुप्रयुज्यमानात्कृत्रः लिटस्तडि प्रथमपुरुषैकवचने तादेशे एधाम् कृ त इति स्थिते / लिटस्तझयोरिति // ननु लिटस्तझयोरिशरिजित्येवास्तु। आदेशयोरेकाराच्चारणं व्यर्थम् / टित आत्मनेपदानामित्येत्वेनैव सिद्धेरित्यत आह / एकारोच्चारणमिति // ज्ञापनस्य फलमाह / तेन डारोरसान्नेति // डा रौ रस् एषां लुडादेशभूतात्मनेपदादेशानां टेरेत्वनेत्यर्थः / वस्तुतस्तु परत्वादेत्वे कृते पुनःप्रसङ्गविज्ञानेन डादिषु कृतेषु लक्ष्ये लक्षणस्येति न्यायात् / एत्वं नेति॥ लुटः प्रथमस्येति सूत्रभाष्ये स्पष्टम् / कृ ए इति स्थित इति॥ तकाराकारसंघातस्य एकारविशत्वात् सर्वादेश इति भावः / असंयोगादिति।अपिदिति॥ सार्वधातुकमपिदित्यतस्तदनुवृत्तेरिति भावः। सार्वधातुकमपिदिति॥ डित्वन्तु नात्र प्रवर्तते / लिडादेशानामार्धधातुकत्वादिति बोध्यम् / कित्वस्य फलमाह / किङति चेति / द्वित्वादिति // कृ ए इति स्थिते / लिटि धातोरिति द्वित्वात् परत्वात् इको यणचीति ऋकारस्य यणादेशे रेफे प्राप्ते सतीत्यर्थः / कृते तु यणि एकाच्त्वाभावात् लिटि धातोरिति द्वित्वम् न स्यादिति भावः। द्विवचन इति // द्विरुच्यते येन परनिमित्तेन तत् द्विवचनं द्वित्वनिमित्तमिति यावत् / अचीत्यस्य विशेषणमिदम् / अचः परस्मिन्नित्यतः अच इति स्थानिवदादेश इत्यतः आदेश इति न पदान्तत्यतः नेति चानुवर्तते। द्विवचन इत्यावर्तते। एवञ्च द्वित्वे For Private And Personal Use Only
Page #39
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा 37 द्वित्वनिमित्तेऽचि परे अच आदेशो न स्याहित्वे कर्तव्ये / 2244 / उरत् / (7-4-66) अभ्यासऋवर्णस्यात्स्यात्प्रत्यये परे / रपरत्वम् / ‘हलादिः शेषः' (2179) / 'प्रत्यये' किम् / वत्रश्च / 2245 / कुहोश्चुः / (7-4-62) अभ्यासकवर्गहकारयोश्चवर्गादेश: स्यात् / एधाञ्चक्रे / एधञ्चक्राते / एधाञ्चक्रिरे / कर्तव्ये सतीत्यपि लभ्यते / तदाह / द्वित्वनिमित्त अचीत्यादिना // द्वित्वे कर्तव्ये सतीत्युक्तेः कृते द्वित्वे चक्रे इत्यादौ यणादयो भवन्ति / अन्यथा तु न स्युः / द्वित्वनिमित्तस्य अचस्सत्वात् / द्वित्त्वनिमित्त इति किम् / दुयूषति / दिव् धातोः सनि द्वित्वात्परत्वात् ऊठि कृते द्वित्वात्प्राग्यण् भवत्येव / तथा छु इत्यस्य द्वित्वे दुयूषतीति सिध्यति / द्वित्वे कर्तव्ये यणो निषेधे तु दियूषतीयभ्यासे इकार एव श्रूयेत / नतूकारः / द्वित्वनिमित्त इत्युक्तौ तु ऊठि परे द्वित्वात् प्राक् यणो न निषेधः / ऊठो द्वित्वनिमित्तत्वाभावात् / अचीति किम् / जेघ्रीयते / अत्र घ्राधातोर्यङि द्वित्वात् प्राक् ‘ई घ्राध्मोः' इति ईकारादेशो न निषिध्यते / ईत्वस्य द्वित्वनिमित्तयनिमित्तकत्वेऽपि द्वित्वनिमित्तानिमित्तकत्वाभावात् / अचः किम् / असूघुपत् / इह स्वापेश्चडि द्वित्वात् प्राक् स्वापेश्चडीति वकारस्य सम्प्रसारणं न निषिध्यते। तस्याजादेशत्वाभावात् / ततश्च कृते सम्प्रसारणे सुप् इत्यस्य द्वित्वे अभ्यासे उकारस्य श्रवणं सम्भवति / सम्प्रसारणे निषिद्धे तु स्वप् इत्यस्य द्वित्वे अभ्यासे उकारो न श्रूयेत / एवञ्च प्रकृते यणादेशात् प्राक् लिटिधातोरिति द्वित्वे कृ कृ ए इति स्थिते / उरदिति // उ: अत् इति च्छेदः / ऋ इत्यस्य उरिति षष्टयेकवचनम्। अत्र लोपोऽभ्यासस्येत्यस्मादभ्यासस्येत्यनुवर्तते। अङ्गस्येत्यधिकृतम् / तद्वशात् प्रत्यये परत इति लभ्यते / प्रत्यये परत एव अङ्गसंज्ञाविधानात् / तदाह / अभ्यासक्रवर्णस्येत्यादिना / रपरत्वमिति // अभ्यासऋवर्णादेशस्याकारस्योरणूपर इति रपरत्वमित्यर्थः / तथाच कर कृ ए इति स्थिते, हलादिश्शेष इति रेफस्य निवृत्तिरिति भावः / प्रत्यये किमिति॥ अङ्गेनैव प्रत्ययस्याक्षितत्वात् प्रत्यये परत इति किमर्थमित्यर्थः / ववश्चेति ॥ओवश्चू च्छेदने, लिटि णल् द्वित्वं लिट्यभ्यासस्येति अभ्यासरेफस्य सम्प्रसारणम् / ऋकारः / उरत् / रपरत्वम् / हलादिश्शेषः / वव्रश्चेति रूपम् / अत्र अभ्यासक्रवर्णस्य रेफस्थानिकस्य सम्प्रसारणस्य यः उरदत्वसम्पन्नः अकारः तस्य अचः परस्मिन्निति स्थानिवत्त्वेन सम्प्रसारणतया तस्मिन् परे वकारस्य न सम्प्रसारणे सम्प्रसारणमिति निषेधान सम्प्रसारणमिति स्थितिः / उरदित्यत्र प्रत्यये परत इत्यनुक्तौ तु सम्प्रसारणभूतऋकारस्थानिकस्य अकारस्य परनिमित्तकत्वाभावेन स्थानिवत्वाप्रसक्तेः सम्प्रसारणत्वाभावात्तस्मिन् परतो न सम्प्रसारणे सम्प्रसारणमिति निषेधो न स्यादिति भावः / एवञ्च क कृ ए इति स्थिते / कुहोश्चुरिति // कु हु इत्यनयोर्द्वन्द्वात् षष्ठीद्विवचनम् / अत्र लोपोऽभ्यासस्येत्यतः अभ्यासस्येत्यनुवर्तते / तदाह / अभ्यासेति // यद्यपि स्थानिनां कव For Private And Personal Use Only
Page #40
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 38 सिद्धान्तकौमुदीसहिता [भ्वादि 2246 / एकाच उपदेशेऽनुदात्तात् / (7-2-10) उपदेशे यो धातुरेकाजनुदात्तश्च ततः परस्य वलादेरार्धधातुकस्येड् न स्यात् / गीयाणां हकारस्य च षट्त्वात् चवर्गीयाणां पञ्चत्वान्न यथासंख्यम् , नापि स्थानत आन्तर्यम् , कण्ठतालुस्थानभेदात् / आभ्यन्तरप्रयत्नसाम्यं तु कवर्गचवर्गयोरविशिष्टम् / हकारचवर्गयोस्तु नास्त्येव तत्। अतो बाह्यप्रयत्नत एवान्तर्यमिह व्यवस्थापकमाश्रयणीयम्। तत्र प्रथमस्य कवगांयस्य प्रथम एव चवर्गीयो भवति। अघोषश्वासविवाराल्पप्राणप्रयत्नसाम्यात्।नतु द्वितीयः। महाप्राणत्वात्। नापि तृतीयपञ्चमौ / घोषसंवारनादप्रयत्नत्वात् / नापि चतुर्थः / घोषसंवारनादमहाप्राणप्रयत्नत्वात् / तथा द्वितीयस्य कवर्गीयस्य द्वितीय एव चवर्गीयो भवति / अघोषश्वासविवारमहाप्राणप्रयत्नत्वात् / नतु प्रथमः / अल्पप्राणत्वात् / नापि तृतीयपश्चमी / घोषसंवारनादाल्पप्राणप्रयत्नत्वात् / नापि चतथः / अघोषसंवारनादप्रयत्नत्वात् / तथा ततीयस्य कवर्गस्य तृतीय एव चवर्गीयो भवति / घोषसंवारनादाल्पप्राणप्रयत्नत्वात् / न तु प्रथमः / अघोषश्वासविवारप्रयत्नत्वात् / अत एव न द्वितीयोऽपि / महाप्राणप्रयत्नत्वाच्च / नापि चतुर्थः / महाप्राणत्वात् / नापि पञ्चमः / घोषसंवारनादाल्पप्राणसाम्येऽपि अनुनासिकतया भेदात् / तथा चतुर्थस्य कवर्गीयस्य चतुर्थ एव चवर्गीयो भवति / घोषसंवारनादमहाप्राणप्रयत्नत्वात् / न तु प्रथमः / अघोषश्वासविवाराल्पप्राणप्रयत्नत्वात् / नापि द्वितीयः / अघोषविवारश्वासप्रयत्नत्वात् / नापि तृतीयपञ्चमौ / अल्पप्राणत्वात् / पञ्चमस्य तु कवर्गीयस्य अनुनासिकत्वात् अकार एव / हकारस्य तु घोषसंवारनादमहाप्राणवतः तादृशो वर्गचतुर्थ एव झकार इति विवेकः / प्रकृते तु क कृ ए इति स्थिते अभ्यासककारस्य चकारे ऋकारस्य याणि रेफः / तदाह / एधाञ्चक्र इति // एककर्तृका भूतानद्यतनपरोक्षा वृद्धिरूपा क्रियेत्यर्थः / एधाञ्चक्रात इति // कृलो लिट: आतामि टेरेत्वम् / द्विवंचनेऽचीति यणि निषिद्धे कृ इत्यस्य द्वित्वे उरदत्वम् / हलादिश्शेषः। चर्वम् / यण् / न च आतामित्यस्य द्वित्वनिमित्तत्वेऽपि आकारस्याचो द्वित्वनिमित्तत्वाभावात् कथमिह द्विवचनेऽचीति यण निषेध इति वाच्यम् / साक्षाद्वा समुदायघटकतया वा द्वित्वप्रयोजकस्यैव द्वित्वनिमित्तशब्देन विवक्षितत्वादिति भावः / एधाश्चक्रिर इति // झस्य इरेच् / कृ इत्यस्य द्वित्वादि पूर्ववत् / अथ लिटि थासस्सेभावे कृ इत्यस्य द्वित्वादी एधाञ्चक से इति स्थिते आधधातुकस्येड्वलादेरिति इडागमे प्राप्ते / एकाच उपदेश इति // ऋत इद्धातोरित्यतः धातोरित्यनुवर्तते / नेड्वशिकृतीत्यतः नेति च / तदाह / उपदेशे यो धातुरेकाजिति // एक: अच् यस्येति बहुव्रीहिः / आर्धधातुकस्येति // यद्यपीदं न श्रुतम् / नाप्यनुवृत्तिलभ्यम् / तथाप्यार्थिकमिदम् / आर्धधातुकस्यैवेटः प्राप्तेः / वृत्तिग्रन्थे तु आर्धधातुकस्येति नोपात्तम् / नन्वेकाच उपदेशेऽनुदात्तादित्यत्र यदि उपदेश इत्येतदेकाच इत्यत्रान्वेति तदा कर्तुमित्यत्र इण्णिषेधो न स्यात् / कृञ्धातोरूदृदन्तरित्यादिना अनुदात्तत्वस्य वक्ष्यमाणत्वेऽपि तुमुन्प्रत्यये कृते नित्यादिनित्यमित्याद्युदात्तत्वात् / यदि तु उपदेश इत्येतत् अनु For Private And Personal Use Only
Page #41
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा ' उपदेशे' इत्युभयान्वयि / ' एकाचः' इति किम् / यङ्लुग्व्यावृत्तिर्यथा स्यात् / स्मरन्ति हि श्तिपा शपाऽनुबन्धेन निर्दिष्टं यद्गणेन च / / यत्रैकाज्ग्रहणं चैव पञ्चैतानि न यङ्लुकि / / इति / एतच्चेहैवैकाज्ग्रहणेन ज्ञाप्यते / 'अचः' इत्येवैकत्वविवक्षया तद्वतो ग्रहणे सिद्धे एकग्रहणसामर्थ्यादनेकाच्कोपदेशो व्यावर्त्यते / तेन वधेर्हन्त्युपदेशे एकाचोऽपि न निषेधः / आदेशोपदेशेऽनेकाच्कत्वात् / अनुदात्ताश्चानुपदमेव संग्रहीष्यन्ते / एधांचकृषे / एधांचकाथे / दात्तादित्यनेनान्वेति / तदा यद्यपि नायं दोषः / कृते तुमुन्प्रत्यये उदात्तत्वेऽपि धातूपदेशकाले अनुदात्तत्वेन तत्र इण्णिषेधस्य निर्वाधत्वात् / तथाच एधाञ्चकृषे इत्यादौ इण्णिषेधो न स्यात् / द्वित्वे कृते अनेकाचत्वादित्यत आह / उपदेश इत्युभयान्वयीति // उपदेश इत्येतत् एकाजित्यत्नानुदात्तादित्यत्र चान्वेति / मध्यमणिन्यायादिति भावः / ननु ऊदृदन्तैरित्यादिना परिगणितानामनुदात्तोपदशधातूनामेकाचत्वाव्यभिचारादेकाज्ग्रहणं मास्तु / उपदेशेऽनुदात्तादि. त्येवास्तु / एतावतैव कर्तुं चकृष इत्यादाविग्निषेधसिद्धेरिति पृच्छति / एकाचः किमिति / यङलुग्व्यावृत्तिरिति // यङलुकि चकरितेल्यादौ इण्णिषेधव्यावृत्तये एकाज्ग्रहणमित्यर्थः / ननु कृतेप्येकाज्ग्रहणे कथं यङ्लुग्व्यावृत्तिः / कृते द्वित्वे अनेकाच्त्वेपि धातूपदेशे एकाचत्वादित्यत आह / स्मरन्ति हीति // प्राचीनाचार्या निबदन्तीत्यर्थः / दितपा शपेयादेरुदाहरणानि यङ्लुनिरूपणे स्पष्टीभविष्यन्ति / नन्विह एकाज्ग्रहणाद्यङ्लुकि इण्णिषेधस्य व्यावत्तावपि श्तिवादिनिर्दिष्टानां यङ्लुग्व्यावृत्तिः प्राचीनाचार्यसम्मताऽपि पाणिनेरसम्मतैवेत्यत आह / एतच्चेति // एतत् श्तिपा शपेति श्लोकसिद्धं सर्वमपि, इह सूत्रे एकाज्ग्रहणेनैव एकदेशानुमत्या ज्ञाप्यत इत्यर्थः / ननु हनोवधलुङीति हनधातोर्वधादेशे कृते अवधीदित्यत्र इडागमो न स्यात् / वधादेशे कृते अनेकाच्त्वेऽपि धातूपदेशे हन्तेरेकाच्त्वादित्यत आह / अच इत्येकत्वेत्यादि व्यावर्त्यत इत्यन्तम् // एकाच उपदेशेऽनुदात्तादित्यत्र हि एकग्रहणमपनीयाचइत्युक्तेऽपि एकाच्कादिति लभ्यते / एकवचनोपात्तस्यैकत्वस्य त्यागे प्रमाणाभावात् / न चैवं सति एकत्वविशिष्टादचः परस्येत्येव लभ्येत। नत्येकाच्कादिति बहुव्रीह्यर्थ इति वाच्यम् / अनुदात्तोपदेशपरिगणने शक्ल पचि मुच्यादीनां परिगणनसामर्थ्येन अच इत्यस्य मत्वर्थलक्षणामाश्रित्य एकाज्वतो ग्रहणसंभवात्। तदेवमच इत्यनेनैव एकाचकादिति सिद्धे यदेकग्रहणं करोति तत्सामर्थ्यादुपदेशे सर्वत्र एकाजेव न तु कस्मिंश्चिदप्युपदेशे अनेकाजित्यर्थकल्पनया कदाचिदनेकाकोपदेशधातुावर्तत इत्यर्थः / तेनेति // उपदेशे सर्वत्र एकाजेवेत्यर्थलाभेन हन्त्युपदेशे हनित्यनुदात्तोपदेशे एकाचोऽपि सतो हनिति धातोरादेशस्य वधेः परस्य इण् निषेधो नेत्यर्थः / कुत इत्यत आह / आदे. For Private And Personal Use Only
Page #42
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदीसहिता [भ्वादि 2247 / इणः षीध्वंलुङ्किटां धोऽङ्गात् / (8-3.78) इण्णन्तादङ्गात्परेषां षीध्वंलुङ्तिटां धस्य मूर्धन्यः स्यात् / एधाञ्चकृढे / एधांचक्रे एधाञ्चकृवहे / एधाञ्चकृमहे / एधाम्बभूव / अनुप्रयोगसामर्थ्यादस्ते भावो न / अन्यथा हि 'क्रस्चानुप्रयुज्यते' इति -- कृभु-' इति वा ब्रूयात् / 2248 / अत आदेः। (7-4-70) अभ्यासस्यादरतो दीर्घः स्यात् / पररूपापवादः / एधामास / एधामासतुरित्यादि। एधिता / एधितारौ / एधितारः / एधितासे। एधितासाथे / / शोपदेश इति // अवधीदित्यत्रातोहलादेलघोरिति वृद्धिनिवृत्तये हनो वधादेशस्य अदन्ततया भाष्ये उक्तत्वादिति भावः / ननु के ते अनुदात्ता धातव इत्यत आह / अनुदात्तास्त्व. नुपदमेवेति // पदस्य पश्चादनुपदम् पदमात्रे अतीते सतीत्यर्थः / अनन्तरमेवेति यावत् / एधाञ्चकृषे इति // इडभावे प्रत्ययावयवत्वात् षत्वम् / एधाश्चक्राथ इति // लिट: आथामादेशः / टेरेत्वम् / द्वित्वादि पूर्ववत् / लिटो ध्वमष्टेरेत्वे द्वित्वादी एधाञ्चकृध्वे इति स्थिते / इणः पीध्वमिति // षीध्वं लुङ् लिट् एषां द्वन्द्वः धः इति षष्टयेकवचनम् / इण इत्यङ्गविशेषणम् / तदन्तविधिः / अपदान्तस्य मूर्धन्य इत्यधिकृतम् / तदाह / इण्णन्तादित्यादिना॥ धकारस्य ढकारो मूर्धन्यः / घोषसंवारनादमहाप्राणप्रयत्नसाम्यात् / तदाह / एधाञ्चकृड्व इति // उत्तमपुरुषैकवचने इटि एत्वे पूर्ववत् द्वित्वादी कृते रूपमाह / एधाश्चक्र इति / एधाञ्चकृवह इति // लिटो वहिभावे एत्वे द्वित्वादि पूर्ववत् / एवं लिटो महिभावे द्वित्वादि पूर्ववत् / सर्वत्रासंयोगाझिकिदिति कित्वाद्गुणाभावः। अथ भूधातोः लिडन्तस्यानुप्रयोगे उदाहरति / एधाम्बभूवेति // एधाञ्चक्र इत्यनेन समानार्थकम्। अनुप्रयुज्यमानस्य भूधातोः क्रियासामान्यार्थकत्वात् / नन्वस्तेरनुप्रयोगे लिडादेशस्यार्धधातुकत्वात् अस्ते रित्यार्धधातुके विहितो भूभावः कुतो न स्यादित्यत आह / अनुप्रयोगेति // कृञ्चानुप्रयुज्यत इत्यत्र प्रत्याहारमाश्रित्य कृभ्वस्तीनामनुप्रयोगविधिसामर्थ्यादस्धातोभूभावो नेत्यर्थः / तदेवोपपादयति / अन्यथेति // अनुप्रयुज्यमानस्यास्तेभूभावाभ्युपगमे कृश्चानुप्रयुज्यत इत्यनुप्रयोगविधौ क्रस्चानुप्रयुज्यत इति वा कृभुचानुप्रयुज्यत इतिवा ब्रूयात् / तावता एधाम्बभूवेति सिद्धेरित्यर्थः / यद्यपि कृजित्युक्तौ लाघवमस्ति / तथापि एकस्यैव भवतेरधिकस्य लाभाय कृजिति प्रत्याहारक्लेशो न कर्तव्य इति भावः / अत एवात उत्सार्वधातुक इति सूत्रभाष्येऽनुप्रयोगे भूभावेन अस्तेरबाधनमिति भाष्यं सङ्गच्छते / ततश्च अनुप्रयुज्यमानादस्धातोर्लिटि भूभावनिवृत्तौ णलि एधां अस् अ इति स्थिते द्वित्वे हलादिश्शेषे अ अस् इति स्थिते सवर्णदीर्घम्बाधित्वा अतो गुण इति पररूपे प्राप्ते। अत आदेरिति // अत्रलोप इत्यस्मादभ्यासस्येत्यनुवर्तते / व्यथो लिटीत्यतो दीर्घ इति। तदाह / अभ्यासस्यति // अत्र यद्वक्तव्यन्तन्नामधातुप्रक्रियायां अ इवाचरति अतीत्यादि ग्रन्थस्य व्याख्या For Private And Personal Use Only
Page #43
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा 2249 / धि च / (8-2-25) धादौ प्रत्यये परे सलोप: स्यात् / एधिताध्वे / 2250 / ह एति / (7-4.52) तासस्त्योः सस्य हः स्यादेति परे / एधिताहे। एधितास्वहे / एधितास्महे / एधिष्यते / एधिष्यते / एधिष्यन्ते / एधिष्यसे / एधिध्येथे / एधिष्यध्वे / एधिष्ये / एधिष्यावहे / एधिष्यामहे / नावसरे वक्ष्यते / एधामासेति // नचात्रानुप्रयुज्यमानाभ्यामस्तिभूभ्यामाम्प्रत्ययवदित्यात्मनेपदं शङ्कयम् / तत्र कृञ्ग्रहणेन प्रत्याहारग्रहणाभावस्य भाष्ये उक्तत्वात् / एधामासतुरित्यादीति // एधामामुः / एधामासिथ। एधामासथुः / एधामास / एधामास / एधामासिव / एधामासिम / इति लिटप्रक्रिया // एधितेति // लुटस्तादेशे एथ् त इति स्थिते शबपवादस्तास् इट् लुट:प्रथमस्येति डा टिलोपः एधितेति रूपम् / दीधीवेवीटामिति लघूपधगुणो न / एधिताराविति // लुट आताम् तास् इट् आतामित्यस्य रौभावः / रिचेति सलोपः / एधितार इति // झस्य रस् तास् इट् रिचेति सलोपः रुत्वविसौ / एधितास इति // थासस्से तास् इट् तासस्त्योरिति सलोपः / एधितासाथ इति // आथाम् टेरेत्वं तास् इट् / अथ ध्वमि टेरेत्वे तासि इटि एधितास् ध्वे इति स्थिते / धिचेति // सस्यार्धधातुक इत्यतस्सस्येत्यनुवर्तते / तासस्त्योरित्यतो लोप इति / अझाक्षिप्तप्रत्ययो धीत्यनेन विशेष्यते। तदादिविधिः / तदाह / धादाविति // तासस्सलोपे एधिताध्चे इति रूपम् / अथ लुटः इडादेशे एत्वे तासि इटि एधितास् ए इति स्थिते / हएतीति // ह इति प्रथमान्तम् / अकार उच्चारणार्थः / सस्यार्धधातुक इत्यतः सस्येति तासस्त्योर्लोप इत्यतः तासस्त्योरिति चानुवर्तते / तदाह / तासस्त्योरिति // तासस्सस्य हकारे एधिताहे इति रूपम् / एधितावहे इति // लुटो वहिभावः टेरेत्वम् तास् इट्। एवं एधितास्महे इति। तत्र महिभावो विशेषः // इति लुटप्रक्रिया // एधिष्यत इति // लुटस्तादेशे टेरेत्वम् / स्यतासी इति शबपवादः स्यः इट् प्रत्ययावयवत्वात् षत्वम् / एधिष्येते इति // आताम् टेरेत्वम् स्यः इट् आतो ङित इत्याकारस्य इय् / लोपो व्योरिति यलोपः आद्गणः षत्वम् / एधिष्यन्त इति // झस्य टेरेत्वं झकारस्य अन्तादेशः स्यः इट् पररूपं षत्वम् / थासादावपि लटीव सुयोजमिति मत्वा रूपाणि न प्रदर्शितानि / तत्र थासस्से स्यः इट् षत्वम् एधिष्यस इति रूपम् / एधिष्येते इतिवदाथामि एधिष्येथे इति रूपम् / ध्वम एत्वे स्यः इट् षत्वम् एधिष्यध्वे इति रूपम् / इट एत्वे स्यः इडागमः षत्वम् अतो गुण इति पररूपम् / एधिष्ये इति रूपम् / वहिमह्योप्टेरेत्वम् स्यः इट् अतो For Private And Personal Use Only
Page #44
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदीसहिता [भ्वादि 2251 / आमेतः। (3-4-90) लोट एकारस्याम्स्यात् / एधताम् / एधेताम् / एधन्ताम् / 2252 / सवाभ्यां वामौ / (3-4-91) सवाभ्यां परस्य लोडेत: क्रमात् 'व' अम्' एतौ स्तः / एधस्व / एधेथाम् / एधध्वम् / 2253 / एत ऐ। ( 3-4-93) लोडुत्तमस्य एत ऐ स्यात् / आमोऽपवादः। एधै / एधावहै / एधामहै / 2254 / आडजादीनाम् / (6-4-72) अजादीनामाट् स्याल्लङादिषु / अटोऽपवादः / 'आटश्च' (269) / ऐधत / दीर्घः एधिष्यावहे एधिष्यामह इति रूपे / इति लटप्रक्रिया // आमेत इति // आम् एतः इति च्छेदः / लोटो लडदित्यतो लोट इत्यनुवर्तते / तदाह / लोट एकारस्येति // लोडादेशावयवस्य एकारस्येत्यर्थः / एधतामिति // लोटस्तादेशे टेः एत्वे आमादेशे शपि रूपम् / एधेतामिति // आताम् टेरेत्वं शप् सार्वधातुकमपिदिति ङित्वादातोडित इत्याकारस्य इय् गुणः यकारलोप: आमेत इत्येकारस्य आम् / एधन्तामिति // झस्य टेरेत्वे शपि झकारस्य अन्तादेशे एकारस्य आम् / अथ लोटस्थासस्सेभावे शपि एधसे इति स्थिते। सवाभ्यामिति // सश्च वश्च सवौ / ताभ्यामिति विग्रहः / अकारावुच्चारणार्थो / वश्च अमच वामौ लोटो लङ्कदित्यस्मात् लोट इति आमेत इत्यस्मादेत इति चानुवर्तते / तदाह / सकारेति // आमेत इत्यस्यापवादः / एधस्वेति // एधसे इत्यत्र एकारस्य व इति वकाराकारसंघात आदेशः / एधेथामिति // आथाम् टेरेत्वं शप् आतो डित इत्याकारस्य इय् गुण: यलोपः आमेत इत्याम् / एधध्वमिति // ध्वमि शप् टेरेत्वे कृते सवाभ्यामिति वकारात् परत्वादेकारस्य अम् / उत्तमपुरुषैकवचने इटि टेरेत्वे शपि आमेत इत्येकारस्य आमि प्राप्ते / एत ऐ इति // ऐ इति लुप्तप्रथमाकम् / लोटो लङ्कदित्यस्माल्लोट इति आडुत्तमस्य पिच्चेत्यस्मादुत्तमस्येति आमेत इत्यस्मादेत इति चानुवर्तते। तदाह / लोडुत्तमस्येति / एधै इति // एध ए इति स्थिते एकारस्य ऐत्वे आडुत्तमस्येत्याडागमे आटश्चेति वृद्धौ वृद्धिरेचीति वृद्धिः / एधावहै। एधामहै इति // वहिमयोप्टेरेत्वे शपि एकारस्य ऐत्वे आटि सवर्णदीर्घः // इति लोटप्रक्रिया // अथ एधधातोर्लङि लुङ्लङ्लुङ्वडुदात्त इत्यडागमे वृद्धिम्बाधित्वा परत्वादतोगुण इति पररूपे प्राप्ते / आडजादीनामिति / लुङादि विति // लुङ्लङ्लुड्ड्वित्यनुवृत्तेरिति भावः / अटोऽपवाद इति // अटि सति For Private And Personal Use Only
Page #45
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Acharya Shri Ka प्रकरणम् बालमनोरमा ऐघेताम् / ऐधन्त / ऐधथाः / ऐधेथाम् / ऐधध्वम् / ऐधे / ऐधावहि / ऐधामहि / 2255 / लिङः सीयुट् / (3-4-102) लिङात्मनेपदस्य सीयुडागमः स्यात् / सलोपः / एधेत / एधेयाताम् / 2256 / झस्य रन् / ( 3-4.105) लिङो झस्य रन्स्यात् / एधेरन / एधेथाः। एधेयाथाम् / एधेध्वम् / 2257 / इटोऽत् / (3-4-106) लिङादेशस्येटोऽत्स्यात् एधेय / एधेवहि / एधेमहि / आशीलिङि आर्ध पररूपं स्यादिति भावः। आटश्रेत्यनन्तरं वृद्धिरिति शेषः / यद्यपि वृद्धिरेचीति एत्येधतीति वा वृद्धौ इदं सिध्यति / तथापि ऐक्षतेत्याद्यर्थम् सूत्रमिहापि न्याय्यत्वादुपन्यस्तम् / ऐधतेति // लडस्तादेशे शपि आडागमे आटश्चेति वृद्धिः / लङादेशानां टिदादेशत्वाभावात् एत्वम् न भवति / आडजादीनामिति सूत्रं भाष्ये प्रत्याख्यातम् / ऐधेतामिति // आतामि शपि आटि वृद्धिः / आतोडित इत्याकारस्य इय् / आद्गणः यलोपः / ऐधन्तेति // झेरन्तादेशः शप् आट वृद्धिः / ऐधथा इति // थास् शप् आट् वृद्धिः / ऐधेथामिति // आथाम् शप् आट वृद्धिः इय् आद्गुणः यलोपः / ऐधध्वमिति // ध्वम् शप् आद् वृद्धिः / ऐधे इति // इट् शप् आद्गुण: आटो वृद्धिः / ऐधावहि / ऐधामहि इति // वहिमह्योइशप आट् वृद्धिः अतो दीर्घः // इति लङप्रक्रिया // लिङस्सीयुडिति // स्पष्टम् / परस्मैपदानां लिङादेशानां यासुडागमविधानादात्मनेपदविषयमिदम् / सीयुटि टकार इत् / उकार उच्चारणार्थः / सलोप इति // लिइस्सलोप इत्यनेनेति शेषः / एधेतेति // लिङस्तादेशः सीयुट शप् सलोप: आद्गुणः यलोपः / एधेयातामिति // आतामि संयुद शप् सलोप: आद्गुणः / झस्य रनिति // लिङस्सीयुडित्यतो लिङ इत्यनुवर्तते / तदाह / लिङो झस्येति // लिङादेशस्य झस्येत्यर्थः / अनेकालत्वात्सर्वादेशः / एधेरन्निति // झस्य रन् शप सीयुट् सलोपः आद्गुण: यलोपः / एधेथा इति // थास् सीयुट् शप सीयुटस्सस्य लोपः आद्गुणः यलोपः थासस्सस्य रुत्वविसौं। एधेयाथामिति // आथाम् सीयुट् सलोपः शप् आद्गुणः / एधेध्वमिति // ध्वं सीयुट शप् सलोपः आद्गुणः यलोपः / इटोऽदिति // इट: अत् इति च्छेदः। लिङस्सीयुडित्यतो लिङ इत्यनुवर्तते। तदाह। लिङादेशस्येति // अच्च घेरित्यत्रेव आदेशे तकार उच्चारणार्थ एव नत्वित्संज्ञक इति शब्देन्दुशेखरे दिव औदिल्यत्र प्रपश्चितम् / इत्संज्ञक एवेत्यन्ये / न विभक्ताविति निषेधस्तु न / आदेशत्वात् प्राक् विभक्तित्वाभावात् / झस्य रनित्यत्र तु लक्ष्यानुरोधेन संयोगान्तलोपमाश्रित्य नकारान्तरप्रश्लेषादुपदेशे अन्त्यत्वाभावानकारस्य नेत्संज्ञेल्यलम् / एधेयेति // इट् तस्य अकारादेशः / सीयुट् शप सलोपः आद्गणः / एधेवहि। एधेमहीति // वहिमयोस्सीयुट् सलोपः शप For Private And Personal Use Only
Page #46
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदीसहिता [भ्वादि धातुकत्वाल्लिङ: सलोपो न। सीयुसुटोः प्रत्ययावयवत्वात्पत्वम् / एधिषीष्ट / एधिषीयास्ताम् / एधिषीरन् / एधिषीष्ठाः / एधिषीयास्थाम् / एधिषीध्वम् / एधिषीय / एधिषीवहि / एधिषीमहि। ऐधिष्ट / ऐधिषाताम् / 2258 / आत्मनेपदेष्वनतः। (7-1-5) अनकारात्परस्यात्मनेपदेषु झस्य ‘अत्' इत्यादेश: स्यात् / ऐधिषत / ऐधिष्ठाः / ऐधिषाथाम् / 'इणःषीध्वं लुङ्लिटां धोऽङ्गात् ' (2247) / आद्गुण: यलोपः / इति विधिलिङ्प्रक्रिया॥ आर्धधातुकत्वादिति // लिङाशिषीत्यनेनेति भावः / सलोपो नेति // सार्वधातुकग्रहणस्य लिङस्सलोपः इत्यत्रानुवृत्तेरिति भावः / सीयुट् सुटोरिति // लक्ष्यभेदात्पुनःप्रवृत्तिरिति भावः / युगपदेवोभयोः षत्वमित्यन्ये / एधिषीष्टेति // आशिषि लिङः तादेशः / आर्धधाधुकत्वात् न शप् सीयुट तकारस्य सुट् सीयुटस्सकारात् प्रागिडागमः यलोप: सीयुटस्सुटच सकारस्य षत्वं तकारस्य ष्टुत्वेन टकारः / एधिषीयास्तामिति // आताम् सीयुट आकारादुपरि तकारात्प्राक् सुट् / सीयुटः प्रागिट् / तत उत्तरस्य सकारस्य षत्वम्। एधिषीरन्निति // झस्य रन् / सीयुट इडागमः यकारलोपः षत्वम् / एधिषीष्ठा इति // थास् सीयुट् थकारस्य सुट् सीयुटः प्रागिट सकारद्वयस्य षत्वम् / थकारस्य ष्टुत्वेन ठकारः / रुत्वविसौं / एधिषीयास्थामिति // आथाम् सीयुट् / आकारादुपरि थकारात् प्राक् सुट् सीयुटः प्रागिट् / तत उत्तरस्य सकारस्य षत्वम् / एधिषीध्वमिति॥ ध्वम् सीयुट् यलोपः सीयुटः प्रागिट षत्वम् / इणः परत्वेऽपि इण्णन्तादङ्गात्परत्वनास्ति / इटः प्रत्ययभक्तत्वात्। ततश्च इणः षीध्वमिति ढत्वं न भवति। एधिषीयेति // इट: अत् सीयुट् इट् षत्वम् / एधिषीवहि / एधिषीमहीति // वहिमह्योस्सीयुट् इट् षत्वम् / इत्याशीलिप्रक्रिया // ऐघिष्टेति // लुङस्तादेश: फिलः सिच् इट् धातोराट् वृद्धिः षत्वम् ष्टुत्वम् / ऐधिषातामिति // आताम् च्लि: सिच् इट् आट वृद्धिः षत्वम् / अथ झस्य आदेझंकारस्य झोन्त इत्यन्तादेशे प्राप्ते / आत्मनेपद इति // झोऽन्त इत्यतः झ इति षष्टयन्तमनुवर्तते / आत्मनेपदेष्विति षष्टयर्थे सप्तमी / आत्मनेपदावयवस्य झकारस्येति लभ्यते / अदभ्यस्तादित्यतः अदित्यनुवर्तते / न अत् अनत् / तस्मादिति विग्रहः / तदाह / अनकारादित्यादिना / ऐधिषतेति // झावयवझकारस्य अत् इत्यादेश: चिल: सिच् इट् आट वृद्धिः षत्वम् / ऐधिष्ठा इति // थास् च्लि: सिच् इट् आद् वृद्धिः षत्वं थकारस्य ष्टुत्वेन ठकारः रुत्वविसगौं / ऐधिषाथामिति // आथाम् चिल: सिच् इट् आट वृद्धिः षत्वम् / अथ ध्वमो धस्य ढत्वम् स्मारयति / इणःषीध्वमिति / ऐधिवामिति // ध्वम् चिल: सिच् इट् आट वृद्धिः धिचेति सस्य लोपः / इणःषीध्वमिति धकारस्य ढत्वम् / इट: लुप्तसिज्भक्ततया सिजन्ताङ्गान्तर्भूतत्वेन इडन्तस्य इण्णन्ताङ्गत्वादिति भावः / इभिन्न एवेति // उत्तरसूत्रे विभाषेट इत्यत्र For Private And Personal Use Only
Page #47
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा ऐधिदम् / इभिन्न एव इणिह गृह्यत इति मते तु ऐधिध्वम् ढधयोर्वस्य मस्य च द्वित्वविकल्पात्षोडश रूपाणि / ऐधिषि / ऐधिष्वहि / ऐधिष्महि / ऐधिष्यत / ऐधिष्येताम् / ऐधिष्यन्त / ऐधिष्यथाः / ऐधिष्येथाम् / ऐधिष्यध्वम् / ऐधिष्ये / ऐधिष्यावहि / ऐधिष्यामहि / उदात्तत्वालादेरिट् / प्रसङ्गादनुदात्ताः संगृह्यन्ते / उदृदन्तैयौंतिरुक्ष्णुशीस्नुनुक्षुश्विडीशिभिः / वृबृभ्यां च विनैकाचोऽजन्तेषु निहताः स्मृताः // इड्ग्रहणात् पूर्वसूत्रे इणःषीघ्वमित्यत्र इडिन्न एव इण् गृह्यत इति केचिदाहुः / तन्मतेतु प्रकृते इटः परत्वात् धकारस्य ढत्वाभावे ऐधिध्वमित्येव रूपमित्यर्थः / इदन्तु मतान्तरं भाष्यानारूढमिति सूचयितुं तुशब्दः / ढधयोरिति // मतभेदमाश्रित्येदं / तत्र ढत्वाभावपक्षे धकारस्य अनचिचेति द्वित्वविकल्पात् द्विधमेकधमिति रूपद्वयम् / एवं ढत्वे द्विढं एकढं इति रूपद्वयम् / रूपचतुष्टयेऽपि यणो मयो द्वे वाच्ये इत्यत्र मय इति पञ्चमीमाश्रित्य वकारस्य द्वित्वविकल्पादेकवकाराणि द्विवकाराणि च प्रागुक्तानि चत्वारि रूपाणि भवन्ति / तथाच अष्टौ रूपाणि सम्पन्नानि / मकारस्य द्वित्वविकल्पादेतान्यष्टौ रूपाणि एकमकाराणि द्विमकाराणि चेति षोडश रूपाणि सम्पन्नानीत्यर्थः / ऐधिषीति // लुङः इडादेशः फिल: सिच् इडागमः आट वृद्धिः / वहिमयोस्तु कलेस्सिचि इडागमे आटि वृद्धौ ऐधिध्वहि ऐधिष्महीति रूपे / इति लुप्रक्रिया // ऐधिष्यतेति // लुङः तादेशः स्यः इट् आट वृद्धिः पत्वम् / ऐधिष्यतामिति // आतां स्यः इट् आकारस्य इयू आद्गण: यलोप: आट वृद्धिः षत्वम् / ऐधिष्यन्तेति // झावयवझकारस्यान्तादेशः स्यः इट् आट् वृद्धिः षत्वम् / ऐधिष्यथा इति // थास् स्यः इट् आट वृद्धिः रुत्वविसौं / ऐधिष्येथामिति // आथाम् स्यः इट् आकारस्य इय् आद्ण: यलोपः आट् वृद्धिः षत्वम् / ऐधिष्यध्वमिति // ध्वम् स्यः इट् आट् वृद्धिः षत्वम् / ऐधिष्य इति // इडादेशः स्यः इडागमः षत्वम् आद्गणः वहिमयोस्तु स्यः इट् अतो दीर्घः आट वृद्धिः षत्वम् ऐधिष्यावहि ऐधिष्यामहि इति रूपे / नन्वेधधातोरनुदात्तेत्कत्वात् एकाच उपदेशेऽनुदात्तादितीणिषेधः कुतो न स्यादित्यत आह / उदात्तत्वादिति // एधधातुर्यद्यपि अनुदात्तेत् / तथापि अनुदात्तस्येतः लोपे सति परिशिष्टो धातुर्नानुदात्त इति भावः / ननु कतिपये धातवः पाणिनिना अनुदात्ता उच्चरिता इति कथमिदानीन्तनैरवगन्तव्यमित्यत आह / प्रसंगादिति // स्मृतस्योपेक्षानहत्वम्प्रसङ्गः / पाणिनिपठितानामनुदात्तधातूनान्तदानीन्तनशिष्यपरम्परया आनुनासिक्यवदिदानीं ज्ञानं सम्भवतीति भावः / ऊद्ददन्तैरि ति // अजन्तेषु धातुषु ऊदन्तैः ऋदन्तैश्च धातुभिः विना यु रु क्ष्णु शीङ् स्नु नु क्षु श्वि डीङ् श्रि For Private And Personal Use Only
Page #48
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [भ्वादि सिद्धान्तकौमुदीसहिता शक्लपच्मुचिरिच्वच्वित्रिसप्रच्छित्यज्निजिर्भजः / भभुभ्रस्ज्मास्जियज्युचुगिज्वजिरस्वञ्जिसमृजः // अक्षुखिछिद्तुदिनुदः पद्यभिद्विद्यतिर्विनन् / शद्सदी स्विद्यति स्कन्दिहदी क्रुध् क्षुधिबुध्यती // बन्धियुधिरुधी राधिव्यध्शुधः साधिसिध्यती / मन्यहन्नाप्क्षिप्छुपितप्तिपस्तृप्यतिदृप्यती // लिप्लुप्वप्शपस्वप्मृपियभ्रभ्लभगमनम्यमो रमिः / एतैश्च धातुभिर्विना वृङ् वृञ् आभ्याञ्च विना अन्ये एकाचः अजन्तधातवः निहताः अनुदात्ताः स्मृताः / पाणिनिशिष्यपरम्परया ज्ञाता इत्यर्थः / अथ हलन्तेषु अनुदात्तान् धातून परिगणयति / शक्ल पच् मुचीति // शक्ल पच् मुच् रिच वच् विच सिच् प्रच्छ त्यज् निजिर् भज् एषां द्वन्द्वः / तत्र कान्तेषु शक्ल इत्येकः / लकार इत् / भाष्ये तु अनुवन्धरहितः पाठो दृश्यते / चान्तेषु पच् मुच् रिच वच् विच् सिच् इति षट् / अत्र डुपचष् इत्यस्यैव ग्रहणं प्रसिद्धत्वात् / न तु पचि व्यक्तीकरणे इत्यस्येत्याहुः। मुचल मोक्षणे इत्यस्यैव ग्रहणं न तु मुचि कल्कन इति भौवादिकस्य / अविशेषात्सर्वस्येत्यन्ये / छान्तेषु प्रच्छ एकः / प्रच्छेत्यकार उच्चारणार्थः / णिजिरित्यत्र इर इत्संज्ञा वक्ष्यते / भज भुजित्यादि सृज इत्यन्तमेकं पदम् / जान्तेषु त्यज् निज् भन् भञ् भुज् भ्रस्ज मस्ज यज् युज रुज र विज् स्व सङ्ग् सृज् इति पञ्चदश / अद् क्षुदित्यादि नुद इत्यन्तमेकम्पदम् / तत्र तुदेरिकार उच्चारणार्थः / पद्याभदित्येकम्पदम् / समाहारद्वन्द्वः / पद्येति श्यनानिर्देशः / विद्यतिरिति श्यनानिर्देशः / विनदिति इनमानिर्देशः / शदसदीत्यादि बुध्यतीत्यन्तमेकम्पदं। समाहारद्वन्द्वः / सदिस्कन्दिहदिक्षुधि इति इका निर्देशः / स्विद्यति बुध्यतीति रितपा श्यन्विकरणयोर्निर्देशः / ततश्च दान्तेषु अद् क्षुद् खिद् छिद् तुद् नुद् (पद् श्यन्विकरण:) (विद् श्यन्विकरणः) (विनद् इनम्विकरण:) शद सद् (स्विद् श्यन्विकरण:) स्कन्द हृद् इति पञ्चदश। बन्धिरिति इका निर्देशः / युधिरुधी इत्येकम्पदम् इका निर्देशः / राधि व्यध् शुधः इत्येकं पदम् / राधीति इका निर्देशः / साधिसिध्यती इति द्वन्द्वः / साधीति इका निर्देशः / ततश्च धान्तेषु क्रुध् क्षुध् बुध् श्यन्विकरणः बन्ध् युध् रुथ् राथ् व्यध् शुध् साथ् सिध् श्यन्विकरणः इत्येकादश / मन्येत्यादि तिप इत्यन्तमेकम्पदम्। मन्येति श्यना निर्देशः / छुपीति इका निर्देशः / तृप्यतिदृप्यती इति द्वन्द्वः श्यना निर्देशः। लिविल्यादि यम इत्यन्तमेकम्पदम्। सृपीति इका निदेशः / रमिरिति भिन्नम्पदम् / इका निर्देशः / तथा च नान्तेषु मन् हन्निति द्वौ / मनिः श्यन्विकरणः / पान्तेषु आप् क्षिप् छुप् तप् तिम् तृप् दृप् लिप् लुप् वप् शप् स्वप् सप् इति त्रयोदश / भान्तेषु यभ रभ लभ् इति त्रयः / मान्तेषु गम् नम् यम् रम् इति चत्वारः / For Private And Personal Use Only
Page #49
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा क्रुशिर्दशिदिशी दृश्मृश्रिअश्लिशविश्पृशः कृषिः / / त्विष तुष् द्विष् दुष् पुष्य पिष् विष् शिष् शुष् श्लिष्यतयो घसिः / वसतिर्ददिहिदुहो नहिलिह्वहिस्तथा // अनुदात्ता हलन्तेषु धातवो द्वयधिकं शतम् / तुदादौ मतभेदेन स्थितौ यौ च चुरादिपु // तृप्पी तौ वारयितुं श्यना निर्देश आहतः / च / स्विद्यपद्यौ सिध्यबुध्यौ मन्यपुष्यश्लिष: श्यना / वसिः शपा लुका यौतिनिर्दिष्टोऽन्यनिवृत्तये / निजिविजिर्शक्ल. इति सानुबन्धा अमी तथा / विन्दतिश्चान्द्रदौर्गादेरिष्ठो भाष्येऽपि दृश्यते / व्याघ्रभूत्यादयस्त्वेन नेह पेठुरिति स्थितम् // किं क्रुशिरित्यादि स्पृश इत्यन्तमेकम्पदम् / कुशिरिति दृशिरिति च इरितौ / देशीति इका निर्देशः / तथा च शान्तेषु कुश् दंश् दिश् दृश् मृश् रिश् रुश् लिश् विश् स्पृश् इत्येते दश / कृषिरिति पृथक्पदम् / इका निर्देशः / त्विषीत्यादि श्लिष्यतयइत्यन्तमेकम्पदम् / पुष्येति श्यना निर्देशः। शिष्यतीति श्यन्विकरणस्य रितपा निर्देशः / तथाच षान्तेषु कृष् त्विष तुष् द्विष् दुप् (पुष् श्यन्विकरण:) पिष् विष् शिष् शुष् (श्लिष् श्यन्विकरणः।) इत्येकादश / घसिरिति पृथक्पदम् / इका निर्देशः / वसतिरिति पृथक्पदं स्तिपा निर्देश: / सान्तेषु घस् वम् इति द्वौ / दह् दिह् दुह् इति द्वन्द्वः / दिहीति इका निर्देशः / न मिह रुह लिह् इति समाहारद्वन्द्वः / वहिः इति पृथक्पदं इका निर्देशः / तथेति चकारपर्यायः / हान्तेषु दह दिह दुह न मिह रूह लिइ वह् इत्यष्टौ / यधिक शतमिति // भाष्ये मृषेषान्तेषु पाठस्तु लेखकप्रमादकृत इति भावः / अथ पान्तेषु द्वयोः श्यना निर्देशस्य फलमाह / तुदादाविति // यो तृप्पी तुदादौ चुरादौ च मतान्तरीयत्वेन धातुपाठे स्थिती तौ अनुदात्तेभ्यो वारयितुं श्यना निर्देशः अभ्युपगत इत्यर्थः / अत एव शेमुचादीनामिति सूत्रभाष्ये तृपितो दृपित इत्युदाहृतं सङ्गच्छत इति भावः / किञ्चेति // अन्यदपि वक्ष्यत इत्यर्थः / अन्यनिवृत्तय इति // विकरणान्तरनिवृत्तय इत्यर्थः / तच्चाग्रे तदार्धधातुकनिरूपणे स्पष्टीभविष्यति / अमी तथेति // उक्तानुबन्धरहितानां व्यावृत्तय इत्यर्थः / एतदपि तत्तदार्धधातुकनिरूपणे स्पष्टीभविष्यति / विन्दतिरिति // विल लाभे इति तौदादिकः / चान्द्रदौर्गादिव्याकरणसम्मतः / भाष्येऽपि दृश्यते इति // विन्दिविद्यतीति तत्र पाठादिति भावः / एनमिति // विन्दतिमित्यर्थः / नेह पेठुरिति // तथापि भाष्यप्रामाण्यादस्यानि For Private And Personal Use Only
Page #50
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 48 सिद्धान्तकौमुदीसहिता [भ्वादि रञ्जिमस्जी अदिपदी तुद् क्षुध् शुषिपुषी शिषिः / भाष्यानुक्ता नवेहोक्ता व्याघ्रभूत्यादिसम्मतेः // ‘स्पर्ध 3 संघर्षे'। संघर्षः पराभिभवेच्छा / धात्वर्थेनोपसंग्रहादकर्मकः / स्पर्धते / 2259 / शपूर्वाः खयः। (7-4-61) अभ्यासस्य शपूर्वाः खयः शिष्यन्ते / ‘हलादिः शेषः' (2179) इत्यस्यापवादः / पस्पर्धे / स्पर्धिता / स्पर्धिष्यते। स्पर्धताम् / अस्पर्धत / स्पर्धेत / दकत्वमिति भावः। रजिमस्जी इत्येकम्पदम् / तु दिति पृथक्कृते पदे / शुषिपुषी इत्येकम्पदम् / शिषिरित्यनन्तरं इत्येते इति शेषः / नवेहति // नव धातवः भाष्यानुक्ता अपि इहानुदात्तेषु परिगणिता इत्यर्थः / कुत इत्यत आह / व्याघ्रभूत्यादिसम्मतेरिति // भाष्येत्वेभ्यो नवभ्योऽन्येषां परिगणनं तु नवानामप्येषामुपलक्षणमिति भावः / तेन रक्तं रागात् तदस्मिन्ननं प्रायेण, तोकृतमितप्रतिपन्नाः, शुष्कधृष्टी, क्तेननञ्चिशिष्टेनेत्यादिसौत्रप्रयोगाः, नुत्तःमग्नः पुष्टः मङ्क्ता मङ्क्तव्यमित्यादिभाष्यप्रयोगाश्चात्र लिङ्गम् / इत्यनिट्कारिकाः // स्पर्धसंघर्षे इति // वर्तते इति शेषः / पराभिभवेति // परस्याभिभवः पराजयः / तद्विषयकेच्छेत्यर्थः / नन्वनेच्छायां पराभिभवस्य कर्मतया स्पर्धधातोस्सकर्मकत्वात् देवदत्तः यज्ञदत्तं स्पर्धयतीत्यादौ गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामित्यकर्मककार्य कथमित्यत आह / धात्वर्थेनापसंग्रहादर्कमक इति॥धात्वर्थबहिर्भूतकर्मकत्वमेव सकर्मकत्वमिति सुप आत्मनः क्याजति सूत्रभाष्ये प्रपञ्चितत्वादिति भावः / नचैव सति पदव्यवस्थायां स्पर्धायामाङ इत्यत्र कृष्णश्चाणूरमाह्वयते स्पर्धत इत्यर्थ इति मूलग्रन्थविरोध इति वाच्यम् / तत्र स्पर्धेरभिभवपूर्वकाह्वाने वृत्तिरित्यलम् / स्पर्धत इति // कथ्यन्ताः घट्त्रिंशदनुदात्तत इत्युक्तेरात्मनेपदम् / एधधातुवत् लटि धातुरूपाणीति भावः / धातोरिजादित्वाभावादिजादेश्चेति लिट्याम् न / अत एव नानुप्रयोगोऽपि / किन्तु लिटस्तादेशे लिटस्तझयोरिति तस्यैशि लिटि धातोरितिद्वित्वे हलादिश्शेष इत्यभ्यासेप्रथमहल्ल्यतिरिक्तहलां निवृत्तौ सस्पर्धे इति प्राप्ते / शर्पूर्वा इति / अभ्यासस्येति // अत्रलोपोऽभ्यासस्येत्यतस्तदनुवृत्तेरिति भावः / शपूर्वाः खय इत्यत्र शर् पूर्वः येभ्य इत्यतद्गुणसंविज्ञानो बहुव्रीहिः / तेन शर न शिष्यते। शिष्यन्त इति // हलादिश्शेष इत्यतश्शेष इत्यनुवृत्तं कर्मणि घअन्तं बहुवचनान्ततया विपरिणम्यत इति भावः / तथाच प्रकृते अभ्यासे हल् पकारदिशष्यते / नन्द्रास्संयोगादय इति रेफस्य द्वित्वनिषेधो न शंक्यः / द्वितीयैकाजवयवस्यैव तनिषेधात् / तदाह / पस्पर्ध इति // नच वव्रश्चेत्यत्राभ्यासे चकार एव शिष्यतेति वाच्यम् / हलादिश्शेष इत्यतोहि आदिरित्यप्यनुवर्तते / शर्व्यतिरिक्तवर्णापेक्षया धात्वादिभूता इत्यर्थः / पस्पर्धाते पस्पधिरे पस्पर्धिषे पस्पर्धाथे पस्पर्धिध्वे पस्पर्धे पस्पर्धिवहे पस्पर्धिमहे इति लिटि रूपाणि सुगमानि / स्पर्धितेति // लुटि एधधातुवत् रूपाणि सुगमानीति भावः / स्पर्धिष्यत इति // लुटि एधधातुवद्रूपाणीति भावः / स्पर्धतामिति॥ For Private And Personal Use Only
Page #51
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा 49 स्पर्धिषीष्ट / अस्पर्धिष्ट / अस्पधिष्यत / 'गाध 4 प्रतिष्ठालिप्सयोर्ग्रन्थे च' / गाधते / जगाधे। ‘बाधृ 5 लोडने' / लोडनं प्रतिघातः / बाधते / 'नाथ 6 नाधृ 7 याञोपतापैश्वर्याशी:षु' / आशिषि नाथ इति वाच्यम् / अस्याशिष्येवात्मनेपदं स्यात् / नाथते / अन्यत्र नाथति / नाधते / दध 8 धारणे'। दधते / / 2260 / अत एकहल्मध्येऽनादेशादेलिटि / (6-4-120) लिण्णिमित्तादेशादिकं न भवति यदङ्गं तदवयवस्यासंयुक्तहल्मध्यस्थस्याकारस्यैकारः स्यादभ्यासलोपश्च किति लिटि। लोटि एधिवद्रूपाणीति भावः / अस्पर्धतेति // लङि एधिवद्रूपाणीति भावः / हलादित्वादडेव। नत्वाडिति विशेषः / स्पर्धेतेति // विधिलिङि एधिवद्रूपाणि / स्पर्धिषीटेति // आशिषि लिडि एधिवद्रूपाणि / अस्पर्धिष्टेति // लुङि एधिवद्रूपाणि / अडागम इति विशेषः / नत्वात् / अस्पर्धिष्यतेति // लडि एधिवद्रूपाणि / अडागमो विशेषः / नत्वात् / गाधू प्रतिष्ठेति // चतुर्थान्तो धातुः / ऋकारो नाग्लोपिशास्वृदितामिति निषेधार्थः / अजगाधत् / प्रतिष्ठा आधारे स्थितिः / ग्रन्थः ग्रथनं रचनम् / जगाध इति // लिटि द्वित्वादि / अभ्यासस्य इस्वः चुत्वं जश्त्वम् / बाधृ इति // प्रतिघात: पीडनम् / नाथ, नाधृ इति // द्वितीयचतुर्थान्तौ धातू / उपतापः ज्वरप्रयुक्ता पीडा। आशीः आशासनम् / द्वितीयान्तस्य नाथधातोर्विशेषमाह / आशिषि नाथ इति // अत्र नाथ इति षष्टी। अनुदात्तडित इत्यतः आत्मनेपदमित्यनुवर्तते / अनुदात्तेत्त्वादेव सिद्धे नियमार्थमिदं वार्तिकम् / तदाह / अस्या शिष्येवेति // आशासनार्थवृत्तेरेवनाथधातोरात्मनेपदम् / याज्ञाद्यर्थवृत्तस्तु शेषात् कर्तरीति परस्मैपदमेवेत्यर्थः / नाथत इति // आशास्ते इत्यर्थः / अन्यत्नेति॥ याज्ञाद्यर्थे विद्यमानस्येत्यर्थः / अथ चतुर्थान्तस्य नाधधातोरुदाहरति / नाधत इति / दधेति / / चतुर्थान्तोऽयम् / तस्य लटि एधिवद्रूपाणि सिद्धवत्कृत्य लिटस्तादेशे तस्यैशि द्वित्वे दध् दध् ए इति स्थिते / अत एकहल्मध्य इति // आदेशः आदिर्यस्येति बहुव्रीहिः / अङ्गस्येत्यधिकृतम् अन्यपदार्थः / लिटीति परनिमित्तकसप्तमी अनादेशादेरित्यस्यैकदेशे आदेशेऽन्वेति / लिटि परे निमित्ते य आदेशः सः आदिर्यस्य न भवति तथाविधस्याङ्गस्येति लभ्यते / अङ्गस्येत्यवयवषष्टी / तथाच तथाविधानावयवस्यात इति लभ्यते / एकशब्दः असहायवाची। एके मुख्यान्यकेवला इत्यमरः / एको असंयुक्तौ हलौ एकहलो तयोर्मध्यः एकहलमध्यः तत्र तिष्ठतीत्येकहल्मध्यस्थः / तस्येति विग्रहः / अत इत्यस्यैव विशेषणमिदम् / ध्वसोरेद्धावित्यत: एदिति अभ्यासलोप इति चानुवर्तते / गमहनेत्यतः कितीत्यनुवर्तते नतु ङितीति। लिडादेशानां ङित्त्वासम्भवात् / लिटीत्यत्वविधौ परनिमित्तञ्च / आवृत्या उभयार्थलाभः / तदाह / लिण्णिमित्तेत्यादिना॥ For Private And Personal Use Only
Page #52
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदीसहिता [भ्वादि 2261 / थलि च सेटि / (6-4-121) प्रागुक्तं स्यात् / आदेशश्चेह वैरूप्यसम्पादक एवाश्रीयते / शसिदद्योः प्रतिषेधवचनाज्ज्ञापकात् / तेन प्रकृतिजश्चरां तेषु सत्स्वपि एत्वाभ्यासलोपौ स्त एव / देधे / देधाते / देधिरे / 'अतः' किम् / दिदिवतुः / 'तपरः' किम्। ररासे / 'एक-' इत्यादि किम् / तत्सरतुः / * अनादेशादेः' किम् / चकणतुः। लिट आदेशविशेषणादिह स्यादेव / नेमिथ / सेहे / ‘स्कुदि 9 आप्रवणे'। आप्रवणमुत्प्लवनमुद्धरणं च / थलिचेति / प्रागुक्तमिति // अत एकहल्मध्य इति यत् प्रागुक्तं एत्वादि तत् सेटि थलि च स्यादित्यर्थः। थल: कित्वाभावात् पूर्वसूत्रेणाप्राप्तौ वचनम् / ननु देधे पेततुरित्यादौ अभ्यासे चर्चेति जशां चराञ्च जाश चरिच लिण्णिमित्तादेशादित्वात् कथमेत्वाभ्यासलोपावित्यत आह / आदेशश्चेति // इह अतएकहल्मध्य इति सूत्रे / आदेशशब्देन स्थान्यपेक्षया विरूप एवादेशो विवक्षितः / तथाच तथाविधादेशादेरेव एत्वाभ्यासलोपो न भवतः / स्थानिसरूपादेशादेस्तु न पर्युदास इत्यर्थः / शसिदद्योरिति // नशसददवादिगुणानामिति शसिदद्योरेत्वाभ्यासलोपयोः प्रतिषेध उच्यते / यदिह यथाकथञ्चिदादेशादेः पयुदासस्स्यात् तर्हि शसिदद्योरभ्यासे शकारदकारयोश्चर्जशोः शकारदकारादेशे सति आदेशादित्वादेव एत्वाभ्यासलोपयोः अभावसिद्धौ न शसददवेति तत्प्रतिषेधोऽनर्थकस्स्यात् / अतः वैरूप्यसम्पादकादेशादेरेव पर्युदासो विज्ञायत इत्यर्थः / तेनेति // स्थानिसरूपादेशादेः पर्युदासाभावादित्यनेनेत्यर्थः / सत्स्वपीति // देधे पेततुः इत्यादौ दकाराद्यादेशेषु सत्स्वपीत्यर्थः / देधे इति // दध दध् ए इति स्थिते दकारादकारस्य एत्वेऽभ्यासलोपे च रूपम् / असंयोगालिट् किदिति कित्वमिह बोध्यम् / देधिर इति // देधिषे देधाथे देधिध्वे देधे देधिवहे देधिमहे इति रूपाणि सम्भवन्तीति भावः / दिदिवतुरिति / / दिब्धातोरतुसि द्वित्वे हलोमध्ये अतोऽभावादेत्वाभ्यासलोपौ नेति भावः / तपरः किमिति // अत इति तपरकरणं किमर्थमित्यर्थः / ररासे इति // रास शब्दे भ्वादिरात्मनेपदी / अत्र हल्मध्यस्थावर्णस्य ह्रस्वत्वाभावादेत्वाभ्यासलोपो नेति भावः / एकेत्यादि किमिति // एकहल्मध्यस्थस्येति किमर्थमित्यर्थः / तत्सरतुरिति // त्सरच्छद्मगतौ / लिटोऽतुसि द्वित्वे अभ्यासाकारस्य नासंयुक्तहल्मध्यस्थत्वमिति भावः / चकणतुरिति // कण शब्दे / लिटोऽतुसि द्वित्वे अभ्यासेचर्चेति ककारस्य चुत्वेन चकारः / तथाच वैरूप्यसम्पादकादेशादित्वादेत्वाभ्यासलोपी नेति भावः / अथ लिण्णिमित्तादेशादिकमित्यत्र लिण्णिमित्तेत्यस्य प्रयोजनमाह / लिट इति / नेमिथेति // णमु प्रहत्वे शब्दे च। णोन इति नत्वं / थलि इटि द्वित्वे नत्वसम्पन्ननकारादेशादित्वेपि नत्वस्य लिण्णिमित्तकत्वाभावालिण्णिमित्तकादेशादित्वाभावादेत्वाभ्यासलोपो निर्बाधाविति भावः / सेहे इति // षह मर्षणे। धात्वादेः षस्स इति षत्वे थलि इटि द्वित्वे सत्वसम्पन्नसकारादेशादित्वेऽपि सत्वस्य For Private And Personal Use Only
Page #53
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् ] बालमनोरमा 51 2262 / इदितो नुम्धातोः। ( 7.1-58) स्कुन्दते / चुस्कुन्दे / श्विदि 10 श्वैत्ये'। अकर्मकः ।श्विन्दते / शिश्विन्दे। ‘वदि 11 अभिवादनस्तुत्योः' / वन्दते / ववन्दे / ‘भदि 12 कल्याणे सुखे च'। भन्दते / बभन्दे / 'मदि 13 स्तुतिमोदमदस्वप्नकान्तिगतिषु'। मन्दते / ममन्दे / 'स्पदि 14 किञ्चिन्चलने' / स्पन्दते / पस्पन्दे / 'क्लिदि 15 परिदेवने'। शोक इत्यर्थः / सकर्मक: / क्लिन्दते चैत्रम् / चिक्लिन्दे / * मुद 16 हर्षे' / मोदते। ‘दद 17 दाने' / ददते / लिण्णिमित्तकत्वाभावात् लिण्णिमित्तकादेशादित्वविरहादेत्वाभ्यासलोपौ निर्वाधाविति भावः / दाधिता / दधिष्यते / दधताम् / अदधत। दधेत / दधिषीष्ट / अदधिष्ट / अदधिष्यत / स्कु. दीति // उत्प्लवनमुत्प्लुत्य गमनम् / इदित इति // इत् ह्रस्व इकारः इत् इत्संज्ञकः यस्य सः इदित् , तस्येति विग्रहः / इत्संज्ञकेदन्तधातोरित्यर्थः / तेन चक्षिङादी न दोषः / नुमि मकार इत् / उकार उच्चारणार्थः / मित्वादन्त्यादचः परः। स्कुन्दत इति // नश्चापदान्तस्येत्यनुस्वारः परसवर्ण: / चुस्कुन्द इति // लिटि द्वित्वे शपूर्वाः खय इत्यभ्यासे ककारदिशध्यते / कुहोश्चुरिति तस्य कुत्वेन चकारः। श्विदीति // श्वैत्यम् श्वैत्यकरणम् / अकर्मक इति // चैत्यस्य धात्वर्थोपसङ्ग्रहादिति भावः / ततश्च विन्दयति देवदत्तं यज्ञदत्त इत्यादी गतिबुद्धिप्रत्यवसानेत्यादिना अकर्मककार्य द्वितीया भवति / श्वेतीभवनं वा श्वैत्यम् / श्विन्दत इति // श्वेतीभवतीत्यर्थः / इदित्वान्नुम् / अनुस्वारपरसवौँ / नुमिकृते गुरुमत्वेपि इजादित्वाभावादाम् नेति भावः / वदीति ॥अभिवादनं आशीर्वादः, तत्कारणभूतो व्यापारः प्रणामादिरभिवादनम् / वन्दत इति // इदित्वान्नुम् / ववन्द इति // नुमि कृते अकारस्य संयुक्तहलमध्यस्थत्वादेत्वाभ्यासलोपो नेति भावः / भदीति // कल्याणं शुभक्रिया, सुखं मुखीभावः / भन्दत इति // इदित्वान्नुम् / बभन्द इति // अभ्यासे भकारस्य जशभावेन बकारः / नुमि अकारस्य संयुक्तहलमध्यस्थत्वादेत्वाभ्यासलोपौ नेति भावः / मदीति // मोदः सन्तोषः / मदः गर्वः / मन्दत इति // इदित्वान्नुम् / ममन्द इति // नुमि सति संयुक्तहलमध्यस्थत्वादेत्वाभ्यासलोपौ नेति भावः / स्पदीति // अकर्मकः / स्यन्दत इति // इदित्वान्नुम् / पस्पन्द इति // शपूर्वाः खय इत्यभ्यासे पकारः शिष्यते / क्लिदीति // परिवेदनशब्दं व्याचष्टे / शोक इति // स्मृत्वा क्लेशः शोकः / तदाह / सकर्मक इति। क्लिन्दते चैत्रमिति // अतीतञ्चैत्रं स्मृत्वा क्लिश्नातीत्यर्थः / इदित्वान्नुम् / चिक्लिन्द इति // अभ्यासे ककारस्य चुत्वेन च इति भावः / मुदेति // हर्षः तुष्टिः / मोदत इति // शपि लघूपधगुणः / मुमुद इति // असंयोगादिल्किदिति कित्वान्न गुणः / ददेति // न ममेति त्यागो दानं। न तु द्रव्यत्यागः / तथा सति धात्वर्थोपसङ्ग्रहादकर्मकत्वापत्तेः / For Private And Personal Use Only
Page #54
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 52 सिद्धान्तकौमुदीसहिता [भ्वादि 2263 / न शसददवादिगुणानाम् / (6-4-126) शसेर्ददेवकारादीनां गुणशब्देन भावितस्य च योऽकारस्तस्यैत्वाभ्यासलोपौ न / दददे / दददाते / दददिरे / 'प्वद 18 स्वर्द 19 आस्वादने'। अयमनुभवे सकर्मकः / रुचावकर्मकः / 2264 / धात्वादेः षः सः / (6-1-64) धातोरादेः षस्य सः स्यात् / 'सात्पदाद्योः' (2123) इति षत्वनिषेधः / अनुस्वदते / सस्वदे। स्वदेते / सस्वर्द / * उर्द 20 माने क्रीडायां च'। 2265 / उपधायां च / (8-2-78) धातोरुपधाभूतयो रेफवकारयोर्हल्परयोः परत इको दीर्घः स्यात् / ऊर्दते। न शसददेति // शस दद वादिगुण एषान्द्वन्द्वः / अवयवषष्ठी / गुणशब्देन विहित एव गुणशब्देन विवक्षितः / अन्यथा शसिददिग्रहणवैयर्थ्यात् / अत एकहल्मध्य इत्यस्मात् अत इति, वसोरेद्धावित्यतः एदिति, अभ्यासलोपइति, चानुवर्तते / तदाह / शसेरित्यादिना // गुणशब्देनेति किम् / पेचे, अत्र पचेरकारस्य गुणत्वेपि गुणशब्देन विहितत्वाभावान्नायनिषेधः / पृधातोः पपरतुरिति तु गुणस्योदाहरणम् / गुणशब्देन विहितः यः अर् तदवयवत्वादकारस्येति बोध्यम् / ददद इति // ददेर्लिटस्तादेशस्य एशि द्वित्वे अत एकहल्मध्य इति प्राप्तावे. त्वाभ्यासलोपो न भवतः / प्वद स्वदेति // आस्वादनं अनुभवः / प्रीतिविषयीभावात्मिका रुचिर्वा / तदाह / अयमिति // प्रत्येकाभिप्रायमेकवचनम् / धात्वादेरिति // ष इति षष्टयन्तम् / तदाह / धातोरादेः षस्य सस्स्यादिति // षकारस्य सः स्यादित्यर्थः / धातुग्रहणति / षट् / अत्र धात्वादित्वाभावान्न सकारः / आदिग्रहणं किम् / लषति // न चैवमपि षकारीयतीत्यादौ सुब्धात्वादेरपि षस्य सकारः स्यादिति वाच्यम् / आदेच उपदेशेऽ. शितीत्यतः उपदेश इत्यनुवृत्तेः / एवञ्च षडित्यादावपि उपदेशग्रहणानुवृत्यैव व्यावृत्तिसिद्धेातुग्रहणं भाष्ये प्रत्याख्यातम् / ननु धातुपाठे स्वदस्वर्देत्येवं सकार एव उपदिश्यताम् / एवञ्च धात्वादेष्यस्स इत्यपि मास्तु इति चेन्मैवम् / ण्यन्तात् लुडि असिष्वददित्यत्र षकारश्रवणार्थकत्वात् / धातुपाटे सकारस्यैवोपदेशे तु असिष्वददित्यत्र सकारस्य आदेशसकारत्वाभावेन षत्वासम्भवात् / नन्वेवं सति अनुस्वदत इत्यत्रादेशसकारत्वात् षत्वापत्तिरित्यत आह / सात्पदाद्योरिति / सस्वद इति // लिटि द्वित्वे संयुक्तहल्मध्यस्थत्वादेत्वाभ्यासलोपौ नति भावः / उर्देति // चकारादास्वादनेपीति केचित् / उपधायाश्चेति // सिपि धातोरित्यतः धातोरिति। •रुपधाया इत्यतः वारिक इति, हलिचेत्यतः हलीति, चानुवर्तते / उपधयोरित्यर्थे उपधायामित्यार्षम् / तदाह / धातोरित्यादि / ऊर्दत इति // अत्र धातोः रेफवान्तत्वाभावात् रुिपधाया इत्यस्य हलिचेत्यस्य चाप्राप्तौ उपधायाश्चेत्यारम्भः / धातोरित्यभावे पदाधिकारस्थत्वात् For Private And Personal Use Only
Page #55
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा 53 ऊर्दाचक्रे / 'कुर्द 21 खुर्द 22 गुर्द 23 गुद 24 क्रीडायामेव' / कूर्दते / चुकूर्दे / खूदते / गूदते / गोदते / जुगुदे / 'षूद 25 क्षरणे' / सूदते / सुषूदे। सेक्सृप्सृस्तृसृजस्तस्त्यान्ये दन्त्याजन्तसादयः / एकाचः षोपदेशाः ध्वस्विस्वस्वजिस्वपस्मिङः // पदस्य उपधाभूतयोरित्यर्थः स्यात् / ततश्च क्विबन्ने ऊर्द इत्यत्रैव स्यात् / ऊर्दत इत्यादी न स्यात् / रेफवकारयोः किम् / पुष्यति / हल्परयोः किम्। चिरिणोति / इकः किं / नर्दति / ऊर्दाञ्चक इति // इजादित्वादाम् / कृञ्चानुप्रयुज्यत इत्यनुप्रयोगः / कुर्देति // गुदेत्यपि पृथग्धातुः / क्रीडायामेवेत्यर्थनिर्देशः / एवकारस्तु इतोऽन्यत्र धात्वर्थनिर्देशस्य उपलक्षणत्वं ज्ञापयति / कृर्दत इति // उपधायाश्चेति दीर्घः / चुकूर्द इति ॥कुहोश्चुरिति चुत्वम् / खूदत इति // उपधायाश्चेति दीर्घः / एवं गूर्दत इति / गोदत इति। शपि लघूपधगुण: / जुगुद इति / असंयोगादिति कित्वान्नगुणः / देति // क्षरणं प्रस्रवणम् / सूदत इति // प्रस्रवतीत्यर्थः / धात्वादेरिति षस्य सः / अलघूपधत्वान्न गुणः। सुषूद इति // धात्वादेरिति षस्य सत्वे लिटि द्वित्वादी इण: परस्यादेशसकारत्वात् षत्वम्। यदि धातुपाठे सकारस्यैव पाठः तर्हि इहादेशसकारत्वाभावात् षत्वं न स्यात् / षोपदेशे तु षस्य सत्वे सति आदेशसकारत्वात् षत्वं सूपपादमिति भावः / ननु धातुपाठे के धातवष्षादयः पठिताः, के वा सादयः / पाणिनिकृतषोपदेशपाठस्य इदानीम्परिभ्रष्टत्वादित्याशक्य पाणिनीयपरम्परासिद्धान् षोपदेशान् पठति। सगिति श्लोकेन। दंत्याजन्तसादय एकाचः षोपदेशास्स्युरियन्वयः। दंत्यश्च अच दंत्याचौ तो अन्तौ अव्यवहितपरौ यस्य सः दंत्याजन्तः तथाविधः षः षकारः आदिर्येषान्ते दंत्याजन्तषादयः / दंत्यपरकः अच्परकश्च यः षकारः तदादय एकाचो धातवः इदानीं कृतसत्वास्सकारादित्वेन परिदृश्यमाना अपि षकारादित्वेन पाणिनिना उपदिष्टाः प्रत्येतव्या इत्यर्थः / सादय इति पाठेप्येवमेव व्याख्येयम् / अज्दंत्यपराः षादयष्षोपदेशा इति भाष्यम् / षूद क्षरणे इत्यादयः अच्परकषोपदेशाः / ष्टा गतिनिवृत्तावित्यादयस्तु दंत्यपरकषोपदेशाः / दंत्याजन्तेति किम् / स्कुदि आप्रवणे। चुस्कुन्दे / अत्र सकारो न दंत्यपरकः नाप्यच्परकः / एकाचः किम् / सोसूत्रयते। सूत्र वेष्टने, चुरादिरजन्तः अनेकाच् / यद्यप्येकाच इति भाष्ये न दृश्यते / तथापि यविधौ सोसूच्यत इति भाष्यन्तत्र मानमिति भावः / एवश्व साध संसिद्धौ, इत्यादौ सकारपाठस्यैव दृश्यमानत्वेऽ पि षोपदेशत्वमेव / ननु सेकृ गती, सृप्ट गतौ, स गतौ, सृज विसर्गे, एते चत्वारः अच्परकसादयः, स्तृञ् आछादने, ऋदन्तः श्रुविकरणः / स्तृञ् आछादने ऋदन्तः श्राविकरणः, स्त्यै शब्दसङ्घातयोः, एते त्रयः दंत्यपरकसादयः / एतेषां सप्तानामपि षोपदेशत्वं स्यादित्यतिव्याप्तिमाश क्य तद्भिन्नत्वं विशेषणमाह / सेक् सप् मृ स्तृ सृज स्तृ स्त्या न्ये इति // स्त्यै धातोः कृतात्वस्य निर्देशः श्लोके समावेशार्थः / स्त्यै इत्यैकारान्तस्य निर्देशे स्त्यायन्य इत्येकस्याक्षरस्याधिक्यापत्तेः / नन्वेवमपि ध्वक गतौ, अिष्विदा गात्रप्रस्रवणे, प्वद आस्वादने, ध्वञ्ज परिष्वङ्गे, भिष्वप् शये, मिङ् ईषद्धसने, इत्येतेषु सकारस्य दंत्यपरकत्वाभावात् अच्परकत्वाभावाच्च षोपदेशेष्वसङ्ग्रहः स्यादित्यव्याप्तिमाशङ्क्य तानपि संग्रहाति / वक्क् स्विद् स्वद् स्वाञ्ज स्वपि For Private And Personal Use Only
Page #56
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 54 सिद्धान्तकौमुदीसहिता [भ्वादि दन्त्यः केवलदन्त्यो न तु दन्तोष्ठजोऽपि। ष्वक्कादीनां पृथग्ग्रहणाज्ज्ञापकात्। 'ह्राद 26 अव्यक्ते शब्दे' / ह्रादते / जह्रादे / 'ह्लादी 27 सुखे च' / चादव्यक्ते शब्दे। हादते / ‘स्वाद 28 आस्वादने' / “पर्द 29 कुत्सिते शब्दे'। गुदरव इत्यर्थः / पर्दते / 'यती 30 प्रयत्ने' / यतते / येते / ‘युतृ 31 जुत 32 भासने' / योतते / युयुते / जोतते / जुजुते / विथ 33 वेथ 34 याचने' / विविथे / विवेथे / 'श्रथि 35 शैथिल्ये' / श्रन्थते / ग्रथि 36 कौटिल्ये' / ग्रन्थते / 'कत्थ 37 श्लाघायाम्' / कत्थते। एधादयोऽनुदात्ततो गताः / अथाष्टात्रिंशत्तवर्गीयान्ता: परस्मैपदिन: / अत 38 सातत्यगमने' / अतति / * अत आदेः' (2248) / आत / आततुः / आतुः / लुङि * आतिस् 'ई' इति स्थिते। स्मिङ इति // अपीति शेषः / ननु स्व शब्दोपतापयोरित्यादीनामपि दन्त्यवकारपरकत्वात् षोपदेशत्वं स्यादित्यत आह / दन्त्यः केवलदन्त्य इति // कुत इत्यत आह / प्वकादीनामिति // अन्यथा दंत्यपरकत्वादेव सिद्धे ष्वक्कादिग्रहणं व्यर्थ स्यादिति भावः / यद्यपि वकतिरत्र भाष्ये न दृश्यते तथापि सुब्धातुष्टिवुष्चकतीनां षत्वप्रतिषेध इति वार्तिकातल्लाभ इति भावः / हादेति॥ रेफवानयम् / अव्यक्तशब्दः अमनुष्यवाक् / जहाद इति // अभ्यासस्य हूस्वः चुत्वम् / ह्रादीति // लकारवानयम् / श्रीदितोनिष्ठायामिति इण्णेिषधार्थमीत्वम् / स्वादेति // केवलदत्यपरकत्वाभावान्नायं षोपदेशः असिखदत् / पर्देति // गुदरव इत्यर्थः / यतीति // ईदित्वमिण्णिषेधार्थम् / येते इति // अतएकहल्मध्य इत्येत्वाभ्यासलोपौ / युत जुतृ इति ऋदित्वम् नाग्लोपिशास्वृदितामित्याद्यर्थम् / योतत इति // शपि लघूपधगुणः / युयुत इति // असंयोगादिति कित्वान्न गुणः। विवे५ इति // द्वितीयान्ताविमौ। ननु विथ इत्येवास्तु / लघूपधगुणे सति वेथत इत्यस्याविशिष्टत्वादित्यत आह / विविथे, विवेथ इति // वेथूधातोर्विवेथ इति रूपम्। विथधातोस्तु असंयोगादिति कित्वात् गुणाभावे विविथ इति रूपमिति भावः / श्रथीति // द्वितीयान्तः शैथिल्यम् संसनम्। श्रन्थत इति इदित्वान्नुम् / ग्रथीति // द्वितीयान्तः / कौटिल्यम् वक्रीभवनम् / ग्रन्थत इति // इदित्वान्नुम् / कत्थेति // अविद्यमानगुणज्ञापनं श्लाघा / अथाष्टाविंशदिति // अष्टौ च त्रिंशदिति द्वन्द्वः अष्टाधिकात्रिंशदिति वा। यष्टनस्सङ्ख्यायामित्यात्वम् अष्टात्रिंशदिति पाटे तु अष्टेति पृथक्पदम् / परस्मैपदिन इति // अनुदात्तस्वरितभित्वाभावात्छेषात् कर्तरीति परस्मैपदिन एवेति भावः / अतेति // सातत्यगमनं सन्ततगमनम्। लिटि णलि द्वित्वे हलादिशेषे अ अत् अ इति स्थिते पररूपे प्राप्ते आह / अत आदेशित // इति दीर्घ इति शेषः / तथा च अभ्यासाकारस्य दीर्घ सति सवर्णदीर्घः / तदाह / आतेति // अकारस्य हलमध्यस्थत्वाभावादेत्वाभ्यामलोपौ न / लुङीति // अतधातोर्लुङस्तिपि इतश्चेति इकारलोपे च्ले: सिचि तस्य इडागमे For Private And Personal Use Only
Page #57
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा 2266 / इट ईटि / (802-28) इटः परस्य सस्य लोपः स्यादीटि परे / सिज्लोप एकादेशे सिद्धो वाच्यः / - आतीत / आतिष्टाम् / आतिषुः / 2237 / वब्रजहलन्तस्याचः। (7-2-3) वदेरृजेहलन्तस्य चाङ्गस्याच: स्थाने वृद्धिः स्यात्सिचि परस्मैपदेषु / इति प्राप्ते। 2268 / नेटि / (7-2-4) इडादौ सिचि प्रागुक्तं न स्यात् / मा भवानतीत् / अतिष्टाम् / अतिषुः / 'चिती 39 संज्ञाने' / चेतति / चिचेत / अचेतीत् / अचेतिष्टाम् / अचेतिषुः / च्युतिर 40 आसेचने'। आसेचनमार्दीकरणम् / आङीषदर्थेऽभिव्याप्तौ च / अस्ति सिचोऽपृक्त इति ईडागमे आटि वृद्धौ आतिस् ई त् इति स्थिते सतीत्यर्थः / इटईटीति / / इट इति पञ्चमी रात्सस्येत्यतः सस्येति संयोगान्तस्येत्यतो लोप इति चानुवर्तते तदाह / इटः परस्येति // एवञ्च आति स् ई त् इति स्थिते सकारस्य लोपे आति ई त् इति स्थिते सवर्णदीर्घ आतीदिति रूपम् वक्ष्यति / तत्र सलोपस्यासिद्धत्वात् कथं सवर्णदीर्घ इत्यत आह / सिज्लोप एकादेशे सिद्धो वक्तव्य इति। आतिष्टामिति ॥लुङस्तस्। तस्य ताम्। च्ले: सिच। तस्य इटि आटि वृद्धौ षत्वम्। अपृक्तत्वाभावेन ईडभावात् सलोपो न। आतिषुरिति // लुङो झिः। च्ले: सिच् / जुस् इट् आट् वृद्धिः षत्वं रुत्वविसौं / आती: / आतिष्टम् / आतिष्ट / आतिषम्। आतिष्व। आतिष्म / अत्र वृद्धिमाशङ्कितुमाह / वदव्रजेति॥ वद व्रज हलन्तः एषां समाहारद्वन्द्वात् षष्टयेकवचनम्। अङ्गस्येत्यधिकृतम् / सिचि वृद्धिः परस्मैपदेष्वित्यनुवर्तते। तदाह / वदेत्यादिना॥ हलन्तत्वादेव सिद्धे वदव्रजग्रहणन्तु अवादीदवाजीदित्यत्र अतोहलादेर्लघोरिति वृद्धिविकल्पबाधनार्थम्। नेटीति / प्रागुक्तन्नति // वदवजहलन्तस्याच इत्युक्तं नेत्यर्थः / तत्र वदवजयोर्विशिष्य विधानात् हलन्तलक्षणाया एव वृद्धेर्निषेधोऽयम् / हलन्तलक्षणा वृद्धिस्तु अधाक्षीदिल्यादावनिडादौ सिचि चरितार्था / नन्वातीदित्यादौ अकारस्य वृद्धौ सत्यामसत्याञ्च आटा एकादेशे सति रूपे विशेषाभावात् किन्तनिषेधेनेत्याशङ्कयेत्याह / माभवानतीदिति // माझ्योगे आडभावे सति बृद्धिनिषेधः सफल इति भावः / चितीति // ईदित्वं वीदितो निष्ठायां इति इण्णिषेधार्थम् / चेततीति // शपि लघूपधगुणः / चिचेतेति // तिबादेशणल: पित्वेन असंयोगादिति कित्वस्याप्रवृत्तेः न गुणनिषेधः चिचिततुरित्यादौ तु कित्वान्न गुणः / अचेतीदिति // इट ईटीति सलोपः / अचेतिष्टामिति // अपृक्तत्वाभावादीडभावानसिज्लोपः / नेटीति निषेधान्न हलन्तलक्षणा वृद्धिः / च्युतिरिति // अत्र इकारस्य रेफस्य For Private And Personal Use Only
Page #58
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदीसहिता [भ्वादि इर इत्संज्ञा वाच्या / च्योतति / चुच्योत। 2269 / इरितो वा / (3-1-57) इरितो धातोश्च्लेरङ् वा स्यात्परस्मैपदे परे / अच्युतत्-अच्योतीत् / 'इच्युतिर् 41 क्षरणे' / श्च्योतति / चुश्च्योत / अश्च्युतत्-अश्च्योतीत् / यकाररहितोऽप्ययम् / श्चोतति / 'मन्थ 42 विलोडने' / विलोडनं प्रतिघातः / मन्थति। ममन्थ / यासुट: ‘किदाशिषि (2216) इति कित्त्वात् 'अनिदिताम्-' (415) इति नलोपः / मथ्यात् / 'कुथि 43 पुथि 44 लुथि 45 मथि 46 हिंसासंक्लेशनयोः' / इदित्त्वानलोपो न / कुन्थ्यात् / पुन्थ्यात् , लुन्थ्यात् , मन्थ्यात् पिधु 47 गत्याम्' सेधति / सिषेध / सेधिता। असेधीत् / सात्पदाद्योः' (5123) इति षत्वनिषेधे प्राप्ते / च प्रत्येकमित्संज्ञायामिदित्वान्नुमि प्राप्ते आह / इर इत्संज्ञेति // तथाच इर् इति समुदायस्य इत्संज्ञकत्वादिदित्वाभावाननुमिति भावः / च्योततीति // लघूपधगुणः / चुच्योतेति॥ णल: पित्वेन कित्वाभावान गुणनिषेध इति भावः / चुच्युततुरित्यादौ तु कित्वान्न गुणः / लुङि च्ले: सिचि प्राप्ते। इरितो वेति // धातोरेकाच इत्यतो धातोरिति च्ले: सिजित्यतः च्लेरिति अस्यति वक्तिख्यातिभ्य इत्यतः अडिति पुषादिद्युतादित्यतः परस्मैपदेष्विति चानुवर्तते / तदाह / इरितो धातोरित्यादिना। अच्युतदिति // अङि सति डित्वान्नगुणः / अच्युतताम् अच्युतन् अच्युतः अच्युततम् अच्युतत अच्युतम् अच्युताव अच्युताम। अडभावे त्वाह / अच्योतीदिति // इट ईटीति सिज्लोपः। अच्योतिष्टामित्यादि। श्च्युतिरिति॥ च्युतिवद्रूपाणि / चुच्योतेति // शपूर्वा इति चकारः शिष्यते / यकाररहितोपीति / / मधुश्चुतंवृतभिव सुपूतमित्यादी दर्शनादिति भावः / मन्थेति // विलोडनमास्फालनम् / मन्थतीत्यादि // सुगमम्। आशीलिङि विशेषमाह / यासुट इति। कुथीति // चत्वारोऽषि द्वितीयान्ताः। इदित्वान्नुमि कुन्थतीत्यादि सुगमम् / आशीर्लिङि यासुट: कित्वेऽपि इदित्वेन अनिदितामिति पर्युदासात् नलोपो नेत्याह / इदित्वादिति / कुन्थ्यादिति // पुन्थ्यात् लुन्थ्यात् मन्थ्यात् / एतदर्थमेव मन्थधातोः पृथक् मथीति निर्देशः / षिधगत्यामिति // अच्परकषकारादित्वात् षोपदेशोऽयम् / ततश्च धात्वादेरिति सः / तदाह / सेधतीति। सिषेधेति // आदेशसकारत्वात् षत्वम्। अनिट्सु श्यन्विकरणस्यैव सिधग्रहणात् सेटकोऽयम् / असेधीदिति // इट ईटीति सिज्लोपः। नेटीति निषेधात् न हलन्तलक्षणा वृद्धिः / असेधिष्टामित्यादि // अथ निषेधतीत्यादौ उपसर्गात्सुनोतीति षत्वं वक्ष्यति / तत्किमर्थ आदेशप्रत्यययोरित्येव सिद्धरित्या For Private And Personal Use Only
Page #59
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा 2270 / उपसर्गात्सुनोतिसुवतिस्यतिस्तौतिस्तोभतिस्थासेनय सेधसिचसञ्जस्वञ्जाम् / (8-3-65) उपसर्गस्थानिमित्तादेषां सस्य षः स्यात् / 2271 / सदिरप्रतेः / (8-3-66) प्रतिभिन्नादुपसर्गात्सदेः सस्य प: स्यात् / 2272 / स्तन्भेः / (8-3-67) सौवस्य सस्य ष: स्यात् / योगविभाग उत्तरार्थः / किंच * अप्रतेः' इति नानुवर्तते / 'बाहुप्रतिष्टम्भविवृद्धमन्युः' इति / 2273 / अवाच्चालम्बनाविदूर्ययोः / (8.3-68) ____ अवात्स्तन्भेरेतयोरर्थयोः पत्वं स्यात् / शङ्कयाह / सात्पदाद्योरिति // उपसर्गात्सुनोतीति / उपसर्गस्थादिति // उपसर्गशब्द उपसर्गस्थे लाक्षणिक इति भावः / निमित्तादिति // इण्पादित्यर्थः / इण्कोरित्यधिकारेऽपि कोरिति नात्र सम्बध्यते। असम्भवात् / सस्येति // सहेः साढः स इत्यतः स इति षष्ट्यन्तमनुवर्तत इति भावः / षः स्यादिति // अपदान्तस्य मूर्धन्य इत्यधिकारादिति भावः / अत्र मुनोतीत्यादिस्तिपानिर्देशो यङ्लुनिवृत्यर्थ इति प्राञ्चः / स्पष्टार्थ इति प्रौटमनोरमायाम् / सेनयेति णिजन्तो नामधातुः। सेधतीति शपानिर्देशात् सिध्यतेन ग्रहणम् / अभिषुणोतीत्याद्युदाहरणं / प्रकृते निषेधतीत्याद्यर्थमिह सूत्रोपन्यासः। प्रसङ्गादाह / सदिरप्रतेरिति // उपसर्गादिति // उपसर्गस्थादिण:परस्येत्यर्थः / सदिरिति // षष्टयर्थे प्रथमेत्यभिप्रेत्याह / सदेस्सस्येति // निषीदतीत्युदाहरणम् / स्तन्भेरिति // नकारोपधनिर्देशस्य प्रयोजनमाह / सौत्रस्येति // स्तन्भु स्तुन्भु इति सूत्रनिर्दिष्टस्य नोपधस्येत्यर्थः / सहि प्रतिपदोक्तः / ष्टभि प्रतिबन्ध इत्यस्य तु धातोरिदित्वान्नुमि लाक्षणिकत्वान्न ग्रहणम् / तेन विस्तम्भत इत्यादौ न षत्वम् / उदस्थास्तम्भ्वोरिति सूत्रे तु मोपधग्रहणादुभयोरपि ग्रहणम् / मकारस्य उभयत्रापि लाक्षणिकत्वात् / ननु सदिस्तन्भ्योरप्रतेरित्येकमेव सूत्रं कुतो न कृतमित्यत आह / योगविभाग उत्तरार्थ इति // अवाच्चालम्बनाविदूर्ययोरित्युत्तरसूत्रे सदेरननुवृत्यर्थ इत्यर्थः / ननु सदेरवरितत्वादालम्बनाविदूर्ययोवृत्यभावादेवच अनुवृत्यभावः सिद्ध इत्यस्वारस्यादाह / किश्चेति / नानुवर्तत इति // स्तन्भेरित्यत्र अप्रतेरित्यस्य अनुवृत्तिर्नेष्टा / एकसूत्रत्वे तु अप्रतेरित्यस्य स्तन्भिनाऽपि सम्बन्धः स्यादिति भावः / अप्रतेरित्यस्य स्तन्भावनन्वयो वृद्धप्रयोगानुगत इत्याह / बाहुप्रतिष्टम्भेति / अवाञ्चेति // आलम्बनञ्च आविदूर्यञ्चेति For Private And Personal Use Only
Page #60
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 58 सिद्धान्तकौमुदीसहिता [भ्वादि 2274 / वेश्च स्वनो भोजने / (8.3-69) व्यवाभ्यां स्वनतेः सस्य प: स्याद्भोजने / 2275 / परिनिविभ्यः सेवसितसयसिवुसहसुट्स्तुस्वञ्जाम् / (8-3-70) परिनिविभ्यः परेषामेषां सस्य प: स्यात् / निषेधति / 2276 / प्राक्सितादड्व्यवायेऽपि / (8-3-63) -सेवसित-' (2275) इत्यत्र सितशब्दात्याक ये सुनोत्यादयस्तेपामड़व्यवायेऽपि पत्वं स्यात् / न्यषेधत् न्यषेधीत् / न्यपेधिष्यत् / / 2277 / स्थादिष्वभ्यासेन चाभ्यासस्य। (8-3-64) प्राक्सितात्स्थादिष्वभ्यासेन व्यवायेऽपि पत्वं स्यात् / एपामेवचाभ्यासस्य न तु सुनोत्यादीनाम् / निषिषेध / निषिषिधतुः / द्वन्द्वात्सप्तमीद्विवचनम् / एतयोरिति // आलम्बनाविदूर्ययोरर्थयोर्विद्यमानस्य अवात्परस्य स्तन्भेरियन्वयः / अपूर्वविधिरयम् / इणः परत्वाभावादप्राप्तेः / आलम्बने यथा / यष्टिमवटभ्य तिष्ठतीति / आश्रित्येत्यर्थः / आविर्य सामीप्यम् / अवष्टब्धा गौः / निरुद्धा सती समापे आस्त इत्यर्थः / वेश्चेति // अवादित्यनुकर्षणार्थश्वकारः / तदाह / व्यवाभ्यामिति // विष्वणति। अवष्वणति / सशब्दम्भुङ्क्ते इत्यर्थः। अट् कुप्वाडिति णत्वम्। परिनिविभ्य इति // सेवेत्यकार उच्चारणार्थः / षेत्र सेवायामितिधातोर्ग्रहणम् / परिपेवते / निषेवते / विषेवते / सितेत्यनेन षिञ् बन्धन इति क्तान्तस्य ग्रहणम् / अस्यैव धातोः एरजन्तो वा पचाद्यजन्तो वा सयशब्दः / विषितः विषयः। षिवु तन्तुसन्ताने परिषीव्यति / पह मर्षणे परिपहते। मुडागमः। परिकरोति / स्तुस्वोरुपसर्गात मुनोतीत्येव सिद्धे सिवादीनां वेति विकल्पार्थम्पुनर्वचनम् / प्राक्सितादिति // सुनोत्यादय इति // उपसर्गात्मुनोतीत्यादिसूत्रोपात्ता इति शेषः / तेषामिति // पञ्चदशानामित्यर्थः / न्यषेधदिति // अकारेण व्यवहितत्वादिणः परत्वाभावादप्राप्तौ वचनम् / अभ्यषुणोदित्यप्युदाहार्यम् / स्थादिष्विति // अभ्यासेनेति तृतीयान्तम् प्रासितादित्यनुवर्तते / तदाह। प्राक्सितादिति // उपसर्गात्सुनोतीति सूबे स्थाधातुमारभ्य परिनिविभ्यःसेवसितेयत्र सितशब्दात्प्राक ये धातव उपात्ताः तेषु दशस्वित्यर्थः / निपिपेथेत्यादौ अभ्यासात्परस्य सस्य अभ्यासव्यवहितत्वेन उपसर्गात्परत्वाभावादप्राप्तौ वचनम् / ननु निषिषेधेत्यादौ अभ्यासस्थसकारस्य उपसर्गात्सुनोतीत्यनेनैव सिद्धत्वादभ्यासस्येति व्यर्थमित्याशङ्कय नियमार्थमित्याह / एषामेवेति // यद्यभ्यासस्थसकारस्य चेत् षत्वं तर्हि स्थादिदशानामेवेत्यर्थः / एवञ्च षू प्रेरणे अभिसुसूषति। अत्राभ्यासस्य न पत्वम् / अभ्यासात्परस्य तु सस्थ For Private And Personal Use Only
Page #61
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा 59 2278 / सेधतेर्गतौ / (8-3-113) गत्यर्थस्य सेधते: न पत्वं स्यात् / गङ्गां विसेधति / ‘षिधू 48 शास्त्रे माङ्गल्ये च' / शास्त्रं शासनम् / 2279 / स्वरतिसूतिसूयतिधूजूदितो वा / (7.2-44) स्वरत्यादेरूदितच परस्य वलादेरार्धधातुकस्येड़ा स्यात् / 2280 / झषस्तथो?ऽधः / (8-2.40) झपः परयोस्तथोर्धः स्यान्न तु दधातेः / जश्त्वम / सिषेद्ध-सिषेधिथ / सेद्धा-सेधिता / सेत्स्यति-सेधिष्यति / असैत्सीत / स्तौतिण्योरेवेति नियमानषत्वम / सेधतेरिति / नषत्वमिति // नरपरेत्यतो नेत्यनुवृत्तेरिति भावः / गङ्गां विसेधतीति // गच्छतीत्यर्थः / इह उपसर्गात्सुनोतीति षत्वन्न भवति / अनन्तरस्येति न्यायेन उपसर्गात्सुनोतीत्यस्यैवायनिषेधः / नत्वादेशप्रत्यययोरित्यस्यापि / तेन सिषेधेल्यादी आदेशप्रत्यययोरिति षत्वम्भवत्येव / षिधू इति // ननु वाक्यसङ्घविशेषात्मकस्य शास्त्रस्य अक्रियारूपत्वात्कथं धात्वर्थत्वमित्यत आह / शास्त्रं शासनमिति // माङ्गल्यन्तु शुभकर्म / पिधगत्यामितिवदस्यापि रूपाणि / नत्र वलादावार्धधातुके निलमिटि प्राप्ते। स्वरतीति॥ आर्धधातुकस्येलादेरियनुवर्तते / स्वरति यूनि सूयति धूञ् ऊदित् एषां समाहारद्वन्द्वात्पञ्चम्येकवचनम् / फलितमाह / स्वरत्यादरिति ॥स्वरतीति स्चूधातोः शपा निर्देशः। सूतीति सूयती. ति च लुम्विकरणस्य श्यन्विकरणस्यच सूधातोनिर्देशः / एवञ्च पू प्रेरण इति तौदादिकस्य न ग्रहणम् ।धून् कम्पने। स्वादिः ऋयादिश्च। अकारानुबन्धनिर्देशात / धू विधूनन इत्यस्य न ग्रहणम्। इट्सनिवेत्यतो वेत्यनुवर्तमाने वा ग्रहणं लिसिचारात्मनेपदेष्विति विकल्पनिवृत्यर्थमिति भाष्यम्। एवञ्च बलि इडभावपक्षे द्वित्वादी मिसेध् थ इति स्थिते / झषस्तथोरिति // झष इति पञ्चमी / नश्च थचेनि द्वन्दुः / नकारादकार उच्चारणार्थः / तकारथकारयोरिति लभ्यते। धः इति प्रथमैकवचनम् / अकार उभारणार्थः / धकार इति लभ्यते / अध इति षष्टयन्तम / धाधातुभिन्नस्यति लभ्यते / तदाह / झपः परयोरिति / जश्त्वमिति // सिसेध ध इति स्थिते झलाजश झानि प्रथमधकारस्य दकारे सिषेद्धति रूपमित्यर्थः / सिषिधिय सिषिध्व सिषिधिम सिषिध्म / क्रादिनियमस्तु नेडीति प्रक्रमान्न प्रापितस्यैवाभावस्य निवर्तकः / नतु विभाषादिप्रापितस्यापि / अनन्तरस्येति न्यायात् / इट्पक्षे आह / सिषधिथेति / सेद्धति // लुट् तास् इडभावः डा टिलोपः गुणः धत्वं / सेद्धारी सेद्धार इत्यादि / सेधितेति // इट्पक्ष रूपम् / सेत्स्यति सेधिष्यतीति / लटि स्यः इडिकल्पः। असौत्सीदिति ॥लुङस्तिप इकारलोप: फिल: सिच् इडभावः अस्तिमिच इति ईट बदबजेति वृद्धिः धकारस्य चर्वम् / असैध स् तामिति स्थिते। अपृक्त For Private And Personal Use Only
Page #62
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदीसहिता [भ्वादि 2281 / झलो झलि / (8.2-26) झल: परस्य सस्य लोप: स्याज्झलि / असैद्धाम् / असैत्सुः / असैत्सीः / असैद्धम् / असैद्ध / असैत्सम् / असैत्स्व / असैत्स्म / पक्षे असेधीत् / असेधिटामित्यादि / 'खाह 49 भक्षणे'। ऋकार इत् / खादति / चखाद / ‘खद 50 स्थैर्ये हिंसायां च' / चाद्भक्षणे / स्थैर्येऽकर्मकः / खदति / 2282 / अत उपधायाः। (7-2-116) उपधाया अतो वृद्धि: स्यात् अिति णिति च प्रत्यये परे / चखाद / 2283 / णलुत्तमो वा / (7-1-91) उत्तमो णल्वा णित्स्यात् / चखाद-चखद / 2284 / अतो हलादेर्लघोः / (7-2-7) हलादेर्लघोरकारस्येडादौ परस्मैपदे परे सिचि वृद्धिर्वा स्यात् / अखादीत्अखदीत् / 'बद 51 स्थैर्ये' / पवर्गीयादिः / बदति / बबाद / बेदतुः / बेदिथ। त्वाभावादीडभावादिडभावाच, इट ईटीति सिचो लोपे अप्राप्ते। झलोझलीति // झल इति पञ्चमी। संयोगान्तस्यत्यतो लोप इति, रात्सस्येत्यतः सस्येतिचानुवर्तते। तदाह / झलः परस्य सस्य लोपः स्यादिति। असैद्धामिति // असैध् म् तामिति स्थिते सलोपे धत्वे जश्त्वे च रूपम् / पक्ष इति // इट्पक्षे इत्यर्थः / असेधीदिति // इट ईटीति सलोपः / नेटीति वृद्धिप्रतिषेधः। लधूपधगुणः। खादृ इति // अत्र ऋदित्वन्नाग्लोपीत्याद्यर्थमित्यभिप्रेत्याह / ऋकार इदिति // खदेति // स्थैर्यम् स्थिरीभवनम् / णलि अजन्तत्वाभावादचोञ् णितीति वृद्धेरप्राप्तौ / अत उपधायाः इति / वृद्धिः स्यादिति // मृजेर्वृद्धिरित्यतः तदनुवृत्तेरिति भावः / निति णिति चेति // अचोणितीत्यतः तदनुवृत्तेरिति भावः / चखादेति // एत्वाभ्यासलोपौ तु नात्र भवतः / पित्वे अकित्त्वात् आदेशादित्वात् तदपेक्षया वृद्धेः परत्वाच्च / णलुत्तम इति। णित् स्यादिति // गोतोणदित्यतस्तदनुवृत्तेरिति भावः। चखाद चखदेति // णित्त्वे उपधावृद्धिः। तदभावे न / अतो हलादेरिति // सिचि वृद्धिः परस्मैपदेवित्यनुवर्तते / नेटीत्यस्मादिटीति ऊर्णोतेर्विभाषेत्यतो विभाषेति च। तदाह / हलादेरिति // हलाद्यङ्गावयवस्येत्यर्थः / आदिग्रहणं स्पष्टार्थम् / हल: परस्येत्येव सिद्धेः / अखादीदखदीत् इति // वृद्धौ तदभावे च इटईटीति सिल्लोपः / अखादिष्टामखदिष्टामित्यादि / बदेति // स्थैर्यम् स्थिरीभवनम् / पवर्गीयादिरिति // पवर्गतृतीयादिरित्यर्थः / नतु दंत्योष्ठयादिरिति भावः / बवादेति // अत उपाधाया इति वृद्धिः / बेदतुरिति // अभ्यासजश्त्वेन आदेशादित्वेऽपि जश्त्वस्य वैरूप्यापादकत्वाभावादेत्वाभ्यासलोपाविति भावः / बबादेत्यत्र तु For Private And Personal Use Only
Page #63
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा बबाद-बबद / अबादीत्--अबदीत् / 'गद 52 व्यक्तायां वाचि' ।गदति। 2285 / नेर्गदनदपतपदघुमास्यतिहन्तियातिवातिद्रातिप्सातिव पतिवहतिशाम्यतिचिनोतिदेग्धिषु च / (8-4-17) उपसर्गस्थान्निमित्तात्परस्य नेणः स्याद्गदादिषु / प्रणिगदति / जगाद / ‘रद 53 विलेखने' / विलेखनं भेदनम् / रराद / रेदतुः। ' णद 54 अव्यक्ते शब्दे / 2286 / णो नः / (6-1.65) ___ धातोरादेर्णस्य न: स्यात् / नदति / णोपदेशास्त्वनीटिनानाध्नन्द्रकननृतः / नाटेदर्दीर्घार्हस्य पर्युदासावटादिर्णोपदेश एव / तवर्गचतुर्थान्तनाधतेनूनन्योश्च केचिण्णोपदेशतामाहुः / पित्वेन कित्वाभावादेत्वाभ्यासलोपो न / बेदिथेति // अकित्वेऽपि थलिचसेटीत्येत्वाभ्यासलोपौ। बेदथुः / वेद / अथ उत्तमपुरुषणलि णलुत्तमोवेति णित्वविकल्पादुपधावृद्धिविकल्प इत्याह / बबाद बवदेति // बेदिव बेदिम / अबादीत् अबदीत् इति / अतो हलादेरिति वृद्धिविकल्पः / गदेति // व्यक्तवाक् मनुष्यकृतशब्दप्रयोगः / जगादेति // चुत्वजश्त्वे / उपधावृद्धिः। वैरूप्यापादकादेशादित्वादेत्वाभ्यासलोपौ न। जगदतुः जगदुरित्यादि / नेर्गदेति // रषाभ्यां नोण इत्यनुवर्तते। उपसर्गादसमासेऽपीत्यत उपसर्गादिति च। तच्च उपसर्गस्थे लाक्षणिकम्। तदाह / उपसर्गस्थादिति // रितपा शपाच निर्देशाः यङ् लुग्निवृत्यर्थाः / प्रणिगदतीति // भिन्नपदस्थत्वादप्राप्ता वचनम् / रदेति // णलि उपधावृद्धिमभिप्रेत्याह। ररादेति // रेदतुरियादि। अरादीत् / अरदीत्। णदेति ॥अव्यक्तशब्दः अमनुष्यपशुपक्ष्यादिकृतशब्दप्रयोगः। णोन इति // णइति षष्टयन्तम् / धात्वादेः षस्स इत्यतोऽनुवर्तनादाह / धातोरादेरिति // तेन अणतीत्यादी ननत्वम् / नस्स्यादिति // नकारः स्यादित्यर्थः / नदतीति // मेघादिरिति शेषः। णोन इति नत्वस्यानमित्तकतया लिणिमित्तादेशादित्वाभावादेत्वाभ्यासलोपी स्तएव / ननाद नेदतुरित्यादि / अथ नृत्नईनन्दनक्कनाट्नाथूनाधृनृवर्जम् णोपदेशा इति भाष्यं श्लोकार्धेन सङ्ग्रण्हाति / णोपदेशास्त्विति // नर्दशब्दे / नट अवस्पन्दने चुरादिः / नाथू ना यानादौ / द्वितीयचतुर्थान्तौ / टुनदि समृद्धौ / नक्क नाशने नृ नये / नृती गात्रविक्षेपे / एभ्योऽष्टभ्योऽ न्ये णकारादिधातवः इदानी नकारादित्वेन दृश्यमाना अपि नत्वसम्पन्ननकारादितया णोपदेशाः प्रत्येतव्या इत्यर्थः / नाटीतिण्यन्तस्य प्रयोजनमाह / नाटेरि ति // घटादिरिति // नट नृत्ताविति घटादिपठित इत्यर्थः / तत्फलं घटादौ वक्ष्यते / मतान्तरमाह। तवर्गेति // तवर्गचतुर्थान्तनाधधातोः नृनन्द्योश्च णोपदेशेषु पर्युदासाभावमङ्गीकृत्य तेषामपि णोपदेशत्वमाहुरित्यर्थः / अत्र मते पञ्चभ्यो भिन्ना णोपदेशा इति फलितम् / भाष्यविरोधोऽत्रारुचिबीजम् / ननु For Private And Personal Use Only
Page #64
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदीसहिता [भ्वादि 2287 / उपसर्गादसमासेऽपि णोपदेशस्य / (8-4-14) उपसर्गस्थानिमित्तात्परस्य णोपदेशस्य धातोर्नस्य णः स्यात्समासेऽसमासेऽपि / प्रणदति / प्रणिनदति / 'अर्द 55 गतौ याचने च' ‘अत आदेः' 2248 / 2288 / तस्मान्नुड्डिहलः / (7-4-71) द्विहलो धातोर्दी/भूतादकारात्परस्य नुट् स्यात् / आनद / आर्दीत / 'नर्द 56 गर्द 57 शब्दे' / णोपदेशत्वाभावान्न णः / प्रनर्दति / गर्दति / जगर्द / 'तर्द 58 हिंसायाम्' / तर्दति / 'कर्द 59 कुत्सिते शब्दे' / कुत्सिते कोझे कर्दति। खर्द 60 दन्द शूके' / दंशनहिंसादिरूपायां दन्दशकक्रियायामित्यर्थः / खर्दति / चखई / * अति 61 अदि 62 बन्धने'। अन्तति / आनन्त / अन्दति / आनन्द / इदि 63 परमैश्वर्य' / इन्दति / इन्दाञ्चकार / विदि 64 अवयवे' / पवर्गतृतीयादिः / बिन्दति / अवयवं करोतीत्यर्थः / ‘भिदि' इति णकारमुपदिश्य तस्य किमर्थं नकारो विधीयते / नकारएवोपदिश्यतामित्याशङ्कय तत्प्रयोजनमाह / उपसर्गादिति // रपाभ्यां नोण इत्यधिकृतम् / तदाह / उपसर्गस्थादिति // समासेऽङ्गुले: सङ्ग इत्यतः समास इत्यनुवृत्तेरसमासे नस्यादित्यसमासग्रहणम / तथा सति प्रणाम इत्यादी समासे नस्यादिल्यपिग्रहणम् / तदाह / समासे असमासेऽपीति // णस्योपदेशो यस्मिन्निति विग्रहः / प्रणदतीति // भिनपदत्वादप्राप्तिः / प्रणिनदतीति // नेर्गदति णत्वम / नचात्र उपसर्गादसमास इति धातुनकारस्य णत्वं शयम / अट कुप्वाइभिन्न व्यवधानात / अर्देति // उपधायाञ्चेत्यत्र इक इत्युपस्थानात अर्दीत्यादौ न दीर्घः / लिटि गलि द्वित्वे हलादि शेषे अतआदेरित्यभ्यासाकारस्य दीर्घ आ अर्देनिस्थिते / तस्मान्गुडिति // द्वौ हलौ यस्य तस्येति विग्रहः। तच्छब्देन अत आदेरिति कृतदीर्घः परामृश्यते / तदाह। दीर्घाभूतादिति // टकार इत् / उकार उच्चारणार्थः / टित्वादाद्यवयवः / तदाह / आनर्देति // आदीदिति // इटाईटि इति सिजलोपः / नर्देत्यादि स्पष्टम् / कर्दति // कुटियनशब्देन कुगिनविशेषो निवक्षित इत्याह / कुत्सिते कौक्ष इति // कुक्षिभवे इत्यर्थः / सति // दन्दशक: दंशनम्वभावस्सर्पः / दन्दशुको बिलेशय इत्यमरः / ननु सर्पस्य क्रियान्वाभाबान कथन्धात्वर्थत्वमिन्यत आह / दंशनेति / अतिअदीति // इदित्वान्नुम् / तदाह / अन्ततीति / आनन्लेनि // अत आदेरिति दीर्घः / तस्मान्नुविहल इति नुट् / एवमन्दति। आनन्देति // आन्दीत / इदीति // परमैश्वर्यम् परमेश्वरीभवनम् / इन्दतीति // इदित्वान्नुम / इन्दांचकारेति // इजादे. थेत्याम् / बिदीति // इदित्वान्नुमित्याह / विन्दतीति // नन्ववयवस्य अक्रियारूपत्वात कथन्धात्वर्थत्वमित्यत आह / अवयवंकरोतीत्यर्थ इति // अबिन्दीत अविन्दिष्टामित्यादि / For Private And Personal Use Only
Page #65
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम बालमनोरमा पाठान्तरम / गडि 65 वदनैकदेशे' गण्डति / 'अन्तत्यादयः पञ्चैते न तिकिपया' इति काश्यपः / अन्ये तु तिङमपीच्छन्ति / णिदि 66 कुत्सायाम्'। निन्दति / प्रणिन्दति / टुनदि 67 समृद्धौ'। 2289 / आदिब्रिटुडवः / (1-3-5) ___ उपदेश धातोराद्या एते इतः स्युः / नन्दति / इदित्त्वान्नलोपो न / नन्द्यात् / 'चदि 68 आह्लादे' चन्दति / चचन्द / 'दि 69 चेष्टायाम' बन्दति / तत्रन्द / * कदि 70 ऋदि 71 क्लदि 72 आह्वाने रोदने च। चकन्द / चक्रन्द / चक्लन्द / ‘क्लिदि 73 परिदेवने' / चिक्लिन्द / * शुन्ध 74 शुद्धौ' शुन्धति / शुशुन्ध / नलोपः / शुध्यात् / ___ अथ कवर्गीयान्ता अनुदात्ततो द्विचत्वारिंशत् / “शीकृ 75 सेचने' / तालव्यादिः / * दन्त्यादिः' इत्येके / शीकते / शिशीके / * लोक 76 दर्शने'। लोकते / लुलोके / ' श्लोक 77 संघाते' / संघातो ग्रन्थः / स चेह प्रथ्यमापाठान्तरमिति // पवर्गीयचतुर्थादिरित्यर्थः / गडीति / वदनैकदेश इति // तक्रियायागित्यर्थः / गण्डति अगण्डात् / अन्तत्यादय इति // अति अदि बन्धने / इदि परमैश्वर्ये / विदि अवयव / गडि बदनैकदेशे / इति पञ्च धातवः तिप्रकृतयो न भवन्तीति काश्यपमतमित्यर्थः / अन्य इति // काश्यपादन्ये मुनयः तिमपि एभ्य इच्छन्तीत्यर्थः / णिदीति // इदित्वान्नुम् / णोपदेशत्वात् णस्य नत्वम् / तदाह / निन्दतीति / प्रणिन्दतीति // उपसगादसमारोऽपति ण वम / टुनदीति // समृद्धिः प्रजापश्वादिसम्पत्तिः। आदिरिति // भवादयो धातव इत्यस्मात धातव इत्यनुवृत्तं षष्टया विपरिणम्यते। उपदेशेऽजनुनासिक इत्यस्मात उपदेश इति इदिति चानुवर्तते। आदिरिति इदिति च बहुत्वे एकवचनम् / तदाह / उपदेश इति // द्वित्करणं द्वितोऽथुजित्येतदर्थम् / नन्दतीति // इदित्वान्नुम् / इदित्वादिति // आऑलिंङि यासुटः कित्वेऽपि इदित्वात् अनिदितामिति नलोपो नेत्यर्थः / नन्द्यादिति // अन्त्यादन्द्यादित्यस्याप्युपलक्षणम / चदीति॥इदित्वान्नुमिल्याह। चन्दतीति / नदी. ति // अदुपयोऽयम् / इदित्वान्नुमित्याह / बन्दतीति // ऋदिक्लदीति // अदु. पधौ / क्लिदिपरिदेवन इति // अनुदात्तेत्सु पठितस्येह पाठः परस्मैपदार्थः / शुन्धशुद्धाविति // अकर्मकोऽयम् / शुन्धतीति // शुचिर्भवतीत्यर्थः / ननु शुधीयेवमिदिदेवायं कुतो न पठित इत्याह / नलोप इति // आशीलिडि अनिदितामिति नलोपे शुद्ध्यादिति रूपमिष्टम् / इदित्वेतु नलोपो न स्यादिति भावः / अथ कवर्गीयान्ता इत्यादि लोक इत्यन्तं स्पष्टम् / श्लोक इति // सङ्घातशब्दं व्याचष्टे। ग्रन्थ इति // ननु वाक्यसमुदायात्मकस्य ग्रन्थस्य अक्रियात्वात कथन्धात्वर्थत्वमित्याशङ्कयाह / स चेहेति // ग्रन्थनङ्ग्रन्थः सङ्घीभावः सवीकरणं वा / तत्र सङ्घीभवनं सङ्घनिष्टम्। सङ्घीकरणन्तु सङ्घीकर्तृनिष्टम्। तत्र सङ्घीभवनार्थकत्वे HTHHTHHTHHI For Private And Personal Use Only
Page #66
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदीसहिता [भ्वादि नस्य व्यापारो ग्रन्थितुर्वा / आद्येऽकर्मको द्वितीये सकर्मकः / श्लोकते / 'द्रेक 78 ब्रेक 79 शब्दनोत्साहयोः' / उत्साहो वृद्धिरौद्धत्यं च / एचइग्घ्रस्वादेशे इति ह्रस्वः / दिद्रेके / दिधेके / रेक 80 शङ्कायाम्' / रेकते / * सेक 81 स्रेक 82 स्रकि 83 कि 84 श्लकि 85 गतौ' / त्रयो दन्त्यादयः / द्वौ तालव्यादी / अषोपदेशत्वान्न षः / सिसेके / ‘शकि 86 शङ्कायाम्'। शङ्कते / शशङ्के / 'अकि 87 लक्षणे' / अङ्कते / आनके / ‘वकि 88 कौटिल्ये' / वङ्कते ‘मकि 89 मण्डने'। मङ्कते। 'कक 90 लौल्ये' लौल्यं गर्वश्चापल्यं च / ककते / चकके / 'कुक 91 वृक 92 आदाने' कोकते / चुकुके / वर्कते। ववृके / ऋदुपधेभ्यो लिटः कित्त्वं गुणात्पूर्वविप्रतिषेधेन / 'चक 93 तृप्तौ प्रतिघाते च' / चकते / चेके / 'ककि 94 वकि 95 श्वकि 96 त्रकि 97 ढौक 98 त्रौक 99 ष्वक 100 वस्क 101 मस्क अकर्मकः / सङ्घीकरणार्थत्वे सकर्मक इत्यर्थः / श्लोकत इति // सङ्घीभवतीत्यर्थः / सङ्घीकरोतीति वा। द्रेकृ धेकृ इति // शब्दनम् शब्दः / एच इति // लिट एशि च द्वित्वे हलादिशेषे देद्रेक ए इति स्थिते अभ्यासे एकारस्य हखो भवन् एच इग्घ्रस्वादेश इति इकारो भवतीत्यर्थः / दिभ्रेके इति // अभ्यासे धकारस्य जश्त्वेन दकारः / एकारस्य तु ह्रस्व इकारः / रेक इति ॥शङ्का संशयः आक्षेपोवा / शीक सेचन इत्यारभ्य एतत्पर्यन्ता ऋदितः। सेक इति // आद्यौ एकारमध्यौ ऋदिती। इतरे त्रयः अदुपधाः इदितः / त्रय इति॥ पञ्चसु आद्यास्त्रय इत्यर्थः / अषोपदेशत्वादिति // सेकृधातोः पर्युदासान्नषोपदेशत्वम् / द्वितीयतृतीययोस्तु दंत्याच्परकसादित्वाभावान्न षोपदेशत्वम् / ततश्च सकारस्यादेशसकारत्वाभावान्न षत्वमिति भावः / एच इग्नस्वादेश इत्यभिप्रेत्याह / सिसेक इत्यादि // सिस्रङ्के इत्यादाविदित्वान्नुम् / शकीति / इदित्वान्नुमित्याह / शंकत इति / शशंक इति / अकीति // लक्षणचिह्नीकरणम् / अंकत इति॥इदित्वान्नुम् / आनंक इति ॥तस्मान्नुविहल इति नुट् / वकि कौटिल्ये इत्यादि स्पष्टम् / कुकवृकेति // द्वितीयः ऋदुपधः / शपि लघूपधगुणं मत्वा आह। कोकत इति / चुकुक इति // असंयोगादिति कित्वात् न लघूपधगुणः / अभ्यासे चुत्वम्। लघूपधगुणेरपरत्वं मत्वाऽऽह / वर्कत इति // लिटि असंयोगादिति कित्वान्न गुण इति मत्वाऽऽह। ववृके इति // उरदत्वं हलादिश्शेषः / ननु कित्वात् परत्वात् गुण: स्यात् / कृते गुणे रपरत्वे संयोगात्परत्वेन कित्वस्याप्रवृत्या अनित्यत्वादित्यत आह / ऋदुपधेभ्यो लिटः कित्वं गुणात् पूर्वविप्रतिषेधेनेति। चकेति // तृप्तावकर्मकः। प्रतिघाते सकर्मकः / एत्वाभ्यासलोपौ मत्वाऽऽह / चेक इति / ककीति // एते पञ्चदश धातवः / आयाश्चत्वार इदितः / द्वितीयो वकारादिः / तृतीयस्तालव्यादिः / पञ्चमषष्ठी, दशमाद्याश्चत्वारश्च, ऋदितः / दशमद्वादशौ इदुपधौ। रघिलघी For Private And Personal Use Only
Page #67
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा 902 टिक 103 टीक 104 तिकृ 105 तीक 106 रघि 107 लघि 108 गत्यर्थाः' / कङ्कते / डुढौके / तुत्रौके / __सुब्धातुष्ठिवुष्वक्कतीनां सत्वप्रतिषेधो वक्तव्यः। ध्वक्कते / पष्वक्के / अत्र तृतीयो दन्त्यादिः' इत्येके / टेकते / टीकते / एवं, तेकते / तीकते / लघि जननिवृत्तावपि / 'अघि 109 वधि 110 मधि 111 गत्याक्षेपे'। आक्षेपो निन्दा / 'गतौ गत्यारम्भे च' इत्यन्ये / अङ्घते / आनके / वङ्घते / मञ्जते / ‘मघि' कैतवे च / ‘राघ 112 लाघ 113 द्रा 114 सामथ्र्ये' / राघते / लाघते / 'ध्रा' इत्यपि केचित् / ' द्राघृ' आयामे च / आयामो दैर्घ्यम् / द्राघते / ‘श्लाघ 115 कत्थने' / श्लाघते। अथ परस्मैपदिनः पञ्चाशत् / ‘फक्क 116 नीचैर्गतौ' नीचैर्गतिर्मन्दगमनमसद्वयवहारश्च / फक्कति / पफक्क / ‘तक 117 हसने' / तकति / 'तकि 118 कृच्छ्रजीवने'। तङ्कति / 'बुक 119 भषणे' / भपणं श्वरवः / बुक्कति / कख 120 हसने' / प्रनिकखति / ‘ओख 121 राख 122 लाख 123 द्राख 124 धाख 125 शोषणालमर्थयोः' / ओखति / ओखांचकार / 'शाख 126 लाख 127 व्याप्तौ' / शाखति / ' उख 128 उखि 129 वख इदितौ चतुर्थान्तौ / कङ्कत इत्यादाविदित्वान्नुम् / डुढौके, तुत्रौक इति // अभ्यासे ढस्य जश्त्वेन डकारः / ओकारस्य ह्रस्व उकारः / अथ ध्वक्कधातोः षोपदेशपरिगणनात् धात्वादेरिति सत्वे प्राप्त आह। सुब्धात्विति / षष्वक्के इति // संयुक्तहल्मध्यस्थत्वादेत्वाभ्यासलोपौ न / संयोगात्परत्वेन लिट: कित्वाभावाच्च / तृतीय इति // तथा च स्वक्कत इति रूपम् / केवलदन्त्यपरकसादित्वाभावेन षोपदेशत्वाभावः। टेकते इति // लघूपधगुणः / टीकत इति॥ दीर्घोपधत्वान्न गुणः / एवन्तेकते, तीकत इति // रङ्घते, लङ्घते। इदित्वान्नुम् / लधि - जननिवृत्तावपीति // लङ्घते न भुङ्क्त इत्यर्थः / अघीति // त्रयोऽपि चतुर्थान्ता इदितः / आनंघ इति // तस्मान्नुविहल इति नुट् / वंघत इति // इदित्त्वान्नुम् / लिटि तु ववझे इति रूपम् / वादित्वात्संयुक्तहल्मध्यस्थत्वात्संयोगात्परत्वेन लिट: कित्वाभावाच एत्वाभ्यासलोपौ न / मघि कैतवेचेति // कतैवं वञ्चना / राघू इति // त्रयोऽपि इदितः / सामर्थ्य कार्यक्षमीभवनम्। ध्रा इत्यपीति // चतुर्थादिमपि केचित् पठन्तीत्यर्थः / द्रा इति // निवृत्तिः विमुवीभवनम् / आयामः दीर्घाभवनम् / श्ला कत्थन इति // कत्थनं स्तुतिः। शीकृ इत्यादयो द्विचत्वारिंशदात्मनेपदिनो गताः / फकाचरित्यादि स्पष्टम् / प्रनिकखतीति // शेषे वि. भाषेत्यत्र अकखादाविति पर्युदासान्नेर्णत्वं नेति भावः। ओखु इति // अलमर्थः भूषणक्रिया, पर्याप्तिः, वारणं वा। ओखति / ओखाञ्चकार / शाखुश्लाख इति // श्लाघ इति चतुर्थान्त आ For Private And Personal Use Only
Page #68
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदीसहिता [भ्वादि 13. वखि 131 मख 132 मखि 133 णख 134 णखि 135 रख 136 रखि 137 लख 138 लखि 139 इख 140 इखि 141 ईखि 142 वा 143 रगि 144 लगि 145 अगि 146 वगि 147 मगि 148 तगि 149 त्वगि 1.0 श्रगि 151 श्लगि 152 इगि 153 रिगि 154 लिगि 255 गत्यर्थाः' / कवर्गद्वितीयान्ताः पञ्चदश / तृतीयान्तास्त्रयोदश / इह खान्तेषु 'रिख' त्रिख' 'त्रिखि' : शिखि, इत्यपि चतुरः केचित्पठन्ति ओखति / 2290 / अभ्यासस्यासवणे / (6-4-78) / इवर्णोवर्णान्तस्य अभ्यासस्येयङवङौ स्तोऽसवर्णेऽचि / उवोख / संनिपातपरिभाषया ' इजादे:-' (2237) इत्याम्न / ऊखतुः / ऊखुः / इह सवर्णदीर्घस्याभ्यासग्रहणेन ग्रहणाद्भस्वः प्राप्तो न भवति। सकृत्प्रवृत्तत्वात् / आङ्गत्वाद्धिपर्जन्यवल्लक्षणप्रवृत्या ह्रस्वे कृते ततो दीर्घः / त्मनेपदिषु गतः। उख उखीति / पञ्चदशेति // ईखि इत्यन्ता इति शेषः / त्रयोदशेति॥ वल्गादय इति शेषः / तत्र इदित्वान्नुम् / आशीलिडि नलोपाभावश्च / पठन्तीति // तेषां मते खान्ता एकोनविंशतिरिति बोध्यम् / ओखतीति // शपि लघूपधगुणः / लिटि णल: पित्वेन कित्वाभावात् प्राप्तस्यापि लघूपधगुणस्य द्विवचनेऽचीति निषिद्धतया गुरुमत्वाभावादामभावे सति पूर्वन्द्वित्वे कृते हलादिः शेषे पश्चात् वार्णादाङ्गम्बलीय इति परिभाषया अन्तरङ्गमपि सवर्णदीर्घम्बाधित्वा लघूपधगुणे कृते उ ओख अ इति स्थिते, उवर्णस्य यणि प्राप्ते / अभ्यासस्येति // अचि इनुधात्वित्यतः अचीति, य्वोरियडुवङाविति चानुवर्तते / इश्च उश्च य्वौ तयोरिति विग्रहः / अभ्यासविशेषणमिदं तदन्तविधिः। तदाह / ' इवर्णोवर्णान्तस्येति // डित्वादन्तादेशौ / उवोखेति // अचिरनुधात्वित्यस्यतु नात्र प्राप्तिः / अजादौ प्रत्यये परत एव तत्प्रवृत्तेः / अभ्यासस्य अङ्गत्वाभावाच्च / ननु द्वित्वे कृते लघूपधगुणे सति इजादिगुरुमत्त्वादाम् स्यादित्यत आह / सन्निपातेति // णलि परे विहितगुणसम्पन्नमिजादिगुरुमत्वमाश्रित्य प्रवृत्तमाम गुणो न प्रवर्त्तयति / आमि सति धातोर्णल्परकत्वव्याघातादिति भावः। ऊखतुरिति // अपित्त्वेन कित्वात् लघूपधगुणाभावे द्वित्वे हलादिशेष सवर्णपरकत्वादभ्यासस्यासवर्ण इति इयङभावे सवर्णदी रूपमिति भावः / ननु ऊखतुरित्यत्र ऊकारस्य सवर्णदीर्घसम्पन्नस्य एकादेशतया पूर्वान्तत्वेनाभ्याससम्बन्धित्वात् ह्रस्व इत्यभ्यासस्याचो विधीयमानो इस्वः प्राप्नोतीत्याशङ्कते / इह सवर्णदीर्घस्य अभ्यासग्रहणेन ग्रहणाद्रस्वः प्राप्त इति // अथ परिहरति / न भवतीति // कुत इत्यत आह / सकृत्प्रवृत्तत्वादिति // तदेवोपपादयति / आंगत्वादिति // उ उखतुरिति स्थिते पर्जन्यवलक्षणप्रवृत्या अभ्यासहस्वे सवर्णदीर्घ ऊखतुरिति स्थितिः / तत्र ऊकारस्य पुनरभ्यासहस्वो न भवति / लक्ष्ये लक्षणस्य सकृदेव प्रवृत्तिरिति न्यायादित्यर्थः / हलादिशेषे ह्रस्वे च कृते पश्चात्प्रवर्तमानस्य For Private And Personal Use Only
Page #69
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Achar www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा * वार्णादाङ्गं बलीयः इति न्यायात्परत्वाच्च / उङ्घति / ववाख / ववखतुः / वङ्खति / मेखतुः / मङ्खति / ममङ्ख / नखति / नङ्खति / रखति / रेखतुः / रङ्खति / एखति / इति / ईति / वल्गति / रङ्गति / लङ्गति / अङ्गति / वङ्गति / मङ्गति / तङ्गति / त्वङ्गति / श्रङ्गति / नङ्गति / इङ्गति / रिङ्गति / लिङ्गति। रेखति / वखति / त्रिवति / शिवति / * त्वगि' कम्पने च / 'युगि 156 जुगि 157 बुगि 158 वर्जने' / युङ्गति / 'घघ 159 हसने' / घघति / जघाघ / 'मघि 16. मण्डने' / मङ्घति / शिघि 161 आघ्राणे' / शिवति / ___ अथ चवर्गीयान्ताः / तत्रानुदात्तेत एकविंशतिः / / 'वर्च 162 दीप्तौ' / वर्चते / ‘पच 163 सेचने, सेवने च' / सचते / सेचे / सचिता / 'लोचू 164 सवर्णदीर्घस्य पूर्वम्पूर्वमन्तरङ्गम्परम्परं बहिरङ्गमिति न्यायेन बहिरङ्गत्वादित्यलम् / उखतीति॥ इदित्वान्नुम / ववाखेति // वखधातोलि उपधावृद्धिः / ववखतुरिति // वादित्वादेत्वाभ्यासलोपो न / वंखतीति // वखिधातोरिदित्वान्नुम् / ववङ्ख / मेखतुरिति // एत्वाभ्यासलोपौ / मङ्खतीति // मखिधातोरिदित्वान्नुम् / ममंखेति // संयुक्तहरूमध्यस्थवादेत्वाभ्यासलोपौ न / नखति, नंखतीति // णोन इति नत्वम् / रखतीति // णलि तु उपधावृद्धिः / रराख अतुसादावेत्वाभ्यासलोपौ / रेखतुरित्यादि / रंखतीति // इदित्वान्नुम / ररङ्ख / एखतीति // इखधातोशपि लघूपधगुणः / इयेख / ईखतुः / इंखतीति / इदित्वान्नुम् / इवाञ्चकार / ईखतीति // अलघूपधत्वान्न गुणः / ईखांचकार / वल्गतीति // लिटि ववल्ग ववल्गतुः / रंगति, लंगतीति // ररङ्गतुः / अंगतीति // लिटि आनङ्ग / वंगतीति // लिटि ववङ्ग ववङ्गतुः / मंगतीति // लिटि ममङ्ग ममङ्गतुः / तंगतीति // लिटि, ततङ्ग, ततङ्गतुः / त्वंगतीति // लिटि तत्वङ्ग / तत्वङ्गतुः / श्रंगतीति / लिटि शश्रङ्ग / शङ्गतुः / लंगतीति // लिटि शश्लङ्ग शश्नङ्गतुः / इंगतीति // लिटि इशांचकार / रिंगतीति // लिटि रिरिङ्ग रिरिङ्गतुः / लिंगतीति // लिटि लिलिङ्ग लिलिङ्गतुः / अथ खान्तेषु रिखादिचतुर्णी मतान्तरसिद्धानामुदाहरणमाह / रेखतीति // शपि लघूपधगुणः। रिरेख रिरिखतुः। त्रखतीति // लिटि तत्राख तत्रखतुः / त्रिखतीति // लिटि तित्रिक तित्रिवतुः / शिंखतीति। लिटि शिशिङ्ख शिशिङ्खतुः / त्वगि कम्पने चेति // चागतौ / त्वङ्गति तत्वङ्ग / युगीति // त्रयोऽपि इदितः / युगति वुङ्गति जुङ्गति / घघ, हसने इति // घघति / णलि उपधावृद्धिः। जघाघ जघघतुः / लिण्णिमित्तादेशादित्वादेत्वाभ्यासलोपौ न / मधिमण्डन इति // इदित्वान्नुमित्याह / मंघतीति // ममङ्घ ममङ्कतुः / शिघि आघ्राण इति // शिवति शिशिङ्ख / फक्कादयः पञ्चाशद्गताः / वर्च दीप्ताविति // दीप्तिः प्रकाशः / षच, सेचन इति // अन्परकसादित्वात् षोपदेशोऽयम् / स्वरितेत्सु षच समवाय इति वक्ष्यते / सेच इति // सत्वस्य लिपिमित्तत्वाभावादादेशादित्वेऽपि एत्वाभ्यासलोपौ / दम्भः For Private And Personal Use Only
Page #70
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 68 सिद्धान्तकौमुदीसहिता [भ्वादि दर्शने' / लोचते / लुलोचे / 'शच 165 व्यक्तायां वाचि' शेचे / 'वच 166 श्वचि 167 गतौ' / श्वचते / श्वञ्चते / 'कच 168 बन्धने' / कचते / 'कचि 169 काचि 170 दीप्तिबन्धनयोः' / चकञ्च / चकाञ्चे / ‘मच 171 मुचि 172 कल्कने' कल्कनं दम्भः, शाठ्यं च / 'कथनम्' इत्यन्ये / मेचे। मुमुञ्चे। 'मचि 173 धारणोच्छ्रायपूजनेषु' / ममञ्चे / 'पचि 174 व्यक्तीकरणे' / पञ्चते / 'ष्टुच 175 प्रसादे' / स्तोचते / तुष्टुचे / 'ऋज 176 गतिस्थानार्जनोपार्जनेषु' / अर्जते / नुड्डिधौ ऋकारैकदेशो रेफो हल्त्वेन गृह्यते / तेन द्विहरूत्वान्नुट् / आनृजे / 'ऋजि 177 भृजी 178 भर्जने' / ऋञ्जते / ' उपसर्गादृति-' (74) इति वृद्धि: / प्रार्जते / ऋजांचक्रे / आजिष्ट / भर्जते / वभृजे / अर्जिष्ट / 'एज 179 भेज़ 180 भ्राज़ 181 दीप्तौ' / एजांचक्रे / 'ईज 182 गतिकुत्सनयोः' / ईजांचक्रे / शाठ्यंचेति // परविस्रम्भार्थन्धर्माद्याचरणण्डम्भः / कापट्यापरपर्यायः / ‘कपटोऽस्त्री व्याजदम्भोपधयः' इत्यमरः / शाठ्य कुटिलीभावः। 'निकृतस्त्वनृजु: शठः' इत्यमरः / पचि व्यक्तीकरण इति // पचि विस्तार इति चुरादौ वक्ष्यते / ष्टुच प्रसाद इति // तृत्वसम्पन्नः टकारः / ततश्च दन्त्यपरकसादित्वात् षोपदेशोऽयम् / स्तोचत इति // षस्य सत्वे सति ठुत्वं निवर्तत इति भावः / तुष्टचे इति // शपूर्वाः खय इति तकारशेषः / आदेशसकारत्वात् षत्वम् / ऋज गतीति // आर्जनम् सम्पादनम् / उपार्जनम् सेवनम् / अर्जत इति // शपि लघूपधगुणः / रपरत्वम् / नुविधाविति // वार्तिकमिदम् / आनृज इति // लिट: असंयोगादिति कित्वात् गुणाभावे द्वित्वे उरदत्वे रपरत्वे हलादिशेषे अत आदेरिति दीर्घ नुडिति भावः / ऋजिभृजी इति // ऋदुपधौ द्वौ। आद्यः इदित् / द्वितीयस्य ईदित्वात् वीदितोनिष्ठायामिति नेट् / इदित्वान्नुम् / अनुस्वारपरसवर्णों / ऋाञ्चक इति // नुमि सति संयोगे गुर्विति ऋकारस्य गुरुत्वादिजादेश्येत्याम् / ऋजिता। ऋजिष्यते / ऋञ्जताम् / आर्जत / ऋ त / ऋञ्जिषीष्ट / अथ लुङि रूपम् दर्शयति / आर्जिटेति // लुङः तादेशः / फिलः / सिच् / इट् / लघूपधत्वाभावात्र गुण: / आट / वृद्धिः / षत्वं / ठुत्वं / लुङि, आञ्जिष्यत / भर्जत इति // शपि लघूपधगुणः / रपरत्वम् बभृजे / भर्जिता / भर्जिष्यते / भर्जताम् / अभर्जत / भर्जेत / भर्जिषीष्ट / लुङि रूपमाह / अभार्जिटेति // लुङस्तादेशः चिल: सिच् इट् गुण: रपरत्वम् अडागमः षत्वं टुत्वं / लुङि अभर्जिष्यत / एजभ्रेजभ्राज इति // आद्ययोः ऋदित्वम् नाग्लोपीत्यर्थम् / तृतीयस्य तु अकारेत्कत्वेऽप्यात्मनेपदं सिध्यति / ऋदित्वस्य न किञ्चित्फलमस्ति / न च नाग्लोपीति चपरे णौ उपधास्वः फलम्भवितुमर्हति / भ्राजभासेत्यादिना तत्र उपधास्वविकल्पस्य वक्ष्यमाणत्वात् / ईजगतीति // अलघूपधत्वानगुणः / ईजते। ईजाञ्चक इति // इजादेश्चेत्याम् / HAHR For Private And Personal Use Only
Page #71
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा अथ द्विसप्ततिव्रज्यन्ता: परस्मैपदिनः / 'शुच 183 शोके' / शोचति / 'कुच 184 शव्दे तारे' / कोचति / 'कुञ्च 185 क्रुश्च 186 कौटिल्याल्पीभावयोः'। 'अनिदिताम्- '(415) इति न लोपः / कुच्यात् / कुञ्च्यात् / 'लुञ्च 187 अपनयने / लुच्यात् / 'अञ्चु 188 गतिपूजनयोः' / अच्यात् / गतौ न लोप: / पूजायां तु अञ्च्यात् / ‘वञ्चु 189 चञ्चु 190 तञ्चु 191 त्वचु 192 मुचु 193 म्लुचु 194 मुचु 19, म्लुचु 196 गत्यर्थाः' / वच्यात् / चच्यात् / तच्यात् / त्वच्यात् / अघुञ्चीत / अम्लुचीत् / 2291 / जस्तम्भुम्रचुम्लुचुनचुग्लुचुग्लुञ्चुश्विभ्यश्च / (3-1-58) एभ्यश्च्लेरङ् वा स्यात् / अम्रचत् - अम्रोचीत् / अम्लुचत् - अन्लोचीत् / 'ग्रुचु 197 ग्लुचु 198 कुजु 199 खुजु 200 स्तेयकरणे'। जुग्रोच / अग्रुचत्वर्चादय एकविंशतिः वृत्ताः। द्विसप्ततिरिति // चवर्गीयान्ता इति शेषः / शुच शोक इति // स्मृत्वा क्लेशः शोकः / शोचतीति // वियुक्तं पित्रादिकं स्मृत्वा किश्नातीत्यर्थः / कुचशब्द इति // शब्दनं शब्दः / चुकोच / चुकुचतुः / अकोचीत् / कुञ्च, क्रुञ्चेति // उभावपि चवगपञ्चमोपधौ / अनुस्वारपरसवर्णसम्पन्नस्य नकारस्थानिककारस्य धातुपाठे निर्देशः / धातुपाठे नकारजावनुस्वारपञ्चमावित्यभियुक्तवादात / तदाह / अनिदितामिति // अनुस्वारपरसवर्णयोरसिद्धतया नकारस्य सत्वेन आशालिङि अनिदितामिति लोपे कुच्यादिति रूपमित्यर्थः / लिटि तु, चुक्रुञ्च चुक्रुञ्चतुरित्यादौ पित्वेन संयोगात्परत्वेन च, किल्वाभावान्नलोपो न भवति / कुचधातुस्तु स्वाभाविकाकारोपध एव / नत्वनुस्वारपरसवर्णसम्पन्नत्रकारोपध इति परेश्वघायोरिति सूत्रे भाष्यकैयटयोः स्थितम् / अतस्तस्याशीलिङि अनिदितामिति नलोपस्य न प्रसक्तिरित्यभिप्रेत्योदाहरति। कुञ्च्यादिति // जकाररहितपाठस्तु प्रामादिक इति शब्देन्दुशेखरे स्थितम् / लुञ्चेति // अयमपि नोपधः / अनुस्वारपरसवर्णसम्पन्नस्य अकारस्य निर्देशः / तथा च आशीलिंङि अनिदितामिति नलोपः / तदाह / लुच्यादिति // एवमञ्चुधातोरपि द्रष्टव्यम् / पूजायान्त्विति // नाञ्चेः पूजायामिति निषेधादिति भावः / वञ्चुचञ्चुतञ्चु इति॥ आद्याः षट नोपधाः / अनुस्वारपरसवर्णाभ्यां अकारनिर्देशः / तथा च तेषामाशीलिङि अनिदितामिति नलोपः / तदाह / वच्यादिति // लुङि अम्रञ्चीदम्लुञ्चीदिति नोपधयो रूपं / सिज्लोपः / जस्तंभिवति // च्ले: सिजित्यत: च्लेरिति, अस्यतिवक्तिख्यातिभ्य इत्यतः अङिति, इरितोवेत्यतः वेतिचानुवर्तते। तदाह / एभ्यश्च्लेरचेति // जृष् वयोहानौ। स्तन्भु सौत्रो धातुः / म्रचुम्लुचुगत्यौँ / ग्रुचु ग्लुचु स्तेयकरणे / ग्लुञ्चु गती। इत्येभ्य इत्यर्थः। अम्रचदिति // च्लेरङि सति डित्वानलघूपधगुणः / अम्रोचीदिति ॥अङभावे इटईटि इति सिज्लोपः। ग्रुचुग्लुचु इति // जुस्तन्भ्विति अवेल्याह / अग्रचोचीदिति // आद्यस्य रूपे / अथ द्वितीयस्य अविकल्पमु For Private And Personal Use Only
Page #72
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदीसहिता भ्वादि अग्रोचीत् / जुग्लोच / अग्लुचत् - अग्लोचीत् / अकोजीत् / अखोजीत् / ग्लुञ्चु 201 षस्ज 202 गतौ' / लुङि अङ्वा / अग्लुचत् - अग्लुचीत् / सस्य श्चुत्वेन शः, तस्य जश्त्वेन जः। सज्जति / अयमात्मनेपद्यपि / सज्जते / ‘गुजि 203 अव्यक्ते शब्दे' / गुञ्जति गुञ्जयात् / अर्च पूजायाम्' / आनर्च / म्लेच्छ 205 अव्यक्ते शब्दे' / अस्फुटेऽपशब्देचेत्यर्थः / म्लेच्छति / मिम्लेच्छ / 'लछ 206 लाछि 207 लक्षणे' / ललच्छ ललाञ्छ / वाछि 208 इच्छायाम्'। वाञ्छति / आछि 209 आयामे' आञ्छति / 'अत आदेः' (2248) इत्यत्र तपरकरणं स्वाभाविकहस्वपरिग्रहार्थ / तेन दीर्घाभावान्न नुट् / आञ्छ / तपरकरणं मुखसुखार्थमिति मते तु नुट् / आनाञ्छ / ' ह्रीच्छ 210 लज्जायाम्' 'जिह्रीच्छ / ‘हुर्छा 211 कौटिल्ये'। * कौटिल्यमपसरणम' इति मैत्रेयः / ' उपधायां च' (2265) इति दीर्घः / हूर्च्छति। 'मुर्छा 212 मोहसमुच्छाययोः'। मूर्छति / 'स्फुर्छा 213 विस्तृतौ' / स्फूर्छति / 'युच्छ 214 प्रमादे'। युच्छति। * उछि 215 उञ्छे' / ' उञ्छः कणश आदानं कणिशाद्यर्जनं शिलम्' इति दाहरति / अग्लुचदग्लोचीदिति // अङि सति डिवानलघूपधगुणः / अङभावे सिज्लोपः। ग्लुञ्चुषस्जेति // आद्यो नोपधः / द्वितीयस्तु षोपदेशः / अच्परकसादित्वात् / तत्र आद्यस्य लुङि विशेषमाह / अचेति // जस्तभिवत्यनेनेति शेषः / ग्लुचुग्लुच्चोः पृथक्यहणसामर्थ्यात् नलोपो नेति वृत्तिकृत् / सस्येति // धात्वादेः सत्वे सस्ज इति स्थिते / द्वितीयस्य सकारस्य श्चुत्वेन शकारइत्यर्थः / तस्येति // शकारस्य झलाञ्जशझशीति जकार इत्यर्थः / गुजीति // इदित्वादाशीर्लिङि नलोपो नेत्याह / गुञ्ज्यादिति / अर्चेति // लिटि तस्मान्नुविहल इति नुटं मत्वाऽऽह / आनर्चेति // म्लेच्छेत्यादि स्पष्टम / तुकि लच्छतीति रूपम्। ललच्छ ललच्छतुः / आछीति // लिटि णलि द्वित्वे हलादिशेषे अभ्यासहस्वे अ आञ्छ् अ इति स्थिते अत आदेरिति दीर्घः / तस्मान्नुहृद्विहल इति नुटमाशङ्कयाह / अत आदेरिति // तत्र हि दीर्घस्याकारस्य दीर्घविधौ प्रयोजनाभावादेव इस्वाकारस्य दीर्घ इति सिद्धौ अत इति तपरकरणं स्वाभाविकस्यैव ह्रस्वाकारस्य परिग्रहार्थमित्यर्थः / ततः किमित्यत आह / तेनेति // अत आदेरिति दीर्घविधौ स्वाभाविकहस्वाकारस्यैव ग्रहणेन अत आदेरिति दीर्घस्याभावाननुडित्यर्थः / आञ्छति // द्वित्वे हलादिशेष अभ्यासहस्वे सवर्णदीर्घ इति भावः / मुखसुखार्थमिति // तथाच / दृस्वस्थानिकदीर्घाकारादपि परस्य नुड् भवत्येवेति भावः / हीच्छलज्जायामित्यादि स्पष्टम् / युच्छप्रमाद इति // यकारादिरुदुपधोऽयम् / युच्छतीति // अन्तरङ्गत्वात् छेचेति तुकि लघूपधत्वाभावात् न गुणः / युयुच्छ / युयुच्छतुः / उछि उञ्छ इति // अयमप्युदुपधः / For Private And Personal Use Only
Page #73
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा यादवः। उञ्छति / उञ्छांचकार / 'उछी 216 विवासे'। विवासः समाप्तिः। प्रायेणायं विपूर्वः / व्युच्छति। धृज 217 धृजि 218 ध्रज 219 ध्रजि 220 ध्वज 221 ध्वजि 222 गतौ / धर्जति / धृजति / ध्रजति / ध्रजति। ध्वजति / ध्वञ्जति / 'कूज / 223 अव्यक्ते शब्दे'। चुकूज / ‘अर्ज 224 षर्ज 225 अर्जने' / अर्जति / आनर्ज / सर्जति / ससर्ज / 'गर्ज 226 शब्दे'। गर्जति। 'तर्ज 247 भर्त्सने' / तर्जति / ततर्ज / 'कर्ज 228 व्यथने' / चकर्ज / 'खर्ज 229 पूजने च' चखर्ज / 'अज 230 गतिक्षेपणयोः' / अजति / 2292 / अजेय॑घञपोः / (2-4-56) अजेर्वी इत्ययमादेशः स्यादार्धधातुकविषये घामपं च वर्जयित्वा / ‘वलादावार्धधातुके वेष्यते' / विवाय / विव्यतुः / विव्युः / अत्र वकारस्य हल्प उञ्छतीति // इदित्वान्नुमि अलघूपधत्वान्नगुणः / उञ्छाञ्चकारेति // नुमिकृते संयोगे गुर्वित्यकारस्य गुरुत्वादिजादेश्चैयामिति भावः / धृजेति / आयौ ऋदुपधौ / इतरे चत्वारः अदुपधाः। द्वितीयचतुर्थषष्टाः इदितः / धर्जतीति // शपि लघूपधगुणः / रपरत्वम् / दधर्ज / दधृजतुः / धृज्यात् / अधीत् / धृञ्जतीति // इदित्वान्नुम् / दधृञ्ज / इदित्वान्नलोपो न / धुंज्यात्। अधृजीत् / ध्रजतीति // गलि दध्राज। दध्रजतुः / अध्राजीत् / अध्रजीत् / ध्रातीति // अदुपधोऽयम् / दध्रञ्ज। इदित्वानलोपो न / दध्रजतुः / ध्वजतीति // दध्वाज। ध्वञ्जतीति // दध्वज / कूज अव्यक्त इति // स्पष्टम् / सर्जतीत्यत्र षोपदेशत्वात् सत्वम् / अजगतीति // लटि अजतीत्यादि सिद्धवत्कृत्य लिटि विशेषमाह / अजेय॑घत्रपोरिति // वी इति दीर्घान्तं लुप्तप्रथमाकम् / आर्धधातुक इत्यधिकृतम् / विषयसप्तम्येषा / नतु परसप्तमी / व्याख्यानात् / तदाह / आर्धधातुकविषय इत्यादि // अजेरिति इका निर्देशः। अजधातोरित्यर्थः / आर्धधातुक इति परसप्तम्याश्रयणेतु वेवीयत इति न स्यात् / वीभावात्प्राक् हलादित्वाभावात् यङसम्भवात् / विषयसप्तम्याश्रयणेतु यङि विवक्षिते वीभावे सति हलादित्वाद्यनिर्बाधः / अघपोः किम् / घनि समाज:। समुदोरजःपशुध्वित्यपि / समजः। अत्र अघत्रपोरिति न वक्तव्यम्। लिटिवेत्यतो वेत्यनुवर्तते / व्यवस्थितविभाषेयम् / घनि अपिच न भवति / ल्युटि वलादावार्धधातुके च विकल्पः / अन्यत्रतु आर्धधातुके नित्यमिति भाष्यकैय्यटयोः स्थितम् / तदाह / वलादावार्धधातुके वेष्यत इति // उक्तव्यवस्थितविभाषोपलक्षणमिदम् / विवायेति // लिटो णलि विवक्षिते वीभावे सति णलि द्वित्वे अभ्यासहस्वे अचोजिणितीति वृद्धौ आयादेश इति भावः / विव्यतुरिति // वाभावे सति अतुसि द्वित्वे अभ्यासहस्वे असंयोगादिति कित्वात् गुणाभावे इयङपवादे एरनेकाच इति यणि रूपम् / एवं उसि विव्युरिति रूपम् / ननु विव्यतुः विव्युरित्यत्र द्वितीयवकारस्य यकारात्मकहल्परकत्वादुपधायानेति इकारस्य दीर्घः स्यादित्याशङ्कथम् / ईकार For Private And Personal Use Only
Page #74
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 72 सिद्धान्तकौमुदीसहिता [भ्वादि रत्वात् 'उपधायां च' (2265) इति दीर्घ प्राप्ते ‘अचः परस्मिन- (50) इति स्थानिवद्भावेनाच्परकत्वम् / न च 'न पदान्त- (51) इति निषेधः / 'स्वरदीर्घयलोपेषु लोपाजादेश एव न स्थानिवत् / इत्युक्तेः / थलि एकाच (2246) इतीण्णिषेधे प्राप्ते / 2293 / कृसृभृवृस्तुद्रुनुश्रुवो लिटि / (702-13) एभ्यो लिट इण्णस्यात् / क्रादीनां चतुर्णा ग्रहणं नियमार्थम् / प्रकृत्याश्रयः प्रत्ययाश्रयो वा यावानिण्णिषेधः स लिटि चेत्तर्हि क्रादिभ्य एव नान्येभ्य इति / ततश्चतुर्णा थलि भारद्वाजनियमप्रापितस्य वमादिषु क्रादिनियमप्रापितस्यचेटो निषेधार्थम। स्थानिकस्य यकारस्य अचः परस्मिन्निति स्थानिवत्त्वेन द्वितीयवकारस्य हलपरकत्वाभावात् तस्मिन्वकारे परे इकारस्य न दीर्घ इति परिहरति / अनवकारस्येत्याद्यच्परकत्वमित्यन्तम् // ननु दीर्घविधौ नपदान्तेति निषेधात्कथमिह यकारस्य स्थानिवत्त्वमित्याशङ्कय निराकरोति। नचनपदान्तेति निषेध इति / शङ्कय इति शेषः / कुत इत्यत आह। स्वरदीर्घति। इत्युक्तेरिति // वार्तिककृतेति शेषः। थलि एकाच इति // अजधातोरनुदात्तोपदेशानन्तर्भावेऽपि वी इति तदादेशोऽनुदात्तः अजन्तेषुऊदृदन्तादिचतुर्दशधातूनामनुदात्तत्वाभ्युपगमादिति भावः / कृसृ इति॥ कृ स भृ व स्तु द्रु सु श्रु इत्यष्टानां समाहारद्वन्द्वात्पञ्चमी। लिटीति षष्ठ्यर्थे सप्तमी। नेशिकृतीत्यतो नेति इडितिचानुवर्तते / तदाह / एभ्य इति // नन्वेकाच उपदेशेऽनुदात्तादिति इयूकः कितीतिच सिद्धे किमर्थमिदं सूत्रमित्यत आह / क्रादीनामिति // कृ सृ भृ वृ इत्येतेषामित्यर्थः / नियमस्वरूपमाह / प्रकृत्याश्रय इत्यादि // कृसुभृत् इत्येषां त्रयाणां अनुदात्तोपदेशान्तर्भूतानामेकाच उपदेश इति यः प्रकृत्याश्रयो निषेधः, यश्च वृधातोः इयूकः कितीति प्रत्ययाश्रयोनिषेधः' तदुभयमपि यदि लिटि स्यात् तर्हि कृसृभृव इत्येभ्य एव परस्य लिटो भवति / नतु तदन्येभ्यः परस्येत्यर्थः / तेन बिभिदिव बिभिदिमेत्यादौ एकाच उपदेश इति निषेधः / बभूवेत्यादौ श्यूकः कितीति निषेधश्च न भवति / अथ स्तुद्रुशुश्रुवाङ्ग्रहणस्य प्रयोजनमाह / तत इति // अन्येषामिति शेषः / चतुर्णामिति ॥ग्रहणमिति शेषः / ततः तेभ्यः कृसृभृव इत्येभ्यः अन्येषां स्तुद्रुस्रुश्रुवाङ्ग्रहणं / थलि तुष्टोथ दुद्रोथ सुस्रोथ शुश्रोथ इत्यत्र ऋतो भारद्वाजस्येति वक्ष्यमाणेन ऋदन्तस्यैव थलि नेट् / अन्यस्य तु स्यादेवेति नियमेन प्राप्तस्य इण्णिषेधार्थम् / तथा तुष्टुव तु ष्टुमेत्यादौ कृसृभृव इत्युक्तेन क्रादिभ्य एव परस्य लिट इण्णिषेधः / अन्येभ्यस्तु परस्य इट् स्यादेवेति नियमेन प्राप्तस्य इटो निषेधार्थञ्चेत्यर्थः। तदेवमजेस्थलि वीभावे एकाच इति निषेधाभावादिडागमो निर्बाध इति स्थितम् / अथ तस्य थलि इडागमस्य भारद्वाजनियमाद्विकल्पं For Private And Personal Use Only
Page #75
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् ] बालमनोरमा 73 2294 / अचस्तास्वत्थल्यनिटो नित्यम् / (7-2.61) उपदेशेऽजन्तो यो धातुस्तासौ नित्यानिट तत: परस्य थल इण्णस्यात् / 2295 / उपदेशेऽत्वतः / (7-2-62) उपदेशेऽकारवतस्तासौ नित्यानिट: परस्य थल इण्णस्यात् / 2296 / ऋतो भारद्वाजस्य / (7.2-63) तासौ नित्यानिट ऋदन्तस्यैव थलो नेट भारद्वाजस्य मतेन / तेनान्यस्य स्यादेव / अयमत्र संग्रहःवक्ष्यन् तदुपयोगित्वेन सूत्रद्वयमुपन्यस्यति / अचस्तास्वदिति // अधातोस्थलभावाद्धातोरिति लभ्यते / अच इति तद्विशेषणम् / तदन्तविधिः / उपदेशेऽत्वत इत्युत्तरसूत्रादुपदेश इत्यपकृष्यत इति ऋतोभारद्वाजस्येति सूत्रभाष्ये स्थितम् / उपदेशे अजन्तादित्यन्वयः / अनिट इति बहुव्रीहेः पञ्चमी / नित्यमिड्विहीनादित्यन्वयः / तासि च क्लप इत्यतस्तासीत्यनुवर्तते। तासौ नित्यमनिट इत्यन्वयः। थलीति षष्टयर्थे सप्तमी / गमेरिट परस्मैपदेवियतः इडिति, नवृझ्यश्चतुर्य इत्यतो नेति चानुवर्तते। उपदेशे योऽजन्त इत्यादि / इण्णस्यादिति // तास्वदिति शेषः / सप्तम्यन्ताद्वतिः। यथा तासि नेट तथा थल्यपि नेट् इत्यर्थः / चिचेथ, जुहोथेत्याधुदाहरणम् / अत्र कादिनियमप्राप्त इण्णभवति / अजन्तात्किम् / बिभेदिथ / उपदेश इति किम। हृञ् जहर्थ / इह गुण रपरत्वे अजन्तत्वाभावादिण्णिषेधो नस्यादित्युपदेशग्रहणम् / नित्यग्रहणकिम् / स्व गती, सस्वरिथ। स्वरतिसूतीति तासौ विकल्पितेटकत्वान्न निषेधः / तासौ किम् / लुलुविथ / थलः किम्। पपिव / पपिम / इह तासीत्यनुवृत्यैव सिद्धेस्तास्वदिति नातीवोपयुज्यते इति केचित् / वस्तुतस्तु यस्तासौ विद्यते तस्मादेव परस्य थल इण्णिषेधार्थन्तास्वदित्यावश्यकम् / तेन लिट्यन्यतरस्यामित्यतो घस्लभावे जघसिथेत्यत्र न निषेधः। घसस्तासावभावादिति अद भक्षण इति धातो मूल एव वक्ष्यते। यस्तासावस्ति अनिट्चेति भाष्यम्। उपदेशेऽत्वतः इति // अत्वत इति छेदः / अत् इखाकारः सः अस्य अस्तीति अत्वान् / तसौ मत्वर्थ इति भत्त्वान्न जश्त्वम् / अच इति वर्जम् पूर्वसूत्रं, तत्र यदनुवृत्तन्तदप्यनुवर्तते / तदाह / उपदेशे अकारवत इति / शक्ल शशक्थ / पच् पपक्थेत्युदाहरणम् / अथ क्रादिनियमप्राप्त इण्णभवति / उपदेशे किम् / कृष विलेखने। चकर्षिय / अत्वत इति किम् / विभेदिथ / तपरःकिम् / रराधिथ / तासौ किम् / जगर्हिथ / जिघृक्षतीत्यादौ सनिग्रहगुहोश्चति सनि नित्यमनिट् / नतु तासौ / नित्येति किम् / अञ्ज आनजिथ। ऊदित्वात्तासौ वेडिति भाष्यम् / चक्रमिथेत्यप्युदाहरणम्। स्नुक्रमोरिति नियमेनात्मनेपदे तासावनिटकत्वेऽपि परस्मैपदे सेट्कत्वात् / ऋतो भारद्वाजस्येति // तासौ नित्यमनिट इति थलीति नेति इडिति चानुवर्तते। भारद्वाजस्य मते ऋदन्ताद्धातोः परस्य थलो नेडिति फलितम् / हृञ् धृञादौ अचस्तास्वदित्येव सिद्धम् / अतो नियमार्थमिदमित्याह / ऋदन्तादेव थलो नेडिति। अनृदन्तात्परस्य तु थल इट् स्यादेवेत्येवकारार्थः। तदाह / अन्यस्य स्यादे 10 For Private And Personal Use Only
Page #76
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदीसहिता [भ्वादि अजन्तोऽकारवान्वा यस्तास्यनिट थलि वेडयम् / ऋदन्त ईदृनित्यानिट क्राद्यन्यो लिटि सेड् भवेत् / / न च स्तुवादीनामपि थलि विकल्पः शङ्कयः / 'अचस्तास्वत्-' (2294) इति -- उपदेशेऽत्वतः' (2295) इति च योगद्वयप्रापितस्यैव हि प्रतिषेधस्य भारद्वाजनियमो निवर्तकः ‘अनन्तरस्य-' इति न्यायात् / विवयिथ-विवेथ वेति // ऋदन्तभिन्नात्परस्य थल इट् स्यादेवेत्यर्थः / तथा च ऋदन्तभिन्नाद्धातोः परस्य थलो नेण्णिवृत्तिरिति भारद्वाजमते फलतीति न वैयर्थ्यमिति भावः / तथाच अनृदन्ताद्धातोः परस्य थलो भारद्वाजमते इट् / मतान्तरे तु अचस्तास्वदिति उपदेशेऽत्वत इति च तत्र नेडिति विकल्पः फलतीति भावः / तद्यथा / पपिथ / पपाथ / पेचिथ / पपक्थ / अयमति // कृसमृवस्तु दुस्रुश्रुवो लिटीति, अचस्तास्वत्थल्यनिटो नित्यमिति, उपदेशेऽत्वत इति, ऋतो भारद्वाजस्येति च, सूत्रचतुष्टयस्य विषयाणां सङ्ग्रहो वक्ष्यत इत्यर्थः / अजन्त इति // यः धातुः ऋदन्तभिन्नाजन्तः ह्रस्वाकारवान् वा तासौ नित्यानिट सोऽ थलि विकल्पितेट्क इति पूर्वार्धस्यार्थः / अत्र ईदृगित्यस्य तासौ नित्यानिडित्यर्थः / यः ऋदन्तस्तासो नित्यानिट् सः थलि नित्यानिडित्यर्थः / अचस्तास्वदिति पाणिनिमते ऋतो भारद्वाजस्येति भारद्वाजमतेऽपि तस्य अनिट्कत्वादिति भावः / क्राद्यन्य इति // काद्यष्टभ्योऽन्यो धातुः लिटि नित्यं सेडित्यर्थः / काद्यष्टभ्य एव परस्य लिटि नेडिति कृसभृव इति सूत्रेण नियमितत्वादिति भावः / नन्वत्र काद्यन्य इत्युक्तया कादीनां अष्टानां लिटि नित्यानिटकत्वमवगतम् / तदनुपपन्नम् / स्तुद्रुस्र. श्रुवां ऋदन्तभिन्नत्वेन तेभ्यस्थलि अचस्तास्वदिति निषेधस्य भारद्वाजमते अप्रवृत्या इड्विकल्पस्य दुरित्वात् / नचैवं सति कृसृभृव इति सूत्रे स्तुद्रुघुश्रुग्रहणमनर्थकमिति वाच्यम्। तुष्टुव तुष्टमेत्यादी वमादिषु कादिनियमप्राप्तस्य इटो निवृत्या चरितार्थत्वादित्याशय निराकरोति / न च स्तुद्रुश्रुवामपि थलि विकल्पः शङ्कय इति कुत इत्यत आह / अचस्तास्वदिति / ऋदन्तादेव परस्य थल इण्णिषेधः / अनृदन्तात्परस्य तु थल इण्णिषेधो नेति भारद्वाजं मतम् / अयश्च इण्णिषेधस्य निषेधः अचस्तास्वदिति उपदेशेऽत्वत इति च सूत्रद्वयप्राप्तस्यैव इण्णिषेधस्य पक्षे निवर्तकः / न तु क्रादिसूत्रप्राप्तस्य इट्प्रतिषेधस्यापीत्यर्थः / कुत इत्यत आह / अनन्तरस्येति // अचस्तास्वदिति उपदेशेऽत्वत इति ऋतो भारद्वाजस्येति च सूत्रक्रमः / कृसृभृवृ इति सूत्रन्तु ततः प्राग्बहुव्यवहितमिति भावः / किञ्च नेड्वशिकृतीत्यादिप्रतिषेधकाण्डोत्तरं आर्धधातुकस्येवलादेरिति विधिकाण्डारम्भसामर्थ्यादपि स्तुद्रुश्रुवामिण्णिषेधो भारद्वाजनियमम्बाधत इति नेड्वशिकृतीत्यत्र वस्वेकाजाद्धसामित्यत्र च भाष्ये स्पष्टम् / ततश्च प्रकृते अजेस्थलि वीभावे तस्य अजन्तत्वात्तासौ नित्यानिटत्वाच्च इविकल्प इति सिद्धम् / तदाह / विवयिथ विवेथेति // सिबादेशस्य थलः पित्वादसंयोगादिति कित्वाभावाद्गुणः / इट्पक्षे अवादेशः / For Private And Personal Use Only
Page #77
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा आजिथ / विव्यथुः / विव्य / विवाय-विवय / विव्यिव / विव्यिम / वेता-- अजिता / वेष्यति-अजिष्यति / अजतु / आजत् / अजेत् / वीयात् / 2297 / सिचि वृद्धिः परस्मैपदेषु / (7-2-1) इगन्ताङ्गस्य वृद्धिः स्यात्परस्मैपदे परे सिचि / अवैषीत्-आजीत् / अवेप्यत्-आजिव्यत् / ‘तेज 231 पालने' / तेजति / ' खज 232 मन्थे / खजति / - खजि 233 गतिवैकल्ये' / खञ्जति / एज 234 कम्पने' एजांचकार / ' टुओ स्फूर्जा 235 वज्रनि?षे स्फूर्जति / पुस्फूर्ज / 'क्षि 236 क्षये'। अकर्मकः / अन्तर्भावितण्यर्थस्तु सकर्मकः / क्षयति / चिक्षाय / चिक्षियतुः / चिनियुः / चिक्षयिथ-चिक्षेथ / चिक्षियिव / चिक्षियिम / क्षेता। आजिथेति // वलादावार्धधातुके वेष्यत इति वीभावाभावपक्षे अजधातोरनुदात्तोपदेशबहिभूतत्वादिट / द्वित्वम / हलादिशेषः / अत आदेरिति सवर्णदीर्घः / विव्यथुरिति // अथुसि वीभावे द्वित्वे अभ्यासहस्वे असंयोगादिति कित्वात् गुणाभावे इयङपवादे एरनेकाच इति यणि रूपम्। विव्येति // थस्य अकारे वीभावादि। विवाय विवयेति // णलुत्तमो वेति णित्वविकल्पाद्वृद्धिविकल्पः / विव्यिव विव्यिमेति // काद्यन्यो लिटि सेट्भवेदिति नित्यमिटि यण् / वेता अजितेति // लुटि तासि वीभावविकल्पः। वेष्यति / अजिष्यतीति॥ लटि स्ये वीभावविकल्पः / वीयादिति ॥आशीर्लिङादेशस्य आर्धधातुकत्वात् वीभावः / अथ लुडिः सिचि वीभावे सार्वधातुकार्धधातुकयोरिति गुणे प्राप्ते / सिचि वृद्धि रिति // इगन्तस्येति // बुद्धिश्रुत्या इक इत्युपस्थितमङ्गस्येत्यधिकृतस्य विशेषणम्। तदन्तविधिरिति भावः / एवं च अकोषीदित्यादौ व्यञ्जनस्य न वृद्धिः / अवैषीदिति // लुङस्तिप् इकारलोपः सिचि वाभावः एकाच इति इण्णिषेधः वृद्धिः अडागमः षत्वम् / आजीदिति // सिज्लोपः / वदवजेति हलन्तलक्षणायां वृद्धौ नेटि इति निषिद्धायामडागमे आटश्चेति वृद्धिः / लडि अवेष्यत् / आजिध्यत्। तेजपालन इत्यादि स्पष्टम् / एज़ कम्पन इति // दीप्तीत्वात्मनेपदी गतः। टुओ स्फूर्जेति // आदिब्रिटुडव इति टुरित् / उपदेशेऽनुनासिकत्वादोकार आकारश्च इत् / द्वितोऽथुच् ओदितश्चेति निष्ठानत्वम् / आदितश्चेति निष्ठायामिण्णिषेधश्च / तत्फलानि उपधायाञ्चेति दीर्घस्यानित्यत्वज्ञापनार्थमिह दीर्घ ऊकारः पठितः / तेन हुर्छतीत्यादौ नदीर्घ इत्याहुः / स्फूर्जतीति // लिटि पुस्फूर्ज अस्फूर्जात् / क्षि क्षय इति // क्षयो नाशः / अन्तर्भावितण्यथ इति नाशनार्थक इत्यर्थः। अजन्तेष्वेवास्य पाठो युक्तः / क्षयतीति // नश्यतीत्यर्थः / नाशयतीति वा / शपि गुणे अयादेशः / चिक्षायेति // णलि वृद्धिः अयादेशः / चिक्षियतु रिति / / असंयोगादिति कित्वान गुणः / इयङ् / चिक्षयिथ चिक्षेथेति // पित्वेन कित्वाभावात् गुणः / अजन्तत्वातासौ नित्यानिट्वाच्च / भारद्वाजनियमात्थालि वेट / इट्पक्षे अयादेशः। चिक्षियथुः / चिक्षिय / चिक्षाय / चिक्षय / वस्मसोस्तु क्रादिनियमात् नित्यमिट् / तदाह / For Private And Personal Use Only
Page #78
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदीसहिता [भ्वादि 2298 / अकृत्सार्वधातुकयोर्दीर्घः / (7-425) अजन्तस्याङ्गस्य दीर्घः स्याद्यादौ प्रत्यये परे। नतु कृत्सार्वधातुकयोः / क्षीयात् / अक्षैषीत् / ‘क्षिज 237 अव्यक्ते शब्दे' / कूजिना सहायं पठितुं युक्तः / चिक्षेज / 'लज 238 लजि 239 भर्त्सने' / 'लाज 240 लाजि 241 भर्जने च' / 'जज 242 जजि 243 युद्धे' / 'तुज 244 हिंसायाम्' / तोजति / तुतोज / 'तुजि 245 पालने' / 'गज 246 गजि 247 गृज 248 गृजि 249 मुज 250 मुजि 251 शब्दार्थाः' / गज' मदने च / ‘वज 252 व्रज 253 गतौ' / ववजतुः / ‘वदव्रज-' (2267) इति वृद्धिः / अब्राजीत् / अथ टवर्गीयान्ताः शान्ता अनुदात्तेतः षट्त्रिंशत् / 'अट्ट 254 अतिक्रमहिंसयोः' / दोपधोऽयम् ‘तोपधः' इत्यन्ये / अट्टते / आनट्टे / वेष्ट 255 चिक्षियिव चिक्षियिमेति // क्षेता। क्षेष्यति। क्षयतु। अक्षयत् / क्षयेत्। आशीलिङि विशेषमाह / अकृत्सार्वधातुकयोरिति // अङ्गस्येत्यधिकृतम्। अययिक्तिीत्यतः यीतिसप्तम्यन्तमनुवृत्तमङ्गाक्षिप्तप्रत्ययविशेषणम् / तदादिविधिः / दीर्घश्रुत्या अच इत्युपस्थितमङ्गविशेषणम् / तदन्तविधिः / तदाह / अजन्तस्येत्यादिना // अकृत्सार्वधातुकयोरिति किं / प्रकृत्या तुकम्बाधित्वा परत्वाद्दी? न / चिनुयात् / सार्वधातुकत्वान्नदीर्घः / क्षिजेति // इदुपधः / कूजिनेति॥ कूज अव्यक्ते शब्दे इत्यनुपदमेव पठितम् / तत्रैव कूज क्षिज अव्यक्ते शब्दे इति पठितुं युक्तमित्यर्थः / अथैक्यादिति भावः / लजलजि भर्त्सन इति // “भर्त्सनं त्वपवादगी:” इत्यमरः / द्वितीय इदित् / आशीर्लिङि लज्यात् / लज़्यात् / लाजलाजि भर्जन इति // आदुपधौ / द्वितीय इदित् / जजजजीत्यादि स्पष्टम् / वजबजेति // आद्यस्य असंयुक्तहरूमध्यस्थाकारवत्वेऽपि नशसददवादिगुणानामित्येत्वाभ्यासलोपौ नेत्याह। ववजतुरिति॥अवाजीत् अवजीत्। द्वितीयस्य तु संयुक्तहल्मध्यस्थाकारवत्वादेवैत्वाभ्यासलोपयोर्न प्रसक्तिः / अब्राजीदित्यत्र अतो हलादेरिति वृद्धिविकल्पमाशङ्कयाह / वदव्रजेति वृद्धिरिति // हलन्तत्वादेव सिद्धे व्रजग्रहणस्य अतो हलादरिति विकल्पनिरासार्थत्वादिति भावः / शुचादयोद्विसप्ततिवृत्ताः / शाडू. न्ता इति // शाश्लाघायामित्यन्ता इत्यर्थः / शाड्यन्ता इति क्वचित्पाठः / अद्देति // तवगेतृतीयोपधोऽयम्। चर्वष्ठत्वाभ्यां टोपधनिर्देशः / तदाह / दोपधोऽयमिति // तथा च अधातोः सनि इटि अटि स इति स्थिते / छुत्वचर्वयोरसिद्धत्वादजादोर्द्वितीयस्येति प्रवर्तमानं द्वित्वम् नन्द्रास्संयोगादय इति दकारं विहाय टिस् इत्यस्य भवति / ततो हलादिशेषे दकारस्य चैत्वचर्वयोः अट्टिटिषत इतीष्टं सिध्यति / स्वाभाविकमूर्धन्योपधत्वे नन्द्रा इति निषेधाभावात् टकारद्वयसहितस्यैव द्वित्वे हलादिशेषेण द्वितीयटकारस्य निवृत्तौ अटिटिषत इत्यनिष्टं प्रसज्येतेति भावः / तोपध इति / अन्य इति // टुत्वेन तोपधनिर्देश For Private And Personal Use Only
Page #79
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा वेष्टने' / विवेष्टे / ' चेष्ट 256 चेष्टायाम्' / अचेष्टिष्ट / 'गोष्ट 257 लोष्ट 258 संघाते' / जुगोष्टे / लुलोष्टे / 'घट्ट 259 चलने' / जघट्टे / 'स्फुट 260 विक सने' / स्पोटते / पुस्फुटे / ' अठि 261 गतौ' / अण्ठते / आनण्ठे / 'वठि 262 एकचर्यायाम्'। ववण्ठे / 'मठि 263 कठि 264 शोके' / शोक इह आध्यानम् / मण्ठते / कण्ठते / 'मुठि 265 पालने' / मुण्ठते 'हेठ 266 विबाधायाम् / विबाधा शाठ्यम् / जिहठे / ' एठ 267 च' / एठांचके / 'हिडि 268 गत्यनादरयोः / हिण्डते। जिहिण्डे / ' हुडि 269 संघाते' / जुहुण्डे / 'कुडि 270 दाहे' / चुकुण्डे / वडि 271 विभाजने' / 'मङि 272 च'। ववण्डे / 'भडि 273 परिभाषणे'। परिहास: सनिन्दोपालम्भश्च परिभाषणम् / बभण्डे / पिडि 274 संघाते' / पिपिण्डे / ' मुडि 275 मार्जने' / मार्जनं शुद्धियंग्भावश्च / मुण्डते / तुडि 276 तोडने' / तोडनं दारणं हिंसनं च / तुण्डते / 'हुडि 277 वरणे' / वरणं स्वीकारः / ‘हरणे इत्येके / हुण्डते / ‘चडि 278 कोपे'। चण्डते / शडि 279 रुजायां संघाते च' / शण्डते / तडि 280 ताडने / तण्डते / 'पडि 281 गतौ' / पण्डते। कडि 282 मदे'। कण्डते / 'खडि 283 मन्थे' / 'हेड 284 होड 285 अनादरे' / जिहेडे / जुहोडे' ‘वाड़ 286 आप्लाव्ये ' / बशादिः / आप्लाव्यमाप्लव: / बाडते / 'द्राड 287 ध्रा 288 विशरणे' / द्राडते / धाडते / 'शाड 289 श्लाघायाम् / शाडते / अथ गड्यन्ता: परस्मैपदिनः / 'शौट 290 गर्वे' / शौटति / शुशौट / 'यौदृ 291 बन्धे' / यौटति / 'म्लेट 292 ग्रेड 293 उन्मादे'। द्वितीयो डान्तः / इति भावः / अस्मिन्पक्षे सनि द्वित्वे कर्तव्ये तृत्वस्य सिद्धत्वेऽपि नन्द्रा इति निषेधाभावात्तकारविशिष्टस्याटि स इत्यस्य द्वित्वे हलादिशेषेण टकारस्य निवृत्या अतिट्टिषत इति रूपमिति भावः / आनट्ट इति // इह नन्द्रा इति निषेधो न / तत्र द्वितीयस्यैकाच इत्यनुवृत्तेः। घट्ट चलन इति // अयञ्चुरादावपि / स्फुट विकसन इति // अयकुटादावपि / अठि गताविति // लिटि नुमि द्वित्वे हलादिशेषे अत आदेरिति दीर्घ तस्मान्नुविहल इति नुडिति मत्वाऽऽह / आनण्ठ इति / वठि एकचर्यायामिति // असहायचर्यायामित्यर्थः / मडिचेति // विभाजन इत्यनुषज्यते / मडि भूषायामिति परस्मैपदिषु वक्ष्यते / शाडश्लाघायामिति // डलयोरैक्यात् / शालत इति काश्यपः / इत्यद्वादयः षट्त्रिंशद्गताः / अथ गड्यन्ता इति // गडि वदनैकदेश इत्यन्ता इत्यर्थः / म्लेटनेड इति // एदुपधौ। द्वितीयोडान्त इति // For Private And Personal Use Only
Page #80
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 78 सिद्धान्तकौमुदीसहिता [भ्वादि टान्तमध्ये पाठस्त्वर्थसाम्यान्नाथतिवत् / म्लेटति / ग्रेडति / 'कटे 29.4 वर्षावरणयोः' / 'चटे' इत्येके / चकाट / सिचि ‘अतो हलादेलघोः' (2284) इति वृद्धौ प्राप्तायाम् / 2299 / म यन्तक्षणश्वसजागृणिश्व्येदिताम् / (7.2-5) हमयान्तस्य क्षणादेर्ण्यन्तस्य श्वयतेरेदितश्च वृद्धिर्नस्यादिडादी मिचि / अकटीत् / 'अट 295 पट 216 गतौ' / आट / आटतुः / आटुः / पपाट / पेटतुः / पेटुः / ‘रट परिभाषणे' / रराट / ‘लट 298 बाल्ये' / ललाट / 'शट 299 रुजाविशरणगत्यवसादनेषु' / शशाट / ‘वट 300 वेष्टने' / वबाट / वव तुः / ववटुः / ववटिथ / 'किट 301 खिट 302 त्रासे' / केटति / खेटति / 'शिट 303 पिट 304 अनादरे' / शेटति / शिशेट / सेटति / सिपेट / 'जट 305 झट 306 संघाते' / 'भट 307 भृतौ' / ' तट 308 उच्छाये' / 'खट 309 टवर्गतृतीयान्त इत्यर्थः / ननु टान्तेष्वस्य कथम्पाटः / चुडभावकरण इत्यारभ्यानुक्रम्यमाणेष्वेवास्य पठितुं युक्तत्वादिल्यत आह / टान्त मध्येति। नाथतिवदिति // एधवृद्धावित्यारभ्यानुकान्तेषु तवर्गचतुर्थान्तेषु यथा नाथनाधृयाच्नेति तवर्गद्वितीयान्तस्यापि अर्थसाम्यात्पाठस्तद्वदित्यर्थः / कटे इति // कण्ठ्यादिः / चटे इति // तालव्यादि: आद्यस्य लिटि अभ्यासस्य चुत्वमित्याह / चकाटेति // चकटतुः / द्वितीयस्य चटतुः वैम्प्यापादकादेशादित्वाभावादेत्वाभ्यासलोपौ / प्राप्तायामिति // हलन्तलक्षणाया निल्यवृद्धेन्नेंटीति निषेधम्बाधित्वा अतोहलादेरिति वैकल्पिकवृद्धी प्राप्तायामित्यर्थः / मयन्तेति // मयन्त क्षण यस जागृ णि श्चि एदित् एषान्द्वन्द्वात्षष्टी / हम य् इत्येते वर्णा येषामन्ते ने मचन्ताः / तदाह / हमयान्तस्यति / क्षणादेरिति // आदिना श्वसजागृ इत्यनयोहणं। ण्यन्तस्येति // प्रत्ययग्रहणपरिभाषया णिग्रहणेन तदन्तग्रहणमिति भावः / श्वयतेरिति // श्विधातारित्यर्थः / एदित इति // एत् इत् यस्येति विग्रहः / वृद्धिर्न भ्यादिति // सिचि वृद्धिरित्यतो नेटीत्यतश्च तदनुवृत्तरिति भावः / इडादौ सिनीति // सिचि बृद्धिरित्यतः सिचीति नेटीत्यत इटीति चानुवर्तत इति भावः / अकटीदिति // एदित्वान्न बृद्धिः / अटपटेति // अत आदेरिति दीर्घ मत्वा आह / आटेति / पेटतुरिति // एत्याभ्यासलोपौ / वट वेष्टने / ववटतुरिति // नशसददवादिगुणानामिति निषेधः / ववटिथेति // अत्र थलि च सेटीति प्राप्तस्य नशसददेति निषेधः / किटखिट त्रास इति // यद्यपि इटकिटकटीगताविति अग्रे किटधातुः पठ्यते / तथाप्यर्थभेदात् पुनरिह पाटः / खिटत्रासे किट गती चेति पठितुं युक्तम् / शिटपिटेति // आद्यस्तालव्यादिः / द्वितीयस्तु घोपदेशः / जट झटेति // आद्यस्य अवै For Private And Personal Use Only
Page #81
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा 79 काङ्क्षायाम्' / ‘णट 31, नृत्तौ' / 'पिट 311 शब्दसंघातयोः' / 'हट दीप्तौ' / 'पट 313 अवयवे' / 'लुट 314 विलोडने' / 'डान्तोयम् ' इत्येके 'चिट 315 परप्रेष्ये' / विट 316 शब्दे' / 'बिट 327 आक्रोशे' / बशादिः / 'हिट' इत्येके / ‘इट 318 किट 319 कटी 320 गतो'। एटति / केटति / कटति / ईकार: ‘श्वीदितो निष्ठायाम' (3039) इतीणिषेधार्थः / केचित्तु इदितं मत्वा नुमि कृते कण्टतीत्यादि वदन्ति / अन्येतु 'इ' 'ई' इति प्रश्लिष्य, अयति / इयाय / इयतुः / इयुः / इययिथ-इयेथ / ईय--इयाय-इयय / दीर्घस्य तु ‘इजादेश्च-' (2237) इत्यामि अयांचकारेत्यादि उदाहरन्ति / 'मडि 321 भूषायाम्' / 'कुडि 322 वै यापादकादेशादित्वादेत्वाभ्यासलापी / द्वितीयस्य तु न / जेटतुः / जझटतुः / नट नृत्ताविति॥ णोपदेशः / चुरादेरेव नाटेः पर्युदासादयं णोपदेश एव / प्रणटति / इटकिटकटीगताविति // कटे वर्षावरणयोरिति कटि: पूर्वमेदित्पठितः / इह ईदित्पठ्यते। एदित्वाभावात् मायन्तेति वृद्धिनिषेधो नभवति / अकटीत् / अकाटीत / ननु तर्हि कटेत्येव कुतो न पठ्यत इत्यत आह / ईकार इति / केचित्त्विति // कटि इति हस्वान्तपाठं मत्वा इदित्वान्नुमि कृते अनुस्वारे परसवर्णे च कण्टाति वदन्तीत्यर्थः / अन्येत्विति // उदाहरन्तत्यिन्वयः / प्रश्लिप्येति // कटि इत्यनन्तरम् इ ई इति धातुद्वयं सवर्णणि प्रश्लिष्य निर्दिष्टभिति भावः / अयतीति // इधातोर्लटि शपि गुणे अयादेशः / इयायेति // गलि द्वित्वे वृद्धा आयादेशे अभ्यासस्याऽसवर्ण इति इयङ् / इयतुरिति // इकारोऽत्र ह्रस्वः / तथाहि इ अतुसिति स्थिते कित्वाद्गुणाभावे द्विवचनेऽचीति निषेधाद्यणभावे इ इत्यस्य द्वित्वे इ इ अतुसिति स्थिते सवर्णपरकत्वादभ्यासस्य इयङभावे सति वार्णादाङ्गम्बलीय इति सवर्णदीर्घम्बाधित्वा एरनेकाच इत्युत्तरखण्डस्य यणि इयतुरिति रूपम् / इधातोर्भारद्वाजनियमात्थालि वेट् / तत्र इट्पक्ष रूपमाह / इययिथेति // थलि द्वित्त्वे इटि पित्वेन कित्वाभावात् गुणे अयादेशे अभ्यासस्य इयङ् / नचाचः परस्मिन्निति गुणस्य स्थानिवत्त्वेन असवर्णपरत्वाभावात् कथमभ्यासस्य इयङिति वाच्यम्। असवर्णग्रहणसामर्थ्यादेव स्थानिवत्त्वाप्रसक्तेः / एवं णलि इयायेत्यत्रापि वृद्धेनस्थानिवत्त्वम् / थलि इडभावपक्षे रूपमाह। इयेथेति // थलि द्वित्वे गुणे अभ्यासस्येयङ् / अथुसि इयथुः / इयेति // थस्य अकारादेशे द्वित्वे उत्तरखण्डस्य एरनेकाच इति यणि रूपम् / णलुत्तमोवेति णित्वपक्षे आह / इयायेति // द्वित्वे पित्वेन कित्वाभावात् वृद्धौ आयादेशे अभ्यासस्य इयङ् / णित्वाभावे आह / इययेति // द्वित्वे पित्वेन कित्वाभावात् गुणे अयादेशे अभ्यासस्य इयङ् / वसि मसि च क्रादिनियमानित्यमिटि द्वित्वे उत्तरखण्डस्य एरनेकाच इति यणि इयिव इयिमति रूपम् / एता एष्यति अयतु ऐत् अयेत् / आशीलिंङि तु अकृत्सार्वधातुकयोरिति दीर्घात् ईयात् / सिचि बृद्धिः / ऐषीत् / ऐष्यत् / दीर्घस्य त्विति // दीर्घस्य ईधातोरित्यर्थः / तस्य लिटं वर्जयित्वा लडादिषु पूर्ववत् / लिटि विशेषमाह / अयाञ्चकारेति // For Private And Personal Use Only
Page #82
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 80 सिद्धान्तकौमुदीसहिता [भ्वादि कल्ये' / कुण्डति / कुण्डत इति तु दाहे गतम् / 'मुड 323 पृड 324 मर्दने'। 'चुडि 325 अल्पीभावे' / 'मुडि 326 खण्डने' / मुण्डति / 'पुडि च' इत्येके / पुण्डति। 'रुटि 327 लुटि 328 स्तेये'। रुण्टति / लुण्टति / 'रुठि लुठि' इत्येके / 'रुडि लुडि' इत्यपरे / 'स्फुटिर् 329 विशरणे / इरित्त्वादना / अस्फुटत्-अस्फोटीत् / 'स्फुटि' इत्यपि केचित् / इदित्त्वान्नुम् / स्फुण्टति / पठ 330 व्यक्तायां वाचि' / पेठतुः। पेठिथ / अपठीत्-अपाठीत् / 'वठ 331 स्थौल्ये' / ववठतुः / ववठिथ / 'मठ 332 मदनिवासयोः' / 'कठ 333 कृच्छजीवने' / 'रट 334 परिभाषणे' / 'रठ' इत्येके / 'हठ 335 लुतिशठत्वयोः' / 'बलात्कारे' इत्येके / हठति / जहाठ / 'रुठ 336 लुठ 337 उठ 338 उपघाते' / ओठति / 'ऊठ' इत्येके / ऊठति / ऊठांचकार / 'पिठ 339 हिंसासंक्लेशनयोः' / 'शठ 340 कैतवे च' / 'शुठ 341 प्रतिघाते' / शोठति / 'शुठि' इति स्वामी / शुण्ठति / 'कुठि 342 च' / कुण्ठति / 'लुठि 343 आलस्ये प्रतिघाते च' / 'शुठि 344 शोषणे ' / रुठि 345 लुठि 346 गतौ' / 'चुड 347 भावकरणे'। भावकरणमभिप्रायसूचनम् / चुडुति / चुचुडु / ' अड्डु 348 अभियोगे'। अड्डति / आनड्ड। ‘कड्ड 349 कार्कश्ये'। कडुति / चुड्डादयस्त्रयो दोपधाः / तेन किपि / चुत् / अत् / कत् / इत्यादि / क्रीड़ 350 विहारे' / चिक्रीड / 'तुड़ 351 तोडने' / तोडति / तुतोड / 'तूड़' इत्येके / 'हुड 352 हट्ट 353 होड 354 गतौ' / हुड्यात्हूड्यात्-होड्यात् / ‘रौड़ 355 अनादरे' / 'रोड़ 356 लोड़ 357 उन्मादे' | ‘अड 358 उद्यमे' / अडति / आड / आडतुः / आडुः / ईधातोरामि गुणे अयादेशः अनुप्रयोगश्च / कुडि वैकल्य इति // वैकल्यम् अविवेक इत्याहुः / अपूर्णभावो वा। मुडगुड मर्दन इत्यादि // स्पष्टम् / पठधातोलिटि अतुसादौ किति एत्वाभ्यासलोपौ। तदाह / पेठतुरिति / पेठिथेति // पित्वे अकित्वेऽपि थलिचसेटीत्येत्वाभ्यासलोपौ। अपठीत् / अपाठीदिति // अतो हलादेर्लघोरिति वृद्धिविकल्पः / वठ स्थौल्य इति // स्थौल्यं स्थूलीभवनम् / नशसददवादिगुणानामित्येत्वाभ्यासलोपनिषेध इति मत्वा आह / ववठतुः। ववठिथेति। दोपधा इति // टुत्वेन डोपधनिर्देश इति भावः। चुदिति // चुडधातोः क्विपि हल्ल्यादिना सुलोपे द्वितीयस्य डस्य संयोगान्तलोपे ष्टुत्वनिवृत्ती वावसान इति चर्वे चुत् इति रूपम्। अदिति // अड्डधातोः क्विपि पूर्ववत् रूपम् / कदिति // कडधातोः क्विपि रूपम्। इत्यादीति // आदिना जश्त्वेन चुदित्यादिसङ्ग्रहः / For Private And Personal Use Only
Page #83
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् ] बालमनोरमा 'लड 359 विलासे' / लडति / डलयोर्लरयोश्चैकत्वस्मरणाल्ललतीति स्वाम्यादयः / 'कड 360 मदे' / कडति / 'कडि' इत्येके / कण्डति / ‘गडि 361 वदनैकदेशे' / गण्डति / इति टवर्गीयान्ताः / ___ अथ पवर्गीयान्ताः / तत्रानुदात्तेतः स्तोभत्यन्ताश्चतुस्त्रिंशत् / ‘तिपृ 362 तेपृ 363 ष्टिए 364 टेप 365 क्षरणार्थाः' / आद्योऽनुदात्तः / क्षीरस्वामी त्वयं सेडिति बभ्राम / तेपते / तितिपे / क्रादिनियमादिद् / तितिपिथे / तेप्ता / तेप्स्य ते। 2300 / लिङ्सिचावात्मनेपदेषु / (1-2-11) इक्समीपाद्धल: परौ झलादी लिङात्मनेपदपर: सिञ्चेत्येतौ कितौ स्तः / कित्त्वान्न गुणः / तिप्सीष्ट / तिप्सीयास्ताम् / तिप्सीरन / लुङि ‘झलो झलि' (2281) इति सलोपः / अतिप्त / अतिप्साताम् / अतिप्सत / तेपते / तितेपे। तेपिता / तिष्टिपे / तिष्टिपाते / तिष्टिपिरे / तिष्टेपे / तिष्टेपाते / तिष्टेपिरे / एकत्वस्मरणादिति // शीक्षादाविति शेषः / गडि वदनेति // तवर्गान्तेषु गीति गतम् / परस्मैपदिन: शौट गर्व इत्यादयो गताः / तिपृ इति ॥प्रथमत्रयाविदुपधौ। द्वितीयचतुर्थी एदुपधौ। तृतीयचतुर्थों षोपदेशौ च / तकारस्य टुत्वेन दकारस्य निर्दिष्टतया दन्त्यपरकसादित्वात् / आद्य इति॥ तिपृधातुरित्यर्थः / भाष्यादौ अनुदात्तोपदेशेष्वस्य पाठादिति भावः। बभ्रामेति // भाष्यविरुद्धत्वादिति भावः। आद्यस्योदाहरति / तेपत इति // शपि लघूपधगुणः / तितिप इति // असंयोगादिति कित्त्वान्न गुणः / अथ तितिपिष इत्यत्र एकाच उपदेश इति निषेधमाशङ्कयाह / क्रादिनियमादिति / तेप्स्यत इति // लोडादौ तु, तेपताम् / अतेपत / तेपेत / अथाशीलिङि सीयुटि सुटि तिप्सीष्टेति रूपं वक्ष्यति / तत्र लघू. पधगुणे प्राप्ते / लिङिति // इको झलिति हलन्ताच्चेति च, सूत्रमनुवर्तते / असंयोगादिलतः किदिति / इक इति सामीप्ये षष्ठी। हलि अन्वेति। तदाह / इक्समीपादित्यादिना // आत्मनेपदपरकत्वं सिच एव विशेषणम् / नतु लिङः / लिङादेशस्यात्मनेपदस्य लिङः परत्वाभावात् / इकः किं / वह वक्षीष्ट / सति तु कित्त्वे वचिस्वपीति सम्प्रसारणं स्यात् / आत्मनेपदेषु किम् / अद्राक्षीत् / इह कित्त्वे सति सृजिदृशोझल्यमकितीत्यम्न स्यात् / अतिप्तेति // लुङस्तादेशे, चिल:, सिच् / झलोझलीति लोपः / आत्मनेपदपरकत्वेन सिचः कित्वात् न लघूपधगुणः / अथ तेपृधातोरेदुपधत्वस्य प्रयोजनमाह / तितेपे इति // इदुदुपधत्वेतु कित्त्वाद्गुणो न स्यादिति भावः / सेट्कोऽयमिति सूचयति। तेपितेति॥ तेपिषीष्ट / अतेपिष्ट। टिपृ धातोस्तु धात्वादेः षस्स इति सत्वे ठुत्वनिवृत्या लटि स्तेपत इति रूपं सिद्धवत्कृत्य लिटि रूपमाह / तिष्टिप इति // शपूर्वाः खय इति तकारः शिष्यते / षकारस्य निवृत्तौ तृत्वनिवृत्तेः कित्वान्न गुणः / तिष्टेप इति // For Private And Personal Use Only
Page #84
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदीसहिता - [भ्वादि 'ते' कम्पने च / ‘ग्लेप 366 दैन्ये' ग्लेपते। 'टु वेपृ 367 कम्पने' / वेपते। ‘केपृ 368 गेपृ 369 ग्लेपृ 370 च' / चात्कम्पने गतौ च / सूत्रविभागादिति स्वामी | मैत्रेयस्तु चकारमन्तरेण पठित्वा कम्पन इत्यपेक्षत इत्याह / ग्लेपेरर्थभेदात्पुनः पाठः / मेपृ 371 रेपृ 372 लेपृ 373 गता' / 'पूष 344 लजायाम्' / त्रपते। 2301 / तृफलभजत्रपश्च / (6-4-122) एषामत एकारोऽभ्यासलोपश्च स्यात्किति लिटि सेटि थलि च / त्रेपे / पाते / त्रेपिरे / ऊदित्त्वादिड्डा / पिता-त्रप्ता / त्रपिषीष्ट-त्रप्सीष्ट / 'कपि 375 चलने' कम्पते / चकम्पे / रबि 376 लबि 377 अबि 378 शब्दे' / ररम्बे / ललम्बे / आनम्बे / 'लबि 379 अवस्रंसने च' / ' कब 380 वर्णे' / चकबे / 'क्लीवृ 381 अधाष्ट्र्थे' / चिक्लीबे / 'क्षीबू 382 मदे' / क्षीबते / ' शीभृ 383 कत्थने' / शीभते / 'चीभृ 384 च'। रेभृ 385 शब्दे' / रिरेभे / * अभिरभी' कचित्पठ्येते / अम्भते / रम्भते / 'टभि 386 स्कभि 387 प्रतिबन्धे' / स्तम्भते / उत्तम्भते / नुम्यनुस्वारः / 'उदः स्थास्तम्भ्वो:-' (118) इति पूर्वसवर्णः / विस्तम्भते / 'स्तन्भेः' (2272) इति पत्वं तु न भवति / टेपृधातोः रूपम् / तेष कम्पने चेति // चात्क्षरणे / वस्तुतस्तु चकारेण क्षरणार्थस्य लाभात् / पूर्वत्रास्य पाटस्त्यक्तुं शक्यः। केचित्तु, देष्ट इति वर्गतृतीयादिं पठन्ति / चात्कम्पने गतौ चेति॥ अनुक्तसमुच्चयार्थ इति भावः। एतच्च टुवेपृकेपुगेपृग्लेपृकम्पन इत्येव सिद्धे पृथक्पाठाल्लभ्यते। अर्थभेदादिति // ग्लेप दैन्य इति पूर्वं पठितम् / इह तु अर्थभेदात् पुनः पाठः / अन्यथा ग्लेपृ दैन्ये कम्पने गतीचेति गौरवं स्यादिति भावः / त्रपूषिति // ऊकारष्षकारश्च इत् / अदुपधः / असंयुक्तहल्मध्यस्थत्वादेत्वाभ्यासलोपयोरप्राप्तावाह / तृफलेति। अत एकहल्मध्ये इत्यतः अत इति लिटीति चानुवर्तते / ध्वसोरित्यतः एदिति अभ्यासलोपश्चेतिच / गमहनेत्यस्मात् कितीति / थलिच सेटीति सूत्रञ्च / तदाह / एषामिति // गुणशब्देन भाविताकारवत्त्वाद्विरूपादेशाद्वित्वादेकहल्मध्यस्थत्वाभावाच्च प्राप्ते विधिरयम् / आनम्ब इति // द्विहल्त्वान्नुट् / टभिस्कभीति॥ आद्यः षोपदेशः / टुत्वेन तकारस्य टकारनिर्देशेन दंत्यपरकसादित्वात् ततः षस्य सत्वे तृत्वस्य निवृत्तिः / तदाह / उत्तम्भत इति / नुम्यनुस्वार इति // इदित्वान्नुमि नश्चापदान्तस्येति तस्यानुस्वारः / अनुस्वारस्य ययाति तस्य परसवर्ण: मकारः / टम्भ इत्येव पाटे तु आशीलिङि अनिदितामिति नलोपः स्यादिति भावः / पूर्वसवर्ण इति // सकारस्य थकारः / तस्य खरिचेति च। तकार इत्यर्थः / अत्र यद्वक्तव्यं तत् उदस्थास्तम्भ्वोरित्यत्र हल्सन्धौ प्रपञ्चितम् / For Private And Personal Use Only
Page #85
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् ] बालमनोरमा इनुविधौ निर्दिष्टस्य सौत्रस्यैव तत्र ग्रहणात् / तद्बीजं तु -स्थास्तम्भ्वो:-' (118) इति पवर्गीयोपधपाठः 'स्तन्भे:' (2272) इति तवर्गीयोपधपाठश्चेति माधवः / केचिदस्य टकार औपदेशिक इत्याहुः / तन्मते विष्टम्भते / टम्भते / टष्टम्भे / 'जभी 388 जुभि 389 गावविनामे' / 2302 / रधिजभोरचि / (7-1-61) एतयोर्नुमागमः स्यादचि / जम्भते / जजम्भे / जम्भिता / अजम्भिष्ट / जृम्भते / जजृम्भे / 'शल्भ 390 कत्थने' / शशल्भे / 'वल्भ 391 भोजने' / दन्त्योष्ठयादिः / ववल्भे / 'गल्भ 392 धाष्टर्थे' / गल्भते / ' श्रम्भु 393 प्रमादे' / तालव्यादिर्दन्त्यादिश्च / श्रम्भते / सम्भते वा / ' ष्टुभु 394 स्तम्भे / स्तोभते / विष्टोभते / तुष्टुभे / व्यष्टोभिष्ट / ___ अथ परस्मैपदिनः / ‘गुपू 395' रक्षणे / विस्तम्भत इति // सात्पदाद्योरिति षत्वनिषेध इति भावः / नन्वेवमपि स्तन्भेरिति षत्वङ्कुतो न स्यादित्यत आह / स्तन्भेरिति // षत्वन्तु न भवति / कुत इत्यत आह / श्नुविधाविति // स्तन्भु स्तुन्भु स्कन्भु स्कुन्भु स्कुञ्भ्यश्नुश्चेति सूत्रे निर्दिष्टस्यैव प्रतिपदो. क्तषत्वविधौ ग्रहणादित्यर्थः / नन्वेवं सति उदस्थास्तम्भ्वोरिति पूर्वसवर्णविधावपि सौत्रस्यैव ग्रहणं स्यादित्यत आह / तद्वीजन्त्विति // षत्वविधौ सौत्रस्यैव ग्रहणं पूर्वसवर्णविधौ तु तदन्यस्येत्यत्र प्रमाणमित्यर्थः / ननु पूर्वसवर्णविधौ मोपधस्य / षत्वविधौ तु नोपधस्य पाठ इत्यत्र किं प्रमाणमित्यत आह / इति माधव इति // पाणिनिशिष्यपरम्परैव तत्र प्रमाणमिति भावः / लिटि शपूर्वाः खय इति षकारस्य निवृत्तौ ठुत्वनिवृत्या तकारः शिष्यते / तस्तम्भे। टकार औपदेशिक इति स्वाभाविक एव टकारो नतु ठुत्वसम्पन्न इत्यर्थः / तन्मते विष्टम्भत इति // तथा च / षकारस्यापि स्वाभाविकत्वात् षत्वविधौ स्तन्भेरेव ग्रहणे षकारो निर्वाध इति भावः / टष्टम्भ इति // शपूर्वा इति टकार एव शिष्यत इति भावः / जभी जुभि गात्रविनाम इति // गात्रस्य विनामः वक्रभावः / आद्य ईदित् / द्वितीय इदित् / आद्यस्य ईदित्वं वीदितो निष्टायामिति इण्णिषेधार्थम् / रधिजभोरिति // रध हिंसायामिति श्यन्विकरणस्य चतुर्थान्तस्य इका निर्देशः / इदितो नुम् धातोरित्यतः नुमित्यनुवर्तते / तदाह / एतयोरिति // अनिदित्वात् नुम्विधिः / जम्भत इति // शपि नुम्। जम्भितेल्यादाविटि अच्परकत्वान्नुम् / अचि किम् / रद्धा / जब्धा / श्रम्भु इति // अकारमध्यः। शुभुस्तम्भ इति // टुत्वेन तकारस्य टः षोपदेशोऽयम् / विष्टोभत इति॥ उपसर्गात्सुनोतीति षत्वम् / व्यष्टोभिष्टेति // प्राक्सितादड्व्यवायेऽपीति षत्वम् / तिट इत्यादयः स्तोभत्यन्ता अनुदात्तेतो गताः / गुपू रक्षण इति // ऊदिदयम्। गुपूधूपेति / For Private And Personal Use Only
Page #86
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 84 सिद्धान्तकौमुदीसहिता [भ्वादि 2303 / गुपूधूपविच्छिपणिपनिभ्य आयः। (3-1-28) एभ्य आयप्रत्यय: स्यात्स्वार्थे / 'पुगन्त-' (2189) इति गुणः / 2304 / सनाद्यन्ता धातवः / (3.1-32) सनादयः कमेणिङन्ताः प्रत्यया अन्ते येषां ते धातुसंज्ञाः स्युः / धातुत्वालडादयः / गोपायति / 2305 / आयादय आर्धधातुके वा / (3.1-31) आर्धधातुकविवक्षायामायादयो वा स्युः / / 2306 / कास्प्रत्ययादाममन्त्रे लिटि / (3-1-35) कास्धातोः प्रत्ययान्तेभ्यश्चाम्स्याल्लिटि न तु मन्त्रे / कास्यनेकाज्ग्रहणं कर्तव्यम् / एभ्य इति // गुपू धूप विच्छि पणि पनि इत्येभ्य इत्यर्थः। अर्थनिर्देशाभावादाह / स्वार्थ इति // आयप्रत्ययः अकारान्तः / तत्फलन्तु गोपायतन्नसुमनस्यमान इत्यत्र गोपायेत्यस्य धातुस्वरेणान्तोदात्तस्य शबकारेण एकादेशस्यापि, एकादश उदात्तेनोदात्त इत्युदात्तत्वे, तमित्यस्य अदुपदेशात्परसार्वधातुकत्वेन अनुदात्तस्य 'उदात्तादनुदात्तस्य स्वरितः' इति स्वरितत्वमिति बोध्यम् / धातोरेकाच इत्यतो धातोरित्यनुवृत्या धातोरिति विहितत्वादायप्रत्ययस्यार्धधातुकत्वात् तत्कार्य गुणादि भवति / तदाह / पुगन्तेति / गुण इति // नन्वायप्रत्ययान्तस्य भ्वादिषु पाठाभावेन धातुत्वाभावात् कथमस्माल्लडादय इत्यत आह / सनाद्यन्ता इति // गुप्तिजिकिझ्यः सनित्यारभ्य कमेणिङित्यन्तैः सूत्रः सनादिप्रत्ययान्विधाय सूत्रमिदं पठितम् / सन् आदिर्येषां ते सनादयः णिप्रत्ययपर्यन्ताः, ते अन्ते येषां ते सनाद्यन्ता इति विग्रहः / तदाह / सनादयः कमर्णिङन्ता इति // सन्क्यचकाम्यच क्यङ् क्यषोऽथाचारक्विणिज्यङौ तथा / यगायईयङ् णिचेति द्वादशामी सनादयः। इति सङ्ग्रहः / संज्ञाविधौ प्रत्ययग्रहणे तदन्तग्रहणप्रतिषेधादिह तदन्तग्रहणम् / धातु. त्वादिति / / आयप्रत्ययान्तस्येत्यर्थः / गोपायतीति // शपि अतो गुण इति पररूपम् / आयादय इति // आयः आदिः येषां ते आयादयः / आय ईयङ् णिचेति त्रय आयादयो मताः। गुपूधूपविच्छिपणिपनिभ्य आयः, ऋतेरीयङ् , कमेणिङित्युत्तरमस्य सूत्रस्य पाठात्। विवक्षायामिति // आर्धधातुक इति विषयसप्तमीति भावः / परसप्तमीत्वेतु गोपायितेत्यत्र अतोलोपो न स्यात् / आर्धधातुकोपदेशकाले अदन्तत्वाभावादिति भावः / तथा च लिटि आयप्रत्ययस्य विकल्पः स्थितः। तत्र आयप्रत्ययपक्षे आह / कास्प्रत्ययादिति // आम् अमन्त्रे इति च्छेदः / चकास दीप्ती, जागृ निद्राक्षये, इत्यादिभ्योऽपि लिटि आमिष्यते / तदर्थमाह / कास्यनेकाजिति // ननु यद्यस्मिन् वार्तिके, सूत्रस्थं प्रत्ययग्रहणमपि सम्बद्ध्यते / तदा कामृधातोश्च For Private And Personal Use Only
Page #87
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा 85 सूबे प्रत्ययग्रहणमपनीय तत्स्थानेऽनेकाच इति वाच्यमित्यर्थः / 2307 / आर्धधातुके / (6-4-46) इत्यधिकृत्य। 2308 / अतो लोपः / (6-4-48) आर्धधातुकोपदेशकाले यदकारान्तं तस्याकारस्य लोप: स्यादार्धधातुके परे / गोपायांचकार / गोपायांबभूव / गोपायामास / जुगोप / जुगुपतुः / ऊदित्वाद्वेट् / जुगोपिथ-जुगोप्थ / गोपायिता-गोपिता-गोप्ता / गोपाय्यात्-गुप्यात् / अगोपायीत्--अगोपीत्--अगोप्सीत् / धूप 396 संतापे' / धूपायति / अनेकाचश्च प्रत्ययान्ताच्चेति / ततश्च अ इवाचरति अति क्विबन्ताल्लडादयः / लिटि औ अतुरित्यादीष्टन्न सिद्ध्येत् / प्रत्ययान्तत्वेन आमः प्रसङ्गात् / यदि तु कामृधातोश्च अनेकाचः प्रत्ययान्ताच्चेति व्याख्यायेत, तदा चकास जाग्रादिभ्यो नस्वादित्यत आह / प्रत्ययग्रहणमपनीयेति // तथाच कासधातोरनेकाचश्र आमित्येतावतैव लभ्यत इति नोक्तदोषद्वयमितीति भावः / वस्तुतस्तु अ इवाचरति अतीत्यादि नास्त्येवेति सुब्धातुनिरूपणे वक्ष्यते / तथा च गोपाय आमिति स्थितम् / अतो लोप इति // अनुदात्तोपदेशवनतीत्यतः उपदेशग्रहणमित्यनुवर्तते। आर्धधातुक इत्यधिकृतम् / तदिह आवर्तते / एकमुपदेशे अन्वेति / द्वितीयन्तु लोपे परनिमित्तम् / तदाह / आर्धधातुकोपदेश इत्यादिना // आर्धधातुकोपदेश इति किम् / अयपय गतौ / आभ्यां विपि, लोपो व्योरिति लोपे, हूस्वस्य पितीति तुकि, अपृक्तलोपे, अत् पत् , इतीष्यते। अत्र यलोपे सति अतो लोपो न भवति / आर्धधातुकोपदेशकाले धातुत्वाद्यकारान्तत्वात्। आर्धधातुकोपदेश इत्यत्र आर्धधातुकग्रहणाभावे चिकीर्षितमित्यत्र अल्लोपो न स्यात्। सन उपदेशकाले नकारान्तत्वात्। आर्धधातुकग्रहणेतु न दोषः / अनुबन्धविनिर्मुक्तात् सन्प्रत्ययादेव क्तप्रत्ययस्य आर्धधातुकस्योत्पत्तेः / आर्धधातुके पर इति किम्। कथयति। चुरादावदन्तोऽयम् / अत्र उपधावृद्धिर्न भवति। अचःपरस्मिन्नित्यल्लोपस्य स्थानिवत्त्वात् / आर्धधातुके पर इत्यनुक्तौ तु अल्लोपस्य परानिमित्तकत्वाभावात् स्थानिवत्त्वं नस्यात् / तथाच प्रकृते गोपाय आमिति स्थिते अतो लोपे गोपायामिति सिद्ध्यति / यद्यपि सवर्णदीर्धणाप्येतत्सिद्धम् / तथापि न्याय्यत्वादतो लोप उपन्यस्तः / आयप्रत्ययाभावपक्षे आह। जुगोपेति // पित्त्वेन कित्त्वाभावाल्लघूपधगुणः। जुगुपतुरिति // कित्त्वान्न गुणः। ऊदित्वाद्वेडिति॥ थलादाविति शेषः। जुगुपिव। जुगुप्व / जुगुपिम। जुगुप्म / क्रादिनियमस्तु नप्राप्तस्यैवाभावस्य। नतु विभाषादिलभ्यस्येति षिधू शास्त्र इत्यत्रोक्तम् / गोपायितेति॥ लुटि आम्प्रत्ययपक्षे नित्यमिट् / आयप्रत्ययाभावपक्षे इड्विकल्पः / ऊदित्त्वस्य केवले चरितार्थत्त्वात् / तदाह / गोपिता, गोप्तेति // गोपायिष्यति। गोपिध्यति / गोप्स्यति / गोपायतु। अगोपायत् / गोपायेत् / आशीलिडि आयप्रत्ययपक्षे अतो लोपे रूपमाह / गोपाय्यादिति॥ आयप्रत्ययाभावे आह / गुप्यादिति // लुङि सिचि आयप्रत्ययपक्षे आह / अगोपायीदिति // आयप्रत्य For Private And Personal Use Only
Page #88
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदीसहिता [भ्वादि धूपायाञ्चकार / दुधूप / धूपायितासि / धूपितासि / ‘जप 397 जल्प 398 व्यक्तायां वाचि' / 'जप' मानसे च / 'चप 399 सान्त्वने' / 'पप 400 समवाये' / समवाय: संबन्धः, सम्यगवबोधो वा / सपति / ‘रप 401 लप 402 व्यक्तायां वाचि' / 'चुप 403 मन्दायां गतौ' / चोपति / चुचोप / चोपिता / 'तुप 404 तुम्प 405 त्रुप 406 त्रुम्प 407 तुफ 408 तुम्फ 409 त्रुफ 410 त्रुम्फ 411 हिंसााः ' / तोपति / तुतोप / तुम्पति / तुतुम्प / तुतुम्पतुः / संयोगात्परस्य लिट: कित्वाभावान्नलोपो न / 'किदाशिपि' (2216) इति कित्त्वान्नलोपः / तुप्यात् / प्रात्तुम्पतौ गवि कतरि' इति पारस्करादिगणे पाठात्सुट् / प्रस्तुम्पति गौः / श्तिपा निर्देशाद्यङ्लुकि न / प्रतोतुम्पीति / त्रोपति / त्रुम्पति / तोफति / तुम्फति / बोफति / त्रुम्फति / इहाद्यौ द्वौ पञ्चमषष्ठौ च नीरेफाः / अन्ये सरेफाः / आद्याश्चत्वारः प्रथमान्ताः / ततो द्वितीयान्ताः / अष्टावप्युकारवन्तः / 'पर्प 412 रफ 413 रफि 414 अर्ब 415 पर्ब 416 लर्ब 417 बर्ब 418 मर्ब 419 कर्ब 420 खर्ब 421 गर्ब 422 शर्ब 423 पर्व 424 चर्ब 425 गतौ' / आद्यः प्रथमान्तः / ततो द्वौ द्वितीयान्तौ / तत एकादश तृतीयान्ताः / द्वितीयतृतीयौ मुक्त्वा सर्वे रोपधाः / पर्पति / पपर्प / रफति / रम्फति / अर्बति / आनर्ब / पर्बति / लर्बति / बर्बति / पवर्गीयादिरयम् / मर्बति / कर्बति / खर्बति / गर्बति / शर्बति / सर्वति / चर्वति / 'कुबि 426 आच्छादने' / कुम्बति / 'लुबि 427 तुबि 428 अर्दने' / लुम्बति / तुम्बति / 'चुबि 429 वक्त्रसंयोगे / चुम्बति / 'भु 430 षम्भु 431 याभावपक्षे इटि रूपमाह / अगोपीदिति // इट ईटीति सिज्लोपः। नेटीति हलन्तलक्षणवृद्धेर्निषेधः / इडभावेतु इटः परत्वाभावात् नसिज्लोप इत्याह / अगौप्सीदिति // वदव्रजेति वृद्धिः / अगोपायिष्यत् / अगोपिष्यत् / अगोप्स्यत् / धूप सन्ताप इति // गुपूधूप इत्यायः / आर्धधातुके तद्विकल्पः / पप समवाय इति // षोपदेशोऽयम् / चुप मन्दायामिति // चवर्गप्रथमादिरयं / चवर्गादिस्त्वनिटकः / तुपतुम्पेति // अष्टावप्युदुपधाः तृतीयचतुर्थी सप्तमाष्टमी च रेफवन्तः इति मूले स्पष्टीभविष्यति / तुतुम्पतुरित्यत्र नलोपमाशङ्कयाह / संयोगादिति // आशीलिङि विशेषमाह / किदाशिषीति / प्राक्तुम्पताविति // दितपा निर्देशोऽयम् / तुम्पधातो परे सुट् स्यात् गविकर्तरि सतीत्यर्थः / आदेः परस्येति तुम्पधातोः सुट् आद्यवयवः सुविधावस्मिन् तुम्पताविति श्तिपानिर्देशस्य प्रयोजनमाह / रितपानिर्देशाद्यङ् लुकि नेति // रितपा शपाऽनुबन्धेनेत्युक्तेरिति भावः / षभुषम्भु इति // ऋदुपधौ षोपदेशौ / सृभ्यादिति // आशी For Private And Personal Use Only
Page #89
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा 0 हिंसाौँ ' / सर्भति / ससर्भ / सर्भिता / सम्भति / समृम्भ / सभ्यात् / ‘षिभु षिभि' इत्येके / सेभति / सिम्भति / 'शुभ 432 शुम्भ 433 भाषणे'। ‘भासने' इत्येके / ' हिंसायाम्' इत्यन्ये / __ अथानुनासिकान्ताः / तत्र कम्यन्ता अनुदात्तेतो दश / घिणि 434 घणि 435 घृणि 436 ग्रहणे'। नुम् / ष्टुत्वम् / घिण्णते / जिघिण्णे / घुण्णते / जुघुण्णे / घृण्णते। जघृण्णे / 'घुण 437 घूर्ण 438 भ्रमणे' / घोणते। घूर्णते। इमौ तुदादौ परस्मैपदिनौ / 'पण 439 व्यवहारे स्तुतौ च'। पन 440 च, स्तुतावित्येव संबद्धयते पृथनिर्देशात् / पनिसाहचर्यात्पणेरपि स्तुतावेवायप्रत्ययः / व्यवहारे तु, पणते / पेणे। पणितेत्यादि / स्तुतावनुबन्धस्य केवले चरितार्थत्वादायप्रत्ययान्तानात्मनेपदम् / पणायति / पणायां चकार / पेणे / पणायितासि / पणितासे / पणाय्यात् / पणिषीष्ट / पनायति / पनायां चकार / पेने / 'भाम 441 क्रोधे'। भामते / बभामे / 'क्षमूष 442 सहने' / क्षमते। चक्षमे। चक्षमिषे / चक्षसे। चक्षमिध्वे / चक्षध्वे / चक्षमिवहे। लिङि अनिदित्वान्न लोपः। विभुषिभि इत्येक इति // इदुपधौ द्वितीय इदित्। शुभ शुम्भेति॥ द्वितीयस्य आशीलिडि अनिदित्वान्न लोपः / इति गुपू इत्यादयः पवर्गान्ताः परस्मैपदिनो गताः / कम्यन्ता इति // कमु कान्ता इत्येतत्पर्यन्ता इत्यर्थः / घुण घूर्णेति // द्वितीयस्य दीर्घपाठः स्पष्टार्थः / उपधायाञ्चेत्येव दीर्घसिद्धेः / केचित्तु / घुर्णेति ह्रस्वमेव पठन्ति / स्तुतावित्येवेति // न तु व्यवहार इत्येवकारार्थः / पृथनिर्देशादिति // अन्यथा पणपन व्यवहारेस्तुतौचेत्येव निर्देशादिति भावः / यद्यपि पृथनिर्देशो यथासङ्ख्यनिवृत्यर्थ इत्यपि वक्तुं श यम् / तथापि सम्प्रदायानुरोधादेवमुक्तम् / पनि साहचर्यादिति // पनधातुः स्तुतावेव वर्तते / तत्साहचर्यात् गुपूधूपविच्छेत्यत्र पणधातुरपि स्तुत्यर्थक एव गृह्यते / नतु व्यवहारार्थकः / अतः स्तुतावेव पणधातोरायप्रत्ययः / न तु व्यवहारे इत्यर्थः / केतव्यद्रव्यस्य मूल्यनिधारणाय प्रश्नप्रतिवचनात्मको व्यवहारः। ननु स्तुती पणायतीति रूपं वक्ष्यमाणमनुपपन्नम् / पणधातोरनुदात्तेत्वेनात्मनेपदापत्तेः / न च आयप्रत्ययान्तस्यानुदात्तेत्वन्नेति शङ्कयम् / पणधातौ श्रुतस्यानुदात्तत्वस्य आनर्थक्यात्तदङ्गन्यायेन आयप्रत्ययान्ते अन्वयोपपत्तरित्यत आह / स्तताविति // अनुबन्धस्य अनुदात्तात्मकस्य / इत: आर्धधातकविषये कदाचिदायप्रत्ययविनिर्मुक्ते चरितार्थत्वादायप्रत्ययान्तादात्मनेपदन्नेत्यर्थः / एवञ्च तुल्यन्यायत्वादेकाच उपदेश इति निषेधोऽपि नेति सूचितम् / क्षमूष सहन इति // षिद्भिदादिभ्योऽडित्याद्यर्थ पित्वम् / ऊदित्वादिष्टिकल्पं मत्वाऽऽह / चक्षमिषे। चक्षस इति // इडभावपक्षे अनुनासिकस्य क्विझलोरिति दीर्घस्तु न भवति / क्विसाहचर्येण तिभिन्नस्यैव झलादेस्तत्र ग्रहणात् / वहिमयो For Private And Personal Use Only
Page #90
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 88 सिद्धान्तकौमुदीसहिता [भ्वादि 2309 / म्वोश्च / (8:2-65) मान्तस्य धातोर्मस्य नकारादेशः स्यान्मकारे वकारे च परे / णत्वम् / चक्षमिवहे-चक्षण्वहे। चक्षमिमहे-चक्षण्महे / क्षमिष्यते--क्षस्यते / क्षमेत / आशिषि, क्षमिषीष्ट-क्षंसीष्ट / अक्षमिष्ट--अक्षंस्त / 'कमु 443 कान्तौ' / कान्तिरिच्छा। 2310 / कमेर्णिङ् / (3-1-30) स्वार्थे / डित्वात्तङ् / कामयते। 2311 / अयामन्ताल्वाय्येल्विष्णुषु / (6-4-55) 'आम्' 'अन्त' 'आलु' 'आय्य' इत्नु' 'इष्णु' एषु णेरयादेशः स्यात् / वक्ष्यमाणलोपापवादः। कामयाञ्चके / 'आयादय आर्धधातुके वा' (2305) / चकमे / कामयिता--कमिता। कामयिष्यते--कमिष्यते / रिडभावपक्षे विशेषमाह / म्वोश्चेति // मोनोधातोरित्यनुवर्तते। तदाह / मान्तस्येति / णत्त्वमिति // षात्परत्वात् अट्कुप्वाङिति नकारस्य णत्वमित्यर्थः / कमु कान्ताविति // उदितोवेति वायां इड्विकल्पार्थमुदित्वम् / कान्तिशब्दस्य प्रभापरत्वभ्रमं वारयति / का. न्तिरिच्छेति // स्वर्गकाम इत्यादौ कमरिच्छायां प्रयोगबाहुल्यदर्शनादिति भावः / कामोऽभिलाषस्तर्षश्चेत्यमरः / कमर्णिङिति / शेषपूरणेन सूत्रं व्याचष्टे / स्वार्थे इति // अर्थविशेषानिर्देशादिति भावः / णडावितौ / आयादय आर्धधातुके वेत्यत्र णिचो ग्रहणव्यावृत्तये ङित्करणम् / ङित्वात्तङिति // नत्वनुदात्तत्त्वात्तङ् / शब्दपरविप्रतिषेधादिति भावः / कामयत इति // णिङि अत उपधाया इति वृद्धौ कामि इति णिङन्तम् / किङिति चेति निषेधस्तु न / अनिग्लक्षणत्वात्। णिडन्तस्य धातुत्वात् लडादयः। तत्र लटि शपि गुणे अयादेशे कामयत इति रूपम् / कामयेते इत्यादि सुगमम् / लिटि कास्यनेकाच इत्यामि आम इति लिटो लोपे, कामि आम् इति स्थिते, सार्वधातुकेति गुणम्बाधित्वा णेरनिटि इति वक्ष्यमाणे णिलोपे प्राप्ते / अयामन्तेति // अय् इति छेदः / णेरनिटीत्यतो रित्यनुवर्तते / तदाह / णेरयादेशः स्यादिति // तथा च कामयामित्यामन्तं स्थितम् / ततः कृञ्चानुप्रयुज्यत इत्यनुप्रयोगाल्लिडिति मत्वाऽऽह / कामयाञ्चक इति // णिङ आयादिष्वन्तर्भावाल्लिडादावार्धधातुके तद्विकल्पमुक्तं स्मारयति / आयादय इति। चकम इति // सेटकोऽयम् / चकमिषे / चकमिध्वे / चकमिवहे / चकमिमहे / कामयितेति // लुटि णिपक्षे तासि इटि वृद्धौ गुणे अयादेशे रूपम् / कमिता / कामयिध्यते। कामयताम् / अकामयत / कामयेत / कामयिषीष्ट / अथ णिङन्तात् कामि इत्यस्माल्लुङः For Private And Personal Use Only
Page #91
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा 2312 / णिश्रिद्रुभ्यः कर्तरि चङ् / (3-1-48) ण्यन्तात् श्रयादिभ्यश्च च्लेश्वङ् स्यात्कर्वर्थे लुङि परे। अकाम्' 'इ' 'अत' इति स्थिते। 2313 / णेरनिटि / (6-4.51) अनिडादावार्धधातुके परे णेर्लोपः स्यात् / परत्वात् ' एरनेकाच:-' (272) इति यणि प्राप्ते। ‘ण्यल्लोपावियड्यण्गुणवृद्धिदीर्धेभ्यः पूर्वविप्रतिषेधेन / ' इति वार्तिकम् / णिलोपस्य तु पाचयते: पाक्तिरित्यादि क्तिजन्तमवकाश इति भावः / वस्तुतस्तु * अनिटि' इति वचनसामर्थ्यादार्धधातुकमात्रमस्य वितादेशे च्ले: सिजादेशे प्राप्ते / णिश्रीति // णि श्रि द्रु स एषां द्वन्द्वः / प्रत्ययग्रहणपरिभाषया णीति तदन्तस्य ग्रहणम् / च्लिलुडीत्यतो लुङीति, च्ले: सिजित्यतः च्लेरिति चानुवर्तते / तदाह / ण्यन्तादित्यादिना // चङावितौ / णेरनिटीति // आर्धधातुक इत्यधिकृतम्। अतो लोप इत्यस्मात् लोप इत्यनुवर्तते। अनिटीत्यस्य आर्धधातुकविशेणत्वात् तदादिविधिः। तदाह / अनिडादाविति // तथाच णिलोपे काम् अ त इति स्थिते। परत्वादिति // एरनेकाच इत्यस्य णेरनिटीत्यपेक्षया परत्वाणिलोपं बाधित्वा यणि प्राप्ते सतीत्यर्थः / कृते तु यणि लोपो दुर्लभः णेरभावात् / स्थानिवत्त्वेऽपि यणा बाधितस्य पुनरुन्मेषो दुर्लभः / वस्तुतस्तु स्थानिवत्त्वमेवेह दुर्लभम् / यण्स्थानिनमिकारं अल्धर्मणित्वरूपेणाश्रित्य प्रवर्तमानस्य णिलोपस्याल्विधित्वेन तत्र स्थानिवत्त्वासम्भवात् / स्पष्टा चेयं रीतिः भोभगो इति सूत्रभाष्ये इति शब्देन्दुशेखरे विस्तरः। ण्यल्लोपाविति // णिलोपः इयङ्यण्गुणवृद्धिदीर्घाः एभ्यः, अल्लोपस्तु वृद्धिदीर्घाभ्यां पूर्वविप्रतिषेधेनेति विवेकः / तथा च पूर्वविप्रतिषेधादिह यणं बाधित्वा णिलोपो भवतीति स्थितम् / ननु अततक्षत् , आटिटत् , कारणा, कारकः, कार्यते, इति वक्ष्यमाणेषु वार्तिकोदाहरणेषु क्रमेण इयङ् यण गुण वृद्धिदीर्घाणामवश्यं प्राप्तेर्णिलोपस्य निरवकाशत्वादेव इयडादिबाधकत्वसम्भवादिदं वार्तिकं व्यर्थम्। सुधियौ, प्रध्यौ, कर्ता, चकार, इत्यादौ इयङ्यण्गुणवृद्धिदीर्घाणां सावकाशत्वादित्यत आह / णिलोपस्यत्विति // पचधातोर्णिचि उपधावृद्धौ, पाचि इति ण्यन्तात् , स्त्रियां क्तिनिति क्तिनि, तितुत्रतथसिसुसरकसेषु च इति इण्णिषेधे णेरनिटीति णिलोपे कुत्वे पाक्तिरिति स्थितिः / क्तिजन्तमिति पाठेतु, क्तिच् क्तौच संज्ञायामिति बोध्यः / पाक्तिरिति कस्यचित्संज्ञा / अत्र इयङादीनां अप्रसक्ते र्णिलोपस्यापि सावकाशत्वं तुल्यम् / तत्र अततक्षदित्यादौ परत्वादियङादिप्राप्तौ तनिवृत्त्यर्थ वार्तिकमिदमारम्भणीयामिति भावः / वार्तिकं व्यर्थमेवेत्याह / वस्तुतस्त्विति / आर्धधातुकमात्रमिति // कृत्स्नमनिडाद्यार्धधातुकमस्य णिलोपस्य विषय इत्यर्थः / तथाहि / अततक्षदित्यादौ परानपि इयङादीन् णिलोपः अपवादत्वात् बाधते / परापेक्षया अपवादस्य प्रबलत्वात् / For Private And Personal Use Only
Page #92
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदीसहिता [भ्वादि षयः / तथाचेयङादेरपवाद एवायम् / इयङ् / अततक्षत् / यण् / आटिटत् / गुणः / कारणा / वृद्धिः / कारकः / दीर्घः / कार्यते / 2314 / णौ चङ्युपधाया हुवः। (7-4-1) चङ्परे णौ यदङ्गं तस्योपधाया ह्रस्वः स्यात् / 2315 / चङि / (6-1-11) चङि परेऽनभ्यासधात्ववयवस्यैकाचः प्रथमस्य द्वे स्तोऽजादेस्तु द्वितीयस्य / परत्वादियङादीनां णिलोपबाधकत्वाभ्युपगमे हि णेरनिटीत्यत्र अनिटीति व्यर्थम् / कारयितेत्यादाविडाद्यार्धधातुके गुणेनैव णिलोपस्य बाधसिद्धेः / ततश्च अनिटीति वचनसामर्थ्यादनिडादावार्धधातुके सर्वस्मिन्परे णिलोप इति विज्ञायते। एवञ्च अततक्षदित्यादावियङादिप्रवृत्तियोग्येऽप्यार्धधातुके सर्वत्र णिलोप इत्यस्य निरवकाशत्वादपवादत्वादेव णिलोपेन इयडादिबाधसिद्धेर्वार्तिकमिदं व्यर्थमिति भावः / अपवाद एवायमिति // णिलोप इत्यर्थः / अतो लोपस्तु चिकीर्षक इत्यत्र वृद्धिं, चिकीर्ष्यादित्यत्र अकृत्सार्वधातुकयोरिति दीर्घञ्च, बाधित्वा पूर्वविप्रतिषेधाद्भवति। नह्यतो लोपो वृद्धिदीर्घयोरपवादः / गोपायितेत्यादौ वृद्धिदीर्घयोरप्राप्तयोरप्यतोलोपस्यारम्भादित्यलम् / इयङिति // उदाहरणसूचनमिदम् / अततक्षदिति // तक्षधातोर्ण्यन्ताल्लुङस्तिपि इकारलोपे चडि द्वित्वे संयोगपूर्वकत्वादेरनेकाच इति यणभावे इयडि प्राप्त पूर्वविप्रतिषेधात् णिलोपे हलादिशेषे अडागमे अततक्षदिति रूपम् / यणित्युदाहरणसूचनम् / आटिट दिति // अटधातोर्ण्यन्तात् आटि इत्यस्मात् लुङि तिपि इकारलोपे चङि टि इत्यस्य द्वित्वे एरनेकाच इति यणं बाधित्वा पूर्वविप्रतिषेघाण्णिलोपे आटि वृद्धौ रूपम् / गुण इत्युदाहरणसूचनम् / कारणेति // स्त्रियामित्यधिकारे कृञ्धातोर्ण्यन्तात् कारि इत्यस्मात् ण्यासश्रन्थोयुजिति युचि अनादेशे सार्वधातुकार्धधातुकयोरिति गुणं बाधित्वा पूर्वविप्रतिषेधाण्णिलोपे स्त्रीत्वाद्यापि कारणेति रूपम् / वृद्धिरित्युदाहरणसूचनम् / कारक इति // कृञ्धातोर्ण्यन्तात्कारि इत्यस्माण्ण्वुलि अकादेशे वृद्धिं बाधित्वा पूर्वविप्रतिषेधाण्णिलोपे रूपम् / दीर्घ इत्युदाहरणसूचनम् / कार्यत इति // कृञ्धातोर्ण्यन्तात्कारि इत्यस्मात् कर्मणि लटि यकि अकृत्सार्वधातुकयोरिति दीर्घ बाधित्वा पूर्वविप्रतिषेधाण्णिलोपः / तथाच प्रकृते काम् इ अ त इत्यत्र एरनेकाच इति यणं बाधित्वा णिलोपे काम् अ त इति स्थितम् / णौचङीति // अङ्गाधिकारादाह / यदंगमिति // उपधायाः किम् / अचकांक्षत् / चङि किम् / कारयति / णौ किम् / चङ्युपधाया स्व इत्युच्यमाने अदीदपदित्यत दाधातोः ण्यन्तात् लुङि चङि दा इ अ त् इति स्थिते आकारस्य ह्रस्वे. सति पुक् न स्यात् / णावित्युक्तौ तु आकारस्य णौ परत उपधात्वाभावान ह्रस्वः / तथाच प्रकृते कम् अ त इति स्थितम् / चङीति // एकाचो द्वे प्रथमस्येति अजादेर्द्वितीयस्येति चा. धिकृतम् / लिटिधातोरनभ्यासस्येति सूत्रं लिटि इति वर्जमनुवर्तते / तदाह / चङि पर इ. त्यादिना // द्विवचनेऽचीति निषेधस्तु न शङ्कयः। द्वित्वनिमित्तचङः उपधया व्यवहितत्वात् / For Private And Personal Use Only
Page #93
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा 2316 / सन्वल्लघुनि चङ्परेऽनग्लोपे / (7-4-93) ‘चङ्परे' इति बहुव्रीहिः / अन्यपदार्थो णिः / स च 'अङ्गस्य' इति च द्वयमप्यावर्तते / अङ्गसंज्ञानिमित्तं यश्चङ्परं णिरिति यावत् तत्परं यल्लघु तत्परो योऽङ्गस्याभ्यासस्तस्य सनीव कार्य स्याण्णावग्लोपेऽसति / अथवा 'अङ्गस्य' इति नावर्तते / चङ्परे णौ यदङ्गं तस्य योऽभ्यासो लघुपरस्तस्येत्यादि प्राग्वत् / 2317 / सन्यतः। (7-4-79) तथाच कम् इत्यस्य द्वित्वे हलादिशेषे ककम् अ त इति स्थितम् / सन्वल्लघुनीति // अनग्लोप इति च्छेदः / बहुव्रीहिरिति // चङ् परो यस्मादिति विग्रह इति भावः / कर्मधारयमाश्रित्य चङि परे इति नार्थः / परग्रहणवैयर्थ्यात् / ननु बहुव्रीह्याश्रयणेऽपि अत्र लोपोऽ भ्यासस्येत्यतः अभ्यासस्येत्यनुवृत्तौ चपरके लघुनि परे अभ्यासः सन्वदित्यर्थो लभ्यते / तथा सति अण्यन्तेभ्यः श्रिद्रुषुभ्यश्चङि द्वित्वे अशिश्रियत् / अदुद्रवत् / असुस्रवदित्यत्रापि सन्वत्त्वं स्यात् / ततश्च दीर्घो लघोरिति सन्वद्भावविषये अभ्यासस्य वक्ष्यमाणो दीर्घः स्यादित्यत आह / अन्यपदार्थो णिरिति // तथाच चपरे णौ इति लभ्यते / अशिश्रियदित्यादौ च णेरभावात् न सन्वत्त्वमिति भावः। सचांगस्येति चेति // बहुव्रीहिगम्यो णि: अङ्गस्येत्यनुवृत्तं चेत्यर्थः। तत्र णाविल्यावृत्ती एकं लघुनीत्यत्रान्वेति। तथाच चपरे णौ यल्लघु तस्मिन्परत इति लभ्यते / द्वितीयन्तु अनग्लोपे इत्यत्रान्वेति / तथाच, णौ परतः यः अग्लोपः तस्याभावे सतीति लभ्यते / अङ्गस्येत्यावृत्ती एकश्चपरे इत्यत्रान्वेति / निमित्तनिमित्तिभावे षष्ठी। तथाच अङ्गसंज्ञानिमित्तभूते चपरके वर्णे परे इति लभ्यते / चपरकश्च वर्णः अर्थात् णेरिकार एव / न तु श्रिद्रुस्रुवामन्त्यवर्णः। तस्य अप्रत्ययत्वेन अङ्गसंज्ञाप्रापकत्वाभावात् / एतदर्थमेव अङ्गस्येत्यस्य निमित्तषष्ठयन्ततामाश्रित्य चपर इत्यनेनान्वयोऽभ्युपगतः / चपर इत्येतावतैव तु णाविति लभ्यते / श्रिद्रुस्रुष्वव्यभिचारात् / द्वितीयं त्वङ्गस्येत्येतत् अभ्यासस्येत्यनुवृत्तेन अन्वेति / सन्वदिति सप्तम्यन्ताद्वतिः / तदाह / अंगसंशानिमित्तमित्यादिना / अथवेति // अस्मिव्याख्याने चङ्घरे इत्येतत् अङ्गस्येत्यत्रान्वेति / न तु लघुनि / अङ्गस्य च प्रत्ययनिमित्तत्वादेव णेरन्यपदार्थस्य लाभः। लघुनीति तु अभ्यासस्येत्यत्रैवान्वेति / तदाह / चड्परे णौयदंगमित्यादिना। प्राग्वदिति // सनीवकार्य स्याण्णावग्लोपे असतीत्यर्थः / अत्र प्रथमपक्ष एव भाष्यसम्मतः। अजजागरदित्यत्र चपरे णौ यल्लघु तदभ्यासव्यवहितमिति न सन्वत्त्वमिति भाष्योक्तेः / एवञ्च / प्रथमपक्षे उदेय॑न्ताच्चडि द्वित्वे उदिदि अ त इत्यत्र अभ्यासोत्तरखण्डे चपरे णौ लघोरभावेनाभ्यासस्य तथाविधलघुपरकत्वविरहात् सन्वत्त्वाभावान्नाभ्यासदीर्घः / द्वितीयपक्षे तु चड्परे णौ यदङ्गं उद् इत्येतत् तदीयोऽभ्यास. श्चङमादाय लुप्तं णिमादाय वा लघुपर इति सन्वत्त्वसत्त्वादभ्यासदीर्घ इति भेदः / एवञ्च प्रकृते ककम् अ त इत्यत्र व्याख्याद्वयेऽपि सन्वत्त्वं स्थितम् / सन्यत इति // सनि अतः इति For Private And Personal Use Only
Page #94
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदीसहिता [भ्वादि अभ्यासस्यात इकारः स्यात्सनि / 2318 / दीर्घो लघोः (7-4-94) अभ्यासस्य लघोः दीर्घः स्यात्सन्वद्भावविषये / अचीकमत / णिङभावपक्षे / कमेश्च्लेश्ववक्तव्यः। णेरभावान्न दीर्घसन्वद्भावौ / अचकमत / संज्ञायाः कार्यकालत्वादङ्गं यत्र द्विरुच्यते / तत्रैव दीर्घः सन्वच्च नानेकाक्ष्विति माधवः / / च्छेदः / अत्र लोप इत्यतः अभ्यासस्येत्यनुवर्तते / भृञामिदित्यस्मात् इदिति / तदाह / अभ्यासस्येति // किकम् अ त इति स्थितम् / दी? लघोरिति // अत्र लोपोऽभ्यासस्येत्यतः अभ्यासस्येत्यनुवर्तते / तदाह / अभ्यासस्य लघोर्दीर्घ इति // अभ्यासावयवस्य लघोरित्यर्थः / सन्वल्लघुनिचड्पर इति सूत्रं सन्वच्छब्दवर्जमनुवर्तते / तच्च प्राग्वदेव द्वेधा व्याख्येयम् / तथाच फलितमाह। सन्वद्भावविषय इति // सन्यत इत्यत्र तपरत्वं स्पष्टार्थमिति दीर्घोऽकित इति सूत्रे भाष्ये स्पष्टम् / तथाच कि कम् अ तेत्यत्र अभ्यासेकारस्य दीर्घ अभ्यासचुत्वे अडागमे परिनिष्ठितं रूपमाह / अचीकमतेति // अत्र लघोर्णिपरत्वं येननाव्यवधानन्यायाद्बोध्यम् / णिङभावपक्षेत्विति // आयादय आर्धधातुकेवेति णिङो वैकल्पिकत्वादिति भावः / कमेश्च्लेश्चवक्तव्य इति // अण्यन्तत्वादप्राप्तौ वचनम् / णेरभावादिति // णिङभावपक्षे कमिधातोरनुदात्तेत्त्वात्तङि प्रथमपुरुषकवचने च्लेश्चडि द्वित्वे हलादिशेष अभ्यासचुत्वे अडागमे अचकमतेति रूपं वक्ष्यते / तत्र णेरभावात् दीर्घो लघोरित्यभ्यासलघोर्दी? न भवति / तत्र लघुनि चपरेऽनग्लोप इत्यनुवर्त्य चपरे णावेव तद्विधानोक्तेः / अत एव सन्वत्त्वाभावात्सन्यत इत्यभ्यासाकारस्य इत्त्वञ्च न भवतीत्यर्थः / दी? लघोरिति दीर्घविधौ सन्वत्त्वं न निमित्तम् / किन्तु लघुनि चङ्पर इत्यस्य तत्रानुवृत्या सन्वद्भावविषये तत्प्रवृत्तिः। अतः दीर्घसन्वद्भावाविति पृथगुक्तिः / अथ पञ्चभिः श्लोकैः सन्वद्भावसूत्रं दीर्घोलघोरिति सूत्रञ्च विशदयति / संज्ञाया इत्यादिना // अस्मिन् शास्त्रे कार्यकालं संज्ञापरिभाषमित्येकः पक्षः। कार्यकालमित्यस्य कार्यप्रदेशकमित्यर्थः / अस्मिन्पक्षे तत्तत्कार्यविधिप्रदेशेषु संज्ञाशास्त्रस्य परिभाषाशास्त्रस्य च उपस्थितिः। यथोद्देशं संज्ञापरिभाषमिति पक्षान्तरम् / उद्देशाः संज्ञापरिभाषाशास्त्रानानप्रदेशाः / तान् अनतिक्रम्य यथोद्देशं / संज्ञाशास्त्रं परिभाषाशास्त्रञ्च स्वप्रदेशे स्थितमेव तत्तद्विध्यपेक्षितं स्वस्वमर्थं समर्थयतीति यावत् / अस्मिन्पक्षे कार्यप्रदेशेषु संज्ञापरिभाषाभ्यान्तदर्थस्यैवोपस्थितिः / न तु संज्ञापरिभाषाशास्त्रयोरिति स्थितिः। सन्वल्लघुनीति सूत्रे, दी| लघोरिति सूत्रे च, अङ्गस्येति, अभ्यासस्येति, चानुवृत्तम् / तत्र कार्यकालपक्षे पूर्वोऽभ्यास इति सूत्रं सन्निहितम् / ततश्च अङ्गस्य ये द्वे उच्चारणे तयोः पूर्वः अभ्याससंज्ञः स सन्वद्भवतीति फलितम् / तत्र कृदन्तोच्चारणशब्दयोगादङ्गस्येति कर्मणि षष्ठी। नत्ववयवषष्ठी। कारकषष्ठया बलवत्त्वात् / अङ्गश्च प्रत्यये For Private And Personal Use Only
Page #95
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा चकास्त्यर्थापयत्यूर्णोत्यादौ नाङ्गं द्विरुच्यते / किं त्वस्यावयवः कश्चित्तस्मादेकाक्ष्विदं द्वयम् / / वस्तुतोऽङ्गस्यावयवो योऽभ्यास इति वर्णनात् / ऊौँ दीर्घोऽर्थापयतौ द्वयं स्यादिति मन्महे / / चकास्तौ तूभयमिदं न स्यात्स्याञ्च व्यवस्थया / विशेष्यं सन्निहितं लघुनीत्यङ्गमेव वा // परतः कृत्स्नमेव प्रकृतिरूपम् / न तु तदेकदेशः / ततश्च कृत्स्नमङ्गं यत्र द्विरुच्यते न तु तदेकदेशमात्रं तत्रैव दी? लघोरिति दीर्घः, सन्वल्लघुनीति सन्वद्भावश्च, भवति / एवञ्च अङ्गस्य एकाच्कत्वे सत्येव तयोः प्रवृत्तिः / तत्र कृत्स्नस्याङ्गस्य द्विरुक्तेः / अनेकाच्केषु तु अङ्गेषु न तयोः प्रवृत्तिः / तत्र एकस्यैव एकाचः अझैकदेशस्य द्विरुक्तेरिति माधवो मन्यत इति प्रथमश्लोकस्यार्थः / नानेकाश्वित्युक्तं विशदयति। चकास्तीति श्लोकेन। चकास दीप्तौ / अर्थमाचष्टे इत्यर्थे णिचि अर्थवेदयोरिति प्रकृतेरापुगागमे अर्थापिधातुः / ऊर्गुञ् आच्छादने / एते त्रयः अनेकाच्का धातवः / आदिना जागृनिद्राक्षय इत्यादिसङ्ग्रहः / एभ्यो ण्यन्तेभ्यश्चङि अझं कृत्स्नं न द्विरुच्यते / किंतु अङ्गस्य कश्चिदेकाजवयव एव द्विरुच्यते। तस्मात् अनेकाच्केषु कृत्स्नस्याङ्गस्य द्विरुक्त्यभावात् एकाच्केष्वेवाङ्गेषु दी| लघोरिति दीर्घः, सन्वल्लघुनीति सन्वद्भावश्चेत्येतद्वयं भवति। नत्वनेकाच्काङ्गेष्वित्यर्थः। नन्वेवं सति दिदरिद्रासति इत्यादी हलादिः शेष इत्याद्यभ्यासकार्यमनेकाच्कादझान्नस्यात् / कृत्स्नाङ्गस्य द्विरुक्त्यभावात् / किञ्च अजजागरदित्यत्र सन्वत्त्वमाशङ्कय णिपरकलघोर्गकाराकारस्य जा इत्यनेन व्यवहितत्वादभ्यासस्य न सन्वत्त्वमिति समाहितं भाष्ये / तदेतत् अनेकाच्काङ्गेषु सन्वत्त्वस्याप्रवृत्तौ विरुद्ध्येत / कृत्स्नस्याङ्गस्य द्विरुक्त्यभावादेव तत्र सन्वत्त्वस्याप्राप्तौ तच्छकाया एवानुन्मेषादित्यस्वारस्याद्यथोद्देशपक्षमालंब्याह / वस्तुत इति // अङ्गस्येत्यवयवषष्ठी। अङ्गावयवस्याभ्यासस्येति लभ्यते / ततश्च ऊर्गुजि ण्यन्ते चङि नु इत्येकदेशस्य द्वित्वेऽपि औYनुवदित्यत्र दीर्घो लघोरित्यभ्यासलघुर्दीघीभवति / सन्वत्त्वन्तु प्रयोजनाभावादुपेक्षितम् / अभ्यासे अकाराभावेन सन्यत इत्यस्यासम्भवात् / अर्थमाचष्टे इत्यर्थे णिचि प्रकृतेरापुकि अर्थापिधातोश्चङि णिलोपे उपधाहस्वे थप् इत्यस्य द्वित्वेऽपि आर्तथपदित्यत्र सन्वद्भावात् सन्यत इत्यभ्यासस्य इत्त्वं अभ्यासदीर्घश्चेति द्वयं भवतीति जानमि इति तृतीयश्लोकार्थः / अङ्गस्यावयव इति पक्षेऽपि चकास्तो विशेषमाह। चकास्तौत्विति // चतुर्थश्लोकोऽयम् / अवस्था वस्तुस्थितिः। व्यवस्थया पक्षद्वयेनेति यावत् / चपरे इत्यनेन अन्यपदार्थतया लब्धस्य णावित्यस्य सनिहितं लघुनीत्येतत् विशेष्यम् / तथाच चपरे णौ यल्लघु इति प्रथमव्याख्यानं फलितम् / अङ्गमेव वा विशेष्यम् / तथाच चपरे णौ यदङ्गमिति द्वितीयं ब्याख्यानं फलितम् / इति व्यवस्थया पक्षद्वयेन सन्वत्त्वं दीर्घश्चत्युभयमिदञ्चकासृधातौ ण्यन्ते चडि णिलोपे द्वित्वे अचचकासत् इत्यत्र न स्यात् , स्याचेत्यन्वयः / तत्र चपरे णौ यल्लध्विति व्याख्याने सति नैव उभयं स्यात् / चपरस्य णे: कास् इत्यनेन व्यवहितत्वात् / अचीकमतेत्यादौ त्वेकव्यवधानन्तु येन नाव्यव For Private And Personal Use Only
Page #96
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदीसहिता [भ्वादि इति व्याख्याविकल्पस्य कैयटेनैव वर्णनात् / णेरग्लोपेऽपि संबन्धस्त्वगितामपि सिद्धये / / अथ क्रम्यन्तास्त्रिंशत्परस्मैपदिनः / * अण 444 रण 445 वण 446 भण 447 मण 448 कण 449 कण 450 व्रण 451 भ्रण 452 ध्वण 453 शब्दा र्थाः' / अणति / रणति / वणति / वकारादित्वादेत्वाभ्यासलोपौ न / ववणतुः / ववणिथ / 'धणिः' अपि कैश्चित्पठ्यते / धणति / 'ओण 454 अपनयने' / ओणति / ओणांचकार / ‘शोण 455 वर्णगत्योः' / शोणति / शुशोण / श्रोण 456 संघाते' / श्रोणति / ' श्लोण 457 च' / शोणादयस्त्रयोमी तालव्योष्मादयः / पैण 458 गतिप्रेरणश्लेषणेषु' / ' प्रैण' इति कचित्पठ्यते / पिप्रैण / 'ध्रण 459 शब्दे' / उपदेशे नान्तोयम् / 'रषाभ्याम्-' (235) इति णत्वम् / ध्रणति / णोपदेशफलं यङ्लुकि / दन्ध्रन्ति / 'बण इत्यपि केचित् / बेणतुः / बेणिथ / 'कन 460 दीप्तिकान्तिगतिषु' / चकान / 'ष्टन धानन्यायात्सोढव्यमेव / चङ्परे णौ यदङ्गमिति व्यख्याने तु अचीचकासदित्यत्र उभयं स्यादेव / अङ्गस्य णिपरकत्वसत्त्वादिति योज्यम् / ननु चपरे णौ यल्लध्विति चपरे णौ यदङ्गमिति च व्याख्याभेदे किं प्रमाणमित्यत आह / इति व्याख्याविकल्पस्य कैयटेनैव वर्णनादिति // आदर्तव्यतेति शेषः / ननु णौ इत्यस्यावृत्तिमभ्युपगम्य अग्लोपेऽपि तदन्वयः किमर्थइत्यत आह / रग्लोपेऽपीति / अगितामिति // कमु कान्तावित्यादीनामपीत्यर्थः / सिद्धय इति // दीर्घसन्वत्त्वसिद्ध्यर्थमित्यर्थः / अन्यथा कमुप्रभृतीनामुकाराद्यनुबन्धलोपमादाय अग्लोपित्वात् दीर्घसन्वद्भावौ न स्यातामित्यर्थः / इति घिणिप्रभृतयः कम्यन्ता दश गताः। क्रम्यन्ता इति // क्रमु पादविक्षेपे इत्येतत्पर्यन्ता इत्यर्थः / अनुनासिकान्ता इति शेषः / अणरणेति // इतःप्रभृति कनदीप्तावित्यतः प्राक् मूर्धन्यान्तः / ओण इति // ऋदित्त्वं नाग्लोपीति निषेधार्थम् / ध्रणशब्द इति // अदुपधोऽयम् / उपदेश इति // धातूपदेशे अकारान्तोऽयम् / अकारस्य उच्चारणार्थस्य निवृत्तौ तवर्गपञ्चमान्त इत्यर्थः / तर्हि णकारस्य कथं श्रवणमित्यत आह / रषाभ्यामिति। णत्वमिति // ननु स्वाभाविक एव णकार इत्यस्तु / किअकारस्य कृतणत्वस्य निर्देश इति कल्पनयेत्यत आह / णोपदेशेति // नकारस्थानिकणोपदेशस्य नश्चेत्यनुस्वारात्मकं फलं यङ्लुकि प्रत्येतव्यमित्यर्थः / दन्ध्रन्तीति // ध्रणधातोर्यङ्लुकि द्वित्वे हलादिशेषे नुगतोऽनुनासिक्रान्तस्येत्यभ्यासस्य नुकि उत्तरखण्डे णकारस्यासिद्धत्वे अनुस्वारे परसवर्णे तस्यासिद्धत्वात् णत्वाभावे नकारस्यैव श्रवणम् / स्वाभाविकणकारोपदेशे तु उत्तरखण्डे णकार एव श्रूयेत इति भावः / बणेत्यपीति // पवर्गतृतीयादिरिति भावः / कनदीप्तीत्यारभ्य अमगत्यादिष्वित्यतः प्राक् तवर्गपञ्चमान्ताः / ष्टनवनेति // आद्यः षोपदेशः। तृत्वसम्पन्नः For Private And Personal Use Only
Page #97
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा 461 वन 462 शब्दे' / स्तनति / वनति / 'वन 463 षण 464 संभक्तौ'। वनेरर्थभेदात्पुनः पाठः / सनति / ससान / सेनतुः। 2319 / ये विभाषा / (6-4-43) जनसनखनामात्त्वं वा स्याद्यादौ किति। सायात-सन्यात् / 'अम 465 गत्यादिषु'। 'कनदीप्तिकान्तिगति-' इत्यत्र गतेः परयोः शब्दसंभक्त्योरादिशब्देन ग्रहः / अमति / आम / 'द्रम 466 हम्म 467 मीम 468 गतौ' / द्रमति / दद्राम / ‘ह्मथन्त-' (2299) इति न वृद्धिः। अद्रमीत् / हम्मति / जहम्म / मीमति / मिमीम / अयं शब्दे च / 'चमु 469 छमु 470 जमु 471 झमु 472 अदने'। 2320 / ष्ठिवुक्लमुचमां शिति / (7-3-75) एषामचो दीर्घः स्याच्छिति / आङि चम इति वक्तव्यम् / आचामति / 'आङि' किम् / चमति विचमति / अचमीत् / जिमि केचित्पठन्ति / जेमति / क्रमु 473 पादविक्षेपे'। टकारः। तदाह। स्तनतीति। वनषणेति॥ द्वितीयः षोपदेशः / ननु टनवनशब्द इति, वने: पठितस्य पुनः पाठो व्यर्थ इत्यत आह / अर्थभेदादिति // वनेः शब्दे सम्भक्तौच वृत्तिरिष्टा / टनेस्तु शब्द एव वृत्तिरिष्टा / तत्र टन वन षण शब्दे सम्भक्तौ चेत्युक्तौ टनेरपि सम्भक्तौ वृत्तिः स्यात् / टन शब्द इत्युक्त्वा षण सम्भक्तीचेति पाठे तु गौरवमिति भावः / आशीलिङि विशेषमाह। ये विभाषेति // जन सन खनां सन् झलोरित्यतः जनसनखनामित्यनुवर्तते / अनुदात्तोपदेशेत्यतः विडतीति / ये इति तद्विशेषणम् / अकार उच्चारणार्थः / तदादिविधिः। विड्वनोरनुनासिकस्यादित्यतः आदित्यनुवर्तते / तदाह / जनसनखनामित्यादिना। सायादिति // नकारस्य आत्वे सवर्णदीर्घः। द्रम हम्म मीम गताविति // आद्योऽदुपधः। न वृद्धिरिति॥ अद्रमादित्यत्र हलन्तलक्षणायां वृद्धौ नेटीति निषिद्धायां मयन्तेत्यतो अतोहलादेरिति वृद्धिर्नेत्यर्थः / जहम्मति // अभ्यासचुत्वेन हस्य झः / तस्य अभ्यासेचर्चेत्यनेन जः / मिमीमेति // मीम. धातोणलि द्वित्वे अभ्यासहूस्वः / अयंशब्दे चेति। मीमृधातुरित्यर्थः / ष्ठिवुक्लम्विति // शमामष्टानां दीर्घः श्यनीत्यतः दीर्घ इत्यनुवर्तते। दीर्घश्रुत्या अच इत्युपस्थितम् / तदाह / एषामचो दीर्घ इति // ठिवु क्लमु आचम् एषां द्वन्द्वः। आचम् इत्यनेन आङ्पूर्वकस्य चमेग्रहणम् / अचमीदिति // मपन्तेति न वृद्धिः / क्रमुपादेति // उदित्वमुदितो वेति विकल्पा For Private And Personal Use Only
Page #98
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदीसहिता [भ्वादि 2321 / वा भ्राशभ्लाशभ्रमुक्रमुक्तमुत्रसित्रुटिलषः / (3-1-70) एभ्यः श्यन्वा स्यात्कर्थे सार्वधातुके परे / 2322 / क्रमः परस्मैपदेषु / (7.3-76) क्रमेर्दीर्घः स्यात्परस्मैपदे परे शिति / क्राम्यति-क्रामति / चक्राम / क्राम्यतु-क्रामतु। 2323 / स्नुक्रमोरनात्मनेपदनिमित्ते / (7-2.36) अत्रैवेट / अक्रमीत् / अथ रेवत्यन्ता अनुदात्तेतः / 'अय 474 वय 475 पय 476 मय 477 चय 478 तय 479 णय 480 गतौ' / अयते / 2324 / दयायासश्च / (3.1-37) र्थम् / वा भ्राशेति // दिवादिभ्यश्श्यनित्यतः श्यन्निति, कर्तरिशवित्यतः कर्तरीति, सार्वधातुके यगित्यतः सार्वधातुक इति, चानुवर्तते / तदाह / एभ्यः श्यन्वेत्यादि ॥क्रम इति / दीर्घः स्यादिति // शमामष्टानामित्यतः तदनुवृत्तेरिति भावः / शितीति // ष्टिवुक्लम्वाचमामित्यत स्तदनुवृत्तेरिति भावः / कामत्विति // मध्यमपुरुषैकवचने कामेत्यत्र तु क्रमः परस्मैपदेष्विति दीर्घा भवत्येव / नच दीर्घस्याङ्गाधिकारस्थत्वात् नलुमतेति निषेधः शङ्कयः / लुमता लुप्ते प्रत्यये यदङ्ग तस्य कार्य एव तस्य प्रवृत्तेः / शितिपरतः क्रमेरङ्गस्य दीर्घस्तु न लुप्तप्रत्यये परस्मैपदे परे अङ्गस्य कार्यम् किन्तु शिति परे अङ्गस्य कार्यमिति बोध्यम् / स्नुक्रमोरिति // पञ्चम्यर्थे षष्ठी आत्मनेपदनिमित्तस्याभावः अनात्मनेपदनिमित्तम् / अर्थाभावे अव्ययीभावेन सह नञ्तत्पुरुषो विकल्पत इत्युक्तेः समासः / आत्मनेपदनिमित्ताभावे सति स्नुक्रम्भ्यां परस्य वलाद्यार्धधातुकस्य इट् स्यादित्यर्थः / स्नुक्रमोरनुदात्तोपदेशानन्तर्भावादिति सिद्ध वचनमिदं नियमार्थमित्याह / अत्रैवेडिति // एवञ्च भावकर्मलकारेषु इण्ण भवति / उपस्नोष्यते जलेन / भावलकारोऽयम् / उपक्रम्यते। कर्मणि लट / यक् / प्रस्तुतमित्यत्र तु युकः कितीति निषेधान्नेट् / आर्धधातुकस्येलादेरिति इतिधेः पुरस्तात्प्रतिषेधकाण्डारम्भसामर्थ्यात् / स्नुक्रमोरनात्मनेपद इति तु न सूत्रितम् / आत्मनेपदाभन्ने परस्मैपदे परे इत्यर्थे विक्रमिष्यतीव्यसिद्धेः / स्येन व्यवधानात् / आत्मनेपदे परे नेडित्यर्थे तु प्रचिक्रसिष्यत इत्यसिद्धिः / अतो निमित्तग्रहणमित्यलम् / अक्रमीदिति // ह्यन्तेति न वृद्धिः / इति क्रम्यन्ताः परस्मैपदिनो गताः / रेवत्यन्ता इति // रेव प्लवगतावित्येतत्पर्यन्ता इत्यर्थः / अयपयेत्यारभ्य शलचलने इत्यतः प्राक् यकारान्ताः / दयायासश्चेति // दय अय् आस् एषां समाहारद्वन्द्वात्पञ्चम्येकवचनम् / कास For Private And Personal Use Only
Page #99
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम] बालमनोरमा / 97 'दय' 'अय' आस्' एभ्य आम् स्याल्लिटि / अयाञ्चक्रे / अयिता / अयिषीष्ट / 2325 / विभाषेटः / (8-3-79) इणः परो य इट् तत: परेषां पीध्वंलुङ्लिटां धस्य वा मूर्धन्यः स्यात। अयिषीढ़म-अयिषीध्वम् / आयिष्ट / आयिदम्-आयिध्वम् / 2326 / उपसर्गस्यायतौ / (8-2-19) अयतिपरस्योपसर्गस्य यो रेफस्तस्य लत्वं स्यात् / प्लायते--पलायते / निस्दुसो रुत्वस्यासिद्धत्वान्न लत्वम् / निरयते / दुरयते / निर्दुरोस्तु निलयते / दुलयते / ' प्रत्ययः' इति त्विणो रूपम् / अथ कथम् ‘उदयति विततोर्ध्वरश्मिरजौ' इति माघः / इट' : किट' कटी' इत्यत्र प्रश्लिष्टस्य एभविष्यति / यद्वा * अनुदात्तत्त्वलक्षणमात्मनेपदमनित्यम (प 97) / चक्षिङो डित्करणाज्ज्ञापकात / धादित्वात् ववये / पेये / मेये / चेये / तेये / प्रणयते / नेये / 'दय प्रत्ययादित्यतः आम् लिटील्यनुवर्तते / तदाह / एभ्य आम् स्याल्लिटि इति / विभाषेटः॥ 'इणः पीवं लुङ् लिटान्धः' इत्यनुवर्तते / अपदान्तस्येत्यतो मूर्धन्य इति च / तदाह / इणः परो य इडित्यादि // इण्णन्तादशादित्यर्थः / अयिषीवमिति // आशीर्लिडो ध्वमः सीयुट्। यलोपः / आर्धधातुकत्वान्न सलोपः। इट्। यकारादिणः परो य इट् ततः परत्वात धस्य मूर्धन्यो ढः / इट: परभक्तत्वाद्यकारान्तादङ्गात् परस्य इषीध्वमः इण्णन्तादङ्गात्परत्वान्नित्ये प्राप्ते विकल्पोऽयम् / आयिवामिति // लुङो ध्वमि च्ले: सिचि आटि वृद्धौ सिच इटि धि चेति सलोपः / ध्वम इवान्तादङ्गात्परत्वानित्ये प्राप्ते विकल्पः / अङ्गादिति निवृत्तमिति केचित् / उपसर्गस्यायतौ // अयताविति श्तिपा निर्देशः / 'कृपोरोल' इत्यतः रोल इत्यनुवर्तते / तदाह / अयतिपरस्येत्यादिना / प्लायत इति // प्र इत्युपसर्गः / पलायत इति // परा इत्याकारान्त उपसर्गः / ननु निरयते दुरयत इत्यत्रापि लत्वं स्यादित्यत आह / निस् दुसो. रिति // तर्हि निलयते दुलयत इति कथमित्यत आह / निर्दुरोस्त्विति // एतदर्थमेव प्रादिषु सान्तयोरेफान्तयोश्च निर्देश इति भावः / तर्हि प्रत्यय इत्यत्रापि प्रतेरयतिपरत्वात् रस्य लत्वं स्यादित्यत आह / प्रत्यय इति त्विति // प्रतिपूर्वकादिग्धातोरच्प्रत्यये प्रत्यय इति रूपम् / अयतिपरत्वाभावान्नलत्वमित्यर्थः / अयधातुमादाय प्लत्यय इति न / अनभिधानादिति कैयटः / कथमुदयतीति // उत्पूर्वकादयधातोः शत्रन्तात्सप्तम्यन्तमिति मत्वा आक्षेपः / अनुदात्तेत्त्वेन लटइशानच्प्रसङ्गादिति भावः / प्रश्लिष्टस्येति // इधातोरिति शेषः / तस्य अनुदात्तेत्त्वाभावाच्छतृप्रत्ययो निर्बाध इति भावः / ज्ञापकादिति // चक्षिधाती इकारस्य अनुदात्ततया अनुदात्तेत्त्वादेव आत्मनेपदसिद्धौ डित्करणं अनुदात्तत्त्वप्रयुक्तात्मनेपदस्य अनित्यतां ज्ञापयति / तस्य अनित्यत्वेतु नित्यात्मनेपदार्थ ङित्करणमर्थवदिति भावः / 13 For Private And Personal Use Only
Page #100
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 98 सिद्धान्तकौमुदीसहिता [भ्वादि 481 दानगतिरक्षणहिंसादानेषु' / आदानं ग्रहणम् / दयाञ्चक्रे / 'रय 482 गतौ'। ऊयी 483 तन्तुसन्ताने' / ऊयाञ्चक्रे / 'पूयी 484 विशरणे दुर्गन्धे च' / पूयते / पुपूये / 'क्नूयी 485 शब्दे उन्दने च' / चुक्नूये / 'क्ष्मायी 486 विधूनने' / चक्ष्माये / 'स्फायी 487 ओ प्यायी 488 वृद्धौ' / स्फायते / पस्फाये / प्यायते। ___2327 / लिड्यङोश्च / (6-1-29) लिटि यङि च प्यायः पीभाव: स्यान / पुनःप्रसङ्गविज्ञानात पीशब्दम्य द्वित्वम् / एरनेकाच:-' (सू 272) इति यण् / पिप्ये / पिप्याते / पिपियरे / 2328 / दीपजनबुधपूरितायिप्यायिभ्योऽन्यतरस्याम् / (3-1-61) एभ्यश्च्लेश्चिण्वा स्यादेकवचने तशब्दे परे / 2329 / चिणो लुक् / (6-4-104) चिण: परस्य तशब्दस्य लुक्स्यात् / अप्यायि-अप्यायिष्ट / ताय 489 सन्तानपालनयोः' / सन्तानः प्रबन्धः / तायते / तताये / अनायि-अतायिष्ट / इदन्तु भाष्ये न दृश्यते / वादित्वादिति // वयधातोर्लिटि वादित्वादेत्वाभ्यामलोपयोरभावे सति ववये इति रूपमित्यर्थः / णयधातुर्णोपदेश इति मत्वा आह / प्रणयत इति // उपसर्गादसमासेऽपीति णत्वमिति भावः। दयाञ्चक इति // ‘दयायासश्च' इत्याम् / ऊयाञ्चक्र इति // इजादित्वादाम् / उन्दने चेति // क्लेदने चेत्यर्थः / स्फायी ओ प्यायीति // ओदित्त्वं 'ओदितश्च' इति निष्ठानत्वार्थम् / ईदित्वन्तु श्वीदितो निष्ठायामिति इडिकल्पार्थम् / लिड्यङोश्च // लिट्च यङ्चेति द्वन्द्वात्सप्तमी। ‘प्याय: पी' इति सूत्रमनुवर्तते / तदाह / लिटि यङि चेति // ननु प्यायेलिटि द्वित्वं बाधित्वा परत्वात् पीभावे 'द्वित्वे एरनेकाचः' इति यणि पिप्ये इति रूपमिष्यते / तत्र द्वित्वम्बाधित्वा परत्वात् पीभावे कृते पुनर्द्वित्वं न सम्भवति / 'विप्रतिषेधे यद्बाधितं तद्बाधितमेव' इति न्यायादित्यत आह / पुनःप्रसङ्गेति // 'पुनःप्रसङ्गविज्ञानात् सिद्धम्' इति परिभाषा। विप्रतिषेधे बाधितस्यापि पुनःप्रवृत्तेरभ्युपगमात्कृतेऽपि पीभावे द्वित्वादिकं सिद्धमिति तदर्थः / दीपजन // 'च्ले: सिच्' इत्यतः ग्लेरिति, 'चिण् ते पदः' इत्यस्मात् चिण ते इति चानुवर्तते। तदाह / एभ्यश्च्लेरिति / एकवचन इति // दीपादीनामात्मनेपदित्वेन तेभ्यस्तशब्दस्य एकवचनत्वनियमादिति भावः / चिणो लुक् // चिण इति पञ्चमी / तदाह / चिणः परस्येति // चिण: परश्च अर्थात् तशब्द एव भवति / चिणभावे च्ले: सिचि रूपमाह / अप्यायिष्टेति / ताय सन्तान इति // 'लुडि दीपजन' इति च्लेश्चिणि तलोपे रूपमाह / अतायीति // चिणभावे सिचि अतायिष्टेति रूपम् / For Private And Personal Use Only
Page #101
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा / 'शल 490 चलनसंवरणयोः' / * वल 491 वल्ल 492 संवरणे सञ्चरण च' / ववले / ववल्ले / ' मल 493 मल्ल 494 धारणे' / मेले ममल्ले / 'भल 495 भल्ल 496 परिभापणहिंसादानेषु' / बभले / बभल्ले। 'कल 497 शब्दसङ्ख्यानयोः' / कलते / चकले / 'कल्ल 498 अव्यक्ते शब्दे' / कल्लते / ' अशब्दे' इति स्वामी / अशब्दस्तूष्णीभाव इति च / * ते 499 देवृ 500 देवने' / तितेवे / दिदेवे / वृ 501 गेवृ 502 ग्लेवृ 503 पेय 504 ‘मेवृ 505 म्लेवृ 506 सेवने' / 'परिनिविभ्यः-' (सू 2275) इति पत्वम / परिषेवते / सिषेवे / अयं सोपदेशोऽपीति न्यासकारादयः / तद्भाष्यविरुद्धम् / गेवते / जिगेवे / जिग्लेवे / पिपेवे / मेवते / म्लेवते / ' शेवृ' खे' 'क्लेवृ' इत्यप्येके / रेवृ 507 प्लवगतौ' / प्लवगति: प्लुतगतिः / रेवते / अथावत्यन्ता: परस्मैपदिनः / ‘मव्य 508 बन्धने' / ममव्य / सूj 509 ईर्ष्या 510 ईर्घ्य 511 ईर्ष्यार्थाः' / 'हय 512 गतौ' / अहयीत् / यान्तत्वान्न वृद्धिः / 'शुच्य 513 अभिषवे / अवयवानां शिथिलीकरणं सुराया: सन्धानं वा अभिषवः / स्नानं च / शुशुच्य / 'चुच्य' इत्येके / ‘हर्य 514 गतिकान्त्योः ' / जहर्य / ‘अल 515 भूषणपर्याप्तिवारणेपु' / अलति / आल / 2330 / अतो ल्रान्तस्य / (7-2-2) 'र' इति लुप्तषष्ठीकम् / अतः समीपौ यौ ल्रौ तदन्तस्याङ्गस्यातो वृद्धिः स्यात्परस्मैपदपरे सिचि / नेटि' (सू 2268) इति निषेधस्य * अतो शलचलेल्यारभ्य ते इत्यतः प्राक लान्ताः / तेवृ इत्यारभ्य रेवत्यन्ता वकारान्ताः / षेवधातोः पोपदेशत्वात्सत्वे सेवत इत्यादि रूपम् / परिषेवत इत्यत्र ‘सात्पदाद्योः' इति निषेधे प्राप्त आह / परिनिविभ्य इति / सिषेवे इति // आदेशसकारत्वात् षत्वमिति भावः / अयं सोपदेशोऽपीति // षेधातुरित्यर्थः / तद्भाष्यविरुद्धमिति // सेक सृप् स स्तृ सृजस्तृस्त्यानामेव भाष्ये षोपदेशपयुदासादिति भावः / रेवृ प्लवगताविति // प्लवेति न धात्वन्तमिति सूचयन्नाह / प्लवगतिः प्लुतगतिरिति // अयपयेत्यादिरेवत्यन्ता गताः / अवत्यन्ता इति // अव रक्षणे इत्येतत्पर्यन्ता इत्यर्थः। मव्येत्यारभ्य अल भूषणेत्यतः प्राक् यकारान्ताः / अल भूषणेत्यारभ्य खोर प्रतीघात इत्यतः प्राक् लकारान्ताः / अतोलान्तस्य // ‘मिचि वृद्धिः परस्मैपदेषु' इत्यनुवृत्तम् / अस्येत्यधिकृतम् / तद्विशेषणत्वात्तदन्तविधिनैव सिद्ध अन्तग्रहणं व्यर्थम् / तत्राह / लेतिलुप्तषष्ठीकमिति // र अन्तस्य इति छेदः। ल च रचेति समाहारद्वन्द्वात् षष्ठ्येकवचनं लुप्तम् / रस्यान्तस्येति सामानाधिकरण्येनान्वयः / For Private And Personal Use Only
Page #102
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदीसहिता [भ्वादि हलादेः' (सू 2284) इति विकल्पस्य चापवादः / मा भवानलीत् / अयं स्वरितेदित्येके / तन्मते अलते इत्याद्यपि / 'ञि फला 516) विशरणे' / 'तृफल-' (सू 2301) इत्येत्वम् / फेलतुः फेलुः / अफालीत् / 'मील 517 श्मील 518 स्मील 519 क्ष्मील 520 निमेषणे' / निमेषणं सङ्कोचः / द्वितीयस्तालव्यादिः / तृतीयो दन्त्यादिः / ‘पील 521 प्रतिष्टम्भे' प्रतिष्टम्भो रोधनम् / ‘णील 522 वर्णे'। निनील / 'शील 523 समाधौ' / शीलति / 'कील 524 बन्धने'। कूल 525 आवरणे'। 'शूल 526 रुजायां सङ्घोषे च'। तूल 527 निष्कर्षे' / निष्कर्षो निष्कोषणम / तच्चान्तर्गतस्य बहिनिस्सारणम् / तुतूल / 'पूल 528 सङ्घाते' / मूल 529 प्रतिष्ठायाम् / ' फल 530 निष्पत्तौ' / फेलतुः / फेलुः / 'चुल्ल 531 भावकरणे' / भावकरणमभिप्रायाविष्कारः / * फुल्ल 532 विकसने' / 'चिल्ल 533 शैथिल्ये भावकरणे च'। तिल 534 गतौ' / तेलति / * तिल्ल' इत्येके / तिल्लति / 'वेल 535 चेल 536 केल. 537 खेल 538 श्वेल 539 वेल्ल 540 चलने' / पञ्च ऋदितः / षष्ठो लोपधः / 'पेल. 541 फेल 542 शेल. 543 गतौ' / 'घेल' इत्येके / स्खल 544 सञ्चलने' / चस्खाल / अस्खालीत् / 'खल 545 सञ्चये' / 'गल 546 अदने' / गलति / अगालीत् / 'पल 547 गतौ' / सलति / 'दल 548 विशरणे' / 'श्वल 549 श्वल्ल 550 अत इति व्यधिकरणषष्ठ्यन्तम् अन्तस्येत्यत्रान्वेति / अन्तशब्दः समीपवर्तिवाची / तथाच अतः समीपवर्तिनो रस्येति लभ्यते / रस्येत्यङ्गविशेषणत्वात्तदन्तविधिः / ततश्च अत्समीपवर्तिरेफलकारान्तस्य अङ्गस्य सिचि वृद्धिरिति लभ्यते। अत इत्यावृत्तं वृद्धौ स्थानित्वेनान्वेति / तदाह / अतस्समीपावित्यादिना // अतः समीप इति किम् / अखोरीत् / अमौलत् / ल्रान्तस्येति किम् / मा भवानतीत् / अतो वृद्धिरित्युक्त्वा अतः समीपावित्यनुक्तौ तु अवधीत् अश्वहीदित्यत्रातिव्याप्तिः / अत्र अङ्गस्यान्तौ रेफलकारौ नातः समीपाविति न वृद्धिः / नचात्र अतः भकारेण लकारेण च व्यवहितत्वादेव न वृद्धिः / आलादित्यादौ एकव्यवधाने चरिता थत्वादिति वाच्यम् / सिचि परे यदङ्गन्तदकारस्य वृद्धिरित्याश्रयणे अतिव्याप्तिवारणार्थत्वात् / त्रि फलेति // विदारणं शिथिलीभावः / 'आदिर्जिटुडवः' इति निरित् / ‘जीतः क्तः' इति प्रयोजनम् / 'आदितश्च' इति इडिकल्पार्थमादित्वम् / लिण्णिमित्तादेशादित्वादप्राप्त आह / तृफलेति। मील "मीलेति // निमेषणं नेत्रसङ्कोचः / सङ्कोच इति पाटेऽप्ययमेवार्थः। नीलवर्ण इति // वर्णक्रियायामित्यर्थः / फल निष्पत्ताविति // जि फलेति पूर्व पठितम् / अनु. For Private And Personal Use Only
Page #103
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा / 101 आशुगमने'। शश्वाल / अश्वालीत् / शश्वल्ल / अश्वल्लीत् / ‘खोल 551 खोर्चा 552 गतिप्रतिघाते' / खोलति / खोरति / 'धोत्रं 553 गतिचातुर्ये' / धोरति / 'त्सर 554 छद्मगतौ' / तत्सार / अत्सारीत। 'क्मर 555 हूर्छने' / चक्मार / 'अभ्र 556 वभ्र 557 मध्र 558 चर 559 गत्यर्थाः' / चरतिर्भक्षणेऽपि / अभ्रति / आनभ्र / मा भवानभ्रीत् / अङ्गान्त्यरेफस्यात: समीपत्वाभावान्न वृद्धिः / प्ठिवु 560 निरसने' / ष्ठिवुलमु-' (सू 2320) इति दीर्घः / ष्ठीवति / अस्य द्वितीयो वर्णष्ठकारो वेति वृत्तिः / तिष्ठेव / तिष्ठिवतुः / तिष्ठिवुः / टिष्ठेव / टिष्ठिवतुः / टिष्ठिवुः / * हलि च' (सू 354) इति दीर्घः / ठीव्यात् / ‘जि 561 जये' / अयमजन्तेषु पठितुं युक्तः / जयः उत्कर्षप्राप्तिः / अकर्मकोऽयम् / जयति / 2331 / सन्लिटोर्जेः / (7-3-57) जयते: सन्लिण्णिमित्तो योऽभ्यासस्तत: परस्य कुत्वं स्यात् / जिगाय / जिग्यतुः जिग्युः / जिगयिथ-जिगेथ / जिगाय-जिगय / जिग्यिव / जिग्यिम / बन्धभेदात्पुनः पाठः / खोल खो: इति // द्वितीयो रेफान्तः / ऋदित् / इत आरभ्य प्टिवेः प्राक रेफान्ताः / धोक्र गतिचातुर्य इति // अश्वगतिविशेष इत्यर्थः / रेफान्तोऽयम् / ऋदित् / त्सर छद्मगताविति // कपटगतावित्यर्थः / क्मर हर्छन इति // कुटिलीभवन इत्यर्थः / ष्टिबु निरसन इति // इदुपधः / उदित् / इत आरभ्य ऊष्मान्तेभ्यः प्राक वकारान्ताः / तिपि शपि लघूपधगुणे प्राप्ते आह / ष्ठिवुक्लम्वितीति // ल्युटि तु शित्परकत्वाभावात् दीर्घाभावे लघूपधगुणः / ष्टीवनमिति तु पृषोदरादित्वात् समाधेयम् / अस्येति // प्टिवुधातोः द्वितीयो वर्ण: थकार इत्यर्थः / कृतष्टुत्वस्य निर्देश इति भावः / पोपदेशोऽयम् / केवलदन्त्यथकारपरकसादित्वात्योपदेशत्वेऽपि न सत्वम् / ‘सुब्धातुष्टिवु' इति निषेधात् / लिटि तु 'शपूर्वाः खयः' इति षकारवकारयोनिवृत्त्या षत्वनिवृत्तौ रूपमाह / तिष्ठेवेति // ठकारस्य स्वाभाविकत्वे तु टिष्ठेवेति रूपम् / जि जय इति // जिधातुरनिटकः / सन्लिटोर्जेः // ‘अभ्यासाच्च' इति सूत्रात् अभ्यासादित्यनुवर्तते / 'चजोः कुघिण्यतोः' इत्यस्मात् कु इति च / सन्लिटोरिति निमित्तसप्तमी अभ्यासे अन्वेति / तदाह-सन्लिण्णिमित्तो. योऽभ्यास इत्यादि // सनि लिटि च अभ्यासात् परस्य कुत्वमिति व्याख्याने तु यलुगन्तात् सनि जेजयिषति इत्यत्र कुत्वं स्यात् / अतः सन्लिण्णिमित्तो योऽभ्यास इति व्याख्येयमिति माधवः / जिगायेति // णलि द्वित्वे वृद्धौ उत्तरखण्डे जस्य कुत्वेन गः / जिग्यतुरिति // कित्त्वागुणाभावः / लिटि एकाच इति इणिषेपं बाधित्वा कादिनियमादिटि प्राप्ते थलि ‘अचस्तास्वत्' इति तनिषेधस्य भारद्वाजनियमाद्विकल्पः / तदाह / जिगयिथ / जिगेथेति // जिग्यथुः / For Private And Personal Use Only
Page #104
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदीसहिता [भ्वादि जेता। जीयात् / अजैषीन् / ‘जीव 562 प्राणधारणे'। जिजीव / ‘पीव 563 मीव 564 तीव 565 णीव 566 स्थौल्ये' / पिपीव / मिमीव / तितीव / निनीव / 'क्षीवु 567 क्षेवु 568 निरसने' / ' उर्वी 569 तुर्वी 570 थुर्वी 571 दुर्वी 572 धुर्वी 573 हिंसाः ' / ऊर्वाञ्चकार / 'उपधायां च' (सू 2265) इति दीर्घः / तुतूर्व / ‘गुर्वी 574 उद्यमने' / गूर्वति / जुगूर्व / 'मुर्वी 575 बन्धने' / 'पुर्व 576 पर्व 577 मर्व 578 पूरणे / 'चर्व 579 अदने' / 'भर्व 580 हिंसायाम्। 'कर्व 581 खर्व 582 गर्व 583 दर्प'। 'अर्व 584 शर्व 585 पर्व 586 हिंसायाम' / आनर्व / शर्वति / सर्वति / 'इवि 587 व्याप्तौ' / इन्वति / इन्वां चकार / 'पिवि 588 मिवि 589 णिवि 590 सेचने'। तृतीयो मूर्धन्योष्मादिरित्येके / 'सेवने' इति तरङ्गिण्याम् / पिन्वति / पिपिन्व / * हिवि 591 दिवि 592 धिवि 593 जिवि 594 प्रीणनार्थाः' / हिन्वति दिन्वति / __2332 / धिन्विकृण्व्योर च / (3-1-80) अनयोरकारोऽन्तादेश: स्यादुप्रत्ययश्च शब्विषये / अतो लोप:' (सू 2308) / तस्य स्थानिवद्भावाल्लघूपधगुणो न / उप्रत्ययस्य पित्सु गुणः / धिनोति / धिनुतः / धिन्वन्ति / जिग्य / ‘णलुत्तमो वा' इति मत्वा आह / जिगाय। जिगयेति // कादिनियमादिटं मत्वा आह। जिग्यिव / जिग्यिमेति / जेतेति // जेष्यति। जयतु / अजयत् / आशालिडि 'अकृत्सार्वधातुकयोः' इति दीर्घ मत्वा आह / जीयादिति / अजैषीदिति // ‘सिंच वृद्धिः' इति बृद्धिरिति भावः / अजेष्यत् / पर्वधातुष्षोपदेशः। इविधातोरिदित्त्वान्नुम् / तदाह / इन्वतीति। इन्वाञ्च. कारेति // नुमि इजादिगुरुमत्त्वादामिति भावः / पिविमिवीत्यादय इदितः / धिन्विकृण्व्योः // अ इति लुप्तप्रथमाकम् / धिविकृव्योः कृतनुमोः धिन्विकृण्वीति निर्देशः / 'तनादिकृजभ्य उ:' इत्यतः उरिति चकारादनुकृष्यते। 'कर्तरि कृत्' इत्यतः कर्तरीति, सार्वधातुके यगित्यतः सार्वधातुक इति च / तदाह / अनयोरित्यादिना // वकारस्याकारः धिन उ ति इति स्थितम् / अतो लोप इति // युगपत्सन्नियोगशिष्टतया उप्रत्ययाकारयोरार्धधातुकयोरुपदेशकाले धिन इत्यस्यादन्तत्वमिति भावः / नन्वत्र वकारस्य लोप एव विधीयतां , किमकारविधिनेत्यत आह / तस्येति // वकारस्य लोपविधौ तु अजादेशत्वाभावात् स्थानिवत्त्वं न स्यादिति भावः / तथा च, धिनु ति इति स्थिते आह / उप्रत्ययस्येति / चिनुत इति / / धिविधातोर्नुमि तसि उप त्यये वकारस्य अकारादेशे अतो लोपे तसो डित्वादुकारस्य न गुणः / धिन्वन्तीति // धिन्व इत्य For Private And Personal Use Only
Page #105
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणमा बालमनोरमा / 103 2333 / लोपश्चास्यान्यतरस्यां म्वोः / (6-4-107) असंयोगपूर्वो यः प्रत्ययोकारस्तदन्तस्याङ्गस्य लोपो वा स्यात् म्वोः परयोः / धिन्व:-धिनुवः / धिन्म:-धिनुमः / मिपि तु परत्वाद्गुणः / धिनोमि / 2334 / उतश्च प्रत्ययादसंयोगपूर्वात् / (6-4-106) असंयोगपूर्वो य: प्रत्ययोकारस्तदन्तादङ्गात्परस्य हेर्लुक्स्यात् / धिनु / नित्यत्वादुकारलोपात्पूर्वमाट् / धिनवाव / धिनवाम / जिन्वतीत्यादि / ‘रिवि 595 रवि 596 धवि 597 गत्यर्थः:' / रिण्वति / रण्वति / धन्वति / 'कृवि 598 हिंसाकरणयोश्च / चकाराद्गतौ / ‘कृणोति' इत्यादि धिनोतिवत् / अयं स्वादौ च / 'मव 599 बन्धने' / मवति / मेवतुः / मेवुः / अमवीत्अमावीत् / 'अव 600 रक्षणगतिकान्तिप्रीतितृप्त्यवगमप्रवेशश्रवणस्वाम्यर्थयाचनक्रियेच्छादीप्त्यवाप्त्यालिङ्गनहिंसादानभागवृद्धिषु'। अवति / आव / मा स्मात् झिः। झोऽन्तः। उ प्रत्ययः / वकारस्य अकारः। अतो लोपः। उकारस्य यणिति भावः / अत्र वकारस्य स्थानिवत्त्वेन आर्धधातुकत्वेऽपि नेट् / उकारवृत्त्यार्धधातुकत्वस्य अल्धर्मत्वेन अनल्विधाविति निषेधात्। तदिदम्भो भगो इति सूत्रभाष्ये स्पष्टम्। धिनोषि। धिनुथः / धिनुथ। धिनोमि / लोपश्च // 'उतश्च प्रत्ययादसंयोगपूर्वात्' इति पूर्वसूत्रोक्त उकारः अस्येत्यनेन परामृश्यते। प्रत्ययशब्दः प्रत्ययसम्बन्धिनि वर्तते / असंयोगपूर्वात् प्रत्ययादिति च उकारे अन्वेति / स च अङ्गस्य विशेषणम् / तदन्तविधिः / तदाह / असंयोगेति / प्रत्ययोकार इति // प्रत्ययसम्बन्धी उकार इत्यर्थः / प्रत्यय उकार इति व्याख्याने तु सुनुवः सुनुमः इत्यत्र न स्यात् / तत्र श्नोरेव प्रत्ययत्वात् / प्रत्ययेति किम् / युवः / युमः / असंयोगपूर्वादिति किम् / शक्नुवः / शक्नुमः / धिन्वः, धिनुवः, इति // अत्र उप्रत्ययस्य उकारान्तत्वं व्यपदेशिवत्त्वेन बोध्यम् / नन्वेवं धिनोमीत्यत्र मिपि धिनु मि इति स्थिते उकारस्य लोप: स्यादित्यत आह / मिपित्विति // दिधिन्व / धिन्विता / धिन्विष्यति / धिनोतु / उतश्च / हेर्लुक्स्यादिति // चिणो लुगित्यतः अतोहेरित्यतश्च तदनुवृत्तेरिति भावः / लोटो मिपि उप्रत्यये वकारस्य अकारे अतो लोपे धिनु मि इति स्थिते मेर्निभावे लोडुत्तमस्येत्यडागमञ्च बाधित्वा परत्वादुकारस्य 'लोपश्चास्यान्यतरस्याम्' इति लोपमाशङ्कयाह / नित्यत्वादुकारलोपात् पूर्वमाडिति // निभावस्याप्युपलक्षणम् / उकारलोपे कृते अकृते च निभावस्य आडागमस्य च प्रवृत्त्या नित्यत्वादुकारलोपात्पूर्वमेव निभावाडागमयोः कृतयोः उकारलोपस्य प्रसक्तौ आटः पित्त्वेन ङित्त्वाभावादुकारस्य गुणे अवादेशे च धिनवानीति रूपमिति भावः / अधिनोत् / धिनुयात् / धिन्व्यात् / अधिन्वीत् / अधिन्विष्यत् / कृणोतीत्यादीति // धिविवद्रूपाणीति भावः / अयं स्वादौ चेति // कृविरित्यर्थः / अव रक्षणेति // स्वाम्यर्थः ऐश्चर्यम् / मा भवानवीदिति / / For Private And Personal Use Only
Page #106
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Acharya Shrik सिद्धान्तकौमुदीसहिता [भ्वादि भवानवीत् / धावु * 601 गतिशुद्ध्योः' / स्वरितेन / धावति-धावते / दधाव-दधावे / अथोष्मान्ता आत्मनेपदिनः / ‘धुक्ष 602 धिक्ष' 603 सन्दीपनक्लेशनजीवनेषु / धुक्षते / दुधुक्षे / धिक्षते / दिधिक्षे / 'वृक्ष 604 वरणे' / वृक्षते / ववृक्षे / 'शिक्ष 605 विद्योपादाने'। शिक्षते / ‘भिक्ष 606 भिक्षायामलाभे लाभे च'। भिक्षते / ‘क्लेश 607 अव्यक्तायां वाचि' / ‘बाधने' इति दुर्गः / क्लेशते / चिक्लेशे / 'दक्ष 608 वृद्धौ शीघ्रार्थे च'। दक्षते / ददक्षे / 'दीक्ष 609 मौण्ड्येज्योपनयननियमव्रतादेशेषु' / दीक्षते / दिदीक्षे / ' ईक्ष 610 दर्शने' / ईक्षाञ्चके / 'ईष 611 गतिहिंसादर्शनेषु' / ईषाञ्चक्रे / 'भाष 612 व्यक्तायां वाचि' / भाषते / “वर्ष 613 स्नेहने' / दन्त्योष्ठयादिः / ववर्षे / गेष 614 अन्विच्छायाम्' / 'ग्लेष' इत्येके / अन्विच्छा अन्वेषणम् / जिगेषे / ' पेष 615 प्रयत्ने' / पेषते / ‘जेष 616 णेष 617 एष 618 प्रेषु 319 गतौ' / जेषते / नेषते / एषाञ्चक्रे / पिप्रेषे / रेप 620 हेषु 621 हेषु 622 अव्यक्ते शब्दे' / आद्यो वृकशब्दे, ततो द्वौ अश्वशब्दे / रेषते / हेपते / द्वेपते / 'कास 623 शब्दकुत्सायाम्'। कासाञ्चक्रे / भासू 624 दीप्तौ'। वभासे / ' णामृ 625 रास 626 शब्दे' / नासते / प्रणासते / ‘णस 627 कौटिल्ये' / नसते / 'भ्यस 628 भये'। भ्यसते / बभ्यसे / 'आङ: शसि 629 इच्छायाम्' / आशंसते / आशशंसे / ‘ग्रसु 630 ग्लसु 631 अदने' / जग्रसे / जग्लसे / 'ईह 632 चेष्टायाम्' / ईहाञ्चक्रे / 'वहि 633 महि 634 वृद्धौ' / वंहते / ववंहे / मंहते / 'अहि 635 गतौ' / अंहते / आनंहे / 'गई 636 गल्ह 637 कुत्सायाम' / जगहें / जगल्हे / 'बह 638 बल्ह 639 प्राधान्ये' / ओष्ठचादी / वह नेटीति न वृद्धिः / मव्यादयोऽवत्यन्ताः परस्मैपदिनो गताः। धावुगतीति // उदिदयम् / स्वरितदिति // ततश्च कर्तृगामिनि फले आत्मनेपदम् / अन्यथा परस्मैपदमिति भावः / अथोष्मान्ता इति // तत्र धुक्षेत्यारभ्य कासृधातोः प्राक षकारान्ताः / तत्र क्लेशधातुरेकः शकारान्तः। दीक्ष मौण्ड्येति // पञ्चार्थाः / णेषधातुर्णोपदेशः। कासधातुमारभ्य ईहधातोः प्राक् सकारान्ताः / कासाञ्चक इति // कास्प्रत्ययादित्याम् / णामृधातुर्णसधातुश्च णोपदेशः / आङः शसीति // आङः परः शसिधातुरिच्छायामित्यर्थः / ईहेत्यारभ्य काधातुवर्ज For Private And Personal Use Only
Page #107
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम] बालमनोरमा / 105 640 वल्ह 641 परिभाषणहिंसाच्छादनेषु' / दन्त्योष्ठ यादी / कचित्तु पूर्वयोर्दन्त्योष्ठ-यादितामनयोरोष्ठयादितां चाहुः / प्लिह 642 गतौ' / पिप्लिहे / 'वेह 643 जेह 644 बाह 645 प्रयत्ने'। आद्यो दन्योष्ठयादिः। अन्त्यः केवलोष्ठ-यादिः / ' उभावप्योष्ठयादी' इत्येके / ‘दन्त्योष्ठ यादी' इत्यपरे / जेहतिर्गत्यथोऽपि बबाहे / 'द्राहृ. 646 निद्राक्षये , / निक्षेपे'। इत्येके / 'काश 647 दीप्तौ' / चकाशे। 'उह 648 वितर्के' ऊहाञ्चक्रे'। 'गाहू 649 विलोडने' / गाहते / जगाहे / जगाहिषे / जघाक्षे / जगाहिढ़े-जगाहिध्वे-- जघाढ़े / गाहिता / 2335 / ढो ढे लोपः / (8-3-13) ढस्य लोप: स्याड्डे परे / गाढा / गाहिष्यते-घाक्ष्यते / गाहिषीष्ट-- घाक्षीष्ट / अगाहिष्ट-अगाढ / अघाक्षाताम् / अघाक्षत / अगाढाः / अघावम् / घुषिकान्तीत्यतः प्राक् हकारान्ताः / काश्धातुस्तु शकारान्तः / प्लिहधातुरिदुपधः। ऊह वितर्के इति // युक्त्या अर्थनिर्णयो वितर्क: / 'अनुक्तमप्यूहति पण्डितो जनः / ' इत्यत्र तु अनुदात्ते. स्वलक्षणात्मनेपदमनित्यमिति बोध्यम् / गाधातुरूदित्त्वाद्वेट् / तदाह / जगाहिये / जघाक्षे इति // इडभावे जगाह से इति स्थिते होढः एकाच इति भष्भावेन गस्य घ: षढोरिति ढस्य कः सस्य षः। जगाहिट्वे, जगाहिध्ये इति // इट्पक्षे 'विभाषेटः' इति ढत्वविकल्पः / इडभावे त्वाह / जघावे इति // जगाह् वे इति स्थिते हस्य ढः धस्य ष्टुत्वेन ढः गस्य भष्यकारः पूर्वस्य ढस्य 'ढो ढे लोपः' इति वक्ष्यमाणो लोपः / ठूलोप इति सूत्रं त्विहैव पठितुं युक्तम् / गाहितेति // इट्पक्षे रूपम् / इडभावे तु गाह् ता इति स्थिते हस्य ढत्वे 'झषस्तथो|ऽधः' इति तकारस्य धत्वे तृत्वेन धस्य ढत्वे गाड् ढा इति स्थिते / ढोढे // ढः इति षष्ठ्यन्तम् / तदाह / ढस्येति // ढकारस्येत्यर्थः / इति पूर्वस्य ढकारस्य लोपे गाढा इति रूपम् / ढलोपे टुत्वस्यासिद्धत्वन्तु न / तथा सति ढलोपविधिवैयर्थ्यात् / घाक्ष्यते इति / इडभावे हस्य ढः गस्य भष्घकारः ढस्य कः सस्य ष इति भावः / घाक्षीऐति // आशीर्लिडि सीयुटि इडभावपक्षे हस्य ढः गस्य भए घकारः ढस्य कः सस्य ष इति भावः / अगाहिष्टेति / सिच इट् / सस्य षः तकारस्य टुत्वेन टः / इडभावे त्वाह / अगा. ढेति // अगाइ स त इति स्थिते सिच इडभावे झलो झलीति लोपः ढत्वधत्वष्टुत्वढलोपाः / सलोपात्पूर्व भष्भावस्तु न / भष्भावस्यासिद्धतया झलो झलीति सलोपस्य पूर्व प्रवृत्तेः / न च कृतेऽपि सलोपे प्रत्ययलक्षणेन सकारपरकत्वात् भष् दुर्वार इति शङ्कयम् / वर्णाश्रये प्रत्यय लक्षणाभावादिति भावः / अघाक्षातामिति // इडभावपक्षे ढघकषाः / अघाक्षतेति / अगाढा इति // धास् सिच् इडभावे सलोपः ढत्वधत्वष्टुत्वढलोपाः / अघावमिति // ध्वमि For Private And Personal Use Only
Page #108
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदीसहिता [भ्वादि अघाक्षि / 'गृहू 650 ग्रहणे' / गर्हते / जगृहे / 'ऋदुपधेभ्यो लिट: कित्त्वं गुणात्पूर्वविप्रतिषेधेन' (वा 593) / जगृहिषे--जघृक्षे / जघृट्वे / गर्हिता-गर्दा / गर्हिष्यते-घयते / गर्हिषीष्ट-घृक्षीष्ट / लुङि / अगर्हिष्ट / इडभावे / 2336 / शल इगुपधादनिटः क्सः। (3-1-45) इगुपधो यः शलन्तस्तस्मादनिटइच्ले: क्सादेश: स्यात् / अघृक्षत / 2337 / क्सस्याचि / (7-3-72) अजादौ तङि क्सस्य लोप: स्यात् / 'अलोऽन्त्यस्य' (सू 42) / अघृक्षाताम् / अघृक्षन्त / ‘ग्लह 651 च' / ग्लहते / 'घुषि 652 कान्तिकरणे' / धुंषते / जुघुषे / केचित् ‘घष' इत्यदुपधं पठन्ति। इडभावपक्षे सलोपः। ढत्वघत्वष्टुत्वढलोपाः। ध्वममाश्रित्य ढलोपात्पूर्व भष्भावः / अघाक्षीति॥ इडभावे हस्य ढः / भष्भावः ढस्य कः सस्य षत्वमिति भावः। अघावहि। अगाहिष्यत / अघाक्ष्यत / गृहूधातुः ऊदित् / ऋदुपधः / गहते इति // लटस्तिपि लघूपधगुणे शपि रपरत्वम्। जगृहे इति // असंयोगादिति कित्त्वाद्गुणाभावः। न च कित्त्वात् परत्वाद्गुणः शङ्कयः 'ऋदुपधेभ्यो लिट: कित्त्वं गुणात् पूर्वविप्रतिषेधेन' इति वार्तिकादिति भावः / ऊदित्त्वादिडिकल्पं मत्वा आह / जगृहिषे / जघृक्षे इति // अभ्यासे उरदत्वं हलादिशेषः जश्त्वम् इट् षत्वम। इडभाव तु ढत्वभभावकत्वषत्वानि / ध्वमि जग्रहिध्वे इति सिद्धवत्कृत्य इडभावे आह / जघृत इति // हस्य ढ: भष्भावः ढलोपः / गति // इडभावे गुणे रपरत्वे ढत्वधत्वटुत्वढलोपाः / घर्क्ष्यते इति // गुणः रपरत्वं हस्य ढ: भष्भावः ढस्य कः षत्वम् / घृक्षी. ऐति // आशीर्लिङः सीयुटि इडभावे लिङ्सिचाविति कित्त्वाद्गुणाभावे हस्य ढ: भष्भावः ढस्य कः षत्वम् / अगर्हिटेति // सिच इटि गुणे रपरत्वे षत्वे रूपम् / शल इगुपधा // शलन्त इति // 'धातोरेकाचः' इत्यतोऽनुवृत्तधातुविशेषणत्वात्तदन्तविधिरिति भावः / सिचोऽ पवादः क्सादेशः अदन्तः / ककार इत् / अघृक्षतेति // च्ले: क्सः। तस्य कित्त्वाहकारस्य न गुणः / हस्य ढः भष्भावः ढस्य कः षत्वमिति भावः / 'अघृक्ष आताम्' इति स्थिते 'आतो डितः' इति इयादेशे प्राप्ते / क्सस्य // अचीत्यस्याङ्गाक्षिप्तप्रत्ययविशेषणत्वात् तदन्तविधिः / 'घोलोपो लेटि वा' इत्यतः लोप इत्यनुवर्तते। तदाह। अजादावित्यादिना / अलोऽन्त्यस्येति // अन्त्यस्याकारस्य लोप इति भावः / वस्तुतस्तु लुग्वा दुहदिह' इत्युत्तरसूत्रादात्मनेपदे इत्यनुवृत्तेस्तद्विशेषणत्वादचीति तदादिविधिः / तेन दृशेः क्सप्रत्यये तादृक्ष इत्यादौ नाय लोपः। अजादी तङीत्येव क्वचित्पाठो दृश्यते / अघृक्षातामिति / / 'अघृक्ष आताम्' इति स्थिते क्साकारस्य लोपे अतः परत्वाभावात् 'आतो डितः' इति इय् नेति भावः / अघृक्षन्तेति ॥झस्य अजादित्वाभावात्तस्मिन्परे क्सस्य अकारलोपाभावादतः परत्वादात्मनेपदेष्वनत इत्यदादेशो न / कृते तु झोऽन्ता For Private And Personal Use Only
Page #109
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा / अथाहत्यन्ता: परस्मैपदिनः। ‘घुषिर् 653 अविशब्दने' विशब्दनं प्रतिज्ञानं, ततोऽन्यस्मिन्नर्थ इत्येके / 'शब्दे' इत्यन्ये पेठुः / घोषति / जुघोष / घोषिता / इरित्त्वादका / अघुषत्-अघोषीत् / * अक्षु 654 व्याप्तौ' / 2338 / अक्षोऽन्यतरस्याम् / (3-1-75) अनो वा अनुप्रत्यय: स्यात्कर्थे सार्वधातुके परे / पक्षे शप् / अक्ष्णोति / अक्षणुतः / अक्ष्णुवन्ति / अक्षति / अक्षतः / अक्षन्ति / आनक्ष / आनक्षिथ-आनष्ठ / अक्षिता--अष्टा / अक्षिष्यति / ‘स्को:' (सू 380) इति कलोपः / पढो: क: सि' (सू 295) / अक्ष्यति / अक्ष्णोतु / अक्ष्णुहि / अक्ष्णवानि / आक्ष्णोत् / आक्ष्णवम् / अक्ष्णुयात् / अणुयुः / अक्ष्यात् / देश क्सस्याकारलोप: पररूपं वा / ग्लह चेति // ग्लहधातुरपि ग्रहणे वर्तत इत्यर्थः / अदु. पधोऽयम् / घुषि कान्तीति // उदुपधोऽयम् / इदित्त्वान्नुम् / नश्रेत्यनुस्वारः / यय्परकत्वाभावान्न परसवर्णः / तदाह / धुंषत इति // सेट्कोऽयम् / अदुपधपक्षे तु घषते। जघषे / ऊष्मान्ता आत्मनेपदिनो गताः। अथाहत्यन्ताः परस्मैपदिन इति // ऊष्मान्ता इति शेषः / तत्र तुस हसेल्यतः प्राक् षान्ताः / घुषिर् इति // इर् इत् / प्रतिज्ञानमिति // वेदाः प्रमाणमित्याद्यभ्युपगम इत्यर्थः / ततोऽन्यस्मिन्निति // विशब्दनात् अन्यत् अविशब्दनं तस्मिन्नित्यर्थः / इरित्त्वादङ्वेति // इरितो वेत्यनेनेति शेषः / अघुषदिति // अङो डित्त्वान लघूपधगुणः / अघोषीदिति // अङभावपक्षे लघूपधरणे ‘इट ईटि' इति सिज्लोपः / हलन्तलक्षणवृद्धेः 'नेटि' इति निषेधः / अक्षधातुः जादत्त्वाद्वेटकः / अक्षोऽन्यतरस्याम् // अक्ष इति पञ्चमी / स्वादिभ्यः इनुरित्यतः अनुरिति, कर्तरि शबित्यतः कर्तरीति, सार्वधातुके यगिल्यतः सार्वधातुक इति, चानुवर्तते / तदाह / अक्षो वेति // इनुप्रत्ययस्य शित्त्वं सार्वधातुकत्वार्थम् / तत्फलन्तु 'स्वादिभ्यः इनुः' इत्यत्र वक्ष्यते / अक्षणोतीति // तिपि इनुः तस्य तिपः पित्त्वेन ङित्त्वाभावात् सार्वधातुकेति श्नो गुणः णत्वम् / अक्ष्णुत इति // तसः अपित्त्वेन डित्त्वात् नो न गुणः / अक्ष्णुवन्तीति // ङित्त्वाद्गुणाभावे उवङ् / अक्ष्णोषि / अक्ष्णुथः / अक्ष्णुथ / अक्ष्णोमि / अक्ष्णुवः / अक्ष्णुमः / अक्षतीति शप्पक्ष रूपम् / आनक्षेति // गलि द्विहल्त्वान्नुट् / आनक्षतुः / आनक्षुः / ऊदित्त्वादिट्पक्षे आह / आनक्षिथेति // इडभावे आह / आनष्ठेति // आनः थ् इति स्थिते स्कोरिति कलोपः थस्य टुत्वेन ट: / अष्टेति // लुटि तासि इडभावपक्षे स्कोरिति कलोपे तकारस्य तृत्त्वेन टः। अक्ष स्य इति स्थिते प्रक्रियान्दर्शयति / स्कोरिति कलोपः / षढोः कस्सीति / कात्परत्वात् सस्य षत्वञ्च / अक्षणोत्विति // अक्ष्णोतु / अक्ष्णुतात् / अक्ष्णुताम् अक्ष्णुवन्तु / अक्ष्णुहीति // संयोगपूर्वत्वादुतश्चेति हेर्लक् न / हेरपित्त्वेन ङित्वात् नोर्न गुणः / अक्ष्णुतात् / अक्ष्णुतम् / अक्ष्णुत / अक्षणवानीति // आटः पित्वेन डित्त्वाभावान्न गुणनिषेधः / HHHHit For Private And Personal Use Only
Page #110
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 108 सिद्धान्तकौमुदीसहिता [भ्वादि उदित्त्वाद्वेट् / 'नेटि' (सू 2268) / मा भवानक्षीत् / अमिष्टाम् / अक्षिषुः / इडभावे तु मा भवानाक्षीत् / आष्टाम् / आक्षुः / 'तक्षु 655 त्वक्षु 656 तनूकरणे'। __2339 / तनूकरणे तक्षः / (3-1-76) इनुः स्याद्वा शब्विषये / तक्ष्णोति-तक्षति वा काष्ठम् / ततक्षिथ-ततष्ठ। अतक्षीत् / अतक्षिष्टाम् / अताक्षीत् / अताष्टाम् / 'तनूकरणे' किम् / वाग्भिः संतक्षति / भर्ल्सयतीत्यर्थः / ' उक्ष 657 सेचने' / उक्षां चकार / ' रक्ष 658 गुणे अवादेशः / अक्ष्णवाव / अक्षणवाम / शपि तु अक्षत्वित्यादि / आक्ष्णोदिति // लडस्तिप् श्नोर्गुण: आट वृद्धिः / आक्ष्णुताम् / आक्ष्णुवन् / आक्ष्णोः / आक्ष्णुतम् / आक्ष्णुत / आक्ष्णवमिति // मिपः अम् नोर्गुणः अवादेशः / आक्ष्णुव / आक्ष्णुम। अश्णुयादिति // विधिलिङि यासुटो डित्त्वात् श्रोन गुणः / अणुयुरिति // अक्ष्णुयाः / अणुयातम् / अणुयात / अक्ष्णुयाम् / अक्ष्णुयाव / अक्ष्णुयाम / शप्पक्षे आक्षदित्यादि / अक्ष्यादिति // आशीर्लिङः आर्धधातुकत्वान्न इनुः, नापि शप् / लुङि सिचि विशेषमाह / ऊदित्त्वाद्वेडिति // तत्र इट्पक्षे आह / नेटीति // हलन्तलक्षणा वृद्धिर्नत्यर्थः / नच अभैत्सीदित्यादावेकेन हला व्यवधाने हलन्तलक्षणवृद्धश्चरितार्थत्वादत्र न तत्प्रसक्तिरिति शङ्कथम् / रजेः अरांक्षीदि. दित्यत्र वृद्धिसिद्धये अनेकाल्व्यवधानेऽपि हलन्तलक्षणवृद्धिप्रवृत्तेर्भाध्यादौ प्रपञ्चितत्वादिति भावः / मा भवानक्षीदिति // आटि सति हलन्तलक्षणवृद्धौ सत्यामसत्याञ्च रूपे भेदाभावात् मा भवानित्युपात्तम् / आक्षिष्टाम् / अक्षिषुरिति // अत्रापि मा भवानिति सम्बध्यते / इडभावे त्विति // लुङस्तिपि अक्ष् स् ईदिति स्थिते इडभावान्नेटीति निषेधाप्रसक्तया हल. न्तलक्षणवृद्धौ झलो झलीति सिज्लोपे स्कोरिति कलोपे तकारस्य टुत्वम् / आक्षु. रिति // अक्ष् स् उस् इति स्थिते हलन्तलक्षणवृद्धौ स्कोरिति कलोपे षस्य कत्वे सस्य षत्वमिति भावः / आक्षीः / आष्टम् / आष्ट / आक्षम् / आक्ष्व / आक्ष्म / आक्षिष्यत् / आक्ष्यत् / आक्ष्यताम् / आक्ष्यन् / आक्ष्यः / आक्ष्यतम् / आक्ष्यत / आक्ष्यम् / आक्ष्याव / आक्ष्याम / तथू त्वष इति // स्थूलस्य काष्ठादेः कतिपयावयवापनयनेन सूक्ष्मी करणन्तनूकरणम् / तनूकरणे // शेषपूरणेन सूत्रं व्याचष्टे। इनुः स्याद्वा शब्विषये इति // स्वादिभ्यः इनुरित्यतः श्नुरिति, कर्तरि शबित्यतः कर्तरीति, सार्वधातुके यगित्यतः सार्वधातुक, इति चानुबर्तते / तनूकरणेऽर्थे विद्यमानात् तक्षधातोः इनुः स्यात्कर्थे सार्वधातुके इति फलितम् / नच तक्षुधातोस्तनूकरणार्थकत्वाव्यभिचारात् इनुविधौ तनूकरणग्रहणं व्यर्थमिति वाच्यम् / अतएव धातुपाठे अर्थनिर्देशस्य उपलक्षणत्वावगमात् / तक्ष्णोतीत्यादि // अक्षवद्रूपाणि / लुहि सिचि इट्पक्षे नेटीति बृद्धिनिषेधे अतक्षीदिति रूपम् / इडभावे तु अताक्षादिति च For Private And Personal Use Only
Page #111
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा। 109 पालने / “णिक्ष 659 चुम्बने' / प्रणिक्षति / 'त्रक्ष 660 यूक्ष 661 णक्ष 662 गतौ' / क्षति / स्त्रक्षति / नक्षति / 'वक्ष 663 रोषे' / 'सङ्घाते' इत्येके / 'मृक्ष 664 सङ्घाते'। ‘म्रक्ष' इत्येके / 'तक्ष 665 त्वचने' / त्वचनं संवरणं त्वचो ग्रहणं च / 'पक्ष परिग्रहे' इत्येके / 'सूर्भ 666 आदरे' / सुपूर्ख / 'अनादरे' इति तु काचित्कोऽपपाठः / 'अवज्ञावहेलनमसूक्षणम्' इत्यमरः / ‘काक्षि 667 वाक्षि 668 माक्षि 669 काङ्क्षायाम्' / ' द्राभि 670 धाक्षि 671 ध्वाक्षि 672 घोरवाशिते च'। 'चूष 673 पाने' / चुचूष / 'तूष 674 तुष्टौ' / 'पूष 675 वृद्धौ' / 'मूष 676 स्तेये' / लूष 677 रूप 678 भूषायाम्' / ‘शूष 679 प्रसवे' / प्रसवोऽभ्यनुज्ञानम् / तालव्योष्मादिः। 'यूष 680 हिंसायाम्'। 'जूष 681 च' ‘भूष 682 अलङ्कारे' / भूषति / 'ऊष 683 रुजायाम्'। ऊषां चकार 'ईष 684 उञ्छे'। 'कष 685 खष 686 शिष 687 जष 388 झष 689 शष 690 वष 691 मष 692 रुष 693 रिष 694 हिंसार्थाः' / तृतीयषष्ठौ तालव्योस्मादी / सप्तमो दन्त्योष्ठयादिः / चकाष / चखाष / शिशेष / शिशेषिथ। शेष्टा / क्स: अशिक्षत् / अशेक्ष्यत् / जेषतुः / जझषतुः / शेषतुः / ववषतुः / मेषतुः / अक्षवत् / एवं त्वक्षुधातुरपि / णिक्षधातुर्णोपदेशः। प्रणिक्षतीति // 'उपसर्गादसमासेऽपि' इति णत्वम् / ऋक्ष दक्ष णक्ष गताविति // त्रयोऽप्यकारमध्याः / द्वितीयष्योपदेशः / तदाह / वक्षतीति // षस्य सत्वे टुत्वनिवृत्तिरिति भावः / णक्षधातुर्णोपदेशः / सिचि नेटीति हलन्त. लक्षणवृद्धिनिषेधः / वक्ष रोष इति // दन्त्योष्ट्यादिः / म्रक्षधातुरकारमध्यः / संवरणशब्दस्य विवरणं त्वचो ग्रहणमिति। सूक्षधातुः रेफमद्ध्यः / अपपाठत्वे हेतुमाह / अवक्षेति / सूर्भधातो. रनादरार्थकत्वे असूक्षणमित्यस्य आदरार्थकत्वापत्त्या अमरकोशे अवज्ञापर्यायत्वावगमविरोध इति भावः / घोरवाशिते चेति // चात् कांक्षायामपि / घोरवाशितंकूरशब्दः / चूषेल्यारभ्य ऊष रुजायामिति यावद्दुपधाः / ईष उञ्छ इति // ईदुपधः / कषेत्यारभ्य दश धातवः / तत्र तृतीयो दशमश्च इदुपधः / शिषधातुरनिटकः / क्रादिनियमात्थलि वसि मसि च नित्यमिट् / अजन्ताकारवत्त्वाभावेन थलि सेटकत्वाभावात् शिशोषिथ / शिशिषिव / शिशिषिम / आशिक्षदिति // ‘शल इगुपधात्' इति च्ले: क्सादेशे कित्त्वालघूपधगुणनिषेधे षस्य कत्वे सस्य षत्वमिति भावः / ववषतुरिति // 'न शसदद' इति निषेधादेत्वाभ्यासलोपौ न। रुषधातुस्सेटकः / रोषति / रुरोष / रुरुषतुः / रुरुषुः / रुरोषिथ / रुरुषथुः / रुरुष / झरोष / रुरुषिव / रुरुषिम। For Private And Personal Use Only
Page #112
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 110 सिद्धान्तकौमुदीसहिता [भ्वादि 2340 / तीषसहलुभरुषरिषः / (7-2-48) इच्छत्यादेः परस्य तादेरार्धधातुकस्येड़ा स्यात् / रोषिता-रोष्टा / रोषिप्यति / रेषिता-रेष्टा / रेषिष्यति भष / 695 भर्त्सने' / इह भर्त्सनं श्वरवः / भषति / बभाष / 'उष 696 दाहे' / ओषति / 2341 / उषविदजागृभ्योऽन्यतरस्याम् / (3-1-38) एभ्यो लिट्याम्वा स्यात् / ओषां चकार / उवोष / ऊषतुः / उवाषिथ / 'जिषु 697 विषु 698 मिषु 699 सेचने' / जिजेष / क्रादिनियमादि / विवेषिथ / विविषिव / वेष्टा / वेक्ष्यति / अविक्षत / 'पुष 700 पुष्टौ'। पोषति। पोषिता। पोषिष्यति / अपोषीत् / अनिट्केषु 'पुष्य' इति श्यना निर्देशादयं सेट अतो न क्सः / अधिौ देवादिकस्य ग्रहणान्नाङ् / श्रिषु 701 लिपु 702 ग्रुपु 703 प्लुषु 704 दाहे' / श्रेषति / शिश्रेष / श्रेषिता / श्लेषति / शिश्लेष / श्लेषिता / अयमपि सेट् / 'अनिदसु देवादिकस्यैव ग्रहणम्' इति कैयटादयः / तीषस॥ आर्धधातुकस्येत्यतः इडित्यनुवर्तते। 'स्वरतिसूति' इत्यतो वेति च / तीतिसप्तम्युपादानात्तदादिविधिः / इष सह लुभ रुष रिष एषान्द्वन्द्वात्पञ्चम्येकवचनम् / तदाह / इच्छत्यादे. रिति // इच्छतीति इषेः तिपा निर्देशः / इषधातुर्विवक्षितः / इषु इच्छायां तुदादिश्शविकरणः / इष गतौ दिवादिः श्यान्वकरणः। इष आभीक्ष्ण्ये क्रयादिः भाविकरणः / तत्र 'इषेस्तकारे श्यन्प्रत्ययात्प्रतिषेधः' इति वार्तिकात् श्यन्विकरणस्य न ग्रहणम् / रोषिता, रोष्टेति // इडभावे ठुत्वेन तकारस्य टकारः / रिषेस्तादाविधिकल्पम्मत्वा आह / रेषिता, रेऐति // उष दाह इति // सेट्कोऽयम् उखधातुवत् / उषविद // कासप्रत्ययादित्यतः आम् लिटीत्यनुवर्तते / तदाह / एभ्यो लिटीति // आमभावपक्षे आह / उवोषेति // ' अभ्यासस्यासवर्णे' इति उवङादेशः / जिषु विषु मिषु सेचन इति // द्वितीयो दन्त्योष्ट्यादिः / थलि वसि मसि च विशेषमाह / क्रादिनियमादिडिति / विवेषिथेति // अजन्ताकारवत्त्वाभावेन भारद्वाजनियमाप्रवृत्तेस्थल्यपि कादिनियमानित्यमिट् / वेष्टेति // तासि छुत्वेन तकारस्य टः / वेक्ष्यतीति // षढोरिति षस्य कः सस्य षः / अविक्षदिति // ‘शल इगुपधात्' इति क्सः / षस्य कः सस्य षः कित्त्वान्नगुणः / पुषधातुः सेडिति मत्वा आह / पोषितेति / अपोषीदिति // नेटीति वृद्धिनिषेधः। नन्वनिट्सु पुषेः पाठात् कथं सेदकत्वमित्यत आह / आनिटकेष्विति / अत इति // सेटकत्वात् क्सो नेत्यर्थः / ननु पुषादित्वलक्षणः अङ् कुतो नेत्यत आह / अविधाविति // एतच्चानुपदमेव पुषादिसूत्रव्याख्यावसरे स्पष्टीभविष्यति / अयमपीति // पुषधातुवत् श्लिषधातुरपि भौवादिक: सेडित्यर्थः / कैयटादय इति // ‘श्लिष आलिङ्गने' इति सूत्रे कैयटहरदत्तादिभिस्तथा प्रपञ्चितत्वादिति भावः / For Private And Personal Use Only
Page #113
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www.kobatirth.org Achar प्रकरणम् बालमनोरमा। 111 यत्त्वनिट्कारिकान्यासे द्वयोर्ग्रहणमित्युक्तं, तत्स्वोक्तिविरोधाद्ग्रन्थान्तरविरोधाञ्चोपेक्ष्यम् / पुप्रोष / पुप्लोष / 'पृषु 705 वृषु 706 मृषु 707 सेचने' / ' मृषु' सहने च / इतरौ हिंसासंक्लेशनयोश्च / पर्षति / पपर्ष / पृष्यात् / 'घृषु 708 सङ्घर्षे' / 'हृषु 709 अळीके' / 'तुस 710 ह्रस 711 ह्रस 712 रस 713 शब्दे' / तुतोस / जहास / जहास / ररास / ‘लस 714 श्लेषणक्रीडनयो:' 'घल 715 अदने' / अयं न सार्वत्रिकः / 'लिट्यन्यतरस्याम्' (सू 2424) इत्यदेघस्लादेशविधानात् / ततश्च यत्र लिङ्गं वचनं वास्ति तत्रैवास्य प्रयोगः / अत्रैव पाठः शपि परस्मैपदे लिङ्गम / लदित्करणमङि / अनिट्कारिकासु पाटो वलाद्यार्धधातुके / क्मरचि तु विशिष्योपादानम् / घसति / घस्ता / 2342 / सः स्यार्धधातुके / (7-4-49) सस्य तः स्यात्सादावार्धधातुके / घत्स्यति / घसतु / अधसत् / घसेत् / लिङ्गाद्यभावादाशिष्यस्याप्रयोगः / द्वयोर्ग्रहणमिति // भौवादिकदेवादिकयोरित्यर्थः / स्वोक्तीति // “श्लिष आलिङ्गने' इति सूत्रे देवादिकश्लिषेरनिटकेषु ग्रहणमिति न्यासकृता कैयटादिभिश्वोक्तत्वादिति भावः / पृषु वृषु इत्यारभ्य हृषुपर्यन्ता ऋदुपधाः / अलीकं मिथ्याभवनं मिथ्योक्तिर्वा / तुसहसेत्यारभ्य णशगतावित्यतः प्राक सकारान्ताः। घस्लधातुरनिटकः / अयमिति // घस्लधातुः सर्वेषु न प्रयोज्य इत्यर्थः / कुत इत्यत आह / लिटीति // यद्ययं सार्वत्रिकस्स्यात् तदा लिट्यपि प्रयुज्येत / ततश्च 'अद भक्षणे' इति धातोर्लिट्यन्यतरस्यामिति घस्लभावविधिर्व्यर्थः स्यादिति भावः / असार्वत्रिकत्वे सति व प्रयोगः क नेत्यत आह / ततश्चेति // यत्र घस्लधातोः प्रयोगे ज्ञापकं प्रत्यक्षवचनं वास्ति तत्रैवास्य प्रयोग इत्यर्थः। तत्र तावल्लिङ्गन्दर्शयति / अत्रैवेति // भ्वादिगणे अत्रैव कमेः परस्मैपदे अस्य पाठश्शपि प्रयोगे लिङ्गमित्यर्थः / नच धातुसंज्ञार्थः पाठ इति शङ्कयम् / द्युतदीप्तावित्युक्तरीत्याऽस्य पाठेनैव सिद्धे अत्र क्रमे तत्पाठवैयर्थ्यादिति भावः / लदित्करणमङीति // प्रयोगे लिङ्गमिति शेषः / अनिट्कारिकास्विति // अनुदात्तोपदेशेषु घस्लधातोः पाठः वलाद्यार्धधातुके प्रयोगे लिङ्गमित्यर्थः / अथ कचिदस्य प्रयोगे प्रत्यक्षवचनन्दर्शयति / क्मरचीति // 'सृघस्यदः क्मरच् , इत्यत्र विशिष्य घसेरुपादानात्क्मरचि प्रयोगे प्रमाणमित्यर्थः। घसतीति / / लुटि तसाद्युपलक्षणमिदम् / लिटि अस्य प्रयोगाभावाल्लुटयुदाहरति / घस्तेति / सम्सि // सः इति छेदः / सः इति षष्ठ्यन्तम् / सि इति सप्तम्यन्तम् आर्धधातुकविशेषणम् / तदादिविधिः / 'अच उपसर्गात्तः' इत्यत: त इत्यनुवर्तते / अकार उच्चारणार्थः / तदाह / सस्य तः स्यादिति // आदेशे अकारस्य उच्चारणार्थत्वात्तकारः For Private And Personal Use Only
Page #114
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 112 सिद्धान्तकौमुदीसहिता [भ्वादि 2343 / पुषादिद्युतामुदितः परस्मैपदेषु / (3-1-55) श्यन्विकरणपुषादेर्युतादेर्लदितश्च परस्य च्लेरङ् स्यात्परस्मैपदेषु / अघसत् / 'जर्ज 716 चर्च 717 झर्झ 718 परिभाषणहिंसातर्जनेषु' / पिस 719 पेस 720 गतौ' / पिपिसतुः / पिपेसतुः / 'हसे 721 हसने'। एदित्त्वान्न वृद्धिः / अहसीत् / णिश 722 समाधौ' तालव्योष्मान्तः / प्रणेशति / 'मिश 753 मश 724 शब्दे रोषकृते च' / तालव्योष्मान्तौ / ‘शव 725 गतौ' दन्स्योष्ठयान्तस्तालव्योष्मादिः / शवति / अशवीत्-अशावीत् / 'शश 726 प्लुतगतौ' / तालव्योष्याद्यन्तः / शशाश / शेशतुः / शेशुः / शेशिथ / 'शसु 727 हिंसायाम्'। दन्त्योष्मान्त: / 'न शसदद-' (सू 2263) इत्येत्त्वं न / शशसतुः / शशसुः / शशसिथ / 'शंसु 728 स्तुतौ' / अयं दुर्गनावपीति दुर्गः / 'नृशंसो घातुकः क्रूरः' इत्यमरः / शशंस / आशिषि नलोप: शस्यात् / 'चह 729 परिकल्कने'। कल्कनं शाठ्यम् / अचहीत् / ' मह 730 पूजायाम्' / अमहीत् / ‘रह 731 त्यागे'। 'रहि 732 गतौ'। रंहति / रह्यात् / 'दृह 733 दहि 734 बृह 735 बृहि 736 वृद्धौ' / दर्हति / ददर्ह / ददृहतुः / वृंहति / बर्हति / बृंहति / * बृहि' शब्दे च / 'बृंहितं करिगर्जितम्' इत्यमरः / ‘बृहिर्' इत्येके / स्यादित्यर्थः / लुङि च्ले: सिचि प्राप्ते / पुषादि // 'च्लेः सिच्' इत्यतः च्लेरिति 'अस्यतिवक्तिरव्यातिभ्यः' इत्यतः आडिति चानुवर्तते / पुषादिद्यदादिलदित एषां समाहारद्वन्द्वात्पञ्चमी / तत्र पुषधातुस्तु भ्वादी क्रयादौ चुरादौ दिवादी चास्ति / तत्र यदि भवादिकः पुषादिगणो गृह्येत / तर्हि द्युतादिग्रहणमनर्थकं स्यात् / पुषादिगणोत्तरमेवात्र दथुतादिगणपाठात् / नापि क्रयाद्यन्तर्गणः / 'मुष स्तेये' 'खच भूतप्रादुर्भावे' 'हेठ च' 'ग्रह उपादाने इति च त्वार एव पठ्यन्ते / यदि त एवात्र पुषादयो विवक्षितास्स्युः तर्हि लाघवात् लदित एव ते क्रियेरन् / नाप्यत्र चौरादिकपुषादिर्गृह्यते / णिचा च्लेर्व्यवहितत्वात् / अतः परिशेषात् दिवादय एव गृह्यन्ते / तदाह / श्यन्विकरणेति / जर्ज चर्च झझेति // एतेषां चवर्गीयान्तेष्वेव पाट उचितः / हसे हसन इति // एदिदयम् / न वृद्धिरिति / / ह्मयन्तेत्यनेनेति शेषः / णिश समाधाविति / / णोपदेशत्वादुपसर्गादसमासेऽपीति नस्य णत्वम् / तदाह / प्रणेशतीति // ‘शसु हिंसायाम्' इत्यतः प्राक् शकारान्ताः / शवतिस्तु वान्तः। शस्विति // नो विकृतानुस्वारस्य निर्देशः / 'चह परिकल्कने' इत्यारभ्य अर्हतिपर्यन्ता हकारान्ताः। रह त्यागे इति // नायमिदित् / रहि गताविति // अय. For Private And Personal Use Only
Page #115
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा / 113 अबृहत-अबीन् / तुहिर् 737 दुहिर् 738 उहिर् 739 अर्दने / तोहति / तुतोह / अतुहत्-अतोहीत्। दोहति / अदुहत्। अदोहीत्। अनिटकारिकास्वस्य दुहेर्ग्रहणं नेच्छन्ति / ओहति / उवोह / ऊहतुः / ओहिता / मा भवानुहन / औहीत् / अर्ह 740 पूजायाम् / आनर्ह / अथ कृपूपर्यन्ता अनुदात्तेतः / 'द्युत 741 दीप्तौ' / द्योतते / 2344 / द्युतिस्वाप्योः सम्प्रसारणम् / (7-4-67) अनयोरभ्यासस्य सम्प्रसारणं स्यात् / दिद्युते / दिद्युताते / द्योतिता / ___2345 / धुझ्यो लुङि / (1-3-91) गुतादिभ्यो लुङ: परस्मैपदं वा स्यात् / पुषादिसूत्रेण परस्मैपदे अङ् / अद्युतन-अद्योतिष्ट / श्विता 742 वर्णे / श्वेतते / शिविते / अश्वितन-अश्वेतिष्ट / त्रि मिदा 743 स्नेहने / मेदते / 2346 / मिदेर्गुणः / (7-3-82) मिदित् / दृहहहीति // ऋदुपधा एते / द्वितीयचतुर्थाविदितौ। अबृहत् / अबौदिति // इरित्त्वादडिकल्प इति भावः / उवोहेति // उहिर्धातोलिटि द्वित्वे हलादिशेषे पुगन्तलक्षणे गुणे 'अभ्यासस्यासवर्णे' इत्युवङ् / मा भवानुहदिति // इरित्त्वादङि रूपम् / औहीदिति // अङभावपक्षे च्लेस्सिचि तस्य इटि ‘अस्तिसिचः' इति तकारस्य ईटि ‘इट ईटि' इति सिचो लोपे 'आडजादीनाम्' इति आटि वृद्धिः / माङयोगे तु मा भवानुहीत् / आनर्हेति // 'अत आदेः' इति दीर्घ नुस् / कृपूपर्यन्ता अनुदात्तेत इति // द्युतेत्यारभ्य कृपूपर्यन्ता इत्यर्थः / युतिस्वाप्योः। अभ्यासस्येति // 'अत्र लोपोऽभ्यासस्य' इत्यतः तदनुवृत्तेरिति भावः / दिद्युते इति // द्वित्वे 'हलादिः शेषः' इत्यनेन यकारस्य लोपे प्राप्ते तदपवादत्वेन 'द्युतिस्वाप्योः' इति सम्प्रसारणे, 'सम्प्रसारणाच' इति उकारस्य पूर्वरूपे रूपम् / युद्भयो लुङि // बहुवचनात् द्युतादिभ्य इति गम्यते / दिग्योगे पञ्चमी / 'तस्मादित्युत्तरस्य' इति परिभाषया परस्येत्युपतिष्ठते / ‘शेषात्कर्तरि' इत्यतः परस्मैपदमित्यनुवर्तते / तदाह-धुतादिभ्यः इति / परस्मैपदे अङिति // आत्मनेपदपक्षे सिजेव नत्वङ् / पुषादिसूत्रे परस्मैपदग्रहणादिति भावः / तदाह / अद्योतिष्टेति / श्चिता वर्ण इति ॥श्रेतवर्णकरणे श्वेतीभवने वेत्यर्थः / अश्वितदिति / द्युतादित्वादङ् / अश्वेतिष्टेत्यात्मनेपदपक्षे रूपम् / एवमग्रेऽपि / द्युतादौ लुडि रूपभेदो ज्ञेयः / त्रि मिदा स्नेहने इति // निरित् ‘जीतः क्तः' इत्येतदर्थः / मिमिदे इत्यत्र लिट: असंयोगादिति कित्त्वेऽपि गुणं शङ्कितुमाह / मिदेर्गुणः // मिदेरित्यवयवषष्टी / गुणश्रुत्या ‘इको गुणवृद्धी' इति परिभाषया इक इत्युपतिष्टते। ‘ष्टियुक्तमुचमां शिति' इत्यतः 15 For Private And Personal Use Only
Page #116
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 114 सिद्धान्तकौमुदीसहिता [भ्वादि मिदेरिको गुण: स्यादित्संज्ञकशकारादौ / एश: आदिशित्त्वाभावान्नानेन गुणः / मिमिदे / अमिदत्-अमेदिष्ट / 'नि विदा 744 स्नेहनमोचनयोः'। मोहनयोः' इत्येके / स्वेदते / सिष्विदे / अस्विदत्-अस्वेदिष्ट / त्रि क्ष्विदा च'। इत्येके / अश्विदत्-अक्ष्वेदिष्ट / 'रुच 745 दीप्तावभिप्रीतौ च' / रोचते सूर्यः / 'हरये रोचते भक्ति:' / अरुचत्-अरोचिष्ट / घुट 746 परिवर्तने / घोटते / जुघुटे / अघुटत्-अघोटिष्ट / रुट 747 लुट 748 लुट 749 प्रतिघाते / अरुटत्-अरोटिष्ट / शुभ 750 दीप्तौ / क्षुभ 751 सञ्चलने / णभ 752 तुभ 753 हिंसायाम् / आद्योऽभावे च / नभन्तामन्यके समे' | ‘मा भूवन्नन्यके सर्वे' इति निरुक्तम् / अनभत्-अनभिष्ट / अतुभन्अतोभिष्ट / इमौ दिवादी क्रयादी च / स्रंसु 754 ध्वंसु 755 भ्रंसु 756 अवस्रंसने / 'ध्वंसु गतौ च। अङि न लोप: / अम्रसत्-असंसिष्ट / ' नास्रसत्करिणां ग्रैवम्' इति रघुवंशे / 'भ्रंशु' इत्यपि केचित्पेठुः / अत्र तृतीय एव तालव्यान्त इत्यन्ये / 'भ्रशु भ्रंशु अधःपतने' इति दिवादौ / सम्भु 657 शीत्यनुवर्तते। शचासाविचेति कर्मधारयः / तेन च अधिकृताङ्गाक्षिप्तः प्रत्ययो विशेष्यते / तदा. दिविधिः / इत्संज्ञकशकारादौ प्रत्यये परे इति लभ्यते। तदाह / मिदेरित्यादिना॥ देवादिकमिदे: श्यनि मेद्यते इत्याद्युदाहरणम् / श इत् यस्येति बहुव्रीहिमाश्रित्य शिति प्रत्यये परे मिदेरिकोगुण इत्येव कुतो न व्याख्यायत इत्याशय मिमिदे इत्यत्र गुणाभावार्थमित्संज्ञकशकारादाविति व्याख्येयमित्यभिप्रेत्याह / एशः आदिशित्त्वाभावादिति / त्रि विदेति / / षोपदेशोऽयम् / अनिट्स स्विद्येति श्यन्विकरणस्यैव ग्रहणादय सेट् / रुच दीप्तावभिप्रीती चेति // अभिप्रीतिः प्रीतिविषयीभवनम् / दीप्तौ उदाहरति / रोचते सूर्यः इति // प्रकाशत इत्यर्थः / अभिप्रीतौ उदाहरति / हरये रोचते भक्तिरिति // भक्तिः हर्याश्रितप्रीतिविषयो भवतीत्यर्थः / ‘रुच्यानाम्' इति सम्प्रदानत्वाच्चतुर्थी / क्षुभ सञ्चलने इति // क्षोभते क्षुभ्यतीति दिवादौ / क्षुभ्नातीति यादौ / णभधातुः णोपदेशः / नभते / आद्योऽभावे चेति // चात्सञ्चलनेऽपि / तत्र अभावार्थकस्य प्रयोगन्दर्शयति / नभन्तामन्यके समे इति // मन्त्रोऽयम् / नन्वत्र मन्त्रे णभेर्हिसार्थकत्वमेव कुतो न स्यादित्यत आह / मा भूवन्नन्यके सर्वे इति // नभन्तामित्यस्य विवरणं मा भूवनिति। न भवन्ती. त्यर्थः / समे इत्यस्य विवरणं सर्वे इति / निरुक्तमिति // वेदव्याख्यानात्मको यास्कप्रणीतो ग्रन्थविशेषो निरुक्तम् / स्रसुध्वंसुभ्रंसु इति // त्रयो नोपधाः कृतानुस्वारनिर्देशाः / ध्वंसु गतौ चेति // चादवप्रेसनेऽपि / अस्रसदिति // द्युतादित्वात्परस्मैपदे अङि नलोप इति भावः / नास्त्रसदिति // नास्रंसदित्यपपाठः / नचास्रसदिति लङो For Private And Personal Use Only
Page #117
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा / 115 विश्वासे / अम्रभत्--अम्रम्भिष्ट / दन्त्यादिरयम् / तालव्यादिस्तु प्रमादे गतः / वृतु 758 वर्तने / वर्तते / ववृते / 2347 / वृद्भ्यः स्यसनोः। (1-3-92) वृतादिभ्यः परस्मैपदं वा स्यात्स्ये सनि च / 2348 / न वृद्भ्यश्चतुर्यः। (7-1-59) एभ्यः सकारादेरार्धधातुकस्येण्न स्यात्तङानयोरभावे / वर्त्यति / वर्तिप्यते / अवृतत् / अवर्तिष्ट / अवय॑त् / अवतिष्यत / वृधु 759 वृद्धौ / शृधु 760 शब्दकुत्सायाम / इमौ वृतुवत् / स्यन्दू 761 प्रस्रवणे / स्यन्दते / सस्यन्दे / सस्यन्दिषे–सस्यन्त्से / सस्यन्दिध्वे-सस्यन्द्धे / स्यन्दिता-स्यन्ता / रूपमिति भ्रमितव्यम् / तत्र परस्मैपदासम्भवात् / सम्भुधातुरकारमध्यः / वृतु वर्तने इति // उदित ऋदुपधः सेटकः / वर्तते इति // शपि गुणे रपरत्वम् / ववृते इति // असं. योगादिति कित्त्वाद्गुणाभावे द्वित्वे उरदत्त्वे रपरत्वे हलादिशेष रूपम् / लुटि वर्तिता / वृद्भयः॥ बहुवचनाद्वृतादिभ्य इति गम्यते / शेषात्कर्तरीत्यतः परस्मैपदामित्यनुवर्तते। तदाह / वृतादिभ्य इति / न वृद्भयः // सऽसिचीति सूत्रात् से इति आर्द्धधातुकस्येडिति चानुवर्तते / तदाह / एभ्यः सकारादेरिति / तङानयोरभावे इति // गमेरिडित्यतः परस्मैपदवित्यनुवृत्तम् / तेन च तङानयोरभावो लक्ष्यते / व्याख्यानादिति भावः / तेन जिगमिषिता इत्यत्र गमेस्तृचि इट सिद्ध्यति / वृतेस्सनन्तात् हेर्लुकि विवृत्सेत्यत्र इनिषेधश्च सिद्ध्यति / वय॑तीति // लुटि स्यः / 'वृद्ध्यः स्यसनोः' इति परम्मैपदविकल्पः / 'न वृद्भ्यः' इति इण्निषेधः / गुणः रपरत्वं चर्वम् / परस्मैपदाभावेत्वाह / वर्तिष्यते इति // तङानयोरभावे इत्युक्तः न वृद्भ्य इति इनिषेधो न / अवर्तिष्टेति // परस्मैपदस्य अडश्चाभावे रूपम् / अवयंदिति // लङि स्यः / 'वृद्भ्यः स्यसनोः' इति परस्मैपदम् / 'न वृद्भ्यः' इति इनिषेधः / गुणः / रपरत्वमिति भावः / अवर्तिष्यतेति // परस्मैपदस्याभावे न वृद्भ्य इति इनिषेधोऽपि नेति भावः / वृधु शृधु इति द्वौ ऋदुपधौ / तत्रापि 'टुझ्यो लुद्धिः' इति परस्मैपदपक्षे द्युतादिलक्षणः अङ् / लुट्लुङोः 'वृद्ध्यः स्यसनोः' इति परस्मैपदपक्षे 'न वृद्ध्यः' इति इनिषेधश्च / तदाह / इमो वृतुवदिति // वय॑ति / वर्धिष्यते / अवृधत् / अवर्धिष्ट / अवय॑त् / अवर्धिष्यत / शय॑ति / शर्धिष्यते / अश्वत् / अशर्धिष्ट / अशय॑त् / अशर्धिष्यत। स्यन्दूधातुः अदित् नकारोपधः कृतानुस्वारपरसवर्णनिर्देशः / सस्यन्दिषे, सस्यन्त्से इति // इडभावे दस्य चर्चेन तः / सस्यन्दिन्द्धे, सस्यन्ढे इति // इडभावे धकारात् प्राक् दकारः / खर्परकत्वाभावानचवम् / स्यन्दिता, स्यन्तेति // इडभावे दस्य चर्वम् / ननु लटि स्ये सति 'वृद्भ्यः स्यसनाः' इति परस्मैपदपक्षे परत्वादूदिलक्षणमिडिकल्पम्बाधित्वा ‘न वृद्ध्यवतुभ्यः' इति For Private And Personal Use Only
Page #118
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदीसहिता [भ्वादि 'वृद्भयः स्यसनो:' (मू 2347) इति परस्मैपदे कृते ऊदिल्लक्षणमन्तरङ्गमपि विकल्पं बाधित्वा चतुर्ग्रहणसामर्थ्यात् ‘न वृद्भयः-' (सू 2348) इति निषेधः। स्यन्त्स्यति-स्यन्दिष्यते-स्यन्त्स्यते / स्यन्दिषीष्ट-स्यन्त्सीष्ट / 'युद्भयो लुङि' (सू 2345) इति परस्मैपदपक्षे अङ् / नलोपः / अस्यदत्। अस्यन्दिष्ट अस्यन्त / अस्यन्त्साताम् / अस्यन्त्सत / अस्यन्त्स्यत् / अस्यन्दिष्यत-अस्यन्त्स्यत / 2349 / अनुविपर्यभिनिम्यः स्यन्दतेरप्राणिषु / (8-3-72) एभ्यः परस्याप्राणिकर्तृकस्य स्यन्दतेः सस्य षो वा स्यात् / अनुष्यन्दतेअनुस्यन्दते वा जलम् / 'अप्राणिषु' किम् / अनुस्यन्दते हस्ती / 'अप्राणिपु' इनिषेधे स्यन्त्स्यतीत्येव रूपमिष्यते / नतु स्यन्दिष्यत इति / तदयुक्तम् --अन्तरङ्गतया ऊदिलक्षणस्यैव इडिकल्पस्य उचितत्वात् सकारादिविशेषापेक्षतया तङानाभावनिमित्तापेक्षतया च 'न वृद्भ्यः' इति निषेधस्य बहिरङ्गत्वादित्याशङ्कय निराकरोति / वृद्भय इति / 'वृझ्यस्स्यसनोः' इति परस्मैपदे कृते अन्तरङ्गमपि विकल्पं बाधित्वा न वृद्भ्य इति निषेध इत्यन्वयः कुत इत्यत आह / चतुर्ग्रहणसामर्थ्यादिति // यदिह्यत्र ऊदिल्लक्षण इडिकल्प एव स्यात् नतु 'न वृद्भ्यश्चतुर्व्यः' इति निषेधः तर्हि चतुर्यः इति व्यर्थ स्यात् / नच कृपूव्यावृत्तिस्तफलमिति शङ्कयम् / 'तासि च क्लप' इति चकारेण सकाराद्यार्धधातुकेऽपि नित्यमिनिषेधप्रवत्तेर्वक्ष्यमाणत्वात् / भाष्ये तु 'निषेधाश्च बलीयांसः' इति न्यायेन अन्तरङ्गस्यापि ऊदिलक्षणोड्विकल्पस्य ‘न वृद्भ्यः' इति निषेधेन बाधसिद्धेश्चतुर्ग्रहणं प्रत्याख्यातम् / तथा च लुटि परस्मैपदपक्षे ऊदिल्लक्षणमिड्विकल्पं बाधित्वा 'न वृद्भ्यः' इति नित्यमिनिषेधे स्यन्त्म्यतीत्येकमेव रूपमिति स्थितम् / आत्मनेपदपक्षे तु ऊदित्त्वादिविकल्पं मत्वा आह / स्यन्दिप्यते, स्यन्त्स्यते इति // इडभावे दस्य चर्वम् / आशीर्लिङि सीयुटि ऊदित्त्वादिडिकल्पं मत्वा आह / स्यन्दिीष्ट, स्यन्त्सीष्टेति // 'न वृझ्य' इति निषेधस्तु न / तङानयोरभाव एव तत्प्रवृत्तेरिति भावः / लुङि विशेषमाह / युद्भयो लुङीत्यादिना / अङिति // द्युतादिलक्षण इति शेषः / नलोप इति // अनिदितामित्यनेनेति शेषः / आत्मनेपदपक्षे तु अङभावादूदिल्लक्षणमिड्विकल्पं मत्वा आह / अस्यन्दिष्ट, अस्यन्तेति // तत्र इडभावपक्षे अस्यन्द स् त इतिस्थिते 'झलो झलि' इति सलोपे दस्य चर्वम् / नचापित्त्वेन डित्त्वात् 'अनिदिताम्' इति नलोपः शङ्कयः / सिज्लोपस्यासिद्धत्वेनानुपधात्वादिति भावः / अस्यन्त्साताम् / अस्यन्त्सतेति // अस्यन्त्थाः / अस्यन्त्साथाम् / अस्यन्द्रम् / अस्यन्त्सि / अस्यन्स्वहि / अस्यन्त्स्महि / अस्यन्त्स्यत् / अस्यन्त्स्यत / अस्यन्दिष्यत / अनुविपर्यभिनि / एभ्य इति // अनु परि अभि नि वि इत्येतेभ्य इत्यर्थः / सस्येति // ‘सहे: साढस्सः' इत्यतः स इति षष्ठ्यन्तस्यानुवृत्तेरिति भावः / षो वा स्यादिति // 'अपदान्तस्य मूर्धन्यः' इत्यधिकारादिति भावः / ननु मत्स्योदके अनुष्यन्दते इत्यत्र कथं पन्वं प्राणिकर्तृकत्वस्यापि सत्त्वादित्यत For Private And Personal Use Only
Page #119
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा / 117 इति पर्युदासात् 'मत्स्योदक अनुष्यन्देते' इत्यत्रापि पक्षे षत्वं भवत्येव / 'प्राणिषु न' इत्युक्तौ तु न स्यात् / कृपू 762 सामर्थ्य / 2350 / कृपो रो लः / (8-2-18) कृप उ: र: ल: इति छेदः / ‘कृप इति लुप्तषष्ठीकम् / तच्चावर्तते / कृपो यो रेफस्तस्य ल: स्यात् / कृपेरृकारस्यावयवो यो रो रेफसदृशस्तस्य च लकारसदृश: स्यात् / कल्पते / चक्लपे / चक्लपिषे-चक्लासे / इत्यादि स्यन्दिवत् / 2351 / लुटि च क्लपः। (1-3-83) आह / अप्राणिविति / पर्युदासादिति // प्राणिकर्तृकस्य नेति न प्रतिषेधः येनात्र प्राणिकर्तृकत्वस्यापि सत्त्वात् षत्वं न स्यात् / किन्तु प्राणिभिन्न कर्तृकस्येति पर्युदास आश्रीयते। एवञ्च प्राण्यप्राणिकर्तृकस्यापि अप्राणिकर्तृकत्वानपायादिह षत्वं निर्वाधमिति भावः / कृपू सामर्थ्य इति // सामर्थ्य कार्यक्षमीभवनम् / ऊदित्त्वाद्वेट्कोऽयम् / ऋदुपधः / तडि प्रथमपुरुषेकवचनस्य टरेत्वे शपि लघूपधगुणे रपरत्वे कर्पते इति स्थिते / कृपो रो लः // कृप इति लुप्तविभक्तिकम् / षष्ठ्येकवचने उः इति ऋकारस्य रूपम् / अवयवषष्टी / कृप उरिति स्थिते आद्गुणे कृपोरिति भवति / र: इति षष्ठ्यन्तम् / कृपोर् रः इति स्थिते ‘रो रि' इति रेफलोपे कृपारः इति भवति / लः इति प्रथमान्तम् / अकार उच्चारणार्थः / तदाह / कृप उः रः लः इति छेदः इति // एतच्च ऋलकसूत्रभाष्ये स्थितम् / ननु कृपेत्यत्र का विभक्तिलृप्तेत्यत आह / कृप इति लुप्तषष्ठीकमिति // पकारादकार उच्चारणार्थः / कृपधातोरिति लभ्यते / तच्चावर्तते इति // कृपः रः ल: इति पदत्रयमावर्तते इत्यर्थः / तथाच / वाक्यद्वयं सम्पद्यते / कृपः र: लः इत्येकं वाक्यम् / तदाह / कृपो यो रेफस्तस्य लः स्यादिति // तथाच कल्पते इति भवति / कृप: उ: र: ल: इति द्वितीयं वाक्यम् / तत्र कृपेत्यवयवषष्ठ्यन्तम् / उरित्यत्रान्वेति / उरित्यवयवषष्ठ्यन्तं रेफे अन्वेति / तथाच कृपधातोरवयवः यः ऋकारः / तस्य यो रेफः तस्य लकारस्स्यादिति लभ्यते / तत्र ऋकारावयवत्वं रेफस्य न सम्भवतीति रेफशब्दो रेफसदृशे ऋकारांशे लाक्षणिकः / ल इत्यपि लकारसदृशे लकारांशे लाक्षणिकः / तदाह / कृपेक्रंकारस्यावयव इत्यादिना // एवञ्च लिटि चकृप् ए इति स्थिते कित्त्वाद्गुणाभावे ऋकारैकदेशस्य रेफसदृशस्य लकारसदृशे सति चक्लपे इति रूपम् / कृपः रः लः इति छदमभ्युपगम्य कृपधातो: रेफस्य लकार इति व्याख्याने तु चक्लपे इति न सिद्ध्येत् / तदर्थमावृत्तिराश्रितेत्यभिप्रेत्याह / कल्पते / चक्लपे इति // अदित्त्वादिविकल्पं मत्वा आह / चक्लपिणे, चक्लप्से इति / स्यन्दिवदिति॥ चक्लपाथे चक्लपिध्वे चक्लपश्च / चक्लपे चक्लपिवहे चक्लप्वहे चक्लपिमहे चक्लपमहे / लुटि च क्लपः // चकारात् * वृद्ध्यः स्यसनोः' इत्यतः स्यसनारित्यनुकृष्यते / ‘शेषात्कर्तरि ' For Private And Personal Use Only
Page #120
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 118 सिद्धान्तकौमुदीसहिता [भ्वादि लुटि स्यसनोश्च क्लपे: परस्मैपदं वा स्यात् / 2352 / तासि च क्ल्पः / (7-2-30) क्लपेः परस्य तासेः सकारादेरार्धधातुकस्य चेन स्यात्तङानयोरभावे / कल्तासि / कल्पास्थ / कल्पितासे / कल्लासे / कल्प्स्यति / कल्पिष्यते / कल्प्स्यते / कल्पिषीष्ट-क्लप्सीष्ट / अक्लपत् / अकल्पिष्ट-अक्लप्त / अकल्प्स्यत् / अकल्पिष्यत-अकल्प्स्यत / वृत् / वृत्तः सम्पूर्णो द्युतादिर्वृतादिश्वेत्यर्थः / अथ त्वरत्यन्तात्रयोदशानुदात्तेतः षितश्च / घट 763 चेष्टायाम् / घटते / जघटे / 'घटादयो मित:' इति वक्ष्यमाणेन मित्संज्ञा / तत्फलन्तु णौ 'मितां ह्रस्वः' (सू 1568) इति * चिण्णमुलोर्दीर्घोऽन्यतरस्याम्' (सू 2762) इत्यतः परस्मैपदमिति / 'वा क्यषः' इत्यतो वेति च / तदाह / लुटि स्यसनोरित्यादिना // तासि च // चकारात्सकाराद्यार्धधातुकं गृह्यते। 'सेऽसिचि कृत' इत्यतः से इति 'आर्धधातुकस्य' इत्यतः आर्धधातुकस्येडिति चानुवर्तते / 'न वृद्भ्यश्चतुर्यः' इत्यतो नेति च / गमेरिडित्यतः परस्मैपदमिति च। तदाह / कटपेः परस्येत्यादिना / कल्तासीति // 'लुटि च क्लप:' इति परस्मैपदपक्षे ऊदिल्लक्षणमिडिकल्पम्बाधित्वा 'तासि च क्लप' इति इनिषेधे गुणे रपरत्वे लत्वे रूपम् / परस्मैपदाभावपक्षे तु ऊदिल्लक्षणमिड्किल्प मत्वा आह / कल्पितासे, कल्तासे इति // लुटि तु 'लुटि च क्ल्पः' इति परस्मैपदपक्षे ऊदिल्लक्षणमिड्डिकल्पम्बाधित्वा 'तासि च क्लपः' इति इनिषेधं मत्वा आह / कल्प्स्य तीति // परस्मैपदाभावे तु दित्त्वादिडिकल्पं मत्वा आह / कल्पिष्यते इति // कल्पताम् / अकल्पत / कल्पेत / आशीलिंडि दिलक्षणमिडिकल्पं मत्वा आह / कल्पिषीप्टेति / क्लप्सीप्टेति च // इडभावे ‘लिङ्सिचावात्मनेपदेषु' इति कित्त्वान्न गुणः / अक्लपदिति // ‘द्युझ्यो लुङि' इति परस्मैपदपक्ष द्युतादिलक्षणे अडि सति ङित्त्वान गुण: / अङभावे तु ऊदिल्लक्षणमिडिकल्पं मत्वा आह / अकल्पिष्टेति, अक्लप्तेति च / अकल्प्स्य दिति // लुङि स्ये 'लुटि च क्लप:' इति परस्मैपदपक्षे ऊदिल्लक्षणमिड्डिकल्पं बाधित्वा 'तासि च क्लप:' इति इनिषेध इति भावः / परस्मैपदाभावपक्षे तु ऊदिल्लक्षणमिङ्किलल्पं मत्वा आह / अकल्पिष्यत, अकल्प्स्य तेति / वृदिति // वृतेः समाप्तयर्थकात् कर्तरि किम् / तदाह / वृत्तः इति // ‘गत्यर्थाकर्मक' इति कर्तरि क्तः / वृत्तशब्दस्य विवरणं सम्पूर्णः इति / द्युतादयः कृपूपर्यन्ता अनुदात्तता गताः / अथ त्वरत्यन्ताः इति // 'मि त्वरा सम्भ्रमे' इत्यन्ता इत्यर्थः / षितश्चेति // षित्संज्ञका इत्यर्थः / षित्कार्यभाज इति वा / —नि त्वरा सम्भ्रमे' इत्युक्त्वा ‘घटादयः षित' इति वक्ष्यमाणत्वादिति भावः / पित्फलन्तु स्त्रियामित्यधिकारे ‘षिद्भिदादिभ्यः' इत्यङ् / घटा व्यथा, इत्यादि रूपम् / घटते इति // चेष्टते इत्यर्थः / तत्फलन्त्विति // मित्त्वफलन्तु 'मितां दृस्वः' इति णौ हस्वः / 'चिण्णमुलोदीर्घः' इति दीर्घश्च वक्ष्यते / धातुपाठे अर्थनिर्देशः उपलक्षणमि For Private And Personal Use Only
Page #121
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम] बालमनोरमा / 119 इति च वक्ष्यते / घटयति / विघटयति / कथं तार्ह ‘कमलवनोद्घाटनं कुर्वते ये' प्रविघाटयिता समुत्पतन्हरिदश्वः कमलाकरानिव' इत्यादि / शृणु / 'घट सङ्घाते' इति चौरादिकस्येदम / न च तस्यैवार्थविशेषे मित्त्वार्थमनुवादोऽयमिति वाच्यम् / 'नान्ये मितोऽहेतौ' इति निषेधात् / अहेतौ स्वार्थे णिचि ज्ञपादिपञ्चकव्यतिरिक्ताश्चुरादयो मितो नेत्यर्थः / व्यथ 764 भयसञ्चलनयोः / व्यथते / त्युक्तम् / ततश्चार्थान्तरवृत्तेरपि घटधातोघटादि कार्यम्भवत्येव / तदाह / घटयति / विघटयतीति // संश्लेषयनि विश्लेषयतीत्यर्थः / णा इस्वोदाहरणमिदम् / अघटि अघाटीति, चिण्युदाहरणम् / घाट घाटम् / घटं घटमिति ण्यन्ताण्णमुलि दीर्घविकल्पस्योदाहरणम् / 'नित्यवीप्सयोः' इति द्विवचनम् / ननु यद्यर्थान्तरवृत्तेरपि घट धातोर्मित्त्वन्तदा उद्घाटनं प्रविघाटांयेतेत्यत्र विकसनार्थकस्यापि घट धातोणी मित्त्वाद्रवः स्यादित्याक्षिपति / कथन्तीति / शृण्विति // समाधानमिति शेषः / चौरादिकस्येति // चुरादौ ‘घट सङ्घाते' इति पठितम्। तदिदवाटादिकात् घटधातोर्धात्वन्तरमेव / तस्य णौ मित्त्वाभावात् / हस्वाभावे उद्घाटन प्रविघाटयितेति निर्बाधमेव / अर्थनिर्देशस्योपलक्षणतया सङ्घातादन्यत्र विकसनेऽपि चौरादिकस्य वृत्तिसम्भवादिति भावः / ननु घटादिगणादन्यत्र अर्थान्तरे पठितानान्धातूनामिह घटादिगणे पाट: घटादिगणनिर्दिष्ट एवार्थे मित्त्वार्थोऽनुवाद एव नतु धातुभेदः / अन्यथा घटादिकत्वं गणान्तरस्थत्वं चादाय मित्त्वतदभावयोर्विकल्पापत्तेः / ये तु धातवो घटादिगण एव पूर्व पटिताः नतु गणान्तरे तेषान्त्वर्थान्तरवृत्तावपि मित्त्वमिति धातुवृत्त्यादिग्रन्थेषु सिद्धान्तः / घटधातुस्तु घट सङ्घाते इति चुरादौ पठितः / अतस्तस्यैवात्र गणे चेष्टायामर्थे मित्त्वा र्थोऽनुवाद इति लब्धम् / एवञ्च विघटयति इत्यादावर्थान्तरवृत्तौ ण्यन्तस्य मित्त्वमित्याशय निराकरोति / नचेति // तस्यैव चौरादिकस्यैव घटधातोः चेष्टात्मके अर्थविशेषे वृत्तौ मित्त्वार्थोऽनुवादः स्यादिति न वाच्यमित्यर्थः / कुत इत्यत आह / नान्ये मितोऽहेताविति॥ चुराद्यन्तर्गणसूत्रमिदम् / तत्र हि 'ज्ञप मिच' ‘यम च परिवेषणे' 'चह परिकल्कने' 'रह त्यागे' 'बल प्राणने' / 'चिञ् चयने' इति पञ्च धातून् पठित्वा 'नाऽन्ये मितोऽहेतौ' इति पटितम् / तत्र चह परिकल्कने इत्यस्य स्थाने चपेति केचित् पठन्ति / तथाच पञ्चत्वस्य न विरोधः / एषु पञ्चस्वपि मिदित्यनुवर्तते / अहेताविति च्छेदः / कस्मादन्ये इत्यपेक्षायां सन्निहितत्वात् ज्ञपादिपञ्चभ्य इति लभ्यते / हेतुशब्देन 'हेतुमति च' इति सूत्रविहितो णिच् लभ्यते। तद्भिन्नो शिच स्वार्थिकः अहेतुः तदाह / अहेतौ स्वार्थ णिचीति // ज्ञपः आदिर्येषामिति अतद्गुणसंविज्ञानो बहुव्रीहिः / ज्ञपधातोस्तदुत्तरेभ्यश्च पञ्चभ्य इत्येवं षड्भ्योऽन्ये ये चुरादयः ते मितो नेति फलितम् / एवञ्च चुरादौ ज्ञपादिपञ्चकव्यतिरिक्तानां मित्त्वाभावात् 'घट चेष्टायाम्' इति निर्देशश्चौरादिकस्य ‘घट सङ्खाते' इत्यस्य चेष्टायां वृत्तौ मित्त्वार्थोऽनुवाद इति न युज्यते / For Private And Personal Use Only
Page #122
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 120 सिद्धान्तकौमुदीसहिता [भ्वादि 2353 / व्यथो लिटि / (7-3-68) व्यथोऽभ्यासस्य सम्प्रसारणं स्याल्लिटि / हलादिशेपापवादः / थस्य हलादिशेषेण निवृत्तिः / विव्यथे / प्रथ 765 प्रख्याने / पप्रथे / प्रस 766 विस्तारे / पप्रसे / मृद 767 मर्दने / स्खद 738 स्खदने / स्खदनं विद्रावणम् / क्षजि 739 गतिदानयोः। मित्त्वसामर्थ्यादनुपधात्वेऽपि चिण्णमुलो:-' (सू 2762) इति दीर्घविकल्पः / अक्षञ्जि-अक्षाजि / क्षजं क्षञ्जम् / क्षार्ज क्षाञ्जम् / दक्ष 770 गतिहिंसनयोः / योऽयं वृद्धिशैघचयोरनुदात्तेत्सु पठितस्तस्येहार्थविशेष मित्त्वार्थोऽनुवादः / क्रप 771 कृपायां गतौ च / कदि 772 ऋदि 773 क्लदि 774 वैक्लव्ये / 'वैकल्ये इत्येके / 'वयोऽप्यनिदितः' इति नन्दी / 'इदितः' इति स्वामी / 'कदि क्रदी' इदितौ ‘क्रद क्लद' इति चानिदिताविति मैत्रेयः / 'कदि ऋदि क्लदीनामाह्वानरोदनयोः' परस्मैपदिषूक्तानां किन्तु इहैव घटादिगणे ‘घट चेष्टायाम्' इत्यपूर्वोऽयन्धातुः तस्य चाथान्तरवृत्तावपि मित्त्वमस्त्येवेति विघटयतीत्यादौ मित्त्वाद्रस्वो निर्वाधः / व्यथधातुर्द्वितीयान्तः / व्यथो लिटि // 'अत्र लोपः' इत्यतः अभ्यासस्येति 'द्युतिस्वाप्योः' इत्यतः सम्प्रसारणमिति चानुवर्तते / तदाह व्यथोऽभ्यासस्येत्यादिना। हलादिशेषापवाद इति // व्यथ व्यथ् ए इति स्थिते हलादिशेषलभ्यं यकारस्य लोपम्बाधित्वा सम्प्रसारणमित्यर्थः / तथाच यकारस्य इकारे पूर्वरूपे विव्यथे इति रूपम् / वकारस्य तु न सम्प्रसारणम् / 'न सम्प्रसारणे सम्प्रसारणम्' इति निषेधात् / ननु सम्प्रसारणेन हलादिशेषवाधे थकारस्यापि निवृत्तिनस्यादित्यत आह / थस्येति // यकारलोपस्य बाधं विना सम्प्रसारणस्य प्रवृत्त्यनुपपत्तेस्तेन तद्बाधेऽपि थकारलोपस्य बाधे प्रमाणाभावादिति भावः / मृद मर्दने इति // ऋदुपधोऽयम् / मर्दते / ममृदे। क्षजिधातुरिदित् / क्षजते / चक्षले / ननु घटादिगणे अस्य पाठो व्यर्थः / क्षञ्चयतीत्यत्र णो नुमि कृते अकारस्यानुपधात्वे उपधादीर्घस्याप्रसक्त्या 'मितां हस्वः' इत्यस्याप्रवृत्तावपि विशेषाभावात् अनुपधात्वेन 'मिता इस्वः' इत्यस्य प्रसक्त्यभावाच्च / अतएव अक्षन्नि क्षजंक्षञ्जमित्यत्रापि 'चिण्णमुलोः' इति दीर्घविकल्पस्यापि न प्रसक्तिरित्यत आह / मित्त्वसामर्थ्यादिति / दक्ष गतीति // ननु ‘दक्ष वृद्धाशीघ्रार्थे च' इत्यनुदात्तेत्सु पाटादेव सिद्धे किमर्थमिह पाठः / अर्थनिर्देशस्योपलक्षणत्वादेव गति हिंसार्थकत्वस्यापि सम्भवादित्यत आह / वृद्धिशैघ्रययोरिति // मित्त्वसामर्थ्यादनुपधात्वेऽपि चिण्णमुलोर्दीर्घविकल्पः / अदक्षि अदाक्षि / दक्षन्दक्षम् / दाक्षन्दाक्षम् / क्रप कृपायाङ्गताविति // अदुपधोऽयम् / कृपायां गतौ वेत्यर्थः / कदि ऋदि क्लदेति नन्दिमते / क्षीरस्वामिमते च त्रय एव धातवः / मैत्रेयमते चत्वार इति बोध्यम् / तत्र इदितान्त्रयाणां For Private And Personal Use Only
Page #123
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम] बालमनोरमा। 121 पुनरिह पाठो मित्त्वार्थ आत्मनेपदार्थश्च / त्रि त्वरा 775 सम्भ्रमे / 'घटादयः पित:' (ग सू 186) / पित्त्वादङ् कृत्सु वक्ष्यते / अथ फणान्ताः परस्मैपदिनः / ज्वर 776 रोगे / ज्वरति / जज्वार / गड 777 सेचने / गडति / जगाड / हेड 778 वेष्टने / 'हेड अनादरे ' इत्यात्मनेपदिपु गतः / स एवोत्सृष्टानुबन्धोऽनूद्यते अर्थविशेषे मित्त्वार्थम् / परस्मैपदिभ्यो ज्वरादिभ्यः प्रागेवानुवादे कर्तव्ये तन्मद्ध्येऽनुवादसामर्थ्यात्परस्मैपदम्। हेडति / जिहेड / हिडयति / अहिडि-अहीडि / अनादरे तु हेडयति / वट 779 भट 780 परिभाषणे / ‘वट वेष्टने' 'भट भृतौ' इति पठितयोः परिभाषणे मित्वार्थोऽनुवादः / णट 781 नृत्तौ / इत्थमेव पूर्वमपि पठितम् / तत्रायं विवेकः / पूर्व पठितस्य नाट्यमर्थः / यत्कारिषु नटव्यपदेशः / पौनरुक्त्यं परिहरति / कदि ऋदि क्लदीनामित्यादिना / जि त्वरेति // जिरित् / 'जीतः क्तः' इति प्रयोजनम् / आदित्त्वन्तु 'आदितश्च' इति निष्ठायामिनिषेधार्थम् / वस्तुतस्तु आदित्वं व्यर्थम् / इस्वेऽप्यात्मनेपदसिद्धेः ‘रुष्यमत्वरसंघुषास्वनाम्' इति निष्ठायामिविकल्पसिद्धेश्च / घटादयः पित इति // त्वरत्यन्ता इति शेषः / गणसूत्रमिदम् / तत्प्रयोजनमाह / षित्त्वादिति / वक्ष्यते इति // ‘पिद्भिदादिभ्योऽङ' इत्यनेनेति शेषः / घटादिषु त्रयोदशानुदानेतो गताः / 'द्युत दीप्तौ' इत्यतः प्राक घटादिसमाप्तिरिति वक्ष्यते। अथ फणान्ता इति // फण गतावित्येतत्पर्यन्ता इत्यर्थः / ज्वर रोगे इति // णौ ज्वरयति / चिणि तु अचरि अज्वारि / णमुलि तु ज्वरं ज्वरम् , ज्वारं ज्वारम् / एवमग्रेऽपि ज्ञेयम् / हेड वेष्टने इति // डकारादकार उच्चारणार्थः / ततश्च 'नाग्लोपिशास्वृदिताम्' इति निषेधो न भवति / स एवेति // हेडधातुरेव ऋकारानुबन्धमुत्सृज्य वेष्टनरूपे अर्थविशेषे मित्त्वार्थमन्द्यते इत्यर्थः / धात्वन्तरत्वे तु मित्त्वतदभावयोर्विकल्पः स्यादिति भावः / नन्वात्मनेपदिन एवात्रानुवादे परस्मैपदन्न स्यादित्यत आह / परस्मैपदिभ्य इति // यदित्वात्मनेपदमित्रं ताई घटादिषु त्वरत्यन्तेष्वेवानुदात्तेत्सु पठ्यतेति भावः। हेडतीति // वेष्टते इत्यर्थः / हिडयतीति // वेष्टयतीत्यर्थः / -- हेतुमति' इति णिचि ‘मितां ह्रस्वः' इति हस्व इति भावः / अहिडि अहीडीति || ‘चिण्णमुलोः' इति दीर्घविकल्पः / अनादरे तु हेडयतीति // वेटनरूपार्थ एव मित्त्वान्न ह्रस्व इति भावः / ‘वट परिभाषणे' इति नापूर्वो धातुरित्याह / वट वेष्टने इत्यादि / अनुवाद इति // धात्वन्तरत्वे तु मित्त्वतदभावयोर्विकल्पः स्यादिति भावः / ‘णट नृत्तो' इत्यस्य पौनरुक्त्यमाक्षिपति / इत्थमेव पूर्वमपि पठितमिति // टवर्गान्तेष्विति शेषः / तथा च उभयोरप्यथैक्येन अर्थविशेषे मित्त्वार्थमिहानूद्यते इति परिहारस्य सम्भवानपौनरुक्त्यमिति भावः / परिहर्तुमुपक्षिपति / तत्रायं विवेक इति // तत्र तयोः धात्वोः अयं वक्ष्यमाण: विवेक: अर्थभेदः प्रत्येतव्य इत्यर्थः / पूर्वम्पठितस्येति // 16 For Private And Personal Use Only
Page #124
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 122 सिद्धान्तकौमुदीसहिता भ्वादि वाक्यार्थाभिनयो नाट्यम् / घटादौ तु नृत्तं नृत्यं चार्थः / यत्कारिषु नर्तकव्यपदेशः / पदार्थाभिनयो नृत्यम् / गात्रविक्षेपमात्रं नृत्तम / केचित्तु घटादौ ‘णट नतौ' इति पठन्ति / -- गतौ' इत्यन्ये / णोपदेशपयुदासवाक्ये भाष्यकृता 'नाटि' इति दीर्घपाठावटादिर्णोपदेश एव / एक 782 प्रतीघाते / स्तकति / चक 783 तृप्तौ / तृप्तिप्रतीघातयो: पूर्व पठितस्य तृप्तिमात्रे मित्त्वार्थोऽनुवादः। आत्मनेपदिषु पठितस्य परस्मैपदिष्वनुवादात्परम्मैपदम् / कखे 784 हसने / एदित्त्वान्न वृद्धिः / अकखीत् / रगे 785 शङ्कायाम / लगे 786 सङ्गे। हगे 787 ह्रगे 788 पगे 789 ष्टगे 790 संवरणे / कगे 791 नोच्यते / 'अस्यायमर्थः' इति विशिष्य नोच्यते / क्रियासामान्यार्थवाचित्वात् / अनेकार्थत्वादित्यन्ये / अक 792 अग 793 कुटिलायां गतौ / कण 794 रण 795 गतौ / चकाण / रराण / चण 796 शण 797 श्रण 798 दाने च / 'शण गतौ' इत्यन्ये / श्रथ 799 कथ 800 क्रथ 801 क्लथ टवर्गान्तेषु पठितस्येत्यर्थः / यत्कारिप्विति // यस्य कर्तृषु नटव्यवहारः तन्नाट्यं पूर्वम्पठितस्य नटधातोरर्थ इत्यर्थः / किन्तन्नाट्यमित्यत आह / वाक्यार्थेति / घटादौ त्विति // यस्य कर्तृषु नर्तकव्यपदेश: तत् नृत्यं नृत्तञ्च घटादौ पठितस्य नटेरर्थ इत्यर्थः / नृत्यनृत्तयोः को भेद इत्यत आह / पदार्थेति // एवञ्च टवर्गान्तेषु पठितस्य घटादिगतस्य चार्थभेदसत्त्वादर्थविशेषे मित्त्वार्थोऽनुवाद इति युज्यत इति भावः / हेत्व. न्तरत्वे तु मित्त्वतदभावयोर्विकल्प: स्यात् / अथ नटधातोरस्य णोपदेशपर्युदासभ्रमं वारयति / णोपदेशेति // अननाटीत्यादिपर्युदासवाक्ये नाटीति णिज्लक्षणवृद्धिनिर्देशेन ‘नट अवस्पन्दने' इति चौरादिकस्यैव ग्रहणादयं णोपदेश एवेत्यर्थः / टकधातुष्योपदेशः / कृतष्टुत्वस्य निर्देशः / स्तकतीति॥'धात्वादेः' इति षस्य सत्वे टुत्वनिवृत्तिः / चक तृप्तौ / तृप्तीति // 'चक तृप्तौ प्रतीघाते च' इत्यात्मनेपदिषु पठितस्य तृप्तावर्थे मित्त्वार्थोऽत्रानुवाद इत्यर्थः / एवञ्च धात्वन्तरत्वाभावानमित्त्वतदभावविकल्पः / ननु आत्मनेपदिषु पठितस्यातानुवादादात्मनेपदं स्यादित्यत आह / आत्मनेपदेष्विति / षगे टगे इति // षोपदेशौ / टगे इति कृतष्टुत्वनिर्देशः / कगे नोच्यते इति // ननु कगे इत्यनेन यदि किमपि नोच्येत, तर्हि कथमस्य धातुत्वमित्यत आह / अस्यायमिति // क्रियाविशेषो नास्यार्थ इति भावः / ननु यदि न कोपि क्रियाविशेषोऽस्यार्थः तर्हि कथमयं धातुरित्यत आह / क्रियासामान्यार्थवाचित्वादिति // धातुपाठपठितस्य क्रियाविशेषार्थकत्वाभावे सति क्रियासामान्यवाचित्वम्परिशे. पलभ्यमिति भावः / अनेकेति // कलि: कामधेनुरिति न्यायेन कलधातुवदपरिमितार्थकत्वमिति भावः / श्रथ नथ क्रथ क्लथ' इति // चत्वारोऽपि द्वितीयान्ताः / आद्यतृतीयौ रेफमध्यौ। द्वितीयो नकारमध्यः / चतुर्थस्तु लकारमद्ध्यः / आद्यस्तु शकारादिः। इतरे For Private And Personal Use Only
Page #125
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा / 123 802 हिंसार्थाः। —जासिनिप्रहण-' (सू 617) इति सूत्रे क्राथेति मित्त्वेऽपि वृद्धिर्निपात्यते / क्राथयति / मित्त्वन्तु निपातनात्परत्वात् 'चिण्णमुलो:' (सू 2762) इति दीर्घ चरितार्थम / अक्रथि--अक्राथि / क्रथं क्रथम् / क्राथं काथम् / वन 803 च / हिंसायामिति शेषः / वनु च नोच्यते / 'वनु' इत्यपूर्व एवायं धातुन तु तानादिकस्यानुवादः / उदित्करणसामर्थ्यान्। तेन क्रियासामान्ये वनतीत्यादि। प्रवनयति। अनुपसृष्टस्य तु मित्त्वविकल्पो वक्ष्यते / ज्वल 804 दीप्तौ / णप्रत्ययार्थ पठिष्यमाण एवायं मित्त्वार्थमनूद्यते / प्रज्वलयति / ह्वल 805 ह्मल 806 चलने / प्रह्वलयति / प्रह्मलयति। ककारादयः / ननु क्रथधातोघंटादित्वेन मित्त्वात् णो उपधावृद्धिसम्पन्नस्य आकारस्य 'मितां दृस्वः' इति इस्वत्वे कथयतीति स्यात् , नतु क्राथयतीति / तत्राह ! जासिनीति // 'जासिनिप्रहणनाटकाथपिंषां हिंसायां' इति षष्ठीविधौ णौ मित्त्वेऽपि काथेति वृद्धिर्निपात्यत इत्यर्थः / नन्वेवं सति घटादी क्रथधातोः पाठो व्यर्थ इत्यत आह / मित्त्वं त्विति // चिण्णमुलोदीर्घपक्षे चरितार्थमित्यन्वयः। ननु तत्रापि काथेति निपातनाद्वृद्धिरित्यत आह / निपातनात्परत्वादिति // काति निपातनापेक्षया चिण्णमुलोरित्यस्य परत्वादित्यर्थः / यद्यपि 'मितां इस्वः' इत्यपि परम् / तथापि पुरस्तादपवादन्यायेन काथेति बृद्धिनिपातनं 'मितां दृस्वः' इत्यस्यैवाव्यवहितस्य बाधकं, नतु चिण्णमुलोरिल्यस्यापि / तस्य व्यवहितत्वादिति योज्यम् / अऋथि-अक्राथीति // कर्ण्यन्ताचिणि दीर्घविकल्पः / कथं कथम् / क्राथं काथमिति // णमुलि दीर्घविकल्पः / वन चेति // चकारो हिंसानुकर्षकः / तदाह / हिंसायामितीति / शेष इति // वन शब्दे, वन सम्भक्ताविति पठितस्य हिंसायां मित्त्वार्थोऽत्रानुवादः / वनति / णौ तु वनयति / णमुलि तु वनं वनम् / वानं वानम् / वनु च नोच्यते इति // कगे नोच्यते इति वद्वयाख्येयम् / नन्वन्यत्र पठितस्य घटादौ मित्त्वार्थोऽनुवाद इति सिद्धान्तात्तनादौ 'वनु याचने' इति पठितस्य अनुदात्तेतोऽत्रानुवादात् क्रियासामान्येऽर्थे वनुते इत्यात्मनेपदम् उप्रत्ययश्च स्यादित्यत आह / अपूर्व एवायमिति / उदिकरणेति // यदि तानादिकस्यैव अत्रानुवादः स्यात् , तर्हि तनादिगणे वनु इति कृतेन उदि. करणनैव ‘उदितो वा' इत्याद्युदित्कार्यस्य सिद्धरिह गणे पुनरुदित्करणमनर्थकं स्यात् / अतस्तानादिकस्य नात्रानुवादः / किंत्वपूर्व एवायं वनुधातुः / तथा च वनतीति परस्मैपदं शब्धिकरणश्रेत्याह / तेन क्रियासामान्य वनतीत्यादीति // आदिना वनतः वनन्तीत्यादिसङ्ग्रहः / प्रवनयतीति // घाटादिकस्य क्रियासामान्यवाचिनो णिचि मित्त्वाद्रस्वः / वक्ष्यते इति // 'ग्लास्नावनुवमाञ्च' इत्यनेनेति शेषः। तानादिकात्तु वनु याचने इत्यस्माण्णिचि उपधादीर्घ वानयतीत्येव भवति / ज्वलदीप्तौ।णप्रत्ययार्थमिति ॥'ज्वलितिकसन्तभ्योणः' इति णप्रत्ययार्थज्वलादिगणे पठिष्यमाणस्य इह मित्त्वार्थोऽनुवाद इत्यर्थः / ज्वलतीत्यादि सिद्धवत्कृत्य मित्त्वस्य णौ इस्वम्प्रयोजनमाह / प्रज्वलयति इति // धात्वन्तरत्वे तु मित्त्वतदभावयोर्विकल्पः स्यादिति For Private And Personal Use Only
Page #126
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 124 सिद्धान्तकौमुदीसहिता [भ्वादि स्मृ 807 आट्याने / चिन्तायां पठिष्यमाणस्य आद्ध्याने मित्त्वार्थोऽनुवादः। आध्यानमुत्कण्ठापूर्वकं स्मरणम् / दृ 808 भये / 'दृ विदारणे' इति क्रयादेरयं मित्त्वार्थोऽनुवादः / दृणन्तं प्रेरयति दरयति / भयादन्यत्र दारयति / धात्वन्तरमेवेदमिति मते तु दरतीत्यादि / केचिद्घटादौ ‘अत्स्मृदृत्वर-'(सू 2566) इति सूत्रे च 'दृ' इति दीर्घस्थाने ह्रस्वं पठन्ति / तन्नेति माधवः / न 809 नये / क्रयादिषु पठिष्यमाणस्यानुवादः / नयादन्यत्र नारयति / श्रा 810 पाके। श्रे इनि कृतात्वस्य श्रा इत्यादादिकस्य च सामान्येनानुकरणम / 'लुग्विकरणालुग्वि करणयोरलुग्विकरणस्य' (प 91) लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणम' बोध्यम् / स्मृ आध्याने / चिन्तायामिति // स्मृ चिन्तायामिति पठिष्यमाणस्य आध्याने मित्त्वार्थोऽनुवाद इत्यर्थः / चिन्ताया आध्यानमन्यदिति दर्शयितुमाह / आध्यानमुत्कण्ठेति / दृ भये इति // अस्य दणाताति रूपं नतु शप् / तदाह / ऋयादेरयं मित्त्वार्थोऽनुवाद इति // भयेऽर्थे मित्त्वार्थमिति शेषः। अर्थनिर्देशस्य उपलक्षणत्वात् भये वृत्तिः / तथाच क्रयादित्वात् भाविकरण एवायमिति भावः / मित्त्वप्रयोजनन्दर्शयति / दृणन्तम्प्रेरयति दरयती. ति॥ भीषयतीत्यर्थः / भयादन्यत्र दारयतीति॥ भेदयतीत्यर्थः / धात्वन्तरमेवेति // नतु कथादेरनुवाद इत्यर्थः / अस्मिन्मते भौवादिकत्वात् शवेवेत्याह। दरतीत्यादीति। सूत्रे चेति // 'अत्स्मृदृत्वरप्रथम्रदस्तृस्पशाम्' इति अत्वविधावित्यर्थः / ह्रस्वम्पठन्तीति // तन्मते क्रयादेरनुवादप्रसक्तिरेव नास्तीति भावः। तन्नेतीति // यदि ह्ययवटादो इस्वान्तः क्रयादो तु दीर्घान्तो भवेत् तर्हि 'शूदृप्रां ह्रस्वो वा' इत्यत्र दृग्रहणमनर्थकं स्यात् / दृस्वदीर्घान्तघातुभ्यामेव तत्फल. सिद्धरिति भावः / नृ नये इति // नयः नयनम् / ऋयादिष्विति // नृ नये इत्येव कयादिषु पठ्यते / तत्रार्थनिर्देशो न विवक्षितः / क्रयादिषु पठिष्यमाणस्य नृधातानयादन्यत्र विद्यमानस्य नयेऽर्थे मित्त्वार्थोऽनुवाद इत्यर्थः / तथाच भाविकरण एवायम् / नृणातेर्धात्वन्तरत्वाभावानमित्त्वतदभावौ / अपि तु नित्यमेव मित्त्वम् / श्रा पाके इति // नन्वत्र भ्वादौ पठ्यमान:च्छायतेः, उत्तरत्र अदादौ पठिष्यमाणाच धातेरन्य एव यदि कश्चन स्वतन्त्रो धातघटादा निर्दिश्येत तदा प्रकृते लटि शपि श्रातीति रूप म्पत्त्या लुग्विकरणस्थेन श्रापाके इत्यनेन पो. नत्यमित्यत आह / अ॒ इतीति // अग्रे भ्वादिगणे झै पाके इति पठिष्यते / तस्य कृतात्वस्यानुकरणमित्यन्वयः। तथाच तस्यैव |धातोरनेकार्थकतया पाक वृत्तस्य मित्त्वार्थोऽत्रानुवादात् / शपि श्रायतीत्यादि रूपम् / एतच्च ‘तम्पाके' इति सूत्रे भाष्यकयटयोः स्थितम् / एवञ्च सति सम्भवे अन्यत्र पठितानामिह मित्त्वार्थोऽनुवाद इति सिद्धान्तादग्रे भ्वादों थे पाके इत्यस्य पौनरुक्त्यं न शयम / नन्वेवं सति ") पाके' इत्येवात्र कुतो न पठितमित्यत आह / श्रा इत्यादादिकस्य चेति // ननु लाक्षणिकत्वात् “थे पाके' इति भौवादिकस्य कृतात्वस्याप्यनुवाद इति न युज्यते इत्यत आह / लुग्विकरणेत्यादि / परि. For Private And Personal Use Only
Page #127
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा। 125 (प 114) इति परिभाषाभ्याम / श्रपयति विक्लेदयतीत्यर्थः / पाकादन्यत्र श्रापयति / स्वेदयतीत्यर्थः / मारणतोषणनिशामनेषु ज्ञा 811 / 'निशामनं' चाक्षुषज्ञानम्' इति माधवः / ज्ञापनमात्रम इत्यन्ये / 'निशानेषु' इति पाठान्तरम / निशानं तीक्ष्णीकरणम / एष्वेवार्थेषु जानातिमिन / ' ज्ञप मिञ्च' इति चुरादौ / ज्ञापनं मारणादिकं च तस्यार्थः / कथं विज्ञापना भर्तृषु सिद्धिमेति' इति तज्ज्ञापयत्याचार्यः' इति च। शृणु / माधवमते अचाक्षुषज्ञाने मित्त्वाभावात् / ज्ञापनमात्रे मित्त्वमिति मते तु * ज्ञा नियोगे' इति चौरादिकस्य / धातूनामनेकार्थत्वात / भाषाभ्यामित्यन्तम् // परिभाषाभ्यामुभयोरनुकरणमित्यन्वयः / श्रपयतीति // | धातोर्णिीच ‘आदच उपदेशे' इत्यात्वे 'अतिही' इति पुकि मितां हस्वः / श्रा धातोस्तु स्वत एवाऽऽदन्तत्वाणिचि पुकि हस्वः / पाकादन्यत्रेति // अर्थनिर्देशस्योपलक्षणत्वादिति भावः ‘स्वरति सूति सूति' इति सूत्रे सू इति पटितेऽपि द्वयोग्रहणे सिद्धे सूतिसूययोः पृथग्ग्रहणं 'लुग्विकरण' इति परिभाषां ज्ञापयतीत्याहुः / प्रतिपदोक्तपरिभाषा तु न्यायसिद्धेन्युक्तमेव / मारणेति // मारणे तोपणे निशामने च ज्ञा धातुर्वर्तत इत्यर्थः / अक्षतस्य मारणे सम्पूर्वक. स्यैव ज्ञाधातोः प्रयोगः। चाक्षुषज्ञानमिति // निपूर्वकात् 'शम आलोचने' इत्यस्मात् चौरादिकण्यन्तात् ल्युटि निशामनशब्दस्य निष्पत्तेरिति भावः / ज्ञापनमात्रमिति // उपसर्गवशादिह ज्ञापने वृत्तिः / चाक्षुषत्वञ्च ज्ञानस्य न विवक्षितमिति भावः / निशानेप्वितीति // 'मारणतोषणनिशानेषु ज्ञा' इति पाठान्तमित्यर्थः / ननु ज्ञाधातोरस्मालडादौ शपि 'ज्ञाजनोर्जा' इति जादशे जाति जातः इत्यादि स्यादित्यत आह / एप्वेवेति // ज्ञा अवबोधने इति नाविकरणस्यैव मारणादिध्वर्थषु णी मिक्वार्थमिहानुवादात् नाविकरण एवायामिति भावः / जानातः भित्त्वफलन्तु णी ह्रस्वः / पशु संज्ञपयति अक्षत मारयतात्यर्थः / हरिं ज्ञपयति / सन्तोषयतीत्यर्थः / रूपं ज्ञपयति माधवमते दर्शयतीत्यर्थः / मतान्तरे तु बोधयतीत्यर्थः / शरं ज्ञपयति तीक्ष्णीकरोतीत्यर्थः / ननु माधवमते बोधयतीत्यर्थे ज्ञपयतीति कथं मित्त्वम् / तन्मते चाक्षुषज्ञानस्यैव निशामनशब्दार्थत्वादित्यत आह / ज्ञप मिञ्चेति चुरादाविति // एवज चौरादिकं ज्ञाधातुमादाय बोधनेऽप्यर्थे ज्ञपयतीति हस्वस्सङ्गच्छते इति भावः / ननु चौरादिकस्यापि ज्ञपेारणतोषणनिशामनेष्वेवार्थेषु मित्त्वमस्तु / तत्रार्थान्तरनिर्देशाभावात् / तथाच माधवमते कथं बोधनेऽर्थे मित्त्वमित्यत आह / ज्ञापनं मारणादिकञ्च तस्यार्थ इति // ज्ञापन मारणं तोषणं निशामनच तस्य चौरादिकस्य ज्ञपधातोरी माधवमते इत्यर्थः / कथमिति // ज्ञाधातोपधातोश्च णौ मित्त्वाद्रस्वप्रसङ्गादिति भावः / शृण्विति // उत्तरमिति शेषः / मित्त्वाभावादिति // इस्वो नेति शेषः / विज्ञापनेल्यत्र तत् ज्ञापयतीत्यत्र च अचानुपमेवाऽऽत्मज्ञानं विवक्षितमिति भावः / ननु ज्ञापनमात्रे मित्त्वमिति मते विज्ञापनेत्यत्र तत् ज्ञापयतीत्यत्र च मित्त्वं दुर्वामित्यत आह / ज्ञापनमात्रे इति / चौरादिकस्यति / For Private And Personal Use Only
Page #128
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 126 सिद्धान्तकौमुदीसहिता [भ्वादि निशानेष्विति पठतां हरदत्तादीनां मते तु न काप्यनुपपत्तिः / कम्पने चलि: 812 / चल कम्पने इति ज्वलादिः / चलयति शाखाम्। कम्पनादन्यत्र तु शीलं चालयति / अन्यथा करोतीत्यर्थः / 'हरतीत्यर्थः' इति स्वामी / सूत्रं चालयति / क्षिपतीत्यर्थः। छदिर 813 ऊर्जने। 'छद अपवारणे' इति चौरादिकस्य स्वार्थे णिजभावे मित्त्वार्थोऽयमनुवादः / अनेकार्थत्वादूर्जेरर्थे वृत्ति: / छदन्तं प्रयुङ्क्ते छदयति / बलवन्तं प्राणवन्तं वा करोतीत्यर्थः / अन्यत्र छादयति / अपवारयन्तं प्रयुक्त इत्यर्थः / स्वार्थे णिचि तु छादयति / बलीभवति प्राणीभवति अपवारयति वेत्यर्थः / जिह्वोन्मथने लडिः 814 / 'लड विलासे' इति पठितस्य मित्त्वार्थोऽनुवादः / उन्मथनं क्षोभणम् / जिह्वाशब्देन षष्ठीतत्पुरुषः / लडयति जिह्वाम / विज्ञापनति, ज्ञापयतीति च रूपमिति शेषः / * नान्ये मितोऽहेतो' इति निषेधान तस्य मित्त्वमिति भावः / ननु नियोगार्थस्य तस्य कथं ज्ञापने वृत्तिरित्यत आह / धातूनामिति / न कापीति // विज्ञापनेत्यत्र ज्ञापयतीत्यत्र च ज्ञापनार्थवृत्तित्वात् ज्ञापनस्य च मारणतोषणाक्षणाकरणान्यत्त्वान तस्मिन्नर्थे ज्ञाधातोर्मित्त्वप्रसक्तिरिति भावः / एवञ्च माधवमत बांधने ज्ञाधातोः ज्ञापयतीत्युपधादीर्घः / ज्ञपधातोस्तु ज्ञपयतीत्युपधाहस्व इति रूपव्यमपि साध्विति स्थितम् / कम्पने चलिरिति // इका निर्देशोऽयम् / 'चलधातुः कम्पने' मिदित्यर्थः / ज्वलादिरिति // तस्य चले: कम्पने मित्त्वार्थोऽत्रानुवाद इति भावः / शीलचालयतीति // अत्र कम्पनार्थकत्वाभावान मित्त्वमिति भावः। तदाह / अन्यथा करोतीत्यर्थ इति // धातूनामनेकार्थत्वादिति भावः / छदिर् ऊर्जने इति // इका निर्देशोऽयम् ‘छद धातुरूजने' मिदित्यर्थः / ऊर्जनं बलवत्करणं प्राणनं वा / ऊर्ज बलप्राणनयारित्युक्तः / अन्यत्र पठितस्यानाविशेषे णौ मित्त्वार्थोऽनुवाद इति सिद्धान्तः। छदधातुस्त्वयञ्चुराद्यन्तगण युजादी पठितः। तस्यात्रानुवादो व्यर्थः / नान्ये मितोऽहेताविति ज्ञपादिपञ्चकव्यतिरिक्तस्य चुरादा भित्त्वनिषेधादित्यत आह / छद अपवारणे इति // चुराद्यन्तर्गणयुजादिपठितस्य 'आ धृषाद्वा' इति स्वार्थिकणिजभावपक्षे ऊर्जनेऽथे मित्त्वार्थोऽनुवाद इत्यर्थः / स्वार्थिकाणचि सत्येव नान्ये मित इति निषेधप्रवृत्तेरिति भावः / नन्वपवारणार्थकस्य छदेः कथमूर्जने वृत्तिरित्यत आह / अनेकार्थत्वादिति // ननु स्वार्थणिजभावे सति मित्त्वकिमर्थमित्यत आह / छदन्तं प्रयुक्त छदयतीति // अत्र हेतुमणिचि इस्वः / नान्ये मित इति निषेधस्य हेतुमण्णिाचि निषेधः स्यादिति भावः / अन्यत्रेति // ऊर्जनादन्यत्र अपवारणे इत्यर्थः / स्वार्थे णिचि त्विति // 'नान्ये मितः' इति निषेधस्य तत्र प्रवृत्तेरिति भावः / जिह्वोन्मथने लडिरिति // इका निर्देशोऽयम् / लडधातुर्जिह्वोन्मथने मिदित्यर्थः / लडेति // ‘लड विलासे' इति टवर्गान्तेषु भ्वादौ पठितस्य जिह्वान्मथनेऽथे मित्त्वार्थोऽनुवाद इत्यर्थः / एवञ्च धातुभेदाभावात् सर्वथैव मित्वकार्यम्फलति। गणभेदाद्धातुभेदे मित्त्वतदभावयोर्विकल्पः स्यादिति भावः / लड़यति For Private And Personal Use Only
Page #129
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा / 127 तृतीयातत्पुरुषो वा / लडयति जिह्वया / अन्ये तु जिह्वाशब्देन तद्व्यापारो लक्ष्यते / समाहारद्वन्द्वोऽयम् / लडयति शत्रुम / लडयति दधि / अन्यत्र लाडयति पुत्रम् / मदी 855 हर्षग्लेपनयोः / ग्लेपनं दैन्यम् / देवादिकस्य मित्त्वार्थोऽयमनुवादः / मदयति हर्षयति ग्लेपयति वेत्यर्थः / अन्यत्र मादयति चित्तविकारमुत्पादयतीत्यर्थः / ध्वन 816 शब्दे / भाव्ययं मित्त्वार्थमनूद्यते / ध्वनयति घण्टाम् / अन्यत्र ध्वानयति / अस्पष्टाक्षरमुच्चारयतीत्यर्थः / अव भोज: 'दलिवलिम्वलिरणिध्वनित्रपिक्षपयश्च' इति पपाठ / तत्र 'ध्वनिरणी उदाहृतौ / दल विशरणे' / 'वल संवरणे' ' स्खल सञ्चलने' ‘त्रपूष लज्जायाम्' इति गताः / तेषां णौ दलयति / वलयति / स्खलयति / त्रपयति / 'क्षौ क्षये' इति वक्ष्यमाणस्य कृतात्वस्य पुका निर्देश: / क्षपयति / स्वन 817 अवतंसने / शब्दे इति पठिष्यमाणस्यानुवादः / स्वनयति / अन्यत्र स्वानयति / 'घटादयो जिह्वामिति // रसनां रसान् ज्ञापयतीत्यर्थः / ‘गतिबुद्धि' इति द्विकर्मकोऽयम् / लडयति जिह्वयेति // देवदनो रसान जानाति तजिह्वया ज्ञापयतीत्यर्थः / तद्व्यापार इति॥ शब्दप्रयोगादिजिह्वाव्यापार इत्यर्थः / समाहारेति // जिह्वाच उन्मथनञ्चेति समाहारद्वन्द्वः / जिह्वाव्यापारे उदाहरति / लडयति शत्रुमिति // गेहे शूर इत्यादिशब्दप्रयोगेण गर्हत इत्यर्थः / उन्मथनं लोडनं इत्यभिप्रेत्योदाहरति / लडयति दधीति // विलोडयतीत्यर्थः / अन्यत्रेति // जिह्वोन्मथनादन्यवेत्यर्थः / लाडयति पुत्रमिति // क्राडयतीत्यर्थः / ग्लेपनन्दैन्यमिति // दीनीभवनमित्यर्थः / ननु लडादौ शपि मदतीत्यादि स्यादित्यन आह / देवादिकस्येति // तथाच श्यन्विकरण एवायमिति भावः / ध्वन शब्दे इति // पूर्वमनुनासिकान्तेषु अणरणेत्यत्र भ्वणधातुर्मूर्धन्यान्तः पठितः। अयन्तु दन्त्यान्त इति भेदः / भावीति // ज्वलादौ 'ध्वन शब्दे' इति पठिष्यमाण एवात्र ध्वन्यात्मके अनुच्चारणजन्ये शब्दने मित्त्वार्थमनूद्यते इत्यर्थः / धातुभेदे तु मित्त्वतदभावौ स्यातामिति भावः / ध्वनयति घण्टामिति // शब्दायमानाङ्करोतीत्यर्थः / अन्यत्रेति // अस्पष्टोचारणात्मके शब्दने इत्यर्थः / अत्रेति // घटादावित्यर्थः / तत्रेति // दलिवल्यादिष्वित्यर्थः / उदाहृताविति // घटादाविति शेषः / तत्र ध्वनिरनुपदमेवोदाहृतः। कणिस्तु कणरणगतावित्योति बोध्यम् / भोजमते प्रागनयोः पाटो नेति न पौनरुक्त्यम् / गता इति // भ्वादौ पठिता इत्यर्थः / इह मित्त्वार्थमनूद्यन्त इति शेषः / धात्वन्तरत्वे मित्त्वतदभावौ स्यातामिति भावः / ननु क्षपेरत्र पाठान्मित्त्वे णौ हस्वे क्षपयतीति वक्ष्यति / अस्त्वेवम् / तथापि वै क्षये इति भ्वादौ पठिष्यमाणस्य णौ आत्वे पुकि क्षापयतीत्यपि स्यात् / क्षै धातोः क्षपीत्यनुवादासम्भवात् / तत्राह / क्षै इत्यादि / णौ आत्वे पुकि मित्त्वाद्भस्वे सति क्षपीति ? इत्यस्यानुवादसम्भव इति भावः / स्वन अवतंसने इति // अवतंसनं अलङ्कृतिः। पठिष्यमाणस्येति // घटादिगणादूर्ध्वं स्वनशब्दे HTHHTHHTHERE For Private And Personal Use Only
Page #130
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 128 सिद्धान्तकौमुदीसहिता [भ्वादि मित:' (ग सू 187) मित्संज्ञका इत्यर्थः / ‘जनीजष्कसुरोऽमन्ताश्च' (ग सू 188) * मित:' इत्यनुवर्तते / ‘जप्' इति पित्त्वनिर्देशाज्जीर्यतेस्रहणम् / जृणातेस्तु जारयति / केचित्तु ‘जनी जृ ष्णसु-' इति पठित्वा ‘ष्णसु निरसने' इति देवादिकमुदाहरन्ति / 'ज्वलबलझलनमामनुपसर्गाद्वा' (ग सू 189) एषां मित्त्वं वा / प्राप्तविभाषेयम् / ज्वलयति-ज्वालयति / उपसृष्टे तु नित्यं मित्त्वम् / प्रज्वलयति / कथं तर्हि प्रज्वालयति उन्नामयतीति / घन्तान 'तत्करोति-' इति णौ / कथं संक्रामयतीति / * मितां ह्रस्व:' (सू 2568) इति सूत्रे ‘वा चित्तविरागे' (सू 2605) इत्यतो 'वा' इत्यनुवर्त्य व्यवस्थितविभाषाश्रयणादिति वृत्तिकृत / एतेन ‘रजो विश्रामयन राज्ञा' 'धुर्यान्विश्रामयेति इति पठिष्यमाणस्य स्वनेरवतंसनेऽर्थे णो मित्त्वार्थोऽत्रानुवाद इत्यर्थः / धात्वन्तरत्वे तु मित्त्वतदभावौ स्यातामिति भावः / स्वनयतीति // भूषयतीत्यर्थः / अन्यत्रेति // अवतंसनादन्यत्र शब्देऽर्थे णो मित्त्वाभावान ह्रस्व इति भावः / घटादयो मित इति // गणसूत्रम् / ननु घटादिषु मकारानुबन्धादर्शनात्कथं मितस्ते स्युरित्यत आह / मित्संज्ञका इति // मित्कार्यभाज इत्यर्थः / जनीपिति // गणसूत्रम् / जनी जृष कसु रज एषान्द्वन्द्वाप्रथमाबहुवचनम् / अम् अन्ते येषान्ते अमन्ताः / ऋमिगम्यादयः / एते अघटादित्वेऽपि मित इत्यर्थः / जीर्यतेरिति // 'जष वयोहानौ' इति श्यन्विकरणस्येत्यर्थः। तृणातेस्त्विति // 'ज़ वयोहानी' इति नाविकरणस्य पित्त्वाभावेनात्र ग्रहणाभावान्न मित्त्वमिति भावः / उदाहरन्तीति // तन्मते ऋणातेरपि मित्त्वमिति भावः / ज्वलह्वल // इत्यपि गणसूत्रम् / प्राप्तविभाषेयमिति // ज्वलहलह्मलाङ्घटादित्वानमन्तित्वाञ्च मिल्वस्य प्राप्तेरिति भावः। उपसृष्टे त्विति // सोपसर्गे वित्यर्थः / कथं तीति // अनुपसर्गादिति विशेषणे सति ज्वलेनमेश्च णौ मित्त्वविकल्पाभावाजनीषिति मित्त्वाद्रस्वो नित्यः स्यादित्याक्षेपः / समाधत्ते / घान्तादिति / तत्करोतीति // णावित्यनन्तरं समाधेयामिति शेषः / प्रज्वलनं प्रज्वालः / उन्नमनम् उन्नामः / भावे घञ् / उपधावृद्धिः / प्रज्वालङ्करोतीति उन्नामङ्करोतीति चार्थे 'तत्करोति तदाचष्टे' इति णिचि ‘णाविष्टवत्' इति इष्टवत्त्वात टिलोपे सति तस्य स्थानिवत्त्वात मित्त्वप्रयुक्तहस्वाभावे प्रज्वालि उन्नामि इत्याभ्यां लटि तिपि शपि गुणे अयादेशे प्रज्वालयति उन्नामयतीति रूपे इति भावः / ननु सम्पूर्वात् क्रमणों सङ्कामयताति रूपमिष्यते / तत्र अमन्तत्व मित्त्वाद्रस्वप्रसङ्गः / नच क्रमणकाम इति घअन्तात्नत्करोतीति णावुक्तरीत्या हुस्वाभाव इति समाधानं सम्भवति / क्रमेर्घजिहि ‘नोदात्तोपदेशस्य' इति वृद्धिप्रतिषेधे सति क्रम इत्येव भवति / नतु काम इति कृत्वा उक्तसमाधानासम्भवादित्यभिप्रेत्याक्षिपति / कथमिति // समाधत्ते / मितामिति // 'मिता हुस्वः' इति सूत्रे वेत्यनुवर्त्य मित्त्वाभावे संकामयताति रूपमित्यन्वयः / ननु कदाचिद्रस्वो दुर्वार इत्यत आह / व्यवस्थितेति // नथाचात्र हस्वाभाव एवाचायत इति For Private And Personal Use Only
Page #131
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा / 129 सः' इत्यादि व्याख्यातम् / 'पलानावनुवमां च' (ग सू 190) / अनुपसर्गादेषां मित्त्वं वा स्यात् / आद्ययोरप्राप्ते इतरयो: प्राप्त विभाषा / 'न कम्यमिचमाम' (ग सू 191) / अमन्तत्वात्प्राप्तं मित्त्वमेषां न स्यात् / कामयते / आमयति / चामयति / शमो 818 दर्शने (ग सू 192) / शाम्यतिर्दर्शने मिन्न स्यात् / निशामयति रूपम / अन्यत्र तु ‘प्रणयिनो निशमय्य वधूकथा:' कथं तर्हि 'निशामय तदुत्पत्तिं विस्तराद्गदतो मम' इति / 'शम आलोचने' इति चौरादिकस्य / धातूनामनेकार्थत्वाच्छ्रवणे वृत्तिः / शाम्यतिवत् / यमो 819 ऽपरिवेषणे (ग सू 193) / यच्छति जनतोऽन्यत्र मिन्न स्यात् / आयामयति / द्राघयति, व्यापारयति वेत्यर्थः / परिवेषणे तु यमयति ब्राह्मणान / भोजय भावः / वृत्तिकृदिति // भाष्ये तु नेतदृश्यत इति भावः / एतेनेति // व्यवस्थितविभाषाश्रयणेनेत्यर्थः / ‘ग्लानावनुवमाञ्च' इत्यपि गणसूत्रम् / प्रथमार्थ षष्टी। अनुपसर्गादिति मित इति वेति चानुवर्तते / फलितमाह / अनुपसर्गादिति / आद्ययोरिति // ग्लाना इत्यनयोरघटादित्वादप्राप्ते मित्त्वे इतरयोर्वनुवमोः प्रप्ति मित्त्वे विभाषेत्यर्थः। तत्र 'वनु च नोच्यते' इति घटादौ पाठाद्वमेस्त्वमन्तत्वान्मित्त्वप्राप्तिरिति बोध्यम् / 'न कम्यमिचमाम्' इति शमो दर्शने इति च गणसूत्रम् / दर्शनं चाक्षुषज्ञानम् / ‘शम उपशमे' इति देवादिकः श्यन्विकरण एवात्र गृह्यते / नतु 'शम आलोचने' इति चौरादिकः / नान्ये मितोऽहेताविति तस्य मित्त्वनिषेधात् / तदाह / शाम्यतिरिति / निशामयति रूपमिति // पश्यतीत्यर्थः। उपशमार्थकस्यापि अनेकार्थकत्वात् दर्शने वृत्तिः / अन्यत्रेति // दर्शनादन्यत्रेत्यर्थः / निशमय्येति // श्रावयित्वेत्यर्थः / शमेय॑न्तात् को ल्यपि कृते 'ल्यपि लघुपूर्वात्' इति णेरयादेशः। कथमिति // तर्हि दर्शनार्थकस्यैव शमर्मित्त्वनिषेधे सति शृणु इत्यर्थे मित्त्वाद्रस्वप्रसङ्गानिशामयेति कथमित्याक्षेपः / समाधत्ते। शम आलोचने इति चौरादिकस्येति // निशामयति रूपमिति शेषः / नान्ये मितोऽहेताविति तस्य मित्त्वनिषेधात् नहस्व इति भावः / ननु चौरादिकस्य शमेरालोचनार्थकत्वात् कथं श्रवणे वृत्तिरित्यत आह / धातूनामिति / शाम्यतिवदिति // श्यन्विकरणस्य शमेरुपशमार्थकस्य यथा दर्शने वृत्तिस्तद्वदित्यर्थः / 'यमोऽपरिवेषणे' इत्यपि गणसूत्रम् / भोजनपात्रे ओदनापूपादिभोज्यद्रव्याणां स्थापनम्परिवेषणम् / तदाह / भोजन तोऽन्यत्रेति // भुक्त्यनुकूलपरिवेषणादन्यत्रेत्यर्थः / ‘यम उपरमे' इत्यस्य उपसर्गवशात् परिवेषणे ततोऽन्यस्मिन्नप्यर्थे वृत्तिः सम्भवति / तत्र अपरिवेषणे वृत्तौ मित्त्वनेत्यर्थः / आयामयतीति // अत्रापरिवेषणे वृत्तेनमित्त्वमिति भावः। तदाह / द्राघयतीति // दीर्घाकरोतीत्यर्थः। व्यापारयतीति // प्रवर्तयतीत्यर्थः / यमयति ब्राह्मणानिति // परिवेषणार्थकत्वान्मित्त्वमिति भावः / तदाह / भोजयतीति // भुञ्जते ब्राह्मणाः तान्परिवेषणेन प्रवर्तयतीत्यर्थः / ननु पर्यवसितं नियमयनित्यत्र अपरिवेषणार्थकतया मित्त्वाभावात्कथं 17 For Private And Personal Use Only
Page #132
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 130 सिद्धान्तकौमुदीसहिता [भ्वादि तीत्यर्थः। ‘पर्यवसितं नियमयन' इत्यादि तु नियमवच्छब्दात्तत्करोतीति णौ बोद्ध्यम् / स्खदिर् 820 अवपरिभ्यां च' (ग सू 194) / मिन्नेत्येव / अवस्खादयति / परिस्खादयति / 'अपावपरिभ्यः' इति न्यासकार: / स्वामी तु 'न कमि-इति नजमुत्तरविसूत्र्यामननुवर्त्य * शम: अदर्शने' इति चिच्छेद / यमस्तु * अपरिवेषणे' मित्त्वमाह / तन्मते ‘पर्यवसितं नियमयन' इत्यादि सम्यगेव / * उपसृष्टस्य स्खदेश्वेदवादिपूर्वस्य' इति नियमात्प्रस्खादयतीत्याह / तस्मात्सूत्रद्वये उदाहरणप्रत्युदाहरणयोर्व्यत्यास: फलितः / इदञ्च ह्रस्व इत्यत आह / पर्यवसितमित्यादि // नियमननियमः। 'यमः समुपनिविषु च' इति भावे कप्रत्ययः / तस्मान्मतुप् / नियमवच्छब्दात्तत्करोतीति णिचि ‘विन्मतोलक्' इति मतुपो लुकि ण्यन्तालटश्शतरि गुणायादेशयोर्नियमयच्छब्द इति भावः / वस्तुतस्तु मतुपो लुकि टिलोपस्याप्राप्त्या 'अचो णिति' इति वृद्धौ पुगागमापत्तिः / ततश्च नियमवदित्यर्थकात् अर्श आद्यजन्तात् नियमशब्दात् 'तत्करोति' इति णिचि इष्टवत्त्वाहिलोपे तस्य स्थानिवत्त्वादुपधावृद्ध्यभावे नियमयनिति समर्थनीयमिति शब्देन्दुशेखरे स्थितम् / 'स्खदिरवपरिभ्याञ्च' इत्यपि गणसूत्रम् / स्खदिरिति इका निर्देशः / अव परि आभ्याम्परः स्खदधातुर्मिनेत्यर्थः / 'स्खद स्खदने' इति घटादौ पाठान्मित्त्वप्राप्तिः / परिस्खादयतीति // अषोपदेशत्वेन आदेश सकारत्वाभावान्न ष इति भावः / अपावेति // ‘स्खदिरपावपरिभ्यः' इति न्यासकारः / पपाठेत्यर्थः / तन्मते अपस्खादयतीत्यत्रापि मित्त्वाभावान इस्वः / स्वामी त्विति // 'न कम्यमिचमाम्' इत्यत्र श्रुतः नञ् ‘शमो दर्शने' 'यमोऽपरिवेषणे' 'स्खदिरवपरिभ्याञ्च' इति त्रिषु सूत्रेषु नानुवर्तते / शमः अदर्शने इति च्छेदः / शमधातुः अदर्शने मित्स्यादित्यर्थः / अमन्तत्वादेव सिद्धे नियमार्थमिदम् / अदर्शन एव शमधातुमित्स्यात नतु दर्शने इति स्वामिमतम् / इदञ्च पर्यवसानगत्या पूर्वमतानातिरिच्यते / यमस्त्विति // यमधातोस्तु अपरिवेषण एव मित्त्वमाहेत्यर्थः / अमन्तत्वादेव सिद्धेरपरिवेषण एव यमधातुर्मित् नतु परिवेषण इति फलति / एवञ्च द्राघयति व्यापारयति वेत्यर्थे मित्त्वाद्रस्वे आयमयतीत्येव रूपम् / परिवेषणे तु मित्त्वाभावाद्रस्वाभावे यामयति ब्राह्मणानिति भवतीति पूर्वमताद्विपरीतम्फलति। एवञ्च पर्यवसितनियमयन्नित्यत्र यमेरपरिवेषणार्थत्वान्मित्त्वे ह्रस्वो निर्वाधः / तदाह / तन्मते इति // स्खदेर्घटादित्वादेव मित्त्वसिद्धेः स्खदिरवपरिभ्याञ्चेति सूत्रमपि नियमार्थम् / सोपसर्गस्य चेत् स्खदेर्मित्त्वं तर्हि अवपरिभ्यां परस्यैव मित्त्वं न तूपसर्गान्तरादिति / एवञ्च प्रस्खादयतीत्यत्र मित्त्वाभावान ह्रस्वः। अवस्खदयति परिस्खदयति इत्यत्र तु मित्त्वाद्रस्व इति फलति / तदाह / उपसृष्टस्येति // सोपसर्गस्येत्यर्थः / पूर्वमते तु अवपरिभ्याम्परस्य मित्त्वनिषेधादवस्खादयति परिस्खादयतीति न ह्रस्वः / प्रस्खदयतीत्यत्र तु अवपरिपूर्वकत्वाभावेन मित्त्वनिषेधाभावाद्रस्व इति विपरीतम् / तस्मादिति // यमोऽपरि For Private And Personal Use Only
Page #133
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा। 131 मतं वृत्तिन्यासादिविरोधादुपक्ष्यम् / फण 821 गतौ / 'न' इति निवृत्तमसम्भवात् / निषेधात्पूर्वमसौ न पठितः / फणादिकार्यानुरोधात् / 2354 / फणां च सप्तानाम् / (6-4-125) एषां वा एत्त्वाभ्यासलोपौ स्तः किति लिटि सेटि थलि च / फेणतुः / फेणुः / पफणतुः / पफणुः। फेणिथ / पफणिथ। फणयति। 'वृत्' घटादिः समाप्तः। फणे: प्रागेव बृदित्येके / तन्मते फाणयतीत्येव / राजु 822 दीप्तौ / 'स्वरितेत्' / राजति-राजते / रेजतुः-रराजतुः / रेजे-रराजे / 'अत:' इत्यनुवृत्तावपि विधानसामर्थ्यादात एत्त्वम् / टु भ्राजु 823 टु भ्रागृ 824 टु भ्ला 825 दीप्तौ / अनुदात्तत: / भ्राजतेरिह पाठः फणादिकार्यार्थः। पूर्व पाठस्तु ब्रश्चा वेषणे / स्खदिरवपरिभ्याञ्चेति सूत्रद्वये उक्तरीत्या मित्त्वनियमविद्ध्याश्रयणादुदाहरणप्रत्युदाहरणयोरुक्तरीत्या व्यत्यासः फलित इत्यर्थः / उपेक्ष्यामिति // 'न पादमाङ्' इति सूत्रव्याख्यावसरे यमोऽपरिवेषणे इति मित्त्वम्प्रतिषिध्यत इति वृत्तिन्यासयोरुक्तत्वादिति भावः / केचित्तु स्वामिमते पर्यवसितनियमयनित्यादिसामनस्यात्तावेवोपेक्ष्यावियाहुः। फण गताविति // ननु घटादित्वेऽपि नाय मित् / इतः प्राक 'स्वन अवतंसने' इति उत्तरमेव घटादयो मित इत्युक्तेः / तत्राह। न इति निवृत्तमसम्भवादिति // प्राप्तिं विना मित्त्वस्य निषेधासम्भवादिह नेति नानुवर्तते, किन्तु मिदित्येवानुवर्तत इत्यर्थः / ननु फण गतावियत्र मिनेति यदि नानुवर्तते तर्हि 'न कम्यमिचमाम्' इति निषेधकाण्डात् प्रागेवायकुतो न पठितः। तदाह / निषेधात्पूर्वमसौ न पठित इति // कुन इत्यत आह / फणादिकार्यानुरोधादिति // निषेधकाण्डात्प्रागेव फणे: पाठे कम्यमिचमानामपि फणादिष्वन्तर्भावः स्यादिति भावः। फणाञ्च॥ 'अत एकहल्मध्ये' इत्यतो लिटीति थलिच सेटि' इति चानुवर्तते / 'ध्वसोः' इत्यतः एदिति, गमहनेत्यतः कितीति वा भ्र. मुत्रसाम्' इत्यतो वेति च / तदाह / एषामिति // फणादीनामित्यर्थः। फणामिति बहुवचनात् तदादिलाभः / ‘फा गतो' इत्यत मिदित्येवानुवर्तते नेति तु नानुवर्तते इत्यस्य प्रयोजनमाह / फणयतीति / वृदिति // कर्तरि किंवन्तम् / वृतुधातुरिह समाप्त्यर्थकः / तदाह / घटादिः समाप्त इति। फणेः प्रागेवेति // एवं सति फणेरघटादित्वान्न मित्त्वमिति भावः / तदाह / तन्मते फणयतीत्येवेति // इति घटादयः / राजू दीप्ताविति // इत आरभ्य षण्णामेत्त्वाभ्यासलोपौ फणादित्वात्पक्षे भवतः / तदाह / रेजतुरित्यादि // ननु ‘फणाञ्च सप्तानाम्' इत्यत्र अत इत्यनुवृत्तेः कथमिह एत्त्वाभ्यासलोपावित्यत आह / अत इत्यनुवृत्तावपीति // अत इति नानुवर्तते / तदनुवृत्तावपि फणादिसप्तानामपि वचनसामर्थ्यात् राजधातोराकारस्याप्येत्वाभ्यासलोपस्य विकल्पः स्यादेवेत्यर्थः / अत इति राजादिधातौ न सम्बध्यते, असम्भवादिति यावत् / टु भ्राज टु भ्राट टु भ्लाथ दीप्ताविति // टुरित / द्वितोऽथुजित्येतदर्थः / अनुदात्तेत इति // एते त्रय इति शेषः / ननु टु भ्राज़ इत्येव सिद्धौ पूर्वञ्चवर्गान्तेष्वनुदात्तेत्सु For Private And Personal Use Only
Page #134
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 132 सिद्धान्तकौमुदीसहिता [भ्वादि दिषत्वाभावार्थः / तत्र हि राजिसाहचर्यात्फणादेरेव ग्रहणम् / भेजे-बभ्राजे / ' वा भ्राश-' (2321) इति श्यन्वा / भ्राश्यते-भ्राशते / भ्रशे-बभ्राशे / भ्लाशते भ्लाश्यते / श्लेशे-बभ्लाशे / द्वावपीमौ तालव्यान्तौ / स्यमु 826 स्वन 827 ध्वन 828 शब्दे / स्यमादयः क्षरत्यन्ताः परस्मैपदिनः / स्येमतुः-सस्यमतुः / अस्यमीत् / स्वेनतुः-सस्वनतुः / सस्वनुः / अस्वनीत्अस्वानीत् / विष्वणति / अवष्वणति / सशब्दं भुङ्क्त इत्यर्थः / वेश्च स्वन:--' (सू 2274) इति पत्वम् / फणादयो गताः / दध्वनतुः / षम 729 ष्टम 830 अवैकल्ये / ससाम / तस्ताम / ज्वल 831 दीप्तौ ‘अतो ल्रान्तस्य' (सू२३३०) / अज्वालीत्। चल 832 कम्पने / जल 833 घातने / घातनं तैक्ष्ण्यम् / टल 834 टूल 835 वैक्लव्ये / प्ठल 836 स्थाने / हल 837 विलेखने / णल 838 गन्धे / 'बन्धने' इत्येके / पल 839 गतौ / पलति / बल 840 प्राणने, धान्यावरोधने च / बलति। बेलतुः / बेलुः / 'पुल 841 महत्त्वे / पोलति / कुल 842 संस्त्याने बन्धुपु च। संस्त्यानं सङ्घातः / बन्धुशब्देन तद्व्यापारो गृह्यते / कोलति / चुकोल / शल 843 हुल 844 पल 845 गतौ / शशाल / जुहोल / पपात / पेततुः / पतिता। 2355 / पतः पुम् / (7-4-19) 'एज़ भ्राज दीप्तौ' इति भ्राजे: पाटो व्यर्थ इत्यत आह / भ्राजतेरिति / षत्वा भावार्थ इति // व्रश्चभ्रस्जेति षत्वविधौ भ्राजेग्रहणाभावार्थ इत्यर्थः / ननु पूर्व पठितस्यापि षत्वविधौ कुतो न ग्रहणमित्यत आह / तत्र हीति // षत्वविधौ हीत्यर्थः / एत्त्वाभ्यासलोपयोः पाक्षिकत्वादाह / भेजे बभ्राजे इति / द्वावपीमाविति // द्वितीयतृतीयावित्यर्थः। ननु विष्वणतीत्यत्र कथं षत्वम् / केवलदन्त्याजन्तसादित्वाभावेन अषोपदेशतया आदेशसकारत्वाभावात् / तथा अवष्वणतीत्यत्र इणकवर्गाभ्याम्परत्वाभावान्न षत्वस्य प्रसक्तिः / सात्पदाद्योरिति निषेधाचेत्यत आह / वेश्च स्वन इतीति // तत्र चकारेण अवाच्चत्यपि लभ्यत इति भावः / फणादयो गता इति // ध्वनतेः प्रागिति शेषः / ततश्च ध्वनेर्न फणादिकार्यमिति भावः / तदाह / दध्वनतुरिति / षम टमेति // षोपदेशौ / तस्तामेति // सत्वे सति टुत्व निवृत्तिरिति भावः / तैक्षण्यमिति // तीक्ष्णीभवनमित्यर्थः / टल टूल वैक्लव्ये इति // वैक्लब्यम्भयादिजनितो व्यग्रीभावः / णल गन्धे इति // णोपदेशोऽयम् / गन्धः गन्धक्रिया / तळ्यापार इति // वन्धुतानुकूलो विवाहादिव्यापार इत्यर्थः / पत्लधातुस्तवगंप्रथमान्तः सेटकः / लुङि लूदित्वात् च्लेरडि कृते अपत् अ त् इति स्थिते / पतः पुम् // शेषपूरणेन For Private And Personal Use Only
Page #135
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा / 133 __ अङि परे / अपप्तत् / ‘नेर्गद-' (सू 2285) इति णत्वम् / प्रण्यपतत् / क्वथे 846 निष्पाके / कथति / चक्काथ / अकथीत् / पथे 847 गतौ / अपथीत् / मथे 848 विलोडने / मेथतुः / अमथीत् / टु वम् 849 उद्गिरणे / इहैव निपातनात् ऋतः इत्त्वमिति सुधाकरः / ववाम / ववमतुः / वादित्वादेत्त्वाभ्यासलोपौ न / भागवृत्तौ तु वेमतुरित्याद्यप्युदाहृतम् / तद्भाष्यादौ न दृष्टम् / भ्रमु 850 चलने / ‘वा भ्राश-' (सू 2621) इति श्यन्वा भ्रम्यति / भ्रमति / भ्राम्यति इति तु दिवादौ वक्ष्यते / __2356 वा भ्रमुत्रसाम् / (6-4-124) एषामेत्त्वाभ्यासलोपौ वा स्तः किति लिटि सेटि थलि च / भ्रमतुःबभ्रमतुः / अभ्रमीत / क्षर 851 संचलने / अक्षारीत्। अथ द्वावनुदात्तेतौ / पह 852 मर्षणे / 'परिनिविभ्यः-' (सू२२७५) इति पत्वम / परिपहते / सेहे / सहिता / ' तीषसह–'(सू 2340) इति वा इट / इडभावे ढत्वधत्वष्टुत्वढलोपा: / 2357 / सहिवहोरोदवर्णस्य / (6-3-115) अनयोरवर्णस्य ओत्स्याङ्कलोपे सति / सूत्रं व्याचष्ट / अङि पर इति // ऋदशाऽडि' इत्यतः तदनुवृत्तरिति भावः। पतेः पुम् स्यादडि परे इति फलितम / पुमि मकार इत् उकार उच्चारणार्थः मित्त्वादन्त्यादचः परः / तदाह / अपप्तदिति / क्वथे निष्पाके इति // जलक्षीरशृतादीनाम्पादभागादिशोषणपर्यन्तः पाको निष्पाकः / अक्वथीदिति // एदित्त्वान वृद्धिः / एवं अमर्थात् / टु वम् उद्गिरणे इति // टुरित् / नायमुदित् ।तेन ‘उदितो वा' इति वायामिड्विकल्पो न। 'गृ निगरणे' इति दीर्घान्तोऽयम् / नन्वस्माद्धातल्युटि 'ऋत इद्धातोः' इति इत्त्वम्बाभित्वा परत्वात् ‘सार्वधातुक' इति गुणे सति उद्गरण इत्येव निर्देशो युज्यत इत्यत आह / इहैवेति // उद्गिरण इत्यर्थनिर्देश: पाणिनीय इति सुधाकरो मन्यते। भ्रमु चलने इति // वक्रमार्गसञ्चारे इत्यर्थः। अयथार्थज्ञानेऽप्ययम् / उदिता वेति वायामिडिकल्पार्थमुदित्त्वम् / वा भ्रम् // ‘अत एकहल्मद्ध्ये' इत्यतो लिटि इति ‘थलि च सटि' इति चानुवर्तते / 'ध्वसोरद्धो' इत्यतः एदिति ‘गमहनेत्यतः' कितीति च / तदाह / एपामिति / अभ्रमीदिति / / ह्ययन्तति न वृद्धिः / अक्षारीदिति / 'अतो ल्रान्तस्य' इति वृद्धिः / पह मर्पणे इति // अपराधे सत्यपि कोपानाविष्करणं मर्षणम्। इडभावे इति // सह् ता इति स्थित होट इति ढत्वं 'झषस्तथोः' इति तकारस्य धत्वम् / धस्य तृत्वेन टः। 'ढोढे लोपः' इति पूर्वस्य ढस्य लोप इत्यर्थः / सढा इति स्थितम् / साहेवहोः / ढलोपे इति // ठूलोप इत्यतः तदनुवृत्तेरिति भावः / रलोप इति तु नानुवर्तते / For Private And Personal Use Only
Page #136
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदीसहिता [भ्वादि 2358 / सोढः / (8-3-115) सोड्पस्य सहे: सस्य षत्वं न स्यात् / परिसोढा / 2359 / सिवादीनां वाव्यवायेऽपि / (8-3-71) परिनिविभ्यः परेषां सिवादीनां सस्य पो वा स्यादब्यवायेऽपि / पर्यषहत / पर्यसहत / रमु 853 क्रीडायाम / रेमे / रेमिषे / रन्ता / रंस्यते। रंसीष्ट / अरंस्त / अथ कसन्ता: परस्मैपदिनः / पदल 854 विशरणगत्यवसादनेषु / 2360 / प्राघ्राध्मास्थाम्नादाण्दृश्यर्तिसतिशदसदां पिबजिघ्रधमतिष्ठमनयच्छपश्यर्छधौशीयसीदाः / (7-3-78) पादीनां पिबादयः स्युरित्संज्ञकशकारादौ प्रत्यये परे / सीदति / ससाद सेदतुः / सेदिथ-ससत्थ / सत्ता। सत्स्यति / लदित्त्वादङ् / असदत् / सदिरप्रते:' (सू 2271) निपीदति / न्यषीदत् / असम्भवात् / तथाच सकारादाकारस्य ओत्वे सोडेति रूपम् / परिसोढेत्यत्र परिनिविभ्य इति षत्वे प्राप्ते / सोढः // सोढ इति सहेरोत्वसम्पनस्य पष्ठ्यन्तत्वम् / 'सहेः साढस्सः' इत्यतः स इति षष्ठ्यन्तमनुवर्तते / 'न रपर' इत्यतो नेति / मूर्धन्य इत्यधिकृतम् / तदाह / सोपस्ये. 'त्यादिना / सिवादीनाम् // ‘परिनिविभ्यः' इति सूत्रादुत्तरमिदं सूत्रम् / तदाह / परिनिविभ्यः परेषामिति // सिवुसहसुट्स्तुस्वञ्जामिति शेषः / रमु क्रीडायामिति // नायमुदिदिति माधवः / केचित्तु उदितं मत्वा ‘उदितो वा' इति कायामिडिकल्पमिच्छन्ति / अनिटकोऽयम् / लिटि क्रादिनियमादिट् / तदाह / रेमिषे इति / अथ कसन्ता इति // 'कस गतौ' इत्येतत्पर्यन्ता इत्यर्थः / षद्लुधातु: पोपदेशः अनिट्कश्च। लटि शपि सद् अ इति स्थिते। पाघ्राध्मा // पा घ्रा ध्मा स्था ना दाण् दृशि अर्ति सर्ति शद् सद् एषाद्वन्द्वात् षष्ठीबहुवचनम् / पिब जिघ्र धम तिष्ट मन यच्छ पश्य ऋच्छ धौ शीय सीद एषान्द्वन्द्वात् प्रथमाबहुवचनम् / यथासङ्ख थमादेशाः / प्टिवुल्हामु इत्यतः शितीत्यनुवर्तते। शचासौ इंचति कर्मधारयः। अशाक्षिप्तप्रत्ययविशेषणत्वात् तदादिविधिः / तदाह / इत्संशति / ससादेति // इत्संज्ञकशकारादिप्रत्ययाभावात् न सीदादेशः / श् इत् यस्यसः शित् शितीति बहुव्रीह्याश्रयणे तु पाधातोः कर्मणि लिटि एशि आल्लोपे पपे इत्यत्रापि पिबादेशः स्यादिति बोध्यम् / थलि क्रादिनियमप्राप्तस्य इट: ‘उपदेशे अत्वतः' इति निषेधेऽपि भारद्वाजनियमाद्वेद / तत्र इट्पक्षे थलि च सेटीत्येत्त्वाभ्यासलोपौ / तदाह / सेदिथ, ससत्थेति // सेदिव / सेदिम। क्रादिनियमादिट्। न्यषीददिति // ‘प्राक्सितादयवायेऽपि' इति एत्वम् / निषसादेत्यत्र अभ्यासात् For Private And Personal Use Only
Page #137
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा / 135 2361 / सदेः परस्य लिटि / (8-6-118) सदेरभ्यासात्परस्य पत्वं न स्याल्लिटि। निषसाद / निषेदतुः। शदल 855 शातने / विशीर्णतायामयम् / शातनं तु विषयतया निर्दिश्यते / 2362 / शदेः शितः / (1-3-60) शिद्भाविनोऽस्मादात्मनेपदं स्यात् / शीयते / शशाद / शेदतुः / शेदिथ। शशत्थ / शत्ता / अशदन / क्रुश 856 आह्वाने रोदने च / क्रोशति / क्रोष्टा / च्ले: क्सः। अक्रुक्षत् / कुच 85.7 सम्पर्चनकौटिल्यप्रतिष्टम्भविलेखनेषु / कोचति / चुकोच / बुध 858 अवगमने / बोधति / बोधिता / बोधिष्यति / परस्य 'स्थादिष्वभ्यासेन' इति षत्वे प्राप्ते। सदेः परस्य // 'न रपर' इत्यतः नेत्यनुवर्तते। मूर्धन्य इत्यधिकृतम् / सदेरित्यवयवषष्टी / परशब्द उत्तरखण्डपरः / सदेहत्तरखण्डस्य षत्वनेति लभ्यते / फलितमाह। सदेरभ्यासात्परस्येति / शदल शातने इति // ननु शद्धातोरस्मात् हेतुमण्ण्यन्तात् ल्युटि ‘शदेरगतौ तः' इति दकारस्य तकारे शातनशब्दः / तथाच शातनं शीर्णतानुकूलक्रियेति फलति / एवञ्च सकर्मकत्वापत्ती विशीर्यतीत्यर्थे शीर्यत इति वक्ष्यमाणमुदाहरणं कथमित्यत आह / विशीर्णतायामिति // विशरणे इत्यर्थः / तर्हि कथं शातनमिति हेतुमणिजित्यत आह / शातनन्तु विषयतयेति // विपूर्वात् ‘षिञ् बन्धने' इत्यस्मात् विषयशब्दः / अविनाभावेनेत्यर्थः / प्रयोजकव्यापारं विना विशरणस्यासम्भवात् शातननिर्देशः / ण्यर्थस्याविवक्षितत्वात् विशरणमेव शदलधात्वर्थ इति यावत् / शदेः शितः // 'अनुदात्तडितः' इत्यस्मादात्मनेपदमित्यनुवर्तते / श् इत् यस्य सः शित् / शप विवक्षितः। शिति विवक्षिते सतीत्यर्थः / तिडुत्पत्तेः पूर्व सार्वधातुकाश्रयस्य शपोऽसम्भवात् / तदाह / शिद्भाविन इति // शिद्भावी भविष्यन् यस्मात्स शिद्भावी तस्मादित्यर्थः। शीयते इति // शपि सदे: शीयादेशः। विशीर्यतीत्यर्थः / शीयेते / शीयन्ते / इत्यादि / शिद्विषयादित्युक्तेलिटि नात्मनेपदम् / इत्संज्ञकशकारादावित्युक्तेन शीयादेशः / तदाह / शशादेति // अनिट्कोऽयम् / कादिनियमप्राप्तस्य इट: ‘उपदेशेऽत्वतः' इति नियमात्थलि भारद्वाजनियमात् वेट् / तदाह / शेदिथ। शशत्थेति च // इट्पक्षे 'थलि च सेटि' इत्येत्त्वा. भ्यासलोपाविति भावः। शेदिव। शेदिम। क्रादिनियमादिट् / अशददिति // लूदित्त्वादडिति भावः। क्रुश धातुरनिटकः / चुक्रोशिथ / क्रादिनियमात्थलि नित्यमिट / अजन्ताकारवत्त्वाभावान भारद्वाजनियमः। चुक्रुशिव / चुकुशिम / क्रोष्टेति // ब्रश्चादिना शस्य षत्वे तृत्वेन तकारस्य टः / च्ले क्स इति // इगुपधशलन्तत्वादिति भावः। अक्रुक्षदिति // व्रश्चादिना शस्य षः। 'षढोः' इति षस्य कः / सस्य षत्वम् / कित्त्वान्न गुणः / नापि हलन्तलक्षणा वृद्धिः / कुच सम्पर्चने इति // 'कुच शब्दे ' इति पठितस्य पुनरिह पाठः सम्पर्चनादावेव ज्वलादिकार्यणप्रत्ययार्थः / अर्थनिर्देश: क्वचित्पाणिनीय इति भूधातौ प्रपञ्चितम् / बुध For Private And Personal Use Only
Page #138
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदीसहिता [भ्वादि रुह 859 बीजजन्मनि प्रादुर्भावे च / रोहति / रुरोह / करोहिथ / रोढा / रोक्ष्यति / अरुक्षत् / कस 860 गतौ / अकासीत-अकसीत् / वृत। ज्वलादिगण: समाप्तः / अथ गृहत्यन्ताः स्वरितेतः / हिक्क 861 अव्यक्ते शब्दे। हिक्कतिहिक्कते। अञ्चु 862 गतौ याचने च / अञ्चति-अञ्चते / अचु इत्येके / अचि इत्यपरे / टु याच 863 याच्यायाम। याचति-याचते / रेदृ 834 परिभाषणे / रेटति / रेटते / चते 865 चदे 866 याचने। चचात / चेते। अचतीत्। चचाद / चेदे। अचदीत् / प्रोथ 837 पर्याप्तौ / पुप्रोथ / पुप्रोथे। मिदृ 868 मेदृ 869 मेधाहिंसनयोः / मिमेद / मिमेदे। 'थान्ताविमौ' इति स्वामी। मिमेथ / 'धान्तौ' इति न्यास: / मेधृ 870 सङ्गमे च। मेधति मिमेधे। णिह 871 णेद 872 कुत्सासन्निकर्षयोः / / निनेद / निनिदतुः / निनेदे / शृधु 873 मृधु 874 उन्दने / उन्दनं क्लेदनम् / शर्धति-शर्धते / शर्धाता / मर्धति-मर्धते / वुधिर 875 अवबोधने / बोधतिबोधते। इरित्त्वादा / अबुधन-अबोधीत्-अबोधिष्ट / 'दीपजन-' (सू 2328) इति चिण्तु न भवति / पूर्वोत्तरसाहचर्येण देवादिकस्यैव तत्र ग्रहणात् / उ बुन्दिर 876 निशामने / निशामनं ज्ञानम / बुबुन्दे। अबुदत् / अवगमने इति // सेटकोऽयम् / अनिट्मु श्यन्विकरण व बुधेग्रहणात / तदाह / बोधितेति // अबोधीत् / रुहधातुरनिटकः / क्रादिनियमात्थल्यपि नित्यमिट् / अजन्ताकारवत्त्वाभावात् न भारद्वाजनियमः / रोढोत // लुटि तासि ढत्व धत्व ठुत्व ढलोपाः / रोक्ष्यतीति // लुटि स्ये ढकषाः / अरुक्षदिति // इगुपधशलन्तत्वात् ढकषाः / कित्त्वान्न वृद्धिगुणौ / वृदिति // 'ज्वलितिकसन्तेभ्यः' इति उत्तरावधेरिति कसेग्रहणादेव सिद्धेः वृत्करणं स्पष्टार्थमित्याहुः / इति ज्वलादयः / गृहत्यन्ता इति // 'गुहू संवरणे' इत्येतत्पर्यन्ता इत्यर्थः / चते चदे याचने / अचतीदिति // एदित्त्वान्न वृद्धिः / एवमचदीत / बुधिर् अवबोधने इति // 'बुध अवगमने' इति केवलपरस्मैपदी गतः। स तु ज्वलादिकार्यार्थः / अयन्तु इरित् स्वरितेत् / अनिट्सु श्यन्विकरणस्यैव पाठादयं सेट् / अवुधदिति // इरइत्त्वेऽपि तदवयवस्य इकारस्य प्रत्येकं मित्त्वाभावान्न नुम् / स्वरितेत्त्वप्रयुक्तमात्मनेपदन्तु भवत्येव / स्वरितेत्सु पाठसामर्थ्यात् / वस्तुतस्तु इकारस्य प्रत्येकमित्वेऽपि न नुम् / इदितो नुमित्यत्र कर्मधारयमाश्रित्य इत्संज्ञकेकारान्तस्यैव नुम्विधेः / पूर्वोत्तरेति // जनपूरिसाहचर्येणेत्यर्थः / उ बुन्दिरित // आद्य उकार इत् / उदितो वेति वायामिटिकल्पार्थः / अबुददिति / / इरित्त्वादङि अनिदितामिति नलोपः। इर इकारस्य प्रत्येकमित्संज्ञाविरहात / For Private And Personal Use Only
Page #139
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा। 137 अबुन्दीत् / वेण 877 गतिज्ञानचिन्तानिशामनवादित्रग्रहणेषु / वेणति-वेणते / नान्तोऽप्ययम् / खनु 878 अबदारणे / खनति-खनते। 2363 / गमहनजनखनघसां लोपः क्ङित्यनङि। (6-4-98) एषामुपधाया लोप: स्यादजादौ विङति न त्वङि / चख्नतुः / ये विभाषा' (सू 2319) / खायात्-खन्यात् / चीवृ 879 आदानसंवरणयोः / चिचीव-चिचीवे / चाय 880 पूजानिशामनयोः / व्यय 881 गतौ / अव्ययीत् / दाश 882 दाने / ददाश-ददाशे / भेष 883 भये / 'गतौ' इत्येके / भेषति-भेषते / भ्रष 884 श्लेष 885 गतौ / अस 886 गतिदीप्त्यादानेषु / असति--असते / आस-आसे / अयं षान्तोऽपि / स्पश 887 बाधनस्पर्शनयोः। स्पर्शनं प्रथनम् / स्पशति-स्पशते / लष 888 कान्तौ / ‘वा भ्राश-' (सू 2321) इति श्यन्वा / लष्यति-लषति / लेषे / चष 889 भक्षणे / छष 890 हिंसायाम् / चच्छषतुः / चच्छपे / झष 891 आदानसंवरणयोः / भ्रक्ष 892 भ्लक्ष 893 अदने / 'भक्ष' इति मैत्रेयः / दामृ 894 दाने / माह 895 माने / गुहू 896 संवरणे / 2364 / ऊदुपधाया गोहः / (6-4-89) गुह उपधाया ऊत्स्याद्गुणहेतावजादौ प्रत्यये / गृहति-गृहते / ऊदित्त्वाअनिदितामित्यस्य इत्संज्ञकेकारान्तभिन्नानामित्यर्थाश्रयणाचेति शब्देन्दुशेखरे स्थितम् / वेणूगतीति / वाद्यभाण्डस्य वादनार्थङ्ग्रहणं वादित्रग्रहणम् / खनुधातुरुदित् / क्त्वायामिड्किल्पः / गमहन / उपधाया इति // 'ऊदुपधायाः' इत्यतः तदनुवृत्तेरिति भावः / अजादाविति // अचि श्नुधात्वित्यतः अनुवृत्तस्य अचि इत्यस्य अङ्गाक्षिप्तप्रत्ययविशेषणतया तदादिविधिलाभ इति भावः / विडतीत्युक्तेः चखानेत्यत्र नोपधालोपः / अनङीति किम् / अगमत् / चख्ने चख्नाते इत्यादि / व्यय गताविति // अयं वित्तत्यागेऽपि / अर्थनिर्देशस्योपलक्षणत्वात् / अव्ययीदिति // ह्मयन्तेति न वृद्धिः। चष भक्षणे इति // चचाष / चेषतुः / छष हिंसायामिति // वैरूप्यसम्पादकादेशादित्वादेत्त्वाभ्यासलोपौ न / तदाह / चच्छषतुः इति। गुहू संवरणे इति // उदुपधोऽयम् / ऊदित् / ऊदुपधायाः // गोह इति कृतलघूपधगुणस्य गुहेर्निर्देशः / ततश्च गुणविषय एवेदम्भवति। अचि श्नुधात्वित्यतः अनुवृत्तस्य अचीत्यस्य अङ्गाक्षिप्तप्रत्ययविशेषणत्वात्तदादिविधिः / तदाह / गुह उपधायाः इत्यादिना / गुणहेताविति // गुणम्प्रति परनिमित्तभूत इत्यर्थः / गुणापवादः / जुगूह / गुणहेताविति किम् / जुगुहतुः / जुगुहुः / जुगृहे / जुगुहाते / जुगुहिरे / जुगूहिथ / जुगोढ / ढत्वधत्व 18 For Private And Personal Use Only
Page #140
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org www.kobatirth.org Acharya Sh Acharya Shri Kailassagarsuri Gyanmandir 138 सिद्धान्तकौमुदीसहिता [भ्वादि दिड्डा / गृहिता-गोढा / गूहिष्यति-घोक्ष्यति / गृहेत् / गुह्यात / अगृहीत् / इडभावे क्सः / अघुक्षत् / 2365 / लुग्वा दुहदिहलिहगुहामात्मनेपदे दन्त्ये / (7-3-73) एषां क्सस्य लुग्वा स्यादन्त्ये तङि / ढत्वधत्वष्टुत्वढलोपदीर्घाः / अगूढ / अघुक्षत / ‘क्सस्याचिं' (सू 2337) इत्यन्तलोप: / अघुक्षाताम् / अघुक्षन्त / अगुह्वहि-अघुक्षावहि / अघुक्षामहि / अथाजन्ता उभयपदिनः / श्रिञ् 897 सेवायाम् / श्रयति-श्रयते / शिश्रियतुः / श्रयिता। ‘णिश्रि-' (सू 2312) इति चङ् / अशिश्रियत्। तृत्वढलोपाः / जुगुहथुः / जुगुह / जुगुहिषे। जुघुक्षे / ढत्वभभावकत्वषत्वानि / जुगुहाथे / जुगुहिध्वे / जुघुट्वे। जुगूह / जुगुहिव / जुगुह्व। जुगुहिम / जुगुह्म / जुगुहे / जुगुहिवहे / जुगुह्वहे / जुगुहिमहे / जुगुह्महे / इति लिटि रूपाणि सिद्धवत्कृत्य लुटि इट्पक्षे ऊत्वे रूपमाह / गृहितेति // इडभावे अजादिप्रत्ययाभावात् ऊत्त्वाभावे गुणे ढत्वधत्वष्टत्वढलोपेषु रूपमाह / गोढेति // लुटि स्ये इट्पक्षे ऊत्त्वे रूपमाह / गूहिष्यतीति // इडभावे तु गुणढत्वभभावकत्वषत्वेषु रूपमाह / घोक्ष्यतीति // गूहिष्यते, घोक्ष्यते, इत्यप्युदाहार्यम् / गृहतु / गूहताम् / अगृहत् / अगृहत / गृहेदिति // गूहेतेत्यपि ज्ञेयम् / गुह्यादिति // आशीर्लिडि अजादिप्रत्ययाभावादूत्त्वन्न / कित्त्वान्न गुणः / लुङि इट्पक्षे सिज्लोपे ऊत्त्वे रूपमाह / अगृही. दिति // अगूहिष्टाम् / अगूहिषुरित्यादि / इडभावे क्सः इति // इगुपधशलन्तादिति भावः / अघुक्षदिति // ढत्वभभावकत्वषत्वानि / अघुक्षताम् / अघुक्षन्नित्यादि / लुङस्तडि विशेषमाह / लुग्वादुह / दन्त्ये तङीति // दन्त्यादौ तडीत्यर्थः / प्रत्ययादर्शनात्सर्वादेशोऽयं लुक्। अगूढेति // अगुह् स त इति स्थिते क्सस्य कित्त्वेन गुणहेतुत्वाभावादजादि. त्वाभावाच्च ऊत्त्वाभावे क्सलुकि अगुह् त इति स्थिते प्रक्रियान्दर्शयति / ढत्वधत्वष्टुत्वढलो. पदीर्घाः इति / अघुक्षतेति // क्सलुगभावे ढत्वभभावकत्वषत्वानीति भावः / अघुक्षातामिति // च्ले: क्सादेशे क्सस्य कित्त्वेन गुणहेतुत्वाभावादूत्त्वाभावे ढत्वभभावकत्वषत्वेषु कृतेषु क्सस्याचील्यन्त्यलोपे अतः परत्वाभावादातो डित इति न भवतीति भावः / अघुक्षन्तेति // झस्य अजादित्वाभावात्तस्मिन्परे क्सस्य अन्त्यलोपाभावादतः परत्वाभावादात्मनेपदेष्वनत इत्यदादेशो न भवति / कृते तु झोऽन्तादेशे क्सस्यान्तलोप इति भावः / अघुक्षथाः / अघुक्षाथाम् / अघुक्षध्वम् / अघुक्षि / इति रूपाणि सिद्धवत्कृत्याह / अगुह्वहीति // दन्त्यादिप्रत्ययपरत्वात् क्सस्य लुकि अजादिप्रत्ययाभावात् ऊत्त्वाभावे रूपम् / अघुक्षावहीति // क्सलुगभावे ढत्वभभावकत्वषत्वानि / अतो दीर्घश्च / अघुक्षामहीति // दन्त्यादिप्रत्ययपरत्वाभावान्न क्सलुक / इति गृहत्यन्ताः स्वरितेतः / उभयपदिनः इति // भित्त्वादिति भावः / श्रिञ् धातुः सेट् / शिथियतुरिति // कित्त्वान्न गुण: / इयङ् / For Private And Personal Use Only
Page #141
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा। 139 भृञ् 898 भरणे / भरति / बभार / बभ्रतुः / बभर्थ / बभूव / बभृषे / भर्ता / 2366 / ऋद्धनोः स्ये। (7-2-70) ऋतो हन्तेश्च स्यस्य इट् स्यात् / भरिष्यति / 2367 / रिङ् शयग्लिङ्घ / (7-4-28) शे यकि यादावार्धधातुके लिङि च ऋतो रिङादेशः स्यात् / रीडि प्रकृते रिविधिसामर्थ्याद्दी? न / भ्रियात् / शिश्रियुः / शिश्रयिथ / शिश्रियथुः / शिश्रिय / शिश्राय / शिश्रय / शिश्रियिव / शिश्रियिम / शिधिये / शिश्रियाते / शिश्रियिरे। शिश्रियिषे / शिश्रियाथे। शिश्रियिढ़े। शिश्रियिध्वे / शिश्रिये / शिश्रियिवहे / शिश्रियिमहे / श्रयितेति // श्रयिष्यति / श्रयिष्यते / श्रयतु / श्रयताम् / अश्रयत् / अश्रयत। श्रयेत् / श्रयेत / श्रीयात् / श्रयिषीष्ट / लुङि विशेषमाह / णिश्रीति / अशिश्रियदिति // चङीति द्वित्वम् / अशिश्रियत। अश्रयिष्यत् / अश्रयिष्यत / भृधातुरनिट् / भरतीति // भरते इत्यपि ज्ञेयम् / बभ्रतुरिति // कित्त्वान्न गुणः / यण / बभ्रुः / थलादौ 'एक'चः' इति नेट / कृसृभृवृस्तुद्रुसुश्रुषु लिट्यपि तन्निषेधस्य प्रवृत्तेः / थलि अचस्तास्वदिति निषेधाच / ऋदन्तत्वेन भारद्वाजमतेऽपि थलि निषेधाच्च / तदाह / बभर्थति // वभ्रथुः / बभ्र / बभार / बभर / इति सिद्धवत्कृत्याह / बभृवेति // बभ्रम / बभ्रे। नभ्राते। बधिरे। इति सिद्धवत्कृत्याह / बभृषे इति // बभ्राथे / बभृट्वे / बभ्रे / बभूवहे / बभ्रमहे / लुटि स्ये इनिषेधे प्राप्ते / ऋद्धनोः // ऋत् हन् अनयोर्द्वन्द्वात् पञ्चम्यर्थे षष्ठीद्विवचनम् / स्ये इति षष्ठ्यर्थे सप्तमी / आर्धधातुकस्येडित्यतः इडित्यनुवर्तते / तदाह / ऋत इत्यादिना // एकाच इति इनिषेधस्यापवादः / भरिष्यतीति // भरिध्यते / भरतु / भरताम् / अभरत् / अभरत / भरेत् / भरेत / आशीर्लिङि परस्मैपद भृ यात् इति स्थिते / रिङ शय // श यक् लिङ् एषां द्वन्द्वात्सप्तमीबहुवचनम् / अयङ यि क्ङितीत्यतो यीति सप्तम्यन्तमनुवृत्तं लिङो विशेषणम् / तदादिविधिः / शे तु यीति नान्वेति / असम्भवात् / नापि यकि अव्यभिचारात् / अत एव अकृत्सार्वधातुकयोरित्यनुवृत्तमपि लिङ एव विशेषणम् / तदाह / शे यकीत्यादिना / ऋत इति // 'रीकृत' इत्यतः तदनुवृत्तरिति भावः / अङ्गस्येत्यधिकृतम् / ऋत इति तद्विशेषणम् / तदन्तविधिः / ऋदन्तस्याङ्गस्यति लभ्यते / आदेशे टुकार इत् / ङित्त्वात् अन्तादेशः / निर्दिश्यमानपरिभाषयैव सिद्ध डकारोच्चारणं, इडागमेनैव सिद्धे रेफोच्चारणञ्च स्पष्टार्थम् / ननु भ्रियादिति वक्ष्यमाणमुदाहरणमयुक्तम् / कृते रिङि अकृत्सार्वधातुकयोरिति दीर्घप्रसङ्गादित्यत आह / रीङि प्रकृते इति // कृते रिङि यदि दीर्घः स्यात्तर्हि रिड्विधिर्व्यर्थः स्यात् / रीत इत्येव सिद्धेः / अतो रिडि कृते सति न दीर्घ इत्यर्थः / भ्रियादिति // भ्रियास्तामित्यादि सुगमम् / आशीर्लिङि भृषीष्टेन्यत्र For Private And Personal Use Only
Page #142
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 140 सिद्धान्तकौमुदीसहिता [भ्वादि 2368 / उश्च / (1-2-12) वर्णात्परौ झलादी लिङ तङ्परः सिञ्चेत्येतो कितौ स्तः। भृषीष्ट / भृषीयास्ताम् / अभार्षीत् / अभार्टीम् / अभाषुः / 2369 / हस्वादङ्गात् / (8-2-27) सिचो लोप: स्याज्झलि / अभृत / अभृषाताम् / अभरिष्यत / हृञ् 899 हरणे / हरणं प्रापणं स्वीकारः स्तेयं नाशनं च / जहर्थ / जह्रिव / जहिषे / हर्ता / हरिष्यति / धृञ् 900 धारणे / धरति / अधार्षीत् / अधृत / णी 901 प्रापणे। निनयिथ / निनेथ / निन्यिषे / ____ अथाजन्ताः परस्मैपदिनः / धेट 902 पाने / धयति / गुणे प्राप्ते। उश्च // ‘लिङ्सिचावात्मनेपदेषु' इति सूत्रमनुवर्तते / 'इको झल' इत्यतो झलिति च / तदाह / ऋवर्णादिति / भृषीष्टेति // कित्त्वान गुणः / अभार्षीदिति // परस्मैपदे सिचि वृद्धौ रपरत्वम् / तङि तु अझ स् त इति स्थिते / ह्रस्वादङ्गात् // ह्रस्वान्तादित्यर्थः / सिच इति भाष्यम् / 'झलो झलि' इत्यतो झलीति ‘संयोगान्तस्य लोपः' इत्यतो लोप इति चानुवर्तते इत्यभिप्रेत्य शेषपूरणेन सूत्रं व्याचष्टे। सिचो लोपः स्याज्झलीति // हूस्वात्किम् / अच्योष्ट / अङ्गात्किम् / अलाविष्टाम् / सिचः किम् / द्विष्टराम् / द्विष्टमाम् / सुजन्तात्तरप्तमपौ। अभतेति // 'उश्च' इति सिचः कित्त्वान्न गुणः / झलीत्युक्तेः अभृषाताम् / अभृषतेत्यत्र न सिज्लोपः / अनतः परत्वात् झस्य अदादेशः / अभृथाः / अभृषाथाम् / अभृढम् / अभृषि / अभृष्वहि / अभृध्महि / हृधातुरनिट् / हरणञ्चतुर्विधमित्याह / प्रापणमित्यादि // तद्यथा-भारं हरति / प्रापयतीत्यर्थः। अशं हरति। स्वीकरोतीत्यर्थः / परस्वं हरति / चोरयतीत्यर्थः। पापं हरति हरते वा / नाशयतीत्यर्थः / जहार / जहतुः / जहः / 'एकाचः' इति इनिषेधस्य क्रादिष्वेव लिटि नियमितत्वादिह थलि इटि प्राप्ते 'अचस्तास्वत्' इति तनिषेधः / ऋदन्तत्वेन भारद्वाजमतेऽपि इनिषेध एव / तदाह / जहथेति // जहथुः / जहू / जहार / जहर / इति सिद्धवत्कृत्याह / जहिवेति // क्रादिनियमादिट् / जहिम / जहिषे / क्रादिनियमादिट् / जहाथे / जहिढवे / जहिये / जहे। जहिवहे। जहिमहे / लुडादिषु भृञ इव रूपाणि / धृ धातुनिट / हज इव रूपाणि / णात्र धातुरनिट् णोपदेशः / नयति / नयते / निनाय / निन्यतुः / निन्युः। क्रादिनियमालिटि इट् / थलि तु ‘अचस्तास्वत्' इति इग्निषेधस्य भारद्वाजनियमादिटमभिप्रेत्याह / निन्यिषे निन्याथे निन्यिट्वे निन्यिध्वे / निन्ये / निन्यिवहे / निन्यिमहे / नेता / नेष्यति। नेष्यते / नयतु / नयताम् / अनयत् / अनयत / नयेत् / नयेत / नीयात् / नेषीष्ट / अनैषीत् / अनेष्ट / अनेष्यत् अनेष्यत / इत्यजन्ता उभयपदिनो गताः। परस्मैपदिन इति // “जि, ब्रि' अभिभवे / इत्येतर्पयन्ता इति शेषः / धेट पाने इति // स्तनन्धर्याल्यादौ डीबर्थ For Private And Personal Use Only
Page #143
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा / 141 2370 / आदेच उपदेशेऽशिति / (6-1-49) उपदेशे एजन्तस्य धातोरात्त्वं स्यान्न तु शिति / 2371 / आत औ णलः / (7-1-34) आदन्ताद्धातोर्णल औकारादेश: स्यात् / दधौ / 2372 / आतो लोप इटि च / (6-4-64) अजाद्योरार्धधातुकयो: क्ङिदिटोः परयोरातो लोप: स्यात् / द्वित्वाटित्त्वम् / अवयवे टित्त्वस्य व्यर्थतया समुदायार्थत्वादिति हरदत्तः / आदेचः। एजन्तस्य धातोरिति // 'लिटि धातोः' इत्यतः धातोरित्यनुवृत्तं एचा विशेष्यते / तदन्तविधिरिति भावः / न तु शितीति // श् चासौ इचेति कर्मधारयात्सप्तमी / प्रत्ययविशेषणत्वात्तदादिविधिः / इत्संज्ञकशकारादौ प्रत्यये परे इति लभ्यते / 'ल्यपि च' 'न व्यो लिटि' इत्यादिपूर्वोत्तरसूत्राणाम्प्रत्ययेष्वेव प्रवृत्त्या प्रत्यये इति विशेष्यलाभः / अशितीति न पर्युदासः / तथा सति शिद्भिन्ने प्रत्यये परे इत्यर्थः / ततश्च सुग्ल: इत्यत्र ग्लैधातोः 'आतश्चोपसर्गे' इति कप्रत्ययो न स्यात् / कप्रत्ययनिमित्तमात्त्वम् आदन्तात्प्रत्यय इत्यन्योन्याश्रयात् / शिति नेति प्रसज्यप्र. तिषेधे तु आत्त्वस्य अनैमित्तिकतया कप्रत्ययनिमित्तकत्वाभावात् प्रथममात्त्वे कृते कप्रत्ययः सूपपादः / शितीति बहुव्रीह्याश्रयणे ग्लैधातो वे लिटि ‘भावकर्मणोः' इति तङि एशि आत्त्वे आतो लोपे जग्ले इति न सिद्ध्येत् / एशशित्त्वेन तस्मिन्परे आत्त्वस्य निषेधात् / अतः कर्मधारयमाश्रित्य इत्संज्ञकशकारादौ प्रत्यये परे नेत्यर्थ आश्रितः। एवञ्च पर्युदासेऽपि न क्षतिः / इत्संज्ञकशकारादिप्रत्यये विवक्षिते इत्याश्रयणेन सुग्ल इत्यत्र कप्रत्ययात्प्रागेव आत्त्वोपपत्तेः / उपदेशे किम् / चेता, स्तोता / धातोः किम् / गोभ्याम् / ‘गमेझैः' इति डोप्रत्ययोपदेशादप्राप्तिः। उपदेशे यः एच् तदन्तत्वाभावाद्मेः / न च मेडादीनामुपदेशे एजन्तत्वाभावात् कथमात्त्वमिति न शङ्कयम् / 'उदीचाम्माङः" इति निर्देशेन नानुबन्धकृतमनेजन्तत्वमिति ज्ञापनादित्यास्तान्तावत् / तथाच प्रकृते लिटि द्वित्वादी दधा अ इति स्थिते / आत औ // औ इति लुप्तप्रथमाकम् / अङ्गस्येत्यधिकृतम्पञ्चम्या विपरिणम्यते / आत इति तद्विशेषणम् / तदन्तविधिः / तदाह / आदन्ताद्धातोरिति // णलप्रकृ. तिश्च धातुरेवेति धातुग्रहणम् / तथाच णल औत्वे वृद्धौ रूपमाह / दधाविति // दधा अतुसिति स्थिते। आतो लोपः // आर्धधातुके इत्यधिकृतम् / दीङो युडित्यतः अचि विडतीतिचानुवर्तते / अचीत्यार्धधातुकविशेषणत्वात्तदादिविधिः। डिति अजाद्याधधातुके इटि च आतो लोपः इति लभ्यते / फलितमाह / अजाद्योरिति // इट: आर्धधातुकत्वन्तु तदवयवत्वाद्बोध्यम् / ड़ितीति च इटो न विशेषणम् / इड्ग्रहणसामर्थ्यात् / इडित्यनेन उत्तमपुरुषैकवचनम् इडागमश्च गृह्यते। अजाद्योः किम् / ग्लैधातोः कर्मणि लटि यकि ग्लायते। आर्धधातुकयोः किम् / यान्ति / वान्ति। दधौ इत्यत्र तु क्डित्वाभावान्नाल्लोपः / For Private And Personal Use Only
Page #144
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 142 सिद्धान्तकौमुदीसहिता [भ्वादि त्परत्वाल्लोपे प्राप्ते 'द्विवचनेऽचि' (सू 2243) इति निषेधः / द्वित्वे कृते आलोपः / दधतुः / दधुः / दधिथ-दधाथ / दधिव / दधिम / धाता / 2373 / दाधा ध्वदाप् / (1-1-20) दारूपा धारूपाश्च धातवो घुसंज्ञाः स्युर्दाप्दैपौ विना / 2374 / एलिङि / (6-4-67) घुसंज्ञानां मास्थादीनां चैत्वं स्यादार्धधातुके किति लिङि / धेयान / धेयास्ताम् / धेयासुः / 2375 / विभाषा धेट्रव्योः / (3-1-49) आभ्यां च्लेश्चका स्यात्कर्तृवाचिनि लुङि परे / 'चङि' (सू 2315) इति द्वित्वम् / अदधत् / अदधताम् / 2376 / विभाषा घ्राधेट्शाच्छासः / (2-4-78) सति तस्मिन् औत्वन्न स्यात् / ननु धा अतुम् इति स्थिते द्वित्वात्परत्वादालोपे सति एकाच्त्वाभावात् द्वित्वन्न स्यादित्याशय परिहरति / द्वित्वादित्यादिना // धेटधातुरनिट् / भारद्वाजनियमात् थलि वेडित्याह / दधिथ / द्धाथेति // इट्पक्षे आल्लोपः। दधथुः / दध / दधौ इति सिद्धवत्कृत्याह / दधिवेति // वसि आत्त्वे क्रादिनियमादिटि आल्लोप इति भावः / दधिमत्यपि ज्ञेयम् / धातेति // लुटि आत्त्वे ता इति भावः / धास्यति / धयतु / अधयत् / धयेत् / आशीलिंङि घुसंज्ञाकार्य वक्ष्यन् घुसंज्ञां दर्शयति / दाधाध्वदाप् // दा धा घु एषां समाहारद्वन्द्वात्प्रथमैकवचनम् / दाधेल्यनेन स्वाभाविकाकारान्तयोः 'दाण दाने' 'डुधाञ् धारणपोषणयोः' इत्यनयोः कृतात्त्वानाञ्च दोदे धेटां लाक्षणिकानामपि ग्रहणम् / 'गामादाग्रहणेष्वविशेषः' इति परिभाषाबलात् / तत्र दाग्रहणेन धारूपस्यापि ग्रहणात् / अतएव ‘दो दद् घोः' इत्यत्र धेनिवृत्त्यर्थन्दाग्रहणमर्थवत् / दधातेर्हिभावविधानादेव निवृत्तिसिद्धेः / तदाह / दारूपाः धारूपाश्चेति // शब्दा इति शेषः / एर्लिङि // एरिति प्रथमान्तम् / आर्धधातुके इत्यधिकृतम् / तदाह / घुसंज्ञानां मास्थादीनामिति // मा स्था जहाति सा एषान्द्वन्द्वात् षटीबहुवचनम् / किति लिङीति // दीडो युडित्यतः कितीत्यनुवृत्तेरिति भावः / द्वितीति नानुवर्तते / लिङार्धधातुकस्य ङित्त्वासम्भवात् / लुङि च्ले: सिचि प्राप्ते / विभाषा धेट् // च्लि लुङीत्यनुवर्तते / “णिश्रिद्रुस्रुभ्यः' इत्यतः कर्तरि चङिति च / तदाह / आभ्यामिति // धेट् श्चि आभ्यामित्यर्थः / अदधदिति // चङि द्वित्वे आलोप इति भावः / अदधताम् / अदधन् / अदधः / अदधतम् / अदधत / अदधम् / अदधाव / अदधाम / चङभावपक्षे विशेषमाह / विभाषा घ्रा // ‘ण्यत्रियार्ष' इत्यतः For Private And Personal Use Only
Page #145
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा / 143 एभ्य: सिचो लुग्वा स्यात्परस्मैपदे परे / अधात / अधाताम् / अधुः / 2377 / यमरमनमातां सक्च / (7-2-73) एषां सक्स्यादेभ्यः सिच इट् च परस्मैपदेषु / अधासीत् / अधासिष्टाम् / अधासिषुः / ग्लै 903 म्लै 904 हर्षक्षये / हर्षक्षयो धातुक्षयः / ग्लायति / जग्लौ / जग्लिथ-जग्लाथ / 2378 / वाऽन्यस्य संयोगादेः / (6-4-68) लुडित्यनुवर्तते / ‘गातिस्था' इत्यतः सिचः परस्मैपदेष्विति / तदाह / एभ्यः इति // 'धेट पाने' 'घ्रा गन्धोपादाने' 'शो तनूकरणे' 'छो छेदने' 'षो अन्तकर्मणि' एषां समाहारद्वन्द्वात्पञ्चम्येकवचनम् / शोप्रभृतीनाकृतात्वानां निर्देशः / धेट: ‘गातिस्थाघुपा' इति नित्यं प्राप्ते अन्येषामप्राप्ते वचनम् / अधुरिति // 'उस्यपदान्तात्' इति पररूपम् / अधाः / अधातम् / अधात / अधाम् / अधाव / अधाम / सिचो लुगभावपक्षे आह / यमरम // यम, रम, नम, आत् , एषां समाहारद्वन्द्वात्षष्टीबहुवचम् / आदित्यनेन आदन्तङ्गृह्यते / तदाह / एषां सक् स्यादिति // सकि ककार इत् अकार उच्चारणार्थः / कित्त्वादन्तावयवः / चकारेण 'इडत्यति' इत्यतः इडिति स्तुसुधूभ्यः इत्यतः परस्मैपदेध्विति चानुकृष्यते / अजेस्सिचीत्यतः सिंचीति च / तच षष्टया विपरिणम्यते / तदाह / एभ्यस्सिचः इट् चेति / अधासीदिति // धातोस्सगागमः / सिच इट् / ‘इट ईटि' इति सिज्लोपः / अधासिष्टामिति // अपृक्तत्वाभावादीडभावान सिज्लोपः / सस्य षत्वे तकारस्य टुत्वेन टः / अधासिषुरिति // अधासीः। अधासिष्टम् / अधासिष्ट / अधासिषम् / अधासिष्व / अधासिष्म / यद्यपि अधासीदित्यत्र सगिटोविधिर्व्यर्थ एव / तथापि अधासिष्टामित्याद्यर्थे आत: सगिड्डिधानम् / यमादीनान्तु अयंसीदित्यादी हलन्तलक्षणवृद्धेरभावार्थम् अयंसिटामित्याद्यर्थञ्च / तदेतत् तत्तद्धातुषु स्पष्टीभविष्यति / अधास्यत् / ‘ग्लै म्लै हर्षक्षये' धातुक्षयः इति // बलक्षय इत्यर्थः / अनिटाविमौ / ग्लायतीति शपि आयादेशः / शिद्विषयत्वादात्त्वन्न / जग्लाविति // णलि आत्त्वे 'आत औ णल:' इति औभावे वृद्धिरिति भावः / अतुसादौ द्वित्वे कृते आतो लोपः। जग्लतुः / जग्लुः / भारद्वाजनियमात्थलि वेडित्याह / जग्लिथ / जग्लाथेति // इट्पक्षे आल्लोपः / जग्लथुः / जग्ल / जग्लौ / जग्लिव / जग्लिम / ग्लाता / ग्लास्यति / ग्लायपु। अग्लायत् / ग्लायेत् / आशीलिडि आत्त्वे कृते ग्ला यात् इति स्थिते / वाऽन्यस्य // आर्धधातुक इत्यधिकृतम् / 'ऐलिङि' इत्यनुवर्तते / एरिति प्रथमान्तम् / 'आतो लोप इटि च' इत्यतः आत इत्यनुवर्तते कम्मादन्यस्येत्यपेक्षायां घुमास्थागापाजहातिमा हलीति प्रकृतत्वाल्ल For Private And Personal Use Only
Page #146
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acha www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 144 सिद्धान्तकौमुदीसहिता [भ्वादि घुमास्थादेरन्यस्य संयोगादेर्धातोरात एत्त्वं वा स्यादार्धधातुके किति लिङि / ग्लायात्-ग्लेयात् / अग्लासीत्। म्लायति / ये 905 न्यक्करणे / न्यक्करणं तिरस्कारः / दै 906 स्वप्ने / ब्रै 907 तृप्तौ / द्ध्यै 908 चिन्तायाम् ।रै 909 शब्दे / स्त्यै 910 ष्टयै 911 शब्दसङ्घातयोः / स्त्यायति / पोपदेशस्यापि सत्वे कृते रूपं तुल्यम् / षोपदेशफलं तु तिष्टयासति अतिष्टयपदित्यत्र षत्वम् / खै 912 खेदने / 1 913 जै 914 / पै 915 क्षये। क्षायति जजौ / ससौ / साता / 'घुमास्था-' (सू 2462) इत्यत्र 'विभाषा घ्राधेट-' (सू 2376) इत्यत्र च स्यतेरेव ग्रहणं न त्वस्य / भ्यते / तदाह / घुमास्थादेरित्यादिना / कितीति // अनुदात्तोपदेशवनतीत्यतः तदनुवृत्तेरिति भावः / रितीति तु नानुवर्तते / लिङार्धधातुकस्य डित्त्वासम्भवात् / अग्लासीदिति // यमरमेत्यादन्तत्वात् सगिटौ / अग्लासिष्टाम् / अग्लासिषुरित्यादि। अग्लास्यत् / म्लायतीति // ग्लैधातोरिव रूपाणीति भावः / द्यै न्यक्करणे इति // यकारमध्योऽयम् / इत आरभ्य ऐकारान्तानां संयोगादीनां ग्लैवदेव रूपाणि प्रत्येतव्यानि / 'रै शब्दे' इत्यादीनान्तु असंयोगादीनाम् आशीलिडि ‘वाऽन्य. स्य संयोगादेः' इत्येत्त्वं न भवति / रायादित्यादिरूपमिति विशेषः / स्त्यै ट्यै इति // षोपदेशेषु स्त्याधातोः पर्युदासादाद्यो न षोपदेशः / द्वितीयस्तु षोपदेशः / तकारस्य टुत्वसम्पन्नटकारनिर्देशः / सत्वे कृते इति // धात्वादेरिति षस्य सकारे सति निमित्तापायात् श्रुत्वनिवृत्तिरिति भावः / तिष्ट्यासतीति // ष्टयैधातोः कृतसत्वात् सनि आत्त्वे स्त्या स इति सनन्ताल्लटि तिपि शपि 'सन्यडोः' इति द्वित्वे 'शपूर्वाः खयः' इति सकारयकारनिवृत्ती तास्त्यासति इति स्थिते अभ्यासहूस्वे सन्यत इति इत्वे सकारस्य इणः परत्वादादेशसकारत्वाच्च षत्वे तिष्ट्यासतीति रूपम् / स्वाभाविकसकारादित्वे त्वादेशसकारादित्वाभावात् षत्वं न स्यादिति भावः / अतिष्ट्यपदिति // ट्यैधातोः कृतसत्वात् णौ आत्त्वे 'अर्तिही' इति पुकि स्त्यापि इति ण्यन्तात् लुङि अडागमे तिपि इतश्च इति इकारलोपे ‘णिश्रिद्रुभ्यः ' इति 'च्लेश्वङि' 'णेरनिटि' इति णिलोपे ‘णौ चङशुपधायाः' इति इस्वे 'चङि' इति स्त्यप् इत्यस्य द्वित्त्वे शपूर्वा इति सकारयकारपकाराणां निवृत्तौ सत्यां 'सन्यतः' इति इत्वे इण: परत्वादादेशसकारत्वाच सस्य षत्वे तस्य टुत्वे अतिष्ट्यपदिति रूपम् / स्वाभाविकसकारत्वे त्वादेशसकारत्वा. भावात् षत्वन्न स्यादिति भावः / जजौ / ससाविति // जैधातोः षैधातोश्च णलि आत्त्वे द्वित्वादौ वृद्धिरिति भावः / ननु ‘एलिङि' इत्यत्र ‘घुमास्थागापाजहातिसाम्' इत्यनुवृत्त्या सैधातोराशीर्लिङि सायादित्यत्र एत्त्वं स्यात् / तथा लुङि मगिटोः असासीत् असासिष्टामित्येव इष्यते / तत्र ‘विभाषा घ्राधेट्शाच्छासः' इति सिचः पाक्षिके लुकि असात् असातामित्यपि प्रसज्येतेत्यत आह / धुमास्थेत्यत्रेत्यादि / स्यतेरिति // षो अन्तकमणि For Private And Personal Use Only
Page #147
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www.kobatirth.org Acha प्रकरणम् बालमनोरमा। 145 तेन एत्त्वसिज्लुकौ न / सायात्। असासीत् / कै 916 गै 917 शब्दे / गेयान् / अगासीत् / शै 918 919 पाके / पै 920 ओ वै 921 शोषणे / पायात् / अपासीत् / “घुमास्था-' (सू 2462) इतीत्त्वं, तदपवाद * एलिङि' (सू 2374) * इत्येत्त्वं' गाति स्था-' (सू 2223) इति सिज्लुक् च, न / पारूपस्य लाक्षणिकत्वात् / ष्टै 922 वेष्टने / स्तायति / ष्णै 923 वेष्टने / शोभायां च' इत्येके / स्नायति / दैप 924 शोधने / दायति / अघुत्वादेत्त्वसिज्लुको न। दायात / अदासीत् / पा 925 पाने / 'पाघ्राध्मा-' (सू 2360) इति पिबादेशः / तस्यादन्तत्वान्नोपधागुणः। पिबति / पेयात् / अपात् / ब्रा 916 गन्धोपादाने / जिघ्रति / ब्रायात्-प्रेयात् / अघ्रासीत् / इति श्यन्विकस्णस्येत्यर्थः / अत्र व्याख्यानमेव शरणम् / 'विभाषा घ्राधेट' इत्यत्र श्यन्विकरणाभ्यां साहचर्याच / 'पै ओ वै शोषणे' / पायति / वायति / 'ओदितश्च' इति निष्ठानत्वार्थमोदित्त्वम् / ननु पैधातोः कर्मणि लटि यकि आत्त्वे पायते इत्यत्र 'धुमास्थागापाजहातिसां हलि' इति ईत्वं स्यात् / तथा आशीर्लिङि पायात् इत्यत्र ‘एलिङि' इति एत्त्वं स्यात् / तत्रापि 'घुमास्थागापाजहातिसाम्' इत्यनुवृत्तेः / तथा लुङि अपासीदित्यत्र 'गातिस्था' इति सिचो लुकि 'यमरम' इति इट: अभावात्तत्सन्नियोगशिष्टस्सगपि न स्यादित्यत आह / घुमास्थेतीत्वमित्यादिना / पारूपस्येति // उदाहृतसूत्रत्रयेषु लक्षणप्रतिपदोक्तपरिभाषया आदन्तत्वेन उपदिष्टस्यैव पाधातोग्रहणम् / नतु पैधातोः कृतात्वस्येति भावः / एवञ्च प्रकृते पैधातोराशीलिङि पायादित्येव रूपम् / लुडि सगिटो: अपासीत् , अपासिष्टामित्येव रूपम् / है वेष्टने इति // षोपदेशोऽयम् / कृतष्टुत्वनिर्देशः / सत्वे कृते टुत्वनिवृत्तिः / तदाह / स्तायतीति / / णैधातुरपि घोपदेशः कृतष्टुत्वनिर्देशः / सत्वे कृते ष्टुत्वनिवृत्तिः / तदाह / स्नायतीति // दैप शोधने / अधुत्वादिति // घुसंज्ञाविधौ दाब्दैपौ विनेत्युक्तेरिति भावः / 'पा पाने' पिबादेश इति / शिद्विषये इति शेषः / पिबादेशस्य अदन्तत्वात् न लघूपधगुण इति भाष्ये स्पष्टम् / अनिडयम् / पपौ / पपतुः / पपुः / भारद्वाजनियमात् थलि वेट्। पपिथ-पपाथ / पपथुः / पप / पपौ / पपिव। पपिम। क्रादिनियमादिट्। पाता। पास्यति / पिबतु। अपिबत् / पिवेत् / आशीलिडि ‘एलिङिः' इत्येत्त्वमभिप्रेत्याह / पेयादिति // ‘गातिस्था' इति सिचो लुगित्यभिप्रेत्याह / अपादिति // अपाताम् / अपुः / अपाः / अपातम् / अपात / अपाम् / अपाव / अपाम / अपास्यत् / प्रा गन्धोपादाने // ‘पाघ्राध्मा' इति शिद्विषये जिघ्रादेशः / तदाह / जिघ्रतीति // अनिडयम् / जघ्रौ / जघ्रतुः / जघुः / भारद्वाजनियमात् थलि वेट् / घ्रिथ-जघ्राथ / जघ्रथुः / जघ्र / जौ / जघ्रिव / जध्रिम / क्रादिनियमादिट् / घ्राता / घ्रास्यति / जिघ्रतु / अजिघ्रत् / जिप्रेत् / आशीलिङि ‘वाऽन्यस्य संयोगादेः' इत्येत्त्वविकल्पं मत्वा आह / घ्रायात्-नेयादिति // 'विभाषा घ्राधेट' इति सिचो वा लुक् / लुगभावपक्षे आदन्तत्वात्सगिटी / तदाह / अध्रासीदिति // ध्माधातुरनिट् / 'पाघ्राध्मा' इति शिद्विषये 19 For Private And Personal Use Only
Page #148
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 146 सिद्धान्तकौमुदीसहिता [भ्वादि अघ्रान् / ध्मा 927 शब्दाग्निसंयोगयोः / धमति / ष्ठा 928 गतिनिवृत्तौ / तिष्ठति / स्थादिष्वभ्यासेन–' (सू 2277) इति षत्वम् / अधितष्ठौ / 'उपसर्गात्-' (सू 2270) इति षत्वम् / अधिष्टाता / स्थयात् / म्ना 929 अभ्यासे / मनति / दाण 930 दाने / प्रणियच्छति / देयान / अदान / 6 931 कौटिल्ये / हरति / 2379 / ऋतश्च संयोगादेर्गुणः / (7-4-10) ऋदन्तस्य संयोगादेरङ्गस्य गुण: स्याल्लिटि / किदर्थमपीदं परत्वाण्णल्यपि भवति / रपरत्वम् / उपधावृद्धिः / जह्वार / जह्वरतुः / जह्वरः / जह्वर्थ / हर्ता / 'ऋद्धनोः स्ये' (सू 2366) हरिप्यति / धमादेशः / तदाह / धमतीति // दध्मौ / दध्मतुः / दध्मुः / दध्मिथ-दध्माथ / दध्मथुः / दध्म / दध्मौ / दध्मिव / दमिम / ध्माता। ध्मास्यति / धमतु / अधमत् / धमेत् / मायातध्मेयात् / अध्मासीत् / अध्मास्यत् / ष्टाधातुः षोपदेशः / कृतष्टुत्वनिर्देशः / शिद्विषये 'पाघ्रा' इति तिष्टादेशः / तदाह / तिष्ठतीति // तस्थौ, अधितष्ठावित्यत्र इणकवर्गाभ्यां परत्वाभावेऽपि षत्वमाह / स्थादिप्विति // तस्थतः। तस्थुः / तस्थिथ। तस्थाथ / तस्थथुः / तस्थ / तस्थौ। तस्थिव / तस्थिम / स्थाता / अधिष्ठातेत्यत्र ‘मात्पदाद्योः' इति षत्वनिषेधमाशङ्कयाह / उपसर्गादिति / षत्वमिति // स्थास्यति / तिष्ठतु / अतिष्ठत् / तिटेत् / आशीलिटि संयोगादित्वेऽपि घुमास्थादेरन्यत्वाभावादेत्त्वविकल्पो न / किन्तु 'एर्लिङि' इति नित्यमेव एत्त्वम् / तदाह / स्थयादिति // ‘गातिस्था' इति सिचो लुक / अस्थात् / अस्थास्यत् / म्ना अभ्यासे इति // अयमप्यनिट् / 'पाघ्रा' इति शिद्विषये मनादेशः / तदाह। मनतीति // मन्नौ / मनतुः। मम्नुः / मनिथ-मनाथ। मन्नथुः / मम्न / मनौ / मन्निव / मभ्रिम / म्राता। म्रास्यति / मनतु / अमनत् / मनेत् / नायात-नेयात् / अम्नासीत / अन्नास्यत् / दाण् दाने इति // अयमप्यनिट् / 'पाघ्रा' इति शिद्विषये यच्छादेश: / प्रणियच्छतीति // ‘नेर्गद' इति णत्वम् / ददौ / ददतुः / ददुः। ददिथ-ददाथ / ददथुः / दद / ददौ / ददिव। ददिम / दाता / दास्यति / यच्छतु / अयच्छत / यच्छेत् / आशीर्लिडि 'एलिडि' इत्येत्त्वम् मत्वा आह / देयादिति // ‘गातिस्था' इति सिचो लुकं मत्वा आह / अदादिति / ढ कौटिल्ये इति // अयमप्यनिट् / हरतीति // शपि गुणे रपरत्वम् / ऋतश्च / लिटीति // ‘दयतेर्दिगि लिटि' इत्यतः तदनुवृनेरिति भावः / ननु तिप्सिप्मिप्सु अकृत्सार्वधातुकयोरित्येव गुणे सिद्धे किममिदमित्यत आह / किदर्थमपीदमिति // अतुसादिकिदर्थे णलाद्यकिदर्थश्चेत्यर्थः / ननु अस्य गुणस्य अतुसादिषु चरितार्थत्वात् णलि ‘अचो णिति' इति वृद्धिप्रसङ्गात्कथम् णलि अयं गुण इत्यत आह / परत्वाण्णल्यपि भवतीति // 'अचो णिति' इति वृद्ध्यपेक्षया अस्य गुणस्य परत्यादित्यर्थः / तर्हि जहार इति कथमित्यत For Private And Personal Use Only
Page #149
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा / 2380 / गुणोऽतिसंयोगाद्योः / (7-429) / अर्नेः संयोगादेर्कदन्तस्य च गुण: स्याद्यकि यादावार्धधातुके लिडि च / ह्वर्यात / अह्वार्षीत् / अह्वाष्म / स्वृ 932 शब्दोपतापयोः / स्वरतिसूति-' (2279) इति वेट् / सस्वरिथ-सस्वर्थ / वमयोस्तु 2381 / युकः किति / (7-2-11) श्रिय एकाच उगन्ताच्च परयोर्गित्कितोरिण्नस्यात् / परमपि स्वरत्यादि विकल्पम्बाधित्वा पुरस्तात्प्रतिषेधकाण्डारम्भसामर्थ्यादनेन निषेधे प्राप्ते कादिनि आह / उपधावृद्धिरिति // 'अत उपधायाः' इत्यनेनेति शेषः / जहथेति // क्रादिनियमप्राप्तस्य इट: 'अचस्ताम्वत्' इति 'ऋतो भारद्वाजस्य' इति च निषेधादिति भावः / जबरथुः / जह्वर / जहार - जहार / जरिव। जह्वरिम / कादिनियमादिट् / हरतु। अह्वरत् / हरेत् / आशीलिङि ह्व यात् इति स्थिते कित्वाद्गुणनिषेधे प्राप्त / गुणोऽर्ति // भावादिकः जौहोत्यादिकश्च ऋधातुः अतत्यिनेन गृह्यते / लुका निर्देशस्तु न विक्षितः। अङ्गस्येत्यधिकृतम्। 'रीतः' इत्यतः ऋत इत्यनुवर्तते / तच अङ्गविशेषणं तदन्तविधिः ऋदन्तस्याङ्गस्येति लभ्यते / संयोगादेरित्यपि तद्विशेषणम / 'अकृत्सार्वधातुकयोः' इत्यतः असार्वधातुकग्रहणमनुवर्तते / आर्धधातुके इति लभ्यते / 'रिद शग्लिक्षु' इत्यतः यकि लिङ्गीति च लभ्यते / 'अयडिय डिति' इत्यतः याति सप्तम्यन्तमनुवर्तते। आर्धधातुकविशेषणत्वात्तदादिविधिः / तदाह / अतरित्यादिना // तथाच यात् इति स्थिते गुणे रपरत्वे रूपमाह / ह्वर्यादिति / अह्वाषींदिति // सिचि वृद्धिः रपरत्वं पत्वम् / अह्वरिष्यत् / स्वृ शब्दोपतापयोरिति // अयमप्यनिट् / स्वरति / लिटि तु कित्यपि गुणः / णलि तु कृते गुणे रपरत्वे उपधावृद्धिः / सस्वार / सस्वरतुः / सस्वरुः / थलि तु कादिनियमप्राप्तस्य इट: ‘अचस्तास्वत्' इति 'ऋतो भारद्वाजस्य' इति च नित्यनिषेधे प्राप्ते आह / स्वरतिसूतीति-वेडिति / सस्वरिथ-सस्वर्थति // सस्वरथुः / सस्वर / सस्वार-सस्वर। इत्यपि ज्ञेयम् / वमयोस्त्विति // क्रादिनियमान्नित्यमिडिल्यन्वयः / अत्र इनिषेधं शङ्कितुमाह / थयुकः किति // श्रिश्च उकथेति समाहारद्वन्द्वात् षष्ठी / उक् प्रत्याहारः। अस्यत्यधिकृतं पञ्चम्या विपरिणतम् ऋता विशेष्यते / तदन्तविधिः / 'एकाच उपदेशे' इत्यतः एकाच इत्यनुवृत्तं इगन्तेऽन्वति / 'नेशिकृति' इत्यतो नेडिति / किडीति सप्तमी षष्ट्यर्थे / ग्च क्च को तौ इतौ यस्येति विग्रहः। गकारस्य चत्वेन निर्देशः / तदाह / भित्र एकाचः इत्यादिना॥ गकारप्रश्लषः किम् / भूष्णुः / ‘ग्लाजिस्थश्च गस्नुः' इति चकाराद्भूधातोः ग्स्नुः / तस्य गित्त्वादीन्न / कित्त्वे तु स्थास्नुरित्यत्र ‘घुमास्था' इति ईत् स्यात् / इण्नस्यादित्यनन्तरं अनेन निषेधे प्राप्ते इत्यन्वयः / नन्वियं शङ्का न युज्यते। 'श्रयुकः किति' इति निषेधम्बाधित्वा परत्वात् ‘स्वरतिसूतीति' विकल्पस्य प्राप्तेरित्यत आह। परमपीत्यादिसामर्थ्यादि. त्यन्तम् // पुरस्तात्प्रतिषेधकाण्डारम्भसामर्थ्यात्परमपि स्वरत्यादिविकल्पम्बाधित्वा अनेन For Private And Personal Use Only
Page #150
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 148 सिद्धान्तकौमुदीसहिता [भ्वादि HTHHTHHTHER यमानित्यमिट् / सस्वरिव / सस्वरिम / परत्वात् 'ऋद्धनो: स्ये' (सू 2366) इति नित्यमिट / स्वरिष्यति। स्वर्यात्। अस्वारीत्। अस्वारिष्टाम् / अस्वार्षीत् / अस्वार्टाम् / स्मृ 933 चिन्तायाम् / ह 934 संवरणे / सृ 935 गतौ / क्रादित्वान्नेट् / ससर्थ / समृव / रिङ / स्रियात् / असार्षीत् / असाष्र्टाम् / 2382 / सर्तिशास्त्यतिभ्यश्च / (3-1-56) एभ्यश्च्लेरङ् स्यात्कर्तरि लुङि / इह लुप्तशपा शासिना साहचर्यात 'सर्त्यर्ती' जौहोत्यादिकावेव गृह्यते / तेन भ्वाद्यो ङ् / शीघ्रगतौ तु निषेधे प्राप्ते इत्यन्वयः / आर्धधातुकस्येडित्यादिविधिकाण्डात्प्रागेव 'नेशि कृति' इत्या. दिप्रतिषेधकाण्डारम्भसामर्थ्यात् 'स्वरति' इति विकल्पोरयनेन बाध्यते इत्यर्थः / परमपीत्यादिः प्राप्ते इत्यन्तः शङ्काग्रन्थः / परिहरति / क्रादिनियमान्नित्यमिडिति // प्रकृत्याश्रयः प्रत्ययाश्रयो वा यावान् इनिषेधः स लिटि चेत् तर्हि कादिभ्य एवेत्युक्तत्वादिति भावः / लुटि स्वरिता-स्वर्ता / लुटि स्ये 'स्वरति इति विकल्पनिरस्यति / परत्वादिति // स्वरतु। अस्वरत् / स्वरेत् / स्वर्यादिति // आशीर्लिङि ‘गुणोऽर्तिसंयोगाद्योः' इति गुणः / अस्वारीदिति // ‘स्वरति' इति इटपक्षे अतो लान्तेति वृद्धि. रिति भावः / अस्वार्षीदिति // इडभावे ‘सिचि वृद्धिः' इति सिच वृद्धिभावः / स्मृ चिन्तायामिति // अयमप्यनिट / स्मरति / लिटि 'ऋतश्र' इति कित्यपि गुणः / णलि तु गुणे उपधावृद्धिः / सस्मार / सस्मरतुः / सस्मरुः / ऋदन्तत्वाद्भारद्वाजमतेऽपि क्रादिनियमप्राप्तस्य इट: थलि नित्यनिषेधः / सस्मर्थ। सस्मरथुः / सस्मर। सस्मारसस्मर / सस्मरिव / सस्मरिम। स्मर्ता। लटि स्ये 'ऋद्धनोः' इति इद / स्मरिष्यति / स्मरतु / अस्मरत् / स्मरेत् / आशीर्लिङि 'गुणोऽर्ति' इति गुणः / स्मर्यात् / सिचि वृद्धौ रपरत्वम् / अस्मार्षीत् / अस्मरिष्यत् / ह्व संवरणे इति // अयमपि स्मृधातुवत् / सृ गताविति // ऋदन्तोऽयमनिट् / सरति / लिटि संयोगादित्वाभावात् ऋतश्चेति गुणो न / ससार / सस्रतुः / सस्रुः / क्रादित्वान्नेडिति // सृधातोः कादिस्थत्वादिति भावः / ससथेति // क्रादित्वात्थल्यपि नित्यं निषेध इति भावः / सस्रथुः / सस्र। ससार--ससर। समृव / ससम / इत्यपि ज्ञेयम् / सर्ता / लुटि 'ऋद्धनोः' इति इट् सरिष्यति / सरतु / असरत् / सरेत् / आशीलिंङि संयोगादित्वाभावात् 'गुणोऽर्ति' इति न गुणः / ‘रिङ् शयाग्लिक्षु' इति रिडित्याह। रिङिति / स्त्रियादिति // रीङि प्रकृते रिविधिसामर्थ्यानदीर्घ इति भावः / असार्षीदिति // सिचि वृद्धौ रपरत्वम् / अत्र च्लेरङमाशङ्कितुमाह / सर्ति // च्लिलुङीत्यनुवर्तते / ‘णिश्रिद्रुस्रुभ्यः' इत्यतः कर्तरि चङिति। तदाह / एभ्यः इति // ततश्च प्रकृते असार्षीदित्यत्र अङ् स्यादिति शङ्का सूचिता / ताम्परिहरति / इह लुप्नेत्यादिना // इह अविधी शास्तीत्यनेन लुप्तविकरणः शासिस॒ह्यते इति निर्विवादम् / तस्य विकरणान्तराभावात् / एवञ्च For Private And Personal Use Only
Page #151
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा। 149 'पाघ्राध्मा' (सू 2360) इति शिति धौरादेशः / धावति / ऋ 936 गतिप्रापणयोः / ऋच्छति / 2383 / ऋच्छत्यताम् / (7-4-11) तौदादिकस्य ऋच्छते: ऋधातो: ऋतां च गुणः स्याल्लिटि / णलि प्राग्वदुपधावृद्धिः / आर / आरतुः / आरुः / 2384 / इडत्त्यतिव्ययतीनाम् / (7-2-66) ' अद्' 'क' व्यञ्' एभ्यस्थली नित्यमिट् स्यात् / आरिथ / तत्साहचर्यात् सधातुः ऋधातुश्च जोहोत्यादिको इलुविकरणावेव गृह्यते इत्यर्थः / लुप्तविकरण त्वसाम्यादिति भावः / तेनेति // लुप्तविकरणयोरेव ग्रहणेन भ्वादिगणस्थयोः सूधातुऋधात्वोरङ् नेत्यर्थः / तदेवं मृधातातिसामान्यवृत्तेरुक्तानि रूपाणि / यदि शीघ्रगतौ सृधातुः तदा तस्य विशेषमाह / शीघ्रगतो त्विति / धौरादेश इति // धौशब्दस्य धौरिति प्रथमान्तम् / धौ इत्याकारान्त आदेश इत्यर्थः / 'पाघ्रा' इति सूत्रे सतीति स्तिपा निर्देशः। लुग्विकरणनिर्देशस्तु अविवक्षित इति भावः। 'सर्तेर्वेगितायाङ्गतो धावादेशः' इति वार्तिकमभिप्रे. त्येदम् / धावतीति // शपि सूधातोधौभावे आवादेशः / धावतु / अधावत् / धावेत् / क्र गतिप्रापणयोः॥ अनिट् / 'पाघ्राध्मा' इति शिद्विषये ऋच्छादेशः / तदाह / ऋच्छतीति // ननु ऋ, अतुस् इति स्थिते द्वित्वे उरदत्वे रपरत्वे हलादिशेषे 'अत आदेः' इति दीर्घ आ ऋ अतुस् इति स्थिते 'असंयोगात्' इति कित्त्वादुत्तरखण्डस्य गुणाभावे यणम्बाधित्वा परत्वादाद्गुणे अरतुरिति स्यादित्यतस्तत्र गुणविधानमाह / ऋच्छत्यताम् // 'दयतेर्दिगि लिटि' इत्यतो लिटीति ऋतश्च संयोगादेगुण' इत्यतो गुण इति चानुवर्तते / ऋच्छति ऋ ऋतु एषान्द्वन्द्वाद्वहुवचनम् / बहुवचनादेव ऋकारप्रश्लेषो गम्यते / प्रश्लिप्टेन च ऋकारेण ऋ. धातुरेव गृह्यते / ऋवर्णान्तधातुग्रहणे 'ऋतश्च संयोगादेर्गुणः' इत्यस्य वैयर्थ्यात् / 'ऋच्छगतीन्द्रियप्रळयमूर्तिभावेषु' इति तोदादिकस्य ऋच्छतीति रितपा निर्देशः / भौवादिकस्य धातोस्तु ऋग्रहणेनैव सिद्धः / तदाह / तौदादिकस्य ऋच्छतेरित्यादिना // किदर्थमपीदं सूत्रम् / णलि प्राग्वदिति // 'छ कौटिल्ये' इत्यत्र उक्तया रीत्या कित्सु चरितार्थोऽप्ययङ्गुणः 'अचो णिति' इति वृद्ध्यपेक्षया परत्वात् णल्यपि भवति / ततो रपरत्वे उपधावृद्धिरित्यर्थः / आरेति // ऋधातोलिटि तिपो णलि द्वित्वे उरदत्त्वे हलादिशेषे ‘अत आदेः' इति दीर्घ उत्तरखण्डस्य वृद्धौ रपरत्वे सवर्णदीर्घ इति भावः। आरतुरिति // पूर्ववत् द्वित्वादौ आ ऋ अतुसिति स्थिते कित्त्वाद्गुणनिषेधे प्राप्ते ‘ऋच्छत्यताम्' इति गुणे रपरत्वे सवर्णदीर्घ इति भावः / आरुरित्यप्येवम् / थलि तु क्रादिनियमप्राप्तस्य इट: 'अच. स्तास्वत्' इति निषेधे ऋदन्तत्वात् भारद्वाजमतेऽपि प्राप्ते आह / इडत्यति // पञ्चम्यर्थे षष्टी / 'अचस्तास्वत्' इत्यतः थलीत्यनुवर्तते / “विभाषा सृजिदृशोः' इति पूर्वसूत्राद्विभाषाग्रहणमस्वरितत्वान्नानुवर्तते / तदाह / अद् ऋ इत्यादिना // आर्धधातुकस्य For Private And Personal Use Only
Page #152
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 150 सिद्धान्तकौमुदीसहिता [भ्वादि अर्ता / अरिष्यति / अर्यात् / आर्षीत् / आर्टाम् / गृ 937 घृ 938 सेचने / गरति / जगार। जगर्थ / जरिव / रिङ् / प्रियात् / अगार्षीत् / ध्वृ 939 हूर्च्छने / सु 940 गतौ / सुस्रोथ / सुस्रुव / स्यात् / णिश्रि-' (सू 2312) इति चङ् / लघूपधगुणादन्तरङ्गत्वादुवङ् / असुनुवत् / षु 941 प्रसवैश्वर्ययोः / प्रसवोऽभ्यनुज्ञानम् / सुषोथ-सुषविथ / सुषुविव / सोता / डित्यनुवृत्तौ पुनरिड्ग्रहणन्तु ' न वृद्भ्यश्चतुर्थ्यः' इत्यतो नेत्यनुवृत्तिनिवृत्तये इत्याहुः / आरि थेति // आरथुः / आरुः / आर / आरिव / आरिम / क्रादिनियमादिट् / अरिप्यतीति / / 'ऋद्धनोः' इति इट् / ऋच्छतु / आर्छत् / अर्यादिति // ‘गुणोऽति' इति गुणे रपरत्वमिति भावः / आर्षीदिति // सिचि वृद्धिः / ‘सर्तिशास्यर्तिभ्यश्च' इति अट् तु न / तत्र भौवादिकस्य ऋधातोर्न ग्रहणमित्यनुपदमेवोक्तेरिति भावः / आरिष्यत् / 'ऋद्धनाः स्ये' इति इट। 'गृ घृ सेचने' / अनिटौ / गरतीति // जगार / असंयोगादित्वात् 'ऋतश्च' इति गुणो न। जग्रतुः। जग्रुः / क्रादिनियमेन इटि प्राप्ते अचस्तास्वदिति नेट् / ऋदन्तत्वाद्भारद्वाजमतेऽपि नेट् / तदाह / जगर्थेति // जग्रथुः / जग्र / जगार / जगर / जग्रिवेति // क्रादिनियमादिट् / जग्रिम / गर्ता / गरिष्यति / 'ऋद्धनोः' इति इट् / गरतु / अगरत् / गरेत् / रिङिति॥ आशीर्लिीङ असंयोगादित्वात् ‘गुणोर्ति' इति गुणाभावे ‘रिङ् शयग्लिक्षु' इति रिडित्यर्थः / ग्रियादिति // रीङि प्रकृते रितिधेर्न दीर्घः / अगादिति // सिंचि वृद्धी रपरत्वम् / अगार्टाम् / अगरिष्यत् / 'ऋद्धनोः' इति इट् / घृधातोस्तु भौवादिकस्य घृतं, धर्मः, घृणा, इत्यत्रैव प्रयोगः, नान्यत्रेति 'सृज्वत्कोष्टुः' इति सूत्रे भाष्ये स्पष्टम् / वृहर्छने इति // हूर्छनङ्कुटिलीभवनम् / 'वरति / दध्वार। 'ऋतश्च' इति गुणः। दवरतुः / द वरुः / थलि 'अचस्तास्वत्' इति क्रादिनियमप्राप्त इट् न / ऋदन्तत्वाच्च भारद्वाजमतेऽपि नेट / दध्वर्थ / दश्वरथुः / दध्वर / दध्वार-दश्वर / दवरिव / दध्वरिम। कादिनियमादिद। वर्ता / 'ऋद्धनोः' इति इट्। ध्वरिष्यति / वरतु / अध्वरत् / ध्वरेत् / आशालिडि ‘गुणोऽति' इति गुणः / ध्वर्यात् / अवार्षीत् / अध्वरिष्यत् / 'त्रु गतौ' / अनिट् / स्रवति / सुस्राव / अतुसादौ कित्त्वात् गुणाभावे उवङ् / सुस्रुवतुः / सुनुवुः / क्रादित्वानेट् / तदाह / सुस्रोथेति // सुस्रुवथुः / सुस्रुव / सुस्राव-सुस्रव। सुवेति // क्रादित्वानेट् / सुस्रुमेत्यपि ज्ञेयम् / स्रोता / स्रोष्यति / स्रवतु / अस्रवत् / स्रवेत् / स्यादिति // ‘अकृत्सार्वधातुकयोः' इति दीर्घ इति भावः / लुडि विशेषमाह / णिश्रीति चङिति // 'चडि' इति द्वित्वमित्यपि द्रष्टव्यम् / ननु असुनु अत् इति स्थिते रेफादुत्तरस्य उकारस्य सार्वधातुकार्धधातुकयोरिति गुणस्य चनिमित्तकस्य ङित्त्वानिषेधेऽपि उवङपेक्षया परत्वात् तिपनिमित्तीकृत्य रेफादुकारस्य लघूपधगुणः स्यादित्यत आह / लघूपधगुणादन्तरङ्गत्वादुवङिति // बहिर्भूततिबपेक्षत्वाल्लघूपधगुण: वहिरङ्गः / अन्तर्गतचङपेक्षत्वादुवङन्तरङ्गः / अतः उवडेव भवति / परादन्तरङ्गस्य बलवत्त्वादिति भावः / असुस्रुवदिति // अस्रोष्यत / षु प्रसवेति // अत्र For Private And Personal Use Only
Page #153
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org www.kobairthorg Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा / 2385 / स्तुसुधूभ्यः परस्मैपदेषु / (7-2-72) पभ्य: सिच इट् स्यात्परस्मैपदेषु / असावीत् / पूर्वोत्तराभ्यां त्रिद्भयां साहचर्यात्सुनोतेरेव ग्रहणमिति पक्षे असौषीत् / श्रु 942 श्रवणे / 2386 / श्रुवः शृ च / (3-1-74) श्रुव: " इत्यादेश: स्यात् इनुप्रत्ययश्च / शपोऽपवादः / भोर्डित्त्वाद्धातोर्गुणो न / शृणोति / शृणुतः / ___2387 / हुश्नुवोः सार्वधातुके / (6-4-87) जुहोते: अनुप्रत्ययान्तस्यानेकाचोऽङ्गस्य चासंयोगपूर्वोवर्णस्य यस्यादजादौ सार्वधातुके / उवङोऽपवादः / शृण्वन्ति / शृणोमि / शृण्व:-शृणुवः / प्रसवशब्दस्य गर्भमोचनपरत्वभ्रम वारयति / प्रसवोऽभ्यनुज्ञानमिति // ‘ओं प्रणयेति ब्रह्मा प्रसौति' इत्यादी तथा दर्शनादिति भावः / षोपदेशोऽयम् / शपि उवडम्बाधित्वा परत्वात्सार्वधातुकार्धधातुकयोरिति गुणः / सवति / सुषाव / अतुसादौ / कित्त्वाद्गुणाभावे उवङ् / सुयुवतुः / मुधुवुः / भारद्वाजनियमात्थलि वेट् / तदाह / सुषविथ-सुषोथेति // अकित्त्वाद्गुण इति भावः। सुषुवथुः / सुषुव / सुषाव-सुषव / वमयोस्तु कादिनियमानित्यमिट् / नदाह / सुषुविवेति // कित्त्वाद्गुणाभावे उवङ् / सोतेति // सोष्यति / सवतु / असवत् / सवेत् / मूयात् / लुङि असौषीदिति प्राप्ते / स्तुसुधूभ्यः // ‘इडत्यति' इत्यतः इडित्यनुवर्तते। 'अन्नेः सिचि' इत्यतः सिचीत्यनुवृत्तं षष्ट्या विपरिणम्यते। तदाह / एभ्यःसिचः इति / असावीदिति // सिचि वृद्धौ ‘इट ईटि' इति सिउलोपः। पूर्वोत्तराभ्यामिति // स्तुग्धूभ्यामित्यर्थः / सुनोतेरिति // 'पुञ् अभिषवे' इति इनुविकरणस्येत्यर्थः / असोषी. दिति // इडभावे 'सिचि वृद्धिः' इति भावः / असोष्यत् / श्रु श्रवणे इति // उदन्तोऽयमनिट् / श्रुवः शृ च // " इति लुप्तप्रथमाकम् / चकारेण 'स्वादिम्यः इनुः' इति सूत्रस्थः इनुः समुचीयते / तदाह / श्रुवः " इत्यादेशः स्यात् २नुप्रत्ययश्चेति // शपोऽपवादः इति // अनेन शब्विषये कर्बर्थसार्वधातुक एवास्य प्रवृत्तिः सूचिता / भोर्डित्त्वादिति // सार्वधातुकमपिदित्यनेनेति भावः / शृणोतीति // तिपमाश्रित्य नोर्गुणः / तसादीनां हित्त्वात् श्रोन गुणः / तदाह / शृणुतः इति // शृणु अन्तीति स्थिते अन्तेः ङित्त्वात नोर्गुणनिषेधे सति उवङि प्राप्ते / हुश्नुवोः // नोः प्रत्ययत्वात्तदन्तग्रहणम् / 'इणो यण' इत्यतः यण् इत्यनुवर्तते / 'अचि ३नु' इत्यतः अचीति सार्वधातुकविशेषणत्वात्तदादिविधिः। ‘एरनेकाचः' इति सूत्रं एरितिवर्जमनुवर्तते। ‘ओः मुपि' इत्यतः ओरिति च षष्ठ्यन्तम् / तदाह / जुहोतेरित्यादिना // असंयोगपूर्वस्येति तु उकारस्य विशेषणं नतु इनुविशेषणम् / तेन आप्नुवन्तीत्यत्र यण् न / हुश्नुवोः For Private And Personal Use Only
Page #154
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 152 सिद्धान्तकौमुदीसहिता [भ्वादि शृण्म:-शृणुमः / शुश्रोथ / शुश्रुव / शृणु / शृणवानि / शृणुयात् / श्रूयात् / अश्रौषीत् / ध्रु 943 स्थैर्ये / ध्रवति / अयं कुटादौ गत्यर्थोऽपि / दु 944 दु 945 गतौ / दुदोथ-दुदविथ / दुदुविव / दुद्रोथ / दुद्रुव / ‘णिश्रि-' (सू 2312) इति चङ् / अदुद्रुवत् / जि 946 नि 947 अभिभवे / अभिभवो न्यूनीकरणं न्यूनीभवनं च / आद्ये सकर्मकः / शत्रूञ्जयति / किम् / योयुवति / अत्र युधातोर्यङ्लुकि अदभ्यस्तादिति झेरदादेशे योयु अति इति स्थिते अनेकाजङ्गावयवस्य असंयोगपूर्वस्य उकारस्य यण् न भवति / अत्र भाष्ये 'बहुलं छन्दसि' इत्यनुवृत्तौ 'यडोऽचि च' इति विहितस्य यङ्लुकश्छान्दसत्वात्। 'छन्दम्युभयथा, इत्यार्धधातुकत्वाश्रयणादेव योयुवतीत्यत्र यणभावसिद्धेः हुश्नुग्रहणम्भाषायामपि क्वाचित्यङ्लुकं ज्ञापयतीत्युक्तम् / तथाच भाषायामपि अनेकाचः असंयोगपूर्वकोकारान्ताद्योयुवतीत्यादौ युङ्लुक्सिद्धेः तत्र यणभावार्थ हुश्नुग्रहणमिति फलति / ज्ञापकस्य सामान्यापेक्षत्वादुदाहृतोवर्णान्तादन्यत्रापि क्वीचद्यलुक् सिद्ध्यति / एतदेवाभिप्रेत्य भाष्ये 'हुश्नुग्रहणं ज्ञापयति भाषायामपि यङ्लुक् भवतीत्युक्त्वा किमेतस्य ज्ञापने प्रयोजनं, बेभिदीति चे च्छिदीति इत्यतत्सिद्धम्भवति' इत्युक्तम् / अत्र भिदिच्छिद्योरेव ग्रहणादुदाहृतोकारान्तादन्यत्र भवन् यङ्लुक् आभ्यामेव भवति, नत्वन्यजेत्याहुः / भिदिच्छिद्योग्रहणम्प्रदर्शनमात्रमित्यन्ये / शृण्वन्तीति // शृणुथः / शृणुथेल्यपि ज्ञेयम् / 'लोपश्चास्यान्यतरस्यां म्वोः' इत्यभिप्रेत्याह / शृण्वः इत्यादि // शुश्राव / शुश्रुवतुः / शुश्रुवुः / थलि वमयोश्च क्रादित्वान्नित्यमिनिषेधः / तदाह / शुश्रोथ / शुश्रुवेति // शुश्रुमेत्यपि ज्ञेयम् / श्रोता। श्रोष्यति / शृणोतुशृणुतात् / शृणुताम् / शृण्वन्तु / 'उतश्च प्रत्ययादसंयोगपूर्वात्" इति हेलक मत्वा आह / शृण्विति // शृणुतात् / शृणुतम् / शृणुत। शृणवानीति // आट: पित्त्वेन ङित्त्वाभावाद्गुण इति भावः / 6 स्थैर्ये इति // अनिट् / ध्रवति। दुध्राव / दुध्रुवतुः / दुध्रुवुः / भारद्वाजनियमात्थलि वेट / दुध्रविथ-दुध्रोथ / दुध्रुवथुः / दुध्रुव / दुधावदुध्रव / दुध्रुविव / दुध्रुविम / क्रादिनियमादिट् / धोता / ध्रोष्यति / ध्रवतु / अध्रवत् / ध्रवेत् / धूयात् / अध्रौषीत् / अध्रोष्यत् / दु द्रु गताविति // अनिटौ / दवति / द्रवति / दुदाव। दुदुवतुः। दुदुवुः / दुद्राव / दुद्रुवतुः / दुद्रुवुः / अस्य भारद्वाजनियमात्थलि वेडित्याह / दुदोथ-दुदविथेति // दुदुवथुः / दुदुव। दुदावदुदव / वमयोः कादिनियमादिडित्याह / दुदुविवेति // द्वितीयस्य क्रादित्वात्थलि नित्यं नेट् / तदाह / दुद्रोथेति // दुद्रुवथुः / दुद्रुव / दुद्राव-दुद्रव / वमयोः कादित्वान्नेट / तदाह / दुद्रुवेति // दोता। द्रोता / दोष्यति / द्रोष्यति / दवतु / द्रवतु। अदवत् / अद्रवत् / दवेत् / द्रवेत् / दूयात् / द्रूयात् / अदौपीत् / चङिति // दुधातोरिति भावः / अदुवदिति // चङीति द्वित्वम् / डित्त्वाद्गुणनिषेधे उवाहिति भावः / अदोष्यत् / अद्रोष्यत् / जि नि अभिभवे इति // अनिट् / न्यूनीकरणमिति // नाचीकरणमित्यर्थः / न्यूनीभवनमिति // क्षीणवलीभवनमित्यर्थः / शत्रुञ्जयतीति // नीचीकरोतीत्यर्थः / ननु For Private And Personal Use Only
Page #155
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम] बालमनोरमा / द्वितीये त्वकर्मकः / ‘अद्ध्ययनात्पराजयते' / अद्ध्यतुं ग्लायतीत्यर्थः / विपराभ्यां जे:' (सू 2685) इति तङ् / 'पराजेरसोढः' / (सू 585) इत्यपादानत्वम्। ___ अथ डीडन्ता ङितः / प्मिङ 948 ईपद्धमने / म्मयते / सिप्मिये / सिम्मियिढे / मिप्मियिध्वे / गुङ 949 अव्यक्ते शब्दे / गवते जुगुवे / गाङ् 950 गतौ / गाते / गाते / गाते / इट एन्वे कृते वृद्धिः / गै / लङ इटि / अगे / गेत / गेयाताम। गेग्न। गामीष्ट / 'गाङकुटादिभ्यः-' जिधातोः परस्मैपदित्वात पराजयत इति कथमात्मनेपदमित्यत आह / विपराभ्यामिति // ननु पराजयस्य अद्ध्ययनेन संश्लेषविषयोरभावात् कथम्पराजयम्प्रत्यध्ययनस्यापादानत्वमित्यत आह। पगजेरिति // जयति / लिटि 'सन्लिटार्जेः' इति कुत्वम् / जिगाय / जिग्यतुः। जिग्युः / भारद्वाजनियमात्थलि वेट् / जियिथ-जिगेथ / जिग्यथुः / जिग्य / जिगाव-जिगय / वमयोः कादिनियमादिट् / जिग्यिव / जिग्यिम / जेता। जेष्यति / जयतु / अजयत् / जयेत् / जीयात / अजैपीत / अष्टाम् / अजैपुः / अजैषीः / अजेष्टम् / अजैष्ट / अजैषम / अजैन्य / अजैष्म / अजेयत् / इति धेडादयोऽजन्ताः परस्मैपदिनः / अथ डीङन्ता ङितः इति // 'डीइ विहायसा गती' इत्येतत्पर्यन्ताः द्वित्त्वादात्मनेपदिन इत्यर्थः / प्मिद ईषद्धसने / षोपदेशोऽयम् / स्मयते इति // धात्वादेरिनि पस्य राः / सिप्मिये इति // कित्त्वाद्गुणाभावे इयङ् / आदेशसकारत्वादुत्तरखण्डे सस्य षः / सिध्मियाते। सिम्मियिरे / कादिनियमादिट् / सिध्मियिषे / सिध्मियाथे। 'विभाषेटः' इति मत्वा आह / सिष्मियिढ़े-सिप्मियिध्वे इति // स्मता 1 स्मेष्यते / स्मयताम् / अस्मयत / स्मयेत / स्मेषीष्ट / अस्मेष्ट / अस्मेष्यत / गुङ्. धातुरनिट् / गुण: ओकार: अवादेश इति विशेषः / गावातुरनिट् / गाते इति // लटस्तादेशे शपि सवर्णदीर्घे टेरेत्त्वमिति भावः / आतामि तथैव रूपमाह / गाते इति // गा अ आतामिति स्थिते परत्वात् सवर्णदीधै अतः परस्य दीर्घाकारस्याभावात् 'आतो ङितः' इति इय् न भवति / झावपि तथैव रूपमाह / गाते इति // शपा सह आकारस्य सवर्णदीर्घ 'आत्मनेपदेवनतः' इति झेः अदादेशे टेरेत्वमिति भावः / गासे। गाथे / गावे / लट उत्तमपुरुषैकवचने विशेषमाह / इट इति // गा अ इ इति स्थिते सवर्णदीर्घ सति इट एत्वे कृते ‘वृद्धिरेचि' इति वृद्धा गै इति रूपमित्यर्थः / गावहे / गामहे / लिटि अजादी आलोपः / जगे / जगाते / जगिरे / क्रादिनियमादिट् / जगिषे / जगाथे / जगिश्वे / जगे। जागवहे / जगिमहे / गाता / गास्यते / गाताम् / गाताम् / गाताम् / गास्व / गाथाम् / गाध्वम् / गै / गावहै / गामहै / अगात / अगाताम् / अगात। अगाथाः / अगाथाम् / अगाध्वम् / लङ इटीति // अगा अ इ इति स्थिते टिदादेशत्वाभावादेत्वाभावे सवर्णदीर्घ आद्गुणे अगे इति रूपमित्यर्थः / अगावहि / अगामहि / गेतेति // लिङस्तादेशे शपि गा अ त इति स्थिते सवर्णदीर्घ सीयुटि सलोपे यलोपे 'आद्गुण' इति भावः / गेयातामिति // गा अ आतामिति स्थिते सवर्णदीर्धे 20 For Private And Personal Use Only
Page #156
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 154 सिद्धान्तकौमुदीसहिता [भ्वादि (सू 2461) इति सूत्रे इङादेशस्यैव गाङो ग्रहणं न त्वस्य / तेनाडित्त्वात् 'घुमास्था-' (2462) इतीत्त्वं न। अगास्त / आदादिकोऽयमिति हरदत्तादयः / फले तु न भेदः / कुङ 951 घुङ 952 उङ 953 डुङ 954 शब्दे / अन्ये तु ' उङ् कुङ खुङ् गुङ घुङ कुङः' इत्याहुः / कवते / चुकुवे / घवते / अवते। ऊवे / वार्णादाङ्गं वलीय: (प 56) इत्युवङ्। ततः सवर्णदीर्घः / ओता / ओष्यते। ओपीष्ट / औष्ट / ङवते / झुडुवे / ङोता / च्युङ् 955 ज्युङ् 956 प्रुङ 957 प्लुङ 958 गतौ / सियुटि सलोपे 'आद्गुण' इति भावः। गेरनिति // झस्य रन्भावे गा अ रन् इनि स्थित सवर्णदीर्घ सियुटि सलोपे यलोपे 'आद्गुण' इति भावः / गेथाः / गेयाथाम् / गध्वम् / गेय / गवाह गेमहि / आशीर्लिडि आह / गासीष्टेति // गासीरन / गासीप्टाः / गासीयास्थाम' गासीध्वम् / गासीय / गासीवहि / गासमिहि / ननु गाष्टेित्यादौ -- गाङ्कुटादिभ्योऽणिन्टित्। इति किणद्भिन्नप्रत्ययस्य हित्त्वविधानेन सायुडागमविशिष्टप्रत्ययस्य हित्त्वात् ‘घुमास्थागापाजहातिसां हलि' इति हलादौ विडति विहितमीत्त्वं स्यादित्यत आह / गाङ्कुटादिभ्यः इति सूत्रे इति // इङ इत्यनुवृत्तौ 'गाइ लिटि' इति विहितस्य गाङादेशस्यैव गाङ्कुटादिसूत्रे ग्रहणं, नत्वस्य गाधातोरित्यर्थः / एतच्च ‘गाङ् लिटि' इति सूत्रे भाष्ये स्पष्टम् / तेनेति // गाङ्कुटादिसूत्रे प्रकृतस्य गाधातोरग्रहणेनेत्यर्थः / लुङ्याह / अगास्तेति // अगासाताम / अगासत / अगास्थाः / अगासाथाम् / अगाध्वम् / अगासि / अगास्वहि / अगास्महि / अगास्यत / आदादिकोऽयमिति // ततश्च 'अदिप्रभृतिभ्यः शपः' इति शपो लुगिति भावः। फले तु न भेदः इति // शपो लुकि सति, गाते, इत्याद्येव रूपम् / तस्मिन्नसत्यपि गा अ ते इत्यादौ सवर्णदीर्घ सति तदेव रूपमिति न रूपभेद इत्यर्थः / कुङ् घुङ् उङ् डुङ शब्दे इति // चत्वारोऽपि ङितः / आद्यद्वितीयचतुर्थाः कवर्गप्रथमचतुर्थपञ्चमाद्याः / तृतीयस्तु केवलोवर्णः / अन्ये विति // आद्यः केवलोवर्णो डित् / इतरे तु पञ्च क्रमेण कवर्गाद्याः / तत्र कुद्धातोरुदाहरति / कवते इति // लिटि अजादौ कित्त्वाद्गुणाभावे उवङ् / तदाह / चुकुवे इति // चुकुवाते / चुकुविरे / क्रादिनियमादिट् / चुकुविषे। चुकुवाथे / चुकुविध्वे / चुकुवे। चुकुविवहे / चुकुविमहे / कोता / कोष्यते। कवताम् / अकवत / कवेत / कोषीष्ट / अकोष्ट / अकोध्यत / एवं खवते इत्यादि / उधातोराह / अवते इति / ऊवे इति // उ उ ए इति स्थिते द्वितीयस्य उवर्णस्य उवङि कृते सवर्णदीर्घ इति भावः। ननु उवङः बहिर्भूतप्रत्ययापेक्षतया बहिरङ्गत्वादन्तरङ्गे सवर्णदीर्घ कृते ऊ ए इति स्थिते उवङि उवे इत्येवोचितमित्यत आह / वार्णादिति // ऊवाते / ऊविरे। क्रादिनियमादिट् / अविषे / ऊवाथे। ऊविध्वे। ऊवे / ऊविवहे / ऊविमहे / ओता, ओप्यते इति // आवत / अवेत / ओषीष्ट / औष्ट / औष्यत / इत्यपि ज्ञेयम् / ठुधातोर्लटि, डवते, इति रूपमुक्तम् / सम्प्रति लिटि रूपमाह।जुडुवे इति // 'कुहोश्चुः' इति डकारस्य स्थानिनश्चुभवन स्थानसाम्यस्य For Private And Personal Use Only
Page #157
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा / 155 'क्लुङ' इत्यक / रु 959 गतिरेषणयोः / रेषणं हिंसा / रुरुवे / रवितासे / वृद् 960 अवध्वंसने / धरते / दधे / मेङ् 961 प्रणिदाने / प्रणिदानं, विनिमय: प्रत्यर्पणं च / प्रणिमयते। ‘नेर्गद-' (सू 2285) इति णत्वम / तत्र घुप्रकृतिमाङिति पठित्वा डितो माप्रकृतेरपि ग्रहणस्यप्रत्वात् / देङ 962 रक्षणे / दयते / __2388 / दयतेर्दिगि लिटि / (7-4-9) ‘दिग्यादेशेन द्वित्वबाधनमिष्यते' इति वृत्तिः / दिग्ये / पञ्चस्वभावादाभ्यन्तरप्रयत्नसाम्यस्य पञ्चस्वप्यविशिष्टत्वादल्पप्राणानुनासिक्यसाम्यात् अकारः / प्रथमतृतीयौ तु न भवतः आनुनासिक्याभावात् / च्युडादयोऽप्युवर्णान्ता अनिटः कुधातुवत् ज्ञेयाः। रुङ् गतीति // सेटकोऽयम्। 'ऊदृदन्तैयौतिरुक्ष्णु' इत्यनिट्सु पर्युदासात् / तदाह / रवितासे इति // धृधातुरनिट् / दध्र इति // कित्त्वाद्गुणनिषेधे ऋकारस्य यम्। दध्राते / दधिरे / कादिनियमादिट् / दधिषे / दध्राथे / दध्रिध्वे / दधे / दधिवहे / दधिमहे / धर्ता / लटि स्ये 'ऋद्धनोः' इति इटि धरिष्यते। धरताम् / अधरत। धरेत / आशीर्लिङि सीयुटि 'उश्च' इति कित्त्वान्न गुणः। धृषीष्ट / 'टूस्वादशात्' इति सिचो लुक् / अधृत / अधृषानाम् / अषत / अधरिष्यत / मद् प्रणिदाने / णत्वमिति // प्रणिदानशब्दे प्रणिमयते इत्यत्र च ‘नेर्गद' इति णत्वमित्यर्थः / ननु प्राणमयत इत्यत्र णत्वमिदन्न सम्भवति / शिद्विषये आत्वाभावेन, मारूपाभावात् / तथा प्राणदानशब्देऽपि णत्वं न सम्भवति / तत्र देङः कृतात्वस्य लाक्षणिकदारूपत्वात् / 'गामादाग्रहणेष्वविशेषः' इल्याश्रित्य मोऽपि कृतात्वस्य णत्वविधा ग्रहण तु मानातिमिनोत्योरात्त्वे प्रनिमाता प्रनिमास्यति इत्यत्रापि नर्णत्वापत्तिरित्यत आह / तत्रेति // तत्र 'नेगद' इति णत्वविधौ / घुमेयस्य स्थान घुप्रकृतिमाडिति पठित्वा तत्र प्रकृतिशब्दस्य घुमाप्रकृतिपरत्वमाश्रित्य घौ माइधानी घुमाप्रकृतौ च परत इति पर्यवसानमाश्रित्य माप्रकृतेर्डितो मेधातोः कृतात्वस्यापि ग्रहणस्य भाष्यकृता इष्टत्वात / (अभ्युपगतत्वादित्यर्थः) एवञ्च प्रणिमयते प्राणदानमित्यत्र नाव्याप्तिः / मङः कृतात्वस्य माप्रकृतित्वे सति द्वित्त्वात् / नापि मीनातिमिनोत्योरात्वे प्रनिमाता प्रनिमास्यतीत्यत्र अतिव्याप्तिः / मारूपस्य डित्त्वाभावादिति भावः / एतच्च धुसंज्ञासूत्र भाष्ये स्थितम / ममे / ममाते / ममिरे / क्रादिनियमादिट् / ममिषे / ममाथे / ममिध्वे / ममे / ममिवहे / ममिमहे / माता / मास्यते। मयताम् / अमयत / मयेत / मासीष्ट / अमास्त / अमास्यत / देधातुचत् / दयतेर्दिगि // दिगीति लुप्तप्रथमाकम् / दधातो: दिगि इत्यादेशः स्यालिटीत्यर्थः / ननु लिट एशादौ दिग्यादेशे कृते द्वित्वे सति दिदिग्ये इत्यादि स्यादित्यत आह / दिग्यादेशेनेति // एतच्च भाष्ये स्पष्टम् / वृत्तिरिति // भाष्यस्याप्युपलक्षणम् / क्रादिनियमादिट् / दिग्यिषे / दिग्याथे / दिग्यिध्वे। दिग्ये / For Private And Personal Use Only
Page #158
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 156 सिद्धान्तकौमुदीसहिता [भ्वादि 2389 / स्थाध्वोरिच्च / (1-2-17) अनयोरिदादेश: स्यात् सिञ्च कित्स्यात् / अदित / अदिथा: / अदिपि / श्यैङ् 963 गतौ / श्यायते / शश्ये / प्यैङ् 964 वृद्धौ / प्यायते। पाये / 'याता / त्रैड 965 पालने / त्रायते / तत्रे / पूङ 966 पवने / पवते / पुपुवे / पविता / मूङ 967 बन्धने / मवते / डीङ 968 विहायसा गतौ / डयते / डिङये / डयिता / तृ 969 प्लवनतरणयोः / 2390 / ऋत इद्धातोः (7-1-100) दिग्यिवहे / दिग्यिमहे / दाता / दास्यते / दयताम् / अदयत / दयेत / दासष्टि / लुङि सिचि अदास त इति स्थिते / स्थाध्योरिच // 'असंयोगाछिट्' इत्यतः किदिति ‘हनस्सिच्' इत्यतस्सिजिति चानुवर्तते / तदाह / अनयोरित्यादिना // परस्मैपदेषु नेद प्रवर्तते / तत्र ‘गातिस्था' इति सिचो लुका लुप्तत्वात् / अत एव लिसिचौ' इति सूत्रादात्मनेपदेविति नानुवर्तितम् / व्यावयाभावात / अदितेति // इत्वे ते 'हस्वादहात' इति सिचो लक। त इत्यस्य हित्त्वादिकारस्य न गुणः / आतामादौ तु इत्वे कृतेऽपि सिचो न लुक / झलि परत एव लग्विधेः / सिचः कित्त्वादिकारस्य न गुणः / अदिषाताम् / अदिषत / अदिथाः / अदिपाथाम् / अदिदम् अदिषीति // अदिष्वहि / अदिध्महि / अदास्यत् / इत्यपि ज्ञेयम् / श्यैङ्ग गती // श्यायते इति // शपि आयादेशः / शिद्विषयत्वादात्व नेति भावः / शश्ये इति // एशि आत्वे आतो लोपः / शिश्याते / शिश्यिरे / क्रादिनियमादिट् / शिश्यिषे / शिश्याथे / शिदियध्वे / शिइये / शिश्यिवहे / शिश्यिमहे / श्याता / श्यास्यते / इयायताम् / अइयायत / श्यायेत / श्यासीष्ट / अश्यास्त / अश्यास्यत / प्यैधातुरपि श्यैवत् / डण्येवम् / पूङ् पवने इति // सेट् / ऊदन्तानामनिट्स पर्युदासात् / पवते इति // शपि गुण: अवादेशः / पुपुवे इति // कित्त्वाद्गुणाभावे उवङ् / पुपुवाते। पुपुविरे। पुपुर्विष / पुपुवाथे / पुपुविश्वे / पुपुवे / पुपुविवहे / पुपुविमहे / पविता। पविष्यते / पवताम् / अपवत। पवेत / पविषीष्ट / अपविष्ट / अपविष्यत / मूधातुरप्येवम्। डीङ् विहायसा गताविति // आका. शेन गमने इत्यर्थः / सेडयम् / अनिट्सु डीङः पयुदासात् / डयते इति // शपि ईकारस्य गुणे अयादेश इति भावः / डिडये इति // कित्त्वाद्गुणाभावे ईकारस्य यणिति भावः / डिड्याते / डिज्यिरे। डिड्यिषे। डिड्याथे / डिज्यिध्वे / डिध्ये / डिड्यिवहे / डिडियमहे / डयिता। डयिष्यते / डयताम् / अडयत / डयेत / डयिषीष्ट। डयिषीयास्ताम् / डयिधारन् / डायपीटाः / डयिषायास्थाम् / डयिषाढम्---इयिषध्विम् / डयिषीय / डयिषीवहि / डयिषीमहि / अडयिष्ट। अडयिष्यत / इति स्मिङादयो डाङन्ता डितः। तृधातुः सेट परस्मैपदी / अनिट्सु ऋदन्तपर्युदासात्सेट् / ऋत इद्धातोः // ऋत इति धातोविशेषणम् / तदन्त For Private And Personal Use Only
Page #159
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा / 157 ऋदन्तस्य धातोरङ्गस्य इत्स्यात् / इत्वोत्वाभ्यां गुणवृद्धी विप्रतिषेधेन' (वा 4373) / तरति / 'ऋच्छत्यृताम' (सू 2383) इति गुणः / तृफल- (सू 2301) इत्येत्त्वम् / तेरतुः / तेरुः / 2391 / वृतो वा / (7-2-38) वृबृभ्यामृदन्ताचेटो दी? वा स्यान्न तु लिटि / तरिता-तरीता / * अलिटि' इति किम / तेरिथ / ‘हलि च' (सू 354) इति दीर्घः / तीर्यात् / 2392 / सिचि च परस्मैपदेषु / (7-2-40) अत्र वृत इटो दी? न / अतारिष्टाम् / अथाष्टावनुदात्तेतः / गुप 970 गोपने / तिज 971 निशाने / मान 972 पूजायाम् / बध 973 बन्धने / विधिः / अङ्गस्येत्यधिकृतम् / तदाह / ऋदन्तस्येति // धातोः किम् / मातृणां / तथाच तरति, पिपर्ति, ततार, पपार, इत्यादौ ऋकारस्य परे शपि गुणवृद्धी बाधित्वा अन्तरङ्गत्वात् उत्वं स्यादिति शङ्का प्राप्ता / तां परिहर्तुमाह / इत्वोत्वाभ्यामिति // ल्यब्लोपे पत्रमाद्विवचनम्। 'ऋत इन्द्धातोः' इति इत्त्वं 'उदोष्ठ्यपूर्वस्य' इति उत्वमन्तरङ्गमपि वाधित्वा गुणवृद्धा विप्रतिपेधसूत्रेण परत्वात् स्यातामिति भावः / तरतीति // णलि ततार / अतुसादी कित्त्वाद्गुणनिषेधमाशङ्कयाह / ऋच्छत्यतामिति // ततर् अतुस् इति स्थिते अकारस्य गुणशब्देन भावितत्वात् ‘न शसददवादिगुणानाम्' इति निषेधमाशझ्याह / तफलेति / तेरतुः, तेरुः, इति / / तेरिथ / तेरथुः / तेर / ततार-ततर / तेरिव / तेरिम / वृतो वा // वृ इत्यनयोः समाहारद्वन्द्वात्पञ्चम्येकवचनम् / वृ इति वृऋओग्रहणम् / 'आर्धधातुकस्येत्' इत्यत इडित्यनुवृत्तं षष्ठ्या विपरिणम्यते / ‘ग्रहोऽलिटि दीर्घः' इत्यतः अलिटि दीर्घ इत्यनुवर्तते / तदाह। वृबृजभ्यामित्यादि / तरिता-तरीतेति // इटो दीर्घविकल्पः / गुणे रपरत्वम् / तरिष्यति / तरतु / अतरत् / तरेत् / हलि चेति // आशीलिडि डित्त्वाकारस्य गुणनिषेधे, इत्त्वे, रपरत्वे, 'हलि च' इति दीर्घ तीर्यात इति रूपमित्यर्थः / अतारीत् , अतारिष्टाम् , इत्यादौ 'वृतो वा' इति दीर्घ प्राप्त / सिचि च / अत्रेति // परस्मैपदपरके सिचि बृभ्याम् ऋदन्ताच्च परस्य इटो दीर्घा नेत्यर्थः 'न लिङि' इत्यतो नेत्यनुवर्तते / अतारिटामिति // अतारिषुः / अतारिषम् / अतारिष्व / अतारिष्म / अतरिष्यत् / गुपगोपने इति॥ गोपनं रक्षणम् / तिज निशाने इति / / निशानन्तीक्ष्णीकरणम् / मान पूजायाम् / बध For Private And Personal Use Only
Page #160
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदीसहिता [भ्वादि 2393 / गुप्तिज्किद्यः सन् / (3-1-5) 2394 / मान्बधदान्शान्भ्यो दीर्घश्वाभ्यासस्य / (3-1-6) सूत्रद्वयोक्तेभ्यः सन्स्यात् / मानादीनामाभ्यासस्येकारस्य दीर्घश्च / 'गुपेनिन्दायाम्' (वा 1687) / 'तिजे: श्रमायाम , (वा 1688) / ‘किते. ाधिप्रतीकारे' (वा 1689) 'निग्रहे' अपनयने' नाशने' 'संशये च' 'मानेर्जिज्ञासायाम्' (वा 1692) 'बधेश्चित्तविकारे' (वा 1693) / * दानेरार्जवे' (वा 1694) / 'शानेनिशाने' (वा 1695) / ‘सनाद्यन्ता:-' (सू 2304) इति धातुत्वम् / | 2395 / सन्यङोः / (6-1-9) सन्नन्तस्य यङन्तस्य च प्रथमैकाचो द्वे स्तोऽजादेस्तु द्वितीयस्य / अभ्यासकार्यम् / गुपिप्रभृतयः किद्भिन्ना निन्दाद्यर्थका एवानुदात्तेतः / दानशानौ बन्धने इति // एते चत्वारोऽनुदात्तेत इति स्थितिः / गुप्तिज्किद्भयः / मान्बध // गुप्तिजी इह पठितौ / 'कित निवासे' इत्यनुपदमेव परस्मैपदिषु पठिष्यते / एभ्यस्त्रिभ्यो धातुभ्यः सन्प्रत्ययः स्यादिति प्रथमसूत्रार्थः / मानधातुर्बधधातुश्च इह पठितो। दान खण्डने / शान तेजने इत्यनुपदमेव स्वरितेत्सु पठिष्यते / एभ्यश्रतुभ्यः सन् स्यादिति द्वितीयसूत्रे प्रथमखण्डस्यार्थः / आभ्यासस्येति च्छेदः / अभ्यासस्य विकार: आभ्यासः स च ‘रान्यतः' इति इत्त्वमेव नतु ह्रस्व इति 'गुणो यड्लुकोः' इति सूत्रे भाष्ये स्पष्टम् / ततश्र मान्बधदान्शानामभ्यासावयवस्य इकारस्य सन्सन्नियोगशिष्टा दीर्घश्च स्यादिति द्वितीयसूत्रे द्वितीयखण्डस्यार्थः इत्यभिप्रेत्य सूत्रद्वयस्य फलितमर्थमाह / सूत्रद्वयेति // अथ उक्तसनो वृत्तिकृतायुपनिवद्धान अर्थविशेषानाह / गुपोर्नन्दायामित्यादिना शानेर्निशाने इत्यन्तेन // अब गोपनाद्यर्थकानां निन्दादौ वृत्तिस्त्वर्थनिर्देशस्योपलक्षणत्वाद्बोट्या / जिज्ञासाशब्देन जिज्ञासाप्रयोज्या विचारो लक्ष्यते। मानेर्विचारे इत्येव वृत्तिकृत् / सन्नन्तस्य धातुकार्यप्राप्तयर्थमाह / सनाद्यन्ताः इति / सन्यडोः // अवयवषष्ठ्येषा / प्रत्ययत्वात्तदन्तग्रहणम् / 'एकाचो द्वे प्रथमस्य' इति 'अजादेर्दितीयस्य' इति चाधिकृतम् / तदाह / सन्नन्तस्येत्यादिना॥ सनि यडि च परे इति तु न व्याख्येयम् / तथा सति प्रतिपूर्वादिणः सनि अटधातोर्यङि च प्रतीषिषति, अटाट्यते, इत्यत्र प्रत्ययसहितस्य द्वित्वानापत्तेः / अभ्यासकार्यमिति // हलादिशेषादिकमित्यर्थः / गुपिप्रभृतयः इति // कितधातुभिन्नाः गुप्तिजमानबधाश्चत्वारः गुपेनिन्दायामित्यादिनिबद्धनिन्दाद्यर्थका एव अनुदात्तेतः सन्भाज इत्यर्थः / कितधातुस्तु परस्मैपदिषु पठिष्यमाणत्वादनुदात्तेदेव सन् व्याधिप्रतीकारादिपञ्चस्वेवार्थेषु सन्भागिति भावः / दानशानौ त्विति // दान खण्डने, शान तेजने, इति धातू स्वरितेतावेव सन्तौ आजवे निशाने चार्थे सन्माजावित्यर्थः / तयोरनुपदमेव HHHHHHHTHE For Private And Personal Use Only
Page #161
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा / 159 तु स्वरितेतौ / एते नित्यं सन्नन्ताः / अर्थान्तरेषु त्वननुबन्धकाश्चुरादयः / अनुबन्धस्य केवलेऽचरितार्थत्वात्सन्नन्तात्तङ् / धातोरित्यविहितत्वात्सनोऽत्र नार्धधातुकत्वम् / तेनेड्गुणौ न / जुगुप्सते / जुगुप्साञ्चक्रे / तितिक्षते / मीमांसते / भष्भावः / चत्वम् / बीभत्सते / रभ 974 राभस्ये / आरभते / स्वरितेत्सु पाठादिति भावः / एते नित्यं सन्नन्ता इति // एते गुप्तिजादयः सप्त धातवः गुपेनिन्दायामित्यादिनिबद्धेवर्थेषु नित्यं सन्नन्ताः / निन्दाद्यर्थकत्वे सनं विना एषाम्प्रयोगो नास्तीत्यर्थः / अर्थान्तरेषु त्विति // निन्दादिभ्योऽन्येषु धातुपाठनिर्दिष्टेषु तदन्येषु चार्थेषु अनुदात्तानुबन्धरहिता स्सन्तश्चौरादिका एव भवन्ति, न तु भौवादिका इत्यर्थः / चुरादिष्वेतेषामनुदात्तानुबन्धकत्वे अनुबन्धकरणस्य केवलेष्वचरितार्थतया ण्यन्तात्कर्तृगेऽपि फले तङ् स्यादिति भावः / नन्वेव सति भ्वादिगणे गुपादेरनुदात्तानुबन्धकरणं व्यर्थम् / उक्तरील्या गोपनाद्यर्थकानामेषामनुवन्धरहितचौरादिकत्वनियमेन निन्दाद्यर्थेषु सन्नन्तनियमेन च ततोऽन्यत्र प्रयोगाभावादित्यत आह / अनुबन्धस्येति // गुपादिषु केवलेष्वनुबन्धनिर्देशस्य निष्फलतया अनुबन्धनिर्देशस्य सन्नन्तार्थत्वं विज्ञायत इति कृत्वा सन्नन्तात्तङित्यर्थः / नचैवमपि भ्वादिगणे एषाङ्गोपनाद्यर्थनिर्देशो व्यर्थ एवेति वाच्यम् / भ्वादौ तदर्थनिर्देशस्य अपाणिनीयत्वादिति भावः / तदुक्तम्भाष्ये / 'गुपादिष्वनुबन्धकरणसामर्थ्यात्सन्नन्तादात्मनेपदम्' इति / अत्र सनन्तादात्मनेपदमित्युक्त्या केवलानामेषां शब्विकरणानां नास्ति प्रयोग इति सूचितम् / तथा चुरादिष्वेषामनुदात्तानुबन्धराहित्यमित्यपि सूचितम् / अन्यथा अनुबन्धकरणस्य केवलेष्वचरितार्थत्वात् सन्नन्तादिव ण्यन्तादपि कर्तृगे फले आत्मनेपदार्थत्वापातात्सन्नन्तादात्मनेपदामत्युक्तिरसङ्गता स्यादित्यन्यत्र विस्तरः / धातोरितीति // 'आर्धधातुकं शेषः' इत्यत्र धातोर्विहितः प्रत्यय इति विहितविशेषणाश्रयणात् सनश्चास्य धात्वधिकारविहितत्वाभावानार्धधातुकत्वमित्यर्थः / तेनेति // सन आर्धधातुकत्वाभावेनेत्यर्थः / जुगुप्सते इति // निन्दतीत्यर्थः / गुपेः सनि अनार्धधातुकत्वादिगुणयोरभावे 'सन्यङोः' इति द्वित्वे हलादिशेष अभ्यासकुत्वे जश्त्वे इति भावः / जुगुप्साञ्चक्रे इति // कास्प्रत्ययादित्याम् / जुगुप्सिता / जुगुप्सिष्यते / जुगुप्सताम् / अजुगुप्सत / जुगुप्सेत / जुगुप्सिषीष्ट / अजुगुप्सिष्ट / अजुगुप्सिष्यत। तितिक्षते इति // तीक्ष्णीकरोतीत्यर्थः / तिजेः सनि द्वित्वादि / जस्य कुत्वेन ग: तस्य चर्वेन कः सस्य षत्वमिति विशेषः / मीमांसते इति // विचारयतीत्यर्थः / मान्धातोः सनि द्वित्वे हलादिशेषे अभ्थासहस्वे 'सन्यतः' इति इत्त्वे मान्बधेत्यभ्यासदीर्घ, नश्चेत्यनुस्वारे, मीमांसधातोलडादीति भावः / बध. धातोः सनि विशेषमाह / भष्भावः इति // बकारस्य भकार इत्यर्थः / चर्वमिति // धस्य तकार इत्यर्थः / तथाच भत्सेति सन्नन्तं सम्पन्नम् / बीभत्सते इति // भत्वचर्वयोरसिद्धत्वात् वध् इत्यस्य द्वित्वे हलादिशेषे 'सन्यतः' इति इत्त्वे 'मान्बध' इति दीर्घ बीभत्सधातोलडादीति भावः / तदेवनुपादिषु सप्तसु सन्नन्तेषु अत्र क्रमे धातुपाठे निबद्धाश्चत्वार उदाहृताः / कितमानशानधातवस्तु अनुपदमेव धातुपाठक्रमे पटिष्यमाणास्तत्रतत्रोदाहरिष्यन्ते / रभ For Private And Personal Use Only
Page #162
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 160 सिद्धान्तकौमुदीसहिता [भ्वादि आरेभे। रब्धा। रप्स्यते / डु लभः 975 प्राप्तौ / लभते / वञ्ज 976 परिष्वङ्गे / 2396 / दंशसञ्जस्वञ्जां शपि / (6-4-25) 2397 / रञ्जेश्च / (6-4-26) / एषां शपि नलोपः / स्वजते / परिष्वजते / श्रन्थिग्रन्थिदम्भिवजीनां लिट: कित्त्वं वा' इति व्याकरणान्तरम / 'देभतुः' 'सस्वजे' इति भाष्योदाहरणादेकदेशानुमत्या इहाप्याश्रीयते / ‘सदेः परस्य लिटि' (सू 2361) इति सूत्रे ‘स्व जेरुपसंख्यानम्' (वा 4968) / अतोऽभ्यासात्परस्य षत्वं न। परिषस्वजे-परिषस्वजे / सस्वजिषे-सस्वञ्जिषे / स्वता / स्वङ्कयते। स्वजेत / स्ववीष्ट / अस्वङ्क / प्रत्यध्वत / 'प्राक्सितात-' (सू 2276) राभस्ये इति // अनिडयम् / राभस्यं शीघ्रीभावः / आङ्पूर्वकस्तु प्रारम्भार्थकः / तदाह / आरभते इति / रब्धेति // झषस्तथोरिति धत्वम् / भस्य जश्त्वम् / रप्स्यत इति // रभताम् / अरभत / रभेत / रप्सीष्ट / अरब्ध / अरप्स्यत / डु लभषिति // डुरित् / षकारश्च ‘ड्वितः क्रि: / षिद्भिदादिभ्योऽङ्' इति प्रयोजनम् / अनिट् / रभधातुवद्रूपाणि / वा परिष्वङ्गे इति // षोपदेशोऽयमनिट / दंशसञ्ज / रञ्जुश्च // व्याख्यासौकर्याय सूत्रद्वयमुपात्तम् / नलोपः इति // नकारस्य लोप इत्यदः। 'श्नानलोपः' इत्यतः तदनुवृत्तेरिति भावः / परिष्वजो इति // 'परिनिविभ्यः' इति षत्वमिति भावः / संयोगात्परत्वाल्लिट: कित्त्वे अप्राप्ते आह / श्रन्थीति // व्याकरणान्तरमिदं पाणिनीयैरपि ग्राह्यमित्याह / देभतुरिति / / 'अत एकहलमद्ध्ये' इति सूत्रभाष्ये देभतुः इत्युदाहृतम् / 'सदेः परस्य लिटि' इति सूत्रभाष्ये सस्वजे इत्युदाहृतम् / ततश्च एकदेशानुमत्या श्रन्थिग्रन्थीत्यादिवाक्यं कृत्स्नं व्याकरणान्तरस्थम्भाष्यानुमतमिति विज्ञायते इत्यर्थः / सदेरिति // 'सदेः परस्य लिटि' इति षत्वनिषेधसूत्रे स्वञ्जरपि ग्रहणमित्यर्थः / ततश्च स्वदिस्वञ्ज्योरुत्तरखण्डस्य सस्य षत्वन्न स्यादिति लब्धम् / तदाह / अतोऽभ्यासात् परस्येति / परिषस्वजे / परिषस्वछु इति // परस्येत्युक्तरुत्तखण्डस्यैव षत्वनिषेधः, नत्वभ्यासस्य कित्त्वपक्षे नलोपः / सस्वजाते / सस्वजाते / सस्वञ्जिरे। सस्वजिरे। क्रादिनियमादिडित्याह / सस्वजिषे / सस्वञ्जिषे / इति // सस्वञ्जाथे। सस्वजाथे। सस्वञ्जिवे। सस्वजिवे / सस्वजे। सस्वजे। सस्वन्निवहे। सस्वजिवहे / सस्वञ्चिमहे / सस्वजिमहे / स्वतेति // स्वञ् ज् ता इति स्थिते जकारस्य कुत्वेन गकारे सति श्चुत्वसम्पन्नञकारस्य निवृत्तौ नकारस्यानुस्वारे तस्य परसवर्णेन डकारे गकारस्य चर्वे रूपम् / एवमप्रेऽपि / स्वजेतेति // 'दशसञ्ज' इति शपि नलोप इति भावः। स्वश्रीष्ट / अस्वतेति // लुडि अस्वञ् ज् स् त इति स्थिते "झलो झलि" इति सिज्लोपे कुत्वादि पूर्ववदिति भावः / ननु प्रत्यष्वङ्क्त इत्यत्र अटा व्यवधानादुपसर्गस्थादिणः परत्वाभावात् कथम् 'उपसर्गात्सुनोति' इति षत्वमित्यत आह / प्राक् सितादिति / परि For Private And Personal Use Only
Page #163
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् ] बालमनोरमा। 161 इति षत्वम् / परिनिविभ्यस्तु * सिवादीनां वा-' (सू 2359) इति विकल्प: / एतदर्थमेव 'उपसर्गात्सुनोति-' (सू 2270) इत्येव सिद्धे स्तुस्वञ्ज्योः ‘परिनिवि-' (सू 2275) इत्यत्र पुनरुपादानम् / पर्यष्वक्तपर्यस्वत / ‘हद 977 पुरीपोत्सर्गे। हदते। जहदे / हत्ता / हत्स्यते / हदेत / हत्सीष्ट / अहत्त / ____ अथ परस्मैपदिनः / जि विदा 978 अव्यक्ते शब्दे / स्कन्दिर 979 गतिशोषणयोः / चस्कन्दिथ-चस्कन्थ / स्कन्ता। स्कन्त्स्यति / नलोपः / स्कद्यात् / इरित्त्वादडा / अस्कदत्-अस्कान्त्सीत् / अस्कान्ताम् / अस्कान्त्सुः / निविभ्यस्त्विति // परस्य स्वन्नेः इति शेषः। ननु परिनिविभ्यः परस्यापि स्वने: 'परिनिविभ्यः सेवसितसयसिवुसहसुट्स्तुस्वनाम्' इति नित्यमेव षत्वमुचितम् / 'प्राक्सितादड्व्यवायेऽपि' इत्यटा व्यवधानेऽपि तस्य प्रवृत्तेः। 'उपसर्गात्सुनोति' इत्यादिसूत्रे स्वञ्जः पठितत्वेन स्वक्षेः 'प्राक्सितात्' इति सूत्रविषयत्वादित्यत आह। एतदर्थमेवेत्यादि। परिनिवि इति॥ नित्यषत्वविधौ स्वञ्जिरप्युपात्तः ततः 'उपसर्गात्सुनोति' इत्येव तस्य षत्वे सिद्धे पुनरुपादानं 'सिवादीनां वाव्यवायेऽ पि' इत्युत्तरसूत्रे षत्वविकल्पविधौ अनुवृत्त्यर्थमेव सम्पद्यते / परिनिविभ्यः परस्य स्व : 'सिवादीनां वा' इति षत्वविकल्पार्थ पूर्वसूत्रे 'परिनिविभ्यः सेव' इत्यत्र खजिग्रहणमिति पर्यवस्थतीत्यर्थः / हद पुरीषोत्सर्गे // अनिडयम् / क्रादिनियमादिट् / जहदिषे / जहदिवे / जहदिवहे / जहदिमहे / हत्तेति // लुटि तासि दस्य चर्वम् / अहत्तेति // 'झलो झलि' इति सिज्लोपः / गुपादयोऽष्टावनुदात्तेतो गताः / अथ परस्मैपदिनः इति // 'कित निवासे' इत्यन्ता इति शेषः / जि विदेति // नि: आकारश्च इत् / सेट् / स्वेदति / सिष्वेद / सिविदतुः / सिविदुः / सिष्वेदिथ / सिविदथुः / सिष्विद / सिध्वेद / सिध्विदिव / सिष्विदिम / खेदिता / स्वेदिष्यति / स्वेदतु / अस्वेदत् / स्वेदेत् / स्विद्यात् / अस्वेदीत् / अस्वेदिष्यत् / स्कन्दिरिरित् / अनिट् / भारद्वाजनियमात्थलि वेडित्याह / चस्कन्दिथ-चस्कन्थेति // अनिट्पक्षे चस्कन् द् थ इति स्थिते 'खरि च' इति दकारस्य तकारः। चस्कन्दिव / चस्कन्दिम / स्कन्तेति // लुटि तासि चत्वेन दस्य तः / स्कन्त्स्यतीति // स्ये दस्य चव॑म् / स्कन्दतु / अस्कन्दत् / स्कन्देत् / आशीर्लिङि विशेषमाह / नलोपः इति // इरः समुदायस्य इत्त्वेन धातोरनिदित्त्वादाशीर्लिङि नकारस्य लोप इत्यर्थः / अस्कददिति // लुङि अडि सति ङित्त्वान्नलोप इति भावः / अङभावे आह / अस्कान्त्सीदिति // अनेकहल्व्यवधानेऽपि हलन्तलक्षणा वृद्धिः प्रवर्तत इति निरूपितमक्षुधातौ / अतोऽत्र वृद्धौ दस्य चर्वेन तः / अस्कान्तामिति // हलन्तलक्षणवृद्धौ ‘झलो झलि' इति सिज्लोपे दस्य चर्वम् / अस्का. न्सुरिति // उसि सिथि वृद्धौ दस्य चर्वम् / अस्कान्सीः / अस्कान्तम् / अस्कान्त / 21 For Private And Personal Use Only
Page #164
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 162 सिद्धान्तकौमुदीसहिता [भ्वादि 2398 / वेः स्कन्देरनिष्ठायाम् / (8-3-73) षत्वं वा स्यात् / कृत्येवेदम् अनिष्ठायाम' इति पर्युदासात / विष्कन्ता–विस्कन्ता / निष्ठायां तु विस्कन्नः / 2399 / परेश्च / (8-3-74) अस्मात्परस्य स्कन्दे: सस्य षो वा / योगविभागात ‘अनिष्ठायाम' इति न संबद्ध्यते / परिष्कन्दति-परिस्कन्दति / परिस्कन्नः-परिष्कण्णः / पत्वपक्षे णत्वम् / नच पदद्वयाश्रयतया बहिरङ्गत्वात्षत्वस्यासिद्धत्वम् / 'धातूपसर्गयोः कार्यमन्तरङ्गम्' इत्यभ्युपगमात् / 'पूर्व धातुरुपसर्गेण युज्यते ततः साधनेन' इति भाष्यम् / पूर्व साधनेन-' इति मतान्तरे तु न णत्वम् / अस्कान्त्सम् / अस्कान्त्स्व / अस्कान्त्स्म / अस्कन्त्स्यत् / वेः स्कन्देः॥ शेषपूरणेन सूत्रं व्याचष्टे / षत्वं वा स्यादिति // 'अपदान्तस्य मूर्धन्यः' इत्यधिकारात् ‘सिवादीनां वा' इत्यतो वेत्यनुवृत्तेश्चेति भावः / वेः परस्य स्कन्देः सस्य षो वा स्यात् / अनिष्ठायां परत इति फलितम् / ननु विस्कन्दतीत्यादौ कुतो न षत्वविकल्प इत्यत आह / कृत्येवेदमिति // पर्युदासस्य अब्राह्मणमानयेत्यादाविव सजातीयापेक्षत्वादिति भावः। विष्कन्ता-विस्कन्तेति // तृचि रूपे / अषोपदेशत्वादप्राप्ते विभाषेयम् / परेश्च // ननु विपरिभ्यां स्कन्देरनिष्ठायामित्येव सिद्ध सूत्रभेदो व्यर्थ इत्यत आह / योगेति / षत्वपक्षे इति // परिष्कन् द् त इति स्थिते अनिदितामिति नलोपे 'रदाभ्याम्' इति निष्ठातकारस्य तत्पूर्वदकारस्य च नत्वे सस्यानेन षत्वपक्षे प्रथमनकारस्य रेफापेक्षया भिन्नपदस्थत्वेऽपि षात् परत्वात् णत्वे द्वितीयनकारस्य टुत्वेन णत्वे परिष्कण्ण इति रूपमित्यर्थः। ननु दकारस्थानिकनकारस्य षकारनिमित्तकं णत्वमन्तरङ्गम्। निमित्तनिमित्तिनोरेकपदस्थत्वात् / षत्वन्तु परि इत्युपसर्गात्मकपदान्तरस्थमिणनिमित्तीकृत्य प्रवर्तमानम्बहिरङ्गम् / ततश्च णत्वे कर्तव्ये बहिरङ्गस्य षत्वस्यासिद्धत्वात् षात्परत्वाभावात् कथं णत्वमित्याशङ्कय निराकरोति / नचेति // पदद्वयाश्रयतया बहिरङ्गस्य षत्वस्यासिद्धत्वं यत्प्रसतन्तन्न शङ्कयमित्यन्वयः / कुत इत्यत आह / धातूपसर्गयोरिति / पूर्व धातुरिति // धातुरुपसर्गेण सह युज्यते सन्ध्यादिकार्य लभते / पश्चात् धातूपसर्गकार्यप्रवृत्त्यनन्तरं साधनेन युज्यते / साधनशब्दः कारकवाची / इह तु तद्वाचकः प्रत्ययो लक्ष्यते / प्रत्ययेनेति यावत् / इदञ्च 'सम्प्रसारणाच' इत्यादिसूत्रभाष्ये स्पष्टम् / तदाह / भाष्यमिति / मतान्तरे त्विति // 'पूर्व धातुः साधनेन युज्यते पश्चादुपसर्गेण' इति पक्षे तु षत्वस्य बहिरङ्गतया असिद्धत्वान्न णत्वमित्यर्थः / यभधातुरनिट् / यभति / ययाभ / येभतुः / थलि तु भारद्वाजनियमादिट्पक्षे पित्त्वेना For Private And Personal Use Only
Page #165
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा / यभ 980 मैथुने / येभिथ-ययब्ध / यब्धा / यप्स्यति / अयाप्सीत् / णम 981 प्रह्वत्वे शब्दे च / नेमिथ-ननन्थ / नन्ता / अनंसीत् / अनंसिष्टाम् / गम्ल 982 सृष्ल 983 गतौ / 2400 / इषुगमियमां छः / (7-3-77) एषां छ: स्याच्छिति परे / गच्छति / जगाम / जग्मतुः / जग्मुः / जगमिथ-जगन्थ / गन्ता / 2401 / गमेरिट परस्मैपदेषु / (7-2-58) कित्त्वेऽपि 'थलि च सेटि' इत्येत्त्वाभ्यासलोपं मत्वा आह / यभिथेति / ययब्धेति // थलि इडभावपक्षे पित्त्वेनाकित्त्वादेत्त्वाभ्यासलोपाभावे ययम् थ इति स्थिते ‘झषस्तथोः' इति थस्य धत्वे भस्य जश्त्वेन बकार इति भावः / येभथुः / येभ / ययाभ-ययभ / क्रादिनियमादिट् / यभिव / येभिम / यब्धेति // लुटि तासि तकारस्य 'झषस्तथोः' इति धत्वम् / भकारस्य जश्त्वेन बकार इति भावः / यप्स्यतीति // स्ये भस्य चर्वेन पः / यभतु / अयभत् / यभेत् / यभ्यात् / अयाप्सीदिति // हलन्तलक्षणा वृद्धिरिति भावः / अयप्स्यत् / णम प्रवत्वे इति // अनिडयं णोपदेशश्च / केचित्त्विमं धातुमुदितं पठन्ति / तत्तु प्रामादिकम् / तथा सति 'उदितो वा' इति त्वायामिड्किल्पस्य 'यस्य विभाषा' इति निष्टायामिटश्चापत्तेः / नमति / ननाम / नेमतुः / नेमुः / थलि तु भारद्वाजनियमादिट्पक्षे पित्त्वेनाकित्त्वेऽपि 'थलि च सेटि' इत्येत्त्वाभ्यासलोपं मत्वा आह। नेमिथ-ननन्थेति // इडभावपक्षे पित्वेन अकित्त्वादेत्त्वाभ्यासलोपाभावे रूपम् / नेमथुः / नेम / ननाम-ननम / नेमिव / नेमिम / क्रादिनियमादिट् / नन्तति // मस्यानुस्वारपरसवर्णों / नस्यति / नमतु / अनमत् / नमेत् / नम्यात् / अनंसीदिति // 'यमरम' इति सगिति भावः / अनस्यत् / गम्ल सप्ल. गताविति // अनिटौ / सृपिरषोपदेशः / इषुगमि / शितीति // ‘ष्टिवुक्लमुचमाम्' इत्यतः तदनुवृत्तेरिति भावः / उदिनिर्देशात्तौदादिकस्य इषेर्ग्रहणम् / अत्राचीत्यनुवर्त्य अजादौ शितीत्याश्रित्य इष्यति, इष्णाति, इत्यत्र छत्वं नेति भाष्ये स्थितम्। एवञ्चात्र सूत्रे तुदादौ च उदित्पाठः अनार्ष इति शब्देन्दुशेखरे स्थितम् / गच्छतीति // शपि मकारस्य छकारः। जग्मतुरिति // 'गमहन' इत्युपधालोपः / एवं जग्मुः / भारद्वाजनियमात्थलि वेट् / तदाह / जगमिथ-जगन्थेति // जग्मथुः। जग्म / जगाम-जगम / जग्मिव / जग्मिम / क्रादिनियमादिट् / गमेरिट् // गमेरिति पञ्चमी 'सेऽसिचि' इत्यतः से इत्यनुवृत्तेन आर्धधातुकस्येत्यनुवृत्तं विशेष्यते / For Private And Personal Use Only
Page #166
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 164 सिद्धान्तकौमुदीसहिता [भ्वादि गमेः परस्य सकारादेरिट् स्यात् / गमिष्यति / लदित्त्वादङ् / 'अनङि' इति पर्युदासान्नोपधालोपः / अगमत् / सर्पति / ससर्प / 2402 / अनुदात्तस्य चर्दुपधस्यान्यतरस्याम् / (6-1-59) उपदेशेऽनुदात्तो य अदुपधस्तस्याम्वा स्याज्झलादावकिति परे / स्रता-सप्त / स्रप्स्यति-सय॑ति / अमृपत् / यम 984 उपरमे / यच्छति / येमिथ-ययन्थ / यन्ता / अयंसीत् / अयंसिष्टाम / तप 985 सन्तापे / तप्ता। अताप्सीत् / __ 2403 / निसस्तपतावनासेवने / (8-3-102) तदादिविधिः। तदाह / गमेः परस्येत्यादिना // परस्मैपदेष्वित्यस्य आत्मनेपदाभावे इत्यर्थः / एवञ्च सनिगमिषितेति तृचि इट् सिद्ध्यति / गमिष्यतीति // गच्छतु / अगच्छत् / गच्छेत् / गम्यात् / लुङि विशेषमाह / लदित्त्वादङिति // ‘गमहन' इति उपधालोपो ने. त्याह / अनङि इति पर्युदासादिति / अगमदिति॥ लङि अगामिष्यत् / सर्पतीति // शपि ऋकारस्य लघूपधगुणः रपरत्वम् / ससपेति // समृपतुः / सम्पुः / थलि कादिनियमान्नित्यमिट् / अजन्तत्वाभावादकारान्तत्वाभावाच्च नेनिषेधः / ससर्पिथ / ससृपथुः / समृप / ससर्प / ससृपिव / समृपिम / लुटि तासि लघूपधगुणे रपरे प्राप्ते / अनुदात्तस्य च // ‘सृजिदृशोः' इत्यतः झल्यमकितीति 'आदेच' इत्यतः उपदेशे इति चानुवर्तते / तदाह / उपदेशेऽनुदात्तः इत्यादिना // मित्त्वादन्त्यादचः परः / उपदेशे किम् / स्रातुम् / तुमुनि परे नित्यादिनित्यम्' इत्युदात्तोऽयम् / अथापि उपदेशे अनुदात्तत्वादम्भवत्येव / अकितीति किम् / क्तप्रत्यये सृप्तः / स्रप्तेति // सप्धातोर्लटि तासि अमागमे ऋकारस्य यणिति भावः / सप्तति // अमभावे लघूपधगुणे रपरत्वमिति भावः / एवं स्रप्स्यतिसर्व्यतीति / सर्पतु / असर्पत् / सर्पेत् / सृप्यात् / असृपदिति // लुदित्वात् च्लेरङि सति कित्त्वान्न गुण इति भावः। अस्रप्स्यत्-असय॑त् / यम उपरमे इति // उपरमो विरमणम् / अनिडयम् / यच्छतीति // ‘इघुगमियमाम् ' इति शपि छः / ययाम / येमतुः / येमुः / थलि भारद्वाजनियमादिट्पक्षे 'थलि च सेटि' इत्येत्त्वाभ्यासलोपौ / तदाह / येमिथययन्थेति // इडभावे रूपम् / येमथुः / येम / ययाम-ययम। येमिव / येमिम। क्रादिनियमादिट् / यन्तेति // यस्यति / यच्छतु / अयच्छत् / यच्छेत् / यम्यात् / अयंसीत् / यमरमेति इटसको। इट ईटीति सिज्लोपः / नेटीति निषेधान्न हलन्तलक्षणा वृद्धिरिति भावः / अयंस्यत् / तप सन्तापे इति // अनिडयम् / तपति / तताप / तेपतुः / तेपुः / तेपिथततप्थ / तेपथुः / तेप। तताप-ततप / तेपिव / तेपिम। तप्तेति // तप्स्यति / तपतु / अतपत् / तपेत् / तप्यात् / अताप्सीदिति // हलन्तलक्षणा वृद्धिरिति भावः / अतप्स्यत् / निसस्तपतौ // शेषपूरणेन सूत्रं व्याचष्टे / षः स्यादिति // अपदान्तस्य मूर्धन्य For Private And Personal Use Only
Page #167
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा / 165 ष: स्यात् / आसेवनं पौनःपुन्यं ततोऽन्यस्मिन्विषये / निष्टपति / त्यज 986 हानौ / तत्यजिथ-तत्यक्थ / त्यक्ता / अत्याक्षीत् / षञ्ज 987 सङ्गे / 'दशसञ्जस्वञ्जा शपि' (सू 2396) इति नलोपः / सजति / सङ्का / दृशिर् 988 प्रेक्षणे / पश्यति / 2404 / विभाषा सृजिदृशोः / (7-2-65) आभ्यां थल इड्वा / 2405 / सृजिदृशोझल्यमकिति / (6-1-58) इत्यधिकारादिति भावः / निसः सकारस्य षः स्यात् तपधातो परत इति यावत् / अनासेवने इत्येतद्याख्यास्यन् आसेवनशब्दं व्याचष्टे / पौनःपुन्यमिति // आसेवनशब्देन सह नञ्समास इत्यभिप्रेत्याह / ततोऽन्यस्मिन्विषये इति // आदेशत्वाभावात् पदान्तत्वाच्च अप्राप्ते वचनम् / निष्टपतीति // निष्कृष्य तपतीत्यर्थः। निसस्सस्य षत्वे तकारस्य टुत्वेन ट: / आसेवने तु न षत्वम् / त्यज हानाविति // हानिरुत्सर्गः / अयमनिट् / त्यजति / तत्याज / तत्यजतुः / तत्यजुः / संयुक्तहल्मध्यस्थत्वादेत्त्वाभ्यासलोपौ न / थलि तु भारद्वाजनियमाद्वेट् / तदाह / तत्यजिथ-तत्यक्थेति // इडभावे चोः कुरिति भावः / त्यक्तेति // त्यक्ष्यति / त्यजतु / अत्यजत् / त्यजेत् / त्यज्यात् / अत्याक्षीदिति // हलन्तलक्षणा वृद्धिरिति भावः / अत्यक्ष्यत् / षञ्ज सङ्गे इति // षोपदेशोऽयमनिट् नोपधश्च / कृतानुस्वारपरसवर्णस्य निर्देशः। शपः पित्त्वेन कित्त्वाभावात्तस्मिन्परे ‘अनिदिताम्' इति नलोपाप्रवृत्तेराह / देशसञ्जेति / नलोपः इति // अनुस्वारपरसवर्णयोरसिद्धत्वादिति भावः / सजतीति // लिटि तु ससञ्ज / अतुसादौ तु कित्त्वान्न लोपः / ससजतुः। ससजुः / थलि भारद्वाजनियमाद्वेट् / ससजिथ-ससङ्क्थ / इडभावे जस्य कुत्वेन गकारे तस्य चर्वे सति अनुस्वारपरसवर्णसम्पन्नस्य चवर्गपञ्चमस्य निवृत्ती ककारे परे नकारस्य परसवर्णो डकारः ससजथुः / ससज। ससन्ज / ससजिव / ससजिम / क्रादिनियमादिट् / सङ्केति // तासि जस्य कुत्वेन गकारे तस्य चर्वे सति अस्य निवृत्तौ नस्य डकार इति भावः / सक्ष्यति // सजतु / असजत् / सजेत् / सज्यात् / असाङ्क्षीत् / हलन्तत्वादृद्धिः। असक्ष्यत् / दृशिर प्रेक्षणे इति॥ इरित् / अनिट् च / पश्यतीति // शिति 'पाघ्राध्मा' इति पश्यादेश इति भावः / ददर्श / ददृशतुः। ददृशुः / थलि तु क्रादिनियमान्नित्यमिट प्राप्तः / अजन्ताकारवत्त्वाभावात् 'अचस्तास्वत्' इति उपदेशे अत्वत' इति निषेधस्य चाप्राप्तः ऋदन्तत्वाभावेन भारद्वाजनियमस्याप्रसक्तेः / तत्राह। विभाषा सृजि // पञ्चम्यर्थ षष्ठी / 'गमेरिट्' इत्यतः इडिति 'अचस्तास्वत्' इत्यतः थलीति चानुवर्तते / तदाह / आभ्यामिति // इडभावपक्षे 'अनुदात्तस्य' इति अमागमविकल्पे प्राप्ते / सृजिदृशोः // अम् अकिति इति च्छेदः / नित्यार्थमिदम् / For Private And Personal Use Only
Page #168
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 166 सिद्धान्तकौमुदीसहिता [भ्वादि अनयोरमागम: स्याज्झलादावकिति / दद्रष्ठ–ददर्शिथ / द्रष्टा। द्रक्ष्यति / दृश्यात् / इरित्त्वाद वा / 2406 / ऋदृशोऽङि गुणः / (7-4-16) ऋवर्णान्तानां दृशेश्च गुणः स्यादङि / अदर्शत् / अङभावे / ___2407 / न दृशः / (3-1-47) दृशश्च्ले: क्सो न। अद्राक्षीत् / दंश 989 दशने। दशनं दंष्ट्राव्यापारः / पृषोदरादित्वादनुनासिकलोपः / अत एव निपातनादित्येके / तेषामप्यवैव तात्पर्यम् / अर्थनिर्देशस्याधुनिकत्वात् / ‘दंशसञ्ज-' (सू 2396) इति दद्रष्ठेति // ददृश् थ इति स्थिते इडभावपक्षे अमागमे ऋकारस्य यणि व्रश्वादिना शस्य षत्वे थस्य टुत्वेन ठ इति भावः / इट्पक्षे त्वाह। ददर्शिथेति // अझलादित्वादम् नेति भावः / द्रष्टेति // तासि अमागमे शस्य षत्वे तकारस्य ठुत्वेन टकार इति भावः / द्रक्ष्यतीति // अमागमे शस्य षत्वे षढोरिति कत्वे सस्य ष इति भावः / पश्यतु / अपश्यत् / पश्येत् / आशीलिडि आह / दृश्यादिति // अझलादित्वादम् नेति भावः / लुङि विशेषमाह / इरित्त्वाद वेति // अत्र अङ्पक्षे गुणनिषेधे प्राप्ते। ऋदृशोऽङि // ऋ इत्यङ्गविशेषणत्वात् तदन्तविधिः / तदाह / ऋवर्णान्तानामिति / अङभावे इति // अङभावपक्षे 'शल इगुपधात्' इति क्सादेशे प्राप्ते सतीत्यर्थः / न दृशः // च्ले: सिच' इत्यत: च्लेरिति ‘शल इगुपधात्' इत्यतः क्स इति चानुवर्तते / तदाह / दृशश्च्लेः क्लो नेति // क्सादेशे तु अदृक्षदिति स्यादिति भावः / अद्राक्षीदिति // सिचि अमागमे ऋकारस्य यणि अकारस्य हलन्तलक्षणवृद्धौ शस्य षत्वे तस्य कत्वे सस्य षत्वमिति भावः / अद्रक्ष्यत् / दंश दशने इति // अयमनिट नोपधश्च कृतानुस्वारनिर्देशः / दंष्ट्राव्यापारः इति // हनुमूलगता: स्थूलदन्ताः दंष्ट्राः तयापारः क्षतक्रियादिरूप इत्यर्थः / ननु दंशधातोल्युटि दशनशब्दः तत्र 'अनिदिताम्' इति नकारस्य लोपो न सम्भवति ल्युट: विङत्त्वाभावात् / दंशस त्यपि नस्य लोपो न सम्भवति / तस्य शप्येव प्रवृत्तेः / तथाच दशन इत्यर्थनिर्देश: कथमित्यत आह / पृषोदरादित्वादिति / अत एवेति // दशनशब्दनिर्देशादेव नकारस्य लोप इत्यन्ये मन्यन्त इत्यर्थः / तेषामणीति // निपातनान्नकारलोप इति वदतामपि पृषोदरादिषु निपातनादित्यर्थ एव तात्पर्यं न तु धातुपाठे दश दशने इत्यर्थनिर्देशे / विनिगमनाविरहमाशङ्कयाह / अर्थनिर्देशस्याधुनिकत्वादिति // सर्वधातुष्वर्थनिर्देशस्य अपाणिनीयत्वादित्यर्थः / क्वचिदेव धातुध्वर्थनिर्देश: पाणिनीय इति भूधातौ निरूपितम् / अथ दशतीत्यादौ शपः पित्त्वेन अकित्त्वात् 'अनिदिताम्' इति नलोपाप्रवृत्तेराह / देशसञ्जेति। नलोपः For Private And Personal Use Only
Page #169
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा। 167 नलोप: / दशति / ददंशिथ-ददंष्ठ / दंष्टा / दश्यति / दश्यात् / अदावीत् / कृष 990 विलेखने। विलेखनमाकर्षणम् / क्रष्टा--का / क्रक्ष्यति-कर्त्यति / 'स्पृशमृशकृषतृपदृपां च्ले: सिज्वा वाच्यः' (वा 1826) / अक्राक्षीत्। अक्राष्टाम / अकाीत् / अकार्टाम् / अकाटुंः / पक्षे क्सः / अकृक्षत् / अकृक्षताम् / अकृक्षन् / दह 991 भस्मीकरणे / देहिथ-ददग्ध / दग्धा / धक्ष्यति / अधाक्षीत् / अदाग्धाम् / अधाक्षुः / मिह 992 सेचने / मिमेह / मिमेइति / दशतीति // अनुस्वारस्यासिद्धत्वादिति भावः / दंशसओत्यत्र शपीत्युक्तेरार्धधातुके नलोपो न / संयोगात्परत्वेन लिट: कित्त्वाभावादनिदितामित्यपि न / ददंश / ददंशतुः / ददंशुः / भारद्वाजनियमात्थलि वेट / तदाह / ददंशिथ-ददंष्ठेति // अनिट्पक्षे व्रश्चादिना शस्य घः थस्य टुत्वेन ठ इति भावः / तासि व्रश्चादिना शस्य षत्वे तकारस्य टुत्वमिति भावः / दक्ष्यतीति // व्रश्चादिना शस्य षत्वे तस्य कत्वे अनुस्वारस्य परसवर्णे ङकारे सस्य पत्वमिति भावः / दशतु / अदशत् / दशेत् / दश्यादिति // आशीर्लिङि 'अनिदिताम्' इति नलोप इति भावः / अदाङ्गीदिति // सिचि शस्य षः तस्य कः अनुस्वारस्य परसवर्णेन ङः सस्य षत्वमिति भावः / अदक्ष्यत् / कृष विलेखने इति / अनिडयम / कर्षति / चकर्ष / चकृषतुः / चकृषुः। थलि अजन्ताकारवत्त्वाभावात् कादिनियमानित्यमिट् / चकर्षिथ / चकृषथुः / चकृष / चकर्ष / चकृषिव / चकृषिम / इति सिद्धवत्कृत्याह। ऋष्टा-कष्टेति // 'अनुदात्तस्य च' इत्येवं विकल्पः। तकारस्य ष्टुत्वम् / कक्ष्यति-कीतीति॥ षस्य कत्वे सस्य षः / कर्षतु / अकर्षत् / कर्षेत् / कृष्यात् / ‘शल इगुपधात्' इति च्ले: क्सादेशे प्राप्ते आह / स्पृशमृशेति // अक्राक्षीदिति // च्ले: क्सादेशाभावे सिचि ‘अनुदात्तस्य चर्दुपधस्य' इत्यमि ऋकारस्य यणि हलन्तलक्षणवृद्धौ ‘षढोः कस्सि' इत्यनेन षस्य कत्वे सस्य षत्वमिति भावः / अकाक्षीदिति // अमभावे सिचि वृद्धौ रूपम् / पक्षे क्सः इति // च्ले: सिजभावपक्षे 'शल इगुपधात्' इति क्स इत्यर्थः / अकृ. क्षदिति // क्से सति कित्त्वाद्गुणाभावे षस्य कः सस्य ष इति भावः / अक्रक्ष्यत्-अकीत् / दह भस्मीकरणे इति // अनिट् / दहति / ददाह / देहतुः / देहुः / थलि तु भारद्वाजनियमाद्वेडित्याह। देहिथ-ददग्ध इति ॥इट्पक्षे 'थलि च सेटि' इत्येत्त्वाभ्यासलोपौ।अनिट्पक्षे तु 'दादेः' इति हस्य घः ‘झषस्तथोः' इति थस्य धः घस्य जश्त्वेन ग इति भावः। देहथुः देह / ददाह-ददह / देहिव / देहिम / दग्धेति // तासि हस्य घः तकारस्य धः घस्य गः इति भावः। घक्ष्यतीति // हस्य घः दस्य भष् घस्य गः तस्य चत्वेन कः सस्य ष इति भावः। दहतु।अदहत्। दहेत् / दह्यात् / अधाक्षीदिति // सिचि हलन्तलक्षणा वृद्धिः / हस्य घः दस्य भष् घस्य गः तस्य कः सस्य षः इति भावः / अदाग्धामिति // सिचि वृद्धिः / हस्य घः ‘झलो झलि' इति सलोपः / 'झषस्तथोः' इति तकारस्य धः / घस्य गः इति भावः। अधाक्षुरिति // सिचि वृद्धिः हस्य घः दस्य भए घस्य गः तस्य कः For Private And Personal Use Only
Page #170
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 168 सिद्धान्तकौमुदीसहिता . [भ्वादि हिथ / मेढा / मेक्ष्यति / अमिक्षत् / कित 993 निवासे रोगापनयने च / चिकित्सति / संशये प्रायेण विपूर्वः / 'विचिकित्सा तु संशयः' इत्यमरः / अस्यानुदात्तेत्त्वमाश्रित्य * चिकित्सते' इत्यादि कश्चिदुदाजहार / निवासे तु केतयति / दान 994 खण्डने / शान 995 तेजने / इतो वहत्यन्ताः स्वरितेतः / दीदांसति-दीदांसते / शीशांसति-शीशांसते / अर्थविशेषे सन् / अन्यत्र दानयति / शानयति / डु पचष् 996 पाके / पचति-पचते / पेचिथ-पपक्थ / सस्य षः इति भावः / अधाक्षीः। अदाग्धम् / अदाग्ध / अधाक्षम् / अधाक्ष्व / अधाम / अधक्ष्यत् / मिह सेचने इति // अनिट् / मेहति / मिमेह / मिमिहतु: / मिमिहुः / अजन्ताकारवत्त्वाभावात् क्रादिनियमान्नित्यमिट् / तदाह / मिमेहिथेति // मिमिहथुः / मिमिह / मिमेह / मिमिहिव / मिमिहिम / मेढेति // तासि ढत्वधत्वष्टुत्वढलोपाः / मेक्ष्यतीति // हस्य ढः तस्य कः सस्य षः। मेहतु। अमेहत् / मेहेत् / मिह्यात् / लुङि 'शल इगुपधात्' इति क्सः। कित्त्वान्न गुणः। हस्य ढः तस्य कः सस्य षः / तदाह / अमिक्षदिति // अमेक्ष्यत् / कित निवासे रोगापनयने चेति // परस्मैपदिषु पाठात् अयं परस्मैपदी / अर्थद्वयमात्रमत्र निर्दिष्टम् / अर्थनिर्देशस्य उपलक्षणत्वात् अर्थान्तरेषु वृत्तिः / तत्र ‘कितेर्व्याधिप्रतीकारे निग्रहे अपनयने नाशने संशये च' इति निबद्धेष्वर्थेषु 'गुप्तिज्किझ्यः सन्' इति सन्विहितः / तदाह / चिकित्सति इति // ‘सन्यत' इति इत्त्वे हलादिशेषे अभ्यासचुत्वे चिकित्सेति सन्नन्तं तस्माल्लटि शपि चिकित्सतीति रूपम् / अस्व सनः 'धातोः' इति विहितत्वाभावादनार्धधातुकत्वान लघूपधगुणः नापि इडागम इति प्रागुक्तम् / 'चिकित्साञ्चकार' इत्यादि सुगमं जुगुप्सतिवत् / संशये इत्यादि व्यक्तम् / निवासे त्विति // व्याधिप्रतीकाराद्यर्थपञ्चकादर्थान्तरे चुरादित्वस्योक्तत्वादिति भावः / दान खण्डने। शान तेजने इति // तेजनम् तीक्ष्णीकरणम् / इतः इति // 'दान खण्डने' इत्यारभ्य 'वह प्रापणे' इत्येतत्पर्यन्ताः खरितेत इत्यर्थः / तत्र धातुपाठे अर्थनिर्देशस्य उपलक्षणत्वाद्यदा दानधातुरार्जवे शानधातुस्तु निशाने वर्तते तदा 'मान् बध दान् शान्' इति सनि ‘सन्यडोः' इति द्वित्वे अभ्यासहूखे तस्य ‘सन्यतः' इति इत्त्वे तस्य 'मान् बध' इति दीर्घे सति नकारस्यानुस्खारे दीदांसशीशांसाभ्यां लटि स्खरितानुबन्धस्य केवलयोरचरितार्थत्वात् कर्तृगे फले तङि शपि दीदांसते शीशांसते इति रूपम् / परगामिनि तु फले परस्मैपदे तिपि शपि दीदांसति इति रूपम् / एवं शीशांसतीति / तीक्ष्णीकरोतीत्यर्थः / तदाह / दीदांसते इत्यादि // अर्थविशेषे इति // आर्जवे निशाने चार्थे सनित्यर्थः / अन्यत्रेति // आजवनिशानाभ्यामन्यत्र णिजन्तात्परस्मैपदमेवेत्यर्थः / अर्थान्तरे अननुबन्धकाश्चुरादयः इत्युक्तेरिति भावः / डु पचष् पाके इति // डुः षकारः चकारादकारश्च इत् / स्वरितेत्त्वादुभयपदी। तदाह / पचति-पचते इति // पपाच / पेचतुः / पेचुः / भारद्वाजनियमात्थलि वेट् / तदाह / पेचिथ-पपक्थेति // इट्पक्षे 'थलि च सेटि' इत्येत्त्वाभ्यास For Private And Personal Use Only
Page #171
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा / 169 पेचे / पक्ता / पक्षीष्ट / षच 997 समवाये / सचति / सचते / भज 998 सेवायाम् / बभाज / भेजतुः / भेजुः / भेजिथ-बभक्थ / भक्ता / भक्ष्यतिभक्ष्यते / अभाक्षीत् / अभक्त / रज 999 रागे / नलोपः / रजति--रजते / रज्यात् / रवीष्ट / अरावीत् / अराङ्गाम / अरङ्क / शप 1000 आक्रोशे / आक्रोशो विरुद्धानुद्ध्यानम् / शशाप-शेपे / अशाप्सीत्-अशप्त / त्विष 1001 दीप्तौ / त्वेषति-त्वेषते / तित्विषे / त्वेष्टा / त्वेक्ष्यति-त्वेक्ष्यते / HERE लोपौ / अनिट्पक्षे तु 'चोः कुः' इति भावः / पेचथुः / पेच / पपाच-पपच / पेचिव / पेचिम / क्रादिनियमादिट् / पेचे इति // पेचाते। पेचिरे / पेचिषे / पेचाथे / पेचिध्वे / पेचे / पचिवहे / पेचिमहे / कादिनियमादिट् / पक्तेति // तासि 'चोः कुः' पक्ष्यति / पक्ष्यते / पचतु / पचताम् / अपचत् / अपचत / पचेत् / पक्षीप्टेति // आशीलिङि तडि सीयुटि ‘चोः कु:' षत्वम् / अपाक्षीत् / अपक्त / अपक्षाताम् / अपक्ष्यत् / अपक्ष्यत / षचधातुः पोपदेशः / तदाह / सचति-सचते इति // सेडयम् / ससाच / सेचतुः / सेचुः / सेचिथ / सेचथुः / सेच / ससाच-ससच / सेचिव / सेचिम / सेचे / सेचिषे / सेचिवहे। सेचिमहे / सच्यात / सचिषीष्ट / असाचीत-असचीत् / असचिष्ट / भजधातरनिट / भजति। किति लिटि वैरूप्यापादकादेशादित्वात् 'अत एक हल्मध्ये' इत्यप्राप्तौ 'तृ फल' इत्येत्त्वाभ्यासलोपौ / तदाह / भेजतुरिति // भारद्वाजनियमात्थलि वेट / तदाह। भेजिथ-बभक्थेति // इट्पक्षे 'थलि च सेटि'इत्येत्त्वाभ्यासलोपौ इति भावः / भेजिव / भेजिम / क्रादिनियमादिट्। भेजे। भेजिषे / भेजिवहे / भक्तेल्यादि सुगमम् / रञ्ज रागे इति // नोपधोऽयम् / कृतानुस्वारपरसवर्णनिर्देशः / अनिडयम् / शपः पित्त्वेन ङित्त्वाभावात् 'अनिदिताम्' इत्यप्राप्तावपि ‘रजेश्च' इति शपि नलोपः / तदाह / रजति-रजते इति // संयोगात्परत्वालिटो न कित्त्वम् / ररज / ररञ्जतुः। भारद्वाजनियमात्थलि वेट / ररजिथ-ररथ / अनिटपक्षे जस्य कुत्वेन गः / ततोऽनुस्वारपरसवर्णअकारनिवृत्तौ गस्य चान कः / नस्यानुस्वारे तस्य परसवर्णो डकार इति भावः / ररञ्जिव / ररञ्जिम / क्रादिनियमादि / रङ्क्ता / रक्ष्यति / रक्ष्यते / रजतु / रजताम् / अरजत् / अरजत / रजेत्। आशीर्लिङि यासुटः कित्त्वात् 'अनिदिताम्' इति नलोपः। तदाह / रज्यादिति / रङ्गीष्टेति // आत्मनेपदे लिङः सीयुटि जस्य कुत्वेन गः ततः परसवर्णसम्प अकारनिवृत्तिः गस्य कः नस्य परसवर्णेन ङः षत्वमिति भावः / अराङ्गीदिति // सिचि हलन्तलक्षणवृद्धौ कुत्वादि पूर्ववत् / अनेकहल्व्यवधानेऽपि हलन्तलक्षणा वृद्धिः प्रवर्तते इति भाष्ये स्पष्टम् / अराङ्गामिति // 'झलो झलि' इति सलोपः / कुत्वादि पूर्ववत् / अरङ्केति // लुङस्तढि प्रथमपुरुषैकवचने 'झलो झलि' इति सलोपे कुत्वादि / शप आक्रोशे इति // अनिडयम् / भारद्वाजनियमात्थलि वेट / वमादौ तु क्रादिनियमादिट् / अशाप्सीदिति // हलन्तलक्षणा वृद्धिः / अशप्तेति // ‘झलो झलि' इति सलोपः / अशप्साताम् / विषधातुरनिट् / शपि लघूपधगुणः / तदाह / त्वेषति-त्वेषते इति // तित्वेष / तित्विषतुः / तित्विषुः। 22 For Private And Personal Use Only
Page #172
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 170 सिद्धान्तकौमुदीसहिता [भ्वादि त्विष्यात् / त्विक्षीष्ट / अत्विक्षत् / अत्विक्षत / अत्विक्षाताम / अत्विक्षन्त। यज 1002 देवपूजासङ्गतिकरणदानेपु / यजति यजते / 2408 / लिट्यभ्यासस्योभयेषाम् / (6-1-17) वच्यादीनां ग्रह्यादीनां चाभ्यासस्य सम्प्रसारणं स्याल्लिटि / इयाज / 24.9 / वचिस्वपियजादीनां किति / (6-1-15) वचिस्वप्योर्यजादीनां च सम्प्रसारणं स्यात्किति / पुन:प्रसङ्गविज्ञाना तित्वेषिथ / तित्विषथुः / तित्विष / तित्वेष। तित्विषिव / तित्विषिम / क्रादिनियमादिट् / तित्विषे इति // तित्विषाते। तित्विषिरे / तित्विषिष / तित्विषाथे। तित्विपिध्वे / तित्विषे / तित्विषिवहे। तित्विषिमहे / त्वेष्टेति // तासि तकारस्य तृत्वम् / त्वेक्ष्यांत / त्वेक्ष्यते इति॥ स्ये कुत्वषत्वे / त्वेषतु / त्वेषताम् / अत्वेषत् / अत्वेषत / त्वेषेत् / त्वेषेत / विप्यादिति // यासुट: आशीर्लिङि कित्त्वान्न लघूपधगुणः / त्विक्षीष्टेति // “लिङ् सिचावात्मनेपदषु' इति कित्त्वान्न गुणः / लुडि परस्मैपदे 'शल इगुपधात्' इति चले: क्सः। कित्त्वान्न गुणः / तदाह / अत्विक्षदित्यादि // लुङि आत्मनेपदे च्ले: क्सादेशं मत्वा आह / अत्विक्षतेति / अत्विक्षन्तेति // अत्विक्ष झ इति स्थिते ‘क्सस्याचि' इत्यन्त्यलोपासम्भवादतःपरत्वात् 'आत्मनेपदेष्वनतः' इत्यदादेशासम्भवादन्तादेशे क्सस्यान्त्यलोपे पररूपे वा रूपमिति भावः / यज देवपूजेति // अनिडयम् / यजति-यजते इति // देवान् पूजयति सङ्गमयति ददाति वेत्यर्थः / णलि द्वित्वादौ तु ययाज इति स्थिते 'लिट्यभ्यासस्योभयेषाम' 'प्यः सम्प्रसारणम्' इत्यतः सम्प्रसारणमित्यनुवर्तते / 'वचिस्वपियजादीनाम्' इति सूत्रोपात्ताः 'ग्रहिज्यावयि' इति सूत्रोपात्ताश्च उभयशब्देन गृह्यन्ते / तदाह / वच्यादीनां ग्रह्यादीनाञ्चेति // अत्र वच्यादीनामित्यनेन वचिः स्वपिः यजादयश्च विवक्षिताः। 'यज देवपूजा' इत्यारभ्य 'टुओ श्वि गतिवृद्ध्योः' इत्येतत्पर्यन्ताः यजादयः / तदुक्तम् 'यजिर्वपिर्वहिश्चैव वसिर्वव्येन इत्यपि। हृञ् वदिः श्वयतिश्चैव यजाद्यास्स्युरिमे नव' इति तेष्वनन्तर्भावाचिस्वप्योः पृथग्ग्रहणम् / ग्रह्यादीनामित्यनेन तु ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतयो विवक्षिताः / इयाजेति // अभ्यासयकारस्य सम्प्रसारणे 'सम्प्रसारणाच्च' इति पूर्वरूपमिति भावः / यज् अतुस् इति स्थिते द्वित्वे अभ्यासयकारस्य सम्प्रसारणे पूर्वरूपे च इयजतुरिति प्राप्ते / वचिस्वपि॥ वचिस्वपीति इका निर्देशः / सौत्रः सम्प्रसारणाभावः / आदिशब्दो यजिनैव सम्बद्ध्यते, न तु वचिस्वपिभ्याम् , तथा सति हि वच्यादेः स्वप्यादेर्यजादेश्चेत्यर्थः स्यात् / तथा सति पृथक्स्वपिग्रहणं व्यर्थ स्यात् / अदादिगणे लुग्विकरणे 'वच परिभाषणे' इत्यारभ्य षष्टस्य 'जि चप् शये' इत्यस्य वच्यादिग्रहणेनैव सिद्धेः / तदाह / वचिस्वप्योर्यजादीनाञ्चेति // ननु यज्ञ अतुस् इति स्थिते द्वित्वात्परत्वात्सम्प्रसारणे कृते ‘विप्रतिषेधे यद्बाधितं तद्वाधितमेव' इति न्यायेन द्वित्वस्य कथं प्राप्तिरित्याशङ्कयाह / पुनःप्रसङ्गेति / ईजतुरिति // यज़ अतुस् इति For Private And Personal Use Only
Page #173
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा। 171 द्वित्वम् / ईजतुः। ईजुः / इयजिथ-इयष्ठ / ईजे / यष्टा / यक्ष्यति / यक्ष्यते / इज्यात् / यक्षीष्ट / अयाक्षीत / अयष्ट। डुवप् 1003 बीजसन्ताने / बीजसन्तानं क्षेत्रे विकिरणं गर्भाधानं च / अयं छेदनेऽपि / केशान्वपति / उवापऊपे / वप्ता / उप्यात् / वासीष्ट / प्रण्यवाप्सीत्-अवप्त / वह 1004 प्रापणे / स्थिते सम्प्रसारणे पूर्वरूपे च कृते द्वित्वे सवर्णदीर्घ इति भावः / एवञ्चात्र लिटि किति ‘वचिस्वपि' इति सूत्रम् / अकिति लिटि तु 'लिट्यभ्यासस्य' इति सूत्रमिति स्थितिः / भारद्वाजनियमात्थलि वेट / कृते द्वित्वे अकित्त्वाद्वचिस्वपीत्यप्रवृत्तौ 'लिट्यभ्यासस्य' इत्यभ्यासयकारस्य सम्प्रसारणम् / तदाह / इयजिथ-इयष्ठेति // अनिट्पक्ष व्रश्चादिना जस्य षत्वे ष्टुत्वेन थस्य ठः / ईजथुः / ईज / इयाज-इयज / ईजिव / ईजिम / ईजे इति // 'असंयोगात्' इति कित्त्वात् 'वचिस्वपि' इति सम्प्रसारणे कृते द्वित्वे सवर्णदीर्घ इति भावः / ईजाते / ईजिरे। कादिनियमादिट् / ईजिषे / ईजाथे / ईजिवे / ईजे। ईजिवहे / ईजिमहे / यष्टेति // तासि वश्वादिना जस्य षत्वे तृत्वेन तकारस्य ट: / यक्ष्यति-यक्ष्यते इति // व्रश्चादिना जस्य षत्वे ‘षढोः' इति षस्य कत्वे सस्य षत्वमिति भावः / यजतु। यजताम् / अयजत् / अयजत / यजेत् / यजेत / आशीलिंडि आह / इज्यादिति // यासुट: कित्त्वात् 'वचिस्वपि' इति सम्प्रसारणमिति भावः। यक्षीष्टेति॥ आशीर्लिडि आत्मनेपदे प्रथमैकवचने सीयुटि जस्य षत्वे तस्य कत्वे सस्य षत्वमिति भावः / अयाक्षीदिति // सिचि हलन्तलक्षणा वृद्धिः / जस्य षः तस्य कः सस्य ष इति भावः / अयटेति // अयज़ स् त इति स्थिते 'झलो झलि' इति सलोपे जस्य पः पृत्वन तकारस्य ट इति भावः / अयक्षाताम् / अयक्षत / अयक्ष्यत् / अयक्ष्यत / इवर बीजसन्ताने इति // प्ररोहाधम्बीजानां क्षेत्रषु प्रक्षेपणे इत्यर्थः / तदाह / क्षेत्रे विकिरणमिति // वपिः प्रकिरणार्थ इति ‘सन्यडोः' इत्यत्र भाष्यम् / गर्भाधानञ्चेति // " अप्रमत्ता रक्षत तन्तुमेतं मा वः क्षेत्र परवीजानि वाग्मुः” इत्यादौ तथा दर्शनादिति भावः / अयं छेदनेऽपीति // वर्तते इति शेषः / केशान् वपतीति // छिनत्तीत्यर्थः / अनिडयम्। उवापेति // 'लिट्यभ्यासस्य' इत्यकिल्यभ्यासस्य सम्प्रसारणमिति भावः / किति तु 'वचिस्वपि' इति द्वित्वात्प्राक्सम्प्रसारणे कृते द्वित्वम् / ऊपतुः / ऊपुः / उवपिथ / उवप्थ / ऊपथुः / ऊप / उवाप-उवप / ऊपिव / पिम / ऊपे इति // ऊपाते / ऊपिरे / ऊपिथे। ऊपाथे / ऊपिध्वे / ऊपे / पिवहे / ऊपिमहे / वप्तेति // वस्यति / वप्स्यते / वपतु / वपताम् / अवपत् / अवपत / वपेत / वपेत / उप्यादिति // आशिषि यासुटः कित्त्वात् ‘वचिस्वपि' इति सम्प्रसारणम् / वप्सीप्टेति // सीयुटि रूपम् / प्रण्यवाप्सीदिति // लुङि परस्मैपदे सिचि हलन्तलक्षणा वृद्धिः / 'नर्गद' इति णत्वम् / अवाप्ताम् / अवाप्सुः / अवप्तेति॥ आत्मनेपदे लुङि 'झलो झलि' इति सलोपः / अवसाताम् / वह प्रापणे इति // अयमनिट् / वहति-वहते / उवाहेति // “लिट्यभ्यासस्य' इति किति अभ्यासस्य सम्प्रसारणमिति भावः / किति 'वचिस्वपि' इति सम्प्रसारणे कृते द्वित्वम् / ऊहतुः / ऊहुः / भारद्वाजनियमा For Private And Personal Use Only
Page #174
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 172 सिद्धान्तकौमुदीसहिता [भ्वादि उवाह / उवहिथ / 'सहिवहोरोदवर्णस्य' (सू 2357) / उवोढ / उहे / वोढा / वक्ष्यति-वक्ष्यते / अवाक्षीत् / अवोढाम् / अवाक्षुः / अवोढ / अवक्षाताम् / अवक्षत / अवोढाः / अवोदम् / वस 1005 निवासे / परस्मैपदी / वसति / उवास। 2410 / शासिवसिघसीनाञ्च / (8-3-60) इण्कुभ्यां परस्यैषां सस्य ष: स्यात् / ऊषतुः / ऊपुः / उवसिथउवस्थ / वस्ता / 'सः स्यार्धधातुके' (सू 2342) वत्स्यति / उष्यात् / अवात्सीत् / अवात्ताम् / वेञ् 1006 तन्तुसन्ताने / वयति–वयते / त्थलि वेट् / तदाह / उवहिथेति ॥'नशसदद' इति निषेधात् / थलि च सेटि' इति न भवति / अथ थलि अनिट्पक्षे आह / सहिवहोरोदवर्णस्येति // सहिवहोरवर्णस्य ओत्स्याङ्कलोपे परत इत्यर्थः / ठूलोप इति दाघम्बाधित्वा ओत्त्वमिति भावः / उवोढेति // उवह थ इति स्थिते ढत्वधत्वष्टुत्वढलोपाः ओत्त्वञ्चेति भावः / ऊहथुः / ऊह / उवाह-उवह / अहिव / ऊहिम / क्रादिनियमादिट् / ऊहे इति // ऊहाते / ऊहिरे / ऊहिषे / ऊहाथे / ऊहि वे / ऊहे / ऊहिवहे / ऊहिमहे / वोढेति // तासि ढत्वधत्वष्टुत्वढलोपाः ओत्त्वञ्च / लटि स्ये हस्य ढः तस्य कः षत्वम् / तदाह / वक्ष्यति-वक्ष्यते इति // वहतु / वहताम् / अवहत् / अवहत / वहेत् / उह्यात् / अवाक्षीदिति // हलन्तलक्षणवृद्धौ ढकषाः प्राग्वत् / अवोढामिति // ‘झलो झलि' इति सलोपे ढत्वधत्वष्टुत्वढलोपाः ओत्त्वञ्चेति भावः / अवाक्षुरिति // उसि सिचि वृद्धौ ढकषाः / अवाक्षीः / अवोढम् / अवोढ / अवाक्षम् / अवाक्ष्व / अवाक्ष्म / अवोढेति // लुङि आत्मनेपदे प्रथमपुरुषैकवचने अवह् स् त इति स्थिते सलोपः ढत्वधत्वष्टुत्वढलोपाः ओत्त्वञ्च / अवक्षातामिति // आतामि सिचि ढकषा इति भावः / अवक्षतेति // 'आत्मनेपदेष्वनतः' इत्यदादेशः / अवोदमिति // अवक्षि / अवक्ष्वहि / अवक्ष्महि / अवक्ष्यत् / अवक्ष्यत / इति वहत्यन्ता: स्वरितेतो गताः / वसधातुरनिट् / अकिति लिटि परे 'लिट्यभ्यासस्य' इत्यभ्यासस्य सम्प्रसारणम् / तदाह / उवासेति // किति तु 'वचिस्वपि' इति सम्प्रसारणे कृते ऊस् अतुस् इति स्थिते सकारस्य आदेश. प्रत्ययावयवत्वाभावादप्राप्ते षत्वे / शासिवसि // ‘सहेस्साडस्सः' इत्यतः स इति षष्ठ्यन्तमनुवर्तते / ‘इएकोः' इति 'अपदान्तस्य मूर्धन्यः' इति चाधिकृतम् / तदाह / इण्कवर्गाभ्यामिति // भारद्वाजनियमात्थलि वेट् इति मत्वा आह / उवसिथ-उवस्थेति // ‘न शसदद' इति निषेधात् 'थलि च सेटि' इति न भवति / ऊषथुः / ऊष / उवास-उवस / ऊषिव / ऊषिम / क्रादिनियमादिट् / वस् स्यतीति स्थिते आह / सस्स्यार्धधातुके इति // अनेन सकारस्य तकार इति भावः / वसतु। अवसत् / वसेत् / उष्यादिति // आशीर्लिङि यासुटः कित्त्वात् वस्य सम्प्रसारणे 'शासिवसि' इति षत्वमिति भावः। 3 ॥सिचि For Private And Personal Use Only
Page #175
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा / 173 2411 / वेञो वयिः / (2-4-41) वा स्याल्लिटि / इकार उच्चारणार्थः / उवाय / 2412 / अहिज्यावयिव्यधिवष्टिविचतिवृश्चति पृच्छतिभृज्जतीनां ङिति च / (6-1-16) एषां किति ङिति च सम्प्रसारणं स्यात् / यकारस्य प्राप्ते / 2413 / लिटि वयो यः / (6-1-38) वयो यस्य सम्प्रसारणं न स्याल्लिटि / ऊयतुः / ऊयुः / 2414 / वश्चास्यान्यतरस्यां किति / (6-1-39) वयो यस्य वो वा स्यात्किति लिटि / ऊवतुः / ऊचुः / वयेस्तासावभाहलन्तलक्षणवृद्धौ सस्य तकारः / अवात्तामिति // अवस् स् तामिति स्थिते वृद्धौ ‘झलो झलि' इति सलोपे प्रत्ययलक्षणमाश्रित्य सकाराद्यार्धधातुकपरत्वात् धातुसकारस्य 'सस्सि' इति तकारः / वस्तुतस्तु सिज्लोपस्यासिद्धत्वात् ‘सस्सि' इति तकारे सिज्लोप इति बोध्यम् / अवात्सुः / अवात्सीः। अवात्तम्। अवात्त। अवात्सम् / अवात्स्व / अवात्स्म / अवत्स्यत् / वेञ्धातुरनिट् / जित्त्वादुभयपदी / तन्तुसन्तानः पटनिर्माणार्थन्तन्तूनान्तिर्यगतिर्यक्प्रसारणविशेषः / वयति-वयते इति॥ शपि गुणायादेशौ / वेो वायः॥ शेषपूरणेन सूत्रं व्याचष्टे / वा स्याल्लिटीति // 'लिट्यन्यतरस्याम्' इत्यतः अन्यतरस्यामित्यनुवृत्तेरिति भावः। उच्चारणार्थः इति // इकारस्य इत्संज्ञकत्वे तु नुम् स्यादिति भावः / उवायेति // णलि वयादेशे यजादित्वादकिति लिटि परे 'लिट्यभ्यासस्य' इति वकारस्य सम्प्रसारणे उपधावृद्धिरिति भावः / अत्र यकारस्य तु न सम्प्रसारणम्। 'लिटि वयो यः' इति तनिषेधस्यानुपदमेव वक्ष्यमाणत्वादिति भावः / यद्यपि णलि वयादेशाभावेऽपि द्वित्वे अभ्यासस्य सम्प्रसारणे 'अचो णिति' इति वृद्धौ आयादेशे उवायेति सिद्ध्यति / तथापि ऊयतुरित्याद्यर्थ वयादेशस्य आवश्यकत्वादिहापि वयादेशो न्याय्यत्वादुपन्यस्तः / वे अतुस् इति स्थिते वयादेशे कृते / अहिज्या // चकारेण ‘वचिस्वपियजादीनाम्' इत्यतः कितीति समुच्चीयते / ध्यङस्सम्प्रसारणमित्यतः सम्प्रसारणमित्यनुवर्तते / तदाह / एषामित्यादि // अत्र परस्मैपदिग्रह्यादिसाहचर्यात् 'अयवयपय' इति पठितस्यात्मनेपदिनो वयेन ग्रहणम् / यजादित्वादेव वयेः सम्प्रसारणे सिद्धे अत्र वयग्रहणं स्पटार्थमिति भाष्ये स्पष्टम् / इति यकारस्य प्राप्ते इति // 'न सम्प्रसारणे सम्प्रसारणम्' इति लिङ्गादन्त्यस्य यणः पूर्व सम्प्रसारणमिति विज्ञानाद्यकारस्य सम्प्रसारणे प्राप्ते सतीत्यर्धः / लिटि वयो // सम्प्रसारणन्नेति // 'न सम्प्रसारणे सम्प्रसारणम्' इत्यतः तदनुवृत्तेरिति भावः / तथा च यकारस्य सम्प्रसारणनिषेधे वकारस्य सम्प्रसारणमिति भावः / तदाह / ऊय. तुरिति // वश्चास्य // ‘लिटि वयो यः' इत्यनुवर्तते / तदाह / वयो यस्येत्यादि / For Private And Personal Use Only
Page #176
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 174 सिद्धान्तकौमुदीसहिता [भ्वादि वात्थलि नित्यमिट / उवयिथ / स्थानिवद्भावेन मित्त्वात्तः / ऊये / ऊवे / वयादेशाभावे / 2415 / वेञः / (6-1-40) वेञो न सम्प्रसारणं स्याल्लिटि। ववौ / ववतुः / वधुः। वविथ-ववाथ / ववे / वाता / ऊयात् / वासीष्ट / अवासीत् / व्यञ् 1007 संवरणे / व्ययति / व्ययते / उवयिथेति // अकित्त्वान वः / अजन्तत्वादकारवत्त्वाच्च थलि इनिषेधमाशङ्कयाह / वयेस्तासावभावात्थलि नित्यमिडिति // वयेर्लिट्येव विहितत्वेन तासावभावात् 'अचस्तास्वत्' इति 'उपदेशेऽत्वतः' इति च इनिषेधाप्रसक्त्या क्रादिनियमानित्यमिडित्यर्थः / 'यस्तासावस्ति नित्यानिट च' इति भाष्यम् / ऊयथुः-ऊवथुः / ऊय-ऊव / उवाय-उवय / ऊयिव-अविव / उयिम-ऊविम / ननु वयेरङित्त्वात् कथमुभयपदित्वमित्यत आह / स्थानिवद्भावेनेति / ऊये-ऊवे इति // ‘वश्चास्यान्यतरस्याम' इति वत्वविकल्पः / वत्वाभावे ‘लिटि वयो यः' इति यकारस्य सम्प्रसारणनिषेधः / चकारस्य 'ग्रहि ज्या' इति 'वचिस्वपि' इति वा सम्प्रसारणम् / ऊयाते। अयिरे / ऊयिष / ऊयाथे / ऊयिध्वे / ऊये / उयिवहे / ऊयिमहे / कादिनियमादिद। एवं ऊवाते / ऊविरे / इत्यादि। वयादेशाभावे इति // यजादित्वात् 'लिट्यभ्यामस्य' इति वाचस्वपि' इति च सम्प्रसारणे सतीति शेषः / वेञः // ‘लिटि वयो यः' इत्यतो लिटीति 'न सम्प्रसारणे सम्प्रसारणम्' इत्यतो न सम्प्रसारणमिति चानुवर्तते / तदाह / वेञो नेति // अत्र कितीति नानुवर्तते / तदाह / ववाविति // णलि सम्प्रसारणनिषेध 'आदे च उपदेश' इत्यारवे 'आत औ णल:' इत्यौभावे 'वृद्धिरेचि' इति वृद्धौ रूपम् / ववतुरिति // ‘आदेचः' इत्यात्व ‘आतो लोपः' / एवं ववुः / भारद्वाजनियमात्थलि वेट / वेवस्तासावनिटकत्वात् / तदाह / वविथ-ववाथेति॥ इटपक्षे अकित्त्वेऽपि इटपरत्वादालोप इति भावः / ववथुः / वव / वा / ववव / वविम / क्रादिनियमादिट् / ववे इति // ववाते / वविरे / विषे / ववाथ / ववि थे / ववे / वविवह / वविमहे / वातेति // लुटि तासि आत्त्वम् / वास्यति / वास्यते / बयतु / वयताम् / अवयत् / अवयत। वयेत् / वयेत / ऊयादिति // आशीलिडि यामुटि आल्वे कित्त्वात् 'वचिस्वपि' इति सम्प्रसारणे पूर्वरूपे 'अकृत्सार्वधातुकयोः' इति दीर्घ इति भावः / वासी. टेति // आशीर्लिङि आत्मनेपदे सीयुटि आत्त्वे रूपम् / वासीयास्ताम् / अवासीदिति // आत्त्वे कृते इट् सकौ / अवास् इ स् ईदिति स्थिते ‘इट ईटि' इति सिज्लोपः / अवासिष्टामित्यादि / आत्मनेपदे, अवास्त / अवासातां, इत्यादि / अवास्यत् / अवास्यत / व्यञ् / संवरणे इति // भित्त्वादुभयपदी / अनिट् / व्ययति-व्ययते इति // शपि गुणाया For Private And Personal Use Only
Page #177
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा / 2416 / न व्यो लिटि / (6-1-46) व्येन आत्त्वं न स्याल्लिटि / वृद्धिः / परमपि हलादिशेषं बाधित्वा यस्य सम्प्रसारणम् / उभयेषां ग्रहणसामर्थ्यात् / अन्यथा वच्यादीनां ग्रह्यादीनां चानुवृत्त्यैव सिद्धे किं तेन / विव्याय / विव्यतुः / विव्युः / 'इडत्यति-' (सू 2384) इति नित्यमिट / विव्ययिथ / विव्याय-विव्यय / विव्ये / व्याता / वीयान / व्यासीष्ट / अव्यामीत / अव्यास्त / ह्वेञ् 1008 स्पर्धायां शब्दे च / ह्वयति / ह्वयते / / देशौ / णलादौ तु आत्त्वे विव्यो विव्यतुरिल्यादि प्राप्तम् / तत्राह / न व्यो लिटि // व्ये इत्यस्य कृतात्वस्य षष्ठ्यन्तस्य व्यः इति निर्देशः / आत्त्वमिति // ‘आदेच उपदेशे' इत्यतः तदनुवृत्तेरिति भावः / वृद्धिरिति // णलि व्ये अ इति स्थिते 'अचो णिति' इति वृद्धिरित्यर्थः / तथाच व्यै अ इति स्थितम् / ननु तत्र द्वित्वे 'लिट्यभ्यासस्य' इत्यभ्यासे यकारस्य सम्प्रसारणे पूर्वरूपे उत्तरखण्डस्य आयादेशे विध्याय इति रूपं वक्ष्यति / तदयुक्तम् / सम्प्रसारणात्प्राक परत्वात् हलादिशेषेण यकारस्य निवृत्तो वकारस्य सम्प्रसारणे उकारे सति उ. व्यायेत्यापत्तेरित्यत आह / परमपीति // उभयेषामिति // 'लिट्यभ्यासस्य' इति सूत्रे उभयेषामिति ग्रहणसामर्थ्यादित्यर्थः / तदेवोपपादयति / अन्यथेति // ‘वचिस्वपियजादीनाम्' इत्यस्य ‘ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृजतिनाम्' इत्यस्य च स्वरितत्वादेवात्रानुवृत्त्यैव सिद्ध पुनर्लिट्यभ्यासस्य इत्यत्र उभयेषां ग्रहणं पुनर्विधानार्थम् / तथाच वच्यादीनां ग्रह्यादीनाञ्चाभ्यासस्य सम्प्रसारणं स्याल्लिटीति द्विविधानं लब्धम् / तत्र द्वितीयं विधानं नियमार्थम् / उभयेषामभ्यासस्य सम्प्रसारणमेव स्यानेतरदिति / तेनाभ्यासे एतत्स. म्प्रसारणविषये कार्यान्तरनिवृत्तिस्सिद्धेत्यर्थः / तथाच प्रकृते अभ्यासयकारस्य सम्प्रसारणे सिद्ध रूपमाह / विव्यायेति / विव्यतुः। विव्युः इति // ‘वचिस्वपि' इति सम्प्रसारणे द्वित्वे यणिति भावः / थलि भारद्वाजनियमादिविकल्पमाशङ्कयाह / इडत्यति // विव्यायथे. ति // अकित्त्वादभ्यासस्य सम्प्रसारणमिति भावः / विव्यथुः / विव्य / विव्याय-विव्य. येति // अकित्त्वादभ्यासस्य सम्प्रसारणे णित्त्वविकल्पाद्वृद्धिविकल्प इति भावः / विव्यिव / विव्यिम / विव्ये इति // कित्त्वात् 'वचिस्वपि' इति सम्प्रसारणे पूर्वरूपे वि इत्यस्य द्वित्वे यणिति भावः / विव्याते। विव्यिरे / विव्यिषे / विव्याथे / विव्यिध्वे / विव्ये। विव्यिवहे / विव्यिमहे / व्यातेति // तासि एकारस्य आत्त्वम् / व्यास्यति। व्ययतु। व्ययताम् / अव्ययत् / अव्ययत / व्ययेत् / वीयादिति // कित्त्वात् 'वचिस्वपि' इति सम्प्रसारणे पूर्वरूपे 'अकृत्सार्वधातुकयोः' इति दीर्घः / वीयास्ताम् / व्यासीष्टेति // आशीर्लिङि सीयुटि आत्त्वम् / अव्यासीदिति // लुद्धि सिचि आत्त्वे इट्सकोः सिज्लोपः / अव्यासिष्टामित्यादि / अव्यास्तेति // लुङि आत्मनेपदे अव्ये स् त इति स्थिते आत्त्वमिति भावः। अव्यासातामित्यादि / अव्यास्यत् / अव्यास्यत / ह्वेञ् धातुरनिट् / जित्त्वादुभयपदी। शब्दे चेति // For Private And Personal Use Only
Page #178
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदीसहिता [भ्वादि 2417 / अभ्यस्तस्य च / (6-1-33) अभ्यस्तीभविष्यतो ह्वेषः सम्प्रसारणं स्यात् / ततो द्वित्वम् / जुहाव / जुहुवतुः / जुहुवुः / जुहोथ-जुहविथ / जुहुवे / ह्वाता / हूयात् / ह्वासीष्ट / 2418 / लिपिसिचिह्वश्च / (3-1-53) एभ्यश्च्लेरङ् स्यात् / 2419 / आत्मनेपदेष्वन्यतरस्याम् / (3-2-54) 'आतो लोप:' (सू 2372) / अह्वत् / अह्वताम् / अह्वन / अह्वत / अह्वास्त / आकारणार्थः आगच्छेत्यादिशब्दोऽत्र विवक्षितः। ह्वयति-द्वयते इति // शपि गुणायादेशौ / णलादौ अकिति 'लिट्यभ्यासस्य' इति अभ्यासस्यैव सम्प्रसारणे प्राप्ते / अभ्यस्तस्य च // 'ह्वः सम्प्रसारणम्' इत्यनुवर्तते / ह्व इति कृतात्त्वस्य ह्वे इत्यस्य षष्ठ्यन्तम् / तथाच अभ्यस्तीभूतस्य ह्वेनः सम्प्रसारणमिति लभ्यते। तथा सति णलि हे अ इति स्थिते द्वित्वे कृने 'उभे अभ्यस्तम्' इत्यभ्यस्तसंज्ञायामुत्तरखण्डस्य सम्प्रसारणे कृते पूर्वखण्डस्याभ्यासस्य ‘न सम्प्रसारणे सम्प्रसारणम्' इति निषेधः स्यादित्यत आह। अभ्यस्तीभविष्यतः इति // ननु यद्यभ्यस्तीभविष्यतो ह्वेनः सम्प्रसारणं तर्हि द्वित्वं बाधित्वा परत्वात्सम्प्रसारणे सति 'विप्रतिषेधे यद्बाधितन्तद्बाधितम्' इति न्यायात् द्वित्वन्न स्यादित्यत आह / ततो द्वित्वमिति // सम्प्रसारणानन्तरं द्वित्वमित्यर्थः / 'पुनः प्रसङ्गविज्ञानात्' इति भावः / तथाच णलि आत्त्वे कृते सम्प्रसारणे पररूपे हु इत्यस्य द्वित्वे 'कुहोश्चुः' इति श्चुत्वे तस्य जश्त्वे 'अचो णिति' इति वृद्धी आवादेशे परिनिष्टितं रूपमाह / जुहावेति / जुहुवतुरिति // अतुसि आत्त्वे आलोपम्बाधित्वा अन्तरङ्गत्वात् 'अभ्यस्तस्य च' इत्यनेन सम्प्रसारणे 'वार्णादाङ्गम्बलीयः' इत्यस्यानित्यतया अन्तरङ्गात्पूर्वरूपे कृते द्वित्वे उवङिति भावः / यद्यपि किति 'वचिस्वपि'इति सम्प्रसारणेऽपि सिद्धमिदम् / तथापि अकिति आवश्यकमभ्यस्तस्यचेत्येतत् न्याय्यत्वादिहापि भवतीति बोध्यम् / एवं जुहुवुः / भारद्वाजनियमात्थलि वेट् / तदाह / जुहोथ-जुहविथेति // जुहुवथुः / जुहुव / जुहाव-जुहव। जुहुविव / जुहुविम / कादिनियमादिट् / जुहुवे। जुहुवाते। जुहुविरे / जुहुविषे / जुहुवाथे। जुहुविध्वे / जुहुवे / जुहुविवहे / जुहुविमहे / ह्वातेति // तासि आत्त्वम् / ह्वास्यति / ह्वास्यते / ह्वयतु / ह्वयताम् / अह्वयत् / अह्वयत / ह्वयेत् / ह्रयेत / हूयादिति // आशार्लिङि आत्त्वे यासुटि कित्त्वात् 'वचिस्वपि' इति सम्प्रसारणे पूर्वरूपे 'अकृत्सार्वधातुकयोः' इति दीर्घ इति भावः। हासीष्टेति // आशीर्लिङि सीयुटि रूपम् / लुङि विशेषमाह / लिपिसिचि // लिपि सिचि ह्वा एषां समाहारद्वन्द्वात्पञ्चम्येकवचनम् / 'च्ले: सिच्' इत्यतः च्लेरिति 'अस्यतिवक्तिख्यातिभ्यः' इत्यतः अङिति चानुवर्तते। तदाह / एभ्यः इति // इदम्परस्मैपदविषयम् / आत्मनेपदे विकल्पविधानात् / तदाह / आत्मनेपदेषु / आतो लोपः इति // अह्वा अत् इति स्थिते 'आतो लोप इटि च' इत्याल्लोप इत्यर्थः। अह्वदिति // अह्वताम् / For Private And Personal Use Only
Page #179
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा। 177 अथ द्वौ परस्मैपदिनौ। वद 1009 व्यक्तायां वाचि / अच्छ वदति / उवाद / ऊदतुः / उवदिथ / वदिता / उद्यात् / * वदव्रज-' (सू 2267) इति वृद्धिः / अवादीन / टु ओ श्वि 1010 गतिवृद्ध्योः / श्वयति / 2420 / विभाषा श्वेः / (6-1-30) __ श्वयतेः सम्प्रसारणं वा स्याल्लिटि यङि च / शुशाव / शुशुवतुः / 'श्यतेर्लिट्यभ्यासलक्षणप्रतिषेधः' (वा 3462) / तेन * लिट्यभ्यासस्य-' अह्वन्नित्यादि / अबतेति // लुडि आत्मनेपदे अङि रूपम् / अह्वेताम् / अहुन्तेत्यादि / अङभावपक्षेत्वाह / अह्वास्तेति // अट्ठासाताम् / अवासत इत्यादि। अह्वास्यत् / अवास्यत / वद व्यक्तायां वाचीति // अज्झल्विभागेन स्पष्टोचारणे इत्यर्थः। सेडयम् / अच्छ वदति / अच्छेत्यव्ययमाभिमुख्ये / अभिमुखं वदतीत्यर्थः / 'अच्छ गत्यर्थवदेषु' इति गतित्वादच्छेत्यस्य धातोः प्रागेव प्रयोग इति भावः।अकिति लिटि द्वित्वे 'लिट्यभ्यासस्य' इति सम्प्रसारणमिति मत्वा आह / उवादेति // किति लिटि तु 'वचिस्वपियजादानाम्' इति द्वित्वात्प्राक् सम्प्रसारणे कृते द्वित्वे सवर्णदीर्घ इति भावः / ऊदतुरिति / उवदिथेति // द्वित्वे अभ्यासस्य सम्प्रसारणमिति भावः / ऊदथुः / ऊद / उवाद-उवद / ऊदिव / ऊदिम / वदितेति // तासि इट् / वदिष्यति। वदतु / अवदत् / वदेत् / उद्यादिति // आशीर्लिङि यासुट: कित्त्वात् 'वचिस्वपि' इति सम्प्रसारणमिति भावः / अवादीत् इत्यत्र हलन्तलक्षणवृद्धेः 'नेटि' इति निषेधेऽपि 'अतो हलादेः' इति वृद्धिविकल्पमाशङ्कय वदधातोः पृथक् ग्रहणाद्वृद्धिरित्यभिप्रेत्याह। वदवजेति वृद्धिरित // एतदर्थमेव 'वदवजहलन्तस्य' इत्यत्र वदधातोः पृथक् ग्रहणमिति भावः / ट्र ओश्वि इति // टुरोकारवेत् / श्वयतीति // शपि गुणायादेशौ / लिटि तु अकिति णलादौ 'लिट्यभ्यासस्य'इत्यभ्यासस्य नित्यं सम्प्रसारणे प्राप्ते किति तु अतुसादौ द्वित्वात्प्राक् 'वचिस्वपि'इति नित्यं सम्प्रसारणे प्राप्ते आह / विभाषा श्वेः॥ सम्प्रसारणमिति // 'ध्यङस्सम्प्रसारणम्' इत्यतस्तदनुवृत्तेरिति भावः / लिटि यङि चेति // 'लिड्योः ' इत्यनुवृत्तरिति भावः। शुशावेति // णलि अभ्याससम्प्रसारणं बाधित्वा द्वित्वात्प्रागेव परत्वादनेन सम्प्रसारणे कृते ततो द्वित्वे वृद्ध्यावादेशाविति भावः / अकित्त्वाद्वचिस्वपीत्यस्य नात्र प्राप्तिः / तथाच लिड्नत्स्वेकवचनेषु द्वित्वात् प्रागप्राप्तस्य सम्प्रसारणस्य विकल्पविधिः। शुशुवतुरिति // लिटि तु द्विवचनबहुवचनेषु द्वित्वात्प्राक् वचिस्वपीति सम्प्रसारणस्य विकल्पविधिः / तथाच उभयत्र विभाषेयम् / यडशे त्वप्राप्तविभाषैवेयम् / शोशूयते। शेश्वीयते / तत्र णलि एतत्सम्प्रसारणाभावपक्षे श्वि इत्यस्य द्वित्वानन्तरमभ्याससम्प्रसारणे शुश्वाय इति प्राप्ते आह। श्वयतेर्लिट्यभ्यासलक्षणप्रतिषेधः इति // लिट्यभ्याससम्प्रसारणस्य प्रतिषेधो वक्तव्य इत्यर्थः। तथाच श्वि इत्यभ्यासस्य सम्प्रसारणाभावादभ्यासे इकार एव श्रूयते इत्याह / तेनेति // शूयादिति // आशीलिङि यासुटः 23 For Private And Personal Use Only
Page #180
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 178 सिद्धान्तकौमुदीसहिता [भ्वादि (सू 2408) इति सम्प्रसारणं न / शिश्वाय / शिश्वियतुः / वयिता / श्वयेत् / शूयात् / 'जस्तम्भु–' (सू 2291) इत्यङ् वा / 2421 / श्वयतेरः / (7-4-18) श्वयतेरिकारस्याकारः स्यादङि / पररूपम् / अश्वत् / अश्वताम् / अश्व। 'विभाषा धेट्श्व्योः ' (सू 2375) इति चङ् / इयङ् / अशिश्चियत् / 'ह्मथन्त-' (सू 2299) इति न वृद्धिः / अश्वयीत् / वृत् / यजादयो वृत्ताः / भ्वादिस्त्वाकृतिगणः / तेन चुलुम्पतीत्यादिसङ्ग्रहः / इति भ्वादयः / 2422 / ऋतेरीयङ् / (3-1-29) ऋतिः सौत्रस्तस्मादीयङ् स्यात्स्वार्थे / 'जुगुप्सायामयं धातुः' इति कित्त्वाद्वचिस्वपीति सम्प्रसारणे पूर्वरूपे 'अकृत्सार्वधातुकयोः' इति दीर्घ इति भावः / लुङि विशेषमाह / जस्तम्भिवति // तथाच अश्वि अ त् इति स्थिते इयडि प्राप्ते / श्वयतेरः॥ श्वयतेः अः इति च्छेदः। श्वयतेरिति श्तिपा निर्देशः / विधातोरित्यर्थः। 'अलोऽन्त्यस्य' इत्यन्त्यस्य इकारस्येति लभ्यते। 'ऋदृशोऽडि' इत्यतः अडीत्यनुवर्तते / तदाह। श्वयतेरिकारस्यति॥ अश्व अ त् इति स्थिते सवर्णदीर्घमाशङ्कयाह / पररूपमिति // आर्धधातुकोपदेशे अदन्तत्वाभावात् न अल्लोपः / अश्वन्निति // अश्वः / अश्वतम् / अश्वत / अश्वम् / अश्वाव / अश्वाम / अङभावपक्ष त्वाह। विभाषेति // इयङिति ॥'चडि' इति द्वित्वमित्यपि ज्ञेयम्। तदाह / अशिश्चियदिति // अडश्चडश्चाभावे तु अश्वि ईत् इति स्थिते इकारस्य सिचि वृद्धौ सत्यां आयादेशे अश्वायीदिति प्राप्ते आह / मयन्तेति न वृद्धिरिति // श्विग्रहणादिति भावः / नच 'नेटि' इत्येव सिचि वृद्धेः निषेधसिद्धेः पृथक् श्विग्रहणं व्यर्थमिति वाच्यम्। 'नेटि' इति निषेधस्य हलन्तलक्षणवृद्धिमात्रविषयत्वात् / नच अश्वि ईत् इति स्थिते सिचि वृद्ध्यपेक्षया परत्वादन्तरङ्गत्वाच इकारस्य गुणे एकारे कृते इगन्तत्वाभावेन सिचि वृद्ध्यप्राप्त्या अयादेशे कृते यान्तत्वादेव हलन्तलक्षणवृद्धनिषेधसिद्धेः'ह्मयन्त' इत्यत्र श्विग्रहणं व्यर्थमिति वाच्यम्। अनवकाशतया अपवादत्वेन गुणम्बाधित्वा सिचि वृद्धेः प्राप्तौ तनिषेधार्थत्वादित्यलम् / वृदित्यस्य व्याख्यानं यजादयो वृत्ता इति / ननु भ्वादयो वृत्ता इति कुतो न व्याख्यायते इत्यत आह / भ्वादिस्त्वाकृतिगणः इति // चुलुम्पतीति // चुलुम्पधातु.पार्थकः तस्यापि भ्वादिगणे पाठात् शव्विकरणत्वमिति भावः / इति भ्वादयः इति // नचैवं सति ‘अद भक्षणे' इत्यादीनां वक्ष्यमाणानां धातुत्वं कथमित्याशङ्कय शब्विकरणाः भ्वादयस्समाप्ता इत्यर्थात् / ऋतेरीयङ् / / ऋतेर्धातुपाठे अदर्शनादाह / ऋतिः सौत्रः इति // स्वार्थ इति // अर्थविशेषस्यानिर्देशादिति भावः। तकारान्तो धातुरयमिका निर्दिष्टः न विकारान्तः / इदन्तत्वे हि सवर्णदीर्घेणैव सिद्धे ईकारोच्चारणवैयर्थ्यात् / नच For Private And Personal Use Only
Page #181
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा / 179 बहवः / ‘कृपायां च' इत्येके / 'सनाद्यन्ता:-' (सू 2304) इति धातुत्वम् / ऋतीयते / ऋतीयाञ्चक्रे / आर्धधातुकविवक्षायां तु 'आयादय आर्धधातुके वा' (सू 2305) इतीयङभावे ‘शेषात्कर्तरि-' (सू 2159) इति परस्मैपदम् / आनर्त / अर्तिष्यति / आर्तीत्। / इति तिङन्तभ्वादिप्रकरणम् / इदन्तत्वे सति ‘एरनेकाचः' इति यण् स्यादिति वाच्यम्। एवमपि ऋतेयः इति ङ्यप्रत्यये कृते 'अकृत्सार्वधातुकयोदीर्घः' इति दीघेणैव सिद्धे ईयविधिवैयर्थ्यात् / एके इति // अन्ये इत्यर्थः / ऋतीयते इति / ईयडोऽदन्तत्वात् शपि पररूपम् / ऋतीयाञ्चके इति // ‘कास्प्रत्ययात्' इत्याम् / ऋतीयिता / ऋतीयिष्यते। ऋतीयताम् / आतीयत / ऋतीयेत / ऋतीयिषीष्ट / आर्तीयिष्ट / आतीयिष्यत / आनर्तेति // ऋत् इति तकारान्तात् लिटि णलि द्वित्वे उरदत्त्वे रपरत्वे हलादिशेषे 'अत आदेः' इत्यभ्यासस्य दीर्घ 'तस्मान्नुडिहलः' इति नुट / नुविधौ श्रकारैकदेशो रेफो हल्वेन गृह्यते इति उक्तेरिति भावः / आनृतंतुः। आनृतुः। अनिट्सु अस्यापाठात् थलि नित्यमिट् / आनर्तिथ / आनृतथुः / आनृत। आनर्त / आनृतिव। आनृतिम। अर्तिता / अर्तिष्यति / ऋत्यात् / आर्तीदिति // ‘इट ईटि' इति सिज्लोपः / आडागमः / आतिष्यत् // इति श्रीसिद्धान्तकौमुर्दाव्याख्यायां वासुदेवदीक्षितविरचितायां बालमनोरमायां // शब्धिकरणनिरूपणम् // For Private And Personal Use Only
Page #182
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir / श्रीरस्तु / // अथ तिङन्तादादिप्रकरणम् // अद 1011 भक्षणे / द्वौ परस्मैपदिनौ। 2423 / अदिप्रभृतिभ्यः शपः / (2-4-72) लुक्स्यात् / अत्ति / अत्तः / अदन्ति / / 2424 / लिट्यन्यतरस्याम् / (2-4-40) अदो घस्ल वा स्याल्लिटि / जघास / ' गमहन-' (सू 2363) इत्युपधालोपः / तस्य चविधिं प्रति स्थानिवद्भावनिषेधावस्य चर्वम् / 'शासिवसि-' (सू 2410) इति षत्वम् / जक्षतुः / जक्षुः / घसेस्तासावभावात्थलि नित्य अथ लुग्विकरणान् धातून्निरूपयितुमुपक्रमते / अद भक्षणे इति // अनिडयम् / अदिप्रभृतिभ्यः // ‘ण्यक्षत्रियार्षभितः' इत्यतो लुगित्यनुवर्तते इत्यभिप्रेत्य शेषपूरणेन सूत्रं व्याचष्टे / लुक् स्यादिति // अदिप्रभृतिभ्यः परस्य शपो लुगिति फलितम् / अत्तीति // शपो लुकि दस्य चर्वेन तकारः / एवमत्त इत्यपि / अदन्तीति // एतदर्थमेव 'झोऽन्तः' इत्यत्र अकारादिरादेश आश्रितः / अत्सि / अत्थः / अत्थ / अनि / अद्वः / अद्मः / लिट्यन्यतरस्याम् // 'अदो जग्धिः' इत्यतः अद इति ‘लुङ्सनोर्घस्ल' इत्यतो घस्ल इति चानुवर्तते / तदाह / अदः इति // आदेशे लकार इत् / घसादेशः अनिट् / जघासेति // अकित्त्वात् 'गमहन' इत्युपधालोपो नेति भावः / जघस् अतुसिति स्थिते आह / गमहनेत्युपधालोपः इति // 'असंयोगात्' इति कित्त्वादिति भावः / जघम् अतुसिति स्थिते घकारस्य चत्वं वक्ष्यन् उपधालोपस्य स्थानिवत्त्वमाशङ्कयाह / तस्येति // उपधालोपस्येत्यर्थः। जघस् अतुसिति स्थिते सकारस्य आदेशप्रत्ययावयवत्वाभावादाह / शासीति // थलि तु क्रादिनियमानित्यमिट् / 'उपदेशेऽत्वतः' इति निषेधस्य तासौ नित्यानिविषयत्वात् / घस् तु तासौ न विद्यत एव कुतस्तस्य तासावनिटकत्वम्। 'यस्तासावस्ति अनिट् च' इति हि भाष्यम् / तदाह / घसेस्तासाविति / जघसिथेति // जक्षथुः / जक्ष / जघास-जघस / जक्षिव / For Private And Personal Use Only
Page #183
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा / 181 मिट / जघसिथ / आद / आदतुः / * इडयत्ति-' (सू 2384) इति नित्यमिट् / आदिथ / अत्ता / अत्स्यति / 2425 / हुझल्भ्यो हेर्धिः / (6-4-101) होझलन्तेभ्यश्च हेधिः स्यात् / अद्धि / अत्तात् / अदानि / 2426 / अदः सर्वेषाम् / (7-3-100) अदः परस्यापृक्तसार्वधातुकस्याडागमः स्यात्सर्वमतेन। आदत्। आत्ताम् / आदन् / आदः / आत्तम् / आत्त / आदम् / आव / आद्म / अद्यात् / अद्याताम् / अद्युः / अद्यास्ताम् / अद्यासुः / 2427 / लुङ्सनोर्घस्ल / (2-4-37) अदो घस्ल स्याल्लुङि सनि च / लदित्त्वादङ् / अघसत् / हन 1012 हिंसागत्योः / प्रणिहन्ति / जक्षिम / घसादेशाभावपक्षे त्वाह / आदेति // थलि भारद्वाजनियमादिविकल्पे प्राप्ते आह / इडत्यर्तीति / आदिथेति // आदथुः / आद / आद / आदिव / आदिम / अत्ता / अत्स्यतीति // अनिट् / दस्य तः। अत्तु-अत्तात् / अत्ताम् / अदन्तु / अद् हि इति स्थिते 'झयो होऽन्यतरस्याम्' इति हकारस्य पूर्वसवर्णविकल्पेन धकारविकल्पे प्राप्त / हुझल्भ्यो होधिः॥ झलन्तेभ्यः इति ॥अङ्गविशेषणत्वात् तदन्तविधिरिति भावः। अनेकाल्त्वात् सर्वादेशः। रुदिहीत्यत्र तु न / निर्दिश्यमानहेरिटा व्यवहितत्वात् / इट्सहितस्य त्वनिर्दिश्यमानत्वादिति भाष्ये स्पष्टम् / अत्तादिति // धित्वात् परत्वात्तातङ् / तस्य स्थानिवत्त्वेन हित्वेऽपि न पुनर्धित्वम् / ‘विप्रतिषेधे यद्बाधितं तद्बाधितमेव' इति न्यायात् / अत्तम् / अत्त। अदा. नीति // 'आडुत्तमस्य' इत्याडागमः / एतदर्थमेव आडागमे दीर्घोच्चारणमिति भावः / अदाव / अदाम / लडि आद् त् इति स्थिते / अदः सर्वेषाम् // अद इति पञ्चमी। 'तस्मादित्युत्तरस्य इति परिभाषया परस्येति लभ्यते / ‘गुणोऽपृक्त' इत्यतः अपृक्ते इति 'तुरुस्तु शम्यमः' इत्यतस्सार्वधातुके इति चानुवर्तते / सप्तमीद्वयञ्च षष्ठ्या विपरिणम्यते। ‘अड् गायेगालवयोः' इत्यतः अडित्यनुवर्तते / गाय॑गालवयोरित्यस्यानुवृत्तिनिवृत्तये सर्वेषामिति। तदाह / अदः परस्येत्यादिना // टित्त्वादाद्यवयवः / तदाह / आददिति // आत्तामिति // अपृक्तग्रहणानाडागम इति भावः / विधिलिङि रूपमाह / अद्यादिति // शपो लुकि अतः परत्वाभावात् 'अतो येयः' इति नेति भावः / मिपः अमि यासुटि सलोपे सवर्णदीर्घ अद्याम् / अद्याव / अद्याम / आशीर्लिङि अद्यादिति सिद्धवत्कृत्याह / अद्यास्तामिति // लुङि अद् स् त् इति स्थिते / लुङ्सनोर्घस्ल // ‘अदो जग्धिः' इत्यतः अद इत्यनुवर्तते / तदाह / अदेरिति॥ लदित्त्वस्य प्रयोजनमाह / लदित्त्वादिति // हनधातुरनिट् / प्रणिहन्तीति // शपो लुक् / For Private And Personal Use Only
Page #184
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 182 सिद्धान्तकौमुदीसहिता [अदादि 2428 / अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झाल कृिति / (6-4-37) 'अनुनासिक-' इति लुप्तषष्ठीकं पदं वनतीतरेषां विशेषणम्। अनुनासिकान्तानामेषां वनतेश्च लोप: स्याज्झलादौ किति परे / यमिरमिनमिगमिहनिमन्यतयोऽनुदात्तोपदेशाः / तनुक्षणुक्षिणुऋणुतृणुघृणुवनुमनु तनोत्यादयः / हतः / नन्ति / 2429 / वमोर्वा / (8-4-23) उपसर्गस्थानिमित्तात्परस्य हन्तेर्नस्य णो वा स्याद्वमयोः परयोः / नस्यानुस्वारपरसवौँ / 'नेर्गद' इति णत्वम् / अनुदात्तोपदेश // ऊदृदन्तैरित्यादिभि. स्सङ्ग्रहीता अनुदात्तोपदेशाः वनतिभौवादिकः तनोत्यादयस्तु 'तनु विस्तारे' इत्यादिना पठिष्यन्ते / एतेषामनुनासिकस्य लोपः स्यात् झलादौ क्ङिति इति प्रतीयमानार्थः / एवं सति मुक्तमित्यादौ मुचादीनामपि मकारादिलोपः स्यात् / तत्राह / अनुनासिकः इति लुप्तषष्ठीकं पदमिति // एवमप्युक्तातिप्रसङ्गतादवस्थ्यादाह / वनतीतरेषां विशेषणमिति // अनुदात्तोपदेशानां तनोत्यादीनाञ्चेत्यर्थः / तथाच विशेषणत्वात्तदन्तविधौ अनुनासिकान्तानामनुदातोपदेशानान्तनोत्यादीनां वनतेश्चेत्येषामन्तस्य लोप: स्यादित्यर्थलाभान्मुक्तमित्यादौ नातिप्रसङ्गः / तदाह / अनुनासिकान्तानामित्यादिना // वनधातोस्तु अनुनासिकान्तत्वान्न विशेषणम् / अव्यभिचारादिति भावः / अत्रानुदात्तोपदेशान् अनुनासिकान्तान् दर्शयति / यमिरमीति // अनुदात्तोपदेशेषु एतेषामेव षण्णामनुनासिकान्तत्वादिति भावः / अथ तनोतीत्यादीननुनासिकान्तान् दर्शयति / तनुक्षणुक्षिण्विति // मनु इत्यन्तं समाहारद्वन्द्वात् प्रथमैकवचनम्। एतेऽष्टौ तनोत्यादयोऽनुनासिकान्ता इत्यर्थः / 'तनु विस्तारे' इत्यारभ्य 'डु कृञ् करणे' इत्यन्ता दश धातवस्तनोत्यादयः / तत्र करोतिरनुनासिकान्तत्वाभावादिह न गृह्यते / 'जनसनखनां सन्झलोः' इति सनोतरात्त्वस्य वक्ष्यमाणत्वात् सोऽप्यत्र न गृहीतः / 'वनु याचने' इति तनादौ पठितम् / तस्य उविकरणतया उदित्त्वेन च वनतिग्रहणेनाग्रहणात् तनादौ पठितस्यापि पृथग्ग्रहणम् / तत्र तानादिकस्य वनेरुदित्त्वात् 'उदितो वा' इति वायामिड्डिकल्पात् 'यस्य विभाषा' इति निष्ठायामिडभावपक्षे, वतः, वतवान् , इत्युदाहरणम् / वनतेस्तु भौवादिकस्य उदित्त्वाभावान्निष्टायां सेटकत्वेऽपि क्तिनि वतिरित्युदाहरणम् / 'तितुत्रतथसिसुसरकसेषु च' इति इनिषेधादित्यलम् / हतः इति // तसि अनुदात्तोपदेशानुनासिकान्तत्वानकारलोपः। 'सार्वधातुकमपित्' इति तसो ङित्त्वात् / घ्नन्तीति // अजादिडित्परकत्वात् 'गमहन' इत्युपधालोपे 'हो हन्तेः' इति कुत्वेन हस्य घः / हसि / हथः। हथ / वमोर्वा // 'उपसर्गादसमासेऽपि' इत्यतः उपसर्गादित्यनुवर्तते / 'रषाभ्यानो णः' इति सूत्रमनुवर्तते / 'हन्तेरत्पूर्वस्य' इत्यतो हन्तेरिति / तदाह / उपसर्गस्थानिमित्तादिति // णलि जहा For Private And Personal Use Only
Page #185
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Achar www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा। 183 प्रहण्मि-प्रहन्मि / प्रहण्व:-प्रहन्वः / 'हो हन्ते:'-' (सू 358) इति कुत्वम् / जघान / जन्नतुः / जघ्नुः / 2430 / अभ्यासाच्च / (7-3-55) __ अभ्यासात्परस्य हन्तेहस्य कुत्वं स्यात् / जघनिथ-जघन्थ / हन्ता / 'ऋद्धनो:--' (सू 2366) इतीट् / हनिष्यति / हन्तु / हतात् / नन्तु / 2431 / हन्तेर्जः / (6-4-36) हौ परे आभीयतया जस्यासिद्धत्वाद्धेर्न लुक् / जहि / हनानि / हनाव / हनाम / अहन / अहताम् / अन्नन् / अहनम् / 2432 / आर्धधातुके / (2-4-35) इत्यधिकृत्य / 2433 / हनो वध लिङि / (2-4-42) 2434 / लुङि च / (2-4-43) नेति स्थिते आह / हो हन्तेरिति // ‘अभ्यासाच' इत्यपेक्षया अस्यान्तरङ्गत्वेन न्याय्यत्वादिति भावः / जघ्नतुरिति // ‘गमहन' इत्युपधालोपे ' हो हन्तेः' इति कुत्वम् / थलि भारद्वाजनियमादिडिकल्पे जहनिथ। जहन् थ, इति स्थिते णित्प्रत्ययपरत्वाभावान्नकारपरत्वाभावाच्च 'हो हन्तेः' इति कुत्वाप्राप्तौ। अभ्यासाच॥ 'हो हन्तेः' इत्यनुवर्तते। 'चजोःकुघिण्ण्यतोः' इत्यतः कुग्रहणञ्च / तदाह / अभ्यासात् परस्येत्यादिना। जघनिथ-जघन्थेति // इडभावे नस्यानुस्वारपरसवर्णी / जघ्नथुः / जन्न / जघान-जघन / जग्निव / जनिम / लुटि स्ये इनिषेधमाशङ्कयाह / ऋद्धनोरिति // हन् हि इति स्थिते 'हुझल्भ्यः' इति धित्वे प्राप्ते / हन्तेर्जः // 'शा हौ' इत्यतः हौ इत्यनुवृत्तिमभिप्रेत्य शेषपूरणेन सूत्रं व्याचष्टे / हौ परे इति // कृते जादेशे ‘अतो हेः' इति हेर्लुकमाशङ्कय आह। आभीयतयेति / जहीति // हतात् / हतम् / हत / हनानीति // आटः पित्त्वेन ङित्त्वाभावान्नोपधालोप इति भावः / अह. निति॥लङस्तिपि इतश्च' इति इकारलोपे ‘संयोगान्तस्य' इति तकारलोपः। न्याय्यत्वाद्धल्ड्यादिलोपो वा / अहनमिति // अहन्व। अहन्म / झलादिपरकत्वाभावान्नोपधादीर्घः / विधिलिङि हन्यात् / हन्याताम् इत्यादि / आशीलिंङि वधादेशं वक्ष्यन्नाह / आर्धधातुके इत्यधिकृत्येति // 'अदो जग्धिः' इत्यादिविधयो वक्ष्यन्ते इति शेषः। तदधिकारस्थं सूत्रमाह / हनो वध // वधेति लुप्तप्रथमाकम् / हनो वधादेशः स्यादार्धधातुके लिङीत्यर्थः / लुङि च // For Private And Personal Use Only
Page #186
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 184 सिद्धान्तकौमुदीसहिता . वधादेशोऽदन्त: / 'आर्धधातुके' (सू 2307) इति विषयसप्तमी / तेनार्धधातुकोपदेशेऽकारान्तत्वात् ‘अतो लोप:' (सू 2308) / वध्यात् / वध्यास्ताम् / 'आर्धधातुके' किम् / विध्यादौ हन्यात / 'हन्ते:-' (सू 359) इति णत्वम् / प्रहण्यात् / अवधीत् / ___ अथ चत्वारः स्वरितेत: / द्विष 1013 अप्रीतौ / द्वेष्टि-द्विष्टे / द्वेष्टा / द्वेक्ष्यति / द्वेक्ष्यते / द्वेष्टु-द्विष्टात् / द्विढि / द्वेषाणि / द्वेषै / द्वेषावहै / अद्वेट् / 2435 / द्विषश्च / (3-4-112) लङो झेर्जुस् वा स्यात् / अद्विषुः / अद्विषन / अद्वेषम् / द्विष्यात् / द्विषीत / द्विक्षीष्ट / अद्विक्षत् / दुह 1014 प्रपूरणे / प्रपूरणं पूरणाहनो वधादेशः स्याल्लुङीत्यर्थः स्पष्टः। वधादेशोऽदन्तः इति // धकारादकारो न सुखोच्चारणार्थ इति भावः / तत्प्रयोजनन्तु अनुपदमेव अवधीत् इत्यत्र वक्ष्यते / ननु आशीर्लिङि हन यादिति स्थिते आर्धधातुके परे कृतस्य वधादेशस्य आर्धधातुकोपदेशे अकारान्तत्वाभावात् कथं वद्ध्यादित्यत्र अल्लोप इत्यत आह / विषयसप्तमीति // तथाच आर्धधातुके विवक्षिते तत्प्रवृत्तेः प्रागेव वधादेशे कृते आर्धधातुकप्रवृत्तिरिति फलितम् / ततश्च आर्धधातुकोपदेशे वधादेशस्य अकारान्तत्वादल्लोपो निर्बाधः / तदाह / तेनेति // अवधीदिति // सिचि अल्लोपे कृते वधादेशस्य धकारान्ततया एकाच्त्वेऽप्यादेशोपदेशे अनेकाच्त्वेन ‘एकाच उपदेशे' इति निषेधाभावात् सिच इट् / अतो हलादेः' इति वृद्धिस्तु न भवति / 'अचः परस्मिन् ' इत्यल्लोपस्य स्थानिवत्त्वात् / एतदर्थमेव हि वधादेशस्य अदन्तत्वमाश्रितम् / स्वरितेतः इति // उभयपदिन इति फलितम् / द्विष अप्रीताविति // अनिट् / द्वेष्टीति // पित्त्वेन ङित्त्वाभावाल्लघू. पधगुण इति भावः / द्विष्टः / द्विषन्ति / द्वेक्षि / द्विष्टः / द्विष्ठ / द्वेष्मि / द्विष्वः / द्विष्मः / तडि उदाहरति / द्विष्टे इति // डित्त्वान्न गुणः / द्विषाते / द्विषते / द्विक्षे / द्विषाथे / द्विड्ढ़े / द्विषे। द्विष्वहे। द्विष्महे / षढोरिति षस्य कत्वम्मत्वा आह / द्वेक्ष्यतीति / द्विड्ढीति // हेधिः षस्य जश्त्वेन डः। द्विष्टात् / द्विष्टम् / द्विष्ट। द्वेषाणीति // आटः पित्त्वेन डित्त्वाभावात् गुणःषात्परत्वाण्णत्वम् / द्वेषाव / द्वेषाम / द्विष्टाम् / द्विषाताम् / द्विषताम् / द्विश्व / द्विषाथाम् / द्विड्वम् / द्वेषै इति // आटः पित्त्वेन डित्त्वाभावात् गुण इति भावः। अद्वेडिति // लङस्तिप् गुणः इकारलोप: ‘वाऽवसाने' इति चर्वजश्त्वे इति भावः / अद्विष्टाम् / द्विषश्च // ' झर्जुस्' इति 'लडइशाकटायनस्य' इति चानुवर्तते इत्यभिप्रेत्य शेषपूरणेन सूत्रं व्याचष्टे / लङो झेरिति / अद्विषन्निति // अद्वेट् / अद्विष्टम् / अद्विष्ट / अद्वेषम् / अद्विष्व / अद्विष्म / विधिलिडि परस्मैपदे आह / द्विष्यादिति // द्विध्याताम् , द्विष्युः, इत्यादि। तङि आह / द्विषीतेति // द्विषीयाताम् / द्विषीरन् इत्यादि / आशीर्लिङि द्विष्यास्ताम् इत्यादि / तङ्याह / द्विक्षीष्टेति // 'लिङ्सिचोरात्मनेपदेषु' इति कित्त्वान्न गुणः / द्विक्षीयास्तामित्यादि / लुडिः परस्मैपदे आह / For Private And Personal Use Only
Page #187
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा / 185 भावः / धात्वर्थम्बाधते कश्चित् / दोग्धि / दुग्धः / धोक्षि / दुग्धे / धुक्षे / धुग्ध्वे / दोग्धु / दुग्धि / दोहानि / धुक्ष्व / धुग्ध्वम् / दोहै / अधोक् / अदोहम्। अदुग्ध / अधुग्ध्वम् / अधुक्षत् / अधुक्षतं / 'लुग्वा दुह-' (सू 2365) इति लुक्पक्षे तथास्ध्वम्वहिषु लङ्घदपि / दिह 1015 उपचये / उपचयो अद्विक्षदिति // ‘शल इमुपधात्'इति क्सः / अद्विक्षताम् / अद्विक्षन् इत्यादि / तङि अद्विक्षत / अद्विक्षाताम् / अद्विक्षन्त इत्यादि / अद्वेक्ष्यत् / अद्वेक्ष्यत / दुह प्रपूरणे इति // अयमनिट। ‘पयो दोग्धि' इत्यादी प्रकृष्टपूरणस्यार्थस्यानवगमादाह / प्रपूरणं पूरणाभावः इति॥ ऊधः पूरणप्रतिकूलीभाव इत्यर्थः / ऊधसः सकाशात् क्षारणे इति यावत् / ननु प्रपूरणशब्दस्य कुतोऽयमर्थ इत्यत आह। धात्वर्थम्बाधते कश्चिदिति // प्रसिद्धं धात्वर्थ कश्चिदुपसर्गो बाधित्वा अर्थान्तरं नयतीत्यर्थः / दोग्धीति // 'दादेः' इति हस्य घः 'झषस्तथोः' इति तकारस्य धकारः घस्य जश्त्वेन गः / एवं दुग्धः इत्यपि / दुहन्ति / धोक्षीति // हस्य घः चर्बेन कः षत्वमिति भावः / दुग्धः / दुग्ध / दोह्मि / दुवः / दुह्मः / लटि आत्मनेपदे आह / दुग्धे इति // घधगाः / दुहाते / दुहते। धुक्षे इति // हस्य घः दस्य भष् धकारः घस्य कः षत्वम् / दुहाथे / धुग्ध्वे इति // हस्य घः भष् घस्य गः। दुहृहे। दुद्महे / दुदोह / दुदुहतुः / दुदुहुः / अजन्ताकारवत्त्वाभावात् कादिनियमान्नित्यमिट् / दुदोहिथ / दुदुहथुः / दुदुह / दुदोह / दुदुहिव / दुदुहिम / दुदुहे / दुदुहाते / दुदुहिरे / दुदुहिषे / दुदुहाथे / दुदुहिट्वे-दुदुहिथ्वे / दुदुहे / दुदुहिवहे / दोग्धा / धोक्ष्यति / धोक्ष्यते / दोग्ध्विति // दुग्धात् / दुग्धाम् / दुहन्तु / दुग्धीति // हेधिः घत्वजश्त्वे / दुग्धात् / दुग्धम् / दुग्ध / दोहानीति // आटः पित्त्वादडित्त्वाद्गुणः / दोहाव / दोहाम / दुग्धाम् / दुहाताम् / दुहताम् / धुक्ष्वेति // घत्वं भष् जश्त्वचा षत्वम् / दुहाथाम् / धुरध्वमिति॥ हस्य घः भष् घस्य जश्त्वम् / दोहै इति // आट: पित्त्वादकित्त्वाद्गुण इति भावः / दोहावहै / दोहामहै / लङि परस्मैपदे आह / अधोगिति // तिप् इकारलोपः हल्ड्यादिलोपः हस्य घः दस्य भष् घस्य चर्वविकल्पः / अदुग्धाम् / अदुहन् / अधोक् / अदुग्धम् / अदु. ग्ध / अदोहमिति // अदुह्व / अदुह्म / लङस्तड्याह / अदुग्धेति // हस्य घः तकारस्य धः घस्य गः / अदुहाताम् / अदुहत / अदुग्धाः / अदुहाथाम् / अधुग्ध्वमिति // हस्य घः दस्य भष् घस्य गः। अदुहि / अदुह्वहि / लुडि परस्मैपदे आह / अधुक्षदिति // ‘शल इगुपधात्' इति क्सः / हस्य घः दस्य भष् घस्य चर्वम् / अधुक्षताम् / अधुक्षन् इत्यादि / लुङस्तड्याह / अधुक्षतेति // ‘क्सस्याचि' अधुक्षाताम् / अधुक्षन्त / अधुक्षथाः / अधुक्षाथाम् / अधुक्षध्वम् / अधुक्षि / अधुक्षावहि / अधुक्षामहि / लुग्वेति // त थास् ध्वम् वहि एषु चतुर्पु दन्त्यादिषु परेषु 'लुग्वा दुह' इति क्सस्य लुक्पक्षे लडीव रूपाणीत्यर्थः / तथाच अदुग्ध / अदुग्धाः / अधुरध्वम् / अदुह्वहि इत्यपि रूपाणीति फलितम्। अधोक्ष्यत् / अधोक्ष्यत। दिह उपचये इति // उपचयो वृद्धिः / अनिट् / प्रणिदेग्धीति // 'नेर्गद' इति णत्वम् / 24 For Private And Personal Use Only
Page #188
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 186 सिद्धान्तकौमुदीसहिता [अदादि वृद्धिः। प्रणिदेग्धि। लिह१०१६ आस्वादने / लेढि / लोढः। लिहन्ति / लेक्षि। लीढे / लिक्षे / लीढ़े / लेढु। लीढाम्। लीढि / लेहानि / अलेट् / अलिक्षत्। अलिक्षत। अलिक्षताम् / अलीढ / अलिक्षावहि / अलिह्वहि। अलेक्ष्यत्। अलेक्ष्यत / चक्षिङ् 1017 व्यक्तायां वाचि / अयं दर्शनेऽपि / इकारोऽनुदात्तो युजर्थः / विचक्षणः प्रथयन' / नुम् तु न / 'अन्ते इदितः' इति व्याख्यानात / ङकारस्तु 'अनुदा दुहधातुवद्रूपाणि / लिह आस्वादने इति // अनिट् / लेढीति // शपो लुकि ढत्वधत्वतृत्वढलोपाः / लेक्षीति॥ सिपि हस्य ढः षढोः' इति ढस्य कः इति भावः / लीढः / लीढ / लेमि / लिह्वः / लिमः / लटि तङ्याह / लीढे इति // लिहाते / लिहते / लिक्षे इति // ढकषाः / लिहाथे इति सुगमम् / लीवे इति // ढत्वधत्वष्टुत्वढलोपदीर्घाः / लिहे / लिह्वहे / लिमहे / लेढा / लेक्ष्यति / लेक्ष्यते / लेविति // लीढात् / लीढाम् / लिहन्तु / लीढीति // हेधिः ढत्वधत्वष्टुत्वढलोपदीर्घाः / लीढात् / लीढम् / लीढ। लेहानीति // आट: पित्त्वेन ङित्त्वाभावाद्गुण इति भावः / लेहाव / लेहाम / लीढाम् / लिहाताम् / लिहताम् / लिव / लिहाथाम् / लीड्वम् / लेहै। लेहावहै / लेहामहै / अलेडिति // लङि तिपि शपो लुकि इकारलोपे हल्ङ्यादिलोपे हस्य ढः चर्वविकल्प इति भावः / अलीढाम् / अलिहन् / अलेट् / अलीढम् / अलीढ / अलेहम् / अलिङ्ग / अलिह्म / अलीढ / अलिहाताम् / अलिहत / अलीढाः / अलिहाथाम् / अलीदम् / अलिहि / अलिह्वहि / अलिह्महि / अलिक्षदिति // लुङि क्सः / अलिक्षताम् / अलिक्षन् / अलिक्षः इत्यादि / तङि आह। अलिक्षतेति। अलीढेति // 'लुग्वा दुह' इति क्सलोपपक्षे रूपम् / अलिक्षाताम् / अलिक्षन्त / अलिक्षथा:-अलीढाः / अलिक्षाथाम् / अलिक्षध्वम्-अलीट्दम् / अलिक्षि। लुग्वा दुह' इति लुग्विकल्पम्मत्वा आह / अलिक्षावहि / अलिबहीति // अलेक्ष्यत् / अलेक्ष्यतेति // द्विषादयश्चत्वारः स्वरितेतो गताः / चक्षिक व्यक्तायां वाचीति // गूढार्थस्य स्पष्टप्रतिपत्त्यर्थे विवरणे इत्यर्थः / अयं दर्शनेऽपीति // श्रुतौ “पूर्वापरञ्चरतो माययैतौ / शिशु क्रीडन्तौ परियातो अध्वरम् / विश्वान्यन्यो भुवनाभिचक्षे। ऋतूनन्यो विदधज्जायते पुनः” इत्यादौ तथा दर्शनादिति भावः / ननु चक्षिङित्यत्र इकारोच्चारणं व्यर्थ न च सुखोच्चारणन्तदिति वाच्यम् / अकारोच्चारणेनैव तत्सिद्धेः / नाप्यनुदात्तेत्त्वप्रयुक्तात्मनेपदार्थं तदिति शक्यं वक्तुम् / ङित्त्वादेव तत्सिद्धेरित्यत आह / इकारोऽनदात्तो यजर्थः इति // 'अनुदात्तेतश्च हलादेः' इति ल्युडपवादयुच्प्रत्ययार्थ इत्यर्थः। अकारमुल्लङ्घय इकारोच्चारणन्तु उच्चारणार्थत्वाभावप्रतिपत्त्यर्थमिति भावः / " विचक्षणः प्रथयन्” इति मन्त्रः / अत्र लित्स्वरनिवृत्तये युच्प्रत्यय इति भावः / ननु युच्प्रत्ययार्थमिकारस्य इत्संज्ञावश्यकत्वे नुमागमः स्यादित्यत आह / नुम् तु नेति // कुत इत्यत आह / अन्ते इदितः इति // 'इदितो नुम् धातोः' इत्यत्र 'गोः पदान्ते' इत्यस्मादन्ते इत्यनुवृत्तेरिति भावः / नन्विकारे युजर्थम् अनुदात्तत्वस्य इत्संज्ञकत्वस्य च आवश्यकत्वे तत एवात्मनेपदसम्भवात् डकारोच्चारणं व्यर्थमित्याशय आह / डकारस्त्विति // For Private And Personal Use Only
Page #189
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा। 187 त्तेत्त्वप्रयुक्तमात्मनेपदमनित्यम्' (प 97) इति ज्ञापनार्थः। तेन ‘स्फायन्निर्मोकसन्धि–' इत्यादि सिद्ध्यति / चष्टे / चक्षाते / 'आर्धधातुके' (सू 2377) इत्यधिकृत्य / 2436 / चक्षिङः ख्याञ् / (2-4-54) 2437 / वा लिटि / (2-4-55) / अत्र भाष्ये ख्शादिरयमादेश: / असिद्धकाण्डे 'शस्य यो वा' (वा 1586) इति स्थितम् / मित्त्वात्पदद्वयम् / चख्यौ-चख्ये / चक्शौ-चक्शे / 'चयो द्वितीया:-' (वा 5023) इति तु न / चर्वस्यासिद्धत्वात् / चचक्षे / ख्याता-क्शाता / ख्यास्यति ख्यास्यते / क्शास्यति-क्शास्यते / अचष्ट / टुकारः नित्यात्मनेपदार्थः। अनुदात्तत्त्वप्रयुक्तं त्वात्मनेपदकदाचिन्न स्यात्। अतो डकारोच्चारणम् / अत एव 'अनुदात्तेत्त्वप्रयुक्तात्मनेपदमनित्यम्' इति विज्ञायते इत्यर्थः / स्फायन्निति // स्फायी वृद्धावित्यनुदात्तेतोऽपि लटः शत्रादेशः। न त्वात्मनेपदं शानजिति भावः / वस्तुतस्तु अन्त्येत्कत्वव्याघातेन चरितार्थत्वात् डकारोच्चारणमुक्तार्थे कथं ज्ञापकम् , भाष्ये तथा अनुक्तत्वाच्च / अतः पृषोदरादित्वकल्पनया स्फायनिति कथञ्चित्साध्यमित्याहुः / चष्टे इति // ‘स्कोः' इति कलोपः तृत्वञ्चेति भावः / चक्षाते इति // चक्षते / थासः सेभावे ‘स्कोः' इति कलोपे ‘षढोः' इति षस्य कत्वे षत्वे च कृते चक्षे / चक्षाथे। ध्वमि ‘स्कोः' इति कलोपे षस्य जश्त्वेन डकारे चडढे / चक्षे / चक्ष्वहे / चक्ष्महे / आर्धधातुके इत्यनन्तरम् इत्यनुवर्तमाने इति शेषः / चक्षिङः ख्याञ् // चक्षिङः ख्याञ् स्यादार्धधातुके परे इत्यर्थः / वा लिटि // 'चक्षिङः ख्याज्' वा स्यालिटीत्यर्थः / अत्रेति // 'चक्षिङः ख्याञ्' इति सूत्रभाष्ये ख्शादिरयमादेश इति ‘पूर्वत्रासिद्धम्' इत्यधिकारे 'ख्शाञः शस्य यो वा वक्तव्यः' इति च स्थितमित्यर्थः / तेन पुङ्ग्यानमित्यत्र यत्वस्यासिद्धत्वात् 'पुमः खय्यम्परे' इति रुत्वन्नेति हल्सन्धिनिरूपणे प्रपञ्चितम्। मित्त्वात्पवयमिति // परस्मैपदमात्मनेपदञ्चेत्यर्थः / चख्यौ इति // ख्शादेशस्य शस्य यत्वपक्षे 'आत औ णलः' इति भावः / चख्यतुः / चख्युः। भारद्वाजनियमात्थालिवेट / चख्यिथ-चख्याथ / चख्यथुः / चख्य / चख्यौ / चख्यिव / चख्यिम / क्रादिनियमादिट् / लिटि तङि ख्याआदेशस्य शस्य यत्वपक्षे आह / चख्ये इति // चख्याते / चख्यिरे / चख्यिषे / चख्याथे / चख्यिध्वे / चाव्ये / चख्यिवहे / चख्यिमहे / शस्य यत्वाभावपक्षे त्वाह / चक्शौचक्शे इति // खस्य चर्चेन क इति भावः / कृते चर्वे तस्य ‘चयो द्वितीयाः शरि' इति खकारमाशय निराकरोति / चयः इति // अथ ख्याादेशाभावपक्षे आह / चचक्षे इति // चचक्षिषे। चचक्षिध्वे / चचक्षिवहे / ख्यास्य इति // चष्टाम् / चक्षाताम् / चक्षताम् / चक्ष्व / चक्षाथाम् / चङ्गम् / चः / चक्षावहै। चक्षामहै / लड्याह / अचटेति // अचक्षाताम् / अचक्षत। अचष्टाः। अचक्षाथाम् / अचवम् / अचक्षि / अच For Private And Personal Use Only
Page #190
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 188 सिद्धान्तकौमुदीसहिता [अदादि चक्षीत / ख्यायात्-ख्येयात् / क्शायात्-क्शेयात् / 2438 / अस्यतिवक्तिख्यातिभ्योऽङ् / (3-1-52) एभ्यश्च्लेरङ। अख्यत्-अख्यत / अक्शासीत्-अक्शास्त। 'वर्जने क्शाब् नेष्टः' (वा 1592) / समचक्षिष्ट इत्यादि / अथ पृच्यन्ता अनुदात्तेतः / ईर 1018 गतौ कम्पने च / ईर्ते / ईराचक्रे / ईरिता / ईरिष्यते / ईमि / ईर्ध्व / ईवम् / ऐरिष्ट / ईड 1019 स्तुतौ / ईट्टे। 2439 / ईशः से / (7-2-77) 2440 / ईडजनोर्चे च / (7-2-78) ईशीडजनां से-' ध्वे-' शब्दयोः सार्वधातुकयोरिट् स्यात् / क्ष्महि / विधिलिङ्याह / चक्षीतेति // आशीर्लिङि ख्शादेशस्य शस्य यत्वपक्षे आह / ख्यायात्-ख्येयादिति // 'वाऽन्यस्य' इत्येत्त्वविकल्पः / शस्य यत्वाभावपक्षे आह / क्शा. यात्-क्शेयादिति // लुङि च्ले: सिचि प्राप्ते / अस्यतिवक्ति // 'च्ले: सिच्' इत्यतः च्लेरित्यनुवर्तते / तदाह / एभ्यश्च्लरिति / अख्यत्-अख्यतेति // यत्वपक्षे रूपम् / आलोपः जित्त्वादुभयपदित्वादात्मनेपदे रूपम् / ख्शादेशपक्षे परस्मैपदपक्षे तु आह / अक्शासी दिति // अविधौ ख्यातीति यकारनिर्देशात् यत्वाभावपक्षे अङ् न भवति / किन्तु आदन्तत्वलक्षणौ सगिटौ / अक्शासिष्टाम् इत्यादि / अक्शास्तेति // आत्मनेपदे लुडि रूपम् / अक्शासाता इत्यादि / अख्यास्यत् / अख्यास्यत / अक्शास्यत् / अक्शास्यत / वर्जने क्शाञ् नेष्टः इति // वार्तिकभिदम् / समचक्षिष्टेति // अवर्जयदित्यर्थः / लुङि रूपम् / अथ पृच्यन्ताः इति // 'पृची सम्पर्चने' इत्येतत्पर्यन्ता इत्यर्थः / ईर गताविति॥ सेट् / ईत इति // ईराते। ईरते। ईर्षे / ईराथे / ईर्वे / ईरे / ईर्वहे / ईमहे / ईरा. ञ्चके इति // ‘इजादेश्च' इत्याम् / ईरितेति // ईरिष्यते / इत्यपि ज्ञेयम् / ईर्तामिति // ईराताम् / ईरताम् / ईर्वेति // ईराथाम् इत्यपि ज्ञेयम् / ई मिति // ईरै। ईरावहै / ईरामहै / ऐर्त / ऐराताम् / ऐरत / ऐर्थाः / ऐराथाम् / ऐद्धम् / ऐरि / ऐहि / ऐमहि / ईरीत / ईरिषीष्ट / ऐरिष्ट / ऐरिष्यत / ईड स्तुतौ / ईट्टे इति // तकारस्य टुत्वेन ट: डस्य चवेन ट इति भावः / ईडाते / ईडते। ईड् से इति स्थिते सार्वधातुकत्वादिडागमे अप्राप्ते / ईशः से / ईडजनोचे च // 'इडत्यति' इत्यतः इडिति ‘रुदादिभ्यः' इत्यतः सार्वधातुक इति चानुवर्तते / से ध्चे इति लुप्तषष्ठीके इत्यभिप्रेत्य सूत्रद्वयं युगपयाचष्टे / ईशीडजनामिति॥ ध्वे इत्यस्य पूर्वत्रापकर्षः। से इत्यस्य उत्तरत्रानुवृत्तिरिति भावः / प्रत्येकं व्याख्याने तु ईशो ध्वे शब्दे परे न स्यात् / ईडजनोः सेशब्दे परे न स्यादिति भावः / ननु तर्हि 'ईशीडजनाम् ' से For Private And Personal Use Only
Page #191
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा। 189 योगविभागो वैचित्र्यार्थः / ईडिपे / ईडिध्वे / 'एकदेशविकृतस्यानन्यत्वात्' (प 38) / ईडिष्व / ईड्ढम् / 'विकृतिग्रहणेन प्रकृतेरग्रहणात्'। ऐड्वम् / ईश 1020 ऐश्वर्ये / ईष्टे / ईशिषे / ईशिश्वे / आस 1021 उपवेशने / आस्ते / ‘दयायासश्च' / (सू 2324) / आसाञ्चक्रे / आस्स्व / आध्वम् / आसिष्ट / आङदशासु 1022 इच्छायाम् / आशास्ते / आशासाते। आङ्पूर्वत्वं प्रायिकम् / तेन 'नमोवाकं प्रशास्महे' इति सिद्धम् / वस 1023 आच्छादने / वस्ते / वस्से / वध्वे / ववसे / वसिता। कसि 1024 गतिशासनयोः / ध्वयोः इत्येकमेव सूत्रं कुतो न कृतमित्यत आह / योगविभागो वैचित्र्यार्थः इति // से इत्यस्य उत्तरत्रानुवृत्तिः ध्वे इत्यस्य पूर्वत्रापकर्ष इति वैचित्रयद्योतनार्थ इत्यर्थः / स्वतन्त्रेच्छस्य महर्षेनियन्तुमशक्यत्वादिति भावः / ईडिषे इति // ईडे / ईड्वहे / ईण्महे। लिटि तु ईडाश्चक्रे इत्यादि / ईडिता / ईडिष्यते। ईट्टाम् / ननु ईडिष्चेत्यत्र कथमिट सेशब्दाभावात्। तत्राह / एकदेशेति // एकदेशविकृतत्वात् स्वशब्दस्य इटि ईडिष्व इति रूपमित्यर्थः / ननु तर्हि ईड्ढम् इत्यत्र कथं नेट् ध्वेस्वरूपापेक्षया ध्वमित्यस्य एकदेशविकृतत्वादित्यत आह / विकतीति // प्रकृतिग्रहणे तदेकदेशविकृतविकृतस्य ग्रहणम् / न तु विकृतिग्रहणे तदेकदेशविकृताया अपि प्रकृतेर्ग्रहणम् / पुरुषमानयेत्युक्ते हि अन्धोऽनन्धो वा पुरुष आनीयते। अन्धमानय इत्यत्र तु अन्ध एवानीयते न त्वनन्धः / तथाच ध्वम एत्वे कृते ध्वेशब्दः, तेन च विकृतेन ध्वभित्यस्य तत्प्रकृतिभूतस्य न ग्रहणमिति नेडिति भावः / ईडै / ईडावहै / ईडामहै / ऐट्ट / ऐडाताम् / ऐडत / ऐटाः / ऐडाथाम् / ऐड्ठम् / ऐडि / ऐड्वहि / ऐण्महि / ईडीत / ईडिषीष्ट / ऐडिष्ट / ऐडिघ्यत / ईशधातुरीडिवत् / ईष्टे इत्यादि। शस्य व्रश्चादिना षत्वे टुत्वमिति विशेषः / आस उपवेशने। आस्ते इति // आसाते। आसते। आस्से / आसाथे / ‘धि च ' इति सलोपः / आध्वे / आसे / आस्वहे / आस्महे / इजादित्वाद्यभावादाह / दयायासश्चेति // आसिता। आसिष्यते। आस्ताम् / आसाताम् / आस्स्वेति // सकारद्वयमत्रबोध्यम् / आसाथाम् / आध्वमिति // ‘धि च' इति सलोप: / आसै / आसावहै / आसामहै। आस्त / आसाताम् / आसत / आस्थाः / आसाथाम् / आध्वम् / आसि / आस्वहि / आस्महि / आसीत / आसीयाताम् / आसिषीष्ट / आसिषीयास्ताम् / आसिष्टेति // आसिषातामित्यादि। आसिष्यत / आङश्शासु इच्छायामिति // आङ: परशासधातुरिच्छायामित्यर्थः / नमोवाकमिति // वनि वाक: नमश्शब्दस्य वचनङ्कुर्महे इत्यर्थः / धातूनामनेकार्थत्वात् आसिवद्रूपाणि / वस आच्छादने इति // परिधाने इत्यर्थः / वध्वे इति // ‘धि च ' इति सलोपः / ववसे इति // वादित्वादेत्त्वाभ्यासलोपो नेति भावः / वसितेति // अनिट्सु शब्विकरणस्यैव वसेर्ग्रहणमिति भावः / वसिष्यते / वस्ताम् / अवस्त / वसीत / वसिषीष्ट / अवसिष्ट / अवसिष्यत / कसि गतीति // वसधातुवत् / इदित्वान्नुमिति For Private And Personal Use Only
Page #192
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 190 सिद्धान्तकौमुदीसहिता [अदादि कंस्ते / कंसाते। कंसते / 'अयमनिदित् इत्येके' कस्ते / तालव्यान्तोऽप्यनिदित् / कष्टे / कशाते / कक्षे / कड्ढे / णिसि 1025 चुम्बने / निस्ते / दन्त्यान्तोऽयम् / आभरणकारस्तु तालव्यान्त इति बभ्राम / निस्से। णिजि 1026 शुद्धौ। निते। निङ्के / निञ्जिता। शिजि 1027 अव्यक्ते शब्दे / शिते / पिजि 1028 वर्णे / 'सम्पर्चने इत्येके' / उभयत्रेत्यन्ये * अवयवे इत्यपरे' / 'अव्यक्ते शब्दे' इतीतरे। पिते / 'पृजि' इत्येके / पृते / वृजी 1029 वर्जने / दन्त्योष्ठयादिः / ईदित् / वृक्ते / वृजाते / वृक्षे / 'इदित्' इत्यन्ये / वृते / पृची 1030 सम्पर्चने / पृक्ते / ___पूङ 1031 प्राणिगर्भविमोचने। सूते / सुषुवे। सुषुविषे / सोता-सविता। 'भूसुवो:-' (सू 2224) इति गुणनिषेधः / सुवै / सविषीष्ट / असविष्ट असोष्ट / शीङ् 1032 स्वप्ने / विशेषः / तालव्यान्तः इति // तालव्योष्मान्त इत्यर्थः / कष्टे इति // ब्रश्चेति शस्य षः श्रुत्वम् / कक्षे इति // शस्य षः षस्य ' षढोः' इति कः षत्वम् / कड्ढे इति // शस्य षः तस्य जश्त्वेन डः धस्य हुत्वेन ढः / णिसि चुम्बने इति // णोपदेशोऽयम / नुमि ‘नश्च' इत्यनुस्वारः निस्ते इत्यादि / निस्से इति // नुमोऽनुस्वारः थास: सेभावः / दन्त्यान्तोऽयमिति // दन्त्योष्मान्तोऽयमित्यर्थः / बभ्रामेति // ‘नुम्बिसर्जनीयशयवायेऽपि ' इति सूत्रे वृत्त्यादौ तालव्योष्मान्तत्वोक्तेरिति भावः / णिजि शुद्धाविति // णोपदेशोऽयम् / अनिट्सु इरित एव ग्रहणादयं सेट् / निते इति // नुमि निनज ते इति स्थिते जस्य कुत्वेन गः तस्य चर्वेन कः नस्य परसवर्णो डकारः / निजाते / निक्षे / निजाथे / निग्ध्वे / निजे / निज्वहे / निज़्महे / लिटि संयोगात्परत्वात् कित्त्वाभावानलोपो न / निनिञ्ज / निनिजाते इत्यादि / निजिता / निञ्जिष्यते / निङ्क्ताम् / अनिङ्क्त / निजीत / निजिषीष्ट / अनिजिष्ट। अनिञ्जिष्यत / शिजिपिजी अप्येवम् / पृजि इत्येके इति // ऋदुपधोऽयम् / वृजीधातुः ऋदुपधः ईदित् अतो नुम् नेति भावः / पृची सम्पर्चने इति // ऋदुपधोऽयम् / पपृचे इत्यादि / ईरादयः पृच्यन्ता अनुदात्तेतो गताः / षूङधातुः षोपदेशः सेट् डित्वात्तङ् / सूते इति // सुवाते। सुवते / सूषे / सुवाथे / सूबे / मुवे / सूबहे / सूमहे / सुषुविषे इति // खरतीति इड्किल्पं बाधित्वा 'श्रयुकः किति' इति निषेधे प्राप्ते कादिनियमानित्यमिट -- स्वरति सूति' इति इविकल्पम्मत्वा आह / सोता-सवितेति // तिङस्तासा व्यवधानात् 'भूसुवोः' इति न गुणनिषेध इति भावः। सोध्यते-सविष्यते / सूताम् / सुवाताम् / सूष्व / सूध्वम् / आटः पित्त्वाद्गुणे प्राप्ते आह / भूसुवोरिति / सुवै इति // मुवावहै / सुवामहै। असूत / For Private And Personal Use Only
Page #193
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् वालमनोरमा। 191 2441 / शीङः सार्वधातुके गुणः / (7-4-21) 'कृिति च' (सू २२१७)इत्यस्यापवादः / शेते / शयाते / 2442 / शीङो रुट् / (7-1-6) शीङ: परस्य झादेशस्यातो रुडागमः स्यात् / शेरते / शेषे / शेध्वे / शये / शेवहे / शिश्ये / शयिता / अशयिष्ट / .. अथ स्तौत्यन्ताः परस्मैपदिनः / ऊर्गुस्तूभयपदी / यु 1033 मिश्रणे अमिश्रणे च। 2443 / उतो वृद्धिलुकि हलि / (7-3-89) लुग्विषये उकारस्य वृद्धिः स्यात्पिति हलादौ सार्वधातुके / न त्वभ्यस्तस्य / यौति / युतः / युवन्ति / युयाव / यविता / युयात् / इह 'उतो वृमुवीत / सविषीष्ट इत्यादि स्पष्टम् / ‘शीङ् स्वप्ने' सेट् डित्वात्तङ् / शीङः सार्वधातुके // स्पष्टम् / 'सार्वधातुकार्धधातुकयोः' इत्येव सिद्धे किमर्थमिदमित्यत आह / क्ङिति चेत्य. स्यापवादः इति // झस्य अदादेशे सति शे अते इति स्थिते / शीङो रुट् // 'झोऽन्तः' इत्यतो झ इत्यनुवर्तते ‘अदभ्यस्तात्' इत्यतः अदित्यनुवृत्तं षष्ट्या विपरिणम्यते / तदाह / शीङः परस्य झादेशस्येति // रुटि उकार उच्चारणार्थः / टित्त्वादाद्यवयवः / शेध्वे इति // 'पीध्वंलुलिटाम्' इत्युक्तेन ढः / शिश्ये इति // शिश्यिषे / शिश्यिढ़े-शिश्यिध्वे। शयितेति // शयिष्यते / शेताम् / शयाताम् / शेष्व / शयाथाम् / शेध्वम् / शयै / शयावहै / शयामहै / अशेत / अशयाताम् / अशेरत / अशेथाः / अशयाथाम् / अशेध्वम् / अशीय। अशेवहि / अशेमहि / शयीत / शयिषीष्ट / अशयिष्टेति // अशयिष्यत : त्यपि ज्ञेयम् / स्तोत्यन्ताः इति ॥ष्टुञ् स्तुतावित्यतः प्राक्तना इत्यर्थः / ऊर्गुस्तूभयपदीति // नित्त्वादिति भावः / यु मिश्रणे अमिश्रणे चेति // अमिश्रणम्पृथग्भावः सेडयम् / उतो वृद्धिलुकि हलि // 'नाभ्यस्तस्याचिपिति सार्वधातुके' इति अचिवर्जमनुवर्तते / लुकीति विषयसप्तमी / दर्शनाभावस्य लुकः परत्वासम्भवात् / तदाह / लुग्विषय इत्यादिना / यौतीति // गुणं बाधित्वा वृद्धिः / युतः इति // अपित्वान्न वृद्धिः / युवन्तीति // अपित्त्वादृट्यभावे डित्त्वाद्गुणाभावे उवङिति भावः / यौषि / युथः / युथः / यौमि / युवः / युमः। युयावेति // युयुवतुः / युयुधः / युयविथ / युयुवथुः / युयुव / युयाव-युयव / युयुविव / युयुविम / यवितेति // उवढं बाधित्वा परत्वाद्गुणः / यविष्यति / यौतु-युतात् / युताम् / युवन्तु। हौ अपित्त्वान्न वृद्धिः / युहि-युतात् / युतम् / युत / आटि पित्त्वेऽपि हलादित्वाभावान्न वृद्धिः / पित्त्वेन ङित्वाभावाद्गुणः / यवानि / यवाव / यवाम / अयौत् / अयुताम् / अयुवन् / अयोः / अयुतम् / अयुत / अयवम् / अयुव / अयुम। विधिलिङ्याह / युयादिति // अत्र यासुडागमसहितस्य तिपः पित्त्वादुतो वृद्धिमाशङ्कयाह / इह उतो वृद्धिर्नेति // कुत For Private And Personal Use Only
Page #194
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 192 सिद्धान्तकौमुदीसहिता [अदादि द्धि:--' न / भाष्ये 'पिञ्च डिन्न' : ङिच्च पिन्न' इति व्याख्यानात् / विशेषविहितेन ङित्त्वेन पित्त्वस्य बाधात् / यूयात् / अयावीत् / रु 1034 शब्दे / 2444 / तुरुस्तुशम्यमः सार्वधातुके / (7-3-95) एभ्य: परस्य सार्वधातुकस्य हलादेस्तिङ ईडा स्यात् / 'नाभ्यस्तस्य(सू 2503) इत्यतोऽनुवृत्तिसम्भवे पुनः सार्वधातुकग्रहणमपिदर्थम् / रवीतिरौति / रुवीत:-रुतः / 'हलादेः' किम् / रुवन्ति / तिङः' किम् / शाम्यति / 'सार्वधातुके' किम् / आशिषि रूयात् / विद्ध्यादौ तु रुयात्-रुवीयात् / अरावीत् / अरविष्यत् / ‘तु' इति सौत्रो धातुर्गतिवृद्धिहिंसासु / 'अयञ्च लुग्विकरणः' इति स्मरन्ति / तवीति-तौति / तुवीत:-तुतः / तोता / इत्यत आह / भाष्ये इति / व्याख्यानादिति // 'हल:नश्शानज्झौ' इति सूत्रव्याख्यावसरे वचनादित्यर्थः। ननु यासुडागमसहितस्य तिपः पित्त्वात् 'पिच्च डिन्न' इत्युक्तवचनेन ‘यासुद् परस्मै. पदेषु' इति ङित्त्वस्याप्यभावात् ‘क्ङिति च' इति गुणनिषेधाभावात् गुणस्स्यादित्यत आह / विशेषविहितेनेत्यादि बाधादित्यन्तम् // 'यासुट् परस्मैपदेषु' इति विशेषविहितेन यासुटो डित्त्वेन तत्सहितस्य तिपो 'ङिच्च पिन्न' इति पित्त्वप्रयुक्तङित्त्वनिषेधस्य बाधात् डित्त्वाद्गुणनिषेधो निर्बाध इत्यर्थः / आशीर्लियाह / ययादिति // आर्धधातुकत्वान्न वृद्धिः / 'अकृत्सार्वधातुकयोः' इति दीर्घः / यूयास्ताम् इत्यादि / लुङ्याह / अयावीदिति // सिचि वृद्धिः / 'इट ईटि' इति सिज्लोपः / अयाविष्टाम् इत्यादि / अयविष्यत् / तुरुस्तु // तु रुस्तु शमि अम् एषां समाहारद्वन्द्वात् पञ्चम्येकवचनम् / 'उतो वृद्धिः' इत्यतो हलीति 'भूसुवोः' इत्यतस्तिङीति 'ब्रुव ईट्' इत्यतः ईडिति 'यङो वा' इति चानुवर्तते / तदाह / एभ्यः इत्यादिना / नाभ्यस्तस्येति॥ 'नाभ्यस्तस्याचि पिति सार्वधातुके' इत्यतःसार्वधातुके इत्यनुवृत्तिसम्भवे पुनः सार्वधातु कग्रहणं पिति इत्यस्यानुवृत्तिर्माभूदित्येतदर्थमित्यर्थः / रवीतीति॥ ईट्पक्षे हलादित्वाभावात् उतो वृद्धिर्नेति भावः ।रौतीति // ईडभावे 'उतो वृद्धिः' इति भावः। रुवीतः-रुतः इति // अपित्वेऽपि ईडिकल्प इति भावः / रुवन्तीति // अन्तादेशे कृते हलादित्वाभावादीडभावे उवङिति भावः / शाम्यतीति॥ श्यनस्तित्वाभावादीट् नेति भावः / आशिषि रूयादिति // आर्धधातुकत्वादीडभावे 'अकृत्सार्वधातुकयोः' इति दीर्घः / विद्ध्यादौ त्विति // आदिना निमन्त्रणादिसङ्ग्रहः / रुयात्-रुवीयादिति // हलादिसार्वधातुकत्वात् ईड्विकल्प इति भावः / ईडभावपक्षे हलादौ पिति सार्वधातुके 'उतो वृद्धिः' इति बोध्यम् / ननु धातुपाठे तुधातोरदर्शनात् धातुत्वाभावात्कथन्ततः सार्वधातुकस्य इंड्डिधिरित्यत आह / तु इति सौत्रो धातुरिति / गतिवृद्धिहिंसास्विति // अत्र व्याख्यानमेव शरणम् / ननु शपा व्यवधानादस्य सार्वधातुकपरत्वं कथमित्यत आह / अयश्च लुग्विकरणः इति स्मरन्तीति // 'अव्यव. For Private And Personal Use Only
Page #195
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा / 193 तोष्यति / णु 1035 स्तुतौ / नौति / नविता / टुक्षु 1036 शब्दे / क्षौति / क्षविता / क्ष्णु 1037 तेजने / क्ष्णौति / क्ष्णविता / ष्णु 1038 प्रस्रवणे / स्नौति / सुष्णाव / नविता / स्नूयात् / ऊर्गुञ् 1039 आच्छादने / 2445 / ऊर्णोतेर्विभाषा / (7-6-90) वा वृद्धिः स्याद्धलादौ पिति सार्वधातुके / ऊौति-ऊर्णोति / ऊर्गुतः / ऊर्गुवन्ति / ऊर्तुते। ऊर्गुवाते / ऊर्णवते / 'ऊर्णोतेराम्नेति वाच्यम्' (वा 1802) 2446 / नन्द्राः संयोगादयः / (6-1-3) अच: परा: संयोगादयो नदरा: द्विर्न भवन्ति / नुशब्दस्य द्वित्वम् / णत्वस्यासिद्धत्वात् / 'पूर्वत्रासिद्धीयमद्विर्वचने' (प 127) इति त्वनित्यम् / 'उभौ साभ्यासस्य' (सू 2606) इति लिङ्गात् / ऊर्जुनाव / उणुनुवतुः / ऊणुनुवुः / हिततिङः ईड्डिधानमेवात्र बीजम् / शम्यमोस्तु, शमीध्वम् / अभ्यमीति / इति वेदे शपो लुकि बोध्यम् / अयमनिट् / हलादौ सार्वधातुके रुधातुवत् / आर्धधातुके तु नेट। तदाह / तोतेति। णु स्तुताविति // णोपदेशोऽयं सेट् / युधातुवद्रूपाणि / शुक्ष्णुस्नुधातवः सेटः / युधातुवद्रूपाणि / चुक्षाव / चुक्ष्णाव / सुष्णाव इति // षोपदेशोऽयमिति भावः / ऊर्गुञ् धातुरुभयपदी / सेट् / उतो वृद्धनित्यं प्राप्तौ। ऊर्णोतेर्विभाषा॥ 'उतो वृद्धिः' इत्यतो वृद्धिरिति, हलीति, चानुवर्तते। 'नाभ्यस्तस्य' इत्यतः पिति सार्वधातुके इति च इत्यभिप्रेत्य शेषपूरणेन सूत्रं व्याचष्टे / वृद्धिः स्यादित्यादिना // लिटि 'इजादेः' इति 'कास्यनेकाच्' इति च आमि प्राप्ते आह / ऊर्णोतेराम् नेति // ऊर्णोतेर्नुवद्भावस्य वक्ष्यमाणतया इजादित्वस्य अनेकाच्त्वस्य चाभावादिति भावः / णलि ऊर्ण अ इति स्थिते 'अजादेर्द्वितीयस्य' इति र्नु इति रेफसहितस्य द्वित्वे हलादिशेषे नकारस्य निवृत्तौ ऊरुनावेति प्राप्ते / नन्द्राः संयोगादयः॥ 'एकाचो द्वे प्रथमस्य' इत्यतो द्वे इत्यनुवर्तते / 'अजादेर्द्वितीयस्य' इत्यतः अजादेरिति / अच्चासौ आदिश्चेति कर्मधारयात्पञ्चमी / न् , द्, र्, एषां द्वन्द्वः / तदाह / अचः पराः इति // ननु णु इत्यस्य द्वित्वे खण्डद्वयेऽपि णकारः श्रूयेतेत्यत आह / नुशब्दस्य हित्वमिति // णत्वस्येति // धातु पाठे ऊर्ण इति नकारस्य कृतणत्वस्य निर्देशः / द्वित्वे कर्तव्ये तस्य णत्वस्यासिद्धत्वादित्यर्थः / लिङ्गादिति // 'उभौ साभ्यासस्य' इत्यस्यायमर्थः / साभ्यासस्यानितेरुपसर्गस्थानिमित्तात्परौ खण्डद्वयगतौ नकारौ णत्वम्प्राप्नुत इति प्राणिणत् इत्युदाहरणम् / अत्र अनितेः इति णत्वे कृते 'पूर्वत्रासिद्धीयमद्विर्वचने' इति णत्वस्यासिद्धत्वाभावमाश्रित्य णि इत्यस्य द्वित्वादेव खण्डद्वये णकारश्रवणसिद्धेः 'उभौ साभ्यासस्य' इति वचनं 'पूर्वत्रासिद्धीयमद्विवचने' इत्यस्यानित्यताङ्गमयतीत्यर्थः / ऊर्णनावेति // नुशब्दस्य द्वित्वे पूर्वनकारस्य ‘रषाभ्याम् ' 28 For Private And Personal Use Only
Page #196
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 194 सिद्धान्तकौमुदीसहिता अदादि 2447 / विभाषोर्णोः / (1-2-3) इडादिप्रत्ययो वा ङित्स्यात् / ऊर्जुनुविथ-ऊणुनविथ / ऊर्णविताऊर्णविता / ऊौतु-ऊर्णोतु / अर्णवानि / ऊर्णवै / 2448 / गुणोऽपृक्ते / (7-3-91) ऊोतेर्गुणः स्यादपृक्ते हलादौ पिति सार्वधातुके / वृद्ध्यपवादः / और्णोत् / और्णोः / ऊर्गुयात् / ऊर्णया: / इह वृद्धिर्न / ङिच्च पिन्न' इति भाष्यात् / ऊणयान / ऊर्णविषीष्ट-ऊणुविषीष्ट / औMवीत् / औणुविष्टाम् / 2449 / उर्णोतेर्विभाषा / (7-2-6) इडादौ सिचि परस्मैपदे परे वा वृद्धिः स्यात् / पक्षे गुणः / और्णावीत् / और्णाविष्टाम् / और्णाविषुः / और्णवीत् / धु 1040 अभिगमने / इति णत्वम् / द्वितीयस्य तु 'अट्कुप्वाङ्' इति न णत्वम् , 'उभौ साभ्यासस्य' इति लिङ्गादेव / विभाषोर्णोः // ‘गाङ् कुटादिभ्यः' इत्यतो डिदित्यनुवर्तते ‘विज इट्' इत्यतः इडिति इत्यभिप्रेत्य शेषपूरणेन सूत्रं व्याचष्टे / इडादीति // ऊर्णनुविथेति // ङित्त्वपक्षे गुणाभावादुवङ् / ऊर्जुनविथेति // ङित्त्वाभावपक्षे गुणः / ऊर्जुनुवथुः / ऊर्णनुव / ऊर्णनावऊर्जुनव / लुटि तासि इटि ङित्त्वविकल्पं मत्वा आह / ऊर्णविता-ऊणुवितेति // ऊर्णविष्यति-ऊणुविष्यति / ऊर्णविष्यते-ऊणुविष्यते / लङि औणु त् इति स्थिते 'ऊोतेर्विभाषा' इति वृद्धिविकल्पे गुणे च प्राप्ते / गुणोऽपृक्ते // 'ऊोतर्विभाषा' इत्य. तः ऊोतेरिति 'नाभ्यस्तस्य' इत्यतः पिति सार्वधातुके इति ‘उतो वृद्धिः' इत्यतो हलीति चानुवर्तते / तदाह / ऊर्णोतेरित्यादि / वृध्यपवादः इति // 'ऊोतेर्विभाषा' इति वृद्धिविकल्पस्यापवाद इत्यर्थः / ऊर्गुयात् इत्यत्र ‘विभाषोर्णोः' इति वृद्धिविकल्पमाशङ्कयाह / इह वृद्विर्नेति / भाष्यादिति // तथा च यासुटो डित्त्वेन पित्त्वाभावान वृद्धिविकल्प इति भावः / नचैवं सति गुणनिषेधोऽपि न स्यादिति शङ्ग्यम् / विशेषविहितेन यासुटो डित्त्वेन डिच्च पिनेति पित्त्वप्रयुक्तडित्त्वनिषेधस्य बाध इति ‘यु मिश्रणे' इति धातावेवोक्तत्वादिति भावः / परस्मैपदे आशीर्लिङ्याह / ऊर्णयादिति // अकृत्सार्वधातुकयोरिति दीर्घः / ऊर्णयास्तामित्यादि / आत्मनेपदे लिङ्याह / ऊर्णविषीष्ट-ऊणुविषीष्टेति // 'विभाषोर्णोः' इति ङित्त्वविकल्प इति भावः / लुङि परस्मैपदे और्ण ईत् इति स्थिते 'विभाषोर्णोः' इति ङित्त्वपक्षे गुणाभावे उवङि रूपमाह / औMवीदिति // ङित्वाभावपक्षे गुणे नित्यं प्राप्ते / ऊोतेर्विभाषा // 'सिचि वृद्धिः परस्मैपदेषु' इत्यनुवर्तते, 'नेटि' इत्यतः इटीति च / तदाह / इडादाविति // आत्मनेपदे तु लुङि औणुविष्ट-और्णविष्ट / आणविष्यत्-और्णविष्यत् / और्णविष्यत-आणुविष्यत / द्यु अभिगमने इति // अनिट् / द्योतीति // For Private And Personal Use Only
Page #197
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा / 195 द्यौति / द्योता / पु 1041 प्रसवैश्वर्ययोः / प्रसवोऽभ्यनुज्ञानम् / सोता / असौषीत् / कु 1042 शब्दे / कोता / ष्टुञ् 1043 स्तुतौ / स्तौति-स्तवीति / स्तुत:-स्तुवीत: / स्तुते स्तुवीते / ‘स्तुसुधूभ्य:-' (सू 2385) इतीट् / अस्तावीत् / 'प्राक्सितात्-' (सू 2276) इति षत्वम् / अभ्यष्टौत् / 'सिवादीनां वा—' (सू 2359) / पर्यष्टौत्-पर्यस्तौत् / बञ् 1044 व्यक्तायां वाचि। 2450 / बुवः पञ्चानामादित आहो ब्रुवः / (3-4-84) ब्रुवो लट: परस्मैपदानामादितः पञ्चानां णलादयः पञ्च वा स्युर्बुवश्चाहादेशः / अकार उच्चारणार्थः / आह / आहतुः / आहुः / उतो वृद्धिः / सार्वधातुके लिटि च युधातुवत् / द्योतेति // द्योष्यति / अद्यौषीत् / घु प्रसवेति // षोपदेशोऽयम् / अनिट् / सौतीत्यादि द्युधातुवत् / एवं कु शब्दे इत्यपि / ष्टुञ् स्तुताविति // उभयपदी अनिट् / 'तुरुस्तुशम्यमः' इति ईड्किल्पं, ईडभावपक्ष तु उतो वृद्धिं च मत्वा आह // स्तौति-स्तवीतीति // स्तुवन्ति / स्तौषि-स्तवीषि। स्तुथः - स्तुवीथः / स्तुथ-स्तुवीथ / स्तौमि-स्तवीमि / स्तुवः-स्तुवीवः / स्तुमः-स्तुवीमः / आत्मनेपदे लटि ईड्विकल्पं मत्वा आह। स्तुते-स्तुवीते इति // स्तुवाते / स्तुवते / स्तुष-स्तुवीषे / स्तुवाथे। स्तुध्वे-स्तुवीध्वे / स्तुवे / स्तुवहे-स्तुवीवहे / स्तुमहे-स्तवीमहे / लिटि तुष्टाव / तुष्टुवतुः / तुष्टुवुः / क्रादित्वात्थल्यपि नेट् भवति / तुष्टोथ / तुष्टुवथुः / तुष्टुव / तुष्टाव-- तुष्टव / तुष्टुव / तुष्टुम / तुष्टुवे इत्यादि / स्तोता। स्तोष्यति / स्तोष्यते। स्तोतु-स्तवीतु / स्तुतात्-स्तुवीतात् / स्तुताम्-स्तुवीताम् / स्तुवन्तु / स्तुहि-स्तुवीहि / स्तुतात्-स्तुवीतात् / स्तुतम्-स्तवीतम् / स्तुत-स्तुवीत / स्तवानि / स्तवाव / स्तवाम / स्तुष्व-स्तुवीष्व / स्तुवाथाम् / स्तुध्वम्-स्तुवीध्वम् / स्तवै / स्तवावहै / स्तवामहै / लङि अस्तोत्-अस्तवीत् / अस्तुताम्-अस्तुवीताम्। अस्तुवन् / अस्ती:-अस्तवीः / अस्तुतम्-अस्तुवीतम् / अस्तुतअस्तुवीत / अस्तवम् / अस्तुव-अस्तुवीव / अस्तुम- अस्तुवीम / अस्तुतअस्तुर्वात / अस्तुवाताम् इत्यादि / विधिलिङि स्तुयात्-स्तुवीयात् इत्यादि / स्तोषीष्टत्यादि / लुडिः सिचि इडभावे प्राप्त आह / स्तुसुधूभ्यः इति // तथाच ‘इट ईटि' इति सिज्लोपे सिच वृद्धौ अस्तावादिति फलति / अस्ताविष्टामित्यादि / 'स्तुसुधूभ्यः' इत्यत्र परस्मैपदेष्वित्यनवृत्तरात्मनेपदे इद न / अस्तोष्ट / अस्तोषाताम् इत्यादि / ब्रज व्यक्तायां वाचीति // उभयपदी / ब्रुवः पश्चानाम् // ‘परस्मैपदानां णलतुस्' इत्यतः उत्तरसूत्रमिदम् / 'विदो लटो वा' इत्यतः लटो वेत्यनुवर्तते / तदाह / ब्रुवो लटः इति // आदितः पञ्चानामिति // तिप् तस् झि सिप् थस् इत्येषामित्यर्थः। णलादयः पञ्चेति // णल् अतुस् उस् थल् अथुस् इत्येते पञ्चेत्यर्थः / उच्चारणार्थः इति // तत्प्रयोजनमात्थत्यत्रानुपदमेव For Private And Personal Use Only
Page #198
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 196 सिद्धान्तकौमुदीसहिता [अदादि 2451 / आहस्थः / (8-2-35) झलि परे चवंम् / आत्थ / आहथुः / 2452 / ब्रुव ईट् / (7-3-93) ब्रुवः परस्य हलादेः पित ईट् स्यात् / ‘आत्थ' इत्यत्र स्थानिवद्भावात्प्राप्तोऽयं झलिति थत्वविधानान्न भवति / ब्रवीति / ब्रूत: / ब्रुवन्ति / ब्रूते / आर्धधातुकाधिकारे। 2453 / ब्रुवो वचिः / (2-4-53) उवाच / ऊचतुः / ऊचुः / उवचिथ-उवक्थ / ऊचे / वक्ता / व्यक्तं भविष्यति / आहेति // ब्रूधातोर्लटस्तिपो णलि प्रकृतेराहादेशः। सिपस्थलि प्रकृतेराहादेशे आह् थ इति स्थिते हस्य ढत्वे प्राप्ते // आहस्थः // आह इति षष्ठ्यन्तम् / 'झलो झलि' इत्यतो झलीत्यनुवर्तते इत्यभिप्रेत्य शेषपूरणेन सूत्रं व्याचष्टे / झलि पर इति // आह् इत्यस्य थकारः स्यात् झलीति फलितम् / अलोऽन्त्यस्य इत्यन्त्यस्य भवति / चर्वमिति // आथ् थ इति स्थिते प्रथमथकारस्य खरि चेति चर्वे आत्थ इति रूपमित्यर्थः / नच आहादेशस्य अकारान्तत्वे तु हकारादकारस्य थकारादेशे हस्य ढत्वे चत्वे आदत्य इति स्यादिति बोध्यम् / पञ्चानां णलाद्यभावपक्षे आह / ब्रुव ईट् // 'नाभ्यस्तस्य' इत्यतः पितीति 'उतो वृद्धिः' इत्यतो हलीति चानुवर्तते। तदाह / ब्रुवः परस्येत्यादिना // ननु आत्थेत्यत्र आहादेशस्य स्थानिवत्त्वेन ब्रूत्वात्ततः परस्य थस्य ईडागमः स्यादित्यत आह / आत्थेत्यनेति // स्थानिवद्भा. वात् प्राप्तोऽयमीडागमः न भवतीत्यन्वयः। कुत इत्यत आह / झलि थत्वविधानादिति / 'आहस्थ' इति झलि परतः आहादेशस्य थत्वं विधीयते / ईटि तु सति झलादित्वाभावात्तनिर्विषयं स्यात् / अतः आत्थेत्यत्र ईट् नेति विज्ञायते इत्यर्थः / ब्रुवन्तीति // ब्रवीषि / ब्रूथः / ब्रूथ। ब्रवीमि / ब्रूवः / ब्रूमः / लट आत्मनेपदे आह / ब्रूते इति // 'ब्रुवः पञ्चानाम्' इत्यत्र परस्मैपदानामित्यनुवृत्तेराहादेशो न। ब्रुवाते / ब्रुवते। ब्रूषे / ब्रुवाथे / ब्रूध्वे / ब्रुवे / ब्रूवहे / ब्रूमहे / ब्रुवो वचिः // ब्रुवो वचिरादेशः स्यादार्धधातुके इत्यर्थः / इकार उच्चारणार्थः। उवाचेति // अकिति द्वित्वे कृते 'लिट्यभ्यासस्य' इति सम्प्रसारणमिति भावः / ऊचतु. रिति // किति द्वित्वात्प्राक् ‘वचिस्वपियजादीनाम्' इति सम्प्रसारणे द्वित्वे कृते हलादिशेष सवर्णपरत्वात् 'अभ्यासस्यासवर्णे' इत्युवङभावे सवर्णदीर्घ इति भावः। वचिरनिट्सु परिगणितः। तस्य भारद्वाजनियमात्थलि वेट् / तदाह / उवचिथ-उवक्थेति / इडभावे 'चोः कु:।' 'ब्रुव ईट्' इत्यत्र 'नाभ्यस्तस्य' इत्यतः सार्वधातुकग्रहणस्याप्यनुवृत्तेरीड् न / ऊचथुः / ऊच / उवाचउवच / ऊचिव / ऊचिम / क्रादिनियमादिट् / ऊचे इति // ऊचाते / ऊचिरे। ऊचिषे / ऊचाथे / ऊचिध्वे / ऊचे / ऊचिवहे / ऊचिमहे / वक्तेति // वच्यादेशे इनिषेधः। वक्ष्यति / For Private And Personal Use Only
Page #199
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा। 197 ब्रवीतु-ब्रूतात् / 'ङिच्च पिन्न' इत्यपित्त्वादीन / ब्रवाणि / ब्रवै। ब्रूयात् / उच्यात् / 'अस्यतिवक्ति-' (सू 2438) इत्यङ् / 2454 / वच उम् / (7-4-20) अङि परे / अवोचत् / अवोचत / अथ शास्यन्ता: परस्मैपदिन: / इङ् त्वात्मनेपदी / इण् 1045 गतौ / एति / इतः / ___ 2455 / इणो यण् / (6-4-81) अजादौ प्रत्यये परे / इयङोऽपवादः / यन्ति / इयाय / 2456 / दीर्घ इणः किति / (7-4-69) वक्ष्यते / ब्रवीतु--ब्रूतादिति // ननु तिबादेशस्य तातङः पित्त्वात् ‘ब्रूव ईट्' इति ईडागमः स्यादित्यत आह / ङिच्चेति // ब्रूताम् / ब्रुवन्तु / ब्रूहि / ब्रूतात् / ब्रूतम् / ब्रूत। ब्रवाणीति // आट: पित्त्वेन ङित्त्वाभावात् न गुणनिषेध इति भावः / ब्रवाव / ब्रवाम। ब्रूताम् / ब्रूष्व / ब्रुवाथाम् / ब्रूध्वमिति सिद्धवत्कृत्य आह / ब्रवै इति // आट: पित्त्वेन ङित्त्वाभावाद्गुणः / बवावहै / ब्रवामहै / लङि अब्रवीत् / अब्रूताम्। अब्रुवन् / अब्रवीः / अब्रूतम्। अब्रूत / अब्रवम् अब्रूव / अब्रूम / विधिलिङ्याह / ब्रूयादिति // ब्रूयातामित्यादि / आशीर्लिङ्याह / उच्यादिति // वच्यादेशे 'वचिखपि' इति सम्प्रसारणमिति भावः / उच्यास्ताम् इत्यादि / आत्मनेपदे आशीलिंङि वक्षीष्ट / वक्षीयास्ताम् इत्यादि / अकित्त्वान सम्प्रसारणम् / लुङि सिचि वच्यादेशे अवच सत् इति स्थिते आह / अस्यतीति // अवच अ त इति स्थिते / वच उम् // शेषपूरणेन सूत्रं व्याचष्टे / अङि परे इति // 'ऋदृशो ङि' इत्यतस्तदनुवृत्तेरिति भावः / मित्त्वादन्त्यादचः परः / आद्गुणः / तदाह / अवोचदिति // अवक्ष्यत् / अवक्ष्यत। इङ्त्विति // 'इङ् अध्ययने' इति धातुस्तु ङित्त्वादात्मनेपदीत्यर्थः / इण गताविति // 'इणो यण' इत्यादौ विशेषणार्थों णकारः। एतीति ॥'शपो लुकि तिपः पित्त्वेन डित्त्वाभावाद्गुणः / इतः इति // अपित्त्वेन ङित्त्वान्न गुणः / इ अन्तीत्यत्र ङित्त्वाद्णाभावे इयति प्राप्ते / इणो यण // 'अचि इनुधातु ' इत्यतः अचीत्यनुवृत्तस्य अङ्गाधिकारलब्धाङ्गाक्षिप्तप्रत्ययविशेषणत्वात्तदादिविधिरित्यभिप्रेत्य शेषपूरणेन सूत्रं व्याचष्टे / अजादौ प्रत्यये परे इति / इयङोऽपवादः इति // इयङि प्राप्ते एव तदारम्भादिति भावः / गुणवृद्धौ तु परत्वादस्य बाधकौ / यथा अयनम् , आयकः / यन्तीति // एषि / इथः / इथ / एमि / इवः। इमः / इयायेति // द्वित्वे सति उत्तरखण्डवृद्धौ आयादेशे ‘अभ्यासस्यासवणे' इति इयङ् / अतुसि तु द्वित्वे कित्त्वाद्गुणाभावे इ इ अतुम् इति स्थिते 'इणो यण' इत्युत्तरखण्डस्य यणि इयतुरितिस्थिते / दीर्घ इणः // 'अत्र लोपः' इत्यतः अभ्यासस्येति 'व्यथो लिटि' इत्यतो लिटीति चानुवर्तते। तदाह / For Private And Personal Use Only
Page #200
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 198 सिद्धान्तकौमुदीसहिता [अदादि इणोऽभ्यासस्य दीर्घ: स्यात्किति लिटि / ईयतुः / ईयुः / इययिथ-इयेथ / ऐत् / ऐताम् / आयन् / इयात् / ईयात् / 2457 / एतेलिङि / (7-4-24) उपसर्गात्परस्य इणोऽणो ह्रस्वः स्यादार्धधातुके किति लिङि / निरियात् / 'उभयत आश्रये नान्तादिवत्-'। अभीयात् / 'अण: किम्' / समेयात् / ' समीयात्' इति प्रयोगस्तु भौवादिकस्य / 2458 / इणो गा लुङि / (2-4-45) इणोऽभ्यासस्य दीर्घस्यात् किति लिटि। ईयतुरिति // भारद्वाजनियमात्थलि वेडिति मत्वा आह / इययिथ-इयेथेति // ईयथुः / ईय / इयाय-इयय / ईयिव / ईयिम / एता। एष्यति / एतु-इतात् / इताम् / यन्तु / इहि-इतात् / इतम् / इत / अयानि / अयाव / अयाम / ऐदिति // लडि तिप इकारलोपे इकारस्य गुणे आटो वृद्धिः / आयन्निति // झेरन्तादेशे इकारलोपे आ इ अन् इति स्थिते 'इणो यण्' इति यणि कृते तस्याभीयत्वेनासिद्धत्वादाडिति भावः / ऐः। ऐतम् / एत। आयम् / ऐव / ऐम। विधिलिड्याह / इयादिति // इयाताम / इयरित्यादि / आशीलिङ्याह / ईयादिति // 'अकृत्सार्वधातुकयोः' इति दीर्घ इति भावः / ईयास्तामित्यादि / एतेर्लिङि // 'उपसर्गा. द्रस्व ऊहतेः' इत्यतः उपसर्गाद्रस्व इति 'केऽणः' इत्यतः अण इति 'अयङ् यिक्ङिति' इत्यतः कितीति चानुवर्तते / तदाह / उषसर्गात्परस्येत्यादि // इह आर्धधातुके इति प्रामादिकम् / पूर्वसूत्रेषु तदभावादनुवृत्तेरसम्भवात् , किति लिङीत्येव सिद्धेश्च / डितीति तु नानुवर्तते / इण आर्धधातुकलिङो ङित्त्वाभावात् / नन्वभीयादित्यत्रापि इस्वः स्यादित्यत आह / उभयतः इति // अत्र एकादेशस्य ईकारस्य पूर्वान्तत्वे उपसर्गानुप्रवेशादिण्धातुत्वन्न सम्भवति / परादित्वेन इण्धातुत्वाश्रयणे तु नोपसर्गात्परत्वम् / उपसगैंकदेशस्य ईकारस्य ईकारात्मना सत्त्वेन अभ इत्यस्य उपसर्गत्वाभावात् / एकादेशस्य आदिवत्त्वमाश्रित्य इण्धातुत्वम् , अन्तवक्त्वमाश्रित्य तस्य उपसर्गानुप्रवेशश्चेत्यपि न सम्भवति / पूर्वपरशब्दाभ्यां अन्तादिशब्दाभ्याञ्च विरोधस्य पुरस्स्फूर्तिकतया विरुद्धातिदेशद्वयस्य युगपदसम्भवादित्यर्थः / इदञ्च अन्तादिवत्सूत्रे भाष्ये स्पष्टम् / न च अभ् इति भान्तस्य एकदेशविकृतन्यायेन उपसर्गत्वात् ईकारस्य परादिवत्त्वे ह्रस्वो दुर्वार इति वाच्यम् / लक्ष्यानुसारेण क्वचित् एकदेशविकृतन्यायानाश्रयणादिति शब्देन्दुशेखरे विस्तरः / समयादिति // आ इयात् एयात् / समयादित्यत्र एकारस्य अनणत्वान्न इस्वः / ग्रहणकसूत्रादन्यत्र पूर्वेणैव णकारेण प्रत्याहाराश्रयणादिति भावः / तर्हि क्वचित् समीयादिति प्रयोगः कथमित्याशङ्कयाह / समीयादिति प्रयोगस्तु भौवादिकस्येति // 'इट किट कटी गतौ' इति प्रश्लिष्टस्य इधातोराशार्लिङिः 'अकृत्सार्वधातुकयोदीर्घः' इति दी| बोध्य इति भावः / लुडि विशेषमाह / इणो गा लुङि॥ For Private And Personal Use Only
Page #201
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा / 199 ‘गातिस्था-' (2223) इति सिचो लुक् / अगात् / अगाताम् / अगुः / इङ् 1046 अध्ययने / नित्यमधिपूर्वः / अधीते / अधीयाते / अधीयते / 2459 / गाङ् लिटि / (2-4-49) इङो गाङ् स्याल्लिटि लावस्थायां, विवक्षिते वा। अधिजगे। अधिजगाते / अधिजगिरे / अध्येता / अध्येष्यते / अध्ययै / गुणायादेशयोः कृतयोरुपसर्गस्य यण् / 'पूर्व धातुरुपसर्गेण_' इति दर्शनेऽन्तरङ्गत्वाद्गुणात्पूर्व सवर्णदीर्घः इण्धातोः गा इत्यादेशस्स्याल्लुढीति सूत्रार्थः स्पष्टः / अगा स् त् इति स्थिते आह / गातिस्थेतीति // लुङि ऐष्यत् / इङ् अञ्चयने इति // अधिरुपरिभावे / उपरिभावश्च पठने नियमपूर्वकत्वमिति भूवादिसूत्रे भाष्ये स्पष्टम् / नित्यमाधिपूर्वः इति // धातुपाठे वचनमिदम् / अधीते इत्यत्र धातुरुपसर्ग न व्यभिचरतीति भूवादिसूत्रे भाष्ये / अधीते इति // ‘सार्वधातुकमपित्' इति ङित्त्वात् गुणनिषेधे सवर्णदीर्घः / तदाह / अधीयाते / अधीयते इति // अधीषे / अधीयाथे। अधीध्वे / अधीये / अधीवहे / अधीमहे / गाङ् लिटि / इङ इति // 'इडश्च' इत्यतस्तदनुवृत्तेरिति भावः / स्थानिवत्त्वादेव डित्त्वे सिद्ध ङित्करणं 'गाङ्कुटादिभ्यः' इत्यत्र . 'इणो गा लुङि' इत्यस्य ग्रहणाभावार्थमिति भाष्यम् / ननु कृते गाङादेशे द्वित्वे अभ्यासजश्त्वे आलोपे अधिजगे इति रूपं वक्ष्यति / तदयुक्तम् / 'द्विवचनेऽचि' इति गाडादेशनिषेधात् गाडादेशात् प्रागेव द्वित्वे सति उत्तरखण्डस्य गादेशे अधीगे इति रूपापत्तेरित्यत आह / लावस्थायां, विवक्षिते वेति // तत्र लावस्थायामिति वार्तिकमते एकादेशात् प्रागेव 'द्विवचनेऽचि' इति सूत्रं न प्रवर्तते / द्वित्वनिमित्ताचोऽभावात् / विवक्षिते इति भाष्यमते तु सुतरां 'द्विवचनेऽचि' इति न प्रवर्तते। अनैमित्तिकत्वादिति भावः / अधिजगिरे इति // अधिजगिषे / अधिजगाथे / अधिजगिध्वे / अधिजगे। अधिजगिवहे / अधिजगिमहे / लोटि अधीताम् / अधीयाताम् / अधीयताम् / अधीष्व / अधीयाथाम् / अधीध्वम् इति सिद्धवत्कृत्य आह / अध्ययै इति // तत्र प्रक्रियां दर्शयति / गुणायादेशयोरिति // 'पूर्व धातुः साधनेन युज्यते पश्चादुपसर्गेण' इति 'सुटकात्पूर्वः' इति सूत्रसिद्धान्तादिति भावः / तथाच इट एत्त्वे आटि वृद्धी अधि इ ऐ इति स्थिते गुणे अयादेशे यणिति फलितम् / ननु 'पूर्व धातुरुपसर्गेण युज्यते पश्चात्साधनेन' इत्यपि पक्षः 'सुटकात्पूर्वः' इति सूत्रभाष्ये स्थितः / तथाच अधि इ ऐ इति स्थिते पूर्व सवर्णदीर्घ सति गुणायादेशयोः कृतयोः अधयै इति स्यादित्याशय निराकरोति / पूर्वधातुरिति // साधनेनेत्यस्य कारकबोधकेनेत्यर्थः / प्रत्ययेनेति यावत् / दर्शन इत्येतस्य मते इत्यर्थः / 'पूर्वन्धातुरुपसर्गेण युज्यते पश्चात्साधनेन' इति पक्षे पूर्वप्रवृत्तिकत्वेन अन्तरङ्गत्वात् 'सार्व. For Private And Personal Use Only
Page #202
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 200 सिद्धान्तकौमुदीसहिता [अदादि प्राप्तः / ‘णेरध्ययने वृत्तम्' (सू 3066) इति निर्देशान्न भवति / अध्यैत / परत्वादियङ्। तत आट वृद्धिः / अध्ययाताम् / अध्यैयत / अध्यैयि / अध्यैवहि / अध्यैमहि / अधीयीत / अधीयीयाताम् / अधीयीध्वम् / अधीयीय / अध्येषीष्ट / 2460 / विभाषा लुङ्लङोः / (2-4-50) इङो गाङ् वा स्यात् / 2461 / गाङ्कटादिभ्योऽणिन्ङित् / (1-2-1) धातुकार्धधातुकयोः' इति गुणम्बाधित्वा सवर्णदीर्घः प्राप्तो न भवतीत्यन्वयः। कुत इत्यत आह / णेरड्ययने वृत्तमिति निर्देशादिति // अन्यथा ल्युटि अनादेशे अधि इ अन इति स्थिते पूर्व सवर्णदीर्घ ततो गुणायादेशयोः कृतयोः अधयनमिति प्रसङ्गादिति भावः / वस्तुतस्तु पूर्व धातुः साधनेन युज्यते इत्येव भाष्यसम्मतम् / पूर्व धातुरुपसर्गेण, नैतत्सारामिति भाष्योक्तेरित्यन्यत्र विस्तरः / अध्ययावहै / अध्ययामहै। लड्याह / अध्यैतेति // अधि आ इ त इति स्थिते 'आटश्च' इति वृद्धौ यणिति भावः / अधि इ आतामिति स्थिते आटि वृद्धौ यणि अध्यतामिति प्राप्ते आह / परत्वादियङिति // आट: प्रागेव परत्वादिकारस्य इयङि तत आटि वृद्धौ यणि अध्ययातामिति रूपमित्यर्थः / अध्ययतेति // 'आत्मनेपदेष्वनतः' इत्यदादेशः। अध्यैथाः। अद्ध्यैयाथाम् / अध्यध्वम् इति सिद्धवत्कृत्याह / अद्ध्यैयि। अध्यैवहि। अद्ध्यैमहीति॥ विधिलिङ्याह / अधीयीतेति॥अधि इत इति स्थिते सीयुटि सुटि सलोपे यलोपे अधि इईत इति स्थितेधातुभूतस्य इकारस्य इयडि सवर्णदीर्घ इति भावः। अधीयीयातामिति // अधि इ आतामिति स्थिते सीयुटि सुटि सलोपे अधि इ ईयातामिति स्थिते धातुभूतइकारस्य इयङि सवर्णदीर्घ इति भावः / झस्य रन्भावे सीयुटि सकारयकारलोपे अधिइ ई रन् इति स्थिते धातुभूतस्य इकारस्य इयङि सवर्णदीचे अधीयीरन् , अधीयीथाः, अधीयायाथाम् , इति सिद्धवत्कृत्य आह / अधीयीध्वमिति // ध्वमि सीयुटि सलोपे यलोपे अधि इ ई ध्वमिति स्थिते इङ इयङि सवर्णदीर्घ इति भावः / अधीयीयेति // इटोऽत् सीयुट् सलोपः / अधि इ ईय इति स्थिते इङ इयडि सवर्णदीर्घ इति भावः / अधीयीवहि / अधीयीमहि / आशीर्लिङ्याह / अध्येषीष्टेति // सीयुटि गुणः यण् षत्वम् / अध्येषीयास्ताम् / अध्येषीरन्। अध्येषीष्टाः / अध्येषीयास्थाम् / अध्येषीढम्। अध्येषीय ! अध्येषीवहि / अध्येषीमहि / लुडि आटि अधि आ इ त इति स्थिते / विभाषा लुङ्लङोः // शेषम्पूरयति / इङो गाड़वास्यादिति // 'इडश्च' इत्यतो 'गालिटि' इत्यतश्च तदनुवृत्तेरिति भावः। सिचि अधि अ गा स् त इति स्थिते / गाङ्कुटादिभ्यो // ञ्च ण्च णौ तौ इतौ यस्य सः णित् सः न भवतीत्यञ्णित् गाङ् च कुटादयश्चेति द्वन्द्वात्पञ्चमी / गाडिति डकारानुबन्धात् 'इणो गा लुङि' For Private And Personal Use Only
Page #203
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा / 201 गाङादेशात्कुटादिभ्यश्च परेऽञ्णित: प्रत्यया डिन्तः स्युः / 2462 / घुमास्थागापाजहातिसां हलि / (6-4-66) एपामात ईत्स्यात् हलादौ कित्यार्धधातुके / अध्यगीष्ट-अध्यैष्ट / अध्यगीप्यत-अध्यैष्यत / इक् 1047 स्मरणे / अयमप्यधिपूर्वः / ' अधीगर्थदयेशाम्-' (सू 616) इति लिङ्गात् / अन्यथा हि 'इगर्थ-' इत्येव ब्रूयात् / ' इण्वदिक इति वक्तव्यम्' (वा 1577) / अधियन्ति / अध्यगात् / इत्यस्य न ग्रहणमित्युक्तम् / नापि 'गाङ् गतौं' इत्यस्यात्र ग्रहणम् / तत्र ङकारस्यात्मनेपदप्रापणेन चरितार्थत्वात् / इटादेशस्य गाढो डकारो नात्मनेपदप्रापणेन चरितार्थः / स्थानिवत्त्वेनैव तत्सिद्धेः / तदाह / गाडादेशादिति // एवञ्च सिच: डित्त्वे आह / घुमास्था // 'षो अन्तकर्मणि' इत्यस्य कृतात्त्वस्य निर्देशः / घु मा स्था गा पा जहाति सा एषान्द्वन्द्वात्षष्टी / 'आर्धधातुके' इत्यधिकृतम् ‘आतो लोप इटि च' इत्यतः आत इति 'ईद्यति' इत्यतः ईदिति ‘अनुदात्तोपदेश' इत्यतः विडति इति चानुवर्तते / तदाह / एषामित्यादिना / अध्यगीष्टेति // अधि अ गा स् त इत्यत्र आकारस्य ईकारे यणि सिचष्षत्वे तकारस्य टुत्वेन ट इति भावः। 'गातिस्था' इति न सिज्लोपः / परस्मैपदाभावात् / अध्यगीषाताम् / अध्यगीषत / अध्यगीष्ठाः / अध्यगीषाथाम् / अध्यगीढ़म् / अध्यगीषि / अध्यगीवहि / अध्यगीमहि / गाङभावपक्षे आह / अध्यैष्टेति // अधि आ इस्त इति स्थिते इकारस्य गुणे आटो वृद्धौ यणि षत्वष्टुत्वे इति भावः / अध्येषाताम् / अध्यैषत / अध्यैष्ठाः / अध्यैषाथाम् / अध्यैड्ढम् / ‘धि च' इति सलोपः / अध्यैषि / अध्यैष्वहि / अध्यैष्महि / लुङ्याह / अध्यगीष्यतेति // ‘विभाषा लुङ्लुडोः' इति गाङादेशे स्ये तस्य 'गाङ्कुटादिभ्यः' इति ङित्त्वे 'घुमास्था' इति ईत्त्वे अटि यणि षत्वमिति भावः / अध्यगीध्येतामित्यादि / गाङभावपक्षे आह / अध्यैष्यति // अध्यैष्येतामित्यादि / इक् स्मरणे / अयमपीति // इधातुवदयमपि धातुर्नित्यमधिपूर्वक इत्यर्थः / ननु धातुपाठे इडमधिकृत्य नित्यमधिपूर्व इति वचनात् , भूवादिसूत्रभाष्याच इडो नित्यमधिपूर्वकत्वं युक्तम् / अस्य तु तथात्वे किम्प्रमाणमित्यत आह / अधीगर्थेति // तत्र हि अधीगर्थेत्यनेन स्मरणार्थकधातुर्विवक्षितः / इग्धातोरधिपूर्वकत्वाभावेऽपि स्मरणार्थकत्वे इगर्थेत्येतावतैव स्मरणार्थकधातुलाभात् तत्र अधीति व्यर्थं स्यात् / अत इग्धातुरयं नित्यमधिपूर्वक एव स्मरणार्थक इति विज्ञायते इत्यर्थः / इण्वदिकः इति // षष्ठ्यन्ताद्वतिः इणः यत् कार्य 'इणो यण्' इत्यादि तत् इको भवतीत्यर्थः। अध्येति, अधीतः, इति सिद्धवत्कृत्य आह। अधियन्तीति // अन्तादेशे इयङपवादः 'इणो यण्' इति यणिति भावः / अध्येषि / अधीथः / अधीथ / अध्येमि / अधीवः। अधीमः। अधीयाय। अतुसि तु द्वित्वे कृते अधि इ इ अतुसिति स्थिते 'इणो यण्' इति द्वितीयस्य इकारस्य यणि प्रथमस्य इकारस्य 'दीर्घ इणः किति' इति दीर्घ सवर्णदीर्घे, अधीयतुः / अधीयुः / अधीययिथअधीयेथ / अधीयथुः / अधीय / अधीयाय-अधीयय / अधीयिव / अधीयिम / अध्येता / 26 For Private And Personal Use Only
Page #204
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदीसहिता [अदादि केचित्तु आर्धधातुकाधिकारोक्तस्यैवातिदेशमाहुः / तन्मते यण्न / तथा च भट्टिः-ससीतयो राघवयोरधीयन' इति / वी 1048 गतिव्याप्तिप्रजनकान्त्यसनखादनेषु / प्रजनं गर्भग्रहणम् / असनं क्षेपणं / वेति / वीतः / वियन्ति / वेषि / वेमि / वीहि / अवेत् / अवीताम् / अवियन् / अडागमे सत्यनेकाच्त्वाद्यणिति केचित् / अव्यन / अव ईकारोऽपि धात्वन्तरं प्रश्लिष्यते / एति / ईत: / इयन्ति / ईयात् / ऐषीत् / या 1049 प्रापणे / प्रापणमिह गतिः / प्रणियाति / यातः / यान्ति / / 2463 / लङः शाकटायनस्यैव / (3-4-111) अध्येष्यति / अध्येतु-अधीतात् / अधीताम् / अधियन्तु / अधीहि-अधीतात् / अधी. तम् / अधीत। अध्ययानि / अध्ययाव / अध्ययाम / अध्यैत / अध्येताम् / अध्यायन / अध्यैः / अध्यैतम् / अध्यैत / अध्यायम् / अध्यैव / अध्यैम / इति सिद्धवत्कृत्य लुङ्याह / अध्यगादिति // इण्वत्त्वात् 'इणो गा लुङि' इति गादेशे ‘गातिस्था' इति सिचो लुका लुप्तत्वात 'घुमास्था' इति ईत्त्वन्न। अध्यगाताम्। अध्यगाम्। अध्यगाव / अध्यैष्यत्। केचित्त्विति // आधधातुके इत्यधिकारे 'इणो गा लुङिः' इति सूत्रे एतद्वार्तिकपाठस्य भाष्ये दर्शनात्तदधिकारोक्तानामेव कार्याणामुपस्थितत्वादिति भाव: / तन्मते यण नेति // 'इणो यण्' इत्यस्य आर्धधातुकाधिकारस्थत्वाभावान्नातिदेश इत्यर्थः / तेन झोऽन्तादेशे इयङि सवर्णदीर्घ अधीयन्तीत्यायूह्यम् / राघवयोरधीयन्निति // 'अधीगर्थ' इति षष्ठी। राघवौ स्मरनित्यर्थः / अधिपूर्वात् इग्धातोर्लट: शतरि शपो लुकि इकारस्य इयङि सवर्णदीर्घ अधीयनिति शत्रन्तात् सुबुत्पत्तौ सौ रूपम् / वी गतीति // 'अजेय॑घञपोः' इति सूत्रभाष्यरीत्या अस्य आध. धातुके नास्ति प्रयोग इति शब्देन्दुशेखरे स्थितम् / वियन्तीति // एकाच्त्वाद्यणभावादियङिति भावः / लोटि वेतु-वतिात् / वीताम् / वियन्तु / वीतम् / वीतेति सिद्धवत्कृत्य आह। वीहीति // हेरपित्त्वेन ङित्त्वान गुण इति भावः / वयानि / वयाव / वयाम / लङ्याह / अवेदिति // अवियन्निति // वी अनिति स्थिते परत्वादडागमात् प्रागियडि कृते अडागम इति भावः / मतान्तरमाह / अडागमे सतीति // लावस्थायामडिति पक्षे इयडम्बाधित्वा अनेकाच्त्वात् यणि अव्यन्निति केचिदाहुरित्यर्थः / केचिदित्यस्वरसं सूचयति / तद्वीजन्तु कृतेऽप्यटि यणि कर्तव्ये आभीयतया अट: असिद्धत्वादनेकाच्त्वाभावाद्यणभावादियडेवोचित इति शब्देन्दुशेखरे विस्तरः / अत्रेति // वी ई इति सवर्णदीर्घ वी गतीति निर्देश इति भावः / ईयादिति // विधिलिडिः आशीलिङि च रूपमिदं समानम् / 'स्कोः' इति सलोपः / तत्र विधिलिङि ईयातामित्यादि / आशिषि तु ईयास्तामित्यादि इति विशेषः / ऐषीदिति // सिचि वृद्धिः / या प्रापणे इति // ननु गच्छतीत्यर्थे यातीति कथमित्यत आह / प्रापणमिह गतिरिति // णिजयंस्त्वविवक्षित इति भावः / प्रणियातीति // ‘नेर्गद' इति णत्वम् / ययौ / याता। यास्यति / यातु / अयात् / अयाताम् / लङः शाकटायनस्यैव // 'झर्जुस्' For Private And Personal Use Only
Page #205
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा / आदन्तात्परस्य लङो झर्जुस् वा स्यात् / अयु:-अयान / यायात् / यायाताम / यायास्ताम् / अयासीत् / वा 1050 गतिगन्धनयोः / गन्धनं सूचनभ / भा 1051 दीप्तौ / ष्णा 1052 शौचे / श्रा 1053 पाके / द्रा 1054 कुत्सायाम गतौ / सा 1055 भक्षणे / पा 1056 रक्षणे / पायास्ताम / अपासीत् / रा 1057 दाने / ला 1058 आदाने / ' द्वावपि दाने' इति चन्द्रः / दाप 1059 लवने / प्रणिदाति-प्रनिदाति / दायास्ताम् / अदासीत / ख्या 1060 प्रकथने / अयं सार्वधातुकमात्रविषयः / सस्थानत्वं नमः ख्यात्रे (वा 1591) इति वार्तिकं तद्भाष्यञ्चेह लिङ्गम् / 'सस्थानो जिह्वामूलीयः / स नेति ख्याञादेशख ख्शादित्वे प्रयोजनमित्यर्थः / इति अत इति चानुवर्तते। तदाह। आदन्तादिति // जुस वेति // शाकटायनग्रहणाद्विकल्पलाभ इति भावः / एवकारस्तु 'लिट् च' 'लिडाशिषि' इत्युत्तरार्थ इति भाष्ये स्पष्टम् / नच 'लोटो लङ्वत्' इत्यतिदेशात् यान्तु इत्यत्रापि जुस्विकल्पः शङ्कयः / 'नित्यं ङितः' इत्यतो ङित इत्यनुवृत्त्यैव सिद्धर्लङ्ग्रहणस्य लद्भावमादाय प्रवृत्तिनिवारणार्थत्वात् / इदमपि भाष्ये स्पष्टम् / अयानिति // जुसभावे रूपम् / अयासीत् / ष्णाधातुः षोपदेशः / नस्य टुत्वे णत्वनिर्देशः / स्नाति / स्नायात्-स्नेयात् / पा रक्षणे / 'एलिडि ' इति सूत्रे, गातिस्था इत्यत्र च पिवतेरेव ग्रहणादेत्त्वसिज्लुको न / तदाह / पायास्ताम् / अपासीत् इति // दाप् लवने / घुत्वाभावात् 'शेषे विभाषा' इति णत्वविकल्पम्मत्वा आह। प्रणिदाति-प्रनिदातीति // घुत्वाभावादाशीलिडि लुङिच 'घुमास्था' इति ईत्त्वन्नेति मत्वा आह। दायास्तामिति / अदासीदिति च // ख्या प्रकथने / अयं सार्वधातुकमात्रविषयः इति // मात्रशब्दोऽवधारणे / सार्वधातुक एवास्य ख्याधातोः प्रयोगः न त्वार्धधातुके इत्यर्थः / कुत इत्यत आह / सस्थानत्वमिति // चक्षिङः ख्यामिति सूत्रे ख्यास्थाने 'ख्शाञ्' इति वक्तव्यम् / अस्य शकारस्य पूर्वत्रासिद्धमिल्यधिकारे यकारो वक्तव्य इत्युक्त्वा प्रयोजनं सौप्रख्ये वुविधिरित्युपक्रम्य सस्थानत्वं नमः ख्यात्रे इत्युक्तं वार्तिके। तत्र नमध्याहृत्य नमः ख्यात्रे इति सस्थानत्वं न भवतीति व्याख्यातं भाष्ये / तदिदं वार्तिक भाष्यञ्च ख्याधातोरस्य सार्वधातुके एव प्रयोग इत्यत्र ज्ञापकमित्यर्थः / तत्र सस्थानपदं व्याचष्टे / सस्थानो जिह्वामलीयः इति // प्राचीनाचार्यसमयादिति भावः / स नेति // स: जिह्वामूलीयः नमः ख्यात्रे इत्यत्र न भवतीत्येतत् ख्या आदेशस्य ख्शादित्वविधौ शस्य यत्वविधौ च प्रयोजनमित्यर्थः / ख्शादित्वे इति // यत्वविधावित्यस्याप्युपलक्षणम् / शकारस्थानिकयत्वस्यासिद्धत्वात् ‘शर्परे विसर्जनीयः' इति विसर्जनीय इष्टस्सिद्ध्यति / जिह्वामूलीयस्त्वनिष्टो न भवतीति भाष्यवार्तिकहृदयम् / ख्याधातोरस्यार्धधातुकेऽपि प्रयोगसत्वे तु तृजन्ते ख्यातृशब्दे यकारस्य शकारस्थानिकत्वाभावात् असिद्धत्वाभावात् ‘शपरे विसर्जनीयः' इत्यस्याप्रवृत्तौ 'कुप्वोः' इति जिह्वामूलीयो दुर्वारस्स्यात्। ततश्चार्धधातुके सर्वत्र न ख्याधातोः प्रयोग इति विज्ञायते।ज्ञापकस्य सामान्यापेक्षत्वादिति भावः। सम्पूर्वस्येति॥ For Private And Personal Use Only
Page #206
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 204 सिद्धान्तकौमुदीसहिता [अदादि 'सम्पूर्वस्य ख्याते: प्रयोगो न' इति न्यासकारः / प्रा 1061 पूरणे / 'मा 1062 माने / अकर्मकः / तनौ ममुस्तत्र न कैटभद्विषः' इति माघः / उपसर्गवशेनार्थान्तरे तु सकर्मकः / 'उदरं परिमाति मुष्टिना' / ' नेर्गद-' (सू 2285) इत्यत्र नास्य ग्रहणम् / प्रणिमाति-प्रनिमाति / वच 1063 परिभाषणे / वक्ति / वक्त: / अयमन्तिपरो न प्रयुज्यते / ‘बहुवचनपरः' इत्यन्ये / 'झिपरः' इत्यपरे / वग्धि / वच्यात / उच्यात् / अवोचत् / विद 1064 ज्ञाने। 2464 / विदो लटो वा / (3-4-83) वेत्तेर्लट: परस्मैपदानां णलादयो वा स्युः / वेद / विदतुः / विदुः / वेत्थ / विदथुः / विद / वेद / विद्व / विद्म / पक्षे वेत्ति / वित्तः इत्यादि / सार्वधातुकेऽपीति भावः। अत्र व्याख्यानमेव शरणम् / एवञ्च सङ्ख्याति इत्यादि नास्तीति फलितम् / संख्यादिशब्दास्तु ख्याादेशस्येति बोध्यम् / मामाने इति ॥मानं परिमितिरिति भावः। तदाह / अकर्मक इति // माति घृतं पात्रेऽस्मिन्निति भावः / परिमितंभवतीत्यर्थः / सङ्ग्रहीतं भवतीति यावत् / अत्रार्थे शिष्टप्रयोगसंवादं दर्शयति / तनौ ममुस्तत्रेति // ‘तनी ममुस्तत्र न कैटभद्विषः तपोधनाभ्यागमसम्भवा मुदः' इति माघकाव्ये / तपोधनस्य नारदस्य अभ्यागमेन आगमनेन सम्भवाः मुदः सन्तोषाः कैटभद्विषः श्रीकृष्णस्य तनौ शरीरे न ममुः परिमिता न बभूवुः आधिक्यान्न सङ्ग्रहीता बभूवुरिति यावत् / अर्थान्तरे त्विति // परिच्छेदे त्वित्यर्थः / उदरमिति // उदरं परिमाति मुष्टिना कुतुकी कोऽपि दमस्वसुः किमु / इति नैषधकाव्ये / कोऽपि कुतुकी दमस्वसुः दमयन्त्याः उदरं मुष्टिना परिमाति किमु परिगृह्णातीत्यर्थः / नास्य ग्रहणमिति // घुप्रकृतिमाडिति भाष्यादिति भावः / एवञ्च ‘शेषे विभाषाऽकखादौ' इति णत्वविकल्प इति मत्वा आह / प्रणिमाति-प्रनिमातीति // ममौ / ममिथममाथ / ममिव / माता / मास्यति / मातु / अमात् / अमासीत् / अमास्यत् / वच परिभाषणे / अनिट् / अयमन्तीति // लटि प्रथमपुरुषबहुवचनं नास्तीत्यर्थः / बहुवचनपरः इति // न प्रयुज्यत इति शेषः / अस्मिन् पक्षे पुरुषत्रये बहुवचनं नास्ति / झिपर इति॥ न प्रयुज्यत इति शेषः। अस्मिन् पक्षे लिडादिष्वपि बहुवचनं नास्तीति भावः / तत्र लिटि अकिति लिट्यभ्यासस्य' इति सम्प्रसारणम्। उवाच / किति तु ‘वचिस्वपि' इति सम्प्रसारणम् / ऊचतुः। उवचिथ-उवक्थ / ऊचिव / वक्ता / वक्ष्यति / वक्तु। अवचत् / वच्यादिति // विधिलिङि रूपम् / आशीर्लिङि 'वचिस्वपि' इति सम्प्रसारणं मत्वा आह / उच्यादिति // लुङि ‘अस्यति वक्ति' इति च्लेरङि 'वच उम्' इति भावः / विद ज्ञाने इति // अनिट्सु लुग्विकरणस्याग्रहणात् अयं सेट् / विदोलटो वा // परस्मैपदानां णलतुस्' इत्यादिसूत्रमनुवर्तते। विद इति पञ्चमी / तदाह / वेत्तेर्लटः इति // विन्दतिविद्यत्योस्तु शेन श्यना च For Private And Personal Use Only
Page #207
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा / 205 विवेद / विविदतुः / 'उपविद-' (सू 2341) इत्याम्पक्षे 'विद' इत्यकारान्तनिपातनान्न लघूपधगुणः / विदाञ्चकार / वेदिता / 2465 / विदांकुर्वन्त्वित्यन्यतरस्याम् / (3-1-41) वेत्तेर्लोट्याम् गुणाभावो लोटो लुक् लोडन्तकरोत्यनुप्रयोगश्च वा निपात्यते / पुरुषवचने न विवक्षिते / इतिशब्दात् / 2466 / तनादिकृभ्य उः / (3-1-79) तनादेः कृयश्च 'उ' प्रत्यय: स्यात् / शपोऽपवादः / तनादित्वादेव सिद्धे कृञ्ग्रहणं ‘गणकार्यस्यानित्यत्वे' लिङ्गम् / तेन ‘न विश्वसेदविश्वस्तम्' इत्यादि सिद्धम् / विदाङ्करोतु / व्यवधानात् नैते आदेशाः / इत्यादीति // विदन्ति / वेत्सि / वित्थः / वित्थ / वेद्मि / विद्वः / विद्मः / विविदतुरिति // विविदुः / विवेदिथ / विविदथुः / विविद / विवेद / विविदिव / विविदिम / आम् पक्षे इति // न लघूपधगुण इत्यन्वयः। कुत इत्यत आह / अकारान्तनिपातनादिति // 'उषविद' इति सूत्रे विदेत्यकारान्तत्वं आम्सन्नियोगेन निपात्यत इत्यर्थः / आमि अतो लोपः / तस्य स्थानिवत्त्वात् न लघूपधगुण इति भावः / वेदितेति // वेदिष्यतीत्यपि ज्ञेयम् / विदांकुर्वन्त्वित्यन्यतरस्याम् // ‘कृञ् चानुप्रयुज्यते लिटि' इत्युत्तरमिदं सूत्रम् / इतिशब्दः प्रकारे / एवञ्जातीयकं वैकल्प्येन प्रत्येतव्यमित्यर्थः / वेत्ते. रिति // लुग्विकरणात् विदधातोः लोटि परे आम्प्रत्ययो निपात्यत इत्यर्थः / लोडन्तति // आमन्ताद्विदेः लोडन्तकृञ्धातोः अनुप्रयोगश्च निपात्यत इत्यर्थः / ननु ‘विदाङ्कुर्वन्तु' इति लोटि प्रथमपुरुषबहुवचनस्यैव सूत्रे निर्देशात् कथं लोडन्तसामान्यानुप्रयोग इत्याह। पुरुषेति॥ कुर्वन्त्विति प्रथमपुरुषो बहुवचनञ्च न विवक्षितमित्यर्थः / तयोस्तु नान्तरीयकमुच्चारणमिति भावः / इतिशब्दादिति // तस्य प्रकारवचनस्य लोकप्रयोगानुसारित्वादिति भावः / तनादिकृभ्य उः। शपोऽपवादः इति // अनेन शब्विषय एवास्य प्रवृत्तिरिति सूचितम् / 'सार्वधातुके यक' इत्यतः सार्वधातुकग्रहणस्य ‘कर्तरि शप्' इत्यतः कर्तरीत्यस्य चानुवृत्तेरिति भावः / तेनेति // गणकार्यस्यानित्यतया 'श्वसेत्' इत्यत्र अदादिगणकार्य शपो लुङ्न भवतीत्यर्थः / वस्तुतस्तु कृञ्ग्रसणस्यात्र भाष्ये प्रत्याख्यातत्वात् उक्तज्ञापनाभावात् विश्वसेदित्यसिद्धमेवेत्याहुः / विश्वस्तमित्यत्र तु आगमशास्त्रस्यानित्यत्वात् नेडित्याहुः / विदाङ्करोत्विति // अत्र विदेर्लोटि आमि लोटो लुकि आमन्ताद्विदेः कृजो लोडन्तस्यानुप्रयोगः / तत्र लोटस्तिपि ‘एरुः' इत्युत्वे शपम्बाधित्वा उप्रत्यये ऋकारस्य गुणे रपरत्वे उकारस्य तिन्निमितो मुणः / तातङि तु ऋकारस्य गुणे रपरे तातडो ङित्त्वात् उकारस्य गुणाभावे विदाङ्कुरुतात् For Private And Personal Use Only
Page #208
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 206 सिद्धान्तकौमुदीसहिता [अदादि 2467 / अत उत्सार्वधातुके / (6-4-110) उप्रत्ययान्तस्य कृञोऽकारस्य उत्स्यात्सार्वधातुके किति / उदिति तपरसामर्थ्यान्न गुणः / विदांकुरुतात् / विदांकुरुताम् / -- उतश्च-' (सू 2334) इति हेर्लक् / आभीयत्वेन लुकोऽसिद्धत्वादुत्वम् / विदांकुरु / विदाङ्करवाणि / अवेत् / अवित्ताम् / * सिजभ्यस्त---' (सू 2226) इति झेर्नुस् / अविदुः / 2468 / दश्च / 8-2-75) धातोर्दान्तस्य पदस्य सिपि परे रु: स्याद्वा / अवे:-अवेत् / अस 1065 भुवि / अस्ति / 2469 / श्नसोरल्लोपः / (6-4-111) / अस्यास्तेश्चाकारस्य लोप: स्यात्सार्वधातुके किति / स्तः / सन्ति / 'तासस्त्यो:- (सू 2191) इति सलोप: / असि / स्थः / स्थ / अस्मि / स्वः / स्मः / आर्धधातुके' (सू 2432) इत्यधिकृत्य / इति स्थिते / अत उत् / उप्रत्ययान्तस्येति // ‘उतश्च प्रत्ययात्' इत्यतः तदनुवृत्तेरिति भावः / कृतोऽकारस्य उदिति // ‘नित्यं करोतेः' इत्यतः तदनुवृत्तेरिति भावः / क्ङिन्तीति // ‘गमहन' इत्यतः तदनुवृत्तेरिति भावः / अकारस्य उत्त्वे कृते तस्य लघूपधगुणमाशङ्कय आह / तपरेति // इदं स्थानिवत्सूत्रे भाष्ये स्पष्टम् / विदांकुरुतामिति // विदाकुर्वन्त्वित्यपि ज्ञेयम् / 'न भकुर्छ।म्' इति निषेधात् ‘हलि च' इति दी? न / हेटुंगिति // विदाङ्कुरु हि इति स्थिते 'अत उत्सार्वधातुके' इत्युत्त्वम्परमपि बाधित्वा नित्यत्वात् 'उतश्च प्रत्ययात्' इति हे गित्यर्थः / तर्हि सार्वधातुकाभावात् कथमुत्त्वमित्यत आह / आभीयत्वेनेति // विदांकुर्विति // विदाङ्गुरुतात् / विदाङ्गुरुतम् / विदाङ्कुरुत / विदाङ्करवाणीति // आटः पित्त्वेन डित्त्वाभावादुकारस्य गुण इति भावः / विदाङ्करवाव / विदाङ्करवाम / लङ्याह / अवेदिति // हल्ल्यादिना सिपो लोपे विशेषमाह / दश्च // 'सिपि धातोरुवा' इत्यनुवृत्तम् / द इति षष्ठ्यन्तेन धातुर्विशेष्यते / तदन्तविधिः / पदस्येत्यधिकृतम् / तदाह / धातोर्दान्तस्य पदस्येति // अलोऽन्त्यस्येत्यन्त्यस्य ज्ञेयम् / अवेदिति / / सिपो हल्ङ्यादिलोपे दकारस्य रुत्वविकल्पः / अवित्तम् / अवित्त / अवेदम्। अविद्व / अविद्म। विद्यात् / विद्याताम् / विद्यात् / विद्यास्ताम् / अवेदीत् / अवेदिष्यत् / अस भुवीति // भवनं भूः / सत्तायामित्यर्थः। अस्तीति // सस्य चर्वेऽपि सकार एव भवति नतु तकारः, अल्पप्राणतया प्रयत्नभेदात् / श्नसोरल्लोपः // अत् इति लुप्तषष्ठीकम्पदम् / 15 अस् अनयोर्द्वन्द्वात्पष्टीद्विवचनम् / शकन्ध्वादित्वात् पररूपम् / श्नेति नम्प्रत्ययैकदेशनिर्देशः / 'अत उत्सार्वधातुके' इत्यतः सार्वधातुके इत्यनुवर्तते, ‘गमहन' इत्यतः क्ङितीति / तदाह / श्वस्येत्यादिना / अस्तेर्भूः // अस For Private And Personal Use Only
Page #209
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा / 207 2470 / अस्तेर्भूः / (2-4-52) बभूव / भविता / अस्तु / स्तात् / स्ताम् / सन्तु / 2471 / ध्वसोरेडावभ्यासलोपश्च / (6-4-119) घोरस्तेश्चैत्त्वं स्याद्धौ परेऽभ्यासलोपश्च / आभीयत्वेनैत्त्वस्यासिद्धत्वाद्धेधिः। 'असो:--' (सू 2469) इत्यल्लोपः / एधि / तातपक्षे एत्त्वं न / परेण तातडा बाधात् / सकृद्गतौ--' (प 41) इति न्यायात् / स्तात् / स्तम् / स्त / असानि / असाव / असाम / 'अस्तिसिच:-' (सू 2225) इतरीट् / आसीत् / 'सोर-' (सू 2469) ल्लोपस्याभीयत्वेनासिद्धत्वादाट / आस्ताम् / आसन् / स्यात् / भूयात् / अभूत् / सिचोऽस्तेश्च विद्यमानत्वेन विशेषणादीएन / 2472 / उपसर्गप्रादुर्ध्यामस्तिर्यच्परः / (8-3-87) धातो भावः स्यात् आर्धधातुके परे इत्यर्थः / अस् हि इति स्थिते / ध्वसोरेद्धावभ्यासलोपश्च // घु अस् अनयोर्द्वन्द्वः। एत् हौ इति च्छेदः / ननु अस् हि इति स्थिते 'हुझल्भ्योहेधिः' इति धित्वम्परत्वात् बाधित्वा 'ध्वसोः' इति सकारस्य एत्त्वे कृते हुझल्भ्यः परत्वाभावात् कथन्धिभाव इत्यत आह / आभीयत्वेनेति // तथाच अ एधीति स्थिते आह / नसोरिति // नन्वाशिषि अस् हि इति स्थिते तातडं बाधित्वा परत्वादेत्त्वम्प्राप्नोतीत्यत आह / तातपक्षे एत्त्वन्नेति // कुत इत्यत आह / परेणेति // ननु कृते तातङि तस्य स्थानिवत्त्वेन हित्त्वात्तस्मिन्परे 'ध्वसोः' इत्येत्त्वङ्कुतो नेत्यत आह / सकृद्ताविति // सकृत् एकवारं गतौ प्रवृत्तौ विप्रतिषेधे विरोध सति यद्बाधितन्तद्बाधितमेव भवति, नतु पुनः प्रवर्तते इति तदर्थः / लङस्तिपि विशेषमाह / अस्तिसिचः इति // इकारलोपे आटि वृद्धौ अस्तिसिचः इति ईडागम इत्यर्थः / ननु तसादौ डिति परत्वादाडागमात्प्राक् 'नसोः' इत्यल्लोपे सति अजादित्वाभावात् कथमाडित्यत आह / श्नसोरल्लोपस्याभीयत्वेनेति / आस्तामिति // अत्र कृते आडागमे तस्य लोपनिवृत्त्यर्थ 'नसोरलोपः' इति तपरकरणम् / वस्तुतस्तु आट आभीयत्वेनासिद्धत्वादेव लोपो न भवतीति 'श्नसोरल्लोपः' इत्यत्र तपरकरणं व्यर्थमिति भाष्ये स्पष्टम् / आसन्निति // आसीः। आस्तम् / आस्त / आसम् / आस्व / आस्म / विधिलिड्याह / स्यादिति // स्याताम् / स्युरित्यादि / आशीर्लिङि आर्धधातुकत्वात् भूभावम्मत्वा आह / भूयादिति // लुङि तु सिचि भूभावे ‘गातिस्था' इति सिचो लुकम्मत्वा आह / अभूदिति // तत्र ‘अस्तिसिचोऽपृक्ते' इति ईडागममाशय आह / सिचोऽस्तेश्चेति // इह भूभावे सति अस्तेरश्रूयमाणत्वात् ईण्नेति भावः / उपसर्गप्रादुर्ध्याम् // उपसर्गः प्रादुस् अनयोर्द्वन्द्वः / इण्कोरित्यधिकृतम् / तत्र इण इत्युपसर्गेण सम्बध्यते न तु प्रादुसि। ततः परस्य अस्तेः For Private And Personal Use Only
Page #210
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 208 सिद्धान्तकौमुदीसहिता [अदादि उपसर्गेण: प्रादुसश्च परस्यास्ते: सस्य ष: स्याद्यकारेऽचि च परे / निष्यात् / प्रादुःष्यात् / निषन्ति / प्रादुःषन्ति / ' यच्परः' किम् / अभिस्तः / मृजूष 1066 शुद्धौ / 2473 / मृजेर्वृद्धिः / (7-2-114) मृजेरिको वृद्धिः स्याद्धातुप्रत्यये परे / ' कित्यजादौ वेष्यते -' (वा 5057) / 'त्रश्च-' (सू 294) इति षः / माष्टि। मृष्टः। मृजन्ति-मार्जन्ति / संस्य इणः परत्वासम्भवात् / कोरित्यपि असम्भवान्न सम्बध्यते / अस्तिरिति षष्ठ्यर्थे प्रथमा / 'सहेस्साढस्सः' इत्यतः स इति षष्ठ्यन्तमनुवर्तते, मूर्धन्य इत्यधिकृतम् / य् अच् अनयोईन्द्रः / यचौ परौ यस्मादिति विग्रहः / यकारे अकारे च परे इति लभ्यते / तदाह / उपसर्गेणः इति // उपसर्गस्थादिण इत्यर्थः / परस्येति // अस्तेः सस्य विशेषणमिदम् / न त्वस्तेः / तेन प्रादुरासीदित्यत्र न षत्वम् / यकारपरकत्वे उदाहरति / निष्यात्-प्रादुःष्यादिति // प्रादुस् इति सान्तमव्ययम् / सस्य षत्वे पूर्वस्य सस्य टुत्वेन षः / षान्तत्वे तु प्रादुर्व्यामिति रुत्वनिर्देशो नोपपद्यते / अच्परकत्वे उदाहरति / निषन्ति / प्रादुःषन्तीति / मृजूष शुद्धाविति // ऊदित्त्वमिडिकल्पार्थम् / 'षिद्भिदादिभ्योऽङ्' इत्यर्थं षित्त्वम्। वस्तुतस्तु भिदादिगणे मृजाशब्दपाठादेव सिद्धेरिह पित्करणमनार्षभित्याहुः / मृजेर्वृद्धिः // ‘इको गुणवृद्धी' इति परिभाषया इक इत्युपस्थितम् / मृजेरित्यवयवषष्ठी / तदाह / मृजेरिको वृद्धिः स्यादिति // 'धातोः स्वरूपग्रहणे तत्प्रत्यये कार्यविज्ञानम्' इति परिभाषामभिप्रेत्य आह / धातुप्रत्यये परे इति // धातोर्विहिते प्रत्यये इत्यर्थः / तेन परिमृड्भ्यामित्यत्र न वृद्धिरिति भावः / गुणापवादोऽयम् / विङत्यजादौ वेष्यते इति // मृजेवृद्धिरिति शेषः / 'इको गुणवृद्धी' इति सूत्रभाष्ये इदम्पठितम् / व्रश्चेति षः इति // मृज् ति इति स्थिते ऋकारस्य वृद्धौ रपरत्वे जकारस्य व्रश्चेति षत्वे तकारस्य टुत्वेन टकारे माष्टर्टीति रूपमित्यर्थः / मृष्टः इति // डित्त्वान्न वृद्धिः नापि गुण इति भावः। मृजन्ति-मार्जन्ति इति // विङ त्यजादाविति वृद्धिविकल्प इति भावः / माक्षि / मृष्ठः / मृष्ठ / मामि / मृज्वः / ममार्जेति // णलि मृजेर्वृद्धिरिति भावः / अतुसादावजादौ किति वृद्धिविकल्पं मत्वा आह / ममार्जतुः-ममृजतुरिति // ममार्जु:-ममृजुः इत्यपि ज्ञेयम् / ऊदित्त्वादिडिकल्पं मृजेर्वृद्धिञ्च मत्वा आह / ममार्जिथ-ममाष्ठेति // इडभावे जस्य व्रश्चेति षः / थस्य टुत्वेन ठ इति भावः / ममा थुः-ममृजथुः / ममार्ज-ममृज / ममार्जिव-ममृ. जिव-ममृज्व / ममार्जिम-ममृजिम-ममृज्म / लुट्याह / मार्जिता-मार्टति // ऊदि * अत्र ‘इहान्ये वैयाकरणा मृजेरजादौ संक्रमे विभाषा वृद्धिमारभन्ते / तदिहापि साध्यम्' इति 'इको गुण'-इति सूत्रस्थं भाष्यं मानम् / For Private And Personal Use Only
Page #211
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा / 209 ममार्ज / ममार्जतुः-ममृजतुः / ममार्जिथ-ममाष्ठं / मार्जिता-मार्टा / मृढि / अमाश् / अमार्जम् / अमार्जीत्-अमाक्षीत् / रुदिर् 1067 अश्रुविमोचने / 2474 / रुदादिभ्यः सार्वधातुके / (7-2-76) 'रुद्' 'स्वप्' 'श्वस्' 'अन्' 'जन्' एभ्यो वलादेः सार्वधातुकस्येद स्यात् / रोदिति / रुदितः / हो परत्वादिटि धित्वं न / रुदिहि / 2475 / रुदश्च पञ्चभ्यः / (7-3-98) हलादेः पित: सार्वधातुकस्यापृक्तस्य ईट् स्यात् / 2476 / अङ्गार्ग्यगालवयोः / (7-3-99) अरोदीत्-अरोदत् / अरुदिताम् / अरुदन् / अरोदी:-अरोदः / अरोदम् / प्रकृतिप्रत्ययविशेषापेक्षाभ्यामडीड्भ्यामन्तरङ्गत्वाद्यासुट / रुयात् / क्वादिटि तदभावे च ‘मृजेर्वृद्धिः' इति भावः / मार्जिष्यति / मायति / माटुं-मृष्टात् / मृष्टाम् / मार्जन्तु-मृजन्तु / मृड्ढीति // हेरपित्त्वेन डित्त्वान्न वृद्धिः / व्रश्चादिना जस्य षः / होर्धिः षस्य जश्त्वेन ड: धस्य टुत्वेन ढः। मृष्टात् / मृष्टम् / मृष्ट / मार्जानि। मार्जाव / मार्जाम / लङ्याह / अमाश् इति // तिप इकारलोपे वृद्धौ रपरत्वे हल्ङ्यादिना तकारलोपे वश्वादिना जस्य षः तस्य जश्त्वचा इति भावः / अमृष्टाम् / अमार्जन-अमृजन् / अमाश् / अमृष्टम् / अमृष्ट / अमार्जमिति // अमृज्व / अमृज्म / मृज्यात् / मृज्याताम् / मृज्यास्ताम् / अमार्जीत्-अमाीदिति // ऊदित्त्वादिडिकल्प इति भावः / इट्पक्षे अमार्जिष्टाम् / अमाजिषुरित्यादि सुगमम् / ३डभावे अमार्टाम् / अमाझुः। अमाक्षीः। अमार्टम् / अमार्ट / अमार्शम् / अमाव॑ / अमाभं / अमार्जिष्यत् / अमाय॑त् / रुदिर्धातुरिरित् सेट् / रुदादिभ्यः // इड्वलादेरित्यनुवृत्तिम्मत्वा आह / वलादेरिति / रुदितः इति // डित्त्वान्न गुणः / रुदन्ति / रोदिषि / रुदिथः / रुदिथ / रोदिमि / रुदिवः / रुदिमः / रुरोद / रुरुदतुः / रुरोदिय / रुरुदिव। रुरुदिम। रोदिता / रेदिष्यति / रोदितु। रुदितात्-रुदिताम् / रुदन्तु। रुदि. हि इति स्थिते 'हुझल्भ्यः' इति धित्वमाशय आह / होपरत्वादिति।रुदिहीति // हेरपिस्वेन डित्त्वान्न लघूपधगुण इति भावः / रुदितात् / रुदितम् / रुदित। रोदानि / रोदाव / रोदाम / रुदश्च पञ्चभ्यः // 'नाभ्यस्तस्य' इत्यतः पिति सार्वधातुके इति 'उतो वृद्धिः' इत्यतो हलीति ‘गुणोऽपृक्ते' इत्यतः अपृक्ते इति 'ब्रुव ईट्' इत्यत ईडिति चानुवर्तते / रुद इति पञ्चमी / रुदादिभ्य इति विवक्षितं इत्यभिप्रेत्य सूत्रशेषं पूरयति / हलादे. रित्यादिना। अङ्गार्यगालवयोः // अनयोर्मते रुदादिभ्यः पञ्चभ्यः परस्य हलादेः पितः सार्वधातुकस्य अडागमः स्यादिति स्पष्टोऽर्थः / भरोदीरित // अरुदितम् / अरुदित इत्यपि झेयम् / अरोदमिति // अरुदिव / अरुदिम इत्यपि झेयम् / ननु लिङस्तिपि 27 For Private And Personal Use Only
Page #212
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 210 सिद्धान्तकौमुदीसहिता [अदादि अरुदत्-अरोदीत् / वि ष्वप् 1068 शये / स्वपिति / स्वपितः / सुष्वाप / सुषुपतुः / सुषुपुः / सुष्वपिथ-सुष्वप्थ / 2477 / सुविनिर्दुर्घ्यः सुपिसूतिसमाः। (8-3-88) एभ्य: सुप्यादेः सस्य ष: स्यात् / 'पूर्व धातुरुपसर्गेण युज्यते' / यासुटम्बाधित्वा परत्वात् 'अनार्यगालवयोः' इति ‘रुदश्च पञ्चभ्यः' इति च अडीटी स्यातामित्यत आह / प्रकृतिप्रत्ययेति // हलादिपित्सार्वधातुकापृक्तापेक्षत्वाञ्चेत्यपि शेयम् / लुङि 'इरितो वा' इत्यङ्पक्षे आह / अरुददिति // अङभावपक्षे त्वाह / अरोदीदिति॥ 'अस्ति सिचः' इति ईट् ‘रुदश्च पञ्चभ्यः' इति तु नेह प्रवर्तते। सिचा व्यवहितत्वात् / मि प्वप् शये इति // षोपदेशोऽयम् / आर्धधातुके अनिट् / स्वपितीति // 'रुदादिभ्यः' इति इट् / स्वपितः इति // स्वपन्ति / स्वपिषि / स्वपिथः / स्वपिथ / स्वपिमि / स्वपिवः / स्वपिमः / सुष्वापेति // द्वित्वे 'लिट्यभ्यासस्य' इति सम्प्रसारणे पूर्वरूपे आदेशसकारत्वात् षत्वमिति भावः / सुषुपतुरिति // 'वचिस्वपि' इति सम्प्रसारणे कृते द्वित्वादीति भावः / सुषुपुरित्यपि ज्ञेयम् / सुष्वपिथ-सुष्वप्थेति // भारद्वाजनियमात्थलि वेडिति भावः / सुषुपथुः। सुषुप / सुष्वाप-सुष्वप / सुषुपिव / सुषुपिम / सुविनिर्दुर्व्यः॥ कृतसम्प्रसारणस्य स्वप्धातोः स्वपीत्यनेन प्रहणम् / सूतीत्यनेन सूतिशब्दः कृदन्तो गृह्यते / समेत्यनेनापि समशब्दस्य ग्रहणम् / षष्ठ्यर्थे प्रथमा / 'सहेस्साढस्स' इत्यतः सः इति षष्ठ्यन्तमनुवर्तते / मूर्धन्य इत्यधिकृतम् / तदाह / एभ्यः सुप्यादेरिति // सुषुप्तिः, सुषूतिः, सुषुमः, इत्युदाहरणानि / अत्र कृतसम्प्रसारणस्य स्वप्धातोर्ग्रहणात् सुस्वप्न इत्यत्र न षत्वमिति भाष्यम् / नन्वेवं सति सु षुषुपतुरित्यत्र सुपूर्वस्य स्वप्धातोः कथं षत्वम् / कृतसम्प्रसारणस्य हि स्वप्धातोः षत्वम् / तत्र यदि स्वप् अतुस् इति स्थिते पूर्व द्वित्वे कृते पश्चात् 'वचिस्वपि' इति सम्प्रसारणं तदा हलादिशेषे उत्तरखण्डस्यैव 'वचिस्वपि' इति सम्प्रसारणं न त्वभ्यासस्य / अतुसः कितः उत्तरखण्डव्यवहितत्वात् , 'न सम्प्रसारणे सम्प्रसारणम्' इति निषेधाच्च / ततश्च सु सस्वप् अतुसित्यत्र पूर्वखण्डस्य कृतसम्प्रसारणत्वाभावात् कथं षत्वम् / उत्तरखण्डस्य च सु इत्युपसर्गादव्यवहितपरत्वाभावात्कथमनेन षत्वम् / इणकवर्गाभ्याम्परत्वाभावेन आदेशप्रत्यययोः इत्यस्याप्युत्तरखण्डे अप्रवृत्तेः / यदि तु परत्वात्पूर्व सम्प्रसारणे कृते पश्चात् द्वित्वं तर्हि सुप् इत्यस्य द्वित्वप्रवृत्तेः प्रागेव षत्वमिति वक्तव्यम् / तत्तु न युज्यते / 'पूर्व धातुः साधनेन युज्यते पश्चादुपसर्गेण' इति परिभाषया सु इत्युपसर्गसम्बन्धस्य द्वित्वात्प्रागप्रवृत्तेः / तथाच कृतसम्प्रसारणस्य अकृतषत्वस्य सुप् इत्यस्य द्वित्वे उत्तरखण्डस्यैव 'आदेशप्रत्यययोः' इति षत्वं स्यात् / न तु पूर्वखण्डस्य ‘सात्पदाद्योः' इति निषेधात् / कृते हलादिशेषे सु इति पूर्वखण्डस्य सुत्रूपत्वाभावेन 'सुविनिर्दुर्व्यः' इत्यस्याप्यप्रवृत्तेः / नच एकदेशविकृतविकृतस्यानन्यत्वं शङ्कथम् / एवमप्यभ्यासस्यानर्थकत्वेन अर्थवग्रहणपरिभाषया षत्वस्य तत्राप्राप्तेः / तस्मादिह सुषुषुपतुरित्यत्र पूर्वखण्डे षत्वं दुरुपपादमित्याशङ्कय आह। पूर्व धातुरित्यादिना // लक्ष्यानुरोधादिह 'पूर्व धातुरुपसर्गेण युज्यते पश्चात्साधनेन' इत्याश्री For Private And Personal Use Only
Page #213
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा। 211 किति लिटि परत्वात्सम्प्रसारणे षत्वे च कृते द्वित्वम् / 'पूर्वत्रासिद्धीयमद्विर्वचने' (प 127) / सुषुषुपतुः / सुषुषुपुः / पिति तु द्वित्वेऽभ्यासस्य सम्प्रसारणम् / षत्वस्यासिद्धत्वात्ततः पूर्व ‘हलादिः शेष:' (सू 2179) / नित्यत्वाञ्च / ततः सुपिरूपाभावान्न षः / सुसुष्वाप / सुस्वप्ता / अस्वपीत्-अस्वपत् / स्वप्यात् / सुप्यात् / सुषुप्यात् / अस्वाप्सीत् / श्वस 1069 प्राणने / श्वसिति। श्वसिता / अश्वसीत्-अश्वसत् / श्वस्याताम् / श्वस्यास्ताम् / ‘ह्मचन्तक्षण(सू 2299) इति न वृद्धिः / अश्वसीत् / अन 1070 च। अनिति / आन। अनिता / आनीत्-आनत् / 2478 / अनितेः। (8-4-19) यते ततश्च द्वित्वात्प्रागेव परत्वात्सम्प्रसारणे सति सुप् इत्यस्य सु इत्युपसर्गपूर्वकत्वमादाय षत्वे च कृते सति पुनः प्रसङ्गविज्ञानात् षुप् इत्यस्य कृतषत्वस्य द्वित्वे सति खण्डद्वयेऽपि षकारश्रवणं निर्बाधमित्यर्थः। तदुक्तम्भाष्ये "घुपि भूते द्विरुच्यते " इति / ननु कृतषत्वस्य कथं द्वित्वं द्वित्वे कर्तव्ये षत्वस्यासिद्धत्वादित्यत आह / पूर्वत्रासिद्धीयमिति // ननु तर्हि सुसुष्वापेत्यत्रापि पूर्वखण्डे षत्वं श्रूयेतेत्यत आह / पिति त्विति // पिति णलि कित्त्वाभावात् 'वचिस्वपि' इत्यस्याप्रवृत्तौ कृते द्वित्वे 'लिट्यभ्यासस्य' इति पूर्वखण्डस्य सम्प्रसारणम् / सु सुप् स्वप अ इति स्थिते 'मुविनिर्दुभ्यः' इति षत्वस्यासिद्धत्वात् हलादिशेष इत्यर्थः / नित्यत्वाञ्चेति // कृते अकृते च षत्वे हलादिशेषस्य प्राप्तेरिति भावः। ततः इति // हलादिशेषोत्तरं सु इत्यस्यैव स्थित्या सुप् इति रूपस्याभावान्न ष इत्यर्थः। एकदेशविकृतत्वादनन्यत्वेऽपि अभ्यासस्यार्थवत्त्वाभावान्न ष इति द्रष्टव्यम / स्वप्ता / स्वप्स्यति / स्वपितु-स्वपितात् / स्वपिताम् / स्वपन्तु / स्वपिहि-स्वपितात् / स्वपितम् / स्वपित / स्वपानि / स्वपाव / स्वपाम / लङ्याह / अस्वपीत्-अस्वपदिति // ‘रुदश्च पञ्चभ्यः' इति ईटि 'अड् गार्यगालवयोः' इत्यटि च रूपे / अन्यानि रुदिवद्रूपाणि / लिङयाह / सुप्यादिति // ' वचिस्वपि' इति सम्प्रसारणमिति भावः ‘सुविनिर्दुभ्यः' इति षत्वम्मत्वा आह / सुषुप्यादिति / अस्वाप्सीदिति // अनिट्कत्वान्न सिज्लोप इति भावः / श्वस प्राणने इति // वलाद्यार्धधातुके सेडयम् / सार्वधातुके तु वलादौ -- रुदादिभ्यः' इति इट् / लङस्तिपि ‘रुदश्च' इति ईटं अड् गायेत्यटश्च मत्वा आह / अश्वसीत्-अश्वसदिति // विद्ध्याशीलिङोः श्वस्यादिति सिद्धवत्कृत्य आह / श्वस्याताम् / श्वस्यास्तामिति / अन चेति // अनधातुरपि प्राणने वर्तते इत्यर्थः / सेडयम् / सार्वधातुकेऽपि वलादौ 'रुदादिभ्यः' इति इट् / लङि ईडटौ मत्वा आह / आनीत्आनदिति / अनितेः // ‘रषाभ्यां नो णः' इत्यनुवर्तते / 'उपसर्गादसमासेऽपि' इत्यतः उप For Private And Personal Use Only
Page #214
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 212 सिद्धान्तकौमुदीसहिता - [भदादि उपसर्गस्थानिमित्तात्परस्यानितेर्नस्य णः स्यात् / प्राणिति / जक्ष 10 71 भक्षहसनयोः / जक्षिति / जक्षितः / 2479 / अदभ्यस्तात् / (7-1-4) झस्य अत्स्यात् / अन्तापवादः / जक्षति / ‘सिजभ्यस्त--' (सू 22 26 इति झर्जुस् / अजक्षुः / अयमन्तस्स्थादिरित्युज्ज्वलदत्तो बभ्राम / रुदादयः पञ्च गताः / जागृ 1072 निद्राक्षये। जागर्ति / जागृतः / जाग्रति / ‘उपविद-' (सू 2341) इत्याम्वा / जागराञ्चकार-जजागार / 2480 / जाग्रोऽविचिण्णल्ङित्सु / (7-3-85) जागर्तेर्गुण: स्याद्विचिण्णलिङद्योऽन्यस्मिन्वृद्धिविषये प्रतिषेधविषये च / जजागरतुः / अजागः / अजागृताम् / अभ्यस्तत्वाज्जुस् / सर्गादिति / तदाह / उपसर्गस्थादिति // भिन्नपदस्थत्वादप्राप्तौ वचनम् / जक्षधातुः सेट् / वलादौ सार्वधातुकेऽपि -- रुदादिभ्यः' इति सेट् / अदभ्यस्तात् // झस्येति // झोऽन्त इत्यतस्तदनुवृत्तेरिति भावः / जक्षतीति // 'जक्षित्यादयः षट्' इत्यभ्यस्तसंज्ञेति भावः / लङस्तिपि ईडटोः अजक्षीत् , अजक्षत् इति सिद्धवत्कृत्य आह / सिजभ्यस्तेति / अदादेशापवादो जुस् / अन्तस्स्थादिरिति // तालव्योमादिरित्यर्थः / बभ्रामेति // जक्षन् क्रीडन् रममाणः इत्युपनिषदि चवर्गतृतीयादित्वस्य निर्विवादत्वादिति भावः / जागृधातुः ऋकारान्तः सेट् / जागर्तीति // तिपि शपो लुकि ऋकारस्य गुणे रपरत्वम् / जागृतः इति // ङित्त्वान्न गुणः / जाग्रतीति // 'जक्षित्यादयः षट्' इत्यभ्यस्तसंज्ञायाम् 'अदभ्यस्तात् ' इति झेरदादेशः / डित्त्वाद्गुणनिषेधे ऋकारस्य यणिति भावः। जागर्षि / जागृथः / जागृथ / जागर्मि / जागृवः / जागृमः / लिटि ‘कास्यनेकाच्' इति नित्यमामि प्राप्ते आह / उपविदेत्याम् वेति / जागरामिति // आमि ऋकारस्य गुणो रपरत्वञ्चेति भावः / आमभावे आह। जजागारेति // अतुसादौ कित्त्वाद्गुणनिषेधे प्राप्ते / जाग्रोऽवि // जाग्र इति षष्ठी। मिर्गुणः इत्यतः गुण इत्यनुवर्तते / तदाह / जागर्तेर्गुणः स्यादिति // अविचिण्णाडिस्विति च्छेदः / वि चिण् णल् ङित् एषां द्वन्द्वे नञ्समासः। तदाह / विचिण्णलिङद्भयोऽन्यस्मिन्निति // चिण्णल्पर्युदासात् वृद्धिविषयेऽप्यस्य प्रवृत्तिः / डिपयुदासात् गुणप्रतिषेधविषयेऽप्यस्य प्रवृत्तिः / तदाह / वृद्धिविषये प्रतिषेधविषये चेति // जजागरतुरिति // अत्र कित्त्वेऽपि गुणः / जजागरुः / जजागरिथ / जजागरथुः / जजागर / जजागार-जजागर / जजागरिव / जजागरिम / विचिण्णलडित्सु तु न गुणः / वि जागृविः / चिण् अजागारि। णल् जजागार / डित् For Private And Personal Use Only
Page #215
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् ] बालमनोरमा / 213 2481 / जुसि च / (7-3-83) अजादो जुसीगन्ताङ्गस्य गुणः स्यात् / अजागरुः। 'अजादौ' किम् जागृयुः / आशिषि तु जागर्यात् / जागर्यास्ताम् / जागर्यासुः / लुङि अजागरीत् / 'जागृ इस्' इत्यत्र यण्प्राप्तः, तं सार्वधातुकगुणो बाधते, तं सिचि वृद्धिः, तां जातिगुणः, तत्र कृते हलन्तलक्षणा वृद्धिःप्राप्ता, 'नेटि' (सू 2268) इति निषिद्धा, तत: / अतो हलादेः-' (सू 2284) इति बाधित्वा * अतो' ल्रान्तस्य' (सू 2330) इति वृद्धिः प्राप्ता, 'ह्मथन्त-' (सू 2299) इति निषिद्धयते / तदाहुः 'गुणो वृद्धिर्गुणो वृद्धिः प्रतिषेधो विकल्पनम् / पुनर्वृद्धिनिषेधोऽतो यःपूर्वाः प्राप्तयो नव // ' इति / दरिद्रा 1073 दुर्गतौ / दरिद्राति / 2482 / इद्दरिद्रस्य / (6-4-114) जागृतः / वृद्धिविषये यथा ण्वुलि जागरकः / प्रतिषेधविषये यथा जजागरतुः। कित्त्वेऽपि गुणः इत्यागृह्यम् / जागरिता / जागरिष्यति / जागर्तु-जागृतात् / जागृताम् / जाग्रतु / जागृहि-जागृतात् / जागृतम् / जागृत / जागराणि / जागराव / जागराम / लड्याह / अजागरिति // तिपि इकारलोपे हल्ड्यादिना तकारलोपे रेफस्य विसर्ग इति भावः / अभ्यस्तत्वालडो झरदादेशे प्राप्ते आह / अभ्यस्तत्वाज्जुसिति // ‘सिजभ्यस्तविदिभ्यश्च' इत्यनेनेति भावः / जक्षित्यादित्वादभ्यस्तत्वम् / अजागृ उस् इति स्थिते 'सार्वधातुकमपित्'इति डित्त्वादविचिण्णल्डित्स्विति पर्युदासादप्राप्ते गुणे आह। जुसि च // अङ्गस्येत्यधिकृतम्। मिर्गुण इल्यतः गुण इत्यनुवर्तते / 'इको गुणवृद्धी' इति परिभाषया इक इत्युपस्थितेन अङ्गस्य विशेषणात्तदन्तविधिः। ‘क्सस्याचि' इत्यतोऽनुवृत्तेन अचात्यनेन जुसीत्यस्य विशेषणात्तदादिविधिः / तदाह / अजादावित्यादिना। अजागरुरिति ॥अजागः / अजागृतम् / अजागृत / अजागरम् / अजागृव / अजागृम / विधिलिङि यासुटो डिक्त्वान्न गुणः / जागयात् / जागृयाताम् / जागृयुरिति // जुसिचेत्यत्र अजादावित्युक्तेर्न गुण इति भावः / आशिषि तु जागर्यादिति // किदाशिषि इति यासुट: कित्त्वात् 'जाग्रोऽविचिण्णल्डित्सु' इति गुण इति भावः / जागृधातो ङि सिचि इटि यणादिप्राप्तिक्रमं दर्शयति / जागृ इस् इत्यनेति / तत्र कृते इति // ‘जाग्रोऽविचिण्णल्' इति गुणे रपरत्वे कृते अजागर ईदिति स्थिते सतीत्यर्थः / तदाहुरिति // वृद्धा इति शेषः / अजागरिष्टाम् / अजागरिषुः इत्यादि सुगमम् / दरिद्राधातुरादन्तः सेट् / दुर्गतिः धनहीनाभवनम् / दरिद्रातीति // धनहीनीभवतीत्यर्थः / इद्दरिद्रस्य // सौत्रो इस्कः। 'गमहन' इत्यतः विडतीत्यनुवर्तते। For Private And Personal Use Only
Page #216
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 214 सिद्धान्तकौमुदीसहिता [अदादि दरिद्रातेरिकारः स्याद्धलादौ किङति सार्वधातुके / दरिद्रितः / 2483 / श्नाभ्यस्तयोरातः / (6-4-113) अनयोरातो लोप: स्यात्विङति सार्वधातुके। दरिद्रति / अनेकाच्त्वादाम् / दरिद्राञ्चकार / 'आत औ णल:' (सू 2371) इत्यत्र 'ओ, इत्येव सिद्धे औकारविधानं दरिद्रातरालोपे कृते श्रवणार्थम् / अत एव ज्ञापकादाम्नेत्येके / ददरिद्रौ / ददरिद्रतरित्यादि / यत्तु णलि ददरिद्रेति तन्निर्मूलमेव / 'दरिद्रातेरार्धधातुके विवक्षिते आलोपो वाच्यः' (वा 4146) / 'लुङि वा' (वा 'ई हल्यघोः' इत्यतः हलि इति 'अत उत्' इत्यतः सार्वधातुके इति / तदाह / दरिद्रातेरिति॥ ‘श्नाभ्यस्तयोः' इत्याल्लोपापवादः / अलोऽन्त्यस्येत्यन्त्यस्य इकारः / दरिद्रितः इति // 'सार्वधातुकमपित्' इति तसो ङित्त्वादाकारस्य इकारः / नाभ्यस्तयोरातः॥ गमहन' इत्यतः लोपः विडतीत्यनुवर्तते / 'अत उत्' इत्यतः सार्वधातुके इति / तदाह / अनयोरिति // नाप्रत्ययस्य अभ्यस्तस्य चेत्यर्थः / दरिद्रतीति // जक्षित्यादित्वादभ्यस्तत्वाददभ्यस्तादिति झस्य अदादेशे आकारलोपः। दरिद्रासि / दरिद्रिथः / दरिद्रिथ / दरिद्रामि / दरिद्रिवः / दरिद्रिमः / लिङ्याह / अनेकाच्त्वादामिति // इदञ्च 'कास्प्रत्ययात्' इति सूत्रभाष्ये स्पष्टम् / दरिद्राञ्चकारेति // आमि सवर्णदीर्घः / कैयटमतमाह / आतः इति // 'आत औ णल:' इत्यत्र प्रथमातिक्रमे कारणाभावात् ओकार एव विधातुमुचितः / वृद्धौ सत्यान्तावतैव ययौ इत्यादिसिद्धेः। तस्मादौकारविधानं दरिद्राधातोर्णलि 'दरिद्रातरार्धधातुके लोपो वक्तव्यः' इत्याल्लोपे ददरिद्री इत्यौकारश्रवणार्थ सम्पद्यते / ओकारविधाने तु आलोपे सति वृद्धरसम्भवात् ददरिद्रो इत्योकार एव श्रूयेतेत्यर्थः / अत एवेति // अस्मादेव दरिद्रातेः औकारश्रयणार्थात् औकारविधानाद्दरिद्रातेलिटि आम् नेति विज्ञायते। आमि सति णल एवाप्रसक्तरित्यर्थः। इदञ्च 'चस्वेकाजाद्धसाम्' इति सूत्रभाष्ये ध्वनितं कैयटेन स्पष्टीकृतम् / तनिर्मूलमेवेति // 'कास्प्रत्ययात्' इति वस्वेकाच्' इति सूत्रस्यभाष्यकैयटविरोधादिति भावः / ददरिद्रतुः / ददरिद्रुः। ददरिद्रिथ / ददरिद्रथुः / ददरिद्र / ददरिद्रौ। ददरिद्रिव / ददरिद्रिम। आर्धधातुके विवक्षिते इति // 'आतो लोप इटि च' इत्यालोपो दरिद्रातर्भवन् विडति अक्डिति च अजादावार्धधातुके भवति / स च आर्धधातुके विवक्षिते ततः प्रागेव भवतीति वक्तव्यमित्यर्थः। तेन दरिद्रातीति दरिद्रः आलोपे कृते पचाद्यच् सिद्ध्यति / आर्धधातुके परे आल्लोपप्रवृत्तौ तु 'श्याद्वयधा' इत्यादन्तलक्षणो णप्रत्ययः स्यात् / ततश्च कृते णप्रत्यये आल्लोपं बाधित्वा 'आता युक् चिणकृतोः' इति युकि दरिद्राय इति स्यात् / आर्धधातुके विवक्षिते ततः प्रागेव आल्लोपे तु कृते आदन्तत्वाभावात् णप्रत्ययाभावे पचाद्यच्प्रत्ययो निर्बाधः / तदिदं भाष्ये स्पष्टम् / लुङि वेति // लुङि आल्लोपो वा वक्तव्य इत्यर्थः / 'अद्यतन्यां वेति वक्तव्यम्' इति वार्तिकार्थसङ्ग्रहोऽयम् / अद्यतन्यामित्यनेन अद्यतनभूतार्थकधातुविहितलुड्डिभक्तिर्विवक्षिता / भाष्ये तस्या एवोदाहरणात् / For Private And Personal Use Only
Page #217
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा / 215 4142) / 'सनि बुलि ल्युटि च न' (वा 5058) / दरिद्रिता / अदरिद्रात् / अदरिद्रिताम् / अदरिद्रुः / दरिद्रियात् / दरिद्यात् / अदरिद्रीत् / इट्सको अदरिद्रासीत् / चकास 1074 दीप्तौ / झस्य अत् / चकासति / चकासाञ्चकार / ‘धि च' (सू 2249) इति सलोप: सिच एवेत्येके / चकाद्धि / 'चकाधि' इत्येव भाष्यम् / 2484 / तिप्यनस्तेः / (8-2-73) सनि ण्वुलि ल्युटि च नेति // एतेषु दरिद्रातेराल्लोपो नेति वक्तव्यमित्यर्थः / ण्वुलि यथा दरिद्रायकः आतो युक् / ल्युटि यथा दरिद्राणः / अनादेशे कृते आल्लोपाभावात् सवर्णदीर्घः / सनि यथा दिदरिद्रासति / अनन्तरस्येति न्यायादस्य वार्तिकप्राप्तस्यैव लोपस्यायनिषेधः / तेन 'तनिपतिदरिद्राणामुपसङ्ख्यानम्' इति दरिद्रातेस्सनः इट्पक्षे 'आतो लोप इटि च' इत्याल्लोपो भवत्येव / दिदरिद्रिषति / तदुक्तं भाष्ये / “न दरिद्रायके लोपो दरिद्राणे च नेष्यते / दिदरिद्रासतीत्येके दिदरिद्विषतीति वा // " इति / दरिद्रितेति // तासि इटि उदाहृतवार्तिकेन आल्लोपः / 'आतो लोप इटि च' इत्यस्य सम्भवेऽपि न्याय्यत्वादत्र वार्तिकोपन्यासः / दरिद्रिष्यति / दरिद्रातु-दरिदितात् / दरिद्रिताम् / दरिद्रतु। दरिदिहि-दरिद्रितात् / दरिद्रितम् / दरिद्रित / दरिद्राणि / दरिद्राव / दरिद्राम / लड्याह / अदरिद्रादिति // इत्त्वम्मत्वा आह / अदरिद्रितामिति // अदरिदुरिति // जक्षित्यादित्वेन अभ्यस्तत्वाज्जुसिति भावः / अदरिद्राः / अदरिद्रितम् / अदरिद्रित / अदरिद्राम् / अदरिद्रिव / अदरिदिम / दरिद्रियादिति // विधिलिङि सार्वधातुकत्वादित्त्वमिति भावः। आशीर्लिङयाह। दरियादिति // 'आतो लोपः' इति भावः। लुङि आतो लोपपक्षे आह। अदरिद्रीदिति ॥अदरिद्रिष्टामित्यादि / आल्लोपाभावपक्षे त्वाह / इट्सकाविति // अदरिद्रिष्यत् / चकासृदीप्ताविति // ऋदित् सेट। चकास्ति। चकास्तः इति सिद्धवत्कृत्य आह। झस्य अदिति // जक्षित्यादित्वेन अभ्यस्तत्वादिति भावः। चकासतीति॥चकास्सि / चकास्थः / चकास्थ / चकास्मि / चकास्वः। चकास्मः / चकासाञ्चकारेति // अनेकाच्त्वादामिति भावः / चकासिता / चकासिष्यति। चकास्तु / चकास्ताम् / चकासतु / हेर्धिभावे चकास् धि इति स्थिते धि च इति सलोप इति मतान्तरमाह / सिच एवेत्येके इति ॥'धि च' इति लोपः सिच एवेत्येके मन्यन्ते इत्यर्थः / 'धिसकारे सिचो लोपः' चकादि इति प्रयोजनम्' इति वार्तिकादिति तदाशयः। अस्मिन्पक्षे सकारस्य जश्त्वेन दकारः / तदाह / चकाद्धीति // एक इत्यस्वरसोद्भावनम् / तदीजन्तु 'धिसकारे सिचो लोपः' इति वार्तिकं प्रत्याख्याय सकारमात्रस्य 'धि च' इति लोपस्याभ्युगमः / तदाह / चकाधीत्येव भाष्यमिति // चकास्तात् / चकास्तम् / चकास्त / चकासानि / चकासाव / चकासाम / लङि अ चकास् त् इति स्थिते / तिप्यनस्तेः॥न अस्तिः अनस्तिः तस्येति विग्रहः / पदस्येत्यधिकृतम् / 'झलाजशोऽन्ते' इत्यतः अन्ते For Private And Personal Use Only
Page #218
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 216 सिद्धान्तकौमुदीसहिता [अदादि पदान्तस्य सस्य दः स्यात्तिपि न त्वस्तेः / [ससजुषोरित्यस्यापवादः] अचकात्-अचकाद् / अचकासुः / 2485 / सिपि धातो रुवा / (8-2-74) पदान्तस्य धातोः सस्य रुः स्याद्वा / पक्षे [जश्त्वेन] दः / अचका:अचकात् / शासु 1075 अनुशिष्टौ / शास्ति / ___2486 / शास इदङ्हलोः / (6-4-34) शास उपधाया इत्यस्यादङि हलादौ किति च / 'शासिवसि–'(सू 2410) इति षः / शिष्टः / शासति। शशास / शशासतुः / शास्तु-शिष्टात् / शिष्टाम् / शासतु। 2487 / शा हो / (6-4-35) शास्तेः शादेशः स्याद्धौ परे / तस्याभीयत्वेनासिद्धत्वाद्धेधिः / शाधि / अशात् / अशिष्टाम् / अशासुः / अशात-अशाः / शिष्यात् / ‘सर्तिशास्तिइत्यनुवर्तते / ‘ससजुषोः' इत्यतः स इति षष्ठ्यन्तमनुवर्तते / 'वसुनंसुध्वंस्वनडुहां दः' त्यतः द इति / तदाह / पदान्तस्येत्यादिना // अनस्तेः किम् / 'सलिलं सर्वमा इदम् ' आः इत्यसधातोर्लङस्तिपि इकारलोपे 'बहुलं छन्दसि' इति ‘अस्ति सिचः' इति ईडभावे हल्ङयादिलोपे रूपम् / प्रकृते तु चकासेर्लङस्तिपो हल्झ्यादिलोपे सकारस्य दत्वे 'वाऽवसाने' इति चर्वजश्त्वे इत्यभिप्रेत्याह। अचकात्-अचकादिति ॥अचकासुरिति॥ सिजभ्यस्तेति जुसिति भावः / सिपि धातो रुर्वा // पदस्येत्यधिकृतम् / 'झलाञ्जशोऽन्ते' इत्यतः अन्ते इत्यनुवृत्तम् ‘ससजुषोः' इत्यतः स इति लुप्तषष्टीकमनुवर्तते / तदाह / पदा न्तस्येति / पक्षे इति // वसुस्रंस्वित्यतः तदनुवृत्तेरिति धावः। सिपि धातुत्वस्य अव्यभि चाराद्धातोरित्युत्तरार्थम् / अचकासीत् / अचकासिष्यत् / शासुधातुरुदित् सेट् / शास इदङ्हलोः // 'अनिदितां हलः' इत्यतः उपधायाः क्डिति इत्यनुवर्तते / तदाह / शास उपधायाः इति / शासतीति // जक्षादित्वेन अभ्यस्तत्वाददादेश इति भावः। शास्सि / शिष्ठः / शास्मि / शिष्वः। शिष्मः / आशासते इत्यत्र तु नेत्त्वम् / अयोग्यस्य परस्मैपदिन एव ग्रहणादिति भाष्ये स्पष्टम् / शशासेति // शशासिथ / शासिता / शासिष्यति / शास् हि इति स्थिते आह / शा हो // शा इति लुप्तप्रथमाकम् / 'शास इदङ्' इत्यतः शास इत्यनुवर्तते / तदाह / शास्तेरिति // इत्वापवादः / ननु शासेश्शाभावे सति अल्परत्वाभावात्कथं हेर्धिरित्यत आह / तस्याभीयत्वेनेति // यद्यपि 'धि च' इति सलोपे शाधीति सिद्धम् / तथापि सलोपस्यासिद्धत्वात् 'शास इत्' इति इत्त्वं स्यात् / तनिवृत्तये शाविधानमित्याहुः / लङ्याह / अशादिति // 'तिप्यनस्तेः' इति दत्वे चर्वविकल्प इति भावः / अशा For Private And Personal Use Only
Page #219
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा। 21. (सू 2382) इत्यङ् / अशिषत् / अशासिष्यत् / दीधीङ् 1076 दीप्तिदेवनयोः / एतदादयः पञ्च धातवश्छान्दसाः / दीधीते / एरनेकाच:-' (सू 272) इति यण् / दीध्याते / __2488 / यीवर्णयोर्दीधीवेव्योः / (7-4-53) एतयोरन्त्यस्य लोप: स्याद्यकारे इवणे च परे / इति लोपं बाधित्वा नित्यत्वाट्टेरेत्त्वम् / दीध्ये / 'दीधीवेवीटाम्' (सू 2190) इति गुणनिषेधः / दीध्याञ्चके / दीधिता / दीधिष्यते / वेवीङ् 1077 वेतिना तुल्ये / वी गतीत्यनेन तुल्येऽर्थे वर्तत इत्यर्थः / अथ त्रयः परस्मैपदिनः / षस 1078 षस्ति 1079 स्वप्ने / सस्ति / सस्त: / ससन्ति / ससास / सेसतुः / सस्तु / सधि / 'पूर्वत्रासिद्धम्' (सू सुरिति // अभ्यस्तत्वाज्जुसिति भावः / अशाः-अशादिति // 'सिपि धातोः' इति रुत्वात् दत्वविकल्प इति भावः / अशिष्टम् / अशिष्ट / अशासम् / अशिष्व / अशिष्म / शिष्यादिति // 'शास इत्' इति इत्वे 'शासिवसि' इति ष इति भावः / आशिषदिति // अडि इत्त्वमिति भावः / दीधीचातुरीकारान्तः डित्त्वादात्मनेपदी / एतदादयः पञ्चेति // इदश्च माधवानुरोधेन / तत्वन्त्वने वक्ष्यते। जक्षित्वादित्वादभ्यस्तत्वाज्झस्य अदादेशः / दीध्यते। दीधीषे / दीध्याथे / दीधीध्वे / लट इडादेशे आह / यीवर्णयोर्दीधीवेव्योः॥ यिश्च इवर्णश्चेति द्वन्द्वात्सप्तमी / यि इत्यत्र इकार उच्चारणार्थः / 'तासस्त्योः ' इत्यतो लोप इत्यनुवर्तते 'अलोऽन्त्यस्य' इत्यन्त्यस्य लोपः / तदाह / एतयोरित्यादि // आदीध्य गतः / आवेव्य गतः। अत्र ल्यपि ईकारस्य लोपः। इवणे उदाहरणं वक्ष्यते / इति लोपमिति // लट इडादेशे दीधी इ इत्यत्र 'यीवर्णयोः' इति इवर्णपरत्वात्प्राप्तं लोप परमपि बाधित्वा नित्यत्वाट्टेरेत्त्वमित्यर्थः / कृते अकृते च लोपे प्रवृत्तेरेत्वनित्यम् / तस्मिन्कृते यीवर्णपरकत्वाभावान लोप इति भावः / गुणनिषेधः इति // दीधी आमिति स्थिते 'सार्वधातुकार्धधातुकयोः' इति प्राप्तस्य गुणस्य निषेध इत्यर्थः / दीधितेति // इटि कृते इवर्णपरकत्वादीकारस्य लोप इति भावः / दीधीताम् / दीध्याताम् / दीध्यताम् / दीधीष्व / दीध्याथाम् / दीधीध्वम् / दीध्यै / दीध्यावहै / दीध्यामहै / अदीधीत / अदीध्याताम् / अदीध्यत / अदीधीथाः / अदीध्याथाम् / अदीधीध्वम् / अदीधि / अदीधीवहि / अदीधीमहि / दीधीत / दीधीयाताम् / दीधिषीष्ट / दीधिषीयास्ताम् / दधिषीरन् / अदीधिष्ट / अदीधिष्यत / वस्तुतस्तु छन्दसि दृष्टानुविधित्वादेषां पञ्चानां लोकानुसारेण रूपवर्णनमनुचितम् / वेवी वेतिना तुल्ये इति॥ दीधीवद्रूपाणि / इति जक्षित्यादयः / षस परित स्वप्ने इति // षोपदेशावेतौ / द्वितीय इदित् / तत्र षसधातोरुदाहरति / सस्तीति / ससन्तीति // अनभ्यस्तत्वादन्तादेश एवेति भावः / एत्वाभ्यासलोपी मत्वा आह / सेसतुरिति // सेसुः / सेसिथ / सेसथुः / For Private And Personal Use Only
Page #220
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 218 सिद्धान्तकौमुदीसहिता [अदादि 12) इति सलोपस्यासिद्धत्वात् 'अतो हे:' (सू .2202) इति न लुक् / असत् / असस्ताम् / अस:-असत् / सस्यात् / असासीत्-अससीत् / सन्ति / इदित्त्वान्नुमि कृते 'संस्त् तस्' इति स्थिते ‘स्को:-' (सू 380) इति सलोपे 'झरो झरि सवर्णे' (सू 71) इति तकारस्य वा लोपः / सन्तः / संस्तन्ति / 'बहूनां समवाये द्वयोः संयोगसंज्ञा नेत्याश्रित्य ‘स्को:- (सू 380) इति लोपाभावात् / संस्ति / संस्तः / संस्तन्ति / इत्येके / वश 1080 कान्तौ / कान्तिरिच्छा / वष्टि / उष्टः / उशन्ति / वक्षि / उष्ठः / उवाश / ऊशतुः / सेस। ससास-ससस / सेसिव / सेसिम / ससिता / ससिष्यति / सस्तु-सस्तात् / सस्ताम् / ससन्तु / सस् हि इति स्थिते हेर्धिभावे ‘धि च ' इति सलोपं मत्वा आह / सधीति // तत्र धि इत्यस्य स्थानिवत्त्वेन हित्वात् 'अतो हेः' इति लुकमाशङ्कय आह। पूर्वत्रेति॥ सस्तात् / सस्तम् / सस्त / ससानि / ससाव / ससाम / लड्याह / असदिति // असस् त् इति स्थिते हल्यादिना तकारलोपे 'तिप्यनस्तेः' इति सस्य दत्वमिति भावः / असस्तामिति // अससन् इत्यपि ज्ञेयम् / लङः सिपि तु असस् स् इति स्थिते 'सिपि धातोः' इति रुर्वा, पक्षे दः, हल्ङ्यादिलोपः / तदाह / असः-असदिति // असस्तम् / असस्त / अससम् / असस्व / असस्म / लिङ्याह / सस्यादिति // सस्याताम् / सस्यास्ताम् इत्यादि / लुड्याह / असासीदिति // 'अतो हलादेः' इति वृद्धिविकल्प इति भावः / अससिष्यत् / अथ षस्तिधातोरुदाहरति / सन्तीति // इदित्त्वान्नम्। 'नश्च' इत्यनुस्वारे संस् त् ति इति स्थिते 'स्कोः' इति सलोपे परसवर्णे 'झरो झरि' इति प्रथमतकारस्य लोपविकल्प एकतं द्वितं वा रूपमिति भावः / संस्तन्तीति // अनभ्यस्तत्वादन्तादेश एवेति भावः / सिपि संस्त् सि इति स्थिते 'स्कोः' इति सलोपे अनुस्वारस्य परसवर्णो नकारः। सवर्णपरत्वाभावात् 'झरो झरि' इति तकारलोपो न / सन्त्सि / सन्थः / सन्थ / संस्त्मि / संस्त्वः। संस्त्मः / ससंस्त / ससंस्ततुः / ससंस्तिथ / ससंस्तिव / ससंस्तिम / सस्तिष्यति / सन्तु-सन्तात् / सन्ताम् / संस्तन्तु / संस्तू हि इति स्थिते हेर्धिभावे 'स्कोः' इति सलोपे परसवर्णे सन्त् धि इति स्थिते 'झरो झरि' इति तकारस्य लोपः। सन्धि / लोपाभावे तकारस्य जश्त्वे सन्धि-सन्तात् / सन्तम् / सन्त / संस्तानि / संस्ताव / संस्ताम / लङस्तिपि असंस्तु त् इति स्थिते हल्डयादिलोपे संयोगादिलोपे संयोगान्तस्य लोपे असन् / असन्ताम् / असंस्तन् / असन् / असन्तम् / असन्त / असंस्तम् / असंस्त्व / असंस्त्म / संस्त्यात् / असंस्तीत् / असंस्तिष्यत् / मतान्तरमाह / बहूनामिति / इत्याश्रित्येति // तथाच प्रकृते लुङस्तिपि संस्त् ति इति स्थिते झलि परे अनुस्वारसकारतकाराणान्त्रयाणां समवायात् स् त् इत्यनयोः संयोगसंज्ञाविरहात् 'स्कोः' इति लोपाभावात् संस्तोत्यायूह्यमित्यर्थः / वश कान्ताविति // कान्तिरिच्छा। सेट् / वष्टोति // 'वश्च' इति शस्य षत्वे तकारस्य छुत्वेन टः / उष्टः इति // ङिति 'अहिज्या' इति सम्प्रसारणे रूपामति भावः / उवाशेति // लिटि For Private And Personal Use Only
Page #221
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा / 219 वशिता / वष्टु-उष्टात् / उष्टाम् / उढि / अवट। औष्टाम् / औशन् / अवशम् / उश्याताम् / उश्यास्ताम् / 'चर्करीतं च' (ग सू 195) / यङलुगन्तमदादौ बोध्यम् / ढुङ् 1082 अपनयने / हुते / जुहुवे / हुवीत / ह्रोषीष्ट / अह्रोष्ट / इति तिङन्तादादिप्रकरणम् / अकिति 'लिट्यभ्यासस्य ' इति सम्प्रसारणमिति भावः। ऊशतुरित // परत्वादहिज्येति सम्प्रसारणे कृते द्वित्वे हलादिशेवे सवर्णदीर्घ इति भावः। उवशिथ / ऊशथुः / ऊश / उवाश-उवश / ऊशिव / ऊशिम / वशितेति // अनेन सेट्वन्द्योतितम् / वशिष्यति / उष्टामिति // उशन्त्वित्यपि ज्ञेयम् / उड्ढीति / वश् हि इति स्थिते धिभावे अपित्त्वेन ङित्त्वात् अहिज्येति सम्प्रसारणे शस्य षत्वे धस्य टुत्वेन ढकारे षस्य जश्त्वेन ड इति भावः। . वशानि। वशाव / वशाम / लड्याह / अवडिति // हल्ड्यादिलोपे शस्य षः षस्य डः तस्य चर्वविकल्प इति भावः / औशनिति // अवट् / औष्टम् / औष्ट / अवशमिति // पित्त्वान सम्प्रसारणमिति भावः / औश्व / औश्म। विध्याशीलिङोः उश्यादिति सिद्धवत्कृत्य आह / उझ्याताम् / उश्यास्तामिति // अवशीत्-अवाशीत् / अवशिष्यत् / तदेवं दीधीङ वेवीङ् षस षस्ति वश एते पञ्चधातवः छान्दसा एवेति माधवादयः। तत्र ‘दीघीवेवीटाम्' इति सूत्रे दीधीवेव्योः छन्दोविषयत्वादिति भाष्यम् / 'जाक्षित्यादयः षट्' इति सूत्रे षसिवशी छान्दसाविति भाध्यम् / एतद्भाध्यादेव षस्तिधातो त्र पाठ इति प्रतीयते / अत एव 'षसशास्ति स्वप्ने' इति पाठमभ्युपगम्य शितपा निर्देशेन शास एवार्थभेदात् पुनः पाठ इति कैयट आह / अत्र शासधातोरपि छान्दसवचनं प्रायिकम् / वष्टि भागुरिरल्लोपम् / ‘जयाय सेनान्यमुशन्ति देवाः इत्यादि प्रयोगदर्शनादित्यास्तान्तावत् / चर्करीतश्चेति // धातुपाठे गणसूत्रमिदम् / 'चर्करीतम्' इति यङ्लुगन्तस्य संज्ञा पूर्वाचार्यसिद्धा / तदाह / यलुगन्तमदादाविति // तेन यङ्लुगन्ताच्छबेव विकरणः तस्य लुक् न तु श्यनादि विकरणान्तरम् / परस्मैपदिन इत्युपक्रमाद्यङ्लुगन्तस्य परस्मैपदित्वमेव / ढुङ् अपनयने इति // अनिडयम् / ह्यते इति // हृवाते / हुवते / इत्यादि / जुळुवे इति // जुहृवाते। जुहुविरे / क्रादिनियमादिट् / जुह्वविषे / जुलुविवहे / ह्रोता / ह्रोष्यते / हृताम् / एव / हवै / हवावहै / अद्भुत / इंति सिद्धवत्कृत्यविधिलिङयाह / हुवीतेति // आशीलिङयाह / होषीष्टेति // लुड्याह / अह्रोष्टेति // इति श्रीवासुदेवदीक्षितविदुषा विरचितायां सिद्धान्तकौमुदी व्याख्यायां बालमनोरमायां लुग्विकरणं समाप्तम् / For Private And Personal Use Only
Page #222
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // श्रीरस्तु / // अथ तिङन्तजुहोत्यादिप्रकरणम् // हु 1083 दानादनयोः / ‘आदाने च' इत्येके / 'प्रीणनेऽपि' इति भाष्यम् / दानं चेह प्रक्षेपः / स च वैधे आधारे हविषश्चेति स्वभावाल्लभ्यते / इतश्चत्वारः परस्मैपदिनः / 2489 / जुहोत्यादिभ्यः श्लुः / (2-4-75) शपः श्लुः स्यात् / ___ 2490 / श्लौ / (6-1-10) धातो· स्त: / जुहोति / जुहुतः / 'अदभ्यस्तात्' (सू 2479) इत्यत् / 'हुश्नुवो:-' (सू 2387) इति यण् / जुह्वति / 2491 / भाहीभृहुवां श्लुवच्च / (3-1-39) एतेभ्यो लिट्याम्वा स्यात् आमि श्लाविव कार्य च। जुहवाञ्चकार। जुहाव / अथ श्लुविकरणा धातवो निरूप्यन्ते। हु दानादनयोरिति // दाने अदने चेत्यर्थः / भाष्यमिति // तृतीया च होइछन्दसि' इति सूत्रस्थमिति शेषः / ननु यदि दानमिह प्रसिद्धं विवक्षितं तर्हि ब्राह्मणाय गां ददातीत्यत्र जुहोतीत्यपि प्रयोगः स्यादित्यत आह / दानं चेह प्रक्षेपः इति // नन्वेवमपि कूपे घटम्प्रक्षिपति आहवनीये जलम्प्रक्षिपतीत्यत्रापि जुहोतीति प्रयोग: स्यादित्यत आह / स चेति // सः प्रक्षेपः विधिबोधिते आधारे आहवनीयादौ पुरोडाशादिहविष इति लभ्यते इत्यन्वयः। कुत इत्यत आह / स्वभावादिति // अनादिसिद्धलोकव्यवहारादित्यर्थः / तथाच विधिबोधिते आधारे विधिबोधितस्य हविषो देवतायै त्यज्यमानस्य हविषः प्रक्षेपे हुधातुर्वर्तते इति फलितम् / एतच्च पूर्वमीमांसायां तृतीये “सर्वप्रदानं हविषस्तदर्थत्वात्" इत्यधिकरणे अध्वरमीमांसाकुतूहलवृत्तौ प्रपञ्चितमस्माभिः / जुहोत्यादिभ्यः श्लुः // शपः इति // ‘अदिप्रभृतिभ्यः' इत्यतस्तदनुवृत्तेरिति भावः / हु अ इति स्थिते शपः श्लौ कृते हु ति इति स्थिते / श्लौ॥ शेषम्पूरयति / धातोढे स्तः इति // 'एकाचो द्वे' इत्यतः 'लिटि धातोः' इत्यतश्च तदनुवृत्तेरिति भावः / द्वित्वे कृते अभ्यासकार्यमभिप्रेत्य आह। जुहोतीति / यणिति // उवङयवाद इत्यर्थः / भीही॥ भी ही भृ हु For Private And Personal Use Only
Page #223
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा / 221 होता / होष्यति / जुहोतु-जुहुतात् / हेधिः / जुहुधि / आटि परत्वाद्गुणः / जुहवानि / परत्वात् 'जुसि च' (सू 2481) इति गुणः / अजुवुः / जुहुयात् / हूयात् / अहौषीत् / भि भी 1084 भये / बिभेति / 2492 / भियोऽन्यतरस्याम् / (6-4-115) इकारः स्याद्धलादौ विडति सार्वधातुके / विभित:-बिभीत: / बिभ्यति / विभयाञ्चकार / बिभाय / भेता / ह्री 1085 लज्जायाम् / जिहेति / जिह्वीतः / जिहियति / जिह्वयाञ्चकार-जिह्वाय / पृ 1086 पालनपूरणयोः / एषान्द्वन्द्वात्पञ्चम्यर्थे षष्ठी / 'कास्प्रत्ययात्' इत्यतः आम् लिटीत्यनुवर्तते / तदाह। एतेभ्यः इति॥ श्लुवदिति सप्तम्यन्ताद्वतिरित्यभिप्रेत्य आह / आमि श्लाविव कार्यश्चेति / जुहवामिति // भामि श्लाविव द्वित्वे गुण इति भावः / जुहावेति // जुहुवतुः / जुहविथ-जुहोथ / जुहुविव / हेर्धिरिति // 'हुझल्भ्यो हेर्धिः' इत्यनेनेति भावः / जुहवानीत्यत्र आटः पित्त्वेन अङित्वात् गुणे प्राप्ते तम्बाधित्वा 'हुश्नुवोः' इति यणि प्राप्ते आह / आटि परत्वादिति // 'हुश्नुवोः' इत्यपेक्षया गुणः परत्वाद्भवतीत्यर्थः / लङि अजुहोत् , अजुहुतां, इति सिद्धवत्कृत्य 'सिजभ्यस्त' इति जुसि 'हुश्नुवोः' इति यणमाशङ्कय आह / परत्वाज्जुसि चेति गुणः इति / अजुहबुरिति // अजुहोः। अजुहुतम् / अजुहुत / अजुहवम्। अजुहुव / अजुहुम / अहौषीदिति॥ सिचि वृद्धिः / अहौष्टामित्यादि / अहोष्यत् / जि भी भये इति // अनिट् ईदन्तः। शपः लौ द्वित्वादि मत्वा आह / बिभेतीति // भियोऽन्यतरस्याम् // ‘इद्दरिद्रस्य' इत्यतः इदिति ‘गमहन' इत्यतः विडतीति 'ई हल्यघोः' इत्यतः हलीति ‘अत उत्' इत्यतः सार्वधातुके इति चानुवर्तते इत्यभिप्रेत्य शेषं पूरयति / इकारः स्यादित्यादिना। बिभ्यतीति // 'अदभ्यस्तात्' इत्यत् / विभयामिति // 'भीडीभृहुवां श्लवच' इति श्लुवत्त्वात् द्वित्वादीति भावः / विभायेति // विभ्यतुः / बिभयिथ-बिभेथ / विभ्यिव / विभ्यिम / भेतेति // भेष्यति। विभेतु-विमितात्-विभीतात् / बिभिताम्-बिभीताम् / विभ्यतु / विभिहिविभीहि / बिभितात्-बिभीतात् / विभितम्-बिभीतम् / बिभित-विभीत / विभयानि / विभयाव / विभयाम / अविभेत् / अविभिताम्-अविभीताम् / अविभयुः / अविभेः / अबिभितम्-अबिभीतम् / अविभयम् / अबिभिव-अबिभीव / बिभियात्-बिभीयात् / इत्यादि आशीलिङि बिभीयास्ताम् / अभैषीत् / अभेष्यत् / ही लजायामिति // अनिट् / जिहियतीति // 'अदभ्यस्तात्' इत्यत् / इयङ् / जिह्वयामिति // 'भीही हुवाम्' इत्याम् / इलवत्त्वात् द्वित्वादीति भावः / जिह्वायेति / बिबिथ-जिरेथ / जिहियिव / हूता / द्वेष्यति जिहेत-जिहीतात् / जिहीहि / जियाणि / अजिङ्केत् / जिहीयात् / ड्रीयात् / अट्टैषात् / For Private And Personal Use Only
Page #224
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 222 सिद्धान्तकौमुदीसहिता [जुहोत्यादि 2493 / अर्तिपिपोश्च / (7-4-77) अभ्यासस्येकारोऽन्तादेशः स्यात् श्लौ / __2494 / उदोष्ठ्यपूर्वस्य / (7-1-102). अङ्गावयवौष्ठ्यपूर्वो य ऋत् तदन्तस्याङ्गस्य उत्स्यात् / गुणवृद्धी परत्वादिमं बाधेते। पिपति / उत्त्वं / रपरत्वं / 'हलि च' (सू 354) इति दीर्घः / पिपूर्तः / पिपुरति / पपार / किति लिटि ऋच्छत्यताम्'। (सू 2383) इति गुणे प्राप्ते / 2495 / शुदप्रां हस्वो वा / (7-4-12) एषां किति लिटि ह्रस्वो वा स्यात् / पक्षे गुणः / पप्रतुः / पषुः / अद्देष्यत् / पृधातुः सेट् / लटस्तिपि शपः श्लौ द्वित्वे पृ पृ इति स्थिते / अर्तिपिपयोश्च // 'अत्र लोपः' इत्यस्मादभ्यासस्येति 'भृञामित्' इत्यस्मात् इदिति 'निजान्त्रयाणाम्' इत्यतः श्लाविति चानुवर्तते इत्यभिप्रेत्य शेषम्पूरयति / अभ्यासस्येत्यादिना // तथाच अभ्यासेऋकारस्य इत्त्वे रपरत्वे हलादिशेषे उत्तरखण्डस्य गुणे रपरत्वे पिपर्तीति वक्ष्यति / तत्र उत्तरखण्डे ऋकारस्य उत्त्वं शङ्कितुमाह / उदोष्ठ्य // 'ऋत इद्धातोः' इत्यतः ऋत इत्यनुवर्तते / अङ्गस्येत्यधिकृतमिहानुवृत्तमावर्तते। एकमवयवषष्ठ्यन्तं ओष्ठ्यस्य विशेषणम् / अपरन्तु ऋता विशेष्यते / तदन्तविधिः / तदाह / अङ्गावयवौष्ट्य इत्यादिना // अङ्गावयवेति किम् / समीर्णः / 'ऋ गतौ क्रयादिः तस्मात्सम्पूर्वात् क्तप्रत्यये 'ऋत इद्धातोः' इति इत्त्वे रपरत्वे 'हलि च' इति दीधै 'थ्रयुकः किति' इति इनिषेधे ‘रदाभ्याम्' इति निष्ठानत्वे तस्य णत्वे समीर्ण इति रूपम् / तत्र मकारात्मकौष्ठयपूर्वत्वादित्त्वं बाधित्वा उत्त्वं स्यात् / अङ्गावयवेत्युक्तौ तु मकारस्य ओष्टयस्य अङ्गावयवत्वाभावादुत्त्वन्न भवति / तथाच प्रकृतेऽपि पृतीत्यत्र इदमुत्त्वं स्यादिति शङ्का प्राप्ता ताम्परिहरति / गुणवृद्धी इति // इममिति // उत्त्वविधिमित्यर्थः / पिपर्तीति // उत्त्वात्परत्वाद्गुण इति भावः। पिपृ तस् इति स्थिते आह / उत्त्वमिति // डित्त्वेन गुणाभावात उदोष्ठयेत्युक्त्वमिति भावः / पिपुरतीति // अभ्यस्तत्वाददादेशे ङित्त्वाद्गुणाभावादुत्त्वमिति भावः / पिपर्षि / पिपूर्थः। पिपर्मि / पिपूर्वः / पिपूर्मः / लिटि णल्याह / पपारेति // उत्त्वात्परत्वादृद्धिरिति भावः / 'अर्तिपिपश्चि' इत्यभ्यासस्य नेत्त्वम् / तत्र श्लावित्यनुवृत्तेः / प्राप्ते इति // गुणे नित्यम्प्राप्ते इत्यर्थः / शृदृप्राम् // श दृ पृ एषान्द्वन्द्वः / लिटीति // 'दयतेर्दिगि लिटि' इत्यतः तदनुवृत्तेरिति भावः / यद्यपि पूर्वसूत्रेषु कापि कितीति न दृष्टं तथापि अस्य 'ऋच्छत्युताम्' इति मुणापवादत्वात् गुणस्य च तस्य किदर्थत्यात्कितीत्युक्तम् / पप्रतुरिति // पपृ अतुस् इति स्थिते ऋकारस्य ह्रस्वे तस्य यणिति भावः / गुणपक्षे आह / पपरतुरिति // गुण एव तु न विकल्पितः / गुणाभावे 'वार्णादाङ्गं बलीयः' इति यणम्बाधित्वा 'उदोष्ठय' इत्युत्त्वप्रसङ्गात् / पपरिथ / For Private And Personal Use Only
Page #225
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा / 223 पपरतुः / पपरुः / परिता-परीता / अपिपः / अपिपूर्ताम् / अपिपरुः / पिपूर्यात् / पूर्यात् / अपारीत् / अपारिष्टाम् / 'हस्वान्तोऽयम्'इति केचित् / पिपति / पितः / पिप्रति / पिपृयात् / आशिषि / प्रियात् / अपार्षीत् / पाणिनीयमते तु तं रोदसी पिपृतम्' इत्यादौ छान्दसत्वं शरणम् / डुभृब् 1087 धारणपोषणयोः / 2496 / भृञामित् / (7-4-76) भृन' 'माङ' ओ हाङ' एषां त्रयाणामभ्यासस्य इत्स्यात् श्लौ / बिभर्ति / बिभृतः / बिभ्रति / बिभृध्वे / इलुवद्भावात् द्वित्वेत्त्वे / बिभरामास / बभार / बभर्थ / वभृव / बिभृहि / बिभराणि / अबिभः / अबिभृताम् / पप्रथुः-उपरथुः। पप्र-पपर / पपार-पपर / पप्रिव-पपरिव / 'वृतो वा' इति दीर्घविकल्पम्मत्वा आह / परिता-परीतेति // परिष्यति परीष्यति / पिपर्तु-पिपूर्तात् / पिपूर्ताम् / पिपुरतु / पिपूर्हि-पिपूर्तात् / पिपूर्तम् / पिपूर्त / पिपराणि / पिपराव / पिपराम / लङयाह / अपिपरिति // अपि पृ त् इति स्थिते गुणे रपरत्वे हल्ड्यादिना तकारलोपे रेफस्य विसर्गः। अपिपरुरिति // अभ्यस्तत्वात् जुस् / कृते 'जुसि च' इति गुणे रपरत्वम् / अपिपः / अपिपूर्तम् / अपिपूर्त / अपिपरम् / अपिपूर्व / अपिपूर्म / केचिदिति // अन्ये आचार्या इत्यर्थः / हूस्वान्तत्वपक्षे 'उदोष्ठय' इत्युत्त्वति मत्वा आह / पिपृतः इति // ह्रस्वान्तस्य अनिट्वाल्लुडादौ पर्तेत्यादि / पिपृहि / अपार्षीदिति // ह्रस्वान्तस्य अनिट्त्वान्न सिज्लोप इति भावः / नन्वाचार्यान्तरसम्मतं ह्रस्वान्तत्वङ्कुतोऽस्माभिरादर्तव्यम् इत्यत आह / पाणिनीयेति // पाणिनिसम्मतदीर्घान्तत्वस्यैवाश्रयणे 'तं रोदसी पिपृतं' इत्यादौ 'उदोष्ठय' इत्युत्त्वापत्त्या ऋकारस्य हूस्वस्य श्रवणानापत्त्या तद्विषये छान्दसत्वमेव शरणमनुसरणीयं स्यादित्यर्थः। डुभृमिति // अनिडयं अित्त्वादुभयपदी। श्लौ सति द्वित्वादौ बिभर्तीत्यादि स्थितम् / भृञामित् / / भृआमिति बहुवचनाद्भवादीनामिति लभ्यते। 'अत्र लोपः' इत्यतः अभ्यासस्येति 'निजान्त्रयाणाङ्गुणः श्लौ' इत्यतः त्रयाणां श्लाविति चानुवर्तते / तदाह / भृञ् माङित्यादिना // बिभ्रतीति // अभ्यस्तत्वाददादेशे यण् / विभर्षि / विभृथः / विभृथ / बिभर्मि / बिमृवः / बिभृमः / बिभृते / बिभ्राते / बिभ्रते / बिभृषे / बिभ्राथे / इति सिद्धवत्कृत्य आह / बिभृध्वे इति // बिभ्रे / बिभृवहे / बिभृमहे / श्लुवद्भावादिति // ‘भीहीभृ. हुवाम्' इत्यनेन इति भावः / बिभरामासेति // अनुप्रयोगसामर्थ्यादस्तेः भूभावो नेति भावः। बभारेति // श्लावित्यनुवृत्तेआमिदिति नेत्त्वम् / बभ्रतुः / बभ्रुः / इत्यपि ज्ञेयम् / 'कृसृभृव' इति लिटि इग्निषेधः / थल्यपि 'अचस्तास्वत्' इति नित्यमिनिषेधः / ऋदन्तत्वेन भारद्वाजमतेऽपि निषेधात् / तदाह / बभर्थेति // बभ्रथुः / बभ्र / बभार-बभर इति सिद्धवत्कृत्य आह / बभृवेति // क्रादित्वादिनिषेध इति भावः / बभ्रे / बभ्राते / बधिरे / बभृषे / For Private And Personal Use Only
Page #226
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 224 सिद्धान्तकौमुदीसहिता [जुहोत्यादि अबिभरुः / बिभृयात् / भ्रियात् / भृषीष्ट / अभार्षीत् / अभृत / माङ् 1088 माने शब्दे च / 2497 / ई हल्ययोः / (6-4-113) आभ्यस्तयोरात ईत्स्यात्सार्वधातुके क्छिति हलि न तु घुसंज्ञकस्य / मिमीते / ' भाभ्यस्तयो:-' (सू 2483) इत्याल्लोपः / मिमाते / मिमते / प्रण्यमास्त / ओ हाङ् 2089 गतौ / जिहीते / जिहाते / जिहते। जहे / हाता / हास्यते / ओ हाक् 1089 त्यागे / परस्मैपदी / जहाति / बभ्राथे / बभूव / बभ्रे / बभूवहे / बभृमहे / भर्ता / भरिष्यति / भरिष्यते। बिभर्तु-बिभृतात् / बिभृताम् / बिभ्रतु / इति सिद्धवत्कृत्य आह / बिभृहीति // हेरपित्त्वेन ङित्त्वागुणनिषेध इति भावः। बिभृतात् / बिभृतम् / बिभृत इति सिद्धवत्कृत्य आह / बिभराणीति॥ आटः पित्त्वेन डित्त्वाभावान गुणनिषेध इति भावः / बिभराव / बिभराम / लड्याह / अबिभरिति // अबिभृ त् इति स्थिते गुणे रपरत्वे हल्ल्यादिलोपे रेफस्य विसर्ग इति भावः / अबिभरुरिति // अभ्यस्तत्वात् झेर्जुस् 'जुसि च' इति गुणः / अबिभः। अबिभृतम् / अबिभृत / अबिभरम् / अबिभूव / अबिभृम / अबिभृत / अबिभ्राताम् / अबिभ्रत / अबिभृथाः / अबिभ्राथाम् / अबिभृध्वम् / अबिनि / अबिभृवहि / अबिभृमहि / आशीर्लिङयाह / भ्रियादिति // 'रिशयग्लिक्षु' इति रिङ्। आत्मनेपदे आशीर्लिङ्याह / भृषीष्टेति // 'उश्च' इति कित्त्वान्न गुणः / अभा(दिति // अनिट्वान सिज्लोपः। सिचि वृद्धिः। रपरत्वमिति भावः। अभामित्यादि। आत्मनेपदे लुङ्याह / अभृतेति // 'दूस्वादशात्' इति सिचो लुक् / अभृपातामित्यादि / माङ् माने इति // अनिट् / ङित्त्वादात्मनेपदी। श्लौ द्वित्वे 'भृनामित्' इति अभ्यासस्य इत्त्वे मि मा ते इति स्थिते। ईहल्यघोः॥ई इति लुप्तप्रथमाकम् / 'नाभ्यस्तयोरातः' इत्यनुवर्तते / ‘गमहन' इत्यतः विडतीति ‘अत उत्सार्वधातुके' इत्यतः सार्वधातुके इति चानुवर्तते / तदाह / नाभ्यस्तयोरित्यादिना / आल्लोपः इति // अजादौ विङति सार्वधातुके इति शेषः / मिमते इति // अभ्यस्तत्वाददादेशः / मिमीषे / मिमाथे। मिमीध्वे / मिमे / मिमीवहे / मिमीमहे / ममे / ममाते। ममिरे / ममिषे / ममाथे / ममिध्वे / ममे / ममिवहे / ममिमहे / माता / मास्यते / मिमीताम् / मिमीष्व / मिमाथाम् / मिमीध्वम् / मिमै / मिमावहै / मिमामहै। अमिमीत / अमिमाताम् / अमिमत / अमिमीथाः। अमिमाथाम् / अमिमीध्वम् / अमिमि / अमिमीवहि / अमिमीमहि / मिमीत। मिमीयाताम् / मिमीरन् / मिमीथाः / मिमीयाथाम् / मिमीध्वम् / मिमीय / मिमीवहि / मिमीमहि / मासीष्ट / अमास्त / अमासाताम् / अमासत / अमास्थाः / अमासाथाम् / अमाध्वम् / अमासि / अमास्वहि / अमास्महि / अमास्यत / ओ हा गताविति / अनिट् / ङित्त्वादात्मनेपदी / 'भृशामित्' इति इत्त्वम् / माधातुवद्रूपाणि / अभ्यासे चुत्वं For Private And Personal Use Only
Page #227
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा। 225 2498 / जहातेश्च / (6-4-116) इत्स्याद्वा हलादौ विङति सार्वधातुके / पक्षे ईत्त्वम् / जहित:-जहीतः / जहति / जहौ / जहितात् / 2499 / आ च हौ (6-4-117) जहातेही परे आ स्याच्चादिदीतौ / जहाहि-जहिहि-जहीहि / अजहात् / अजहुः / अजहाः / / 2500 / लोपो यि / (6-4-118) जहातेरालोप: स्याद्यादौ सार्वधातुके / जह्यात् / ‘एलिङि' (सू 2374) हेयात् / अहासीत् / डु दाञ् 1091 दाने / प्रणिददाति / दत्तः / ददति / दत्ते / ददौ / 'ध्वसो:-' (2471) इत्येत्त्वाभ्यासलोपौ / देहि / विशेषः / तदाह / जिहीते इत्यादि // इति भृत्रादयस्त्रयो गताः। ओ हाक् त्यागे इति॥ अनिट्। ओकारः ककारश्च इत् / जहातीति // श्लौ द्वित्वे अभ्यासचुत्वमिति भावः / तसादौ ‘श्नाभ्यस्तयोरातः' इति नित्यमीत्त्वे प्राप्ते / जहातेश्च // इद्दरिद्रस्य' इत्यतः इदिति ‘भियोऽन्यतरस्याम्' इत्यतः अन्यतरस्यामिति चानुवर्तते / ‘गमहन' इत्यतः विडतीति, ‘ई हल्यघोः' इत्यतः हलीति च। इत्यभिप्रेत्य शेषं पूरयति / इत्स्याद्वेति / जहतीति // अभ्यस्तत्वाददादेशे 'श्नाभ्यस्तयोः' इत्याल्लोपः / जहाविति // जहतुः / जहुः / जहिथ-जहाथ / जहथुः / जह / जहौ / जहिव / जहिम / हाता / हास्यति / जहितादिति // जहि. ताम्-जहीताम् / जहतु / आ च हो // आ इति लुप्तप्रथमाकम् / जहातेरिति / / 'जहा तेश्च' इत्यतः तदनुवृत्तेरिति भावः / चादिदीताविति // इद्दरिद्रस्य' इत्यतः ‘ई हल्यघोः' इत्यतश्च तयोरिह चकारेणानुकर्षादिति भावः / जहितात्-जहीतात् / जहितम्-जहीतम् / जहित-जहीत / जहानि। जहाव। जहाम / लङयाह / अजहादिति // अजहिताम्अजहीताम् / अजहुः / अजहाः इति // अजहितम्-अजहीतम् / अजहित-अजहीत / अजहाम् / अजहिव-अजहीव / अजहिम-अजहीम / लोपो यि // ‘जहातेश्च' इत्यतो जहातेरिति ‘श्नाभ्यस्तयोरातः' इत्यतः आत इति, 'अत उत्सार्वधातुके' इत्यतः सार्वधातुके इति चानुवर्तते / यि इति सप्तम्यन्तं सार्वधातुकविशेषणम् / तदादिविधिः / तदाह / जहातेरित्यादिना // 'जहातेश्च' इत्यस्यापवादः / आशीलिङ्याह / एर्लिङीति / अहासीदिति // 'यमरम' इति सगिटौ / अहास्यत् / डु दाञ् उभयपदी। अनिट् / प्रणिददातीति // ‘नेर्गद' इति णत्वत् / दत्तः इति // ददा तस् इति स्थिते अघोरिति पर्युदासादित्त्वाभावे 'श्नाभ्यस्तयोः' इत्याल्लोपः / ददतीति // अभ्यस्तत्वाददादेशे ‘श्नाभ्यस्तयोः' इत्याल्लोप इति भावः / ददासि / दत्थः / दत्थ। ददामि / दद्वः। दद्मः / दत्ते इति // ददाते / ददते / दत्से / ददाथे। दद्धे / ददे / दद्वहे / दद्महे / ददौ इति // For Private And Personal Use Only
Page #228
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 226 सिद्धान्तकौमुदीसहिता [जुहोत्यादि अददात् / अदत्ताम् / अददुः / दद्यात् / देयात् / अदात् / अदाताम् / अदुः। अदित / डु धाब् 1095 धारणपोषणयोः ‘दानेऽपि' इत्येके / प्रणिदधाति / 2501 / दधस्तथोश्च / (8-2-38) द्विरुक्तस्य झषन्तस्य धाधातोर्बशो भष् स्यात्तथयोः परयो: स्ध्वोश्च परतः। 'वचनसामर्थ्यादालोपो न स्थानिवत्' इति वामनमाधवौ / वस्तुतस्तु 'पूर्वत्रासिद्धे न स्थानिवत्' धत्त: / दधति / धत्थः / धत्थ / दध्वः / दध्मः / धत्ते / धत्से / धद्धे / धेहि / अधित / ददतुः / ददुः / ददिय-ददाथ / ददथुः / दद / ददौ / ददिव / ददिम / ददे / ददाते / ददिरे / ददिषे / ददाथे / ददिध्वे / ददे / ददिवहे / ददिमहे / दाता / दास्यति / दास्यते / ददातु-दत्तात् / दत्ताम् / ददतु / इति सिद्धवत्कृत्य देहि इत्यत्र आह / ध्वसोरिति // दत्तात् / दत्तम् / दत्त / ददानि / ददाव / ददाम / दत्ताम् / ददाताम् / ददताम् / दत्स्व। ददाथाम् / दद्धम् / ददै / ददावहै / ददामहै / लङ्याह / अददादिति / अददुरिति // अभ्यस्तत्वात् जुस् / अददाः / अदत्तम् / अदत्त / अददाम् / अदद्व / अदद्म / विधिलिङ्याह / दद्यादिति // 'नाभ्यस्तयोः' इत्याल्लोपः / आशीर्लिङि तु 'एलिङि' इत्येत्त्वमभिप्रेत्य आह / देयादिति // दासीष्ट / लुङ्याह / अदादिति // ‘गातिस्था' इति सिचो लुगिति भावः / अदाः। अदातम् / अदात / अदाम् / अदाव / अदाम / लुङ्यात्मनेपदे आह / अदितेति // अदा स् त इति स्थिते 'स्थाध्वोरिच' इति दाधातोरन्त्यस्य इकारः सिचः कित्त्वञ्च / कित्त्वान्न गुणः / ' ह्रस्वादङ्गात्' इति सिचो लुगिति भावः / अदिषाताम् / अदिषत / अदिथाः / अदिषाथाम् / अदिवम् / अदिषि / अदिष्वहि / अदिष्महि / अदास्यत् / अदास्यत / डु धाञ् / जित्त्वादुभयपदी / अनिट् / प्रणिदधातीति // 'नेर्गद' इति णत्वम् / तसि श्लौ द्वित्वे अभ्यासजश्त्वे 'नाभ्यस्तयोः' इत्याल्लोपे दध् तस् इति स्थिते। दधस्तथोश्च // धाधातोः कृतद्वित्वस्य दधा इत्यस्य दधः इति षष्ठयन्तम् / 'एकाचो बशः' इत्यतः झषन्तस्य बशो भष् इत्यनुवर्तते / त थ् अनयोर्द्वन्द्वात् सप्तमीद्विवचनम् / तकारादकार उच्चारणार्थः / तकारथकारयोरिति लभ्यते / चकारात् स्ध्वोरिति समुच्चीयते / सकारे ध्वशब्दे चेति लभ्यते / तदाह / द्विरुक्तस्येत्यादिना // तथाच अभ्यासे दकारस्य धकारः / तकारपरकत्वात् / न तु ‘श्नाभ्यस्तयोराल्लोपस्य 'अचः परस्मिन्' इति स्थानिवत्त्वान्न तकारपरकत्वं, नापि झषन्तत्वमित्यत आह / वचनसामर्थ्यादिति // वस्तुतस्त्विति // भष्भावस्य पूर्वत्रासिद्धीयत्वादेव तस्मिन् कर्तव्ये आलोपस्य स्थानिवत्त्वाप्रसक्तेर्वचनसामर्थ्याश्रयणक्लेशो वृथेति भावः / धत्तः इति // धस्य चर्वेन त इति भावः / दधतीति // 'अदभ्यस्तात्' इत्यदादशे 'श्नाभ्यस्तयोः' इत्याल्लोपः / धत्थः इति // थकारपरकत्वात् भए / धत्थ / दधामि / दध्वः इति // परनिमित्ताभावान्न भए / दध्मः। धत्ते इति // दधाते। दधते। धत्से इति॥ सकारपरकत्वाद्भषिति भावः। दधाथे।धद्धे इति॥ दद् ध्वे इति स्थिते ध्वशब्दपरकत्वाद्भषिति भावः। For Private And Personal Use Only
Page #229
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा। 227 अथ त्रयः स्वरितेतः / णिजिर् 1096 शौचपोषणयोः / 2502 / निजां त्रयाणां गुणः श्लौ / (7-4-75) णिजिर विजिर् विष्ल एषामभ्यासस्य गुणः स्याच्छलौ / नेनेक्ति / नेनिक्तः / नेनिजति / नेक्ता / नेक्ष्यति / नेनेक्तु / नेनिग्धि / 2503 / नाभ्यस्तस्याचि पिति सार्वधातुके / (7-3-87) लघूपधगुणो न स्यात् / नेनिजानि / अनेनेक् / अनेनिक्ताम् / अनेनिजुः / नेनिज्यात् / निज्यात् / अनिजत्-अनैक्षीत् / अनिक्त / विजिर् 1094 दधे / दध्वहे / दध्महे / दधौ / दधे / धाता / धास्यति / धास्यते / दधातु-धत्तात् / धत्ताम् / दधतु / धेहीति // 'ध्वसोः' इत्येत्त्वाभ्यासलोपाविति भावः / धत्तात् / धत्तम्। धत्त। दधानि / दधाव / दधाम / धत्ताम् / दधाताम् / दधताम् / धत्स्व / दधाथाम् / धद्धम् / दधै / दधावहै / दधामहै। अधात् / अधत्त / दध्यात् / धासीष्ट / अधासीत् / अधितेति / / 'स्थाप्योरिच' इति इत्त्वे 'हस्वादङ्गात् ' इति सिचो लुगिति भावः / अधास्यत् / अधास्यत / णिजिर् धातुः अनिडयं णोपदेशः इरित् / इकारस्य प्रत्येकमित्त्वाभावान्न नुम् / इकारस्य स्वरितत्वप्रतिज्ञाबलादात्मगे फले आत्मनेपदम्भवत्येव / तस्मादयमप्युभयपदी / एवं विजिरपि ज्ञेयः / निजां त्रयाणाम् / निजामिति बहुवचनात्तदादीनाङ्ग्रहणम् / 'अत्र लोपः' इत्यतः अभ्यासस्येत्यनुवर्तते / तदाह / णिजिर् इत्यादिना / नेनेक्तीति // श्लौ द्वित्वे हलादिशेषे उत्तरखण्डस्य तिपमाश्रित्य गुणे पूर्वखण्डस्यानेन गुणे चोः कुत्वमिति भावः / अभ्यस्तत्वाददादेशं मत्वा आह / नेनिजतीति // नेनेक्षि / नेनिक्थः / नेनिक्थ / नेनेज्मि / नेनिज्वः / नेनिज्मः / नेनिक्ते। नेनिजाते। नेनिजते / नेनिक्षे। नेनिजाथे। नेनिग्ध्वे / निनिजे / नेनिज्वहे / नेनिज्महे / निनेज / निनिजतुः / निजिथ-निनेक्थ / निनिजथुः / निनिज / निनेज। निनिजिव / निनिजिम / निनिजे / निनिजाते / निनिजिरे / निनिजिषे / निनिजाथे। निनिजिध्वे / निनिजे / निनिजिवहे / नेता। नेक्ष्यति / नेनेक्तुनेनिक्तात् / नेनिक्ताम् / नेनिजतु / नेनिग्धीति // अपित्त्वेन ङित्त्वान्न गुणः / हेधिः / नेनिक्तात् / नेनिक्तम् / नेनिक्त / 'आइत्तमस्य' इति पित्त्वेन अङित्त्वाल्लघूपधगुणे प्राप्ते / नाभ्यस्तस्याचि // 'मिदेर्गुणः' इत्यतो गुण इति ‘पुगन्त' इत्यतो लघूपधस्येति चानु. वर्तते इत्यभिप्रत्य शेषम्पूरयति / लघूपधगुणो न स्यादिति / नेनिजानीति // नेनिजाव / नेनिजाम / नेनिक्ताम् / नेनिजाताम् / नेनिजताम् / नेनिक्ष्व / नेनिजाथाम् / नेनिग्ध्वम् / नेनिजै / नेनिजावहै / नेनिजामहै / लङि परस्मैपदे आह / अनेनेगिति // अनेनिजुरिति // अभ्यस्तत्वाज्जुसिति भावः / अनेनेक् / अनेनिक्तम् / अनेनिक्त। अनेनिजम् / 'नाभ्यस्तस्य' इति न गुणः / अनेनिज्व / अनेनिज्म / निक्षीष्ट / लुङ्याह / अनिजदिति // इरित्त्वादङिति भावः / अनिक्तति // ‘झलो झलि' इति सिज्लोपः / For Private And Personal Use Only
Page #230
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 228 सिद्धान्तकौमुदीसहिता [जुहोत्यादि पृथग्भावे / वेवेक्ति-वेविक्ते / विवेजिथ / अत्र ‘विज इट्' (सू 2536) इति ङित्त्वं न 'ओ विजी' इत्यस्यैव तत्र ग्रहणात् / ‘णिजिविजी' रुधादावपि। विष्ल 1095 व्याप्तौ / वेवेष्टि-वेविष्टे / लदित्त्वादङ् / अविषत् / तङि क्सः / अजादौ ‘क्सस्याचि' (सू 2337) इत्यल्लोपः / अविक्षत / अविक्षाताम् / अविक्षन्त / अथ आगणान्तात्परस्मैपदिनश्छान्दसाश्च / घृ 1096 क्षरणदीप्त्योः / 'जिधर्म्यग्निं हविषा घृतेन' / 'भृञामित्' (सू 2496) / बहुलं छन्दसि' (सू (3598) इतीत्त्वम् / हृ. 1097 प्रसह्यकरणे / अयं स्रुवोऽभिजिहर्ति होमान् / ऋ 1098 स्मृ 1099 गतौ / बहुलं छन्दसि (3598) इत्येव सिद्धे 'अतिपिपोश्च' (सू 2493) इतीत्त्वविधानादयं भाषायामपि / ' अभ्यास अनिक्षाताम् इत्यादि / विजिरपि णिजिर्वत् / अत्रेति // थलि इट्पक्षे 'विज इट्' इति विहितं डित्त्वं नेत्यर्थः / अतो न गुणनिषेध इति भावः / ओ विजी इत्यस्यैवेति // व्याख्यानादिति भावः / रुधादावपीति // ततश्च 'रुधादिभ्यः श्नम्' इति श्नम्विकरणावपि ताविति भावः / बिष्ल व्याप्तौ इति // लदित् उभयपदी अनिट् / णिजेरिव रूपाणि / वेवेष्टीति // तृत्वेन तकारस्य टः / सिपि षढोः' इति षस्य कत्वम् / वेवेक्षि। विष्ठः / वेविड्ढि / अविषदिति॥ लूदित्त्वादङिति भावः / तङि क्सः इति // 'शल इगुपधात्' इत्यनेनेति भावः। आगणान्तादिति // जुहोत्यादिगणसमाप्तिपर्यन्तमित्यर्थः / घृधातुरनिट् / तिपि श्लौ द्वित्वे अभ्यासकार्ये गुणे रपरत्वे जघर्ति / जघृतः / जघ्रति / 'जिधर्म्यग्निं हविषा घृतेन' इति बहृचमन्त्रपाठः / 'जिघर्म्यग्निं मनसा घृतेन' इति तैत्तिरीयपाठः। अत्र इत्त्वमभ्यासस्य आह / भृामिदिति // ननु तत्र त्रयाणामेव ग्रहणमित्यत आह / बहुळमिति // इत्त्वं छान्दसमिति भावः / जघार / जघ्रतुः / जघर्थ / जघ्र / जघ्रिव / घरिष्यति / जघर्तु-जघृतात् / जघ्रतु / जघृहि / जघराणि / अजघः। अजघृताम् / अजघरुः / अजघरम् / अजघृव / जघृयात् / घ्रियात् / अघार्षीत् / अघरिष्यत् / ह प्रसह्यकरणे इति // घृधातुवद्रूपाणि / अयं सुवो अभिजिहर्ति होमानिति // सुवे साद्यमाने याजमानो मन्त्रः। अत्रापि अभ्यासस्य इत्त्वं छान्दसमिति भावः / ऋ सृ गताविति // इमावनिटौ / तत्र ऋधातोः छान्दसत्वेऽपि लोकेऽपि क्वचित् प्रयोगं समर्थयति / बहुळमिति // 'भृञामित्' / 'अर्तिपिपर्योश्च' 'बहुळं छन्दसि' इति सूत्रस्थितिः / तत्र बहुळञ्छन्दसीत्येव ऋधातोरित्त्वसिद्धेः ‘अर्तिपिपोश्च' इत्यर्तिग्रहणात् लोकेऽपि ऋधातोः इलुविकरणस्य प्रयोगो विज्ञायते इत्यर्थः / एतच्चारैव सूत्रे भाष्ये स्पष्टम् / अत एव भाष्यात् श्लुविकरणस्यैव ऋधातोः 'अर्तिपिपोश्च' इत्यत्र ग्रहणम् / पिपर्तिसाहचर्याच्च, श्लावित्यस्य अभ्यासग्रहणस्य चानुवृत्तेश्चेत्यलम् / अभ्यासस्यासवणे इति // शपः श्लौ ऋ ति इति स्थिते द्वित्वे उरदत्त्वम्बाधित्वा 'अर्तिपिपर्योश्च' इत्यभ्या For Private And Personal Use Only
Page #231
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा / 229 स्यासवर्णे (सू 2290) इतीयङ् / इयति / इय॒तः / इयूति / आर / आरतुः / 'इडत्यति-' (सू 2384) इति नित्यमिट् / आरिथ / अर्ता / अरिष्यति / इयराणि / ऐयः / ऐवृताम् / ऐयरुः / इय्यात् / अर्यात् / आरत् / ससति / भस 1100 भर्त्सनदीप्त्योः / बभस्ति / 'घसिभसोर्हलि-' (सू 3550) इत्पुपधालोपः / 'झलो झलि' (सू 2281) इति सलोपः / बब्धः / बप्सति / सऋकारस्य इत्त्वे रपरत्वे हलादिशेषे उत्तरखण्डस्य ऋकारस्य गुणे रपरत्वे इ अर् ति इति स्थिते 'अभ्यासस्यासवणे' इति इयङि इयति इति रूपमित्यर्थः / इयतः इति // पूर्ववदेव द्वित्वादि / तस: अपित्त्वेन ङित्त्वाद्गुणनिषेध इति भाव: / इयतीति // पूर्ववदेव द्वित्वादि / अभ्यस्तत्वाददादेशः / ङित्त्वान गुणः / उत्तरखण्डस्य ऋकारस्य यण् रेफ इति भावः / इयर्षि। इय॒थः / इयर्मि / इयुवः / इय॒मः / लिट्याह / आरेति // थलि ‘अचस्तास्वत्' इति 'ऋतो भारद्वाजस्य' इति नित्यमिनिषेधे प्राप्ते आह / इडत्त्यर्तीति / नित्यमिडिति // आरिथ। आरिम / अतेति // अनिट्त्वादिति भावः। अरिष्यतीति // 'ऋद्धनोः स्ये' इति इडिति भावः / इयर्तु-इय॒तात् / इयताम् / इयूतु / इयहि-इयतात् / इय॒तम् / इयुत / इयराणीति // आटः पित्त्वेन अङित्त्वान्न गुणनिषेध इति भावः / इयराव / इयराम / लङ्याह / ऐयः इति // श्लौ ऋ त् इति स्थिते द्वित्वे अभ्यासस्य इत्त्वे रपरत्वे हलादिशेषे इयङि उत्तरखण्ड. स्य गुणे रपरत्वे च हल्ङयादिलोपे रेफस्य विसर्गे इयः इति स्थिते आटि वृद्धौ ऐयः इति रूपमिति भावः / नच लावस्थायामडिति पक्षे वृद्धौ रपरत्वे आर् त् इति स्थिते द्वित्वे हलादिशेषे सवर्णदीर्घ हल्ङ्यादिलोपे रेफस्य विसर्गे आः इति स्यादिति शक्यम् / बहुलं छन्दस्यमाड्योगेऽपि' इति बहुलग्रहणेनात्र लावस्थायामाडिल्यस्यानाश्रयणादित्याहुः / ऐयरुरिति // ऐयः। ऐयुतम् / ऐयत। ऐयरम् / ऐयव / ऐयुम / विधिलिङ्याह / इयृयादिति // यासुटो डित्त्वाद्गुणनिषेध इति भावः / इय॒याताम् इत्यादि / आशीलिङ्याह / अर्यादिति // 'अकृत्सार्वधातुकयोः' इति दीर्घः प्राप्तः। तं बाधित्वा ‘रिङ् शयग्लिक्षु' इति रिङ् प्राप्तः / तम्बाधित्वा 'गुणोऽर्तिसंयोगाद्योः' इति गुण इति भावः / लुङ्याह। आरदिति // ‘सर्तिशास्त्यतिभ्यश्च' इत्यङि 'ऋदृशोऽङि' इति गुण इति भावः / आरिष्यत् / तदेवं ऋधातुं निरूप्य सृधातुं निरूपयति / ससर्तीति // ससृतः। सस्रति / इत्यादि सुगमम् / ससार / ससर्थ / ससृव / सर्ता। सरिष्यति / ससर्तु / अससः / अससृताम् / अससरुः / ससूयात् / नियात् / असरत् / भस भर्त्सने इति // अयं सेट् / बभस्तीति // श्लौ भस् ति इति स्थिते द्वित्वे अभ्यासजश्त्वमिति भावः / बभस् तस् इति स्थिते आह / घसिभसोरिति // 'घसिभसोर्हलि च' इत्यस्यायमर्थः / छन्दसि अनयोरुपधाया लोपः स्यात् , हलादावजादौ च विडति परे इति / तथाच बभस् तस् इत्यत्र उपधालोपे 'झलो झलि' इति सकारलोपे तकारस्य 'झषस्तथोः' इति धत्वे भकारस्य जश्त्वमिति भावः / बप्सतीति // अभ्यस्तत्वाददादेशे बभस् अति इति स्थिते ‘घसिभसोः' इत्युपधालोपे भकारस्य चर्वमिति भावः / For Private And Personal Use Only
Page #232
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 230 सिद्धान्तकौमुदीसहिता [जुहोत्यादि कि 1101 ज्ञाने / चिकेति / तुर 1102 त्वरणे / तुतोर्ति / तुतूर्तः / तुतुरति / धिप 1103 शब्दे / दिधेष्टि / दिधिष्टः / धन 1104 धान्ये / दधन्ति / दधन्तः / दधनति / जन 1105 जनने / जजन्ति / 2504 / जनसनखनां सञ्झलोः। (6-4-42) बभस्सि / बब्धः / बब्ध / बभस्मि / बप्स्वः / बप्स्मः / बभास / बप्सतुः / बप्सुः / बभसिथ / बप्सथुः / बप्स / बभास-बभस / बप्सिव / बप्सिम / भसिता / भसिध्यति / बभस्तु-बब्धात् / बधाम् / बप्सतु। बब्धि-बब्धात् / बब्धम् / बब्ध / बभसानि / बभसाव / बभसाम / अबभः / अबब्धाम् / अबप्सुः / अबभः / अबब्धम् / अबब्ध / अबप्सम् / अबप्स्व / बप्स्यात् / भस्यात् / अभासीत्-अभसीत् / अभसिष्यत् / कि झाने / चिकेतीति // किधातोस्तिपि श्ला द्वित्वे अभ्यासकुत्वे उत्तरखण्डस्य गुण इति भावः / चिकितः / चिक्यति / चिकेषि। चिकिथः / . चिकिथ / चिकेमि / चिकिवः / चिकाय / चिक्यतुः / चिकयिथ-चिकेथ / चिक्यिव / केता। केष्यति / चिकेतु-चिकितात् / चिकिताम् / चिक्यतु / चिकिहि / चिकयानि / अचिकेत् / अचिकिताम् / अचिकयुः / अचिकेः / अचिकयम् / अचिकिव / चिकियात् / कीयात् / अकैषीत् / अंकेष्यत् / तुर त्वरणे इति // तुतूर्तः इति // 'हलि च' इति दीर्घः / तुतोर्षि / तुतूर्थः / तुतूर्थ / तुतोर्मि / तुतूर्वः / तुतोर / तुतुरथुः / तुतोरिथ / तुतुरिव / तोरिता। तोरिष्यति / तुतोर्तुतुतूर्तात् / तुतूर्ताम् / तुतुरतु। तुतूर्हि / तुतोराणि / अतुतोः / अतुतूर्ताम् / अतुतुरुः / अतुतोः। अतुतोरम् / अतुतू / तुतूर्यात् / तूर्यात् / अतोरीत् / अतोरिष्यत् / धिष शब्दे सेट् / दिधेष्टीति // इलौ द्वित्वादौ लघूपधगुणे तकारस्य टुत्वमिति भावः / दिधिषति / दिधेक्षि / दिधिष्ठः / दिधेष्मि / दिधिष्वः / दिधेष / दिधिषतुः / दिधेषिथ / दिधिषिव / धेषिता / धेषिष्यति / दिधेष्टु-दिधिष्टात् / दिधिषतु / दिधिड्ढि / दिधेषाणि / अदिधेट् / अदिधिष्टाम् / अदिधिषुः / अदिधेषम् / अदिधिष्व / दिधिष्यात् / अर्धेषीत् / अधेषिष्यत् / धन धान्ये इति // धान्याने इत्यर्थः / दधन्तीति // क्षमूष सहने इति धातोः चक्षसे इतिवदनुनासिकस्य क्वीति न दीर्घः / दधंसि / दधन्थ / दधन्मि / दधन्वः / दधन्मः / दधान / दधनतुः / दधनिथ / दधनिव / धनिता / धनिष्यति / दधन्तु-दधन्तात् / दधन्ताम् / दधनतु / दधन्हि / दधनानि / अदधन् / अदधन्ताम् / अदधनुः / अदधन् / अदधन्तम् / अदधन्त / अदधनम् / अदधन्व / अदधन्म / दधन्यात् / धन्यात् / अधानीत्अधनीत् / अधनिष्यत् / जन जनने इति // उत्पत्तौ अकर्मकः / उत्पादने सकर्मकः / जनसन // “विड्डनोः' इत्यतः आदित्यनुवर्तते / तदाह / एषामाकारोऽन्तादेशः इति // सन् झल् इत्यनयोः द्वन्द्वात् सप्तमीद्विवचनम् / सनि झलि चेति लभ्यते। 'अनुदात्तोपदेशे' इत्यतः झलि विडतीत्यनुवर्तते / तत्र झलीत्यनुवृत्तेन सन् विशेष्यते / तदादिविधिः / झलादौ सनीति लभ्यते / विडतीत्यनुवृत्तं तु एतत्सूत्रस्थेन झला विशेष्यते / तदादिविधिः / झलादौ विडतीति लभ्यते / तथाच झलादौ सनीति झलादौ विडतीति च परनिमित्तद्वयं लब्धम् / तदाह / For Private And Personal Use Only
Page #233
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा। 231 एषामाकारोऽन्तादेशः स्याज्झलादौ सनि झलादौ क्ङिति च / जजातः / जज्ञति / जसि / जजान / जजायात्-जजन्यात् / जायात्-जन्यात् / गा 1106 स्तुतौ / देवाजिगाति सुम्नयुः / जिगीतः / जिगति / इति तिङन्तजुहोत्यादिप्रकरणम् / झलादौ सनि झलादौ क्ङिति चेति // सन्विशेषणञ्झलादाविति किम् / जिजनि. षति / सिसनिषति / चिकनिषति / अथ विडतो.विशेषणस्य प्रयोजनमाह / जशतीति / / जजन् अति इति स्थिते अतेर्डित्त्वे झलादित्वाभावादात्त्वाभावे ‘गमहन' इत्युपधालोपे नकारस्य चत्वेन अकार इति भावः / 'जनसनखनां सन' इत्याश्रित्य योगविभागेन उक्तार्थसिद्धिञ्चाश्रित्य झल्ग्रहणन्त्वत्र सूत्रे प्रत्याख्यातम् भाष्ये / जसीति // 'नश्च' इत्यनुस्वारः / जजाथः / जजाथ / जजन्मि / जजन्वः / जजन्मः। जजानेति // जज्ञतुः। सेडयम् / जजनिथ। जज्ञथुः / जज्ञिव / जनिता / जनिष्यति / जजन्तु-जजातात् / जजाहि / जजनानि / अजजन् / अजजाताम् / अजजुः / अजजनम् / अजजन्य / विधिलिङि 'ये विभाषा' इति मत्त्वा आह / जजायात्-जजन्यात् इति // अजनीत्-अजानीत् / अजनिष्यत् / गा स्तुतौ। देवा. जिगातीति // 'भृामित्' इत्यत्र ‘बहुळञ्छन्दसि' इति वचनादभ्यासस्य इत्त्वमिति भावः / जिगीतः इति // ‘ई हल्यघोः' इति ईत्त्वम् / जिगतीति // अभ्यस्तत्वाददादेशे 'श्नाभ्यस्तयोः' इत्याल्लोपः / जिगासि / जिगीथः / जिगीथ / जिगामि / जिगीवः / जगौ / जगतुः / जगिथ-जगाथ / जगिव / गाता / गास्यति / जिगातु-जिगीतात् / जिगीताम् / जिगतु / जिगीहि / जिगानि / आजिगात् / अजिगीताम् / अजिगुः / अजिगाः। अजिगाम् / अजिगीव / जिगीयात् / आशिषि गायात् / अगासीत् / अगास्यत् / इति श्रीवासुदेवदीक्षितविदुषा विरचितायां सिद्धान्तकौमुदी व्याख्यायां बालमनोरमायां श्लुविकरणं समाप्तम् / For Private And Personal Use Only
Page #234
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir / श्रीरस्तु / // अथ तिङन्तदिवादिप्रकरणम् // दिवु 1107 क्रीडाविजिगीषाव्यवहारद्युतिस्तुतिमोदमदस्वप्नकान्तिगतिषु / झूषन्ता: परस्मैपदिनः / ___ 2505 / दिवादिभ्यः श्यन् / (3-1-69) शपोऽपवादः 'हलि च' (सू 354) इति दीर्घः / दीव्यति / दिदेव / देविता / देविष्यति / दीव्यतु / अदीव्यत् / दीव्येत् / दीव्यात् / अदेवीत् / अदेविष्यत् / षिवु 1108 तन्तुसन्ताने / परिषीव्यति / परिषिषेव / न्यषेवीत्न्यसेवीत् / सिवु 1109 गतिशोषणयोः / ष्ठिवु 1110 निरसने / केचिदिहेमं न पठन्ति / ष्णुसु 1111 अदने / 'आदाने' इत्येके / 'अदर्शने' इत्यपरे। सुष्णोस / ष्णसु 1112 निरसने / स्नस्यति / सस्नास / कसु 1113 हरणदीप्त्योः / ह्वरणं कौटिल्यम् / चक्नास / व्युष 1114 दाहे / वुव्योष / प्लुष 1115 च / नृती 1116 गात्रविक्षेपे / नृत्यति / ननर्त / अथ श्यन्विकरणधातवो निरूप्यन्ते / दिवु क्रीडेति // उदिदयम् / तेन क्त्वायामिडिकल्पः। निष्ठायाञ्च सेट। अषन्ताः इति // जृष् झुप् वयोहानौ इत्येतत्पर्यन्ता इत्यर्थः / दिवादिभ्यः श्यन् // ' कर्तरि शप्' इत्यतः कर्तरीति 'सार्वधातुके यक्' इत्यतः सार्वधातुके इति चानुवर्तते इत्यभिप्रेत्य आह / शपोऽपवादः इति // शकारनकारावितौ। दिव् य ति इति स्थिते आह / हलि चेति दीर्घः इति // श्यनः अपित्त्वेन ङित्त्वान्न गुण इति भावः / दीव्यतः। दीव्यन्ति। इत्यादि सुगमम्। दिदेवेति / दिदिवतुः / दिदेविथ / दिदिविव / सेट्त्वं सूचयति / देवितेति // षिवु धातुरपि सेट् षोपदेशः दिवुधातुवत् / परिषीव्यतीति // ‘परिनिविभ्यस्सेव' इति षत्वमिति भावः / परिषिषेवेति // स्थादिष्वेवाभ्यासस्य इति नियमस्तु न / तत्र प्राक्सितादित्यनुवृत्तेरिति भावः / 'सिवादीनां वाव्यवायेऽपि' इति मत्वा आह / न्यषेवीत्-न्यसेवीदिति // त्रिवु धातुस्तु रेफवान् / ष्ठिवु निरसने इति // 'सुब्धातुष्वक्कष्टीवाम्' इति न सत्वम् / ष्टीव्यति इत्यादि सुगमम् / आर्धधातुकेषु तु शब्विकरणस्थष्टिवुधातुवद्रूपाणि / ष्णसु धातुश्च षोपदेशः / नृती गात्रेति // 'श्वीदितः' For Private And Personal Use Only
Page #235
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा / 233 2506 / सेऽसिचि कृतचूतफुदतृदनृतः / (7-2-57) एभ्यः परस्य सिभिन्नस्य सादेरार्धधातुकस्य इडा स्यात् / नतिष्यतिनय॑ति / नृत्येत् / नृत्यात् / अनीत् / त्रसी 1117 उद्वेगे / 'वा भ्राश-' (सू 2321) इति श्यन्वा / त्रस्यति-त्रसति / त्रेसतुः-तवसतुः / कुथ 1118 पूतीभावे / पूतीभावो दौर्गन्ध्यम् / पुथ 1119 हिंसायाम् / गुध 1120 परिवेष्टने / क्षिप 1121 प्रेरणे / क्षिप्यति / क्षेप्ता / पुष्प 1122 विकसने / पुष्प्यति / पुपुष्प / तिम 1123 टिम 1124 ष्टीम 1125 आर्दीभावे / तिम्यति / स्तिम्यति / स्तीम्यति / ब्रीड 1126 चोदने लज्जायां च / ब्रीड्यति / इष 1127 गतौ / इष्यति / षह 1118 षुह 1129 चक्यर्थे / चक्यर्थस्तृप्तिः / सह्यति / सुह्यति / जष् 1130 झूष 1131 वयोहानौ / जीर्यति / जजरतुः-जेरतुः / जरिता-जरीता / जीर्येत् / जीर्यात् / 'जस्तम्भु-' (सू 2291) इत्यङ्गा / 'ऋदृशोऽङि गुणः' (सू 2406) / अजरत्-अजारीत् / अजारिष्टाम् / झीर्यति / जझरतुः / अझारीत् / षूङ् 1132 प्राणिप्रसवे / सूयते / सुषुवे / ' स्वरतिसूति-' (सू 2279) इति विकल्पं बाधित्वा 'श्रयुकः किति' (सू 2381) इति निषेधे प्राप्ते कादिनियमान्नित्यमिट / सुषुविषे / सुषुविवहे / सोता-सविता / इत्याद्यर्थमीत्त्वम् / सेडयम् / सेऽसिचि॥ से असिचि इति छेदः / सप्तमी षष्ठ्यर्थे / कृत चत छूद तृद नृत् एषां समाहारद्वन्द्वात् पञ्चमी। 'उदितो वा' इत्यतो वेति आर्धधातुकस्यडिति चानुवर्तते। तदाह / एभ्यः इत्यादिना // नित्यमिटि प्राप्ते विकल्पार्थमिदं वचनम् / अनर्तीदिति // 'सेऽसिचि' इत्यत्र असिचि इत्युक्तेर्नित्यमिडिति भावः / त्रसी उद्वेगे // ‘वा भ्रमुत्रसाम्' इत्येत्त्वाभ्यासविकल्पौ मत्त्वा आह / सतुः-तत्रसतुरिति / कुथ पूतीभावे इति // पवित्रीभवने इत्यर्थः / दुर्गन्धकरणे इति वा / (पूतिगन्धस्तु दुर्गन्धः) इत्यमरः / तिम टिम ष्टीमेति // द्वितीयतृतीयौ षोपदेशौ / द्वितीय इदुपधः। तृतीयस्तु ईदुपधः। षहषुहेति षोपदेशौ / चक्यर्थस्तृप्तिरिति // यद्यपि 'चक तृप्तौ प्रतिघाते च' इत्युक्तम् / तथापि तृप्तिरेवेह विवक्षिता व्याख्यानात् / षुहेः 'नपुंसके भावे क्तः' इति क्तप्रत्यये सुहितशब्दः / सुहितस्तृप्तिरिति 'पूरणगुण' इति सूत्रे कैयटः। जृष् इष् वयोहानाविति सेट्को / जीर्यतीति // 'ऋत इद्धातोः' इति इत्त्वे 'हलि च' इति दीर्घ इति भावः / अतुसादौ 'ऋच्छत्यताम्' इति गुणे रपरत्वे ‘वा भ्रमुत्रसाम्' इत्येत्त्वाभ्यासलोपविकल्प इति भावः / जजरिथ / 'वृतो वा' इति मत्वा आह / जरिता-जरीतेति // खूङ् प्राणिप्रसवे इति // प्रसवः उत्पादनं षोपदेशोऽयम् / विकल्पमिति // परमपीति शेषः। निषेधे प्राप्ते इति // पुरस्तात्प्रति 30 For Private And Personal Use Only
Page #236
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 234 सिद्धान्तकौमुदीसहिता [दिवादि दूङ् 1133 परितापे / दूयते / दीङ् 1134 क्षये / दीयते / 2507 / दीडो युडचि क्डिति / (6-4-63) दीङ: परस्याजादेः विङत आर्धधातुकस्य युट् स्यात् / 'वुग्युटाबुवयणोः सिद्धौ वक्तव्यौ' (वा 4062) दिदीये / 2508 / मीनातिमिनोतिदीङां ल्यपि च / (6-1-50) एषामात्त्वं स्याल्लयपि चकारादशित्येज्निमित्ते / दाता / दास्यते / अदास्त / अदास्थाः / डीङ् 1135 विहायसा गतौ / डीयते / धीङ् 1136 आधारे / धीयते / दिध्ये / घेता। मीङ् 1237 हिंसायाम् / हिंसा अब प्राणवियोगः / मीयते / रीङ् 1138 श्रवणे / रीयते / लीङ् 1139 श्लेषणे / 2509 / विभाषा लीयतेः / (6-1-51) लीयतेरिति यका निर्देशो न तु श्यना / लीलीडोरात्त्वं वा स्यादेविषये ल्यपि च / लेता-लाता / लेष्यते-लास्यते / 'एज्विषये' किम् / लीयते / षेधकाण्डारम्भसामर्थ्यादिति भावः / दुङ् परितापे इति // पीडने पीडितीभवने वेत्यर्थः। आये सकर्मकः / द्वितीये अकर्मकः / दीङ् क्षये इति // क्षयो ह्रस्वः नाशो वा / दीडो युडचि // 'आर्धधातुके' इत्यधिकृतम् अचा विशेष्यते / तदादिविधिः / दीङ इति पञ्चमी / सप्तमी षष्ठ्यर्थे / तदाह / दीङः परस्येत्यादिना // दिदी ए इति स्थिते परत्वात् ‘एरनेकाचः' इति यणि प्राप्ते नित्यत्वात् युट् / टकार इत् / उकार उच्चारणार्थः / टित्त्वादाद्यवयवः। दीदीये इति रूपमिति भावः / ननु युटि कृतेऽपि तस्यासिद्धत्वाद्यण दुर्वारः। तथाच दिय्ये इति स्यात् / इकारो न श्रूयेत यकारद्वयं श्रूयेत / इत्यत आह / वुग्युटा. विति // मीनातिमिनोति // 'आदेच उपदेशेऽशिति' इत्यतः आदित्यनुवर्तते / तदाह / एषामात्त्वं स्यात् ल्यपीति // चकारात् एचः अशितीति परनिमित्तं समुच्चीयते / तत्र एच इत्यनन्तरं निमित्ते इति शेषः। एनिमित्ते अशिति प्रत्यये च परे इति फलितम् / तदाह / चकारादशित्येज्निमित्ते इति // समुच्चीयत इति शेषः / लुड्याह / अदास्तेति // इह आत्त्वे कृते ङित्त्वे सत्यपि 'स्थाध्वोरिच्च' इति न भवति / स्थाध्वोरित्त्वे 'दीङः प्रतिषेधः' इति घुसंज्ञासूत्रस्थभाष्यपठितवार्तिकादिति भावः / धीङ् आधारे इति // आधारः आधारणम् / स्थापनमिति यावत् / ली श्लेषणे इति // लीयते / लिल्ये / लिल्यिषे / विभाषा लीयतेः॥ ननु लीयतेरिति श्यना निर्देशात् 'लीङ् श्लेषणे' इति श्नाविकरणस्य ग्रहणं न स्यादित्यत आह / यका निर्देशः इति // 'सार्वधातुके यक्' इति विहितयका लीयतेरिति निर्देशः सच श्यन्नान्तसाधारणः / यक उभयत्रापि साधारण्यादिति भावः / 'मीनातिमिनोति' इत्यतः ल्यपीति ‘आदेचः' इत्यतः आदिति एच इति च / तदाह / लीलीङोरित्यादिना / For Private And Personal Use Only
Page #237
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 235 प्रकरणम् बालमनोरमा। लिल्ये / ब्रीङ् 1140 वृणोत्यर्थे / ब्रीयते। वित्रिये / 'स्वादय ओदितः (ग सू 296) / तत्फलं तु निष्ठानत्वम् / पीङ 1141 पाने / पीयते / माङ् 1142 माने / मायते। ममे / ईङ् 1143 गतौ / ईयते / अयां चके / प्री 1144 प्रीतौ / सकर्मकः / प्रीयते / पिप्रिये / अथ चत्वारः परस्मैपदिनः / शो 1145 तनूकरणे / 2510 / ओतः श्यनि / (7-3-71) लोप: स्याच्छचनि / श्यति / श्यतः / श्यन्ति / शशौ / शशसुः / शाता / शास्यति / 'विभाषा प्राधेट-' (सू 2376) इति सिचो वा लुक् / लुगभावे यमरम-' (सू 2377) इतीट्सकौ / अशात् / अशाताम् / अशुः / अशासीत् / अशासिष्टाम् / छो 1146 छेदने / छ्यति / षो 1147 अन्तकर्मणि / स्यति / ससौ / अभिष्यति / अभ्यष्यत् / अभिससौ / दो 1148 अवखण्डने / यति / ददौ / प्रणिदाता / देयात् / अदात् / अथात्मनेपदिनः पञ्चदश / जनी 1149 प्रादुर्भावे / स्वादय ओदितः इति // धातुपाठपठितङ्गणसूत्रमिदम् / 'घूङ् प्राणिप्रसवे' इत्यारभ्य व्रीङन्ता ओदित्कार्यभाज इत्यर्थः। निष्ठानत्वमिति // 'ओदितश्च' इत्यनेनेति भावः। प्रीङ् प्रीताविति // प्रीतिस्तुष्टिः / (मुत्प्रीतिः प्रमदो हर्षः) इत्यमरः। एवं सत्यकर्मकः / यथा फलमूलादिना हरिः प्रीयते। हृष्यतीत्यर्थः। यदा तु प्रीतिः तर्पणं 'प्रीञ् तर्पणे' इति कैयादिकात् क्तिनि प्रीतिशब्दनिष्पत्तिः तदा तु सकर्मकः / तदाह / सकर्मकः इति / प्रीयते इति // तर्पयतीत्यर्थः / अथ चत्वारः परस्मैपदिनः इति // 'दो अवखण्डने' इत्यन्ता इति भावः / शो तनूकरणे / अनिट् / ओतः श्यनि // 'घोर्लोपो लेटि वा' इत्यतो लोप इत्यनुवर्तते इत्यभिप्रेत्य शेषं पूरयति / लोपः स्यादिति / शशाविति // 'आदेच' इत्यात्त्वे णलिति भावः। शशतुरिति // शशिथ-शशाथ / शशिव / शास्यतीति // श्यतु / अश्यत् / श्येत् / शायात् / लुङि सिचि विशेषमाह। विभाषा घेति // सिचा लुक्पक्षे आह / अशादिति // 'आत' इति जुसिति मत्वा आह / अशुरिति // सिचो लुगभावे सगिटौ मत्वा आह / अशासीदिति // छोधातुरपि शोधातुवत् / षो अन्तकर्मणीति॥ समापने विनाशने वेत्यर्थः / शोधातुवद्रूपाणि / षोपदेशोऽयम् / स्यतीति // 'ओतः श्यनि' इति लोपः। अभिष्यतीति / अभ्यष्यदिति // 'प्राक्सितात्' इति षत्वम् / अभिससाविति // स्थादिष्विति नियमात् न षः। दो अवखण्डने / प्रणिदातेति // ‘नेर्गद' इति णत्वम् / देयादिति // आशीलिङि एलिडीत्येत्त्वम्। अदादिति // 'गातिस्था' इति सिचो लुक् / अथात्मनेपदिनः इति / वाश शब्दे इत्यन्ता इत्यर्थः / जनी प्रादुर्भावे इति // श्वीदितो निष्ठा For Private And Personal Use Only
Page #238
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 236 सिद्धान्तकौमुदीसहिता [दिवादि 2511 / ज्ञाजनोर्जा / (7-3-79) अनयोर्जादेशः स्याच्छिति / जायते / जज्ञे / जज्ञाते / जज्ञिरे / जनिता / जनिष्यते / 'दीपजन--' (2328) इति वा चिण् / 2512 / जनीवध्योश्च / (7-3-35) अनयोरुपधाया वृद्धिर्न स्याच्चिणि णिति कृति च / अजनि-अजनिष्ट / दीपी 1150 दीप्तौ / दीप्यते / दिदीपे / अदीपि-अदीपिष्ट / पूरी 1151 आप्यायने / पूर्यते / अपूरि-अपूरिष्ट / तूरी 1152 गतित्वरणहिंसनयोः / तूर्यते / तुतूरे / धूरी 1153 गूरी 1154 हिंसागत्योः / धूर्यते / दुधूरे / गूर्यते / जुगूरे / घूरी 1155 जूरी 1156 हिंसावयोहान्योः / शूरी 1157 हिंसास्तम्भनयोः / चूरी 1158 दाहे / तप 1159 ऐश्वर्ये वा / अयं धातुरैश्वर्ये वा श्यनन्तञ्च लभते / अन्यदा तु शब्विकरणः परस्मैपदीत्यर्थः / केचित्तु वाग्रहणं वृतुधातोराद्यवयवमिच्छन्ति / तप्यते / तप्ता / तप्स्यते / 'पत' इति व्यत्यासेन पाठान्तरम् / 'द्युत द्यामानि युतः पत्यमानः'। याम्' इत्याद्यर्थमादित्त्वम् / शाजनोर्जा // शितीति // ष्ठिवुक्लम्वाचमामित्यतस्तदनुवृत्तेरिनि भावः। जायते इति // ज्ञाधातोस्तु नाविकरणत्वात् जानातीत्युदाहरणम्। उभयत्रापि जादेशस्य हूस्वान्तत्वे अङ्गकार्ये कृते पुनर्नाङ्गकार्यम्' इति परिभाषया 'अतो दी? यजि' इत्यप्राप्तौ जादेशस्य दीर्घान्तत्वमाश्रितम् / जज्ञे इति // ‘गमहन' इत्युपधालोपे नस्य श्चुत्वेन अः / जायेत / जनिषीष्ट / लुङि अजन् स् त इति स्थिते आह / दीपेति। वा चिणिति // सिच इति शेषः / अजन् इ त इति स्थिते उपधावृद्धौ प्राप्तायाम् / जनीवध्योश्च // ‘अत उपधाया' इत्यतः उपधाया इति ‘मृजेर्वृद्धिः' इत्यतो वृद्धिरिति ‘नोदात्तोपदेशस्य' इत्यतो नेति 'आतो युक्' इत्यतः चिण्कृतोरिति 'अचोणिति' इत्यतः णितीति चानुवर्तते / तदाह / अनयोरिति // दीपधिातुरीदित् / 'दीपजन' इति सिचः चिण्विकल्पं मत्वा आह / अदीपि-अदीपिष्टेति // पूरीधातुरपि ईदित् / 'दीपजन' इति चिण्विकल्पं मत्वा आह / अपूरि-अपूरिष्टेति // तूरी इत्यादयोऽपि 'चूरी दाहे' इत्यन्ता ईदित एव / तप ऐश्वर्येवेति // श्यन् आत्मनेपदश्चेति शेषः / उभयोः प्रकृतत्वादित्यभिप्रेत्य शेषं पूरयति / श्यनं तङञ्चेति // अन्यदा त्विति // ऐश्व. र्यादन्यत्रार्थे वृत्तिदशायामित्यर्थः / केचित्त्विति // 'तप ऐश्वर्ये वा' 'वृतु वरणे' इति धातुपाठे स्थितम् / तत्र 'वावृतु वरणे' इत्येव वाशब्दं वृतु इत्यस्य आद्यवयवमिच्छन्तीत्यर्थः / एवञ्च तप ऐश्वर्ये इत्येव स्थितम् / अस्मिन्पक्षे तपधातोः नित्यमेव श्यन् तङ् चेति भावः / तप्यते इति // ईष्टे इत्यर्थः। प्रथमपक्षे ऐश्वर्ये तपतीत्यपि भवति // पत इतीति // तपधातोस्तकारपकारयोः क्रमव्यत्यासेन ‘पत ऐश्वर्ये वा' इति पाठान्तरमित्यर्थः / एवं व्यत्यासेन पाठे For Private And Personal Use Only
Page #239
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra Acharya s www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा। 237 वृतु 1160 वरणे / वृत्यते। पक्षान्तरे / वावृत्यते। ततो वावृत्यमाना सा रामशालां न्यविक्षत।' इति भट्टिः / क्लिश 1161 उपतापे / क्लिश्यते / क्लेशिता / काश 1162 दीप्तौ / काश्यते / वाशू 1163 शब्दे / वाश्यते / ववाशे / ___ अथ पञ्च स्वरितेतः / मृष 1164 तितिक्षायाम् / मृष्यति-मृष्यते / ममर्ष-ममृषे / शुचिर् 1165 पूतीभावे / पूतीभावः क्लेदः / शुच्यति-शुच्यते / शुशोच-शुशुचे / अशुचत्-अशोचीत्-अशोचिष्ट / णह 1166 बन्धने / नाति-नह्यते / ननाह / नेहिथ-ननद्ध / नेहे / नद्धा / नत्स्यति / अनात्सीत् / रज 1167 रागे। रज्यति-रज्यते / शप 1169 आक्रोशे / शप्यति-शप्यते / अथैकादशानुदात्तेत: / पद 1170 गतौ / पद्यते / पेदे / पत्ता / पद्येत / पत्सीष्ट / 2513 / चिण् ते पदः / (3-1-60) पदश्च्लेश्चिण्स्यात्तशब्दे परे / प्रण्यपादि / अपत्साताम् / अपत्सत / खिद 1171 दैन्ये / खिद्यते / चिखिदे / खेत्ता / अखित्त / विद 1172 प्रयोगं दर्शयति / श्रुत द्यामानि युतः पत्यमानः इति // “प्रवायुमच्छा बृहतीत्य॒चः” एकदेशोऽयम् / पत्यमान इत्यस्य ईशान इत्यर्थः / अत्र लटश्शानच् आत्मनेपदं श्यन् च / पक्षान्तरे इति // वावृतु इति पाठपक्षे इत्यर्थः / वावृत्यते इति // वृणोतीत्यर्थः / अपेक्षते इति यावत् / वावृतुधातोः प्रयोगं दर्शयति / ततो वावृत्यमानेति // अपेक्षमाणेत्यर्थः / न्यविक्षतेति // 'नेर्विशः' इत्यात्मनेपदम् / ‘शल इगुपधात्' इति क्सः / अथ पञ्च स्वरितेतः इति // 'शप आक्रोशे' इत्यन्ता इत्यर्थः / शुच्यतीति // क्लिन्नम्भवतीत्यर्थः / अशुचदिति // इरित्त्वादडिति भावः / णह बन्धने इति // णोपदेशोऽयम् / अनिट् / ननाहेति // नेहतुः / भारद्वाजनियमात्थलि वेट् इति मत्वा आह / नेहिथननद्धेति // इट्पक्षे 'थलि च सेटि' इत्येत्त्वाभ्यासलोपौ / इडभावे तु 'नहो धः' इति हस्य ध इति भावः / ‘रञ्ज रागे' अनिट् / रज्यतीति // ‘अनिदिताम्' इति नलोप इति भावः / ररज / रेजतुः / नलोपे एत्त्वाभ्यासलोपौ। ररजिथ-ररथ / रेजिव / रक्ता इत्यादि / अथैकादशेति // 'लिश अल्पीभावे' इत्यन्ता इत्यर्थः / ‘पद गतौ' अनिट् / चिण ते पदः। पदश्च्लेरिति // 'च्लेस्सिच्' इत्यतः च्लेरित्यनुवर्तते इति भावः / तशब्दे इति // आत्मनेपदप्रथमैकवचने इत्यर्थः।इदञ्च भाष्ये स्पष्टम् / प्रण्यपादीति॥ सिचश्चिणि उपधावृद्धौ चिणो For Private And Personal Use Only
Page #240
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 238 सिद्धान्तकौमुदीसहिता [दिवादि सत्तायाम् / विद्यते / वेत्ता / बुध 1173 अवगमने / बुध्यते / बुबुधे / बोद्धा / भोत्स्यते / भुत्सीष्ट / अबोधि-अबुद्ध / अभुत्साताम् / युध 1174 सम्प्रहारे / युध्यते / युयुधे / योद्धा / अयुद्ध / कथं 'युध्यति' इति युधमिच्छतीति क्यच् / ' अनुदात्तत्त्वलक्षणमात्मनेपदमनित्यम्' (प 97) इति वा / अनो रुध 1175 कामे / अनुरुध्यते / अण 1176 प्राणने / अण्यते / आणे / अणिता / 'अन' इति दन्त्यान्तोऽयमित्येके / मन 1177 ज्ञाने / मन्यते / मेने / मन्ता / युज 1178 समाधौ / समाधिश्चित्तवृत्तिनिरोधः / अकर्मकः / युज्यते / योक्ता / सृज 1179 विसर्गे / अकर्मकः / संसृज्यते सरसिजैररुणांशुभिन्नैः / ससृजिषे / स्रष्टा / स्रक्ष्यते / लिङ्सिचौ-' (सू 2300) इति कित्त्वान्न गुणो नाप्यम् / सृक्षीष्ट / असृष्ट / लुक्' इति तशब्दस्य लोपः। 'नर्गद' इति णत्वमिति भावः / 'विद सत्तायाम्' वेत्तेति // अनिडिति भावः / लिटि क्रादिनियमादिट् / एवं बुधधातुरपि / बोद्धेति // तासि ‘झषस्तथोः' इति तकारस्य धकारः। भोत्स्यते इति // 'एकाचः' इति भए / भुत्सीष्टेति // 'लिङ्सिचौ' इति कित्त्वम् / 'दीपजन' इति चिण्विकल्पं मत्वा आह / अबोधि-अबुद्धेति / कथं युध्यतीति॥ आत्मनेपदित्वादिति भावः / समाधत्ते / युधमिति // युध्शब्दः भावक्विबन्तः / युधमिच्छतीत्यर्थे 'सुप आत्मनः' इति क्यजन्तात् परस्मैपदमित्यर्थः / अनुदात्तेत्त्वप्रयुक्तमात्मनेपदमनित्यमिति समाधानं त्वनुचितम् / तस्य भाच्यादृष्टत्वेन अप्रामाणिकत्वात् / अत एव 'व्यत्ययो बहुळम्' इति सूत्रभाष्ये प्रतीपमन्य ऊर्मियुध्यतीत्यत्र व्यत्ययेन परस्मैपदमित्येव समाहितम् / अनो रुध कामे इति // अनु इत्युपसर्गात्परः रुधधातुः कामे वर्तते इत्यर्थः / युज समाधौ / अनिट् / अकर्मकः इति // चित्तवृत्तेर्धात्वर्थान्तर्भावादिति भावः / अर्थान्तरे तु सकर्मकोऽपि भवति / सृजियुज्योः सकर्मकयोः कर्मवद्भाव इति कर्मवत्सूत्रवार्तिकात् / एतच्च कर्मकर्तृप्रक्रियायां स्पष्टीभविष्यति / सृज विसर्गे इति // अनिट् / विसर्गस्सम्बन्धः / उपसर्गवशात् / तदाह / अकर्मकः इति / संसृज्यते इति // अरुणांशुभिन्नैः अरुणकिरणविकसितैः सरसिजैः कमलैः संसृज्यते सम्बध्नातीत्यर्थः / कमलिनीति शेषः / कर्तरि लकारोऽयम्, न त्वयकर्मणि लकारः, अकर्मकत्वात् / अर्थान्तरे तु सकर्मकोऽयमिति कर्मकर्तृप्रक्रियायां वक्ष्यते / लिट्याह / ससृजिषे इति // क्रादिनियमादिडिति भावः / स्रष्टेति // ‘सृजिदृशोझल्यमकिति' इत्यमागमे ऋकारस्य यणि व्रश्चादिना जस्य षः / श्रुत्वेन तकारस्य ट इति भावः / स्रक्ष्यते इति // पूर्ववदमि जस्य षत्वे 'षढोः' इति षस्य कत्वे, सस्य षत्व For Private And Personal Use Only
Page #241
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा। 239 असृक्षाताम् / लिश 1180 अल्पीभावे / लिश्यते / लेष्टा / लेक्ष्यते / लिक्षीष्ट / अलिक्षत / अलिक्षाताम् / अथागणान्तात्परस्मैपदिनः / राधः 1181 अकर्मकादृद्धावेव / एवकारो भिन्नक्रमः / राधोऽकर्मकादेव श्यन् / उदाहरणमाह / वृद्धाविति / यन्मह्यमपराध्यति / द्रुह्यतीत्यर्थः / विराध्यन्तं क्षमेत कः / द्रुह्यन्तमित्यर्थः / राध्यत्योदनः / सिध्यतीत्यर्थः / कृष्णाय राध्यति / दैवं पर्यालोचयतीत्यर्थः / देवस्य धात्वर्थेऽन्तर्भावाज्जीवत्यादिवदकर्मकत्वम् / रराध / रराधतुः / रराधिथ / 'राधो हिंसायाम्' (सू 2532) इत्येत्त्वाभ्यासलोपाविह न / मिति भावः / आशीलिङि आह / सूक्षीष्टेति // अत्र लघूपधगुणमाशङ्कय आह / लिसिचा. विति / नाप्यमिति // ‘सृजिदृशोझल्यम्' इत्यमपि नास्तीत्यर्थः। अकित्येव तद्विधानादिति भावः / लुङ्याह / असृष्टेति // 'झलो झलि' इति सिचो लोपः / 'लिङ्सिचावात्मनेपदेषु' इति सिचः कित्त्वान्न गुणः नाप्यमिति भावः / लिश अल्पीभावे / लिक्षीष्टेति // ‘लिङ्सिचौ' इति कित्त्वान्न गुणः / अलिक्षतेति // 'शल इगुपधात्' इति क्सः / आ गणान्तादिति // दिवादिगणसमाप्तिपर्यन्तमित्यर्थः / राधोऽकर्मकावृद्धावेवेति // श्यनिति शेषः / राधधातोरकर्मकादृद्धावेवार्थे श्यनिति प्रतीयमानोऽर्थः। एवं सति अकर्मकादिति व्यर्थम् / राधेरर्थान्तरे च श्यन् न स्यात् / इष्यते हि अपराध्यतीत्यादौ द्रोहाद्यर्थेऽपि श्यन् / तत्राह। एवकारो भिन्नक्रमः इति // यस्मिन् क्रमे वृद्धावित्यत ऊचे एवकारः पठितः ततोऽन्यः क्रमो यस्य स भि. अक्रम इत्यर्थः / वृद्धावित्यत ऊर्ध्वं पठित एवकारः अन्यत्र निवेशनीय इति यावत्। तदेवं दर्शयति / राधोऽकर्मकादेव श्यनिति // एवञ्चार्थान्तरेऽपि श्यन् सिद्ध्यति / शत्रु हिनस्तीत्यर्थे शत्रुमपराध्नोतीत्यत्र सकर्मकत्वात् न श्यनिति भावः / तर्हि वृद्धावित्यस्य किं प्रयोजनमित्याशङ्कय अकर्मकक्रिया एवंविधेति प्रदर्शनार्थन्तत् नतु परिसङ्ख्यानार्थमित्याह / उदाहरणमाह / वृद्धावितीति / एवञ्च वृद्धिग्रहणमकर्मकक्रियामात्रोपलक्षणमिति भावः / तथाविधार्थान्तराण्युदाहरति / यन्मह्यमित्यादिना // 'क्रुधQह ' इति सम्प्रदानत्वम् / कृष्णाय राध्यतीति // ' राधीक्ष्योर्यस्य विप्रश्नः' इति सम्प्रदानत्वम् / दैवमिति // कृष्णस्य किमिदानीं शुभमशुभं वेति पृष्टो दैवज्ञः तस्य शुभाशुभसूचकादित्यादिग्रहस्थिति ज्योतिश्शास्त्रतः परीक्षते इति यावत् / ननु पर्यालोचने दैवस्य कर्मत्वात्कथमिह अकर्मकतेल्यत आह / दैवस्येति // ननु 'राधोऽकर्मकाद्वृद्धावेव' इत्यत्र वृद्धिग्रहणस्य उपलक्षणतया हिंसार्थकस्यापि राधेर्दैवादिकत्वात् रराधतुः इत्यादौ ‘राधो हिंसायाम्' इति वक्ष्यमाणावेत्त्वाभ्यासलोपौ स्यातामित्यत आह। राधः इति // इह नेति ॥रराधतुः इत्यादौ राधे. हिसार्थकत्वे 'राधो हिंसायाम् ' इति वक्ष्यमाणावेत्त्वाभ्यासलोपौ न स्त इत्यर्थः / कुत इत्यत For Private And Personal Use Only
Page #242
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 240 सिद्धान्तकौमुदीसहिता [दिवादि हिंसार्थस्य सकर्मकतया देवादिकत्वायोगात् / राधा / रात्स्यति / अयं स्वादिइचुरादिश्च / व्यध 1182 ताडने / 'अहिज्या-' (सू 2412) इति सम्प्रसारणम् / विध्यति / विव्याध / विविधतुः / विव्याधिथ-विव्यद्ध / व्यद्धा / व्यत्स्यति / विध्येत् / विध्यात् / अव्यात्सीत् / पुष 1183 पुष्टौ / पुष्यति / पुपोष / पुपोषिथ / पोष्टा / पोक्ष्यति / 'पुषादि-' (सू 2343) इत्यङ् / अपुषत् / शुष 1184 शोषणे / अशुषत् / तुष 1185 प्रीतौ / दुष 1186 वैकृत्ये / श्लिष 1187 आलिङ्गने / श्लिष्यति / शिश्लेष / श्लेष्टा / लक्ष्यति / 2514 / श्लिषःअस्मात्परस्यानिटश्च्ले: क्सः स्यात् / पुषाद्यङोऽपवादो न तु चिणः / पुरस्तादपवादन्यायात् / आह। हिंसार्थस्येति॥नोन्मिषत्येवैषा शङ्का / राधेरकर्मकस्यैव देवादिकत्ववचनात् / हिंसार्थकस्य च राधेः सकर्मकतया देवादिकत्वाभावादुक्तशङ्काया अनुन्मेषादित्यर्थः / ननु रानोति, राधयति, इति कथमित्यत आह / अयं स्वादिश्चुरादिश्चेति // रराधिथ / क्रादिनियमात् नित्यमिट् / दीर्घाकारवत्त्वेन ' उपदेशेऽत्वतः' इत्यस्याप्रवृत्तेः / अजन्तोऽकारवानित्यत्र च ह्रस्वाकारस्यैव विवक्षितत्वात् / राद्धा। अरात्सीत् / व्यध ताडने इति // चतुर्थान्तोऽयम् / अनिट्। 'ग्रहिज्या' इति श्यनो ङित्त्वात् 'लिट्यभ्यासस्य' इति यकारस्य सम्प्रसारणे पूर्वरूपे विध्यतीति रूपमित्यर्थः / वकारस्य तु न सम्प्रसारणम् / 'न सम्प्रसारणे सम्प्रसारणम्' इति निषेधात् / विव्याधेति // द्वित्वे कृते अभ्यासस्य 'लिट्यभ्यासस्य' इति सम्प्रसारणमिति भावः / विविधतुरिति॥परत्वात् 'अहिज्या' इति सम्प्रसारणे कृते द्वित्वमिति भावः / भारद्वाजनियमास्थलि वेडित्यत आह / विव्यधिथ-विव्यद्धति // 'लिट्यभ्यासस्य ' इति सम्प्रसारणम् / अनिट्पक्षे 'झषस्तथोः' इति धः। अव्यात्सीदिति // हलन्तलक्षणा वृद्धिः / पुषपुष्टौ / अनिट् / पुपोषिथेति // अजन्ताकारवत्वाभावात् कादिनियमानित्यमिट् / अपुषदिति // पुषाद्यङ् / ङित्त्वान्न गुणः / शुषधातुरनिट् / अशुषदिति // पुषाद्यङिति भावः / एवमग्रेऽपि। तुष् दुष् श्लिष् एते अनिटः / लुङि श्लिषः च्लेस्सिजादेशे प्राप्ते / श्लिषः // च्लेरिति ‘शल इगुपधात् ' इत्यतः अनिट: क्स इति चानुवर्तते / तदाह / अस्मात्परस्येत्यादिना // ननु 'शल इगुपधात्' इत्येव क्से सिद्ध किमर्थमिदमित्यत आह / पुषाद्यङोऽपवादः इति // 'शल इगुपधात्' इति क्सं बाधित्वा परत्वात् पुषाद्यङ् स्यात् तनिवृत्तये पुनः क्सविधिरित्यर्थः / ननु श्लिष इति क्सः यथा परमपि पुषाद्यङम्बाधते तथा 'चिण्भावकर्मणोः' इति चिणमपि परं बाधेत एवं सति ‘उपाश्लेषि कन्या देवदत्तेन' इत्यत्र कर्मणि लुङि 'चिण्भावकर्मणोः' इति च्लश्चिण् न स्यादित्यत आह / नतु चिणः इति // ‘श्लिषः' इति क्सविधिः 'चिण भाव For Private And Personal Use Only
Page #243
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा / 241 W -आलिङ्गने / (3-1-46) श्लिषश्च्लेरालिङ्गने एव क्सो नान्यत्र / योगविभागसामर्थ्यात् 'शल इगुपधात्-' (सू 2336) इत्यस्याप्ययं नियमः ‘अश्लिक्षत्कन्यां देवदत्तः' / 'आलिङ्गन एव' इति किम् / समाश्लिषज्जतुकाष्ठम् / आङ् / प्रत्यासत्ताविह श्लिषिः / कर्मण्यनालिङ्गने सिजेव न तु क्स: / एकवचने कर्मणोः' इति चिविधेर्न बाधक इत्यर्थः / कुत इत्यत आह / पुरस्तादिति // ‘शल इगुपधादनिट: क्सः' ‘श्लिषः' 'पुषादिद्युताबूलदितः परस्मैपदेषु' 'चिण भावकर्मणोः' इति सूत्रक्रम इति भावः / आलिङ्गने श्लिषः इति पूर्वसूत्रे यदनुवृत्तन्तत्सर्वमिहानुवर्तते, श्लिष इति च। तथाच आलिङ्गने विद्यमानात् श्लिषेः परस्य च्ले: क्सः स्यादिति लभ्यते / ‘श्लिषः' इति पूर्वसूत्रेणैव सिद्ध नियमार्थमिदम् / तदाह / श्लिषश्च्ले रालिङ्गने एव क्सो नान्यत्रेति // नन्वयनियमः “अनन्तरस्य” इति न्यायात् श्लिष इति सूत्रप्राप्तस्यैव स्यात् , नतु ‘शल इगुपधात् ' इत्यस्यापीत्यत आह / शल इगुपधादित्यस्याप्ययं नियमः इति॥ कुत इत्यत आह / योगविभागसामर्थ्यादिति // यदि श्लिष इति प्राप्त एव क्स एव आलिङ्गन एव इति नियम्येत तर्हि योगविभागो व्यर्थः स्यात् / ‘श्लिष आलिङ्गने' इत्येकसूत्रत्वे सत्यपि अनालिङ्गने क्सो नेत्यस्यार्थस्य सिद्धत्वात् / अतः 'शल इगुपधात्' इति क्सोऽपि श्लिषेरालिङ्गने एव न त्वनालिङ्गनेऽपि इति नियमो विज्ञायते इत्यर्थः / अश्लिक्षत् कन्यां दे. वदत्तः इति // आलिङ्गदित्यर्थः / अत्र पुषाद्यङम्बाधित्वा अनेन क्सः / समाश्लिषजतुकाष्ठमिति // जतु लाक्षा / साच काष्टलग्नवोत्पद्यते इति स्थितिः / जतु काष्टञ्चेति समाहारद्वन्द्वः / (समाश्लिषज्जतुकाष्ठञ्च) इत्येव भाष्यम् / अत्र श्लिषेरालिङ्गनार्थकत्वाभावान क्सः। किन्तु पुषाद्यडेवेति भावः / नन्वजादित्वाभावेन आडागमस्यासम्भवात् समाश्लिषदित्ययुक्तमित्यत आह / आङिति // समाश्लिषत् इत्यत्र श्लिषेः प्राक् आपसर्ग एव, न त्वाडागम इति भ्रमितव्यमित्यर्थः / नन्वालिङ्गनं समाश्लेषणं तथाच समाश्लिषजतुकाष्टम् इत्यत्रापि लिषेरालिङ्गनार्थकत्वात् क्सो दुर्वार इत्यत आह / प्रत्यासत्ताविहेति // इह समाश्लिषजतुकाष्ठम् इत्यत्र / श्लिषिः प्रत्यासक्ती संयोगे वर्तते नतु बाह्वादिना संवलनात्मकसम्बन्धविशेषरूपे आलिङ्गने इत्यर्थः। नन्वालिङ्गने एव श्लिषश्च्लेक्सः न त्वनालिङ्गने इति नियमात् अनालिङ्गने 'शल इगुपधात्' इत्यपि क्सो न भवतीत्युक्तमयुक्तम् / समाश्लिषजनुकाष्ठमित्यत्रानालिङ्गने 'शल इगुपधात्' इति क्सम्बाधित्वा परत्वात् पुषाद्यङ एव प्राप्त्या क्सस्याप्रसक्तेरित्यत आह / कर्मणीति // अनालिङ्गनवृत्तेः श्लिषधातोः कर्मणि लुडि च्लेस्सिजेव भवति, न तु पुषाद्यङ्, तस्य परस्मैपदविषयत्वात् / कर्मणि लुडश्च 'भावकर्मणोः' इत्यात्मनेपदनियमात् / तस्य च सिचः ‘शल इगुपधात्' इति प्राप्तः क्सः उक्तेन नियमेन अनालिङ्गनेऽपि वार्यते इति युक्तमित्यर्थः / यदुक्तं आलिङ्गने श्लिषश्च्ले: क्सः पुषाद्यङ एवापवादः नतु चिणः इति / तस्य For Private And Personal Use Only
Page #244
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 242 सिद्धान्तकौमुदीसहिता [दिवादि चिण् / अश्लेषि / अश्लिक्षाताम् / अश्विक्षत / अश्लिष्टाः / अश्लिड्ढम् / शक 1188 विभापितोऽमर्षणे / विभाषित इत्युभयपदीत्यर्थः / शक्यतिशक्यते वा हरिं द्रष्टुं भक्तः / शशाक / शेकिथ-शशक्थ / शेके / शक्ता / शक्ष्यति-शक्ष्यते / अशकत्-अशक्त / सेटकोऽयमित्येके / तन्मतेनानिटकारिकासु लदित्पठित: / शकिता / शकिष्यति / विदा 1189 गानप्रक्षरणे / धर्मस्रुतावित्यर्थः / अयं श्रीदिति न्यासकारादयः / नेति हरदत्तादयः / स्विद्यति / सिष्वेद / सिष्वेदिथ / स्वेत्ता / अस्विदत् / क्रुध 1190 क्रोधे / क्रोद्धा / क्रोत्स्यति / क्षुध 1191 बुभुक्षायां / शोद्धा / कथं क्षुधित इति / सम्पदादिक्किबन्तात्तारकादित्वादितजिति माधवः / वस्तुतस्तु वसतिक्षुधो:-' प्रयोजनमाह / एकवचने चिणिति // तदेवोदाहृत्य दर्शयति / अश्लेषीति // आलिगिता कन्या देवदत्तेनेत्यर्थः / श्लिषेरालिङ्गनार्थकात् कर्मणि लुङि प्रथमैकवचने तशब्दे परे 'चिण् भावकर्मणोः' इति च्लेश्चिणि कृते 'चिणो लुक्' इति तशब्दस्य लुक् / अत्र श्लिष इति क्सस्य पुषाद्यङ्मात्रापवादत्वाच्छिणपवादत्वाभावाचिण निर्बाध इति भावः / 'समाश्लेषि जतुना काष्ठम्' इत्यत्र तु अनालिङ्गनात् च्लेश्चिणो निर्बाधत्वादश्लेषीति निर्वाधमेव / एवञ्च आलिङ्गने अनालिङ्गनेऽपि श्लिषः कर्मणि लुङि एकवचने तशब्दे परे च्लेश्चिणेवेति स्थितम् / अथानालिङ्गने श्लिषः कर्मणि लुङि ‘शल:' इति क्सोऽपि नेति यदुक्तन्तदुदाहृत्य दर्शयति / आश्लिक्षातामिति // अनालिङ्गने श्लिषः कर्मणि लुङः आतामि च्ले: क्साभावात् सिचि ‘षढोः' इति षस्य कत्वे सस्य षत्वे रूपमिति भावः / नन्वश्लिक्षातामित्यत्र सत्यपि क्से ‘क्सस्याचि' इत्यकारलोपे इष्टं सिद्धमित्यस्वरसात्कर्मणि लुङि झादावुदाहरति / अश्लिक्षतेत्यादि / अश्लिष् स् झ इति स्थिते झोऽन्तादेशं बाधित्वा ‘आत्मनेपदेष्वनतः' इत्यदादेशे षस्य कत्वे सिचस्सस्य षत्वे अश्लिक्षतेतीष्यते / च्ले: क्से तु सति अश्लिष् स् झ इति स्थिते ‘क्सस्याचि' इत्यकारलोपाप्रसक्तेरतः परत्वात् 'आत्मनेपदेष्वनतः' इत्यदादेशो न स्यादिति भावः / अश्लिष्ठाः इति // श्लिषेः कर्मणि लुङस्थासि च्लेस्सिचि 'झलो झलि' इत्यसम्भवादश्लिक्षथाः इति स्यादिति भावः / अश्लिड्वमिति // श्लिषः कर्मणि लुडो ध्वमि सिचि ‘झलो झलि' इति सस्य लोपे षस्य जश्त्वेन डकारे टुत्वेन धस्य ढः / क्से तु सति अश्लिक्षध्वम् इति स्यादिति भावः / शक विभाषितः इति // मर्षणे अर्थे शकधातुर्विकल्पित इत्यर्थः / विकल्पश्च प्रकृतपरस्मैपदविषयक एव, न तु दिवादिपाठविषयकः। व्याख्यानात् / तदाह / उभयपदीति // मर्षणमिह सामर्थ्यम् / शक्यति-शक्यते वा हरिं द्रष्टुं भक्तः इति // समर्थो भवतीत्यर्थः। सेटकोऽयमित्येके इति // स्वमते त्वनिटक एवेति भावः। ननु अनिट्कारिकासु लूदितश्शकेः पाठात् कथमनिट्कत्वमित्यत आह / तन्मतेनेति // ये सेट्त्वं शकेर्वदन्ति तन्मतमवलम्ब्य अनिट्कारिकासु शकिः लूदित्पठितः इत्यर्थः / सम्पदादिकिबन्तादिति // क्षुध्यत इति क्षुध् भावे क्विप् / क्षुध् अस्य सञ्जाता क्षुधित इति विग्रहः / For Private And Personal Use Only
Page #245
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा / 243 (सू 3046) इतीट वक्ष्यते / शुध 1192 शौचे / शुध्यति / शुशोध / शोद्धा / षिधु 1193 संराद्धौ / ऊदित्पाठः प्रामादिकः / सिध्यति / सेद्धा / सेत्स्यति / असिधत् / रध 1194 हिंसासंराद्धयोः / संराद्धिनिष्पत्तिः / रध्यति / ‘रधिजभोरचि' (सू 2302) इति नुम् / ररन्ध / ररन्धतुः / 2515 / रधादिभ्यश्च / (7-2-45) ‘रध् ‘नश्' 'तृप्' 'हप्' 'दुह्' 'मुह' ष्णुह्' णिह्' एभ्यो वलाद्यार्धधातुकस्य वेट् स्यात् / ररन्धिथ-ररद्ध / ररन्धिव-रेव / 2516 / नेट्यलिटि रधे / (7-1-62) लिडर्जे इटि रधेर्नुम् न स्यात् / रधिता-रद्धा / रधिष्यति-रत्स्यति / अङि तु नुम् / ' अनिदिताम्-' (सू 415) इति नलोपः / अरघत् / णश 1195 अदर्शने / नश्यति / ननाश / नेशतुः / नेशिथ / 2517 / मस्जिनशोझलि / (7-1-60) नुम् स्यात् / ननंष्ठ / नेशिव-नेश्व / नेशिम-नेश्म / नशिता-नंष्टा / नशिष्यति-नश्यति / नश्येत् / नश्यात् / अनशत् / प्रणश्यति / 2518 / नशेः षान्तस्य / (8-4-36) वसतिक्षुधोः इति // वसेः क्षुधेश्च त्वानिष्टयोरिडागमः स्यादिति तदर्थः / वक्ष्यते इति // कृत्स्विति शेषः / विधु संराद्धाविति // निष्पत्तावित्यर्थः। प्रामादिकः इति // माधवादिसम्मतत्वादिति भावः / रध हिंसेति // सेट् / चतुर्थान्तोऽयम् / ररन्धतुरिति // एत्त्वाभ्यासलोपौ बाधित्वा परत्वान्नुमि संयोगात्परत्वेन अकित्त्वानलोपो नेति भावः / रधादिभ्यश्च // 'आर्धधातुकस्येडलादेः' इत्यनुवर्तते / 'स्वरतिसूति' इत्यतो वेति इत्यभिप्रेत्य शेषं पूरयति / वलाद्यार्धधातुकस्य वेडिति // ‘आर्धधातुकस्य' इति नित्ये प्राप्ते विकल्पोऽयम् / लुटि तासि इटि 'रधिजभोरचि' इति नुमि प्राप्ते। नेट्यलिटि रधेः॥ 'इदितो नुम् धातोः' इत्यतो नुमित्यनुवर्तते / तदाह / लिड्वर्जे इटीति / अङि त्विति // पुषाद्यङि कृते सतीत्यर्थः / अरधदिति // “मो अहं द्विषतेऽरधम्"। णश अदर्शने इति // णोपदेशोऽयं सेट् / 'रधादिभ्यश्च' इति वेट / तत्र इट्पक्षे आह / नशिथेति // 'थलि च सेटि' इत्येत्त्वाभ्यासलोपाविति भावः / इडभावपक्ष ननश् थ इति स्थिते। मस्जिनशोझलि // नुम् स्यादिति // 'इदितो नुम्' इत्यतस्तदनुवृत्तरिति भावः / ननंष्ठेति // व्रश्चादिषत्वन् / ठुत्वम् / प्रणश्यतीति // 'उपसर्गादसमासे' इति णत्वम् / नशेः षान्तस्य // 'रषाभ्याम्' इत्यतो ण For Private And Personal Use Only
Page #246
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 244 सिद्धान्तकौमुदीसहिता [दिवादि णत्वं न स्यात् / प्रनंष्टा। अन्तग्रहणं भूतपूर्वप्रतिपत्त्यर्थम् / प्रनङ्ग-यतिनशिष्यति / तृप 1196 प्रीणने / प्रीणनं तृप्तिस्तर्पणं च 'नाग्निस्तृप्यति काष्ठानाम्' 'पितृनतासीत्' इति भट्टिः / इत्युभयत्र दर्शनात् / ततर्पिथततर्थ-तत्रप्थ / तर्पिता-ता-वप्ता / 'कृशमृशस्पृश-' इति सिज्वा / अतीत्-अतासत्-अत्राप्सीत्-अतृपत् / दृप 1197 हर्षमोहनयोः / मोहनं गर्वः / दृप्यतीत्यादि। __ 'रधादित्वादिमौ वेट्कावमर्थमनुदात्तता' दुह 1198 जिघांसायाम् / 'वा दुहमुह' (सू 327) इति वा घः / पक्षे ढः / दुद्रोहिथ-दुद्रोग्ध-दुद्रोढ / द्रोहिता-द्रोग्धा-द्रोढा / द्रोहिष्यति-- ध्रोक्ष्यति / ढत्वघत्वयोस्तुल्यं रूपम् / अदुहत्। मुह 1199 वैचित्त्ये / वैचित्त्यभविवेकः / मुह्यति / मुमोहिथ-मुमोग्ध-मुमोढ / मोहिता-मोग्धा-मोढा / मोहिष्यति-मोक्ष्यति / अमुहत् / ष्णुह 1200 उद्गिरणे / स्नुह्यति / सुष्णोह / इति 'न भाभूपू' इत्यतः नेति चानुवर्तते इत्यभिप्रेत्य शेषम्पूरयति / णत्वं न स्यादिति // षान्तस्येति किम् / प्रणश्यति / भूतपूर्वेति // पूर्व षकारस्य सत इदानीमादेशवशेन षान्तत्वाभावेऽपि णत्वनिषेधप्राप्त्यर्थमन्तग्रहणमित्यर्थः। प्रनत यतीति॥ अत्र षस्य कत्वे कृतेऽपि भूतपूर्वगत्या षान्तत्वान्न णत्वमिति भावः। तृप प्रीणने। तृप्तिस्तर्पणश्चेति // आद्ये अकर्मकः / द्वितीये सकर्मकः / रधादित्वाद्वेडिति मत्वा आह / ततर्पिथ-ततर्थेति-तत्रप्थेति च // 'अनुदात्तस्य चर्दुपधस्य' इत्यमिति भावः / ततृपिव-ततृप्व / सिज्वेति // पक्षे पुषाद्यङिति भावः / रधादित्वादिडिकल्पः / तत्र सिचि इट्पक्षे आह / अतीदिति // इडभावपक्षे आह / अताप्ससदिति // हलन्तलक्षणा वृद्धिरिति भावः / ‘अनुदात्तस्य च' इत्यम्पक्षे आह / अत्राप्सीदिति // पुषाद्यपक्षे आह / अतृपदिति // ङित्त्वान्न गुण इति भावः / दृप हर्षेति // तृपधातुवत् / ननु रधादित्वादेव वेटकत्वादनिट्कारिकासु तृप्यतिदृप्यत्योः पाठो व्यर्थ इत्यत आह / 'रधादित्वादिमौ वेदकावमर्थमनुदात्तता' इति // दुह जिघांसायाम् / अनुदात्तत्वाभावेऽपि रधादित्वाद्वेट् / तत्र इडभावे आह / वा दुहमुह इतीति / ध्रो. क्ष्यतीति // 'वा द्रुह' इति घत्वपक्षे दकारस्य भषि घस्य चर्वे सस्य षत्वे रूपम् / ढत्वपक्षेऽपि 'षढाः' इति कत्वे एतदेव रूपम् / तदाह / ढत्वघत्वयोस्तुल्यं रूपमिति / अद्रुहदिति // पुषादित्वादङिति भावः / मुहधातुरनुदात्तत्वाभावेऽपि रधादित्वात् वेट् / मुमोहि थेति // इट्पक्षे रूपम् / अनिट्पक्षे तु ‘वा दुहमुह' इति घत्वं मत्वा आह / मुमोग्धेति // ढत्वपक्षे आह। मुमोढेति / मोक्ष्यतीति // घत्वढत्वयोस्तुल्यं रूपम् / ष्णुह ष्णिहेति षोपदेशौ / तदाह / सुष्णोह / सिष्णेहेति // थलादावनिटपक्षे ‘वा द्रुह' For Private And Personal Use Only
Page #247
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा / 245 सुष्णोहिथ-सूष्णोग्ध-सुष्णोढ / सुष्णुहिव-सुष्णुह / स्नोहिता-स्नोग्धास्नोढा / स्नोहिष्यति-स्नोक्ष्यति / अस्नुहत् / ष्णिह 1201 प्रीतौ / स्निह्यति / स्निष्णेह / वृत् / रधादयः समाप्ताः / पुषादयस्तु आ गणान्तादिति सिद्धान्त: / शमु 1202 उपशमे / 2519 / शमामष्टानां दीर्घः श्यनि / (7-3-74) शमादीनामित्यर्थः / प्रणिशाम्यति / शेमतुः / शेमिथ / शमिता / अशमत् / तमु 1203 काङ्क्षायाम् / ताम्यति / तमिता / अतमत् / दमु 1204 उपशमे / उपशम इति ण्यन्तस्य / तेन सकर्मकोऽयम् / न तु शमिवदकर्मकः / अदमत् / श्रमु 1205 तपसि खेदे च / श्राम्यति / अश्रमत् / भ्रमु 1206 अनवस्थाने / ‘वा भ्राश-' (सू 2321) इति श्यन्वा / तत्र कृते ‘शमामशानाम्- (2519) इति दीर्घः / भ्राम्यति / लुङयङ् / अभ्रमत् / शेष भ्वादिवत् / क्षमू 1207 सहने / क्षाम्यति। चक्षमिथ-चक्षंथ / चक्षमिवचक्षण्व / चक्षमिम-चक्षण्म / क्षमिता-क्षन्ता / अयमषित् / भ्वादिस्तु षित् / 'अषितः क्षाम्यते: शान्तिः क्षमूषः क्षमतेः क्षमा'। इति धत्वविकल्पः / पक्षे ढः / इति रधादयः / आ गणान्तादिति // दिवादिगणसमाप्तिपर्यन्ताः पुषादय इत्यर्थः / सिद्धान्तः इति // माधवादिभिस्तथाऽभ्युपगमादिति भावः / उपशमे इति // उपशमो नाशः इन्द्रियनिग्रहश्च / शमामष्टानाम् // स्पष्टम् / बहुवचनात् शमादिग्रहणम् / तदाह / शमादीनामिति // “शमस्तमुर्दमुरथ श्रमुर्धमुरपि क्षमुः। क्लममंदी चेत्येतेऽष्टौ शमादयः” इति स्थितिः / दमु उपशमे इति // ननु शमु दमु उपशमे इत्येव पठितु युक्तमित्यत आह / उपशम इति ण्यन्तस्येति // शमधातोर्हेतुमण्ण्यन्तात् घनि 'नोदात्तोपदेशस्य' इति वद्ध्यभाव इत्यर्थः / ततः किमित्यत आह / तेनति // ततश्च दाम्यतीत्यत्यस्य शमयतीत्यर्थः / शेषं भ्वादिवदिति // आर्धधातुकेषु शप्पक्षे च भ्वादिवदित्यर्थः / क्षमू सहने / ऊदित्त्वात् थलि वमादौ च इविकल्पः / तदाह / चक्षमिथेत्यादि // षित्त्वाषित्त्वयोः फलभेदं श्लोकार्थेन सङ्ग्रह्णाति / अषितः इति // अषितः क्षाम्यतेः श्यन्विकरणपठितस्य क्षमधातोः क्तिनि क्षान्तिः इति रूपम् / अषित्त्वात् ‘षिद्भिदादिभ्यः' इत्यङ् न / क्षमूषस्तु भौवादिकात् षितः आत्मनेपदे शपि क्षमते इति रूपम् / क्तिनं बाधित्वा षित्त्वादङि क्षमेति रूपञ्चेत्यर्थः / लमु ग्लानौ / नन्वस्य शमादिगणात् बहिरेव दिवादिगणे पाठोऽस्तु / नच 'शमामष्टानाम्' इति दीर्घार्थ शमादिगणे अस्य पाठ इति वाच्यम् / ‘ष्ठिवुक्लम्वाचमां शिति' इत्येव शपि परे इव श्यनि परेऽपि दीर्घसिद्धेः / नच 'ष्टिवुलम्वाचमां शिति' इत्यत्रैव क्लमुग्रहणं त्यज्यतामिति वाच्यम् / शपि For Private And Personal Use Only
Page #248
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 246 सिद्धान्तकौमुदीसहिता [दिवादि क्लमु 1208 ग्लानौ / क्लाम्यति--क्लामति / शपीव श्यन्यपि 'ष्ठिवुक्ला(सू 2320) इत्येव दीर्धे सिद्धे शमादिपाठो घिनुणर्थः / अङ् / अक्लमत् / मदी 1209 हर्षे / माद्यति / अमदत् / शमादयोऽष्टौ गताः / असु 1210 क्षेपणे / अस्यति / आस / असिता / 2520 / अस्यतेस्थुक् / (7-4-17) अडि परे / आस्थत् / अस्य पुषादित्वादङि सिद्धे ‘अस्यतिवक्ति-' (सू 2438) इति वचनं तङर्थम् / तङ तु, 'उपसर्गादस्यत्यूह्योः' इति वक्ष्यते / पर्यास्थत / यसु 1211 प्रयत्ने / 2521 / यसोऽनुपसर्गात् / (3-1-71) 2522 / संयसश्च / (3-1-72) श्यन्वा स्यात् / यस्यति-यसति / संयस्यति--संयसति / 'अनुपसत्' किम् / प्रयस्यति / जसु 1212 मोक्षणे / जस्यति / तसु 1213 उपक्षये / दसु 1214 च / तस्यति / अतसत् / दस्यति / अदसत् / वसु 1215 स्तम्भे / वस्यति / ववास / ववसतुः / 'न शसदद- (सू 2263) इति निषेधः / बशादिरयमिति मते तु, बेसतुः / बेसुः / व्युष 1216 विभागे / दीर्घान्तस्यावश्यकत्वादित्याशङ्कय परिहरति / शपीव श्यन्यपीत्यादि घिनणर्थः इत्यन्तम् // 'शमित्यष्टाभ्यो घिनुण्' इति विधानादिति भावः / शमादयः इति // 'शमु उपशमे' इत्यारभ्य 'मदी हर्षे' इत्यन्ता अष्टौ शमादयो वृत्ता इत्यर्थः / असु क्षेपणे / अस्यतेस्थुक् // शेषं पूरयति / अङि परे इति // 'ऋदृशोऽडिः' इत्यतस्तदनुवृत्तेरिति भावः / थुकि ककार इत् उकार उच्चारणार्थः कित्त्वादस्धातोरन्त्यावयवः / ननु पुषादित्वादेवास्यतेश्च्लेरडि सिद्धे ‘अस्यतिवक्तिख्यातिभ्योऽ' इत्यत्र अस्यतिग्रहणं व्यर्थमित्याशङ्कय निराकरोति / अस्य पुषादित्वादिति // तङर्थमिति // पर्यास्थतेत्यत्र आत्मनेपदे अर्थमस्यति. वक्तीत्यत्र अस्यतिग्रहणमित्यर्थः / पुषाद्यङः परस्मैपदमात्रविषयतया आत्मनेपदे अप्रसक्तेरिति भावः / नन्वस्यतेः केवलपरस्मैपदित्वादात्मनेपदं दुर्लभमित्यत आह / तङ्तु उपसर्गादिति // वक्ष्यते इति // पदव्यवस्थायामिति शेषः / यसु प्रयत्ने / यसोऽनुपसर्गात्। संयसश्च // सूत्रद्वयमिदम् / श्यन् वा स्यादिति // शेषपूरणम् / 'दिवादिभ्यः श्यन्' इत्यतः ‘वा भ्राश' इत्यतश्च तदनुवृत्तेरिति भावः / अनुपसर्गाद्यस: श्यन् वा स्यादिति प्रथमसूत्रार्थः / सोपसर्गात्तु नित्य एव श्यन् अनुपसर्गादिति पर्युदासात् / सम्पूर्वात् यसेर्नित्यमेव For Private And Personal Use Only
Page #249
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा। 247 अयं दाहे पठित: / अर्थभेदेन त्वर्थ पुन: पठ्यते / अव्युषत् / ओष्ठयादिर्दन्त्यान्त्योऽयम् ‘व्युसति' इत्यन्ये / अयकार: ‘बुस' इत्यपरे / प्लुष 1217 दाहे / अप्लुषत् / पूर्वत्र पाठः सिजर्थ इत्याहुः / तद्भादिपाठेन गतार्थमिति सुवचम् / विस 1218 प्रेरणे / विस्यति / अविसत् / कुस 1219 संश्लेषणे / अकुसत् / वुस 1220 उत्सर्गे। मुस 1221 खण्डने / मसी 1222 परिणामे / परिणामो विकारः / समी' इत्येके / लुठ 1223 विलोडने / उच 1224 समवाये / उच्यति / उवोच / ऊचतुः / मा भवानुचत् / भृशु 1225 भ्रंशु 1226 अध:पतने / बभर्श। अभृशत् / अनिदिताम्--' (सू 485) इति नलोप: / भ्रश्यति / अभ्रंशत् / वृश 1227 वरणे / वृश्यति / अवृशत् / कृश 1228 तनूकरणे। कृश्यति / बि तृषा 1229 पिपासायाम् / हृष 1230 तुष्टौ / श्यन्नडौ भौवादिकाद्विशेष: / रुष 1231 रिष 1232 हिंसायाम् / ‘तीषसह--' (सू 2340) इति वेट् / रोषिता--रोष्टा / रेषिता-- रेष्टा / डिप 1233 क्षेपे / कुप 1234 क्रोधे / गुप 1235 व्याकुलत्वे / युप 1236 रुप 1237 लुप 1238 विमोहने / युप्यति / रुप्यति / लु श्यनः प्राप्तौ द्वितीयसूत्रम् / व्युष विभागे / अयमिति // दिवादिगण एव पुषादिभ्यः प्रागयं धातुः पठित इत्यर्थः / पौनरुक्त्यमाशङ्कय आह / अर्थभेदेन त्वर्थ पुनः पठ्यते इति // विभागात्मके अर्थविशेषे एव पुषाद्यर्थमिह पुनः पाठ इत्यर्थः / अव्युषदिति // 'व्युष दाहे' इति पूर्व पठितस्य तु सिजेव / अव्योषीत् / ओष्ट्यादिरिति // दन्त्योष्ठ्यादिदन्त्योष्मान्तोऽयमिति केचिन्मन्यन्ते इत्यर्थः / अयकारः इति // दन्तोष्ठयादिर्दन्त्योष्मान्तो यो धातुरुक्तः स एवायं यकाररहित इत्यन्ये मन्यन्ते इत्यर्थः / अयकारमिति पाठे क्रियाविशेषणम् / प्लुष दाहे / ननु दिवादिगणे परस्मैपदिषु पुषादिभ्यः प्राक् अस्य पाठः क्वचि. दृश्यते। तत्र पौनरुक्त्यशङ्कां परिहरति / पूर्वत्र पाठस्सिजर्थः इति // पुषादावेव पाठे सति अडेव श्रूयेत नतु सिच् / पुषादेः प्रागपि पाठे तु तस्य अङभावात् सिच् श्रूयेत / तथाच सिचः कदा चित् श्रवणार्थः पूर्व पाठ इत्यर्थः। आहुरित्यस्वरसोद्भावनम् / तद्बीजं दर्शयति / तशादीति // तत् दिवादिगणे पुषादिभ्यः पूर्वमस्य पठनं भ्वादिपाठेनैव सम्पन्नप्रयोजकमिति सुष्टु वक्तुं शक्यमित्यर्थः / एवञ्च भ्वादिपाठात् शब्विकरण: लुङि सिच: श्रवणञ्च सिद्धयति / पुषादौ पाठात्तु श्यन्विकरण: अङ् च सिध्यति / अतः दिवादिगणे पुषादिभ्यः प्रागस्य पाठो व्यर्थ एवेति भावः। एतदेवाभिप्रेत्य मूले दिवादिगणे पुषादिगणात् प्राक प्लुष दाहे इति न पठितमिति बोध्यम् / मसी परिणामे इति // ईदित्त्वं 'श्वीदितः' इत्येतदर्थम् / मस्यति / समी इत्येके इति // सम्यति। भृशु भ्रंशु अधःपतने। द्वितीयधातोराह / अनिदितामिति // युप रुप लुप विमोहने इति // धातुवृत्त्यादिविरोधा For Private And Personal Use Only
Page #250
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 248 सिद्धान्तकौमुदीसहिता [दिवादि प्यति / लोपिता / लुप्यतिः सेटः / अनिट्टारिकासु लिपिसाहचर्यात्तौदादिकस्यैव ग्रहणात् / लुभ 1239 गायें / गाय॑माकाङ्क्षा / 'तीषसह -' (सू 2340) इति वेट् / लोभिता--लोब्धा। लोभिष्यति / लुभ्येत् / लुभ्यात् / अलुभत् / भ्वादेरवृत्कृतत्वाल्लोभतीत्यपीत्याहुः / क्षुभ 1240 सञ्चलने / क्षुभ्यति / णम 1241 तुभ 2242 हिंसायाम् / क्षुभिनभितुभयो गुतादौ क्रयादौ च पठ्यन्ते / तेषां द्युतादित्वादङ् सिद्धः / क्रयादित्वात्पक्षे सिज्भवयेव / इह पाठस्तु श्यन्नर्थः / क्लिदू 1243 आभावे / क्लिद्यति / चिक्लेदिथ-- चिक्लेत्थ / चिक्लिदिव-चिक्लिद्व / चिक्लिदिम-चिक्लिद्म / क्लेदिता-क्लेत्ता / त्रि मिदा 1244 स्नेहने / 'मिदेर्गुणः' (सू 2346) / मेद्यति / अमिदत् / द्युतादिपाठादेव अमिदत अमेदिष्टेति सिद्धे इह पाठः अमेदीदिति मा भूदिति / द्युतादिभ्यो बहिरेवात्मनेपदिषु पाठस्तूचितः / मि क्ष्विदा 1245 स्नेहनमोचनयोः / ऋधु 1246 वृद्धौ / आनर्ध / आर्धत् / गृधु 1247 अभिकाङ्क्षायाम् / अगृधत् / वृत् / पुषादयो दिवादयश्च वृत्ताः / केचित्तु पुषादिसमाप्त्यर्थमेव वृत्करणम् / दिवादिस्तु भ्वादिवदाकृतिगणः / तेन क्षीयते मृग्यतीत्यादि सिद्धिरित्याहुः / इति तिङन्तदिवादिप्रकरणम् / दुदित्पाठो लेखकप्रमादादायातः। इह पाठस्त्विति // क्षुभिनभितुभीनां इह दिवादिगणे पाठस्य श्यनेव प्रयोजनमित्यर्थः / वस्तुतस्तु पुषादेः प्रागेव एषान्त्रयाणम्पाटो युक्तमिति भावः / वि मिदा स्नेहने / अमिददिति // ननु भ्वाद्यन्तर्गणे द्युतादौ 'जि मिदा स्नेहने' इत्यात्मनेपदिषु पठितो लुङि तु 'द्युझ्यो लुङि' इत्यत्र परस्मैपदविकल्पः उक्तः। द्युताद्या तु परस्मैपद एव न तु तङि / एवञ्च द्युतादिपाठादेव परस्मैपदपक्षे अङि अमिददिति तडि तु अडभावे अमेदिष्टेति सिद्धम् / तथाच पुषादावस्य पाठो व्यर्थः / तद्बहिर्दिवादौ पाठादेव श्यन्सिद्धरित्याशङ्कयते / द्युतादिपाठादेवेत्यादि सिद्धे इत्यन्तेन // तामिमां शङ्काम्परि. हरति / इह पाठः अमेदीदिति मा भूदितीति // पुषादावस्य पाठ: अमेदीदिति व्यावत्यर्थ इत्यर्थः / पुषादिभ्यः प्रागेव दिवादावस्य पाठे तु तस्माल्लुङि अडसम्भवादमेदीदिति स्यादिति भावः / नन्वेवं सति भ्वाद्यन्तर्गणे द्युतादावस्य पाठो व्यर्थः / द्युतादिभ्यो बहिरेवात्मनेपदिषु पठ्यताम् / एवञ्च अमेदिष्टेति सिद्धम् / इह पुषादौ पाठात्तु अमिददिति सिद्धमित्याशङ्कयेष्टापत्त्या परिहरति / द्युतादिभ्यो बहिरेवात्मनेपदेषु पाठस्तूचितः इति // * सूचितः इति पाठे तु सुतरामुचित इति व्याख्येयम् / अिष्विदेत्यादि व्यक्तम् // इति श्रीवासुदेवदीक्षितविदुषा विरचितायां सिद्धान्तकौमुदीव्याख्यायां बालमनोरमायां श्यन्विकरणं समाप्तम् / For Private And Personal Use Only
Page #251
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // अथ तिङन्तस्वादिप्रकरणम् // पुत्र 1248 अभिषवे / अभिषवः स्नपनं पीडनं स्नानं सुरासन्धानं च / तव स्नाने अकर्मकः / 2523 / स्वादिभ्यः इनुः / (3-1-73) सुनोति / सुनुतः / 'हुश्नुवो:-' (सू 2387) इति यण् / सुन्वन्ति / सुन्व:--सुनुवः / सुन्वहे-सुनुवहे / सुषाव / सुषुवे / सोता / सुनु / सुनवानि / सुनवै / सुनुयात् / सूयात् / 'स्तुसुधूभ्य:--' (सू 2385) इतीट् / ___ अथ इनुविकरणा धातवो निरूप्यन्ते / षुधातुष्षोपदेशः / अनिट् / इत आरभ्य जिक्त्वादुभयपदिनः / सुरासन्धानमिति // सुरोत्पादनमित्यर्थः / स्वादिभ्यः श्नुः // कर्थे सार्वधातुके स्वादिभ्यः इनुः स्यादित्यर्थः / शपोऽपवादः / सुनोतीति // लटस्तिपि ३नुः शकार इत् शित्त्वेन सार्वधातुकत्वात् 'सार्वधातुकमपित्' इति ङित्त्वात्तस्मिन् परे धातोर्न गुणः / श्नोस्तु तिपमाश्रित्य गुण इति भावः / सुनुतः इति // तसो डित्त्वात् श्नोर्न गुण इति भावः / सुनु अन्ति इति स्थिते 'अचि इनुधातु' इति उवङमाशय आह / हुश्नुवोरिति // सुनोषि / सुनुथः / सुनुथ / सुनोमि / वसि मसि च 'लोपश्चास्यान्यतरस्यां म्वोः' इत्युकारलोपविकल्पं मत्वा आह / सुन्वः-सुनुवः इति // सुन्मः-सुनुमः इत्यपि ज्ञेयम् / अथ लटस्तडि सुनते / सुन्वाते। सुन्वते / सुनुषे। सुन्वाथे। सुनुध्वे / सुन्वे / इति सिद्धवत्कृत्य आह / सुन्वहे-सुनुवहे इति // ‘लोपश्चास्य' इत्युकारलोपविकल्प इति भावः / सुन्महे-सुनुमहे इत्यपि ज्ञेयम् / सुषावेति // सुषुवतुः / सुषुवुः / सुषविथ-सुषोथ / सुषुवथुः / सुषुव / सुषाव-सुषव / सुषुविव / सुषुविम / अथ लिटस्तड्याह / सुषुवे इति // सुषुवात / सुषुविरे / सुषुविषे। सुषुवाथे / सुषुविध्वे / सुषुवे / सुषुविवहे / सुषुविमहे / सोतेति // अनिट्वसूचनमिदम् / सोध्यति / सोध्यते / सुनोतु-सुनुतात् / सुनुताम् / सुन्वन्तु / इति सिद्धवत्कृत्य आह / सुनु इति // 'उतश्च प्रत्ययात्' इति हेर्लुक् / सुनुतात् / सुनुतम् / सुनुत / सुनवानीति // 'हुश्नुवोः' इति यणम्बाधित्वा परत्वाद्गुणः / आटः पित्त्वेन अडित्त्वादिति भावः। सुनवाव / सुनवाम / लोटस्तङि सुनुताम् / सुन्वाताम् / सुन्वताम् / सुनुव / सुन्वाथाम् / सुनुध्वम् / इति सिद्धवत्कृत्य आह / सुनवै इति // 'हुश्नुवोः' इति यणम्बाधित्वा परत्वात् गुणः। आटः पित्त्वेन ङित्त्वाभावादिति भावः। सुनवावहै / सुनवामहै / असुनोत् / असुनुताम् / असुन्वन् / असुनोः। असुनवम् / असुनुव / असुन्व। असुनुत। असुन्वाताम् / असुन्वत / इत्यायुधम् / विधिलिङ्याह / सुनुयादिति // यासुटो ङित्त्वात् श्रोन गुण इति 32 For Private And Personal Use Only
Page #252
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 250 सिद्धान्तकौमुदीसहिता [स्वादि असावीत् / असोष्ट / अभिपुणोति / अभ्यषुणोत् / अभिसुषाव / 2524 / सुनोतेः स्यसनोः / (8-3-117) स्ये सनि च परे सुञः षो न स्यात् / विसोष्यति / षिञ् 1249 बन्धने / सिनोति / विसिनोति / सिषाय / सिष्ये / सेता / शिन् 1250 निशाने / तालव्यादिः / शेता। डु मिञ् 1251 प्रक्षेपणे / 'मीनातिमिनोति-' (सू 2508) इत्यात्त्वम् / ममौ / ममिथ--ममाथ / मिम्ये / भावः / सूयादिति // आशीर्लडि 'अकृत्सार्वधातुकयोः' इति दीर्घ इति भावः / सोषीष्ट / लुडि परस्मैपदे सिचः इनिषेधे प्राप्ते आह / स्तुसुधूभ्यः इति इडिति // असाविष्टामित्यादि / लुङस्तङ्याह / असोष्टेति // असोषातामित्यादि / असोध्यत् / असोध्यत / 'उपसर्गात् सुनोति' इति षत्वम्मत्वा आह / अभिषुणोतीति // षात्परत्वाण्णत्वम् / अभ्यषुणोदिति // ‘प्राक् सितादड्व्यवायेऽपि' इति षत्वम् / अभिसुषावेति // 'स्थादिष्वभ्यासेन' इत्युत्तरखण्डस्य षः / सुनोतेः स्यसनोः // 'अपदान्तस्य मूर्द्धन्यः' इत्यधिकृतम् / 'न रपर' इत्यतो नेत्यनुवर्तते / तदाह / षो न स्यादिति // स्ये उदाहरति / विसोष्यतीति // अत्र ‘उपसर्गात् सुनोति' इति प्राप्तः षो न भवति / सनि तु अभिसुसूरित्युदाहरणम् / षुञः सनि द्वित्वे अभिसुसुस इति सनन्तात् विपि अतो लोपे अभिसुसुस् इत्यस्मात् सोर्हल्ङ्यादिलोपे सस्य रुत्वे 'वोरुपधायाः' इति दीर्घ रेफस्य विसर्गः। सुसूषते इति तु नोदाहरणम् / 'स्तौतिण्योरेव षण्यभ्यासात्' इति नियमादेव षत्वाभावसिद्धरित्यलम् / षिञ् बन्धने इति // षोपदेशः अनिट् च / पुत्र इव रूपाणि / विसिनोतीति // 'सात्पदायोः' इति षत्वनिषेधः / ' उपसर्गात्सुनोति' इति तु न षः / सुनोत्यादिष्वनन्तर्भावादिति भावः / सिषायेति // णलि वृद्धौ आयादेशः / अतुसादौ ‘एरनेकाचः' इति यण् / सिष्यतुरित्यादि / लिटस्तड्याह / सिष्ये इति // सिषि ए इति स्थिते ‘एरनेकाचः' इति यणिति भावः / सिष्याते / सिध्यिरे। इत्यादि। असैषीत् / शिज निशाने इति // षिञ्चत् / डुमिञ् प्रक्षेपणे इति // मिनोति / उपदेशे एजन्तत्वाभावादात्त्वे अप्राप्ते आह / मीनातिमि नोतीत्यात्त्वमिति // एज्विषये अशितीति शेषः / ममाविति // आत्त्वे कृते णल: औत्वमिति भावः / अतुसादावेविषयत्वाभावानात्त्वम् / ‘एरनेकाचः' इति यण् / मिम्यतुः / मिम्युः / भारद्वाजनियमात्थलि वेडिति मत्वा आह / ममिथ-ममाथेति // थल: पित्त्वेन अकित्त्वादेविषयत्वम् / इट्पक्षे 'आतो लोपः' इति भावः। मिम्यथुः / मिम्य / ममौ / मिम्यिव / मिम्यिम। लिटस्तङ्याह / मिम्ये इति // एश आदिशित्त्वाभावात् कित्त्वेन एविषयत्वाभावाच नात्त्वमिति भावः / मिम्याते। मिम्यिरे। मिम्यिषे। मिम्याथे। मिम्यिध्वे / मिम्ये / मिम्यिवहे / मिम्यिमहे / मातेति // एज्विषयत्वादशित्त्वाच्च आत्त्वमिति भावः / मास्यति / मास्यते / सार्वधातुकेषु घुञ्चत् / मीयादिति // आशीर्लिडि परस्मैपदे यासुटः For Private And Personal Use Only
Page #253
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम] बालमनोरमा। 251 माता / मीयात् / मासीष्ट / अमासीत् / अमासिष्टाम् / अमास्त / चिञ् 1252 चयने / प्रणिचिनोति / ___ 2525 / विभाषा चेः / (7-3-58) अभ्यासात्परस्य चित्रः कुत्वं वा स्यात्सनि लिटि च / प्रणिचिकायचिचाय / चिक्ये--चिच्ये / अचैषीत् / अचेष्ट / स्तृञ् 1253 आच्छादने / स्तृणोति / स्तृणुते / ‘गुणोऽति-' (सू 2380) इति गुणः / स्तर्यात् / 2526 / ऋतश्च संयोगादेः। (7-2-43) ऋदन्तात्संयोगादेः परयोलिङ्सिचोरिडास्यात्तङि / स्तरिषीष्ट--स्तृषीष्ट / अस्तरिष्ट--अस्तृत / कृञ् 1254 हिंसायाम् / कृणोति / कृणुते / चकार / चकर्थ / चक्रे / क्रियात् / कृषीष्ट / अकार्षीत् / अकृत / वृञ् 1255 वरणे / कित्त्वादेविषयत्वाभावादात्त्वाभावे ‘अकृत्सार्व' इति दीर्घ इति भावः। आशीर्लिङि तडि आह / मासीष्टेति // एज्विषयत्वादात्त्वमिति भावः / लुडि परस्मैपदे सिचि आत्त्वे 'यमरम' इति सगिटी मत्वा आह / अमासीदिति // सकि सिच इटि सिज्लोपः / अमास्तेति // लडि तडि सिचि आत्त्वमिति भावः / अमासाताम् / अमासत इत्यादि / चिज् चयने इति // चयनं रचना / अनिट् / सार्वधातुके घुञ्चद्रूपाणि / प्रणिचिनोतीति // ‘नेर्गद' इति णत्वमिति भावः / विभाषा चेः॥ 'चजोः कु घिण्ण्यतोः' इत्यतः कुग्रहणमनुवर्तते / ‘अभ्यासाच्च' इत्यतः अभ्यासादिति / 'सन्लिटोर्जेः' इत्यतः सन्लिटोरिति च / तदाह / अभ्यासादित्यादिना / स्तृञ् आच्छादने इति // अनिट् / लिटि तस्तार / अतुसादौ ‘ऋतश्च संयोगादेर्गुणः' इति गुणः / बृद्धिविषये तु नास्य प्रवृत्तिः / तस्तरतुः / ऋदन्तत्वात्थल्यपि नित्यं नेट् / तस्तथ / तस्तरिव / तस्तरे / तस्तराते / तस्तरिरे / तस्तरिषे / तस्तरिवहे / स्तर्ता / 'ऋद्धनोः स्य' स्तरिष्यति / आशीर्लिङि परस्मैपदे यासुट: कित्त्वाद्गुणनिषेधे प्राप्ते आह / गुणोऽर्तीति गुणः इति // तङि आशीलिङि स्तृ षीष्ट इति स्थिते। ऋतश्च संयोगादेः // ‘लिङ्सिचोरात्मनेपदेषु' इत्यनुवर्तते / 'इट् सनि वा' इत्यतः इड्डेति / तदाह / ऋदन्तादित्यादिना // लुङि परस्मैपदे अस्तार्षीत् / लुङस्तङि त्वाह / अस्तरिष्ट-अस्तृतेति // 'ऋतश्च संयोगादेः' इति इट्पक्षे गुणः / इडभावपक्षे तु ' हूस्वादशात् ' इति सिचो लोपः / कृञ् हिंसायाम् / चकर्थेति // ‘कृसृभृवृ' इति थल्यपि नित्यमिनिषेधः / चकृव / क्रियादिति // आशीलिडि 'रिङ् शयग्लिङ्यु' इति रिङ् / कृषीष्टेति // ' उश्च' इति कित्त्वान्न गुणः / अकार्षीदिति // सिचि वृद्धिः रपरत्वम् / अकृतेति // 'स्वादङ्गात् ' इति सिचो लोपः / वृञ् वरणे / सेट् / For Private And Personal Use Only
Page #254
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 252 सिद्धान्तकौमुदीसहिता [स्वादि 2527 / बभूथाततन्थजगृभ्मववर्थेति निगमे / (7-2-64) एषां वेदे इडभावो निपात्यते / तेन भाषायां थलीट् / ववरिथ / ववृव / ववृवहे / वरिता-वरीता। 2528 / लिङ्सिचोरात्मनेपदेषु / (7-2-42) वृभ्यामृदन्ताच्च परयोलिङ्सिचोरिड्वा स्यात्तङि / . 2529 / न लिङि / (7-2-39) वृतो लिङ इटो दीर्घो न स्यात् / वरिषष्टि-वृषीष्ट / अवारीत् / अवरिष्ट-अवरीष्ट-अवृत / धुञ् 1256 कम्पने / धुनोति / धुनुते / अधौषीत् / अधोष्यत् / दीर्घान्तोऽप्ययम् / धूनोति / धूनुते / ‘स्वरतिसूति-' (सू 2279) इति वेट् / दुधविथ-दुधोथ / किति लिटि तु 'श्रयुक:-' (सू 2381) इति निषेधं बाधित्वा क्रादिनियमान्नित्यमिट् / दुधुविव / 'स्तुसुधूभ्यः -' (सू 2385) इति नित्यमिट / अधावीत् / अधविष्ट-अधोष्ट / अथ परस्मैपदिनः / टु दु 1257 उपतापे / दुनोति / हि 1258 गतौ वृद्धौ च / ववार / वत्रुः / बभूथाततन्थ // निगमो वेदः / तदाह / एषां वेदे इति // ननु 'कृसभृवृ' इति निषेधादेव थलि ववर्थेति सिद्ध किमर्थं ववर्थग्रहणमित्यत आह / तेन भाषायां थलीडिति // निगम एव वृणोतेस्थलि इनिषेध इति नियमलाभादिति भावः / वत्रे / वाते। ववृषे / 'वृतो वा' इति मत्वा आह / वरिता-वरीतेति // लिङ्सिचोः॥ 'इट् सनि वा' इत्यतः इड्वा इत्यनुवर्तते / 'वृतो वा' इत्यतो वृत इति / तदाह / वृवृ. अभ्यामित्यादिना // न लिङि // ‘वृतो वा' इत्यतो वृत इत्यनुवर्तते। लिङीति षष्ठ्यर्थे सप्तमी / 'आर्धधातुकस्येट्' इत्यतः इडित्यनुवृत्तं षष्ठया विपरिणम्यते / 'ग्रहोऽलिटि' इत्यतो दीर्घ इत्यनुवर्तते / तदाह / वृतः इति // वृष्भ्यामृकाराचेत्यर्थः / वरिषीष्टेति // इट्पक्षे 'वृतो वा' इति प्राप्तो दीर्घो न भवति। वृषीष्टेति // इडभावपक्षे 'उश्च' इति कित्त्वान्न गुणः / अवारीदिति // लुङि परस्मैपदे सिचि वृद्धिः / अवारिष्टाम् / अवारिषुः / 'सिचि च परस्मैपदेषु' इति निषेधादिह 'वृतो वा' इति न दीर्घः / लुङस्तङि सिचि ‘लिङ्सिचोः' इति इट्पक्षे ' वृतो वा' इति दीर्घविकल्पं मत्वा आह / अवरिष्ट-अवरीष्टेति / अवृ. तेति // इडभावपक्षे ' स्वादशात् ' इति सिचो लोपः / धुज् कम्पने इति // ह्रस्वान्तोऽयमनिट् / षुञ इव रूपाणि / दीर्घान्तोऽप्ययमित्यादि व्यक्तम् / अथ परस्मैपदिनः इति // राध साध संसिद्धावित्येतत्पर्यन्ता इत्यर्थः। 'टु दु उपतापे' इत्यारभ्य 'स्मृ इत्येके' इत्येतत्पर्यन्ता धातवो ह्स्वान्ताः। हि गताविति // प्रहिणोतीत्यत्र भिन्नपदत्वात् णत्वे प्राप्ते आह / हिनु For Private And Personal Use Only
Page #255
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा / 253 253 2530 / हिनुमीना / (8-4-15) उपसर्गस्थान्निमित्तात्परस्य एतयोर्नस्य णः स्यात् / प्रहिणोति / 2531 / हेरचङि / (7-3-56) अभ्यासात्परस्य हिनोतेर्हस्य कुत्वं स्यान्न तु चङि / जिघाय / पृ 1259 प्रीतौ / पृणोति / पर्ता / स्पृ 1260 प्रीतिपालनयोः / 'प्रीतिचलनयोः' इत्यन्ये / 'चलनं जीवनम्' / इति स्वामी / स्पृणोति / पस्पार / 'स्मृ' इत्येके / स्मृणोति / पृणोत्यादयस्त्रयोऽपि छान्दसा इत्याहुः / आप्ल. 1261 व्याप्तौ / आप्नोति / आप्नुतुः / आप्नुवन्ति / आप्नुवः / आप्ता / आप्नुहि / लदित्त्वादङ / आपत् / शक्ल. 1262 शक्तौ / अशकत् / राध 1263 साध 1264 संसिद्धौ / रानोति / 2532 / राधो हिंसायाम् / (6-4-123) एत्त्वाभ्यासलोपौ स्तः किति लिटि सेटि थलि च / अपरेधतुः / रेधुः / रेधिथ / राद्धा / सानोति / साधा / असात्सीत् / असाद्धाम् / अथ द्वावनुदात्तेतौ / अशू 1265 व्याप्तौ सङ्घाते च / अश्नुते / मीना // हिनु मीना अनयोर्द्वन्द्वात्षष्ठीद्विवचनस्य आ| लुक् / 'रषाभ्यानो णः' इत्यनुवर्तते / 'उपसर्गादसमासेऽपि' इत्यत उपसर्गादिति च / तदाह / उपसर्गस्थादिति // हेरचङि॥ 'चजोः' इति सूत्रात् कुग्रहणमनुवर्तते / ‘अभ्यासाच्च' इत्यतः। अभ्यासादिति // ‘हो हन्तेः' इत्यतः ह इति षष्ठ्यन्तमनुवर्तते / तदाह / अभ्यासात्परस्येति // जिघायेति // जिध्यतुः / जिघयिथ-जिघेथ / जिध्यिव / आप्ल व्याप्तौ। अनिट् / आप्नुवन्तीति // संयोगपूर्वकत्वात् 'हुश्नुवोः' इति न यण् / आन्पुवः इति // संयोगपूर्वकत्वात् 'उतश्चप्रत्ययात् ' इति नोकारलोपविकल्पः / आप्नुहीति // सयोगपूर्वकत्वादेव 'उतश्च प्रत्ययात् ' इति हेर्न लुक् / शक्ल शक्ताविति // शक्नोति / शशाक / शेकतुः / शशक्थ-शेकिथ / शेकिव / शक्ता / शक्ष्यति / अशकदिति // लदित्त्वादङ् / राध साध संसिद्धौ / अनिटौ / दीर्घाकारवत्त्वात् 'अत एकहल्' इत्यप्राप्तावाह / राधो हिंसायाम् // 'ध्वसोः' इत्यतः एदिति अभ्यासलोप इति च अनुवर्तते / ‘गमहन' इत्यतः कितीति / 'अत एकहल्मध्ये' इत्यतः लिटीति ‘थलि च सेटि' इति च सूत्रमनुवर्तते / तदाह / एत्त्वेत्यादिना / अपरेधतुरिति // उपसर्गवशादिह हिंसायां वृत्तिः / अन्यत्र रराधतुः / थल्यपि क्रादिनियमान्नित्यमिट् / 'उपदेशेऽत्वतः' इत्यत्र तपरकरणादिह नेनिषेधः / तदाह / रेधिथेति / राद्धेति // 'झषस्तथोः' इति धः / अशू व्याप्ताविति // ऊदित्त्वाद्वेट् / अश्नुते इति // अश्नुवाते / For Private And Personal Use Only
Page #256
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्वादि 254 सिद्धान्तकौमुदीसहिता 2533 / अश्नोतेश्च / (7-4-72) दीर्घादभ्यासादवर्णात्परस्य नुट् स्यात् / आनशे / अशिता-अष्टा / अशिष्यते--अक्ष्यते / अश्नुवीत / अक्षीष्ट-अशिषीष्ट / आशिष्ट-आष्ट / आक्षाताम् / ष्टिघ 1266 आस्कन्दने / स्तिघ्नुते / तिष्टिघे / स्तेषिता / अथ आ गणान्तात्परस्मैपदिनः / तिक 1267 तिग 1268 गतौ च / चादास्कन्दने / तिनोति / तिग्नोति / षघ 1269 हिंसायाम् / सघ्नोति / त्रि धृषा 1270 प्रागल्भ्ये / धृष्णोति / दधर्ष / धर्षिता / दम्भु 1271 दम्भने / दम्भनं दम्भः / दश्नोति / ददम्भ / श्रन्थिग्रन्थिदम्भिस्व जीनां लिट: कित्त्वं वा' इति व्याकरणान्तरमिहाप्याश्रीयत इत्युक्तम् / 'अनिदिताम्-' (सू 415) इति नलोपः / तस्याभीयत्वादसिद्धत्वेन एत्त्वाभ्यासलोपयोरप्राप्तौ 'दम्भेश्च एत्त्वाभ्यासलोपौ वक्तव्यौ' (वा 4153) देभतुः / ददम्भतुः / इदं कित्त्वं पिदपिद्विषयकमिति सुधाकरादयः / तन्मते तिप्सिप्मिप्सु / देभ / देभिथ / 'देभ' इति रूपान्तरं बोध्यम् / अपिद्विषयकमिति न्यासकारादिमते तु, ददम्भ / ददम्भिथ / ददम्भेत्येव / दभ्यात् / ऋधु 1272 वृद्धौ / 'तृप प्रीणने' इत्येके / क्षुभ्नादित्वाण्णत्वं न / तृप्नोति / 'छन्दसि' (गण 197) आगणान्तादधिकारोऽयम् / अह 1273 व्याप्तौ / अह्नोति / दध 1274 घातने पालने च / दध्नोति / चमु 1275 भक्षणे / अश्नुवते / संयोगपूर्वकत्वात् 'हुश्नुवोः' इति न यण / अश्नोतेश्च // 'अत्र लोपः' इत्यतः अभ्यासस्येत्यनुवर्तते / तस्मान्नुट्' इति च / तच्छब्देन ' अत आदेः' इति कृतदीर्घ आकारः परामृश्यते / तदाह / दीर्घादिति / आनशे इति // आनशिषे / आनक्षे / आनशिवहे। आनश्वहे / अष्टेति // वश्चादिना शस्य षत्वे श्रुत्वम् / विधिलिङयाह / अश्नुवीतेति // आशीलिङि ऊदित्त्वादिडिकल्पं मत्वा आह / अक्षीष्ट-अशिषीष्टेति // लुङि सिच इट्पक्षे आह / आशिष्टेति // अनिट्पक्षे 'झलो झलि' इति सिचो लोपं मत्वा आह / आष्टेति // टिघधातुष्षो. पदेशः / सेट् / आ गणान्तादिति // स्वादिगणसमाप्तिपर्यन्तमित्यर्थः / इत्युक्तमिति // कित्त्वपक्षे आह / अनिदितामिति नलोपः इति // नन्वनिदितामिति नलोपे सति ‘अत एकहल्मध्ये' इत्येत्त्वसिद्धेः ‘दम्भेश्च' इति व्यर्थमित्यत आह / तस्याभीयत्वादिति // नलोपत्येत्यर्थः / दभ्यादिति // आशीलिडि 'अनिदिताम्' इति न लोपः / छन्दसीति // गणसूत्रम् / तयाचष्टे / आगणान्तादिति / रि क्षि इति // रिक्षि चिरि जिरि दाश द इति षट् For Private And Personal Use Only
Page #257
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा / 255 चम्नोति / रि 1276 क्षि 1277 चिरि 1278 जिरि 1279 दाश 1280 6 1281 हिंसायाम् / रिणोति / क्षिणोति / अयं भाषायामपी-त्येके / " न तद्यश: शस्त्रभृतां क्षिणोति" ऋक्षीत्येक एवाजादिरित्यन्ये / ऋक्षिणोति / चिरिणोति / जिरिणोति / दानोति / दृणोति / वृत् / इति तिङन्तस्वादिप्रकरणम् / // अथ तिङन्ततुदादिप्रकरणम् // तुद 1282 व्यथने / इत: षट् स्वरितेतः / 2534 / तुदादिभ्यः शः। (3-1-77) तुदति / तुदते / तुतोद / तुतोदिथ / तुतुदे। तोत्ता / अतौत्सीत् / अतुत्त / णुद 1283 प्रेरणे / नुदति / नुदते / नुनोद / नुनुदे / नोत्ता / दिश 1284 अतिसर्जने / अतिसर्जनं दानम् / देष्टा / दिक्षीष्ट / अदिक्षत् / धातवः। आद्यद्वितीयावेकाक्षरौ / तदाह / रिणोति।क्षिणोतीति / अयम्भाषायामपीति // क्षिधातुरित्यर्थः / तत्र प्रयोगं दर्शयति / न तद्यशः इति। वृदिति // स्वादयो वृत्ता इत्यर्थः // इति श्रीवासुदेवदीक्षितविदुषा विरचितायां सिद्धान्तकौमुदी व्याख्यायां बालमनोरमायां इनुविकरणं समाप्तम् / अथ शविकरणा धातवो निरूप्यन्ते। इतष्षडिति // 'ऋषी गतौ' इत्यतः प्रागित्यर्थः / तुदादिभ्यश्शः॥ कर्बर्थे सार्वधातुके परे तुदादिभ्यश्शः स्यात् / स्वार्थे इत्यर्थः / शवपवादः / तुदतीति // लघूपधगुणं बाधित्वा नित्यत्वात् शे कृते तस्य अपित्त्वात् 'सार्वधातुकमपित्' इति हित्त्वान्न गुण इति भावः। अजन्ताकारवत्त्वाभावात् कादिनियमाल्लिटि थल्यपि नित्यमिट्। तदाह / तुतोदिथेति / तोत्तेति // अनिडिति भावः। अतौत्सीदिति॥हलन्तलक्षणा वृद्धिः / णुदधातुर्णोपदेशः / अनिट् / दिशधातुरप्यनिट् / देष्टेति // व्रश्चेति षत्वे तृत्वम् / स्येतु 'षढोः' इति षस्य कत्वञ्च / देश्यति / दिक्षीष्टेति // ‘लिङ्सिचौ' इति कित्त्वान्न गुणः / ‘शल इगुपधात्' इति क्सं मत्वा आह / अदिक्षत् / अदिक्षतेति // 'भ्रस्ज For Private And Personal Use Only
Page #258
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 256 सिद्धान्तकौमुदीसहिता [तुदादि अदिक्षत / भ्रस्ज 1285 पाके / 'अहिज्या-' (सू 2412) इति सम्प्रसारणम् / सस्य श्चुत्वेन शः / शस्य श्चुत्वेन ज: / भृजति-भृजते / 2535 / भ्रस्जो रोपधयो रमन्यतरस्याम् / (6-4-47) भ्रस्जे रेफस्योपधायाश्च स्थाने रमागमो वा स्यादार्धधातुके / मित्त्वादन्त्यादचः परः / स्थानषष्ठीनिर्देशाद्रोपधयोनिवृत्तिः / बभर्ज / बभर्जतुः / बर्भाजथ-बभष्ठं / बभर्जे / रमभावे, बभ्रज / बभ्रज्जतुः / बभ्रजिथ / 'स्को:--' (सू 380) इति सलोपः / 'व्रश्च-' (सू 294) इति षः / बभ्रष्ठ / बभ्रज्ज / भ्रष्टा-भष्ट / भ्रक्ष्यति--भय॑ति / क्ङिति रमागमं बाधि पाके' अनिट् / भ्रस्ज् अति इति स्थिते आह / अहिज्येति // ङित्त्वाद्रेफस्य सम्प्रसारणमृकारः पूर्वरूपश्चेति भावः / भ्रस्ज अ ति इति स्थिते आह / सस्येत्यादि // णलि भ्रस्ज् अ इति स्थिते / भ्रस्जो रोपधयोः॥ भ्रस्ज इत्यवयवषष्टी / रोपधयोरिति स्थानषष्टी। रश्च उपधा च तयोरिति विग्रहः। रेफादकार उच्चारणार्थः। रेफस्य उपधायाश्च स्थाने इति लभ्यते। 'आर्धधातुके' इत्यधिकृतम् / तदाह / भ्रस्जे रेफस्येत्यादिना // रमि मकार इत् अकार उच्चारणार्थः / तदाह / मित्त्वादन्त्यादचः परः इति // तथाच रेफाकारादुपरि सकारात् प्राक् रेफ आगम इति फलितम् / भ्र र स् ज् अ इति स्थितम् / ननु रम आगमत्वे रोपधयोरिति कथं स्थानषष्टीनिर्देश इत्यत आह / स्थानेति // स्थानं प्रसङ्गः / रेफस्य उपधायाश्च उच्चारणप्रसङ्गे सति अकारादुपरि रेफः प्रयोज्यः / भकारादुपरि रेफ: जकारात्प्राक्सकारश्च न प्रयोज्याविति लब्धम् / तथाच तयोनिवृत्तिः फलितेति भावः / एवञ्च भर्ज़ अ इति स्थिते द्वित्वादी रूपमाह / बभर्जेति // अतुसादावपि संयोगात्परत्वात्कित्त्वाभावात् 'अहिज्या' इति सम्प्रसारणन्न भवति / भारद्वाजनियमात्थलि वेडिति मत्वा आह / बभर्जिथ-बभष्ठेति // इडभावपक्षे बभ थ इति स्थिते 'श्व' इति जस्य षः / टुत्वेन थस्य ठ इति भावः। बभर्जिव / लिटस्तयाह / बभर्जे इति // बभर्जाते इत्यादि सुगमम् / रमभावे आह / बभ्रजेति // णलि भ्रस्ज् अ इति स्थिते द्वित्वे हलादिशेषे अभ्यासजश्त्वे बभ्रस्ज् अ इति स्थिते सस्य श्चुत्वेन शकारे शस्य जश्त्वेन जकार इति भावः / 'लिट्यभ्यासस्य ' इति सम्प्रसारणस्य न प्रसक्तिः / अभ्यासे हलादिशेषण रेफाभावात् / बभ्रजतुरिति // संयोगात्परत्वादकित्त्वात् 'ग्रहिज्या' इति न सम्प्रसारणमिति भावः / बभ्रजिथेति // थलि भारद्वाजनियमादिट्पक्षे रमभावपक्षे रूपम् / तत्र इडभावपक्षे बभ्रस्ज थ इति स्थिते आह / स्कोरिति // वश्चेति षः इति // जस्येति शेषः / रमभावपक्षे लिटस्तड्याह। बभ्रज्जेति // बभ्रज्जाते। बभ्रजिषे / इत्यादि सुगमम् / भ्रष्टेति // रमभावपक्षे रूपम् / भष्टेति // रमागमे भर्ज ता इति स्थिते जस्य श्चुत्वेन शः शस्य 'व्रश्च' इति षः ष्टुत्वेन तकारस्य ट इति भावः। एवं भ्रक्ष्यति-भीतीति // षढोः' इति कत्वे सस्य षत्वमिति विशेषः / भृजतु। अभृज्जत् / For Private And Personal Use Only
Page #259
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा / 257 त्वा सम्प्रसारणं पूर्वविप्रतिषेधेन' (वा 4078) / भृज्ज्यात् / भृज्ज्यास्ताम् / भीष्ट-भ्रक्षीष्ट / अभाभत्-अभ्राक्षीत् / अभष्र्ट-अभ्रष्ट। क्षिप 1286 प्रेरणे। क्षिपति / क्षिपते / क्षेप्ता / अझैप्सीत् / अक्षिप्त / कृष 1287 विलेखने / कृष ति / कृषते / क्रष्टा-की / कृष्यात् / कृक्षीष्ट / 'स्पृशमश-' (वा 1823) इति सिज्वा / पक्षे क्सः। सिचि अम्वा / अक्राक्षीत्-अकार्षीत्-अकृक्षत् / तङि लिङ्सिचौ-' (सू 2300) इति कित्त्वादन्न / अकृष्ट / अकृक्षाताम् / अकृक्षत / अकृक्षत। अकृक्षाताम् / अकृक्षन्त / ऋषी 1288 गतौ। परस्मैपदी। ऋषति / आनर्ष / जुषी 1289 प्रीतिसेवनयोः / आत्मनेपदिनश्चत्वारः / जुषते / ओ विजी 1290 भयचलनयोः / प्रायेणायमुत्पूर्वः / उद्विजते / भृजेत् / ननु आशीर्लिङि भ्रस्ज् यात् इति स्थिते यासुटः कित्त्वात् 'अहिज्या' इति सम्प्रसारणे पूर्वरूपे सकारस्य श्चुत्वेन शकारे शस्य जश्त्वेन जकारे भृज्ज्यात् इति रूपं वक्ष्यति। तदयुक्तं सम्प्रसारणं बाधित्वा परत्वात् रमागमे कृते भात् इति प्रसङ्गादित्यत आह / विङति रमागममिति // आशीर्लिङस्तहि सीयुटि रमागमपक्षे आह / भीष्टेति // रमभावे तु अकित्त्वासम्प्रसारणाभावादाह / भ्रक्षीष्टेति // लुङि परस्मैपदे रमागमविकल्पं मत्वाआह। अभाीत्अभ्राक्षीदिति // आत्मनेपदे सिचि रमागमविकल्पं मत्वा आह / अभष्ट-अभ्रष्टेति // 'झलो झलि' इति सिज्लोपः। क्षिप प्रेरणे इति // अनिट् / अजन्ताकारवत्त्वाभावात् क्रादिनियमात्थलि नित्यमिट / चिक्षेपिथ / एवं कृषधातुरपि / चकर्षिय / लुटि तासि ‘अनुदात्तस्य चर्दुपधस्य' इत्यमागमविकल्पः / अमागमाभावे गुणे रपरत्वम् / तदाह / क्रष्टा-कष्टंति // आशीलिङि परस्मैपदे आह / कृप्यादिति // कित्त्वात् झलादित्वाभावाच्च अमागमो गुणश्च नेति भावः / आशीलिंडस्तड्याह / कृक्षीष्टेति // ‘लिङ्सिचौ ' इति कित्त्वादमागमो गुणश्च नेति भावः / लुङि परस्मैपदे आह / स्पृशमशेति सिज्वेति / पक्षे इति // सिजभावपक्षे 'शलः' इति क्स इत्यर्थः / सिचि अम्वेति // सिच्पक्षे 'अनुदात्तस्य च' इत्यमागमविकल्प इत्यर्थः / क्सेतु कित्त्वादमागमो नेति भावः। अकाक्षीदिति // सिचि अमागमे रूपम्। अकाीदिति॥ सिचि भमभावपक्षे हलन्तलक्षणा वृद्धिरिति भावः / क्सादेशपक्षे आह। अकृक्षदिति // कित्त्वादमागमो गुणश्च नेति भावः। तङीति // तङि सिच्पक्षे अकृष् स् त इति स्थिते 'लिङ्सिचौ' इति कित्त्वादम् नेत्यर्थः / गुणोऽपि नेति ज्ञेयम् / अकृष्टेति // 'झलो झलि' इति सिज्लोप इति भावः / अकृक्षतेति॥सिच्पक्षे अनतः परत्वाददादेश इति भावः।क्सादेशपक्षे आह। अकृक्षतेति // कित्त्वादम् नेति भावः / अवक्षन्तेति // क्सादेशपक्षे अ कृक्ष झ इति स्थिते अच्परकत्वाभावात् ‘क्सस्याचि' इत्यकारलोपाभावादतः परत्वाददादेशाभावे अन्तादेश इति भावः / ऋषी गता. विति // सेट् / आनर्षिय / आनर्षिव / अर्षिता / आर्षीत् / ओ विजी भयेति // सेट् / 33 For Private And Personal Use Only
Page #260
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 258 सिद्धान्तकौमुदीसहिता [तुदादि 2536 / विज इट् / (1-2-2) . विजे: पर इडादिः प्रत्ययो ङिद्वत् / उद्विजिता / उद्विजिष्यते / ओ लजी 1291 ओ लस्जी 1292 वीडायाम् / लजते / लेजे / लज्जते / ललज्जे अथ परस्मैपदिनः / ओ वश्चू 1293 छेदने / 'अहिज्या-' (सू 2412) वृश्चति / वज्रश्च / वज्रश्चतुः / वश्चिथ-वव्रष्ठ / 'लिट्यभ्यासस्य-' (सू 2408) इति सम्प्रसारणम् रेफस्य प्रकार: / 'उरत्' (सू 2244 / तस्य च 'अचः परस्मिन्-' (सू 50) इति स्थानिवद्भावात् 'न सम्प्रसारणे-' (सू 363) इति वस्योत्वं न / ब्रश्चिता-बष्टा / व्रश्चिष्यति-वक्ष्यति / वृश्च्यात् / अवश्चीत्-अब्राक्षीत् / उद्विजितेत्यादौ लघूपधगुणे प्राप्ते। विज इट् // ‘गाङ्कुटादिभ्यः' इत्यतः डिदित्यनुवर्तते / तदाह / विजेः परः इत्यादि // उद्विजिता / उद्विजिषीष्ट / उदविजिष्ट। व्रश्चधातुरूदित्त्वाद्वेट् / प्रहिज्येति // लटि प्रश्च् अ ति इति स्थिते शस्यापित्त्वेन डित्त्वात् 'अहिज्या' इति रेफस्य सम्प्रसारणमृकारः पूर्वरूपञ्चेति भावः / तदाह / वृश्चतीति // वृश्चतः / वृश्चन्तीत्यादि / ववश्वे. ति ॥णलि रूपमिदम् / थलि च प्रक्रिया अनुपदं वक्ष्यते। अतुसादौ संयोगात्परत्वेन कित्त्वाभावात् 'अहिज्या' इति न सम्प्रसारणम् / तदाह / ववश्चतुरिति // ऊदित्त्वात्थलादौ वेट् / तदाह / वव्रश्चिथ-वव्रष्ठेति // धातुपाठे व्रश्चू इत्यत्र वस्च् इति स्थिते सस्य श्चुत्वेन शकारनिर्देशः / तथाच वव्रशच् थ इति स्थिते श्चुत्वस्यासिद्धत्वात् 'स्कोः' इति सकारलोपे, चस्य 'व्रश्च' इति षत्वे ठुत्वेन थस्य ठत्वे वव्रष्ठेति रूपम् / वत्रश्चिव / ननु णलि थलि च अकिति द्वित्वे कृते 'लिट्यभ्यासस्य' इत्यभ्यासावयवयोर्वकाररेफयोर्द्वयोरपि सम्प्रसारणं स्यात् / नच 'न सम्प्र. सारणे सम्प्रसारणम्' इति वकारस्य सम्प्रसारणनिषेधः शङ्कयः / पूर्व वकारस्य सम्प्रसारणसम्भवादित्यत आह / लिट्यभ्यासेति // 'न सम्प्रसारणे' इति निषेधादेव ज्ञापकात् प्रथम रेफस्य ऋकारस्सम्प्रसारणमित्यर्थः / तस्य सम्प्रसारणसम्पन्नस्य ऋकारस्य अकारविधि स्मारयति / उरदिति // ननु ऋकारस्य अकारे कृते वकारस्य सम्प्रसारण स्यात् / सम्प्रसारणपरकत्वविरहेण 'न सम्प्रसारणे' इति निषेधाप्रवृत्तेरित्यत आह / तस्य चेति // अकारस्येत्यर्थः / नच उरदत्त्वस्य परनिमित्तकत्वाश्रवणात् कथं स्थानिवत्त्वमिति वाच्यम् / आपादपरिसमाप्तरङ्गाधिकारः इत्यभ्युपगम्य अङ्गाक्षिप्तप्रत्ययनिमित्तकत्वाभ्युपगमात् / “लक्ष्ये लक्षणस्य सकृदेव प्रवृत्तिः” इति न्यायस्तु 'न सम्प्रसारणे' इति निषेधादेव न स्थानिभेदे प्रवर्तते इति ज्ञायते। अत एव सुद्धयुपास्य इत्यादौ धकारस्य द्वित्वे कृते पूर्व धकारस्य जश्त्वेन दकारे तस्य द्वित्वमित्यास्तान्तावत् / आशीर्लिङयाह / वृश्च्यादिति // कित्त्वात् सम्प्रसारणमिति भावः / अवश्चीदिति // अदित्त्वादिट्पक्षे 'नेटि' इति हलन्तलक्षणवृद्धिनिषेधः / इडभावं मत्वा आह / For Private And Personal Use Only
Page #261
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा / 259 व्यच 1294 व्याजीकरणे / विचति / विव्याच / विविचतुः / व्यचिता / व्यचिष्यति / विच्यात् / अव्याचीत्-अव्यचीत् / 'व्यचेः कुटादित्वमनसि' (वा 3456) इति तु नेह प्रवर्तते / 'अनसि' इति पर्युदासेन कृन्मात्रविषयत्वात् / उछि 1295 उञ्छे / उञ्छति / उछी 1296 विवासे / उच्छति / ऋच्छ 1297 गतीन्द्रियप्रलयमूर्तिभावेषु / 'ऋच्छत्य॒ताम्' (सू 2383) इति गुण: / द्विहल्ग्रहणस्यानेकहलुपलक्षणत्वान्नुट् / आनर्छ / आनर्छतुः / ऋच्छिता / मिच्छ 1298 उत्क्लेशे / उत्क्लेश: पीडा / मिमिच्छ / अमिच्छीत् / जर्ज 1299 चर्च 1300 झझ 1301 परिभाषणभर्त्सनयोः / त्वच 1302 संवरणे / तत्वाच / ऋच 1303 स्तुतौ / आनर्च / उब्ज 1304 आर्जवे / उज्झ 1305 उत्सर्गे / लुभ 1306 विमोहने / विमोहनमाकुलीकरणम् / लुभति / लोभिता-लोब्धा / लोभिष्यति / रिफ 1307 कत्थनयुद्धनिन्दाहिंसादानेषु / रिफति / रिरेफ। 'रिह' इत्येके / 'शिशुं न विप्रा मतिभी रिहन्ति' / तृप 1308 तृम्फ 1309 तृप्तौ / अवाक्षीदिति // अवश्च् सीत् इति स्थिते हलन्तलक्षणा वृद्धिः। श्चुत्वस्यासिद्धत्वात् 'स्कोः' इति सलोपः। 'वश्च' इति चस्य षः तस्य षढोः इति कः सस्य ष इति भावः। “नकारजावनुस्वारपञ्चमौ झलि धातुषु / सकारजश्शकारश्चेत् षाट्टवर्गस्तवर्गजः” इत्याहुः / व्यच व्याजीकरणे / सेट् / शे 'ग्रहिज्या' इति सम्प्रसारणं मत्वा आह। विचतीति // विव्याचेति // 'लिट्यभ्यासस्य' इत्यभ्यासयकारस्य सम्प्रसारणम् / 'न सम्प्रसारणे' इति न वकारस्य / विविचतुरिति / कित्त्वात् 'ग्रहिज्या' इति सम्प्रसारणे कृते द्वित्वादीति भावः / विव्यचिथ। विव्यचिव / विच्यादिति // आशीलिडि कित्त्वाद्यकारस्य सम्प्रसारणम् / अतो हलादेः' इति वृद्धिविकल्पं मत्वा आह / अव्याचीत्-अव्यचीदिति // ननु 'व्यः कुटादित्वमनसि' इति व्यचेः कुटादित्ववचनात् व्यचिता, व्यचिष्यति, इत्यादावपि 'गाङ्कुटादिभ्यः' इति ङित्त्वात् सम्प्रसारणं स्यादित्यत आह / व्यचेरिति // कृन्मातेति // अवधारणे मात्रशब्दः / 'उछि उञ्छे' 'उछी विवासे' इति भ्वादी पठितौ / इह तयोः पाठस्तु शविकरणार्थः / तेन उञ्छती-उञ्छन्ती / उच्छती। उच्छन्ती। इति 'आच्छीनद्योः' इति नुम्विकल्पस्सिद्ध्यति / भ्वादौ पाठस्तु पित्स्वरार्थ इत्यन्यत्र विस्तरः / ऋच्छ गतीति // ‘छे च' इति तुकि तस्य श्चुत्वेन चकारनिर्देशः / ऋच्छति / गलि लघूपधत्वाभावाद्गुणे अप्राप्ते आह / ऋच्छत्यतामिति // द्वित्वे उरदत्त्वे हलादिशेषे 'अत आदेः' इति दीर्घ आ अर्च्छ इति स्थिते बहुहल्त्वात् द्विहल्त्वाभावान्नुटि अप्राप्ते आह / द्विहल्ग्रहणस्येति // आनच्छति // 'इजादेः' इत्यत्र अनृच्छः इति पर्युदासादाम् न / ऋच्छिते. ति // 'ऋच्छत्यताम्' इत्यत्र लिटीत्यनुवृत्तेर्न गुण इति भावः / लुभधातुस्सेट / 'तीषसह' इति वेडिति मत्वा आह / लोभिता-लोब्धेति // शिशुन्नेति // नशब्द इवार्थे / विप्राः For Private And Personal Use Only
Page #262
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदीसहिता [तुदादि आद्यः प्रथमान्त: / द्वितीयो द्वितीयान्तः / द्वावपि द्वितीयान्तावित्यन्ये / तृपति / ततर्प / तर्पिता / 'स्पृशमृश-' इति सिज्विकल्पः पौषादिकस्यैव / अङपवादत्वात् / तेनाव नित्यं सिच् / अतीत् / तृम्फति / शस्य ङित्त्वात् 'अनिदिताम्-' (सू 415) इति नलोपे 'शे तृम्फादीनां नुम् वाच्यः' (वा 4323) आदिशब्दः प्रकारे / तेन येऽत्र नकारानुषक्तास्ते तृम्फादयः / तृम्फन्ति / ततृम्फ / तृफ्यात् / तुप 1310 तुम्प 1311 तुफ 1312 तुम्फ 1313 हिंसायाम् / तुपति / तुम्पति / तुफति / तुम्फति / हप 1314 दुम्फ 1315 उत्क्लेशे / प्रथमः प्रथमान्तः / द्वितीयो द्वितायान्तः / प्रथमो द्वितीयान्त इत्येके / हपति / दृफति / हम्फति / ऋफ 1316 ऋम्फ 1317 हिंसायाम् / ऋफति / आनर्फ / ऋम्फति / ऋम्फाञ्चकार / गुफ 1318 गुम्फ 1319 ग्रन्थे / गुफति / जुगोफ / गुम्फति / जुगुम्फ / उभ 1320 उम्भ 1321 पूरणे / उभति / उवोभ / उम्भति / 'उम्भाश्चकार' / शुभ 1322 शुम्भ 1323 शोभार्थे / शुभति / शुम्भति / दुभी 1324 ग्रन्थे / हमति / चती 1325 हिंसाश्रन्थनयोः / चर्तिता / ‘सेऽसिचि-' (सू 2506) इति वेद / चर्तिष्यति-चय॑ति / अचर्तीत् / विध 1326 विधाने / विधति / वेधिता / जुड 1327 गतौ / तवर्गपश्चमान्त इत्येके / जुडति / 'मरुतो जुनन्ति' मृड 1328 सुखने / मृडति / मर्डिता / पृड 1329 च / पृडति / पृण 1330 प्रीणने / पृणति / पपर्ण / वृण 1331 च / वृणति / मृण 1332 हिंसायाम् / तुण 1333 कौटिल्ये / तुतोण / पुण 1334 कर्मणि शुभे / पुणति / मुण 1335 प्रतिज्ञाने / कुण 1336 शब्दोपकरणयोः / शुन 1337 गतौ / द्रुण 1338 हिंसागतिकौटिल्येषु / घुण 4339 घूर्ण 1340 भ्रमणे / पुर 1341 ऐश्वर्यदीप्त्योः / सुरति / सुषोर / आशिषि सूर्यात् / कुर 1342 शब्दे / कुरति / कुर्यात् / अत्र 'न भकुर्छराम्' (सू 1629) इति निषेधो न / करोतेरेव तत्र ग्रहणादित्याहुः / खुर 1343 छेदने / मुर 1344 संवेष्टने / शिशुमिव मतिभिः रिहन्ति हिंसन्ति इत्यर्थः / तृपधातुश्श्यन्विकरण एवानिट् / अङपवादत्वादिति // अपवादस्य उत्सर्गव्याप्यत्वादिति भावः / वृती हिंसाश्रन्थनयोरिति // श्रन्थनं विख्सनम् / घृततीत्यादि सुगमम् / “अथास्य योकं वितेत् " इत्याश्वलायनः / HEATRE For Private And Personal Use Only
Page #263
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा / 261 क्षुर 1345 विलेखने / घुर 1346 भीमार्थशब्दयोः / पुर 1347 अप्रगमने / वृहू 1348 उद्यमने / दन्त्योष्ठयादिः / पवर्गादिरित्यन्ये / तृहू 1349 / स्तृहू 1350 तूंहू 1351 हिंसाः / तृहति / ततह / स्तृहति / तस्तर्ह / तर्हिता-ता / स्तर्हिता-स्ता / अतुंहीत्--अताीत् / अतााम् / इषु 1352 इच्छायाम् / ‘इपुगमि-' (सू 2400) इति छः / इच्छति / एषिता-एष्टा / एषिष्यति / इष्यात् / ऐषीत् / मिष 1353 स्पर्धायाम् / मिषति / मेषिता / किल 2354 श्वैत्यक्रीडनयोः / तिल 1355 स्नेहे / चिल 1356 वसने / चल 1357 विलसने / इल 1358 स्वप्नक्षेपणयोः / विल 1359 संवरणे / दन्त्योष्ठयादिः / बिल 1360 भेदने / ओष्ठयादिः / णिल 1361 गहने / हिल 1362 भावकरणे / शिल 1363 षिल 1364 उञ्छे / मिल 1365 श्लेषणे / लिख 1366 अक्षरविन्यासे / लिलेख / कुट 1367 कौटिल्ये / 'गाङ्कुटादिभ्यः--' (सू 2461) इति ङित्त्वं / चुकुटिथ / अणित इति किम्। चुकोट / कुटिता / पुट 1368 संश्लेषणे / कुच 1369 सङ्कोचने / गुज 1370 शब्दे / गुड 1371 रक्षायाम् / डिप 1372 क्षेपे / छुर 1373 छेदने / 'न भकुर्छराम्' (सू 1329) इति न दीर्घः / छुर्यात् / स्फुट 1374 विकसने / स्फुटति / पुस्फोट / मुट 1375 आक्षेपमर्दनयोः / त्रुट 1376 छेदने / 'वा भ्राश-' (सू 2321) इति श्यन्वा / त्रुट्यति-त्रुटति / तुत्रोट / त्रुटिता / तुट 1377 कलहकर्मणि / तुटति / तुतोट / तुटिता / चुट 1378 छुट 1379 छेदने / जुट 1380 बन्धने / कड 1381 मदे / लुट 1382 संश्लेषणे / कृड 1383 घनत्वे / घनत्वं सान्द्रता / चकर्ड / कृडिता / कुड 1384 बाल्ये / पुड 1385 विस्रंसयेदित्यर्थः / उपसर्गवशात् " यजमानो मेखलां विचूतते” इत्यापस्तम्बसूत्रे तु तङ् आर्षः / षुधातुष्योपदेशः / कुर शब्दे / करोतेरेवेति व्याख्यानमेवात्र शरणम् / वृहूधातुः ऋदुपधः / ऊदित्त्वाद्वेट्कः / पवर्गादिरिति // पवर्गतृतीयादिरित्यर्थः / तृह स्तृहू तूंहू इति // त्रयोऽपि ऋकारवन्तः। तृतीयोऽनुस्वारवान् / ऊदित्त्वाद्वेट् / तति // तृहेस्तासि ढत्वधत्वष्टुत्वढलोपाः / एवं स्तर्दा / तृण्ढा / अतीत्-अताक्षीत् / अस्तहत्-िअस्ताक्षीत् / इति सिद्धवत्कृत्य आह / अतुंहीत्-अताक्षीदिति // तूंहेरिडभावपक्षे हलन्तलक्षणयुद्धौ रपरत्वम्। हस्य ढः ढस्य कः षत्वं / अनुस्वारस्य परसवर्णो डकार इति भावः / अतार्दामिति // तृहेस्तसस्तामि सिच इडभावपक्षे लोपे हलन्तलक्षणवृद्धौ ढत्वधत्वष्टुत्वढलोपा इति भावः। For Private And Personal Use Only
Page #264
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 262 सिद्धान्तकौमुदीसहिता [तुदादि उत्सर्गे / घुट 1386 प्रतिघाते / तुड 1387 तोडने / तोडनं भेदः / थुड 1388 स्थुड 1389 संवरणे / थुडति / तुथोड / तुस्थोड। 'खुड' 'छुड' इत्येके / स्फुर 1390 फुल 1391 सञ्चलने / 'स्फुर स्फुरणे। 'स्फुल सञ्चलने' इत्येके / 2537 / स्फुरतिस्फुलत्योर्निनिविभ्यः / (8-3-76) षत्वं वा स्यात् / निष्फुरति-निःस्फुरति / ‘स्फर' इत्यकारोपधं केचित्पठन्ति / पस्फार / 'स्फुड 1392 चुड 1393 त्रुड 1394 संवरणे' 'क्रुड 1395 भृड 1396 निमज्जने' इत्येके / 'गुरी 1697 उद्यमने' अनुदात्तत् / गुरते / जुगुरे / गुरिता / ‘णू 1398 स्तवने' / दीर्घान्तः / 'परिणूतगुणोदयः'। इतश्चत्वारः परस्मैपदिनः / नुवति / अनुवीत् / 'धू 1399 विधूनने' / धुवति / 'गु 1400 पुरीषोत्सर्गे'। जुगुविथ-जुगुथ / गुता / गुष्यति / अगुषीत् / ‘ह्रस्वादङ्गात्' (सू 2369) / अगुताम् / अगुषुः / '6 1401 गतिस्थैर्ययोः / 'ध्रुव' इति पाठान्तरम् / आद्यस्य ध्रुवतीत्यादि गुवतिवत् / द्वितीयस्तु सेट् / दुध्रुविथ / ध्रुविता / ध्रुविष्यति / ध्रुव्यात् / अध्रुवीत् / अध्रुविष्टाम् / 'कुङ् 1402 शब्दे' / दीर्घान्तः इति कैयटादयः / कुविता / अकुविष्ट / 'हस्वान्तः' इति न्यासकारः / कुता / अकुत / वृत् / कुटादयो वृत्ताः / 'पृङ् 1403 व्यायामे'। प्रायेण व्यापूर्वः / रिङ् / इयङ् / व्याप्रियते / व्यापप्रे / व्यापप्राते / व्यापरिष्यते / व्यापृत / व्यापृषाताम् / 'मृङ् 1404 प्राणत्यागे। 2538 / म्रियतेर्लुङ्लिङोश्च / (1-3-61) एवं अस्तााम् / अता[म् / स्फुर स्फुरणे / स्फुरतिस्फुलत्योः // मूर्द्धन्य इत्यधिकृतम् / 'सिवादीनां वा' इत्यतो वेत्यनुवर्तते / तदाह / षत्वं वा स्यादिति // शेषपूरणम् / णू स्तवने इति। णोपदेशः। परिणूतेति // 'श्रयुकः किति' इति नेट् / कुङ् शब्दे। दीर्घान्तः इति // ततश्चायं सेट् / पृङ् व्यायामे इति // ह्रस्वान्तोऽयमनिट् / 'ऋद्धनोः स्ये' इति इटं मत्वा आह / व्यापरिष्यते इति // मृधातुरनिट् / म्रियतेः // 'अनुदात्तडितः' इत्यतः आत्मनेपदमित्यनुवर्तते / चकारेण 'शदेशितः' इत्यतः शित इत्यनुकृष्यते / For Private And Personal Use Only
Page #265
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा / 263 लुङ्लिङो: शितश्च प्रकृतिभूतान्मृङस्तङ् नान्यत्र / ङित्त्वं स्वरार्थम् / म्रियते / ममार / ममर्थ / मम्रिव / मर्तासि / मरिष्यति / मृषीष्ट / अमृत / अथ परस्मैपदिनः सप्त / रि 1405 पि 1406 गतौ / लघूपधगुणादन्तरङ्गत्वादियङ् / रियति / पियति / रेता / पेता / धि 1407 धारणे / क्षि 1408 निवासगत्योः / षू 1409 प्रेरणे / सुवति / सविता / कृ 1410 विक्षेपे। किरति / किरतः / चकार / चकरतुः / करिता-करीता / कीर्यात् / अकारीत् / 2539 / किरतौ लवने / (6-1-140) उपात्किरतेः सुडागम: स्याच्छेदेऽर्थे / उपस्किरति / 'अडभ्यासव्यवायेऽपि सुट् कात्पूर्व इति वक्तव्यम्' (वा 3699) / उपास्किरत् / उपचस्कार। 2540 / हिंसायां प्रतेश्च / (6-1-141) उपात्प्रतेश्च किरते: सुट् स्याद्धिंसायाम् / उपस्किरति / प्रतिस्किरति / गृ 1411 निगरणे / 2541 / अचि विभाषा / (8-2-21) प्रकृतिभूतादित्यद्ध्याहार्यम् / तदाह / लुलिङोरिति // तङ् स्यादिति // आत्मनेपदं स्यादित्यर्थः / म्रियमाणः इत्यत्र आनस्यापि इष्टत्वात् / ननु ङित्त्वादेव सिद्धे किमर्थमिदमित्याशय नियमार्थमित्याह / नान्यत्रेति // तर्हि डित्वं व्यर्थमित्यत आह / ङित्त्वं स्वराथेमिति // 'तास्यनुदात्तेन्डिददुपदेशाल्लसार्वधातुकमनुदात्तम्' इत्येतदर्थमित्यर्थः / म्रियते इति // शे कृते रिडियङाविति भावः। ऋदन्तत्वात् भारद्वाजमतेऽपि नेडित्याह / ममर्थेति / मनिवेति // क्रादिनियमादिट् / मर्ता / 'ऋद्धनोः स्ये' इति इटं मत्वा आह। मरिप्यतीति // रि पि गताविति // द्वाविमावनिटौ / ननु शे कृते तिपमाश्रित्य इकारस्य परत्वाल्लघूपधगुणः स्यादित्यत आह / अन्तरङ्गत्वादियङिति // कृ विक्षेपे इति // दीर्घान्तोऽयं सेट् / किरतीति // ‘ऋत इद्धातोः' इति इत्त्वं रपरत्वम् / चकरतुरिति // कित्त्वेऽपि 'ऋच्छत्यताम्' इति गुण इति भावः / 'वृतो वा' इति मत्वा आह। करिता-करीतेति // किरतौ लवने // उपादिति // 'उपात् प्रतियत्ने' इत्यतस्तदनुवृत्तेरिति भावः / सुडागमः इति // 'सुट् कात्पूर्वः' इत्यतस्तदनुवृत्तेरिति भावः / ‘अभ्यासव्यवायेऽपि' इति वार्तिकम् / 'सुट कात्पूर्वः' इत्यनुवृत्तिलभ्यम् / हिंसायां प्रतेश्च // चकारादुपादिति समुच्चीयते / तदाह / उपादिति / गृ निगरणे इति // निगरणं भक्षणम् / सेट् / अचि विभाषा // 'प्रो यङि' इत्यतः For Private And Personal Use Only
Page #266
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 264 सिद्धान्तकौमुदीसहिता तुदादि गिरते: रेफस्य लत्वं वा स्यादजादौ / गिरति-गिलति / जगारजगाल / नगरिथ-जगलिथ / गरिता-गलिता / दृङ् 1412 आदरे / आद्रियते / आद्रियेते / आदद्रे / अदद्रिषे / आदर्ता / आदरिष्यते / आदृषीष्ट / आदृत / आहषाताम् / धृङ् 1413 अवस्थाने / ध्रियते / ___ अथ परस्मैपदिनः षोडश / प्रच्छ 1414 जीप्सायाम् / पृच्छति / पप्रच्छ / पप्रच्छतुः / पप्रच्छिथ-पप्रष्ठ / प्रष्टा / प्रक्ष्यति / अप्राक्षीत् / वृत् / किरादयो वृत्ताः / सृज 1415 विसर्गे / 'विभाषा सृजिदृशोः' (सू 2404) / ससर्जिथ-सस्रष्ठ / स्रष्टा / स्रक्ष्यति / 'मृजिदृशोझल्यमकिति' (सू 2405) इत्यमागमः / सृजेत् / मृज्यात् / अस्राक्षीत् / टु मस्जो 1416 शुद्धौ / मजति / ममज / मस्जिनशोझलि' (सू 2517) इति नुम् / 'मस्जेरन्त्यात्पूर्वो नुम् वाच्यः (वा 321) / संयोगादिलोपः / ममक्थ / ममजिथ / प्रः इत्यनुवर्तते / 'कृपो रो लः' इत्यतः रो ल इति / तदाह / गिरतेरिति // अजादाविति // "धातोः कार्यमुच्यमानं तत्प्रत्यये भवति" इति परिभाषालब्धस्य प्रत्ययस्य अचा विशेषणातदादिविधिः / तेन गिरावित्यादौ नेति 'मृजेर्वृद्धिः' इति सूत्रभाष्ये स्पष्टम् / दृङ् आदरे इति // हस्वान्तो. ऽयम् / अनिट् / आद्रियते इति // रिङ् इयङ्। 'ऋद्धनोः स्ये' इति इटं मत्वा आह / आदरिष्यते इति / आदृषीष्टेति // 'उश्च' इति कित्त्वान्न गुणः / आतेति // 'इस्वादङ्गात्' इति सलोपः / प्रच्छ शीप्सायामिति // ज्ञातुमिच्छा झीप्सा / अनिडयम् / पृच्छतीति // शस्य डित्त्वात् 'अहिज्या' इति रेफस्य सम्प्रसारणं ऋकारः पूर्वरूपञ्चेति भावः / पप्रच्छतुरिति // संयोगात् परत्वेन कित्त्वाभावान सम्प्रसारणमिति भावः / भारद्वाजनियमात्थलि वेडिति मत्वा आह / पप्रच्छिथ-पप्रष्ठेति // इडभावपक्षे त्रश्चादिना छस्य षः थस्य ष्टुत्वेन ठ इति भावः / पप्रच्छिव / प्रष्टेति // छस्य व्रश्चेति षः तकारस्य ष्टुत्वेन टः / नच षत्वस्यासिद्धत्वात् पूर्व तुकि ततः छस्य षत्वे टुत्वयोः प्रष्टेति स्यादिति वाच्यम् / अश्वेतिसूत्रे सतुक्कस्य छस्य ग्रहणात् / किरादयो वृत्ताः इति // नचैव सति 'किरश्च पञ्चभ्यः' इत्यत्र पश्चग्रहणं व्यर्थे / किरादीनाम्पञ्चत्वादिति वाच्यम् / तस्य ‘रुदादिभ्यस्सार्वधातुके' इत्युतरार्थत्वात् / सृज विसर्गे / अनिट् / सृजति / ससर्ज / ससृजतुः / अजन्ताकारवत्त्वाभावेऽपि 'विभाषा सृजिदृशोः' इति थलि वेट इति मत्वा आह / ससर्जिथ-सनष्ठेति // इडभावे 'वश्व' इति जस्य षः यस्य टुत्वेन ठः पित्त्वेन अकित्त्वात् ‘सृजिदृशोः' इत्यमागम इति भावः / ससृजिव / टु मस्जो शुद्धौ / मज्जतीति // सस्य श्चुत्वेन शः तस्य जश्त्वेन ज इति भावः / ममकथेति // मस्जेत्वेि हलादिशेषे ममस्ज् थ इति स्थिते 'स्कोः' इति सकारलोपे ममज् थ इति स्थिते जस्य कुत्वेन गकारे 'मस्ज्नशोः' इति नुमि तस्यानुस्वारे तस्य परसवर्णो डकारः गस्य चत्वेन कः इति बोध्यम् / यद्यपि अकारात् परत्र नुमि सत्यपि इदं For Private And Personal Use Only
Page #267
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा / 265 मङ्का / मङ्यति / अमावीत् / अमाताम् / अमाक्षुः / रुजो 1417 भङ्गे / रोक्ता / रोक्ष्यति / अरौक्षीत् / अरौक्ताम् / भुजो 1418 कौटिल्ये / रुजिवत् / छुप 1419 स्पर्शे / छोप्ता / अच्छौप्सीत् / रुश 1420 रिश 1421 हिंसायाम् / तालव्यान्तौ / रोष्टा / रोक्ष्यति / रेष्टा / रेक्ष्यति / लिश 1422 गतौ / अलिक्षत् / स्पृश 1423 संस्पर्शने / स्प्रष्टा-स्पष्टी / स्प्रक्ष्यति-स्प यति / अस्पाक्षीत्-अस्पार्भात-अस्पृक्षत् / विच्छ 1424 गतौ / गुपूधूप-' (सू 2303) इत्यायः / आर्धधातुके वा। विच्छायति / विच्छायाञ्चकारविविच्छ / विश 1425 प्रवेशने / विशति / वेष्टा / मृश 1426 आमर्शने / आमर्शनं स्पर्शः / अम्राक्षीत्-अमाक्षीत्-अमृक्षत् / णुद 1427 प्रेरणे / कत्रभिप्रायेऽपि फले परस्मैपदार्थः पुन: पाठः / षदल 1428 विशरणगत्यवसादनेषु / ‘सीदति' इत्यादि भौवादिकवत् / इह पाठो नुम्विकल्पार्थः / सीदतीसीदन्ती / ज्वलादौ पाठस्तु णार्थः / सादः / स्वरार्थश्च / शबनुदात्तः / शस्तूदात्तः / शदल 1429 शातने / स्वरार्थ एव पुनः पाठः। शता तु नास्ति / 'शदेः शितः' (सू 2362) इत्यात्मनेपदोक्तेः / सिद्ध्यति / तथापि अन्त्यात् पूर्वो नुमित्यस्य मग्न इत्यादौ नलोपः फलम् / अन्यथा उपधात्वाभावानस्य लोपो न स्यादिति भावः। एवं मधेति // मङ्क्षयति इत्यत्र तु सस्य षत्वं विशेषः / 'रुजो भङ्गे' इत्यारभ्य 'विच्छ गतौ' इत्यतः प्रागनिटः / 'अनुदात्तस्य चर्दुपधस्य' इत्यम्विकल्पं मत्वा आह। स्प्रष्टा-स्पीति // णुद प्रेरणे / णोपदेशोऽयम् / 'विश प्रवेशने' इत्यारभ्य 'शद्ल शातने' इत्यन्ताः अनिटः। तत्र अदुपधस्य थलि वेट / अन्यस्य तु नित्यं नेट् / मृशेः 'अनुदात्तस्य च' इत्यम्बिकल्पः / तदाह / अम्राक्षीत्-अमाक्षीदिति // 'स्पृशमृश' इति सिज्वेति भावः / सिजभावे 'शलइगुपधात्' इति क्सं मत्वा आह / अमृक्षदिति॥ णुदधातुणोपदेशः। ननु तनादिगण एवास्मिन् स्वरितेत्सु पठितस्य किमर्थमिह पाठ इत्यत आह / कर्बभिप्रायेऽपीति // षद्लधातोर्वादौ पठितादेव सीदति इत्यादि सिद्धेः इह पाठो व्यर्थ इत्यत आह / इह पाठः इति // सीदन्ती इति शत्रन्तात् शविकरणात् डीपि 'आच्छीनद्योः' इति नुम् विकल्पार्थ इह पाठ इत्यर्थः / भ्वादावेव पाठे तु 'शाइयनोनित्यम्' इति नित्यो नुम स्यादिति भावः / तर्हि वाद्यन्तर्गणे ज्वलादावस्य पाठो व्यर्थ इत्यत आह / ज्वलादाविति // 'ज्वलितिकसन्तेभ्यः' इति कर्तरि णप्रत्ययार्थ इति भावः / तदुदाहृत्य दर्शयति / सादः इति // उभयत्र पाठस्य फलान्तरमाह / स्वरार्थश्चेति // तदेव विश. दयति / शबनुदात्तः इति // 'अनुदात्तौ सुप्पितौ' इति पित्स्वरेणेति भावः / शस्तूदात्तः इति // 'प्रत्यय आयुदात्तश्च' इत्यनेनेति भावः / ननु 'शद्ल शातने' इत्यस्य भ्वादौ पाठादेव सिद्धे इह पाठो व्यर्थ इत्यत आह / स्वरार्थ एवेति // प्रागुक्तपित्त्वापित्त्वकृतस्वरभेदार्थ एवे. त्यर्थः। ननु शत्रन्तात् डीपि उक्तरीत्या नुम्विकल्पार्थोऽपि कुतो न स्यादित्यत आह / शता तु 34 For Private And Personal Use Only
Page #268
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 266 सिद्धान्तकौमुदीसहिता अथ षट् स्वरितेत: / मिल 1430 सङ्गमे / 'मिल संश्लेषणे' इति पठितस्य पुनः पाठः कर्मभिप्राये तङर्थः / मिलति। मिलते / मिमेल। मिमिले / मुच्ल. 1431 मोक्षणे / 2542 / शे मुचादीनाम् / (7-1-59) नुम् स्यात् / मुञ्चति / मुञ्चते / मोक्ता / मुच्यात् / मुक्षीष्ट / अमुचत् / अमुक्त / अमुक्षाताम् / लुप्ल 1432 छेदने / लुम्पति / लुम्पते / अलुपत् / अलुप्त / विद्ल 1433 लाभे / विन्दति / विन्दते / विवेद / विविदे / व्याघ्रभूत्यादिमते सेटकोऽयम् / वेदिता / भाष्यादिमतेऽनिटकः / वेत्ता / परिवेत्ता / परिर्वर्जने / ज्येष्ठं परित्यज्य दारानग्नीश्च लब्धवानित्यर्थः / तृन्तृचौ / लिप 1434 उपदेहे / उपदेहो वृद्धिः / लिम्पति / लिम्पते / लेता / ‘लिपिसिचि-' (सू 2418) इत्यङ् / तङि तु वा / अलिपत् / अलिपत-अलिप्त / षिच 1435 क्षरणे / सिञ्चति / सिञ्चते / असिचत् / असिचत-असिक्त / अभिषिञ्चति / अभ्यषिञ्चत् / अभिषिच / ___ अथ त्रयः परस्मैपदिनः / कृती 1436 छेदने / कृन्तति / चकर्थ / कर्तिता / कतिष्यति-कर्त्यति / अकीत् / खिद 1437 परिखाते / खिन्दति / चिखेद / खेत्ता / अयं दैन्ये दिवादौ रुधादौ च / पिशि 1438 अवयवे / पिंशति / पेशिता / अयं दीपनायामपि / 'त्वष्टा रूपाणि पिंशतु' वृत् / मुचादयस्तुदायश्च / / इति तिङन्ततुदादिप्रकरणम् / नास्तीति // शदेर्लटश्शानजेव नतु शत्रादेश इत्यर्थः / कुत इत्यत आह / शदेश्शितः इती. ति // मिल सङ्गमे / पठितस्येति // अस्मिन्नेव तुदादिगणे परस्मैपदिषु पठितस्येत्यर्थः / तर्थः इति // पूवत्र पाठस्तु कर्बभिप्रायेऽपि परस्मैपदार्थ इत्यर्थः / 'मुच्ल मोक्षणे' / शे मुचादीनाम् // नुम् स्यादिति // शेषपूरणम् / 'इदितो नुम्' इत्यतस्तदनुवृत्तेरिति भावः / मुक्षीष्टेति // ‘लिङ्सिचौ' इति कित्त्वान्न गुण इति भावः / अमुचदिति // लदित्त्वादङिति भावः / लुङि तङि आह / अमुक्तेति // 'झलो झलि' इति सिज्लोप इति भावः / लिप उपदेहे। तङितु वेति // 'आत्मनेपदेष्वन्यतरस्याम्' इत्यनेनेति शेषः। 'षिच क्षरणे' / अभिषिञ्चतीति // 'उपसर्गात्सुनोति' इति षः। अभ्यषिञ्चदिति // 'प्राक्सितादब्यवायेऽपि' इति षत्वम्। अभिषिषेचेति // 'स्थादिष्यभ्यासेन' इति षः / कृती छेदने इति // ईदित्त्वं श्वीदितः' इत्येतदर्थम् / 'सेऽसिचि' इति वेडिति मत्वा आह। कर्तिष्यति-कर्व्यतीति / पिशि अवयवे इति // अवयवक्रियायामित्यर्थः / रूपाणि पिंशत्विति // प्रकाशयत्वित्यर्थः // इति श्रीवासुदेवदीक्षितविदुषा विरचितायां सिद्धान्तकौमुदी व्याख्यायां बालमनोरमायां शविकरणं समाप्तम् / For Private And Personal Use Only
Page #269
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1 श्रीरस्तु। // अथ तिङन्तरुधादिप्रकरणम् // रुधिर् 1439 आवरणे / नव स्वरितेतः इरितश्च / 2543 / रुधादिभ्यः श्नम् / (3-1-78) शपोऽपवादः / मित्त्वादन्त्यादचः परः / नित्यत्वाद्गुणं बाधते / रुणद्धि / 'श्रसोरल्लोपः' (सू 2469) / णत्वस्यासिद्धत्वादनुस्वारः परसवर्णः / तस्यासिद्धत्वाण्णत्वं न / 'न पदान्त-' (सू 51) इति सूत्रेणानुस्वारपरसवर्णयोरलोपो न स्थानिवत् / रुन्धः / रुन्धन्ति / रुन्धे / रोद्धा / रोत्स्यति / रोत्स्यते।रुणद्ध / रुन्धात्। रुन्धि। रुणधानि। रुणधै। अरुणत्। अरुन्धाम्। अरुणत्-अरुणः / अरुणधम् / अरुधत्--अरौत्सीत् / अरुद्ध / भिदिर् 1440 अथ श्नविकरणा धातवो निरूप्यन्ते। रुधिरित्यादिना / रुधादिभ्यः श्नम् // कर्बर्थे सार्वधातुके परे रुधादिभ्यः श्नम्प्रत्ययस्यात् स्वार्थ इत्यर्थः / तदाह / शपोऽपवादः इति // श्रमि शंमावितौ / मित्त्वस्य फलमाह / मित्त्वादन्त्यादचः परः इति // प्रत्यय. त्वात् शकारस्येत्संज्ञा / शकारनिर्देशस्य 'श्नसोरल्लोपः' 'श्नान लोपः' इत्यत्र विशेषणार्थः। नतु सार्वधातुकसज्ञार्थः। फलाभावात् / नच 'सार्वधातुकमपित्' इति कित्त्वे गुणनिषेधः फलमिति शङ्कयम् / नमः पूर्वस्य इगन्तस्य अङ्गत्वाभावादेव गुणाप्रसक्तेः / ननु नमः प्राक् परत्वाल्लघूपधगुणे कृते पश्चात् नमि रोणत्सि इति स्यादित्यत आह / नित्यत्वाद्गुणं बाधते इति // कृते अकृते च गुणे प्रवृत्तेः श्नम् नित्यः / तस्मिन् सति लघूपधत्वाभावान गुण इति भावः / रुणद्धीति // रुनध् ति इति स्थिते 'झषस्तथोः' इति धत्वे णत्वमिति भावः / रुनध् तस् इति स्थिते प्रक्रियां दर्शयति / श्रसोरल्लोपः इति // क्ङिति सार्वधातुके तद्विधेरिति भावः। रुन्ध् तस् इति स्थिते नस्य णत्वमाशङ्कय आह / णत्वस्यासिद्धत्वादिति // ननु कृते परसवर्णे तस्य नस्य णत्वमस्त्वित्यत आह / तस्यासिद्धत्वादिति // परसवर्णसम्पन्ननस्येत्यर्थः / नन्विह अल्लोपस्य 'अचः परस्मिन्' इति स्थानिवत्त्वात् कथमनुस्वारपरसवर्णावित्यत आह / न पदा न्तेति / रुन्धः इति // 'झषस्तथोः' इति धः / रुन्धन्तीति // रुणत्सि / रुन्धः / रुन्ध / रुणध्मि / रुन्ध्वः / रुन्ध्मः / रुन्धे इति || रुन्धाते / रुन्धते / रुन्त्से / रुन्धाथे। रुन् / रुन्धे / रुन्ध्वहे / रुन्धमहे / रुरोध / रुरोधिथ / अरुणदिति // लडि हल्ल्यादिना तिपो लोपः / धस्य चर्वविकल्पः / सिपि तु हल्ङयादिना लुप्ते 'दश्च' इति रुत्वविकल्पं मत्वा आह / अरुणत-अरुणः इति // सन्ध्यात / रुन्धीत। रुत्सीष्ट। इरित्त्वादडिकल्पं मत्वा आह। अरुध त्-अरौत्सीदिति // अङभावे सिचि हलन्तलक्षणा वृद्धिः / लुडस्तड्याह / अरुद्धेति // For Private And Personal Use Only
Page #270
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 268 सिद्धान्तकौमुदीसहिता [रुधादि विदारणे / भिनत्ति / भिन्ते / भेत्ता। भेत्स्यति / अभिनत्-अभिनः / अभिनदम् / अभिन्त / अभिदत्--अभैत्सीत् / अभित्त / छिदिर 1441 द्वैधीकरणे / अच्छिदत्-अच्छेत्सीत् / अच्छित्त / रिचिर् 1442 विरेचने / रिणक्ति / रिले / रिरेच / रिरिचे / रेक्ता / अरिणक् / अरिचत्-अरैक्षीत् / अरिक्त / विचिर् 1443 पृथग्भावे / विनक्ति। विते / क्षुदिर् 1444 सम्पेषणे / क्षुणत्ति / क्षन्ते / क्षोत्ता / अक्षुदत्--अक्षौत्सीत् / अक्षुत्त / युजिर् 1445 योगे / योक्ता / उ थैदिर् 1446 दीप्तिदेवनयोः / कृणत्ति / छन्ते / चच्छर्द। सेऽसिचि-' (सू 2506) इति वेट् / चच्छृदिषे--चच्छृत्से / छर्दिता / छर्दिष्यति--छय॑ति / अच्छृदत्-अच्छदित् / अच्छर्दिष्ट / उ तृदिर् 1447 हिंसानादरयोः / तृणत्तीत्यादि / कृती 1448 वेष्टने / परस्मैपदी / कृणत्ति / आर्धधातुके तौदादिकवत् / मि इन्धी 1449 दीप्तौ / त्रय आत्मनेपदिनः / 2544 / श्नान्न लोपः / (6-4-23) नमः परस्य नस्य लोप: स्यात् / असोरल्लोप: / (सू 2469) / इन्धे / इन्त्से / इन्धिता / इनधै / ऐन्ध / ऐन्धाः / खिद 1450 दैन्ये / 'झलो झलि' इति सिज्लोपः / भिनत्तीति॥भिन्तः। भिन्दन्ति। भिनत्सि / भिन्थः / भिनद्मि। भिन्दुः / भिन्यः / भिन्ते इति // भिन्दाते / भिन्दते। भिन्त्से / भिन्दाथे। भिन्ध्वे / भिन्दे / भिन्द्वहे / बिभेद / बिभेदिथ। बिभिदिव / बिभिदे / बिभिदिषे / अभिन्तेति // लङि तङि रूपम् / अभिनत्-अभिनः इति // ‘दश्च' इति रुर्वेति भावः / लुङः परस्मैपदे आह / अभिदत्-अभैत्सीदिति // इरित्त्वादङ् वेति भावः / लुङि तङ्याह / अभित्तेति // ‘झलो झलि' इति सिज्लोपः / अभित्सातामित्यादि / उ छुदिरिति // उकार इत् / 'उदितो वा' इति त्वायामिड्किल्पार्थः / जि इन्धी दीप्ती / ईदित्त्वं ‘वीदितः' इत्येतदर्थम् / श्रमि कृते इन न् ध् ते इति स्थिते / नान्न लोपः॥ श्नम्प्रत्ययैकदेशस्य श्न इत्यस्य नादिति पञ्चमी / नेति लुप्तषष्ठीकम् / तदाह / श्नमः परस्य नस्येति // नकारस्येत्यर्थः / अकार उच्चारणार्थः / तथाच इन ध् ते इति स्थिते आह / श्नसोरल्लोपः इति // तथाच इन्ध् ते इति स्थिते ‘झषस्तथोः' इति तकारस्य धत्वे पूर्वधस्य जश्त्वे परिनिष्टितमाह / इन्धे इति // यद्यपि 'अनिदिताम् ' इत्येवान नलोप: सिद्ध्यति / तथापि अनक्ति इत्याद्यर्थ सूत्रमिहापि न्याय्यत्वादुपन्यस्तमिति भावः / इन्धते। इन्ध्वे / इन्धाम् / इन्त्स्व / इन्ध्वम् / इनधै इति // नमि उत्तमस्य इटः एत्वे आटि वृद्धी इन न् ध् ऐ इति स्थिते श्नान्नलोपे आटः पित्त्वेन ङित्त्वाभावात् 'नसोरल्लोपः' इत्यभावे रूपमिति भावः / अत्र नलोपार्थमपि श्नान्न For Private And Personal Use Only
Page #271
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 269 प्रकरणम् बालमनोरमा / 269 खिन्ते / खेत्ता / विद 1451 विचारणे / विन्ते / वेत्ता / ____ अथ परस्मैपदिनः / शिष्ल 1452 विशेषणे / शिनष्टि / शिष्टः / शिंषन्ति / शिशेषिथ / शेष्टा / शेक्ष्यति। हेधिः / जश्त्वम् / ष्टुत्वं 'झरो झरि-' (सू 71) इति वा डलोपः / अनुस्वारपरसवर्णो शिण्ढि-शिण्ड्डि / शिनषाणि / अशिनट् / लदित्त्वादङ् / अशिषत् / पिल. 1453 संचूर्णने / शिषिवत् / पिनष्टि / भञ्जो 1454 आमर्दने / भनक्ति / बभजिथ / बभक्थ / भता / भुज 1455 पालनाभ्यवहारयोः / भुनक्ति / भोक्ता / भोक्ष्यति / अभुनक् / तृह 1456 हिसि 1457 हिंसायाम् / लोप इत्यावश्यकम् / आटः पित्त्वेन ङित्त्वाभावात् 'अनिदिताम्' इत्यस्याप्रवृत्तेः। इनधावहै / लड्याह् / ऐन्धेति / ऐन्धाः इति // ' झषस्तथोः' इति थस्य धः / इन्धीत / लुडि ऐन्धिष्ट / शिष्ल विशेषणे / अनिट् / शिशेषिथेति // अजन्ताकारवत्त्वाभावात् कादिनियमानित्यमिट् / शि न ष् हि इति स्थिते अल्लोपे शिन् ष् हि इति स्थिते आह / हेर्धिरिति // शिन् ष् धि इति स्थिते आह / जश्त्वमिति // ‘झलां जश झशि' इति षस्य ड इति भावः / टुत्वमिति // धस्य ढ इति भावः / यद्यपि जश्त्वस्यासिद्धत्वात्ततः प्रागेव टुत्वस्य उपन्यासो युक्तः / तथापि जश्त्वं श्रुत्वमिति प्रक्रियाप्रदर्शनमात्रपरं क्रमस्तु न विवक्षितः / झरः इति // जशत्वसम्पन्नस्य डस्य लोपविकल्प इत्यर्थः / अनुस्वारपरसव. र्णाविति // नकारस्य 'नश्च' इत्यनुस्वारे सति तस्य परसवर्णो णकार इत्यर्थः / 'न पदान्त' इति निषेधान्नाल्लोपः स्थानिवत् / ढस्य लोपपक्षे उदाहरति / शिण्ढीति // ढस्य लोपाभावे उदाहरति / शिण्ड्ढीति // वस्तुतस्तु सानुस्वार एव पाठ उचितः 'दीर्घादाचार्याणाम्' इत्युत्तरं 'अनुस्वारस्य ययि परसवर्णः' ‘वा पदान्तस्य' 'तोर्लि' 'उदः स्थास्तम्भ्वोः पूर्वस्य' झयो होऽन्यतरस्याम् / ‘शश्छोटि' इति षट्सूत्रपाठोत्तरं 'झलाञ्जश्झाशि' 'अभ्यासे चर्च' 'खरि च' ‘वावसाने' 'अणोऽप्रगृह्यस्यानुनासिकः' इति पञ्चसूत्रपाठ इति भाष्यसम्मताष्टाध्यायीपाठे परसवर्णदृष्ट्या 'झलाजशझशि' इत्यस्य 'झरो झरि' इत्यस्य चासिद्धत्वेन ययपरत्वाभावे परसवर्णाप्राप्ने. रिति शब्देन्दुशेखरे स्थितम् / शिष्टात् / शिष्टम् / शिष्ट / शिनषाणीति // आटः पित्त्वेन डित्त्वाभावात् ‘श्नसोः' इत्यल्लोपो नेति भावः / अशिनडिति // लङस्तिपो हल्ड्यादिलोपे षस्य जश्त्वमिति भावः / अशिष्टाम् / अशिंषन् / अशिनट् / अशिंष्टम् / अशिष्ट / अशिनषम् / अशिंष्व / अशिष्म / भजो आमर्दने / भनक्तीति // श्नमि भ न न् ज् ति इति स्थिते ‘श्नान्न लोपः' इति नलोप इति भावः / भक्तः / भजन्तीत्यायूह्यम् / भारद्वाजनियमात्थलि वेडिति मत्वा आह / बभञ्जिथ-बभक्थेति॥भतेति // अनिडिति भावः / भुज पालनेति // 'भुजोऽनवने' इति तङ् वक्ष्यते / भुङ्क्ते / भुञ्जाते इत्यादि / तृह, हिसि, हिंसायाम् / ऋदुपधः / For Private And Personal Use Only
Page #272
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदीसहिता [रुधादि 2545 / तृणह इम् / (7-3-92) तृहः अमि कृते इमागम: स्याद्धलादौ पिति / तृणेढि / तृण्ढः / ततर्ह / तर्हिता / अतृणेट् / हिनस्ति / जिहिंस। हिंसिता / उन्दी 1458 क्लेदने / उनत्ति / उन्तः / उन्दन्ति / उन्दाञ्चकार / औनत् / औन्ताम् / औन्दन् / औनः-औनत् / औनदम् / अङ्घ 1459 व्यक्तिमर्षणकान्तिगतिषु / अनक्ति / अतः / अञ्जन्ति / आनञ्ज / आनजिथ-आनळ्थ / अङ्का / अजिता / अङ्ग्धि / अनजानि / आनक् / सेट् / श्नमि कृते णत्वे तृणह ति इति स्थिते। तृणह इम् // तृणह इति षष्ठी। कृतनमः तृहधातोर्निर्देशः / ‘नाभ्यस्तस्य' इत्यतः पितीति 'उतो वृद्धिः' इत्यतः हलीति चानुवर्तते / फलितमाह / तृहः श्नमि कृते इति // मित्त्वादचः परः। श्रमि कृते इत्यनुक्ती तु येन नाप्राप्तिन्यायेन इमागमेन श्नम् बाधेत। “सत्यपि सम्भवे बाधनम्भवति" इति न्यायात् / अन्यथा “ब्राह्मणेभ्यो दधि दीयताम् / तक्रं कौण्डिन्याय” इत्यत्र तक्रेण दधि न बाध्येत / श्नमा शपच न बाध्येत / देशभेदेन उभयसम्भवादिति भावः / तृणेढीति // तृणह् ति इति स्थिते इमागमे आद्गुणे तृणे ह् ति इति स्थिते / ढत्वधत्वष्टुत्वढलोपा इति भावः / तृण्ढः इति // तसि नमि कृते तृणह् तस् इति स्थिते तसः अपित्त्यादिमागमाभावे नसोः' इत्यल्लोपे ढत्वधत्वष्टुत्वढलोपा इति भावः। तूंहन्ति / तृणेक्षि / तृण्ढः / तृण्ढ / तृणेमि / दृह्वः / तृह्मः / ततहेति // ततृहतुः / तर्हिथ / ततृहिव / तर्हितेति // सेडिति भावः। तर्हिध्यति / तृणेढु-तृण्डात् / तृण्डाम् / तूंहन्तु / तृण्डि-तृण्ड्ढि / तृण्डात् / तृण्डम् / तृण्ड / तृणहानि / तृणहाव / तृणहाम / अतृणेडिति // लङस्तिपि श्रमि इम् हल्ङयादिलोपः ढत्वजश्त्वे इति भावः / अतृण्ढाम् / अतृहन् / अतृणेट / अतृ. ण्ढम् / अतृण्ढ / अतृणहम् / अतृह / अतृह्म / दृह्यात् / तृह्यात् / अतहीत् / अतर्हिष्यत् / हिसिधातोरुदाहरति / हिनस्तीति // इह श्रमि इदित्त्वान्नुमि च कृते 'श्नान लोपः' इति नुमो लोप इति भावः / हिंस्तः। हिंसन्ति / हिनस्सि / हिंस्थः / हिंस्थ / हिनस्मि / हिंस्वः / हिंस्मः / जिहिंसेति // किति इदित्त्वानलोपो न / जिहिंसतुः / जिहिसिथ / हिंसितेति // सेडिति भावः। हिंसिष्यति / हिनस्तु / हिंस्ताम् / हौ नमि नुमि कृते ‘श्नानलोपः' इति नुमो लोपे हेरपित्त्वेन डित्त्वात् 'नसोः' इत्यल्लोपे 'धि च' इति सलोपे, हिन्धि इति रूपम्। हिंस्तात्। हिनसानि। अहिनत् / अहिंस्ताम् / अहिंसन् / सिपि रा / अहिन:-अहिनत् / अहिं. स्तम् / अहिनसम् / अहिंस्व / हिंस्यात् / हिंस्याताम् / आशालिडि नमभावान्नुमेव / इदित्त्वान्नलोपो न / हिंस्यादित्येव / हिंस्यास्ताम् / अहिंसीत् / अहिंसिष्यत् / उन्दी क्लेदने / उन्दन्तीति // उनत्सि / उन्थः / उनभि / उन्दुः / उन्दामिति // इजादेश्चेत्याम् / उन्दिता / उन्दिष्यति / उनत्तु-उन्तात् / उन्धि / उनदानि / लङ्याह / औनदिति // औन्ताम् / औन्दन् / औनः-औनत् / औनदम् / औन्द्र / उन्द्यात् / उद्यात् / अञ्जूधातुः For Private And Personal Use Only
Page #273
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा। 271 2546 / अञ्जेः सिचि / (7-2-71) अजे: सिचो नित्यमिट् स्यात् / आजीत् / तञ्चू 1460 सङ्कोचने / तला-तञ्चिता। ओ विजी 1461 भयचलनयोः / विनक्ति / वितः / 'विज इट' (सू 2536) इति डिन्त्वम् / विविजिथ / विजिता / अविनक् / अविजीत् / वृजी 1462 वर्जने / वृणक्ति। वर्जिता / पृची 1463 सम्पर्के / पृणक्ति / पपर्च। इति तिङन्तरुधादिप्रकरणम् / नोपधः। कृतपरसवर्णनिर्देशः। ऊदित्त्वाद्वेट् / अनक्तीति // नमि कृते परसवर्णस्यासिद्ध त्वात् 'नान्न लोपः' इति नकारलोपे जस्य कुत्वेन गः तस्य चर्बेन कः इति भावः / अतः इति // नलोपे अल्लोपे जस्य कुत्वेन ग: गस्य चर्वेन कः श्नमो नस्य परसवर्णो ङ इति भावः / अञ्जन्तीति // नलोपालोपौ / नमो नस्य परसवर्णो अ इति भावः / अनङ्क्षि / अथः / अनज्मि / अज्वः / अङ्ग्धीति // हौ श्रमि धिभावे नलोपालोपौ / जस्य कुत्वेन गकारः नस्य परसवर्णो डकार इति भावः / अनजानीति // श्नानलोपः / आटः पित्त्वादल्लोपो न / लड्याह / आनगिति // आङ्क्ताम् / आजन् / अङ्ग्यात् / अज्यात् / अञ्जेस्सिचि // 'इडत्यति' इत्यतः इडित्यनुवर्तते / ऊदित्त्वादेव सिद्धे नित्यार्थमिदम् / तदाह / अञ्जरित्यादिना // तञ्चू सङ्कोचने / नोपधः कृतपरसवर्णनिर्देशः / अङ्ग्वद्रूपाणि / यथायोग्यमूह्यानि / ओ विजीति // ओकार इत् / अनिट्सु इरितो ग्रहणादयं सेट् // इति श्रीवासुदेवदीक्षितविदुषा विरचितायां सिद्धान्तकौमुदी व्याख्यायां बालमनोरमायां श्नम्विकरणं समाप्तम् / For Private And Personal Use Only
Page #274
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir / श्रीरस्तु। // अथ तिङन्ततनादिप्रकरणम् // अथ सप्त स्वरितेतः / तनु 1464 विस्तारे / 'तनादिकृभ्य उ:' (सू 2466) / तनोति / तन्व:-तनुवः / तनुते / ततान / तेने / तनु / अतनीत्-अतानीत् / 2547 / तनादिभ्यस्तथासोः / (2-4-79) तनादेः सिचो वा लुक्स्यात्तथासोः / थासा साहचर्यादेकवचनतशब्दो गृह्यते / तेनेह न / यूयमतनिष्ट--अतानिष्ट / 'अनुदात्तोपदेश-' अथ उविकरणधातवो निरूप्यन्ते / तनुधातुरुदित् / 'उदितो वा' इति प्रयोजनम् / तनादिकृभ्य उः // कर्बर्थे सार्वधातुके तनादिभ्यः कृजश्च उप्रत्ययः स्यात् स्मार्थे इत्यर्थः / शपोऽपवादः / तनोतीति // उप्रत्ययस्य तिपमाश्रित्य गुणः / तसादौ तु ङित्त्वान गुणः / तनुतः / झोऽन्तादेशे कृते उवङम्बाधित्वा 'हुश्नुवोः' इति यण् / तन्वन्ति / तनोषि / तनुथः / तनुथ। तनोमि। 'लोपश्चास्यान्यतरस्याम्' इत्युकारलोपविकल्पमभिप्रेत्याह। तन्वः-तनुवः इति // तड्याह / तनुते इति // तन्वाते। तन्वते / तनुषे / तन्वाथे / तनुध्वे / तन्वे / तनुवहे / तन्वहे / तनुमहे / तन्महे / ततानेति // तेनतुः। तेनिथ / तेन। तेनिव / तङ्याह / तेने इति // तेनाते। तेनिरे। तेनिषे। तेनाथे। तेनिध्वे / तेने / तेनिवहे / तेनिमहे / तनिता / तनिष्यति / तनिध्यते / तनोतु-तनुतात् / तनुताम् / तन्वन्तु / 'उतश्च प्रत्ययात्' इति हे कं मत्वा आह / तन्विति // तनुतात् / तनुतम् / तनुत / तनवानि / तनवाव / तनवाम / अतनोत् / अतनुताम् / अतन्वन् / अतनोः। अतनवम् / अतन्व। अतनुव / तनुयात् / तन्वीत / तनिषीष्ट / अतो हलादेरिति वृद्धिविकल्पं मत्वा आह / अतनीत्-अतानीदिति // अतनिष्टाम् / अतनिषुः / अतनीः। अतनिष्टम् / अतनिष्ट / अतनिषम् / अतनिष्व / अतनिष्म / वृद्धिपक्षे अतानिष्टामित्यादि / अतनिष्यत् / लुङः प्रथमैकवचने मध्यमपुरुषैकवचने च विशेषमाह / तनादिभ्यस्तथासोः॥ ‘गातिस्था' इत्यतस्सिच इति‘ण्यक्षत्रियार्ष' इत्यतोलुङीति 'विभाषा प्राधेट्' इत्यतो वेति चानुवर्तते। तदाह / तनादेरित्यादिना ॥एकवचनतशब्दो गृह्यते इति // नतु लुङादेशपरस्मैपदमध्यमपुरुषबहुवचनतादेशोऽपीत्यर्थः / यूयमिति // लुङि मध्यमपुरुषबहुवचने सिचि वृद्धिविकल्पे सति अतनिष्ट, अतानिष्टेत्यत्र सिचो नायं लुग्विकल्प इत्यर्थः / तदेवं प्रत्युदाहरणमुक्त्वा सूत्रस्योदाहरणं वक्ष्यन् प्रक्रियां दर्शयति / अनुदात्तोपदेशेत्यनुनासिकलोपः। तङीति // तङि प्रथमैकवचने तशब्दे मध्यमपुरुषैकवचने थासि च सिचो लुकि 'अनुदात्तोपदेश' इति नकारस्य लोप इत्यर्थः। तदाह / अतत For Private And Personal Use Only
Page #275
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बालमनोरमा। 273 (सू 2428) इत्यनुनासिकलोपः / तङि / अतत-अतनिष्ट / अतथा:-अतनिष्ठाः / षणु 1465 दाने / सनोति / सनुते / 'ये विभाषा' (सू 2619) / सायात्-सन्यात् / 'जनसन-' (2504) इत्यात्त्वम् / असात-असनिष्ट / असाथा:-असनिष्ठाः / क्षणु 1466 हिंसायाम् / क्षणोति / क्षणुते / ‘ह्मथन्त-' (सू 2299) इति न वृद्धिः / अक्षणीत् / अक्षत-अक्षणिष्ट / अक्षथा:-अक्षणिष्ठाः / क्षिणु 1467 च / उप्रत्ययनिमित्तो लघूपधगुणः / 'संज्ञापूर्वको विधिरनित्यः' (94) इति न भवतीत्यात्रेयादयः / भवत्येवेत्यन्ये / क्षिणोति-क्षेणोति / क्षेणितासि / क्षेणितासे / अक्षेणीत् / अक्षित-अक्षेणिष्ट / ऋणु 1468 गतौ / ऋणोति-अर्णोति / अर्गुतः / अणुवन्ति / आनर्ण / आनृणे / अर्णितासि / आणीत् / आर्त-आणिष्ट / आर्था:--आणिष्ठाः / तृणु 1469 अदने / तृणोति-तर्णोति / तृणुते--तणुते / घृणु 1470 दीप्तौ / जघर्ण / जघृणे। .. अथ द्वावनुदात्तेतौ / वनु 1471 याचने / वनुते / ववने / चान्द्रमते परस्मैपदी / वनोति / ववान / मनु 1472 अवबोधने / मनुते / मेने / डु कृञ् 1473 करणे / करोति / 'अत उत्सार्वधातुके' (सू 2467) कुरुतः / यण् 'न भकुर्छराम्' (सू 1629) इति न दीर्घः / कुर्वन्ति / 2548 / नित्यं करोतेः / (6-4-108) अतनिष्टेति // अतथा:-अतनिष्ठाः इतिच॥ अतनिषाथामित्यादि सुगमम् / 'षणु दाने'। षोपदेशोऽयम् / तनुवद्रूपाणि / असातेति // सिचो लुक्पक्षे रूपम् / असनिष्टेति // इट् / झलादिपरकत्वाभावादात्त्वन्नेति भावः। क्षणुधातुरदुपधः। "वज्रेऽध्वर्युः क्षण्वीत" इति तैत्तिरीये। क्षिणु चेति // इदुपधः / अयमपि हिंसायामित्यर्थः / “वज्रेऽध्वर्युः क्षिण्वीत" इति शाखान्तरं शाबरभाष्ये उदाहृतम् / ननु क्षिणोतीत्यत्र उप्रत्ययमाश्रित्य इकारस्य लघूपधगुणः कस्मानेत्यत आह / उप्रत्ययनिमित्तः इति // 'ऋणु गतौ' / अनापि क्षणुवत् / मतभेदालघूपधगुणतदभावौ / तदाह / ऋणोति-अर्णोतीति // एवमग्रेऽपि / अर्णवन्तीति // संयोगपूर्वकत्वात् 'हुश्नुवोः' इति न यणिति भावः / डु कृञ् करणे / करोतीति // उप्रत्ययमाश्रित्य ऋकारस्य गुण: रपरत्वम् / उकारस्य तु तिपमाश्रित्य गुणः / कुरुतः इति // तसो ङित्त्वादुकारस्य न गुणः / कुरु अन्ति इति स्थिते उवङमाशङ्कय आह / यणिति // 'हुश्नुवोः' इत्यनेनेति शेषः। उकारस्य यणि कुव् अन्ति इति स्थिते 'हील च' इति दीर्घमाशङ्कय आह। नभेति॥ वसि मसि च 'लोपश्चास्यान्यतरस्याम्' इत्युकारलोपविकल्पे प्राप्ते। नित्यं करोतेः॥ 'उतश्च प्रत्य 35 For Private And Personal Use Only
Page #276
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 274 सिद्धान्तकौमुदीसहिता तर्नादि करोतेः प्रत्ययोकारस्य नित्यं लोप: स्याद्वमयोः परयोः / कुर्वः / कुर्मः। चकर्थ / चकृव / कर्ता / करिष्यति / 2549 / ये च (6-4-109) कृष उलोप: स्याद्यादौ प्रत्यये परे / कुर्यात् / आशिषि क्रियात् / कृषीष्ट / अकार्षीत् / 'तनादिभ्य:-' (सू 2547) इति लुकोऽभावे 'हस्वादजात्' (सू 2369) इति सिचो लोप: / अकृत / अकृथाः / 2550 / संपरिभ्यां करोती भूषणे / (6-1-137) 2551 / समवाये च / (6-1-138) सम्परिपूर्वस्य करोते: सुट् स्याद्भूषणे सङ्घाते चार्थे / संस्करोति / अलङ्करोतीत्यर्थः / संस्कुर्वन्ति / सङ्घीभवन्तीत्यर्थः / संपूर्वस्य क्वचिदभूषणेऽपि सुट् / 'संस्कृतं भक्षा:' (सू 1217) इति ज्ञापकात् / परिनिविभ्यः-' (सू 2275) इति ष: / परिष्करोति / 'सिवादीनां वा-' (सू 2359) / पर्यष्कार्षीत्-पर्यस्कार्षीत् / 2552 / उपात्प्रतियत्नवैकृतवाक्यायाहारेषु च / (6-1-139) उपात्कृत्रः सुट् स्यादेष्वर्थेषु / चात्प्रागुक्तयोरर्थयोः / प्रतियत्नो गुणाधानम्। विकृतमेव वैकृतं विकारः / वाक्यस्याद्ध्याहार: आकाङ्कितैकदेशपूरणम् / यात्' इत्यनुवर्तते। 'लोपश्चास्यान्यतरस्याम्' इत्यतः लोपः म्वारिति च। तदाह / करोतरिति // चकर्थेति॥'कृसभृ' इति नेडिति भावः / अजन्तत्वेऽपि ऋदन्तत्वात् भारद्वाजमतेऽपि नेट् / करिष्यतीति // करोतु-कुरुतात् / कुरु। करवाणि / कुरुताम् / कुर्वाताम् / करवै / करवावहै / करवामहै। अकरोत् / अकुरुताम् / अकुरुत। अकुर्वाताम् / विधिलिङि कुरु यात् इति स्थिते / ये च // 'लोपश्चास्यान्यतरस्याम्'इत्यतो लोप इति अस्येति चानुवर्तते। अस्येत्यनेन पर्वसूत्रे उत इत्युपात्तः उत्परामृश्यते। 'नित्यङ्करोतेः' इत्यतः करोतेरित्यनुवर्तते। अङ्गाक्षिप्तः प्रत्ययो यकारेण विशेष्यते तदादिविधिः। तदाह / कृञः उलोपः इति / आशिषि क्रिया दिति // 'रिङ् शयग्लिक्षु' इति रिङिति भावः। कृषीष्टेति // 'उश्च' इति कित्त्वान्न गुण इति भावः / अकार्षीदिति // सिचि वृद्धौ रपरत्वमिति भावः / ननु लुङस्तडि अकृ स् त इति स्थिते ' तनादिभ्यस्तथासोः' इति सिचो लुकि अकृतेतीष्टं सिद्ध्यति / सिचो लुगभावे तु सकारः श्रूयेतेत्यत आह / तनादिभ्यः इत्यादि // संपरिभ्याम् / समवाये च // सुट् स्यादिति // ‘सुट् कात्पूर्वः' इत्यतः 'नित्यं करांतेः' इत्यतश्च तदनुवृत्तरिति भावः / प्रागुक्तयोरिति // भूषणसमवाययोरित्यर्थः। ननु 'सपरिभ्याम्' इति सुट् पदव्यापेक्षत्वात् For Private And Personal Use Only
Page #277
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा। 275 उपस्कृता कन्या / अलङ्कृतेत्यर्थः / उपस्कृता: ब्राह्मणा: / समुदिता इत्यर्थः / एधो दकस्योपस्कुरुते। गुणाधानं करोतीत्यर्थः / उपस्कृतं भुङ्क्ते। विकृतमित्यर्थः / उपस्कृतं ब्रूते / वाक्याझ्याहारेण ब्रूते इत्यर्थः / 2553 / सुटकात्पूर्वः / (6-1-135) ‘अडभ्यासव्यवायेऽपि' इत्युक्तम् / सञ्चस्कार / 'कात्पूर्वः' इत्यादि भाष्ये प्रत्याख्यातम् / तथा हि 'पूर्व धातुरुपसर्गेण युज्यते' / अन्तरङ्गत्वासुद / ततो द्वित्वम् / एवं च ऋतश्च संयोगादेर्गुणः' (सू 2389) सञ्चस्करतुः / 'कृस्मृभृवृ-' (सू 2293) सूत्र 'ऋतो भारद्वाजस्य' (सू 2296) वहिरङ्गः। 'लिटि धातोः' इति द्वित्वन्तु प्रकृतिप्रत्ययमात्रापेक्षत्वादन्तरङ्गम् / ततश्च सञ्चस्कार इत्यत्र परमपि सुटं बाधित्वा द्वित्व कृत अभ्यासात्प्रार्गव सुटि प्राप्त / सुटकात्पूर्वः // षष्ठस्याद्यपादे इदं सूत्रम् / 'सम्परिभ्याङ्कराती भूषण' 'समवाय च' 'उपात्प्रतियत्न' इत्यारभ्य 'अनुदात्तं पदमेकवर्जम्' इत्यतः प्रागिदमधिकृतं वदितव्यमित्यर्थः / एवञ्च पूर्व इत्युक्तरभ्यासात् प्राक् न सुडिति भावः / नन्वभ्यासन व्यवधानात्कथामह उत्तरखण्डस्य सुट्। संस्करीतीत्यादी अव्यवहिते सुविधेश्चरितार्थत्वात् / किञ्च समस्करात् इत्यत्र अटा व्यवधानात् कथं सुट् / नह्यडागम: कृञ्भक्तः / अङ्गभक्तत्वात् / विकरणान्तस्यवाङ्गत्वादित्यत आह / अडभ्यासव्यवायेऽपी. त्युक्तमिति // वार्तिकमिति शेषः / अटा अभ्यासन च व्यवधानऽपि सम्पयादिभ्यः परस्मात् कात्पूर्वस्सुाडत्यर्थः। इत्यादीति // सुद् इत्येवाधिकृतमस्तु कात्पूर्वः' इात 'अडभ्यासव्यवायऽपि' इति मास्त्वत्यव भाध्य प्रत्याख्यातमित्यर्थः / तदवापपादायतु प्रातजानांत / तथा हानि // पूर्व धातुरुपसर्गण युज्यते इति॥ पश्चात्साधननात शषः। ततश्च पूर्वोपनिपतितधातूपसर्गसम्बन्धनिमित्तकङ्काय पश्चादनुपतिष्यद्धातुप्रत्ययसम्बन्धनिमित्तकात्कायादन्तरङ्गम् / प्रथमोपन्धि तत्वात् / तदुक्तं भाष्ये / “पूर्व धातुरुपसगंणात कृत्वा धातूपसर्गया: कायमन्तरङ्गम्” इति / तदाह / अन्तरङ्गत्वात्सुट् / ततो द्वित्वामाते // तथा सुाट कृत स्कृ इत्यस्य द्वित्वे उरदत्त्वे रपरत्व 'शपूर्वाः खयः' इति रंफसकारयानिवृत्ता अभ्यासचुन्व सञ्चस्कारति रूपसिद्धेः 'कात्पूर्वः' इति अडभ्यासव्यवायऽपि, इति च न कर्तव्यमिति भावः / एवं समस्करोदित्यत्रापि विकरणान्ताङ्गभक्ताडागमापक्षया अन्तरङ्गत्वात् प्रथमं सुद् भावष्यतीति कृत्वा अग्यवायेऽपी. त्यंशो न कर्तव्य इन्यूह्यम् / पूर्व धातुरुपसगणत्याश्रयण फलान्तरमप्याह / एवञ्चति // उक्तरीत्या अन्तरङ्गत्वात् सुटि कृत संस्कृ इत्यस्मालिटः अतुसि 'ऋतश्च संयोगादगुणः' इति गुणे सञ्चस्करतुरिति सिद्ध्यति / “पूर्व धातुस्साधनन युज्यते” इत्याश्रयण तु चकरतुरिति परिनिष्ठितस्य सामत्युपसर्गसंयोगसिद्धारति भावः / ननु सञ्चस्करिव, सञ्चस्करिम, इत्यत्र च 'कृसृभृवृ' इति 'ऋता भारद्वाजस्य' इति च इनिषेधः स्यादित्यत आह / कृसृभृवृ सूत्रे इत्यादि // नन्वाशीर्लिडि संस्कियादित्यत्र 'गुणोऽर्तिसंयोगाद्याः' इति गुणः कुतो नेत्यत For Private And Personal Use Only
Page #278
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 276 सिद्धान्तकौमुदीसहिता इति सूत्रे च 'कृषोऽसुट इति वक्तव्यम्' (वा 4401) तेन ससुटकात्परस्येट' / सञ्चस्करिथ / सञ्चस्करिव / 'गुणोऽति-' (सू 2380) इति सूत्रे 'नित्यं छंदसि' (सू 3587) इति सूत्रात् 'नित्यम्' इत्यनुवर्तते / 'नियं यः संयोगादिस्तस्य' इत्यर्थात् सुटि गुणो न / संस्क्रियात् / 'ऋतश्च संयोगादेः' (सू 2526) इति लिङ्सिचोर्नेट् / 'एकाच उपदेशे-' (सू 2276) इति सूत्रात् 'उपदेशे' इत्यनुवर्त्य -- उपदेशे यः संयोगादिः' इति व्याख्यानात् / संस्कृषीष्ट / समस्कृत / समस्कृषाताम् / इति तिङन्ततनादिप्रकरणम् / आह / गुणोऽर्तीत्यादि // ननु तङि संस्कृषीष्ट, इति लिङि समस्कृत, समस्कृषाताम्, इति लुडि च 'ऋतश्च संयोगादेः' इति इट् कुतो नेत्यत आह / ऋतश्चेत्यादि // इति श्रीवासुदेवदीक्षितविदुषा विरचितायां सिद्धान्तकौमुदीव्याख्यायां बालमनोरमाया उविकरणनिरूपणं समाप्तम् / For Private And Personal Use Only
Page #279
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir / श्रीरस्तु। // अथ तिङन्तक्रयादिप्रकरणम् // डु क्रीम् 1474 द्रव्यविनिमये / 2554 / क्रयादिभ्यः श्ना / (3-1-81) क्रीणाति / 'ई हल्यघोः' (सू 2497) / क्रीणीतः / ईत्वात्पूर्व झेरन्तादेशः / परत्वान्नित्यत्वादन्तरङ्गत्वाच्च / एवं झस्य अद्भावः / ततः नाभ्यस्तयो:-' (सू 2483) इत्याल्लोपः / क्रीणन्ति / क्रीणीते / क्रीणाते / क्रीणते / चिक्राय / चिक्रियतुः / चिक्रयिथ-चिक्रेथ / चिक्रियिव / चिक्रियिषे / क्रेता / क्रेष्यति / क्रीयात् / ऋषीष्ट / अझैषीत् / अवेष्ट / प्रीञ् 1475 तर्पणे कान्तौ च / कान्तिः कामना / प्रीणाति / प्रीणीते / श्रीञ् 1476 पाके। मीत्र 1477 हिंसायाम् / ' हिनुमीना' (सू 2530) / प्रमीणाति / प्रमीणीतः / 'मीनातिमिनोति--' (सू 2508) इत्येविषये आत्त्वम् / ममौ / मिम्यतुः / ममिथ-ममाथ / मिम्ये / माता / मास्यति / मीयात् / मासीष्ट / अमासीत् / अमासिष्टाम् / अमास्त / पिञ् 1478 वन्धने / सिनाति। सिनीते / सिषाय। सिष्ये / सेता / स्कुञ् 1479 आप्रवणे / __ अथ श्नाविकरणधातवो निरूप्यन्ते / डु क्रीनिति // ऋयादिभ्यःना // कर्थे सार्वधातुके परे क्रयादिभ्यः श्नाप्रत्ययः स्यात् / स्वार्थ इत्यर्थः / शपोऽपवादः / क्रीणातीति // श्नाप्रत्ययस्य अपित्सार्वधातुकत्वेन ङित्त्वादीकारस्य न गुण इति भावः / ई हल्यघोरिति // हलादौ क्ङिति सार्वधातुके ईत्वमिति भावः। की णा झि इति स्थिते ‘ई हल्यघोः' इति ईत्वमाशय आह। ईत्वात्पूर्वमिति / नित्यत्वादिति // अकृते कृते च ईत्वे अन्तादेशस्य प्रवृत्तेरिति भावः / एवं झस्येति // की णा झ इति स्थिते 'आत्मनेपदेष्वनतः' इत्यदादेशोऽपि ईत्वात्पूर्वमित्यर्थः / ततः इति // अन्तादेशाददादेशाच्च पश्चादित्यर्थः / अजादौ विङति सार्वधातुके नाप्रत्ययस्य आल्लोपः / भारद्वाजनियमात्थलि वेडिति मत्वा आह / चिक्रायथ-चिक्रेथेति / चिक्रियि. वेति // कादिनियमादिडिति भावः / क्रीणातु / क्रीणीहि / अक्रीणात् / अक्रीणीत। क्रीणीयात् / For Private And Personal Use Only
Page #280
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 278 सिद्धान्तकौमुदीसहिता [क्रयाद 2555 / स्तन्भुस्तुन्भुस्कन्भुस्कुन्भुस्कुञ्भ्यः नुश्च / (3-1-82) चात् ना / स्कुनोति / स्कुनुते / स्कुनाति। स्कुनीते / चुस्काव। चुस्कुवे / स्कोता / अस्कौषीत् / अस्कोष्ट / 'स्तन्भ्वादयश्चत्वारः सौत्राः'। सर्वे रोधनार्था इत्येके / माधवस्तु प्रथमतृतीयौ स्तम्भार्थौ / द्वितीयो निष्कोषणार्थश्चतुर्थो धारणार्थ इत्याह / सर्वे परस्मैपदिनः / नलोप: / विष्टश्नोति-विष्टभ्नाति / अवष्टभ्नोति-अवष्टभ्नाति / अवतष्टम्भ / 'जस्तन्भु-' (सू 2291) इत्यङ् वा / व्यष्टभत् / व्यष्टम्भीत् / स्तुभ्नोति / स्तुध्नाति / __2556 / वेः स्कन्नातेनित्यम् / (8-3-77) वे: परस्य स्कभ्नाते: सस्य ष: स्यात् / विष्कभ्नोति-विष्कभ्नाति / स्कुभ्नोति / स्कुभ्नाति / 2557 / हलः श्नः शानज्झौ / (3-1-83) हल: परस्य नः शानजादेशः स्याद्धौ परे / स्तभान / स्तुभान / स्कभान / स्कुभान / पक्षे 'स्तम्नुहि' इत्यादि / युञ् 1480 बन्धने / युनाति / युनीते / योता / क्नूञ् 1481 शब्दे / क्नूनाति / क्नूनीते / क्नविता / दूञ् 1482 हिंसायाम् / द्रूणाति / द्रूणीते / पूञ् 1483 पवने / 2558 / प्वादीनां हस्वः। (7-3-80) शिति परे / पुनाति / पुनीते / पविता / लूञ् 1484 छेदने / लुनाति / लुनीते / स्तृञ् 1485 आच्छादने / स्तृणाति / स्तृणीते / तस्तार / तस्तरतुः / स्तरिता-म्तरीता। स्तृणीयात् / स्तृणीत / आशिषि स्तीर्यात् / लिङ्सिचो:-' क्रीणीत। सौत्राः इति // नोपधा इत्यपि ज्ञेयम् / नलोपः इति // 'अनिदिताम्' इत्यनेनेति भावः / विष्टभ्नोतीति // 'स्तन्भेः' इति षत्वम् / अवष्टन्नोतीति // 'अवाञ्चालम्बनाविदर्ययोः' इति षत्वम् / अवतष्टम्भेति // 'स्थादिष्वभ्यासेन' इति षत्वम् / व्यष्टभदिति // 'प्राक्सितात्' इति षत्वम् / स्तभानेति // श्नाप्रत्ययस्य शानजादेशे कृते 'अतो हेः' इति लुक् / प्वादीनां ह्रस्वः॥ 'ष्ठिवुक्लम्वाचमाम्' इत्यतश्शितीत्यनुवर्तत इत्यभिप्रेत्य शेषम्पूरयति। शिति परे इति / पवितेति // ऊकारान्तत्वात् सेङिति भावः / स्तृञ् आछादने / सेट् / तस्तरतुरिति // कित्त्वेऽपि 'ऋच्छत्यताम' इति गुणः / स्तरिता-स्तरीतेति // 'वृतो वा' इति दीर्घविकल्पः / आशिषि स्तोर्यादिति // 'ऋत इद्धातोः' इति इत्त्वे रपरत्वे 'हलि च' इति दीर्घः / स्तृषीष्ट इति स्थिते आह / लिङ्सिचोरिति वेडिति // वृतो वा' इति दीर्घविकल्पनिषेधसूत्रं For Private And Personal Use Only
Page #281
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा / 279 (सू 2528) इति वेट् / 'न लिङि' (सू 2529) इति वृत इटो लिङि दीर्घो न स्यात् / स्तरिषीष्ट। ' उश्च' (सू 2368) इति कित्त्वम् / स्तीर्षीष्ट / 'सिचि च परस्मैपदेषु' (सू 2392) इति न दीर्घः / अस्तारीत् / अस्तारिष्टाम् / अस्तरीष्ठ-अस्तरिष्ठ-अस्तीष्ट / कञ् 1486 हिंसायाम् / कृणाति / कृणीते / चकार / चकरे / वृञ् 1487 वरणे / वृणाति / वृणीते / ववार ) ववरे / वरिता--वरीता। आशिषि ‘उदोष्टयपूर्वस्य' (सू 2494) / वुर्यात् / वरिषीष्ट-वर्षीष्ट / अवारीत् / अवारिष्टाम् / अवरिष्ठ-अवरीष्ट-अवूष्ट / धूच् 1488 कम्पने / धुनाति / धुनीते। दुधविथ--दुधोथ / दुधुविव / धविता-- धोता। 'स्तुसुधूभ्य:-' (सू 2385) / इतीट् / अधावीत् / अधविष्ट-अधोष्ट / अथ बध्नात्यन्ता: परस्मैपदिन: / शु 1489 हिंसायाम् / शुदृप्रां ह्रस्वो वा' (2495) इति ह्रस्वपक्षे यण / अन्यदा ऋच्छत्यताम् / (सू 2383) इति गुणः / शश्रतुः-शशरतुः / 'श्रयुकः किति' (2381) इति निषेधस्य क्रादिनियमेन बाधः / शशरिव-शश्रिव / शरिता--शरीता / श्रृणीहि / शीर्यात् / अशारिष्टाम् / पृ 1490 पालनपूरणयोः / पप्रतुः-पपरतुः / आशिषि पूर्यात् / व 1491 वरणे / 'भरणे' इत्येके / भृ 1492 भर्सने / स्मारयति / न लिङीति // वृत इटो दीर्घो नेत्यर्थः / इडभावपक्षे स्तृ षीष्ट इत्यत्र गुणमाशङ्कय आह। उश्चेति कित्त्वमिति // लुङिः परस्मैपदे सिचि ‘लिङ्सिचोः' इति इडभावपक्षे अस्तारिष्टाम् इत्यत्र ‘वृतो वा' इति इटो दीर्घविकल्पे प्राप्ते आह / सिचि चेति // अस्तरीष्ट-अस्तरिष्टेति // वृतो वा' इति दीर्घः / अस्तीति // 'लिङ्सचोः' इति इडभावपक्षे ऋत इत्त्वे 'हलि च' इति दीर्घ इति भावः / “कृञ् हिंसायाम्' / चकरे इति // 'ऋच्छत्यताम् ' इति गुणः / वृञ् वरणे इति // आशिषीति // वृ यात् इति स्थिते 'उदोष्ठ्यपूर्वस्य' इति ऋकारस्य उत्त्वमित्यर्थः / तत्र दन्त्योष्ठ्यपूर्वस्यापि ग्रहणादिति भावः / ऋत उत्त्वे रपरत्वे 'हलि च' इति दीर्घ इति बोध्यम् / वरिषीष्ट-वूष्टेिति // “लिङ्सि. चोः' इति वेद / इडभावे 'उश्च' इति कित्त्वाद्गुणाभावे उत्त्वे रपरत्वे 'हलि च' इति दीर्घ इति भावः / अवारिष्टामिति // 'सिचि च' इति इटो न दीर्घ इति भावः / अव. रिष्ट-अवरीष्टेति / / 'वृतो वा' : सिच इटो दीर्घविकल्प इति भावः / दुधविथदुधोथेति // 'स्वरतिसूतिसूयतिधूदितः' इति वेडिति भावः / 'शू हिंसायाम्' / सेट् / णलि शशार / शय अतुस् इत्यत्र कित्त्वेऽपि 'ऋच्छत्यताम्' इति नित्ये गुणे प्राप्ते आह / शृदृप्रामिति // गुणापवादे पाक्षिके ह्रस्वे कृते ऋकारस्य याणि रेफ इत्यर्थः / शशरिथ / पृधातुरपि शृधातुवत् / आशिषि पूर्यादिति // 'उदोष्ठ्यपूर्वस्य ' इत्युत्त्वमिति भावः / For Private And Personal Use Only
Page #282
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 280 सिद्धान्तकौमुदीसहिता [क्रयादि भरणेऽप्येके / मृ 1493 हिंसायाम् / मृणाति / ममार। दृ 1494 विदारणे / ददरतुः- दद्रतुः / ददुः / जृ 1495 वयोहानौ / 'अ' इत्येके / 'धृ' इत्यन्ये / नृ 1496 नये / कृ 1497 हिंसायाम् / ऋ 1498 गतौ / ऋणाति / अराञ्चकार / अरिता--अरीता / आर्णात् / आणीताम् / ईर्यात् / आरीत् / आरिष्टाम् / गृ 1499 शब्दे / ज्या 1500 वयोहानौ / 'अहिज्या-' (सू 2412) / 2559 / हलः / (6-4-2) अङ्गावयवाद्धलः परं यत्सम्प्रसारणं तदन्ताङ्गस्य दीर्घः स्यात् / इति दीर्घ कृते / 'प्वादीनां ह्रस्वः' (सू 2558) / जिनाति / जिज्यौ। जिज्यतुः / री 1501 गतिरेषणयोः / रेषणं वृकशब्दः / ली 1502 श्लेषणे / 'विभाषा लीयतेः' (सू 2509) इत्येज्विषये आत्त्वं वा / ललौ-लिलाय / लाता-लेता। ब्ली 1503 वरणे / ब्लिनाति / प्ली 1504 गतौ। वृत्। ल्वादयो वृत्ताः / प्वादयोऽपीत्येके / व्री 1505 वरणे / भ्री 1506 भये / 'भरे' इत्येके / क्षीषु 1507 हिंसायाम् / एषां त्रयाणां ह्रस्वः / केषाञ्चिन्मते तु न / ज्ञा 1508 अवबोधने / 'ज्ञाजनोर्जा' (सू 2511) / जानाति / दीर्घनिर्देशसामर्थ्यान्न ह्रस्व: / बन्ध 1509 बन्धने / बध्नाति / बबन्धिथ-बबन्ध / विदारणे' / 'शूदृप्राम्' इति ह्रस्वविकल्पम्मत्वा आह / दरतुः-दद्रतुरिति // 'ऋ गतौ' / अराञ्चकारेति // व्यपदेशिवत्त्वे गुरुमत्त्वादाम्। लड्याह / आर्णादिति // 'ज्या वयोहानौ'। अनिट् / ज्या ना ति इति स्थिते 'ग्रहिज्या' इति सम्प्रसारणे पूर्वरूपे च जिनातीति स्थिते / हलः // दिग्योगे पञ्चम्येषा / हल: परस्येति लभ्यते / 'सम्प्रसारणस्य' इति सूत्रमनुवर्तते / अङ्गस्येत्यधिकृतमिहानुवृत्तमावर्तते / एकमवयवषष्ठ्यन्तं हल इत्यत्रान्वेति। अङ्गावयवाद्धल इति लभ्यते / द्वितीयन्तु स्थानषष्ठ्यन्तं सम्प्रसारणेन विशेष्यते / तदन्तविधिः / 'ठूलोपे' इत्यतो दीर्घ इत्यनुवर्तते / तदाह / अङ्गावयवादित्यादिना // उदाहरणन्तु। संवीतः। शूनः। जीनः। हल इति किम् / उतः / उतवान् / एषामिति // ब्रीभ्रीक्षीषामित्यर्थः / हूस्वा ल्वादय एव वृत्ताः, न तु प्वादय इति मते इति भावः / अङ्गावयवात् किम्। निरुतम् / तदन्ताङ्गस्येति किम् / विध्यति / 'ज्ञा अवबोधने' / शिति जादेशं स्मारयति / ज्ञाजनोर्जेति // दीर्घनिर्देशेति // प्वादित्वेऽपि आकारोच्चारणसामर्थ्यान्न ह्रस्व इति भावः / ‘बन्ध बन्धने' / अनिट् / नापधः / बनातीति / 'अनिदिताम् ' इति नलोप इति भावः / भारद्वाजनियमात्थलि वेडिति मत्वा आह / बबन्धिथ-बबन्धेति // अकित्त्वान्नलोपो न / For Private And Personal Use Only
Page #283
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा / 281 बन्धा / बन्धारौ। भन्स्यति / वधान / अभान्त्सीत् / पूर्ववासिद्धम्' (सू 12) इति भष्भावात्पूर्व ‘झलो झलि' (सू 2281) इति सिज्लोप: / प्रत्ययलक्षणेन सादिप्रत्ययमाश्रित्य भष्भावो न। प्रत्ययलक्षणं प्रति सिज्लोपस्यासिद्धत्वात् / अबान्धाम् / अभान्त्सुः / वृङ् 1510 सम्भक्तौ / वृणीते / ववे / ववृषे / ववृढ़े / वरिता-वरीता / अवरिष्ट--अवरीष्ट-अवृत / श्रन्थ 1511 विमोचनप्रतिहर्षयोः / इतः परस्मैपदिनः / श्रश्नाति / श्रन्थिग्रन्थि-' इत्यादिना कित्त्वपक्षे एत्त्वाभ्यासलोपावप्यत्र वक्तव्यौ इति हरदत्तादयः / श्रेथतु:-श्रेयुः / इदं कित्त्वं पितामपीति सुधाकरमते श्रेथिथ / अस्मिन्नपि पक्षे णील शनाथ / उत्तमे तु शश्राथ-शश्रथेति माधवः / तत्र मूलं मृग्यम् / मन्थ 1512 विलोडने / श्रन्थ 1513 ग्रन्थ 1514 सन्दर्भ / अर्थभेदाच्छन्थेः पुनः पाठः / रूपं तूक्तम् / कुन्थ 1525 संश्लेषणे / “संक्लेशे' इत्येके / कुभाति / चुकुन्थ / 'कुथ' इति दुर्गः / चुकोथ / मृद 1516 क्षोदे। मृद्गाति / मृदान / मृड 1517 च / अयं सुखेऽपि / ष्टुत्वम् / मृड्णाति / गुध 1518 रोषे / गुनाति / कुष 1519 निष्कर्षे / कुष्णाति / कोषिता। 2560 / निरः कुषः / (7-2-46) निरः परात्कुषो वलादेरार्धधातुकस्य इड्डा स्यात् / निष्कोषिता-निष्कोष्टा / निरकोषीत्--निरकुक्षत् / क्षुभ 1520 सञ्चलने / 'क्षुम्नादिषु च' अनिट्पक्षे तु 'झषस्तथोः इति थस्य धः / बन्धेति // तासि 'झषस्तथोः' इति तकारस्य धः / भन्स्यतीति // “एकाचः' इति बस्य भष् धस्य चर्बेन तः / बधानेति // 'हल: नश्शानज्झौ' इति शानच् / अभान्त्सीदिति ॥हलन्तलक्षणा वृद्धिः भष्भावः। अबान्धामित्यत्र सकारपरकत्वात् भष्भावमाशङ्कय आह / पूर्वत्रेत्यादि // ननु कृते सिज्लोपे प्रत्ययलक्षणमाश्रित्य सकारपरकत्वात् भष दुर्वार इत्यत आह / प्रत्ययलक्षणेनेति // अबान्धामिति // 'झषस्तथोः' इति तस्य धः। 'श्रन्थ विमोचने' / श्रन्थिग्रन्थीत्यादिनेति // 'श्रन्थिग्रन्थिदम्भिस्वजीनां लिटः कित्त्वं वा' इति व्याकरणान्तरेणेत्यर्थः। अस्मिन्नपि पक्षे इति // पितामपीदङ्कित्त्वमिति सुधाकरमते प्रथमपुरुषणलि शश्राथ / उत्तमपुरुषणलि तु शश्राथशश्रथ इति माधवः आहेत्यर्थः। तत्र मूलमिति // कित्त्वपक्षे एत्त्वाभ्यासलोपावित्यारभ्य माधव इत्यन्तसन्दर्भ मूलं नास्तीत्यर्थः / संयुक्तहल्मध्यस्थत्वादेवंविधवार्तिकादर्शनाचेति भावः / 'कुष निष्कर्षे'। निरः कुषः // 'आर्धधातुकस्येवलादेः' इत्यनुवर्तते / 'स्वरतिसूति' इत्यतो 36 For Private And Personal Use Only
Page #284
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 282 सिद्धान्तकौमुदीसहिता [क्रयादि (सू 792) / क्षुध्नाति / क्षुनीतः / क्षोभिता / क्षुभान / णभ 1521 तुभ 1522 हिंसायाम् / नन्नाति / तुभ्नाति / 'नभते' 'तोभते' इति शपि / 'नभ्यति' 'तुभ्यति' इति श्यनि / क्लिशू 1523 विबाधने / 'शात्' (सू 112) इति श्चुत्वनिषेधः / क्लिश्नाति / क्लेशिता--क्लेष्टा / अक्लेशीत्--अक्लिक्षत् / अश 1524 भोजने / अभाति / आश / उ ध्रस 1525 उञ्छे / उकार इत् / ध्रस्नाति / उकारो धात्ववयव इत्येके / उध्रसाञ्चकार / इष 1526 आभीक्ष्ण्ये / पौनःपुन्यं भृशार्थो वा आभीक्ष्ण्यम् / इष्णाति / 'तीषसह-' (सू 2340) इत्यत्र सहिना साहचर्यादकारविकरणस्य तौदादिकस्यैव इम्रहणं न तु इष्यतीष्णात्योरित्याहुः / एषिता / वस्तुतस्तु इष्णातेरपि इडिकल्प उचितः / तथा च वार्तिकम्-'इषेस्तकारे श्यन्प्रत्ययात्प्रतिषेधः' (वा 4435) इति / विष 1527 विप्रयोगे / विष्णाति / वेष्टा / प्रूष 1528 प्लुष 1529 स्नेहनसेवनपूरणेषु / घृष्णाति। प्लुष्णाति / पुष 1530 पुष्टौ / पोषिता / मुष 1536 स्तेये / मोषिता / ख च 1532 भूतप्रादुर्भावे / भूतप्रादुर्भावोऽतिक्रान्तोत्पत्तिः / खच्ञाति / वान्तोऽयमित्येके / _2561 / च्छोः शूडनुनासिके च / (6-4-19) वेति च / तदाह / निरः परादिति / निरकुक्षदिति // इडभावपक्षे 'शल' इति क्स इति भावः / 'अश भोजने' / आशेति // द्विहल्त्वाभावान नुडिति भावः / इष आभीक्ष्ण्ये ! तासि 'तीषसह ' इति इविकल्पमाशङ्कय आह / तीषसहेत्यनेति // सहेति शपा निर्देश बलेन भौवादिक एव सहधातुरत्र निर्दिष्टः / तत्साहचर्यात् तौदादिकस्यैव इषेर्ग्रहणम्। अकारविकरणत्वसामान्यादिति भावः / इषेस्तकारे श्यन्प्रत्ययादिति // श्यन् प्रत्ययो यस्मादिति बहुव्रीहिः / श्यन्विकरणपठितादिषेस्तकारे परे ‘तीषसह' इति विधिर्नेत्यर्थः / इष्णातेस्तकारे इविकल्पः फलित इति भावः / प्रूष प्लुषेति॥ आद्यो दीर्घोपधः / 'पुष पुष्टौ / पोषितेति // अनिट्सु श्यन्विकरणस्यैव पुम्रहणादयं सेडिति भावः / पुषादिद्युतादीत्यत्र श्यन्विकरणपुषादेरेव ग्रहणादङ्न / ‘ख च भूतप्रादुर्भावे'। अतिक्रान्तोत्पत्तिरिति // दशममासादौ उत्पत्तियोग्यस्य एकादशादिमासादिषूत्पत्तिरित्यर्थः / खच्नतीति // नस्य श्चुत्वे न अ इति भावः / वान्तोऽयमिति॥ 'खव भूतप्रादुर्भावे' इत्येवं दन्त्योष्ठ्यान्तमेके पठन्तीत्यर्थः। च्वोः शूडनुनासिके च // च्छ व् अनयोर्द्वन्द्वात् षष्ठीद्विवचनम् / छकारात्प्राक् तुकः श्चुत्वेन चकारस्य निर्देशः / शूट इति छेदः। श् ऊम् अनयोस्समाहारद्वन्द्वात् प्रथमा। चकारेण क्विझलोः किडितीत्यनुवर्तते / तदाह। सतुक्कस्य इत्यादि ॥यथा विश्नः। प्रश्नः। विच्छधातोः प्रच्छधातोश्च गणादिके नङ्प्रत्यये अन्तरङ्गत्वात् 'छे च' इति तुकि कृते सति सतुक्कस्य छस्य शकार आदेशः / For Private And Personal Use Only
Page #285
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा / 283 सतुक्कस्य छस्य वस्य च क्रमात् 'श्' 'ऊ' एतावादेशौ स्तोऽनुनासिके को झलादौ च क्ङिति / खौनाति / चखाव / खविता / शानच: परत्वादूठि कृते हलन्तत्वाभावान्न शानच् / खौनीहि / हेठ 1533 च / टुत्वम् / हेणाति / ग्रह 1534 उपादाने / स्वरितेत् / 'अहिज्या-' (सू 2412) / गृह्णाति / गृह्णीते / 1562 / ग्रहोऽलिटि दीर्घः / (7-2-37) एकाचो ग्रहेर्विहितस्येटो दीर्घः स्यान्न तु लिटि / ग्रहीता / लिटि तु जग्रहिथ / गृह्यात् / ग्रहीषीष्ट / 'मयन्त-' (सू 2299) इति न वृद्धिः / अग्रहीष्टाम् / अग्रहीष्ट / अग्रहीषाताम् / अग्रहीषत / इति तिङन्तक्रयादिप्रकरणम् / वकारस्य ऊठमुदाहरति / खौनातीति // खव ना ति इति स्थिते वकारस्य ऊठ ठकार इत् 'एत्यधत्यूठसु' इति वृद्धिरिति भावः / खौनीतः। खौनन्तीत्यादि। खव् ना हि इति स्थिते 'हल: नश्शानज्झौ' इति शानजादेशमाशङ्कय आह / शानचः परत्वादिति / हेठ चेति // हेठधातुरपि भूतप्रादुर्भावे वर्तते इत्यर्थः / ग्रह उपादाने इति // अदुपधः / स्वरितेत्त्वादुभयपदी / किति ङिति च सम्प्रसारणं स्मारयति / ग्रहिज्येति // गृह्णाति। गृह्णीते इति ॥श्नाप्रत्ययस्य ङित्त्वाद्रेफस्य सम्प्रसारणे पूर्वरूपमिति भावः / णलि द्वित्वं कृते 'लिट्यभ्यासस्य' इति सम्प्रसारण उरदत्व रपरत्वे हलादिशषे अभ्यासचुत्वे उपधावृद्धिः / जग्राह / अतुसादौ क्डिति परत्वात् 'ग्रहिज्या' इति सम्प्रसारण कृते द्वित्वादि / जगृहतुः / जगृहुः। जग्रहिथ / जगृहथुः / जगृह / जग्राह-जग्रह / जगृहिव / जगृहिम / जगृह / जगृहात / जगृहिर / जगृहिष / जगृहाथे / जगृद्दिढ़े-जगृहिध्वे / जगृहे / जगृहिवहे / जगृहिमह / ग्रहोलिटि दीर्घः // ग्रह इति दिग्योगे पञ्चमी / 'आर्धधातुकस्येट्' इत्यतः इडित्यनुवृत्तं षष्ट्यन्तं विपरिणम्यते / 'एकाच उपदेशेऽनुदात्तात्' इत्यतः एकाच इति च / तदाह / एकाचः इत्यादि // एकाचः किम् / यङ्लुकि माभूत् / जाग्रहिता / विहितस्येति किम् / ग्राहितम् / णिलोपे कृते ग्रहधातोः परत्वेऽपि विहितत्वाभावादिटो न दीर्घः / नच णिलोपस्य स्थानिवत्त्वात् न ग्रहधातोः पर इडि ति वाच्यम् / दीर्घविधौ स्थानिवत्त्वनिषेधात् / अलिटि इत्यस्य फलमाह। लिटि तु जग्रहिथेति // गृह्यादिति // आशीलिडिः यासुटः कित्त्वात्सम्प्रसारणमिति भावः / लिइस्तङ्याह / ग्रहीषीष्टेति // ग्रहोऽलिटीति दीर्घः / 'न लिङिः' इति इटो दर्घिनिषेधस्तु न / तत्र वृत इत्यनुवर्तते / अग्रहीष्टामिति // 'ग्रहोऽलिटि' इति दीर्घः / अग्रहीषुः / अग्रही. रित्यादि / लुङस्तब्याह / अग्रहीष्टेति // 'ग्रहोऽलिटि' इति दीर्घः। अग्रहीषतेति // अग्रहीष्ठाः / इत्यादि सुगमम् // इति श्रीवासुदेवदीक्षितविदुषा विरचितायां सिद्धान्तकौमुदीव्याख्यायां बालमनोरमायां श्नाविकरणनिरूपणं समाप्तम् // For Private And Personal Use Only
Page #286
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir / श्रीरस्तु / // अथ तिङन्तचुरादिप्रकरणम् // चुर 1535 स्तेये। 2563 / सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वच वर्मवर्णचूर्णचुरादिभ्यो णिच् / (3-1-25) एभ्यो णिच् स्यात् / चूर्णान्तेभ्यः ‘प्रातिपदिकाद्धात्वर्थे–' (ग सू 203) इत्येव सिद्धे तेषामिह ग्रहणं प्रपञ्चार्थम् / चुरादिभ्यस्तु स्वार्थे / 'पुगन्त-' (सू 2189) इति गुणः / ‘सनाद्यन्ता:-' (सू 2304) इति धातुत्वं तिप्शबादि गुणायादेशौ / चोरयति / 2564 / णिचश्व / (1-3-74) ___ अथ स्वार्थिकणिजन्ताः चुरादिधातवो निरूप्यन्ते / चुर स्तेये इति // रेफादकार उच्चारणार्थः, न त्वित्संज्ञकः / प्रयोजनाभावात् / 'णिचश्च' इति पदव्यवस्थायां वक्ष्यमाणत्वाच / एवमग्रेऽपि / सत्याप // सत्याप पाश रूप वीणा तूल श्लोक सेना लोमन् त्वच वर्मन् वर्ण चूर्ण चुरादि एषान्द्वन्द्वात्पञ्चमी / तदाह / एभ्यो णिच् स्यादिति // कस्मिन्नर्थे इत्याकांक्षायामाह / चूर्णान्तेभ्यः इति // सत्यादिभ्यः चूर्णान्तेभ्या द्वादशभ्यः करोत्याचष्टे इत्याद्यर्थे ' प्रातिपदिकाद्धात्वर्थे बहुळम्' इति वक्ष्यमाणेन सिद्धमेवार्थनिर्देशनमिह निपातितमित्यर्थः / ननु तेनैव सिद्धत्वादिह चूर्णान्तानुक्रमणं व्यर्थमित्यत आह / तेषामिह ग्रहणं प्रपञ्चार्थमिति // नच तेभ्यः स्वार्थ एव णिज्विधिरस्त्विति वाच्यम् / “सत्यस्य तु कृञ्यापुक् निपात्यते। सत्यङ्करोति। सत्यापयति" इत्यादिभाष्यविरोधादिति भावः / नामधातुप्रकरणे सत्यादिचूर्णान्तानामुदाहरणानि मूल एव स्फुटीभविष्यन्ति / चुरादिभ्यस्तु स्वार्थे इति // अर्थान्तरस्यानिर्देशादिति भावः। अत्र 'भातोरेकाचः' इत्यतो धातोरित्यनुवर्तते / चुरादिभ्यो धातुभ्यः णिजिति फलितम् / ततश्च णिच आर्धधातुकत्वं सिद्ध्यति / अन्यथा धातोरिति विहितत्वाभावादार्धधातुकत्वं न स्यादिति बोध्यम् / तदाह / पुगन्तेति गुणः इति // णिचि कृते चुर् इ इति स्थिते णिच आर्धधातुकत्वात्तस्मिन् चकारादुकारस्य 'पुगन्तलघूपधस्य' इति गुण इत्यर्थः / णिचश्च // 'अनुदात्तङितः' इत्यत आत्मनेपदमिति ‘स्वरितजितः' इत्यतः कत्रभिप्राये क्रियाफले इति चानुवर्तते / प्रत्ययग्रहणपरिभाषया णिजन्तादिति For Private And Personal Use Only
Page #287
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बालमनोरमा। 285 णिजन्तादात्मनेपदं स्यात्कर्तृगामिनि क्रियाफले / चोरयति / चोरयते / चोरयामास / चोरयिता / चोर्यात् / चोरयिषीष्ट / 'णिश्रि-' (सू 2312) इति चङ् / णौ चङि- (सू 2314) इति ह्रस्वः / द्वित्वम् / हलादिःशेषः। (सू 2179) दीर्घो लघोः (सू 2318) इत्यभ्यासदीर्घः / अचूचुरत्-अचू चुरत / चिति 1536 स्मृत्याम् / चिन्तयति / अचिचिन्तत् / 'चिन्त' इति पठितव्ये इदित्करणं णिचः पाक्षिकत्वे लिङ्गम् / तेन * चिन्त्यात्' 'चिन्त्यते' इत्यादौ नलोपो न / चिन्तति / चिन्तेत् / एतच्च ज्ञापकं सामान्यापेक्षमित्येके / 'अत एकहल्-'(२२६०) इत्यत्र वृत्तिकृता 'जगाण' 'जगणतुः' इत्युदाहृतत्वात् / विशेषापेक्षमित्यपरे / अत एव ‘आ धृषाद्वा' [ग सू 202] इत्यस्य न वैयर्थ्यम् / यत्रि 1537 सङ्कोचे। यन्त्रयति * यन्त्र' इति पठितुं लभ्यते / तदाह / णिजन्तादित्यादिना // चोरयतीति // चोरयिष्यति / चोरयि. ध्यते / चोरयतु / चोरयताम् / अचोरयत् / अचोरयत / चोरयेत् / चोरयेत / आशीर्लिङि परस्मैपदे आह। चोर्यादिति // ‘णेरनिटि' इति णिलोप इति भावः / आशीर्लिङि आत्मनेपदे आह / चोरयिषीष्टेति // लुड्याह / णिश्रीत्यादि // दी| लघोरिति // ‘सन्वल्लघुनि' इति सन्वद्भावविषयत्वादिति भावः / 'चिति स्मृत्याम्' / चिन्तयतीति // इदित्त्वान्नुमि णिजन्तात्तिङ उत्पत्तिरिति भावः / ननु इदित्करणं मास्तु प्रक्रियालाघवात् 'चिन्त स्मृत्याम्' इत्येवोच्यताम् / नच नलोपनिवृत्त्यर्थमिदित्त्वमिति वाच्यम्। चिन्तयन्ति, चिन्तयाञ्चकार, इत्यादौ णिचः विडत्त्वाभावादेव नलोपस्याप्रसक्तेः। नच णिजभावे आशीलिडि चिन्त्यादिति कर्मलकारे यकि चिन्त्यते इत्यत्र च नलोपनिवृत्त्यर्थमिदित्त्वमिति शङ्कयम् / चुरादिणिचो नित्यत्वेन णिचं विना केवलात् चिन्त्यात् , चिन्त्यते, इति प्रयोगस्य शशशृङ्गायमाणत्वादित्यत आह / चिन्तेत्यादि / तेनेति // पाक्षिकत्वेनेत्यर्थः / तथाच कदाचित् चिन्त्यात् , चिन्त्यते, इति प्रयोगस्य सत्त्वात् , तत्र नलोपनिवृत्त्यर्थमिदित्करणामिति भावः / ननु तथापि यत्र नलोपप्रसक्तिस्तत्रैव चिन्त्यात् , चिन्त्यते, इत्यत्र णिज्विकल्पः स्यात् , नतु चिन्ततीत्यादौ / शपा व्यवधानेन तत्र नलोपस्याप्रसक्तरित्याशङ्कय ज्ञापकमिदं चिन्तधातुसामान्यापेक्षमित्यभिप्रेत्योदाहरति / चिन्तति। चिन्तेदिति // ज्ञापकमिदञ्चुरादित्वसामान्यापेक्षमिति मतान्तरमाह / एतच्चे. ति // ज्ञापकस्य चुरादित्वसामान्यापेक्षत्वे वृद्धसम्मतिमाह / अत एकेति // ज्ञापकस्य चितिधातुमात्रविषयकत्वे गणधातोः चौरादिकस्य जगणतुरित्युदाहरणानुपपत्तिः स्पष्टैवेति भावः / विशेषापेक्षमिति // चितिधातुमात्रविषयमित्यर्थः / इदमेव मतं युक्तमित्यत आह / अत एवेति // सर्वस्यापि चुरादेणिज्विकल्पे सति ‘आ धृषाद्वा' इति कतिपयचुराद्यन्तर्गणपठितानां णिज्विकल्पविधिवैयर्थ्यमिति भावः / 'यत्रि सङ्कोचे' / यन्त्रयतीति // अकारस्य उपधात्वाभावान्न वृद्धिः / अययन्त्रदिति // अकारस्य गुरुत्वादलघुत्वाल्लघुपर• कत्वाभावात् सन्वद्भावाभावात् इत्त्वदीघों न। एवमग्रेऽपि संयोगान्तधातूनां ज्ञेयम् / पठितुं HTHHHHHHI For Private And Personal Use Only
Page #288
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 286 सिद्धान्तकौमुदीसहिता [चुरादि शक्यम् / यत्तु इदित्करणाद्यन्त्रतीति माधवेनोक्तं तच्चिन्त्यम् / एवं कुद्रितत्रिमत्रिषु / स्फुडि 1538 परिहासे / स्फुण्डयति / इदित्करणात्स्फुण्डति / ‘स्फुटि' इति पाठान्तरम् / स्फुण्टयति / लक्ष 1239 दर्शनाङ्कनयोः / कुद्रि 1540 अनृतभाषणे / कुन्द्रयति / लड 1541 उपसेवायाम् / लाडयति / मिदि 1542 स्नेहने / मिन्दयति--मिन्दति / ओ लडि 1543 उत्क्षेपणे / ओलण्डयति-ओलण्डति / ओकार इदित्येके / लण्डयति-लण्डति / उकारादिरयमित्यन्ये / उलण्डयति / जल 1544 अपवारणे / 'लज' इत्येके / पीड 1545 अवगाहने / पीडयति / २५६५।भ्राजभासभाषदीपजीवमीलपीडामन्यतरस्याम् / (7-4-3) एषामुपधाया ह्रस्वो वा स्याञ्चपरे णौ / अपीपिडत्--अपिपीडत् / नट 1546 अवस्पन्दने / अवस्पन्दनं नाट्यम् / श्रथ 1547 प्रयत्ने / 'प्रस्थाने' इत्येके / बध 1548 संयमने / बाधयति / बन्ध' इति चान्द्रः। पृ 1249 पूरणे। पारयनि / दीर्घोच्चारणं णिच: पाक्षिकत्वे लिङ्गम् / तद्धि से शक्यमिति // नलोपाभावस्तु इदित्त्वस्य न फलम् / नकारस्य उपधात्वाभावादेव नलोपस्याप्रसक्तेरिति भावः। तच्चिन्त्यमिति // यन्त्रयात् इत्याणिजन्ते असत्यपि नकारस्य अनुपधात्वादेव लोपाप्रसक्तया इत्त्वस्य प्रयोजनाभावादिति भावः / एवं 'कुद्रि अनृतभाषणे' 'तत्रि कुटुम्बधारणे' 'मत्रि गुप्तभाषणे' इति चुरादौ पठिष्यमाणेष्वपि इदित्त्वन्त्यक्तुं शक्यमि. त्यर्थः / 'लड उपसेवायाम्' / लाडयतीति // णिचि अत उपधावृद्धिः / एवमग्रेऽपि ज्ञेयम् / अलीलडत् / ‘पीड अवगाहने'। भ्राजभास // ‘णौ चङयुपधाया ह्रस्वः' इत्यनुवर्तते / तदाह / एषामिति // नित्ये उपधाहस्व प्राप्ते विकल्पोऽयम् / इस्वपक्षे लघुपरकत्वात्सन्वत्त्वादभ्यासदीर्घ इत्यभिप्रेत्य आह / अपीपिडदिति // अत्र उत्तरखण्डे हूस्वः, पूर्वखण्डे तु दीर्घः / हूस्वाभावपक्षे तु, लघुपरकत्वाभावात् सन्वत्त्वविरहानाभ्यासदीर्घ इति मत्वा आह / अपिपीडदिति // अत्र उत्तरखण्डे दीर्घः पूर्वखण्ड ह्रस्वः / 'नट अवस्पन्दने'। अवस्पन्दनं नाट्यम् / नाटयति / अनीनटत् / श्रथ प्रयत्ने'। श्राथयति / अशिश्रथत् / सन्वत्त्वविधौ अनेकहल्व्यवधानेऽपि लघुपरत्वं न विरुद्ध्यते / 'अत्स्मृदृत्वर' इति इत्त्वापवादस्य अत्त्वस्य विधानाल्लिङ्गात् / अन्यथा अपप्रथदित्यादी अनेकहल्ल्यवधानात् लघुपरत्वाभावादेव इत्त्वाप्रसक्त्या किन्तेन / 'पृ पूरणे' / ननु ह्रस्वान्त एवायं धातुनिर्दिश्यतां। तावतैव पारयतीत्यादिसिद्धेः / नच णिजभावपक्षे परिता, परिष्यतीत्यत्र इड) दीर्घोच्चारणम् / ऋदन्तत्वे अनिटकत्व. प्रसङ्गादिति वाच्यम् / चुरादिणिचो नित्यत्वेन ततो णिजभावस्य शशशृङ्गायमाणत्वादित्यत आह / दीर्घोच्चारणं णिचः पाक्षिकत्वे लिङ्गमिति // पृधातोरिति शेषः / णिचः For Private And Personal Use Only
Page #289
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा / 287 टकत्वाय / एवञ्च पृणातिपिपतिभ्यां परिता' इत्यादिसिद्धावपि पारयति परति, परत इत्यादिसिद्धिः फलम् / ऊर्ज 1550 बलप्राणनयोः / पक्ष 1551 परिग्रहे / वर्ण 1552 चूर्ण 1553 प्रेरणे / 'वर्ण वर्णने इत्येके / प्रथ 1554 प्रख्याने / प्राथयति / 'नान्ये मितोऽहेतौ' इति वक्ष्यमाणत्वान्नास्य मित्त्वम् / 2566 / अस्मृदृत्वरप्रथम्रदस्तृस्पशाम् / (7-4-95) ___ एषामभ्यासस्याकारोऽन्तादेशः स्याचपरे णौ। इत्त्वापवादः। अपप्रथत् / पृथ 1555 प्रक्षेपे / पर्थयति 2567 / उर्ऋत् / (7-4-7) पाक्षिकत्वे तु परितेत्यादौ पतेत्यादिवारणाय दीर्घोच्चारणमर्थवदिति भावः / ननु ह्रस्वान्तत्वेऽपि परितेत्यादौ इट् कुतो न स्यादित्यत आह / तद्धि सेटकत्वायेति // हि यतः तत् दीर्घोच्चारणं परितेत्यादौ सेटकत्वार्थम् / ऋदन्तत्वे तु इण्ण स्यात् / 'ऊदृदन्तैः' इत्यनिट्कारिकासु ऋदन्तस्य पर्युदासेन ऋदन्तस्यानिटकत्वावगमादिति भावः / ननु पृधातोः णिचः पाक्षिकत्वज्ञापकस्य किं फलम् / नाविकरणश्नुविकरणपठिताभ्यामेव पृधातुभ्यां परितेत्यादिसिद्धरित्यत आह / एवञ्चेति // उक्तरीत्या पृधातोः णिचः पाक्षिकत्वे ज्ञापिते सतीत्यर्थः / पारयतिपरतीति // उदोष्ठ्यपूर्वस्य' इत्युत्त्वन्तु न भवति / पराभ्यागुणवृद्धिभ्यां बाधादिति भावः / ऊर्ज बलेति // ‘सन्वल्लघुनि' इति सूत्रं द्वेधा व्याख्यातं प्राक् / तत्र चडि 'नन्द्राः' इति निषेधात् , जि इति णिजन्तस्य द्वित्वे उत्तरखण्डे चपरे णौ लघोरभावात् प्रथमव्याख्याने अभ्यासस्य तथाविधलघुपरकत्वविरहात् सन्वत्त्वविरहानाभ्यासदीर्घः / और्जिजत् / द्वितीयव्याख्याने तु चपरे णौ यदङ्गं ऊर्ज इत्येतत् / तदीयस्याभ्यासस्य चङमादाय वा णिचं लुप्तमादाय वा लघुपरकत्वादभ्यासस्य दीर्घः / औीजत् / एवमेव एवजातीयकेषु द्रष्टव्यम् / 'प्रथ प्रख्याने' / प्राथयतीति // णिचि उपधावृद्धिरिति भावः / नन्वस्य घाटादिकत्वेन मित्त्वाद्रस्वः स्यादित्यत आह / नान्ये इति // ज्ञपादिपञ्चकव्यतिरिक्तचुरादिषु मित्त्वनिषेधादिति भावः / घाटादिकस्य तु मित्त्वाद्धेतुमाणिचि प्रथयतीत्येव भवति / नच चौरादिकस्यैव भित्त्वार्थ घटादावनुवादः किन्न स्यादिति वाच्यम् / 'नान्ये मितोऽहेतौ' इति निषेधादित्यलम् / अत्स्मृ॥ अभ्यासस्येति // 'अत्र लोपोऽभ्यासस्य' इत्यतस्तदनुवृत्तेरिति भावः / चपरे णाविति // सन्वल्लघुनि' इत्यतः चपरे इत्यनुवर्तते। चङ् परो यस्मादिति बहुव्रीहिः। अन्यपदार्थस्त्वणिरेवेति भावः / इत्त्वेति // 'सन्यतः' इति इत्त्वस्यापवाद इत्यर्थः / अपप्रथदिति // अत्र अत्त्वविधानादेव सन्वत्त्वविधौ अनेकहल्व्यवधानेऽपि लघुपरकत्वमिति विज्ञायते / अन्यथा येन नाव्यवधानन्यायात् एकहल्व्यवधानस्यैवाश्रयात् अत्र सन्वत्त्वविरहादेव इत्त्वाप्रवृत्या किन्तेन / संयोगे परे गुरुत्वान्नाभ्यासदीर्घः / 'पृथ प्रक्षेपे' / ऋदुपधः / पर्थयतीति // णिचि लघूपधगुणः रपरत्वम् / उर्ऋत् // ऋ इत्यस्य उरिति षष्ट्यन्तं रूपम् / For Private And Personal Use Only
Page #290
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 288 सिद्धान्तकौमुदीसहिता [चुरादि ___ उपधाया ऋवर्णस्य स्थाने ऋत्स्याद्वा चपरे णौ / इररारामपवादः / अपीपृथत्-अपपर्थत् / 'पथ' इत्येके / पाथयति / पम्ब 1556 सम्बन्धने / सम्बयति / अससम्बत् / शम्ब 1557 च / अशशम्बत् / ‘साम्ब' इत्येके / भक्ष 1558 अदने / कुट्ट 1559 छेदनभर्त्सनयोः / “पूरणे' इत्येके / कुट्टयति / पुट्ट 1560 चुट्ट 1561 अल्पीभावे / अट्ट 1562 षुट्ट 1563 अनादरे / अट्टयति / अयं दोपधः / टुत्वस्यासिद्धत्वात् निन्द्रा:--' (सू 2446) इति निषेधः / आहिटत् / लुण्ठ 1564 स्तेये / लुण्ठयति / 'लुण्ठति' इति / लुटि स्तेये' इति भौवादिकस्य / शट 1565 श्वट 1566 असंस्कारगत्योः / ‘श्वठि' इत्येके / तुजि 1567 पिजि 1568 हिंसाबलादाननिकेतनेषु / तुञ्जयति / पिञ्जयति / इदित्करणात् तुञ्जति / पिजति / 'तुज' 'पिज' इति केचित् / 'लजि' 'लुजि' इत्येके / पिस 1569 गतौ / पेसयति / 'पेसति' इति तु शपि गतम् / षान्त्व 1570 सामप्रयोगे / श्वल्क 1571 वल्क 1572 परिभाषणे / णिह 1573 स्नेहने / 'स्फिट' इत्येके / स्मिट 1574 अनादरे / अषोपदेशत्वान्न षः / असिस्मिटत् / 'मिङ् 'णौ चङ्युपधायाः' इत्यनुवर्तते / 'जिघ्रतेर्वा' इत्यतो वेति / तदाह / उपधायाः इति // ननु ऋकारस्य ऋकारविधिर्व्यर्थ इत्यत आह / इररारामपवादः इति // ‘कृत संशब्दने / अचीकृतत् इत्यादौ ‘उपधायाश्च' इति इत्त्वे रपरत्वे इर् प्राप्तः / अमीमृजदित्यत्र तु ‘मृद्धिः ' इत्यार् प्राप्तः / प्रकृतपृथधातौ तु चडि णिले.पे प्रत्ययलक्षणेन णिचमाश्रित्य लघूपधगुणे रपरत्वे अर् प्राप्तः / तेषामपवाद इत्यर्थः / अपीपृथदिति // णिचमाश्रित्य प्राप्तगुणम्बाधित्वा ऋकारे, द्वित्त्वे, उरदत्त्वे, हलादिशेषे, सन्वत्त्वादित्वे, दीर्धे, रूपमिति भावः / अपपर्थदिति // ऋत्वाभावपक्षे द्विर्वचनेऽचीति निषेधात् गुणात्प्राक् द्वित्वे उरदत्वे हलादिशेषे ऋकारस्य णिचमाश्रित्य गुणे रपरत्वे अपपर्थदित्यत्र लघुपरकत्वाभावेन सन्वत्त्वविरहादित्वदीघौ नेति भावः / 'अट्ट फुट्ट अनादरे' / अयं दोपधः इति // अधातुरित्यर्थः / दकारस्य टुत्वचाभ्यानिर्देश इति भावः / दोपधत्वस्य प्रयोजनमाह / टुत्वस्येति // तथा च दकारं विहाय टि इत्यस्य द्वित्वे आद् टिटत् इति स्थिते दस्य ष्टुत्वे चत्वे च आहिटत् इति रूपमिष्टं सिद्ध्यति / स्वाभाविकटोपधत्वे तु 'नन्द्राः' इति निषेधाभावात् टकारद्वयसहितस्य ण्यन्तस्य द्वित्वे हलादिशेषणाभ्यास प्रथमटकारस्य अनिवृत्ती आटिदिति अनिष्टं रूपं स्यादिति भावः / ‘मिङ् अनादरे' / ननु णिचश्चेत्यात्मनेपदसिद्धेः किमर्थं डिस्करणमित्यत आह / णिजन्तात्तङिति // तडेवेत्यर्थः / अकञभिप्रायेऽपि फले णिजन्तादात्मनेपदार्थ डित्करणमिति यावत् / ननु कृतेऽपि ङित्करणे णिजन्तस्य ङित्त्वाभावात् कथमुक्तप्रयोजन For Private And Personal Use Only
Page #291
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा / 289 अनादरे' इत्येके / डित्वस्यावयवेऽचरितार्थत्वाण्णिजन्तात्तङ् / स्माययते / श्लिष 1575 श्लेषणे / पथि 1576 गतौ / पन्थयति-पन्थति / पिच्छ 1577 कुट्टने / छदि 1578 संवरणे / छन्दयति-छन्दति / श्रण 1579 दाने / प्रायेणायं विपूर्वः / विश्राणयति / तड 1580 आघाते / ताडयति / खड 1581 खडि 1582 कडि 1583 भेदने / खाडयति / खण्डयति / कण्डयति / कुडि 1584 रक्षणे / गुडि 1585 वेष्टने / 'रक्षणे' इत्येके / 'कुठि' इत्यन्ये / अवकुण्ठयति-अवकुण्ठति / 'गुठि' इत्यपरे / खुडि 1586 खण्डने / वटि 1587 विभाजने / 'वडि' इत्येके / मडि 1588 भूषायां हर्षे च / भडि 1589 कल्याणे / छर्द 1590 वमने / पुस्त 1591 बुस्त 1592 आदरानादरयोः / चुद 1593 सञ्चोदने / नक्क 1594 धक्क 1595 नाशने / णोपदेशलक्षणे पर्युदस्तोऽयम् / प्रनकयति / चक्क 1596 चुक्क 1597 व्यथने / क्षल 1598 शौचकर्मणि / तल 1599 प्रतिष्ठायाम् / तुल 1600 उन्माने / तोलयति / अतूतुलत् / कथं 'तुलयति तुलना' इत्यादि / -अतुलोपमाभ्यां-' (सू 630) इति निपातनादादन्तस्य तुलाशब्दस्य सिद्धौ ततो णिच् / दुल 1601 उत्क्षेपे / पुल 1602 महत्त्वे / चुल 1603 समुच्छ्राये / मूल 1604 रोहणे / कल 1605 बिल 1606 क्षेपे / बिल 1607 भेदने / तिल 1608 स्नेहने / चल 1609 भृतौ / पाल 1610 रक्षणे / लूष 1611 हिंसायाम् / शुल्क 1612 माने / शूर्प 1613 च / चुट 1614 छेदने / मुट 1615 संचूर्णने / पडि 1616 पसि 1617 नाशने / पण्डयतिपण्डति / पंसयति-पंसति / वज 1618 मार्गसंस्कारगत्योः / शुल्क 1619 अतिस्पर्शने / चपि 1620 गत्याम् / चम्पयति-चम्पति / लाभ इत्यत आह / ङित्त्वस्य अवयवे अचरितार्थत्वादिति // ण्यन्तावयवे मिक् धातौ ङित्त्वं व्यर्थम् / तस्य णिचं विना प्रयोगाभावात् / ततश्चावयवे श्रुतं डित्त्वं ण्यन्तादेव कार्य साधयतीत्यर्थः / स्माययते इति // णिचि वृद्धौ आयादेशे स्मायि इति ण्यन्ताल्लटस्तिपि शपि गुणायादेशाविति भावः / असिध्मियत् / तुल उन्माने / कथमिति // लघूपधगुणप्रसङ्गादिति भावः / तुलनेति // ‘ण्यासश्रन्थो युच्' इति भावः / समाधत्ते / अतुलोपमाभ्यामिति / आदन्तस्येति // तुलधातोर्ण्यन्तात्पचाद्यचि निपातनात् गुणाभावे स्त्रीत्वे तुलाशब्दः आदन्तः / ततस्तत्करोति तदाचष्टे इति इष्टवत्त्वात् टिलोपे तुलि इति ण्यन्तालटस्तिपि For Private And Personal Use Only
Page #292
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 290 सिद्धान्तकौमुदीसहिता [चुरादि क्षपि 1621 क्षान्त्याम् / क्षम्पयति-क्षम्पति / छजि 1622 कृच्छ्रजीवने / श्वर्त 1623 गत्याम् / श्वभ्र 1624 च / ज्ञप 1625 मिञ्च / अयं ज्ञाने ज्ञापने च वर्तते / 2568 / मितां हस्वः / (6-4-92) / मितामुपधायाः ह्रस्वः स्याण्णौ परे / ज्ञपयति / यम 1626 च परिवेषणे / चान्मित् / परिवेषणमिह वेष्टनम् / न तु भोजनं नापि वेष्टनं / यमयति चन्द्रम् / परिवेष्टत इत्यर्थः / चह 1627 परिकल्पने। चहयति / अचीचहत् / कथादौ वक्ष्यमाणस्य तु अदन्तत्वेनाग्लोपित्वाद्दीर्घसन्वद्भावौ न / युचि च तुलयतीति तुलनेति च रूपम् / आकारलोपस्य 'अचः परस्मिन् ' इति स्थानिवत्त्वानगुण इति भावः / वज मार्गेति // वाजयति / मार्गयति / यद्वा मार्गेति न धात्वन्तरम् / वजधातुर्मार्गसंस्कारे गतौ चेत्यर्थः / शप मिच्चेति // ज्ञपधातुर्णिचं लभते, मित्संज्ञश्चेत्यर्थः / मित्त्वकार्यभागिति वा / धातुपाठे अर्थनिर्देशाभावादाह / अयमिति // प्रच्छ ज्ञप्सिायामित्यत्र ज्ञाने 'श्लाघढुङ्स्थाशपां ज्ञीप्स्यमानः' इत्यत्र ज्ञापने च प्रयोगदर्शनादिति भावः / मितां ह्रस्वः // 'ऊदुपधाया गोहः' इत्यत: उपधाया इति ‘दोषो ?' इत्यतः गाविति चानुवर्तते / तदाह / मितामुपधाया इत्यादिना // ज्ञपयतीति // णिचि उपधावृद्धौ ह्रस्व इति भावः / 'यम च परिवेषणे' / चान्मिदिति // अनुकृष्यते इति शेषः / यमधातुः परिवेषणे णिचं लभते, मित्कार्यभाक् चेत्यर्थः / मित्संज्ञक इति वा। परिवेषणमिह वेष्टनमिति // ‘परिवेषस्तु परिधिः' इति कोशादिति भावः / न तु भोजनमिति // भुजेहेतुमण्ण्यन्तात् स्त्रियामित्यधिकारे ‘ण्यासश्रन्थो युच् ' क्लीवत्वं लोकात् / भोजनेत्येव क्वचित्पाठः / भोक्तुः पात्रे भोज्यद्रव्योपकल्पनमिह न परिवेषणमित्यर्थः / भोजनायां यमेहेतुमण्ण्यन्तस्य अमन्तत्वादेव मितवसिद्धेरिति भावः / परिवेष्टत इत्यर्थः इति // अनेन परिविषेरण्ण्यन्ताल्ल्युटि परिवेषणशब्द इति सूचितम् / नच वेष्टनेऽप्यर्थे यमेरमन्तत्वादेव सिद्ध मित्त्वविधिर्व्यर्थ इति वाच्यम् / 'न कम्यमिचमाम् ' इति मित्त्वप्रतिषेधप्रकरणस्थे ‘यमोऽपरिवेषणे' इति घटाद्यन्तर्गणसूत्रे अपरिवेषणे इति पर्युदासेन भोजनतोऽन्यत्र वेष्टनेऽर्थे मित्त्वनिषेधस्य प्राप्तौ मित्त्वप्रापणार्थत्वात् / 'यमोऽपरिवेषणे' इत्यत्र परिवेषणशब्देन भोजनाया एव विवक्षितत्वेन वेष्टने यमेर्मित्त्वनिषेधस्य प्रसङ्गात् / अत एव यमिभॊजनातो. ऽन्यत्र न मिदिति व्याख्यातम् / मूलकृता भोजनायान्तु 'यमोऽपरिवेषणे' इति मित्त्वनिषेधविधौ भोजनायाः पर्युदासादेव तत्र मित्त्वनिषेधाभावादमन्तत्वादेव मित्त्वप्राप्तेरिह चुरादौ परिवेषणशब्देन वेष्टनमेव विवक्षितं नतु भोजनेत्यास्तान्तावत् / चह परिकल्पने इति // इत आरभ्य 'चिञ् चयने' इत्येतत्पर्यन्तं चेत्यनुवर्तते। अतस्तेषां मित्त्वात् णिचि हूस्वः / तदाह / चहयतीति // नन्वनेनैव सिद्ध अग्रे चुराद्यन्तर्गणे कथादावस्य पाठो व्यर्थ इत्यत आह / कथादाविति // कथादयः अदन्ता इति वक्ष्यन्ते / तस्माण्णिचि अल्लोपे कथयती. For Private And Personal Use Only
Page #293
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा। 291 अचचहत् / 'चप' इत्येके / चपयति / रह 1628 त्यागे इत्येके / अरीरहत् / कथादेस्तु अररहत् / बल 1629 प्राणने / बलयति / चिञ् 1630 चयने / __2569 / चिस्फुरोणी / (6-1-54) / आत्त्वं वा स्यात् / 2570 / अतिहीन्लीरीक्नूयीक्ष्माय्यातां पुग्णौ। (7-3-36) / एषां पुक् स्याण्णौ / चपयति-चययति / जित्करणसामर्थ्यादस्य णिज्विकल्पः / चयते। प्रणिचयति-प्रनिचयति / नान्ये मितोऽहेतौ (ग सू 198) / अहेतौ स्वार्थे णिचि ज्ञपादिभ्योऽन्ये मितो न स्युः / तेन शमादीनाममन्तत्वप्रयुक्तं त्यादौ अल्लोपस्य स्थानिवत्त्वाद्वृद्ध्यभावे च मित्त्वाद्रस्वे च न विशेषः / तथापि अदन्तात् चडि णौ अल्लोपे सति अग्लोपितया सन्वत्त्वदीर्घयोरभावे अचचहदिति रूपमस्ति फलमित्यर्थः / चप इत्येके इति // 'चह परिकल्पने' इत्यस्य स्थाने 'चप' इत्येके पठन्तीत्यर्थः / ‘रह त्यागे' इत्येके इत्यपि तथैव व्याख्येयम् / एवञ्च ज्ञपादिषु पञ्चसु चहधातुः चपधातुः रहधातुर्वा अन्यतमस्तृतीयः, बलधातुश्चतुर्थः, चिञ्धातुः पञ्चमः, इति कृत्वा ज्ञपादिपञ्चानां मत. त्रयेऽपि पञ्चत्वात् ज्ञपादिपञ्चकत्वस्य न विरोधः / 'रह त्यागे' इत्यस्यापि कथादिपाठफलमाह / कथादेस्तु अररहदिति // अदन्तत्वेन अग्लोपित्वान्न दीर्घसन्वत्त्वे इति भावः / 'बल प्राणने च' इत्यनुवृत्त्या मित्त्वस्यानुकर्षणाद्रस्वं मत्वा आह / बलयतीति // चिस्फुरोर्णी // 'आदेच उपदेशे' इत्यतः आदिति ‘विभाषा लयितेः' इत्यतः विभाषेति चानुवर्तते इति मत्वा शेषं पूरयति / आत्त्वं वा स्यादिति // चिजो णिचि आत्त्वे चा इ इति स्थिते / अर्तिही // अर्ति ही ब्ली री क्नूयी क्ष्मायी आत् एषान्द्वन्द्वात् षष्टी / पुक् णौ इति छेदः / तदाह / एषां पुक् स्याण्णी इति // पुकि ककार इत् , उकार उच्चारणार्थः कित्त्वादन्तावयवः / चाप् इ इति स्थिते चेत्यनुवर्त्य मित्त्वस्यानुकर्षणेन मित्त्वाद्रस्वे चपि इत्यस्मात्तिबादी परिनिष्ठितमाह / चपयतीति // आत्त्वाभावपक्षे त्वाह / चययतीति // चेणिचि वृद्धा आयादेशे मित्त्वादुपधाहस्व इति भावः / ननु चिञ्धातोरिह जित्करणं व्यर्थम् / ण्यन्तात् णिचश्चेत्येव उभयपदसिद्धेः / चौरादिकस्यास्य नित्यं ण्यन्तत्वेन चयति चयते इति केवलस्याण्यन्तस्य शशशृङ्गायमाणत्वादित्यत आह / जित्करणसामर्थ्यादिति // एवञ्च णिजभाव. पक्षे उभयपदार्थमिह जित्करणमर्थव दिति भावः / ‘शेषे विभाषाकखादौ' इति णत्वविकल्प मत्मा आह / प्रणिचयति-प्रनिचयति इति // 'नान्ये मितोऽहेतौ' इति चुरादिगणसूत्रम् / अहेताविति च्छेदः / ' हेतुमति च ' इति सूत्रेण विहितो णिच् हेतुशब्देन विवक्षितः / स न भवत्यिहेतुः स्वार्थणिच् / तस्मिन्परे इति लभ्यते। किमपेक्षया अन्ये इत्याकांक्षायां इतः प्रापठितज्ञपादिचिजन्तेभ्य इति लभ्यते / तदाह / अहेतौ स्वार्थे णिचीत्यादिना // For Private And Personal Use Only
Page #294
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 292 सिद्धान्तकौमुदीसहिता [चुरादि मित्त्वं न / घट्ट 1631 चलने / मुस्त 1632 सङ्घाते / खट्ट 1633 संवरणे / षट्ट 1634 स्फिट्ट 1635 चुबि 1636 हिंसायाम् / पुल 1637 सङ्घाते / 'पूर्ण' इत्येके / 'पुण' इत्यन्ये / पुस 1638 अभिवर्धने / टकि 1639 बन्धने / टङ्कयति-टङ्कति / धूस 1640 कान्तिकरणे / धूसयति / दन्त्यान्तः / ' मूर्धन्यान्तः' इत्येके / 'तालव्यान्त:' इत्यपरे / कीट 1641 वर्णे / चूर्ण 1642 सङ्कोचने / पूज 1643 पूजायाम् / अर्क 1644 स्तवने / 'तपने' इत्येके / शुठ 1645 आलस्ये। शुठि 1646 शोषणे / शुण्ठयति-शुण्ठति / जुड 1647 प्रेरणे गज 1648 मार्ज 1649 शब्दार्थों / गाजयति / मार्जयति / मर्च 1650 च / मर्चयति / घृ 1651 प्रस्रवणे / 'सावणे' इत्येके / पचि 1652 विस्तारवचने / पञ्चयति / 'पञ्चते' इति व्यक्तार्थस्य शपि गतम् / तिज 1653 निशाने / तेजयति / कृत 1654 संशब्दने / 1571 / उपधायाश्च / (7-1-101) धातोरुपधाभूतस्य ऋत इत्स्यात् / रपरत्वम् / ' उपधायां च' (2265) इति दीर्घः / कीर्तयति / उत्' (2567) / अचीकृतत्-अचिकीर्तत् / वर्ध 1655 छेदनपूरणयोः / कुबि 1656 आच्छादने / कुम्बयति / 'कुभि' इत्येके / लुबि 1657 तुबि 1658 अदर्शने / 'अर्दने' इत्येके / हूप 1659 व्यक्तायां वाचि / 'क्लप' इत्येके / चुटि 1660 छेदने / इल 1661 प्रेरणे / एलयति / ऐलिलत् / म्रक्ष 1662 म्लेच्छने / म्लेच्छ 1663 अव्यक्तायां वाचि / ब्रूस 1664 बर्ह 1665 हिंसायाम् / केचिदिह गर्ज गर्द शब्दे गध अभिकाङ्कायां इति पठन्ति / गुर्द 1666 पूर्वनिकेतने / जसि 1667 अहेतावित्यस्य व्याख्यानं स्वार्थे णिचीति / तेनेति // ज्ञपादिचिरन्तव्यतिरिक्तचुरादीनां मित्त्वनिषेधो नेत्यर्थः / शमादीनामिति // ‘शम आलोचने' / 'अम रोगे' इत्यादीनामले चुरादौ पठिष्यमाणानामित्यर्थः / अमन्तत्वेति // जनीजृष्न्कसुरजोऽमन्ताश्च' इत्यमन्तत्वनिमित्तकमित्यर्थः / कृत संशब्दने / उपधायाश्च // 'ऋत इद्धातोः' इत्यनुवर्तते। तदाह / धातोरित्यादिना // चङि ' उर् ऋत्' इत्युपधाया ऋत्त्वपक्षे आह / अचीकृतदिति // उपधाया ऋत्त्वे कृत् इत्यस्य द्वित्वे उरदत्त्वे लघुपरतया सन्वत्त्वादित्त्वे 'दीर्घो घोः' इति दीर्घ इति भावः / ऋत्त्वाभावपक्षे आह / अचिकीर्तदिति // ऋत इत्त्वे रपरत्वे 'उपधा For Private And Personal Use Only
Page #295
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा। 293 रक्षणे / ' मोक्षणे' इति केचित् / जंसयति-जंसति / ईड 1668 स्तुतौ / जसु 1669 हिंसायाम् / पिडि 1670 सङ्घाते / रुष 1671 रोषे / 'रुट' इत्येके / डिप 1672 क्षेपे / ध्रुप 1673 समुच्छ्राये। __ आ कुस्मादात्मनेपदिन: / 'कुस्मनाम्नो वा' इति वक्ष्यते / तमभिव्याप्येत्यर्थः / अकर्तृगामिफलार्थमिदम् / चित 1674 सञ्चेतने / चेतयते / अचीचितत / दशि 1675 दंशने / दंशयते / अददंशत / इदित्त्वाणिजभावे दंशति / आकुस्मीयमात्मनेपदं णिच्सन्नियोगेनैवेति व्याख्यातारः / नलोपे सञ्जिसाहचर्याद्धादेरेव ग्रहणम् / दसि 1676 दर्शनदंशनयोः / दंसयतेदसति / 'दस' इत्यप्येके / डप 1677 डिप 1678 सङ्घगते / तत्रि 1679 कुटुम्बधारणे / तन्त्रयते / चान्द्रा धातुद्वयमिति मत्वा ‘कुटुम्बयते' इत्युदाहरन्ति / मत्रि 1680 गुप्तपरिभाषणे / स्पश 1681 ग्रहणसंश्लेषणयोः / तर्ज 1682 भर्ल्स 1683 तर्जने / बस्त 1684 गन्ध 1685 अर्दने / बस्तयते / गन्धयते / विष्क 1686 हिंसायाम् / ‘हिष्क' इत्येके / निष्क 1687 परिमाणे / लल 1688 ईप्सायाम् / कूण 1689 सङ्कोचे / तूण 1690 पूरणे / भ्रूण 1691 आशाविशङ्कयोः / शठ 1692 श्लाघायाम् / यक्ष 1693 पूजायाम् / स्यम 1694 वितर्के / गूर 1695 उद्यमने / शम 1696 लक्ष 1697 आलोचने / 'नान्ये मित:-' इति मित्त्वनिषेधः / शामयते / कुत्स 1698 अवक्षेपणे / त्रुट 1699 छेदने / 'कुट' इत्येके / गल 1700 स्रवणे / भल 1701 आभण्डने / कूट 1702 आप्रदाने / 'अवसादने' इत्येके / कुट्ट 1703 प्रतापने / वञ्चु 1704 प्रलम्भने / वृष 1705 शक्तिबन्धने / शक्तिबन्धनं प्रजननसामर्थ्य, शक्तियाञ्च' इति दीर्घे की इत्यस्य द्वित्वे हलादिशेषे अभ्यासहस्वे कुत्वे इति भावः / लघुपरकत्वाभावेन सन्वद्भावविषयत्वाभावान्नाभ्यासदीर्घः / आकुस्मादित्यत्र आङभिविधाविति मत्वा आह / तमभिव्याप्येति // ननु ‘णिचश्च' इति सिद्धे आत्मनेपदविधानं व्यर्थमित्यत आह / अकर्तृगामीति // ननु ‘दशि दंशने' णिजभावे दंशति इति कथम् / आकुस्मीयत्वेन णिजभावेऽपि तङो दुरित्वादित्यत आह / आकुस्मीयमिति // ‘दंशसञ्जस्वञ्जां शपि' इति नलोपमाशय आह / नलोपे सञ्जीति // स्पश ग्रहणेति // अपस्पशत ‘अत्स्मृदृत्वर' इति अभ्यासस्य अत्त्वं इत्त्वापवादः। गूर उद्यमने / अयन्दीर्घोपधः / गूरयते / तुदादौ तु 'गुरी उद्यमने' इति इस्वोपधः / दीर्घादौ तु 'घूरी, गुरी हिंसागल्योः' इति दीर्घोपध एवेति For Private And Personal Use Only
Page #296
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 294 सिद्धान्तकौमुदीसहिता [चुरादि सम्बन्धश्च / वर्षयते / मद 1706 तृप्तियोगे / मादयते / दिवु 1707 परिकूजने / गृ 1708 विज्ञाने / गारयते / विद 1709 चेतनाख्यानविवासेषु / वेदयते / सत्तायां विद्यते ज्ञाने वेत्ति विन्ते विचारणे / विन्दते विन्दति प्राप्तौ श्यन्लुक्नम्शेष्विदं क्रमात् // मान 1710 स्तम्भे / मानयते / यु 1711 जुगुप्सायाम् / यावयते। कुस्म 1712 नाम्नो वा (ग सू 199) 'कुस्म' इति धातुः कुत्सितस्मयने वर्तते / कुस्मयते / अचुकुस्मत / अथवा 'कुस्म' इति प्रातिपदिकम् / ततो धात्वर्थे णिच् / इत्याकुस्मीयाः / चर्च 1713 अध्ययने / बुक्क 1714 भाषणे / शब्द 1715 उपसर्गादाविष्कारे च / चाद्भाषणे / प्रतिशब्दयति / प्रतिश्रुतमाविष्करोतीत्यर्थः / 'अनुपसर्गाच्च' / 'आविष्कारे' इत्येव / शब्दयति / कण 1716 निमीलने / काणयति / णौ चङ-युपधाया ह्रस्वः' (सू 1324) / 'काण्यादीनां वा' केचित् / हूस्वोपध इत्यन्ये / विदधातोरर्थभेदे विकरणभेदं सङ्ग्रह्णाति / सत्तायां विद्यते इत्यादिश्लोकेन // 'कुस्म नानो वा' गणसूत्रम् / कुस्मेति पृथक्पदं अविभक्तिकम् / तदाह / कुस्म इति धातुरिति // कुत्सितस्मयने वर्तते इति शेषपूरणं, व्याख्यानादिति भावः / कुस्मयते इति // आकुस्मीयत्वादकर्तृगेऽपि फले आत्मनेपदम् / आकुस्मादात्मनेपदिन इत्यत्र आङभिविधावित्याश्रयणादिति भावः / अचुकुस्मतेति // उकारस्य गुरुतया अभ्यासस्य लघुपरकत्वाभावान्न सन्वत्त्वमिति भावः / नाम्नो वेत्यशं व्याचष्टे / अथवेति // नाम प्रातिपदिकं तस्माद्वा णिज्भवतीत्यर्थः / तच्च प्रातिपदिकङ्कुस्मशब्दात्मकमेव गृह्यते प्रत्यासक्तया / तथाच कुस्मेति धातोः कुस्मेति प्रातिपदिकाद्वा णिजिति फलितम् / तत्र धातोः णिचः स्वार्थिकत्वमभिप्रेत्य प्रातिपदिकात् णिचि विशेषमाह / ततः इति // तस्मात् प्रातिपदिकादित्यर्थः / धात्वर्थे इति // करोतीत्यर्थे आचष्टे इत्यर्थे वेत्यर्थः / नच 'तत्करोति तदाचष्टे' इत्येव प्रातिपदिकात् णिच् सिद्ध इति वाच्यम् / 'आकुस्मादात्मनेपदिनः' इत्यात्मनेपदनियमार्थत्वात् / इत्याकुस्मीयाः / शब्द उपसर्गादिति // उपसर्गात्परः शब्दधातुः आविष्कारे वर्तते इत्यर्थः / अनुपसर्गा चेति // अनुपसर्गात्परोऽपि शब्दधातुः णिचं लभते इत्यर्थः / आविष्कारे इत्यस्यैवानुवृत्त्यर्थ पृथगुक्तिः / शब्द आविष्कारे चेत्येतावत्येवोक्ते अनुपसर्गाद्भाषणेऽपि स्यात् / तदाह / आविष्कारे इत्येवेति / काण्यादीनामिति // इदं वार्तिकं 'भ्राजभासभाष' इति सूत्रे भाष्ये For Private And Personal Use Only
Page #297
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा / 295 (वा 4613) इति विकल्प्यते / अचीकणत्-अचकाणत् / जभि 1717 नाशने / जम्भयति-जम्भति / पूद 1718 क्षरणे / सूदयति / असूषुदत् / जसु 1719 ताडने / जासयति-जसति / पश 1720 बन्धने / पाशयति / अम 1721 रोगे / आमयति / 'नान्ये मित:-' इति निषेधः / 'अम' गत्यादौ शपि गतः / तस्माद्धेतुमण्णौ ‘न कम्यमिचमाम्' इति निषेधः / आमयति / चट 1722 स्फुट 1723 भेदने / विकासे शशपोः ‘स्फुटतिस्फोटते' इत्युक्तम् / घट 1724 सङ्घाते / घाटयति / 'हन्त्यर्थाश्च' (ग सू 200) नवगण्यामुक्ता अपि हन्त्यर्थाः म्वार्थे णिचं लभन्ते इत्यर्थः / दिवु 1725 मर्दने / उदित्त्वाद्देवतीत्यपि / अर्ज 1726 प्रतियत्ने / अयमर्थान्तरेऽपि / द्रव्यमर्जयति / घुषिर् 1727 विशब्दने / घोषयति / 'घुषिरविशब्दने' / (सू 3063) इति सूत्रे ‘अविशब्दने' इति निषेधाल्लिङ्गादनित्योऽस्य णिच् / घोषति / इरित्त्वादना / अघुषत्-अघोषीत् / ण्यन्तस्य तु अजूपठितम् / 'काणि राणि श्राणि भाणि हेठि लोपयः षट् काण्यादयः' इति भाष्यम् / अचीकणदिति // हूस्वत्वपक्षे लघुपरत्वादभ्यासस्य सन्वत्त्वमिति भावः / शशपोरिति // शविकरणे शविकरणे चेत्यर्थः / हन्त्यर्थाश्चेति // गणसूत्रमिदं / हन हिंसागत्योरिति हनधातोहिंसा गमनञ्चार्थः / एतदर्थकाः ये धातवः भ्वादिषु नवसु गणेषु पठिताः ते सर्वेऽपि चुरादौ पठिताः प्रत्येतव्या इत्यर्थः / ततश्च तेभ्यः स्वार्थे णिजपि पक्षे भवतीति फलितम् / तदाह। नवगण्यामित्यादि // 'दिवु मर्दने' / उदित्त्वादिति // उदित्करणम् ‘उदितो वा' इति वायामिड्किल्पार्थम् / द्यूत्वा-देवित्वा / इडभावे ऊम् / इटि तु 'नक्त्वा सेट्' इति कित्त्वनिषेधात् गुण इति स्थितिः / अस्य नित्यण्यन्तत्वे सति णिचा व्यवहितत्वेन वायामिडिकल्पस्य अप्रसक्ते. रुदित्करणं व्यर्थं सत् ज्ञापयति अस्य दिवुधातोः णिज्विकल्प इतीति भावः / ‘घुषिर् विशब्दने' / विशब्दनं शब्देन स्वाभिप्रायाविष्करणं प्रतिज्ञानञ्च / भ्वादौ त्वयं धातुरविशब्दनार्थकः पठितः / घोषयतीति // शब्देन स्वाभिप्रायमाविष्करोतीत्यर्थः / प्रतिजानीते इति वा। लिङ्गादिति // इनिषेधप्रकरणे ‘घुषिर् अविशब्दने' इति सूत्रम् / अविशब्दनार्थकात् घुषधातोर्निष्ठायां इण्नस्यादित्यर्थः / यथा-घुष्टा रज्जुः / प्रसारितेत्यर्थः / अविशब्दने इति किम् / अवघुषितं वाक्यम् / प्रतिज्ञातमित्यर्थः / अत्र विशब्दनार्थकत्वानेनिषेधः इति स्थितिः / तत्र विशब्दनार्थकस्य घुषधातोः चौरादिकत्वेन ण्यन्तत्वनियमाणिचा व्यवधानात्ततः परा निष्ठा नास्त्येवेति इग्निषेधे विशब्दनपर्युदासो व्यर्थस्सन् चौरादिकस्यास्य विशब्दनार्थकस्य घुषः णिचि विकल्पङ्गमयति / एवञ्च अवघुष्टं वाक्यमित्यत्र चौरादिकधुषेर्विशब्दनार्थकस्य निष्ठायाम् इति इनिषेधो निर्बाधः इति भाष्ये स्पष्टम् / इरित्त्वाद वेति // णिजभावपक्षे इति शेषः / ननु इरित्त्वादेव णिज्विकल्पे सिद्धे 'घुषिरविशब्दने' इति इग्निषेधसूत्रे अविशब्दने For Private And Personal Use Only
Page #298
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 296 सिद्धान्तकौमुदीसहिता [चुरादि घुषत् / आङः क्रन्द 1728 सातत्ये / भौवादिक: क्रन्दधातुरातानाद्यर्थ उक्तः / स एवाङ्पूर्वो णिचं लभते सातत्ये / आक्रन्दयति / अन्ये तु 'आङ्पूर्वो घुषिः क्रन्दसातत्ये' इत्याहुः / आघोषयति / लस 1729 शिल्पयोगे / तसि 1730 भूष 1731 अलङ्करणे / अवतंसयति-अवतंसति / भूषयति / अर्ह 1732 पूजायाम् / ज्ञा 1733 नियोगे / आज्ञापयति / भज 1734 विश्राणने / शृधु 1735 प्रसहने / 'अशशर्धत्-अशीशृधत्' / यत 1736 निकारोपस्कारयोः / रक 1737 लग 1738 आस्वादने / रघ' इत्येके / 'रग' इत्यन्ये / अञ्चु 1739 विशेषणे / अश्चयति / उदित्वभिडिकल्पार्थम् / अत एव विभाषितो णिच् / अञ्चति / एवं शृधुजसुप्रभृतीनामपि बोध्यम् / लिगि 1740 चित्रीकरणे / लिङ्गयति–लिङ्गति / मुद 1741 संसर्गे / मोदयति सक्तून्घृतेन / त्रस 1742 धारणे / ‘ग्रहणे' इत्येके / 'वारणे' इत्यन्ये / उध्रस 1743 उच्छे / उकारो धात्ववयव इत्येके / नेत्यन्ये / ध्रासयति / उध्रासयति / मुच 1744 प्रमोचने, मोदने च / वस 1745 स्नेहच्छेदापहरणेषु / चर 1746 संशये / च्यु 1747 सहने / 'हसने च' इत्येके / च्यावयति / 'च्युस' इत्येके / च्योसयति / भुवोऽवकल्कने 1748 / अवकल्कनं मिश्रीकरणमित्येके / चिन्तनमित्यन्ये / भावयति / कृपेश्च 1749 / कल्पयति / इति पर्युदासस्य णिज्विकल्पज्ञापकत्वाश्रयणक्लेशो भाष्ये व्यर्थ इति चेन / अत एव भाष्यादिरित्त्वाभावविज्ञानात् / एवञ्च ‘घुषिरविशब्दने' इत्यत्र घुषिरित्यस्य इका निर्देशमाश्रित्य प्रथमान्तत्वमेवाश्रयणीयम् / इरित्त्वादङ्वेति मूलन्तु भाष्यविरोधादुपेक्ष्यमेवेत्यास्तान्तावत् / आङः क्रन्द सातत्ये इति // आङः परः क्रन्दधातुः आह्वानसातत्येऽर्थे णिचं लभते इत्यर्थः / यद्वा आङ इत्यनन्तरं घुषिरित्यनुवर्तते / क्रन्दसातत्ये इत्यर्थनिर्देशः / तदाह / अन्ये विति / लसशिल्पयोगे इति // कौशले इत्यर्थः / तसि भूषेति // अत्र तसिः प्रायेण अवपूर्वः / तदाह / अवतंसयतीति / शानियोगे इति // आड्पूर्वः / तदाह / आज्ञापयतीति // आदन्तत्वात् पुक् / अजिज्ञपत् / यत निकारेति // तालव्यान्तस्थादिः / यत्तो वा प्रेषो वा निकारः / यातयति / अर्यायतत् / अञ्चु विशेषणे इति व्यावर्तने इत्यर्थः / उदित्त्वमिति // 'उदितो वा' इत्यण्यन्तात् क्वायामिडिकल्पार्थमित्यर्थः / ण्यन्तात्तु णिचा व्यवधानात् इडिकल्पस्य न प्रसक्तिरिति भावः। नन्वस्य नित्यण्यन्तत्वादण्यन्तत्वं असिद्धमित्यत आह / अत एवेति // च्यु सहने इति // च्यावयति / अचुच्यवत् / भुवोऽ वकल्कने इति / अवकल्कनवृत्तेभूधातोणिच् स्यादित्यर्थः / कृपेश्चेति // अवकल्कनवृत्तेः कृपेः For Private And Personal Use Only
Page #299
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा / 297 'आ स्वदः सकर्मकात्' (ग सू 201) / स्वदिमभिव्याप्य सम्भवत्कर्मभ्य एव णिच् / प्रस 1750 ग्रहणे / ग्रासयति फलम् / पुष 1751 धारणे पोषयत्याभरणम् / दल 1752 विदारणे / दालयति / पट 1753 पुट 1754 लुट 1755 तुजि 1756 मिजि 1757 पिजि 1758 लुजि 1759 भजि 1760 लघि 1761 त्रसि 1762 पिसि 1763 कुसि 1764 दशि 1765 कुशि 1766 घट 1767 घटि 1768 बृहि 1769 बर्ह 1770 बल्ह 1771 गुप 1772 धूप 1773 विच्छ 1774 चीव 1775 पुथ 1776 लोक 1777 लोच 1778 णद 1779 कुप 1780 तर्क 1781 वृतु 1782 वृधु 1783 भाषार्थाः / पाटयति / पोटयति / लोटयति / तुजयति / तुजति / एवं परेषाम् / घाटयति / घण्टयति / 2572 / नाग्लोपिशास्वृदिताम् / (7-4-2) णिच्यग्लोपिनः शास्ते: ऋदितां चोपधाया ह्रस्वो न स्याञ्चङ्परे णौ / अलुलोकत् / अलुलोचत् / वर्तयति / वर्धयति / उदित्त्वात् वर्तति / वर्धति / रुट 1784 लजि 1785 अजि 1786 दसि 1787 भृशि 1788 रुशि 1789 शीक 1790 रुसि 1791 नट 1792 पुटि 1793 जि 1794 चि 1795 रघि 1796 लघि 1797 अहि 1798 रहि 1799 महि 1800 च / लडि 1801 तड 1802 नल 1803 च / पूरी 1804 आप्यायने / ईदित्त्वं निष्ठायामिनिषेधाय / अत एव णिज्वा / पूरयति-पूरति / णिच् स्यादित्यर्थः / कल्पयतीति // 'कृपो रो लः' इति लत्वम् / कृपेश्चति पाठान्तरम् / आस्वदस्सकर्मकादिति // आङभिविधौ / तदाह / स्वदिमभिव्याप्येति // तत्र 'प्वद आस्वादने' इत्यस्य अकर्मकत्वादाह / सम्भवत्कर्मभ्यः इति // इत आरभ्य आस्वदीयास्सकर्मकाः / स्वदिस्त्वकर्मकः / पट पुटेति // एकत्रिंशत् धातवः / आद्यास्त्र. यष्टान्ताः / आद्यद्वितीयौ पवर्गप्रथमादी। चतुर्थाद्या एकादश इदितः / त्रिसिपिसी इदुपधौ / अदुपधौ इत्येके / षोडशसप्तदशाविदितौ / अलुलोकत्-अलुलोचत्, इत्यत्र उपधाहस्वे प्राप्ते / नाग्लोपि // ‘णौ चट्युपधायाः' इत्यनुवर्तते / णावित्यावर्तते / एकमग्लोपिन इत्यत्रान्वेति / द्वितीयन्तु निषेधे परनिमित्तम्। तदाह / णिच्यग्लोपिनः इत्यादि // ऋदित्वान्नाग्लोपीति निषेधेन उपधाहस्वाभावे सति लघुपरकत्वाभावान्नाभ्यासदीर्घ इति भावः / उदित्त्वादिति // 'वृतु वृधु' इत्युदित्त्वं 'उदितो वा' इत्यण्यन्तात् त्वायामिविकल्पार्थम् / ण्यन्तात्तु णिचा व्यवधानात् नेडिकल्पप्रसक्तिः / अतो णिज्विकल्पो विज्ञायते इति भावः / पूरी आप्यायने / इनिषे For Private And Personal Use Only
Page #300
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 298 सिद्धान्तकौमुदीसहिता [चुरादि रुज 1805 हिंसायाम् / ष्वद 1806 आस्वादने / 'स्वाद' इत्येके / असिष्वदत् / दीर्घस्य त्वषोपदेशत्वात् असिस्वदत् / __‘आ धृषाद्वा' (ग सू 202) / इत ऊर्ध्व विभाषितणिचो धृषधातुमभिव्याप्य / युज 1807 पृच 1808 संयमने / योजयति-योजति / अयोक्षीत् / पर्चयति-पर्चति / पर्चिता / अपर्चीत् / अर्च 1809 पूजायाम् / षह 1810 मर्षणे / साहयति स एवायं नागः सहति कलभेभ्यः परिभवम्' ईर 1811 क्षेपे / ली 1812 द्रवीकरणे / लाययति--लयति / लेता / वृजी 1813 वर्जने / वर्जयति-वर्जति / वृञ् 1814 आवरणे / वारयतिवरति--वरते / वरिता-वरीता / ज 1815 वयोहानौ / जारयति-जरति / जरिता जरीता / जि 1816 च / नाययति-ज्रयति / वेता / रिच 1817 वियोजनसम्पर्चनयोः / रेचयति-रेचति / रेक्ता / शिष 1818 असर्वोपयोगे / शेषयति-शेषति / शेष्टा / अशिक्षत् / अयं विपूर्वोऽतिशये / तप 1819 दाहे / तापयति-तपति / तप्ता / तृप 1820 तृप्तौ / 'सन्दीपने' इत्येके। धायेति // अण्यन्तात् त्वायामिनिषेधार्थमीदित्त्वम् / ण्यन्तात्तु णिचा व्यवधानादप्रसक्तेः / अतो णिज्विकल्पो विज्ञायते इत्यर्थः / स्वदधातुः षोपदेशः / तदाह / असिष्वदिति // आदेशसकारत्वात्षः / अभ्यासेकारस्य संयोगपरकत्वेन गुरुत्वान्नाभ्यासदीर्घः / दीर्घस्य त्विति // दीर्घमध्यस्य त्वित्यर्थः। अषोपदेशत्वादिति // ह्रस्वमध्यस्यैव स्वदेः षोपदेशेषु परिगणनादिति भावः / इत्यास्वदीयाः। आधृषाद्वेति // गणसूत्रम् / विभाषितणिचः इति // विकल्पितणिच्काः प्रत्येतव्या इत्यर्थः / आङभिव्याप्ताविति मत्वा आह। धृषधातुमभिव्याप्येति॥ णिजभावपक्षे आह। अयोक्षीदिति / अर्च पूजायामिति // अयमनुदात्तेदिति शाकटायनः। अर्चयते / अर्चते / अस्य भ्वादौ पाठः अनार्षः / अनेनैव सिद्धेः / नच परस्मैपदार्थ भ्वादावर्चेः पाठ इति वाच्यम् / भ्वादौ तस्याप्यात्मनेपदीयतायाश्शाकटायनसम्मतत्वेन माधवोक्तेः / एवमत्रत्यानामाधृषीयाणां भ्वादौ परस्मैपदिषु पाठः प्रामादिक एवेत्याहुः / ली द्रवीकरणे / लाययतीति // लीलोरिति नुक् तु न / लासाहचर्यात् हे तुमण्णावेवास्य प्रवृत्तेः / लेतेति // विभाषा लीयतेः इत्यात्त्वन्तु न। तत्र नाश्यन्विकरणयोरेव यका निर्देश इति भाष्यात् / वृञ् आवरणे / वरिता-वरीतेति // 'वृतो वा' इति दीर्घः / आशीर्लिङि ब्रियात् / आत्मनेपदे तु ‘लिङ्सिचोः' इति वेट् / वृषीष्ट-वरिषीष्ट। इडभावपक्षे उश्चेति कित्त्वान्न गुण: / 'न लिङि' इति इटो न दीर्घः / अवृत। नि चेति॥ ह्रस्वान्तोऽयम् / रिच वियोजने इति // अनिडयम् / ततश्च णिजभावपक्षे नेट / तदाह / रेक्तेति / शिष असर्वेति // अयमप्यनिट् / तदाह / शेष्टेति / अशिक्षदिति // शल इगुपधादिति क्सः / अयं विपूर्वो अतिशये इति // वर्तत इति शेषः / अयमस्माद्विशिष्ट इत्यत्र अधिक इति गम्यते / तृप तृप्ताविति // अनिट्सु For Private And Personal Use Only
Page #301
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा / 299 तर्पयति-तर्पति / तर्पिता / छुदी 1821 संदीपने / छर्दयति-छर्दति / छर्दिता / छर्दिष्यति / ‘सेऽसिचि-' (सू 2503) इति विकल्पो न / साहचर्यात्तत्र रौधादिकस्यैव ग्रहणात् / 'चप छुप हप सन्दीपने' इत्येके / चर्पयति / छर्पयति / इभी 1822 भये / दर्भयति / दर्भति / दर्भिता | हभ 1823 संदर्भ / अयं तुदादावीदित् / श्रथ 1824 मोक्षणे / 'हिंसायां' इत्येके / मी 1825 गतौ / माययति-मयति / मेता / ग्रन्थ 1826 बन्धने / ग्रन्थयति-ग्रन्थति / शीक 1827 आमर्षणे / चीक 1828 च / अर्द 1829 हिंसायाम् / स्वरितेत् / अर्दयति-अर्दति-अर्दते / हिसि 1830 हिंसायाम् / हिंसयति-हिंसति / हिनस्ति' इति श्रमि गतम् / अर्ह 1831 पूजायाम् / आङ: पद 1832 पद्यर्थे / आसादयति-आसीदति / ‘पाघ्रा-' (सू 2330) इति सीदादेशः / आसत्ता / आसात्सीत् / शुन्ध 1833 शोचकर्मणि / शुन्धिता / अशुन्धीत् / अशुन्धिष्टाम् / छद 1834 अपवारणे / स्वरितेत् / जुष 1835 परितर्कणे / परितर्कणमूहो हिंसा वा / 'परितर्पणे' इत्यन्ये / परितर्पणं परितृप्तिक्रिया / जोषयति-जोषति / प्रीतिसेवनयोर्जुषत इति तुदादौ / धूञ् 1836 कम्पने / णावित्यधिकृत्य 'धूमीबोर्नुग्वक्तव्यः' (वा 4519) / धूनयति--धवति-धवते / केचित्तु 'धूप्रीणो:--' इति पठित्वा प्रीणातिसाहचर्याद्धनोतरेव नुकमाहुः / धावयति / अयं स्वादौ क्रयादौ तुदादौ च, स्वादौ ह्रस्वश्च / तथा च कविरहस्ये'धूनोति चम्पकवनानि धुनोत्यशोकं चूतं धुनाति धुवति स्फुटितातिमुक्तम् / वायुर्विधूनयति चम्पकपुष्षरेणून्यत्कानने धवति चन्दनमञ्जरीश्च // प्रीञ् 1837 तर्पणे / प्रीणयति / 'धूमीणो:--' इति हरदत्तोक्तपाठे तु प्राययति-प्रयति--प्रयते / श्रन्थ 1838 ग्रन्थ 1839 सन्दर्भ / आप्ल 1840 लम्भने / झापयति--आपति / आपत् / आप्ता। स्वरितेदयमित्येके / आपते / तनु 1841 श्रद्धोपकरणयोः / उपसर्गाच्च दैये'। तानयति-वितानयति-तनतिश्यना निर्देशादयं सेट् / तदाह / तर्पितेति / छुदी सन्दीपने इति // ईदित्त्वनिष्ठायामिनिषेधार्थम् / धुवति स्फुटितेति // शविकरणस्य रूपम् / शस्य ङित्त्वाद्गुणाभावे उवङ् / प्रीञ् तर्पणे / प्रीणयतीति // ‘धूप्रीमोः' इति वार्तिकान्नुगिति भावः / हरदत्तेति / / अनेन भाष्यासम्मतत्वं सूचितम् / उपसर्गाच्चेति // दैये तु उपसर्गादनुपसर्गाच्च परस्तनु For Private And Personal Use Only
Page #302
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 300 सिद्धान्तकौमुदीसहिता [चुरादि वितनति / 'चन श्रद्धोपहननयोः' इत्येके / चानयति--चनति / वद 1842 सन्देशवचने। वादयति / स्वरितेत् / वदति-वदते / अनुदात्तेदित्येके / ववदतुः / ववदिथ / ववदे / वद्यात् / वच 1843 परिभाषणे / वाचयति-वचति / वक्ता / अवाक्षीत् / मान 1844 पूजायाम् / मानयति-मानति / मानिता / विचारणे तु भौवादिको नित्यसन्नन्तः / स्तम्भे तु 'मानयते' (इत्याकुस्मीयाः / ) 'मन्यते' इति दिवादौ / 'मनुते' इति तनादौ च / भू 1845 प्राप्तावात्मनेपदी / भावयते-भवते / णिच्सन्नियोगेनैवात्मनेपदमित्येके / भवति / गई 1846 विनिन्दने / मार्ग 1847 अन्वेषणे / कठि 1848 शोके / उत्पूर्वोऽयमुत्कण्ठायाम् / * कण्ठते इत्यात्मनेपदी गतः / मृजू 1849 शौचालङ्कारयोः / मार्जयति--मार्जति / मार्जिता-माष्टो / मृष 1850 तितिक्षायाम् / स्वरितेत् / मर्षयति--मर्षति-मर्षते / मृष्यति-मृष्यते इति दिवादौ / सेचने शपि मर्षति / धृष 1851 प्रसहने / धर्षयति-धर्षति / इत्याधृषीयाः / अथादन्ताः / कथ 1852 वाक्यप्रबन्धे / अल्लोपस्य स्थानिवद्भावान्न वृद्धिः / कथयति / अग्लोपित्वान्न दीर्घसन्वद्भावौ / अचकथत् / वर 1853 ईप्सायाम् / वरयति / वारयतीति गतम् / गण 1854 सङ्ख्याने / गणयति / धातुराधृषीयो वेदितव्य इत्यर्थः / श्रद्धोपकरणयोस्त्वनुपसर्गादेवेति भावः / 'वच परिभाषणे'। अवाक्षीदिति // अस्यतिवक्तीति लुका निर्देशादङ् नेति भावः / वचिस्वपीति सम्प्रसारणम् / उच्यात् / इत्याधृषीयाः / अथादन्ता इति // वक्ष्यन्ते इति शेषः / अन्ते अकारो नेत्संज्ञकः नाप्युच्चारणार्थ इति भावः / तत्र कथधातोर्णिचि अतो लोपे कथि इत्यस्मात् तिपि शपि गुणे अयादेशे कथयतीति रूपं वक्ष्यति / तत्र णिचमाश्रित्य उपधावृद्धिमाशङ्कयाह / अल्लोपस्य स्थानिवद्भावादिति // अचः परस्मिन्नित्यनेनेति भावः / अत्रेदमवधेयम् / स्थानिनि सति शास्त्रीयं यत्कार्यं तदेव स्थानिवदादेशोऽनल्विधावित्यत्रातिदिश्यते / यत्तु स्थानिनि सति निमित्त. व्याघातान भवति तस्य भावस्य अशास्त्रीयत्वान्नातिदेशः / अन्यथा नायक इत्यत ईकारस्थानिकस्य ऐकारस्य आयादेशानापत्तेः / ईकारे स्थानिनि सति आयभावस्य दृष्टत्वेन तस्याप्यैकारे अतिदेशप्रसङ्गात् / ' अचः परस्मिन् ' इत्यत्र तु स्थानिनि सति यत् शास्त्रीयङ्कार्य प्रसज्यते तस्य तदभावस्य चाशास्त्रीयस्याप्यतिदेश इति भाष्ये स्पष्टम् / अतोऽत्र धकारादकारे सति प्रसक्तस्य उपधावृद्ध्यभावस्य अशास्त्रीयत्वेऽप्यतिदेश इति सिद्धम् / लुङि चडि अचकथत् इत्यत्र सन्वत्त्वमाशझ्याह / अग्लोपित्वादिति // सन्वत्त्वविषये जायमानोऽभ्यासदीर्घः सन्वत्त्वनापेक्षत इति पृथगुक्तिः। एवङ्कथादौ सर्वत्र ज्ञेयम् / गण सङ्ख्याने। चङि अल्लोपस्य स्थानि For Private And Personal Use Only
Page #303
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा / 301 2573 / ई च गणः / (7-4-97) गणेरभ्यासस्य ईत्स्याञ्चपरे णौ। चादत् / अजगणत्--अजीगणत् / शठ 1855 श्वठ 1856 सम्यगवभाषणे / पट 1857 वट 1858 ग्रन्थे / रह 1859 त्यागे / अररहत् / स्तन 1860 गदी 1861 देवशब्दे / स्तनयति / गदयति / अजगदत् / पत 1862 गतौ वा / वा णिजन्तः / वा अदन्त इत्येके। आद्य पतयति-पतति / पताञ्चकार / अपतीत् / द्वितीये पातयति / अपीपतत् / पष 1863 अनुपसर्गात्। गतावित्येव / पषयति / स्वर 1864 आक्षेपे / स्वरयति / रच 1865 प्रतियत्ने / रचयति / कल 1866 गतौ संख्याने च / चह 1867 परिकल्कने / परिकल्कनं दम्भ: शाठ्यं च / मह 1868 पूजायाम् / महयति / महति इति शपि गतम् / सार 1869 कृप 1870 श्रथ 1871 दौर्बल्ये / सारयति / कृपयति / श्रथयति / स्पृह 1872 ईप्सायाम् / भाम 1873 क्रोधे / अबभामत् / सूच 1874 पैशुन्ये / सूचयति / अषोपदेशत्वान्न षः / असूसुचत् / खेट 1875 भक्षणे / तृतीयान्त इत्येके / 'खोट' इत्यन्ये / क्षोट 1876 क्षेपे / गोम 1877 उपलेपने / अजुगो मत् / कुमार 1878 क्रीडायाम् / अचुकुमारत् / शील 1879 उपधारणे / वत्त्वात् दीर्घसन्वद्रावयोरभावे अजगणदित्येव प्राप्ते आह / ई च गणः॥ ‘सन्वल्लघुनि' इत्यतश्चपरे इति, अत्र लोप इत्यतः अभ्यासस्येति, चानुवर्तते / तदाह। गणेरभ्यासस्येति॥ 'अत्स्मृदृत्वर' इति पूर्वसूत्रादग्रहणञ्चकारादनुकृष्यते / तदाह / चाददिति / स्तनगदीदेवशब्द इति // पर्जन्यगर्जने इत्यर्थः / स्तनश्च गदिश्चेति द्वन्द्वः। गदीति इका निर्देशः / गदेत्यकारान्तात् इकि अल्लोपे गदीति निर्देशः / एवञ्च प्राकरणिकमदन्तत्वन्नव्याहन्यते। पत गतौ वेति॥गतावर्थे पतधातुः णिचं वा लभत इत्यर्थः / तदाह / वाणिजन्त इति // आधृषीयत्वाभावात् विकल्पविधिः। यद्वा वाशब्दस्य अदन्तत्व एवान्वयः / णिच् तु नित्य एव / तदाह / वा अद. न्त इत्येके इति ॥प्रथमपक्षे तु अदन्तत्वमेव। तदाह / आये पतयतीति॥ अल्लोपस्य रथानिवत्त्वान्न वृद्धिः / पताञ्चकारेति // णिजभावेऽप्यदन्तत्वात् कास्यनेकाच् इत्यामिति भावः / चङि अपपतत् / अग्लोपित्वान्न दीर्घसन्वत्त्वे / द्वितीये पातयतीति // तकारादकारस्य उच्चारणार्थत्वादुपधावृद्धिरिति भावः / अपीपतदिति // अग्लोपित्वाभावाद्दीर्घसन्वत्त्वे इति भावः / कृपयतीति // अजन्तत्वस्य धात्वन्तरत्वात् 'कृपो रो लः' इति न भवति / 'स्पृह ईप्सायाम् / ' आप्तुमिच्छा ईप्सा / अबभामदिति // चङि अल्लोपस्य स्थानिवत्त्वानोपधास्वः। सूच पैशुन्ये / अषोपदेशत्वादिति // अनेकाच्त्वादिति भावः / खेट भक्षणे / तृतीयान्त इति // टवर्गतृतीयान्त इत्यर्थः / साम सान्त्वप्रयोगे / सान्त्वप्रयोगः अकटुभाषणम् / For Private And Personal Use Only
Page #304
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 302 सिद्धान्तकौमुदीसहिता [चुरादि उपधारणमभ्यासः / साम 1880 सान्त्वप्रयोगे / अससामत् / 'साम सान्त्वने' इत्यतीतस्य तु असीषमत् / वेल 1881 कालोपदेशे / वेलयति / 'काल' इति पृथग्धातुरित्येके / कालयति / पल्पूल 1882 लवनपवनयोः / वात 1883 सुखसेवनयोः / 'गतिसुखसेवनेषु' इत्येके / वातयति / अववातत् / गवेष 1884 मार्गणे / अजगवेषत् / वास 1885 उपसेवायाम् / निवास 1886 'आच्छादने' / अनिनिवासत् / भाज 1887 पृथकर्मणि / समाज 1888 प्रीतिदर्शनयोः / प्रीतिसेवनयोः' इत्यन्ये / सभाजयति / ऊन 1889 परिहाणे / ऊनयति / ‘ओः पुयजि-' (सू 2577) इति सूत्रे ‘पययोः' इति वक्तव्ये वर्गप्रत्याहारजकारग्रहो लिङ्गं : णिचि अच आदेशो न अससामदिति // अल्लोपस्य स्थानिवत्त्वान्नोपधाहस्वः / ननु साम सान्त्वने इति कथादेः प्राक् चुरादौ पाठो व्यर्थः अनेनैव सिद्धेः इत्यत आह / साम सान्त्वने इत्यतीतस्य तु असीषमदिति // पूर्वपठिते सामधातौ मकारादकारस्य उच्चारणार्थतया च उपधाइस्वः दीर्घसन्वत्त्वे चेत्यर्थः / यद्यपि साम सान्त्वप्रयोगे इत्येव प्राक् चुरादौ पठितम् / तथापि सान्त्वनस्य सामप्रयोगादनन्यत्वात्तथोक्तिरिति भावः / गवेष मार्गणे / मार्गणं अन्वेषणम् / चङि अल्लोपस्य स्थानिवत्त्वान्नोपधाहस्वः / तदाह / अजगवेषदिति // 'निवास आच्छादने' / अनिनिवासत् / 'ऊन परिहाणे' परिहाणन्यूनीभावः / ऊनयतीति // णावतो लोप इति भावः / ननु लुङि चङि ऊन इ अत् इ इति स्थिते णिलोपे 'चडि' इत्यजादेद्वितीयस्य नशब्दस्य द्वित्वे अतो लोपे अग्लोपित्वेन सन्वत्त्वाभावादभ्यासे इत्वदीर्घयोरभावे आटो वृद्धौ औननदिति रूपं वक्ष्यति / तदनुपपन्नम् / द्वित्वात्प्रागेव परत्वादतो लोपे कृते निशब्दस्य द्वित्त्वे औनिनादित्येवमभ्यासे इकारश्रवणप्रसङ्गात् / नच द्वित्वे कार्ये अतो लोपस्य द्विवचनेऽचीति निषेधः शङ्कयः / अल्लोपनिमित्तस्य णिचो द्वित्वनिमित्तत्वाभावात् इत्यत आह / ओः पुयण्जीत्यादि // ओ:पुयणज्यपरे इति सूत्रे ओः पययोरपरयोरित्येव वक्तव्ये पु इति पवर्गस्य यणिति प्रत्याहारस्य जकारस्य च ग्रहणं लिङ्गमित्यन्वयः / कुत्र लिङ्गमित्यत आह / णिचीत्यादि // द्वित्वे कॉर्थ णिज्निमित्तकः अच आदेशो न स्यादित्यत्र लिङ्गमिति पूर्वेणान्वयः / तथाहि / ओः पुयण ज्वपर इति सूत्रम् / सनि परे यदङ्गन्तदवयवाभ्यासोवर्णस्य इकारस्स्यात् अवर्णपरकेषु पवर्गयण्जकारेषु परत इति तदर्थः / पूङ् पिपावयिषति / भू बिभावयिषति / यु यियावयिषति / रु रिरावयिषति / लूञ् लिलावयिषति। जु जिजावयिषति / इत्युदाहरणानि। अत्र द्वित्वम्प्रत्यानिमित्ते णिचि 'द्विर्वचनेऽचि' इति निषेधाप्रवृत्त्या द्वित्वात् प्रागेव परत्वादृद्ध्यावादेशयोः कृतयोः अभ्यासेष्वाकारस्य हस्ते सति 'सन्यतः' इत्येव इत्त्वसिद्धेः पवर्गयणप्रत्याहारजकारग्रहणं व्यर्थम् / ओः पययोरपरयोः इत्येव सूत्रमस्तु / पकारयकारग्रहणन्तु न व्यर्थम् / पिपावयिषति यियावयिषतीत्यत्र उक्तरीत्या 'सन्यतः' इति इत्वसिद्धावपि पिपविषते यियविषतीत्यत्र पूधातोयुधातोश्च अण्यन्तात् 'सनि अभ्यासे' इत्त्वार्थं तदावश्यकत्वात् / तत्र हि For Private And Personal Use Only
Page #305
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् . बालमनोरमा / स्याद्वित्वे कार्ये' इति / 'यत्र द्विरुक्तावभ्यासोत्तरखण्डस्याऽऽप्रक्रियायां परिनिष्ठिते रुपे वावर्णो लभ्यते, तत्रैवायं निषेधः' / ज्ञापकस्य सजातीयापेक्षत्वात् / तेन * अचिकीर्तत् इति सिद्धम् / प्रकृते तु 'न' शब्दस्य द्वित्वम् / तत उत्तर इको झलिति सनः कित्त्वात् श्रयुकः कितीति प्राप्तमिनिषेधम्बाधित्वा 'स्मिपूज्वशां सनि' इति सनीवन्तर्द्धभ्रस्जदम्भुश्रिस्यूर्णभरज्ञपिसनामिति च सूत्राभ्यामिटि कृते इडादेस्सनो द्वित्वनिमित्तत्वेन इटोऽपि द्वित्वनिमित्ततया 'द्विवचनेऽचि' इति गुणावादेशयोनिषेधे सति पू यु इत्यनयोर्द्वित्वे अभ्यासे अकाराभावेन 'सन्यतः' इत्यस्याप्रवृत्त्या तत्र इत्त्वार्थे पययो. रित्यावश्यकम् / वर्गप्रत्याहारजकारग्रहणन्तु द्वित्वे कार्ये णावच आदेशो नेत्यनाश्रयणे व्यर्थमेव / तदाश्रयणे तु बिभावयिषतीत्यादिषु णिचि लुप्ते सति ‘चङि' इति द्वित्वे कार्ये प्रत्ययलक्षणमाश्रित्य णिचि गुणावादेशयोः प्रतिषेधे सति उवर्णान्तानान्द्रित्वे अभ्यासे अकाराभावेन ‘सन्यतः' इत्यस्याप्रवृत्त्या वर्गप्रत्याहारजकारग्रहणमर्थवत् / अतः द्वित्वे कार्ये णावच आदेशो नेति विज्ञायते इत्यर्थः / ननु ‘कृत संशब्दने' अस्मात् णौ 'उपधायाश्च' इति ऋत इत्त्वे रपरत्वे किरत् इत्यस्मात् लुङि चङि णिलोपे द्वित्वे अभ्यासे उरदत्त्वे हलादिशेष कस्य चुत्वे उत्तरखण्डे इकारस्य -- उपधायाश्च' इति दीर्घ अचिकीर्तदिति रूपमिष्यते। तन्न युज्यते / द्वित्वे कर्तव्ये णावच आदेशस्य निषिद्धतया इत्त्वात्प्रागेव कृत् इत्यस्य द्वित्वे, उरदत्त्वे, रपरत्वे, हलादिशेषे, कस्य चुत्वे, उत्तरखण्टे ऋत इत्त्वे रपरत्वे, उपधादीर्घ, अचिकीर्तदित्यापत्तेरित्यत आह / यत्र द्विरुक्तावित्यादि // यत्र धातौ चङि द्विवंचने कृते अभ्यासोत्तरखण्डस्य आद्योऽच् अवर्णो लभ्यते तत्रैव द्वित्वे कार्य णावच आदेशो नेत्ययं निषेध इत्यन्वयः / यद्यपि धातोरवयवस्य एकाचो द्वित्वे कृते अभ्यासोत्तरखण्डे द्वितीयस्याचोऽभावादाद्योऽजिति व्यर्थमेव / तथापि स्पष्टार्थन्तदित्याहुः / नन्वभ्यासोत्तरखण्डस्याद्योऽजवर्णो लभ्यते इत्यत्र किं वर्णः द्वित्वप्रवृत्तिवेलायां विवक्षितः उत परिनिष्ठिते रूपे विवक्षितः / नाद्यः / क्षुधातोर्ण्यन्तात् सनि चुक्षावयिषतीत्यत्र क्षु इत्यस्य द्वित्वे कृते अभ्यासोत्तरखण्डे प्रक्रियादशायामवर्णाभावेन वृद्ध्यावादेशयोनिषेधाप्रवृत्त्या द्वित्वात् प्रागेव परत्वाद्ध्यावादेशयोः क्षाव् इत्यस्य द्वित्वे चिक्षावयिषतीत्यापत्तेः / न द्वितीयः / ऊन इ अ त् इति स्थिते सति न इत्यस्य द्वित्त्वे अभ्यासोत्तरखण्डे अल्लोपे सत्यवर्णाभावेन णौ अल्लोपस्य निषेधाप्रवृत्त्या द्वित्वात् प्रागेव परत्वादतो लोपे सति नि इत्यस्य द्वित्वे औनिनदित्यापत्तेरित्यत आह / प्रक्रियायां परिनिष्ठिते रूपे वेति // न त्वमुकत्रैवेत्याग्रह इति भावः / सजातीये पुयजा अम्यासोत्तरखण्डे अवर्णपरत्वनियमादिति भावः / सिद्धमिति // प्रक्रियायां परिनिष्ठिते वा उत्तरखण्डे अवर्णाभावादृत इत्त्वस्य न निषेध इति भावः / एवं च चुक्षावयिषति इत्यत्र क्षु इत्यस्य द्वित्वे प्रक्रियादशायामभ्यासोत्तरखण्डे अवर्णाभावेऽपि परिनिष्टिते रूपे तत्सत्त्वात् णौ गुणावादेशयोर्भवत्येव द्वित्वे कार्ये निषेधः / औननदित्यत्रापि णौ भवत्येवाल्लोपस्य निषेध इत्याह / प्रकृते विति // औननदित्यत्रेत्यर्थः / नशब्दस्येति // अल्लोपात्प्रागेव नशब्दस्य द्वित्वाश्रयणे प्रक्रियादशायामुत्तरखण्डे अवर्णलाभादल्लोपस्य निषेधे सति नशब्दस्यैव For Private And Personal Use Only
Page #306
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 304 सिद्धान्तकौमुदीसहिता [चुरादि खण्डेऽल्लोपः / औननत् / मा भवानूननत् / ध्वन 1890 शब्दे / अदध्वनत् / कूट 1891 परितापे / 'परिदाहे' इत्यन्ये / सङ्केत 1892 ग्राम 1893 कुण 1894 गुण 1895 चामन्त्रणे / चात्कूटोऽपि / कूटयति / सङ्केतयति / ग्रामयति / कुणयति / गुणयति / पाठान्तरम् / केत 1896 श्रावणे निमन्त्रणे च / केतयति / निकेतयति / 'कुण गुण चामन्त्रणे' / चकारात्केतने / कूण 1897 सङ्कोचनेऽपि / स्तेन 1898 चौर्ये / अतिस्तेनत् / गर्वादात्मनेपदिन: / पद 1899 गतौ / पदयते / अपपदत / गृह 1900 ग्रहणे / गृहयते / मृग 1901 अन्वेषणे / मृगयते / ‘मृग्यति' इति कण्डादिः / कुह 1902 विस्मापने / शूर 1903 वीर 1904 विक्रान्तौ / स्थूल 1905 परिबृंहणे / स्थूलयते / अतुस्थूलत / अर्थ 1906 उपयाच्यायाम् / अर्थयते / आथित / सत्र 1907 सन्तानक्रियायाम् / अससत्रत / अनेकाच्त्वान्न षोपदेशः / सिसत्रयिषते / गर्व 1908 माने / गर्वयते / अदन्तत्वसामाणिज्विकल्प: / 'धातोरन्त उदात्त:' लिटि आम्' च फलम् / एवमग्रेऽपि / इत्यागीयाः / द्वित्वं न तु निशब्दस्येति भावः / ततः इति // नशब्दस्य द्वित्वानन्तरमुत्तरखण्डे अल्लोप इति भावः / अत्र नशब्दद्वित्वार्थमेव ऊनधातोरदन्तत्वं स्थितम् / फलान्तरं सूचयन्नाह / मा भवान् ऊननदिति // अग्लोपित्वान्नोपधाहूस्व इति भावः / पाठान्तरमिति // केत श्रावणे इत्यादि शेयमित्यर्थः / चकारात्कतेति समुच्चीयते इति शेषः / सङ्कोचनेऽपीति // इतिशब्दः पाठान्तरसमाप्तौ ‘स्तेन चौर्ये' अनेकाच्त्वान्न षोपदेशोऽयमिति मत्वा आह / अतिस्तेनदिति // गृह ग्रहणे / ऋदुपधोऽयम् / गृहयते इति // अल्लोपस्य स्थानिवत्त्वान्न गुण इति भावः / लुङि अजगृहत / अग्लोपित्वान्न सन्वत्त्वम् / मृग अन्वेषणे / मृगयते इति // इहाप्यल्लोपस्य स्थानिवत्त्वान्न गुणः / ‘मार्ग अन्वेषणे' इत्याधृषीयस्य तु मार्गयति-मार्गति इति च गतम् / अर्थ उपयाच्याम् / अर्थयते इति // अर्थ इ इति स्थिते अतो लोपः / न तु 'अचो णिति' इति वृद्धिः / वृद्धेर्लोपो बलीयानिति न्यायात् / अर्थवेदयोरित्यापुक्तु न / तत्र प्रातिपदिकस्य ग्रहणात् / गर्व माने। अभिमाने इत्यर्थः / ननु कथादावस्य पाठो व्यर्थः / अदन्तत्वे फलाभावात् / नच सन्वत्वानिवृत्तये अग्लोपित्वाय अदन्तत्वमिति शङ्कयम् / लघुपरकत्वाभावादेव तदप्रसक्तेः / नाप्यल्लोपस्य स्थानिवद्भावात् उपधा. वृद्धिनिवृत्त्यर्थमदन्तत्वमिति शङ्कयम् / गकारादकारस्यानुपधात्वादेव तदप्रसक्तरित्यत आह / अदन्तत्वसामाणिज्विकल्पः इति // ननु गर्वते इत्यत्र णिजभावेऽप्यदन्तत्वं निष्फलमिति कथन्तस्य विकल्पज्ञापकतेत्यत आह / धातोरन्त उदात्तः इति // तेन गते इत्यत्र वकारादकार उदात्तः फलति / अदन्तत्वाभावे तु गकारादकार उदात्तः HELHHHHHHH For Private And Personal Use Only
Page #307
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा। सूत्र 1909 वेष्टने / सूत्रयति / असुसूत्रत् / मूत्र 1910 प्रस्रवणे / मूत्रयति-मूत्रति / रूक्ष 1911 पारुष्ये / पार 1912 तीर 1913 कर्मसमाप्तौ / अपपारत् / अतितीरत् / पुट 1914 संसर्गे / पुटयति / धेक 1915 दर्शने इत्येके / अदिधेकत् / कत्र 1916 शैथिल्ये / कत्रयतिकवति / 'कर्त' इत्यप्येके / कर्तयति-कर्तति / 'प्रातिपदिकाद्धात्वर्थे बहुलमिष्ठवञ्च' (ग सू 203) प्रातिपदिकाद्धात्वर्थे णिच्स्यात् , इष्ठे यथा प्रातिपदिकस्य पुंवद्भावरभावटिलोपविन्मतुब्लोपयणादिलोपप्रस्थस्फाद्यादेशभसंज्ञास्तद्वण्णावपि स्युः / पटुमाचष्टे पटयति / परत्वाद्वद्धौ सत्यां टिलोपः / अपीपटत् / ‘णौ चडि-' (सू 2314) इत्यत्र भाष्ये तु ' वृद्धेर्लोपो बलीयान्' इति स्थितम् / स्यादिति भावः / लिट्याम् चेति // गर्वाञ्चक्रे इत्यत्र 'कास्यनेकाचः' इत्याम्प्रत्ययोऽप्यदन्तत्वस्य फलमित्यर्थः / अन्यथा अनेकाच्त्वाभावादाम् न स्यादिति भावः। एवमोऽपीति॥ 'मूत्र प्रस्रवणे' इत्यादावित्यर्थः / इत्यागीयाः / सूत्र वेष्टने / अनेकाच्वादषोपदेशत्वार्थमस्य अदन्तत्वमिति न ततोऽस्य णिज्विकल्पः / 'कत्र शैथिल्ये' / कर्त इत्यपीति // अदन्तत्वसामर्थ्यादस्य णिज्विकल्प इति मत्वा आह / कर्तयति / कर्ततीति // 'प्रातिपदिकाद्धात्वर्थे बहुळमिष्ठवच्च' चुरादिगणसूत्रमिदम् / इष्ठवदिति // सप्तम्यन्ताद्वतिः / तेन भुवमाचष्टे भावयतीत्यत्र 'इष्टस्य यिट च' इति यिडागमो न भवति। तदाह / इष्ठे यथेति // अत्र धात्वर्थे इत्यनेन करणम् / आख्यानं दर्शनं वचनं श्रवणं इत्यादि गृह्यते / पुंवद्भावेति // अतिशयेन पट्टी पटिष्ठेत्यत्र भस्याढे इति पुंवत्त्वम् / द्रढिष्ट इत्यत्न ‘र ऋतो हलादेलेघोः' इति रभावः / अतिशयेन साधुस्साधिष्ठः इत्यत्र टिलोपः। अतिशयेन स्रग्वी स्रजिष्टः इत्यत्र ‘विन्मतोलक्' इति विनो लुक् / अतिशयेन गोमान् गविष्टः इत्यत्र मतुपो लुक् / अतिशयेन स्थूलः स्थविष्ठः इत्यादौ 'स्थूलदूरयुव' इत्यादिना यणादिलोपः पूर्वस्य च गुणः / अतिशयेन प्रियः प्रेठः इत्यादौ प्रियस्थिरेत्यादिना प्रस्थाद्यादेशः / अतिशयेन स्रग्वी स्रजिष्ठः इत्यत्र भत्वान्न कुत्वम् / एते इष्ट इव णावपि परतः स्युरित्यर्थः / पटयतीति // पटुमाचष्टे इत्याद्यर्थे णिच् / इष्ठवत्त्वात् टेरिति टिलोप इति भावः / ननु उकारस्य टेलपे सति अग्लोपित्वात् सन्वत्त्वन्न स्यादित्यत आह / परत्वाबद्धौ सत्यां टिलोपः इति // 'अचो ञ्णिति' इति उकारस्य वृद्धौ कृतायां औकारस्य टेापः। अकृतायान्तु वृद्धौ उकारस्य टेर्लोपः / ततश्च "शब्दान्तरस्य प्राप्नुवन् विधिरनित्यः” इति न्यायेन टिलोपः अनित्यः / वृद्धिस्तु टिलोपे कृते सति नैव भवतीति साप्यनित्या। एवञ्च वृद्धिटिलोपयोरुभयोर्मध्ये परत्वात् उकारस्य वृद्धिः औकारः तस्यावादेशात्प्रागेव परत्वात् वार्णादाङ्गस्य बलीयस्त्वाच्च औकारस्य टेर्लोप इत्यर्थः / एवञ्च अनग्लोपित्वात् सन्वत्त्वमिति मत्वा आह / अपीपटदिति // एतच्च 'मुण्डमिश्र' इति सूत्रे भाष्यकैयटयोः स्पष्टम् / स्थितमिति // तथाच वृद्धेः प्रागुकारस्य लोपे अग्लोपित्वान्न सन्वत्त्वमित्यर्थः / भाष्ये उभयथा दर्शनाद्रूपद्वयमपि साध्विति बोध्यम् / शब्देन्दुशेखरे तु "वृद्धेः लोपो बलीयान्” इति ‘णौ चडि' इति सूत्रभाष्यमेव प्रमाणम् / 'मुण्डमिश्र' For Private And Personal Use Only
Page #308
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदीसहिता [चुरादि अपपटत् / तत्करोति तदाचष्टे' (ग सू 204) / पूर्वस्यैव प्रपञ्चः / करोत्याचष्टे इति धात्वर्थमात्रं णिजर्थः / लडर्थस्त्वविवक्षितः / तेनातिकामति' (ग सू 205) / अश्वेनातिकामति अश्वयति / हस्तिनातिकामति हस्तयति / 'धातुरूपं च' (ग सू 206) / णिच्प्रकृतिर्धातुरूपं प्रतिपद्यते / चशब्दोऽनुक्तसमुचयार्थः / तथा च वार्तिकम्-आख्यानात्कृतस्तदाचष्टे कुल्लुक्प्रकृतिप्रत्यापत्तिः प्रकृतिवच्च कारकम्' (वा 1766) इति / कंसवधमाचष्टे कंसं घातयति / इह 'कंसं हन्' इ इति स्थिते / इति सूत्रभाष्यं त्वेकदेश्युक्तिरिति प्रपञ्चितम् / अत्र पुवद्भावादिकमुदाह्रियते / एनीमाचष्टे एतयति / पुंवद्भावात् डीन्नकारयोनिवृत्तिः / दृढमाचष्टे द्रढयति ‘र ऋतः' इति रभावः / स्रग्विणमाचष्टे स्त्रजयति / विन्मतोरिति विनो लुक् / गोमन्तमाचष्टे गवयति / मतुपो लुक् / अङ्गवृत्तपरिभाषया न वृद्धिः / प्रियमाचष्टे प्राययति / स्थिरमाचष्टे स्थापयति, इत्यादिषु यणादिलोपप्रस्थस्फाद्यादेशाः / अत्र वृद्धिर्भवत्येव / द्वयोरिति निर्देशेन अङ्गवृत्तपरिभाषाया अनित्यत्वाश्रयणात् / स्रग्विणमाचष्टे स्रजयति / सुबन्तात् विहितस्य विनो लुकि अन्तर्वर्तिविभक्त्या पदत्वात् प्राप्तङ्कुत्वं भत्वान्न भवति / तत्करोति तदाचष्टे / इदमपि चुरादिगणसूत्रम् / प्रातिपदिकादित्य. नुवर्तते / तत्करोति तदाचष्टे इति चार्थे प्रातिपदिकाणिच् स्यादित्यर्थः / आचारक्विविव प्रातिपदिकादेवेदम् / ननु 'प्रातिपदिकाद्धात्वर्थे' इत्येव सिद्धे किमर्थमिदमित्यत आह / पूर्वस्यैव प्रपश्च इति // ननु करोति आचष्टे इति वर्तमाननिर्देशादकरोदित्याद्यर्थेषु न स्यादित्यत आह / करोत्याचष्टे इत्यादि // लडर्थ इत्युपलक्षणं भूते भविष्यति द्वित्वे बहुत्वे च प्रत्ययो भवत्येव / तेनातिकामति / इदमपि गणसूत्रम् / 'प्रातिपदिकाद्धात्वर्थे ' इत्यस्यैव प्रपञ्चः। वाचा अतिक्रामति वाचरति इत्यत्र कुत्वन्तु न शङ्कयम् / असुबन्तादेव प्रातिपदिकात् प्रत्ययोत्पत्तेः / धातुरूपञ्चेति // इदमपि गणसूत्रम् / णिच्प्रकृतिरिति प्रतिपद्यते इति चाध्याहृत्य व्याचष्टे। णिचप्रकृतिर्धातुरूपम्प्रतिपद्यते इति // ननु प्रातिपदिकात् धात्वर्थे णिच् भवति णिचप्रकृतिर्धातुरूपञ्च प्रतिपद्यते इति प्रतीयमानार्थाश्रयणे भुक्तमाचष्टे भुक्तयतीति न स्यात् / भुक्तशब्दस्य भुजधातुरादेशः स्यादित्यत आह / चशब्दोऽनुक्तसमुच्चयार्थः इति // किमनुक्तं समुच्चीयते इत्यत आह / तथाच वार्तिकमिति // आख्यानात् कृत इति // 'हेतुमति च' इति सूत्रे इदं वार्तिकं स्थितम् / आख्यानं वृत्तकथाप्रबन्धः / तद्वाचिनः कृदन्तात् कंसवधादिशब्दात् तदाचष्टे इत्यर्थे णिचि कृते णिच्प्रकृत्यवयवभूतस्य कृतः लुक् तस्यैव कृतः या प्रकृतिः हनादिधातुरूपा तस्याः प्रत्यापत्तिः आदेशादिविकारपरित्यागेन स्वरूपेणावस्थानम्भवतीत्यर्थः / प्रकृतिवच्च कारकम् इत्यंशस्तु मूल एव व्याख्यास्यते / कंसवधमाचष्टे कंसं घातयतीत्युदाहरणम्। हननं वधः 'हनश्च वधः' इति भावे हनधातोः अप्प्रत्ययः प्रकृतेः वधादेशश्च / कंसस्य वधः कंसवधः तदन्वाख्यानपरवाक्यसन्दर्भो विवक्षितः। तमाचष्टे इत्यर्थे णिच् / अप्प्रत्ययस्य कृतो लुक्प्रकृतिभूतस्य हनधातोर्वधादेशस्य च निवृत्तिः / तथाच फलितं दर्शयति / इह कंसं हन् इ इति स्थिते इति // For Private And Personal Use Only
Page #309
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा / 307 2574 / हनस्तोऽचिण्णलोः / (7-3-32) हन्तेस्तकारोऽन्तादेश: स्याञ्चिण्णल्वर्जे अिति णिति / नन्वनाङ्गसंज्ञा धातुसंज्ञा च कंसविशिष्टस्य प्राप्ता / ततश्चाइद्वित्वयोर्दोषः / किञ्च कुत्वतत्वे न स्याताम् / धातोः स्वरूपग्रहणे तत्प्रत्यये कार्यविज्ञानात् / सत्यम् ‘प्रकृतिवच्च' इति चकारो भिन्नक्रमः / कारकं च चात्कार्यम् / हेतुमण्णिच: प्रकृतेर्हन्यादेर्हेतुमण्णौ यादृशं कारकं धातावनन्तर्भूतं द्वितीयान्तं यादृशं च हनस्तोऽचिण्णलोः // हन इति षष्टी / त इत्यत्र अकार उच्चारणार्थः / तदाह / हन्तेस्त. कार इति // अन्तादेश इत्यलोऽन्त्यपरिभाषया सिद्धम् / त्रिति णिति चेति // 'अचो ञ्णिति' इत्यतस्तदनुवृत्तेरिति भावः / तथाच हनो नकारस्य तत्वे 'हो हन्तेः' इति कुत्वेन हस्य घकारे घातीति ण्यन्तं फलितम् / ततो लटि घातयति इति रूपं स्थितम् / कृतो लुकि समासनिवृत्तौ सुब्लुकोऽपि निवृत्तौ कंसमिति च स्थितम् / 'आख्यानात् कृतः' इति वार्तिकस्थं प्रकृतिवच्च कारकमित्यशं शकोत्तरत्वेन योजयिष्यन् शङ्कामवतारयति / नन्विति / कंसविशिष्टस्येति // कंसवधशब्दस्यैवेत्यर्थः / तस्मादेव णिचो बिधानादिति भावः / ननु कंसवधशब्दस्य अङ्गत्वे का हानिरित्यत आह / ततश्चेति // कंसवधशब्दस्याङ्गत्वात् अद्वित्वयोर्विषये दोषः स्यात् / कंसशब्दात्पूर्वमडागमः स्यात् / कंस इत्यस्य द्विवचनं स्यात् / इष्यते तु कंसमजीघतत् इत्येवं हनधातोरेवोभयमित्यर्थः / किश्चेति // कंसङ्घातयतीति कुत्वतत्वे न स्यातामित्यर्थः / कुत इत्यत आह / धातोरिति // धातोर्हन् इत्यादि तत्तत्स्वरूपेण ग्रहणे सति तत्प्रत्यये धातोर्विहितप्रत्यये कार्यविज्ञानमिति परिभाषयेत्यर्थः / तेन वात्रनमित्यत्र 'हनस्तोऽचिण्णलोः' इति तत्वन भवतीति ‘हनस्तोऽचिण्णलोः' इति सूत्रे भाष्य स्पष्टम् / तथाच प्रकृते कसं घातयतीत्यत्र 'हो हन्तेः' इति कुत्वं 'हनस्तोऽचिण्णलोः' इति तत्वञ्च न स्याताम् / अत्र णिचः प्रातिपदिकाद्विहितत्वेन धातोर्विहितत्वाभावादित्यर्थः / अत्र प्रत्ययलक्षणेन कृदन्ततया कृत्प्रकृत्यर्थस्य कर्मत्वेन कंसस्येति षष्ठी स्यादित्यप्याक्षेपो बोध्यः / तत्परिहारस्यापि वक्ष्यमाणत्वात् / तामिमां शङ्कामर्धाङ्गीकारेण परिहरति / सत्यमिति // कंसवधशब्दस्यैवाङ्गत्वमित्याद्यङ्गीक्रियते दोषापादनन्तु नाङ्गीक्रियत इत्यर्थः। प्रकृतिवञ्चेतीति॥ 'आख्यानात् कृतः' इति वार्तिके प्रकृतिवच्चेति चकारः भिन्नक्रमः / प्रकृतिवदित्यनन्तरपठितः चकारः कारकमित्यस्मादूर्व निवेशनीय इति भावः / तदेवाभिनीय दर्शयति। कारकञ्चेति // चकारोऽयमनुक्तसङ्ग्रहार्थ इत्याह / चात्कार्यमिति // समुच्चीयते इति शेषः / तथाच कारकार्यञ्च प्रकृतिवदिति फलितम् / अत्र प्रकृतिशब्देत हेतुमण्णिचः प्रकृतिर्विवक्षिता / व्याख्यानात् / प्रकृताविव प्रकृतिवत् सप्तम्यन्ताद्वतिः / तदाह / प्रकृतेर्हन्यादेर्हेतुमण्णाविति / / प्रयुज्यमाने सतीति शेषः / कारकमित्यस्य विवरणन्द्वितीयान्तमिति। द्वितीयातृतीयादिकारकविभक्त्यन्तमित्यर्थः / हन्ति कंसं कृष्णः तं प्रेरयतीत्यर्थे कंसङ्घातयति / कंसमजीघतदित्यादी हेतुमण्ण्यन्ते प्रयुज्यमाने यत् द्वितीयादिकारकविभक्त्यन्तं यच्च कार्यङ्गुत्वतत्वाद्वित्वादि तत्सर्व आख्यानात् कृत इत्यस्योदाहरणे कंसवधमाचष्टे कंसङ्घातयति कंसवधमाचष्ट कंसमजी For Private And Personal Use Only
Page #310
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 308 सिद्धान्तकौमुदीसहिता [चुरादि कार्य कुत्वतत्वादि तदिहापीत्यर्थः / कंसमजीघतत् / 'कर्तृकरणाद्धात्वर्थे ' / (ग सू 207) / कर्तुर्व्यापारार्थ यत्करणं न तु चक्षुरादिमात्रमित्यर्थः / असिना हन्ति / असयति / वल्क 1917 दर्शने / चित्र 1918 चित्रीकरणे / 'आलेख्यकरणे' इत्यर्थः / कदाचिद्दर्शने / 'चित्र' इत्ययमद्भुतदर्शने णिचं लभते / चित्रयति / अंस 1919 समाघाते / वट 1920 विभाजने / लज 1921 प्रकाशने / 'वटि' लजि' इत्येके / वण्टयति / लञ्जयति / अदन्तेषु पाठबलाददन्तत्वे वृद्धिरित्यन्ये / वण्टापयति / लञापयति / शाकटायनस्तु कथादीनां सर्वेषां पुकमाह / तन्मते 'कथापयति' गणापयति' इत्यादि / मिश्र 1922 सम्पर्के / संग्राम 1923 युद्धे / अयमनुदात्तेत् / अकारप्रश्लेषात् / घतदित्यादावपि भवतीति फलितम् / तत्र कारकमित्यनेन कंसात् षष्ठी निरस्ता / उदाहृतहेतु. मण्ण्यन्तस्थले कृद्योगाभावेन कर्मणि द्वितीयाया एव सत्त्वात् / कार्यमित्यनेन तु कुत्वतत्वे कंसस्य अद्वित्वनिरासश्चेति बोध्यम् / आख्यानशब्दश्च कथञ्चिद्वृत्तानुवादपरः, न तु भारतादिप्रसिद्धकंसवधादिकथापरः / तेन राजागमनमाचष्टे राजानमागमयतीत्यादि सिद्ध्यति / द्वितीयान्तमित्यत्र द्वितीयाग्रहणमुपलक्षणम् / तेन पुष्ययोगमाचष्टे पुष्येण योजयतीति सिद्ध्यतीति भाष्ये स्पष्टम् / 'कर्तृकरणाद्धात्वर्थे' इदमपि गणसूत्रम् / प्रातिपदिकाद्धात्वर्थे इत्यस्यैव प्रपञ्चः / कर्तुः करणं कर्तृकरणं, न तु कर्ता च करणञ्च इति द्वन्द्वः। व्याख्यानात् / तदाह / कर्तुळपारार्थमिति // अभिमतफलोत्पादनार्थमित्यर्थः / साधकतममिति यावत् / नन्वेवं सति करणाद्धात्वर्थे इत्येव सिद्ध कर्तृग्रहणं व्यर्थमित्यत आह / न तु चक्षुरादिमात्रमिति // कर्तृग्रहणं विहाय करणादित्येवोक्तौ चक्षुरादीन्द्रियमेव सुप्रसिद्धत्वात् करणादिशब्देन गम्येत / अतः कर्तृग्रहणमित्याहुः / वस्तुतस्तु ‘साधकतमकरणम्' इति शास्त्रप्रसिद्धकरणस्य ग्रहणौचित्यात् कर्तृग्रहणं स्पष्टार्थमेव / केचित्तु कर्तृकरणादिति द्वन्द्वमाश्रित्य देवदत्तेन वाचयति देवदत्तयतीति कर्तुरुदाजहः / कदाचिद्दर्शने इति // चित्रेत्यनुवर्तते / तदाह / चित्र इत्ययमिति // कदाचिद्दर्शने इत्यस्य विवरणमद्भुतदर्शने इति / चित्र चित्रकरणे / कदाचिद्दर्शनयोरित्येव सुवचम् / वटि लजि इत्येके इति // ननु कथादावनयोः पाठो व्यर्थः / इदितोरनयोः टकारान्तयोरदन्तत्वस्याप्रसक्तेः फलाभावाचेत्यत आह / अदन्तेष्विति // अदन्तेषु पाठबलात् वण्टलजेति कदाचिददन्तमप्यनयोर्विज्ञायते / अदन्तत्वस्य च फलाभावादतो लोपम्बाधित्वा 'अचो णिति' इति वृद्धौ ‘अतिही' इति पुगित्यर्थः / फलितमाह / वण्टापयतीति // शाकटायनस्त्विति // ऋषिविशेषोऽयम् / 'सङ्ग्राम युद्धे' गणसूत्रमिदम् / युद्धवाचिसङ्ग्रामेति प्रातिपदिकं करोत्यर्थे णिचं लभते इत्यर्थः / ननु 'प्रातिपदिकाद्धात्वर्थे ' इत्येव सिद्धे किमर्थमिदमित्यत आह / अनुदात्तेदिति // एतदात्मनेपदार्थमिति भावः / ननु सङ्ग्रामशब्दस्य प्रातिपदिकस्य अकारान्तत्वात् कथमनुदात्तेत्त्वमित्यत आह / अकारप्रश्लेपादिति // सङ्ग्रामशब्दादनुदात्तानुनासिकं पररूपेण प्रश्लिष्य निर्देशादिति भावः / असस. For Private And Personal Use Only
Page #311
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा / 309 अससङ्ग्रामत / स्तोम 1924 श्लाघायाम् / अतुस्तोमत् / छिद्र 1925 कर्णभेदने / 'करणभेदने' इत्यन्ये / 'कर्ण' इति धात्वन्तरमित्यन्ये / अन्ध 1926 दृष्टयुपघाते / ' उपसंहारे' इत्यन्ये / आन्दधत् / दण्ड 1927 दण्डनिपातने / अङ्क 1928 पदे, लक्षणे च / आञ्चकत् / अङ्ग 1929 च / आजगत् / सुख 1930 दुःख 1931 तत्क्रियायाम् / रस 1932 आस्वादनस्नेहनयोः / व्यय 1933 वित्तसमुत्सर्गे / अवव्ययत् / रूप 1934 रूपक्रियायाम् / रूपस्य दर्शनं करणं वा रूपक्रिया / छेद 1935 द्वैधीकरणे / अचिच्छेदत् / छद 1936 अपवारणे इत्येके / छदयति / लाभ 1937 प्रेरणे / व्रण 1938 गात्रविचूर्णने / वर्ण 1939 वर्णक्रियाविस्तारगुणवचनेषु / वर्णक्रिया वर्णकरणम् / सुवर्ण वर्णयति / कथां वर्णयति / विस्तृणातीत्यर्थः / हरिं वर्णयति / स्तौतीत्यर्थः / 'बहुलमेतन्निदर्शनम् / (ग सू 208) / अदन्तधातुनिदर्शनमित्यर्थः / बाहुळकादन्येऽपि बोध्याः। तद्यथा / पर्ण 1940 हरितभावे / अपपर्णत् / विष्क 1941 दर्शने / क्षप 1942 प्रेरणे / वस 1943 निवासे / तुत्थ 1944 आवरणे। एवमान्दोलयति / प्रेङ्खोलयति / विडम्बयति / अवधीरयति इत्यादि। अन्ये तु दशगणीपाठो 'बहुलम्' इत्याहुः। तेनापठिता अपि सौत्रलौकिकवैदिका बोध्या: / अपरे तु नवगणीपाठो बहळम' इत्याहुः / तेनापठितेभ्योऽपि क्वचित्स्वार्थे णिच् / ‘रामो राज्यमचीकरत्' इति यथेत्याहुः / चुरादिभ्य एव बहुलं णिजित्यर्थ इत्यन्ये / सर्वे पक्षा: प्राचां शामतेति // लुङि चङि सङ्ग्रामशब्दस्य ण्यन्तस्य अङ्गत्वात् ततः प्रागडिति भावः / एतच्च भृशादिसूत्र कैयटे स्पष्टम् / अग्लोपित्वानोपधाहस्वः / सुखदुःख तक्रियायाम् / सुखानुकूले दुःखानुकूले च व्यापारे इत्यर्थः / सुखदुःखेति प्रातिपदिकाभ्यान्तत्करोतीत्यर्थे णिच् स्यादिति यावत् / ' प्रातिपदिकाद्धात्वर्थे ' इत्येव आभ्यां णिजित्याहुः / 'बहुलमेतनिदर्शनम्' गणसूत्रमिदम् / एतेषां कथादीनां अदन्तानानिदर्शनं पाठ इत्यर्थः / तदाह / अदन्तेति // बहुलग्रहणस्य फलमाह / बाहुळकादिति / अपपर्णदिति // अग्लोपित्वान्न सन्वत्त्वमिति भावः / ‘क्षिप प्रेरणे' क्षिपयति / अग्लोपस्य स्थानिवत्त्वान्न गुणः / एवमग्रेऽपि / 'वस निवासे' अदन्तत्वानोपधावृद्धिः / आन्दोलयतीत्यादौ अदन्तत्वेन अग्लोपित्वानोपधाहूस्वः। तदेवं 'बहुळमेतन्निदर्शनम्' इत्यस्य कथाद्यदन्तविषयत्वमुक्त्वा मतान्तरमाह / अन्ये त्विति // भ्वादिः, अदादिः, जुहोत्यादिः, दिवादिः, स्वादिः, तुदादिः, रुधादिः, तनादिः, क्रयादिः, चुरादिरिति दशगणी, तद्बहिर्भूता अपि सौत्राः जुप्रभृतयः लौकिकाः / प्रेजोलादयः वैदिकाः। तद्रक्षांसि रात्रिभिरसुन्नन्' इत्यादौ सुभादयश्च सङ्ग्रहीता भवन्तीत्यर्थः / मतान्तरमाह। अपरे त्विति // चुरादिभिन्ना उदाहृताः ये नव गणाः तेभ्योऽपि क्वचित् स्वार्थे णिच् For Private And Personal Use Only
Page #312
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 310 सिद्धान्तकौमुदीसहिता ग्रन्थे स्थिताः / ‘णिङङ्गान्निरसने' (ग सू 209) / अङ्गवाचिनः प्रातिपदिकान्निरसनेऽर्थे णिङ् स्यात् / हस्तौ निरस्यति / हस्तयते / पादयते / * श्वेताश्वाश्वतरगालोडिताबरकाणामश्वतरेतकलोपश्च' (ग सू 210) / श्वेताश्वादीनां चतुर्णामश्वादयो लुप्यन्ते, णिङ् च धात्वर्थे / श्वेताश्वमाचष्टे, तेनातिकामति, वा श्वेतयते / अश्वतरमाचष्टे अश्वयते / गालोडितं वाचां विमर्शः। तत्करोति गालोडयते / आह्वरयते / केचित्तु णिचमेवानुवर्तयन्ति तन्मते परस्मैपदमपि / 'पुच्छादिषु धात्वर्थे इत्येव सिद्धम्' (ग सू 211) / णिजन्तादेव बहुलवचनादात्मनेपदमस्तु / मास्तु 'पुच्छभाण्ड-' (सू 2676) इति णिविधिः / सिद्धशब्दो ग्रन्थान्ते मङ्गलार्थः / इति तिङन्तचुरादिप्रकरणम् / बहुळग्रहणादस्माल्लभ्यत इत्यर्थः / मतान्तरमाह / चुरादिभ्य एवेति // वस्तुतस्तु भूवादिसूत्रे पाठेन धातुसंज्ञेति भाष्यप्रतीकमुपादाय स पाठो नोपलक्षणार्थः किन्तु इयत्ताप्रतिपादनार्थ इति कैयट आह / एवञ्च ‘बहुळमेतन्निदर्शनम्' इति गणसूत्रमनार्षमिति शब्देन्दुशेखरे स्थितम् / 'णिङङ्गानिरसने' इति // गणसूत्रम् / स्पष्टम् / डित्त्वानित्यमात्मनेपदम् / श्वेताश्वाश्वतरगालोडिताबरकाणामश्वतरेतकलोपश्च // इदमपि गणसूत्रम् / श्वेताश्वादीनामिति // श्वेताश्व अश्वतर गालोडित आह्वरक एषामित्यर्थः / अश्वादय इति // श्वेताश्वशब्दे अश्वशब्दः, अश्वतरशब्दे तरशब्दः, गालोडितशब्दे इतशब्दः, आह्वरकशब्दे कशब्दश्च लुप्यन्ते इत्यर्थः / णिङ् चेति // चकारलभ्यमिदम् / धात्वर्थे इति // 'प्रातिपदिकाद्धात्वर्थे ' इत्यतस्तदनुवर्तते / निरसने इति निवृत्तमिति भावः / विमर्श इति // विवेचनमित्यर्थः / केचित्त्विति // श्वेताश्वेत्यादिसूत्रे णिचमेवानुवर्तयन्ति न तु थिङ मित्यर्थः / णिणिडोः फलभेदं दर्शयति / तन्मते इति // पुच्छादिषु धात्वर्थ इत्येव सिद्धमिति // धातुपाठं रचयितुर्भीमसेनस्य वाक्यमिदमित्याहुः / 'प्रातिपदिकाद्धात्वर्थे' इति णिचि सिद्धे ‘पुच्छभाण्डचीवराण्णिङ्' इति न कर्तव्यमित्यर्थः / ननु नित्यात्मनेपदार्थ 'पुच्छ भाण्ड' इति णिविधिरावश्यक इत्यत आह। णिजन्तादेव बहुळवचनादिति // बहुळमेतन्निदर्शनम्' इति बहुळग्रहणादित्यर्थः / ननु पुच्छादिषु धात्वर्थ इत्येव णिजित्येव सिद्धे सिद्धशब्दो व्यर्थ इत्यत आह / सिद्धशब्द इति // धातुपाठात्मकग्रन्थसमाप्तौ सिद्धशब्द. प्रयोगो मङ्गलार्थ इत्यर्थः / पस्पशाह्निकभाष्ये हि सिद्धे शब्दार्थसम्बन्धे इति वार्तिकग्रन्थस्यादिमवार्तिकव्याख्यावसरे सिद्धशब्दोपादानं मङ्गळार्थमित्युक्तम् / मङ्गळादीनि मङ्गळमध्यानि मङ्गळान्तानि च शास्त्राणि प्रथन्ते इति भूवादिसूत्रस्थभाष्यान्थान्तेऽपि मङ्गळस्य कर्तव्यतासिद्धिः॥ इति श्रीवासुदेवदीक्षितविरचितायां बालमनोरमायां चुरादिनिरूपणं समाप्तम् / For Private And Personal Use Only
Page #313
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | श्रीरस्तु। // अथ तिङन्तणिप्रकरणम् // 2575 / तत्प्रयोजको हेतुश्च / (1-4-55) कर्तुः प्रयोजको हेतुसंज्ञ: कर्तृसंज्ञश्च स्यात् / 2576 / हेतुमति च / (3-1-26) प्रयोजकव्यापारे प्रेषणादौ वाच्ये धातोणिच्स्यात् / भवन्तं प्रेरयति भावयति / णिचश्च' (सू 2564) इति कर्तृगे फले आत्मनेपदम् / भावयते / भावयाम्बभूवे / अथ ‘हेतुमति च' इति णिज्विाधं वक्ष्यन् हेतुसंज्ञा आह / तत्प्रयोजको हेतुश्च // 'स्वतन्त्रः कर्ता' इति पूर्वसूत्रोपात्तः कर्ता तच्छब्देन परामृश्यते / तस्य कर्तुः प्रयोजकः प्रवर्तयिता तत्प्रयोजकः / तदाह / कतःप्रयोजको हेतुसंज्ञ इति // चकारः पूर्वसूत्रोपात्तां कर्तृसंज्ञां समुच्चिनोति / तदाह / कर्तृसंशश्चेति // देवदत्तः पचति तं प्रेरयति यज्ञदत्तः इत्यत्र देवदत्तस्यैव पाकानुकूलव्यापारात्मकपचधात्वर्थाश्रयत्वरूपकर्तृत्वसत्त्वात् प्रयोजकस्य तदभावादिह कर्तृसंज्ञाविधिः। प्रयोजकस्य प्रयोज्यका अन्यथा सिद्धत्वाद्धेतुत्वाप्राप्तौ हेतुसंज्ञाविधिः। हेतुमति च // 'सत्यापपाश' इत्यतो णिजित्यनुवर्तते। हेतुः प्रयोजकः आधारतया अस्यास्तीति हेतुमान् प्रयोजकनिष्ठः प्रेषणादिव्यापारः तस्मिन् वाच्ये णिच् स्यादित्यर्थः / 'धातोरेकाचो हलादेः' इत्यतो धातोरित्यनुवर्तते / तदाह / प्रयोजकव्यापार इति // प्रेषणादावित्यादिशब्देन अद्ध्येषणानुमत्युपदेशादीनां ग्रहणम् / तत्र भृत्यादेनिकृष्टस्य प्रवर्तना प्रेषणम् / आज्ञेत्यर्थः / समानस्याधिकस्य च सख्याचार्यादेः प्रवर्तना अध्येषणा। अनुमतिः राजादेः सम्मतिः / ज्वरितस्य कषायपाने हितावबोधनेन प्रवर्तना उपदेशः। हननाद्भीत्या पलायमानस्य निरोधाचरणमपि प्रयोजकव्यापारः / प्रयोजकनिष्टप्रवर्तनायां णिजिति फलितम् / एते तु विशेषाः प्रकरणादि न अवगम्यन्ते / कुलालो घटङ्करोतीत्यत्र तु न णिच् / प्रयोज्यप्रयोजकोभयसमभिव्याहार एव तत्प्रवृत्तेः इत्यन्यत्र विस्तरः / भवन्तमिति // देवदत्तो यज्वा भवति / तम्प्रेरयति याजक इत्याद्यर्थे भूधात्वर्थस्य भवनस्य मुख्यकर्ता यज्वा तस्य यज्वभवने प्रवर्तयिता याजकादिः प्रयोजकः तनिष्ठायां प्रेरणायां भूधातोणिच् वृद्ध्यावादेशौ / भावीति णिजन्तम्। तस्माद्भवनानुकूलव्यापारार्थकात् लटि भावयतीति रूपम् / भवन्तम्प्रेरयतीति फलितोऽर्थः / भावयाम्बभूवे इति // कर्तृगामिति क्रियाफले णिजन्तस्यात्मनेपदित्वात् अनुप्रयुज्यमाना For Private And Personal Use Only
Page #314
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 312 सिद्धान्तकौमुदीसहिता [णिच् 2577 / ओः पुयण्ज्यपरे / (7-4-80) सनि परे यदङ्गं तदवयवाभ्यासोकारस्येत्त्वं स्यात्पवर्गयजकारेष्ववर्णपरेषु परतः / अबीभवत् / अपीपवत् / मूङ / अमीमवत् / अयीयवत् / अरीरवत् / अलीलवत् / अजीजवत् / / 2578 / स्रवतिशृणोतिद्रवतिप्रवतिप्लवतिच्यवतीनां वा / (7-4-81) एषामभ्यासोकारस्य इत्त्वं वा स्यात्सन्यवर्णपरे धात्वक्षरे परे। आससवत्-असुस्रवत् / 'नाग्लोपि-' (सू 2572) इति ह्रस्वनिषेधः / अशशासत् / अडुढौकत् / अचीचकासत् / मतान्तरे। अचचकासत् / ‘अग्लोपि' दप्यात्मनेपदमिति भावः / ओः युयण // उ इत्यस्य ओरिति षष्ठी / पुयजि इति छेदः / पुश्च यण् च जि चेति समाहारद्वन्द्वात्सप्तमी / अः परो यस्मादिति बहुव्रीहिः / 'सन्यतः' इत्यस्मात्सनीत्यनुवर्तते। अङ्गस्येत्यधिकृतम् / 'अत्र लोपः' इत्यस्मादभ्यासस्येति भृञामिदित्यस्मादिदिति चानुवर्तते / तदाह / सनि परे इत्यादिना / अबीभवदिति // भू इ अत् इति स्थिते द्वित्वे कार्ये णो अच आदेशस्य निषेधावृद्ध्यावादेशाभ्याम्प्रागेव भू इत्यस्य द्वित्वे उत्तरखण्डस्य वृद्ध्यावादेशयोः कृतयोरुपधाहूस्वे अभ्यासे अकाराभावेन 'सन्यतः' इत्यस्याप्र. वृत्त्या सन्वत्त्वादनेन इत्त्वे दीर्घः इति भावः / अपीपवदिति // पूधातोः रूपम् / मूडिल्यस्माद्धातोरमीमवदिति रूपमित्यर्थः / अयीयवदिति // युधातोरूपम् / अरीरवदिति // रुधातोः रूपम् / अलीलवदिति // लूञ्धातोः रूपम् / अजीजवदिति // जुस्सौत्रो धातुः / जुचङ्कम्येत्यत्र निर्दिष्टः / ननु भू भू इति द्वित्वोत्तरं वृद्ध्यावादेशयोः कृतयोः उपधाहूस्वे तस्य स्थानिवत्त्वेन लघुपरत्वाभावात् सन्वत्त्वाप्रसक्त्या कथमिहाभ्यासोवर्णस्य इत्त्वमिति चेन्न / आरम्भसामादेव स्थानिवत्त्वाप्रवृत्तेरित्यलम् / स्रवति शृणोति // अपर इत्यनुवर्तते / न तु पूयणजि इति / पवर्गजकारयोरसम्भवात् / स्रवत्यादौ यणस्सत्वेऽप्यव्यभिचारात् / तदाह / अवर्णपरे धात्वक्षरे इति // अक्षरशब्दोऽवर्णपरः / असिस्रवत्-असुनवदिति // द्विहल्व्यवधानेन लघुपरकत्वाभावान्न सन्वत्त्वमिति भावः / अशिश्रवत् / अशुश्रवत् / अदिद्रवत् / अदुद्रवत् / अपिप्रवत्। अपुप्रवत् / अपिप्लवत् / अपुप्लवत् / अचिच्यवत्-अचुच्यवत् / अथ शासुधातोरशशासदित्यत्राह / नाग्लोपीति // अडुढौकदिति // ढौकृ गतावित्यस्य ऋदित्वादिति भावः / अचीचकासदिति // चकास दीप्तौ। ऋदित्त्वानोपधाहस्वः / चपरे णौ यदङ्गं तस्य योऽभ्यासो लघुपर इति पक्षे सन्वत्त्वं अभ्यासदीर्घश्चेति भावः / मतान्तरे त्विति // अङ्गं यत्र द्विरुच्यते इति मते चङ्परे णौ यल्लघु तत्परो योऽस्य अभ्यासः इति मते चेत्यर्थः / अग्लोपीतीति // अग्लोपिन उपधारस्वनिषेधे मा भवानूनदिति उदाहृतम् / अतितिरायदित्युदाहरणान्तरं सुब्धातुनिरूपणे वक्ष्यते इत्यर्थः / For Private And Personal Use Only
Page #315
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा / इति सुब्धातुप्रकरणे उदाहरिष्यते / ण्यन्ताणिच् / पूर्वविप्रतिषेधादपवादत्वाद्वा वृद्धिं बाधित्वा णिलोपः / चोरयति / ' णौ चङि-' (सू 2314) इति ह्रस्वः / ‘दीलघोः' (सू 2318) / न चाग्लोपित्वात् द्वयोरप्यसम्भवः / ण्याकृतिनिर्देशात् / अचूचुरत् / 2579 / णौ च संश्चङोः / (6-1-31) सन्परे चङ्परे च णौ श्वयतेः सम्प्रसारणं वा स्यात् / 'सम्प्रसारणं तदाश्रयञ्च कार्य बलवत्' (प 129) इति वचनात्सम्प्रसारणं पूर्वरूपम् / अशुशवत् / अलघुत्वान्न दीर्घः / अशिश्वयत् / ननु 'चुर स्तेये' इत्यस्मात्स्वार्थे णिचि उपधागुणे चोरि इति रूपम्। तस्माद्धेतुमण्णौ प्रथमस्य णेर्लोपे सति चोरि इत्येव हेतुमण्ण्यन्तम्। तस्माल्लटि तिपि शपि गुणे अयादेशे चोरयतीत्येव रूपमिष्यते। तन्नोपपद्यते / हेतुमण्णौ परे प्रथमस्य णेर्लोपं बाधित्वा परत्वादृद्धौआयादेशे चोराय् इ इत्यस्माल्लटि चोराययतीत्यापत्तेरित्यत आह / ण्यन्ताणिजिति // ण्यन्ताणिचि वृद्धिम्बाधित्वा णिलोपइत्यन्वयः / कुत इत्यत आह / पूर्वविप्रतिषेधादिति // " ण्यल्लोपावियङ्यणगुणवृद्धिदीर्घभ्यः पूर्वविप्रतिषेधेन" इति वार्तिकेनेति भावः। अपवादत्वाद्वेति // 'कमु कान्तौ' इति धातौ द्विधा प्रपञ्चितत्वादिति भावः / अथ ण्यन्ताण्णौ प्रथमस्य गेलं.पे चोरि इत्यस्माल्लुडि चङि अचोर् इ अत् इति स्थिते प्रक्रियान्दर्शयति / णौ चङीति // ह्रस्वः इति // ततः हेतुमण्णोंपे चुर् इत्यस्य द्वित्वे सन्वद्भावविषयत्वादाह / दी? लघोरिति // तथाच अचूचुरदिति सिद्धम् / ननु उपधाहस्वः अभ्यासदीर्घश्चेति द्वयमपि चङ्परे णौ विहितम् / तदुभयमप्यत्र प्रत्ययलक्षणमाश्रित्य प्रथमणिचमादाय न सम्भवति / तस्य द्वितीयणिचा व्यवहितत्वेन चङ्परकत्वाभावात् / नापि द्वितीयणिचमादाय तदुभयसम्भवः / द्वितीयणिच्प्रकृतेः प्रथमण्यन्तस्य णिलोपमादाय अग्लोपित्वादित्याशङ्कय परिहरति / न चेति // अग्लोपित्वात द्वयोरपि उपधाहूस्वाभ्यासदीर्घयोरसम्भवो न शङ्कय इत्यर्थः / कुत इत्यत आह / ण्याकृतिनिर्देशादिति // चपरे णावित्यत्र णावित्यस्य चपरकणित्त्वजाल्याश्रयैकानेकणिज्व्यक्तिपरकत्वं विवक्षितम् / तथाच णिद्वयस्य चपरकत्वाभावेऽपि णित्त्वस्य चङ्परकत्वमस्तीति इस्वदीर्घयोरस्ति प्रवृत्तिरिति भावः / अत्र जातिनिर्देशः अयुक्त इति शब्देन्दुशेखरे प्रपञ्चितम् / 'टु ओ श्वि गतिवृद्ध्योः' / अस्माद्धेतुमण्णौ वृद्ध्यायादेशयोः श्वायीत्यस्मात् लडादौ श्वाययतीति रूपम् / लुङि चङि अश्वि इ अत् इति स्थिते विशेषमाह / णौ च संश्चङोः // 'विभाषा श्वेः' इति सूत्रमनुवर्तते। 'प्यडस्सम्प्रसारणम्' इत्यतस्सम्प्रसारणमिति च। तदाह / सन्पर इत्यादिना // नन्वन्तरङ्गत्वात् सम्प्रसारणात्पूर्व वृद्ध्यायादेशयोः कृतयोः पश्चात् सम्प्रसारणे पूवरूपे अशुश्वयदिति स्यात् , अशूशवदिति न स्यात्, इत्यत आह / सम्प्रसारणन्तदाश्र. यञ्च कार्य बलवदिति // इदं वचनं 'लिट्यभ्यासस्य' इति सूत्रभाष्ये स्थितम् / 40 For Private And Personal Use Only
Page #316
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 314 सिद्धान्तकौमुदीसहिता [णिच् 2580 / स्तम्भुसिवुसहां चङि / (8-3-116) उपसर्गनिमित्तः एषां सस्य षो न स्याञ्चङि / अवातस्तम्भत् / पर्यसीषिवत् / न्यसीषहत् / आटिटत् / आशिशत्। बहिरङ्गोऽप्युपधाह्रस्वो द्वित्वात्प्रागेव / ओणेर्ऋदित्करणाल्लिङ्गात् / मा भवानिदिधत् / एजादावेधतौ विधानान्न वृद्धिः / मा भवान्प्रेदिधत् / 'नन्द्रा:--' (सू 2446) इति नदराणां न द्वित्वम् / औन्दिदत् / आड्डिडत् / आर्चिचत् / उब्ज आर्जवे'। उपदेशे दकारोपधोऽयम् / एवञ्च अश्वि इ अत् इत्यत्र वृद्ध्यायादेशाभ्यां प्रागेव वकारस्य सम्प्रसारणमुकार इति फलितम् / पूर्वरूपमिति // ततश्च शु इत्यस्य द्वित्वे उत्तरखण्डस्य णिचमाश्रित्य वृद्ध्यावादेशयोरुपधाइस्वे सन्वत्त्वविषयत्वादभ्यासदीघे फलितमाह / अशूशवदिति // सम्प्रसारणाभावपक्ष अशिश्वयदित्यत्र अभ्यासदीर्घमाशङ्कय आह / अलघुत्वादिति // संयोगपरकत्वादिति भावः / अवपूर्वात्स्तम्भेर्प्यन्तादवष्टम्भयतीत्यादि / 'अवाच्चालम्बनाविदूर्ययोः' इति षत्वम् / चङि अवातस्तम्भदित्यत्र षत्वे प्राप्ते / स्तम्भुसिवु // 'उपसर्गनिमित्तस्य प्रतिषेधः' इति वार्तिकम् / नरपरसृपीत्यतो नेत्यनुवर्तते। 'सहेस्साडस्सः' इत्यतो स इति षष्ठ्यन्तमनुवर्तते / मूर्धन्यः इत्यधिकृतम् / तदाह / उपसर्गनिमित्त इत्यादि // स्तम्भुस्सौत्रो धातुः / 'षिवु तन्तुसन्ताने' 'षह मर्षणे' पर्यसीषिवत्, न्यसीषहत् , इति / 'परिनिविभ्यस्सेव' इत्युपसर्गनिमित्तं षत्वन्न / अभ्यासनिमित्तन्तु षत्वं भवत्येव / आटिटत् / आशिशत् इति / आट् इअत् आश् इ अत् इति स्थिते ‘णौ चडि' इत्युपधाहूस्वात् प्रागन्तरङ्गत्वात् 'चङि' इति द्वित्व. माशङ्कय आह / बहिरङ्गोऽपीति // उपधाइस्वः चपरण्यपेक्षत्वात् बहिरङ्गः / द्वित्वन्तु चङ्मात्रापेक्षत्वादन्तरङ्गम् / अथापि द्वित्वात् प्रागेव उपधाइस्व इत्यर्थः / कुत इत्यत आह / ओणेरिति // 'ओण अपनयने' इति धातोः ऋदित्करणं औणिणदित्यत्र 'नाग्लोपि' इति उपधाइस्वप्रतिषेधार्थम् / यदि तु उपधाहूस्वात्प्रागेव अन्तरङ्गत्वात् द्वित्वं स्यात् तदा ओण् इ अत् इत्यत्र 'अजादेर्द्वितीयस्य' इति णि इत्यस्य णिचा सह द्वित्वे सति पश्चादोकारस्य चपरे णौ उपधात्वाभावादेव इस्वस्याप्रसक्तत्वात् ऋदित्करणं व्यर्थ स्यात् / द्वित्वात्प्रागेव उपधाहस्व इत्यभ्युपगमे तु ओण् इ अत् इत्यस्यामवस्थायाम्प्राप्तस्य निषेधार्थमृदित्करणमर्थवत् / अतः बहिरङ्गोऽप्युपधाहूस्वो द्वित्वात् प्रागेवेति विज्ञायते इत्यर्थः / ननु आटिटत् आशिशत् इत्यत्र द्वित्वप्रवृत्त्यनन्तरमुपधाहस्वस्याभावेऽपि 'आटश्च' इति वृद्धौ आटिटत् आशिशत् इति सिद्ध्यत्येवेति किमनेन ज्ञापनेनेत्यत आह / मा भवानिदिधदिति // ए इ अ त् इति स्थिते पूर्व द्वित्वप्रवृत्ती धि इत्यस्य द्वित्वे पश्चादेकारस्य ह्रस्वो न स्यात् / द्वित्वात्प्रागेव उपधाहस्वे तु इध् इ अ त् इति स्थिते धि इत्यस्य द्वित्वे माङ्योगादाडभावे इदिधदिति इष्टं सिद्ध्यतीत्यर्थः / ननु मा भवान् प्रेदिधदित्यत्र प्र इदिधदिति स्थिते कृतेऽपि ह्रस्वे एकदेशविकृतन्यायेन एधधातुत्वात् 'एत्येधत्यूठसु' इति वृद्धिः स्यादित्यत आह / एजादावेधताविति // अवर्णादेजाद्योरेत्येधत्योरिति व्याख्यातत्वादिति भावः / औन्दिददिति // उन्द इ अ त् इति स्थिते दि For Private And Personal Use Only
Page #317
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा। 315 'भुजन्युब्जौ पाण्युपतापयोः' (2877) इति सूत्रे निपातनादस्य बः / स चान्तरङ्गोऽपि द्वित्वविषये 'नन्द्रा:-' (सू 2446) इति निषेधाजिशब्द. स्य द्वित्वे कृते प्रवर्तते / न तु ततः प्राक् / दकारोच्चारणसामर्थ्यात् / औब्जिजत् / अजादेरित्येव / नेह / अदिद्रयत् / / 2581 / रभेरशब्लिटोः / (7-1-63) रभेर्नुम्स्यादचि न तु शब्लिटोः / 2582 / लभेश्च / (7-1-64) अररम्भत् / अललम्भत् / 'हेरचङि' (सू 2531) इति सूत्रे 'अचङि' इत्युक्तेः कुत्वं न / अजीहयत् / अत्स्मृदृत्वरप्रथम्रदस्तस्पशाम्' (सू 2566) / असस्मरत् / अददरत् / तपरत्वसामर्थ्यादत्र लघोर्न दीर्घः / / इत्यस्य द्वित्वमिति भावः / आडिडदिति // अड्डधातुर्दोपधः / ठुत्वसम्पन्नो डकारः / अडि इ अ त् इति स्थिते श्चुत्वस्यासिद्धत्वेन दकारात्परस्य डि इत्यस्य द्वित्वमिति भावः। आर्चिचदिति // अर्च् इ अ त् इति स्थिते रेफात् परस्य चि इत्यस्य द्वित्वमिति भावः / उब्ज आर्जवे इति // ननु चङि ब्जि इत्यस्य द्वित्वे हलादिशेषे औबिब्जदिति रूपं स्यात् / औब्जिजदित्येव तु इध्यते / तत्राह / उपदेशे दकारोपधोऽयमिति // ततश्च 'नन्द्राः' इति दकारस्य द्वित्वनिषेधात् जि इत्यस्यैव द्वित्वमिति भावः / तर्हि दकारः कुतो न श्रूयते इत्यत आह / भुजन्युजाविति // ननु द्वित्वात् प्रागन्तरङ्गत्वात् दकारस्य बकारादेशे सति 'नन्द्राः' इति निषेधस्य कथमिह प्रवृत्तिरित्यत आह / स चेति // ननु द्रु गतौ द्रावयति / चङि द्रु इत्यस्य द्वित्वे उत्तरखण्डस्य वृद्ध्यावादेशयोः उपधाहस्वे ‘स्रवतिशृणोति' इत्यभ्यासस्य इत्त्वे अदिद्रवदिति इष्यते / तन्नोपपद्यते / 'नन्द्राः' इति दकारस्य द्वित्वनिषेधादित्यत आह / अजादेरित्येवेति // 'नन्द्राः' इत्यत्र अजादेरित्यनुवर्तत एवेत्यर्थः / आदिभूतादच इति व्याख्यातं प्राक् / ततश्च आदिभूतादचः पराः नदराः द्विर्न भवन्तीति फलितम् / नेहेति // प्रकृते आदिभूतादचः परत्वाभावान्न दकारद्वित्वनिषेध इत्यर्थः। अदिद्रपदिति पाठे द्राधातोणिचि पुकि द्रापि इत्यस्माद्रूपम् / ननु लावस्थायामडिति पक्षे अचः परत्वमस्त्येवेति चेन्न / 'नन्द्राः' इत्यत्र 'लिटि धातोः' इत्यतो धातोरित्यनुवर्त्य धातुसंज्ञाकालिकादादेरचः परा नदराः द्विनेंति व्याख्यानादित्याहुः / रभेरशब्लिटोः // 'इदितो नुम्धातोः' इत्यतो नुमिति ‘रधिजभोरचि' इत्यतः अचीति चानुवर्तते / तदाह / रभेर्नुमित्यादि / लभेश्च // लभेरपि नुम् स्यात् अचि, नतु शब्लिटोरित्यर्थस्य स्पष्टत्वादनुक्तिः / अररम्भदिति // नुमि कृते संयोगपरत्वे अकारस्य लघुत्वाभावानसन्वत्त्वमिति भावः। 'हि गतौ वृद्धौ च' इत्यस्माचा अजीहयदित्यत्र 'हेरचङि' इति हकारस्य कुत्वनेत्याह / हेरचङीति // 'अत् स्मृदृत्वर' इति सूत्रं चुरादौ 'प्रथ प्रख्याने' इति धातो व्याख्यातम् / असस्मरदिति // अत्र ‘सन्यतः' For Private And Personal Use Only
Page #318
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदीसहिता 2583 विभाषा वेष्टिचेष्टयोः / (7-4-96) अभ्यासस्यात्त्वं वा स्याचपरे णौ / अववेष्टत्-अविवेष्टत् / अचचेष्टत् अचिचेष्टत् / 'भ्राजभास-' (2565) इत्यादिना वोपधाह्रस्वः / अबिभ्रजत्-अबभ्राजत् / ' काण्यादीनां वेति वक्तव्यम्' (वा 4613) / ण्यन्ता: कणरणभणश्रणलुपहेठः काण्यादयः षड्भाष्ये उक्ताः / ह्वायिवाणिलोटिलोपयश्चत्वारोऽधिकाः न्यासे / ‘चाणिलोटी' इत्यप्यन्यत्र / इत्थं द्वादश / अचीकणत्-अचकागत् / 2584 / स्वापेश्वाङि / (6-1-18) ण्यन्तस्य स्वपेश्चङि सम्प्रसारणं स्यात् / असूषुपत् / इतीत्त्व प्राप्ते अत्त्वम् / अत एव ज्ञापकादनेकहल्ल्यवधानेऽपि लघुपरत्वमित्युक्तं प्राक् / संयोगपरत्वेन लघुत्वाभावान्नाभ्यासदीर्घः। अददरदिति // दृ विदारणे इत्यस्य रूपम् / अत्रापि 'सन्यतः' इत्यस्यापवादः अत्त्वम् / 'दीर्घो लघोः' इति दीर्घमाशय आह / तपरत्वसामादिति // अतत्वरत् / अपप्रथत् / अमम्रदत् / अतस्तरत् / अपस्पशत् / विभाषा वेष्टिचेष्ट्योः // 'अत्र लोपः' इत्यस्मादभ्यासस्येत्यनुवर्तते / ‘अत् स्मृदृत्वर' इत्यतः अदिति 'सन्वल्लघुनि' इत्यतः चपरे इति / चङ् परो यस्मादिति बहुव्रीहिः णावित्यार्थिकम् / तदाह / अभ्यासस्यात्त्वमिति // अबिभ्रजदिति // उपधाहूस्वपक्षे लघुपरत्वात् सन्वत्त्वादभ्यासस्य इत्त्वम्। 'दी? लघोः' इति तु न / संयोगपरत्वादलघुत्वात् / काण्यादीनां वेति // णौ चड्युपधायाः' इति ह्रस्व इति शेषः / ण्यन्ताः कणरणेति // 'कण निमीलने, रण शब्दे, भण शब्दे, श्रण दाने, लुप छेदने, हेठ विबाधायाम्' इति षट् धातवो ण्यन्ताः काण्यादयो भाष्ये पठिता इत्यर्थः / ह्वायीति // ‘ढेञ् स्पर्धायां शब्दे च' आत्त्वे पुकि च निर्देशः / 'वण शब्दे' दन्त्योष्ठ्यादिः 'लुठ प्रतीघाते' टवर्गद्वितीयोपधः / 'लप व्यक्तायां वाचि' इति चत्वारो ण्यन्ताः भाष्योक्तेभ्योऽधिकाः न्यासग्रन्थे पठिता इत्यर्थः / चाणि लोटी इति॥ 'चण दाने' तालव्यादिः। 'लुट स्तेये' टवर्गप्रथमान्तः भ्वादिः / चुरादौ भाषार्थकोऽपि / एतावपि ण्यन्तौ द्वौ भाष्यन्यासग्रन्थाभ्यामन्यत्र कचित् ग्रन्थे पठितौ इत्यर्थः / इत्थं द्वादशेति // अनेन मतभेदेन काण्यादयो द्वादशेत्यर्थः। अचीकणदिति // उपधाहूस्वपक्षे लघुपरत्वात् सन्वत्त्वदी? च / अचकाणदिति // उपधाहस्वाभावपक्षे रूपम् / अरीरणत्-अरराणत् / अबीभणत्-अबभाणत् / अशिश्रणत्-अशश्राणत् / अलूलुपत्-अलुलोपत् / अजीहिटत्-अजिहेठत् / अजिह्वपत्अजह्वापत् / अवीवणत्-अववाणत् / अलूलुठत्-अलुलोठत् / अलूलुपत्-अलुलोपत् / अचीच. णत्-अचचाणत् / अलूलुटत्-अलुलोटत् / स्वापेश्चङि। सम्प्रसारणमिति // यङस्सम्प्रसारणमित्यतस्तदनुवृत्तेरिति भावः / असुषुपदिति // “सम्प्रसारणन्तदाश्रयञ्च कार्य बलवत्" For Private And Personal Use Only
Page #319
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा / 317 2585 / शाच्छासाह्वाव्यावेपां युक् / (7-3-37) णौ / पुकोऽपवादः / शाययति / छाययति / साययति / ह्वाययति / व्याययति / 2586 / हः सम्प्रसारणम् / (6-1-32) सन्परे चपरे च णौ ह्वः सम्प्रसारणं स्यात् / अजूहवत्-अजुहामत् 2587 / लोपः पिबतेरीच्चाभ्यासस्य / (7-4-4) पिबतरुपधाया: लोप: स्यात् अभ्यासस्य ईदन्तादेशश्च चपरे णौ। अपीप्यत् / ‘अतिही-' (सू 2570) इति पुक् / अर्पयति / हृपयति / व्लेपयति / रेपयति / यलोपः / कोपयति / मापयति / स्थापयति / इति वचनात्कृते सम्प्रसारणे द्वित्वं पूर्वरूपं सन्वत्त्वदीयों षत्वमिति भावः / शाच्छासा॥'शो तनूकरणे, छो छेदने, षो अन्तकर्मणि, हृञ् स्पर्धायां शब्दे च, व्यञ् संवरणे' एषाकृतात्वनिर्देशः 'वेञ् तन्तुसन्ताने' 'पा पाने' भ्वादिः। एषान्द्वन्द्वात् षष्ठीबहुवचनम् / णौ परे इति शेषपूरणम् / आदन्तलक्षणयुकोऽपवादः / युकि ककार इत् उकार उच्चारणार्थः कित्त्वादन्तागमः / अत्र "लुग्विकरणालुग्विकरणयोरलुग्विकरणस्य ग्रहणम्” इति वचनात् 'पा रक्षणे' इति न गृह्यते / तस्य तु पालयतीति रूपमनुपदमेव वक्ष्यति / शाययतीति // लुङि अशीशयत् / छाययतीति // अचिच्छयत् / साययतीति / असीषयत् / ह्वाययतीति // लुङि तु विशेषो वक्ष्यते / व्याययतीति // अविव्ययत् / वाययति / अवीवयत् / पाययति / लुङि तु विशेषो वक्ष्यते / ह्वः सम्प्रसारणम् // ह्वेअः कृतात्त्वस्य ह्व इति षष्ठी / ‘णौ च संश्चडोः' इत्यनुवृत्तिमभिप्रेत्य आह / सन्पर इत्यादि / अजूहवदिति // ह्व इ अ त् इति स्थिते “सम्प्रसारणन्तदाश्रयश्च कार्यम्बलवत्" इति वचनात् कृते सम्प्रसारणे पूर्वरूपे च हु इत्यस्य द्वित्वे उत्तरखण्डस्य वृद्ध्यावादेशयोः कृतयोरुपधाडूस्वे सन्वत्त्वदीर्घाविति भावः / अत्र कृते सम्प्रसारणे पूर्वरूपे च ह्वारूपाभावान युक् / पाधातोर्णी युगागमे पायि इत्यस्माल्लुङि चङि द्वित्वादौ अपीपय् अत् इति स्थिते। लोपः पिबतेः / चङ्परे णाविति // ‘णौ चङ्युपधायाः' इत्यतस्तदनुवृत्तेरिति भावः / अपीप्यदिति // “नानर्थकेऽलोऽन्त्यविधिः” इत्यस्य अनभ्यासविकार इति निषेधादभ्यासान्त्यस्य ईत्त्वम् / इह उपधालोपे कृते अग्लोपित्वादलघूपधत्वाच्च सन्वत्त्वदीर्घयोरप्राप्तावीत्त्वविधिः। अर्तिही इति। पुगिति // क्रमेणोदाहियत इति शेषः / अर्पयतीति // ऋधातोरुदाहरणम्। वृद्धिं बाधित्वा नित्यत्वात् पुक् गुणः / हृपयतीति // 'ड्री लजायाम्' इत्यस्य रूपम्। व्लेपयतीति ॥ब्ली विशरणे इत्यस्य रूपम्। रेपयतीति ॥री क्षये इत्यस्योदाहरणम्। 'क्नूयी शब्दे' इत्यस्य नोपयतीत्युदाहरिष्यन्नाह / यलोपः इति // नूयीधातोर्णी पुकि 'लोपो व्योः' इति यलोप इत्यर्थः। ततः क्नूप् इ इति स्थिते अलघूपधत्वेऽपि पुगन्तत्वाद्गुणः / क्ष्मापयतीति // 'क्ष्मायी विधूनने' अस्माण्णौ पुकि यलोपः / आदन्तस्योदाहरति / स्थाप For Private And Personal Use Only
Page #320
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 318 सिद्धान्तकौमुदीसहिता [णिच् 2588 / तिष्ठतेरित् / (7-4-5) उपधायाः इदादेशः स्याञ्चङ्परे णौ / अतिष्ठिपत् / 2589 / जिघ्रतेर्वा / (7-4-6) अजिघ्रिपत्-अजिघ्रपत् / ' उर्ऋत्' (सू 2567) / अचीकृतत्-अचिकीर्तत् / अवीवृतत्-अववर्तत् / अमीमृजत्-अममार्जत् / पातेौँ लुग्वक्तव्यः' (वा 4520) / पुकोऽपवादः / पालयति / _2590 / वो विधूनने जुक् / (7-3-38) वातेर्जुस्याण्णौ कम्पेऽर्थे / वाजयति / 'कम्पे' किम् / केशान्वापयति / 'विभाषा लीयते:' (सू 2509) / ................ यतीति // लुङि चङि अतिष्ठप् अ त् इति स्थिते / तिष्ठतेरित् // ‘णौ चङयुपधायाः' इत्यनुवर्तते। तदाह / उपधायाः इति / जिघ्रतेर्वा // प्राधातोरुपधाया इद्वा स्याचपरे णावित्यर्थः। अजिघ्रप् अ त् इति स्थिते उपधाया इत्त्वविकल्पः / उर् ऋदिति // धातोरुपधायाः ऋकारस्य ऋद्वा चपरे णाविति व्याख्यातञ्चुरादौ / अचीकृतदिति // कृत् इ अ त् इति स्थिते ऋत्त्वपक्षे कृत् इत्यस्य द्वित्वे उरदत्त्वे हलादिशेषे अभ्यासचुत्वे सन्वत्त्वात् इत्त्वे तस्य दीर्घ रूपम् / अचिकीर्तदिति // कृत् इ अ त् इति स्थिते 'उर् ऋत्' इत्युपधा ऋत्वाभावपक्षे उपधायाश्चेति इत्त्वे रपरत्वे कि इत्यस्य द्वित्वे उत्तरखण्डे उपधायाञ्चेति दीर्घ रूपम् / अवीवृतदिति // 'वृतु बर्तने' / णिचि लघूपधगुणं बाधित्वा उर् ऋत् / चङि कृत् इत्यस्य द्वित्वे उरदत्त्वे सन्वत्त्वात् इत्त्वं दीर्घश्चेति भावः / अववर्तदिति // ऋत्त्वाभावपक्षे वृत् इत्यस्य द्वित्वे उरदत्त्वे उत्तरखण्डस्य लघूपधगुणे रूपम् / लघुपरकत्वाभावान सन्वत्त्व. दीघौं / अमीमृजदिति // उपधाया ऋत्वपक्षे रूपम् / अममार्जदिति // उपधाया ऋत्वाभावपक्षे द्वित्वे उरदत्वे उत्तरखण्डे 'मृजेर्वृद्धिः' इति वृद्ध। रपरत्वे रूपम् / लघुपरत्वाभावान्न सन्वत्त्वम् / ‘पातेौँ लुक्' इति लुगागम इत्यर्थः। पुकोऽपवादः इति // आदन्तलक्षणपुकोऽपवाद इत्यर्थः / यद्यपि ‘पाल रक्षणे' इति धातोरेव सिद्धम् , तथापि पुको निवृत्तिः फलम् / वो विधूनने // 'ओ वै शोषणे' इति धातोः कृतात्त्वस्य वः इति षष्ठ्यन्तम् 'अर्ति ही' इत्यतः णावित्यनुवर्तते / तदाह / वातेरित्यादि // पुकोऽपवादो जुक् / केशान्वापयतीति // सुगन्धीकरोतीत्यर्थः / अत्र वैधातोः पुगेव / वाधातोस्त्विह न ग्रहणम् / लुग्विकरणत्वात् / केचित्तु वातेरेवात्र ग्रहणम् , नतु वेञः / नापि वै इत्यस्य लाक्षणिकत्वात् सानुबन्धकत्वाचेत्याहुः / आत्त्वविधायकसूत्रं स्मारयति / विभाषा लीयते. रिति // लीलीडोरात्त्वं वा स्यादेविषये लुङि च इति व्याख्यातं प्राक् श्यन्विकरणे / तत्र लीयतेः इति यका निर्देशः, नतु श्यना। तेन ‘ली श्लेषणे' इति नाविकरणस्य 'लीङ् श्लेषणे' For Private And Personal Use Only
Page #321
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा / 319 2591 / लीलोर्नुग्लुकावन्यतरस्यां स्नेहनिपातने / (7-3-39) लीयतेलातेश्च क्रमान्नुग्लुकावागमौ वा स्तो णौ स्नेहद्रवे / विलीनयतिविलाययति / विलालयति-विलापयति वा घृतम् / 'ली' 'ई' इति ईकारप्रश्लेषादात्त्वपक्षे नुग्न / 'स्नेहद्रवे' किम् / लोहं विलापयति / 'प्रलम्भनाभिभवपूजासु लियो नित्यमात्त्वमशिति वाच्यम्' (वा 3483) / 2592 / लियः सम्माननशालिनीकरणयोश्च / (1-3-70) लीङ्लियोर्ण्यन्तयोरात्मनेपदं स्यादकर्तृगेऽपि फले पूजाभिभवयोः प्रलम्भने चार्थे / जटाभिापयते / पूजामधिगच्छतीत्यर्थः / श्येनो वर्तिकामुल्लापयते / अभिभवतीत्यर्थः / बालमुल्लापयते वञ्चयतीत्यर्थः / 2593 / बिभेतेर्हेतुभये / (6-1-56) बिभतेरेच आत्त्वं वा स्यात्प्रयोजकाद्भयं चेत् / 2594 / भीरम्योर्हेतुभये / (1-6-38) इति श्यन्विकरणस्य च ग्रहणमिति च प्रागुक्तं न विस्मर्तव्यम् / लीलोः // ली ला इत्यनयोः षष्ठीद्विवचनम् / णाविति // 'अर्तिही' इत्यतस्तदनुवृत्तेरिति भावः / स्नेहस्य तैलस्य निपातनं द्रावणं स्नेहनिपातनम् / तदाह / स्नेहद्रवे इति // आत्त्वाभावपक्षे आह / विलीनयतीति // लीलीडोरीकारान्तयो कि रूपम् / द्रवीकरोतीत्यर्थः / लीलीडोरात्त्वनुगभावपक्षे आह / विलाययतीति // लाधातोढुंगागमे आह / विलालयतीति / अत्र लातेरादादिकस्य कृतात्त्वलीयतेश्च ग्रहणम् / व्याख्यानात् / विलापयतीति // लुगागमाभावे रूपम् / ननु कृतात्त्वस्य लीधातोरपि एकदेश विकृतन्यायेन लीत्वान्नुक् स्यादित्यत आह / ली ई इति / लोहं विलापयतीति // नुग्लुकोरभावादात्त्वपक्षे पुक् / आत्त्वाभावे तु वृद्ध्यायादेशाविति भावः / प्रलम्भनाभिभवेति // प्रलम्भनं वञ्चना। अभिभवः तिरस्कारः / पूजा प्रसिद्धा / एघ्वर्थेषु लीलीङोः एज्विषये नित्यमात्त्वं वक्तव्यमित्यर्थः / लियः सम्मानन॥ लियः इति लीलीडोर्ग्रहणम् / 'अनुदात्तडितः' इत्यतः आत्मनेपदमिति 'णेरणौ' इत्यतो रिति चानुवर्तते / 'णिचथ' इति सिद्धे अकर्मभिप्रायार्थमिदम् / सम्माननम्पूजालाभः / शालिनीकरणम् अभिभवः / चकारात् 'गृधिवञ्चयोः' इति पूर्वसूत्रात्प्रलम्भनग्रहणं समुच्चीयते / तदाह / लीङ्लियोरेत्यादिना। बिभेतैर्हेतुभये // ‘आदेच उपदेशे' इत्यतः एच इति आदिति चानुवर्तते / 'विभाषा लीयतेः' इत्यतो विभाषेति, 'चिस्फुरोः' इत्यतो णाविति च / हेतुभयम्प्रयोजकाद्भयम् / तदाह / बिभेतेरेच इत्यादिना / भीस्म्योर्हेतुभये // ‘अनुदात्तडितः' For Private And Personal Use Only
Page #322
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 320 सिद्धान्तकौमुदीसहिता [णिच् आभ्यां ण्यन्ताभ्यामात्मनेपदं स्याद्धेतोश्चेद्यस्मयौ / सूत्रे भयग्रहणं धात्वर्थोपलक्षणम् / मुण्डो भापयते / 2595 / भियो हेतुभये षुक् / (7-3-40) 'भी' 'ई' इति ईकारः प्रश्लिष्यते / ईकारान्तस्य भियः षुक्म्याण्णौ हेतुभये / भीषयते / 2596 / नित्यं स्मयतेः। (6-1-57) स्मयतेरेचो नित्यमात्वं स्याण्णौ हेतोः स्मये / जटिलो विस्मापयते / हेतोश्चेद्भयस्मयावित्युक्तेर्नेह / कुञ्चिकयैनं भापयति / विस्माययति / कथं तर्हि 'विस्मापयन्विस्मितमात्मवृत्तौ' इति / 'मनुष्यवाचा' इति करणादेव हि तत्र इत्यतः आत्मनेपदमिति ‘णेरणौ' इत्यतो णेरिति चानुवर्तते / हेतुः प्रयोजकः / तदाह / आभ्यां ण्यन्ताभ्यामित्यादि // अकञभिप्रायार्थमिदम् / ननु हेतोश्चेत् भयस्मयावित्यनुपपन्नम् / सूत्रे स्मयग्रहणाभावादित्यत आह / सूत्रे भयेति // सूत्रे भयग्रहणं स्मि धात्वर्थस्य स्मयस्याप्युपलक्षणमित्यर्थः / मुण्डो भापयते इति // अत्र आत्त्वं पुक् आत्मनेपदश्च / भिय आत्त्वाभावपक्षे विशेषमाह / भियो हेतुभये षुक् // भी ई इति द्वयोस्सवर्णदीर्घे भीशब्दात् षष्ठीति भावः / इदञ्च स्थानिवत्सूत्रे भाष्ये स्पष्टम् / ईकारप्रश्लेषलब्धमाह / ईकारान्तस्येति // तेन आत्त्वपक्षे न पुगिति फलितम् / णाविति // ‘अर्तिही' इत्यतस्तदनुवृत्तेरिति भावः / नित्यं स्मयतेः // 'आदेच उपदेशे' इत्यतः एच इति, आदिति, चानुवर्तते / 'चिस्फुरोः' इत्यतो णाविति ‘बिभेतर्हेतुभये' इत्यतः हेतुभये इति च / तत्र भयग्रहणं स्मयस्याप्युपलक्षणम् / अत्र तु स्मय एव विवक्षितः / स्मयतेीत्यर्थकत्वासम्भवात् / तदाह / स्मयतेरेच इत्यादि // ‘विभाषा लीयतेः' इत्यतो विभाषानुवृत्तिनिवृत्तये नित्यग्रहणम् / अथ “विभेतेहेतुभये' इति 'नित्यं स्मयतेः' इति च आत्-विधौ ‘भीस्म्योर्हेतुभये' इति आत्मनेपदविधौ च हेतुग्रहणस्य प्रयोजनमाह / हेतोश्चत् भयस्मयावित्युक्तेनेहेति / कुश्चिकयैनमिति // केशबन्धविशेषः कुश्चिका / तस्याश्च करणतया प्रयोजककर्तृत्वाभावात् आत्त्वं षुक् च नेति भावः / आक्षिपति कथमिति / रघुवंशकाव्ये “तमार्यगृह्यं निगृहीतधेनुं मनुष्यवाचा मनुवंशकेतुम् / विस्मापयन्विस्मितमात्मवृत्तौ सिंहोरुसत्वन्निजगाद सिंहः॥” इति श्लोके विस्मापयन्निति कथमित्याक्षेपः / प्रयोजकाद्रयाभावेन आत्त्वपुगनुपपत्तेरिति भावः / ननु मनुष्यवागेव तत्र प्रयोजिकेत्यत आह / मनुष्येति // मनुष्यवाचेति तृतीयान्तगम्यकरणात् मनुष्यवागात्मकादेव हि तत्र स्मयः / ननु करणभूतापि मनुष्यवाक् प्रयोजिका कुतो नेत्यत आह / अन्यथेति // मनुष्यवाचः स्मयप्रयोजकत्वमभ्युपगम्य आत्त्वाश्रयणे 'भीस्म्योर्हेतुभये' इत्यात्मनेपदमपि स्यादित्यर्थः / स्मयोऽत्र प्रयोजकमूलको नेति युक्तमेव / किन्त्वात्त्वपुगाक्षेपो न For Private And Personal Use Only
Page #323
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा / 321 स्मयः / अन्यथा शानजपि स्यात् / सत्यम् / 'विस्माययन्' इत्येव पाठ इति साम्प्रदायिकाः / यद्वा मनुष्यवाक्प्रयोज्यकी विस्मापयते / तया सिंहो विस्मापयन्निति ण्यन्ताण्णौ शता' इति व्याख्येयम् / 2597 / स्फायो वः / (7-3-41) णौ / स्फावयति / ___2598 / शदेरगतौ तः / (7-3-42) शदेणौँ तोऽन्तादेश: स्यान्न तु गतौ / शातयति / गतौ तु गाः शादयति गोविन्दः / गमयतीत्यर्थः / 2599 / रुहः पोऽन्यतरस्याम् / (7-3-43) णौ / रोपयति-रोहयति। __ 2600 / क्रीजीनां णौ। (6-1-48) एषामेच आत्त्वं स्याण्णौ / क्रापयति / जापयति / अद्ध्यापयति / युज्यते इत्यर्धाङ्गीकारेण परिहरति / सत्यमिति // विस्माययन्नित्येवेति // णौ आयादेशे स्मायि इत्यस्माल्लटश्शतरि शपिणेगुणे अयादेशे विस्माययन्नित्येव काळिदासो महाकविः प्रायुक्त / विस्मापयनिति पकारपाठस्तु लेखकप्रमादकृत इति भावः / यद्वेति // राजा दिलीपो विस्मयते। तं सिंहोचारिता मनुष्यवाक् प्रयोजयति। विस्मापयते मनुष्यवाक् राजानम् / अत्र मनुष्यवाक् प्रयोजककी। राजा तु प्रयोज्यकर्तेति स्थितिः। अत्र स्मयस्य प्रयोजककर्तृभूतमनुष्यवाङ्मूल कत्वादात्त्वे पुक्। मूले प्रयोज्यकत्रीत्येव पाठः। प्रयोजककीत्यर्थः। प्रयोज्यःकर्ता यस्याःसा प्रयोज्यकर्ती इति बहुव्रीह्याश्रयणात् / प्रयोजककीत्येव पाठः सुगमः। तां विस्मापयन्ती प्रयाजककी मनुष्यवाचं प्रयोजयति सिंहः विस्मापयन्। स्मापि इति ण्यन्तात् णौ प्रथमणेलौंपे स्मापि इत्यस्मात् शतृप्रत्यये शपि णेर्गुणे अयादेशे विस्मापयनिति भवतीत्यभिप्रेत्य आह / तया सिंहः इति // प्रयोजककर्तरि तृतीया / आत्मनेपदं भीस्मीप्रकृतिकण्यन्तादेव, नतु ण्यन्तप्रकृतिकण्यन्तादिति भावः / स्फायो वः॥णाविति शेषपूरणम्। 'अर्तिही' इत्यतस्तदनुवृत्तेरिति भावः। शदेरगतो तः॥ 'अर्तिही' इत्यतो णावित्यनुवृत्तिं मत्वा आह / शदेर्णाविति / तोऽन्तादेशः इति // तकार इत्यर्थः / अकार उच्चारणार्थः / रुहः पो // णाविति शेषपूरणम् / क्रीजीनां णौ॥ 'डु कीञ् द्रव्यविनिमये, इङ् अद्ध्ययने, जि जये' एषान्द्वन्द्वः / एच आत्त्वमिति // ‘आदेच उपदेशे' इत्यतस्तदनुवृत्तरिति भावः / क्रापयति / जापयतीति // आत्त्वे पुक् / लुडि अचिक्रपत् / अजीजपत्। अध्यापयतीति // इङः आत्त्वे पुकि रूपम् / अधि इ इ अत् इति स्थिते 41 For Private And Personal Use Only
Page #324
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 322 सिद्धान्तकौमुदीसहिता [णिच् 2601 / णौ च संश्चङोः / (2-4-51) सन्परे चपरे च णौ इङो गाा स्यात् / अद्ध्यजीगपत् / अद्ध्यापिपत् / 2602 / सिद्यतेरपारलौकिके / (6-1-49) ऐहलौकिकेऽर्थे विद्यमानस्य सिद्ध्यतेरेच आत्त्वं स्याण्णौ / अन्नं साधयति / निष्पादयतीत्यर्थः / 'अपारलौकिके' किम् / तापस: सिद्ध्यति / तत्वं निश्चिनोति / तं प्रेरयति सेधयति तापसं तपः। 2603 / प्रजने वीयतेः / (6-1-55) अस्यैच आत्त्वं वा स्याण्णौ प्रजनेऽर्थे / वापयति-वाययति वा गाः पुरोवातः / गर्भ ग्राहयतीत्यर्थः / ऊदुपधाया गोहः' (सू 2364) / गृहयति / णौच संश्चङोः // विषयसप्तमीयमित्याकरे स्पष्टम्। णौ विवक्षिते इति लभ्यते / 'इडश्च' इत्यतः इड इति 'गाङ् लिटि' इत्यतो गाङिति 'विभाषा लुङ्लङोः' इत्यतो विभाषेति चानुवर्तते / तदाह / सन्परे चड्परे चेत्यादि // सन्परे चङपरे च णौ विवक्षिते इत्यर्थः / वेत्यादि / अध्यजीगपदिति // णौ इङो गाङादेशे पुकि उपधाहस्वे अधि गप् इ अ त् इति स्थिते गाप इत्यस्य द्वित्वे हलादिशेषे अभ्यासहस्वे सन्वत्त्वादित्त्वे दीर्घ अभ्यासचुत्वे रूपम् / नच द्वित्वे कार्ये 'णावजादेशो न' इति द्वित्वात् प्राक् गाडादेशनिषेधः शङ्कयः। अभ्यासोत्तरखण्डे अवर्णसत्त्व एव तनिषेधप्रवृत्तेरुक्तत्वात् / द्वित्वे कार्ये गाडादेशस्य निषेधे सति गाङः पूर्व 'अजादेर्द्वितीयस्य' इति णिच एव द्वित्वे सति प्रक्रियायां परिनिष्ठिते वा धातोरुत्तरखण्डे अवर्णाभावादिति भावः / गाङभावे ‘क्रीजीनां णौ' इत्यात्त्वे पुकि अधि आ इ अत् इति स्थिते पि इत्यस्य द्वित्वे रूपमिति भावः / सिद्ध्यतेरपारलौकिके // 'आदेच उपदेशे' इत्यस्मादादेच इति ‘क्रीजीनाम् ' इत्यस्माण्णाविति चानुवर्तते / तदाह / ऐहलौकिके इत्यादि // अन्नमिति // तनिष्पादनं तृप्त्यर्थत्वादैहलौकिकमिति भावः / तत्त्वमिति // आत्मस्वरूपमित्यर्थः / सेधयति तापसं तपः इति // तत्त्वनिश्चाययतीत्यर्थः / आत्मतत्त्वनिश्चयः आमुष्मिकफलक इति भावः / प्रजने वीयतेः // 'आदेच उपदेशे' इत्यस्मादादेच इति ‘चिस्फुरोः' इत्यतो णाविति ‘विभाषा लीयतेः' इत्यतो विभाषेति चानुवर्तते / तदाह / अस्यैच इत्यादि // वीयतेरिति न श्यना निर्देश: ‘वी गतिप्रजनस्थानार्जनोपार्जनेषु' इत्यस्य लुग्विकरणस्थत्वात् / किन्तु यका निर्देशोऽयम् / तेन व्येोऽपि ग्रहणम् / तस्यापि सम्प्रसारणे वीधातुना तुल्यत्वादिति केचित् / वस्तुतस्तु व्येत्रो न ग्रहणम् / तस्य प्रयोजनार्थकत्वाभावात् / तस्य णौ 'शाच्छासा' इति पुगपवादयुग्विधानेन व्याययतीति रूपे विशेषाभावाचेति शब्देन्दुशेखरे प्रपञ्चितम् / गर्भङ्ग्राहयतीति // पुरोवातकाले गावो गर्भअ॒हन्तीति प्रसिद्धिः / अथ ‘गुहू संवरणे' इत्यस्य गुणनिमित्ते. अजादौ प्रत्यये परे उपधाया ऊत्त्वविधिं स्मारयति / ऊदुपधाया गोहः इति / गृहयतीति // लघूपधगुणापवादः For Private And Personal Use Only
Page #325
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा / 323 323 SHARE 2604 / दोषो णौ / (6-4-90) 'दुषः' इति सुवचम् / दुष्यतेरुपधाया ऊत्स्याण्णौ / दूषयति / 2605 / वा चित्तविरागे / (6-4-91) विरागोऽप्रीतता / चित्तं दूषयति-दोषयति वा कामः / मितां ह्रस्वः' (सू 2568) / भ्वादौ चुरादौ च मित उक्ताः / घटयति / 'जनी नष्ट। जनयति-जरयति / जृणातेस्तु / जारयति ‘रजेी मृगरमणे नलोपो वक्तव्यः' (वा 4067) / मृगरमणमाखेटकम् / रजयति मृगान् / 'मृग-' इति किम् / रञ्जयति पक्षिणः / रमणादन्यत्र तु रञ्जयति मृगान्तृणदानेन / चुरादिषु ज्ञपादिश्विञ् / चिस्फुरोणी ' (2569) / चपयति-चययतीत्युक्तम् / चिनोतेस्तु / चापयति-चाययति / स्फारयति-स्पोरयति / अपुस्फरत्-अपुस्फुरत् / ऊत्त्वमिति भावः / दोषो णौ // उपधाया इत्यनुवर्तते / 'दुष वैकृत्ये' इति श्यन्वि. करणः तम्य कृतलघूपधगुणस्य निर्देशः / ततश्च गुणविषयकमेवेदम् / दुष्यतेरुपधाया ऊत्स्यादिति // णाविति शेषः / दूषयतीति / लघूपधगुणापवाद ऊत् / दुषा णावित्येव सुवचम् / वा चित्तविरागे // ऊदुपधाया इति, दोषो णाविति, चानुवर्तते / चित्रविरागे दुष उपधाया ऊद्वास्यात् णाविति फलितम् / विरागपदस्य विवरणं अप्रीततति / इच्छाविरह इत्यर्थः / चित्तमिति // चित्तं दुष्यति स्नानसन्ध्यावन्दनादिनित्यकर्मसु विरक्तं भवति / तत्प्रयोजयति काम इत्यर्थः / मितां द्वस्वः इति // णौ मितामुपधाया इस्वः इति प्राग्व्याख्यातमपि स्मारयति / जनी जृषिति // इदमपि व्याख्यातं स्मार्यते / जृणातस्त्विति // नाविकरणस्य अषित्त्वान् न मित्त्वमिति भावः / रजेविति // णः कित्त्वाभावात् अनिदितामित्यप्राप्तौ वचनम् / मृगरमणपदस्य विवरणं आखटकमिति / मृगयत्यर्थः / रजयति मृगानिति // 'रज राग' शब्विकरणः / 'रजेश्च' इति शपि नलोपः / रजन्ति मृगाः ग्राह्या भवन्ति / तान् मृगान् तादृग्व्यापारविषयान् कराति मृगवधासक्तो राजादिरित्यर्थः / अत्र नकारलोपः / रञ्जयति पक्षिणः इति // पक्षिणा रजन्ति ग्राह्या भवान्त / तान् तादृग्व्यापारविषयान् करातीत्यर्थः / पक्षिग्रहणमिदं न मृगयेति मन्यत / रञ्जयति मृगान् तृणदानेनेति // धावतो मृगान् रक्षणाय तृणसमपणेन बन्धनस्थानकान् करोतीत्यर्थः / चुरादिष्विति // चुरादिषु ज्ञपादिपञ्चकान्तर्गतश्चिञ्धातुरस्ति तस्मात् स्वार्थाणेचि कृते 'चिस्फुः ' इति आत्त्वपक्षे पुकि मित्त्वादुपधाइस्व चपयतीति रूपम् / आत्त्वाभावे तु वद्धौ आयादश मित्त्वाद्भस्वे चययतीति रूपमुक्तञ्चरादावित्यर्थः / चिनांतस्त्विति // श्नुविकरणस्य तु चिञ्धातार्हेतुमण्णा 'चिम्फुराः' इति आत्त्व पुकि मित्त्वाभ. वाद्रस्वाभाव चापयतीति रूपम् / आत्त्वाभावे वृद्धौ आयादश मित्त्वाभावाद्रस्वा भावे चाययतीति रूपमित्यर्थः / स्फारयति-स्फोरयतीति // 'चिस्फुराः' इत्यात्त्वविकल्पः / अपुस्फरत्-अपुस्फुरदिति // स्फुर् इ अत् इति स्थित द्वित्वे कर्तव्य णावच For Private And Personal Use Only
Page #326
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 324 सिद्धान्तकौमुदीसहिता [णिच् 2606 / उभौ साभ्यासस्य / (8-4-21) साभ्यासस्यानितेरुभौ नकारौ णत्वं प्राप्नुतो निमित्ते सति / प्राणिणत् / __ 2607 / णौ गमिरबोधने / (2-4-46) इणो गमिः स्याण्णौ / गमयति / बोधने तु प्रत्याययति / 'इण्वदिक.' (वा 1577) / अधिगमयति / ‘हनस्तोऽचिण्णलो:' (सू 2574) / ‘हो हन्तेः' इति कुत्वम् / घातयति / ' ईय॑तेस्तृतीयस्येति वक्तव्यम्' (वा 6406) तृतीयव्यञ्जनस्य तृतीयैकाच इति वार्थः / आद्ये षकारस्य द्वित्वम् वारयितुमिदम् / द्वितीये तु 'अजादेर्द्वितीयस्य' (सू 2176) इत्यस्यापवादतया सन्नन्ते आदेशस्य निषिद्धतया स्फुरित्युकारवतो द्वित्वे ततश्चिस्फुरोर्णाविति उत्तरखण्डे आत्त्वविकल्पः / आत्त्वपक्षे उपधाहूस्व इति भावः / उभौ साभ्यासस्य // अनितेरित्यनुवर्तते / 'अन प्राणने' इतिधातोरित्यर्थः / ‘रषाभ्यानो णः' इत्यधिकृतम् / 'उपसर्गादसमासेऽपि' इत्यतः उपसर्गादित्यनुवर्तते / तदाह / साभ्यासस्येत्यादिना // निमित्ते सतीति // उपसर्गस्थे रेफे सतीत्यर्थः / प्राणिणदिति // अन् इ अ त् इति स्थिते ‘अनितेः' इति णत्वस्यासिद्धत्वात् नि इत्यस्य द्वित्वे उत्तरखण्डे नकारस्याभ्यासनकारेण व्यवधानाण्णत्वे अप्राप्ते उभयोनकारयोरनेन णत्वमित्यर्थः / नच 'पूर्वत्रासिद्धीयमद्विवचने' इति निषेधात् द्वित्वे कर्तव्ये णत्वस्यासिद्धत्वविरहेण परत्वात् कृते णत्वे ततः पश्चात् द्वित्वे प्राणिणदिति सिद्धमिति वाच्यम् / अत एव 'पूर्वत्रासिद्धीयमद्विवचने' इत्यस्यानित्यत्वविज्ञानात् / तेन ऊर्णनावेत्यत्र णत्वात् पूर्वमेव नुशब्दस्य द्वित्वे कृते अभ्यासोत्तरखण्डे णत्वाभावसिद्धिरित्यन्यत्र विस्तरः / णो गमिरबोधने // ‘इणो गा लुङि' इत्यतः इण इत्यनुवर्तते / तदाह / इणो गमिरिति // मकारादिकार उच्चारणार्थः / गमयतीति // प्रापयतीत्यर्थः / प्रत्याययतीति // बोधयतीत्यर्थः। लुटि प्रत्याययत् / इणो णिचि 'इणो यण' इति यणम्वाधित्वा परत्वात् वृद्धौ आयादेशे आय् इ अ त् इति स्थिते यि इत्यस्य द्वित्वम् / नच द्वित्वे कार्ये णावजादेशस्य निषिद्धत्वादृद्धेनिषेधः शङ्कयः / 'अजादेर्द्वितीयस्य ' इति णिचो द्वित्वे उत्तरखण्डे अवर्णाभावात् ‘इक स्मरणे' इत्यस्य इण्वत्त्वमुक्तं स्मारयति / इण्वदिकः इति / अधिगमयतीति // स्मारयतीत्यर्थः / हन्तेर्जिति णिति च तकारादेशमुक्तं णौ स्मारयति। हनस्तोऽचिण्णलोरिति / कुत्वमिति॥ हस्येति शेषः / उपधावृद्धिं मत्वा आह / घातयतीति // लुङि अजीघतत् / ईर्ष्णतेणौ रूपम् / वक्तव्यमिति // द्वित्वमिति शेषः / इति वार्थः इति ॥'नन्द्राः' इति सूत्रभाष्य स्पष्टमिदम्। आद्ये इति // तृतीयस्य व्यञ्जनस्येति पक्षे इत्यर्थः / षकारस्येति // अन्यथा ईह्म इ अ त् इति स्थिते 'नन्द्राः' इति रेफ वर्जयित्वा षकारसहितस्य ष्यि इत्यस्य द्वित्वं स्यात् / ततश्च उत्तरखण्डे णिलोपे ऐर्षिष्यदिति स्यात् / ऐय॒यदितीष्टं न स्यात् / अतस्तृतीयव्यञ्जनस्यत्युक्तम् / एवञ्च यकारमात्रस्य द्वित्वे णिलोपे संयुक्तद्वियकारमिष्टं सिद्ध्यतीत्यर्थः / द्वितीये इति // तृती For Private And Personal Use Only
Page #327
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा / 325 प्रवर्तते / ऐय॒यत्-ऐषिष्यत् / द्वितीयव्याख्यायां णिजन्ताच्चङि षकार एवाभ्यासे श्रूयते / हलादिशेषात् / द्वित्वं तु द्वितीयस्यैव / तृतीयाभावेन प्रकृतवार्तिकाप्रवृत्तेः / निवृत्तप्रेषणाद्धातोर्हेतुमण्णौ शुद्धेन तुल्योऽर्थः / तेन " प्रार्थयन्ति शयनोत्थितं प्रियाः” इत्यादि सिद्धम् / एवं सकर्मकेषु सर्वेषह्यम् / इति तिङन्तणिच्प्रकरणम् / यैकाच इति व्याख्याने इत्यर्थः / सन्नन्ते प्रवर्तते इति // उक्तवार्तिकमिति शेषः / सनि इटि ईर्घ्य इस इति स्थिते ईर्घ्य इति प्रथमैकाच् यिस् इति द्वितीयकाच् स इति तृतीयैकाजिति स्थितिः / तत्र तृतीयैकाचस्सम्भवात्तस्य द्वित्वविधिः / अन्यथा 'अजादेर्द्वितीयस्य' इति स्यादिति भावः / ऐjयदिति // यकारमात्रस्य द्वित्वे णिलोपे संयुक्तद्वियकारं रूपम् / अथ द्वितीयव्याख्यायां रूपमाह / ऐर्षिष्यदिति // तदुपपादयति / द्वितीयव्याख्याया मिति // ण्यन्ताच्चडि ईय॒ इ अ त् इति स्थिते 'नन्द्राः' इति निषेधाद्रेफ वर्जयित्वा 'अजादेद्वितीयस्य' इति ध्यि इत्यस्य द्वित्वं, नतु यकारमात्रस्य प्रथमव्याख्याने एव तृतीयव्यञ्जनस्येत्युक्तेः / तत्र ष्यि इत्यस्य द्वित्वे कृतेऽपि अभ्यासे षकार एव हल् इकारशिरस्कः श्रूयते, नतु यकारोऽपीत्यर्थः / कुत इत्यत आह / हलादिशेषादिति // ननु तृतीयस्यैकाच इति द्वितीयव्याख्यायां इह द्वितीयस्यैकाचः कथं द्वित्वमित्यत आह / द्वित्वं तु द्वितीयस्यैवेति // एकाच इति शेषः / कुत इत्यत आह / तृतीयाभावेनेति // ईय् इ अत् इत्यत्र ईर्घ्य इति प्रथमैकाच् , नतु चडि परे तृतीयैकाजस्ति / अतोऽत्र तृतीयैकाच इति वार्तिकन्न प्रवर्तते / तस्मात् द्वितीयस्यैव एकाचो द्वित्वमित्यर्थः / एवञ्च तृतीयस्यैकाच इति वार्तिकं सन्नन्त एव प्रवर्तते / ईय॑तेरामः सत्त्वेन ततः परस्य लिटोऽभावादिति बोध्यम् / ननु “प्रार्थयन्ति शयनो. त्थितं प्रियाः” इति माघकाव्ये प्रार्थयन्तीति न चौरादिकस्वार्थिकं णिजन्तम् / तस्यागर्वीयतया आत्मनेपदप्रसङ्गात् / नापि हेतुमण्यन्तम् / स्वाभीष्टं याचते इत्यर्थे तदसम्भवात् / नहि प्रयोजकव्यापाराभावे तत्प्रवृत्तिरस्तीत्यत आह / निवृत्तेति // निवृत्तं प्रेषणं यस्मात् सः निवृत्तप्रेषणः सम्प्रति अविवक्षितप्रेषणादित्यर्थः / तस्माद्धातोः भूतपूर्वगल्या प्रेषणमादाय हेतुमण्णौ कृते शुद्धेन णिज्विहीनेन धातुना तुल्योऽर्थः प्रतीयते इत्यर्थः / तदुक्तं / " निवृत्तप्रेषणाद्धातोः प्राकृतेऽर्थे णिजिष्यते” इति / इदञ्च ‘णेरणौ' इति सूत्रे भाष्ये स्पष्टम् // इति श्रीवासुदेवदीक्षितविदुषा विरचितायां सिद्धान्तकौमुदीव्याख्यायां बालमनोरमायां हेतुमण्णिचो निरूपणं समाप्तम् / For Private And Personal Use Only
Page #328
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir / श्रीरस्तु। // अथ तिङन्तसन्प्रकरणम् // 2608 / धातोः कर्मणः समानकर्तृकादिच्छायां वा / (3-1-7) इषिकर्मण इषिणैककर्तृकाद्धातोः सन्प्रत्ययो वा स्यादिच्छायाम् / धातोविहितत्वादिह सन आर्धधातुकत्वम् / इट् / द्वित्वम् / 'सन्यत:' (सू 2317) / पठितुमिच्छति पिपठिषति / 'कर्मणः' किम् / गमनेनेच्छतीति करणान्माभूत् / 'समानकर्तृकात्' किम् / शिष्याः पठन्त्वितीच्छति गुरुः / वाग्रहणात्पक्षे वाक्यमपि / 'लुङ्सनोघल' (सू 2427) / 'एकाच उपदेशे- (सू 2246) इति नेट / सस्य तत्वम् / अत्तुमिच्छति / अथ सन्प्रक्रियाः निरूप्यन्ते / धातोः कर्मणः // 'गुप्तिज्किद्रयः' इत्यतस्सन्नित्यनुवर्तते / इच्छायाः श्रुतत्वात्ताम्प्रत्येव कर्मत्वं विवक्षितम् / तथा कर्मणस्समानकर्तृकत्वमपि इच्छानिरूपितमेव विवक्षितम् / कर्मेति स्ववाचकशब्दद्वारा धातो सामानाधिकरण्येनान्वति / एवञ्च इच्छासमानकर्तृकत्वं सात इच्छाकर्मीभूती या व्यापारः तद्वाचकाद्धातोरिच्छायां सन् वा स्यादिति फलति / तदाह / इषिकर्मणः इत्यादि // इषिरिच्छा / इषिणा एककनुकत्वात् इषिकर्मीभूतव्यापारवाचकाद्धातोरित्यर्थः / ननु समानकर्तृकादित्युक्त्येव धातारिति लब्ध। / धात्वर्थव्यापाराश्रयस्यैव कर्तृत्वाांदत्यत आह / धातोरिति // धातरिति विहितस्यैव प्रत्ययस्याधधातुकत्वं, नतु धाताः परम्य / अन्यथा जुगुप्सते इत्यत्र धातारित्यविहितस्यापि 'गुप्तिकिय.' इात सन आधधातुकत्वापत्तो लघूपधगुणापत्तरिति भावः / अस्य सन आर्धधातुकत्वं फलमाह / इडिति // द्वित्वमिति // 'सन्यङाः' इत्यनेनेति भावः / अभ्यासस्य इत्त्वविधेि स्मारयति / सन्यतः इति // पठितुमिच्छतीति // भावस्तुमुन्र्थः / 'अव्ययकृतो भावे' इत्युक्तः / धात्वर्थ एव भाव इत्युच्यते / तथाच पठितुमित्यस्य पठनक्रियैवार्थः / तस्मिन् पठन इच्छ'कर्मत्व इच्छासमानकर्तृकत्वञ्च सना गम्यते / तथाच स्वकर्तृकं पठनमिच्छतीत्यर्थ पिपाठषताात शब्दा वतते इत्युक्त भवात / अथ ‘अद भक्षण' हात धाताः सनि घस्लभावं स्मारयति / लुङ्सनोघंस्ल इति // घम् स इति स्थित इदमाशङ्कय आह / एकाचः इति // नाडति // घस स डान स्थित आह / सस्य तत्वमिति // ‘सम्स्याधातुक' इत्यननात भावः / जिघत्सतांति // द्वित्व अभ्यासजश्त्वचुत्व इति भावः / For Private And Personal Use Only
Page #329
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बालमनोरमा / 327 जिघत्सति / 'ईयतेस्तृतीयस्य (वा 3403) इति यिसनोदित्वम् / इय्यिपति-ईयिषिषति। 2609 / रुदविदमुषग्रहिस्वपिप्रच्छः संश्च / (1-2-8) एभ्यः सन् क्त्वा च कितौ स्तः / रुरुदिषति / विविदिषति / मुमुषिषति / 2610 / सनि ग्रहगुहोश्च / (7-2-12) ग्रहेणुहेरुगन्ताञ्च सन इण्ण स्यात् / 'अहिज्या-' (सू 2412) इति सम्प्रसारणम् / सनः षत्वस्यासिद्धत्वाद्भभावः / जिघृक्षति / सुषुप्सति / 2611 / किरश्च पञ्चभ्यः / (7-2-75) यिसनोत्विमिति // तृतीयस्य व्यञ्जनस्येति पक्षे ईर्घ्य इस इत्यत्र यकारमात्रस्य द्वित्वे सनष्षत्वे संयुक्तद्वियकारं रूपमिति भावः / तदाह / ईटियषतीति // तथाच सन्नन्ते ईकाररेफषकारयकारद्वित्वेकारषकाराः / तृतीयस्यैकाच इति पक्ष ईय् इ स इत्यत्र स इत्यस्य द्वित्वे अभ्यासत्त्वे सकारद्वयस्यापि षत्वे रूपं मत्वा आह / ईयिषिषतीति // अत्र तु सन्नन्ते इकाररेफषकारयकारेकारषकारेकारषकाराकाराः / रुदविद // इका निर्देशात् सम्प्र. सारणे गृहीति निर्देशः / स्वपीति इकारस्तु उच्चारणार्थः, न त्विका निर्देशः / सुपीति सम्प्रसारणप्रसङ्गात् / चकारात् 'मृडमृदगुध' इति पूर्वसूत्रस्थं वंति समुच्चीयते / तदाह / सन् क्त्वा चेति // किताविति // 'असंयोगालिट्' इत्यतस्तदनुवृत्तेरिति भावः / रुदसाहचर्याद्वेत्तेरेव ग्रहणमिति केचित् / अविशेषात्सर्वस्येत्यन्ये / 'हलन्ताच्च' इति सिद्धे रुदविदमुषाङ्ग्रहणं 'रलो व्युपधात्' इति विकल्पबाधनार्थम् / ग्रहेस्तु वायां 'न का सेट्' इति निषेधबाधनार्थम् / स्वपिप्रच्छयोस्तु वायां कित्त्वेऽपि सनः अप्राप्तकित्त्वविधानार्थम् / रुरुदिषतीत्यादौ सनः कित्त्वालघूपधगुणाभावः / सनि ग्रहगुहोश्च // चकारात् 'श्रयुकः किति' इत्यतः उक इत्यनु. कृष्यते, न तु श्रयतिः। तस्य 'सनीवन्तर्ध' इति विकल्पस्य वक्ष्यमाणत्वात् / 'नेशिकृति' इत्यतः नेडिति चानुवर्तते / तदाह / ग्रहेरित्यादि // ग्रहधातोर्नित्यमिटि प्राप्ते गुहेः ऊदित्त्वाद्विकल्पे प्राप्ते वचनम् / अहिज्येति // ग्रह् स इति स्थिते सनः कित्त्वात् 'ग्रहिज्या' इति रेफस्य सम्प्रसारणम् ऋकार इत्यर्थः। ननु गृह् स इति स्थिते हस्य ढत्वे भषभावापेक्षया परत्वात् कत्वे सस्य षत्वे च कृते झपन्तत्वाभावे कथं भष्भाव इत्यत आह / सनः षत्वस्येति // कत्वस्यासिद्धत्वादित्येव सुवचम् / जिघृक्षतीति // गृह स इति स्थिते हकारादिणः परस्य सस्य षत्वं परत्वात् प्राप्तं तस्यासिद्धत्वात् हस्य ढत्वे भष्भावः ततः कत्वे कात्परस्य षत्वमिति क्रम इति भावः / गुहेः जुघुक्षतीत्युदाहार्यम् / उगन्तात् बुभूषति / यद्यपि 'श्रयुकः किति' इत्येव उगन्नात् सिद्धम् / तथाप्यत्र चकाराभावे सनि ग्रहगुहोरेव इट् इति नियमः स्यात् / तन्निवृत्त्यर्थश्च. कार इत्याहुः / सुषुप्सतीति // सनः कित्त्वात् 'वचिस्वपि' इति सम्प्रसारण लघूपधगुणाभावश्च / किरश्च पञ्चभ्यः॥ किर इति पञ्चमी / किरादिभ्य इति विवक्षितम् / तुदादौ 'कृ For Private And Personal Use Only
Page #330
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 328 सिद्धान्तकौमुदीसहिता [सन् 'कृ' 'गृ' 'दृङ्' 'धृङ्' 'प्रच्छ्' एभ्यः सन इट् स्यात् / पिपृच्छिषति। चिकरिषति / जिगरिषति / जिगलिषति / अत्रेटो दीर्घो नेष्टः / दिदरिपते। दिधरिषते / कथम् ‘उद्दिधीर्घः' इति / भौवादिकयोधुंधृजोरिति गृहाण / 2312 / इको झल् / (1-2-9) इगन्ताज्झलादिः सन्कित्स्यात् / बुभूषति / दीङ / दातुमिच्छति दिदीषते / एज्विषयत्वाभावात् 'मीनातिमिनोति-' (सू 2508) इत्यात्त्वं न / अत एव 'सनि मीमा-' (सू 2623) इति सूबे माधातो: पृथङ्मीग्रहणं कृतम् / ____2613 / हलन्ताच्च / (1-2-10) इक्समीपाद्धलः परो झलादिः सन्कित्स्यात् / गुहू / जुघुक्षति / विक्षेपे, गृ निगरणे, दृङ् आदरणे, धृङ् अवस्थाने, प्रच्छ झीप्सायाम्' इति स्थिताः / तदाह / कृग इत्यादिना // सन इडिति // 'स्मिपूज्वशां सनि' इत्यतः 'इडत्यति' इत्यतश्च तदनुवृत्तेरिति भावः / एषामनिटत्वाद्वचनम् / पिपृच्छिषतीति // सनः कित्त्वात् 'अहिज्या' इति सम्प्रसारणम् / चिकरिषतीति // कृधातोः सनि इटि रूपम् / जिगरिषतीति // 'गृ निगरणे' इत्यस्मात्सनि इटि रूपम् / जिगलिषतीति // ‘अचि विभाषा' इति लत्वविकल्प इति भावः / इट् सनि वेत्यस्यायमपवादः / चिकरिषति, जिगलिषति इत्यत्र 'वृतो वा' इति दीर्घमाशङ्कय आह / अत्रेटो दी? नेष्टः इति // वार्तिकमिदं वृत्तौ स्थितम् / भाष्ये तु न दृश्यते / दिदरिषते / दिधरिषते इति // दृङो धृडश्च सनि इटि रूपम्। 'पूर्ववत्सनः' इत्यात्मनेपदम् / कथमिति // उद्दिधीषुरिति कथमित्यन्वयः / किरादित्वेन इट्प्रसङ्गादिति भावः। भौवादिकयोरिति // 'धृङ् अवस्थाने, धृञ् धारणे' इत्यनयोभीवादिकयोस्सनि किरादित्वाभावादिडभावे 'अज्झनगमां सनि' इति दीर्घ 'ऋत इद्धातोः' इति इत्त्वे रपरत्वे 'हलि च' इति दीर्घ षत्वे उद्दिधीर्ष इत्यस्मात् ‘सनाशंसभिक्ष उः' इत्युप्रत्यये उद्दिधीर्षुरिति रूपमिति गृहाण जानीहीति शङ्ककम्प्रति उत्तरम् / इको झल् / इगन्तादिति // सना आक्षिप्तधातुविशेषणत्वात्तदन्त. विधिरिति भावः / सन् किदिति // ‘रुदविदमुषग्रहि' इत्यतः ‘असंयोगालिट् कित्' इत्यतश्च तदनुवृत्तेरिति भावः / बुभूषतीति // कित्वान गुणः / उकः परत्वानेट / दिदी. षते इति // सनः कित्त्वान्न गुणः / दीङो ङित्त्वात् 'पूर्ववत्सनः' इत्यात्मनेपदम् / एज्विषयत्वाभावादिति // कित्त्वे गुणनिषेधादिति भावः / अत एवेति // यद्यज्विषयादन्य. त्राप्यात्वं स्यात् तदा मामेति पृथक् ग्रहणमनर्थकं स्यात् / “गामादाग्रहणेष्वविशेषः” इत्युक्तेरिति भावः / हलन्ताच्च // 'इको झल्' इति पूर्वसूत्रमनुवर्तते / 'रुदविदमुष' इत्यतस्सनिति 'असंयोगाल्लिट्' इत्यतः किदिति च / हलिति लुप्तपञ्चमीकं पदम् / अन्तशब्दः समीपवाची / तदाह / इक्समीपादित्यादि // जुघुक्षतीति // सनः कित्त्वान्न गुणः / 'सनि ग्रहगुहोश्च' For Private And Personal Use Only
Page #331
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Acharya Shi प्रकरणम्] बालमनोरमा। 329 बिभित्सति / ‘इकः' किम् / यियक्षते / 'झल' किम् / विवर्धिषते / हलग्रहणं जातिपरम् / तूंहू तितृक्षति-तिद्वंहिषति / 2614 / अज्झनगमां सनि / (6-4-16) / अजन्तानां हन्तेरजादेशगमेश्च दीर्घः स्याज्झलादौ सनि / 'सन्लिटोर्जे:' (सू 2331) / जिगीषति / 'विभाषा चे:' (सू 2525) / चिकीषतिचिचीषति / जिघांसति / / 2615 / सनि च / (2-4-47) इणो गमिः स्यात्सनि न तु बोधने / जिगमिषति / बोधने प्रतीषिषति / इत्यूदित्त्वेऽपि नित्यनेट / हस्य ढत्वे भष्भावे कत्वषत्वे इति भावः / बिभित्सतीति // भिदेस्सनः कित्त्वान्न गुणः / यियक्षते इति // अत्र हल: इक्समीपत्वाभावान कित्त्वम् / सति तु कित्त्वे यजेस्सम्प्रसारणं स्यादिति भावः / विवर्धिषते इति // वृधेस्सनि रूपम् / अत्र सन इटि झलादित्वनेति भावः। ननु 'तूंहू हिंसायाम्' तुदादिः नोपयोऽयम्। कृतानुस्वारस्य निर्देशः / अस्मात्सनः ‘अनिदिताम् ' इति नलोपार्थकित्त्वमिष्यते / तत्रोपपाते / न ह्यत्र इत्समीपादनुस्वारात् सन् परो भवति / हकारेण व्यवधानात् / हकारात्तु परः सन् इक्समीपाद्धल: परो न भवति / अनुस्वारेण व्यवधानादित्यत आह / हग्रहणं जातिपरमिति // हल्त्वजात्याक्रान्तैकानेकव्यक्तिपरमित्यर्थः / तूंह्विति // तूंहूधातोः प्रदर्शनमिदम् / तितृक्षतीति // ऊदित्त्वादिडभावे पक्षे रूपम् / सनः कित्त्वान्नलोपः / लघूपधगुणाभावश्च / ढत्वकत्वषत्वानि / इट्पक्षे आह / तिmहिषतीति // झलादित्वाभावेन कित्त्वाभावानलोपो नेति भावः / अज्झनगमां सनि // अच् हन् गम् एषान्द्वन्द्वः / 'नोपधायाः' इत्यतः उपधायाः इत्यनुवृत्तं हनगमोरन्वेति नत्वजन्ते। असम्भवात् / अङ्गस्येत्यधिकृतम् / अचस्तद्विशेषणत्वात्तदन्तविधिः / गमधातुरिह अजादेश एव विवक्षित इति प्रकृतसूत्रभाष्ये स्पष्टम् / 'ठूलोपे पूर्वस्य' इत्यतो दीर्घ इत्यनुवर्तते / तदाह / अजन्तानामित्यादिना // झलादौ सनीति // ‘च्छोः शूठ' इति सूत्रभाष्ये ‘अज्झनगमाम्' इत्यत्र सनं झला विशेषयिष्याम इत्युक्तेरिति भावः / अथ जिधातोरभ्यासात् परस्य कुत्वविधि स्मारयति / सन्लिटोर्जेरिति // जिगीषतीति // जेर्दीर्घ अभ्यासात्परस्य कुत्वम् / अथ चिञ्धातोरभ्यासात्परस्य कुत्वविकल्पं स्मारयति / विभाषा चेरिति // चिकीषतिचिचीषतीति // अजन्तत्वाद्दीर्घः / जिघांसतीति // हनेः सनि 'अज्झन' इत्यकारस्य दीर्घः, न त्वन्त्यस्य नकारस्य / दीर्घश्रुत्या अच इत्युपस्थितेः / द्वित्वं 'अभ्यासाच्च' इति कुत्वम् / 'नश्च' इत्यनुस्वारः / सनि च // 'इणो गा लुद्धिः' इत्यतः इण इति ‘णौ गमिरबोधने' इत्यतः गमिरबोधने इति चानुवर्तते / तदाह / इणो गमिरित्यादि // जिगमिषतीति // गमेरिति इट् / अत्र 'अज्झनगमाम्' इति दी? न / झलादी सनीत्युक्तेः / प्रतीषिषतीति // 42 For Private And Personal Use Only
Page #332
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 330 सिद्धान्तकौमुदीसहिता [सन 'इण्वदिकः' (वा 1577) / अधिजिगमिषति / कर्मणि तङ् / 'परस्मैपदेषु' इत्युक्तेर्नेट् / 'झलादौ सनि' इति दीर्घः / जिगांस्यते / अधिजिगांस्यते / अजादेशस्येत्युक्तेर्गच्छतेर्न दीर्घः / जिगंस्यते / सञ्जिगंसते / 2616 / इङश्व / (2-4-48) इङो गमिः स्यात्सनि / अधिजिगांसते / 2617 / रलो व्युपधाडलादेः संश्च / (1-2-26) उश्च इश्व वी / ते उपधे यस्य तस्माद्धलादेः रलन्तात्परौ क्त्वासनौ सेटौ वा कितौ स्तः / ' द्युतिस्वाप्योः सम्प्रसारणम्' (2344) / दिद्युतिषतेदिद्योतिषते / रुरुचिषते-रुरोचिषते / लिलिखिषति-लिलेखिषति / ‘रल:' किम् / दिदेविषति / व्युपधात्' किम् / विवर्तिषते। ‘हलादेः' किम् / एषिषिषति। बोधयितुमिच्छतीत्यर्थः / अत्र बोधनार्थत्वादिणो न गमिः / इ स इति स्थिते 'अजादेर्द्धितीयस्य' इति सनो द्वित्वे अभ्यासेत्त्वम् / प्रतिना सवर्णदीर्घे सकारद्वयस्यापि षत्वमिति भावः / 'इक् स्मरणे' इत्यस्याह / इण्वदिकः इति // वार्तिकेन इधातुरिण्वद्भवतीत्यर्थः / ततश्च ‘सनि च' इति गमिरादेश इति भावः / कर्मणि तङिति // इण्धातोरिग्धातोश्च सन्नन्तात्कर्मणि लटस्तडित्यर्थः / 'भावकर्मणोः' इत्यनेनेति भावः / परस्मैपदेष्विति // 'गमेरिट परस्मैपदेषु' इत्युक्तेस्तडि नेडित्यर्थः / झलादाविति // 'अज्झन' इति झलादौ सनि विहितो दीर्घ इत्यर्थः / जिगांस्यते इति // गन्तुमिष्यते इत्यर्थः / इणो रूपम् / अधिजिगांस्यते इति // स्मर्तुमिष्यते इत्यर्थः / इको रूपम् / जिगस्यते इति // गम्लधातोः सनन्तात्कर्मणि तङि रूपम् / गमेरजादेशत्वाभावान दीर्घः / इङश्च // गमिः स्यात् सनीति // ‘णो गमिः' इत्यतः 'सनि च' इत्यतश्च तदनुवृत्तेरिति भावः / इङो ङित्त्वात् 'पूर्ववत्सनः' इति तङ् / परस्मैपदेष्वित्युक्तेर्नेट् / 'अज्झन' इति दीर्घ इति भावः / रलो // क्वासनाविति // चकारेण 'पूडः त्वा च' इत्यतः वायाः अनुकर्षादिति भावः। सेटाविति॥ 'न त्वा सेट्' इत्यतस्तदनुवृत्तेरिति भावः / वा किताविति // 'नोपधात्थफान्ताद्वा' इत्यतः 'असंयोगाग्लिट कित्' इत्यतश्च तदनुवृत्तेरिति भावः / दिद्युतिषते इति // 'द्युत दीप्तौ' अनुदात्तेत् / सनि द्वित्वे कित्त्वात् 'द्युतिस्वाप्योः' इत्यभ्यासस्य सम्प्रसारणे पूर्वरूपे सनः कित्त्वान्न लघूपधगुण इति भावः / सनः कित्त्वाभावे आह / दिद्योतिषते इति // 'पूर्ववत्सनः' इत्यात्मनेपदम् / एषिषिषतीति // इब्धातोस्सन् इट् हलादित्वाभावेन कित्त्वाभावाद्गुणे एष इस ति इति स्थिते 'अजादेर्द्वितीयस्य' इति षिस् इत्यस्य द्वित्वे हलादिशेषे सनः षत्वे रूपम् / नन्विह सत्यपि कित्त्वे नित्यत्वात् परमपि गुणम्बाधित्वा पिस् इत्यस्य द्वित्वे For Private And Personal Use Only
Page #333
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा / 331 इह नित्यमपि द्वित्वं गुणेन बाध्यते / 'उपधाकार्य हि द्वित्वात्प्रबलम्' ओणेऋदित्करणस्य सामान्यापेक्षज्ञापकत्वात् / 2618 / सनीवन्तर्धभ्रस्जदम्भुश्रिस्वृयूर्णभरज्ञपिसनाम् / (7-2-49) इवन्तेभ्यः ऋधादिभ्यश्च सन इड़ा स्यात् / इडभावे ' हलन्ताच्च' (सू 2613) इति कित्त्वं / ‘च्छ्रो:-' (सू 2561) हति वस्य ऊठ् / यण् / द्वित्वम् दुःयूषति-दिदेविषति / 'स्तौतिण्योरेव-' (सू 2627) इति वक्ष्यमाणनियमान्न षः / सुस्यूषति-सिसेविषति / धात्ववयवस्य इकारस्य उपधात्वाभावादेव गुणाप्रसक्तेर्हलादेरिति व्यर्थमित्यत आह / इह नित्यमपि द्वित्वं गुणेन बाध्यते इति // कुत इत्यत आह / उपधाकार्य हि द्वित्वात्प्रबलमिति // तच्च कुत इत्यत आह / ओणेरिति / / ओणे: ऋदित्करणस्य ज्ञापकत्वादित्यन्वयः / तथाहि / ओणधातोः ण्यन्ताल्लुङि चङि ‘णौ चङयुपधायाः' इति हूस्वस्य 'नाग्लोपिशास्वृदिताम्' इति निषेधे सति ओणि अ त् इति स्थिते णि इत्यस्य द्वित्वे मा भवानोणिणदिति रूपम् / अत्र उपधाहस्वनिषेधार्थमोणे: ऋदित्करणम् / उपधाहस्वे कृते तु उण् इ अत् इति स्थिते णि इत्यस्य द्वित्वे मा भवानुणिणदिति स्यात् / ओकारो न श्रूयेत इति स्थितिः / यदि तु नित्यत्वात् उपधाहस्वात् प्रागेव ओण इ अत् इत्यस्यां दशायां द्वित्त्वं स्यात् / तदा ओकारस्य उपधात्वाभावादेव हूस्वाप्रसक्तेस्तनिषेधार्थमृदित्करणमनर्थक स्यात् / तस्मादुपधाहस्वात्मकं उपधाकार्ये द्वित्वात् प्रबलमिति विज्ञायते इत्यर्थः / ननु भवतु उपधाहस्वो द्वित्वात् प्रबल: / प्रकृते तु उपधागुणः कथं द्वित्वात् प्रबल: स्यादित्यत आह / सामान्यापेक्षेति // उपधाहूस्वस्य उपधाकार्यत्वेन रूपेण द्वित्वात् प्राबल्यविज्ञानादित्यर्थः / वस्तुतस्तु ‘णौ चड्युपधायाः' इति सूत्रे यदयमोणिमृदितङ्करोति तत् ज्ञापयति द्विवचनाद्रस्वत्वं बलीय इति भाष्ये विशिष्य उपधास्वग्रहणात् सामान्यापेक्षत्वं ज्ञापकस्य चिन्त्यमिति शब्देन्दुशेखरे प्रपञ्चितम् / सनीवन्तर्ध // सनि इवन्तेति च्छेदः / इवन्त ऋध भ्रस्ज दन् भु श्रि स्व यु ऊर्ण भर ज्ञपि सन् एषान्द्वन्द्वः / इव् अन्त येषान्ते इवन्ताः ‘स्वरति' इत्यतः वेति 'इण्निष्ठायाम्' इत्यतः इडिति चानुवर्तते / तदाह / इवन्तेभ्यः इत्यादि॥ इवन्तस्य दिब्धातोरुदाहरिष्यन्नाह / इडभावे इति / वस्येति // वकारस्येत्यर्थः / यणिति // दकारादिकारस्य इति शेषः / द्वित्वमिति // यु इत्यस्येति शेषः। दुयूषतीति // ‘अज्झन' इति दीर्घः / इट्पक्षे आह / दिदविषतीति // अझलादित्वान्न सनः कित्वं अतो नोट किन्तु लघूपधगुण इति भावः / इवन्तस्योदाहरणान्तरं सिवुधातोः सुस्यूषतीति वक्ष्यते / तत्र द्वितीयस्य षत्वमाशङ्कय आह / स्तौतिण्योरिति / सुस्यूषतीति // सिवुधातोः सनि इडभावे दुयूषतीतिवद्रूपम् / इट्पक्षे आह / सिसेविषतीति // ऋध्धातोः सनि ईर्त्यतीति रूपं वक्ष्य For Private And Personal Use Only
Page #334
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 332 सिद्धान्तकौमुदीसहिता [सन् 2619 / आप्ज्ञप्यधामीत् / (7-4-55) एषामच ईत्स्यात्सादौ सनि / 2620 / अत्र लोपोऽभ्यासस्य / (7-4-58) 'सनि मीमा-' (सू 2623) इत्यारभ्य यदुक्तं तत्राभ्यासस्य लोपः स्यात् / आप्तुमिच्छति ईप्सति / अर्धितुमिच्छति रपरत्वम् चर्वम् / ईर्ल्सति-अदिधिषति / बिभ्रजिषति-बिभर्जिषति--विभ्रक्षति--बिभर्मति / 2621 / दम्भ इच्च / (7-4-56) दम्भेरच इत्यादीच्च सादौ सनि, अभ्यासलोपः / 'हलन्ताच्च' (सू बाह / आप्शप्यधामीत् // सादौ सनीति // ‘सनि मीमाधुरभ' इत्यतः सनीति अच इति चानुवर्तते / 'सःस्यार्धधातुके' इत्यतः सीत्यनुवृत्तं सनो विशेषणम्। तदादिविधिरिति भावः / अत्र लोपोऽभ्यासस्य // 'सनि मीमा' इति 'आप्ज्ञप्यधामीत्' इति 'दम्भ इच्च' इति 'मुचोऽकर्मकस्य गुणो वा' इति पूर्वसूत्रचतुष्टयलिहितकार्यमत्रेत्यनेन परामृश्यते। तदाह / सनि मीमेत्यारभ्येति // सूत्रचतुष्टयकार्ये कृते सतीत्यर्थः / ईप्सतीति // आफ्धातोस्सनि आकारस्य ईत्त्वे 'अजादेर्द्वितीयस्य' इति प्स इत्यस्य द्वित्वे अभ्यासलोप इति भावः / रपरत्वमिति // ऋधेः सनि इडभावे ऋकारस्य ईत्त्वे रपरत्वमित्यर्थः / चत्वमिति // ई स इति स्थिते धस्य चत्वे 'न न्द्राः' इति रेफ वर्जयित्वा 'अजादेर्द्वितीयस्य' इति त्स इत्यस्य द्वित्वे अभ्यासस्य लोप इति भावः / " पूर्वत्रासिद्धीयमद्वित्वे” इति वचनात् चर्वे कृते द्वित्वमिति बोध्यम् / इटपक्षे आह / आर्दिधिषतीति // सनः सादित्वाभावादित्त्वाभावे गुणे रपरत्वे अर् ध् इ स इति स्थिते धिस् इत्यस्य द्वित्वमिति भावः / भ्रस्ज्धातोः सनः इटि 'भ्रस्जो रोपधयोः' इति रमागमाभावे आह / बिभ्रजिषतीति // सस्य श्चुत्वेन शः शस्य जश्त्वेन जः डिदभावात् 'ग्रहिज्या' इति सम्प्रसारणन्न / बिभर्जिषतीति // इटि रमागमपक्षे भ्रस्ज् इस इति स्थिते अकारादुपरि सकारात्प्राक् रेफागमे भकारानेफस्य सकारस्य च निवृत्तौ भर्ज इस इति स्थिते भ इत्यस्य द्वित्वे हलादिशेषे अभ्यासस्य इत्त्वे जश्त्वे सनः षत्वे च रूपम् / तदेवमिट्पक्षे रमागमतदभावाभ्यां रूपद्वयम् / बिभ्रक्षतीति // इडभावे रमागमाभावे च रूपम् / जस्य कुत्वं सस्य षः। बिभर्खतीति // इडभावे रमागमे च रूपम् / तदेवमिडभावपक्षे रमागमतदभावाभ्यां द्वे रूपे / दम्भ इच्च // 'सनि मीमा' इत्यतः सनीति अच इति चानुवर्तते। चकारात् 'आप्ज्ञप्य॒धाम्' इति सूत्रादीदिति समुच्चीयते। 'स: सि' इत्यतस्सीत्यनुवृत्तं सनो विशेषणं तदादिविधिः / तदाह / दम्भेरच इत्यादि // अभ्यासलोपः इति // 'अत्र लोपः' इत्यनेनेति शेषः / दम्भ स इति स्थिते इक्समीपादनुस्वारादव्यवहितपरत्वाभावेऽपि हलन्तादित्यस्य प्रवृत्तिमुपपादयति / हलन्ताच्चेत्यत्रेति // हलग्रहणं हलत्वजात्याक्रान्तैकानेकव्यक्तिपरमिति प्रागुक्तमित्यर्थः / ततः किमित्यत आह / For Private And Personal Use Only
Page #335
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Acharya Shri ko प्रकरणम्] बालमनोरमा / 2613) इत्यत्र हल्ग्रहणं जातिपरमित्युक्तम् / तेन सन: कित्त्वान्नलोपः / धिप्सति--धीप्सति-दिदम्भिषति / शिश्रीषति--शिश्रयिषति / 'उदोष्ठयपूर्वस्य' (सू 2494) / सुस्वूर्षति--सिस्वरिषति / युयूषति-यियविषति / ऊर्जुनूषति ऊर्जुनुविषति-ऊर्जुनविषति / नच परत्वाद्गुणावादेशयोः सतोरभ्यासे उकारो न येतेति वाच्यम् / द्विवंचनेऽचि' (सू 2243) इति सूत्रेण द्वित्वे कर्तव्ये स्थानिरूपातिदेशादादेशनिषेधाद्वा / नच सन्नन्तस्य द्वित्वं प्रति कार्यित्वान्निमित्तता कथमिति वाच्यम् / “कार्यमनुभवन्हि कार्थी निमित्ततया नाश्रीयते, न तेनेति / धिप्सतीति // “सनीवन्त' इति इडभावे इत्त्वे रूपम् / धीप्सतीति // इडभावे ईत्त्वे च रूपम् / दिदम्भिषतीति // इट्पक्षे सनो झलादित्वाभावादकित्त्वान्नलोपो नेति भावः / शिश्रीषतीति // ‘सनीवन्त' इति इडभावे अज्झनेति दीर्घः / सनः कित्त्वान्न गुणः / इट्पक्षे आह / शिश्रयिषतीति // अझलादित्वान्न कित्त्वं नाप्यज्झनेति दीर्घः / स्वृधातोः सनि ऋकारस्य उत्त्वविधि स्मारयति / उदोष्ट्येति / सुस्वूर्षतीति // सनीवन्तेति इडभावे ऋकारस्य 'अज्झन' इति दीर्घ कृते उत्त्वे रपरत्वे 'उपधायाञ्च' इति दीर्घ इति भावः / सिस्वरिषतीति // स्त्र इत्यस्य द्वित्वे उरदत्वे इत्वमिति भावः / युयुषतीति॥ 'सनीवन्त' इति इडभावे 'अज्झन' इति दीर्घः / यियविषतीति // इट्पक्षे 'द्विर्वचनेऽचि' इति गुणनिषेधात् यु इत्यस्य द्वित्वे 'ओः पुयणजि' इतीत्त्वमिति भाषः / ऊर्जुनूषतीति // 'सनीवन्त' इति इडभावपक्षे 'नन्द्राः' इति रेफं वर्जयित्वा नुस् इत्यस्य द्वित्वे अज्झनेति दीर्घः / 'इको झल्' इति सनः कित्त्वान्न गुणः / इट्पक्षे तु ‘विभाषोर्णोः' इति सनः कित्त्वविकल्पं मत्वा आह / ऊर्णनुविषति-ऊर्जुनविषतीति // विडत्त्वपक्षे गुणाभावान्नुशब्दस्य द्वित्वे उत्तरखण्डे उवङ् / ङित्वाभावपक्षे नु इत्यस्य द्वित्वे उत्तरखण्डस्य गुणावादेशाविति भावः / उभयत्राप्यभ्यासे उवर्णः श्रूयते / ननु किं ङित्त्वाभावपक्षे ऊर्गु इस इति स्थिते द्वित्वात् प्रागेव परत्वात् गुणे अवादेशे च कृते नवशब्दस्य अभ्यासस्यात इत्वे ऊर्णिनविषतीति अभ्यासे इकार एव श्रूयेत, नतु उकार इत्याशङ्कय निराकरोति / द्विर्वचनेऽचीति // अस्मिन् सूत्रे स्थानिवदित्यनुवर्त्य रूपातिदेशं चाश्रित्य द्वित्वनिमित्त अचि परे यः अजादेशः सः द्वित्वे कर्तव्ये स्थानिरूपम्प्रतिपद्यते इत्येकोऽर्थः / 'न पदान्त' इत्यतो नेत्यनुवर्त्य द्वित्वनिमित्ते आचि यो अजादेशः स न स्यात् द्वित्वे कर्तव्ये ३त्यन्योऽर्थः / तत्र प्रथमव्याख्याने तु तस्यापि गुणस्य स्थानिभूतोकाररूपप्रतिपत्त्या नु इत्यस्य द्वित्वे अभ्यासे उकार एव श्रूयते / द्वितीयव्याख्यानेऽपि द्वित्वात् प्राक् गुणस्य निषिद्धतया नुशब्दस्यैव द्वित्वे अभ्यासे उकार एव श्रूयते इति भावः / ननु ऊर्ण इस इति सन्नन्तस्य द्वित्वरूपकार्यभावेन तदन्तर्गतस्य इस इत्यस्यापि कार्यित्वान्न द्वित्वनिमित्तत्वम् / नहि कार्या निमित्ततया आश्रीयते इत्युक्तेः / तथाच द्वित्वे कर्तव्ये द्वित्वनिमित्ताच्परकादेशस्य क्रियमाणो निषेधः कथमिह गुणस्य प्रसज्यते इत्याशय निराकरोति / न च सन्नन्तस्येति // कार्यमनुभवन्निति // अत्र व्याख्यानमेव शरणम् / For Private And Personal Use Only
Page #336
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 334 सिद्धान्तकौमुदीसहिता त्वननुभवन्नपि” (प 11) / न चेह सन् द्वित्वमनुभवति / बुभूपति--बिभरिषति / ज्ञपिः पुगन्तो मित्संज्ञ: पकारान्तश्चौरादिकश्च इडभावे 'इको झल्' (सू 2612) इति कित्त्वान्न गुणः / ‘अज्झन-' (सू 2614) इति दीर्घः / परत्वाण्णिलोपेन बाध्यते / आप्ज्ञप्-' (सू 2619) इति ईत् / ज्ञीप्सतिजिज्ञपयिपति / अमितस्तु जिज्ञापयिषति / 'जनसन-' (सू 2504) इत्यात्वम् / सिषासति-सिसनिषति / तनिपतिदरिद्रातिभ्यः सनो वा इड्डाच्यः' (वा 5059) / 2622 / तनोतेर्विभाषा / (6-4-17) अस्योपधाया दीर्घो वा स्याज्झलादौ सनि / तितांसति-तितंसति-तितन चेह सन्निति // किन्तु नुशब्द इत्यर्थः / बुभूर्षतीति // सनीवन्तेति इडभावपक्षे भृ स इति स्थिते 'अज्झन' इति दीर्घ ‘उदोष्ठ्यपूर्वस्य' इत्युक्त्वे रपरत्वे उत्तरखण्डस्य ‘हलि च' इति दीर्घः / सनः कित्त्वान्न गुण इति भावः / इट्पक्षे आह / बिभरिषतीति // भृ इस इति स्थिते द्वित्वे उरदत्त्वे रपरत्वे हलादिशेषे अभ्यासस्य अत इत्त्वे उत्तरखण्डस्य गुणे रपरत्वमिति भावः / ज्ञपिः पुगन्तो मित्संज्ञक इति ‘सनीवन्त' इति सूत्रे गृह्यत इति शेषः / 'मारणतोषणनिशामनेषु ज्ञा' इति घटादौ ततो हेतुमण्णौ पुकि घटादित्वेन मित्त्वात् उपधाहूस्वे ज्ञपीति ण्यन्तो गृह्यत इत्यर्थः / पकारान्तश्चौरादिकश्चेति // ‘ज्ञपमिच्च' इति यः स्वतः पकारान्तः पठितः चुरादौ न तु पुगन्तः सोऽपि 'सनीवन्त' इति सूत्रे गृह्यते इत्यर्थः / इडभावे इति // उभयविधादपि ण्यन्तात् ज्ञपि इत्यस्मात् सनि इडभावपक्षे णे: परस्य सनः 'इको झल्' इति कित्त्वाण्णेर्गुणो नेत्यर्थः / परत्वादिति // णेर्लोपे सति अचोऽभावान्न दीर्घ इति भावः / तथाच ज्ञीप् इत्यस्य द्वित्वे हलादिशेषे 'अत्र लोपः' इत्यभ्यासलोपे परिनिष्टितमाह / ज्ञीप्सतीति // इट्पक्षे आह / जिज्ञपयिषतीति // अमितस्त्विति // मारणादिव्यतिरिक्तार्थकस्य घाटादिकस्य हेतुमण्ण्यन्तस्य 'ज्ञा नियोगे' इति चौरादिकण्यन्तस्य च मित्त्वाभावेन उपधाहूस्वाभावात् 'सनीवन्त' इत्यत्र ज्ञपिग्रहणेनाग्रहणानित्यमेव इडिति भावः / तदाह / जिज्ञापयिषतीति // सनधातोस्सनि आह / जनसनेत्यात्त्वमिति // नकारस्येति शेषः / सिपासतीति // आत्त्वे कृते सा इत्यस्य द्वित्वे अभ्यासस्य ह्रस्वे अत इत्वे षत्वे रूपम् / नच 'स्तौतिण्योः' एवेति नियमान्न ष इति शङ्कयम् / सनः षत्वे सत्येव तत्प्रवृत्तेः / इडभावे त्वाह / सिसनिपतीति // अत्र ‘जनसन' इत्यात्त्वन्तु न / सनो झलादित्वाभावात् 'स्तौतिण्योः' एवेति नियमान्न ष इति भावः / तनिपतीति // प्राप्तविभाषेयम् / तनोतॆर्विभाषा // उपधाया दीर्घः इति // 'नोपधायाः' इत्यतः ‘ठूलोपे' इत्यतश्च तदनुवर्तते इति भावः / झलादौ सनीति // 'अज्झन' इत्यतस्तदनुवर्तते / तत्र झलादाविति भाष्ये 1 इदं च ' सनीवन्त-' (सू 2618) इति सूत्रे एव ‘भरज्ञपिसनितनिपतिदरिद्राणाम्' इति केचित्पठन्तीति सूत्रशेषभूतमिति काशिका / अपरं वार्तिकमेवेति कैयटाशयः / For Private And Personal Use Only
Page #337
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा / निषति। 'आशङ्कायां सन्वक्तव्यः' (वा 1707) श्वा मुमूर्षति / कूलं पिपतिषति / 2623 / सनि मीमाधुरभलभशकपतपदामच इस् / (7-4-54) एषामच इस्स्यात्सादौ सनि / अभ्यासलोपः / * स्को:-' (सू 380) इति सलोप: / पित्सति / दिदरिद्रिषति-दिदरिद्रासति / 'डु मिञ्' 'मीञ्' आभ्यां सन् / कृतदीर्घस्य मिनोतेरपि मीरुपाविशेषादिस् / ‘स:सि-' (सू 2342) इति तः / मित्सति / मित्सते। 'मा' माने / मित्सति / माङमेडोः / मित्सते / 'दोदाणोः' / दित्सति / देङ्'। दित्सते / 'दाञ्' / दित्सति / दित्सते / “धेट्' / धित्सति / 'धाञ्' धित्सति-धित्सते / रिप्सते / लिप्सते / 'शक्ल' / शिक्षति / 'शक मर्षणे' इति दिवादिः / स्वरितेत् / शिक्षति / शिक्षते / पित्सति / ‘राधो हिंसायां सनीस् वाच्यः' (वा 4635) / रित्सति / ' हिंसायाम् ' किम् / आरिरात्सति / स्थितमिति भावः / आशङ्कायामिति // शङ्काविषयक्रियावृत्तेर्धातोः स्वार्थे सन्नित्यर्थः / श्वा मुमूर्षतीति // शङ्कितमरणो भवतीत्यर्थः / कूलं पिपतिषतीति // शङ्कितपतनम्भवतीत्यर्थः / 'तनिपति' इति इट्पक्ष रूपम् / पतेस्सनि इडभावपक्षे त्वाह / सनि मीमा // सादौ सनीति // 'सः सि' इत्यतः सीत्यनुवृत्तेरिति भावः / अभ्यासलोपः इति / 'अत्र लोपः' इत्यनेनेति भावः / पिस्त् इस ति इति स्थिते आह / स्कोरिति // दरिद्रातेस्सनि 'तनिपति' इति इडिकल्पमुदाहरति / दिदरिद्रिषति-दिदरिद्रासतीति / ड मिअिति॥ 'डु मिञ् प्रक्षेपणे' स्वादिः 'मीञ् हिंसायाम्' क्रयादिः आभ्यां सन्नित्यर्थः / 'सनि मीमा' इत्यत्र मीग्रहणेन एतयोरुभयोर्ग्रहणमिति भावः / ननु मी इति दीर्घश्रवणात् डु मिञ् इत्यस्य हवा. न्तस्य कथङ्ग्रहणमित्यत आह / कृतदीर्घस्येति // डु मिञ्धातोस्सनि 'अज्झन' इति कृतदीर्घस्य तथा ' मीञ् हिंसायाम् ' इति स्वतःसिद्धदीर्घस्य च मीरूपाविशेषादुभयोरपि ग्रहणमित्यर्थः / सः सीति॥ उभयोरपि धात्वोः मी स इति स्थिते ' सनि मीमा' इति इसादेशे द्वित्वे 'अत्र लोपः' इत्यभ्यासलोपे 'सःसि' इति सस्य तकार इत्यर्थः / मित्सति। मित्सते इति // प्रकृते मित्त्वात् 'पूर्ववत्सनः' इति उभयपदित्त्वम् / माङ्मेङोरिति // मेङः सनि 'आदेचः' इत्यात्त्वे कृते मारूपत्वाविशेषात् ‘सनि मीमा' इत्यत्र उभयोरपि ग्रहणमिति भावः / दोदाणोरिति / 'दो अवखण्डने' इति धातोस्सनि आत्त्वे कृते दारूपाविशेषात् घुत्वादुभयोर्ग्रहणमिति भावः / दिसतीति // 'हलन्ताच्च' इति कित्त्वानोपधागुणः / देङिति // तस्यापि कृतात्त्वस्य दारूपत्वेन घुत्वादिति भावः / दामिति // 'डु दाञ् दाने' इति धातुरपि घुत्वात् गृह्यते इति भावः / देङिति // अस्यापि कृतात्त्वस्य घुत्वात् -- सनि मीमा' इत्यत्र ग्रहणमिति भावः / रिप्सते इति ॥रभधातोः रूपम् / लिप्सते इति // लभधातोः रूपम् / पित्सतीति // पलधातोः रूपम् / पदधातोः पित्सते, इति रूपम् / सनि इस् वाच्यः इति // आकारस्येति शेषः / For Private And Personal Use Only
Page #338
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदीसहिता [सन् 2624 / मुचोऽकर्मकस्य गुणो वा / (7-4-57) सादौ सनि / अभ्यासलोपः / मोक्षते-मुमुक्षते वा वत्सः स्वयमेव / ' अकर्मकस्य' किम् / मुमुक्षति वत्सं कृष्णः / न वृद्भ्यश्चतुर्व्यः' (सू 2348) / विवृत्सति / तङि तु विवर्तिषते / ‘सेऽसिचि-' (सू 2506) इति वेट / निनतिषति--निनृत्सति / 2625 / इट् सनि वा / (7-2-41) वृद्धृभ्यामृदन्ताञ्च सन इड्डा स्यात् / तितरिषति-तितरीषति-तितीर्षति / विवरिषति--विवरीषति-वुवर्षति / ' वृङ्' / बुवूर्षते-विवरिषते / दुध्व॒र्षति / 2626 / स्मिपूज्वशां सनि / (7-2-74) 'स्मिङ' ‘पूङ्' 'ऋ' 'अजू' अश्' एभ्यः सन इट् स्यात् / सिस्मयिषते / पिपविषते / अरिरिषति / इह 'रिस्' शब्दस्य द्वित्वम् / रित्सतीति // सनि इसादेशः / 'अत्र लोपः' इत्यभ्यासलोपः / मुचोऽकर्मकस्य // सादौ सनीति // शेषपूरणम् / 'सः सि' इत्यतस्सीति ‘सनि मीमा' इत्यतस्सनीति चानुवृत्तेरिति भावः / 'हलन्ताच्च' इति कित्त्वाद्गुणनिषेधे प्राप्ते वचनम् / अभ्याललोपः इति // 'अत्र लोपः' इत्यनेनेति शेषः / मोक्षते इति // 'अत्र लोपः' इत्यभ्यासलोपः / तङित्विति // 'न वृद्भ्यः' इत्यत्र परस्मैपदग्रहणानुवृत्तेरुक्तत्वादिति भावः / निनृत्सतीति // इडभावपक्षे 'हलन्ताच्च' इति कित्त्वान्न गुण: / इट् सनि वा // 'वृतो वा' इत्यतो वृत इत्यनुवर्तते इति मत्वा आह / वृङ्घभ्यामित्यादि // 'सनि ग्रहगुहोश्च' इत्यस्यापवादः / चिकीर्षतीत्यादौ 'अज्झन' इति दीर्घ कृते सनि नेदं प्रवर्तते / 'एकाच उपदेशे' इत्यतः उपदेशे इत्यनुवर्त्य उपदेशे ऋकारान्तादिति व्याख्यानात् / तितरिषति-तितरीषतीति // तृधातोस्सनि लटि 'वृतो वा' इति दीर्घः / इडभावे त्वाह / तितीर्षतीति // 'इको झल्' इति कित्त्वाद्गुणाभावे तृ इत्यस्य ऋकारस्य इत्त्वे रपरत्वे 'हलि च' इति दीर्घ इति भावः / विवरिषतीति // वृञ्धातोः सनि इटि 'वृतो वा' इति दीर्घविकल्पः / इडभावे त्वाह / वुवूर्षतीति // 'उदोष्ठ्व' इत्युत्त्वे रपरत्वे 'हलि च' इति दीर्घः / वुवर्षते इति // ङित्त्वादात्मनेपदम् / दुव्र्षतीति // 'ध्व कौटिल्ये' 'अज्झन' इति दीर्घः / 'उदोष्ठ्य' इत्युत्त्व 'हलि च' इति दीर्घ इति भावः / स्मिपूङ् // स्मि पूङ् ऋ अञ्जू अश् एषां द्वन्द्वः / ऋकारस्य यणि रेफे रज्विति निर्देशः / इट् स्यादिति // 'इडत्यति' इत्यतस्तदनुबृत्तेरिति भावः / पूजस्तु पुपूषतीत्येव / 'सनि ग्रह' इति इण्णिषेधात् / सिस्मयिषते इति // 'स्तौतिण्योः' एवेति नियमान षः। पिपविषते इति // पूधातोः पूइत्यस्य द्वित्वे 'ओः पुयग्जि' For Private And Personal Use Only
Page #339
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा / 'इस्' इति सनोऽवयवः कार्यभागिति कार्यिणो निमित्तत्वायोगात् / 'द्विर्वचनेऽचि' (सू 2243) इति न प्रवर्तते / अजिजिषति / अशिशिषते / 'उभौ साभ्यासस्य' (2606) / प्राणिणिषति / उच्छेस्तुक / चुत्वम् / 'पूर्वत्रासिद्धीयमद्वित्वे' इति चछाभ्यां सहितस्येटो द्वित्वम् / 'हलादिः शेषः' (सू 2179) उचिच्छिपति / निमित्तापाये नैमित्तिकापाय: इतित्वनित्यम् / 'च्छोः' (सू 2561) इति सतुक्कग्रहणाज्ज्ञापकात्। प्रकृतिप्रत्यापत्तिवचनाद्वा-'। इति इत्त्वम् / अरिरिषतीति // ऋधातोस्सनि इटि रूपम् / रिस्शब्दस्येति // गुणे रपरत्वे 'अजादेर्द्वितीयस्य' इति रिस्इत्यस्य द्वित्वमित्यर्थः / 'ननु द्विवचनेऽचि' इति निषेधाद्गुणासम्भवात् रिस् इत्यस्य कथं द्वित्वमित्यत आह / द्विर्वचनेऽचि इति न प्रवर्तते इति // कुत इत्यत आह / कार्यिणो निमित्तत्वायोगादिति // 'नहि कार्थी निमित्ततया आधीयते' इति निषेधादिडादेः सनो द्वित्वरूपकार्यिणो न द्वित्वनिमित्तत्वमिति भावः। ननु इडागमः सन्भक्तः / ततश्च इस् इत्यस्य द्वित्वेऽपि समुदायस्य इस इत्यस्य द्वित्वकार्यित्वाभावात् द्वित्वनिमित्तत्वमित्यत आह / इस् इतीति // इस् इति सनोऽवयवो द्वित्वभागिति कृत्वा अवयवद्वारा इस इति समुदायस्य कार्यित्वमिति भावः / अञ्जिजिषतीति // अजेस्सनि इटि 'न न्द्राः' इति नकारस्य निषेधात् जिस् इत्यस्य द्वित्वम् / ऊदित्त्वादिडिकल्पे प्राप्ते नित्यमिट / अशिशिषते इति // 'अशू व्याप्तौ' ऊदित्त्वादिदिकल्पे प्राप्ते नित्यमिट् / अश भोजने इति क्रयादिस्तु नित्यं सेडेव / उच्छेरिति // 'उच्छी विवासे' / अत्र 'छे च' इति तुगित्यर्थः / श्चुत्वमिति // तुक इति शेषः / ननु उच्छ् इस इति स्थिते श्चुत्वस्यासिद्धत्वात्तकारसहि. तस्य द्वित्वे अभ्यासे तकारः श्रूयेत इत्यत आह / पूर्वत्रेत्यादि / हलादिः शेषः इति // च्छिस् इत्यस्य द्वित्वे हलादिशेषादभ्यासे छकारसकारयोनिवृत्तौ तुकश्चकारः इकारश्च शिष्यते इत्यर्थः / तदाह / उचिच्छिषतीति // उत्तरखण्डे छकारे परे इकारस्य तुकश्चुत्वेन चकारः / ननु च्छिस् इत्यस्य द्वित्वे हलादिशेषात्पूर्वखण्डे छकारसकारयोनिवृत्तौ " निमित्तापाये नैमित्तिकस्याप्यपायः” इति न्यायेन तुकोऽपि निवृत्तेस्तदादेशचकारस्य कथमभ्यासे श्रवणमित्यत आह / निमित्तापाये इति // कथमनित्यत्वमित्यत आह / च्छोरिति // पृष्टः, पृष्टवानित्यादौ प्रच्छेः चकारस्य ‘च्छोः' इति शकारे व्रश्चादिना शस्य षत्वे तुक्चका. रस्य श्रवणप्राप्तौ तनिवृत्त्यर्थ सतुकग्रहणम् / तत्र चकारस्य शकारे सति निमित्ताभावादेव तुकोऽपि निवृत्तिसिद्धेस्सतुक्कग्रहणं व्यर्थमापद्यमानं 'निमित्तापाये' इत्यस्यानित्यतां ज्ञापयतीत्यर्थः / प्रकृतिप्रत्यापत्तिवचनाद्वेति // 'हनश्च वधः' इति हनधातोरप्प्रत्यये प्रकृते. वधादेशे वधशब्दः। कंसवधमाचष्टे कंसङ्घातयतीत्यादौ 'आख्यानात्कृतस्तदाचष्टे कुल्लुक्प्रकृतिप्रत्यापत्तिः' इति अप्प्रत्ययस्य लुकि प्रकृतेर्वधादेशनिवृत्तिर्विहिता। तत्र कृतो लुकि निमित्तापायादेव वधाद्यादेशनिवृत्तिसिद्धेः प्रकृतिप्रत्यापत्तिवचनं व्यर्थमापद्यमानं 'निमित्तापाये' इत्यस्य अनित्यतां ज्ञापयतीत्यर्थः / यद्यप्यत्र वधशब्दे अप्प्रत्ययः वधादेशश्च युगपद्विहितः, नतु प्रत्यये परे / 43 For Private And Personal Use Only
Page #340
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 338 सिद्धान्तकौमुदीसहिता [सन् " णौ च संश्चङोः' (सू 2579) (सू 2601) इति सूत्राभ्यामिङो गाङ , श्वयतेः सम्प्रसारणं च वा / अधिजिगापयिषति-अध्यापिपयिषति / शिश्वाययिषति-शुशावयिषति / ‘ह्वः सम्प्रसारणम्' (सू 2586) / जुहावयिषति / ‘णौ द्वित्वात्प्रागच आदेशो न' इत्युक्तत्वादुकारस्य द्वित्वम् / पुस्फारयिषति / चुक्षावयिषति / ‘ओ: पुयज्यपरे' (2577) / पिपावयिषति / यियावयिषति / बिभावयिषति / रिरावयिषति / लिलावयिषति / जिजावयिषति / 'पुयण्जि' तथापि सन्नियोगशिष्टत्वात् प्रत्ययस्य निमित्तत्वं पर्यवसानगत्येति बोध्यम् / वस्तुतस्तु पुष्ययोगं जानाति पुष्येण योजयतीत्येतत्साधके पुष्ययोगेति वचने भाष्योक्तप्रकृतिप्रत्यापत्तिरित्यनुवृत्तिरिह ज्ञापिका / तत्र हि 'चजोः' इति घिति परतः कुत्वम् / अन्यथा कल्लुकि निमित्तापायपरिभाषयैव कुत्वनिवृत्तौ किं प्रकृतिप्रत्यापत्त्यनुवृत्त्येति शब्देन्दुशेखरे विस्तरः / अथ 'इङ् अध्ययने' 'टु ओ श्वि गतिवृद्ध्योः' इत्याभ्यां ण्यन्ताभ्यां सनि विशेषमाह / णौ चेति // ‘णौ च संश्चङोः' इति सूत्रं द्वितीयस्य चतुर्थे पादे षष्ठस्य प्रथमे पादे च स्थितम् / सन्परे चपरे च णौ इङो गाङ्केति प्रथमस्यार्थः। सन्परे चपरे च णौ श्वयतेः सम्प्रसारणं वेति द्वितीयस्यार्थः। प्रथमसूत्रेण इडो गाङ, द्वितीयसूत्रेण श्वयतेस्सम्प्रसारणमित्युभयमपि पाक्षिकं भवतीत्यर्थः। अधिजिगापयिषतीति // इडो णौ विवक्षिते गाडि पुकि गापि इत्यस्मात्सनि रूपम् / ‘णौ च संश्चडोः' इति गाविधौ विषयसप्तमीति प्रागेवोक्तम् / गाङभावे आह / अध्यापिपयिषतीति // 'क्रीजीनां णौ' इत्यात्त्वे पुक् / शिश्वाययिषतीति // विधातोर्णी वृद्धावायादेशे श्वायि इत्यस्मात्सनि सम्प्रसारणाभावे रूपम् / सम्प्रसारणपक्षे आह / शुशावयिषतीति // ण्यन्तात्सनि इटि श्वि इ इस इति स्थिते " सम्प्रसारणन्तदाश्रयञ्च कार्यम्बलवत्" इति वचनात्प्रथम सम्प्रसारणं पूर्वरूपम् / शु इत्यस्य द्वित्वे उत्तरखण्डे उकारस्य वृद्धावावादेशे णिचो गुणायादेशाविति भावः / ह्वः सम्प्रसारणमिति // हेतुमण्ण्यन्तप्रक्रियायां व्याख्यातम् / जुहावयिषतीति // हेलो ण्यन्तात्सनि इटि प्रथमं सम्प्रसारणं पूर्वरूपम् / हु इत्यस्य द्वित्वम् / उकारस्य वृद्ध्यावादेशौ णिचो गुणायादेशाविति भावः। ननु परत्वात् द्वित्वात् प्रागेव उकारस्य वृद्ध्यावादेशयोः कृतयोः हाव् इत्यस्य द्वित्वे अभ्यासस्यात इत्त्वे इकार एव श्रूयेतेत्यत आह / णौ द्वित्वादिति॥पुस्फारयिषतीति // स्फुरते: ण्यन्तात्सनि इटि 'चिस्फुरोणौँ' इत्यस्मात् प्रागेव स्फुर् इत्यस्य द्वित्वम् / द्वित्वे कार्ये णावच आदेशस्य निषेधात् / 'ओः पुयण्जि' इति इत्त्वन्तु न / फकारस्य सकारेण व्यवहिततया पवर्गपरत्वाभावात् / चुक्षावयिषतीति // क्षुधातोः ण्यन्तात् सनि इटि क्षु इत्यस्य द्वित्वम् / परिनिष्ठिते रूपे अवर्णपरत्वेन णावच आदेशस्य निषेधादिति भावः / ओः पुयणिति // हेतुमण्णिच्प्रक्रियायामिदं व्याख्यातमपि स्मार्यते / पिपावयिषतीत्यादि // पू भू यु रु लू जु एभ्यो ण्यन्तेभ्यः सनि इटि द्वित्वे कार्ये णावच आदेशनिषेधात् उवर्णान्तानामेव द्वित्वे अभ्यासोवर्णस्य इत्त्वमिति भावः / जुः सौत्रो धातुः / ‘जुचकम्य' इत्यत्रोक्तः / अथ ‘स्रवतिशृणोति' इति सूत्रं हेतुमुण्णिच्प्रक्रियायां व्याख्यातं For Private And Personal Use Only
Page #341
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा / इति किम् / नुनावयिषति / 'अपरे' किम् / बुभूषति / स्रवति-' (2578) इतीत्त्वं वा / सिस्रावयिषति / सुस्रावयिषतीत्यादि / 'अपरे' इत्येव / शुश्रूषते / 2627 / स्तौतिण्योरेव षण्यभ्यासात् / (8-3-61) अभ्यासेण: परस्य स्तौतिण्यन्तयोरेव सस्य ष: स्यात्षभूते सनि नान्यत्र / तुष्टूपति / 'द्युतिस्वाप्यो:-' (सू 2344) इत्युत्त्वम् / सुष्वापयिषति / सिषाधयिषति / 'स्तौतिण्योः' किम् / सिसिक्षति / उपसर्गात्तु 'स्थादिष्वभ्यासेन च-' (सू 2277) इति षत्वम् / परिषिषिक्षति / 'पणि' किम् / स्मारयति / स्रवतीतीत्त्वं वेति // शुश्रूषते इति // ‘ज्ञाश्रुस्मृदृशां सनः' इत्यात्मनेपदम् / स्तौतिण्योरेव // षणीति कृतषत्वस्य सनो ग्रहणम् / ‘अपदान्तस्य मूर्धन्यः' इत्यधिकृतम् ‘इएकोः' इति च / तत्र कुग्रहणनिवर्तते असम्भवात् / णिग्रहणेन तदन्तग्रहणम् / 'सहे: साढः सः' इत्यतः स इति षष्ठ्यन्तमनुवर्तते / तदाह / अभ्यासेणः इत्यादि / षभूते इति // षकारं प्राप्ते सनीत्यर्थः / नान्यत्वेति // अभ्यासेणः परस्य चेत्सस्य षत्वं तर्हि स्तौतिण्यन्तयोरेवेत्यर्थः / नच 'आदेशप्रत्यययोः' इत्येव सिद्ध आरम्भसामर्थ्यादेव नियमलाभात् एवकारो व्यर्थ इति शङ्कयम् / षण्येवेति नियमनिरसनार्थत्वात् / षण्येवेति नियमे सति तुष्टावेत्यत्र पत्वानापत्तेः / स्तौतेरुदाहरति / तुष्ट्रपतीति // 'अज्झन' इति दीर्घः / ण्यन्तस्योदाहरिष्यन्नाह / द्युतीति // उत्त्वमिति // वकारस्य सम्प्रसारणमुकार इत्यर्थः / सुष्वापयिषतीति // स्वपेरें उपधावृद्धौ स्वापि इत्यस्मात् सनि इटि वकारस्य सम्प्रसारणे पूर्वरूपे सुप् इत्यस्य द्वित्वे णेर्गुणे अयादेशे सनः षत्वे अभ्यासेणः परस्य षत्वमिति भावः। सिषाधयिषतीति // अत्रापि ण्यन्तत्वादभ्यासेणः परस्य सस्य षत्वमिति भावः / सिसिक्षतीति // सेक्तुमिच्छतीत्यर्थः / सिन्धातोः सन् ‘हलन्ताच्च' इति कित्त्वान्न लघूपधगुणः / अभ्यासेणः परस्य सस्य चेत् षत्वं तर्हि 'स्तौतिण्योः' एवेति नियमान्न ष इति भावः / ननु परिषिषिक्षतीत्यत्र अभ्यासेण: परस्य सस्य कथं षत्वं 'स्तौतिण्योः' एवेति नियमात् 'स्थादिष्वभ्यासेन च' इति षत्वस्याप्यनेन नियमेन निवृत्तेरित्यत आह / उपसर्गात्त्विति // 'स्तौतिण्योरेव' इति नियमेन मध्येऽपवादन्यायबलात् 'आदेशप्रत्यययोः' इति षत्वमेव बाध्यत इति भावः / षणि किमिति // कृतषत्वनिर्देशः किमर्थ इति प्रश्नः / तिष्ठासतीति // 'धात्वादेः' इति षस्य सत्त्वे स्था इत्यस्य द्वित्वे अभ्यासहस्वे इत्त्वे 'आदेशप्रत्यययोः' इति षत्वम् / कृतषत्वे सन्येवायं नियमः / अत्र तु सनः षत्वाभावेन नियमाप्रवृत्तेः षत्वं निर्बाधमिति भावः / सुषुप्सतीति // स्वप्धातोः सनि ‘रुदविदमुषग्रहिस्वपि' इति कित्त्वात् ‘वचिस्वपि' इति सम्प्रसारणे कृते द्वित्वम् / कित्त्वान्न लघूपधगुणः / इहापि 'स्तौतिण्योः' एवेति नियमो न भवति / सनषत्वाभावादिति भावः / ननु षणि इणः परस्य सस्य चेत् षत्वं तर्हि 'स्तौतिण्योः' एवेत्येतावदेवास्तु / अभ्यासादिति किमर्थमित्यत आह / For Private And Personal Use Only
Page #342
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 340 सिद्धान्तकौमुदीसहिता [सन् तिष्ठासति / सुषुप्सति / अभ्यासादित्युक्तेर्नेह निषेधः / इण् / प्रतीषिषति / इक् / अधीषिषति / 2628 / सः स्विदिस्वदिसहीनां च / (8-3-62) अभ्यासेण: परस्य ण्यन्तानामेषां सस्य स एव न षः षणि परे / सिस्वेदयिषति-सिस्वादयिषति / सिसाहयिषति / 'स्थादिष्वेवाभ्यासस्य' इति नियमान्नेह / अभिसुसूषति / 'शैषिकान्मतुबर्थीयाच्छैषिको मतुबर्थिकः / सरूपप्रत्ययो नेष्टः सन्नन्तान्न सनिष्यते // ' (भाष्यम् ) शैषिकाच्छैषिक: सरूपो न / तेन शालीये भव इति वाक्यमेव, न तु छान्ताच्छः / ‘सरूप:' किम् / अहिच्छत्वे भव आहिच्छत्रः / आहिच्छत्त्रे भव आहिच्छत्तीयः / अण्णन्ताच्छः / तथा मत्वर्थात्सरूपः स न / धनवानस्यास्ति / इह मतुबन्तान्मतुब्न / विरूपस्तु स्यादेव / दण्डिमती शाला / ‘सरूप:' अभ्यासादित्युक्तेनेहेति // प्रतीषिषतीति // इण्धातोस्सनि 'अजादेर्द्वितीयस्य' इति स इत्यस्य द्वित्वे अभ्यासेत्त्वम् / इह षभूते सनि 'इण् गतौ' इति धातोः परस्य सस्य षत्वं भवत्येव / अभ्यासेणः परत्वे सत्येव नियमप्रवृत्तेरिति भावः / अधीषिषतीत्यप्येवम् / सः स्विदि // सः स्विदीति छेदः / ‘स्तौतिण्योरेव षण्यभ्यासात्' इति सूत्रं स्तौतिवर्जमनुवतते। 'सहेः साढः सः' इत्यतस्स इति षष्ठ्यन्तञ्च / तदाह / अभ्यासेणः इति // सकारविधिनियमार्थः इत्याह / सस्य स एवेति // सुनोतेस्सनि 'स्तौतिण्योः' एवेति नियमादुत्तरखण्डस्य षत्वाभावे अभिसुसूषतीत्यत्र 'उपसर्गात्सुनोति' इत्यभ्यासस्य षत्वमाशङ्कय आह / स्थादिष्वेवेति // शैषिकादिति // सन्विधायकसूत्रस्थमिदं वार्तिकम् / शैषिकात्सरूपः शैषिक: प्रत्ययो न / मतुबर्थीयात् सरूपो मतुबर्थिकः प्रत्ययो नेत्यन्वयः / शेषाधिकारे विहितः शैषिकः / भवार्थे अध्यात्मादित्वाञ् / मतुबर्थे भवो मतुबर्थीयः गहादित्वाच्छः / मतु. वर्थोऽस्यास्तीति मतुबर्थिकः / 'अत इनिठनौ' इति ठन् / शालीये इति // शालायां भवः शालीयः / 'वृद्धाच्छ:' शालीये भव इत्यर्थे शालीयशब्दात् पुनः छो नेत्यर्थः / आहिच्छत्त्रे भवः इति // आहिच्छत्तशब्दो भवार्थे अणन्तः / ततो भवार्थे 'वृद्धाच्छः' इति छ एव भवति / नतु पुनराणति भावः / ननु जुगुप्सिषते इत्यादौ कथं सन्नन्तात् सनित्यत आह / सरूपः इत्यनुषज्यते इति // सन्नन्तान्न सनिष्यते इत्यत्रापि सरूप इत्यनुषज्यते इत्यर्थः / नन्वेव For Private And Personal Use Only
Page #343
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा / 341 इत्यनुषज्यते / अर्थद्वारा सादृश्यं तस्यार्थः / तेन इच्छासन्नन्तात्सन्न / स्वार्थसन्नन्तात्तु स्यादेव / जुगुप्सिपते / मीमांसिषते / इति तिङन्तसन्प्रकरणम् / / श्रीरस्तु। // अथ तिङन्तयप्रकरणम् // 2629 / धातोरेकाचो हलादेः क्रियासमभिहारे यङ् / (3-1-22) पौन:पुन्यं भृशार्थश्च क्रियासमभिहार: तस्मिन्द्योत्ये यङ् स्यात् / 2630 / गुणो यङ्लुकोः / (7-4-82) अभ्यासस्य गुणः स्याद्यङि यङ्लुकि च / 'सनाद्यन्ता:-' (सू 2604) इति धातुत्वालडादयः / ङिदन्तत्वादात्मनेपदम् / पुनः पुनरतिशयेन वा भवति बोभूयते / बोभूयांचक्रे / अबोभूयिष्ट / 'धातो:' किम् / मपि जुगुप्सिषते इत्यत्र सरूपस्य सनः कथं प्रवृत्तिरित्यत आह / अर्थद्वारेति // शब्दस्व' रूपतो वैरूप्यस्य सम्भवादर्थद्वारकमेव सारूप्यं विवक्षितमिति भावः / तेनेति // इच्छासन्नन्तादिच्छासन्नेति लभ्यते इत्यर्थः / स्वार्थेति // स्वार्थसन्नन्तात्तु इच्छासन् भवत्येवेत्यर्थः // इति श्रीवासुदेवदीक्षितविदुषा विरचितायां सिद्धान्तकौमुदीव्याख्यायां बालमनोरमायां सन्नन्तनिरूपणं समाप्तम् / अथ यझक्रियाः निरूप्यन्ते।धातोरेकाचो।तस्मिन्धोत्ये इति // वाच्यत्वे तु प्रत्ययवाच्यस्य प्रधानतया सन्नन्ते इच्छाया इव तस्य विशेष्यत्वं स्यादिति भावः / गुणो यङ्लुकोः॥ यङ् च लुक्च इति द्वन्द्वात् सप्तमी / लुगिह यङ एव विवक्षितः उपस्थितत्वात् / 'अत्र लोपः' इत्यतः अभ्यासस्येत्यनुवर्तते। तदाह / अभ्यासस्येति // इक्परिभाषया इगन्तस्येति लभ्यते / बोभू. यते इति // ‘सन्यङोः' इति द्वित्वम् / यङो द्वित्वादूकारस्य न गुणः / बोभूय इत्यस्मालटि तिपि शपि पररूपम् / 'क्रियासमभिहारे द्वे वाच्ये' इति पुनर्द्वित्वन्तु न / तस्य 'क्रियासमाभ For Private And Personal Use Only
Page #344
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobalith org www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 342 सिद्धान्तकौमुदीसहिता [यङ् आर्धधातुकत्वं यथा स्यात् / तेन 'ब्रुवो वचिः' (सू 2453) इत्यादि / 'एकाच:' किम् / पुन:पुनर्जागति / 'हलादेः' किम् / भृशमीक्षते / भृशं शोभते रोचते इत्यत्र यङ नेति भाष्यम् / पौन:पुन्ये तु स्यादेव / रोरुच्यते / शोशुभ्यते / 'सूचिसूत्रिमूत्र्यट्यर्त्यपूर्णोतिभ्यो यङ् वाच्यः' (वा 1751) / आद्यास्त्रयश्चुरादावदन्ताः / सोसूच्यते / सोसूत्र्यते / अनेकाच्कत्वेनाषोपदेशत्वात्पत्वं न / मोमूत्र्यते / 2631 / यस्य हलः / (6-4-49) -- यस्य' इति सङ्घातग्रहणम् / हल: परस्य यशब्दस्य लोप: स्यादा हारे' इति विहितलोडन्तमात्रविषयत्वात् / अत एव ‘क्रियासमभिहारे लोट् ' इति सूत्रभाष्ये " क्रियासमभिहारे लोण्मद्ध्यमपुरुषैकवचनस्य द्वे वाच्ये” इत्येव पठितम् / पौनःपुन्ये यङि तु 'नित्यवीप्सयोः' इति न द्वित्वम् / ‘क्रियासमभिहारे द्वे' इत्यनेन पौनःपुन्येऽपि लोडन्तद्वित्वविधानेन पौनःपुन्यस्य अन्यतो लाभे सौत्रद्वित्वाप्रवृत्तेपिनादित्यलम् / धातोः किमिति // ‘क्रियासमभिहारे' इत्यनेनैव धातो भात्किमर्थ धातुग्रहणमिति प्रश्नः / आर्धधातुकत्वमिति // धातोरित्यभावे आर्धधातुकत्वन्न स्यात् / धातोरिति विहितप्रत्ययस्यैव आर्धधातुकत्वादिति भावः / ब्रुवः इति // यङः आर्धधातुकत्वे सत्येव तस्मिन् परे 'ब्रुवो वचिः' 'वेत्रो वयिः' इत्यादि कार्य सिद्ध्यति / अन्यथा ‘आर्धधातुके' इत्यधिकृत्य तद्विधानान स्यादिति भावः / भृशमीक्षते इति // नच भृशशब्देनैवात्र भृशार्थभानात् यङ् न भविष्यतीति वाच्यम् / भृशत्वं हि यद्योत्यम् , नतु वाच्यम् / द्योतनञ्च उक्तस्यापि सम्भवतीति भावः / यङ् नेति // अनभिधानादिति भाष्ये स्पष्टम् / पौनःपुन्ये त्विति // पुनःपुनश्शब्दसमभिहारेऽपि यङस्त्येव / भृशार्थ एवानभिधानोक्तेरिति भावः / सूचिसूत्रीति // सूचि सूत्रि मूत्रि अटि अति अशू ऊर्णोति एषान्द्वन्द्वः / ‘सूच पैशुन्ये, सूत्र वेष्टने, मूत्र प्रस्रवणे' एते त्रयश्चुराद्यन्तर्गणे कथादावदन्ताः / तेषामनेकाच्त्वादप्राप्तौ यङ्वचनमित्याह / आद्यास्त्रयः इति // ‘अट गती , ऋ गतौ , अश भोजने , अशू व्याप्तौ' एषां हलादित्वाभावाद्वचनम् / ऊर्गुञस्तु हलादित्वाभावादेकाच्त्वाभावाच्च वचनम् / सोसूच्यते इति / / ण्यन्ताद्यङि णिलोपे द्वित्वे 'गुणो यङलुकोः' इति अभ्यासगुणः / सूचेः षोपदेशत्वभ्रमं वारयति / अनेकाच्कत्वेनेति // षोपदेशत्वे तु 'धात्वादेः' इति षस्य सत्वे कृते आदेशसकारत्वादुत्तरखण्डस्य षत्वं स्यादिति भावः / लिटि सोसूचि आमिति स्थिते / यस्य हलः // यकारादकारस्य उच्चारणार्थत्वभ्रमं वारयति / सङ्घातग्रहणमिति // यकाराकारसमुदायस्येत्यर्थः / हलः इति पञ्चमी / 'आर्धधातुके' इत्यधिकृतम् / 'अतो लोपः' इत्यस्मात् लोप इत्यनुवर्तते / तदाह / हलः परस्येत्यादिना / / ननु 'अलोऽन्त्यस्य' इति यकारादकारस्य लोपः स्यादित्यत आह / For Private And Personal Use Only
Page #345
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा / र्धधातुके / ‘आदेः परस्य' (सू 44) / अतो लोपः' (सू 2608) / सोसूचांचक्रे / सोसूचिता / सोसूविता / मोमूत्रिता / ___ 2632 / दीर्घोऽकितः / (7-4-83) अकितोऽभ्यासस्य दीर्घः स्याद्यङि यङ्लुकि च / अटाट्यते / 2633 / यङि च / (7-4-30) / अर्तेः संयोगादेश्च ऋतो गुणः स्याद्यङि यङ्लुकि च / यकारपररेफस्य न द्वित्वनिषेधः / 'अरार्यते' इति भाष्योदाहणात् / अरारिता / अशाशिता / ऊर्णोनूयते / बेभिद्यते / अल्लोपस्य स्थानिवत्त्वान्नोपधागुणः / बेभिदिता / 2634 / नित्यं कौटिल्ये गतौ / (3-1-23) गत्यर्थात्कौटिल्य एव यङ् स्यान्न तु क्रियासमभिहारे। कुटिलं ब्रजति वाव्रज्यते। आदेः परस्ये ते // 'अलोऽन्त्यस्य ' इत्यस्यायमपवाद इति भावः / अतो लोपः इति // यकाराकारसङ्घाते यकारस्य लोपे सति परिशिष्टस्याकारस्य 'अतो लोपः' इत्यर्थः। ननु मास्तु सङ्घातग्रहणम् / यकारस्यैवान लोपो विधीयताम् / अतो लोपे सति इष्टसिद्धिरिति चेन्न / ईय॒धातोस्तृचि इटि ईयितेत्यत्र यकारलोपनिवृत्त्यर्थत्वादित्यलम् / अटधातोः यङि 'अजादेर्द्वितीयस्य' इति ट्य इत्यस्य द्वित्वे हलादिशेषेण अभ्यासे यकारनिवृत्तौ अटट्यते इति स्थिते / दीर्घोऽकितः // अभ्यासस्येति // 'अत्र लोपोऽभ्यासस्य' इत्यतस्तदनुवृत्तेरिति भावः / यङि यङ्लुकि चेति // ‘गुणो यङ्लुकोः' इत्यतस्तदनुवृत्तेरिति भावः / अकित इत्यस्य तु यंयम्यते इत्यादी प्रयोजनं वक्ष्यते / ऋधातोर्यङि कृते ङित्त्वाद्गुणनिषेधे प्राप्ते / यङि च // ‘गुणोऽर्तिसंयोगाद्योः' इति सूत्रमनुवर्तते / 'रीङ् ऋतः' इत्यस्मात् ऋत इति च / तदाह / अतरित्यादि / तथाच ऋ य इति स्थिते ऋकारस्य गुणे अकारे रपरत्वे अर् य इति स्थिते 'न न्द्राः' इति रेफस्य द्वित्वनिषेधे य इत्यस्य द्वित्वे 'दीर्घोऽकितः' इत्यभ्यासदीर्घ अर्यायते इति प्राप्ते आह / यकारपररेफस्येति॥भाष्योदाहरणादिति // 'धातोरेकाचः' इति सूत्रे इति शेषः। अरारितेति // ' यस्य हलः' इति यकारलोपः / अशाशितेति // अशधातोर्यङि श्य इत्यस्य द्वित्वे हलादिशेषेण अभ्यासे यकारनिवृत्तौ 'दीर्घोऽकितः' इति दीर्घ 'यस्य हलः' इति यकारलोपः। ऊोनूयते इति // ऊर्ण य इति स्थिते 'नन्द्राः' इति नु इत्यस्य द्वित्वे हलादिशेषे अभ्यासदीर्घः। बेभिद्यते इति // भिद् य इति स्थिते भिद् इत्यस्य द्वित्वे हलादिशेषे अभ्यासगुणः / ननु बेभिद्य इति यङन्ताल्लुटि तासि इटि यलोपे अतो लोपे बेभिदितेत्यत्र तासि परे लघूपधगुण: स्यादित्यत आह / अल्लोपस्य स्थानिवत्त्वादिति // नित्यं कौटिल्ये गतौ // नित्यशब्दः एवार्थे / कौटिल्ये इत्यस्योपरि द्रष्टव्यः / 'धातोरेकाचः' इत्यतो यङित्यनुवर्तते / तदाह / गत्यर्थात्कौटिल्य एवेति // गत्यर्थवृत्तेर्धातोः, For Private And Personal Use Only
Page #346
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 344 सिद्धान्तकौमुदीसहिता 2635 / लुपसदचरजपजभदहदशगृभ्यो भावगर्हायाम् / (3-1-24) एभ्यो धात्वर्थगीयामेव यङ् स्यात् / गर्हितं लुम्पति लोलुप्यते / सासद्यते / 2636 / चरफलोश्च / (7-4-87) अनयोरभ्यासस्यातो नुक् स्याद्ययङ्लुकोः / 'नुक्' इत्यनेनानुस्वारो लक्ष्यते / स च पदान्तवद्वाच्यः' (वा 4661) वा पदान्तस्य' (सू 125) इति यथा स्यात् / 2637 / उत्परस्यातः / (7-4-88) चरफलोरभ्यासात्परस्यात उत्स्याद्यब्यङ्लुकोः / ‘हलि च' (सू 654) इति दीर्घः / चञ्चूर्यते-चंचूर्यते / पम्फुल्यते-पंफुल्यते / 2638 / जपजभदहदशभञ्जपशां च / (7-4-86) / कौटिल्ये द्योत्य एव यडित्यर्थः / एवशब्दस्य व्यवच्छेद्यमाह / न तु क्रियासमभिहारे इति // शब्देन्दुशेखरे तु गत्यर्थेभ्यः क्रियासमभिहारे यङस्त्येवेति प्रपञ्चितम् / लुपसद // लुप सद चर जप जभ दह दश गृ एषान्द्वन्द्वः / यङित्यनुवर्तते। भावः धात्वर्थः / तद्गता गर्दा भावगी। नित्यमित्यनुवृत्तम् एवकारार्थकम्। तदाह / एभ्यः इत्यादि॥ चरफलोश्च // 'अत्र लोपः' इत्यस्मादभ्यासस्येत्यनुवर्तते / 'नुगतोऽनुनासिकान्तस्य' इत्यस्मात् अतो नुगिति / 'गुणो यङ्लुकोः' इत्यस्मात् यङ्लुकोरिति च तदाह / अनयोरित्यादि // नुकि ककार इत् उकार उच्चारणार्थः / लक्ष्यते इति // 'नुगतोऽनुनासिकान्तस्य' इति पूर्वसूत्रे ययम्यते, रंरम्यते, इत्यादी अनुस्वारश्रवणार्थं नुगित्यनुस्वारोपलक्षणमाश्रयणीयम् / अन्यथा झल्परत्वाभावात् 'नश्च' इत्यनुस्वारासम्भवानकार एव श्रूयेतेत्युक्तं भाष्ये / तस्यैवेहानुवृत्तेरनुस्वारोपलक्षणार्थत्वमिति भावः / पदान्तवदिति // 'नुगतोऽनुनासिकान्तस्य' इति पूर्वसूत्रस्थमिदं वार्तिकमत्राप्यनुवर्तते इति भावः / उत्परस्यातः // 'अत्र लोपः' इत्यस्मादभ्यासस्येत्यनुवृत्तं परशब्दयोगात् पञ्चम्या विपरिणम्यते / 'गुणो यङ्लुकोः' इत्यतः यङ्लुकोरिति 'चरफलोः' इति चानुवर्तते / तदाह / चरफलोरित्यादि / दीर्घः इति // उकारस्येति शेषः / चञ्चूर्यते इति // गर्हितञ्चरतीत्यर्थः / यङि द्वित्वे हलादिशेषे अभ्यासाकारादुपरि अनुस्वारागमे 'वा पदान्तस्य' इति तस्य परसवर्णे अकारे उत्तरखण्डे अकारस्य उत्त्वे तस्य दीर्घः / परसवर्णाभावपक्षे त्वाह / चंचूर्यते इति // पम्फुल्यते इति // अत्र अनुस्वारस्य मकारः परसवर्णः / जपजभ // 'चरफलोश्च' इत्यत्र यदनुवृत्तं तत्सर्वमिहाप्यनुवर्तते / तदाह। For Private And Personal Use Only
Page #347
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा / 345 एषामभ्यासस्य नुक स्याद्यङ्यङ्लुकोः / गर्हितं जपति ज अप्यते इत्यादि / 2639 / यो यङि / (8-2-20) गिरतेः रेफस्य लत्वं स्याद्यङि / गहितं गिलति जेगिल्यते / 'घुमास्था-' (सू 2462) / इतीत्त्वम् / गुणः / देदीयते / पेपीयते / सेषीयते / विभाषा श्वेः' (सू 2420) / शोशूयते / शेश्वीयते / 'यङि च' (सू 2633) / सास्मयते / ‘रीकृतः' (सू 1234) / चेक्रीयते / सुट / सञ्चस्क्रीयते / 2640 / सिचो यङि / (8-3-112) सिच: सस्य षो न स्याद्यङि / निसेसिच्यते / __2641 / न कवतेयङि / (7-4-63) कवतेरभ्यासस्य चुत्वं न स्याद्यङि / कोकूयते / कौतिकुवत्योस्तु चोकूयते / एषामिति // इत्यादीति // जलभ्यते / दन्दह्यते / दन्दश्यते / बम्भज्यते / पसधातुर्दन्त्यान्तः सौत्रो गत्यर्थ इति माधवः / तालव्यान्त इति काशिका / यो यङि // गृ इत्यस्य ग्रः इति षष्ठ्यकवचनम् / 'कृपो रो लः' इत्यतः रो ल: इत्यनुवर्तते / तदाह / गिरतेरित्यादि // दा पा स्था एभ्यो यङि विशेषमाह / घुमास्थेत्यादि // शोशूयते इति // विधातोर्यङि 'सम्प्रसारणन्तदाश्रयञ्च कार्यम्बलवत्' इति वचनात् सम्प्रसारणे पूर्वरूपे शु इत्यस्य द्वित्वम् ‘अकृत्सार्वधातुकयोः' इति दीर्घः। सास्मयते इति // स्मृ य इति स्थिते संयोगादित्वात् 'यङि च' इति परत्वाद्गुणे रपरत्वे द्वित्वे 'दीर्घोऽकितः' इत्यभ्यासदीर्घः / चेक्रीयते इति // कृ य इति स्थिते परत्वात् ऋकारस्य रीडादेशे की इत्यस्य द्वित्वे अभ्यासगुणः / सुडिति // 'संपरिभ्यां करोती भूषणे' 'समवाये च' इत्यनेनेति शेषः। सिचो यङि / 'सहेः साडः सः' इत्यतस्स इति षष्ठ्यन्तमनुवर्तते। 'मूर्धन्यः' इत्याधिकृतं 'नरपरसृपि' इत्यतः नेत्यनुवर्तते / तदाह / सिचः इति / निसेसिच्यते इति // 'उपसर्गात्सुनोति' इति 'स्थादिष्वभ्यासेन' इति च षत्वमनेन निषिध्यते / न कवतेर्यङि / 'अत्र लोपः' इत्यतः अभ्यासस्येति 'कुहोश्चुः' इत्यतः चुरिति चानुवर्तते इति मत्वा आह / कवतेरभ्यासस्येति // ननु कोर्यङि इत्येव सिद्धे श्तिपा निर्देशो व्यर्थ इत्यत आह / कौतिकुवत्योस्त्विति // शपा निर्देशार्थ कवतिग्रहणम् / तेन ‘कु शब्दे' इति लुग्विकरणस्य 'कुद् शब्दे' इति शविकरणस्य च ग्रहणन्न लभ्यते इति भावः / नच कोरित्युक्तेऽपि दीर्घान्तस्य शवि. करणस्य न ग्रहणप्रसक्तिरिति शङ्कयम् / तुदादौ 'कुङ् शब्दे' इति इस्वान्तपाठस्य न्यास For Private And Personal Use Only
Page #348
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदीसहिता [यङ 2642 / नीग्वञ्चुलंसुध्वंसुभ्रंसुकसपतपदस्कन्दाम् / (7-4-84) एषामभ्यासस्य नीगागमः स्याद्यब्यङ्लुकोः / 'अकित:' इत्युक्तेन दीर्घः / नलोपः / वनीवच्यते / सनीस्रस्यते इत्यादि / 2646 / नुगतोऽनुनासिकान्तस्य / (7-4-85) अनुनासिकान्तस्याङ्गस्य योऽभ्यासोऽदन्तस्तस्य नुक् स्यात् / नुका अनुस्वारो लक्ष्यते इत्युक्तम्। यय्यम्यते-यंयम्यते। तपरत्वसामर्थ्याद्भूतपूर्वदीर्घस्यापि न / 'भाम' क्रोधे / बाभाम्यते / 'ये विभाषा' (2319) / जाजायते-जञ्जन्यते / 'हन्तेहिसायां यङि नीभावो वाच्यः' (वा 4621) / जेन्नीयते / 'हिंसायां' किम् / जङ्घन्यते / 2644 / रीगृदुपधस्य च / (7-4-90) ऋदुपधस्य धातोरभ्यासस्य रीगागमः स्याद्यब्यङ्लुकोः / वरीवृत्यते / सम्मतत्वात् / वस्तुतस्तु न्याससम्मते तौतादिकस्याप्रवृत्तिरेव फलम् / " लुग्विकरणालुग्विकरणयोरलुग्विकरणस्यैव ग्रहणम्” इति लुग्विकरणस्य ग्रहणनिवृत्तिरिति बोध्यम् / नीग्वञ्चु // अभ्यासस्येति // 'अत्र लोपः' इत्यतस्तदनुवृत्तरिति भावः / यङ्लुकोरिति // यडि यङ्लुकि चेत्यर्थः / न दीर्घः इति // रीगागमात्प्राक् प्राप्तोऽभ्यासदी| नेत्यर्थः। भविष्यदपि कित्त्वन्दीर्घप्रतिबन्धकमिति भावः / नलोपः इति // ‘अनिदिताम्' इत्यनेन नकारस्य लोप इत्यर्थः / इत्यादीति // सनीस्रस्यते, दनीध्वस्यते, बनीभ्रस्यते, चनीकस्यते, पनीपत्यते, पनीपद्यते, चनीस्कन्द्यते / नुगतोऽनु // अङ्गस्येत्यधिकृतम् / 'अत्र लोपः' इत्यतः अभ्यासस्येत्यनुवर्तते / ‘गुणो यङ्लुकोः' इत्यतः यङ्लुकोरिति च / तदाह / अनु. नासिकान्तस्येत्यादि // ननु यंयम्यते इत्यत्र नुको नकारस्य अपदान्तत्वादझल्परकत्वाच्च कथं 'नश्च' इत्यनुस्वार इत्यत आह / नुकेति // नन्वभ्यासे ह्रस्वविधानादीर्घस्याभावात् नुग्विधावत इति तपरकरणं व्यर्थमित्यत आह / तपरत्वसामर्थ्यादिति // स्वाभाविक एव यो इस्वः अकारः तस्यैव ग्रहणम् , नतु दीर्घादेशभूतस्य ह्रस्वाकारस्येत्येतदर्थ तपरकरणमिति भावः। बाभाम्यते इति // अत्र आकारस्थानिकस्य ह्रस्वविधिसम्पन्नस्य अकारस्य न नुगिति भावः / जनधातोर्यङि नकारस्य आत्त्वविकल्पं स्मारयति / ये विभाषेति // नी. भावः इति // यद्यपीह ह्रीभावविधावपि 'अभ्यासाच्च' इति कुत्वे हकारस्य घकारः सिद्ध्यति। तथापि प्रयत्नलाघवाभावात् प्रक्रियालाघवाच्च नीति घकारोच्चारणमिति भावः / जेनीयते इति // पुनः पुनरतिशयेन वा हिनस्तीत्यर्थः / अत्र यङीति विषयसप्तमी / यडि विवक्षिते सतीति लभ्यते / तेन द्वित्वस्य परत्वेऽपि प्रागेव नीभाव इति बोध्यम् / जङ्घन्यते इति // गर्हितं गच्छतीत्यर्थः / रीगृदुपधस्य च // अभ्यासस्येति // 'अत्र लोपः' इत्यतः For Private And Personal Use Only
Page #349
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा। 347 क्षुम्नादित्वान्न णः / नरीनृत्यते / जरीगृह्यते / उभयत्र लत्वम् / चलीक्लप्यते / 'रीगृत्वत इति वक्तव्यम्' (वा 4662) / परीपृच्छ्यते / वरीवृश्च्यते / 2645 / स्वपिस्यमिव्येञां यङि / (6-1-19) सम्प्रसारणं स्याद्यङि / सोषुप्यते / सेसिम्यते / वेवीयते / 2646 / न वशः / (6-1-20) वावश्यते / 2647 / चायः की / (6-1-21) चेकीयते / तदनुवृत्तेरिति भावः / यङ्लुकोरिति // 'गुणो यङ्लुकोः' इत्यतस्तदनुवृत्तेरिति भावः / वरीवृत्यते इति // 'वृतु वर्तने' अस्माद्यङि द्वित्वे उरदत्त्वे हलादिशेषे अभ्यासस्य रीक् / नृते. र्यङि नरीनृत्यते इत्यत्र णत्वमाशङ्कय आह / क्षुम्नादित्त्वान्न णः इति // जरीगृह्यते इति // 'ग्रह उपादाने' अस्माद्यडि 'ग्रहिज्या' इति सम्प्रसारणे द्वित्वे उरदत्त्वे हलादिशेषे अभ्यासस्य रीक् / उभयत्रेति // कृपधातोः यङि द्वित्वे उरदत्त्वे रपरत्वे हलादिशेषे रीक् / चलीक्लप्यते इत्यत्र 'कृपो रो लः' इत्यभ्यासे रेफस्य लकारः / उत्तरखण्डे ऋकारस्यावयवो रेफः नस्य लकारसदृश इत्यर्थः / ननु व्रश्च्धातोर्यङि वरीवृश्च्यते इत्यत्र कथमभ्यासस्य रीक् / धातोः शकारोपधत्वेन ऋदुपधत्वाभावादित्यत आह / रीगृत्वतः इति // ‘रीगृदुपधस्य' इत्यत्र ऋदुपधस्येत्यपनीय ऋत्वत इति वक्तव्यमित्यर्थः / ऋत् अस्यास्तीति ऋत्वत् / 'तसौ मत्वर्थे' इति भत्वात् पदत्वाभावान जश्त्वम् / परीपृच्छयते इति // प्रच्छधातोर्यङि 'ग्राहिज्या' इति रेफस्य सम्प्रसारणमृकारः / पूर्वरूपं द्वित्व रपरत्वं हलादिशेषः रीक् / वरीवृश्च्यते इति // वश्चधातोर्यङि सम्प्रसारणे द्वित्वादि पूर्ववत् / स्वपिस्यमि // सम्प्र. सारणं स्यादिति शेषपूरणम् / 'ध्यङः सम्प्रसारणम्' इत्यतस्तदनुवृत्तेरिति भावः / सोषुप्यते इति // स्वप्धातोर्यडि वकारस्य सम्प्रसारणे उकारे पूर्वरूपे द्वित्वे अभ्यासगुणः / उत्तरखण्डे सस्य षत्वम् / सेसिम्यते इति // स्यमुधातोर्यङि यकारस्य सम्प्रसारणे पूर्वरूपे द्वित्वादि / अषोपदेशत्वान्न षः / वेवीयते इति // व्यो यडि यकारस्य सम्प्रसारणे पूर्वरूपे द्वित्वादि / ‘हल:' इति वा 'अकृत्सार्वधातुकयोः' इति वा दीर्घः / अथ वशधातोर्यङि वावश्यते इत्यत्र -- अहिज्या ' इति सम्प्रसारणे प्राप्ते तनिषेधं स्मारयति / न वशः // वशधातोः छान्दसत्वम्प्रायिकमिति प्रागेवोक्तम् / चायः की // यङीति शेषः / 'स्वपिस्यमिव्येां यङिः' इत्यतस्तदनुवृत्तेरिति भावः / चेकीयते इति // 'चाय पूजानिशाम For Private And Personal Use Only
Page #350
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 348 सिद्धान्तकौमुदीसहिता 2648 / ई घ्राध्मोः / (7-4-31) जेनीयते / देध्मीयते / 2649 / अयङ् यि क्ङिति / (7-4-22) शीङोऽयङादेश: स्याद्यादौ विङति परे / शाशय्यते / अभ्यासस्य ह्रस्वः / ततो गुणः / डोढौक्यते / तोत्रौक्यते / इति तिङन्तयझकरणम् / नयोः' अस्माद्यढि प्रकृतेः कीभावे द्वित्वादि। ई घ्राध्मोः॥ घ्रा ध्मा अनयोः द्वन्द्वात् पष्ठीद्विवचनम् / यङीति शेषः / 'यङि च' इत्यतस्तदनुवृत्तेः / जेघीयते / देध्मीयते इति // ईत्त्वे कृते द्वित्वादि / हूस्वस्य इकारस्य विधावपि 'अकृत्सार्वधातुकयोः' इति दीर्घसिद्धेः दीर्घोच्चारणम् 'अस्य च्वौ' इत्युत्तरार्थम् / अयङ् यि क्ङिति॥ यि इति सप्तमी / क् ङ् एतो इतो यस्येति विग्रहः। शीङः इति // 'शीङः सार्वधातुके गुणः' इत्यतस्तदनुवृत्तेरिति भावः / अयडि डकार इत् यकारादकार उच्चारणार्थः। डित्त्वादन्तादेशः / शाशय्यते इति // शी य इति स्थिते ईकारस्य अय् ततो द्वित्वे अभ्यासदीर्घः / ढोकृधातोर्यङि विशेषमाह / अभ्यासस्य ह्रस्वः इति // द्वित्वे अभ्यासहस्वे उकारे तस्य 'गुणो यङ्लुकोः' इति गुण इत्यर्थः / तोत्रौ. क्यते इति // त्रौकेः रूपम् // इति श्रीवासुदेवदीक्षितविदुषा विरचितायां सिद्धान्तकौमुदीव्याख्यायां बालमनोरमायां यङन्तनिरूपणं समाप्तम् / For Private And Personal Use Only
Page #351
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीरस्तु। // अथ तिङन्तयङ्लुक्प्रकरणम् // 2650 / यङोऽचि च / (2-4-74) यङोऽच्प्रत्यये लुक् स्याञ्चकारात्तं विनापि बहुलं लुक्स्यात् / अनैमित्तिकोऽयमन्तरङ्गत्वादादौ भवति / ततः प्रत्ययलक्षणेन यङन्तत्वात् द्वित्वम् / अभ्यासकार्यम् / धातुत्वाल्लडादयः / ‘शेषात्कर्तरि-' (सू 2159) इति अथ यङ्लुकप्रक्रियाः निरूप्यन्ते। यङोऽचि च॥ आचि इति प्रत्ययग्रहणम् / नतु प्रत्याहारः / यङा साहयर्यात् / ‘ण्यक्षत्रियार्ष' इत्यतः लुगित्यनुवर्तते / तदाह / योऽच प्रत्यये लुगिति / चकारात्तं विनापीति // अच्प्रत्ययाभावेऽपीत्यर्थः / बहुळमिति // चकारात् 'बहळञ्छन्दसि' इति पूर्वसूत्राद्वहळग्रहणमप्यनुकृष्यते इति भावः / एवञ्च अचप्रत्यये तदभावेऽपि यङो बहुळं लुगिति फलितम् / तेन लूजओ यङन्तादचि यडो लुगभावपक्षे अतो लोपे लोलूय इति रूपम् / लुकि तु लोलुव इति रूपं सिद्ध्यति / तथा अच्प्रत्ययाभावेऽपि बो. भूयते, बोभवीति, इत्यादौ यङो लुग्विकल्पः सिद्ध्यतीति बोध्यम् / अनैमित्तिकोऽयमिति // अच्प्रत्ययादन्यत्र बोभवीतीत्यादौ यलुक् अनैमित्तिकः / ततश्च परस्मादपि द्वित्वादिकार्याप्रागेव अन्तरङ्गत्वाद्यो लुक भवति ततो द्वित्वादीति वस्तुतः स्थितिकथनमिदम् / अच्प्रत्यये विधीयमानस्तु यङ्लुक् नैमिकत्वाद्वहिरङ्ग एव / ततश्च परत्वान्नित्यत्वाच्च आदौ द्वित्वे कृते यङो लुकि अच्प्रत्ययमाश्रित्य प्राप्तो गुण: 'न धातुलोप आर्धधातुके' इति निषेधान भवति / अच्प्रत्ययस्य यङ्लोपनिमित्तत्वादिति बोध्यम् / नन्वेवं सति यङ्लुकि 'सन्यडोः' इति द्वित्वं न स्यात् / यङो लुका लुप्तत्वेन प्रत्ययलक्षणाभावादित्यत आह / ततः इति // यङो लुगनन्तरमित्यर्थः / ‘न लुमता' इत्यनेन हि लुमताशब्देन लुप्ते तनिमित्तमङ्गकार्यनिषिध्यते / द्वित्वादिकन्तु यङन्तस्य कार्यम् , नतु यनिमित्तकम् / यडि परतस्तद्विद्ध्यभावादिति भावः / द्वित्वमिति // नच 'एकाचः' इति विधीयमानं द्वित्वङ्कथमिह यङ्लुकि स्यात् / “श्तिपा शपा" इति निषेधादिति वाच्यम् / 'गुणो यङ्लुकोः' इत्याद्यभ्यासकार्यविधिबलेन द्वित्वनिषेधाभावज्ञापनादिति भावः / अभ्यासकार्यमिति // गुणादीति भावः / धातुत्वादिति // यङो लुकि सत्यपि प्रत्ययलक्षणमाश्रित्य यङन्तत्वात् 'सनाद्यन्ताः' इति धातुत्वम् / नच 'न लुमता' इति निषेधः शङ्कयः / धातुसंज्ञायाः यङन्तधर्मत्वेन यङि परतोऽङ्गकार्यत्वाभावादिति भावः। यो ङित्त्वात्तदन्तादात्मनेपदमाशय आह / शेषादिति // ननु ‘शेषात्कर्तरि' इत्यत्र आत्मनेपदनिमित्तहीनो धातुश्शेषः / For Private And Personal Use Only
Page #352
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 350 सिद्धान्तकौमुदीसहिता [यङ्लुक् परस्मैपदम् / 'अनुदात्तङितः-' (सू 2157) इति तु न / ङित्त्वस्य प्रत्ययाप्रत्ययसाधारणत्वेन प्रत्ययलक्षणाप्रवृत्तेः / यत्र हि 'प्रत्ययस्यासाधारणं रूपमाश्रीयते तत्रैव तत्' / अत एव सुदृषत्प्रासाद इत्यत्र ‘अत्वसन्तस्य-' (सू 425) इति दी? न / येऽपि स्पर्धशीङादयोऽनुदात्तङितस्तेभ्योऽपि न / अनुदात्तङित:--' (सू 2157) इत्यनुबन्धनिर्देशात् / तत्र च 'श्तिपा शपा-' (प 132) इति निषेधात् / अत एव श्यन्नादयो न / गणेन निर्देशात् / किं तु शबेव / 'चर्करीतं च' इत्यदादौ पाठाच्छपो लुक् / यङन्तधातुस्तु न तथा आत्मनेपदनिमित्तः / डकारानुबन्धसत्वादित्यत आह / अनुदात्तङित इति तु नेति // कुत इत्यत आह / ङित्त्वस्येति // तदेवोपपादयति / यत्र हीति // यत्र प्रत्यये लुप्तेऽपि प्रत्ययमात्रवृत्तिधर्मपुरस्कारेण तमाश्रित्य कार्यप्रवृत्तिरिष्यते तत्रैव प्रत्यय. लक्षणम् / यथा राजेयत्र / तत्र हि लुप्तं सुष्प्रत्ययं सुबात्मकप्रत्ययमात्रवृत्तिधर्मपुरस्कारेणाश्रित्य सुबन्ततया पदत्वात् ‘नलोपः' इति नकारलोपप्रवृत्तिः। द्वित्त्वन्तु न प्रत्ययमात्रधर्मः / 'ऋतेरीयङ' इत्यादिप्रत्ययेष्वप्रत्ययेष्वपि चित्रादिषु सत्वात् / ततश्च यडि लुप्ते सति प्रत्ययलक्षणेन तमाश्रित्य तद्वृत्तिङित्त्वप्रयुक्तकार्यमात्मनेपदन्न शङ्कितुं शक्यमिति भावः / ननु यत्किञ्चिद्धर्मपुरस्कारेण प्रत्ययाश्रयकार्ये प्रत्ययलक्षणङ्कुतो नेत्यत आह / अत एवेति // प्रत्ययमात्रवृत्तिधर्मपुरस्कारेण प्रत्ययाश्रयकार्ये प्रत्ययलक्षणाश्रयणादेवेत्यर्थः / दी| नेति // सु शोभनाः दृषदः यस्य सः सुदृषत्प्रासाद इत्यत्र समासावयवत्वाल्लुप्तं जसं प्रत्ययलक्षणेनाश्रित्य प्राप्तः असन्तत्वलक्षणो दीर्घो न भवति / उणादीनामव्युत्पत्तिपक्षे व्युत्पत्तिपक्षे च अस्त्वस्य वेधा इत्यादावप्रत्यये प्रत्यये च सत्त्वेन प्रत्ययमात्रवृत्तित्वाभावेन तत्पुरस्कारेण दीर्घ क्रियमाणे प्रत्ययलक्षणासम्भवादिति भावः / एतत्सर्वं प्रत्ययलक्षणसूत्रभाष्यकैयटादिषु स्पष्टम् / नच सुदृषत्प्रासाद इत्यत्र जसो लुका लुप्तत्वात् 'न लुमता' इति निषेधादेव दीर्घा न भविध्यतीति वाच्यम् / दीर्घस्यासन्तकार्यत्वेन जसि परे अङ्गकार्यत्वाभावादित्यलम् / ननु उक्तरीत्या प्रत्ययलक्षणाभावात् लुप्तयङन्तात् ङित्त्वप्रयुक्तमात्मनेपदं मास्तु / ये तावत् स्पर्धादयः अनुदात्तेतः ये च शीङादयो डितः पठिताः तेभ्यः आत्मनेपदं दुर्वारमित्यत आह / येऽपीति // तेभ्योऽपि नेति // तेभ्यो यङ्लुकि नात्मनेपदमित्यर्थः / कुत इत्यत आह / अनुदात्तङित इत्यनुबन्धनिर्देशादिति // नन्वनुबन्धनिर्देशेऽपि यङ्लुकि आत्मनेपदं कुतो न स्यादित्यत आह / तत्र च शितपेति // न चानुबन्धनिर्देशादेव ङित्त्वप्रयुक्तमपि कार्यमात्मनेपदं यङ्लुकि न भविष्य ते / अतः प्रत्ययासाधारणधर्माश्रयत्वे सत्येव प्रत्ययलक्षणमिति क्लेशानुभवो वृधेति वाच्यम् / यङो डकारस्य प्रत्ययानुबन्धत्वेन यङन्तस्य धातो. रनुबन्धेनानिर्देशादित्यलम् / अत एवेति // “श्तिपा शपा” इति निषेधादेव यङ्लुकि श्यन्नादयो विकरणा नेत्यर्थः / “श्तिपा शपा" इति निषेधमुपपादयति / गणेन निर्देशादिति // 'दिवादिभ्यः श्यन्' 'रुधादिभ्यः श्नम्' इत्यादिगणनिर्देशादित्यर्थः / किंतु शबेवेति // ‘कर्तरि शप्' इत्यत्र “श्तिपा शपा" इति निषेधाविषयत्वादिति भावः / चर्करीतमिति // For Private And Personal Use Only
Page #353
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा / 2651 / यङो वा / (7-3-94) यडन्तात्परस्य हलादेः पितः सार्वधातुकस्येडा स्यात् / 'भूसुवो:-' (सू 2224) इति गुणनिषेधो यङ्लुकि भाषायां न / '—बोभूतु तेतिक्ते' (सू 3596) इति छन्दसि निपातनात् / अतएव यङ्लुग्भाषायामपि सिद्धः / न च यङ्लुक्यप्राप्त एव गुणभावो निपात्यतामिति वाच्यम् / 'प्रकृतिग्रहणे यङ्लुगन्तस्यापि ग्रहणात्' (प 101) / 'द्विः प्रयोगो द्विर्वचनं षाष्ठम्' इति यङ्लुगन्तमदादौ बोद्ध्यमिति व्याख्यातं प्राक् / अतो यङ्लुगन्ताच्छपो लुगित्यर्थः / एवञ्च भूधातोर्यडो लुकि द्वित्वादी बोभू इत्यस्माल्लटि तिपि शपो लुकि बोभू ति इति स्थिते / यङो वा // 'उतो वृद्धिः' इत्यतो हलीति 'नाभ्यस्तस्याचि' इत्यतः पिति सार्वधातुके इति 'ब्रुव ईद्' इत्यतः ईडिति चानुवर्तते / तदाह / यङन्तादित्यादिना // टित्त्वात्तिप आद्यवयव ईट् / तथाच धोभू ई ति इति स्थिते ऊकारस्य गुणे अवादेशे बोभवीतीति रूपं वक्ष्यति / 'भूसुबोस्तिङि' इति गुणनिषेधमाशङ्कय आह / भूसुवोरिति // निपातनादिति // 'कृषः छन्दसि' इत्यतः छन्दसीत्यनुवृत्तौ 'दाधर्ति दर्धर्ति दर्धर्षि बोभूतु तेतेक्ते' इत्यादि सूत्रे भूधातोयेङ्लुगन्तस्य गुणाभावो निपात्यते / 'भूसुवोः' इत्येव तत्र गुणनिषेधे सिद्धे गुणाभावनिपातनन्नियमार्थम् / यङ्लुकि छन्दस्येवायम् ‘भूसुवोः' इति गुणनिषेधो नान्यत्र इत्यतो लोकेऽपि यङ्लुगस्तीति विज्ञायते / एतेन ‘यडोऽचि च' इति यङ्लुग्विधौ ‘बहुळं छन्दसि' इति पूर्वसूत्राच्छन्दसीत्यनुवर्तयन्तः पारस्ताः / तदाह / अतएव यङ्लुक् भाषायामपि सिद्धः इति // 'भूसुवोस्तिङि' इति सूत्रभाष्ये तु बोभूत्वित्येतन्नियमार्थम् / अत्रैव यङ्लुगन्तस्य गुणो न भवति, नान्यत्र / क मा भूत् बोभवीतीत्युक्तम् / अत्रैवेत्यस्य बोभूत्विति लोट्यवेत्यर्थः / यङ्लुगन्तस्येत्यस्य भूधातोरिति शेषः / बोभवीतीत्येवोदाहृतत्वादिति शब्देन्दुशेखरे प्रप. ञ्चितम् / वस्तुतस्तु भाष्ये यङ्लुङन्तस्येति सामान्याभिप्रायमेव / भूधातुमात्रसङ्कोचे मानाभावात् / बोभवीति इत्युदाहरणन्तु धात्वन्तराणामपि प्रदर्शनपरमिति मूलकृदाशयः / ननु भूधातोर्यङ्लुकि बोभू इत्यस्य ‘भूसुवोस्तिङि' इति गुणनिषेधप्रसक्तिर्नास्ति / द्वित्वे सति यङ्लुगन्तस्य प्रकृत्यन्तरत्वेन भूरूपत्वाभावात् / ततश्च यड्लुगन्तस्याप्राप्ते गुणाभावे तत्प्राप्तयर्थमेव बोभूत्विति निपातनमिति युक्तम् / तथा च छन्दस्येव यमुगन्तस्य गुणनिषेधः, न तु भाषायामिति नियमः कथं सिद्ध्येदित्याशय निराकरोति / नच यङ्लुकीति // प्रकृतीति // 'प्रकृतिग्रहणेन यङ्लुगन्तस्यापि ग्रहणम्' इति परिभाषया 'भूसुवोः' इत्यत्र भूग्रहणेन बोभू इति यड्लुगन्तस्यापि ग्रहणादित्यर्थः / ननु 'प्रकृति. ग्रहणे यङ्लुगन्तस्यापि ग्रहणम्' इत्यत्र किं प्रमाणमित्याशङ्कय न्यायसिद्धमिदमित्याह / द्विः प्रयोगः इति // षष्टाध्यायादौ “एकाचो द्वे प्रथमस्य' इत्यत्र किमिदं द्विवचनं एकाचः प्रथमस्य एकस्य स्थाने द्वितयात्मक आदेशः स्थान्यपेक्षया अन्यो विधीयते, उत स्थानिन एकस्य सतः द्विरुच्चारणं विधीयते, नतु तत्स्थानिनः अतिरिच्यते, इति संशय्य 'द्विः प्रयोगो For Private And Personal Use Only
Page #354
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 352 सिद्धान्तकौमुदीसहिता [यङ्लुक् सिद्धान्तात् / बोभवीति-बोभोति / बोभूतः / बोभुवति / बोभवांचकार / बोभविता / अबोभवीत्-अबोभोत् / अबोभूताम् / अबोभवु: / बोभूयात् / बोभूयाताम् / बोभूयास्ताम् / 'गातिस्था-' (सू 2223) इति सिचो लुक् / ‘यङो वा' (सू 2651) इतीट्पक्षे गुणं बाधित्वा नित्यत्वाद्रुक् / अबोभूवीत् / अबोभूत् / अबोभूताम् / अभ्यस्ताश्रयो जुस् / नित्यत्वादुक् / अबोभूवुः / अबोभविष्यदित्यादि / पास्पर्धाति-पास्द्ध / पास्पर्द्धः / पास्पर्धति / द्विवचनम्' इति सिद्धान्तितम् / तदधिकारस्थत्वात् ‘सन्यडोः' इति द्विवचनमपि तथाविधमेव / ततश्च भू इत्यस्यैव बोभू इति द्विः प्रयुज्यमानतया 'भूसुवोः' इति भूग्रहणेन ग्रहणाद्यङ्लुक्यपि निषेधसिद्धेः बोभूत्विति निपातनं छन्दस्येव यङ्लुकि गुणनिषेधो, नतु भाषायामिति नियमलाभाल्लोकेऽपि यङ्लुक् सिद्ध इति भावः / बोभूतः इति // अपित्त्वादीन / डित्त्वाच्च न गुणः / बोभुवतीति // 'अदभ्यस्तात्' इत्यत् / ङित्त्वात् गुणाभावे उवङिति भावः / बोभवीषि-बोभोषि / बोभूयः / बोभूथ / बोभवीमि-बोभोमि / बोभूवः / बोभूमः / बोभवाञ्चकारेति // 'कास्यनेकाच्' इत्याम् / बोभविता / बोभविष्यति / वोभवीतु-बोभोतुबोभूतात् / बोभूताम् / बोभुवतु / हेरपित्त्वादीन ङित्त्वान्न गुणः / बोभूहि-बोभूतात् / बोभूतम् / बोभूत / आट: पित्त्वेन अङित्त्वात् गुणः / बोभवानि / वोभवावः / बोभवामः / लङ्याह / अबोभवीदित्यादि। अबोभवुरिति // ‘सिजभ्यस्त' इति जुसि गुणे अवादेशः / अबोभवी:-अबोभोः / अबोभूतम् / अवोभूत / अबोभवम् / अबोभूव / अबोभूम / बोभूयादिति // विधिलिङि आशीलिङि च रूपम् / बोभूयातामिति विधिलिङस्तामि रूपम् / बोभू युः / बोभूयाः / वोभूयातम् / बोभूयात / बोभूयाम् / बोभूयाव / बोभूयाम / बोभूयास्तामिति // आशीर्लिङि तामि रूपम् / बोभूयास्त / बोभूयासम् / बोभूयास्व / बोभूयास्म / लुङस्तिपि सिचि कृते आह / गातिस्थेति // ईट्पक्षे इति // 'इतश्च' इति इकारलोपे कृते ईडागमे 'सार्वधातुकार्धधातुकयोः' इति गुणं परमपि बाधित्वा नित्यत्वात् 'भुवो वुग्लुङ्लिटोः' इति वुगित्यर्थः / गुणे कृते अकृते च प्राप्तेः वुको नित्यत्वं बोध्यम् / अबोभूवीदिति // बुकि कृते सति तेन व्यवधानादाकरस्य न गुणः / ननु लुङो झर्जुसि बुकि अबोभूवुरिति रूपं वक्ष्यति / तदयुक्तम् / 'आतः' इति सूत्रे सिज्लुकि आदन्तादेव झर्जुसिति नियमनादित्यत आह / अभ्यस्ताश्रयो जुसिति // 'सिजभ्यस्त' इत्यनेन अभ्यस्तात्परत्वात् जुसित्यर्थः / 'सिजभ्यस्त' इति सूत्रे सिचः परत्वमाश्रित्य यो जुस प्राप्तस्तस्यैवायनियमः, न त्वभ्यस्ताश्रयजस इति भावः / अबोभू उस् इति स्थिते 'जुसि च' इति गुणमाशङ्कय आह / नित्यत्वादगिति // 'जुसि च' इति गुणापेक्षयेत्यर्थः / अबोभूवुरिति // न चात्राभ्यस्ताश्रयजुसं बाधित्वा परत्वात् 'अदभ्यस्तात्' इत्यदादेशः स्यादिति शङ्कयम्। अभ्यस्ताश्रयजुसः अदादेशापवादत्वादिति भावः / अवोभूवी:-अबोभोः / अबोभूतम् / अबोभूवम् / अबोभूव / अबोभूम / इत्यादीति // अबोभविध्यताम् , अबोभविष्यन् , इत्यादि व्यक्तम् / पास्पर्धीतीति // स्पर्धधातोः यङ्लुकि For Private And Personal Use Only
Page #355
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा / पास्पत्सि / 'हुझल्भ्यो हेधिः' (सू 2425) / पास्पर्धि / लङ् / अपास्पअपास्पदं / सिपि 'दश्च' (सू 2468) इति रुत्वपक्षे ‘रो रि' (सू 273) अपास्पा: / जागाद्धि / जाघात्सि / अजाघात् / सिपि रुत्वपक्षे / अजाघाः / 'नाथ' / नानात्ति / नानात्तः / 'दध' / दादाद्धि / दादुद्धः / दाधत्सि / द्वित्वे 'शपूर्वाः खयः' इति पकारशेषे दीर्घोऽकितः' इति दीर्घ पास्पर्ध इत्यस्माल्लटस्तिपि शपि शपो लुकि 'यडो वा' इति ईडागमे रूपम् / ईडभावे त्वाह। पास्पर्धीति // पास्पर्ध ति इति स्थिते 'झषस्तथो|ऽधः' इति तकारस्य धकारः / 'झलाजश् झशि' इति पूर्वधकारस्य द इति भावः / मिव्वस्मस्सु पास्पर्धीमि--पास्पमि / पास्पर्ध्वः / पास्पद्मः / पास्पर्धाञ्चकार / पास्पर्धिता। पास्पर्धिष्यति / पास्पर्धीतु-पास्पर्द्ध-पास्पर्धात् / पास्पर्धतु / हेरपित्त्वादीडभावं सिद्धवत्कृत्य आह / हुझल्भ्यः इति // पास्पर्धीति // हेर्धिभावे 'झरो झरि' इति वा धलोपः / पास्पर्धात् / पास्पर्धम् / पास्पर्धानि / पास्पर्धाय / पास्पर्धाम / लङि तिपि उदाहरणसूचनम् / ईटि अपास्पर्धात् इति सिद्धवत्कृत्य ईडभावे आह / अपास्पत् इति // अपास्पर्ध त् इति स्थिते हल्ङ्यादिना तकारलोपे 'वाऽवसाने' इति चवविकल्प इति भावः / अपास्पर्धाम् / अपास्पर्धः। सिपि तु अपास्पर्ध स् इति स्थिते जश्त्वे 'दश्च' इति दकारस्य रुत्वपक्षे अपास्पर् र स् इति स्थिते हल्ङ्यादिना सकारलोपे रो रि' इति रेफलोपे 'ठूलोपे' इति दीर्घ विसर्गे अपास्पाः इति रूपम् / 'सिपि च ' इति धस्य दत्वपक्षे तु अपास्पद् इति रूपमित्यर्थः / नच दीर्घ सिपि 'दश्च' इति रुत्वमसिद्धमिति शङ्कयम् / 'ठूलोपे' इति सूत्रे ढग्रहणेन लण्सूत्रे जर्गेधेः अजर्घाः इति भाष्यप्रयोगेण च पूर्वत्रासिद्धमित्यस्याप्रवृत्तिबोधनात् / अपास्पर्धम् / अपास्पर्ध्व / अपास्पर्म / लिङि पास्पर्ध्यात् / पास्पर्ध्याताम् / पास्पास्ताम् इत्यादि / लुङि अपास्पर्ध स् इति स्थिते 'अस्तिसिचः' इति नित्यमीट् / ‘इट ईटि' इति सलोपः / अपास्पर्धीत् / अपास्पर्धिष्टाम् / अपास्पर्धिषुः / अपास्पर्धिष्यत् / गाधृधातोर्यङ्लुगन्तात् लटस्तिपि ईट्पक्षे जागाधीति सिद्धवत्कृत्य ईडभावे आह / जागाद्धीति // जागाध् ति इति स्थिते 'झषस्तथोः' इति तकारस्य धः / जागाद्धः / जागाधति / सिपि ईट्पक्ष जागाधीषीति सिद्धवत्कृत्य ईडभावपक्षे आह / जाघात्सीति // जागाध् सि इति स्थिते 'एकाचो बशः' इति गस्य भए धस्य चर्वमिति भावः / जागाद्धः / जागाद्ध / जागामि / जागाध्वः / जागाध्मः / जागाधाञ्चकार / जागाधिता / जागाधिष्यति / जागाधीतु-जागा -जागाद्धात् / जागाद्धाम् / जागाधतु / जागाद्धिजागाद्धात् / जागाद्धम् / जागाद्ध / जागाधानि / जागाधाव / जागाधाम / लङि अजागाधीत्अजाघात् / अजागाद्धाम् / अजागाधुः / सिपि ईट्पक्षे अजागाधीरिति सिद्धवत्कृत्य ईडभावपक्षे आह / सिपीति // अजागाध् स् इति स्थिते भष्भावे ‘सिपि धातोरुर्वा' 'दश्च' इति दस्य रुत्वपक्षे हल्ङयादिलोपे रेफस्य विसर्गे अजाघाः इति रूपमित्यर्थः / दत्वपक्षे तु अजा. घाद् इति बोध्यम् / अजागाद्धाम् , इत्यादि / जागाध्यात् / लुङि 'अस्तिसिचः' इति नित्यमीट् / अजागाधीत् / अजागाधिष्टाम् , इत्यादि / नाथू इति // उदाहरणसूचनम् / वर्गद्वितीयान्तोऽयं धातुः न झषन्तः / तस्य ईट्पक्षे नानाथीति इति सिद्धवत्कृत्य ईडभावपक्षे आह / नाना. 45 For Private And Personal Use Only
Page #356
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir H 354 सिद्धान्तकौमुदीसहिता यङ्लुक् अदाधत् / अदादधुः / अदाध:-अदाधत् / लुङि / अदादाधीत्-अदादधीत् / चोस्कुन्दीति--चोस्कुन्ति / अचोस्कुन् / अचोस्कुन्ताम् / अचोस्कुन्दुः / मोमुदीति-मोमोत्ति। मोमोदाञ्चकार / मोमोदिता / अमोमुदीत्-अमोमोत् / अमोमुत्ताम् / अमोमुदुः / अमोमुदी:--अमोमो:-अमोमोत् / लुङि गुणः / अमोमोदीत् / चोकूर्ति-चोकूर्दीति / लङ् / तिप् / अचोकूर्त-अचोकूर्दीत् / त्तीति // नानाथ् ति इति स्थिते 'खरि च' इति थस्य चर्वम् / 'झषस्तथोः' इति 'एकाचो बशो भष्' इति च न / अझषन्तत्वात् / नानात्तः / नानाथति / नानाथीषि-नानात्सि / नानात्थः / नानात्थ / नानाथीमि-नानामि / नानाथ्वः / नानाथ्मः। लोटि नानाथीतु-नानात्तु / हेधिः / थस्य जश्त्वेन दः। नानाद्धि / नानाथानि / नानाथाव / नानाथाम / लडि अनानाथर्थात्अनानात् / अनानात्ताम् / अनानाथुः, इत्यादि / लुडिः ‘अस्तिसिचः' इति नित्यमीट् / अनानाथीत् / अनानाथिष्टाम् , इत्यादि / दधेति // उदाहरणसूचनमिदम् / दधधातोलटस्तिपि ईट्पक्षे दादधीतीति सिद्धवत्कृत्य ईडभावपक्षे आह / दादद्धीति // दादध् ति इति स्थिते 'झषस्तथोः' इति तकारस्य धः / दादधीषीति सिद्धवत्कृत्य आह। दाधत्सीति // 'एकाचो बशः' इति दस्य भए / धस्य 'खरि च' इति चर्वमिति भावः / दादत्थः / दादत्थ / दादध्मि, इत्यादि / लोटि दादधीतु-दादछु / दादद्धि / दादधानि / लङस्तिपि ईटि अदादधीत् इति सिद्धवत्कृत्य ईडभावे आह / अदाधत् इति // अदादध् त् इति स्थिते हल्ङ्यादिलोपे भाभावे धस्य ‘वावसाने' इति चर्वविकल्प इति भावः / सिपि ईटि अदादधीरिति सिद्धवत्कृत्य ईडभावे आह / अदाधः इति // अदादध् स् इति स्थिते जश्त्वे 'दश्च' इति दस्य रुत्वे हल्ङ्यादिना सलोपे रुत्वजश्त्वयोरसिद्धत्वेन झषन्तत्वात् दस्य भषिति भावः / अदाधदिति दत्वपक्षे रूपम् / 'अस्तिसिचः' इति नित्यमीडिति मत्वा आह / अदादधीदिति // 'अतो हलादेः' इति वृद्धिविकल्पः / अदादधिष्टाम् , इत्यादि ‘स्कुदि आप्रवणे' इदित्त्वान्नुम् / अस्माद्यङ्लुकि उदाहरति / चोस्कुन्दीतीति // ईटि रूपम् / तदभावे त्वाह / चोस्कुन्तीति // 'झरो झरि सवर्णे' इति तकारस्य लोपविकल्पः / इह यङो लुप्तत्वादिदित्त्वाच्च यङन्तिङञ्चाश्रित्य नलोपो न / लङि ईट्पक्षे अचोस्कुन्दीदिति सिद्धवत्कृत्य ईडभावे आह / अचोस्कुन्निति // अचोस्कुन् द् त् इति स्थिते हल्ङयादिना तकारलोपे दकारस्य संयोगान्तलोपः / लुङि तु 'अस्तिसिचः' इति नित्यमीट् / अचोस्कुन्दीत् / अचोस्कुन्दिष्टाम् , इत्यादि / मोमुदीतीति // ‘मुद हर्षे' ईटि ‘नाभ्यस्तस्याचि पिति सार्वधातुके ' इति लघूपधगुणो न / मोमोत्तीति // ईडभावे अच्परकत्वाभावात् 'नाभ्यस्तस्याचि' इति लघूपधगुणनिषेधो न / मोमोदितेति // 'न धातुलोप आर्धधातुके' इति गुणनिषेधस्तु न / धात्वंशलोपनिमित्ते आर्धधातुके परे एव तनिषेधस्य प्रवृत्तेः / इह च यङ्लुकः अनैमित्तिकस्य उक्तत्वात् / लुङि गुणः इति // सिज्निमित्तक इति शेषः / अतो 'नाभ्यस्तस्य' इति गुणनिषेधो न शङ्कयः। चोकूर्तीति // 'कुर्द क्रीडायाम् ' यङ्लुक् For Private And Personal Use Only
Page #357
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा। सिप्पक्षे / अचोकूः / अचोखू: / अजोगू: / वनीवञ्चीति-वनीवति / वनीवक्तः / वनीवचति / अवनीवञ्चीत्-अवनीवन् / जङ्गमीति-जङ्गन्ति / 'अनुदात्तोपदेश-' (सू 2428) / इत्यनुनासिकलोपः / जङ्गतः / जङ्गमति / 'म्वोश्च' (सू 2609) / जङ्गन्मि / जङ्गन्वः / एकाग्रहणेनोक्तत्वान्नेनिषेधः / जङ्गमिता / अनुनासिकलोपस्याभीयत्वेनासिद्धत्वान्न हेर्लुक / जङ्गहि / मो नो धातोः' (सू 341) / अजङ्गन् / अनुबन्धनिर्देशान्न च्लेरङ् / 'मयन्त-' द्वित्वादि / ईडभावे 'उपधायाश्च' इति दीर्घः / अचोकूत् इति // लङस्तिपि अचोकू त् इति स्थिते हल्ङयादिलोपे 'रात्सस्य' इति नियमान संयोगान्तलोपः इति भावः / सिप्पक्षे इति // लङस्सिपि ईडभावे अचोकू स् इति स्थिते 'दश्च' इति रुत्वपक्षे हल्ड्यादिना सलोपे ‘रो रि' इति प्रथमरेफलोपे दीर्घे दकारस्थानिकरेफस्य विसर्गे अचोकूरिति रूपमित्यर्थः / अचोखूरिति // खुर्दधातोर्यङ्लुगन्तात् लङस्सिपि कुर्दवद्रूपम् / अजो. गूरिति // गुर्दधातोर्यङ्लुगन्तात् सिपि रूपम् / वनीवश्चीतीति // ‘वञ्चु गतौ' अस्मात् ‘नित्यं कौटिल्ये गतौ' इति यङन्तस्य लुक् / द्वित्वादि / 'नीग्वञ्चु' इत्यादिना अभ्यासस्य नीगागमः / यडो लुका लुप्तत्वान्न तदाश्रितो नलोपः / तिपः पित्त्वेन अडित्त्वान तदाश्रितोऽपि नलोपः / ईकारोच्चारणसामर्थ्यानीको न गुणः / अन्यथा निकमेव विद. ध्यात् / नच 'नीग्वञ्चु' इत्यनुबन्धनिर्देशाद्यङ्लुकि नीक् दुर्लभ इति शङ्कथम् / तत्र यङ्लुकोः इत्यनुवृत्तिसामर्थ्येन अदोषादिति भावः / वनीवङ्क्तीति // ईडभावे चस्य कुत्वेन कः / नकारस्थानिकानुस्वारस्य परसवर्णो डकार इति भावः / वनीवक्तः इति // तसो डित्त्वादिह स्यादेव ‘अनिदिताम्' इति नलोपः / लोटि वनीवञ्चीतु-वनीवक्तु-वनीवक्तात् / वनीवक्ताम् / वनीवचतु / हेधिः / अपित्त्वेन ङित्त्वानलोपः / अत एव ईडपि न / वनीवग्धि / वनीवञ्चानि / आटः पित्त्वादडित्वानलोपो न / लङि तिपि ईट्पक्षे आह / अवनीवश्चीदिति // ईडभावे त्वाह / अवनीवन् इति // हल्ङ्यादिना तलोपे चकारस्य संयो गान्तलोपः / जङ्गमीतीति // गमेर्यङ्लुगन्ताल्लटस्तिपि ईट् / 'नुगतोऽनुनासिकान्तस्य' इति नुक् / 'नश्च' इत्यनुस्वारः परसवर्णश्चेति भावः / तसि आह / अनुदात्तेति // जङ्ग्मतीति // 'गमहन' इत्युपधालोप इति भावः / ननु गमेरनिट्वात् प्रकृतिग्रहणे यङ्लुगन्तस्यापि ग्रहणाजङ्गमितेत्यत्र कथमिडित्यत आह / एकाग्रहणेनेति // ननु जङ्गहीत्यत्र अनुनासिकलोपे कृते ‘अतो हेः' इति लुक् स्यादित्यत आह / अनुनासिकलोपस्येति // लङस्तिपि अजङ्गमीदिति सिद्धवत्कृत्य ईडभावे आह / मो नः इति // अजङ्गम् त् इति स्थिते हल्ङ्यादिना तलोपे 'मो नो धातोः' इति मस्य न इत्यर्थः / तदाह / अजगन्निति // अजङ्गताम् / अज ङ्ग्मुः / अजङ्गन् / अजङ्गतम् / अजङ्गत / अजङ्गमम् / अजङ्गन्व / अजङ्गन्म / लुङि अजङ्गमीदित्यत्र 'पुषादिद्युतादिलदितः' इत्यङमाशङ्कय आह / अनुबन्धेति // हन्तेर्यङ्लुक् हिंसार्थे क्रियासमभिहारे / गत्यर्थत्वे तु कौटिल्ये यडिति बोध्यम् / हन्तरित्यनुवर्येति // तथाच For Private And Personal Use Only
Page #358
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदीसहिता यङ्लुक् (सू 2299) इति न वृद्धिः / अजङ्गमीत् / अजङ्गमिष्टाम् / हन्तेर्यङ्लुक् / अभ्यासाच्च' (सू 2430) इति कुत्वम् / यद्यपि * हो हन्ते:--' (सू 358) इत्यतो 'हन्तेः' इत्यनुवर्त्य विहितम् / तथापि यङ्लुकि भवत्येवेति न्यासकारः / 'श्तिपा शपा' (प 132) इति निषेधस्त्वनित्यः / ‘गुणो यङ्लुकोः' (सू 2630) इति सामान्यापेक्षज्ञापकादिति भावः / जङ्घनीति / जवन्ति / जङ्घतः / जनति / जङ्घनिता / रितपा निर्देशाज्जादेशो न / जङ्घहि / अजङ्घनीत्-- अजङ्घन / जवन्यात् / आशिषि तु वध्यात् / अवधीत् / अवधिष्टामित्यादि / वधादेशस्य द्वित्वन्तु न भवति / स्थानिवत्त्वेन ‘अनभ्यासस्य इति निषेधात् / तद्धि समानाधिकरणं धातोविशेषणम् / बहुव्रीहिबलात् / आपूर्वात्तु 'आङो ‘श्तिपा शपा' इति निषेधात्कथमिह 'हो हन्तेः' इति कुत्वमित्याक्षेपः / गुणः इति // 'गुणो यङ्लुकोः' इति ज्ञापकादित्यन्वयः। 'एकाचो द्वे प्रथमस्य' इत्यत्र एकग्रहणाद्यङ्लुकि द्विवचनस्याभावादभ्यासाभावात् 'गुणो यङ्लुकोः' इत्यभ्यासस्य गुणविधानं “श्तिपा शपा' इत्यादिनिषेधस्य क्वचिद्यङ्लुकि अप्रवृत्तिं ज्ञापयतीत्यर्थः / नन्वेकाज्ग्रहणविधेरेव यलुकि कचिदप्रवृत्तिज्ञापनलाभेऽपि 'हो हन्तेः' इति रितपा निर्देशनिमित्तकनिषेधस्य कथं यङ्लुकि अप्रवृत्तिः स्यादित्यत आह / सामान्यापेक्षेति // ‘गुणो यङ्लुकोः' इत्यभ्यासस्य गुणविधानमेकाजग्रहणस्यानित्यत्वं ज्ञापयत् तद्वचनोपात्तत्वसामान्यात् ‘श्तिपा शपा' इत्यादिसर्वनिषेधानां यङ्लुकि क्वचिदप्रवृत्तिं ज्ञापयतीत्यर्थः / इति भावः इति // न्यासकृत इति शेषः / जङ्घनीतीति // 'नुगतः' इति नुक् / जङ्घतः इति // ‘अनुदात्तोपदेश' इत्यनुनासिकलोपः / जनतीति // ‘गमहन' इत्युपधालोपः / जङ्घनितेति // एकाज्ग्रहणादिनिषेधो न / जङ्घहीत्यत्र 'हन्तेजः' इत्याशङ्कय आह / शितपेति // अजङ्घन्निति // लङस्तिपि ईडभावे अजङ्घन् त् इति स्थिते हल्ड्यादिलोप इति भावः / आशिषि तु वध्यादिति // अयं भावः / जङ्घन् इत्यस्मादाशीलिङिः 'हनो वध लिङि' इति वधादेशः / प्रकृतिग्रहणेन यङ्लुगन्तस्यापि ग्रहणादिति भावः / अवधीदिति // जङ्घन् इत्यस्माल्लुङस्तिपि 'लुङि च' इति वधादेशे 'अस्तिसिचः' इति नित्यमीडिति भावः / ननु हनो यङ्लुगन्तात् आशीलिडो लुडश्च तिपि द्वित्वात्प्रागेव वधादेशे कृते तस्य द्वित्वं कुतो न स्यादित्यत आह / वधादेशस्य द्वित्वन्तु न भव. तीति // कुत इत्यत आह / स्थानिवत्त्वेनेति // वधादेशात्परत्वादादौ द्वित्वे कृते सति कृतद्विर्वचनस्य स्थाने वधादेशः / तस्य च स्थानिवत्त्वेन साभ्यासतया अनभ्यासस्येति निषेधान्न द्वित्वमित्यर्थः / ननु साभ्यासस्य स्थाने भवन् वधादेशः स्थानिवत्त्वेन साभ्यासोऽस्तु / द्वित्वन्दुर्वारम् / साभ्यासत्वेऽप्यभ्यासानात्मकत्वात् अनभ्यासस्येत्यनेन धातोरवयवस्याभ्यासद्वित्वनिषेधादित्यत आह / तद्धीति // धात्ववयवस्य अभ्यासस्येति नार्थः / किन्तु अनभ्यासो यो धातुः तदवयवस्यैकाच इत्येव / अनभ्यासग्रहणं सामानाधिकरण्येन धातोर्विशेषण For Private And Personal Use Only
Page #359
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा / 357 यमहनः' (सू 2695) इत्यात्मनेपदम् / आजङ्घते इत्यादि / 'उत्परस्य-' (सू 2637) इति तपरत्वान्न गुणः / 'हलि च' (सू 354) इति दीर्घस्तु स्यादेव / तस्यासिद्धत्वेन तपरत्वनिवर्त्यत्वायोगात् / चञ्चुरीति-चञ्चति / चञ्चूर्तः / चञ्चुरति / अचञ्चुरीत्-अचञ्चू: / चङ्खनीति-चङ्खन्ति / 'जनसन-' (सू 2504) इत्यात्त्वम् / चङ्घातः / ‘गमहन-' (सू 2663) इत्युपधालोप: / चङ्नति / चङ्घाहि / चङ्खनानि / अचङ्खनीत्अचखन् / अचङ्ख्नु: ! 'ये विभाषा' (सू 1319) / चलायात्-चलन्यात् / अचङ्खनीत्-अचलानीत् / ‘उतो वृद्धि:-' (सू 2443) इत्यत्र 'नाभ्यस्तस्य' इत्यनुवृत्तेरुतो वृद्धिर्न / योयोति-योयवीति / अयोयवीत् मित्यर्थः / नन्वेवमपि न अभ्यासः अनभ्यासः इति विग्रहे द्वित्वन्दुर्निवारमेव / वधादेशस्य स्थानिवत्त्वेन धातोः साभ्यासत्वेऽप्यभ्यासानात्मकत्वादित्यत आह / बहुव्रीहिबलादिति // न विद्यते अभ्यासो यस्य धातोरिति बहुव्रीहिमाश्रित्य अनभ्यासस्येत्येतद्धातोः सामानाधिकरण्येन विशेषणमित्यर्थः / प्रकृते च वधादेशस्य धातोः स्थानिवत्त्वेन साभ्यासत्वादभ्यासहीनत्वाभावान्न द्वित्वमिति भावः / आयूर्वात्त्विति // यडलुगन्ताद्धनधातोरिति शेषः / 'आङो यमहनः' इत्यत्र हन्ग्रहणेन यङ्लुगन्तस्यापि ग्रहणम् / प्रकृतिग्रहणे यङ्लुगन्तस्यापि ग्रहणा. दिति भावः / उत्परस्येति // ‘चर गतौ भक्षणे च' अस्माद्यलुकि लटस्तिपि ईडभावे द्वित्वे 'चरफलोश्च' इत्यभ्यासस्य नुक् / 'उत्परस्यातः' इत्युत्तरखण्डे अकारस्य उत्त्वं 'हलि च' इति दीर्घः / चञ्चूर्तीति रूपम् / तिपमाश्रित्य उकारस्य लघूपधगुणस्तु न / उदिति तपर. करणसामर्थ्यात् / अन्यथा उरित्युक्तेऽपि “भाव्यमानोऽण् सवर्णान् न गृह्णाति" इत्येव दीर्घादिव्यावृत्तेरित्यर्थः / ननु उदिति तपरकरणाद्यथा गुणो निवर्तते तथा 'हलि च' इति दीर्घोऽपि निवर्तेत इत्यत आह / हलि चेति दीर्घस्तु स्यादेवेति // कुत इत्यत आह / तस्येति // 'हलि च' इति दीर्घशास्त्रस्य त्रैपादिकत्वेन 'उत्परस्यातः' इति शास्त्रम्प्रत्यसिद्धतया तपरकरणेन तन्निवृत्तेरसम्भवादित्यर्थः / वस्तुतस्तु गुणस्यापि बहिरङ्गतया असिद्धत्वात्तपरत्वनिवर्त्यत्व न भवति / अतएव विप्रतिषेधसूत्रे भाष्ये 'उदोष्ठ्व' इत्युत्त्वे पोपूर्यते इत्यत्राभ्यासगुणो दृश्य. मानः उपपद्यते इति शब्देन्दुशेखरे प्रपञ्चितम् / अचञ्चूरिति // लडस्तिपि ईडभावे हल्ङ्यादिना तलोपे प्रत्ययलक्षणेन ‘हलि च' इति वा पदान्तत्वात् ‘रुिपधायाः' इति वा दीर्घः / ‘खनु अवदारणे' अस्माद्यङ्लुकि उदाहरति / चङ्खनीतीति // चहाहीति // हेरपित्त्वेन ङित्त्वात् 'जनसन ' इत्यात्त्वम् / अचङ्खनीदिति // 'आस्तिसिचः' इति नित्यमीट् / 'अतो हलादेः' इति वृद्धिविकल्पः / युधातोः योयोतीत्यत्र ‘उतो वृद्धिः' इति वृद्धिमाशङ्कय आह / उतो वृद्धिरित्यत्रेति // आशिषि दीर्घः इति // * अकृत्सार्वधातुकयोः' इत्यनेनेति भावः / अयोयावीदिति // ईटि सिचि वृद्धिः / नुधातोरपि युधातुवद्रूपाणीति मत्वा आह / For Private And Personal Use Only
Page #360
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 358 सिद्धान्तकौमुदीसहिता [यङ्लुक् अयोयोत् / योयुयात् / आशिषि दीर्घः / योयूयात् / अयोयावीत् / नोनवीति-नोनोति / जाहेति-जाहाति / ‘ई हल्यघोः' (सू 2497) / जाहीत: / इह ‘जहातेश्च' (सू 2498) 'आ च हौ' (सू 2499) 'लोपो यि' (सू 2500) 'घुमास्था' (सू 2462) * एलिङिः' (सू 2374) इत्येते पञ्चापि न भवन्ति / श्तिपा निर्देशात् / जाहति / जाहासि-जाहेषि / जाहीथः / जाहीथ / जाहीहि / अजाहेत्-अजाहात् / अजाहीताम् / अजाहुः / जाहीयात् / आशिषि जाहायात् / अजाहासीत् / अजाहासिष्टाम् / अजाहिध्यत् / लुका लुप्ते प्रत्ययलक्षणाभावात् 'स्वपिस्यमि-' (सू 2645) इत्युत्त्वं न / 'रुदादिभ्य:--' (सू 2474) इति गणनिर्दिष्टत्वादीन / सास्व नोनवीतीति // हाहाकोर्यङ्लुकि तुल्यानि रूपाणि / ङित्त्वप्रयुक्तात्मनेपदस्य यङ्लुकि अप्रवृत्तेरुक्तत्वादिति मत्वा आह / जाहेतीति // हाहाकोर्यङ्लुगन्तालटस्तिपि ईटि आद्गुणे रूपम् / नच हाङोऽभ्यासस्य 'भृामित्' इति इत्त्वम्। हाकस्तु तन्नास्ति / भृञ् माङ् ओहाइ एषान्त्रयाणामेव तत्र ग्रहणात् कथं हाहाकोस्तुल्यत्वमिति शङ्कथम् / 'भृामित्' इत्यस्य लावेव प्रवृत्तेः / न चाकित इति निषेधात् हाकोऽभ्यासस्य दीर्घाभावात् कथमुभयोस्तुल्यरूपत्वमिति वाच्यम् / क् इत् यस्य सः कित् न विद्यते कित् यस्य सः अकित् तस्य अकित इति बहुव्रीहिगर्भबहुव्रीह्याश्रयणात् / इह च हाको धातोः कित्त्वेऽपि न किद्वत्त्वम् / तदभ्यासस्य तु दूरेतरान किद्वत्त्वम् / 'द्विः प्रयोगो द्विर्वचनं षाष्ठम् ' इति सिद्धान्तात् / बहुव्रीह्याश्रयणसाम •देव व्यपदेशिवत्त्वेन हाको न कित्त्वम् / अतो हाकोऽप्यभ्यासदी? निर्बाध इति भावः / जाहीतः इति // हाङ्हाकोस्तसि ईत्वमेव / ननु हाको ‘जहातेश्च' इति इत्त्वविकल्पः कुतो नेत्यत आह / इहेति // हलादौ क्ङिति सार्वधातुके 'जहातेश्च' इति इत्त्वविकल्पः / तथा ‘आ च हौ' इति जहाते) परे आत्वमीत्वञ्च, तथा ' लोपो यि' इति यादौ सार्वधातुके जहाते. रल्लोपश्च, तथा ‘घुमास्था' इति जहातेहलादौ विडत्यार्धधातुके ईत्वञ्च , तथा 'एलिडि' इति जहातेरार्धधातुके परे विडत्येत्वञ्च , इत्येते पञ्चापि विधयो यङ्लुकि न भवन्तीत्यर्थः / कुत इत्यत आह / शितपेति // एवञ्च जाहीतः इत्यत्र ‘ई हल्यघोः' इति ईत्वमेव / नत्वित्त्वविकल्प इति स्थितम् / जाहतीति // 'अदभ्यस्तात्' इत्यदादेशः 'नाभ्यस्तयोः' इत्याल्लोपः / जाहाञ्चकार। जाहिता। जाहिष्यति। जाहेतु-जाहातु-जाहीतात् / जाहीताम् / जाहतु / जाहीहीति // हेरपित्त्वेन ङित्त्वादीत्वम् / इह 'आ च हौ' इति न / विधिलिङ्याह / जाहीयादिति // 'ई हल्यघोः' इति ईत्वमेव। 'लोपो यि' इत्याल्लोपस्तु न। आशिषि। जाहाया. दिति // इह ‘घुमास्था' इति ईत्वन्न / ‘एलिङि' इत्यपि न / अजाहासीदिति // 'यमरम' इति सगिटौ / 'मिष्वप् शये' अस्य यङ्लुकि 'खपिस्यमिव्येां यङि' इति सम्प्रसारणमाशङ्कय आह। लुका लुप्ते इति // उत्त्वति // वस्य सम्प्रसारणनेत्यर्थः / ईडभावपक्षे 'रुदादिभ्यः' For Private And Personal Use Only
Page #361
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा। . 359 पीति-सास्वप्ति / मास्वप्तः / सास्वपति / असास्वपीत्-असास्वप् / सांस्वप्यात् / आशिषि तु ‘वचिस्वपि-' (सू 2409) इत्युत्त्वम् / सासुप्यात् / असास्वापीत्-असास्वपीत् / 2652 / रुग्रिकौ च लुकि / (7-4-91) ऋदुपधस्य धातोरभ्यासस्य ‘रुक्' 'रिक्' रीक्' एते आगमाः स्युर्यङ्लुकि / 2653 / ऋतश्च ! (7-4-92) __ ऋदन्तधातोरपि तथा / वतीति-वरिवृतीति-वरीवृतीति / वर्वतिवरिवर्ति-वरीवति / वर्वृतः--वरिवृतः--वरीवृतः / ववृतति--वरिवृतति-वरीवृतति / वर्वर्तामास-वरिवर्तामास-वरीवर्तामास / वर्वतिता-वरिवर्तिता-वरीवर्तिता / गणनिर्दिष्टत्वात् 'न वृद्भ्यश्चतुर्यः (सू 2648) इति न / वर्वतिष्यति-वरिवर्तिप्यति-वरीवर्तिष्यति / अवकृतीत्-अवरिवृतीत्-अवरीवृतीत् / अवर्वत्-अवरिवत्-अवरीवत् / सिपि 'दश्च' (सू 2468) इति रुत्वपक्षे ‘रो रि' (173) अवर्वा:-अवरिवा:-अवरीवाः। गणनिर्दिष्टत्वादङ् न / अवर्वर्तीत्-अवरिवर्तीत् / इटमाशङ्कय आह / रुदादिभ्यः इति // असावप् इति // लङस्तिपि ईडभावे हल्ड्यादिलोपः / असास्वापीत् इति // ' अतो हलादेः' इति वृद्धिविकल्पः / 'अस्तिसिचः' इति नित्यमीट् / रुनिकौ च लुकि // 'ऋदुपधस्य च' इत्यतः ऋदुपधस्येत्यनुवर्तते / रिगपि इह चकारात् समुच्चीयते / 'अत्र लोपः' इत्यतः अभ्यासस्येत्यनुवर्तते / ‘गुणो यङ्लुकोः' इत्यतः यङ्लुक्ग्रहणश्च / तदाह / ऋदुपधस्यत्यादिना // रुकि उकार उच्चारणार्थः। रिकि तु इकारः श्रूयत एव / एवं रीकि ईकारश्च / व्याख्यानात् / ऋतश्च // तथेति // अभ्यासस्य रुक् रिक् रीक् एते आगमाः स्युः यङ्लुकीत्यर्थः / ‘वृतु वर्तने' अस्माद्यलुगन्तात् ववृत् इत्यस्माल्लटस्तिपि ईट्पक्षे अभ्यासस्य क्रमेण रुकं रिकं रीकञ्चोदाहरति / पर्वृतीति-चरिवृतीति-वरीवृतीति इति // ईट्पक्षे 'नाभ्यस्तस्याचि पिति सार्वधातुके' इति निषेधान्न लघूपधगुणः / ईडभावेऽपि रुगाद्यागमत्रयमुदाहरति / वर्वर्तीत्यादि // इति नेति // इण्निषेधो नेत्यर्थः / लोटि वर्वृतीतु-वर्वर्तु-ववृत्तात् / ववृत्ताम् / वर्भूततु / वृर्वृद्धि / वर्वर्तानि / लहस्तिपि ईटि आह / अवर्वृतीदिति // ईडभावे त्वाह / अवर्व इति // हल्ड्यादिना तिपो लोपः / 'रात्सस्य' इति नियमान संयोगान्तलोपः / अवाः इति // लङस्तिपि अवर्व सि इति स्थिते 'दश्च' इति दकारस्य रुत्वे ‘रो रि' इति पूर्वरेफस्य लोपे ठूलोपे इति दीर्घ हल्ड्यादिना सिपो लोपे रेफस्य विसर्ग इति भावः / अङ् नेति // 'पुषादिद्युतादि' इत्यनेनेति शेषः / 'अस्तिसिवः' इति नित्यमीट् / अथ 'डु कृञ् करणे' इति धातोरुदाहरति / For Private And Personal Use Only
Page #362
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 360 सिद्धान्तकौमुदीसहिता [यङलुक् अवरीवर्तीत् / चर्करीति-चर्कर्ति-चरिकर्ति-चरीकति / चर्कतः / चक्रति / चर्कराञ्चकार / चर्करिता / अचर्करीत्-अचर्कः / चर्कयात् / आशिषि रिङ् / चक्रियात् / अचारीत् / 'ऋतश्च' (सू 2653) इति तपरत्वान्नेह / 'क विक्षेपे' / चाकति / तातति / तातीतः / तातिरति / तातीहि / तातराणि / अतातरीत्-अतातः / अतातीर्ताम् / अतातरुः। अतातारीत् / अतातारिष्टामित्यादि / अर्तेर्यङ्लुकि द्वित्वेऽभ्यासस्योरदत्त्वं रपरत्वम् / हलादिःशेषः' (सू 2179) रुक् / रिग्रीकोस्तु ' अभ्यासस्यासवर्णे' (सू 2290) इति इयङ् / अरर्ति--अरियति / अररीति-अरियरीति / अर्ऋत:-अरिय॒तः। झि अत्। यण् / रुको रो रि' (सू 173) इति लोप: / न च तस्मिन्कर्तव्ये यण: स्थानिवत्त्वम् / चर्करीतीत्यादि // चर्कयादिति // विधिलिङस्तिडस्सार्वधातुकत्वात् 'अकृत्सार्वधातुकयोः' इति दी| न / आशिषीति // आशीर्लिङ आर्धधातुकत्वात् ‘रिङ् शयग्लिक्षु' इति रिडिति भावः / लकि अचर्कारीदिति // सिचि वृद्धिः / ऋतश्च इति तपरत्वान्नेहति // रुनिग्रीक इति शेषः / चाकर्तीति // ईडभावे रूपम् / नचाभ्यासहूस्वत्वे 'रीगृत्वतः' इति रीक् शयः / नित्यत्वादुरदत्त्वस्य प्राप्तेः। चाकीर्तः / चाकिरति / इत्यादि / डित्वाद्गुणाभावे ऋत इत्वं रपरत्वम् / चाकरीति / चाकीर्तः / चाकिरति / चाकराञ्चकार / चाकरिता / चाकर्तु-चाकीर्तात् / चाकिरतु / चाकीर्हि / चाकराणि / लङि अचाकरीत्-अचाकः / अचाकीर्ताम् / अचाकरः। विधानाशिषि च चाकीर्यात् / यासुटो डित्त्वान्न गुणः। इत्त्वं 'हलि च' इति दीर्घः। चाकीर्याताम् , चाकीर्यास्ताम् , इत्यादि / लुङि अचाकरीत् , अचाकरिष्टाम् , इत्यादि / एवं 'तृ प्लवनतरणयोः' इत्यस्यापि रूपाणि / अद्वैतदीपिकायां तु चोद्यं नावतरीतर्तीति लेखकप्रमादः / चोद्यन्तु नावतातर्तीति पाठःप्रामाणिकः। अतरिति // 'सूचिसूत्रि' इत्यादिना ऋधातोर्यङ् / तस्य लुक् / व्यपदेशिवत्त्वेन ऋ इत्यस्य आदिभूतादचः परत्वात् द्वितीयकाच्त्वाच्च द्वित्वम् / अभ्यासक्रवर्णस्य अत्त्वे रपरत्वे अर् ऋ इति स्थिते हलादिशेषेण रेफस्य निवृत्तिः / अ ऋ इति स्थिते अभ्यासस्य रुक् / लटस्तिपि ईडभावे अर् ऋति इति स्थिते तिपि ऋकारस्य गुणे अकारे रपरे सति अरतीति रूपमित्यर्थः / रिग्रीकोस्त्विति // यङ्लुकि द्वित्वे उरदत्त्वे हलादिशेषे अ ऋ इति स्थिते रिकि रीकि च कृते तिमि उत्तरखण्डस्य ऋकारस्य गुणे अकारे रपरे कृते अरि अर्तीति स्थिते अभ्यासे रेफादिवर्णस्य यणम्बाधित्वा 'अभ्यासस्यासवर्णे' इति इयङि अरियर्तीति रिग्रीकोस्तुल्यं रूपमित्यर्थः / अथ लटस्तिपि ईट्पक्षे आह। अररीति-अरियरीतीति // अर्ऋतः इति // रुकि तसि रूपम्। डित्त्वान्न गुणः / अरियतः इति // द्वित्वे उरदत्त्वे हलादिशेषे अऋ तस् इति स्थिते रिकि रीकि च कृते इयडादेशे रूपम् / झि अदिति // झि इत्यविभक्तिकनिर्देशः उदाहरणसूचनार्थः। 'अदभ्यस्तात्' इति झेःअदादेश इति यावत्। यणिति // रुकि कृते अर् ऋ अति इति स्थिते ऋकारस्य यण् रेफ इत्यर्थः / तथाच अर् र् अतीति स्थिते आह् / रुको रोरीति लोपः इति // ननु For Private And Personal Use Only
Page #363
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा / 361 पूर्वत्रासिद्धे तन्निषेधात् / आरति-अरियति / लिङि रितपा निर्देशात् 'गुणोऽति-' (सू 2380) इति गुणो न / रिङ् / रलोपः / दीर्घः / आरियात्अरियियात् / 'गृहू ग्रहणे' जर्गृहीति-जर्गढि / जर्मूढः / जर्गृहति / रेफलोपे कर्तव्ये यणादेशसम्पन्नस्य रेफस्य 'अचः परस्मिन्' इति स्थानिवत्त्वात् ऋकारपरकत्वाद्रेफपरकत्वाभावात् कथं पूर्वरेफस्य लोप इत्यत आह / पूर्वत्रासिद्धे तनिषेधादिति // पूर्वत्रासिद्धीयकार्ये कर्तव्ये स्थानिवत्त्वनिषेधादित्यर्थः / आरतीति // अर् र् अति इति स्थिते पूर्वरेफस्य लोपे सति 'ठूलोपे' इति दीर्घः / नच यणः स्थानिवत्त्वं शङ्कयम् / दीर्घविधौ तनिषेधादिति भावः / अरियूतीति // द्वित्वे उरदत्त्वे हलादिशेष रिकि रीकि च कृते परत्वादभ्यासस्य इयङि ततो यणि रिग्रीकोस्तुल्यमेव रूपमित्यर्थः / अरर्षि-अरियर्षि-अररीषिअरियरीषि / अर्ऋथ:-अरियथः / अरर्मि-अरियर्मि-अररीमि-अरियरीमि / अर्जव:अरिय॒वः / अरराञ्चकार-अरियराञ्चकार / अररिता-अस्यिरिता। अररिष्यति-अरियरिष्यति / अरर्तु-अरियर्तु-अररीतु-अरियरीतु-अर्जतात्-अरियृतात् / अव॑ताम्-अरियताम् / आरतु-अरियतु / अर्ऋहि-अरियहि / अरराणि-अरियराणि / अरराव-अरियराव / लडि आरः - आरियः - आररीत् - आरियरीत् / आक्रताम् - आरियताम् / आररु:आरियरुः / आरः - आरियः - आररी: - आरियरीः / आर्जतम् - आरिवृतम् / आर्जत-आरियत / आररम्-आरियरम् / आक्रव-आरियव / विधिलिडिः अद्भयात्-अरिययात् / अज्रयाताम्--अरियाताम् / अर्कयुः-अरिययुः / इत्यादि / आशीर्लिङि विशेषमाह। लिङि शितपेति // रुकि अर् ऋ यात् इति स्थिते 'अति' इति श्तिपा निर्देशात् 'गुणोऽर्ति' इति गुणो नेत्यर्थः / रिङिति // ऋकारस्येति शेषः / तथाच अर् रि यात् इति स्थिते आह / दीर्घः इति // ‘रो रि' इति लोपे 'ठूलोपे' इति दीर्घ इत्यर्थः / तथाच परिनिष्ठितमाह / आरियादिति // रिग्रीकोस्त्वाह / अरियियादिति // अरि ऋ यात् अरी ऋ यात् इति स्थिते इवर्णस्य इयङ् ऋकारस्य रिङ्। 'लोपो व्योः' इति यलोपस्तु न। बहिरङ्गत्वेन रिडोऽसिद्धत्वात् / ‘अचः परस्मिन् ' इति स्थानिवत्त्वाच / 'न पदान्त' इति निषेधस्तु न शङ्कयः / ‘स्वरदीर्घयलोपेषु लोपरूपाजादेश एव न स्थानिवत्' इत्युक्तरित्यलम् / लुङि आरारीत्-आरियारीत् / लुङि आररिष्यत्--आरियरिष्यत् / गृह ग्रहणे इति // ऋदुपधोऽयम् / यङ्लुकि द्वित्वे उरदत्त्वे हलादिशेष अभ्यासस्य रुग्रिग्रीकः / तदाह / जर्गृहीतीत्यादि // ईट्पक्षे 'नाभ्यस्तस्याचि पिति सार्वधातुके' इति लघूपधगुणनिषेधः / ईडभावे त्वाह / जगढि इत्यादि॥जह् ति इति स्थिते लघूपधगुणे रपरत्वे ढत्वधत्वष्टुत्वढलोपाः। 'यणो मयः' इति शिष्टस्य ढस्य द्वित्वविकल्पः। एवं जरिगर्टि-जरीगढि / जगूढः इति // रुक् ढत्वधत्वष्टुत्वढलोपाः / डित्त्वान्न गुणः / एवं जरिगृढः--जरीगृढः / जहतीति // 3 / 'अदभ्यस्तात् ' इत्यत् / जहीषि-जरिगृहीषि- जरीगृहीषि / 'नाभ्यस्तस्याचि पिति' इति न लघूपधगुणः / जर्घक्षि-जरिघर्ति-जरीधक्षि / जर्गृढः--जरिगृढः-जरीगृढः / जर्गृढ-जरिगृढ-जरीगृढ / जहीमि-जरिगृहीमि-जरीगृहीमि / जर्गस्-िजरिगर्ड्सि-जरीगार्टी / जर्गृह्वः 46 For Private And Personal Use Only
Page #364
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 362 सिद्धान्तकौमुदीसहिता [यङ्लुक् अजघर्ट / गृह्णातेस्तु जाग्रहीति-जाग्राढि / तसादौ उिन्निमित्तं सम्प्रसारणम् / तस्य बहिरङ्गत्वेनासिद्धत्वान्न रुगादयः / जागृढः / जागृहति / जाहीषिजाघ्रक्षि / लुटि / जाग्रहिता / ‘ग्रहोऽलिटि'-(सू 2562) इति दीर्घस्तु न / तत्र ‘एकाचः' इत्यनुवृत्तेः / माधवस्तु दीर्घमाह। तद्भाष्यविरुद्धम् / जधीतिजरिगृहः-जरीगृह्वः / जह्यः-जरिगृह्मः-जरीगृह्मः / जर्गश्चिकार-जरिगहश्चिकार-जरीगर्दाञ्चकार / जर्गर्हिता-जरिगर्हिता-जरीगर्हिता / जर्गर्हिष्यति-जरिगर्हिष्यति-जरीगर्हिष्यति / जर्ग्रहीतु-जरिगृहीतु-जरीगृहीतु-जग? -जरिग? - जरीग? - जगुढात् - जरिगृढात् - जरीगृढात् / जर्गृढाम्-जरिगृढाम्-जरीगृढाम् / जर्गृहतु-जरिगृहतु-जरीगृहतु / जर्गढि-जरिगृढिजरीगृढि / जगृहाणि-जरिगृहाणि-जरीगृहाणि / लङि अजर्गृहीत्-अजरिगृहीत्-अजरीगृहीत् / ईडभावे तु अजगई त् इति स्थिते हल्ङ्यादिना तलोषे हस्य ढत्वे गस्य भष् घकारः। अजघर्ट-अजरिघट्ट-अजरीथर्ट्स / एकाज्यहणे सत्यपीह यङ्लुकि भष्। 'गुणो यङ्लुकोः' इत्यनेन “श्तिपा शपा” इति निषेधस्यानित्यत्वज्ञापनादित्याहुः / अजगुढाम् 3 / अजगैहुः 3 / अजय॒हीः ३-अजर्घ 3 / अजर्गृढम् 3 / अजगुंढ 3 / अजगृहम् 3 / अजगैब 3 / अजर्गृह्म 3 / जगुह्यात् 3 / लुङि 'अस्तिसिचः' इति नित्यमीट् / अजर्गहीत् 3 / अजगर्हिष्यत् 3 / गृह्णास्त्विति // ‘ग्रह उपादाने' इत्यस्मादित्यर्थः / अदुपधोऽयम् / ईटि आह / जाग्रहीतीति // यङो लुका लुप्तत्वात् तिपः पित्त्वाच्च 'ग्रहिज्या' इति सम्प्रसारणन्नेति भावः / ईडभावे त्वाह / जाग्राढीति // जाग्रह ति इति स्थिते ढत्वधत्वष्टत्वढलोपदीर्घाः / जाग्रह तस् इति स्थिते आह / तसादाविति // ननु कृते सम्प्रसारणे ऋदुपधत्वात् रुगादीनाशक्य आह / तस्येति // सम्प्रसारणस्येत्यर्थः / जागृढः इति // ढत्वधत्वष्टुत्वढलोपाः / 'ठूलोपे' इति दीर्घस्तु न / ऋकारस्यानण्त्वात् / जागृहति / सिपः पित्त्वान्न सम्प्रसारणमिति मत्वा आह / जाग्रहीषि-जाघ्रक्षीति // ईडभावे हस्य ढः तस्य कः सस्य षः / जागृढः / जागृढ / जाग्रहीमि-जाग्रह्मि / जागृह्वः। जागृह्मः / इत्यनुवृत्तरिति // 'एकाचो द्वे' इति सूत्रे हरदत्तेन तथोक्तत्वादिति भावः / माधवस्त्विति // एक ज्ग्रहणन्नानुवर्तत इति तदाशयः। भाष्यविरुद्धमिति // 'एकाचो द्वे प्रथमस्य' इति सूत्रभाष्ये 'ग्रह उपादाने' इत्यस्माद्यङि सम्प्रसारणे अभ्यासस्य रीकि यङन्तात् जरीगृहिता। जरीगृहितम्। जरीगृहितव्यमित्यत्र इटो दीर्घाभावं सिद्धवत्कृत्य तत्र दीर्घमाशङ्कय ग्रहोऽङ्गात्परस्य इटो दी! विधीयते / जरीगृह् इत्यङ्गं तच न ग्रहधातुरिति निरूप्याङ्गविशेषणसामर्थ्यादेव “प्रकृतिग्रहणे यङ्लुगन्तस्यापि ग्रहणम्" इति नात्र प्रवर्तत इति समाहितम्। यडन्ते उक्तो न्यायो यङ्लुगन्तेऽपि जाग्रहितेत्यादौ समानः इत्यादि प्रौढमनोरमायां ज्ञेयम् / नच हरदत्तमते एकाज्ग्रहणानुवृत्त्यैवात्र दीर्घनिवारणे सति भाष्योक्तमिदं समाधानन्नादरणीयमिति वाच्यम् / उपायस्य उपायान्तरादृषकत्वादिति अलम् / जाग्रहिष्यति / जाग्रहीतु-जाग्राहु-जाग्राढात् / जागृढाम् / जागृहतु / हौ जागृढि / जाग्रहाणि / लङि अजाग्रहीत्-अजाघ्राट् / अजागृढाम् / अजागृढम् / अजागृढ / अजाग्रहम् / अजागृढ / अजागृह्म / जागृह्यात् / लुङि अजाग्रहीत् 'ह्मथन्त' इति न For Private And Personal Use Only
Page #365
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् ] बालमनोरमा / जर्गद्धि / जद्धः / जगुंधति / जधीषि-जर्घसि / अजधीत् / ईडभावे गुणः / हलङयादिलोपः / भष्भावः / जश्त्वचर्वे / अजर्घत् / अजद्धाम् / सिपि 'दश्च' (सू 2468) इति पक्षे रुत्वम् / अजर्घाः / अजगेर्धात् / अजर्गधिष्टाम् / पाप्रच्छीति। पाप्रष्टि। तसादौ 'अहिज्या--' (सू 2412) इति सम्प्रसारणं न भवति। श्तिपा निर्देशात् / ‘च्छ्रोः शूठ-' (सू 2561) इति श:। 'ब्रश्च-' (सू 294) इति ष: / पाप्रष्टः / पाप्रच्छति / पाप्रश्मि / पाप्रच्छुः / पाप्रश्मः / वृद्धिः / ‘अस्तिसिचः' इति नित्यमीट् / अजाग्रहिष्यत् / 'गृधु अभिकांक्षायाम्'। अस्माद्य लुगन्ताल्लटस्तिपि ईटि आह / जगंधीतीति // 'नाभ्यस्तस्य' इति न लघूपधगुणः / ईडभावे आह / जर्गर्दीति // जगंध् ति इति स्थिते 'झषस्तथोः' इति तकारस्य धः। लघूपधगुणः रपरत्वम् / जर्गद्धः इति // तसादौ ङित्त्वान्न गुणः / 'झषस्तथोः' इति तस्य धः / जर्घति // जर्गसि इति स्थिते गस्य भष् घः गुणः रपरत्व धस्य चर्वम्। जर्गमि ३-जगूंधीमि 3 / जगूध्वः 3 / जगञ्चिकार 3 / जगर्धिता 3 / जगर्धिष्यति 3 / जगंधीतु ३-जर्ग१ ३-जगद्धात् 3 / ही जऍद्धि 3 / जधानि 3 / लडि तिपि ईट् अजगंधीत् 3 / ईडभावे इति // अजगंध् त् इति स्थिते पित्त्वादडित्त्वात् गुण रपरत्वे हल्ङ्यादिना तकारलोपे पदान्तत्वात् गस्य भष् धकारः / धस्य जश्त्वेन दकारे तस्य ‘वावसाने' इति चत्वविकल्प इत्यर्थः। अजधर्त इति // 'रात्सस्य' इति नियमान्न संयोगान्तलोपः / अजगुद्धाम् / अजगंधुः / सिपि ईडभावपक्षे अजध् स इति स्थिते गुणे रपरत्वे हल्ङ्यादिलोपे भष्भावे धस्य जश्त्वे तस्य चत्वविकल्पे पूर्ववदेव रूपं सिद्धवत्कृत्य आह / सिपि दश्चेति पक्षे रुत्वमिति // तथाच अजघर इति स्थिते ‘रो रि' इति लोपे 'ठूलोपे' इति दीर्घ शिष्टरेफस्य विसर्गे अजीः इति रूपमित्यर्थः / अजर्णोद्धम् / अजयृद्ध / अजधम् / अजध्व / लुङि आह। अजर्ग(दिति // 'अस्तिसिचः' इति नित्यमीट् / पाप्रच्छीतीति // 'प्रच्छ ज्ञीप्सायाम्' अस्माद्यङ्लुगन्तालटस्तिपि ईटि रूपम्। ईडभावे आह / पाप्रष्टीति॥ ब्रश्चेति छस्य षः। तकारस्य टुत्वेन टः। 'च्छाः' इति छस्य शकारस्तु नात्र भवति। तस्य अनुनासिकादौ प्रत्यये वो झलादौ किति डिति च विहितत्वात् / ननु तिपः पित्त्वेन डित्त्वाभावात् 'ग्रहिज्या' इति सम्प्रसारणाभावेऽपि तसो ङित्त्वात् सम्प्रसारणं दुर्वारमित्यत आह / तसा. दाविति / शितपेति / 'अहिज्या' इति सूत्रे प्रच्छतीति श्तिपा निर्देशादित्यर्थः / पाप्रच्छतीति / 'अदभ्यस्तात्' इत्यत् / पाप्रच्छीषि / सिपि ईडभावे तु 'च्छोः' इति छस्य न शः। सिपो झलादित्वेऽपि डित्त्वाभावात् / किन्तु 'वश्व' इति ष एव षढोः' इति षस्य कः सस्य षत्वम् / पाक्षि / पाप्रष्टः / पाप्रष्ट / पाप्रश्मीति // अनुनासिकप्रत्ययपरकत्वात् छस्य ' च्छोः' इति श इति भावः। पाप्रच्छः इति // अत्र 'च्छाः' इति न शः। वसो झलादित्वाभावात्। पाप्रश्मः इति॥ अनुनासिकादिप्रत्ययपरकत्वात् छस्य शः / पाप्रच्छाञ्चकार / पाप्रच्छिता। पाप्रच्छिष्यति / पाप्रच्छीतु--पाप्रष्टु-पाप्रष्टात् / पाप्रष्टाम् / पाप्रच्छतु। हेर्द्धिः / अपित्त्वेन डित्त्वात् झलादित्वाञ्च छस्य शः / तस्य ‘वश्च' इति षः / ष्टुत्वेन धस्य ढः / षस्य जश्त्वेन डः / पाप्रड्रि। पाप्रच्छानि / For Private And Personal Use Only
Page #366
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 364 सिद्धान्तकौमुदीसहिता [यङ्लुक ‘यकारवकारान्तानां तु ऊठभाविनां यङ्लुङ् नास्ति' इति ‘च्छः'-' (सू 2561) इति सूत्रे भाष्ये ध्वनितं कैयटेन स्पष्टीकृतम् / इदं च ‘च्छ्रो:-' (सू 2561) इति यत्रोठ तद्विषयकम् / 'ज्वरत्वर-' (सू 2564) इत्यूठभाविनोः स्रिविमव्योस्तु यङ्लुगस्त्येवेति न्याय्यम् / माधवादिसम्मतं च / 'मव्य बन्धने' अयं यान्त ऊठभावी तेवृ देव देवने' इत्यादयो वान्ताः / 'हय गतौ' जायीति--जाहति / जाहतः / जाहयति / जाहयीषि-जाहसि / लडि तिपि ईटि अपाप्रच्छीत् / ईडभावेतु अपाप्रच्छ त् इति स्थिते हल्ङ्यादिना तलोपे छस्य षः तस्य जश्त्वच।। अपाप्रट् / अपाप्रष्टाम् / अपाप्रच्छुः / अपाप्रच्छी:- अपाषट् / अपाप्रष्टम् / अपाप्रष्ट / अपाप्रच्छम् / अपाप्रच्छु / अपाप्रश्म / लिङि पाप्रच्छ्यात् / लुङि अपाप्रच्छीत् / 'अस्तिसिचः' इति नित्यमीट् / अपाप्रच्छिष्यत् / ऊभाविनामिति // ‘भू प्राप्तौ' चुरादिराधृषीयः / तस्मात् 'आवश्यकाधमयॆयोर्णिनिः' इति भविष्यदर्थे णिनिः / ऊठं प्राप्स्यतामित्यर्थः / ऊविषयाणामिति यावत् / ध्वनितमिति // सूचितमित्यर्थः / स्पष्टीकृतमिति // तथाहि ‘च्छोः' इति सूत्रे डिग्रहणानुवृत्ती कांश्चित् दोषानुद्भाव्य परिहत्य डिग्रहणानुवृत्ति स्वीकृत्योक्तं भाष्ये / एतावानेव विशेषः / अनुवर्तमाने विद्हणे छष्यत्वं वक्तव्यमिति / अत्र कैयटः / प्रष्टा, पृष्टमित्यादौ ' च्छोः' इति छस्य शत्वे कृते तस्य 'श्च' इति षत्वे टुत्वमिति स्थितिः / तत्र विडतीत्यनुवृत्तौ छस्य शत्वन्न स्यात् / अतः छस्य षत्वं वक्तव्यमित्यर्थः / नच विद्महणानुवृत्तावत्र शत्वाभावेऽपि न दोषः / व्रश्चादिना छस्य षत्वे इष्टसिद्धेरिति वाच्यम् / ‘च्छोः' इत्यत्र “छस्य षत्वं वक्तव्यम्” इत्यनेनैव प्रष्टेत्यादिसिद्धः वश्वादिसूत्रे छग्रहणन्न कर्तव्यमित्याशयात् / नच प्रडिति क्विबन्तात् सोलोपे षत्वार्थं व्रश्वादिसूत्रे छग्रहणमिति वाच्यम् / तत्रापि क्विग्निमित्तशादेशस्य दुर्निवारत्वात् / विचि तु प्रच्छ धातोरनभिधानानास्ति / एवञ्चात्र भाष्ये “ऊभाविभ्यो यङ्लुङ्नास्ति' इत्युक्तप्रायम् / अन्यथा 'च्छोः' इत्यत्र विद्महणानुवृत्तौ दिवेर्यङ्लुकि तिबादौ ईडभावे लघूपधगुणे ‘लोपो व्योः' इति वलोपे देदेति देदेषीत्यायूठः अभावे रूपम् / तदनुवृत्तौ तु वस्य ऊठि देद्योति, देद्योषि, इत्यादि रूपमिति विशेषस्य सत्त्वादेतावानेवेत्येवकारो विरुध्येत। अतः ऊठभाविनां यकारवकारान्तानां यङ्लुङ्नास्तीति विज्ञायते इत्यलम् / इदश्चेति // ‘च्छोः' इति सूत्रेण यत्र ऊ प्रवर्तते तद्विषयकमेव इदम् उक्तं ज्ञापनमित्यर्थः / त्रिविमव्योस्त्विति // 'त्रिवु गतिशोषणयोः, मव्य बन्धने' इत्यनयोः इत्यर्थः / न्याय्यमिति // उक्तज्ञापनस्य ‘च्छोः' इति सूत्रस्थभाष्यमूलकत्वादिति भावः / ननु ज्ञापनस्य सामान्यापेक्षत्वङ्कुतो नाश्रीयते इत्यत आह / माधवादिसम्मतञ्चेति // उक्तविशेषवत्त्वमिति शेषः / ऊभावीति / अतो नास्य यङ्लुगिति भावः / वान्ताः इति // ऊठ्भाविन इति शेषः। नैतेषामपि यङ्लुगिति भावः / ऊठभाविनामिति विशेषणस्य व्यावय॑माह / हय गताविति // अस्य यान्तत्वेऽपि ऊविषयत्वाभावादस्त्येव यङ्लुगिति भावः / जाहतीति // तिप ईडभावे ‘लोपो व्योः' For Private And Personal Use Only
Page #367
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा / 365 बलि लोपे यादौ दीर्घः / जाहामि / जाहावः / जाहामः / 'हर्य गतिकान्त्योः' / जाहीति-जाहति / जाहर्तः / जाहर्यति / लोटि / जाहर्हि / अजाहः / अजाहर्ताम् / अजाहयुः / मव बन्धने'। 2654 / ज्वरत्वरस्रिव्यविमवामुपधायाश्च / (6-4-20) ज्वरादीनामुपधावकारयोरूठ स्यात्क्वौ झलादावनुनासिकादौ च प्रत्यये / अत्र क्ङिति इति नानुवर्तते / अवतेस्तुनि * ओतुः' इति दर्शनात्। अनुनासिकग्रहणं चानुवर्तते / अवतेर्मनिन्प्रत्यये तस्य टिलोपे * ओम्' इति दर्शनात् / ईडभावे ऊठि पिति गुणः / मामोति--मामवीति / मामूतः / मामवति / मामोषि / इति यलोपः / मिपि ईडभावे जाहय् मि इति स्थिते आह / वलि लोपे इति // ईटि जाहयीमि / जाहयाञ्चकार / जाहयिता। जाहयिष्यति / लोटि जाहयीतु-जाहतु-जाहतात् / जाहताम् / जाहयतु / जाहहि / जाहयानि / जाहयाव / लङि अजाहयीत्-अजाहत् / अजाहताम् / अजाहयुः / अजाहयी:-अजाहः / अजाहतम् / अजाहत / अजाहयम् / अजाहाव / अजाहाम / जाहय्यात् / लुङि ‘ह्मयन्त' इति न वृद्धिः / ‘अस्तिसिचः' इति नित्यमीट् / अजाहयीत् / अजाहयिष्टाम् / अजाहयिष्यत् / जाहीति // तिपि जाह ति इति स्थिते ईडभावे यलोपः / जाहीति // हौ यलोपः / लङस्तिपि अजाहर्थ त् इति स्थिते यलोपः। हल्ङयादिना तकारलोपः। रेफस्य विसर्गः इति मत्वा आह / अजाहः इति // सिप्यप्येवं रूपम् / ज्वरत्वरस्त्रिव्यविमवामुपधायाश्च // ज्वर त्वर त्रिवि अवि मव् एषान्द्वन्द्वः / ‘च्छोः शूट ' इत्यतः वकारग्रहणम् ऊग्रहणम् अनुनासिके इति चानुवर्तते। छस्य श इति नानुवर्तते / ज्वरादिषु छस्य अभावेन असम्भवात् / 'अनुनासिकस्य क्विझलोः विति' इत्यतः क्विझलोरिति चानुवर्तते / चकारो वकारसमुच्चयार्थः / तदाह / ज्वरादीनामिति // अवतेस्तुनीति / / अवधातोरौणादिके तुन्प्रत्यये कृते अकारवकारयोरूठि तस्य गुणे ओतुरिति दृश्यते / विडतीत्यनुवृत्तौ तु तन्न स्यादिति भावः / ओमिति // 'अवतेष्टिलोपश्च' इत्यौणादिकसूत्रम् / 'अव रक्षणे' इति धातोर्मन्प्रत्ययः स्यात् / प्रत्ययस्य टेलॊपश्चेति तदर्थः / तथाच अव् म् इति स्थिते उपधाभूतस्य अकारस्य वकारस्य च ऊठि तस्य गुणे ओमिति दृश्यते / 'ज्वरत्वर' इत्यत्र अनुनासिकग्रहणाननुवृत्तौ तु मनिनि परे अवतरूट् न स्यात् / क्विझलोरेव तद्विधिलाभादिति भावः / ऊठि पितीति // मवधातोर्यङलुक् / मामव ति इति स्थिते ईडभावपक्षे अकारवकारयोरेकस्मिन् ऊठि तिपः पित्त्वेन डिक्त्वाभावादूकारस्य गुणे मामोतीति रूपमित्यर्थः / उपधायाः वकारस्य च प्रत्येकमूठ इति पक्षे सवर्णदीर्घः / पक्षद्वयमपि 'एकः पूर्वपरयोः' इत्यत्र भाष्ये स्पष्टम् / ईटपक्षे आह / मामवीतीति // अत्र ऊट न / क्वौ झलादौ अनुनासिकादौ च परे तद्विधानात् / मामूतः इति // अकारवकारयोरूठि तसो डित्त्वान्न गुण इति भावः / मामवतीति / 'अदभ्यस्तात्' इत्यत् / मामवीषीति सिद्धवत्कृत्य आह / मामोषीति // झल्परकत्वादूठ / मामूथः / मामूथ / For Private And Personal Use Only
Page #368
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 366 सिद्धान्तकौमुदीसहिता [यङ्लुक् मामोमि / मामावः / मामूमः / मामोतु-मामूतात् / मामूहि / मामवानि / अमामोत्--अमामोः / अमामवम् / अमामाव / अमामूम / ‘तुर्वी हिंसायाम्। तोतूर्वीति / 2655 / राल्लोपः / (6-4-21) रेफात्परयोश्छ्रोर्लोप: स्यात्वौ झलादावनुनासिकादौ च प्रत्यये / इति वलोप: ! लघूपधगुणः / 2656 / न धातुलोप आर्धधातुके / (1-1-4) धात्वंशलोपनिमित्ते आर्धधातुके परे इको गुणवृद्धी न स्त: / इति नेह मामवीमि इति सिद्धवत्कृत्य आह / मामोमीति // अनुनासिकपरकत्वादूट् / गुण: / मामावः इति // मामव् वस् इति स्थिते परनिमित्ताभावादूट न / 'लोपो व्योः' इति वलापे 'अतो दी? यमि' इति दीर्घः / मामूमः इति // मामव् मस् इति स्थिते अनुनासिकपरकत्वादृट् / डित्त्वान्न गुणः / मामवाञ्चकार / मामविता / मामविष्यति / लोटि आह / मामोत्विति / मामूतादिति // ङित्त्वान्न गुणः / मामूताम् / मामवतु / मामूहीति // ऊठि हेरपित्त्वेन ङित्त्वान गुण: / मामूतात् / मामूतम् / मामूत / मामवानीति // आट: पित्त्वादङित्त्वागुणः / मामवाव / मामवाम / लङस्तिप्याह / अमामोदिति // अमामूताम् / अमामवुः / सिप्याह / अमामोरिति // अमामूतम् / अमामूत / लिङि मामव्यात् / लुडि 'आस्तिसिचः' इति नित्यमीट् / अमामवीत्-अमामावीत् / अमामविष्यत् / ज्वरतेस्तु जाज्वरीति-जाज्वर्ति इत्यादि / त्वरतेस्तु तात्वरीति-तातूर्ति इत्यादि / त्रिवेस्तु सेस्रवीति / ईडभावे तु ऊठि सेस्रोति, इत्यादि। अवतेस्तु यङभावात् क्विप्युदाहरणम् / ऊः। उवौ / उवः / इत्यागृह्यम् / तोतूर्वी तीति // 'उपधायाञ्च' इति दीर्घः। ईडभावे तोतु ति इति स्थिते ‘च्छवाः शूट्' इत्यूठि प्राप्ते। राल्लोपः // ‘च्छोः शूडनुनासिके च' इति सूत्रमूठवर्जमनुवर्तते / 'अनुनासिकस्य क्विझलोः' इत्यतः क्विझलोरिति च। तदाह / रेफात्परयोरित्यादि // अत्रापि विङतीति नानुवर्तते / पूर्वसूत्रे तदननुवृत्तेः / वलोपः इति // तथाच तोतुति इति स्थिते उकारस्य लघूपधगुणः। तिपः पित्त्वेन अङित्त्वादित्यर्थः। न धातुलोपे // 'इको गुणवृद्धी' इत्यनुवर्तते / तत्र धातुलोपे सति इको गुणवृद्धी न स्तः आर्धधातुके परत इत्यर्थ लूधातोः यङन्तात् पचाद्याचि यङो लुकि लोलव इत्यत्र गुणनिषेधाभावप्रसङ्गात् / अत्र धात्ववयवस्य यङो लोपेऽपि धातोर्लोपाभावात् / धात्ववयवलोपे सतीत्यर्थे तु शीधातोस्तृचि शयिता, इत्यत्र गुणो न स्यात् / तत्र धात्ववयवङकारलोपसत्त्वात् / आर्धधातुके परे यो धात्ववयवलोपः तस्मिन् सतीत्यर्थे शेते इत्यत्रापि गुणनिषेधः स्यात् / तत्र डकारलोपस्य आर्धधातुकपरकत्वसत्त्वादित्यतो व्याचष्टे। धात्वंशलोपनिमित्ते इति॥ धातुं लोपयतीति धातुलोपः कर्मण्यण् / धातुलोपनिमित्ते आर्धधातुके परे इति यावत् / लोलुवः इत्याद्युदाहरणम् / लूञ्धातोर्यङन्तात् पचाद्यीच ‘यङोऽचि च' इत्यच्प्रत्ययमाश्रित्य For Private And Personal Use Only
Page #369
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा / 367 निषेधः / तिबादीनामनार्धधातुकत्वात् / तोतोति / ‘हलि च' (सू 354) इति दीर्घः / तोतूर्तः / तोतूर्वति / तोथोर्ति / दोदोर्ति / दोधोति / 'मुर्छा' / मोमोति / मोमूर्तः / मोमूर्च्छतीत्यादि / 'आर्धधातुके' इति विषयसप्तमी / तेन यङि विवक्षिते अजेर्वी / वेवीयते / अस्य यङ्लुनास्ति / लुकापहारे विषयत्वासम्भवेन वीभावस्याप्रवृत्तेः / ____ . . . इति तिङन्तयङ्लुकप्रकरणम् / यङो लुकि अच्प्रत्ययमाश्रित्य प्राप्तो गुणोऽनेन निषिध्यते / मर्मजीतीति तु वृद्धिनिषेधो. दाहरणम् / धात्विति किम् / शाङ् शेता / इह उत्सृष्टानुबन्धस्य धातुत्वं, नतु सानुबन्धस्येति / कैयटादिमते तु धातुग्रहणं स्पष्टार्थम् / इदं सूत्रं भाष्ये प्रत्याख्यातम् / हरदत्तेन पुनरुद्धृतम् / कौस्तुभे तु तदपि दूषयित्वा प्रत्याख्यातमेव / इति नेहेति // तोतुरतीत्यत्र अयं गुणनिषेधो नेत्यर्थः / हलि चेति // तोतु तस् इति स्थिते 'लोपो व्योः' इति वकारस्य लोपं बाधित्वा ‘च्छोः शूठ' इत्यूटि प्राप्ते वकारस्यानेन लोपे 'हलि च' इति दीर्घ इत्यर्थः / यद्यपि तोतोतीत्यत्र ‘च्छोः' इत्यूठः अप्रवृत्तेर्वकारस्य ‘लोपो व्योः' इति लोपः सिद्ध्यति / तथापि तोतूर्तः इत्यादौ ऊठो बाधनाय आवश्यकोऽयं लोपो न्याय्यत्वात्तोतोतीत्यत्रोपन्यस्त इति बोध्यम् / तोतूर्वतीति // 'अदभ्यस्तात् ' इत्यत् / 'उपधायाञ्च' इति दीर्घः / तोतोर्वीषि-तोतोर्षि / तोतूर्थः / तोतूर्थ / तोतूर्वीमि-तोतोर्मि / तोतूर्वः / तोतूर्मः / तोतूर्वाञ्चकार / तोतूर्विता / तोतूर्विष्यति / तोतूतु-तोतोर्तु---तोतूर्तात् / तोतूर्ताम् / तोतूर्वतु / तोतूर्हि / तोतूर्वाणि / लङि अतोतूर्वीत्-अतोतोः / अतोतूर्ताम् / अतोतूवुः / अतोतूर्वीः-अतोतोः / अतोतूर्तम् / अतोतूर्त / अतोतूर्वम् / अतोतूर्व / अतोतूर्म / तोतू ात् / लुङि ‘अस्तिसिचः' इति नित्यमीट् / अतोतूर्वीत् / अतोतूर्विष्यत् / थुर्वीधातोरुदाहरति / तोथोर्तीति // तुविद्रूपाणि / दोदोर्तीति // दुर्वीधातोः रूपम् / दोधोर्तीति / / धुर्वीधातोः रूपम् / मुर्छाधातोः मोमूछीतीति सिद्धवत्कृत्य ईडभावे आह / मोमोर्तीति॥ 'रालापेः' इति छस्य लोपः / इत्यादीति // मोमूछीषि-मोमोर्षि / मोमूच्छीमि-मोमोर्मि / मोमूर्छः / मोमूर्हि / अमोमूछत्-िअमोमूः / सिप्यप्येवम् / लुङि 'अस्तिसिचः' इति नित्यमीट् / अमोमूत् / अमोमूञ्छिष्यत् / विषयसप्तमीति // 'अजेय॑घञपोः' इति वीभावविधौ आर्धधातुके इत्यनुवृत्तं विषयसप्तम्यन्तमाधीयते / नतु परसप्तम्यन्तमित्यर्थः / ततः किमित्यत आह / तेनेति // विषयसप्तम्याश्रयणेनेत्यर्थः / विवक्षिते इति // यङि विवक्षिते ततः प्रागेव अजे भाव इत्यर्थः / एवञ्च कृते वीभावे हलादित्वाद्यङ् लभ्यते इति मत्वा आह / वेवीयते इति / / ननु अजेर्वीभावानन्तरं यडि सति तस्य 'योऽचि च' इति पाक्षिको लुक कुतो नोदाहियते इत्यत आह / अस्य यङ्लुङ्नास्तीति // विषयत्वेति // लुका लुप्तयः भाविज्ञानविषयत्वाभावेनेत्यर्थः / इति श्रीवासुदेवदीक्षितविदुष्पा विरचितायां सिद्धान्तकौमुदीव्याख्यायां बालमनोरमायां यङ्लुगन्तप्रक्रिया समाप्ता / For Private And Personal Use Only
Page #370
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीरस्तु / // अथ तिङन्तनामधातुप्रकरणम् // 2657 / सुप आत्मनः क्यच् / (3-1-8) इषिकर्मण: एषितृसम्बन्धिनः सुबन्तादिच्छायामर्थे क्यच्प्रत्ययो वा स्यात् / धात्ववयवत्वात्सुब्लुक् / 2658 / क्यचि च / (7-4-33) अस्य ईत् स्यात् / आत्मन: पुत्रमिच्छति पुत्रीयति / 'वान्तो यि प्रत्यये' (सू 63) गव्यति / नाव्यति / 'लोपः शाकल्यस्य' (सू 67) इति तु न / अपदान्तत्वात् / तथा हि / अथ नामधातुप्रक्रियाः निरूप्यन्ते / सुप आत्मनः क्यच // प्रत्ययग्रहणपरिभाषया सुबन्तादिति लभ्यते / 'धातोः कर्मणः' इति सूत्रात्कर्मणः इच्छायां वेत्यनुवर्तते / कर्मण इति पञ्चमी / कर्मकारकादिति लभ्यते। सन्निधानादिच्छाम्प्रत्येव कर्मत्वं विवक्षितम् / आत्मन्शब्दः स्वपर्यायः / तादर्थ्यस्य शेषत्वविवक्षायां षष्ठी / स्वार्थात्कर्मण इति लभ्यते / स्वश्च इच्छायां सन्निधापितत्वादेषितैव विवक्षितः / तथाच स्वस्मै यदिष्यते कर्मकारकं तद्वृत्तेस्सुबन्तादिच्छायां क्यज्वा स्यादिति फलति / तदिदमभिप्रेत्य आह। इषिकर्मणः एपितृसम्बन्धिनः इत्यादिना // एषित्रादिषिकर्मण इत्यर्थः / एषित्रा स्वार्थ यदिष्यते कर्मकारक तद्वाचकात्सुबन्तादिति यावत् / धात्ववयवत्वादिति // सुबन्तात् क्याच कृते तदन्तस्य सनाद्यन्ताः इति धातुत्वादिति भावः / क्यचि च // 'अस्य च्वौ' इत्यनुवर्तते / ई घ्राध्मोः' इत्यत ईग्रहणञ्चेति मत्वा शेषम्पूरयति / अस्येति // अकारस्येत्यर्थः / पुत्रीयतीति / / क्यचि पुत्र य इति स्थिते ईत्वे पुत्रीय इति धातोर्लडादिरित्यर्थः / आत्मनः किम् / राज्ञः पुत्रमिच्छति / पदविधित्वेन समर्थपरिभाषायाः प्रवृत्तेर्महान्तं पुत्रमिच्छतीत्यत्र पुत्रशब्दानक्यच् / गव्यतीति // गामात्मन इच्छतीत्यर्थः / नाव्यतीति / / नावमात्मन इच्छतीत्यर्थः / अपदान्तत्वादिति // 'लोपः शाकल्यस्य' इत्यस्य पदान्त एव प्रवृत्तेरिति भावः / नन्वन्तर्वर्तिविभक्त्या पदत्वमस्त्येवेत्यत आह / तथा हीति // यथा पदत्वन्न भवति तथोच्यते इत्यर्थः / For Private And Personal Use Only
Page #371
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बालमनोरमा / 369 369 2659 / नः क्ये / (1-4-15) क्यचि क्यडिः च नान्तमेव पदं स्यान्नान्यत् / सन्निपातपरिभाषया क्यचो यस्य लोपो न / गव्याञ्चकार / गव्यिता / नाव्याञ्चकार / नाव्यिता / नलोपः / राजीयति / 'प्रत्ययोत्तरपदयोश्च' (सू 1373) / त्वद्यति / मद्यति / 'एकार्थयोः' इत्येव / युष्मद्यति / अस्मद्यति 'हलि च' (सू 354) / गीर्यति / पूर्यति / 'धातोः' इत्येव / नेह / दिवमिच्छति दिव्यति / इह पुरमिच्छति पुर्यतीति माधवोक्तं प्रत्युदाहरणं चिन्त्यम् / पुगिरो: साम्यात् / नः क्ये // नकारादकार उच्चारणार्थः / 'सुप्तिडन्तम्' इत्यतस्सुबन्तं पदमित्यनुवर्तते / सुबन्तं नकारेण विशेष्यते / तदन्तविधिः / नकारान्तं सुबन्तं पदसंज्ञं स्यादिति लभ्यते / सुबन्तत्वादेव पदत्वे सिद्ध नियमार्थमिदम् / क्यग्रहणेन क्यच्क्यङोर्ग्रहणम् / लोहितादिडाज्भ्यः क्यष् वचनम्' इति वक्ष्यमाणतया हलन्तात् क्यषोऽभावात् / तदाह / क्यचि क्यङि चेत्यादिना // ननु गव्याञ्चकारेत्यत्र आम आर्धधातुकत्वात्तस्मिन् परे वकाराद्धल उत्तरस्य यकारस्य 'यस्य हलः' इति लोप: स्यादित्यत आह / सन्निपातेति // यकारनिमित्तकावादशसम्पनवकारस्य यकारलोपं प्रति निमित्तत्वासम्भवादिति भावः / गव्यितेति // इटि अतो लोपः / राजीयतीत्यत्र आह। नलोपः इति // राजानमिच्छतीत्यर्थे क्यचि राजन् यति इति स्थिते 'नः क्ये' इति पदत्वान्नकारस्य लोप इत्यर्थः / कृते नलोपे 'क्यचि च' इत्यकारस्य ईत्त्वमिति मत्वा आह / राजीयतीति // नच ईत्त्वे कर्तव्ये नलोपस्यासिद्धत्वं शङ्कयम् / 'नलोपस्सुप्स्वर' इति नियमादित्यलम् / ननु त्वामात्मनः इच्छति मामात्मनः इच्छतीत्यत्र युष्मदस्मद्भयाङ्कयचि धात्ववयवत्वात् सुपो लुकि प्रत्ययलक्षणाभावात् 'त्वमावेकवचने' इति कथं त्वमौ स्याताम् / विभक्तौ परत एव तद्विधानादित्यत आह / प्रत्ययोत्तरपदयोश्चेति // सुपो लुका लुप्तत्वेऽपि क्यचमादाय मपर्यन्तस्य त्वमाविति भावः / ननु युष्मानात्मनः इच्छति, अस्मानात्मनः इच्छति, युष्मद्यति, अस्मद्यति, इत्यत्रापि क्यचमादाय त्वमौ स्यातामित्यत आह / एकार्थयो. रित्येवेति // 'प्रत्ययोत्तरपदयोश्च' इत्यत्र 'त्वमावेकवचने' इति सूत्रमनुवृत्तम् / एकवचनशब्दश्च न रूढः किन्तु एकत्वविशिष्टार्थवृत्तित्वमेकवचनशब्देन विवक्षितमिति युष्मदस्मत्प्रक्रियायां प्रपञ्चितं प्रा / तथाच युष्मदस्मदोरेकत्वविशिष्टार्थवृत्तित्वाभावान्न त्वमाविति भावः / गिरमात्मनः इच्छति पुरमात्मनः इच्छतीत्यत्र गिर्शब्दात्पुर्शब्दाच्च क्यचि विशेषमाह / हलि चेति // उपधादीर्घ इति शेषः / ननु दिवमिच्छति दिव्यतीत्यत्रापि 'हलि च' इति दीर्घः स्यादित्यत आह / धातोरित्येवेति / 'हलि च' इति सूत्रे 'सिपि धातोः' इत्यतस्तदनुवृत्तेरिति भावः / दिव्यतीति // दिवशब्दः अव्युत्पन्न प्रातिपदिकमिति भावः / इहेति // 'हलि च' इति सूत्रे धातोरित्यनुवृत्तेः पुर्यतीत्यत्र न दीर्घ इति माधवग्रन्थश्चिन्त्य इत्यर्थः / कुत इत्यत आह / पुर्गिरोः साम्यादिति / 'गृ शब्दे, पृ पालनपूरणयोः' इत्याभ्याङ्किपि 'ऋत इद्धातोः' इति 'उदोष्ठ्यपूर्वस्य' इति च इत्त्वे उत्त्वे च कृते रपरत्वे गिर्शब्दस्य पुर्शब्दस्य च निष्पत्तेरिति भावः / 47 For Private And Personal Use Only
Page #372
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 370 सिद्धान्तकौमुदीसहिता [नामधातु दीव्यतीति दीर्घस्तु प्राचः प्रामादिक एव / अदस्यति / रीतः' (सू 1234) / कीयति / 'क्यच्च्योश्च' (सू 2119) / गार्गीयति / वात्सीयति / ' अकृत्सार्व-' (सू 2298) इति दीर्घः / कवीयति / वाच्यति / समिध्यति / 2660 / क्यस्य विभाषा / (6-4-50) हल: परयोः क्यच्क्यडोर्लोपो वा स्यादार्धधातुके / 'आदेः परस्य' (सू 44) / ' अतो लोपः' (सू 2308) / तस्य स्थानिवत्त्वाल्लघूपधगुणो न / समिधिता-समिध्यिता / 'मान्तप्रकृतिकसुबन्तादव्ययाच क्यच् न' (वा 1714) / किमिच्छति / इदमिच्छति / स्वरिच्छति / 2661 / अशनायोदन्यधनाया बुभुक्षापिपासागर्धेषु / (7-4-34) प्रामादिक एवेति // दीर्घशब्दस्य अव्युत्पन्नप्रादिपदिकत्वान्न धातुत्वम् / दिव्धातोः क्विबन्तात् क्याचि ऊठि धुशब्दाच्च क्याचि द्यूयतीत्येव उचितम् / विचि तु लघूपधगुणे 'लोपो व्योः' इति लोपे देशब्दात् क्याचि देयतीत्येवोचितमिति भावः / अदस्यतीति / अमुमात्मनः इच्छतीत्यर्थे अदस्शब्दात् क्याचि सुपो लुका लुप्तत्वाद्विभक्तिपरकत्वाभावान्न त्यदाद्यत्वम् / सान्तत्वानोत्त्वमत्त्वे / 'नः क्ये' इति नियमेन पदान्तत्वाभावान्न सस्य रुत्वमिति भावः / कर्तृशब्दात् क्यचि विशेषमाह / रीतः इति // गार्ग्यशब्दात् क्यचि विशेषमाह / क्यच्छ्योश्चेति // आपत्यस्य यो यकारस्य लोप इति भावः / कृते एलोपे ‘क्यचि च' इत्यकारस्य ईत्त्वं मत्वा आह / गार्गीयतीति // वात्सीयतीति / वात्स्यशब्दात् क्यचि पूर्ववत् / कविशब्दात् क्यचि विशेषमाह / अकृत्सार्वेति // वाच्यतीति // वाच्शब्दात् क्यचि ‘नः क्ये' इति नियमेन पदत्वाभावान्न कत्वम / 'वचिस्वपि' इति सम्प्रसारणन्त न / धातोः कार्यमच्यमानं धातुविहितप्रत्यये एवेति नियमात् / समिध्यतीति // समिध्शब्दात् क्यचि 'नः क्ये' इति नियमेन पदत्वाभावान्न जश्त्वम् / लुटस्तासि इटि समिध्य इता इति स्थिते 'यस्य हलः' इति नित्ये यलोपे प्राप्ते / क्यस्य विभाषा // 'यस्य हलः' इत्यतः हल इति पञ्चम्यन्तमनु. वर्तते / 'आर्धधातुके' इत्यधिकृतम् / तदाह / हलः परयोः क्यचक्यङोरिति / क्यष्तु नात्र गृह्यते / 'लोहितडाज्भ्यः क्यध्वचनम्' इति वक्ष्यमाणतया हलन्तात्तदभावात् / अन्तलोपमाशङ्कय आह / आदेः परस्येति // तथाच समिध् अ इता इति स्थिते आह / अतो लोपः इति // तथाच समिध् इता इति स्थिते लघूपधगुणमाशङ्कय आह / तस्य स्थानिवत्त्वादिति // क्यच्सूत्रे 'मान्ताव्ययेभ्यः प्रतिषेधः' इति वार्तिकम् / मान्तेभ्यः अव्ययेभ्यश्च क्यचः प्रतिषेध इत्यर्थे पुत्रमात्मनः इच्छति पुत्रीयतीत्यत्र न स्यात् / पुत्राविच्छतीत्यादावेव स्यात् / मान्तानि मान्ताव्ययानि तेभ्य इत्यर्थे स्वरिच्छतीत्यत्र क्यचः प्रतिषेधो न स्यात् / अतस्तद्वार्तिकं विवृण्वन्नाह / मान्तप्रकृतिकसुबन्तादव्ययाच्च क्यच नेति // अशनायोदन्य // अशनाय उदन्य धनाय इत्येषान्द्वन्द्वः / क्यजन्ताः इति // एते For Private And Personal Use Only
Page #373
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा। 371 क्यजन्ता निपात्यन्ते / अशनायति / उदन्यति / धनायति / 'बुभुक्षादौ' किम् / अशनीयति / उदकीयति / धनीयति / 2662 / अश्वक्षीरवृषलवणानामात्मप्रीतौ क्यचि / (7-1-51) एषां क्यचि असुगागम: स्यात् / 'अश्ववृषयोभैथुनेच्छायाम्' (वा 4309) / अश्वस्यति बडबा / वृषस्यति गौः / 'क्षीरलवणयोर्लालसायाम्' (वा 4315) / क्षीरस्यति बालः / लवणस्यत्युष्टः / ' सर्वप्रातिपदिकानां क्यचि लालसायां सुगसुकौ' (वा 4616--17) दधिस्यति-दध्यस्यति / मधुस्यतिमध्वस्यति / 2663 / काम्यञ्च / (3-2-4) उक्तविषये काम्यच स्यात् / पुत्रमात्मनः इच्छति पुत्रकाम्यति / इह 'यस्य हलः' (सू 2631) इति लोपो न / अनर्थकत्वात् / यस्य इति सङ्घातत्रयः शब्दाः क्रमेण बुभुक्षादिष्वर्थेषु निपात्यन्ते इत्यर्थः / भोक्तुमिच्छा बुभुक्षा / पातुभिच्छा पिपासा। गर्द्धः अभिकांक्षा / अशनायतीति // अश्यते यत् तदशनम् अन्नं, तद्भोक्तुमिच्छतीत्यर्थः / 'क्यचि च' इति ईत्त्वाभावो निपात्यते / ‘अकृत्सार्व' इति दीर्घः / उदन्यतीति // उदकं पातुमिच्छतीत्यर्थः / उदकशब्दस्य उदन्नादेशो निपात्यते नलोपाभावश्च / धनायतीति // जीवनार्थ सत्यपि धने अधिकं धनं वाञ्छतीत्यर्थः / ईत्वाभावो निपात्यते / अशनीयतीति // अशनम् अन्नं तत्सङ्ग्रहीतुमिच्छति / वैश्वदेवादार्थमित्यर्थः / उदकीयतीति // सस्यादिसेचनार्थमुदकमिच्छतीत्यर्थः / धनीयतीति // दरिद्रस्सन् जीवनाय धनमिच्छतीत्यर्थः / अश्वक्षीर // क्यचि परे. ऽसुगिति शेषपूरणम् / 'आजसेरसुक्' इत्यतस्तदनुवृत्तेरिति भावः / असुकि ककार इत् उकार उच्चारणार्थः / कित्त्वादन्त्यावयवः / 'अश्ववृषयोः' इति वार्तिकम् / अश्वस्यति बडबेति // मैथुनार्थमश्वमिच्छतीत्यर्थः / वृषस्यति गौरिति // मैथुनार्थं वृषमिच्छतीत्यर्थः / “वृषस्यन्ती तु कामुकी” इति कोशस्तु अश्ववृषरूपप्रकृत्यर्थपरित्यागेन मैथुनेच्छामात्रे लाक्षणिकः / 'क्षीरलवणयोः' इति वार्तिकम् / असुगिति शेषः / लालसा उत्कटेच्छा / सर्वप्रातिपदिकानामिति // इदमपि वार्तिकम् / लालसायां सर्वेषां प्रातिपदिकानां क्यच् वक्तव्यः / तस्मिन् परे प्रकृतीनां सुगसुकौ च वक्तव्यौ इत्यर्थः / न चानेनैव वार्तिकेन सिद्धे 'क्षीरलवणयोलालसायाम्' इति वार्तिकं व्यर्थमिति शङ्कयम् / 'क्षीरलवणयोः' इति वार्तिकं कात्यायनीयम् / 'सर्वप्रातिपदिकानाम्' इति तु मतान्तरमित्यदोषात्। एतच्च भाष्ये अपर आहे. त्यनेन ध्वनितम् / काम्यञ्च // 'सुप आत्मनः क्यच्' इत्युत्तरमिदं सूत्रम् / तदाह / उक्तविषये इति // पुत्रकाम्यतीति // कस्येत्संज्ञा तु न, फलाभावात् / अनर्थकत्वादिति // काम्यचः एकदेशस्य यकारस्य अर्थाभावादित्यर्थः / ननु बेभिदिता इत्यत्रापि For Private And Personal Use Only
Page #374
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 372 सिद्धान्तकौमुदीसहिता नामधातु ग्रहणमित्युक्तम् / यशस्काम्यति / सर्पिष्काम्यति / मान्ताव्ययेभ्योऽप्ययं स्यादेव / किङ्काम्यति / स्वःकाम्यति / 2664 / उपमानादाचारे / (3-1-10) उपमानात्कर्मणः सुबन्तादाचागर्थे क्यच् स्यात् / पुत्रमिवाचरति पुत्रीयति छालम् / विष्णूयति द्विजम् / 'अधिकरणाच्चेति वक्तव्यम्' (वा 1717) / प्रासादीयति कुट्यां भिक्षुः / कुटीयति प्रासादे / ___ 2665 / कर्तुः क्यङ् सलोपश्च / (3-1-11) उपमानात्कर्तुः सुबन्तादाचारे क्यङ् वा स्यात् , सान्तस्य तु कर्तृवाचकस्य लोपो वा स्यात् / क्यङ् वेत्युक्तेः पक्षे वाक्यम् / सान्तस्य लोपस्तु क्यङ्सन्नियोगशिष्टः / स च व्यवस्थितः / 'ओजसोऽप्सरसो नित्यमितरेषां यकारस्य अनर्थकत्वाल्लोपो न स्यादित्यत आह / यस्य इतीति // 'यस्य हलः' इत्यत्र यस्येत्यनेन यकाराकारसङ्घातग्रहणमित्यनुपदमेवोक्तमित्यर्थः / तथाच बेभिद्य इता इति स्थिते यङो यस्य सङ्घातस्यार्थवत्त्वाद्यकारलोपो निर्बाधः / प्रकृते तु काम्यजेकदेशस्य यस्यानर्थकत्वालोपो नेति भावः / यशस्काम्यतीति // ‘सोऽपदादौ' इति सत्वम्। ननु किमात्मनः इच्छति किकाम्यति स्वःकाम्यतीति कथम् / मान्ताव्ययानां नेत्यनुवृत्तेरित्यत आह / मान्ताव्ययेभ्योऽप्ययमिति // उपमानादाचारे // 'सुप आत्मनः क्यच्' इत्यनुवर्तते / 'धातोः कर्मणस्समानकर्तृकात्' इत्यतो धातोरिति / तदाह / उपमानात्कर्मणः इत्यादिना // उपमानं यत्कर्मकारकं तद्वृत्तेस्सुबन्तादित्यर्थः / पुत्रमिवेति // 'धातोः कर्मणः' इत्यतः वेत्यनुवृत्तिरनेन सूचिता / छात्रं पुत्रत्वेन उपचरतीत्यर्थः / विष्णूयतीति // द्विजं विष्णुत्वेन उपचरतीत्यर्थः / अधिकरणाच्चेति // उपमानभूताधिकरणवृत्तेरपि सुबन्तादाचारे क्यजिति वक्तव्यमित्यर्थः / प्रासादीयति कुट्यामिति // प्रासाद इव कुटयां हृष्टो वर्तते इत्यर्थः / कुटीयति प्रासादे इति // कुट्यामिव प्रासादे क्लिष्टो वर्तते इत्यर्थः / कर्तुः क्यङ् सलोपश्च // कर्तुरित्यावर्तते / कर्तुः क्यडित्येकं वाक्यम् / अत्र कर्तुरिति पञ्चम्यन्तम् / उपमानादाचारे इत्यनुवर्तते / 'धातोः कर्मणः' इत्यतः वेति च / तदाह / उपमानादिति // उपमानं यत्कर्तृकारकं तद्वृत्तेः सुबन्तादित्यर्थः / कर्तुः सलोपश्चेति द्वितीयं वाक्यम् / चकारः तुपर्यायः भिन्नक्रमः / स इति लुप्तषष्टीकं पृथक्पदम् / कर्तुरिति षष्ठ्यन्तस्य विशेषणम् / तदन्तविधिः / तदाह / सान्तस्य त्विति // पक्षे इति // क्यडभावपक्षे इत्यर्थः / क्यडभावपक्षे राकारलोप इति भ्रमं वारयति / सान्तस्य लोपस्त्विति // एतच्च महाभाष्ये स्पष्टम् / क्यङि सलोपविकल्पः स्यादित्यत आह / स च व्यवस्थितः इति // सान्तस्य सलोप इत्यर्थः / व्यवस्थामेव दर्शयति / ओजसोऽप्सरसः इति // इदं वार्तिकम् / ओज For Private And Personal Use Only
Page #375
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir * प्रकरणम्] बालमनोरमा / 373 विभाषया' (वा 1719-20) / कृष्ण इवाचरति कृष्णायते / ओजइशब्दो वृत्तिविषये तद्वति / ओजायते / अप्सरायते / यशायते-यशस्यते / विद्वायतेविद्वस्यते / त्वद्यते / मद्यते / अनेकार्थत्वे तु युष्मद्यते / अस्मद्यते / 'क्यङ्मानिनोश्च' (सू 837) कुमारीवाचरति कुमारायते / हरिणीवाचरति हरितायते / गुर्वीव गुरूयते / सपत्नीव सपत्नायते / सपतीयते / सपत्नीयते / युवतिरिव युवायते / पट्टीमृयाविव पट्टीमृदूयते / 'न कोपधायाः' (सू 838) / पाचिकायते / * आचारेऽवगल्भक्लीबहोडेभ्यः किव्वा' (वा 1721) / श्शब्दः इति // क्यङन्तोऽयम् / सनाद्यन्ता इति धातुत्वावृत्तिः / तत्र ओजश्शब्दः ओजस्विनि वर्तत इत्यर्थः / ओजायते इति // ओजस्वीवाचरतीत्यर्थः / ओजश्शब्दात् क्यडि सलोपे 'अकृत्सार्व' इति दीर्घ इति भावः / अप्सरायते इति // अप्सरश्शब्दात् क्यडि सलोपदीर्यो / क्यङो ङित्त्वादात्मनेपदम् / इतरेषां विभाषयेत्यस्योदाहरति / यशायते-यशस्यते इति // यशस्वीवाचरतीत्यर्थः / विद्वायते-विद्वस्यते इति // विद्वानिवाचरती. त्यर्थः / विद्वच्छब्दात् क्यङि सलोपविकल्पः / त्वद्यते / मद्यते इति // त्वमिव अहमिव आचरतीत्यर्थः / युष्मदस्मच्छब्दात् क्यडि 'प्रत्ययोत्तरपरयोश्च' इति मपर्यन्तस्य त्वमौ / युष्मद्यते / अस्मद्यते इति // यूयमिव वयमिव आचरतीत्यर्थः / 'त्वमावेकवचने' इत्यस्मात् 'प्रत्ययोत्तरपदयोश्च' इति सूत्रे एकवचने इत्यनुवृत्तेरेकत्वविशिष्टार्थवृत्तित्वे सत्येव युष्मदस्मदोस्त्वमाविति भावः / कुमार्यादिशब्दात् क्यडि पुंवत्त्वं स्मारयति / क्यङ् मानिनोश्चेति / कुमारायते इति // पुंवत्त्वेन डीपो निवृत्तौ दीर्घः / हरितायते इति // हरिणीशब्दात् क्यडि पुंवत्त्वेन ‘वर्णादनुदात्तात्' इति नत्वस्य डीषश्च निवृत्तौ दीर्घः / गुरूयते इति // गुर्वीशब्दात् क्यडि डीषो निवृत्तौ दीर्घः / सपत्नायते इति // शत्रुपर्यायात् सपत्नशब्दात् शारिवादित्वेन डीनन्तात् पुंवत्त्वेन डीनो निवृत्तौ दीर्घ इति भावः / सपतीयते इति // समानः पतिः स्वामी यस्याः इति बहुव्रीही सपतिशब्दस्य नत्वे डीपि च सपत्नीशब्दात् क्यङि पुंवत्त्वेन छीत्वनत्वयोनिवृत्ती दीर्घ इति भावः / सपत्नीयते इति // विवाहनिबन्धनं पतिशब्दमाश्रित्य समानः पतिः यस्याः इति बहुव्रीहौ सपत्नीशब्दस्य नित्यस्त्रीलिङ्गत्वान्न पुंवत्त्वमिति भावः / युवायते इति // युवतिशब्दात् क्यङि पुंवत्त्वे तिप्रत्य. यस्य निवृत्तौ नलोपे दीर्घ इति भावः / वयोवाचिनाजातिकार्य वैकल्पिकमिति 'जातेरस्त्री. विषयात्' इत्यत्र भाष्ये स्पष्टम् / एतेन 'जातेश्च इति निषेधादह पुवत्त्वं दुर्लभमित्यपास्तमिति शब्देन्दुशेखरे स्थितम् / पट्टीमृदूयते इति // इह पूर्वपदस्य क्यङ्परकत्वाभावान पुंवत्त्वम् / ननु पाचिकेवाचरति पाचिकायते इत्यत्रापि 'क्यङ्मानिनोश्च' इति पुंवत्त्वेन टाप: 'प्रत्यय. स्थात्' इति इत्त्वस्य च निवृत्ती पाचकायते इति स्यादित्यत आह / न कोपधायाः इति // 'आचारेऽवगल्भक्लीबहोडेभ्यः क्विब्वा' इति वार्तिकम् / उपमानादित्यनुवर्तते / 'धातोः कर्मणः' इत्यतो वाग्रहणस्यास्मिन्प्रकरणे अनुवृत्त्यैव सिद्धे वाग्रहणं व्यर्थमित्यत आह / वा. For Private And Personal Use Only
Page #376
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 374 सिद्धान्तकौमुदीसहिता [[नामधातु वाग्रहणात् क्यङपि / अवगल्भादयः पचाद्यजन्ताः / किप्सन्नियोगेनानुदात्तत्वमनुनासिकत्वं चाच्प्रत्ययस्य प्रतिज्ञायते / तेन तङ् / अवगल्भते / क्लीबते / होडते / भूतपूर्वादप्यनेकाच आम् / एतद्वार्तिकारम्भसामर्थ्यात् / न च अवगल्भते इत्यादिसिद्धिस्तत्फलम् / केवलानामेवाचारेऽपि वृत्तिसम्भवात् / धातूनामनेकार्थत्वात् / अवगल्भाञ्चक्रे / क्लीबाञ्चके / होडाञ्चके / वार्तिकेऽवेत्युपसर्गाविशिष्टपाठात्केवलादुपसर्गान्तरविशिष्टाच्च क्यडेवेति माधवादयः / ग्रहणात् क्यङपीति // अन्यथा विशेषविहितत्वात् विपा क्यङो बाधः स्यादिति भावः / तथाचात्र वाशब्दो विकल्पार्थक इति फलितम् / अत्र सुप इति नानुवर्तते / प्रातिपदिकात् क्यङोऽप्राप्तौ वाग्रहणात् समुच्चीयते इति केचित् / अवगल्भादयः इति // ‘गल्भ धाष्ट्र्ये' (अवपूर्वः) 'क्लीब अधाष्ये' 'होड़ अनादरे' एभ्यः पचाद्यचि अवगल्भादिशब्दास्त्रयो निष्पना इत्यर्थः / तथाच अवगल्भ इवाचरति क्लीब इवाचरति होड इवाचरतीत्यर्थे अवगल्भादिशब्देभ्यः क्विपक्यडाविति स्थितम् / अवगल्भते इत्यात्मनेपदलाभायाह / क्विप्सन्नियोगे. नेति // अन्त्यस्य अकारस्य अनुदात्तत्वमनुनासिकत्वञ्चात्र प्रतिज्ञायते / ततश्च तस्य इत्संज्ञायां लोपे अनुदात्तत्त्वादात्मनेपदं लभ्यते। तदाह / तेन तङिति // अवगल्भते इति॥ विपि भकारादकारस्य लोपे हलन्ताल्लडादौ तडि शविति भावः / ननु अवगल्भाञ्चके, क्लीबाञ्चक्रे, होडाञ्चक्रे, इत्यत्र कथमाम् / अन्त्यस्य च इत्संज्ञालोपाभ्यामपहारेण धातूनामेकाच्त्वेन 'कास्यनेकाच्' इत्यस्याप्रवृत्तेः / नच अवगल्भ इत्यस्य विवन्तस्य धातोरनेकाच्कत्वमस्तीति वाच्यम् / " उपसर्गसमानाकारं पूर्वपदं धातुसंज्ञाप्रयोजके प्रत्यये चिकीर्षिते पृथक् क्रियते” इत्यनुपदमेव वक्ष्यमाणत्वादित्यत आह / भूतपूर्वादपीति // विबुत्पत्तेः प्राक्तनमनेकान्त्वं भूत पूर्वगल्या आश्रित्येत्यर्थः / भूतपूर्वगत्याश्रयणे प्रमाणमाह / एतद्वार्तिकेनेति // 'सर्वप्रातिपदिकेभ्यः क्लिव्वा' ति वक्ष्यमाणवार्तिकादेव अवगल्भते अवजगल्भे इत्यादि सिद्धौ पुनरेभ्यः क्विबिधानं तत्सन्नियोगेन अन्त्यवर्णस्य अनुदात्तत्वानुनासिकत्वप्रतिज्ञानार्थ सद्भूतपूर्वगत्या अनेकाच्वाश्रयणं ज्ञापयतीत्यर्थः / नन्वनुदात्तत्वानुनासिकत्वप्रतिज्ञानस्यात्मनेपदसिद्धावुपक्षीणत्वात् कथमुक्तज्ञापकतेत्याशङ्कय निराकरोति / न चावगल्भते इत्यादिसिद्धिस्तत्फलमिति // कुत इत्यत आह / केवलानामिति // अच्प्रत्ययविहितानान्धातुपाठसिद्धानामनुदात्तेतामेव गल्भादिधा. तूनामवगल्भ इवाचरतीत्याद्यर्थेषु वृत्तिसम्भवात् / तच्च कुत इत्यत आह / धातूनामनेकार्थत्वादिति // एवञ्च 'आचारेऽवगल्भ' इति विविधानमनबन्धसम्भवाथ सद्भतपूर्वगत्या अनेकाच्वाश्रयणं ज्ञापयतीति सिद्धम् / नच 'सर्वप्रातिपदिकेभ्यः' इति क्विपि अवगल्भतीत्यादिवारणाय अनुबन्धासञ्जनमुपक्षीणमिति कथन्तस्य उक्तज्ञापकतेति वाच्यम् / 'सर्वप्रातिपदिकेभ्यः' इति वार्तिकेन विपि तथा प्रयोगे इष्टापत्तेः / भूतपूर्वाश्रयणपरभाष्यप्रामाण्येन 'सर्वप्रातिपदिकेभ्यः' इति वार्तिकस्य अवगल्भादिभ्यः अप्रवृत्तिविज्ञानाद्वेत्यास्तान्तावत् / 'आचारेऽवगल्भ' इत्यत्र अवेत्यस्य प्रयोजनमाह / अवेत्युपसर्गेति // केवलादिति // उपसर्गविहीनादवगल्भशब्दादित्यर्थः / For Private And Personal Use Only
Page #377
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् ] बालमनोरमा / 375 तङ् नेति तूचितम् / 'सर्वप्रातिपदिकेभ्यः क्विब्वा वक्तव्यः' (वा 1722) / पूर्ववार्तिकं तु अनुबन्धासङ्गार्थ तत्र किबनूद्यते / प्रातिपदिकग्रहणादिह सुप इति न सम्बध्यते / तेन पदकार्य न / कृष्ण इवाचरति कृष्णति / अतो गुणे' (सू 191) इति शपा सह पररूपम् / अ इवाचरति अति / अत: / अन्ति / प्रत्ययग्रहणमपनीय अनेकाच इत्युक्तेर्नाम् / औ / अतुः / उ: / द्वित्वम् / 'अतो गुणे' (सू 191) / अत आदेः' (सू 2248) इति दीर्घः णल / उपसर्गान्तरेति // प्रगल्भानुगल्भादिशब्दादित्यर्थः / क्यङेवेति // न तु क्विबित्यर्थः / माध. वादयः इत्यस्वरसोद्भावनम् / तीजमाह / तङ् नेति तूचितमिति // केवलादुपसर्गान्तरविशि टाच्च गल्भशब्दात् अनेन विवभावेऽपि ‘सर्वप्रातिपदिकेभ्यः' इति वार्तिकेन विप् निर्वाधः / परन्तु अवपूर्वत्व एवानुबन्धासञ्जनादात्मनेपदमेव तत्र नेति वक्तुमुचितमित्यर्थः / सर्वप्रातिपदिकेभ्यः इति // आचारे इति शेषः। नन्वनेनैव वार्तिकेन सिद्धे 'आचारेऽवगल्भ' इति वार्तिकं व्यर्थमित्यत आह / पूर्ववार्तिकन्त्विति // अन्त्यवर्णस्य इत्संज्ञासिद्ध्यर्थमित्यर्थः / तर्हि तत्र क्विग्रहणं व्यर्थमित्यत आह / तत्र क्विबनूद्यते इति // तत्सन्नियोगेनानुबन्धासङ्गार्थमित्यर्थः / पदकार्य नेति // राजानतीत्यादौ नलोपादिकनेत्यर्थः / अन्यथा अन्तर्वर्तिविभक्त्या पदत्वान्नलोपादिकं स्यादिति भावः / पररूपमिति // कृष्णशब्दात् क्विबन्ताल्लडादौ शपि 'अतो गुणे' इति पररूपमित्यर्थः / कृष्णाञ्चकार / कृष्णिता / कृष्णिप्यति / कृष्णतु / अकृष्णत् / कृष्णेत् / कृष्णायात् / अतो लोपात्परत्वात् 'अकृत्सार्व' इति दीर्घः / विशेषविहितत्वादतो लोप इत्यन्ये / अ इवेति // अः विष्णुः / स इवेत्यर्थः / अतीति // शपा पररूपम् / असि / अथः / अथ / आमि / आवः / आमः / क्विफ्प्रत्ययान्तत्लाल्लिटि 'कास्प्रत्ययात्' इत्याम्प्रत्ययमाशङ्कय आह / प्रत्ययग्रहणमपनीयेति // औ / अतुः / उः / इति सिद्धरूपप्रदर्शनम् / तत्र प्रक्रियान्दर्शयति / द्वित्वमिति // णलि 'द्विर्वचनेऽचि' इति लोपस्य निषेध इति भावः / अतो गुणे इति // द्वित्वे कृते अ अ अ इति स्थिते अन्तरङ्गत्वादतो लोपं बाधित्वा पररूपमिति भावः / अत आदेरिति // नच परत्वानित्यत्वादपवादत्वाच्च ‘अतो गुणे' इत्यस्मात्प्राक् 'अत आदेः' इत्यस्य प्रवृत्तिरिति वाच्यम् / तस्य बहिरङ्गत्वात् / ‘अत आदेः' इत्यस्यापवादत्वेऽपि आनर्देत्यत्र हलादिशेषात्प्रागेव परत्वात् ‘अत आदेः' इत्यस्य चरितार्थत्वेन बाधकत्वासम्भवात् / “अपवादोऽपि यद्यन्यत्र चरितार्थस्तन्तिरङ्गेण बाध्यते" इत्युक्तेः इत्यन्यत्र विस्तरः / यद्यप्यत्र प्रक्रियाव्युत्क्रमे फलविशेषो नास्ति / तथापि न्याय्यत्वादेवमुक्तम् / णल औ इति // पररूपे 1. 'अनेकाज्यहणं चुलुम्पाद्यर्थम् ' इतिवत् एकाज्च्यावृत्त्यर्थम् इत्यनुक्त्या प्रत्ययान्तैकाज्भ्योऽप्याम् भवत्येव-इति नागेशसिद्धान्तः / For Private And Personal Use Only
Page #378
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदीसहिता [नामधातु औ / वृद्धिः। अतुसादिषु तु 'आतो लोप इटि च' (सू 2372) इत्याल्लोपः / मालेवाचरति मालाति / लिङ्गविशिष्टपरिभाषयकादेशस्य पूर्वान्तत्वाद्वा क्विप् / मालाञ्चकार / लङि / अमालात् / अत्र हल्ङयादिलोपो न / ङीप्साहचर्यादापोऽपि सोरेव लोपविधानात् / इट्सकौ / अमालासीत् / कविरिव कवयति / आशीलिङि / कवीयात् / ‘सिचि वृद्धिः-' (सू 2297) इत्यत्र धातो:' इत्यनुवर्त्य धातुरेव यो धातुरिति व्याख्यानान्नामधातोर्न वृद्धिरिति कैयटादयः / अकवयीत् / माधवस्तु नामधातोरपि वृद्धिमिच्छति / अकवायीत् / विरिव दीर्घ च आ अ इति स्थिते 'आत औ णलः' इत्यौत्वमिति भावः / वृद्धिरिति // आ औ इति स्थिते 'वृद्धिरेचि' इति वृद्धिरित्यर्थः / तथा च औ इति रूपं परिनिष्ठितम् / अतुसा. दिष्विति // अ अतुस् , अ उस् , इति स्थिते द्वित्वे पररूपे ‘अत आदेः' इति दीर्धे आतो लोप इत्यर्थः / अतुः / उः / इति प्रत्ययमात्रं शिष्यते। थलि इटि द्वित्वे दीर्घ आल्लोपे, इथ / अथुः / अ। औ। इव / इम / वस्तुतस्तु 'कास्यनेकाज्ग्रहणम्' इति वार्तिकव्याख्यावसरे प्रत्ययग्रहणमपनीयेति भाष्ये नोक्तम् / कासेश्च प्रत्ययान्ताच्च आमिति लभ्यते। अत एव 'आचारेऽवगल्भक्तीबहोडेभ्यः' इति वार्तिके अवगल्भाञ्चक्रे इत्यादी अन्त्यवर्णस्यानुबन्धत्वेन एकाच्त्वेऽपि 'कास्प्रत्ययात्' इत्यामित्युक्तं भाष्ये इति शब्देन्दुशेखरे प्रपञ्चितम् / इता / इष्यति / अतु-अतात् / अताम् / अन्तु / अ-अतात् / अतम् / अत / आनि / आव / आम / आत् / आताम् / आन् / आः। आतम् / आत / आम् / आव / आम / विधिलिङि एत् / एताम् / एयुः / ए: / एतम् / एत / एयम् / एव / एम। आयात् / आयास्ताम् / आयासुः / लुडि 'इट ईटि' इति सिज्लोपे 'आटश्च' इति वृद्धिं बाधित्वा परत्वादतो लोपे इटा सह आटो वृद्धौ ऐत् , ऐष्टाम् , ऐषुः, इत्यादीति केचित् / आर्धधातुकोपदेशकाले एव परत्वादतो लोपे अङ्गस्याभावादाट नेत्यन्ये / ईत् / ईस्ताम् / इत्यादि / ऐष्यत् / वस्तुतस्तु आकारान्तेभ्यः आचारे क्विप् नास्त्येवेति विश्वपाशब्दनिरूपणे प्रपश्चितम् / ननु मालाशब्दस्य टाप्प्रत्ययान्तत्वेन प्रातिपदिकत्वाभावात्ततः कथं क्विवित्यत आह / लिङ्गविशिष्टेति // ङीप्साहचर्यादिति // यन्तादाचारक्विबन्तात् गौरीशब्दात् लुङि अगौरयीत् इत्यादौ तिस्योङयन्तात्परत्वासम्भवात् तत्साहचर्यादाबन्तादपि न तयोर्लोप इत्यर्थः / कवयतीति // शपि गुणायादेशौ। कवी. यादिति // ‘अकृत्सार्व' इति दीर्घः / लुडि अकवि ईत् इति स्थिते सिचि वृद्धिमाशङ्कय आह / सिचि वृद्धिरित्यति // सिचा धातोराक्षेपतो लाभेऽपि 'ऋत इद्धातोः' इत्यतस्तदनुवृत्तेर्धातुरेव यो धातुरिति लभ्यते इति भावः / कैयटादयः इति // ‘इको गुणवृद्धी' इति सूत्रे गोशब्दादाचारक्विपि अगवीदित्युपक्रम्य तथोक्तत्वादिति भावः / माधवस्त्विति // 'सिचि वृद्धिः' इत्यत्र 'ऋत इद्धातोः' इत्यतो धातुग्रहणानुवृत्तौ मानाभावेन धातुरेव यो धातुरित्युक्तार्थालाभादिति तदाशयः / वस्तुतस्तु 'इको गुणवृद्धी' 'वदव्रजहलन्तस्याचः' इत्यादिसूत्रस्थभाष्ये सिचि परतः एजन्तं नास्तीत्युक्तत्वादेजन्तेभ्यः आचारक्विप नास्त्येवेति For Private And Personal Use Only
Page #379
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् ] बालमनोरमा। 377 वयति / विवाय / विव्यतुः / अवयीत्-अवायीत् / श्रीरिव श्रयति / शिश्राय / शिश्रियतुः / पितेव पितरति / आशिषि रिङ् / पित्रियात् / भूरिव भवति / अत्र ‘गातिस्था—' (सू 2223) इति 'भुवो वुक्-' (सू 2174) इति ‘भवते:-' (सू 2181) इति च न भवति / अभिव्यक्तत्वेन धातुपाठस्थस्यैव तव ग्रहणात् / अभावीत् / बुभाव / दुरिव द्रवति / ‘णिश्रि—' (सू 2312) इति चङ् न / अद्रावीत् / 2666 / अनुनासिकस्य क्विझलोः क्ङिति / (6-4-15) अनुनासिकान्तस्योपधाया दीर्घः स्यात्क्वौ झलादौ च विङति / इदमिवाचरति इदामति / राजेव राजानति / पन्था इव पथीनति / मथीनति / ऋभुक्षीणति। द्यौरिव देवतीति माधवः / अत्र उठि द्यवतीत्युचितम् / क इव कति / 'चको' इति हरदत्तः / माधवस्तु ' ण्यल्लोपौं' इति वचनाण्णलि शब्देन्दुशेखरे प्रपञ्चितम् / विरिवेति // विः पक्षी स इवेत्यर्थः / अभिव्यक्तत्वेनेति // अभावीदिति // इह 'गातिस्था' इति सिचो न लुक् / बुभावेति // इह न वुक् / अभ्यास. स्य अत्त्वञ्च न / चङ् नेति // ‘णिश्रि' इति सूत्रे द्रुग्रहणेन धातुपाठस्थस्यैव ग्रहणादिति भावः। अनुनासिकस्य // अङ्गस्येत्यधिकृतमनुनासिकेन विशेष्यते / तदन्तविधिः / 'नोपधायाः' इत्यतः उपधाया इति 'ठूलोपे' इत्यतो दीर्घ इति चानुवर्तते / तदाह / अनुनासि. कान्तस्येत्यादिना // इदामतीति // “हलन्तेभ्यः आचारक्विप नास्ति” इति 'स्वनद्यापः' इति सूत्रभाष्ये स्पष्टमिति शब्देन्दुशेखरे स्थितम् / पथीनतीति // पथिन्शब्दात् क्विपि अनुनासिकस्येति इकारस्य दीर्घः / इदन्तु माधवानुरोधेन। विबभ्युपगमे तिपि पथेनतीत्येव युक्तम् / ‘इन्हन्' इति नियमेन दीर्घाप्राप्तेः। नच नियमस्य सजातीयापेक्षत्वात् सुबानन्तर्ये एवायन्नियमो नान्यत्रेति वाच्यम् / तथा सति वृतघ्नः स्त्री वृत्रघ्नीत्यत्रापि अल्लोपं बाधित्वा अन्तरङ्गत्वात् 'अनुनासिकस्य' इत्युपधादीर्घापत्तेरित्याहुः / देवतीतीति // दिवशब्दादाचारकिबन्तात् शपि लघूपधगुणः। 'नः क्ये' इति नियमेन अपदान्तत्वात् 'दिव उत्' इत्युत्त्वन्नेति भावः। अत्र ऊठीति // दिवशब्दात् क्विपि च्छोः' इति वकारस्य ऊठि कृते लघूपधगुणं बाधित्वा परत्वादिकारस्य यणि घुशब्दात् शपि ऊकारस्य गुणे अवादेशे च द्यवतीति रूपमुचितमित्यर्थः / चकाविति // कशब्दात् क्विबन्ताल्लिटि णलि द्वित्वे चुत्वे चक अ इति स्थिते ककारादकारस्य अतो लोपात्परत्वादृद्धौ आकारे 'आत औ णलः' इत्यौत्वे वृद्धिरेकादेश इति भावः / माध. वस्त्विति // चक अ इति स्थिते पूर्वविप्रतिषेधाद्वृद्धिं बाधित्वा ककारादकारस्य अतो लोपे कृते णलोऽकारेण सह चक इति रूपमित्यर्थः / नचैवं सति अ इवाचरति अति / औ। अतुः इत्यत्रापि लिटि 'अत आदेः' इति दीर्घ बाधित्वा अतो लोपः स्यादिति वाच्यम् / ण्यल्लोपाविति पूर्वविप्रतिषेधलभ्यः ‘अतो लोपः' सन्निहितमेव 'अकृत्सार्व' इति दीर्घ बाधते / 'नतु 48 For Private And Personal Use Only
Page #380
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 378 सिद्धान्तकौमुदीसहिता [नामधातु वृद्धिं बाधित्वा अतो लोपात् चक इति रूपमाह / स्व इव सस्वौ / सस्व / यत्तु स्वामास / स्वाञ्चकार इति / तदनाकरमेव / 2667 / भृशादिभ्यो भुव्यच्चेर्लोपश्च हलः / (6-1-12) अभूततद्भावविषयेभ्यो भृशादिभ्यो भवत्यर्थे क्यङ् स्याद्धलन्तानामेषां लोपश्च / अभृशो भृशो भवति भृशायते / 'अच्वे:' इति पर्युदासबलात् 'अभूततद्भावे' इति लब्धम् / तेनेह न। क्व दिवा भृशा भवन्ति। ये रात्रौ भृशा नक्षत्रादयस्ते दिवा क्व भवन्तीत्यर्थः / 'सुमनस्' अस्य सलोपः / सुमनायते / चुरादौ ‘संग्राम युद्धे' इति पठ्यते / तत्र ‘संग्राम' इति प्रातिपदिकम् / तस्मात् 'तत्करोति-' इति णिच् सिद्धः / तत्सन्नियोगेनानुबन्ध आसज्यते / अत आदेः' इति दीर्घमपि / 'अनन्तरस्य' इति न्यायादिति माधवाशय इत्याहुः। तदनाकरमेवेति // अनेकाच्वाभावादिति भावः / वस्तुतस्तु प्रत्ययग्रहणमपनीयेत्यस्य भाष्ये अदर्शनात् प्रत्ययान्तत्वादाम्भवत्येवेति युक्तमेवेत्यनुपदमेवोक्तम् / भृशादिभ्यो // भवनं भूः भावे क्विप् / तदाह / भवत्यर्थे इति // भवने इत्यर्थः / क्यङ् स्यादिति // 'कर्तुः क्यङ् सलोपश्च' इत्यतस्तदनुवृत्तेरिति भावः / हलन्तानामेषामिति // भृशादिषु ये हलन्ताः तेषां सलोपः क्यङ् चेत्यर्थः / 'ननु अभूततद्भावे' इति कुतो लब्धमित्यत आह / अच्व्येरिति पर्यु. दासबलादिति // अभूततद्भावग्रहणमिति वार्तिकमेतल्लब्धार्थकथनपरमिति भावः / ये रात्रौ भृशाः इति // प्रकाशातिशयवन्त इत्यर्थः / भृशादिषु हलन्तमुदाहरति / सुमनस् इति // सुमनायते इति // असुमनाः सुमनाः भवतीत्यर्थः / यद्यपि स्त्रियामित्यधिकारे 'अप्सुमनस्समासिकतावर्षाणाम्बहुत्वञ्च' इति लिङ्गानुशासनसूत्रे सुमनश्शब्दस्य नित्यं बहुवचन विहितम् / तथापि तद्देवादिपर्यायरूढविषयम् / सु शोभनं मनो यस्येति सुमनाः इति बहुव्रीहियोगिक इति भावः / सुमनायत इति क्यङि सलोपे ‘अकृत्सार्व' इति दीर्घः / ननु लडि मनश्शब्दात्प्रागटि ‘स्वमनायत' इति वक्ष्यमाणमनुपपन्नम् / अङ्गस्य अड्डिधानात् सुमनशब्दस्य समस्तस्यैव लडं प्रत्यङ्गत्वात् / “प्रत्ययग्रहणे यस्मात् स विहितस्तदादेस्तदन्तस्य ग्रहणम्" इत्याशङ्कय आह / चुरादौ संग्राम युद्ध इति पठ्यते इति // ततश्च क्वचित् सोपसर्गपाठबलादन्यस्मात् सोपसर्गादाचारक्किपि उपसर्गस्य न धातुसंज्ञाप्रवेश इति विज्ञायते इत्यर्थः / ननु चुरादौ सङ्ग्रामेति समस्तो धातुः, नतु सोपसर्गो ग्रामशब्दः / एवञ्चास्य प्रातिपदिकत्वाभावात् सोपसर्गात् क्विपि उपसर्गस्य न धातुसंज्ञाप्रवेश इत्यत्र कथमिदङ्गमकमित्यत आह / तत्र संग्राम इति प्रातिपदिकमिति // 'ग्रसेराच' इत्यौणादिके मन्प्रत्यये निष्पन्नस्य ग्रामशब्दस्य ‘कृत्तद्धित' इति प्रातिपदिकत्वम् / अव्युत्पत्तिपक्षे 'अर्थवदधातुः' इति प्रातिपदिकत्वमित्यर्थः / ननु चुरादावस्य पाठो धात्वधिकारविहितचौरादिकणिजर्थः / एवञ्च प्रातिपदिकत्वेन चुरादौ तस्य पाठो व्यर्थ इत्यत आह / तस्मादिति // तस्मात् सङ्ग्राम इति For Private And Personal Use Only
Page #381
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा / युद्धे योऽयं ग्रामशब्दः इत्युक्तेऽपि सामर्थ्यात्संग्रामशब्दे लब्धे विशिष्टपाठो ज्ञापयति / 'उपसर्गसमानाकारं पूर्वपदं धातुसंज्ञाप्रयोजके प्रत्यये चिकीर्षिते पृथक् क्रियते' इति / तेन मनःशब्दात्प्रागट् / स्वमनायत / उन्मनायते / उदमनायत / एवं च अवागल्भत अवागल्भिष्टेत्यादावप्यवेत्यस्य पृथक्करणं बोध्यम् / ज्ञापकं च सजातीयविषयम् / तेन यत्रोपसर्गस्वरूपं सकलं श्रूयते न प्रातिपदिकात् चौरादिकणिजसम्भवेऽपि 'तत्करोति' इत्यर्थे णिच् सिद्ध इत्यर्थः / ननु 'तत्करोति' इत्यनेनैव सङ्ग्रामशब्दात् प्रातिपदिकाणिसिद्धेः किमर्थमिह चुरादौ तस्य पाठ इत्यत आह। तत्सनियोगेनेति // णिच्सन्नियोगेन अकारस्य इत्संज्ञकस्य अनुदात्तत्त्वार्थकस्य आसज्ञनार्थ इत्यर्थः। नच मकारादकारस्य इत्संज्ञकत्वे अल्लोपस्य णिनिमित्तकत्वाभावादससङ्ग्रामत इत्यत्र ‘णौ चङथुपधायाः' इत्युपधाहस्वः स्यादिति वाच्यम् / सङ्ग्रामेत्ययं हि कथादित्वाददन्तः / तस्मादकारः अनुबन्धत्वेनासज्यते इत्यर्थः / एवञ्च णौ अतो लोपे सति णावग्लोपित्वानोपधाहूस्वः / कथादित्वलक्षणादन्तत्वालाभायैवास्य चुरादौ पाठ इति भावः / ननु चुरादौ सङ्ग्रामशब्दस्य 'तत्करोति' इति णिचि परे अस्त्वनुबन्धासङ्गः / तथापि आचारक्विपि उपसर्गस्य न धातुसंज्ञाप्रवेश इत्यत्र कथमस्य ज्ञापकतेत्यत आह / युद्धे इति // सामर्थ्यादिति // ग्राम युद्धे इत्येतावतैव सङ्ग्रामशब्दो लभ्यते / केवलस्य ग्रामशब्दस्य युद्धे प्रयोगाभावादित्यर्थः / विशिष्टपाठः इति // सङ्ग्रामशब्दपाठ इत्यर्थः / ज्ञाप्यमर्थमाह / समानाकारमिति // सङ्ग्रामशब्दे युद्धवाचिनि समित्यस्य क्रियायोगाभावात् समानाकारमित्युक्तम् / धातुसंज्ञाप्रयोजके इति। क्विबादाविति शेषः / पृथक् क्रियते इति // तथाच न तस्य धातुसज्ञाप्रवेश इत्यर्थः। ततः किमित्यत आह / तेनेति // सम् इत्यस्य धातुसंज्ञाप्रवेशाभावेनेत्यर्थः / तथाच सुमनश्शब्दात् आचारक्विपि विवक्षिते मनश्शब्दमात्रस्य धातुत्वात्ततो लङि मनश्शब्दस्यैवाङ्गत्वात्ततः प्रागेव अट् / न तु सुमनस् इति समुदायात्प्रागित्यर्थः / एतेन सङ्ग्रामयतेरेव सोपसर्गात् नान्यस्मादित्यादि भाष्यं 'भृशादिभ्यः' इति सूत्रस्थं व्याख्यातमिति बोध्यम् / उन्मनायते इति // भृशादित्वात् क्यङि सलोपः / एवञ्चेति // एवमुक्तरीत्या 'आचारेऽवगल्भ' इति क्विब्विधावपि अवेत्यस्य पृथक्करणात् गल्भशब्दात्प्रागेव अट् इत्यर्थः / ननु आ ऊढः ओढः 'कुगति' इति समासः / अस्माद्भशादित्वात् क्यङि ओढायते इत्यादि रूपम् / अत्रापि आङो धातुसंज्ञाप्रवेशो न स्यात् / तत्र यद्यपि लङि ऊढशब्दाद्वा आङो वा प्राक् आटि न रूपे विशेषः / उभयथापि औढायतेत्येव रूपं सिद्धमेव / तथापि ओढायेति क्यङन्तात् त्वाप्रत्यये अतो लोपे ओढायित्वेत्येवेष्यते। अत्र क्यङि चिकीर्षिते उक्तरीत्या पृथक्कृतस्य आङ: 'कुगतिप्रादयः' इति वाप्रत्ययान्तेन समासे सति 'समासेऽनपूर्वे क्वो ल्यप्' इति ल्यप् स्यादित्यत आह / ज्ञापकञ्च सजातीयविषयमिति // तदेवोपपादयति / तेनेति // चुरादौ 'सङ्ग्राम युद्धे' इति सम्ग्रहणस्य उक्तार्थे पृथक्करणे ज्ञापकस्य सजातीयविषयकत्वाश्रयणेन यत्र उपसर्गस्वरूपं अविकृतं श्रूयते नत्वेकादेशेनापहृतं तत्रैव उपसर्गस्य पृथक्कृतिरिति विज्ञायते इत्यर्थः / सङ्ग्रामे सम्ग्रह For Private And Personal Use Only
Page #382
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 380 सिद्धान्तकौमुदीसहिता [नामधातु त्वादेशेनापहृतं तवैव पृथक्कृतिः / एवं च ‘आ ऊढः ओढः' स इवाचर्य ओढायित्वा / अब ‘उन्मनाय्य, अवगल्भ्य' इतिवन्न ल्यप् / ज्ञापकस्य विशेषविषयत्वे षाष्ठवार्तिकं तद्भाष्यं च प्रमाणम् / तथाहि / 'उस्योमाझ्वाट: प्रतिषेधः' (3636) / उस्योमाङोश्च परयोराटः पररूपं नेत्यर्थः / उस्रामैच्छत् औस्रीयत् / औङ्कारीयत् / औढीयत् / 'आटश्च' (सू 269) इति चशब्देन पुनर्वृद्धिविधानादिदं सिद्धमिति षाष्ठे स्थितम् / णस्य ज्ञापकस्य एवंविधत्वादिति भावः / ततः किमित्यत आह / एवञ्चेति // ओढायित्वेति // ओढशब्दात् भृशादित्वात् क्यङि ओढायेत्यस्मात् क्यडन्तात् क्वाप्रत्यये अतो लोपे रूपम् / अत्रेति // अत्र न ल्यबित्यन्वयः / क्यङि विवक्षिते आङः एकादेशेनापहृतत्वेन पृथक्करणाभावे सति तस्य आङः त्वाप्रत्ययान्तेन समासाभावान ल्यबिति भावः / उन्मनाय्य, अवगल्भ्यवदिति व्यतिरेकदृष्टान्तः / उन्मनस्शब्दात् भृशादित्वादाचारे क्यङि सकारलोपे 'अकृत्सार्व' इति दीर्धे उन्मनायेत्यस्मात् को ल्यपि अतो लोपे उन्मनाय्येति रूपम् / अबगल्भशब्दात् आचारेऽवगल्भेति क्विबन्तात् क्वो ल्यपि रूपम् / अत्र उदित्यस्य अवेत्यस्य च उपसर्गस्वरूपस्य अनपहृतत्वेन क्यङि क्विपि च विवक्षिते पृथक्कृततया तयोः क्वान्तेन समासे सति ल्यबुचितः। इह तु ओढायित्वेत्यत्र न तथेति व्यतिरेकदृष्टान्तोऽयम / ज्ञापकस्य सजातीयत्वे प्रमाणं दर्शयति / झापकस्येति // घाष्ठं वार्तिकं दर्शयति / उस्योमाक्ष्विति // उसि ओम् आङ् एषान्द्वन्द्वः / षष्ठस्य प्रथमे पादे 'ओमाङोश्च' इति सूत्रे इदं वार्तिकं पठितम् / तद्याचष्टे / उस्योमाङोश्च परयोरिति // 'एङि पररूपम्' इत्यतः पररूपग्रहणानु वृत्तिं मत्वा आह / पररूपं नेति // उसि तावदुदाहरति / औस्त्रीयदिति // उस्रामात्मन ऐच्छदित्यर्थे 'सुप आत्मनः' इति क्यजन्ताल्लङि उस्रायशब्दादशात्प्रागाटि कृते 'उस्यपदान्तात्' इति पररूपं प्राप्तमनेन निषिध्यते / अर्थवद्रहणपरिभाषा त्वनित्या / अस्मादेव भाष्योदाहरणात् / अन्यथा भिन्द्युरित्यादौ पररूपं न स्यात् / आगमसहितस्य युस एवार्थवत्त्वादिति भावः। ओमि परतः उदाहरति / औङ्कारीयदिति // ओङ्कारशब्दात् क्यजन्ताल्लङि अङ्गस्य आटि कृते 'ओमाङोश्च' इति पररूपं प्राप्तमनेन निषिद्ध्यते / आङि उदाहरति / औढीयदिति // आ ऊढः ओढः तस्मात् क्यजन्ताल्लङि अङ्गस्य ओढशब्दस्य आटि कृते 'ओमाङोश्च' इति पररूपं प्राप्तमनेन निषिद्ध्यते / उदाहरणत्रयमिदं भाष्ये स्थितम् / तत्र यदि उपसर्गस्वरूपस्य एकादेशेनापहारेऽपि क्यचि पृथक् स्यात् तर्हि क्यचि विवक्षिते आङः पृथक्कृतौ सत्यां धातुबहिर्भावादूढशब्दात् प्रागाङः परत्र आटि सति पररूपस्याप्रसक्तेराङिः पररूपप्रतिषेधो व्यर्थः स्यात् / तथाच उक्तज्ञापकस्य सजातीयविषयत्वे तु अत्र आङ एकादेशेनापहारात् पृथक्करणाभावादोढशब्दात् प्रागाडागमे सति आडि पररूपप्राप्तेस्तनिषेधोऽर्थवान् भवति / अतो ज्ञापकस्य सजातीयविषयत्वे 'उस्योमावु' इत्याङ्ग्रहणम् औढीयदिति तदुदाहरणपरभाध्यञ्च अत्र प्रमाणमिति भावः / ज्ञापकस्य सजातीयविषयत्वे प्रमाणान्तरमाह / आटश्चेति चशब्देनेति // ‘आटश्च' इति चकारः पुनर्वृद्धिविधानार्थः / तथाच आटोऽचि वृद्धिरेव HHHHHHHHHin For Private And Personal Use Only
Page #383
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा / 2668 / लोहितादिडाभ्यः क्यष् / (3-1-13) लोहितादिभ्यो डाजन्ताच्च भवत्यर्थे क्यष स्यात् / 2669 / वा क्यषः / (1-3-90) क्यषन्तात्परस्मैपदं वा स्यात् / लोहितायति--लोहितायते / अत्र 'अच्वेः' इत्यनुवृत्त्या अभूततद्भावविषयत्वं लब्धम् / तच्च लोहितशब्दस्यैव विशेषणम् / न तु डाचोऽसम्भवात्। नाप्यादिशब्दग्राह्याणाम् / तस्य प्रत्याख्यानात् / तथाच वार्तिकं-'लोहितडाभ्यः क्यध्वचनं, भृशादिष्वितराणि' (वा 1729-- 30) इति / न चैवं काम्यच इव क्यषोऽपि ककारः श्रूयेत / उच्चारणसामर्थ्यादिति वाच्यम् / तस्यापि भाष्ये प्रत्याख्यानात् / पटपटायति-पटपटायते / कृभ्वस्तियोगं विनापीह डाच् / डाजन्तात्क्यषो विधानसामर्थ्यात् / यत्तु लोहितश्यामदुःखानि हर्षगर्वसुखानि च / मूर्छानिद्राकृपाधूमा: करुणा नित्यचर्मणी / यथा स्यात् नान्यत्पररूपमिति लभ्यते इत्यपि षष्टाध्याये 'ओमाडोश्च' इति सूत्रे 'आटश्च' इति सूत्रे च भाष्ये स्थितमित्यर्थः / एवञ्च एतद्वार्तिकप्रत्याख्यानपरस्सौत्रश्चकारस्तद्भाष्यञ्चात्र ज्ञापकमित्युक्तम्भवति / लोहितादि // भवत्यर्थे इति // 'भृशादिभ्यो भुवि' इत्यतः भुवि इति अनुवृत्तरिति भावः। वा क्यषः // परस्मैपदमिति // ‘शेषात्कर्तरि' इत्यतस्तदनुवृत्तेरिति भावः / लोहितायतीति / / अलोहितो लोहितो भवतीत्यर्थः / अत्रेति // 'लोहितादि' इति सूत्रे इत्यर्थः / तञ्चेति // अभूततद्भावविषयत्वमित्यर्थः / असम्भवा. दिति // अव्यक्तानुकरणात् डाचो विहितत्वेन तस्य अभूततद्भावविषयत्वे अनुकरणस्य भङ्गापत्तेरिति भावः / नाप्यादिशब्दग्राह्याणामिति // श्यामादिशब्दानामिति शेषः / तस्येति // आदिग्रहणस्येत्यर्थः / आदिग्रहणप्रत्याख्याने प्रमाणं दर्शयति / तथाचेति // आदिग्रहणमपनीय लोहितशब्दात् डाजन्तेभ्यश्च क्यष्वचनकर्तव्यम् / इतराणि लोहितादिगणपठितानि श्यामादीनि प्रातिपदिकानि भृशादिष्वेव पठनीयानीत्यर्थः / एवञ्च श्यामादिशब्देभ्यः क्यङि आत्मनेपदमेवेति फलितम् / तस्यापीति // आदिग्रहणस्येव क्यषः ककारस्यापि भाष्ये प्रत्याख्यातत्वादित्यर्थः / पटपटायतीति // अव्यक्तानुकरणात् यजवरार्द्धादनिती डाजिति पटच्छब्दात् डाचि विवक्षिते सति 'डाचि विवक्षिते द्वे बहुलम्' इति द्वित्वे 'नित्यमार्गेडिते डाचि' इति पूर्वखण्डान्तस्य तकारस्य उत्तरखण्डादेः पकारस्य च पररूपे एकस्मिन् पकारे द्वित्वा' हिलोपे पटपटाशब्दात् डाजन्तात् क्यषि तदन्ताल्लडादीति भावः / 'अभूततद्भावे' इति तु नात्र सम्बद्ध्यते इत्युक्तम् / नापटच्छब्दः पटच्छब्दो भवतीति युज्यते / ननु कृस्वस्तियोगाभावादिह कथं डाजित्यत आह / कृभ्वस्तियोगं विनापीति // भवार्थसत्तामात्रेणेत्यर्थः / कुन For Private And Personal Use Only
Page #384
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 382 सिद्धान्तकौमुदीसहिता [नामधातु इति पठित्वा श्यामादिभ्योऽपि क्यषि पदद्वयमुदाहरन्ति / तद्भाष्यवार्तिकविरुद्धम् / तस्मात्तेभ्यः क्यडेव / श्यामायते / दुःखादयो वृत्तिविषये तद्वति वर्तन्ते / लिङ्गविशिष्टपरिभाषया लोहिनीशब्दादपि क्यष् / लोहिनीयतिलोहिनीयते। 2670 / कष्टाय क्रमणे / (3-1-14) चतुर्थ्यन्तात्कष्टशब्दादुत्साहेऽर्थे क्यङ् स्यात् / कष्टाय क्रमते कष्टायते / पापं कर्तुमुत्सहते इत्यर्थः / ‘सत्रकक्षकष्टकृच्छ्गहनेभ्यः कण्वचिकीर्षायामिति वक्तव्यम्' (1761) / कण्वं पापम् / सत्रादयो वृत्तिविषये पापार्थाः / तेभ्यो द्वितीयान्तेभ्यश्चिकीर्षायां क्यङ् / पापं चीकिर्षतीत्यस्वपदविग्रहः सत्रायते / कक्षायते इत्यादि। 2671 / कर्मणो रोमन्थतपोभ्यां वर्तिचरोः। (3-1-15) इत्यत आह / डाजन्तादिति // तद्भाष्येति // 'भृशादिष्वितराणि' इत्युक्तवार्तिकं तद्भाध्यविरुद्धमित्यर्थः। तस्मादिति // उक्तवार्तिकभाध्यविरोधात् तेभ्यः श्यामादिभ्यः भृशादित्वलक्षण: क्यडेव नतु क्यषित्यर्थः। ततश्च ‘वा क्यषः' इत्यस्याप्रवृत्तेः ङित्त्वादात्मनेपदमेवेति मत्वा आह। श्या मायते इति। श्यामो भवतीत्यर्थः। ननु देवदत्तस्सुखायते इति कथं / देवदत्तस्य सुखत्वाभावादित्यत आह। सुखादयः इति॥ श्यामादिषु ये सुखदुःखादिशब्दा गुणवचनाः ते सुखादिगुणवति वर्तन्ते इत्यर्थः / एवञ्च सुखायते इत्यत्र सुखवान् भवतीत्यर्थः / एवं दुःखायते इत्यादावपि / ननु लोहितशब्दाद्विहितः क्यष् कथं लोहिनीशब्दात् स्यादित्यत आह / लिङ्गविशिष्टेति // कष्टाय क्रमणे // क्रमणशब्दं विवृणोति / उत्साहे इति // अस्वरितत्वात् क्यषिति नानुवर्तते इति भावः। क्रियार्थोपपदस्येति चतुर्थीति मत्वा आह। पापकर्तुमिति // क्रमते इत्यत्र 'वृत्तिसर्गतायनेषु क्रमः' इति तङ् / 'कण्वचिकीर्षायाम्' इत्यत्र कण्वपदं व्याचष्टे / कण्वं पापमिति // सत्रादिशब्दान् विवृणोति / सत्रादयः इति // द्वितीयान्तेभ्यः इति // चिकीर्षायां द्वितीयान्तस्यैवान्वययोग्यत्वादिति भावः / कण्वशब्दस्तु सत्रादिशब्दानां कण्वपरत्वे तात्पर्यग्राहकः / केचित्तु कण्वेत्यविभक्तिकम् / कण्ववर्तिभ्यः इति व्याचक्षते / अस्वपदविग्रहः इति // वृत्तावेव सत्रादिशब्दानां पापवाचित्वादिति भावः / इदं कण्वशब्दादन्यत्रैव / कष्टाय क्रमते इति तु स्वपदविग्रहोऽस्त्येव / भाष्ये एवं विग्रहं प्रदय सत्रादिषु विग्रहाप्रदर्शनादित्याहुः / कर्मणो रोमन्थ // वृतुधातोर्ण्यन्तात् 'धात्वनिर्देशे इग्वक्तव्यः' इति इकि वर्तिशब्दः / आवर्तनमर्थः / चरेस्सम्पदादित्वाद्भावे क्विप् / वर्ति चर अनयोर्द्वन्द्वात्सप्तमी। आवर्तने चरणे चेति लभ्यते / कर्मशब्देन कर्मकारकं विवक्षितम् / द्वित्वे एकवचनम् / तथाच कर्मकारकवृत्तिभ्यां रोमन्थतपश्शब्दाभ्यामिति लभ्यते / यथा For Private And Personal Use Only
Page #385
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा / 383 रोमन्थतपोभ्यां कर्मभ्या क्रमेण वर्तनायां चरणे चार्थे क्यङ् स्यात् / रोमन्थं वर्तयति रोमन्थायते / 'हनुचलने इति वक्तव्यम्' (वा 1762) / चर्वितस्याकृष्य पुनश्चर्वणमित्यर्थः / नेह / कीटो रोमन्थं वर्तयति / अपानप्रदेशानिस्सृतं द्रव्यमिह रोमन्थः / तदनातीत्यर्थ इति कैयट: / वर्तुळं करोतीत्यर्थ इति न्यासकारहरदत्तौ / 'तपसः परस्मैपदं च' (वा 1766) / तपश्चरति तपस्यति / 2672 / बाष्पोष्मभ्यामुहमने / (3-1-16) आभ्यां कर्मभ्यां क्यङ् स्यात् / बास्पमुद्वमति बाष्पायते / ऊष्मायते / फेनाञ्चेति वाच्यम्' (वा 1764) / फेनायते / 2673 / शब्दवैरकलहाभ्रकण्वमेघेभ्यः करणे / 3-1-17) एभ्यः कर्मभ्यः करोत्यर्थे क्यङ् स्यात् / शब्दं करोति शब्दायते / पक्षे 'तत्करोति-' इति णिजपीष्यत इति न्यासः / शब्दयति / 'सुदिनदुर्दिननीहारेभ्यश्च' (वा 1736-37) / सुदिनायते / सङ्ख्यमन्वयः / तदाह / रोमन्थतपोभ्यामिति // रोमन्थमिति // उद्गीर्णस्य निगीर्णस्य वा मन्थो रोमन्थ इति भाष्यम् / उद्गीर्णस्य उदरादुपरि कण्ठद्वारा निर्गतस्य निगीर्णस्य अपानद्वारा निर्गतस्य च मन्थः चर्वणं रोमन्थ इत्यर्थः / वर्तयतीति // आवर्तयतीत्यर्थः / हनुचलने इति // हनु तालु तच्चलने सत्येव अयं विधिरित्यर्थः / तथाच उदरगतभक्षितं द्रव्यन्तृणादिकं पुनःपुनराकृष्य तालुचलनेन चूर्णितस्य पुनः पुनः प्राशने रोमन्थशब्दात् क्यङिति फलितम् / तदाह / चर्वितस्येति // हनुचलनेन भक्षितस्य उदरं प्रविष्टस्य पुनः पुनराकृष्य हनुचलनेन भक्षणे गम्ये इति फलितमित्यर्थः / कीटः इति // इह हनुचलनाभावान क्यङिति भावः / तदेवोपपादयति / अपानेति // 'तपसः परस्मैपदञ्च' इति वार्तिकम् / तपश्शब्दः कर्मकारकवृत्तिः / पूर्वसूत्राच्चरणे क्यडं लभते / ङित्त्वप्रयुक्तमात्मनेपदं बाधित्वा परस्मैपदमेव लभते इत्यर्थः / तपस्यतीति // प्रातिपदिकादेवास्य क्यडुत्पत्तेरन्तर्वर्तिविभक्त्यभावात् 'न: क्ये' इति नियमाच्च पदत्वाभावान्न रुत्वमिति भावः / बाप्पोष्मभ्यामुद्वमने // आभ्याङ्कर्मभ्यामिति // 'कर्मणो रोमन्थ' इत्यतः कर्मग्रहणमनुवर्तते इति भावः / कर्मकारकवृत्तिभ्यामित्यर्थः / फेनायते इति // फेनमुद्वमतीत्यर्थः / शब्दवैर // करणं क्रिया / तदाह / करोत्यर्थे इति // तत् करोतीति णिचोऽपवादः / पक्षे इति // कदाचिदित्यर्थः / न्यासः इति // भाष्यानारूढत्वमत्र अरुचिबीजम् / “सुदिन For Private And Personal Use Only
Page #386
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 384 सिद्धान्तकौमुदीसहिता नामधातु 2674 / सुखादिभ्यः कर्तृवेदनायाम् / (3-1-18) एभ्यः कर्मभ्यो वेदनायामर्थे क्यङ् स्याद्वेदनाकर्तुरेव चेत्सुखादीनि स्युः / सुखं वेदय ने सुखायते / 'कर्तृग्रहणम्' किम् / परस्य सुखं वेदयते / 2675 / नमोवरिवश्चित्रङः क्यच् / (3-1-19) 'करणे इत्यनुवृत्तेः क्रियाविशेषे पूजायां परिचर्यायामाश्चर्ये च / नमस्यति देवान् / पूजयतीत्यर्थः / वरिवस्यति गुरून् / शुश्रूषते इत्यर्थः / चित्रीयते / विस्मयते इत्यर्थः / विस्मापयते इत्यन्ये / 2676 / पुच्छभाण्डचीवराण्णिङ् / (3-1-20) 'पुच्छादुदसने व्यसने पर्यसने च'। (वा 1746) / विविधं विरुद्धं वोत्क्षेपणं व्यसनम् / उत्पुच्छयते / विपुच्छयते / परिपुच्छयते / भाण्डात्समाचयने' (वा 1754) / संभाण्डयते / भाण्डानि समाचिनोति / राशीकरोतीत्यर्थ / समबनाण्डत / 'चीवरादार्जने परिधाने च' (वा 1745) / सञ्चीवरयते भिक्षुः / चीवराण्यर्जयति, परिधत्ते वेत्यर्थः / दुर्दिन" इति वार्तिकम् / करोत्यर्थे क्यङिति शेषः। सुखादिभ्यः // कर्तृ इति पृथक्पदं लुप्तषष्ठीकम् / 'कर्मणो रोमन्थ' इत्यतः कर्मग्रहणानुवृत्तिं मत्वा आह / एभ्यः कर्मभ्यः इति॥ वेदनायामिति // ज्ञाने इत्यर्थः / कर्तृत्वं च वेदनां प्रत्येव विवक्षितम् / उपस्थितत्वात् प्रतिपदोक्ता षष्ठी। वेदनाकर्तृवृत्तिभ्यस्सुखादिशब्देभ्य इति लभ्यते / फलितमाह / वेदनाकर्तु रेव चेदिति // सुखं वेदयते इति // जानातीत्यर्थः / 'विद चेतनायाम्' इति चुरादौ / नमो वरिवस् // नमस् वरिवस् चित्रङ् एषां समाहारद्वन्द्वात्पञ्चमी / आत्मनेपदार्थञ्चित्रशब्दो डिनिर्दिष्टः / 'शब्दवैर' इत्यतः करणे इत्यनुवर्तते / करणं क्रिया / सा च पूजापरिचर्याश्चर्यात्मिका विवक्षिता। मनसः पूजायाम् / वरिवसः परिचर्यायाम् / चित्रङ: आश्चर्ये / इति वार्तिकैः / तदाह / करणे इत्यनुवृत्तेरित्यादिना // नमस्यति देवानिति // कारकविभक्तेर्बलीयस्त्वात् द्वितीया / परिचर्या शुश्रूषेति मत्वा आह / शुश्रूषते इत्यर्थः इति। आश्चर्यशब्दो विस्मयवाचीति मत्वा आह / विस्मयते इत्यर्थः इति // विस्मापयते इत्यन्ये इति // आश्चर्यशब्दो विस्मापनपर इति भावः / ततश्चित्रीयमाणोऽसाविति भट्टिः / असौ मायामृगः विस्मयमुत्पादयन्नित्यर्थः / पुच्छभाण्ड // 'पुच्छादुदसने' इति वार्तिकम् / उत्पुच्छयते इति // विविधं विरुद्धं वा पुच्छमुत्क्षिपतीत्यर्थः / 'भाण्डात् समाचयने' इत्यपि वार्तिकम् / समबभाण्डतेति // उपसर्गसमानाकारं पूर्वपदं धातुसंज्ञाप्रयोजके प्रत्यये चिकीर्षिते पृथविक्रयते इत्युक्तत्वात् संभाण्डशब्दात् क्यङपि। भाण्डशब्दात् प्रागेवाडिति भावः / For Private And Personal Use Only
Page #387
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा। ___385 2677 / मुण्डमिश्रलक्ष्णलवणव्रतवस्त्रहलकलकृततूस्तेभ्यो णिच् / (3-1-21) कृअर्थे / मुण्डं करोति मुण्डयति / 'व्रताद्भोजनतनिवृत्त्योः' (वा 5060) / पयः शूद्रान्नं वा व्रतयति / 'वस्त्रात्समाच्छादने' (वा 5061) / संवस्त्रयति / 'हल्यादिभ्यो ग्रहणे' (वा 5062) / 'हलिकल्योरदन्तत्वं च निपात्यते' (वा 1747) / हलिं कलिं वा गृह्णाति हलयति कलयति / महद्धलं हलिः / परत्वाद्वृद्धौ सत्यामपीष्ठवद्भावेऽगेव लुप्यते। अतः सन्वद्भावदीर्थों न / अजहलत् / अचकलत् / कृतं गृह्णाति कृतयति / तूस्तानि विहन्ति वितूस्तयति / तूस्तं केशा इत्येके / जटीभूताः केशा इत्यन्ये / पापमित्यपरे / मुण्डादयः 'सत्यापपाश-' (सू 2563) इत्यत्रैव पठितुं युक्ताः / 'प्रातिपदिकाद्धात्वर्थे-' इत्येव सिद्धे केषांचिद्गहणं सापेक्षेभ्योऽपि णिजएवमुत्पुच्छयते इत्यादावपि / 'चीवरादार्जने' इत्यपि वार्तिकम् / मुण्डमिश्र // कृअर्थे इति शेषपूरणम् / 'शब्दवैर' इत्यतः करणे इत्यनुवृत्तेरिति भावः / 'व्रताद्भोजने' इति वार्तिकम् / पयः शूद्रानं वा व्रतयतीति // पयो भुङ्क्ते, शूद्रानं वर्जयतीत्यर्थः / 'वस्त्रात्समाच्छादने' इत्यपि वार्तिकम् / भाष्ये तु न दृश्यते / संवस्त्रयतीति // वस्त्रेण सम्यगाच्छादयतीत्यर्थः / वस्त्रम्परिधत्ते इति वा / 'हल्यादिभ्यो ग्रहणे' इति वार्तिकम् / भाष्ये तु न दृश्यते। हलिकल्योरिति // हलिकली इदन्तौ। हलकलशब्दावदन्तौ इदन्तौ च / यावि. दन्तौ तयोरत्त्वन्निपात्यते इति भाष्ये स्पष्टम् / हलयति कलयतीति // हलिकलिभ्यां णौ इकारस्य अकारे इष्टवत्त्वेन टेोपे हलि कलि इति ण्यन्ताभ्यां लडादीति भावः / महद्धलं हलिरिति // अत्र वृद्धप्रयोगः अन्वेषणीयः / नन्वनयोरिकारान्तयोरदन्तत्वनिपातनं व्यर्थम् / इकारस्य णाविष्ठवत्त्वाल्लोपे हलयति कलयतीति सिद्धेः / नच अजहलत् अचकलत् इत्यत्र सन्वत्त्वाप्रवृत्तये अग्लोपित्वाय तयोरदन्तत्वमिति वाच्यम् / इकारलोपेऽप्यग्लोपित्वसिद्धेः इत्यत आह / परत्वादिति // इकारस्य णौ इष्ठवत्त्वे टिलोपात् प्रागेव परत्वात् 'अचो ञ्णिति' इति वृद्धौ कृतायां ऐकारस्य इष्ठवत्त्वात् टिलोपे अग्लोपित्वं न स्यात् / इकारयोरत्त्वे तु अकारस्य टिलोपात् प्राक् परत्वादृद्धौ सत्यामप्याकार एव इष्ठवत्त्वाल्लुप्यते इत्यर्थः / अतः इति // अग्लोपित्वात् सन्वत्त्वं दी| लघोः' इति दीर्घश्च नेत्यर्थः / कृतं गृहातीति // उपकारं स्वीकरोतीत्यर्थः / पठितुं युक्ताः इति // लाघवादेकसूत्रत्वं युक्तमित्यर्थः / के. षाञ्चिदिति // मुण्डादीनामित्यर्थः / सापेक्षेभ्योऽपीति // अन्यथा णिजन्तस्यास्य सनाद्यन्तवृत्तित्वाद्विशेषणसापेक्षत्वे मुण्डादिभ्यो णिज् भवेत् / सविशेषणानां वृत्तिनिषेधात् / इह मुण्डादीनां पुनर्ग्रहणे तु तत्सामर्थ्यात् सापेक्षेभ्योऽपि मुण्डादिभ्यो णिच् सिद्ध्यतीत्यर्थः / स्प. टश्चेदं 'सुप आत्मनः' इत्यत्र भाष्यकैयटयोः / मुण्डयति माणवकमिति // अत्र माणवकं 49. For Private And Personal Use Only
Page #388
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 386 सिद्धान्तकौमुदीसहिता [नामधातु र्थम् / मुण्डयति माणवकम् / मिश्रयत्यन्नम् / श्लक्ष्णयति वस्त्रम् / लवणयति व्य जनमिति / हलिकल्योरदन्तत्वार्थम् / सत्यस्यापुगर्थम् / केषांचित्तु प्रपञ्चार्थम् / सत्यं करोत्याचष्टे वा सत्यापयति / ‘अर्थवेदयोरप्यापुग्वक्तव्यः' (वा 1758) / अर्थापयति / वेदापयति / पाशं विमुञ्चति विपाशयति / रूपं पश्यति रूपयति / वीणयोपगायत्युपणियति / तूलेनानुकुष्णात्यनुतूलयति / तृणागं तूलेनानुघट्टयतीत्यर्थः / श्लोकैरुपस्तौति उपश्लोकयति / सेनयाभियाति अभिषेणयति / ' उपसर्गात्सुनोति-' (सू 2270) इति षः / अभ्यषेणयत् / 'प्राक्सितात्-' (सू 2276) इति ष: / अभिषिषेणयिषति / 'स्थादिष्वभ्यासेन च-' (2277) इति ष: / लोमान्यनुमाटि अनुलोमयति / 'त्वच संवरणे' घः। त्वचं गृह्णाति त्वचयति / चर्मणा संनह्यति सञ्चमयति / वर्ण गृह्णाति वर्णयति / चूणैरवध्वंसते अवचूर्णयति / इष्ठवदित्यतिदेशात्पुंवद्भावादयः / एनीमाचष्टे एतयति / दरदमाचष्टे दारदयति / मुण्डङ्करोतीत्यर्थे मुण्डशब्दस्य माणवकसापेक्षत्वेऽपि णिजिति भावः / यदा तु प्रकरणादिना माणवकत्वादिविशेषणं ज्ञाप्यते तदैव मुण्डयतीति णिजिति भावः / 'सुप आत्मनः' इति सूत्रभाष्ये तु मुण्डय माणवकमित्यत्र गमकत्वाणिच् / महान्तं पुत्रमिच्छतीत्यादौ तु अगमकत्वात् न क्यजित्युक्तम् / तदा प्रपञ्चार्थमेव मुण्डादिग्रहणमिति शब्देन्दुशेखरे स्थि. तम् / श्लक्ष्णयति बस्त्रमिति // निर्मलं करोतीत्यर्थः / लवणयति व्यञ्जनमिति // लवणयुक्तं करोतीत्यर्थः / हलिकल्योरिति // एवञ्च ताभ्यां सापेक्षाभ्यां न णिच् / तद्रहणस्य अदन्तत्वनिपातने चरितार्थत्वादिति भावः / ननु सत्यशब्दात् तत्करोति इत्या. दिनैव णिसिद्धेः 'सत्याप' इति सूत्रे सत्यग्रहणं व्यर्थमित्यत आह / सत्यस्यापुगर्थमिति / केषाञ्चिदिति // पाशादीनामित्यर्थः / सत्यापयतीति // आपुग्विधिसामर्थ्यान्न टिलोपः / पाशं विमुञ्चतीत्यादौ 'प्रातिपदिकाद्धात्वर्थे ' इति णिच् / अभिषिषेणयिषतीति // आभिषेणि इति ण्यन्तात्सनि रूपम् / ननु त्वचङ्ग्रह्णाति त्वचयतीति कथम् / त्वच्छब्दाचकारान्ताण्णिाचे टिलोपे त्वचयतीत्यापत्तेरित्यत आह / त्वचेति // 'त्वच संवरणे' इत्यस्मात् 'पुंसि संज्ञायां घः प्रायेण' इति घप्रत्यय इत्यर्थः / पुंवद्भावादयः इति // आदिना रभावटिलोपादिग्रहणम् / एतयतीति // 'भस्याढे' इति पुंवत्त्वस्य इष्टनि प्रवृत्तेः णावपि तस्यातिदेशात् 'वर्णादनुदात्तात् ' इति स्त्रीप्रत्ययस्य तत्सन्नियोगशिष्टनत्वस्य च निवृत्ती एतशब्दे तकारादकारस्य टिलोप इति भावः / नन्वेनीशब्दाण्णौ टिलोपेन स्त्रीप्रत्ययनिवृत्ती तत्सन्नियोगशिष्टनत्वस्यापि निवृत्तौ एतयतीति सिध्यतीत्यस्वरसत्वात् पुंवद्भावे उदाहरणान्तरमाह / दरदमिति // दरदिति कश्चिद्राजा, तस्यापत्यं दारदः 'यञ्मगध' इत्यण् / स्वयपत्ये तु दरदोऽपत्यं स्त्री दरत् 'अतश्च' इत्यणो लुक् / तामाचष्टे इत्यर्थे दरच्छब्दाण्णौ इष्टव For Private And Personal Use Only
Page #389
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा / 387 पृथु प्रथयति / वृद्धौ सत्यां पूर्व वा टिलोप: / अपिप्रथत्-अपप्रथत् / मृदुं म्रदयति / अमम्रदत् / भृशं कृशं दृढं भ्रशयति क्रशयति द्रढयति / अबभ्रशत् अचक्रशत् अदद्रढत् / परिब्रढयति / पर्यबबढत् / ऊढिमाख्यत् / औजिढत् / ढत्वादीनामसिद्धत्वात् हतिशब्दस्य द्वित्वम् / 'पूर्वत्रासिद्धीयमद्वित्वे' इति त्वनित्यमित्युक्तम् / 'ढिशब्दस्य' द्वित्वमित्यन्ये / औजिढत्-औडिढत् / ऊढमाख्यत् / औजढत्-औडढत् / 'ओः पुयण-' (सू 2577) इति वर्गप्रत्याहारजग्रहो लिङ्गं द्वित्वे कार्ये णावच आदेशो न' इति ऊनयतात्त्वात् पुंवत्त्वेन स्त्रियामित्यनुवृत्ती 'अतश्च' इति स्त्रियां विहितस्य अण्प्रत्ययलुको निवृत्तौ दारदशब्द टेलोपे दारदयतीति रूपं सिद्ध्यति / पुंवद्भावे तु दरदशब्दस्य टिलोपे सति दरयतीति स्यादिति भावः। टिलापस्य अजादेशत्वेन स्थानिवत्त्वानोपधावृद्धिः। 'पृथु मृदुं भृशञ्चैव कृशञ्च दृढमेव च। परिपूर्व बृढञ्चैव षडतानविधी स्मरेत् // ' इति क्रमेणोदाहरति / पृथुमिति // आचष्टे इति शेषः / प्रथयति / तत्र प्रक्रियां दर्शयति / वृद्धौ सत्यामिति // पृथु इ इति स्थिते परत्वादृद्धौ कृतायां टिलोपः। अथवा कृतायामकृतायाञ्च वृद्धौ प्रवृत्त्या नित्यत्वाद्वृद्धः प्राक् टिलोपः / उभयधापि ‘र ऋतः' इति रभावे प्रथयतीति रूपमिति भावः / वस्तुतस्तु अकृतायां वृद्धौ उकारस्य लोपः। कृतायान्तु औकारस्य लोपः। तथा च “शब्दान्तरस्य प्राप्नुवन विधिरनित्यः” इति टिलोपः अनित्यः / ततश्च परत्वात् टिलोपात् प्राग्वृद्धिरेवेति 'मुण्डमिश्र' इति सूत्रे भाष्ये स्थितम् / वृद्धौ सत्यां पूर्व वा टिलोप इति मूलन्तु कृताकृतप्रसमित्वाहिलोपस्य नित्यत्वमभिप्रेत्येति बोध्यम् / अपिप्रथदिति // वृद्धौ सत्यां टिलोपे अग्लोपित्वाभावात् सन्वत्त्वे ‘सन्यतः' इति इत्त्वे 'दी? लघोः' इति दीर्घ इति भावः / अपप्रथदिति // वृद्धः पूर्व टिलोपेन उकारस्य निवृत्तावग्लोपित्वात् सन्वत्त्वाभाव रूपम् / अबभ्रशदित्यादौ वृद्धेः पूर्व टिलोपे अग्लोपित्वान्न सन्वत्त्वमिति भावः / वृद्धौ सत्यां टिलोपे तु अबिभ्रशदित्यायूह्यम् / औजिढदिति // ऊहधातोः क्तिनि ढत्वधत्वष्टुत्वढलोपेषु ऊढिः तस्मात् णौ टिलोपे ऊढि इति ण्यन्ताल्लुङि चङि आटि वृद्धौ औढि अत् इति स्थिते प्रक्रियां दर्शयति / ढत्वादीनामिति // ढत्वधत्वष्टुत्वढलोपानामसिद्धत्वात् 'अजादेर्द्वितीयस्य' इति ति शब्द. स्य द्वित्वमित्यर्थः / इत्युक्तमिति // लुग्विकरणप्रक्रियायां ऊणुञ्धाताविति शेषः / एवञ्च इतिशब्दस्य द्वित्वे हलादिशेष 'कुहोश्चुः' इति हस्य चुत्वमिति भावः / ढिशब्दस्येति // 'पूर्वबासिद्धीयमद्वित्वे' इत्यस्य क्वचिदनित्यत्वेऽप्यत्र तदप्रवृत्तौ मानाभावादिति भावः / ऊढमाख्यदिति // ऊहधातोः क्तप्रत्यये ढत्वधत्वष्टुत्वढलोपेषु ऊढशब्दात् ण्यन्ताल्लुङि चडि ढत्वादीनामसिद्धत्वात् इतेल्यस्य द्वित्वे हलादिशेषे अभ्यासस्य चुत्वे रूपम् / औडढदिति // 'पूर्वत्रासिद्धीयमद्वित्वे' इति ढत्वादीनामसिद्धत्वाभावपक्षे ढशब्दस्य द्वित्वे रूपम् / नन्विह परत्वात् टिलोपे सति णिच्सहितस्य ह्तीति ढीत्यस्य वा द्वित्वे कृते अभ्यासे इकार एव श्रूयेत नत्वकार इत्यत आह / ओः पुयणित्यादि // स्वशब्दाण्णिचि टिलोपमाशङ्कय आह / For Private And Personal Use Only
Page #390
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 388 सिद्धान्तकौमुदीसहिता [नामधातु वुक्तम् / 'प्रकृत्येकाच्' (सू 2010) / वृद्धिपुकौ / स्वापयति / त्वां मां वा आचष्टे त्वापयति मापयति / मपर्यन्तस्य त्वमौ / पररूपात्पूर्व नित्यत्वाट्टिल्लोपः वृद्धिपुकौ / त्वादयति मादयति इति तु न्याय्यम् / अन्तरङ्गत्वात्पररूपे कृते 'प्रकृत्यैकाच्' (सू 2010) इति प्रकृतिभावात् / न च प्रकृतिभावो भाष्ये प्रत्याख्यात इति भ्रमितव्यम् / भाष्यस्य प्रेष्ठाद्युदाहरणविशेषेऽन्यथासिद्धिपरत्वात् / युवामावां वा युष्मयति अस्मयति / श्वानमाचष्टे शावयति / प्रकृत्यैकाजिति // प्रकृतिभावाहिलोपाभावे अकारस्य वृद्धौ आकारे पुगागमः / तदाह / वृद्धिपुकाविति // त्वापयति मापयति इत्यत्र प्रक्रियां दर्शयति / मपर्यन्तस्येति // युष्मदस्मद्भ्यां णौ 'प्रत्ययोत्तरपदयोश्च' इति मपर्यन्तस्य त्वमौ / त्व अद् इ, म अद् इ इति स्थिते आह / पररूपादिति // कृते अकृते च पररूपे टिलोपस्य प्रवृत्तेनित्यत्वम्बोध्यम् / त्व इ म इ इति स्थिते आह। वृद्धिरिति // अकारस्य आकारः / टिलोपस्य स्थानिवत्त्वन्तु न शङ्कयम् / अजादेशत्वाभावात् / पुगिति // 'अति' इत्यनेनेति भावः। तदेवम्प्राचीनमतमुपन्यस्य खमतमाह / त्वादयतीत्यादिना // तदेवोपपादयति / अन्तरङ्गत्वादिति // त्व अद् इ, म अद् इ इति स्थिते नित्यमपि टिलोपम्बाधित्वा अन्तरगत्वात्पररूपे कृते 'प्रकृत्येकाच्' इति प्रकृतिभावे टिलोपस्याप्रवृत्तौ उपधावृद्धिरिति भावः। ननु ‘इष्ठेमेयस्सु' किमुदाहरणमिति प्रश्ने प्रेयान् प्रेमा प्रेष्ठः इत्युदाहरणानि प्रदर्श्य नैतदस्ति प्रयोजनं ‘प्रस्थस्फ' इति विहितप्रादीनामाभीयत्वेनासिद्धतया तस्य टिलोपाप्रसक्तरित्युक्त्वा श्रेयान् श्रेष्ठः इत्यत्र 'प्रशख्वस्य श्रः' इति श्रादेशस्य पाञ्चमिकतया आभीयत्वाभावेनासिद्धत्वाभावात् टिलोपे अप्राप्ते प्रकृतिभावविधिरित्युदाहरणान्तरं प्रदय श्रादेशे अकारोच्चारणसामर्थ्याहिलोपो न भविष्यतीत्युक्त्वा स्रग्वितमः स्रजिष्टः इत्यत्र ‘विन्मतोलृक् ' इति लुङ्निवृत्त्यर्थं प्रकृतिभावविधानमित्युक्त्वा प्राप्त एव टिलोपे आरभ्यमाणस्य लुकस्तदपवादतया लुका टिलोपस्य बाधो भविष्यतीति 'प्रकृत्यैकाच्' इत्यस्य भाष्ये प्रत्याख्यातत्वात् 'त्वादयति, मादयति' इत्यत्र प्रकृतिभावोपन्यासो न युज्यते इत्याशङ्कय निराकरोति / न च प्रकृतिभावो भाष्ये प्रत्याख्यात इति भ्रमितव्यमिति // कुत इत्यत आह / भाष्यस्येति // उदाहृतभाष्यस्य हि प्रेयान् प्रेष्ठः इत्यादीनां प्रकृतिभावं विनाऽपि साधने तात्पर्य, न तु प्रकृतिभावप्रत्याख्यानमभिमतम् / स्वमाचष्टे स्वापयतीत्यादी तदावश्यकत्वात् / अत एव 'प्रकृत्यैकाच् ' ' इष्ठेमेयस्सु' चेन्नैकाच उच्चारणसामर्थ्यादवचनात् प्रकृतिभाव इति वार्तिकव्याख्यावसरे 'अन्तरेणापि वचनं प्रकृतिभावो भविष्यति' इति भाष्ये उक्तम् / अन्यथा अन्तरेणैव वचनमित्युच्येत इत्यास्तान्तावत् / 'प्रत्ययोत्तरपदयोश्च' इत्यत्र एकवचने इत्यनुवृत्तम् / तच्च यौगिकमाश्रीयते / एकत्वविशिष्टबाचिनोर्युष्मदस्मदोरिति लभ्यते इति मत्वा आह। युवामावां वेति // न च द्वयोरुक्तौ युवावादेशौ शङ्कयौ विभक्तेलुका लुप्तत्वात् / न च लुकः प्रागेव युवावौ किन स्यातामिति वाच्यम् / 'अन्तरङ्गानपि विधीन् बहिरङ्गो लुग्बाधते' इत्युक्तेरिति भावः / शावयतीति // श्वानमाचष्टे इत्यर्थः / श्वन्शब्दाण्णौ For Private And Personal Use Only
Page #391
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा / 389 'नस्तद्धिते' (सू 679) इति टिलोपः / प्रकृतिभावस्तु न, येन नाप्राप्तिन्यायेन 'टे:' (सू 1786) इत्यस्यैव बाधको हि स: / भत्वात्सम्प्रसारणम् / अन्ये तु 'नस्तद्धिते' (सू 679) इति नेहातिदिश्यते / इष्ठनि तस्यादृष्टत्वात् / ब्रह्मिष्ठ इत्यादौ परत्वात् टे:' (सू 1786) इत्यस्यैव प्रवृत्तेः / तेन शुनयतीति रूपमाहुः / विद्वांसमाचष्टे विद्वयति / अङ्गवृत्तपरिभाषया सम्प्रसारणं नेत्येके / सम्प्रसारणे वृद्धावावादेशे च विदावयतीत्यन्ये / नित्यत्वाट्टिलोपात्प्राक्सम्प्रसारणम् / अन्तरङ्गत्वात्पूर्वरूपं टिलोपः / विदयतीत्यपरे / श्वन् इ इति स्थिते आह। नस्तद्धिते इति // 'प्रकृत्येकाच्' इति प्रकृतिभावमाशङ्कय आह / प्रकृतिभावस्तु नेति // कुत इत्यत आह / येनेति // ‘टेः' इति टिलोपे प्राप्त सत्येव प्रकृत्यैकाजित्यारभ्यते / 'नस्तद्धिते' इत्यस्य स्रजिष्टः इत्यादौ अप्राप्तोऽपि प्रकृतिभावः आरभ्यते इति भावः / भत्वादिति // इष्टवत्त्वेन भत्वात् 'श्वयुव' इति सम्प्रसारणमित्यर्थः। तथा च श्वन् इ इति स्थिते टिलोपे सति तस्याभीयत्वेनासिद्धत्वादन्नन्तत्वात् वस्य सम्प्रसारणे पूर्वरूपे उकारस्य वृद्धौ आवादेशः / अन्ये त्विति // इष्टनि दृष्टस्यैव इष्टवदित्यतिदेशः / टेरित्येव टिलोप इष्टनि दृष्टः, न तु 'नस्तद्धिते' इति अतो नास्यातिदेश इत्यर्थः / नन्वतिशयेन ब्रह्मा ब्रह्मिष्ठ इत्यत्र नस्तद्धिते इति टिलोपो दृष्ट इत्यत आह / ब्रह्मिष्ट इत्यादाविति॥ तेनेति // 'नस्तद्धिते' इत्यस्याप्रवर्तनेनेत्यर्थः। ततश्च प्रकृतिभावात् 'टेः' इति लोपस्याभावे सम्प्रसारणे शुनयती ति रूपमित्यर्थः। आहुरित्यस्वरसोद्भावनम् / तद्बीजन्तु ब्रह्मवच्छब्दादिष्ठनि टेरिति टिलोपापवादे 'विन्मतोलुंक्' इति मतुपो लुकि 'नस्तद्धिते' इति टिलोपो दृष्ट एव / ततश्च इष्टनि तस्यादृष्टत्वादित्ययुक्तम् / किञ्च बहिष्ट इत्यादौ परत्वारित्यस्य प्रवृत्तिरित्ययुक्तम् / केवलस्य ब्रह्मन्शब्दस्य वेदादिवचनस्य गुणवचनत्वाभावेन इष्टनो दुर्लभत्वात् 'अजादेर्गुणवचनादेव' इत्युक्तेः / मत्व न्तादिष्ठनि तु मतोलकि तेन ‘टेः' इत्यस्य प्रवृत्तिबाधेन लुगुत्तरन्तदप्रवृत्त्या परत्वादित्यप्यसङ्गतिरिति शब्देन्दुशेखरे स्थितम् / विद्वयतीति // विद्वस्शब्दाण्णौ टिलोपः / ननु इष्टवत्त्वात् भत्वे वसोस्सम्प्रसारणमित्याशङ्कय आह / अङ्गवृत्तेति // ‘अङ्गवृत्त पुनर्वृत्तावविधिः' इति परिभाषयेत्यर्थः / 'अङ्गकार्ये कृते पुनर्नाङ्गकार्यम्' इति तदर्थः / वस्तुतस्तु विद्वयतीत्यत्र 'टेः' इत्यसोलोप वस्वन्तत्वाभावात् सम्प्रसारणाप्रसक्तेरझवृत्तपरिभाषोपन्यासो वृथेत्यस्वरस सूचयति / इत्येके इति / सम्प्रसारणे इति // विद्वस्शब्दाण्णौ इष्टवत्त्वेन टिलोपे कृते वकारस्य सम्प्रसारणे पूर्वरूपे उकारस्य वृद्धौ आवादेशे विदावयतीत्यन्ये मन्यन्ते इत्यर्थः / अत्रापि पूर्ववदेवास्वरस: टिलोपे सति वस्वन्तत्वाभावात् / नित्यत्वादिति // टिलोप कृते अकृते च प्रवृत्तेः सम्प्रसारणं नित्यम् / टिलोपस्तु कृते सम्प्रसारण पूर्वरूपे च कृते उसो भवति / अकृते तु अस् इत्यनित्यः / " शब्दान्तरस्य प्राप्नुवन्विधिरनित्यः" इति न्यायादिति भावः / ननु कृतेऽपि सम्प्रसारणे पररूपात्प्राक् अस एव टिलोप इति तस्य नित्यत्वमित्यत आह / अन्तरङ्गत्वात्पूर्वरूपं टिलोपः इति // सम्प्रसारणे पूर्वरूपे कृते For Private And Personal Use Only
Page #392
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 390 सिद्धान्तकौमुदीसहिता [नामधातु उदञ्चमाचष्टे उदीचयति / उदैचिचत् / प्रत्यञ्च प्रतीचयति / प्रत्यचिचत् / 'इकोऽसवर्णे-' (सू 91) इति प्रकृतिभावपक्षे, प्रतिअचिचत् / सम्यञ्चमाचष्टे समीचयति / सम्यचिचत्-समिअचिचत् / तिर्यञ्चमाचष्टे तिराययति / अञ्चेष्टिलोपेनापहारेऽपि बहिरङ्गत्वेनासिद्धत्वात्तिरसस्तिरिः / असिद्धवदत्र-' (सू 2183) इति चिणो लुङ्न्यायेन प्रथमटिलोपोऽसिद्धः / अतः पुनष्टिलोपो उसो लोपेऽपि वस्वन्तत्वस्य विनंक्ष्यत्वान सम्प्रसारणमित्यस्वरसं सूचयति / इत्यपरे इति // एवञ्च विद्वयतीति प्रथमपक्ष एव स्थितः / तत्राङ्गवृत्तपरिभाषोपन्यास एव वृथेति स्थितम् / उदीचयतीति // उत्पूर्वकात्विगित्यादिना किनि ‘अनिदिताम्' इति नलोपे उदचशब्दः / तस्माण्णौ इष्टवत्त्वेन भत्वादच इत्यकारलोपं बाधित्वा ‘उद ईत्' इति ईत्त्वे उदीचि इति ध्यन्तालडादय इति भावः / उदैचिचदिति // लुडि 'द्विवंचनेऽचि' इति णिलोपनिषेधात् चिशब्दस्य द्वित्वम् ' उपसर्गसमानाकारम्पूर्वपदं धातुसंज्ञाप्रयोजके प्रत्यये चिकीर्षिते पृथक् मियते' इत्युक्तरुदः उपर्याडिति भावः / एवञ्च उदः पृथक्करणेन 'प्रकृत्यैकाच्' इति प्रकृतिभावान टिलोपः / प्रतीचयतीति // अच इत्यल्लोपे 'चौ' इति पूर्वस्य दीर्घः / इह अच इत्यल्लोपे चिशब्दात्प्रागटि तकारादिकारस्य यण / अच इत्यकारलोपस्याभीयत्वेऽपि असमानाश्रयत्वान्नासिद्धत्वम् / लोपस्य णिनिमित्तत्वात् / आटस्तु लुनिमित्तत्वात् / इकोऽसवणे इतीति // 'न समासे' इति तु न। पृथक्करणेन समासनिवृत्तेः / समीचयतीति // 'समस्समिः' इति सम्यादेशः / अच इति लोपे चाविति दीर्घः / सम्यचिचदिति // सम्यादेशस्त्र स्थानिवत्त्वेनोपसर्गत्यात् पृथक्करणम् / पृथक्करणेन उत्तरपदपरत्वाभावेऽप्यन्तरङ्गत्वाजातस्सम्यादेशो न निवर्तते / तिराययतीति // तिरस् इत्यव्ययम् / तत्पूर्वात् अञ्चेः क्विनि नलोपे तिरस् अच् इत्यस्माण्णौ टिलोपेन धातोनिवृत्तौ तिरसस्तियेलोपे इति तिरिभावे इकारस्य वृद्धावायादेशे तिरायि इत्यस्मात् ण्यन्ताल्लडादीति भावः / न च तिरसः पृथक्करणे सति धातोः 'प्रकृत्यैकाच्' इति प्रकृतिभावात् कथं टिलोप इति वाच्यम् / तिरसित्यस्य कदाप्यनुपसर्गतया उपसर्गसमानाकारत्वाभावेन पृथक्करणाभावात् / नन्ववं सति अञ्चतेष्टिलोपेनापहारे सति अञ्चतिपरकत्वविरहाकथमिह तिरसस्तिरिभाव इत्यत आह / अञ्चेष्टिलोपेनेति / बहिरङ्गत्वेनेति // बहिभूतणिनिमित्तकत्वादिति भावः / नन्वस्तु तिरसस्तिरिः। तत्र रेफादिकारस्य टेरिति लोप: स्यादित्यत आह / असिद्धवदत्रेति // प्रथमटिलोपोऽसिद्ध इत्यन्वयः / तिरस् अच् इ इति स्थिते प्रथमप्रवृत्तः अच् इत्येवंरूपटेलोपः तिरेष्टिलोपे कर्तव्ये आभीयत्वादसिद्ध इत्यर्थः / ननु प्रथमटिलोपस्य कथन्तिरेष्टिलोपे कर्तव्ये असिद्धत्वम् / टिलोपशास्त्रस्य एकत्वादित्यत आह / चिणो लुङ्ग्यायेनेति // पचधातो वकर्मणोलुंडस्तङि प्रथमपुरुषैकवचने तशब्द परे 'चिण् भावकर्मणोः' इति च्लेश्चिणि उपधावृद्धौ अटि अपाचि त इत्यस्मात् 'तिइश्च' इति तरपि तदन्तात् 'किमेत्तिव्ययघादाम्' इत्याम्प्रत्यये अपाचिततरामिति स्थिते 'चिणो लुक्' इति प्रथमस्य तशब्दस्य लुकि कृते पुनस्तरप्प्रत्ययतशब्दस्य लुङ् न भवति / स्थानिभेदेन लुको भेदमाश्रित्य प्रथमलुकः असिद्धत्वेन व्यवधानादिति स्थितिः। एवमिहापीत्यर्थः / अतः इति // प्रथमाटलोपस्यासिद्ध For Private And Personal Use Only
Page #393
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा / न / अङ्गवृत्तपरिभाषया वा / चङयग्लोपित्वादुपधाह्रस्वो न / अतितिरायत् / सध्रयञ्चमाचष्टे सध्राययति / अससध्रायत् / विष्वद्यञ्चम् अविविष्वद्रायत् / देवद्यञ्चम् अदिदेवद्रायत् / अव्यञ्चम् आददद्रायत् / अदमुयञ्चम् अदमुआययति / आददमुआयत् / अमुमुयञ्चम् अमुमुआययति / चङ् / आमुमुआयत् / भुवं भावयति / अबीभवत् / भ्रुवम् / अबुभ्रवत् / श्रियम् अशिश्रयत् / गाम् अजूगवत् / रायम् अरीरयत् / नावम् अनूनवत् / स्वश्वं स्वाशश्वत् / स्वः / अव्ययानां भमावे टिलोपः / स्वयति / असस्वत् त्वादित्यर्थः / अङ्गवृत्तपरिभाषया वेति // पुनष्टिलोपो नेत्यनुषज्यते। न च तिरेरिकारस्याङ्गवृत्तपरिभाषया टेरिति लोपाभावे तिराययतीति वृद्धिरपि तस्य न स्यादिति वाच्यम् / अङ्गवृत्तपरिभाषाया अनित्यत्वेन वृद्धिविषये तदप्रवृत्तेः / अग्लोपित्वादिति // तिरस् अच् इ इति स्थिते 'टेः' इत्यतो धातोर्लोपे सति तिरि इत्यस्य अग्लोपित्वम् अचो धातोर्लोपे अकारस्यापि लोपसत्वादित्यभिमानः / सद्राययतीति // सहस्य सध्रिः / तिराययतीतिवद्रूपम् / सहेत्यस्य उपसर्गत्वाभावान पृथक्करणम् / तदाह / अससध्रादिति // विष्वन्द्यञ्च मिति // विष्वक अच् इ इति स्थिते 'विष्वग्देवयोश्च' इति विष्वक्शब्दटेरठ्यादेशे टेरित्यचो. धातो.पे विष्वद्रि इ इति स्थिते वृद्धौ आयादेशे विष्वदायि इति ण्यन्ताल्लटि विष्वद्राययतीति रूपम् / देवद्यञ्चमिति // देवशब्दस्य टेरठ्यादेशे देवदाययतीति सिद्धवत्कृत्य लुड्याह / अदिदेवद्रायदिति // अतितिरायदितिवद्रूपम् / आददद्रायदिति // सर्वनामस्थानत्वाददस्शब्दस्य टेरयादेशः / त्यदाद्यत्वे सत्येव उत्त्वमत्त्वे इति पक्षे इदम् / अदस्शब्दाद्विभक्तेः लुका लुप्तत्वेन विभक्तिपरकत्वाभावेन त्यदायत्वाप्रवृत्तेः / त्यदाद्यत्वाविषयत्वऽपि उत्त्वमत्त्वे स्त इति मतमाश्रित्य आह / अमुमुयंचमिति // अदस् अच् इ इति स्थिते टेरठ्यादेशे अच् इत्यस्य टेर्लोपे अदद्रि इ इति स्थिते 'अदसोऽद्रेः पृथङ्मुत्वम्' इति मते दकाराकारयोर्दकाररेफयोश्च मत्वोत्त्वयोः कृतयोः अमुमु इ इति स्थिते प्रथमस्य इकारस्य णिचि वृद्धौ आयादेशे अमुमु आयि इति ण्यन्ताल्लडादीति भावः / मुत्वस्यासिद्धत्वान्न यण् / अदमुआययतीति // 'केचिदन्त्यसदेशस्य' इति मते इदम् / भुवमिति // भुवमाचष्टे इत्यर्थे भूशब्दात् णिच् वृद्ध्यावादेशौ भावि इत्यस्माल्लडादीति भावः / अबीभवदिति // 'ओः पुयण्जि' इति इत्त्वम् / अबुभ्रवदिति // 'अचिश्नुधातु' इति उवङ्। अवर्णपरत्वाभावात् 'ओः पुयग्जि' इति न। स्वश्वमिति // सु शोभनः अश्वः इति विग्रहः / स्वाशश्वदिति // उपसर्गसमानाकारस्य पृथक्करणादश्वशब्दस्य 'अजादेर्द्वितीयस्य' इति द्वित्वमाडागमश्च / स्वरिति // स्वर् इत्यस्माणिचि 'अव्ययानाम्भमात्रे' इति टिलोपः। इष्टवत्त्वेन भत्वात् 'प्रकृत्यैकाच्' इति प्रकृतिभावस्तु येननाप्राप्तिन्यायेन टेरित्यस्यैव बाधकः / असस्वदिति // द्वित्वे कार्ये णावजादेशस्य निषेधात् टिलोपम्बाधित्वा स्वर्शब्दस्य द्वित्वम् / अरित्यस्य लोपे अकारस्यापि लोपसत्त्वेन For Private And Personal Use Only
Page #394
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 392 सिद्धान्तकौमुदीसहिता [नामधातु असिस्वत् / बहून्भावयति / बहयतीत्यन्ये / स्रग्विणं स्रजयति / संज्ञापूर्वकत्वान्न वृद्धिः / श्रीमती श्रीमन्तं वा श्रययति / अशिश्रयत् / पयस्विनी पयसयति / इह टिलोपो न / तदपवादस्य लुकः प्रवृत्तत्वात् / स्थूलं स्थवयति / दूरं दवयति / कथं तर्हि 'दूरयत्यवनते विवस्वति' इति / दूरमतति अयते वा दूरात् , दूरातं कुर्वतीत्यर्थः / युवानं यवयति-कनयति / 'युवाल्पयो:-' (सू 2019) इति वा कन् / अन्तिकं नेदयति / बाढं अजादेशत्वादिति भावः / असिस्वदिति // अर्लोपस्य अजादेशत्वन्नेति मते द्वित्वे कार्ये णौ टिलोपस्य निषेधाभावात् टिलोपे कृते णिचा सह स्विशब्दस्य द्वित्वमिति भावः / बहूनिति // बहुशब्दाण्णिचि णाविष्ठवदित्यतिदेशात् 'बहोर्लोपो भूच बहोः' इति बहोभूभावः / इष्ठस्य यिट्चेति यिडागमस्तु न / णाविष्ठवदिति सप्तम्या इष्टनि परे दृष्टस्यैव कार्यस्यातिदेशादिति भावः / बहयतीति // यिडभावे तत्सन्नियोगशिष्टस्य भूभावस्याप्यभावादिति भावः / सृजयतीति // इष्टवत्त्वात् ‘विन्मतोः' इति लुक् / नचाजादी गुणवचनादेवेति इष्टन्प्रत्ययः स्रग्विन्शब्दात् दुर्लभ इति इष्टवत्त्वमत्र कथमिति शङ्कयम् / 'विन्मतोः' इति लुग्विधानेन स्रग्विन्शब्दादिष्टवत्त्वसिद्धेरिति भावः / उपधावृद्धिमाशङ्कय आह / संज्ञापूर्वकत्वान्न वृद्धिरिति॥ णाविष्ठवदित्यनेनातिदेशेन विनो लुकस्सत्वादङ्गवृत्तपरिभाषया न वृद्धिरिति कैयटः / श्रीमतीमिति // श्रीमतीशब्दाणिधि णाविष्टवदित्यतिदेशेन 'भस्याढे' इति पुंवत्त्वे 'विन्मतोः' इति मतो लुकि रेफादिकारस्य वृद्ध्यायादेशयोः श्रायि इत्यस्मात् लडादीति भावः। अशिश्रयदिति॥ णावच आदेशो नेति वृद्ध्यायादेशयोः प्रागेव श्रीशब्दस्य द्वित्वे उत्तरखण्डे वृद्ध्यायादेशयोः कृतयोरुपधाहस्व इति माधवः / मतुपो लुकि अकारस्यापि लोपसत्त्वेन अग्लोपित्वानोपधाहस्वः इत्यन्ये / पयस्विनीमिति // णिचि इष्टवत्त्वाद्विन्मतोरिति मतुपो लुगिति भावः / पयसयतीत्यत्र इष्ठवत्त्वात् टिलोपमाशङ्कय आह / इह टिलोपो नेति // कुत इत्यत आह / तदपवादस्येति // न च टिलोपम्बाधित्वा मतुपो लुकि कृते पयसप्टेर्लोपः कुतो न स्यादिति वाच्यम् / सत्यपि सम्भवे बाधनमिति न्यायेन पयसष्टिलोपस्यापि मतुपो लुका बाधात् / स्थवयतीति॥ स्थूलशब्दात् णिचि इष्टवत्त्वात् स्थूलदूरेति स्थूलशब्दस्य यणादेलोपे ऊकारस्य गुणे अवादेशे स्थवि इत्यस्मालडादीति भावः / गुणे ओकारस्याचो णितीति वृद्धिस्तु न शङ्कयम् / अङ्गकार्ये कृते पुनरङ्गकार्यस्याप्रवृत्तेः / दवयतीति // पूर्ववद्यणादिलोपो गुणश्च / कथन्तीति // स्थूलदूरति यणादिलोपस्य टिलोपापवादत्वादिति भावः / दूरमततीति // 'अत सातत्यगमने' इति धातोः 'अन्येभ्योऽपि दृश्यते' इति क्विपि दूरादिति रूपम् / अय गतावित्यस्मात् क्विपि 'लोपो व्योः' इति यलोपे ' हूस्वस्य पिति' इति तुकि दूरादित्येव रूपम् / तस्माण्णौ टिलोपे दूरि इति ण्यन्तात् शतृप्रत्यये शपि इकारस्य गुणे अयादेशे दूरयच्छब्दस्य दूरयतीति सप्तम्यन्तमिति भावः। तदाह / दूरातं कुर्वतीत्यर्थः इति॥ कुर्वतीति सप्तम्यन्तम् / यवयतीति॥ युवन्शब्दात् णौ स्थूलदूरेति वनो यणादेर्लोपः। पूर्वस्य उकारस्य गुणे अवादेशः / यवि इत्यस्माल्लडादि / कनयतीति // युवन्शब्दस्य कनादेशपक्षे रूपम् / तदाह / युवाल्पयोरिति // नेदयतीति // For Private And Personal Use Only
Page #395
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा। 393 साधयति / प्रशस्यं प्रशस्ययति / इह श्रज्यौ न, उपसर्गस्य पृथकृतेः / वृद्धं ज्यापयति / प्रियं प्रापयति। स्थिरं स्थापयति / स्फिरं स्फापयति / उरुं वरयतिवारयति / बहुलं बंहयति / गुरुं गरयति / वृद्धं वर्षयति / तृपं त्रपयति / दीर्घ द्राघयति / बृन्दारकं बृन्दयति / इति तिङन्तनामधातुप्रकरणम् / // अथ तिङन्तकण्डादिप्रकरणम् // 2678 / कण्डादिभ्यो यक् / (3-1-27) एभ्यो धातुभ्यो नित्यं यक्स्यात्स्वार्थे / ' धातुभ्यः' किम् / प्रातिपदिकेभ्यो मा भूत् / द्विधा हि कण्डादयः, धातवः प्रातिपदिकानि च / अन्तिकशब्दस्य णौ नेदादेशः / अन्तिकबाढयोर्नेदसाधावित्युक्तेः / साधयतीति // बाढशब्दस्य णौ साधादेशः / इहेति // प्रशस्ययतत्यित्र 'प्रशस्यस्य श्रः' 'ज्यच' इति श्रज्यौ नेत्यर्थः / कुत इत्यत आह / उपसर्गस्येति // तत्पृथक्करणे सति विशिष्टस्य स्थानिनोऽभावान्नादेशाविति भावः / वृद्धं ज्यापयतीति // वृद्धस्य चेति वृद्धशब्दस्य ज्यादेशे वृद्धौ पुगिति भावः / 'प्रियस्थिर' इति सूत्रक्रमेणोदाहरति / प्रियम्प्रापयतीति / प्रियशब्दस्य प्रादेशे वृद्धिः पुक् / स्थापयतीति // स्थिरशब्दस्य स्थादेशे वृद्धिपुकौ / वरयति-वारयतीति // उरुशब्दस्य वर् / संज्ञापूर्वकविधेरनित्यत्वादुपधावृद्धिविकल्प इति माधवः / बेहयतीति // बहुलस्य बंहादेशः / गरयतीति // गुरोः गर् / वृद्धं वर्षयतीति // वृद्धस्य वर्षादेशः / वृद्धस्य चेति ज्यादेशेन विकल्प्यते / अपयतीति // तृप्रस्य त्रप् आदेशः / अदुपधः। संज्ञापूर्वकत्वान्न वृद्धिः। गरयतीत्यादिवत् / त्रापयतीति क्वचित्पाठः / द्राघयतीति // दीर्घस्य द्राघादेशः / बृन्दयतीति // बृन्दारकस्य बृन्दादेशः // इति श्रीसिद्धान्तकौमुदीव्याख्यायाम्बालमनोरमायां नामधातुप्रक्रिया समाप्ता। अथ कण्ड्डादिप्रक्रिया निरूप्यन्ते // कण्ड्वादिभ्यो यक् / धातुभ्यः इति // 'धातोरेकाचः' इत्यतस्तदनुवृत्तेरिति भावः। नित्यमिति // आधृषाद्वेति वाग्रहणन्तु निवृत्तमिति भावः। अन्यथा कण्डतीत्याद्यपि स्यादिति भावः / द्विधा हीति // एतच्च भाष्ये स्पष्टम्। तेन 50 For Private And Personal Use Only
Page #396
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 394 सिद्धान्तकौमुदीसहिता 'कण्डूळ गात्रविघर्षणे' / कण्डूयति-कण्डूयते / ‘मन्तु अपराधे' / रोष इत्येके / मन्तूयति / चन्द्रस्तु जितमाह / मन्तूयते / 'वल्गु पूजामाधुर्ययोः" वल्गूयति / 'असु उपतापे' ‘असु, असूञ्' इत्येके / अस्यति / असूयतिअसूयते / लेट् लोट् धौर्ये, पूर्वभावे, स्वप्ने च' दीप्तावित्येके / लेट्यति। लेटिता। लोट्यति / लोटिता / ' लेला दीप्तौ' / ‘इरस् , इरज् , इरञ् , ईर्ष्यायाम्' इरस्यति / इरज्यति / 'हलि च' (सू 354) इति दीर्घः / ईर्यति-ईर्यते / 'उषस् प्रभातीभावे' वेदे, धौर्ये, स्वप्ने च' मेधा आशुग्रहणे' / मेधायति / 'कुषुभ क्षेपे / कुषुभ्यति / 'मगध परिवेष्टने' / 'नीच दास्ये' इत्यन्ये / 'तन्तस् पम्पस् दुःखे' / 'सुख दुःख तक्रियायाम्' सुख्यति / दुःख्यति / सुखं दुःखं चानुभवतीत्यर्थः / 'सपर पूजायाम्' / 'अरर आराकर्मणि' / भिषज चिकित्सायाम्' / 'भिष्णज् उपसेवायाम् / 'इषुध शरधारणे' / 'चरण वरण गतौ / 'चुरण चौर्ये' / 'तुरण त्वरायाम्' / 'भुरण धारणपोषणयोः' / 'गद्गद वास्खलने' / 'एला केला खेला विलासे' / 'इल इत्यन्ये' / 'लेखा स्खलने च' / अदन्तोऽयमित्यन्ये / लेख्यति / 'लिट अल्पकुत्सनयोः' लिट्यति / ‘लाट जीवने' / 'हृणीङ् रोषणे लज्जायां च' / 'महीङ् पूजायाम्' / महीयते / पूजां लभते इत्यर्थः / रेखा श्लाघासादनयोः' / 'द्रवस् परितापपरिचरणयोः / 'तिरस अन्तधौं' / अगद नीरोगत्वे' / 'उरस् बलार्थः' / उरस्यति / बलवान्भवतीत्यर्थः / 'तरण गतौ' / ‘पयस् प्रसृतौ' / 'सम्भूयस् प्रभूतभावे' / 'अम्बर संवर संभरणे' / आकृतिगणोऽयम् / इति तिङन्तकण्ड्वादिप्रकरणम् / कण्डूरित्यादिरपि गृहीतरूपसिद्धिः / लेटितेति // यस्य हलः' इति यलोपः / मेधा आशुग्रहणे इति // आशुग्रहणन्त्वरया बोधः / सुग्रहणे इति पाठान्तरम् / सुख्यतीति // यकि अतो लोपः / प्रातिपदिकेभ्यो यकि तु आर्द्धधातुकत्वाभावादल्लोपो न स्यादिति बोध्यम् / चौरादिकयोस्तु सुखयति दुःखयतीत्युक्तम् / अरर आराकर्मणीति // आरा प्रतोदः तत्करणकं कर्म आराकर्म। भिषज् चिकित्सायाम् // जान्तोऽयम् / भिषज्यति / लेखा स्खलने चेति // लेखायति / लेख्यतीति // अदन्ताद्यकि अतो लोपः / आकृतिगणोऽयमिति // कण्डादय इत्यर्थः / तेन दुवस् सन्दीपने इत्यादिसङ्ग्रहः / " समिधा अनि दुवस्यते" // इति श्रीवासुदेवदीक्षितविदुषा विरचितायां सिद्धान्तकौमुदीव्याख्यायां बालमनोरमायां कण्डादयः समाप्ताः // For Private And Personal Use Only
Page #397
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // अथ तिङन्तप्रत्ययमालाप्रकरणम् // कण्डूयतेः सन् / 'सन्योः ' (सू 2395) इति प्रथमस्यैकाचो द्वित्वे प्राप्ते * कण्डादेस्तृतीयस्येति वाच्यम्' (वा 3404) / कण्डूयियिषति / क्यजन्तासन् / 'यथेष्टं नामधातुषु' (वा 3406) / आद्यानां त्रयाणामन्यतमस्य द्वित्वमित्यर्थः / अजादेस्त्वाद्येतरस्य / पुपुत्रीयिषति-पुतितीयिषति-पुत्रीयियिषति / अशिश्वीयिषति-अश्वीयियिषति / नदराणां संयुक्तानामचः परस्यैव द्वित्वनिषेधः / इन्द्रीयते: सन् / द्रीशब्दयिशब्दयोरन्यतरस्य द्वित्वम् / इन्दिद्रीयिषति-इन्द्रीयियिषति / चिचन्द्रीयिषति-चन्दिद्रीयिषति-चन्द्रीयि अथ प्रत्ययमालां वक्ष्यन्नाह / कण्डूयतेस्सन्निति // 'धातोः कर्मणः' इत्यनेनेति भावः। प्रथमस्यैकाचः इति // 'अजादेर्द्वितीयस्य' इति द्वित्वे प्राप्ते इत्यपि ज्ञेयम् / कण्डादेस्तृतीयस्येति // एकाचो द्वित्वमिति शेषः / कण्ड्डादेरित्यनन्तरं यगन्तस्येति शेषः / केवलकण्ड्वादिषु तृतीयैकाचोऽभावात् / कण्डूयियिषतीति // कण्ड्येति यगन्तात् सनि इटि अतो लोपः। क्यजन्तात्सन्निति॥ उदाहियते इति शेषः / यिस इति तृतीयस्यैकाचो द्वित्वम्। असु उपतापे कण्ड्डादिः। असूयियिषति / अजादेस्तृतीयस्य एकाचो द्वित्वम्। यथेष्टनामधातुष्वित्यपि वार्तिकम् / नाम प्रातिपदिकं तद्धटितधातुष्वित्यर्थः। आद्यानां त्रयाणामिति॥ अजादेस्त्वाचे. तरस्येति॥अजादेरित्यनुवृत्त्या आदिभूतादचः परेषामेकाचा यथेष्टमिति लाभादितिभावः। नदराणामिति // तेषां मध्ये आदिभूतादचःपरस्यैवेत्यर्थः। इन्द्रीयतेस्सन्निति // इन्द्रशब्दात् क्यजन्तात्सन्नित्ययः / द्रीशब्दयिशब्दयोरिति // नकारस्य आदिभूतादचः परत्वान्न द्वित्वम् / दकारस्य तु आदिभूतादचः परत्वाभावान द्वित्वनिषेध इति भावः / चिचन्द्रीयिषतीति // चन्द्रीयतेस्सनि प्रथमस्यैकाचो द्वित्वम्। चन्दिद्रीयिषतीति॥ द्वितीयस्यैकाचो द्वित्वं दकारस्य। 'नन्द्राः' इति नकारस्य न द्वित्वमिति माधवः / आदिभूतादचः परेषानदराणां न द्वित्वमित्येव भाष्यसम्मतम् / अत्र नकारस्यापि न द्वित्वमित्येव युक्तम् / चन्द्रीयियिषतीति // तृतीयस्यैकाचो द्वित्वम् / प्रियमिति // प्रियमाख्यातुमिच्छतीत्यर्थे 'तत्करोति तदाचष्टे' इति ण्यन्तात्सनि इटि णाविष्टवत्त्वात्प्रियशब्दस्य 'प्रियस्थिर' इति प्रादेशे वृद्धौ पुकि णिचो गुणायादेशयोष्षत्वे प्रापयिषेत्येव सन्नन्तम् / प्रियमाचक्षाणं प्रेरयितुमिच्छतीत्यर्थे तु प्रापि इति ण्यन्तादुत्ता तुमण्णौ तदन्तात् सनि इटि द्वितीयं णिचमाश्रित्य प्रथमणिचो लोपे द्वितीयणिचो गुणायादेशयोः प्रापयिषेत्येव सन्नन्तम् / तत्र यथेष्टनामधातुष्वित्याद्यानान्त्रयाणामेकाचामेकैकस्य द्वित्वेऽपि For Private And Personal Use Only
Page #398
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 396 सिद्धान्तकौमुदीसहिता -प्रापयियिषति। उरुं विवारयिषति-वारिरयिषति-वारयियिषति। बाढं सिसाधयिषतीत्यादिरूपत्रयम् / षत्वं तु नास्ति / 'यङ्सनण्यन्तात्सन' / बोभूयिषयिषति / यणिच्सन्नन्ताणिच् / बोभूययिषयतीत्यादि / इति तिङन्तप्रत्ययमालाप्रकरणम् / प्रापयिषतीत्यादि रूपत्रयमित्यर्थः / उरुमिति // उरुमाख्यातुमाचक्षाणम्प्रेरयितुं वेच्छतीत्यर्थे उरुशब्दादाचष्टे इत्यर्थे णिचि ‘प्रियस्थिर' इति वरादेशे उपधावृद्धौ वारि इति ण्यन्तान्सनि इटि णिचो गुणायादेशयोषत्वे वारयिषेति सन्नन्तम् / माधवमते वृद्ध्यङ्गीकारात् वारि इत्यस्मात् हेतुमण्ण्यन्तात् सनि इटि प्रथमणेोपे षत्वे वारयिषेत्येव रूपम् / तत्र यथेष्टनामधातुध्वित्येकैकस्य एकाचो द्वित्वे विवारयिषतीत्यादि रूपत्रयमित्यर्थः। बाढं सिसाधयिषतीति / बाढमाख्यातुमाचक्षाणं प्रेरयितुं वेच्छतीत्यर्थे णिजादि पूर्ववत् / अन्तिकबाढयोरिति साधादेशः। तत्र सकारस्यादेशत्वाभावान्न षत्वम् / तदाह / षत्वन्तु नास्तीति // बोभूयिषयिषतीत्यत्र प्रक्रियां दर्शयति / यङिति // भूधातोरिति शेषः / द्वित्वे बोभूयेति स्थितम् / सन्निति // इटि अतो लोपे षत्वे बोभूयिषेति स्थितम् / ण्यन्तात् सन्निति // बोभूयिषेत्यस्मात् हेतुमण्णिचि अतो लोपे बोभूयिषि इति स्थितम् / तस्मात् सनि इटि णिचो गुणायादेशयोः षत्वे बोभूयिषयिषेति स्थितम् / ततो लटस्तिपि शपि पररूपे बोभूयिषयिषतीति रूपम् / अनभ्यासस्येत्युक्तेर्न पुनर्द्वित्वम् / अथ बोभूययिषतीत्यत्र प्रक्रियान्दर्शयति / यङिति // भूधातोरिति शेषः / द्वित्वे बोभूयेति स्थितम् / णिजिति // बोभूयेत्यस्माद्धेतुमण्णौ अतो लोपे बोभूयि इति स्थितम् / सन्नन्ताणिजिति / / बोभूयि इत्यस्मात्सनि इटि णिचो गुणायादेशयोः षत्वे बोभूययिषेति स्थितम् / तस्माद्धेतुमण्णिचि अतो लोपे बोभूययिषि इत्यस्माल्लटस्तिपि शपि पररूपे बोभूययिषयतीति रूपं सिद्धम् // इति श्रीवासुदेवदीक्षितविदुषा विरचितायां सिद्धान्तकौमुदीव्याख्यायां बालमनोरमायाम्प्रत्ययमाला समाप्ता / For Private And Personal Use Only
Page #399
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // अथ तिङन्तात्मनेपदप्रकरणम् // 'अनुदात्तङित आत्मनेपदम्' (सू 2157) / आस्ते / शेते / ___ 2679 / भावकर्मणोः / (1-3-13) बभूवे / अनुबभूवे / 2680 / कर्तरि कर्मव्यतिहारे / (1-3-14) क्रियाविनिमये द्योत्ये कर्तर्यात्मनेपदं स्यात् / व्यतिलुनीते / अन्यस्य योग्यं लवनं करोतीत्यर्थः / 'नसोरल्लोप:' (सू 2469) / व्यतिस्ते। व्यतिपाते। व्यतिषते / 'तासस्स्यो:--' (सू 2191) इति सलोपः / व्यतिसे / 'धि च' (सू 2249) / व्यतिध्वे / 'ह एति' (सू 2250) / व्यतिहे / व्यत्यसै / अथ आत्मनेपदप्रक्रिया निरूप्यन्ते // आत्मनेपदपरस्मैपदव्यवस्थापकानि सूत्राणि प्रथमस्य तृतीयपादे पठितानि / तानि क्रमेण व्याख्यास्यन् व्याख्यातमपि सूत्रं पुनः स्मारयति / अनुदात्तङितः इति // आत्मनेपदमित्येतत् ‘शेषात्कर्तरि परस्मैपदम्' इत्यतः प्रागनुवर्तते। भावकर्मणोः // भावः भावना क्रियेति पर्यायाः। कर्मशब्दः कर्मकारके वर्तते / भावे कर्मणि च यो लकारस्तस्यात्मनेपदमित्यर्थः / भावे उदाहरति / बभूवे इति // वृत्ता भवनक्रियेत्यर्थः / कर्मण्युदाहरति / अनुबभूवे इति // आनन्द इति शेषः / आनन्दकर्मिका वृत्ता अनुभोगक्रियेत्यर्थः / कर्तरि कर्म // कर्मव्यतिहारशब्दं विवृण्वन्नाह / क्रियाविनिमये द्योत्ये इति // एवञ्च कर्मशब्दः क्रियापरः / व्यतिहारशब्दो विनिमयपर इत्युक्तं भवति / अन्यस्येति // शूद्रादियोग्यं सस्यादिलवनं ब्राह्मण: करोतीत्यर्थः। परस्परकरणमपि कर्मव्यतिहार इति कैयटः। सम्प्रहरन्ते राजानः। कर्तृग्रहणम्भावकर्मणोरित्यस्यानुवृत्तिमिवृत्त्यर्थम् / अन्यथा व्यतिलुनीत इत्यत्र न स्यात् / वस्तुतस्तु पृथक् सूत्रारम्भादेव सिद्ध कर्तृग्रहणमुत्तरार्थमिति भाष्ये स्पष्टम् / व्यति अस् ते इति स्थिते आह / श्रसोरिति // व्यतिस्ते इति // तपसे अयोग्यः शूद्रस्तपस्वी भवतीत्यर्थः / इह 'उपसर्गप्रादुर्ध्याम्' इति न षः / यच्परकत्वाभावादिति भावः / व्यतिपाते इति // इह अच्परकत्वादुपसर्गप्रादुर्व्यामिति षः / व्यति स् से इति स्थिते आह / तासस्त्योरिति / 'उपसर्गप्रादुर्ध्याम्' इति नेह षत्वम् / अस्त्यवयवस्य सकारस्य लुप्तत्वात् / व्यतिषाथे। व्यति स् ध्वे इति स्थिते आह / धि चेति // सलोप इति शेषः। व्यतिस् ए इति स्थिते आह / ह एतीति / / सकारस्य हकार इति भावः / व्य For Private And Personal Use Only
Page #400
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 398 सिद्धान्तकौमुदीसहिता [आत्मनेपद व्यत्यास्त / व्यतिषीत / व्यतिराते / व्यतिराते / व्यतिराते / व्यतिभाते / व्यतिभाते / व्यतिभाते / व्यतिबभे / 2681 / न गतिहिंसार्थेभ्यः / (1-3-15) व्यतिगच्छन्ति / व्यतिघ्नन्ति / 'प्रतिषेधे हसादीनामुपसंख्यानम्' (वा 898) हसादयो हसप्रकाराः शब्द क्रियाः / व्यतिहसन्ति / व्यतिजल्पन्ति / 'हरतेरप्रतिषेधः' (वा 899) / संप्रहरन्ते राजानः / 2682 / इतरेतरान्योऽन्योपपदाच्च / (1-3-16) 'परस्परोपपदाञ्चेति वक्तव्यम्' (वा 900) / इतरेतरस्यान्योऽन्यस्य परस्परस्य वा व्यतिलुनन्ति / 2683 / नेर्विशः / (1-3-17) निविशते / 2684 / परिव्यवेभ्यः क्रियः / (1-3-18) अकञभिप्रायार्थमिदम् / परिक्रीणीते / विक्रीणीते / अवक्रीणीते / 2685 / विपराभ्यां जेः / (1-3-19) विजयते / पराजयते / त्यसै इति // लोडुत्तमपुरुषैकवचनम् / व्यत्यास्तेति // लङि रूपम् / व्यतिषीतेति // लिङि रूपम् / व्यतिराते इति / लटि प्रथमपुरुषकद्विबहुवचनेषु समानमेव रूपम् / व्यतिभाते इति // भाधातोः रूपम् / व्यतिबभे इति // लिटि रूपम् / न गतिहिंसाथैभ्यः / कर्मव्यतिहारे आत्मनेपदन्नेत्यर्थः। हसादिगणस्य अदर्शनादाह। हसप्रकाराः इति // उपसर्गमनपेक्ष्य ये गतिहिंसयोर्वर्तन्ते तेषामेव ग्रहणलाभाय अर्थग्रहणम् / हृञ्धातुस्तु उपसर्गबलाद्धिंसायां वर्तते इति न तस्य प्रतिषेध इत्याह / हरतेरप्रतिषेधः इति // अर्थग्रहणलभ्यमिदं वार्तिकम् / इतरेतर // नात्मनेपदमिति शेषः / नेर्विशः॥ निपूर्वाद्विशः आत्मनेपदं स्यादित्यर्थः / नेति निवृत्तम् / यद्यपि न्यविशतेत्यत्र न विशिर्नेः परः। अटा व्यवधानात् / अटो विकरणान्ताङ्गभक्तत्वेन विशधात्ववयवत्वाभावात्। तथापि 'अड्व्यवाय उपसङ्ख्थानम्' इति वार्तिकाद्भवतीति ‘शदेः शितः' इत्यत्र भाष्ये स्पष्टम् / परिव्यवेभ्यः। परि वि अव एम्यः परस्मात् क्रीब्धातोरात्मनेपदामत्यर्थः / भित्त्वादात्मनेपदसिद्धेः किमर्थमिदमित्यत आह / अकवभिप्रायार्थमिति॥विपराभ्याञ्जः॥ वि परा आभ्याम्परस्मात् जिधातोरात्मनेपदमित्यर्थः / विजयते इति // उत्कृष्टो भवतीत्यर्थः / पराजयते इति // निकृष्टो भवतीत्यर्थः / For Private And Personal Use Only
Page #401
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा। 399 2686 / आङो दोऽनास्यविहरणे / (1-3-20) आङ्पूर्वाद्ददातेर्मुखविकसनादन्यत्रार्थे वर्तमानादात्मनेपदं स्यात् / विद्यामादत्ते / 'अनास्य-' इति किम् / मुखं व्याददाति / आस्यग्रहणमविवक्षितम् / विपादिकां व्याददाति / पादस्फोटो विपादिका। नदी कूलं व्याददाति / 'पराङ्गकर्मकान निषेधः' (वा 903) / व्याददते पिपीलिकाः पतङ्गस्य मुखम् / 2687 / क्रीडोऽनुसंपरिभ्यश्च / (1-3-21) / चादाङः / अनुक्रीडते / संक्रीडते / परिक्रीडते / आक्रीडते / अनोः कर्मप्रवचनीयान्न / उपसर्गेण समा साहचर्यात् / माणवकमनुक्रीडति / तेन सहेत्यर्थः / तृतीयार्थे' (सू 549) इत्यनोः कर्मप्रवचनीयत्वम् / 'समोऽ कूजने' (वा 904) / संक्रीडते / कूजने तु संक्रीडति चक्रम् / 'आगमेः क्षमायाम्' (वा 905) / ण्यन्तस्येदं ग्रहणम् / आगमयस्व तावत् / मा त्वरिष्ठा इत्यर्थः / 'शिक्षेर्जिज्ञासायाम्' (वा 906) / धनुषि शिक्षते / धनुर्विषये झाने शक्तो भवितुमिच्छतीत्यर्थः / 'आशिषि नाथः (वा 910) आङोदो।।आस्यविहरणं मुखविकसनम् / दा इत्यस्य दः इति पञ्चमी। तदाह / ददातेर्मुखविकसनादन्यत्रेति // विद्यामादत्ते इति // गृह्णातीत्यर्थः। दालो अित्त्वेऽप्यकत्रभिप्रायाथमिदम् / अविवक्षितमिति || अविहरणे इत्येतावदेव विवक्षितमित्यर्थः / विपादिकां व्याददातीति // क्षारौषधादिना विदारयतीत्यर्थः / अत्र आस्यविहरणाभावेऽपि वि. कसनसत्वान्नात्मनेपदमिति भावः / नदी कूल व्याददातीति | भिनत्तीत्यर्थः / अत्रापे विकसनसत्त्वादास्यविहरणाभावेऽपि नात्मनेपदम् / पराङ्गकर्मकान्न निषेधः इति // वार्तिकम् / पतङ्गस्येति // पक्षिणो मुखम्भक्षणाय विकासयन्तीत्यर्थः। क्रीडोऽनु॥ चादाङः इति॥ तथाच अनु सम् परि आङ् एभ्यः परस्मात् क्रीडधातोरात्मनेपदमित्यर्थः / 'अनोऽकर्मप्रवचनीयान' इति वार्तिकम्। तदिदं न्यायसिद्धमित्याह / उपसर्गेण समेति // 'समोऽकूजने' इति वार्तिकम् / समः परस्मात् अकूजने विद्यमानात् क्रीडेरात्मनेपदमित्यर्थः / कूजने तु सं. क्रीडति चक्रमिति // कूजतीत्यर्यः / आगमेः क्षमायामिति // आत्मनेपदमिति शेषः / वार्तिकमिदम् / ण्यन्तस्येदं ग्रहणमिति // भाष्ये ण्यन्तस्यैवोदाहरणादिति भावः / आ. गमयस्व तावदिति // किञ्चित्कालं सहखेत्यर्थः / आडुपसर्गवशात् गमधातुः क्षमायां वर्तते / 'हन्त्यर्थाश्च' इति चुरादिगणसूत्रेण स्वार्थे णिच् / चुरादेराकृतिगणत्वाद्वा / मा त्वरिष्ठाः इति // फलितार्थकथनम् / 'शिक्षेर्जिज्ञासायाम्' इत्यपि वार्तिकम् / धनुषि शिक्षते इति // वैषयिक आधारे सप्तमी / शकिस्सन्नन्तः। 'सनि मीमा' इति इस् / अभ्यासलोपश्च / तदाह। धनुर्विषये इत्यादि // 'शिक्ष विद्योपादाने' इत्यस्य तु नेह ग्रहणम् / अनुदात्तेत्त्वादेव सिद्धेरिति भावः / For Private And Personal Use Only
Page #402
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 400 सिद्धान्तकौमुदीसहिता [आत्मनेपद आशिष्येवेति नियमाथै वार्तिकमित्युक्तम् / सर्पिषो नाथते / सपि स्यादित्याशास्त इत्यर्थः / कथं ‘नाथसे किमु पतिं न भूभृताम्' इति / 'नाधसे' इति पाठ्यम् / हरतेर्गतताच्छील्ये' (वा 908) / गतं प्रकारः / पैतृकमश्वाः अनुहरन्ते / मातृकं गावः / पितुर्मातुश्चागतं प्रकारं सततं परिशीलयन्तीत्यर्थः / 'ताच्छील्ये' किम् / मातुरनुहरति / 'किरतेर्हर्षजीविकाकुलायकरणेष्विति वाच्यम्' (907) / हर्षादयो विषया: / तत्र हर्षो विक्षेपस्य कारणम् / इतरे फले / 2688 / अपाच्चतुष्पाच्छकुनिष्वालेखने / (6-1-42) अपात्किरते: सुट् स्यात् / 'सुडपि हर्षादिष्वेव वक्तव्यः' (वा 3706) / अपस्किरते वृषो हृष्टः / कुक्कुटो भक्षार्थी / श्वा आश्रयार्थी च / 'हर्षादिषु' इति किम् / अपकिरति कुसुमम् / इह तङ्सुटौ न / हर्षादिमात्रविवक्षायां कथमिति // भूभृतां पतिं किमु न नाथसे / न याचसे इत्यर्थः / आशिषः अप्रतीतेः कथमात्मनेपदमित्यर्थः / नाधसे इति पाठ्यमिति // तवर्गचतुर्थान्तोऽयम् / “आशिषि नाथः” इति नियमस्तु तवर्गद्वितीयान्तस्यैवेति भावः / “हरतेर्गतताच्छील्ये' इति वार्तिकम् / आत्मनेपदमिति शेषः। गतं प्रकारः इति // वृत्तमित्यर्थः / ताच्छील्यं स्वभावानुसरणम् / गति ताच्छील्यमिति यावत् / गतेति पाठे भावे क्तः। पैतृकमश्वाः इति // पैतृकं वृत्तं अश्वाः स्वभावादनुसरन्तीत्यर्थः / मातृकं गावः इति // अनुहरन्ते इत्यनुषज्यते / मातुरनुहरतीति // अनुकरोतीत्यर्थः / अत्र सादृश्यमानं विवक्षितं, न तु गतिताच्छील्यमिति भावः / किरतेरिति वार्तिकम् / हर्षः प्रमोदः / जीविका जीवनोपायभक्षणम् / कुलायकरणं आश्र. यसम्पत्तिः एषु कृधातोरात्मनेपदमित्यर्थः / ननु कृधातोर्विक्षेपार्थकस्य कथमेषु वृत्तिरित्यत आह / हर्षादयो विषयाः इति // धात्वर्थत्वाभावेऽपि पदान्तरसमभिव्याहारगम्या इत्यर्थः / तत्रेति // तेषु हर्षादिष्वित्यर्थः / कारणमिति // तथाच हर्षमूलकत्वं विक्षेपस्य लभ्यते इति भावः / इतरे इति // जीविकाकुलायकरणे विक्षेपस्य साध्ये इति लभ्यते / हर्षादीनामेवंविधविषयत्वे सत्येवात्मनेपदमिति फलितम् / भाष्ये तथैवोदाहृतत्वादिति भावः। अपा. चतुष्पांत् // 'सुटकात्पूर्वः' इत्यधिकृतम्। 'किरतौ लवने' इत्यतः किरतावित्यनुवर्तते। तदाह। अपात् किरतेस्सुट् स्यादिति // चतुष्पात्सु शकुनिषु च गम्येष्वित्यपि ज्ञेयम् / आलेखनङ्खननम् / सुडपि हर्षादिष्वेवेति वार्तिकम् / अपस्किरते वृषो हृष्टः इति // हर्षाभूमि लिखन् धूल्यादि विक्षिपतीत्यर्थः / कुक्कुटो भक्षार्थीति // अपस्किरते इत्यनुषज्यते। श्वा आश्रयार्थीति // अपस्किरते इत्यनुषज्यते / अपकिरति कुसुममिति // वृषादिरिति शेषः। ह्रियमाणो वृषादिः पादैः कुसुममवकिरतीत्यर्थः / अत्र हर्षाद्यभावान्नात्मनेपदम् / नापि सुट् / तदाह / इह तसुटौ नेति // ननु अपस्किरते वृषो हृष्ट इत्याद्युदाहरणत्रये यदि For Private And Personal Use Only
Page #403
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा / 401 यद्यपि तङ् प्राप्तस्तथापि ‘सुडभावे नेष्यते' इत्याहुः / गजोऽपकिरति / 'आङि नुप्रच्छ्योः ' (वा 909) / आनुते / आपृच्छते / ‘शप उपालम्भे' (वा 911) / आक्रोशात्स्वरितेतोऽकर्तृगेऽपि फले शपथरूपेऽर्थे आत्मनेपदं वक्तव्यमित्यर्थः / कृष्णाय शपते / 2689 / समवप्रविभ्यः स्थः / (1-3-22) संतिष्ठते / ' स्थाध्वोरिच्च' (सू 2389) / समस्थित / समस्थिषाताम् / समस्थिषत / अवतिष्ठते / प्रतिष्ठते / वितिष्ठते / ‘आडः प्रतिज्ञायामुपसंख्यानम्' (वा 912) / शब्दं नित्यमातिष्ठते / नित्यत्वेन प्रतिजानीते इत्यर्थः / 2690 / प्रकाशनस्थेयाख्ययोश्च / (1-3-23) गोपी कृष्णाय तिष्ठते / आशयं प्रकाशयतीत्यर्थः / 'संशय्य कर्णादिषु तिष्ठते यः' / कर्णादीन्निणेतृत्वेनाश्रयतीत्यर्थः / 2691 / उदोऽनूर्ध्वकर्मणि / (1-3-24) हर्षजीविकाकुलायकरणान्येव विवक्षितानि न त्वालेखनमपि तदा तडेव स्यान्न तु सुट् इत्यत आह। हर्षादिमात्रेत्यादि / तथापीति // आलेखनाभावेऽपीत्यर्थः / नेष्यते इति // किरतेर्हर्षजीविकेत्यात्मनेपदविधौ ससुटकानामेव भाष्ये उदाहरणादिति भावः / भाष्यस्थान्युदाहरणान्यालेखनविषयान्येव भविष्यन्तीत्यखरसं सूचयति / आहुरिति // गजोऽपकिरतीति // खभावाख्यानमत्रेति भावः / ‘आङि नुप्रच्छयोः' इति वार्तिकम् | आनुते इति // सृगाल इति भाध्यम् / सृगालः उत्कण्ठापूर्वकं शब्दङ्करोतीत्यर्थ इति कैयटः / ननु 'शप आक्रोशे' इत्यस्य खरितेत्त्वादेव सिद्धे 'शप उपालम्भने' इत्यात्मनेपदविधिर्व्यर्थ इत्यत आह / आक्रोशार्थादिति ॥'शप आक्रोशे' इति खरितेतः कर्तृगामिन्येव फले आत्मनेपदं प्राप्तम् / अकर्तृगेऽपि फले शपथात्मकनिन्दाविशेषे विद्यमानात् तस्मात् शपधातोरात्मनेपदार्थमिदमित्यर्थः / कृष्णाय शपते इति // “श्लाघ[स्थाशपाम्' इति सम्प्रदानत्वाच्चतुर्थी / समवप्रविभ्यः स्थः॥ स्थः इति पञ्चमी / सम् अव प्र वि एभ्यः परस्मात् स्थाधातोरात्मनेपदमित्यर्थः / सन्तिष्ठते इति // समाप्तम्भवतीत्यर्थः / प्रकाशन // प्रकाशनं स्वाभिप्रायाविष्करणम् / स्थेयः विवादपदनिणेता। तिष्ठति विश्राम्यति विवादपदनिर्णयोऽस्मिनित्यर्थे बाहुलके अधिकरणे “अचोयत्" इति यत् इति व्युत्पत्तेः / 'स्थेयो विवादस्थानस्य निर्णेतरि पुरोहिते' इति मेदिनी / इह तु विवादपदनिर्णेतृत्वेनाध्यवसायो विवक्षितः। आख्या अभिधानम् / प्रकाशनाख्यायां स्थेयाख्यायाञ्च वर्तमानात् स्थाधातोरात्मनेपदमित्यर्थः / प्रकाशने उदाहरति / गोपी कृष्णाय तिष्ठते इति // श्लाघ[ङ्स्थाशपाम् ' इति सम्प्रदानत्वाच्चतुर्थी / स्थेये उदाहरति / संशय्येति॥ कर्णादिष्विति विषयसप्तमी / फलितमाह / कर्णादीनिति // उदोऽनूर्वकर्मणि // ऊर्ध्व 51 For Private And Personal Use Only
Page #404
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 402 सिद्धान्तकौमुदीसहिता [आत्मनेपद मुक्तावुत्तिष्ठते / 'अनूर्ध्व-' इति किम् / पीठादुत्तिष्ठति / 'ईहायामेव' (वा 913) / नेह / ग्रामाच्छतमुत्तिष्ठति / 2692 / उपान्मन्त्रकरणे / (1.3-25) आग्नेय्या आग्नीमुपतिष्ठते। 'मन्त्रकरणे किम्'। 'भर्तारमुपतिष्ठति यौवनेन' / ' उपाद्देवपूजासंगतिकरणमिवकरणपथिष्विति वाच्यम् (वा 914) / आदित्यमुपतिष्ठते / कथं तर्हि ‘स्तुत्यं स्तुतिभिराभिरुपतस्थे सरस्वती' इति / देवतात्वारोपात् / नृपस्य देवतांशत्वाद्वा / गङ्गा यमुनामुपतिष्ठते / उपश्लिष्यतीत्यर्थः / रथिकानुपतिष्ठते / मित्रीकरोतीत्यर्थः / पन्थाः स्रुघ्नमुपतिष्ठते / प्राप्नोतीत्यर्थः / ‘वा लिप्सायामिति वक्तव्यम्' (वा 919) / भिक्षुकः प्रभुमुपतिष्ठते-उपतिष्ठति वा / लिप्सया उपगच्छतीत्यर्थः / 2693 / अकर्मकाच्च / (1-3-26) उपात्तिष्ठतेरकर्मकादात्मनेपदं स्यात् / भोजनकाल उपतिष्ठते / संनिहितो भवतीत्यर्थः / 2694 / उद्विभ्यां तपः / (1-3-27) देशसंयोगानुकूला क्रिया ऊर्ध्वकर्म / तद्भिनमनूर्ध्वकर्म / तद्वृत्तेः स्थाधातोरुत्पूर्वादात्मनेपदमित्यर्थः / मुक्तावुत्तिष्ठते इति // गुरूपगमनादिना यतते इत्यर्थः / पीठादुत्तिष्ठतीति // उत्पततीत्यर्थः / 'उद ईहायामेव' इति वार्तिकम् / ईहा कायपरिस्पन्दः / ग्रामाच्छतमुत्तिष्ठतीति // लभ्यते इत्यर्थः / उपान्मन्त्रकरणे // मन्त्रकरणकेऽर्थे विद्यमानात्स्थाधातोरात्मनेपदमित्यर्थः / आग्नेय्या आग्नीद्रमुपतिष्टते इति // आग्नय्या ऋचा आग्नीद्राख्यमण्डपविशेषमुपेत्य तिष्ठतीत्यर्थः / स्थितेरकर्मकत्वेऽपि उपेत्येतदपक्ष्य सकर्मकत्वम् / केचित्तु मन्त्रकरणके समीपावस्थितिपूर्वकस्तवे विद्यमानात् स्थाधातोरात्मनेपदमिति व्याचक्षते। तत्र स्तवः गुणवत्त्वेन सङ्कीर्तनमिति स्तुतशस्त्राधिकरणे प्रपञ्चितमस्माभिः / श्लोकैः राजानं स्तौतीत्यर्थे श्लोकैरुपतिष्ठते इत्यात्मनेपदन्न / मन्त्रकरणकत्वाभावात् / उपाद्देवपूजा इति वार्तिकम् अमन्त्रकरणकत्वार्थम् / आदित्यमुपतिष्ठते इति // आभिमुखीभूयावस्थितिपूर्वकस्तुत्यादिभिः पूजयतीत्यर्थः / कथन्तीति // रघोर्देवतात्वाभावादिति भावः / समाधत्ते / देवतात्वारोपादिति // नृपस्येति // 'नाविष्णुः पृथिवीपतिः' इत्यादिस्मरणादिति भावः / वा लिप्साया. मिति // लिप्साहेतुकार्थवृत्तेः स्थाधातोरात्मनेपदं वेत्यर्थः / अकर्मकाच्च // उपात्तिष्ठतेरिति // 'उपान्मन्त्रकरणे' इत्यतः 'समवप्रविभ्यः स्थः' इत्यतश्च तदनुवृत्तेरिति भावः / उद्वि. भ्यान्तपः // अकर्मकादित्येवेति भाष्यम् / दीप्यते इति // दीप्तिमान् भवतीत्यर्थः / For Private And Personal Use Only
Page #405
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा / 'अकर्मकात्' इत्येव / उत्तपते / वितपते / दीप्यते इत्यर्थः / ‘स्वाङ्गकर्मकाञ्चेति वक्तव्यम्' (वा 916) / स्वमङ्गं स्वाङ्गं न तु ‘अद्रवन्-' इति परिभाषितम् / उत्तपते वितपते पाणिम् / नेह / सुवर्णमुत्तपति सन्तापयति-विलापयति वेत्यर्थः / चैत्रो मैत्रस्य पाणिमुत्तपति / सन्तापयतीत्यर्थः / 2695 / आङो यमहनः / (1-3-28) आयच्छते / आहते / अकर्मकात्स्वाङ्गकर्मकादित्येव / नेह / परस्य शिर आहन्ति / कथं तर्हि * आजन्ने विषमविलोचनस्य वक्षः' इति भारविः / 'आहध्वं मा रघूत्तमम्' इति भट्टिश्च / प्रमाद एवायमिति भागवृत्तिः / प्राप्येत्यध्याहारो वा / ल्यब्लोपे पञ्चमीति तु ल्यबन्तं विनैव तदर्थावगतिर्यत्र तद्विषयम् / भेत्तुमित्यादितुमुन्नन्ताध्याहारो वास्तु / समीपमेत्येति वा / 2696 / आत्मनेपदेष्वन्यतरस्याम् / (2-4-44) हनो वधादेशो वा लुङि आत्मनेपदेषु परेषु / आवधिष्ट / आवधिषाताम् / स्वाङ्गकर्मकाच्चेति // उद्विभ्यान्तप इत्यनुवर्तते / चकारादकर्मकसमुच्चयः / स्वाङ्गशब्दोऽत्र यौगिक इत्याह / स्वमङ्गमिति // सुवर्णमुत्तपतीति // अस्वाङ्गकर्मकत्वादकर्मकत्वाभावाच्च नात्मनेपदमिति भावः / स्वाङ्गशब्दोऽत्र न पारिभाषिकः / किन्तु यौगिक इत्यस्य प्रयोजनमाह / चैत्रो मैत्रस्य पाणिमुत्तपतीति / / अत्र अद्रवन्मूर्तिमदित्यादिपरिभाषितस्वाङ्गकर्मकत्वेऽपि स्वकीयाङ्गकर्मकत्याभावानात्मनेपदमिति भावः / आङो यमहनः // आङः परस्मात् यमो हनश्चात्मनेपदमित्यर्थः / आयच्छते इति // रज्जुर्दीघभिवतीत्यर्थः / दीर्घाकरोति पादमिति वा। आहते इति // सोदरमिति शेषः / परस्य शिर आहन्तीति // स्वीयाङ्गकर्मकत्वाभावादकर्मकत्वाभावाच नात्मनेपदम् / कथन्तहीति // स्वीयाङ्गकत्वाभावादकर्मकत्वाभावाच्चात्मनेपदासम्भवादिति भावः / प्राप्येति // विषमविलोचनस्य वक्षः प्राप्य आजन्ने इति रघूत्तमम्प्राप्य माहध्वमिति च प्राप्तिक्रियाम्प्रत्येव विषमविलोचनस्य रघूत्तमस्य च कर्मतया हन्तेरकर्मकत्वादात्मनेपदनिर्बाधमिति भावः / यद्यपि हननक्रियाम्प्रत्यपि तयोरेव वस्तुतः कर्मत्वं तथापि तस्याविवक्षितत्वादकर्मकत्वमेव / 'धातोरर्थान्तरे वृत्तेर्धात्वर्थेनोपसङ्ग्रहात् / प्रसिद्धराविवक्षातः कर्मणोऽकर्मिका क्रिया' इत्यनुपदमेव वक्ष्यमाणत्वादिति बोध्यम् / ननु प्राप्येत्यध्याहारे प्रासादात्प्रेक्षते इत्यादिवत्पश्चमी स्यादित्यत आह / ल्यब्लोपे इति // ल्यब्लोपे पञ्चमीत्येतत्तु यत्रार्थाद्ध्याहारमाश्रित्य ल्यबन्तार्थावगतिः तद्विषयकम् / अत्र तु ल्यवन्तशब्दाड्या. हारान्नात्र पञ्चमीत्यर्थः / भेत्तुमित्यादीति // एवञ्च ल्यब्लोपपञ्चम्या न प्रसक्तिरिति भावः / 'आजन्ने विषम' इत्यत्र परिहारान्तरमाह / समीपमेत्येति वेति // अध्याहार इति शेषः / For Private And Personal Use Only
Page #406
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 404 सिद्धान्तकौमुदीसहिता [आत्मनेपद 2697 / हनः सिच् / (1-2-14) कित्स्यात् / अनुनासिकलोपः / आहत / आहसाताम् / आहसत / ___ 2698 / यमो गन्धने / (1-2-15) सिच्कित्स्यात् / गन्धनं सूचनं परदोषाविष्करणम् / उदायत / गन्धने' किम् / उदायस्त पादम् / आकृष्टवानित्यर्थः / 2699 / समो गम्युच्छिभ्याम् / (1-3-29) * अकर्मकाभ्याम्' इत्येव सङ्गच्छते / 2700 / वा गमः / (1-2-13) गमः परौ झलादी लिङ्सिचौ वा कितौ स्त: / सङ्गसीष्ट-सङ्गंसीष्ट / समगत-समगस्त / समृच्छते / समृच्छिष्यते / ‘अकर्मकाभ्याम्' किम् / ग्रामं सङ्गच्छति ‘विदिप्रच्छिस्वरतीनामुपसंख्यानम्' (वा 918) / वेत्तेरेव ग्रहणम् / संवित्ते / संविदाते / 2701 / वेत्तेर्विभाषा / (7-1-7) विषमविलोचनस्य समीपमेत्य स्वीयमेव वक्षः मल्ल इव वीरावेशादास्फालयाञ्चक्रे इत्यर्थः / तथाच स्वाङ्गकर्मकत्वादात्मनेपदं निर्बाधमिति भावः / लुङि आहन् स् त इति स्थिते। हनः सिच। कित्स्यादिति शेषपूरणम् / 'असंयोगालिटिकत्' इत्यतः तदनुवृत्तेरिति भावः / हनधातोः परस्सिच कित्स्यादिति फलितम् / अनुनासिकलोपः इति / / 'अनुदात्तोपदेश' इति नकारलोप इत्यर्थः। उत् आ यम् स् त इति स्थिते / यमो गन्धने // सिच्कित्स्यादिति शेषपूरणम् / सिचः कित्त्वे मकारस्य अनुदात्तोपदेश इति लोपः / समो गम्युच्छिभ्याम् // आत्मनपदमिति शेषः / अकर्मकाभ्यामित्येवेति // स्वाङ्गकर्मकाच्चेति तु निवृत्तमिति भावः। सङ्गच्छते इति // सङ्गतम्भवतीत्यर्थः / वा गमः // 'इको झल्' इत्यतो झलिति ‘लिङ्सिचावात्मनेपदेषु' इत्यतो लिङ्सचाविति ‘असंयोगालिट्' इत्यतः किदिति चानुवर्तते / तदाह / गमः परावित्यादि।समगतेति // लुङि रूपम्। सिचः कित्त्वपक्षे 'अनुदात्तोपदेश' इति मकारलोपे 'एखादङ्गात्' इति सिचो लुक् / समृच्छते इति // 'ऋच्छ गतीन्द्रियप्रलयमूर्तिभावेषु' इति तौदादिकस्य रूपम् / अत्र तौदादिकस्य ऋच्छतेरेव ग्रहणं, नतु ऋच्छादेशस्येति सूचयितुं लुडन्तमप्युदाहरति / समृच्छिष्यते इति // विदिप्रच्छिस्वरतीनामिति // सम इत्यनुवर्तते / सम्पूर्वेभ्यो विदिप्रच्छिस्वरतिभ्यः आत्मनेपदमित्यर्थः / वेत्तेरिति // लुग्विकरणस्यैव विदेर्ग्रहण. मित्यर्थः / व्याख्यानादिति भावः / वेत्तेर्विभाषा // ‘झोऽन्तः' इत्यतः झ इत्यनुवर्तते // 'अद For Private And Personal Use Only
Page #407
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा / वेत्तेः परस्य झादेशस्यातो रुडागमो वा स्यात् / संविद्रते / संविदते / सम्पृच्छते / संस्वरते / 'अर्तिश्रुदृशिभ्यश्चेति वक्तव्यम्' (वा 926) / अर्तीति द्वयोर्ग्रहणम् / अधिौ वियतैरेवेत्युक्तम् / मा समृत, मा समृषाताम् , मा समृषत इति, समात, समार्षाताम्, समार्षत इति च भ्वादेः / इयर्तेस्तु मा समरत, मा समरेताम् , मा समरन्त इति, समारत, समारेताम् , समारन्त इति च / संशृणुते / सम्पश्यते / अकर्मकादित्येव / अत एव 'रक्षांसीति पुरापि संशृणुमहे' इति मुरारिप्रयोग: प्रामादिक इत्याहुः / अध्याहारो वा 'इति कथयङ्ग्यः' इति / अथास्मिन्नकर्मकाधिकारे हनिगम्यादीनां कथमकर्मकतेति चेत् / शृणु / धातोरर्थान्तरे वृत्तेर्धात्वर्थेनोपसंग्रहात् / प्रसिद्धरविवक्षात: कर्मणोऽकर्मिका क्रिया // भ्यस्तात् ' इत्यतः अदित्यनुवृत्तं षष्ठ्या विपरिणम्यते / शीडो रुडित्यतो रुडिति च। तदाह / वेत्तेः परस्येत्यादिना॥ अर्तिश्रुदृशिभ्यः इति // सम्पूर्वेभ्यस्तङिति शेषः / द्वयोरिति॥ भौवादिकस्य इयर्तेश्चेत्यर्थः / अविधौ त्विति // 'सतिशास्त्यतिभ्यश्च' इत्यत्रेत्यर्थः / मा समृते. ति // 'उश्च' इति सिचः कित्त्वान्न गुणः / 'हृस्वादङ्गात्' इति सिचो लोपः / माङ्योगे मासमृतेत्यादि / माङ्योगाभावे तु समातेत्यादि / इत्येवम्भौवादिकस्य ऋधातोः रूपमित्यर्यः। माड्योगादाङभावः / अथ माझ्योगाभावे आडागमे उदाहरति / समातेति // सम् आ ऋ स् त इति स्थिते 'उश्च' इति कित्त्वाद्गुणनिषेधे ‘आटश्च' इति वृद्धिम्बाधित्वा परत्वात् हुस्वादङ्गादिति सिचो लोपे 'आटश्च' इति ऋकारस्य वृद्धौ रपरत्वे रूपम्। नच सिज्लोपस्यासिद्धत्वादाटश्चेति वृद्धौ कृतायां हूस्वादगादिति सिज्लोपस्याप्रवृत्त्या समाप्टेंत्येवोचितमिति वाच्यम् / 'सिज्लोप एकादेशे सिद्धो वाच्यः' इति वचनेन पूर्व सिज्लोपे पश्चादाटचेति वृद्धेः प्रवृत्तिसम्भवादित्यलम् / इयतॆस्त्विति // श्लुविकरण ऋधातोरित्यर्थः। मा समरतेति // 'सर्तिशास्त्यति' इत्यङ् / तत्र इयर्तेर्ग्रहणादिति भावः / 'ऋदृशोऽङिः' इति गुणः / समारतेति // 'आटश्च' इति वृद्धिः / इति चेति // इयर्तेः रूपमित्यन्वयः / तदेवमर्तिश्रुदृशिभ्यः इत्यत्र अतिप्रपञ्चमुक्त्वा इनुधातोरुदाहरति / संशृणुते इति // दृशेरुदाहरति / सम्पश्यते इति // अकर्मकादित्येवेति // ‘समो गम्यूच्छिभ्याम्' इत्यत्र अकर्मकादित्यनुवृत्तेरभ्युपगतत्वेन तत्रोपसङ्ख्यातवार्तिकेऽस्मिन् तदनुवृत्तेर्युक्तत्वादिति भावः / अत एवेति // प्रामादिक इत्याहुरित्यन्वयः। सकर्मकत्वेनात्मनेपदासम्भवादिति भावः / अध्याहारो वेति // इति कथयङ्ग्य इत्यद्ध्याहारो वेत्यन्वयः / तथाच रक्षांसीति कथयङ्ग्यः पुरा संशृणुमहे इत्यत्र कथन एव रक्षसामन्वितत्वात् श्रुवः अकर्मकत्वादात्मनेपदानिर्बाधामिति भावः / धातोरिति // धातोरर्थान्तरे वृत्तेरिति धात्वर्थेनोपसङ्ग्रहादिति प्रसिद्धेरिति अविवक्षातः इति चत्वारि वाक्यानि / अकर्मिका क्रियेति सर्वत्रान्वेति / कर्मण इति तु द्वितीयादिषु वाक्येष्व For Private And Personal Use Only
Page #408
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदीसहिता [आत्मनेपद वहति भारम् / नदी वहति / स्यन्दते इत्यर्थः / जीवति / नृत्यति / प्रसिद्धेर्यथा / मेघो वर्षति / कर्मणोऽविवक्षातो यथा / ‘हितान्न य: संशृणुते स किंप्रभुः'। * उपसर्गादस्यत्यूयोर्वेति वाच्यत्' (वा 920) / ‘अकर्मकात्' इति निवृत्तम् / बन्धं निरस्यति-निरस्यते / समूहति--समूहते / 2702 / उपसर्गाभस्व ऊहतेः / (7-4-23) यादौ किङति / ब्रह्म समुह्यात् / अग्निं समुह्य / 2703 / निसमुपविभ्यो हः / (1-3-30) निह्वयते / 2704 / स्पर्धायामाङः / (1-3-31) कृष्णश्चाणूरमाह्वयते / ‘स्पर्धायाम्' किम् / पुत्रमाह्वयति / 2705 / गन्धनावक्षेपणसेवनसाहसिक्यप्रतियत्न प्रकथनोपयोगेषु कृञः / (1-3-32) न्वेति / वहति भारमिति // प्रापयतीत्यर्थः / अत्र सकर्मकत्वमिति भावः / अस्यार्थान्तरे क्वचिदकर्मकत्वमुदाहरति / नदी वहतीति // स्यन्दते इति // प्रस्रवतीत्यर्थः / धात्वर्थोपसङ्ग्रहे उदाहरति / जीवतीति। नृत्यतीति // जीवेः प्राणधारणमर्थः। नृतेस्त्वङ्गविक्षेपः। उभयत्रापि कर्मणो धात्वर्थान्तर्भावान्न सकर्मकत्वमिति ‘सुप आत्मनः' इति सूत्रे भाष्ये स्पष्टम् / मेघो वर्षतीति // वर्षणकर्मणो जलख्य प्रसिद्धत्वादकर्मकत्वम् / हितान्न यः इति // हितात्पुरुषात् यः न संशृणुते स्वहितन्न मन्यते / सः किम्प्रभुः, कुत्सित इत्यर्थः / अत्र स्वहितस्य वस्तुतः कर्मत्वेऽपि तदविवक्षया अकर्मकत्वमिति भावः / एवाञ्चास्मिन्नकर्मकाधिकारे हनि गम्यादीनां सतोऽपि कर्मण: अविवक्षया अकर्मकत्वं सिद्धमिति बोध्यम् / अकर्मकत्वनिर्णयोऽय 'ल: कर्मणि' इत्यादौ उपयुज्यते / उपसर्गादस्यत्यूयोर्वेति // आत्मनेपदमिति शेषः / निवृ. त्तमिति // सोपसर्गयोरस्यत्यूह्योस्सकर्मकत्वनियमादिति भावः / उपसर्गास्व ऊहतेः॥ यादौ किङति इति शेषपूरणम्। 'अयङ् यि क्ङिति' इत्यतः तदनुवृत्तेरिति भावः। ब्रह्म समु. ह्यादिति // ऊह वितर्के, सम्यग्विचारयेदित्यर्थः / अत्र आशीर्लिङि यासुटः कित्त्वेन ऊकारस्य हस्वः / अग्निं समुह्येति // परितस्सम्मृज्येत्यर्थः / लादेशस्य ल्यपः कित्त्वमिति भावः / निसमुपवि // ह्वेञः कृतात्त्वस्य ह्वः इति पञ्चम्यन्तम् / निह्वयते इति // संह्वयते / उपह्वयते / विह्वयते / अकञभिप्रायार्थमिदम् / स्पर्द्धायामाङः / आपूर्वकात् स्पर्धाविषयकात् 'ह्वेनः' आत्मनेपदमित्यर्थः / कृष्णश्चाणूरमाह्वयते इति // स्पर्द्धार्थमाकारयतीत्यर्थः / गन्धनावक्षेपण // आत्मनेपदम् अकर्बभिप्रायेऽपीति शेषः / गन्धनं हिं. For Private And Personal Use Only
Page #409
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् ] बालमनोरमा / 407 गन्धनं हिंसा / उत्कुरुते / सूचयतीत्यर्थः / सूचनं हि प्राणवियोगानुकूलत्वाद्धिसैव / अवक्षेपणं भर्त्सनम् / श्येनो वर्तिकामुदाकुरुने / भर्ल्सयतीत्यर्थः / हरिमुपकुरुते / सेवते / परदारान्प्रकुरुते / तेषु सहसा प्रवर्तते / एधोदकस्योपस्कुरुते / गुणमाधत्ते / गाथाः प्रकुरुते / प्रकथयति / शतं प्रकुरुते / धर्मार्थ विनियुङ्क्ते / 'एषु किम् / कटं करोति / 2706 / अधेः प्रसहने / (1-3-33) प्रसहनं क्षमाभिभवश्च / 'षह मर्षणेऽभिभवे च' इति पाठात् / शत्रुमधिकुरुते / क्षमते इत्यर्थः / अभिभवतीति वा / 2707 / वेः शब्दकर्मणः / (1-3-34) स्वरान्विकुरुते / उच्चारयतीत्यर्थः / ‘शब्दकर्मणः' किम् / चित्तं विकरोति कामः / 2708 / अकर्मकाच्च / (1-3-35) 'वेः कृत्रः' इत्येव / छात्रा: विकुर्वते / विकारं लभन्ते / सेति // गन्ध अर्दने / अर्द हिंसायामित्युक्तेरिति भावः / सूचयतीति // परदोषमाविकरोतीत्यर्थः। नन्वेवं सति कथमस्य गन्धने वृत्तिः / हिंसायाः असत्त्वादित्यत आह / सूचनं हीति // श्येनो वर्तिकामिति // वर्तिका शकुनिविशेषः / साहसिक्ये उदाहरति / परदारान् प्रकुरुते इति // साहसप्रवृत्तिविषयीकरोतीत्यर्थः / सहसा वर्तते साहसिकः / 'ओजस्सहोऽम्भसा वर्तते' इति ठक् / तस्य कर्म असमीक्ष्यकरणं साहसिक्यम् / तदाह / तेषु सहसा प्रवर्तते इति // फलितार्थकथनमिदम् / साहसप्रवृत्तिमानार्थकत्वे द्वितीयानुपपत्तेः / अतः साहसप्रवृत्तिविषयीकरणपर्यन्तानुधावनमिति बोध्यम् / प्रतियत्ने उदाहरति / एधोदकस्योपस्कुरुते इति // एधशब्दः अदन्तः ‘अवोदधौद्मप्रश्रथहिमश्रथाः' इति सूत्रे निपातितः। एधश्च उदकश्चेति समाहारद्वन्द्वः। यद्वा एधस्शब्दस्सकारान्तो नपुंसकलिङ्गः / एधश्च दकञ्चेति विग्रहः दकशब्दः उदकवाची प्रोक्तः प्राज्ञैः / 'जीवनममृतञ्जीवनीयं दकञ्च' इति हलायुधः / 'काष्ठन्दाविन्धनन्त्वेध इध्ममेधस्समित् स्त्रियाम्' इत्यमरः। प्रतियत्नो गुणाधानमित्यभिप्रेत्य आह। गुणमाधत्ते इति // काष्टस्य शोषणादिगुणाधानं / दकस्य तु गन्धद्रव्यसम्पर्कजनितगन्धाधानम् / अधेः प्रसहने // अधेः परस्मात् कृञः प्रसहनवृत्तेरात्मनेपदमित्यर्थः / वेः शब्दकर्मणः // शब्दः कर्मकारकं यस्य तस्मात् कृतो विपूर्वादात्मनेपदमित्यर्थः / अकर्मकाञ्च // वेः कृत्र इत्येवेति // तथाच अकर्मकात् विपूर्वात् कृञ आत्मनेपदमित्यर्थः / वि. कुर्वते इत्येतद्याचष्टे / विकारं लभन्ते इति // लाभे विकारस्य कर्मत्वेऽपि धात्वर्थोपसङ्क For Private And Personal Use Only
Page #410
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 408 सिद्धान्तकौमुदीसहिता [आत्मनेपद 2709 / सम्माननात्सञ्जनाचार्यकरणज्ञानभृ तिविगणनव्ययेषु नियः। (1-3-36) अत्रोत्सजनज्ञानविगणनव्ययाः नयतेर्वाच्याः / इतरे प्रयोगोपाधयः / तथा हि शास्त्रे नयते / शास्त्रस्थं सिद्धान्तं शिष्येभ्य: प्रापयतीत्यर्थः / तेन च शिष्यसम्माननं फलितम् / उत्सञ्जने / दण्डमुन्नयते / उत्क्षिपतीत्यर्थः / माणवकमुपनयते / विधिना आत्मसमीपं प्रापयतीत्यर्थः / उपनयनपूर्वकेणाध्यापनेन हि उपनेतरि आचार्यत्वं क्रियते / ज्ञाने / तत्वं नयते / निश्चिनोतीत्यर्थः / कर्मकरानुपनयते / भृतिदानेन स्वसमीपं प्रापयतीत्यर्थः / विगणनमृणादेर्निर्यातनम् / करं विनयते / राज्ञे देयं भागं परिशोधयतीत्यर्थः / शतं विनयते / धर्मार्थ विनियुङ्क्ते इत्यर्थः / हादकर्मकत्वम् / सम्माननोत्सञ्जन // एषु गम्येषु णीब्धातोरात्मनेपदमित्यर्थः / परगामिन्यपि फले आत्मनेपदार्थमिदम् / इतरे इति // सम्माननाचार्यकरणभृतयः इत्यर्थः / प्रयोगोपाधयः इति // वाच्यत्वाभावेऽपि आर्थिकाः सत्तामात्रेण शब्दप्रयोगे निमित्तभूता इत्यर्थः / आत्मनेपदद्योत्या इति यावत् / तदेवोपपादयितुं प्रतिजानीते / तथाहीति // सम्मानने उदाहरति / शास्त्रे नयते इति // अत्र णञ् िप्रापणार्थकः / सिद्धान्तमित्यध्याहार्यम् / सिद्धान्तम्प्रत्यधिकरणत्वात् शास्त्रे इति सप्तमी / तदाह / शास्त्रस्थमिति // तेनेति // सिद्धान्तप्रापणेनेत्यर्थः / फलितमिति // अर्थादिति भावः / उत्सञ्जने इति // उदाहियते इति शेषः / उत्सअनमुत्क्षेपः। उत्क्षिपतीत्यर्थः इति // धातूनामनेकार्थत्वादिति भावः / आचार्यकरणे उदाहरति / माणवकमुपनयते इति // उपपूर्वो णीञ् समीपप्रापणार्थकः / सामीप्यञ्च प्रत्यासत्त्या प्रापयित्रपेक्षमेव / तच्च माणवकीयमात्मसमीपप्रापणं वैधमेव विवक्षितम् / पूर्वोत्तराङ्गकलापानानसामर्थ्यात् / तदाह / विधिना आत्मसमीपं प्रापयतीति // तत्राचार्यकरणस्यार्थिकत्वमुपपादयति / उपनयनपूर्वकेणेति // माणवकमुपनयीत तमद्ध्यापयीतेत्यध्यापनार्थत्वमुपनयनस्यावगतम् / अध्यापनादाचार्यत्वं सम्पद्यते / 'उपनीय तु यश्शिष्यं वेदमध्यापयेत्तु यः / सकल्पं सरहस्यञ्च तमाचार्य प्रचक्षते।' इपि स्मरणात् / तथा च आ. चार्यकरणमुपनयसाध्यत्वादार्थिकमिति भावः / ज्ञाने इति // उदावियते इति शेषः। निश्चिनोतीत्यर्थः इति // नयतिर्निश्चयार्थक इति भावः / भृतौ उदाहरति / कर्मकरानुपनयते इति // भृतिः वेतनं तदर्थङ्कर्म करोतीति कर्मकरः / 'कर्मणि भृतो' इति टप्रत्ययः / कर्मण्युपपदे कृञः टः स्यात्कर्तरीति तदर्थः / उपपूर्वको णीञ् समीपप्रापणार्थकः। समीपप्रापणश्च भृत्यर्थमिति कर्मकरशब्दसमभिव्याहाराद्गम्यते / फलितमाह / भृतिदानेनेति // ऋणादेरिति // आदिना करादिसङ्ग्रहः / निर्यातनं प्रत्यर्पणादि / करं विनयते इति // राज्ञो देयो भागः करः। विपूर्वो णीञ् परिशोधनार्थकः / तदाह / राज्ञे देयं भागं परिशोधयतीति // परिगणयति For Private And Personal Use Only
Page #411
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा / 409 2710 / कर्तृस्थे चाशरीरे कर्मणि / (1-3-37) निय: कर्तृस्थे कर्मणि यदात्मनेपदं प्राप्तं तच्छरीरावयवभिन्न एव स्यात् / सूवे शरीरशब्देन तदवयवो लक्ष्यते / क्रोधं विनयते / अपगमयति / तत्फलस्य चित्तप्रसादस्य कर्तृगत्वात् ‘स्वरितजित:-' (सू 2158) इत्येव सिद्धे नियमार्थमिदम् / तेनेह न / गहुं विनयति / कथं तर्हि विगणय्य नयन्ति पौरुषम्' इति / कर्तृगामित्वाविवक्षायां भविष्यति / 2711 / वृत्तिसर्गतायनेषु क्रमः / (1-3-38) . वृत्तिरप्रतिबन्धः / ऋचि क्रमते बुद्धिः / न प्रतिहन्यते इत्यर्थः / सर्ग उत्साहः / अध्ययनाय क्रमते / उत्सहते / क्रमन्तेऽस्मिन् शास्त्राणि / स्फीतानि भवन्तीत्यर्थः / 2712 / उपपराभ्याम् / (1-3.39) वृत्त्यादिष्वाभ्यामेव क्रमे तूपसर्गान्तरपूर्वात् / उपक्रमते / पराक्रमते / नेह संक्रामति / दातुमित्यर्थः / व्यये उदाहरति / शतं विनयते धर्मार्थमिति // अत्र विपूर्वो णी व्ययार्थकः / तदाह / विनियुङ्क्ते इत्यर्थः इति // कर्तृस्थे // नियः इति // कर्मकारके कर्तृस्थे सति णीधातोर्यदात्मनेपदकर्तृगेऽपि फले जित्त्वात् प्राप्तं तत् शरीरावयवभिन्न एव सति कर्मकारके स्यात् / कर्मणः शरीरावयवत्वे तु कर्तृगेऽपि फले परस्मैपदमेवेत्यर्थः / ननु सूत्रे शरीरग्रहणात् कथं शरीरावयवेत्युक्तमित्यत आह / सूत्रे इति // शरीरतादात्म्यापन्नस्यैव कर्तृतया शरीरस्य कर्तृस्थत्वन्न सम्भवति / शरीरावयवानान्तु समवायेन आधारतया तत्सम्भवतीति भावः / ननु क्रोधापगमस्य क्रोधविषयशत्रुगतानिष्टपरिहारफलकत्वात् अित्त्वेऽप्यात्मनेपदाप्राप्तेस्तद्विध्यर्थत्वात्कथमुक्तनियमार्थत्वमस्य सूत्रस्येत्यत आह / तत्फलस्येत्या. दि // गहुं विनयतीति // कर्मणो गडोः शरीरावयवत्वानात्मनेपदमित्यर्थः / कथं तहीति॥ पौरुषस्य कर्मणः शरीरावयवभिन्नतया आत्मनेपदप्रसङ्गादिति भावः / कर्तृगामित्वेति // कर्तृस्थे कर्मणि नियः कर्तृगे फले अित्त्वात् प्राप्तमात्मनेपदं शरीरावयवभिन्न एवेति नियम्यते, नतु विधीयते / अत्र तु फलस्य कर्तृगामित्वं सदपि न विवक्षितम् अतो नात्मनेपदमिति भावः / वृत्तिसर्ग // आत्मनेपदमिति शेषः / तायने उदाहरति / क्रमन्तेऽस्मिन्निति // तायनं वृद्धिः / तदाह / स्फीतानीति // उपपराभ्याम // 'वृत्तिसर्गतायनेषु क्रमः' इत्यनुवर्तते / तेनैव सिद्धे नियमार्थमिदम् / तदाह / आभ्यामेव क्रमेरिति // आत्मनेपदमिति शेषः / S2 For Private And Personal Use Only
Page #412
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदीसहिता आत्मनेपद 2713 / आङ उद्गमने / (1-3-40) आक्रमते सूर्यः / उदयते इत्यर्थः / 'ज्योतिरुद्गमने इति वाच्यम्' (वा 921) / नेह / आक्रामति धूमो हर्म्यतलात् / __ 2714 / वेः पादविहरणे / (1-3-41) साधु विक्रमते वाजी / ‘पादविहरणे' किम् / विक्रामति सन्धिः / द्विधा भवति / स्फुटतीत्यर्थः / 2715 / प्रोपाभ्यां समर्थाभ्याम् / (1-3-42) समी तुल्यार्थौ / शकन्ध्वादित्वात्पररूपम् / प्रारम्भेऽनयोस्तुल्यार्थता / प्रक्रमते / उपक्रमते / ‘समर्थाभ्याम्' किम् / प्रक्रामति / गच्छतीत्यर्थः / उपक्रामति / आगच्छतीत्यर्थः / 2716 / अनुपसर्गाहा / (1-3-43) क्रामति-क्रमते / अप्राप्तविभाषेयम् / वृत्त्यादौ तु नित्यमेव / 2717 / अपह्नवे ज्ञः। (1-3-44) शतमपजानीते / अपलपतीत्यर्थः / / 2718 / अकर्मकाच्च / (1-3-45) आङ उद्गमने // आङः परस्मादुद्गमनवृत्तेः क्रमः आत्मनेपदमित्यर्थः / आक्रमते सूर्यः इति // आङ्पूर्वः क्रमिरुद्गमनार्थकः / तदाह। उदयते इत्यर्थः इति // उपसर्गवशादिति भावः / वेः पादविहरणे // पादविहरणं पादविक्षेपः / तद्वृत्तेर्विपूर्वात् क्रमेरात्मनेपदमित्यर्थः / साधु विक्रमते वाजीति // सम्यक्पदानि विक्षिपतीत्यर्थः / प्रोपाभ्यां // क्रम आत्मनेपदमिति शेषः। समौ अर्थों ययोरिति विग्रह इत्याह / समर्थो तुल्यार्थाविति // सवर्णदीर्घमाशङ्कय आह। शकन्ध्वादित्वादिति।। ननु प्रक्रमते इत्यत्र अतिशयितपदविक्षेपार्थप्रतीतेः उपक्रमते इत्यत्र समीपे पदानि विक्षिपतीति प्रतीतेः कथमनयोस्तुल्यार्थकत्वमित्यत आह / प्रारम्भेऽनयोस्तुल्यार्थतेति // तथाच आरम्भार्थकाभ्यामिति फलितमिति भावः / अनुपसर्गाद्वा // क्रम आत्मनेपदमिति शेषः / अप्राप्तविभाषेयमिति // अनुपसर्गात् क्रमेः आत्मनेपदस्य कदाप्यप्राप्तेरिति भावः / वृत्त्यादाविति // वृत्तिसर्गतायनेषु तु पूर्वविप्रतिषेधानित्यमेवेत्यर्थः / अपह्नवे ज्ञः // अपह्नवः अपलापः / तद्वृत्तेर्जाधातोरात्मनेपदमित्यर्थः / अकर्मकाच // ज्ञः आत्मनेपदमिति शेषः / सर्पिषो जानीते इति // अत्र ज्ञा For Private And Personal Use Only
Page #413
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् ] बालमनोरमा / 411 सर्पिषो जानीते / सर्पिषोपायेन प्रवर्तते इत्यर्थः / 2719 / संप्रतिभ्यामनायाने / (1-3-46) शतं सञ्जानीते / अवेक्षते इत्यर्थः / शतं प्रतिजानीते / 'अङ्गीकरोतीत्यर्थः / 'अनाध्याने' इति योगो विभज्यते / तत्सामर्थ्यात् अकर्मकाञ्च' (सू 2718) इति प्राप्तिरपि बाध्यते / मातरं मातुर्वा सानाति / कर्मणः शेषत्वविवक्षायां षष्ठी। 2720 / भासनोपसम्भाषाज्ञानयत्नविमत्युप ___मन्त्रणेषु वदः / (1-3-47) उपसम्भाषोपमन्त्रणे धातोर्वाच्ये, इतरे प्रयोगोपाधयः / शास्त्रे वदते / धातुः प्रवृत्तौ वर्तते / 'ज्ञोऽविदर्थस्य करणे' इति तृतीयाथै षष्ठी / तदाह / सर्पिषोपायेन प्रवर्तते इति ॥'अनुपसर्गात् ज्ञः' इति वक्ष्यमाणेनैव सिद्धे सोपसर्गार्थमिदम्। सर्पिषोऽनुजानीते / सम्प्रतिभ्यामनाध्याने // ज्ञः आत्मनेपदमिति शेषः / अवेक्षते इत्यर्थः इति // अकर्मकत्वाभावात् पूर्वेणाप्राप्तिरिति भावः / अनाध्याने किम् / मातरं सञ्जानाति / आध्यायतीत्यर्थः / उत्कण्ठापूर्वकं स्मरणमाध्यानम् / ननु यदा आट्याने कर्मणश्शेषत्वविवक्षया षष्ठीमाश्रित्य मातुस्सञ्जानाति इति प्रयुज्यते तदा सम्पूर्वो जानातिरयमकर्मक इति स्थितिः / 'सम्प्रतिभ्यामनाध्याने ' इत्यात्मनेपदस्याप्रवृत्तावपि 'अकर्मकाच' इति सूत्रेणात्मनेपदं दुर्वारम् / तत्र अनाड्याने इत्यभावात् सम्प्रतिभ्यामित्यत्र अनाध्यानग्रहणस्य मातरं सानातीति सकर्मके चरितार्थत्वादित्यत आह / अनाद्ध्याने इति योगो विभज्यते इति // ततश्च 'सम्प्रतिभ्याम्' इत्येको योगः / सम्प्रतिपूर्वात् ज्ञः आत्मनेपदमित्यर्थः / 'अनाध्याने' इति योगान्तरम् / अनाड्याने सम्प्रतिभ्यामात्मनेपदमित्यर्थः / ततः किमित्यत आह / अकर्मकाच्चेति प्राप्तिरपि बाध्यते इति // ननु अनन्तरस्येऽति न्यायेन सम्प्रतिभ्यामित्यस्यैव बाधो युक्त इत्यत आह / तत्सामर्थ्यादिति // एकसूत्रत्वेनैव सिद्धे अनाध्याने इति योगविभागाद्यवहितस्यापि बाध इत्यर्थः / ननु मातरं मातुर्वा सञ्जानाति इत्यत्र मातु: कर्मत्वात् द्वितीयैव युक्तेत्यत आह / कर्मणः शेषत्वविवक्षायां षष्ठीति // नचैवमपि 'अधीगर्थदयेशां कर्मणि' इति षष्ठ्येव स्यानतु द्वितीयेति वाच्यम् / तत्र शेष इत्यनुवर्त्य कर्मणः शेषत्वविवक्षायां षष्ठी, कर्मत्वविवक्षायान्तु द्वितीयेत्यभ्युपगमात् / नचैवं सति 'षष्टी शेषे' इत्यनेनैव सिद्धत्वात् ‘अधीगर्थ' इति व्यर्थमिति वाच्यम् / मातुः स्मरणमित्यादौ शेषषष्ट्यास्समासाभावार्थत्वादिति कारकाधिकारे प्रपञ्चितम् / भासनोपसम्भाषा // आत्मनेपदमिति शेषः / इतरे इति // भासनज्ञानादय इत्यर्थः / प्रयोगोपाधयः इति // 'सम्माननोत्सञ्जन' इत्यत्र व्याख्यातं प्राक् / भासनन्तु तत्तदाक्षेपेषु समाधानाय नवनवयुक्त्युल्लेखः / शास्त्रे वदते For Private And Personal Use Only
Page #414
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 412 सिद्धान्तकौमुदीसहिता [आत्मनेपद भासमानो ब्रवीतीत्यर्थः / उपसम्भाषा उपसान्त्वनम् / भृत्यानुपवदते / सान्त्वयतीत्यर्थः / ज्ञाने शास्त्रे वदते / यत्ने क्षेत्रे वदते / विमतौ क्षेत्रे विवदन्ते / उपमन्त्रणमुपच्छन्दनम् / उपवदते / प्रार्थयते इत्यर्थः / 2721 / व्यक्तवाचां समुच्चारणे / (1-3-48) मनुष्यादीनां सम्भूयोच्चारणे वदेरात्मनेपदं स्यात् / सम्प्रवदन्ते ब्राह्मणाः / नेह सम्प्रवदन्ति खगाः। 2722 / अनोरकर्मकात् / (1-3-49) व्यक्तवाग्विषयादनुपूर्वादकर्मकाद्वदेरात्मनेपदं स्यात् / अनुवदते कठः कलापस्य / ‘अकर्मकात्' किम् / उक्तमनुवदति / 'व्यक्तवाचाम्' किम् / अनुवदति वीणा। __ 2723 / विभाषा विप्रलापे / (1-3-50) विरुद्धोक्तिरूपे व्यक्तवाचा समुच्चारणे उक्तं वा स्यात् / विप्रवदन्ते-- विप्रवदन्ति वा वैद्याः / 2724 / अवाद्रः / (1-3-51) इति // विषयसप्तम्येषा / भासमानः इति // नवनवयुक्तीरुल्लिखतीत्यर्थः / शास्त्रे वदते इति विषयसप्तमी / व्यवहरतीत्यर्थः / व्यवहारश्च ज्ञानं विना न सम्भवतीति ज्ञानमार्थिकम् / ज्ञात्वा व्यवहरतीति फलितम् / क्षेत्रे विवदन्ते इति // विरुद्धं व्यवहरन्तीत्यर्थः / विरुद्धव्यवहारश्च वैमत्यमूलक इति विमतिरार्थिकी। उपवदते इति // उपपूर्वस्य वदेः प्रार्थनमर्थः। तदाह / प्रार्थयते इत्यर्थः इति // व्यक्तवाचाम् // व्यक्ताः अज्झल्भेदेन स्पष्टोच्चारिताः वाचः शब्दाः येषामिति विग्रहः / समित्येकीभावे / तदाह / मनुष्यादीनामिति / / सम्प्रवदन्ते ब्राह्मणाः इति // सम्भूयोच्चारयन्तीत्यर्थः / अनोरकर्मकात् // व्यक्तवाचामित्यनुवृत्तं विषयषष्ठ्यन्तमाश्रीयते / समुच्चारणे इति निवृत्तम् / तदाह / व्यक्तवाग्विषयादिति // मनुष्यकर्तृकादित्यर्थः / अनुवदते इति // अनु: सादृश्ये / 'तुल्यार्थैरतुलोपमाभ्याम्' इति षष्टी / कठः कलापेन तुल्यं वदतीत्यर्थः / वस्तुतस्तु शेषषष्टीत्येवोचितम् / 'तुल्याथैः' इत्यत्र अतुलोपमाभ्यामिति पर्युदासेन अनव्ययानामेव तुल्यार्थानाङ्ग्रहणात् / अन्यथा चन्द्र इव मुखमित्यादावपि तृतीयाषष्ठ्योरापत्तेरित्यलम् / विभाषा विप्रलापे // 'व्यक्तवाचां समुच्चारणे' इत्यनुवर्तते / विरुद्धोक्तिर्विप्रलापः / तदाह / विरुद्धोक्तिरूपे इति // अवाः // आत्मनेपदमिति शेषः / गृ इत्यस्य प्र इति पञ्चमी / प्रकृतिवदनुकरणमित्यस्यानित्यत्वात् 'ऋत इद्धातोः' इति न भवति / For Private And Personal Use Only
Page #415
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा / 413 अवगिरते / 'गृणातिस्त्ववपूर्वो न प्रयुज्यत एव' इति भाष्यम् / ___ 2725 / समः प्रतिज्ञाने / (1-3-52) शब्दं नित्यं सङ्गिरते / प्रतिजानीते इत्यर्थः / 'प्रतिज्ञाने' किम् / सङ्गिरति ग्रासम् / 2726 / उदश्वरः सकर्मकात् / (1-3-53) धर्ममुञ्चरते / उल्लङ्घ-य गच्छतीत्यर्थः ‘सकर्मकात्' किम् / बाष्पमुचरति / उपरिष्टाद्गच्छतीत्यर्थः / 2727 / समस्तृतीयायुक्तात् / (1-3-54) रथेन सञ्चरते। 2728 / दाणश्च सा चेचतुर्थ्यर्थे / (1-3-55) सम्पूर्वाहाणस्तृतीयान्तेन युक्तादुक्तं स्यात् सा च तृतीया चेञ्चतुर्थ्यर्थे / दास्या संयच्छते / पूर्वसूत्रे ‘समः' इति षष्ठी / तेन सूत्रद्वयमिदं व्यवहितेऽपि प्रवर्तते / रथेन समुदाचरते / दास्या संप्रयच्छते / तदनित्यत्वे इदमेव मानम् / अवगिरते इति // शविकरणोऽयम् / अवगृणातीत्यत्राप्यात्मनेपदमाशङ्कय आह / गृणातिस्त्विति // एवञ्च तुदादेरेव ग्रहणमिति भावः / समः प्रतिज्ञाने // गिरतेरात्मनेपदमित्यर्थः / प्रतिज्ञानम् अभ्युपगमः / सङ्गिरति ग्रासमिति // भक्षयतीत्यर्थः // उदश्चरः // उत्पूर्वाञ्चरधातोस्सकर्मकादात्मनेपदमित्यर्थः / समस्तृतीया / सकर्मकादिति निवृत्तम् / सम्पूर्वात् तृतीयान्तसमभिव्याहृताच्चरेरात्मनेपदमित्यर्थः / तृतीयायुक्तादिति किम् / रथिकाः सञ्चरन्ति / अत्र यद्यपि रथेनेत्यर्थाद्गम्यते / तथापि तृतीयान्तश्रवणाभावानात्मनेपदम् / एतदर्थमेव योगग्रहणम् / अन्यथा तृतीययेत्यवक्ष्यत् / सकर्मकादप्येतदात्मनेपदम्भवति / अविशेषात् / अत एव तृतीयायुक्तादिति किम् / 'उभौ लोकौ सञ्चरसीमञ्चामुञ्च लोकम्' इति भाष्यं सङ्गच्छते। दाणश्च सा / / 'समस्तृतीयायुतात्' इत्यनुवर्त्तते / तदाह / सम्पूर्वादिति // उक्तं स्यादिति // आत्मनेपदमित्यर्थः। सा चेदिति // तच्छब्देन तृतीया परामृश्यते / तदाह / तृतीया चेदिति // दास्या सं. यच्छते इति // अशिष्टव्यवहारे दाणः प्रयोगे चतुर्थ्यर्थे तृतीया वाच्येति तृतीया / ननु रथेन समुदाचरते इत्यत्र 'समस्तृतीयायुक्तात्' इति पूर्वसूत्रस्य न प्रवृत्तिः / आङा व्यवहितत्वेन सम्पूर्व कत्वाभावात् 'तस्मादित्युत्तरस्य' इति परिभाषया सम इति पञ्चम्याः चरेः अव्यवहितपरत्वलाभात् / तथा दास्यां सम्प्रयच्छते इत्यत्रापि 'दाणश्च सा चेत् ' इति कथम्प्रवर्तते / प्रशब्देन व्यवधानादित्यत आह / पूर्वसूत्रे समः इति षष्ठीति // तथाच षष्ठ्या पौर्वापर्यमेव गम्यते / For Private And Personal Use Only
Page #416
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदीसहिता [आत्मनेपद 2729 / उपाद्यमः स्वकरणे / (1-3-56) स्वकरणं स्वीकारः / भार्यामुपयच्छते / 2730 / विभाषोपयमने / (1-2-16) यम: सिच्किद्वा स्याद्विवाहे / रामः सीतामुपायत-उपायंस्त वा / उदवोढेत्यर्थः / गन्धनाङ्गे उपयमे तु पूर्वविप्रतिषेधान्नित्यं कित्त्वम् / 2731 / ज्ञाश्रुस्मृदृशां सनः। (1-3-57) सन्नन्तानामेषां प्राग्वत् / धर्म जिज्ञासते / शुश्रूषते / सुस्मूर्षते / दिदृक्षते। 2732 / नानोर्जः / (1-3-58) न त्वव्यवहितत्वमिति भावः। तेनेति // षष्ठ्याश्रयणेनेत्यर्थः / सूत्रद्वयमिति // 'समस्तृतीयायुक्तात्' इति पूर्वसूत्रस्थस्य षष्ठ्यन्तस्यैव ‘दाणश्च' इति सूत्रेऽप्यनुवृत्तरिति भावः / उपा. द्यमः // आत्मनेपदमिति शेषः / ननु स्वं वस्त्रमुत्पादयतीत्यर्थे वस्त्रमुपयच्छतीत्यत्राप्यात्मनेपदं स्यादित्यत आह / स्वकरणं स्वीकारः इति // अस्वस्य सतः स्वत्वेन परिग्रहः स्व. करणशब्देन विवक्षित इत्यर्थः / च्चिप्रत्ययस्तु वैकल्पिकः / ‘समर्थानां प्रथमाद्वा' इत्युक्तेरिति भाष्ये स्पष्टम् / भार्यामुपयच्छते इति // अन्यदीयाङ्कन्याम्भार्यात्वेन परिगृह्णातीत्यर्थः। वि. भाषोपयमने // ‘यमो गन्धने' इत्यतो यम इति ‘हनस्सिच्' इत्यतस्सिजिति ‘असंयोगात्' इत्यतः किदिति चानुवर्तते / तदाह / यमः सिच्किद्वा स्याद्विवाहे इति // उपयमशब्दो विवाहे वर्तते इति भावः / रामः सीतामुपायतेति // भार्यात्वेन स्वीकृतवानि. त्यर्थः। सिचः कित्त्वपक्षे 'अनुदात्तोपदेश' इति मकारलापे 'हस्वादङ्गात्' इति सिचो लोपः / उदवोढेति // भार्यात्वेन परिग्रहः उद्वाहः / गन्धनाङ्गे उपयमे त्विति // हिंसापूर्वके विवाहे त्वित्यर्थः। राक्षसविवाहे विति यावत्। 'हत्वा भित्वा च शीर्षाणि रुदती रुदतो हरेत। स राक्षसो विवाहः' इति स्मृतेः / नित्यङ्कित्त्वमिति // ‘यमोऽगन्धने' इति पूर्वसूत्रेणेति शेषः / यदि गन्धनाङ्गकेऽप्युपयमने परत्वादिय विभाषा स्यात् तर्हि एषा प्राप्तविभाषा स्यात् / 'ततश्च 'नवेति विभाषा' इत्यत्र भाष्ये अप्राप्तविभाषासु अस्याः परिगणनं विरुद्ध्येत / अतः पूर्वविप्रतिषेध आश्रयणीय इति भावः / ज्ञाश्रु // प्राग्वदिति // आत्मनेपदमित्यर्थः / यद्यपि 'अपहवे ज्ञः अकर्मकाच, सम्प्रतिभ्यामनाध्याने' इति सूत्रे अर्तिश्रुटशिभ्यश्च' इति वार्तिकेन च ज्ञादिभ्यः आत्मनेपदे कृते 'पूर्ववत्सनः' इत्यात्मनेपदं सिद्धम् / तथाप्यपह्नवाद्यभावेऽप्यात्मनेपदार्थ ज्ञाश्रुदृशीनामिह ग्रहणमिति मत्वोदाहरति / धर्म जिज्ञासते इति // ज्ञातुमिच्छती. त्यर्थः / शुश्रूषते इति // ‘अज्झनगमां सनि' इति दीर्घः / ‘इको झल्' इति सनः कित्त्वम् / 'श्रयुकः किति' इति इण्णिषेधः / सुस्मूर्षते इति // स्मृधातोस्सनि 'अज्झन' इति दीर्घ 'उदोष्ठ्यपूर्वस्य' इत्युत्त्वे रपरत्वे 'हलि च' इति दीर्घः / नानोर्शः // अनुपू. For Private And Personal Use Only
Page #417
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा / 415 पुत्रमनुजिज्ञासति / पूर्वसूत्रस्यैवायं निषेधः / 'अनन्तरस्य-' (प 62) इति न्यायात् / तेनेह न / सर्पिषोऽनुजिज्ञासते / सर्पिषा प्रवर्तितुमिच्छतीत्यर्थः / 'पूर्ववत्सनः' (सू 2734) इति तङ् / ' अकर्मकाच्च' (सू 2718) इति केवलाद्विधानात् / 2733 / प्रत्याभ्यां श्रुवः। (1-3-59) आभ्यां सन्नन्ताच्छ्रव उक्तं न स्यात् / प्रतिशुश्रूषति / आशुश्रूषति / कर्मप्रवचनीयात्स्यादेव / देवदत्तं प्रति शुश्रूषते / ' शदेः शितः' (सू 2362) ‘म्रियतेलुङ्लिङोश्च' (सू 2538) व्याख्यातम् / 2734 / पूर्ववत्सनः / (1-3-62) सन: पूर्वो यो धातुस्तेन तुल्यं सन्नन्तादप्यात्मनेपदं स्यात् / एदिधिषते शिशयिषते / निविविक्षते / ‘पूर्ववत्' किम् / बुभूषति / 'शदे:-' (सू 2362) (सू 2538) इत्यादिसूत्रद्वये ‘सनो न' इत्यनुवर्त्य वाक्यभेदेन व्याख्येयम् / तेनेह न / शिशत्सति / मुमूर्षति / 'आम्प्रत्ययवत्कृत्रोऽनुप्रयोगस्य (सू 2240) एधांचक्रे / र्वात् ज्ञाधातोस्सन्नन्तात् नात्मनेपदमित्यर्थः / पुत्तमनुजिज्ञासतीति // अनुज्ञातुमिच्छतीत्यर्थः। ननु सर्पिषा प्रवर्तितुमिच्छतीत्यर्थे सर्पिषोऽनुजिज्ञासते इत्यत्रापि 'अपह्नवे ज्ञः, अकर्मकाच' इत्यात्मनेपदस्याप्यनेन निषेधे सति सन्नन्तात्परस्मैपदमेव स्यादित्यत आह / पूर्वसूत्रस्यैवेति // एवञ्च सर्पिषोऽनुजिज्ञासते इत्यत्र ‘अकर्मकाच्च' इत्यात्मनेपदनिर्वाधमिति भावः / ननु ‘अकर्मकाच्च' इति ज्ञाधातोरात्मनेपदे सनन्तात्कथमात्मनेपदलाभ इत्यत आह / पूर्ववदिति // केवलात् सन्विहीनात् ज्ञाधातोरात्मनेपदविधानात् सन्नन्तादपि तस्मात् 'पूर्वव. त्सनः' इत्यात्मनेपदमित्यर्थः / प्रत्याभ्यां श्रुवः॥ उक्तं नेति // आत्मनेपदन्नेत्यर्थः / प्रत्याङाविहोपसीवेव गृह्यते / व्याख्यानात् / तदाह / कर्मप्रवचनीयात्स्यादेवेति // आत्मनेपदमिति शेषः / देवदत्तं प्रतीति // ‘लक्षणेत्थम्भूत' इति प्रतिः कर्मप्रवचनीयः / पूर्ववत्सनः // पूर्वेणेव पूर्ववत् / तेन तुल्यमिति तृतीयान्ताद्वतिः। पूर्वशब्देन सन्प्रकृतिर्विवक्षिता। तदाह / सनः पूर्वः इत्यादि // एदिधिषते इति // सन्प्रकृतेरेव धातोरात्मनेपदित्वात्तत्प्रकृतिकसनन्तादात्मनेपदम् / 'नेविंशः' इत्यात्मनेपदविधानात्तत्प्रकृतिकसनन्तादपि आत्मनेपदम् / ननु ‘शदेः शितः' ‘म्रियतेलुङ्लिडोश्च' इत्यात्मनेपदविधानात् शिशत्सति मुमूर्षति इत्यत्रापि सन्नन्तादात्मनेपदं स्यादित्यत आह / शदेरित्यादीति // आदिना म्रियतेः 'लुङ्लिङोश्च' इत्यस्य ग्रहणम् / शदेरित्यादिसूत्रद्वये 'पूर्ववत्सनः' इति ‘नानोः' इत्यतो नेति चानुवर्त्य शदेर्मियतेश्च सन्नन्तानात्मनेपदमिति व्याख्येयमित्यर्थः / नन्वेवं सति शीयते For Private And Personal Use Only
Page #418
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आत्मन सिद्धान्तकौमुदीसहिता [आत्मनेपद 2735 / प्रोपाभ्यां युजेरयज्ञपात्रेषु / (1-3-64) प्रयुङ्क्ते / उपयुङ्क्ते / 'स्वराद्यन्तोपसर्गादिति वक्तव्यम्' (वा 939) / उद्युङ्क्ते / नियुङ्क्ते / 'अयज्ञपात्रेषु' किम् / द्वन्द्व न्यश्चि पात्राणि प्रयुनक्ति / 2736 / समः क्ष्णुवः / (1-3-65) संक्ष्णुते शस्त्रम् / 2737 / भुजोऽनवने / (1-3-66) ओदनं भुङ्क्ते / अभ्यवहरतीत्यर्थः / 'बुभुजे पृथिवीपाल: पृथिवीमेव केवलाम्' / 'वृद्धो जनो दुःखशतानि भुङ्क्ते' / इह उपभोगो भुजेरर्थः / 'अनवने' किम् / महीं भुनक्ति / 2738 / णेरणौ यत्कर्म णौ चेत्सकर्ताऽनाध्याने / (1-3-67) ण्यन्तादात्मनेपदं स्यादणौ या क्रिया सैव चेण्ण्यन्तेनोच्यते / अणौ म्रियते इत्यादावात्मनेपदन्न लभ्येतेत्यत आह / वाक्यभेदेनेति // 'शदेः शितः' ‘म्रियतेलुंङ्लिडोश्च' इति एकं वाक्यम् / शिद्भाविनः शदेरात्मनेपदं स्यात् मृडो लुप्रकृतिभूतात् शित्प्रकृतिभूताश्चात्मनेपदं स्यात् नान्यत्रेत्यर्थः। तेन शीयते म्रियते ममारेत्यादि सिद्ध्यति। सनो नेत्यपरं वाक्यम्। म्रियतेश्च सन्नन्तानात्मनेपदमित्यपरम्। तेन शिशत्सति, मुमूर्षति, इत्यादौ नात्मनेपदमित्यर्थः।प्रोपाभ्यां॥आत्मनेपदमिति शेषः। स्वरेति॥ स्वरौ अचौ आद्यन्तौ यस्य सः स्वराद्यन्तः। तथाभूतोपसर्गात्परत्व एव युजेरात्मनेपदमित्यर्थः / द्वन्द्वमिति // द्वन्द्वं द्विशः न्यञ्चि अधोबिलानीत्यर्थः / समाक्ष्णुवः॥ आत्मनेपदम् इति शेषः। 'समो गम्यच्छिभ्याम्' इत्यत्रैव समो गम्युच्छिष्णुवः इति न सूत्रितम् / तथा सति अकर्मकादित्यनुवृत्त्या सकर्मकान स्यात् / तत्सूचयन्नुदाहरति। संक्ष्णुते शस्त्रमिति // तीक्ष्णीकरोतीत्यर्थः। भुजोऽनवने // अवनं रक्षणम्। ततोऽन्यत्र भुजेरात्मनेपदमित्यर्थः / ननु ‘भुज पालनाभ्यवहारयोः' इत्ति धातुपाठे स्थितम् / तत्र बुभुजे पृथिवीपालः पृथिवीमित्यत्र न पालनमर्थः / तथा सति अनवने इति पर्युदासादात्मनेपदायोगात् / नाप्यभ्यवहरणम् , असम्भवात् / नहि पृथिव्या अभ्यवहरणं सम्भवति / तथा 'वृद्धो जनो दुःखशतानि भुक्ते' इत्यपि न युज्यते / दुःखशतानाम्पालनस्य अभ्यवहरणस्य चासम्भवात् / तत्राह / इह उपभोगो भुजेरर्थः इति // धातूनामनेकार्थकत्वादिति भावः / महीं भुनक्तीति // रक्षतीत्यर्थः / अत्र रौधादिकस्यैव ‘भुज पालनाभ्यवहारयोः' इत्यस्य ग्रहणम् / नतु 'भुजो कौटिल्ये' इति तौदादिकस्यापीति भाष्यम् / भुजति वासः / कुटिली. भवतीत्यर्थः / णेरणौ // इह चत्वार्यवान्तरवाक्यानि रिति प्रथमं वाक्यम् / प्रत्ययग्रहणपरिभाषया रिति तदन्तग्रहणम् / आत्मनेपदमित्यधिकृतम् / तदाह / ण्यन्तादात्मनेपदं For Private And Personal Use Only
Page #419
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् ] बालमनोरमा / 417 यत्कर्मकारकं स चेण्णौ कर्ता स्यान्न त्वाध्याने / णिचश्च' (सू 2564) इति सिद्धेऽकर्त्रभिप्रायार्थमिदम् / कभिप्राये तु ‘विभाषोपपदेन-' (सू 2744) इति विकल्पे 'अणावकर्मकात्-' (सू 2754) इति परस्मैपदे च परत्वाप्राप्ते / पूर्वविप्रतिषेधेनेदमेवेष्यते' / कर्तृस्थभावकाः कर्तृस्थक्रियाश्चोदाहरणम् / स्यादिति // अणौ यत् कर्म णौ चेदिति द्वितीयं वाक्यम् / 'कर्तरि कर्मव्यतिहारे' इतिवत्कमशब्दोऽत्र क्रियापरः / यत्तदोर्नित्यसम्बन्धात् तदिति लभ्यते / तथाच अणी या क्रिया सा ण्यन्ते चेदिति लभ्यते / एवं सति पचति पाचयतीत्यादौ सर्वत्र अणौ क्रियायाः ण्यन्ते अवश्य. सत्त्वाद्वाक्यमिदमनर्थकम् / तस्मात् अणी या क्रिया सैव ण्यन्ते चेदित्येवकारो लभ्यते / ततश्च द्वितीयवाक्यस्य फलितमाह / अणौ या क्रिया सैव चेण्ण्यन्तेनोच्येत इति // स कर्तेति तृतीय वाक्यम् / अत्र अणौ यत् कर्म णौ चेदित्यनुवर्तते। कर्मशब्दोऽत्र कारकविशेषपरः / शब्दाधिकाराश्रयणात्। तदेतदाह / अणौ यत्कर्मकारकं स चेण्णौ कर्ता स्यादिति // अत्र तच्छब्दस्य विधेयसमर्पककर्तृशब्दानुसारेण पुल्लिङ्गता ज्ञेया / 'शैत्यं हि यत्सा प्रकृतिजलस्य' इतिवत् / अथ 'अनाध्याने' इति चतुर्थे वाक्यं व्याचष्टे / न त्वाच्याने इति // आध्यानमुत्कण्ठापूर्वकं स्मरणम् / तत्र नात्मनेपदमिति प्रसज्यप्रतिषेधोऽयमिति मन्यते। वस्तुतस्तु आध्याने आत्मनेपदन्नेत्यर्थाश्रयणे भवतीत्यत्र नोऽन्वितत्वेन असामर्थ्यादाध्यानशब्देन समासासम्भवात् पर्युदास एवायम् / 'न त्वाध्याने' इति मूलन्तु फलितार्थकथनपरमेव / तथाच आध्यानभिन्नेऽर्थे विद्यमानात् ण्यन्तादात्मनेपदं स्यादित्येवं प्रथमवाक्य एव आध्याने इत्यस्यान्वयात् त्रीण्येवात्रावान्तरवाक्यानीति युक्तम् / वाक्यत्रयमित्येव च भाष्ये दृश्यते / ननु ‘णिचश्च' इति सिद्धे किमर्थमिदं सूत्रमित्यत आह / णिचश्चेतीति // परगामिन्यपि फले आत्मनेपदार्थमित्यर्थः / स्यादेतत् / 'विभाषोपपदेन प्रतीयमाने' इति सूत्रं वक्ष्यते / कर्तृगामिनि क्रियाफले यदात्मनेपदं विहितं तत् उपपदेन क्रियाफलस्य कर्तृगामित्वे गम्ये वा स्यादिति तदर्थः / स्वं यज्ञं यजति यजते वेत्यायुदाहरणम् / ‘णेरणौ' इत्यस्य तु दर्शयते भवः इत्यनुपदमेव उदाहरणं वक्ष्यते इति स्थितिः / तत्र दर्शयते भवः स्वयमेवेत्यत्र फलस्य कर्तृगामित्वविवक्षायां णेरणाविति नित्यमात्मनेपदमिष्यते / तत्र परत्वात् ‘विभाषोपपदेन' इति विकल्पः स्यात् / ‘णेरणौ' इत्यस्य फले आत्मगामित्वगमकोपपदाभावे सावकाशत्वात् / किञ्च 'अणावकर्मकाचित्तवत्कर्तृकात्' इति वक्ष्यते / अण्यन्ते यो धातुरकर्मकः चित्तवत्कर्तृकश्च तस्मात् ण्यन्तात् परस्मैपदं स्यादिति तदर्थः / शेते कृष्णः / तं गोपी शाययतीत्युदाहरणम् / णेरणावित्यस्य तु दर्शयते भव इत्युदाहरणं विषय इति स्थितिः। तत्र लूधातोः लुनाति केदारं देवदत्तः इत्यत्र चित्तवत्कर्तृकत्वात् लूयते केदारः इति कर्मकर्तरि कर्मणः केदारस्य कर्तृत्वेन विवक्षिततया अकर्मकत्वाञ्च लावयते केदार इति ण्यन्तात् ‘णेरणौ' इत्यात्मनेपदं बाधित्वा परत्वात् 'अणावकर्मकात्' इति परस्मैपदमेव स्यात् / णेरणावित्यस्य दर्शयते भवः इत्यत्र सावकाशत्वादित्यत आह / कञभिप्राये विति // पूर्वविप्रतिषेधेनेति // पूर्वविप्रतिषेधाश्रयणे राजा दर्शयते 53 For Private And Personal Use Only
Page #420
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 418 सिद्धान्तकौमुदीसहिता [आत्मनेपद तथाहि / पश्यन्ति भवं भक्ताः / चाक्षुषज्ञानविषयं कुर्वन्तीत्यर्थः / प्रेरणांशत्यागे पश्यति भवः / विषयो भवतीत्यर्थः / ततो हेतुमण्णिच् / दर्शयन्ति इति भाष्यप्रयोगो मानम्। अन्यथा तत्र 'अणावकर्मकात्' इति परस्मैपदापत्तेः। दर्शनविषयो भवतीत्यर्थे पश्यति भवः इत्यत्र दृशेरणावकर्मकत्वात् चित्तवत्कर्तृकत्वाच्च ‘विभाषोपपदेन' इति विकल्पबाधविषये पूर्वविप्रतिषेधाश्रयणे तु व्याख्यानमेव शरणम् / अन्ये तु दर्शयते राजा इति भाष्यप्रयोगः फलस्य परगामित्वाविषयो भविष्यति / एवञ्च कर्तृगामिनि क्रियाफले परत्वादणावकर्मकादित्यस्य प्रवृत्तौ न किञ्चिद्वाधकमिति पूर्वविप्रतिषेधाश्रयणश्चिन्त्यमित्याहुः / तच्चिन्त्यम् / अणावकर्मकादित्यस्य परगामिन्यपि फले परत्वात् प्रवृत्तेर्दुर्वारत्वात् / नह्यणावकर्मकादित्यत्र कर्मभिप्राये इत्यस्ति / 'खरितत्रितः कभिप्राये' इत्यस्य बहुव्यवहितत्वादिति शब्दरत्ने प्रपञ्चितम् / ननु दर्शनविषयो भवतीत्यर्थे दर्शयते भवः इत्यत्र वस्तुतो दर्शनकर्मीभूतस्यैव भवस्य कर्तृत्वविवक्षायां तस्य -- कर्मवत्कर्मणा' इति कर्मवद्भावात् 'भावकर्मणोः' इत्यात्मनेपदसिद्धेः ‘णेरणौ' इति सूत्रं व्यर्थमित्यत आह / कर्तृस्थेति // कर्तृस्थः भावो येषां ते कर्तृस्थभावकाः / कर्तृस्था क्रिया येषां ते कर्तृस्थक्रियाः एवंविधा धातव इह सूत्रे उदाहरणम् / 'कर्मवत्कर्मणा' इत्यस्य तु कर्मस्थभावकाः कर्मस्थक्रियाश्चोदाहरणमिति प्रकृतसूत्रे 'कर्मवत्कर्मणा' इति सूत्रे च भाष्ये स्पष्टम् / अतो विषयभेदात् 'कर्मवत् कर्मणा' इत्यनेन ‘णेरणौ' इत्यस्य न गतार्थतेति भावः / अपरिस्पन्दनसाधनसाध्यो धात्वर्थो भावः / यथा दर्शनश्रवणादिः। परिस्पन्दनसाधनसाध्यो धात्वर्थः क्रिया / यथा पाकादिः / यद्यपि दर्शने चक्षुरुन्मीलनादिरूपं स्पन्दनमस्ति / तथापि तद्भिवहस्तपादादिचेष्टैवात्र स्पन्दनमित्यविरोधः / तत्र कर्तृस्थभावकमुदाहरति / पश्यन्ति भवं भक्ताः इति // सकर्मकेषु धातुषु फलव्यापारयोर्धातुः / यथा पचेर्विक्लित्त्यनुकूलो व्यापारः। तत्र विक्लित्तिः फलम् / तदनुकूलोऽधिश्रयणादिर्व्यापारः। धातूपात्तव्यापाराश्रयः कर्ता देवदत्तादिः / व्यापारव्यधिकरणधातूपात्तफलाश्रयभूतङ्कर्म / यथा तण्डुलान् पचतीत्यत्र विक्लित्याश्रयास्तण्डुला इति स्थितिः / प्रकृते च दृशेश्चाक्षुषज्ञानानुकूलव्यापारार्थकत्वे सकर्मकत्वानुपपत्तिः / फलस्य चाक्षुषज्ञानस्य तदनुकूलप्रयत्नादेश्च समानाधिकरणत्वात् / अतो दृशेश्चाक्षुषज्ञानविषयत्वापत्त्यनुकूलव्यापारोऽर्थः / तत्र ज्ञानविषयत्वापत्तिः फलम् / तदनुकूल: प्रयत्नादिव्यापारो देवदत्तनिष्ठः / एवञ्च प्रयत्नादिव्यापारव्यधिकरणचाक्षुषज्ञानविषयत्वरूपफलाश्रयो घटादिः कर्मेति युज्यते / तदेतदाह / चाक्षुषज्ञानविषयं कुर्वन्तीत्यर्थः इति // प्रेर. णेति // यथा चाक्षुषज्ञानविषयत्वापत्तिरेव दृशेरों विवक्षितः / नतु तदनुकूलव्यापारः कृञ्धातुगम्यः प्रेषणांशः / तदा पश्यति भवः इत्यस्य चाक्षुषज्ञानविषयस्सम्पद्यते इत्यर्थः / सौकर्याति. शयविवक्षया अनुकूलव्यापारांशस्य अविवक्षा बोद्ध्या / तथाच चाक्षुषज्ञानविषयत्वापत्तेरेव दृश्य. र्थत्वात्तदाश्रयस्य भवस्य कर्तृत्वमेव / तदाह / विषयो भवतीत्यर्थः इति // लक्षणया चाक्षुषज्ञानविषयो भवतीत्यर्थ इत्यर्थः। नचात्र भवस्य वस्तुतो दर्शनकर्मणः इह कर्तृत्वात् 'कर्मवत्कर्मणा तुल्यक्रियः' इति कर्मवत्त्वाद्यगादिकमेव स्यान्न तु शबादीति शङ्कयम् / 'कर्मवत्कर्मणा' इत्यस्य कर्मस्थभावकेषु कर्मस्थक्रियेषु च प्रवृत्तेः। अतः कर्मकर्तर्यपि शबादिकमेवेति भावः। ततः For Private And Personal Use Only
Page #421
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा। 419 भवं भक्ताः / पश्यन्तीत्यर्थः / पुनर्ण्यर्थस्याविवक्षायां दर्शयते भवः / इह प्रथमतृतीययोरवस्थयोद्वितीयचतुर्योश्च तुल्योऽर्थः / तत्र तृतीयकक्ष्यायां न तङ् / क्रियासाम्येऽप्यणौ कर्मकारकस्य णो कर्तृत्वाभावात् / चतुझं तु तङ् / द्वितीयामादाय क्रियासाम्यात् / प्रथमायां कर्मणो भवस्येह कर्तृत्वाञ्च / इति // क्रिया तु गम्यं प्रेषणांशं विहाय चाक्षुषज्ञानविषयत्वापत्तिवृत्तेदृशेर्हेतुमण्णिजित्यर्थः / दर्शयन्ति भवं भक्ताः इति // चाक्षुषज्ञानविषयत्वमापादयन्तीति णिजन्तस्य फलितोऽर्थः / तदाह / पश्यन्तीत्यर्थः इति // चाक्षुषज्ञानविषयकुर्वन्तीत्यर्थः / पुनरिति // चाक्षुषज्ञानविषयत्वमापादयन्तीत्यर्थके दर्शयन्ति भवं भक्ता इत्युक्तोदाहरणे णिजर्थस्य आपादनांशस्य अविवक्षायां प्रकृतसूत्रेणात्मनेपदे सति दर्शयते भव इत्युदाहरणमित्यर्थः / अत्र ण्यन्तस्य प्रेरणारहितेऽर्थे लक्षणा / गङ्गायाङ्घोष इत्यत्र टाप इव णिचः स्थितिः / चुरादेराकृतिगणत्वात् स्वार्थिको णिजित्यन्ये / इहेति // अवस्था पदविशेषात्मकावयवसन्निवेशविशेषः / प्रथमा च द्वितीया च प्रथमद्वितीये। तयोरवस्थयोरिति विग्रहः / 'सर्वनाम्नो वृत्तिमात्रे' इति प्रथमाशब्दस्य पुवत्त्वम् / पश्यन्ति भवं भक्ता इति प्रथमावस्था / पदविशेषसन्दर्भ इति यावत् / अवस्थैव कक्ष्येति व्यवहरिष्यते मूले / कक्ष्या हि राजधान्यादौ जनविशेषसङ्घातनिवासात्मिका अनन्तरस्थानप्रापिका / तद्यथा / रामायणे ‘आ पञ्चमायाः कक्ष्यायाः नैनङ्कश्चिदवारयत्' इत्यादि / इदञ्च प्रथमवाक्यम् / प्रेरणांशत्यागे पश्यति भव इति द्वितीयवाक्यस्य उपपादकम् / चाक्षुषज्ञानविषयत्वापादने दृश्यर्थे प्रेरणांशत्यागस्य प्रेरणाविशिष्टार्थकदृशिघटितप्रथमवाक्याभावे असम्भवात् / प्रेरणांशत्यागे पश्यति भव इति द्वितीया कक्ष्या तु दर्शनविषयत्वापत्तिमात्रार्थकाद्धेतुमण्णिचि दर्शयन्ति भवं भक्ता इति तृतीयवाक्यस्य पश्यन्ति भवं भक्ता इति प्रथमवाक्यसमानार्थकस्य उपपादिका / चाक्षुषज्ञानविषयत्वापादनानुकूलव्यापारार्थवृत्तेदशहेतुमण्णिचि चाक्षुषज्ञानविषयत्वापत्त्यनुकूलव्यापारान्तरस्यापि प्रवेशापत्तेः / तृतीयं वाक्यन्त्विदन्दर्शयन्तीति ण्यर्थस्याविवक्षायां दर्शयते भवः इति चतुर्थवाक्यस्य दर्शनविषयो भवतीति द्वितीयवाक्यसमानार्थकस्य ण्यन्तघटितस्योपपादकमिति स्पष्टमेव / तथाच प्रथमतृतीययोः कक्ष्ययोः पश्यन्ति भवं भक्ताः, दर्शयन्ति भवं भक्ताः, इत्यनयोः तथा पश्यति भवः, दर्शयते भवः, इति द्विर्तायचतुर्योः कक्ष्ययोश्च तुल्योऽर्थ इत्यर्थः / तत्र प्रथमद्वितीययोः कक्ष्ययोः दृशेर्ण्यन्तत्वाभावादेव तङो न प्रसक्तिरिति मत्वा आह / तत्र तृतीयकक्ष्यायान्न तङिति // कुत इत्यत आह / क्रियासाम्येऽपीति // दर्शयन्ति भवं भक्ता इति तृतीयकक्ष्यायाः, पश्यन्ति भवं भक्ताः, इति प्रथमकक्ष्यासमानार्थकतया अणौ या क्रिया सैव चेण्ण्यन्तेनोच्यतेत्यंशस्य सत्त्वेऽपि प्रथमकक्ष्यायामणौ कर्मकारकस्य भवस्य दर्शयन्ति भवं भक्ता इति तृतीयकक्ष्यायां णौ कर्तृत्वाभावादित्यर्थः / एवञ्चतुर्थकक्ष्योपपादिका तृतीयकक्ष्यैषा प्रत्युदाहरणञ्चेत्युक्ता भवति / अणौ या क्रिया सैव चेण्ण्यन्तेनोच्यतेत्यंशस्य तु अद्ध्यारोपितप्रेरणपक्षे द्वितीयकक्ष्यायान्न तङिति वक्ष्यते / चतुर्थकक्ष्या तु प्रकृतसूत्रस्योदाहरणमित्याह / चतुर्थ्यान्तु तङिति // ‘णेरणौ' इति प्रकृ. तसूत्रेणेति शेषः / तदेवोपपादयति / द्वितीयामादायेति // पश्यति भव इति द्वितीयकक्ष्या For Private And Personal Use Only
Page #422
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 420 सिद्धान्तकौमुदीसहिता [आत्मनेपद एवमारोहयते हस्तीत्यप्युदाहरणम् / आरोहन्ति हस्तिनं हस्तिपकाः / न्यग्भावयन्तीत्यर्थः / तत आरोहति हस्ती / न्यग्भवतीत्यर्थः। ततो णिच् आरोहयन्ति / आरोहन्तीत्यर्थः / तत आरोहयते न्यग्भवतीत्यर्थः / यद्वा पश्यन्त्यारोहन्तीति प्रथमकक्ष्या प्राग्वत् / ततः कर्मण एव हेतुत्वारोपाण्णिच् / दर्शयति भवः / आरोहयति हस्ती / पश्यत आरोहतश्च प्रेरयतीत्यर्थः / ततो णिज्भ्यां तत्प्रकृति यां या चाक्षुषज्ञानविषयत्वापत्तिरूपा क्रिया तस्या एव दर्शयते भव इति चतुर्थकक्ष्यायां ण्यन्त. दृश्यर्थत्वादित्यर्थः / अनेन अणौ या क्रिया सैव चेण्ण्यन्तेनोच्यतेत्यंश उपपादितः / अथ अणौ यत्कर्मकारक णौ स चेत्कर्ता स्यादित्यशमुपपादयति / प्रथमायामिति // पश्यन्ति भवं भक्ता इति प्रथमकक्ष्यायां अण्यन्तदाशिकर्मणो भवस्य दर्शयते भव इति चतुर्थकक्ष्यायां ण्यन्तदृशिकर्तृत्वाचेत्यर्थः / अथ कर्तृस्थक्रियाधातुमुदाहरति / एवमारोहयते हस्तीत्यप्युदाहरणमिति // तत्र प्रथमकक्ष्यामाह / आरोहन्ति हस्तिन हस्तिपकाः इति // हस्तिनम्पान्तीति हस्तिपाः। त एव हस्तिपकाः / स्वार्थे कः / उपरिभागाक्रमणानुकूलव्यापारो रुहेरर्थः / तत्र प्रासादमारोहतीत्यादौ उपरिभागाक्रमणानुकूलव्यापारस्सोपानगमनादिः / इह तु उच्चस्य हस्तिनो न्यग्भावनमेव उपरिभागाक्रमणानुकूलो व्यापारो विवक्षितः / तच्च नीचीकरणम् / तदाह / न्यग्भावयन्तीति / अत्र उपरिभागाक्रमणानुकूलन्यग्भावनानुकूलोऽङ्कुशपातादिः व्यापारः / उपरिभागाक्रमणानुकूलन्यग्भवनं फलम् / तदाश्रयत्वाद्धस्ती कर्म / तादृशव्यापाराश्रयत्वाद्धस्तिपकाः कर्तारः। अथ द्वितीयकक्ष्यामाह / ततः इति // प्रेरणांशपरित्यागे सति उपरिभागाक्रमणानुकूलन्यग्भवनार्थकाल्लटि आरोहति हस्तीति भवतीत्यर्थः / प्रेषणांशपरित्यागे फलितमाह / न्यग्भवतीत्यर्थः इति // अथ तृतीयकक्ष्यामाह / ततो णिजिति // प्रेषणांशं परित्यज्य न्यग्भवनार्थकत्वमाश्रितात् धातोः प्रेषणविवक्षायां हेतुमणिजिति भावः / आरोहयन्तीति // हस्तिनं हस्तिपका इति शेषः / प्रेषणांशनिवृत्तौ णिजन्तस्य फलितमर्थमाह / आरोहयन्तीत्यर्थः इति // आक्रमणाय हस्तिनं न्यग्भावयन्तीति यावत् / चतुर्थकक्ष्यामाह / ततः इति // अविवक्षितप्रेषणात् ण्यन्तात् प्रकृतसूत्रेणात्मनेपदे आरोहयते इति रूप. मित्यर्थः / प्रेषणांशत्यागे सति ण्यन्तस्य फलितमर्थमाह / न्यग्भवतीत्यर्थः इति // तदेवं निवृत्तप्रेषणाद्धातोः प्रकृतेऽर्थे णिजिध्यते, इति पक्षमाश्रित्योदाहृतम् / इदानीमध्यारोपितप्रेषणपक्षमाश्रित्य आह / यद्रेति // पश्यन्तीति // पश्यन्ति भवं भक्ता इति, आरोहन्ति हस्तिनं हस्तिपकाः इति च, प्रथमकक्ष्या पूर्ववद्याख्येयेत्यर्थः। द्वितीयकक्ष्यामाह। ततः कर्मणः इति // दृशेः रुहेश्च प्रथमकक्ष्यायां कर्मीभूतस्य भवस्य हस्तिनश्च प्रयोजककर्तृत्वरूपहेतुत्वारोपाद्धेतुमण्णिजित्यर्थः / दर्शयति भवः इति // भक्तानिति शेषः / तदाह / पश्यत आरोहतश्च प्रेरयतीत्यर्थः इति // चाक्षुषज्ञानविषयत्वमापादयतो भक्तान् भवः प्रेरयति न्यग्भावयतो हस्तिपान् हस्ती प्रेरयतीत्यर्थः / उभयत्र हेतुमण्णिच् / तत्र प्रकृतिभ्यां दृशिरुहिभ्यामेकैकम्प्रे. रणम् / णिचा तु तद्विषयकमेकैकम्प्रेरणान्तरम्प्रतीयते इति स्थितिः / चतुर्थकक्ष्यामाह / ततो For Private And Personal Use Only
Page #423
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा / 421 भ्यां च उपात्तयोर्द्वयोरपि प्रेषणयोस्त्यागे दर्शयते आरोहयते इत्युदाहरणम् / अर्थः प्राग्वत् / अस्मिन्पक्षे द्वितीयकक्ष्यायां न तङ् / समानक्रियात्वाभावाण्णिजर्थस्याधिक्यात् / अनाध्याने' किम् / स्मरति वनगुल्म कोकिल: / स्मरयति वनगुल्मः / उत्कण्ठापूर्वकस्मृतौ विषयो भवतीत्यर्थः / 'भीरम्योर्हेतुभये' (सू 2594) व्याख्यातम् / 2739 / गृधिवञ्चयोः प्रलम्भने / (1-3.69) प्रतारणेऽर्थे ण्यन्ताभ्यामाभ्यां प्राग्वत् / माणवकं गर्धयते, वञ्चयते वा / 'प्रलम्भने' किम् / श्वानं गर्धयति। अभिकाङ्क्षामस्योत्पादयतीत्यर्थः / अहिं वञ्चयति / वर्जयतीत्यर्थः / ‘लिय: सम्माननशालिनीकरणयोश्च' (सू 2592) / व्याख्यातम् / णिज्भ्यामिति // हेतुमण्णिज्भ्यां तत्प्रकृतिभूतशिरुहिभ्याञ्च उपात्तयोः प्रेरणयोस्त्यागे सति चाक्षुषज्ञानविषयो भवति भव इति न्यग्भवति हस्तीति चार्थः पर्यवस्यति / तत्र प्रकृतसूत्रे णात्मनेपदे दर्शयते भवः आरोहयते हस्तीति च सिद्धमित्यर्थः। पश्यन्ति भवं भक्ता इति आरोहन्ति हस्तिनं हस्तिपका इति च प्रथमकक्ष्यायाङ्कर्मणो भवस्य हस्तिनश्च तृतीयकक्ष्यायाङ्कर्तृत्वात् प्रथमकक्ष्यायां अणौ या क्रिया तस्या एवात्र तृतीयकक्ष्यायां सत्त्वाचेति तृतीयकक्ष्यायामुदाहरणे सूत्रप्रवृत्तिरुपपाद्या / नच प्रथमकक्ष्यायाञ्चाक्षुषज्ञानविषयङ्कुर्वन्तीति न्यग्भावयन्तीति प्रकृत्युपात्तस्य प्रेषणांशस्य तृतीयकक्ष्यायां त्यागादणौ या क्रिया सैव चेण्ण्यन्तेनोच्येतेयंशस्य कथं प्रवृत्तिरिति वाच्यम् / सैव चण्ण्यन्तेनेत्यत्र आधिक्यमानं व्यवच्छिद्यते, नतु न्यूनत्वमपि इत्यदोषात् / ननु द्वितीयकक्ष्यायामेव कुतो न तडित्यत आह / अस्मिन्पक्षे द्वितीयेति // कुत इत्यत आह / समानक्रियात्वाभावादिति // द्वितीयकक्ष्यायां अणौ या क्रिया सैव चे. एण्यन्तेनोच्यतेत्यंशस्याभावादिति यावत् / तदेवोपपादयति / णिजर्थस्येति // रिति किम् / पश्यत्यारोहतीति निवृत्तप्रेषणान्मा भूत् / स्मरति वनगुल्मकोकिलः इति // स्मृतिविषय त्वमापादयतीत्यर्थः / पक्षद्वयेऽप्येषा प्रथमकक्ष्या द्वितीयतृतीयकक्ष्ययोरप्युपलक्षणम् / तत्र निवृत्तप्रेषणपक्षे स्मरति वनगुल्म इति द्वितीयकक्ष्या / स्मृतिविषयो भवतीत्यर्थः। स्मरति वनगुल्मकोकिल इति तृतीयकक्ष्या / स्मृतिविषयत्वमापादयतीत्यर्थः / अध्यारोपितप्रेषणपक्षे त्वेषा द्वितीयकक्ष्या। स्मरन्तम्प्रेरयतीत्यर्थः / स्मरयति वनगुल्मः इति // प्रत्युदाहरणमिदम् / निवृत्तप्रेषणपक्षे चतुर्थकक्ष्यैषा / अध्यारोपितप्रेषणपक्षे तु तृतीयकक्ष्येति बोध्यम् / ‘स्मृ आध्याने' इति घाटादिकत्वेन मित्त्वाद्रस्वः / विस्तरस्त्वत्र प्रौढमनोरमाशब्दरत्नशब्देन्दुशेखरेष्व. नुसन्धेयः। गृधिवञ्च्योः // प्रलम्भनं प्रतारणमिति मत्वा आह / प्रतारणेऽथै इति // प्राग्वदिति // आत्मनेपदमित्यर्थः / धातूनामनेकार्थकत्वादनयोः प्रतारणे वृत्तिः / मिथ्योप For Private And Personal Use Only
Page #424
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 422 सिद्धान्तकौमुदीसहिता [आत्मनेपद 2740 / मिथ्योपपदात्कृञोऽभ्यासे / (1-3-71) ‘णे:' इत्येव। पदं मिथ्या कारयते / स्वरादिदुष्टमसकृदुञ्चारयतीत्यर्थः / 'मिथ्योपपदात् ' किम् / पदं सुष्टु कारयति / 'अभ्यासे' किम् / सकृत्पदं मिथ्या कारयति / 'स्वरितभित: कर्वभिप्राये क्रियाफले' (सू 2158) / यजते / सुनुते / 'कर्मभिप्राये' किम् / ऋत्विजो यजन्ति / सुन्वन्ति / . 2741 / अपाहदः / (1-3-73) न्यायमपवदते / कञभिप्राये इत्येव / अपवदति / ‘णिचश्च' (सू 2564) / कारयते / 2742 / समुदाझ्यो यमोऽग्रन्थे / (1-3-75) 'अग्रन्थे' इति च्छेदः / ब्रीहीन संयच्छते / भारमुद्यच्छते / वस्त्रमायच्छते / * अग्रन्थे' किम् / उद्यच्छति वेदम् / अधिगन्तुमुद्यमं करोतीत्यर्थः / कभिप्राये इत्येव / ब्रीहीन संयच्छति / 2743 / अनुपसर्गाज्ज्ञः / (1-3-76) ___ गां जानीते / 'अनुपसर्गात्' किम् / “स्वर्ग लोकं न प्रजानाति" / कथं तर्हि भट्टिः–'इत्थं नृपः पूर्वमवालुलोचे ततोऽनुजज्ञे गमनं सुतस्य' इति / कर्मणि लिट् / नृपेणेति विपरिणामः / पदात् // अभ्यासवृत्तमिथ्याशब्दोपपदकात् कृत्रः आत्मनेपदमित्यर्थः / इत ऊर्ध्वं रिति निवृत्तम् / अपाद्वदः // अपपूर्वाद्वदधातोरात्मनेपदमित्यर्थः / न्यायमपवदते इति // वदनेन निरस्यतीत्यर्थः / किमिह वचनम्न कुर्यान्नास्ति वचनस्यातिभारः' इति न्यायात् / समुदा भयो / सम् उत् आङ् एतत्पूर्वात् अग्रन्थविषयकात् यमेरात्मनेपदमित्यर्थः / व्रीहीन् सं. यच्छते इति // सङ्ग्रहातीत्यर्थः / भारमुद्यच्छते इति // उद्गृह्णातीत्यर्थः / वस्त्रमायच्छते इति // कट्यादौ निबनातीत्यर्थः / कर्वभिप्राये इत्येवेति // वाहीन् संयच्छतीति // परार्थ सङ्ग्रहातीत्यर्थः / 'आङो यमहनः' इत्येव सिद्धे आङ्ग्रहणं सकर्मकार्थम् / तस्य अकर्मकादेव प्रवृत्तेरिति बोध्यम् / अनुपसर्गाज्ज्ञः // अनुपसर्गात् ज्ञाधातोरात्मनेपदमित्यर्थः / 'अकर्मकाच्च' इत्येव सिद्धे सकर्मकार्थमिदम् / तदाह / गाानीते इति // अनुपूर्वकस्य अनुमत्यर्थकस्य ज्ञाधातोरुपसर्गपूर्वकतया प्रकृतसूत्रस्याप्रवृत्तेः सकर्मकतया 'अकर्मकाच्च' इत्यस्याप्यप्रवृत्तेः। अनुजज्ञे इति // कथमात्मनेपदमित्यर्थः / समाधत्ते / कमणि लिडिति // तथाच 'भावकर्मणोः' इत्यात्मनेपदमिति भावः / सुतस्य गमनमनुज्ञातमित्यर्थः फलति / नन्वेवं सति नृप इति प्रथमान्तस्य कथमिहान्वय इत्यत आह / नृपेणेति विपरिणामः इति // अवालुलोचे For Private And Personal Use Only
Page #425
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा / 2744 / विभाषोपपदेन प्रतीयमाने / (1-3-77) 'स्वरितषितः' इत्यादिपञ्चसूत्र्या यदात्मनेपदं विहितं तत्समीपोञ्चारितेन पदेन क्रियाफलस्य कर्तृगामित्वे द्योतिते वा स्यात् / स्वं यज्ञं यजति-यजते वा। स्वं कटं करोति-कुरुते वा / स्वं पुत्रमपवदति-अपवदते वा / स्वं यज्ञं कारयति--कारयते वा / स्वं ब्रीहि संयच्छति-संयच्छते वा / स्वां गां जानाति -जानीते वा। इत्यत्रान्वितं नृप इति प्रथमान्तं तृतीयया विपरिणमितमत्रानुषज्यते इत्यर्थः / विभाषोपपदेन // स्वरितभित इत्यादीति // 'स्वरितअितः कभिप्राये क्रियाफले, अपाद्वदः, णिचश्च, समुदाभ्यो यमोऽग्रन्थे, अनुपसर्गाज्ज्ञः' इति पञ्चसूत्रीत्यर्थः / समीपोच्चारितम्पदमुप. पदम् , नतु 'तत्रोपपदं सप्तमीस्थम्' इति सङ्केतितम् / असम्भवात् / तदाह / समीपोच्चारितेन पदेनेति // फलस्य कर्तृगामित्वे नित्यमात्मनेपदे पञ्चसूत्रया प्राप्ते विभाषेयमिति 'नवेति विभाषा' इति सूत्रे भाष्ये स्पष्टम् / स्वं यज्ञमिति // स्वीयमित्यर्थः / अत्र स्वशब्देनैव फलस्यात्मगामित्वावगमात् 'स्वरितजितः' इति नित्यमात्मनेपदस्यानेन विकल्पः / स्वं यज्ञ कारयतीत्यत्र ‘णिचश्च' इत्यस्यानेन विकल्पः / स्वं व्रीहिमिति // अत्र ‘समुदाङ्झ्यो यमः' इत्यस्यानेन विकल्पः / स्वां गामिति // अत्र ‘अनुपसर्गाज्ज्ञः' इत्यस्यानेन विकल्पः // इति श्रीवासुदेवदीक्षितविदुषा विरचितायां सिद्धान्तकौमुदीव्याख्यायां बालमनोरमायामात्मनेपदव्यवस्था समाप्ता। For Private And Personal Use Only
Page #426
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीरस्तु / // अथ तिङन्तपरस्मैपदप्रकरणम् // 'शेषात्कर्तरि परस्मैपदम्' (2159) अत्ति / 2745 / अनुपराभ्यां कृञः। (1-3-79) कृर्तृगेऽपि फले गन्धनादौ च परस्मैपदार्थमिदम् / अनुकरोति / पराकरोति / कर्तरीत्येव / भावकर्मणोर्मा भूत् / न चैवमपि कर्मकर्तरि प्रसङ्गः / कार्यातिदेशपक्षस्य मुख्यतया तत्र 'कर्मवत्कर्मणा-' (सू 2766) इत्यात्मनेपदेन परेणास्य बाधात् / शास्त्रातिदेशपक्षे तु कर्तरि शप्' (सू 2167) इत्यतः 'शेषात् -' (सू 2159) इत्यतश्च कर्तृग्रहणद्वयमनुवर्त्य कतैव यः कर्ता न तु कर्मकर्ता तत्रेति व्याख्येयम् / अथ परस्मैपदव्यवस्थानिरूपयितुमुपक्रमते // शेषात्कर्तरीति // अनुपराभ्यां कृञः॥ परस्मैपदमिति शेषः / ननु ‘स्वरितत्रितः' इत्यात्मनेपदस्य कर्तृगामिन्येव फले विधानादकर्तृगामिनि फले 'शेषात्कर्तरि' इति परस्मैपदस्य सिद्धत्वात् किमर्थमिदमित्यत आह / कर्तृगे चेति / गन्धनादाविति // गन्धनावक्षेपणसेवनसाहसिक्यप्रतियत्नप्रकथनोपयोगेषु इत्यर्थः / मा भूदिति॥ भावे कर्मणि लकारस्य कर्तृगे फले परस्मैपदनिवृत्त्यर्थ कर्तरीत्यस्यानुवृत्तिरिति भावः। ननु कर्तरीत्यस्यानुवृत्तावपि अनुक्रियते शब्दः स्वयमेवेत्यत्र कर्मकर्तरि परस्मेपदन्दुरिमित्याशङ्कय परिहरति। नचेति // एवमपि कर्तरीत्यस्यानुवृत्तावपि कर्मकर्तरि आत्मनेपदस्य प्रसङ्गो न शङ्कय इत्यर्थः / कुत इत्यत आह / कार्यातिदेशेति // तत्र कर्मकर्तरि ‘कर्मवत्कर्मणा तुल्यक्रियः' इत्यात्मनेपदेन परेणास्य परस्मैपदस्य बाधादित्यन्वयः / ननु कर्मणि यच्छास्त्रं तत् 'कर्मवकर्मणा' इति कर्मकर्तर्यतिदिश्यते / तथा चात्र कर्मकर्तरि ‘भावकर्मणोः' इत्यात्मनेपदशास्त्रमिह प्राप्तम् / तस्य च परत्वाभावात् 'अनुपराभ्यां कृजः' इत्यनेन कथं बाधः स्यादित्यत आह / कार्यातिदेशपक्षस्य मुख्यतयेति // शास्त्रातिदेशस्य कार्यातिदेशार्थतया कार्यातिदेशस्य मुख्यत्वम्। ततश्च कर्मवत् कर्मणेत्यनेन कर्मणि विहितमात्मनेपदं कर्मकर्तरि विधीयते। तस्य च परत्वात्तेनात्मनेपदेन 'अनुपराभ्याम् ' इति परस्मैपदकर्मकर्तरि बाधमर्हतीति भावः / 'कर्मवकर्मणा' इत्यत्र शास्त्रातिदेशमभ्युपगम्य आह / शास्त्रातिदेशपक्षे त्विति // 'अनुपराभ्यां कृषः' इत्यत्र 'कर्तरि कर्मव्यतिहारे' इत्यस्मादेककर्तृग्रहणमनुवर्तते / तथा ‘शेषात् कर्तरि परस्मैपदम्' इत्यस्मात् द्वितीयं कर्तृग्रहणमनुवर्तते। तथा च स्वभावत एव यः कर्ता, नतु विव For Private And Personal Use Only
Page #427
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बालमनोरमा। 425 2746 / अभिप्रत्यतिभ्यः क्षिपः / (1-3-80) ‘क्षिप प्रेरणे' / स्वरितेत् / अभिक्षिपति / 2747 / प्रादहः। (1-3-81) प्रवहति / 2748 / परेम॒षः। (1-3-82) परिमृष्यति / भौवादिकस्य तु परिमर्षति / इह परेरिति योग विभज्य वहेरपीति केचित् / 2749 / व्याङ्परिभ्यो रमः / (1-3-83) विरमति / 2750 / उपाच्च / (1-3-84) यज्ञदत्तमुपरमति / उपरमयतीत्यर्थः / अन्तर्भावितण्यर्थोऽयम / क्षाधीनः कर्मकर्ता तथाविधकर्तयेय ‘अनुपराभ्यां कृञः' परस्मैपदमिति लभ्यते / एवञ्च कर्मकर्तरि नास्य प्रवृत्तिरित्यर्थः / अभिप्रति // परस्मैपदमिति शेषः / रवरितेदिति // ततश्च कर्तगामिनि फले आत्मनेपदे प्राप्ते अनेन तत्रापि परस्मैपदमिति भावः / अभिक्षिपतीति // प्रतिक्षिपति अतिक्षिपति इत्यप्युदाहार्यम् / प्राद्वहः॥ प्रपूर्वाद्वहेः परस्मैपदमित्यर्थः / वहेः स्वरितेत्त्वात् कर्पगामिन्यात्मनेपदे प्राप्ते तत्राप्यनेन परस्मैपदम् / परेम॒षः॥ परस्मैपदमिति शेषः / 'मृषस्तितिक्षायाम्' इति देवादिकस्य स्वरितेत्त्वात् पदद्वये प्राप्ते अयं विधिः। तदाह / परिमृष्यतीति // चौरादिकस्यापि 'आधृषाद्वा' इति णिजभावे स्वरितेत्त्वेऽपि परस्मैपदमेव परिमर्षतीति। भौवादिकस्य त्विति // 'मृषु सहने, सेचने च' इति भौवादिकस्य तु परस्मैपदित्वात् परिमर्षतीत्येव रूपं सिद्धम् / अतोऽस्मिन् सूत्रे तस्य न ग्रहणमिति भावः / इहेति // परेरिति योगो विभज्यते। वह इत्यनुवर्तते / परेर्वहः परस्मैपदमित्यर्थः / परिवहति / मृष इति योगान्तरम् / तत्र परेः इत्यनुवर्तते परेः मृषः परस्मैपदमित्युक्तोर्थ इति केचिदाहुरित्यर्थः / भाष्ये त्वयं योगविभागो न दृश्यते / व्याङ्परिभ्यो रमः // परस्मैपदमिति शेषः / रमेरनुदात्तत्वाद्विधिरयम् / विरमतीति | आरमति, परिरमति, इत्यप्युदाहार्यम् / उपाच // उपपूर्वादपि रमेः परस्मैपदमित्यर्थः / उत्तरसूत्रे उपादित्यस्यैवानुवृत्तये व्यापर्युपेभ्यो रमेरिति नोक्तम् / अत्र विरमतीत्यर्थे उपरमतीति नोदाहरणम् / तस्य अकर्मकतया उत्तरसूत्रेण परस्मै. पदविकल्पविधानात् / अतस्सकर्मकमुदाहरति / यज्ञदत्तमुपरमतीति // ननु विरामार्थकत्वात् कथं सकर्मकतेत्यत आह / उपरमयतीत्यर्थः इति // ननु णिजभावात् कथमयमों लभ्यते इत्यत आह / अन्तर्भावितण्यर्थोऽयमिति // धातूनामनेकार्थत्वादिति भावः / 54 For Private And Personal Use Only
Page #428
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदीसहिता [परस्मैपद 2751 / विभाषाऽकर्मकात् / (1-3-85) उपाद्रमेरकर्मकात्परस्मैपदं वा। उपरमति-उपरमते वा / निवर्तते इत्यर्थः / 2752 / बुधयुधनशजनेछुद्रुसभ्यो णेः / (1-3-86) एभ्यो ण्यन्तेभ्यः परस्मैपदं स्यात् / ‘णिचश्च' (सू 2564) इत्यस्यापवादः / बोधयति पद्मम् / योधयति काष्ठानि / नाशयति दुःखम् / जनयति सुखम् / अध्यापयति / प्रावयति / प्रापयतीत्यर्थः / द्रावयति / विलापयतीत्यर्थः / स्रावयति / स्यन्दयतीत्यर्थः / 2753 / निगरणचलनार्थेभ्यश्च / (1-3-87) विभाषाऽकर्मकात् // उपादिति रम इति परस्मैपदमिति चानुवर्तते / तदाह / उपाद्रमे रिति // बुधयुध / वुध युध नश जन इङ् ग्रु द्रु एषान्द्वन्द्वः। बोधयति पद्ममिति // सूर्य इति शेषः / बुधिर्विकसनार्थकः / विकसति पद्मम् / तद्विकासयति सूर्य इत्यर्थः / 'अणावकर्मकाञ्चित्तवत्कतकात्' इति परस्मैपदन्तु न सिध्यति / अणौ पद्मस्य कर्तृतया चित्तवत्कर्तृकत्वाभावात् / योधयति काष्ठानीति // काष्ठानि युध्यन्ते स्वयमेव / तानि योधयतीत्यर्थः / अणावचित्तवत्कर्तृकत्वात् 'अणावकर्मकात्' इत्यस्य न प्राप्तिः। अत एव योधयति देवदत्तमिति नोदाहृतम् / 'अणावकर्मकाञ्चित्तवत्कर्तृकात्' इत्येव सिद्धेः / एवमग्रेऽपि ज्ञेयम् / नाशयति दुःखमिति // दुःखं नश्यति / तत् नाशयति हरिरित्यर्थः / जनयति सुखमिति // जायते सुखम् / तत् जनयति हरिरित्यर्थः / अध्यापयतीति // अधीते वेदः स्वयमेव / तमध्यापयतीत्यर्थः / 'पुगतौ' इत्यस्योदाहरति / प्रावयतीति // गत्यर्थकत्वं मत्वा आह / प्रापयतीत्यर्थः इति // द्रावयतीति // द्रवत्याज्यं तत् द्रावयतीत्यर्थः / धातोर्द्रवीभावार्थकत्वं मत्वा आह / विलापयतीत्यर्थः इति // स्रावयतीति // स्रवति जलम् / तत्स्रावयतीत्यर्थः / धातोः स्यन्दनार्थकत्वं मत्वा आह / स्यन्दयतीत्यर्थः इति // “प्रीतिं भक्तजनस्य यो जनयते” इत्यात्मनेपदन्तु प्रामादिकमेव / यद्वा भक्तजनः हरौ प्रीतिं जनयत्यात्मविषये तां हरिः जनयते इति ण्यन्ताण्णौ रूपम् / प्रयोज्यकर्तुः शेपत्वविवक्षया भक्तजनस्येति षष्टीत्याहुः। निगरण // निगरणं भक्षणम् / चलनङ्कम्पनम् / एतदर्थकेभ्यो ण्यन्तेभ्यः परस्मैपदमित्यर्थः / पूर्वसूत्रे द्रुतणाङ्ग्रहणन्तु अचलनार्थानामेव / अत एव मूले प्रापयतीत्यादि व्याख्यातं पानमपि भक्षणमेव 'अपोऽनाति' इति श्रुतेः। अतएव 'न पादम्याङ्यमाङयस' इति सूत्रे पाग्रहणमर्थवत् / “न पीयतानाम चकोरजिह्वया कथञ्चिदेतन्मुखचन्द्रचन्द्रिका। इमाङ्किमाचामयसे न चक्षुषा चिरश्चकोरस्य भवन्मुखस्पृशी॥” इति श्रीहर्षश्लोके आचामयेति पृथक्पदम्। अः विष्णुः तस्याः स्त्री ई: लक्ष्मीः। तया सहिता से इत्येकारान्तस्य सेशब्दस्य सम्बोधनम् / 'एड्स्वात्' इति सम्बुद्धिलोप For Private And Personal Use Only
Page #429
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा। 427 निगारयति / आशयति / भोजयति / चलयति / कम्पयति / 'अदेः प्रतिषेधः' (वा 959) / आदयते देवदत्तेन / ‘गतिबुद्धि-' (सू 540) इति कर्मत्वम् ‘आदिखाद्योर्न' (वा 1109) इति प्रतिषिद्धम् / 'निगरणचलन-' (सू 2753) इति सूत्रेण प्राप्तस्यैवायं निषेधः / शेषादित्यकर्त्रभिप्राये परस्मेपदं स्यादेव / आदयत्यन्नं वटुना।। 2754 / अणावकर्मकाच्चित्तवत्कर्तृकात् / (1-3-88) ण्यन्तात्परस्मैपदं स्यात् / शेते कृष्णस्तं गोपी शाययति / 2755 / न पादम्याङयमाङयसपरिमुह रुचिनृतिवदवसः / (1-3-89) एभ्यो ण्यन्तेभ्यः परस्मैपदं न / पिबतिनिगरणार्थः / इतरे चित्तवत्कर्तृकाकर्मकाः / नृतिश्चलनार्थोऽपि / तेन सूत्रद्वयेन प्राप्तिः / पाययते / इति व्याख्येयमिति प्रौढमनोरमायां स्थितम् / वस्तुतस्तु चक्षुषोर्मुखचन्द्रिकाकर्मकपानात्मकाचमनासम्भवादाचामिरादरे लाक्षणिकः / अतो निगरणार्थकत्वाभावान्न परस्मैपदम् / नचैवं सति 'प्रत्यवसानार्थकत्वाभावाच्चक्षुषोः ‘गतिबुद्धि' इति कर्मत्वन्न स्यादिति शङ्कयम् / न ह्याचामिरत्र केवले आदरे वर्तते / किन्तु दर्शनपूर्वकादरे वर्तते / सादरज्ञाने लाक्षणिक इति यावत् / ततश्च बुद्ध्यर्थकत्वादाचामेः चक्षुषोः कर्मत्वनिर्बाधमित्यादि शब्देन्दुशेखर प्रपाञ्चतम् / अदेः प्रतिषेधः इति // अदेय॑न्तात् निगरणार्थकतया प्राप्तस्य परस्मैपदस्य प्रतिषेधो वक्तव्य इत्यर्थः / आदयते देवदत्तेनेत्यत्र अदेः प्रत्यवसानार्थत्वात् प्रयोज्यकर्तुर्देवदत्तस्य कर्मत्वमाशङ्कय आह / गतिबुद्धीति // नन्वादयत्यन्नं वटुनेति कथम् / निगरणार्थकतया प्राप्तस्य परस्मैपदस्य अदेः प्रतिषेधादित्यत आह / निगरणचलनेति सूत्रेण प्राप्तस्यैवायनिषेधः इति // नतु शेषात्कर्तरि इति प्राप्तस्येत्येवकारार्थः / 'अनन्तरस्य' इति न्यायादिति भावः / अणावकर्मकात् // ण्यन्तादिति शेषपूरणम् / रित्यनुवृत्तेरिति भावः। अणौ यो धातुरकर्मकः चित्तवस्कर्तृकश्च तस्मात् ण्यन्तात्परस्मैपदमिति यावत् / चित्तवत्कर्तृकादिति किम् / ब्राहयः शुष्यन्ति तान् शोषयते / अकर्मकात्किम् / कटङ्करोति / तं प्रयुङ्क्ते। कटङ्कारयते। न पादम्याङयम्॥ पा दमि आउथम् आङयस परिमुह रुचि नृति वद वस् एषां समारारद्वन्द्वात्पञ्चमी। प्राप्तस्य निषेध्यत्वात् प्राप्तिमुपपादयति / पिबतिर्निगरणार्थः इति // ततश्च 'निगरणचलनार्थेभ्यः' इति प्राप्तिरिति मावः / इतरे इति // दम्यादयः अणौ चित्तवत्कर्तृका अकर्मकाश्चेत्यर्थः / ततश्च ‘अगावकर्मकाच्चित्तवत्कर्तृकात्' इति प्राप्तिरिति भावः। नृतिरिति // नृतिश्चलनार्थकः / अणा चित्तवत्कर्तृकः अकर्मकश्चत्यर्थः / सूत्रद्वयेनेति // 'अणावकर्मकात्' इति ‘निगरणचलनार्थेभ्यश्च' इति च सूत्रद्वयेनेत्यर्थः / पाययते इति // 'शाच्छासाह्वाव्यावेपां युक्' इति पुको For Private And Personal Use Only
Page #430
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 428 सिद्धान्तकौमुदीसहिता परस्मैपद दमयते / आयामयते / आयासयते / परिमोहयते / रोचयते / नर्तयते / वादयते / वासयते / 'धेट उपसङ्ख्यानम्' (वा 962) / धापयेते शिशुमेकं समीची' / अक–भिप्राये ‘शेषात्—' (सू 2159) इति परस्मैपदं स्यादेव / वत्सान्पाययति पयः / 'दमयन्ती कमनीयतामदम्' / भिक्षां वासयति / ‘वा क्यषः' (2669) लोहितायति-लोहितायते / “द्युझ्यो लुङि' (सू 2345) / अद्युतत्-अद्योतिष्ट / 'वृद्भयः स्यसनोः' (2347) वय॑ति / वर्तिष्यते / विवृत्सति / विवर्तिषते / 'लुटि च क्लप:' (सू 2351) / कल्ला / कल्तासि / कल्पितासे / कल्प्स्यति / कल्पिष्यते-कल्प्स्यते / चिक्लप्सति-चिकल्पिषते-चिक्लप्सते / इति तिङन्तपरस्मैपदप्रकरणम् / ऽपवादो युक् / दमयते इति // ‘जनीजुनसुरोऽमन्ताश्च' इति मित्त्वाद्भवः / ननु दिवादौ दमिस्सकर्मक इत्युक्तम् / अतः कथमिह 'अणावकर्मकात्' इति प्राप्तिरिति चेत् दमेः परस्मैपदनिषेधादेव दमिरकर्मकोऽपि / अतो दमिस्सकर्मक इत्यस्य न विरोधः / आयामयते इति // ‘यमोऽपरिवेषणे' इति मित्त्वनिषेधान्न ह्रस्वः। वासयते इति // ‘वस निवासे' इति भौवादिकस्यैवात्र ग्रहणम् / नतु 'वस आच्छादने' इत्यादादिकस्यापि / तस्य सकर्मकत्वादेवा. प्राप्तेः / लुग्विकरणालुग्विकरणयारलुग्विकरणस्यैव ग्रहणमित्युक्तेश्च / धेट उपसङ्ख्यानमिति // परस्मैपदनिषेधस्येति शेषः / धापयेते शिशुमिति मन्त्रः / ननु 'वत्सान् पाययति पयः'। 'दमयन्ती कमनीयतामदम्' / भिक्षां वासयतीति च कथम्। 'न पादम्याङ्यस' इति धेटः' इति च परस्मैपदस्य निषेधादित्यत आह / अकत्रभिप्राये इति // 'अनन्तरस्य' इति न्यायेन 'निगरणचलनार्थेभ्यश्च, अणावकर्मकात्' इति सूत्रद्वयप्राप्तस्यैव 'न पादम्याङयमाङयस' इति 'धेट उपसङ्ख्यानम्' इति च निषेध इति भावः / ‘वा क्यषः' इत्यादि प्राग्व्याख्यातमिति सूत्रक्रमेण पुनरुपात्तम् // इति श्रीवासुदेवदीक्षितविदुषा विरचितायां सिद्धान्तकौमुदीव्याख्यायां बालमनोरमायां पदव्यवस्था समाप्ता / For Private And Personal Use Only
Page #431
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीरस्तु। // अथ भावकर्मतिप्रकरणम् // अथ भावकर्मणोलडादयः / ‘भावकर्मणोः' (सू 2679) इति तङ् 2756 / सार्वधातुके यक् / (3-1-61) धातोर्यक्प्रत्ययः स्याद्भावकर्मवाचिनि सार्वधातुके परे / भावो भावना उत्पादना क्रिया / सा च धातुत्वेन सकलधातुवाच्या भावार्थकलकारेणानूद्यते / __ अथ भावकर्मतिप्रकरणं निरूप्यते // 'लः कर्मणि' इत्यत्र सकर्मकभ्यो धातुभ्यः कमणि कर्तरि च। अकर्मकेभ्यस्तु भावे कर्तरि च लकारा विहिताः / तेषु कर्तरि लकारा निरूपिताः / अथेदानी भावकर्मणोलकारा निरूप्यन्ते इति प्रतिजानीते / अथ भावकर्मणोलडा. दयः इति // निरूप्यन्ते इति शेषः। तत्र ‘शेषात्कर्तरि परस्मैपदम् , अनुपराभ्यां कृत्रः' इत्यादि परस्मैपदविधिषु प्राप्तेष्वाह / भावकर्मणोरिति / तङिति // सार्वधातुके यक्॥ धातो. रिति // धातोरेकाचः' इत्यतस्तदनुवृत्तेरिति भावः / भावकर्मवाचिनीति // 'चिण्भावकम: णोः' इत्यतस्तदनुवृत्तेरिति भावः / घटस्य भावो घटत्वमित्यादौ प्रकृतिजन्यबोधे प्रकारो भावः / कवेरयं भाव इत्यादी अभिप्रायः। “भावः पदार्थसत्तायां क्रियाचेष्टात्मयोनिषु / विद्वल्लीलाखभावेषु भूत्यभिप्रायजन्तुषु" इति नानाथरत्नमाला। 'भावस्सत्तास्वभावाभिप्रायचेष्टात्मजन्तुषु' इत्यमरः / इह तु 'ल: कर्मणि' इत्यत्र भावशब्दो भावनायां यौगिक इत्याह। भावो भावनेति // 'ल: कर्मणि' इत्यत्रभावशब्देन भावना विवक्षितेति भावः। भावनाशब्दस्य चिन्तायामपि प्रसिद्धत्वादाह / उत्पादनेति // उत्पत्त्यनुकूलो व्यापार इत्यर्थः / एवञ्च भूधातोरुत्पत्त्यर्थकाद्धेतुमण्णौ वृद्ध्यावादेशयोः भाविशब्दात् 'एरच' इति भावे अचि णिलोपे भावशब्द: भावयतेरुत्पत्यर्थकाद्धेतुमण्ण्यन्तात् स्त्रियामित्यधिकारे ‘ण्यासश्रन्थो युच्' इति युचि अनादेशे टापि भावनाशब्द इति बोध्यम् / उत्पादनाचेयं धात्वर्थन्नातिरिच्यते इति दर्शयितुमाह / क्रियेति // धात्वर्थात्मकक्रियैव उत्पादनेत्यर्थः / तथाहि फलव्यापारयोर्द्धातुरिति सिद्धान्तः / पचधातोः पाकोऽर्थः / पाको विक्लित्त्य. नुकूलव्यापारः। तत्र विक्लित्त्यंशः फलम् / अधिश्रयणादिस्तदनुकूलो व्यापारः / तथाविधव्या राश्रयो देवदत्तादिः कर्ता / धातूपात्तव्यापाराश्रयः कर्तेति सिद्धान्तात् / अधिश्रयणादिव्यापारजन्या विक्लित्तिः फलम् / तदाश्रयत्वादोदनं कर्म। व्यापारजन्यफलशालि कर्मेति सिद्धान्तात् / एवं सकर्मकेषु सर्वत्र ज्ञेयम्। 'एध वृद्धौ' इत्यस्मिन्नकर्मकेऽपि वृद्ध्यनुकूलव्यापारो धात्वर्थः / नचैवं सति एधते देवदत्त इत्यत्र धापूपात्तव्यापाराश्रयत्वायापारजन्यवृद्धिरूपफलाश्रयत्वाच्च कर्तृत्वं कर्मत्वञ्च स्यादिति वाच्यम / धातूपात्तव्यापारजन्यतयापारव्यधिकरणफलाश्रयत्वं कर्मत्व. For Private And Personal Use Only
Page #432
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 430 सिद्धान्तकौमुदीसहिता परस्मैपद युष्मदस्मद्भ्यां सामानाधिकरण्याभावात्प्रथमपुरुषः। तिङ्काच्यभावनाया असत्त्वरूपत्वेन द्वित्वाद्यप्रतीतेन द्विवचनादि / किं त्वेकवचनमेव / तस्यौत्सर्गिकत्वेन मिति सिद्धान्तात् / एवञ्च फलोत्पत्त्यनुकूलव्यापारात्मिका क्रिया धात्वर्थ इति सिद्धम् / एतेन क्रियावाची धातुः धातुवाच्या क्रियेत्यन्योन्याश्रयोऽपि निरस्तः / उत्पत्त्यनुकूलव्यापारस्यैव क्रियात्वात् / तदुक्तम् / व्यापारो भावना / सैवोत्पादना सैव क्रियेति / ननु उत्पत्त्यनुकूलव्यापारस्यैव सर्वत्र धातुवाच्यत्वे सर्वेषां धातूनामेकार्थत्वापत्तिः / विक्लित्त्यादितत्तत्फलोत्पत्त्यनुकूलव्यापारार्थकत्वन्तु न सम्भवति / एकैकस्य धातोर्विक्लित्त्यादितत्तत्फलांशे तदनुकूलव्यापारात्मकव्यापारसामान्ये च वाचकत्वानुपपत्तेरित्यत आह / सा च धातुत्वेन सकलधातुवाच्येति // पच्यादयो धातुत्वेन रूपेण उत्पत्त्यनुकूलव्यापारात्मिकां क्रियामाहुः / पचित्वादिविशेषरूपेण तु विक्लित्त्यादितत्तत्फलांशमाहुः। तथाच वाचकताव. च्छेदकभेदाद्विक्लित्त्यादिफलविशेषस्य क्रियासामान्यस्य च वाच्यता सङ्गच्छते इति भावः / तथाच भहिराह / 'विभज्य सेनां परमार्थकर्मा सेनापतींश्चापि पुरन्दरोऽथ / नियोजयामास स शत्रुसैन्ये करोतिरर्थेष्विव सर्वधातून् // ' इति / अस्तिभवतिविद्यतीनामपि सत्तानुकूलव्यापार एवार्थः / तत्र सत्ता आत्मभरणम् / तदनुकूलव्यापारस्तु जायते अस्ति विपरि. णमते, वर्धते, अपक्षीयते, विनश्यति, इति वार्ष्यायणिप्रणीतषड्भावविकारेष्वन्यतमो यथायथं ज्ञेयः / भूवादिसूत्रे भाष्ये स्पष्टमेतत् / प्रपञ्चितञ्च मञ्जूषायामित्यलम् / ननु उत्पादनात्म. कक्रियारूपस्य भावस्य धातुवाच्यत्वे लः कर्मणि च भावे च इति भावे कथं लकारविधिः / अनन्यलभ्यस्यैव शब्दार्थत्वादित्यत आह / भावार्थकलकारेणानूद्यते इति // द्वौ त्रयः इत्यादौ द्विवचनबहुवचनवदिति भावः / युष्मदस्मद्भयामिति // युष्मदि अस्मदीति च तिड्समानाधिकरणे उपपदे मध्यमोत्तमपुरुषौ विहितौ / युष्मदस्मदोस्तिसामानाधिकरण्यञ्च तिङ्वाच्यकारकवाचित्वमेव / लकारे तु आस्यते त्वया आस्यते मया इत्यादौ भाव एव लकारादेस्तिवाच्यः / नतु युष्मदस्मदौँ / अतो न मध्यमोत्तमावित्यर्थः / कर्मलकारे तु त्वं वन्द्यसे अहं वन्ये इत्यादी लकारस्य युष्मदस्मदोश्च सामानाधिकरण्यसम्भवात्पुरुषत्रयमपि यथायथमुदाहरिष्यते / तिङ्वाच्येति // सत्त्वं द्रव्यं लिङ्गसङ्खयान्वययोग्यम् / तिङ्वाच्या या भावना क्रिया सा असत्त्वरूपा लिङ्गसङ्ख्यान्वयायोग्या / शब्दशक्तिस्वभावात् / ततश्च तस्याः तिङ्वाच्यभावनायां द्वित्वबहुत्वयोरप्रतीतेः युवाभ्यां युष्मद्भिर्वा आस्यते इत्यादौ न द्विवचन बहुवचनश्चेत्यर्थः / तिवाच्येत्यनेन कृद्वाच्यायाः क्रियायाः लिङ्गसङ्ख्यान्वयित्वात्मकं सत्त्वरूपत्वमस्तीत्युक्तम्भवति / तद्यथा / पाको पाकाः इत्यादि / तदुक्तम् / 'सार्वधातुके यक्' इति सूत्रे भाष्ये 'कृदभिहितो भावो द्रव्यवत्प्रकाशते' इति द्रव्यवत् लिङ्गसङ्ख्यान्वयं लभते इत्यर्थः / शब्दशक्तिस्वभावादिति भावः / ननु तिङ्वाच्यभावनाया असत्त्वरूपतया द्विबहुवचनाभावे आस्यते इत्यादौ एकवचनञ्च न स्यादित्यत आह / किन्त्वेकवचनमेवेति // तिङ्वाच्यभावलकारस्येति शेषः / तस्येति // कयोर्द्विवचनैकवचन' 'बहुषु बहुवचनम्' इति सूत्रन्यासं भत्ता एकवचनद्विबहुवचनेषु द्विबहुवचन इति सूत्रन्यासः कर्त For Private And Personal Use Only
Page #433
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा / 431 संख्यानपेक्षत्वादनभिहिते कर्तरि तृतीया। त्वया मया अन्यैश्च भूयते / बभूवे / 2757 / स्यसिच्सीयुट्तासिषु भावकर्मणोरुपदेशेऽज्झन __ ग्रहदृशां वा चिण्वदिट् च / (6-4-62) उपदेशे योऽच् तदन्तानां हनादीनां च चिणीवाङ्गकार्य वा स्यात्स्यादिषु परेषु भावकर्मणोर्गम्यमानयोः स्यादीनामिडागमश्च / अयमिट चिण्वद्भावसन्नियोगशिष्टत्वात्तदभावे न / इहार्धधातुके इत्यधिकृतं सीयुटो विशेषणं, नेतरेषामव्यभिचारात् / चिण्वद्भावाद्वृद्धिः / नित्यश्चायं वल्निमित्तो विघाती / भावि व्यः / तत्र द्वित्वबहुत्वयोबिहुवचननियमे सति तयोरविषये एकवचनमिति लभ्यते इति भाष्ये स्पष्टम् / एवञ्च एकवचनस्य एकत्वमुत्सृज्य द्विबहुवचनान्यविषये विहितत्वेन औत्सर्गिकतया एकत्वसङ्ख्यानपेक्षत्वात् भावलकारस्य असत्त्वरूपभाववाचित्वेऽप्येकवचनमेवेति भावः / अनभिहिते इति // भावलकारे कर्तुस्तिवाच्यत्वाभावेन अनभिहितत्वात्तृतीयेत्यर्थः / त्वया मयेति // त्वत्कर्तृकं, मत्कर्तृकम् , अन्यकर्तृकं, भावनमित्यर्थः / स्यसिच्॥अच्हन ग्रह दृश् एषान्द्वन्द्वात् षष्टी / उपदेश इत्यच एव विशेषणम् / नेतरेषाम् / अव्यभिचारात् / तदाह / उपदेशे योऽजिति // अजित्यस्य उपदेशान्वयित्वेऽपि सौत्रः समासः / अजिति लुप्तषष्ठीकम् / वा चिण्वदिति सप्तम्यन्ताद्वतिः / स्यसिच्सीयुट्तासिध्वित्युपमेयतस्सप्तमीदर्शनात् / तदाह / चिणीवेति॥ अङ्गकार्यमिति // अङ्गस्येत्यधिकृतत्वादिति भावः / भावकर्मवाचिषु स्यादिध्विति नार्थः / सीयुटो लिङागमतया भावकर्मवाचित्वेऽपि स्यसिच्तासीनां भावकर्मवाचित्वाभावात् / नापि भावकर्मवाचिनि प्रत्यये परे स्यादयस्तेष्वित्यर्थः। स्यसिच्तासीनां भावकर्मवाचिप्रत्ययपरत्वसम्भवेऽपि सीयुटस्तदसम्भवात् / सीयुडागमविशिष्टस्यैव लिङो भावकर्मवाचितया केवलसीयुटो भावकर्मवाचिप्रत्ययपरकत्वमास्त। अतो विषयसप्तमीति मत्वा आह / भा. वकर्मणोर्गम्यमानयोरिति // इड्विधौ स्यसिसीयुट्तासिषु, इति सप्तमी षष्ठ्या विपरिणम्यते इति मत्वा आह / स्यादीनामिडागमश्चेति // अत्र अज्झनग्रहदृशां स्यादीनाञ्च न यथासवयम् / व्याख्यानात् / स्यादिषु परेषु अगस्य इडिति नार्थः / 'आर्धधातुकस्येड्डलादेः' इत्यत्र 'आर्धधातुके' इति योगं विभज्य यावानिट् स आर्धधातुकस्यैवेति भाष्ये उक्तत्वात् णिचि यदङ्गाधिकारविहितं कार्यन्तस्यैवात्रातिदेशः नतु चिणि दृष्टमात्रस्य / तेन घानिष्यते इत्यत्र 'हनो वध लिडि, लुडि च' इति चिणि दृष्टो वधादेशश्चिण्वदिति नातिदृश्यते / तस्य द्वैतीयीकत्वेन अङ्गाधिकारविहितत्वाभावात् / तथा अयिष्यते इत्यत्र इणो गादेशो न। अध्यायिष्यते इत्यत्र इङो गाङादेशो न / द्वैतीयीकत्वात् चिण्वत्त्वाभावे अयमिट नेत्याह / अयमिडिति // सेटकस्य वलादित्वलक्षण इट तु स्यादेवेति भावः / ननु भूयेतेति विधिलिङि चिण्वत्त्वं इट् च स्यातामित्यत आह / इहार्धधातुके इति // नेतरेषामिति // स्यसिच तासीनां न विशेषणमित्यर्थः / अव्यभिचारादिति // स्यसिच्तासीनां सर्वत्रार्धधातुकत्वनि For Private And Personal Use Only
Page #434
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 432 सिद्धान्तकौमुदीसहिता [परस्मैपद ता-भविता / भाविष्यते-भविष्यते / भूयताम् / अभूयत / भूयेत / भाविषीष्ट-भविषीष्ट / 2758 / चिण्भावकर्मणोः / (3-1-66) च्लेश्चिण्स्याद्भावकर्मवाचिनि तशब्दे परे / अभावि / अभाविष्यतअभविष्यत / तिङोक्तत्वात्कर्मणि न द्वितीया / अनुभूयते आनन्दश्चैत्रेण त्वया मया च / अनुभूयेते / अनुभूयन्ते / त्वमनुभूयसे। अहमनुभूये / अन्वभावि / अन्वभाविषाताम्-अन्वभविषाताम् / णिलोपः / भाव्यते / भावयाञ्चके / भावयांबभूवे / भावयामासे / इह तशब्दस्य एशि, इट एत्त्वे च, कृते यमादिति भावः / अत्र वार्तिकम् / “चिण्वद्वृद्धियुक् च हन्तेश्च घत्वं दीर्घश्वोक्तो यो मितां वा चिणिति इट्चासिद्धस्तेन मे लुप्यते णिनित्यश्चायं वल्निमित्तो विघाती” इति स्यसिच्सायुडितिसूत्रस्य वृध्यादिप्रयोजनमित्यर्थः / तत्र वृद्धि दर्शयति / चिण्वद्भावाढद्धिरिति // लुटि भू ता इति स्थिते चिण्वत्त्वात् 'अचोऽणिति' इति वृद्धिरित्यर्थः / इडागमश्चेत्यपि बोध्यम् / तत्फलन्तु वक्ष्यते / तथा दाधातोर्लटि 'आतो युक् चिण्कृतोः' इति युक् / तथा लुटि घानिध्यते इत्यत्र 'होहन्तेणिनेषु' इति घत्वं शमेहे तुमण्ण्यन्ताल्लुटि शामिता, शमितत्यत्र 'चिण्णमुलोः' इति दीर्घः / तथा अनेनैवात्र इटि कृते तस्य आभीयत्वेनासिद्धत्वात् अनिटीति निषेधाभावात् णिलोपः / तथा भाविष्यते इत्यत्र भू स्य इति स्थिते परमपि वलादिलक्षणं इटं बाधित्वा नित्यत्वादनेन इट् / वल्निमित्ते इटि कृते अकृते च चिण्वदिट: प्रवृत्त्या कृताकृतप्रसङ्गित्वात् / वलादिलक्षणस्त्विट् न नित्यः / चिण्वदिटि कृते वलादित्वस्य विहतत्वेन वलादिलक्षणस्य इटः अप्रवृतेः / नित्यश्चायमित्यस्य चिण्वदिडिति शेषः / वल्निमित्त इत्यनन्तरं इडनित्य इति शेषः / अनित्यत्वे हेतुः / विघातीति // चिण्वदिटो वलादिनिमित्तविघातकत्वादित्यर्थः / एवञ्च सेटकत्वेऽप्यनेनैव इट् / एतदभावपक्षे तु सेटकत्वे वलादिलक्षण इडिति बोध्यम्। तदाह / भवितेति // चिण्वदिडभावपक्षे वलादिलक्षण इडिति भावः / चिण भावकर्मणोः // च्लेरिति // 'च्लेस्सिच्' इत्यतस्तदनुवृत्तरिति भावः / तशब्दे परे इति // 'चिण ते पदः' इत्यतस्तदनुवृत्तरिति भावः / अभावीति // च्लोश्चणि कृते 'चिणो लुक्' इति तशब्दस्य लोपः / चिण्विधौ तशब्दे किम् / अभाविषाताम् / अथ अनुपूर्वात् भूधातोरुपभोगार्थकात्सकर्मकेभ्यः कर्मणि लकारे विशेषमाह / तिङोक्तत्वादिति // कर्तुस्त्वनभिहितत्वात् तृतीयैवेति भावः / तदाह / अनुभूयते आनन्दश्चेत्रेण त्वया मया चौत // इहानन्दस्य तिङभिहितत्वात् प्रथमेति भावः / युष्मदस्मदुपात्तयोः कोंस्त्वनभिहितत्वात् तृतीया / अनुभूयते इति // सुखदुःख इति शेषः। अनुभूयन्ते इति // सुखानीति शषः / णिलोपः इति // भूधातारें वृद्धी आवादश भावि इति ण्यन्तात् कमणि लटम्तादेश याक णिलोप इत्यर्थः / भावयामासे इति // प्रथमपुरुषकवचने उत्तमपुरुषैकवचने च रूपम् / इहति // भावयामासे इत्यत्र For Private And Personal Use Only
Page #435
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा / 'ह एति' (सू 2250) इति हत्वं न / तासिसाहचर्यादस्तेरपि व्यतिहे इत्यादी सार्वधातुके एति हत्वप्रवृत्तेरित्याहुः / भाविता / चिण्वदिटः आभीयत्वेनासिद्धत्वाणिलोपः / पक्षे भावयिता / भाविष्यते-भावयिष्यते / भाव्यताम् / अभाव्यत / भाव्येत / भाविषीष्ट-भावयिषीष्ट / अभावि / अभाविषाताम्-अभावयिषाताम्। बुभूष्यते / बुभूषांचके / बुभूषिता / बुभूषिष्यते / बोभूय्यते / यङ्लुगन्तात्तु / बोभूयते / बोभवाञ्चक्रे / बोभाविता-बोभविता / 'अकृत्सार्व-' (सू 2298) इति दीर्घः / स्तूयते विष्णुः / तुष्टुवे / स्तावितास्तोता / स्ताविष्यते-स्तोष्यते / अस्तावि / अस्ताविषाताम्-अस्तोषाताम् / 'गुणोऽति' (सू 2380) इति गुणः / अर्यते / स्मयते / सस्मरे। परत्वाप्रथमैकवचनतशब्दस्य 'लिटस्तझयोः' इति एशादेशे उत्तमपुरुषैकवचनस्य इटश्च 'टित आत्मनेपदानाम्' इत्येत्वे च कृते भावयामास् ए इति स्थिते ‘ह एति' इति सकारस्य हकारःप्राप्तो न भवतीत्यर्थः / कुत इत्यत आह / तासीति // ‘ह एति' इत्यत्र तासस्त्योरित्यनुवर्तते / तत्र एधिताहे इत्यादौ तासेस्सस्य सार्वधातुक एव एति परे हकार इति निर्विवादः / तथाविधतासिसाहचर्यादस्तेरपि सकारस्य व्यतिहे इत्यादी सार्वधातुक एव परे प्रवृत्तिः / अतो भावयामासे इत्यत्र नास्तेस्सकारस्य हकारः / एकारस्यार्धधातुकत्वादित्यर्थः / भावितेति // ण्यन्तात् भावि ता इति स्थिते परत्वाद्वलादिलक्षणमिटं बाधित्वा चिण्वदिटि तस्याभीयत्वेनासिद्धत्वादनिटीति निषेधाभावाणिलोपे भावितेति रूपम् / अत एव चिण्वदिड्डिधौ उपदेशे योऽजित्येव व्याख्यातम्, नतु उपदेशे अजन्तस्येति / तथा सति हिणिजन्तस्य उपदेशाभावान्न स्यादिति भावः / वलादिलक्षणे इटि कृते तु तस्य अनाभीयत्वेन असिद्धत्वाभावादनिटीति निषेधाणिलोपाभावे णेर्गुणायादेशयोः कृतयोर्भावयितेति रूपमिति मत्वा आह / पक्षे भावयितेति // अथ सन्नन्तात् भूधातोः कर्मलकारे उदाहरति। बुभूष्यते इति // यकि सनोऽकारस्य 'अतो लोपः' इति लोपः। बुभूषिता / बुभूषिष्यते इति // चिण्वदिटि वलादिलक्षणे इटि च रूपं तुल्यम् / चिण्वदिड्भावपक्षेऽपि तदतिदेशेन प्राप्तां वृद्धिं बाधित्वा परत्वादतो लोपः। अथ यङन्तात् भूधातोः भावलकारे उदाहरति / बोभूय्यते इति // यकि यङोऽकारस्य पूर्ववदतोलोपः / द्वियकारक रूपम् / यङ्लुगन्तात् बोभूयते इति एकयकारं रूपम् / ष्टुञ्धातोः कर्मलकारे यकि तस्यार्धधातुकत्वात् 'अतो दीर्घो यभि' इत्यप्राप्तावाह। अकृत्सार्वेति // स्ताविता-स्तोतेति॥चिण्वदिडभावपक्षे अनिटकत्वान्नेट / अथ ऋधातोः कर्मणि लकारे यकि कृते कित्त्वाद्गुणनिषेधे प्राप्ते आह / गुणोऽर्तीति॥ अर्यते इति // गुणे कृते रपरत्वम् / स्मृधातोः कर्मणि लकारे आह / स्मर्यते इति // 'गुणोऽर्ति' इति संयोगादित्वात् गुणे रपरत्वमिति भावः। ननु लुटि ऋ ता, स्मृ ता इति स्थिते चिण्वदिटं बाधित्वा परत्वात् गुणः प्राप्नोति नित्यत्वाच्च / अकृते कृते च चिण्वदिटि गुणस्य प्राप्तेः / कृते तु गुणे रपरत्वे अजन्तत्वाभावाचिण्वदिडभावे अनिट्वाद्वलादिलक्षणेडभावे अर्ता स्मर्तेत्येव स्यात् / आरिता स्मारितेति न स्यादित्यत आह / परत्वादि 55 For Private And Personal Use Only
Page #436
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदीसहिता [भावकर्मतिङ् नित्यत्वाच्च गुणे रपरे कृते अजन्तत्वाभावेऽप्युपदेशग्रहणाञ्चिण्वदिट् / आरिताअर्ता / स्मारिता-स्मर्ता / ' गुणोऽति-' (सू 2380) इत्यत्र नित्यग्रहणानुवृत्तेरुक्तत्वान्नेह गुणः / संस्क्रियते / ‘अनिदिताम् -' (सू 415) इति नलोपः / सस्यते / इदितस्तु नन्द्यते / सम्प्रसारणम् / इज्यते / 'अयङिय विङति' (सू 2649) / शय्यते / 2759 / तनोतेर्यकि / (6-4-44) आकारोऽन्तादेशो वा स्यात् / तायते तन्यते / 'ये विभाषा' (सू 2319) / जायते-जन्यते / 2760 / तपोऽनुतापे च / (3-1-65) तपश्च्लेश्चिण्न स्यात्कर्मकर्तर्यनुतापे च / अन्वतप्त पापेन / पापं कर्तृ / तेनाभ्याहत इत्यर्थः / कर्मणि लुङ् / यद्वा पापेन पुंसा को अशोचीत्यर्थः / त्यादि // कृते गुणे रपरत्वे अजन्तत्वाभावेऽपि उपदेशे योऽच् तदन्तस्येत्युक्तेश्चिण्वदिट् निर्बाध इत्यर्थः। आरितेति // कृतेऽपि गुणे रपरत्वे चिण्वदिटि उपधावृद्धिः / अर्तेति // चिण्वदिडभावे रूपम् / एवं स्मारिता स्मर्तेत्यपि / ननु सम्पूर्वात् कृञः कर्मणि लकारे यकि 'रिङ् शयग्लिक्षु' इति रिङादेशे 'सम्परिभ्यां करोती भूषणे, समवाये च' इति सुटि संस्क्रियते इति वक्ष्यते। तत्र 'गुणोऽर्ति' इति संयोगादित्वात् गुणः स्यादित्यत आह / नित्यग्रहणानुवृत्तेरिति // 'नित्यं छन्दसि इत्यतो नित्यमित्यनुवृत्तेः 'गुणोऽर्ति' इत्यत्र नित्यं यस्योगादिस्तस्यैव संयोगादिलक्षणो गुण इति लभ्यते / कृञ्तु न नित्यं संयोगादिः / सम्परिपूर्वकत्वाभावे तदभावादिति भावः / अथ संस्धातोर्भावलकारे यकि विशेषमाह / अनिदितामिति नलोपः इति // इदितस्त्विति // 'टु नदि समृद्धी' इत्यस्माद्भावलकारे यकि इदित्वानलोपो नेत्यर्थः / अथ यजधातोः कर्म लकारे यकि विशेषमाह। सम्प्रसारणमिति // 'वचिस्वपियजादीनाम् ' इत्यनेनेति भावः / शीद्धातोभीवलकारे यकि विशेषमाह / अयङिय क्ङितीति // तनोतेर्यकि // विडनोः' इत्यतः आदिति 'ये विभाषा' इत्यतः विभाषेति चानुवर्तते। तदाह / आकारोऽन्तादेशो वा स्यादिति // शेषपूरणमिदम् / तायते तन्यते इति // कर्मणि लकारः। तपोऽनुतापे च // 'चलम्सिच्' इत्यतः च्लेरिति चिण ते' इत्यतश्चिण् इति 'न रुधः' इत्यतो नेति चानुवर्तते / चकारात् 'अच: कर्म' इत्यतः कर्मकर्तरीति समुच्चीयते / तदाह / तपश्च्ले रित्यादि / तत्र कर्मकर्तरि कर्मकर्तृप्रक्रियायामुदाहरिष्यति / अनुतापे कर्मलकारे उदाहरति / अन्वतप्त पापेनेति // पापेनेति कर्तरि तृतीयेति मत्वा आह / पापङ्कर्बिति // अनुपूर्वस्य तपेः पश्चात्तापार्थकत्वे असङ्गतिः / नहि पापस्य सूर्यादिवत्तपनशक्तिरस्ति / शोकार्थकत्वे अकर्मकत्वापत्तिरित्यत आह / अभ्याहत इति // अनुपूर्वस्तपिरिह उपसर्गवशात् अभिहननार्थक इति भावः / तस्य च सकर्मकत्वात् कर्मलकारः उपपद्यते इति मत्वा आह। कर्मणि लुङिति // शोकार्थकत्वमाश्रित्य For Private And Personal Use Only
Page #437
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा / 'घुमास्था-' (सू 2462) इतीत्त्वम् / दीयते / धीयते / आदेच:-' (सू 2370) इत्यत्र अशितीति कर्मधारयादित्संज्ञकशकारादौ निषेधः / एश: आदिशित्त्वाभावात्तस्मिन्नात्त्वम् / जग्ले / 2761 / आतो युक्चिण्कृतोः / (7-3-33) आदन्तानां युगागमः स्याच्चिणि अिति णिति कृति च / दायिता-दाता / दायिषीष्ट-दासीष्ट / अदायि / अदायिषाताम्-अदिषाताम् / अधायिषाताम्अधिषाताम् / अग्लायिषाताम्-अग्लासाताम् / हन्यते / 'अचिण्णलो:-' (सू 2574) इत्युक्तेर्हनस्तो न / 'हो हन्ते:--' (सू 358) इति कुत्वम् / घानिता-हन्ता / घानिष्यते-हनिष्यते / आशीलिङि वधादेशस्यापवादश्चि भावे वा लुडित्याह / यद्वा पापेन पुंसा कति // परिणाममसमीक्ष्य सहसा किञ्चिदकृत्य कृत्वा पश्चात् दुःखमन्वभवदित्यर्थः / दुःखानुभवः शोकः धात्वर्थेनोपसङ्ग्रहादकर्मकः / 'शुच शोके' अकर्मकः / पुत्रमनुशोचतीत्यत्र तु वियुक्तं पुत्रं स्मृत्वा शोचतीत्यर्थः। स्मरणे पुत्रस्य कर्मत्वात् द्वितीयेत्यविरोधः / अथ दाधातोर्धाधातोश्च कर्मलकारे यकि विशेषमाह / घुमास्थे. तीत्त्वमिति // ग्लैधातो वे लिटस्तादेशस्य एशादेशे ‘आदेचः' इत्यात्त्वस्य अशितीति निषेधमाशङ्कय आह / आदेच इत्यनेति // श् चासाविच्च इति कर्मधारयाश्रयणादित्संज्ञकशकारादौ प्रत्यये परे आत्त्वस्य निषेधो लभ्यते / एशः शित्त्वेऽपि आदिभूतशकारेत्कत्वाभावानिषेधाभावातस्मिन् एशि परे आत्त्वं भवत्येवेत्यर्थः / जग्ले इति // आत्त्वे कृते 'आतो लोप इटि च' इति तस्य लोप इति भावः / आतो युक् // अङ्गस्येत्यधिकृतमाता विशेषितम् , तदन्तविधिः / 'अचो णिति' इत्यतो णितीत्यनुवृत्तं कृत एव विशेषणम् , नतु चिणः। तस्य णित्त्वाव्यभिचारात् / तदाह / आदन्तानामित्यादि॥ दायितेति / / चिण्वदिट्पक्षे युक् / अदायिषातामि ति // 'स्थाध्वोरिच्च' इत्येतत् बाधित्वा परत्वाचिण्वदिटि कृते 'घुमास्था' इतीत्त्वन्न / अजादित्वात्। पुनः 'स्थाध्वोरिच' इति तु न भवति / अझलादित्वात् / तत्र हि 'इको झल्' इति सूत्रात् झल् इत्यनुवृत्तम् / तथाच झलादिरेव सिच् किदिति लाभादिडादिः सिच् न कित् / तत्सन्नियोगादित्वमपि न भवतीत्याहुः / वस्तुतस्तु सत्यपि तस्मिन्त्रात्र काचित् क्षतिः / सिचः कित्त्वेऽप्यनिग्लक्षणया वृद्ध्या रूपसिद्धेरिति दिक् / अथ हनधातोः कर्मलकारे आह / हन्यते इति // अ चिण्णलोरिति // लुटि चिण्वदिटि वृद्धौ ‘हनस्तोऽचिण्णलोः' इति हनो नकारस्य तकारो न भवति / चिण्वत्त्वादित्यर्थः / कुत्वमिति // तस्य णिति विहितस्यात्र चिण्वत्त्वात् प्राप्तिरिति भावः। घानिष्यते इति // 'ऋद्धनोः' इति बाधित्वा नित्यत्वाचिण्वदिट् / 'ऋद्धनोः' इति तु चिण्वदिटि कृते न भवतीत्यनित्यम् / तत्र वलीत्यनुवृत्तरिति भावः / नन्वाशीर्लिङि घानिषीष्टेत्यत्र 'हन् सीष्ट' इति स्थिते परमपि चिण्वत्त्वं वाधित्वा वधादेशः प्राप्नोति। आर्धधातुके विवक्षिते विहितत्वेन वधादेशस्यान्तरङ्गत्वादित्यत आह / आशीलिङि वधादेशस्यापवादश्चि For Private And Personal Use Only
Page #438
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदीसहिता [भावकर्मतिङ् ण्वद्भावः / आर्धधातुके सीयुटीति विशेषविहितत्वात् / घानिषीष्ट / पक्षे वधिषीष्ट / अघानि / अघानिषाताम्-अहसाताम् / पक्षे वधादेशः / अवधि / अवधिषाताम् / अघानिष्यत-अहनिष्यत / नच स्यादिषु चिण्वदित्यतिदेशाद्वधादेशः स्यादिति वाच्यम् / 'अङ्गस्य' (सू 200) इत्यधिकारादाङ्गस्यैवातिदेशात् / गृह्यते / चिण्वदिटो न दीर्घत्वम् / प्रकृतस्य वलादिलक्षणस्यैवेटो 'ग्रहोऽलिटि'- (सू 2562) इत्यनेन दीर्घविधानात् / ग्राहिता-ग्रहीता / ग्राहिष्यते-ग्रहीष्यते / ग्राहिषीष्ट-ग्रहीषीष्ट / अग्राहि / अग्राहिषाताम्-अग्रही ण्वद्भावः इति // ननु घानितेत्यादौ प्राप्तेऽपि वधादेशे आरम्भात् कथं वधादेशस्य चिण्वद्भावः अपवादः स्यादित्यत आह / आर्धधातुके सीयुटीति // ‘स्यसिच्सीयुट्' इति सूत्रे अजन्तस्य स्ये, अजन्तस्य सिचि, अजन्तस्य आर्धधातुके सीयुटि, अजन्तस्य तासौ, इत्य जन्तस्य चत्वारि वाक्यानि / एवं हनदृशामप्येकैकस्य चत्वारि वाक्यानीति स्थितिः / तत्र हनः आर्धधातुके सीयुटि चिण्वदिविधिर्निरवकाशत्वाद्वधादेशापवादः। अप्राप्त एव वधादेशे आरम्भात् / वधादेशस्तु न चिण्वदिटोऽपवादः / तस्य वध्यादित्यत्न कर्तरि लिङि चरितार्थत्वादिति भावः / पक्षे इति // चिण्वत्त्वाभावपक्षे 'हनो वध लिङि' इति वधादेशे वलादिलक्षणे इटि अतो लोपे रूपम् / वधादेशस्यादन्तत्वात् / नच हनधातोरनुदात्तत्वादुपदेशे एकाच्त्वात्तदीयवधादेशस्यापि तथाविधत्वादिह कथं वलादिलक्षण इडिति वाच्यम् / 'एकाच उपदेशे' इत्यत्र अच इत्येकत्वसामर्थ्यादेकत्वे सिद्धे पुनरेकग्रहणबलेन य उपदेशे एकाजेव नतु कदाप्यनेकाजिति लभ्यते / तेन वधेर्हन्त्युपदेशमादाय एकाचोऽपि न निषेधः / आदेशोपदेशे अनेकाच्वादित्युक्तं प्राक् / लुङि तु सिचश्चिणि उपधावृद्धौ कुत्वेन घः / आत्मनेपदेष्वन्यतरस्यामिति वधादेशाभावः / अघानिषातामिति // चिण्वदिटि वधादेशाभावपक्षे रूपम् / अहसातामिति // चिण्वदिडभावपक्षे 'हनः सिच्' इति कित्त्वादनुदात्तोपदेशत्यनुनासिकलोपः / पक्षे अवधीति // ‘आत्मनेपदेष्वन्यतरस्याम्' इति वधादेशपक्षे इत्यर्थः / अवधिषातामिति // ‘आत्मनेपदेष्वन्यतरस्याम्' इति वधादेशस्यापि चिण्वत्त्वात् पाक्षिकतया अप्राप्तेऽपि वधादेशे चिण्वत्त्वस्यारम्भान्नापवादत्वमिति भावः / ननु चिणि वधादेशस्य दृष्टत्वात् स्यादिषु चिण्वत्त्वावधादेशः स्यादित्याशङ्कय परिहरति / नचेत्यादिना // आङ्गस्यैवेति // वधादेशस्तु द्वैतीयीकः / न त्वङ्गाधिकारस्थ इति भावः / अथ ‘ग्रह उपादाने' इत्यस्माददुपधात् कर्मलकारे उदाहरति / गृह्यते इति // ‘ग्रहिज्या' इति सम्प्रसारणम् / अथ लुटि तासि चिण्वदिटि ‘ग्रहोऽलिटि' इति दीर्घमाशङ्कय आह / चिण्वदिटो न दीर्घत्वमिति॥ कुत इत्यत आह / प्रकृतस्येति // वलादिलक्षणस्य इटः प्रकृतत्वात्तस्यैव ‘ग्रहोऽलिटि' इति दीर्घविधौ ग्रहणम् / नतु चिण्वदिटः इति भाष्ये स्पष्टम् / ग्राहितेति // चिण्वदिटि रूपम् / ग्रहीतेति // चिण्वदिडभावपक्षे वलादिलक्षणस्य इटो दीर्घ रूपम् / अथ दृशेः कर्म For Private And Personal Use Only
Page #439
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा / 437 षाताम् / दृश्यते / अदर्शि / अदर्शिषाताम् / सिच: कित्त्वादन / अदृक्षाताम् / गिरते ङि ध्वमि चतुरधिकं शतम् / तथा हि / चिण्वदिटो दी? नेत्युक्तम् / अगारिध्वम् / द्वितीये विटि वृतो वा' (सू 2391) इति वा दीर्घः / अगरीध्वम्-अगरिध्वम् / एषां त्रयाणां लत्वं ढत्वं द्वित्वत्रयं चेति पञ्च वैकल्पिकानि / इत्थं षण्णवतिः / ‘लिङ्सिचो:-' (सू 2528) इति विकल्पादिडभावे लकारे उदाहरति / दृश्यते इति // लिटि ददृशे / लुटि तासि चिण्वदिट्पक्षे दर्शिता। चिण्वत्त्वाभावे ‘सृजिदृशोः' इत्यम् / द्रष्टा / दर्शिष्यते-द्रक्ष्यते / दर्शिषीष्ट / चिण्वदिडभावे तु 'लिङ्सिचावात्मनेपदेषु' इति कित्त्वात् ‘सृजिदृशोः' इत्यम्न / नापि लघूपधगुणः / दृक्षीष्ट / अदीति // चिणि लघूपधगुणः / अदर्शिषातामिति // चिण्वदिटि रूपम् / चिण्वत्त्वाभावे त्वाह / सिचः कित्त्वादम्नेति // 'लिङ्सिचावात्मनेपदेषु' इति सिचः कित्त्वात् ‘सृजिदृशाः' इत्यम्न भवति / अकितीति पर्युदासादित्यर्थः / अथ गृधातोः कर्मलकारे यकि ऋत इत्त्वे 'हलि च' इति दीर्घ, गीर्यते। जगिरे। लुटि तासि चिण्वत्त्वपक्षे, गारिता। चिण्वत्त्वाभावे वलादिलक्षणे इटि गुणे रपरत्वे गरिता-गरीता, 'वृतो वा' इति वा दीर्घः / गारिष्यतेगरिष्यते-गरीष्यते / गीयताम् / अगीर्यत / गीर्येत / गारिषीष्ट / चिण्वत्त्वाभावपक्षे तु 'लिङ्सिचोरात्मनेपदेषु' इति इडिकल्पः / इडभावपक्षे 'उश्च' इति कित्त्वम् / इत्त्वं / रपर त्वम् / ‘हलि च' इति दीर्घः / षत्वम् / गीर्षीष्ट / इट्पक्षे तु, गिरिषीष्ट / लुङि अगारिष्ट / अगारिषाताम्-अगीर्षाताम्-अगरिषाताम् / इति सिद्धवत्कृत्य आह / लुङि ध्वमि चतुरधिकं शतमिति // रूपाणीति शेषः / तदेवोपपादयति / तथाहीति // अगारि. ध्वमिति // गृ स् ध्वम् इति स्थिते चिण्वदिटि वृद्धौ रपरत्वे 'धि च' इति सलोपे रूपमिति भावः / द्वितीये त्विटीति // चिण्वदिडभावपक्षे वलादिलक्षणे सिच: इटि ऋकारस्य गुणे रपरत्वे ‘धि च' इति सलोपे 'वृतो वा' इति दीर्घविकल्पे अगरिध्वम् , अगरीध्वम् , इति रूपद्वयमित्यर्थः / एषामिति // एषां त्रयाणां रूपाणां मध्ये एकैकस्मिन् रेफस्य 'अचि विभाषा' इति लत्वम् / 'विभाषेटः' इति वा धस्य ढत्वम् / तथा धस्य तदादेशढस्य वस्य मस्य च द्वित्वत्रयमित्येवं पञ्च वैकल्पिकानीत्यर्थः / तत्र धढयोर्मस्य च 'अनचि च' इति द्वित्वविकल्पः / वकारस्य तु मय इति पञ्चमीमाश्रित्य 'यणो मयः' इति द्वित्वविकल्प इति विवेकः / यद्यपि धढयोर्वस्य मस्य च द्वित्वचतुष्टयमिति वक्तुमुचितम् / तथापि ढस्य धस्थानिकतया धढयोरेकत्वमभिप्रेत्य द्वित्वत्रयमित्युक्तिः / इत्थमिति // एवञ्च त्रयाणामेषां लत्वविकल्पे रेफवन्ति त्रीणि, लकारवन्ति त्रीणि, इति षट् / एषु षट्सु धस्य द्वित्वविकल्पे एकधानि षट् , द्विधानि च षडिति द्वादश। तथा रेफवत्सु त्रिषु लकारवत्सु च त्रिषु ढस्य द्वित्वविकल्पे एकढानि षट् , द्विढानि च षडिति द्वादश / उभयेषामपि द्वादशानां मेळने चतुर्विंशतिः / एषु वस्य द्वित्वविकल्पे एकवानि चतुर्विशतिः, द्विवानि चतुर्विशतिरित्यष्टाचत्वारिंशत् / एषु मस्य द्वित्वविकल्पे एकमान्यष्टाचत्वारिंशत् , द्विमान्यष्टाचत्वारिंशदिति षण्णवतिरित्यर्थः / लिङ्सिचोरितीति // चिण्वदिडभावपक्षे For Private And Personal Use Only
Page #440
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 438 सिद्धान्तकौमुदीसहिता [भावकर्मति 'उश्च' (सू 2368) इति कित्त्वम् / इत्त्वं रपरत्वं ‘हलि च' (सू 354) इति दीर्घः / 'इण: पीध्वम्-' (सू 2247) इति नित्यं ढत्वम् / अगीर्द्धम् / ढवमानां द्वित्वविकल्पेऽष्टौ / उक्तषण्णवत्या सह सङ्कलने उक्ता संख्येति / इट् दीर्घश्चिण्वदिट् लत्वढत्वे द्वित्वत्रिकं तथा / इत्यष्टानां विकल्पेन चतुभिरधिकं शतम् / / हेतुमण्ण्यन्तात्कर्मणि लः / यक् णिलोप: / शम्यते मोहो मुकुन्देन / 2762 / चिण्णमुलोर्दीर्घोऽन्यतरस्याम् / (6-4-93) चिण्परे णमुल्परे च णौ मितामुपधायाः दीर्घो वा स्यात् / प्रकृतो 'मितां ह्रस्व:' (सू 2568) एव तु न विकल्पितः / ण्यन्ताण्णौ ह्रस्वविकल्पा वलादिलक्षणस्य इटो 'लिङ्सिचोः' इति विकल्पितत्वात्तदभावपक्षे 'उश्च' इति सिचः कित्त्वाद्गुणाभावे ऋत इत्त्वे रपरत्वे 'हलि च' इति दीर्घ रेफादिणः परत्वात् 'इणघ्षीध्वम्' इति नित्यं ढत्वे अगी?मिति रूपमित्यर्थः / ढवमानामिति // ढस्य 'अचो रहाभ्याम्' इति द्वित्वविकल्पे एकढं द्विढमिति द्वे रूपे / तयोः वस्य 'यणो मयः' इति द्वित्वविकल्पे एकवे द्वे द्विवे द्वे इति चत्वारि / एषु चतुषु मस्य 'अनचि च' इति द्वित्वविकल्पे एकमानि चत्वारि द्विमानि चत्वारीत्यष्टौ रूपाणीत्यर्थः / षण्णवत्येति॥ उक्तषण्णवत्या अष्टानां मेलने सति या सङ्ख्या सिद्ध्यति सा चतुरुत्तरशतसङ्ख्या उक्तेति ज्ञेयमित्यर्थः। उक्तप्रक्रियां श्लोकेन संगृह्णाति। इदीर्घ इत्यादिना // वलादिलक्षण इट् ' वृतो वा' इति दीर्घः। अजन्तलक्षणः चिण्वदिट्, अचि विभाषा इति लत्वं, विभाषेट इति वा ढत्वं, धढवमानां द्वित्वत्रिकमित्यष्टानां विकल्पात् चतुरधिकं शतं रूपाणीत्यर्थः। शम्यते मोहो मुकुन्देनेत्यत्र प्रक्रियां दर्श यति / हेतुमण्ण्यन्तादिति // शमधातो:तुमण्णौ उपधावृद्धौ अमन्तत्वेन मित्त्वाद्रस्वे शमीत्यस्मात्कर्मणि लः, नतु भावे / हेतुमण्ण्यन्तस्य सकर्मकत्वनियमादिति भावः / यगिति // तङि कृते 'सार्वधातुके यक्' इत्यनेनेति शेषः। णिलोपः इति ॥णेरनिटि' इत्यनेनेति शेषः। लुटि तासि शमि इ ता इति स्थिते अमन्तत्वेन मित्त्वान्नित्यमुपधाहस्वे प्राप्ते / चिण्णमुलोः // ‘दोषो णौ' इत्यतो णाविति ‘ऊदुपधाया गोहः' इत्यस्मादुपधाया इति ‘मितां ह्रस्वः' इत्यतो मितामिति चानुवर्तते / तदाह / चिण्परे इत्यादिना // नन्विह दीर्घग्रहणं व्यर्थम् / 'चि. ण्णमुलोर्दीर्घः' इत्यतः अन्यतरस्यामित्येतावतैव 'मितां इस्वः' इति पूर्वसूत्रादनुवृत्तस्य हूस्वस्य विकल्पे एव दीर्घविकल्पस्य सिद्धेरित्यत आह / प्रकृतो मितां ह्रस्व एव तु न विकल्पितः इति // कुत इत्यत आह / ण्यन्ताण्णाविति // शमधातोर्ण्यन्ताण्णौ पूर्वणोपे लुटि तासि ण्यन्तस्याजन्तत्वाचिण्वदिटि तस्याभीयत्वेनासिद्धतया अनिटीति निषेधाभावाणिलोपे दीर्घविकल्पे सति शमिता शामितेति रूपद्वयमिष्यते / हूस्वविकल्पस्य विधौ तु हूस्वविकल्पो न स्यात् / प्रथमणिलोपस्य 'अचः परस्मिन्' इति स्थानिवत्त्वेन व्यवहिततया चिण्परकणिपरकत्वाभावादित्यर्थः / For Private And Personal Use Only
Page #441
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा / 439 सिद्धेः / दीर्घविधौ हि णिचो लोपो न स्थानिवदिति दीर्घः सिद्ध्यति / ह्रस्वविधौ तु स्थानिवत्त्वं दुर्वारम् / भाष्ये तु ‘पूर्वत्रासिद्धे न स्थानिवत्' इत्यवष्टभ्य द्विवचनसवर्णानुस्वारदीर्घजश्चरः प्रत्याख्याताः / णाविति जातिपरो निर्देशः / दीर्घग्रहणं चेदं मास्त्विति तदाशयः / शामिता-शमिताशमयिता / शामिष्यते-शमिष्यते-शमयिष्यते / यङन्ताण्णिच् / शंशम्यते / शंशामिता-शंशमिता-शंशमयिता / यङ्लुगन्ताण्णिच्यप्येवम् / भाष्यमते तु यङन्ताच्चिण्वदिटि दी? नास्तीति विशेषः / ण्यन्तत्वाभावे / शम्यते मुनिना / दीर्घविकल्पविधौ तु न दोष इत्याह / दीर्घविधाविति // दीर्घविकल्पविधौ हि प्रथमस्य णिचो लोपो न स्थानिवत् / दीर्घविधौ स्थानिवत्त्वनिषेधात् / अतोऽत्र दीर्घविकल्पस्सिध्यति / हूस्वविधौ तु प्रथमणिलोपस्य स्थानिवत्त्वं दुर्वारम् / तत्र स्थानिवत्त्वनिषेधाभावादित्यर्थः / भाष्ये विति॥न पदान्तसूत्रस्थभाष्ये तु पूर्वत्रासिद्धे न स्थानिवत्' इत्येव सिद्धत्वात् न पदान्तसूत्रे द्विवचनसवर्णानुस्वारदीर्घजश्चरः प्रत्याख्याताः। सुद्धयुपास्य इत्यत्र 'अनचि च' इति द्विर्वचनस्य शिण्ढीत्यत्र 'नश्च' इत्यनुस्वारस्य 'अनुस्वारस्य ययि' इति परसवर्णस्य च प्रतिदीन इत्यत्र 'हलि च' इति दीर्घस्य, सग्धिरित्यत्र 'झलाजश् झशि' इति जश्त्वस्य, जक्षतरित्यत्र 'खरि च' इति चर्वस्य, पूर्वत्रासिद्धीयत्वादित्यर्थः / ननु ण्यन्ताण्णौ 'चिण्णमुलोः' इति दीर्धे कर्तव्ये प्रथमणिलोपस्य स्थानिवत्त्वं दुर्वारम् / 'चिण्णमुलोः' इति दीर्घस्य पूर्वत्रासिद्धीयत्वाभावात् / ततश्च प्रथमणिचा व्यवहितत्वात् दीर्घानापत्तिः / एवञ्च तत्र दीर्घ कर्तव्ये स्थानिवत्त्वनिवारणाय दीर्घग्रहणस्यावश्यकत्वात्कथं दीर्घग्रहणप्रत्याख्यानमित्यत आह / णावितीति // 'चिण्णमुलोः' इति दीर्घविधौ चिण्परे णमुल्परे च णौ इत्यत्र णाविति णित्त्वजातिप्रधानो निर्देशः / चिण्णमुल्परकणित्त्वजातौ परतः इति लभ्यते / णित्त्वजातिश्च णिद्वयेऽस्तीति प्रथमणेः स्थानिवत्त्वेऽपि दीर्घो निर्बाध इति, न पदान्तसूत्रे दीर्घग्रहणप्रत्याख्यानभाष्यस्याशय इत्यर्थः / शामिता-शमितेति // शमधातोर्ण्यन्ताल्लुटि तासि चिण्वदिटि दीर्घविकल्पः / शमयितेति // चिण्वत्त्वाभावे वलादिलक्षणे इटि रूपम् / यङन्तादिति // शमधातोर्यडि शंशम्यते इत्यस्मात् हेतुमण्णौ 'यस्य हलः' इति यकारलोपे अतो लोपे शंशमि इत्यस्मात् कर्मलकारे णिलोपे शंशम्यते इति रूपमित्यर्थः / शंशामिता-शंशमितेति // 'चिण्णमुलोः' इति दीर्घविकल्पः / शंशमयितेति // चिण्वत्त्व भावे वलादिलक्षणे इटि रूपम् / भाष्य मते त्विति // न पदान्तसूत्रे दीर्घग्रहणप्रत्याख्यानपरभाष्यमते स्वित्यर्थः / यङन्तादिति॥ ण्यन्तादिति शेषः / यङन्ताणिचि यलोपे अल्लोपे च कृते शंशमित्यस्माल्लुटि तासि चिण्वदिटि कृते तस्यासिद्धत्वाणिलोपे शंशमितेत्यत्र अल्लोपस्य स्थानिवत्त्वेन णिच्परकत्वाभावात् 'चिण्णमुलोः' इति दी? नास्ति / भाष्यमते न पदान्तसूत्रे दीर्घग्रहणाभावे स्थानिवत्त्वनिषेधाभावादि. For Private And Personal Use Only
Page #442
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 440 सिद्धान्तकौमुदीसहिता [भावकर्मतिङ् 2763 / नोदात्तोपदेशस्य मान्तस्यानाचमेः / (7-3-34) उपधाया वृद्धिर्न स्याञ्चिणि निति णिति कृति च / अशमि / अदमि / 'उदात्तोपदेशस्य' इति किम् / अगामि / 'मान्तस्य' किम् / अवादि / 'अनाचमेः' किम् / आचामि / 'अनाचमिकमिवमीनामिति वक्तव्यम्' (वा 4518) / चिणि 'आयादयः-' (सू 2305) इति णिङभावे / अकामि / णिजिचोरप्येवम् / अवामि / 'वध हिंसायाम्' / हलन्तः / 'जनिवध्योश्च-' (सू 2512) इति न वृद्धिः / अवधि / जाग्रोऽविचिण्णल्डित्सु' (सू 2480) इत्युक्तेन गुणः / अजागारि। 2764 / भञ्जेश्च चिणि / (6-4-33) नलोपो वा स्यात् / अभाजि-अभजि / 2765 / विभाषा चिण्णमुलोः / (7-1-69) त्यर्थः / शम्यते मुनिनेति // अकर्मकत्वाद्भावे ल इति भावः / नोदात्तोपदेशस्य // 'मृजेईद्धिः' इत्यतो वृद्धिरिति ‘अत उपधायाः' इत्यतः उपधाया इति 'अचो णिति' इत्यतो णितीति 'आतो युक्' इत्यतश्चिण्कृतोः इति चानुवर्तते / तत्र णितीति कृत एव विशेषणम् , नतु चिणः। अव्यभिचारात् / तदाह / उपधाया इत्यादिना // अनुदात्तोपदेशास्सङ्ग्रहीताः / ततोऽन्यस्सर्वोऽपि धातुरुदात्तोपदेशः। आङ्पूर्वश्वमिराचमिः तद्वर्जस्येत्यर्थः। अशमि। अदमीति // शमधातोर्दमधातोश्च लुङि णिचि 'अत उपधायाः' इति वृद्धिर्न / अगामीति // गमेरनुदात्तोपदेशत्वादिति भावः / अवादीति // वदधातुर्नमान्त इति भावः / आचामीति // अनाचमेरित्युक्तेरिह नोपधावृद्धिनिषेधः / अनाचमिकमिवमीनामिति // आचमिकमिवमिवर्जानाम्' इत्यर्थः / एवञ्च कमिवम्योरपि न निषेध इति फलितम् / ननु कमेणिडन्तत्वात् केवलस्य तस्य चिणादौ प्रयोग एव नास्तीत्यत आह / चिण्यायादयः इति // णिणिचोरप्येवमिति // णिङन्ताण्णिजन्ताद्वा कमेश्चिणि णिलोपे सति पूर्ववत् रूपं शिष्यते इत्यर्थः / ननु 'जनिवद्ध्योश्च' इति वधेरुपधावृद्धिनिषेधो व्यर्थः / वधादेशस्यादन्ततया अल्लोपस्य स्थानिवत्त्वादेव अवधीत्यादौ उपधावृद्ध्यभावसिद्धरित्याशङ्कय वधिर्धात्वन्तरं हलन्तमेव 'जनिवयोश्च' इत्यत्र गृह्यत इत्यभिप्रेत्य आह / वध हिंसायां हलन्तः इति // भओश्च चिणि // 'श्नानलोपः' इत्यतो नेति लुप्तषष्टीक लोप इति चानुवर्तते / 'जान्तनशां विभाषा' इत्यतो विभाषेति मत्वा शेषं पूरयति / नलोपो वा स्यादिति। अभाजीति // नलोपपक्षे उपधावृद्धिः। विभाषा चिण्णमुलोः॥ 'लभेश्च' इत्यतो लभेरिति ‘इदितो नुम्' इत्यतो नुमिति चानुवर्तते इति मत्वा For Private And Personal Use Only
Page #443
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा / 441 लभेर्नुमागमो वा स्यात् / अलम्भि-अलाभि / व्यवस्थितविकल्पत्वाप्रादेनित्यं नुम् / प्रालम्भि / द्विकर्मकाणां तु गौणे कर्मणि दुह्यादेः प्रधाने नीहृकृष्वहाम् / बुद्धिभक्षार्थयोः शब्दकर्मणां च निजेच्छया / प्रयोज्यकर्मण्यन्येषां ण्यन्तानां लादयो मताः / (1090-1095 वार्तिकार्थः) गौर्दुह्यते पयः / अजा ग्रामं नीयते / शेषं पूरयति / लभेर्नुमागमो वेति // ननु प्रालम्भि उपालम्भीत्यादौ उपसर्गपूर्वस्यापि लभेर्नुम्विकल्पः स्यादित्यत आह / व्यवस्थितेति // प्रादेरुपसर्गात्परस्य लभेनित्यं नुम् / अनुपसर्गात्परस्य तु लभेर्विभाषा नुमिति व्यवस्थितविकल्पाश्रयणादुपसर्गपूर्वस्य लभेनित्यं नुमित्यर्थः। 'चिण्णमुलोरनुपसर्गस्य' इति वार्तिकाद्भाष्ये 'उपसर्गात् खल्घजोः' इत्यतः उपसर्गादिति ‘न सुदुर्ध्याम्' इत्यतो नेति चानुवर्त्य उपसर्गात्परस्य लभेः 'विभाषा चिण्णमुलोः' इति नेति व्याख्यातत्वाच्च / एतेन प्रपूर्वस्य लभेनित्यं नुमिति व्याख्यानं परास्तम्। 'लः कर्मणि' इति कर्मणि लकारा विहिताः। तथा 'तयोरेव कृत्यक्तखलाः' इति कर्मणि कृत्यादिप्रत्यया वक्ष्यन्ते। ते तावत् द्विकर्मकधातुषु कतरस्मिन् कर्मणि भवन्तीत्यत्र व्यवस्थामाह। द्विकर्मकाणां त्विति // कर्मप्रत्ययव्यवस्था वक्ष्यत इति शेषः / तां व्यवस्थां सार्धश्लोकेन दर्शयति / गौणे कर्मणीत्यादिना // 'दुह्याच्पच्दण्ड्धिप्रच्छिचिब्रूशासुजिमथ्मुषाम्' गौणे कर्मणि लादयो मता इत्यन्वयः। 'अकथितञ्च' इति सूत्रेण यस्य कर्मसंज्ञा तत् गौणङ्कर्मेति बोध्यम् / प्रधाने इति // नीहकृष्वहां प्रधाने कर्मणि लादयो मता इत्यन्वयः / ‘अकथितञ्च' इति सूत्रादन्येन यस्य कर्मसंज्ञा तत्प्रधानकर्मेति बोध्यम् / अथ 'गतिबुद्धि' इति सूत्रेण ये द्विकर्मकाः तेषु व्यवस्थामाह / बुद्धीति // बुद्ध्यर्थकस्य भक्षार्थकस्य शब्दकर्मकाणाञ्च प्रधाने वा गौणे वा कर्मणि स्वेच्छया लादयो मता इत्यन्वयः / इह 'गतिबुद्धि' इत्यनेन यस्य कर्मसंज्ञा तत् गौणं कर्म / तदितरत्तु प्रधानकर्म / प्रयोज्येति // अन्येषां गत्यर्थानां अकर्मकाणां 'हक्रोः' इति सूत्रोपात्तहोश्च प्रयोज्यकर्मणि लादयो मता इत्यन्वयः / अयं सार्धश्लोकः ‘अकथितञ्च' इति सूत्रस्थवार्तिकभाष्यसङ्ग्रह इति बोध्यम् / गौर्दुह्यते पयः इति // गोपेनेति शेषः / अत्र गोरप्रधानकर्मत्वात्तस्मिन् कर्मणि लकारः। तिङा अभिहितत्वात् गोः प्रथमा। प्रधानकर्मत्वात्पय इति द्वितीयान्तम् / तस्य तिङा अनभिहितत्वात् / बलिया॑च्यते वसुधाम् / अविनीतो विनयं याच्यते / तण्डुलाः ओदन पच्यन्ते / गर्गाः शतं दण्ज्यन्ते / व्रजो रुध्यते गाम् / माणवकः पन्थानं पृच्छयते / वृक्षोऽपचीयते फलानि / माणवको धर्म उच्यते। शिष्यते वा। शतं जीयते देवदत्तः / सुधां क्षीरोदधिर्मथ्यते / देवदत्तश्शतं मुष्यते / एतेषु गौणकर्मणि लकारः / अथ प्रधाने नीहकृष्वहामित्यत्रोदाहरति / अजा ग्रामं नीयते, ह्रियते, कृष्यते, उह्यते इति // प्रति. क्रियमजा ग्राममित्यन्वेति / उह्यत इत्यत्र वहतेर्यजादित्वात्सम्प्रसारणम् / अत्र अजायाम्प्रधान E6 For Private And Personal Use Only
Page #444
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 442 सिद्धान्तकौमुदीसहिता ह्रियते / कृष्यते / उह्यते / बोध्यते माणवकं धर्मः, माणवको धर्ममिति वा / भोज्यते माणवकमोदनः, माणवक ओदनं वा / देवदत्तो ग्रामं गम्यते / 'अकर्मकाणां कालादिकर्मकाणां कर्मणि भावे च लकार इष्यते' / मासो मासे वा आस्यते देवदत्तेन / णिजन्तात्तु प्रयोज्ये प्रत्ययः / मासमास्यते माणवकः / इति भावकर्मतिप्रकरणम् / कर्मणि लकारः। प्रामस्यानभिहितत्वात् द्वितीया / बुद्ध्यर्थस्योदाहरति / बोयते माणवकं धर्मः, माणवको धर्ममिति वेति // गुरुणेति शेषः / अत्र माणवके गौणकर्मणि धर्मे वा प्रधानकर्मणि ण्यन्तात् लकारः। भक्षार्थस्य तु अश्यन्ते देवाः अमृतं हरिणा, अश्यतेऽमृतं देवानिति वा उदाहार्यम्। शब्दकर्मकस्य तु वेदोऽध्याप्यते विधिं हरिणा, वेदमध्याप्यते विधिरिति वेत्युदाहार्यम् / यदुक्तङ्गत्यर्थानां अकर्मकाणां हृोश्चेत्येतेषां प्रयोज्यकर्मणि लकार इति / तत्र गत्यर्थस्योदाहरति / देवदत्तो ग्राम गम्यते इति // यज्ञदत्तेनेति शेषः / अत्र प्रयो. ज्यकर्मणि देवदत्ते गमेय॑न्तात् लः / ननु अकर्मकाणां ण्यन्तानां प्रयोज्यकर्मण्येव लादय इति व्यवस्था व्यर्था / तत्र प्रयोज्यं विना अन्यस्य कर्मणोऽभावादित्याशङ्कय ‘अकर्मकधातुभिर्योगे देशः कालो भावो गन्तव्योऽध्वा च कर्मसंज्ञक इति वाच्यम्' इति वार्तिकेन अकर्मकधातूनामपि देशकालादिकर्मत्वेन ण्यन्तानां तेषां द्विकर्मकतया प्रयोज्यकर्मण्येव तत्र लादय इति व्यवस्था प्रयोजनवतीत्यभिप्रेत्य मासमास्यते माणवक इति ण्यन्ते प्रयोज्यकर्मणि माणवके एव लः, नतु मासे कर्मणि इत्युदाहरिष्यते / एवं तर्हि अण्यन्तेष्वकर्मकेषु मासमास्यते देवदत्तेनेति भावे लकारो न स्यात् / सकर्मकेभ्यः कर्मणि कर्तरि च ल इति नियमात् मास आस्यते देवदत्तेनेत्येव कर्मणि मासे लकारः स्यादित्याशङ्कय आह / अकर्मकाणामित्यादि // ये अकर्मकाः ‘कर्तुरीप्सिततमङ्कर्म, तथायुक्तञ्चानीप्सितम्' इति सूत्रसिद्धकर्मरहिताः 'आस उपवेशने, वृतु वर्तने' इत्यादयः, तेषां ‘अकर्मकधातुभियोगे' इति वार्तिकसिद्धाकर्मकाणाङ्कर्मणि भावे च लकार इष्यते इत्यर्थः / नचेदं वार्तिकमिति भ्रमितव्यम् / भाष्ये अदर्शनात् / किन्तु न्यायमूलकमेव। अकर्मकधातुभिर्योगे देशकालादीनां कर्मसंज्ञाविकल्पस्य भाध्याद्यभिमतत्वात्। यथा चैतत्तथा कारकाधिकारे 'अकर्मकधातुभिर्योगे' इति वचनव्याख्यावसरे अवोचाम। तदाह / मासो मासे वा आस्यते देवदत्तेनेति // अत्र मासस्य कर्मत्वपक्षे कर्मलकारः। मासस्याभिहितत्वात् प्रथमा / मासस्य कर्मत्वाभावपक्षे तु भावे लकारः / मास इति सप्तमी। मासमिति त्वपपाठः / अथ प्रकृतमनुसरति / णिजन्तात्त्विति // आसधातोः प्रकृतिसिद्धकर्मरहितत्वेन अकर्मकाण्णौ मासस्य कर्मत्वपक्षेऽपि प्रयोज्यकर्मण्येव लकार इत्यर्थः / मासमास्यते माणवकः इति // ण्यन्तात्प्रयो. ज्यकर्मणि माणवके लः / मासस्यानभिहितत्वात द्वितीया / हकोस्त हार्यते कार्यते वा भृत्य कटं देवदत्तेन // इति श्रीवासुदेवदीक्षितविदुषा विरचितायां सिद्धान्तकौमुदीव्याख्यायां बालमनोरमायां भावकर्मप्रक्रिया समाप्ता। For Private And Personal Use Only
Page #445
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir / श्रीरस्तु। // अथ कर्मकर्तृतिप्रकरणम् // यदा सौकर्यातिशयं द्योतयितुं कर्तृव्यापारो न विवक्ष्यते तदा कारकान्तराण्यपि कर्तृसंज्ञां लभन्ते / स्वव्यापारे स्वतन्त्रत्वात् / तेन पूर्व करणत्वादिसत्त्वेऽपि सम्प्रति कर्तृत्वात्कर्तरि लकारः / साध्वसिः छिनत्ति / काष्ठानि पचन्ति / स्थाली पचति / कर्मणस्तु कर्तृत्वविवक्षायां प्राक्सकर्मका अपि प्राये अथ कर्मकर्तृप्रक्रियान्निरूपयिष्यन् कर्मणः कर्तृत्वं साधयितुमाह / यदेति // फलव्यापारयोर्धातुरिति सिद्धान्तः। पचिर्हि विक्वित्त्यनुकूलव्यापारे वर्तते / तत्र विक्लित्तिः फलम् / तदाश्रयं ओदनं कर्म / तदनुकूलो व्यापारः अधिश्रयणादिः पुरुषप्रयत्नरूपो व्यापारः / तत्राधिश्रयणं चुल्या उपरि तण्डुलयुक्तस्थाल्याः / स्थापनं स्थित्यनुकूलव्यापारः। तत्र स्थितिः स्थालीतण्डुलनिष्ठा / तदनुकूल: पुरुषचेष्टाविशेषः / धातूपात्तव्यापाराश्रयः पुरुषः कर्ता / स्वतन्त्रत्वात् / स्वातन्त्रयम्प्राधान्यमिति भाष्यम् / कर्मकरणादिकन्तु पुरुषप्रयत्नपरतन्त्रत्वान्न कर्तृत्वं लभते इति स्थितिः / तत्र यदा सौकर्यातिशयविवक्षया कर्तुः पुरुषस्य व्यापारः प्रयत्नः न वि. वक्ष्यते, किन्तु कर्मादिगत एव व्यापारः विक्लित्त्यादिफलानुकूलत्वेन विवक्ष्यते, तदा कर्मादिकारकाण्यपि कर्तृसंज्ञां लभन्ते इत्यर्थः / ननु कर्मादिगतव्यापारस्य पुरुषप्रयत्नाधीनत्वादस्व. तन्त्रत्वात्कथङ्कर्मणः कर्तृत्वमित्यत आह / स्वव्यापारे स्वतन्त्रत्वादिति // स्वातन्त्रण विवक्षितत्वादित्यर्थः / तदुक्तं 'कर्मवत्कर्मणा' इत्यत्र भाष्ये / 'कर्मकर्तरि कर्तृत्वं स्वातन्त्रयत्वविवक्षितत्वात्' इति / अत्र कर्मग्रहणङ्करणादिकारकस्याप्युपलक्षणम् / तेनेति // असिना छिनतीत्यादिप्रयोगदशायां असिकुठारादीनाङ्करणत्वादिसत्त्वेऽपि, असिः छिनत्ति इत्यादिप्रयोगदशा. याकर्तृत्वेन विवक्षितत्वात् कर्तरि लकार इत्यर्थः / साध्वसिः छिनत्तीति // अत्र करणस्य कर्तृत्वविवक्षा। साधु इति क्रियाविशेषणम् / सौकातिशयद्योतनाय अतितैश्ण्यात् पुरुषप्रयत्नविशेषमाघातातिशयं विना स्वयमेव असि: छिनत्तीत्यर्थः / काष्ठानि पचन्तीति // अत्रापि करणानाकर्तृत्वविवक्षा / स्थाली पचतीति // अत्राधिकरणस्य कर्तृत्वविवक्षा / काष्ठानामतिशुष्कत्वात् धमनफूत्कारानपेक्षया स्थाल्या अतिलघुत्वादविलम्व्य श्रपणतया सौकर्यम्बोध्यम् / कर्मणस्त्विति // ये छिदिभिदिप्रभृतयः एककर्मकाः तत्र कर्मणः कर्तृत्वविवक्षायां वृक्षः छिनत्तीत्यादौ सकर्मकत्वेऽपि सम्प्रति कर्मणः कर्तृत्वविवक्षायामकर्मका एते इत्यर्थः / ये तु द्विकर्मकाः तत्र एकस्य कर्मणः कर्तृत्वविवक्षायामपि इतरेण कर्मणा सकर्मकत्वसत्वात्प्रायेणेत्युक्तिः / For Private And Personal Use Only
Page #446
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 444 सिद्धान्तकौमुदीसहिता [कर्मकर्तृतिङ् णाकर्मकाः। तेभ्यो भावे कर्तरि च लकाराः। पच्यते ओदनेन / भिद्यते काष्ठेन / कर्तरि तु / 2766 / कर्मवत्कर्मणा तुल्यक्रियः / (3-1-87) कर्मस्थया क्रियया तुल्यक्रियः कर्ता कर्मवत्स्यात् / कार्यातिदेशोऽयम् / तेन यगात्मनेपदचिचिण्वदिट: स्युः / कर्तुरभिहितत्वात्प्रथमा / पच्यते ओदनः। भिद्यते काष्ठम् / अपाचि / अभेदि / ननु भावे लकारे कर्तुद्वितीया स्यादस्मादतिदेशादिति चेन्न / लकारवाच्य एव हि कर्ता कर्मवत् / 'लिङ-याशिष्यङ्' ततश्च तेषु द्विकर्मकेषु कर्मणि कर्तरि च लकारः / तत्र कर्मणि लकारे यथा सुधां क्षीरसागरो मथ्यते / कर्तरि यथा सुधां क्षीरसागरो मध्नाति / अथ यदुक्तं एककर्मकेषु कर्मणः कर्तृत्वविवक्षायामकर्मकत्वमिति तस्य प्रयोजनमाह / तेभ्यो भावे कर्तरि च लकाराः इति // नतु कर्मणि / असम्भवात् / अत एव अकर्मकेभ्यो भावे कतीर ल इत्युक्तमिति मावः / तत्र एककर्मकेभ्यः कर्मणः कर्तृत्वविवक्षायां भावे लकारं उदाहरति / पच्यते ओदनेनेति // आदनकर्तृक: पाक इत्यर्थः / एवं भिद्यते काष्ठेनेत्यपि / यद्यपि पचेर्द्विकर्मक. त्वम् / तथापि तण्डुलानामविवक्षायां एककर्मकत्वं पचेराश्रितम् / कर्तरि त्विति // एककमकेषु कर्मणः कर्तृत्वविवक्षायाङ्कर्तरि लकारे विशेषो वक्ष्यते इत्यर्थः / कर्मवत्कर्मणा // 'कर्तरि शप्' इत्यतः कर्तरीत्यनुवृत्तं प्रथमया विपरिणम्यते / तुल्या क्रिया यस्य सः कर्ता तु. ल्यक्रियः / कर्मणेत्यनेन कर्मकारकस्था क्रिया विवक्षिता / क्रियायाः कर्मकारकेण तुल्यत्वस्य तत्स्थक्रियामादायैव उपपाद्यत्वात् / तदाह / कर्मस्थयेत्यादिना // कर्मणः कर्तृत्वेन विवक्षायां कर्ता कर्मवदिति यावत् / वत्करणाभावे तु कर्मसंज्ञक इत्यर्थशङ्का स्यात् / तथा सति सकर्मकत्वात् पच्यते ओदनेन भिद्यते काष्ठेनेति भावे लो न स्यात् / कार्यातिदेशोऽय. मिति // यद्यपि शास्त्रातिदेशे कार्यातिदेशे वा न फलभेदः / तथापि शास्त्रातिदेशस्यापि का. र्यातिदेशार्थत्वान्मुख्यत्वात् कार्यातिदेश एवाश्रयणीय इत्यर्थः / तेनेति // स्युरित्यत्रान्वेति / कर्मवत्त्ववचनेन कर्मकार्याणि 'सार्वधातुके यक्' इत्यतः यक् / 'भावकर्मणोः' इत्यात्मनेपदम् / 'स्यसिसीयुट्तासिषु' इति चिण्वत् , तत्सन्नियोगशिष्टः इट् च स्युरित्यर्थः / कर्मणः कर्तृत्वविवक्षायाङ्कर्तरि विहितानि शास्त्राण्येव न स्युरिति भावः / कर्तुरिति कर्मणः कर्तृत्वविवक्षायाङ्कर्तरि लकारे सति तदादेशतिका कर्तुरभिहितत्वादित्यर्थः। पच्यते ओदनः इति // फूत्कारादिपुरुषश्रमातिशयविशेषं विना विक्लित्त्याश्रयो भवतीत्यर्थः / भिद्यते काष्ठमिति // कुठारादिदृढाघातम्पुरुषश्रमं विना द्विधा भवतीत्यर्थः / अत्र कर्मणः कर्तृत्वेऽपि कर्मत्वातिदेशाद्यक् / अपाचि। अभेदीति // अत्र कर्मवत्त्वाचिण् / ननु कर्मणः कर्तृत्वविवक्षायां भावलकारे पच्यते ओदनेन, भिद्यते काष्ठेनेत्यत्र कर्मकर्तुस्तिकाऽनभिहितत्वात् द्वितीया स्यात् / कर्मवत्त्वातिदेशादित्याशङ्कते / नन्विति // परिहरति / नेति // नायमाक्षेप उन्मिषतीत्यर्थः / कुत इत्यत आह / लकारवाच्य एव हि कर्ता कर्मवदिति // तच्च कुत इत्यत आह / For Private And Personal Use Only
Page #447
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा / 445 (सू 3434) इति द्विलकारकात् ‘ल:' इत्यनुवृत्तेः भावे प्रत्यये च कर्तुर्लकारेणानुपस्थितेः / अत एव कृत्यक्तखलाः कर्मकर्तरि न भवन्ति / किं तु भाव एव / भेत्तव्यं कुसूलेन / ननु पचिभिद्योः कर्मस्था क्रिया विक्लित्तिद्विधाभवनं च / सैवेदानी कर्तृस्था नतु तत्तुल्या / सत्यम् / कर्मत्वकर्तृत्वावस्थाभेदोपाधिकं तत्समानाधिकरणक्रियाया भेदमाश्रित्य व्यवहारः / कर्मणा' इति किम् / करणाधिकरणाभ्यां तुल्यक्रिये पूर्वोक्ते साध्वसिरित्यादौ मा भूत् / किंच कर्तृस्थक्रियेभ्यो मा भूत् / गच्छति प्रामः / आरोहति हस्ती / 'अधिगच्छति लिङयाशिषीति // 'व्यत्ययो बहुलम् , लिङ्याशिघ्यङ्' इति संहितया पाठे लकारात् पूर्व लकारान्तरं ‘हलो यमाम् ' इति लुप्तं प्रश्लिष्यते / ततश्च ल् ल् इति द्विलकारात् सूत्रात् ल इति षष्ठ्यन्तं 'कर्मवत्कर्मणा' इत्यत्रानुवर्तते / तथाच लः कर्ता कर्मवदिति लभ्यते। वाच्यत्वं षष्ठ्यर्थः / तथाच लकारवाच्यः कर्ता कर्मवदिति पर्यवस्यतीत्यर्थः / अस्त्वेवम् / प्रकृते किमायातमित्यत आह / भावे प्रत्यये च कर्तुर्लकारेणानुपस्थितेरिति // तत्र भावस्यैव तद्वाच्यत्वादिति भावः / अत एवेति // लकारवाच्यस्यैव कर्मकर्तुः कर्मवत्त्ववि धानादेव कृत्यक्तखलर्थाः प्रत्ययाः कर्मणि विहिताः कर्मकर्तरि न भवन्ति / तस्य लकारवाच्य. त्वाभावेन कर्मवत्त्वस्य तत्राप्रवृत्तेरित्यर्थः / एतच्च भाष्ये स्पष्टम् / ननु ‘सिनोतेसकर्मकर्तृ. कस्य' इति निष्ठानत्ववार्तिके सिनो ग्रासः स्वयमेवेति भाष्ये कथमुदाहृतम् / क्तप्रत्ययस्य कर्मकर्तर्यभावादिति चेत् उच्यते। अत एव भाष्यात् 'निष्ठा' इति सूत्रविहितकर्मार्थकक्तप्रत्ययस्यैव कर्मकर्तर्यभाव इति विज्ञायते / सिनो ग्रासः स्वयमेवेल्यत्र तु गत्यर्थाकर्मकेत्यादिना कर्तरि विहितः क्तप्रत्ययः कर्मकर्तरि भवत्येवेति शब्देन्दुशेखरे विस्तरः / भेत्तव्यं कुसूलेनेति // पुरुषप्रयत्नमनपेक्ष्य कुसूलकर्तृका भिदिक्रियेत्यर्थः / शङ्कते / नन्विति // इदानीमिति // कर्मणः कर्तृत्वविवक्षादशायामित्यर्थः / नतु तत्तुल्येति // तुल्यत्वस्य भेदघटितत्वादिति भावः / अर्धाङ्गीकारेण परिहरति / सत्यमिति // विक्लित्तिर्द्विधाभवनञ्च कर्मस्थमेव सम्प्रति कर्तृ. स्थमिति युक्तम् / अथापि तयोस्तुल्यत्वाभावस्तु नेत्यर्थः / कर्मत्वेति // कर्मत्वकर्तृत्वे ये अवस्थे धर्मविशेषी तयोर्भेदः स एव उपाधिः निमित्तं यस्य तथाविधं तत्समानाधिकरणं कर्मत्वकर्तृत्वसमानाधिकरणं क्रियाभेदं आश्रित्य तुल्यव्यवहार इत्यर्थः। वास्तवभेदाभावेऽपि औपाधिकभेदात्कर्मस्थक्रियातुल्यक्रियत्वङ्कर्मकर्तुरिति भावः / करणाधिकरणाभ्यामिति // असिना छिनात्ति स्थाल्यां पचतीत्यत्र करणाधिकरणयोर्यो व्यापारः स एव असिश्छिनत्ति स्थाली पचती. त्यत्र कर्तृस्थ इति तत्रापि कर्मवत्त्वं स्यात् / तन्निवृत्त्यर्थङ्कर्मणेति पदमित्यर्थः / ननु 'कर्मवत्कमणा' इत्यत्र 'धातोरेकाचः' इत्यतो धातोरित्यनुवर्तते / धातोर्वाच्यया क्रियया तुल्यक्रिय इत्यर्थः / करणत्वाद्यवस्थायां वस्तुतस्सन्नपि असिस्थाल्योर्व्यापारो न धातूपात्त इति नोक्तदोष इत्यस्खरसादाह / किञ्चेति // गच्छति ग्रामः इति // मार्गस्य अविषमनिष्कण्टकतया प्रत्यासन्नतया च श्रमं विना प्राप्त्याश्रयो भवतीत्यर्थः / आरोहति हस्तीति // अङ्कुशाघातादिहस्तिपक For Private And Personal Use Only
Page #448
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदीसहिता [कर्मकर्तृतिङ् शास्त्रार्थः, स्मरति, श्रद्दधाति वा / ' यत्र कर्मणि क्रियाकृतो विशेषो दृश्यते यथा पक्केषु तण्डुलेषु, यथा वा छिन्नेषु काष्ठेषु, तत्र कर्मस्था क्रिया / नेतरत्र / न हि पक्कापक्कतण्डुलेष्विव गतागतग्रामेषु वैलक्षण्यमुपलभ्यते / करोतिरुत्पादनार्थः / उत्पत्तिश्च कर्मस्था / तेन करिष्यते घट इत्यादि / यत्नार्थत्वे तु नैतसिद्ध्येत् / ज्ञानेच्छादिवद्यनस्य कर्तृस्थत्वात् / एतेनानुव्यवस्यमानेऽर्थे इति व्याख्यातम् / कर्तृस्थत्वेन यगभावाच्छयनि कृते ओलोपे च रूपसिद्धेः / व्यापार विना स्वयमेव न्यग्भवन् आरोहणाश्रयो भवतीत्यर्थः। 'अधिगच्छति शास्त्रार्थः स्मरति श्रद्दधाति वेति॥' पूर्वार्धमिदम् / यत्कृपालेशतस्तस्मै नमोऽस्तु गुरवे सदा' इत्युत्तरा. र्धम् / गुरुकृपालेशादेव श्रमं विना स्वयमेव शास्त्रार्थः अधिगच्छति निश्चयविषयो भवति स्मृ. तिविषयो भवति श्रद्धाविषयो भवतीत्यर्थः / अत्र कर्मकर्तुः ग्रामादेः कर्तृस्थक्रियावत्त्वेन कर्म स्थक्रियावत्त्वाभावात् न कर्मवत्त्वम् / अतः न कर्मकार्य यगादि / किन्तु कर्तृकार्य शवाद्येवेति भावः / ननु कर्मकर्तुः ग्रामादेः प्राप्त्याद्याश्रयत्वेन कर्मस्थक्रियत्वमस्त्येवेत्यत आह / यत्रेति // यत्र कियाकृतः विशेषः वैलक्षण्यं दृश्यते प्रत्यक्षमुपलभ्यते तत्र कर्मणि विद्यमाना क्रिया कर्मस्थक्रियेत्युच्यते इत्यन्वयः। तदुदाहृत्य दर्शयति / यथा पक्केषु तण्डुलेष्विति // तण्डुलावस्थापेक्षया विक्लित्तिकृतो विशेषो दृश्यते इति शेषः / अन्यत्रापि क्रियाकृतं वैलक्षण्यमुदाहृत्य दर्शयति / यथा वा छिन्नेषु काष्ठेष्विति // अछिन्नापेक्षया वैलक्षण्यं दृश्यते इति शेषः / गच्छति ग्राम इत्यादौ तु नैवमित्याह / नहीति॥ ग्रामेष्विति // उपलक्षणमिदम् / पक्कापक्वतण्डुलेषु यथा क्रियाकृतं वैलक्षण्यमुपलभ्यते तथा गतागतग्रामे आरूढानारूढहस्तिनि अधिगतानधिगते स्तृतास्तृते श्रद्धिताश्रद्धिते च शास्त्रार्थ क्रियाकृतवलक्षण्यन्न दृश्यते इत्यर्थः / प्रामगमनादौ कर्तर्येव श्रमादिवैलक्षण्यदर्शनादिति भावः / ननु ज्ञानेच्छयोरिव यत्नस्यापि कर्तृ. स्थत्वात् तद्वाचिनः कृतोऽपि कर्ता न कर्मवत्स्यात् / ततश्च क्रियते घटः स्वयमेवेति यगादिः न सिद्येदित्याशङ्कय कृमो न यत्नार्थत्वमित्याह / करोतिरुत्पादनार्थः इति // उत्पत्त्यनुकूलव्यापारार्थक इत्यर्थः / एतच्च भूवादिसूत्रे भाष्ये स्पष्टम् / करोतेरुत्पादनार्थकत्वे तु कर्मस्थक्रियत्वन्तत्कर्तुरुपपादयति / उत्पत्तिश्च कर्मस्थेति // उत्पन्ने अनुत्पन्ने च वैलक्षण्यस्य प्रत्यक्षत्वादिति भावः / तेनेति // कृत्रः कर्तुः कर्मक्रियत्वेनेत्यर्थः / तथाच क्रियते घटः स्वयमेवेत्यत्र यक् / तासि तु चिण्वदिट्पक्षे कारिता, तदभावे तु कर्ता इति सिद्धवत्कृत्य आह / करिष्यते घट इत्यादीति // चिण्वदिट्पक्षे कारिष्यते इति रूपम् / तदाभावपक्षे तु 'ऋद्धनोः स्ये' इति इट् / करिष्यते / सीयुटश्चिण्वदिटि कारिषीष्ट / तदभावे तु कृषीष्ट / लुङि अकारिष्टअकृत / नैतदिति // कर्मवत्वन्न सिध्येदित्यर्थः / यतते इतिवत्सकर्मकत्वमेव न स्यादित्यपि बोध्यम् / एतेनेति // ज्ञानस्य कर्तृस्थत्वव्युत्पादनेनेत्यर्थः / अनुव्यवस्यमानेऽर्थ इति // अर्थे स्वयमेव निश्चयविषरतां सम्पद्यमाने इत्यर्थः / व्याख्यातमिति // समर्थितमित्यर्थः / कथं समर्थितमित्यत आह / कर्तृस्थत्वेन यगभावादिति // अनुव्यवसायः निश्चयः तत्र For Private And Personal Use Only
Page #449
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा / 447 ताच्छील्यादावयं चानश् न त्वात्मनेपदम् / ' सकर्मकाणां प्रतिषेधो वक्तव्यः' (वा 1873) / अन्योन्यं स्पृशतः / अजा ग्रामं नयति / दुहिपच्योर्बहुलं सकर्मकयोरिति वाच्यम्' (वा 1876) / 2767 / न दुहस्नुनमा यक्चिणौ / (3-1-89) कर्मकर्ता अर्थः सः न कर्मस्थक्रियः / अर्थे अनुव्यवसायकृतवैलक्षण्याभावात् / किन्तु कर्तृस्थक्रिय एव / अनुव्यवसायकर्तरि देवदत्ते हर्षादिदर्शनात् / ततश्च कर्मवत्त्वाभावान यक् / यकि तु कित्त्वात् 'घुमास्थागापाजहातिसाम्' इति ईत्त्वे अनुव्यवसीयमान इति स्यादित्यर्थः / ननु यगभावे कथं यकारश्रवणमित्यत आह / श्यनीति // 'षो अन्तकर्मणि' इति धातोरनुव्यवपूर्वादुपसर्गवशेन निश्चयवृत्तेर्लट आनादेशे कृते श्यनि 'ओतः श्यनि' इत्योकारलोपे अनुव्यवस्यमान इति रूपसिद्धरित्यर्थः / ननु कर्मवत्त्वाभावे 'भावकर्मणोः' इत्यात्मनेपदाभावात् कथमिह लटइशानच् / तस्यात्मनेपदत्वादित्यत आह / ताच्छील्यादाविति // 'ताच्छील्यवयोवचनशक्तिषु चानश्' इत्यनेन चानशित्यर्थः / तस्य च लादेशत्वाभावेन आत्मनेपदत्वाभावात् कर्मवत्त्वाभावेऽपि कर्मकर्तरि प्रवृत्तिनिर्बाधा / तदाह / न त्वात्मनेपदमिति // ननु अन्योन्यं स्पृशतः स्वयमेव यज्ञदत्तदेवदत्तावित्यत्रापि कर्मवत्त्वाद्यगादि स्यात् / तत्र हि स्पृशिस्संयोगानुकूलव्यापारार्थकः / उभावपि कर्तारौ कर्मभूतौ च / स्पर्शनक्रियाया एकत्वेऽपि आश्रयभेदात्तद्भेदमाश्रित्य यज्ञदत्तनिष्ठां स्पर्शनक्रियां प्रति देवदत्तस्यं कर्मत्वम् / एवं देवदत्तनिष्ठामपि स्पर्शनक्रियां प्रति यज्ञदत्तस्य कर्मत्वम् / एवकर्तृत्वमप्युभयोडेयम् / एवञ्च उभयोः कर्तृत्वकर्मत्वसत्वादेकस्मिन् कर्तरि कर्मणि वा या स्पृशिक्रिया सैवेतरस्मिन् कर्तरि कर्मणि वा वर्तते इति कर्मवत्त्वं स्यात् / आश्रयनिबन्धनं भेदमाश्रित्य तुल्यक्रियत्वोपपत्तेः / स्पृष्टास्पृष्टयोरन्योन्यसंयोगकृतहर्षादितदभावदर्शनाचेत्यत आह / सकर्मकाणां प्रतिषेधः इति // एककर्मकाणां छिदिभिदिप्रभृतीनां कर्मणः कर्तृत्वविवक्षया अकर्मकाणां कर्तुः कर्मवत्त्वमुक्तम् / ये तु द्विकर्मकाः कर्मणः कर्तृत्वविवक्षायामपि सकर्मका धातवः तेषां धातूनां कर्मकर्तुः कर्मवत्त्वप्रतिषेधो वक्तव्य इत्यर्थः / अन्योन्यं स्पृशतः इति // कर्मवत्त्वे तु यकि तडि च स्पृश्यते इति स्यादिति भावः / 'सकर्मकाणां प्रतिषेधः' इत्यस्य उदाहरणान्तरमाह / अजा ग्राम नयतीति // अजा ग्रामं स्वयमेव प्राप्नोतीत्यर्थः / अत्र नयनं प्रत्यजायाः कर्मणः कर्तृत्वविवक्षायामपि ग्राममादाय सकर्मकत्वान्न कर्मवत्त्वमिति भावः / वस्तुतस्तु गते अगते च ग्रामे वैलक्षण्याभावादेवात्र कर्मवत्त्वस्याप्राप्तिरिति नेदमस्य वार्तिकस्योदाहरणम् / अत एव भाष्ये अन्योन्यमाश्लिष्यतः, अन्योन्यं स्पृशतः, अन्योन्यं संगृह्रातः, इत्येवोदाहृतमिति शब्देन्दुशेखरे स्पष्टम् / दुहिपच्योरिति // कर्मवत्त्वमिति शेषः / अनयोर्द्विकर्मकत्वादेकस्य कर्मणः कर्तृत्वविवक्षायामपि अन्यकर्मणा सकर्मकत्वात्पूर्ववार्तिकेन कर्मवत्त्वनिषेधे प्राप्ते प्रतिप्रसवोऽयम् / न दुह // दुह स्नु नम् एषान्द्वन्द्वः। कर्मकर्तरीति // एतत्तु नानुवृत्तिलभ्यम् / पूर्वत्रानुपलम्भात् / किन्तु 'कर्मवत्कर्मणा तुल्यक्रियः' इति समभिव्या For Private And Personal Use Only
Page #450
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 448 सिद्धान्तकौमुदीसहिता [कर्मकर्तृतिङ् एषां कर्मकर्तरि यक्चिणौ न स्त: / दुहेरनेन यक एव निषेधः / चिण्तु विकल्पिष्यते / शप् , लुक् / गौ: पयो दुग्धे / 2768 / अचः कर्मकर्तरि / (3-1-62) अजन्ताच्च्लेश्चिण्वा स्यात्कर्मकर्तरि तशब्दे परे / अकारि-अकृत / 2769 / दुहश्च / (3-1-63) अदोहि / पक्षे क्स: / 'लुग्वा-' (सू 365) इति पक्षे लुक् / अदुग्ध-अधुक्षत / उदुम्बर: फलं पच्यते / सृजियुज्योः श्यंस्तु' (वा 1877) हारलभ्यमेव / ‘अचः कर्मकर्तरि ' इत्यतो मण्डूकप्लु या तदनुवृत्तिर्वा / दुहेरनेनेति // 'न दुहस्नुनमाम्' इत्यनेन दुहेः कर्मकर्तरि यक एव निषेधः / चिण्तु ‘दुहश्च' इति वक्ष्यमाणसूत्रेण विकल्पितो वक्ष्यते इत्यर्थः / कर्मकर्तरि तशब्दे परे दुहेश्चिण्वेति तदर्थः / चिण्तु विकल्पेनेष्यते इति क्वचित्पाठः / दुग्धे इत्यत्र प्रक्रियां दर्शयति / शप् लुगिति // दुहेः कर्मकर्तरि यकि निषिद्ध शप् प्रवर्तते। तस्य 'अदिप्रभृतिभ्यः' इति लुगित्यर्थः। गौः पयो दुग्धे इति // गौः स्वयमेव पय उत्सृजतीत्यर्थः / कर्मकर्तृभूतायां गवि लट् / स्वरितेत्त्वेऽपि भावकर्मणोः इत्यात्मनेपदमेव / 'न दुह' इति न यक्। गां पयो दुग्धे इति तु नोदाहृतम् / 'गौणे कर्मणि दुह्यादेादयो मताः' इत्युक्तेः। अचः कर्मकर्तरि // 'च्लेस्सिच्' इत्यतः च्लेरिति 'चिण ते पदः' इत्यतः चिण्ते इति, दीपजन इत्यतः अन्यतरस्यामिति, चानुवर्तते। 'धातोरेकाचः' इत्यतो अनुवृत्तस्य धातुग्रहणस्य अचा विशेषितत्वात्तदन्तविधिः। तदाह / अजन्तादित्यादिना ॥अकारीति // कटं स्वयमेवेति शेषः / कर्मकर्तरि लुङ् / च्लेश्चिण् / वृद्धिः। रपरत्वम्। 'चिणो लुक् ' इति तशब्दस्य लुक् / अकृतेति // चिणभावपक्षे 'हूस्वादङ्गात्' इति सिचो लोपः। दुहश्च // अच इति वर्ज पूर्वसूत्रं तत्रानुवृत्तं, तत्सर्वमिहानुवर्तते। कर्मकर्तरि तशब्दे परे दुहेश्चिण्वा स्यादित्यर्थः / स्पष्ट इति न व्याख्यातम् / अनुवृत्तिसौकार्थमेव पूर्वसूत्रं प्रकृतदुहधातावनुपयुक्तमप्युपन्यस्तम् / अदोहीति // दुहेः कर्मकर्तरि लुङ् / स्वयमेव गौः पय इति शेषः / चिण्पक्षे लघू. पधगुणः / चिणभावपक्षे आह / पक्षे क्सः इति // ‘शल इगुपधात्' इत्यनेनेति भावः। लुग्वेति // ‘लुग्वादुहदिहलिहगुहाम्' इति क्सस्य पाक्षिको लुगित्यर्थः / अत्र दुहिपच्योरित्यत्र पचेरुदाहरति / उदुम्बरः फलं पच्यते इति // उदुम्बरवृक्षं फलं पचति कालविशेषः इत्यत्र द्विकर्मकः पचिः / इह तु इदुम्बरो वृक्षः स्वयमेव कालविशेषमनपेक्ष्य फलं पक्वाश्रयं करोतीत्यर्थः / अत्र उदुम्बरस्य गौणकर्मणः कर्तृत्वेन विवक्षायां फलेन प्रधानकर्मणा सकर्मकत्वात् ‘सकर्मकाणां प्रतिषेधः' इति कर्मवत्त्वस्य प्रतिषेधे प्राप्ते 'दुहिपच्योः' इति कर्मवत्त्वस्य प्रतिप्रसवाद्यगादिकमिति भावः / वस्तुतस्तु भाष्ये द्विकर्मकेषु पचेरपरिगणनान्न द्विकर्मकत्वमिति कारकाधिकारे प्रपञ्चितमस्माभिः / तथाच कर्मकर्तरि उदुम्बरः फले पच्यते इत्यत्र फलस्यैव कर्मतया तस्य कर्तृत्वविवक्षायां पचेरकर्मकत्वात् 'सकर्मकाणाम्' इति प्रतिषेधस्याप्रसक्तेः For Private And Personal Use Only
Page #451
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा / 449 अनयोः सकर्मकयोः कर्ता बहुलं कर्मवद्यगपवादश्च श्यन्वाच्य इत्यर्थः / 'सृजे: श्रद्धोपपन्ने कर्तर्येवेति वाच्यम्' (वा 5054) सृज्यते स्रजं भक्तः / श्रद्धया निष्पादयतीत्यर्थः / असजि / युज्यते ब्रह्मचारी योगम् / भूषाकर्मकिरादिसनां प्रतिप्रसवविधिरयं व्यर्थ इति यद्यपि। तथाप्यत्र मते उदुम्बरः फलं पचतीत्यत्र कर्तृलकारे पचैः कर्तृस्थक्रियत्वात् कर्मस्थक्रियत्वाभावादुदुम्बरः फलं पच्यत इति कर्मकर्तरि 'कर्मवत्कर्मणा' इति कर्मवत्त्वस्याप्राप्तौ 'दुहिपच्योः' इति कर्मवत्त्वस्य बहुलं पचेरपूर्वविधिरित्यन्यत्र विस्तरः / सृजि. युज्योश्श्यंस्तु' इति वार्तिकम्। अनयोः सकर्मकयोः इत्यादि तद्भाष्यम् / अत्र सृजियुज्योर्दैवादिकयोर्न प्रहणम् / तयोरकर्मकताया उक्तत्वात् / किन्तु 'सृज विसर्गे' इति तौदादिकस्य 'युजिोंगे' इति रौधादिकस्य च ग्रहणम् / तत्र विसर्ग उत्पादनम् / यथा प्रजास्सृजतीति। योगस्संयोजनम् / यथा अश्वं युनक्तीति / रथादिना संयोजयतीति गम्यते / सृजेः श्रद्धोपपन्ने इति // श्रद्धायुक्ते मुख्यकर्तर्येव उक्तो विधिरित्यर्थः / तत्र मुख्यकर्तरि अत्यन्ताप्राप्तं कर्मवत्त्वमिह बहुलं विधीयते / 'युजेस्तु कर्मकर्तर्येव उक्तविधिः' इति भाष्यात्तत्रापि कर्मणि क्रियाकृतवैलक्षण्याभावादप्राप्तं कर्मवत्त्वमिह बहुलं विधीयते / कर्मवत्त्वे सति यकि प्राप्ते तदपवादश्श्यन्विधीयते / तेन 'ञ्णित्यादिनित्यम्' इत्याद्युदात्तत्वं सिद्ध्यति। यकि तु 'तास्यनुदात्तेत्' इत्यादिना लसार्वधातुकानुदात्तत्वे प्रत्ययस्वरेण यकः उदात्तत्वं स्यात्। सृज्यते नजे भक्तः इति / अत्र मुख्यकतरि लकारः। कर्मवत्त्वादात्मनेपदम् / यगपवादश्श्यन् / श्रद्धया निष्पादयतीत्यर्थः इति // धातूनामनेकार्थत्वादिति भावः / सृज्यते स्रजं भक्त इत्यत्र यदा तु निष्पादयतीत्येवार्थः, नतु श्रद्धयेति तदा सृजति सजमिसेव भवति / अथ युजेरुदाहरति / युज्यते ब्रह्मचारी योगमिति // अत्र कर्मकर्तरि यगपवादः श्यन्निाते भाष्यम् / योगश्चित्तवृत्तिनिरोधः योगशास्वप्रसिद्धः / ब्रह्मचर्य स्त्रीसङ्गराहित्यम् / 'तद्योगाङ्गम्' इति च योगशास्त्रप्रसिद्धम् / सः योग: ब्रह्मचारिणं युनक्ति। आत्मदर्शनेन संयोजयतीति कर्तृलकारे संयोजनक्रियायां योगो मुख्यकर्ता / ब्रह्मचारी तु कर्मेति स्थितिः / तत्र कर्मणो ब्रह्मचारिणः कर्तृत्वविवक्षायां युज्यते ब्रह्मचारी योगमिति कर्मकर्तरि ब्रह्मचारिणि लकारः कर्मवत्त्वम् / स्वरितेत्त्वेऽपि कर्मवत्त्वात्तदेव यगपवादः श्यन् / ब्रह्मचारी प्राणायामाभ्यासादिश्रमबाहुळ्यं विना खयमेव योगेन संबध्यते इत्यर्थः / तत्र ब्रह्मचारिणि कर्मकर्तरि धात्वर्थसम्बन्धः अनुयोगितया वर्तते / योगे तु प्रतियोगितया वर्तत इति स्थितिः। तत्र यद्यपि प्रतियोगिनो योगात् ‘सहयुक्तेऽप्रधाने' इति तृतीया भवितव्या / तथापि युजेः प्रतियोगित्वावच्छिन्नसम्बन्धोऽर्थः / तत्र प्रतियोगित्वं फलं, सम्बन्धो व्यापारः / प्रतियोगित्वरूपफलाश्रयत्वात् द्वितीयेति समाहितं शब्देन्दुशेखरे / अत्र भाष्ये प्रयोगादेव योगात् द्वितीयेत्यन्ये / भूषाकर्मेति वार्तिकम् / भूषाकर्म किरादि सन् एषां द्वन्द्वः / अन्यत्रेति स्वार्थे त्रल् / आत्मनेपदात् अन्यत्कर्मकार्यमिति लभ्यते / भूषा कर्म क्रिया येषां 1. अत्र च 'सृजेः श्रद्धोपपन्ने कर्तरि कर्मवद्भावो वाच्यश्चिणात्मनेपदार्थः' इति भाष्यं मानम्। 51 For Private And Personal Use Only
Page #452
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदीसहिता [कर्मकर्तृतिङ् चान्यत्रात्मनेपदात्" (वा 1880) भूषावाचिनां किरादीनां सन्नन्तानां च यक्चिणौ चिण्वदिट् च नेति वाच्यमित्यर्थः / अलंकुरुते कन्या / अलमकृत / अवकिरते हस्ती / अवाकीष्ट / गिरते। अगीष्ट / आद्रियते / आहत / किरादिस्तुदाद्यन्तर्गणः / चिकीर्षते कटः / अचिकीर्षिष्ट / इच्छायाः कर्तृस्थत्वेऽपि करोतिक्रियापेक्षमिह कर्मस्थक्रियात्वम् / 2770 / न रुधः। (3-1.64) अस्माच्च्लेश्चिण्न / अवारुद्ध गौः / कर्मकर्तरीत्येव / अवारोधि गौगोपेन / 2771 / तपस्तपःकर्मकस्यैव / (3-1-88) वाच्यतया ते भूषाकर्माणः धातवः / भूषणक्रियावाचिनामिति यावत् / तदाह / भूषावाचिनामित्यादिना // अलंकुरुते कन्येति // स्वयमेव अन्यप्रयत्नं विना भूषणक्रियावतीत्यर्थः / अत्र भूषार्थकत्वात् कर्मकर्तरि तडेव नतु यक् / अलमकृतेति // अत्र तळेच नतु चिण् / लुटि तु अलङ्कतेत्येव / नतु चिण्वदिटौ / अवकिरते हस्तीति // हस्तिनमवकिरति कुसुमादिरित्यत्र मुख्यकर्तरि लकारः / तत्र हस्ती कर्म / तस्य कर्तृत्वविवक्षायां स्वयमेव पुरुषप्रयत्नं विना वृक्षादिसमीपं गच्छन् पुष्पादिभिः अवकिरणवान् भवतीत्यर्थः / अत्रापि तडेव, नतु यगादि। अवाकीष्टेति // 'लिङ्सिचोरात्मनेपदेषु' इति वेट् / गिरतेइति॥ ओदनं स्वयमेवेति शेषः / 'गृ निगरणे' अयङ्किरादिः / आद्रियते इति // ‘दृङ् आदरणे' अयमपि किरादिः / शप्रत्यये 'रिङ् शयग्लिङ्घ' इति रिङ् / अतिथिमाद्रियते इति मुख्यकर्तरि आद्रियतेऽतिथिरिति कर्मकर्तरि स्वयमेव आदरणाश्रय इत्यर्थः / अत्र यद्यपि शे यकि च न विशेषः / तथापि न्याय्यश्श एव / यको निषिद्धत्वात् / स्वरे वा विशेषः / तङि तु डित्त्वादेव सिद्धः / अतिथेरभिहितत्वात् प्रथमेति विशेषः / आइतेति // चिणोऽनेन निषेधे 'हूस्वादङ्गात्' इति सिचो लोपः / 'उश्च' इति कित्त्वम् / अथ सन्नन्तस्योदाहरति / चिकीर्षते कटः इति // स्वयमेव कर्तुमिच्छाविषय इत्यर्थः / नन्विच्छायाः पुरुषरूपकर्तृनिष्टत्वात् कटरूपकर्मनिष्टत्वाभावात् इच्छायां सत्यां असत्याञ्च कटे कर्मणि वैलक्षण्यादर्शनाच्च कर्मस्थक्रियत्वाभावादिह कर्मवत्त्वस्याप्रसक्तेस्तनिषेधो व्यर्थ इत्यत आह / इच्छायाः इति // न रुधः // 'च्लेस्सिच्' इत्यतः च्लेरिति ‘चिण्ते पदः' इत्यतश्चिणिति चानुवर्तते / तदाह / अस्माच्च्लेश्चिण नेति // अवारुद्ध गौरिति // स्वयमेवेति शेषः / कर्मकर्तरीत्ये. वेति // 'अचः कर्मकर्तरि' इत्यतस्तदनुवृत्तेरिति भावः / अवारोधि गोर्गोपेनेति // इह गोः कर्मणः कर्तृत्वविवक्षाया अभावान्न चिनिषेध इति भावः / तपस्तपःकर्मकस्यैव // आद्यं तपः इति षष्ठ्यन्तम् / तपःकर्मकस्यैव तपधातोरिति लभ्यते / ‘कर्तरि शप्' इत्यतः कर्तरीत्यनुवृत्तं प्रथमया विपरिणम्यते / 'कर्मवत्कर्मणा' इत्यतः कर्मवदित्यनुवर्तते, इति मत्वा For Private And Personal Use Only
Page #453
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा। 451 कर्ता कर्मवत्स्यात् / विध्यर्थमिदम् / एवकारस्तु व्यर्थ एवेति वृत्त्यनुसारिणः / तप्यते तपस्तापस: / अर्जयतीत्यर्थः / 'तपोऽनुतापे च' (सू 2760) इति चिनिषेधात्सिच् / अतप्त / 'तपःकर्मकस्य' इति किम् / उत्तपति सुवर्ण सुवर्णकार: / 'न दुहस्नुनमा यक्चिणौ' (सू 2767) / प्रस्नुते / प्रास्नाविष्ट-प्रास्नोष्ट / नमते दण्डः / अनंस्त / अन्तर्भावितण्यर्थोऽत्र सूत्रशेषं पूरयति / कर्ता कर्मवदिति // विद्ध्यर्थमिदमिति // एतच्चानुपदमेव उदाहरणव्याख्यावसरे स्पष्टीभविष्यति / ननु विद्ध्यर्थत्वे एवकारो व्यर्थ इत्यत आह / एवकारस्त्विति // तप्यते तपस्तापसः इति // अत्र तपिरार्जनार्थक इत्याह / अर्जयती. त्यर्थः इति // प्राजापत्यचान्द्रायणादिकृच्छ्राद्यात्मकतपस्सम्पादयतीत्यर्थः / मुख्यकर्तरि ल: सम्पादनस्य तापसात्मककर्तृस्थत्वात् तपोरूपकर्मस्थत्वाभावात् 'कर्मवत्कर्मणा' इत्यप्राप्तकर्मवत्त्वमनेन सूत्रण विधीयत / तेन यगात्मनेपदादि / यदा तु तदपि दुःखजननात्मके सन्तापे वर्तते तदा तापसं तपस्तपतीत्येव भवति / दुःखयतीत्यर्थः / अत्र मुख्यकर्तृ तपः / तापसस्तु तपःकर्म। अत्रापि दुःखजननव्यापारस्य तपोरूपकर्तृस्थतया तापसरूपकर्मस्थत्वाभावात् 'कर्मवत् कर्मणा' इत्यनेन कर्मवत्त्वं न भवति / तपःकर्मकत्वाभावादनेनापि न कर्मवत्त्वम् / अतो न यगादिकर्मकार्यम् / अथ लुङि अतप्तेत्यत्र कर्मवत्त्वाच्चिणमाशङ्कय आह / तपोऽनुतापेच इति॥ चिनिषेधात् सिजिति॥ तस्य 'झलो झलि' इति लोपे परिनिष्टितमाह। अतप्तेति / उत्तपति सुवर्ण सुवर्णकारः इति // अत्र तपःकर्मकत्वाभावान्न कर्मवत्त्वमिति भावः / भाष्य तु एवकारादिदं सूत्रं नियमार्थमित्युक्तमिति शब्देन्दुशेखरे प्रपञ्चितमेतत् / वृत्त्यनुसारिण इत्यनेन भाष्यविरोधस्सूचित इत्यलम् / 'दुहिपच्योर्बहुळम्' इति कर्मवत्त्वविधिस्थदुहिप्रसङ्गात् 'न दुहस्नुनमाम्' इति सूत्रमुपन्यस्तं प्राक / इदानी सिंहावलोकनन्यायेन स्नुनमोरुदाहतु पुनस्सूत्रमुपन्यस्यति / न दुहस्नुनमा यश्चिणाविति // तत्र स्नुधातोरुदाहरति / प्रस्नुते इति // स्नुधातुः क्षीरप्रस्रवणविषयोत्कण्ठीकरणे वर्तते / वत्सो गां प्रस्नोतीति मुख्यकर्तरि लकारे वत्सो गां क्षीरप्रस्रवणविषये उत्कण्ठयतीत्यर्थः / अन्तर्भावितण्यर्थोऽत्र स्नुधातुः / अत्र गौः कर्म / उत्कण्ठनव्यापारस्तु कर्तृभूतवत्सनिष्टः / उत्कण्ठा तु गोरूपकर्मनिष्ठा। गोः कर्मणः कर्तृत्वविवक्षायान्तु प्रस्नुते गौः। स्वयमेव क्षीरप्रस्रवणविषये उत्कण्ठावती. त्यर्थः / तत्र उत्कण्ठा पूर्व कर्मगता / सम्प्रति तु कर्तृगता / उत्कण्ठाकृतञ्च वैलक्षण्यं प्रस्रवणं दृश्यत एव / ततश्च कर्मस्थक्रियत्वात् कर्मवक्त्वे यकि प्राप्त अनेन निषेधः / प्रास्नाविष्टेति // अत्र कर्मवत्त्वात् प्राप्तश्चिण् न / किन्तु चिण्वदिटौ पक्षे स्तः / चिण्वदिडभावे तु 'स्नुक्रमोः' इति नियमावलादिलक्षण इण्न / तदाह / प्रास्नोष्टेति // णम उदाहरति / नमते दण्डः इति // नमति दण्डं कश्चित्। नमयतीत्यर्थः / कर्मणः कर्तृत्वविवक्षायान्तु नमते दण्डः / अत्र कर्मवत्त्वेऽपि न यक् / अनंस्तेति // अत्र कर्मवत्त्वऽपि न चिण / ननु णम. धातोः प्रह्वीभावार्थकस्याकर्मकत्वात् कर्मवत्त्वाप्रसक्तर्यचिणोन प्रसक्तिरित्यत आह / अन्त For Private And Personal Use Only
Page #454
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 452 सिद्धान्तकौमुदीसहिता [कर्मकर्तृतिङ् नमिः / यश्चिणोः प्रतिषेधे ‘हेतुमण्णिश्रिबञामुपसंख्यानम्' (वा 1881) / कारयते / अचीकरत / उच्छ्रयते दण्डः / उदशिश्रियत / चिण्वदिट तु स्यादेव / कारिष्यते / उच्छ्रायिष्यते / ब्रूते कथा / अवोचत / भारद्वाजीयाः पठन्ति। णिश्रन्थिग्रन्थिबञात्मनेपदाकर्मकाणामुपसंख्यानम्' (वा 1882) / पुच्छमुदम्यति उत्पुच्छयते गौः / अन्तर्भावितण्यर्थतायाम् उत्पुच्छयते गाम् / पुनः कर्तृत्वविवक्षायाम् उत्पुच्छयते गौः / उदपुपुच्छत / यक्चिणोः प्रति र्भावितण्यर्थोऽत्र नमिरिति // धातूनामनेकार्थकत्वादिति भावः / यचिणोरिति // 'न दुहस्नुनमाम्' इति यचिणोः प्रतिषेधसूत्रे दुहस्नुनमां हेतुमण्णिश्रिब्रूञामिति च वाच्यमित्यर्थः / कारयते इति // स्वयं देवदत्त इति शेषः / करोति देवदत्तः, त प्रेरयति यज्ञदत्त इति ण्यन्तान्मुख्यकर्तरि लकारः / अत्र ण्यन्तकर्मणो देवदत्तस्य यज्ञदत्तप्रेरणमनपेक्ष्य कर्तृत्वविवक्षायाकर्मकर्तरि लकारः / कर्ववत्त्वेऽपि तडेव, न यगिति भावः। अचीकरतेति // अत्र कर्मवत्त्वेऽपि न चिण् ‘णिश्रि' इति चडेव / उच्छ्य ते दण्डः इति // स्वयमेवेति शेषः / दण्डमुच्छ्यति कश्चिदित्यर्थः / मुख्यकर्तरि लकारः / तत्र कर्मणो दण्डस्य कर्तृव्यापारमनपेक्ष्य कर्तृत्वविवक्षायाङ्कर्मकतरि लकारः / कर्मवत्त्वेऽपि न यक् तडेव / उदाशिश्रियतेति // कर्मवत्त्वेऽपि चिणभावात् ‘णिश्रि' इति चङ् / ननु कारिष्यते इत्यत्र कथश्चिण्वदिटौ / ण्यन्तस्याजन्तस्य उपदेशाभावादित्यत आह / चिण्वदिट तु स्यादेवेति // 'स्यसिच्सीयुट्तासिषु' इत्यत्र हि उपदेशे अजन्तस्येति नार्थः / किन्तु उपदेशे योऽच् तदन्तस्येत्यर्थः / तथाच णिजन्तस्योपदेशाभावेऽपि णरुपदेशसत्त्वान्न दोष इति भावः / उच्छ्रायिष्यते इति॥ श्रिञः उपदेशे योऽन् तदन्तत्वाच्चिण्वदिटौ / ब्रूते कथेति // स्वयमेवेति शेषः / कथां ब्रवीति कश्चिदिति मुख्यकर्तृलकारे कथा कर्म तस्य पुरुषप्रयत्नाविवक्षायाङ्कर्मकर्तरि लकारः / कर्मवत्त्वात् तङ् / न यक् / अवोचतेति // कर्मवत्त्वेऽपि न चिण् / किन्तु 'ब्रुवो वचिः, अस्यतिवक्तिख्यातिभ्योऽङ्ग, वच उम्' इति भावः / उच्चारणेन शब्देषु प्राकट्यरूपविशेषदर्शनात् कर्मस्थक्रियत्वं बोध्यम् / ‘णिश्रन्थि' इति ण्यन्तस्य श्रन्थेः ग्रन्थेः ब्रूनः आत्मनेपदविधावकर्मकस्य च यक्चिणोः प्रतिषेधः भारद्वाजीयाभिमत इत्यर्थः / अत्र णि इति सामान्यस्य ग्रहणम् / नत्वहेतुमण्णिच एव / ततश्च णिडन्तस्यापि न यचिणाविति मत्वा आह / पुच्छमुदस्यति उत्पुच्छयते गौरिति // 'पुच्छादुदसने' इति णिङ् / नन्वत्र उदसने पुच्छङ्कर्म / गौMख्यकीं। नतु कर्मकीं / ततश्च नात्र यश्चिणाः प्रसक्तिरित्यत आह / अन्तर्भावितण्यर्थतायामिति // उदस्यतीत्यस्य उदासयतीत्यन्त वितण्यर्थताश्रयणे उत्पुच्छयते गां देवदत्तः इत्यत्र गौः कर्म / तस्य गोरूपकर्मणः प्रेरयितृपुरुषप्रयत्नानपेक्षया कर्तृत्वविवक्षायाकर्मकर्तरि लकारे उत्पुच्छयते गौरिति भवतीत्यर्थः / स्वयमेव पुच्छमुदस्यति गौरिति बोधः / उदपुपुच्छतेति // अत्र न चिण् / शपचङाविति // उत्पुच्छयते गौरित्यत्र यकः प्रतिषेधात् शप् / उदपुपुच्छतेत्यत्र चिणः प्रतिषेधाच्चडित्यर्थः / ननु 'श्रन्थ मोक्षणे, ग्रन्थ प्रथने' For Private And Personal Use Only
Page #455
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा। 453 षेधाच्छप्चडौ / श्रन्थिग्रन्थ्योराधृषीयत्वाणिजभावपक्षे ग्रहणम् / ग्रन्थति ग्रन्थम् / श्रन्थति मेखलां देवदत्तः / ग्रन्थते ग्रन्थः / अग्रन्थिष्ट / श्रन्थते / अश्रन्थिष्ट / कैयादिकयोस्तु अनीते प्रश्नीते स्वयमेव / विकुर्वते सैन्धवाः / वलान्तीत्यर्थः / वेः शब्दकर्मणः' (सू 2707) 'अकर्मकाञ्च' (सू 2708) इति तङ् / अन्तर्भावितण्यर्थस्य पुन: प्रेषणत्यागे / विकुर्वते सैन्धवाः / व्यकारिष्ट / व्यकारिषाताम् / व्यकारिषत / व्यकृत / व्यकृषाताम् / व्यकृषत / 2772 / कुषिरञ्जोः प्राचां श्यन् परस्मैपदं च / (3-1-90) अनयोः कर्मकर्तरि न यक् / किं तु श्यन्परस्मैपदं च / आत्मनेपदाप इति श्रन्थिग्रन्थ्योः चौरादिकतया णिग्रहणेनैव सिद्धेः पुनर्ग्रहणं व्यर्थमित्यत आह / श्रन्थिग्रन्थ्योरिति // ग्रन्थति ग्रन्थमिति // रचयतीत्यर्थः / श्रन्थति मेखला देवदत्तः इति // विस्रंसयतीत्यर्थः / देवदत्त इत्युभयनान्वेति / अत्र कर्मणो ग्रन्थस्य मेखलायाश्च कर्तृत्वविवक्षायां ग्रन्थत ग्रन्थः श्रन्थते मेखलेति च भवति / स्वयमेव ग्रन्थरचनाश्रयस्त्रंसनाश्रयश्चेत्यर्थः / तत्र कर्मवत्त्वेऽपि न यगिति भावः / अग्रन्थिष्ट अश्रन्थिष्टेत्यत्र च न चिण् / क्रैयादिकयोस्त्विति // कर्मवत्त्वेऽपि तयोर्यकि निषिद्धे श्नाविकरण इति भावः / आत्मनेपदविधावकर्मकोऽयं तदुदाहरति / विकुर्वते सैन्धवाः इति // सैन्धवाः अश्वाः / अत्र विपूर्वः कृञ् वल्गने वर्तते। उपसर्गवशात् / तदाह / वल्गन्तीति // शब्दङ्कुर्वन्तीत्यर्थः / धात्वर्थेनोपसङ्ग्रहादकर्मकोऽयम् / मुख्यकर्तरि लकारः। वेरिति // 'वेः शब्दकर्मणः' इत्यनन्तरं पटितेन ‘अकर्मकाच्च' इति सूत्रेण परगामिन्यपि फले तडित्यर्थः / नन्वस्याकर्मकतया अश्वानाङ्कर्मकर्तृत्वाभावान यकः प्रसक्तिरित्यत आह / अन्तर्भावितेति // विपूर्वकः कृञ् शब्दकुर्वाणस्य प्रेरणे यदा वर्तते, तदा विकुर्वते सैन्धवानिति भवति / अश्वान् शब्दाययतीत्यर्थः / तत्र सैन्धवानाङ्कर्मणां पुरुषप्रेरणाविवक्षया कर्तृत्वविवक्षायां विकुर्वते सैन्धवाः इति भवति / वल्गन्तीत्यर्थः / अत्र सैन्धवानाकर्मकर्तणाङ्कर्मवत्त्वेऽपि न यगित्यर्थः / व्यकारिष्टेति // चिणि निषिद्धे ण्यन्तत्वाभावाच्चङभावे सिचश्चिण्वदिटि बृद्धिरिति भावः / चिण्वदिडभावपक्षे आह / व्यकृतेति // 'हूस्वादङ्गात्' इति सिचो लोपः / कुषिरओः // अनयोरिति // 'कुष निष्कर्षे, रञ्ज रागे' इत्यनयोरित्यर्थः। कर्मकर्तरीति // 'अचः कर्मकर्तरि' इत्यतो मण्डूकप्लुत्या तदनुवृत्तरिति भावः / 'न दुहस्नुनमाम्' इत्यतः नेति यगिति चानुवतते। तदाह / यगिति॥ किन्तु श्यनिति // श्यन्विषयेत्यर्थः। एवञ्च यग्विषयादन्यत्र न श्यनः प्रवृत्तिः / न यगित्यनुत्वा श्यनो विधाने तु यग्विषयादन्यत्रार्धधातुकेऽपि श्यन् स्यादिति भावः / प्राचाङ्ग्रहणाद्विकल्पः / तदाह / कुष्यति कुष्यते वा पादः इति // स्वयमेवेति शेषः / कुष्णाति पादं देवदत्तः इति // मुख्यकर्तृलकारे पादः कर्म / तस्य पुरुषप्रयत्नमनपेक्ष्य कर्तृत्वविवक्षायां श्यनि परस्मैपदे च कुष्यतीति रूपम्। तदुभयाभावे यकि आत्मनेपदे च कुष्यते For Private And Personal Use Only
Page #456
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 454 सिद्धान्तकौमुदीसहिता लकारार्थ वादः / कुष्यति-कुष्यते वा पादः / कुष्णाति पादं देवदत्तः / रज्यति-रज्यते वा वस्त्रम् / यगविषये तु नास्य प्रवृत्तिः / कोषिषीष्ट / रङ्गीष्ट / इति कर्मकर्तृतिप्रकरणम् / / श्रीरस्तु। // अथ लकारार्थप्रकरणम् // 2773 / अभिज्ञावचने लट् / (3-2-112) स्मृतिबोधिन्युपपदे भूतानद्यतने धातोर्लट् स्यात् / लडोऽपवादः / इति रूपमिति भावः / यक्श्यनोः स्वरे विशेषः / श्यनि कुष्यन्ती वधूरित्यत्र ‘शपश्यनानित्यम्' इति नित्यं नुम् / यकि तु 'आच्छीनद्याः' इति विकल्पः स्यात् / रज्यति रज्यते वा वस्त्रमिति // अन्तर्भावितण्यर्थतायां देवादिकत्वात् श्यनि रज्यति वस्त्रमित्यत्र रज्जयतीत्यर्थः / मुख्ये कर्तरि लः कर्मणः कर्तृत्वविवक्षायान्तु रज्यति रज्यते वेति भवतीत्यर्थः / यगविषये तु नास्त्येवेति // श्यनिति शेषः / यकं प्रतिषिद्ध्य तत्स्थाने इयनो विधिसामर्थ्यादित्यर्थः / कोषिषीष्टेति // आर्धधातुकत्वेन यगविषयत्वान्न श्यन् / तत्सन्नियोगशिष्टत्वात् परस्मैपदश्च श्यनभावे सति न भवतीति भावः / रङ्क्षीष्टेति // रजेस्सीयुटि जस्य कत्वेन गः। तस्य चर्बेन कः। अनखारपरसवर्णी / अत्र कर्मकर्तप्रकरणे सर्वत्र पच्यते ओदनः स्वयमेवेति, भिद्यते काष्ठ स्वयमेवेत्यादौ स्वयंशब्दस्य आत्मना करणेनेत्यर्थः / नत्वात्मना कति / तथा सति कर्मण्येव ल: स्यादिति ‘णेरणौ' इति सूत्रे कैयटे स्पष्टम् // इति श्रीवासुदेवदीक्षितविदुषा विरचितायां सिद्धान्तकौमुदीव्याख्यायां बालमनोरमायाङ्कर्मकर्तृप्रक्रिया समाप्ता / अथ लकारार्थप्रक्रियाः निरूप्यन्ते // अभिशावचने लट् // अभिज्ञा स्मृतिः सा उच्यते बोध्यते अनेनेति विग्रहः / तदाह / स्मृतिबोधिन्युपपदे इति // स्मृतिबोधकपदे समीपे प्रयुज्यमाने सतीत्यर्थः / भूते इत्यधिकृतम् / 'अनद्यतने लङ्' इत्यतः अनद्यतने इत्यनुवर्तते / For Private And Personal Use Only
Page #457
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा / स्मरसि कृष्ण गोकुले वत्स्यामः / एवं बुध्यसे चेतयसे इत्यादियोगेऽपि / तेषामपि प्रकरणादिवशेन स्मृतौ वृत्तिसम्भवात् / 2774 / न यदि / (3-2-113) यद्योगे इक्तं न / अभिजानासि कृष्ण यद्वने अभुमहि / 2775 / विभाषा साकाङ्के / (3-2-114) उक्तविषये लड्वा स्यात् / लक्ष्यलक्षणभावेन साकाङ्कश्चेद्धात्वर्थः / स्मरसि कृष्ण वने वत्स्यामस्तत्र गाश्चारयिष्यामः / वासो लक्षणं चारणं लक्ष्यम् / पक्षे लङ् / यच्छब्दयोगेऽपि 'न यदि' (सू 2774) इति बाधित्वा परत्वाद्विकल्प: / 'परोक्षे लिट' (सू 2171) / चकार / उत्तमपुरुषे चित्तविक्षेपादिना पारोक्ष्यम् / 'सुप्तोऽहं किल विलालाप' 'बहु जगद पुरस्तात्तस्य मत्ता किलाहम्' / अत्यन्तापह्नवे लिड़क्तव्यः' (वा 2084) / कलिङ्गेष्ववात्सीः / नाहं कलिङ्गाजगाम / तदाह / भूतानद्यतने इति // लङः इति // अनद्यतने लडित्यस्यापवाद इत्यर्थः / स्मरसीति // हे कृष्ण गोकुले अवसमिति यत् तत् स्मरसीत्यर्थः। अत्र वाक्यार्थः कर्म / कृतङ्गोकुलवासं स्मरसीति यावत् / एवमिति // स्मरसीति पदयोग इव वुध्यसे इत्यादिस्मृतिबोधकपदयोगे. ऽपि लडित्यर्थः / ननु बुध्यत्यादेः स्मृतित्वेन रूपेण स्मृत्यर्थकत्वाभावात्कथमिह लडित्यत आह / तेषामपीति // पर्यवसानगत्या स्मृतिबोधकत्वात्तद्योगेऽपि लट् / एतदर्थमेव वचनग्रहणमिति भावः / न यदि // यदीति सप्तमीति मत्वा आह / यद्योगे इति // उक्तं नेति // अभिज्ञावचने इति लट् न भवतीत्यर्थः / अभिजानासीति // वने अभुमहीति यत् तत् स्मरसीत्यर्थः / विभाषा // उक्तविषये इति // अभिज्ञाबोधिन्युपपदे इत्यर्थः / लक्ष्यलक्षणभावेनेति // अत्र व्याख्यानमेव शरणम् / ज्ञाप्यज्ञापकभावनेत्यर्थः / स्मरसी. ति // पूर्व वने अवसाम, तत्र वने गाः अवारयाम इति यत् तत् हे कृष्ण स्मरसीत्यर्थः / अत्र यत् इत्यस्य गम्यत्वेऽपि तस्य प्रयोगाभावान यद्योगः / वासो लक्षणमिति // चारणस्येति शेषः / उभयत्रापि लड़िकल्पः / अभिज्ञावचनयोगस्य अविशिष्टत्वादिति भावः। नच यद्योग एव 'विभाषा साकांक्षे' इति विकल्पोऽस्त्विति भ्रमितव्यम्। 'यदि वायं विकल्पः' इति भाष्यात्तदाह / यच्छन्दयोगेऽपीति // 'परोक्षे लिट्' इति प्राक् व्याख्यातमपि वि. शेषविवक्षया स्मर्यते / अहमर्थस्य प्रत्यक्षत्वात् परोक्षत्वाभावात् कथमस्य लिट उत्तमपुरुष इत्यत आह / उत्तमपुरुषे चित्तेति // सुप्तः इति // सुप्तत्वादहं विललापेत्यर्थः / अत्र स्वापाच्चितविक्षेपः। बहु जगदेति // मत्तत्वात्तस्य पुरस्तादहं बहु जगदेत्यर्थः / अत्र उन्मादाचित्तविक्षेपः / आदिना व्यासङ्गसङ्ग्रहः / अत्यन्तापह्नवे इति // अपरोक्षार्थमिदम् / कलिङ्गेष्ववात्सीरिति / अतस्त्वन्न सहवासयोग्य इति प्रश्नः / 'अङ्गवङ्गकलिङ्गेषु सौराष्ट्रमगधेषु For Private And Personal Use Only
Page #458
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 456 सिद्धान्तकौमुदीसहिता लकारार्थ 2776 / हशश्वतोर्लङ् च / (3-2-116) अनयोरुपपदयोलिविषये लङ स्यात् / चाल्लिट् / इति हाकरोच्चकार वा / शश्वदकरोच्चकार वा। 2777 / प्रश्ने चासन्नकाले / (3-2-117) प्रष्टव्यः प्रश्नः। आसन्नकाले पृच्छयमानेऽर्थे लिडिषये ललिटौ स्तः / अगच्छत्किम् / जगाम किम् / अनासन्ने तु कंसं जघान किम् / 2778 / लट् स्मे / (3-2-118) लिटोऽपवादः / यजति स्म युधिष्ठिरः / 2779 / अपरोक्षे च / (3-2-119) भूतानद्यतने लट् स्यात्स्मयोगे / एवं स्म पिता ब्रवीति / 2780 / ननौ पृष्टप्रतिवचने / (3-2-120) 'अनद्यतने' परोक्षे' इति निवृत्तम् / भूते लट् स्यात् / अकार्षीः किम् / ननु करोमि भोः। 2781 / नन्वोर्विभाषा / (3-2-121) च। तीर्थयात्रां विना यातः पुनः संस्कारमर्हति // ' इति वचनादिति भावः। नाहङ्कलिङ्गाजगामेत्युत्तरम् / कलिङ्गशब्दस्य जनपदविशेषवाचित्वात् बहुवचनम् / अत्र तद्देशगमनोत्तरकालिकवासविषयकप्रश्ने कारणीभूतगमनस्यैवापलापादत्यन्तापह्नवो ज्ञेयः / कलिङ्गेष्ववात्सीरित्यत्र ‘अक. मकधातुभिर्योगे देशः कालो भावः' इति कर्मसंज्ञायाः पाक्षिकत्वान्न द्वितीयेति कारकाधिकारे निरूपितम् / हशश्वतोर्लङ् च // स्पष्टम् / प्रश्ने चासनकाले // प्रश्ने इत्यनेन प्रश्नविषयो विवक्षित इत्याह / प्रष्टव्यः प्रश्नः इति // अर्थे इत्यनन्तरं वर्तमानाद्धातोरिति शेषः / प्रयोक्तृदृष्टिपथातिकान्तत्वमनासन्नकालकत्वम् / वृत्तौ तु पञ्चवर्षातीतकालः अनासन्नकाल इत्युक्तम् / लट् स्मे // स्मेत्यव्ययम् / तद्योगे लिड्विषये लट् स्यादित्यर्थः / यजति स्मेति // स्मशब्दो भूतकालद्योतकः / अपरोक्षे च // एवं स्मेति // पिता एवमुक्तवानित्यर्थः / ननौ पृष्ट // निवृत्तमिति // व्याख्यानादिति भावः / अकार्षीः किमिति प्रश्नः / ननु करोमीत्युत्तरम् / अकार्षमित्यर्थः / नन्विति संबोधने / नन्वोर्विभाषा // For Private And Personal Use Only
Page #459
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् ] बालमनोरमा। 457 नशब्दे नुशब्दे च लड्डा स्यात् / अकार्षी: किम / न कगोमि / नाकार्षम / अहं न करोमि / अहं न्वकार्षम / 2782 / पुरि लुङ् चास्मे / (3-2-122) अनद्यतनग्रहणं मण्डूकप्लुत्यानुवर्तते / पुराशब्दयोगे भूतानद्यतने विभाषा लुङ् / चाल्लट् / न तु स्मयोगे / पक्षे यथाप्राप्तम् / वसन्तीह पुर। छात्रा:-अवात्सुः-अवसन्-ऊपुर्वा / 'अस्मे' किम् / यजति स्म पुरा / भविष्यतीत्यनुवर्तमाने। 2783 / यावत्पुरानिपातयोर्लट् / (3-3-4) यावद्भुले / पुरा भुते / निपातावेतो निश्चयं द्योतयतः / * निपातया ' किम् / थावदास्यते तावद्भोक्ष्यते / करणभूतया पुरा यास्यति / 2784 / विभाषा कदाकोः / (3-3-5) भविष्यति लट् वा स्यात् / कदा कर्हि वा भुङ्क्ते-भोक्ष्यते--भोक्ता वा / न नु अनयोर्द्वन्द्वः / तदाह / नशब्दे नुशब्दे चेति॥ लड्डा स्यादिति // भूते इति शेषः / अकार्षीः किमिति प्रश्नः / न करोमि नाकार्षमित्युत्तरम् / अहं न करोमि। अहं न्वकार्षमिति च / 'तर्के नु स्यात्' इत्यमरः। पुरि लुङ् चास्मे // अस्मे इति च्छेदः / पुरेत्याकारान्तमव्ययम् / पुरीति तस्य सप्तम्येकवचनम् / आत इति योगविभागादालोपः / मण्डूकप्लुत्येति // अ: व्याख्यानमेव शरणम् / चालडिति // तथाच लुङ् लट् च वेति फलितम् / पक्षे इति // एतदुभयाभावपक्षे इत्यर्थः / यथाप्राप्तमिति // अनद्यतनपरोक्षभूते लिट् / परोक्षत्वाविवक्षायान्तु लडित्यर्थः / 'अभिज्ञावचने' इत्यारभ्य एतदन्ताः विधयस्तृतीयस्य द्वैतीयीकाः / अथ तृतीय स्य तार्तीयीका विधयो वक्ष्यन्ते। भविष्यतीत्यनुवर्तमाने इति // 'भविष्यति गम्यादयः' इति सूत्रादिति भावः / यावत्पुरा // यावत् पुरा इति द्वे पदे / अनयोः प्रयुज्यमानयोर्लट् स्यादि. त्यर्थः / लुडादेरपवादः / निश्चयं द्योतयतः इति // 'यावत्तावञ्च साकल्येऽवधा मानेऽवया रणे' इत्यमरः / यावद्दास्यते तावद्भोक्ष्यते इति // यत्परिमाणकं तत्परिमाणकमित्यर्थः / 'यत्तदेतेभ्यः परिमाणे वतुप्' इति वतुवन्तत्वेन निपातत्वाभावान्न लडिति भावः / करणभूत येति // पुरा यास्यतीति प्रत्युदाहरणान्तरम् / पुर्शब्दस्य पुरेति तृतीयान्तमिदम् / तत्स्फो रणाय करणभूतयेत्युक्तम् / विभाषा कदाकोः // भविष्यति लड्वा स्यादिति शेषपूर णम् / लडभावपक्षे लुट्लुटौ यथाप्राप्तम् / तदाह / कदा कर्हि वा भुङ्क्ते भोक्ष्यते भोक्ता वेति // नच कर्दियोगे लडभावपक्षे लुडेवोचितः, नतु लट् / 'अनद्यतने हिलन्यतरस्याम् ' इति हिलन्तकहियोगविरोधादिति वाच्यम् / लडुदाहरणस्य कदायोगमात्र विषयत्वादित्याहुः / 58 For Private And Personal Use Only
Page #460
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 458 सिद्धान्तकौमुदीसहिता लकारार्थ 2785 / किंवृत्ते लिप्सायाम् / (3-3-6) किंवृत्तं विभक्त्यन्तम् / भविष्यति लड्डा स्यात् / कं कतरं कतमं वा भोजयसि-भोजयिष्यसि-भोजयितासि वा / ‘लिप्सायाम' किम / क: पाटलिपुत्रं गमिष्यति / 2786 / लिप्स्यमानसिद्धौ च (3-3-7) लिप्स्यमानेनान्नादिना स्वर्गादेः सिद्धौ गम्यमानायां भविष्यति लड्डा म्यान। योऽन्नं ददाति-दास्यति--दाता वा / स स्वर्ग याति--यास्यति--याता वा / 2787 / लोडर्थलक्षणे च / (3-3-8) लोडर्थः प्रैषादिलक्ष्यते येन तस्मिन्नर्थे वर्तमानाद्धातोर्भविष्यति लड़ा स्यान / कृष्णश्चेद्भुङ्क्ते त्वं गाश्चारय / पक्षे लुट्लटौ / 2788 / लिङ् चोर्ध्वमौहूर्तिके / (3-3-9) ऊर्ध्व मुहूर्ताद्भवः ऊर्ध्वमौहूर्तिकः / निपातनात्समास: उत्तरपदवृद्धिश्च / अर्ध्वमौके भविष्यति लोडर्थलक्षणे वर्तमानाद्धातोलिङ्लटौ वा स्तः / मुहूर्ताकिंवत्ते लिप्सायाम् // किंशब्देन वृत्तं निष्पनं किंवृत्तमित्यभिप्रेत्य आह / विभक्तयन्त. मिति // लड्डेति // लड़भावे तु लुट्लुटौ यथाप्राप्तम् / किंवृत्तशब्देन विभक्त्यन्तडतरडतमान्तानामेव ग्रहणमिति वृत्तिः। तेन कदादियोगे भविष्यति लट् / 'यद्वृत्तानित्यम्' इति सूत्रभाष्यरीत्या तु किंवृत्तानां सर्वेषां कदेत्यादीनामपि ग्रहणमिति युक्तम् / कं कतरं कतमं वेति / / क्षुधितमनलिप्सुमिति शेषः। लिप्स्यमानसिद्धौ च / / लड्वेति / / पक्षे लिप्स्यमानसिद्धौ लिप्सायाः सत्वेऽप्यकिंवृत्तार्थमिदमिति मत्वोदाहरति / योऽन्नमिति // योऽनं ददाति स स्वर्ग याति। योऽनं दास्यति स स्वर्ग यास्यति। योऽनं दाता सः स्वर्ग यातेत्यन्वयः / लोडर्थलक्षणे च // लोडर्थः प्रैषादिरिति / विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु इत्यनुवृत्तौ लोट चेति लोडिधानादिति भावः / कृष्णश्चेदिति॥ कृष्णभोजनकाले त्वङ्गाधारयेत्यर्थः। अत्र कृष्णभोजनं लोडर्थस्य गोचारणप्रेषस्य लक्षणम् / परिच्छेदकमिति यावत् / पक्षे लुट्लटा. विति // कृष्णश्चेद्भोक्ता, भोक्ष्यते, वा त्वज्ञाश्चारयेत्युदाहार्यम्। लिङ् चोर्ध्वमौहर्तिके॥ ऊर्ध्वमिति विभक्तिप्रतिरूपकमव्ययम् / ऊर्ध्व मुहूर्तात् भवः इति विग्रहः / केचित्तु ऊर्ध्वमिति द्वितीयान्तम् / ‘अकर्मकधातुभिर्यो गे' इति कर्मवत्त्वादित्याहुः / ऊर्ध्वमौहूर्तिकः इति // ऊर्ध्वमुहूर्तशब्दात् भवार्थे कालाहमिति भावः / ननु तद्धितार्थत्यत्र दिक्सङ्खये इत्यनुवृत्तेस्स. मानाधिकाराच्चात्र कथं समास इत्यत आह / निपातनादिति // पूर्वपदे आदिवृद्धिमाशङ्कय आह / उत्तरपदवृद्धिश्चेति // निपातनादित्यनुषज्यते। ऊर्ध्वमौहूर्तिके इति // मुह For Private And Personal Use Only
Page #461
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् ] बालमनोरमा / 459 दुपरि उपाध्यायश्चेदागच्छेत्--आगच्छति--आगमिष्यति--आगन्ता वा अथ त्वं छन्दोऽधीष्व / 2789 / वर्तमानसामीप्ये वर्तमानवहा / (3-3-131) समीपमेव सामीप्यम् / स्वार्थे व्यञ् / 'वर्तमाने लट्' (सू 2151) इत्यारभ्य ‘उणादयो बहुलम्' (सू 3169) इति यावद्येनोपाधिना प्रत्यया उक्तास्ते तथैव वर्तमानसमीपे भूते भविष्यति च वा स्युः / कदा आगतोऽसि / अयमागच्छामि / अहमागमम् / कदा गमिष्यसि / एष गच्छामि-गमिष्यामि वा। 2790 / आशंसायां भूतवच्च / (3-3-132) वर्तमानसामीप्ये इति नानुवर्तते / भविष्यति काले भूतवद्वर्तमानवच्च प्रत्यया वा स्युराशंसायाम् / देवश्चेदवर्षीद्वर्षति-वर्षिष्यति वा धान्यमवाप्स्म दूर्ध्वकालीने इत्यर्थः / लोडर्थलक्षण इत्यत्रान्वेति प्रैषादाविति / लिङ्लटाविति // चाल्लट समुच्चीयत इति भावः / वा स्तः इति // पक्षे लुट्लटौ यथाप्राप्तम् / छन्दः इति // वेद इत्यर्थः / इति तृतीयस्य तृतीये भविष्यतीत्यधिकारस्थाः लविधयः / अथास्मिन्नेव तृतीयपाद क. तिपयान् विधीनाह / वर्तमानसामीप्ये // स्वार्थ प्यनिति // अस्मादेव निर्देशात् चतुवणादेराकृतिगणत्वाद्वेति भावः / इत्यारभ्येति // तृतीयस्य द्वितीये 'वर्तमाने लट' इत्यारभ्य आपादसमाप्तेः 'उणादयो बहुलम्' इति तृतीयपादादिमसूत्रात् प्राक् वर्तमानाधिकारः / तस्मिन्नधिकारे येन विशेषणेन याभ्यः प्रकृतिभ्यः वर्तमान प्रत्यया विहिताः ते सर्वे तेनैव विशेषणेन ताभ्यः प्रकृतिभ्यः वर्तमानसमीपकाले भूत भविष्यति च वा भवन्तीत्यर्थः / अत्र भूते भविष्यति चेत्यार्थिकम् / तयोरेव वर्तमानसामीप्यसत्वात्। कदा आगतोऽसीत्यागतं प्रति प्रश्नः / अयमागच्छामीत्युत्तरम् / अव्यवहितपूर्वकाले आगतवानस्मीत्यर्थः / वर्तमानसमीपकाले भूते लट् / अयमित्यनेन आगमनकालीनं प्रवदपरिकरबन्धादियुक्तं रूपं निर्दिश्यते / इदानीमागमं सूचयितुं वर्तमानवत्त्वाभावे भूते लङ् / कदा गमिष्यसीति गमनात्प्राक् प्रश्ने, एष गच्छामि इत्युत्तरम् / अव्यवहितोत्तरकाले गमिष्यामीत्यर्थः / एष इति तु अयमितिवत् व्याख्ययः / वर्तमानकालसमीपे भविष्यति लट् / गमिष्यामि वेति वर्तमानवत्त्वाभावे भविष्यति लट् / आशंसायां भूतवच्च // नानुवर्तते इति // अत्र व्याख्यानमेव शरणम् / अप्राप्तस्य प्रियस्य प्राप्तीच्छा आशंसा / सा च भविष्यद्विषयैव / भूते इच्छाविरहात् / तदाह / भविष्यति काले इति // देवश्चेदिति // देवः पर्जन्यः, अवर्षीचेत् धान्यमवाप्स्म / वर्षति चेत् वपामः / वर्षिष्यति चेत् वास्याम इत्यन्वयः / भूतवद्भावात् भविष्यति लुङ् / अवर्षीदिति अवाप्स्मेति च For Private And Personal Use Only
Page #462
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदीसहिता लकारार्थ वपामः--वस्यामो वा। ‘सामान्यातिदेशे विशेषानतिदेशः। तेन ललिटौ न / 2791 / क्षिप्रवचने लट् / (3-3-133) क्षिप्रपर्याये उपपदे पूर्वविषये लट् स्यात् / वृष्टिश्चेक्षिप्रमाशु त्वरितं बा यास्यति / शीघ्रं वास्यामः / नेति वक्तव्ये लड्ग्रहणं लुटोऽपि विषये यथा खात / श्वः शीघ्रं वस्यामः / 2792 / आशंसावचने लिङ् / (3-3-134) आशंसावाचिन्युपपदे भविष्यति लिङ् स्यान्न तु भूतवत / गुरुश्चदुपयादाशसेऽधीयीय / आशंसे क्षिप्रमधीयीय / 2793 / नानद्यतनवक्रियाप्रबन्धसामीप्ययोः / (3-3-135) क्रियाया: सातत्ये सामीप्ये च लङ्लुटौ न / यावजीवमन्नमदादास्यति भवति / वपधातो ङि उत्तमपुरुषबहुवचने अवाप्स्मेति भवति। वृष्टिवापयोरुभयोरप्याशंसाविपयत्वादुभयत्रापि लुङ् / वर्तमानवत्त्वपक्षे तु लट् / तदुभयाभावे तु लट् / ननु भूतवत्त्वपक्षे लब्लिटावपि कुतो न स्यातामित्यत आह / सामान्यातिदेशे इति // भूतत्वसामान्ये विहितस्यातिदेशादनद्यतनभूतत्वविशेषविहितयोलड्लिटोर्नातिदेश इत्यर्थः / एतच्च भाष्ये स्पएम् / क्षिप्रवचने लट् // वचनग्रहणात् क्षिप्रपर्याये इति लभ्यते / तदाह / क्षिप्रपर्याये इति // पूर्वविषये इति // आशंसायामित्यर्थः। 'आशंसायां भूतवच्च' इत्यस्यापवादः / ननु क्षिप्रवचने नेत्येतावतेव आशंसायां क्षिप्रपर्याये उपपदे भविष्यति न भूतवत् न वर्तमानवदिति लाभा लग्रहणमनर्थकमित्यत आह / नेति वक्तव्ये इति // क्षिप्रवचने नेत्युक्ते ‘सामान्यातिदेशे विशेषानतिदेशः' इति न्यायेन भविष्यत्सामान्ये विहितस्य लुङ एव निषेधः स्यात् , ननु लुटः / तस्य अनद्यतनभविष्यद्विशेषविधानात् / लुग्रहणे तु उक्तविषये लूडेव स्यात् , ननु लकारान्तरमिति लाभाल्लुटोऽपि विषये लडेवेति लभ्यत इत्यर्थः / श्वः शीघ्रं वस्यामः इति // यनद्यतनत्वद्योतनाय अश्शब्दः / अत्र न लुडिति भावः / आशंसावचने लिङ् // आशं. सायाः प्राप्तीच्छायाः भूते असम्भवात् भविष्यतीत लभ्यत इति मत्वा आह / भविष्यतीति॥ 'आशंसायां भूतवच्च' इत्यस्यायवादः / तदाह / नतु भूतवदिति // गुरुश्चेदिति।। गुरुरुपेयावत् क्षिप्रमधीयायेत्याशंसे इत्यन्वयः / क्षिप्रयोगेऽपि परत्वाल्लिदेव नतु लडिति भावः / नानद्यननवत् // क्रियायाः प्रवन्धः सातत्यम् / तदाह / क्रियायाः सातत्ये इति // अनद्यतनवदित्यनेन अनद्यतने भूते भविष्यति च विहिती लङ्लुटौ विवक्षितौ / तदाह / लङ्लुटौ नति // अनद्यतने भूते लङ् न भवति / भविष्यत्यनद्यतने तु लुट् नेत्यर्थः / क्रियासातत्ये लनिधमुदाहरति / यावजीवमन्नमदादिति // लुङि ‘गातिस्था' इति सिचो लुक् / सामीप्ये For Private And Personal Use Only
Page #463
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा / 563 4) 2800 / विभाषा कथमि लिङ् च / (3-3-143) गर्हायामित्येव / कालत्रये लिङ् चाल्लट् / कथं धर्म त्यजे: त्यजसि वा / पक्षे कालत्रये लकारः / अत्र भविष्यति नित्यं लङ् भूते वा / कथं नाम तत्रभवान्धर्ममत्यक्ष्यत् / 2801 / किंवृत्ते लिङ्लटौ / (3-3-114) गर्हायामित्येव / विभाषा तु नानुवर्तते / क:-कतर:-कतमो वा हरि निन्देत-निन्दिष्यति वा / लङ् प्राग्वत् / / 2802 / अनवक्लृप्त्यमर्षयोरकिंवृत्तेऽपि / (3.3-145) गर्यायामिति निवृत्तम् / अनवक्लतिरसंभावना। अमर्षोऽक्षमा / न सम्भावयामि न मर्पये वा भवान्हरिं निन्देत्-निन्दिष्यति वा / क:कतर:-कतमो वा हरिं निन्देत्-निन्दिष्यति वा / लङ् प्राग्वत् / जातुशब्दौ निन्दाद्योतकौ / तदाह / गर्हितमेतदिति // विभाषा कथमिलिङ्च // गर्हायामित्येवेति // अनुवर्तत एवेत्यर्थः / कालत्रये लिङिति शेषपूरणम् / भविष्यतीति निवृत्तमिति भावः / चालडिति समुच्चीयते इति शेषः / तथाच कथमित्यस्मिन् प्रयुज्यमाने कालत्रये गर्दायां लिङ्लटौ वा स्त इति फलितम् / कथं धर्म त्यजेरिति // त्यक्तवान् त्यक्ष्यसि त्यजसि वेत्यर्थः। गर्हितमेतदिति कथंशब्दाद्गम्यते / लटि उदाहरति / त्यजसि वेति // उक्तो. ऽर्थः / पक्षे इति // विभाषाग्रहणाल्लिङ्लटोरभावपक्षे भूते वर्तमाने भविष्यति च कालत्रये लिट्लङ्लुङ्लट्लुटुलुटः इत्यर्थः। अत्रेति // अत्र उक्तविषये भविष्यति काले क्रियायाः अनिष्पत्ती गम्यमानायां 'लिनिमित्ते लङ् क्रियातिपत्तौ' इति नित्यमेव लुङ् / कथमो गर्दायाश्च लिनिमितस्य सत्वादित्यर्थः / विशेषविहितत्वादिति भावः / भूते वेति // 'वोताप्योः' इति भूते लिनिमित्ते लङ वति अधिकृतत्वादुक्तविषये भूतकाले लुङ्वेत्यर्थः / भविष्यति नित्यं लडित्यत्रोदाहरति / कथन्नामेति // तत्रभवानिति समुदायः पूज्यवाची / वेदप्रामाण्याभ्युपगन्तति यावत् / एवंविधः कथं धर्ममत्यक्ष्यत्। तत्त्यागस्य गर्हितत्वादिति भावः। किंवृत्ते लिङ्लटौ। नानुवर्तते इति // व्याख्यानादिति भावः / विभक्त्यन्तं इतरडतमान्तञ्च किंशब्दनिष्पन्न किंवृत्तमिन्युक्तम्। तस्मिन्प्रयुज्यमाने गर्दायां लिङ्लूटौ स्त इत्यर्थः / सर्वलकाराणामपवादाविति वृत्तिः। लङ् प्राग्वदिति // भविष्यति नित्यं लुङ्, भूते वेति प्रागुक्तमिहाप्यनुसन्धेयमित्यर्थः / लिनिमित्तस्य किंवृत्तस्य गर्हायाश्च सत्त्वादिति भावः। अनवक्लुप्त्यमर्ष // निवृत्तमिति // व्याख्यानादिति भावः। अनवक्लुप्त्यमर्षयोः लिङ्लुटोश्च यथासङ्ख्यन्नेष्यते / अल्पाच्तरस्य अमपशब्दस्य पूर्वनिपातत्यागादिति वृत्तिः / न सम्भावयामीति // अकिंवृत्ते उदाहरणम् / भवान् हरिनिन्देदिति यत् तत् न सम्भावयामि न मर्षये वेत्यन्वयः। किंवृत्ते उदाहरति / कः For Private And Personal Use Only
Page #464
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Stori Acharya Shri Kailassagarsuri Gyanmandir लकारार्थ 564 सिद्धान्तकौमुदीसहिता 2803 / किंकिलास्त्यर्थेषु लृट् / (3-3-146) अनवक्लप्त्यमर्षयोरित्येतत् गर्दायां च' (सू 2806) इति यावदनुवर्तते / किंकिलेति समुदाय: क्रोधद्योतक उपपदम् / अस्त्यर्थाः अस्तिभवतिविद्यतयः / लिङोऽपवादः / न श्रद्दधे न मर्षये वा किंकिल त्वं शूद्रान्नं भोक्ष्यसे / अस्ति भवति विद्यते वा शूद्री गमिष्यसि / अत्र लङ् न / 2804 / जातुयदोर्लिङ् / (3-3-147) 'यदायद्योरुपसंख्यानम् ' (वा 2275) / लटोऽपवादः / जातु यद्यदा यदि वा त्वादृशो हरिं निन्देन्नावकल्पयामि न मर्षयामि / लङ् प्राग्वन / 2805 / यच्चयत्रयोः / (3-3-148) यञ्च यत्र वा त्वमेवं कुर्याः न श्रद्दधे न मर्पयामि / त्यस्ति र न समक्ष अनयोः वक्ला कतरः इति // लङ् प्राग्वदिति // भविष्यति नित्यं लुङ्, भूते वेत्युक्तमिहाप्यनुसन्धेयमित्यर्थः / किङ्किल // किङ्किलेतिसमुदायस्य अस्त्यर्थानाञ्च द्वन्द्वः / यावदिति // ‘गर्हायाञ्च' इत्यभिव्याप्येत्यर्थः / किङ्किलेल्यस्मिन् अस्त्यर्थेषु च प्रयुज्यमानेषु अनवक्लप्त्यमर्षयोर्लट् स्यादित्यर्थः / पूर्वसूत्रेण लुङ्लुटोः प्राप्तौ लडेवेत्यर्थमिदम् / तदाह / लिङोऽपवादः इति / / श्रद्दधे इति // न सम्भावयामीत्यर्थः / त्वं शूद्रान्नं भोक्ष्यसे इति यत् तत् न श्रद्दधे न मर्षये किङ्किलेत्यन्वयः। किङ्किलेति क्रोधं द्योतयति। अस्तीति।। शूद्रस्य स्त्री शगी। ताङ्गमिष्यसी भवति विद्यते वेत्यन्वयः / अत्र लुङ् नेति // भविष्यति नित्यं लुङ, भूते वेत्युक्तमिह भवति / अत्र लिडो विद्ध्यभावेन लिनिमित्तविरहात् / जातुयदोर्लिङ् // जातु यदा प्रयोगे अनवक्लुप्त्यमर्षयोर्लिङ् स्यादित्यर्थः / यदेति विभक्तिप्रतिरूपकमव्ययम् / अन. र्षयोरकिंवृत्तेऽपीति लिङलटौ प्राप्तौ लिडेवेत्यर्थमिदम् / तदाह / लुटोऽपवादः इति॥ रिति // यदायद्योः प्रयोगेऽपि उक्तविषये लिङ उपसङ्ख्यानमित्यर्थः / जात्वादिशब्दाः उदाहर नवक्लप्त्यमर्षद्योतकाः / त्वादृशो हरिनिन्देदित्येतत् नावकल्पयामि न मर्षयामि वेत्यन्व कल्पयामीत्यस्य न सम्भवायामीत्यर्थः। लुङ प्राग्वदिति // भविष्यति नित्यं लुङ् यनुसन्धेयमित्यर्थः / जात्वादियोगस्य अनवक्लप्त्यमर्षयोश्च लिनिमित्तत्वादिति प्योः // यच्चेति समुदाये यत्रशब्दे च प्रयुज्यमाने अनवक्लुप्त्यमर्षयोलटोऽपवादः। योगविभागस्तु उत्तरसूत्रे अनयोरेवानुवृत्त्यर्थः / उदाहरणे अनवक्लुप्त्यमर्षद्योतको / त्वमेवडा इत्येतत् न श्रद्दधे न मर्षयामि वेत्यन्वयः / अत्रापि न भविष्यति नित्यं लङ्, भूते वेत्युक्तमनुसन्धेयम् / लिनिमित्तस्य यदायद्यो भाव र्लिङ तिच यच्चेति यत्रे For Private And Personal Use Only
Page #465
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा। 461 वा। सामीप्यं तुल्यजातीयेनाव्यवधानम् / येयं पौर्णमास्यतिक्रान्ता तस्यामग्नीनाधित / सोमेनायष्ट / येयममावास्याऽऽगामिनी तस्यामग्नीनाधास्यते / सोमेन यक्ष्यते / 2794 / भविष्यति मर्यादावचनेऽवरस्मिन् / (3-3-136) भविष्यति काले मर्यादोक्ताववरस्मिन्प्रविभागेऽनद्यतनवन्न / योऽयमध्वा गन्तव्य: आपाटलिपुत्रात्तस्य यदवरं कौशाम्ब्यास्तत्र सक्तून्पास्यामः / 2795 / कालविभागे चानहोरात्राणाम् / (3-3-137) पूर्वसूत्रं सर्वमनुवर्तते / अहोरावसम्बन्धिनि विभागे प्रतिषेधार्थमिदम् / योगविभाग उत्तरार्थः / योऽयं वत्सर आगामी तस्य यदवरमाग्रहायण्यास्तत्र युक्ता अध्येष्यामहे / 'अनहोरात्राणाम्' किम् / योऽयं मास: आगामी तस्य योऽवरः पञ्चदशराबस्तत्राध्येतास्महे / उदाहरिष्यन्नाह / सामीप्यमिति॥ येयमिति // पौर्णमास्या उपरि कृष्णपक्षे कतिपयाहोरात्रैः व्यवधानेऽपि सामीप्यमस्त्येव / पौर्णमास्यन्तरेण सजातीयेन व्यवधानाभावात् / आधि. तेति // धाधातोलुङि 'स्थाध्वोरिञ्च' इति धाधातोरित्त्वं सनः कित्त्वञ्च / 'हूस्वादङ्गात्' इति सिचो लोपः / सोमेनायष्टेति // येयं पौर्णमास्यतिक्रान्ता तस्यामित्यनुषज्यते / अथ क्रियासातत्ये लुटो निषेधमुदाहरति / येयममावास्येति॥ सोमेन यक्ष्यते इति // येयममावा. स्या आगामिनी तस्यामित्यनुषज्यते / भविष्यति मर्यादा // अवरस्मिन्निति च्छेदः / अनद्यतनवन्नेति // लुट् नेत्यर्थः। अक्रियाप्रबन्धार्थमिति भाष्यम् / असामीप्यार्थश्चेति कैयटः। योऽय मिति॥ कस्मिंश्चिजनपदविशेषे वसतः पाटलिपुत्राख्यं नगरविशेषं जिगमिषोरिदं वाक्यम् / मद्ध्येमार्गौशाम्बी नाम काचिनगरीति स्थितिः। तत्र आपाटलिपुत्रात् योऽयं गन्तव्योऽध्वा तस्य अवन: मध्ये वर्तिन्याः कौशाम्ब्याः यदवरं पूर्वप्रदेशः तत्र सक्तून् श्वःप्रभृति पास्याम इति योजना। अत्र कौशाम्ब्या इति मर्यादा गम्यते / अवरमित्यनेन अवरत्वङ्गम्यते / अत्र भविष्य. त्यनद्यतने लुट् न, किन्तु लडेवेति भावः / कालविभागे // पूर्वसूत्रमिति // 'भविष्यति मर्यादावचनेऽवरस्मिन्' इति सूत्रमित्यर्थः / ननु कालमर्यादायामपि पूर्वसूत्रेणैव सिद्धमिल्यत आह / अहोरात्रेति // तथाच अहोरात्रसम्बन्धिनि प्रविभागे भविष्यति मर्यादावचने इत्युक्तविधिर्न भवतीत्यर्थः / ननु 'भविष्यति मर्यादावचनेऽवरस्मिन्' इत्येकमेव सूत्रङ्कुतो नेत्यत आह / योगविभाग उत्तरार्थः इति // इदमुत्तरसूत्रे स्पष्टीभविष्यति / योऽयं वत्सर आगामीति // कालतो मर्यादायामुदाहरणम् / आग्रहायण्या इति // मार्गशीर्षपौर्णमास्या इत्यर्थः / युक्ताः इति // नियमयुक्ता इत्यर्थः / अध्येध्यामहे इत्यत्र न लुट् / किन्तु लडेवेति भावः / पञ्चदशरात्रः इति // पञ्चदश रात्रयो यस्य पक्षस्येति बहुव्रीहिः / 'अप्रत्यन्ववपूर्वात्' इत्यच्समासान्तः। यद्वा पञ्चदशानां रात्रीणां समाहारः पञ्चदशरात्रः। 'अहः For Private And Personal Use Only
Page #466
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 462 सिद्धान्तकौमुदीसहिता लकारार्थ 2796 / परस्मिन्विभाषा / (3-3-138) अवरस्मिन्वज पूर्वसूत्रद्वयमनुवर्तते। अप्राप्तविभाषेयम् / योऽयं संवत्सर आगामी तस्य यत्परमाग्रहायण्यास्तत्राध्येष्यामहे / अध्येतास्महे / लिनिमित्ते लुङ् क्रियातिपत्तौ' (सू 2229) भविष्यतीत्येव / सुवृष्टिश्चेदभविष्यत्तदा सुभिक्षमभविष्यत् / __2797 / भूते च / (3-3-140) पूर्वसूत्रं सम्पूर्णमनुवर्तते / 2798 / वोताप्योः / (3-3-141) * वा 'आ' उताप्योः उताप्यो:-' (सू 2809) इत्यत: प्राग्भूते लिनिमित्ते लङ् वेत्यधिक्रियते / पूर्वसूत्रं तु * उताप्योः' इत्यादौ प्रवर्तत इति विवेकः / 2799 / गर्दायां लडपिजात्वोः / (3-3-142) __ आभ्यां योगे लट् स्यात् / कालत्रये गर्दायाम् / लुङादीन्परत्वादयं बाधते / अपि जायां त्यजसि / जातु गणिकामाधत्से / गर्हितमेतत् / सबैकदेश' इत्यच्समासान्तः / 'सङ्ख्यापूर्व रात्रं क्लीबम्' इति तु “लिङ्गमशिष्यं लोकाश्रयस्वाल्लिङ्गस्य' इति वचनान्न भवति / परस्मिन्विभाषा // अनुवर्तते इति // तथाच भविष्यति काले मर्यादोक्तौ परस्मिन् विभागे अनद्यतनवद्वेति फलितम् / ‘लिनिमित्ते लङ्क्रियातिपत्तौ' इति व्याख्यातं भूधातुनिरूपणे / भूते च // अधिकारोऽयम् / अनुवर्तते इति // तथाच लिङ्निमित्ते लङ् क्रियातिपत्तौ भूत इति अधिक्रियते इति फलितमिति भावः / वोताप्योः // अयमप्यधिकारः / वा आ उताप्योरिति छेदः / भूते इति लिङ्निमित्ते लङिति चानुवर्तते / तदाह / उताप्योरित्यतः प्रागिति // उताप्योः समर्थयोरित्यतः प्रागित्यर्थः / नन्वनेन 'उताप्योः' इत्यतः प्राक् भूते लिनिमित्त लड्डेत्यधिकाराक्रान्तत्वात् भूते चेति पूर्वमधिकारसूत्रनिर्विषयमित्यत आह / पूर्वसूत्रं त्विति // 'उताप्योः समर्थयोर्लिङ्' इत्यारभ्य 'इच्छार्थेभ्यो विभाषा' इत्यतः भूते चेति पूर्वमधिकारसूत्रं प्रवर्तत इत्यर्थः / इमावधिकारौ यत्र लिड्विधिस्तत्रैव प्रवर्तते, नतु लडादिविधौ / लिनिमित्ताभावात् / गर्हायाम्॥ अपि जातु अनयोर्द्वन्दुः / अत्र 'वोताप्योः' इति भूते लिनिमित्तेलङ्वा' इत्यधिकारो न सम्बध्यते / लड्डिधानेन तद्विषये लिनिमित्ताभावात् / कालत्रये इति // वर्तमाने भूते भविष्यति चेत्यर्थः / भविष्यतीति निवृत्तम् / अतः कालसामान्ये लडिति भावः / परत्वा. दिति // अनवकाशत्वाच्चेत्यपि द्रष्टव्यम् / अपि जायामित्यत्र जातु गणिकामित्यत्र च अपि For Private And Personal Use Only
Page #467
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा / 2806 / गर्दायां च / (3-3-149) अनवक्लप्त्यमर्षयोरिति निवृत्तम्। यच्चयत्रयोोंगे गर्दायां लिडेव स्यात् / यश्च यत्र वा त्वं शूद्रं याजयेः / अन्याय्यं तत् / 2807 / चित्रीकरणे च / (3-3-150) यञ्च यत्र वा त्वं शूद्रं याजयेः / आश्चर्यमेतत् / / __ 2808 / शेषे लुडयदौ / (3-3-151) यच्चयत्राभ्यामन्यस्मिन्नुपपदे चित्रीकरणे गम्ये धातोर्लट् स्यात् / आश्चर्यमन्धो नाम कृष्णं द्रक्ष्यति / 'अयदौ' किम् / आश्चर्य यदि मूकोऽधीयीत / 2809 / उताप्योः समर्थयोर्लिङ् / (3-3-152) बाढमित्यर्थेऽनयोस्तुल्यार्थता / उत अपि वा हन्यादधं हरिः / 'समर्थयो:' किम् / उत दण्डः पतिष्यति / अपिधास्यति द्वारम् / प्रश्न: प्रच्छादनं च गम्यते / इतः प्रभृति लिनिमित्ते क्रियातिपत्तौ भूनेऽपि नित्यो लङ्। सत्त्वात् / गर्हायाश्च // निवृत्तमिति // व्याख्यानादिति भावः / यच्चयत्रयोः' इति लिङिति चानुवर्तते / तदाह / यच्चयत्रयोोंगे इति // लिडेवेति // नतु लकारान्तरमित्यर्थः / उदाहरणे यच्चेति यत्रेति च गहीद्योतकम् / त्वं शूद्रं याजयेरिति यत् तदन्याय्यमित्यन्वयः / लङ् प्राग्वत् / चित्रीकरणे च // यच्चयत्रयोः प्रयोग आश्चर्ये गम्ये लिडेव स्यात् , नतु लकारान्तरमित्यर्थः / उदाहरणे यच्चेति यत्रेति चाचर्यद्योतकम् / त्वं शूद्र याजयेरिति यत् तदाश्चर्यमित्यन्वयः / शेषे लडयदौ // यच्चयत्राभ्यामन्यश्शेषः। तदाह / यच्चयत्राभ्यामन्यस्मिन्निति // यदिभिन्ने इति शेषः / लुट् स्यादिति // नतु लकारान्तरमित्यर्थः / आश्चर्यमिति // अन्धः कृष्णं द्रक्ष्यतीत्याश्चर्यमित्यन्वयः / नामेत्यव्य यमाश्चर्यद्योतकम् / मूकः इति // मूको अधीयीत इत्याश्चर्यमित्यन्वयः। यदीत्याश्चर्यद्योतकम् / उताप्योः // समौ अथौं ययोरिति विग्रहः / शकन्ध्वादित्वात्पररूपम् / एकार्थकयोरित्यर्थः / कमर्थमादायानयोरेकार्थकत्वमित्यत आह / बाढमिति // तथाच बाढार्थकयोः उत अपि इत्यनयोः प्रयोग लिङ् स्यान्न तु लकारान्तरमित्यर्थः / उत अपि वेति // उत हन्यादघं हरिः, अपि हन्यादघं हरिरित्यन्वयः / उतापी बाढमित्यर्थको / गम्यते इति // उत दण्डः पतिप्यतीत्यत्र उतशब्देन प्रश्नो गम्यते / अपिधास्यति द्वारमित्यत्र अपिना धाधातोः प्रच्छादनार्थकत्वङ्गम्यत इत्यर्थः // इतःप्रभृतीति // 'वोताप्योः' इति मर्यादायामाङ् / 'उताप्योः' इत्यतः प्राक् भूते लिनिमित्ते लुङ्वेत्यधिक्रियते / 'उताप्योः' इत्यादिसूत्रेषु भूते 'लिङ् 1. अत्र सोऽधीयीतत्यव पाठः बहुषु ग्रन्थेषु दृश्यते / For Private And Personal Use Only
Page #468
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 566 सिद्धान्तकौमुदीसहिता [लकारार्थ 2810 / कामप्रवेदनेऽकञ्चिति / (3-3-153) स्वाभिप्रायाविष्करणे गम्यमाने लिङ् स्यान्न तु कञ्चिति / कामो मे भुजीत भवान् / 'अकञ्चिति' इति किम् / कञ्चिज्जीवति / 2811 / सम्भावनेऽलमिति चेत्सिद्धाप्रयोगे / (3-3-154) अलमर्थोऽत्र प्रौढिः / सम्भावनमित्यलमिति च प्रथमया सप्तम्या च विपरिणम्यते / सम्भावनेऽर्थे लिङ् स्यात् , तच्चेत्सम्भावनमलमिति सिद्धाप्रयोग सति / अपि गिरि शिरसा भिन्द्यात् / 'सिद्धाप्रयोगे' किम् / अलं कृष्णा हस्तिनं हनिष्यति / 2812 / विभाषा धातौ सम्भावनवचनेऽयदि / (3-3-155) निमित्ते लङ् क्रियातिपत्तौ' इत्येवाधिक्रियते इत्युक्तम् / एवञ्च 'उताप्योः' इति सूत्रप्रभृति लिनिमित्ते क्रियातिपत्ती भूते लुडित्येवाधिक्रियते, नतु वाग्रहणम् / अतो नित्यमेवात्र विषये क्रियातिपत्तौ भूते भविष्यति च लुडित्यर्थः / कामप्रवेदनेऽकञ्चिति // अकञ्चितीति च्छेदः / तदाह / नतु कच्चितीति // सर्वलकारापवादः / अभिप्रायः इच्छा / कामः इति // भवान् भुञ्जीतेति मे कामः / इच्छेत्यर्थः / अत्र लिनिमित्तस्य सत्त्वात् क्रियातिपत्तौ भूतेऽपि नित्यं लङ् / प्रश्न एवायकामप्रवेदनद्योतक इति प्राप्तिः। अत्र कच्चिच्छब्दस्य इच्छार्थकत्वाभावादि. च्छार्थेष्विति वक्ष्यमाणनात्र प्रवर्तते / सम्भावने // अलमर्थोऽत्र प्रौढिरिति / पर्याप्तिरि. त्यर्थः / विपरिणम्यते इति // सम्भावने इति यत् सप्तम्यन्तन्तत् आवर्त्य प्रथमया सम्भावनमिति च विपरिणम्यते / यत्तु अलम् इति प्रथमान्तन्तत् आवर्त्य सप्तम्या अलमि इति च विपरिणम्यत इत्यर्थः / छान्दसं विभक्तिव्यत्ययमाश्रित्येति शेषः / तथाच सम्भावने इति सप्तम्य. न्तं सम्भावनमिति प्रथमान्तञ्च लभ्यते / तथा अलम् इति प्रथमान्तं अलमि इति सप्तम्यन्तञ्च लभ्यते। तत्र सम्भावने इति सप्तम्यन्तमर्थनिर्देशपरम् / तदाह / सम्भावनेऽथै लिङ् स्यादिति // उत्कटान्यतरकोटिकं ज्ञानं सम्भावनमित्युच्यते / सम्भावनमिति प्रथमान्तन्तु अलमिति प्रथमान्तेन विशेष्यते / इतिहेतौ / तदाह / तच्चेदिति // तत्सम्भावनम् अलं पर्याप्ति. हेतुकञ्चेदित्यन्वयः। विधधातोर्ज्ञानार्थकात् 'मतिबुद्धि' इति वर्तमाने कर्मणि क्ते सिद्धशब्दः। सिद्धे गम्यमानेऽप्यलमर्थे अप्रयोगो यस्य सः सिद्धाप्रयोगः तस्मिन्निति विग्रहः। अलमि इति सप्तम्यन्तमत्र विशेष्यसमर्पकं सम्बध्यते / अलंशब्दप्रयोग विनापि तदर्थे गम्यमाने इति यावत् / तदाह / सिद्धाप्रयोगे सतीति // अलमीति शेषः / अपि गिरिमिति // बलवन्तं पुरुषमधिकृत्य अत्युक्तिरियम् / प्रायेण शिरसा गिरिं भेत्तुमयं समर्थ इत्यर्थः / गिरिभेदसम्भावनस्य सामर्थ्यहेतुकत्वद्योतकः अपिशब्दः। अत्र लिनिमित्तसत्त्वात् क्रियातिपत्तौ भूते लङ्। 'अलमिति सम्भावने सिद्धाप्रयोगश्चेत्' इति सुवचम् / विभाषा धातौ // अयदीति छेदः / तदाह / नतु For Private And Personal Use Only
Page #469
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा / पूर्वसूत्रमनुवर्तते। संभावनेऽर्थे धातावुपपदे उक्तेऽर्थे लिङ् वा स्यात् , न तु यच्छब्दे / पूर्वेण नित्ये प्राप्ते वचनम् / सम्भावयामि भुजीत भोक्ष्यते वा भवान / 'अयदि' किम् / सम्भावयामि यद्भुञ्जीथास्त्वम् / / 2813 / हेतुहेतुमतोर्लिङ् / (3-3.156) वा स्यात् / कृष्णं नमेच्चत्सुखं यायात् / कृष्णं नस्यति चेत्सुखं यास्यति / 'भविष्यत्येवेष्यते / ' (वा 2275) / नेह / हन्तीति पलायते / 2814 / इच्छार्थेषु लिङ्लोटौ / (3-3-157) इच्छामि भुजीत-भुक्तां वा भवान् / एवं कामये प्रार्थये इत्यादियोग बोध्यम् / 'कामप्रवेदने इति वक्तव्यम्' (वा 2276) / नह / इच्छन्करोति / 2815 / लिङ् च / (3-3-159) समानकर्तृकेषु इच्छार्थेषु लिङ् / भुजीयेतीच्छति / 2816 / इच्छार्थेभ्यो विभाषा वर्तमाने / (3-3-160) लिङ् स्यात्पक्षे लट् / इच्छेत् / इच्छति / कामयेत / कामयते / यदिति // लिङभावे लुट्। ‘शेष लुड्यदौ' इत्यतस्तदनुवृत्तेः / सम्भावयामीति // प्रायण भोक्तुं समर्थ इत्यर्थः / हेतुहेतुमतोर्लिङ् // पूर्वपूत्राद्विभाषानुवृत्तिं मत्वा आह / वा स्या. दिति // पक्ष लुट्। हेतुभूते फलभूते वाऽर्थ वर्तमानाद्धातोर्लिङ् वा स्यादिति यावत्। भविष्य त्येवेति // लिडित्यनुवर्तमाने पुनर्लिङ्ग्रहणादिति भावः / हन्तीतीति // इतिहेतौ वर्तमानकालिकहननाद्धेतोरित्यर्थः / अत्र लिनिमित्तसत्त्वात् / भविष्यति तु क्रियातिपत्तौ भूतं च लङ् / इच्छार्थेषु लिङ्लोटौ // इच्छार्थकधातुषु प्रयुज्यमानेषु लिङ्लोटौ स्तः / सर्वलकारापवादः। असमानकर्तृकविषयमिदम्। समानकर्तृकेषु तु 'लिङ्च' इति वक्ष्यते / इच्छामीति // भुञ्जीत भवानिति इच्छामीत्यन्वयः। कामप्रवेदने इति // परं प्रति वाभिप्रायाविष्करणे इच्छार्थेषु लिङ्लोटाविति विधिरित्यर्थः / इच्छन्करोतीति // परं प्रति स्वाभिप्रायाविष्करणाभावान्न लिङ्लोटाविति भावः। 'कामप्रवेदनेऽकच्चिति' इति सूत्रन्तु प्रकरणादिना यत्र कामप्रवेदनं नत्विच्छार्थकमुपपदमस्ति तद्विषयमिति बोध्यम् / इत उत्तरसूत्रं समानकर्तृकेषु तुमुनिति तु कृदधिकारे व्याख्यास्यते / लिङ् च // समानकर्तृकेष्विति इच्छार्थेष्विति चानुवर्तते / तदाह / समा. नेत्यादि / भुञ्जीयतीच्छतीति // अत्र भोक्तुरेव इषिकर्तृत्वात्समानकर्तृकत्वम्। समानकर्तृकेषु इच्छाष्विति च लोटो निवृत्त्यर्थामदं सूत्रम् / क्रियातिपत्तौ तु भविष्यति नित्यं लुङ् भूते वेत्यधिकारः सम्पूर्णः। इच्छार्थेभ्यो॥ लिडित्येवानुवर्तते / समानकर्तृकेष्विति तु निवृत्तम् / तत् सूचयन्नुदाहरति / इच्छेत् / इच्छतीति॥'विधिनिमन्त्रण'इति भूधातौ व्याख्यातमपि सूत्र For Private And Personal Use Only
Page #470
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदीसहिता लकारार्थ 'विधिनिमन्त्रण-' (सू 2208) इति लिङ् / विधौ / यजेत / निमन्त्रणे / इह भुञ्जीत भवान् / आमन्त्रणे / इहासीत / अधीष्टे / पुत्रमध्यापयेद्भवान् / संप्रसारणे'। किं भो वेदमधीयीय उत तर्कम् / प्रार्थने / भो भोजनं लभेय / एवं लोट् / 2817 / प्रैषातिसर्गप्राप्तकालेषु कृत्याश्च / (3-3-163) लोट् च / प्रैषो विधिः / अतिसर्ग: कामचारानुज्ञा / भवता यष्टव्यम् / भवान्यजताम् / चकारेण लेटोऽनुकर्षणं प्राप्तकालार्थम् / 2818 / लिङ् चोर्ध्वमौहूर्तिके / (3-3-164) प्रैषादयोऽनुवर्तन्ते / मुहूर्तादूर्ध्व यजेत-यजताम्-यष्टव्यम् / 2819 / स्मे लोट् / (3-3-165) पूर्वसूत्रस्य विषये। लिङः कृत्यानां चापवादः / ऊर्ध्व मुहूर्ताद्यजतां स्म / 2820 / अधीष्टे च / (3-3-166) क्रमप्राप्तत्वात् स्मारितम् / सम्प्रसारणे इति // सम्प्रश्न इत्यर्थः / एवं लोडिति // लोट् चेति विध्यादिषु विहितो लोडप्येवमुदाहियते इत्यर्थः / प्रैषातिसर्ग // लोट् चेति // पूर्वसूत्रोपात्तो लोट् चकारात्समुच्चीयते / कृत्यसंज्ञकाः प्रत्ययाः वक्ष्यमाणो लोट्च प्रैषादिषु भवन्तीत्यर्थः / प्रेषे अतिसर्गे च कृत्यप्रत्ययमुदाहरति / भवता यष्टव्यमिति // भावे तव्यप्रत्ययः / लोटमुदाहरति / भवान् यजतामिति // ननु चकारेण लोटोऽनुकर्षणं व्यर्थम् / प्रैषस्य विधिरूपतया अतिसर्गस्य आमन्त्रणरूपतया च 'लोट् च' इत्यनेनैव सिद्धेरित्यत आह। चकारेणेति // प्राप्तकाले यथा। गुरुणा भोक्तव्यं / गुरुर्भुजीत। भोजनं प्राप्तावसरमित्यर्थः। प्राप्तकाले च कृत्याश्च, इत्युक्तौ तु निमन्त्रणादिष्वपि कृत्याः स्युः / अतः प्रैषादिग्रहणम् / लिङ् चोर्ध्वमौहूर्ति के // 'लोडर्थलक्षणे च' इत्युत्तरमेवञ्जातीयकमेवं सूत्रं लिङ्लड्लुड्लड्डिधायकं प्राक् पठितम् / तत्र ऊर्ध्वमौहर्तिकशब्दो व्याख्यातः / प्रैषादयः इति // तथाच मुहूर्तादुपरितनकालके धात्वर्थे विद्यमानाद्धातोः प्रैषातिसर्गप्राप्तकालेषु लिङ् च स्यात् लोट् कृत्याश्चेत्यर्थः / क्रमेण लिङादीनुदाहरति / मुहूर्तादूर्ध्व यजेत-यजतां-यष्टव्यमिति // अत्र प्राप्तकाले अप्राप्तस्य लिङो विधिः। विध्यादिसूत्रे लिविधौ प्राप्तकालस्य ग्रहणाभावात् / प्रैषातिसर्गयोस्तु विध्यादिसूत्रेणैव लिङ् सिद्ध्यति / लिङ एवात्र विधौ तु, तेन लोटः कृत्यानाञ्च बाधः स्यात् / अतश्वकारेण तेषामपि विधिरिति ज्ञेयम् / स्मे लोट् // पूर्वसूत्रेति // तथाच मुहूर्तादुपरितनकाले प्रैषातिसर्गप्राप्तकालेषु लोडेव स्यात् , नतु लिङ् कृत्याश्चेत्यर्थः / तदाह / लिङः कृत्यानाश्चापवादः इति // अधीष्टे च॥ लोट् स्यादिति // 'अधीष्टे च' इति विहितस्य लिडोऽपवादः / अधीष्टं 1. अयं पाठः व्याख्यानभिमतः 'संप्रश्न' इति पाठस्तु साम्प्रदायिकः / For Private And Personal Use Only
Page #471
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा / स्मे उपपदेऽधीष्टे लोट् स्यात् / त्वं स्माद्ध्यापय / 2821 / लिङ् यदि / (3-3-168) यच्छब्दे उपपदे कालसमयवेलासु च लिङ् स्यात्। कालः समयो वेला वा यद्भुजीत भवान् / 2822 / अर्हे कृत्यतृचश्व / (3-3-169) चाल्लिङ् / त्वं कन्यां वहः / 2823 / शकि लिङ् च / (3-3-172) शक्तौ लिङ्ग स्यात् / चात्कृत्याः / भारं त्वं वहेः / ‘माङि लुङ्' (2219) मा कार्षीः / कथं मा भवतु मा भविष्यतीति / नायं माङ् किंतु माशब्दः / 2824 / धातुसम्बन्धे प्रत्ययाः। (3-4-1) सत्कारपूर्वको व्यापार इत्युक्तम्। त्वं स्माध्यापयेति गुरुं प्रत्युक्तिः / 'स्मे लोडधीष्टे च' इत्येकसूत्रत्वेन सिद्ध योगविभागस्तु ऊर्ध्वमौहूर्तिक इत्यनुवृत्तिनिवृत्त्यर्थः। 'कालसमयवेलासु तुमुन् ' इत्युत्तरसूत्रन्तु कृदधिकारे व्याख्यास्यते / लिङ् यदि // कालसमयवेलास्वित्यनुवर्तते / सर्वलकारापवादः / तुमुनपवादश्च। भुञ्जीत भवानिति यत् तस्य काल: समयो वेला वेत्यन्वयः / अर्हे कृत्यतृचश्च॥ चाल्लिङिति // योग्ये कर्तरि गम्ये कृत्या: तृच् लिङ् चेत्यर्थः / त्वङ्कन्यां वहेरिति // कन्याविवाहस्य योग्य इत्यर्थः। शकि लिङ् च // शकि इति भावे क्विवन्तम् / शक्तौ गम्यमानायामित्यर्थः / भारं त्वं वरिति // वोढु शक्त इत्यर्थः / माङि लुङिति व्याख्यातमपि कमप्राप्तं विशेषविवक्षया पुनः स्मार्यते / ननु सर्वलकारापवादोऽयमित्युक्तम् / एवं सति मा भवतु मा भविष्यतीति कथमिति शङ्कते। कथमिति॥ परिहरति / नायं माङिति॥ किन्त्विति // इकारानुबन्धविनिर्मुक्तस्यापि अव्ययेषु पाठादिति भावः। नच माशब्दमादाय मा भवत्वित्यादि. प्रयोगसत्त्वे 'माङि लुङ्' इति व्यर्थमिति वाच्यम्। सर्वलकारविषये 'न माङयोगे' इत्यडाडूहितलुङ. न्तप्रयोगार्थन्तदावश्यकत्वात् / धातुसम्बन्धे // धातुशब्देन धात्वर्थो लक्ष्यते / धातोः सम्बन्ध इति विग्रहः / सम्बन्धस्य द्विनिष्ठत्वात् / तथाच धात्वर्थयोस्सम्बन्धे सति प्रत्ययाः स्युरिति लब्धम् / कस्मिन्नर्थे इत्याकांक्षायाङ्काले इति गम्यते / 'वर्तमाने लट्' इत्यारभ्य तत्तत्कालविशेषेप्येवं प्रत्ययविधिदर्शनात् / तत्र तत्तद्विधिभिरेव तत्तत्कालविशेषे प्रत्ययसिद्धस्ततोऽन्यस्मिन्काले 1 वस्तुतः स नास्त्येव / 'आङ्माङोश्च' इति सूत्रे भाष्ये तथा ध्वनितत्वात्-इति शेखरकृत् // For Private And Personal Use Only
Page #472
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदीसहिता लकारार्थ धात्वर्थानां संबन्धे यत्र काले प्रत्यया उक्तास्ततोऽन्यवापि स्युः / तिङन्तवाच्यक्रियायाः प्राधान्यात्तदनुरोधेन गुणभूतक्रियावाचिभ्यः प्रत्ययाः / वसन्ददर्श / भूते लट् / अतीतवासकर्तृकं दर्शनमर्थः / सोमयाज्यस्य पुत्रो भविता / सोमेन यक्ष्यमाणो यः पुत्रस्तत्कर्तृकं भवनम् / 2825 / क्रियासमभिहारे लोट् लोटो हिस्वौ वा च तध्वमोः / (3-4-2) पौनःपुन्ये भृशार्थे च द्योत्ये धातोर्लोट् स्यात्तस्य च हिस्वौ स्तः / तिङामपवादः / तौ च हिस्वौ क्रमेण परस्मैपदात्मनेपदसंज्ञौ स्तस्तिसंज्ञौ च / इति गम्यते / तदाह / धात्वर्थानामित्यादिना // धात्वर्थयोरित्यर्थः / उदाहरणबहुत्वाभिप्रायं बहुवचनम् / 'वर्तमानसामीप्ये वर्तमानवद्वा' इत्यादिसूत्रे यत्र काले ये प्रत्यया उक्ताः ते धात्वर्थयोस्सम्बन्धे गम्ये ततोऽन्यस्मिन्नपि काले स्युरिति यावत् / तथाच वसन् ददर्शेत्यत्र लडादेशः शतृप्रत्ययो भूतकाले इति सिद्धं भवति / ननु 'वसन् ददर्श' इत्यत्र भूते लडिव वर्तमाने लिडित्यपि स्यादित्यत आह / तिङन्तेति // वसन् ददर्शेत्यादौ तिङन्तवाच्यदर्शनादि. क्रिया प्रधानम् / वासादिक्रिया तु दर्शनादिक्रियार्थत्वात् गुणभूता / अतः प्रधानभूतदर्शनादिक्रियानुसारेण गुणभूतवासादिक्रियावाचिभ्य एव इह प्रत्ययाः कालान्तरेषु विधीयन्त इत्यर्थः / भूते लडिति // एवञ्च उषित्वा ददर्शेत्यर्थः / तदाह / अतीतेति // अतीतवासे कर्ता यस्येति विग्रहः / 'सप्तमीविशेषणे बहुव्रीहौ' इति ज्ञापकायधिकरणपदो वहुव्रीहिः / उदाहरणान्तरमाह / सोमयाजीति // सोमेन इष्टवान्यः स सोमयाजी 'करणे यजः' इति भूते विहितो णिनिः इह भवि. तेत्यनद्यतभावष्यल्लुडन्तप्रधानक्रियानुसारेण अनद्यतनभविष्यति बोद्ध्यः / तदाह / सोमेन यक्ष्यमाणः इति // भवनमिति // उत्पत्तिरित्यर्थः / गोमानासीदित्यप्युदाहार्यम् / अत्र गौरस्यास्तीति अस्तिक्रियायां वर्तमानायान्तदस्यास्तीति विहितो मतुप् गौरस्यासीदितीति भूतायामस्तिक्रियायाम्भवति / धात्वर्थद्वयसम्बन्धस्य सत्त्वात् / एतेन अर्थद्वारके धात्वोस्सम्बन्धे इत्यपि व्याख्यानं परास्तम् / तथा सति परस्परसम्बन्धार्थबोधकधातुद्वयप्रयोगे प्रत्यया इत्यर्थलाभात् गोमानासीदित्यत्र मतुबन्तापत्तेः। नहि धात्वोरिह प्रयोगोऽस्ति। धात्वर्थयोस्सम्बन्धे इत्यर्थाभ्युपगमे तु गोमानासीदित्यत्र धातुद्वयप्रयोगाभावेऽपि धात्वर्थद्वयस्य सत्त्वादासीदित्यर्थे मतुप् निर्बाध इत्यन्यत्र विस्तरः / क्रियासमभि // अत्र चत्वारि वाक्यानि / तत्र क्रियासमभिहारे लोडिति प्रथमं वाक्यम्। पौनःपुन्यं भृशार्थश्च क्रियासमभिहार इत्युक्तम् / क्रियासमभिहारे इति धात्वर्थवि. शेषणम् / क्रियासमभिहारविशिष्टक्रियावृत्तेर्धातोरिति लभ्यते / लोट् तु द्योतकः / तदाह / पौनःपुन्ये भृशार्थे च द्योत्ये इति // क्रियासमभिहारविशिष्टक्रियावृत्तेर्धातोर्लोडिति यावत् / सर्वलकारापवादः / लोटो हिस्वाविति द्वितीयं वाक्यं व्याचष्टे / तस्येति // पूर्ववाक्यविहितस्य लोटः हिस्वावादेशौ स्त इत्यर्थः / तिङामपवादः इति // अपवादावित्यर्थः / प्रत्येका For Private And Personal Use Only
Page #473
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा / तध्वमोर्विषये तु हिस्वौ वा स्तः / पुरुषैकवचनसंज्ञे तु नानयोरतिदिश्यते / हिस्वविधानसामर्थ्यात् / तेन सकलपुरुषवचनविषये परस्मैपदिभ्यो हिः कर्तरि / आत्मनेपदिभ्यः स्वो भावकर्मकर्तृषु / 2826 / ससुच्चयेऽन्यतरस्याम् / (3-4-3) भिप्रायमेकवचनम् / ननु हिस्वयोरुभयोरपि लादेशत्वात् परस्मैपदत्वं स्यात् / तथा सति हेः परस्मैपदत्वं स्वादेशस्य त्वात्मनेपदत्वमितीष्टा व्यवस्था न सिद्ध्येत् / अस्य स्वादेशस्य तङ्प्रत्याहारप्रविष्टत्वाभावेन ' तङानावात्मनेपदम्' इत्यस्याप्रवृत्तेः / 'तिप्तझि' इत्यादिसूत्रोपात्तेषु तातामादिष्वेव तसंज्ञाप्रवृत्तेः। किञ्च अनयोर्हिस्वयोः ‘तिप्तस्झि' इति सूत्रानन्तर्भूतत्वात्तत्वञ्च दुर्लभमित्यत आह / तौ चेति // लोटो हिस्वाविति द्वितीयवाक्ये तावत्क्रियासमभिहारे लोडिति प्रथमवाक्यात् लोडित्यनुवृत्तं स्थानषष्ट्या विपरिणतं तृतीयं वाक्यं सम्पद्यते / तत्र हिलोटो हिस्वौ इति द्वितीयवाक्यात् हिस्वावित्यनुवृत्तं धर्मपरमाश्रीयते / तथा च लोडादेशौ हि स्ववद्भवत इति लभ्यते / कौ भवतः इत्याकांक्षायां पूर्ववाक्योपस्थितौ हिस्वाविति गम्यते / ततश्च याविमौ तिङनन्तर्भूतौ हिस्वावुक्तौ तौ प्रसिद्धलोडादेशतिङन्तर्भूतहिस्ववत् भवत इति तृतीयं वाक्यं पर्यवस्यति / तिङन्तर्भूतहिस्वयोस्तावत् क्रमात् परस्मैपदत्वमात्मनेपदत्वञ्च / प्रसिद्धं तित्वम् / अतः प्रकृतौ हिस्वौ क्रमात् परस्मैपदात्मनेपदसंज्ञौ स्तः तिडसंज्ञौ चेत्यर्थः / तिङ्त्वात्पदत्वंसिद्धिः / ननु वा च तध्वमोः इति तध्वमोर्हिस्वादेशविकल्पविधिरनुपपन्नः / लोडादेशभूतहिस्वयोस्तिङपवादतया लोटस्तध्वमोरप्रसक्तरित्यत आह / तध्वमोर्विषये त्विति // स्थानषष्टीमाश्रित्य लोडादेशतध्वमोः स्थाने हिस्वाविल्यर्थ इति न भ्रमितव्यम् / येनोक्तदोषः स्यात् / किन्तु विषयविषयिभावः षष्ठ्यर्थः / तथाच तध्वमोर्विषये लोटो हिस्वौ, पक्षे तध्वमाविति फलतीत्यर्थः / अत्र मध्यमपुरुषबहुवचनमेव तशब्दो गृह्यते / व्याख्यानात् / ध्वंसाहचर्याच / ननु हिस्वयोरनयोर्मध्यमपुरुषैकवचनत्वस्याप्यतिदेशायुष्यत्सामानाधिकरण्ये एकत्वे च सत्येव हिस्वौ स्याताम् / तथाच “इमौ हिस्वौ सर्वेषां पुरुषाणां सर्वेषाञ्च वचनानामिध्यते” इति भाष्यमनुपपन्नमित्यत आह / पुरुषैकवचनसंज्ञे विति॥ हिस्वयोर्मध्यमपुरुषसंज्ञा एकवचनसंज्ञा च नातिदिश्यते इत्यर्थः। कुत इत्यत आह। हिस्वविधानेति॥ यदि हिस्वयोर्मध्यमपुरुषैकवचनसंज्ञे स्याताम् / तर्हि युष्मत्सामानाधिकरण्ये एकत्वे च सत्येव लोटो हिस्वौ स्याताम् / अन्यत्र तु यथायथन्तिबाद्यादेशाः स्युः / तथा सति लोटो हिस्वविधानमनर्थकं स्यात् / अतो न पुरुषवचनातिदेशा इत्यर्थः / तेनेति // हिस्खयोः पुरुष. वचनातिदेशाभावेन क्रमात् परस्मैपदात्मनेपदसंज्ञालाभेन चेत्यर्थः / सकलेति // सकलपुरुषवचनविषये हिर्भवति / स च भवन् परस्मैपदिभ्य एव कर्तर्येव भवति, न त्वात्मनेपदिभ्यो भावकर्मकर्तृवित्यर्थः / शेषात्कर्तरि परस्मैपदमित्युक्तरिति भावः / आत्मनेपदिभ्यः स्वः इति॥ 'अनुदात्तडित आत्मनेपदम् , भावकर्मणोः' इत्यादिसूत्रविषयेभ्यो धातुभ्यः भावकर्मकर्तृषु लोटः स्व एव भवतीत्यर्थः / अनयोरत्र क्रमात् परस्मैपदात्मनेपदसंज्ञाविध्यभावे तु लादेशत्वेन उभयोः परस्मैपदत्वात् कर्तर्येव परस्मैपदमात्मनेपदिभ्योऽपि स्यादिति भावः / समुच्चये // For Private And Personal Use Only
Page #474
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [लकारार्थ सिद्धान्तकौमुदीसहिता अनेकक्रियासमुच्चये द्योत्ये प्रागुक्तं वा स्यात् / 2827 / यथाविध्यनुप्रयोगः पूर्वस्मिन् / (3-4-4) आये लोड्डिधाने लोटप्रकृतिभूत एव धातुरनुप्रयोज्यः / 2828 / समुच्चये सामान्यवचनस्य / (3-4-5) समुच्चये लोडिधौ सामान्यार्थकस्य धातोरनुप्रयोगः स्यात् / अनुप्रयोगाद्यथायथं लडादयस्तिबादयश्च / ततः संख्याकालयोः पुरुषविशेषार्थस्य चाभिव्यक्तिः / क्रियासमभिहारे द्वे वाच्ये' (वा 4695) / याहि याहीति याति / पुनः पुनरतिशयेन वा यानं ह्यन्तस्यार्थः / एककर्तकं वर्तमानं यानं यातीत्यस्य / इतिशब्दस्त्त्रभेदान्वये तात्पर्य ग्राहयति। एवं यातः / यान्ति। यासि / समभिव्याहारः इति पदरहितं 'क्रिया लोट्ले.टो हिस्वौ वा च तध्वमोः' इति पूर्वसूत्रमनुवर्तते / क्रियेति लुप्तषष्टी बहुवचनान्तं समुच्चय इत्यत्रान्वेति / तदाह / अनेकक्रियासमुच्चये द्योत्ये इति // एवञ्च कारकसमुच्चयमाश्रित्य नास्य प्रवृत्तिः / प्रागुक्तमिति // धातोलोट् तस्य हिस्वप्रसिद्धहिस्वधर्मको तध्वमोर्विषये वा इत्युक्तमित्यर्थः / यथाविध्यनुप्रयोगः // 'क्रियासमभिहारे' इति, 'समुच्चयेऽन्यतरस्याम्' इति च, लोनिधी उक्तौ / तयोर्मध्य यत्पूर्वसूत्रं क्रियासमभिहार इति तदेतत्पूर्वशब्देन परामृश्यते / तदाह / आये लोड्दिधाने इति // विधिमनतिक्रम्य यथाविधि / यस्याः प्रकृतेः लोड्डिहितः तस्या अनुप्रयोग इति लभ्यते। तदाह। लोटप्रकृतिभूत एवेति // अत्रानुप्रयोग: पश्चात्प्रयोगः, नत्वव्यवहितत्वं विवक्षितम् / लुनीहि लुनीहि इत्येवायं लुनातीति भाष्यप्रयोगालिङ्गात् / समुच्चये सामान्यवचनस्य // उच्यतेऽनेनेति वचनः। सामान्यवाचिन इत्यर्थः / फलितमाह / सामान्यार्थकस्येति // समुच्चीयमानक्रियासामान्यवाचिन इत्यर्थः / अनुप्रयोगादिति // अनुप्रयुज्यमानादित्यर्थः / ततः इति // अनुप्रयुज्यमानधातुप्रकृतिकलडादिभिरित्यर्थः / हिस्वाभ्यान्तु न सङ्ख्याकारकाद्यभिव्यक्तिः / तथाच भाष्यं हिस्वान्तमव्यक्तपदार्थकन्तेनापरिसमाप्तोऽर्थः' इत्यादि। 'क्रियासमभिहारे द्वे वाच्ये' इति वार्तिकन्दुिरुक्तिप्रक्रियायां व्याख्यातम् / इदमाद्यसूत्रविहितलोडन्तविषयमिति भाष्ये स्पष्टम् / क्रियासमभिहारे लोटमुदाहरति / याहि याहीति यातीति // भाष्ये इतिशब्दस्य दर्शनादिति भावः। ह्यन्तस्येति // याहि याहीत्यस्येत्यर्थः / एककर्तृकमिति // यातीति यानकर्तुस्तदेकत्वस्य च प्रतीतेरित्यर्थः / अभेदान्वये इति // तथाच पुन:पुनरतिशयेन वा यद्यानन्तदात्मकमेककर्तृकं वर्तमानं यानमिति बोधः / तिङन्तेषु सर्वत्र क्रियाविशेष्यक एव बोध इति सिद्धान्तादेवमुक्तिः / एवमिति // याहि याहीति यातः, याहि याहीति यान्तीत्यादिसकलपुरुषवचनेषूदाहार्यमित्यर्थः। याहि याहीति ययौ। याहि याहीति याता। याहि याहीति यास्यति / याहि याहीति यातु / लोण्मध्यमपुरुषबहुवचनतादेशविषये लोटो हिभावविकल्प उक्तः वा च तध्वमोरिति / तत्र हिभावपक्षे याहि याहीति यूयं यातेति सिद्धवत्कृत्य अभावपक्षे आह / For Private And Personal Use Only
Page #475
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् ] बालमनोरमा। 573 याथः / याथ / यात यातेति यूयं यात / याहि याहीत्ययासीत् / अयास्यद्वा / अधीष्वाधीष्वेत्यधीते / ध्वंविषये पक्षे अधीध्वमधीध्वमिति यूयमधीध्वम् / समुच्चये तु सक्तून्पिब, धाना: खादेत्यभ्यवहरति / अन्नं भुङ्क्व, दाधिकमास्वादयस्वेत्यभ्यवहरते / तध्वमोस्तु पिबत, खादतेत्यभ्यवहरत / भुध्वमास्वदध्वमित्यभ्यवहरध्वम् / पक्षे हिस्वौ / अत्र समुच्चीयमानविशेषाणामनुप्रयोगार्थेन सामान्येनाभेदान्वयः / पक्षे सक्तून्पिबति / धानाः खादति / अन्नं भुङ्क्ते। दाधिकमास्वदते / एतेन / 'पुरीमवस्कन्द लुनीहि नन्दनं मुषाण रत्नानि हरामराङ्गनाः / विगृह्य चक्रे नुमुचिद्विषा बली य इत्थमस्वास्थ्यमहर्दिवं दिवः // इति व्याख्यातम् / अवस्कन्दनलवनादिरूपा भूतानद्यतनपरोक्षा एककर्तृका अस्वास्थ्यक्रियेत्यर्थात् / इह पुन:पुनश्चस्कन्देत्यादिरर्थ इति व्याख्यानं यात यातेति यूयं यातेति // याहि याहीत्ययात् / याहि याहीति यायात् / लुङ्याह / याहि याहीत्ययासीदिति // लङि उदाहरति / अयास्यद्वेति // याहि याहीत्ययास्यदिति लुङि रूपम् / यास्यति वेति पाठे लुटि उदाहरणम् / क्रमस्तु न विवक्षितः / पक्षे इति॥ 'वंविषये स्वादेशाभावपक्षे इत्यर्थः / यूयमधीध्वम् इति // लोण्मध्यमपुरुषबहुवचनम् / भावकर्मणोस्तु भूयस्व भूयस्वेति भूयते / पच्यस्व पच्यस्वेति पच्यते इत्युदाहार्यम्। अथ 'समुच्चये सामान्यवचनस्य' इत्यस्योदाहरति / समुच्चये विति // अभ्यवहरतीति // पानं द्रवद्रव्यस्य दन्तसम्मर्दनं विना भक्षणम् / खादनन्तु कठिनद्रव्यस्य चर्वणम् / तयोस्सामान्यरूपमभ्यवहरणम् / यथाकथञ्चित् भक्षणात्मकत्वात् / पक्षे हिस्वाविति // तध्वमोर्विषये कदाचित् हिस्... देशपक्षे इत्यर्थः / पिब खादेत्यभ्यवहरतीत्युदाहार्यम् / अत्रेति // पिव खादेत्यभ्यवहरतीत्यादौ समुच्चीयमानपानखादनादिक्रियाविशेषणमनुप्रयुज्यमानधातुवाच्याभ्यवहरणात्मकक्रियासामान्येन अभेदान्वय इत्यर्थः / पक्षे सक्तूनिति // समुच्चये लोडभावपक्षे अनुप्रयोगोऽपि सामान्यवचनस्य नास्तीति भावः / एतेनेति // 'समुच्चयेऽन्यतरस्याम्' इति 'ससुच्चये सामान्यवचनस्य' इति च सूत्रद्वयेन तदुदाहरणप्रदर्शनेन च पुरीमवस्कन्देत्यादि माघकाव्यस्थं श्लोकवाक्यं व्याख्यातमित्यर्थः / बली रावण: नमुचिद्विषा इन्द्रेण विगृह्य विरोधं प्राप्य पुर्याः अमरावत्याः अवस्कन्दनं पीडनं, नन्दनवनस्य लवनं, रत्नानाम्मोषणम् , अमराङ्गनानां हरणम् , इत्येवप्रकारेण अहर्दिवं अहन्यहनि अस्वास्थ्यञ्चक्रे कृतवानित्यन्वयः / इत्थंशब्दः इतिपर्यायः। अवस्कन्दनादिक्रियाविशेषाणां अस्वास्थ्यक्रियासामान्य अभेदङ्ग्राहयति / फलितमाह / अवस्कन्दनलवनादीति // आदिना मोषणं हरणञ्च गृह्यते / भ्रममूलकत्वमुपपादयति / द्वितीयसूत्रे 60 For Private And Personal Use Only
Page #476
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 574 सिद्धान्तकौमुदीसहिता भ्रममूलकमेव / द्वितीयसूत्रे क्रियासमभिहारे इत्यस्याननुवृत्तेः। लोडन्तस्य द्वित्वापत्तेश्च / पुरीमवस्कन्देत्यादि मध्यमपुरुषकवचनमित्यपि केषांचिद्धम एव / पुरुषवचनसंज्ञे इह नेत्युक्तत्वात् / इति लकारार्थप्रकरणम् / इति // अननुवृत्तेरिति // भाष्ये तदनुवृत्तेरनुक्तत्वादिति भावः / तदनुवृत्त्यभ्युपगमे बाधकमाह / लोडन्तस्येति // ‘समुच्चयेऽन्यतरस्याम्' इति सूत्रे क्रियासमभिहारे इत्यनुवृत्ती अवस्कन्देत्यादिलोडन्तानां 'क्रियासमभिहारे द्वे वाच्ये' इति द्वित्वापत्तरित्यर्थः। भ्रम एवेति // मध्यमपुरुषांशे एकवचनांशे च भ्रम एवेत्यर्थः / कुत इत्यत आह / पुरुषवचनसंझे इह नेत्युः तत्वादिति // अत्र भाष्ये 'हिखान्तयोरनभिव्यक्तसङ्ख्याकालकत्वात्तदभिव्यक्तये अनुप्रयोगस्यन्यायत एव प्राप्तत्वादनुप्रयोगविधिर्मास्तु' इत्युक्तम् / एवञ्च ‘तानीमानि क्षुद्राण्यसकृदावर्तीनि भूतानि भवन्ति जायस्व म्रियस्वेत्येतत् तृतीयं स्थानम्' इति श्रुतौ 'समुच्चयेऽन्यतरस्य.म्' इतिलोटो हिस्वावेव भवतः, न त्वनुप्रयोगः / तत्र जननमरणक्रिययोरेव विवक्षिततया सङ्ख्याका लाभिव्यक्तेरविवक्षितत्वेन तत्रानुप्रयोगस्य प्रयोजनाभावात् / एतेन 'आ च सत्यलोकादाचावीचेर्जायस्व म्रियस्व' इति विपरिवर्तमानमात्मानं जीवलोकञ्चालोक्यास्मिन् संसारे नित्याशुचिदुःखात्मकम्प्रसङ्ख्यानमुपवर्तत इति वाचस्पत्यग्रन्थेऽपि जायस्व म्रियस्वेति व्याख्यातम् / नचात्र 'समुचयेऽन्यतरस्याम्' इत्यत्र क्रियासमभिहारे इत्यस्याननुवृत्तेरुक्तत्वात् कथमिह पौनःपुन्यावगतिरिति वाच्यम्। 'आ च सत्यलोकादाचावीचेः विपरिवर्तमानम्' इति समभिव्याहारेण तदुपपत्तेः / उदाहृतश्रुतौ तु पौनःपुन्यं असकृत् पदगम्यमित्यदोषः। कल्पतरुग्रन्थे तु जायस्व म्रियस्वेत्यत्र क्रियासमभिहार इतिसूत्रेण लोडित्युक्तम् / तत्तु द्वित्वापत्तेहपेक्ष्यामिति शब्देन्दुशेखरे प्रपञ्चितम // इति श्रीवासुदेवदीक्षितविदुषा विरचितायां सिद्धान्तकौमुदीव्याख्यायां बालमनोरमायां लकारार्थप्रक्रिया निरूपण समाप्तम् / For Private And Personal Use Only
Page #477
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir / श्रीरस्तु / // अथ कृदन्तकृत्यप्रकरणम् // 2829 / धातोः / (3-1-91) आ तृतीयसमातेरधिकारोऽयम / 'तत्रोपपदं सप्तमीस्थम् / (सू 781) / 'कृदतिङ्' (सू 374) / | 2830 / वाऽसरूपोऽस्त्रियाम् / (3-1-94) / परिभाषेयम्। अस्मिन्धात्वधिकारेऽसरूपोऽपवादप्रत्यय: उत्सर्गस्य बाधको वा स्यात्स्त्रयधिकारोक्तं विना / ___ अथ कृदन्तप्रक्रियाः निरूप्यन्ते। तदेवं "प्रत्यया अथ कथ्यन्ते तृतीयाध्यायगोचराः" इति प्रतिज्ञातेषु तृतीयाध्यायस्थप्रत्ययषु प्रथमपादे 'प्रत्ययः, परश्च' इत्यारभ्य 'कुषिरञ्जोः प्राचां श्यन्' इत्यन्तैः सूत्रैर्विहिताः कतिचित्प्रत्यया निरूपिताः। अथ तदुत्तरसूत्रविहितान् निरूपयितुमुपक्रमते। धातोः // आ तृतीयेति // आ तृतीयाध्यायपरिसमाप्तरित्यर्थः / एतच्च भाध्य स्पष्टम् / तत्रोपपदं सप्तमीस्थम् इति / कृदतिङ् इति // व्याख्यातं प्राक् / वाऽसरूपोऽस्त्रियाम् // असरूपः इति छदः / परिभाषेयमिति // अधिकारत्वे स्वरितत्वकल्पनागौरवादिति भावः / असरूपः इति लिङ्गनिर्देशः / यत्र असरूपप्रत्ययो विधास्यते तत्र वेत्युपतिष्ठते / वेत्यतः प्राक् बाधकः इति शेषः / असरूपो बाधको भवतीति यावत् / कस्य बाधको वेत्याकांक्षायाम् उत्सर्गस्येत्याल्लभ्यते / फलितमाह / अस्मिन् धात्वधिकारे ३त्यादिना // स्त्रीशब्दः स्वर्यते। तदाह / स्त्रयधिकारोक्तं विनेति // 'स्त्रियां क्तिन्' इति वक्ष्यमाणत्रयधिकारस्थमपवादं विनेत्यर्थः। स्त्रयधिकारस्तु असरूपः प्रत्ययः उत्सर्गस्य नित्यमेव बाधक इति भावः / ‘ण्वुल्तृचौ ' इत्युत्सर्गः। 'इगुपधज्ञाप्रीकिरः कः' इत्यपवादः / तद्विषये ण्वुल्तृचावपि भवतः / विक्षेपकः / विक्षेप्ता / विक्षिपः / असरूप इति किम् / 'कर्मण्यण' उत्सर्गः / 'आतोऽनुपसर्गे कः' इत्यपवादः / स तु सरूपत्वानित्यं बाधक एव / गोदः / कम्ब. लदः / 'नानुवन्धकृतमसारूप्यम्' इति वचनात् अनुबन्धो न सारूप्यप्रतिबन्धकः / अस्त्रियां किम् / 'स्त्रियां क्तिन्' इत्युत्सर्गः। 'अ प्रत्ययात्' इति प्रत्ययान्ताद्विहितः अकारप्रत्ययः तस्य अपवादः। स बाधक एव भवति। चिकीर्षा। व्यावकोशी / व्याक्रुष्टिः इत्यत्र तु 'कर्मव्यतिहारे णच स्त्रियाम्' इति णच क्तिनो बाधको वा भवत्येव / अस्त्रियामिति निषेधस्तु नास्ति / तस्य णचः स्त्रियामित्यधिकारो For Private And Personal Use Only
Page #478
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदीसहिता कृदन्तकृत्य 2831 / कृत्याः / (3-1-95) अधिकारोऽयं ण्वुल: प्राक् / 2832 / कर्तरि कृत् / (3-4-67) कृत्प्रत्ययः कर्तरि स्यादिति प्राप्ते / / 2833 / तयोरेव कृत्यक्तखलाः / (3-4-70) एते भावकर्मणोरेव स्युः। 2834 / तव्यत्तव्यानीयरः / (3-1-96) धातोरेते प्रत्ययाः स्युः / तकाररेफौ स्वराौँ / एधितव्यम् / एधनीयं त्वया / भावे औत्सर्गिकमेकवचनं क्लीबत्वं च / चेतव्यश्चयनीयो वा धर्मस्त्वया / वसेस्तव्यत्कर्तरि णिच' (वा 1920) / वसतीति वास्तव्यः / केळिमर उपसंख्यानम्' (1919) / पचेळिमा माषा: / पक्तव्याः भिदेळिमाः क्तत्वाभावात् / कृत्याः // कृत्यसंज्ञका इत्यर्थः / ततश्च ‘प्रैषातिसर्गप्राप्तकालेषु कृत्याश्च, अहे कृत्यतृचश्च, शकि लिङ् च' इत्यादि प्रवर्तते / ण्वुलः प्रागिति || ‘ण्वुल्तृचौ' इत्यतः प्रागित्यर्थः / एतच्च भाष्ये स्पष्टम् / कर्तरि कृत् // अर्थनिर्देशोऽयम् // इति प्राप्ते इति / वक्ष्यमाणतव्यदादिप्रत्ययानां कृत्संज्ञकत्वात्तेषाकर्तरि प्राप्तावित्यर्थः / तयोरेव कृत्यक्तखल र्थाः // 'लः कर्मणि च भावे च' इति सूत्रोपात्ते भावकर्मणी तच्छब्देन परामृश्यते / तदाह / एते भावकर्मणोरेवेति // नतु कर्तरीति भावः / वैशेषिकत्वादेव सिद्धे एवकारस्तु तव्यदादीनां कृत्सकतया प्राप्तकर्तृकत्वस्याभावमनुवदन् कृत्यसंज्ञया वैशेषिक्या कृत्संज्ञाया अबाध. मयति / तव्यत्तव्यानीयरः // तव्यत् तव्य अनीयर् एषान्द्वन्द्वः / प्रत्ययाः स्यु रिति॥ ते कृत्संज्ञकाः कृत्यसंज्ञकाश्च इत्यपि ज्ञेयम् / स्वरार्थाविति // 'तित्स्वरितम्' इति 'उपो. नमं रिति' इति च स्वरविशेषार्थत्वादित्यर्थः / निरनुबन्धकस्य तु तव्यस्य प्रत्ययस्वरेण आयुदात्तवमेवेति बोध्यम् / भावे उदाहरति / एधितव्यमिति // त्वत्कर्तृका एधनक्रियेत्यर्थः। ननु 'ल: कर्मणि च' इत्यत्र असत्त्वभूतस्यैव भावस्य ग्रहणम / तिवाच्यभावनाया असत्त्वरूपताया: उक्तत्वात् / ततश्च तस्य भावस्य असत्त्वरूपस्यात्र 'तयोरेव कृत्य' इति तच्छब्देन परामर्शात्तव्यदादीनामसत्त्ववाचितया लिङ्गसङ्खयान्वयोऽनुपपन्न इत्यत आह / भावे औत्सर्गिकमेकवचनमिति // ‘एकवचनं, द्विबहुषु द्विबहुवचने' इति सूत्रपाठमभ्युपगम्य द्वित्ववहुत्वाभावे एकवचनमिति भाष्यसिद्धान्तादिति भावः / क्लीबत्वञ्चेति // एकश्रुतिः स्वरसर्वनाम / लिङ्गगर्वनाम नपुंसकमिति ‘दाण्डिनायन' इति सूत्रस्थभाष्यादिति भावः / कर्मण्युदाहरति / चेतव्यः इति // ‘वसेस्तव्यत् कर्तरि णिच' इति वार्तिकम् / वास्तव्यः इति // वस्तेत्यर्थः / णत्त्वादुपधावृद्धिः / केळिमरः इति // धातोरित्येव / भावकर्मणोरेवेदम् / केळिमरि ककाररे For Private And Personal Use Only
Page #479
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा / सरलाः भेत्तव्याः / कर्मणि प्रत्ययः / वृत्तिकारस्तु * कर्मकर्तरि चायमिष्यते' इत्याह / तद्भाष्यविरुद्धम् / 2835 / कृत्यचः / (8-4-29) उपसर्गस्थानिमित्तात्परखाच उत्तरस्य कृत्स्थस्य नस्य णत्वं स्यात् / प्रयाणीयम ‘अचः' किम् / प्रमग्नः / 'निविण्णस्योपसंख्यानम्' (वा 5004) / 'अचः' परत्वाभावान्नकारेण व्यवधानाचाप्राप्ते वचनम् / परस्य णत्वम् / पूर्वस्य टुत्वम / निविण्णः / 2036 / णेर्विभाषा / (8-4-30) उपसर्गस्थान्निमित्तात्परस्य ण्यन्ताद्विहितो यः कृत्तत्स्थस्य नस्य णा वा म्यात् / प्रयापणीयम् -प्रयापनीयम् / विहितविशेषणम्' किम् / यका व्यवधाने यथा स्यात् / प्रयाप्यमाणं पश्य / ‘णत्वे दुर उपसर्गत्वं न' इत्युक्तम् / दुर्यानम्-दुर्यापनम् / फावितौ / भिदेळिमाः इति // कित्त्वान्नोपधागुणः / सरळाः वृक्षविशेषाः / तद्भाप्येति // भाष्ये भिदेळिमाः, इत्युदाहृत्य भेत्तव्या इत्येव विवरणादिति भावः / कृत्यचः॥ 'रषाभ्यानो णः' इत्यनुवर्तते / 'उपसर्गादनोत्परः' इत्यतः उपसर्गादिति च / उपसर्गस्थादिति विवक्षितम् / कृतीत्यनन्तरं विद्यमानस्यति शेषः / अच इति पञ्चमी / तदाह / उपसर्गस्थादिति // असमानपदत्वादप्राप्तौ वचनम्। 'अट्कुप्वानुव्यवायेऽपि' इत्यनुवर्तते / तदाह / प्रयाणीयमिति // निर्विण्णस्येति // नस्य ण उपसङ्ख्यानमित्यर्थः / अचः परत्वाभावादिति // विदेः क्तप्रत्यये 'रदाभ्याम्' इति दकारादुत्तरस्य तकारस्य नत्वे निर्विद् न इति स्थिते नकारस्य अचः परत्वाभावात् 'कृत्यचः' इति अप्राप्ते णत्वे इदं णत्ववचनमित्यर्थः / दकारेण व्यवधानाच्च णत्वस्य न प्राप्तिर्बोध्या / पूर्वस्येति // नस्य णत्वे तृत्वेन दस्य डत्वे तस्य 'प्र. त्यये भाषायाम् इति णत्वमित्यर्थः / तथाच द्विणकारक रूपम् / णेर्विभाषा // 'कृत्यचः' इत्य. नुवर्तते / ‘रषाभ्यान्नो णः' इति च / णरिति कृतो विहितविशेषणम् / तदाह / उपसर्गस्थादित्यादिना // प्रयापणीयमिति // याधातो} पुकि यापि इत्यस्मात् ण्यन्तादनीयरि णोपे अनेन णत्वविकल्पः / यकेति // यापि इत्यस्मात् ण्यन्तात् कर्मणि लटः शानचि 'आने मुक्' इति मुगागमे यकि णिलोपे प्रयाप्यमाणशब्दे णत्वविकल्पः इष्यते / णे: परो यः कृत् तत्स्थस्य णत्वविकल्प इत्युक्तौ तु कृतश्शानचो यका व्यवहितत्वेन यकः परत्वाभावात् तत्स्थस्य नस्य णत्वविकल्पो न स्यात् / तदर्थ हेरिति विहितविशेषणमाश्रितमित्यर्थः / भाष्य तु ण्यन्तात्परो यः कृत् इत्यंशेऽप्यटकुप्वानुमित्याद्यनुवर्त्य यकारव्यवधानेऽपि णत्वविकल्पः समर्थितः / णत्वे दुरः इति // 'दुरघ्षत्वणत्वयोरुपसर्गत्वप्रतिषेधो वक्तव्यः' इत्यनेनेति भावः For Private And Personal Use Only
Page #480
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदीसहिता [कृदन्तकृत्य 2837 / हलश्चेजुपधात् / (8-4-31) हलादेरिजुपधात्कृन्नस्याच: परस्य णो वा स्यात् / प्रकोपणीयम् - प्रकोपनीयम् / 'हलः' किम् / प्रोहणीयम् / 'इजुपधात्' किम् / प्रवपणीयम् / 2838 / इजादेः सनुमः / (8-4-32) सनुमश्चेद्भवति तर्हि इजादेहलन्ताद्विहितो यः कृत्तत्स्थस्यैव / प्रेसणीयम् / ' इजादेः' किम् / 'मगि सर्पणे' / प्रमङ्गनीयम् / नुम्ग्रहणमनुस्वारोपलक्षणम् / 'अट्कुप्वाङ्-' (सू 197) इति सूत्रेऽप्येवम् / तेनेह न / प्रेन्वनम् / इह तु स्यादेव / प्रोम्भणम् / 2839 / वा निसनिक्षनिन्दाम् / (8-4-33) एषां नस्य णो वा स्यात्कृति परे / प्रणिसितव्यम् –प्रनिसितव्यम / 2840 / न भाभूपूकमिगमिप्यायीवेपाम् (8-4-34) एभ्य: कृन्नस्य णो न / प्रभानीयम् / प्रभवनीयम् / पूत्र एवंह प्रहणमिष्यते' (वा 5011) पूङस्तु प्रपवणीयः सोमः / ‘ण्यन्तभादीनामुपसंख्यानम्' (वा 5012) / प्रभापनीयम् ‘क्शात्रः शस्य यो वा' (वा ततश्च दुर उपसर्गत्वाभावात् ततः परे कृत्स्थनकारे सूत्रद्वयमपि न प्रवर्तते इत्यभिप्रेत्य उदाहरति / दुर्यानं-दुर्यापनमिति // यातेर्ण्यन्तात् ल्युटि णिलोपे रूपम् / हलश्चेजुपधात् // हलन्तादिति नार्थः / इजुपधस्य हलन्तत्वाव्यभिचारात् / किन्तु हलादेरिति विवक्षितम् / तदाह / हलादेरिजुपधादिति // परस्येति शेषः / प्रोहणीयमित्यादि प्रत्युदाहरणे तु 'कृत्यचः' इति नित्यमेव णत्वम् / इजादेः॥ णर्विभाषा' इति निवृत्तम् / 'कृत्यचः' इत्यनुवर्तते / 'हलश्चेजुपधात्' इत्यतो हल इति च / प्रकृतिविशेषणत्वात् तदन्तविधिः। तथाच सनुमो हलन्तात् इजुपधात् कृन्नस्य णः स्यादिति लभ्यते। एवञ्च प्रेङ्क्षणीयमित्यादा 'कृत्यचः' इत्येव सिद्धेरिदनियमार्थमित्याह / सनु. मश्चेदिति // कृत्स्थस्यैवेत्यनन्तरं णत्वमिति शेषः / प्रेङ्क्षणीयमिति // इखधातुरिदित्त्वात्सनुम् / ननु 'इवि प्रीणने' इति धातोर्म्युटि तस्यानादेशे प्रेन्वनमित्यत्रापि णत्वं स्यात् / सनु मोऽस्य इजादित्वात् हलन्तत्वाञ्चेत्यत आह / नुग्रहणमित्यादि // अनुस्वारश्च सर्व एव गृह्यते, नतु नुस्थानिक एव। अविशेषात् / तदाह / इह त्विति // प्रोम्भणमिति // इह उम्भधातुः स्वाभाविकानुस्वारवानेव, न तु नुस्थानिकानुस्वारवानिति भावः / वा निस // उपस. र्गादिति अच इति च निवृत्तम् / तदाह / एषान्नस्येति // न भाभू // प्रभानीयमिति // For Private And Personal Use Only
Page #481
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा / 1584) इत्युक्तं णत्वप्रकरणोपरि तद्बोध्यम / यत्वस्यासिद्धत्वेन शकारव्यवधानान्न णत्वम् / प्रख्यानीयम् / / 2841 / कृत्यल्युटो बहुळम् / (3-3-113) स्मान्त्यनेन स्नानीयं चूर्णम् / दीयतेऽस्मै दानीयो विप्रः / 2842 / अचो यत् / (3-1-17) अजन्ताद्धातोर्यत्स्यात् / चेयम् / जेयम / अज्ग्रहणं शक्यमकर्तुम / योगविभागोऽप्येवम् / तव्यदादिष्वेव यतोऽपि सुपठत्वात् / 2843 / ईद्यति / (6-4-65) यति परे आत ईत्स्यात् / गुणः / देयम् / ग्लेयम् ‘तकिशसिचतियतिजनिभ्यो यद्वाच्यः' (वा 1922) तक्यम् / शस्यम् / चत्यम् / यत्यम् / जन्यम् / जनेर्यद्विधिः स्वरार्थः / ण्यतापि रूपसिद्धेः / न च वृद्धिप्रसङ्गः / इह 'कृत्यचः' इति प्राप्तं णत्वन्नेति भावः / णत्वप्रकरणोपरीति // इदं ‘चक्षिङः ख्याञ्' इति सूत्रे भाष्ये स्पष्टम् / प्रख्यानीयमिति // इह यत्वस्यासिद्धतया शकारेण व्यवधानात ‘कृत्यचः' इति णत्वनेति भावः / कृत्यल्युटो // याभ्यः प्रकृतिभ्यो येष्वर्थेषु विहिताः ततोऽन्यत्रापि स्युरित्यर्थः / स्नानीयमिति // करणे अनीयर् / दानीयः इति // सम्प्र. दाने अनीयर् / भाष्येऽपि ‘कृत्यल्युटो बहुळमिति वक्तव्यम्' इत्युक्त्वा पादाभ्यां हियते पादहारकः / कर्मणि ण्वुल् / श्रोऽनीनाधास्यमानेन अनद्यतने भविष्यति लडित्युदाहृतम् / अचो यत् // शक्यमकर्तुमिति // ‘ऋहलोर्ण्यत्' इति ऋहलन्तात् विशिष्य ण्यतो विहितत्वेन हलन्तेभ्यो यत्प्रत्ययस्याप्रवृत्तिरित्यर्थः / वासरूपविधिस्तु सरूपत्वान्न भवति / योगविभागो. ऽप्येवमिति // कर्तुमशक्य इत्यर्थः / कुत इत्यत आह / तव्यदादिष्वेवेति // तव्यनव्यानीयर्यतः, इत्येकसूत्रत्वेनैव पठितुं शक्यत्वादित्यर्थः / ईद्यति // आतः इति // 'आतो लोप इटि च' इत्यतः तदनुवृत्तरिति भावः / गुणः इति // दाधातोः 'अचो यत्' इति यति आतः ईत्त्वे 'सार्वधातुकार्धधातुकयोः' इति गुण इति भावः / ग्लेयमिति // 'ग्लै हर्षक्षये' इति धातोर्यति आदेचः इत्यात्त्वे ईत्त्वे गुण इति भावः / तकिशसीति // तकि, शसि, चति, यति, जनि, एषां पञ्चानां द्वन्द्वः / इका निर्देशः / 'ऋहलोय॑त् ' इत्यस्यापवादः / 'तक हसने, शसु हिंसायां, चते याचने, यती प्रयत्ने, जनी प्रादुर्भावे' इति धातवः / अत्र सर्वत्र अकर्मकेभ्यो भावे प्रत्ययः / सकर्मकेभ्यस्तु कर्मण्यपीति विवेकः / ननु 'अहे कृत्यतृचश्च' इत्यर्हे ऽपि जनेताऽपि जन्यमिति रूपसिद्धेः जनिग्रहणं व्यर्थमित्यत आह। स्वरार्थः इति / 'यतो नावः' इत्याद्युदात्तार्थ इत्यर्थः / ननु ण्यति उपधाद्धिः स्यात् / अतस्तदभावार्थमिह जनेयद्विधिरस्त्वित्याशय निराकरोति / न च वृद्धिप्रसङ्गः इति // कुत इत्यत आह / जनि For Private And Personal Use Only
Page #482
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 580 सिद्धान्तकौमुदीसहिता [कृदन्तकृत्य 'जनिवध्योश्च' (सू 2512) इति निषेधात् / 'हनो वा यद्वधश्च वक्तव्य: (वा 1923) / वध्यः / पक्षे वक्ष्यमाणो ण्यत् / घायः / 2844 / पोरदुपधात् / (3-1-98) पवर्गान्ताददुपधाद्यत्स्यात् / ण्यतोऽपवादः / शप्यम् / लभ्यम् / नानुबन्धकृतमसारूप्यम्' / अतो न ण्यत् / तव्यदादयस्तु स्युरेव / 2845 / आङो यि / (7-1-65) आङ: परस्य लभेर्नुम्स्याद्यादौ प्रत्यये विवक्षिते / नुमि कृते अदुपधत्वा. भावात ण्यदेव / आलम्भ्यो गौः / 2846 / उपात्प्रशंसायाम् / (7-1-66) उपलम्भ्यः साधुः / ' स्तुतौ' किम् / उपलब्धुं शक्य: उपलभ्यः / 2847 / शकिसहोश्च / (3-1-99) शक्यम् / सह्यम् / वयोरिति॥ हनोवेति // हनधातोर्यद्वा स्यात् / प्रकृतेर्वधादेशश्चेत्यर्थः / पक्षे इति // यदभावपक्षे इत्यर्थः / घात्यः इति // ण्यति 'हनस्तोऽचिण्णलोः' इति नस्य तः / आत्त्वम् / उपधावृद्धिः / वधादेशस्तु यत्सनियोगशिष्टत्वान्नेति भावः / पोरदुपधात् // ननु शप्यं लभ्यमित्यत्र 'ऋहलोर्ण्यत्' इति कदा चित् ण्यदपि स्यात् / यत्ण्यतोरसारूप्येण वाऽसरूपः इत्यस्य प्रवृत्तेरित्यत आह / नानुबन्धकृतमसारूप्यमिति // वाऽसरूपसूत्रे भाष्ये स्थितमिदम् / अनुबन्धविनिर्मुक्तस्यैव असारूप्यं विवक्षितमित्यर्थः / प्रकृते च यत्ण्यतोरनुबन्धरहितयोस्सारूप्यात् वासरूपविधेरप्रवृत्तेः शप्यमित्यादौ ण्यदपवादो यदेवेति भावः / आङो यि // 'इदितो नुं धातोः' इत्यतो नुमिति 'लभेश्च' इत्यतो लभेरिति चानुवर्तते / तदाह / आङः परस्येति // विवक्षिते इति // यीति विषयसप्तमीति भाष्ये स्पष्टम् / विवक्षिते इत्यस्य प्रयोजनमाह / नुमि कृते इति // यत्प्रत्यये विवक्षिते तत्प्रवृत्तेः प्रागेव नुमि कृते अदुपधत्वाभावाद्यत्प्रत्ययस्याप्रवृत्तेर्ण्यदेवेत्यर्थः / यति परे नुमित्यर्थे तु अदुपधत्यात यदेव स्यात् / नतु ण्यदिति भावः / आलम्भ्यो गौरिति // यद्यपि यत्ण्यतोन रूपभेदः / तथापि ण्यति कृते 'तित्स्वरितम्' इति खरितत्वम् / यति तु 'यतो नावः' इत्याधुदात्तत्वमिति स्वरभेदः फलम् / उपात्प्रशंसायाम् // उपात्परस्य लभेर्नु स्यात् यादौ प्रत्यये विवक्षित प्रशंसायां गम्यमानायामित्यर्थः / उपलम्भ्यस्साधुरिति // समीपे प्राप्यः इत्यर्थः / साधुशब्दात् प्रशंसा गम्यते / इहापि नुमि कृते अदुपधत्वाभावात् ण्यदेव / स्वरे विशेषः पूर्ववत् / शकिसहोश्च // पञ्चम्यर्थे षष्टी / आभ्यां For Private And Personal Use Only
Page #483
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा / 481 2848 / गदमदचरयमश्चानुपसर्गे / (3-1-100) गद्यम् / मद्यम् / चर्यम् / 'चरेराङि चागुरौ' (वा 1925) / आचर्यो देश: / गन्तव्य इत्यर्थः / ‘अगुरौ' किम् / आचार्यो गुरुः / यमेनियमार्थम् / सोपसर्गान्मा भूदिति / प्रयाम्यम् / निपूर्वात्स्यादेव / तेन 'तत्रन भवेद्विनियम्यम्' (वा 1930) इति वार्तिकप्रयोगात् / एतेन ‘अनियम्यस्य नायुक्तिः / त्वया नियम्या ननु दिव्यचक्षुषा' इत्यादि व्याख्यातम् / नियमे साधुरिति वा। 2849 / अवधपण्यवर्या गर्यपणितव्यानिरोधेषु / (3-1-101) ____वदेनञ्युपपदे ‘वदः सुपि-' (सू 2854) इति यत्क्यपो: प्राप्तयोर्यदेव सोऽपि गर्हायामेवेत्युभयाथै निपातनम् / अवयं पापम् / ‘गर्ने' किम् / अनुद्यं गुरुनाम / तद्धि न गी वचनानह च / __आत्मनाम गुरोर्नाम नामातिकृपणस्य च / श्रेयस्कामो न गृह्णीयाज्ज्येष्ठापत्यकलत्रयोः // ' यदित्यर्थः / ण्यतोऽपवादः। गदमद // गद, मद, चर, यम, एषाञ्चतुर्णा द्वन्द्वः / अनुपसर्ग इति सप्तमी पञ्चम्यर्थे / एभ्योऽनुपसर्गेभ्यो यदित्यर्थः / ण्यतोऽपवादः / उपसर्गात् ण्यदेव / प्रगाद्यमित्यादि / चरेराङि चागुराविति // वार्तिकमिदम् / आङि उपसर्गे सत्यपि चरेर्यत्स्यादगुरौ इत्यर्थः / आचार्यों गुरुरिति // शुश्रूषणीयः इत्यर्थः / ननु 'पोरदुपधात्' इत्येव सिद्धे यमेरिह ग्रहणं व्यर्थमित्यत आह / यमेनियमार्थमिति // अनुपसर्गादेव यमर्ण्यदिति नियमार्थमित्यर्थः / तत्फलमाह। सोपसर्गान्मा भूदिति // ननु ‘अनियम्यस्य नायुक्तिः' इत्यत्र 'त्वया नियम्या ननु दिव्यचक्षुषा' इत्यादौ च निपूर्वाद्यमेः कथं यत् / अनुपसर्गादिति निषेधादित्यत आह / निपू. र्वात्स्यादेवेति // यदिति शेषः / कुत इत्यत आह / तेन तत्रेति // प्रकारान्तरेण समाधत्ते। नियमे साधुरिति वेति // ‘यमः समुपनिविषु च' इति निपूर्वाद्यमे वे अप्प्रत्यये नियमशब्दः। नियम साधुरित्यर्थे 'तत्र साधुः' इति प्राग्घितीये यत्प्रत्यये नियम्यशब्दो व्युत्पाद्य इत्यर्थः / अवधपण्य // अवद्य, पण्य, वर्य, एषान्द्वन्द्वात्प्रथमाबहुवचनम् / गडं पणितव्य अनिरोध एषान्द्वन्द्वात्सप्तमीबहुवचनम् / अवद्यादयस्त्रयः क्रमात् गर्यादिषु त्रिष्वर्थेषु निपात्यन्ते इत्यर्थः / ननु ‘वदस्सुपि' इत्येव सिद्धे अवद्यग्रहणं व्यर्थमित्यत आह / नञ्युपपदे इति // यत्क्यपोः स्वरे विशेषः / सम्प्रसारणतदभावौ चेति भावः / अवद्यं पापमिति // गर्हितत्वादवाच्यमित्यर्थः / अनुद्यं गुरुनामेति // अन नञि उपपदे ‘वदस्सुपि' इति क्यपि 'वचिस्वपियजादीनाङ्किति' इति सम्प्रसारणे रूपम् / वचनानहमित्यर्थः / अत्र गर्हायाः अप्रतीतेः यदेवेति न नियम इति भावः / ननु गुरुनानः अगह्यत्वात् कथं वचनानहत्वमित्यत आह / द्धि न गडं वचनानहश्चेति // कुत इत्यत आह / आत्मनामेति // पण्या गौरिति // 61 For Private And Personal Use Only
Page #484
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 482 सिद्धान्तकौमुदीसहिता [कृदन्तकृत्य इति स्मृतेः / पण्या गौः / व्यवहर्तव्येत्यर्थः / पाण्यमन्यत् / स्तुत्यहमित्यर्थः / अनिरोधोऽप्रतिबन्धस्तस्मिन्विषये वृङो यत् / शतेन वर्या कन्या / वृत्यान्यः / 2850 / वह्यं करणम् / (3-1-102) वहन्त्यनेनेति वह्यं शकटम् / 'करणम्' किम् / वाह्यम्-वोढव्यम् / 2851 / अर्यः स्वामिवैश्ययोः / (3-1-103) 'ऋगतो' अस्माद्यत् / ण्यतोऽपवादः / अर्यः स्वामी वैश्यो वा / 'अनयो:' किम् / आर्यो ब्राह्मणः प्राप्तव्य इत्यर्थः / 2852 / उपसर्या काल्या प्रजने / (3-1-104) गर्भग्रहणे प्राप्तकाला चेदित्यर्थः / उपसर्या गौः / गर्भाधानार्थ वृषभेणोपगन्तुं योग्येत्यर्थः / 'प्रजने काल्या' इति किम् / उपसार्या काशी / प्राप्तव्येत्यर्थः। 2853 / अजय सङ्गतम् / (3-1-105) पणधातोर्व्यवहारार्थकात् यन्निपात्यते इति भावः / यद्यपि 'पण व्यवहारे स्तुतौ च' इति धातोः अर्थद्वयमस्ति / तथापि पण्यशब्दस्य प्रयोगबलेन व्यवहर्तव्य एव रूढत्वादिह व्यवहारार्थक एव गृह्यते / तदाह / व्यवहर्तव्येति // क्रेतव्यत्यर्थः / पाण्यमन्यदिति // ण्यति उपधावृद्धिरिति भावः / व्यवहर्तव्यादन्यादित्यर्थः / तदाह / स्तुत्यहमिति // अप्रतिबन्धः इति / / अनियम इत्यर्थः / वृङो यदिति // 'वृङ् सम्भक्ता' इति कैयादिकस्यैवात्र ग्रहणम् / नतु 'वृञ् वरणे' इत्यस्य / निरोधरूपार्थस्य सम्भक्तिवाचित्व एव सामन्जस्यादिति भावः / शतेन वर्या कन्येति // पुरुषशतेन परिग्रहीतुमरे / अनेनैव वरणीयेति नियमो नास्तीत्यर्थः / वृत्या अन्येति / / अनुरूपेण वरणीयेत्यर्थः / 'एतिस्तुशास्त्रजुषः क्यप्' इति क्यपि तुक् / अत्र अनियमस्य अप्रतीतेः न यत् / अत्र व शब्दस्य स्त्रीलिङ्गस्य ग्रहणात्पुंसि वार्या ऋत्विज इति वृत्तिः। वह्यङ्करणम् // वहेः करणे यत् निपात्यते / ण्यतोऽपवादः। अर्यः स्वामिवैश्ययोः॥अस्माद्यदिति // निपात्यत इति शेषः / ण्यतोऽपवाद इति // 'ऋहलोः' इति प्राप्तस्य ण्यतोऽपवाद इत्यर्थः / यति ऋकारस्य गुणे रपरत्वम् / तदाह / अर्यः स्वामीति / आर्यो ब्राह्मणः इति // ण्यति वृद्धौ रपरत्वमिति भावः / उपसर्या // प्रजननं प्रजनः गर्भग्रहणम् / भावे घञ्, 'जनिवध्योश्च' इति वृद्धिनिषेधः / कालः प्राप्तोऽस्याः काल्या। तदस्य प्राप्तमित्यनुवर्तमाने 'कालाद्यत्' इति यत् / चेदित्यध्याहार्यम् / तदाह / गर्भग्रहणे प्राप्तकाला चेदिति // गर्भग्रहणे प्राप्तकाला स्त्रीपशुव्यक्तिः विवक्षिता चेत् उपसर्या इति निपात्यते। उपपूर्वात् मृधातोः यदिति फलितम् / ण्यतोऽपवादः। अजयम् // कर्तरि For Private And Personal Use Only
Page #485
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा / नपूर्वाजीर्यतेः कर्तरि यत् सङ्गतं चेद्विशेष्यम् / न जीर्यतीत्यजर्यम् / 'तेन सङ्गतमार्येण रामाजय कुरु द्रुतम्' इति भट्टिः / 'मृगैरजर्य जरसोपदिष्टमदेहबन्धाय पुनर्बबन्ध' इत्यत्र तु सङ्गतमिति विशेष्यमध्याहार्यम् / 'सङ्गतम्' किम् / अजरिता कम्बलः / भावे तु सङ्गतकर्तृकेऽपि ण्यदेव / अजाय सङ्गतेन / 2854 / वदः सुपि क्यच / (3-1-106) उत्तरसूत्रादिह भाव इत्यपकृष्यते / वदेर्भावे क्यप्स्याञ्चाद्यदनुपसर्गे सुप्युपपदे / ब्रह्मोद्यम्-ब्रह्मवद्यम् / ब्रह्म वेदः तस्य वदनमित्यर्थः / कर्मणि प्रत्ययावित्येके / उपसर्गे तु ण्यदेव / अनुवाद्यम् / अपवाद्यम् / 2855 / भुवो भावे / (3-1-107) क्यप्स्यात् / ब्रह्मणो भावो ब्रह्मभूयम् / सुपीत्येव / भव्यम् / अनुपसर्गे इत्येव / प्रभव्यम् / 2856 / हनस्त च / (3-1-108) अनुपसर्गे सुप्युपपदे हन्तेर्भावे क्यप्स्यात्तकारश्चान्तादेशः / ब्रह्मणो हननं ब्रह्महत्या / स्त्रीत्वं लोकात् / 2857 / एतिस्तुशास्वृदृजुषः क्यप् / (3-1-109) एभ्यः क्यप्स्यात् / यदिति // 'कर्तरीति वक्तव्यम्' इति वार्तिकम् , निपातनात् कर्तरीति लभ्यत इति तदाशयः / सङ्गतमिति // सङ्गतं सङ्गमः / न जीर्यतीत्यजर्यमिति // मित्रत्वमिति शेषः / जरितृ न भवतीत्यर्थः / अत्र भटिप्रयोगमाह / तेनेति // हे राम तेन आर्येण अजर्यम् अनश्वरं सङ्गतं सङ्गमं द्रुतङ्कुरु इति अन्वयः / ननु " मृगैरजर्यञ्जरसा” इत्यत्र सङ्गतशब्दाभावात् कथं यदित्यत आह / मृगैरित्यादि / / काळिदासकाव्यमिदम् / अजरितेति / / तृजन्तम् / अत्र सङ्गतशब्दाभावान यदिति भावः / भावे विति // भावस्य सङ्गतिकर्तृत्वऽपि सङ्गतस्य प्रत्ययवाच्यत्वाभावात् न यदित्यर्थः / वदः सुपि // उत्तरेति // ‘भुवा भावे' इत्युत्तरसूत्राद्भावे इत्यपकृष्यते इत्यर्थः / भूधातोरकर्मकत्वेन उत्तरसूत्रे भावग्रहणस्य वैयर्थ्यादिति भावः / अनुपसर्गे इति // “वदस्सुप्यनुपसर्गग्रहणम्” इति भाष्यादिति भावः / ब्रह्मोद्यमिति // वदेः क्यपि ‘वचिस्वपि' इति सम्प्रसारणम् / वस्तुतस्तु नेह भावग्रहणमपकृष्यते / तत्र भावग्रहणमुत्तरार्थमिति भाष्यादिति मतमनुसृत्य आह / कर्मणि प्रत्ययावित्येके इति // क्यन्यतावित्यर्थः / भुवो भावे // ब्रह्मभूयमिति // कित्त्वान्न गुणः / क्लीबत्वं लोकात् / भव्यमिति // भाव इत्यर्थः / अत्र सुबुपपदाभावात् यदेव, गुणः, 'वान्तो यि' इत्यवादेशः। प्रभव्यमिति // प्रभाव इत्यर्थः। हनस्त च // अन्तादेशःइति // प्रकृतेरिति शेषः / भावे किम् / घात्यो वृषळः / अनुपसर्गे किम् / प्रघातः / निरुपपदं हत्येति तु असाध्यैव / एतिस्तु // एति, स्तु, शास् , For Private And Personal Use Only
Page #486
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदीसहिता [कृदन्तकृत्य 2858 / हखस्य पिति कृति तुक् / (6-1-71) इत्यः / स्तुत्यः / 'शास इदङ्हलोः' (सू 2486) / शिष्यः / '' इति वृनो ग्रहणं न वृङः / वृत्यः / वृङस्तु वार्या ऋत्विजः / आदृत्यः / जुध्यः / पुनः क्यबुक्ति: परस्यापि ण्यतो बाधनार्था / अवश्यस्तुत्यः / शंसिदुहिगुहिभ्यो वा' (वा 1835) इति काशिका / शस्यम् / शंस्यम् / दुह्यम् / दोह्यम् / गुह्यम् / गोह्यम् / 'प्रशस्यस्य श्रः' (सू 2009) 'ईडवन्दवृशंसदुहां ण्यतः' (सू 3702) इति सूत्रद्वयबलाच्छंसे: सिद्धम् / इतरयोस्तु मूलं मृग्यम् / 'आपूर्वादजे: संज्ञायामुपसङ्खथानम्' (वा 1925) / 'अञ्जू' व्यक्तिम्रक्षणादिषु / बाहुलकात्करणे क्यप् / 'अनिदिताम्-' (सू 415) इति नलोपः / आज्यम् / __2859 / ऋदुपधाच्चाक्लपिघृतेः / (3-1-110) 7, दृ. जुष् , एषां षण्णां समाहारद्वन्द्वात्पञ्चमी। सुप्यनुपसर्गे भाव इति निवृत्तम् / तदाह / एभ्यः क्यप्स्यादिति // ह्रस्वस्य / / स्पष्टमिति न व्याख्यातम् / इत्य इति // इण: क्यपि तुक् / उपयमित्यत्र तु ईडो देवादिकाद्यत् / वृञो ग्रहणमिति // वार्तिकमिदम् / न वृङः इति // ‘वृङ् सम्भक्तौ' इति ङितः कैयादिकस्य न ग्रहणमित्यर्थः / वार्या ऋत्विज इति // अवश्यं भजनीया इत्यर्थः / अत्र ‘वृङ् सम्भक्तौ' इत्यस्मात् ण्यदित्यर्थः / अवधपण्यवर्या इति निपातसिद्धो यत्तु न / अत्र निरोधस्य नियमस्य विवक्षितत्वात् / ननु 'वदस्सुपि' इत्यतः अनुवृत्त्यैव सिद्धे क्यग्रहणमिह व्यर्थम् / नच चकारानुकृष्टयतोऽप्यनुवृत्तिनिवृत्तये क्यग्रहणमिति वाच्यम् / चकारस्य अस्वरितत्वेन 'भुवो भावे' इत्याद्युत्तरसूत्रवनुवृत्त्यभावादित्यत आह / क्यबुक्तिः परस्यापीति // 'ओरावश्यके' इति विहितस्यत्यर्थः / वेति काशिकेति // वा क्यप् / तदभावे हलन्तत्वात् ण्यत् / भाष्ये त्वेतन दृश्यते इति भावः / शस्यम्, शंस्यमिति // क्यप्पक्षे 'अनिदिताम्' इति नलोपः / दुह्यमिति / / क्यप्पक्षे कित्त्वान्न गुणः / अत्र 'शंसिदुहिगुहिभ्यो वा' इत्यस्य भाष्ये अदर्शनेऽपि शंसयेत्क्यपौ प्रामाणिकावित्याह / प्रशस्यस्येति // 'प्रशस्यस्य श्रः' इति निर्देशबलात् शंसेः क्यप्सिद्धः / 'इंडवंदवृशंसदुहाण्ण्यतः' इत्याद्युदात्तत्वविधौ शंसय॑दन्तत्वानुवादबलात् ण्यत्सिद्धः / ततश्च शस्यं शंस्यमिति रूपद्वयं सिद्धम् / इतरयोस्तु दुहिगुह्योः क्यब्विकल्पे मूलं नास्तीत्यर्थः / उपसङ्ख्यानमिति // क्यप इति शेषः / आज्यमिति // न चापूर्वकत्वे पदपाठे अवग्रहः स्यादिति वाच्यम् / इष्टापत्तेः / पदकाराणामवग्रहाभावस्त्वप्रामाणिक एव पदपाठस्याधुनिकत्वात् इति भाष्ये स्पष्टम् / एवञ्च अस्मद्रियगित्यस्म द्रियगित्यवग्रहः अप्रामाणिक एव / अस्मद्रि अक् इत्येवावग्रहो युक्तः / अस्मच्छब्दस्य टेरद्यादेश विधानात् इत्याद्यूह्यम् / ऋदुपधाश्चाक्ल: पितेः / / क्लपचूती वर्जयित्वा ऋदुपधाद्धातोः क्यबित्यर्थः / तपरकरणमिह व्यर्थमित्यत For Private And Personal Use Only
Page #487
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा / 485 _ 'वृत्' / वृत्यम् / 'वृध्' / वृध्यम् / क्लपित्योस्तु / कल्प्यम् / चय॑म् / 'तपरकरणम्' किम् / ‘कृत्' कीर्त्यम्' / अनित्यण्यन्ताश्चुरादय इति णिजभावे ण्यत् / णिजन्तात्तु यदेव / 2860 / ई च खनः / (3-1-111) चाक्यप् / आद्गुणः / खेयम् / ‘इ च' इति ह्रस्व: सुपठः / 2861 / भृञोऽसंज्ञायाम् / (3-1-112) भृत्याः कर्मकरा भर्तव्या इत्यर्थः / क्रियाशब्दोऽयं न तु संज्ञा / 'समश्च बहुलम्' (वा 1940) / सम्भृत्या:-सम्भार्याः / असंज्ञायामेव विकल्पार्थमिदं वार्तिकम् / 'असंज्ञायाम्' किम् / भार्या नाम क्षत्रियाः / अथ कथं भार्या वधूरिति / इह हि संज्ञायां समज-' (सू 3276) इति क्यपा भाव्यम् / संज्ञापर्युदासस्तु पुंसि चरितार्थः / सत्यम् / बिभर्ते इति दीर्घान्तात्क्रयादेर्वा ण्यत् / क्यप्तु भरतेरेव / तदनुबन्धकग्रहणे-' इति परिभाषया। आह / अनित्यण्यन्ता इति // णिजन्तातु यदेवेति // 'अचो यत्' इत्यनेनेति भावः / ई च खनः // चात् क्यविति // खनेः क्यप् स्यात् प्रकृतेः ईकारोऽन्तादेशश्चेत्यर्थः / हस्वस्सुपठ इति // ह्रस्वस्य इकारस्य विधौ आद्गुणेन खेयमिति सिद्धेः इति भावः / दीर्घोच्चारणसमर्थनन्तु भाष्ये स्पष्टम् * / भृञोऽसंज्ञायाम् // क्यबिति शेषः / भृत्याः कर्मकरा इति / / भृत्यर्थङ्कर्म कुर्वाणा इत्यर्थः / 'कर्मणि भृतौ' इति कृअष्टः। भर्तव्या इति // वेतनदानेन परार्थे कर्मणि प्रेषयितव्या इत्यर्थः / ननु भृत्यशब्दस्य कर्मकरेषु रूढत्वात्संज्ञाशब्दत्वमवेत्यत आह / क्रियाशब्द इति // भार्या नाम क्षत्रिया इति / क्षत्रियविशेषेषु रूढस्संज्ञाशब्दोऽयमिति भावः / अथ कथं भार्येति // क्यपा भवितव्यमित्याक्षेपः / ननु वध्वाम्भार्याशब्दस्य संज्ञाशब्दत्वात् 'भृोऽसंज्ञायाम्' इत्यस्याप्रवृत्तरयमाक्षेपोऽनुपपन्न इत्यत आह / इह हीति // 'स्त्रियां क्तिन्' इत्यतः स्त्रियामित्यनुवृत्तौ 'बजयजो वे क्यप्'। 'संज्ञायां समजनिषद' इति सूत्रेण क्यप् स्यादित्यर्थः / ननु संज्ञायां भृञः क्यब्विधौ ‘भृाऽसंज्ञायाम्' इत्यत्र असंज्ञायामिति व्यर्थमित्यत आह / संशापर्युदासस्त्विति // समाधत्ते / सत्यमिति / / 'डु भृञ् धारणपोषणयोः' इति जुहोत्यादौ ह्रस्वान्तः द्वित् जिच्च 'भृ भर्त्सने, भरणेऽपि' इति क्रयादौ दीर्घान्तः। आभ्यां 'ऋहलोऽयेत्' इति ण्यदेवेत्यर्थः / क्यप् तु भरतेरेवति // 'भृञ् भरणे' इति भ्वादौ ह्रस्वान्तो मित् / अस्यैव 'संज्ञायां समजनिषद' इत्यत्र 'भृओऽसंज्ञाम्' इत्यत्र च भृग्रहणेन ग्रहणम् / नतु डुओ जौहोत्यादिकस्य / न च कैयादिकस्य निरनुबन्धकस्य दीर्घान्तस्येति भावः। कुत इत्यत आह / तदनुबन्धकेति // तदनुबन्धकग्रहणे नातदनुबन्धकस्य' इति परिभाषयेत्यर्थः / बिभर्तेः क्यबभावे बीजमिदम् / कैयादिकस्य दीर्घान्तत्वात् * संप्रत्युपलभ्यमानभाष्यकोशेषु तु न तत्समर्थनमस्ति / एतद्विचारस्तु प्रौढमनोरमायां दृश्यते / For Private And Personal Use Only
Page #488
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदीसहिता [कृदन्तकृत्य 2862 / मृजेर्विभाषा (3-1-113) मृजे: क्यव्वा स्यात् , पक्षे ण्यत् / मृज्यः / 2863 / चजोः कु घिण्ण्यतोः / (7-3-52) चस्य जस्य च कुत्वं स्याद्धिति ण्यति च प्रत्यये परे। 'निष्ठायामनिट इति वक्तव्यम्' (वा 4551) / तेनेह न / गर्व्यम् / 'मृजेर्वृद्धिः' (सू 2473) / मार्यः / 2864 / न्यङ्कादीनां च / (7-3-53) कुत्वं स्यात् / न्यङ्गुः / 'नावञ्चे:' (उणा 17) इत्युप्रत्ययः / 2865 राजसूयसूर्यमृषोद्यरुच्यकुप्यकृष्टपच्याव्यथ्याः। (3-1-114) एते सप्त क्यबन्ता निपात्यन्ते / राज्ञा सोतव्योऽभिषवद्वारा निष्पादयितव्यः / यद्वा / लतात्मकः सोमो राजा स सूयते खण्ड्यतेऽवेत्यधिकरणे क्यन्निपातनादीर्घः / राजसूयः-राजसूयम् / अर्धर्चादिः / सरत्याकाशे सूर्यः / कर्तरि क्यन्निपातनादुत्वम् / यद्वा 'प्रेरणे' तुदादिः / सुवति कर्मणि लोकं प्रेरयति क्यपो रुट / मृषोपपदाद्वदेः कर्मणि नित्यं क्यप् / मृषोद्यम् / विशेष्यनिनोऽयम् / 'उच्छायसौन्दर्यगुणा मृषोद्याः' / रोचतेः रुच्यः / न क्यप् इति बोध्यम् / मृजेर्विभाषा | क्यप्पक्षे उदाहरति / मृज्य इति // कित्त्वान्न गुणः / चजोः कु घिण्ण्यतोः॥ कु इत्यविभक्तिको निर्देशः। चजोर्घिण्यतोश्च यथासङ्ख्यन्तु न / 'तेन रक्तं रागात्' इति घनि जस्य कुत्वनिर्देशात् / राजसूय / / राज्ञेति / / क्षत्रियेणेत्यर्थः / अभिषवेति // प्रावभिः रसनिष्पत्त्यर्थं सोमलतानाङ्कुट्टनमभिषवः, तत्प्रमाडिकया निष्पादयितव्यो यज्ञविशेषः राजसूय इत्यन्वयः / यद्वेति // लताविशेषात्मकः सोमः राजशब्देन विवक्षितः राजानं क्रीणातीत्यादौ तथा प्रसिद्धः / सः राजा सूयते अभिषूयते अत्र यज्ञविशेषे इति व्युत्पत्त्या राजसूय इत्यन्वयः / 'कर्तरि कृत्' इत्यधिकारात् कथमधिकरणव्युत्पत्तिरित्यत आह / अधिकरणे क्यविति // कुत इत्यत आह / निपातनादिति // ननु षुधातोः क्यपि कथन्दीर्घः / 'अकृत्सार्वधातुकयोः' इत्यस्य कृत्यप्रवृत्तेरित्यत आह / निपातनाद्दीर्घ इति॥ निपातनादित्युभयत्रान्वेति / उत्वमिति ॥तस्य रपरत्वे 'हलि च' इति दीर्घ इत्यपि बोध्यम् / मृषाद्यमिति // क्यपि 'वचिस्वपि' इति सम्प्रसारणम्। रोचतेरिति // रुचधातोः क्यपि रुच्य इति रूपमित्यर्थः। गुपेरिति / गुप्धातोःक्यप् प्रकृतेरादिवर्णस्य ककारश्च संज्ञायानिपात्यते इत्यर्थः / सुवर्णरजतभिन्नन्धनङ्कुप्यमिति ज्ञेयम् / तथा च 'हेमरूपे कृताकृते' For Private And Personal Use Only
Page #489
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा / गुपेरादेः कुत्वं च संज्ञायाम् / सुवर्णरजतभिन्नं धनं कुप्यम् / गोप्यमन्यत् / कृष्ट स्वयमेव पच्यन्ते कृष्टपच्या: कर्मकर्तरि / शुद्धे तु कर्मणि कृष्टपाक्या: / न व्यथतेऽव्यथ्यः / 2866 / भिद्योयौ नदे / (3-1-115) भिदेरुज्झेश्च क्यप् / उज्झर्धत्वं च / भिनत्ति कूलं भिद्यः / उज्झत्युदकमुद्ध्यः / 'नदे' किम् / भेत्ता / उज्झिता।। 2867 / पुष्यसिध्यौ नक्षत्रे / (3-1-116) अधिकरणे क्यन्निपात्यते / पुष्यन्त्यस्मिन्नर्थाः पुष्यः / सिध्यन्त्यस्मिसिध्यः / 2868 / विपूयविनीयजित्या मुञ्जकल्कहलिषु / (3-1-117) पूनीञ्जिभ्यः क्यप् / विपूयो मुञ्जः / रज्ज्वादिकरणाय शोधयितव्य इत्यर्थः / विनीय: कल्कः / पिष्ट औषधिविशेष इत्यर्थः / पापमिति वा / जित्यो हलिः / बलेन क्रष्टव्य इत्यर्थः / कृष्टसमीकरणाथै स्थूलकाष्ठं हलिः / अन्यत्तु विपव्यम् / विनेयम् / जेयम् / 2869 / प्रत्यपिभ्यां ग्रहः। (3-1-118) 'छन्दसीति वक्तव्यम्' (वा 1944) / प्रतिगृह्यम् / अपिगृह्यम् / लोके तु प्रतिग्राह्यम् / अपिग्राह्यम् / इत्युक्त्वा अमरः आह “ताभ्यां यदन्यत्तत्कुप्यम्" इति / कृष्ट इति // कृष्टप्रदेशे ये स्वयं पच्यन्ते फलन्ति ते कृष्टपच्याः इत्यर्थः / कर्मकर्तरीति // अत्र कर्मकर्तरि क्यबित्यर्थः / निपातनादिति भावः / शुद्ध त्विति // मुख्यकर्मणि तु ण्यति उपधावृद्धौ ‘चजोः' इति कुत्वे कृष्टपाक्य इति रूपमित्यर्थः / न व्यथते अव्यथ्यः इति // अत्र निपातनात् कर्तरि क्यबिति भावः / भिद्योध्यौ नदे // क्यविति // नदविशेषे कर्तरि निपात्यते इति शेषः / पुष्यसियै // निपात्येते इति शेषः / नक्षत्रविशेषे गम्ये इत्यर्थः / विपूय // विपूय, विनीय, जित्य, एते यथाक्रमं मुञ्जकल्कहलिषु क्यबन्ता निपात्यन्ते / तदाह / विपूय इत्यादिना // न्यादिसाहचर्यात् भौवादिकस्यैव पूधातोर्ग्रहणमिति भावः। कल्कः शोधकद्रव्यम् / पापमिति वेति // कल्कशब्दस्य शोधनीये पापेऽपि प्रसिद्धत्वादिति भावः / हलिशब्दस्य विवरणम् / कृष्टसमीकरणार्थमिति // प्रत्यपिभ्यां ग्रहेः॥ छन्दसीति // वार्तिकमिदम् / वक्तव्यमिति वृत्तिकृता प्रक्षिप्तम् / ननु छान्दसस्य किमर्थमिहोपन्यास For Private And Personal Use Only
Page #490
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 488 सिद्धान्तकौमुदीसहिता [कृदन्तकृत्य 2870 / पदास्वैरिबाह्यापक्ष्येषु च / (3-1-119) अवगृह्यं प्रगृह्यं वा पदम् / अस्वैरी परतन्त्रः, गृह्यका: शुकाः / पजरादिबन्धनेन परतन्त्रीकृता इत्यर्थः / बाह्यायां ग्रामगृह्या सेना / ग्रामबहिभूतेत्यर्थः / स्त्रीलिङ्गनिर्देशात्पुन्नपुंसकयोन / पक्षे भव: पक्ष्यः / दिगादित्वाद्यत् / आर्थैर्गृह्यते आर्यगृह्यः / तत्पक्षाश्रित इत्यर्थः / 2871 / विभाषा कृवृषोः। (3-1-120) क्यप्स्यात् / कृत्यम् / वृष्यम् / पक्षे / 2872 / ऋहलोय॑त् / (3-1-124) ऋवर्णान्ताद्धलन्ताञ्च धातोर्ण्यत्स्यात् / कार्यम् / वर्ण्यम् / 2873 / युग्यं च पत्रे / (3-1-121) पत्रं वाहनम् / युग्यो गौः / अत्र क्यप्कुत्वं च निपात्यते / 2874 / अमावस्यदन्यतरस्याम् / (3-1-122) अमोपपदाद्वसेरधिकरणे ण्यत् / वृद्धौ सत्यां पाक्षिको ह्रस्वश्च निपात्यते / अमा सह वसतोऽस्यां चन्द्राविमावास्या-अमावस्या / लोण्यत्' (सू 2872) / 'चजो:--' (सू 2863) इति कुत्वम् / पाक्यम् / 'पाणी सृजेर्यद्वाच्यः' (वा 1946) / ऋदुपधलक्षणस्य क्यपोऽपवादः / पाणिभ्यां सृज्यते पाणिसर्या रज्जुः / 'समवपूर्वाञ्च' (वा 1947) / समवसर्या / इत्यत आह / लोके त्विति // पदास्वैरिबाह्यापक्ष्येषु च // पद, अस्वैरि, बाह्या, पक्ष्य, वर्थेषु ग्रहे: क्यबित्यर्थः / अवगृह्य प्रगृह्य वा पदमिति // समस्तपदस्य अवान्तरपदविच्छेदः अवग्रहः / 'अप्रावेत्यादिपदामतिशिरस्कं' प्रग्रहः इति प्रातिशाख्ये प्रसिद्धम् / 'ईदूदेद्दिवचनं प्रगृह्यम्' इति सूत्रोदाहरणश्च प्रगृह्यम् / विभाषा कृवृषोः / पञ्चम्यर्थे षष्ठी / कृञः ऋदन्तत्वात् नित्यं ण्यति प्राप्ते, वृषेः ऋदुपधत्वात् नित्यं क्यपि प्राप्ते च, क्यविकल्पोऽयम् / पक्षे इति // क्यवभावपक्षे विशेषो वक्ष्यते इत्यर्थः / ऋहलो. येत् // पञ्चम्यर्थे षष्टी / तदाह / ऋवर्णान्तादिति // युग्यश्च पत्त्रे // क्यबन्तन्निपात्यते / ण्यतोऽपवादः / युग्यो गौरिति / / शकटादिना योक्तव्य इत्यर्थः / क्यपि कुत्वन्निपातनात् / पत्वं वाहनमिति // पतन्ति गच्छन्त्यनेनेत्यर्थे 'दानीशस' इत्यादिना करणे ट्रन् / ण्यति तु योग्यमिति स्यात् / अमावस्यद // अधिकरणे इति // निपातनलभ्यमिदम् / अमेत्यस्य विवरणम् / सहेति / / 'ऋहलोर्ण्यत्' इत्यनुपदमेव प्राक् प्रसङ्गाद्याख्यातमपि सूत्रक्रमात् पुनरुपात्तम् / कुत्वमिति // पय॑ति 'चजोः' इति कुत्वमिति भावः / ननु पाणी सृजमेदिति व्यर्थम् / 'ऋहलोः' इत्येव सिद्धरित्यत आह / ऋदुपधलक्षणस्येति // 'ऋदुपधाचाक्लपिघृतेः' इति ण्यदपवादस्य क्यपो बाधनार्थमित्यर्थः / पाणिसा रज्जुरिति // ण्यति For Private And Personal Use Only
Page #491
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा / 489 2875 / न कादेः। (7-3-59) कादेर्धातोश्चजोः कुत्वं न / गर्व्यम् / वार्तिककारस्तु 'चजो:-' (सू 2863) इति सूत्रे 'निष्ठायामनिटः' इति पूरयित्वा न कादेः' (सू 2875) इत्यादि प्रत्याचख्यौ / तेन अर्जिर्जिप्रभृतीनां न कुत्वम् / निष्ठायां सेटत्वात् / ग्रुचुग्लुञ्चुप्रभृतीनां तु कादित्वेऽपि कुत्वं स्यादेव / सूत्रमते तु यद्यपि विपरीतं प्राप्तम् / तथापि यथोत्तरं मुनीनां प्रामाण्यम्' / 2876 / अजिव्रज्योश्च / (7-3-60) न कुत्वम् / समाजः / परिव्राजः / 2877 / भुजन्युब्जौ पाण्युपतापयोः / (7-3-61) एतयोरेतौ निपात्यौ / भुज्यते अनेनेति भुजः पाणिः / 'हलश्च' (सू 3300) इति पञ् / न्युजन्त्यस्मिन्निति न्युजः / उपतापो रोगः / 'पाण्युपतापयोः' किम् / भोगः समुद्गः / 2878 / प्रयाजानुयाजौ यज्ञाङ्गे / (7-3-62) ___ एतौ निपात्यौ यज्ञाङ्गे / पञ्च प्रयाजा: / त्रयोऽनुयाजा: / 'यज्ञाले' किम् / प्रयागः / अनुयागः / 2879 / वञ्चेर्गतौ / (7-3-63) 'चजोः' इति कुत्वम् / समवपूर्वाञ्चेति // वार्तिकमिदम् / सृजेमेदिति शेषः / न कादेः॥ कु: आदिर्यस्येति विग्रहः / चजोः कु इत्यनुवर्तते। तदाह / कादेरिति // कवर्गादरित्यर्थः / वार्तिककारस्त्विति // 'चजोः कु घिण्ण्यतोः' इति सूत्रे 'निष्ठायामनिटः' इति पूरितम् / तथा च निष्ठायां यः अनिट् तद्धात्ववयवयोः चजोः कु स्यात् घिति णिति चेत्यर्थः फलति / तथा 'न क्वादेः' इति सूत्रं 'अजिबज्योश्च' इति सूत्रं 'यजयाचरुचप्रवचर्चश्च' इत्यत्र यजयाचग्रहणञ्च न कर्तव्यमिति प्रत्याचख्यावित्यर्थः / किन्तत इत्यत आह / तेनेति // अर्जितर्जिप्रभृतीनां ण्यति कुत्वं स्यात् / 'न वादेः' इति निषेधस्य तत्राप्रवृत्तेरिति भावः। तदेव सूत्रमते अतिव्याप्तिमुक्त्वा अव्याप्तिमाह / ग्रुचुग्लुञ्चुप्रभृतीनामिति // तेषां कवर्गादित्वेऽपि ण्यति प्रोक्यमित्यादौ कुत्वमिष्टं स्यादेव / वार्तिकमते 'न क्वादेः' इति निषेधस्य प्रत्याख्यातत्वात् / सूत्रमते तु 'नक्कादेः' इति निषधात् ग्रोक्यमित्यादौ कुत्वमिष्टन्न स्यादित्यव्याप्तिरिति भावः / नन्विदं वार्तिकं विपरीतमपि सूत्रसम्मतत्वात् ग्राह्यमेव / विरोधे विकल्पस्य वक्तुं शक्यत्वादिति शङ्कते। सूत्रमते तु यद्यपीति // परिहरति / तथापीति // यथोत्तरमिति // अयं वैयाकरणसमयः / अजिव्रज्योश्च // इत्यादि स्पष्टम् / वञ्चेर्गतौ // कुत्वन्नेति // 62 For Private And Personal Use Only
Page #492
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 490 सिद्धान्तकौमुदीसहिता [कृदन्तकृत्य कुत्वं न / कञ्च्यम् / ‘गतौ' किम् / वङ्कथं काष्ठम् / कुटिलीकृतमित्यर्थः / 2880 / ओक उचः के / (7-3-64) उचेर्गुणकुत्वे निपात्येते के परे / ओकः शकुन्तवृषळौ / इगुपधलक्षणः कः / घञा सिद्धे अन्तोदात्तार्थमिदम् / 2881 / ण्य आवश्यके / (7-3-65) कुत्वं न / अवश्यपाच्यम् / 2882 / यजयाचरुचप्रवचर्चश्च / (7-3-66) ण्ये कुत्वं न / याज्यम् / याच्यम् / रोच्यम् / प्रवाच्यं ग्रन्थविशेषः / 'ऋच्' / अय॑म् / ऋदुपधत्वेऽप्यत एव ज्ञापकाण्ण्यत् / 'त्यजेश्च' / त्याज्यम् / 'त्यजिपूज्योश्च' इति काशिका। तत्र पूजेग्रहणं चिन्त्यम् / भाष्यानुक्तत्वात् / ‘ण्यत्प्रकरणे त्यजेरुपसङ्खयानम्' इति हि भाष्यम् / 2883 / वचोऽशब्दसंज्ञायाम् / (7-3-67) वाच्यम् / शब्दाख्यायां तु वाक्यम् / / 2884 / प्रयोज्यनियोज्यौ शक्यार्थे / (7-3-68) प्रयोक्तुं शक्यः प्रयोज्यो नियोक्तुं शक्यो नियोज्यो भृत्यः / शेषपूरणमिदम् / 'चजोः कु घिण्ण्यतोः' इत्यतः कुग्रहणस्य 'न कादेः' इत्यतो नेत्यस्य चानुवृत्तेरिति भावः / ण्य आवश्यके // कुत्वन्नेति // शेषपूरणमिदम् / आवश्यकेऽर्थे यो ण्यः तस्मिन् परे 'चजोः कु घिण्ण्यतोः' इति कुत्वनेत्यर्थः। यजयाच॥ ण्ये कुत्वन्नेति // शेषपूरणमिदम् / यज, याच, रुच, प्रवच, ऋच् , एषान्द्वन्द्वात् षष्ठी। एषां ण्ये परे 'चजोः कु घिण्ण्यतोः' इति कुत्वनेत्यर्थः / ननु अर्यमित्यत्र कथं ण्यत् / 'ऋदुपधाचाक्लपितेः' इति ऋदुपधत्वलक्षणस्य क्यपो यदपवादत्वादित्यत आह / ऋदुपधत्वेऽपीति // त्यजिपूज्योश्चेति ॥ण्ये कुत्वन्नेति शेषः / वचोऽशब्दसंज्ञायाम् // वचधातोर्ये कुत्वन्न / शब्दसंज्ञां वर्जयित्वेत्यर्थः / वाच्यमिति // वस्त्विति शेषः / अशब्दसंज्ञायामित्यस्य प्रयोजनमाह / शब्दाख्यायान्तु वाक्यमिति // एकतिङ् वाक्यम् , इति संज्ञाशब्दोऽयमिति भावः / प्रवाच्यमित्यत्र तु ग्रन्थविशेषसंज्ञात्वेऽपि नायकुत्वनिषेधस्य निषेधः, 'यजयाच' इत्यत्र प्रवचेति विशिष्योपादानात् असंज्ञायामित्यस्य प्रपूर्वाद्वचेरन्यत्र चरितार्थत्वात् / एतदभिप्रायेणैव प्रवाच्यं ग्रन्थविशेषः इत्युक्तम्प्राक् / प्रयोज्यनियोज्यौ // शक्यार्थे ण्ये कुत्वाभावो निपात्यते / ‘शकि लिङ् च' इति कृत्यानां शक्यार्थेऽपि For Private And Personal Use Only
Page #493
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा / 491 2885 / भोज्यं भक्ष्ये / (7-3-69) भोग्यमन्यत् / ' ण्यत्प्रकरणे लपिदभिभ्यां चेति वक्तव्यम्' / लाप्यम् / दभिर्धातुष्वपठितोऽपि वार्तिकबलात्स्वीकार्य: / दाभ्यः / 2886 / ओरावश्यके / (3-1-125) उवर्णान्ताद्धातोर्ण्यत्स्यादवश्यम्भावे द्योत्ये / लाव्यम् / पाव्यम् / 2887 / आसुयुवपिरपित्रपिचमश्च / (3-1-126) 'पुञ्' आसाव्यम् / 'यु मिश्रणे' याव्यम् / वाप्यम् / राप्यम् / त्राप्यम् / आचाम्यम् / 2888 / आनाय्योऽनित्ये / (3-1-126) आयूर्वान्नयतेर्ण्यदायादेशश्च निपात्यते / दक्षिणाग्निविशेष एवेदम् / स हि गार्हपत्यादानीयतेऽनित्यश्च सततमप्रज्वलनात् / आनेयोऽन्यः घटादिः, वैश्यकुलादानीतो दक्षिणाग्निश्च / विहितण्यन्तस्य शक्यार्थकत्वमपि / भोज्यं भक्ष्ये // भक्ष्ये गम्ये ण्ये भुजेः कुत्वाभावो निपात्यते / इति प्रासङ्गिकम् / अथ प्रकृतम् / लपिदभिभ्याञ्चेति // वार्तिकमिदं 'ऋहलोर्ण्यत्' इति सूत्रस्थम् / 'पोरदुपधात्' इति प्राप्तस्य ण्यदपवादस्य यतोऽपवादः / ओरावश्यके // लाव्यं पाव्यमिति // 'अचो णिति' इति वृद्धौ ‘वान्तो यि' इत्यावादेशः / आसुयुवपि // आसु, यु, वपि, रपि, पि, चम्, एषां समाहारद्वन्द्वः / व्यदिति शेषः / आसाव्यमिति // आयूर्वस्य सुजो ग्रहणमिति भावः / आनाय्यो. ऽनित्ये // अनित्ये इति छदः / दक्षिणाग्निविशेष एवेति // वार्तिकमिदम् / स हीति // दक्षिणाग्निर्हि अग्निहोत्रार्थमहरहः गार्हपत्यादेः प्रणीयत इत्यर्थः / एतेन आयूर्वकस्य नयतेरर्थ उक्तः / अनित्यश्चेति // गार्हपत्यवन्नित्यधारणाभावादिति भावः / तदाह / सततमप्रज्वलनादिति // सततन्धारणाभावादित्यर्थः। प्रणीतस्य दक्षिणाग्नेस्तत्तत्कर्मणि समाप्ते लौकिकत्वमुक्तं कल्पसूत्रेषु "अप्रवृत्ते कर्मणि लौकिकं सम्पद्यते" इति / ततश्च पुनः पुनः प्रणयनात् अनित्यत्वन्दक्षिणाग्नेरिति बोध्यम् / यद्यप्याहवनीयस्यापि पुनः पुनः प्रणयनमस्ति, तथापि दक्षिणाग्निविशेष एवेति वार्तिकानाहवनीयस्य ग्रहणमित्यर्थः / विशेषग्रहणानित्यधारणपक्षे दक्षिणाग्निरिह न गृह्यते इति सूचितम् / गतश्रियान्दक्षिणाग्नेरपि नित्यधार्यत्वात् / “गतश्रियो नित्यधार्या अग्नयः” इति वचनादित्यलम्पल्लवितेन / वैश्यकुलादानीत इति // दक्षिणाग्निं प्रकृत्य हि श्रूयते। 'अहरहरेवैनं वैश्यकुलादाहरन्' इति / 1. 'चाम्यम्' इति अपपाठः, वृद्ध्यनुपपत्तेः / For Private And Personal Use Only
Page #494
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 492 सिद्धान्तकौमुदीसहिता [कृदन्तकृत्य 2889 / प्रणाय्योऽसंमतौ / (3-1-128) संमति: प्रीतिविषयीभवनं कर्मव्यापारः / तथा भोगेष्वादरोऽपि संमतिः / प्रणाय्यश्चोरः / प्रीत्यनह इत्यर्थः / प्रणाय्योऽन्तेवासी / विरक्त इत्यर्थः / प्रणेयोऽन्यः / 2890 / पाय्यसान्नाय्यनिकाय्यधाय्या मानहविर्नि वाससामिधेनीषु / (3-1-129) मीयतेऽनेन पाय्यं मानम् / ण्यत् धात्वादेः पत्वञ्च / 'आतो युक्-' (सू 2761) इति युक् / सम्यङ् नीयते होमार्थमग्निं प्रतीति सान्नाय्यं हविविशेषः / ण्यदायादेश: समो दीर्घश्च निपात्यते / निचीयतेऽस्मिन्धान्यादिकं निकाय्यो निवास: / अधिकरणे ण्यत् आय् धात्वादेः कुत्वञ्च निपात्यते / धीयतेऽनया समिदिति धाय्या ऋक् / 2891 / ऋतौ कुण्डपाय्यसञ्चाय्यौ / (3-1-130) कुण्डेन पीयतेऽस्मिन्सोमः कुण्डपाय्यः क्रतुः। सञ्चीयतेऽसौ सञ्चाय्यः। तथाविधदक्षिणाग्नौ वाच्ये आनेयशब्द एवेति भावः / प्रणाय्योऽसम्मतौ // असम्मतौ गम्यायां प्रणाय्य इति निपात्यते / तत्र असम्मतिशब्दैकदेशं सम्मतिशब्द विकृणोति। सम्मतिः प्रीतिविषयीभवनमिति // तच्च कर्मनिष्ठमित्याह / कर्मव्यापार इति // तथेति // भोगेषु सुखदुःखानुभवेषु आसक्तिरपि सम्मतिरित्यर्थः / एवंविधा सम्मतिर्न भवतीति असम्मतिरिति फलितम् / प्रणाय्यश्चोर इति // ण्यति वृद्धौ आयादेशः / पाय्यसान्नाय्य // पाय्य, सानाय्य, निकाय्य, धाय्य, एषान्द्वन्द्वात्प्रथमाबहुवचनम् / मान, हविः, निवास, सामिधेनी एषान्द्वन्द्वात्सप्तमी / मानादिषु गम्येषु क्रमात् पाय्यादयो निपात्यन्ते / मीयते अनेनेति // माधातोः करणे ण्यत् , धात्वादेर्मकारस्य पत्वञ्च निपात्यते इत्यर्थः / आत इति // ण्यति 'मीनाति' इत्यात्त्वे कृते, आतो युगिति भावः / ण्यदिति // सम्पूर्वात् नीधातोः कर्मणि निपात्यते इत्यर्थः / आयादेश इति // सन्नी य इति स्थिते आयादेशः निपात्यते इत्यन्वयः / निवास इति // कुसूलादिरित्यर्थः / अधिकरणे इति // चिञ्धातोराधिकरणे ण्यन्निपात्यते इत्यन्वयः / आय् इति // अच्परकत्वाभावात् आयादेशोऽप्राप्तो निपात्यते इत्यन्वयः / धाय्या ऋगिति // धाधातोः करणे ण्यति, आयादेशो निपात्यते इति भावः / सामिधेन्यो नाम समिदाधानार्थी ऋग्विशेषाः / तत्र 'समिध्यमानो अध्वरे' इति ऋच उपरि प्रक्षेप्या 'पृथुपाजा अमर्त्यः' इत्याद्या ऋक्प्रसिद्धा / क्रतौ कुण्डपाय्य / ऋतुविशेषे गम्ये एतौ निपात्यते / कुण्डेनेति // अत्सरुकैः चमसैरित्यर्थः / सामान्यनैकवचनम् / “यदत्सरुकैश्चसमैर्भक्षयन्ति तदेषाँ कुण्डम् " इति श्रुतिः। कुण्डपाय्य इति // सत्रविशेषात्मकः क्रतुः / कुण्डेनेति तृतीयान्ते उपपदे For Private And Personal Use Only
Page #495
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा / 493 2892 / अग्नौ परिचाय्योपचाय्यसमूह्याः / (3-1-131) अग्निधारणार्थे स्थलविशेष एते साधवः / अन्यत्र तु परिचेयम् / उपचेयम् / संवाह्यम् / 2893 / चित्याग्निचित्ये च / (3-1.132) चीयतेऽसौ चित्योऽग्निः / अग्नेश्चयनमग्निचित्या / 'प्रैषातिसर्गप्राप्तकालेषु कृत्याश्च' (सू 2817) / त्वया गन्तव्यम् / गमनीयम् / गम्यम् / इह लोटा बाधा मा भूदिति पुन: कृत्यविधिः 'स्त्रयधिकारादूर्ध्व वासरूपविधिः कचिन्न' इति ज्ञापयति / तेन ‘क्तल्युट्तुमुन्खलर्थेषु न-' इति सिद्धम् / अधिकरणे ण्यत् / आतो युक् / सञ्चाय्य इति // सम्पूर्वात् चित्रः कर्मणि ण्यत् आयादेशश्च निपात्यते इति भावः / सञ्चायो नाम ऋतुविशेषः क्वचिच्छाखायामन्वेषणीयः / अग्नौ परिचाय्य // अग्नौ गम्ये परिचाय्य, उपचाय्य समूह्य, एते निपात्यन्त / अग्निशब्द इष्टकारचित. स्थण्डिलविशेषे वर्तते / " इष्टकाभिरग्निश्चिनोति" इति श्रुतेः इष्टकाकृतचयनेन अग्नयाख्यं स्थण्डिलं निष्पादयेदित्यर्थः। “ब्रह्मवादिनो वदन्ति यन्मृदाचाद्भिश्चाग्निश्चीयतेऽथ कस्मादग्निरुच्यत इति यच्छन्दोऽभिश्चिनोत्यग्नयो वै छंदाँसि तस्मादग्निरुच्यतेऽथो इयं वा अग्निर्वैश्वानरो यन्मृदाचिनोति तस्मादग्निरुच्यते” इति वाक्यशेषाच्च / तदाह / अग्निधारणेति // तत्र परिपूर्वादुपपूर्वाच्च चिञः कर्मणि ण्यत् आयादेशश्च निपात्यते / सम्पूर्वस्य वहेस्तु कर्मणि ण्यति सम्प्रसारणम् , दीर्घश्च निपात्यते / “समूह्यञ्चिन्वीत पशुकामः परिचाय्यञ्चिन्वीत ग्रामकामः" इति तैत्तिरीयश्रुतौ परिचाय्यसमूह्यौ प्रसिद्धौ। उपचाय्यस्त्वग्निः क्वचिच्छाखायामन्वेषणीयः / चित्याग्निचित्ये च // चित्यश्च अग्निचित्या चेति द्वन्द्वः। अग्नौ निपात्येते। चित्योऽग्निरिति॥ कर्मणि ण्यत् तुक्च निपात्यते / अग्नेश्चयनमिति // अग्निशब्दे षष्ठ्यन्ते उपपदे चिणो ण्यत् तुक् च, स्त्रीत्वं लोकात् / 'प्रैषातिसर्ग' इति व्याख्यातमपि स्मार्यते / गम्यमिति // ‘पोरदुपधात्' इति ण्यदपवादः क्यप्। ननु सामान्येन भावकर्मणोर्विहितानां कृत्यानाम्प्रैषादिषु तदभावे च सिद्धे प्रैषादिषु कृत्यविधिर्व्यर्थ इत्यत आह / लोटा बाधा इति // इह प्रैषादिषु कृत्यविध्यभावे लोट चेति प्रैषादिषु लोटा विशेषविहितेन कृत्यानां बाधः स्यात् / कृत्यानाम्प्रैषाद्यभावे भावकर्मणोश्चरितार्थत्वात् / अतः प्रैषादिषु कृत्यानां लोटा बाधनिवृत्तये पुनः कृत्यविधिरित्यर्थः / ननु वासरूपविधिनैव लोटा प्रैषादिषु कृत्यानां बाधो न भविष्यतीत्यत आह / स्त्रयधिकारादूर्वमिति // 'स्त्रियां क्तिन्' इत्यूर्ध्वमित्यर्थः। 'प्राक् स्त्रियाः वासरूपविधिः' इति भाष्यम् / ननु स्त्रयधिकारादूर्व बासरूपविधेरप्रवृत्तौ ‘स्त्रियां क्तिन्' इति सामान्यविहितस्य क्तिनः ‘षिद्भिदादिभ्योऽङ्' इति विशेषविहितेन नित्यबाधस्स्यात् , ततः क्षमा क्षान्तिः, भिदा भित्तिरित्यादि न स्यात् इत्यत आह / क्वचिन्नेति // वचिदित्यस्यानिर्धारणादाह / तेन क्तल्युट्तुमुन्खलर्थेषु नेति For Private And Personal Use Only
Page #496
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 494 सिद्धान्तकौमुदीसहिता [कृदन्तकृत्य 'अर्हे कृत्यतृचश्च' (सू 2822) स्तोतुमर्हः स्तुत्यः स्तुतिकर्म / स्तोता स्तुतिकर्ता / लिङा बाधा मा भूदिति कृत्यतृचोविधिः / 2894 / भव्यगेयप्रवचनीयोपस्थानीयजन्याप्लाव्या पात्या वा / (3-4-67) एते कृत्यान्ताः कर्तरि वा निपात्यन्ते / पक्षे तयोरेवेति सकर्मकात्कर्मणि, अकर्मकात्तु भावे ज्ञेयाः / भवतीति भव्यः / भव्यमनेन वा / गायतीति गेयः साम्नामयम् / गेयं सामानेन वा इत्यादि / 'शकि लिङ् च' (सू 2823) / चात्कृत्याः / वोढुं शक्यो वोढव्यः / वहनीयो वाह्यः / लिङा बाधा मा सिद्धमिति // एषु वासरूपविधिर्नास्तीत्यर्थः / “स्त्यधिकारात् प्राक् वासरूपविधिः, नतु तत ऊर्ध्वम्” इति भाष्यस्य क्तल्युट्तुमुन्खलर्थेषु वासरूपविधिर्नास्तीत्यत्र सङ्कोच इति भावः / अत्र व्याख्यानमेव शरणम् / अर्हे कृत्यतृचश्चेति // प्राग्व्याख्यातं विशेषविवक्षया स्मार्यते / 'लिङ्यदि' इत्यतो लिङनुकर्षार्थश्चकार इत्युक्तं प्राक् / ननु अर्हे अनर्हे च सामान्यविधानादेव अर्हेऽपि कृत्यतृचोः सिद्धयोः पुनस्तद्विधिर्व्यर्थः इत्यत आह / लिङा बाधेति // अर्हेचेत्येता. वत्येव उक्ते चकारानुकृष्टस्य लिङ एवार्हे विधिः स्यात् / तथा च अर्हे कृत्यतृचोर्विधिनस्यात् , अर्हे विशेषविहितेन लिङा बाधात् , अनर्हे कृत्यतृचोश्चरितार्थत्वात् / वासरूपविधिस्तु स्त्र्यधिकारादूर्ध्वन प्रवर्तते इत्युक्तमेव, अतो लिङा बाधा मा भूदिति कृत्यतृचोविधिरित्यर्थः / भव्यगेय // कर्तरि वेति // ‘कर्तरि कृत्' इत्यतः कर्तरीत्यनुवृत्तं वेत्यनेन सम्बध्यते / तथा च कर्तरि वा एते निपात्यन्ते / अन्यत्र नेति फलति / तत्र अन्यत्रेत्यस्यानिर्धारणादाह / पक्षे इति // अन्यत्रापि न सर्वत्र, किन्तु 'तयोरेव कृत्यक्तखलाः ' इति सूत्रेण सकर्मकात् कर्मणि अकर्मकाद्भावे एते कृत्या ज्ञेयाः इत्यर्थः / 'तयोरेव कृत्य' इति सूत्रे 'लः कर्मणि च' इत्यस्मात्सकर्मकेभ्यः कर्मणि अकर्मकेभ्यो भावे इति अनुवर्तते इति भावः / भवतीति भव्य इति // कर्तरि अचो यत् / भव्यमनेन वेति // भावे यत् / गेयस्साम्नामयमिति // गाधातोः कर्तरि यत् / 'ईद्यति' इति प्रकृतेः ईत्त्वम् / गुणः / सानाकर्मणामनभिहितत्वात् कृद्योगे षष्ठी। कर्तुरभिहितत्वात् प्रथमा। गेयं सामानेनेति // कर्मणि यत्। सकर्मकत्वात् , नतु भावे। कर्तुरनभिहितत्वात्तृतीया / कृद्योगषष्ठी तु कृत्ययोगे कर्तरि वैकल्पिकी, 'कृत्यानाकर्तरि वा' इत्युक्तेः / इत्यादीति // प्रवचनीयो गुरुर्वेदस्य / प्रवक्तेत्यर्थः / कर्तरि अनीयर्। प्रवचनीयो वेदो गुरुणेति वा / उपस्थानीयश्शिष्यो गुरोः, उपस्थानीयो गुरुशिष्येणेति वा / जन्योऽसौ जायते इत्यर्थः / जन्यमनेनेति वा / अप्लवतेऽसौ आप्लाव्यः / 'ओरावश्यके' इति कर्तरि ण्यत् / आप्लाव्यमनेनेति वा / आपतत्यसौ आपात्यः / 'ऋहलोः' इति कर्तरि ण्यत् / आपात्यमनेन वा / 'शकि लिङ् च' इत्यपि व्याख्यातं प्राक् / विशेषविवक्षया सूत्रक्रमादिहोपन्यस्तम् / नन्विह चकारानुकृष्टकृत्यविधिर्व्यर्थः / शक्ती अशक्तौ च भावकर्मणोः सामान्यतः कृत्यविधित एव For Private And Personal Use Only
Page #497
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा / 495 भूदिति कृत्योक्तिः / लाघवादनेनैव ज्ञापनसंभवे प्रैषादिसूत्रे ‘कृत्याश्च' इति सुत्यजम् / अर्हे कृत्यतृचोर्ग्रहणं च / // इति कृदन्तकृत्यप्रकरणम् // // श्रीरस्तु॥ // अथ कृदन्तप्रकरणम् // 2895 / ण्वुल्तृचौ / (3-1-133) धातोरेतौ स्तः / 'कर्तरि कृत्' (सू 2832) इति कर्वर्थे / 'युवोरनाको' (सू 1247) / कारकः / कर्ता / वोढुमर्हो वोढा / कारिका / की / 'गाङ्कुटा-' (सू 2461) इति ङित्त्वम् / कुटिता / अणिदित्युक्तेर्न डित्त्वम् / कोटकः / 'विज इट्' (सू 2536) / विजिता / 'हनस्तोऽचिण्णलो:' (सू 2574) / घातकः / आतो युक्-' (सू 2761) / दायकः / 'नोदात्तोपदेशस्य-' (सू 2763) इति न वृद्धिः शमकः / दमकः / शक्तावपि सिद्धेरित्यत आह / लिङा बाधेति // ‘शकि लिङ्' इत्येतावत्येवोक्ते शक्तौ विशेषविहितेन कृत्यानाम्बाधः स्यात्, अशक्तौ कृत्यानाञ्चरितार्थत्वात् , वासरूपविधिस्तु स्त्र्यधिकारादूर्ध्वनेत्युक्तमेवेति भावः / लाघवादिति // इह चकारमात्रेण वासरूपविधेः स्त्रयधिकारादूर्व अनित्यताज्ञापनं सम्भवति / अतः 'प्रैषातिसर्ग' इति सूत्रे कृत्यग्रहणेन ‘अर्हे कृत्यतृचश्च' इत्यत्र तृज्ग्रहणेन च तज्ज्ञापनाश्रयणे गौरवमिति भावः // इति श्रीवासुदेवदीक्षितविदुषा विरचितायां सिद्धान्तकौमुदीव्याख्यायां बालमनोरमाख्यायां कृदन्तकृत्यप्रकरणं समाप्तम् / अथ कृदन्तप्रकरणम् –ण्वुल्तृचौ॥ अनयोर्वर्तमानकालादन्यत्र न प्रयोग इति भाष्यम् / वोढुमर्हः इति // ‘अर्हे कृत्यतृचश्च' इत्युक्तरिति भावः। वोढेति // वहेः तृच्यनुदात्तत्वादिडभावे ढत्वधत्वष्टुत्वढलोपेषु ‘सहिवहोः' इत्योत्त्वम् / कुटितेत्यत्र लघूपधगुणमाशङ्कय आह / गाङिति // तर्हि ण्वुलि कोटक इत्यत्रापि गुणो न स्यादित्यत आह / अञ्णिदित्युक्तेरिति॥ विजितेत्यत्र लघूपधगुणमाशङ्कय आह / विज इडिति // कित्त्वमिति शेषः। विजितेति॥ For Private And Personal Use Only
Page #498
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 496 सिद्धान्तकौमुदीसहिता [कृदन्त अनिटस्तु नियामकः / 'जनिवध्योश्च' (सू 2512) / जनकः / 'वध हिंसायाम्'। वधकः / ‘रधिजभोरचि' (सू 2302) / रन्धकः / जम्भकः / 'नेट्यलिटि रधेः' (सू 2516) / रधिता-रद्धा / 'मम्जिनशो:-' (सू 2517) इति नुम् / मङ्का / नंष्टा-नशिता / 'रभेरशब्लिटो:' (सू 2581) / रम्भकः / रब्धा / 'लभेश्च' (सू 2582) / लम्भकः / लब्धा / 'तीषसह-' (सू 2340) / एषिता-एष्टा / सहिता-सोढा / दरिद्रातरालोपः। दरिद्रिता / ‘ण्वुलि न' / दरिद्रायकः / ‘कृत्यल्युट:-' (सू 2841) इत्येव सूत्रमस्तु / यत्र विहितास्ततोऽन्यत्रापि स्युरित्यर्थात् / एवं च बहुलग्रहणं योगविभागेन कृन्मात्रस्यार्थव्यभिचारार्थम् / पादाभ्यां हियते पादहारकः / कर्मणि ण्वुल् / 'क्रमे: कर्तर्यात्मनेपदविषयात्कृत इण्निषेधो वाच्यः' (वा 4422, 4423) / ङित्त्वान्न गुणः / अनिटस्त्विति // तस्यानुदात्तोपदेशत्वादिति भावः / जनकः इत्यत्रोपधावृद्धिमाशङ्कय वृद्धिनिषेधं स्मारयति / जनिवध्योश्चेति // वध हिंसायामिति // धात्वन्तरं भौवादिकम् / भ्वादेराकृतिगणत्वात् / नत्वयं हन्तेर्वधादेशः / तथा सति 'जनिवध्योश्च' इति वृद्धिनिषेधसूत्रे वधिग्रहणवैयर्थ्यात् / वधादेशस्यादन्ततया अल्लोपस्य स्थानिवत्त्वादेव वृद्ध्यभावसिद्धेः / वधक इति // ‘जनिवध्योश्च' इति वृद्धिनिषेधः / रन्धकः जम्भकः इत्यत्र इदित्त्वाभावादप्राप्ते नुमि तद्विधिं स्मारयति / रधिजभोरचीति // रधितेत्यत्र 'रधिजभोः' इति नुममाशय आह / नेट्यालिटि रधेरिति // रधिता-रद्धेति // 'रधादिभ्यश्च' इति वेट / मस्ज् तृ इति स्थिते आह / मस्जिनशोरिति // नुम्विधिरयम् / मलेति // मस्ज् तृ इति स्थिते 'मस्जेरन्त्यात् पूर्वो नुम् वाच्यः' इति सकारादुपरि जकारात् प्राड्नुम् / मस्न्ज् तृ इति स्थिते ‘स्कोः' इति सलोपः, जस्य कुत्वेन गः, तस्य चान कः, अनुस्वारः, परसवर्णेन ङ इति भावः / नंष्टा-नशितेति // रधादित्वाद्वेट् / इडभावपक्षे 'मस्जिनशोः' इति नुमि नन्श् तृ इति स्थिते 'ब्रश्च' इति शस्य षः / नस्यानुस्वारः ष्टुत्वम् / रभेरशब्लिटोः इति // नुम्विधिरयम् / लब्धेति // ‘झषस्तथोः' इति तस्य धः जश्त्वेन भख बः। तीषसहेति // इडिकल्पोऽयम् / सोदेति // ढत्वधत्वष्टुत्वढलोपाः / 'सहिवहोः' इत्योत्त्वम् / दरिद्रातरालोप इति // 'दरिद्रातरालोपो वक्तव्यः' इत्यनेनेति भावः / ण्वुलि नेति // दरिद्रातेवुलि आल्लोपो नेत्यर्थः। 'न दरिद्रायके लोपः' इति वार्तिकादिति भावः। दरिद्रायक इति // 'आतो युक' इति भावः / पादाभ्यां ह्रियते पादहारकः इत्यत्र कर्मणि ण्वुलं साधयितुमाह / कृत्यल्युट इत्येवेति // ‘कृत्यल्युटः' इत्येतावतैव पुनर्वचनबलात् येष्वर्येषु ते कृत्यल्युटः विहिताः, ततोऽन्येवप्यर्थेषु भवन्तीत्यर्थलाभात् बहुळग्रहणं योगविभागार्थम् / कृत्प्रत्यया येष्वर्थेषु विहिताः ततोऽन्यत्रापि क्वचित् भवन्तीति / एवञ्च कर्मण्यपि ण्वुल सिद्ध्यतीत्यर्थः / ‘कृतो बहुळम्' इति वार्तिकन्तु एतद्योगविभागसिद्धकथनपरमिति भावः / क्रमेरिति // आत्मनेपदविषयात् क्रमः परस्य कर्तरि कृतो नेडित्यर्थः / For Private And Personal Use Only
Page #499
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा / प्रक्रन्ता / 'कर्तरि' इति किम् / प्रक्रमितव्यम् / 'आत्मनेपद-' इति किम् / सङ्कमिता / अनन्यभावे विषयशब्दः / तेन ‘अनुपसर्गाद्वा' (सू 2716) इति विकल्पार्हस्य न निषेधः / क्रमिता / तदर्हत्वमेव तद्विषयत्वम् / तेन क्रन्तेत्यपीति केचित् / ‘गमेरिट -' (सू 2401) इत्यत्र परस्मैपदग्रहणं तङानयोरभावं लक्षयति / सजिगमिषिता / एवं 'न वृद्भ्यश्चतुर्यः' (सू 2348) विवृत्सिता / यङन्ताण्ण्वुल् / अल्लोपस्य स्थानिवत्त्वान्न वृद्धिः / पापचकः / यङ्लुगन्तात्तु पापाचकः / 2896 / नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः / (3-1-134) नन्द्यादेर्युग्रंह्यादेणिनिः पचादेरच्स्यात् / नन्दयतीति नन्दनः / जनमर्दयतीति जनार्दनः / मधुं सूदयतीति मधुसूदनः / विशेषेण भीषयतीति 'स्नुक्रमोः' इति सूत्रस्थमिदं वार्तिकम् / प्रक्रन्तेति // 'प्रोपाभ्यां समर्थाभ्याम्' इत्यात्मने. पदविषयोऽयम् / नन्वेवं सति क्रमितेत्यत्र कथमिडित्यत आह / अनन्यभावे विषयशब्द इति // वर्तते इति शेषः / आत्मनेपदाविनाभाव इति यावत् / क्रमः कर्तर्यात्मनेपदिन इत्येतावतैव सिद्धेरयमों लभ्यते इति भावः। तथाच नित्यमात्मनेपदिन इति फलितम्। तेनेति // क्रमितेत्यत्र क्रमेः 'अनुपसर्गाद्वा' इत्यात्मनेपदविकल्पविधानात् नित्यमात्मनेपदित्वाभावात् इण्निषेधो नेत्यर्थः / मतान्तरमा / तदर्हत्वमेवेति / / आत्मनेपदार्ह त्वमेवात्मनेपदविषयत्वम् / ततश्च आत्मनेपदपक्षे इग्निषेधे सति प्रक्रन्तेति रूपम् / आत्मनेपदाभावपक्षे तु क्रम इटि क्रमितेति रूपमिति केचिदाहरित्यर्थः / अत्र पक्षे विषयपदस्य न प्रयोजनमित्यस्वरसः। ननु सञ्जिगमिषितेत्यत्र सनः कथमिट् , गमेरनिटत्सु पाठात् सनः परस्मैपदपरत्वाभावेन ‘गमेरिट परस्मैपदेषु' इत्यस्याप्रवृत्तेरित्यत आह / गमेरिडित्यत्रेति // एवमिति // 'न वृक्ष्य श्चतुर्व्यः' इत्यत्रापि परस्मैपदग्रहणमनुवृत्तं तङानयोरभावं लक्षयतीत्यर्थः / विवृत्सितेति / / वृतेस्सनि रूपम् / 'हलन्ताच्च' इति कित्त्वान गुणः / यङन्तादिति // पचिधातोर्यङन्तात् पापच्येत्यस्मात् ण्वुलित्यर्थः / तस्य अकादेशे 'यस्य हलः' इति यकारलोपे अतो लोप पापच् अक इति स्थिते उपधावृद्धिमाशङ्कय आह / स्थानिवत्त्वान्न वृद्धिरिति // यङ्लुगन्ताविति // यङस्सङ्घातस्य लुकः अजादेशत्वाभावेन स्थानिवत्त्वासम्भवादुपधादृद्धिनिर्वाधा / 'न धातुलोपः' इति निषेधस्तु न, यङ्लुकः अनैमित्तिकत्वात् उपधावृद्धरिग्लक्षणत्वाभावाच / नन्दिनहि // नन्दि, ग्रहि, पच, एषां द्वन्द्वात्पञ्चमी / नन्दिग्रहिपचाः आदिर्येषामिति विग्रहः / आदिशब्दस्य प्रत्येकमन्वयः फलति / ल्यु, णिनि, अच् , एषां द्वन्द्वात्प्रथमा / यथासङ्ख्यमन्वयः। तदाह / नन्द्यादेरित्यादि // नन्दि इति ण्यन्तग्रहणम् / तदाह / नन्दयतीति नन्दन इति // ल्योरनादेशः, ‘णेरनिटि' इति णिलोपः / मधं सूदयतीति // मधुः असुरविशेषः, तं सूदयति हन्तीति मधुसूदनः। ल्युः अनादेशः णिलोपः। 63 For Private And Personal Use Only
Page #500
--------------------------------------------------------------------------
________________ www. kobatirth.org Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir Acharya Shri Kailassagarsuri 498 सिद्धान्तकौमुदीसहिता [कृदन्त विभीषणः / लवणः / नन्द्यादिगणे निपात्तनाण्णत्वम् / ग्राही / स्थायी / मन्त्री / विशयी। वृद्ध्यभावो निपातनात् / विषयी। इह षत्वमपि / परिभावी-परिभवी। पाक्षिको वृद्ध्यभावो निपात्यते / पचादिराकृतिगणः / शिवशमरिष्टस्य करे' (सू 3489) / 'कर्मणि घटोऽठच्' (सू 1836) इति सूत्रयोः करोतेर्घटेश्चा प्रयोगात् / अच्प्रत्यये परे यङ्लुग्विधानाच्च / केषाञ्चित्पाठस्त्वनुबन्धासञ्जनार्थः / केषाञ्चित्प्रपञ्चार्थः / केषाञ्चिद्वाधकबाधनार्थः / पचतीति पचः / नदट् / चोरट् / देवट / इत्यादयष्टित: / नदी / चोरी / देवी / दीव्यते: 'इगुपध-' (सू 2897) इति कः प्राप्तः / जारभरा / श्वपचा / अनयोः 'कर्मण्यण' (सू 2913) प्राप्तः। न्यवादिषु पाठाच्छ्पाकोऽपि / 'यङोऽचि च' (सू 2650) इति लुक् / 'न धातुलोपे–' (सू 2656) इति गुणवृद्धि'सात्पदाद्योः' इति न षत्वम् / नन्द्यादयो वृत्तौ पठिताः / तत्र केचित् ण्यन्ताः केचिदण्यन्ताः / सूत्रे 'ग्रह उपादाने' इत्यस्य ग्रहीति इका निर्देशः / सौत्रत्वात् 'अहिज्या' इति सम्प्रसारणं न / ग्राहीति // ग्रहधातोरदुपधाणिनिः / नकारादिकार उच्चारणार्थः। उपधावृद्धिः / विशयीति // विपूर्वात् ‘शीङ् स्वप्ने' इति धातोणिनिः / गुणायादेशौ / 'अचोऽणिति' इति वृद्धिमाशङ्कय आह / वृद्ध्यभाव इति // विषयीति // ‘षिञ् बन्धने' अस्मात्कृतसत्वाणिनिः / गुणाया. देशौ / नन्विह कथन वृद्धिः, कथञ्च षत्वं पदादित्वादित्यत आह / षत्वमपीति // निपातनात् वृद्ध्यभावष्यत्वञ्चेत्यर्थः / परिभावी-परिभवी इत्यत्र णित्त्वान्नित्यवृद्धिमाशङ्कय आह / पाक्षिक इति // ग्रह्यादयो वृत्तौ पठिताः / पचादिराकृतिगण इति // पच वप इत्यादि. कतिपयधातून् पठित्वा आकृतिगण इति गणपाठे वचनादिति भावः। गणपाटे आकृतिगणत्ववचनाभावेऽप्याह / शिवशमिति // सूत्रे करशब्दस्य पचादिगणेऽपठितस्य कृषः अच्प्रत्ययान्तस्य 'कर्मणि घटः' इति सूत्रे घटेरचि घटशब्दस्य च प्रयोगदर्शनादित्यर्थः / अच्प्रत्यय इति // यडन्तादच्प्रत्यये परे ‘यङोऽचि च' इति यङो लुग्विधीयते / नहि पचादिगणे यडन्तं पठितमस्ति / अतोऽपि पचादेराकृतिगणत्वं विज्ञायते इत्यर्थः / पचादेराकृतिगणत्वे नदट् चोरट् इत्यादीनां तत्र पाठो व्यर्थ इत्यत आह / केषाञ्चिदिति // टकारानुबन्धनासञ्जनार्थ इत्यर्थः / नन्वेवमपि वद चल इत्यादीनां अनुबन्धरहितानां तत्र किमर्थः पाठ इत्यत आह / केषाञ्चित्प्रपञ्चार्थ इति // बाधकेति // जारभर श्वपच इत्यादौ पचाद्यजपवादस्य कर्मण्यणो बाधनार्थ भरपचादीनां पाठः इति भाष्यम् / देवः सेवः इत्यादौ 'इगुपधज्ञाप्रीकिरः कः' इति विशिष्य विहितस्य कस्य बाधनार्थञ्च / तदेतदुपपादयति / नदडित्यादि // ननु पचादिगणे श्वपचशब्दस्य बाधकबाधनार्थत्वे श्वपाक इति कथमित्यत आह / न्यवादिषु पाठाच्छपाकोऽपीति // कदाचिदण्प्रत्ययः कुत्वञ्चेत्यर्थः / चेक्रियः, मरीमृजः इत्यादौ प्रक्रियान्दर्शयति / योऽचि चेति // क्रीआदिधातोरचि यङो लुगित्यर्थः / द्वित्वादौ चेक्री For Private And Personal Use Only
Page #501
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा / 499 निषेधः / चेक्रियः / नेन्यः / लोलुवः / पोपुत्रः / मरीमृजः / 'चरिचलिपतिवदीनां वा द्वित्वमच्याक्चाभ्यासस्येति वक्तव्यम्' (वा 3430) / आगागमस्य दीर्घत्वसामर्थ्यादभ्यासहस्वो 'हलादिःशेषः' (सू 2179) च न / चराचरः / चलाचल: / पतापतः / वदावदः / 'हन्तेर्घत्वं च' (वा 3431) / घत्वमभ्यासस्योत्तरस्य तु 'अभ्यासाच' (सू 2430) इति कुत्वम् / घनाघनः / 'पाटेर्णिलुक्चोक्च दीर्घश्चाभ्यासस्य' / पाटूपट: / पक्षे चरः / चलः / पतः / वदः / हनः / पाट: / 'रात्रेः कृति-' इति वा मुम् / रात्रिञ्चरो रात्रिचरः / 2897 / इगुपधज्ञाप्रीकिरः कः / (3-1-135) ___ एभ्यः कः स्यात् / क्षिप: / लिख: / बुधः / कृशः / ज्ञः / प्रीणातीति प्रियः / किरतीति किरः / वासरूपविधिना ण्वुल्तृचावपि / क्षेपक:-क्षेप्ता / 2898 / आतश्वोपसर्गे। (3-1-136) कः स्यात् / 'श्याव्यध-' (सू 2903) इति णस्यापवादः। सुग्लः / प्रज्ञः। अ इत्यादिस्थिती आह / न धातुलोप इति // चेक्रियः इति // गुणाभावे संयोगपूर्वत्वान्न यण् / नेन्य इति // ‘एरनेकाचः' इति यण् / लोलुवः इति // उवङ् / यण्तु न / 'ओस्सुपि' इत्युक्तेः। मरीमृज इति // अत्र 'न धातुलोपे' इति निषेधात् न मृजेवृद्धिः / चरिचलीति // एषाम् अच्प्रत्यये परे द्वित्वम् अभ्यासस्य आगागमश्चेत्यर्थः / ननु चराचर इत्यत्राभ्यासे रेफादाकारस्य ह्रस्वः स्यात् , हलादिशेषेण तत्र रेफस्यापि निवृत्तिः स्यादित्यत आह / आगागमस्येति // ह्रस्वत्वे सत्यागागमे दीर्घोच्चारणं व्यर्थम् , अगागमस्यैव विधातुं शक्यत्वात् / तथा हलादिशेषेण रेफस्य निवृत्ती ह्रस्वत्वेऽपि सवर्णदीर्पण चराचर इति सिद्धे दीपो. चारणं हलादिशेषाभावङ्गमयतीत्यर्थः / हन्तरिति // वार्तिकमिदम् / हनधातोरचि घत्वं द्वित्वं आक् चेत्यर्थः / ननु उत्तरखण्डे 'अभ्यासाच्च' इति कुत्वसिद्धेः किमर्थमिह घत्वविधानमित्यत आह / घत्वमभ्यासस्येति // इह विधीयते इति शेषः / पाटेरिति // वार्तिकमिदम् / पाटो पाटि इत्यस्मात् आचि गेलृक् , द्वित्वम् / अभ्यासस्य ऊगागमः / अभ्यासस्य आकारस्य ह्रस्वे तस्य दीर्घश्चेत्यर्थः / वृद्धिनिवृत्तये गेलुंग्विधिः। आगमे दीर्घोच्चारणात् हलादिशेषेण टकारस्य न निवृत्तिः / हलादिशेषे तु आद्गुणे पोपट इति रूपस्य उगागमेऽपि सिद्धेः / इगु. पधशा // 'कृ विक्षेपे' इत्यस्य इत्त्वे रपरत्वे च किर् इति रेफान्तम् , इगुपध, ज्ञा, प्री, किर्, एषान्द्वन्द्वात्पञ्चमी / कित्त्वं गुणनिषेधार्थम् / ज्ञ इति // आतो लोपः। प्रिय इति // प्रीञ् के इयङ् / किर इति // कृधातोरचि इत्त्वे रपरत्वम् / आतश्चोपसर्गे // कः स्यादिति // शेषपूरणम् / उपसर्गे उपपदे आदन्ताद्धातोः कस्स्यादिति फलति / णस्यापवाद इति // तस्य उपसर्गेऽनुपसर्गे च आदन्तसामान्यविहितत्वात् इति भावः / सुग्ल इति // ग्लैधातोः 'आदेचः' इत्यात्वे कृते कप्रत्यये आतो लोप इति भावः / प्रक्ष इति // ज्ञाधातोरातो लोपः / For Private And Personal Use Only
Page #502
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 500 सिद्धान्तकौमुदीसहिता [कृदन्त 2899 / पाघ्राध्माधेदृशः शः। (3-1-137) पिबतीति पिबः / जिघ्रः / धमः / धयः / धया कन्या / धेटष्टित्त्वात् 'स्तनन्धयी' इति खशीव ङीप्प्राप्तः / 'खशोऽन्यत्र नेष्यते' इति हरदत्तः / पश्यतीति पश्यः / ब्रः सज्ञायां न (वा 1967) / 'व्याघ्रादिभि:--' (सू 735) इति निर्देशात् / 2900 / अनुपसर्गाल्लिम्पविन्दधारिपारिवेधुदेजिचेतिसाति साहिभ्यश्च / (3-1-138) श: स्यात् / लिम्प: / विन्दः / धारयः / पारयः / वेदयः / उदेजयः / चेतयः / सातिः सुखार्थः / सौलो हेतुमण्ण्यन्त: / सातयः / वासरूपन्यायेन पाघ्रा // अत्र 'लुग्विकरणालुग्विकरणयोरलुग्विकरणस्य ग्रहणम्' इति मत्वा आह। पिब. तीति पिव इति // पाधातोश्शप्रत्यये तस्य शित्त्वेन सार्वधातुकत्वात् 'पाघ्राध्मा' इति पिवादेशः / स चादन्त इत्युक्तम् / शप् पररूपम् / जिघ्र इति // 'पाघ्रा' इति घ्राधातोर्जिघ्रादेशः। धम इति // ध्माधातोर्धमादेशः / धय इति // धेटश्शः, शप् , अयादेशः, पररूपमिति भावः / धया कन्येति // अत्र धेटधातुष्टित् सः अदन्तो न भवति / यस्त्वदन्तो धयशब्दः, स न टित् / अतोऽत्र 'टिड्ढाणञ्' इति न डीबिति भावः / धेटष्टित्त्वादित्यारभ्य हरदत्तमतम् / स्तनन्धयीतीति // स्तनशब्दे उपपदे धेट्वातोः 'नासिकास्तनयोः' इति खशि कृते 'खित्यनव्ययस्य' इति मुमि स्तनन्धयशब्दः / तत्र खशि कृते धेटष्टित्त्वमाश्रित्य यथा 'टिड्ढाणञ्' इति ङीप् , तथा धया कन्येत्यत्रापि पि प्राप्तः / स डीप खशोऽन्यत्र नेष्यते इति हरदत्त आहेत्यर्थः / वस्तुतस्तु 'टिड्ढाणञ्' इति सूत्रे टिदाद्यवयवाकारस्यैव ग्रहणमिति भाष्यविरोधादिदञ्चिन्त्यम् / नच टित्त्वसामर्थ्यादेव स्तनन्धयीशब्दात् ङीबिति वाच्यम् / धया कन्येत्यत्रापि डीप्प्रसङ्गात् / खशोऽन्यत्र नेष्यते इत्यत्र प्रमाणाभावात् / तस्मात् स्तनन्धयीत्यप्रामाणिकमेव / तस्य प्रामाणिकत्वे गौरादित्वङ्कल्प्यम् / ङीष्यप्युदात्तनिवृत्तिस्वरप्राप्त्या स्वरे विशेषाभावात् इति शब्देन्टुशेखरे स्थितम् / दृशः उदाहरति / पश्य इति // ‘पाघ्रा' इति पइयादेशः / ब्रस्संज्ञायां नेति // घ्राधातोस्संज्ञायां शो नेत्यर्थः। कुत इत्यत आह / व्याघ्रा. दिभिरिति // अन्यथा व्याजिघ्रादिभिरिति निर्दिशेदिति भावः / अनुपसर्गात् // शः स्यादिति // शेषपूरणम् / लिम्पः, विन्द इति // 'लिप उपदाहे, विद्ल् लाभे' इति तुदादौ ताभ्यां शः, 'शे मुचादीनाम्' इति नुम्। सूत्रे कृतनुमौ लिम्पविन्दौ निर्दिष्टौ / अतस्तौदादिकयोरेव ग्रहणम् / धारय इति // धृञ् धारणे, धृङ् अवस्थाने' आभ्यां हेतुमण्ण्यन्ताभ्यां शः, शप् , गुणायादेशौ / पारय इति // पृधातोः ण्यन्ताच्छः, शप् गुणायादशौ / विद वेदनाख्यादिषु / चुरादिण्यन्ताच्छः / शप् गुणायादेशौ / उदेजय इति // उत्पूर्वादेजधातोः ण्यन्ताच्छः / शपू गुणायादेशौ। चेतय इति // 'चिती संज्ञाने' ण्यन्ताच्छः, शप् , गुणायादेशौ / एवं For Private And Personal Use Only
Page #503
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा / 501 किपि सात्परमात्मा / सात्वन्तो भक्ताः / षह मर्षणे, चुरादिः / हेतुमण्ण्यन्तो वा / साहयः / 'अनुपसर्गात्' किम् / प्रलिपः / नौ लिम्पेर्वाच्यः' (वा 1968) / निलिम्पा देवाः / ‘गवादिषु विन्देः संज्ञायाम्' (वा 1969) / गोविन्दः / अरविन्दम् / 2901 / ददातिधात्योर्विभाषा / (3-1-139) श: स्यात् / ददः / दधः / पक्षे वक्ष्यमाणो णः / अनुपसर्गादित्येव / प्रदः / प्रधः / 2902 / ज्वलितिकसन्तेभ्यो णः / (3-1-140) इति शब्द आद्यर्थः / ज्वलादिभ्य: कसन्तेभ्यो वा ण: स्यात् / पक्षेऽच् / ज्वाल:-ज्वलः / चाल:-चलः / अनुपसर्गादित्येव / उज्ज्वलः / ‘तनोतेरुपसङ्खथानम्' (वा 1970) / इहानुपसर्गादिति विभाषेति च न सम्बध्यते / अवतनोतीत्यवतानः / सातयः / सादिति रूपं साधयितुमाह / वालरूपन्यायन क्विबिति // सातयति सुखयतीत्यर्थे क्विप् णिलोपः / यद्यपि विप सामान्यविहितः सातेशप्रत्ययस्तु तदपवादः / तथापि वासरूपविधिना क्विवपि भवतीत्यर्थः / सात्परमात्मेति // “एष ह्यवानन्दयाति" इति श्रुतेः तस्य सुखयितृत्वावगमादिति भावः। सात्वन्त इति // सात् परमात्मा भजनीयः एषामित्यर्थे मतुप 'मादुपधायाः' इति मस्य वः / 'तसी मत्वर्थे' इति भत्वात् पदत्वाभावान जश्त्वम् / साहय इति // साहेश्शः शप् गुणायादशौ / प्रलिप इति // इगुपधलक्षणः कः / नौ लिम्पेरिति // वार्तिकमिदम् / नि इत्युपसर्गे उपपदे लिम्पेश्शो वाच्य इत्यर्थः / अनुपसर्गादित्युक्तेः पूर्वेणाप्राप्ती वचनम् / गवादिष्विति // वार्तिकमिदम् / गवादिषु उपपदेषु विन्देश्शो वाच्य इत्यर्थः / संज्ञायामेवेति नियमार्थमिदम् / गोविन्द इति // गाः उपनिषद्वाचः प्रमाणतया विन्दतीत्यर्थः / अरविन्दमिति // चक्रे नाभिनेभ्योरन्तराळप्रोतानि काष्ठानि अराणि तत्सदृशानि दळानि विन्दतीत्यर्थः / कर्मण्यणोऽपवादशः / ददातिदधात्योर्विभाषा // दाञ् , धाञ् , आभ्यां शो वा स्यात् / ददः, दधः इति // शः, शय् श्लुः, 'श्लौ' इति द्वित्वम् / आतो लोपः / वक्ष्यमाण इति // 'इयायध' इत्यनेनेति भावः / प्रदः, प्रधः इति // 'आतश्चोपसर्गे' इति कः। ज्वलिति // आद्यर्थ इति // तथा च ज्वल् इति आदिः येषां ते ज्वलितयः ते च ते कसन्ताश्चेति ज्वलितिकसन्ताः तेभ्य इति विग्रहः / तदाह / ज्वलादिभ्य इति // 'ज्वल दीप्तौ' इत्यारभ्य 'कस गतौ' इत्येवमन्तेभ्य इत्यर्थः / वा णः स्यादिति // विभाषेत्यनुवर्तते इति भावः / पक्षेऽजिति // इगुपधेभ्यः क इत्यपि बोध्यम् / उपसङ्ख्यानमिति // णस्येति शेषः / न सम्बध्यते इति // अवतानः इत्येव For Private And Personal Use Only
Page #504
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 502 सिद्धान्तकौमुदीसहिता [कृदन्त 2903 / श्यायधाञसंस्वतीणवसावहलिहश्लिषश्वसश्च। (3-1-141) श्यैप्रभृतिभ्यो नित्यं ण: स्यात् / श्येडोऽवस्यतेश्चादन्तत्वात्सिद्धे पृथग्ग्रहणमुपसर्गे कं बाधितुम् / अवश्यायः / प्रतिश्यायः / आत् / दायः / धायः / व्याधः / 'जु गतौ' आङ्पूर्वः संपूर्वश्च / आस्रावः। संस्रावः / अत्यायः / अवसाय: / अवहारः / लेहः / श्लेष: / श्वासः / 2904 / दुन्योरनुपसर्गे / (3-1-142) णः स्यात् / दुनोतीति दावः / नीसाहचर्यात्सानुबन्धकाहुनौतेरेव णः / दवतेस्तु पचाद्यच् दवः / नयतीति नाय: / उपसर्गे तु प्रदवः / प्रणयः / 2905 / विभाषा ग्रहः / (3-1-143) णो वा / पक्षेऽच् / व्यवस्थितविभाषेयम् / तेन जलचरे ग्राहः / ज्योतिषि ग्रहः / ‘भवतेश्च' इति काशिका / भवो देवः संसारश्च / भावाः पदार्थाः / भाष्यमते तु प्राप्त्यर्थाच्चुरादिण्यन्तादच् / भावः / भाष्ये उदाहरणादिति भावः / श्यायधात्रु // श्या, आत् , व्यध, आशु, संयु, अतीण , अवसा, अवह, लिह, श्लिष, श्वस् , एषामेकादशानां समाहारद्वन्द्वात्पञ्चमी / अनुपसर्गादिति निवृत्तम् / उत्तरसूत्रेऽनुपसर्गग्रहणात्। एवञ्च तत्सम्बद्धं विभाषाग्रहणञ्च नानुवर्तते / तदाह। नित्यमिति // श्यैङः इति // श्यैद्धातोः अवपूर्वकात् षोधातोश्च कृतात्त्वयोः सूत्रे निर्देशः / तयोरादन्तत्वादेव सिद्धे पुनर्ग्रहणम् ‘आतश्वोपसर्गे' इति कप्रत्ययबाधनार्थमित्यर्थः / अवश्यायः, प्रतिश्याय इति // श्यैङः आत्त्वे कृते णः आतो युक् / आदिति // आदन्तस्योदाहरणसूचनम् / दायः, धायः इति // णे आतो युक् / व्याध इति // व्यधेर्णे उपधावृद्धिः / आत्रावा, संस्राव इति // णे 'अचोऽणिति' इति वृद्धिः, आवादेशः / अत्याय इति // अतिपूर्वादिग्धातोर्णे वृद्ध्यायादेशौ / अवसाय इति // अवपूर्वात् 'षोऽन्तकर्मणि' इत्यस्मात् णे आत्त्वे आतो युक् / लेहः, श्लेषः इति ॥णे लघूपधगुणः / श्वास इति // णे उपधावृद्धिः / दुन्योरनुपसर्गे // दुनोतेः नयतेश्चेत्यर्थः / दवशब्दं साधयितुमाह / नीसाहचर्यादिति // नीअधातुस्सानुबन्धकः तत्साहचर्यात् 'टु दु उपतापे' इति स्वादिगणस्थादेव णप्रत्यय इत्यर्थः / दवतेस्त्विति // 'दु द्रु गतौ' इति भौवादिकात् निरनुबन्धकात्पचायजित्यर्थः / विभाषा ग्रहः // व्यवस्थितविभाषेयमिति // इदं 'शाच्छोः' इति सूत्रे भाष्ये स्पष्टम् / तेनेति // जलचरे मत्स्यादौ वाच्ये णप्रत्यये उपधावृद्धौ प्राह इत्येव भवति / ज्योतिषि सूर्यचन्द्रादौ वाच्ये अच्प्रत्यये ग्रह इत्येव भवतीत्यर्थः / भवते. श्चेति // णो वेति शेषः / पक्षे अच् / काशिकेति // भाष्ये तु न दृश्यते इति भावः / इयमपि व्यवस्थितविभाषैव / तदाह / भवो देव इति // महादेव इत्यर्थः / अत्र अजेवेति भावः / भावाः पदार्था इति // अत्र ण एवेति भावः / ननु भवतेश्चेति णविकल्पस्य भाष्ये अदर्शनात् कथं भाष्यमते भावशब्द इत्यत आह / भाष्यमते त्विति // भावयति For Private And Personal Use Only
Page #505
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा / 503 2906 / गेहे कः / (3-1-144) गेहे कर्तरि प्रहे: क: स्यात् / गृह्णाति धान्यादिकमिति गृहम् / तात्स्थ्यात् गृहा दाराः / 2907 / शिल्पिनि वुन् / (3-1-145) क्रियाकौशलं शिल्पं तद्वत्कर्तरि वुन्स्यात् / 'नृतिखनिरखिभ्य एव' (वा 1971) / नर्तकः-नर्तकी / खनक:-खनकी / 'असि अके अने च रजेनेलोपो वाच्यः' (वा 4067) / रजक:-रजकी / भाष्यमते तु नृतिखनिभ्यामेव वुन् / रजेस्तु 'क्वुन्शिल्पिसंज्ञयोः' (उणा 191) इति क्वुन् / टाप् / रजिका। पुंयोगे तु रजकी। 2908 / गस्थकन् / (3-1-146) गायतेस्थकन्स्यात् , शिल्पिनि कर्तरि / गाथकः / 2909 / ण्युट् च / (3-1-147) गायनः / टित्त्वागायनी / 2910 / हश्च ब्रीहिकालयोः / (3-1-148) प्रापयति स्वस्वकार्यमित्यर्थे 'भू प्राप्तौ' इति चुरादिण्यन्तात् भावि इत्यस्मात् अच्प्रत्यये णिलोपे भावशब्द इत्यर्थः / गेहे कः // ‘विभाषा ग्रहः' इत्यस्यापवादः। गृहमिति // 'अहिज्या' इति सम्प्रसारणं पूर्वरूपञ्च / ननु गृहा दारा इति कथम् / गेहे कर्तथैव वाच्ये कप्रत्ययविधानादित्यत आह / तात्स्थ्यादिति // गृहशब्दो गेहस्थे लाक्षणिकः इति भावः / गृहा दारा इति // “दारेष्वपि गृहाः" इत्यमरः / शिल्पिनि वुन् // नृतिखनिरञ्जिभ्य एवेति // वार्तिकमिदम् / नर्तकीति // पित्त्वात् ङीषिति भावः / ‘दंशसञ्जस्वजां शपि' इति सूत्रे ‘रजकरजनरजस्सूपसङ्ख्यानम् ' इति वार्तिकम् / तत् अर्थतस्सङ्ग्रहाति / असि अके अने चेति // रजक इति // रजेः शिल्पिनि वुनि अकादेशे नलोपः / रजकीति॥ षित्त्वात् ङीष् / नृतिखनिरञ्जिभ्य एवेति परिगणनात् / 'वेञ् तन्तुसन्ताने' इत्यस्मात् कृतात्त्वात् 'श्यायध' इति णप्रत्यये आतो युकि वाय इति सिध्यति / भाष्यमते तु नृतिखनि. भ्यामेवेति // इदञ्च ‘दंशसञ्जस्वजां शपि' इति सूत्रे भाष्ये स्पष्टम् / ननु भाष्यमते क्वुनि रजकीति कथमित्यत आह / पुंयोगे तु रजकीति // गस्थकन् / गः थकनिति च्छेदः / गैधातोः कृतात्वस्य गः इति पञ्चम्यन्तम् / तदाह / गायतेरिति // ण्युट् च // ककार उक्तसमुच्चये। गायतेर्युट् च स्यात् थकन् च शिल्पिनि कर्तरि / गायन इति // आत्वे युक् / 'आदे च' इत्यात्वस्य अनैमित्तिकत्वेन वृद्ध्यपेक्षया अन्तरङ्गत्वात् / यद्यपि 'गस्थकन् ण्युट च' इत्येकमेव सूत्रमुचितम् / तथापि ण्युट एवोत्तरसूत्रे अनुवृत्त्यर्थों योगविभागः / हश्च // 'ओ हाक् त्यागे' इत्यस्य 'आ हाङ् गतौ' इत्यस्य च हः इति पञ्चम्यन्तम् / For Private And Personal Use Only
Page #506
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदीसहिता [कृदन्त हाको हाङश्च ण्युट् स्यात् ब्रीहौ काले च कर्तरि / जहात्युदकमिति हायनो ब्रीहिः / जहाति भावानिति हायनो वर्षम् / जिहीते प्राप्नोतीति वा / 2911 / पुसृल्वः समभिहारे वुन् / (3-1-149) समभिहारग्रहणेन साधुकारित्वं लक्ष्यते / प्रवकः / सरकः / लवकः / 2912 / आशिषि च / (3-1-150) आशीविषयार्थवृत्तेवुन्स्यात्कर्तरि / जीवतात्-जीवकः / नन्दतात्-नन्दकः / आशी: प्रयोक्तुर्धर्मः / आशासितुः पित्रादेरियमुक्तिः / इति तृतीयाध्यायस्य प्रथमः पादः / 2913 / कर्मण्यण् / (3-2-1) कर्मण्युपपदे धातोरण्प्रत्यय: स्यात् / उपपदसमास: / कुम्भं करोतीति कुम्भकारः / आदित्यं पश्यतीत्यादावनभिधानान्न / ‘शीलिकामिभक्ष्याचरिभ्यो णः' (वा 1980) / अणोऽपवादार्थ वार्तिकम् / मांसशीला / मांसकामा / तदाह / हाको हाङश्चेति // पुसल्वः // लक्ष्यते इति // एतच्च भाष्ये स्पष्टम् / ग्रु, स, लु, एषां समाहारद्वन्द्वात्पञ्चमी / आशिषि च / / जीवक इति // आशास्यमानजीवनक्रियाश्रय इत्यर्थः / एवनन्दकः। आशीरिति // आशासनम् अयमित्थंभूयादिति प्रार्थनं शब्दप्रयो. क्तृकर्तृकमिति यावत् / तत आशासितुः पित्रादेरियमुक्तिः / इयं नन्दकशब्दप्रयोग इत्यर्थः, औचित्यादिति भावः // इति तृतीयाध्यायस्य प्रथमः पादः / अथ तृतीयाध्यायस्य द्वितीयः पादः-कर्मण्यण् // कर्मण्युपपदे इति // तत्रोपपदं सप्तमीस्थम्' इत्यत्र तत्रेत्यनेनेदं लभ्यत इति तत्रैवोक्तम् / प्रत्ययस्तु कर्तर्येव / उपपदसमास इति // 'उपपदमतिङ्' इत्यनेनेति भावः / कुम्भङ्करोतीति // अस्वपदो लौकिकविग्रहोऽयम् / कुम्भ अस् कार इत्यलौकिकविग्रहवाक्ये सुबुत्पत्तेः प्रागेव कारशब्देन कृदन्तेन कुम्भ अस् इति षष्ठ्यन्तस्य समास इति प्रागेवोक्तम् / ननु आदित्यम्पश्यतीत्यादित्यदर्शः, हिमवन्तं शृणोतीति हिमवच्छ्रावः, ग्रामङ्गच्छतीति ग्रामगामः, इत्यादि स्यादित्यत आह / आदित्यम्पश्यतीत्यादावनभिधानान्नेति // एतच भाष्ये स्पष्टम् / शीलीति // शालि, कामि, भक्षि, आचरि, एभ्यो णप्रत्ययो वाच्य इत्यर्थः / ननु 'कर्मण्यण' इत्यणैव सिद्धे किमर्थमिदमित्यत आह। अणोऽपवादार्थमिति // अणन्तत्वे तु ङीप् स्यात् / तनिवृत्त्यर्थे णविधानमिति भावः। तदाह / मांसशीलेति // 'शील समाधौ' इति भ्वादिः / इह तु स्वभावतस्सेवने वर्तते। मांस स्वभावतस्सेवमानेत्यर्थः / मांसकामेति // मांसङ्कामयते इति विग्रहः / मांसभक्षेति // For Private And Personal Use Only
Page #507
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा / 505 मांसभक्षा / कल्याणाचारा / ' ईक्षिक्षमिभ्याञ्च' (वा 1981) / सुखप्रतीक्षा / बहुक्षामा / कथं तार्ह गङ्गाधरभूधरादयः / कर्मणः शेषत्वविवक्षायां भविष्यन्ति। 2914 / हावामश्च / (3-2-2) एभ्यः अण् स्यात् / कापवादः / स्वर्गह्वायः / तन्तुवायः / धान्यमायः / 2915 / आतोऽनुपसर्गे कः। (3-2-3) आदन्ताद्धातोरनुपसर्गात्कर्मण्युपपदे कः स्यान्नाण् / 'आतो लोप:' / गोदः / पाणिवम् / 'अनुपसर्गे' किम् / गोसन्दाय: / 'कविधौ सर्वत्र संप्रसारणिभ्यो ड:' (वा 1984) / ब्रह्म जिनाति ब्रह्मज्यः / सर्वत्रग्रहणादातश्वोपसर्गे आह्वः / प्रहः / 2916 / सुपि स्थः / (3-2-4) मांस भक्षयते इति विग्रहः / कल्याणाचारेति // कल्याणमाचरतीति विग्रहः / सर्वत्र टाप् / ईक्षिक्षामिभ्यामिति // वार्तिकमिदम् / ण इति शेषः / कथमिति // कर्मण्याण गङ्गाधारः इत्यादि स्यादित्याक्षेपः / कर्मणश्शेषत्वेति // तथाच कर्मोपपदाभावान्नाणिति भावः / हावामश्च // 'ह्वेञ् स्पर्धायाम् , वेञ् तन्तुसन्ताने' अनयोः कृतात्वयोनिर्देशः, 'माङ् माने' एषान्द्वन्द्वात्पञ्चम्येकवचनम् / एभ्य इति // कर्मण्युपपदे एभ्यः अण् स्यादित्यर्थः / ननु 'कर्मण्यण्' इत्येव सिद्धे किमर्थमिदमित्यत आह / कापवाद इति // 'आतोऽनुपसर्गे कः' इत्यस्याणपवादस्य वक्ष्यमाणस्य बाधनार्थमित्यर्थः / माङ् ङोरिह ग्रहणम् , नतु ‘मा माने' इत्यस्य, अकर्मकत्वात् / स्वर्गह्वाय इति // यद्यपि पराभिभवेच्छायां स्पर्द्धायां पराभिभवस्य कर्मणो धात्वर्थत्वेनोपसङ्ग्रहादकर्मक इत्युक्तम् / तथापि इह पराभिभवेच्छा धात्वर्थः / स्वर्गमभिभवितुं वाञ्छतीत्यर्थः / अन्तरङ्गत्वादात्वे कृते आतो युक् / एवमग्रेऽपि / आतोऽनुपसर्गे कः॥ पार्णित्रमिति // पाणिः पादमूलभागः / तं त्रायते इति विग्रहः / 'त्रैङ् पालने' आत्वे कृते कः / गोसन्दाय इति // अण्यातो युक् / कविधौ सर्वत्रेति // वार्तिकमिदम् / सर्वत्र कप्रत्ययविधौ सम्प्रसारणार्हेभ्यः कापवादो डप्रत्ययो वाच्य इत्यर्थः / ब्रह्मज्य इति // 'ज्या वयोहानौ' अस्माड्डः / डित्त्वसामर्थ्यादभस्यापि टेलोपः। अन कप्रत्यये सति कित्त्वात् 'अहिज्या' इति सम्प्रसारणम्प्रसक्तम् / अतो ड एव नतु कः / सर्वत्रेति // उपसर्गे उपपदे आतोऽपि ड एव / नतु 'आतश्चोपसर्गे' इति कः / सर्वत्र प्रहणादित्यन्वयः / अन्यथा अनन्तरस्य विधिरिति न्यायात् 'आतोऽनुपसर्गे कः' इत्येव बाध्येत, नतु 'आतश्चोपसर्गे' इति कप्रत्यय इति भावः / आह्वः, प्रह्व इति // अत्र 'आतश्चोपसर्गे' इति कम्बाधित्वा ड एव / तस्य अकित्त्वायजादिलक्षणं सम्प्रसारणन्न / सुपि स्थः॥ योगो 64 For Private And Personal Use Only
Page #508
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 506 सिद्धान्तकौमुदीसहिता [कृदन्त सुपीति योगो विभज्यते / सुप्युपपदे आदन्तात्क: स्यात् / द्वाभ्यां पिबतीति द्विपः / समस्थः / विषमस्थः / ततः ‘स्थः' / सुपि तिष्ठतेः कः स्यादारम्भसामर्थ्याद्भावे / आखूनामुत्थानमाखूत्थः / 2917 / प्रष्ठोऽग्रगामिनि / (8-3-92) प्रतिष्ठत इति प्रष्ठो गौः / अग्रतो गच्छतीत्यर्थः / ‘अग्र-' इति किम् / प्रस्थः / 2918 / अम्बाम्बगोभूमिसव्येऽपद्वित्रिकुशेकुशव१मञ्जिपुञ्जि परमेबर्हिर्दिव्यमिभ्यः स्थः / (8-3-97) 'स्थः' इति कप्रत्ययान्तस्यानुकरणम् / षष्ठयर्थे प्रथमा / एभ्य: स्थस्य सस्य ष: स्यात् / द्विष्ठः / त्रिष्ठः / इत उर्ध्व कर्मणि सुपिति द्वयमप्यनुवर्तते / तत्राकर्मकेषु सुपीत्यस्य सम्बन्धः / विभज्यते इति // इदं भाष्ये स्पष्टम् / तत्र सुपीत्यशं व्याचष्टे। सुप्युपपदे इति // इदकेवलोपसर्गे व्यर्थम् / ‘आतश्चोपसर्गे' इत्येव सिद्धेः / कर्मण्युपपदेऽप्यतयर्थमेव, 'आतो. ऽनुपसर्गे कः' इत्यारम्भादिति मत्वोदाहरति / द्वाभ्यामिति // तत इति // सुपीत्यंशस्य व्याख्यानानन्तरं स्थ इत्यंशो व्याख्यायते इत्यर्थः / ननु सुपि इत्यंशेनैव सिद्धे किमर्थमिदमित्यत आह / आरम्भसामर्थ्यादिति // कर्तरि ‘सुपि' इति पूर्वेण सिद्धेरिह ‘कर्तरि कृत्' इति नानुवर्तते / अनिर्दिष्टार्थत्वात् 'गुप्तिज्किञ्चस्सन्' इत्यादिवत् स्वार्थिकोऽयम् / स्वार्थश्च भाव एवेति भाष्ये स्पष्टम् / नच एवं सति 'घर्थे कविधानम्' इत्येव सिद्धमिति वाच्यम् / नित्योपपदसमासार्थत्वात्। अत एव ल्युडन्तेन अस्वपदविग्रहन्दर्शयन्नाह / आखूनामुत्थानम् आखूत्थ इति // प्रष्टोऽग्रगामिनि // प्रपूर्वात् स्थाधातोः 'आतश्चोपसर्गे' इति कप्रत्यये आतो लोपे प्रस्थशब्दः / सः अग्रगामिनि वाच्ये कृतषत्वः निपात्यते। इणकवर्गाभ्यां परत्वाभावात् षत्वस्य न प्राप्तिः। प्रतिष्ठत इति // अग्रे गच्छतीत्यर्थः, उपसर्गवशात् / प्रष्ठो गौरिति // अग्रगामीत्यर्थः / एवं प्रष्ठोऽश्व इत्यादि / अम्बाम्ब // अम्ब, आम्ब, गो, भूमि, सव्ये, अप, द्वि, त्रि, कुशे, कु, शङ्ख, अङ्गु, मञ्जि, पुञ्जि, परमे, बर्हिस् , दिवि, अग्नि, एषामष्टादशानां द्वन्द्वः / अम्बष्ठः आम्बष्टः गोष्ठः भूमिष्ठः / सव्यष्टः निपातनादलुक् / 'हलदन्तात्सप्तम्याः' इति वा। अपष्टः / एषु कतिपयेषु इण्कवर्गाभ्यां परत्वाभावात् षत्वस्य न प्राप्तिः। कतिपयेषु 'सात्पदाद्योः' इति निषेधः प्राप्तः / एवमग्रेऽपि / द्विष्ठ इति // द्वाभ्यान्तिष्ठतीति विग्रहः / एवं त्रिष्टः, कुशेष्ठः, कुष्ठः*, शकुष्ठः, अङ्गुष्टः, मञ्जिष्ठः, पुञ्जिष्ठः। परमेष्टः, निपातनादलुक् 'हलन्दात्' इति वा। बर्हिष्ठः / दिविष्टः पूर्ववदलुक् / अग्निष्ठः। कप्रत्ययान्तस्येति किम् / भूमिस्थितम् / इत ऊर्ध्वः मिति // 'तुन्दशोकयोः' इत्यारभ्येत्यर्थः / सुपीत्यस्येति // नतु कर्मणीत्यस्य, असम्भवादिति * सम्प्रत्युपलभ्यमानकाशिकावृत्तौ तु कुष्ठः शेकुष्टः इत्युपलभ्यते / For Private And Personal Use Only
Page #509
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा / 2919 / तुन्दशोकयोः परिमृजापनुदोः / (3-2-5) तुन्दशोकयोः कर्मणोरुपपदयोराभ्यां कः स्यात् / 'आलस्यसुखाहरणयोरिति वक्तव्यम्' (वा 1988) / तुन्दं परिमार्टीति तुन्दपरिमृजोऽलसः / शोकापनुदः / सुखस्याहर्ता / अलसादन्यत्र तुन्दपरिमार्ज एव / यश्च संसारासारत्वोपदेशेन शोकमपनुदति स शोकापनोदः / ‘कप्रकरणे मूलविभुजादिभ्य उपसङ्ख्यानम्' (वा 1989) / मूलानि विभुजति मूलविभुजो रथः / आकृतिगणोऽयम् / महीध्रः / कुध्रः / गिलतीति गिल: / 2920 / प्रे दाज्ञः। (3-2-6) दारूपाजानातेश्च प्रोपसृष्टात्कर्मण्युपपदे कः स्यादणोऽपवादः / सर्वप्रदः / पथिप्रज्ञः / अनुपसर्ग इत्युक्तेः प्रादन्यस्मिन्सुपि न क: गोसम्प्रदायः / 2921 / समि ख्यः। (3-2-7) गोसङ्खयः / 2922 / गापोष्टक् / (3-2-8) अनुपसृष्टाभ्यामाभ्यां टक्स्यात्कर्मण्युपपदे / सामगः-सामगी / उपसर्गे तु सामसङ्गायः / ‘पिवते: सुराशीध्वोरिति वाच्यम्' (वा 1990) / सुरापी / शीधुपी / अन्यत्र क्षीरपा ब्राह्मणी / सुरां पाति रक्षतीति सुरापा / भावः / तुन्दशोकयोः // तुन्दशोकयोरिति सप्तमी / परिमृज, अपनुद , अनयोर्द्वन्द्वात्पञ्चम्यर्थे षष्ठी। तदाह / उपपदयोराभ्यामिति // तुन्दपरिमृज इति // तुन्दम् उदरम् / अन्न 'मृजेरजादौ' इति पाक्षिकवृद्धिर्न भवति, व्यवस्थितविभाषाश्रयणादित्याहुः / मूलानि विभुजतीति // विमर्दयतीत्यर्थः / ‘भुजो कौटिल्ये' तुदादिः / इहोपसर्गबलान्मर्दने वृत्तिः / महीध्र इति // महीं धरतीति विग्रहः / कित्त्वान्न गुणः / ऋकारस्य यण् रेफः। अणि तु महीधार इति स्यात् / कुध्र इति // कुः पृथ्वी, तां धरतीति विग्रहः / गिल इति // 'गृ निगरणे' अस्मात् कः कित्त्वान्न गुणः, इत्त्वं रपरत्वम् / 'अचि विभाषा' इति लत्वम् / प्रे दाक्षः // प्रे इति सप्तमी पञ्चम्यर्थे / दा ज्ञा अनयोर्द्वन्द्वात् पञ्चम्येकवचनम् / प्रोपसृष्टा. दिति // प्रेत्युपसर्गपूर्वकादित्यर्थः / सोपसर्गार्थ आरम्भः। समि ख्यः // समीति पञ्चम्यर्थे सप्तमी / गोसङ्ख्य इति // गाः सञ्चष्टे इति विग्रहः / सम्पूर्वात् चक्षिङः ख्यानि रूपम् / 'ख्या प्रकथने' इत्यस्य तु सम्पूर्वस्य प्रयोगाभावात् , सार्वधातुकमात्रविषयत्वाच्च नेह सम्बध्यते। गापोष्टक् // ‘गै शब्द, पा पाने' इत्यनयोः टक् स्यात् कर्मण्युपपद / सामग इति // टकि आतो लोपः। सामगीति // टित्त्वान्डीबिति भावः। सामसङ्गाय इति // सोपसर्गात् गै धातोः कर्मण्यणि आतो युकि रूपम् / पिबतेरिति // वार्तिकमिदम् / पाधातोः सुराशीध्वोरुपपदयोः For Private And Personal Use Only
Page #510
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 508 सिद्धान्तकौमुदीसहिता [कृदन्त 2923 / हरतेरनुद्यमनेऽच् / (3-2.9) अंशहरः / ‘अनुद्यमने' किम् / भारहारः / 'शक्तिलाङ्गलाङ्कुशतोमरयष्टिघटघटीधनुःषु गृहेरुपसङ्खथानम्' (वा 1992) शक्तिग्रहः / लाङ्गलग्रहः / 'सूत्रे च धार्येऽर्थे' (वा 1993) सूत्रग्रहः / यस्तु सूत्रं केवलमुपादत्ते न तु धारयति तत्राणेव, सूत्रग्राहः / 2924 / वयसि च / (3-2-10) उद्यमनार्थ सूत्रम् / कवचहरः कुमारः / 2925 / आङि ताच्छील्ये / (3-2-11) पुष्पाण्याहरति तच्छील: / पुष्पाहर: 'ताच्छील्ये' किम् / भाराहारः / 2926 / अर्हः / (3-2-12) / अर्हतेरच्स्यात्कर्मण्युपपदे अणोऽपवादः / पूजार्हा ब्राह्मणी / 2927 / स्तम्बकर्णयो रमिजपोः। (3-2-13) 'हस्तिसूचकयोरिति वक्तव्यम्' (वा 1994) / स्तम्बे रमते स्तम्बेरमो हस्ती / 'तत्पुरुषे कृति-' (सू 972) इति 'हलदन्तात्-' (सू 966) इति वा डेरलुक् / कर्णेजपः सूचकः / स्यादित्यर्थः / क्षीरपेति // क्षीरं पिबतीत्यर्थे सुराशीध्वोरन्यतरत्वाभावात् 'आतोऽनुपसर्गे कः' इति कप्रत्यये टाप् / पाति रक्षतीति // 'पा रक्षणे' इति लुग्विकरणस्य पिबतिग्रहणेन अग्रहणमिति भावः / हरतेरनुद्यमनेऽच् // अनुद्यमने विद्यमानात्कर्मण्युपपदे अजित्यर्थः / उद्यमनम् उद्ब्रहणम् / अंशहर इति // अंशस्य स्वीकर्तेत्यर्थः / भारहार इति // भारम् उद्गृहातीत्यर्थः / गृहेरुपसङ्खयानमिति // अच्प्रत्ययस्येति शेषः / 'ग्रह उपादाने' अदुपधः / गृहेरिति तु कृतसम्प्रसारणस्य इका निर्देशः / शक्तिग्रह इति // अकित्त्वान्न सम्प्रसारणम् / लाङ्गलग्रह इति // अङ्कुशग्रह इत्याद्यप्युदाहार्यम् / सूत्रे चेति // वार्तिकमिदम् / सूत्रे कर्मण्युपपदे धारणार्थकात् ग्रहधातोरजित्यर्थः / वयसि च // कर्मण्युपपदे वयसि गम्ये हरतेरजित्यर्थः। ननु ‘हरतेरनुद्यमनेऽच्' इत्येव सिद्धे किमर्थमिदमित्यत आह / उद्यमनार्थमिति // आङि ताच्छील्ये // आपूर्वाद्धरतेः कर्मण्युपपदे अच् स्यात्ताच्छील्ये गम्ये / ताच्छील्यन्तत्स्वभावता / पुष्पाहर इति // पुष्पाहरणे फलानपेक्षमेव स्वाभाविकी प्रवृत्तिरस्येत्यर्थः / अहः॥ अणोऽपवाद इति // यद्यपि अणि अचि च पूजाहरूप न विशेषः / अदुपधत्वाभावेन वृद्धेरप्रसक्तेः / तथापि स्त्रियामण्णन्तत्वे ङीप्स्यात् / तनिवृत्तये अज्विधिः / तदाह / पूजाहेति / स्तम्बकर्णयोः // रम् जप् अनयोरकर्मकत्वात् कर्मणीति न सम्बध्यते / जपेश्शब्दोच्चारणार्थकस्य धात्वर्थोपसङ्ग्रहादकर्मकत्वम्बोध्यम् / दर्भादितृणनिचयः स्तम्बः / सूचकः पिशुनः / हस्तिसूचकयोः For Private And Personal Use Only
Page #511
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा / 509 2928 / शमि धातोः संज्ञायाम् / (3-2-14) / शम्भव: / शंवदः / पुनर्धातुग्रहणं बाधकविषयेऽपि प्रवृत्त्यर्थम् / कृञो हेत्वादिषु टो मा भूत् / शङ्करा नाम परिव्राजिका तच्छीला / 2929 / अधिकरणे शेतेः। (3-2-15) खे शेते खशय: / 'पार्वादिषूपसङ्ख्यानम्' (वा 1996) / पार्थाभ्यां शेते पार्श्वशयः / पृष्ठशयः / उदरेण शेते उदरशय: / 'उत्तानादिषु कर्तृषु' (वा 1998) / उत्तानः शेते उत्तानशयः / अवमूर्धशयः / अवनतो मूर्धा यस्य सोऽवमूर्धा / अधोमुखः शेत इत्यर्थः / गिरौ डश्छन्दसि' (वा 1999) गिरौ शेते गिरिशः / लोके गिरिशयः / कथं तर्हि 'गिरिशमुपचचार प्रत्यहं सा सुकेशी' इति / गिरिरस्यास्तीति विग्रहे लोमादित्वाच्छः / 2930 / चरेष्टः। (3-2-16) अधिकरण उपपदे / कुरुचरः / कुरुचरी / ___ 2931 / भिक्षासेनादायेषु च / (3-2-17) किम् / स्तम्बे रता गौः / कर्णे जपिता गुरुः मशको वा / शमि धातोः // शमि इति सप्तम्यन्तम् / शमिति सुखार्थकमव्ययम् / तस्मिन्नुपपदे धातोरच् स्यात्संज्ञायाम् / ननु धातुग्रहणं व्यर्थम् / न च रमिजपोरननुवृत्त्यर्थन्तदिति वाच्यम् / अस्वरितत्वादेव तदननुवृत्तिसिद्धरित्यत आह / पुनर्धातुग्रहणमिति // 'कृलो हेतुताच्छील्यानुलोम्येषु' इति टप्रत्ययः अच् प्रत्ययबाधको वक्ष्यते, तद्वाधनार्थमित्यर्थः / अधिकरणे // सुबन्तेऽधिकरणवाचिन्युपपदे शोधातोरच् स्यादित्यर्थः / पाादिष्विति // अत्राधिकरणवाचिनीति न सम्बध्यते / तत् ध्वनयन्नुदाहरति / पार्थ्याभ्यामिति // उत्तानादिषु कर्तृष्विति // वार्तिकमिदम् / उत्तानादिशब्देषु कर्तृवाचिघूपपदेषु शीडोऽजित्यर्थः / गिराविति // वार्तिकमिदम् / गिरा. वुपपदे शीडो डप्रत्यय इत्यर्थः / 'अधिकरणे शेतेः' इत्यचोऽपवादः / “नमो गिरिशाय च शिपिविष्टाय च” इति शीङो डप्रत्यये डित्त्वसामर्थ्यादभस्यापि टेर्लोपः / यद्यपि वैदिकप्रक्रियायामेवेदं सूत्रं व्याख्येयम् / तथापि लोके डप्रत्ययस्य न प्रवृत्तिः / किन्त्वजेवेति प्रदर्शनार्थमिह तयाख्यानमित्यभिप्रेत्य लोके अच्प्रत्ययमुदाहरति / गिरिशय इति // कथमिति॥ लोके डप्रत्ययासम्भवादिति भावः / समाधत्ते / गिरिरस्यास्तीत्यादि // चरेष्टः // ट इति च्छेदः / अधिकरणे उपपदे इति शेषः / अधिकरणे शेतेरित्यतः तदनुवृत्तरिति भावः / कुरुचर इति // कुरुषु चरतीति विग्रहः / न च ‘अकर्मकधातुभिर्योगे' इति कर्मत्वं शङ्कयम् / तस्य वैकल्पिकतायाः तत्रैव प्रपञ्चितत्वात् / तत्र अत्रत्यमपि भाष्यं प्रमाणम् / भिक्षासेना // भिक्षा, सेना, आदाय, एषु चोपपदेषु चरेष्टः स्यादित्यर्थः / भिक्षाञ्चरतीति // For Private And Personal Use Only
Page #512
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदीसहिता [कृदन्त भिक्षां चरतीति भिक्षाचरः / सेनाचरः / आदायेति ल्यबन्तम् आदायचरः / कथम् ‘प्रेक्ष्य स्थितां सहचरीम्' इति / पचादिषु चरडिति पाठात् / 2932 / पुरोऽग्रतोऽग्रेषु सर्तेः / (3-1-18) पुरःसरः / अग्रत:सरः अग्रमणाग्रे वा सरतीत्यग्रेसरः। सूत्रेऽय इत्येदन्तत्वमपि निपात्यते / कथं तर्हि 'यूथं तदग्रसरगर्वितकृष्णसारम्' इति / बाहुळकादिति हरदत्तः। 2933 / पूर्वे कर्तरि / (3-2-19) कर्तृवाचिनि पूर्वशब्द उपपदे सर्तेष्टः स्यात् / पूर्वः सरतीति पूर्वसरः / 'कर्तरि' किम् / पूर्व देशं सरतीति पूर्वसारः / 2934 / कृञो हेतुताच्छील्यानुलोम्येषु / (3-2-20) एषु द्योत्येषु करोतेष्टः स्यात् / 'अत: कृकमि-' (160) इति सः / यशस्करी विद्या / श्राद्धकरः / वचनकरः।। 2935 / दिवाविभानिशाप्रभाभास्कारान्तानन्तादिबहुनान्दीकिलिपिलिबिबलिभक्तिकर्तृचित्रक्षेत्रसङ्ख्याजङ्घाबाह्नहर्यत्तहनुररुष्षु। (3-2-21) चरतिरत्र चरणपूर्वके आर्जने वर्तते / चरणेन भिक्षामाजयतीत्यर्थः / सेनाचर इति // सेनां प्रापयतीत्यर्थः / ल्यबन्तमिति // अत्र व्याख्यानमेव शरणम्। आदाय चरतीति // लब्धं द्रव्यं गृहीत्वा चरतीत्यर्थः / कथमिति // अधिकरणे भिक्षासेनादायेषु उपपदेषु च विहितस्य टप्रत्ययस्य सहपूर्वाञ्चरेरसम्भवादिति भावः / समाधते / पचादिष्विति // यद्यपि भिक्षाचर इत्यादौ पचाद्यचि रूपसिद्धिः, तथापि नित्योपपदसमासार्थमज्विधानमित्याहुः / पुरोऽग्रतः // पुरस् , अग्रतस्, अग्र, एखूपपदेषु सर्तेः टः स्यादित्यर्थः / अग्रेसर इति // ननु समासावयवत्वात्सुपो लुकि, अग्रसर इति स्यात् इत्यत आह / सूत्र इति // कथमिति // एदन्तत्वनिपातनात् कथमग्रसरशब्दः इत्यर्थः / समाधत्त / बाहुळकादिति // पूर्वे कर्तरि // कर्तृशब्दः कर्तृवाचिनि गौणः / तदाह / कर्तृवाचिनीति // कृतो हेतु // हेतुः कारणम् , आनुलोम्यम् आराध्याचत्तानुवर्तनम् / द्योत्येष्विति // कर्तुरेव प्रत्ययवाच्यत्वादिति भावः / हेत्वादिषूपपदेष्विति तु नार्थः, व्याख्यानात् / कर्मण्युपपदे इत्यपि द्रष्टव्यम् / 'कुप्वोः' इति जिह्वामूलीयमाशङ्कय आह / अतः कृकमीति // हेतावुदाहरति / यशस्करी विद्येति // विद्या यशोहेतुः / श्राद्धकर इति // श्राद्धक्रियाशील इत्यर्थः / वचनकर इति // गुर्वादिवचनानुवर्तीत्यर्थः / दिवाविभा // दिवा, For Private And Personal Use Only
Page #513
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्]] बालमनोरमा / एषु कृषष्टः स्यादहेत्वादावपि / दिवाकरः / विभाकरः / निशाकरः / कस्कादित्वात्सः / भास्करः / बहुकरः / बहुशब्दस्य वैपुल्याथै सङ्खयापेक्षया पृथग्रहणम् / लिपिलिबिशब्दौ पर्यायौ / सङ्ख्या। एककरः / द्विकरः / कस्कादित्वादहस्करः / नित्यं समासेऽनुत्तरपदस्थस्य' (159) इति षत्वम् / धनुष्करः / अरुष्करः। किंयत्तद्वहुषु कोऽविधानम्' (वा 2002) इति वार्तिकम् / किङ्करा। यत्करा / तत्करा / हेत्वादौ टं बाधित्वा परत्वादच् / 'योगे ङीष् / किङ्करी / 2936 / कर्मणि भृतौ / (3-2-22) कर्मशब्द उपपदे करोतेष्टः स्याद्धृतौ / कर्मकरो भृतकः / कर्मकारोऽन्यः / विभा, निशा, प्रभा, भास , कार, अन्त, अनन्त, आदि, बहु, नान्दी, किम् , लिपि, लिबि, बलि, भक्ति, कर्तृ, चित्र, क्षेत्र, सङ्खया, जङ्घा, बाहु, अहर, यद् , तद् , धनुस् , अरुस् , एषां सप्तविंशतेद्वन्द्वात्सप्तमी। एष्विति // उपपदेष्विति शेषः / अहेत्वादिष्वपीति // हेतुताच्छील्यानुलोम्येषु अगम्येष्वपीत्यर्थः / हेत्वादिग्रहणस्य अननुवृत्तेरिति भावः / एतेन अहेत्वाद्यर्थमिदं सूत्रमुक्तं भवति / अत्र कर्मणीति सुपीति चानुवृत्तं यथायोगमन्वेति / दिवाकर इति // दिवेत्याकारान्तमव्ययमहीत्यर्थे / तस्याधिकरणशक्तिप्रधानस्यापि वृत्तिविषये कर्मत्वं बोध्यम् / दिवा अहनि अर्थात् प्राणिनश्चेष्टायुक्तान् करोतीति वा विग्रहः। विभाकर इति // विभां करोतीति विग्रहः / निशाकर इति // निशां करोतीति विग्रहः / एवं प्रभाकरः / भाः करोति इति विग्रहे ‘अतः कृकमि' इत्यत्रात इति तपरकरणात्सत्वस्याप्राप्तेः 'कुप्वोः' इति जिह्वामूलीयविसर्गावाशङ्कय आह / कस्कादित्वादिति // कारकरः, अन्तकरः, अनन्तकरः, आदिकरः, इति सिद्धवत्कृत्य आह / बहुकर इति // ननु सङ्ख्याग्रहणेनैव सिद्धे बहुग्रहणं व्यर्थमित्यत आह / बहुशब्दस्यति // वैपुल्यवाचिनस्तस्य न सङ्ख्याशब्दत्वमिति 'बहुगणवतुडति सङ्ख्या' इत्यत्रोक्तम् / नान्दीकरः किङ्करः इति सिद्धवत्कृत्य आह / लिपिलिबिशब्दाविति // तथा च लिपिकर:-लिबिकरः / क्षेत्रकर इत्यन्तं सिद्धवत्कृत्य आह / सङ्खयेति // उदाह्रियते इति शेषः / जङ्घाकरः, बाहुकरः इति सिद्धवत्कृत्य अहस्करशब्दे 'कुप्वोः' इति जिह्वामूलीयविसर्गावाशङ्कय आह / कस्कादित्वादिति // नजि जहातेरुत्पन्ने अहन्शब्दे हनशब्दस्योत्तरपदतया तद्विसर्गस्य, उत्तरपदस्थत्वात् ‘अतः कृकमि' इत्यस्य न प्राप्तिरिति भावः / धनुष्करशब्दे आह / नित्यं समास इति / प्रत्ययावयवत्वात् 'इदुदुपधस्य च' इत्यस्य न प्राप्तिरिति भावः / कृञोऽज्विधानमिति // टस्यापवादः। किङ्करेति // टप्रत्यये तु टित्त्वात् डीप्स्यादिति भावः। हेत्वादिषु पूर्वविप्रतिषेधमाश्रित्य 'कृजओ हेतु' इति किङ्करादिषु ट एव किङ्करीति न्यासकारमतन्दूषयितुमाह / हेत्वादाविति / पूर्वविप्रतिषेधाश्रयणस्य निर्मूलत्वादिति भावः / तर्हि किङ्करीति कथमित्यत आह / 'योगे ङीषिति // कर्मणि भृतौ // कर्मणीत्यनुवृत्तौ पुनः कर्मग्रहणन्तु कर्मशब्दस्वरूपप्रहणार्थम् / कर्मकरो भृतक इति // वेतनङ्गृहीत्वा यः परार्थङ्कर्म करोति स भृतक For Private And Personal Use Only
Page #514
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 512 सिद्धान्तकौमुदीसहिता [कृदन्त 2937 / न शब्दश्लोककलहगाथावैरचाटुसूत्रमन्त्र पदेषु / (3-2-23) एषु कृत्रष्टो न / हेत्वादिषु प्राप्तः प्रतिषिध्यते / शब्दकार इत्यादि / ___ 2938 / स्तम्बशकृतोरिन् / (3-2-24) 'ब्रीहिवत्सयोरिति वक्तव्यम्' (वा 2003) स्तम्बकरिीहिः / शककरिर्वत्सः / ‘ब्रीहिवत्सयोः' किम् / स्तम्बकारः / शकृत्कारः / 2939 / हरतेईतिनाथयोः पशौ / (3-2-25) दृतिनाथयोरुपपदयोर्हज इन्स्यात् पशौ कर्तरि / दृति हरतीति दृतिहरिः / नाथं नासारज्जूं हरतीति नाथहरिः / 'पशौ' किम् / दृतिहरः / नाथहरः / 2940 / फलेग्रहिरात्मम्भरिश्च / (3-2-26) / फलानि गृह्णाति फलेग्रहिः / उपपदस्य एदन्तत्वं ग्रहेरिन्प्रत्ययश्च निपात्यते / आत्मानं बिभर्तीति आत्मम्भरिः / आत्मनो मुमागमः / भृन इन् / चात्कुक्षिम्भरिः / चान्द्रास्तु आत्मोदरकुक्षिष्विति पेठुः / ज्योत्स्नाकरम्बमुदरम्भरयश्वकोराः' इति मुरारिः / 2941 / एजेः खश् / (3-2-28) ण्यन्तादेजे: खश् स्यात् / इत्युच्यते / न शब्दश्लोक // शब्द, श्लोक, कलह, गाधा, वैर, चाटु, सूत्र, मन्त्र, पद, एषानवानान्द्वन्द्वः / हेत्वादिष्विति // ‘कृलो हेतुताच्छील्यानुलोम्येषु' इति प्राप्तः टप्रत्ययोऽनेन प्रतिषिध्यते इत्यर्थः / स्तम्बशकृतोरिन् / / स्तम्बे शकृति च कर्मण्युपपदे कृल इन् स्यात् / नकार इत् / व्रीहिवत्सयोरिति // वीही वत्से च कर्तरीत्यर्थः / स्तम्बशकृतोर्यथासङ्खथमन्वयः / स्तम्बकरिवीहिरिति // स्तम्बं तृणनिचयं करोतीति विग्रहः / हरते१तिनाथयोः // दृतिः चर्मभस्त्रिका / दृतिहरिः श्वा इति वृत्तिः। नाथशब्दस्य विवरणम् / नासारज्जुरिति // नासिकाप्रोतं रज्जुरित्यर्थः / नाथहरिरिति॥ नासिकाप्रोतरज्जुके पशुविशेष रूढोऽयम् / फलेग्रहिः // ग्रहरिन्निति // नतु 'गृहू ग्रहणे' इति ऋदुपधादित्यर्थः / मुमागम इति // आत्मन्शब्दस्य नलोपे कृते अकारादुपरि मुमित्यर्थः / चकारोऽनुक्तसमुच्चयार्थ इति मत्वा आह / चात्कुक्षिम्भरिरिति // भाष्ये तु 'भृजः कुक्ष्यात्मनो मुञ्चेति वक्तव्यम्' इति स्थितम् / 'स्यादवन्ध्यः फलेपहिः' इति वृक्षपर्याये अमरः / 'उभावात्मम्भरिः कृक्षिम्भरिस्स्वोदरपूरके' इति विशेष्यनिन्नवर्गे / उदरम्भरिशब्दं समर्थयितुमाह / चान्द्रास्त्विति // एजेः खश् / / एजेरिति ण्यन्तस्य एजुधातोर्ग्रहणम् / नत्विका निर्देशः, For Private And Personal Use Only
Page #515
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा / 513 2942 / अरुर्दिषदजन्तस्य मुम् / (6-3-67) अरुषो द्विषतोऽजन्तस्य च मुमागम: स्यात्खिदन्ते उत्तरपदे न त्वव्ययस्य / शित्त्वाच्छबादिः / जनमेजयतीति जनमेजयः / ‘वातशुनीतिलशधैष्वजधेट्तुदजहातिभ्यः खश उपसङ्खथानम्' (वा 2005) वातमजा मृगाः / 2943 / खित्यनव्ययस्य / (6-3-66) खिदन्ते परे पूर्वपदस्य ह्रस्व: स्यात् ततो मुम् / शुनिन्धयः / तिलन्तुदः / शर्धञ्जहा माषा:। शोऽपानशब्दस्तं जहातीति विग्रहः / जहातिरन्त वितण्यर्थः / 2944 / नासिकास्तनयोधेिटोः। (3-2-29) अत्र वार्तिकम्-'स्तने धेटो नासिकायां ध्मश्चेति वाच्यम्' (वा 2006-7) / स्तनं धयतीति स्तनन्धयः / धेटष्टित्त्वात्स्तनन्धयी। नासिकन्धमः / नासिकन्धयः / व्याख्यानादिति भावः / खकारशकारावितौ / कर्मण्युपपदे इत्यपि ज्ञेयम् / अरुर्द्विषत् // अरुस् , द्विषत् , अजन्त, एषां समाहारद्वन्द्वात् षष्ठी। 'अलुगुत्तरपदे' इत्यधिकारात् उत्तरपदे इति लभ्यते। 'खित्यनव्ययस्य' इत्यतः खितीत्यनुवृत्तम् / खितः प्रत्ययत्वात्तदन्तविधिः / तदाह / खिदन्ते उत्तरपदे इति // जनमेजय इति // जनान् एजयतीति विग्रहः / खशदिशत्त्वात्सार्व. धातुकत्वं शप् , गुणायादेशौ, पररूपम् , सुपो लुकि, मुम् / वातशुनीति // वार्तिकमिदम् / वात, शुनी, तिल, शर्ध, एषान्द्वन्द्वात्सप्तमी / अज, धेट , तुद, जहाति, एषान्द्वन्द्वात्पञ्चमी / यथासङ्खयमन्वयः / वातमजा इति // वातमजन्तीति विग्रहः / सुपो लुकि मुम् / अथ शुनीन्धयतीति विग्रहे शुनीशब्दे उपपदे धेटः खशि शपि अयादेशे पररूपे शुनीधय इति स्थिते आह / खित्यनव्ययस्य // ह्रस्वः स्यादिति // 'इको ह्रस्वोऽड्यो गालवस्य' इत्यतः तदनुवृत्तेरिति भावः / अत्र ह्रस्वश्रुत्या अच इत्युपस्थितन्द्रष्टव्यम् / ततो मुमिति // पूर्व ह्रस्वे कृते ततो मुमित्यर्थः / पूर्व मुमि कृते तु अजन्तत्वाभावाद्रस्वो न स्यादिति भावः / शर्धञ्जहा माषा इति // भाष्ये तु मृगा इति पाठः। शर्धः अपानद्वारे स्थितश्शब्द इति माधवादयः। अन्तर्भावितेति / तथाच शर्ध हापयतीति विग्रहः फलितः / भाष्ये तु 'वात. शुनी' इति वार्तिके गर्धेष्विति पठितम् / नासिका // नासिका, स्तन, अनयोः द्वन्द्वात्सप्तमी। ध्मा, धेट , अनयोः द्वन्द्वात्पञ्चम्यर्थे षष्ठी / खशिति शेषः / यथासङ्ख्यमन्वये प्राप्ते आह / अत्र वार्तिकमिति / / धेटष्टित्वादिति // यद्यपि 'टिड्ढ' इत्यत्र टिदाद्यन्तं यददन्तं प्रातिपदिकमिति व्याख्यातं, तथापि टित्त्वस्यावयवे अचरितार्थत्वात् डीबिति हरदत्तः। अत्र यद्वक्तव्यन्तत् 'पाघ्राध्माधेट्टशश्शः' इत्यत्रोक्तम् / नासिकन्धम इति // ह्रस्वे कृते मुम् / 65 For Private And Personal Use Only
Page #516
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदीसहिता [कृदन्त 2945 / नाडीमुष्टयोश्च / (3-2-30) / एतयोरुपपदयोः कर्मणो धेटोः खश् स्यात् / 'यथासङ्खथं नेष्यते' / नाडिन्धम:-नाडिन्धयः / मुष्टिन्धम:-मुष्टिन्धयः / 'घटीखारीखरीषूपसङ्खथानम्' (वा 2008) / घटिन्धमः-घटिन्धयः इत्यादि खारी परिमाणविशेषः / खरी गर्दभी। 2946 / उदि कूले रुजिवहोः / (3-2-31) उत्पूर्वाभ्यां रुजिवहिभ्यां कूले कर्मण्युपपदे खश् स्यात् / कूलमुद्रुजतीति कूलमुदुजः / कूलमुद्वहः / 2947 / वहाभ्रे लिहः / (3-2-32) वहः स्कन्धस्तं लेढीति वहलिहो गौः / अदादित्वाच्छपो लुक् / खशो ङित्त्वान्न गुणः / अभ्रंलिहो वायुः / 2948 / परिमाणे पचः / 3-2-33) प्रस्थम्पचा स्थाली / खारिम्पच: कटाहः / 2949 / मितनखे च / (3-2-34) मितम्पचा ब्राह्मणी / नखम्पचा यवागू: / पचिरत्र तापवाची / 2950 / विध्वरुषोस्तुदः / (3-2-35) विधुन्तुदः / मुमि कृते संयोगान्तस्य लोप: / अरुन्तुदः / नासिकायाः ध्मश्चेति चकाराद्धेटश्चेति लभ्यते। तस्योदाहरति / नासिकन्धय इति // नाडीमुष्ट्योश्च // यथासङ्खयन्नेष्यते इति // इदन्तु भाष्ये स्पष्टम् / घटीखारीति // इत्यादि स्पष्टम् / उदि कुले // उदीति दिग्योगपञ्चम्यर्थे सप्तमी / रुजिवहोरिति पञ्चम्यर्थे षष्ठी / 'रुजो भङ्गे' तुदादिः / अत्र रुजेस्सकर्मकत्वात् कर्मण्युपपदे इति लब्धम्। तेन कूलं विशेष्यते, नतु उच्छब्दः / तस्य असत्त्ववाचित्वात् / तदाह / उत्पूर्वाभ्यामित्यादि / कूलमुद्रुज इति // सुपो लुकि मुमिति भावः। वहाभ्रे लिहः॥ वहे अभ्रे च कर्मण्युपपदे लिहः खशित्यर्थः / वहशब्दस्य विवरणम् / स्कन्ध इति // शपो लुगिति // खशश्शित्त्वेन सार्वधातुकत्वात् कृतस्य शपो लुगित्यर्थः। परिमाणे पचः // परिमाणं प्रस्थादि / तस्मिन् कर्मण्युपपदे पचेः खशित्यर्थः / खारिम्पचः इति // 'खित्यनव्ययस्य' इति हस्वः / मुम् / मितनखे च // मिते नखे च कर्मण्युपपदे पचः खशित्यर्थः / नखानां विक्लित्त्यसम्भवादाह / पचिरत्रेति // विध्वरुषोस्तुदः // विधु, अरुस् , अनयोः कर्मणोरुपपदयोः तुदः खशित्यर्थः / विधुन्तुद इति // विधुश्चन्द्रः तं तुदतीति विप्रहः / राहुरित्यर्थः / अरुस्शब्दे उकारादुपरि मुमि कृते For Private And Personal Use Only
Page #517
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा / 2951 / असूर्यललाटयोईशितपोः / (3-2-36) असूर्यमित्यसमर्थसमासः / दृशिना नयः सम्बन्धात् / सूर्य न पश्यन्तीत्यसूर्यम्पश्या राजदाराः / ललाटन्तपः सूर्यः / 2952 / उग्रम्पश्येरम्मदपाणिन्धमाश्च / (3-2-37) एते निपात्यन्ते / उग्रमिति क्रियाविशेषणं तस्मिन्नुपपदे दृशेः खश् / उग्रं पश्यतीत्युग्रम्पश्यः / इरोदकं तेन माद्यति दीप्यतेऽबिन्धनत्वादिति इरम्मदो मेघज्योतिः / इह निपातनाच्छ्यन्न / पाणयो ध्मायन्तेऽस्मिन्निति पाणिन्धमोऽध्वा / अन्धकाराद्यावृत इत्यर्थः / तत्र हि सर्पाद्यपनोदनाय पाणयः शब्द्यन्ते / 2953 / प्रियवशे वदः खच् / (3-2-38) प्रियंवदः / वशंवदः / गमे: सुपि वाच्यः' (वा 2009) असंज्ञार्थमिदम् / मितङ्गमो हस्ती / 'विहायसो विह इति वाच्यम्' (वा 2010) / 'खञ्च डिद्वा वाच्यः' (वा 2011) / विहङ्गः-विहङ्गमः / भुजङ्गः-भुजङ्गमः / सकारस्य संयोगान्तलोप इत्यर्थः / अरुन्तुद इति // अरुमर्म तत्तुदतीति विग्रहः / असूर्यललाट // दृशितपोरिति पञ्चम्यर्थे षष्ठी। असूर्ये ललाटे च कर्मण्युपपदे दृशेस्तपेश्च खशित्यर्थः / असूर्यमितीति // असूर्यम्पश्या इत्युदाहरणे असूर्यमित्यसमर्थसमासस्सौत्र इत्यर्थः / कुतोऽसामर्थ्यमित्याह / दृशिनेति // सूर्यन्न पश्यन्तीत्यर्थे नो दृशिनान्वितत्वेन सूर्यशब्दनान्वयाभावादित्यर्थः / ललाटन्तपस्सूर्य इति // ललाटन्तपतीति विग्रहः / सूर्यम्पश्यतो ललाटस्य अवश्यन्तापादिति भावः / उग्रम्पश्य // उग्रम्पश्य, इरम्मद, पाणिन्धम, एषान्द्वन्द्वः / उग्रम्पश्य इति // खशि शप् , पश्यादेशः / इराशब्दस्य विवरणम् / उदकमिति // इरम्मद इति // 'खित्यनव्ययस्य' इति ह्रस्वः। मदेवादिकत्वात् श्यनमाशङ्कय आह / निपातनाच्छन्यन्नेति // पाणिन्धम इति // शपि ‘पाघ्रा' इति धमादेशः / प्रियवशे // प्रिये वशे च कर्मण्युपपदे वदधातोः खजित्यर्थः / खशि प्रकृते खज्विधेरुत्तरसूत्रे प्रयोजनं वक्ष्यते। गमेस्सुपि वाच्य इति // खजिति शेषः / ननु संज्ञायामित्यनुवृत्ती 'गमश्च' इति वक्ष्यमाणसूत्रेणैव सिद्धे किमर्थमिदं वार्तिकमित्यत आह / असंज्ञार्थमिदमिति // विहायस इति // विहायशब्दः आकाशे वर्तते / तस्मिन्नुपपदे गमेः खच् / 'गमश्च' इति वक्ष्यमाणसूत्रेण पूर्ववार्तिकेन वा सिद्धः खच्चेत्यनूद्यते। प्रकृतेर्विहायश्शब्दस्य बिहादेशो वाच्यः, सच खच् डिद्वा वाच्य इत्यर्थः / विहङ्ग इति // डित्त्वपक्षे तत्सामर्थ्यादभस्यापि टेर्लोपः / विहङ्गम इति / विहायसा गच्छतीति विग्रहः / भुजङ्गम इति // For Private And Personal Use Only
Page #518
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 516 सिद्धान्तकौमुदीसहिता [कृदन्त 2954 / द्विषत्परयोस्तापेः / (3-2-39) खच्स्यात् / 2955 / खचि हस्वः / (6-4-94) खच्परे णौ उपधाया ह्रस्व: स्यात् / द्विषन्नं परं वा तापयतीति द्विषन्तप: / परन्तपः / घटघटीग्रहणाल्लिङ्गविशिष्टपरिभाषा अनिस्या / तेनेह न / द्विषती तापयतीति द्विषतीतापः / 2956 / वाचि यमो व्रते / (3-2-40) वाक्छब्द उपपदे यमे: खच्स्यागुते गम्ये / 2957 / वाचंयमपुरन्दरौ च / (6-3-69) वाक्पुरोरमन्तत्वं निपात्यते / वाचंयमो मौनव्रती / 'व्रते' किम् / अशक्त्यादिना वाचं यच्छतीति वाग्यामः / 2958 / पूःसर्वयोरिसहोः / (3-2-41) भुजैर्गच्छतीति विग्रहः / द्विषत्परयोः // 'तप दाहे' चुरादिः 'तप सन्तापे' भ्वादिः / द्वयोरपि ण्यन्तयोस्तापेरिति निर्देशः / खच् स्यादिति // द्विषत् , पर, अनयोः कर्मणोरुपपदयोः तापेः खजित्यर्थः / द्विषत् तापि अ इति स्थिते आह / खचि ह्रस्वः // ‘दोषो णौ' इत्यतो णाविति 'ऊदुपधायाः' इत्यतः उपधाया इति चानुवर्तते / तदाह / खच्परे णाविति // खशि प्रकृते खचो विधिरिह ह्रस्वार्थ णिलोपार्थश्च / खशि तु तदुभयन्न स्यात् / खशश्शित्त्वेन सार्वधातुकतया णिलोपासम्भवात् / न च इहैव सूत्रे खज्विधीयतां पूर्वसूत्र खशेवानुवर्ततामिति वाच्यम् , अन्यतोऽपि विधानार्थत्वात् / एवञ्च ‘गमेस्सुपि' इति वार्तिकम् एतल्लब्धार्थकथनपरमेवेत्याहुः / द्विषन्तप इति // 'अरुर्द्विषत्' इति तकारात्प्राक् मुम् / परन्तप इति // परः शत्रुः / ननु लिङ्गविशिष्टपरिभाषया द्विषतीशब्देऽप्युपपदे तापेः खचि द्विषतीतप इति स्यात् / द्विषतीताप इत्यण्णन्तन्न स्यात् इत्यत आह / घटघटीति // ‘शक्तिलाङ्गलाङ्कुशयष्टितोमरघटघटीधनुष्षु गृहेरुपसङ्खथानम्' इत्यत्र घटग्रहणेनैव लिङ्ग विशिष्टपरिभाषया घटीशब्दस्यापि सिद्ध पुनर्घटी. ग्रहणात् लिङ्गविशिष्टपरिभाषा अनित्येति विज्ञायते इत्यर्थः / उपपदविधौ लिङ्गविशिष्टपरिभाषा नेति ड्याप्सूत्रे भाष्याचेत्यपि द्रष्टव्यम् / वाचि यमो व्रते // इत्यादि व्यक्तम् / वाचंयमपुरन्दरौ च // वाक्पुरोरिति // वाचं यच्छतीति पुरं दारयतीति च विग्रहे यमर्दारेश्च खच् / सुपो लुकि वाच् यम्, पुर् दार, इति स्थिते वाक्पुरोरमन्तत्वन्निपात्यते इत्यर्थः / 'अरुर्द्विषदजन्तस्य' इति मुमस्तु न प्रसक्तिः / पूस्सर्वयोर्दारिसहोः // दारिसहोरिति पञ्चम्यर्थे षष्ठी / पुरिशब्दे सर्वशब्दे च कर्मवाचिन्युपपदे दारेस्सहेश्च खजित्यर्थः / For Private And Personal Use Only
Page #519
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा / 517 पुरं दारयतीति पुरन्दरः / सर्वसहः / सहिग्रहणमसंज्ञार्थम् / ‘भगे च दारेः' (वा 2013) इति काशिका | बाहुलकेन लब्धमिदमित्याहुः / भगं दारयतीति भगन्दरः / 2959 / सर्वकलाभ्रकरीषेषु कषः। (3-2-42) सर्वकष: खलः / कूलङ्कषा नदी / अभ्रङ्कषो वायुः। करीषङ्कषा वात्या / 2960 / मेघर्तिभयेषु कृञः / (3-2-43) मेघङ्करः / ऋतिङ्करः / भयङ्करः / भयशब्देन तदन्तविधिः / अभयङ्करः। 2961 / क्षेमप्रियमद्रेऽण च / (3-2-44) एषु कृञोऽण्स्यात् / चात्खच् / क्षेमङ्कर:-क्षेमकारः। प्रियङ्करः-प्रियकारः / मद्रङ्कर:-मद्रकारः / वेति वाच्येऽण्ग्रहणं हेत्वादिषु टो मा भूदिति / कथं तर्हि ‘अल्पारम्भः क्षेमकरः' इति / कर्मणः शेषत्वविवक्षायां पचाद्यच् / 2962 / आशिते भुवः करणभावयोः / (3-2-45) आशितशब्द उपपदे भवते: खच् / आशितो भवत्यनेनाशितम्भव ओदनः / आशितस्य भवनमाशितम्भवः / 2963 / संज्ञायां भृतृवृजिधारिसहितपिदमः / (3-2-46) यथासङ्खथमन्वयः / दारीति ण्यन्तस्य ग्रहणम् / पुरन्दर इति // पुरं दारयतीति विग्रहे दारेः खचि णिलोपे 'खचि ह्रस्वः' इत्युपधाह्रस्वे सुपो लुकि 'वाचंयमपुरन्दरौ च' इति निपातनादमन्तत्वम् / ननु ‘संज्ञायां भृतृवृजिधारिसहितपिदमः' इत्येव सिद्धे सहधातोरिह ग्रहणं व्यर्थमित्यत आह / असंज्ञार्थमिति // भगे चेति // इत्यादि स्पष्टम् / ऋतिङ्कर इति // ऋतिर्गमनम् / अभयङ्करशब्दं साधयितुमाह / भयशब्देन तदन्तविधिरिति // इदञ्च ‘यन विधिः' इत्यत्र भाष्ये स्पष्टम् / क्षेमप्रिय // ननु 'क्षेमप्रियमद्रे वा' इति खयो विकल्पविधौ खजभाव ‘कर्मण्यण्' इत्यस्य सिद्धत्वादणग्रहणं व्यर्थमित्यत आह / वेति वाच्ये इति // हेत्वादाविति // 'o हेतुताच्छील्यानुलोम्येषु' इति विहित इत्यर्थः / कथन्तीति // 'कृओ हेतु' इत्यस्य अणा बाधात् क्षेमकार इति भवितव्यम्। खचि तु मुम् स्यादित्याक्षेपः / समाधत्ते। कर्मणश्शेषत्वेति // तथाच कर्मोपपदाभावात् अणभावे चाजिति भावः / क्षेमकरीति तु गौरादित्वात् ङीषिल्याहुः / आशिते // करणे उदाहरति / आ. शितो भवत्यनेनेति // भावे उदाहरति / आशितस्य भवनमिति // संज्ञायाम् // खजिति शेषः / भृ, तृ, व, जि, धारि, सहि, तपि, दमि, एषामष्टानां समाहारद्वन्द्वात्पञ्चमी / For Private And Personal Use Only
Page #520
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 518 सिद्धान्तकौमुदीसहिता [कृदन्त विश्वं बिभर्तीति विश्वम्भरः / विश्वम्भरा / रथन्तरं साम / इह रथेन तरतीति व्युत्पत्तिमात्रं, न त्ववयवार्थानुगमः / पतिंवरा कन्या / शत्रुजयो हस्ती / युगन्धरः पर्वतः / शत्रुसहः / शत्रुन्तपः / अरिन्दमः / दमिः शमनायाम् , तेन सकर्मक इत्युक्तम् / मतान्तरे तु अन्तर्भावितण्यर्थोऽत्र दमिः / 2964 / गमश्च / (3-2-47) सुतङ्गमः / 2965 / अन्तात्यन्ताध्वदूरपारसर्वानन्तेषु डः / (3-2-48) संज्ञायामिति निवृत्तम् / एषु गमेर्ड: स्यात् / डित्त्वसामर्थ्यादभस्यापि टेर्लोपः / अन्तं गच्छतीत्यन्तग इत्यादि / 'सर्वत्रपन्नयोरुपसङ्खथानम्' (वा 2014) / सर्वत्रगः / पन्नं पतितं गच्छतीति पन्नगः / पन्नमिति पद्यते: तान्तं क्रियाविशेषणम् / 'उरसो लोपश्च' (वा 2015) / उरसा गच्छतीत्युरगः / 'सुदुरोरधिकरणे' (वा 2016) / सुखेन गच्छत्यत्र सुगः / दुर्गः / 'अन्यत्रापि दृश्यत इति वक्तव्यम्' (वा 2018) / ग्रामगः / 'डे च विहायसो विहादेशो वक्तव्यः' (वा २०१२)-विहगः / विश्वम्भर इति // विष्णोरियं संज्ञा / विश्वम्भरेति // पृथिव्या संज्ञा इयम् / रथन्तरमिति // तृधातोः खच् / रथेन तरितृत्वस्य सामाविशेषे असम्भवादाह / इहेति // वृधातोरुदाहरति / पतिवरेति // शत्रुञ्जय इति // जिधातोः खच् / धारीति ण्यन्तग्रहणं, तस्योदाहरति / युगन्धर इति // युगं धारयतीति विग्रहः / 'खचि ह्रस्वः' इत्युपधाह्रस्वः, णिलोपः / शत्रुसह इति // शत्रून् सहते इति विग्रहः। हृस्वादि पूर्ववत् / एवमप्रेऽपि / शत्रुन्तप इति // शत्रून् तपतीति विग्रहः / अरिन्दम इति // अरिषु निग्रहविषये शाम्यतीत्यर्थः / दमिः शमनायामिति // 'दमु उपशमे' इति धातुपाठे उपशमशब्दे शमेर्ण्यन्तात् घञ् / तथाच दाम्यतीत्यस्य उपशमयतीत्यर्थाश्रयणात् सकर्मकत्वमिति माधवादिमते सकर्मकोऽयमित्यर्थः / मतान्तरे त्विति // 'दमु उपशमे' इत्युपशमार्थस्य दमेरकर्मकत्वामेति हरदत्तादिभिरुक्तमित्यर्थः / गमश्च // संज्ञायां खजिति शेषः / अन्तात्यन्त // इत्यादि व्यक्तम् / सर्वत्रपन्नयोरिति // सर्वत्रशब्दे पन्नशब्दे चोपपदे गमेर्डस्योपसङ्खथानमित्यर्थः / उरस इति // उरसि उपपदे गमेडः उरश्शब्दान्त्यस्य लोपश्चेति वक्तव्यमित्यर्थः / सुदुरो. रिति // सु दुर् अनयोरुपपदयोर्गमेर्डः स्यात् अधिकरणे वाच्ये इत्यर्थः / अन्यत्रापि दृश्यत इति // अन्येष्वप्युपपदेषु अन्येभ्योऽपि धातुभ्यः डो दृश्यते इत्यर्थः / अनेनैव सिद्धे 'सर्वत्रपन्नयोः' इत्यादि प्रपञ्चार्थमेव / एवञ्च ‘सप्तम्याअनेर्डः' इत्यत्रापि 'अन्येष्वपि दृश्यते' इति प्रपश्चार्थमेव / डे चेति // विहायसो विह चेत्युक्तस्य खज्विषयत्वादिदं वचनम् / विहग For Private And Personal Use Only
Page #521
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा / 519 ___ 2966 / आशिषि हनः। (3-2-49) शत्रु वध्याच्छत्रुहः / 'आशिषि' किम् / शत्रुघातः / ‘दारावाहनोऽणन्तस्य च ट: संज्ञायाम्' (वा 2019) / दारुशब्द उपपदे आङपूर्वाद्धन्तेरण टकारश्चान्तादेशो वक्तव्य इत्यर्थः / दार्वाघाटः / 'चारौ वा' (वा 2020) / चार्वाघाट:-चार्वाघात: / 'कर्मणि समि च' (वा 2021) / कर्मण्युपपदे सम्पूर्वाद्धन्तेरुक्तं वेत्यर्थः / वर्णान्संहन्तीति वर्णसङ्घाट: / पदसङ्घाटः / वर्णसङ्घात: / पदसङ्घातः / 2967 / अपे क्लेशतमसोः। (3-2-50) अपपूर्वाद्धन्तेर्ड: स्यात् / अनाशीरर्थमिदम् / क्लेशापहः पुत्रः / तमोऽपहः सूर्यः / 2968 / कुमारशीर्षयोणिनिः / (3-2-51) कुमारघाती / शिरसः शीर्षभावो निपात्यते शीर्षघाती / 2969 / लक्षणे जायापत्योष्टक् / (3-2-52) हन्तेष्टक्स्याल्लक्षणवति कर्तरि / जायानो ना / पतिघ्नी स्त्री / 2970 / अमनुष्यकर्तृके च / (3-2-53) इति // खचि तु मुमि विहङ्गम इति रूपम् / आशिषि हनः // कर्मण्युपपदे हन्तड: स्यात् आशिषि गम्यायामित्यर्थः / शत्रुघात इति // आशीरभावाड्डाभावे अण् 'हनस्त' इति तत्वम् / दारावाहन इति // वार्तिकमिदम् / दारौ, आहनः अण् अन्तस्येति च्छेदः / अण्सन्नियोगेन टत्वविधानार्थमिदम् / चारौ वेति // वार्तिकमिदम् / चारुशब्द उपपदे आङ्पूर्वाद्धन्तेः अण् अन्तस्य टः वा स्यादित्यर्थः / कर्मणि समि चेति // वार्तिकमिदम् / उक्तं वेति // अण् अन्तस्य टः इत्यर्थः / चारावित्यस्यानुवृत्तिनिवृत्तये कर्मणीत्युक्तिः / अपे क्लेशतमसोः // 'आशिषि हनः' इत्येव सिद्धे किमर्थमिदमित्यत आह / अनाशीरर्थमिति // कुमारशीर्षयोर्णिनिः / अनयोरुपपदयोः हन्तेणिनिः स्यादित्यर्थः। नकारादिकार उच्चारणार्थः / लक्षणे / / लक्षणवतीति / / सूत्रे लक्षणशब्दः अर्शआद्यजन्त इति भावः / जायानो नेति // जायाहननसूचकलक्षणवान् पुरुष इत्यर्थः / 'गमहन' इत्युपधालोपः / पतिघ्नी स्त्रीति // पतिहननसूचनलक्षणवतीत्यर्थः / टित्त्वात् ङीप् / अमनुष्य // अमनुष्यकर्तृके धात्वर्थे वर्तमानाद्धन्तेः कर्मण्युपपदे टगित्यर्थः / जायानस्तिलकालक इति // तिलाकृतिकृष्णबिन्दुरित्यर्थः / पूर्वसूत्रस्य लक्षणवति कर्तरि For Private And Personal Use Only
Page #522
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 520 सिद्धान्तकौमुदीसहिता [कृदन्त जायाघ्नस्तिलकालकः / पतिघ्नी पाणिरेखा / पित्तनं घृतम् / 'अमनुष्य-' इति किम् / आखुघात: शूद्रः / अथ कथं 'बलभद्रः प्रलम्बनः, शत्रुघ्नः, कृतघ्नः' इत्यादि / मूलविभुजादित्वात्सिद्धम् / चोरघातो नगरघातो हस्तीति तु बाहुलकादणि / ___ 2971 / शक्तौ हस्तिकवाटयोः। (3-2-54) हन्तेष्टक्स्याच्छक्तौ द्योत्यायाम् / मनुष्यकर्तृकार्थमिदम् / हस्तिघ्नो ना। कवाटघ्नश्वोरः / कपाटेति पाठान्तरम् / 2972 / पाणिघताडघौ शिल्पिनि। (3-2-55) हन्तेष्टक्टिलोपो घत्वं च निपात्यते पाणिताडयोरुपपदयोः / पाणिघः / ताडघः / शिल्पिनि' किम् / पाणिघात: / ताडघातः / 'राजघ उपसङ्खथानम्' (वा 2022) / राजानं हन्ति राजघः / 2973 / आढ्यसुभगस्थूलपलितनमान्धप्रियेषु च्व्यर्थेष्वच्चौ कृञः करणे ख्युन् / (3-2-56) एषु च्व्यर्थेष्वच्च्यन्तेषु कर्मसूपपदेषु कृत्रः ख्युन्स्यात् / अनाढ्यमाढ्यं कुर्वन्त्यनेन आढ्यंकरणम् / अच्वौ किम् / आढ्यीकुर्वन्त्यनेन / इह प्रतिषेधसाम ाल्ल्युडपि नेति काशिका / भाष्यमते तु ल्युट् स्यादेव / अच्वावित्युत्तरार्थम् / प्रवृत्तिरित्यारम्भः / अथ कथमिति // प्रलम्बघ्नादौ हन्तेर्मनुष्यकर्तृकतया टकोऽसम्भवादित्याक्षेपः। समाधत्ते / मूलविभुजादित्वात्सिद्धमिति / / कप्रत्ययेनेति भावः। ननु चोरघातो हस्तीत्यादि कथम् / अमनुष्यकर्तृकत्वेन हन्तेष्टको दुर्वारत्वादित्यत आह। चोरघात इत्यादी. ति // बाहुळकादणीति // ‘कृत्यल्युटो बहुळम्' इति बहुळग्रहणादणि समाधेयमिति भावः / शक्ती हस्तिकवाटयोः // हस्तिघ्न इति // हस्तिनं हन्तुं शक्त इत्यर्थः / एवं कवाटघ्नः / पाणिघताडघौ / पाणिना हन्तीति पाणिघः। ताड: ताडनं तेन हन्तीति ताडघः / मल्लादिः / राजघ उपसङ्खयानमिति // राजघशब्दे उक्तनिपातनस्य उपसङ्ख्यानमित्यर्थः / आढ्यसुभग // आब्य, सुभग, स्थूल, पलित, नग्न, अन्ध, प्रिय, एषां सप्तानां द्वन्द्वात्सप्तमी / ख्युन् स्यादिति // करणे वाच्ये इति शेषः / ‘करणाधिकरणयोश्च' इति ल्युडपवादोऽयम् / कर्तरीति तु अत्र न सम्बध्यते / आढ्यङ्करणमिति // राजाद्यनुवर्तनमिति शेषः / कृषः ख्युन् अनादेशः, 'अरुषिदजन्तस्य' इति मुम् / सुभगङ्करणमित्याद्यप्युदाहार्यम् / आढ्यीकुर्वन्त्यनेनेति / अत्र च्चिप्रत्ययसत्वात् न ख्युन्निति भावः। ननु ल्युडपवादभूतख्युनभावपक्षे उत्सर्गभूतो ल्युट् कुतो नेत्यत आह / इहेति // For Private And Personal Use Only
Page #523
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा / 521 2974 / कर्तरि भुवः खिष्णुच्खुको / 3-2-57) आढ्यादिषु व्यर्थेष्वच्च्यन्तेषु भवतेरेतौ स्तः / अनाढ्यः आढ्यो भवतीति आढ्यम्भविष्णुः / आढ्यम्भावुकः / स्पृशोऽनुदके किन्' (सू 432) / घृतस्पृक् / कर्मणीति निवृत्तम् / मन्त्रेण स्पृशतीति मन्त्रस्पृक् / 'ऋत्विग्दधृक्स्रग्दिगुष्णिगञ्चुयुजिक्रुञ्चां च' (सू 373) व्याख्यातम् / 'त्यदादिषु दृशोऽनालोचने कञ्च' (सू 429) / 'समानान्ययोश्चेति वाच्यम्' (वा 2029) / सदृक्-सदृश: / अन्यादृक्-अन्यादृशः / ‘क्सोऽपि वाच्यः' (वा 2030) / तादृक्षः / सदृक्षः / अन्यादृक्षः।। 2975 / सत्सूद्विषद्रुहदुहयुजविदभिदच्छिदजिनीराजामुपसर्गेऽपि क्विम् / (3-2-61) यदि ल्युडपवादख्युनभावे उत्सर्गभूतो ल्युट् स्यात् , तदा ख्युन्विधिरनर्थकः स्यात् / च्यन्ते उपपदे ख्युन्ल्युटोः रूपे विशेषाभावात् / नच ख्युनि मुम् , ल्युटि तदभावः इत्यस्ति विशेष इति वाच्यम् / च्चिप्रत्ययान्तस्याव्ययत्वेन ख्युनि सत्यपि मुमभावात् / 'अरुर्द्विषदजन्तस्य' इत्यत्रानव्ययस्येत्यनुवृत्तेः / एवञ्च ‘अच्वौ' इति च्च्यन्ते उपपदे ख्युनः प्रतिषेधसामर्थ्यात् ख्युनभावे ल्युडपि नेति विज्ञायत इति काशिकामतमित्यर्थः / एवञ्च ‘अच्यौ' इति च्च्यन्ते उपपदे ख्युन्प्रतिषेधः ख्युनभावपक्षे ल्युडभावार्थ इति स्थितम् / भाष्यमते त्विति // भाष्ये "ख्युनि च्विप्रतिषेधानर्थक्यम् / ल्युटख्युनोरविशेषात् / मुमर्थमिति चेन्न, अव्ययत्वात् " इत्यादिसन्दर्भेण अच्विग्रहणं ख्युन्विधौ प्रत्याख्याय 'अच्ची' इत्युत्तरार्थमित्युक्तम् / तन्मते तु च्च्यन्ते उपपदे ख्युना मुक्ते ल्युट् स्यादेवेत्यर्थः / कर्तरि भुवः / / खिष्णुचि खचावितौ / खुकभि खावितौ / आव्यम्भविष्णुरिति // अनाढ्यः आन्यो भवतीति विग्रहः / आत्यम्भावुक इति // भित्त्वादृद्धिः / करणग्रहणानुवृत्तिनिवृत्तये कर्तृग्रहणम् / खिष्णुचि इकारस्तु व्यर्थ एव / इटा सिद्धेः / अच्वौ किम् / आब्याभविता। स्पृशोऽनुदके किन्निति // व्याख्यात हलन्ताधिकारे / निवृत्तमिति // अत्र व्याख्यानमेव शरणम् / समानान्ययोश्चेति // अनयोरुपपदयोः दृशः क्विन्कनावित्यर्थः / सदृक्-सदृश इति // समानो दृश्यते इति न विग्रहः / कर्तथैव क्विन्विधानात् / किन्तु कर्मकर्तरि क्विन्कौ / समानः पश्यतीति विप्रहः। समानत्वेन ज्ञानविषयो भवतीत्यर्थ इति भाष्ये स्पष्टम् / 'दृग्शवतुषु' इति समानस्य सभावविकल्पः / तत्र 'विभाषोदरे' इत्यतः विभाषानुवृत्तेः समानहक् सदृक् समानदृशः सदृशः इति भाष्याच / अन्यादगिति // 'आ सर्वनाम्नः' इत्यात्वम् / क्सोऽपीति // त्यदादिषु समानान्ययोश्च दृशेः क्सोऽपि वाच्य इत्यर्थः / सत्सूद्विष // सद्, सू, द्विष, दुह, दुह, युज, विद, भिद, छिद, जि, नी, राज्, एषां द्वन्द्वात्पञ्चम्यर्थे षष्ठी / अनुपसर्गे इत्यस्य निवृत्यैव सिद्ध उपसर्गेऽपीति वचनम् अन्यत्र सुब्बणे उपसर्गग्रहणं नेति ज्ञापनार्थम् / 66 For Private And Personal Use Only
Page #524
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 522 सिद्धान्तकौमुदीसहिता [कृदन्त एभ्यः किप्स्यादुपसर्गे सत्यसति च सुप्युपपदे / घुसत् / उपनिषत् / अण्डसूः / प्रसूः / मित्रद्विट् / प्रद्विट् / मित्रध्रुक् / प्रध्रुक् / गोधुक् / प्रधुक् / अश्वयुक् / प्रयुक् / वेदवित् / निविदित्यादि / 'अंग्रग्रामाभ्यां नयते! वाच्यः' (वा 5064) / अग्रणी: / ग्रामणीः / 2976 / भजो ण्विः / (3-2-62) सुप्युपसर्गे चोपपदे भजेवि: स्यात् / अंशभाक् / प्रभाक् / 2977 / अदोऽनन्ने / (3-2-68) विट् स्यात् / आममत्ति आमात् / सस्यात् / 'अनन्ने' किम् / अन्नादः / __2978 / क्रव्ये च / (3-2-69) अदेविट् / पूर्वेण सिद्धे वचनमण्बाधनार्थम् / क्रव्यात् / आममांसभक्षकः / कथं तर्हि 'क्रव्यादोऽस्रप आशरः' इति / पकमांसशब्दे उपपदेऽण् / उपपदस्य क्रव्यादेशः, पृषोदरादित्वात् / 2979 / दुहः कब्धश्च / (3-2-70) कामदुधा / तेन ‘वदस्सुपि क्यप् च' इति विधिरुपसर्गे न भवतीति भाष्ये स्पष्टम् / शुसदिति // दिवि सीदतीति विग्रहः / ‘सात्पदाद्योः' इति न षत्वम् / पूर्वपदात्' इति षत्वं तु न भवति, तस्य च्छान्दसत्वात् / 'आदितेया दिविषदः' इत्यत्र सुषामादित्वात् षत्वमित्याहुः / उपनिषदिति // 'सदिरप्रतेः' इति षत्वम्। इत्यादीति // काष्टभित्, रज्जुच्छित् , शत्रुजित् , अत्र 'ह्रस्वस्य पिति' इति तुक्। सेनानीः, विराट् / अग्रग्रामाभ्यामिति // असमानपदत्वादप्राप्ते णत्वे वचनम् / भजो ण्विः // सुप्युपपदे भजेविरित्यर्थः / अंशभागिति // णित्त्वादुपधावृद्धिः / अदो. ऽनन्ने // विट् स्यादिति // शेषपूरणमिदम् / अन्नशब्दभिन्ने सुप्युपपदे अदेविट् स्यादिति फलितम् / 'जनसनखनक्रमगमो विट' इति छान्दससूत्राद्विडित्यनुवर्तते / सस्यादिति // सस्यमत्तीति विग्रहः / अन्नाद इति // कर्मण्यण् / क्रव्ये च // अदेवि डिति // शेषपूरण मिदम् / अण्बाधनार्थमिति // क्रव्ये अदेविडेव न त्वणित्यर्थलाभादिति भावः / कथ. न्तहीति // क्रव्ये उपपदे अदेविडेवेति नियमादणोऽसम्भवादित्याक्षेपः / समाधत्ते / पक्कमांसशब्द इति // तर्हि पक्वमांसाद इति स्यादित्यत आह / उपपदस्य क्रव्यादेश इति // कुत इत्यत आह / पृषोदरादित्वादिति // दुहः कब्धश्च // सुप्युपपदे दुहेः कप्स्यात् प्रकृतेर्घश्चान्तादेश इत्यर्थः / कामदुघेति // धनुरिति शेषः / काममपेक्षितन्दुग्धे 1. 'पूर्वपदात्संज्ञायामगः' (सू 858) इति सूत्रेणेति भावः / अपूर्ववचनत्वे तु 'ग्रामनयनस्य' इति ग्रन्थविरोधः / For Private And Personal Use Only
Page #525
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा / राण। 2980 / अन्येभ्योऽपि दृश्यन्ते / (3-2-75) छन्दसीति निवृत्तम् / मनिन् कनिप् वनिप् विच् एते प्रत्ययाः धातोः स्युः। ___ 2981 / नेडशि कृति / (7-2-8) वशादेः कृत इण्न स्यात् / श, सुशर्मा / प्रातरित्वा / 2982 / विडनोरनुनासिकस्याऽऽत् / (6-4-41) अनुनासिकस्य आत्स्यात् / विजायत इति विजावा / ओण, अवावा / विच् , रोट् / रेट् / सुगण् / 2983 / विप्च / (3-2-76) अयमपि दृश्यते / ‘सत्सूद्विष-' (सू 2975) इति त्वस्यैव प्रपञ्चः। उखासत् / पर्णध्वत् / वाहभ्रट् / 2984 / अन्तः / (8-4-20) . पदान्तस्यानितेर्नस्य णत्वं स्यादुपसर्गस्थान्निमित्तात्परश्चेत् / हे प्राण / इति विग्रहः / अन्येभ्योऽपि दृश्यन्ते // 'विजुपे छन्दसि' 'आतो मनिन्कनिब्वनिपश्च' इत्यधिकारे इदं सूत्रम् / निवृत्तमिति // व्याख्यानादिति भावः / मनिनि अन्यो नकार इत् इकार उच्चारणार्थः / क्वनिपि वनिपि च पकार इत् , इकार उच्चारणार्थः। विचि चकार इत् , इकार इत् / नेवशि कृति // षष्ठ्यर्थे सप्तम्यौ / वशा कृद्विशेष्यते / तदादिविधिः। तदाह / वशादेरिति // सुशर्मेति // शृधातोर्मनिन् / प्रातरित्वेति // इण्धातोः क्वनिप् / विड्डनोरनुनासिकस्याऽऽत् // विड्डनोरिति सप्तमी / अनुनासिकस्य आदिति छदः / विजावेति // जनेर्वनिप् / जनेर्नकारस्य आकारः। सवर्णदीर्घः / अवावेति // ओणेर्वनिप् / णकारस्य आकारः अवादेशः / विजिति // उदाह्रियते इति शेषः / रोट् , रेडिति // ‘रुष, रिष हिंसायाम्' विच् / 'वेरपृक्तस्य' इति वलोपः / सुगणिति // गणेविच् / विप् च // अयमपीति // सर्वधातुभ्यस्सोपपदेभ्यः निरुपपदेभ्यश्च छन्दसि लोके च किप् दृश्यते इत्यर्थः। नन्वनेनैव सिद्धे ‘सत्सूद्विष' इति सूत्रं व्यर्थमित्यत आह / सत्सूद्विषेति // ‘सत्सूद्विष' इति सूत्रन्तु 'क्किप् च' इत्यस्यैव प्रपञ्च इत्यर्थः। उखानदिति // उखायास्त्रंसत इति विग्रहः / स्रंसे: क्किप् , 'अनिदिताम्' इति नलोपः, 'वसुस्रंसु' इति दत्वम् / एवं पर्णध्वत् / पर्णात् ध्वंसत इति विग्रहः / वाहभ्रडिति // वाहात् भ्रश्यति इति विग्रहः। व्रश्चादिना षः / अन्तः // 'अनितेः' इति सूत्रमनुवर्तते, 'रषाभ्यां नो णः' इति च / अन्तः इति षष्ठ्यर्थे प्रथमा। पदस्यान्तो विवक्षितः / उपसर्गादसमासेऽपि' इत्यतः उपसर्गादित्यनुवर्तते / तदाह / पदान्तस्येत्यादिना // हे प्राणिति // प्रपूर्वादनेः क्विबन्तात् सम्बोधनैकवचनस्य हल्डयादिलोपः, नस्य णः / नलोपस्तु न, For Private And Personal Use Only
Page #526
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 524 सिद्धान्तकौमुदीसहिता [कृदन्त 'शास इत्-' (सू 2486) इतीत्त्वम् / मित्राणि शास्ति मित्रशीः / 'आशासः को उपधाया इत्त्वं वाच्यम्' (वा 4070) / आशीः / इत्त्वोत्त्वे / गी: / पूः। 2985 / इस्मन्त्रन्क्विषु च / (6-4-97) एषु छादेह्रस्व: स्यात् / तनुच्छत् / 'अनुनासिकस्य कि-' (सू 2666) इति दीर्घः / ‘मो नो धातोः' (सू 341) / प्रतान् / प्रशान् / 'च्लो:-' (सू 2561) इत्यूठ / अक्षयूः / 'ज्वरत्वर-' (सू 2654) इत्यूठ / जूः / जूरौ / जूरः / तूः / स्रः / ऊठ, वृद्धिः, जनानवतीति जनौः / जनावौ / जनावः / मूः / मुवौ / मुवः / सुमूः / सुम्वौ / सुम्व: / ‘राल्लोपः' (सू 2655) / मुर्छा, मूः / मुरौ / मुरः / धुर्वी, धूः / 'न ङिसम्बुध्योः' इति निषेधात् / मित्रशीरिति // मित्राणि शास्तीति विग्रहः / शासेः क्विप् 'शास इदङ्हलोः' इत्युपधाया इत्त्वम् , 'वोरुपधायाः' इति दीर्घः। मित्रशिषावित्यादौ अपदान्तत्वान्न दीर्घः / आशासः काविति // 'आङः शासु इच्छायाम्' इत्यात्मनेपदी। तस्य 'शास इदङ्हलोः' इति इत्त्वन्तु न भवति / तत्र परस्मैपदिन एव शासेर्ग्रहणात् / अन्यथा आशास्ते इत्यादावपि इत्त्वापत्तेः। अतः आशासः काविति विधिः / इत्त्वोत्त्वे इति // गृधातोः क्विपि, ऋत इत्त्वे, रपरत्वे, सोर्लोपे, 'वोरुपधायाः' इति दीर्घे, गीरिति रूपम् / पृधातोः क्विपि, 'उदोष्ठ्यपूर्वस्य' इति ऋतः उत्त्वे, रपरत्वे, सुलोपे, उपधादीर्घ पू: इति रूपमित्यर्थः / इस्मन्नन् // इस् , मन् , त्रन् , क्वि, एषाश्चतुर्णान्द्वन्द्वः / 'छादेर्धेऽद्वथुपसर्गस्य' इत्यतः छादेरिति ‘खचि हस्वः' इत्यतः ह्रस्व इति चानुवर्तते / तदाह / एषु छादेरिति // अर्थादाकारस्येति गम्यते / अलोऽन्त्यपरिभाषामाश्रित्य इकारस्य ह्रस्वविधौ प्रयोजनाभावात् / एवञ्च 'ऊदुपधायाः' इत्यतः उपधाया इति नानुवर्तनीयम् / ण्यन्तस्य छादेर्दकारोपधत्वात् / इस् छदिः, मन् छद्म, त्रन् छत्त्रम् / क्वौ उदाहरति / तनुच्छदिति // तनुं छादयतीति विग्रहः। अथ तनेश्शमेश्च क्विपि विशेषमाह / अनुनासिकस्येति // अक्षयूरित्यत्र आह / च्छोरिति // अक्षदीव्यतीति विग्रहे दिधातोः क्विपि वकारस्य ऊठि इकारस्य यणिति भावः / ज्वरेति // ज्वरधातोः क्विपि अकारवकारयोरेकस्मिन् ऊठि जूरिति रूपम् / एवं त्वरेः तूरिति रूपम् / त्रिवेः विपि इकारवकारयोरूठि सूरिति रूपम् / अवधातोः क्विपि अकारवकारयोरूठि ऊरिति रूपम् / वृद्धिरिति // जनानवतीति विग्रहे, अवेः क्विपि, अकारवकारयोरूठि, जन ऊ इति स्थिते, आद्गुणं बाधित्वा ‘एत्येधत्यूठसु' इति वृद्धिरौकारादेश इत्यर्थः / मूरिति // मवेः विपि, अकारवकारयोरूठ / सुम्यौ, सुम्वः इति // अनेकान्त्वात् गतिपूर्वत्वाच्च यणिति भावः / रादिति // मुर्छाधातोः क्विपि ‘राल्लोपः' इति छकारस्य लोपे सुलोप 'वोः' इति दीर्घ मूरिति रूपम् / मुरौ, मुरः इति // अपदान्तत्वानोपधादीर्घः / धुर्वीति // धुर्वाधातोः For Private And Personal Use Only
Page #527
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा। 525 2986 / गमः क्वौ / (6-4-40) अनुनासिकलोप: स्यात् / अङ्गगत् / 'गमादीनामिति वक्तव्यम्' (वा 4076) / पुरीतत् / संयत् / सुनत् / 'ऊ च गमादीनामिति वक्तव्यं लोपश्च' (वा 4073-74) / अग्रेगूः / अग्रेभ्रूः / 2987 / स्थः क च / (3-2-77) चारिकप् / शंस्थः / शंस्थाः / 'शमिधातो:--' (सू 2928) इत्यचं बाधितुं सूत्रम् / 2988 / सुप्यजातौ णिनिस्ताच्छील्ये / (3-2-78) अजात्यर्थे सुपि धातोणिनिः स्यात्ताच्छील्ये द्योत्ये / उष्णभोजी / शीतभोजी / 'अजातौ' किम् / ब्राह्मणानामन्त्रयिता / 'ताच्छील्ये' किम् / क्विपि राल्लोपः' इति वकारस्य लोपे सुलोपे वोः' इति दीर्घ धूरिति रूपमिति भावः / गमः क्वौ / अनुनासिकलोपः स्यादिति // शेषपूरणमिदम् / ‘अनुदात्तोपदेश' इत्यतस्तदनुवृत्तेरिति भावः / झलादिप्रत्ययपरकत्वाभावात् अनुदात्तोपदेशेत्यप्राप्तौ वचनम् / अङ्गगदिति // अङ्गाख्यं देशं गच्छतीति विग्रहः / क्विपि मकारलोपे तुक् / एवं वङ्गगत्कलिङ्गगदित्यादि / गमादीनामिति // कावनुनासिकलोप इति शेषः / पुरीतदिति // पुरिः हृदयाख्यः मांसखण्ङविशेषः / तन्तनोति आच्छादयतीति विग्रहः / हृदयकमलाच्छादको मेदोविशेषः / 'पुरीतदा हि हृदयमाच्छाद्यते” इति श्रुतिरिति कर्किभाष्यम् / तने: क्विपि नकारलोपे तुक् / 'नहिवृतिवृषि' इति पूर्वपदस्य दीर्घः / संयदिति // यमेः विप् / मलोपे तुक् / सुनदिति // नमः क्विपि मलोप तुक् / ऊ चेति // गमादीनामुपधायाः ऊभावश्चेति वक्तव्यमित्यर्थः / लोपश्चेति // चकारादनुनासिकलोपः समुच्चीयते इति भावः / अग्रेगरिति // अग्रे गच्छतीति विग्रहः / गमेरकारस्य ऊभावः मलोपश्च 'तत्पुरुषे कृति बहुळम् ' इत्यलुक् / अग्रेरिति // भ्रमेरकारस्य ऊभावः, मलोपश्च / स्थः क च // केत्यविभक्तिकम् / स्थ इति पञ्चम्यन्तम् / चात् क्विविति // उपसर्गे अनुपसर्गे च सुबन्ते उपपदे स्थाधातोः कप्रत्ययः स्यात् क्विप् चेति फलितम् / शंस्थ इति / / शमित्यव्ययं सुखे / तत्पूर्वात् स्थाधातोः कप्रत्यये आतो लोपः / शंस्था इति / / क्विपि रूपम् / सुखं स्थापयतीत्यर्थः / तिष्ठतिरन्तर्भावितण्यर्थः / शंस्था इति भाध्यप्रयोगात् पृषोदरादित्वाच्च 'घुमास्था' इति ईत्त्वन्न / केचित्तु कचेति चकारात् विजवानुकृष्यते इत्याहुः / ननु 'सुपि स्थः' इति कप्रत्यये 'विप् च' इति क्विपि च सिद्धे किमर्थमिदमित्यत आह / शमिधातोरित्यचमिति // अन्यथा धातुग्रहणसामर्थ्यात् कृओ हेत्वादिषु टप्रत्ययमिव शम्पूर्वात् स्थाधातोः कं क्विपञ्च अच्प्रत्ययो बाधेतेति भावः / सुप्यजातौ णिनिस्ताच्छील्ये // 'सुपि स्थः' इत्यतः सुपीत्यनुवृत्तौ पुनः सुग्रहणमुपसर्गेऽपि विधानार्थम् / अन्यथा 'आतोऽनुपसर्गे' इत्यतः अनुपसर्गे इत्यनुवर्तेत / For Private And Personal Use Only
Page #528
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 526 सिद्धान्तकौमुदीसहिता [कृदन्त उष्णं भुङ्क्ते कदाचित् / इह वृत्तिकारेणोपसर्गभिन्न एव सुपि णिनिरिति व्याख्याय 'उत्प्रतिभ्यामाङि सर्तेरुपसङ्घयानम्' इति पठितम् / हरदत्तमाधवादिभिश्च तदेवानुमृतम् / एतच्च भाष्यविरोधादुपेक्ष्यम् / प्रसिद्धश्वोपसर्गेऽपि णिनिः / ‘स बभूवोपजीविनाम्' अनुयायिवर्ग:' / 'पतत्यधो धाम विसारि' / 'न वञ्चनीया: प्रभवोऽनुजीविभिः' इत्यादौ / 'साधुकारिण्युपसङ्घयानम्' (वा 2038) 'ब्रह्मणि वदः' (वा 2039) अताच्छील्यार्थ वार्तिकद्वयम् / साधुदायी / ब्रह्मवादी / 2989 / कर्तर्युपमाने / (3-2-79) णिनि: स्यात् / उपपदार्थः कर्ता प्रत्ययार्थस्य कर्तुरुपमानम् / उष्ट्र इव क्रोशति उष्टक्रोशी / ध्वाङ्करावी / अताच्छील्यार्थ जात्यर्थं च सूत्रम् / ‘कर्तरि' किम् / अपूपानिव भक्षयति माषान् / ' उपमाने' किम् / उष्ट्रः क्रोशति / 2990 / व्रते / (3-2-80) णिनि: स्यात् / स्थण्डिलेशायी / तद्भुनयन्नुदाहरति / उष्णभोजीति // उष्णभोजनशील इत्यर्थः / उपसर्गभिन्न एवेति // अनुपसर्ग इत्यनुवर्तते / सुग्रहणन्तु 'सत्सूद्विष' इति सूत्रात् उपसर्गेऽपीत्यनुवृत्तिनिवृत्तये इति भावः / उत्प्रतिभ्यामिति // उत्प्रतिभ्याम्परे आडि प्रयुज्यमाने सति तत्पूर्वात्सर्तेणिनेरुपसङ्ख्यानमिति तदर्थः / उदासारिणी प्रत्यासारिणीत्युदाहरणम् / भाष्यविरोधादिति // सुग्रहणमुपसर्गग्रहणानुवृत्तिनिवृत्त्यर्थम् / उपसर्गे अनुपसर्गे च सुबन्ते उपपदे धातोणिनिरित्येव भाष्ये उदाहृतत्वादिति भावः / तथाच ‘उत्प्रतिभ्यामाङि सर्तेः' इति वचननादर्तव्यम् / भाष्ये तत्पाठस्तु प्राक्षिप्त एवेति भावः / अत एव 'अनुगादिनः' इति सूत्रप्रयोगश्च सङ्गच्छते इति ज्ञेयम् / उपसर्गभिन्न एव सुपि णिनिरिति मतं शिष्टप्रयोगविरुद्धञ्चेत्याह / प्रसिद्धश्चोपसर्गेऽपि णिनिरिति // इत्यादावित्यत्रान्वयः / साधुकारिणीति // कृञ्ग्रहणं . सर्वधातूपलक्षणम् / साधुकारीत्यादिशब्दविषये तत्सिद्ध्यर्थ णिनेरुपसङ्ख्यानमित्यर्थः / साधुशब्दे उपपदे धातोर्णिनिरिति यावत् / भाष्ये साधुकारी साधुदायीत्युदाहरणात् / ब्रह्मणि वद इति // णिनेरुपसङ्ख्यानमिति शेषः / ननु 'सुप्यजातौ' इत्येव सिद्धे किमर्थमिदं वार्तिकमित्यत आह / अताच्छील्यार्थमिति // साधुदायीति // आतो युक् / ब्रह्मवादीति // ब्रह्म वेदः / कर्तर्युपमाने // कतुरुपमानमिति // चेदित्यध्याहार्यम् / ननु ‘सुप्यजातो' इति सिद्धे किमर्थमिदमित्यत आह / अताच्छील्यार्थमिति // व्रते // णिनिः स्यादिति // सुप्युपपदे णिनिः स्यात् For Private And Personal Use Only
Page #529
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा / 527 2991 / बहुलमाभीक्ष्ण्ये / (3-2-81) पौनःपुन्ये द्योत्ये सुप्युपपदे णिनि: / क्षीरपायिण: उशीनराः / 2992 / मनः / (3-2-82) सुपि मन्यतेणिनिः स्यात् / दर्शनीयमानी। __2993 / आत्ममाने खश्च / (3-2-83) स्वकर्मके मनने वर्तमानान्मन्यते: सुपि खश् स्यात् / चाणिनिः / पण्डितमात्मानं मन्यते पण्डितम्मन्य:-पण्डितमानी / 'खित्यनव्ययस्य' (सू 2743) / कालिंमन्या / 'अनव्ययस्य' किम् / दिवामन्या। 2994 / इच एकाचोऽम्प्रत्ययवच्च / (6-3-68) इजन्तादेकाचोऽम्स्यात्स च वाद्यम्वत्खिदन्ते परे। 'औतोऽम्शसो:' (सू 285) गाम्मन्यः / ‘वाम्शसो:' (सू 302) / स्त्रियम्मन्यः / स्त्रीम्मन्यः / व्रते गम्ये इति यावत् / स्थाण्डलेशायीति // 'तत्पुरुषे कृति बहुळम् ' इत्यलुक् / बहुळमाभीक्ष्ण्ये // जातावप्युपपदे प्राप्त्यर्थमिदम् / तत् ध्वनयन्नुदाहरति / क्षीरपायिण इति // मनः // देवादिकस्यैव मनेर्ग्रहणं न तु तानादिकस्य, बहुळग्रहणानुवृत्तेः / तदाह / सुपि मन्यतेरिति // मनुतेर्ग्रहणे तु बाधकमुत्तरसूत्रे वक्ष्यते / आत्ममाने खश्च // आत्मनः स्वस्य मानः मननम् आत्ममानः / तदाह / स्वकर्मके मनने इति / पण्डितम्मन्य इति // खशः शित्त्वेन सार्वधातुकत्वात् श्यन् / खित्वात् 'अरुर्द्विषत्' इति मुम् / तानादिकस्य मनेर्ग्रहणे तु उविकरणः स्यात् / कालीमात्मानम्मन्यते इत्यर्थे खशि श्यनि कृते आह। खित्यनव्ययस्येति // 'स्त्रियाः पुंवत्' इति पुंवत्त्वं बाधित्वा परत्वाद्रस्वः इत्यर्थः / दिवामन्येति // अधिकरणशक्तिप्रधानस्यापि दिवाशब्दस्य वृत्तिविषये कर्मत्वं बोध्यम् / इच एकाचः॥ एकाचः अमिति छेदः / अम् च अम् चेत्येकशेषः / एकं विधेयसमर्पकम् / इच एकाचो. ऽमिति प्रथमं वाक्यम् / इच इत्येकाच इति च पञ्चमी / 'अलुगुत्तरपदे' इत्युत्तरपदाधिकारात् आक्षिप्तम्पूर्वपदम् इचा विशेष्यते / तदन्तविधिः / तदाह / इजन्तादेकाचोऽम् स्यादिति // मुमोऽपवादः / द्वितीयम् अम्पदम्प्रत्ययवदित्येकदेशेन प्रत्ययेन समानाधिकरणं सम्बध्यते / असामर्थेऽपि वतिप्रत्यय आर्षः / अम्प्रत्ययवदिति द्वितीयं वाक्यं सम्पद्यते। स्वादिप्रत्ययेषु यत् द्वितीयैकवचनं तदेवात्र अमिति विवक्ष्यते, व्याख्यानात् / तदाह / स च स्वाद्यम्वदिति // एतत्सर्वं भाष्ये स्पष्टम् / खिदन्ते परे इति // खिदन्ते उत्तरपदे परत इत्यर्थः / 'खित्यनव्ययस्य' इत्यतः खितीत्यनुवर्तते इति भावः / अम्प्रत्ययवदित्यतिदेशस्य प्रयोजनमाह। औतोशसोरिति // गाम्मन्य इति // गामात्मानं मन्यते इत्यर्थे मनेः खशि श्यन् , सुपो लुक् , गोशब्दादम् , अम्प्रत्ययवदित्यतिदेशात् मकारस्य 'न विभक्तौ ' इति नेत्त्वम् / 'औतोम्शसोः' For Private And Personal Use Only
Page #530
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 528 सिद्धान्तकौमुदीसहिता [कृदन्त नू, नरम्मन्यः / भुवम्मन्यः / श्रियमात्मानं मन्यते श्रिमन्यं कुलम्' / भाष्यकारवचनाच्छ्रीशब्दस्य ह्रस्वो मुममोरभावश्च / __ 2995 / भूते / (3-2-84) अधिकारोऽयम् / वर्तमाने लट्' (सू 2151) इति यावत् / इत्योकारस्य आकार इति भावः / अम्प्रत्ययवदित्यस्य प्रयोजनान्तरमाह / वांशसोरिति // स्त्रियम्मन्य इति // स्त्रियमात्मानम्मन्यते इत्यर्थे मनेः खशि श्यन् / सुपो लुक् / स्त्रीशब्दात् ‘वाम्शसोः' इति इयविकल्पः / अत्र यकारादकारश्रवणार्थम् अविधिः / मुमि तु अकारो न श्रूयेत / स्त्रीम्मन्य इति // इयङभावपक्षे 'अमि पूर्वः' / अम्प्रत्ययवदित्यस्य प्रयोजनान्तर माह। नृ नरम्मन्य इति // नृ इत्यविभक्तिकम् उदाहरणे नृशब्दस्य समावेशसूचनार्थम् / नरमात्मानम्मन्यते इत्यर्थे मनेः खश , श्यन् , सुपो लुक् , नृशब्दादम् अम्प्रत्ययवदित्यतिदेशात् 'ऋतोऽङि' इति गुणः। अत्रापि रेफादकारश्रवणार्थ अम्विधिः। मुमि त्वकारो न श्रूयेत। अम्प्रत्ययवदित्यस्य प्रयोजनान्तरमाह / भुवम्मन्य इति // भुवमात्मानम्मन्यते इत्यर्थे मनेः खश् , श्यन् , सुपो लुक् / भूशब्दादम् , अम्प्रत्ययवदित्यतिदेशात् 'आचि श्नुधातु' इत्युवङ् / अतिदेशाभावे तु उवङ् न स्यात् , तस्याजादिप्रत्यये विधानात् / श्रिमन्यमिति // मनेः खश् श्यन् / अत्र मननक्रियाम्प्रति कुलत्वेन रूपेण कुलकर्तृ, तस्यैव कुलस्य अध्यारोपितश्रीत्वेन रूपेण कर्मत्वञ्चेति स्थितिः। एवञ्च श्रीशब्दस्य नित्यस्त्रीलिङ्गस्यापि कुले लक्षणया वृत्तेर्नपुंसकत्वम् / “यत्र हि प्रातिपदिकस्यैव लक्षणा प्रसिद्धा तत्र पूर्वलिङ्गत्यागः / यथा प्रकृते श्रीशब्दः / यत्र तु पदस्य लक्षणा, न तत्र पूर्वलिङ्गत्यागः / यथा गङ्गायाङ्कोष इत्यादौ” इति 'योगादाख्यायाम्' इति सूत्रे प्रकृतसूत्रे च भाष्यकैयटयोमर्यादा स्थिता / एवञ्च काळिम्मन्यं कुलमित्यत्र काळीशब्दस्य न स्त्रीलिङ्गपरित्यागः, प्रयोगानुसारेण तत्र पदलक्षणाया एवाभ्युपगमात् / श्रिमन्यं कुलमित्यत्र तु प्रयोगानुसारात् श्रीशब्दस्य प्रातिपदिकस्यैव लक्षणेति पूर्वलिङ्गपरित्यागात् नपुंसकलिङ्गत्वमेवाश्रीयते / ततश्च श्रीशब्दस्यात्र नपुसकत्वात् 'खित्यनव्ययस्य' इति बहिरङ्गं बाधित्वा 'ह्रस्वो नपुंसके प्रातिपदिकस्य' इति ह्रस्व एव न्याय्यः / मुमपवादे 'इच एकाचः' इति अमि कृते तस्य ‘स्वमोनपुंसकात्' इति लुक् / तथाच श्रिमन्यङ्कुलमिति सिद्धम् / नच गाम्मन्य इत्यादावपि 'सुपो धातुप्रातिपदिकयोः' इति लुक् स्यादिति वाच्यम् / 'इच एकाचः' इत्यमः ‘सुपो धातु' इति लुगपवादत्वात् / ‘स्वमोनपुंसकात्' इति लुकस्तु नायमम्विधिर्बाधकः / मध्येऽपवादन्यायात् इति प्रकृतसूत्रे भाष्यकैयटयोः स्पष्टम् / तदाह / भाष्यकारवचनाच्छ्रीशब्दस्य ह्रस्व इति // ‘ह्रस्वो नपुंसके' इत्यनेनेति शेषः। मुममोरभावश्चेति // मुमपवादस्य अमः ‘स्वमोर्नपुंसकात्' इति लुकि सति तयोः प्रयोगाभावः फलतीत्यर्थः / भूते // अधिकारोऽयमिति // धातोरित्यधिकृतम् / ततश्च भूतार्थवृत्तेर्धातोरित्युत्तरत्रानु. वर्तते इति फलति / वर्तमाने इति // ‘वर्तमाने लट्' इत्यतः प्रागित्यर्थः / अत्र For Private And Personal Use Only
Page #531
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा / 529 2996 / करणे यजः / (3-2-85) करणे उपपदे भूतार्थाद्यजेणिनि: स्यात्कर्तरि। सोमेनेष्टवान् सोमयाजी / अग्निष्टोमयाजी। 2997 / कर्मणि हनः / (3-2-86) पितृव्यघाती / कर्मणीत्येतत् 'सहे च' (सू 3006) इति यावदधिक्रियते। 2998 / ब्रह्मभ्रूणवृत्रेषु विप् / (3-2-87) एषु कर्मसूपपदेषु हन्तेर्भूते क्विप् स्यात् / ब्रह्महा / भ्रूणहा / वृत्रहा / 'विप् च' (सू 2983) इत्येव सिद्धे नियमार्थमिदम् / ब्रह्मादिष्वेव, हन्तेरेव, भूत एव, क्विबेवेति चतुर्विधोऽत्र नियम इति काशिका / ब्रह्मादिष्वेव किबेवेति द्विविधो नियम इति भाष्यम् / __ 2999 / सुकर्मपापमन्त्रपुण्येषु कृञः। (3-2-89) सुकर्मादिषु च कृत्रः किप्स्यात् / त्रिविधोऽत्र नियम इति काशिका / सुकृत् / कर्मकृत् / पापकृत् / मन्त्रकृत् / पुण्यकृत् / किबेवेति नियमात्कर्म व्याख्यानमेव शरणम् / करणे यजः // सोमेनेति // सोमाख्यलताविशेषरसेन यागं कृतवानित्यर्थः। सोमलतारसद्रव्यकेन यागेन अपूर्वमुत्पादितवानिति मीमांसकाः। एतच्च द्विती. यस्य द्वितीये द्रव्यसंयोगाचोदना पशुसोमयोः-इत्यधिकरणे अध्वरमीमांसाकुतूहलवृत्तौ प्रपञ्चित. मस्माभिः / अग्निष्टोमयाजीति // अग्निष्टोमाख्ययागेन अपूर्वम्भावितवानित्यर्थः / कर्मणि हनः // कर्मण्युपपदे भूतार्थात् हनेणिनिः स्यात् / पितृव्यघातीति // पितृव्यं हतवानित्यर्थः / 'हनस्तः' इति तः, 'हो हन्तेः' इति हस्य घः / ब्रह्मभ्रूणवृत्रेषु विप् // पूर्वसूत्रात्कर्मग्रहणानुवृत्तेराह / कर्मस्विति // हन्तेर्भूते इति // भूतार्थवृत्तेर्हन्तेरित्यर्थः / चतुर्विध इति // पुनर्विधानलब्धस्य एवकारस्य विनिगमनाविरहाचतुर्वपि निवेश इति भावः / तत्र ब्रह्मादिष्वेव हन्तेरिति नियमात्पुरुष हतवानित्यत्र न विप् / ब्रह्मादिषु हन्तेरेवेति नियमात् ब्रह्म अधीतवानित्यत्र न विप् / ब्रह्मादिषु हन्तेभूतकाले एवेति नियमात् ब्रह्म हन्ति हनिष्यति वेत्यत्र न क्विप् / ब्रह्म हतवानित्यत्र अण् न भवति, किन्तु 'ब्रह्मभ्रूण' इति क्किबेव / निष्ठा तु भवत्येव, सोपपदप्रत्ययस्यैव नियमेन व्यावृत्तेः / द्विविध इति // उभयतो नियमोऽयम् / ब्रह्मादिष्वेवेति क्विबेवेति च भाष्यमित्यर्थः / एवञ्च हन्तेरेव भूत एवेति नियमद्वयमुपेक्ष्यमिति भावः / सुकर्म // सु, कर्म, पाप, मन्त्र, पुण्य, एषां पञ्चानां द्वन्द्वः / त्रिविध इति // सुकर्मादिषु भूते कृञः विवेवेति, सुकर्मादिषु भूते कृञ एव क्विबिति, 67 For Private And Personal Use Only
Page #532
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 530 सिद्धान्तकौमुदीसहिता [कृदन्त कृतवानित्यवाण न / कृञ एवेति नियमान्मन्त्रमधीतवान्मन्त्राध्यायः / अत्र न किम् / भूत एवेति नियमान्मन्त्रं करोति करिष्यति वेति विवक्षायां न किप् / स्वादिष्वेवेति नियमाभावादन्यस्मिन्नप्युपपदे किप् / शास्त्रकृत् / भाष्यकृत् / 3000 / सोमे सुञः / (3-2-90) सोमसुत् / चतुर्विधोऽत्र नियम इति काशिका / एवमुत्तरसूत्रेऽपि / 3001 / अग्नौ चेः। (3-2-91) अग्निचित् / 3002 / कर्मण्यग्न्याख्यायाम् / (3.2-92) कर्मण्युपपदे कर्मण्येव कारके चिनोते: किप स्यात् अग्न्याधारस्थलविशेषस्याख्यायाम् / श्येन इव चित: श्येनचित् / 3003 / कर्मणीनि विक्रियः / (3-2-93) कर्मण्युपपदे विपूर्वात्क्रीणातेरिनि: स्यात् / 'कुत्सितग्रहणं कर्तव्यम्' (वा 2047) / सोमविक्रयी / घृतविक्रयी / 3004 / दृशेः क्वनिप् / (3-2-94) कर्मणि भूत इत्येव / पारं दृष्टवान् पारदृश्वा / सुकर्मादिषु भूत एव कृञ इति, त्रिविध इत्यर्थः / अण् नेति // क्तवतुस्तु भवत्येव, सोपपदप्रत्ययस्यैव नियमेन व्यावृतेरिति भावः / स्वादिष्वेवेति // सुकर्मादिषु पञ्चस्वित्यर्थः / सोमे सुञः // सोमे कर्मण्युपपदे भूते सुनोतेः किबित्यर्थः / चतुर्विध इति // पूर्ववयाख्येयम् / एवमिति // 'अग्नौ चेः' इत्युत्तरसूत्रेऽपि चतुर्विधो नियम इत्यर्थः / अग्नौ चेः॥ अग्नौ कर्मण्युपपदे भूतार्थवृत्तेचिनोतेः विप्स्यादित्यर्थः / अग्निचिदिति // अग्न्याख्यं स्थण्डिलविशेषमिष्टकाभिश्चितवानित्यर्थः / कर्मण्यग्न्याख्यायाम् // कर्मणीत्यनुवृत्तमुपपदसमर्पकम् / अत्रत्यन्तु कर्मणीत्येतत्प्रत्ययार्थसमर्पकम् / तथा चात्र कर्तरीति न सम्बध्यते / तदाह / कर्मण्युपपदे इत्यादि // चिनोतेरिति // भूतार्थादित्यपि बोध्यम् / श्येन इवेति // श्येनशब्दः श्येनसदृशे लाक्षणिक इति भावः / श्येनाकृतिक इाते यावत् / कर्मणीनि विक्रियः // इनि इत्यविभक्तिकम् / विपूर्वस्य क्रीब्धातोर्विक्रिय इति पञ्चम्यन्तम् / कुत्सितेति // कुत्सिते कर्मण्युपपदे उक्तविधिर्भवतीत्यर्थः / सोमविक्रयीति // सोमद्रव्यश्च विक्रीयमाणं विक्रेतुः कुत्सामावहति, तद्विक्रयस्य निषिद्धत्वादिति भावः / दृशेः क्वनिप् // 'आतो मनिनक्कनिन्वनिपश्च, अन्येभ्योऽपि दृश्यन्ते' इत्येव क्वनिपि सिद्धे तत्सहचरित. मनिनादिव्यावृत्त्यर्थमिदम् / सोपपदाणादिबाधनार्थश्च / निष्ठा तु भवत्येव, सोपपदप्रत्ययस्यैवात्र For Private And Personal Use Only
Page #533
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा / ___3005 / राजनि युधिकृतः / (3-2-95) कनिप् स्यात् / युधिरन्त वितण्यर्थः / राजानं योधितवान्राजयुध्वा / राजकृत्वा / 3006 / सहे च / (3-2-96) कर्मणीति निवृत्तम् / सहयुध्वा / सहकृत्वा / 3007 / सप्तम्यां जनेर्डः / (3-2-97) सरसिजम् / मन्दुरायां जातो मन्दुरज: / 'ङ्यापो:-' (सू 1001) इति द्वस्वः / 3008 / पञ्चम्यामजातौ। (3-2-98) जातिशब्दवर्जिते पञ्चम्यन्ते उपपदे जनेर्ड: स्यात् / संस्कारजः / अदृष्टज: / 3009 / उपसर्गे च संज्ञायाम् / (3-2-99) 'प्रजा स्यात्सन्ततौ जने'। 3010 / अनौ कर्मणि / (3-2-100) अनुपूर्वाजनेः कर्मण्युपपदे डः स्यात् / पुमांसमनुरुध्य जाता पुमनुजा / 3011 / अन्येष्वपि दृश्यते / (3-2-101) अन्येष्वप्युपपदेषु जनेर्ड: स्यात् / अजः / द्विजो ब्राह्मणः / (ब्राह्मणजः) अपिशब्दः सर्वोपाधिव्यभिचारार्थः / तेन धात्वन्तरादपि कारकान्तरेष्वपि कचित् / परितः खाता परिखा। पुनः विग्रहणेन निवृत्तेः, पारं दृष्टवान् / राजनि युधिकृतः // युधि, कृञ् अनयोस्समाहारद्वन्द्वात्पञ्चमी / क्वनिप् स्यादिति // राजनि कर्मण्युपपदे भूतार्थायुधेः कृअश्च क्वनिबित्यर्थः / ननु युधेरकर्मकत्वात् तत्र कर्मण्युपपदे इत्यस्य कथमन्वय इत्यत आह / युधिरन्तर्भावितेति // राजकृत्वेति // राजानं कृतवानित्यर्थः / सहे च // सहशब्दे उपपदे युधिकृञ्भ्यां क्वनिबित्यर्थः / सप्तम्याञ्जनेर्डः // सप्तम्यन्ते उपपदे जनेः भूतार्थाडु इत्यर्थः / सरसिजमिति || डित्त्वसामर्थ्यादभस्यापि टेर्लोपः / 'हलदन्तात्' इति 'तत्पुरुषे कृति' इति वा अलुक् / मन्दुरज इति // “वाजिशाला तु मन्दुरा" इत्यमरः / पञ्चम्यामजातौ // जनेरिति // भूतार्थादिति शेषः / संस्कारजमिति // संस्काराज्जातमित्यर्थः / उपसर्गे च // जनेर्ड इति शेषः। संज्ञायामिति समुदायोपाधिः / अनौ कर्मणि // ननु जनेरकर्मकत्वात्तत्र कर्मण्युपपदे इत्यर्थस्य कथमन्वय इत्यत आह / पुमांसमनुरुध्येति // अनुरुध्य जननं धात्वर्थ इति भावः / पुमनुजेति // पुंस् इति पूर्वपदे संयोगान्तलोप इति भावः / अन्येष्वपि दृश्यते // अज इति // न जात इत्यर्थः / द्विजो ब्राह्मण इति // द्विर्जातः इत्यर्थः / “मातुर्यदने जायन्ते द्वितीयं मैञ्जिबन्धनात्" इत्यादिस्मृतेरिति भावः / अपिशब्द इति // ‘सप्तम्याञ्जनेर्डः' इत्यादिसूत्रेषु डविधिषु यानि विशेषणान्युपात्तानि For Private And Personal Use Only
Page #534
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 532 सिद्धान्तकौमुदीसहिता [कृदन्त 3012 / क्तक्तवतू निष्ठा / (1-1-26) .. एतौ निष्ठासंज्ञौ स्तः / 3013 / निष्ठा / (3-2-102) भूतार्थवृत्तेर्धातोनिष्ठा स्यात् / तत्र ‘तयोरेव-' (सू 2833) इति भावकर्मणोः क्त: / ' कर्तरि कृत्' (सू 2832) इति कर्तरि क्तवतुः / उकावितौ / स्नातं मया / स्तुतस्त्वया विष्णुः / बिष्णुर्विश्वं कृतवान् / / 3014 / निष्ठायामण्यदर्थे / (6-4-60) ण्यदर्थो भावकर्मणी, ततोऽन्यत्र निष्ठायां क्षियो दीर्घः स्यात् / 3015 / क्षियो दीर्घात् / (8-2-46) दीर्घातिक्षयो निष्ठातस्य न: स्यात् / क्षीणवान् / भावकर्मणोस्तु क्षित: कामो मया / ' श्रयुक: किति' (सू 2381) / श्रित:-श्रितवान् / भूत:-भूत प्रकृतिविशेषरूपाणि भूते कर्तरीति प्रत्ययार्थविशेषणञ्च तदतिकमार्थ इत्यर्थः / क्तक्तवतू निष्ठा // क्त, क्तवतु अनयोर्द्वन्द्वः / निष्ठति प्रत्येकाभिप्रायमेकवचनम् / निष्ठा // भूते इति धातोरिति चाधिकृतम् / तदाह / भूतार्थेत्यादि // भावकर्मणोः क्त इति // तथाच क्तप्रत्ययविषये कर्तरीति न सम्बध्यते इति भावः / कर्तरि क्तवतुरिति // कृत्यक्तखलानामेव भावकर्मणोर्विधानादिति भावः / 'तयोरेव कृत्यक्त' इत्यत्र 'लः कर्मणि' इत्यस्मात् सकर्मकेभ्यः कर्मणि कर्तरि च अकर्मकेभ्यो भावे कर्तरि चेत्यनुवर्तते / ततश्च अकर्मकेभ्यो भावे क्तः, सकर्मकेभ्यस्तु कर्मणीति व्यवस्था लभ्यते इति मत्वा उदाहरति / स्नातम्मयेति // अकर्मकत्वात् भावे क्तः / स्तुतस्त्वया विष्णुरिति // सकर्मकत्वात् कर्मणि क्तः / कर्तरि क्तवतुमुदाहरति / विष्णुर्विश्वं कृतवानिति // निष्ठायामण्यदर्थे // ण्यदर्थो भावकर्मणी इति // 'ऋहलोः' इति ण्यतः कृत्यसंज्ञकस्य तयोरेवेति भावकर्मणोरेव प्रवृत्तेरिति भावः / ततोऽन्यत्रेति // कर्तरीत्यर्थः / क्तवताविति फलितम् / क्षियो दीर्घः स्यादिति // क्षिय इति पूर्वसूत्रमनुवर्तते / 'युप्लुवोर्दीर्घश्छन्दसि' इत्यतः दीर्घ इति चेति भावः / क्षियो दीर्घात् // दीर्घादिति क्षियो विशेषणम् / तदाह / दीर्घात् क्षिय इति // दीर्घान्तादित्यर्थः / निष्ठातस्य न इति // ‘रदाभ्याम्' इत्यतस्तदनुवृत्तेरिति भावः / क्षीणवानिति // क्षि. धातोः कर्तरि क्तवतुः, 'निष्ठायामण्यदर्थे ' इति दीर्घः, तकारस्य नत्वम् , षात्परत्वाण्णः / क्षितः कामो मयेति // क्षपित इत्यर्थः / ‘क्षि क्षये' इत्यस्मात् अन्तर्भावितण्यर्थात्कर्मणि तः / भावे तु क्षितं कामेनेत्युदाहार्यम् / अत्र ण्यदर्थयोर्भावकर्मणोर्विहिते क्ते दीर्घो न भवति, अण्यदर्थ इत्युक्तेः। दीर्घान्तत्वाभावात् 'क्षियो दीर्घात्' इति नत्वं न / युकः कितीति // For Private And Personal Use Only
Page #535
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा / 533 वान् / क्षुतः / 'ऊर्णोतेर्नुवद्भावो वाच्यः' (वा 1751) / तेन एकाच्त्वान्नेट् / ऊर्गुत: / नुतः / वृतः / 3016 / रदाभ्यां निष्ठातो नः पूर्वस्य च दः। (8-2-42) रेफदकाराभ्यां परस्य निष्ठातस्य नः स्यात् / निष्ठापेक्षया पूर्वस्य धातोकारस्य च / शू 'ऋत इत्-' (सू 2390) / रपरः, णत्वम् / शीर्णः / बहिरङ्गत्वेन वृद्धरसिद्धत्वान्नेह / कृतस्यापत्यं कार्ति: / भिन्नः / छिन्नः / 3017 / संयोगादेरातो धातोर्यण्वतः। (8-2-43) निष्ठातस्य न: स्यात् / द्राणः / स्त्यान: / ग्लानः / 3018 / ल्वादिभ्यः / (8-2-44) एकविंशतेह्लादिभ्यः प्राग्वत् / लूनः / ज्या, 'ग्रहिज्या' (सू 2412) / जीनः / 'दुग्वोर्दीर्घश्च' (वा 4832) / 'दु गतौ' / दून: / 'टु दु उपतापे' श्रित इत्यादी इनिषधस्मारकमिदम् / क्षुत इति // 'टु क्षु शब्द' अस्मात् क्तः / ननु ऊर्गुत इति कथम् / अनेकाच्कत्वेन 'श्रयुकः' इति निषेधस्याप्रवृत्तेरित्यत आह / ऊोतेर्नुवदिति // वार्तिकमिदम् / रदाभ्याम् / रदाभ्यामित्यकारावुच्चारणार्थो / तदाह। रेफदकाराभ्यामिति॥ निष्ठायाः त् निष्ठात् , तस्य निष्ठात इति विग्रहः / तदाह / निष्ठातस्येति // निष्ठातकारस्ये. त्यर्थः / नस्स्यादिति // नकारस्स्यादित्यर्थः। सूत्रे न इति प्रथमान्तम् / अकार उच्चारणार्थः / दकारस्य चेति // नकार इत्यनुषज्यते / सूत्रे दः इति षष्ठ्यन्तमिति भावः। चरितम् उदितम् इत्यत्र तु नत्वन्न / निष्ठातकारस्य इटा व्यवहितत्वेन रदाभ्यां परत्वाभावात् / रेफात्परस्योदाहरति / शृ इति // शृधातोः क्तप्रत्ययसूचनमिदम् / ननु कृतस्यापत्यकार्तिः / अत इन , आदिवृद्धिः, रपरत्वम् / अत्र निष्ठातकारस्य रेफात् परस्य नत्वं स्यादित्यत आह / बहिरङ्गत्वेनति / / दात्परस्योदाहरति / भिन्नम्, छिन्नमिति / अत्र निष्ठातकारस्य धात्वन्तदकारस्य च नत्वमिति भावः / संयोगादेः // निष्ठातस्य नस्स्यादिति // शेषपूरणमिदम् / द्राण इति // 'द्रा कुत्सायाङ्गतौ ' अस्मात् क्तः, नत्वम् , णत्वम् / ग्लान इति // 'ग्लै हर्षक्षये' 'आदेचः' इत्यात्त्वे नत्वम् / ल्वादिभ्यः॥ एकविंशतेरिति // क्रयादिषु प्वादयो द्वाविंशतिः, तेषु आद्यम्पूजं विहाय ल्वादिभ्यः एकविंशतेरित्यर्थः / ज्येति // धातुसूचनम् / अहिज्येति // सम्प्रसारणसूचनम् / जीन इति // ज्या त इति स्थिते 'संयोगादेः' इति निष्ठानत्वस्यासिद्ध. त्वात् ततः प्रागेव सम्प्रसारणे पूर्वरूपे च कृते आतः परत्वाभावात् 'संयोगादेरातः' इति नत्वस्याप्राप्तावनेन नत्वम् / दुग्वोर्दीर्घश्चेति // वार्तिकमिदम् / दु गु आभ्याम्परस्य निष्ठातस्य नत्वं प्रकृतेदीर्घश्च इत्यर्थः / ‘मृदुतया दुनया' इति माघकाव्य दुतशब्दं साधयितुमाह / टु दु For Private And Personal Use Only
Page #536
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदीसहिता [कृदन्त इत्ययं तु न गृह्यते, सानुबन्धकत्वात् / 'मृदुतया दुतया' इति माघः / गूनः / 'पूजो विनाशे' (वा 4833) / पूना यवाः / विनष्टा इत्यर्थः / पूतमन्यत् / 'सिनोते सकर्मकर्तृकस्य' (वा 4834) / सिनो प्रासः / 'पास' इति किम् / सिता पाशेन सूकरी / कर्मकर्तृकस्य' इति किम् / सितो ग्रासो देवदत्तेन / 3019 / ओदितश्च / (8-2-45) भुजो, भुमः / 'टु ओ श्वि', उच्छूनः / ओ हाक् , प्रहीण: / 'स्वादय ओदितः' इत्युक्तम् / सून:-सूनवान् / दून:-दूनवान् / ओदिन्मध्ये डीङः पाठसामर्थ्यान्नेट् , उड्डीनः / 3020 / द्रवमूर्तिस्पर्शयोः श्यः / (6-1-24) द्रवस्य मूर्ती काठिन्ये स्पर्शे चार्थे श्यैङः सम्प्रसारणं स्यान्निष्ठायाम् / 3021 / श्योऽस्पर्शे / (8-2-47) उपतापे इत्यादि / गून इति // गुधातोः क्ते दीर्घः / पूजओ विनाशे इति // वार्तिकमिदम् / विनाशार्थात् पूजः परस्य निष्ठातस्य नत्वमित्यर्थः / सिनोरिति // वार्तिकमिदम् / कमैव कर्ता कर्मकर्ता, ग्रासः कर्मकर्ता यस्य सः ग्रासकर्मकर्तृकः तस्मात् ‘षिञ् बन्धने' इत्यस्मात्परस्य निष्ठातस्य नत्वमित्यर्थः। ओदितश्च // ओकारेतो धातोः परस्य निष्ठातस्य नत्वमित्यर्थः / भुग्न इति // नत्वस्यासिद्धत्वात् जस्य पूर्वद्दुत्वम् / ततो नत्वम् / उच्छ्रन इति // उत्पूर्वात् 'टु ओ श्वि' इति धातोः क्तः, यज्ञादित्वात्सम्प्रसारणम् , पूर्वरूपम् , 'श्वीदितः' इति नेट, हल इति दीर्घः, निष्ठानत्वम् / प्रहीण इति // 'घुमास्था' इति ईत्त्वं, नत्वं, 'कृत्यचः' इति णत्वम् / स्वादय इति // 'घूङ् प्राणिप्रसवे' इत्याद्या नव धातवः ओदित इति दिवादिगणे उक्तमित्यर्थः / सून इति // धूङः क्तः, नत्वं 'श्रयुकः किति' इति इनिषेधः / दून इति // 'दूङ् परितापे' अस्मात् क्तः, खादित्वेन ओदित्वानत्वम् / ननु ‘डीङ विहायसा गतौ' इत्यस्य उड्डीन इति कथं रूपं, सेटकत्वात् उगन्तत्वाभावेन ‘श्रयुकः किति' इति निषेधस्याप्रवृत्तेरित्यत आह / ओदिन्मध्ये डीङः पाठसामर्थ्यान्नेडिति // इटि सति निष्ठातस्य ओदितः डीङः परत्वाभावान्नत्वाप्रसक्तेस्तस्य ओदित्सु पाठो व्यर्थः स्यादित्यर्थः / द्रवमूर्ति // ‘श्यैङ गतौ' इत्यस्य कृतात्वस्य श्य इति षष्ठी। द्रवमूर्तिश्च स्पर्शश्चेति विग्रहः / मूर्तावित्यस्य विवरणम् / काठिन्ये इति // सम्प्रसारणं स्यादिति // ‘ध्यङस्सम्प्रसारणम्' इत्यतस्तदनुवृत्तेरिति भावः / तथाच श्यै ङः क्ते आत्त्वे सम्प्रसारणे पूर्वरूप शि त इति स्थिते / श्योऽस्पर्श // श्यः अस्पर्शे इति छेदः / दीर्घ इति // नत्वात्प्रागेव 'हलः' इति दीर्घ इत्युचितम् / नत्वस्य For Private And Personal Use Only
Page #537
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा / 535 श्यैङो निष्ठातस्य न: म्यादस्पर्शेऽर्थे / 'हल:' (सू 2559) इति दीर्घः / शीनं घृतम् | ‘अस्पर्श' किम् / शीतं जलम् / 'द्रवमूर्तिस्पर्शयोः' किम् / संश्यानो वृश्चिक: शीतात्सङ्कुचित इत्यर्थः / ___3022 / प्रतेश्च / (6-1-25) प्रतिपूर्वस्य श्यः सम्प्रसारणं स्यानिष्ठायाम् / प्रतिशीन: / ___ 3023 / विभाषाभ्यवपूर्वस्य / (6-1-26) श्यः सम्प्रसारणं वा स्यात् / अभिश्यानम्-अभिशीनं घृतम् / अवश्यान:-अवशीनो वृश्चिक: / व्यवस्थितविभाषेयम् / तेनेह न / समवश्यानः / 3024 / अञ्चोऽनपादाने / (8-2-48) अञ्चो निष्ठातस्य नः स्यान्न त्वपादाने / 3025 / यस्य विभाषा / (7-2-15) यस्य क्वचिद्विभाषयेड्रिहितस्ततो निष्ठाया इण्न स्यात् / 'उदितो वा' पादिकत्वात् / शीनं घृतमिति // घनीभूतमित्यर्थः / धातूनामनेकार्थत्वात् / यद्यपि घृतेऽप्यनुष्णः शीतस्पर्शोऽस्त्येव / तथापि शीताख्यस्पर्शविशेषः एव विवक्षितः इति भावः / अस्पर्श किमिति // श्यैङो निष्ठातस्य नत्वं स्यादित्येतावदेवास्त्वित्यर्थः / शीतञ्जलमिति // शीतस्पर्शवदित्यर्थः / अत्र 'द्रवमूर्ति' इति सम्प्रसारणमेव, न तु निष्ठानत्वमित्यर्थः / एवञ्च 'द्रवमूर्तिस्पर्शयोः' इत्यस्य स्पर्शे इदमुदाहरणम् / 'श्योऽस्पर्श' इत्यस्य तु प्रत्युदाहरणमिति बोध्यम् / सूत्रयोः स्पर्शशब्दः प्रधानभूने गुणभूने च वर्तते / तत्र गुणभूते विशेष्यनिनः / शीताः आपः शीतं जलमित्यादि। यदा तु स्पर्शविशेषो गुणः प्राधान्येन विवक्षितः तदा क्लीबत्वमेव / “शीतगुणे" इत्यमरः। सम्प्रसारणविधौ पृच्छति / द्रवमूर्तिस्पर्शयोः किमिति // संश्यान इति // अत्र स्पर्शस्याप्रतीतेः न सम्प्रसारणम् / नत्वन्तु भवत्येवेति भावः / प्रतेश्च // द्रवमूर्तिस्पर्शाभ्यामन्यत्रापि सम्प्रसारणप्राप्त्यर्थमिदम् / प्रतिशीन इति // प्रतिगत इत्यर्थः / अत्र 'श्योऽस्पर्श' इति नत्वम् / विभाषा // श्यैङ इति शेषः / सम्प्रसारणं वा स्यादिति // शेषपूरणमिदम्। द्रवमूर्तिस्पर्शयोर्नित्यं सम्प्रसारणे प्राप्ते ततोऽन्यताप्राप्ते विभाषेयम् / अभिश्यानं धृतमिति // अत्र द्रवमूर्ती सम्प्रसारणविकल्पः। अवश्यानः-अवशीनः वृश्चिक इति // अत्र द्रवमूर्तिस्पर्शाभावेऽपि सम्प्रसारणविकल्पः / समवश्यान इत्यत्रापि सम्प्रसारणविकल्पमाशङ्कय आह / व्यवस्थितेति // अञ्चोऽनपादाने / न त्वपादाने इति // अपादानसमभिव्याहारे असतीत्यर्थः / यस्य विभाषा // यस्येति / / यस्मादित्यर्थः / निष्ठाया इन स्यादिति // 'श्वीदितः' इत्यतो निष्ठायामिति 'नेडशि' इत्यतो नेडिति चानुवर्तत इति भावः / नन्वचेनित्यं सेटकत्वात् कथन्तस्य क्वचिद्वेट्कत्वमित्यत आह / उदितो वेति // For Private And Personal Use Only
Page #538
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदीसहिता [कृदन्त (सू 3328) इति क्त्वायां वेटत्वादिह नेट् / समक्त: / 'अनपादाने' किम् / उदक्तमुदकं कूपात् / नत्वस्यासिद्धत्वात् ‘वश्व-' (सू 294) इति षत्वे प्राप्ते, 'निष्ठादेशः षत्वस्वरप्रत्ययेड्डिधिषु सिद्धो वाच्यः' (वा 4773) / वृक्णः / वृक्णवान् / __ 3026 / परिस्कन्दः प्राच्यभरतेषु / (8-3-75) पूर्वेण मूर्धन्ये प्राप्ते तदभावो निपात्यते / परिस्कन्दः / 'प्राच्य-' इति किम् / परिष्कन्दः-परिस्कन्दः / परेश्च' (सू 2399) इति षत्वविकल्पः। 'स्तन्भेः' (सू 2272) इति षत्वे प्राप्ते / 3027 / प्रतिस्तब्धनिस्तब्धौ च / (8-3-114) अत्र षत्वं न स्यात् / 3028 / दिवोऽविजिगीषायाम् / (8-3-49) दिवो निष्ठातस्य नः स्यादविजिगीषायाम् / द्यून: / विजिगीषायां तु, द्यूतम् / 3029 / निर्वाणोऽवाते / (8-2-50) समन इति // सङ्गत इत्यर्थः / सम्पूर्वात् अञ्चुधातोः कः ‘आर्धधातुकस्येट्' इति प्राप्तस्य इटो निषेधः। 'अनिदिताम्' इति नलोपः / चस्य कुत्वम्। उदक्तमुदकं कूपादिति // उद्धृतमित्यर्थः / अत्रापादानसमभिव्याहारसत्वात् नत्वन्नेति भावः / 'ओ व्रश्चू छेदने' सस्य श्चत्वेन निर्देशः, अस्मात्क्तः, 'अहिज्या' इति सम्प्रसारणम् , ऊदित्त्वेन वेटकत्वादिह 'यस्य विभाषा' इति नेट , चस्य कुत्वेन कः, 'ओदितश्च' इति निष्ठानत्वं, तस्यासिद्धत्वेन झल्परत्वात् 'स्कोः' इति सलोपः, णत्वम् , वृक्ण इति रूपमिति स्थितिः। तत्र नत्वस्यासिद्धत्वेन झल्परत्वात् 'वश्व' इति षत्वं स्यादित्यत आह / निष्ठादेशष्षत्वेति / / तथा च 'वश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः' इति षत्वे कर्तव्ये नत्वस्यासिद्धत्वाभावेन झल्परकत्वाभावान्न षत्वमित्यर्थः / स्वरप्रत्ययेडिधिषूदाहरणानि भाष्ये स्पष्टानि / परिस्कन्दः प्राच्यभरतेषु // 'अपदान्तस्य मूर्धन्यः' इत्यधिकारे इदं सूत्रम् / पूर्वेणेति // ‘परेश्व' इति पूर्वसूत्रम् / परेः परस्य स्कन्देः सस्य षो वा स्यादिति तदर्थः / तेन षत्वविकल्पे प्राप्ते प्राच्यभरतेषु षत्वाभावो निपात्यत इत्यर्थः / परिस्कन्द इति // परिपूर्वात् स्कन्देर्निष्ठायास्तकारलोपः / दिवो // अविजिगीषायामिति छेदः / धून इति // स्तुत इत्यर्थः / 'च्छोः' इत्यूठ / विजिगीषायान्तु चूतमिति / द्यूतस्य विजिगीषया प्रवृत्तेरिति भावः / निर्वाणोऽवाते // कर्ता नेति // निरित्युपसर्गपूर्वो वाधातुर्विनाशे वर्तते, उपरमे च / तस्मिन् धात्वर्थे यदि वायुः कर्ता तदा नत्वनेत्यर्थः / For Private And Personal Use Only
Page #539
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा / 537 अवाते इति च्छेदः / निः पूर्वाद्वातनिष्ठातस्य नत्वं स्याद्वातश्चेत्कर्ता न / निर्वाणोऽग्निर्मुनिर्वा / वाते तु निर्वातो वातः / 3030 / शुषः कः / (8-2-51) निष्ठात इत्येव / शुष्कः / 3031 / पचो वः / (8-2-52) पकः / 3032 / क्षायो मः / (8-2-53) क्षामः / 3033 / स्त्यः प्रपूर्वस्य / (6-1-23) प्रात्स्त्यः सम्प्रसारणं स्यान्निष्ठायाम् / 3034 / प्रस्त्योऽन्यतरस्याम् / (8-2-54) निष्ठातस्य मो का स्यात् / प्रस्तीम:-प्रस्तीतः / 'प्रात्' किम् / स्त्यानः / 3035 / अनुपसर्गात्फुल्लक्षीबकृशोल्लाघाः / (8-2-55) भि फला, फुल्लः / निष्ठातस्य लत्वं निपात्यते / क्तवत्वेकदेशस्यापीदं निपातनमिष्यते / फुल्लवान् / क्षीबादिषु तु क्तप्रत्ययस्यैव तलोपः / तस्य निर्वाणोऽग्निर्मुनिति / / नष्टः उपरतः इति क्रमेणार्थः / 'गत्यर्थाकर्मक' इत्यादिना कर्तरि क्तः / निर्वातो वात इति // अत्र वातस्य कर्तृत्वान्नत्वन्नेति भावः / 'निर्वाणो दीपो वातेन' इत्यत्र तु वातस्य करणत्वेन विवक्षितत्वात्कर्तृत्वाभावात् नत्वनिर्वाह्यम् / भावे तु निर्वातं वातेन / शुषः कः॥ निष्ठात इति // शुषः परस्य निष्ठातस्य कः स्यादिति फलितम् / पचो वः / / पचेः परस्य निष्ठातस्य वः स्यादित्यर्थः / पक्व इति // वत्वस्यासिद्धत्वात् कुत्वम् / क्षायो मः // क्ष क्षये' इत्यस्मात् परस्य निष्टातस्य मः स्यादित्यर्थः / क्षाम इति // 'आदेचः' इत्यात्वम् / 'गत्यर्थाकर्मक' इति कर्तरि क्तः / क्षीण इत्यर्थः / अन्तर्भावितण्यर्थत्वे क्षपित इत्यर्थः / स्त्यः प्रपूर्वस्य // स्त्यै इत्यस्य कृतात्वस्य स्त्य इति षष्ठ्यन्तम् / 'प्यङस्सम्प्रसारणम्' इत्यतस्सम्प्रसारणमिति ‘स्फायः स्फी' इत्यतो निष्ठायामिति चानुवर्तते / तदाह / प्रादित्यादि // सम्प्रसारणे पूर्वरूपे 'हलः' इति दीर्घ प्रस्ती त इति स्थिते प्रस्त्योऽन्यतरस्याम् // प्रस्त्य इति पञ्चमी / प्रपूर्वात्स्त्यैधातोरित्यर्थः / निष्ठातस्य म इति शेषः। प्रस्तीम इति // सङ्घीभूत इत्यर्थः / अनुपसर्गात् // एते निपात्यन्ते उपसर्गात् परा न चेदित्यर्थः / लत्वमिति / / 'आदितश्च' इति इडभावः, 'चरफलोश्च' इत्युत्त्वञ्च सिद्धमिति भावः / 'फल निष्पत्तौ' इत्यस्य तु नात्र ग्रहणम् , इडभावस्यापि निपात्यत्वापत्तेः / ननु तवतुषत्यये फुल्लवानिति कथम् / क्तवतुप्रत्यये क्तस्यानर्थकत्वेन फुल्लशब्दनाग्रहणादित्यत आह / For Private And Personal Use Only
Page #540
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 538 सिद्धान्तकौमुदीसहिता [कृदन्त सिद्धत्वात्प्राप्तस्यैटोऽभावश्च निपात्यते / क्षीबो मत्तः / कृशस्तनुः / उल्लाघो नीरोगः / 'अनुपसर्गात्' किम् / 3036 / आदितश्च / (7-2-16) आकारतो निष्ठाया इण्न स्यात् / ___ 3037 / ति च / (7-4-89) चरफलोरत उत्स्यात्तादौ किति / प्रफुल्तः / प्रक्षीबित: / प्रकृशितः / प्रोल्लाघितः / कथं तर्हि लोध्रदुमं सानुमत: प्रफुल्लम्' इति / 'फुल्ल विकसने' पचाद्यच् / सूत्रं तु फुल्तदिनिवृत्त्यर्थम् / 'उत्फुल्लसम्फुल्लयोरुपसङ्खथानम्' (वा 4843) / 3038 / नुदविदोन्दीत्राघ्राहीभ्योऽन्यतरस्याम् / (8-2-56) __एभ्यो निष्ठातस्य नो वा / नुन्नः-नुत्तः / विद' विचारणे, रौधादिक एव गृह्यते / उन्दिना परेण साहचर्यात् / विन्न:-वित्तः / वेत्तेस्तु विदितः / विद्यतेविन्नः / उन्दी। क्तवत्वेकदेशस्यापीति // क्षीबादिग्विति // क्षीबकृशोल्लाघेष्वित्यर्थः / क्तप्रत्ययस्यैवेति // नतु क्तवत्वेकदेशस्यापीत्यर्थः / अनर्थकत्वादिति भावः / तस्येति // तलोपस्येत्यर्थः / क्षीबो मत्त इति // क्षीबेः क्तः, तलोपः, इडभावश्च / कृशस्तनुरिति / कृशेः क्तः, तलोपः, इडभावश्च / उल्लाघो नीरोग इति / / लाघेः क्तः, तलोपः, इडभावश्च / अत्र मत्तादिरेवार्थः निपातनबलात् / अनुपसर्गात्किमिति // अत्र फुल्त इति प्रत्युदाहरणं विवक्षन् तत्र विशेषमाह / आदितश्च // निष्ठाया इण्न स्यादिति // 'श्वीदितः' इत्यतो निष्ठायामिति ‘नेशि' इत्यतो नेडिति चानुवर्तते इति भावः / ति च // 'चरफलोश्च' इति सूत्रानुवृत्तिम्मत्वा आह / चरफलोरिति // अत उत्स्यादिति // 'उत्परस्यातः' इत्यतस्तदनुवृत्तेरिति भावः / कितीति // “दीर्घ इणः किति' इत्यतः मण्डूकप्लुत्या तदनुवर्तते इति भावः / वस्तुतस्तु कितीत्यनुवृत्तिनिर्मूला निष्फला च / तयो. स्सेटकत्वेन निष्ठां विना तकारादिप्रत्ययाभावात् / कथन्तीति // प्रफुल्लमित्यस्य सोपसर्गत्वेन निष्ठातस्य लत्वासम्भवादिति भावः / समाधत्ते / फुल्लेति / / ननु फुल्लेः पचाद्यचैव फुल्ल इत्यस्य सिद्धेः फुल्ल इत्यस्य निपातनं व्यर्थमित्यत आह / सूत्रन्त्विति // उत्फुल्ल सम्फुल्लयोरिति // निष्ठातस्य लत्वनिपातनमिति शेषः / सोपसर्गाथै वचनम् / नुदविदो. न्दी // ह्रीधातोरप्राप्ते इतरेभ्यो नित्यम्प्राप्ते नत्वविकल्पोऽयम् / रौधादिक इति // 'विद विचारणे' इत्ययमित्यर्थः / वेत्तेस्त्विति // ‘विद ज्ञाने' इत्यस्येत्यर्थः / अयं सेट, अनिट्केष्वनन्तर्भावात् / तदाह / विदित इति // अत्र निष्ठातस्य इटा व्यवहितत्वान्नत्वनेति भावः / विद्यतेर्विन इति // 'विद सत्तायाम्' इत्ययमनिट ‘रदाभ्याम्' इति नित्यनत्वमिति For Private And Personal Use Only
Page #541
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 539 प्रकरणम्] बालमनोरमा / 3039 / श्वीदितो निष्ठायाम् / (7-2-14) श्वयतेरीदितश्च निष्ठाया इण्न / उन्न:-उत्तः / त्राण:-त्रातः / घ्राण:घ्रातः / ह्रीण:-ह्रीतः। 3040 / न ध्याख्यापृमूछिमदाम् / (8-2-57) ___ एभ्यो निष्ठातस्य नत्वं न / ध्यात: / ख्यातः / पूर्तः / ‘राल्लोप:' / मूर्तः / मत्तः। 3041 / वित्तो भोगप्रत्यययोः / (4-2-58) विन्दतेनिष्ठान्तस्य निपातोऽयं भोग्ये प्रतीते चार्थे / वित्तं धनम् / वित्तः पुरुषः / 'अनयोः' किम् , विन्नः / विभाषा गमहन-' (सू 3099) इति कसौ वेदत्वादिह नेट् / 3042 / भित्तं शकलम् / (8-2-59) भिन्नमन्यत् / भावः / उन्दीति // उदाहरणसूचनम् / श्वीदितो निष्ठायाम् // श्वि, ईदित् अनयोस्समाहारद्वन्द्वात्पञ्चमी / 'नेडशि' इत्यतो नेडित्यनुवर्तते / तदाह / श्वयतेरिति // न ध्याख्या // पञ्चम्यर्थे षष्ठी / तदाह / एभ्य इति // ध्यात इति // ध्यैधातोः क्तः ‘आदेचः' इत्यात्वम् / अत्र 'संयोगादेरातः' इति प्राप्तनत्वन्न / ख्यात्त इति // ख्यात्रादेशपक्षे यण्वत्त्वात् 'संयोगादेरातः' इति प्राप्तन्नत्वन्न / ख्शादेशस्य शस्य यत्वे तु यस्य णत्वप्रकरणगतस्यासिद्धत्वाद्यण्वत्त्वाभावात् ‘संयोगादेरातः' इति नत्वस्य न प्रसक्तिः। स्वतस्सिद्धख्याधातोस्तु आर्धधातुके प्रयोगो नास्त्येवेति ख्याग्रहणं व्यर्थमेव / पूर्त इति // पृधातोः क्तः श्रयुकः किंति' इति नेट् 'उदोष्ठ्यपूर्वस्य' इति उत्त्वं, रपरत्वम् , इह 'रदाभ्याम्' इति प्राप्तनत्वन्न / मुर्छाधातोः क्ते आह / राल्लोप इति // छस्य लोप इति भावः / मूर्त इति // 'आदितश्च' इति नेट् / छलोपे 'रदाभ्याम्' इति प्राप्तन्नत्वन्न / हलि च' इति दीर्घः / मत्त इति // 'मदी हर्षग्लेपनयोः' अस्मात् क्तः 'श्वीदितः' इति नेट / अत्र ‘रदाभ्याम्' इति प्राप्तं नत्वन्न / वित्तो भोग // भुज्यत इति भोगः भोग्यम् / प्रतीयते इति प्रत्ययः प्रख्यातः / अत्र विन्दतेरेव ग्रहणमिति भाष्ये स्पष्टम् / तदाह / विन्दतेरिति // निपातोऽयमिति // 'नुदविदोन्दी' इति प्राप्तस्य पाक्षिकनत्वस्य अभावनिपातनमित्यर्थः / तस्य भोगप्रत्यययोः कदाऽपि नत्वन्नेत्यर्थः / प्रतीते इति // प्रख्याते इत्यर्थः / वित्तः पुरुष इति // प्रख्यात इत्यर्थः / विन्न इति // लब्धश्चोरादिरित्यर्थः / अत्र ‘यस्य विभाषा' इति इनिषेधमुपपादयति / विभाषा गमेति // एकाच इति निषेधाचेत्यपि बोध्यम् / भित्तं शकलम् // शकले वाच्ये भिदेः कस्य नत्वाभावो निपात्यते / For Private And Personal Use Only
Page #542
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 540 सिद्धान्तकौमुदीसहिता [कृदन्त 3043 / ऋणमाधमर्थे / (8-2-60) ऋधातो: क्ते तकारस्य नत्वं निपात्यते आधमर्यव्यवहारे / ऋतमन्यत् / 3044 / स्फायः स्फी निष्ठायाम् / (6-1-22) स्फीतः। __3045 / इग्निष्ठायाम् / (7-2-47) निरः कुषो निष्ठाया इट् स्यात् / 'यस्य विभाषा' (सू 3025) इति निषेधे प्राप्ते पुनर्विधिः / निष्कुषितः / 3046 / वसतिक्षुधोरिट् / (7-2-52) आभ्यां क्त्वानिष्ठयोनित्यमिट् स्यात् / उषित: / क्षुधितः / 3047 / अञ्चेः पूजायाम् / (7-2-53) पूजार्थादञ्चे: क्त्वानिष्ठयोरिट् स्यात् / अञ्चितः / गतौ तु अक्तः / 3048 / लुभो विमोहने / (7-2-54) शकलत्वजातिविशिष्ट अवयवार्थमनपेक्ष्य रूढोऽयम् / ततश्च भित्तशकलयोः पर्यायत्वान्न सह. प्रयोगः / भिदिक्रियाविवक्षामान्तु भित्तं भिन्नमिति भवतीति भाष्य स्पष्टम् / ऋणमाधमये // अधमर्णस्य कर्म आधमर्ण्यम् / आधमर्यव्यवहारे इति // स च अन्यदीयं द्रव्यं गृहीतमियता कालेन इयत्या वृद्ध्या प्रतिदीयते इति संविद्रूपः, तस्मिन्विषये इत्यर्थः / ऋतमन्यदिति // सत्यमित्यर्थः / स्फायः स्फी // ‘स्फायी वृद्धौ' अस्य स्फीभावः स्यात् निष्ठायाम्परत इत्यर्थः / इण्निष्ठायाम् // ‘निरः कुषः' इति सूत्रमनुवर्तते / तदाह / निर इति // ननु 'आर्द्धधातुकस्येट' इत्येव सिद्धे किमर्थमिदं सूत्रमित्यत आह / यस्येति // कुषधातोः तृजादौ 'निरः कुषः' इति पूर्वसूत्रेण वेदकत्वात् 'यस्य विभाषा' इति प्राप्तस्येनिषेधस्य बाधनार्थम्पुनरिह विधानमित्यर्थः / इडित्यनुवर्तमाने पुनरिड्ग्रहणन्तु ‘स्वरतिसूति' इत्यतो वाग्रहणानुवृत्तिनिवृत्तये / वसतिक्षुधोरिट् // पञ्चम्यर्थे षष्ठी। क्त्वानिष्ठयोरिति // 'क्लिशः त्वानिष्ठयोः' इत्यतः तदनुवृत्तेरिति भावः / नित्यमिति // इडित्यनुवर्तमाने पुनरिग्रहणस्य ‘स्वरतिसूति' इत्यतो वाग्रहणानुवृत्तिनिवृत्त्यर्थत्वादिति भावः / 'एकाच उपदेशे' इति इनिषेधवाधनार्थमिदं सूत्रम् / उषित इति // यजादित्वात् सम्प्रसारणम् , 'शासिवसिघसीनाञ्च' इति षः / अञ्चेः पूजायाम् // 'उदितो वा' इति क्वायां विकल्पे प्राप्ते निष्टायान्तु 'यस्य विभाषा' इति निषधे प्राप्ते वचनम् / अश्चित इति // 'नाञ्चेः पूजायाम्' इति नलोपनिषेधः / लुभो विमोहने // लुभ इति पञ्चमी / 'लुभ विमोहने' तुदादिः / विमोहनं व्यक्कुलीकरणमिति वृत्तिः / 'लुभ गार्थे ' दिवादिः / अत्र तौदादिकस्यैव प्रहणम् , For Private And Personal Use Only
Page #543
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा। 541 लुभः क्त्वानिष्ठयोनित्यमिट् स्यान्न तु गायें / लुभितः / गायें तु, लुब्धः / 3049 / क्लिशः क्त्वानिष्ठयोः / (7-2-50) इड्डा स्यात् / ‘क्लिश उपतापे' (अस्य) नित्यं प्राप्ते ‘क्लिशू विबाधने' अस्य क्त्वायां विकल्पे सिद्धेऽपि निष्ठायां निषेधे प्राप्ते विकल्पः। क्लिशितः-क्लिष्टः / 3050 / पूङश्च / (7-2-51) पूङः क्त्वानिष्ठयोरिड्डा स्यात् / 3051 / पूङः क्त्वा च / (1-2-22) पूङ: क्त्वा निष्ठा च सेट किन्न स्यात् / पवितः-पूतः / क्त्वाग्रहणमुत्तरार्थम् / ‘नोपधात्-' (सू 3324) इत्यत्र हि क्त्वैव सम्बध्यते / 3052 / निष्ठा शीविदिमिदिक्ष्विदिधृषः / (1-2-29) एभ्य: सेण्निष्ठा किन्न स्यात् / शयित:-शयितवान् / अनुबन्धनिर्देशो यङलुनिवृत्त्यर्थः / शेश्यित:-शेश्यितवान् / 'आदिकर्मणि निष्ठा वक्तव्या' (वा 2051) / तस्यैव विमोहनार्थकत्वात् / नतु देवादिकस्य, तस्य गाार्थकत्वात् / तदाह / न तु गायें इति // 'तीषसह' इति वायां विकल्प प्राप्ते निष्ठायान्तु 'यस्य विभाषा' इति निषेधे प्राप्ते वचनम् / लुभित इति // विमोहित इत्यर्थः / गाये तु लुब्ध इति // अभिकासावा. नित्यर्थः / ‘मतिबुद्धिपूजार्थेभ्यश्च' इति कर्तरि क्तः / क्लिशः क्त्वानिष्ठयोः // इड्डा स्यादिति शेषः / ‘स्वरतिसूति' इत्यतो वेत्यनुवृत्तेरिति भावः / नित्यं प्राप्त इति // 'आर्धधातुकस्येड्डलादेः' इत्यनेनेति भावः / विकल्पे सिद्धे इति // ऊदित्त्वादिति भावः / निष्ठायानिषेधे प्राप्ते इति // 'यस्य विभाषा' इत्यनेनेति भावः / पूङश्च // क्त्वानिष्ठयोरिति // ‘क्लिशः क्वानिष्टयोः' इत्यतस्तदनुवृत्तेरिति भावः / इट्वेति // 'स्वरतिसूति' इत्यतः वाग्रहणस्य 'इण्निष्ठायाम्' इत्यतः इट् इत्यस्य चानुवृत्तेरिति भावः / 'श्रयुकः' इति निषेधे प्राप्ते विकल्पोऽयम् / पूङ क्त्वा च / 'न वा सेट्' इत्यतो न सेट इत्यनुवर्तते / 'असंयोगात्' इत्यतः किदिति 'निष्ठा शीङ्' इत्यतो निष्ठति च / तदाह / पूङः क्त्वा निष्ठाचेत्यादि // ननु ‘न क्वा सेट्' इत्येव सिद्धे किमर्थमिह क्वाग्रहणमित्यत आह / क्त्वाग्रहणमुत्तरार्थमिति // तदेवोपपादयति / नोपधादित्यति // तत्र हि त्वाप्रत्ययस्यैवानुवृत्तिरिष्टा 'पूङश्च' इत्येवोक्तौ तु 'निष्ठाशीङ' इत्यतो निष्ठाग्रहणमेवानुवर्तेतेति भावः / निष्ठा शीङ् // 'न वा सेट्' इत्यतः न सेडित्यनुवर्तते / 'असंयोगात्' इत्यतः किदिति च / तदाह / एभ्यस्सेडिति // शीडिति डकारस्य फलमाह / अनुबन्धेति // यङ्लुकि “श्तिपा शपा" इति निषेधार्थ इत्यर्थः / शेश्यितवानिति // अत्र कित्त्वनिषेधाभावात् कित्त्वान्न गुण इति भावः / आदिकर्मणि निष्ठा वक्तव्येति // For Private And Personal Use Only
Page #544
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 542 सिद्धान्तकौमुदीसहिता [कृदन्त 3053 / आदिकर्मणि क्तः कर्तरि च / (3-4-71) आदिकर्मणि यः क्तः स कर्तरि स्यात् / चाद्भावकर्मणोः / 3054 / विभाषा भावादिकर्मणोः / (7-2-17) भावे आदिकर्मणि च अदितो निष्ठाया इड्डा स्यात् / प्रस्वेदितश्चैत्रः / प्रस्वेदितं तेन / जि विदा' इति भ्वादिरत्र ग्रह्यते, बीद्भिः साहचर्यात् / विद्यतेस्तु स्विदित: इत्येव / 'जि मिदा' 'जि विदा' दिवादी भ्वादी च / प्रमेदित:-प्रमेदितवान् / प्रक्ष्वेदित:-प्रक्ष्वेदितवान् / प्रधर्षित:-प्रधर्षितवान् / धर्षितं तेन / 'सेट' किम् / प्रस्विन्नः / प्रस्विन्नं तेनेत्यादि / ___3055 / मृषस्तितिक्षायाम् / (1-2-20) सेण्निष्ठा किन्न स्यात् / मर्षित:-मर्पितवान् / तितिक्षायां' किम् / अपमृषितं वाक्यम् / अविस्पष्टमित्यर्थः / 3056 / उदुपधाद्भावादिकर्मणोरन्यतरस्याम् / (1-2-21) उदुपधात्परा भावादिकर्मणो: सेण्निष्ठा वा किन्न स्यात् / द्युतितम्द्योतितम् / मुदितं-मोदितं साधुना। प्रद्युतित:-प्रद्योतितः साधुः / प्रमुदित:दीर्घकालव्यासक्तायाः कटाद्युत्पादनक्रियायाः आरम्भकालविशिष्टोंशः आदिकर्म / तत्र विद्यमानाद्धातोर्निष्ठा वक्तव्येत्यर्थः / तत्र आद्येषु क्रियाक्षणेषु भूतेष्वपि क्रियाया भूतत्वाभावात् भूते विहिता निष्ठा न प्राप्तेत्यारम्भः / आदिकर्मणि क्तः कर्तरि च // चाद्भावकर्मणोरिति // 'तयोरेव कृत्य' इत्यतस्तदनुवृत्तेरिति भावः / “प्रकृतः कटं देवदत्तः, प्रकृतवान् कटं देवदत्तः” इति भाष्ये उदाहृतम् / आरभ्यमाणकरणक्रियेति बोधः / विभाषा भावादिकर्मणोः // आदितो निष्ठाया इडेति // 'आदितश्च' इत्यतः आदित इति 'श्रीदितः' इत्यतः निष्ठाग्रहणं 'नेडशि' इत्यतो नेति चानुवर्तत इति भावः / निषेधस्य वैकल्पिकत्वात्पक्षे इडभ्यनुज्ञायते / प्रस्वेदितश्चैत्र इति // चैत्रकर्तृका आरभ्यमाणप्रखेदनक्रियेत्यर्थः / जीद्भिरिति // ञिः इत् येषान्ते जीतः, तैमिदिप्रभृतिभिरिति तदर्थः / स विषयः कित्त्वप्रतिषेधस्येति बोध्यम् / विद्यतेस्त्विति // 'जि विदा गात्रप्रक्षरणे' इति देवादिकस्यैव कित्त्वनिषेधविधौ ग्रहणमित्यर्थः / स्विदितः इति // 'विभाषा भाव' इति पक्षे इट् / कित्त्वनिषेधविधी विद्यतेर्ग्रहणाभावात् कित्त्वान्न गुणः / अत्र विदादीनाम् ‘आदितश्च' इति इट् प्रतिषिध्यते / भावादिकर्मणोस्तु पक्षे इट् / मृषस्तितिक्षायाम् // तितिक्षा क्षमा / सेपिनष्ठा किन्नेति // शेषपूरणमिदम् / 'निष्ठा शीङ्' इत्यतो निष्ठति 'न वा सट्' इत्यतस्सेण्नेति ‘असंयोगात्' इत्यतः किदिति चानुवर्तत इति भावः / उदुपधाद्भावादिकर्मणोः॥ भावे उदाहरति / मुदितमित्यादि // आदिकर्मण्युदाहरति / प्रद्युतिता-प्रद्योतितः साधुरिति // For Private And Personal Use Only
Page #545
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा। 543 प्रमोदितः साधुः। 'उदुपधात्' किम् / विदितम् / 'भाव-' इत्यादि किम् / रुचितं कार्षापणम् / 'सेट' किम् / क्रुष्टम् / 'शब्विकरणेभ्य एवेष्यते' (वा 626) / नेह / गुध्यतेर्गुधितम् / 3057 / निष्ठायां सेटि / (6-4-52) णेर्लोप: स्यात् / भावित:-भावितवान् / 'श्वीदिन:-' (3039) इति नेट् / सम्प्रसारणम् / शून: / दीप्तः / गुहू, गूढः / वनु, वत: / तनु, ततः / पतेः सनि वेटकत्वादिडभावे प्राप्त द्वितीया श्रित-' (सू 686) इति सूत्रे निपातनादि / पतितः / ' सेऽसिचि' (2506) इति वेटकत्वात्सिद्धे कृन्त आदिकर्मणि कर्तरि क्तः / उदुपधात्किन् / विदितमिति // विद ज्ञाने' इति वेत्तेः रूपम् / गुध्यतेर्गुधितमिति // 'गुध परिवेष्टन' दिवादिस्से टकः / निष्ठायां सेटि // णेापः स्यादिति // शेषपूरणमिदम् / ‘णेरनिटि' इत्यतो रिति ‘आतो लोपः' इत्यस्मालोप इति चानुवर्तते इति भावः / अनिटीति निषेधादप्राप्ते आरम्भः / 'टु ओ श्वि गतिवृद्ध्योः' अस्मात् क्ते आह / श्वीदित इति नेडिति // सम्प्रसारणमिति // यजादित्वादिति भावः / सम्प्रसारणे सति पूर्वरूपे 'हलः' इति दीर्घ ‘ओदितश्च' इति निष्ठानत्वे रूपमाह / शून इति // यद्यपि मूले ‘ओदितश्च' इत्यत्र उच्छून इत्युदाहृतमेव, तथापि विशेषविवक्षया पुनरिहोपन्यासः / अत्र अल्विधित्वेऽपि हल इत्यारम्भसामर्थ्यादेव पूर्वरूपस्य सम्प्रसारणत्वम् / न च नित्यत्वात्सम्प्रसारणपूर्वरूपयोः 'श्रयुकः किति' इत्येव निषेधसिद्धेः श्विग्रहणं व्यमिति वाच्यम् / 'श्रयुकः किति' इत्यत्र 'एकाच उपदेशे' इत्यतः उपदेशे इत्यनुवृत्तेः / तथाच उपदेशे उगन्तत्वाभावात् निषेधाप्राप्तौ विग्रहणम् / अत एव स्तीवेत्यादौ उपदेशे उगन्तत्वमादाय इनिषेधसिद्धिरित्यलम् / ईदित उदाहरति / दीप्त इति // ‘दीपी दीप्तौ' दिवादिः / ईदित्त्वान्नेट / गूढ इति ॥ऊदित्त्वेन वेटकत्वात् 'यस्य विभाषा' इति नेट। ढत्वधत्वष्ठत्वढलोपदीर्घाः वनु, वतः। तनु, ततः इति // 'उदितो वा' इति वायां वेटकत्वात् 'यस्य विभाषा' इति नेट / 'अनुदात्तोपदेश' इति नकारलोपः / पतेस्सनीति // ‘पत्ल गतौ' अस्य 'तनिपतिदरिद्राणामुपसङ्ख्यानम्' इति सनि वेटकत्वात् 'यस्य विभाषा' इति निष्ठायामिनिषेधे प्राप्ते इत्यर्थः / पतितशब्दे इटं साधयितुं युक्त्यन्तरमाह / सेऽसिचीति // ‘कृती छेदने' 'वृती हिंसाग्रन्थनयोः' 'नृती गात्रविक्षेपे' एषामीदित्त्वं वीदितः' इति इनिषेधार्थमिति वक्तव्यम् / तत्तु न सम्भवति / एषां सेऽसिचिकृतचूतछ्दतृदनृतः' इति सकारादौ वेट्कतया 'यस्य विभाषा' इत्येव निष्ठायां नित्यमिनिषेधसिद्धेः / ततश्च एषामीदित्करणात् 'यस्य विभाषा' इति इग्निषेधस्य अनित्यत्वं विज्ञायते / एवञ्च कृतादीनां 'यस्य विभाषा' इति इनिषेधस्य अभावसम्भावनायां वीदितः' इति इनिषेधार्थमादित्त्वमर्थवत् / तथा च पतितशब्दे 'यस्य विभाषा' इत्यनित्यत्वान भवतीत्यर्थः / तेनेति // 'यस्य विभाषा' For Private And Personal Use Only
Page #546
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 544 सिद्धान्तकौमुदीसहिता [कृदन्त त्यादीनामीदित्त्वेनानित्यत्वज्ञापनाद्वा / तेन ‘धावितमिभराजधिया' इत्यादि / -- यस्य विभाषा' (सू 3025) इत्यत्रैकाच इत्येव / दरिद्रितः / 3058 / क्षुब्धस्वान्तध्वान्तलमम्लिष्टविरिन्धफाण्टबाढानि मन्थमनस्तमःसत्ताविस्पष्टस्वरानायासभृशेषु / (7-2-18) क्षुब्धादीन्यष्टावनिटकानि निपात्यन्ते समुदायेन मन्थादिषु वाच्येषु / द्रवद्रव्यसंपृक्ताः सक्तवो मन्थः, मन्थनदण्डश्च / क्षुब्धो मन्थश्चेत् / स्वान्तं मनः / ध्वान्तं तमः / लग्नं सक्तम् / निष्ठानत्वमपि निपातनात् / म्लिष्टमविस्पष्टम् / विरिब्धः स्वरः / म्लेच्छ' 'रेभृ' अनयोरुपधाया इत्त्वमपि निपात्यते / फाण्टम् अनायाससाध्यः कषायविशेषः / माधवस्तु नवनीतभावाप्रागवस्थापन्नं द्रव्यं फाण्टमिति वेदभाष्ये आह / बाढं भृशम् / अन्यत्र तु इत्यनित्यत्वज्ञापनेनेत्यर्थः / धावितमिति // ‘स्वरतिसूति' इति धूलो वेट त्वेऽपि 'यस्य विभाषा' इति इनिषेधो नेति भावः / ननु दरिद्राधातोः 'तनिपतिदरिद्राणामुपसङ्ख्यानम्' इति सनि वेटकत्वात् 'यस्य विभाषा' इति निष्ठायामिनिषेधस्स्यादित्यत आह / यस्य विभाषे. त्यति / / क्षुब्धस्वान्त // क्षुब्ध, स्वान्त, ध्वान्त, लग्न, म्लिष्ट, विरिब्ध, फाण्ट, बाढ, एषामष्टानां द्वन्द्वात्प्रथमाबहुवचनम् / मन्थ, मनः, तमः, सक्त, अविस्पष्ट, स्वर, अनायास, भृश, एषामष्टानां द्वन्द्वात्सप्तमी / यथासङ्ख्यमन्वयः / समुदायेनेति / / मन्थादिष्वेते रूढाः / अवयवार्थाभिनिवेशो न कर्तव्य इत्याह / द्रवद्रव्येति // अत्र याज्ञिकप्रसिद्धिरेव शरणीकर्तव्या / मन्थनदण्डश्चेति // “वैशाखमन्थमन्थानमन्थानो मन्थदण्डके" इत्यमरः / क्षुब्ध इति // 'क्षुभ सञ्चलने' अस्मात् क्तः, इडभावो निपात्यते / 'झषस्तथोः' इति धः, जश्त्वम् / स्वान्तमिति // स्वनधातोः क्तः / 'अनुनासिकस्य क्वि' इति दीर्घः, निपातनानेट / "स्वान्तं हृन्मानसं मनः" इत्यमरः / ध्वान्तं तम इति // ध्वनेः क्तः / 'अनुनासिकस्य कि' इति दीर्घः / “अन्धकारोऽस्त्रियां ध्वान्तन्तमिस्रं तिमिरं तमः” इत्यमरः। लग्नं सक्तमिति // सम्बद्धमित्यर्थः / लगेः क्तः, इडभावः / तत्र रदाभ्यां परत्वाभावात् कथं निष्ठानत्वमित्यत आह / निष्ठानत्वमपि निपातनादिति // मिलष्टमविस्पष्टमिति // इडभावे ‘ब्रश्च' इति षः। तकारस्य टुत्वेन टः / “अथ म्लिष्टमविस्पष्टम्” इत्यमरः / विरिब्धः स्वर इति // स्वरविशेषे इत्यर्थः / 'रेभृ शब्दे' अस्मात् क्तः, इडभावे 'झषस्तथोर्धः' इति धः / उभयत्र धातुस्वरूपं प्रदर्शयन् आह / म्लेच्छ रेभृ अनयोरिति // इत्त्वमपीति / / इडभावश्चेत्यर्थः / फाण्टमिति / / फणेः क्तः, इडभावः, निष्ठातस्य टत्वञ्च निपात्यते / तस्यासिद्धत्वात् 'अनुनासिकस्य' इति दीर्घः / “अनायासकृतं फाण्टम्" इत्यमरः / वृत्तिकृन्मतमाह / कषायविशेष इति // “यदशृतमपिष्टं च कषायमुदकसंसर्गमात्राद्विभक्तरसमीषदुष्णन्तत्फाण्टमित्युच्यते” इति वृत्तौ स्थितम् / वेदभाष्ये आहेति // “तद्वै नवनीतम्भवति घृतं वै For Private And Personal Use Only
Page #547
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा / 545 क्षुभितम् / 'क्षुब्धो राजा' इति त्वागमशास्त्रस्यानित्यत्वात् / स्वनितम् / ध्वनितम् / लगितम् / म्लेच्छितम् / विरेभितम् / फणितम् / बाहितम् / 3059 / धृषिशसी वैयात्ये / (7-2-19) एतौ निष्ठायामविनय एवानिटौ स्त: / धृष्टः / विशस्त: / अन्यत्र धर्षितः / विशसितः / भावादिकर्मणोस्तु वैयात्ये धृषिर्नास्ति / अत एव नियमार्थमिदं सूत्रमिति वृत्तिः / धृषेरादित्त्वे फलं चिन्त्यमिति हरदत्तः / माधवस्तु भावादिकर्मणोरवैयात्ये विकल्पमाह / धृष्टम्-धर्षितम् / प्रधृष्टःप्रधर्षितः। 3060 / दृढः स्थूलबलयोः / (7-2-20) देवानाम्फाण्टम्मनुष्याणाम्" इति शतपथब्राह्मणव्याख्यावसरे आहेत्यर्थः / बाढम्भृशमिति // 'बाह प्रयत्न' अस्मात् क्तः, इडभावः, ढत्वधत्वष्टुत्वढलोपाः / अन्यत्र त्विति // मन्थाद. र्वाच्यत्वाभाव इत्यर्थः / धृषिशसी // वियातः अविनीतः, तस्य भावः वैयात्यम् / तत्र 'जि धृषा प्रागल्भ्ये' इत्यस्य आदित्त्वादेवेनिषेधस्सिद्धः / ‘शसु हिंसायाम्' इत्यस्य तु 'उदितो वा' इति कायां वेटकत्वात् 'यस्य विभाषा' इति इनिषेधस्सिद्धः / अतो नियमार्थमित्याह / अविनय एवेति // धृष्टः विशस्त इति // अविनीत इत्यर्थः / अन्यत्रेति // वैयाल्या. भावे इत्यर्थः / धर्षित इति // बलात्कृत इत्यर्थः। विशसित इति // हिंसित इत्यर्थः / अत्र वैयात्याभावादिनिषेधो नेति भावः। ननु धृषेरादित्त्वात् ‘विभाषा भावादिकर्मणोः' इति भावे आदिकर्मणि च इडिकल्पे प्राप्ते तदंशे नित्यार्थोऽत्र विधिरस्तु / ततश्च भावादिकर्मभ्या. मन्यत्र वैयात्याभावेऽपि 'आदितश्च' इति इनिषेध एव स्यादित्यत आह / भावादिकर्मणोस्त्विति // नास्तीति // अनभिधानादिति भावः / तत्र वृद्धसम्मतिमाह / अत एवेति // भावकर्मणोधृषेरनभिधानादेवेत्यर्थः / अन्यथा धृषेरादित्त्वात् ‘विभाषा भावादिकर्मणोः' इति भावे आदिकर्मणि च इडिकल्पे प्राप्ते तदंशे नित्यार्थतया विधानार्थत्वापत्तेरिति भावः / चिन्त्यमिति // धृषेरादित्त्वं हि न वैयात्ये आदित्वलक्षणेनिषेधार्थम् , 'धृषिशसी वैयात्ये' इत्येव सिद्धेः / नापि वैयात्यादन्यत्र आदित्त्वलक्षणेनिषेधार्थम् , धृषयात्य एव इनिषेध नियमेन ततोऽन्यत्र आदित्त्वलक्षणनिषेधाभावात् / नापि धृषयात्ये भावादिकर्मणोविषये 'विभाषा भावादिकर्मणोः' इति इडिकल्पार्थम् , भावादिकर्मणोयाले धृषेरनभिधानात् / तस्मादृषेरादित्त्वं व्यर्थमिति हरदत्त आहेत्यर्थः / माधवस्त्विति // अवैयात्ये भावादिकर्मणोरनभिधाने प्रमाणाभावादिति भावः। तत्र अवैयात्ये भावे उदाहरति / धृष्टम्-धर्षित. मिति // आदिकर्मण्युदाहरति / प्रधृष्टः-प्रधर्षित इति // दृढः स्थूलबलयोः // बलशब्दः अर्शआद्यजन्तः बलवत्परः / तदाह / बलवति चेति // तस्येति // 69 For Private And Personal Use Only
Page #548
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदीसहिता [कृदन्त स्थूले बलवति च निपात्यते / 'दृह दृहि वृद्धौ' / क्तस्येडभावः, तस्य ढत्वम् , हस्य लोपः, इदितो नलोपश्च / दृहितो-दंहितोऽन्यः / 3061 / प्रभौ परिबृढः / (7-2-21) 'बृह बृहि वृद्धौ' / निपातनं प्राग्वत् / परिबृहित:-परिबृंहितोऽन्यः / 3062 / कृच्छगहनयोः कषः / (7-2-22) कषो निष्ठाया इण्न स्यादेतयोरर्थयोः / कष्टं दुःखं तत्कारणं च / ' स्यात्कष्टं कृच्छ्रमाभीलम्' / कष्टो मोहः / कष्टं शास्त्रम् / दुरवगाहमित्यर्थः / कषितमन्यत् / ___3063 / घुषिरविशब्दने / (7-2-23) घुषिनिष्ठायामनिट् स्यात् / घुष्टा रज्जुः / ‘अविशब्दने' किम् / घुषितं वाक्यम् / शब्देन प्रकटीकृताभिप्रायमित्यर्थः / 3064 / अर्दैः सन्निविभ्यः / (7-2-24) एतत्पूर्वादर्देनिष्ठाया इण्न स्यात् / समर्णः / न्यर्णः / व्यर्णः / अदितोऽन्यः / 3065 / अभेश्वाविदूर्ये / (7-2-25) अभ्यर्णम् / नातिदूरमासन्नं वा / अभ्यर्दितमन्यत् / निष्ठातकारस्य ढत्वन्निपात्यते इत्यर्थः / हस्य लोप इति // निपात्यते इति शेषः / इदित इति // अनिदितस्तु नलोपस्सिद्ध एवेति भावः / ननु हस्य ढत्वे कृते 'झषस्तथो?ऽधः' इति तकारस्य धत्वे तस्य टुत्वेन ढत्वे 'ढो ढे' इति ढलोपे दृढ इति सिद्धम् / ततश्च इडभाव एव निपात्यताम् , न तु हकारलोपो ढत्वञ्चेति चेत् / मैवम् / तथाहि सति द्रढीयानित्यादौ ढलोपस्यासिद्धत्वेन ऋकारस्य सयोगपरतया लघुत्वाभावात् ‘र ऋतो हलादेर्लघोः' इति रभावो न स्यात् / अत्र हकारलोपस्य ढत्वस्य च निपातने तु ऋकारस्य न संयोगपरकत्वम् / अस्य हलोपस्य साप्तमिकत्वेन असिद्धत्वाभावात् इति भाष्ये स्पष्टम् / प्रभौ परिबृढः // प्राग्वदिति // तकारढत्वस्य हलोपस्य चेत्यर्थः / कृच्छ्गहनयोः // कृच्छ्रशब्दो दुःखे तत्कारणे च वर्तते / कष्टं दुःखं तत्कारणश्चेति // “स्यात्कष्टकृच्छ्रमाभीलम्" इत्यमरकोशवाक्यम् / दुःखकारणे उदाहरति / कष्टो मोह इति // गहने उदाहरति। कष्टं शास्त्रमिति // गहनशब्द विवृणोति / दुरवगाहमिति // घुषिरविशब्दने // घुष्टा रज्जुरिति // उत्पादितेत्यर्थः / आयामितेति वा / शब्देन अभिप्रायप्रकाशनं विशब्दनम्। तदाह / शब्देनेति // अः सन्निविभ्यः // समर्ण इति // सम् अ त इति स्थिते ‘रदाभ्याम्' इति निष्टातस्य पूर्व दकारस्य च नत्वम् , णत्वम् / अभेश्चाविदूर्ये // अविदूरस्य भावः आविर्यम् / तस्मिन् For Private And Personal Use Only
Page #549
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा / 3066 / णेरध्ययने वृत्तम् / (7-2-26) ण्यन्ताद्वृतेः क्तस्येडभावो णिलुक्चाधीयमानेऽर्थे / वृत्तं छन्दः, छात्रेण सम्पादितम् , अधीतमिति यावत् / अन्यत्र तु वर्तिता रज्जुः / __3067 / शृतं पाके / (6-1-27) श्रातिश्रपयत्योः क्ते शृभावो निपात्यते क्षीरहविषोः पाके / शृतं क्षीरं स्वयमेव विक्लिन्नं पकं वेत्यर्थः / क्षीरहविया॑मन्यत्तु श्राणं-पितं वा / 3768 / वा दान्तशान्तपूर्णदस्तस्पष्टच्छन्नज्ञप्ताः / (7-2-27) एते णिचि निष्ठान्ता वा निपात्यन्ते / पक्षे, दमित: / शमितः / पूरितः / दासितः / स्पाशितः / छादित: / ज्ञापित: / गम्ये अभः परः अर्दिरनिट्क इत्यर्थः। सामीप्य इत्येव तु नोक्तम् / अनतिदूरस्य असङ्ग्रहापत्तेः। तत्सूचयन्नाह / नातिदूरमिति // णेरध्ययने // णिलुक् चेति // णिलोपे तु लघूपधगुणः स्वादिति भावः / अधीयमान इति // सूत्रे अध्ययनशब्दः कर्मणि ल्युडन्तः इति भावः / शृतम्पाके // 'श्रा पाके' घटादिः / तस्माद्धेतुमण्णिचि पुकि मित्त्वाद्रखे श्रपि इति भवतीति स्थितिः / श्रातिश्रपयत्योरिति // अण्यन्तस्य ण्यन्तस्य च श्राधातोरित्यर्थः / क्षीरहविषो. रिति // एतच्च वार्तिकाल्लभ्यते / अण्यन्तं व्याचष्टे / स्वयमेव विक्लिन्नमिति // श्राधातुरण्यन्तः पाक वर्तते / पाकश्चात्र विक्लित्तिरव विवक्षिता। न तु तदनुकूलव्यापारोऽपि / तथाच श्राधातोर्विक्लित्तावकर्मकत्वात् ‘गल्याकर्मक' इति कर्तरि क्तः / तथाच क्षीरं विक्लित्याश्रयमिति फलितम् / ततो णिचि विक्लित्त्यनुकूलव्यापारार्थकपचिना समानार्थकात् श्रपि इत्यस्मात् कर्मणि क्तप्रत्यये फलितमाह / पक्कमिति // एतच्च भाष्यकैयटयोः स्पष्टम् / "क्षीराज्यहविषां शृतम्' इत्यमरस्य तु प्रमाद एव, 'क्षीरहविषोः' इति वार्तिकविरोधात् / वा दान्तशान्तपूर्णदस्तस्पष्टछन्नज्ञप्ताः // 'णेरध्ययने वृत्तम्' इत्यतो रित्यनुवर्तते। 'दमु शमु उपशमे' ण्यन्ताभ्यामिडभावो निपात्यते / ‘अनुनासिकस्य' इति दीर्घः / णिलोपस्तु न स्थानिवत् / निपातनादीर्घविधौ तनिषेधाच्च / दान्तः, शान्तः / 'पूरी आप्यायने' ण्यन्तात् क्तः, इडभावो निपात्यते, णिलोपः। रात्परत्वानत्वम् , णत्वम् , पूर्णः / एतेन 'न ध्याख्याप्रमूर्च्छि' इत्येव सिद्धे पूर्णग्रहणं व्यर्थमित्यपास्तम् , पूरीधातोर्ण्यन्तात् पूर्णरूपार्थत्वात् / 'दसु उपक्षय' ण्यन्तात् इडभावो निपात्यते, उपधावृद्ध्यभावश्च / णिलोपः। 'स्पश बाधने' ण्यन्तात् क्तः, इडभावो निपात्यते उपधावृद्ध्यभावश्च, णिलोपः / स्पष्टम् / 'छद अपवारणे' ण्यन्तात् क्तः / इडभावो वृद्ध्यभावश्च निपात्यते / णिलोपः, 'रदाभ्याम्' इति नत्वम् , छन्नः / 'ज्ञप मिच्च' इति चुरादिण्यन्तात् क्तः। “इडभावो वृध्यभावो णिलोपः” इति कैयटः, ज्ञप्तः / पक्ष इति // निपातनाभावपक्ष इत्यर्थः। दमितः, शमित इति // अमन्तत्वेन मित्त्वाद्रस्वः। For Private And Personal Use Only
Page #550
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 548 सिद्धान्तकौमुदीसहिता [कृदन्त 3069 / रुष्यमत्वरसङ्घषास्वनाम् / (7-2-28) एभ्यो निष्ठाया इड्डा स्यात् / रुष्ट:-रुषितः / आन्त:-अमितः / तूर्ण:-- त्वरितः / अस्यादित्त्वे फलं मन्दम् / सङ्गुष्टः-सङ्कुषितः / आस्वान्त:--आस्वनितः / 3070 / हरेर्लोमसु / (7-2-29) हृषेनिष्ठाया इड्डा स्यात् लोमसु विषये / हृष्टं-हृषितं लोम / 'विस्मितप्रतिघातयोश्च' (वा 4417) / हृष्टो-हृषितो मैत्रः / विस्मितः, प्रतिहतो वेत्यर्थः / अन्यत्र तु, 'हृषु अलीके' उदित्त्वान्निष्ठायां नेट् / 'हृष तुष्टौ' इट् / 3071 / अपचितश्च / (7-2-30) चायेनिपातोऽयं वा / अपचितः-अपचायितः / शापित इति // अचौरादिकस्य रूपम् / चौरादिकस्य तु ज्ञपित इत्येव / रुष्यमत्वर // रुषि, अम, त्वर, संघुष् , आस्वन् , एषान्द्वन्द्वः / रिति निवृत्तम् / पञ्चम्यर्थे षष्टी / तदाह / एभ्य इति // वा स्यादिति // ‘वा दान्त' इत्यतस्तदनुवृत्तेरिति भावः / रुष्टः-रुषितः इति // 'तीषसह' इति रुषो वेट्कत्वात् 'यस्य विभाषा' इति निषेधे प्राप्ते विकल्पोऽयम् / आन्तः-अमित इति // 'अम गत्यादिषु' क्तः / इडभावपक्षे 'अनुनासिकस्य' इति दीर्घः / तूर्णः -स्वरित इति // 'जि त्वरा सम्भ्रमे' क्तः, इडभावपक्षे 'ज्वरत्वर' इत्यूट / ‘रदाभ्याम्' इति नत्वम् , णत्वम् / 'आदितश्च' इति नित्यमिनिषेधे प्राप्ते विकल्पोऽयम् / आदित्त्वस्य तु फलमात्मनेपदमात्रम् / तदाह / अस्य आदित्त्वे फलम्मन्दमिति // तथा च 'एध वृद्धौ' इत्यादिवत् ह्रस्वानुबन्धत्वमेव न्याय्यमिति भावः / संघुष्टः-संघुषित इति // 'घुषिरविशब्दने' इति घुषेस्सम्पूर्वस्य नित्यमिनिषधे प्राप्त विकल्पोऽयम् / आस्वान्तः-आस्वनितः इति // आयूर्वस्वनेः क्तः / इडभावपक्षे 'अनुनासिकस्य' इति दीर्घः / 'क्षुब्धस्वान्त' इति निपातनन्तु सम्पूर्वस्य स्वनेनं भवति / परत्वादस्यैव विकल्पस्य प्राप्तेरित्याहुः / 'न वा' इति सूत्रभाष्ये तु संघुषास्वनोर्विषये उभयत्र विभाषेत्युक्तम् / हृषेर्लोमसु // लोमसु कर्तृष्विति बोध्यम् / इदञ्च “अजर्यम्” इति सूत्रे भाष्ये स्पष्टम् / हृष्टम्-हृषितं लोमेति // 'गत्यर्थाकर्मक' इति कर्तरि क्तः / रोमाञ्चितभूतमित्यर्थः / विस्मितप्रतिघातयोश्चेति // वार्तिकमिदम् / 'हषेनिष्ठाया इड्वा' इति शेषः। उदित्त्वादिति // "उदितो वा' इति वायां वेटकत्वात् 'यस्य विभाषा' इति निष्ठायानेडित्यर्थः / तथा अळीकऽर्थे हृष्ट इत्येव। मृषोक्तवानित्यर्थः / इडिति // 'हृष तुष्टौ' इति धातोः क्ते इडेव भवतीत्यर्थः / हृषितः तुष्ट इत्यर्थः / विस्मितप्रतिघातयोस्तु धातूनामनेकार्थत्वाद्वृत्तिः / तत्र लोमसु विस्मितप्रतिघातयोश्च 'हषु अळीके' इत्यस्मात् 'यस्य विभाषा' इति नित्यमिनिषेधे प्राप्ते विभाषेयम् / 'हृष तुष्टौ' इत्यस्मात्तु नित्यमिटप्राप्तौ विभाषा इति विवेकः / अपचितश्च // "अपपूर्वस्य चिनो ण्यन्तस्य निष्ठायाञ्चिभावो निपात्यते” इति भाष्यम् / तदाह / For Private And Personal Use Only
Page #551
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा। 549 3072 / प्यायः पी / (6-1-28) पी वा स्यान्निष्ठायाम् / व्यवस्थितविभाषेयम् / तेन स्वाङ्गे नित्यम् / पीनं मुखम् / अन्यत्र प्यान:-पीन: स्वेदः / 'सोपंसर्गस्य न' (वा 5065) प्रप्यानः / 'आङपूर्वस्यान्धूधसोः स्यादेव' (वा 3461) / आपीनोऽन्धुः / आपीनमूधः। 3073 / ह्लादो निष्ठायाम् / (6-4-95) ह्रस्वः स्यात् / प्रह्लन्नः / 3074 / द्यतिस्यतिमास्थामित्ति किति / (7-4-40) एषामिकारोऽन्तादेश: स्यात्तादौ किति / ईत्त्वदद्भावयोरपवादः / दितः / सितः / मा, माङ्, मेङ, मित: / स्थितः / 3075 / शाच्छोरन्यतरस्याम् / (7-4-41) शितः-शातः / छित:-छात: / व्यवस्थितविभाषात्वाद्र्तविषये श्यतेनित्यम् / संशितं व्रतम् / सम्यक्सम्पादितमित्यर्थः / संशितो ब्राह्मणः / व्रतविषयकयत्नवानित्यर्थः / 3076 / दधातेर्हिः / (7-4-42) तादौ किति / अभिहितम् / निहितम् / चायेनिपातोऽयमिति // प्यायः पी // वा स्यानिष्ठायामिति // शेषपूरणमिदम् / 'विभाषाभ्यवपूर्वस्य' इत्यतो विभाषति ‘स्फायः स्फी' इत्यतो निष्टायामिति चानुवर्तते इति भावः / व्यवस्थितविभाषेति // अत्र व्याख्यानमेव शरणम् / 'सोपसर्गस्य न' इत्यादि भाष्ये स्पष्टम् / ह्लादो निष्ठायाम् // ह्रस्वः स्यादिति // शेषपूरणमिदम् / 'खचि ह्रस्वः' इत्यतस्तनुवृत्तेरिति भावः / प्रह्लन्न इति // हादी सुखे' क्तः / 'श्रीदितः' इति नेट् / 'रदाभ्याम्' इति नत्वम् / द्यतिस्यति // एषां चतुर्णा द्वन्द्वात्षष्ठी / 'दो अवखण्डने' इत्यस्य द्यतीति निर्देशः / 'षो अन्तकर्मणि' इत्यस्य तु स्यतीति निर्देशः / इत् ति कितीति च्छेदः / ईत्वेति // 'घुमास्था' इति ईत्त्वस्य 'दो दद्धोः' इति दद्भावस्य च यथासम्भव. मपवाद इत्यर्थः। दोधातोरुदाहरति / दित इति // मा माङ् मेडिति // ‘गामादाग्रहणध्वविशेषः' इति वचनादिति भावः / शाच्छोः // 'शा तनूकरणे', 'छो छेदन' अनयोः कृतात्वयोर्निर्देशः / अनयोरिकारान्तादेशो वा स्यात् तादौ कितीत्यर्थः / व्यवस्थितेति // एतच्च भाष्ये स्पष्टम् / दधातेर्हिः // तादौ कितीति // शेषपूरणमिदम् / 'द्यतिस्यति' 1. इदं च 'आयूर्वस्यान्धूधसोः' (वा 3431) इति वार्तिकस्य ‘आड्पूर्वस्यैव' इति नियमसिद्धम् / For Private And Personal Use Only
Page #552
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 550 सिद्धान्तकौमुदीसहिता [कृदन्त 3077 / दो दवोः / (7-4-46) घुसंज्ञकस्य ‘दा' इत्यस्य ‘दथ्' स्यात्तादौ किति / चर्वम् / दत्त: / 'घोः' किम् / दातः / तान्तो वायमादेशः / न चैवं विदत्तमित्यादावुपसर्गस्य 'दस्ति' (सू 3079) इति दीर्घापत्तिः / तकारादौ तद्विधानात् / दान्तो वा / धान्तो वा / न च दान्तत्वे निष्ठानत्वं धान्तत्वे 'झषस्तथो:-' (सू 2280) इति धत्वं शङ्कथम् / सन्निपातपरिभाषाविरोधात् / / 3078 / अच उपसर्गात्तः / (7-4-47) अजन्तादुपसर्गात्परस्य 'दा' इत्यस्य घोरचस्तः स्यात्तादौ किति / चवम् / प्रत्तः / अवत्तः / " अवदत्तं विदत्तञ्च प्रदत्तं चादिकर्मणि / सुदत्तमनुदत्तञ्च निदत्तमिति चेष्यते // " [इति भाष्यम्] चशब्दाद्यथाप्राप्तम् / इत्यतस्तदनुवृत्तेरिति भावः / दो दद्धोः / / द इति षष्ठ्यन्तम् / तदाह / दा इत्यस्येति॥ दथ् इति च्छेदः / तदाह / दथ् स्यादिति // तवर्गद्वितीयान्तोऽयमादेशः / तादौ कितीति // ति कितीत्यनुवृत्तेरिति भावः / चत्वमिति // ‘खरि च' इति थकारस्य तकार इत्यर्थः / दात इति // दाप्दैपो रूपम् / अदाप् इत्युक्तेः घुत्वाभावान्न दद्भावः / तान्तो वेति // तवर्गप्रथमान्त इत्यर्थः। नन्वेवं सति विदत्तमित्यादौ दस्तीत्युपसर्गस्य दीर्घत्वापत्तिः। तत्र हि द इति षष्ठी सप्तम्यर्थे / इगन्तोपसर्गस्य दीर्घः स्यात् तकारान्ते ददातौ परत इत्यर्थः इत्याशङ्कय निराकरोति / न चैवमिति // आदेशस्य तवर्गप्रथमान्तत्वे सतीत्यर्थः / तकारादाविति // 'दस्ति' इत्यत्र द इति षष्ठी तीत्यत्रान्वति / तथाच इगन्तोपसर्गस्य दीर्घः स्यात् दकारादेशतकारादावुत्तरपदे इत्यर्थः / उत्तरपदाधिकारात् / ततश्च उत्तरपदस्यात्र तकारादित्वाभावात् न दीर्घ इति भावः / दान्तो वा धान्तो वेति // तवर्गतृतीयान्तो वा चतुर्थान्तो वा अयमादेश इत्यर्थः / न चेति // दान्तत्वे निष्ठानत्वम् , धात्वन्त 'झषस्तथोः' इति धत्वञ्च न शङ्कयमित्यन्वयः / सन्निपातेति // दान्तादेशस्य धान्तादेशस्य च तकारादिप्रत्ययोपजीव्यतया तद्विघातकनत्वधत्वे प्रति निमित्तत्वासम्भवादिति भावः / अच उपसर्गात्तः // त इत्यत्राकार उच्चारणार्थः / अच इत्यावर्तते, एकमुपसर्गविशेषणम् / द्वितीयन्तु स्थानिसमर्पकम् / तदाह / अजन्तादिति // घोरिति // घोरवयवस्येत्यर्थः / तः स्यादिति // तकारः स्यादित्यर्थः / ददादेशापवादः / चर्वमिति // प्र दा त इति स्थिते दकारादाकारस्य तकारादेशे दकारस्य चत्वेन तकार इत्यर्थः। अवदत्तं विदत्तश्चेति // भाष्य स्थश्लोकोऽयम् / अत्र आदिकर्मणीत्येतत् प्रदत्तमित्यत्रैव सम्बध्यते / नायम् 'अच उपसर्गात्तः' इत्यस्य अपवाद इति भ्रमितव्यमित्याह / चशब्दाद्यथाप्राप्तमिति // तथा चावदत्तादिशब्देषु For Private And Personal Use Only
Page #553
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा / 551 3079 / दस्ति / (6-3-124) इगन्तोपसर्गस्य दीर्घः स्याद्दादेशो यस्तकारस्तदादावुत्तरपदे / 'खरि च' (सू 121) इति चव॑माश्रयात्सिद्धम् / नीत्तम् / सूत्तम् / 'घुमास्था-' (सू 2462) इतीत्त्वम् / धेट / धीतम् / गीतम् / पीतम् / 'जनसन-' (सू 2504) इत्यात्त्वम् / जातम् / सातम् / खातम् / 3080 / अदो जग्धिय॑प्ति किति / (2-4-36) ल्यबिति लुप्तसप्तमीकम् / अदो जग्धि: स्याल्ल्यपि तादौ किति च / इकार उच्चारणार्थः / धत्वम् / ‘झरो झरि-' (सू 71) जग्धः / 'आदिकर्मणि क्त: कर्तरि च' (सू 3053) / प्रकृत: कटं स: / प्रकृत: कटस्तेन 'निष्ठायामण्यदर्थे' (सू 3014) इति दीर्घः / ‘क्षियो दीर्घात्' (सू 3015) इति नत्वम् / प्रक्षीणः सः / 3081 / वाऽऽक्रोशदैन्ययोः / (6-4-61) ददादेशोऽपि कदाचिल्लभ्यते इत्यर्थः / अत एव प्रकृतसूत्रभाष्ये 'अच उपसर्गात्तः' इत्यस्यावकाशः प्रत्तमवत्तम् इति सङ्गच्छते इति भावः / दस्ति // ‘इकः काशे' इत्यतः इक इति 'उपसर्गस्य घञ्यमनुष्ये' इत्यतः उपसर्गस्येति 'ठूलोपे' इत्यतो दीर्घ इति चानुवर्तते / उत्तरपदे इत्यधिकृतं तीत्यनेन विशेष्यते / तदादिविधिः / द इति षष्ठी ति इत्यत्रान्वेति / तथाच दाधातोरादेशः यस्तकारः तदादा उत्तरपदे इति लभ्यते / तदाह / इगन्तेत्यादि // ननु नि दा त इति स्थिते 'अच उपसर्गात्तः' इति दकारादाकारस्य तकारे दकारस्य 'खरि च' इति चत्वे प्रकृतसूत्रेण उपसर्गस्य दीर्धे नीत्तमिति रूपं वक्ष्यति / तदयुक्तम् / दीर्घ कर्तव्ये चर्वस्यासिद्धत्वे दादेशे तकाराद्युत्तरपदत्वाभावादिल्यत आह / खरि चेति चर्वमाश्रयात् सिद्धमिति // दादेशतकारमाश्रित्य विधीयमाने दीर्घ च नासिद्धम् / चत्वसिद्धं तकारमाश्रित्य विधिबलादित्यर्थः / सूत्तमिति चिन्त्यम् / ‘गतिश्च' इति सूत्रभाष्यवार्तिकयोस्सुदत्तमित्यत्र ‘अच उपसर्गात्तः' इति तत्त्वे कर्तव्ये सोरुपसर्गत्वन्नेति प्रपञ्चितत्वात् / अथ धेगापाधातुभ्यः के आह / घुमास्थेति // धीतमिति // 'दधातेर्हिः' इत्यत्र श्लुविकरणग्रहणान्न हिभावः / अदो जग्धिः // धत्वमिति / जग्ध् त इति स्थिते 'झषस्तथोः' इति तकारस्य धकार इत्यर्थः / झरो झरि इति // अनेन पाक्षिको धकारलोप इत्यर्थः / आदिकर्मणि क्त इति // व्याख्यातं प्राक् / उदाहरणान्तरविवक्षया पुनरुपन्यासः / प्रकृतः कटं स इति // कर्तुमारब्धवानित्यर्थः। कटस्य कर्मणः अनभिहितत्वात् द्वितीया। कर्तुरभिहितत्वात् तच्छब्दात्प्रथमा / चकाराद्भावे कर्माण घेत्युक्तम् / तत्र कर्मण्युदाहरति / प्रकृतः कटस्तेनेति // प्रक्षीणस्स इति // आदिकर्मणि क्तः। आदिकर्मणीति वा / वाऽऽक्रोशदैन्ययोः // अण्यदर्थ इत्यनुवर्तते / For Private And Personal Use Only
Page #554
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 552 सिद्धान्तकौमुदीसहिता (कृदन्त क्षियो निष्ठायां दीर्घो वा स्यादाक्रोशे दैन्ये च / क्षीणायुभव / क्षितायुर्वा / क्षीणोऽयं तपस्वी, क्षितो वा / 3082 / निनदीभ्यां स्नातेः कौशले / (8-3-89) आभ्यां स्नाते: सस्य ष: स्यात्कौशले गम्ये / निष्णातः शास्त्रेषु / नद्यां स्नातीति नदीष्ण: / 'सुपि-' (सू 2916) इति कः / ___3083 / सूत्रं प्रतिष्णातम् / (8-3-90) प्रते: स्नाते: षत्वम् / प्रतिष्णातं सूत्रम् / शुद्धमित्यर्थः / अन्यत्र प्रतिस्नातम् / 3084 / कपिष्ठलो गोत्रे / (8-3-91) कपिष्ठलो नाम यस्य कापिष्ठलिः पुत्रः। गोत्रे' किम् / कपीनां स्थलं कपिस्थलम् / 3085 / विकुशमिपरिभ्यः स्थलम् / (8-3-96) एभ्यः स्थलस्य सस्य ष: स्यात् / विष्ठलम् / कुष्ठलम् / शमिष्ठलम् / परिष्ठलम् / 3086 / गत्यर्थाकर्मकश्लिषशीस्थासवसजनरुह जीर्यतिभ्यश्च / (3-4-72) एभ्यः कर्तरि क्तः स्याद्भावकर्मणोश्च / गङ्गां गतः / गङ्गां प्राप्तः / म्लान: सः / लक्ष्मीमाश्लिष्टो हरिः / शेषमधिशयित: / वैकुण्ठमधिष्ठितः / ण्यदर्थो भावकर्मणी इत्युक्तम् / आक्रोशे उदाहरति / क्षीणायुर्भवेति // ‘गत्यर्थाकर्मक' इति कर्तरि क्तः। दैन्ये उदाहरति / क्षीणोऽयं तपस्वीति / / कृश इत्यर्थः। निनदीभ्याम् // सस्य षः स्यादिति // ‘सहेस्साडस्सः' इत्यतः स इति षष्ठ्यन्तमनुवर्तते, 'अपदान्तस्य मूर्धन्यः' इत्यप्यधिकृतमिति भावः / निष्णात इति // कुशल इत्यर्थः। नदीष्ण इति // नद्याङ्कुशलं स्नातीति विग्रहः / सुपीति क इति // 'सुपि स्थः' इत्यत्र सुपीति योगविभागात् क इत्यर्थः / गत्यर्थ / / गत्यर्थ, अकर्मक, श्लिष, शीङ्, स्था, आस, वस, जन, रुह, जीर्यति, एषान्दशानान्द्वन्द्वः / 'लः कर्मणि च भावे च' इत्यतः भावे कर्मणीति ‘आदिकर्मणि क्तः कर्तरि च' इत्यतः कर्तरि इति चानुवर्तते / तदाह / एभ्य इत्यादिना // कर्तरीत्येवानुवृत्तौ भावकर्मणोर्न स्यादिति तयोरप्यनुवृत्तिः / गङ्गाङ्गत इति // कर्तरि क्तः / गङ्गाम्प्राप्त इति // 'आप्ल व्याप्तौ' उपसर्गवशाद्गतौ वर्तते / अकर्मकादुदाहरति / म्लान इति // क्षीण इत्यर्थः / 'संयोगादः' इति निष्ठानत्वम् / आश्लिष्ट इति // आलिङ्गितवानित्यर्थः / ननु अकर्मकत्वादेव सिद्धे शीडादीनां पुनर्ग्रहणं व्यर्थमित्यत आह / शेषमधिशयित इति // शेषे शयितवानित्यर्थः / 'अधिशीथासाम्' इति शेषः कर्म / अतो नाकर्मकत्वादिह प्राप्तिरिति भावः / वैकुण्ठमधिष्ठित इति // वैकुण्ठे स्थितवानित्यर्थः / 'अधिशीस्थासाम्' इति वैकुण्ठः कर्म / For Private And Personal Use Only
Page #555
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा / 553 शिवमुपासितः / हरिदिनमुपोषित: / राममनुजातः / गरुडमारूढः / विश्वमनुजीर्णः / पक्षे प्राप्ता गङ्गा तेनेत्यादि / 3087 / क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः। (3-4-76) एभ्योऽधिकरणे क्त: स्यात् / चाद्यथाप्राप्तम् / ध्रौव्यं स्थैर्यम् / "मुकुन्दस्यासितमिदमिदं यातं रमापतेः / भुक्तमेतदनन्तस्येत्यूचुर्गोप्यो दिदृक्षवः // " पक्षे आसेरकर्मकत्वात्कतरि भावे च / आसितो मुकुन्दः / आसितं तेन / गत्यर्थेभ्यः कर्तरि कर्मणि च / रमापतिरिदं यातः / तेनेदं यातम् / भुजे: कर्मणि / अनन्तेनेदं भुक्तम्। कथं 'भुक्ता ब्राह्मणाः' इति / भुक्तमस्ति एषामिति मत्वर्थीयोऽच् / वर्तमाने इत्यधिकृत्य / अतो नाकर्मकत्वादिह प्राप्तिः / शिवमुपासित इति / / शिवम्परिचरितवानित्यर्थः / उपवेशनार्थकत्वे अकर्मकत्वेऽपि इह उपसर्गवशनार्थान्तरे सकर्मकत्वादकर्मकेत्यनेन न प्राप्तिरिति भावः / हरिदिनमुपोषित इति // ‘वसतिक्षुधोः' इति इट् / यजादित्वात्सम्प्रसारणम् / 'शासि' इति षः / हरिदिने न भुक्तवानित्यर्थः / 'उपान्वध्यावसः' इति हरिदिनकर्म / ततश्चाकर्मकत्वाभावादप्राप्तिः। राममनुजात इति / / अनुकृतवानित्यर्थः / अनुसृत्य जातवानिति वा / ततश्चाकर्मकत्वाभावादप्राप्तिः / गरुडमारूढ इति // उपर्याक्रान्तवानित्यर्थः / विश्वमनुजीर्ण इति // हतवानित्यर्थः / व्याप्तवानिति वा / अकर्मकत्वाभावादप्राप्तिः / जृधातोः कर्तरि क्तः / 'ऋतः' इति इत्त्व, रपरत्वं 'हलि च' इति दीर्घः / 'रदाभ्याम्' इति नत्वं, णत्वम् / पक्षे इति // कर्तरि प्रत्ययाभावपक्षे इत्यर्थः। तोऽधिकरणे च // ध्रौव्यं गतिः प्रत्यवसानञ्च अर्थो येषामिति विग्रहः / ध्रौव्यार्थेभ्यः गत्यर्थेभ्यः प्रत्यवसानार्थेभ्यश्चेति यावत् / चाद्यथाप्राप्तमिति // कर्मकर्तृभावेष्वपि यथासम्भवमित्यर्थः / ध्रौव्यमित्यस्य विवरणं, स्थैर्यमिति / स्थिरीभवनम् , उपवेशनशयनादिक्रियेति यावत् / मुकुन्दस्यासितमिद. मिति // श्लोकोऽयम् / आस्यते अस्मिन्नित्यासितम् , आसनमित्यर्थः। ध्रौव्यार्थस्योदाहरणमिदम् / इदं यातं रमापतेरिति / / गत्यर्थस्योदाहरणम् / यायते गम्यते अस्मिन्निति यातं, मार्ग इत्यर्थः / भुक्तमेतदनन्तस्येति // भुज्यते अस्मिन्निति भुक्तम् / भोजनस्थानमित्यर्थः / 'अधिकरणवाचिनश्च' इति त्रिष्वपि कर्तरि षष्ठी / पक्षे इति // अधिकरणे प्रत्ययाभावपक्षे इत्यर्थः / सेरकर्मकत्वादिति // ततश्च न कर्मणि क्त इत्यर्थः / आसितो मुकुन्द इति // आसितवानित्यर्थः / आसितं तेनेति // भावे उदाहरणम् / गत्यर्थेभ्य इति // तेषां सकर्मकतया कर्तरि कर्मणि च क्तः, न तु भावे इत्यर्थः / 'लः कर्मणि च' इत्यत्रादर्शनादिति भावः / भुजेः कर्मणीति // भक्षणार्थात्कर्मणि क्तः, न तु भावे / सकर्मकेभ्यो भावे प्रत्ययस्य 'लः कर्मणि' इत्यत्रादर्शनात् / नापि प्रत्यवसानार्थेभ्यः कर्तरि, अनभिधानादित्यर्थः / कथमिति // भुजेः कर्तरि काभावस्योक्तत्वादिति भावः / समाधते / भुक्त. मस्त्येषामिति // अत्र गत्यर्थेभ्यो भावेऽपि तप्रत्ययोऽस्त्येव / अविशेषात् 'अजय सङ्गतम्' For Private And Personal Use Only
Page #556
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 554 सिद्धान्तकौमुदीसहिता कदन्त 3088 / जीतः क्तः / (3-2-187) 'मि क्ष्विदा' दिवण्णः / नि इन्धी' इद्धः / 3089 / मतिबुद्धिपूजार्थेभ्यश्च / (3-2-188) मतिरिहेच्छा / बुद्धे. पृथगुपादानात् / राज्ञां मतः इष्टः / तैरिष्यमाण इत्यर्थः / बुद्धः / विदितः / पूजितः / अर्चितः / चकारोऽनुक्तसमुच्चयार्थः / "शीलितो रक्षित: क्षान्त आक्रुष्टो जुष्ट इत्यपि” इत्यादि। 3090 / नपुंसके भावे क्तः / (3-3-114) क्लीबत्वविशिष्ट भावे कालसामान्य क्त: स्यात् / जल्पितम् / शयितम् / हसितम् / 3091 / सुयजोनिप् / (3-2-103) / सुनोतेय जश्च नि-स्याद्भूते / सुत्वा, सुत्वानौ / यज्वा, यज्वानौ / 3092 / जीयतेरतॄन् / (3-2-104) भूते इत्येव / जरन्-जरन्तौ-जरन्तः। वासरूपन्यायेन निष्ठापि / जीर्णः जीर्णवान्। इति सूत्रे 'अनकमन्यपदार्थ' इति सूत्रे च भाष्ये गत्यर्थेभ्यो भाव क्तप्रत्ययस्य अभ्युपगमा. चेनि शब्देन्दुशंखरे विस्तरः / इत्यधिकृत्येति // 'वर्तमाने लट्' इत्यतो मण्डूकप्लुत्या अनु. वर्तमान इत्यर्थः / चानशादीनां सर्वकालतायाः ‘भूने' इति सूत्रे भाष्ये उक्तत्वात् इत्याहुः / जीतः क्तः // निः इत् यस्य तस्माद्वर्तमानक्रियावृत्तेः क्त इत्यर्थः / 'तयोरेव कृत्यक्त' इति भावकर्मणारव भून विहितः क्तः वर्तमाने न प्राप्नोतीत्यारम्भः / विण्ण इति // ‘आदितश्च' इति नेट / इद्ध इति // वीदितः' इति नट् / मतिबुद्धि // मति, बुद्धि, पूजा, अर्थः, एषामिति विग्रहः / वर्तमाने क्त इति शेषः / 'तयोरेव' इति भावकर्मणोरेव मतः इष्ट इति // इच्छार्थकान्मनरिषेश्च क्तः / 'तीषसह' इति वट्कन्वात् 'यम्य विभाषा' इति नेट / शीलितो रक्षित इति // भाष्यस्थश्लोक ऽयम् / इत्यादीति // आदिना “रुष्टश्च रुषितश्चोभावभिव्य हृत इत्यपि / “हृष्टतुष्टौ तथाक्रान्तस्तथा भौ संयताद्यतौ / कष्टम्भविष्यतीत्याहु' मृनःपूर्ववस्मृतः' इति सङ्ग्रहः / कष्टशब्दा भविष्यति अमृतशब्दो वर्तमाने इत्यर्थः / नपुंसक भावे क्तः // कालसामान्ये इति // अस्य वर्तमानाद्यधिकारानन्तर्भावादिति भावः / 'अकर्मकभ्य एव नपुंसके भावे क्तः, नतु सकर्मकात' इति 'गरध्ययन वृत्तम्' इति सूत्र भाष्यकैयटयो स्पष्टम। तद्धनयनकर्मकभ्य एवोदाहरति / जल्पितमित्यादि // गतं भुक्तांमत्यादौ तु अविवक्षितकर्मकत्वात् अकर्मकत्वं बोध्यम् / अत एव गतं हंसम्य, भुक्तमादनस्यत्यादौ शेषत्वविवक्षया षष्ठीति दिक् / सुयजोवानप् // पञ्चम्यर्थे षष्टी / सुनातेयजश्च वनिाबत्यर्थः / भूते इति // अस्य भूनाधिकारस्थत्वादिति भावः / सुत्वा-सुन्वानाविति // कुनिपि लुपावितो, इकार उच्चारणार्थः / डिवान गुणः / जीयतेग्तृन् // भूते इत्यवति // भूनार्थवृत्तधातोरतृन स्यादित्यर्थः / ऋकारनकारावितौ। अप्रत्ययश्शिष्यत / जनिति // उगित्त्वान्नुम् / जार्ण इति // 'ऋत इत्' For Private And Personal Use Only
Page #557
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा / 3093 / छन्दसि लिट् / (3-2-105) 3094 / लिटः कानज्वा / (3-2-106) 3095 / कसुश्च / (3-2-107) इह भूतसामान्ये छन्दसि लिट् / तस्य विधीयमानौ कसुकानचावपि छान्दसाविति त्रिमुनिमतम् / कवयस्तु बहुलं प्रयुञ्जते / 'तं तस्थिवांसं नगरोपकण्ठे' / ' श्रेयांसि सर्वाण्यधिजग्मुषस्ते' इत्यादि / 3096 / वस्त्रेकाजासाम् / (7-2-67) कृतद्विवचनानामेकाचामादन्तानां घसेश्च वसोरिट, नान्येषाम् / एकाच , आरिवान् / आत्, ददिवान् / जक्षिवान् / एषाम् ' किम् / बभूवान् / / रपरत्वम् , 'हलि च' इति दीर्घः / निष्टानत्वम् / छन्दसि लिट् // लिटः कानज्वा // कसुश्च // त्रीणीमानि सूत्राणि / अत्र प्रथमसूत्र भूत इत्यनुवृत्तिमभिप्रेय व्याचष्टे / भूतसामान्ये छन्दसि लिडिति // अनद्यतनपरोक्षत्वं छन्दसि न विवक्षितमिति भावः / 'लिटः कानज्वा' इति द्वितीयं सुत्रम् / तत्र छन्दसीत्यनुवर्तते, भूत इति च / छन्दसि भूत लिट: कानजादशः स्यादित्यर्थः / लिड्ग्रहणं लिण्मात्रस्य ग्रहणार्थम् / तेन 'परोक्ष लिट्' इति यो लिाडहितः तस्यापि ग्रहणार्थः / अन्यथा 'अनन्तरस्य' इति न्यायेन प्रकृतस्यैव लिटो ग्रहण स्यादिति वृत्ता स्पष्टम् / वाग्रहणन्तु पक्ष लिटः श्रवणार्थ, वासरूपविधिलादेशेषु नेति ज्ञापनार्थे वा / तत्प्रयोजनन्तु 'भाषायां सदवस' इत्यत्न अनुपदमेव वक्ष्यते / 'वसुश्च' इति तृतीयं सूत्रम् / छन्दसि भूने लिटः कसुश्चादेशः स्यादित्यर्थः / योगविभागम्तु उत्तरपूत्रे कसोरेवानुवृत्त्यर्थः / इमौ कानच्चसू आदेशौ छान्दसाविति अत्रैव भाष्यकैयटयोः स्पष्टम् / तदाह / तस्येत्यादि त्रिमुनिमतमित्यन्तम् // 'विभाषा पूर्वाहापराह्न' इति सूत्रभाध्ये तु पपुष आगतं पापवद्रूप्यमिति प्रयुक्तम् / तेन लोकेऽपि क्वचित् वसस्सिाधुत्वं सूचितम् / तदाह / कवयस्त्विति // तस्थिवांसमिति // स्थाधाताः लिटः वसुः। द्वितीयैकवचने 'अत्वसन्तस्य' इति दीर्घ, उगित्त्वान्नुम् / अधिजग्मुष इति // अधिपूर्वाद्गमेलिट: वसुः ‘गमहन' इत्युपधालोपः, शसि वसोस्सम्प्रसारणं, पूर्वरूपम, षत्वम् / वस्वे॥ वसु इत्यविभक्तिको निर्देशः / तथाच व्याख्यास्यति / वसोरिति // नित्यत्वात् द्वित्वं कृते एकाच्वमेव नेति कथमिट्स्यात् इत्यत आह / कृतद्विर्वचनानामेकाचामिति // कृती द्वित्वं एकाच एव ये अवशिष्यन्ते तेषामित्यर्थः / 'नशि कृति' इति निषेधं बाधित्वा क्रादिनियमात् सर्वत्र प्राप्तस्य इटो नियमोऽयमित्याह / नान्येषामिति // आरिवानिति // 'ऋ गतौ " ऋच्छत्यताम्" इति गुणे कृते द्वित्वादिषु पूर्ववत् कृतेषु अयमेकाच् / ददिवानिति // डु दाञ् दाने कृते द्वित्वे नायमकाच इग्निमित्तश्चातो लोपो नासति तस्मिन् भवतीति अनेकाजर्थमाद्रहणम् / जक्षिवानिति // 'लिट्यन्यतरस्याम्' इत्यदेघस्लादेशः / द्वित्वे कृते नायमेकाजिति For Private And Personal Use Only
Page #558
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 556 सिद्धान्तकौमुदीसहिता [कृदन्त 3097 / भाषायां सदवसश्रुवः / (3-2.108) सदादिभ्यो भूतसामान्ये भाषायां लिड्डा स्यात् , तस्य च नित्यं कसुः / 'निषेदुषीमासनबन्धधीरः' / 'अध्यूषुषस्तामभवजनस्य' / शुश्रुवान् / 3098 / उपेयिवाननाश्वाननूचानश्च / (3-2-109) एते निपात्यन्ते / उपपूर्वादिणो भाषायामपि भूतमा लिड्डा, तस्य नित्यं कसुः / इट् / उपेयिवान् / * उपयुषः स्वामपि मूर्तिमग्रथाम्' / उपेयुषी। उपेत्यविवक्षितम् / ईयिवान् / समीयिवान् / नञ्पूर्वादनाते: कसुरिडभावश्च / 'धृतजयधृतेरनाशुषः' इति भारविः / अनुपूर्वाद्वचेः कर्तरि कानच् / वेदस्यानुवचनं कृतवाननूचानः / घसिग्रहणम् / भाषायाम् // सद, वस, श्रु, एषान्द्वन्द्वात्पञ्चमी / पुंस्त्वमेकवचनञ्चार्षम् / तस्य च नित्यं वसुरिति // वाग्रहणं लिटैव सम्बध्यते / तस्य वसुस्तु नित्यः इति भाष्ये स्पष्टम् / पक्षे लुङ् / तस्य भूतसामान्ये विहितत्वात् / वाग्रहणाननुवृत्तौ तु भूतसामान्ये लिडयं नित्यं लुङपवादः स्यात् / सरूपत्वात् / अस्य च भूतसामान्ये लिटः न तिङ् / अस्य वसोस्तदपवादत्वात् / वासरूपविधिस्तु लादेशेषु नेति 'लिटः कानज्वा' इत्यत्र उक्तमिति शब्देन्दुशेखरे विस्तरः / निषेदुषीमिति // निपूर्वात्स. देलिटः क्वसुः, द्वित्वम् 'अत एकहल्मध्ये' इत्येत्त्वाभ्यासलोपौ, वसोस्सम्प्रसारणं, पूर्वरूपं, षत्वम् / अध्यषुष इति // अधिपूर्वाद्वसधातोलिटः क्वसुः, यजादित्वाद्धातोर्वस्य सम्प्रसारणम् / पूर्वरूपम् , उस् इत्यस्य द्वित्वं, हलादिशेषः, सवर्णदीर्घः / शसि वसोस्सम्प्रसारणं, पूर्वरूपम् / शुश्रुवानिति // श्रुधातोलिटः क्वसुः, द्वित्वम् / उपेयिवान् // इडिति // उपपूर्वादिण्धातोः लिटः क्वसुः, नित्यत्वावित्वम् / “वलादिलक्षण इट् 'नेशि कृति' इति प्रतिषिद्धः, स तावत् क्रादिनियमात्पुनरुत्थितः / पुनश्च ‘वखेकाजाद्धसाम्' इति सूत्रेण एकाचश्च आदन्ताच घसेश्च परस्य वसोरिट् स्यात् नान्येभ्य इत्यर्थकेन द्वित्वानन्तरमनेकाच्वात् प्रतिषिद्धः, सोऽयमिट् अनेन निपातनेन प्रतिप्रसूयते” इति भाष्ये स्पष्टम् / इटि कृते उत्तरखण्डस्य इकारस्य यण् , अभ्यासस्य दीर्घस्तु निपात्यते / नन्वत्र अपूर्व एव इट् निपात्यतामित्यत आह / उपेयुषीति // उगित्त्वान्डीपि वसोस्सम्प्रसारणम् / प्रतिप्रसूतो वलादिलक्षण इट् तु न / तनिमित्तस्य वकारस्य सम्प्रसारणेन विनाशोन्मुखत्वात् / अत्र अपूर्वस्य इटो निपातने तु अत्रापि इट् स्यादिति भावः। उपेत्यविवक्षितमिति // अत्र व्याख्यानमेव शरणम्। अश्नातेरिति // 'अश भोजने' श्राविकरणः, क्रयादिः, लिटः क्वसुः, द्वित्वम् ‘अत आदेः' इति दीर्घः, सवर्णदीर्घः, द्विहल्त्वा. भावान नुट् / 'अश्नोतेश्च' इत्यपि न नुट् / इनुविकरणस्थस्यैव तत्र ग्रहणात् / नञ उपपदसमासः / 'नलोपो नञः, तस्मान्नुडचि' इति भावः / वचेः कर्तरीति // न तु भावकर्मणोरिति भावः / For Private And Personal Use Only
Page #559
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा / 557 3099 / विभाषा गमहनविदविशाम् / (7-2-68) एभ्यो वसोरिडा / जग्मिवान्-जगन्वान् / जन्निवान्-जघन्वान् / विविदिवान-विविद्वान् / विविशिवान-विविश्वान् / विशिना साहचर्याद्विन्दतेग्रहणम् / वेत्तेस्तु विविद्वान् / 'नेडशि कृति' (सू 2981) इतीनिषेधः / 'दृशेश्च' (वा 4452) / ददृशिवान-ददृश्वान् / 3100 / लटः शतृशानचावप्रथमासमानाधिकरणे / (3-2-124) अप्रथमान्तेन सामानाधिकरण्ये सतीत्यर्थः / शबादि। पचन्तं चैत्रं पश्य / 3101 / आने मुक् / (7-2-82) अदन्तस्याङ्गस्य मुगागम: स्यादाने परे / पचमानं चैत्रं पश्य / लडित्यनुवर्तमाने पुनर्लग्रहणमधिकविधानार्थम् / तेन प्रथमासामानाधिकरण्येऽपि कचित् / सन्ब्राह्मणः / 'माङयाक्रोशे इति वाच्यम्' (वा 2109) / 'मा जीवन्यः परावज्ञादुःखदग्धोऽपि जीवति' / 'माङि लुङ्' (सू 2219) इति प्राप्ते एतद्वचनसामर्थ्याल्लट् / 3102 / सम्बोधने च / (3-2-125) हे पचन् / हे पचमान / कानचि यजादित्वात्सम्प्रसारणं, पूर्वरूपं, सवर्णदीर्घः। विभाषा गम // 'विभाषा गमहन' इत्यादि स्पष्टम् / लटः शतृशानचौ // 'वर्तमाने लट्' इति पूर्वसूत्रविहितस्यैव एतौ शतृशानचौ / अनन्तरस्येति न्यायादिति 'वर्तमानसामीप्ये' इत्यादिभाष्ये स्पष्टम् / शतृप्रत्यये शकारऋकारावितौ / पचन्तमिति // पाकानुकूलव्यापाराश्रयमित्यर्थः ‘क्रियाप्रधानमाख्यातम् , सत्वप्रधानानि नामानि' इति सिद्धान्तात् / शतश्शित्त्वेन सार्वधातुकत्वात् शपि 'अतो गुणे' इति पररूपम् / शानचि शचावितौ / आने मुक् // 'अङ्गस्य' इत्यधिकृतम् / 'अतो येयः' इति पूर्वसूत्रादनुवृत्तेन षष्ठ्या विपरिणतेन अता विशेष्यते / तदन्तविधिः / तदाह / अदन्तस्येति // मुकि ककार इत् , उकार उच्चारणार्थः, कित्त्वादन्तावयवः / अनुवर्तमाने इति // 'वर्तमाने लट्' इति पूर्वसूत्रादनुवृत्तस्य लडित्यस्य षष्ठ्या विपरिणामेन उक्तार्थलाभे सतीत्यर्थः / अधिकेति // सूत्राक्षरानारूढस्यापि अर्थस्य लाभार्थमित्यर्थः / सन् ब्राह्मण इति // 'अस भुवि' शतृप्रत्यये शपो लुक् / श्रसोरल्लोपः / माङीति // माडि प्रयुज्यमाने आक्रोशे गम्ये लटश्शतृशानचाविति वक्तव्यमित्यर्थः / मा जीवन्निति // न जीवत्ययम् अनुपकारित्वात् / मृतप्राय इत्यर्थः। मा पचमान इत्यप्युदाहार्यम् / 'लटश्शतृशानचौ' इत्येव सिद्धेः किमर्थमिदमित्यत आह / माङि लुङितीति // सम्बोधने च // लटश्शतृशानचाविति शेषः / प्रथमासमानाधिकरणार्थ आरम्भः / पूर्वसूत्रस्थपुनलैङ्ग्रहणस्य अधिकविधानार्थत्वादेव सिद्धे प्रपञ्चार्थ For Private And Personal Use Only
Page #560
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 558 सिद्धान्तकौमुदीसहिता [कृदन्त 3103 / लक्षणहेत्वोः क्रियायाः / (3-2-126) क्रियायाः परिचायके हेतो चार्थे वर्तमानाद्धातोर्लटः शतृशानचौ स्तः / शयाना भुञ्जते यवनाः / अर्जयन्वसति / हरिं पश्यन्मुच्यते / हेतु: फलं कारणं च / ‘कृत्यच:' (सू 2835) / प्रपीयमाणः सोमः / 3104 / ईदासः / (7-2-83) आस: परस्यानस्य ईत्स्यात् / ‘आदेः परस्य' (सू 44) आसीनः / 3105 / विदेः शतुर्वसुः। (7-1-36) वेत्तेः परस्य शतुर्वसुरादेशो वा स्यात् / विद्वान् / विदन / विदुषी / 3106 / तौ सत् / (3-2-127) तौ शतृशानची सत्संज्ञौ स्तः / / 3107 / लटः सहा / (3-3-14) व्यवस्थितविभाषेयम् / तेनाप्रथमासामानाधिकरण्ये प्रत्ययोत्तरपदयोः संबोधने लक्षणहत्वोश्च नित्यम् / करिष्यन्तं करिष्यमाणं पश्य / करिष्यतोऽपत्यं मिदम् / लक्षणहेत्वोः // लक्ष्यते ज्ञाप्यतेऽनेनति लक्षणम् , ज्ञापकम् / तदाह / क्रियायाः परिचायके इति // धात्वर्थस्य लक्षणत्वे हेतुत्वे च द्योत्ये इति यावत् / कतैव प्रत्ययार्थः / शयाना भुञ्जते यवना इति // अत्र भोजनकालीनं शयनं भोक्तुर्यवनत्वसूचकम् / हेतावुदाहरति / अर्जयन्वसतीति // अर्जनाय वसतीत्यर्थः / हेतावुदाहरणान्तरमाह / हरिं पश्यन्निति // हरिदर्शनेन संसारदुःखान्मुच्यते इत्यर्थः / ननु धनाद्यार्जनस्य वाससाध्यतया कथ तस्य वासहेतुत्वं इत्यत आह / हेतुः फलं कारणश्चेति // इष्टसाधनताज्ञानस्य वासप्रवृत्ती हेतुतया इष्टस्यार्जनस्यापि वासहेतुत्वमिति भावः / प्रपीयमाण इति // अत्र भिन्नपदस्थत्वात् कथं णत्वमित्यत आह / कृत्यच इति // ईदासः // आस इति पञ्चमी / आनस्येति // 'आने मुक्' इत्यतस्तदनुवृत्तरिति भावः / विदेः शतुर्वसुः॥ वेत्तेरिति // 'विद ज्ञाने' इति लुग्विकरणस्यैव ग्रहणम् / शतुः परस्मैपदत्वात् विद्यतेर्विन्तश्चात्मनपदित्वात् / यद्यपि विन्दतिरुभयपदी, तथापि तस्य न ग्रहणान् / 'निरनुबन्धकग्रहण न सानुबन्धकस्य' इत्युक्तेरिति भावः। वा स्यादिति // 'तुह्यास्तातङ् इत्यतस्तदनुवृत्तरिति भावः। विदुषीति // उगित्यान्डीप् , वसोस्सम्प्रसारणं, पूर्वरूपम् , षत्वम् / तौ सत्॥ 'लटइशतृशानचौ' इति सूत्रोपात्तो शतृशानचौ तच्छब्दः परामृशति / तदाह / तौशतृशानचाविति // लुटः सद्वा॥ लुटश्शतृ. शानचौ वा स्त इत्यर्थः / व्यवस्थिति // व्याख्यानादिति भावः / नित्यमिति // तेन तानिवृत्तिः / अप्रथमासामानाधिकरण्ये उदाहरति / करिष्यन्तमिति // प्रत्यये परतः उदाहरति / करिष्यतोऽपत्यं कारिष्यत इति // उत्तरपदे उदाहरति / करिष्यद्भक्तिरिति // करिष्यन्ती भक्तिरिति कर्मधारयः / सम्बोधने उदाहरति / हे करिष्यन्निति // For Private And Personal Use Only
Page #561
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा / 559 कारिष्यतः। करिष्यद्भक्तिः / हे करिष्यन् / अर्जयिष्यन्वसति / प्रथमासामानाधिकरण्येऽपि कचित् / करिष्यतीति करिष्यन् / 3108 / पूड्यजोः शानन् / (3-2-128) वर्तमाने / पवमानः / यजमानः / 3109 / ताच्छील्यवयोवचनशक्तिषु चानश् / (3-2-129) एषु द्योत्येषु कर्तरि चानश् / भोगं भुजान: / कवचं बिभ्राणः / शत्रु निनानः। 3110 / इधार्योः शत्रकृच्छिणि / (3-2-130) आभ्यां शतृ स्यादकृच्छ्रिणि कर्तरि / अधीयन् / धारयन् / 'अकृच्छिणि' किम् / कृच्छ्रेण अधीते धारयति / ___3111 / द्विषोऽमित्रे / (3-2-131) द्विषञ्छत्रुः / 3112 / सुनो यज्ञसंयोगे / (3-2-132) सर्वे सुन्वन्तः, सर्वे यजमाना:, सत्रिणः / शयिष्यमाणा भोक्ष्यन्ते यवना इति लक्षणे उदाहार्यम् / हेतावुदाहरति / अर्जयिष्यन्वस. तीति // प्रथमासामानाधिकरण्यऽपि कचिदिति // प्रथमासामानाधिकरण्यऽपि कचिदित्यर्थः / कदाचिदित्याप द्रष्टव्यम् / इदञ्च 'लुट् शंष च' इति भविष्यदधिकारविहित लट्येव प्रवर्तते इति "अनवक्लुप्त्यमर्ष" इत्यत्र भाष्य स्पष्टम् / पूङ्यजोः शानन् // पञ्चम्यर्थे षष्ठी / वर्तमाने इनि // शेषपूरणमिदम् / 'वर्तमान लट्' इत्यतस्तदनुवृत्तरिति भावः। लड्महणन्तु निवृत्तम् / ततश्च ण्वुलादिवत्स्वतन्त्रोऽयम् , नतु शत्रादिवल्लादेशः / तथा च कर्तर्येवायम् , नतु भावकर्मणाः / नच लादेशत्वाभावे सामम्पवमान इत्यत्र कर्माण षष्ठी स्यादिति वाच्यम् / 'न लाक' इति सूत्र 'तृन्' इति प्रत्याहार इत्युक्तत्वात् / ताच्छील्य // चानशि चशाविनौ / भोगं भुजान इति // भागशील इत्यर्थः / कवचम्बिभ्राण इति // यौवनबलादिति भावः / शत्रुन्निनान इति // निहन्तुं शक्त इत्यर्थः / अतः परत्वाभावान मुक् / चानशः लादेशत्वाभावात् अनात्मनेपदत्वात् परम्मैपदिभ्योऽपि प्रवृत्तिः। इधार्योः॥ शतृ अकृच्छ्रिणीति छदः / अकृच्छ्रम , अदुःखम् , तदस्यास्तीति अकृच्छ्री। इङ्, धार, अनयोः द्वन्द्वात् पञ्चम्यर्थे षष्ठी। अधीयन्निात || सुखमध्यतेत्यर्थः / धारयन्निति // सुन धारयितेत्यर्थः / द्विषोऽमित्रे॥ द्विषश्शतृप्रत्ययः स्यात् / आमत्र कर्तरीत्यर्थः / सुञा यज्ञ // यज्ञसयुक्तंऽभिषवं वर्तमानात् सुनानः शतृप्रत्यय इत्यर्थः / संयोगग्रहण यज्ञस्वामिपरिग्रहार्थम् / तेन याजकेषु न भवति / तत्र सुन्वन्नित्येकवचनान्तं दर्शपूर्णमासज्यातिष्टामादिविषयम् , एककर्तृकत्वात् / बहुवचनान्तन्तु सत्रविषयमेव, तत्र ऋत्विजामाप यजमानत्वादिति मत्वा आह / सर्वे सुन्वन्त इति // For Private And Personal Use Only
Page #562
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shrine Acharya Shri Kailassagarsuri Gyanmandir 560 560 [कृदन्त सिद्धान्तकौमुदीसहिता .3113 / अर्हः प्रशंसायाम् / (3-2-133) अर्हन् / 3114 / आ केस्तच्छीलतद्धर्मतत्साधुकारिषु / (3-2-134) किपमभिव्याप्य वक्ष्यमाणा: प्रत्ययास्तच्छीलतद्धर्मतत्साधुकारिषु कर्तृषु बोध्याः / 3115 / तन् / (3-2-135) कर्ता कटम् / 3116 / अलङ्कुनिराकृञ्प्रजनोत्पचोत्पतोन्मदरुच्यपत्र पवृतुवृधुसहचर इष्णुच् / (3-2-136) अलङ्करिष्णुरित्यादि / (निराकरिष्णुः / प्रजनिष्णुः / उत्पचिष्णुः / उत्पतिष्णुः / उन्मदिष्णुः / रोचिष्णुः / अपत्रपिष्णुः / वर्तिष्णुः / वर्धिष्णुः / सहिष्णुः। चरिष्णुः / ) 3117 / णेश्छन्दसि / (3-2-137) 'वीरुधः पारयिष्णवः'।। अर्हः प्रशंसायाम् // अई इति पञ्चमी / शतृप्रत्यय इति शषेः। अर्हन्निति // पूजाम्प्राप्तुं योग्य इत्यर्थः / अत्र प्रशस्तस्यैव पूजायोग्यत्वात् प्रशंसा गम्यते / आ क्वेस्तच्छीलतद्धर्मतत्साधुकारिषु // आङभिविधौ / तदाह / क्विपमभिव्याप्येति // 'भ्राजभासधुर्विद्युतोर्जिपृजुप्रावस्तुवः विप्' इति सूत्रमभिव्याप्येति यावत् / तत्र ताच्छीलिकाः प्रत्ययाः प्रायेण सोपसर्गेभ्यो नति 'आत्यसुभग' इति सूत्रे भाष्ये स्पष्टम् / तच्छील: तत्स्वभावः फलमनपेक्ष्य स्वभावादेव प्रवर्तमान इति यावत् / सः धर्मः यस्य सः तद्धर्मा / खधर्मोऽयमिति प्रवर्तमानः। तस्य धात्वर्थस्य साधुकर्ता तत्साधुकारी। तृन् // धातोस्तृन्प्रत्ययः स्यात् तच्छीलादिषु कर्तृषु / तच्छीले उदाहरति / कर्ता कटमिति // कटकरणक्रियाशील इत्यर्थः। 'न लोक' इति षष्ठीनिषेधः / 'न लोक' इति सूत्र तृनित्यनेन 'लटः शतृ' इत्यारभ्य एतत्सूत्रस्थनकारेण प्रत्याहाराश्रयणात् / तद्धर्मणि यथा। मण्डयितारः श्राविष्ठायनाः / ऊढां वधू श्राविष्टायना नाम देशविशेषीयाः वधूमण्डनं स्वधर्म इत्यनुष्ठातार इत्यर्थः / तत्साधुकारिणि कर्ता कटमित्येवोदाहरणम् / कटं स.धु करोतीत्यर्थः / अलंकृञ् // अलंकृञ् , निराकृञ् , प्रजन, उत्पच, उत्पत, उन्मद, रुचि, अपत्रप, वृतु, वृधु, सह, चर, एषां द्वादशानन्द्वन्द्वात्पञ्चमी / एभ्यः तच्छीलादिषु कर्तृषु इष्णुच् स्यात् / इत्यादीति // निराकरिष्णु: प्रजनिष्णुः उत्पचिष्णुः उत्पतिष्णुः उन्मदिष्णु: रोचिष्णुः अपत्रपिष्णुः वर्तिष्णुः वर्धिष्णुः सहिष्णु: चरिष्णुः / णेश्छन्दसि // ण्यन्ताद्धातोरिष्णुच् स्यात् छन्दसीत्यर्थः / पारयिष्णव इति // For Private And Personal Use Only
Page #563
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा। 561 3118 / भुवश्व / (3-2-138) छन्दसीत्येव / भविष्णुः / कथं तर्हि 'जगत्प्रभोरप्रभविष्णु वैष्णवम्' इति / निरङ्कुशा: कवयः / चकारोऽनुक्तसमुच्चयार्थः / भ्राजिष्णुरिति वृत्तिः / एवं क्षयिष्णुः / नैतद्भाष्ये दृष्टम् / 3119 / ग्लाजिस्थश्व क्स्नुः / (3-2-139) छन्दसीति निवृत्तम् / गिदयं न तु कित् / तेन स्थ ईत्त्वं न / ग्लास्तुः / गित्त्वान्न गुण: / जिष्णुः / स्थास्नुः / चाद्भुवः / ' ,युक: किति' (सू 2381) इत्यत्र गकारप्रश्लेषान्नेट् / भूष्णुः / ‘दंशेश्छन्दस्युपसङ्खथानम्' (वा 2129) / 'दक्ष्णवः पशवः / ' 3120 / त्रसिगृधिधृषिक्षिपेः क्नुः / (3-2-140) त्रस्नुः / गृध्नुः / धृष्णुः / क्षिप्नुः / 3121 / शमित्यष्टाभ्यो घिनुण् / (3-2-141) उकार उच्चारणार्थ इति काशिका / अनुबन्ध इति भाष्यम् / तेन शमिनितरा-शमिनीतरा इत्यत्र ‘उगितश्च' (सू 987) इति ह्रस्वविकल्पः / पृधातोर्ण्यन्तादिष्णुचि गेलॊपम्बाधित्वा 'अयामन्ताल्वाय्य' इत्यय् / इदं सूत्रं वैदिकप्रक्रियायामेव व्याख्यातुमुचितम् / भुवश्च // छन्दसीत्येवेति // भूधातोरिष्णुच् स्यात् / तच्छीलादिषु छन्दसीत्यर्थः / अण्यन्तार्थ आरम्भः / ग्लाजिस्थश्च // निवृत्तमिति // व्याख्या. नादिति भावः / चात् भुव इत्यनुकृष्यते। ग्ला, जि, स्था, एषान्द्वन्द्वात्पञ्चमी / ग्ला, जि, स्था, भू इत्येभ्यः क्स्नु: स्यात् तच्छीलादिवित्यर्थः / ककार इत् / स्थाम्नु इत्यत्र कित्त्वलक्षणं 'घुमास्था' इतीत्वमाशय आह / गिदयमिति // सूत्रे चर्वेन ककानिर्देश इति भावः / गित्त्वान्न गुण इति // ‘क्ङिति च' इत्यत्र गस्य चर्वेन ककारान्तरप्रश्लषादिति भावः / ननु भूष्णुरित्यत्र इट् स्यात् , 'श्रयुकः किति' इति कित एव इनिषेधात् / अस्य च गित्त्वादित्यत आह / श्युक इति // प्रश्लेषादिति // चर्चेनति भावः / त्रसिगृधि // तच्छीलादिषु कर्तृ. स्विति शेषः / त्रस्नुरिति // नडशीति नेट। गृध्नुः धृष्णुरि यत्र कित्वान्न गुणः। शमित्यष्टाभ्यः॥ इतिशब्दः आदिपर्यायः / शमादयः दिवादौ स्थिताः / तेभ्यः अष्टाभ्यो घिनुण स्यात् तच्छीलादिष्वित्यर्थः / घित्त्वमुत्तरसूत्रार्थम् / “अकर्मकेभ्य एव घिनुण्” इति भाष्यम् / शमिनितरा-शमिनीतरेति // शमिन्शब्दात् स्त्रियान्नान्तलक्षणडीबन्तात् तरबन्ताहाप् / ह्रस्वविकल्पः इति // भाष्यमते उगित्त्वाद्रस्वः / काशिकामते तु उगित्त्वाभावान ह्रस्वः / 11 For Private And Personal Use Only
Page #564
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 562 सिद्धान्तकौमुदीसहिता [कृदन्त न चैवं शमी शमिनावित्यादौ नुम्प्रसङ्गः / झल्ग्रहणमपकृष्य झलन्तानामेव तद्विधानात् / 'नोदात्तोपदेशस्य-' (सू 2763) इति वृद्धिनिषेधः / शमी / तमी / दमी / श्रमी / भ्रमी / क्षमी / क्लमी / प्रमादी / उत्पूर्वान्मदेः अलङ्कवादिसूत्रेणेष्णुजुक्तः, वासरूपविधिना घिनुणपि। उन्मादी। 'ताच्छीलिकेषु वासरूपविधिर्नास्ति' इति तु प्रायिकम् / / 3122 / सम्पृचानुरुधाङयमाङयसपरिसृसंसृजपरि देविसज्वरपरिक्षिपपरिरटपरिवदपरिदहपरिमुहदुषद्विषद्रुहदुहयुजाक्रीडविविचत्यजरजभजातिचरापचरामुषाभ्याहनश्च / (3-2-242) घिनुण्स्यात् / सम्पर्की / अनुरोधी / आयामी / आयासी / परिसारी / संसर्गी / परिदेवी / संज्वारी / परिक्षेपी। परिराटी / परिवादी / परिदाही / परिमोही / दोषी / द्वेषी / द्रोही / दोही। योगी / आक्रीडी / विवेकी / त्यागी / रागी / भागी / अतिचारी / अपचारी / आमोषी / अभ्याघाती / 3123 / वौ कषलसकत्थस्रम्भः / (3-2-143) नच ह्रस्वाभावे 'तसिलादिषु' इति पुंवत्त्वं शङ्कयम् / 'संज्ञापूरण्योश्च' इति निषेधात् / ननु भाष्यरीत्या उगित्त्वाभ्युपगमे शमी-शमिनौ इत्यादौ 'उगिदचाम्' इति नुम् स्यादित्याशङ्कय निराकरोति / न चैवमिति // झल्ग्रहणमपकृष्येति // 'नपुंसकस्य झलचः' इति उत्तरसूत्रादिति भावः / एतच्च प्रकृतसूत्रे 'युवोरनाको' इति सूत्रे च भाष्ये स्पष्टम् / शमादिभ्यो घिनुणि उपधावृद्धिमाशङ्कय आह / नोदात्तेति // प्रमादीति // मान्तत्वाभावान्न वृद्धिनिषेधः / ननु उत्पूर्वान्मदेरुन्मादीति कथं घिनुण् / अलङ्कादिसूत्रे उत्पूर्वान्मदेविशिष्य इष्णुचो विधानादित्यत आह / उत्पूर्वादित्यादिना // ननु कथमत्र ताच्छीलिके घिनुणि वासरूपविधिप्रवृत्तिः / ताच्छीलिकंषु वासरूपविधिर्नास्तीति निषेधादित्यत आह / ताच्छीलिकंष्विति // इयम्परिभाषा ‘निन्दहिंस' इत्यादिवक्ष्यमाणसूत्रे ज्ञापितेति भाष्ये स्पष्टम् / प्रायिकमिति // एतच्च ‘सूददीपदीक्षश्च' इति दीपग्रहणादिति ‘जुचकम्यदन्द्रम्य' इति सूत्र भाष्ये स्पष्टम् / सम्पृचानुरुधाङयमाङयस // सम्पृच, अनुरुध, आङयम, आङ्यस, परिस, संसृज, परिदेवि, सज्वर, परिक्षिप, परिरट, परिवद, परिदह, परिमुह, दुष, द्विष, द्रुह, दुह, युज, आक्रीड, विविच, त्यज, रज, भज, अतिचर, अपचर, आमुष, अभ्याहन्, एषां सप्तविंशानां द्वन्द्वात्पञ्चमी / सम्पर्कीति // 'चजोः' इति कुन्वम् / अनुरोधीत्यादौ लघूपधगुणः / अदुपधषु उपधावृद्धिः / परिदेवीति // 'देव देवने ' भ्वादिः / दीव्यतस्तु ण्यन्तस्य न ग्रहणम् / लाक्षणिकत्वात् , अण्यन्तैस्साहचर्याच / अभ्याघातीति // 'हनस्तोऽचिण्णलोः' इति तत्वम् / 'हो हन्तेः' इति कुत्वम् / वौ कषलस // कष, लस, For Private And Personal Use Only
Page #565
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा / विकाषी / विलासी / विकत्थी / विस्रम्भी / 3124 / अपे च लषः / (3-2-144) चाद्वौ / अपलाषी / विलाषी। 3125 / प्रे लपमृद्रुमथवदवसः / (3-2-145) प्रलापी / प्रसारी / प्रद्रावी / प्रमाथी / प्रवादी / प्रवासी। 3126 / निन्दहिंसक्लिशखादविनाशपरिक्षिपपरिरटपरिवादिव्या भाषासूयो वुञ् / (3-2-146) पञ्चम्यर्थे प्रथमा / एभ्यो वुस्यात् / निन्दकः / हिंसकः, इत्यादि / ण्वुला सिद्धे वुवचनं ज्ञापकं तच्छीलादिषु वासरूपन्यायेन तृजादयो नेति / 3127 / देविक्रुशोश्वोपसर्गे / (3-2-147) आदेवकः / आक्रोशकः / 'उपसर्गे' किम् / देवयिता / क्रोष्टा / कत्थ, सम्भ, एषान्द्वन्द्वात्पञ्चमी / एभ्यो घिनुण स्यात् ताच्छील्यादिष्वित्यर्थः / अपे च लषः // चाद्वाविति // वौ उपपदेऽपीत्यर्थः / अपे वौ च उपपदे लषः घिनुण इत्यर्थः / ताच्छील्यादिष्ववत्यर्थः / प्रे लप // लप, स, द्रु, मथ, वद्, वस् , एषां षण्णान्द्वन्द्वात्पञ्चमी / प्रे उपपदे एभ्यः घिनुण स्यात् ताच्छील्यादिष्वित्यर्थः / निन्दसि // निन्द, हिंस, क्लिश, खाद, विनाश, परिक्षिप, परिरट, परिवादि, व्याभाष, असूय, एषां दशानां द्वन्द्वः / पञ्चम्यर्थे प्रथमेति // सौनं पुंस्त्वमेकवचनं वेति भावः / विनाशेति विपूर्वस्य नशेर्ण्यन्तस्य भाविना णिलोपेन निर्देशः / शकारादकार उच्चारणार्थः / केचित्तु विनाशीति ण्यन्तमेव पठन्ति / परिवादीति तु ण्यन्तमेव / असूयेति कण्डादियगन्तः / इत्यादीति // क्लेशकः, खादकः, विनाशकः, परिक्षेपकः, परिराटकः, परिवादकः, व्याभाषकः, असूयकः / ननु ‘असूयो वुञ्' इति असूयतेरेव वुविधीयतां, न तु निन्दादिभ्योऽपि, तेषां ण्वुलैव सिद्धेः / लित्स्वरजिस्वरयोस्तु नास्ति विशेषः / उभयथाप्युदात्तत्वात् / असूयतस्तु ण्वुलि प्रत्ययात् पूर्व ऊकार उदात्तः। वुबि तु 'नित्यादिनित्यम्' इति धातोरकार उदात्त इति विशेषः / तस्मादसूयतेरेव वुविधिरिति युक्तमित्यत आह / ण्वुला सिद्ध इति // तृजादयो नेतीति // तच्छीलादिषु वासरूपविधिसत्त्वे हि तद्विषये ण्वुलस्सरूपतया वुत्रा नित्यम्बाधेऽपि तृजादयः स्युः / अत्र वासरूपविध्यप्रवृत्तौ तु 'तृन्' इति सूत्रेण तच्छीलादिषु तृनि प्राप्ते वुविधिरर्थवान् / अतस्तच्छीलादिषु वासरूपविधिन प्रवर्तत इति भावः / इदं च प्रायिकम् / तत्फलन्तु उत्पूर्वान्मदेरलंकृत्रादि. सूत्रेण इष्णुजुक्तः, वासरूपविधिना घिनुणपीति मूल एवानुपदमुक्तम् / देविक्रुशोः॥ देवीति चुरादिण्यन्तस्य 'दिवु क्रीडा' इत्यस्य च ग्रहणम् / उपसर्गे उपपदे देवयतेः क्रुशेश्च तच्छीलादिषु वुञ् For Private And Personal Use Only
Page #566
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 564 सिद्धान्तकौमुदीसहिता [कृदन्त 3128 / चलनशब्दार्थादकर्मकाद्युच् / (3-2-148) चलनार्थाच्छब्दार्थाञ्च युच् स्यात् / चलनः / चोपन: / कम्पनः / शब्दनः / रवणः / ‘अकर्मकात्' किम् / पठिता विद्याम् / 3129 / अनुदात्तेतश्व हलादेः / (3-2-149) अकर्मकाद्युच्स्यात् / वर्तनः / वर्धनः / अनुदात्ततः' किम् / भविता / 'हलादेः' किम् / एधिता / ‘अकर्मकात्' किम् / वसिता वस्त्रम् / 3130 / जुचक्रम्यदन्द्रम्यसृगृधिज्वलशुचलषपतपदः / (3-2-150) _ 'जु' इति सौत्रो धातुर्गतौ वेगे च / जवनः / चक्रमणः / दन्द्रमणः / सरण: / पूर्वेण सिद्धे पदग्रहणं 'लषपतपद-' (सू 3134) इत्युकया बाधा मा भूदिति / तेन ताच्छीलिकेषु परस्परं वासरूपविधिर्नास्तीति / तेनालङ्कजस्तृन्न / 3131 / क्रुधमण्डार्थेभ्यश्च / (3-2-151) क्रोधनः / रोषणः / मण्डनः / भूषणः / स्यादित्यर्थः / चलन // शब्दन इति // ‘शब्द शब्दने' चुरादिः / शब्दनं शब्दोच्चारणम् / धात्वर्थोपसङ्ग्रहादकर्मकः / अनुदात्तेतश्च // आदिग्रहणाभावे हलन्तादित्यर्थः स्यात् / ततश्च जुगुप्सनः इति न स्यात् / सन्नन्तस्य हलन्तत्वाभावात् / अस्ति चानुदात्तेत्त्वं सनन्तस्य / गुप इत्यनुदात्तेत्त्वस्य केवले प्रयोजनाभावेन सन्नन्तार्थत्वात् / जुचंक्रम्यदन्द्रम्य // जु, चङ्कम्य, दन्द्रम्य, सू, गृधि, ज्वल, शुच, लष, पत, पद एषान्दशानां द्वन्द्वात्पञ्चमी / एभ्यः तच्छीलादिषु युच् स्यादित्यर्थः / धातुपाठे जुधातोरदर्शनादाह / जु इति सौत्र इति // चङ्क्रमण इति // यङन्तायुच् / 'यस्य हलः' इति यकारलोपः, अतो लोपः। एवन्दन्द्रमणः, सरणः, गर्द्धनः, ज्वलनः, शांचनः, लषणः, पतनः, पदनः, इत्यप्युदाहार्यम् / पूर्वेणेति // 'अनुदात्तेतश्च हलादेः' इत्यनेनेत्यर्थः / तेनेति // उकञ्ह्ययं तच्छीलाधिकारस्थः। तत्र वासरूपविधिनैव उका 'अनुदात्तेतश्च हलादः' इति विहितस्य पदयुचः बाधो न भविष्यतीति 'जुचङ्कम्य' इति युज्विधिरनर्थकः स्यात् / अतस्ताच्छीलिकेषु परस्परं वासरूपविधि. नास्ति इति विज्ञायते इत्यर्थः। 'निन्दहिंस' इति सूत्रे तच्छीलादिषु वासरूपविधिना तृजादयो नति ज्ञापितम् / इह तु ताच्छीलिकेषु परस्परं वासरूपविधिर्नास्तीति ज्ञाप्यते इति न पौनरुक्त्यम् / तृन्नति // अलम्पूर्वात् कृत्रः अलंकृजित्यादिसूत्रविहितेन तच्छीलाधिकारस्थेन इष्णुचा 'तृन्' इति सामान्यविहितः तच्छीलाधिकारस्थो बाध्यते इत्यर्थः / क्रुधमण्डार्थेभ्यश्च // 'बुध For Private And Personal Use Only
Page #567
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा / 3132 / न यः / (3-2-152) यकारान्तायुज्न स्यात् / क्नूयिता / क्ष्मायिता / 3133 / सूददीपदीक्षश्च / (3-2-153) युज्न स्यात् / सूदिता / दीपिता / दीक्षिता / 'नमिकम्पि-' (सू 3147) इति रेण युचो बाधे सिद्धे दीपेर्ग्रहणं ज्ञापयति 'ताच्छीलिकेषु वासरूपविधिर्नास्ति' इति प्रायिकमिति / तेन कम्रा कमना युवतिः / कम्प्रा कम्पना शाखा / यदि सूदेयुग्न, कथं मधुसूदनः / नन्द्यादिः / 3134 / लषपतपदस्थाभूवृषहनकमगमशृभ्य उकञ्। (3-2-154) लाषुकः / पातुकः इत्यादि / 3135 / जल्पभिक्षकुदृलुण्टवृङः षाकन् / (3-2-155) जल्पाकः / भिक्षाकः / कुट्टाकः / लुण्टाकः / वराकः / वराकी / 3136 / प्रजोरिनिः / (3-2-156) कोपे' 'मडि भूषायाम्' एतदर्थेभ्यः धातुभ्यो युच् स्यात् तच्छीलादिष्वित्यर्थः / न यः॥ य इति पञ्चम्यन्तं धातुविशेषणम् / तदन्तविधिः / तदाह / यकारान्तादिति // क्नूयिता। क्ष्मायितेति // 'क्नूयी शब्दे उन्दने च' 'क्ष्मायी विधूनने' 'अनुदात्तेतश्च हलादेः' इति युन् निषिध्यते। तृनेव भवति / सूददीप // सूद, दीप, दीक्ष, एषान्द्वन्द्वात्पञ्चमी / युज्नेति // शेषपूरणमिदम् / 'अनुदात्ततश्च' इति प्राप्तो युच् प्रतिषिध्यते / नन्विह दीपग्रहणं व्यर्थम् / 'नमिकाम्पस्म्यजसकमहिंसदीपो रः' इति विशेषविहितेन रप्रत्ययेन युचो बाधसिद्धेः / नच वासरूपविधिना तद्बाधः शङ्कयः / ताच्छीलिंकषु वासरूपविधेः प्रतिषेधादित्यत आह / नमिकम्पीति रेणेति // रप्रत्ययेनेत्यर्थः / प्रायिकामति // तथा चात्र वासरूपविधिना ताच्छीलिकनापि रप्रययेन युची बाधासम्भवात् इह दीपेर्युचो निषेधाऽर्थवानिति भावः / तेनेति // ताच्छीलिकऽपि क्वचिद्वासरूपविधस्सत्त्वादित्यर्थः / कम्रा कमनेति // इच्छा. शीलेत्यर्थः / अनुदात्ततश्च' इति युच 'नमिकम्पि' इति रेण पक्षे बाध इति भावः। कम्प्रा, कम्पनेति // चलनशीलत्यर्थः / अत्र पि 'नमिकम्पि' इति रेण युचः पक्ष बाध इति भावः। आक्षिपति / यदीति // 'सूददीपदीक्षश्च' इति सूदयुप्रतिषिध्यते तदा मधुसूदन इति कथमित्यन्वयः / समाधत्त / नन्द्यादिरिति // सूदिरिति शंषः / तथाच 'नन्दिग्राह' इति ल्युप्रत्यय इति भावः / लषपत // एभ्यो दशभ्यः उकञ् स्यात् तच्छीलादिष्वर्थेषु / इत्यादीति // पादुकः / आतो युक्, स्थायुकः / भावुकः, वय्कः, घातुकः 'हनस्तः' इति तत्वम् / हो हन्तेः' इति कुत्वम् / कामुकः, गामुकः, शारुकः / जल्पभिक्ष // एभ्यः पञ्चभ्यध्याकन् स्यात् / तच्छीलादिष्वित्यर्थः / षनावितौ / त्रियां षित्त्वान्ङीष् / जल्पाकः, इत्यादि / प्रजोरिनिः // For Private And Personal Use Only
Page #568
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदीसहिता [कृदन्त प्रजवी-प्रजविनौ-प्रजविनः / 3137 जिदृक्षिविश्रीण्वमाव्यथाभ्यमपरिभूप्रसूभ्यश्च / (3-2-157) जयी / दरी। क्षयी / विश्रयी / अत्ययी / वमी / अव्यथी / अभ्यमी / परिभवी / प्रसवी। 3138 / स्पृहिगृहिपतिदयिनिद्रातन्द्राश्रद्धाभ्य आलुच् / (3-2-158) आद्यास्त्रयश्चुरादावदन्ताः / स्पृहयालुः / गृहयालुः / पतयालुः / दयालुः / निद्रालुः / तत्पूर्वो द्रा, तदो नान्तत्वं निपात्यते / तन्द्रालुः / श्रद्धालुः / ‘शीङो वाच्यः' (वा 2140) / शयालुः / 3139 / दाधेसिशदसदो रुः / (3-2-159) दारुः / धारुः / सेरुः / शद्रुः / सद्दुः / 3140 / सृघस्यदः क्मरच् / (3-2-160) सृमरः / घस्मरः / अद्मरः / 3141 / भञ्जभासमिदो घुरच् / (3-2-61) जुस्सौत्रो धातुः / प्रपूर्वादस्मात् इनिप्रत्ययः स्यात् तच्छीलादिष्वित्यर्थः / नकारादिकार उच्चारणार्थः / जिक्षि // जि, टु, क्षि, विधि, इण् , वम, अव्यथ, अभ्यम , परिभू, प्रसू, एषां दशानां द्वन्द्रः / 'जि जये, जि अभिभवे, दृङ् आदरे, क्षि क्षये, क्षि निवासगत्योः, श्रिञ् सेवायां' विपूर्वः / 'इण् गतौ, वमु उद्गिरणे, व्यथ भयसञ्चलनयोः' नपूर्वः / निपातनात् नओ धातुना समासे 'न लोपो नमः' इति नकारलोपः / 'अम गल्यादिषु' अभिपूर्वः / 'भू सत्तायाम्' परिपूर्वः / 'पू प्रेरणे' प्रपूर्वः / एभ्यः इनिः स्यात्तच्छीलादिष्वित्यर्थः / सूतिसूयत्योस्तु सानुबन्धकत्वात् नेह ग्रहणम् / स्पृहिगृहि // स्पृहि, गृहि, पति, दयि, निद्रा, तन्द्रा, श्रद्धा, एभ्यः सप्तभ्यः आलुच् स्यात्तच्छीलादिष्वित्यर्थः / स्पृहयालुरिति // स्पृहधातोरदन्तादालुच / 'अयामन्त' इति रय् , णिलोपापवादः / अल्लापस्य स्थानिवत्त्वान्न लघूपधगुण: / एवं गृहयालुः / पतयालुरित्यत्र तु अल्लोपस्य स्थानिवत्वान्नोपधावृद्धिः / निद्रालुरिति // 'द्रा कुत्सायाङ्गतौ' निपूर्वादालुच् / तत्पूर्वोद्रेति // तच्छब्दपूर्वो द्राधातुः तन्द्रत्यनन गृह्यत इत्यर्थः / श्रद्धालुरिति // श्रदित्यव्ययम्, तत्पूर्वात् धाधातोरालुच् / शीङो वाच्य इति // आलुजिति शेषः / दाधेट् // दा, धेट , सि, शद् , सद, एषां द्वन्द्वात्पञ्चमी / एभ्यो रुप्रत्ययः स्यात्तच्छीलादिष्वित्यर्थः / सृघस्यदः // सू, घसि, अद्, एषां द्वन्द्वात्पञ्चमी / घसिः प्रकृत्यन्तरम् / भञ्जभास // भञ्ज, भास, मिद्, एषां द्वन्द्वात् For Private And Personal Use Only
Page #569
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 567 प्रकरणम्] बालमनोरमा / भङ्गुरः / भासुरः / मेदुरः / 3142 / विदिभिदिच्छिदेः कुरच् / (3-2-62) विदुरः / भिदुरम् / छिदुरम् / 3143 / इण्नशिजिसर्तिभ्यः करप् / (3-2-163) इत्वरः / इत्वरी / नश्वरः / जित्वरः / सृत्वरः / 3144 / गत्वरश्व / (3-2-164) गमेरनुनासिकलोपोऽपि निपात्यते / गत्वरी। 3145 / जागुरूकः / (3-2-165) जागर्तेरूकः म्यात् / जागरूकः / 3146 / यजजपदशां यङः / (3-2-166) एभ्यो यङन्तेभ्य ऊकः स्यात् / दशामिति भाविना नलोपेन निर्देशः / यायजूकः / जञ्जपूकः / दन्दशूकः / 3147 / नमिकम्पिस्म्यजसकमहिंसदीपो रः / (3-2-167) पञ्चमी / एभ्यः धुरच स्यात् तच्छीलादिग्वित्यर्थः / घचावितौ / भंगुर इति // 'चजोः' इति कुत्वम् / विदिभिदि // तच्छीलादिष्वित्येव / विदेर्शानार्थस्यैव ग्रहणम् , नतु लाभार्थस्य, व्याख्यानादित्याहुः / विदुर इत्यादौ कित्त्वान्न लघूपधगुणः / इण्नशिजि // इण् , नशि, जि, स, एभ्यः करप् स्यात् तच्छीलादिष्वित्यर्थः / कित्त्वान्न गुणः। पित्त्वन्तु तुगर्थम् / गत्वरश्च // गमेरिति // गमेः क्वरप् अनुनासिकलोपश्च निपात्यते इत्यर्थः / झलादिप्रत्ययपरकत्वाभावादनुनासिकलापस्याप्राप्तिः। पित्त्वात्तुक् / गत्वरीति // 'टिड्ढ' इति ङीप् / जागुरूकः // जागृ इत्यस्य जागुरिति पञ्चम्यन्तम्पदम् / तदाह / जागतेरिति // तच्छीलादिष्वित्येव / जागरूक इति // ऋकारस्य गुणः, रपरत्वं / सिद्धरूपन्तु न निपातितम् , उत्तरसूत्रे ऊक इत्यननुवृत्तिप्रसङ्गात् / यजजपदशां यङः // यज, जप, दश, एषां त्रयाणां द्वन्द्रः / पञ्चम्यर्थे षष्ठी / तदाह / एभ्य इति // तच्छीलादिवित्येव / ननु दंशेर्नोपधत्वात् कथन्दशामिति निर्देश इत्यत आह / भाविनेति // ऊकं कृते सति भविष्यतो नलोपस्यात्र निपातनमिति यावत् / यायजूक इति // 'यस्य हल:' इति यलोपः / 'अतो लोपः, दीर्थेऽतिः' इत्यभ्यासस्य दीर्घः / जञ्जपूक इति // 'जपजभदहदशभञ्जपशां च' इत्यभ्यासस्य नुक् / एवन्दन्दशूकः / निपातनान्नकारलोपः / नमिकम्पि // नमि, कम्पि, स्मि, अजस, कम, हिंस, दीप् , एषान्द्वन्द्वात्पञ्चम्येकवचनम् / एभ्यस्सप्तभ्यो रप्रत्ययः स्यात् तच्छीलादिष्वित्यर्थः / अजसधातोः धातुपाठे अदर्शनात् आह / For Private And Personal Use Only
Page #570
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदीसहिता [कृदन्त नम्रः / कम्प्रः / स्मेरः / जसिर्नपूर्वः क्रियासातत्ये वर्तते / अजस्रम् , सन्ततमित्यर्थः / कम्रः / हिंस्रः / दीपः / 3148 / सनाशंसभिक्ष उः / (3-2-168) चिकीर्षुः / आशंसुः / भिक्षुः / 3149 / विन्दुरिच्छुः / (3-2-169) वेत्तेर्नुम् इषेश्छत्वं च निपात्यते / वेत्ति तच्छीलो विन्दुः / इच्छति इच्छुः / 3150 / क्याच्छन्दसि / (3-2-170) 'देवाजिगाति सुनयुः'। 3151 / आगमहनजनः किकिनौ लिट् च / (3-2-171) आदन्तादृदन्ताद्गमादिभ्यश्च किकिनौ स्तश्छन्दसि तौ च लिइत् / पपिः सोमम् / ददिर्गाः / बर्विज्रम् / जग्मियुवा / 'जनिर्वृत्रममित्रियम्' जज्ञिः / ‘भाषायां धाकृसृगमिजनिनमिभ्यः' (वा 2144) दधिः / चक्रिः / जसिनपूर्व इति // 'जसु मोक्षणे' अयनपूर्वशक्तिस्वभावात् क्रियासातत्ये वर्तते इत्यर्थः / निपातनाद्धातुना नञः समासे नलोपो नवः' इति नलोपः / सनाशंस॥ सन् , आशंस, भिक्ष, एषान्त्रयाणान्द्वन्द्वात्पञ्चम्येकवचनम् / सनिति सन्प्रत्ययान्तं गृह्यते / 'षणु दाने, षण सम्भक्तौ' इत्यनयोस्तु न ग्रहणम् / गर्गादिषु विजिगीषुशब्दपाठालिङ्गात् / एभ्यः उप्रत्ययः स्यात् तच्छीलादिष्वित्यर्थः। आशंसुरिति // 'आङः शासु इच्छायाम्' इत्यस्मादुः। विन्दुरिच्छुः॥ वेत्तेरिति // 'विद ज्ञाने' इत्यस्मादुप्रत्यये प्रकृतर्नुमागमः / 'इषु इच्छायाम्' इत्यस्मादुप्रत्यये षकारस्य छत्वञ्च निपात्यते इत्यर्थः / वेत्तीति // धातुप्रदर्शनम् / तच्छील इति // वेदनशील इत्यर्थः / इच्छतीति // 'इषु इच्छायाम्' इति धातुप्रदर्शनम् / इच्छुरिति // एषणशील इत्यर्थः / क्याच्छन्दसि // क्यप्रत्ययान्तादुप्रत्ययः स्यात् तच्छीलादिषु छन्दसीत्यर्थः। सुनयुरिति // सुम्नं सुखम् / तदात्मन इच्छतीत्यर्थे सुम्नशब्दात् क्यच् / 'न च्छन्दस्यपुत्रस्य' इति निषेधात् 'क्यचि च' इति ईत्वम् , अकृत्सार्व' इति दीर्घश्च न। सुन्नयुरिति क्यजन्तादुप्रत्ययः, आता लोपः / आगम // आत् , ऋ, गम, हन, जन, एषान्द्वन्द्वात्पञ्चमी। लिट्चति व्याचष्टे / तौ च लिड्डदिति // कि किन् अनयोर्द्वन्द्वः। तच्छीलादिष्वित्येव / पपिरिति // पाधातोः किः, द्वित्वादि, आल्लोपः / ददिरिति // दाधातोः किः, द्वित्वादि / बभ्रिर्वज. मिति // भृनः किः, द्वित्वादि / जनिरिति // हनः किः, द्वित्वादि / 'गमहन' इत्युपधालोपः / 'हो हन्तेः' इति कुत्वम् / जशिरिति // जनेः किः, द्वित्वादि / एवं किन्यपि बोध्यम् / स्वरे विशेषः / छान्दसमप्येतत्सूत्रद्वयम्भाषायामित्यादिवक्ष्यमाणवार्तिकविवेचनाय For Private And Personal Use Only
Page #571
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 'प्रकरणम् बालमनोरमा। सनिः / जग्मिः / जज्ञिः / नेमिः / ‘सासहिवावहिचाचलिपापतीनामुपसङ्ख्थानम्' (वा 2144) / यङन्तेभ्य: सहत्यादिभ्यः किकिनौ पते/गभावश्च निपात्यते। 3152 / स्वपितृषोर्नजिङ् / (3-2-172) स्वप्न / तृष्णक् , तृष्णजौ, तृष्णज: / 'धृषेश्चेति वाच्यम्' इति काशिकादौ / धृष्णक् / 3153 / शृवन्द्योरारुः / (3-2-176) शरारुः / वन्दारुः / 3154 / भियः क्रुक्लुकनौ / (3-2-174) भीरुः / भीलुकः / 'क्रुकन्नपि वाच्यः' (वा 2145) / भीरुकः / 3155 / स्थेशभासपिसकसो वरच् / (3-2-175) स्थावर: / ईश्वरः / भास्वरः / पेस्वरः / कस्वरः / 3156 / यश्च यङः / (3-2-176) इहोपन्यस्तम् / भाषायामिति // वार्तिकमिदम् / धाञ् , कृ, सू, गमि, जनि, नमि, एभ्यषड्भ्यः किकिनौ, तौ च लिवदिति वक्तव्यमित्यर्थः / दधिरित्यादि // किकिनोः कृतयोः द्वित्वादि यथासम्भवं ज्ञेयम् / नेमिरिति // नमः किः / द्वित्वम् , एत्त्वाभ्यासलापौ / सासहीति // सहेर्यङि द्वित्वादी 'दीर्घोऽकितः' इति दीर्घे, किकिनोः कृतयोः 'यस्य हलः' इति यकारलापे अतो लोपे सासहीति निर्देशः / एवं वहेः चले: पतेश्च यङन्तस्य किकिनन्तस्य निर्देशः / एषान्निपातनस्य उपसङ्ख्यानमित्यर्थः / तदाह / यङन्तेभ्यस्सहत्यादिभ्य इति // नीगभाव इति // 'नीग्वञ्चु' इति प्राप्तस्य नीगागमस्याभाव इत्यर्थः / स्वपितृषोर्नजिङ् // पञ्चम्यर्थे षष्ठी। खपेः तृषेश्च, नजिङ् स्यात् तच्छीलादिष्वित्यर्थः / जकारादिकार उच्चारणार्थः / डकार इत् / स्वप्नगिति // खपनशील इत्यर्थः / स्वप्नजौस्वप्नजः / एवं तृप्णक् , तर्षणशील इत्यर्थः / धृषेश्चेति // नजिङिति शेषः / काशिकादाविति // भाष्ये तु न दृश्यते इति भावः / शृवन्द्योरारुः॥ पञ्चम्यर्थे षष्ठी / 'शृ हिंसायाम्' 'वदि अभिवादनस्तुत्योः' आभ्याम् आरुप्रत्ययः स्यात्तच्छीलादिष्वित्यर्थः / भियः // भीधातोः क्रु क्लुकन् एतौ स्तः / तच्छीलादिष्वित्यर्थः / कित्त्वान्न गुणः / स्थेश // 'टा गतिनिवृत्ती, ईश ऐश्वर्ये, भास. दीप्तौ, पिस पेस गतौ, कस गतौ' एभ्यः वरच् स्यात्तच्छीलादिष्वित्यर्थः / ईश्वरीति तु पुंयोगे ङीष् / यश्च यङः // ‘या प्रापणे' इत्यस्य धातोरनुकरणस्य या इत्यस्य 72 For Private And Personal Use Only
Page #572
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 570 सिद्धान्तकौमुदीसहिता . [कृदन्त / यातेर्यजन्ताद्वरच् स्यात् / अतो लोप:' (सू 2380) तस्य ‘अचः परस्मिन्-' (सू 50) इति स्थानिवद्भावे प्राप्ते न पदान्त इति सूत्रेण यलोपं प्रति स्थानिवद्भावनिषेधात् 'लोपो व्यो:-' (सू 873) इति यकारलोपः / अल्लोपस्य स्थानिवत्त्वमाश्रित्य आतो लोपे प्राप्ते 'वरे लुप्तं न स्थानिवत्' / यायावरः। 3157 / भ्राजभासधुर्विद्युतोर्जिपूजुग्रावस्तुवः विप् / (3-2-177) विभ्राट् / भा:-भासौ / धू:-धुरौ / विद्युत् / ऊर्छ / पू:-पुरौ / दृशिग्रहणस्याप्यपकर्षाजवतेर्दीर्घः / जू:-जुवौ-जुवः / ग्रावशब्दस्य धातुना समासः सूत्रे निपात्यते / ततः किम् / प्रावस्तुत् / यः इति षष्ठ्यन्तम् / तदाह / यातेरिति // याधातोर्यङ्, द्वित्वादि 'दीर्घोऽकितः' इत्य. भ्यासस्य दीर्घः, यायाय इति यङन्ताद्वरचि विशेषमाह / अतो लोप इति // हल: परत्वाभावात् 'यस्य हलः' इति यकारलापो न। यायाय् वर इति स्थिते आह / लोपोव्योरिति यकारलोप इति // ननु अतो लोपस्य 'अचः परस्मिन् ' इति स्थानिवत्त्वात् अकारेण व्यवधानात् वल्परत्वाभावात् कथमिह यलोप इत्यत आह / तस्येति // तस्य अल्लोपस्य यलोपे कर्तव्ये 'न पदान्त' इति स्थानिवत्त्वनिषेधादित्यर्थः। एवञ्च योऽकारस्य यकारस्य च लोपे यायावर इत्यत्र 'आतो लोप इटि च' इत्याल्लोपमाशङ्कय निराकरोति / अल्लोप. स्येति // यङकारलोपस्य 'अचः परस्मिन्' इति स्थानिवत्त्वमाश्रित्य तदकारात्मकार्धधातुकपरत्वात् आकारस्य 'आतो लोप इटि च' इत्याल्लोपे प्राप्ते सति परिहार उच्यते इत्यर्थः / परिहारमेवाह / वरे लुप्तन्न स्थानिवदिति // लुप्तमिति भावे क्तः / 'न पदान्त' इति सूत्रे वरे इत्यनेन वरे परे विहितन्न स्थानिवदिति लभ्यते / अल्लोपोऽयमार्धधातुके परे विहितः / अतः तस्य स्थानिवत्त्वाभावान यङोऽकारमाश्रित्य 'आतो लोप इटि च' इत्यस्य प्रवृत्तिरित्यर्थः / एवञ्च 'न पदान्त' इति सूत्रे वरे इत्यंशस्य यलोपे इत्यंशस्य च यायावर इत्युदाहरणामिति बोध्यम् / भ्राजभासधुर्विद्युतोर्जिपृजुग्रावस्तुवः॥ भ्राज, भास, धुवीं, द्युत, ऊर्जि, पृ, जु, प्रावस्तु, एभ्योऽष्टभ्यः किप्स्यात् तच्छीलादिषु कर्तृष्वित्यर्थः / विभ्राडिति // ‘वश्च' इति षः / भा इति // भासे: क्विपि सकारान्तस्य रुत्वविसौं / धूरिति // धुर्वीधातोः विप् / ‘रालोपः' इति वकारस्य लोपः। धुर् इति रेफान्तम् / सुलोपः / ‘वॉरुपधायाः' इति दीर्घः / पूरिति // पृधातोः विप् / 'उदोष्ठ्य' इत्युत्त्वम् , रपरत्वम् / पुर् इति रेफान्तम् , सुलोपे 'वोः' इति दीर्घः / जुधातोः क्विपि दीर्घ साधयितुमाह / दृशिग्रहणस्याप्यपकर्षादिति // उत्तरसूत्रादिति भावः / अत्र व्याख्यानमेव शरणम् / ननु प्रावस्तु इति कथं समस्तनिर्देशः / सुबन्तस्य प्रावशब्दस्य धातुना समासासम्भवादित्यत आह / ग्रावशब्दस्येति // For Private And Personal Use Only
Page #573
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा। 3158 / अन्येभ्योऽपि दृश्यते / (3-2-178) किम् / छित् / भिद् / दृशिग्रहणं विध्यन्तरोपसंग्रहार्थम् / कचिद्दीर्घ:, कचिदसम्प्रसारणं, कचिट्टे, कचिद्भस्वः / तथा च वार्तिकम् / 'किन्वचि प्रच्छ्यायतस्तुकटप्रुजुश्रीणां दीर्घोऽसम्प्रसारणञ्च' (वा 2147-48) / किब्वचीत्यादिनोणादिसूत्रेण केषाञ्चित्सिद्धे तच्छीलादौ तृना बाधा मा भूदिति वार्तिके ग्रहणम् / वक्तीति वाक् / पृच्छतीति प्राट् / आयतं स्तौति आयतस्तूः / कटं प्रवते कटप्रूः / जुरुक्तः / श्रयति हरि श्रीः / 'द्युतिगमिजुहोतीनां द्वे च' (वा 2149) / दृशिग्रहणादभ्याससंज्ञा / दिद्युत् / जगत् / 'जुहोतेर्दीर्घश्व' (वा 2149) / जुहू: / 'दृ भये'। अस्य ह्रस्वश्च / दीर्यति / ददृत् / 'ध्यायते: सम्प्रसारणञ्च' (वा 2151) / धीः। 3159 / भुवः संज्ञान्तरयोः / (3-2-179) मित्रभूर्नाम कश्चित् / धनिकाधमर्णयोरन्तरे यस्तिष्ठति विश्वासार्थ स प्रतिभूः / ग्रावस्तुदिति // पित्त्वात्तुक् / अन्येभ्योऽपि // विविति // शेषपूरणमिदम् / भ्राजभास इत्यादिसूत्रोपात्तापेक्षया अन्येभ्योऽपि धातुभ्यः तच्छीलादिषु कर्तृषु क्विप् दृश्यते इत्यर्थः / विध्यन्तरेति // विधीयते इति विधिः, कार्य, कार्यान्तरोपसङ्ग्रहार्थमित्यर्थः / तदेव दर्शयति / क्वचिद्दीर्घ इत्यादि // विब्वचीत्यादिनेति // 'विब्वचिप्रच्छयायतस्तुकटप्रुजुश्रीणां दीर्घोऽसम्प्रसारणञ्च' इत्यौणादिकसूत्रेणेत्यर्थः / तृना बाधा मा भूदिति // वासरूपविधिस्तु ताच्छीलिकेषु नेति भावः / वागिति // वचधातोः क्विप् / वचनात् उपधाया दीर्घः / 'वचिस्वपि' इति सम्प्रसारणाभावश्च / एवं कटरित्यत्र दीर्घः / प्राडिति // वचनान्न सम्प्रसारणम् / जुरुक्त इति // ‘भ्राजभास' इत्यत्रेति शेषः / अतोऽत्र तद्ब्रहणम्मास्त्विति भावः / श्रीरिति // श्रिमः विपि दीर्घः / युनीति // 'द्युतिगमिजुहोत्यादीनाद्वित्वं विप्च' इति वाच्यमित्यर्थः / 'पूर्वोऽभ्यासः' इत्यत्र षाष्टद्विवचन एव पूर्वखण्डस्याभ्याससंज्ञावचनादाह / दृशिग्रहणादिति // 'अन्येभ्योऽपि दृश्यते' इत्यत्रेत्यर्थः / ततश्चाभ्यासकार्ये हलादिशेषादीति भावः / दिद्युदिति // 'युतिखाप्योः' इति सम्प्रसारणम् / जगदिति // गमेः किप् 'गमः कौ' इति मलोपे तुक् / जुहोतेर्दीर्घश्चेति // वार्तिकमिदम् / चाक्तिद्वित्वे / हव. श्वेति // वार्तिकमिदम्। ददृदिति // ह्रखे कृते तुक् / ध्यायतेरिति // वार्तिकमिदम् / चात् विप् / धीरिति // ध्यैधातोः क्विपि सम्प्रसारणे पूर्वरूपे 'हलः' इति दीर्घ इति भावः। अत्र 'ध्यायतेस्सम्प्रसारणञ्च' इत्युणादिषु पठितत्वादिदं वार्तिकं मास्त्वित्याहुः। वस्तुतस्तु उणादिसूत्राणि न पाणिनीयानि किन्तु ऋष्यन्तरप्रणीतानीति वक्ष्यन्ते, अतो न पौनरुक्त्यशङ्का / भुवः संज्ञान्तरयोः // क्विविति शेषः / संज्ञान्तरयोरेवेति नियमार्थ सूत्रम् / संज्ञाया HHTHHALI For Private And Personal Use Only
Page #574
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www.kobatirth.org Acharya Shri Kalla 572 सिद्धान्तकौमुदीसहिता [कृदन्त 3160 / विप्रसम्भ्यो संज्ञायाम् / (3-2-180) एभ्यो भुवो डुः स्यान्न तु संज्ञायाम् / विभुर्व्यापकः / प्रभुः स्वामी / सम्भुर्जनिता / संज्ञायां तु विभूर्नाम कश्चित् / 'मितवादिभ्य उपसङ्खथानम्' (वा 2152) / मितं द्रवतीति मितदुः / शतद्रुः / शम्भुः / अन्तर्भावितण्यर्थोऽत्र भवतिः / 3161 / धः कर्मणि ष्टुन् / (3-2-181) धेटो धानश्च कर्मण्यर्थे ष्ट्रन्स्यात् / षो ङीषर्थः / 'धात्री जनन्यामलकीवसुमत्युपमातृषु'। 3162 / दाम्नीशसयुयुजस्तुतुदसिसिचमिहपतदशनहः करणे / (3-2-182) दाबादेः ष्ट्रन्स्यात्करणेऽर्थे / दान्त्यनेन दात्रम् / नेत्रम् / 3163 / तितुत्रतथसिसुसरकसेषु च / (7-2-9) एषां दशानां कृत्प्रत्ययानामिण्न स्यात् / शस्त्रम् / योत्रम् / योक्त्रम् / स्तोत्रम् / तोत्रम् / सेत्रम् / सेक्त्रम् / मेढ़म् / पत्रम् / दंष्ट्रा / नद्धी / मुदाहरति / मित्रभूर्नामेति // अन्तरे उदाहरति / धनिकेत्यादि // यावद्रव्यभाविन्यः संज्ञाः / प्रतिभूशब्दस्तु सत्येव पुरुषे कदाचिन्न भवति / ऋण प्रतिदत्ते सति प्रातिभाव्यस्य निवृत्तेः। विप्रसम्भ्यः॥ डु असंज्ञायामिति छदः / विभुरिति // डित्त्वसामर्थ्यादभस्यापि टेर्लोपः / सम्भुरिति // संभवति उत्पादयतीति सम्भुः / तदाह / जनितेति // मितद्वादिभ्य इति // मितद्वादिसिद्ध्यर्थे डुप्रत्ययस्य उपसङ्ख्यानमित्यर्थः / शम्भुरिति // शं सुखं भवति उत्पादयतीत्यर्थः / तदेवोपपादयति / अन्तर्भावितेति // धः कर्मणि ष्ट्रन् // धेटः कृतात्वस्य धाअश्व ध इति पञ्चम्यन्तम् / तदाह / धेट इत्यादि // षकारात् तकारस्य ष्टत्वसम्पन्नटकारेण निर्देशः, षस्य इत्संज्ञायां लोपे सति पृत्वसम्पन्नस्य निवृत्तिः। तदाह। धात्रीत्यादि॥ दाम्नी॥ दाप् , नी, शस, यु, युज, स्तु, तुद, सि, सिच, मिह, पत, दश, नह, एषां त्रयोदशानां द्वन्द्वः। 'दाप् लवने' इत्यस्य पकारस्य स्थान ‘यरोऽनु' इति कृतमकारस्य निर्देशः। अत्र शसेः पतेश्च त्रप्रत्यये इटमाशङ्कय आह / तितुत्रत॥ ति, तु, त्र, त, थ, सि, सु, सर, क, स. एषां दशानां द्वन्द्वः / अत्र सरेत्येकम् ।ति, तन्तिः, स्त्रियाम्' इति क्तिन्। तु, सक्तुः, 'तनिगमि' इत्यादिना तुप्रत्ययः / त्र, शस्त्रम् , पत्तम् / 'दानी' इति त्रप्रत्ययः / त, हस्तः। औणादिकः तप्रत्ययः / क्तप्रत्यये तु हसितमित्येव / कुष्टम् / औणादिकः क्थप्रत्ययः / सि कुक्षिः / कुषेरौणादिकः क्सिप्रत्ययः / सु, इक्षुः, इषेरौणादिकः क्सुप्रत्ययः / सर, अक्षरम् , अशस्सरन् / क, शल्कः, शलेः कः। स, वत्सः, वदेः सः। मेमिति // 'मिह सेचने' त्रः / ढत्वधत्वष्टुत्वढलोपाः। For Private And Personal Use Only
Page #575
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा / 573 ___3164 / हलसूकरयोः पुवः / (3-2-183) पूपूओः करणे ष्ट्रन्स्यात् / तच्चेत्करणं हलसूकरयोरवयवः / हलस्य सूकरस्य वा पोत्रम् / मुखमित्यर्थः / 3165 / अर्तिलूधूसूखनसहचर इत्रः / (3-2-184) अरिवम् / लवित्रम् / धुवित्रम् / सवित्रम् / खनित्रम् / सहित्रम् / चरित्रम् / 3166 / पुवः संज्ञायाम् / (3-2-185) पवित्रम् / येनाज्यमुत्पूयते, यच्चानामिकावेष्टनम् / 3167 / कर्तरि चर्षिदेवतयोः / (3-2-186) पुव इत्र: स्यात् ऋषौ करणे, देवतायां कर्तरि / ऋषिर्वेदमन्त्रः / तदुक्तमृषिणेति दर्शनात् / पूयतेऽनेनेति पवित्रम् / देवतायां तु 'अग्निः पवित्रं स मा पुनातु'। इति पूर्वकृदन्तप्रकरणम् / दंष्ट्रेति // दंशधातोः नः / विडत्प्रत्ययाभावानलोपो न / सूत्रे दशेति शपा निर्देशात् ‘दंशसञ्ज' इति नलोपः / केचित्तु दशेत्यकार उच्चारणार्थः / नलोपनिर्देशात् क्वचिदन्यस्मिन्नपि प्रत्यये अकङित्यपि नलोप इति दशना दन्ता इत्याहुः / नीति // नह्यते अनयेति विग्रहः / चर्मरज्जुः / 'नह बन्धने' नः / 'नहो धः' 'झषस्तथोः' इति तस्य धः / षित्त्वान्ङीष् / हलसूकरयोः पुवः // पोत्रमिति // 'तितुत्रतथसिसुसर' इति नेट् / अर्तिलूधू // अर्ति, लू, धू, सू, खन, सह, चर, एषां सप्तानां द्वन्द्वात्पञ्चमी / पुवः संज्ञायाम् // इत्र इति शेषः / करणे इत्येव / पवित्रमिति // पूयते अनेनाज्यमिति विग्रहः / तदाह / येनाज्यमिति // पूयते आचमनोदकादिकमनेनेति विग्रहं मत्वा आह / यच्चानामिकेति // अनामिका उपकनिष्ठिकाङ्गुलिः / कर्तरि च // पवित्रमिति // पावमान्यादि सूक्तम् / अग्निः पवित्रमिति // पुनातीत्यर्थः / सामान्याभिप्रायमेकवचनं नपुंसकत्वञ्च // इति श्रीमद्वासुदेवदीक्षितविरचितायां सिद्धान्तकौमुदीव्याख्यायां श्रीबालमनोरमाख्यायां तृतीयाध्यायस्य द्वितीयपादे पूर्वकृदन्तप्रकरणं समाप्तम् / For Private And Personal Use Only
Page #576
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // श्रीरस्तु // // अथोणादयः॥ 1 / कृवापाजिमिस्खदिसाध्यशूभ्य उण् / करोतीति कारु:, शिल्पी कारकश्च / 'आतो युक्-' (सू 2761) / वातीति वायुः / पायुर्गुदम् / जयत्यभिभवति रोगान् जायुः औषधम् / मिनोति प्रक्षिपति देहे ऊष्माणमिति मायुः अथ उणादिप्रारम्भः–'कृवापाजि' इत्यादीन्युणादिसूत्राणि मूले प्रौढमनोरमायाञ्च स्फुटं व्याख्यातानि। तत्र न किञ्चिव्याख्यातव्यमुपलभ्यते / तानि चेमान्युणादिसूत्राणि शाकटायनमुनिप्रणीतानि, नतु पाणिनिना प्रणीतानि इति 'उणादयो बहुळम्' इति सूत्रभाष्ये 'नाम च धातुजमाह निरुक्ते व्याकरणे शकटस्य च तोकम्' इति वार्तिकव्याख्यानावसरेऽभिहितम् / 'उणादीनां शास्त्रान्तरपठितानां साधुत्वाभ्यनुज्ञानार्थ बहुळग्रहणम्' इति कैयटः। न ह्येषा. म्पाणिनीयत्वे शास्त्रान्तरशब्दो युज्यते। उणादिप्रत्ययान्ताश्शब्दाः पाणिनिमते अव्युत्पन्ना एव / अत एव 'आयनेयी' इति सूत्रे “प्रातिपदिकविज्ञानाच्च भगवतः पाणिनस्सिद्धमुणादयो ह्यव्युत्पन्नानि प्रातिपदिकानि” इति भाष्ये उक्तम् / अत एव च “'आदेशप्रत्यययोः' इति सूत्रभाष्ये उणादयो ह्यव्युत्पन्नानि प्रातिपदिकानि इत्युक्त्वा तर्हि सर्पिषा यजुषेत्यादौ अप्रत्ययत्वात् षत्वाभावमाशय बहुळग्रहणात् प्रत्ययसंज्ञामवलम्ब्य षत्वं साधितम् / व्युत्पत्तिपक्षश्च निराकृतः / अतोऽप्युणादिसूत्राणान्न पाणिनीयत्वम् / अत एव 'अजेय॑घनपोः' इति सूत्रभाष्ये अजधातोर्युप्रत्यये प्रकृतेर्वीभावे वायुशब्दो व्युत्पादितः / उणादिसूत्राणां पाणिनीयत्वे हि ‘कृवापाजि' इत्युणादिसूत्रेण उप्रत्ययमाश्रित्यैव व्युत्पद्येत / एवञ्च क्वचिद्भाष्ये उणादीनां व्युत्पन्नत्वाश्रयणं शास्त्रान्तरमूलकमेव इति शब्देन्दुशेखरे प्रपञ्चितम् / तथा च 'क्विब्वचिप्रच्छयायतस्तुकटप्रुजुश्रीणां' इत्युणादिसूत्राणां तथाविधवार्तिकानाञ्च न पौनरुक्त्यशङ्का // * कृवापा // " कारुः शिल्पिनि कारके” इति धरणिकोशमभिप्रेत्याह / कारुरित्यादि // आये योगरूढिः / द्वितीये तु योगमात्रमिति विवेकः / अत एव द्वितीये धात्वर्थ प्रति कारकान्वयो भवत्येव / तथा च भट्टिः / “राघवस्य ततः कार्य कार्वानरपुङ्गवः / सर्ववानर सेनानामाश्वागमनमादिशत्” इति। पायुः पुंसि / 'गुदन्त्वपानं पायुर्ना' इत्यमरः / पिबत्यनेन तैलादिकमिति विग्रहः / पाति रक्षतीति विग्रहे रक्षकोऽपि / तथा च मन्त्रः / 'भुवस्तस्य स्वतवाः पायुरप्रे' इति / ‘स्वतवान्पायौ' इति रुत्वम् / जायुरिति // ‘भेषजौषधभैषज्या. न्यगदो जायुरित्यपि' इत्यमरः / साहचर्यात्पुंस्त्वम् / ‘मायुः पितं कफः श्लेष्म' इत्यमरः / * उणादिषु वालमनोरमाप्रणेतुर्वासुदेवदीक्षितस्याभप्रायानुसारेण प्रौढमनोरमा मुद्यते / For Private And Personal Use Only
Page #577
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उणादयः] बालमनोरमा / 575 पित्तम् / स्वादुः / सानोति परकार्य साधुः / अश्नुते आशु शीघ्रम् / 'आशुीहिः पाटल: स्यात् / 2 / छन्दसीणः / ‘मा न आयौ' / 3 / दृसनिजनिचरिचटिभ्यो अण् / दीर्यत इति दारु / 'स्नुः प्रस्थ: सानुरस्त्रियाम्' / जानु-जानुनी / इह ‘जनिवध्योश्च' (सू 2512) इति न निषेधः / अनुबन्धद्वयसामर्थ्यात् / चारु रम्यम् / चाटु प्रियं वाक्यम् / मृगयवादित्वात्कुप्रत्यये 'चटु' इत्यपि / 4 / किञ्जरयोः श्रीणः / किं शृणातीति किंशारुः सस्यशूकं, बाणश्च / जरामेति जरायुर्गर्भाशयः / 'गर्भाशयो जरायुः स्यात्' / 5 / त्रो रश्च लः / तरन्त्यनेन वर्णा इति तालु / 6 / कृके वचः कश्च / कृकेन गलेन वक्तीति कृकवाकुः / 'कृकवाकुर्मयूरे च सरटे चरणायुधे' इति विश्वः / शब्दोऽपि मायुः / यत्पशुर्मायुमकृत गोमायुरेको अजमायुरेकः' इत्यादौ वेदभाष्यकारादिभिस्तथैव व्याख्यानात् / स्वदते रोचते इति स्वादुः / विशेष्यनिनोऽयम् / एवं साधुरपि / आशु शीघ्रमिति // विलम्बाभावमात्रपरत्वे क्लीबं, तद्विशिष्टद्रव्यपरत्वे तु त्रिलिङ्गम् / अथ शीघ्रमित्युपक्रम्य 'क्लीबे शीघ्राद्यसत्त्वे स्यात्त्वेिषां भेद्यगामि यत्' इत्यमरः / व्रीहौ तु पुंस्येव / छन्दसीणः॥ उणनुवर्तते / मा न आयाविति // आयुशब्दो मनुष्यपर्यायेषु वैदिकनिघण्टौ पठितः / अत एव 'त्वामग्ने प्रथममायुमायवे / मानस्तोक' इत्यादिमन्त्रेषु वदभाष्ये तथैव व्याख्यातम् / अर्वाचीनास्तु 'छन्दसीणः' इति सूत्रं बहुलवचनाद्भाषायामपि प्रवर्तते इति स्वीकृत्य 'आयुर्जीवितकालो ना' इत्यमरग्रन्थे आयुशब्दमुकारान्तं व्याचख्युः / 'वायुना जगदायुर्वा' इति वर्णविवेकः / एतेर्णिच्च' इत्युप्रत्ययः। सकारान्तो वक्ष्यमाण आयुश्शब्दस्तु लोकवेदयोनिर्विवाद एव / अत एव जटा आयुरस्येति विग्रहे 'गृधं हत्वा जटायुषम्' इति प्रयोगः / कथन्तर्हि, ‘मा वधिष्ट जटायुं माम्' इति भट्टिः / 'तटी विन्ध्यस्याद्रेरभजत जटायोः प्रथमजः' इति विन्ध्यवर्णने अभिनन्दश्चेति चेत् / अर्वाचीनमते तावद्भद्रमेव / वस्तुतस्तु जटां याति प्राप्नोतीति जटायुः। मृगय्वादित्वात् कुः / आयातीत्यायुः / 'जटायुषा जटायुञ्च विद्यादायुन्तथायुषा' इति द्विरूपकोशः / चाविति // 'चटु चाटु प्रियं वाक्यम्' इति हट्टचन्द्रः / " चाटु चाकृतकसम्भ्रममासाङ्कार्मणत्वमगमद्रमणेषु” इति माघः / 'चाटुर्नरि प्रियोक्तिः स्यात्' इति रत्नमालाकोशः / नरि पुंसि / 'चकर च बहुचाटून् प्रौढयोषिद्वदस्य' इति माधः / इह सूत्रे रहिमपि पठित्वा राहुरित्येके / बाहुलकादिति तु बहवः / सस्येति // 'किंशारुर्ना सस्यशूके विशिखे कङ्कपक्षिणि' इति मेदिनीकोशः। त्रो रश्च लः // त्र इति तरतेः षष्ठ्या निर्देशः / के चित्तु त्रारिति च्छित्वा ऋधातोरपि प्रश्लेषात् इयर्ति अर्यते वा आलुः / शाकविशेषो घटी For Private And Personal Use Only
Page #578
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 576 सिद्धान्तकौमुदीसहिता उणादयः 7 / भृमृशीतृचरित्सरितनिधनिमिमस्जिभ्य उः। भरति बिभर्ति वा भरुः, खामी हरश्च / म्रियन्तेऽस्मिन्भूतानि मरुनिर्जलदेशः / शेते शयुः अजगरः / तरुव॒क्षः / चरन्ति भक्षयन्ति देवता इममिति चरुः / त्सरुः खड्गादिमुष्टिः / तनु स्वल्पम् / तन्यते कर्मपाशोऽनया इति तनुः, शरीरञ्च / स्त्रियां मूर्तिस्तनुस्तनूः' / धनुः शस्त्रविशेषः / 'धनुना च धनुर्विदुः' / 'धनुरिवाजनि वक्र:' इति श्रीहर्षः / मयुः किन्नरः / 'मद्दुः पानीयकाकिका' इति रभसः / न्यक्कादित्वात्कुत्वं, जश्त्वेन सस्य दः / 8 / अणश्च / 'लवलेशकणाणव:' चात्कटिवटिभ्याम् / कटति रसनां कटुः / वटति वदतीति वटुः / 9 / धान्ये नित् / धान्ये वाच्येऽण उप्रत्यय: स्यात् / स च नित् / नित्त्वादाद्युदात्तः, प्रियङ्गवश्वमेऽणवश्च मे / 'व्रीहिभेदस्त्वणुः पुमान्' / निद्हणं 'फलिपाटि-' इत्यादिसूत्रमभिव्याप्य सम्बध्यते / चेत्याहुः / 'कर्कर्यालुर्गलन्तिका' इत्यमरः / भृमृशी // भरुरिति // ‘भरुः स्वर्णे हरे पुंसि' इति मेदिनी / 'भरुभर्तृकनकयोः' इति हेमचन्द्रः / शयुरिति // 'अजगरे शयुर्वाहस इत्युभौ' इत्यमरः / तरिति // तरन्ति नरकमनेन रोपकाः / चरुरिति // 'अनवस्रावितान्तरूष्मपक्क ओदनः' इति याज्ञिकाः / त्रिवृदधिकरणेऽप्येवम् / 'उगवादिभ्यो यत्' इति सूत्रे कैयटस्त्वाह / 'स्थालीवाची चरुशब्दस्तास्थ्यादोदने भाक्तः' इति / विश्वप्रकाशे तु 'चरुर्भाण्डे च हव्याने' इति नानार्थतोक्ता / 'अथ पुमान् चरुर्हव्यानभाण्डयोः' इति मेदिनी च। 'हव्यपाके चरुः पुमान् ' इत्यमरग्रन्थे / कर्मार्थघअन्तेन कर्मधारयमधिकरणार्थवजन्ते षष्ठीतत्पुरुषञ्चाश्रित्य द्वेधा व्याचक्षाणाः स्वाम्यादयोऽपि नानार्थतायामनुकूलाः / 'तनुः काये त्वचि स्त्री स्यात्तिष्वल्पे विरहे कृशे। धनुः पुमान् प्रियालद्रौ राशिभेदे शरासने' इति नान्तमेदिनी। विश्वप्रकाशमुदाहरति / धनुना चेत्यादि / 'स्यात्तनुस्तनुषा सार्द्धम्' इत्यतः सार्धमित्यनुषज्यते / धनुरिवेति // "शुद्धवंशजनितोऽपि गुणस्य स्थानतामनुभवन्नपि शक्रः / 'क्षिप्नुरेनमृजुमाशु विपक्षं सायकम्' इति श्रीहर्षश्लोकशेषः / “धनुर्वंशविशुद्धाऽपि निर्गुणः किङ्करिष्यति" इति धन्वन्तरिः। कोचित्तु इह सूत्रे धनि न पठन्ति / तेषां मते सकारान्तधनुःशब्दमेवाश्रित्योक्तग्रन्था निर्वाह्याः / तस्यापि पुंस्त्वात् / उक्तं ह्यमरेण / 'अथास्त्रियौ धनुश्चापौ' इति / किन्नर इति // 'तुरङ्गवदनो मयुः' इत्यमरः / 'मीनातिमिनोति' इत्यात्वन्तु नेह / बाहुलकात् / कटति रसनामिति कटुः / 'कटुः स्त्री कटुरोहिण्यां लताराजित योरपि / नपुंसकमकार्ये स्यात्पुल्लिङ्गो रणमात्रके / त्रिषु तद्वत्सगन्ध्योश्च मत्सरेऽपि खरेऽपि च' इति मेदिनी। वटतीति // ‘वटुर्द्विजसुतः स्मृतः' इति संसारावर्तात् / नटवटुरिति तूपचारात् / दन्त्योष्ठ्यादिरयम् / कल्पद्रुमादिप्रामाण्यात् / अभिव्याप्येति // For Private And Personal Use Only
Page #579
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उणादयः बालमनोरमा / 10 / शृस्टस्निहित्रप्यसिवसिहनिक्लिदिवन्धिमनिभ्यश्च / शृणातीति शरुः / ‘शरुरायुधकोपयोः' / स्वर्वत्रम् / स्नेहुाधिः / चन्द्र इत्यन्ये / त्रपु सीसम् / 'पुंसि भूम्न्यसव: प्राणा:' / 'वसुहृदेऽग्नौ योक्त्रेऽशौ वसु तोये धने मणौ' / हनुर्वक्त्रैकदेशः / क्लेदुश्चन्द्रः / बन्धुः / मनुः / चात् ‘बिदि अवयवे'। बिन्दुः। 11 / स्यन्देः सम्पसारणं धश्च / 'देशे नदविशेषेऽब्धौ सिन्धुर्ना सरिति ' स्त्रियाम्' इत्यमरः / 12 / उन्देरिच्चादेः / उनत्ति इन्दुः / 13 / ईपेः किच्च / ईपेरुः स्यात्स च किदादेरिकारादेशश्च / ईषते हिनस्ति इषुः शरः / 'इषुर्द्वयोः' / 14 / स्कन्देः सलोपश्च / कन्दुः / 15 / सृजेरसुम् च / चात्सलोप उप्रत्ययश्च / रज्जुः / 16 / कृतेरावन्तविपर्ययश्च / ककारतकारयोविनिमयः / तद्दुः सूत्रवेष्टनम् / 17 / नावञ्चेः / न्यङ्कादित्वात्कुत्वम् / नियतमञ्चति न्यकुर्मुगः / 18 / फलिपाटिनमिमनिजनां गुपटिनाविधतश्च / फलेर्गुक फल्गुः / यद्यपि फलिपाटीत्यादिसूत्रं यावदनुवर्तते इति न्यासग्रन्थेन मर्यादीकृत्येत्यपि प्रतीयते / तथापि अभिव्याप्येत्येवोचितम् / "पिबतं सौम्यं मधु' इत्यादौ मधुशब्दस्यायुदात्ततादर्शनात् / 'वोतो गुणवचनात्' इति सूत्रे हरदत्तेन अभिव्याप्येति स्पष्टमभिधानाचेति भावः / त्रपु सीसमिति // तद्धि अग्निं दृष्ट्वा त्रपते लज्जते इव / 'त्रपु सीसकरङ्गयोः' इति मेदिनीकोशः / हनुरिति // 'हनुः पुमान् परो गण्डात्' इति वररुचिकोशः / स्त्रीलिङ्गोऽप्ययम् / 'हनुहट्ट. विलासिन्यां मृत्यावस्रगदे स्त्रियाम् / द्वयोः कपोलावयवे” इति मेदिनी / अतिशायने मतुप् / हनुमान् / 'अन्येषामपि दृश्यते' इति दृशिग्रहणात् पाक्षिको दीर्घः। हनूमान् / स्नेहेन बध्नातीति बन्धुः / प्रज्ञादित्वात् बान्धवः / मनुरादिराजो मन्त्रश्च / बिन्दुः पवर्गीयादिः / कन्दुरिति // स्कन्दत्यस्मिन् जनताप इति व्युत्पत्त्या भोगस्थानमित्याहुः / अमरस्त्वाह / 'क्लीबेऽम्बरीषं भ्राष्टो ना कन्दुर्वा स्वेदनी स्त्रियाम्' इति / कन्दुर्वा ना इति पूर्वेणान्वयाद्वा पुमानित्यर्थः / सृजेरसुम् चेति // सृजतीति रज्जुः / स्त्रियां, ‘रज्जुर्वेण्यां गुणे योषित्' इति मेदिनी / आगमसकारस्य श्चुत्वेन शः, जश्त्वेन जः / तर्कुरिति // कृन्तत्यनेनेति विग्रहः / 'तर्कुटी सूत्रला तर्कुः' इति हारावलीकोशः / फलिपाटि // एकापि षष्ठी विषयभेदाद्भिद्यते / गुगागमे हि फलेरवयवषष्ठी। पठ्यादेशचतुष्टयविधौ तु पाट्यादिभ्यः स्थानषष्ठी / सा धतयोर्विधौ अन्त्येऽल्युपसंह्रियते इति 73 For Private And Personal Use Only
Page #580
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 578 सिद्धान्तकौमुदीसहिता [उणादयः पाटे: पटिः / पाटयतीति पटुः / नम्यतेऽनेन नाकुर्वल्मीकम् / मन्यत इति मधु / जायत इति जतु / 19 / वलेचुक्च / 'वल संवरणे'। वल्गुः / 20 / शः कित्सन्वच्च / श्यतेरुः स्यात्स च कित्सन्वच्च / शिशुर्बालः / 21 / यो द्वे च / ययुरश्वोऽश्वमेधीय: / सन्वदिति प्रकृते द्वेग्रहणमित्वनिवृत्त्यर्थम् / 22 / कुर्भश्च / बभ्रुः / 'बभ्रुर्मुन्यन्तरे विष्णौ बभ्रू नकुलपिङ्गलौ / ' चादन्यतोऽपि / चक्रुः कर्ता / जघ्नुर्हन्ता / पपु: पालकः / __23 / पृभिदिव्यधिगृधिषिभ्यः / कु: स्यात् / पुरुः / भिनत्ति भिदुर्व नम् / 'अहिज्या-' (सू 2412) इति सम्प्रसारणम् / विरहिणं विध्यति विधुः / 'विधुः शशाङ्के कर्पूरे हृषीकेशे च राक्षसे' / गृधुः कामः / धृषुर्दक्षः / 24 / कृग्रोरुच / करोतीति कुरुः / गृणातीति गुरुः / 25 / अपदुःसुषु स्थः / 'सुषामादिषु च' (सू 1022) इति षत्वम् / अपष्टु / प्रतिकूलम् / दुष्ठु / सुष्टु / / 26 / रपेरिचोपधायाः / अनिष्टं रपतीति रिपुः / 27 / अर्जिशिकम्यमिपशिबाधामृजिपशितुग्धुग्दीर्घहकारश्च / अर्जयति गुणानृजुः / सर्वांनविशेषेण पश्यतीति पशुः / कन्तु: कन्दपेः / अन्धुः कूपः / विवेकः / अनागमकानां सागमका आदेशा इति पक्षे तु स्थानषष्ठ्येवेति बोध्यम् / ‘फल्ग्वसारे. ऽभिधेयवत् / नदीभेदे मलवां स्त्री' इति मेदिनी। वल संवरणे इति // दन्त्योष्ठ्यादिः / यत्तूज्ज्वलदत्तेन सूत्रे पवर्गीयादिं पठित्वा, 'बल प्राणने' इत्युपन्यस्तम् / तल्लक्ष्यविरोधादुपेक्ष्यम् / 'अयं नाभा वदति वल्गवो गृहे ' इत्यादौ दन्त्योष्ठ्यपाठस्य निर्विवादत्वात् / धरणिकोशस्थमाह / बभ्रुरिति // 'बभ्रुर्वैश्वानरे मूलपाणौ च गरुडध्वजे। विशाले नकुले पुंसि पिङ्गले त्वभिधेयवत् // ' इति मेदिनीकोशः / अन्यतोऽपीति // 'भ्रः कुश्च' इति वक्तव्ये प्राक् प्रत्ययनिर्देशादित्याहुः / भ्रश्चेति प्रकृतिसंसृष्टेन चकारेण प्रकृत्यन्तरसमुच्चयाचेति बोध्यम् / पृभिदिव्यधिगृधि / 'पुरुः प्राज्ये अभिधेयवत् / पुंसि स्याद्देवलोके च नृत्यभेदपरागयोः' इति मेदिनी / सुषामेत्यादि // एतच्च न्यासाद्यनुरोधेनोक्तम् / वार्तिककृता तु, स्थास्थिन्स्थूनामुप. सङ्ख्यातम् / 'अपष्टुः पुंसि बाले च वामे स्यादन्यलिङ्गके' इति मेदिनी। अर्जिशि // 'अर्ज अर्जने' / अस्य ऋजिरादेशः / दृशेः पशिः। कमेस्तुगागमः। 'अम रोगगत्यादिषु / ' अस्य धुगागमः / 'पशि नाशने' / सौत्रो धातुः / अस्य दीर्घः / ‘बाध लोडने' / अस्य हादेशः / षड्भ्योऽपि कुप्रत्ययः स्यादित्यर्थः / अविशेषेणेति // चादिगणे तु पश्विति पठितम् / ‘पशु दृश्यर्थमव्ययम्' इति धरणिः। कन्तुः कन्दर्प इति // ‘कन्तुर्मकराकः' For Private And Personal Use Only
Page #581
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उणादयः] बालमनोरमा / 579 'पांसुर्ना न द्वयो रजः' / 'तालव्या अपि दन्त्याश्च सम्बसूकरपांसवः' / बाधत इति बाहुः / ‘बाहुः स्त्रीपुंसयोर्भुजः'। 28 / प्रथिम्रदिभ्रस्जा संप्रसारणं सलोपश्च / बयाणां कुः सम्प्रसारणं भ्रस्जे: सलोपश्च / पृथुः / मृदुः / न्यवादित्वात्कृत्वम् / भृजति तपसा भृगुः। 29 / लविबंद्योनलोपश्च / लघुः / 'बालमूललघ्वलमङ्गुलीनां वा लो रत्वमापद्यते' (वा 4798) / रघुर्नृपभेदः / बहुः / 30 / ऊर्णोतेर्नुलोपश्च / ऊरु सक्थि / 31 / महति हस्वश्च / उरु महत् / 32 / श्लिषेः कश्च / श्लिष्यतीति श्लिकुर्भृत्यः / उद्यतो ज्योतिश्च / 33 / आङ्परयोः खनिशृभ्यां डिच्च / आ खनतीत्याखुः। परं शृणातीति परशुः / पृषोदरादित्वादकारलोपात्पर्युरपि / 34 / हरिमितयोर्दुवः / 'दु गतौ' अस्मात् हरिमितयोरुपपदयोः कुः स च डित् / हरिभिर्दूयते हरिदुर्वृक्षः / मितं द्रवति मितद्रुः समुद्रः / 35 / शते च / शतधा द्रवति शतदुः / बाहुलकात्केवलादपि / द्रवस्यूर्ध्वमिति दुर्वृक्षः शाखा च / तद्वान्द्रुमः / इति त्रिकाण्डशेषः / पांसुरिति // ‘पडि पसि नाशने / ' चुरादिर्दन्त्यान्तः / स्त्रीपुंसयोरिति ॥उक्तं ह्यमरेण / 'द्वौ परौ द्वयोर्भुजबाहू' इति। परौ द्वौ भुजबाहुशब्दौ द्वयोः स्त्रीपुंसयोरिति तदर्थः / अकारान्तोऽप्ययम् / अत एव 'बाह्वोश्च भुजयोः पुमान्' इति दामोदरः। 'बाहा भुनेऽपुमान्मानभेदाश्ववृषवायुषु' इति मेदिन्याम् / टाबन्तोऽप्ययम् / प्रथिम्रदि // प्रथते इति पृथुः / 'पृथुः स्यान्महति त्रिषु / त्वक्पत्र्याकृष्णजीरेऽथ पुमानग्नौ नृपान्तरे' इति मेदिनी / म्रदितुं शक्यते अकठिनत्वादिति मृदुः कोमल: / 'भृगुः पुमान् मुनी हरे तटे शुक्रे' इति मेदिनी / 'भृगुः शुके प्रपाते च जमदग्नौ पिनाकिनि' इति कोशान्तरम् / लघुरिति // 'पृक्कायां स्त्री लघुः क्लीबं शीघ्र कृष्णागुरुण्यपि' इति त्रिकाण्डशेषः। 'लघुरगुरौ च मनोज्ञे निःसारे वाच्यवत् क्लीबम् / शीघ्र कृष्णागुरुणि च पृक्वानामौषधौ तु स्त्री' इति मेदिनी। नृपभेद इति // एतेन 'अवेक्ष्य धातोर्गमनार्थमर्थविच्चकार नाम्ना रघुमात्मसम्भवम्' इति व्याख्यातम् / बहुरिति॥ बहुस्तु त्यादिसङ्ख्यासु विपुले त्वभिधेयवत्' इति मेदिनी। ऊरुजङ्घति उज्ज्वलदत्तः / तन्न / तयोर्भेदात् / ऊर्जूयते आच्छाद्यते इत्यूरुः / कर्मणि प्रत्ययः। उरु महदिति // कर्तरि प्रत्ययः / उद्यत इति // स हि यावत्कार्य श्लिष्यति लगति व्याप्रियते इति यावत् / पशुरपीति // 'पशुः परशुना सह' इति विश्वः / हरिदुर्वृक्ष इति // दारुहरिद्रा इत्येके / तद्वानिति // For Private And Personal Use Only
Page #582
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 580 सिद्धान्तकौमुदीसहिता [उणादयः 36 / खरु शकुपीयुनीलंगुलिगु / पञ्चैते कुप्रत्ययान्ता निपात्यन्ते / खनते रेफश्चान्तादेश: / खरु: कामः क्रूरो मूर्योऽश्वश्च / 'शङ्कुर्ना कीलशल्ययोः' / 'पिबतेरीत्त्वं युगागमश्च' / पीयुर्वायसः कालः सुवर्णञ्च / निपूर्वाल्लगि गतावस्मात्कुर्नेदर्दीर्घश्च / नीलङ्गुः कृमिविशेष: शृगालश्च / 'नीलाङ्गुः' इति पाठान्तरम् / तत्र धातोरपि दीर्घः / 'लग सङ्गे' अस्य अत इत्वञ्च / लगतीति लिगु चित्तम् / लिगुर्मूर्खः / 37 / मृगस्वादयश्च / एते कुप्रत्ययान्ता निपात्यन्ते / मृगं यातीति मृगयुया॑धः / देवयुर्धार्मिकः / मित्रयुर्लोकयात्राभिज्ञ: / आकृतिगणोऽयम् / 38 / मन्दिवाशिमथिचतिचयङ्किभ्य उरच् / मन्दुरा वाजिशाला / वाशुरा रात्रिः। मथुरा। चतुरः / चङ्कुरो रथः / अङ्कुरः। खजूरादित्वादकैरोऽपि / 39 / व्यथेः सम्प्रसारणं किच्च / विथुरश्चोररक्षसोः'।। 'शुद्रुभ्यां मः' / खरुशब्दस्य क्रूरो मूर्ख इत्यर्थः / द्वयं दशपादीवृत्त्यनुसारेणोक्तम् / खरुः पतिंवरा कन्येत्यपि बोध्यम् / 'खरुदन्ते हरे दर्प हये श्वेते तु वाच्यवत्' इति विश्वत्रिकाण्डशेषौ / शंकुरिति // ‘शकि शङ्कायाम्' / शङ्कतेऽस्मादिति, 'शङ्खः कीले गरे शस्त्रे सङ्ख्यापादपभेदयोः / यादोभेदे च पापे च स्थाणावपि च दृश्यते' इति विश्वः / पीयुरिति // 'पीयुः काले रवौ घूके' इति मेदिनी। कृमिविशेष इति / 'नीलङ्गुः कृमिजातौ स्यात् भम्भरालीप्रसूनयोः' इति विश्वः / पाठान्तरमिति // 'नीलङ्गुरपि नीलामुः' इति विश्वः / धातो. रपीति // केचित्तु नीलशब्दे उपपदे गमेष्टिलोपः उपपदस्य मुम् दीर्घश्च पाक्षिको निपात्यते इत्याहुः / ‘लिगु चित्ते नपुंसकम्' इति वररुचिः / मृगय्वादयश्च // 'मृगयुः पुंसि गोमायौ व्याधे च परमेष्ठिनि' इति मेदिनी / 'मृगयुर्ब्रह्मणि ख्यातो गोमायुव्याधयोरपि / देवयुर्धार्मिके ख्यातो देवयुलॊकयात्रिके' इति विश्वः / आकृतिगण इति // तेन, ‘पील प्रतिष्टम्भे' अस्मात्कुः / ‘पीलुर्गजे द्रुमे काण्डे परमाणुप्रसूनयोः' इति विश्वः / भट्टास्तु पीलुशब्दस्य वृक्षे आर्यप्रसिद्धिः गजे तु म्लेच्छप्रसिद्धिरित्याश्रित्य व्यवजहूः / कडि मदे / कण्डुरित्यादि बोध्यम् / वाशुरा रात्रिरिति // वाश्यन्ते अस्यामिति विग्रहः / वासुरो गर्दभ इत्यन्ये / 'वाशुरा वासिताराव्योः' इति मेदिनी / 'चङ्कुरः स्यन्दने वृक्षे' इति मेदिनी / 'अङ्कुरो रुधिरे लोम्नि पानीयेऽभिनवोद्भिदि' इति च / खजूरेति // 'अङ्कराङ्कुर एव च' इति विश्वप्रकाशः / व्यथेः // 'व्यथ भयसञ्चलनयोः'। अस्मादुरच कित् स्याद्धातोः सम्प्रसारणञ्च / दशपाद्यां तु धः किच्चेति पठित्वा धकारमन्तादेशं विधाय विधुरोऽनग्निकः इत्युदाहृतम् / माधवेनापि तदेवानुसृतम् / न त्वेतद्युक्तम् / 'स्वमेषां विथुरा शवांसि / अतिविद्धा विथुरेणाचिदस्रा' इत्यादिमन्त्रषु थकारपाठस्य निर्विवादत्वात् / यदपि माधवेनोक्तं विदिभिदि इत्यत्र व्यथेः सम्प्रसारणञ्चेति वचनात् कुरचि थान्तं रूपमिति / तदतिस्थवीयः। कुरविधायके For Private And Personal Use Only
Page #583
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उणादयः] बालमनोरमा। 581 40 / मुकुरदर्दुरौ / मुकुरो दर्पण: / बाहुलकान्मकुरोऽपि / 'दृ विदारणे' धातोद्विवचनमभ्यासस्य रुक्टिलोपश्च / 'दर्दुरस्तोयदे भेके वाद्यभाण्डाद्रिभेदयोः' / 'दर्दुरा चण्डिकायां स्याद्गामजाले च द१रम्' इति विश्वः / 41 / मद्गुरादयश्च / उरजन्ता निपात्यन्ते / माद्यतेमुक् / मद्गुरो मत्स्यभेदः / 'कबृ वर्णे'। रुगागमः / 'कर्बुरं श्वेतरक्षसोः' / बनाते: खजूरादित्वादूरोऽपि / 'बन्धूरबन्धुरौ स्यातां नम्रसुन्दरयोस्त्रिषु' इति रन्तिदेवः / 'कोकतेर्वा कुक् (च)' (गण 195) कुकुर:-कुकुरः / 42 / असेरुरन् / असुरः / प्रज्ञाद्यण् / आसुरः / 43 / मसेश्च / पञ्चमे पादे ‘मसेरूरन्' इति वक्ष्यते / मसूरा मसुरा व्रीहिप्रभेदे पण्ययोषिति' / 'मसूरा मसुरा वा ना वेश्याव्रीहिप्रभेदयोः' / 'मसूरी पापरोगे स्यादुपधाने पुन: पुमान्' / 'मसूरमसुरौ च द्वौ' इति विश्वः / 44 / शावशेराप्तौ / शु इत्याश्वर्थे / श्वशुरः / 'पतिपत्नयोः प्रसू: श्वश्रूः श्वशुरस्तु पिता तयोः' इत्यमरः / 45 / अविमह्योष्टिषच / अविष: / महिषः / 46 / अमेर्दीर्वश्च / 'आमिषं त्वस्त्रियां मांसे तथा स्याद्भोग्यवस्तुनि' / 47 / रुहेदृद्धिश्च / ‘रङ्कुशम्बररौहिषा:' / रौहिषो मृगभेदे स्याद्रौहिषञ्च तृणं मतम्' इति संसारावर्तः / सूत्रे व्यथेरुपसङ्ख्यानस्थाप्रसिद्धत्वात् / तस्मादिह धः किच्चेति दशपादीपाठं पुरस्कुर्वन्तः प्रसादकारादयोऽप्युपेक्ष्याः। कथं तर्हि विधुर इति प्रयोगस्य निर्वाह इति चेत् / धुरो विगत इति प्रादिसमासेनेत्यवधेहि / 'समासान्ताः' इति सूत्रे वृत्तिपदमजोस्तथैवोक्तत्वात् / मुकुर इति // 'मकि मण्डने' / अस्मादुरच् नलोपश्च / बाहुळकादिति // धातोरुपधायाः पक्षे उकार इति भावः / 'मुकुरो मकुरोऽपि च' इति विश्वः / 'मुकुर: स्यान्मकुरवत् दर्पणे वकुळद्रुमे / कुलालदण्डे' इति मेदिनी च / धातोरिति // केचित्तु गुणो दुगागमश्च निपात्यते इत्याहुः / करमिति // 'कर्बुरं सलिले हेम्नि कर्बुरः पापरक्षसोः / कर्बुरा कृष्णवृन्तायां शबले पुनरन्यवत्' इति मेदिनी / अविष इति // राजा समुद्रश्च / माहेषो महान् / 'तुरीयन्धाम महिषो विवक्ति / उत माता महिषमन्ववेनत् / ' टित्त्वात् डीप् / महिषी राजपत्नी / रुहेः // 'रौहिषो मृगभेदे स्याद्रौहिषञ्च तृणं मतम्' इति संसारावर्तः / For Private And Personal Use Only
Page #584
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 582 सिद्धान्तकौमुदीसहिता [उणादयः 48 / तवेर्णिद्वा / ' तव' इति सौत्रो धातुः / 'तविषताविषावब्धौ स्वर्गे च' / स्त्रियां तविषी-ताविषी नदी देवकन्या भूमिश्च / 'तविषी बलम्' इति वेदभाष्यम् / 49 / नत्रि व्यथेः / 'अव्यथिषोऽब्धिसूर्ययोः' / अव्यथिषी धराराज्योः / 50 / किलेधुंक्च / किल्विषम् / 51 / इषिमदिमुदिखिदिछिदिभिदिमन्दिचन्दितिमिमिहिमुहिमुचिरुचिरुधिबन्धिशुषिभ्यः किरच् / इपिरोऽग्निः / मदिरा सुरा / 'मुदिर: कामुकाभ्रयोः' इति विश्वमेदिन्यौ / खिदिरश्चन्द्रः / छिदिरोऽसिकुठारयोः' / भिदिरं वज्रम् / मन्दिरं गृहम् / स्त्रियामपि / 'मन्दिरं मन्दिरापि स्यात्' इति विश्वः। ‘चन्दिरौ चन्द्रहस्तिनौ' / तिमिरं तमोऽक्षिरोगश्च / मिहिरः सूर्यः / 'मुहिरः काम्यसभ्ययोः' / मुचिरो दाता / रुचिरम् / रुधिरम् / बधिरः / 'शुष शोषणे' शुषिरं छिद्रम् / शुष्कमित्यन्ये / / 52 / अशेर्णित् / आशिरो वह्निरक्षसोः / 53 / अजिरशिशिरशिथिलस्थिरस्फिरस्थविरखदिराः। अजेर्वीभावाभावः / अजिरमङ्गणम् / शशेरुपधाया इत्वम् / शिशिरं स्याहतो दे तुषारे शीतलेऽन्यवत्' / श्रथ मोचने' उपधाया इत्वं रेफलोपः / प्रत्ययरेफस्य लत्वम् / शिथिलम् / स्थास्फाय्योष्टिलोप: / स्थिरं निश्चलम् / स्फिरं प्रभूतम् / वेदभाष्यमिति // 'इन्द्रो मित्रस्य तविषीम् / इन्द्रस्यात्र तविषीभ्यः' इत्यादिमन्त्रेष्विति भावः / वैदिकनिघण्टौ, 'ओजः पाजः' इत्यादिषु बलनामसु तविषीशब्दस्य पाठश्चेह मूलमिति बोध्यम् / 'तविषः शोभनाकारे भेळेऽब्धिव्यवसाययोः। तविषी देवकन्यायां पुंसि स्वर्गे महोदधौ // तविषी चेन्द्रकन्यायां ना स्वर्गाम्बुधिकाञ्चने' इति मेदिनी। किलेव॑क् च // ‘किल श्वैत्यकीडनयोः' / 'किल्बिषं पापरोगयोः / अपराधेऽपि' इति मेदिनी / इषिरोऽग्निरिति // आहार इत्यन्ये / 'छिदिरः पावके रज्जौ करवाले परश्वधे / मन्दिरं नगरेऽगारे क्लीबं ना मकरालये। चन्दिरोऽनेकपे चन्द्रे / तिमिरन्ध्वान्तनेत्रामयान्तरे / मिहिरः सूर्यबुधयोः / मुहिरः काममूर्खयोः / रुधिरोऽङ्गारके पुंसि क्लीबन्तु कुङ्कुमासृजोः / शुषिरं वंश्यादिवाये विवरे च नपुंसकम् / मूषिके न स्त्रियां नील्योषधौ रन्ध्रान्विते त्रिषु / आशिरो वीतिहोत्रे स्यात् राक्षसे भास्करे पुमान्' इति मेदिनी। अजिरमङ्गणमिति // अङ्गेयुटि अनादेशस्य बाहुलकाण्णत्वमित्येके / अन्ये तु विश्वकोशायुपष्टम्भेन दन्त्यमेवेच्छन्ति / इह दशपादीवृत्तौ नपूर्वस्य जीर्यतेः ऋवर्णलोपो निपात्यते इत्युक्तन्तदपि ग्राह्यम् / 'आशुन्दूतमजिरं प्रत्नमीड्यम्' इत्यादौ न जीर्यतीत्यजिरः इत्यर्थस्यानुगुणत्वात् / 'अजिरं प्राङ्गणे कार्यविषये दरेऽनिले। शिशिरो ना हिमे न स्त्री त्वृतुभेदे जडे For Private And Personal Use Only
Page #585
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उणादयः] बालमनोरमा / तिष्ठतेवुक्ह्रखत्वञ्च / स्थविरः / खदिरः / बाहुलकाच्छीङो बुक्ह्रस्वत्वञ्च / शिबिरम् / 54 / सलिकल्यनिमहिभडिभण्डिशण्डिपिण्डितुण्डिकुकिभूभ्य इलच् / सलति गच्छति निम्नमिति सलिलम् / कलिल: / अनिलः / महिळा / पृषोदरादित्वान्महेळापि / भड इति सौत्रो धातुः / 'भडिलौ शूरसेवको' / भण्डिलो दूतः कल्याणश्च / शण्डिलो मुनिः / पिण्डिलो गणकः / तुण्डिलो मुखरः / कोकिलः / भविलो भव्यः / बाहुळकात्कुटिलः / 55 / कमेः पश्च / कपिलः / 56 / गुपादिभ्यः कित् / गुपिलो राजा / तिजिलो निशाकरः / गुहिलं वनम् / 57 / मिथिलादयश्च / मध्यन्तेऽत्र रिपवो मिथिला नगरी। पथिल:-पथिकः। 58 / पतिकठिकुठिगडिगुडिदंशिभ्य एरक् / पतेर: पक्षी गन्ता च / कठेर: कृच्छ्रजीवी / कुठेरः पर्णाश: / बाहुळकान्नुम्न / गडेरो मेघ: / गुडेरो गुडकः / दंशेरो हिंस्रः। 59 / कुम्बेर्नलोपश्च / कुबेरः / 60 / शदेस्त च / शतेर: शत्रुः / 61 / मूलेरादयः। एरगन्ता निपात्यन्ते। मूलेरो जटा / गुधेरो गोप्ता / गुहेरो लोहघातकः / मुहेरो मूर्खः / / 62 / कबेरोतः पश्च / कपोत: पक्षी / त्रिषु / खदिरः शाकभेदे स्यात् ना चन्द्रे दन्तधावने' इति मेदिनी / शिबिरमिति // शेरतेऽस्मिन् राजानः / 'निवेशः शिबिरं षण्डम्' इत्यमरः / सलिकलि // कलिल इति // मिश्रो गहनश्च / महिळेति // 'महिळा फलिनीस्त्रियोः' इति मेदिनी / पृषोदरेति // तथाच दमयन्तीकाव्ये, 'परमहेलारतोऽप्यपारदारिकः' इति / परस्य महेला स्त्री / अथ च परमा उत्कृष्टा हेला क्रीडा तत्र रत इत्यर्थः / कपिल इति // 'कपिला रेणुकायाञ्च शिंशपागोविशेषयोः / पुण्डरीकः करिण्यां स्त्री वर्णभेदे त्रिलिङ्गकम् / नानले वासुदेवे च कुक्कुरे' इति मेदिनी। रेणुकह लताविशेषः / 'हरेणू रेणुका कौन्ती कपिला भस्मगन्धिनी' इत्यमरात् / मिथिलादयश्च // मथे विलोडने / अकारस्येत्वं निपातनात् / कुठेर इति // कठ कृच्छ्रजीवने / कुठि च। द्वितीयस्य इदित्त्वान्नुमि प्राप्ते आह / बाहुलकादिति // कबेरोतः॥ गुपादिसूतादारभ्य एतदन्तानि सप्त सूत्राणि केषाञ्चिदसम्मतानि / कपोत For Private And Personal Use Only
Page #586
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 584 सिद्धान्तकौमुदीसहिता [उणादयः 63 / भातेर्डवतुः / भातीति भवान् / 64 / कठिचकिभ्यामोरन् / कठोरः / चकोर: / 65 / किशोरादयश्च / किंपूर्वस्य शृणातेष्टिलोपः / किमोऽन्त्यलोपः / किशोरोऽश्वशाबः / सहोरः साधुः / 66 / कपिगडिगण्डिकटिपटिभ्य ओलच् / कपीति निर्देशान्नलोपः / कपोलः / गडोलगण्डोलौ गुडकपर्यायौ / कटोलः कटुः / पटोलः / 67 / मीनातेरूरन् / मयूरः। 68 / स्यन्देः सम्प्रसारणश्च / सिन्दूरम् / 69 / सितनिगमिमसिसच्यविधाशिभ्यस्तुन् / सिनोतीति सेतुः / 'तितुत्र-' (3163) इति नेट् / तन्तुः / गन्तुः / मस्तु दधिमण्डम् / सच्यत इति सक्तुः / अर्धर्चादिः / ‘उवर त्वर-' (सू 2654) इत्यूठ् / तत्र विडतीत्यनुवर्तत इति मते तु बाहुलकात् / ओतुर्बिडालः / धातुः / क्रोष्टा / 70 / पः किच्च / पिबतीति * पितुर्वह्रौ दिवाकरे'। 71 / अर्तेश्च तुः / अर्तेस्तु: स्यात्स च कित् 'ऋतुः स्त्रीपुष्पकालयोः' / इति // 'कपोतः स्याचित्रकण्ठे पारावतविहङ्गयोः' इति मेदिनी / 'कपोतः पक्षिमात्रेऽपि' इति त्रिकाण्डशेषः / अत्रौतचश्चित्त्वं प्रामादिकम् / 'यत्कपोतः पदमना कृणोति / देवाः कपोत इषितो यदिच्छन्' इत्यादौ सर्वत्र प्रत्ययस्वरेण मद्ध्योदात्तस्यैव पठ्यमानत्वात् / कठोर इति // कठिनः पूर्णश्च। 'कठोरताराधिपलाञ्छनच्छविः' इति माघः। किशोर इति // 'किशोरोऽश्वस्य शाबके / तैलपण्यौषधौ च स्यात्तरुणावस्थसूर्ययोः' इति मेदिनी। कपोल इति // कटे वर्षावरणयोः / केचित्तु सूत्रे कडि मदे इत्येतं पठन्ति / कण्डोलः पिटकः, चण्डालश्च। 'चण्डालिका तु कण्डोलवीणाचण्डालवल्लकी' इत्यमरः। पटोल इति || ‘पटोलं वस्त्रभेदे नौषधौ ज्योत्स्न्यान्तु योषिति' इति मेदिनी / 'कल्ल शब्दे / ' बाहुळकादतोऽप्योलच् / 'कल्लोलः पुंसि हर्षे स्यान्महत्सू. मिषु वारिणः' इति मेदिनी / स्यन्देः॥ ‘सिन्दूरस्तरुभेदे स्यात् सिन्दूरं रक्तचूर्णके / सिन्दूरी रोचनारक्तवेल्लिकाधातकीषु च' इति मेदिनीविश्वप्रकाशौ / सितनि // ‘सेतुर्नालौ कुमारके' इति मेदिनी / 'सेतुरालौ स्त्रियां पुमान्' इति, ‘मण्डन्दधिभवं मस्तु' इति चामरः / 'धातुर्नेन्द्रियेषु च / शब्दयोनिमहाभूततद्गुणेषु रसादिषु / मनःशिलादौ श्लेष्मादौ विशेषाद्रिकेऽस्मि च' इति मेदिनी / 'श्लेष्मादिरसरक्तादिमहाभूतानि तद्गुणाः / इन्द्रियाण्यश्मविकृतिः शब्दयोनिश्च धातवः' इत्यमरः / अतेश्च तुः॥ तुनि प्रकृते अन्तोदात्तत्वार्थन्तुः क्रियते / 'ऋतुना यज्ञम् / य ऋतुर्जनानाम्' इत्यादि / 'ऋतुर्वर्षादिषट्सु च। आर्तवे मासि च पुमान्' इति For Private And Personal Use Only
Page #587
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उणादयः] बालमनोरमा / 585 72 / कमिमनिजनिगाभायाहिभ्यश्च / एभ्यस्तुः स्यात् / 'कन्तुः कन्दर्पचित्तयोः' / मन्तुरपराधः / जन्तुः प्राणी / ‘गातुः पुंस्कोकिले भृङ्गे गन्धर्वे गायनेऽपि च / भातुरादित्यः / 'यातुरध्वगकालयोः' / रक्षसि क्लीबम् / हेतुः कारणम् / 73 / चायः किः। 'केतुर्ग्रहपताकयोः' / 74 / आमोतेर्हस्वश्च / अप्तुः शरीरम् / 75 / वसेस्तुन् / वस्तु / 76 / अगारे णिच्च / वेश्मभूर्वास्तुरस्त्रियाम्' / 77 / कृञः क्रतुः / ऋतुर्यज्ञः / 78 / एधिवयोश्चतुः / एधतुः पुरुषः / वहतुरनड्डान् / 79 / जीवेरातुः / 'जीवातुरस्त्रियां भक्ते जीविते जीवनौषधे' / 80 / आतृकन्वृद्धिश्च / जीवेरित्येव / 'जैवातृकस्त्विन्दुभिषगायुष्मत्सु कृषीवले'। ___81 / कृषिचमितनिधनिसर्जिखर्जिभ्य ऊः / 'कर्पूः पुंसि करीषाग्नौ कर्पूनद्यां स्त्रियां मता' / चमूः / तनूः / धनूः शस्त्रम् / 'सर्ज सर्जने' / सर्जू. वैणिक / खर्ज व्यथने' / खजूं: पामा / 82 / मृजेर्गुणश्च / मर्जूः शुद्धिकृत् / 83 / वहो धश्च / 'वधूर्जायास्नुषास्त्रीषु' / मेदिनी। कमि॥ कमिग्रहणं प्रपञ्चार्थम् / 'अर्जिशि' इत्यादिना कुप्रत्यये तुकि सिद्धत्वात् / मन्तु. रिति // 'मन्तुः पुंस्यपराधेऽपि मनुष्येऽपि प्रजापतौ' इति मेदिनी। 'दीर्घ ह्यङ्कुशम्' इति मन्त्रस्य वेदभाष्ये तु मन्तुम इति मन्तुनिन्तद्वान् हे इन्द्रेति व्याख्यातम् / ‘गातुर्ना कोकिले भृङ्गे गन्धर्वे त्रिषु रोषणे' इति मेदिनी / 'भातुर्ना किरणे सूर्ये' इति च / चायः किः॥ 'केतुर्ना रुक्पताकारिग्रहोत्पातेषु लक्ष्मणि' इति मेदिनी। अप्तुः शरीरमिति // अभिलषितार्थश्च, आप्तव्यत्वात् / अत एव अप्तोर्यामशब्दस्याभिलषितार्थप्रापक इत्यवयवार्थमाहुः / कृञः क्रतुः // 'ऋतुर्यज्ञे मुनौ पुंसि' इति मेदिनी / एधिवह्योश्चतुः॥ चित्त्वादन्तोदात्तः। 'स्योनं पत्ये वहतुं कृणुष्व' / 'वहतुः पथिके वृषभे पुमान्' इति मेदिनी। आतृकन् // 'जैवातृकः पुमान् सोमे कृषकायुष्मतोस्त्रिषु' इति मेदिनी। कृषि // रभसकोशस्थमाह / कर्पूरिति // 'कर्षुः पुमान् करीषाग्नौ स्त्रियां कुल्याल्पखातयोः' इति मेदिनी / 'सर्वणिजि विद्युति / स्त्रियां स्वर्गे विधौ रुद्रे' इति, 'खर्जूः कीटान्तरे स्मृता / खजूरी पादपे कण्डाम्' इति च / मृजेः // 'मर्जू: स्त्री शुद्धौ धावकेऽपि च' इति मेदिनी / वहः // 'वधूः स्नुषा नवोढा स्त्री भार्यापृक्काङ्गनासु च' इति विश्वः। 'पृक्का च महिला 74 For Private And Personal Use Only
Page #588
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 586 586 . सिद्धान्तकौमुदीसहिता [उणादयः 84 / कषेश्छश्च / कच्छू: पामा / 85 / णित्कसिपद्यर्तेः / कासूः शक्तिः / पादृश्चरणधारिणी / आरू: पिङ्गलः / 886 / अणो डश्च / आडूर्जलप्लवद्रव्यम् / 87 / नबि लम्बेर्नलोपश्च / 'तुम्ब्यलाबूरुभे समे' इत्यमरः / 88 / के श्र एरङ् चास्य। कशब्दे उपपदे शृणातेरू: स्यात् एरङादेशः / 'कशेरूस्तृणकन्दे स्त्री' बाहुलकादुप्रत्यये कशेरु: / क्लीबे पुंसि च / 89 / त्रो दुद् च / तरतेरू: स्यात्तस्य दुट् / 'तर्दूः स्याहारुहस्तकः' / 90 / दरिद्रातर्यालोपश्च / इश्व आश्च यौ तयोर्लोप: / दर्दूः कुष्ठप्रभेदः / 91 / नृतिशृध्योः कूः / नृतूर्नर्तकः / शृधूरपानम् / 92 / ऋतेरम् च / ऋति: सौत्रो धातुः / ततः कूरमागमश्च / रन्तुर्देवनदी सत्यवाक्च / 93 / अन्दूदृम्भूजम्बूकफेलूकर्कन्धूदिधिषः। एते कूप्रत्ययान्ता निपात्यन्ते / अन्दूर्बन्धनम् / ' भी ग्रन्थे' निपातनान्नुम् / दृम्भूः / अनुस्वाराभावोऽपि निपातनादित्येके / इन्भूः / जनेर्बुक् / जम्बूः / 'जमु अदने' इत्यस्येत्येके / वधूः' इति त्रिकाण्डशेषः / कषेः॥ कषशषेति दण्डके पठितः। 'कछान्तु, पामपामे विचर्चिका' इत्यमरः / णित्कसि // कस गतौ / 'कासूर्विकलवाचि स्यात् तथा शक्त्यायुधे स्त्रियाम्' इति मेदिनी। 'कासूः शक्त्यायुधे रुजि / बुद्धौ विकलवाचि स्यात्' इति हेमचन्द्रः / न लम्बते अलाबूः। त्रो दुट् च // तरिति // 'नेशि' इति नेट् / वरमनादाविति परिगणनस्यानाश्रितत्वात् बाहुलकाद्वा / केचित्तु त्रो दुक् चेति पठित्वा धातोर्दुगागममाहुः / तेषान्धातोर्गुणो दुर्लभः / चकारबलेन वा साधनीयः, दुगागमात्पूर्वं यत्प्राप्तन्तदपि भवतीति व्याख्यानात् / दरिद्रातेः // इश्च आश्चेति // भोजदेवस्तु लोप इति रेफादिकं पदं छित्वा द्वेधा व्याख्यत् / इश्च आश्च / दर्दूः। रश्च इश्च आश्च / 'अन्त्यबाधेऽन्त्यसदेशस्य' इति द्वितीयरेफलोपः / दर्दू: / मृगय्वादित्वा ह्रस्वान्तश्च / 'दद्रुणो दगुरोगी स्यात्' इत्यमरः / इत्थश्चत्वारि रूपाणि / अन्दूदृम्भू // अन्दूर्बन्धनमिति // ‘अदि बन्धने' / 'अन्दूः स्त्रियां स्याग्निगडे प्रभेदे भूषणस्य च' इति मेदिनी / 'अन्दुको हस्तिनिगडे' इत्यमरः। 'संज्ञायाङ्कन्' / 'केऽणः' इति ह्रस्वः / केचित्तु 'अम गतौ' अस्य दुक् अन्दुर्बुद्धिरिति व्याचख्युः / दृभी ग्रन्थे इति तुदादिः / शम्भूरिति // सन्दर्भकर्तेत्यर्थः / कथकः इत्यन्ये / अस्य रूपाणि हूहूवदित्युक्तम् / कैयटो. ऽप्यत्रानुकूलः। माधवादयस्तु दृढशब्द उपपदे भुवः क्विप्प्रत्ययः, उपपदस्य दृन्नादेशो निपात्यते / यद्वा दृन्निति नान्तमव्ययं दृढार्थकमुपपदं, इन्भूः, तरुः सर्पः कपिति व्याख्याय 'इन्कर' इति य For Private And Personal Use Only
Page #589
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उणादयः बालमनोरमा / 587 बाहुलकाद्भस्वोऽपि / जम्बुः / कर्फ लाति कफेलूः श्लेष्मातकः / निपातनादेत्वम् / कर्क दधाति कर्कन्धूर्बदरी / निपातनान्नुम् / दिधिं धैर्य स्यति त्यजतीति दिधिषः पुनर्भूः / केचित्तु 'अन्दूदृम्भूजम्बूकम्बू' इति पठन्ति / 'हम्फ उत्क्लेशे' दृम्फूः सर्पजाति: / 'कमेर्बुक्' / कम्बू: परद्रव्यापहारी / 94 / मृग्रोरुतिः / मरुत् / गरुत्पक्षः / 95 / यो मुद् च / गिरतेरुतिस्तस्य च मुट् / गर्मुत्सुवर्ण तृणविशेषश्च / 96 / हृषेरुलच् / 'हर्षुलो मृगकामिनो:' / बाहुलकाच्चटतेः / चटुलं शोभनम् / 97 / हृमृरुहियुषिभ्य इतिः। 'हरित्ककुभि वर्णे च तृणवाजिविशेषयोः' / सरिनदी / 'रोहित्' मृगविशेषस्य स्त्री / 'युष' इति सौत्रो धातुः / 'ऋश्यस्य रोहित् पुरुषस्य योषित्' इति भाष्यम् / 98 / ताडेर्णिलुक् च / ताडयतीति तडित् / 99 / शमेढः / बाहुलकादित्संज्ञा एयादेशः इट् च न / 'शण्ड: स्यात्पुंसि गोपतौ' / शण्ढः / क्लीबः / वर्षाभूवद्रूपमस्येत्याहुः / ह्रस्वोऽपीति // उदाहृतञ्च विक्रमादित्येन / 'तस्या जम्बोः फलरसो नदीभूय प्रवर्तते' इति / यत्तु “परिणतजम्बुफलोपभोगहृष्टा" इति भारविप्रयोगं ह्रस्वान्तत्वे साधकत्वेनोदाजगुः / तन्न / 'इको ह्रस्वोऽयः' इति सूत्रेण गतार्थत्वात् / दिधिमिति // केचित्तु दधातेरित्वन्द्वित्वं घुक् च निपात्यते / दधात्यसौ दिधिषूरित्याहुः। उज्ज्वलदत्तोक्तं पाठमाह / केचित्त्विति // एतच्च कैयटमाधवादिमहाग्रन्थविरुद्धमित्यवधेयम् / अत एवं 'दृम्भूः स्त्री सर्पचक्रयोः' इति भान्ते मेदिनी। मरुदिति // प्रज्ञादित्वादणि मारुतोऽपि / मरुतशब्दोऽप्यव्युत्पन्नोऽस्ति / तथा च विक्रमादित्यकोशः / 'मरुतः स्पर्शनः प्राणः समीरो मारुतो मरुत्' इति संसारावर्तश्च / 'कोऽयं वाति स दाक्षिणात्यमरुतः' इति कविराजः / अत्रानुपपत्तिं मत्वा दाक्षिणात्यपवन इति पाठं कल्पयन्त्यल्पदृश्वानः इति वर्णविवेकः / गरुदिति // यवादिरयम् / तेन मतुपो वत्वं न। गरुत्मान् / यो मुट् च // 'गर्मुत् स्त्री स्वर्णलतयोः' इति मेदिनी। विश्वकोशमाह / हरिदिति // 'हरिदिशि स्त्रियां पुंसि हयवर्णविशेषयोः। अस्त्रियां स्यात्तृणे च' इति मेदिनी / ऋश्यस्येति // एतेन 'गतं रोहिद्भूतां रिरमयिषुमृश्यस्य वपुषा' इति पुष्पदन्तप्रयोगो व्याख्यातः। 'रोहिन्मृग्यां लताभेदे स्त्री नार्के' इति मेदिनी / शमेढः // बाहुलकादिति // यद्यपि 'नेड्वशिकृति' इति इनिषेधः सुवचः / तथापि नेड्डरमनादाविति परिगणनादेवमुक्तम् / 'शण्डः स्यात्पुंसि गोपतौ' आकृष्टाङ्गे वर्षवरे तृतीयप्रकृतावपि' इति मेदिनी / कमठ इति // 'कमठः कच्छपे पुंसि भाण्डभेदे नपुंसकम्' इति For Private And Personal Use Only
Page #590
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 588 सिद्धान्तकौमुदीसहिता [उणादयः HARHARE 100 / कमेरठः / कमठः / 'कमठः कच्छपे पुंसि भाण्डभेदे नपुंसकम्' इति मेदिनी / बाहुलकाजरठः / 101 / रमेद्धिश्च / रामठं हिङ्गु / 102 / शमेः खः / शङ्खः / 103 / कणेष्ठः / कण्ठः / 104 / कलस्तृपश्च / तृपतेः कलप्रत्ययः / चात्तृफतेः / तृपला लता / ‘तृफला तु फलत्रिके'। 105 / शपेर्वश्च / शबलः / 106 / वृषादिभ्यश्चित् / वृषलः / पललम् / बाहुलकाद्गुणः / सरल: / तरलः / 'कमेर्बुक् (च) (गण 196) कम्बलः / 'मुस खण्डने' मुसलम् / 'लङ्गेवृद्धिश्च' (गण 197) लाङ्गलम् / 'कुटिकशिकौतिभ्यः प्रत्ययस्य मुट् / मेदिनी / जरठ इति // जृष् वयोहानौ / 'जरठः कठिने पाण्डी कर्कशेऽप्यभिधेयवत्' इति विश्वमेदिन्यौ / 'जरठः कठिने जीणे' इति वैजयन्ती / शमः खः // 'शको निधौ ललाटास्नि कम्बो न स्त्री' इत्यमरः / 'शङ्खः कम्बौ न योषिन्ना भालास्नि निधिभिन्नखे' इति मेदिनी। कणेष्ठः // ‘कण्ठो गले सन्निधाने ध्वनौ मदनपादपे' इति विश्वमादेन्यौ / फलत्रिके इति // 'त्रिफला तृफला च सा' इति विश्वः / त्रिफलाशब्दसमानार्थस्तृफला. शब्द इति 'द्विगोः' इति सूत्रे रक्षितः / 'शप आक्रोशे' / वृषादिभ्यश्चित् // 'शुद्राश्रावरवर्णाश्च वृक्षलाश्च जघन्यजाः' इत्यमरः / 'वृषलस्तुरगे शूद्रे' इति हेमचन्द्रः / पललमिति // पल गतौ / ‘पललं तिलचूर्णे च पङ्के मांसे नपुंसकम् / ना राक्षसे' इति मेदिनी / 'सरलः पूतिकाष्ठे नाऽथोदारावकयोस्त्रिषु' इति मेदिनी / 'सरला विरलायन्ते घनायन्ते कलिद्रुमाः। न शमी न च पुनागा अस्मिन्संसारकानने' इत्यभियुक्तप्रयोगः / कमेरिति // बाहुलकादित्यत्रानुषज्यते / ‘कम्बळो नागराजे स्यात् सास्नाप्रावारयोरपि / कृमावप्युत्तरासङ्गे सलिले तु नपुंसकम्' इति मेदिनी / 'मुसलं स्यादयोऽग्रे च पुनपुंसकयोः स्त्रियाम् / तालमूल्यामाखुपर्णीगृहगोधिकयोरपि' इति मेदिन्याम् / मूर्धन्यमध्योऽप्ययमिति वर्णदेशना, 'मुस खण्डने' इति धातोर्दन्त्यान्तेषु मूर्धन्यान्तेषु च बोपदेवात्रेयादिभिः पठित. त्वात् / उज्ज्वलदत्तादयस्तु तालव्यमध्यमप्याहुः / अत एव मुसलोऽपि चेति विश्वकोशे मुशलोऽपि चति पाठान्तरम् / लङ्गेरिति // बाहुळकादित्येव / एवमप्रेऽपि / 'लागलं तालहलयोः पुष्पभिद्रहदारुणोः / लाङ्गली गृहपिप्पल्याम्' इति हेमचन्द्रः / 'लागली तोय. पिप्पल्यां क्लीबन्तु कुसुमान्तरे / गोदारणे तृणे राजगृहदारुविशेषयोः' इति मेदिनी / 'कुङ्मलो मुकुले पुंसि न द्वयोर्नरकान्तरे / 'कोमलं मृदुले जले' इति च / बाहुलकादन्यत्रापि / तथा 'कुस श्लेषणे' / दन्त्यान्तो निर्विवादः / बोपदेवमते तालव्यान्तोऽपि / गुणः / कोसलः कोशलो For Private And Personal Use Only
Page #591
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उणादयः] बालमनोरमा। 589 (च), (गण 198) कुट्मलः / कुडेरपि / कुड्मलः / कश्मलम् / बाहुलकाद्गुणः / कोमलम् / 107 / मृजेष्टिलोपश्च / मलम् / 108 / चुपेरच्चोपधायाः / चपलम् / 109 / शकिशम्योनित / शकलम् / शमलम् / 110 / छो गुग्घ्रस्वश्च / छगलः / प्रज्ञादित्वाच्छागल: / 111 / जमन्ताड्डः / दण्डः / रण्डा / खण्डः / मण्डः / वण्डश्छिन्नहस्तः / अण्डः / बाहुलकात्सत्वाभाव: / षण्ड: सङ्घातः / तालव्यादिरित्यपरे / शण्डः / गण्डः / चण्ड: / पण्ड: क्लीवः / पण्डा बुद्धिः / वा देशविशेषः। 'वृद्धत्कोसल' इति सूत्रे तु दन्त्यपाठ एव साम्प्रदायिकः / 'सम्ब सम्बन्धे, शम्ब च' / सम्बलम् / 'शम्बलोऽस्त्री सम्बलवत् कुलपाथेयमत्सरे' इति मेदिनी / 'कदि आह्वाने' / नलोपः / गौरादित्वान्डीए / 'मदान्दोलितकर्पूरकदलीदलसंज्ञया / विश्रमाय श्रमापनानाह्वयन्तमिवाध्वगान्' इति काशीखण्डम् / अजादेराकृतिगणत्वाट्टाबपि / 'कदलाकदलौ पृश्न्यां कदलीकदलौ पुनः / रम्भावक्षेऽथ कदली पताकामृगभेदयोः // कदला डिम्बिकायाञ्च' इति मेदिनी / 'पिजि हिंसायाम्' / न्यवादित्वात्कुत्वम् / 'पिङ्गलो नागभिद्रुद्रचण्डांशुपारिपार्श्वके / निधिभेदे कवावग्नौ पुंसि स्यात्कपिलेऽन्यवत् // स्त्रियां वेश्याविशेषे च करिण्याङ्कुमुदस्य च' इति मेदिनी / कुश इति सौत्रो धातुः / 'कुशल: शिक्षिते त्रिषु / क्षेमे च सुकृते चापि पर्याप्तौ च नपुंसकम्' इति मेदिनी / 'कमु कान्तौ'। 'कमलं सलिलं ताम्र जलजे व्याम्नि भेषजे। मृगभेदे तु कमल: कमला श्रीवरस्त्रियोः' इति विश्वमेदिन्यौ / 'मडि भूषायाम्' / 'मण्डलं परिधौ कोठे देशे द्वादशराजके / क्लीबेऽथ निवहे बिम्बे त्रिषु पुंसि तु कुक्कुरे' इति मेदिनी / 'कोठो मण्डलकम्' इत्यमरः / 'बिम्बोऽस्त्री मण्डलं त्रिषु' इति च। 'कुडि दाहे', 'पट गतौ', 'छो छेदने'। 'कुण्डलङ्कर्णभूषायां पाशेऽपि वलयेऽपि च / अथ पटलं पिटके च परिच्छदे / छदिदृप्रोगतिलके क्लीबं बृन्दे पुनर्न ना। छलं स्खलितशाठ्ययोः' इति मेदिनी / मृजेष्टिलोपश्च // 'मलोऽस्त्री पापविकिट्टे कृपणे त्वभिधेयवत्' इति मेदिनी / चुपेः // 'चपलः पारदे मीने चिबुके प्रस्तरान्तरे / चपला कमला विद्युत् पुंश्चलीपिप्पलीषु च / नपुंसकं तु शीघ्र स्याद्वाच्यवत्तरलं चले' इति मेदिनी / शकिशम्योः // शकलं खण्डे रोहितादीनान्त्वचि च। तद्योगाच्छकली मत्स्यः / 'मत्स्यान् शकलान्' इति भाष्यम् / ‘शकलन्त्वचि खण्डे स्यात् रागवस्तुनि वल्कले' इति मेदिनी / 'शमलं शकृदेनसोः' इति नानार्थरत्नमाला। छो गुग // 'छगलं नीलवस्त्रे ना च्छागे स्त्री वृद्धदारके' इति मेदिनी। 'छगलइछागे च्छगली वृद्धदारकभेषजे' इति हेमचन्द्रः / ञमन्ताडः // अमिति प्रत्याहारः / त्रिभ्य एव कणमा इति वृत्तिकारोक्तिस्तु अष्टाध्यायीस्थमात्रविषया / दण्ड इति // बाहुलकात् , 'चुटू' इति नेत्संज्ञा / 'दण्डोऽस्त्री लगुडेऽपि स्यात्' इत्यमरः / ‘दण्डौ सैन्यापार्श्वगौ' इति त्रिकाण्डशेषः / 'रण्डा मूषिकपाञ्च विधवायाञ्च योषिति / खण्डोऽस्त्री शकले For Private And Personal Use Only
Page #592
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 590 सिद्धान्तकौमुदीसहिता [उणादयः 112 / कादिभ्यः कित् / कवर्गादिभ्यो ड: कित्स्यात् / कुण्डम् / काण्डम् / गुङ् गुडः / ‘घुण भ्रमणे' घुण्डो भ्रमरः / 113 / स्थाचतिमृजेरालज्वालबालीयचः / तिष्ठतेरालच् / स्थालम्स्थाली / चतेर्वालम् / चात्वाल: / मृजेरालीयच् / मार्जालीयो बिडालः / 114 / पतिचण्डिभ्यामालञ् / पातालम् / चण्डालः / प्रज्ञादित्वादणि चाण्डालोऽपीत्येके। 115 / तमिविशिविडिमृणिकुलिकपिपलिपश्चिभ्यः कालन् / तमालः / विशालः / बिडाल: / मृणालम् / कुलाल: / कपालम् / पलालम् / पञ्चालाः / नेक्षुविकारमणिभेदयोः / मण्डः पञ्चाङ्गुले शाकभेदे क्लीबन्तु मस्तुनि / चण्डा तु पांसुलायां स्त्री त्रिषु हस्तादिवर्जिते / अण्डं मुष्कं च पेश्यां स्यात् / षण्डं पद्मादिसङ्घाते न स्त्री स्यात् गोपतौ पुमान् / गण्ड: स्यात्पुंसि खहिनि / ग्रहयोगप्रभेदे च वीथ्यङ्गे पिटकेऽपि च / चिह्नवीरकपोलेषु हयभूषणबुबुदे / चण्डोला तिन्त्रिणीवृक्षे यमकिङ्करदैत्ययोः / चण्डी कात्यायनीदेव्यां हिंस्राकोपनयोषितोः / चण्डा धनहरो शङ्खपुष्पी त्रिष्वतिकोपने / तीवेऽपि / पण्ड: शठे धियि स्त्री स्यात्' इति मेदिनी / 'फण गतौ' / फण्डः / प्रज्ञादित्वादण् / फाण्डं सुन्दरम् / क्वादिभ्यः कित् // कुण्डमिति // कुण शब्दोपकरणयोः / कित्त्वान्न गुणः / 'कुण्डमग्न्यालये मानभेदे देवजलाशये / कुण्डी कमण्डलौ जारात्पतिवत्नीसुते पुमान् / पिठरे तु न ना' इति- मेदिनी। काण्डमिति // कमु कान्तौ / 'अनुनासिकस्य कि' इति दीर्घः / ‘काण्डोऽस्त्री दण्डबाणार्ववर्गावसरवारिषु' इत्यमरः / अर्वा कुत्सितः / अत एव ‘काण्डं स्तम्बे तरुस्कन्धे बाणे वरदनीरयोः / कुत्सिते वृक्षभिन्नाडीबुन्दे रहसि न स्त्रियाम्' इति मेदिनी / 'गुडो गोलेक्षुपाकयोः' इत्यमरः / गुडा स्नुही, तद्वत्केशाः अस्य गुडाकेशः, शिवः / जटाधारित्वात् / 'गुडः स्याद्गोलके हस्तिसन्नाहेक्षुविकारयोः / गुडा स्नुह्याञ्च कथिता गुडिकायाञ्च योषिति' इति मेदिनी / स्थाचति // लचा सिद्धे आलचः आकारश्चिन्त्यप्रयोजनः / चित्स्वरं बाधित्वा पक्षे आद्युदात्तार्थ इत्येके / 'स्थालं भाजनभेदेऽपि स्थाली स्यात् पाटलोखयोः' इति मेदिनी / 'चात्वालो यज्ञकुण्डे स्याद्दर्भे च' इति विश्वः / 'मार्जालीयः स्मृतः शूद्रे बिडाले कायशोधने' इति मेदिनी / पातालमिति // उपधावृद्धिः / 'पातालं नागलोके स्याद्विवरे बडवानले' इति मेदिनी / 'चडि कोपे' इत्यस्य तु इदित्त्वान्नुमि अदुपधत्वाभावान वृद्धिः / यत्तु माधवग्रन्थे 'पतिचण्डिभ्यामालन्' इति पठित्वा पातालशब्दे बाहुलकाद्वृद्धिमुक्त्वा आलमिति वृद्ध्यर्थ जितङ्केचित्पठन्ति इत्युपन्यस्य चण्डालशब्देऽपि वृद्धिः स्यादिति दूषितम् / तदतिरभसात् / एके इत्यपरितोषोद्भावनम् / तद्बीजन्तु 'कुलालवरुडकर्मारनिषादचण्डालमित्रामित्रेभ्यश्छन्दसि' इति चण्डालात्स्वार्थेऽणं विदधता वार्तिकेन तद्भाष्येण च सह विरोध इति बोध्यम् / तमिविशि // 'तमु काङ्खायाम् , विश प्रवेशने, बिड आक्रोशे, मृण हिंसायाम् , कुल संस्त्याने, कपि चलने, निर्देशानलोपः / 'पल गतौ, पचि विस्तारे। 'तमालस्तिलके खङ्गे तापिञ्छे वारुणद्रुमे / For Private And Personal Use Only
Page #593
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उणादयः] बालमनोरमा / 591 116 / पतेरङ्गच्पक्षिणि / पतङ्गः / 117 / तरत्यादिभ्यश्च / तरङ्गः / लवङ्गम् / 118 / बिडादिभ्यः कित् / बिडङ्गः। मृदङ्गः। कुरङ्गः / बाहुलकादुत्वं च। 119 / सृबोद्धिश्च / सारङ्गः / वारङ्गः खड्गादिमुष्टिः / 120 / गन्गम्यद्योः / गङ्गा / अद्गः पुरोडाशः / 121 / छापूरखडिभ्यः कित् / छागः / पूगः / खगः / बाहुलकात् 'पिड अनादरे' गन्सत्वाभावश्च / षिगस्तरल: / ‘षिङ्गैरगद्यत ससम्भ्रममेवमेका' इति माघः / 122 / भृत्रः किन्नुद् च / भृयो गन्कित्स्यात्तस्य नुट् च / 'भृङ्गाः षिङ्गालिधूम्याटा:'। विशाला विन्द्रवारुण्यामुज्जयिन्यान्तु योषिति / नृपवृक्षभिदोः पुंसि पृथुलेऽप्यभिधेयवत् / बिडालो नेत्रपिण्डे स्यात् पृषदंशुकके पुमान् / मृणालं नलदे क्लीबं पुनपुंसकयोर्बिसे / कुलाल: ककुभे कुम्भकारे स्त्री त्वजनान्तरे / कपालोऽस्त्री शिरोऽस्ति स्याद्घटादेः शकले व्रजे। पाञ्चाली पुत्रिकारीत्योः स्त्रियां पुम्भूम्नि नीवृति' इति मेदिनी / बाहुलकात् श्यतेरपि / शाला / 'शल चलने' अस्माद्धनि 'छायाशालानिशानाम्' इति निपातनात् स्त्रीत्वमिति न्यासकारः / बोपदेवस्तु 'शालङ्कत्थने' इति पपाठ। 'शाला द्रुस्कन्धशाखायाङ्गहे गेहैकदेशयोः / ना झषे' इति मेदिनी / पतेः // पतेर्बाहुलकादर्थान्तरेऽपि / 'पतङ्गः शलभे शालिप्रभेदे पक्षिसूर्ययोः / क्लीबं सूते' इति मेदिनी / सूते पारदे इत्यर्थः / तरत्यादिभ्यः // 'तरङ्गस्तुरगादीनामुत्फाले वस्त्रभङ्गयोः' इति विश्वः / बिडङ्ग इति // 'बिड आकोशे'। 'बिलङ्गः कृमिसङ्घने बिडङ्गो नागरेऽन्यवत्' इति विश्वः / 'बिडङ्गस्त्रिष्वभिशे स्यात् कृमिघ्ने पुनपुंसकम्' इति मेदिनी / मृदङ्ग इति // ‘मृद क्षोदे। 'मृदङ्गः पटहे घोष' इति मेदिनी / कुरङ्ग इति // 'कृ विक्षेपे' बाहुलकादुत्वम् / कुर शब्दे इति वा अस्तु / ' सारङ्गः पुंसि हरिणे चातके च मतङ्गजे / शबले त्रिषु' इति मेदिनी / बाहुलकात् 'नृ नये' / 'अथ नारङ्गः पिप्पलीरसः। यमजप्राणिनिकटे नागरङ्गद्रुमेऽपि च' इति मेदिनी / गन् गम्यद्योः॥ बाहुलकादमेरपि। 'अङ्गं गात्र उपाये च प्रतीके चाप्रधानके। अङ्गो देशविशेषे स्यादङ्ग सम्बोधनेऽव्ययम्' इति विश्वः / 'अङ्गं गात्रे प्रतीकोपाययोः पृभूम्नि नीति / क्लीबैकत्वे त्वप्रधाने त्रिध्वङ्गवति चान्तिके' इति मेदिनी। छापू // छायते छिद्यते यज्ञार्थमिति छागः / पूयते मुखमनेन / 'पूगस्तु क्रमुके बृन्दे' इति मेदिनी। 'खड भेदने' / खड्गो गण्डकशृङ्गे स्यात् निस्त्रिंशे गण्डकेऽपि च' इति शब्दतरङ्गिणी / 'खगो गण्डकशृङ्गेऽसिबुद्धभेदेषु गण्डके' इति मेदिनी / भृञः // किद्रहणं स्पष्टार्थम् , अनुवृत्त्यैव लाभात् / 'भृङ्गो धूम्याटषिङ्गयोः / मधुम्रते भृङ्गराजे पुंसि भृङ्गङ्गुडत्वचि' इति मेदिनी / 'शृङ्गं प्रभुत्वे शिखरे चिह्ने क्रीडाम्बुयन्त्रके / विषाणोत्कर्षयोश्चाथ शृङ्गः स्यात्कूर्चशीर्षके / स्त्री विषायां For Private And Personal Use Only
Page #594
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 592 सिद्धान्तकौमुदीसहिता [उणादयः 123 / शृणातेर्हस्वश्च / शृङ्गम् / 124 / गण्शकुनौ / नुट् चेत्यनुवर्तते / शार्ङ्गः / 125 / मुदिग्रोगग्गौ / मुद्गः / गर्गः / 126 / अण्डन्कृसभृवृक्षः। करण्डः / सरण्डः पक्षी / भरण्डः स्वामी / वरण्डो मुखरोगः / 127 / शुभसोदिः / शरत् / 'दरद्धृदयकूलयोः' / भसज्जघनम् / 128 / दृणातेः पुग्घ्रस्वश्च / दृषत् / 129 / त्यजितनियजिभ्यो डित् / त्यद् / तद् / यद् / सर्वादयः / 130 / एतेस्तुद् च / एतद् / 131 / सर्तेरटिः / 'सरट् स्याद्वातमेघयोः' / वेदभाष्ये तु 'याभिः कृशानुम्' इति मन्त्रे ‘सरड्भ्यो मधुमक्षिकाभ्यः' इति व्याख्यातम् / 132 / लड्डे लोपश्च / लघट वायुः / 133 / पारयतेरजिः / पारक् सुवर्णम् / 134 / प्रथः कित्सम्प्रसारणश्च / पृथक् / स्वरादिपाठाव्ययत्वम् / 135 / भियः पुग्घ्रस्वश्च / भिषक् / 136 / युष्यसिभ्यां मदिक् / 'युष्' सौत्रो धातुः / युष्मद् / अस्मद् / त्वम् / अहम् / 137 / अर्तिस्तुसुहुमुधुशिक्षुभायावापदियक्षिनीभ्यो मन् / एभ्यश्चतुदेशभ्यो मन् / अर्मश्चक्षुरोगः / स्तोमः सङ्घातः / सोमः / होमः / सर्मों वर्णमीनभेदयो ऋषभौषधौ' इति मेदिनी / 'शृङ्गं विषाणमाख्यातं शैलाये जलयन्त्रके / मीनौषधिसुवर्णानां भेदे शृङ्गी प्रयुज्यते // ' इति उत्पलिनीकोशः / अण्डन् कृस // ‘करण्डी मधुकोशासिकारण्डेषु ललाटके' इति मेदिनी / 'वरण्डोऽप्यन्तरावेदौ समूहमुखरोगयोः' इति विश्वमेदिन्यौ / बाहुलकात् तरतेः / 'तरण्डो बडिशीसूत्रबद्धकाष्ठादिके प्लवे' इति मेदिनी / शृढ // 'शरत् स्त्री वत्सरेऽप्यूतौ / दरत् स्त्रियां प्रपाते च भयपर्वतयोरपि / भसत् स्त्री भास्वरे योनौ' इति च मेदिनी / " उवे अम्बसुलाभिके” इति मन्त्रस्य व्याख्यायां भसद्भग इति वेदभाष्यम् / “जाघन्या पत्नीः संयाजयन्ति भसद्वीर्या हि स्त्रियः" इत्यत्र भसजघनमिति व्याख्यातारः / दृणातेः // 'दृषनिष्पेषणशिलापदप्रस्तरयोः स्त्रियाम्' इति मेदिनी। अर्तिस्तु // 'सोमस्तुहिनदीधितौ / वानरे च कुबेरे च पितृदेवे समीरणे / वसुप्रभेदे कपूरे नारे सोमलतौषधौ' इति मेदिनी। 'धर्मोऽस्त्री पुण्य आचारे स्वभावोपमयोः For Private And Personal Use Only
Page #595
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उणादयः] बालमनोरमा / 593 गमनम् / धर्मः / क्षेमं कुशलम् / क्षोमम् / प्रज्ञाद्यणि क्षौमञ्च / भाम: आदित्यः / यामः / 'वामः शोभनदुष्टयोः' / पद्मम्। यक्ष पूजायाम् / यक्ष्मो रोगराजः / नेमः। 138 / जहातेः सन्वदालोपश्च / * जिह्मः कुटिलमन्दयोः' / 139 / अवतष्टिलोपश्च / मन्प्रत्ययस्यायं टिलोपो न प्रकृतेः / अन्यथा डिदित्येव ब्रूयात् / ‘ज्वरत्वर-' (सू 2654) इति ऊठौ / तयोर्दीघे कृते गुणः / चादिपाठादव्ययत्वमित्युज्ज्वलदत्तस्तन्न / तेषामसत्त्वार्थत्वात् / वस्तुतस्तु स्वरादिपाठादव्ययत्वम् / अवतीति ओम् / 140 / ग्रसेरा च / ग्राम: / 141 / अविसिविसिशुषिभ्यः कित् / ऊमं नगरम् / स्यूमो रश्मिः / सिमः सर्वः / 'शुष्ममग्निसमीरयोः' / 142 / इषियुधीन्धिदसिश्याधुसूभ्यो मक् / ' इष्मः कामवसन्तयोः' / ऋतौ। अहिंसोपनिषत्रयाये ना धनुर्यमसोमपे' इति च / 'धर्मः पुण्ये यमे न्याये स्वभावाचारयोः क्रतो' इति विश्वः / 'क्षौमं पट्टे दुकूलेऽस्त्री क्षौमं वल्कलजांशुके / शणजेऽतसिजे' इति मेदिनी / 'भामः क्रोधे रवौ दीप्तौ / यामस्तु पुंसि प्रहरे संयमेऽपि प्रकीर्तितः / वाम धने पुंसि हरे कामदेवे पयोधरे / वल्गुप्रतीपसव्येषु त्रिषु नार्या स्त्रियामथ / वामी शृगालीबडबारासभीकरभीषु च / पद्मोऽस्त्री पद्मके व्यूहनिधिसंख्यान्तरेऽम्बुजे / ना नागे' इति च मेदिनी / यक्ष पूजायामिति // यत्तूज्ज्वलदत्तेन 'जक्ष भक्ष हसनयोः' इत्युपन्यस्तम् , तन्न, तस्य चवर्गतृतीयादित्वात् / न च लक्ष्यमपि तथैवेति भ्रमितव्यम् / “अक्षिभ्यान्ते नासिकाभ्याम्" इति मन्त्रे यक्ष्मशब्दस्यान्तःस्थादित्वनिर्णयात् / न च तदुपन्यस्तधातुरप्यन्तःस्थादिरिति भ्रमितव्यम् / 'जक्षत् क्रीडन् रममाणः' इत्यादिप्रयोगेण तथा कविकल्पद्रुमादिभिः सह विरोधादिति दिक् / मनिन्प्रत्यये तु नान्तः / 'राजयक्ष्मेव रोगाणाम्' इति माघः / 'यक्ष्मणापि परिहाणिराययौ' इति रघुः / दशपादीवृत्तौ तु इह सूत्रे पक्षीति पवर्गीयादि पठित्वा सौत्रो धातुः बाहुळकानकारस्य नेत्संज्ञा इत्युक्ता अक्षिपक्ष्मेत्युदाहृतम् / तन्न / 'पक्ष परिग्रहे' इत्यस्मान्मनिना गतार्थत्वात् / 'नेमः क्लीबेऽवधौ गर्ने प्राकारे कैतवेऽपि च' इति मेदिनी / 'नेमस्त्व प्राकारगर्तयोः / अवधौ कैतवे च' इति हेमचन्द्रः। जहातेः॥ 'जिह्मस्तु कुटिले मन्दे क्लीबन्तगरपादपे' इति मेदिनी / अवतेः॥ ‘ओं प्रश्नेऽङ्गीकृतौ रोषे' इति विश्वः / प्रसेरा च // ‘ग्रसु अदने' / अतो मन् / धातोराकारश्च / 'ग्रामः स्वरे संवसथे बृन्दे शब्दादिपूर्वके' इति विश्वः / शब्दादिपूर्वको ग्रामशब्दो बृन्दे / शब्दप्रामो गुणग्राम इति यथा / संपूर्वोऽयं युद्धे। तदुक्तम् / 'संपूर्वः संयुगे स्मृतः' इति / ऊमं नगरमिति // 'त्वे ऋतुम्' इति मन्त्रे 'ऊमास्तर्पका यजमानाः' इति वेदभाष्यम्। स्यूमो रश्मिरिति // सूत्रतन्तुरित्यन्ये / 'शुष्मं तेजसि सूर्ये ना' इति मेदिनी। 'शुष्मं बलम्' इति वेदभाष्ये / इषियुधि // 75 For Private And Personal Use Only
Page #596
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 594 सिद्धान्तकौमुदीसहिता [उणादयः ईपीति पाठे दीर्घादिः / युध्मः शरो योद्धा च / इध्मः समित् / दस्मो यजमानः / श्यामः / धूमः / सूमोऽन्तरिक्षम् / बाहुलकादीम व्रणः / 143 / युजिरुचितिजां कुश्च / युग्मम् / रुक्मम् / तिग्मम् / 144 / हन्तेहि च / हिमम् / 145 / भियः पुग्वा / भीमः / भीष्मः / 146 / धर्मः / घृधातोर्मग्गुणश्च निपात्यते / 147 / ग्रीष्मः / असतेर्निपातोऽयम् / 148 / प्रथेः षिवन्सम्पसारणं च / पृथिवी षवन्नित्येके / पृथवी / 'पृथवी पृथिवी पृथ्वी' इति शब्दार्णवः / 149 / अषिलाटिकाणखटिविशिभ्यः कन् / अश्वः / 'ग्रुष स्नेहनादौ' / प्रुध्वः स्यादृतुसूर्ययोः' / पुष्वा जलकणिका / लट्वा पक्षिभेद: फलं च / कण्वं पापम् / बाहुलकादित्त्वे किण्वमपि / खट्टा / विश्वम् / 150 / इण्शीभ्यां वन् / एवो गन्ता / 'ये च एवा मरुतः' / असत्त्वे निपातोऽयम् / शेवं लाञ्छनं पुंसाम् / 'शेवं मित्राय वरुणाय'। 151 / सर्वनिघृष्वरिष्वलष्वशिवपद्प्रवेष्वा अस्वतन्त्रे / अकर्तर्येते निपात्यन्ते / मृतमनेन विश्वमिति सर्वम् / निपूर्वाद्धृणुर्गुणाभावोऽपि / निघृष्यते युध्म इति // 'युध्मो धनुषि संयुगे' इति मेदिनी / 'दस्मस्तु यजमाने स्यादपि चौरे हुताशने' इति च / 'न पूषणम्' इति मन्त्रस्य भाष्ये तु दस्मो दर्शनीय इति व्याख्यातम् / 'त्रिषु श्यामौ हरित्कृष्णौ श्यामा स्याच्छारिका निशा' इत्यमरः / 'श्यामो वटे प्रयागस्य वारिदे वृद्धदारके / पिके च कृष्णहरितोः पुंसि स्यात्तद्वति त्रिषु / मरीचे सिन्धुलवणे क्लीबं स्त्री शारिकौषधौ / अप्रसूताङ्गनायाञ्च प्रियङ्गावपि गुग्गलौ / यमुनायां त्रियामायां कृष्णत्रिवृतिकौषधौ / नीलिकायाम्' इति मेदिनी / ईर्ममिति // 'ईर गतौ'। 'व्रणोऽस्त्रियामीममरुः क्लीबे' इत्यमरः / 'जन जनने' / जन्मम् / मनिनन्तस्तु नान्तः / 'जनुर्जननजन्मानि' इत्यमर उभयसाधारणः / युजिरुचि // ‘रुक्मन्तु काञ्चने लोहे' इति विश्वमेदिन्यौ / हन्तर्हि च // 'हिमं तुषारमलयोद्भवयोः स्यानपुंसकम् / शीतले वाच्यलिङ्गः' इति मेदिनी / 'भीष्मो गाङ्गेयघोरयोः / भीमोऽम्लवेतसे घोरे शम्भौ मध्यमपाण्डवे / धर्मः स्यादातपे ग्रीष्मेऽप्युष्णस्वेदाम्भसोरपि / प्रीम ऊष्मर्तुभेदयोः' इति च मेदिनी / अशूषि // 'अश्वः पुंभेदवाजिनोः' इति विश्वः / 'लट्वा करञ्जभेदे स्यात् फले मद्ये खगान्तरे' इति विश्वमेदिन्यौ / 'कण्वं पापे मुनौ पुंसि कण्वं बीजाद्यशीथुषु / विश्वात्वतिविषायां स्त्री जगति स्यान्नपुंसकम् // न ना शुण्ठ्यां पुंसि देवप्रभेदेऽप्यखिले निषु' इति मेदिनी / इण्शीभ्याम् // शेवं सुखमिति वेदभाष्यम् / For Private And Personal Use Only
Page #597
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उणादयः] बालमनोरमा / 595 अनेन निघृष्वः खुरः / रिष्वो हिंस्रः / लष्वो नर्तकः / लिष्व इत्यन्ये / तत्रोपधाया इत्वमपि / शेतेऽस्मिन् सर्वमिति शिवः शम्भुः / शीङो ह्रस्वत्वम् / पद्वो रथो भूलोकश्च / प्रहूयते इति प्रह्वः / ह्वेन आकारवकारलोपः / जहातेरालापो वा / ईषेर्वन् / ईष्व: आचार्यः / इष्व इत्यन्ये / 'अस्वतन्वे' किम् / सर्ता सारकः / बाहुलकाद्धसतेः / ह्रस्वः / / 152 / शेवयहजिह्वाग्रीवाप्वमीवाः / शेव इत्यन्तोदात्तार्थम् / यान्यनेन यह्वः / ह्रस्वो हुगागमश्च / लिहन्त्यनया जिह्वा / लकारस्य ज: गुणाभावश्च / गिरन्त्यनया ग्रीवा / ईडागमश्च / आप्नोतीत्याप्वो वायुः / मीवा उदरकृमिः / वायुरित्यन्ये / 153 / कृगशदृभ्यो वः। कर्व: कामः आखुश्च / गर्वः / शर्वः / दो राक्षसः / 154 / कनिन्युषितक्षिराजिधन्विद्युप्रतिदिवः / यौतीति युवा / वृषा इन्द्रः / तक्षा / राजा / धन्वा मरुः। धन्व शरासनम्। युवा सूर्यः / प्रतिदीव्यन्त्यस्मिन्प्रतिदिवा दिवसः / 155 / सप्यशूभ्यां तुद् च / सप्त / अष्ट / 156 / नजि जहातेः / अहः / 157 / श्वन्नुक्षन्पूषन्प्लीहन्क्लेदस्नेहन्मूर्धन्मज्जनर्यमन्विश्वप्सन्परिज्मन्मातरिश्चन्मघवनिति / एते त्रयोदश कनिप्रत्ययान्ता निपात्यन्ते / श्वयतीति ह्रस्व इति // ‘ह्रस शब्दे'। ‘ह्रस्वो न्यक्खर्वयोत्रिषु' इति मेदिनी / शेवयव // दशपादीवृत्तिरीत्याह / यान्त्यनेनेति // अन्ये तु यजतेर्जकारस्य हकारो निपात्यत इत्याहुः / यह्वशब्दो वदिकनिघण्टौ महन्नामसु पठितः / प्रवो यहूं पुरूणाम् / 'यहूं महान्तम्' इति वेदभाष्यम् / मीवेति // वेदभाष्ये तु अमीव इति छित्वा 'अम रोगे' इत्यस्माद्वः ईट् चेत्युक्तम् / 'अमी वहा वास्तोष्पते' इत्यादिमन्त्रास्तत्रानुकूलाः / कनिन्यु // 'युवा स्यात्तरुणे श्रेष्ठे निसर्गबलशालिनि / वृषा कर्णे महेन्द्रे ना' इति मेदिनी / 'तक्षा तु वर्धकिस्त्वष्टा रथकारस्तु काष्ठतट्' इत्यमरः / 'राजा प्रभौ च नृपतौ क्षत्रिये रजनीपतौ / यक्षे शके च पुंसि स्यात्' इति मेदिनी। 'समानौ मरुधन्वानौ' इत्यमरः / 'अथास्त्रियाम् / धनुश्चापौ धन्वशरासनकोदण्डकार्मुकम्' इति च / धन्वा तु मरुदेशे ना क्लीबे चापे स्थलेऽपि च' इति मेदिनी / धन्विगत्यर्थः सौत्रो धातुः / 'aa अभिगमे' युवा सूर्यः / प्रतिदिवेति // 'प्रतिदीने इन्धत् आकृतान्' इति मन्त्रे तु प्रतिदिवा कितव इति व्याख्यातम्। श्वन्नुक्षन्॥ कनिप्रत्ययान्ता For Private And Personal Use Only
Page #598
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदीसहिता [उणादिषु श्वा / उक्षा / पूषा / ‘प्लिह गतौ' / इकारस्य दीर्घत्वम् / प्लेहतीति प्लीहा कुक्षिव्याधिः / ‘क्लिदू आर्दीभावे' / क्लियति क्लेदा चन्द्रः / स्निह्यतेर्गुणः / स्निह्यतीति स्नेहा सुहृच्चन्द्रश्च / मुह्यन्यस्मिन्नाहते मूर्धा / मुहरुपधाया दीर्घा धोऽन्तादेशो रमागमश्च / मजयस्थिषु मज्जा अस्थिसारः / अर्यपूर्वो माङ् / अर्यमा / विश्वं प्साति विश्वप्सा अग्निः। परिजायते परिज्मा चन्द्रोऽग्निश्च / जनेरुपधालोपो मश्चान्तादेशः / मातर्यन्तरिक्षे श्वयतीति मातरिश्वा / धातोरिकारलोपः / 'मह पूजायाम्' / हस्य घो वुगागमश्च / मघवा इन्द्रः / // इत्युणादिषु प्रथमःपादः // // अथ उणादिषु द्वितीयः पादः॥ 158 / कहभ्यामेणुः / करेणुः / हरेणुः गन्धद्रव्यम् / 159 / हनिकुषिनीरमिकाशिभ्यः क्थन् / हथो विषण्णः / कुष्ठः / नीथो नेता / रथः काष्ठम् / इति // नायं निदिति भावः / एतच्च हलन्तशब्दप्रकरणे मघवन्शब्दे व्युत्पादितम् / केचित्तु नित्त्वं स्वीकृत्योक्षनादीनां सौत्रमन्तोदात्तनिपातनमाहुः / तद्गौरवादुपेक्षितम् / श्वेति // इकारलोपो निपात्यते / पूषेति // 'पूष वृद्धौ' 'क्लेदौषधिशशाङ्कयोः' इति यादवः / मूर्धेति // 'मूर्धा ना मस्तकोऽस्त्रियाम्' इत्यमरः / मजेति // टाबन्तोऽप्ययम् / 'ऊष्मया सार्द्धमूष्मापि मज्जोक्तो मजया सह' इति द्विरूपकोशात् / ‘अर्यमा तु पुमान् सूर्ये पितृदेवान्तरेऽपि च' इति मेदिनी / परिजायते इत्यादि // एतच्च दशपादीवृत्त्यनुरोधेनोक्तम् / 'परिज्मानं सुखं रथम्' इति मन्त्रस्य वेदभाष्ये तु परिज्मा परितो गन्ता / अजेः परिपूर्वस्य 'श्वन्नुक्षन्' इत्यादिना मन्प्रत्ययः / अकारलोपः / आयुदात्तत्वञ्च निपात्यते इत्युक्तम् / उज्ज्वलदत्तस्तु परिज्वेति पठित्वा जु इति सौत्रो धातुः परिपूर्वः, यणादेशः, परिज्वा चन्द्र इत्याह / तल्लक्ष्यविरोधादुपेक्ष्यम् / मातरिश्वति // सप्तम्या अलुक् उदात्तत्वञ्च निपात्यते / इह भत्वविषये सम्प्रसारणन्न भवति / श्वयुवेति सूत्रेऽभिव्यक्ततरत्वेन कुक्कुरवाचकस्यैव श्वशब्दस्य ग्रहणम् / इह सूत्रान्त इति शब्द आद्यर्थः / तेनान्येभ्योऽपि यथादर्शनङ्कनिः / दशपाद्यान्तु इतिशब्दो न पठ्यते // // इत्युणादिषु प्रथमः पादः // कृहृभ्याम् // ‘करेणुरिभ्यां स्त्री नेभे' इत्यमरः / 'करेणुर्गजयोषायां स्त्रियां पुंसि मतङ्गजे' इति मेदिनी। गन्धेति // कलापश्चेति बोध्यम् / 'कलापस्तु सतीनकः / हरेणुः खण्डके चास्मिन्' इति वैश्यवर्गे अमरः / 'हरेणुर्ना सतीने स्त्री रेणुकाकुलयोषितोः' इति मेदिनीविश्वप्रकाशौ / 'कुष्ठं रोगे सुगन्धे च' इति विश्वः / 'नीथे नीथे मघवानं सुतासः' इति For Private And Personal Use Only
Page #599
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्वितीय: पाद: बालमनोरमा / 597 160 / अवे भृतः / अवभृथः / 161 / उषिकुषिगर्तिभ्यस्थन् / ओष्ठः / कोष्ठम् / गाथा / अर्थः / बाहुलकाच्छोथः / 162 / सर्तेर्णित् / सार्थः समूहः / 163 / जृभ्यामूथन् / जरूथं मांसम् / 'वरूथो रथगुप्तौ ना' / 164 / पातृतुदिवचिरिचिसिचिभ्यस्थक् / पीथो रवि: घृतं पीथम् / 'तीर्थ शास्त्राध्वरक्षेत्रोपायोपाध्यायमन्त्रिषु / अवतारर्षिजुष्टाम्भःस्त्रीरजःसु च विश्रुतम्' इति विश्वः / तुत्थोऽग्निः / उक्थं सामभेदः / रिक्थम् / बाहुलकादृचेरपि / 'रिक्थमृक्थं धनं वसु' / सिक्थम् / 165 / अर्जेनिरि / निर्ऋथं साम / 166 / निशीथगोपीथावगथाः / निशीथोऽर्धरात्रो रात्रिमात्रं च / गोपीथं तीर्थम् / अवगथः प्रातःस्नातः / 167 / गचोदि / उद्गीथः साम्नो भागविशेषः / 168 / समीणः / समिथो वह्निः, संग्रामश्च / मन्त्रे नीथशब्दस्यान्तोदात्तत्वं बाहुलकात् / 'नीथे नीर्थ स्तोत्रे स्तोत्रे च' इति वेदभाष्यम् / 'रथः पुमानवयवे स्यन्दने वेतसेऽपि च' इति मेदिनी / 'रथः स्यात्स्यन्दने काये चरणे वेतसेऽपि च' इति विश्वः / 'काष्टा दारुहरिद्रायाङ्कालमानप्रकर्षयोः / स्थानमात्रे दिशि च स्त्री दारुणि स्यानपुंसकम्' इति मेदिनी। उषिकुषि // 'कोष्ठः कुसूले चात्मीये मध्ये कुक्षेहस्य च / गाथा श्लोके संस्कृतान्यभाषायां शेषवृत्तयोः' इति मेदिनी / 'अर्थोऽभिधेयरैवस्तुप्रयोजननिवृत्तिषु' इत्यमरः / ‘अर्थो विषयार्थनयोर्द्धर्मकारणवस्तुषु / अभिधेये च शब्दानां निवृत्तौ च प्रयोजने' इति मेदिनी। शोथः वयथुः / शु गतौ / सतेर्णित् // 'सार्थो वणिक्समूहे स्यादपि सङ्घातमात्रके' इति मेदिनीविश्वप्रकाशौ / जवृञ् // 'जरूथोऽसुरविशेषः' इति वेद. भाष्यम् / 'वरूथं स्यात्तनुत्राणे रथगोपनवेश्मनोः' इति हेमचन्द्रः / 'वरूथो रथगुप्तौ स्याद्वरूथं रथवेश्मनोः' इति विश्वः / पातृ // 'तुत्थो ग्रावाञ्जने तु स्यानीलीसूक्ष्मैलयोरपि' इति विश्वः। 'तुत्थमञ्जनभेदे स्यात् नीलीसूक्ष्मैलयोः स्त्रियाम् / सिक्थो भक्तपुलाके ना' इति मेदिनी / अर्तेः॥ 'ऋ गतौ' 'द्रोघवाचस्ते निक्रंथं सञ्चन्ताम्' इति मन्त्रे 'निक्रंथो हिंसा' इति वेदभाष्यम् / 'निशीथस्तु पुमानर्धरात्रे स्याद्रात्रिमात्रके' इति मेदिनी / 'प्रतित्यञ्चारुमध्वरम्' इति मन्त्रे गोपीथः सोमपानमिति वेदभाष्यम् / यास्कोऽप्येवम् / तीर्थमिति तु वृत्तिकारः। अवगथ इति // गाडो ह्रखत्वं निपातनात् / समीणः॥ 'समिथशब्दः सङ्ग्रामपर्यायेषु वैदिकनिघण्टौ पठितः / 'निये जात' इति मन्त्रे समिथा युद्धानि' इति वेदभाष्यम् / युक्तञ्चैतत् / सम्यगेति For Private And Personal Use Only
Page #600
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 598 सिद्धान्तकौमुदीसहिता [उणादिषु 169 / तिथपृष्ठगूथयूथपोथाः। तिजे लोप: / तिथोऽनल: कामश्च / पृष्ठम् / गूथं विष्ठा / यूथं समूहः / 'प्रोथमस्त्री तुरङ्गास्ये प्रोथः प्रस्थित उच्यते' / 170 / स्फायितश्चिवश्चिशकिक्षिपिादिसृपितृपिपिवन्युन्दिश्चितिवृत्यजिनीपदिमदिमुदिखिदिछिदिभिदिमन्दिचन्दिदहिदसिदम्भिवसिवाशिशीहसिसिधिशुभिभ्यो रक् / द्वात्रिंशतो रक्स्यात् / वलि यलोपः / स्फारम् / न्यङ्कादित्वात्कुत्वम् / तक्रम् / वक्रम् / शक्रः / क्षिप्रम् / क्षुद्रः / सृप्रश्चन्द्रः / तृप्रः पुरोडाशः / दृप्रो बलवान् / वन्द्रः पूजकः / उन्दी / उन्द्रो जलचरः। श्वित्रं कुष्ठम् / 'वृत्रो रिपौ ध्वनौ ध्वान्ते शैले चक्रे च दानवे'। अजे: / वीरः / नीरम् / पद्रो ग्रामः। मद्रो हर्षो देशभेदश्च / 'मुद्रा प्रत्ययकारिणी' / 'खिद्रो रोगो दरिद्रश्च' / छिद्रम् / भिद्रं वज्रम् / मन्द्रः / चन्द्रः / पचाद्यचि चन्दोऽपि / 'हिमांशुश्चन्द्रमाश्चन्द्रः शशी चन्दो हिमद्युतिः' / दहोऽग्निः / दस्रः स्वर्वैद्यः / 'दभ्रः समुद्रः स्वल्पं च' / वसे: सम्प्रसारणे / 3168 / न रपरसृपिसृजिस्पृशिस्पृहिसवनादीनाम् / (8-3-110) जयार्थमनेति व्युत्पत्तेः / सम्पूर्वस्य इण: क्तिनाद्यन्तस्य लोकेऽपि युद्धार्थत्वदर्शनाच्च / उक्त ह्यमरेण 'समित्याजिसमिद्युधः' / तिथं पृष्ठम् / 'पृषु सेचने' 'पृष्टन्तु चरमन्तनोः' इत्यमरः / 'पृष्ठञ्चरममात्रेऽपि देहस्यावयवान्तरे' इति मेदिनी / स्तोत्रविशेषोऽपि पृष्टम् / चित्राधिकरणे पृष्ठैः स्तुवत इत्यादौ तथा निर्णयात् / गूथमिति // 'गु पुरीषोत्सर्गे' निपातनादीर्घः / एवं यूथेऽपि / 'यूथन्तिर्यक्समूहे स्त्री पुष्पभेदे च योषिति' इति मेदिनी। 'यूथी पुष्पप्रभेदे स्यात् मागध्याञ्च करेणुके / यूथन्तिर्यक्समूहेऽपि वृन्दमात्रेऽपि भाषितम्' इति विश्वः / 'प्रुङ् गतौ' निपातनाद्गुणः / 'प्रोथोऽस्त्री हयघोणागां ना कट्यामध्वगे त्रिषु' इति मेदिनी। स्फायितश्चि॥ द्वात्रिंशत इति // दशपाद्यान्तु त्रयस्त्रिंशदुक्ताः / दम्भिवहिवसीति पठित्वा 'वह प्रापणे' उहाऽनड्मानित्युदाहरणात् / माधवोऽप्येवम् / स्फारमिति // 'नेडशि' इति नेट् / वलि यलोपः / 'स्फारः स्यात्पुंसि विकटे करकादेश्च बुडेदे' इति मेदिनी / तक्रमिति // 'तञ्चू सङ्कोचे' / 'वक्र: स्याजटिले क्रूरे पुटभेदे शनैश्चरे' इति विश्वः / ‘वक्रः शनैश्चरे पुंसि पुटभेदे नपुंसकम् / शक्रः पुमान् देवराजे कुहनार्जुनभूरुहोः' इति मेदिनी / क्षुद्र इति // क्षुदिर् सम्पेषणे / 'क्षुद्रः स्यादधमक्रूरकृपणाल्पेषु वाच्यवत् / क्षुद्रा व्यङ्गानटी. कण्टकारिकासरघासु च / चाङ्गेरीवेश्ययोहिनामक्षिकामात्रयोरपि' इति मेदिनी। तृप्रः पुरोडाश इति // 'न तृप्रा उरुव्यंसः' इति मन्त्रे वेदभाष्यकारैः प्रकृतसूत्रे उज्ज्वलदत्तादिभिश्वेत्थं व्याख्यातम् / दशपादीवृत्तौ तु तृप्रमाज्यकाष्टश्चेत्युक्तम् / तृप्रन्दुःखमिति सुब्धातुवृत्ती माधवः / हिमांशुरित्यादि शब्दार्णवः / दस्यति रोगान् क्षिपति दस्रः / ‘दस्रः खरेऽश्विनीसुते' For Private And Personal Use Only
Page #601
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्वितीय: पाद:] बालमनोरमा / 599 रेफपरस्य सकारस्य सृप्यादीनां च मूर्धन्यो न स्यात् / 'पूर्वपदात्' (सू 3643) इति प्राप्तः प्रतिषिध्यत इति वृत्तिर्भूयोऽभिप्राया / तेन ‘शासिवसि-' (सू 2410) इति प्राप्तमपि न / उस्रो रश्मि: / उस्रा गौः / वाश्री दिवसः / वानं मन्दिरम् / शीरोऽजगरः / हस्रो मूर्खः / सिध्रः साधुः / शुभ्रम् / बाहुलकात् मुसे रक् / मुस्रम् उदछु / 171 / चकिरम्योरुच्चोपधायाः / चुक्रमम्लद्रव्यम् / रुम्रोऽरुणः / 172 / वौ कसेः / विकुस्रश्चन्द्रः / 173 / अमितम्योर्दीर्घश्च / आम्रम् / ताम्रम् / 174 / निन्देनलोपश्च / निद्रा / 175 / अर्दीर्घश्च / आर्द्रम् / 176 / शुचेर्दश्च / शूद्रः / 177 / दुरीणो लोपश्च / दुःखेनेयते प्राप्यत इति दूरम् / 178 / कृतेरच्छः क्रू च / कृच्छ्रे क्रूरः / 179 / रोदेर्णिलुक् च / रोदयतीति रुद्रः / 180 / बहुलमन्यत्रापि संज्ञाछन्दसोः। णिलुगित्येव / 'वान्ति पर्णशुषो वातास्ततः पर्णमुचोऽपरे'। इति मेदिनी / 'दस्रः खरे चाश्विनयोः' इति विश्वः / भूयोऽभिप्रायेति // माधवस्तु वृत्तिस्वरसमनुरुध्य ‘अविन्द उस्रिया' इति मन्त्रे बाहुलकात् षत्वं नेति व्याचष्टे / 'उस्रो वृषे च किरणेऽप्युस्रार्जुन्युपचित्रयोः' इति मेदिनी / 'उस्रा गव्युपचित्रायामुस्रन्तु किरणे स्मृतः' इति विश्वः / ‘वाधो ना दिवसे क्लीबं मन्दिरे च चतुष्पथे' इति मेदिनी / 'वाश्रो रासभपक्षिणोः' इत्येके / माधवस्तु ‘वाश्रेव विद्युन्मिमाति' इति मन्त्रे शब्दयुक्ता प्रस्तुतस्तना धेनुर्वाश्रेति व्याख्यत् / 'शुभ्रं स्यादभ्रके क्लीवमुद्दीप्रशुक्लयोस्त्रिषु' इति मेदिनी / चुक्रमिति // 'चक तृप्तौ' / 'चुक्रस्त्वम्लेऽम्लवेतसे / चुक्री चाङ्गेरिकायां स्यात् वृक्षाम्ले चुक्रमिष्यते' इति विश्वः / 'चुकं वृक्षाम्ले चाङ्गेय्यां स्त्री पुंस्यम्लेऽम्लवेतसे' इति मेदिनी / अर्दैर्दीर्घश्च // 'आर्द्रा नक्षत्रभेदे स्यात् स्त्रियां क्लिन्नेऽभिधेयवत्' इति मेदिनी / शुचेर्दश्च // शूद्रो वृषलः / 'अहहारे त्वा शूद्रा' इति श्रुतौ तु रूढेर्वाधाद्योग एव पुरस्कृतः / तथा चोत्तरतन्त्रे भगवता व्यासेन सूत्रितम् / 'शुगस्य तदनादरश्रवणात्' इति / कृतेः // अन्यस्य च्छः। क्रू तु सर्वस्य / अनेकाल्त्वात् / 'कृच्छ्रमाख्यानमाभीले पापसान्तपनादिनोः' इति विश्वमेदिन्यौ / 'क्रूरस्तु कठिने घोरे नृशंसे चाभिधेयवत्' इति च / बहुलमन्यत्रापि संज्ञा // बृहयति वर्धयति प्रजाः ब्रह्मा / शं सुखं भावयति शम्भुः। शोषयति शुष्मेत्यादि / छन्दसि, 'वर्धन्तु For Private And Personal Use Only
Page #602
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदीसहिता [उणादिषु 181 / जोरी च / जीरोऽणुः / ज्यश्चेत्येके / 182 / सुसूधागृधिभ्यः क्रन् / सुरः / सूरः / धीरः / गृध्रः / 183 / शुसिचिमीनां दीर्घश्च / शु: सौत्रः शूरः / सीरम् / चीरम् / मीर: समुद्रः। 184 / वाविन्धेः। वीधं विमलम् / 185 / वृधिवपिभ्यां रन् / वधं चर्म / वप्रः प्राकारः / 186 / ऋजेन्द्राग्रवज्रविप्रकुब्रचुव्रक्षुरखुरभद्रोग्रभेरभेलशुक्रशुक्लगौरववेरामालाः। रन्नन्ता एकोनविंशतिः / निपातनाद्गणाभावः। ऋो नायकः / इदि इन्द्रः। अङ्गेर्नलोपः। अग्रम्। 'वज्रोऽस्त्री हीरके पवौ' / डु वप् , उपधाया इत्त्वम् / विप्रः / कुम्बिचुम्ब्योर्नलोपः / कुब्रमरण्यम् / चुनं मुखम् / 'क्षुर विलेखने' रेफलोपः / अगुणः / क्षुर: / 'खुर छेदने' रलोपो गुणाभावश्च / खुरः / भन्देनेलोप: भद्रम् / 'उच समवाये' चस्य ग: उग्रः / बि भी त्वा सुष्टुतयः / य इमं जजान / ' वाहुलकादसंज्ञाछन्दसोरपि क्वचिदित्याशयेनोदाहरति / वान्तीत्यादि // जोरी च // 'जीरः खड्डे वणिग्द्रव्ये' इति विश्वः / ‘जीरस्तु जरणे खड्ने' इति मेदिनी। ज्यश्चेति // तथा च, 'न धातुलोपे' इति सूत्रे 'जीवेरदानुः' इत्यस्य प्रत्याख्यानार्थ नैतजीवे रूपं किन्तु रकि ज्यः सम्प्रसारणमिति भाष्ये उक्तम् / सुसू // 'सुरा चषकमद्ययोः / पुल्लिङ्गस्त्रिदिवेशे स्यात्' इति मेदिनी / 'सुरो देवे सुरा मद्ये चषकेऽपि सुरा क्वचित्' इति विश्वः / सुवति प्रेरयति कर्मणि लोकमिति सूरः / सूर्यः। 'धीरो धैर्यान्विते स्वैरे बुधे क्लीवन्तु कुङ्कुमे / स्त्रियां श्रवणतुल्यायाम् ' इति मेदिनी / 'गृध्रः खगान्तरे पुंसि वाच्यलिङ्गोऽर्थलुब्धके' इति च / शुरिति तालव्यादिर्गत्यर्थः / 'शूरः स्यात् यादवे भटे' इति मेदिनी / 'शूरश्चारुभटे सूर्ये' इति विश्वहेमचन्द्रौ / 'शूरः सूरश्च तरणौ' इति द्विरूपेषु विश्वः / ‘सीरोऽर्कहलयोः पुंसि / चीरी झिल्ल्यां नपुंसकम् / गोस्तने वस्त्रभेदे च रेखालेखनभेदयोः' इति मेदिनी / 'चीरन्तु गोस्तने वस्त्रे चुडायां सीसकेऽपि च / चिरी कृच्छ्रादिकाझिल्ल्योः ' इति विश्वः / वाविन्धेः // 'वीध्रन्तु विमलार्थकम्' इति विशेष्यनिघ्नेष्वमरः / ‘वप्रः पितरि केदारे वप्रःप्राकाररोधसोः' इति धरणिरन्तिदेवौ। वप्रस्ताते पुमानस्त्री वेणुक्षेत्रचये तटे' इति मेदिनी। ऋजेन्द्र // 'ऋज गत्यादिषु' / 'ऋज्राश्वः प्रष्टिभिरम्बरीष' इति मन्त्रे ऋज्रा गतिमन्तोऽश्वा यस्य स ऋज्राश्व इति वेदभाष्यम् / ‘इन्द्रः शचीपतावन्तरात्मन्यादित्ययोगयोः' इति विश्वः / 'अगं पुरस्तादुपरि परिमाणे पलस्य च। आलम्बने समूहे च प्रान्ते च स्यान्नपुंसकम् / अधिके च प्रधाने च प्रथमे चाभिधेयवत्' इति मेदिनी / 'क्षुरः स्याच्छेदनद्रव्ये कोकिलाक्षे च गोक्षुरे' इति विश्वमेदिन्यौ / 'खुरः कोलदले शफे। भद्रः शिवे खञ्जरीटवषमेरुकदम्बके / करिजातिविशेषे ना क्लीबं मङ्गलमुस्तयोः। काञ्चने च स्त्रियां रास्नाकृष्णाव्योमनदीषु च / तिथिभेदे For Private And Personal Use Only
Page #603
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्वितीयः पादः] बालमनोरमा / 601 भेरी / पक्षे लः / भेलो जलतरणद्रव्यम् / शुचेश्वस्य कः, शुक्रः / पक्षे लः / शुक्लः। गुङ् वृद्धिः / ‘गौरोऽरुणे सिते पीते' 'वन सम्भक्तौ' / वनो विभागी। इणो गुणाभावः / 'इरा मद्ये च वारिणि' / 'मा माने' माला / 187 / समि कस उकन् / 'कस गतौ' / सम्यक् कसन्ति पलायन्ते जना: अस्मादिति सङ्कसुकः दुर्जन:, अस्थिरश्च / 188 / पचिनशोणुकन्कनुमौ च / पचेः कः / पाकुकः सूपकारः / नशेर्नुम् / नंशुकः / 189 / भियः क्रुकन् / भीरुकः / 190 / क्वुन्शिल्पिसंज्ञयोरपूर्वस्यापि / रजकः / इक्षुकुट्टकः / चरकः / 'चष भक्षणे' / चषकः / शुनकः / भषकः / 191 / रमे रश्च लो वा / रमको विलासी / लमकः / 192 / जहातेढे च / जहकस्त्यागी कालश्च / 193 / ध्मो धम च / धमक: कर्मकारः / प्रसारिण्याङ्कटफलानन्तयोरपि / त्रिषु श्रेष्ठे च साधौ च न पुंसि करणान्तरे / उग्रः शूद्रासुते क्षत्राद्रुद्रे पुंसि त्रिपूत्कटे। स्त्री वचाक्षुद्रयोः' इति मेदिनी / 'भेदः प्लवे भीरुके च निर्बुद्धिमुनिभेदयोः' इति विश्वः / ‘भेल: प्लवे मणौ पुंसि भीरावशे च वाच्यवत् / शुक्रः स्यात् भार्गवे ज्येष्ठे मासे वैश्वानरे पुमान् / रेतोऽक्षिरुग्भिदोः क्लीवं शुक्लो योगान्तरे सिते / नपुंसकन्तु रजते / गौरः पीतेऽरुणे श्वेते विशुद्धेऽप्यभिधेयवत् / ना श्वेतसर्षपे चन्द्रे न द्वयोः पद्मकेसरे। गौरी त्वसञ्जातरजःकन्याशङ्करभार्ययोः / ‘रोचना रजनीपिङ्गाप्रियङ्गुवसुधासु च। आपगाया विशेषेऽपि यादसां पतियोषिति' इति मेदिनी / 'नदीभेदे च गौरी स्याद्वरुणस्य च योषिति' इति विश्वः / 'अष्टवर्षा तु या दत्ता श्रुतशीलसमन्विते / सा गौरी तत्सुतो यस्तु स गौरः परिकीर्तितः' इति ब्रह्माण्डवचनं श्राद्धकाण्डे हेमाद्रिणा उदाहृतम् / एतेन ‘गौरः शुच्याचारः' इति भाष्यं व्याख्यातम् / ‘इरा भूवाक्सुराप्सु च' इति मेदिनी / 'मालं क्षेत्रे जने मालो माला पुष्पादिदामनि' इति मेदिनी / 'मालमुन्नतभूतलम्' इत्युत्पलः / क्षेत्रमारुह्य मालम्' इति मेघदूतः / मणिपूर्वोऽयमर्थान्तरेऽपि रूढः / 'मणिमाला स्मृता हारे स्त्रीणान्दन्तक्षतान्तरे' इति विश्वः / बाहुलकात् 'तिज निशाने' रन् दीर्घत्वं जस्य वः / 'तीवा तु कटुरोहिण्यां राजिकागण्डदूर्वयोः / त्रिष्वत्युष्णे नितान्ते च कटौ' इति मेदिनी / समि कसः // ‘सङ्कसुकोऽस्थिरः' इति विशेष्यनिघ्ने अमरः। क्वुन्॥अपूर्वस्य निरुपपदस्य अपिशब्दात्सोपपदस्य।अर्थद्वारकसम्बन्धेषष्ठी, प्रकृतिप्रत्ययार्थयोः क्रियाकारकभावात् / 'रजको धावके शुके' इति विश्वः / ‘रजको धावकशुकौ' इति हेमचन्द्रः / इक्षुकुट्टक इति // 'कुट छेदने' / इक्षन् कुट्टयति इक्षुकुट्टको गौडिकः / 76 For Private And Personal Use Only
Page #604
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 602 सिद्धान्तकौमुदीसहिता [उणादिषु 194 / हनो वध च / वधकः / 195 / बहुलमन्यत्रापि / 'कुह विस्मापने' / कुहकः / कृतकम् / 196 / कृपेर्टद्धिश्चोदीचाम् / कार्षक:-कृषकः / 197 / उदकं च / प्रपञ्चार्थम् / 198 / वृश्चिकृषोः किकन् / वृश्चिकः / कृषिक: / 199 / प्राङि पणिकषः। प्रापणिक: पण्यविक्रयी। प्राकषिक: परदारोपजीवी। 200 / मुपेर्दीर्घश्च / मूषिक: आखुः / 201 / स्यमेः सम्प्रसारणं च / चादीर्घः / सीमिकः वृक्षभेदः / 202 / क्रिय इकन् / ऋयिक: क्रेता। 203 / आङि पणिपनिपतिखनिभ्यः / आपणिकः / आपनिकः इन्द्रनील: किरातश्च / आपतिक: श्येनो दैवायत्तश्च / आखनिको मूषिको वराहश्च / 204 / श्यास्त्याबविभ्य इनच् / श्येनः / स्त्येनः / हरिणः / अविनोऽध्वर्युः / 205 / वृजेः किच्च / वृजिनम् / 206 / अजेरज च / वीभावबाधनार्थम् / अजिनम् / 'चषकोऽस्त्री सुरापाले मद्यमाद्यप्रभेदयोः' इति मेदिनी / लमकः ऋषिविशेषः / कृषेः॥ कार्षक: कृषीवलः / कृषकः स एव / 'कृषकः पुंसि फाले स्यात् कार्षके त्वभिधेयवत्' इति मेदिनी / 'स्त्री कुशी कुशिक: फाल:' इति रत्नकोशः। उदकं च // उन्दी क्लेदने / ननु 'क्वुन् शिल्पि इत्यादिना गतार्थमिदम् / अत आह / प्रपञ्चेति // प्राङि॥ सङ्घात उपपदम् / आङि॥ नन्वनेनैव सिद्धे प्राडील्यत्र पणिग्रहणं व्यर्थमिति चेन्न / उपसर्गान्तरनिवृत्त्यर्थत्वात् / आपणिक इति // वणिक / नित्स्वरेणाद्युदात्तः / आपणेन व्यवहरतीत्यर्थे टकि तु 'कितः' इत्यन्तोदात्तः / भ्यास्त्या // श्येनः पत्रिणि पाण्डुरे' इति मेदिनी / स्त्येनश्चोरः / 'स्तेन चौर्ये' इति चौरादिकात्पचाद्यचि तु निर्यकारोऽपि / केचित्तु 'स्तायूनां पतये' इत्यादिप्रयोगोपष्टम्भेन निर्यकारस्यापि टैधातोवादिषु माधवादिभिः स्वीकृतत्वात् प्रकृतसूत्रेऽपि तमेव पठन्तः स्तेनशब्दो निर्यकार एवेत्याहुः / ‘हरिणः पुंसि सारङ्गे विशदे त्वभिधेयवत् / हरिणी हरितायाञ्च नारी. भिदत्तभेदयोः। सुवर्णप्रतिमायाञ्च' इति मेदिनी / वृजेः किच्च // ‘वृजिनं कल्मषे क्लीबकेशे ना कुटिलेऽन्यवत्' इति मेदिनी / अजिनमिति // 'अजिनश्चर्म कृत्तिः स्त्री' इत्यमरः / For Private And Personal Use Only
Page #605
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्वितीयः पादः] बालमनोरमा / 207 / बहुलमन्यत्रापि / कठिनम् / नलिनम् / मलिनम् / कुण्डिनम् / द्यते: 'यत्परुषि दिनम्' दिवसोऽपि दिनम् / 208 / दुदक्षिभ्यामिनन् / द्रविणम् / दक्षिणः / दक्षिणा / 209 / अर्तेः किदिच्च / इरिणं शून्यम् / 210 / वेपितुह्यो स्वश्च / विपिनम् / तुहिनम् / / 211 / तलिपुलिभ्यां च / 'तलिनं विरले स्तोके स्वच्छेऽपि तलिनं त्रिषु' / पुलिनम् / 212 / गर्वेरत उच्च / गौरादित्वान्ङीप् / गुर्विणी गर्भिणी / 213 / रुहेश्च / रोहिणः / 214 / महेरिनण्च / चादिनन् / माहिनम्-महिनम् राज्यम् / 215 / किब्बचिपच्छिश्रि दुगुज्वां दीर्घोऽसम्पसारणं च / वाक् / प्राट् / श्रीः / स्रवत्यतो घृतादिकमिति स्त्रः, यज्ञोपकरणम् / दूर्हिरण्यम् / कटप्रूः कामरूपी कीटश्च / 'जूराकाशे सरस्वत्यां पिशाच्या जवने स्त्रियाम्' / 216 / आमोतेह्रस्वश्च / आप: / अप: / अद्भिः / अद्भ्यः / 217 / परौ बजेः षः पदान्ते / व्रजे: किन्दीघौँ स्तः, पदान्ते तु पश्च / परिबाट / परिव्राजौ। कठिनमिति // कट कृच्छ्रजीवने / 'कठिनमपि निष्ठुरे स्यात् स्तब्धे तु नपुंसके स्थाल्याम् / कठिनी खटिकायामपि कठिना गुडशर्करायाञ्च' इति मेदिनी / मलिनमिति // 'मल मल्ल धारणे' / 'मलिनन्दूषिते कृष्णे ऋतुमत्यान्तु योषिति' इति मेदिनी / कुण्डिनमिति // 'नगरङ्कुण्डिनमण्ड जो ययौ' इति श्रीहर्षः / कुण्डिनः ऋषिः / तस्यापत्यकौण्डिन्यः / दिनमिति // परुषि पर्वणि दिनं खण्डितमिति तैतिरीयश्रुत्यर्थः / द्रुदक्षिभ्यामिनन् // 'द्रु गतौ' / 'दक्ष वृद्धौ'। 'द्रविणं न द्वयोर्वित्ते काञ्चने च पराक्रमे / दक्षिणा दक्षिणोद्भूतसरलच्छन्दवर्तिषु / अवामे त्रिषु यज्ञादिविधिदाने दिशि स्त्रियाम्' इति मेदिनी / 'दक्षिणः सरलोदारपरच्छन्दानुवर्तिषु / वाच्यवद्दक्षिणावाची यज्ञदानप्रतिष्ठयोः' इति विश्वः / अर्तेः // ‘इरिणं शून्यमूषरम्' इत्यमरः / ‘इरिणन्तु खरे शून्येऽपि' इति मेदिनी / तुहिनमिति // तुहिर् अर्दने / लघूपधगुणे कृते ह्रस्वः / तलिपुलिभ्याञ्च // तल प्रतिष्ठायाम् / पुल महत्त्वे / 'तलिनं विरले स्तोके स्वच्छेऽपि वाच्यलिङ्गकम्' इनि मेदिनी / महेः // 'कुतस्त्वमिन्द्र माहिनस्सन्' इति मन्त्रे माहिनो महनीयः पूजनीय इति वेदभाष्यम् / किम्वचि // पृच्छतीति प्राट् / 'छोः शूठ' इति शः / प्राशौ प्राशः / श्रीरिति // ‘कृदिकारात्' इति ङीष् तु न / कृत्प्रत्ययो य इकार इति व्याख्यानात् / कृदन्तं यदिकारान्तमिति For Private And Personal Use Only
Page #606
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 604 सिद्धान्तकौमुदीसहिता [उणादिषु 218 / हुवः श्लुवच्च / जुहूः / 219 / सुवः कः। स्रुवः / 220 / चिक्च / इकार उच्चारणार्थः / क इत् , कुत्वम् / स्रुक् / 'स्रुवं च स्रुचश्च सम्मृड्ढि'। 221 / तनोतेरनश्च वः / तनोतेश्चिक्प्रत्ययः, अनो वशब्दादेशश्च / त्वक् / 222 / ग्लानुदिभ्यां डौः / ग्लौः / नौः / 223 / चिरव्ययम् / डौरित्येव / ग्लौ करोति / 'कृन्मेजन्त:' (सू 449) / इति सिद्धे नियमार्थमिदम् / उणादिप्रत्ययान्तव्यन्त एवेति / 224 / राते?ः / रा: / रायौ / रायः / / 225 / गमेझैः। ‘गौर्नादित्ये बलीवर्दे किरणक्रतुभेदयोः / स्त्री तु स्यादिशि भारत्यां भूमौ च सुरभावपि / नृस्त्रियोः स्वर्गवाम्बुरश्मिदृग्बाणलोमसु' बाहुलकाद्दयुतेरपि डोः / द्यौः स्त्री स्वर्गान्तरिक्षयोः' इति कोशः। 226 / भ्रमेश्च डूः। भ्रूः / चादमेः / अग्रेगूः / 227 / दमोंसिः दोः / दोषौ / 228 / पणेरिजादेश्च वः / वणिक्। स्वार्थेऽण् / 'नैगमो वाणिजो वणिक्'। 229 / वशेः कित् / 'उशिगग्नौ घृतेऽपि च' / 230 / भृत्र ऊच्च / भूरिक् भूमिः / 231 / जसिसहोरुरिन् / जसुरिर्वज्रम् / सहुरिरादित्यः पृथिवी च / पक्षेऽपि कारग्रहण तत्सामर्थ्यादेव केवलग्रहणात् / दुर्घटस्तु डीषि श्रीमित्यपि रक्षित इच्छतीत्याह / 'श्रीर्वेषरचनाशोभाभारतासरलद्रुमे / लक्ष्म्यान्त्रिवर्गसम्पत्तिावधोपकरणेषु च / विभूतौ च मतौ च स्त्री' इति मेदिनी। जूराकाशे इत्यादि मूलोदाहृतञ्च / हुवः // चात् क्विब्दी? / सुवः कः // 'स्रु गतौ' / स्रुवो यज्ञपात्रांवशेषः / 'अयं त्रुवोऽभिजिहर्ति' 'सुवेण पार्वणो जुहोति' इत्यादौ प्रसिद्धः / चिक्च // त्रुव इत्येव / योगविभाग उत्तरार्थः / तनोतेः॥ व इति सङ्घातग्रहणम् / तदाह / वशब्देति // “स्त्रियान्तु त्वगसृग्धरा' इत्यमरः / केशवोक्तमाह / गौर्नेत्यादि // ‘गौः स्वर्गे च बलीव रश्मौ च कुलिशे पुमान् / स्त्री सौरभेयादृग्वाण. दिग्वारभूष्वप्सु भूम्नि च' इति मेदिनी। द्यौरिति // कर्तयधिकरणे वा प्रत्ययः / दोरिति // त्रिलिङ्गाऽयमिति प्रागेवोक्तम् / जसिसहोरुरिन् // 'जसुरये स्तर्य पिप्यथुर्गाम्' इति मन्त्रे जसुरये श्रान्तायेति 'नीचायमानं जसुरिं न श्येनम्' इत्यत्र जसुरिं क्षुधितम् / श्येनन्न श्येनपक्षिणमिवति / 'उतस्य वाजी सहुरितौ वा' इति मन्त्रे सहुरिः सहनशीलः इति च वेदभाष्यम् / For Private And Personal Use Only
Page #607
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्वितीयः पादः] बालमनोरमा। 605 232 / सुयुरुस्रो युच् / सवनश्चन्द्रमाः / यवनः / रवणः कोकिलः। वरणः / 233 / अशे रश च / अश्नोतेयुच्स्यात् रशादेशश्च / रशना काञ्ची / जिह्वावाची तु दन्त्यसकारवान् / 234 / उन्देर्नलोपश्च / ओदनः / 235 / गमेर्गश्च / गमेयुच्स्याद्गश्चादेशः / गगनम् / 236 / बहुलमन्यत्रापि / युच्स्यात् / स्यन्दनः / रोचना / 237 / रञ्जेः क्युन् / रजनम् / 238 / भूमधूभ्रस्जिभ्यश्छन्दसि / भुवनम् / सुवन: आदित्यः / धुवनो वह्निः / निधुवनं सुरतम् / भृजनमम्बरीषम् / / 239 / कृजिमन्दिनिधाञः क्युः / किरणः / पुरण: समुद्रः / वृजनमन्तरिक्षम् / मन्दनं स्तोत्रम् / निधनम् / सुयु // 'सवनन्त्वध्वरे स्नाने सोमनिर्दलनेऽपि च' इति मेदिनी / ‘रवण: शब्दने खरे' इति च / ‘वरणस्तिक्तशाकेऽपि प्राकारे वरणं वृतौ' इति विश्वः / 'वरुणे वरण: सेतुस्तिक्तशाकः कुमारकः' इत्यमरः / अशे रश च // जिह्वेति // ‘रस आस्वादने' चौरादिकः। ततो नन्द्यादित्वाल्ल्युः / ‘ण्यासश्रन्थः' इति युज्वा / 'अथ रसनं स्वादने ध्वनौ / जिह्वायान्तु न पुंसि स्यात् रास्नायां रसना स्त्रियाम्' इति मेदिनी / एषा दन्त्यतालव्यवतोयोरर्थव्यवस्था भूरिप्रयो. गाभिप्रायेणोक्ता / वस्तुतस्तु द्वावष्यर्थद्वये साधू। तथा हि / 'तालव्या अपि दन्त्याश्च शम्बशम्बलशूकराः / रशनापि च जिह्वायाम्' इति विश्वकोशाजिह्वायामुभयम् / 'रसनं निस्वने स्वादे रसना काञ्चिजिह्वयोः' इत्यजयधरणिकोशाभ्यां काञ्च्यामुभयं साधु / ‘रसनं स्वदने वाथ रसना काञ्चिजिह्वयोः। रसनञ्चापि रास्नायाम्' इति विश्वप्रकाशाचेति दिक् / एवञ्चेह सूत्रे अशू व्याप्ती 'अश भोजने' इति धातुद्वयमपि ग्राह्यम् / 'रस आस्वादने' 'रस शब्दे' इति धातुभ्यां 'बहुलमन्यत्रापि' इत्यनुपदं वक्ष्यमाणो युच / तेन सर्वत्रावयवार्थानुगमोऽपि सूपपाद इत्यवधेयम् / उन्देः॥ 'ओदनं न स्त्रियां भक्ते बलायामोदनी स्त्रियाम' इति मेदिनी / बहलम॥ 'स्यन्दनन्तु स्रुतौ नीरे तिनिशे ना रथेऽस्त्रियाम्' इति मेदिनी / 'रोचना रक्तकल्हारे गोपित्तवरयोषितोः। रोचनः कूटशाल्मल्यां पुंसि स्याद्रोचके त्रिषु' इति च / 'चदि आह्लादने' / 'चन्दनं मलयोद्भवे / चन्दनः कपिभेदे स्यान्नदीभेदे तु चन्दनी' इति विश्वः / 'चन्दनी तु नदीभेदे / चन्दनोऽस्त्री मलयजे भद्रकाल्यां नपुंसकम्' इति मेदिनी। भद्रकाली ओषधि विशेषः / ‘भद्रकाली तु गन्धोल्यां कात्यायन्यामपि स्त्रियाम्' इति मेदिनी / 'असु क्षेपणे'। 'असनं क्षेपणे क्लीबं पुंसि स्याज्जीवकद्रुमे' इति मेदिनी / 'अत सातत्यगमने' / राजपूर्वः / 'राजातनः क्षीरिकायां प्रियाले किंशुकेऽपि च' इति विश्वमेदिन्यौ। एवमन्येऽपि द्रष्टव्याः / रओः क्युन् // बाहुलकात्कृपेरपि / लत्वाभावश्च / कृपणः / भूसू // बहुलवचनाद्भाषायामपि / 'भुवनं विष्टपेऽपि स्यात्सलिले गगने जने' इति मेदिनी। कृप // 'निधनं स्यात्कुले नाशे' इति For Private And Personal Use Only
Page #608
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 606 सिद्धान्तकौमुदीसहिता [उणादिषु 240 / धृषेर्धिष च संज्ञायाम् / धिषणो गुरुः / धिषणा धीः / 241 / वर्तमाने पृषगृहन्महज्जगच्छतृवत् / अतिप्रत्ययान्ता: / ‘पृषु सेचने' गुणाभाव: / पृषन्ति / बृहत् / महान् / गमेर्जगादेश: / जगत् / 242 / संश्चत्तपदेहत् / एते निपात्यन्ते / पृथक्करणं शतृवद्भावनिवृत्त्यर्थम् / सञ्चिनोते: सुट् / इकारलोप: / संश्चत् कुहकः / तृपत् छत्रम् / विपूर्वात् हन्तेष्टिलोपः इत ए च / वेहदर्भोपघातिनी' / 243 / छन्दस्यसानच्शुज़भ्याम् / शवसानः पन्थाः / जरसानः पुरुषः / 244 / ऋञ्जिवृधिमन्दिसहिभ्यः कित / ऋञ्जसानो मेघः / वृधसान: पुरुष: / मन्दसानोऽग्निर्जीवश्च / सहसानो यज्ञो मयूरश्च / 245 / अर्तेर्गुणः शुट् च / अर्शसानोऽग्निः / 246 / सम्यानच्स्तुवः। संस्तवानो वाग्मी / मेदिनी / “निधनकुलनाशयोः' इति हेमचन्द्रः / धृषेः // ‘धिषणस्त्रिदशाचार्ये धिषणा धियि योधिति' इति मेदिनी। वर्तमाने // 'पृषन्मृगे पुमान् बिन्दौ न द्वयोः पृषतोऽपि ना। अनयोश्च त्रिषु श्वेतबिन्दुयुक्तेऽप्युभाविमौ' इति मेदिनी / 'बृहती क्षुद्रवार्ताक्यां कण्टकार्याञ्च वाचि च / वारिधान्यां महत्याश्च छन्दोवसनभेदयोः' इति विश्वः / शतृवद्भावात् 'उगिदचाम्' इति नुम् / बृहन् विपुलम् / ‘महती वल्लकीभेदे राज्ये तु स्यान्नपुंसकम् / तत्त्वभेदे पुमान् श्रेष्ठे वाच्यवत्' इति मेदिनी / महती नारदीया वीणा / 'अवेक्षमाणं महतीं मुहुर्मुहुः' इति माघः / 'जगत्स्याद्विष्टपे क्लीवं वायौ ना जङ्गमे त्रिषु / जगती भुवने मायां छन्दोभेदे जनेऽपि च' इति मेदिनी। तत्र वायुवाचिनः पुंल्लिङ्गस्य नुमि जगन्-जगन्तौ-जगन्तः इत्यादि / 'युगमिजुहोतीनान्द्वे च' इति व्युत्पादितस्य तु नुमभावात् जगत्-जगतावित्यादि / सञ्चिनोतेरिति // सुभूतिचन्द्रस्तु सम्पूर्वाच्छ्रयतेः संदित्याह / तृपत् छत्रमिति // चन्द्रमा इत्यन्ये / 'पिब मध्वस्तृपदिन्द्रावृषस्व' इति मन्त्र तु तृपच्छब्दो योगिकः / तृप्यन्नित्यर्थः / वेदभाष्ये तु तौदादिकात् तृपतेः शतृप्रत्यये आगमशास्त्रस्यानित्यत्वान्नुमभाव इत्युक्तम् / तत्प्रौढिवादमात्रम् / एतेन ‘त्वमस्य ब्राह्मणादातृपत्पिब' इत्यादि मन्त्रान्तरं व्याख्यातम् / गौरित्यनुवृत्तौ 'वेहद्गर्भोपघातिनी' इत्यमरः / छन्दस्य // 'शु गतौ, जृष् वयोहानौ' / एतेन 'प्रमन्महे' इत्यादिमन्त्रद्वयेऽपि शवसानशब्दस्य गन्तृपरतया सौष्ठवे बाहुलकोपष्टम्भेन क्लिष्टव्याख्यानं नातीवादर्तव्यम् / ऋञ्जिवृधि // ऋजि भर्जने / इदित्त्वान्नुम् / तत एव नलोपाभावः / एवञ्च अयं मन्दिसही च पूर्वसूत्रे एव पठितुं योग्याः / कित्त्वन्तु वृद्धावेवोपयुज्यते / उत्तरसूत्रेऽपि गुणग्रहणं सुत्यजम् , अर्तेः शुट च वृधेःकिदित्युक्तौ सर्वसामञ्जस्यात् / ऋअसानो मेघ इति // 'ऋञ्जसानः पुरुवार उक्थैः / अस्मिन् मन्दसामा वृषझे वसु' इत्यादिमन्त्राणां भाष्ये तु यौगिकार्थ एव पुरस्कृतः / अर्तेः // धातोर्गुणः / प्रत्ययस्य शुडागमः / 'आसाविषदर्शसानाय शरुम्' इति मन्त्रस्य भाष्ये For Private And Personal Use Only
Page #609
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्वितीयः पादः बालमनोरमा। 607 247 / युधिबुधिशिभ्यः किच्च / युधान: / बुधानः / दृशानो लोकपालकः / 248 / हुर्छः सनो लुक् छलोपश्च / जुहुराणश्चन्द्रमाः। 249 / श्वितेर्दश्च / शिश्विदान: पुण्यकर्मा / 250 / तृन्तचौ शंसिक्षदादिभ्यः संज्ञायां चानिटौ / शंसे: क्षदादिभ्यश्च क्रमात्तन्तृचौ स्तः / तौ चानिटौ / शंस्ता स्तोता। शंस्तरौ / शंस्तरः / क्षदिः सौत्रो धातुः शकलीकरणे भक्षणे च / अनुदात्तेत् / 'वृक्ये चक्षदानम्' इति मन्त्रात् / 'उक्षाणं वा वेहतं वा क्षदन्ते' इति ब्राह्मणाच्च / 'क्षत्ता स्यात्सारथौ द्वाःस्थे वैश्यायामपि शूद्रजे'। 251 / बहुलमन्यत्रापि / मन् मन्ता / हन् हन्ता / इत्यादि / 252 / नप्तनेष्टुत्वष्ट्रहोतृपोतभ्रातृजामातृमातृपितृदुहित / न पतन्त्यनेन पितरो नरके इति नप्ता पौत्रो दौहित्रश्च / नयते: घुग्गुणश्च / नेष्टा / विषेरितोऽत्त्वम् / त्वष्टा / होता / पोता ऋत्विग्भेदः / भ्राजते लोपः भ्राता / जायां माति अर्शसानाय शत्रूणां हिंसित्रे इति व्याख्यातम् / युधिबुधि // बाहुलकात् कृपेरपि / कृपाणः खड्गः। 'कृपाणेन कथङ्कारं कृपणः सह गण्यते / परेषान्दानसमये यः स्वकोशं विमुञ्चति / ' हुईः // 'युयोध्यस्मज्जुहुराणमेनः' इति मन्त्रे जुहुराणकौटिल्यकारि पापं, युयोधि पृथक् कुर्विति भाष्यम् / श्वितेर्दश्च // श्विता वर्णे / अस्मात्सनन्तादानच्, सनो लुक् , तकारस्य दकारः / किदित्यनुवृत्तेर्न गुणः / पुण्यकर्मेति // स हि उज्ज्वलो भवितुमिच्छति / 'शिश्विदानोऽकृष्णकर्मा' इति विशेष्यनिघ्ने अमरः / अकृष्णं शुक्लं शुद्धमित्यर्थः / इह क्षीरस्वामी प्रकृतसूत्रं विस्मृत्य, श्विदि श्वैये, अस्माल्लिटः कानजिति व्याख्यत् / तत्तुच्छम् / कानचश्छान्दसत्वात् / इदित्त्वेन नलोपानुपपत्तेश्चेति दिक् / कृष्णकर्मेयमरे पाठान्तरम् / पापकर्मेत्यर्थः तत्रावयवार्थानुगमबलेन बोद्ध्यः / शुद्धो भवितुमिच्छतीत्युक्तो हि इदानीमशुद्ध इति गम्यते / तृन्तृचौ // 'अप्तृन्' इत्यतोऽत्र दीर्घो नेत्युदाहरति। शंस्तरावित्यादि॥ नित्त्वादायुदात्तः। तथाच मन्नः / 'प्रावग्राम उत शंस्तासु विप्रः' / आदिशब्दात् 'शासु अनुशिष्टौ' / शास्ति विनयति सत्त्वानि शास्ता बुद्धः, शास्तरौ-शास्तरः / 'शास्ता समन्तभद्रे ना शासके पुनरन्यवत्' इति मेदिनी / प्रपूर्वस्य तु 'अप्तृन्' इति दीर्घः / प्रशास्तारौ-प्रशास्तारः। 'क्षत्ता शूद्राच्च वैश्याजे प्रतीहारे च सारथौ / भुजिष्यातनयेऽपि स्यात् नियुक्तवेधसोः पुमान्' इति मेदिनी। कोशानुसारेणाह / वैश्यायामिति // अमरस्तु 'क्षत्रियायाञ्च शूद्रजे' इत्याह / याज्ञवल्क्योऽपि / 'क्षत्तिया मागधं वैश्यात् शूद्रात् क्षत्तारमेव च' इति / इह बहुलमन्यत्रापीति प्रपञ्चार्थत्वात् उपेक्षितम् / नप्तेति // ननः प्रकृतिभावः / 'पत्ल् गतौ' इत्यस्मात् तृच् टिलोपः / 'त्वष्टा पुमान् For Private And Personal Use Only
Page #610
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदीसहिता [उणादिषु जामाता / —मान पूजायाम्' नलोप: माता / पातेराकारस्येत्त्वम् / पिता। दुहेस्तृच्, इट् गुणाभावश्च / दुहिता / 253 / सुज्यसेक्रन् / स्वसा / 254 / यतेदृद्धिश्च / याता। भार्यास्तु भ्रातृवर्गस्य यातरः स्युः परस्परम्'। 255 / नजि च नन्देः / न नन्दति ननान्दा / इह वृद्धिर्नानुवर्तते इत्येके / 'ननान्दा तु स्वसा पत्युननन्दा नन्दिनी च सा' इति शब्दार्णवः / 256 / दिवेक्रः / देवा / देवरः / 'स्वामिनो देवृदेवरौ' / 257 / नयतेर्डिच्च / ना / नरौ / नरः / / 258 / सव्ये स्थश्छन्दसि / 'अम्बाम्ब-' (सू 2918) इत्यत्र ' स्थास्थिन्स्थूणामुपसंख्यानम्' (वा 4961) सव्येष्ठा सारथिः / सव्येष्ठरौ / सव्येष्ठरः / 259 / अर्तिमृधृधम्यम्यश्यवितृभ्योऽनिः। अष्टभ्योऽनिप्रत्यय: स्यात् / अरणिरग्नेयोनिः / सरणिः / धरणिः / धमनि: / अमनिर्गति: / अशनिः / अवनिः / तरणिः / बाहुलकाद्रजनिः / 260 / आङि शुषेः सनश्छन्दसि / आशुशुश्क्षणिरग्निर्वातश्च / 261 / कृषेरादेश्च चः। चर्षणिर्जनः / देवशिल्पितक्ष्णोरादित्यभिद्यपि' इति मेदिनी। जायां मातीत्यन्त वितण्यर्थः / सुज्यसेः॥ असु क्षेपणे / अस दीप्तयादिषु / आभ्यां सुञि उपपदे ऋन् / यतेः॥ यती प्रयत्ने / नञि च नन्देः॥ 'उषाप्यूषा ननन्दा च ननान्दा च प्रकीर्तिता' इति द्विरूपेषु विश्वः / देवेति // भ्रातर इत्यनुवृत्तौ 'स्वामिनो देवदेवरौ' इत्यमरः / ‘देवे धवे देवरि माधवे च' इति श्रीहर्षः / नयतेः // 'स्युः पुमांसः पञ्चजनाः पुरुषाः पूरुषा नरः' इत्यमरः / सव्ये // ऋर्डिचेत्यनुवर्तते / सव्येष्ठेति // 'तत्पुरुषे कृति' इति सप्तम्या अलुक् / अर्तिस् // धमिः सौत्रः / 'अरणिर्वह्रिमन्थे ना द्वयोनिमन्थदारुणि' इति मेदिनी / 'सरणिः श्रेणिवर्त्मनोः' इति दन्त्यादौ रभसः / 'सरणिः पङ्को मार्गे च' इति मेदिनी। श हिंसायाम् / ततः शरणिरित्येके / 'शरणिः पथि चाऽऽवलौ' इति तालव्यादावजयः / ‘इमामने शरणिम्' इति मन्त्रे शरणिं हिंसां व्रतलोपरूपां मीमृषः क्षमखेति वेदभाष्यम् / 'धमनी तु शिरा हटविलासिन्याञ्च योषिति / अशनिः स्त्रीपुंसयोः स्याच्चञ्चलायां पवावपि / तरणिर्युमणौ पुंसि कुमारीनौकयोः स्त्रियाम् / रजनी नीलिनीरात्रिहरिद्राजतुकासु च' इति मेदिनी / कुमारी लताविशेषः। 'तरणी रामतरणी कर्णिका कारुकेसरा / सहा कुमारी गन्धाढ्या' इति धन्वन्तरिनिघण्टुः / रञ्जनलोपोऽपि बाहुलकात् / कृषेरादेश्च चः॥ चर्षणिर्जन इति // वैदिकनिघण्टौ चर्षणिशब्दस्य मनुष्यनामसु For Private And Personal Use Only
Page #611
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्वितीय: पाद:] बालमनोरमा। 609 262 / अदेर्मुद् च / अद्मनि: अग्निः / 263 / वृतेश्च / वर्तनिः / गोवर्धनस्तु चकारान्मुट वर्त्मनिरित्याह / 264 / क्षिपेः किच्च / क्षिपणिरायुधम् / 265 / अर्चिशुचिहुमृपिछादिछर्दिभ्य इसिः / अचिोला / इदन्तोऽप्ययम् / ‘अग्नेजन्ते अर्चयः' / शोचिर्दीप्तिः / हविः सर्पिः / ‘इस्मन्-' (सू 2985) इति ह्रस्वः / छदिः पटलम् / छर्विमनव्याधिः / इदन्तोऽपि / 'छर्यतीसारशूलवान्' / / 266 / बृंहेर्नलोपश्च / 'बर्हिर्ना कुशशुष्मणोः' / 267 / द्युतरिसिन्नादेश्च जः / ज्योतिः / 268 / वसौ रुचेः संज्ञायाम् / वसुरोचिर्यज्ञः / 269 / भुवः कित् / भुविः समुद्रः / 270 / सहो धश्च / सधिरनड्वान् / 271 / पिवतेस्थुक् / 'पाथिश्चक्षु:समुद्रयोः' / 272 / जनेरुसिः। जनुर्जननम् / 273 / मनेश्छन्दसि / मधुः / 274 / अर्तिपृवपियजितनिधनितपिभ्यो नित् / अरुः / परुर्ग्रन्थिः / पाठात् / 'ओमासश्चर्षणीधृतः। प्रचर्षिणिभ्यः' इत्यादिमन्त्राणां भाष्ये तथैव व्याख्यानाच्च / उज्ज्वलदत्तस्तु आदेश्च ध इति पठित्वा धर्षणी बन्धकीति व्याख्यत् / तदयुक्तम् , तथा सति धृषरित्येव सूत्रयेत् , प्रागल्भ्यरूपावयवार्थानुगमात् / आदेश्च ध इत्यंशस्य त्यागेन लाघवाच / वर्तनिरिति॥ कृदिकारादिति पक्षे ङीष् / 'सरणि: पद्धतिः पद्या वर्तन्येकपदीति च' इत्यमरः / क्षिपणिरायुधमिति // 'उतस्य वाजी क्षिपणिन्तुरण्यति' इति मन्त्रस्य वेदभाष्ये तु क्षिपणिं क्षेपणमनु तुरण्यति त्वरयति गन्तुमिति व्याख्यातम् / अर्चिरिति सान्तम् / 'तमर्चिषा स्फूर्जयन्' इति मन्त्रः / 'नयनमिव सनिद्रं घूर्णते नैशमर्चिः' इति माघः / 'ज्वालाभासोर्न पुंस्यचिः' इति नानार्थे सान्तेष्वमरः। इदन्तोऽपीति // णिजन्तादच इरिति भावः / 'अर्हेितिः शिख स्त्रियाम्' इत्यमरः। 'रोचिः शोचिरुभे क्लीबे' इति च / छाद्यतेऽनया छदिः। छदिः स्त्रियामवेति' लिङ्गानुशासनसूत्रम् / एवञ्च 'पटलं छदिः' इत्यमरग्रन्थे पटलसाहचर्याच्छदिषः क्लीबतां वदन्त उपेक्ष्याः / बृहेः // ‘बर्हिः पुंसि हुताशने / न स्त्री कुशे' इति मेदिनी / श्रुतेः॥ 'ज्योतिरग्नौ दिनकरे। पुमान्नपुंसके दृष्टौ स्यानक्षत्रप्रकाशयोः' इति मेदिनी। वसौ रुचेः॥ बाहुलकात्केवलादपि / 'रोचिः शोचिरुभे क्लीबे' / अर्तिपृ // 'व्रणोऽस्त्रियामीर्ममरुः क्लीवे' For Private And Personal Use Only
Page #612
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Acharya Shri Kai 610 सिद्धान्तकौमुदीसहिता [उणादिषु वपुः / यजुः / तनु:-तनुषी-तनूंषि / धनुरस्त्रियाम् / 'धनुवैशविशुद्धोऽपि निर्गुणः किं करिष्यति' / सान्तस्योदन्तस्य वा रूपम् / 'तपुः सूर्याग्निशत्रुषु / 275 / एतेर्णिच / आयुः / आयुषी / 276 / चक्षेः शिश्च / चक्षुः / 277 / मुहेः किच्च / मुहुरव्ययम् / 278 / बहुलमन्यत्रापि / आचक्षुः / परिचक्षुः / 279 / कृगृशश्चतिभ्यः ष्वरच् / 'कर्वरो व्याघ्ररक्षसोः' / गर्वरोऽहङ्कारी / शर्वरी रात्रिः / वर्वरः प्राकृतो जनः / चत्वरम् / 280 / नौ सदेः / 'निषद्वरस्तु जम्बालः' / निषद्वरी रात्रिः / // इत्युणादिषु द्वितीय पादः // // अथ उणादिषु तृतीय पादः // 281 / छित्वरछत्वरधीवरपीवरमीवरचीवरतीवरनीवरगहरकतरसंयद्वराः। एकादश ज्वरच्प्रत्ययान्ता निपात्यन्ते / 'छिदिर्' 'छद्' अनयोस्तकारोऽन्तादेश: छिदेर्गुणाभावश्च / छित्वरो धूर्तः / 'छत्वरो गृहकुञ्जयोः' / इत्यमरः / 'प्रन्थिनी पर्वपरुषी' इति च / ‘वपुः क्लीबन्तनुः शस्ताकृतावपि' इति मेदिनी / तनुः शरीरम् / 'तनुषे तनुषेऽनङ्गम् ' इति सुबन्धुः / ‘स्यात्तनुस्तनुषा सार्धं धनुषा च धनुं विदुः' इति द्विरूपेषु विश्वः / 'अथास्त्रियान्धनुश्चापौ' इत्यमरः / 'धनुः प्रियाले ना न स्त्री राशिभेदे शरासने / धनुर्धरे त्रिषु' इति सान्ते मेदिनी / चक्षेः // शित्त्वात्सार्वधातुकत्वे ख्याञ् न / चक्षते रूपमनुभवन्त्यनेनेति चक्षुः / मुहेः // 'मुहुः पुनःपुनः शश्वत् अभीक्ष्णमसकृत् समाः।' इत्यव्ययेष्वमरः / अस्मात्परं बहुलमन्यत्रापीति सुस्पष्टत्वात्त्यक्तम् / कृगृ // 'नैर्ऋतः कर्वरः ऋव्यात्कबुरो यातुरक्षसोः' इति शब्दार्णवः / 'शर्वरी यामिनीस्त्रियोः' इति मेदिनी। 'वर्वरः पामरे केशविन्यासे नीवृदन्तरे / वर्वरः फजिकायान्तु वर्वरा शाखपुष्पयोः' इति विश्वः / 'वर्वरः पामरे केशवल्कले नीवृदन्तरे / फञ्जिकायां पुमान् शाकभेदपुष्पभिदोः स्त्रियाम्' इति मेदिनी / 'चत्वरं स्थण्डिलेऽङ्गणे' इति च / नौ सदेः॥ वरजनुवर्तते / 'सदिरप्रतेः' इति षत्वम् / 'निषद्वरः स्मरे पङ्के निशायान्तु निषद्वरा' इति मेदिनी // // इत्युणादिषु द्वितीयः पादः // छित्वर // ‘छित्वरं छेदनद्रव्ये धूर्ते वैरिणि च त्रिषु' इति मेदिनी / 'डु धाञ्' / अन्त्यस्य ईत्वम् / एवं 'पा पाने' इत्यादीनामित्येके / अन्ये तु 'पीव मीव तीच नीव स्थौल्ये' For Private And Personal Use Only
Page #613
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयः पादः] बालमनोरमा। 611 धीवरः कैवर्तः। पीवरः स्थूल: / मीवरो हिंसकः / चिनोतेर्दीर्घश्च / चीवरं भिक्षुकप्रावरणम् / तीवरो जातिविशेषः / नीवर: परिबाट / गाहतेह्रस्वत्वम् / गह्वरम् / कटे वर्षादौ, कटुरं व्यञ्जनम् / यमेर्दकारः संयद्वरो नृपः / पदेः सम्पद्वर इत्येके / 282 / इण्सिजिदीकुष्यविभ्यो नक् / 'इन: सूर्ये नृपे पत्यौ' सिनः काणः / जिनः अर्हन् / दीनः / उष्णः / ऊनः / 283 / फेनमीनौ / एतौ निपात्येते / स्फायते: फेनः / मीनः / 284 / कृषेवणे / कृष्णः / 285 / बन्धेर्बधिबुधी च / बध्नः / बुध्नः / 286 / धावस्यज्यतिभ्यो नः / 'धाना भृष्टयवे स्त्रियः' / पर्ण पत्रम् / पर्ण: किंशुकः / वस्नो मूल्ये वेतने च' / अजेर्वी / वेनः / अनः आदित्यः / बाहुलकाच्छृणोते: / श्रोण: पङ्गुः / 287 / लक्षेरद च / लक्षेश्चुरादिण्यन्तान्नः स्यात्तस्याडागमश्च / चान्मुडित्येके / 'लक्षणं लक्ष्मणं नाम्नि चिह्ने च' / लक्षणो लक्ष्मणश्च रामभ्राता / 'लक्षणा हंसयोषायां सारसस्य च लक्ष्मणा' / एभ्यः प्रत्यये 'लोपो व्योः' इति वलोपमाहुः / ‘पीवरः कच्छपे स्थूले ' इति मेदिनी / 'तीवरो नाम्बुधौ व्याधे' इति च / 'स्यानीवरो वणिजके वास्तवेऽपि च दृश्यते' इति मेदिनीविश्वप्रकाशौ / 'कट्वरं कुत्सिते वाच्यलिङ्गं तके नपुंसकम्' इति मेदिनी / बाहुलकादुपपूर्वाज्जुहोते. रुकारलोपः / 'उपहरे समीपे स्यादेकान्तेऽपि नपुंसकम्' इति मेदिनी / उपह्वरो रथः इति केचित् / 'तदुप्रयक्षतम्' इति मन्त्रे तु उपह्वरे उपगन्तव्ये समीपे देशे / 'ड्व कौटिल्ये'। गतिविशेषवाचिना धातुना गतिमात्रमिह लक्ष्यते / ततोऽधिकरणे घः / कृदुत्तरपदप्रकृति. स्वरत्वमिति भाष्ये व्याख्यातम् / इण्सिञ् // ‘इनः पत्यौ नृपार्कयोः / जिनोऽर्हति च बुद्धे च पुसि स्यात् त्रिषु जित्वरे' इति मेदिनी / 'दीना मूषिकयोषायां दुर्गते कातरेऽन्यवत्' इति विश्वः / 'उष्णो ग्रीष्मे पुमान् दक्षाशीतयोरन्यलिङ्गके' इति मेदिनी / फेनमीनौ // 'डिण्डीरो ऽब्धिकफः फेनः' इत्यमरः / 'मीनो राश्यन्तरे मत्स्ये' इति विश्वः / कृषः // 'कृष्णः सत्यवतीपुत्रः केशवे वायसेऽर्जुने / कृष्णा स्यात् द्रौपदीनीलीकणाद्राक्षासु योषिति / मेचके वाच्यलिङ्गः स्यात् क्लीबे मरिचलोहयोः' इति मेदिनी / ब्रनः सूर्यः / 'बुध्नः शिफायां रुद्रे च' इति विश्वः। 'बुध्नो ना मूलरुद्रयोः' इति मेदिनी / धापृ // ‘धाना भृष्टयवे प्रोक्ता धान्यकेऽभिनवोद्भिदि' इति विश्वः / ‘पर्ण पत्रे किंशुके ना' इति मेदिनी / 'वस्नस्त्ववक्रये पुंसि वेतने स्यान्नपुंसकम्' इति च / वेन इति // लुण्टाकः प्रजापतिश्च / 'सपूयॊ महोनाम्' इति मन्त्रे मनोः पुत्रेऽपि प्रसिद्धः। लक्षणमित्यादि // लक्षणलक्ष्मणशब्दौ द्वावपि नाम For Private And Personal Use Only
Page #614
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 612 सिद्धान्तकौमुदीसहिता [उणादिषु 288 / वनेरिच्चोपधायाः / वेन्ना नदी / 289 / सिवेष्टेयं च / दीर्घोच्चारणसामर्थ्यान्न गुणः / स्यून आदित्यः / बाहुलकात्केवलो नः / ऊठ् / अन्तरङ्गत्वाद्यण् / गुण: / स्योन: / 290 / कृवज़सिद्रुपन्यनिस्वपिभ्यो नित् / कर्णः / वर्णः / 'जर्णश्चन्द्रे च वृक्षे च' / सेना / द्रोणः / पन्नो नीचैर्गतिः / अन्नमोदनः / स्वप्नो निद्रा / 291 / धेट इच्च / 'धेन: सिन्धु दी धेना' / 292 / तृषिशुषिरसिभ्यः कित् / तृष्णा / शुष्ण: सूर्यो वह्निश्च / रस्त्रं द्रव्यम् / 293 / सुबो दीर्घश्च / सूना वधस्थानम् / 294 / रमेस्त च / रमयतीति रत्नम् / 295 / रास्नासास्नास्थूणावीणाः / रास्ना गन्धद्रव्यम् / सास्ना गोगलकम्बलः / स्थूणा गृहस्तम्भः / वीणा वल्लकी / 296 / गादाभ्यामिष्णुच् / गेष्णुर्गायन: / देष्णुर्दाता। चिह्नयोः क्लीवौ / रामभ्रातरि पुल्लिङ्गो हसयोषायां लक्षणा सारसयोषायां लक्ष्मणा इति व्यवस्थे. त्यर्थः / लक्षणं नाम्नि चिह्न च सारस्यां लक्ष्मणा क्वचित् / लक्ष्मणा त्वौषधीभेदे सारस्यामपि योषिति / रामभ्रातरि पुंसि स्यात् सश्रीक चाभिधेयवत्' इति मेदिनी। कोशे तु सारस्यामपि निर्मकारः स्वीकृतः / वेन्नेति // लघूपधगुणः / बाहुलकादिति // एतच्च ‘छोः शूठ' इति सूत्रे वृत्तौ 'येन विधिः' इति सूत्रे कैयटप्रन्थे च स्पष्टम् / ‘स्योनः किरणसूर्ययोः' इति मेदिनी। कृवृ // ‘कर्णः पृथाज्यष्टसुते सुवर्णाद्रौ श्रुतावपि' इति विश्वमेदिन्यौ / ‘बृञ् वरणे' दीर्घपाठे तु 'वृ वरणे' / 'वर्णो द्विजादिशुक्लादियशोगुणकथासु च / स्तुती ना न स्त्रियां भेदे रूपाक्षरविलेखन' इति मेदिनी / विश्वमेदिनीस्थमाह / जर्ण इति // 'जर्णो जीर्णद्रुमेन्दुषु' इति हेमचन्द्रः / 'द्रोणेऽस्त्रियामाढके स्यात् आढकादिचतुष्टये / पुमान् कृषीपतौ कृष्णकाके स्त्री नीवृदन्तरे / स्त्रियाङ्काष्ठाम्बुवाहिन्याङ्गवादीनामपीष्यते / अन्नं भक्तं च भुक्ते स्यात् / खप्नः खापे प्रसुप्तस्य विज्ञाने दर्शने पुमान्' इति मेदिनी / धेट इच्च॥ 'धेना नद्यां नदे पुमान्' इति मेदिनी / 'धेनः समुद्रे नद्याञ्च धेना' इति विश्वः / श्लोको धारेत्यादिषु सप्तपञ्चाशत्संख्या. केषु वाङ्नामसु धेनेति वैदिकनिघण्टौ पठितम् / अत एव 'धेनां जिगाति दाशुषे / इन्द्रं धेनाभिरिह मादयस्व' इत्यादिषु धेना वागिति व्याख्यातं भाष्ये / तृषिशुषि // 'नि तृषा पिपासा. याम्' / 'तृष्णा लिप्सापिपासयोः' इति विश्वः / सुञः // सूनाऽधोजिद्विकापि च' इति नान्ते अमरः / 'सूनं प्रसवपुष्पयोः। सूना पुत्र्यां वधस्थानगलकण्डिकयोः स्त्रियाम्' इति मेदिनी / रमेस्त च // 'रत्नं स्वजातिभेदेऽपि मणावपि नपुंसकम्' इति मेदिनी / For Private And Personal Use Only
Page #615
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयः पादः] बालमनोरमा। 613 613 297 / कृत्यशूभ्यां स्नः / कृत्स्नम् / अक्ष्णमखण्डम् / 298 / तिजेर्दीर्घश्च / तीक्ष्णम् / 299 / श्लिषेरच्चोपधायाः। श्लक्ष्णम् / 300 / यजिमनिशुन्धिदसिजनिभ्यो युच् / यज्युरध्वर्युः / 'मन्युर्दैन्ये ऋतौ क्रुधि' / शुन्ध्युरग्निः / दस्युस्तस्कर: / जन्युः शरीरी। 301 / भुजिमृङ्भ्यां युक्त्युको / भुज्युर्भाजनम् / मृत्युः / 302 / सर्तेरयुः / सरयुनदी / अयूरिति पाठान्तरम् / सरयूः / 303 / पानीविषिभ्यः पः। पाति रक्षत्यस्मादात्मानमिति पापम् / तद्योगात्पापः। नेपः पुरोहितः / बाहुलकाद्गुणाभावे नीपो वृक्षविशेषः / वेष्प: पानीयम्। 304 / च्युवः किच्च / च्युपो वक्त्रम् / 305 / स्तुवो दीर्घश्च / स्तूपः समुछाय: / 306 / सुशृभ्यां निच्च / चात्कित् / सूपः / बाहुलकादुत्त्वम् / शूर्पम् / 307 / कुयुभ्यां च / कुवन्ति मण्डूका अस्मिन्कूपः / युवन्ति बघ्नन्त्यस्मिन्पशुमिति यूपो यज्ञस्तम्भः / 308 / खष्पशिल्पशष्पबाष्परूपपर्पतल्पाः। सप्तैते पप्रत्ययान्ता निपात्यन्ते / खनते कारस्य षत्वम् / 'खप्पो क्रोधबलात्कारौ'। शीलतेह्रस्वश्च / शिल्पं कौशलम् / 'शसु हिंसायाम्' / निपातनात्षत्वम् / शष्पं बालतृणं प्रतिभाक्षयश्च / बाधतेः षः। 'बाष्पो नेत्रजलोष्मणोः' / बाष्पञ्च / रौतेर्दीर्घः / 'रूपं स्वभावे सौन्दर्ये' / ए। पर्प गृहं बालतृणं पङ्गुपीठञ्च / 'तल प्रतिष्ठाकरणे' चुरादिणिचो लुक् / 'तल्पं शय्याट्टदारेषु' / च्युवः॥'च्युङ् गतौ'। अनेकार्थत्वादिह भाषणे। च्यवन्ते भाषन्तेऽनेनेति विग्रहः / दशपाद्यान्तु 'चुपः किच्च' इति पठ्यते / 'चुप मन्दायाङ्गतौ'। चोपतीति चुप्पो मन्दगमनकर्ता। सुशृ // 'सूपो व्यञ्जनसूदयोः' इति मेदिनी। शूर्पमिति // बाहुलकादुत्वं रपरत्वं ‘हलि च' इति दीर्घः / 'प्रस्फोटनं शूर्पमस्त्री' इत्यमरः / दशपाद्यान्तु कुसुयुभ्यश्च / 'सृशभ्यामूङ च' इति पठित्वा सूपं शूर्पञ्च व्युत्पादितम् / द्विरूपकोशेऽप्युभयन्दर्शितम् / कुयुभ्याश्च // 'कु शब्दे, यु मिश्रणे' आभ्यां पः स च नित्धातोर्दीर्घत्वञ्च / 'कूपकूपकमृन्मानगर्तास्तु गुणवृक्षके' इति मेदिनी / 'शष्पः क्रोधे बलात्कृतौ' इति विश्वः / ‘शष्पे बालतृणेऽपि च / पुंसि स्यात्प्रतिभाहानौ' इति मेदिनी / विश्वोक्तिमाह / बाप्प इति // 'बाष्पमूष्मणि चाश्रुणि' इति कोशान्तरमभिप्रेत्याह / बाप्पश्चेति // 'रूपं स्वभावे सौन्दर्ये नालके पशुशब्दयोः / प्रन्थवृत्तौ नाटकादौ आकरश्लोकयोरपि' इति विश्वमेदिन्यौ। 'तल्पम? कलत्रे च शयनीये च न द्वयोः' इति मेदिनी / For Private And Personal Use Only
Page #616
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदीसहिता [उणादिषु 309 / स्तनिहृषिपुषिगदिमदिभ्यो हेरिनुच् / 'अयामन्त-' (सू 2311) इति णेरयादेशः / स्तनयित्नुः / हर्षयित्नु: / पोषयित्नुः / गदयित्नुः वावदूकः / मदयित्नुः मदिरा। 310 / कृहनिभ्यां क्त्नुः / कृत्नु: शिल्पी / हत्नुर्व्याधिः शस्त्रञ्च / 311 / गमेः सन्वच्च / जिगत्नुः / 312 / दाभाभ्यां नुः / दानुर्दाता भानुः / 313 / वर्गश्च / वग्नुः / 314 / धेट इच्च / धयति तामिति धेनुः / 315 / सुवः कित् / ‘सूनुः पुत्रेऽनुजे रवौ' / 316 / जहातेर्दैऽन्तलोपश्च / जहुः / / 317 / स्थो णुः। 'स्थाणुः कीले स्थिरे हरे'। 318 / अजिरीरिभ्यो निच्च / अजेर्वी वेणुः / वर्णनंददेशभेदयोः / 'रेणुर्द्वयोः स्त्रियां धूलिः'। अमरोक्तमाह / तल्पमिति // स्तनिहृषि // स्तनगदी देवशब्दे / चुरादिण्यन्तौ / 'हृष तुष्टौ, पुष पुष्टौ, मदी हर्षग्लेपनयोः / ' घटादिः / 'स्तनयित्नुः पुमान् वारिधरेऽपि स्तनितेऽपि च' इति मेदिनी। 'हर्षयित्नुः सुते हेम्नि पोषयित्नुः पिके द्विजे। स्तनयित्नुः पयोवाहे तवनी मृगरोगयोः' इति विश्वः / ‘गदयित्नुः पुमान् कामे जल्पाके कार्मुकेऽपि च' इति विश्वमेदिन्यौ। 'मदयित्नुः कामदेवे पुमान् मद्ये नपुंसकम्' इति मेदिनी। कृहनिभ्यां नुः // कृत्नुरिति // कर्तेत्यर्थः / कित्त्वान्न गुणः / हत्नरिति // अनुदात्तेत्यादिना अनुनासिकलोपः / एवमुत्तरत्र गमेरपि / शस्त्रश्चेति // चाद्धन्ता / दशपादीवृत्तौ तु क्नुरिति तकाररहितं पठित्वा कृणुः कर्ता हनुर्वकैकदेशः / बाहुलकानलोपः / गमेस्तु जिगत्नुरित्युदाहृतम् / तत्सर्व प्रामादिकम् / लक्ष्यविसंवादात् / तथा च श्रूयते / 'सुरूपकृत्नुमूतये। ज्येष्ठराजं भरेकृत्नुम् अयत्नुरगृभीतः / मा नो वधाय हत्नवे। मृगं न भीममुपहनुमुग्रम् / यो नः सनुत्यः उत वा जिगत्नुः' इत्यादि / अत एव हन्तिधातुं विवृण्वता माधवेन उपहत्नुरित्युदाहृत्य क्नोः कित्त्वादनुनासिकलोप इत्युक्तम् / यत्तु तेनैव ‘सुरूपकृत्नुम्' इति मन्त्रे विवृण्वता तकारोपजनश्छान्दस इत्युक्तम् / तद्दशपादीवृत्तिमनुसृत्य, न तु वस्तुस्थितिमनुरुध्येति सहृदयैराकलनीयम् / दाभाभ्यां नुः॥ 'दानुर्दातरि वक्रान्ते' इति मेदिनी / 'भानू रश्मिदिवाकरौ' इत्यमरः / वचेः // वग्नुर्वक्ता / धेटः // 'धेनुस्स्यान्नवसूतिका' इत्यमरः। विश्वोक्तिमाह / सूनुरिति // जहातेः॥ ‘जह्नुः स्यात्पुंसि राजर्षिभेदे च मधुसूदने' इति मेदिनी / विश्वोक्तिमाह / स्थाणुरिति // 'स्थाणुः कीले हरे पुमान् / अस्त्री ध्रुवे' इति मेदिनी। अजिवृ // 'वेणुपान्तरे वंशे' इति विश्वः / For Private And Personal Use Only
Page #617
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयः पादः] बालमनोरमा। 319 / विषेः किञ्च / विष्णुः / 320 / कृदाधारार्चिकलिभ्यः कः। बाहुलकान्न कस्येत्संज्ञा / 'कर्को धवलघोटकः' / दाको दाता / धाकोऽनडानाधारश्च / राका पौर्णमासी / अर्कः / कल्क: पापाशये पापे दम्भे विकिट्टयोरपि' / 321 / सृवृभूशुषिमुषिभ्यः कक् / 'सृक उत्पलवातयोः' / 'वृकः श्वापदकाकयोः' / भूक छिद्रम् / शुष्कः / मुष्कोऽण्डम् / 322 / शुकवल्कोल्काः। शुभेरन्त्यलोपः / शुकः / 'वल्कं वल्कलमस्त्रियाम्' / ' उष दाहे' / षस्य ल: / उल्का / 323 / इण्भीकापाशल्यतिमर्चिभ्यः कन् / * एके मुख्यान्यकेवला:' / 'भेको मण्डूकमेषयोः' इति विश्वमेदिन्यौ। काकः / पाक: शिशुः / शल्कं शकलम् / अत्कः पथिक: शरीरावयवश्च / मर्कः शरीरवायुः / 'रेणुः स्त्रीपुंसयोधूलौ पुंलिङ्गः पर्पटे तु ना' इति मेदिनी / विषेः किच्च // चकाराग्नित् / आद्युदात्तः / 'विष्णुरित्थाप्रविष्णवे शूषम्' / कृदा // ‘कर्कः कर्के तले वह्नौ शुक्लाश्वे दर्पणे घटे' इति विश्वमेदिन्यौ। ‘राका नद्यन्तरे कच्छां नवजातरजःस्त्रियाम् / संपूर्णेन्दुतिथावपि' इति मेदिनी / 'राका तु सरिदन्तरे / राका नवरजःकन्या पूर्णेन्दुः पूर्णिमाऽपि च' इति विश्वः / इह दाधारा एषां 'केणः' इति ह्रस्वोऽपि बाहुलकानेति बोध्यम् / 'अर्कोऽर्कपणे स्फटिके रचौ ताने दिवस्पतौ' इति विश्वमेदिन्यौ / 'कल्कोऽस्त्री घृततैलादिशेषे दम्भे विभीतके / विकिट्टयोश्च पापे च त्रिषु पापाशये पुनः' इति मेदिनी / बाहुलकात् रमेरपि कः / 'रङ्कः कृपण. मन्दयोः' इति मेदिनी / कपिलकादित्वाल्लत्वं टाप् / 'लङ्का रक्षःपुरी शाखाशाकिनीकुलटासु च' इति विश्वमेदिन्यौ / सृवृ // 'सृका बाणोत्पलवाता' इति हेमचन्द्रः / 'सृकं संशाय पविमिन्द्र तिग्मम्' इति मन्त्रस्य वेदभाष्ये तु सृकं सरणशीलम् / पविं वज्रं संशाय सम्यक्तीक्ष्णीकृत्येति व्याख्यातम् / भूकं छिद्रे च काले च' इति मेदिनी / 'शुको व्याससुते कीरे रावणस्य च मन्त्रिणि / शिरीषपादपे पुंसि प्रन्थिपणे नपुंसकम् / वल्कं वल्कलशल्कयोः' इति च / उल्का ज्वाला विभावसोः' इति भूतिचन्द्रः / इण्भी॥ 'एक सङ्खयान्तरे श्रेष्ठे केवलेतरयोस्त्रिषु' इति मेदिनी। 'काकः स्याद्वायसे वृक्षप्रभेदे पीठसर्पिणि / शिरोवक्षालने मानप्रभेदे द्वीपभेदयोः। काका स्यात्काकनासायाङ्काकोलीकाकजङ्घयोः / रक्तिकायां मलव्याञ्च काकमाच्यां च योषिति / काकं सुरतबन्धे स्यात् काकानामपि संहतो' इति विश्वमेदिन्यौ / पाकः परिणतौ शिशौ। केशस्य जरसा शौकल्ये स्थाल्यादौ पाचनेऽपि च / शल्कन्तु शकले कल्के' इति मेदिनी / 'शल्कैरग्निमिन्थानः' इति मन्त्रे काष्ठखण्डैरिति व्याख्यातारः / मर्क इति // मर्चिः सौत्रो धातुरिति बहवः। 'मर्च शब्दे' चौरादिक इति मिदचोन्त्यात्सूने कैयटः / मर्तो मते मर्चयति द्वयेन' इति मन्त्रे मर्चयति विधेयीकरोति भर्त्सयतीति वेदभाष्यम् / न चैवं णिलोपस्य स्थानिवद्भावात्कत्वं न स्यात् इति वाच्यम् / पूर्वत्रासिद्धे For Private And Personal Use Only
Page #618
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदीसहिता [उणादिषु 324 / नौ हः / जहातेः कन्स्यान्नौ / निहाका गोधिका / 325 / नौ सदेर्डिच्च / निष्कोऽस्त्री हेम्नि तत्पले' / 326 / स्यमेरीट् च / स्यमीको वल्मीक: वृक्षभेदश्च / इट ह्रस्व इति केचित् / स्यमिकः / 327 / अजियुधिनीभ्यो दीर्घश्च / 'वीकः स्याद्वातपक्षिणो:' / यूका / धूको वायुः / नीको वृक्षविशेषः / 328 / हियो रश्च लो वा / 'ह्रीका ह्रीका त्रपा मता' / 329 / शकेरुनोन्तोन्त्युनयः। उन' ' उन्त' ‘उन्ति' 'उनि' एते चत्वारः स्युः / शकुनः / शकुन्तः / शकुन्ति: / शकुनिः / 330 / भुवो झिच् / भवन्तिर्वर्तमानकालः / बाहुलकादवेश्च / अवन्तिः / वदेवदन्तिः / किंवदन्ती जनश्रुतिः' / 331 / कन्युक्षिपेश्च / चाद्भुवः / ‘क्षिपण्युर्वसन्तः' इत्युज्ज्वलदत्तः / 'भुवन्युः स्वामिसूर्ययोः'। 332 / अनुङ् नदेश्च / चात्क्षिपे: / नदनुर्मेधः / क्षिपणुर्वातः / 333 / कृदारिभ्य उनन् / 'करुणो वृक्षभेदः स्यात्करुणा च कृपा मता' / वरुणः / दारुणम् / तदभावात् / बाहुलकात् श्यतेः कन् / 'शाको द्वीपान्तरेऽपि च / शकौ द्रुमविशेषे च पुमान् हारीतके स्त्रियाम्' इति मेदिनी / नौ हः॥ 'निहाका गोधिका समे' इत्यमरः / 'शाकं नस्यनिहाकयोः' इति श्रुतिः। 'निष्कमस्त्री साष्टहेमशते दीनारकर्षयोः / वक्षोऽलङ्करणे हेमपात्रे हेमपलेऽपि च' इति मेदिनी / स्यमः // ‘स्यमु शब्दे'। 'स्यमीका नीलिकायां स्त्री स्यमीको नाकुवृक्षयोः' इति मेदिनी / अजियु // एभ्यः कन् / एषान्दीर्घश्च / तत्सामर्थ्यात् गुणाभावः / शकः // 'शकुन्तिपक्षिशकुनिशकुन्तशकुनद्विजाः' इत्यमरः / 'शकुनस्तु पुमान् पक्षिमात्रे पक्षिविशेषयोः / शुभशंसिनिमित्ते च शकुनं स्यानपुंसकम्' इति भेदिनी / 'शकुन्तः कीटभेदे स्याद्भासपक्षिविहङ्गयोः' इति / शकुनिः पुंसि विहगे सोबले करणान्तरे' इति च / बाहुलकाकमेरपि प्रत्ययादिलोपे कुशब्दादेशः / कुन्तिः / 'इतो मनुष्यजातेः' इति ङीष् / 'कुन्ती पाण्डुप्रियायाञ्च सल्लक्याङ्गुग्गुलुगुमे' इति मेदिनी। कन्युच् // ‘क्षिपण्युस्तु पुमान् देहे सुरभौ वाच्यलिङ्गके' इति मेदिनी / 'भुवन्युः स्यात् पुमान् भानौ ज्वलने शशलाञ्छने' इति विश्वमेदिन्यौ / कृवृ // 'करुणस्तु रसे वृक्षे कृपायाङ्करुणा मता' इति विश्वमेदिन्यौ। 'वरुणस्तरुभेदेऽप्सु प्रतीचीपतिसूर्ययोः' इति विश्वः / 'दारुणो रसभेदे ना त्रिषु तु स्याद्भयावहे ' इति मेदिनी / For Private And Personal Use Only
Page #619
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयः पादः बालमनोरमा / 617 334 / त्रो रश्च लो वा / ' तरुणस्तलुनो युवा' / 335 / क्षुधिपिशिमिथिभ्यः कित् / क्षुधुनो म्लेच्छजातिः / पिशुन: / मिथुनम् / 336 / फलेगुंक्च / फल्गुनः पार्थः / प्रज्ञाद्यण् / फाल्गुनः / 337 / अशेर्लशश्च / लशुनम् / 338 / अर्जेर्णिलुक्च / अर्जुनः / 339 / तृणाख्यायां चित् / चित्त्वादन्तोदात्त: / अर्जुनं तृणम् / 340 / अर्तेश्च / अरुणः / 341 / अजियमिशीभ्यश्च / 'वयुनं देवमन्दिरम्' / यमुना। शयुनः अजगरः / 342 / वृतवदिहनिकमिकषिभ्यः सः। वर्स तर्सम् / 'तर्सः प्लवसमुद्रयोः' वत्सः / वत्सं वक्षः / हंस: / 'कंसोऽस्त्री पानभाजनम्' / कक्षम् अरण्यम् / त्रो रश्च // 'तरुणं कुब्जपुष्पे ना रुचके यूनि च त्रिषु' इति मेदिनी / 'तरुणी तलुनीति च' इति द्विरूपेषु विश्वः / क्षुधिपिशि || ‘पिशुनकुङ्कुमे स्मृतम् / कपिचक्रे च काके ना सूचकक्रूरयोस्त्रिषु / पृक्कायां पिशुना स्त्री स्यात्' इति मेदिनी / मिथुनं तु द्वयो राशिभेदे स्त्रीपुंसयुग्मके' इति च / फलेः // ‘फल्गुनस्तु गुडाकेशे नदीजार्जुनभूरुहे / तपस्यसंज्ञमासे तत्पूर्णिमायाञ्च फाल्गुनी' इति मेदिनी / अणिति // प्रज्ञादित्वात्पक्षेऽणित्यर्थः / ‘फल्गुनः फाल्गुनोऽर्जुने' इति द्विरूपकोशः / अशेर्लशश्च // 'अश भोजने'। अस्मादुनन् धातोलशादेशश्च / लशुनं महाकन्दः / 'उशना लशुनं वेश्म कश्मलं विश्वमश्ववत्' इति मध्यतालव्येषु विश्वः / लस् चेति पाठस्तु प्रामादिकः / अजेर्णिलुक् च // अत्र ‘णेरनिटि' इति लोपेन सिद्धे णिलुक् चेत्युक्तेः फलञ्चिन्त्यम् / 'अर्जुनः ककुभे पार्थे कार्तवीर्यमयूरयोः / मातुरेकसुतेऽपि स्याद्धवले पुनरन्यवत्। नपुंसकन्तृणं नेत्ररोगे चाप्यर्जुना गवि / उषायां बाहुदानद्याङ्कुटिन्यामपि च क्वचित्' इति विश्वमेदिन्यौ / अर्तेश्च // ‘अरुणोऽव्यक्तरागेऽर्के सन्ध्यारागेऽर्कसारथौ / निःशब्दे कपिले कुष्ठभेदे ना गुणिनि त्रिषु। अरुणाऽतिविषा श्यामा मजिष्ठा त्रिवृतासु च' इति मेदिनी / अजियमि // 'विश्वानि देव वयुनानि विद्वान्' इति मन्त्रे वयुनानि प्रजनानीति वेदभाष्यम् / वैदिकनिघण्टौ प्रज्ञापर्याये प्रशस्यपर्याये च वयुनशब्दः पठितः / वृतृ // वसन्तसमिति // 'तितुत्र' इति नेट। षत्वन्तु न भवति। बाहुलकेन षत्वे कर्तव्ये प्रत्ययसंज्ञाया अप्रवृत्तेः। कक्षशब्दे तु षत्वं भवत्येव / एतच्च सर्वम् ‘आदेशप्रत्यययोः' इति सूत्रे भाष्यकैयटपदमञ्जरीषु स्पष्टमेव। उणादिवृत्तिकृतस्तु सर्वेऽपीह मत्वमुदाजहः / तेषामयमाशयः / अस्तु भाष्यप्रामाण्याद्वसन्तसमिति दन्त्योऽपि साधुः / बाहुलकबललभ्यषत्वाभावस्य पाक्षिकत्वेऽपि बाधकाभावात् पक्षे षत्वमस्तु / वृषितृषि. भ्यावनि ण्यन्तादेरचि घअर्थे कप्रत्यये वा वर्षतर्षशब्दयोर्दुरित्वात् / अज्विधौ भियादीनामुपसङ्ख्यानं नपुंसके कादिनिवृत्त्यर्थम्' इत्यत्र वर्षमित्याकरे उदाहृतत्वाचेति / तस्मादिह द्विरूपता For Private And Personal Use Only
Page #620
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 618 सिद्धान्तकौमुदीसहिता [उणादिषु 343 / प्लुषेरच्चोपधायाः। प्लक्षः / 344 / मनेर्दीर्घश्च / मांसम् / 345 / अशेर्देवने / अक्षः / 346 / स्नुव्रश्चिकृत्यृषिभ्यः कित् / स्नुषा / वृक्षः। कृत्समुदकम् / ऋक्षं नक्षत्रम् / 347 / ऋषेर्जातौ / 'ऋक्षोऽद्रिभेदे भल्लूके शोणके कृतवेधने / ऋक्षमुक्तञ्च नक्षत्रे' इति विश्वः / 348 / उन्दिगुधिषिभ्यश्च / उत्स: प्रस्रवणम् / गुत्सः स्तबकः / कुक्षो जठरम् / 349 / गृधिपण्योर्दकौ च / गृत्सः कामदेवः / पक्षः / 350 / अशेः सरः / अक्षरम् / 351 / वसेश्च / वत्सरः / फलिता / 'वर्षोऽस्त्री भारतादौ स्याज्जम्बूद्वीपाब्दवृष्टिषु / प्रावृट्काले स्त्रियां भूम्नि' इति मेदिनी / 'तर्षो लिप्सोदन्ययोः' इति च / 'पुत्रादौ तर्णके वर्षे वत्सः क्लीबन्तु वक्षसि' इति त्रिकाण्डशेषः / 'हंसः स्यान्मानसौकसि / निर्लोभनृपविष्ण्वर्कपरमात्मसु मत्सरे / योगभेदे मन्त्रभेदे शरीरमरुदन्तरे। तुरङ्गमप्रभेदे च' इति मेदिनी। 'कंसोऽस्त्री तैजसे द्रव्ये कांस्ये मानेऽसुरे तु ना' इति च / 'कसो दैत्यान्तरे स्मृतः / कांस्ये च कांस्यपात्रे च मानभेदे च कीर्तितः' इति विश्वः / 'कक्षा स्यादन्तरीयस्य पश्चादञ्चलपल्लवे / स्पर्द्धायां ना तु दोर्मूलकच्छवीरत्तृणेषु च' इति मेदिनी। प्लुषेः // 'प्लक्षो जटी गर्दभाण्डद्विपभित्कुञ्जराशने' इति मेदिनी। 'प्लक्षो द्वीपविशेषे स्यात्पर्कटीगर्दभाण्डयोः। पिप्पले द्वारपार्श्वे च गृहस्य परिकीर्तितः' इति विश्वः / मनेर्दीर्घश्च // मांसं स्यादामिषे क्लीबं ककोलीजटयोः स्त्रियाम्' इति मेदिनी / अशेः॥ 'अथाक्षमिन्द्रिये / ना द्यूताङ्गे कर्षचके व्यवहारे कलिद्रुमे' इत्यमरः / 'अक्षो ज्ञानात्मशकटव्यवहारेषु पाशके / रुद्राक्षेन्द्राक्षयोः सर्प विभीत कतरावपि / चक्रे कर्षों पुमान् क्लीबन्तुत्थसौवर्चलेन्द्रिये' इति मेदिनी / स्नुवश्चि // 'ऋक्षः पर्वतभेदे स्याद्भल्लूके शोणके पुमान् / कृतवेधनेऽन्यलिङ्गं नक्षत्रे च नपुंसकम्' इति मेदिनी। ऋषेर्जातौ // नियमार्थमिदं सूत्रं ऋषे॥तावेवेति / तेनान्येभ्यः केवलयौगिकत्वेऽपि प्रत्ययः। उन्दिगुधि॥ 'गुत्सः स्यात्स्तबके स्तम्बे हारभिद्रन्थिपर्णयोः' इति मेदिनी / गुच्छश्च / 'गुत्सो गुच्छो गुलुच्छवत्' इति द्विरूपकोशात् / 'स्याद्गुच्छः स्तबके स्तम्बे हारभेदकलापयोः' इति च वर्गद्वितीयान्तमेदिनीकोशाच / गृधेश्चन सिद्धे भष्भावनिवृत्तये दकारविधिः / ‘पक्षो मासार्द्धके पार्श्व ग्रहे साध्यविरोधयोः / केशादेः परतो बृन्दे बले सखिसहाययोः / चुल्लीरन्ध्रे परत्रे च राजकुञ्जरपार्श्वयोः' इति विश्वमेदिन्यौ / अशेस्सरः // अक्षरमिति // ‘अक्षरं स्यादपवर्गे परमब्रह्मपर्णयोः' इति For Private And Personal Use Only
Page #621
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयः पादः] बालमनोरमा / 619 352 / सपूर्वाचित् / संवत्सरः। 353 / कृधूमदिभ्यः कित् / बाहुलकान्न षत्वम् / ‘कृसर: स्यात्तिलौदनम्' / धूसरः / मत्सरः / 'मत्सरा मक्षिका ज्ञेया भम्भराली च सा मता' / 354 / पते रश्च लः / पत्सलः पन्थाः / 355 / तन्वृषिभ्यां क्सरन् / तसर: सूत्रवेष्टनम् / ऋक्षरः / ऋत्विक् / 356 / पीयुक्कणिभ्यां कालन्हस्वः सम्पसारणञ्च / पीयुः सौत्रः / पियालो वृक्षभेदः / कुणालो देशभेदः / 357 / कठिकुषिभ्यां काकुः / कठाकुः पक्षी / कुषाकुरग्निः सूर्यश्च / 358 / सर्तेढुंक्च / 'सृदाकुर्वातसरितोः' / 359 / वृतेदृद्धिश्च / वार्ताकुः / बाहुलकादुकारस्य अत्त्वम् / वार्ताकम् / हेमचन्द्रः / उज्ज्वलदत्तादयस्तु अशेः सरनिति पेटुः / तन्न / नित्स्वरापत्तेः। इष्यते तु प्रत्ययस्वरेणाक्षरशब्दस्य मध्योदात्तत्वम् / 'ऋचो अक्षरे परमे व्योमन् / ' 'अक्षेरण निमति सप्तवाणी' इत्याय मन्त्रेषु 'त्रीणि च शतानि षष्टिश्चाक्षराणि' इति यजुषि च तथैव पाठात् / अत एव द्वितीयाह्निकान्ते / 'अश्नोतेवी सरोऽक्षरम्' इति भाष्यकृतोक्तम् / सपूर्वाच्चित् // पूर्वेण सहितः सपूर्वः / 'इद्वत्सराय परिवत्सराय संवत्सराय / सम्पूर्वादिति पाठस्तु लक्ष्यविरोधादुपेक्ष्यः / कृधू // कृसर इत्यादि हारावलीस्थम् / 'धूसरी किन्नरीभेदे नागरे त्रिषु पाण्डुरे' इति मेदिनी। . 'मत्सरा मक्षिकायां स्यान्मात्सर्यक्रोधयोः पुमान् / असह्यपरसम्पत्तौ कृपाणे चाभिधेयवत्' इति / मत्सरोऽन्यशुभद्वषे तद्वत्कृपणयोः स्त्रिषु' इति अमरः / 'असह्यपरसम्पत्ती मात्सर्ये कृपणे क्रुधि' इति विश्वः / वेदे तु योगं पुरस्कृत्य प्रयुज्यते / 'इन्दुमिन्द्राय मत्सरम् / तं सिन्धवो मत्सरमिन्द्रपानम्' इत्यादि / मत्सरं हर्षहेतुमिति तद्भाष्यम्। अमरोक्तिमाह। तसर इति // 'अनुदात्तो. पदेश' इत्यादिना अनुनासिकलोपः / ऋक्षरः, ऋत्विगिति // 'ऋक्षरन्तोयधारायामृक्षरस्त्वविजि स्मृतः' इति मेदिनी / 'अनृक्षरा ऋजवः सन्तु पन्थाः' इति मन्त्रस्य वेदभाष्ये तु ऋक्षरः कण्टक इति व्याख्यातम् / पीयुक्कणिभ्याम् // 'राजादनं प्रियालुः स्यात्' इत्यमरः / “प्रियालुः स्यात्प्रियालवत्' इति हि द्विरूपकोशः / बाहुलकाद्भजेरपि कालन् / नलोपः / न्यङ्कादित्वात्कुत्वम् / भगालं नरमस्त कम् / मत्वर्थे इनिः / 'चण्डीकान्तो भगाली च लेलिहानो वृषध्वजः' इति राजशेखरः। कठिकुषिभ्याम् // 'कठ कृच्छ्रजीवने, कुष निष्कर्षे / ' 'कठाकुः कपिवह्नयर्के ना परोत्तापिनि त्रिषु' इति मेदिनी / उज्ज्वलदत्तस्तु कटिकषिभ्यामिति पठित्वा 'कषशिष' इति दण्डकधातुमुपन्यस्य कषाकुरित्युदाजहार / तत्कोशविरुद्धम्। मेदिनीकोशे उकारप्रक्रमे पाठात् / सर्तेः // 'सृदाकुर्नानिले चक्रे ज्वलने प्रतिसूर्यके' इति मेदिनी। वृतेः // वार्ताकुरपि वार्ताके वृन्ताकोऽपि च दृश्यते' इति द्विरूपे विश्वः / 'वार्ताकी हिङ्गुली For Private And Personal Use Only
Page #622
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 620 सिद्धान्तकौमुदीसहिता [उणादिषु 360 / पर्देनित्सम्पसारणमल्लोपश्च / 'पृदाकुर्वृश्चिके व्याघ्र चित्रके च सरीसृपे'। 361 / मृयुवचिभ्योऽन्युजागूजक्नुचः। अन्युच् , आगूच्, अक्नुच् , एते क्रमात्स्युः / ‘सरण्युर्मेघवातयोः' / यवागूः / ‘वचक्नुर्विप्रवाग्मिनोः' / 362 / आनकः शीभियः / शयानकोऽजगरः / भयानकः / 363 / आणको लूधृशिविधाभ्यः / लवाणकं दात्रम् / धवाणको वातः / शिवाणकः श्लेष्मा / पृषोदरादित्वात्पक्षे कलोप: / ‘शिवाणं नासिकामले' / 'धाणको दीनारभागः' / 364 / उल्मुकदर्विहोमिनः / उष दाहे / षस्य ल: मुकप्रत्ययश्च / उल्मुकं ज्वलदङ्गारम् / दृणातेविः / दर्विः / 'जुहोतेमिनि:' / होमी / 365 / हियः कुनश्च लो वा / ह्रीकुः ह्रीकु: लज्जावान् / 366 / हसिमृग्रिण्यामिदमिलूपूधुर्विभ्यस्तन् / दशभ्यस्तन्स्यात् / 'तितुत्र-' (सू 3163) इति नेट् / हस्तः / मर्त: / गतः / एत: कर्बुरः / वातः / अन्तः / दन्तः / 'लोतः स्यादश्रुचिह्नयोः' / 'पोतो बालवहित्रयोः' / धूर्तः / बाहुलकात्तसेर्दीर्घश्च / तूस्तं पापं धूलिर्जटा च / / सिंही भण्टाकी दुष्प्रधर्षिणी' इत्यमरः / 'वार्ताक पित्तलङ्किञ्चिदङ्गारपरिपाचितम्' इति वैद्यकशास्त्रम् / पर्देः / पृदाकुरित्यादि // 'पृदाकुर्वृश्चिके व्याने सर्पचित्रकयोः पुमान्' इति मेदिनी / सृयु // 'सरण्युस्तु पुमान् वारिवाहे स्यान्मातरिश्वनि' इति मेदिनी / 'सरण्युरस्यसूनुरश्वः' इति मन्त्रस्य भाष्ये तु सरण्युः शीघ्रगामीति व्याख्यातम् / 'यवागूरुष्णिका श्राणा विलेपी तरला च सा' इत्यमरः / ‘वचक्नुस्तु पुमान् विप्रे वावदूकेऽभिधेयवत्' इति मेदिनी / ऋषिविशेषऽप्ययम् / यस्य कन्या वाचक्नवीति प्रसिद्धा / आनकः // 'भयानकः स्मृतो व्याघ्र रसे राही भयङ्करे' इति मेदिनी / शिवाणक इति // ‘शिघि आघ्राणे'। 'शिवाणाचपात्रे स्यात् लोहनासिकयोमले' इति विश्वः / 'शिवाणः फेनडिण्डीरो नरेतश्च पिच्छले' इति विक्रमादित्यकोशः / हारावलीस्थमाह / शिवाणमिति // उल्मुकमिति च // ‘दर्विः कम्बिः खजा काच' इत्यमरः / ह्रियः // कुक्प्रत्ययेऽयङ्ककारो गुणनिषेधार्थः / हसिम्॥ 'हस्तः करे करिकरे सप्रकोष्ठे करेऽपि च / ऋक्षे केशात्परो व्राते' इति मेदिनी / मों भूलोकः, तत्र भवो मर्त्यः / दिगादेराकृतिगणत्वाद्यत् / 'गतस्त्रिगर्तभेदे स्यादवटे च कुकुन्दरे / एतः कर्बुर आगते / अन्तः स्वरूपे नाशे वा न स्त्री शेषेऽन्तिके त्रिषु / दन्तोऽटकटके कुञ्ज दशने चौषधौ स्त्रियाम्' इति मेदिनी / 'लोतमश्रुणि चोरिते' इति विश्वः / 'तक्तवतू' इति सूत्रे लोतो मेष इति कैयटः / 'पोतः शिशौ वहिने च' इति विश्वमेदिन्यौ। For Private And Personal Use Only
Page #623
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयः पादः] बालमनोरमा / 621 367 / नञ्याप इट् च / नापितः / 368 / तनिमृङ्भ्यां किञ्च / ततम् / मृतम् / 369 / अञ्जिसिभ्यः क्तः / अक्तम् / घृतम् / सितम् / 370 / दुतनिभ्यां दीर्घश्च / दूत: / तातः / 371 / जेमूद चोदात्तः / जीमूतः / 372 / लोष्टपलितो। लुनाते: क्त: तस्य सुट् धातोर्गुणः / लोष्टम् / पलितम् / धूर्त इति // 'धुर्वी हिंसायाम्' / 'लोपो व्योः' इति वलोपः / विङतीत्यननुवृत्तिपक्षे तु 'रालोपः' इति लोपः / 'हलि च' इति दीर्घः / 'धूर्तन्तु खण्डलवणे धुत्तूरे ना शठे त्रिषु' इति मेदिनी / तनिमृङ्भ्याम् // 'ततं वीणादिकं वाद्यम्' इत्यमरः / 'अथ ततं व्याप्ते विस्तृते च त्रिलिङ्गकम् / क्लीबं वीणादिवाद्ये स्यात् पुल्लिङ्गस्तु समीरणे / मृतन्तु याचिते मृत्यौ क्लीबं मृत्युमति त्रिषु' इति मेदिनी / अअिधृ // अक्तं परिच्छिन्नम् / 'अक्तपरिमाणस्य वाचकः' इति भाष्यस्य कैयटेन तथा व्याख्यातत्वात् / अत्र 'व्यस्तं प्राप्ते च सङ्कुले' इति विश्वप्रकाशे लिपिभ्रमात् 'अक्तं व्याघ्रं च सङ्कुले' इत्युदाहरन्नुज्ज्वलदत्तो भ्रान्तत्वादुपेक्ष्यः / तथा च मेदिन्यां वकारादिप्रक्रमे 'व्यस्तन्तु व्याकुले व्याप्ते' इत्युक्तम् / 'घृतमाज्ये जले क्लोब प्रदीप्ते त्वभिधेयवत् / सितमवसिते च बद्धे धवले त्रिषु शर्करायां स्त्री' इति मेदिनी / 'ऋ गतौ' / बाहुलकात् क्तः / 'ऋतमुञ्छे शिले जले। सत्ये दीप्ते पूजिते स्यात्' इति मेदिनी / दुनिभ्याम् // दूतः प्रेष्यः। गौरादित्वात् ङीष् / दूती। अथ कथं, तेन दूतिविदितं निषेदुषा' इति रघुः / 'दूङ् परितापे' अस्मात् क्तिच् / 'दूत्यान्दूतिरपि स्मृता' इति द्विरूपकोशः / 'तातोऽनुकम्प्ये जनके' इति विश्वमेदिन्यौ। बाहुलकात् शीङोऽपि / शीता लागलपद्धतिः / रामपत्नी च / 'शीता नभःसरिति लागलपद्धतौ च शीता दशाननरिपोः सहधर्मिणी च / शीतं स्मृतं हिमगुणे च तदन्विते च शीतोऽलसे च बहुवारतरौ च दृष्टः' इति तालव्यादौ धरणिः / सीता दन्त्यादिरपि / 'सीता लागलपद्धतिः / वैदेहीस्वर्गगङ्गासु' इति दन्त्यादौ मेदिनीकोशात् / 'सीता लाङ्गलरेखा स्यात् व्योमगङ्गा च जानकी' इति दन्त्यादौ रभसकोशाच्च / अत्र त्यक्तं सूत्रम् / जेर्मूट चोदात्तः // 'जि जये' / अतः क्तः, तस्य मूडागमः, स चोदात्तः धातो. र्दीर्घश्च / 'जीमूतस्येव भवति' / 'जीमूतोऽद्रौ भूतिकरे देवताडे पयोधरे' इति मेदिनी / 'वेणी गरागरीदेवताळो जीमूत इत्यपि' इत्यमरः / 'जीमूतः स्यात् वृत्तिकरे शक्रेऽद्रौ घोषके घने' इति विश्वः / इदं सूत्रमनार्षमिति पुरुषोत्तमः / अत एव आकरे पृषोदरादिषु जीमूतशब्दः उदाहृतः / लोष्ट // 'लोष्टानि लोष्टवः पुंसि' इत्यमरः / अत्र पुंसी शुभयान्वयि / तेन पुनपुंसकलिङ्गोऽयम् / तथा च स्थानेऽन्तरतमसूत्रे भाष्यम् / लोष्टः क्षिप्तो बाहुवेगङ्गत्वा इत्यादि / अत एव 'लोष्टः पिण्डेऽपि लोष्टुः स्यात्' इति पुंस्काण्डे गोपालितः। 'पलितं For Private And Personal Use Only
Page #624
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 622 सिद्धान्तकौमुदीसहिता [उणादिषु 373 / हश्याभ्यामितन् / हरितश्येतौ वर्णभेदौ / 374 / रुहे रश्च लो वा / 'रोहितो मृगमत्स्ययोः' / लोहितं रक्तम् / 375 / पिशेः किच्च / पिशितं मांसम् / 376 / श्रुदक्षिस्पृहिगृहिभ्य आय्यः / श्रवाय्यो यज्ञपशुः / दक्षाय्यो गरुडो गृध्रश्च / स्पृहयाय्यः / गृहयाय्यो गृहस्वामी / 377 / दिधिषाय्यः। दधातेर्द्वित्वमित्वं षुक्च / ‘मित्र इव यो दिधिषाय्यः / 378 / तब एण्यः / वरेण्यः / 379 / स्तुवः क्सेय्यश्छन्दसि / 'स्तुषेय्यं पुरुवर्चसम्' / 380 / राजेरन्यः / राजन्यो वह्निः / 381 / रम्योश्च / शरण्यम् / रमण्यम् / 382 / अनिच्च / अरण्यम् / 383 / पर्जन्यः। ‘पृषु सेचने' षस्य ज: ‘पर्जन्यः शक्रमेघयोः' / 384 / वदेरान्यः / वदान्यस्त्यागिवाग्मिनोः' / शैलजे तापे केशपाशे च कर्दमे' इति मेदिनी। दृश्या // 'हरिता स्त्री च दूर्वायां हरिद्वर्णयुतेऽन्यवत्' इति मेदिनी। रुहेः॥ रोहितं कुङ्कुमे रक्ते ऋजुशकशरासने / पुंसि स्यान्मीनमृगयोभैदे रोहितकद्रुमे / रोहितं रक्तगोशीर्षकुङ्कुमाजिकुचन्दने / पुमान्नदान्तरे भौमे वर्णे च त्रिषु तद्वति' इति मेदिनी / पिशेः // 'पिशितं मांसं मांस्यां स्त्री' इति मेदिनी। मांस्याजटामांस्याम् / तथा च 'जटा च पिशिता पेशी' इति धन्वन्तरिः / श्रुदक्षि // 'उद्यतस्रुचे भवसि श्रवाय्यः' इति मन्त्रे श्रवाय्यो मन्त्रैः श्रवणीयः इति वेदभाष्यम् / 'दक्षाय्यो यो दम आस नित्यः / ' 'विश्वरूपस्य स्पृहयाय्यस्य राजन् / ' दिधिषाय्य इति // 'मित्र इव यो दिधिषाय्यः' इत्यादिष्वपि यौगिकार्थ एव भाष्ये पुरस्कृतः / उज्ज्वलदत्तस्तु दधिषाय्य इति सूत्रं पठित्वा दधिपूर्वात्स्यतेराय्यः षत्वञ्च, दधिषाय्यो घृतमिति व्याख्यत् / दशपादी. वृत्तिकारस्तु धिषशब्दे अस्य द्वित्वं गुणाभावः अत्वञ्चाभ्यासस्य निपात्यते इत्याह / प्रसादकारादयोऽप्येवमेव प्रतिपन्नाः / तदेतत्सर्वं लक्ष्यविरोधाद्वेदभाष्यविरोधाच्चोपेक्ष्यम् / स्तुवः॥ स्तुषेय्यं स्तोतव्यम् / बहुरूपमिति वेदभाष्यम् / यत्तूज्ज्वलदत्तेन 'स्तुवः केय्यः' इति पठित्वा कित्त्वाद्गुणाभावे उवङादेशे स्तुवेय्यः पुरन्दरः इत्युक्तम् / तन्न / वेदतद्भाष्यादिविरोधात् / तस्मादिह क्सेय्यप्रत्ययं पठन् दशपादीवृत्तिकदेव ज्यायान् / पर्जन्यः॥ ‘पर्जन्यो मेघशब्देऽपि ध्वनदम्बुदशक्रयोः' इति मेदिनी / वदेः // अजयकोशस्थमाह / वदान्य इत्यादि // For Private And Personal Use Only
Page #625
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयः पादः] बालमनोरमा / 623 623 385 / अमिनक्षियजिवधिपतिभ्योऽनन् / अमत्रं भाजनम् / नक्षत्रम् / यजत्रः / वधत्रमायुधम् / पतत्रं तनूरुहम् / 386 / गडेरादेश्च कः / कडत्रम् / डलयोरेकत्वस्मरणात्कलत्रम् / 387 / वृश्चित् / वरत्रा चर्ममयी रज्जुः / 388 / सुविदेः कत्रः / 'सुविदवं कुटुम्बकम्' / 389 / कृतेर्नुम्च / कृन्तत्रं लाङ्गलम् / 390 / भृमृदृशियजिपर्विपच्यमितमिनमिहर्येभ्योऽतच् / दशभ्योऽतस्यात् / भरतः / मरतो मृत्युः / ‘दर्शत: सोमसूर्ययोः' / यजतः ऋत्विक् / पर्वतः। पचतोऽग्निः। अमतो रोगः / तमतस्तृष्णापरः। नमतः प्रह्वः / हर्यतोऽश्वः / 391 / पृषिरञ्जिभ्यां कित् / पृषतो मृगो बिन्दुश्च / रजतम् / 392 / खलतिः। स्खलते: सलोपः / अतच्प्रत्ययान्तस्येत्वञ्च / खलतिनिष्केशशिराः। अमि // 'नक्ष गतौ' / वधिः प्रकृत्यन्तरम् / नक्षत्रमिति // 'नभ्राण्नपात्' इति सूत्रे नञः प्रकृतिभाव उक्तः। क्षदेः सौत्रे त्रनि नसमासे व्युत्पत्त्यन्तरं तदिति बोध्यम् / यजत्रं अग्निहोत्रमिति प्राञ्चः। वस्तुतस्तु यजत्रो यष्टव्यदेवता / 'सन्तो वायुर्वातेन गच्छतां संयजत्रैरङ्गानि' इति मन्त्र तथा दर्शनात् / गडेः // 'गड सेचने' 'कळत्रं श्रोणिभार्ययोः' इत्यमरः / वृञ // चित्त्वादन्तोदात्तः / 'वरत्रायान्दा नह्यमानः।' सुविदेः कत्रः॥ इह प्रायेण कत्रनिति नितं पठन्ति। तत्प्रामादिकम् / 'बृहस्पतेः सुविदत्राणि राद्ध्येत्यादौ नित्स्वरादर्शनात् / कृदुत्तरपदप्रकृतिस्वरेण प्रत्ययस्वरस्यैव दर्शनाच्च / 'धन्वचयत्कृन्तत्रञ्च' इति मन्त्रेऽपि तथैव / 'कृन्तत्रर्तनीयमरण्यम्' इति वेदभाष्यम् / भृमृशियजिपर्विपच्य // 'भृञ् भरणे' 'मृङ् प्राणत्यागे' 'दृशिर् प्रेक्षणे' / दशपाद्यान्तु 'भृदृशीङ्' इति पठित्वा 'दृङ् आदरे' / द्रियते दरतः शेते शयतः इत्युदाहृतम् / तन्न / रुशम्तमग्निन्दर्शतं बृहन्तम् / तरणिर्विश्वदर्शतः। दैव्यो दशतो रथः इत्यादिमन्त्रैस्तद्भाष्येण च विरोधात् / 'भरतो नाट्यशास्त्रे मुनौ नटे। रामानुजे च दौष्यन्तौ' इति मेदिनी / यजतः ऋत्विगिति // उज्ज्वलदत्ताद्यनुरोधेनोक्तम् / 'विनों अश्विना यजत / हिरण्यशम्यं यजतो बृहन्तम्' इत्यादिषु यजतशब्दो यष्टव्यपरतयैव वेदभाष्ये व्याख्यातः। 'पर्वतः पादपे पुंसि शाकमत्स्यप्रभेदयोः। देवमुन्यन्तरे शैले' इति मेदिनी। हर्यतोऽश्व इति // एतदपि 'हर्य कान्तौ गतौ च' इति धात्वर्थ वृत्तिकारोक्तिच्चानुसृत्योक्तम् / 'परित्यं हर्यतं हरिम् / आर्यताय धृष्णवे' इत्यादिमन्त्रेषु हर्यतः सर्वैः स्पृहणीय इति वेदभाष्यम् / पृषिरञ्जि॥ 'पृषन्मृगे पुमान् बिन्दौ न द्वयोः पृषतोऽपि ना'। अनयोश्च त्रिषु श्वेतबिन्दुयुक्तेऽप्युभाविमौ / For Private And Personal Use Only
Page #626
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 624 सिद्धान्तकौमुदीसहिता [उणादिषु 393 / शीशपिरुगमिवश्चिजीविप्राणिभ्योऽथः / सप्तभ्योऽथ: स्यात् / शयथोऽजगर: / शपथः / रवथः कोकिलः / गमथः पथिकः पन्थाश्च / वञ्चथो धूर्तः / वन्दीति पाठे कर्मणि कर्तरि वा प्रत्ययः वन्द्यते वन्दते वा वन्दथः स्तोता स्तुत्यश्च / जीवथः आयुष्मान् / प्राणथो बलवान् / बाहुलकाच्छमिदमिभ्याम् / ‘शमथस्तु शमः शान्तिर्दान्तिस्तु दमथो दमः' / 394 / भृअश्चित् / भरथो लोकपाल: / 395 / रुदिविदिभ्यां ङित् / रोदितीति रुदथः शिशुः। वेत्तीति विदथः / 396 / उपसर्गे वसेः / आवसथो गृहम् / संवसथो ग्रामः / 397 / अत्यविचमितमिनमिरभिलभिनभितपिपतिपनिपणिमहिभ्योऽसच् / त्रयोदशभ्योऽसच्स्यात् / अततीत्यतसो वायुरात्मा च / अवतीत्यवसो राजा भानुश्च / चमन्त्यस्मिंश्चमस: सोमपानपात्रम् / ताम्यत्यस्मिन्निति तमसोऽन्धकारः / नमसोऽनुकूलः / 'रभसो वेगहर्षयोः' / लभसो धनं याचकश्च / नभते नभ्यति वा नभस आकाशः / तपस: पक्षी चन्द्रश्च / पतस: पक्षी। 'पनसः कण्टकिफल:' / पणस: पण्यद्रव्यम् / महसं ज्ञानम् / 398 / वेबस्तुट् च / बाहुलकादात्वाभावः / वेतसः / रजतन्त्रिषु शुक्ले स्यात् क्लीबं हारे च दुर्बणे' इति मेदिनी। शीशपि // उज्ज्वलदत्तेनात्र पञ्चमो वञ्चिः पठ्यते / अन्यैस्तु वन्दिः / वञ्चथवन्दथयोरन्यतरं वेदादुपलभ्य बहुश्रुतैः पाठो निर्णेयः / बाहुलकादिति // ‘शमथः शान्तिमन्त्रिणोः' इति मेदिनी। 'दमथस्तु पुमान् दण्डे दमे च परिकीर्तितः' इति च / रुदिविदि // 'विदथो योगिकृतिनोः' इति मेदिनी / अनोज्ज्वलदत्तः ‘रुविदिभ्याङ्कित्' इति पठित्वा रौतीति रुवथः श्वेत्युदाजहार / दशपादीवृत्तिकारस्तु ‘रुदिविदिभ्याङ्कित्' इति पपाठ। किं चोपसर्गे वसेरित्येवंरूपमुत्तरसूत्रन्द्रावपि न पेठतुः / तथा हि / शीशपीति सूत्रानन्तरं सोपसर्गाद्वसेः भृनश्चित् रुदिविदिभ्याङ्कित् / इत्युज्ज्वलदत्तस्य सूत्रपाठः / अन्यस्य तु शीशपीति सूत्रानन्तरम् आङिबसेः, भृश्चित् , रुदिविदिभ्याङ्कित्, इति सूत्रपाठः / तदेतत्पाठद्वयं भाष्यादिविरोधादुपेक्षितम् / तथा हि। गाङ्कुटादिसूत्रे के पुनश्चङादयः चङ् अङ् नजिअवङ्नङः इति भाष्यम् / 'रुदिविदिभ्याङ्कित्' इत्यनुवर्तमाने उपसर्गे वसेरित्यथप्रत्यय इति कैयटेन व्याख्यातम् / एवञ्च कुर्वतां भाष्यादिविरोधः स्पष्ट एवेत्यास्तान्तावत् / भाष्यकैयटमतेऽपि ङिदित्यस्यानुवृत्तेः फलञ्चिन्यम् / अत्यविच. मि // गौरादित्वात् ङीष् / 'अतसी स्यादुमा क्षुमा' इत्यमरः / 'चमसो यज्ञपात्रस्य भेदेऽस्त्री पिष्टके स्त्रियाम् / पनसः कण्टकिफले कन्दके वानरान्तरे / स्त्रियां रोगप्रभेदे स्यात्' इति For Private And Personal Use Only
Page #627
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयः पादः] बालमनोरमा / 625 399 / वहियुभ्यां णित् / वाहसोऽजगरः / यावसस्तृणसङ्घातः / 400 / वयश्च / वय गतौ / वायस: काकः / 401 / दिवः कित् / दिवसम्-दिवसः / 402 / कृशृशलिकलिगर्दिभ्योऽभच / करभः / शरभः / शलभः / कलभः / गर्दभः / 403 / ऋषिदृषिभ्यां कित् / ऋषभः / वृषभः / * 404 / रुषेनिल्लुष्च / 'रुष हिंसायाम्' / अस्मादभच् नित्किस्यात् , लुषादेशश्च / 'लुषभो मत्तदन्तिनि' / 405 / रासिवल्लिभ्याश्च / रासभः / वल्लभः / 406 / जविशिभ्यां झन् / जरन्तो महिषः / वेशन्त: पल्वलम् / 407 / रुहिनन्दिजीविप्राणिभ्यः षिदाशिषि / रोहन्तो वृक्षभेदः / नन्दन्तः पुत्रः / जीवन्त औषधम् / प्राणन्तो वायुः / पित्त्वान्ङीष् / रोहन्ती / 408 / तृभूवहिवसिभासिसाधिगडिमण्डिजिनन्दिभ्यश्च / दशभ्यो झच्स्यात् / स च पित् / तरन्त: समुद्रः / तरन्ती नौका / भवन्तः कालः / वहन्तो वायुः / वसन्त: ऋतुः / भासन्तः सूर्यः / साधन्तो भिक्षुः / गडेर्घटादित्वान्मित्त्वं ह्रस्व: / 'अयामन्त-' (सू 2311) इति णेरयः / गण्डयन्तो जलदः / मण्डयन्तो भूषणम् / जयन्तः शक्रपुत्रः / नन्दयन्तो नन्दकः / 409 / हन्तेर्मुद हि च / हेमन्तः / मेदिनी। 'वेअस्तुट् च' इति पठित्वा 'वी गत्यादिषु' इति धातुरुदाहृतः / वहियुभ्याम् // 'अजगरे शपूर्वाहस इत्युभौ' इत्यमरः / ‘वा तु क्लीबे दिवसवासरौ' इति च / कृश // 'करभो मणिबन्धादिकनिष्ठान्तोष्ट्रतत्सुते' / 'शरभस्तु पशौ' इति मेदिनी / 'समौ पतङ्गशलमौ' इत्यमरः / 'कलभः करिशाबकः' इति च / 'गर्दभं श्वेतकुमुदे गर्दभो गन्ध भिद्यपि / रासभे गर्दभी क्षुद्रजन्तुरोगप्रभेदयोः' इति मेदिनी। ऋषिवृषिभ्यां कित् // ऋषभस्त्वौषधान्तरे / स्वरभिदृषयोः कर्णरन्ध्रगर्दभपुच्छयोः। उत्तरस्थः स्मृतः श्रेष्ठ स्त्री नराकारयोषिति / शूकशिम्ब्यां शिरालायां विधवायां क्वचिन्मता // ' इति मेदिनी। 'वृषभः श्रेष्टवषयोः' इति च। रासिवल्लिभ्याञ्च // ‘रास शब्दे' 'वल्ल संवरणे' / 'वल्लभो दयितेऽध्यक्ष सलक्षणतुरङ्गमे' इति च मेदिनी। विशिभ्यां झच् // बाहुलकादर्हतेरपि झच् / 'अर्हन्तः क्षपणको जिनः' इति विक्रमादित्यकोशः / तृभू // इह नन्दिर्ण्यन्तः / तदाह / नन्दयन्त इति // उज्ज्वलदत्तस्तु नन्दन्त इत्युदाहृत्य पूर्वसूत्रेण गतार्थतामाशङ्कय अनाशीरथ नन्दिग्रहणमित्याह / तन्न / 79 For Private And Personal Use Only
Page #628
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 626 सिद्धान्तकौमुदीसहिता [उणादिषु 410 / भन्देनलोपश्च / भदन्तः प्रवजितः / 411 / ऋच्छेररः / ऋच्छरा वेश्या / बाहुलकाजर्जरझर्झरादयः / 412 / अर्तिकमिभ्रमिचमिदेविवासिभ्यश्चित् / षड्भ्योऽरश्चित्स्यात् / अररं कपाटम् / कमरः कामुकः / भ्रमरः / चमरः / देवरः / वासरः / 413 / कुवः क्ररन् / कुररः पक्षिभेदः / 414 / अङ्गिमदिमन्दिभ्य आरन् / अङ्गारः / मदारो वराहः / 'मन्दारः पारिजातकः'। 415 / गडेः कड च / कडारः / 416 / शृङ्गारभृङ्गारौ / शुभृभ्यामारन्नुम्गुग्घ्रस्वश्च / शृङ्गारो रसः / 'भृङ्गारःकनकालुका'। 417 / कञ्जिमृजिभ्यां चित् / कञ्जिः सौत्रः / कारो मयूरः / मार्जारः / 418 / कमेः किदुच्चोपधायाः / चिदित्यनुवृत्तेरन्तोदात्तः / कुमारः / 419 / तुषारादयश्च / तुषारः / कासारः / सहार आम्रभेदः / इहाप्याशिषीत्यस्य स्वयमेवानुवर्तितत्वात् / बाहुलकादिति // 'जर्जरं शैवले शक्रध्वजे त्रिषु जरत्तरे / झर्झरः स्यात् कलियुगे वाद्यभेद नदान्तरे' इति मेदिनी / अर्तिकमि // 'अररं छदकपाटयोः / भ्रमरः कामुके भृङ्गे चमरञ्चामरे स्त्री तु मञ्जरीमृगभेदयोः' इति च मेदिनी / वासर इति // वर्ण्यन्तादरः / कचिन्तु सूत्रे वाशिभ्य इति तालव्यं पठित्वा 'वाच शब्दे' वाश्यते वाशरः, कोकिल इत्याहुः / अङ्गिमदि // 'अङ्गार उल्मुके न स्त्री पुल्लिमस्तु महीसुते' इति मेदिनी / 'मन्दारः स्यात् सुरद्रुमे / पारिभद्रऽर्कपणे च मन्दारो हस्तिधूतयो.' इति च / 'मदि स्तु यादौ' इत्यस्मात् बाहुलकादाहरपि / पारिभद्रे तु मन्दारुमन्दारः पारिजातकः' इति शब्दार्णवः / गडेः // ‘कडारः कपिले दास' इति मेदिनी / शृङ्गारभृङ्गारौ // शृङ्गारः सुरते नाट्य रस च गजमण्उन / नपुंसकं लयोऽपि नागसम्भवचूर्णयोः' इति मेदिनी / 'भृङ्गारी झिल्लिकायां स्यात् कनकालौ पुनः पुमान्' इति च / कञ्जिमाजभ्यां // 'कजारो जठरे सूर्ये विरचौ चारण मुनौ' इति विश्वमेदिन्यौ / 'मार्जार आतो खट्टा' इति च / कमेः // 'कुमारः स्याच्छुके स्कन्दे युवराजेऽश्ववारके / बालक वरुण, ना न द्वयोर्जात्यकाञ्चने / कुमारी शैलतनयावनकाल्योर्नदीभिदि / सहापराजिता कन्याजम्बूद्वीपेषु च स्त्रियाम्' इति मेदिनी / विश्वप्रकाशे तु 'कुमारी रामतरणी' इति पाठः / रामतरणी लताविशेष. सहति प्रसिद्धः / 'तरणी रामतरणी कणिका चारुकेसरा / सहा कुमारी गन्धाढ्या' इति धन्वन्तरिनिघण्टुः / ‘जम्बूद्वीपसहाकन्याकुमार्योऽयाश्ववारके / बालके कार्तिकये च कुमारी भर्तृदारके' इति त्रिकाण्डशेषः / 'तुषारस्तुहिनं हिमम् / कासारः For Private And Personal Use Only
Page #629
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयः पादः] बालमनोरमा / 627 420 / दीडो नुद् च / दीनार: सुवर्णाभरणम् / 421 / सर्तेरपः षुक्च / सर्षपः / 422 / उषिकुटिदलिकचिखजिभ्यः कपन् / 'उषपो वह्निसूर्ययोः' / कुटपो मानभाण्डम् / दलप: प्रहरणम् / कचपं शाकपत्रम् / खजपं घृतम् / 423 / कणेः सम्प्रसारणञ्च / कुणपम् / 424 / कपश्चाक्रवणस्य / स्वरे भेदः / 425 / विटपपिष्टपविशिपोलपाः / चत्वारोऽमी कपन्प्रत्ययान्ताः / 'विट शब्दे'। 'विटप:' / विशतेरादेः प: / प्रत्ययस्य तुट / षत्वम् / पिष्टपं भुवनम् / विशते: प्रत्यय देरित्वम् / विशिपं मन्दिरम् / वलते: सम्प्रसारणम् / 'उलपं कोमलं सृणम्'। 426 / वृतेस्तिकन् / वर्तिका / 427 / कृतिभिदिलतिभ्यः कित् / कृत्तिका / भित्तिका भित्तिः / लत्तिका गोधा। 428 / इष्यशिभ्यां तकन् / इष्टका / अष्टका / 429 / इणस्तशन्तशसुनौ / एतशो ब्राह्मणः / स एव एतशा: / 430 / वीपतिभ्यां तनन् / 'वी गत्यादौ' / वेतनम् / पत्तनम् / 431 / दृदलिभ्यां भः। दर्भः / 'दल्भः स्यादृषिचक्रयोः' / 432 / अतिगृभ्यां भन् / अर्भः / गर्भः / 433 / इणः कित् / इभः / 434 / असिसञ्जिभ्यां क्थिन् / अस्थि / सक्थि / 435 / प्लुषिकुषिशुषिभ्यः क्सिः / प्लुभिर्वह्निः / कुक्षिः / शुक्षितिः / सरसी सरः / ' क्कणेः // 'कुणपः पूतिगन्धे शवेऽपि च' इति मेदिनी / विटपपिष्टप // 'विटपो न स्त्रियां स्तम्बशाखाविस्तारपल्लवे / पीठाधिपे च' इति मेदिनी / आदेः प इति // एतच्चोज्ज्वलदत्तरीयोक्तम् / अन्ये तु सूत्र ‘विष्टप' इति दन्त्योष्ठ्यादिमेव पठन्ति / युक्तञ्चैतत् / 'यत्र बनस्य विष्टपम्' इत्यादौ तथा दर्शनात् / 'उलपो न स्त्री गुल्मिन्यां ना तृणान्तरे' इति मेदिनी / लत्तिकेति // लतिः सौत्रः। इष्टकेति // 'इष्टकेषीकामालानाम्' इति निर्देशात् 'प्रत्ययस्थात्' इति नत्त्वम् / अतिगृ // 'गर्भो भ्रूणेऽर्भके कुक्षौ सन्धौ पनसकण्टके' इति मेदिनी / इणः // 'इभः स्वम्बेरमः पद्मी' इत्यमरः / For Private And Personal Use Only
Page #630
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 628 सिद्धान्तकौमुदीसहिता [उणादिषु 436 / अशेर्नित् / अक्षि / 437 / इषेः क्सुः / इक्षुः / 438 / अवितृस्तृतन्त्रिभ्य ईः / 'अवीर्नारी रजस्वला' / तरीनौः / स्तरीधूमः / ‘तन्त्रीर्वीणादेर्गुणः / 439 / यापोः किद्दे च / ययीरश्वः / 'पपी: स्यात्सोमसूर्ययोः' / 440 / लक्षेमुट् च / लक्ष्मीः / // इत्युणादिषु तृतीयः पादः // // अथ उणादिषु चतुर्थः पादः // 441 / वातप्रमीः। वातशब्द उपपदे माधातोरीप्रत्ययः / स च कित् / वातप्रमी: / अयं स्त्रीपुंसयोः / 442 / ऋतन्यञ्जिवन्यज्यर्पिमद्यत्यङ्गिकुयुकृशिभ्यः कनिज्यतुजलिजिष्ठुजिष्ठजिसन्स्यनिथिनुल्यसासानुकः। द्वादशभ्यः क्रमात्स्युः। अर्तेः कत्निच्। यण् / ‘बद्धमुष्टिः करो रनिः सोऽरत्निः प्रमृताङ्गुलिः' / तनोतेर्यतुच् / तन्यतुर्वायू रात्रिश्च / अओरलिच् / अञ्जलि: / वनेरिष्ठुच् / वनिष्ठुः स्थविरान्त्रम् / लक्षेमुट् च // लक्ष दर्शनाङ्कनयोः।' चुरादिण्यन्तः। अस्मादीप्रत्ययः स्यात् / तस्य मुडागमश्च / णिलोपः / 'लक्ष्मीः सम्पत्तिशोभयोः / ऋध्यौषधौ च पद्मायां वृद्धिनामौषधेऽपि च / फलिन्यां स्त्री' इति मेदिनी // इत्युणादिषु तृतीयः पादः। अयमिति // 'द्विचतुःषट्पदोरगाः' इत्यमरेणोभयलिङ्गोक्तेः, सुभूतिचन्द्रादिभिरपि वातप्रमीशब्दस्य द्विलिङ्गतोक्तश्चेति भावः / तत्र 'कृदिकारात्' इति पाक्षिको ङीष् कैश्चिदिष्यते / न हि 'कारग्रहणे केवलप्रहणम्' इति मुनित्रयेण परिभाषितम् / अत एव 'वातप्रमीश्रीलक्ष्मीति पक्ष ङयन्ताः सुसाधवः' इति रक्षितः / एतच्च दुर्घटप्रन्थे स्पष्टम् / 'आशीराश्यहिदंष्ट्रायां लक्ष्मीलक्ष्मी हरिस्त्रियाम्' इति द्विरूपकोशः / अत एव ‘आशीविषो विषधरः' इति सङ्गच्छते / ‘आशीमिव कलामिन्दोः' इति राजशेखरः / ‘आशीर्हिताशंसाहिदंष्टयोः' इति सान्ते अमरात् सान्तोऽप्याशीःशब्द इत्यन्यदतत् / बद्धति // 'मुष्ट्या तु बद्धया / सरनिः स्यात्' इत्यमरः / सहस्त इत्यर्थः / प्रसङ्गादाह / अरनिरिति // न रनिः अरनिः इति नञ्समासः / दशपादीवृत्तौ तु इह सूत्रे अर्तेरनिचमकितं विधाय अरनिः साधितः / उज्ज्वलदत्तानुसारेणाह / वायू रात्रिश्चति // इह शब्दो मेघः, अशनिश्चेत्यपि बोध्यम् / 'आविष्कृणोमि तन्यतुर्न वृष्टिम्' इति मन्त्रे तन्यतुर्गजितमिति, 'सृजावृष्टिं न तन्यतुः' इति मन्त्रे तन्यतुर्मेघ इति, 'दिधश्चित्रं न तन्यतुः' इति मन्त्रे तन्यतुरशनिरिति वेदभाष्ये For Private And Personal Use Only
Page #631
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः पादः] बालमनोरमा / 629 अजेरिष्ठच् / अजिष्ठो भानुः / अर्पयतेरिसन् / अर्पिसोऽयमांसम् / मदेः स्यन् , मत्स्यः / अतेरिथिन् , अतिथिः / अङ्गेरुलि:, अङ्गुलिः / कौतेरसः, कवस: / अच इत्येके / कवचम् / यौतेरासः, यवासो दुरालभा। कृशेरानुक् , कृशानुः / 443 / श्रः करन् / उत्तरसूत्रे किद्हणादिह ककारस्य नेत्त्वम् / शर्करा। 444 / पुषः कित् / पुष्करम् / 445 / कलंश्च / पुष्कलम् / 446 / गमेरिनिः। गमिष्यतीति गमी / 447 / आङि णित् / आगामी / 448 / भुवश्च / भावी / 449 / प्रेः स्थः / प्रस्थायी / 450 / परमे कित् / परमेष्ठी / 451 / मन्थः। मन्थतेरिनि: कित्स्यात् / कित्त्वान्नकारलोपः / मन्थाःमन्थानौ-मन्थानः / 452 / पतस्थ च / पन्था:-पन्थानौ / व्याख्यातत्वात् / 'अञ्जलिस्तु पुमान् हस्तसम्पुटे कुटवेऽपि च' इति मेदिनी / स्थविरान्त्रमिति // ‘वनिष्ठोर्हदयादधि' इति मन्त्रस्य भाष्ये तथोक्तत्वात् / अञ्जिष्ठ इति // केचिदओरिष्णुचमिच्छन्ति / तेषामञ्जिष्णुरित्युदाहरणम् / मदेरिति // 'मत्स्यो मीनेऽथ पुंभूम्नि देशे' इति मेदिनी / 'अतिथिः कुशपुः स्यात् पुमानागन्तुके त्रिषु / अङ्गुलिः करशाखायां कर्णिकायाङ्गजस्य च' इति मेदिनी / कवसः सन्नाहः कङ्कटजातिश्च / अच इति // 'कवचो दुर्गभाण्डे च सन्नाहे पर्पटेऽपि च' इति मेदिनी / पुषः // पुष्यतेः करः स्यात् / स च कित् / 'पुष्करं खऽम्बुपद्मयोः / तूर्यवके खड्गफले हस्तिहस्ताग्रकाण्डयोः / कुष्ठौषधे द्वीपतीर्थभेदयोश्च नपुंसकम् / ना रागनागविहगनृपभेदेषु वारुणौ' इति मेदिनी / कलंश्च // पुष्यतेः कलन् कित्स्यात् / पुष्कलस्तु पूर्णे श्रेष्ठे' इति हेमचन्द्रः / मन्था इति // पथिमथील्यात्त्वम् / इतोऽत्सर्वनामस्थाने / 'मन्था मन्थनदण्डे च बजे वातेऽपि च स्मृतः।' पन्था इति // पथे गतौ अस्मात्पचाद्यचि अकारान्तोऽप्यस्ति / 'वाटः पथश्च मार्गश्च' इति सुभूतिचन्द्रपुरुषोत्तमौ / 'त्वचि त्वचः किरोऽपि स्यात् किरो प्रोक्तः पथः पथि' इति द्विरूपेषु विश्वः / इह ऋभवो देवाः क्षयन्त्यस्मिन्निति विग्रहे 'अन्येभ्योऽपि दृश्यते' इति डः / 'ऋभुक्षः स्वर्गवज्रयोः' इति विश्वः / ततो मत्वर्थीये इनिः / ऋभुक्षिनिति नान्तं प्रातिपदिकम् / आत्त्वमत्वं च / ऋभुक्षा इन्द्रः / ऋभुक्षाणौ ऋभुक्षाणः इत्युज्ज्वलदत्तः / दशपाद्यान्तु 'अर्ते क्षिक्षिनक्' इति सूत्रमुपन्यस्तम् / 'ऋभुक्षणमिन्द्रमाहुव ऊतये' इति मन्त्रस्य वेदभाष्येऽपि तत्सूत्रमुदाहृतम् / -- --.... HEREFERENCE For Private And Personal Use Only
Page #632
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदीसहिता [उणादिषु 453 / खजेराकः / खजाक: पक्षी / 454 / बलाकादयश्च / बलाका / शलाका / पताका / 455 / पिनाकादयश्च / पातेरित्त्वं नुम् च / 'क्लीबपुंसोः पिनाक: स्याच्छूलशङ्करधन्वनोः' / 'तड आघाते' / तडाकः / 456 / कषिदृषिभ्यामीकन् / कषीका पक्षिजातिः / 'दूषीका नेत्रयोमलम्'। 457 / अनिदृषिभ्यां किच्च / अनीकम् / हृषीकम् / 458 / चङ्कणः कङ्कणश्च / * कण शब्दे' अस्माद्यङलुगन्तादीकन धातोः कङ्कणादेशश्च / 'घण्टिकायां कङ्कणीका सैव प्रतिसरापि च / 459 / शृपृवृक्षां दे रुक्चाभ्यासस्य / शर्शरीको हिंस्रः / पर्परीको दिवाकरः / वर्वरीकः कुटिलकेशः / 460 / पर्फरीकादयश्च / 'स्फुर स्फुरणे' / अस्मादीकन् धातो: पर्फरादेश: / पर्फरीकं किसलयम् / दर्दरीकं वादित्रम् / झर्झरीकं शरीरम् / अत्रायं विवेकः / आद्यमन्त्रेऽन्तोदात्तत्वं न्याय्यम् / अवग्रहाभावो बाहुलकात् / द्वितीये तु अवग्रहाभावो न्याय्यः / अन्तोदात्तस्तु बाहुलकादिति / खजाक इति // 'खज मन्थे' बलाकादयश्च // 'बलाका बकपतिः स्यात् बलाका बिसकण्ठिका / बलाका कामुकी प्रोक्ता बलाकश्च बको मतः' इति विश्वशाश्वतौ / 'शलाका शल्यमदनशारिकासलकीषु च' इति मेदिनी। 'पताका वैजयन्त्याञ्च सौभाग्ये नाटकाङ्कयोः' इति च / 'पताका वैजयन्त्याञ्च सौभाग्येऽङ्के ध्वजेऽपि च' इति विश्वः / पिनाकादयश्च // ‘पिनाकोऽस्त्री रुद्रचाप पांसुर्षत्रिशूलयोः' इति मेदिनी / अमरोक्तिमाह / क्लीबेति // किञ्च ‘पिष्ल सञ्चूर्णने' / षकारस्य णत्वं धातोर्यगागमः। 'पिण्याकोऽस्त्री तिलकल्के हिङ्गबाहीकसिल्के' इति मंदिनी / अमराक्तिमाह। दूषीकेति // किञ्च दूषयतेः 'अच इः' इति इप्रत्यये दूषिः / 'कृदिकारात्' इति ङीष् / दूधी / उभाभ्यामपि खार्थे कनि दूषिका ह्रस्वमद्ध्यैव, 'केऽणः' इति ङीषो हस्वादेशात् / 'पिचण्डी दृषिका दूषिः पिचाठञ्च दृशो मलम्' इति विक्रमादित्यकोशः / 'दूषिका तूलिकायाञ्च मले स्याल्लोचनस्य च' इति मेदिनी / अनिहृषिभ्यां // 'अनीकोऽस्त्री गण सैन्येऽपि” इति मेदिनी / 'हृषीकं विषयीन्द्रियम्' इत्यमरः / पर्फरादेश इति // उज्ज्वलदत्तरीत्योक्तम् / वस्तुतस्तु धातोत्विम् / उकारस्याकारः सलोपः / 'रुक् चाभ्यासस्य ' इति दशपायुक्तमेव न्याय्यम् / चरेर्नुम् चेत्युत्तरग्रन्थानुरोधेन द्वे रुक्चत्यादेरनुवृत्तेाय्यत्वात् / किसलयमिति // 'नैतौशेव तुर्फरीपर्फरीका' इति मन्त्रस्य वेदभाष्ये तु 'नि फला विशरणे, पृ पालनपूरणयोः, पर्व पूरणे' एषामन्यतमस्य निपातनमिदमाश्रित्य शत्रूगां विदारयितारः स्तोतृणां पालका For Private And Personal Use Only
Page #633
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः पादः] बालमनोरमा / तिन्तिडीको वृक्षभेदः / 'चरेर्नुम् च' (गण 199) / चञ्चरीको भ्रमरः / मर्मरीको हीनजनः / कर्करीका गलन्तिका / पुणते:, पुण्डरीकं वादित्रम् / पुण्डरीको व्याघ्रोऽनिर्दिग्गजश्च / 461 / ईषेः किस्वश्च / इषीका शलाका / 462 / ऋजेश्च / ऋजीक उपहतः / 463 / सर्तेर्नुम् च / मृणीका लाला / 464 / मृडः कीककङ्कणौ / मृडीको मृगः / मृडङ्कण: शिशुः / 465 / अलीकादयश्च / कीकन्नन्ता निपात्यन्ते / 'अल भूषणादौ' / अलीकं मिथ्या / विपूर्वायलीकं विप्रियं खेदश्च / वलीकं पटलप्रान्ते' इत्यादि। 466 / कृतृभ्यामीषन् / करीषोऽस्त्री शुष्कगोमये / तरीष: तरिता / 467 / शृपृभ्यां किच्च / शिरीषः / पुरीषम् / 468 / अर्जऋज च / ऋजीषं पिष्टपचनम् / विशिष्टार्थस्य पूरयितारी चेति व्याख्यातम् / तिन्तिडीक इति // तिमेर्मकारस्य डकारः / अभ्यासस्य नुक् च / 'तिन्तिडी चिञ्चाम्लिका' इत्यमरे तु शब्दान्तरम् / तथा च 'तिन्तिडी त्वम्लिका चिञ्चा तिन्तिडीका कपिप्रिया' इति वाचस्पतिः / 'अम्लीका चाम्लिका चिञ्चा तित्तिडीका च तिन्तिडी' इति चन्द्रः / 'अम्लिका चुक्रिका चुका साम्रा शुक्लाऽथ शुक्तिका / अम्लिका चिञ्चिका चिच्चा तित्तिडीका च तित्तिडा' इति धन्वन्तरिनिघण्टुः / यत्तु उज्ज्वलदत्तेनोक्तम् 'उपदंशस्तृतीयायाम्' इति सूत्र तित्तिडोपदंश भुङ्क्ते इति भाष्यप्रयोगात्साधुतेति, तदुपेक्ष्यम् / 'उपदंशः' इति सूत्रस्य भाष्यकारैरस्पृष्टत्वात् / तदुदाहृतप्रयोगस्य भाष्ये कुत्राप्यभावाच्च / 'भ्रमरश्चञ्चरीकः स्याद्रोलम्बो मधुसूदनः / इन्दिन्दिरः पुष्पकीटो मधुद्रो मधुकेशटः' इति त्रिकाण्डशेषः / 'कर्कर्यालूगलन्तिका' इत्यमरः / 'पुण्डरीकं सिताम्भोजे सितच्छत्रे च भेषजे / पुंसि व्याघ्र च दिङ्नाग कोशकारान्तरेऽपि च' इति मेदिनी / ईषेः // 'ईषीका स्यादि कापि वानायुजवनायुजा' इति द्विरूपकोशः / सर्तेः // 'सृणीका स्यन्दिनी लाला' इत्यमरः / मृडः कीक // कित्त्वादन्तोदात्तः / कीकनित्युज्ज्वलदत्तादिपाठस्तु प्रामादिकः / 'मृलीकेऽस्य सुमतौ स्याम / मृलीकावप्रियव्रजान्' इत्यादिषु चित्खरस्यैव दर्शनात् / अलीकादयश्च // 'अलीकमप्रियेऽपि स्यात् दिव्यसत्ये नपुंसकम्' इति मेदिनी / 'अलीकमप्रिये भाले वितथे' इति हेमचन्द्रः / तथा च प्रयुज्यते / “त दृष्टिमात्रपतिता अपि कस्य नात्र क्षोभाय पक्ष्मलदृशामलकाः खलाश्च / नचः सदैव सविलासमलीकममा ये कालतां कुटिलताश्च न संत्यजन्ति " इति। 'व्यलीकमप्रियाकार्यवैलक्ष्येष्वपि पीठक / ना नागरे' इति For Private And Personal Use Only
Page #634
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 632 सिद्धान्तकौमुदीसहिता [उणादिषु 469 / अम्बरीषः / अयं निपात्यते / 'अबि शब्दे' / 'अम्बरीषः पुमान्भ्राष्ट्रम्' / अमरस्तु ‘क्लीबेऽम्बरीषं भ्राष्ट्रो ना'। 470 / कृपृकटिपटिशौटिभ्य ईरन् / करीरो वंशाङ्कुरः / शरीरम् / परीरं फलम् / कटीरः कन्दरो जघनप्रदेशश्च / पटीरश्चन्दनः कण्टकः कामश्च / 'शौटीरस्त्यागिवीरयोः' / ब्राह्मणादित्वात् ष्यन् / शौटीर्यम् / 471 / वशेः कित् / उशीरम् / 472 / कशेर्मुद च / कश्मीरो देशः / 473 / कृत्र उच्च / कुरीरं मैथुनम् / 474 / घसेः किच / क्षीरम् / 475 / गभीरगम्भीरौ / गमेर्भः / पक्षे नुम् च / 476 / विषा विहा / स्यते हातेश्च विपूर्वाभ्यामाप्रत्ययः / विषा बुद्धिः, विहा स्वर्गः, अव्यये इमे। 477 / पच एलिमच् / 'पचेलिमो वह्निरव्योः / 478 / शीङो धुक्लकलञ्चालनः / चत्वारः प्रत्ययाः स्युः / शीधु मद्यम्। मेदिनी / 'वलीकनी पटलप्रान्ते' इत्यमरः / वलतेर्मुगागमे वल्मीकम् / 'वामलूरश्च नाकुश्च वल्मीकं पुनपुंसकम्' इत्यमरः / वहतेर्वृद्धिश्च / वाहीको गौः, वाहश्च / सुप्रपूर्वादिणस्तुट् च / सुप्रतीकः / शाम्यतेः शमीक: ऋजीषम् / एतच्च ऋजीषिणं वृषणं संसतश्रिये / आसत्या यातु मघवान् ऋजीषीत्यादिमन्त्रभाष्ये स्पष्टम् / अयमिति // ईषन् प्रत्ययः, अरुट् च तस्यागम इत्यर्थः / बोपालितोक्तिमाह / अम्बरीष इत्यादि // 'अम्बरीषं रणे भ्राष्ट्रे क्लीबं पुंसि नृपान्तरे। नरकस्य प्रभेदे च किशोरे भास्करेऽपि च / आम्रातके तु तापे च' इति मेदिनी / कृश // 'वंशाङ्कुरे करीरोऽस्त्री वृक्षभिवटयोः पुमान् / करीरा चीरिकायाञ्च दन्तमूले व दन्तिनाम्' इति मेदिनी / 'शरीरं वर्म विग्रहः' इत्यमरः / अर्धर्चादित्वात् शरीरोऽपि / बाहुलकात् / 'हिडि गत्यनादरयोः।' हिण्डते इतस्ततो गच्छतीति हिण्डीरः / 'हिण्डीरोऽब्धिकफः फेनः' इत्यमरः / 'डिण्डीरोऽपि च हिण्डीरः' इति द्विरूपकोशः / किरिञ्जम्बीरतूणीरादयोऽप्येवं बोद्ध्याः / 'किर्मारो नागरङ्गे च कर्बुरे राक्षसान्तरे' इति मेदिनी / 'जम्बीरः प्रस्थपुष्पे स्वात्तथा दन्तशठे द्रुमे' इति च / उशीरं वीरणमूलम् / उशीरोऽपि / 'मूलेऽस्योशीरमस्त्रियाम् / अभयं नलदं सेव्यम्' इत्यमरः / कुरीरमिति // कपिलकादित्वालत्वे कुलीरः कर्कटकः / घसेः // क्षीरमिति // उपधालोपः / कत्वं षत्वम् / 'क्षीरं दुग्धे च नीरे च' इति विश्वः / गमेरिति // 'निम्नङ्गभीरङ्गम्भीरम्' इत्यमरः / पच एलिमच् / कर्तर्ययं कृत्यप्रत्ययेषु रिदुपसङ्ख्यातः / शेरतेऽनेन शीधुः / मद्यविशेषः / 'मैरेयमासवः शीधुः' For Private And Personal Use Only
Page #635
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः पादः] बालमनोरमा / 633 शीलं स्वभावः। शैवलः / शेवालम् / बाहुलकात् वस्य पोऽपि / शेवालं शैवलो न स्त्री शेपालो जलनीलिका'। 479 / मृकणिभ्यामूकोकणौ / मरूको मृगः काणूकः काकः / 480 | वलेरूकः / वलूक: पक्षी उत्पलमूलं च / 481 / उलूकादयश्च / वले: संप्रसारणमूकश्च / उलूकाविन्द्रपेचको / वावदूको वक्ता / भल्लूकः / ‘शमेर्बुक् च' (गण 200) / शम्बूको जलशुक्तिः / 482 / शलिमण्डिभ्यामूकण् / शालूकं कन्दविशेष: / मण्डूकः / 483 / नियो मिः / नेमिः / 484 / अर्तेरूच्च / अमिः / 485 / भुवः कित / भूमिः / 486 / अश्नोते रश्च / रश्मिः किरणो रज्जुश्च / 487 / दल्मिः / दल विशरणे / दल्मिरिन्द्रायुधम् / इत्यमरः / अर्धर्चादिपाठात् क्लीबत्वञ्च / 'पुनपुंसकयो रुजीवातुस्थाणुशीधवः' इति त्रिकाण्डशेषः / ‘शीलं स्वभावे सद्वृत्ते' इति मेदिनी / 'जलनीली तु शेवालं शैवलः' इत्यमरः / शैवलं पद्मकाष्ठे स्यात् शैवले तु पुमानयम्' इति मेदिनी / शब्दार्णवोक्तिमाह / शेवालमित्यादि // उलूकादयश्च // 'उलूकः पुंसि काकादाविन्द्रे भारतयोधिनि' इति मेदिनी / वदेयङन्तादृकः / 'वाचोयुक्तिपटुर्वाग्मी वावदूकश्च वक्तरि' इत्यमरः / शमेर्बुक् च // 'शम्बूको गजकुम्भान्ते घोषे च शूद्रतापसे' इति मेदिनी / बाहुलकादुकप्रत्यये ह्रस्वमध्योऽपि / 'जम्बूकं जम्बुकं प्राहुः शम्बूकमपि शम्बुकम्' इति द्विरूपकोशः। जम्बूकबन्धुकादयोऽप्यत्रैव द्रष्टव्याः / 'जम्बूकः फेरवे नीचे पश्चिमाशापतावपि' इति विश्वमेदिन्यौ / ‘बन्धूकं बन्धुजीवे स्यात् बन्धूकः पीतसारके' इति च / शलिमण्डि // ‘सौगन्धिकन्तु कहारम्' इत्याद्युपक्रम्य 'शालूकमेषां कन्दः स्यात्' इत्यमरः / एषां सौगन्धिकादीनां कैरवान्तानां कन्दो मूलमित्यर्थः / नियो मिः // 'नेमिर्ना तिनिशे कूपत्रिकाचक्रान्तयोः स्त्रियाम्' इति मेदिनी / बाहुलकादन्यतोऽपि / 'या प्रापणे / ' 'यामिः स्वसृकुलस्त्रियोः' इत्यन्तःस्थादौ रभसः। 'यामिः कुलस्त्रीस्वस्रोः स्त्री' इत्यन्तःस्थादौ मेदिनी / 'जै क्षये।' 'जामिः स्वसृकुलस्त्रियोः' इति चवर्गतृतीयादौ अजयकोशः। 'चवर्गादिरपि प्रोक्तो यामिः स्वसृकुलस्त्रियोः' इति द्विरूपेषु विश्वः / अर्तेरूच्च॥ उच्चेत्युचितम् / 'ऊर्मिः स्त्रीपुंसयोर्वीच्यां प्रकाशे वेगभङ्गयोः / वस्त्रसङ्कोचरेखायां वेदनापीडयोरपि' इति मेदिनी / भूमिः, 'भूमिर्वसुन्धरायां स्यात् स्थानमात्रेऽपि च स्त्रियाम्' इति मेदिनी / अश्नोतेः // 'रश्मिः पुमान् दीधितौ स्यात् पक्षप्रग्रहयोरपि' इति मेदिनी / 80 For Private And Personal Use Only
Page #636
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 634 सिद्धान्तकौमुदीसहिता [उणादिषु 488 / वीज्याज्वरिभ्यो निः। बाहुलकाण्णत्वम् / वेणिः स्यात्केशविन्यास: प्रवेणी च स्त्रियामुभे / ज्यानि: / जूर्णि: / 489 / सृषिभ्यां कित् / सृणिरङ्कुशः / ‘वृष्णिः क्षत्रियमेषयोः' / 490 / अङ्गेनलोपश्च / अग्निः / / 491 / वहिश्रिश्रुयुगुग्लाहात्वरिभ्यो नित् / वह्निः / श्रेणिः / श्रोणिः / योनिः / द्रोणिः / ग्लानिः / हानिः / तूर्णिः / बाहुलकान्म्लानि: / 492 / घृणिपृश्निपाणिचूर्णिभूर्णि / एते पञ्च निपात्यन्ते / घृणिः किरणः / स्पृशते: सलोपः / पृश्निरल्पशरीरः / पृषेर्वृद्धिश्च / पाणि: पादतलम् / चरेरुपधाया उत्वम् / चूर्णि: कपर्दकशतम् / बिभर्तेरुत्वम् / भूणिर्धरणी। 493 / वृदृभ्यां विन् / वविर्घस्मरः / दर्विः / 494 / जस्तृजागृभ्यः किन् / जीवि: पशुः / शीविर्हिस्रः / स्तीर्विरध्वर्युः / जागृविर्नृपः। 495 / दिवो द्वे दीर्घश्वाभ्यासस्य / 'दीदिविः स्वर्गमोक्षयोः' / वीज्या॥अमरोक्तमाह / वेणिः स्यादित्यादि // 'वेणी केशस्य बन्धने / नद्यादेरन्तरे देवताडे' इति मेदिनी / 'वेणी गरागरी देवताडो जीमूत इत्यपि' इत्यमरः। ‘ज्यानिहींनौ स्रवन्त्याञ्च' इति विश्वः / जूर्णिः स्त्रीरोगः / सृवृषि // ‘अङ्कुशोऽस्त्री सृणिः स्त्रियाम्' इत्यमरः / 'सृणिः स्थादकशे पुमान्' इति कोशान्तरम् / अत एव 'आरक्षमनमवमत्य सृणिं शिताग्रम्' इति माघः / 'वृष्णिस्तु यादवे मेषे वृष्णि: पाखण्डचण्डयोः' इति विश्वः / 'ऐन्द्रे वृष्णि षोडशिनि तृतीयम्' इति श्रुतौ वृष्णि मेषमित्यर्थः / अङ्गेः // ‘अग्निवैश्वानरेऽपि स्याचित्रकाख्यौषधौ पुमान्' इति मेदिनी। वहिश्रि॥ 'श्रेणिः स्त्रीपुंसयोः पती समाने शिल्पिसंहतो' इति च / 'कटिः श्रोणिः ककुद्मती' इत्यमरः / 'योनिः स्त्रीपुंसयोश्च स्यादाकरे स्मरमन्दिरे' इति मेदिनी। धुणिपृश्नि // ' सेचने' निप्रत्ययो गुणाभावश्च / 'घृणिः पुनः, अंशुज्वालातरङ्गेषु' इति हेमचन्द्रः / 'पृश्निरल्पतनौ ' इत्यमरः / 'पाणिः स्यादुन्मदः स्त्रियाम् / स्त्रियां द्वयोः सैन्यपृष्ठे पादप्रन्ध्यधरेऽपि च' इति मेदिनी / भूर्णिधरणीति // 'तक्वानभूर्णिः' इति मन्त्रे भाष्ये तु 'भूणिर्धारकः पोषको वा' इति व्याख्यातम् / दिवो द्वे // 'दीदिविर्धिषणानयोः' इति विश्वः / 'दीदिविर्ना धिषणेऽने तदस्त्रियाम्' इति मेदिनी / धिषणो बृहस्पतिः / 'दीदिविदिशकरश्चक्षा सुरगुरुर्गुरुः' इति त्रिकाण्डशेषः / 'दीदिविद्वादशार्चिः स्याज्जीवः प्राक्फल्गुनीसुतः' इति हारावली / 'ओदनोऽस्त्री सदीदिविः' इत्यमरः / अत्र सदीदिविर्दीदिविसहित इति व्याख्यानं न्याय्यम् / स इति छेदे तु अस्त्रियामिति न लभ्यते / ततश्च 'अन्ने तदस्त्रियाम्' For Private And Personal Use Only
Page #637
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः पादः] बालमनोरमा / 496 / कृविघृष्विछविस्थविकिकीदिवि / कृविस्तन्तुवायद्रव्यम् / घृष्विवराहः / छास्थोर्हस्वत्वं च / छविर्दीप्तिः / स्थविस्तन्तुवायः / दीव्यते: किकीपूर्वात् / किकीदिविश्वाष: / बाहुलकाद्भस्वदीर्घयोविनिमयः / 'चाषेण किकिदीविना'। 497 / पातेडतिः। पतिः। 498 / शकेतिन् / शकृत् / 499 / अमेरतिः / अमतिः कालः / 500 / वहिवस्यर्तिभ्यश्चित् / वहति: पवनः / 'वसतिर्गृहयामिन्योः' / अरति: क्रोधः / 501 / अञ्चेः को वा / अङ्कतिरञ्चतिर्वातः / 502 / हन्तेरंह च / हन्तेरतिः स्यादहादेशश्च धातोः / हन्ति दुरितमनया अंहतिर्दानम् / 'प्रादेशनं निर्वपणमपवर्जनमंहतिः' / 503 / रमेर्नित् / 'रमति: कालकामयोः / 504 / मूङः क्रिः / सूरिः / इति मेदिनीग्रन्थो विरुद्ध्येतेति ध्येयम् / 'गोपामृतस्य दीदिविम्' इति मन्त्रे तु द्योतमानमित्यर्थः / कृविवृष्वि // एतेन क्विनन्ता निपात्यन्ते / घृष्विर्वराह इति // 'उग्रस्य पुनः स्थविरस्य घृष्वेः' इति मन्त्रे तु घृष्वेः कामानां वर्षकस्येत्यर्थः, 'घृषु सेचने' इति धात्वर्थानुगमात् / 'छविः शोभारुचोर्योषित्' इति मेदिनी। 'अथ चाषः किकीदिविः' इत्यमरः / विनिमय इति // ‘किकिदीविः किकीदिविः' इति द्विरूपकोशः / पातेः // ‘पतिर्धवे ना त्रिवीशे' इति मेदिनी / शकः // 'उच्चारावस्करौ शमलं शकृत् / गूथं पुरीषं वर्चस्कमस्त्री विष्टाविशौ स्त्रियाम्' इत्यमरः / अमेरतिः // 'अथामतिः पुंसि हिमदीधितिकालयोः' इति मेदिनी / 'अमतिश्चामतिः कालः' इति द्विरूपेषु विश्वः / वहिवसि // ‘वहतिः सचिवे गवि' इति विश्वः / वसतिः स्यात्स्त्रियां वासो यामिन्याञ्च निकेतने ' इति मेदिनी / अमरोक्तिमाह / प्रादेशनमिति // रमेः // ‘रमनिनार्यके नाके पुंसि स्यात् ' इति मेदिनी / वृत्तिकारोक्तं कोशान्तरमाह / रमतिरित्यादि // नित्त्वमायुदात्तार्थम् / रन्तिरसि-रमतिरसि / सूङः क्रिः // 'धीमान् सूरिः कृती कृष्टिलब्धवर्णो विचक्षणः' इत्यमरः / दशपाद्यान्तु 'सुओ रिन् दीर्घश्च' इति पाठः / तत्र रिनो नकारो नानुबन्धः / उत्तरसूत्रे प्रत्ययान्तरारम्भात् / अनुबन्धत्वे हि लाघवादिहैव किन्नुच्येत / तथा च सूरी सूरिणौ सूरिण इत्यादि रूपम् / अत एवाभिधानमालायां सूरीति नान्तमुदाहृतमित्यवधेयम् / यत्तु दशपादीवृत्तिकारैर्नित्त्वं स्वीकृत्य सूरिरित्युदाहृतम् / तदेतेन प्रत्युक्तम् / स्वरविरुद्धमपि, 'सदा पश्यन्ति सूरयः' For Private And Personal Use Only
Page #638
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदीसहिता [उणादिषु 505 / अदिशदिभूशुभिभ्यः क्रिन् / अद्रिः / शद्रिः शर्करा / भूरि प्रचुरम् / शुध्रिर्ब्रह्मा / 506 / वज़यादयश्च / क्रिन्नन्ता निपात्यन्ते / वतिर्वाद्यभेदो गृहदारु पार्शस्थि च / वप्रिः क्षेत्रम् / 'अहिरतिश्च चरणः' / तदिः सौत्रो धातुः / तन्द्रिर्मोहः / बाहुलकाद्गुणः / भेरिः / 507 / राशदिभ्यां त्रिप् / रात्रिः / शत्रिः कुञ्जरः / 508 / अदेत्रिनिश्च / चात्रिप् / अत्री / अत्रिणौ / अत्तिणः / अत्रिः / अत्ती / अत्त्यः / 509 / पतेरत्रिन् / पतत्रिः पक्षी / 510 / मृकणिभ्यामीचिः / मरीचिः / कणीचि: पल्लवो निनादश्च / 511 / श्वयतेश्चित् / श्वयीचिर्व्याधिः / 512 / वेबो डिच्च / वीचिस्तरङ्गः / नसमासेऽवीचिर्नरकभेदः / 513 / ऋहनिभ्यामूषन् / अरूषः सूर्यः / हनूषो राक्षसः / ‘विसूरयो दधतो विश्वमायुः' इत्यादौ सूरिशब्दस्यान्तोदात्तत्वात् / अदिशदि // ‘अद्रयो द्रुमशैलार्काः' इत्यमरः / 'भूरिर्ना वासुदेवे च हरे च परमेष्ठिनि / नपुंसके सुवर्णे च प्राज्ये स्याद्वाच्यलिङ्गकम्' इति मेदिनी / वङ्किरिति // ‘वकि कौटिल्ये / ' तन्द्रिरिति // 'कृदिकारात्' इति पक्षे ङीष् / 'तन्द्री निद्राप्रमीलयोः' इति मेदिनी / 'तन्द्री तन्द्रिश्च तन्द्रायाम्' इति द्विरूपकोशः / 'विभज्य नक्तन्दिवमस्ततन्द्रिणा' इति भारविः। राशदिभ्यां // 'शत्तिर्नाम्भोधरे जिष्णो' इति मेदिनी। 'शत्रिमग्र उपमाङ्केतुमर्यय' इति मन्त्रस्य वेदे भाष्ये तु उपमामुपमानभूतङ्केतुं प्रख्यातं शत्रिम् एतन्नामकं राजर्षिमिति व्याख्यातम् / अदेस्त्रिनिश्च // अत्ती भक्षकः / अत्तिः ऋषिविशेषः / उज्ज्वलदत्तस्तु अदेस्त्रिन् इति पठित्वा अत्तिरित्युदाजहार / तन्न, त्रिपैव सिद्धे प्रत्ययान्तरवैयर्थ्यात् / गोवर्धनस्तु ‘अदेस्त्रिनिच्च' इति पठित्वा निदिति वचनानकारस्य नेत्संज्ञा / अत्ती-अत्तिणौ-अत्तूिण: इत्याह / तदपि न, आद्युदात्तापत्तेः / न चेष्टापत्तिः / 'जहीन्या अत्तिणं पणिम् / दूरे वा ये अन्ति वा केचिदत्तिणः / अग्ने हंसीत्यत्तूिणम्' इत्यादावन्तोदात्तस्य निर्विवादत्वात् / दशपादीवृत्तौ तु 'अदेत्रिन्निच्च' इति पठित्वा चकारात्तिबित्युक्तम् / तदपि न, त्रिनिचश्चित्त्वस्य व्यर्थत्वात् / इकारेणैव नकारपरित्राणे सति प्रत्ययस्वरेणैवेष्टसिद्धेः / अत एव ‘वधैद्रुःशंसान्' इति मन्त्रस्य भाष्ये 'अदेस्त्रिनिश्च' इति माधवः / 'न लुमताङ्गस्य' इति सूत्रे कैयटोऽप्येवमाहेति दिक् / पतत्तिरिति // पक्षिवाचकात्पतत्रशब्दान्मत्वर्थे इनि तु पतत्री पतत्रिणी इत्यादि / मृकणिभ्यां // ‘मरीचिः कृपणे दीप्तावृषिभेदे च दृश्यते' इति विश्वः / ‘मरीचिमुनिभेदे ना गभस्तावनपुंसकम्' इति मेदिनी। 'कणीचिः पुष्पितलतागुञ्जयोः शकटेऽस्त्रियाम्' इति च / वेञः // ‘वीचिः स्वल्पे For Private And Personal Use Only
Page #639
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः पादः] बालमनोरमा / 514 / पुरः कुषन् / 'पुर अग्रगमनेः' पुरुषः / 'अन्येषामपि-' (सू 3539) इति दीर्घः / पूरुषः / 515 / पनहिकलिभ्य उपच् / परुषम् / नहुषः / कलुषम् / 516 / पीयोरूषन् / पीय इति सौत्रो धातुः / पीयूषम् / बाहुलकाद्गुणे पेयूषोऽभिनवं पयः'। 517 / मस्जेर्नुम्च / मञ्जूषा / 518 / गडेश्च / गण्डूष:-गण्डूषा / 519 / अर्तेररुः / अररुः शत्रुः / अररू / अररवः / 520 / कुटः किच्च / कुटरुर्वस्त्रगृहम् / कित्त्वप्रयोजनं चिन्त्यम् / 521 / शकादिभ्योऽटन् / शकटोऽस्त्रियाम् / ककिर्गत्यर्थः / कङ्कट: संनाहः / देवट: शिल्पी / करट इत्यादि / 522 / ककदिकडिकटिभ्योऽम्बच / करम्बं व्यामिश्रम् / कदिकडी सौत्रौ / कदम्बो वृक्षभेदः / कडम्बोऽप्रभागः / कटम्बो वादिनम् / 523 / कदेर्णित्पक्षिणि | कादम्ब: कलहंसः / तरङ्गे स्यादवकाशे सुखे द्वयोः' इति विश्वमेदिन्यौ। पुरः॥ 'पुरुषः पुरुष साङ्खयज्ञे च पुन्नागपादपे' इति विश्वमेदिन्यौ / पृनहि // परुषं कबुरे रूक्षे निष्ठरोक्तौ च वाच्यवत्' इति मेदिनी। 'नहुषो राजविशेषे नागभिद्याप' इति हेमचन्द्रः / चित्स्वरेणान्तोदात्तत्वे प्राप्ते प्रामादित्वात् वृषादित्वाद्वा आद्युदात्तोऽयम् / एतच्च ‘देवा अकृण्वन्नहुषस्य विश्वम्' इति मन्त्रस्य भाष्ये स्पष्टम् / 'कलुषं त्वाविलैनसोः' इति विश्वः / पीयो // ‘पीयूषं सप्तदिवसावधिक्षीरे तथाऽमृते' इति मेदिनी। 'पियूषं' इत्यादिस्त्वमरः / मस्जेः // 'पिटकः पेटकः पेटा मञ्जूषा' इत्यमरः / गडेश्च // ‘गण्डूषो मुखपूर्ताम्भःपुष्करप्रसृतोन्मिते' इति मेदिनी / अर्तेररुः // उकारान्तोऽयं प्रत्ययः / न तु सकारान्त इति स्फोरयति / अररुः इत्यादिना // युक्तञ्चैतत् / 'कञ्चिद्वाविरररुं शूरमर्त्यम् / अपाररुमदेवयजनो जहि' इत्यादिमन्त्रेषु तथा दर्शनात् / यत्तु 'मानः शंसो अररुषः' इति मन्त्रस्य भाष्ये सान्तोऽयमिति माधवेनोक्तं तत्प्रौढिवादमात्रं न तु वास्तवम् , पदस्यायुदात्तत्वानुपपत्तिप्रसङ्गात् / उक्तप्रयोगस्य क्वसन्तेन रातिना नसमासे सौष्ठवात् / 'गुरुद्वेषो अररुषे दधन्ति' इयत्र स्वयमेव तथा व्याख्यानात् / 'यो नोऽप्रे अररिवाम् अघायुः' इत्यादिमन्त्रान्तरसंवादाच्चेति दिक्। 'क्लीबेऽनः शकटोऽस्त्री स्यात्' इत्यमरः। 'करटो गजगण्डे स्यात्कुसुमे निस्वजीविनि / एकादशाहादिश्राद्धे दुर्दुरूढेऽपि वायसे' इति मेदिनी। कृकदि // ‘करम्बो मिश्रिते बान्तो भान्तस्तु दधिसक्तुषु' इति विश्वः / ‘कदम्बं निकुरुम्बे स्यानीपसर्षपयोः पुमान्' इति मेदिनी / 'कलम्बी शाकभेदे स्यात्कदम्बशरयोः पुमान्' इति च / कदेः॥ 'कादम्बः स्यात् पुमान् पक्षिविशेषे सायकेऽपि ना' इति मेदिनी / For Private And Personal Use Only
Page #640
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 638 सिद्धान्तकौमुदीसहिता [उणादिषु 524 / कलिकोरमः / कलम: / कर्दमः / 525 / कुणिपुल्योः किन्दच् / 'कुण शब्दोपकरणयो:' / कुणिन्दः शब्दः / पुलिन्दो जातिविशेषः / 526 / कुपेर्वा वश्च / कुपिन्दकुविन्दौ तन्तुवाये / 527 / नौ षञ्जर्घथिन् / निषङ्गथिरालिङ्गकः / 528 / उद्यश्चित् / उदरथिः समुद्रः / 529 / सर्तेर्णिञ्च / सारथिः / 530 / खर्जिपिञ्जादिभ्य ऊरोलचौ / खर्जरः / कर्पूरः / वल्लूरं शुष्कमांसम् / पिलं कुशवर्तिः / 'लङ्गेर्वृद्धिश्च' (गण 201) / लाङ्गुलम् / कुसूलः / ‘तमेव॒ग्वृद्धिश्च' (गण 202) / ताम्बूलम् / 'शृणाते?ग्वृद्धिश्च' (गण 203) शार्दूल: / 'दुक्कोः कुक्च' (गण 204) / दुकूलम् / कुकूलम् / कलि // 'कलमः पुंसि लेखन्यां शालौ पाटच्चरेऽपि च इति मेदिनी / कुपेर्वा // 'कुप क्रोधे / ' अतः किन्दच् / वकारान्तादेशश्च वा। 'तन्तुवायः कुविन्दः स्यात्' इत्यमरः / बाहुलकात् 'अल मूषणादौ / ' अलिन्दः / 'यस्यामलिन्देषु न चक्रुरेव मुग्धाङ्गना गोमयगोमुखानि' इति माघः / प्रज्ञादित्वादणि दीर्घादिरप्ययम् / निषङ्गथिरिति // 'चजोः' इति कुत्वम् / “आभुरस्य निषङ्गथिः / " रथकूबर इत्यर्थः / सर्तेः // 'नियन्ता प्राजिता यन्ता सूतः क्षत्ता च सारथिः' इत्यमरः / खर्जिपिआदिभ्यः // 'खर्ज मार्जने' एवमादिभ्य ऊरः / 'पिञ्ज हिंसायाम्' / एवमादिभ्य ऊलच् / 'खरं रूप्यफलयोः खजूरः कीटवृक्षयोः' इति मेदिनीहेमचन्द्रौ / 'कृपू सामर्थ्ये / ' बाहुलकालत्वाभावः / 'अथ कर्पूरमस्त्रियाम् / घनसारश्चन्द्रसंज्ञः सिताभ्रो हिमवालुका' इत्यमरः / 'वल्ल संवरणे / ' वल्लूरम् / 'उत्तप्तं शुष्कमांसं स्यात्तद्वल्लूरं त्रिलिङ्गकम्' इत्यमरः / एवं शालूरमण्डूरादयः / 'भेक मण्डूकवर्षाभूशालूरप्लवदर्दुरा.' इत्यमरः / 'अथ मण्डूरं 'शिवाणमपि तन्मले' इति च / तन्मले तस्य पूर्वोक्तस्य लोहस्य मले इत्यर्थः / 'लाशूलं पुच्छशेफसोः' इति मेदिनी / कुसूल इति // 'कुस श्लेषण / ' दन्त्यसकारवान् / 'कुसूलश्च कुसीदश्च मध्यदन्त्यमुदाहृतम्' इति विश्वः / ताम्बूलादयोऽप्यत्र / 'तमु ग्लानौ / ' 'ताम्बूली नागवल्ल्यां स्त्री क्रमुके तु नपुंसकम्' इति मेदिनी / 'शू हिंसायाम् / ' धातोवृद्धिः / दुगागमश्च / 'शार्दूलो राक्षसान्तरे / व्याने च पशुभेद च सत्तमे तूतरस्थिते' इति मेदिनीविश्वप्रकाशौ / उत्तरस्थितमुत्तरपदम् / राजशार्दूल इति यथा / 'दु गतौ', 'कुङ् शब्दे' अनयोः कुक् च / 'दुकूलं श्लक्ष्णवस्त्रे स्यात्क्षोमे च' इति मेदिनी / 'कुकूलं शङ्कुसङ्कीर्णश्वभ्रे ना तु तुषानले' इति विश्वमेदिन्यो / 'शिरीषादपि मृङ्गी केयमायतलोचना / अयं वच For Private And Personal Use Only
Page #641
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः पादः] बालमनोरमा / 639 531 / कुवश्चदीर्घश्च / कूची चित्रलेखनिका / 532 / समीणः / समीचः समुद्रः / समीची हरिणी। . 533 / सिवेष्टेरू च / सूचो दर्भाङ्कुरः / सूची / 534 / शमेन् / शम्बो मुसलम् / 535 / उल्बादयश्च / बन्नन्ता निपात्यन्ते / 'उच समावाये' / चस्य लत्वं गुणाभावश्च / उल्बो गर्भाशयः / शुल्ब ताम्रम् / निम्बः / बिम्बम् / 536 / स्थः स्तोऽम्बजबकौ / तिष्ठतेरम्बच् अबक एतौ स्त: स्तादेशश्च / 'स्तम्बो गुच्छस्तृणादिनः' / स्तबकः पुष्पगुच्छः / 537 / शाशपिभ्यां ददनौ / 'शादो जम्बालशष्पयोः' / शब्दः / 538 / अब्दादयश्च / अवतीत्यब्दः। 'कौतेर्नुम् (च)' (ग 205) / कुन्दः / 539 / वलिमलितनिभ्यः कयन् / वलयम् / मलयः / तनयः / 540 / होः पुग्दुको च / वृषय आश्रयः / हृदयम् / 541 / मिपीभ्यां रुः। मेरुः / पेरुः सूर्यः / बाहुलकात्पिबतेरपि / 'संवत्सरवपुः पारु: पेरुर्वासीदिनप्रणी:' / 542 / जयादयश्च / जत्रु / जत्रुणी / अश्रु / अश्रुणी / कुकूलाग्निकर्कशो मदनानलः' इति प्रयोगश्च / कुवश्चट दीर्घश्च // कूचः स्तनः / 'कुचकूचौ स्तने मतौ' इति विश्वः / कूचीति // टित्त्वान्डीप् / समीणः॥ इणः सम्युपपदे चट् स्यात् / दीर्घत्वञ्च धातोः / सिवेः // ‘सूची तु सीवनद्रव्ये आङ्गिकाभिनयान्तरे' इति मेदिनी / शमेः // 'शम्बः स्यान्मुसलाग्रस्थलोहमण्डलके पतौ / शुभान्विते त्रिषु' इति विश्वमेदिन्यौ / उल्बादयश्च // 'गर्भाशयो जरायुः स्यादुल्बञ्च कललोऽस्त्रियाम्' इत्यमरः / शुल्बमिति // 'शुच शोके / ' लत्वादि प्राग्वत् / 'शुल्बे ताने यज्ञकर्मण्याचारे जलसन्निधौ' इति मेदिनीहेमचन्द्रौ / वेतेर्नुमागमो ह्रखत्वञ्च / 'बिम्बस्तु प्रतिबिम्बे स्यात् मण्डले पुनपुंसकम् / बिम्बिकायाः फले क्लीबं कृकलासे पुनः पुमान्' इति मेदिनी। स्थः स्तः // 'स्तम्बो गुल्मे तृणादीनामप्रकाण्डद्रुमेऽपि च' इति विश्वः / 'स्तम्बोऽप्रकाण्डद्रुमगुच्छयोः' इति मेदिनी। 'स्यात् गुच्छकस्तु स्तबकः' इत्यमरः / शाशपि // 'शादः स्यात् कर्दमे शष्पे' इति मेदिनी। 'अब्दः संवत्सरे वारिवाहमुस्तकयोः पुमान् / कुन्दो माध्येऽस्त्री मुकुन्दभ्रमिनिध्यन्तरेषु ना' इति च / वलिमलि // वलयः कण्ठरोगे ना कङ्कणे पुनपुंसकम्' इति मेदिनी / 'मलयः पर्वतान्तरे / शैलांशे देश आरामे त्रिवृतायान्तु योषिति' इति च / 'आत्मजस्तनयः सूनुः सुतः पुत्रः' इत्यमरः / वृहोः // ह्रियते विषयैः हृदयम् / हट्टचन्द्रोक्तिभाह / संवत्सरेत्यादि // जव्वादयश्च // रुप्रत्ययान्ता निपात्यन्ते / 'जनी प्रादुर्भावे। नकारस्य तकारः। For Private And Personal Use Only
Page #642
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 640 सिद्धान्तकौमुदीसहिता [उणादिषु 543 / रुशातिभ्यां क्रुन् / रुरुमंगभेदः / शातयतीति शत्रुः / प्रज्ञादौ पाठाद्भस्वत्वम् / 544 / जनिदाच्युसमदिषमिनमिभृभ्य इत्वन्त्वन्नकिन्शस्यढडटाटचः / जनित्वौ मातापितरौ / दात्वो दाता / च्यौनो गन्ताण्डजः क्षीणपुण्यश्च / सृणिरङ्कुशश्चन्द्रः सूर्यो वायुश्च / वृश आर्द्रकं मूलकं च / मत्स्यः / षण्ढः / डित्त्वाहिलोपः / नमतीति नट: शैलूषः / विभर्ति भरट: कुलालो भृतकश्च / 545 / अन्येभ्योऽपि दृश्यन्ते / पेत्वममृतम् / भृशम् / 546 / कुसेरुम्भोमेदेताः / कुसुम्भम् / कुसुमम् / कुसीदम् / कुसितो जनपदः / 547 / सानसिवर्णसिपर्णसितण्डुलाङ्कुशचषालेल्वलपल्वलधिष्ण्यशल्याः / सनोतेरसिप्रत्यय उपधावृद्धिः / सानसिाहरण्यम् / वृञो नुक्च / वर्णसिर्जलम् / पृ / पर्णसिर्जलगृहम् / 'तड आघाते' / तण्डुलाः / अकि जत्र स्कन्धसन्धिः / ‘सन्धी तस्यैव जत्रुणी' इत्यमरः / तस्य पूर्वोक्तस्य स्कन्धस्य सन्धी इत्यर्थः / रुशातिभ्याम् // ‘रुरुदैये मृगेऽपि च' इति मेदिनी / जनिदा // नवभ्यो यथासङ्खथं नव स्युः / जनेरित्वन् इकारोच्चारणमुत्तरार्थम् / जनेरिटा सिद्धत्वात् / सृणिरिति // नित्स्वरेणायुदात्तोऽयम् / 'सृवृषिभ्याङ्कित्' इति निप्रत्यये त्वन्तोदात्तः / मत्स्य इति // अन्तोदात्तोऽयम् / 'ऋतन्यजि' इति सूत्रे तु आधुदात्तः साधितः / षण्ढ इति // ‘षम ष्टम वैकल्ये / ' बाहुलकात्सत्वाभावः / ‘शमो ढः' इति सूत्रे तु तालव्यादिः साधितः / 'सायं सायो भवेत्कोषः कोशः षण्ढश्च शण्ढवत्' इति द्विरूपकोशः / कैयटस्तु 'ठस्येकः' इति सूत्रे शण्ढ इति प्रतीकमुपादाय, 'जनिदाच्यस' इत्यनेन ढप्रत्यये शण्ड इत्याह / 'नटी नीलौषधौ स्त्री स्यात् शैलूषाशोकयोः पुमान्' इति मेदिनी / अन्येभ्योऽपि दृश्यन्ते // इत्वन्नादयोऽनुवर्तन्ते / कुसेः // 'कुस श्लेषणे / ' 'कुसुम्भं हेमनि महाराजते ना कमण्डलौ' इति मेदिनी। 'कुसुमं स्त्रीरजोनेत्ररोगयोः फलपुष्पयोः' इति च / 'कुसीदं जीवने वृद्ध्या क्लीबं त्रिषु कुसीदके' इति च / इह सूत्रे तृतीयो ह्रस्वादिदर्यािदिश्च तन्त्रेणोपात्तः / ‘वृषाकप्यग्नि' इति सूत्रे ह्रस्व एवेति वृत्तिकारहरदत्तादिप्रयोगोपष्टम्भेन निणीतम् / 'पारलौकिककुसीदकमासीत्' इति श्रीहर्षः / उक्तश्च ‘गाण्ड्यजगात्' इति सूत्रे ह्रस्वदीर्घयोस्तन्त्रेण निर्देशो वामनेनेति दिक् / उज्ज्वलदत्तमतेनाह / वृञो नुक्चेति // दशपाद्यान्तु सानसिधर्णसीति पठित्वा धृञो नुक् च, धर्णसिर्लोकपाल: इति व्याख्यातम् / युक्तञ्चैतत् / धर्णसिम्भूरिधायसमित्यादिदर्शनात् / तण्डुला इति // उलच्प्रत्ययः, नुगागमः। 'त्रेधा तण्डुलान् विभजेत् / ' चित्स्वरः / For Private And Personal Use Only
Page #643
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः पादः] बालमनोरमा / 641 लक्षणे उशच् / अङ्कुशः / 'चषेरालः / चषालो यूपकटकः' / इल्वलो दैत्यभेदः / पल्वलम् / बिधृषा ण्यः / ऋकारस्येकारः / धिष्ण्यम् / शलेयः / शल्यम् / 'वा पुंसि शल्यं शङ्कनो' / 548 / मुशक्यबिभ्यः क्लः। मूलम् / शक्ल: प्रियंवदे। अम्ब्लो रसः / बाहुलकादमेः / अम्लः / 549 / माछाससिभ्यो यः / माया / छाया / सस्यम् / बाहुलकात्सुनोतेः / 'सव्यं दक्षिणवामयोः / 550 / जनेर्यक् / 'ये विभाषा' (सू 2319) / जन्यं युद्धम् / जाया भार्या / 551 / अघ्न्यादयश्च / यगन्ता निपात्यन्ते। हन्तेर्यक् अडागम उपधालोपश्च / 'तण्डुलः स्याद्विगण्डे च धान्यादिनिकरे पुमान्' इति मेदिनी / अंकुश इति // अयमपि चित्वरेणान्तोदात्तः / तथा च मन्त्रः / दीर्घ ह्यङ्कुशं पथेति // चषेराल इति // प्रत्ययस्वरेणाद्युदात्तः / उज्ज्वलदत्तादयस्तु आलच् इति चितमाहुः / तन्न / 'चषालं ये अश्वयूपाय तक्षति / चषालवन्तस्तरवः पृथिव्याम्' इत्यादौ चित्स्वरादर्शनात् / अमरोक्तिमाह / चषाल इति // इल्वल इति // 'इल स्वप्नप्रेरणयोः / ' वलच् गुणाभावः / 'इल्वला तारकाभेदे ना भेदे दैत्यमत्स्ययोः' इति मेदिनी / 'इल्वलाः तच्छिरोदेशे तारका निवसन्ति याः' इत्यमरः / तत्र 'इल्वकाः' इति पाठान्तरम् / तच्च 'इवि प्रीणने 'अस्मात् क्वुन् शिल्पिसंज्ञयोः' इति क्वुनि बोध्यम् / पिबतेर्वलच / लुगागमः / ह्रस्वत्वञ्च / पिबन्त्यस्मिन् इति पल्वलम् / अल्पसरः / ‘वेशन्तः पल्वलञ्चाल्पसरः' इत्यमरः / इकार इति // रपरत्वाभावो ण्यप्रत्ययश्चेति बोध्यम् / ‘धिष्ण्यं स्थाने गृहे भेऽमौ' इत्यमरः / ‘धिष्ण्यं स्थानाग्निसद्मसु / ऋक्षे शक्तौ च' इति मेदिनी / 'धिष्ण्यं स्थाने च ऋक्षे चाग्नौ धिष्ण्यो नालये' इति धरणिः / शलेरिति // 'शल्ये तु न स्त्रियां शङ्कौ क्लीबं श्वेडेषुतोमरे / मदनद्रुश्वाविधोर्ना' इति मेदिनी। मूशक्य // 'मूङ् बन्धने / ' 'शक्ल शक्तौ / ' 'अबि शब्दे / ' 'मूलं शिफाघयोः / मूलं वित्तेऽन्तिके' इति मेदिनी / 'शक्लः प्रियंवदः' इति विशेष्यनिघ्नेऽमरः / 'अम्लो रसविशेषे स्यादम्ला चाङ्गेरिकौषधौ' इति मेदिनी / माछा // ‘माया स्याच्छाम्बरीबुद्ध्योर्मायः पीताम्बरेऽसुरे' इति मेदिनी। 'छाया स्यादातपाभावे प्रतिबिम्बार्कयोषितोः। पालनोत्कोचयोः कान्तिसच्छोभापतिषु स्त्रियाम्' इति विश्वमेदिन्यौ / 'वृक्षादीनां फलं सस्यम्' इत्यमरः / 'सव्यं वामे प्रतीपे च' इति मेदिनी / जनेर्यक् // 'जन्यं हट्टे परीवादे सङ्ग्रामे च नपुंसकम् / जन्या मातृवयस्यायाञ्जन्यः स्याजनके पुमान् / त्रिषूत्पाद्यजनित्रोश्च नवोढाज्ञातिभृत्ययोः / वरस्निग्धे' इति मेदिनी / अघ्न्यादयश्च // कौतेर्यतिधुक् कुड्यमित्युज्ज्वलदत्तादयः / 'यतोऽनावः' इत्याद्युदात्तः / ज्यक्प्रत्ययोऽन्तोदात्त इत्यन्ये इति, 'निवाते वातत्राणे' इति सूत्रे वृत्तिः / गुणप्रतिषेधार्थात्ककारात् डकारस्येत्त्वं नेति तत्रैव हरदत्तः / एवं स्थिते यगन्ता इति प्रायोवादः / अडागम इति // नपूर्वाद्धन्तेर्यगिति वा बोध्यम् / For Private And Personal Use Only
Page #644
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 642 सिद्धान्तकौमुदीसहिता [उणादिषु अघ्न्या माहेयी / अघ्न्यः प्रजापतिः / 'कनी दीप्तौ' / कन्या / बवयोरैक्यम् / वन्ध्या / 552 / स्नामदिपद्यर्तिपृशकिभ्यो वनिप् / स्नावा रसिकः / मद्वा शिवः / पद्वा पन्थाः / 'अर्वा तुरङ्गगहयोः' / पर्व ग्रन्थिः प्रस्तावश्च / शक्का हस्ती / ङीब्रौ / शकरी अङ्गुलिः / 553 / शीनुशिरुहिजिक्षिसधृभ्यः कनिप् / शीवा अजगरः / क्रुश्वा सृगालः / रुह्वा वृक्षः / जित्वा जेता। क्षित्वा वायुः। मृत्वा प्रजापतिः। धृत्वा विष्णुः / 554 / ध्याप्योः संप्रसारणं च / धीवा कर्मकरः / पीवा स्थूलः / 555 / अदेर्ध च / अध्वा / 556 / प्र ईरशदोस्तुट् च / प्रेा प्रशत्त्वा च सागरः / प्रेवरी प्रशत्वरी च नदी। 557 / सर्वधातुभ्य इन् / पचिरग्निः / तुडिः / तुण्डिः / वलिः / वटिः / यजिः / देवयजिः / काशत इति काशिः। यतिः / मल्लिः / मल्ली / केलिः / 'मसी परिणामे / ' मसिः / बाहुलकाद्गुण: / कोटि: / हेलिः / बोधिः / नन्दिः / कलिः। अघ्न्या इति // यत्तु 'अघ्न्यस्य मूर्द्धनि' इति मन्त्रे वेदभाष्यकारैरुक्तम् / 'हन्तुमशक्योऽन्यः पर्वतः' इति तत् प्रकृतसूत्रमभिप्रेत्यैव / यत्तु अहननमनः तमर्हतीत्यर्थे 'छन्दसि च' इति य इति तत्रैवोक्तम् , तदुपायान्तरपरतया बोध्यम् / 'माहेयी सौरभेयी गौरुस्रा माहा च शृङ्गिणी। अर्जुन्यग्न्या रोहिणी स्यात्' इत्यमरः / सम्पूर्वाद्धामो यक् / आतो लोपश्च / 'सन्ध्या पितृप्रसूनद्योश्चिन्तामर्यादयोरपि / प्रज्ञायां च सन्ध्याने सन्ध्या च कुसुमान्तरे' इति विश्वः / ‘सन्ध्या पितृप्रसूनद्यन्तरयोर्युगसन्धिषु' इति मेदिनी / 'सन्ध्या कुमारिका नार्योरोषधीराशिभेदयोः' इति विश्वमेदिन्यौ। वन्ध्येति // 'बन्ध बन्धने।' 'वन्ध्यस्त्वफलवृक्षादौ स्त्रियां स्यादप्रजःस्त्रियाम्' इति मेदिनी / स्नामदि // 'अर्वा तुरङ्गमे पुंसि कुत्सिते वाच्यलिङ्गके' इति मेदिनी / 'पर्व क्लीबं महे ग्रन्थौ प्रबले लक्षणान्तरे। दर्शप्रतिपदोः सन्धौ विषुवत्प्रभृतिष्वपि' इति च / अंगुलिरिति // एतच्च ‘आरोहतन्दशतं शक्करीमम' इत्यादिमन्त्रव्याख्यायां स्पष्टम् / 'शक्करी च्छन्दसो भेदे नदीमेखलयोरपि' इति मेदिनी। सर्वधातुभ्य इन् // यतिरिति // 'यती प्रयत्ने / ' 'यतिः स्त्री पाठविच्छेदे निकारयतिनोः पुमान्' इति मेदिनी / 'कोटिः स्त्री धनुषोऽग्रेऽश्रो सङ्ख्याभेदप्रकर्षयोः। बोधिः पुंसि समाधेश्च भेदे पिप्पलपादपे। नन्दिछूताङ्ग आनन्दे स्त्री नन्दिकेश्वरे पुमान् / कलिः स्त्री कलिकायां ना शूराजिकलहे For Private And Personal Use Only
Page #645
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः पादः बालमनोरमा / 643 558 / हपिषिरुहिकृतिविदिछिदिकीर्तिभ्यश्च / हरिविष्णावहाविन्द्रे भेके सिंहे हये रवौ / चन्द्रे कीले प्लवङ्गे च यमे वाते च कीर्तितः / पेषिवज्रम् / रोहिव्रती / वर्ति: / वेदिः / छेदिश्छेत्ता / कीर्तिः / _559 / इगुपधाकित् / कृषिः / ऋषिः / शुचिः / लिपिः / बाहुलकाद्वत्वे लिबिः / तूल निष्कर्षे / तूलिः / तूली / कूर्चिका / / 560 / भ्रमेः संप्रसारणं च / भृमिर्वात: / बाहुलकाद्धमिः / 561 / क्रमितमिशतिस्तम्भामत इच्च / क्रिमिः / संप्रसारणानुवृत्तः कृमिरपि / तिमिर्मत्स्यभेदः / शितिर्मेचकशुक्लयोः / स्तिम्भिः समुद्रः / 562 / मनेरुच्च / मुनिः / युगे' इति च / इह इनित्येव सूत्रम् / अधिकन्तु प्रक्षिप्तं व्यर्थञ्च / एवं 'सर्वधातुभ्यष्ट्रन्' इत्यादावपि / अत एव दशपाद्यामिनित्येव पठितमिति दिक् / हृपिषि // हरतेः कीर्तयतेश्च 'अच इः' इति प्राप्ते इतरेषां तु 'इगुपधात्' इति कित्त्वे प्राप्ते वचनम् / 'हरिश्चन्द्रार्कवाताश्वशुकभेकयमाहिषु / कपी सिंहे हरेऽर्जेऽशौ शके लोकान्तरे पुमान् / वाच्यवल्लिङ्गहरितोः' इति मेदिनी / 'वर्तिर्भेषजनिर्माण नयनाञ्जनलेखयोः / मात्रानुलेपनीदीपदशादीपेषु योषिति / वेदिः स्यात्पण्डिते पुमान् / स्त्रियामङ्गुलिमुद्रायां स्यात्परिष्कृतभूतले' इति च / 'कीर्तिः प्रसादयशसोर्विकारे कर्दमेऽपि च' इति विश्वः / ‘सा रसवत्ता विगता नवका विलसन्ति चरति नो कङ्कः / सरसीव कीर्तिशेषं गतवति भुवि विक्रमादित्ये' इति कविप्रयोगः। इगुपधात्कित् // इनः कित्त्वं विधीयते / केचित्तु किरिति पठित्वा इनोऽपवादः किप्रत्यय इत्याहुः / तन्न / प्रत्ययवरेण प्रातिपदिकानामन्तोदात्ततापत्तेः / न चेष्टापत्तिः / 'अग्निः पूर्वेभिर्ऋषिभिः / ऋषिर्विप्रः काव्येन / शुचिर्विप्रः शुचिः कविः' इत्यादौ ऋषिशुचिप्रभृतीनामाद्युदात्तत्वदर्शनात् / कथं तर्हि 'अक्षर्मा दिव्य कृषिमित्कृषस्व' इत्यादौ कृषिशब्दस्यान्तोदात्ततेति चेत् / 'इक कृष्यादिभ्यः' इतीक्प्रत्यये सतीति गृहाण / 'ऋषिर्वेदे वसिष्ठादौ दीधितौ च पुमानयम् / शुचिर्तीष्माग्निशृङ्गारेष्वौषधे शुद्धमन्त्रिणि' इति मेदिनी / यत्तु माधवेन ‘अग्निः पूर्वेभिरित्यग्व्याख्यावसरे ऋषिशब्दस्येप्रत्ययान्तत्वमङ्गीकृत्य, 'ऋष्यन्धक' इति निपातनालघूपधगुणाभाव इत्युक्तं तत्प्रकृतसूत्रविस्मरणमूलकत्वादुपेक्ष्यम् / भ्रमेः // 'भृमि विद्यथावसवोऽजुषन्त' इति मन्त्र भूमि भ्रमणशीलन्दरिद्रञ्जनमिति वेदभाष्यम् / क्रमितमि // ‘क्रमु पादविक्षेपे / ' 'कृमिना क्रिमिवत्कीटे लाक्षायां क्रिमिले खरे' इति विश्वमेदिन्यो। 'पारतं पारदं वाऽस्त्री वासरः क्रिमिवत्कृमिः' इति द्विरूपकोशः / तिमिरिति // 'तमु काढायाम् / ' 'अस्ति मत्स्यस्तिमिर्नाम तथा चास्ति तिमिङ्गिलः / तिमिलिगिलोऽप्यस्ति तद्गिलोऽप्यस्ति लक्ष्मण' इति रामायणे सप्तमे काण्डे रामवाक्यम् / 'शितिः कृष्णेऽसिते भूर्जे' इति विश्वः / 'शितिभूर्जे ना रसितासितयोस्त्रिषु' इति मेदिनी। मनेरुश्च // 'मुनिः पुंसि वसिष्ठादौ वङ्गसेनतरौ जिने' इति मेदिनी / For Private And Personal Use Only
Page #646
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 644 सिद्धान्तकौमुदीसहिता [उणादिषु 563 / वर्णेलिश्वाहिरण्ये / वणिः सौत्रः / अस्य बलिरादेशः / करोपहारयोः पुंसि बलि: प्राण्यङ्गके स्त्रियाम् / वबयोरैक्यात वलिः / हिरण्ये तु वर्णिः सुवर्णम् / 564 / वसिवपियजिराजिवजिसदिहनिवाशिवादिवारिभ्य इञ् / वासिश्छेदनवस्तुनि / वापिः / वापी / याजिर्यष्टा / राजिः / राजी / ब्राजिातालिः / सादिः सारथिः / निघातिर्लोहघातिनी / वाशिरग्निः / वादिविद्वान् / वारिर्गजबन्धनी / जले तु क्लीबम् / बाहुलकाद्वारि: पथिकसंहतौ / 565 / नहो भश्च / नाभिः स्यात्क्षत्रिये पुंसि / प्राण्यङ्गे तु स्त्रियाम्। पुंस्यपीति केचित् / 566 / कृषद्धिश्छन्दसि / कार्षिः / 567 / श्रः शकुनौ / शारिः शारिका / 568 / कृत्र उदीचां कारुषु / कारिः शिल्पी / 569 / जनिघसिभ्यामिण् / जनिर्जननम् / घासिर्भक्ष्यमग्निश्च / वर्णेः॥ वलिदैत्यप्रभेदे च करचामरदण्डयोः। उपदायां पुमान् स्त्री तु जरया श्लथचर्मणि। गृहदाहप्रभेदे च जठरावयवेऽपि च' इति मेदिनी / वसि // एभ्यो दशभ्य इस्यात् / वाशिरिति // दन्त्यसः / सूत्रे अष्टमस्तु तालव्यशः / द्वयमपि च्छेदनसाधने प्रयुज्यते / वास्यादीनामिव करणानाङ्कर्तृव्यापार्यत्वनियमादिति वैशेषिकाः। वास्यर्थमित्यत्र 'स्कोः' इति सलोपः प्राप्नोतीति भाष्यम् / 'वाशीमन्य अष्ठिमन्तो मनीषिणः' इति मन्त्रः। 'राजिः स्त्री पङ्किरेखयोः' इति मेदिनी / इह वादीति ण्यन्तो निर्दिष्टः / बाहुलकादण्यन्तादपि / तथा च भूवादिसूत्रे 'वदन्तीति वादयो वाचकाः' इति न्यासकारादयः / 'वारिर्गिजबन्धयोः स्त्री क्लीबेऽम्बुनि वालके / वारी स्याद्गजबन्धन्याङ्कलश्यामपि योषिति' इति च / 'वारिः स्मृता सरस्वत्यां वारिहीभेदनीरयोः / वारी घटीभवन्धन्योः' इति विश्वः / 'हारिः पथिकसन्तानद्यूतादिभङ्गयोः स्त्रियाम्' इति मेदिनी / खटतेः खाटिः / ‘खाटिस्त्वसद्हेऽपि स्यात् किणे शवरथे स्त्रियाम्' इति मेदिनी / नहो भश्च // स्त्रियामिति // लिङ्गानुशासने स्त्रियामित्यधिकारे नाभिरक्षत्रिय इति सूत्रितत्वादिति भावः / केचिदिति // तथा च मेदिनी / 'नाभिर्मुख्यनृपे चक्रमध्यक्षत्रिययोः पुमान् / द्वयोः प्राणिप्रतीके स्यात् स्त्रियाङ्कस्तूरिकामदे' इति / भारविश्च प्रायुत / 'समुल्लसत्पङ्कजकोशकोमलैरुपाकृतश्रीण्युपनीवि नाभिभिः' इति / श्रः // 'शारिर्नाक्षोपकरणे स्त्रियां शकुनिकान्तरे / युद्धार्थगजपर्याणे व्यवहारान्तरेऽपि च' इति मेदिनी / कपिलकादित्वाल्लत्वम् / शालिस्तु कलमादौ च गन्धमार्जारके पुमान्' इति मेदिनी / कृञः // 'कारिः स्त्रियां क्रियायां स्याद्वाच्यलिङ्गस्तु शिल्पिनि' इति मेदिनी / जनिघसिभ्यामिण // प्रत्ययान्तरकरणं स्वरार्थम् / यच्च घासिञ्जघास / आजिन्न जग्मुः सुकृतोतमर्णः' इत्यादौ घास्याजिपाणिप्रभृतीनामन्तोदात्तत्वात् / जनिरिति स्त्रीलिङ्गम् / 'कृदिकारात्' इति पक्षे ङीष् / 'जनी For Private And Personal Use Only
Page #647
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Acharya Shri चतुर्थः पादः] बालमनोरमा / 645 570 / अज्यतिभ्यां च / आजि: संग्रामः / आति: पक्षी / 571 / पादे च / पदाजिः / पदातिः / 572 / अशिपणाय्यो रुडायलुकौ च / अशेरुट् / राशि: पुजः / पणायतेरायलुक् / पाणि: करः / 573 / वातेर्डिच्च / वि: पक्षी / त्रियां वीत्यपि / 574 / प्रे हरतेः कूपे / प्रहिः कुप: / 575 / नौ व्यो यलोपः पूर्वस्य च दीर्घः / व्येन इण् स्याद् यलोपश्च नेर्दीर्घः / नीवि: नीवी / वस्त्रग्रन्थौ मूलधने च। 576 / समाने ख्यः स चोदात्तः / समानशब्दे उपपदे ख्या इत्यस्मादिण् स्यात् स च डिच्च यलोपश्च / समानस्य तूदात्तः स इत्यादेशश्च / समानं ख्यायते जनैरिति सखा। सीमन्तिनीवध्वोरुत्पत्तावोषधीभिदि' इति मेदिनी / 'आजिः सभावनौ युद्धे' इति विश्वः / 'शरारिराजिराटिश्च' इत्यमरः / पादे च // पादे उपपदे अज्यतिभ्यामिण / 'पादस्य पदाज्यातिगोपहतेषु' इति पदादेशः। अत एव निर्देशात् बाहुलकादजेर्वीभावो न / ‘पदातिपत्तिपदगपादातिकपदाजयः / पद्गश्च पदिकश्च' इत्यमरः / आशि // ‘राशिर्मेषादिपुञ्जयोः' इति मेदिनी / प्रे॥ 'पुंस्येवान्धुः प्रहिः कूप उदपानन्तु पुंसि वा' इत्यमरः / नौ // 'स्त्रीकटीवस्त्रबन्धेऽपि नीवी परिपणेऽपि च' इत्यमरः / परिपणं मूलधनम् / समाने // इण् स्यादिति // यत्तूज्ज्वलदत्तेनोक्तम् / इञ् स्यात् स चोदात्त इतीति / तन्न / इणः सन्निधानात् इस्रो विच्छिन्नत्वात् / यदपि तेनैव नौव्य इति पूर्वसूत्रे उक्तम् / इञवात्रानुवर्तते, न विण् / उत्तरत्रोदात्तवचनाज्ज्ञापकादिति / तदपि न, स चोदात्त इति हि नायं प्रत्ययं निर्देष्टुं तच्छब्दः, किं तु समानशब्दस्य स्थाने विधेयं निर्देष्टुं शब्दस्वरूपपरः / तथा च कथं ज्ञापकता / यदपि स इअिति व्याख्याय समानस्य सभाव इति प्रक्रियास्मरणमात्रबृतम् / तदपि न / विधायकाभावात् / यदपि स्वरमञ्जरीकारादिभिः 'समानस्य छन्दसि' इति सूत्रेणेत्युक्तं तदपि न / लोके सखिशब्दस्यासाधुतापत्तेः / अपि च—'सखा सखायमब्रवीत् / सखा सख्ये अयचत् / सखायस्त्वा ववृमहे / सखा सखिभ्य ईड्यः / ' इत्यादिमन्त्रेषु सर्वत्र सखिशब्द आद्युदात्त एवेति निर्विवादम् / एवञ्च इञ् उदात्त इति व्याख्यानं वेदवार्तानभिज्ञत्वप्रयुक्तमेव / तथा च ज्ञापकोपन्यासोऽपि गर्भस्रावणैव गतः। अपि च। त्वत्पक्षे 'सख्य इण्' इत्येव सूत्र्यता, किं स चेत्यादिना, शब्दतोऽर्थतश्च गौरवप्रसङ्गात् / अपि च / इणित्यपि मास्तु / नौव्य इत्यादित्रिसूत्री जनिघसिभ्यामित्यतः प्रागेव उपेयताम् / एवं हि महदेव लाघवम् / स चोदात्त इति मण्डूकप्लुतो ज्ञापकस्यानाश्रयणात् / ननु 'वातेर्डिच' इति डित्त्वोपजीवनार्थमित्थं पाठ इति चेत् / तही प्रकरणानन्तरमेव इप्रकरणं सर्वत्रास्तु / नौव्य इति सूत्रे इञ् पठ्यताम् / आङि For Private And Personal Use Only
Page #648
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदीसहिता [उणादिषु 577 / आङि श्रिहनिभ्यां हस्वश्च / इण् स्यात्स च डित् आङो ह्रस्वश्च / स्त्रियः पाल्यश्रिकोटयः / सर्प वृत्रासुरेऽप्यहिः / / 578 / अच इः। रवि: / पविः / तरिः / कविः / अरिः / अलिः / 579 / खनिकष्यज्यसिवसिवनिसनिध्वनिग्रन्थिचलिभ्यश्च / खनिः / कषिर्हिस्रः / अजिः / असि: / वसिर्वस्त्रम् / वनिरग्निः / सनिर्भक्तिर्दानं च / ध्वनिः / ग्रन्थिः / चलि: पशुः / 580 / तेश्छन्दसि / वतिः / 581 / भुजेः किच्च / भुजिः / 582 / कृगृकुटिभिदिछिदिभ्यश्च / इ: कित्स्यात् / किरिर्वराहः / गिरिर्गोत्राक्षिरोगयोः / गिरिणा काणः गिरिकाणः / शिरिः शलभो हन्ता च / पुरिनगरं राजा नदी च / कुटि: शाला शरीरं च / भिदिर्वत्रम् / छिदि: परशुः। श्रीत्यस्यानन्तरं वसिवपीत्यादि पठ्यताम् / इञ् चानुवर्तिष्यते, न तु डित्त्वम् / वकाराद्यनेकधातुपाठवैयर्थ्यापत्तेरिति दिक् / तस्मादस्य उक्तैव व्याख्या सुधीभिरादर्तव्या / दशपादीवृत्तिप्रन्थाः, ख्याधातौ माधवग्रन्थः, 'यस्ते सखिभ्य आवरम्” इत्यादीन् मन्त्रान् व्याचक्षाणानां वेदभाष्यकृतामनेकप्रघट्टकस्थिता ग्रन्थाश्चहानुकला इत्यवधेयम / अधिः कोणः / अमरोक्तिमाह / स्त्रिय इति // एवञ्च 'सुप्रातसुश्व' इति सूत्रे चतुरश्रेति तालव्यपाठ एव / केषाञ्चिद्दन्त्यपाठस्तु एतत्सूत्रानालोचनमूलक इत्यवधेयम् / न चैतावता चतुरस्रमिति दन्त्यप्रयोगोऽशुद्ध इति भ्रमितव्यम् / अकारान्तेन दन्त्यगर्भणास्रशब्देन विग्रहे तत्सौष्टवात् / न च तादृशशब्देऽपि विप्रतिपत्तव्यम् / ‘अस्रः कोणे कचे पुंसि क्लीबमश्रुणि शोणिते' इति मेदिनीकोशात् / 'अहिवृत्रासुरे सर्प' इति मेदिनी / अच इः // 'कुङ् शब्दे / ' 'कविर्वाल्मीकिशुकयोः / सूरौ काव्यकरे पुंसि स्यात् खलीने तु योषिति' इति मेदिनी। खनिकष्य // 'खनिः स्त्रियामाकरः स्यात्' इत्यमरः / ण्यन्तात् 'अच इ.' इतीप्रत्यये खानिरपि / 'खनिरेवं मता खानिः' इति द्विरूपकोशः / 'ग्रन्थिस्तु प्रन्थिपणे ना बन्ध रुग्भेदपर्वणोः' इति मेदिनी। वृतेश्छन्दसि // बाहुलकालोकेऽपि / 'वर्तिर्भेषजनिर्माणे नयनाञ्जनलेखयोः / गात्रानुलेपनीदीपदशादीपेषु योषिति' इति मेदिनी / कृग // यत्तु 'न पदान्त' इति सूत्र न्यासकारहरदत्ताभ्यां किर्योर्गिर्योरित्यत्र 'कृपोरिक्च' इत्युपन्यस्तम् / तत् क्वचिदुणादिवृत्तिषु अन्वेषणीयम् / कुर्वोः गुर्वोः / 'कृयोरुक्च' इति वा पाठ: शोधनीयः / 'वराहः सूकरो गृष्टिः कोल: पोत्री किरिः किटिः' इत्यमरः / 'इगुपधज्ञाप्री' इति कप्रत्यये किरोऽपि / 'स्यात्किरौ किरः प्रोक्तः पथः पथि' इति द्विरूपकोशः / 'गिरिर्ना नेत्ररुग्भिदि / अद्रौ गिरिजके योषिद्गीर्णे पूज्ये पुनस्त्रिषु' इति मेदिनी / कुटिरिति॥ डीषि तु कुटी / 'कुट: कीटे पुमानस्त्री घटे स्त्रीपुंसयोहे / कुटी स्यात्कुम्भदास्याश्च सुरायां For Private And Personal Use Only
Page #649
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः पादः] बालमनोरमा / 583 / कुडिकम्प्योर्नलोपश्च / कुडि दाहे / कुडिदेहः / कपिः / 584 / सर्वधातुभ्यो मनिन् / क्रियत इति कर्म / चर्म / भस्म / जन्म / शर्म / स्थाम बलम् / इस्मन्निति ह्रस्व: / छद्म / सुत्रामा / 585 / बृहे!च्च / नकारखाकारः / ब्रह्म तत्त्वं तपो वेदो ब्रह्मा विप्रः प्रजापतिः 586 / अशिशकिभ्यां छन्दसि / अश्मा / शक्मा / 587 / हभृध्रसस्तृशृभ्य इमनिच् / हरिमा काल: / भरिमा कुटुम्बम् / धरिमा रूपम् / सरिमा वायुः / स्तरिमा तल्पम् / शरिमा प्रसवः / 588 / जनिमृङ्भ्यामिमनिन् / जनिमा जन्म / मरिमा मृत्युः / 589 / वेञः सर्वत्र / छन्दसि भाषायां चेत्यर्थः / वेमा तन्तुवायदण्डः / अर्धर्चादिः / सामनी वेमनी इति वृत्तिः / 590 / नामन् सीमन् व्योमन् रोमन् लोमन् पाप्मन् धामन् / सर्वे सप्त अमी निपात्यन्ते / नायतेऽनेनेति नाम / सिनोतेर्दीधः / सीमा / सीमानौ / सीमानः / पक्षे डाप् / सीमे। सीमा: / व्येनोऽन्त्यखोत्वं गुणः / व्योम / रौतेः / रोम / लोमा पाप्मा पापम् / धाम परिमाणं तेजश्च / चित्रगुच्छके' इति मेदिनी / 'कपिर्ना सिहके शाखामृगे च मधुसूदने' इति च / सर्वधातुभ्यः // कर्म व्याप्ये क्रियायाञ्च पुन्नपुंसकयोर्मतम्' इति रुद्रः / 'चर्म कृत्तौ च फलके' इति मेदिनी / बृहेः // ‘ब्रह्म तत्त्वतपोवेदे न द्वयोः पुंसि वेधसि / ऋत्विग्योगभिदोर्विप्रे' इति मेदिनी / अश्मेति // भाषायामपीष्यते / छन्दसीति तु शकिनैवान्वेति / हृभृ॥ शरिमेति // ‘शू हिंसायाम् / ' एतच्चोज्ज्वलदत्तरीत्योक्तम् / दशपाद्यान्तु शृणातिर्नेष्यते / तत्स्थाने सः प्रत्ययश्च दीर्घादिर्निच्च ‘स्तृभृसृभ्य ईमन्' इति छन्दोग्रहणञ्चानुवर्तितम् / युक्तञ्चैतत् / 'पिपृतानो भरीमभिः / वातस्य सर्गो अभवत्सरीमणि / स्तीर्ण बर्हिः सृष्टरीमा जुषाणा / यस्यामतिर्भा अदिद्युतत्सवीमनिहिरण्यपाणिः / ' इत्यादिमन्त्राणां तद्भाष्यस्य चानुगुणत्वादुक्तप्रयोगाणां भाषायामदर्शनेन छन्दोऽनुवृत्तेाय्यत्वाच्च / अत एव 'वेञः सर्वत्र' इति सूत्रे सर्वत्रग्रहणं करिष्यति / नामन् सीमन् // सर्वे इति // मनिनन्ता इति शेषः / नामेति // 'ना अभ्यासे' मलोपः / सीमेति // ‘सीमसीमे स्त्रियामुभे' इत्यमरः / पाप्मेति // पिबतेः पुमागमः / बाहुळकादन्यतोऽपि / 'यक्ष पूजायाम् / ' 'क्षयः शोषश्च यक्ष्मा च' इत्यमरः / 'घू प्रेरणे / ' सोमा चन्द्रः / 'डु धाञ्।' 'धाम देहे गृहे रश्मौ स्थाने 1. ध्यामन् इति क्वचित्पाठः / For Private And Personal Use Only
Page #650
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Adi www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 648 सिद्धान्तकौमुदीसहिता [उणादिषु 591 / मिथुने मनिः / उपसर्गक्रियासंबन्धो मिथुनम् / न तु स्त्रीपुंसौ / स्वरार्थमिदम् / सुशर्मा / 592 / सातिभ्यां मनिन्मनिणौ / स्यतीति साम / सामनी / आत्मा / 593 / हनिमशिभ्यां सिकन् / हंसिका हंसयोषिति / मक्षिका / 594 / कोररन् / कवरः / 595 / गिर उडच् / गरुडः / 596 / इन्देः कमिनेलोपश्च / इदम् / 597 / कायतेर्डिमिः / किम् / 598 / सर्वधातुभ्यः ट्रन् / वस्त्रम् / अस्त्रम् / शस्त्रम् / इस्मन्निति ह्रस्वत्वम् / छादनाच्छत्रम् / 599 / भ्रस्जिगमिनमिहनिविश्यशां वृद्धिश्च / नाष्ट्रः / गान्त्रं शकटम् / नान्त्रं स्तोत्रम् हान्त्रं मरणम् / वैष्ट्रं पिष्टपम् / आष्ट्रमाकाशम् / 600 / दिवेर्युच्च / द्यौत्रं ज्योतिः / 601 / उपिखनिभ्यां कित् / उष्ट्रः / खात्रं खनित्रं जलाधारश्च / जन्मप्रभावयोः' इति मेदिनी / सुशर्मेति // कृदुत्तरपदस्वरेणान्तोदात्तं पदम् / मनिनि तु मद्ध्योदात्त स्यात् / सुष्टु शृणातीति विग्रहः / स्यति दुःखयति दुरध्येयत्वात्साम / 'साम क्लीबमुपायस्य भेदे वेदान्तरेऽपि च' इति मेदिनी / 'आत्मा पुंसि स्वभावेऽपि प्रसन्नमनसोरपि। धृतावपि मनीषायां शरीरब्रह्मणोरपि' इति च / हनि // 'मक्षिका भम्भराळी स्यात्' इति हारावळी / कवरः पाठकः / ‘बवयोरैक्यात्कबरी केशविन्यासः / 'जानपद' इति ङीष् / अन्यत्र कबरा / गिर उडच् // इदं सूत्रं केचिन्न पठन्ति / अत एव गरुता डयत इति विगृह्य डप्रत्यये पृषोदरादित्वाल्लोपे गरुडशब्दं व्युत्पादयन्ति / इन्देः कमिः // उज्ज्वलदत्तस्तु कमिनिति नितं पपाठ / तन्न / 'इदन्त पात्रमिन्द्रियाणाम् / इदं ते सौम्यं मधु' इत्यादौ नित्स्वराभावात् / दशपाद्यान्तु 'इणो दमक्' इति सूत्रितम् / इदमिति // सर्वनामशब्दोऽयं प्रत्यक्षपरामर्शी / कायतेर्डिमिः // 'प्रयोजनाभावादेव मकारस्येत्संज्ञाविरहे सिद्ध इकारः उच्चारणार्थः / दशपाद्यान्तु डिमित्येव सूत्रितम् / किमिति सर्वनाम। सर्व // दशपाद्यान्तु ष्ट्रनित्येव सूत्रम् / अत एवाधिकं प्रक्षिप्तमित्याहुः / 'असु क्षेपणे / ' 'अस्त्र प्रहरणे चापे करवाले नपुंसकम्' इति मेदिनी / ‘पत्तन्तु वाहने पणे स्यात्पक्षे शरपक्षिणोः' इति मेदिनी / पिबतेः पात्रम् / षित्वात् ङीष् / 'पात्र्यमत्रे त्रिषु क्लीनं खुवादौ राजमन्त्रिणि / तीरद्वयान्तरे योग्ये' इति मेदिनी। भ्रस्जि // ‘क्लीबेऽम्बरीषं भ्राष्ट्रो ना' इत्यमरः / वैष्ट्रं विष्टपम् / उष्ट्रः For Private And Personal Use Only
Page #651
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः पादः] बालमनोरमा / 649 602 / सिविमुच्योष्टेरू च / सूत्रम् / मूत्रम् / 603 / अमिचिमिदिशसिभ्यः क्त्रः। आत्रम् चित्रम् / मित्तूम् / शस्त्रम् / 604 / पुवो हस्वश्च / पुत्रः। 605 / स्त्यायतेईट् / स्त्री। 606 / गुधृवीपचिवचियमिसदिक्षदिभ्यस्त्रः। गोत्रं स्यान्नामवंशयोः / गोत्रा पृथिवी / धत्रै गृहम् / वेत्रम् / पक्रम् / वक्रम् / यन्त्रम् / सत्तम् / क्षत्तम् / 607 / हुयामाश्रुभसिभ्यस्त्रन् / होत्रम्। यात्रा / मात्रा। श्रोत्रम् / भला। 608 / गमेरा च / गात्रम् / 609 / दादिभ्यश्छन्दसि / दात्रम् / पात्रम् / 610 / भूवादिगृभ्यो णित्रन् / भावित्रम् / वादित्रम् / गारित्रमोदनम् / 611 / चरेत्ते / चारित्रम् / इति // 'उष्ट्र क्रमेलकमयमहाङ्गाः' इत्यमरः / सिविमुच्योः // सूत्रिमूत्रिभ्यां चुरादिण्यन्ताभ्यामेरचा रूपसिद्धेः आधुदात्तार्थमिदं सूत्रम् / न च घना तत्सिद्धिः / अचा घओ बाधात् / ‘सूत्रन्तु सूचनाग्रन्थे सूत्रतन्तुव्यवस्थयोः' इति विश्वः / अमिचिमिदि // आन्त्रमिति // 'अनुनासिकस्य विझलोः' इति दीर्घः / 'चित्राश्वपर्णीगोतुम्बीसुभद्रादन्तिकासु च / मायायां सर्पनक्षत्रनदीभेदेषु च स्त्रियाम् / तिलकालेख्ययोः क्लीबं कर्बुराद्भुतयोरपि / तयुक्तयोस्त्वन्यलिङ्गम्' इति मेदिनी / 'मित्रं सुहृदि न द्वयोः सूर्ये पुंसि' इति च / 'शस्त्रं लोहास्त्रयोः क्लीबं छुरिकायान्तु योषिति' इति च / प्रत्ययस्वरेणैव अन्तोदात्ताः। 'शुन आन्त्राणि पेचे / चित्रं देवानाम् / मित्रं त्रयम् / शस्त्रस्य शस्त्रमसि' इत्यादि / पुवो हस्वश्च // पुत्र इति // पुनातीति पुत्रः / पुनामा नरकः तस्मात् त्रायते इति तु व्युत्पत्त्यन्तरम् / स्त्रीति // डित्वाहिलोपः / वलि लोपः / टित्त्वात् डीप् / 'त्री योषिदबला योषा नारी सीमन्तिनी वधूः' इत्यमरः / गुधृ // 'गुङ् अव्यक्ते शब्दे / ' 'गोत्रा भूगव्ययोर्गोत्रः शैले गोत्रं कुलाख्ययोः / सम्भावनीयबोधे च काननक्षेत्रवमसु' इति मेदिनी / ‘सत्रमाच्छादने यज्ञे सदा दाने धनेऽपि च' इत्यमरः / ‘सत्रं यज्ञसदादानाच्छादनारण्यकैतवे' इति मेदिनी / हुयामा // होत्राशब्दः ऋत्विक्ष्वपि स्त्रीलिङ्ग इति ‘होत्राभ्यश्छः' इति सूत्रे हरदत्तादयः / श्रूयते च / 'कारादरोत्राश्विनावाम्' इति / होत्रं हविः / 'यात्रा तु यातनेऽपि स्यात् गमनोत्सवयोः स्त्रियाम् / मात्रा कर्णविभूषायां वित्ते माने परिच्छदे / अक्षरावयवे स्वल्पे क्लीबं कात्स्न्येऽवधारणे' इति च मेदिनी। 'कर्णशब्दग्रहौ धौत्रं श्रुतिः स्त्री श्रवणं श्रवः' इत्यमरः / 'भस्त्रा चर्मप्रसेविका' इति च / गमेः // 'गाप्रमङ्गे कलेबरे / स्तम्बेरमाप्रजङ्घादिविभागेऽपि समीरितम्' इति विश्वः / चरेर्वृत्ते // चारित्रमितेि // इत्रप्रत्यये चरित्रमित्युक्तम् / For Private And Personal Use Only
Page #652
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Acharya Shri Kallassa 650 सिद्धान्तकौमुदीसहिता [उणादिषु 612 / अशित्रादिभ्य इत्रोत्रो। अशित्रम् / वहित्रम् / धरित्री मही / त्रैङ् एवमादिभ्य उत्रः / त्रोत्रं प्रहरणम् / वृञ् वरुत्रं प्रावरणम् / 613 / अमेर्द्विषति चित् / अमित्रः शत्रुः / 614 / आः समिग्निकषिभ्याम् / संपूर्वादिगो निपूर्वात्कषेश्च आ स्यात् / / स्वरादित्वादव्ययत्वम् / समया / निकषा / 615 / चितेः कणः कश्च / बाहुलकादगुणः / चिक्कणं मसृणं स्निग्धम् / 616 / मूचेः स्मन् / सूक्ष्मम् / 617 / पातेड्डेम्सुन् / पुमान् / 618 / रुचिभुजिभ्यां किष्यन् / रुचिष्यमिष्टम् / भुजिष्यो दासः / 619 / वसेस्तिः / वस्ति भेरधो द्वयोः / वस्तय: स्युर्दशासूत्रे / बाहुलकात् शास: शास्तिः राजदण्डः / विन्ध्याख्यमगमस्यतीत्यगस्तिः / शकन्ध्वादिः / 620 / सावसेः / स्वस्ति / स्वरादिपाठादव्ययत्वम् / 621 / वौ तसेः / वितस्ति: / 622 / पदिप्रथिभ्यां नित् / पत्तिः / प्रथितिः / तितुत्रेष्वग्रहादीनाम् (वा 4313) इतीट् / 623 / दृणातेर्हस्वश्च / दृतिः / न च तत एव प्रज्ञाद्यणा सिद्धे किमनेनेति वाच्यम् / स्वरे विशेषात् / धरित्रीति // गौरादित्वान्ङीष् / अमेः // इत्र एवानुवर्तते नोत्रः / आः समिण // समयानिकषाशब्दौ समीपवाचकौ / बाहुलका?षेः दोषा। दिवेर्गुणाभावश्च / दिवा। स्वदेर्धश्च / स्वधा इत्यादि / अमरोक्तमाह। चिकणमिति // सूचेः // सूक्ष्ममिति // णिलोपे कृते कुत्वादि / 'सूक्ष्म स्यात्कण्टकेऽध्यात्मे पुंस्यणौ त्रिषु चाल्पके' इति मेदिनी। पातेः // डित्वाहिलोपः / उकारनकारयोस्तु फलं 'पुंसोऽसुङ्ः' इति सूत्रेऽवोचाम / यत्तूज्ज्वलदत्तेनोक्तम् / उकार उच्चारणार्थ इति। तदाकरविरुद्धम् / 'पुंसोऽसुङ्' इति सूत्रे न्यासरक्षिताभ्यां पुनातेर्मक् सुन् ह्रस्वश्चेति पठितम् / पूजो डुम्सुन्नित्यन्ये / भाष्ये तु सूतेः सप्प्रसवे पुमानित्युक्तम् / 'उपेयप्रतिपत्त्यर्था उपाया अव्यवस्थिताः' इति तु तत्त्वम् / रुचिभुजि // ‘भुजिष्यस्तु स्वतन्त्रे च हस्तसूत्रकदासयोः / स्त्रियां दासीगणिकयोः' इति मेदिनी / वसेस्तिः // ‘वस्तिर्द्वयोर्निरूढे नाभ्यधोभूमिदशासु च' इति मेदिनी / 'अगस्तिः कुम्भयोनौ च वङ्गसेनतरौ पुमान्' इति च / सावसेः॥ अस भुवि बहुलवचनान्न भूभावः / वौ तसेः // 'अङ्गुष्ठे सकनिष्ठे स्याद्वितस्तिदिशाङ्गुलः' इत्यमरः / 'स्त्रीपुंसयोर्वितस्तिः स्यात्' इत्यमरमाला / दृणातेः // 'दृतिश्चर्मपुटे For Private And Personal Use Only
Page #653
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः पादः] बालमनोरमा / 624 / कृतृकृषिभ्यः कीटन् / किरीटं शिरोवेष्टनम् / तिरीटं सुवर्णम् / कृपीटं कुक्षिवारिणोः / 625 / रुचिवचिकुचिकुटिभ्यः कितन् / रुचितमिष्टम् / उचितम् / कुचितं परिमितम् / कुटितं कुटिलम् / 626 / कुटिकुषिभ्यां क्मलम् / कुटमलम् / कुष्मलम् / 627 / कुषेलेश्च / कुल्मलं पापम् / 628 / सर्वधातुभ्योऽसुन् / चेत: / सर: / पयः / सदः / 629 / रपेरत एच्च / रेपोऽवद्यम् / 630 / अशेर्देवने युद् च / देवने स्तुतौ / यशः / 631 / उब्जेर्बले बलोपश्च / ओजः / 632 / श्वेः संप्रसारणं च / शवः / शवसी / बलपर्यायोऽयम् / मत्स्ये ना' इति मेदिनी / ‘कृतृकृपिकपिभ्यः' इति पठित्वा कृपीट इति चतुर्थमुदाहृतम् / 'कृपो रो लः' इत्यत्र न्यासे तु कृकृषिभ्यामिति पठ्यते / अतस्तरतिरत्न प्रक्षिप्त इति कश्चित् / तरतेश्चेति पृथक् पठित्वा 'तिरीटः कूलवृक्षः' इति कश्चित् व्याख्यत् / रुचिवचि // 'उचितं तु भवे न्यस्ते मिते जाते समञ्जसे' इति मेदिनी / 'कुङ्मलो मुकुले पुंसि न द्वयोर्नरकान्तरे' इति मेदिनी / कुटिकुषि // कुष्मलं छर्दनं विकसितमित्यन्ये / सर्वधातुभ्योऽसुन् // दशपाद्यादिष्वसुन् इत्येव सूत्रम् / सर इति // अयं स्त्रियामपि / गौरादित्वान्ङीष् / 'सरसी तु महासरः' इति शब्दार्णवः / महान्ति सरांसि सरस्य इति भाष्यम् / पय इति // 'पीट् पाने / ' 'पयः स्यात् क्षीरनीरयोः' इति मेदिनी / 'वर्च दीप्तौ / ' 'व! नपुंसकं रूपे विष्ठायामपि तेजसि / पुंसि चन्द्रस्य तनये' इति मेदिनी / ‘णभ हिंसायाम् / ' भौवादिकः कैयादिकश्च / 'तप सन्ताप', 'षह मर्षणे', 'मह पूजायाम्', 'तमु ग्लानौ', 'रञ्ज रागे' एभ्यः षड्भ्योऽसुनि सान्तम् / अच्कयोरदन्तमपि / 'नभन्तु नभसा सार्धन्तपन्तु तपसा सह / सहञ्च सहसा सार्ध महञ्च महसा सह / तमेन च तमः प्रोक्तं रजेनापि रजः समम्' इति द्विरूपकोशः / 'तपो लोकान्तरेऽपि च / चान्द्रायणादौ धर्मे च पुमान् शिशिरमाघयोः / सहो बले ज्योतिषि च पुंसि हेमन्तमार्गयोः' इति च मेदिनी / 'मह उत्सवतेजसोः' इति च / 'तमः क्लीबं गुणे शोके सैहिकेयान्धकारयोः' इति रभसः / तमो ध्वान्ते गुणे शोके क्लीबं वा ना विधुन्तुदे' इति मेदिनी / नभोरजसी तु व्याख्यास्येते / रुदिर् ‘रोदश्च रोदसी चापि दिवि भूमौ पृथक् पृथक् / सह प्रयोगेऽप्यनयो रोदस्यावपि रोदसी' इति विश्वः। 'वी गल्यादिषु / ' 'वयः पक्षिणि बाल्यादौ यौवने च नपुंसकम्' इति मेदिनी / 'अन प्राणने / ' अनो भक्तं तत्स्थानञ्च / 'अनोऽश्मायःसरसां जातिसंज्ञयोः' इति टचि तु अदन्तम् / 'पाकस्थानं महानसम्' इत्यमरः / रेपोऽवद्यमिति // 'अरेपसा तन्वा' इति मन्त्रे निरवद्ययेति भाष्यम् / ओजो बले / For Private And Personal Use Only
Page #654
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 652 सिद्धान्तकौमुदीसहिता [उणादिषु 633 / श्रयतेः स्वाङ्गे शिरः किच्च / श्रयतेः शिर आदेशोऽसुन् किञ्च / शिरः / शिरसी। 634 / अर्तेरुच्च / उरः / 635 / व्याधौ शुद् च / अर्शो गुदव्याधिः / 636 / उदके नुद् च / अर्तेरसुन्स्यात्तस्य च नुट् / अर्णः / अर्णसी / 637 / इण आगसि / एनः / 638 / रिचेर्धने घिच्च / चात्प्रत्ययस्य नुट् / धित्त्वात्कुत्वम् / रेक्णः सुवर्णम् / 639 / चायतेरन्ने ह्रस्वश्च / चनो भक्तम् / 640 / वृङ्शीङ्भ्यां रूपस्वाङ्गयोः पुद् च / वर्पो रूपम् / शेपो गुह्यम् / 641 / स्रुरीभ्यां तुद् च / स्रोतः / रेतः / 642 / पातेबेले जुद् च / पाजः / पाजसी / 'ओजो दीप्ताववष्टम्भे प्रकाशवलयोरपि' इति मेदिनी। श्रयतेः // 'उत्तमाझं शिरः शीर्षम्' इत्यमरः / शृणातेर्घबर्थे कप्रत्यये अदन्तोऽपि 'शिरोवाची शिरोऽदन्तो रजोवाची रजस्तथा' इति कोशान्तरम् / 'पिण्डं दद्यात् गयाशिरे' इति वायवीये / 'कुण्डलोदृष्टगण्डानां कुमाराणां तरस्विनाम् / निचकर्त शिरान्द्रौणिर्नालेभ्य इव पङ्कजान्' इति महाभारतम् / अतः // 'उरो वत्सं च वक्षश्च' इत्यमरः / रिचेः // इह दशपादीवृत्तौ तु नुस् नानुवर्तितः / रेकः रेकसी इत्युदाहृतश्च / तन्न / उत्तरसूत्रे नुडनुवृत्तनिर्विवादत्वात् मण्डूकप्लुतौ मानाभावात् लक्ष्यबिसंवादाच्च / उज्ज्वलदत्तेन तु 'रिचेर्धने चिकिच्च' इति पठित्वा नुटं चानुवर्त्य कित्त्वात् गुणाभावे नुटश्चुत्वेन प्रकारे रिञ्चमिति साधितम् / तदपि न / उक्तोदाहरणस्य लोकवेदयोरप्रसिद्धत्वात् / 'नित्यं रेक्णे अमर्त्यः / परिषद्यं शरणस्य रेक्णः / रेक्णः स्वत्यभिया वाममेति' इत्यादिमन्त्रेषु रेक्ण इति शब्दस्य प्रसिद्धत्वात् / वैदिकनिघण्टौ च सुवर्णपर्यायेषु तथा पाठात् / वेदभाष्यादिषु प्रकृतसूत्रेणैव तस्य साधितत्वाच्च रेक्ण इति प्रयोग एव साधीयानिति दिक् / चायतेः // चनो दधिष्वपचतः / सुनेदधिध्वनश्चनः / इत्यादिमन्त्रेषु चनशब्दः प्रसिद्धः / एतेन चणोऽनमित्युदाहृत्य बाहुलकाण्णत्वमिति वदन्तो दशपादीवृत्तिकारास्तदनुगाः प्रसादकारादयश्च परास्ताः / वो रूपमिति // 'नन्छिश्नदेवा अभिवर्पसाभूः' इत्यादिमन्त्रेषु प्रसिद्धमिदम् / 'शेपः स्यादृषणं पेलम्' इति सुभूतिचन्द्रः / अकारान्तोऽप्ययमिति 'शेपपुच्छलाङ्लेषु शुनः' इत्यत्रावोचाम / 'शेपःशेपौ च शेफश्च शेफ प्रोक्तश्च शेफसा' इति द्विरूपकोशः / सुरीभ्याम् // ‘स्रोतोऽम्बुवेगेन्द्रिययोः' इति विश्वः / ‘रेतः शुक्रे पारदे च' इति मेदिनी / पातेले // चवर्गतृतीयादिः / उज्ज्वलदत्तस्तु युट् चेत्यन्तस्थादि पपाठ / तन्न / ' विपाजसा For Private And Personal Use Only
Page #655
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः पादः] बालमनोरमा / 643 / उदके थुट् च / पाथः / 644 / अन्ने च / पाथो भक्तम् / 645 / अदेर्नुम्धौ च / अदेर्भक्ते वाच्येऽसुन्नुमागमो धादेशश्च / अन्धोऽन्नम् / 646 / स्कन्देश्च स्वाङ्गे / स्कन्धः-स्कन्धसी / 647 / आपः कर्माख्यायाम् / कर्माख्यायां ह्रस्वो नुट् च वा / अप्नः / अपः / बाहुलकात् आप: आपसी / 648 / रूपे जुद् च / अब्जो रूपम् / 649 / उदके नुम्भो च / अम्भः / 650 / नहेर्दिवि भश्च / नभः / 651 / इण आगोऽपराधे च / 'आग: पापापराधयोः' / 652 / अमेहुंक्च / अंहः / 653 / रमेश्च / रंहः / 654 / देशे ह च / रमन्तेऽस्मिन्रहः / पृथुना / पृथुपाजा अमर्त्यः' इत्यादिमन्त्रतद्भाष्यविरोधात् / अदेः // 'भिस्सा स्त्री भक्तमन्धोऽनम्' इत्यमरः / 'द्विजातिशेषेण यदेतदन्धसा' इति भारविः / 'समन्धसा समदः पृष्ठ्येन' इति श्रुतिः / स्कन्देश्च // असुन् धश्चान्तादेशः / आपः कर्माख्यायाम् // असुन् / ह्रस्वश्च धातोः। प्रत्ययस्य नुडागमस्तु वा / 'अप्नस्वतीमश्विना / अपांसि यस्मिन्नधिसन्दधुः।' बाहलकादित्यपलक्षणम। हस्वनटौ वा स्त इति व्याख्यानादित्यपि बोध्यम् / तथा च ब्रवते 'कतमेऽपि नपुंसकमापः' इति कोशमुदाहृत्य 'सर्वमापोमयजगत्' इति प्रयोगो दुर्घटवृत्ती समर्थितः / रूपे // आप्नोतेरसुन् ह्रस्वत्वञ्च धातोः प्रत्ययस्य जुट् चेत्यर्थः / अब्ज इति // 'झलाजश् झशि' इति पकारस्य बकारः / नहेः // ‘नभो व्योम्नि नभो मेघे श्रावणे च पतगृहे / घ्राणे मृणालसूत्रे च वर्षासु च नभः स्मृतम्' इति विश्वः / ‘नभः क्लीबं व्योम्नि पुमान् / घने श्रावणवर्षासु बिसतन्तौ पतगृहे ' इति मेदिनी / 'नभन्तु नभसा सार्द्धम्' इति द्विरूपकोशादकारान्तोऽपि / विश्वोक्तिमाह / आग इति // अमेः // अमन्ति गच्छन्त्यधोऽनेनेत्यंहो दुरितम् / रमेश्च // रहो वेगः / अहिरहिभ्यामसुना सिद्धेऽघिरघिभ्यामसनि अङ्घो रङ्घः इति माभूदिति सूत्रद्वयमिति गोवर्द्धनः। तथा च 'स्यान्मद्ध्योष्मचतुर्थत्वमंहसो रहसस्तथा' इति द्विरूपकोशः। एवञ्च ‘दत्तार्घाः सिद्धसङ्घर्विदधतु घृणयः शीघ्रमङ्घोविघातम्' इति / ‘रङ्घः सङ्घः सुराणाजगदुपकृतये नित्ययुक्तस्य यस्य स्तौति प्रीतिप्रसन्नोऽन्वहमहिमरुचेः सोऽवतात् स्यन्दनो वः' इति घकारपाठोऽनुप्रासरसिकानां प्रामादिक इति वदन्ति / देशे ह च // For Private And Personal Use Only
Page #656
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 654 सिद्धान्तकौमुदीसहिता [उणादिषु 655 / अञ्च्यञ्जियुजिभृजिभ्यः कुश्च / एभ्योऽसुन्कवर्गश्चान्तादेशः / 'अङ्कश्चिह्नशरीरयोः' / अङ्गः पक्षी / योगः समाधिः / भर्गस्तेजः / 656 / भूरञ्जिभ्यां कित् / भुवः / रजः / 657 / वसेर्णित् / वासो वस्त्रम् / 658 / चन्देरादेश्च छः / छन्दः / 659 / पचिवचिभ्यांसुट् च / पक्षसी तु स्मृतौ पक्षौ' / वक्षो हृदयम् / 660 / वहिहाधाञ्भ्यश्छन्दसि / वक्षा अनडान् / हासाश्चन्द्रः / धासाः पर्वत इति प्राञ्च: / वस्तुतस्तु णिदित्यनुवर्तते न तु सुट् / तेन वहेरुपधावृद्धिः / इतरयो: 'आतो युक्-' (सू 2761) इति युक् / 'शोणा धृष्णू नृवाहसा' / 'श्रोता हवं गृणत: स्तोमवाहा:' / 'विश्वो विहायाः / ' 'वाजम्भरो विहायाः' / 'देवो नयः पृथिवीं विश्वधायाः' / 'अधारयत्पृथिवीं विश्वधायसम्' / 'धर्णसं भूरिधायसम्' इत्यादि / 661 / इण आसिः / अया: वह्निः / स्वरादिपाठादव्ययत्वम् / 662 / मिथुनेसिः पूर्ववच्च सर्वम् / उपसर्गविशिष्टो धातुमिथुनं तत्रासुनोऽपवादोऽसिः स्वरार्थः / यस्य धातोर्यत्कार्यम् असुन्प्रत्यये उक्तं तदत्रापि भवतीत्यर्थः / अशेर्देवने युट् चेत्यादि सुयशाः / / 663 / नजि हन एह च / अनेहाः / अनेहसौ। 664 / विधाजो वेध च / विदधातीति वेधाः / 'रहस्तत्त्वे रते गुह्ये' इति मेदिनी / अञ्च्यञ्जियुजि // अङ्क:-अङ्कसी-अङ्कांसि / अङ्गःअङ्गसी-अङ्गांसि / योग:-योगसी-योगांसि / 'उच समवाये / ' अस्मादसुनि बाहुलकात् कुत्वं, न्यङ्कादित्वाद्वा / 'ओक आश्रयमात्रेऽपि मन्दिरेऽपि नपुंसकम्' इति मेदिनी / भूरअिभ्याम् // भुवः अन्तरिक्षम् / षष्ठ्यन्तप्रतिरूपकमव्ययमिदम् / रजो रेणुः / ‘रजः क्लीबं गुणान्तरे / आर्तवे च परागे च रेणुमात्रेऽपि दृश्यते' इति मेदिनी / घअर्थे कप्रत्यये तु अकारान्तोऽप्ययम् / 'रजोऽयं रजसा सार्द्ध स्त्रीपुष्पगुणधूलिषु' इत्यजयकोशः / विरजां नदीम् / विरजां दीक्षामिति / चन्देरादेश्च छः // छन्द इति // 'छन्दः पद्यप्रभेदेऽपि स्वैराचाराभिलाषयोः' इति मेदिनी / अकारान्तोऽपि / 'अभिप्रायवशौ छन्दौ' इत्यमरद्विरूपकोशौ / पचिवचिभ्याम् // पक्षः-पक्षसी-पक्षांसि / अनीकाधिकरणे ‘पूर्वोत्तरे द्वे पक्षसी' इति शबरस्वाम्यादयः / माधवस्तु ‘पक्ष परिग्रहे' इत्यस्मादसुन् / पक्षः / छदिः संवत्सरार्धञ्चेत्याह / वहिहा // अत्र पूर्वसूत्रात्सुटमनुवर्तयतां उज्ज्वलदत्तादीनां मतेनोदाहरणमाह / वक्षा इत्यादि // प्राञ्च इति // सकलवृत्तिकृतः प्रसादकारादयश्चेत्यर्थः / एतच्चायुक्तम् / उक्तोदाहरणानीह तावल्लोके दृश्यन्ते / न च सम्भवन्ति / छन्दसीति सूत्रात् / वेदे तु विपरीतमेवास्तीत्याह / वस्तुतस्त्विति // वेदभाष्यकाराश्चेह साक्षिण इत्यवधेयम् / मिथुनेऽसिः // सुपयाः सुस्रोताः इत्याद्युदाहरणम् / विधाञः // वेधाः पुंसि हृषीकेशे For Private And Personal Use Only
Page #657
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः पादः] बालमनोरमा / 665 / नुवो धुद् च / नोधा: ऋषिः / 666 / गतिकारकोपपदयोः पूर्वपदप्रकृतिस्वरत्वं च / असि: स्यात् / सुतपा: / जातवेदाः / 'गतिकारकोपपदात्कृत्' (सू 3873) इत्युत्तरपदप्रकृतिस्वरत्वे सति शेषस्यानुदात्तत्वे प्राप्ते तदपवादार्थमिदम् / 667 / चन्द्रे मो डित् / चन्द्रोपपदान्माङोऽसि: स्यात्स च डित् , चन्द्रमाः / 668 / वयसि धात्रः / वयोधास्तरुणः / 669 / पयसि च / पयोधाः समुद्रो मेघश्च / 670 / पुरसि च / पुरोधाः / 671 / पुरूरवाः / पुरुशब्दस्य दीर्घो रौतेरसिश्च निपात्यते / 672 / चक्षेबहुलं शिच्च / नृचक्षाः / 673 / उषः कित् / उषः / 674 / दमेरुनसिः / सप्ताचिर्दमुनाः' / 675 / अङ्गतेरसिरिरुडागमश्च / अङ्गिराः / 676 / सर्तेरप्पूर्वादसिः / अप्सरा: / प्रायेणायं भूम्नि / अप्सरसः / बुधे च परमेष्ठिनि' इति मेदिनी / नोधा इति // ‘सद्योभुवद्वीर्याय नोधाः' इति मन्त्रे, नोधा ऋषिर्भवतीति निरुक्तम् / नवं दधातीति तु नैरुक्तं व्युत्पत्त्यन्तरं बोध्यम् / अत्र स्वरसूत्रम् ‘गतिकारकयोः पूर्वपदप्रकृतिस्वरत्वञ्च' इति कृदुत्तरपदप्रकृतिस्वरापवादोऽयम् / चन्द्रे // चन्द्रं रजतम् अमृतञ्च, तदिव मीयते असौ चन्द्रमाः इति हरदत्तः / पुरसि च // 'पुरोधास्तु पुरोहितः' इत्यमरः / 'पुरूरवाः बुधसुतो राजर्षिश्च पुरूरवाः' इत्यपि / 'विद्यात्पुरूरवःशब्दे रुकारस्यापि दीर्घताम्' इति द्विरूपकोशः / नृचक्षा इति // शिश्चेत्युक्त सार्वधातुकसंज्ञा / अतः ख्याञ् न / उषः कित् / दशपाद्यान्तु वसः किदिति पाठः / 'वसति सूर्येण सहेत्युषा / अपो भीति सूत्रे उषसश्चेष्यते' इति वार्तिकस्य समुषद्भिरित्युदाहरणं विवृण्वद्भिहरदत्तादिभिरयं पाठः पुरस्कृतः। दमेरुनसिः // ‘सप्ताचिर्दमुनः शुक्रः' इत्यमरः / पक्षे 'अन्येषामपि दृश्यते' इति दीर्घः / जुष्टो दमूनाः / दमूनसङ्ग्रहपतिं वरेण्यम् / दशपायां तु सूत्रे दीर्घः पठ्यते / तन्मते पक्षे ह्रस्वो बाहुलकाद्बोध्यः / प्रायेणेति // 'स्त्रियां बहुष्वप्सरसः' इत्यमरः / 'स्त्रियां बहुध्वप्सरसः स्यादेकत्वेऽप्सरा अपि' इति शब्दार्णवः / 'अप्सरस्स्वप्सराः प्रोकाः सुमनाः सुमनःसु च' इति द्विरूपकोशः 'एकाप्सरःप्रार्थितयोविवादः' इति For Private And Personal Use Only
Page #658
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदीसहिता [उणादिषु 677 / विदिभुजिभ्यां विश्वे / विश्ववेदाः / विश्वभोजाः / 678 / वशेः कनसिः / संप्रसारणम् / उशनाः / // इत्युणादिषु चतुर्थः पादः // // अथ उणादिषु पञ्चमः पादः / / 679 / अदि भुवो डुतच् / अद्भुतम् / 680 / गुधेरूमः / गोधूमः / / 681 / मसेरूरन् / मसूरः / प्रथमे पादे असेरुरन , 'मसेश्च' इत्यत्र व्याख्यातः / 682 / स्थः किच्च / स्थूरो मनुष्यः / 683 / पातेरतिः। पाति: स्वामी / संपातिः पक्षिराजः / 684 / वातेनित / 'वातिरादित्यसोमयोः' / 685 / अर्तेश्च / अरतिरुद्वेगः / 686 / तृहेः को हलोपश्च / तृणम् / 687 / वृञ्लुटितनिताडिभ्य उलच तण्डश्च / ब्रियन्ते लुट्यन्ते तन्यन्ते ताड्यन्त इति वा तण्डुलाः / 688 / दंसेष्टटनौ न आ च / 'दास: सेवकशूद्रयोः' / रघुः / विदिभुजिभ्याम् // विश्वे / शब्दस्वरूपपरत्वात्स्मिन्नादेशो न कृतः / उदाहरणं विश्वं वेत्ति विन्दति भुते इति विग्रहः / अनोज्ज्वलदत्तेन विश्वेवेदा अनिः / विश्वेभोजा इन्द्रः / 'तत्पुरुषे कृति' इति सप्तम्या अलुगित्युक्तम् / तन्न, तथा सति स्मिन्नादेशस्य दुर्वारत्वापत्तेः / 'सुमृलीको भवतु विश्ववेदाः / पूषा भगः प्रभृथे विश्वभोजा' इत्यादिमन्त्रेषु सुपो लुक एव दर्शनात् वृत्त्यन्तरेषु तथैवोदाहरणाच्च / वशेः // ‘वश कान्तौ / ' 'उशना भार्गवः कविः' इत्यमरः॥ // इत्युणादिषु चतुर्थः पादः // अद्भुतमिति // अत् इत्यव्ययमाकस्मिकार्थे / तस्मिन्नुपपदे भुवः डुतच्प्रत्ययः / गुध्यते परितो वेष्ट्यते प्राणिभिरिति गोधूमः / 'गोधूमो नागरङ्गे स्यादोषधीव्रीहिभेदयोः' इति मेदिनी। मसेः॥ 'मसी परिणामे।' स्थूरो मनुष्य इति // 'स्थूरस्य रायो बृहतो ययीशे' इति मन्त्रे तु योगपुरस्कारात् स्थिरस्य इत्यर्थः / रभसकोशस्थमाह / वातिरिति // वृषलुटि॥ यद्यपि 'सानसिवर्णसि' इति सूत्रे तण्डुलशब्दो निपातितः / तथापि प्रत्ययस्वरेण मद्ध्योदात्तः सः। अयं तु चित्स्वरेणान्तोदात्त इति विवेकः / दंसेः॥ 'दासः शूद्रे दानपत्रे भृत्यधीवरयोरपि' For Private And Personal Use Only
Page #659
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पञ्चमः पादः बालमनोरमा। 657 689 / दंशेश्च / दाशो धीवरः / 690 / उदि चेसिः / स्वरादिपाठादव्ययत्वम् / उच्चैः / 691 / नौ दीर्घश्च / नीचैः / 692 / सौ रमेः क्तो दमे पूर्वपदस्य च दीर्घः / रमेः सुपूर्वाहमे वाच्ये क्त: स्यात् / कित्त्वादनुनासिकलोपः / सूरत उपशान्तो दयालुश्च / 693 / पूजो यण्णुग्घ्रस्वश्च / यत्प्रत्ययः / पुण्यम् / 694 / स्रंसेः शि कुद् किच्च / स्रंसते: शिरादेशो यत्प्रत्यय: कित्तस्य कुडागमश्च / शिक्यम् / 695 / अर्तेः क्युरुच / उरणो मेषः / 696 / हिंसेरीरनीरचौ / हिंसीरो व्याघ्रदुष्टयोः / 627 / उदि दृणातेरजलौ पूर्वपदान्त्यलोपश्च / उदरम् / 698 / डित्खनेर्मु स चोदात्तः / अजल् च डितस्याद्धातोर्मुट् स चोदात्तः / मुखम् / 699 / अमेः सन् / अंसः / / 700 / मुहेः खो मूर्च / मूर्खः / 701 / नहेहलोपश्च / नखः / 702 / शीङो हस्वश्च / शिखा / 703 / माङ ऊखो मय्च / मयूखः / 704 / कलिगलिभ्यां फगस्योच / कुल्फः शरीरावयवो रोगश्च / गुल्फः पादग्रन्थिः / इति विश्वः / दशेश्च // ‘कैवर्ते दाशधीवरौ' इत्यमरः / पूञः // 'पुण्यं मनोज्ञेऽभिहितं तथा सुकृतधर्मयोः' इति विश्वः / अर्तेः // 'मेट्रोरभ्रोरणोर्णायुमेषवृष्णय एडके' इत्यमरः / डित्खनेः // 'मुखं निःसरणे वके प्रारम्भोपाययोरपि' इति विश्वः / सन्ध्यन्तरे नाटकादेः शब्देऽपि च नपुंसकम्' इति मेदिनी। अमेः सन् // 'स्कन्धो भुजशिरोंऽसो स्त्री' इत्यमरः। 'अंसः स्कन्धविभागे च' इति दन्त्यान्ते विश्वः / मुहेः // 'अज्ञे मूढयथाजातमूर्खवैधेयबालिशाः' इत्यमरः। नहेः॥ 'नखः कररहे शण्ढे गन्धद्रव्ये नखं नखी' इति विश्वः / 'नखी स्त्रीक्लीबयोः शुक्तौ नखरे पुन्नपुंसकम्' इति मेदिनी / शीङः // ह्रस्वविधिसामर्थ्याद्गुणो न / 'शिखाशाखाबर्हिचूडालाङ्गुलिष्वग्रमात्रके। चूडामात्रे शिफायाञ्च ज्वालायां प्रपदेऽपि च' इति मेदिनी / माङः // 'मयूखस्त्विट्करज्वालासु' इत्यमरः / गुल्फ इति // तद्न्थी घुटिके 83 For Private And Personal Use Only
Page #660
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 658 सिद्धान्तकौमुदीसहिता [उणादिषु 705 / स्पृशेः श्वशुनौ पृ च / श्वण्शुनौ प्रत्ययौ 'पृ' इत्यादेशः / पार्श्वम् ‘पार्थोऽस्त्री कक्षयोरधः' / पशुरायुधम् / 706 / श्मनि श्रयतेर्छन् / श्मञ्छब्दो मुखवाची / मुखमाश्रयत इति श्मश्रु / 707 / अश्वादयश्च / अश्रु नयनजलम् / 708 / जनेष्टन्लोपश्च / जटा। 709 / अच्तस्य जङ्ग च / तस्य जनेर्जङ्घादेशः खादच्च / जङ्घा / 710 / हन्तेः शरीरावयवे द्वे च / जघनम्। 'पश्चानितम्बः स्त्रीकट्या: क्लीबे तु जघनं पुरः / 711 / क्लिशेरन्लो लोपश्च / लकारस्य लोप: / केशः / 712 / फलेरितजादेश्च पः / पलितम् / 713 / कादिभ्यः संज्ञायां वुन् / करक:-करका / कटकः / नरकम्नरकः / 'नरको नारकोऽपि च' इति द्विरूपकोशः / सरकं गगनम् / कोरकः। कोरकं च / गुल्फी' इत्यमरः। तयोः पादयोग्रन्थी इत्यर्थः / स्पृशेः // 'पार्श्वङ्कक्षाधरे चक्रोपान्ते पशुगणेऽपि च' इति विश्वमेदिन्यौ / श्मनि // तदृदौ श्मश्रु पुंमुखे' इत्यमरः / पुरुषस्य मुखे तेषां रोम्णां वृद्धौ श्मश्रुशब्दो वर्तते इत्यर्थः / अश्रादयश्च // 'अशू व्याप्तौ।' रुन्प्रत्ययः / नपूर्वात् श्रयतेडुन् वा / यत्तु अश्नोतेर्छन् रुट चेत्युज्ज्वलदत्तेनोक्तं, तन / धातुलोपापत्तेः / तदभावोऽपि निपात्यत इति चेत् / तर्हि डित्त्वोत्प्रेक्षणं निष्फलमिति दिक् / जनेष्टन् लोपश्च // अलोऽन्त्यस्य / 'जटा लग्नकचे मूले मांस्यां प्लक्षे पुनर्जटी' इति मेदिनी / हन्तेः // चादच अभ्यासकार्यम् / 'अभ्यासाच' इति कुत्वम् / अमरोक्तिमाह / पश्चादिति // 'जघनञ्च स्त्रियाः श्रोणिपुरोभागे कटावपि' इति मेदिनी / क्लिशेः // ‘केशः स्यात् पुंसि वरुणे कुविरे कुन्तलेऽपि च' इति मेदिनी / 'पलितञ्जरसा शौक्ल्यं केशादौ' इत्यमरः / कृआदिभ्यः // ‘करकस्तु पुमान् पक्षिविशेषे दाडिमेऽपि च / द्वयोर्मेघोपले न स्त्री करके च कमण्डलौ' इति मेदिनी / कटक इति // 'क्वुन् शिल्पिसंज्ञयोः' इति क्वुनाप्ययं सिद्धः / गुणभाज इहैवोदाहार्याः / गुणनिषेधभाजस्तु क्वुनि / उदासीनास्तु यत्र कुत्रचिदिति भावः / 'न नये / ' 'नरकः पुंसि निरये देवारातिप्रदेशयोः' इति मेदिनी / उदयनाचार्यास्तु न नरकाप्येव सन्तीति क्लीबं प्रयुञ्जते / तत्र मूलं भृग्यम् / 'सृ गतौ / ' 'सरकोऽस्त्री शीधुपात्रे शीधुपानेखुशीधुनोः' इति मेदिनी / 'कुर शब्दे / ' 'कोरकोऽस्त्री कुट्मले स्यात् ककोलकमृणालयोः' इति मेदिनी / 'विचकार कोरकाणि' इति माघः / 'कोरकः पुमान्' इत्यमरस्य For Private And Personal Use Only
Page #661
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पञ्चमः पादः बालमनोरमा / 659 714 / चीकयतेराधन्तविपर्ययश्च / कीचको वंशभेदः / 715 / पचिमच्योरिच्चोपधायाः / पेचकः / मेचकः / 716 / जनेररष्ठ च / जठरम् / 717 / वचिमनिभ्यां चिच्च / वठरो मूर्खः / ‘मठरो मुनिशौण्डयोः' / बिदादित्वान्माठरः / गर्गादित्वान्माठर्यः / 718 / ऊर्जि दृणातेरलची पूर्वपदान्तलोपश्च / 'ऊर्दरः शूररक्षसोः' / 719 / कुदरादयश्च / कृदर: कुसूलः / मृदरं विलसत् / मृदरः सर्पः / 720 / हन्तेयुनाद्यन्तयोर्घत्वतत्वे / घातनो मारकः / 721 / क्रमिगमिक्षमिभ्यस्तुन्वृद्धिश्च / क्रान्तुः पक्षी / गान्तुः पथिकः / क्षान्तुर्मशकः। 722 / हर्यतेः कन्यन्हिरच् / कन्यन्प्रत्ययः / हिरण्यम् / 723 / कुत्रः पासः / कर्पास: / बिल्वादित्वात्कार्पासं वस्त्रम् / 724 / जनेस्तु रश्च / जतुर्हस्ती योनिश्च / 725 / ऊर्णोतेर्डः / ऊर्णा / 726 / दधातेर्यन्नुट् च / धान्यम् / 727 / जीर्यतेः क्रिरश्च वः / जित्रिः स्यात्कलपक्षिणो:' / बाहुलकात् 'हलि च' (सू 354) इति दी? न / 728 / मव्यतेर्यलोपो मश्चापतुद् चालः। मव्यतेरालप्रत्यय: स्यात्तस्यापतुडागमो धातोर्यलोपो मकारश्चान्त्यस्य / ममापतालो विषये / प्रमादः / अपवरकावरकादयोऽपीहैव बोध्याः / चीकयतेः // बाहुलकबललब्धोऽयमर्थः / एवमनुपदं वक्ष्यमाणं पचिमच्योरित्यपि बोध्यम् / 'कीचको दैत्यभिद्वाताहतसस्वनवंशयोः / पेचको गजलाङ्गलमूलोपान्ते च कौशिके / मेचकस्तु मयूरस्य चन्द्रके श्यामले पुमान् / तद्युक्ते वाच्यवत् क्लीबं स्रोतोऽजनान्धकारयोः' इति मेदिनी / जनेः // 'जठरः कठिनोऽपि स्यात् ' इत्यमरः / जठरो न स्त्रियां कुक्षौ बद्धकर्कटयोस्त्रिषु' इति मेदिनी / वचि // वठरः कुक्कुटे वण्टे शठे च' इति मेदिनी। ऊर्जि // 'तमूर्दरत्नपृणतायनेन' इति मन्त्रः / हर्यतेः // 'हर्य गतिकान्त्योः / ' हिरण्यं रेतसि द्रव्ये शातकुम्भवराटयोः / अक्षये मानभेदे स्यादकुप्ये च नपुंसकम्' इति मेदिनी / जनेः // तु इत्यविभक्तिकम् / तुप्रत्ययः / रेफश्वान्तादेशः / ऊर्णोतेः // 'ऊर्णा मेषादिलोम्नि स्वादावर्ते चान्तरा ध्रुवोः' इत्यमरः / ध्रुवोर्मध्ये य आवर्तस्तत्रेत्यर्थः / 'अन्तरान्तरेण' इति द्वितीया / दधातेः // 'धान्यं व्रीहिषु धान्याके' इति For Private And Personal Use Only
Page #662
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदीसहिता [उणादिषु 729 / ऋजेः कीकन् / ऋजीक इन्द्रो धूमश्च / / 730 / तनोतेर्डउः सन्वच्च / 'तितउः पुंसि क्लीवे च'। 731 / अर्भकपृथुकपाका वयसि / 'ऋधु वृद्धौ' / अतो वुन् / भकारश्चान्तादेशः / प्रथेः कुकन्संप्रसारणं च / पिबते: कन् / 732 / अवद्यावमाधमावरेफाः कुत्सिते / वदेबि यत् / अवद्यम् / अवतेरमः / बस्य पक्षे धः / अवमः / अधमः / अर्तेर्वन् / अर्वा / रिफतेस्तौदादिकात् अ: रेफः / 733 / लीरीडोर्हस्वः पुद् च तरौ श्लेषणकुत्सनयोः। तरौ प्रत्ययौ क्रमात्स्तो धातोर्हस्वः प्रत्ययस्य पुट् / लिप्तं श्लिष्टम् / रिप्रं कुत्सितम् / 734 / क्लिशेरीचोपधायाः कन्लोपश्च लो नाम्च / क्लिशे: कन्यादुपधाया ईत्वं लस्य लोपो नामागमश्च / कीनाशो यमः / कित्त्वफलं चिन्त्यम् / 735 / अश्नोतेराशुकर्मणि वरद च / चकारादुपधाया ईत्वम् / ईश्वरः / 736 / चतेरुरन् / चतुरः। 737 / प्रा (प्रेड) ततेररन् / प्रातः / 738 / अमेस्तुद् च / अन्तमध्यम् / मेदिनी / तनोतेः // 'चालनी तितउः पुमान्' इत्यमरः / 'चालनं तितउन्युक्तम्' इति कोशान्तरम् / 'तितउ परिपवनं भवति' इति पस्पशायां भाष्यम् / ‘स्याद्वास्तु हिङ्गु तितउः' इति पुनपुंसकवर्गे त्रिकाण्डशेषः / अर्भक // 'अर्भकः कथितो बाले मूर्खेऽपि च कृशेऽपि च / पृथुकः पुंसि चिपिटे शिशौ स्यादभिधेयवत् / पाकः परिणते शिशौ / केशस्य जरसा शौक्ल्ये स्थाल्यादौ पचनेऽपि च' इति मेदिनी / अवद्य // 'निकृष्टप्रतिकृष्टावरेफयाप्यावमाधमाः / विपूयकुत्सितावद्यखेटगाणकाः समाः' इति सर्वत्रामरः / 'अधमः स्याद्गद्य ऊनेऽपि' इति मेदिनी। 'अर्वा तुरङ्गमे पुंसि कुत्सिते वाच्यलिङ्गकः / रेफो रवर्णे पुंसि स्यात् कुत्सिते पुनरन्यवत्' इति च / लीरीङोः // 'लिप्तं विषाक्ते भुक्ते च वाच्यवत् स्याद्विलेपितः' इति विश्वः / क्लिशेः // ‘कीनाशः कर्षकक्षुद्रोपांशुघातिषु वाच्ववत् / यमे ना' इति मेदिनी / ईश्वर इति // स्त्रियां टित्त्वात् ङीप् / ईश्वरी मद्ध्योदात्ता / वनिपि ङीव्रयोस्तु आयुदात्ता / पुंयोगलक्षणे ङीषि अन्तोदात्ता। 'स्थेशभास' इति वरजन्तादपि तु ईश्वरेति विवेकः / 'ईश्वरो मन्मथे शम्भौ नाथे स्वामिनि वाच्यवत् / ईश्वरी चेश्वरोमायाम्' इति मेदिनी / 'ईश्वरः शङ्करेऽधीशे तत्पत्न्यामीश्वरीश्वरा' इति वोपालितः / विन्यस्तमङ्गलमहौषधिरीश्वरायाः' इति भारविः / दशपाद्यान्तु सूत्रान्तरमपि / “हन्तेरन् घश्च" रन्प्रत्ययः स्थान घश्चादेशः / हन्यते गम्यतेऽतिथिभिः घरः गृहम् / प्रातरिति // ‘अत सातत्यगमने / ' प्रपूर्वः / For Private And Personal Use Only
Page #663
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पञ्चमः पादः] बालमनोरमा। 739 / दहेर्गो लोपो दश्च नः / गप्रत्ययो धातोरन्त्यस्य लोपो दकारस्य नकारः / नगः / 740 / सिचेः संज्ञायां हनुमौ कश्च / सिञ्चते: कप्रत्ययो हकारादेशो नुम्च स्यात् / सिंहः / 741 / व्याङि घातेश्च जातौ / कप्रत्यय: स्यात् / व्याघ्रः / 742 / हन्तेरच्घुर च / घोरम् / 743 / क्षमेरुपधालोपश्च / चादच् / क्ष्मा / 744 / तरतेईिः / त्रयः / त्रीन् / 745 / ग्रहेरनिः / ग्रहणिः / ङीष् / ग्रहणी व्याधिभेदः / 746 / प्रथेरमच् / प्रथमः / 747 / चरेश्च / चरमः / 748 / मङ्गरलच् / मङ्गलम् / // इत्युणादिषु पञ्चमः पादः // स्वरादिपाठादव्ययत्वम् / दहेः // 'नगो महीमहे शैले भास्करे पवनाशने' इति मेदिनी / सिचेः // ‘सिंहः कण्ठीरवे राशौ सत्तमे चोत्तरस्थिते। सिंही क्षुद्रबृहत्योः स्याद्वासके राहुमातरि' इति विश्वः / 'हिंसेवर्णव्यत्ययतः सिंहः' इति व्युत्पत्त्यन्तरम् / व्याङि // व्याघ्रः स्यात्पुंसि शार्दूले रक्तैरण्डकरञ्जयोः / श्रेष्ठेनराद्युत्तरस्थः कण्टकार्याञ्च योषिति' इति मेदिनी / हन्तेः // घोरं भीमे हरे घोरः' इति विश्वः / ग्रहः // ‘ग्रहणी रुक्प्रवाहिका' इत्यमरः / प्रथेः // 'प्रथमस्तु भवेदादौ प्रधानेऽपि च वाच्यवत्' इति मेदिनी / 'प्रथमचरम' इति सर्वनामत्वात्पक्षे जसः शी। प्रथमे प्रथमाः / चरेश्च // चरमे / चरमाः / 'प्रथिचरिभ्याम्' इति सुवचम् / मङ्गेरलच् // उखवखेत्यादिदण्डके मगिः पठ्यते / 'मङ्गला सितदूर्वायामुमायां पुंसि भूमिजे / नपुंसक तु कल्याणे सर्वार्थे रक्षणेऽपि च' इति मेदिनी / भावे प्यनि माङ्गल्यम / तत्र साधुरिति यत् / 'मङ्गल्यः स्यात्तायमाणाश्वत्थबिल्वमसरके / स्त्रियां शम्यामधःपुष्पीमिसिशुक्लवचासु च / रोचनायामथो दनि क्लीबं शिवकरे त्रिषु' इति मेदिनी // // इत्युणादिषु पञ्चमः पादः // प्राचा तु कतिपयानामेवोणादीनामुपन्यासः कृतः / सोऽपि नैकप्रघट्टकतया / किन्तु विच्छिद्येति स्पष्टमेव / तत्रापि प्रमादं लेशतो दर्शयामः / 'भजो ण्विः' इति ण्विप्रकरणे, 'छन्दसि सहः, वहश्च' इत्युपन्यस्य, ‘परौ बजेः षः पदान्ते' इति ण्विस्तेनैव षः / परिव्राट् इति तावत् प्राचो प्रन्थः / तद्याख्यायां तत्पौत्रेण पञ्चपागुणादिसूत्रे इदं पठ्यते इत्युक्तम् / तन्न / क्विब्वचि For Private And Personal Use Only
Page #664
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 662 सिद्धान्तकौमुदीसहिता [उणादयः इति क्विब्दीक़ प्रक्रम्य, ‘परौ व्रजेः' इति सूत्रस्य पाठात् / अस्मित्रंशे पञ्चपादीदशपाद्योरेकवाक्यत्वात् / यदपि प्राचो ग्रन्थे क्वचित्पठ्यते चिणिति तदप्यपाणिनीयत्वादुपेक्ष्यम् / एतेन प्रघट्टकान्तरे स्तुद्रु परिव्रजां दीर्घश्चेति केचिदिति प्राचो ग्रन्थोऽपि प्रत्युक्तः / सूत्रारूढे सर्वसम्मते चार्थे केचिदित्युक्तेरप्रामाणिकत्वात् / यदपि धनर्तिचक्षिकपिनपिजनियजेरुस् इति पठितं तदप्यनाकरम् / तथा हि / जनेरुसिः / अर्तिपृवपियजितनिधनितपिभ्यो नित् / एतेर्णिच / 'चक्षेः शिच्च' इति सर्वसम्मतः पाठः / वपूंषि तम्मे वपुषो वपुष्टरम्' इत्यादिमन्त्रेष्वायुदात्ततया अनुकूलश्च / वेदभाष्येऽप्येवमेव स्थितम् // इति द्वितीये प्रमादाः // तृतीयेऽपि 'स्तनिदूषिपुषिगदिमदिहृदिभ्यो रित्नुच्' इति प्राचा पठितम् / तत्र दूषिहृदी प्राचां वृत्तिकृतां ग्रन्थे क्वापि न पठितौ / दूषयित्नु: हृदयित्नुरिति प्रयोगोऽप्याकरे न दृष्टः / स्तनिहृषिपुषिमुदिगदिमदिभ्य इति हि पञ्चपादीपाठः / घुषिगन्धिमण्डिजनिगामभ्य इति दशपाद्यामधिकमित्यन्यदेतत् / यदपि श्रुदक्षिस्पृहिगृहिदृजिभ्य आय्य इति पठित्वा दाराय्यः जयाय्य इति प्राचोक्तं तदपि न / दृजिग्रहणस्याकरविरुद्धत्वात् / यदपि विशिभ्यां झच् गण्डिमण्डिजनिनन्दिभ्यश्चेत्युक्त्वा गण्डयन्तो जनयन्त इत्युदाहृतं प्राचा, यच्च गण्डयन्त इति प्रतीकमुपादाय मेघनादमिति व्याख्याय 'गडि वदनैकदेशे' इति व्याख्यातृभिर्विवृतं तदेतत्सर्व प्रामादिकम् / तथा हि उणादिवृत्तिषु गडीति निरनुषङ्गं पठित्वा 'गड सेचने' इति विवृतम् / अयामन्त' इति सूत्रवृत्तिन्यासहरदत्तादिसकलग्रन्थेष्वेवम् / माधवप्रन्थेऽप्येवमेव / युक्तञ्चैतत् / मेघ इति व्याख्यानं प्रति सेचनार्थस्यैवानुगुणत्वात् / जनेः पाठोऽप्यप्रामाणिकः / जिधातुं पठित्वा जयन्तः पाकशासनिरिति सर्वैर्निवृत्तत्वात् अप्रसिद्धत्वाच्च // इति तृतीये प्राचः प्रमादाः // यदपि कृगृस्तृजागृभ्यः क्विन् / गीर्विः स्तृविरिति / तदपि लिपिभ्रमप्रयुक्तमेव / 'कृ विक्षेपे, गृ निगरणे, स्तृञ् आच्छादने' इति प्राचो ग्रन्थं विवृण्वतामुक्तिरपि मूलाशुद्ध्यव हेया / जुगृस्तृजागृभ्यः क्विन् इति पाठः उणादिवृत्तिकृतां माधवादीनाञ्च सम्मतः / जीविः पशुः / शीविहिस्रः / स्तीविरध्वर्युः रिति च तत्तद्वन्थेषूदाहृतम् / स्तृ इत्यस्य दीर्घान्तत्वे एव हि, 'ऋत इद्धातोः' इतीत्त्वं लभ्यते, न तु ह्रस्वान्तत्वेऽपि / तस्माद्यथाकरमेव ग्रहीतुमुचितमिति दिक् / 'ग्लाज्याहात्वरिभ्यो निरित्यप्यनाकरम् / वीज्याज्वरिभ्यो निरिति पठित्वा सूत्रद्वयानन्तरं वहिश्रीति सूत्रे ग्लाहात्वरिभ्यो नित्' इति सूत्रितत्वात् / तूणीरथः सदानव इत्यादावाद्युदात्तदर्शनाच्च / न च 'स्त्रियां क्तिन्' इत्यधिकारस्थं वार्तिकमेवेदं प्राचोदाहृतं न तूणादिस्थमिति वाच्यम् / एवमपि त्वरतेः पाठस्यानुचितत्वात् / न ह्यसौ वार्तिकेऽस्तीति दिक् / एवं संस्त्याने स्त्यायतेडूडिति प्राचोदाहृतमप्यनाकरम् / स्त्यायतेऽडित्येव सूत्रस्याकरे पञ्चपाद्यान्दशपाद्याञ्च उपलम्भात् / संस्त्याने त्यायतेहूड स्त्री सूते सप्प्रसवे पुमान्' इति तु भाष्ये श्लोकपाठः / स एव माधवेनोपन्यस्तः / न तु सूत्रपाठस्य तथात्वं दृश्यते / एतद्वन्थव्याख्यातॄणामपि प्रमादा ऊह्याः / यथा पाणिन्यादिमुनीनिति व्याचक्षाजैरुक्तम् / मनेरुच्चोपधाया इति / न ह्येवंविधं सूत्रं पञ्चपाद्यां दशपाद्यामप्यस्ति / अत इत्यनुवर्तमाने मनेरुचाते सूत्रितत्वात् इति दिक् // इति चतुर्थे प्राचः प्रमादाः // For Private And Personal Use Only
Page #665
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // श्रीरस्तु // // अथ उत्तरकृदन्तप्रकरणम् // 3169 / उणादयो बहुलम् / (3-3-1) एते वर्तमाने संज्ञायां च बहुलं स्युः / केचिदविहिता अप्यूह्याः / 'संज्ञासु धातुरूपाणि प्रत्ययाश्च तत: परे / कार्याद्विद्यादनूबन्धमेतच्छास्त्रमुणादिषु' (भाष्यम्) / 3170 / भूतेऽपि दृश्यन्ते / (3-3-2) 3171 / भविष्यति गम्यादयः। (3-3-3) 3172 / दाशगोनौ संप्रदाने / (3-4-73) अथ उत्तरकृदन्तप्रक्रियाः निरूप्यन्ते-उणादयो बहुलम् // तृतीयेऽध्याये तृतीयपादस्येदमादिमं सूत्रम् / वर्तमाने संज्ञायाञ्चेति // 'वर्तमाने लट्' इत्यतः 'पुवस्संज्ञायाम्' इत्यतश्च तदनुवृत्तेरिति भावः / अत एव ननि हन एह च नपूर्वाद्धन्तेरसिप्रत्यये प्रकृतेः एहादेशे व्युत्पन्न अनेहस्शब्दो वर्तमानकाल एवेत्युक्तं भाष्ये / संज्ञाशब्दश्चात्र रूढशब्दपरः / वैदिकानामपि शब्दानामुपलक्षणम् / अत एव 'नैगमरूढिभवं हि सुसाधु' इति वार्तिकम् / वैदिका रूढशब्दाश्चौणादिका इति भाष्यञ्च सङ्गच्छते / रूढाश्चैते उणादिप्रत्ययान्ताः अवयवार्थशून्या असन्तमप्यवयवार्थमाश्रित्य प्रायः कर्तरि व्युत्पाद्याः / उणादयो वेत्यनुक्त्वा बहुलग्रहणस्य प्रयोजनमाह / केचिदविहिता अप्यूह्या इति // तदेवाह / संशास्वित्यादि / भाष्यस्थोऽयं श्लोकः / डित्यो डिबित्थ इत्यादौ धातुरूपाणि प्रत्ययाश्च यथासम्भवमूह्याः / गुणनिषेधादिकार्यवशात् अनूबन्धं विद्यात् / अनबन्धमित्यत्र ‘उपसर्गस्य घञ्यमनुष्ये' इति दीर्घः / एतत् उणादिषु शास्त्रं शासितव्यम् / ‘कृवापाजि' इत्यादिसूत्राणि तु शाकटायनप्रणीतानि अस्यैव बहुलग्रहणस्य प्रपञ्च इत्यर्थः / भूतेऽपि दृश्यन्ते // उणादय इति शेषः। वर्तमानाधिकारादिदं भूतग्रहणम् / दृशिः प्रयोगानुसारार्थः / इदं सूत्रं बहुलग्रहणवत्प्रपश्चार्थम् / भविष्यति गम्यादयः // भविष्यति काले गम्यादयश्शब्दाः णिनिप्रत्ययान्ताः निपात्यन्ते इत्यर्थः / ग्रामङ्गमीति निपातनान्नात्र णित्वम् गमिष्यनित्यर्थः / प्रस्थायी प्रस्थास्यमान इत्यर्थः / For Private And Personal Use Only
Page #666
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 664 सिद्धान्तकौमुदीसहिता [उत्तरकृदन्त एतौ संप्रदाने कारके निपात्येते / दाशन्ति तस्मै दाशः / गां हन्ति तस्मै गोनोऽतिथिः / 3173 / भीमादयोऽपादाने / (3-4-74) भीमः / भीष्मः / प्रस्कन्दनः / प्ररक्षः / मूर्खः / खलतिः / 3174 / ताभ्यामन्यत्रोणादयः / (3-4-75) संप्रदानापादानपरामर्शार्थ ताभ्यामिति / ततोऽसौ भवति तन्तुः / वृत्तं तदिति वर्त्म / चरितं तदिति चर्म / 3175 / तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम् / (3-3-10) क्रियार्थायां क्रियायामुपपदे भविष्यत्यर्थे धातोरेतौ स्त: / मान्तत्वादव्ययत्वम् / कृष्णं द्रष्टुं याति / कृष्णं दर्शको याति / अत्र वाऽसरूपेण तृजादयो न / पुनण्वुलुक्तेः। 3176 / समानकर्तृकेषु तुमुन् / (3-3-158) अक्रियार्थोपपदार्थमेतत् / इच्छार्थेष्वेककर्तृकेषूपपदेषु धातोस्तुमुन्यात् / इच्छति भोक्तुम् / वष्टि वाञ्छति वा / तुमुन्ण्वुलौ // क्रियार्थायामिति // क्रियोद्देश्यभूतक्रियावृत्तिधातौ उपपदे इत्यर्थः / भविष्यतीत्यनुवर्तते / तुमुनि नकार इत् मकारादुकार उच्चारणार्थः / ण्वुलि णलावितो, वोरकादेशः / मान्तत्वादिति // तुमुनो मान्तकृत्त्वात् 'कृन्मेजन्तः' इत्यव्ययत्वमित्यर्थः / ततश्च 'अव्ययकृतो भावे' इति वचनाद्भावे तुमुन् / ण्वुल् तु कर्तर्येव / कृष्णं द्रष्टुमिति // 'न लोकाव्यय' इति न षष्ठी। कृष्णकर्मकं भविष्यद्दर्शनार्थ यानमित्यर्थः / अत्र यातीत्युपपदम् / अत्र तुमुन्प्रत्ययप्रकृत्यर्थस्य दर्शनस्य यानार्थत्वं तुमुना द्योत्यं वाच्यं वा / कृष्णं दर्शको यातीति // कृष्णं द्रक्ष्यन् तदर्थ यातीत्यर्थः / ‘अकेनोर्भविष्यदाधमर्ण्ययोः' इति न षष्ठी / ननु तुमुनो भावार्थकत्वे तद्विषये कर्तरि विहितानां तृजादीनामप्रवृत्तावपि प्रबुल्विषये कर्तरि तृजादयः कुतो न स्युः / न च विशेषविहितेनानेन ण्वुला तृजादयो बाध्यन्ते इति वाच्यम् / वासरूपविधिना तद्बाधस्य पाक्षिकत्वादित्यत आह / अत्रेति // क्रियार्थक्रियोपपदे विषये वासरूपविधिना पक्षे प्राप्ताः ये तृजादयस्ते न भवन्तीत्यर्थः / आदिना 'नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः' इत्यादिसङ्ग्रहः / कुतोऽत्र तृजादयो नेत्यत आह / पुनण्वुलुक्तेरिति // 'वुल् तृचौ' इति कालसामान्ये कर्तरि विहितो ण्वुल् क्रियार्थक्रियोपपदे विषये भवतीति पुनरिह ण्वुल्विधानात् तदितरतृजादयो न भवन्तीति विज्ञायते इति भावः / समानकर्तृकेषु // 'तुमुन्ण्वुलौ क्रियायाम्' इत्येव सिद्धे किमर्थमिदमित्यत आह / अक्रियार्थेति // For Private And Personal Use Only
Page #667
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा / 665 3177 / शकधृषज्ञाग्लाघटरभलभक्रमसहास्त्यिर्थेषु तुमुन् / (3-4-65) एषूपपदेषु धातोस्तुमुन्यात् / शक्नोति भोक्तुम् / एवं धृष्णोतीत्यादौ / अर्थग्रहणमस्तिनैव संबध्यते / अनन्तरत्वात् / अस्ति भवति विद्यते वा भोक्तुम् / 3178 / पर्याप्तिवचनेष्वलमर्थेषु / (3-4-66) / पर्याप्तिः पूर्णता / तद्वाचिषु सामर्थ्यवचनेषूपपदेषु तुमुन्यात् / पर्याप्तो भोक्तुं प्रवीणः कुशल: पटुरित्यादि / 'पर्याप्तिवचनेषु' किम् / अलं भुक्त्वा / 'अलमर्थेषु' किम् / पर्याप्तं भुङ्क्ते / प्रभूततेह गम्यते न तु भोक्तुः सामर्थ्यम् / 3179 / कालसमयवेलासु तुमुन् / (3-3-167) पर्यायोपादानमर्थोपलक्षणार्थम् / कालार्थेषूपपदेषु तुमुन्स्यात् / काल: समयो वेला अनेहा वा भोक्तुम् / प्रैषादिग्रहणमिहानुवर्तते तेनेह न / 'भूतानि काल: पचतीति वार्ता'। इच्छार्थेष्विति // 'इच्छार्थेषु लिङ्लोटौ' इत्यतस्तदनुवृत्तेरिति भावः। इच्छति भोक्तुमिति // अत्र इच्छत्युपपदार्थस्य इच्छाया भोजनोद्देश्यत्वाभावेऽपि तुमुन् / इच्छार्थेष्वित्यर्थ. ग्रहणस्य प्रयोजनमाह / वष्टि वाञ्छति वेति // यद्यपि वशेः छान्दसेषु परिगणनं धातुपाठे / तथापि ‘वष्टि भागुरिः' इति वार्तिकप्रयोगात् लोकेऽपि प्रयोग इति भावः / शकधृष // 'शकभूषज्ञा' इति सूत्रमप्यक्रियोपपदार्थम् / शक्नोति भोक्तुमिति // अत्र शक्त जनोद्देश्यत्वाभावेऽपि तुमुन् / एवमिति // धृष्णोति जानाति ग्लायति पटने आरभते लभते क्रमते उत्सहते अर्हति वा भोक्तुमित्युदाहार्यम् / अस्तिनैवेति // न तु शकादिनेत्यर्थः / कुत इत्यत आह / अनन्तरत्वादिति // सन्निहितत्वादित्यर्थः / पर्याप्तिवचने // पर्याप्ति इत्यस्य विवरणम् / पूर्णतेति // अलमध्वित्यस्य विवरणम् / सामर्थ्यवचनेष्विति // पर्याप्तो भोक्तुमिति // अन्यूनसामर्थ्यवानित्यर्थः / वचनग्रहणस्य फलमाह / प्रवीण इत्यादि // अलं भुक्त्वेति // अत्र अलमिति प्रतिषेधार्थकम् / नतु पर्याप्त्यर्थकमिति भावः / पर्याप्तं भुङ्क्ते इति // बहुलमन्नं भुङ्क्ते इत्यर्थः / प्रभूततेति // अन्नस्येति शेषः / कालसमयवेलासु // अक्रियोपपदेऽपि प्रवृत्त्यर्थमिदम् / ननु कालपर्यायाणां कतिपयानां ग्रहणात्तदितरस्मिन् अनेह आदिशब्दे उपपदे न स्यादित्यत आह / पर्यायोपादानमर्थोपलक्षणार्थमिति // अनुवर्तते इति // प्रैषातिसर्गसूत्रादिति भावः / भूतानीति // पृथिव्यादिपञ्चभूतानि कालः पचति उपचयापचयादिविकारं प्रापयति इति वार्ता लोकवृत्तान्त 84 For Private And Personal Use Only
Page #668
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदीसहिता [उत्तरकृदन्त ___ 3180 / भाववचनाश्च / (3-3-11) भाव इत्यधिकृत्य वक्ष्यमाणा घनादयः क्रियार्थायां क्रियायां भविष्यति स्युः / यागाय याति / 'तुमर्थात् ' (सू 582) इति चतुर्थी / 3181 / अण्कर्मणि च / (3-3-12) कर्मण्युपपदे क्रियार्थायां क्रियायां चाण्स्यात् / ण्वुलोऽपवादः / काण्डलावो व्रजति / परत्वादयं कादीन्बाधते / कम्बलदायो व्रजति / इत्यर्थः / भाववचनाश्च // क्रियार्थायां क्रियायामिति भविष्यतीति चानुवर्तते / भावे चेत्येव सिद्धे वचनग्रहणस्य प्रयोजनमाह / भाव इत्यधिकृत्येति // भावे इत्यधिकृत्य घनादयो विधास्यन्ते ये सामान्यतः ते क्रियार्थायां क्रियायां उपपदे भविष्यति काले विशेष. विहितेनापि तुमुना समुच्चिता भवन्तीत्यर्थः / न च वाऽसरूपविधिना सिद्धमेतदिति शङ्कयम् / 'क्तल्युट तुमुन् खलर्थेषु वाऽसरूपविधिर्नास्ति' इत्युक्तेरिति भावः / ननु यागाय यातीत्यत्र यागस्य सम्प्रदानत्वाभावात् कथं चतुर्थी / नापि तादर्थ्यचतुर्थी तादर्थ्यस्य प्रत्ययेनैव लाभादित्यत आह / तुमर्थादिति // अण् कर्मणि च // चकारेण क्रियार्थायां कियायामिति समुच्चीयते / तदाह / क्रियार्थायां क्रियायाञ्चेति // तथा च क्रियार्थायां क्रियायां कर्मणि चेत्युपपदद्वये सत्येवास्य प्रवृत्तिः नान्यतरस्मिन्निति भाष्ये स्पष्टम् / कर्थकोऽयमण् / कर्तरि कृदित्यधिकारात् / अत्र ‘ण्वुलतृचौ' इति बाधित्वा 'कर्मण्यण्' इति सामान्यविधिना अण् प्राप्तः तन्तावत्क्रियार्थायां क्रियायामुपपदे विशेषविहितस्तुमुन्ण्वुलाविति ण्वुल् बाधितुमुद्युङ्क्ते, पुनर्बुल्विधिसामर्थेन वाऽसरूपविधेरत्राप्रवृत्तेरुक्कत्वात् / तमिमं ण्वुलम्बाधितुमयमण्विधिः / तदाह / ण्वुलोऽपवाद इति // 'तुमुन्ण्वुलौ' इति विहितस्य ण्वुलोऽपवाद इत्यर्थः / एवञ्च ण्वुला बाधितस्य 'कर्मण्यण्' इत्यस्य अयमण्विधिः प्रतिप्रसवार्थ इति स्थितम् / ननु वुला बाधितस्याणः प्रतिप्रसवेऽपि 'आतोऽनुपसर्गे' इति कप्रत्ययः कम्बलदायो व्रजतीत्यत्र दुर्निवारः / कप्रत्ययस्य कर्मण्यणपवादत्वात् सरूपत्वेन च वाऽसरूपविध्यप्रवृत्तेः / न चायं वैशेषिकोऽविधिः कप्रत्ययस्याप्यपवाद इति शङ्कयम् / न ह्ययमपूर्वोऽण्विधिः / किन्तु लाघवात् 'कर्मण्यम्' इत्यणेवात्र प्रतिप्रसूयते / सच 'कर्मण्यण्' इत्यण् सामान्यविहितः ‘आतोऽनुपसर्गे कः' इति वैशेषिकस्य नापवादः / प्रत्युत कप्रत्यय एव तदपवादः। अतः कम्बलदायो व्रजतीत्यत्र कर्मण्यणपवादं तुमुन्ण्वुलाविति ण्वुलम्बाधित्वा कप्रत्ययः स्यादित्यत आह / परत्वादयं कादीन् बाधते इति // आदिना सामगो गुरुकुलं व्रजतीत्यादी गापोष्टगित्यादिसङ्ग्रहः / अण्कर्मणि चेति ह्यावर्तते / प्रतिप्रसवविधिरपूर्वविधिश्च / तत्र प्रतिप्रसवविधिना ण्वुला अणो बाधनिवृत्तिः / अपूर्वविधिविहितस्य त्वणः तृतीयपादीयस्य द्वितीयपादस्थकप्रत्ययापेक्षया परत्वात् कादिप्रत्यया अणा अनेन बाध्यन्ते इत्यर्थः। एतच्च भाष्ये स्पष्टम् / इत ऊर्ध्वम् 'लट् शेषे च' इत्यादिसूत्रेषु क्रियार्थायां क्रियायामिति निवृत्तम् / भविष्यतीत्येवानुवर्तते इति For Private And Personal Use Only
Page #669
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा / 3182 / पदरुजविशस्पृशो घञ् / (3-3-16) भविष्यतीति निवृत्तम् / पद्यतेऽसौ पादः / रुजतीति रोगः / विशतीति वेशः / स्पृशतीति स्पर्शः / / 3183 / सृ स्थिरे / (3-3-17) 'सृ' इति लुप्तविभक्तिकम् / स्थिरे कर्तरि सर्ते: स्यात् / सरति कालान्तरमिति सारः / 'व्याधिमत्स्यबलेषु चेति वाच्यम्' / (वा 2174) अतीसारो व्याधिः / 'उपसर्गस्य' इति दीर्घः / अन्तर्भावितण्यर्थोऽत्र सरति: / रुधिरादिकमतिशयेन सारयतीत्यर्थः। विसारो मत्स्यः / ‘सारो बले दृढांशे च / ' 3184 / भावे / (3-3-18) सिद्धावस्थापन्ने धात्वर्थे वाच्ये धातोर्घस्यात् / पाक: / पाकौ / 3185 / स्फुरतिस्फुलत्योर्घजि / (6-1-47) अनयोरेच आत्वं स्याद्वत्रि / स्फारः / स्फालः / 'उपसर्गस्य घभि-' (सू 1044) इति दीर्घः / परीहारः / 'इकः काशे' (सू 1045) / काशे उत्तरपदे इगन्तस्यैव प्रादेर्दीर्घः स्यात् / नीकाशः अनूकाशः / 'इकः' किम् / बोध्यम् / पदरुज // कर्तरीत्येव / पद्यतेऽसाविति // करणस्याप्यत्र विवक्षातः कर्तृत्वम् / ‘एरच्' इत्यतः प्राक् घअधिक्रियते / सृ स्थिरे // लुप्तविभक्तिकमिति // लुप्तपञ्चमीकमित्यर्थः। स्थिरे कर्तरीति // स्थिरे इति कर्तृविशेषणम् / न तूपपदमिति भावः / सतैरिति // भ्वादेर्जुहोत्यादेश्च ग्रहणम् , न तु जुहोत्यादरेव, व्याख्यानात् / तदाह / सरति कालान्तरमिति सार इति // अर्ध दिपाठात् पुस्त्वं क्लीबत्वञ्च / अत एव च स्थिर इति नोपपदम् / व्याधीति // वार्तिकमस्थिरार्थम् / सारो बल इति // भाष्ये तु बले खदिरसार इत्यु दाहृतम् / भावे // भावो भावना क्रिया सा च धातुत्वेन सकलधातुवाच्येत्यादि मूलव्याख्यावसरे सर्वधातुवाच्यं क्रियासामान्य तद्विशेषः पाकादिश्च धातुविशेषवाच्यः। तत्र क्रियासामान्य भावशब्दार्थः / तिडाच्यं लिङ्गसङ्खयान्वयायोग्यं साध्यावस्थापनम् / कृताच्यन्तु लिङ्गसङ्ख्यान्वययोग्यं सिद्धावस्थापन्नम् , कृदभिहितो भावो द्रव्यवत्प्रकाशत इति भाष्यादिति प्रपञ्चितम् / तदाह / सिद्धावस्थापन इत्यादिना // घनिति // 'पदरुज' इत्यतस्तदनुवृत्तेरिति भावः। इकः काशे // उत्तरपदे इति // ‘अलुगुत्तरपदे' इत्यतस्तदनुवृत्तेरिति भावः / 'ठूलोपे पूर्वस्य' इत्यतो दीर्घ इत्यनुवर्तते / 'उपसर्गस्य घञ्यमनुष्ये' इत्यतो घनीति / तेनैव सिद्धे नियमार्थमिदम् / तदाह / इगन्तस्यैवेति // दीर्घः स्यादिति // धनीति शेषः / For Private And Personal Use Only
Page #670
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 668 सिद्धान्तकौमुदीसहिता [उत्तरकृदन्त प्रकाश: / 'नोदात्तोपदेश-' (सू 2763) इति न वृद्धिः / शमः / आचमादेस्तु / आचामः / कामः / वामः / विश्राम इति त्वपाणिनीयम् / 3186 / अकर्तरि च कारके संज्ञायाम् / (3-3-19) कर्तृभिन्ने कारके घस्यात् / 3187 / घनि च भावकरणयोः (6-4-27) रञ्जनलोप: स्यात् / रागः / 'अनयोः' किम् / रज्यत्यस्मिन्रङ्गः / प्रास्यत इति प्रासः / 'संज्ञायाम्' इति प्रायिकम / को भवता लाभो लब्धः। इत उत्तरं 'भावे' 'अकर्तरि कारके' इति ‘कृत्यल्युटो बहुलम्' (सू 2841) इति यावद्यमप्यनुवर्तते / 3188 / स्यदो जवे / (6-4-28) स्यन्देर्घत्रि नलोपो वृद्धयभावश्च निपात्यते / स्यदो वेगः / अन्यत्र स्यन्दः / 3.89 / अवोदैधौद्मप्रश्रथहिमश्रथाः / (6-4-29) आचाम इति // अनाचमेरिति पर्युदासान वृद्धिनिषेध इति भावः। अपाणिनीयमिति // 'नोदात्तोपदेशस्य' इति वृद्धिनिषेधादिति भावः / अकर्तरि // कारक इति प्रत्ययार्थनिर्देशः। न तूपपदम् / व्याख्यानात् / संज्ञाशब्देन रूढिविवक्षितः / तेन राग इति वक्ष्यमाणमुदाहरणं सङ्गच्छते। घनि // 'अनिदिताम्' इति नलोपप्रकरणे ‘रजेश्च' इन्युत्तरमिदं सूत्रम् / तदाह / रञ्जनलोपः स्यादिति // सूत्रे शेषपूरणमिदम् / राग इति // 'चजोः कु घिण्ण्यतोः' इति जस्य गः, नलोपे कृते उपधावृद्धिः रञ्जनक्रियेत्यर्थः, रञ्जनद्रव्यं वा / प्रास्यत इति // प्रपूर्वात् 'असु क्षेपणे इत्यस्मात् 'अकर्तरि च' इति करणे घञि प्रास इति रूपमित्यर्थः / प्रास्यन्ते क्षिप्यन्ते शत्रवोऽननेति प्रासः आयुधविशेषः / प्रायिकमिति // स्पष्टमिदं भाष्ये / ततश्च असंज्ञायामपि क्वचिदयं घञ् भवतीति भावः / तदाह / को भवतेति // लाभ इति // भावे घञ्। कः लाभः हिरण्यादिप्राप्तिरूपः लब्धः सम्पन्न इत्यर्थः / भवतेत्यस्य लब्ध इत्यत्रान्वयात् 'नलोक' इति षष्ठी निषेधः / अनुवर्तत इति // अत्र व्याख्यानमेव शरणम् / 'स्यन्दू प्रस्रवणे' इत्यस्मात् 'अकर्तरि च' इति घनि विदभावात् 'अनिदिताम्' इति नलोपो न प्राप्तः / तत्र स्यन्देश्चेत्युक्तौ यद्यपि नलोपस्सिद्ध्यति / तथापि कृते नलोपे उपधावृद्धिः स्यात् / तत्र नलोपमुपधावृद्ध्यभावञ्च प्रापयितुमाह / स्यदो जवे // स्यदो वेग इति // देगे रूढोऽयम् / अन्यत्रेति // प्रस्रवणे इत्यर्थः / अवोदधौद्म // अवोद, एध, ओद्म, प्रश्रय, हिमश्रथ, एषां द्वन्द्वः / अवोद इति // घनि नलोपो निपात्यते / कृते नलोपे For Private And Personal Use Only
Page #671
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा / 669 अवोदः अवक्लेदनम् / एध इन्धनम् / ओद्म उन्दनम् / श्रन्थेनेलोपो वृद्धथभावश्च / प्रश्रथः / हिमश्रथः / 3190 / परिमाणाख्यायां सर्वेभ्यः / (3-3-20) घञ् / अजपोर्बाधनार्थमिदम् / एकस्तण्डुलनिचायः / तण्डुलानां निचायः राशिः परिच्छिद्यते। द्वौ शूर्पनिष्पावौ / शूर्पण निष्पावौ / द्वौ कारौ / अत्र विक्षिप्यमाणो धान्यादिः परिच्छिद्यते / 'दारजारौ कर्तरि णिलुक्च' (वा 2182) / दारयन्तीति दारा: / जरयतीति जारः उपपतिः / आद्गुणः / लघूपधगुणस्तु न भवति / 'न धातुलोपे' इति निषेधात् / एध इति // 'जि इन्धी दीप्तौ' इत्यस्मात् धञि नलोषः / 'न धातुलोप' इति निषेधं बाधित्वा गुणश्च निपात्यते / ओद्म इति // उन्देरोणादिके मन्प्रत्यये नलोपो गुणश्च निपात्यते / श्रन्थेरिति // प्रपूर्वस्य हिमपूर्वस्य च घनीति शेषः। परिमाणाख्यायां // घनिति // शेषपूरणम् / सर्वेभ्य धातुभ्य अकर्तरि कारके वाच्ये घञ् स्यात् प्रत्ययार्थस्य परिच्छेदे गम्ये इत्यर्थः / ननु ‘अकर्तरि कारके' इत्येव सिद्धे किमर्थमिदमित्यत आह / अजपोरिति // ‘एरच्' 'ऋदोरप्' इति वक्ष्यमाणयोधिनार्थमित्यर्थः। ‘अकर्तरि च' इति घञ् तु ताभ्यां विशेषविहिताभ्यां बाध्यत, सरूपत्वेन वाऽसरूपविधेरप्रवृत्तेरिति भावः। एकस्तण्डुलनिचाय इति // निष्कृष्य चीयते सङ्घीक्रियते इति निचायः। कर्मकारके वाच्ये 'एरच्' इत्यस्यापवादो घञ्। तण्डुलनिचायशब्दे विग्रहं दर्शयति। तण्डुलानामिति // निचायशब्दस्य विवरणम् / राशिरिति // परिच्छिद्यते इति // तण्डुलावयवकसङ्घातात्मकः राशिरकत्वेन परिच्छिद्यते इत्यर्थः / द्वौ शूर्पनिष्पावाविति // निष्पूयते तुषापनयनेन शोध्यते इति निष्पावः तण्डुलादिराशिः / कर्मणि घञ् अबपवादः / शूर्पण निष्पावः शूर्पनिष्पावः / ‘कर्तृकरणे कृता बहुलम्' इति समासः / द्वित्वन्तु शूर्पद्वारा निष्पावेऽन्वेति / अतश्शूर्पद्वित्वमार्थिकम् / न तु शाब्दमित्येकवचनं निर्बाधम् / तदाह / शूर्पणेत्यादि // द्वौ काराविति // कीर्यते विक्षिप्यते इति कारः। धान्यादिराशिः कर्मणि घञ् अबपवादः / तदाह / अत्र विक्षिप्यमाण इति // न च धातोरित्यधिकारादेव धातु. मात्रात्सिद्धे सर्वग्रहणं व्यर्थमिति शङ्कयम् / प्रकृत्याश्रय एवापवादो बाध्यते / नत्वर्थाश्रय इत्येतदर्थत्वात् / तनेह न / एका तिलोच्छ्रितिः / उच्छ्रीयते ऊर्वीक्रियते इत्युच्छ्रितिः / ऊर्ध्वं कृतो राशिः कर्मणि स्त्रियां क्तिन् / स च अर्थाश्रयत्वात् प्रकृत्याश्रयत्वाभावात् नानेन घना बाध्यते / किन्तु एरच 'ऋदोरप्' इति प्रकृत्याश्रयावेव अजपौ बाध्येते इति भाष्ये स्पष्टम् / दारजाराविति // वार्तिकम् / 'दृ विदारणे', 'ज़ वयोहानौ' आभ्यां ण्यन्ताभ्याङ्कर्तरि घञ् / णिलोपं बाधित्वा णिलुक् चेत्यर्थः / दारयन्ति चित्तं विद्रावयन्तीति दाराः भार्या / “दाराः पुंसि च भूम्न्येव" इत्यमरः / घत्रि णिलुक् / ण्याश्रयवृद्धौ निवृत्तायां घआश्रया वृद्धिः / तदाह / दारयन्तीति दारा इति // जरयति नाशयति कुलमिति जारः जुधातोर्ण्यन्तात् घञ् णिलुक् / णिलोपे सति तु तस्य परनिमित्तकत्वेन 'अचः परस्मिन्' इति स्थानिवत्त्वात् घनाश्रया वृद्धिः न स्यात् / न च णिनिमित्तैव For Private And Personal Use Only
Page #672
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 670 सिद्धान्तकौमुदीसहिता [उत्तरकृदन्त 3191 / इङश्व / (3-3-21) घञ् / अचोऽपवादः / उपेत्यास्मादधीयते उपाध्यायः / ‘अपादाने स्त्रियामुपसंख्यानं तदन्ताच्च वा ङीष्' (वा 2184) / उपाध्याया-उपाध्यायी। ‘श वायुवर्णनिवृतेषु' (वा 2185) / 'श' इत्यविभक्तिको निर्देशः / शारो वायुः / करणे घञ् / शारो वर्ण: / चित्रीकरणमिह धात्वर्थः / निवियते आवियतेऽनेनेति निवृतमावरणम् / बाहुलकात्करणे क्त: / ‘गौरिवाकृतनीशारः प्रायेण शिशिरे कृशः' / अकृतप्रावरण इत्यर्थः / प्रदक्षिणप्रसव्यगामिनां शाराणाम्' इति वार्तिककारप्रयोगादक्षेष्वपि शार इति भवति / 3192 / उपसर्गे रुवः / (3-3-22) घञ् / संरावः / 'उपसर्गे' किम् / रवः / 3193 / अभिनिसः स्तनः शब्दसंज्ञायाम् / (8-3-86) अस्मात्स्तनः सस्य मूर्धन्यः अभिनिष्टानो वर्णः / शब्दसंज्ञायां किम् / अभिनिःस्तनति मृदङ्गः। वृद्धिरस्त्विति वाच्यम् / ‘जनीजृष्नसुरजोऽमन्ताश्च' इति मित्त्वे 'मिता ह्रस्वः' इति णिनिमित्तकह्रस्वापत्तेः / णिलुकि तु तस्य परनिमित्तकत्वाभावेन स्थानिवत्त्वाभावान्न ह्रस्वप्रसङ्गः / तदाह / जरयतीति जार इति // उपपतिरिति // “जारस्तूपपतिस्समौ” इत्यमरः / इङश्च // घनिति शेषपूरणम् / ‘इङ् अध्ययने' नित्यमधिपूर्वः। अस्मादकर्तरि कारके घअित्यर्थः / अकर्तरि चेति सिद्धेराह / अचोऽपवाद इति // ‘एरच्' इवस्थापवाद इत्यर्थः। उपत्येति॥ समीपम्प्राप्य यस्मादधीते स उपाध्यायः इत्यर्थः / अपादाने घनिति भावः / 'आख्यातोपयोगे' इत्यपादानत्वम् / अपादाने इति // अपादानकारके वाच्ये स्त्रीत्वे गम्ये इङो घन उपसङ्ख्यानमित्यर्थः / तदन्ताच्च वा ङीषिति // वार्तिकम् / ‘अपादाने स्त्रियाम्' इति विहितधत्रन्तात् इत्यर्थः / अत्र पठितमेव वार्तिकं स्त्रीप्रत्ययाधिकारे या तु खयमेव अध्यापिका, तत्र वा डीषित्युपन्यस्तं मूले / ननु ‘अकर्तरि च' इत्येव सिद्धे किमर्थचो विधानमिति चेन्न / 'घअनुक्रमणमजपोर्विषये' इति ‘एरच्' 'ऋदोरप्' इत्यजपोरेव विषये 'अकर्तरि च' इति घञ्चि. धिरिति भाष्यवचनात् स्त्रीत्वे गम्ये 'स्त्रियां क्तिन्' इति क्तिन्विषये घञि अप्राप्ते 'अपादाने स्त्रियाम्' इति घञ्वचनात् / उपाध्यायेति // उपेत्य अस्यास्सकाशादधीयते इत्यर्थः / शृवाय्विति // वार्तिकम् / अविभक्तिकमिति // लुप्तपञ्चमीकमित्यर्थः / वायौ वर्णे निवृत्ते च कर्तरि शृधातोर्घजित्यर्थः / अपोऽपवादः / शारो वायुरिति // शीर्यन्ते पर्णफलादीनि यैरिति विप्रहः / तदाह / करणे धजिति // चित्रीकरणमिति // शीर्यन्ते चित्रीक्रियन्ते पटादयः अनेनेति भावः। गौरिवेति // भाष्यस्थं श्लोकार्धम् / नांशार इत्यत्र 'उपसर्गस्य घनि' इति दीर्घः / अक्षे शारशब्दं साधयति / प्रदक्षिणेति // वार्तिककारप्रयोगादिति // पञ्चमस्य द्वितीये 'अनुपदसर्वान्नायानयम्' इति सूत्रभाष्ये स्थितमिदम्। उपसर्गे For Private And Personal Use Only
Page #673
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्]] बालमनोरमा / 671 3194 / समि युद्रुदुवः। 3-3-23) संयूयते मिनीक्रियते गुडादिभिरिति संयावः पिष्टविकारोऽपूपविशेषः / संद्रावः / संदावः। 3195 / श्रिणीभुवोऽनुपसर्गे। (3-3-24) श्रायः / नायः / भावः / 'अनुपसर्गे' किम् / प्रश्रयः / प्रणयः / प्रभवः / कथम् ‘प्रभावो राज्ञः' इति / प्रकृष्टो भाव इति प्रादिसमासः / कथम् / 'राज्ञो नयः' इति / बाहुलकात् / / 3196 / वौ क्षुश्रुवः। (3-3-25) विक्षावः / विश्रावः / वौ' किम् / क्षवः / श्रवः / 3197 / अवोदोर्नियः / (3-3-26) अवनायोऽधोनयनम् / उन्नायः ऊर्ध्वनयनम् / कथम् 'उन्नय: उत्प्रेक्षा' इति / बाहुलकात् / 3198 / प्रे द्रुस्तुस्रुवः / (3-3-27) प्रद्रावः / प्रस्तावः / प्रस्राव: / 'प्रे' इति किम् / द्रवः / स्तवः / स्रवः / 3199 / निरभ्योः पूल्वोः (3-3-28) निष्पूयते शूर्पादिभिरिति निष्पावो धान्यविशेष: / अभिलावः / 'निरभ्योः' किम् / पव: / लवः / 3200 / उन्न्योHः / (3-3-29) उद्गारः / निगारः / 'उन्न्योः किम् / गरः / 3201 / कृ धान्ये / (3-3-30) रुवः // घअिति शेषः / उपसर्गे उपपदे रुधातोर्पमित्यर्थः / अबपवादः / समि युददुवः // समित्युपसर्गे उपपदे यु द्रु दु एभ्यः घनित्यर्थः, अबपवादः। श्रिणी // उपसर्गे असति श्रि, नी, भू, एभ्यो घनित्यर्थः, अजपोरपवादः / बाहुलकादिति // ‘कृत्यल्युटो बहुलम्' इति बहुलग्रहणादित्यर्थः / वौ क्षुश्रुवः // वि इत्युपसर्गे उपपदे क्षु, श्रु, धातोर्घमित्यर्थः / अबपवादः। अवोदोर्नियः // अब, उत् , अनयोरुपपदयोः नीधातोर्घनित्यर्थः / अजपवादः। उन्नय इत्यस्य विवरणम् / उत्प्रेक्षेति // प्रे दुस्तुस्रुवः // प्र इत्युपपदे दु, स्तु, खु, एभ्यः घनित्यर्थः / अबपवादः। निरभ्योः // निर्, अभि, अनयोरुपपदयोर्घअित्यर्थः / अबपवादः। उन्न्योर्मः // उत्, नि, इत्युपपदयोर्घजित्यर्थः, अबपवादः / कृ धान्ये // कृ इति For Private And Personal Use Only
Page #674
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 672 सिद्धान्तकौमुदीसहिता [उत्तरकृदन्त 'कृ इत्यस्माद्धान्यविषयकादुन्न्योर्घस्यात् / उत्कारो निकारो धान्यस्य विक्षेप इत्यर्थः / 'धान्ये' किम् / भिक्षोत्करः / पुष्पनिकरः / 3202 / यज्ञे समि स्तुवः / (3-3-31) समेत्य स्तुवन्ति यस्मिन्देशे छन्दोगा: स देशः संस्तावः / 'यज्ञे' किम् / संस्तवः परिचयः। 3203 / प्रे स्त्रोऽयज्ञे / (3-3-32) 'अयज्ञे' इति छेदः / यज्ञे इति प्रकृतत्वात् / प्रस्तारः / 'अयज्ञे' किम् / बर्हिषः प्रस्तरो मुष्टिविशेषः / 3204 / प्रथने वावशब्दे / (3-3-33) विपूर्वात्स्तृणातेर्घस्यादशब्दविषये प्रथने / पटस्य विस्तारः / 'प्रथने' किम् / तृणविस्तरः / 'अशब्दे' किम् / ग्रन्थविस्तरः / 3205 / छन्दोनाम्नि च / (3-3-34) व' इत्यनुवर्तते / विष्टारपतिश्छन्दः / विस्तीर्यन्तेऽस्मिन्नक्षराणीत्यधिकरणे घञ् / तत: कर्मधारयः / 3206 / छन्दोनाम्नि च / (8-3-94) विपूर्वस्य स्तृणातेर्घजन्तस्य सस्य षत्वं स्याच्छन्दोनाम्नि / इति षत्वम् 3207 / उदि ग्रहः / (3-3-35) उद्गाहः। लुप्तपञ्चमीकम् / तदाह / कृ इत्यस्मादिति॥ यज्ञ समि स्तुवः॥ समित्युपपदे स्तुधातो. र्घञ् स्यात् यज्ञविषये प्रयोग इत्यर्थः / अधिकरणे ल्युटोऽपवादः / संस्तव इत्यस्य विवरणम् / परिचय इति // प्रे स्त्रोऽयज्ञे // प्रकृतत्वादिति // यज्ञे इति तु च्छेदो न भवति / पूर्वसूत्राद्यज्ञग्रहणानुवृत्त्यैव सिद्धेरित्यर्थः / प्र इत्युपपदे स्तृधातोर्घअित्यर्थः / प्रस्तार इति // इष्टकासन्निवेशविशेष इति याज्ञिकाः। प्रथने वावशब्दे // वो अशब्दे इति च्छेदः / तदाह / विपूर्वादिति // छन्दो नानि च // विपूर्वात् स्तृधातोर्घञ् स्यात् / अक्षरेयत्तात्मकछन्दसः संज्ञायामित्यर्थः / शब्दविषयत्वात् पूर्वेणाप्राप्ते वचनम् / कर्मधारय इति // विष्टरश्चासौ पतिश्चेति विग्रह इति भावः / ननु ‘सात्पदाद्योः' इति निषेधादादेशसकाराभावाच्च कथमिह षत्वमित्यत आह / छन्दोनाम्नीति // 'वृक्षासनयोर्विष्टरः' इत्युत्तरं सूत्रम् / वेदप्रसिद्धसंज्ञायां विष्टरशब्दः निपात्यते इत्यर्थः / उदि ग्रहः // उदित्युपपदे ग्रहधातोः For Private And Personal Use Only
Page #675
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा / 3208 / समि मुष्टौ / (3-3-36) मल्लस्य संग्राहः / 'मुष्टौ' किम् / द्रव्यस्य संग्रहः / 3209 / परिन्योर्नीणो ताभ्रेषयोः / (3-3-37) परिपूर्वान्नयतेर्निपूर्वादिणश्च घस्यात्क्रमेण द्यूते अभ्रेषे च विषये / परिणायेन शारान्हन्ति / समन्तान्नयनेनेत्यर्थः / एषोऽत्र न्यायः / उचितमित्यर्थः / 'घुताभ्रेषयोः' किम् / परिणयो विवाहः / न्ययो नाशः / 3210 / परावनुपात्यय इणः / (3-3-38) क्रमप्राप्तस्यानतिपातोऽनुपात्ययः / तव पर्यायः / 'अनुपात्यये' किम् / कालस्य पर्यय: अतिपात इत्यर्थः / 3211 / व्युपयोः शेतेः पर्याये / (3-3-39) तव विशायः / तव राजोपशायः / 'पर्याये' किम् / विशयः संशयः / उपशयः समीपशयनम् / 3212 / हस्तादाने चेरस्तेये / (3-3-40) हस्तादान इत्यनेन प्रत्यासत्तिरादेयस्य लक्ष्यते / पुष्पप्रचायः / 'हस्तादाने' किम् / वृक्षाग्रस्थानां फलानां यष्टया प्रचयं करोति / 'अस्तेये' किम् / पुष्पप्रचयञ्चौर्येण / 3213 / निवासचितिशरीरोपसमाधानेष्वादेश्व कः। (3-3-41) घमित्यर्थः / 'प्रहवृनिश्चिगमश्च' इत्यप्रत्ययस्य वक्ष्यमाणस्यापवादः / समि मुष्टौ // समित्युपपदे ग्रहधातोघंञ् स्यात् मुष्टिविषये धात्वर्थे गम्ये इत्यर्थः / मल्लस्य सङ्ग्राह इति // दृढग्रहणं मुष्टेरित्यर्थः / परिन्योः // यूते अभ्रेषे चेति // द्यूतविषय नयने अभ्रषविषये गमने च विद्यमानादित्यर्थः / अचोऽपवादः / शारान् अक्षान् / एषोऽत्र न्याय इति // अभ्रेषेण वर्तनमित्यर्थः / उचितस्थार्थस्य अनपचारः अभ्रषः / तदाह / उचितमिति // परावनुपात्यय इणः // परौ उपपदे इण्धातार्घञ् अनुपात्यये गम्ये इत्यर्थः / तव पर्याय इति // अनतिक्रमणमित्यर्थः / कालस्य पर्यय इति // अतिक्रम इत्यर्थः / तदाह / अतिपात इति // व्युपयोः शेतेः // वि, उप, इत्युपपदयोः शीधातोः धञ् स्यात् पर्याये गम्ये इत्यर्थः, अजपवादः / पर्यायः प्राप्तावसरता / हस्तादाने // हस्तादाने गम्ये चिञ्धातोर्घञ् न तु स्तेये इत्यर्थः / ननु वृक्षशिखरमात्रमारुह्य पुष्पापचयं करोतीत्यत्रातिव्याप्तिमाशङ्कय आह / प्रत्यासत्तिरिति // आदेयस्य पुष्पादिद्रव्यस्य भूमिस्थितपुरुषीयहस्तग्रहणयोग्यावस्थितिरित्यर्थः / पुष्पप्रचयञ्चौर्येणेति // करोतीति शेषः / निवास // For Private And Personal Use Only
Page #676
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 674 सिद्धान्तकौमुदीसहिता [उत्तरकृदन्त एषु चिनोतेर्घञ् स्यात् / आदेश्च ककारः / उपसमाधानं राशीकरणं तच्च धात्वर्थः / अन्ये प्रत्ययार्थस्य कारकस्योपाधिभूताः / निवासे / काशीनिकायः / चितौ / आकायमग्निं चिन्वीत / शरीरे / चीयतेऽस्मिन्नस्थ्यादिकमिति कायः / समूहे, गोमयनिकायः / एषु' किम् / चयः / 'चः कः' इति वक्तव्ये आदेरित्युक्तेर्यङ्लुक्यादेरेव यथा स्यादिति / गोमयानां निकेचायः / पुन:पुना राशीकरणमित्यर्थः / 3214 / संघे चानौत्तराधर्ये (3-3-42) चेर्घञ् आदेश्च कः / भिक्षुनिकायः / प्राणिनां समूहः संघ: / 'अनौत्तराधर्ये' किम् / सूकरनिचयः / स्तन्यपानादौ उत्तराधरभावेन शेरते / सो किम् / ज्ञानकर्मसमुच्चयः / / 3215 / कर्मव्यतिहारे णस्त्रियाम् / (3-3-43) स्त्रीलिङ्गे भावे णच् / 3216 / णचः स्त्रियामञ् / (5-4-14) 3217 / न कर्मव्यतिहारे / (7-3-6) अत्र ऐज्न स्यात् / व्यावक्रोशी / व्यावहासी / 'अकर्तरि च कारके' इति भाव इति चानुवर्तते एव / अन्ये इति // निवासचितिशरीरात्मका अर्था इत्यर्थः / उपाधिभूता इति // विशेषणभूता इत्यर्थः, अजपवादः / काशीनिकाय इति // निचीयते मोक्षोऽवत्यधिकरणे घा काशी मोक्षार्जनस्य निवास इत्यर्थः / 'चजोः कु घिण्ण्यतोः' इत्यस्य अव्यवहितयोरेव चजोः प्रवृत्तरिह कत्ववचनम् / आकायमिति // आचीयते इति कर्मणि घञ् / शरीरे इति // उदाहरणसूचनमिदम् / समूहे इति // उपसमाधानस्योदाहरणसूचनम् / निचीयते राशीक्रियते इति भावे घञ् / ननु निवासचितिशरीरोपसमाधानेषु चः क इत्येवास्तु / चकारस्य ककार इत्यर्थलाभादित्यत आह / चः क इति वक्तव्य इति // पुनःपुना राशीति // अत्र ‘रो रि' इति लोपे 'ठूलोप' इति दीर्घः / सो चानौत्तराधर्ये // चेजिति शेषपूरणमिदम् / चेञ् स्यात् सङ्के वाच्ये न त्वौत्तराधर्थे इत्यर्थः / उत्तराधरयोर्भावः औत्तराधर्यम् / प्राणिनां समूहः सङ्घ इति // व्याख्यानमेवान शरणम् / कर्मव्यतिहारे // कर्मव्यतिहारः क्रियाविनिमयः परस्परकरणम् , तस्मिन्विषये धातोणिच् स्यात् स्त्रीत्वे गम्ये इत्यर्थः / अत्र भकर्तरि च कारके इति तु नानुवर्तते, व्याख्यानादिति बोध्यम् / व्यावक्रोशीति // परस्परं निन्दक इत्यर्थः / व्यावहासीति. // परस्परं हासक इत्यर्थः / उभयत्रापि ‘णचः For Private And Personal Use Only
Page #677
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा। 3218 / अभिविधौ भाव इनुण् / (3-3-44) आदिवृद्धिः / 3219 / अणिनुणः / (5-4-15) 'इनण्यनपत्ये' (सू 1245) स्वभावतः पुंलिङ्गे, सांराविणं वर्तते / 3220 / आक्रोशेऽवन्योर्ग्रहः / (3-3-45) 'अव' 'नि' एतयोहेर्घस्यात् शापे / अवग्राहस्ते भूयात् / अभिभव इत्यर्थः / निग्राहस्ते भूयात् / बाध इत्यर्थः / 'आक्रोशे' किम् / अवग्रहः पदस्य / छेदः पदस्येत्यर्थः / निग्रहश्वोरस्य / निरोधश्चोरस्येत्यर्थः / 3221 / प्रे लिप्सायाम् / (3-3-46) पात्रप्रप्राहेण चरति भिक्ष: / अन्यत्र पात्रप्रग्रहः / 3222 / परौ यज्ञे / (3-3-47) उत्तरः परिग्राह: / स्फ्येन वेदेः स्वीकरणम् / 3223 / नौ वृ धान्ये / (3-3-48) स्त्रियामञ्' इति स्वार्थिकोऽञ् तद्धितः। 'टिडढ' इति ङीप् / अभिविधौ // कात्स्न्येन सम्बन्धः अभिविधिः / तस्मिन् गम्ये इनुण् स्यात् भावऽर्थे इत्यर्थः / अणिनुण इत्यनेन सूत्रेण इनुणन्तात् अण् तद्धितः स्वार्थिक इत्यर्थः / आदिवृद्धिरिति // तद्धितेष्वचामादेरित्यनेनेति शेषः / सांराविन् अ इति स्थिते 'नस्तद्धिते' इति टिलोपमाशङ्कय प्रकृतिभावं स्मारयति / इनण्यनपत्य इति // स्वभावत इति // लोकाश्रयत्वाल्लिङ्गस्यति भावः / आक्रोशेऽवन्योर्ग्रहः // एतयोरिति // उपपदयोरिति शेषः / ‘ग्रहवृनिश्चिगमश्च' इति वक्ष्यमाणस्य अप्रत्ययस्यापवादः / अवग्रह इत्यस्य विवरणम् / छेदः पदस्येति // पुरोहितमित्यादिसमस्तपदस्य पुरः हितमित्यादि विभज्य पठनमवग्रह इत्यर्थः / अत्र शापानवगमान घञ् / निग्रह इत्यस्य विवरणम् / निरोधश्चोरस्येति // प्रे लिप्सायाम् // प्र इत्युपपदे प्रहधातोर्घञ् स्यात् लिप्सायामित्यर्थः / 'प्रहवृदृनिश्चिगमश्च' इत्यपोऽपवादः / पात्रप्रसाहेण चरति भिक्षुरिति // भिक्षालाभायेति गम्यते / अन्यत्रेति // लिप्सायामगम्यायामित्यर्थः / परौ यज्ञ // परि इत्युपपदे प्रहधातोर्घञ् स्यात् यज्ञे प्रयुज्यमाने इत्यर्थः / 'ग्रहयुट' इत्यपोऽपवादः / उत्तरः परिग्राह इति // “वसवस्त्वा" इत्यादिमन्त्रैः पूर्वः परिग्राहो वेदेरुक्तः / तदपेक्षया द्वितीय इत्यर्थः / स्फ्येनेति // स्फ्यः खड्गाकृतिः दारुमयविशेषः / तेन समन्तालखया वेदिदेशस्य स्वीकरणं परिग्राह इत्यर्थः / नौ वृ धान्ये // नि For Private And Personal Use Only
Page #678
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 676 सिद्धान्तकौमुदीसहिता हिता [उत्तरकृदन्त 'वृ' इति लुप्रपञ्चमीकम्। नीवाराः / धान्ये' किम् / निवरा कन्या / क्तिन्विषयेऽपि बाहुलकादप / प्रवरा सेना, प्रवरा गौरितिवत् / एवञ्च स्त्रीलिङ्गोऽपि / 3224 / उदि श्रयतियौतिपूद्रुवः / (3-3-49) उच्छ्रायः / उद्यावः / उत्पाव: / उहावः / कथं 'पतनान्ता: समुच्छ्रयाः' इति / बाहुलकात् / 3225 / विभाषाङि रुप्लुवोः / (3-3-50) आराव:-आरवः / आप्लाव:-आप्लवः / 3226 / अवे ग्रहो वर्षप्रतिबन्धे / (3-3-51) विभाषेति वर्तते / देवस्य अवग्रह:-अवग्राहः / देवकर्तृकमवर्षणमित्यर्थः / ‘वर्षप्रतिबन्धे' किम् / अवग्रह: पदस्य / ___3227 / प्रे वणिजाम् / (3-3-52) प्रे अहेर्घवा वणिजां संबन्धी चेत्प्रत्ययार्थः / तुलासूत्रमिति यावत् / तुलाप्रमाहेण चरति / तुलाप्रग्रहेण / 3228 / रश्मौ च / (3-3-53) प्रग्रहः-प्रग्राहः / इत्युपपदे वृधातोप्रित्यर्थः। 'प्रहट' इत्यपोऽपवादः। नीवारा इति // 'उपसर्गस्य घऽयममुष्ये' इति दीर्घः / निवरा कन्येति // नितरां वरणीयेत्यर्थः / 'प्रह' इत्यप् / नभु प्रवरा कन्यत्यत्र कथमप् स्त्रियां तिनः प्रसङ्गात् / नपत्र वाऽसरूपविधिः प्रवर्तते / 'अजग्भ्यां स्त्रीखलनाः विप्रतिषेधेन' इत्युक्तरित्यत आह / तिन्विषयेऽपीति // सत्र वृद्धप्रयोग प्रमाणयति। प्रवरा सेना, प्रवरा गौरितिवदिति // ननु 'घअजबन्ताः पुंसि' इत्ययन्तस्य पुंस्त्वात् स्त्रीत्वं दुर्लभमित्यत आह / एवञ्चेति // उक्तवृद्धप्रयोगादित्यर्थः / लोकाश्रयत्वालिङ्गस्यति भावः / उदि श्रयति // उत् इत्यपपदे दि. य. पू, दू, एभ्यः घअित्यर्थः। अजपोरपवादः / विभाषाडि रुप्लुवोः // पञ्चम्यर्थे षष्ठी / आङ उपपदे रु, प्लु, आभ्यां घअित्यर्थः / अपोऽपवादः / अवे ग्रहो वर्ष // अव इत्युपपदे ग्रहधातोर्घन वा स्यात् वर्षप्रतिबन्धे इत्यर्थः / पक्षे 'प्रहट' इत्यप् / देवस्येति // पर्जन्यस्यत्ययः / कर्तरि षष्ठी। तदाह / देवकर्तृ. कमिति // अवग्रहः पदस्येति // समस्तस्य पदद्वयस्य विच्छिद्य पाठ इत्यर्थः / प्रे वणिजाम् // ‘ग्रहद' इत्यपोऽपवादः / तुलासूत्रामति // व्याख्यानादिति यावत् / तुला घटा। रश्मौ च ॥प्रे उपपदे ग्रहयातोर्घ रश्मावपि वाच्ये इत्यर्थः / चशब्दः उक्तसमुच्चये। For Private And Personal Use Only
Page #679
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा / 3229 / वृणोतेराच्छादने / (3-3-54) विभाषा प्र इत्येव / प्रावार:-प्रवरः / 3230 / परौ भुवोऽवज्ञाने / (3-3-55) परिभाव:-परिभवः / 'अवज्ञाने' किम् / सर्वतो भवनं परिभवः / 3231 / एरच् / (3-3-56) चयः / जयः / 'भयादीनामुपसंख्यानं नपुंसके क्तादिनिवृत्त्यर्थम्' (वा 2197-98) / भयम् / वर्षम् / / 3232 / ऋदोरप् / (3-3-57) ऋवर्णान्तादुवर्णान्तादप् / करः / गरः / शरः / यवः / लवः / स्तवः / पवः / 3233 / वृक्षासनयोर्विष्टरः / (8-3-93) अनयोर्विपूर्वस्य सः षत्वं निपात्यते / विष्टरो वृक्ष आसनं च / 'वृक्ष-' इति किम् / वाक्यस्य विस्तरः / / 3234 / ग्रहवृदृनिश्चिगमश्च / (3-3-58) अप्स्यात् / घरचोरपवादः / ग्रहः / वरः / दरः / निश्चयः / गमः / 'वशिरण्योरुपसंख्यानम्' (वा 2203) / वशः / रणः / 'घबर्थे कविवृणोतेराच्छादने ॥प्रे उपपदे वृधातोर्घवा स्यादाच्छादने इत्यर्थः / पक्षे 'ग्रहवृट' इत्यप् / प्रावार इति // पट इत्यर्थः / 'उपसर्गस्य घनि' इति दीर्घः / परौ भुवोऽवज्ञाने // परि इत्युपपदे अवहेळनवृत्तेर्भूधातोर्घञ् स्यादित्यर्थः / एरच् // इवर्णान्ताद्धातोः अच् स्यात् भावे अकर्तरि च कारके इत्यर्थः / घअपवादः / भयादीनामिति // भयादीनां सिद्धये भीप्रभृतिधातुभ्यः अच्प्रत्ययस्योपसङ्ख्यानमित्यर्थः / ननु ‘एरच्' इत्येव सिद्धे भयग्रहणं व्यर्थमित्यत आह / नपुंसके क्तादिनिवृत्त्यर्थमिति // आदिना ल्युडादिसङ्ग्रहः / अन्यथा परत्वात् क्तादयः स्युः / वाऽसरूपविधिस्तु नात्र भवति / अपवादत्वाभावादिति भावः / वर्षमिति // अत्र नपुंसके क्तल्युडादि बाधित्वा अच् अपूर्वो विधीयते / ऋदोरम् // पञ्चम्यर्थे षष्ठी / ऋत् , उ, अनयोस्समाहारे सौत्रं पुंस्त्वम् / ऋदन्तादुवर्णान्ताच अप् स्याद्भावे अकर्तरि च कारके इत्यर्थः / घअपवादः / ग्रहवृदृ // ग्रह, वृ, टु, निश्चि, गम् , एषां द्वन्द्वः / अप् स्यादिति शेषः / घनचोरिति // निष्पूर्वाच्चित्रः अजपवादः, इतरेभ्यस्तु घअपवाद इति विवेकः / वशिरण्योरिति // वार्तिकं घअपवादः अप् / वश इति // ‘वश कान्तौ / ' भावे अप् / For Private And Personal Use Only
Page #680
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 678 सिद्धान्तकौमुदीसहिता (उत्तरकृदन्त धानम्' (वा 2204) प्रस्थः / विघ्नः / 'द्वित्वप्रकरणे के कृत्रादीनामिति वक्तव्यम्' (वा 3429) / चक्रम् / चिक्लिदम् / चलूमः / (चक्नसः) / 3235 / उपसर्गेऽदः / (3-3-59) अपस्यात् / __3236 / घञपोश्च / (2-4-38) अदेर्घस्ल स्याद्वयपि च / प्रघसः / विघसः / ' उपसर्गे' किम् / घासः / 3237 / नौ ण च / (3-3-60) नौ उपपदे अदेणः स्यादप्च / न्यादः / निघसः / 3238 / व्यधजपोरनुपसर्गे / (3-3-61) अप्स्यात् / व्यधः / जप: / उपसर्गे तु, आव्याधः / उपजापः मन्त्रभेदः / 3239 / वनहसोर्वा / (3-3-62) इच्छेत्यर्थः / यद्यपि वशधातुः छान्दसः / तथापि वष्टि भागुरिरित्यादिप्रयोगात् लोकेऽपि प्रयुज्यते इति भावः / रण इति // रणन्ति शब्दायन्ते अस्मिन्निति रणस्सङ्ग्रामः / घअर्थे कविधानमिति // वार्तिकमिदम् / 'स्थानापाव्यधिहनियुध्यर्थम् ' इति वार्तिकशेषो भाष्ये पठितः। प्रस्थ इति // प्रतिष्ठन्तेऽस्मिन् धान्यानीति प्रस्थः / 'आतो लोप इटि च' इत्याल्लोपः / प्रस्वान्त्यस्मिन्निति प्रस्नः। प्रपिबन्त्यस्यामिति प्रपा / आविध्यन्त्यस्मिन्नित्याविधम् / 'अहिज्यावयिव्यधि' इति सम्प्रसारणम् , इति सिद्धवत्कृत्य आह / विघ्न इति // विहन्त्यस्मिन्मनांसीति विघ्नः / 'गमहन' इत्युपधालोपः / 'हो हन्तेः' इति कुत्वम् / आयुध्यतेऽनेनेत्यायुधमित्यप्युदाहार्यम् / द्वित्वप्रकरणे इति // “एकाचो द्वे प्रथमस्य' इति द्वित्वप्रकरणे इत्यर्थः / के कृत्रादीनामिति // कप्रत्यये परे कृत्रादीनां एकाचः प्रथमस्य द्वे स्त इत्यर्थः / चक्रमिति // 'स्थाना' इत्यस्य उपलक्षणत्वात् कृत्रः कः / क्रियते शत्रुवधः अनेनेति विग्रहः / कित्त्वान गुणः / द्वित्वम् / अभ्यासकार्यम्। चिक्लिदमिति // कः द्वित्वादि। चङक्रम इति। पूर्ववत् / उपसर्गेऽदः॥ अद इति छेदः / अप् स्यादिति शेषः / उपसर्गे उपपदे अदधातोः अप् स्यादित्यर्थः / घओऽपवादः / घनपोश्च // 'अदो जग्धिः' इत्यतः अद इति ‘लुड्सनोर्घस्ल' इत्यतः घस्ल इति चानुवर्तते / तदाह / अदेरिति // अपि चेति // अप्प्रत्यये चेत्यर्थः / विघल इति // अतिथिशिष्टमन्त्रमुच्यते। घास इति // " शष्पं बालतृणं घासः” इत्यमरः / नौ ण च // णेति लुप्तप्रथमाकम् / निघस इति // 'घबपोश्च' इति घस्लभावः / व्यधजपोः // पञ्चम्यर्थे षष्ठी / अय् स्यादिति शेषः / व्यध, जप आभ्यां अप् स्यात्, न तूपसर्ग इत्यर्थः / उपजापो मन्त्रभेद इति // पैशुन्यमि यर्थः / स्वनहसोर्वा // पञ्चम्यर्थे षष्ठी। For Private And Personal Use Only
Page #681
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा। 679 अप् / पक्षे घञ् / खनः-स्वान: / हसः-हास: / अनुपसर्ग इत्येव / प्रस्वानः / प्रहासः / 3240 / यमः समुपनिविषु च / (3-3-63) एष्वनुपसर्गे च यमेरब्वा / संयम:-संयामः / उपयम:-उपयामः / नियम:-नियाम: / वियम:-वियामः / यमः-यामः / 3241 / नौ गदनदपठस्वनः (3-3-64) अब्वा स्यात् / निगद:-निगादः / निनद:-निनादः / निपठः-निपाठः / निस्वन:-निस्वानः / __3242 / कणो वीणायां च / (3-3-65) नावनुपसर्गे च वीणाविषयाच कणतेरब्वा स्यात् / वीणाग्रहणं प्राद्यर्थम् / निकण:-निकाण: / कण:-काण: / वीणायां तु, प्रकण:-प्रकाणः / 3243 / नित्यं पणः परिमाणे / (3-3-66) अप्स्यात् / मूलकपणः / शाकपणः / व्यवहारार्थ मूलकादीनां परिमितो मुष्टिर्बध्यते सोऽस्य विषयः / 'परिमाणे' किम् / पाणः / 3244 / मदोऽनुपसर्गे / (3-3-67) धनमदः / उपसर्गे तु, उन्मादः। 3245 / प्रमदसम्मदौ हर्षे / (3-3-68) 'हर्षे' किम् / प्रमादः / सम्मादः / अबिति शेषः / स्वन, हस, आभ्यामब्वेत्यर्थः / यमः समुप // सम् , उप, नि, वि, एषां द्वन्द्वः / चकारादनुपसर्गे इति समुच्चीयते / तदाह / एष्वनुपसर्गे चेति // नौ गदनद // गद, नद, पठ, स्वन, एषां द्वन्द्वः / अवेति // शेषपूरणमिदम् / कणो वीणायां च // नाविति // नौ उपपदे च तदितरस्मिन्नुपसर्गे असति च वीणाविषयाचेत्यर्थः / ननु वणश्चेत्येतावता नौ उपसर्गे च कण अब्वेसर्थलाभात् वीणाविषयादपि क्वणस्सिद्धेः वीणायामिति व्यर्थमित्यत आह / वीणाग्रहणं प्राद्यर्थमिति // सोपसर्गार्थमित्यर्थः / नित्यं पणः // अबिति शेषः / ‘पण व्यवहारे' इत्यस्मानित्यमप स्यात् परिमाणविशेषे गम्ये इत्यर्थः / नित्यग्रहणाद्वाग्रहणन्निवृत्तम् / व्यवहारार्थमिति // विक्रयार्थमित्यर्थः / पण्यते विक्रयार्थ बध्यते मुष्टिमात्रमिति कर्मण्यप् / मूलकानां पण इति विग्रहः / मदोऽनुपसर्ग // अनुपसर्गे उपपदे मदेरबित्यर्थः / प्रमदसम्मदौ // प्रमद, सम्मद, एतावबन्तौ निपात्येते हर्षे For Private And Personal Use Only
Page #682
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 680 सिद्धान्तकौमुदीसहिता [उत्तरकृदन्त 3246 / समुदोरजः पशुषु / (3-3-69) / संपूर्वोऽजि: समुदाये उत्पूर्वश्च प्रेरणे तस्मात्पशुविषयकादप्स्यात् / 'अघनपोः' इत्युक्तेर्वीभावो न / समजः पशूनां संघः / उदजः पशूनां प्रेरणम् / 'पशुषु' किम् / समाजो ब्राह्मणानाम् / उदाज: क्षत्रियाणाम् / 3247 / अक्षेषु ग्लहः / (3-3-70) अक्षशब्देन देवनं लक्ष्यते तत्र यत्पणरूपेण ग्राह्यं तत्र 'ग्लहः' इति निपात्यते / अक्षस्य ग्लहः / 'व्यात्युक्षीमभिसरणग्लहामदीव्यन्' / 'अक्षेषु' किम् / पादस्य ग्रहः / 3248 / प्रजने सर्तेः। (3-3-71) प्रजनं प्रथमगर्भग्रहणम् / गवामुपसरः / कथम् ‘अवसरः' 'प्रसरः' इति / अधिकरणे 'पुंसि संज्ञायाम्-' (सू 3296) इति घः / गम्ये इत्यर्थः / कन्यानां प्रमदः कोकिलानां सम्मदः इत्युदाहरणम् / प्रसमोर्मदो हर्ष इत्येव सिद्धे निपातनं रूढिपरिग्रहार्थम् / समुदोरजः // समुदोः अज इति च्छेदः / सम् , उत् , अनयोः उपपदयोरित्यर्थः / अक्षेषु ग्लहः // अक्षशब्दे उपपदे इत्यर्थे अक्षेध्विति बहुवचनानुपपत्तिरित्यत आह / अक्षशब्देनेति // लक्ष्यते इति // प्रायेण देवनस्य अक्षसाध्यत्वादिति भावः / तत्रेति // देवने इत्यर्थः / पणरूपेणेति // देवने जितवते पराजितेन देयं द्रव्यं पणं तेन रूपेण ग्राह्यं यद्व्यं तस्मिन् कर्मणि 'ग्रह उपादाने' इति धातोः 'प्रहवृदृ' इत्यपप्रत्ययान्तः कृतलत्वो ग्लहशब्दो निपात्यते इत्यर्थः / 'ग्रह ग्रहणे' इत्यत्र तु 'ग्लह च' इति पठितम् / तत्र ग्लहेरप्प्रत्ययो निपात्यते / घअपवादः / अक्षस्य ग्लह इति // अक्षक्रीडायां पणत्वेन ग्राह्यमित्यर्थः / “पणोऽक्षेषु ग्लहः" इत्यमरः / अत्र देवनत्वरूपेण देवनमक्षशब्दस्य लक्ष्यम् / न त्वक्षदेवनत्वेनेत्यभिप्रेत्योदाहरति / व्यात्युक्षीमिति // माघकाव्यस्थमिदम् / 'दिवस्तदर्थस्य' इति करणस्य कर्मत्वात् द्वितीया / अभिसरणग्लहां अभिसरणचौर्यसुरतार्थमभिगमनम् / तदेव ग्लहः पणरूपेण प्राह्यं द्रव्यं यस्याः तथाविधां व्यात्युक्षीम् / 'उक्ष सेचने' परस्परञ्जलसेचनं व्यात्युक्षी तयेत्यर्थः / 'कर्मव्यतिहारे णच स्त्रियाम्' इति णच् / व्यत्युक्षशब्दात् ‘णचःस्त्रियामञ्' इति स्वार्थे अञ् तद्धितः। आदिवृद्धिः। 'टिड्ढ' इति डीप् / क्रीडायाजितवते पुंसे अभिसरणमेव पणत्वेन समयबन्धं कृत्वा प्रवृत्तेन परस्परजलसेचनेन अक्रीडनिति यावत् / अत्र जलक्रीडायामभिसरणात्मकपणस्य अक्षसाधनकत्वाभावेऽपि ग्लहेरप् भवत्येव / सूत्रे अक्षशब्देन देवनसामान्यस्य विवक्षितत्वात् / अक्षक्रीडाया एव विवक्षितत्वे त्विह ग्लहे. रप् न स्यादिति भावः / अक्षेषु किमिति // देवने किमित्यर्थः / पादस्य ग्रह इति // वन्दनाद्यमिति भावः / अत्र ग्रहधातोः 'ग्रहवृह' इत्यप् / न तु लत्वम् / ग्लहेस्तु घमि पादस्य ग्लाह इत्येव / प्रजने सर्तेः॥ प्रजनं प्रथमगर्भग्रहणमिति // प्रशब्द आद्यर्थकः / For Private And Personal Use Only
Page #683
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा / 681 3249 / हः संप्रसारणं च न्यभ्युपविषु / (3-3-72) निहवः / अभिहवः / उपहवः / विहवः / एषु' किम् / प्रह्वायः / 3250 / आङि युद्धे / (3-3-73) आहूयन्तेऽस्मिन्नित्याहवः / ‘युद्धे' किम् / आह्वायः / 3251 / निपानमाहावः / (3-3-74) आपूर्वस्य ह्वयतेः संप्रसारणमव्वृद्धिश्चोदकाधारश्चेद्वाच्यः / ‘आहावस्तु निपानं स्यादुपकूपजलाशये। 3252 / भावेऽनुपसर्गस्य / (3-3-75) अनुपसर्गस्य ह्वयते: संप्रसारणमप्च स्याद्भावे / हवः / 3253 / हनश्च वधः / (3-3-76) अनुपसर्गाद्धन्तेर्भावे अप्स्यात् / वधादेशश्चान्तोदात्तः / विधेन दस्युम्'। चाद्वञ् / घातः / 3254 / मूर्ती घनः / (3-3-77) मतिः काठिन्यं तस्मिन्नभिधेये हन्तेरप्स्यात् / घनश्चादेशः / अभ्रघनः / कथम् ‘सैन्धवघनमानय' इति / धर्मशब्देन धर्मी लक्ष्यते / प्रथमं जायते इति भावे घञ् / 'जनिवध्योश्च' इति नोपधावृद्धिरिति भावः। प्रजनार्थकात् मृधातोरप् स्यादिति फलितम् / कथमिति // उपसरणं प्रसरणमित्यर्थे प्रजनाप्रतीतेरबभावात् घनि उपधावृद्धिः स्यादित्याक्षेपः / समाधत्ते। अधिकरण इति // उपसरत्यस्मिन्निति प्रसरत्यस्मिन्निति च अधिकरणकारके कालेऽर्थे 'पुंसि संज्ञायाङ्घः प्रायेण' इति घप्रत्यय इत्यर्थः / ह्वः सम्प्रसारणश्च // नि, अभि, उप, वि, एषु चतुषूपपदेषु ह्वयतेरप् स्यात् सम्प्रसारणञ्च / घोऽपवादः / निहव इति // अप / वस्य सम्प्रसारणमुकारः पूर्वरूपं तस्य गुणावादेशौ / प्रह्वाय इति // घनि वृद्ध्यायादेशौ / आङि युद्धे // आङि उपपदे ह्वयतेरप् सम्प्रसारणञ्च युद्धे वाच्ये इत्यर्थः / निपानमाहावः // आहाव इति निपात्यते / निपानञ्चेद्वाच्यमित्यर्थः / फलितमाह / आयूर्वस्येति // हनश्च वधः॥ चकारो व्युत्क्रमः / तदाह / वधादेशश्चेति // अन्तोदात्त इति // सूत्रे वध इत्यन्तोदात्तस्योच्चारणादिति भावः / यद्यपि स्वतन्त्रवधेरेव 'घर्थे कविधानम्' इत्येव सिद्ध्यति / तथाप्यनुपसर्गादिति विशेषं वक्तुमिदम् / वस्तुतो वधिः स्वतन्त्रो नास्त्येवेति शब्देन्दुशेखरे / वधेन दस्युमिति // ऋग्वेदस्थोऽयं मन्त्रः स्वरप्रदर्शनाय पठितः / घात इति // 'हनस्तोऽचिण्णलोः' इति तत्वम् / 'चजोः' इति कुत्वम् / मूर्ती घनः // अभ्रघन इति // अभ्रस्य काठिन्यमित्यर्थः, भाव इत्यनुवृत्तेः / 86 For Private And Personal Use Only
Page #684
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 682 सिद्धान्तकौमुदीसहिता [उत्तरकृदन्त 3255 / अन्तर्घनो देशे / (3-3-78) वाहीकग्रामविशेषस्य संज्ञेयम् / 'अन्तर्घणः' इति पाठान्तरम् / 3256 / अगारैकदेशे प्रघणः प्रघाणश्च / (3-3-79) द्वारैकदेशे द्वौ प्रकोष्ठावलिन्दौ आभ्यन्तरो बाह्यश्च / तत्र बाह्ये प्रकोष्ठे निपातनमिदम् / प्रविशद्भिर्जनैः पादैः प्रकर्षेण हन्यते इति प्रघण:-प्रघाणः / कर्मण्यप् / पक्षे वृद्धिः। 3257 / उद्धनोऽत्याधानम् / (3-3-80) अत्याधानमुपरिस्थापनम् / यस्मिन्काष्ठेऽन्यानि काष्ठानि स्थापयित्वा तक्ष्यन्ते तदुद्धनः / अधिकरणेऽप् / __ 3258 / अपघनोऽङ्गम् / (3-3-81) अङ्गं शरीरावयवः / स चेह न सर्वः किं तु पाणिः पादश्चेत्याहुः / करणेऽप् / अपघातोऽन्यः / 3259 / करणेऽयोविद्रुषु / (3-3-82) एषु हन्ते: करणेऽप्स्याद्धनादेशश्च / अयो हन्यतेऽनेनेत्ययोधनः / विघन: / द्रुघनः / 'दुघणः' इत्येके / 'पूर्वपदात्संज्ञायाम्-' (सू 857) इति णत्वम् / संझैषा कुठारस्य / दुर्वृक्षः / कथमिति // सैन्धवकाठिन्यस्यानयनान्वयासम्भवादिति भावः / समाधत्ते / धर्मशब्देनेति // अन्तर्घनो देशे // देशविशेषे वाच्ये अन्तरित्युपपदे हन्तेरप् प्रकृतेर्घनादेशश्चेत्यर्थः / निपातनात् 'पूर्वपदात्संज्ञायाम्' इति णत्वाभावः / अगारैकदेशे // अगारैकदेशशब्देन अगारैकदेशविशेषो विवक्षितः, व्याख्यानात् / तदाह / द्वारैकदेश इत्यादि // प्रकोष्ठौ दीर्घचतुरश्रधिष्ण्यौ तौ अलिन्दनामानौ प्रवेशयोग्यौ / उद्धनोऽत्याधानम् // अत्याधान वाच्यञ्चेत् उत्पूर्वात् हन्तेरप् / हस्य घत्वे च उद्धन इति निपात्यते इत्यर्थः / अपघनोऽङ्गम् // अङ्गं वाच्यञ्चत् अपपूर्वाद्धन्तेरप् / हस्य घत्वे चापघन इति निपात्यते इत्यर्थः / पाणिः पादश्चेति // अत्र व्याख्यानमेव शरणम् / करणे इति // अपहन्यतेऽनेनेति करणव्युत्पत्तरिति भावः / करणेऽयोविद्रुषु // अयस् , वि, दु, एषां द्वन्द्वः / द्रुघन इति // असंज्ञात्वात् 'पूर्वपदात्संज्ञायाम्' इति न णत्वमिति भावः / संज्ञात्वमते आह / दुघण इति // For Private And Personal Use Only
Page #685
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् - बालमनोरमा / 683 3260 / स्तम्बे क च / (3-3-83) स्तम्ब उपपदे हन्तेः करणे कः स्वादच पक्षे घनादेशश्च / स्तम्बन्न:स्तम्बघन: / कर ग इत्येव / स्तम्बघातः / 3261 / परौ घः। (3-3-84) परौ हन्तेरप्स्यात्करणे घशब्दश्चादेशः / परिहन्यतेऽनेनेति परिघः / __ 3262 / परेश्व घाङ्कयोः / (8-2-22) परेः रेफख लो वा स्याद्वशब्देऽङ्कशब्दे च / पलिघ:-परिघः / पर्यङ्कःपल्यङ्कः / इह 'तरप्तमपौ घः' (सू 2003) इति कृत्रिमस्य न ग्रहणं व्याख्यानात् / 3263 / उपन्न आश्रये / (3-3-85) उपपूर्वाद्धन्तेरप्स्यादुपधालोपश्च / आश्रयशब्देन सामीप्यं लक्ष्यते / पर्वतेनोपहन्यते सामीप्येन गम्यत इति पर्वतोपन्नः / ___3264 / संघोडौ गणप्रशंसयोः / (3-3-86) संहननं संघ: / भावेऽप् / उद्धन्यते उत्कृष्टो ज्ञायत इत्युद्धः / कर्मण्यप् / गत्यर्थानां बुद्धयर्थत्वाद्धन्तिर्ज्ञाने / 3265 / निघो निमितम / (3-3-87) स्तम्बे क च // कति लुप्तप्रथमाकम् / अप् च पक्षे इति / अप्सम्बद्धस्यैव घनादेशस्यानुवृत्तरिति भावः / स्तम्बघ्न इति // कप्रत्यये सति ‘गमहन' इत्युपधालोपः / स्तम्बघात इति // घञि ‘चजोः' इति कुत्वम् / परौ घः // करण हन इति आबति चानुवर्तते / तदाह / परौ हन्तरिति / / परेश्च घाङ्कयोः // रेफस्य लो वेति || 'कृपो रो लः' इत्यतो रो ल इति ‘अचि विभाषा' इत्यता विभाषेति चानुवर्तते इति भावः / ननु ‘कृत्रिमाकृत्रिमयोः कृत्रिमे कार्यसम्प्रत्ययः' इति न्यायादिह घसंज्ञकयोः तरप्तमपोरेव ग्रहणं स्यात् / नतु घशब्दस्य ‘स्वं रूपं शब्दस्य ' इत्यत्र अशब्दसंज्ञेति पयुदासाचत्यत आह / इहेति // उपघ्न आश्रये // आश्रये गम्ये उपन्न इति निपात्यत इत्यर्थः / फलितमाह / उपपूर्वादिति / लक्ष्यते इति / / व्याख्यानादिति भावः / सङ्घोद्धौ // यथासङ्ख्यमन्वयः / गणे सङ्घ इति प्रशंसायामुद्ध इति निपात्यते इत्यर्थः / सम् , उत् , अनयोरुपपदयोः हन्तेरप्प्रत्ययः टिलोपः घत्वञ्च निपात्यते इति यावत् / संहननमिति // मेळनमित्यर्थः, उपसर्गवशात् / गत्यर्थानामिति // 'सर्वे गत्यर्था ज्ञानार्थाः' इति न्यायादिति भावः / निघो॥ निमितं वाच्यञ्चेत् निघ For Private And Personal Use Only
Page #686
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 684 सिद्धान्तकौमुदीसहिता [उत्तरकृदन्त समन्तान्मितं निमितम् / निर्विशेषं हन्यन्ते ज्ञायन्ते इति निघाः वृक्षाः / समारोहपरिणाहाः इत्यर्थः / __3266 / द्वितः क्रिः / (3-3-88) अयं भाव एव स्वभावात् / 'क्रेमम्नित्यम्' / (सू 1570) क्रिप्रत्ययान्तान्मप् निर्वृत्तेऽर्थे नित्यग्रहणात्क्रिर्मविषयः / अत एव कत्र्यन्तेन न विग्रहः / डुपचष् / पाकेन निर्वृत्तं पक्रिमम् / डुवप् / उत्रिमम् / 3267 / द्वितोऽथुच् / 3-3-89) अयमपि स्वभावाद्भाव एव / टुवेपृ / वेपथुः / श्वयथुः / इति निपात्यते इत्यर्थः / इहाप्यप् टिलोपः घत्वञ्च निपात्यते इत्यर्थः / निमितशब्दं व्याचष्टे / समन्तान्मितन्निमितमिति // निः समन्तादित्यर्थे अव्ययानामनेकार्थत्वादिति भावः / निर्विशेषमिति // इह नि इत्यव्ययं निर्विशेषे हन्तिानार्थ इति भावः / समेति // समौ आरोहपरिणाही औनत्यस्थौल्ये येषामिति विग्रहः / द्वितः क्रिः // डुः इत् यस्य सः ड्वित्तस्मात् क्रिप्रत्ययः स्यादित्यर्थः / ककार इत् / अयं भाव एवेति // अन भावे इत्येवानुवर्तते, न तु 'अकर्तरि च कारके' इत्यपीति भावः / स्वभावादिति // पाकादिना निवृत्तमित्यर्थे पक्रिममित्यादौ क्रिप्रत्ययान्तानां पाकादिष्वेव लोके प्रयोगदर्शनादिति भावः / क्रेमनित्यम // चतुर्थस्य चतुर्थपादे इदं सूत्रम् / मप् नित्यमिति छेदः / निर्वृत्ते इति // 'निर्वृत्तऽक्षयूतादिभ्यः' इत्यतस्तदनुवृत्तेरिति भावः / तद्धितप्रकरणे व्याख्यातमप्येतत् इह स्मरणाय पुनाख्यातम् / नन्विह नित्यग्रहणं व्यर्थम् / न च 'समर्थानां प्रथमाद्वा' इति महाविभाषानिवृत्त्यर्थं तदिति वाच्यम् / अत्र हि निर्वृत्तग्रहणमनुवर्तते / तथा च निर्वृत्तार्थविवक्षायां क्रिप्रत्ययान्तात् मप्प्रत्ययस्य नित्यतया पकच्यादिनिवृत्तमिति वाक्यनिवृत्तावपि पाकोऽस्तीत्यादिवत् पक्तिरस्ति भविष्यतीत्याद्यपि प्रसज्येत / तच्चानिष्टम् / क्रिप्रत्ययान्तस्य निर्वृत्तार्थाविवक्षायामपि सर्वदा मप्प्रत्ययशिरस्कताया एवेष्टत्वादित्यत आह / नित्यग्रहणादिति // न हि महाविभाषानिवृत्त्यर्थं नित्यग्रहणम् / 'निर्वृत्तेऽक्षयूतादिभ्यः केस्तु मप्' इत्येकसूत्रत्वेनैव सिद्धे पृथग्योगकरणादेव महाविभाषानिवृत्तिसिद्धः / तथा च नित्यग्रहणसामर्थ्यानित्यामिति योगान्तरं विज्ञायते / तथा च निवृत्ते इति निवृत्तम् / तथा च क्रिप्रत्ययान्तः निर्वृत्तार्थयोगे तदयोगे च सर्वदा मप्प्रत्ययान्त एव स्यादिति लभ्यते / एवञ्च क्रिप्रत्ययो मप्प्रत्ययं विना केवल: क्वापि न प्रयुज्यते इति लभ्यते इत्यर्थः / एतच्च भाष्ये स्पष्टम् / अत एवेति // क्रिप्रत्ययस्य मप्प्रत्ययं विना प्रयोगाभावात् पक्च्या निर्वृत्तमिति स्वपदविग्रहो नास्ति / किन्तु पाकेन निर्वृत्तमित्यस्वपदविग्रह इत्यर्थः / उप्त्रिममिति // कित्त्वात् 'वचिस्वपि' इति सम्प्रसारणमिति भावः / द्वितोऽथुच् // अथुजिति छेदः / टुः इत् यस्येति विग्रहः / श्वयथुरिति // For Private And Personal Use Only
Page #687
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा / 3268 / यजयाचयतविच्छप्रच्छरक्षो नङ् / (3-3-90) __ यज्ञः / यात्रा / यत्नः / विश्नः / प्रश्नः / प्रश्ने चासन्न-' (सू 1777) इति ज्ञापकान्न संप्रसारणम् / ङित्त्वं तु विश्न इत्यत्र गुणनिषेधाय / रक्ष्णः / 3269 / स्वपो नन् / (3-3-91) स्वप्नः / 3270 / उपसर्गे घोः किः / (3-3-92) प्रधिः / अन्तर्धिः / उपाधीयतेऽनेनेत्युपाधिः / __ 3271 / कर्मण्यधिकरणे च / (3-3-93) कर्मण्युपपदे घोः किः स्यादधिकरणेऽर्थे / जलानि धीयन्तेऽस्मिन्निति जलधिः / 3272 / स्त्रियां क्तिन् (3-3-94) स्त्रीलिङ्गे भावादी क्तिन्स्यात् / घनोऽपवादः / अजपौ तु परत्वाद्वाधते / कृतिः / चितिः / स्तुतिः / स्फायी-स्फाति: / 'स्फीतिकामः' इति तु प्रामा'टु ओ श्वि गतिवृद्ध्योः' इत्यस्य रूपम् / यजयाच // ‘अकर्तरि च कारके' इति भाव इति चानुवर्तते / याच्नेति // नस्य श्चुत्वेन ञः / विश्न इति // विच्छेर्नङ् / 'च्छो:' इति शः / एवं प्रच्छेनङि रूपम् / 'अहिज्या' इति सम्प्रसारणमाशङ्कय आह / प्रश्ने चेति // ननु सम्प्रसारणाभावे डिक्त्वं व्यर्थमित्यत आह / ङित्त्वं त्विति // स्वपो नन् // नकारो नित्स्वरार्थः / उपसर्गे घोः किः // भावे अकर्तरि च कारके / कित्त्वमातो लोपार्थम् / प्रधिरिति // धाजो रूपम् / उपाधीयते इति // स्वनिष्ठधर्मः अन्यत्रासज्यते इत्यर्थः / कर्मण्यधिकरणे च // इह कर्म उपपदं अधिकरणमर्थः व्याख्यानात् / तदाह / कर्मण्युपपद इत्यादि // स्त्रियां क्तिन् // ‘कृत्यल्युटो बहुळम्' इत्यतः प्राक् स्त्रियामित्यधिक्रियते / स्त्रीलिङ्ग इति // स्त्रीत्वविशिष्टे भावे अकर्तरि च कारके इत्यर्थः / धातुमात्रादयं क्तिन् / घोऽपवाद इति // ‘हलश्च' इति वक्ष्यमाणघोऽपवाद इत्यर्थः / एवञ्च स्त्रीत्वविशिष्टे भावादौ क्तिनेव / घञ् तु पुंस्त्वविशिष्टभावादाविति लभ्यते / वाऽसरूपविधिर्नात्र प्रवर्तते, अस्त्रियामित्युक्तेः / ननु तर्हि इकारान्तात् ऋकारान्तात् उकारान्ताच्च स्त्रीत्वविशिष्टे भावादौ ‘एरच्' इति 'ऋदोरप्' इति च अजपावेव क्तिनं बाधित्वा स्याताम् / विशेषविहितत्वात् / स्त्रियां वाऽसरूपविध्यभावाच्चेत्यत आह / अजपौ त्विति // तौ तु पुंस्त्वविशिष्टे भावादौ सावकाशाविति भावः / स्फातिरिति // ‘लोपो व्योः' इति यलोपः / 'तितुत्र' इति नेट् / प्रामादिकमिति // 'स्फायः स्फी निष्ठायाम्' इति स्फीभावस्य For Private And Personal Use Only
Page #688
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 686 सिद्धान्तकौमुदीसहिता [उत्तरकृदन्त दिकम् / क्तान्ताद्धात्वर्थे णिचि ‘अच इ.' इति वा समाधेयम् / 'श्रुयजीषिस्तुभ्यः करणे' (वा 2211) / श्रूयतेऽनया श्रुतिः / यजेरिषेश्च इष्टिः / स्तुतिः / ऋल्वादिभ्यः क्तिन्निष्ठावद्वाच्यः (वा 4826) / तेन नत्वम् / कीर्णि: / गीणिः / लूनिः / धूनिः / यूनिः / 'ह्लाद:-' (सू 3073) इति योगविभागात्क्तिनि ह्रस्व: / प्रह्लन्निः / ति च' (सू 3037) / चूर्तिः / फुल्ति: / 'चायते: क्तिनि चिभावो वाच्यः' (वा 4418) / अपचितिः / 'संपदादिभ्यः किप्' (वा 2233) / संपत् / विपत् / ‘क्तिन्नपीष्यते' / संपत्तिः / विपत्तिः / 3273 / स्थागापापचो भावे / (3-3-95) क्तिन्स्यादङोऽपवादः / प्रस्थितिः / उपस्थितिः / संगीतिः / संपीतिः / पक्तिः / कथम् ‘अवस्था' संस्था' इति / व्यवस्थायाम्' इति ज्ञापकात् / निष्ठायामेव प्रवृत्तरिति भावः / कथञ्चित्समाधत्त / क्तान्तादिति // स्फायः क्तप्रत्यये स्फीभावे स्फीतशब्दः स्फीतस्याख्यानं क्रिया वा स्फीतिः 'तत्करोति तदाचष्टे' इति णिच् अल्लोपः / 'अच इ:' इति भावे इप्रत्ययः / स्फीतिं कामयते इति स्फीतिकाम इति वा कथञ्चित्समाधेयमिति भावः / श्रुयजीषिस्तुभ्यः करणे // वार्तिकम् / एभ्यश्चतुर्थ्यः करणे स्त्रियां क्तिन्नित्यर्थः / श्रुधातोः स्तुधातोश्च ‘एरच्' इति ‘ओरप्' इति च प्राप्ते यजीष्योस्तु ‘हलश्च' इति घनि च प्राप्ते वचनम् / भावे कर्तृव्यतिरिक्तकारके च सर्वत्र प्राप्ते करणग्रहणम् / इष्टिरिति // यजे: ‘वचिस्वपि' इति सम्प्रसारणम् / व्रश्चादिना षत्वम् / ऋल्वादिभ्य इति // ऋकारान्ताल्ल्वादिभ्यश्च पर इत्यर्थः / तेनेति // निष्ठावद्वचनेनेत्यर्थः / नत्वमिति // ‘रदाभ्यां निष्ठातः' इति नत्वस्य प्रकृतत्वादिति भावः / कीर्णिरिति // कृधातोः क्तिनि इत्वे रपरत्वे 'हलि च' इति दीर्घः / तकारस्य नत्वम् , णत्वम् / एवं गृधातोः गीर्णिः। ल्वादिभ्यः उदाहरति / लूनिरित्यादि // अथ प्रह्लनिरित्यत्र उपधाह्रस्वं साधयति / ह्लाद इतीति / 'ह्रादो निष्टायाम् ' इत्युपधाह्रस्वविधौ ह्लाद इति योगविभागात् अनिष्टायामपि क्वचिद्रस्व इति भावः / भाष्ये तु नैतदृष्टम् / अथ चरेः फलेश्च क्तिनि अकारस्य उत्वं स्मारयति / तिचेति // चरफलोश्च, उत्परस्यातः, इत्युत्तरमिदं सूत्रम् / तादौ प्रत्यये परे चरफलोरत उकारः स्यादिति व्याख्यातं यङ्लुकप्रकरणे / चूर्तिरिति // चरेः क्तिनि अकारस्य उत्वे 'हलि च' इति दीर्घः / फुल्तिरिति // फले: क्तिनि उत्वे रूपम् / रेफवान्तत्वाभावान्न दीर्घः / उभयत्रापि 'तितुत्र' इति नेट् / सम्पदादिभ्यः क्विप // वार्तिकम् / भावे अकर्तरि च कारके स्त्रियाम् इति शेषः / ननु अस्त्रियामिति निषेधेन वाऽसरूपविधेरभावात् किपाऽनेन क्तिनो बाधात् सम्पत्तिरित्यादि कथमित्यत आह / क्तिनपीष्यते इति // ‘कृत्यल्युटो वहुलम्' इति बहुलग्रहणेन सिद्धमित्याहुः / भाष्ये तु नैतदृश्यते / स्थागापा // क्तिन् स्यादिति // क्विप् तु अखरितत्वानानुवर्तते इति भावः / अङ इति // स्थादिभ्यस्त्रिभ्यः ‘आतश्चोपसर्गे' For Private And Personal Use Only
Page #689
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा / 3274 / ऊतियूतिजूतिसातिहेतिकीर्तयश्च / (3-3-97) अवते: ज्वरन्वर-' (सू 2654) इत्यूठ / ऊतिः / स्वराथै वचनम् / उदात्त इति हि वर्तते / यूतिः / जूतिः / अनयोर्दीर्घत्वं च निपात्यते / स्यते: सातिः। 'द्यतिखति-' (सू 3074) इतीत्त्वे प्राप्ते इह इत्वाभावो निपात्यते / सनोतेर्वा ‘जनसन-' (सू 1504) इत्यात्वे कृते स्वरार्थ निपातनम् / हन्तेहिनोतेर्वा हेतिः / कीर्तिः। 3275 / व्रजयजो वे क्यप् / (3-3-98) व्रज्या / इज्या / 3276 / संज्ञायां समजनिषदनिपतमनविदषुशीभृञिणः / (3-3-99) इति वक्ष्यमाणस्य, पचेस्तु ‘षिद्भिदादिभ्यः' इति विहितस्याप्रत्ययस्यापवाद इत्यर्थः / प्रस्थितिरित्यादि / 'यतिस्यतिमास्थाम्' इति इत्त्वम्। 'घुमास्थागापा' इति च ईत्वम् / कथमिति // 'स्थागापा' इति क्तिना 'आतश्चोपसर्गे' इति वक्ष्यमाणस्य अडो वाधादिति भावः / समाधत्ते / व्यवस्थायामिति // ज्ञापकादिति // ऊतियति // एते स्त्रियां क्तिन्नन्ता निपात्यन्ते इत्यर्थः / ऊठिति // अकारवकारयोरित्यर्थः / ननु 'स्त्रियां क्तिन्' इत्येव सिद्धे किमर्थमिदमूतिग्रहणमित्यत आह / स्वरार्थमिति // कः स्वर इत्यत आह / उदात्त इतीति // ‘मन्त्र वृषेषपचमनविदभूवीरा उदात्त.' इति पूर्वसूत्रस्थमुदात्तग्रहणमेकवचनान्ततया विपरिणतमिहानुवर्तते इत्यर्थः / तथा च क्तिन उदात्तत्वं लभ्यते / अन्यथा णित्यादिनित्यमिति प्रकृतेरुदात्तत्वं स्यादित्यर्थः / अनयोरिति॥ युधातोर्जुधातोश्चेत्यर्थः / स्यतेरिति॥ 'षोऽन्तकर्मणि' इत्यस्मात् क्तिनि सातिरिति रूपमित्यर्थः / ‘आदेचः' इत्यात्त्वम् / तत्र 'द्यतिस्यतिमास्थामित्ति किति' इति इत्त्वमाशय आह / इह इत्त्वाभाव इति // सनधातोर्वा सातीति निपातनमित्याह / सनोतेर्वेति // सनेर्वा क्तिनि 'जनसन' इत्यात्त्वे कृते सातीति निपातनमित्यर्थः / अत्र 'द्यतिस्यति' इतीत्त्वस्याप्रसक्तेस्तदभावो न निपात्यते इति लाघवमिति भावः / ननु सनोतेस्त्रियां क्तिनि सातीति रूपसिद्धेः किमर्थमिह सातीति निपातनमित्यत आह / स्वरार्थमिति // ‘मन्त्रे वृष' इति पूर्वसूत्रात् उदात्तग्रहणानुवृत्तेः क्तिन उदात्तत्वं सिध्यति / अन्यथा प्रकृतेरुदात्तत्वं स्यादित्यर्थः / हन्तरिति // हनः क्तिनि नकारस्य निपातनादित्त्वे आद्गुणे हेतिरिति रूपम् / हिनोतेरिति // हिधातोः क्तिनि तु 'क्ङिति च' इति निषेधं बाधित्वा निपातनात् गुणे रूपमित्यर्थः / कीर्तिरिति // ‘कृत संशब्दने'। स्वार्थिकण्यन्तात् ‘ण्यासश्रन्थो युच्' इति युचं बाधित्वा क्तिनिपात्यते / उदात्तश्च सः। व्रजयजोः // पञ्चम्यर्थे षष्ठी / स्त्रियामित्येव / व्रज्येति // 'व्रजी वर्जने' क्यप् / 'व्रजयजोः' इति पाठे 'व्रज गतौ' इत्यस्मात् क्यप् व्रज्या / इज्येति / / 'वचिस्वपि' इति सम्प्रसारणम् / संज्ञायां समजनिषद // समज, निषद, निपत, मन, विद, घुञ् , For Private And Personal Use Only
Page #690
--------------------------------------------------------------------------
________________ www.kobatirth.org Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir 688 __सिद्धान्तकौमुदीसहिता [उत्तरकृदन्त समजादिभ्यः स्त्रियां भावादौ क्यप् स्यात्स चोदात्त: संज्ञायाम् / 'अजे: क्यपि वीभावो नेति वाच्यम्' (वा 1596) समजन्त्यस्यामिति समज्या सभा / निषीदन्त्यस्यामिति निषद्या आपणः / निपतन्त्यस्यामिति निपत्या पिच्छिला भूमिः / मन्यतेऽनयेति मन्या गलपार्श्वसिरा / विदन्त्यनया विद्या / सुत्या अभिषवः / शय्या / भृत्या / ईयतेऽनया इत्या शिबिका / __3277 / कृञः श च / (3-3-100) 'कृयः' इति योगविभागः। कृत्र: क्यप्स्यात् / कृत्या / ‘श च'। चाक्तिन् / क्रिया / कृतिः / 3278 / इच्छा / (3-3-101) इषे वे शो यगभावश्च निपात्यते / इच्छा / 'परिचर्यापरिसर्यामृगयाटाट्यानामुपसंख्यानम्' (वा 2215) / शो यक्च निपात्यते / परिचर्या पूजा / परिसर्या परिसरणम् / अत्र गुणोऽपि / 'मृग अन्वेषणे' चुरादावदन्तः / अतो लोपाभावोऽपि / शे यकि णिलोपः। मृगया। अटते: शे यकि ट्यशब्दस्य शीङ्, भृञ् , इण् नवानां समाहारद्वन्द्वात्पञ्चमी / 'अजेय॑घजपोः' इति प्राप्ते आह / अजे. क्यपीति // समजन्तीति // सङ्घीभवन्तीत्यर्थः / समज्या सभेति // सम्पूर्वादजेः क्यप् / " समज्या तु सभा गोष्ठी" इत्यमरः / निषद्येति // निपूर्वात्सदेः क्यप् / 'सदिरप्रतेः' इति षत्वम् / " आपणस्तु निषद्यायाम्" इत्यमरः / निपत्येति // निपूर्वात्पतेः क्यप् / पिच्छिलेति // निम्नोत्रता भूमिरित्यर्थः / गलेति // " पश्चाद्रीवा सिरा मन्या" इत्यमरः। विद्येति // वेदशास्त्रादिरित्यर्थः / सुत्येति // सोमेज्या। षुः क्यप् / तुक् / इत्या शिबिकेति // कोशो मृग्यः / कृनःश च // चात् क्यप् / शेत्ति लुप्तप्रथमाकम् / कृअशः स्यात् क्यप् चेति प्रतीयमानार्थः / एवं सति कृतिरिति क्तिन्न स्यात् , स्त्रियां वाऽसरूपविद्ध्यभावात् / तत्राह / कृञ इति योगविभाग इति // तत्र क्यबित्यनुवृत्तिं मत्वा आह / कृञः क्यप् स्यादिति // कृत्येति // कृञः क्यपि तुक / श चेति द्वितीयखण्डोऽयम् / चाक्तिन्निति // क्यपः पूर्वेणैव खण्डेन सिद्धत्वादिति भावः / क्रियेति // कृत्रश्शः 'रिङ्शयग्लिङ्घ' इति रिङ् / शित्त्वेन सार्वधातुकतया ङित्त्वान्न गुणः। इयङिति भावः / इच्छा / / भावे श इति // न त्वकर्तरि कारके चेत्यर्थः, निपातनसामर्थ्यादिति भावः / यगभावः श्वेति // अन्यथा शित्त्वेन सार्वधातुकत्वात् यक् स्यादिति भावः / परिचर्येति // परिपूवाच्चरेः भावे शः यक् च / परिसर्येति // परिपूर्वात्मधातोश्शः / यक् च / अत्र शप्रत्ययस्य शित्त्वेन सार्वधातुकतया डित्त्वात् गुणनिषेधमाशङ्कय आह। अत्र गुणोऽपीति॥ परिसर्याशब्दे For Private And Personal Use Only
Page #691
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा / 689 द्वित्वं / पूर्वभागे यकारनिवृत्तिर्दीर्घश्च / अटाट्या / 'जागर्तेरकारो वा' (वा 2216) / पक्षे शः / जागरा-जागर्या / 3279 / अ प्रत्ययात् / (3-3-102) प्रत्ययान्तेभ्यो धातुभ्य: स्त्रियामकारप्रत्यय: स्यात् / चिकीर्षा / पुत्रकाम्या / 3280 / गुरोश्व हलः (3-3-103) गुरुमतो हलन्तास्त्रियामकार: स्यात् / ईहा / ऊहा / 'गुरोः' किम् / भक्तिः / 'हलः' किम् / नीतिः / निष्ठायां सेट इति वक्तव्यम्' (वा 2208) नेह / आप्तिः / 'तितुत्र-' (सू 3163) इति नेट / दीप्तिः / 'तितुत्रेष्वग्रहादीनामिति वाच्यम्' (वा 4393) / निगृहीतिः / निपठितिः / 3281 / षिद्भिदादिभ्योऽङ् / (3-3-104) षिद्भयो भिदादिभ्यश्च स्त्रियामङ् / जुष / जरा / त्रपूष / त्रपा / भिदा / विदारण एवायम् / भित्तिरन्या / छिदा / द्वैधीकरणे / अन्यत्र गुणोऽपि निपातित इत्यर्थः / द्वित्वमिति // निपात्यते इति शेषः / यकारनिवृत्तिरिति / निपात्यत इति शेषः। हलादिशेषस्तु नात्र प्रवर्तते / तस्य षाष्ठद्वित्वविषयत्वादित्याहुः / यङन्तात्तु 'अ प्रत्ययात्' इति वक्ष्यमाणः अकारप्रत्ययः / तत्र अतो लोपे यलोपे च अटाटेति बोध्यम् / जागर्तेरकारो वेति॥ भावे वक्तव्य इति शेषः / अकारप्रत्यये उदाहरति / जागरोति॥ आर्धधातुकलक्षणो गुणः / शप्रत्यये उदाहरति / जागर्येति // शित्त्वेन सार्वधातुकत्वात् यक् ‘जाग्रोऽविचिण्णण्डित्सु' इति च गुणः / अप्रत्ययात् // अ इति लुप्तप्रथमाकम् / भावे अकर्तरि च कारके इत्येव / गुरोश्च हलः // धातोरित्यनुवृत्तम् हला विशेष्यते / तदन्तविधिः / हलन्तधातोर्गुरुत्वासम्भवाद्गुरुमान् लक्ष्यते / तदाह / गुरुमत इति / भावे अकर्तरि च कारके इत्येव / निष्ठायामिति // निष्टायां परतो यस्सेट् तस्मादेव गुरुमतो हलन्तादकारप्रत्यय इत्यर्थः / आप्तिरिति // आब्धातोर्निष्ठायां सेट्वाभावात् नायमकारप्रत्ययः, किन्तु क्तिनेवेति भावः / दीप्तिरित्यत्र इटमाशङ्कय आह / तितुति // तितुत्रेग्विति // 'तितुत्रतथसु' इति सूत्रे अग्रहादीनामिति वाच्यमित्यर्थः / निगृहीतिरिति // इटि ‘ग्रहोऽलिटि' इति दीर्घः / 'अहिज्या' इति सम्प्रसारणम् / निगृहीतिः उपस्निहितिः निकुपितिः निपठितिः इति ग्रहादयो भाष्ये स्थिताः / षिद्भिदादिभ्योऽङ् // भावे अकर्तरि च कारके इत्येव / जरेति // ङित्वलक्षणं गुणनिषेधं बाधित्वा 'ऋदृशोऽडिः' इति गुणः / विदारण इति // वार्तिकम् / विदारणं ऊर्ध्वविदलनम् / तस्मिन्नेवार्थे भिदेत्यङन्तमित्यर्थः / छिदा द्वैधीकरण इति // इदमपि वार्तिकम् / यथा कथञ्चित्तिर्यगतिर्यग्वा 87 For Private And Personal Use Only
Page #692
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदीसहिता [उत्तरकृदन्त छित्तिः छिद्रम् / गुहा गिर्योषध्योः / अत्र गिरेरेकदेशो गिरिशब्देन विवक्षितः / अन्यत्र गूढिः / आरा हारा कारा तारा धारा अत्र दीर्घत्वं निपात्यते / आरा शस्त्र्यमिति वक्तव्यम् / आतिरन्या / आङोऽर्तेश्च क्तिन् / रेखा लेखा / अत्र गुणः / चूडा / धारा प्रपात इति वक्तव्यम् / धृतिरन्या / मृजा / 'क्रपेः संप्रसारणं च' (गण 32) / कृपा / 3282 / चिन्तिपूजिकथिकुम्बिचर्चश्व / (3-3-105) अङ् स्यात् / युचोऽपवादः / चिन्ता / पूजा / कथा / कुम्बा | चर्चा / चात्तुला। 3283 / आतश्वोपसर्गे। (3-3-106) अङ् स्यात् / क्तिनोऽपवादः / प्रदा / उपदा / ' श्रदन्तरोरुपसर्गवद्वत्तिः' (वा 1131-1147) / श्रद्धा / अन्तर्धा / ' उपसर्गे घो: किः' (सू 3270) इत्यनेन किः / अन्तर्धिः। द्वैधीभावे एव छिदेत्यङन्तमित्यर्थः। छित्तिरित्यस्य विवरणम् / छित्तिश्छिद्रामिति // 'भिदिर् विदारणे, छिदिर् द्वैधीकरणे, विद ज्ञाने, क्षिप प्रेरणे, गुह संवरणे, डुधाञ् धारणपोषणयोः, मिथ मेथू हिंसासेचनयोः, ऋ गतौ, हृञ् हरणे, क्षि क्षये, क्षि निवासगत्योः, तृ प्लवनतरणयोः, घृञ् धारणे, लिख अक्षरविन्यासे, चुद प्रेरणे, पीड अवगाहने, टुवप् बीजसन्ताने, कृ विक्षेपे, वस निवासे, मृजू शुद्धौ, कृप कृपायाम्' इति भिदादिगणः / गुहा गिर्योषध्योरिति // वार्तिकम् / गूढिरिति // तिनि ढत्वधत्वष्टुत्वढलोपदीर्घाः / आरा, हारा, कारा, तारा, धारा, अत्रेति // ऋ, हृ, कृ, तृ, धृञ् , एभ्यः अङि ‘ऋदृशोऽडि गुणः' इति गुणे उपधाया दीर्घत्वञ्चेत्यर्थः / आरा शस्त्र्यमिति // वार्तिकम् / शस्त्री प्रतोदः तस्यामेव आरेत्यङन्तमित्यर्थः / ननु ऋधातोः क्तिनि ऋतिरित्येवोचितम् , नत्वार्तिरित्यत आह / आङोऽर्तेश्चेति // आङ्पर्वात् ऋधातोः क्तिनि 'उपसर्गादृति धातौ' इति वृद्धिरेकादेश इत्यर्थः / रेखा लेखेति // गणसूत्रम् / गुण इति // लिखेरङि उपधागुणः लकारस्य रेफश्चेत्यर्थः / चूडेति // गणसूत्रम् / धाराप्रपात इति // वार्तिकम् / द्रवद्रव्यप्रपातने इत्यर्थः। ऋपेस्सम्प्रसारणञ्चेति // गणसूत्रम्। कपधातुर्घटादौ अकारमध्यः / अत्र भाष्येदृष्टानां गणसूत्रत्वं विज्ञेयम् / चिन्तिपूजि // एते चुरादयः / तेभ्यो ‘ण्यासश्रन्थो युच्' इति प्राप्ते अनिधिः। तदाह / युचोऽपवाद इति // चिन्तेत्यादौ अङि णिलोपः / चकारोऽनुक्तसमुच्चयार्थः / अतस्तोलयतरपि सङ्ग्रहः / तदाह / चात्तुलेति // आतश्चोपसर्गे // अङ् स्यादिति // उपसर्गे उपपदे आदन्ताद्धातोरङ् स्यात् भावे अकर्तरि च कारके इत्यर्थः / प्रदेति // प्रपूर्वादाधातोरङ् / 'आतो लोप इटि च' इत्याल्लोपः / एवमुपदा / ननु अदिति अन्तरिति च अव्ययपूर्वाद्धाञः कथमङ् / तयोरुपसर्गत्वाभावादित्यत आह / श्रदन्तरोरुपसर्गवत्तिरिति // 'श्रच्छब्दस्य अधिौ उपसर्गत्वं वाच्यम्' इति 'अन्तश्शब्दस्याङ्किविधिणत्वेषूपसर्गत्वं For Private And Personal Use Only
Page #693
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा / 691 3284 / ण्यासश्रन्थो युच् / (3-3-107) अकारखापवादः / कारणा / हारणा / आसना / श्रन्थना / ‘घट्टिवन्दिविदिभ्यश्चेति वाच्यम्' (वा 2222) / घट्टना / वन्दना / वेदना / 'इषेरनिच्छार्थस्य' (वा 2223) / अन्वेषणा / 'परेर्वा' (वा 2224) / पर्येषणा परीष्टिः / 3285 / रोगाख्यायां ण्वुल्बहुलम् / (3-3-108) प्रच्छर्दिका वामिः / प्रवाहिका ग्रहणी। विचिका पाम / कचिन्न / अर्द, शिरोऽतिः / 'धात्वर्थनिर्देशे ण्वुल्वक्तव्यः' (वा 2225) / आसिका / शायिका / 'इश्तिपौ धातुनिर्देशे' (वा 2226) / पचि:-पचतिः / ‘वर्णाकार:' (वा 2227) / निर्देश इत्येव / अकारः / ककारः / 'रादिफः' वाच्यम्' इति च वार्तिकात्तयोरुपसर्गत्वात्तत्पूर्वकादादन्ताद्धातोरङ्प्रत्ययात्मककृत्प्रत्ययरूपा वृत्तिरित्यर्थः। वृत्तिरिति णत्वस्याप्युपलक्षणम् / तेन अन्तर्धा-अन्तर्धिः-अन्तर्णयतीत्यादीति दिक् / ण्यास // णि, आस, श्रन्थ् , एभ्यः स्त्रियां भावादिषु युच् स्यादित्यर्थः / अकारस्येति // 'अ प्रत्ययात्' इति विहितस्वेत्यर्थः / घट्टिवन्दीति // अण्यन्तत्वाद्युचो विधिः / वेदनेति // लाभार्थाद्विदेर्युच् / व्याख्यानात् / 'विद ज्ञान' इत्यस्य तु वित्तिः। 'विद वेदनाज्ञाननिवासेषु' इति चुरादेस्तु ‘ण्यासश्रन्थ' इति युचि वेदनेत्यपि / इषेरनिच्छार्थस्येति // युज्वक्तव्य इति शेषः / अन्वेषणेति // मार्गणे इत्यर्थः / इच्छायां तु अन्विष्टिः / परेर्वेति // परिपूर्वकादिषेयुज्वेत्यर्थः / परीष्टिरिति // 'व्रश्च' इति शेषः / रोगाख्यायां // स्त्रियामित्येव / प्रच्छर्दिकत्यस्य विवरणम् / वमिरिति // वमनमित्यर्थः / प्रवाहिकेत्यस्य विवरणम् / ग्रहणीति // अतिसारविशेषः / विचर्चिकेत्यस्य विवरणम् / पामेति // क्वचिन्नेति // ण्वुलिति शेषः / बहुलग्रहणादिति भावः / अर्देति // अर्तिशब्दस्य 'अर्द हिंसायाम्' इति प्रकृतिदर्शनमिदम् / शिरोऽर्तिरिति // शिरःपीडेत्यर्थः / अर्देः क्तिन् / 'तितुत्र' इति नेट् / धात्वर्थनिर्देश इति // धात्वर्थे निर्देष्टव्ये धातोः स्वार्थे ण्वुल बहुलमित्यर्थः / स्त्रियामित्येव / आसिका / शायिकेति // आसनं शयनमित्यर्थः / इश्तिपाविति // धातुस्वरूपे निर्देष्टव्ये इश्तिपौ वक्तव्यावित्यर्थः / धातुस्वरूपमेव वाच्यमिति फलितम् / पचिः पचतिरिति // पचधातुरित्यर्थः / शित्त्वेन सार्वधातुकत्वाच्छप् / अकर्तृवाचकत्वेऽपि 'उपसर्गात्सुनोतिसुवति' इति निर्देशात् शबादिविकरणाः / शित्त्वसामर्थ्यादिति तु प्राञ्चः / तन्न पिबतिः गायतिरित्यादौ पिबाद्यादेशप्रवृत्त्या आत्वनिवृत्त्या च शित्त्वस्य चरितार्थत्वादित्यलम् / अत्र स्त्रियामिति न सम्बद्ध्यते / व्याख्यानात् / वर्णात्कार इति // वार्तिकम् / निर्देश इत्येवेति // अ, इ, उ, इत्यादिवनिर्देशे कर्तव्ये वर्णानुकरणात् अ, इ, उ, इत्यादिप्रातिपदिकात्स्वार्थे कारप्रत्ययः स्यादित्यर्थः / अकार इति // अवर्ण इत्यर्थः / इह कारप्रत्ययस्य धातोरविहितत्वेऽपि अधिकारबलात् कृत्संज्ञा / अतः प्रातिपदिकत्वात् For Private And Personal Use Only
Page #694
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 692 सिद्धान्तकौमुदीसहिता [उत्तरकृदन्त (वा 2228) / रेफः / मत्वर्थाच्छः' (वा 2229) / बहुलवचनादकारलोपः / मत्वर्थीयः / 'इणजादिभ्यः' (वा 2230) / आजि: / आतिः / ‘इञ्वपादिभ्यः' (वा 2231) / वापिः / वासिः / स्वरे भेदः / 'इक्कष्यादिभ्यः' (वा 2232) / कृषिः / गिरिः।। 3286 / संज्ञायाम् / (3-3-109) अत्र धातोवुल् / उद्दालकपुष्पभञ्जिका / वरणा पूरिका अपूपविशेषः / 3287 / विभाषाख्यानपरिप्रश्नयोरिञ्च / (3-3-110) परिप्रश्न आख्याने च गम्य इवात् / चात् ण्वुल् / विभाषोक्तेर्यथाप्राप्तसुबुत्पत्तिः। ककारस्य नेत्संज्ञा, प्रयोजनाभावात् / अनार्धधातुकतया आकार इत्यादौ आतो लोपाप्रसक्तेः / अनार्धधातुकत्वादेव नेट् / बहुलग्रहणानुवृत्तः क्वचिन्न / 'अस्य च्चौ' इत्यादौ / ककार इति // कवर्ण इत्यर्थः / प्रकृतावकार उच्चारणार्थः / 'न पुनरन्तरेणाचं व्यञ्जनस्योच्चारणं भवति' इति ‘उच्चैरुदात्तः' इति सूत्रभाष्यात् / क्वचित्सङ्घातादपि कारप्रत्ययः, यथा एवकार इत्यादौ, वषट्कार इति सूत्रनिर्देशात् सर्वे चकाराः प्रत्याख्यायन्ते इति भाष्याच्च / रादिफ इति // वाच्य इति शेषः / वाऽसरूपविधिना कारप्रत्ययोऽपि / अत्र स्त्रियामित्यस्य अनुवृत्तेरनभ्युपगमेन अस्त्रियामिति निषेधाभावात् / मत्वर्थाच्छ इति // मत्वर्थशब्दात् स्वार्थे छप्रत्ययो वाच्य इत्यर्थः / ननु मत्वर्थीय इत्यत्र कथं 'यस्येति च' इत्यकारलोपः, अतद्धितपरत्वात् अभत्वाच्चेत्यत आह / बहुलवचनादकारलोप इति // मत्वर्थीय इति // मतोरर्थो यस्य प्रत्ययस्य स मत्वर्थः / स एव मत्वर्थीयः / 'तसौ मत्वर्थे' इत्यत्र तु बहुलग्रहणान्न / 'शैषिकान्मतुबर्थीयात्' इत्यत्र भवार्थे गहादित्वात् छो बोध्यः / इणजा. दिभ्य इति // वाच्य इति शेषः / स्त्रियामित्येव / आजिरित्यत्र अजे-भावमाशय आह / बहुलमिति // इञ्वपादिभ्य इति // वाच्य इति शेषः / स्त्रियामित्येव / ननु इणोऽनुवृत्त्यैव सिद्धे इग्रहणमनर्थकम् इत्यत आह / स्वरे भेद इति // नित्यादिनित्यम्' इति स्वरविशेष इाञ्चधेः फलमित्यर्थः / इक्कृष्यादिभ्य इति // वाच्य इति शेषः / कृषिरिति // कित्त्वान्न लघूपधगुणः / गिरिरिति // गृधातोरिक् कित्त्वान्न गुणः / 'ऋत इद्धातोः' इति इत्त्वे रपरत्वम् / संज्ञायां // वरणेति // वरणः वृक्षविशेषः / वारणान्यहोमानीत्यादौ याज्ञिकानां प्रसिद्धः / पूरिकेति // तस्या विवरणम् / अपूपविशेष इति // “समितावेसनेजीरहिङ्गुमारीचयोजिते / घृताक्त जलसंयुक्त पीठस्योपरि वेल्लिते // घृतेन वाथ तैलेन भर्जिता पूरिका मता" इति भोजनकौतूहले तल्लक्षणात् / विभाषाख्यान // स्त्रियामित्येय / पूर्व परिप्रश्नः पश्चादुक्तकथनमाख्यानम् / अल्पाच्तरत्वादाख्यानशब्दस्य पूर्वनिपातः / तदाह / परिप्रश्न इति // वाऽसरूपविधिना सिद्धे विभाषाग्रहणं व्यर्थमित्यत आह / विभाषोक्तेरिति // स्त्रियां वाऽसरूपविधेरप्रवृत्त्या विभाषाग्रहणाभावे इञ्ण्वुलावेव स्याताम् / न तु प्रययान्तरमित्यर्थः / परिप्रश्ने उदाहरति / For Private And Personal Use Only
Page #695
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा / 693 मन्येऽपि, कां त्वं कारिं-कारिका क्रियां-कृत्यां-कृतिं वा अकार्षीः / सर्वा कारिं-कारिकां-क्रियां-कृत्यां-कृति-वा अकार्षम् / एवं गणिं-गणिकां-गणनाम् / पाचिं-पाचिकां-पचां-पक्तिम् / इज्यां-इष्टिम् / 3288 / पर्यायाहर्णोत्पत्तिषु ण्वुच् / (3-3-111) पर्याय: परिपाटी क्रमः / अर्हणमर्हः योग्यता / पर्यायादिषु द्योत्येषु ण्वुज्वा स्यात् / भवत आसिका / शायिका / अग्रगामिका / भवानिक्षुभक्षिकामर्हति / ऋणे / इक्षुभक्षिकां मे धारयसि / उत्पत्तौ / इक्षुभक्षिका उदपादि। __ 3289 / आक्रोशे नञ्यनिः / (3-3-112) विभाषेति निवृत्तम् / नञ्ज्युपपदेऽनिः स्यादाक्रोशे / अजीवनिस्ते शठ भूयात् / अप्रयाणिः / ‘कृत्यल्युटो बहुलम्' (सू 2841) / भावेऽकर्तरि च कान्त्वमिति // कान्त्वकारिमकार्षीरित्यन्वयः / इञि रूपम् / एवं कारिकामित्यादावपि कान्त्वमित्यस्य कार्षीरित्यस्य चान्वयो बोद्ध्यः / कारिकामिति // ण्वुलि रूपम् / क्रियामित्यत्र 'कृअश्श च' इति शः / कृत्यामित्यत्र ‘कृअश्श च' इति चकारात् क्यपि तुक् / कृतिमित्यत्र क्तिन् ‘कृअश्श च' इति चकारादित्युक्तम् / आख्याने उदाहरति / सर्वी कारिमित्यादि // अत्रापि सर्वो कारिमित्यादिपञ्चसु सर्वामित्यस्य अकार्षमित्यस्य चान्वयः / एवङ्गणिमिति // अत्रापि कामकार्षीः / सर्वामकार्षमिति प्रश्नप्रतिवचनानि योज्यानि / गणधातोरदन्तात् चुरादिणिजन्तादिआदि / अल्लोपस्य स्थानिवत्त्वान वृद्धिः / गणनामिति // ‘ण्यासश्रन्थः' इति युच / अत्र क्तिन् तु न, युचा बाधात् / पचामित्यत्र ‘षिद्भिदादिभ्यः' इति षित्त्वाद। इज्यामित्यत्र 'जयजो वे' इति क्यप् / 'वचिस्वपि' इति सम्प्रसारणम् / इष्टिरित्यत्र यजेः क्तिन् व्रश्वात षः। पर्यायाह // पर्यायशब्दस्य विवरणम् / परिपाटीति // तस्यापि विवरणम् / क्रम इति // परिपूर्वाप्पटेः क्रमार्थादिणजादिभ्य इति स्त्रियां भावे इण् / 'कृदिकारादक्तिनः' इति ङीष् / अहणम इति // भावे घनिति भावः / द्योत्येष्विति // भाव एवार्थे प्रत्यय इति भावः / क्रमे उदाहरति / भवत आसिकेति // आदौ आसनं ततश्शयनं ततोऽग्रगमनमित्यर्थः / अर्हे उदाहरति / भवानिति // 'ऋणे' इत्युदाहरणसूचनम् / इक्षुभक्षणमृणत्वेन धारयसीत्यर्थः / 'उत्पत्ती' इत्युदाहरणसूचनम् / उदपादीति // उत्पन्नेत्यर्थः / उत्पूर्वात्पदेः कर्तरि लुङि ‘चिण् ते पदः' इति चिण् / आक्रोशे नभ्यनिः॥ निवृत्तमिति // व्याख्यानादिति भावः / अजीवनिरिति // अजीवनमित्यर्थः / अप्रयाणिरिति // अप्रयाणमित्यर्थः / क्तिन् तु न भवति / अनिना बाधात् / स्त्रियां वाऽसरूपविधेरभावात् / विभाषानुवृत्तौ क्वचिक्तिन् स्यादिति भावः / इति स्यधिकारः॥ कृत्यल्युटो बहुलम् // कृत्यसंज्ञकाः प्रत्ययाः ‘तयोरेव कृत्यक्तखलाः' इति भावे कर्मणि च विहिताः। करणे अधिकरणे भावे च ल्युविहितः / ततोऽन्यत्रापि कृत्यल्युटः स्युरित्यर्थः / HTHHTHHTH For Private And Personal Use Only
Page #696
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 694 सिद्धान्तकौमुदीसहिता [उत्तरकृदन्त कारके संज्ञायामिति च निवृत्तम् / राज्ञा भुज्यन्ते राजभोजना: शालयः / 'नपुंसके भावे क्तः' (सू 3090) / 3290 / ल्युट् च / (3-3-115) हसितम् / हसनम् / योगविभाग उत्तरार्थः / 3291 / कर्मणि च येन संस्पर्शात्कर्तुः शरीरसुखम् / (3-3-116) येन कर्मणा स्पृश्यमानस्य कर्तुः शरीरस्य सुखमुत्पद्यते तस्मिन्कर्मण्युपपदे ल्युट् स्यात् / पूर्वेण सिद्धे नित्यसमासार्थ वचनम् / पयःपानं सुखम् / ओदनभोजनं सुखम् / अत्र पानादेव सुखम् / चन्दनानुलेपनं सुखमितिवत् / सत्यम् / यत्र संस्पर्श विना सुखाभावस्तदर्थकः / यत्र साक्षात्परंपरया वा सुखं तत्रेति यावत् / कर्तुरिति किम् / गुरोः स्नापनं सुखम् / नेह गुरुः कर्ता, किंतु कर्म / कर्मणीति किम् / तूलिकाया उत्थानं सुखम् / अग्निकुण्डस्य सेवनं सुखम् / प्रत्युदाहरणेष्वसमासः / / स्नानीयं चूर्णम् / करणे अनीयर् इति सिद्धवत्कृत्य ल्युटि उदाहरति / राज्ञेति // कर्मणि ल्युडिाते भावः / नपुंसके भावे क्तः // इदं सूत्रं 'निष्ठा' इति सूत्रप्रस्ताव प्रागेव प्रसङ्गायाख्यातं मूले / इह तु क्रमप्राप्तत्वात् पुनरुपन्यस्तम् / ल्युट् च // चात् क्तः / नपुंसके भावे इत्येव / ननु ‘नपुंसके भावे क्तल्युटौ' इत्येव सिद्ध योगविभागो व्यर्थ इत्यत आह / योगेति // कर्मणि च येनेत्युत्तरसूत्रे ल्युट एवानुवृत्त्यर्थ इत्यर्थः / कर्मणि च येन // संस्पर्शशब्दः कृदन्तः / कृद्योगे कर्तुरिति कर्मणि षष्टी / येनेति कर्तरि तृतीया / 'उभयप्राप्ती कर्मणि' इति नियमात् / येन कर्मणेति // कर्तुः शरीरस्येति // शरीरावच्छिन्नस्वेत्यर्थः / अर्धर्चादित्वाच्छरीरशब्दः पुल्लिङ्गोऽपि / तेन कर्तृण इत्येव भाव्यमिति निरस्तम् / ल्युट् स्यादिति // भावे नपुंसके इति शेषः / पूर्वेणेति // 'ल्युट च' इति पूर्वसूत्रेणेत्यर्थः / नित्येति // उपपदसमासार्थमित्यर्थः / तस्य नित्यत्वात् / पयःपानं सुखमिति // पयसा स्पृश्यमानशरीरावच्छिन्नस्य सुखजनकमित्यर्थः / उदाहरणान्तरमाह / ओदनभोजनं सुखमिति // शङ्कते / अत्र पानादिति // पानादेव सुखम् , न तु संस्पर्शनेनेत्यर्थः / भोजनादित्यपि द्रष्टव्यम् / तत्र दृष्टान्तमाह / चन्दनानुलेपनं सुखमितिवदिति // तथा च पयसा ओदनेन च स्वरूपतस्तावदेवदत्तसुखाभावात् कथमिदं उदाहरणमिति भावः / समाधत्ते / सत्यमिति // यत्र संस्पर्शमिति // यत्र विषये संस्पर्श विना स्वरूपसतैव सुखं नोत्पद्यते तादृशविषयोपलक्षणं संस्पर्शग्रहणमित्यर्थः / फलितमाह / यत्रेति // स्पर्शनेन यत्र सुखं यथा चन्दनानुलेपनं सुखमिति, यत्र संस्पर्शपूर्वकपानादेर्वा सुखम् / यथा पयःपानं सुखमित्यादौ, तत्र सर्वत्रास्य प्रवृत्तिरित्यर्थः / तूलिकाया उत्थानं सुखमिति // अत्र For Private And Personal Use Only
Page #697
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा / 695 3292 / वा यौ। (2-4-57) अजेर्वी वा स्याद्यौ / प्रवयणम् / प्राजनम् / 3293 / करणाधिकरणयोश्च (3-3-117) ल्युट् स्यात् / इध्मप्रव्रश्चन: कुठारः / गोदोहनी स्थाली / खल: प्राक्करणाधिकरणयोरित्यधिकारः। 3294 / अन्तरदेशे / (8-4-24) अन्तःशब्दाद्धन्तेर्नस्य ण: स्यात् / अन्तर्हणनम् / देशे तु अन्तर्हननो देश: / अत्पूर्वस्येत्येव / अन्तर्ध्नन्ति / 'तपरः' किम् / अन्तरघानि / 3295 / अयनं च / (8-4-25) अयनस्य णोऽन्तःशब्दात्परस्य / अन्तरयणम् / अदेश इत्येव / अन्तरयनो देशः / 3296 / पुंसि संज्ञायां घ. प्रायेण / (3-3-118) 3297 / छादेर्थेऽद्वयुपसर्गस्य / (6-4-96) द्विप्रभृत्युपसर्गहीनस्य छादेर्हस्वः स्याद्धे परे / दन्ताश्छाद्यन्तेऽनेन दन्तच्छदः / प्रच्छदः / अद्वीति किम् ससुपच्छादः / आकुर्वन्त्यस्मिन्नाकरः / 3298 / गोचरसंचरवव्रजव्यजापणनिगमाश्च / (3-3-119) न कर्मोपपदमिति भावः / अग्निकुण्डस्येति // शीतकाल इति शेषः / अत्रानिकुण्डेन संस्पर्शी नास्ति, दाहप्रसङ्गादिति भावः / ननु तूलिकाया उत्थानम् इत्यादिप्रत्युदाहरणेषु पूर्वसूत्रेण ल्युट् स्यादेवेति कर्मणीत्यादि व्यर्थमित्यत आह / प्रत्युदाहरणेविति // असमास इति // नित्यस्योपपदसमासस्वाभाव इत्यर्थः / करणाधिकरणयोश्च // अर्थनिर्देशोऽयं न तूपपदं व्याख्यानात् / अजपौ परत्वादयं बाधते / तदुक्तं "अजब्भ्यां स्त्रीखलनाः स्त्रिया खलनौ विप्रतिषधेन” इति / इध्मप्रवचन इति // प्रवश्च्यते ऽनेनेत्यर्थे ल्युट् / इध्मस्य प्रव्रश्चन इति विग्रहः / गोदोहनीति // दुह्यतेऽस्यामित्यर्थे ल्युट्। गोर्दोहनीति विग्रहः / खलः प्रागिति // व्याख्यानादिति भावः / पुंसि // करणाधिकरणयोरित्येव / पूर्वसूत्रापवादः / छादेध // 'अद्वयुपसर्गस्य' इति छदः / ह्रस्वः स्यादिति // 'खचि ह्रस्वः' इत्यतस्तदनुवृत्तरिति भावः / णिच्प्रकृतिभूतस्य छाद उपधाया इति शेषः / 'ऊदुपधायाः' इत्यतस्तदनुवृत्तेः / एतेन गरेव ह्रस्वः / तत्सामर्थ्यात्तस्य लोपो नेति परास्तम् / गोचर // ननु 'पुंसि संज्ञायां घः' इत्येव सिद्धे किमर्थमिदमित्यत आह / For Private And Personal Use Only
Page #698
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 696 : सिद्धान्तकौमुदीसहिता [उत्तरकृदन्त घान्ता निपात्यन्ते / 'हलश्च' (सू 3300) इति वक्ष्यमाणस्य घनोऽपवादः / गावश्चरन्त्यस्मिन्निति गोचरो देशः / संचरन्त्यनेन संचरो मार्गः / वहन्यनेन वहः स्कन्धः / व्रजः, व्यजस्तालवृन्तम् / निपातनाद्वीभावो न / आपण: पण्यस्थानम् / निगच्छन्त्यनेन निगमश्छन्दः / चात्कषः / निकषः / 3299 / अवे तृस्त्रोर्घञ् / (3-3-120) अवतार: कूपादेः / अवस्तारो जवनिका / 3300 / हलश्च / (3-3-121) हलन्ताद्धस्यात् / घापवादः / (रमन्ते योगिनोऽस्मिन्निति रामः।) अपमृज्यतेऽनेन व्याध्यादिरित्यपामार्गः / विमार्गः समूहनी / 3301 / अध्यायन्यायोद्यावसंहाराश्व / (3-3-122) अधीयतेऽस्मिन्नध्यायः / नियन्त्युद्युवन्ति संहरन्त्यनेनेति विग्रहः / 'अवहाराधारावायानामुपसंख्यानम्' (वा 2236) / ___3302 / उदकोऽनुदके / (3-3-123) उत्पूर्वादश्चतेर्घस्यात् न तूदके / घृतमुदच्यत उद्भियतेऽस्मिन्निति घृतोदकश्चर्ममयं भाण्डम् / 'अनुदके' किम् / उदकोदञ्चनः / 3303 / जालमानायः। (3-3-124) आनीयन्ते मत्स्यादयोऽनेनेत्यानाय: / 'जालम्' इति किम् / आनयः / 3304 / खनो घ च / (3-3-125) चाद्धन् / आखन:-आखानः / पित्करणमन्यतोऽप्ययमिति ज्ञापनार्थम् / हलश्चेति वक्ष्यमाणस्येति // चात्कष इति // व्याख्यानादिति भावः / अवे तृस्त्रोर्घञ् // अवेत्युपसर्गे उपपदे तृ स्तृ आभ्यां घञ् स्यात् पुंसि संज्ञायां प्रायेणेत्यर्थः / घापवाद इति // 'पुंसि संज्ञायाम्' इति विहितस्य घस्यापवाद इत्यर्थः / हलश्च // स्पष्टम् / अध्याय // अधिपूर्वक इङ् निपूर्वक इण् उत्पूर्वकः युधातुः संपूर्वको हृञ् एते घन्ता निपात्यन्ते / 'पुंसि संज्ञायाम्' इति घापवादः / अवहारेति // अवहारः, आधारः, आवायः, एषां घअन्तानां निपातनस्योपसङ्ख्यानमित्यर्थः / उदकोऽनुदके // घस्यापवादः / घृतोदकमिति // 'चजोः कु घिण्ण्यतोः' इति कुत्वम् / जालमानायः॥ जालं वाच्यञ्चेत् आनाय इति घनन्तमित्यर्थः / खनो घ च // घ इति लुप्तप्रथमाकम् / खनो घञ् स्यात् For Private And Personal Use Only
Page #699
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा / तेन भजे: भगः पदम् / करणे घः / खल सञ्चये। अधिकरणे घः। खल इत्यादि / / खनेर्डडरेकेकबका वाच्या:' (वा 2238) आख:-आखर:आखनिक:-आखनिकबकः / एते खनित्रवचनाः / 3305 / ईषदुःसुषु कृच्छ्राकृच्छ्रार्थेषु खल् / (3-3-126) ___ करणाधिकरणयोरिति निवृत्तम् / एषु दुःखसुखार्थेषूपपदेषु खल्स्यात् / तयोरेव-' (सू 2833) इति भावे कर्मणि च / कृच्छ्रे, दुष्कर: कटो भवता / अकृच्छ्रे / भवता ईषत्करः / सुकरः / निमिमीलियां खलचोरात्त्वं नेति वाच्यम्' (वा 3487) / ईषन्निमयः / दुष्प्रमयः / सुविलयः / निमयः / मयः / लयः। 3306 / उपसर्गात्खल्योः / (7-1-67) उपसर्गादेव लभेर्नुम् स्यात् / ईषत्प्रलम्भः / दुष्प्रलम्भः / सुप्रलम्भः / उपालम्भः / 'उपसर्गात्' किम् / ईषल्लभः / लाभः / 3307 / न सुदुा केवलाभ्याम् / / (7-1-68) उपसर्गान्तररहिताभ्यां सुदुभ्यो लभेर्नुम्न स्यात्खल्योः / सुलभम् / घश्चेत्यर्थः / नन्वत्र घित्करणं व्यर्थम् , चोरभावेन कुत्वस्याप्रसक्तरित्याशङ्कय आह / धित्करणमिति // भजेर्भग इति // भज्यते इति कर्मणि घः / पदमिति // पद्यते गम्यतेऽनेनेति विग्रहः / खनेरिति // ड, डर, इक, इकबक, एषां चतुर्णो द्वन्द्वः / आख इति // डे रूपम् / आखर इति // डरे रूपम् / उभयत्रापि डित्त्वसामाहिलोपः / इके उदाहरति / आखनिक इति // इकबके उदाहरति / आखनिकबक इति // ईषहासुषु॥ निवृत्तमिति // व्याख्यानादिति भावः। तर्हि ‘कर्तरि कृत्' इति कर्तरि स्यादित्यत आह / तयोरेवेति // इह दुरिति कृच्छ्रार्थ एवान्वेति अकृच्छ्रार्थे तु ईषदिति सु इति चान्वेति / योग्यताबलात् / तदेतदाह / कृच्छ्रे, दुष्कर इत्यादिना // भवतेति // 'न लोक' इति षष्ठीनिषेधात् कर्तरि तृतीया। कृच्छ्रेत्यादि किम् / ईषत्कार्यम् / अल्पमित्यर्थः / निमीति // निपूर्वो मिञ् मीनातिः लीङ् एषामित्यर्थः / 'मीनातिमिनोतिदीड ल्यपि च' 'विभाषा लीयतेः' इति प्राप्तमात्त्वं खलचोनिषिद्ध्यते / खलि उदाहरति / ईषन्निमय इत्यादि // ‘एरच्' इत्यचि उदाहरति / निमय इत्यादि // उपसर्गात्खल्योः // लभेर्नुमिति // 'लभेश्च' इत्यतः 'इदितो नुम्' इत्यतश्च तदनुवृत्तेरिति भावः / न सुदुाम् // केवलाभ्यामित्येतद्याचष्टे / उपसर्गान्तरेति // सुप्रलम्भः / अतिदुर्लम्भ इति // अत्र सुदुरोरुपसर्गान्तरसहितत्वात् पूर्वसूत्रप्राप्तस्य निषेधः / कथं तहीति // सुदुरोरुपसर्गान्तरसहितत्वेन 88 For Private And Personal Use Only
Page #700
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदीसहिता [उत्तरकृदन्त दुर्लभम् / 'केवलाभ्याम्' किम् / सुप्रलम्भः / अतिदुर्लम्भः / कथं तर्हि अतिसुलभमतिदुर्लभमिति / यदा स्वती कर्मप्रवचनीयौ तदा भविष्यति / 3308 / कर्तृकर्मणोश्च भूकृञोः / (3-3- 127) कर्तृकर्मणोरीषदादिषु चोपपदेषु भूकृओः खल्स्यात् / 'यथासंख्यं नेष्यते' / कर्तृकर्मणी च धातोरव्यवधानेन प्रयोज्ये। ईषदादयस्तु ततः प्राक् / 'कर्तृकर्मणोश्व्यर्थयोरिति वाच्यम्' (वा 2241) / खित्त्वान्मुम् / अनाढ्येन दुःखेन भूयते दुराढ्यंभवम् / ईषदाढ्यंभवम् / स्वाढ्यंभवम् / ईषदाढ्यंकरः / दुराढ्यंकरः / स्वाढ्यंकरः / 'व्यर्थयो:' किम् / आयेन सुभूयते / 3309 / आतो युच् / (3-3-128) खलोऽपवादः / ईषत्पानः सोमो भवता / दुष्पानः / 'भाषायां शासियुधिदृशिधृषिमृषिभ्यो युज्वाच्यः' (वा 2243) / दुःशासनः / दुर्योधन इत्यादि / नुमो निषेधादिति भावः / समाधत्ते / यदेति // 'स्वती पूजायाम् / ' यदा पूजार्थकाविमौ कर्मप्रवचनीयौ तदा उपसर्गत्वाभावात् न सुदुरोरुपसर्गसहितत्वम् / अतो निषेधो भविष्यतीति भावः / सोः पूजार्थतया उपसर्गत्वाभावात् पूर्वसूत्रान्न तत्र प्राप्तिरित्यपि बोध्यम् / कर्तृकर्मणोश्च // कर्तृकर्मणोरिति सप्तमी / उपपदयोरिति लभ्यते, व्याख्यानात् / चकारादीषदृस्सुध्विति समुच्चीयते / भूकृजोरिति पञ्चम्यर्थ षष्ठी / तदाह / कर्तृकर्मणोरीषदादिषु चोपपदेविति // अत्र कर्तृकर्मणोरन्यतरस्मिन् ईषदुस्सूनामन्यतमे च इत्युभयस्मिन् समुच्चिते उपपद इत्यर्थो विवक्षितः / न तु प्रत्येकमुपपदत्वम् , व्याख्यानात् / भाष्ये तथैवोदाहरणाच्च / नेष्यत इति // भूकृओः कर्तृकर्मणोरित्यस्य च न यथासङ्खयमित्यर्थः / ननु कर्तृकर्मणोरन्यतरस्य ईषदादीनामन्यतमस्य च उपपदस्य प्रयोगसन्निपाते कथं पौर्वापर्यमित्यत आह / कर्तृकर्मणी चेत्यादि // भाष्ये तथैवोदाहरणादिति भावः / व्यर्थयो. रिति // अभूततद्भाव इत्यर्थः / भूयत इति // भावे लट्। दुराढ्यंभवमिति // भावे खल्। अनाढ्यस्य दुरुपपदस्य भूधातोः प्रागव्यवधानेन प्रयोगः / दुरस्तु ततः प्राक् / दुराढ्यंकर इति // अनान्यः आन्यः दुःखेन क्रियते इत्यर्थः / अत्र आढ्यः कर्म उपपदम् / ईषदाढ्यंभवमित्याद्यप्युदाहार्यम् / अत्र ईषदुस्सूनां व्यवहितत्वात् पूर्वसूत्रेणाप्राप्ताविदमारब्धमिति बोध्यम्। आतो युच् // कर्तृकर्मणोरिति नानुवर्तते, अखरितत्वात् / ईषदादिषु कृच्छ्राकृच्छ्रार्थेषूपप. देषु आदन्ताद्धातोर्युच् स्यादित्यर्थः। तयोरेवोत भावे कर्मणि च / खलोऽपवाद इति // वाऽसरूपविधिस्तु न भवति, 'तल्युट्तुमुन्खलर्थेषु वाऽसरूपविधिर्न' इत्युक्तः। दुष्पान इति // 'इदुदुपध' इति षः / भाषायामिति // 'छन्दसि गत्यर्थेभ्यः' 'अन्येभ्योऽपि दृश्यन्ते For Private And Personal Use Only
Page #701
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा / 699 3310 / षात्पदान्तात् / (8-4-35) नख णो न / निष्पानम् / सर्पिष्पानम् / 'पात्' किम् / निर्णयः / ‘पदान्तात् ' किम् / पुष्णाति / पदे अन्त: पदान्तः इति सप्तमीसमासोऽयम् / तेनेह न / सुसर्पिष्केण / 3311 / आवश्यकाधमर्ण्ययोणिनिः / (3-3-170) अवश्यंकारी / शतं दायी। 3312 / कृत्याश्च / (3-3-171) आवश्यकाधमयॆयोरित्येव / अवश्यं हरिः सेव्यः / शतं देयम् / 3313 / क्तिच्क्तौ च संज्ञायाम् / (3-3-174) धातोः क्तिक्तश्च स्यादाशिषि संज्ञायाम् / 'तितुत्र-' (सू 3163) इति नेट् / भवताद्भूतिः / __ 3314 / न क्तिचि दीर्घश्च / (6-4-39) अनिटां वनतितनोत्यादीनां च दीर्घानुनासिकलोपौ न स्त: क्तिचि परे / यन्तिः / रन्तिः / वन्ति: / तन्तिः / 3315 / सनः क्तिचि लोपश्वास्यान्यतरस्याम् / (6-4-45) सनोतेः क्तिच्यात्वं वा खाल्लोपश्च वा / सनुतात् / सातिः / सतिः / सन्तिः / देवा एनं देयासुः देवदत्तः / इत्युत्तरमिदं वार्तिकम् / ईषटुस्सुष्वित्येव / खलोऽपवादः। इति खलाः प्रत्ययाः / आवश्यकाधमर्ययोणिनिः॥ कर्तरि कृदित्येव / अवश्यङ्कारीति // अवश्यमित्यव्ययम् / शतं दायोति // 'अकेनोभविष्यदाधमर्ण्ययोः' इति षष्ठी न / कृत्याश्चेत्यादि // स्पष्टम् / क्तिच्क्तौ च // आशिषीति // 'आशिषि लिङ्लोटौ' इत्यतस्तदनुवृनेरिति भावः / भवतादिति // आशिषि लोट् / भूतिरित्यस्य विवरणमिदम् / कर्तार क्तिच् / न क्तिचि दीर्घश्च // अनिटामिति // ‘अनुदात्तोपदेश' इति सूत्रमिहानुवर्तते इति भावः / रन्तिरिति // अत्र 'श्रयुकः किति' इत्यस्याप्रवृत्तेः 'तितुत्र' इत्येव नेट् / भूतिरित्यत्र तु परत्वात् 'श्रयुकः किति' इत्येवोचितम् / सनः // आत्त्वमिति // 'विनोरनुनासिकस्स्यात् ' इत्यतस्तदनुवृत्तेरिति भावः / लोपश्चेति // अन्त्यस्य नकारस्येति शेषः / ते उदाहरिष्यन्नाह / देवा एनं देयासुरिति // आशीर्लिङ् / देवदत्त इति // तयोरेवेति कर्मणि क्तः / क्तिचा बाधा मा भूदिति क्तविधिः / अन्यथा अपवादेन तिचा तो बाध्येत / वाऽसरूप For Private And Personal Use Only
Page #702
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 700 सिद्धान्तकौमुदीसहिता [उत्तरकृदन्त 3316 / अलंखल्वोः प्रतिषेधयोः प्राचां क्त्वा / (3-4-18) - प्रतिषेधार्थयोरलंखल्वोरुपपदयोः क्त्वा स्यात् / प्राचांग्रहणं पूजार्थम् / 'अमैवाव्ययेन' (सू 783) इति नियमान्नोपपदसमास: / 'दो दद्धोः' (सू 3077) अलं दत्त्वा / 'घुमास्था-' (सू 2462) / पीत्वा खलु / 'अलंखल्वोः' किम् / मा कार्षीत् / प्रतिषेधयोः' किम् / अलंकारः / 3317 / उदीचां माङो व्यतीहारे / (3-4-19) व्यतीहारेऽर्थे माङः क्त्वा स्यात् / अपूर्वकालामिदम् / 3318 / मयतेरिदन्यतरस्याम् / (6-4-70) मेङ इकारोऽन्तादेश: स्याद्वा ल्यपि / अपमित्य याचते / अपमाय / उदीचांग्रहणाद्यथाप्राप्तमपि / याचित्वा अपमयते / 3319 / परावरयोगे च / (3-4-20) विधिस्तु 'स्त्रियां क्तिन्' इत्यतः प्रागेवेति 'प्रैषातिसर्ग' इति सूत्रे भाष्ये स्पष्टम् / अलं खल्वोः // क्त्वा स्यादिति // भावार्थकोऽयम् / 'अव्ययकृतो भावे' इति वचनात् / एतच्च 'तुमर्थे सेसेन' इति सूत्रे भाष्ये स्पष्टम् / ननु 'उदीचां माङो व्यतीहारे' इत्युत्तरसूत्रे उदीचाब्रहणादस्य नित्यत्वावश्यकत्वात् प्राचाङ्ग्रहणं व्यर्थमित्यत आह / प्राचांग्रहणं पूजार्थमिति // न च वाऽसरूपविधिराशयः / तस्य 'स्त्रियां क्तिन्' इत्यतः प्रागेव प्रवृत्तेरुक्तत्वात्। अलं रोदनेनेत्यादि तु बहुलग्रहणात्समाधेयमित्यलम् / उपपदसमासे ल्यपमाशङ्कय आह / अमैवाव्ययेनेति // अलन्दत्वेति // दानेन किञ्चिदपि साध्यन्नास्तीत्यर्थः / ईत्व स्मारयति घुमास्थेति // पीत्वा खल्विति // पानेन साध्यन्नास्तीत्यर्थः / उदीचां माङो // व्यतीहारो विनिमयः 'समानकर्तृकयोः पूर्वकाले' इत्यनेन सिद्धिमाशङ्कय आह। अपूर्वकालार्थमिति॥ मयतेरिदन्यतरस्याम् // 'वाऽन्यस्य संयोगादेः' इत्यतो वेति 'न ल्यपि' इत्यतो ल्यपीति चानुवर्तते इति भावः / अपमित्य याचत इति // त्वया गौर्दत्ता चेत् मया महिषी दीयते इत्येवं विनिमयं कर्तुं गां याचते इत्यर्थः / इह विनिमयस्य पूर्वकालिकत्वाभावात् समानकर्तृकयोरित्यस्य न प्राप्तिः / प्रत्युत याचनाया एव पूर्वकालिकत्वात् याचेः त्वाप्राप्तिः। गतिसमासे वो ल्यप् इत्वन्तुक् / अपमायेति // इत्वाभावे रूपम् / 'ईद्यति' इति ईत्वन्तु न, 'न ल्यपि' इति निषेधात् / उदीचाङ्ग्रहणादिति // तेन मेडो क्वाप्रत्ययस्य विकल्पलाभात् तदभावे याचेः पूर्वकालक्रियावृत्तित्वात् समानकर्तृकयोरिति क्वेति भावः / परावरयोगे च // परावरयोर्योगे इति विग्रहः / योगशब्दस्य प्रत्येकमन्वयः / परयोगे अवरयोगे च वेति लभ्यते। परेण कस्य योग इत्याकांक्षायां अवरस्येति लभ्यते। अवरेण कस्य योग इत्याकांक्षायाम्परखेति लभ्यते / तदाह / For Private And Personal Use Only
Page #703
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा / परेण पूर्वस्यावरेण परख योगे गम्ये धातोः क्त्वा स्यात् / अप्राप्य नदी पर्वतः / परनदीयोगोऽत्र पर्वतस्य / अतिक्रम्य पर्वतं स्थिता नदी / अवरपर्वतयोगोऽत्र नद्याः / 3320 / समानकर्तृकयोः पूर्वकाले / (3-4-21) समानकर्तृकयोर्धास्वर्थयोः पूर्वकाले विद्यमानाद्धातोः क्त्वा स्यात् / भुक्त्वा व्रजति / द्वित्वमतन्त्रम् / स्नात्वा भुक्त्वा पीत्वा व्रजति / 'अनुदात्त-' (सू 2428) इत्यनुनासिकलोपः / विष्णुं नत्वा स्तौति / स्वरत्यादेः 'श्रयुकः परेण पूर्वस्येति // अवरस्येत्यर्थः / परावरशब्दौ हि क्रमात् व्यवहिताव्यवहितदेशवृत्तवाचिनौ / क्त्वा स्यादिति // 'अव्ययकृतो भावे' इति वचनादयमपि भावार्थक एव / अवरस्य परयोगे उदाहरति / अप्राप्य नदीम्पर्वत इति // विन्ध्यपर्वताद्दक्षिणदेशे निवसतः विन्ध्यं गङ्गाञ्च नदीमधिकृत्य प्रवृत्तमिदं वाक्यम् / विन्ध्यस्योत्तरत एव हि गङ्गा। तथा च दक्षिणदेशस्थानां गङ्गोत्तरणेन विना विन्ध्यपर्वतः प्राप्यत्वेन स्थित इत्यर्थः, विन्ध्यस्य दक्षिणतो गङ्गाया अभावादिति भावः / तथा च दक्षिणदेशस्थानां विन्ध्यव्यवहिता गङ्गा। दक्षिणदेशीयापेक्षया अव्यवहितस्य विन्ध्यस्य दाक्षिणात्यापेक्षया व्यवहितया गङ्गया योगो गम्यते / तदाह / परनदीयोगोऽत्र पर्वतस्येति // अथापरेण परस्य योगे उदाहरति / अतिक्रम्य पर्वतं स्थिता नदीति // दाक्षिणात्यानाम् अव्यवहितविन्ध्यपर्वतातिक्रमेणैव व्यवहिता गङ्गा प्राप्यत्वेन स्थितेत्यर्थः / अत्र अव्यवाहितेन विन्ध्येन दाक्षिणात्यापेक्षया व्यवहितायाः गङ्गायाः योगो गम्यते / तदाह / अवरपर्वतयोगोऽत्र नद्या इति // इह अप्राप्तेरतिक्रमणस्य च विन्ध्यस्थितिपूर्वकालकत्वाभावात् 'समानकर्तृकयोः पूर्व' इत्यस्य न प्राप्तिः / समानकर्तृकयोः // समानकर्तृकयोरिति निर्धारणे षष्ठी / पूर्वकाल इत्यस्य पूर्वकालके धात्वर्थे इत्यर्थः / विद्यमानादिति शेषः / क्त्वा स्यादिति // अव्ययकृत्वाद्भावार्थकोऽयम् / भुक्त्वा बजतीति // पूर्वकालिकाद्भोजनात् उत्तरकालिकं व्रजनमित्यर्थः / द्वित्वमिति // समानकर्तृकयोरिति द्वित्वमविवक्षितमिति भावः / स्नात्वेति // स्नान भोजनपानोत्तरकालिकं व्रजनमित्यर्थः / अत्र वजनापेक्षया स्नानादीनाम्बहूनाम्पूर्वकालिकत्वेऽपि वेति भावः / एतच्च भाष्ये स्पष्टम् / पूर्वम्भुङ्क्ते ततो व्रजतीत्यत्र तु पूर्वशब्देनैव पूर्वत्वस्यावगमात् 'उक्तार्थानामप्रयोग.' इति न्यायात् न वा / पूर्वम्भुक्त्वा ततो व्रजतीत्यत्र तु न क्रिययोः पौर्वापर्य किन्तु कोरेव / अन्येभ्यो भोक्तृभ्यः पूर्वम्भुक्त्वा पश्चाद्रूजत्यन्येभ्यो भोक्तृभ्यः इत्यर्थः / आस्वते भोक्तुमित्यत्र तु वासरूपविधिना लट् इति भाष्यादौ विस्तरः / नमधातोः क्वाप्रत्यये आह / अनुदात्तेतीति // स्वरति सूति सूयतिधूभ्यः वाप्रत्ययस्य 'श्रयुकः किति' इति निषेधम्बाधित्वा ‘स्वरतिसूतिसूयति' इति इड्विकल्पमाशङ्कय आह / स्वरत्यादेरिति // 'आर्धधातुकस्येट्' इत्यादेरिड्डिधिकाण्डात् प्राक् 'नेडशिकृति' इत्यादेरिनिषेधकाण्डस्यारम्भसामर्थ्यात् इह पूर्वविप्रतिषेधमाश्रित्य 'श्रथुकः किति' इति For Private And Personal Use Only
Page #704
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदीसहिता [उत्तरकृदन्त किति' (सू 2381) इति नित्यमिडभावः पूर्वविप्रतिषेधेन / स्वृत्वा / सूत्वा / धूत्वा / 3321 / क्त्वि स्कन्दिस्यन्दोः / (6-4-31) एतयोर्नलोपो न स्वात्क्त्वि परे / स्कन्न्त्वा / ऊदित्त्वादिडा / स्यन्त्वास्यन्दित्वा / 3322 / न क्त्वा सेट् / (1-2-18) सेट् क्त्वा किन्न स्यात् / शयित्वा / 'सेट् किम् / कृत्वा / 3323 / मृडमृदगुधकुषक्लिशवदवसः क्त्वा / (1-2-7) एभ्य: सेट् क्त्वा कित् / मृडित्वा / 'क्लिशः क्त्वा-' (सू 3049) इति वेट / क्लिशित्वा-क्लिष्ट्वा / उदित्वा / उषित्वा / रुदविद-' (सू 2609) इति कित्त्वम् / रुदित्वा / विदित्वा / मुषित्वा / गृहीत्वा / 3324 / नोपधात्थफान्ताहा / (1-2-23) सेट् क्त्वा कित्स्याद्वा / श्रथित्वा-श्रन्थित्वा / गुफित्वा-गुम्फित्वा / 'नोपधात्' किम् / / कोथित्वा / रेफित्वा / इनिषेध एव प्रवर्तते इति भावः / क्त्वि स्कन्दिस्यन्दोः // नलोपो नेति // नान्नलोपः' इत्यतो नलोप इति 'नाञ्चेः पूजायाम्' इत्यतो नेति चानुवर्तते इति भावः / क्त्वीति / क्वाशब्दस्य सप्तम्येकवचनम् / आत इति योगविभागादाल्लोपः / स्कन्वेति // स्कन्दिर् धातोः रूपम् / अनुदात्तोपदेशत्वान्नेट् / स्यन्दू धातोः क्वाप्रत्यये आह / ऊदित्त्वादिड्डेति // न क्त्वा सेट् // किन्नेति // ‘असंयोगाल्लिकित्' इत्यतः किदित्यनुवृत्तेरिति भावः / शयित्वा इति // कित्त्वाभावात् न गुणनिषेधः / मृडमृद // 'न का सेट्' इति निषेधस्यापवादः / मृडित्वेति // कित्त्वान्न लघूपधगुण: / मृदित्वेत्याद्यप्युदाहार्यम् / क्लिश इति // ‘क्लिश हिंसायाम्' दिवादौ / ततः क्वाप्रत्ययस्य 'क्लिशः त्वानिष्ठयोः' इति वेडित्यर्थः / ‘क्लिशू विबाधने इत्यस्य तु ऊदित्त्वाद्वेट् / उदित्वेति // वदधातोः काप्रत्ययः। 'वचिस्वपि' इति सम्प्रसारणम् / उषित्वेति // वसधातोः त्वा वसतिक्षुधोः' इति इट् सम्प्रसारणम् / 'शासिवसि' इति षः। रुदविद इति कित्त्वमिति // 'न क्वा सेट्' इति निषेधस्यापवाद इति भावः / नोपधात्थफान्ताद्वा // थफौ अन्तौ यस्यति विग्रहः / 'न क्वा सेट्' इति नित्यनिषेधे प्राप्त विकल्पोऽयम् / कित्त्वे सति नलोपः / तदभावे तु नेति मत्वा आह / श्रथित्वेत्यादि / कोथित्वा / रेफित्वेति // कुथ पूतीभावे, रिफ कत्थनयुद्धहिंसादानेषु / इह 'रलो व्युपधात्' For Private And Personal Use Only
Page #705
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा / 3325 / वञ्चिलुच्यतश्च / (1-2-24) __सेट् क्त्वा किद्वा / वचित्वा-वञ्चित्वा / लुचित्वा-लुञ्चित्वा / ऋतित्वा-अतित्वा / 3326 / तृषिमृषिकृषः काश्यपस्य / (1-2-25) एभ्यः सेट् क्त्वा किद्वा / तृषित्वा-तर्षित्वा / मृषित्वा मर्षित्वा / कृषित्वा-कर्षित्वा / 'रलो व्युपधात्- (सू 2617) इति वा कित्त्वम् / द्यतित्वा-द्योतित्वा / लिखित्वा-लेखित्वा / 'रल:' किम् / सेवित्वा / 'व्युपधात्' किम् / वर्तित्वा / 'हलादेः' किम् / एषित्वा / 'सेट' किम् / भुक्त्वा / 'वसतिक्षुधोरिट' (सू 3046) उषित्वा / क्षुधित्वा-क्षोधित्वा / 'अञ्चे: पूजायाम्' (सू 3047) इति नित्यभिट / अश्चित्वा / गतौ तु / अक्त्वेत्यपि / लुभित्वा-लोभित्वा / 'लुभो विमोहने' (सू 3048) इताट् / अविमोहने तु लुब्ध्वा / 3327 / जनश्च्योः क्त्वि / (7-2-55) इति विकल्पोऽपि न भवति नोपधग्रहणसामर्थ्यात् / वञ्चिलुच्युतश्च // न वा सेट्' इत्यस्यापवादः / कित्त्वविकल्पानलोपविकल्पः / ऋतेरुदाहरति / ऋतित्वा-अतित्वेति // कित्त्वविकल्पाल्लघूपधगुणनिषेधविकल्पः / ऋतिस्सौत्रो धातुः घृणायाम् / तस्यार्धधातुकविषये 'ऋतेरीयङ्' इत्यस्य विकल्पनात् तदभावे कित्त्वमिह विकल्प्यते / तृषिमृषि // 'न का सेट्' इत्यस्यापवादः / रल इति // उकारोपधात् इकारोपधाच्च रलन्तात् हलादेः परः सन् क्वा च सेटौ वा किताविति व्याख्यातं प्राक् / रल् प्रत्याहारः / वर्तित्वेति // ‘वृतु वर्तने' इत्यस्य रूपम् / एषित्वेति // इषधातोः रूपम् / इह हलादित्वाभावान कित्त्वविकल्पः / किन्तु 'न वा सेट्' इति नित्यमेव कित्त्वाभावान गुणनिषेधः / वसधातोः क्षुधधातोश्च अनुदात्तोपदेशत्वात् इनिषेधे प्राप्ते तदपवादं स्मारयति / वसतिक्षुधोरिडिति // उषिस्वेति // 'मृडमृद' इति कित्त्वात् 'वचिस्वपि' इति सम्प्रसारणम् / 'शासिवसि' इति षः / अञ्चुधातोः वाप्रत्ययस्य 'उदितो वा' इति इडिकल्पे प्राप्ते आह। अश्चेः पूजायामिति // गतौ त्विति // तत्र 'उदितो वा' इति वेदकत्वात् / लुभित्वा-लोभिवेति // व्याकुलीकृत्येत्यर्थः / 'लुभ विमोहने' / तुदादिः / विमोहनं व्याकुलीकरणमिति वृत्तिः / 'रलो व्युपधात्' इति कित्त्वविकल्पः / तत्र 'तीषसह' इति इडिकल्पे आह / लुभो विमोहने इतीडिति // नित्यमिति शेषः / विमोहनाल्लुभः कानिष्ठयोरिट् स्यात् न तु गाय॑ इति व्याख्यातं प्राक् / अविमोहने विति // गार्थे तु 'तीषसह' इति इडिकल्पे लुभित्वेत्यपि भवति / अभिकायेत्यर्थः / विमोहने तु लुब्ध्वत्यपपाठः / जुवश्च्योः 1. अत्र क्वचित्तालव्यान्तपाठो दृश्यते--कृशित्वा-कर्शित्वेति चौदाहृतम् / For Private And Personal Use Only
Page #706
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदीसहिता [उत्तरकृदन्त .. आभ्यां परस्य क्त्व इट् स्यात् जरीत्वा-जरित्वा / ब्रश्चित्वा / 3328 / उदितो वा। (7-2-56) उदितः परस्य क्त्व इड्वा / शमित्वा / 'अनुनासिकस्य कि-' (सू 2666) इति दीर्घः / शान्त्वा / द्यूत्वा-देवित्वा / 3329 / क्रमश्च क्वि / (6-4-18) क्रम उपधाया वा दीर्घ: स्यात् झलादौ क्त्वि परे क्रान्त्वा-क्रन्त्वा / ‘झलि' किम् / क्रभित्वा / 'पूङश्च' (सू 3050) इति वेट् / पवित्वा-पूत्वा / 3330 / जान्तनशां विभाषा / (6-4-32) जान्तानां नशेश्च नलोपो वा स्यात् क्त्वि परे / भक्त्वा-भङ्क्त्वा / रक्त्वा-रङ्क्त्वा / 'मस्जिनशो:-' (सू 2517) इति नुम् / तस्य पक्षे लोपः / नंष्वा नष्ट्वा / 'रधादिभ्यश्च' (सू 2514) इतीपक्षे / नशित्वा / 'झलादाविति वाच्यम्' (वा 5066) / नेह / अजित्वा / ऊदित्त्वाद्वेट् / क्त्वि // जरीत्वा-जरित्वेति // ‘श्रयकः किति' इति निषेधे प्राप्ते विधिः / 'वृतो वा' इति इटो दीर्घविकल्पः / व्रश्चित्वेति // अन ऊदित्वादिडिकल्प प्राप्ते नित्यमिट् / 'अहिज्या' इति सम्प्रसारणम्। उदितो वा // क्त्व इति // 'जत्रश्च्योः ' इति पूर्वसूत्रात्तदनुवृत्तेरिति भावः / अप्राप्तविभाषेयम् / शमुधातोरिट्पक्षे उदाहरति / शमित्वेति // इडभावे त्वाह / अनुनासिकस्येति // यूत्वा-देवित्वेति || दिवधातोरुदित्त्वात् क्वायामिविकल्पः / ‘रलो व्युपधात्' इति कित्त्वविकल्पः / तत्र इडभावपक्षे कित्त्वपक्षे 'च्छोः' इति वस्य ऊठि इकारस्य यणि द्यूत्वेति रूपम् / इट्पक्षे तु सत्यपि कित्त्वे झलादित्वाभावात् नोठ् / इटि कित्त्वाभावपक्षे तु उपधागुण इति भावः / क्रमश्च क्त्वि // 'नोपधायाः' इत्यतः उपधाया इति 'तनोतेविभाषा' इत्यतः विभाषेति ‘ठूलोपे पूर्वस्य' इत्यतः दीर्घ इति ‘अनुनासिकस्य क्वि' इत्यतः झल्ग्रहणञ्चानुवर्तते / तदाह / क्रम उपधाया इत्यादि / अनुनासिकस्य क्वि' इति नित्ये प्राप्ते विकल्पोऽयम् / क्रान्त्वेति // क्रमुधातोरुदित्त्वादिभिकल्पः / दीर्घपक्षे रूपम् / जान्तनशां // 'नान्नलोपः' इत्यतो नलोप इति ‘वि स्कन्दिस्यन्दोः' इत्यतः वीति चानुवर्तते / तदाह / जान्तानामित्यादि // भक्त्वा-भङ्क्त्वेति // 'भञ्जो आमर्दने' इत्यस्य रूपम् / रक्त्वा -रङक्त्वेति // 'रज रागे' इलस्य रूपम् / नष्ट्वा-नंष्ट्रेत्यत्राह / मस्जि इति // तस्येति // नशो नकारस्य 'जान्तनशाम्' इत्यनेन पाक्षिको लोप इत्यर्थः / झलादाविति // 'जान्तनशां विभाषा' इति नलोपविकल्पः झलादावित्यर्थः / अञ्जित्वेति // 1. दीक्षिताङ्गीकृतमेतत् / अन्येषां तु युक्तिसिद्धम् / For Private And Personal Use Only
Page #707
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा / पक्षे / अक्त्वा अङ्क्त्वा / 'जनसन-' (सू 2504) इत्यात्त्वम् / खात्वाखनित्वा / द्यतिस्यति (सू 3074) इतीत्त्वम् / दित्वा / सित्वा / मित्वा / स्थित्वा / 'दधातेहिः' (सू 3076) / हित्वा / 3331 / जहातेश्व क्त्वि / (7-4-43) हित्वा / हाङस्तु / हात्वा / 'अदो जग्धि:-' (सू 3080) / जग्ध्वा / 3332 / समासेऽनपूर्वे क्त्वो ल्यप् / (7-1-37) अव्ययपूर्वपदेऽनसमासे क्त्वो ल्यबादेशः स्यात् / तुक् / प्रकृत्य / 'अनम्' किम् / अकृत्वा / पर्युदासाश्रयणान्नेह / परमकृत्वा / 3333 / षत्वतुकोरसिद्धः / (6-1.86) षत्वे तुकि च कर्तव्ये एकादेशशास्त्रमसिद्धं स्यात् / कोऽसिचत् , इह पत्वं न / अधीत्य / प्रेत्य / ‘ह्रस्वस्य-' (सू 2858) इति तुक् / इटि झलादित्वाभावात् 'जान्तनशाम्' इति नलोपो नेति भावः / पक्षे इति // इट्पक्षे झलादित्वात् नलोपविकल्प इति भावः / आत्त्वमिति // ‘खनु विदारणे' उदित्त्वाद्वेट् / इडभावपक्षे झलादित्वात् ‘जनसनखनाम्' इत्यात्त्वमित्यर्थः / दित्वेति // 'दो अवखण्डने' इत्यस्य रूपम् / सित्वेति // 'षोऽन्तकर्मणि' इत्यस्य रूपम् / मित्वेति // माधातोः रूपम् / स्थित्वेति // स्थाधातोः रूपम् / धाधातोः त्वाप्रत्यये आह / दधातेहिरिति // 'ओ हाक् त्यागे' इत्यस्य वायां हिभावं स्मारयति / जहातेश्च क्त्वि // हित्वेति // त्यवेत्यर्थः / हाङस्त्विति // ‘जहातेश्च वि' इति हिभावविधौ जहातेरिति निर्देशात् 'ओ हाक त्यागे' इत्यस्य ग्रहणम् , न तु 'ओ हाङ् गतौ' इत्यस्य / तस्य ‘भृआमित्' इति इत्त्वे जिहातेरिति निर्देशापत्तेः। जग्ध्वेति // जग्ध वा इति स्थिते 'झषस्तथो?ऽधः' इति धः / 'झरो झरि' इति प्रकृतिधकारस्य पाक्षिको लोपः / समासे // अनपूर्व इति पर्युदासात् अव्ययपूर्वपद इति लभ्यते इति मत्वा आह / अव्ययेत्यादि // तुगिति // 'ह्रखस्य पिति' इत्यनेनेति भावः / प्रकृत्येति // प्रशब्दः प्रकर्षे, तस्य 'कुगति' इति क्वान्तेन नित्यसमासः / परमकृत्वेति // अव्ययपूर्वपदत्वाभावान ल्यबिति भावः / षत्वतुकोरसिद्धः॥ 'एकः पूर्वपरयोः' इत्येकादेशप्रकरणात् उत्तरमिदं सूत्रम् / ततश्च असिद्ध इत्यस्य एकादेश इति शेषः / फलितं त्वाह / एकादेशशास्त्रमिति // कार्यासिद्धत्वं निराकृत्य शास्त्रासिद्धत्वस्यैव भाष्ये सिद्धान्तितत्वादिति भावः / कोऽसिचदिति // 'एङः पदान्तादति' इति पूर्वरूपमिहैकादेशः / तस्य 'अन्तादिवच्च' इति परादित्वे ओसिचदिति पदं / तस्य सकारस्य अपदादितया 'सात्पदाद्योः' इति निषेधाभावात् 'आदेशप्रत्यययोः' इति षत्वं प्राप्तम् एकादेशस्यासिद्धत्वान्न भवति, एकादेशस्यासिद्धत्वेन को असिचदिति स्थिते सकारस्य अकारेण व्यवधानात 89 For Private And Personal Use Only
Page #708
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदीसहिता [उत्तरकृदन्त 3334 / वा ल्यपि / (6-4-38) अनुदात्तोपदेशानां वनतितनोत्यादीनामनुनासिकलोपो वा स्याल्ल्यपि / व्यवस्थितविभाषेयम् / तेन मान्तानिटां वा, नान्तानिटां वनादीनां च नित्यम् / आगत्य-आगम्य / प्रणत्य-प्रणम्य / प्रहत्य / प्रमत्य / प्रवत्य / वितत्य / ‘अदो जग्धिः-' (सू 3080) / 'अन्तरङ्गानपि विधीन्बहिरङ्गो ल्यब्बाधते' / इणः परत्वाभावात् / तदाह / इह षत्वन्नेति // षत्वे एकादेशस्यासिद्धत्व प्रासङ्गिकमुदाहृत्य प्रकृते ल्यपि तुग्विधावसिद्धत्वमुदाहरति / अधीत्येति // 'इङ् अध्ययने' नित्यमधिपूर्वः तस्मात् वो ल्यप् / प्रेत्येति // प्रपूर्वादिण्धातोः क्वो ल्यप् / इहोभयत्र सवर्णदीर्घस्य आद्गुणस्य चासिद्धत्वात् 'ह्रस्वस्य पिति' इति तुक् / एकादेशस्यासिद्धत्वाभावे तु ह्रस्वाभावात्तुक् न स्यात् / तदाह / ह्रस्वस्येति तुगिति // वा ल्यपि // 'अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपः' इत्युत्तरमिदं सूत्रम् / तदाह / अनुदात्तेत्यादि // अनुदात्तोपदेशानां वनतितनोत्यादीनाञ्च अनुदात्तोपदेशेत्युक्तो नलोपो ल्यपि वा स्यादित्यर्थः / व्यवस्थितविभाषेति // व्याख्यानादिति भावः / मान्तानिटां वेति // गम् , नम् , रम् , यमां पाक्षिको मलोप इत्यर्थः / नान्तेति // नान्तेषु मन्यहनावनिटौ तयोः वनादीनाञ्च अनुदात्तोपदेशेत्यनेन नलोपो नियं स्यादित्यर्थः / नान्तानिटामिति बहुवचनन्तु प्रयोगबहुत्वाभिप्रायम् / मान्तानामुदाहरति / आगत्येति // गमेरनुनासिकलोपे तुक् / प्रणत्येति // नमेरनुनासिकलोपपक्षे तुक् / विरम्य, विरत्य, प्रयत्य, प्रयम्य, इत्यप्युदाहार्यम् / नान्तयोरुदाहरति / प्रहत्य / प्रमत्येति // हनो मन्यतेश्च नित्यं नलोपः / प्रवत्येति // वनेर्नित्यं नलोपः, तुक् / वितत्येति // तनोतेनित्यं नलोपः, तुक् / भाष्ये तु 'वा ल्यपि' इति सूत्रन्न दृश्यते / 'अनुदात्त' इति सूत्रे 'अनुदात्तोपदेशेऽनुनासिकलोपो ल्यपि च' इति 'वामः' इति च वार्तिकं पठितम् / ल्यपि च अनुदात्तोपदेश इति नलोपो भवति / मकारान्तानां तु वेत्यर्थः / अथ प्रजग्ध्येत्युदाहरणं मनसि निधाय तत्र अदधातोः वो ल्यपि 'अदो जग्धिय॑प्तिकिति' इति जग्ध्यादेशविधि स्मारयति / अदो जग्धिरिति // आदेशे इकार उच्चारणार्थः / ननु विधायेत्यत्र 'दधातेर्हिः' इति हिभावः प्राप्नोति / न च तस्य तादौ किति विधानात् ल्यपि कृते कथं तत्प्राप्तिः / अलाश्रयविधौ स्थानिवत्त्वाभावादिति वाच्यम् / परस्मादपि ल्यपः प्रागेवान्तरङ्गत्वात् हिभावप्रवृत्ते?निवारत्वात् / तथा प्रदायेत्यत्र तादौ किति विहितमित्त्वं ल्यपः प्रागेवान्तरङ्गत्वात् प्राप्नोति / तथा प्रखन्येत्यत्र 'जनसनखनां सन्झलोः' इति झलादिलक्षणमात्वं ल्यपः प्रागेव प्राप्नोति / तथा 'द्यतिस्यतिमास्थामित्ति किति' इति इत्त्वं ल्यपः प्रागेव प्राप्नोति / तथा प्रक्रम्येत्यत्र ‘क्रमश्च वि' इति झलादौ कि विहितमुपधादीर्घत्वं ल्यपः प्रागेव प्राप्नोति / तथा आपृच्छ्य प्रदीध्येत्यत्र ‘च्छोः' इति शूठौ झलादित्वलक्षणौ ल्यपः प्रागेव स्याताम् / तथा प्रदीव्येत्यत्र बलादिलक्षणः इट ल्यपः प्रागेव प्राप्नोतीत्याशङ्कय आह / अन्तरङ्गानपीति // कुत एतदित्यत आह / जग्धिविधाविति // 'अदो अग्धिस्ति किति' इत्येतावतैव प्रजग्ध्य For Private And Personal Use Only
Page #709
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा / 707 जग्धिविधौ ल्यग्रहणात् / तेन हित्वदत्वात्वेत्वदीर्घत्वशूठिटो ल्यपि न / विधाय / प्रदाय / प्रखन्य / प्रस्थाय / प्रक्रम्य / आपृछ्य / प्रदीव्य / 3335 / न ल्यपि / (6-4-69) ल्यपि परे घुमास्थादेरीत्त्वं न / धेट् / प्रधाय / प्रमाय / प्रगाय / प्रपाय / प्रहाय / प्रसाय / 'मीनातिमिनोति-' (सू 2508) इत्यात्त्वम् / प्रमाय / निमाय / उपदाय / 'विभाषा लीयतेः' (सू 2509) विलायविलीय / णिलोपः / उत्तार्य / विचार्य / 3336 / ल्यपि लघुपूर्वात् / (6-4-56) लघुपूर्वात्परस्य णेरयादेश: स्याल्ल्यपि / विगणय्य / प्रणमय्य / प्रबेभिदय्य / 'लघुपूर्वात्' किम् / संप्रधार्य / 3337 / विभाषाऽऽपः / (6-4-57) आप्नोतेणेरयादेशो वा स्याल्ल्यपि / प्रापय्य-पाप्य / 3338 / क्षियः / (6-4-59) क्षियो ल्यपि दीर्घ: स्यात् / प्रक्षीय / इत्यत्रापि ल्यपः प्रागेवान्तरङ्गत्वात् जग्ध्यादेशस्सिद्धः / अतो ल्यब्ग्रहणं 'अन्तरङ्गानपि विधीन् बहिरङ्गो ल्यब्बाधते' इति ज्ञापयति / एवञ्च अन्तरङ्गजग्ध्यादेशापेक्षया प्राबल्याल्ल्यपि कृते सति तकारादित्वलक्षणजग्धिभावस्याप्रसक्तेः जग्धिविधौ ल्यग्रहणमर्थवदिति भावः / तेनेति॥ हित्वं दत्वं आत्त्वम् इत्त्वं दीर्घत्वं शूठौ इट् च ल्यपि नेत्यर्थः। न ल्यपि // "धुमास्थागापाजहातिसाम्' इत्यनुवर्तते। 'ईद्यति' इत्यतः 'ईत्' इति च / तदाह / ल्यपि परे इत्यादि // धेडिति // प्रकृतिप्रदर्शनम् / प्रधायेति // ‘आदेचः' इत्यात्त्वम् / प्रपायेति // निपीयेति तु 'पीङ् पाने' इत्यस्य रूपम् / प्रसायेति // 'षोऽन्तकर्मणि' इत्यस्य रूपम् / लीङः वो ल्यपि आत्वविकल्पं स्मारयति / विभाषा लीयतेरिति // णिलोप इति // उत्पूर्वात् तृधातोर्णिचि वृद्धौ रपरत्वे उत्तारि इति रूपम् / विपूर्वाच्चरधातोर्णिचि उपधावृद्धौ विचारीति रूपम् , ताभ्यां वो ल्यपि णिलोप इत्यर्थः / ल्यपि लघुपूर्वात् // ‘णेरनिटि' इत्यतो णेरिति ‘अयामन्ताल्वाय्य' इत्यतः अय् इति चानुवर्तते / तदाह / लघुपूर्वादिति // लघुः पूर्वो यस्माद्वर्णादिति विग्रहः, णिलोपापवादः / विगणय्येति // 'गण सङ्ख्याने' चुरादिः कथादिरदन्तः / तस्माणिच् / अतो लोपः / त्वो ल्यपि णेरयादेशः / प्रबेभिदय्येति // भिदधातोर्यङि द्वित्वम् / 'गुणो यङ्लुकोः' इत्यभ्यासस्य गुणः / जश्त्वं 'यस्य हलः' इति यकारलोपः, अतो लोपः, वो ल्यपि रयादेशः / विभाषाऽऽपः // लघुपूर्वत्वाभावात् पूर्वेण अप्राप्ते विभाषेयम् / क्षियः // 'ल्यपि लघुपूर्वात्' इत्यतो ल्यपीति 'युप्लुवोर्दीर्घः For Private And Personal Use Only
Page #710
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदीसहिता [उत्तरकृदन्त 3339 / ल्यपि च / (6-1-41) वेबो ल्यपि संप्रसारणं न स्यात् / प्रवाय / 3340 / ज्यश्च / (6-1-42) प्रज्याय। 3341 / व्यश्व / (6-1-43) उपव्याय। 3342 / विभाषा परेः / (6-1-44) परेर्येत्रो वा संप्रसारणं स्याल्ल्यपि / तुकं बाधित्वा परत्वात् 'हल:' (सू 2559) इति दीर्घः / परिवीय-परिव्याय / कथम् ‘मुखं व्यादाय स्वपिति' नेत्रे निमील्य हसति' इति / व्यादाननिमीलनोत्तरकालेऽपि स्वापहासयोरनुवृत्तेस्तदंशविवक्षया भविष्यति / 3343 / आभीक्ष्ण्ये णमुल्च / (3-4-22) पौन:पुन्ये द्योत्ये पूर्व विषये णमुल्स्यात् क्त्वा च / द्वित्वम् / स्मारंस्मारं छन्दसि' इत्यतो दीर्घ इति चानुवर्तते / तदाह / क्षियो ल्यपीति // ल्यपि च // 'वेञः' इति सूत्रमनुवर्तते / 'न सम्प्रसारणे सम्प्रसारणम्' इत्यतः न सम्प्रसारणमिति च / तदाह / वेओ ल्यपीत्यादि // प्रवायेति // 'वेञ् तन्तुसन्ताने' वो ल्यप् / 'आदेच उपदेशे' इत्यात्त्वम् / इह 'ग्रहिज्यावयिव्यधिवष्टिविचति' इति सम्प्रसारणन्न / ज्यश्च // ज्याधातोळपि सम्प्रसारणन्न स्यादित्यर्थः / प्रज्यायेति // इह 'ग्रहिज्यावयि' इति सम्प्रसारणन्न / व्यश्च // वेो ल्यपि सम्प्रसारणनेत्यर्थः / उपव्यायेति // 'व्यञ् संवरणे' त्वो ल्यपि 'आदचः' इत्यात्त्वम् / 'अहिज्यावयि' इति सम्प्रसारणन्न / विभाषा परेः // 'वेजः' इति ल्यपीति सम्प्रसारणमिति चानुवर्तते / तदाह / परव्य॑ञः इति // परिपूर्वाद्ध्येत्रः वो ल्यपि यकारस्य सम्प्रसारणे पूर्वरूपे च कृते परि वि य इति स्थिते आह / तुकमिति // कथमिति // स्वापकाल एव मुखव्यादानं हासकाल एव नेत्रनिमीलनम् / एवञ्च व्यादाननेत्रनिमीलनयोः स्वापहासपूर्वकालकत्वाभावात् कथं त्वाप्रत्यय इत्याक्षेपः / समाधत्ते व्यादानेति // यद्यपि व्यादाननिमीलनोत्पत्त्युत्तरकालके स्वापहसने, न तु तत्पूर्वकालके / तथापि व्यादानोत्पत्त्युत्तरकाले निमीलनोत्पत्त्युत्तरकालेऽपि स्वापहासौ अनुवर्तेते / तत्र स्वापोत्पत्तिकालीनव्यादानस्य हासोत्पत्तिकालीननिमीलनस्य च तत्कालीनस्वापहासपूर्वकालकत्वाभावेऽपि तदुत्तरकालानुवृत्तस्वापहासापेक्षया पूर्वकालकत्वसत्वात् क्वाप्रत्यय इत्यर्थः / “मामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यते" इत्यादौ तु समानकर्तृकताविघाताय स्थितस्येत्याद्यध्याहार्यम् / आभीक्ष्ण्ये णमुल् च // समानकर्तृकयोः पूर्वकाल इति त्वाविध्युत्तरमिदं सूत्रम् / तदाह / पूर्वविषये इति // यद्यपि वाऽसरूपविधिना का सिद्धः / स्त्र्यधिकारात्प्रागेव वाऽसरूपविधि For Private And Personal Use Only
Page #711
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा। जाने। नमति शिवम् / स्मृत्वास्मृत्वा / पायंपायम् / भोजभोजम् / श्रावंश्रावम् / 'चिण्णमुलो:- (सू 2762) इति णमुल्परे णौ वा दीर्घः / गामंगामम् / गमंगमम् / ‘विभाषा चिण्णमुलो:' (सू 2765) इति नुम्वा / लम्भंलम्भम् / लाभलाभम् / व्यवस्थितविभाषयोपसृष्टस्य नित्यं नुम् / प्रलम्भंप्रलम्भम् / ‘जाग्रोऽविचिण्णल्-' (सू 2480) इति गुणः / जागरंजागरम् / ण्यन्तस्याप्येवम् / __ 3344 / न यद्यनाकाङ्के / (3-4-23) यच्छब्द उपपदे पूर्वकाले यत्प्राप्तं तन्न, यत्र पूर्वोत्तरे क्रिये तद्वाक्यमपरं नाकाङ्क्षति चेत् / यदयं भुङ्क्ते ततः पठति / इह क्त्वाणमुलौ न / 'अनाकाङ्के' किम् / यदयं भुक्त्वा व्रजति ततोऽधीते / 3345 / विभाषाऽग्रेप्रथमपूर्वेषु / (3-4-24) आभीक्ष्ण्य इति नानुवर्तते / एपूपपदेषु समानकर्तृकयोः पूर्वकाले पक्षेऽपि क्वाविधौ वाऽसरूपवचनस्य वाऽसरूपसूत्रभाष्ये प्रपञ्चितत्वात् / तथापि ‘विभाषाग्रे प्रथम' इति सूत्र उभयोर्विधानाय चकारः / तत्र हि अग्रेभोजं व्रजति देवदत्तः अग्रे भुक्ता इत्यादौ देवदत्तकर्तृकभोजने यज्ञदत्तादिकर्तृकभोजनापेक्षया पूर्वकालत्वमग्रादिशब्देन बोध्यते, न तु व्रजनादिक्रियापेक्षया पूर्वकालत्वम् / ततश्च 'समानकर्तृकयोः' इति त्वाप्रत्ययस्य तत्र न प्रसक्तिः / नापि 'विभाषाने' इत्यनेन आभीक्ष्ण्ये तत्राप्राप्तविधिरिति युज्यते / आभीक्ष्ण्ये पूर्वविप्रतिषेधेन 'आभीक्ष्ण्ये णमुल् च' इत्यस्यैव प्रवृत्तेरिष्टत्वादिति शब्देन्दुशेखरे विस्तरः / द्वित्वमिति // 'नित्यवीप्सयोः' इत्यनेनेति शेषः / स्मृत्वास्मृत्वेति // नमति शिवम् इत्यनुषज्यते / पायंपायमिति // 'आतो युक् चिकृतोः' इति युक् / वा दीर्घ इति // गमेय॑न्ताण्णमुलि ‘मितां ह्रस्वः' इति ह्रस्वे कृते चिण्णमुलोः' इति दीर्घविकल्प इत्यर्थः / व्यवस्थितेति // व्याख्या नादिति भावः / उपसृष्टस्येति // उपसर्गपूर्वस्येत्यर्थः / जागृधातोर्णमुलि वृद्धिमाशङ्कय आह / जाग्र इति // ण्यन्तस्याप्येवमिति // जागृधातोर्णी वृद्धिं बाधित्वा 'जाग्रोऽविचिण्णल्डित्सु' इति गुणे णिलोपे जागरमित्येव रूपमिति भावः / न यद्यनाकाङ्के / / यत्प्राप्तमिति // वा णमुल् चैत्यर्थः / यत्रेति // यस्मिन्वाक्ये पूर्वोत्तरकालिकक्रियापदे स्तः तद्वाक्यं वाक्यान्तरं नाकाङ्क्षति चेदित्यर्थः / पूर्वोत्तरकालिकक्रियापदद्वययुक्तं वाक्यं वाक्यान्तरं नाकाङ्कति चेत् इति यावत् / यदयमिति // यदित्यव्ययम् / यदायं भुङ्क्ते ततः परं पठतीत्यर्थः / इदमेकं वाक्यं भुजिपठिक्रियापदद्वययुक्तं न वाक्यान्तरमाकाश्तीति भावः / यदयं भुक्त्वा व्रजतीति // भुजिवजिक्रियापदद्वययुक्तमिदं वाक्यम् ततः अधीत इति वाक्यान्तरमाकाङ्क्षति नात्रायं निषेध इति भावः / विभाषाग्रे || अग्रे, प्रथम, पूर्व, एषां द्वन्द्वः / अग्रे इत्यव्ययम् / एदन्तं वा निपातनात् / नानुवर्तते इति // For Private And Personal Use Only
Page #712
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 710 सिद्धान्तकौमुदीसहिता [उत्तरकृदन्त क्त्वाणमुलौ वा स्तः / अग्रे भोजं ब्रजति / अग्रे भुक्त्वा / प्रथमं भोजम् / प्रथमं भुक्त्वा / पूर्व भोजम्-पूर्व भुक्त्वा / पक्षे लडादयः / अग्रे भुङ्क्ते ततो व्रजति / आभीक्ष्ण्ये तु पूर्वविप्रतिषेधेन नित्यमेव विधिः / अग्रे भोजभोज ब्रजति / भुक्त्वाभुक्त्वा / 3346 / कर्मण्याक्रोशे कृञः खमुञ् / (3-4-25) कर्मण्युपपदे आक्रोशे गम्ये कृत्रः खमुञ् स्यात् / चौरंकारमाक्रोशति / करोतिरुच्चारणे / चौरशब्दमुच्चार्येत्यर्थः / 3347 / स्वादुमि (णमुल / ) (3-4-26) स्वाद्वर्थेषु कृयो णमुल्खादेककर्तृकयोः पूर्वकाले / स्वादुशब्दस्य मान्तत्वं निपात्यते / अस्वाद्वी स्वाद्वीं कृत्वा भुते स्वादुंकारं भुते / संपन्नंकारम् / लवणंकारम् / संपन्नलवणशब्दौ स्वादुपर्यायौ / वाऽसरूपेण क्त्वापि / स्वादुं कृत्वा भुङ्क्ते। एतच्च भाष्ये स्पष्टम् / प्रथमं भोजमिति // प्रथममिति क्रियाविशेषणम् / पूर्व भोजमिति // पूर्वमिति क्रियाविशेषणम् / पक्षे इति // काणमुलौ तावदव्ययकृत्त्वाद्भावार्थको / यदा तु कर्तृविवक्षा तदा लडादय इत्यर्थः / ननु अग्रेप्रथमपूर्वपदेषूपपदेषु वाणमुलौ परत्वादाभीक्ष्ण्येऽपि स्यातामित्यत आह / आभीक्ष्ण्ये तु पूर्वविप्रतिषेधेनेति // व्याख्यानादिति भावः / कर्मण्याक्रोशे // कर्मणात्युपपदनिर्देशः / आक्रोश इति द्योत्यार्थ इति मत्वा व्याचष्टे / कर्मण्युपपदे आक्रोशे गम्ये कृत्रः खमुनिति // स्पष्टत्वात् न व्याख्येयमिति भावः / चौरङ्कारमिति // उपपदसमासे 'अरुट्टैिषदजन्तस्य' इति मुम् / स्वादुमि णमुल् // स्वादुमीत्यर्थग्रहणम् / व्याख्यानात् / तथा च स्वादुपर्याये उपपद इति लभ्यते / 'कर्मण्याक्रोशे' इति पूर्वसूत्रात् कृत्र इत्यनुवर्तते नतु खमुन्, अस्वरितत्वात् / ततश्च 'आभीक्ष्ण्ये णमुल् च' इत्यतः णमुलित्यनुवर्तते समानकर्तृकयोः ‘पूर्वकाले' इति सूत्रञ्च / तदाह / स्वाद्वर्थेष्वित्यादिना // ननु स्वादुशब्दस्य स्वादावित्येव निर्देश उचित इत्यत आह / स्वादुशब्दस्येति // नन्वत्र खमुजेवानुवर्तताम् / एवञ्च स्वादुमि मान्तत्वनिपातनमपि न कर्तव्यमित्याशङ्कय स्त्रियां च्च्यन्तमुदाहरति / अस्वाद्वीमिति // यवागूमपूपिकामित्यादि विशेष्यम् / अत्र णमुलि विवक्षिते मान्तत्वे निपातिते उदन्तत्वाभावात् 'ओतो गुणवचनात्' इति न डीप् / खमुनि कृते 'अरुर्द्विषत्' इति मुमि तु स्वाद्विकारमित्येव प्रसज्येत / किञ्च व्यन्तस्याव्ययत्वात् 'अरुर्द्विषत्' इति मुम् दुर्लभः, तत्र मुम्विधौ अनव्ययस्येत्यनुवृत्तेः / ततश्च अस्वा, स्वादुं कृत्वा भुङ्क्ते स्वादुङ्कारम्भुङ्क्ते इत्यत्रापि मुम् न स्यात् , खमुञः खित्त्वस्य चोरङ्कारमित्यत्र सावकाशत्वात् / किञ्च 'च्चौ' इति दीर्घापत्तिः / अतो णमुलि स्वादुशब्दे मान्तत्वनिपातनमिति भावः। स्वादुमीत्यर्थग्रहणस्य प्रयोजनमाह / सम्पन्नङ्कारमिति // अत्र ‘अस्य च्चौ' इति ईत्त्वाभावोऽपि मान्तत्वनिपातनस्य फलं बोध्यम् / स्वादुपर्यायाविति // वृत्त्यादिग्रन्थेषु For Private And Personal Use Only
Page #713
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा / 3348 / अन्यथैवंकथमित्थंसु सिद्धाप्रयोगश्चेत् / (3-4-27) एषु कृञो णमुल्स्यात् सिद्धोऽप्रयोगोऽस्यैवंभूतश्चेत्कृञ् / व्यर्थत्वात्प्रयोगानह इत्यर्थः / अन्यथाकारम् / एवंकारम् / कथंकारम् / इत्थंकारम् भुते / इत्थं भुङ्क्त इत्यर्थः / सिद्ध-' इति किम् / शिरोऽन्यथा कृत्वा भुङ्क्ते / ___ 3349 / यथातथयोरसूयाप्रतिवचने / (3-4-28) कृत्रः सिद्धाप्रयोग इत्येव, असूयया प्रतिवचने / यथाकारमहं भोक्ष्ये किं तवानेन / 3350 / कर्मणि दृशिविदोः साकल्ये / (3-4-29) कर्मण्युपपदे णमुल्स्यात् / कन्यादशै वरयति / सर्वाः कन्या इत्यर्थः / ब्राह्मणवेदं भोजयति / यं यं ब्राह्मणं जानाति लभते विचारयति वा तं सर्व भोजयतीत्यर्थः / तथादर्शनादिति भावः / वाऽसरूपेण क्त्वापीति // यद्यपि 'स्त्रियां क्तिन्' इत्यतः प्रागेव वाऽसरूपविधिरिति भाष्ये स्थितम् / तथापि तत्रैव भाष्ये 'वायां वावचनम्' इति क्वाप्रत्ययविषये वाऽसरूपविधिप्रवृत्तेर्विशिष्य वचनादिह क्वापि भवतीत्यर्थः / वाऽसरूपविधिः स्त्रियामित्यधिकारात् प्रागूलञ्च भवतीति पक्षान्तरमपि तत्रैव भाष्ये स्थितम् / तत्पक्षे वायां वाऽसरूपप्रवृत्तिनिर्बाधेत्यास्तान्तावत् / अन्यथैवं // अन्यथा एवम् कथम् इत्थम् एषामव्ययानां द्वन्द्वात्सप्तमीबहुवचनम् / सिद्धः अप्रयोग: प्रयोगाभावः यस्य कृषः स सिद्धाप्रयोग इति विग्रहः / तदाह। एषु कृञ इत्यादि // ननु कृञः अप्रयोगे कथन्तदर्थावगतिः अर्थावगत्यभावे तत्प्रयोगो वा किमर्थ इत्यत आह / व्यर्थत्वादिति // निष्फलत्वादिति भावः / अर्थस्याविवक्षितत्वेऽपि णमुल्प्रत्ययसाधुत्वार्थ तत्प्रयोग इति भावः / तदेव दर्शयति / इत्थं भुते इत्यर्थ इति // 'समानकर्तृकयोः पूर्वकाले' इत्यसम्भवान्नानुवर्तते इति भावः। सिद्धति किमिति // सिद्धाप्रयोगश्चेदिति किमर्थमित्यर्थः / भाष्ये अन्यथा कृत्वा चोदितमिति प्रयोगात् समानकर्तृकत्वाभावेऽपि वाप्रत्ययो बोध्यः / यथातथयोः // इत्येवेति // यथा तथा अनयोरुपपदयोः कृञः णमुल् स्यात्सिद्धाप्रयोगश्चेत् कृत्रिति फलितम् / असूयया प्रतिवचनमिति विग्रहः / 'कर्तृकरणे कृता बहुलम्' इति समासः / तदाह / असूययति // कर्मणि दृशिविदोः // कर्मणीति नार्थनिर्देश इत्याह / कर्मण्युपपदे इति // कर्मण्युपपदे तदर्थस्य धात्वर्थ प्रति कर्मभूतस्य साकल्ये गम्ये दृशिविदिभ्यां णमुल् इति फलितम् / समानकर्तृकयोः पूर्वकाले इत्यनुवर्तत एव / वरयतीति // ‘वर ईप्सायाम्' चुरादौ कथादिरदन्तः / अल्लोपस्य स्थानिवत्त्वान्नोपधावृद्धिः / विदिं विवृणोति / जानाति लभते विचारयति वेति // “सत्तायां विद्यत ज्ञाने वेत्ति विन्ते विचारणे / विन्दते विन्दति प्राप्ती श्यनूलुकश्नशेष्विदं क्रमात्” इति प्रागुक्तम् / तत्र सत्तार्थकस्य विदेरिह न ग्रहणम् For Private And Personal Use Only
Page #714
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 712 सिद्धान्तकौमुदीसहिता [उत्तरकृदन्त 3351 / यावति विन्दजीवोः / (3-4-30) यावद्वेदं भुङ्क्ते / यावल्लभते तावदित्यर्थः / यावज्जीवमधीते / 3352 / चर्मोदरयोः पूरेः / (34-31) कर्मणीत्येव / चर्मपूरं स्तृणाति / उदरपूरं भुङ्क्ते / 3353 / वर्षप्रमाण ऊलोपश्चास्यान्यतरस्याम् / (3-4-32) कर्मण्युपपदे पूरेर्णमुल्स्यादूकारलोपश्च वा समुदायेन वर्षप्रमाणे गम्ये / गोष्पदपूरं वृष्टो देवः / गोष्पदपं वृष्टो देवः / 'अस्य' इति किम् / उपपदस्य मा भूत् / मूषिकाबिलप्रम् / 3354 / चेले क्नोपेः। (3-4-33) चेलार्थेषु कर्मसूपपदेषु क्लोपेर्णमुल्स्याद्वर्षप्रमाणे / चेलनोपं शब्दाययन् वृष्टो देवः / वस्त्रनोपम् / वसननोपम् / यथा वर्षणे वस्त्रम् शब्दयते तथाऽवर्षदित्यर्थः / 3355 / निमूलसमूलयोः कषः / (3-4-34) कर्मणीत्यवे / कषादिष्वनुप्रयोगं वक्ष्यति / अत्र प्रकरणे पूर्वकाल इति न संबध्यते / निमूलकाषं कषति / समूलकाषं कषति / निमूलं समूलं कषतीत्यर्थः / एकस्यापि धात्वर्थस्य निमूलादिविशेषणसंबन्धाद्भेदः / तेन सामान्यविशेषभावेन विशेषणविशेष्यभावः / अकर्मकत्वादिति भावः / यावति विन्दजीवोः // यावच्छब्दे उपपदे विन्दतेः जीवतेश्च णमुलित्यर्थः / इह पूर्वकाल इति न सम्बध्यते, अयोग्यत्वात् अप्रतीतेश्च / एवमन्यत्रापि / यावजीवमधीते यावन्तं कालं जीवति तावन्तकालमधीते इत्यर्थः / 'अकर्मकधातुभिर्योगे' इति कर्मत्वात् यावच्छब्दाहितीया। चर्मोदरयोः पूरेः // चर्मणि उदरे च कर्मण्युपपदे पूरयते मुलित्यर्थः / चर्मपूरं स्तृणातीति // चर्म पूरयन् छादयतीत्यर्थः / गोष्पदप्रमिति // पूरेणमुलि णिलोपे ऊलोपपक्षे च रूपम् / अत्र वृष्टेष्पिदपूरणक्षमत्वादल्पत्वङ्गम्यते / अस्येति किमिति // पूरेरित्यर्थकम् अस्येति किमर्थमित्यर्थः / मूषिकाबिलप्रमिति // अस्येत्यनुक्तौ उपपदेऽपि ऊकारस्य लोपः स्यादिति भावः / चेले कोपेः॥ चेल इत्यर्थग्रहणम् , व्याख्यानादिति भावः / 'क्नूयी शब्दे' इति चुरादौ / तदाह / चेलं नोपमिति // क्नोपशब्दार्थ स्फोरयति / शब्दाययन्निति // वर्षप्रमाणं स्फोरयितुमाह / यथा वर्षण इति // निमूलसमूलयोः कषः // निमूले समूले च कर्मण्युपपदे कषेणमुलित्यर्थः / वक्ष्यतीति // 'कषादिषु यथाविध्यनुप्रयोगः' इति णमुल्प्रकृतेरनुप्रयोगं वक्ष्यतीत्यर्थः / न सम्बध्यते इति / / अयोग्यत्वादप्रतीतेश्च इति भावः / णमुल्प्रकृतेरनुप्रयुज्यमानधातोश्च For Private And Personal Use Only
Page #715
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा / 713 3356 / शुष्कचूर्णरूक्षेषु पिषः / (3-4-35) एषु कर्मसु पिषेर्णमुल् / शुष्कपेषं पिनष्टि / शुष्कं पिनष्टीत्यर्थः / चूर्णपेषम् / रूक्षपेषम् / 3357 / समूलाकृतजीवेषु हन्कृञ्ग्रहः। (3-4-36) कर्मणीत्येव / समूलघातं हन्ति / अकृतकारं करोति / जीवग्राहं गृह्णाति / जीवतीति जीवः / इगुपधलक्षण: कः / जीवन्तं गृह्णातीत्यर्थः / 3358 / करणे हनः / (3-4-37) पादघातं हन्ति / पादेन हन्तीत्यर्थः / यथाविध्यनुप्रयोगार्थः सन्नित्यसमासार्थोऽयं योग: / भिन्नधातुसंबंधे तु 'हिंसार्थानां च-' (सू 3369) इति वक्ष्यते / ___3359 / स्नेहने पिषः / (3-4-38) स्निह्यते येन तस्मिन्करणे पिषर्णमुल् / उदपेषं पिनष्टि / उदकेन पिनष्टीत्यर्थः / पौनरुक्त्यम्परिहरति / एकस्यापीति // निमूलसमूलकषणापेक्षया केवलकषणमन्यत् / यथा इन्द्रो महेन्द्र इति भावः / तेन सामान्येति // निमूलसमूलकषणात्मकङ्कषणमिति बोधः / यथा महादेवो देव इत्यादाविति भावः / शुकचूर्णरूक्षेषु पिषः // कर्मस्विति // उपपदेष्विति शेषः / अत्र पिषधातोरनुप्रयोग: / समूलाकृत // समूल अकृत जीव एषान्द्वन्द्वः / कर्मणीत्येव / समूलादिषु कर्मसूपपदेषु हन् कृञ् ग्रह एभ्यो णमुलित्यर्थः / यथासङ्ख्यमत्रेष्यते / जीवशब्दस्य भावघअन्तत्वे प्राणधारणं गृह्णातीत्याश्रयणे हन्तीत्यर्थः स्यात् , न तु जीवन्तगृहातीत्यर्थः स्यादित्यत आह / जीवतीति जीव इति // ननु 'अकर्तरि कारके' इति पर्युदासात् कथङ्कर्तरि घअित्यत आह / इगुपधेति // करणे हनः // ननु हिंसार्थानां च समानकर्मकाणां इत्यनुपदं वक्ष्यमाणसूत्रेणैव सिद्धे किमर्थमिदमित्यत आह / यथाविधीत्यादि // कषादिषु यथाविध्यनुप्रयोगसिद्ध्यर्थस्सन् 'उपपदमतिङ्' इति नित्यसमासार्थोऽयमारम्भ इत्यर्थः / अनुप्रयोगार्थो नित्यसमासार्थश्चेति यावत् / हिंसार्थानाञ्चेति सूत्रञ्च कषादिबहिर्भूतं तस्यात्र प्रवृत्तौ तु अनुप्रयोगो न स्यात् / किञ्च 'हिंसार्थानाञ्च' इति सूत्रं 'उपदंशस्तृतीयायाम्' इत्युत्तरम्पठितम् / तस्यात्र प्रवृत्तौ 'तृतीयाप्रभृतीन्यन्यतरस्याम्' इति वैकल्पिक उपपदसमासः स्यादिति भावः / भाष्ये तु अहिंसार्थनित्यसमासार्थञ्चेति स्थितम् / तर्हि हिंसानाञ्चेत्यस्य को विषय इत्यत आह / भिन्नेति // णमुल्प्रकृतिभूतहनधात्वपेक्षया धात्वन्तरयोगे तु दण्डोपघातङ्गाः कालयति दण्डेनोपघातमित्यत्र 'हिसार्थानाञ्च' इत्यस्य प्रवृत्तिर्वक्ष्यते इत्यर्थः / स्नेहने पिषः॥ उदपेषमिति // 'पेषंवासवाहनधिषु च' इति उदकशब्दस्य 90 For Private And Personal Use Only
Page #716
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 714 सिद्धान्तकौमुदीसहिता [उत्तरकृदन्त 3360 / हस्ते वर्तिग्रहोः। (3-4-39) हस्तार्थे करणे / हस्तवतै वर्तयति / करवर्तम् / हस्तेन गुलिकां करोतीत्यर्थः / हस्तग्राहं गृह्णाति / करग्राहम् / पाणिग्राहम् / 3361 / स्वे पुषः / (3-4-40) करण इत्येव / स्व इत्यर्थग्रहणम् / तेन स्वरूपे पर्याये विशेषे च णमुल् / स्वपोषं पुष्णाति / धनपोषम् / गोपोषम् / __3362 / अधिकरणे बन्धः / (3-4-41) चक्रबन्धं बध्नाति / चक्रे बध्नातीत्यर्थः / ___3363 / संज्ञायाम् / (3-4-42) बनातेर्णमुल्संज्ञायाम् / क्रौञ्चबन्धं बद्धः / मयूरिकाबन्धम् / अट्टालिकाबन्धम् / बन्धविशेषाणां संज्ञा एताः / 3364 / कोंजीवपुरुषयोर्नशिवहोः / (3-4-43) जीवनाशं नश्यति / जीवो नश्यतीत्यर्थः / पुरुषवाहं वहति / पुरुषो वहतीत्यर्थः / 3365 / ऊर्ध्वं शुषिपूरोः / (3-4-44) ऊर्श्वे कर्तरि / ऊर्ध्वशोषं शुष्यति / वृक्षादिरूद्ध एव तिष्ठञ्छुष्यतीत्यर्थः / ऊर्ध्वपूरं पूर्यते / ऊर्ध्वमुख एव घटादिवर्षोदकादिना पूर्णो भवतीत्यर्थः / 3366 / उपमाने कर्मणि च / (3-4-45) उदादेशः / हस्ते वर्तिग्रहोः॥ पञ्चम्यर्थे षष्ठी / हस्त इत्यर्थग्रहणम् व्याख्यानात् / तथा च हस्तार्थक इति लभ्यते, करण इत्यनुवर्तते, तदाह / हस्तार्थे करणे इति // करणकारकीभूतहस्तपर्याय उपपदे ण्यन्तवृतुधातोर्ग्रहधातोश्च णमुलित्यर्थः / स्वे पुषः॥ अर्थग्रहणमिति // व्याख्यानादिति भावः / तेनेति // स्वरूपे खशब्दे खपर्याये धनादिशब्दे विशेषेषु खविशेषवाचिगवादिशब्देषु चोपपदेषु णमुलित्यर्थः / एतच्च ‘खं रूपम्' इति सूत्रे भाष्ये स्पष्टम् / तत्र स्वशब्दे उपपदे उदाहरति / स्वपोषमिति // धनेन पुष्णातीत्यर्थः / पर्याये उपपदे उदाहरति / धनपोषमिति // स्वविशेष उपपदे उदाहरति / गोपोषमिति // अधिकरणे // अधिकरणे उपपदे बन्धधातोर्गमुलित्यर्थः। संज्ञायाम् // अनधिकरणार्थ आरम्भः / कत्रोंः॥ 'नशिवहोः' इति पञ्चम्यर्थे षष्ठी। कर्तरि जीवे उपपदे नशेः कर्तरि पुरुषे उपपदे वहधातोर्णमुलित्यर्थः / ऊर्वे शुषि // ऊर्ध्वं कर्तरीति // उपपदे शुषेः पूरेश्च णमुलिति शेषः / उपमाने // चात्कर्तरीति // कर्मणि कर्तरि च उपमाने उपपदे धातोर्णमुलित्यर्थः / For Private And Personal Use Only
Page #717
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा / 715 चान्कर्तरि / घृतनिधायं निहितं जलम् / घृतमिव सुरक्षितमित्यर्थः / अजकनाशं नष्टः / अजक इव नष्ट इत्यर्थः / 3367 / कषादिषु यथाविध्यनुप्रयोगः / (3-4-46) यस्माण्णमुलुक्तः स एवानुप्रयोक्तव्य इत्यर्थः / तथैवोदाहृतम् / 3368 / उपदंशस्तृतीयायाम् / (3-4-47) इतः प्रभृति पूर्वकाल इति संबध्यते / 'तृतीयाप्रभृतीन्यन्यतरस्याम्' (सू 784) इति वा समास: / मूलकोपदंशं भुङ्क्ते / मूलकेनोपदंशम् / दश्यमानस्य मूलकस्य भुजिं प्रति करणत्वात्तृतीया। यद्यप्युपदंशिना सह न शाब्दस्संबन्धस्तथाप्यार्थोऽस्त्येव, कर्मत्वात् / एतावतैव सामर्थ्येन प्रत्ययः समासश्च / तृतीयायामिति वचनसामर्थ्यात् / ततश्चायमर्थः मूलकेन भुते इति शाब्दान्वये किंकृत्वेत्याकाङ्क्षया उपदश्येति तदेव कर्मत्वेनान्वेति / कषादिषु // यस्मादिति // धातोरिति शेषः / णमुलुक्त इति // 'निमूलसमूलयोः कषः' इत्यारभ्य 'उपमाने कर्मणि च' इत्यन्तैस्सूत्रैरिति शेषः / तथैवोदाहृतमिति // निमूलकाषङ्कषतीत्यादीति शेषः / एवञ्च पृथगिह नोदाहर्तव्यमिति भावः। उपदंशस्तृतीयायाम् // सम्बद्ध्यते इति // मण्डूकप्लुत्येति शेषः / तृतीयान्ते उपपदे उपपूर्वाइंशधातोर्णमुल् समानकर्तृकयोः पूर्वकाले इत्यर्थः / नित्यमुपपदसमासमाशय आह / तृतीयाप्रभृतीनीति // ननु मूलकेनोपदंशं भुङ्क्ते मूलकेनोपदंशमित्यत्र मूलकस्य उपदंशनं प्रति कर्मत्वात् कथं मूलकात् तृतीया कथं वा उपदंशात् णमुल इत्यत आह / दश्यमानस्येत्यादि / प्रधानक्रियानुरोधात् परत्वाचेति भावः / ननु मूलकस्य भुजिक्रियां प्रति करणत्वे उपदंशनेन असामर्थ्यात्समासानुपपत्तिरिति शङ्कते। यद्यपीति // उपदंशिना सह मूलकस्य कर्मत्वेनान्वयश्शब्दगम्यो न भवति / तस्य भुजिक्रियां प्रति करणत्वेनान्वयस्योक्तत्वादित्याक्षेपः / समाधत्ते / तथापीति // भुजिकियां प्रति शाब्दमर्यादया करणत्वेनान्वितस्यापि मूलकस्योपदंशनं प्रति आर्थिकः कर्मत्वान्वयोऽस्त्येव / मूलकस्योपदंशनं प्रति वस्तुतः कर्मत्वस्य सत्त्वादित्यर्थः / नन्वार्थिककर्मत्वान्वयमादाय कथं तृतीया कथं वा णमुल् कथं वा समास इत्यत आह / एतावतैवेति // कुत एतदित्यत आह / तृतीयायामिति वचनसामर्थ्यादिति // यदि तृतीयान्ते शाब्दान्वय एवात्र विवक्ष्येत, तदा करण इत्येवावक्ष्यत् 'करणे हनः' इतिवदिति भावः / मूलकस्य भुजिक्रियां प्रति करणत्वान्वयश्शाब्दः / उपदंशे कर्मत्वान्वयः आर्थिकः इत्येतदुपपादयति / ततश्चायमर्थ इति // मूलकेन भुङ्क्ते इत्यन्वयश्शाब्दः / प्रधानक्रियानुरोधात्परत्वाच्च तृतीयाविभक्ते प्रवृत्तेरिति भावः / किंकृत्वेति // किकृत्वा मूलकेन भुङ्क्ते इत्याकाङ्क्षायां उपदश्येत्यन्वेतीत्यर्थः। For Private And Personal Use Only
Page #718
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 716 सिद्धान्तकौमुदीसहिता [उत्तरकृदन्त 3369 / हिंसार्थानां च समानकर्मकाणाम् / (3-4-48) तृतीयान्त उपपदेऽनुप्रयोगधातुना समानकर्मकाद्धिसार्थात् णमुल्स्यात् / दण्डोपघातङ्गाः कालयति दण्डेनोपघातम् / दण्डताडम् / 'समानकर्मकाणाम्' इति किम् / दण्डेन चोरमाहत्य गाः कालयति / / _3370 / सप्तम्यां चोपपीडरुधकर्षः / (3-4-49) उपपूर्वेभ्य: पीडादिभ्यः सप्तम्यन्ते तृतीयान्ते चोपपदे णमुल्स्यात् / पार्थोपपीडं शेते-पार्श्वयोरुपपीडम्-पार्वाभ्यामुपपीडम् / व्रजोपरोधं गाः स्थापयति / व्रजेन बजे उपरोधं वा / पाण्युपकर्ष धानाः संगृह्णाति / पाणावुपकर्षम्-पाणिनोपकर्षम् / 3371 / समासत्तौ / (3-4-50) तृतीयासप्तम्योर्धातोर्णमुल्स्यात्संनिकर्षे गम्यमाने / केशग्राहं युध्यन्ते युद्धसंरम्भात् / केशेषु गृहीत्वा / हस्तग्राहम्-हस्तेन गृहीत्वा / 3372 / प्रमाणे च / (3-4-51) तृतीयासप्तम्योरित्येव / व्यङ्गुलोत्कर्ष खण्डिकां छिनत्ति / ब्यङ्गुलेन व्यङ्गुले वोत्कर्षम् / तदेवेति // किमुपदश्येत्याकाङ्क्षायां तदेव मूलकमर्थात् कर्मत्वेनान्वेतीत्यर्थः / हिंसार्थानाश्च // दण्डोपघातङ्गाः कालयतीति / / 'कल विक्षेपे' चुरादिः / तत्रानुप्रयुज्यमान. कालयतेरुपहन्तेश्च गावः कर्म / अतस्समानकर्मकत्वमुपहन्तेरिति भावः / दण्डेनोपघातमिति // तृतीयाप्रभृतीन्यन्यतरस्यामिति उपपदसमासविकल्प इति भावः / दण्डताडमिति // 'तड आघाते' चुरादिः / सप्तम्याञ्चोपपीड // चात्तृतीयायामिति समुच्चीयते / 'कृष विलेखने' इति धातोश्शपि कृतलघूपधगुणस्य कषेति निर्देशः / अतस्तौदादिकस्य निरासः / पीड, रुध, कर्ष, एषां समाहारद्वन्द्वात्पञ्चम्यर्थे प्रथमा / पुंस्त्वञ्चार्षम् / उपपूर्वः पीडरुधकर्षः इति मध्यमपदलोपिसमासः / तदाह / उपपूर्वेभ्य इति // तृतीयाप्रभृतीन्यन्यतरस्याम्' इति उपपदसमासविकल्पं मत्वा आह / पार्श्वयोरुपपीडमिति // तौदादिकात्तु कृषेः क्वाप्रत्यय एव न तु णमुल् / क्षेत्र उपकृष्य बीजान्यावपति / हलेनोपकृष्येति / यद्यपि तौदादिकाऽपि विलेखनार्थक एव / तथापि क्षेत्रविषयविलेखन एव तस्य प्रवृत्तेरित्याहुः / समासत्तौ // समासत्तिपदं विवृणोति / सन्निकर्षे गम्यमाने इति // सनिकर्षोऽव्यवधानेन संयोगः / केशग्राहमिति || सन्निकर्षपरमेतत् / अत्यन्तं सन्निहिता युध्यन्ते इत्यर्थः / तदाह / युद्धसंरम्भादिति // युद्धातिशयवशाद्योद्धारः परस्परं अत्यन्तं सन्निहिता भवन्तीत्यर्थः / प्रमाणे च // इत्येवेति // तृतीयान्ते सप्तम्यन्ते चोपपदे धातोर्णमुल् स्यात् प्रमाणे गम्ये इत्यर्थः / ह्रस्वः खण्डः खण्डिका / द्यगुलेनेति For Private And Personal Use Only
Page #719
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा / 717 3373 / अपादाने परीप्सायाम् / (3-4-52) परीप्सा त्वरा / शय्योत्थायं धावति / एवं नाम त्वरते यदवश्यकर्तव्यमपि नापेक्षते / शय्योत्थानमात्रमपेक्षते / 3374 / द्वितीयायां च / (3-4-53) परीप्सायामित्येव / यष्टिग्राहं युध्यन्ते / लोष्टग्राहम् / 3375 / अपगुरो णमुलि / (6-1-53) 'गुरी उद्यमने' इत्यखैचो वा आत्स्याण्णमुलि / अस्यपगारं युध्यन्ते / अस्यपगोरम् / __ 3376 / स्वाङ्गे ध्रुवे / (3-4-54) द्वितीयायामित्येव / अध्रुवे स्वाङ्गे द्वितीयान्ते धातोर्णमुल् / भ्रूविक्षेपं कथयति / ध्रुवं विक्षेपम् / 'अध्रुवे' किम् / शिर उत्क्षिप्य / येनाङ्गेन विना न जीवनं तद्भवम् / 3377 / परिक्लिश्यमाने च / (3-4-55) सर्वतो विवाध्यमाने स्वाङ्गे द्वितीयान्ते णमुल्स्यात् / उर:प्रतिपेषं युध्यन्ते / कृत्स्नमुर: पीडयन्त इत्यर्थः / “उरोविदारं प्रतिचस्करे नखैः' / ध्रुवार्थमिदम् / 3378 / विशिपतिपदिस्कन्दां व्याप्यमानासेव्यमानयोः।(३-४-५६) द्वितीयायामित्येव / द्वितीयान्त उपपदे विश्यादिभ्यो णमुल्स्याद्व्याप्यमाने आसेव्यमाने चार्थे गम्ये / गेहादिद्रव्याणां विश्यादिक्रियाभिः साकल्येन संबन्धो व्याप्तिः / क्रियायाः पौन:पुन्यमासेवा / 'नित्यवीप्सयोः' (सू 2140) 'तत्पुरुषस्याङ्गुलेः' इति टजिति भावः / अपादाने // अपादाने उपपदे धातोर्णमुल् स्यात् परीप्सायाङ्गम्यमानायामित्यर्थः / त्वरां दर्शयितुमाह। एवन्नामेत्यादि // द्वितीयायाञ्च // द्वितीयान्ते उपपदे धातोर्णमुलित्यर्थः / स्वाङ्गेऽध्रुवे // अध्रुवे इति छेद इति मत्वा आह। अध्रुव इति // ननु शिर उत्क्षिप्येति कथं प्रत्युदाहरणम् / शिरसोऽपि अध्रुवत्वादित्यत आह / येनाङ्गेनेति // परिक्लि // उरोविदारमिति // कृत्स्नमुर इत्यर्थः / प्रतिचस्कर इति // कृ विक्षेपे प्रतिपूर्वात्कर्माण लिट् / सुटकात्पूर्व इति अडभ्यासव्यवायेऽपीति चानुवृत्तौ किरतौ लवने हिंसायां प्रतेश्चेति सुट् / नखैः प्रतिचिक्षिप इत्यर्थः / ननु उरःप्रतिपषमित्यादौ स्वाङ्गत्वादेव पूर्वसूत्रेणैव सिद्धमित्यत आह / ध्रुवार्थमिति // उरो विना जीवनाभावात् उरः ध्रुवमिति भावः। विशिपति // गेहादिद्रव्याणामिति // तथा च गेहानुप्रवेशमास्ते इत्यत्र सर्वाणि गेहान्यनुप्रविश्यति पुनःपुनर्गेहमनुप्रविश्येति वा अर्थः / उभयथापि न द्वित्वमित्याह For Private And Personal Use Only
Page #720
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 718 सिद्धान्तकौमुदीसहिता [उत्तरकृदन्त इति द्वित्वं तु न भवति / समासेनैव स्वभावतस्तयोरुक्तत्वात् / यद्यप्याभीक्ष्ण्ये णमुलुक्त एव, तथापि असति ह्यासेवार्थकणमुलि आभीक्ष्ण्यणमुल: 'तृतीयाप्रभृतीनि' इत्यत्र संग्रहाभावात् उपपदसंज्ञार्थमासेवायामिह पुनर्विधिः / गेहानुप्रवेशमास्ते / गेहं गेहमनुप्रवेशम् / गेहमनुप्रवेशमनुप्रवेशम् / एवं गेहानुप्रपातम् / गेहानुप्रपादम् / गेहानुस्कन्दम् / असमासे तु गेहस्य णमुलन्तस्य च पर्यायेण द्वित्वम् / 3379 / अस्यतितृषोः क्रियान्तरे कालेषु / (3-4-57) क्रियामन्तरयति व्यवधत्त इति क्रियान्तरः / तस्मिन्धात्वर्थे वर्तमानादस्यतेस्तृष्यतेश्च कालवाचिषु द्वितीयान्तेषूपपदेषु णमुल्स्यात् / यहात्यासं गा: पाययति / व्यहमत्यासम् / व्यहतर्षम् / व्यहं तर्षम् / अत्यसनेन तषणेन च गवां पानक्रिया व्यवधीयते / अद्य पाययित्वा ब्यहमतिक्रम्य पुन: पाययतीत्यर्थः / 3380 / नाम्न्यादिशिग्रहोः / (3-4-58) द्वितीयायामित्येव / नामादेशमाचष्टे / नामग्राहमाह्वयति / 3381 / अव्ययेऽयथाभिप्रेताख्याने कृञः क्त्वाणमुलौ।(३-४-५९) अयथाभिप्रेताख्यानं नाम अप्रियस्खोच्चैः प्रियस्य च नीचैः कथनम् / नित्यवीप्सयोरिति द्वित्वन्तु न भवतीति // कुत इत्यत आह / समासेनैवेति // ननु समासेन कथमिह कथनं व्याप्त्यासेवयोरित्यत आह / स्वभावत इति // ननु 'आभीक्ष्ण्ये णमुल् च' इत्यनेनैव सिद्धत्वात् इह आसेवाग्रहणं व्यर्थम् / न च क्वानिवृत्तिः फलमिति शङ्कयम् / ताप्रत्ययस्यापि पक्षे इष्टत्वादिति शङ्कते / यद्यपीति // समाधत्तं / तथापीति // द्वितीयान्तस्योपपदसंज्ञार्थमित्यर्थः / नन्विह आसेवाग्रहणाभावे तत्रोपपदमित्युपपदसंज्ञा कुतो नेत्यत आह / असति हीति // यद्यप्यासेवायां णमुल्विध्यभावेऽपि 'आभीक्ष्ण्ये णमुल् च' इति णमुल् सिध्याते, तथापि 'आभीक्ष्ण्ये णमुल् च' इति सूत्रे द्वितीयान्तस्य सप्तम्या निर्देशेन ग्रहणाभावादुपपदसज्ञा न स्यात् / ततश्च 'तृतीयाप्रभृतीन्यन्यतरस्याम्' इति उपपदसमासविकल्पो न स्यादिति भावः / असमासे विति। व्याप्तिणमुलि गेहस्य व्याप्यमानत्वात् द्वित्वम् / आसेवायां णमुलि तु णमुलन्तस्य द्वित्वम्। क्रियापौनःपुन्यस्यैव आसेवात्वादिति भावः। अस्यतितृषोः॥ यहात्यासमिति // यहमतिक्रम्येत्यर्थः / अतिपूर्वादस्यतेर्णमुल / यहतर्षमिति // यहन्तृष्णावतीः कृत्वेत्यर्थः / नाम्न्यादिशिग्रहोः // नाम्नि आदिशिग्रहोरिति छेदः / पञ्चम्यर्थे षष्ठी / द्वितीयान्ते नामन्शब्दे उपपदे आयूर्वकदिशेः ग्रहधातोश्च णमुलित्यर्थः / अव्ययेऽयथाभि // अप्रियस्य नीचैः कथनं प्रियस्योच्चैः कथनञ्च अभिप्रेतम् इष्टम् / तद्वि परीतम् अनभिप्रेतम् / तदाह / अयथाभिप्रेताख्यानं नामेत्यादि // 'तृतीयाप्रभृतीन्य For Private And Personal Use Only
Page #721
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् ] बालमनोरमा / 719 उच्चैःकृत्य-उच्चैः कृत्वा। उच्चैःकारमप्रियमाचष्टे। नीचैःकृत्य-नीचैः कृत्वा-नीचैःकारं प्रियं ब्रूते / 3382 / तिर्यच्यपवर्गे / (3-4-60) तिर्यक्छब्द उपपदे कृषः क्त्वाणमुलौ स्त: समाप्तौ गम्यायाम् / तिर्यकृत्य गतः / तिर्यकारम् / समाप्य गत इत्यर्थः / 'अपवर्गे' किम् / तिर्यकृत्वा काष्ठं गतः / 3383 / स्वाङ्गे तस्प्रत्यये कृभ्वोः / (3-4-61) मुखतःकृत्य गत: / मुखत: कृत्वा / मुखत: कारम् / मुखतोभूय / मुखतो भूत्वा / मुखतोभावम् / / 3384 / नाधार्थप्रत्यये व्यर्थे / (3-4-62) / नाधार्थप्रत्ययान्ते व्यर्थविषय उपपदे कृभुवोः क्त्वाणमुलौ स्त: / अनाना नाना कृत्वा नानाकृत्य-नाना कृत्वा-नानाकारम् / विनाकृत्य-विना कृत्वा-विनाकारम् / नानाभूय-नाना भूत्वा-नानाभावम् / अनेकं द्रव्यमेकं भूत्वा एकधाभूय-एकधा भूत्वा-एकधाभावम् / एकधाकृत्य-एकधा कृत्वाएकधाकारम् / 'प्रत्ययग्रहणम्' किम् / हिरुकृत्वा / पृथग्भूत्वा / 3385 / तूष्णीमि भुवः / (3-4-63) तूष्णींशब्दे उपपदे भुव: क्त्वाणमुलौ स्तः / तूष्णीभूय-तूष्णीं भूत्वातूष्णींभावम् / भूग्रहणं कृत्रो निवृत्त्यर्थम् / न्यतरस्याम्' इति समासविकल्पं मत्वा आह। उच्चैःकृत्य-उच्चैः कृत्वेति // समासपक्षे ल्यविति भावः / उच्चैःकारमिति // अत्र समासतदभावयोर्नास्ति विशेषः / खरे तु विशेषः / तिर्यच्यपवर्गे // 'तिरश्चीति भवितव्यम् सौत्रो निर्देश' इति भाष्यम् / अपवर्ग इत्यस्य विवरणम्-समाप्ताविति // खाङ्गे तस्प्रत्यये // पञ्चम्यर्थे षष्ठीद्विवचनम् / तस् प्रत्ययो यस्मादिति बहुव्रीहिः / तस्प्रत्ययान्ते स्वाङ्गे उपपदे कृयो भुवश्च क्वाणमुलावित्यर्थः / इह न यथासङ्खयं व्याख्यानात् / नाधार्थ // ‘विनभ्यानानानौनसह' इति सूत्रे असहत्वे विनभ्यानाप्रत्ययो विहितः / 'सङ्ख्याया विधार्थे धा' इति धाप्रत्ययो विहितः। तस्य अर्थः इव अर्थो यस्य सः धार्थः / नाप्रत्ययो धार्थकश्च प्रत्ययो यस्मादिति बहुव्रीहिः / तदाह / नाधार्थप्रत्ययान्ते इति // नाप्रत्ययान्ते धार्थप्रत्ययान्ते उपपदे इत्यर्थः / अर्थग्रहणं धाप्रत्ययमात्रेऽन्वेति / तेन धमुञोऽपि ग्रहणं लभ्यते / नाप्रत्यये त्वर्थग्रहणन्नान्वेति / नाप्रत्ययान्ते धार्थप्रत्ययान्ते च्व्यन्तविषये उपपदे इत्यर्थः। अत एव भाष्ये अर्थग्रहणङ्किम् / द्विधाकृत्यद्वैधङ्कत्येत्येवोक्तम् / तूष्णीमि भुवः // ननु ‘स्वाङ्गे तस्प्रत्यये कृभ्वोः' इत्यतः अनुवृत्त्यैव For Private And Personal Use Only
Page #722
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 720 सिद्धान्तकौमुदीसहिता [उत्तरकृदन्तम् 3386 / अन्वच्यानुलोम्ये / (3-4-64) अन्वक्छब्दे उपपदे भुवः क्त्वाणमुलौ स्त आनुकूल्ये गम्यमाने / अन्वग्भूय आस्ते / अन्वग्भूत्वा-अन्वग्भावम् / अग्रत: पार्श्वत: पृष्ठतो वानुकूलो भूत्वा आस्त इत्यर्थः / 'आनुलोम्ये' किम् / अन्वग्भूत्वा तिष्ठति / पृष्ठतो भूत्वेत्यर्थः / इति कृदन्तप्रकरणम् / इत्थं लौकिकशब्दानां दिङ्मात्रमिह दर्शितम् / विस्तरस्तु यथाशास्त्रं दर्शितः शब्दकौस्तुभे // भट्टोजिदीक्षितकृतिः सैषा सिद्धान्तकौमुदी। प्रीत्यै भूयाद्भगवतोभवानीविश्वनाथयोः // इति श्रीभट्टोजिदीक्षितविरचितायां सिद्धान्तकौमुद्यामुत्तरार्ध समाप्तम् / सिद्ध भूग्रहणं व्यर्थमित्यत आह / कृञो निवृत्त्यर्थमिति // अन्वच्यानुलोम्ये // अनूचीत्येव वक्तुमुचितं सौत्रोऽयं निर्देशः / तियच्यपवर्गे इतिवत् / आनुलोम्यं आनुकूल्यम् / पृष्ठतो भूत्वेति // अग्निप्रथमाः प्रतिपद्यन्ते अन्वगध्वर्युरित्यादौ अन्वक्छब्दस्य पृष्ठभागे प्रसिद्धेरिति भावः ॥–इत्युत्तरकृदन्तप्रकरणम् // इति श्रीमत्सन्ततसन्तन्यमानश्येनकूर्मषोडशाररथचक्राकारादिबहुगुणविराजमानप्रौढापरिमित महाध्वरस्य श्रीशाहजी शरभजी तुक्कोजी भोसलचोळमहीमहेन्द्रामात्यधुरन्धरस्य श्रीमत आनन्दरायविद्वत्सार्वभौमस्याध्वर्युणा पञ्चपुरुषीपोष्येण बाल्य एव तद्दयानिवर्तितापरिमिताग्निविजृम्भितवाजपेयसर्वपृष्टाप्तोर्यामप्रमुखमखसन्तर्पितशतमखप्रमुखबर्हिर्मुखेन पदवाक्यप्रमाणपारावास्पारीणाग्रजन्मविश्वेश्वरवाजपेययाजितो लब्धविद्यावैशयेन अध्वरमीमांसाकुतूहलवृत्तिनिर्माणप्रकटितसर्वतन्त्रस्वातन्त्र्येण बोधायनापस्तम्बसत्याषाढभारद्वाजकात्यायनाश्वलायनद्राह्यायणादिकल्पसूत्रतद्भाष्यपारीणमहादेववाजपेययाजिसुतेन अन्नपूर्णाम्बागर्भजातेन वासुदेवदीक्षितविदुषा विरचितायां सिद्धान्तकौमुदीव्याख्यायां बालमनोरमायां उत्तरार्धम् // सम्पूर्णम् // // बालमनोरमा सम्पूर्णा // | - -- - - For Private And Personal Use Only
Page #723
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // श्रीरस्तु // // वैयाकरणसिद्धान्तकौमुदी // Mara अथ वैदिकप्रकरणम् / 3387 / छन्दसि पुनर्वस्वोरेकवचनम् (1-2-61) / द्वयारेकवचनं वा स्यात् / पुनर्वसुनक्षत्रं पुनर्वसू वा / लोके तु द्विवचनमेव // 3388 / विशाखयोश्च (1-2-62) / प्राग्वत् / विशाखा नक्षत्रम् / विशाखे वा // 3389 / षष्टीयुक्तश्छन्दसि वा (1-4-9) / षष्ठ्यन्तेन युक्तः पतिशब्दश्छन्दसि घिसंज्ञो वा स्यात् / क्षेत्रस्य पतिना वयम्'। इह वेति योग विभज्य छन्दसीत्यनुवर्तते / तेन 'सर्वे विधयश्छन्दसि वैकल्पिकाः' / 'बहुल छन्दसि' (सू 3401) इत्यादिरस्यैव प्रपञ्चः / 'यचि भम्' (सू 231) / 'नभोऽङ्गिरोमनुषां वत्युपसङ्ख्यानम्' (वा 1058) नभसा तुल्यं नभस्वत् / भत्वाद्रुत्वाभावः / 'अङ्गिरस्वदङ्गिरः' / 'मनुष्वदग्ने' / 'जनेरुसिः' (उणा) इति विहित उसिप्रत्ययो मनेरपि / बाहुलकात् / 'वृषण्वस्वश्वयोः' (वा 1059) / वृष वर्षकं वसु यस्य स वृषण्वसुः / वृषा अश्वो यस्य वृषणश्वः / इहान्तर्वर्तिनी विभक्तिमाश्रित्य पदत्वे सति नलोपः प्राप्तो भत्वाद्धार्यते / अत एव ‘पदान्तस्य' (सू 198) इति णत्वनिषेधोऽपि न / 'अल्लोपोऽनः' (सू 234) इत्यल्लोपो न, अनङ्गत्वात् / 3390 / अयस्मयादीनि च्छन्दसि (1-4-20) / एतानि च्छन्दसि साधूनि / भपदसंज्ञाधिकाराद्यथायोगं संज्ञाद्वयं बोध्यम् / तथा च वार्तिकम् –'उभयसंज्ञान्यपीति वक्तव्यम्' (वा 1060) इति ‘स सुष्टुभास ऋकता गणेन' / पदत्वात्कुत्वम् / भत्वाजश्त्वाभावः। जश्त्वविधानार्थायाः पदसंज्ञाया भत्वसामर्थ्येन बाधात् / 'नैनं हिन्वन्त्यपि वाजिनेषु' / अत्र पदत्वाजश्त्वम् / भत्वात्कुत्वाभावः / 'ते प्राग्धातोः' (सू 2230) / 3391 / छन्दसि परेऽपि (1-4-81) / 3392 / व्यवहिताश्च (1-4-82) / ‘हरिभ्यां याह्योक आ'। 'आ मन्तैरिन्द्र हरिभिर्याहि' / 3393 / इन्धिभवतिभ्यां च (1-2-6) / आभ्यां परो लिट् कित् स्यात् / ‘समीधे दस्युहन्तमम्' / 'पुत्र ईधे अथर्वणः' / बभूव / इदं प्रत्याख्यातम् / ‘इन्धेश्छन्दोविषयत्वाद्भुवो वुको नित्यत्वात्ताभ्यां लिटः किद्वचनानर्थक्यम्' (वा 594) इति // इति प्रथमोऽध्यायः। 3394 / तृतीया च होश्छन्दसि (2-3-3) / जुहोतेः कर्मणि तृतीया स्याहितीया च। 'यवाग्वाग्निहोत्रं जुहोति' / अग्निहोत्रशब्दोऽत्र हविषि वर्तते, 'यस्याग्निहोत्रमधिश्रितममेध्यमापद्येत' इत्यादिप्रयोगदर्शनात् / अग्नये हूयत इति व्युत्पत्तेश्च / यवाग्वाख्यं हविर्देवतो For Private And Personal Use Only
Page #724
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 722 सिद्धान्तकौमुद्याम् देशेन त्यक्त्वा प्रक्षिपतीत्यर्थः / 3395 / द्वितीया ब्राह्मणे (2-3-60) / ब्राह्मणविषये प्रयोगे दिवस्तदर्थस्य कर्मणि द्वितीया स्यात् / षष्ठ्यपवादः / ‘गामस्य तदहः सभायां दीव्येयुः' / 3396 / चतुर्थ्यर्थे बहुलं छन्दसि (2-3-62) / षष्ठी स्यात् / 'पुरुषमृगश्चन्द्रमसे' / 'गोधा कालका दार्वाघाटस्ते वनस्पतीनाम्' / वनस्पतिभ्य इत्यर्थः / 'षष्ठ्यर्थे चतुर्थीति वाच्यम्' (वा 1509) / ‘या खर्वेण पिबति तस्यै खर्वः' // 3397 / यजेश्च करणे (2-3-63) / इह छन्दसि बहुलं षष्ठी / घृतस्य घृतेन वा यजते // 3398 / बहुलं छन्दसि (2-4-39) अदो घस्लादेशः स्यात् / घस्तां नूनम् / लुङि ‘मन्त्रे घस-' (3402) इति च्लेलृक् / अडभावः / 'सग्धिश्च मे // 3399 / हेमन्तशिशिरावहोरात्रे च छन्दसि (2-4-28) / द्वन्द्वः पूर्ववल्लिङ्गः / हेमन्तश्च शिशिरश्च हेमन्तशिशिरौ / अहोरात्रे / 'अदिप्रभृतिभ्यः शपः' (सू 2423) // 3400 / बहुलं छन्दसि (2-3-73) / 'वृत्रं हनति वृत्रहा' / 'अहिः शयत उपपृक् पृथिकाः' / अत्र लुङ् न / अदादिभिन्नेऽपि क्वचिल्लुक् / 'वाध्वं नो देवाः' / 'जुहोत्यादिभ्यः श्लुः' (सू 2489) // 3401 / बहुलं छन्दसि (2-4-76) / 'दाति प्रियाणि चिद्वसु'। अन्यत्रापि / 'पूर्णी विवष्टि' // 3402 / मन्त्रे घसहरणशवृदहादृच्कृगमिजनिभ्यो ले: (2-4-80) / लिरिति च्ले: प्राचां संज्ञा / एभ्यो लेर्लुक्स्यान्मन्त्रे / 'अक्षनमी मदन्तहि'। घस्लादेशस्य 'गमहन-' (सू 2363) इत्युपधालोपे 'शासिवसि-' (सू 2410) इति षः / 'माह्वामित्रस्य' / 'धूर्तिः प्रणमर्त्यस्य' / 'नशेर्वा' (सू 431) इति कुत्वम् / 'सुरुचो वेन आवः' / ‘मा न आधक्' / आदित्याकारान्तग्रहणम् / 'आप्रा द्यावापृथिवी' / 'परावर्भारभृद्यथा' / 'अक्रन्नुषसः' / 'त्वे रयिं जागृवांसो अनुग्मन्' / मन्त्रग्रहणं ब्राह्मणस्याप्युपलक्षणम् / 'अज्ञत तदा अस्य दन्ताः' / विभाषानुवृत्तेर्नेह / 'न ता अगृभ्णन्नजनिष्ट हि षः // इति द्वितीयोऽध्यायः। 3403 / अभ्युत्सादयांप्रजनयांचिकयांरमयामकः पावयांक्रियाद्विदामक्रनिति च्छन्दसि (3-1-42) / आयेषु चतुर्यु लुङि ‘आम्' 'अकः' इत्यनुप्रयोगश्च / अभ्युत्सादयामकः / अभ्युदसीषदादति लोके / प्रजनयामकः / प्राजीजनदित्यर्थः। चिकयामकः / अचैषीदित्यर्थे चिनोतराम् द्विवचनं कुत्वं च / रमयामकः / अरीरमत् / पावयांक्रियात् / पाव्यादिति लोके / विदामक्रन् / अवेदिषुः // 3404 / गुपेश्छन्दसि (3-1-50) / च्लेश्चङ् वा / 'गृहानजूगुपत युवम्' / अगौप्तमित्यर्थः / 3405 / नोनयतिध्वनयत्येलयत्यर्दयतिभ्यः (3-1-51) / च्लेश्चङ् न / 'मा त्वायतो जरितुः काममूनयीः' / 'मा त्वाग्नि नयीत्' / 3406 / कृमृद्दरुहिभ्यश्छन्दसि (3-1-59) / च्लेरङ् वा / 'इदं तेभ्योऽकरं नमः' / अमरत् / अदरत् / 'यत्सानोः सानुमारुहत्' / 3407 / छन्दसि निष्टय॑देवहूयप्रणीयोनीयोच्छिष्यमर्यस्तर्याध्वर्यखन्यखान्यदेवयज्यापृच्छ्यप्रतिषीव्यब्रह्मवाद्यभाव्यस्ताव्योपचाय्यपृडानि (3-1-123) / कृन्ततः निस्पूर्वात्क्यपि प्राप्ते ण्यत् / आद्यन्तयोर्विपर्यासो निसः षत्वं च / 'निष्टयं चिन्वीत पशुकामः' देवशब्दे उपपदे ह्वयते होतेर्वा क्यप्दीर्घश्च / 'स्पर्धन्ते वा उ देवहूये' / 'प्र' 'उत्' आभ्यां नयतेः क्यप् / प्रणीयः / उन्नीयः / उत्पूर्वाच्छिषेः क्यप् / उच्छिष्यः / 'मृङ्' 'स्तृञ्' '' एभ्यो यत् / मर्यः / स्तर्या / नियामेवायम् / ध्वर्यः / खनेर्यण्ण्यतौ / खन्यः / खान्यः / For Private And Personal Use Only
Page #725
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वैदिकप्रकरणम् / 723 यजेयः / 'शुन्धध्वं दैव्याय कर्मणे देवयज्यायै'। आङ्पूर्वात्पृच्छेः क्यप् / 'आपृच्छयं धरुणं वाज्यर्षति'। सीव्यतेः क्यप् षत्वं च प्रतिषीव्यः / ब्रह्मणि वदेय॑त् / ब्रह्मवाद्यम् / लोके तु 'वदः सुपि क्या च' (सू 2854) इति क्यब्यतौ / भवतेः स्तोतेश्च ण्यत् / भाव्यः / स्ताव्यः / उपपूर्वाचिनोतेjदायादेशश्च पृड उत्तरपदे / उपचाय्यपृडम् / 'हिरण्य इति वक्तव्यम्' (वा 1945) उपचेयपृडमेवान्यत् / 'मृड सुखने' 'पृड च' इत्यस्मादिगुपधलक्षणः कः // 3408 / छन्दसि वनसनरक्षिमथाम् (3-2-27) / एभ्यः कर्मण्युपपदे इन् स्यात् / 'ब्रह्मवनिं त्वा क्षत्रवनिम् उत नो गोषणिं धियम्' / 'ये पथां पथिरक्षयः / चतुरक्षौ पथिरक्षी। ‘हविर्मथीनामभि' // 3409 / छन्दसि सहः (3-2-63) / ण्विः स्यात् / पृतनाबाट / 3410 / वहश्च (3-2-64) / प्राग्वत् / दित्यवाट् / योगविभाग उत्तरार्थः / 3411 / कव्यपुरीषपुरीष्येषु ज्युट (3-2-65) / एषु वहेर्युट् स्याच्छन्दसि / कव्यवाहनः / पुरीषवाहनः / पुरीष्यवाहनः // 3412 / हव्येऽनन्तःपादम् (3-2.66) / अग्नि! हव्यवाहनः / पादमध्ये तु 'वहश्च' इति विरेव / 'हव्यवाळग्निरजरः पिता न.' // 3413 / जनसनखनक्रमगमो विट् (3-2-67) / 'विडनोः-' (सू 2982) इत्यात्वम् / अब्जा गोजाः / ‘गोषा इन्द्रो नृषा असि' / 'सनोतेरनः' (सू 3645) इति षत्वम् / ‘इयं शुष्मेभिर्विसखा इवारुजत्' / 'आ दधिकाः शवसा पञ्च कृष्टीः' / अग्रेगाः // 3414 / मन्त्रे श्वेतवहोक्थशस्पुरोडाशो ण्विन् (3.2 71) / श्वेतवहादीनां डस्पदस्येति वक्तव्यम्' (वा 2035-36) यत्र पदत्वं भावि तत्र ण्विनोऽपवादो डस्वक्तव्य इत्यर्थः / श्वेतवाः। श्वेतवाहौ / श्वेतवाहः। उक्थानि उक्थैर्वा शंसति उक्थशा यजमानः / उक्थशासौ / उक्थशासः / पुरो दाश्यते दीयते पुरोडाः // 3415 / अवे यजः (3-2-72) / अवयाः / अवयाजौ / अवयाजः / 3416 / अवयाः श्वेतवाः पुरोडाश्च (8-2-67) / एते सम्बुद्धौ कृतदीर्घा निपात्यन्ते / चादुक्थशाः // 3417 / विजुपे छन्दसि (3-2-73) / उपे उपपदे यजेर्विच् / उपयट् // 3418 / आतो मनिन्वनिब्वनि पश्च (3-2-74) / सुप्युपसर्गे चोपपदे आदन्तेभ्यो धातुभ्यश्छन्दसि विषये मनिनादयस्त्रयः प्रत्ययाः स्युः / चाद्विच् / सुदामा / सुधीवा / सुपीवा / भूरिदावा / घृतपावा। विच् कीलालपाः // 3419 / बहुलं छन्दसि (3.2-88) / उपपदान्तरेऽपि हन्तेर्बहुलं विप् स्यात् / मातृहा / पितृहा / 'छन्दसि लिट्' (सू 3093) भूतसामान्ये। 'अहं द्यावापृथिवी आततान।' 'लिट: कानज्वा' (सू 3094) / 'क्वसुश्च' (सू 3095) / छन्दसि लिटः कानच्चसू वा स्तः। 'चक्राणा वृष्णिम्' / 'यो नो अग्ने अररिवां अघायुः' / 'छन्दस्यघशब्दात्परेच्छायां क्यज्वक्त व्यः' (वा 1711) / 'क्याच्छन्दसि' (सू 3150) / उप्रत्ययः स्यात् / अघायुः / 'एरजधिकारे जवसवौ छन्दसि वाच्यौ' (वा 2200) जवेयाभियूनः / 'ऊर्वोरस्तु मे जवः' / 'देवस्य सवितुः सवे' // 3420 / मन्त्रे वृषेषपचमनविदर्भूवीरा उदात्तः (3.3-96) / वृषादिभ्यः तिन्स्यात् स चोदात्तः / ‘वृष्टिं दिवः' / 'सुन्नमिष्टये' / 'पचत्पत्तीरुत' / 'इयं ते नव्यसी मतिः' / वित्तिः / भूतिः / 'अग्न आ याहि वीतये' / 'रातौ स्यामोभयासः' // 3421 / छन्दसि गत्यर्थेभ्यः (3-3-129) / ईषदादिषूपपदेषु गत्यर्थेभ्यो धातुभ्यश्छन्दसि युच् स्यात् / खलोऽपवादः / सूपसदनोऽग्निः // 3422 / अन्येभ्योऽपि दृश्यते (3-3-130) / गत्यर्थेभ्यो For Private And Personal Use Only
Page #726
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 724 सिद्धान्तकौमुद्याम् येऽन्ये धातवस्तेभ्योऽपि छन्दसि युच् स्यात् / 'सुवेदनामकृणोद्ब्रह्मणे गाम् // 3423 / छन्दसि लुङ्ललिटः (3-4-6) / धात्वर्थानां सम्बन्धे सर्वकालेष्वेते वा स्युः / पक्षे यथास्वं प्रत्ययाः / लुङि / 'देवो देवेभिरागमत्' / लोडथै लुङ् / 'इदं तेभ्योऽकरं नमः' / लङ् / 'अग्निमद्य होतारमवृणीतायं यजमानः' / लिट् / 'अद्याममार' / अद्य म्रियेत इत्यर्थः // 3424 / लिङर्थे लेट् (3-4-7) / विध्यादौ हेतुहेतुमद्भावादौ च धातोर्लेट् स्याच्छन्दसि // 3425 / सिब्बहुलं लेटि (3-1-34) // 3426 / इतश्च लोपः परस्मैपदेषु (3.4 97) / लेटस्तिङामितो लोपो वा स्यात्परस्मैपदेषु // 3427 / लेटोऽडाटौ (3-4-94) / लेट: ‘अट्' 'आट्' एतावागमौ स्तः / तौ च पितौ / 'सिब्बहुलं णिद्वक्तव्यः' (वा 1794) / वृद्धिः / 'प्र ण आयूँषि तारिषत् ' / 'सुपेशसस्करति जोषिषद्धि' / 'आ साविषदर्शसानाय शरुम्' / सिप इलोपस्य चाभावे / 'पताति विद्युत्' / 'प्रियः सूर्ये प्रियो अग्ना भवाति' // 3428 / स उत्तमस्य (3-4-98) / लेडुत्तमसकारस्य वा लोप: स्यात् / करवाव / करवावः / टेरेत्वम् // 3429 / आत ऐ (3-4-95) / लेट आकारस्य ऐ स्यात् / 'सुतेभिः सुप्रयसा मादयैते' / आतामित्याकारस्य ऐकारः / विधिसामर्थ्यादाट ऐत्वं न / अन्यथा हि ऐटमेव विदध्यात् / 'यो यजाति यजात इत् // 3430 / वैतोऽन्यत्र (3.4.96) / लेट एकारस्य ऐ स्वाद्वा / 'आत ऐ' (सू 3429) इत्यस्य विषयं विना / ‘पशूनामीशै'। 'ग्रहा गृह्यान्तै'। 'अन्यत्र' किम् / 'सुप्रयसा मादयते' // 3431 / उपसंवादाशङ्कयोश्च (3 4-8) / पणबन्ध आशङ्कायां च लेट् स्यात् / 'अहमेव पशूनामीशै'। 'नेजिह्मायन्तो नरकं पताम' / 'हल: नः शानच्झौ' (सू 2557) // 3432 / छन्दसि शायजपि (3-1-84) / अपि शब्दाच्छानच् / 'हृग्रहोर्भश्छन्दसि' (वा 4823) इति हस्य भः / 'गृभाय जिह्वया मधु'। 'बधान देव सवितः' / 'अनिदिताम्-' (सू 415) इति बनाते लोपः। 'गृभ्णामि ते' / 'मध्वा जभार' // 3433 / व्यत्ययो बहुलम् (3-1-85) / विकरणानां बहुलं व्यत्ययः स्याच्छन्दसि / 'आण्डा शुष्मस्य भेदति' / भिनत्तीति प्राप्ते / 'जरसा मरते पतिः' / नियत इति प्राप्ते / ‘इन्द्रो वस्तेन नेषतु' नयतेर्लोट् शप्सिपो द्वौ विकरणौ / ‘इन्द्रेण युजा तरुषेम वृत्रम्' / तरेमेत्यर्थः / तरतेविध्यादौ लिङ् / उः शप् सिप चेति त्रयो विकरणाः // ___“सुप्तिकुप्रग्रहलिङ्गनराणां कालहलच्स्वरकर्तृयङां च। व्यत्ययमिच्छति शास्त्रकृदेषां सोऽपि च सिद्ध्यति बाहुलकेन // " [भाष्यम्] ‘धुरि दक्षिणायाः' / दक्षिणस्यामिति प्राप्ते / 'चषालं ये अश्वयूपाय तक्षति' / तक्षन्तीति प्राप्ते। उपग्रहः परस्मैपदात्मनेपदे / 'ब्रह्मचारिणमिच्छते'। इच्छतीति प्राप्ते / 'प्रतीपमन्य ऊर्मियुध्यति' / युध्यते इति प्राप्ते / 'मधोस्तृप्ता इवासते' / मधुन इति प्राप्ते / नरः पुरुषः / 'अधा स वीरैर्दशभिर्वियूयाः' / वियूयादिति प्राप्ते / काल: कालवाची प्रत्ययः / 'श्वोऽनीनाधास्यमानेन' / लुटो विषये लट् / 'तमसो गा अदुक्षत्' / अधुक्षदिति प्राप्ते। 'मित्र वयं च सूरयः' / मित्रा वयमिति प्राप्ते / स्वरव्यत्ययस्तु वक्ष्यते / कर्तृशब्दः कारकमानपरः / तथा च तद्वाचिनां कृत्तद्धितानां व्यत्ययः / अन्नादाय / अण्विषयेऽच् / अवग्रहे विशेषः / यङो यशब्दादारभ्य 'लिङ्याशिष्यङ्' (सू 3434) इति डकारेण प्रत्याहारः / तेषां व्यत्ययो For Private And Personal Use Only
Page #727
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वैदिकप्रकरणम् / 725 भेदतीत्यादिरक्त एव // 3434 / लिङ्याशिष्यङ् (3-1-86) / आशीलिंङि परे धातोरङ् स्याच्छन्दसि / 'वच उम्' (सू 2454) / 'मन्त्रं वोचेमाग्नये' / 'दृशेरवक्तव्यः' (वा 1862) / 'पितरं च दृशेयं मातरं च' / अङि तु 'ऋदृशोऽडि-' (सू 2406) इति गुण: स्यात् // 3435 / छन्दस्युभयथा (3-4-117) / धात्वधिकार उक्तः प्रत्ययः सार्वधातुकार्धधातुकोभयसंज्ञः स्यात् / ‘वर्धन्तु त्वा सुश्रुतयः' / वर्धयन्त्वित्यर्थः / आर्धधातुकत्वाणिलोपः / 'विशृण्विरे' / सार्वधातुकत्वात् श्नुः शृभावश्च / 'हुश्नुवोः-' (सू 2387) इति यण् / 'आहगमहनजनः किकिनौ लिट् च' (सू 3151) / आदन्ताहवर्णान्ताद्गमादेश्च किकिनौ स्तः / तौ च लिइत् / 'बभ्रिर्वज्रम्' / 'पपिः सोमम्' / 'ददिर्गाः' / 'जग्मियुवा' / जनित्रममित्रियम्' / जज्ञिः / लिङ्कद्भावादेव सिद्धे 'ऋच्छत्य॒ताम् ' (सू 2383) इति गुणबाधनार्थ कित्त्वम् / 'बहुलं छन्दसि' (सू 3578) इत्युत्त्वम् / ततुरिः। जगुरिः // 3436 / तुमर्थे सेसेनसेऽसेन्क्सेकसेनध्यैअध्यैन्कध्यैकध्यैन्शध्यैशध्यैन्तवैतवेङ्तवेनः (3-4-9) / से। 'पक्षे रायः' सेन् / 'ता वामेषे' / असे / 'शरदो जीवसे धाः'। असन् नित्त्वादाादात्तः। क्से / प्रेषे / कसेन् / 'गवामिव श्रियसे' / अध्यै / अध्यैन् / 'जठरं पृणध्ये' / पक्ष आशुदात्तः / कध्यै / कध्यैन् / आहुवध्यै / पक्षे नित्स्वरः / शध्यै / 'राधसः सह मादयध्यै' / शध्यैन् / 'वायवे पिबध्यै' / तवै / दातवा उ / तवेङ् / सूतवे / तवेन् / कर्तवे // 3437 / प्रियै रोहिध्यै अव्यथिप्यै (3-4-1) / एते तुभर्थे निपात्यन्ते / प्रयातुं रोढुमव्यथितुमित्यर्थः // 3438 / दृशे विख्ये च (3-4-11) / द्रष्टुं विख्यातुमित्यर्थः // 3439 / शकिणमुल कमुलौ (3-4-12) / शक्नोतावुपपदे तुमर्थ एतौ स्तः / 'विभाजं नाशकत्' / 'अपलुपं नाशकत्' / विभक्तुमपलोप्तुमित्यर्थः // 3440 / ईश्वरे तोसुन्कसुनौ (3-4-13) / 'ईश्वरो विचरितोः'। 'ईश्वरो विलिखः' / विचरितुं विलेखितुमित्यर्थः // 3441 / कृत्यार्थे तवैकेन्केन्यत्वनः (3-4-14) / 'न म्लेच्छितवै' / 'अवगाहे' / 'दिदृक्षेण्यः' / 'भूर्यस्पष्ट कत्वम् / 3442 / अवचक्षे च (3-4-15) / 'रिपुणा नावचक्षे'। अवख्यातव्यमित्यर्थः // 3543 / भावलक्षणे स्थेण्कृञ्चदिचरिहुतमिजनिभ्यस्तोसुन् (3-4-16) / 'आसंस्थातोः सीदन्ति' / आसमाप्तेः सीदन्ती त्यर्थः / उदेतोः / अपकौः / प्रवदितोः / प्रचरितोः / होतोः / आतमितोः / 'काममाविजनितोः सम्भवाम' इति श्रुतिः // 3444 / सृपितृदोः कसुन् (3-4-15) / भावलक्षण इत्येव / 'पुरा क्रूरस्य विसृपो विरप्शिन्'। 'पुरा जतृभ्य आतृदः' // इति तृतीयोऽध्यायः। 3445 / रात्रेश्चाजसौ (4-1-31) / रात्रिशब्दान्डीप्स्यात् अजविषये छन्दसि / 'रात्री व्यख्यदायती'। लोके तु कृदिकारादिति डीघ्यन्तोदात्तः // 3446 / नित्यं छन्दसि (4-1-46) / बह्वादिभ्यश्छन्दसि विषये नित्यं डीप् / 'बह्वीषु हित्वा' / नित्यग्रहणमुत्तराथम् // 3447 / भुवश्च (4.1 47) / ङीप् स्यात् छन्दसि / विभ्वी / प्रभ्वी / विप्रसंभ्य इति डुप्रत्ययान्तं सूत्रेऽनुक्रियते / उत इत्यनुवृत्तेः / उवङादेशस्तु सौत्रः / 'मुद्गलाच्छन्दसि लिच्च' (वा 2476) / ङीषो लित्त्वमानुक चागमः / लित्खरः / 'रथीरभून्मुद्गलानी' // 3448 / दीर्घजिह्वी च छन्दसि (4-1-59) / संयोगोपधत्वादप्राप्तो डोष विधीयते / 'आसुरी For Private And Personal Use Only
Page #728
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 726 सिद्धान्तकौमुद्याम् वै दीर्घजिह्वी देवानां यज्ञवाट्' // 3449 / कद्रुकमण्डल्वोश्छन्दसि (4-1-71) / ऊ स्यात् / 'कद्रश्च वै कमण्डलू' / 'गुग्गुलुमधुजतुपतयालूनामिति वक्तव्यम्' (वा 2504) / गुग्गुलुः / मधूः / जतूः। पतयालू' / 'अव्ययात्त्यप्' (सू 1324) / 'आविष्ठयस्योपसंख्यानं छन्दसि' (वा 2785) / 'आविष्टयो वर्धते' // 3450 / छन्दसि ठञ् (4-3-19) / वर्षाभ्यष्टकोऽपवादः / खरे भेदः / वार्षिकम् // 3451 / वसन्ताच (43 20) / ठञ् स्यात् छन्दसि / वासन्तिकम् // 3452 / हेमन्ताच्च (4 3-21) / छन्दसि ठञ् / हैमन्तिकम् / योगविभाग उत्तरार्थः / 'शौनकादिभ्यश्छन्दसि' (सू 1486) / णिनिः प्रोक्तेऽर्थे / छाणोरपवादः / शौनकेन प्रोक्तमधीयते शौनकिनः / वाजसनेयिनः / 'छन्दसि' किम् / शौनकीया शिक्षा // 3453 / यचश्छन्दसि (4 3.150) / विकारे मयट् स्यात् / शरमयं बर्हिः / 'यस्य पणमयी जुहूः // 3454 / नोत्वदूर्धबिल्वात् (4-3-151) / उत्वान् उकारवान् / मौज शिक्यम् / वधं चर्म तस्य विकारो वार्धी रज्जुः / बैल्वो यूपः / 'सभाया यः' (सू 1657) // 3455 / ढश्छन्दसि (4-4-106) / 'सभेयो युवा' / 3456 / भवे छन्दसि (4-4-110) / सप्तम्यन्ताद्भवार्थे यत् / 'मेध्याय च विद्युत्याय च' / यथायथं शैषिकानामणादीनां घादीनां चापवादोऽयं यत् / पक्षे तेऽपि भवन्ति / सर्वविधीनां छन्दसि वैकल्पिकत्वात् / तद्यथा मुञ्जवानाम पर्वतस्तत्र भवो मौजवतः / ‘सोमस्येव मौजवतस्य भक्षः' / आचतुर्थसमाप्तेश्छन्दोऽधिकारः / 3457 / पाथोनदीभ्यां ड्यण् (4-4-111) / 'तमु त्वा पाथ्यो वृषा' / 'चनो दधीत नाद्यो गिरो मे' / पाथसि भवः पाथ्यः / नद्यां भवो नाद्यः // 3458 / वेशन्तहिमवद्भयामण् (4-4-112) / भवे / 'वैशन्तीभ्यः स्वाहा' / हैमवतीभ्यः स्वाहा' // 3459 / स्रोतसो विभाषा ड्यड्ड्यौ (4-4-113) / पक्षे यत् / ड्यड्ड्ययोस्तु खरे भेदः / स्रोतसि भवः स्रोत्यः-स्रोतस्यः // 3460 / सगर्भसयूथसनुताद्यन् (4-4-114) / अनुभ्राता सगर्व्यः / अनुसखा सयूथ्यः / 'यो नः सनुत्य उत वा जिगत्नुः' / नुतिर्नुतम् / 'नपुंसके भावे क्तः' (सू 3090) / सगर्भादयस्त्रयोऽपि कर्मधारयाः / 'समानस्य छन्दसि-' (सू 1012) / इति सः / ततो भवार्थे यन् / यतोऽपवादः // 3461 / तुग्राद्धन् / (4-4-115) / भवेऽर्थे / पक्षे यदपि / 'आ वः शम वृषभं तुम्यासु' इति बचाः / 'तुप्रियासु' इति शाखान्तरे / 'घनाकाशयज्ञवरिष्ठेषु तुग्रशब्दः' इति वृत्तिः // 3462 / अग्राद्यत् (4-4-116) // 3463 / घच्छौ च (4-4-117) / चाद्यत् / अग्रे भवोऽप्यः अप्रिय.-अग्रीयः // 3464 / समुद्राभ्राद्धः (4-4-198) / 'समुद्रिया अप्सरसो मनीषिणम्' / 'नानदतो अभ्रियस्येव घोषाः' // 3465 / बर्हिषि दत्तम् (4-4-119) / प्राग्घिताद्यदित्येव / 'बर्हिज्येषु निधिषु प्रियेषु' // 3466 / दूतस्य भागकर्मणी (4-4-120) भागोंऽशः / दूत्यम् // 3467 / रक्षोयातूनां हननी (4-4-121) / ‘या तेऽग्ने रक्षस्या तनूः' / यातव्या // 3468 / रेवतीजगतीहविष्याभ्यः प्रशस्ये (4-4-122) / प्रशंसने यत्स्यात् / रेवत्यादीनां प्रशंसनं रेवत्यम् / जगत्यम् / हविष्यम् // 3469 / असुरस्य स्वम् (4-4-123) / 'असुर्य देवेभिर्धायि विश्वम्' // 3470 / मायायामण (4-4-124) / आसुरी माया // 3471 / तद्वानासामुपधानो मन्त्र इतीष्टकासु लुक्च मतोः (4-4-125) / THHHHHHHHHHHI For Private And Personal Use Only
Page #729
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वैदिकप्रकरणम् / वर्चस्वानुपधानो मन्त्र आसामिष्टकानां वर्चस्याः / ऋतव्याः // 3472 // अश्विमानण् (4-4-126) / 'आश्विनीरुपदधाति' // 3473 / वयस्यासु मूर्नो मतुप् (4-4-127) / तद्वानासामिति सूत्रं सर्वमनुवर्तते / मतोरिति पदमावर्त्य पञ्चम्यन्तं बोध्यं / मतुबन्तो यो मूर्धशब्दस्ततो मतुप्स्यात् / प्रथमस्य मतोलुंक्च / वयश्शब्दवन्मन्त्रोपधेयास्विष्टकासु / यस्मिन्मन्त्रे मूर्धवयःशब्दौ स्तः, तेनोपधेयासु 'मूर्धन्वतीरुपदधाति' इति प्रयोगः // 3474 / मत्वर्थे मासतन्वोः (4-4-128) / नभोऽन्नम् / तदस्मिन्नस्तीति नभस्यो मासः / ओजस्या तनूः॥ 3475 / मधोत्रं च (4-4 129) / चाद्यत् / माधवः-मधव्यः // 3476 / ओजसोऽहनि यत्खौ (4-4-130) / ओजस्वमहः ओजसीनं वा // 3477 / वेशोयश आदेर्भगाद्यल्खौ (4-4 131) / यथासङ्ख्यं नेष्यते / वेशो बलं तदेव भगः इति कर्मधारयः / वेशोभग्यः / वेशोभगीनः / यशोभग्यः / यशोभगीनः // (3478 / ख च (4-4- 132) / योगविभाग उत्तरार्थः। क्रमनिरासार्थश्च // ) 3479 / पूर्वैः कृतमिनयौ च (4-4-133) / 'गम्भीरेभिः'। पथिभिः पूर्विणेभिः / 'येते पन्थाः सवितः पूर्व्यासः // 3480 / अद्भिः संस्कृतम् (4-4-134) / 'यस्येदमप्यं हविः' // 3481 / सहस्रेण संमितौ घः (4-4-135) / 'सहस्रियासोऽपां नोर्मयः' / सहस्रेण तुल्या इत्यर्थः // 3482 / मतौ च (4-4-136) / सहस्रशब्दान्मत्वर्थे घः स्यात् / सहस्रमखास्तीति सहस्रियः // 3483 / सोममर्हति यः (4-4-137) / सोम्यो ब्राह्मणः / यज्ञाई इत्यर्थः // 3484 / मये च (4-4-138) / सोमशब्दाद्यः स्यान्मयडर्थे / सोम्यं मधु / सोममयमित्यर्थः // 3485 / मधोः (4-4-139) / मधुशब्दान्मयडर्थे यत्स्यात् / मधव्यः / मधुमय इत्यर्थः // 3486 / वसोः समूह च (4-4-140) / चान्मयडर्थे यत् / वसव्यः / 'अक्षरसमूहे छन्दस उपसंख्यानम्' (वा 2980) / छन्दःशब्दादक्षरसमूहे वर्तमानात्स्वार्थे यदित्यर्थः। ओश्रावय इति चतुरक्षरम् , 'अस्तुश्रौषट्' इति चतुरक्षरम् , 'येयजामहे' इति पञ्चाक्षरम् , 'यज' इति यक्षरं द्वयक्षरो वषट्कार एष वै सप्तदशाक्षरश्छन्दस्यः // 3487 / नक्षत्राद्धः (4-4-141) / खार्थे / 'नक्षत्रियेभ्यः स्वाहा' // 3488 / सर्वदेवात्तातिल् (4-4-142) / स्वार्थे / 'सविता नः सुवतु सर्वतातिम्' / प्रदक्षिणिर्देवतातिर्मुराणः' // 3489 / शिवशमरिष्टस्य करे (4-4-143) / करोतीति करः / पचाद्यच् / शिवं करोतीति शिवतातिः / 'याभिः शन्ताती भवथो ददाशुषे' / 'अथो अरिष्टतातये' // 3490 / भावे च (4-4-144) / शिवादिभ्यो भावे तातिः स्याच्छन्दसि / शिवस्य भावः शिवतातिः / शन्तातिः / अरिष्टतातिः॥ इति चतुर्थोऽध्यायः। 3491 / सप्तनोऽञ् छन्दसि (5-1-61) / 'तदस्य परिमाणम्' (सू 1723) इति 'वर्गे' इति च / सप्त 'साप्तान्यसृजत् / सप्तवर्गानित्यर्थः / शञ्छतोर्डिनिश्छन्दसि तदस्य 1. “यथासंख्यमिति / वृत्तिकारस्तु '-यल्' 'ख च' इति सूत्रं व्यभजत्" इति मनोरमा। "वृत्तिकारस्त्विति / अत्रारुचिबीजं तु 'यथासंख्य' सूत्रस्थभाष्यविरोधः” इति शब्दरत्नम् / 'यल्खाविति भाष्यपाठे' इत्यनुपदमेव मनोरमा / For Private And Personal Use Only
Page #730
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 728 सिद्धान्तकौमुद्याम् परिमाणमित्यर्थे वाच्यः' (वा 3131) / पञ्चदशिनोऽर्धमासाः / त्रिंशिनो मासाः / 'विंशतेश्चेति वाच्यम्' (वा 3132) / विंशिनोऽङ्गिरसः / 'युष्मदस्मदोः सादृश्ये वतुब्वाच्यः' (वा 3138) 'त्वावतः पुरूवसो' / 'न त्वावां अन्यः' / 'यज्ञं विप्रस्य मावतः' // 3492 / छन्दसि च (5-1-67) / प्रातिपदिकमात्रात् तदर्हति' इत्यर्थे यत्स्याच्छन्दसि / ‘सादन्यं विदथ्यम्' // 3493 / वत्सरान्ताच्छश्छन्दसि (5-1-91) / निर्वृत्तादिष्वर्थेषु / इद्वत्सरीयः // 3494 / संपरिपूर्वात्ख च (5-1-92) / चाच्छः / संवत्सरीणः-संवत्सरीयः / परिवत्सरीणः-परिवत्सरीयः // 3495 / छन्दसि घस् (5-1-106) / ऋतुशब्दात्तदस्य प्राप्तमित्यर्थे / 'भाग ऋत्वियः // 3496 / उपसर्गाच्छन्दसि धात्वर्थे (5-1-118) / धात्वर्थविशिष्टे साधने वर्तमानात्स्वार्थे वतिः स्यात् / 'यदुद्वतो निवतः' / उद्गतानिर्गतादित्यर्थः // 3497 / थट् च च्छन्दसि (5-2.50) / नान्तादसङ्ख्यादेः परस्य डटस्थट् स्यान्मट् च / पञ्चथम्-पञ्चमम् / 'छन्दसि परिपन्थिपरिपरिणौ पर्यवस्थातरि' (सू 1889) / ‘पर्यवस्थाता शत्रुः' / 'अपत्यं परिपन्थिनम्' / 'मा त्वा परिपरिणौ विदन्' // 3498 / बहुलं छन्दसि (5-2-122) / मत्वर्थे विनिः स्यात् / 'अग्निस्ते ओजस्वी' / 'छन्दोविन्प्रकरणे अष्ट्रामेखलाद्वयोभयरुजाहृदयानां दीर्घश्चेति वक्तव्यम्' (वा 3211) इति दीर्घः / 'मंहिष्टमुभयाविनम्' / 'शुनमष्ट्राव्यचरत्' / 'छन्दसीवनिपौ च वक्तव्यौ' (वा 3202) / ई। 'रथीरभूत्' / 'सुमङ्गलीरियं वधूः' / 'मघवानमीमहे' // 3499 / तयोर्दा हिलौ च च्छन्दसि (5-3-20) / इदंतदोर्यथासङ्ख्यं स्तः। 'इदा हि वे उपस्तुतिम्' / तर्हि // 3500 / था हेतौ च च्छन्दसि (5-3-26) किमस्था स्याद्धेतौ प्रकारे च / 'कथा ग्रामं न पृच्छसि' / 'कथा दाशेम' // 3501 / पश्च पश्चा च च्छन्दसि (5-3-33) / अवरस्यास्तात्यर्थे निपातौ / ‘पश्च हि सः' / 'नो ते पश्चा' 'तुश्छन्दसि' (सू 2007) / तृजन्तान्तृन्नन्ताच्च इष्ठन्नीयसुनौ स्तः। 'आसुतिं करिष्टः' / दोहीयसी धेनुः // 3502 / प्रत्नपूर्वविश्वेमात्थाल्छन्दसि (5-3-111) / इवार्थे / 'तं प्रत्नथा पूर्वथा विश्वथेमथा' // 3503 / अमु च च्छन्दसि (5-4-12) / किमेत्तिव्ययघादित्येव / 'प्रतं नय प्रतराम्' // 3504 / वृकज्येष्ठाभ्यां तिल्तातिलौ च च्छन्दसि (5-4-41) / स्वार्थे 'यो नो दुरेवो वृकतिः' / 'ज्येष्टतातिं बर्हिषदम्' // 3505 / अनसन्तानपुंसकाच्छन्दसि (5-4-103) / तत्पुरुषाच्स्यात्समासान्तः / 'ब्रह्मसामं भवति' / 'देवच्छन्दसानि' // 3506 / बहुप्रजाश्छन्दसि (5-4-123) / 'बहुप्रजा निर्ऋतिमाविवेश' // 3507 / छन्दसि च (5-4-142) दन्तस्य दतृ स्याद्बहुव्रीहौ / 'उभयतोदतः प्रतिगृह्णाति' // 3508 / ऋतश्छन्दसि (5-4-158) / ऋदन्ताबहुव्रीहेर्न कप् / हता माता यस्य हतमाता // इति पञ्चमोऽध्यायः। 'एकाचो द्वे प्रथमस्य' (सू 2175) / 'छन्दसि वेति वक्तव्यम् ' (वा 3414) / 'यो जागार' 'दाति प्रियाणि' // 3509 / तुजादीनां दीर्घोऽभ्यासस्य (6-1-7) / तुजादिराकृतिगणः / 'प्रभरा तूतुजानः' / 'सूर्ये मामहानम्' / 'दाधारः यः पृथिवीम्' / 'स तूताव' // 3510 / बहुलं छन्दसि (6-1-34) / ह्वः सम्प्रसारणं स्यात् / 'इन्द्रमा हुव ऊतये' / 'ऋचि त्ररुत्तरपदादिलोपश्च छन्दसि' (वा 3472) / ऋक्छब्दे परे त्रैः सम्प्रसारणमुत्तरपदादेर्लोपश्चेति For Private And Personal Use Only
Page #731
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वैदिकप्रकरणम् / 729 वक्तव्यम् / तृचं साम / 'छन्दसि' किम् / व्यूचानि / 'रयेमतौ बहुलम्' (वा 3473) / रेवान् रयिमान्पुष्टिवर्धनः // 3511 / चायः की (6-1-35) / चायतेर्बहुलं कीत्ययमादेशः स्याच्छन्दसि / 'न्य १न्यञ्चिक्युर्न निचिक्युरन्यम्'। लिटयुसि रूपम् / बहुलग्रहणानुवृत्तेर्नेह / 'अग्निं ज्योतिर्निचाय्य' // 3512 / अपस्पृधेथामानृचुरानृहुश्चिच्युषेतित्याजश्राताःश्रितमाशीराशीर्ताः (6-1-36) / एते छन्दसि निपात्यन्ते / 'इन्द्रश्च विष्णो यदपस्पृधेथाम्' / स्पर्धेलड्याथाम् / 'अर्कमानृचुः' / 'वसून्यानुहुः' / अर्चेरहेश्च लिटयुसि / चिच्युषे / च्युङो लिटि थासि / 'यस्तित्याज' / त्यजेलि / 'श्रातास्त इन्द्र सोमाः' / 'श्रिता नो प्रहाः' / श्री पाके निष्ठायाम् / 'नाशिरं दुहे' / 'मध्यत आशीर्तः' / श्रीज एव विपि निष्ठायां च // 3513 / खिदेश्छन्दसि (6-1-52) / 'खिद दैन्ये' / अस्यैच आ स्यात् / चिखाद / चिखेदेत्यर्थः // 3514 / शीर्षश्छन्दसि (6-1-60) / शिरःशब्दस्य शीर्षन् स्यात् / 'शीर्णो जगतः' // 3515 / वा च्छन्दसि (6-1-106) / दीर्घाज्जसीचि च पूर्वसवर्णदीपों वा स्यात् / इचि उदाहरणम् / वाराही / वाराह्यौ। 'मानुषीरीळते पिशः' / उत्तरसूत्रद्वयेऽपीदं वाक्यभेदेन संबध्यते / तेनामिपूर्वत्वं वा स्यात् / शमी च शम्यं च / 'सूयें सुषिरामिव' / 'संप्रसारणाच' (सू 330) / इति पूर्वरूपमपि वा / इज्यमानः-यज्यमानः // 3516 / शेश्छन्दसि बहुलम् (6-1-70) / लोपः स्यात् / 'या ते गात्राणाम्' / 'ताता पिण्डानाम्' / 'एमन्नादिषु छन्दसि पररूपं वक्तव्यम्' (वा 3665) / अपां त्वेमन् / अपां त्वोद्मन् // 3517 / भय्यप्रवय्ये च च्छन्दसि (6-1-83) / बिभेत्यस्मादिति भय्यः। वेतेः प्रवय्या इति स्त्रियामेव निपातनम् / प्रवेयमित्यन्यत्र / 'छन्दसि' किम् / भेयम् / प्रवेयम् / 'ह्रदय्य आप उपसंख्यानम्' (वा 6545) / ह्रदे भवा हृदय्या आपः / भवे छन्दसि यत् / 3518 / प्रकृत्यान्तःपादमव्यपरे / (3-1-115) / ऋक्पादमध्यस्थ एङ् प्रकृत्या स्यादति परे न तु वकारयकारपरेऽति / 'उपप्रयन्तो अध्वरम्'। 'सुजाते अश्वसूनृते' / 'अन्तःपादम्' किम् / 'एतास एतेऽर्चन्ति' / 'अव्यपरे' किम् / 'तेऽवदन्' / तेऽयजन् / 3519 / अव्यादवद्यादवक्रमुरव्रतायमवन्त्ववस्युषु च (6-1-116) / एषु व्यपरेऽप्यति एड् प्रकृत्या / 'वसुभिर्नो अव्यात्' / 'मित्रमहो अवद्यात्' / ‘मा शिवासो अवक्रमुः' / 'ते नो अवत' / 'शतधारो अयं मणिः' / 'ते नो अवन्तु' / 'कुशिकासो अवस्यवः' / यद्यपि बङ्घचैः ‘ते नोऽवन्तु' 'रथतू: सोऽयमागात्' 'तेऽरुणेभिः' इत्यादौ प्रकृतिभावो न क्रियते / तथापि बाहुलकात्समाधेयम् / प्रातिशाख्ये तु वाचनिक एवायमर्थः // 3520 / यजुष्युरः (6-1-117) / उरःशब्द एङन्तोऽति प्रकृत्या यजुषि / 'उरो अन्तरिक्षम्' / यजुषि पादाभावादनन्तःपादार्थ वचनम् // 3521 / आपो जुषाणो वृष्णो वर्षिष्ठेऽम्बेऽम्बालेऽम्बिके पूर्वे (6-1-118) / यजुष्यति एङ् प्रकृत्या / 'आपो अस्मान्मातरः शुन्धयन्तु' / 'जुषाणो अग्निराज्यस्य' / 'वृष्णो अंशुभ्याम्' / वर्षिष्ठे अधि नाके' / 'अम्बे अम्बाले अम्बिके' / अस्मादेव वचनात् 'अम्बार्थ-' (सू 267) इति ह्रस्वो न // 3522 / अङ्ग इत्यादौ च (6-1-119) / अङ्गशब्दे य एङ् तदादौ चाकारे य एङ्पूर्वः सोऽति प्रकृत्या यजुषि / 'प्राणो अङ्ग अङ्गे अदीव्यत्' / 'अङ्गे अङ्गे अशोचिषम् // 3523 / अनुदात्ते च कुधपरे (6-1-120) / 92 For Private And Personal Use Only
Page #732
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुद्याम् कवर्गधकारपरे अनुदात्तेऽति परे एङ् प्रकृत्या यजुषि / 'अयं सो अग्निः' / 'अयं सो अध्वरः' / 'अनुदात्ते' किम् / 'अधोऽग्रे रुद्रे'। अग्रशब्द आयुदात्तः / 'कुधपरे' किम् / 'सोऽयमग्निमन्तः' // 3524 / अवपथासि च (6-1-121) / अनुदात्त अकारादौ अवपथाः शब्दे परे यजुषि एङ् प्रकृत्या / 'त्री रुद्रेभ्यो अवपथाः' / वपेस्थासि लङि ‘तितिङः' (सू 3935) इत्यनुदात्तत्वम् / 'अनुदात्ते' किम् / 'यद्रुद्रेभ्योऽवपथाः' / 'निपातैर्यद्यदि-' (सू 3937) इति निघातो न // 3525 / आङोऽनुनासिकश्छन्दसि (6-1-126) / आङोऽचि परेऽनुनासिकः स्यात् / स च प्रकृत्या / 'अभ्र आँ अपः' / 'गभीर आँ उग्रपुत्रे' / 'ईषा अक्षादीनां छन्दसि प्रकृतिभावो वक्तव्यः' (वा 3685) / ईषा अक्षो हिरण्ययः' / 'ज्या इयम्' / 'पूषा अविष्टु' // 3526 / स्यश्छन्दसि बहुलम् (6-1-133) / स्य इत्यस्य सोर्लोपः स्याद्धलि / 'एष स्य भानुः' // 3527 / ह्रखाचन्द्रोत्तरपदे मन्त्रे (6-1-151) / ह्रस्वात्परस्य चन्द्रशब्दस्योत्तरपदस्य सुडागमः स्यान्मन्त्रे। 'हरिश्चन्द्रो मरुद्गणः' / सुश्चन्द्र दस्म // 3528 / पितरामातरा च छन्दसि (6-3-33) / द्वन्द्व निपातः / 'आ मा गन्तां पितरामातरा च' / चाद्विपरीतमपि / 'न मातरापितरा नू चिदिष्टौ' / 'समानस्य छन्दस्यमूर्धप्रभृत्युदर्केषु' (सू 1012) / समानस्य सः स्यान्मूर्धादिभिन्न उत्तरपदे / सगर्यः / 'छन्दसि स्त्रियां बहुलम् ' (वा 3994) / विष्वग्देवयोरयादेशः / 'विश्वाची च घृताची च'। 'देवदीची नयथ देवयन्तः' / ‘सा कद्रीची' // 3529 / सध मादस्थयोश्छन्दसि (6-3-96) / सहस्य सधादेशः स्यात् मादस्थयोः परतः / 'इन्द्र त्वास्मिन्सधमादे'। सोमः सधस्थम् // 3530 / पथि च च्छन्दसि (6-3-108) / पथिशब्द उत्तरपदे कोः कवं कादेशश्च / कवपथः-कापथः - कुपथः // 3531 / साढ्यै साना साढेति निगमे (6-3-113) / सहेः त्वाप्रत्यये आद्यं द्वयं तृनि तृतीयं निपात्यते / 'मरुद्भिरुनः पृतनासु साह्ळा' / अचोर्मध्यस्थस्य डस्य ळ: ढस्य हळश्च प्रातिशाख्ये विहितः / आह हि __ "द्वयोश्चास्य स्वरयोर्मध्यमेत्य सम्पद्यते स डकारो ळकारः / लकारतामेति स एव चास्य ढकारः सन्नूष्मणा संप्रयुक्ते // " इति। 3532 / छन्दसि च (6-3.126) / अष्टन आत्वं स्यादुत्तरपदे / अष्टापदी // 3533 / मन्त्रे सोमाश्वेन्द्रियविश्वदेव्यस्य मतौ (6-3-131) / दीर्घः स्यान्मन्त्रे / 'अश्वावती सोमावतीम्' / इन्द्रियावान्मदिन्तमः / 'विश्वकर्मणा विश्वदेव्यावता' // 3534 / ओषधेश्च विभक्तावप्रथमायाम् (6-3-132) / दीर्घः स्यान्मन्त्रे / 'यदोषधीभ्य अदधात्योषधीषु' // 3535 / ऋचि तुनुघमक्षुतङ्कुत्रोरुष्याणाम् (6-3-133) / दीर्घः स्यात् / ‘आ तू न इन्द्र' / 'नू मूर्तः' / 'उत वा घा वालात्' / मधु गोमन्तमीमहे / 'भरता जातवेदसम्' / तङिति थादेशस्य डित्त्वपक्षे ग्रहणम् / तेनेह न / 'शृणोत ग्रावाणः' / 'कूमनाः' / 'अत्रा ते भद्रा'। 'यत्रा नश्चक्रा' / 'उरुष्याणः // 3536 / इकः सुमि (6-3-134) / ऋचि दीर्घ इत्येव / अभी षुणः सखीनाम्' / 'सुञः (सू 3644) इति षः / 'नश्च धातुस्थोरुषुभ्यः' (सू 3649) इति णः // 3537 / यचोऽतस्तिङः (6-3-135) / मन्त्रे दीर्घः / 'विद्मा हि त्वा चक्राजरसम्' / 3538 / निपातस्य च (6-3-136) / 'एवा हि ते' // 3539 / अन्येषामपि दृश्यते For Private And Personal Use Only
Page #733
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वैदिकप्रकरणम् / (6-3-135) / अन्येषामपि पूर्वपदस्थानां दीर्घः स्यात् / पूरुषः / दण्डादण्डि // 3540 / छन्दस्युभयथा (6-4-5) / नामि दीर्घो वा / 'धाता धातृणाम्' इति बचाः / तैत्तिरीयास्तु हस्वमेव पठन्ति // 3541 / वा षपूर्वस्य निगमे (6-4-9) / षपूर्वस्वान उपधाया वा दीर्घोऽसम्बुद्धौ सर्वनामस्थाने परे / ऋभुक्षाणम् / ऋभुक्षणम् / 'निगमे' किम् / तक्षा / तक्षाणौ / 3542 / जनिता मन्त्रे (6-4-53) / इडादौ तृचि णिलोपो निपात्यत। योनः पिता जनिता॥ 3543 / शमिता यज्ञे (6-4.54) / शमयितेत्यर्थः // 3544 / युप्लुवोर्दीर्घश्छन्दसि (6-4 58) / ल्यपीत्यनुवर्तते / वियूय / विप्लूय / 'आडजादीनाम् ' (सू 2254) // 3545 / छन्दस्यपि दृश्यते (6 4.73) / अनजादीनामित्यर्थः / आनट् / आवः। 'न माझ्यागे' (सू 2228) / 3546 / बहुलं छन्दस्यमाङयोगेऽपि (6-4-75) / अडाटौ न स्तः / माङयोगेऽपि स्तः / 'जनिष्ठा उग्रः सहसे तुरायः' / ‘मा वः क्षेत्र परबीजान्यवाप्सु.' // 3547 / इरयो रे (6-4.76) / 'प्रथमं गर्भे दधे आपः' / रेभावस्याभीयत्वेनासिद्धत्वादातोलोपः / अत्र रेशब्दस्योट कृते पुनरपि रेभावः / तदर्थे च सूत्रे द्विवचनान्तं निर्दिष्टमिरयोरिति // 3548 / छन्दस्युभयथा (6-4-86) / भूसुधियोर्यण्स्यादियडुवङौ च / 'वनेषु चित्रं विभ्वम्' / विभुवं वा / 'सुध्यो हव्यमग्नेः' / सुधियो वा। 'तन्वादीनां छन्दसि बहुलम्' (वा 4115) / 'तन्वं पुषेम' / तनुवं वा / त्र्यम्बकम्-त्रियम्बकं वा // 3549 / तनिपत्योश्छन्दसि (6-4-99) / एतयोरुपधालोपः क्ङिति प्रत्यये / 'वितत्निरे कवयः' / 'शकुना इव पप्तिम'। भाषायां वितेनिरे / पेतिम // 3550 / घसिभसोर्हलि च (6-4-100) / 'सग्धिश्च मे' / 'बब्धां ते हरी धानाः' / 'हुझल्भ्यो हेर्धिः' (सू 2425) // 3551 / श्रुशृणुप्रकृवृभ्यश्छन्दसि (6-4-102) / 'श्रुधी हवम्' / 'शृणुधी गिरः' / रायस्पूर्धि' / 'उरुणस्कृधि' / अपावृधि // 3552 / वा छन्दसि (6-4-88) / हिरपिद्वा // 3553 / अडितश्च (6-4-103) / हेधिः स्यात् / रारन्धि / रमेर्व्यत्ययेन परस्मैपदम् / शपः श्लुरभ्यासदीर्घश्च / 'अस्मै प्रयन्धि'। 'युयोधि जातवेदः' / यमेः शपो लुक् / यौतेः शपः श्लुः / 'अडितः' किम् / प्रणीहि // 3554 / मन्त्रेष्वाङ्यादेरात्मनः (6-4-141) / आत्मन् शब्दस्यादेर्लोपः स्यादाडि / 'त्मना देवेषु // 3555 / विभाष|श्छन्दसि (6-4-162) / ऋजुशब्दस्यतः स्थाने रः स्याद्वा इष्ठेमेयस्सु / 'त्वं रजिष्ठमनुनेषि' / ऋजिष्ठं वा // 3556 / ऋव्यवास्त्व्यवास्त्वमाध्वीहिर ण्ययानि च्छन्दसि (6.4.175) / ऋतौ भवमृत्व्यम् / वास्तुनि भवं वास्त्व्यम् / वास्त्वं च / मधुशब्दस्याणि स्त्रियां यणादेशो निपात्यते / 'माध्वीनः सन्त्वोषधीः' / हिरण्यशब्दाद्विहितस्य मयटो मशब्दस्य लोपो निपात्यते। 'हिरण्ययेन सविता रथेन' / / / इति षष्ठोऽध्यायः / ‘शीडो रुट्' (सू 2442) / 3557 / बहुलं छन्दसि (7-1-8) / रुडागमः स्यात् / 'लोपस्त आत्मनेपदेषु' (सू 3563) / इति पक्षे तलोपः / 'धेनवो दुहे' / 'लोपाभावे घृतं दुहृते' / 'अदृश्रमस्य / ‘अतो भिस ऐस्' (सू 203) // 3558 / बहुलं छन्दसि (7.1.10) / 'अग्निर्देवेभिः' // 3559 / नेतराच्छन्दसि (7.126) / स्वमोरड् न / 'वाघ्नमितरम्' / 'छन्दसि' किम् / इतरत्काष्ठम् / 'समासेऽनपूर्वे क्त्वो ल्यप्' For Private And Personal Use Only
Page #734
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 732 सिद्धान्तकौमुद्याम् (सू 3332) / 3560 / क्त्वापि च्छन्दसि (7-1 38) / यजमानं परिधापयित्वा // 3561 / सुपां सुलुक्पूर्वसवर्णाच्छेयाडाडयायाजालः (7-1-39) / 'ऋजवः सन्तु पन्थाः' / पन्थान इति प्राप्ते सुः / “परमे व्योमन्' / 'व्योमनि' इति प्राप्ते डेर्लुक् / धीती / मती / सुष्टुती / धीत्या मत्या सुष्टुत्येति प्राप्त पूर्वसवर्णदीर्घः / 'या सुरथा रथीतमा दिविस्पृशा अश्विना' / 'यौ सुरथौ दिविस्पृशौ' इत्यादौ प्राप्ते आ / 'नताद्राह्मणम्' / नतमिति प्राप्ते आत् / 'यादेव विद्म तात्वा' / यन्तमिति प्राप्ते / 'न युष्मे वाजबन्धवः' / 'अस्मे इन्द्राबृहस्पती' / युष्माखस्मभ्यमिति प्राप्ते शे। उरुया / धृष्णुया / उरुणा धृष्णुनेति प्राप्ते या / 'नाभा पृथिव्याः' / नाभाविति प्राप्ते डा / 'ता अनुष्ठयोच्यावयतात्' / अनुष्ठानमनुष्ठा / व्यवस्थावदङ् / आङो ज्या। साधुया / साध्विति प्राप्ते याच् / 'वसन्ता यजेत' / वसन्त इति प्राप्ते आल् / 'इयाडियाजीकाराणामुपसंख्यानम् ' (वा 4308) / उर्विया / दार्विया / उरणा दारुणेति प्राप्ते इया / सुक्षेत्रिया। सुक्षेत्रिणेति प्राप्त डियाच् / 'दृतिं न शुष्कं सरसी शयानम्' / डेरीकार इत्याहुः / तत्राद्युदात्ते पदे प्राप्ते व्यत्ययेनान्तोदात्तता / वस्तुतस्तु ङीषन्तान्डेर्लुक् / ईकारादेशस्य तूदाहरणान्तरं मृग्यम् / 'आङयाजयारामुपसंख्यानम्' (वा 4309) / 'प्रवाहवा सिसृतम्' / बाहुनेति प्राप्ते आडादेशः / 'घेर्डिति' (सू 245) इति गुणः / स्वप्नया / स्वप्नेनेति प्राप्तेऽयाच् / ‘स नः सिन्धुमिव नावया' / नावेति प्राप्तेऽयार् / रित्स्वरः। 3562 / अमो मश् (7-1-40) / मिबादेशस्यामो मश् स्यात् / अकार उच्चारणार्थः / शित्त्वात्सर्वादेशः / 'अस्तिसिचः-' (सू 2225) / इति ईट् / ‘वधी वृत्रम्' / अवधिषमिति प्राप्ते // 3563 / लोपस्त आत्मनेपदेषु (7 1.41) / छन्दसि / 'देवा अदुह' / अदुहतेति प्राप्ते। 'दक्षिणतः शये। शेत इति प्राप्ते / 'आत्मने-' इति किम् / 'उत्सं दुहन्ति' // 3564 / ध्वमो ध्वात् (7-1-42) / ध्वमो ध्वादित्यादेशः स्याच्छन्दसि / 'अन्तरेवोध्माणं वारयध्वात्' / वारयध्वमिति प्राप्ते // 3565 / यजध्वैनमिति च (7-1-43) / एनमित्यस्मिन्परे ध्वमोऽन्तलोपो निपात्यते / यजध्वैनं प्रियमेधाः' / 'वकारस्य यकारो निपात्यते' इति वृत्तिकारोक्तिः प्रामादिकी // 3566 / तस्य तात् (7 1-44) / लोटो मध्यमपुरुषबहुवचनस्य स्थाने तात्स्यात् / ‘गात्रमस्यानूनं कृणुतात्' / कृणुतेति प्राप्ते / 'सूर्य चक्षुर्गमयतात्' गमयतेति प्राप्ते // 3567 / तप्तनप्तनथनाश्च / (7-1-45) / तस्येत्येव / शृणोत ग्रावाणः / शृणुतेति प्राप्ते तप् / 'सुनोतन पचत ब्रह्मवाहसे' / 'दधातन द्रविणं चित्रमस्मै'। तनप् / 'मरुतस्तज्जुजुष्टन' / जुषध्वमिति प्राप्ते व्यत्ययेन परस्मैपदं श्लुश्च / 'विश्वे देवासो मरुतो यति ष्टन' / यत्संख्याकाः स्थेत्यर्थः / यच्छब्दाच्छान्दसो डतिः / अस्तेस्तस्य थनादेशः // 3568 / इदन्तो मसि (7-1-46) / मसीत्यविभक्तिको निर्देशः / इकार उच्चारणार्थः / मसित्ययमिकाररूपचरमावयवविशिष्टः स्यात् / मस इगागमः स्यादिति यावत् / 'नमो भरन्त एमसि' / 'त्वमस्माकं तव स्मसि' / 'इमः' 'स्मः' इाते प्राप्ते // 3569 / क्त्वो यक् (7-1 47) / 'दिवं सुपर्णो गत्वाय' // 3570 / इष्ट्वीनमिति च / (7-1-48) / क्त्वाप्रत्ययस्य ईनमन्तादेशो निपात्यते / इष्टीनं देवान्' इष्टुति प्राप्ते // 3561 / स्नात्व्यादयश्व (7-1-49) / आदिशब्दः प्रकारार्थः / आकारस्य ईकारो For Private And Personal Use Only
Page #735
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वैदिकप्रकरणम् / निपात्यते / 'स्विन्नः स्नात्वी मलादिव' / 'पीत्वी सोमस्य वावृधे' / स्नात्वा पीत्वेति प्राप्ते // 3572 / आजसेरसुक् (7-1-50) / अवर्णान्तादङ्गात्परस्य जसोऽसुक् स्यात् / देवासः / ब्राह्मणासः // 3573 / श्रीग्रामण्योश्छन्दसि (7-1-56) / आमो नुट् / श्रीणामुदारो धरुणो रयीणाम्' / 'सूत ग्रामणीनाम् ' // 3574 / गोः पादान्ते (7-1-57) / 'विद्मा हि त्वा गोपति शूर गोनाम्' / 'पादान्ते' किम् / ‘गवां शता पृक्षयामेषु' / पादान्तेऽपि क्वचिन्न / छन्दसि सर्वेषां वैकल्पिकत्वात् / 'विराजं गोपतिं गवाम्' // 3575 / छन्दस्यपि दृश्यते (7-1-76) / अस्थ्यादीनामनङ् / 'इन्द्रो दधीचो अस्थभिः' // 3576 / ई च द्विवचने (7-1-77) / अस्थ्यादीनामित्येव / ‘अक्षीभ्यां ते नासिकाभ्याम् // 3577 / दृक्स्ववःस्वतवसां छन्दसि (7-1-83) / एषां नुम्स्यात्सौ / 'कीदृङिन्द्रः' / स्ववान् / स्वतवान् / 'उदोष्ठ्यपूर्वस्य' (सू 2494) // 3578 / बहुलं छन्दसि (7-1-103) / ततुरिः // 3579 / हू हरेश्छन्दसि (7-2-31) / हरेनिष्ठायां 'ह' आदेशः स्यात् / 'अहतमास हविर्धानम् // 3580 / अपरिवृताश्च (7-232) / पूर्वेण प्राप्तस्यादेशस्याभावो निपात्यते / 'अपरिवृताः सनुयाम वाजम्' // 3581 / सोमे हरितः (7-2-33) / इड्गुणौ निपात्येते / ‘मा नः सोमो ह्वरितः' // 3582 / ग्रसितस्कभितस्तभितोत्तभितचत्तविकस्ता विशस्तृशंस्तुशास्तृतस्तृतरूतृवस्तृवरूतृवरूत्रीरुज्ज्वलितिक्षरितिवमित्यमितीति च (7-2-34) / अष्टादश निपात्यन्ते / तत्र 'प्रसु' 'स्कभु' 'स्तभु' एषामुदित्त्वान्निष्ठायामिटप्रतिषेधे प्राप्त इण्निपात्यते / 'युवं शचीभिर्ग्रसिताममुञ्चतम्' / 'विष्कभिते अजरे' / 'येन स्वः स्तभितम्' / 'सत्येनोत्तभिता भूमिः' / स्तभितेत्येव सिद्धे उत्पूर्वस्य पुनर्निपातनमन्योपसर्गभूतस्य मा भूदिति / 'चते याचने' / 'कस गतौ' / आभ्यां तस्येडभावः / 'चत्ता इतश्चत्तामुतः' / त्रिधा ह श्यावमश्विना विकस्तम्' / 'उत्तानाया हृदयं यद्विकस्तम्' / निपातनबहुत्वापेक्षया सूत्रे बहुवचनं विकस्ता इति, तेनैकवचनान्तोऽपि प्रयोगः साधुरेव / ‘शसु' 'शंसु' 'शासु' एभ्यस्तृच इडभावः / 'एकस्त्वष्टुरश्वस्याविशस्ता' / 'ग्रावग्राभ उत शंस्ता' / 'प्रशास्ता पोता' / तरतेव॒ञोश्च तृच ‘उट' 'ऊट' एतावागमौ निपात्यते / 'तरुतारं रथानाम्' / तरूतारम् / वरतारम्वरूतारम् / ‘वरूत्रीभिः सुशरणो नो अस्तु' / अत्र डीबन्तनिपातनं प्रपञ्चार्थम् / वरूतृशब्दो हि निपातितः / ततो डीपा गतार्थत्वात् / उज्ज्वलादिभ्यश्चतुर्यः शप इकारादेशो निपात्यते / 'ज्वल दीप्तौ' / 'क्षर सञ्चलने' / 'टुवमु उद्गिरणे' 'अम गत्यादिषु'। इह क्षरितीत्यस्यानन्तरं क्षमितीत्यपि केचित्पठन्ति / तत्र 'क्षमूष सहने' इति धातुर्बोध्यः / भाषायां तु 'प्रस्तस्कब्धस्तब्धोत्तब्धचतितविकसिताः' / विशसिता-शंसिता-शासिता / तरीता-तरिता / वरीतावरिता। उज्ज्वलति / क्षति / पाठान्तरे क्षमति / वमति / अमति / 'बभूथाततन्थजगम्भववर्थेति निगमे' (सू 2527) / विद्मा तमुत्सं यत आबभूथ' / 'येनान्तरिक्षमुर्वाततन्थ'। 'जगृम्भा ते दक्षिणमिन्द्र हस्तम्' / 'त्वं ज्योतिषो वितमो ववर्थ' / भाषायां तु / बभूविथ / आतेनिथ / जगृहिम / ववरिथेति // 3583 / सनिससनिवांसम् (7-2-69) / सनिमित्येतत्पूर्वात्सनतेः सनोतेर्वा कसोरिट / एत्त्वाभ्यासलोपाभावश्च निपात्यते / (अजित्वाने सनिससनिवांसम्) / ‘पावकादीनां छन्दसि' (वा 4527) प्रत्ययस्थात्कादित्वं नेति वाच्यम् / For Private And Personal Use Only
Page #736
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुद्याम् 'हिरण्यवर्णाः शुचयः पावकाः' // 3584 / घोर्लोपो लेटि वा। (7-3.70) / दधद्रत्नानि दाशुषे' / 'सोमो ददद्गन्धर्वाय' / 'यदग्निरमये ददात्' // 3585 / मीनातेर्निगमे (7 3-81) शिति ह्रस्वः / 'प्रमिनन्ति व्रतानि' / लोके प्रमीणाति / 'अस्तिसिचोऽपृक्त' (सू 2225) // 3586 / बहुलं छन्दसि (7-3-97) / 'सर्वमा इदम्'। (अस्तेर्लङ् तिप् ईडभाव अपृक्तत्वाद्धल्ङयादिलोपः / रुत्वविसौं / संहितायां तु 'भाभगो-' (सू 167) / इति यत्वम् / 'लोपः शाकल्यस्य' (सू 67) इति यलोपः / ) गाभिरक्षाः / सिच इडभावश्छान्दमः / अट / शेषं पूर्ववत् / ‘ह्रस्वस्य गुणः' (सू 242) / 'जसि च' (सू 241) / 'जसादिषु छन्दसि वा / वचनं प्राङ् णौ चङयुपधायाः' (वा 4596) / 'अथा शतक्रत्वो यूयम्' / शतक्रतवः / ‘पश्वे नृभ्यो यथा गवे' / पशवे / 'नाभ्यस्तस्याचि-' (सू 2503) इति निषेधे ‘बहुलं छन्दसीति वक्तव्यम्' (वा 4586) / 'आनुषग्जुजोषत् // 3587 / नियं छन्दसि (7-4-8) / छन्दसि विषये णौ चङ्युपधाया ऋवर्णस्य ऋनित्यम् / अवीवृधत् // 3588 / न छन्दस्यपुत्रस्य (7-4-35) / पुत्रभिन्नस्यादन्तस्य क्यचीत्वदीघौ न / मित्रयुः / 'क्याच्छन्दसि' (सू 3150) इति उः / 'अपुत्रस्य' किम् / 'पुत्रीयन्तः' सुदानवः / 'अपुत्रादीनामिति वाच्यम्' (वा 4616) / ‘जनीयन्तोऽन्वप्रवः' / जनमिच्छन्त इत्यर्थः // 3589 / दुरस्युर्द्रविणस्युर्वृषण्यतिरिषण्यति (7 4-36) / एते क्यचि निपात्यन्ते / भाषायां तु उप्रत्ययाभावादृष्टीयति / द्रविणीयति / वृषीयति / रिष्टीयति // 3590 / अश्वाघस्यात् (7-4-37) / 'अश्व' 'अघ' एतयोः क्यच्यात्स्याच्छन्दसि / 'अश्वायन्तो मघवन्' / 'मा त्वा वृका अघायवः' / 'न च्छन्दसि-' (सू 3588) इति निषेधो नेत्त्वमात्रस्य / किंतु दीर्घस्यापीति / अत्रेदमेव सूत्रं ज्ञापकम् // 3591 / देवसुनयोर्यजुषि काठके (7 4-38) / अनयोः क्यचि आत्स्याद्यजुषि कठशाखायाम् / 'देवायन्ता यजमानाः' / 'सुम्नायन्तो हवामहे' / इह यजुःशब्दो न मन्त्रमात्रपरः किंतु वेदोपलक्षकः / तेन ऋगात्मकेऽपि मन्त्रे यजुर्वेदस्थे भवति / किं च ऋग्वेदेऽपि भवति / सचेन्मन्त्रः यजुषि कठशाखायां दृष्टः / 'यजुषि' इति किम् / 'देवां जिगाति सुम्नयुः' / बचानामप्यस्ति कठशाखा ततो भवति प्रत्युदाहरणम् इति हरदत्तः // 3592 / कन्यध्वरपृतन्स्यर्चि लोपः (7-4-39) / 'कवि' 'अध्वर' 'पृतना' एषामन्त्यस्य लोप: स्यात्क्यचि परे ऋचि विषये / ‘स पूर्वया निविदा कव्यतायोः' / 'अध्वर्यु वा मधुपाणिम्'। 'दमयन्तं पृतन्युम्' / दधातेर्हिः' (सू 3076) / 'जहातेश्च कि' (सू 3331) // 3593 / विभाषा छन्दसि (7-4-44) / हित्वा शरीरम्' हात्वा वा // 3594 / सुधितवसुधितनेमधितधिष्वाधिषीय च (7-4.45) / 'सु' 'वसु' 'नेम' एतत्पूर्वस्य दधातेः तप्रत्यये इत्त्वं निपात्यते / 'गर्भ माता सुधितं वक्षणासु' / वसुधितमग्नौ / नेमधिता न पौस्या / ‘क्तिन्यपि दृश्यते' / 'उत श्वेतं वसुधितिं निरेके' / 'धिष्व वज्र दक्षिण इन्द्र हस्ते' / धत्स्वेति प्राप्ते / 'सुरेता रेतो धिषीय' आशीर्लिङ् / इट् / 'इटोऽत्' (सू 2257) धासीयेति प्राप्ते / 'अपो मि' (सू 442) / 'मासश्छन्दसीति वक्तव्यम्' (वा 4633) / माद्धि-शरद्धिः-खवः / खतवसोरुषसश्चेष्यते / (वा 4634) / स्ववद्भिः। अवतेरसुन् / शोभनम् अत्रो येषां ते स्ववसः तैः / 'तु' इति सौत्रो धातुस्तस्मादसुन् / स्वं तवो For Private And Personal Use Only
Page #737
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वैदिकप्रकरणम् / 735 lilililililili येषां तैः खतवद्भिः / 'समुषद्भिरजायथाः' / 'मिथुनेऽसिः' / ‘वसेः किच्च' इत्यसिप्रत्यय इति हरदत्तः / पश्चपादीरीत्या तु 'उषः कित्' इति प्राग्व्याख्यातम् / 'न कवतेर्यडि' (सू 2641) / 3595 / कृषेश्छन्दसि (7-1-64) / यङयभ्यासस्य चुत्वं न / करीकृष्यते / 3596 / दाधर्तिदर्धर्तिदर्धर्षिबोभूतुतेतिक्तेऽलापनीफणसंसनिष्यदत्करिक्रत्कनिक्रदद्भरिभ्रद्दविध्वतोदविद्युतत्तरित्रतःसरीसृपतंवरीवजन्मम॑ज्यागनीगन्तीति च (7-4-65) / एतेऽष्टादश निपात्यन्ते / आद्यास्त्रयो धृङो धारयतेर्वा / भवतेर्यलुगन्तस्य गुणाभावः / तेन भासायां गुणो लभ्यते / तिजेर्यङ्लुगन्तात्तङ् / इयर्तेर्लटि हलादिःशेषापवादो रेफस्य लत्वमित्वाभावश्च निपात्यते / 'अलर्षियुध्म खजकृत्पुरन्दरः' / सिपा निर्देशो न तन्त्रम् / 'अलर्ति दक्ष उत' / फणतेरापूर्वस्य यङ्लुगन्तस्य शतर्यभ्यासस्य नांगागमो निपात्यते / 'अन्वापनीफणत्' / स्यन्देः संपूर्वस्य यङ्लुकि शतर्यभ्यासस्य निक् / धातुसकारस्य षत्वम् / करोतेयङलुगन्तस्याभ्यासस्य चुत्वाभावः / ‘करिकत्' / क्रन्देलुंडि च्लेरङ् द्विवचनमभ्यासस्य चुत्वाभावो निगागमश्च / 'कनिकदज्जनुष-' / अक्रन्दीदित्यर्थः / बिभर्तेरभ्यासस्य जश्त्वाभावः / 'वि यो भरिभ्रदोषधीषु' / ध्वरतेर्यलुगन्तस्य शतर्यभ्यासस्य विगागमो धातोर्ककारलोपश्च / 'दविध्वतो रश्मयः सूर्यस्य' / युतेर्य ङ्लुगन्तस्य शतरि अभ्यासस्य संप्रसारणाभावोऽत्त्वं विगागमश्च / 'दविद्यतद्दीद्यच्छोशुचानः' / तरतेः शतरि श्लावभ्यासस्य रिगागमः / 'सहोर्जा तरित्रतः' ।सृपेः शतरि श्लौ द्वितीयैकवचने रीगागमोऽभ्यासस्य / वृजेः शतरि श्लावभ्यासस्य रीक् / मृजेलिटि णलभ्यासस्य रुक धातोश्च युक / गमेराङ्पूर्वस्य लटि श्लावभ्यासस्य चुत्वाभावो नीगागमश्च / 'वक्ष्यन्ती वेदा गनीगन्ति कर्णम्' // 3597 / ससूवेति निगमे (7-4-74) / सूतेलिटि परस्मैपदं वुगागमोऽभ्यासस्य चात्वं निपात्यते / ‘गृष्टिः ससूव स्थविरम्' / सुषुव इति भाषायाम् // 3598 / बहुलं छन्दसि (7-4-78) / अभ्यासस्येकारः स्याच्छन्दसि / 'पूर्ण विवष्टि / विशेरेतद्रूपम् // इति सप्तमोऽध्यायः। 3599 / प्रसमुपोदः पादपूरणे (8-1-6) / एषां द्वे स्तः पादपूरणे / 'प्रप्रायममिः' / 'संसमिावसे' / 'उपोप मे परामृश'। 'किं नोदुदु हर्षसे' // 3600 / छन्दसीरः (8-2-15) / इवर्णान्ताद्रेफान्ताच्च परस्य मतोर्मस्य वः स्यात् / ‘हरिवते हर्यश्वाय' / गीर्वान् // 3601 / अनो नुट् (8-2-16) / अन्नन्तान्मतोर्नुट् स्यात् / ‘अक्षण्वतः कर्णवन्तः / 'अस्थन्वन्तं यदनस्था बिभर्ति' // 3602 / नाद्धस्य (8-2-17) / नान्तात्परस्य घस्य नुट् / सूपथिन्तरः' / 'भूरिदान्वस्तुड्वाच्यः' (वा 4796) / 'भूरिदावत्तरो जनः' / 'ईद्रथिनः' (वा 4795 / 'रथीतरः' / रथीतमं रथीनाम्' // 3603 / नसत्तनिषत्तानुत्तप्र. तूर्तसूर्तगूर्तानि च्छन्दसि (8-2-61) / सदेपूर्वान्निपूर्वाञ्च निष्ठाया नत्वाभावो निपात्यते / 'नसत्तमनसा' 'निषत्तमस्य चरतः' / असन्नं निषण्णमिति प्राप्ते / उन्देर्नपूर्वस्यानुत्तम् / प्रतूर्तमिति त्वरतेः। तुर्वीत्यस्य वा। सूर्तमिति 'सृ' इत्यस्य / गूर्त मिति 'गूरी' इत्यस्य // 3604 / अन्नरूधरवरित्युभयथा छन्दसि (8-2-70) / रुर्वा रेफो वा / अम्न एव-अम्नरेव / ऊध एव-ऊधरेव / अव एव-अवरेव // 3605 / भुवश्च महाव्याहृतेः / (8-2-71) / भुव For Private And Personal Use Only
Page #738
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुद्याम् इति-भुवरिति // 3606 / ओमभ्यादाने (8-2.87) / ओंशब्दस्य प्लुतः स्यादारम्भे / 'ओ३म् अग्निमीळे पुरोहितम्'। 'अभ्यादान' किम् / ‘ओमित्येकाक्षरं ब्रह्म' // 3607 / ये यज्ञकर्मणि (8-2-88) / ये३यजामहे / 'यज्ञ-' इति किम् / ये यजामहे // 3608 / प्रणवष्टेः (8 2.89) / यज्ञकर्मणि टेरोमित्यादेशः स्यात् / 'अपां रेतांसि जिन्वतो३म्' 'टेः' किम् / हलन्तेऽन्यस्य मा भूत् // 3609 / याज्यान्तः (8-2-90) / ये याज्यान्ता मन्त्रास्तेषामन्यस्य टेः प्लुतो यज्ञकर्मणि / 'जिह्वामग्ने चकृषे हव्यवाह३म्' / 'अन्तः' किम् / 'याज्यानामृचां वाक्यसमुदायरूपाणां प्रतिवाक्यं टे: स्यात् / सर्वान्त्यस्य चेष्यते // 3610 / ब्रूहिप्रेष्यश्रौषड्वौषडावहानामादेः (8 291) / एषामादेः प्लुतो यज्ञकर्मणि / 'अग्नयेऽनु३हि' 'अग्नये गोमयानि प्रेक्ष्य' / 'अस्तुश्रौषट्' / 'सोमस्याग्न वीही वौ ३षट्' / 'अग्निमा ३वह ' // 3611 / अग्नीत्प्रेषणे परस्य च (8-2-92) / अग्नीधः प्रेषण आदेः प्लुतस्तस्मात्परस्य च / 'ओ३श्रा३वय' / नेह / 'अग्नीदग्नीन्विहर' / 'बर्हिस्तृणीहि ' // 3612 / विभाषा पृष्टप्रतिवचने हेः (8-2-93) / प्लुतः / अकार्षीः कटम् / अक.र्षे ही३ / अकार्षे हि / 'पृष्ट इति किम् / 'कटं करिष्यति हि' / 'हेः' किम् / करोमि ननु / 3613 / निगृह्यानुयोगे च (8 2.84) / अत्र यद्वाक्यं तस्य टेः प्लुतो वा। 'अद्यामावास्येत्यात्थ३' / अमावास्येत्येवंवादिनं युक्त्या स्वमसात्प्र. च्याव्य एवमनुयुज्यते // 3614 / भामेडितं भर्त्सने (8 295) / 'दस्योदस्यो३ घातयिष्यामि त्वाम्' / आमेडितग्रहणं द्विरुक्तोपलक्षणम् / 'चौर चौर३ // 3615 / अङ्गयुक्तं तिडाकाङ्क्षम् (8-2.96) / अङ्गेत्यनेन युक्तं तिङन्तं प्लवते / 'अङ्गकूज 3 इदानीं ज्ञास्यति जाल्म'। 'तिङ्' किम् / 'अङ्ग देवदत्त मिथ्या वदसि' / 'आकाङ्क्षम्' किम् / अङ्ग पच'। नैतदपरमाकाङ्क्षति / भर्त्सन इत्येव / 'अङ्गाधीष्व भक्तं तव दास्यामि' // 3616 / विचार्यमाणानाम् (8.297) / वाक्यानां टेः प्लुतः / ‘होतव्यं दीक्षितस्य गृहा३३' / 'न होतव्य३मिति' / होतव्यं न होतव्यमिति विचार्यते / प्रमाणैर्वस्तुतत्वपरीक्षणं विचारः // 3617 / पूर्व तु भाषायाम् (8-2-98) / विचार्यमाणानां पूर्वमेव प्लवते / 'अहिर्नु३ रज्जुर्नु' / प्रयोगापेक्षत्वं पूर्वत्वम् / इह भाषाग्रहणात्पूर्वयोगश्छन्दसीति ज्ञायते // 3618 / प्रतिश्रवणे च / (82.99) / वाक्यस्य टेः प्लुतोऽभ्युपगमे प्रतिज्ञाने श्रवणाभिमुख्य च / 'गां मे देहि भो३' / 'हन्त ते ददामि३' 'नित्यः शब्दो भवितुमर्हति३' / 'दत्त किमात्थ' // 3619 / अनुदात्तं प्रश्नान्ताभिपूजितयोः (8-2-100) / अनुदात्तः प्लुतः स्यात् / दूराद्भूतादिषु सिद्धस्य प्लुतस्यानुदात्तत्वमात्रमनेन विधीयते / अग्निभूत ३इ / पट ३उ / 'अग्निभूते' ‘पटो' एतयोः प्रश्नान्ते टेरनुदात्तः प्लुतः / शोभनः खल्वसि माणवक३ // 3620 / चिदिति चोपमार्थे प्रयुज्यमाने (8-2.101) / वाक्यस्य टेरनुदात्तः प्लुतः / 'अग्निचिद्भाया३त्' / अग्निरिव भायात् / 'उपमार्थे' किम् / कथंचिदाहुः / 'प्रयुज्यमाने' किम् / अग्निर्माणवको भायात् // 3621 / उपरिस्विदासीदिति च (82.102) / टेः प्लुतोऽनुदात्तः स्यात् / 'उपरि स्विदासी३त्' / अधः स्विदासी३त्' इत्यत्र तु 'विचार्यमाणानाम्' (सू 3616) इत्युदात्तः प्लुतः // 3622 / स्वरितमामेडिते. ऽसूयासंमतिकोपकुत्सनेषु (8.2-103) / स्वरितः प्लुतः स्यादामेडिते परेऽसूयादौ गम्ये / असयायाम् / अभिरूपक 3 अभिरूपक रिकं ते आभिरूप्यम् / संमतौ / अभिरूपक३ For Private And Personal Use Only
Page #739
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वैदिकप्रकरणम् / 737 अभिरूपक शोभनोऽसि / कोपे / अविनीतक३ अविनीतक इदानीं ज्ञास्यसि जाल्म / कुत्सने / शाक्तीक३ शाक्तीक रिक्ता ते शक्तिः // 3623 / क्षियाशीःप्रेषेषु तिङाकासम् (8-2-104) / आकाङ्क्षस्य तिङन्तस्य टेः स्वरितः प्लुतः स्यात् / आचारभेदे / स्वयं ह रथेन याति३ / उपाध्यायं पदातिं गमयति / प्रार्थनायाम् / पुत्रांश्च लप्सीष्ट३ धनं च तात / व्यापारणे / कटं कुरु३ प्रामं गच्छ / 'आकाङ्कम् ' किम् / दीर्घायुरसि अग्नीदग्नीन्विहर // 3624 / अनन्त्यस्यापि प्रश्नाख्यानयोः (8-2-105) / अनन्त्यस्यान्त्यस्यापि पदस्य टेः स्वरितः प्लुत एतयोः / प्रश्ने / अगम३ : पूर्वा३ न्यामा३ न् / सर्वपदानामयम् / आख्याने / अगम ३म् पूर्वा३ न्यामा३ न् // 3625 / प्लुतावैच इदुतौ (8-2-106) / दूराद्भूतादिषु प्लुतो विहितः तत्रैवैचः प्लुतप्रसङ्गे तदवयवाविदुतौ प्लवेते / ऐ४ तिकायन / औ४ पगव / चतुर्मात्रावतचौ सम्पद्यते // 3626 / एचोऽप्रगृह्यस्यादूराद्भूते पूर्वस्यास्यादुत्तरस्येदुतौ (8-2-107) / अप्रगृह्यस्यैचोऽदूराद्भूते प्लुतविषये पूर्वखार्धस्याकारः प्लुतः स्यादुत्तरस्य त्वर्धस्य इदुतौ स्तः / 'प्रश्नान्ताभिपूजितविचार्यमाणप्रत्यभिवादयाज्यान्तेष्वेव' / (वा 4888) प्रश्नान्ते / अगम३ : पूर्वा३ न्यामा३ न् / अग्निभूत 3 इ / अभिपूजिते / भद्रं करोषि पट 3 उ / विचार्यमाणे / होतव्यं दीक्षितस्य गृहा३इ / प्रत्यभिवादे / आयुष्मानेधि अग्निभूत३३ / याज्यान्ते / स्तोमैविधेमामय ३इ / 'परिगणनम् ' किम् / विष्णुभूते३ घातयिष्यामि त्वाम् / अदूराद्भूत इति न वक्तव्यम् / पदान्तग्रहणं तु कर्तव्यम् / इह मा भूत् / भद्रं करोषि गौरिति / 'अप्रगृह्यस्य' किम् / शोभने माले 3 / ‘आमन्त्रिते छन्दसि प्लुतविकारोऽयं वक्तव्यः' / (वा 4889) / अना३ इ पत्नी वः // 3627 / तयोविचि संहितायाम् (8-2-108) / इदुतोर्यकारवकारौ स्तोऽचि संहितायाम् / अन३ याशा / पट३ वाशा / अग्न३ यिन्द्रम् / पट 3 वुदकम् / 'अचि' किम् / अना३ वरुणौ / 'संहितायाम् ' किम् / अन३ इ इन्द्रः / संहितायामित्यद्ध्यायसमाप्तेरधिकारः / इदुतोरसिद्धत्वादयमारम्भः सवर्णदीर्घत्वस्य शाकलस्य च निवृत्त्यर्थः / यवयोरसिद्धत्वात् 'उदात्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्य' (सू 3657) इत्यस्य बाधनार्थो वा // 3628 / मतुवसो रु सम्बुद्धौ छन्दसि (8-3-1) / रु इत्यविभक्तिको निर्देशः / मत्वन्तस्य वस्वन्तस्य च रुः स्यात् / 'अलोऽन्त्यस्य' (सू 42) इति परिभाषया नकारस्य / ‘इन्द्र मरुत्व इह पाहि सोमम्' / 'हरिवो मे दिनं त्वा' / 'छन्दसीरः' (सू 3600) इति वत्वम् // 3629 / दाश्वान्साह्वान्मीवांश्च (6-1-12) / एते क्वस्वन्ता निपात्यन्ते / 'मीदस्तोकाय तनयाय' / 'वन उपसङ्ख्यानम् ' (वा 4890) / क्वनिब्वनिपोः सामान्यग्रहणम् / अनुबन्धपरिभाषा तु नोपतिष्ठते / अनुबन्धस्येहानिर्देशात् / 'यस्त्वायन्तं वसुना प्रातरित्वः' / इणः क्वनिप् // 3630 / उभयथर्बु (8-3-8) / अम्परे छवि नकारस्य सर्वा / पशूस्तांश्चके / 3631 / दीर्घादटि समानपादे (8-3-9) / दीर्घानकारस्य रुर्वा स्यादटि तौ चेन्नाटौ एकपादस्थौ स्याताम् / 'देवाँ अच्छा सुमती' / 'महाँ इन्द्रो य ओजसा' / उभयथेत्यनुवृत्तेर्नेह / 'आदित्यान्याचिषामहे' // 3632 / आतोऽटि नित्यम् (8-3-3) / अटि परतो रोः पूर्वस्यातः स्थाने नित्यमनुनासिकः / 'महाँ इन्द्रः' / तैत्तिरीयास्तु अनुस्वारमधीयते / तत्र छान्दसो व्यत्यय इति प्राञ्चः / एवं च सूत्रस्य फलं चिन्त्यम् // 3633 / स्वतवान्पायौ (8-3-11) / 93 For Private And Personal Use Only
Page #740
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 738 सिद्धान्तकौमुद्याम् रुर्वा / 'भुवस्तस्य स्वतवाँ पायुरग्ने' // 3634 / छन्दसि वाप्रामेडितयोः (8-3-49) / विसर्गस्य सो वा स्यात्कुप्वोः प्रशब्दमानेडितं च वर्जयित्वा / 'अग्ने त्रातर्ऋतस्कविः' / 'गिरिन विश्वतस्पृथुः' / नेह / 'वसुनः पूर्व्यः पतिः' / 'अप्र-' इत्यादि किम् / 'अग्निः प्र विद्वान्' / 'पुरुषः पुरुषः' // 3635 / कःकरत्करतिकृधिकृतेष्वनदितेः (8-3-50) / विसर्गस्य सः स्यात् / 'प्रदिवो अपस्कः' / 'यथा नो वस्यसस्करत्' / 'सुपे शस्करति'। 'उरुणस्कृधि' / 'सोमं न चारुं मघवत्सु नस्कृतम्' / 'अनदितेः' इति किम् / 'यथा नो अदितिः करत् // 3636 / पञ्चम्याः परावध्यर्थे (8-3-51) / पञ्चमीविसर्गस्य सः स्यादुपरिभावार्थे परिशब्दे परतः / ‘दिवस्परिप्रथमं जज्ञे' / 'अध्यर्थे ' किम् / 'दिवस्पृथिव्याः पर्योजः' // 3637 / पातौ च बहुलम् (8-3-52) / पञ्चम्या इत्येव / 'सूर्यो नो दिवस्पातु' // 3638 / षष्ठ्याः पतिपुत्रपृष्ठपारपदपयस्पोषेषु (8-3-53) / ‘वाचस्पतिं विश्वकर्माणम्' / 'दिवस्पुत्राय सूर्याय'। 'दिवस्पृष्टं भन्दमानः' / 'तमसस्पारमस्य' / 'पारिवीत इळस्पदे' / 'दिवस्पयो दिधिषाणाः' / रायस्पोषं यजमानेषु' // 3639 / इडाया वा (8-3-54) पतिपुत्रादिपु परेषु / इळायास्पुत्रःइळायाः पुत्रः / इळायास्पदे-इळायाःपदे / 'निसस्तपतावनासेवने' (सू 2403) / निसः सकारस्य मूर्धन्यः स्यात् / ‘निष्टप्तं रक्षो निष्टप्ता अरातयः' / 'अनासेवने' किम् / निस्तपति। पुनःपुनस्तपतीत्यर्थः // 3640 / युष्मत्तत्ततक्षुष्वन्तःपादम् (8-3-103) / पादमध्यस्थस्य सस्य मूर्धन्यः स्यात्तकारादिष्वेषु परेषु / युष्मदादेशाः त्वंत्वातेतवाः / 'त्रिभिष्टुं देव सवितः' / 'तेभिष्वा आभिष्टे' / 'अप्स्वग्न सधिष्टव' / 'अग्निष्टद्विश्वम्' / 'द्यावापृथिवी निष्टतक्षुः / 'अन्तःपादन' किम् / तदग्निस्तदर्यमा' / 'यन्म आत्मनो मिन्दाभूदग्निस्तत्पुनराहार्जातवेदा विचर्षणिः' / अत्राग्निरिति पूर्वपादस्यान्तो न तु मध्यः // 3641 यजुष्येकेषाम् (8-3-104) युष्मत्तत्ततक्षुषु परतः सस्य मूर्धन्यो वा / अर्चिभिष्टम् / अमिष्टे अग्रम् / अर्चिभिष्टतक्षुः / पक्षे अर्चिभिस्त्वमित्यादि // 3642 / स्तुतस्तोमयोश्छन्दसि (8-3-105) / नृभिष्टुतस्य-नृभिः स्तुतस्य / गोष्टोमम्-गोस्तोमम् / पूर्वपदादित्येव सिद्धे प्रपञ्चार्थमिदम् // 3643 / पूर्वपदात् (8-3-106) / पूर्वपदस्थानिमित्तात्परस्य सस्य षो वा / यदिन्द्रानी दिवि ष्ठः'। 'युवं हि स्थः स्वर्पती // 3644 / सुञः (8-3-107) / पूर्वपदस्थानिमित्तात्परस्य सुजो निपातस्य सस्य षः / 'ऊर्ध्व ऊ षु णः' / 'अभीषु णः' // 3645 / सनोतेरनः (8-3-108) / 'गोषा इन्दो नृषा असि' / 'अनः किम् / गोसनिः // 3646 / सहेः पृतनर्ताभ्यां च (8-3-109) / पृतनाषाहम् / ऋताषाहम् / चात् / ऋतीषाहम् // 3647 / निव्यभिभ्योऽव्यवाये वा छन्दसि (8-3-119) / सस्य मूर्धन्यः / न्यषीदत्-न्यसीदत् / व्यषीदत्-व्यसीदत् / अभ्यष्टौत्अभ्यस्तोत् // 3648 (8-4-25) / छन्दस्य॒दवग्रहात् / ऋकारान्तादवग्रहात्परस्य नस्य णः / नृमणाः / पितृयाणम् // 3649 / नश्च धातुस्थोरुषुभ्यः / (8-4-25) / धातुस्थात् / 'अग्ने रक्षा णः' / 'शिक्षा णो अस्मिन् ' / 'उरु णस्कृधि'। 'अभीषु णः' / 'मो षु णः॥ इत्यष्टमोऽध्यायः। इति वैदिकप्रकरणम् / For Private And Personal Use Only
Page #741
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // श्रीरस्तु // अथ स्वरप्रकरणम् / 3650 / अनुदात्तं पदमेकवर्जम् (6-1-158) / परिभाषेयम् स्वरविधिविषया। यस्मिन्पदे यस्योदात्तः स्वरितो वा विधीयते तमेकमचं वर्जयित्वा शेषं तत्पदमनुदात्ताच्कं स्यात् / 'गोपायतै नः' / अत्र ‘सनाद्यन्ताः-' (सू 2304) इति धातुत्वे धातुस्वरेण यकार:कार उदात्तः शिष्टमनुदात्तम् / 'सति शिष्टस्वरबलीयस्त्वमन्यत्र विकरणेभ्य इति वाच्यम्'। (वा 3730) तेनोक्तोदाहरणे गुपेर्धातुस्वर आयस्य प्रत्ययस्वरश्च न शिष्यते / 'अन्यत्र' इति किम् / 'यज्ञं यज्ञमभिवृद्धे गृणीतः' / अत्र सति शिष्टोऽपि 'ना' इत्यत्र स्वरो न शिष्यते किंतु तस एव // 3651 / अनुदात्तस्य च यत्रोदात्तलोपः / (6-1-161) / यस्मिन्ननुदात्ते पर उदात्तो लुप्यते तस्योदात्तः स्यात् / 'देवीं वाचम्' / अत्र डीबुदात्तः // 3652 / चौ (6-1-222) / लुप्ताकारेऽञ्चतौ परे पूर्वस्यान्तोदात्तः स्यात् / उदात्तनिवृत्तिस्वरापवादः / 'देवदीची नयथ देवयन्तः / 'अतद्धित इति वाच्यम' (वा 3789) / दाधीचः। माधचः। प्रत्ययस्वर एवात्र // 3653 / आमन्त्रितस्य च (6-1-198) / आमन्त्रितविभक्त्यन्तस्यादिरुदात्तः स्यात् / 'अग्न इन्द्र वरुण मित्र दे॒वाः' // 3654 / आमन्त्रितस्य च (8-1-19) पदात्परस्यापादादिस्थितस्यामन्त्रितस्य सर्वस्यानुदात्तः स्यात् / प्रागुक्तस्य षाष्ठस्यापवादोऽयमाष्टमिकः / ‘इमं में गङ्गे यमुने सरस्वति' / 'अपादादौ' किम् / 'शुतुद्रि स्तोमम्' / 'आमन्त्रितं पूर्वमविद्यमानवत्' (सू 412) / 'अग्न इन्द्र' अत्रेन्द्रादीनां निघातो न, पूर्वस्याविद्यमानत्वेन पदात्परत्वाभावात् / 'नामन्त्रिते समानाधिकरणे सामान्यवचनम् ' (सू 413) / समानाधिकरण आमन्त्रिते परे विशेष्यं पूर्वमविद्यमानवन्न / 'अग्ने तेजस्विन्' / अग्ने त्रातः' / सामान्यवचनं किम् / पर्यायेषु मा भूत् / 'अन्य देवि सरस्वति' // 3655 / सामान्यवचनं विभाषितं विशेषवचने (8-1-74) / अत्र भाष्यकृता बहुवचनमिति पूरितम् / सामान्यवचनमिति च पूर्वसूत्रे योजितम् / आमन्त्रितान्ते विशेषणे परे पूर्व बहुवचनान्तमविद्यमानवद्वा / 'देवी': षळुर्वीरुरु नः कृणोत' / अत्र देवीनां विशेषणं षडिति / 'देवाः शरण्याः' / इह द्वितीयस्य निघातो वैकल्पिकः // 3656 / सुबामन्त्रिते पराङ्गवत्स्वरे (2-1-2) / सुबन्तमामन्त्रिते परे परस्याङ्गवत्स्यात्स्वरे कर्तव्ये / 'द्रवत्पाणी शुभस्पती' / शुभ इति शुभेः क्विबन्तात् षष्ट्यन्तम् / तस्य परशरीरानुप्रवेशे षाष्टिकमामन्त्रितायुदात्तत्वम् / न चाष्टमिको निघातः शङ्कयः / पूर्वामन्त्रितस्याविद्यमानत्वेन पादादित्वात् / यत्त दिवो दुहितर्मर्तृभोजनम् / इह दिवःशब्दस्याष्टमिको निघातः / परशुना वृश्चन्' / 'षष्ठ्यामन्त्रितकारकवचनम् ' (वा 1223) / षष्ठ्यन्तमामन्त्रितान्तं प्रति यत्कारकं तद्वाचकं चेति परिगणनं कर्तव्यमित्यर्थः / तेनेह न / For Private And Personal Use Only
Page #742
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 740 सिद्धान्तकौमुद्याम् 'अयमग्ने जरिता' / 'एतेनग्नेि ब्रह्मणा' / समर्थानुवृत्त्या वा सिद्धम् / 'पूर्वाङ्गवच्चेति वक्तव्यम्' (वा 1228) / आ ते पितर्मरुताम्' 'प्रति त्वा दुहितर्दिवः' / 'अव्ययानां न' (वा 1229) 'उच्चैरधीयान' / 'अव्ययीभावस्य त्विष्यते' / (वा 1230) 'उपाग्न्यधीयान' // 3657 / उदात्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्य (8-2-4) / उदात्तस्थाने स्वरितस्थाने च यो यण् ततः परस्यानुदात्तस्य स्वरितः स्यात् / अभ्यभि हि / स्वरितस्य यणः / खलप्व्याशा / अस्य स्वरितस्य त्रैपादिकत्वेनासिद्धत्वाच्छेषनिघातो न // 3658 / एकादेश उदात्तेनोदात्तः (8-2-5) / उदात्तेन सहैकादेश उदात्तः स्यात् / 'वोऽश्वाः' / 'क्कावरं मरुतः' // 3659 / स्वरितो वानुदात्ते पदादौ (8-2-6) / अनुदात्ते पदादौ पर उदात्तेन सहैकादेशः स्वरितो वा स्यात् , पक्षे पूर्वसूत्रेणोदात्तः / 'वी३दं ज्योतिर्हृदये' / 'अस्य श्लोको द्विवीयते'। व्यवस्थितविभाषात्वादिकारयोः स्वरितः / दीर्घप्रवेशे तूदात्तः / किं च 'एङ:पदान्तात्-' (सू 83) इति पूर्वरूपे स्वरित एव / तेऽवदन् / 'सो ३यमाात्' / उक्तं च प्रातिशाख्ये--'इकारयोश्च प्रश्लेषे क्षप्राभिनिहतेषु च' इति // 3660 / उदात्तादनुदात्तस्य स्वरितः (8-4-66) / उदात्तात्परस्यानुदात्तस्य स्वरितः स्यात् / 'अग्निमीळे' / अस्याप्यसिद्धत्वाच्छेषनिघातो न / 'तमीशानसः' // 3661 / नोदात्तस्वरितोदयमगार्यकाश्यपगालवानाम् (8-4-67) / उदात्तपरः स्वरितपरश्चानुदात्तः स्वरितो न स्यात् / गार्यादिमते तु स्यादेव / 'प्र य आरुः' / 'वोऽश्वाः' क्वाभीशवः' // 3662 / एकश्रुति दूरात्सम्बुद्धौ (1-2-33) / दूरात्संबोधने वाक्यमेकश्रुतिः स्यात् / स्वर्यापवादः / 'आगच्छ भो माणवक' // 3663 / यज्ञकर्मण्यजपन्यूडसामसु (1-2-34) / यज्ञक्रियायां मन्त्रे एकश्रुतिः स्याजपादीन्वर्जयित्वा / 'अग्निमूर्धा दिवः ककुत्' / 'यज्ञ-' इति किम् / स्वाध्यायकाले खर्यमेव / 'अजप-' इति किम् / माग्ने वा विहवेवस्तु' / जपो नाम उपांशुप्रयोगः / यथा जले निमनस्य / न्यूङ्खा नाम षोडश ओकाराः। गीतिषु सामाख्या // 3664 / उच्चैस्तरां वा वषट्कारः (1-2-35) / यज्ञकर्मणि वौषट्छब्द उच्चैस्तरां वा स्यादेकश्रुतिर्वा / सोमस्याग्नेवीही ३वौषट् // 3665 / विभाषा छन्दसि (1-2-36) / छन्दसि विभाषा एकश्रुतिः स्यात् / व्यवस्थितविभाषेयं / संहितायां त्रैस्वर्यम् / ब्राह्मणे एकश्रुतिर्ब चानाम् / अन्येषामपि यथासंप्रदायं व्यवस्था // 3666 / न सुब्रह्मण्यायां स्वरितस्य तूदात्तः (1.2-37) / सुब्रह्मण्याख्ये निगदे 'यज्ञकर्मणि-' (सू 3663) इति ‘विभाषा छन्दसि' (सू 3665) इति च प्राप्ता एकश्रुतिर्न स्यात्वरितस्योदात्तश्च स्यात् / सुब्रह्मण्यो३म् / सुब्रह्मणि साधुरिति यत् / न च 'एकादेश उदात्तेनोदात्तः' (सू 3658) इति सिद्धे पुनरत्रेदमुदात्तविधानं व्यर्थमिति वाच्यम् / तत्रानुदात्त इत्यस्यानुवृत्तेः / 'असावित्यन्तः' (वा 651) / तस्मिन्नेव निगदे प्रथमान्तस्यान्त उदात्तः स्यात् / गार्यो यजते / नित्वात्प्राप्त आयुदात्तोऽनेन बाध्यते / 'अमुध्येत्यन्तः' (वा 652) / षष्ठ्यन्तस्यापि प्राग्वत् / दाक्षेः पिता यजते / 'स्यान्तस्योपोत्तमं च' (वा 653) / चादन्तः / तेन द्वावुदात्तौ / गाय॑स्य पिता यजते / वा नामधेयस्य (वा 354) / स्यान्तस्य नामधेयस्य उपोत्तममुदात्तं वा स्यात् / देवदत्तस्य पिता यजते // 3667 / देवब्रह्मणोरनुदात्तः (1-2-38) / अनयोः स्वरितखानुदात्तः स्यात्सुब्रह्मण्यायाम् / 'देवा ब्रह्माण आगच्छत' // 3668 / खरितासहितायामनुदात्तानाम् For Private And Personal Use Only
Page #743
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्वरप्रकरणम् / 741 (1-2-39) / स्वरितात्परेषामनुदात्तानां संहितायामेकश्रुतिः स्यात् / 'इमं में गङ्गे यमुने सरस्वति' // 3669 / उदात्तस्वरितपरस्य सन्नतरः (1.2.40) / उदात्तखरितौ परौ यस्मात्तस्यानुदात्तस्यानुदात्ततरः स्यात् / 'सरस्वति शुद्रि' / 'व्यचक्षय॒त्स्वः' / 'तस्य परमानेडितम्' (सू 83) // 3670 / अनुदात्तं च (8-1-3) / द्विरुक्तस्य परं रूपमनुदात्तं स्यात् / 'दिवे दिवे' // इति साधारणस्वराः / 3671 / धातोः (6-1-162) / अन्त उदात्तः स्यात् / ‘गोपायत नः / 'असि सत्यः' // 3672 / स्वपादिहिंसामच्यनिटि (6-1-188) / स्वपादीनां हिंसेश्वानिव्यजादौ लसार्वधातुके परे आदिरुदात्तो वा स्यात् / स्वपादिरदाद्यन्तर्गणः / स्वपन्ति / श्वसन्ति / हिंसन्ति / पक्षे प्रत्ययस्वरेण मध्योदात्तता / 'डित्येवेष्यते'। नेह / स्वपानि / हिनसानि // 3673 / अभ्यस्तानामादिः (6-1-189) / अनिट्यजादौ लसार्वधातुके परे अभ्यस्तानामादिरुदात्तः / 'ये ददति प्रिया वसु' परत्वाच्चित्स्वरमयं बाधते / 'दधाना इन्द्रे' // 3674 / अनुदात्ते च (6-1-190) / अविद्यमानोदात्ते लसार्वधातुके परेऽभ्यस्तानामादिरुदात्तः / 'दधासि रत्नं द्रविणं च दाशुषे' // 3675 / भीहीभृहुमदजनधनदरिद्राजागरां प्रत्ययात्पूर्व पिति (6-1-192) / भीप्रभृतीनामभ्यस्तानां पिति लसार्वधातुके परे प्रत्ययात्पूर्वमुदात्तं स्यात् / 'यो'ऽग्निहोत्रं जुहोति' / 'ममत्तु नः परिज्मा' / 'माता यट्टीरं दधनत्' जागर्षि त्वम् // 3676 / लिति (6-1-193) / प्रत्ययात्पूर्वमुदात्तम् / चिकीर्षकः // 3677 / आदिणमुल्यन्यतरस्याम् (6-1-194) / अभ्यस्तानामादिरुदात्तो वा णसुलि परे / लोलूयं लोलूयम् / पक्षे लित्स्वरः / / 3678 / अचः कर्तृयकि (6-1-195) / उपदेशेऽजन्तानां कर्तृयकि पर आदिरुदात्तो वा / लूयते केदारः स्वयमेव // 3679 / चड्यन्यतरस्याम् (6-1-218) / चङन्ते धातावुपोत्तममुदात्तं वा / ‘मा हि चीकरताम्' / धात्वकार उदात्तः / पक्षान्तरे चडुदात्तः // इति धातुस्वराः। 3680 / कर्षात्वतो घोऽन्त उदात्तः (6 1-159) / कर्षतेर्धातोराकारवतश्च धनन्तस्यान्त उदात्तः स्यात् / कर्षः / शपा निर्देशात्तुदादेराद्युदात्त एव / कर्षः / पाकः // 3681 / उञ्छादीनां च (6.1-160) / अन्त उदात्तः स्यात् / उञ्छादिषु युगशब्दो घान्तोऽगुणो निपात्यते कालविशेषे रथाद्यवयवे च / 'वैश्वानरः कुशिकेभिर्युगे युगे' / अन्यत्र 'योगे योगे तवस्तरम्' / भक्षशब्दो घअन्तः / 'गावः सोम॑स्य प्रथमस्यं भक्षः' / उत्तमशश्वत्तमावपि / 'उदुत्तमं वरुण' / 'शश्वत्तममीळते' // 3682 / चतुरः शसि (6-1-167) / चतुरोऽन्त उदात्तः शसि परे / 'चतुरः कल्पयन्तः' / अचि र:-' (सू 299) इति रादेशस्य पूर्वविधौ स्थानिवत्त्वान्नेह / चतस्रः पश्य' 'चतेरुरन्'। नित्त्वादाद्युदात्तता // 3683 / झल्युपोत्तमम् (6.1-180) / षट्त्रिचतुभ्यॊ या झलादिर्विभक्तिस्तदन्ते पदे उपोत्तममुदात्तं 1. नैतद्भाष्ये दृष्टम्-इति शेखरकृत् / For Private And Personal Use Only
Page #744
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 742 सिद्धान्तकौमुद्याम् HTHHTHHHHHHH स्यात् / 'अध्व॒र्युभिः पञ्चभिः' / 'नवभाजनवती च' / सप्तभ्यो जाय॑मानः' / 'आटशभिर्विवस्वतः'। 'उपोत्तमम्' किम् / ‘आ षड्भिर्खयमानः' / 'विश्ववैस्त्रिभिः ‘झलि' किम् / 'नवानां नवतीनाम् ' // 3684 / विभाषा भाषायाम् (6-1-181) / उक्तविषये // 3685 / सर्वस्य सुपि (6-1-191) / सुपि परे सर्वशब्दस्यादिरुदात्तः स्यात् / 'सवै नन्दन्ति यशसा' // 3686 / नित्यादिनित्यम् (6-1-197) / अिदन्तस्य निदन्तस्य चादिरुदात्तः स्यात् / 'यस्मिन्विश्वानि पौंस्या' / पुंसः कर्मणि ब्राह्मणादित्वात्ध्यञ् / 'सुतेदधिष्व नश्चनः' / चायतेरसुन् / 'चायेरन्ने ह्रखश्च' (उणा) इति चकारादसुनो नुडागमश्च / / 3687 / पथिमथोः सर्वनामस्थाने (6-1-199) / आदिरुदात्तः स्यात् / अयं पन्थाः / 'सर्वनामस्थान' किम् / 'ज्योतिष्मतः प॒थो रक्ष' / उदात्तनिवृत्तिस्वरेणान्तोदात्तं पदम् // 3688 / अन्तश्च तवै युगपत् (6-1-200) / तवैप्रत्ययान्तस्याद्यन्तौ युगपदाद्युदात्तौ स्तः / ‘हर्षसे दातवा उ' // 3689 / क्षयो निवासे (6-1-201) / आद्युदात्तः स्यात् / 'स्वे क्षय शुचिव्रत' एरजन्तः // 3690 / जयः करणम् / (6-1-202) / करणवाची जयशब्दः आयुदात्तः स्यात् / जयत्यनेन जयोऽश्वः // 3691 / वृषादीनां च (6-1-203) / आदिरुदात्तः / आकृतिगणोऽयम् / 'वाजेभिर्वाजिनीवति इन्द्रं वाणी':' // 3692 / संज्ञायामुपमानम् (6-1204) / उपमानशब्दः संज्ञायामायुदात्तः / चञ्चेव चञ्चा कनोऽत्र लुप् / एतदेव ज्ञापयति 'क्वचित्स्वरविधौ प्रत्ययलक्षणं न' इति / 'संज्ञायाम्' किम् / अग्निर्माणवकः / 'उपमानम्' किम्। चैत्रः // 3693 / निष्टा च द्वथजनात् / (6-1-205) / निष्टान्तस्य यचः संज्ञायामादिरुदात्तो न त्वाकारः / दत्तः / 'यचः' किम् / चिन्तितः / 'अनात् ' किम् / त्रातः / 'संज्ञायाम् इत्यनुवृत्तर्नेह / कृतम् / हृतम् // 3694 / शुष्कघृष्टौ (6-1-206) / एतावाद्युदात्तौ स्तः / असंज्ञार्थमिदम् / 'अतसं न शुष्कम् // 3695 / आशितः कर्ता (6-1-207) / कर्तृवाच्याशितशब्द आधुदात्तः / ‘कृषन्नित्फाल आशितम्' / 3696 / रिक्त विभाषा (6-1-208) / रिक्तशब्दे वादिरुदात्तः / रिक्तः। संज्ञायां तु 'निष्ठा च द्वयजनात्' (सू 3693) इति नित्यमायुदात्तत्वं पूर्वविप्रतिषेधेन // 3697 / जुष्टार्पिते च च्छन्दसि (6-1209) / आयुदात्ते वा स्तः // 3698 / नित्यं मन्त्रे (6-1-210) / एतत्सूत्रं शक्यमकर्तुम् / 'जुष्टो दमूनाः' / 'षलेर आहुरपितम्' इत्यादेः पूर्वेणैव सिद्धः छन्दसि पाठस्य व्यवस्थिततया विपरीतापादनायोगात् / 'अर्पिताः षष्टिन चलाचलासः' इत्यत्रान्तोदात्तदर्शनाच्च // 3699 / युष्मदस्मदोर्डसि (6-1211) / आदिरुदात्तः स्यात् / 'न हि षस्तव नो मम' // 3700 / यि च (6-1-212) 'तुभ्यं हिन्वानः' / 'मह्यं वातः पवताम् // 3701 / यतोऽनावः (6-1-213) / यत्प्रत्ययान्तस्य द्वयच आदिरुदात्तः नावं विना / 'युञ्जन्त्य॑स्य॒ काम्यो' / कमेर्णिङन्तादचो यत् / 'अनावः' किम् / 'नवति नाव्यानाम् // 3702 / ईडवन्दवृशंसदुहां ण्यतः (6-1-214) / एषां ग्यदन्तानामादिरुदात्तः। 'ईडयो नूननरुत' / आजुह्वान ईडयो वन्यश्च' / 'श्रेष्टं नो धेहि वायम्' / 'उक्थमिन्द्राय शंस्यम्' // 3703 / विभाषा वण्विन्धानयोः (6-1-215) / आदिरुदात्तो वा / 'आग्नेयोवैवेणुः' ‘इन्धानो अग्निम् // 3704 / त्यागरागहासकुहश्वठकथानाम् (6.1.216) / आदिरुदात्तो वा / आद्यास्त्रयो घअन्ताः / त्रयः पचाद्यजन्ताः // 3705 / For Private And Personal Use Only
Page #745
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्वरप्रकरणम् / मतोः पूर्वमात्संज्ञायां स्त्रियाम् (6-1-219) मतोः पूर्वमाकार उदात्तः स्त्रीनानि / उदुम्बरावती / शरावती // 3706 / अन्तोऽवत्याः (6-1-220) / अवतीशब्दस्यान्त उदात्तः। वेत्रवती / डीपः पित्त्वादनुदात्तत्वं प्राप्तम् // 3707 / ईवत्याः (6.1-221) / ईवत्यन्तस्यापि प्राग्वत् / अहीवती। मुनीवती॥ अथ फिटसूत्राणि / 1. 'फिषोऽन्त उदात्तः' / प्रातिपदिकं फिट / तस्यान्त उदात्तः स्यात् / उच्चैः // 2. 'पाटलापालङ्काम्बासागरार्थानाम् ' / एतदर्थानामन्त उदात्तः / 'पाटला' ‘फलेरुहा' 'सुरूपा' 'पाकला' इति पर्यायाः / 'लघावन्ते-' इति प्राप्ते / 'अपालङ्क' 'व्याधिघात' 'आरेवत' 'आरग्वध, इति पर्यायाः / अम्बार्थः / माता / 'उनर्वनन्तानाम्' इत्याद्युदात्तत्वे प्राप्ते / सागरः। समुद्रः // 3. 'गेहार्थानामस्त्रियाम्'। गेहम् / 'नविषयस्य-' इति प्राप्ते / 'अस्त्रियाम्' किम् / शाला / आधुदात्तोऽयम् / इहैव पर्युदासाज्ज्ञापकात् // 4. 'गुदस्य च' / अन्त उदात्तः स्यान्न तु स्त्रियाम् / गुदम् / 'अस्त्रियाम्' किम् ‘आन्त्रेभ्यस्ते गुदाभ्यः' / 'स्वाङ्गशिटामदन्तानाम्' इत्यन्तरङ्गमायुदात्तत्वम् / ततष्टाप् // 5. ‘ध्यपूर्वस्य स्त्रीविषयस्य' / धकारयकारपूर्वो योऽन्योऽच्स उदात्तः / अन्तर्धा / 'स्त्रीविषयवर्ण-' इति प्राप्ते / छाया / माया / जाया / ‘यान्तस्यान्त्यात्पूर्वम्' इत्यायुदात्तत्वे प्राप्ते। 'स्त्री' इति किम् / बाह्यम् / यजन्तत्वादाद्युदात्तत्वम् / 'विषयग्रहणम्' किम् / इभ्या / क्षत्रिया / 'यतोऽनावः' (सू 3701) इत्यायुदात्त इभ्यशब्दः / क्षत्रियशब्दस्तु ‘यान्तस्यान्त्यात्पूर्वम्' इति मध्योदात्तः / 6 'खान्तस्याश्मादेः' / नखम् / उखा / सुखम् / दुःखम् / नखस्य ‘स्वाङ्गशिटाम्-' इत्याद्युदात्तत्वे प्राप्ते / उखा नाम भाण्डविशेषः। तस्य कृत्रिमत्वात् 'खय्युवर्ण कृत्रिमाख्या चेत्' इत्युवर्णस्योदात्तत्वे प्राप्ते / सुखदुःखयोः 'नविषयस्य-' इति प्राप्ते / ‘अश्मादेः किम् / शिखा / मुखम् / मुखस्य 'स्वाङ्गशिटाम्-' इति 'नविषयस्य' इति वा आद्युदात्तत्वम् / शिखायास्तु 'शीङः खो निद्रस्वश्च' इत्युणादिषु नित्त्वोक्तेरन्तरङ्गत्वाटापः प्रागेव 'स्वाङ्गशिटाम्-' इति वा बोध्यम् // 7. 'बंहिष्टवत्सरतिशत्थान्तानाम्' / एषामन्त उदात्तः स्यात् / अतिशयेन वहुलो बंहिष्ठः / नित्त्वादाद्युदात्तत्वे प्राप्ते / 'बहिष्रश्वः सुवृता रथेन' / 'यद्वंहिष्ठं नातिविधे' इत्यादौ व्यत्ययादाद्युदात्तः। संवत्सरः / अव्ययपूर्वपदप्रकृतिस्वरोऽत्र बाध्यत इत्याहुः / सप्ततिः। अशीतिः / ‘लघावन्ते-' इति प्राप्ते / चत्वारिंशत् / इहापि प्राग्वत् / 'अभ्यूर्वाना प्रभृथस्यायोः' / अव्ययपूर्वपदप्रकृतिस्वरोऽत्र बाध्यत इत्याहुः / थाधादिसूत्रेण गतार्थमेतत् // 8. 'दक्षिणस्य साधौ' / अन्त उदात्तः स्यात् / साधुवाचित्वाभावे तु व्यवस्थायां सर्वनामतया 'स्वाङ्गशिटाम्-' इत्याद्युदात्तः / अर्थान्तरे तु 'लघावन्ते-' इति गुरुरुदात्तः। ‘दक्षिण: सरलोदारपरच्छन्दानुवर्तिषु' इति कोशः // 9. 'स्वाङ्गाख्यायामादिर्वा' / इह दक्षिणस्याद्यन्तौ पर्यायेणोदात्तौ स्तः। दक्षिणो बाहुः / 'आख्याग्रहणम्' किम् / प्रत्यङ्मुखस्यासीनस्य वामपाणिर्दक्षिणो भवति // 10. 'छन्दसि च' / अस्वाङ्गार्थमिदम् / HHHHHHHHHHI THEHTHHTH For Private And Personal Use Only
Page #746
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 744 सिद्धान्तकौमुद्याम् दक्षिणः / इह पर्यायेणाद्यन्तावुदात्तौ // 11. 'कृष्णस्यामृगाख्या चेत्' / अन्त उदात्तः / 'वर्णानां तण-' इत्यायुदात्तत्वे प्राप्ते अन्तोदात्तो विधीयते / कृष्णानां ब्रीहीणां / 'कृष्ण नोनाव वृषभः' / मृगाख्यायां तु / कृष्णो रात्र्यै // 12. 'वा नामधेयस्य' / कृष्णस्येत्येव / 'अयं वा कृष्णो अश्विना' / कृष्णर्षिः // 13. 'शुक्लगौरयोरादिः' / नित्यमुदात्तः स्यादित्येके। वेत्यनुवर्तत इति तु युक्तम् / 'सरो गौरो यथापि वा' इत्यत्रान्तोदात्तदर्शनात् // 14. 'अङ्गुष्ठोदकबकवशानां छन्दस्यन्तः' / अङ्गुष्ठस्य ‘स्वाङ्गानामकुर्वादीनाम्' इति द्वितीयस्योदात्तत्वे प्राप्तेऽन्तोदात्तार्थ आरम्भः / वशाग्रहणं नियमाथै छन्दस्येवेति / तेन लोक आयुदात्ततेत्याहुः। 15. 'पृष्ठस्य च' छन्दस्यन्त उदात्तः स्याद्वा भाषायाम् / पृष्टम् / 16. 'अर्जुनस्य तृणाख्या चेत्' / 'उनर्वनन्तानाम्' इत्याद्युदात्तस्यापवादः // 17. 'आर्यस्य स्वाम्याख्या चेत्' / ‘यान्तस्यान्त्यात्पूर्वम्' इति ' यतोऽनावः' (सू 3701) इति वायुदात्ते प्राप्ते वचनम् // 18. आशाया अदिगाख्या चेत्' / दिगाख्याव्यावृत्त्यर्थमिदम् / अत एव ज्ञापकादिक्पर्यायस्यायुदात्तता। 'इन्द्र आशाभ्यस्परि' // 19 / 'नक्षत्राणामविषयाणाम्' / अन्त उदात्तः स्यात् / आश्लेषानुराधादीनां 'लघावन्ते-' इति प्राप्ते ज्येष्ठाश्रविष्ठाधनिष्ठानामिष्ठन्नन्तत्वेनायुदात्ते प्राप्ते वचनम् // 20. 'न कुपूर्वस्य कृत्तिकाख्या चेत्' / अन्त उदात्तो न। कृत्तिका नक्षत्रम् / केचित्तु कुपूर्वो य आप्तद्विषयाणामिति व्याख्याय ‘आर्यिका' 'बहुलिका' इत्यत्राप्यन्तोदात्तो नेत्याहुः॥ 21. घृतादीनां च'। अन्त उदात्तः / 'घृतं मिमिक्षे' / आकृतिगणोऽयम् // 22. 'ज्येष्ठकनिष्ठयोर्वयसि / अन्त उदात्तः स्यात् / 'ज्येष्ठ आह चमसा' / 'कनिष्ट आह चतुरः' / 'वयसि' किम् / ज्येष्ठः श्रेष्ठः / कनिष्ठोऽल्पिकः / इह नित्त्वादाद्युदात्त एव // 23. 'बिल्वतिष्ययोः स्वरितो वा' / अनयोरन्तः स्वरितो वा स्यात् / पक्ष उदात्तः // इति फिटसूत्रेषु प्रथमः पादः / 24. 'अथादिः प्राक् शकटे:' / अधिकारोऽयम् / 'शकटिशकट्यो:-' इति यावत् / 25. 'ह्रस्वान्तस्य स्त्रीविषयस्य' / आदिरुदात्तः स्यात् / बलिः / तनुः // 26. 'नविषयस्यानिसन्तस्य' / 'वने न वा यः' / इसन्तस्य तु सर्पिः / नन्नपुंसकम् // 27. 'तृणधान्यानां च द्यषाम्' / यचामित्यर्थः / कुशाः। काशाः / माषाः / तिलाः / बह्वचा तु गोधूमाः / 28. 'ब्रः सङ्ख्यायाः' / पञ्च / चत्वारः / 29. 'स्वाङ्गशिटामदन्तानाम् ' / शिट् सर्वनाम / 'कर्णाभ्यां चुबुकादधि' / 'ओष्ठाविव मधु' / 'विश्वो विहाय' // 30. 'प्राणिनां कुपूर्वम् / कवर्गात्पूर्व आदिरुदात्तः / काकः / वृकः / 'शुकेषु मे'। 'प्राणिनाम् ' किम् / 'क्षीरं सर्पिमधूदकम्' / कुपूवकिम् धनुः // 31. 'खय्युवर्ण कृत्रिमाख्या चेत्' / खयि पर उवर्णमुदात्तं स्यात् / कन्दुकः // 32. 'उनर्वनन्तानाम्' / उन / 'वरुणं वो रिशादसम्' / ऋ / 'स्वसार त्वा कृणवै' / बन् / 'पावानं मेषम् // 33. 'वर्णानां तणतिनितान्तानाम्' / आदिरुदात्तः / एतः / हरिणः / शितिः / पृश्निः / हरित् // 34. 'ह्रस्वान्तस्य ह्रस्वमनृताच्छील्ये' / ऋद्वर्जे ह्रस्वान्तस्यादिभूतं ह्रस्वमुदात्तं स्यात् / मुनिः // 35. 'अक्षस्यादेवनस्य' / आदिरुदात्तः / 'तस्य नाक्षः' / देवने तु / 'अक्षर्मा दीव्यः' // 36. 'अर्धस्यासमद्योतने' / अ| ग्रामस्य / समेंऽशके तु अर्धे पिप्पल्याः // 37. 'पीतर्थानाम् ' / आदिरुदात्तः / पीतद्रुः सरलः // For Private And Personal Use Only
Page #747
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्वरप्रकरणम् / 745 38. 'प्रामादीनां च' / प्रामः / सोमः / यामः // 39. 'लुबन्तस्योपमेयनामधेयस्य' / चञ्चेव चञ्चा / 'स्फिगन्तस्य' इति पाठान्तरम् / फिगिति लुपः प्राचां संज्ञा // 40. 'न वृक्षपर्वतविशेषव्याघ्रसिंहमहिषाणाम्' / एषामुपमेयनाम्नामादिरुदात्तो न / ताल इव तालः / मेरुरिव मेरुः / व्याघ्रः / सिंहः / महिषः // 41. 'राजविशेषस्य यमन्वा चेत्' / यमन्वा वृद्धः। आगमुदाहरणम् / आङ्गाः प्रत्युदाहरणम् // 42. 'लघावन्ते द्वयोश्च बह्वषो गुरुः / अन्ते लघौ द्वयोश्च लघ्वोः सतोर्बह्वच्कस्य गुरुरुदात्तः / कल्याणः / कोलाहल: // 43. 'स्त्रीविषयवर्णाक्षुपूर्वाणाम् ' / एषां त्रयाणामायुदात्तः / स्त्रीविषयम् / मल्लिका / वर्णः / श्येनी / हरिणी / अक्षुशब्दात्पूर्वोऽस्त्येषां त अक्षुपूर्वाः। तरक्षुः // 44. 'शकुनीनां च लघु पूर्वम्' / पूर्व लघु उदात्तं स्यात् / कुक्कुटः / तित्तिरिः // 45. 'नर्तुप्राण्याख्यायाम्' / यथालक्षणं प्राप्तमुदात्तत्वं न / वसन्तः / कृकलासः // 46. 'धान्यानां च वृद्धक्षान्तानाम् ' / आदिरुदात्तः / कान्तानाम् / श्यामाकाः / षान्तानाम् / राजमाषाः // 47. 'जनपदशब्दानामषान्तानाम्' / आदिरुदात्तः / केकयः / यान्तस्यान्त्यात् पूर्वमिति प्राप्ते // 48. 'हयादीनामसंयुक्तलान्तानामन्तः पूर्व वा' / हयिति हल्संज्ञा / पललम् / शललम् / 'हयादीनाम् ' किम् / एकलः / 'असंयुक्त-' इति किम् / मल्लः // 49. 'इगन्तानां च द्यषाम् ' / आदिरुदात्तः / कृषिः // इति फिटसूत्रेषु द्वितीयः पादः। 50. 'अथ द्वितीयं प्रागीषात् ' / 'ईषान्तस्य हलादे:--' इत्यतः प्रारिद्वतीयाधिकारः // 51. 'त्र्यचां प्राङ्मकरात्' / 'मकरवरूध-' इत्यतः प्राक्त्र्यचामित्यधिकारः // 52. 'खाङ्गानामकुर्वादीनाम्' / कवर्गरेफवकारादीनि वर्जयित्वा व्यचां स्वाङ्गानां द्वितीयमुदात्तम् / ललाटम् / कुर्वादीनां तु / कपोलः / रसना / वदनम् // 53. 'मादीनां च'। मलयः। मकरः // 54. 'शादीनां शाकानाम् ' / शीतन्या। शतपुष्पा // 55. 'पान्तानां गुर्वादीनाम् ' / पादपः / आतपः / लघ्वादीनां तु / अनूपम् / यचां तु / नीपम् // 56. 'युतान्यण्यन्तानाम् ' / युत / अयुतम् / अनि / धमनिः / अणि / विपणिः / 57. 'मकरवरूढपारेवतवितस्तेक्ष्वार्जिद्राक्षाकलोमाकाष्ठापेष्ठाकाशीनामादिर्वा' / एषामादिर्द्वितीयो वोदात्तः / मकरः / वरूढ इत्यादि // 58. 'छन्दसि च' / अमकराद्यर्थ आरम्भः / लक्ष्यानुसारादादिद्धितीयं चोदात्तं ज्ञेयम् // 59. 'कर्दमादीनां च' / आदिद्धितीयो वोदात्तः // 60. 'सुगन्धितेजनस्य ते वा' / आदिर्द्वितीयः तेशब्दश्चेति त्रयः पर्यायेणोदात्ताः / सुगन्धितेजनाः // 61. 'नपः फलान्तानाम् / आदिद्धितीयं वोदात्तम् / राजादनफलम् // 62. 'यान्तस्यान्सात्पूर्वम् ' / कुलायः / तलयः / वलयः // 63. 'थान्तस्य च नालधुनी' / नाशब्दो लघु च उदात्ते स्तः / सनाथा सभा // 64. 'शिशुमारोदुम्बरबलीवर्दोष्ट्रारपुरूरवसां च' / अन्त्यात्पूर्वमुदात्तं द्वितीयं वा // 65. साकाश्यकाम्पिल्यनासिक्यदाघाटानाम् ' / द्वितीयमुदात्तं वा // 66. 'ईषान्तस्य हयादेरादिर्वा' हलीषा / लाङ्गलीषा // 67. 'उशीरदाशेरकपालपलालशैवालश्यामाकशारीरशरावहृदयहिरण्यारण्यापत्यदेवराणाम्' / एषामादिरुदात्तः स्यात् / 68. 'महिघ्याषाढयोर्जायेष्टकाख्या चेत्' / आदिरुदात्तः / महिषी जाया / आषाढा उपदधाति // इति फिटसूत्रेषु तृतीयः पादः / For Private And Personal Use Only
Page #748
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 746 सिद्धान्तकौमुद्याम् 69. 'शकटिशकट्योरक्षरमक्षरं पर्यायेण' / उदात्तम् / शकटि:-शकटी // 70. 'गोष्ठजस्य ब्राह्मणनामधेयस्य' / अक्षरमक्षरं पर्यायेणोदात्तम् / गोष्ठजो ब्राह्मणः / अन्यत्र गोष्टजः पशुः / कृदुत्तरपदप्रकृतिस्वरेणान्तोदात्तः // 71. 'पारावतस्योपोत्तमवर्जम् ' / शेषं क्रमेणोदात्तम् / पारावतः // 72. 'धूम्रजानुमुञ्जकेशकालवालस्थालीपाकानामधूजलस्थानाम् / एषां चतुर्णा धूप्रभृतींश्चतुरो वर्जयित्वा शिष्टानि क्रमेणोदात्तानि / धूम्रजानुः / मुञ्जकेशः / कालवालः / स्थालीपाकः // 73. 'कपिकेशहरिकेशयोश्छन्दसि' / कपिकेशः। हरिकेशः // 74. 'न्यङ्स्वरौ स्वरितौ' / स्पष्टम् / न्यकुत्तानः / 'व्यचक्षयत्स्वः' // 75. 'न्यव॑दव्यल्कशयोरादिः' / स्वरितः स्यात् / न्यर्बुदाय स्वाहा / पाकदूर्वा व्यल्कशा // 76. 'तिल्यशिक्यमत्यकार्मर्यधान्यकन्याराजन्यमनुष्याणामन्तः' / स्वरितः स्यात् / तिलानां भवनं क्षेत्रं तिल्यम् / वैश्वानर्या शिक्यमादत्त / प्रभिन्नायसत्यमन्व्यास्यति / वज्रः कार्मर्योर्वज्रेण / 'यतोऽनावः (सू 3701) इति प्राप्ते / कार्मर्यमुपयाति / धान्यमसिधिनुहि / मावीरवीकन्या / राजन्यो वज्रस्य रूपम् / प्रतीची मनुष्याः // 77. 'बिल्वभक्ष्यवीर्याणि छन्दसि / अन्तस्वरितानि / ततो बिल्व उदतिष्ठत् / बरु विरुजवीर्यम् // 78. 'त्वत्त्वसमसिमेत्यनुच्चानि' / 'स्तुरीलं त्वत्' 'उत त्वः पश्यन्' / 'नन्तामन्य॒के समे' / 'सिमस्मै' // 79. 'सिमस्याथर्वणेऽन्त उदात्तः'। अथर्वण इति प्रायिकम् / तत्र दृष्टस्यत्येवंपरं वा / तेन 'वासस्तनुते सिमस्मै' इत्युग्वेदेऽपि भवत्येव // 80. 'निपाता आयुदात्ताः' / स्वाहा // 81. 'उपसर्गाश्चाभिवर्जम्' // 82. 'एवादीनामन्तः' / एवमादीनामिति पाठान्तरम् / एव / एवम् / नूनम् / सह / 'सह ते पुत्र सूरिभिः / षष्ठस्य तृतीये 'सहस्य सः-' (सू 1009) इति प्रकरणे सहशब्द आयुदात्त इति तु प्राञ्चः / तच्चिन्त्यम् // 83. 'वाचादीनामुभावुदात्तौ' / उभौग्रहणमनुदात्तं पदमेकवर्ज मित्यस्य बाधाय // 84. 'चादयोऽनुदात्ताः' / स्पष्टम् // 85. 'यथेति पादान्ते' / 'तं नेमिमृभवेो यथा' / ‘पादान्ते' किम् / ‘यानो अदितिः करत् // 86. 'प्रकारादिद्विरुक्तौ' / परस्यान्त उदात्तः / पटुपटुः // 87. 'शेषं सर्वमनुदात्तम्' / शेषमित्यादिद्विरुक्तस्य परमित्यर्थः / प्रप्रायम् / दिवे दिवे // इति फिटसूत्रेषु तुरीयः पादः / 3708 / आधुदात्तश्च (3-1-3) / प्रत्यय आद्युदात्त एव स्यात् / अग्निः / कर्तव्यम् / 3709 / अनुदात्तौ सुप्पितौ (3-1-4) / पूर्वस्यापवादः / यज्ञस्य / न यो युच्छति / शप्तिपोरनुदात्तत्वे स्वरितप्रचयौ // 3710 / चितः (6.1-163) / अन्त उदात्तः स्यात् / 'चितः सप्रकृतेर्बह्वकजर्थम्' (वा 3749) चिति प्रत्यये सति प्रकृतिप्रत्ययसमुदायस्यान्त उदात्तो वाच्य इत्यर्थः / बहुपटुः / 'नभन्तामन्य॒के समे' / 'यके सरस्वतीम्' / 'तुकत्सुते' // 3711 / तद्धितस्य (6-1-164) / चितस्तद्धितवान्त उदात्तः / पूर्वेण सिद्धे जित्स्वरबाधनार्थमिदम् / कौञ्जायनाः // 3712 / कितः (6-1-165) / कितस्तद्धितस्यान्त उदात्तः / 'यदाग्नेयः // 3713 / तिसृभ्यो जसः (6-1-166) / अन्त उदात्तः / 'तिस्रो द्यावः सवितुः // 3714 / सावेकाचस्तृतीयादिर्विभक्तिः (6-1-168) / साविति सप्तमीबहुवचनम् / तत्र य एकाच्ततः परा तृतीयादिविभक्तिरुदात्ता / 'वाचा विरूपः' / 'सौ' किम् / राज्ञेत्यादौ एकाचोऽपि For Private And Personal Use Only
Page #749
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्वरप्रकरणम् / 747 राजशब्दात्परस्य मा भूत् / ‘राजो नु ते' / 'एकाचः' किम् / विधते राजनि त्वे' / 'तृतीयादिः किम् / 'न ददर्श वाचम्' // 3715 / अन्तोदात्तादुत्तरपदादन्यतरस्यामनित्यसमासे (6-1-169) / नित्याधिकारविहितसमासादन्यत्र यदुत्तरपदमन्तोदात्तमेकाच्ततः परा तृतीयादिविभक्तिरन्तोदात्ता वा स्यात् / परमवाचा // 3716 / अञ्चेश्छन्दस्यसर्वनामस्थानम् (6-1-170) अञ्चेः परा विभक्तिरुदात्ता / 'इन्द्रो दधीचः' / चाविति पूर्वपदान्तोदात्तत्वं प्राप्तम् / तृतीयादिरित्यनुवर्तमानेऽसर्वनामस्थानग्रहणं शस्परिग्रहार्थम् / 'प्रतीचो बाहून्' // 3717 / ऊडिदंपदाद्यप्पुम्रद्युभ्यः (6-1-171) / 'ऊ' 'इदं' ‘पदादि' 'अप्' 'पुम्' 'रै-' 'दिव्' इत्येभ्योऽसर्वनामस्थानविभक्तिरुदात्ता ऊठ् / प्रष्ठौहः / प्रष्टौडा / 'ऊठ्युपधाग्रहणं कर्तव्यम् ' (वा 3757) / इह मा भूत् / ‘अक्षावा' / अक्षावे / इदम् / एभिभिनतमः / अन्वादश न / 'अन्तोदात्तात्' इत्यनवत्तेः / न च तत्रान्तोदात्तताप्यस्तीति वाच्यम् / ‘इदमोऽन्वादेशेऽशनुदात्तस्तृतीयादी' (सू 350) इति सूत्रेणानुदात्तस्याशो विधानात् / 'प्र ते वधू' / 'माभ्यां गा अनु' / ‘पद्दनोमास्हृनिश् ' (सू 228) इति पदादयः / 'पन्यां भूमिः' / 'दद्भिर्न जिह्वा' / 'जायते मासिमासि' / 'मनश्चिन्मे हृद आ'। अप् / 'अपां फेनेन' / पुम् / 'अभ्रातेव पुंसः' / / 'राया वयम्'। 'रायो धर्ता' / दिव् / 'दिवेदिवे' // 3718 / अष्टनो दीर्घात् (6-1-172) / शसादिविभक्तिरुदात्ता। 'अष्टाभिर्दशभिः // 3719 // शतुरनुमो नद्यजादी (6-1-173) / अनुम् यः शतृप्रत्ययस्तदन्तादन्तोदात्तात्परा नद्यजादिश्च शसादिविभक्तिरुदात्ता स्यात् / 'अच्छा रख प्रथमा जानती' / कृण्वते / 'अन्तोदात्तात्' किम् / दधती / 'अभ्यस्तानामादिः' (सू 3673) इत्याद्युदात्तः / 'अनुमः' किम् / तुदन्ती / एकादशोऽत्र उदात्तः / अदुपदेशात्परत्वाच्छतु: '-लसार्वधातुकम्-' (सू 3730) इति निघातः // 3720 / उदात्तयणो हल्पूर्वात् (6-1-174) / उदात्तस्थाने यो यण्हल्पूर्वस्तस्मात्परा नदी शसादिविभक्तिश्च उदात्ता स्यात् / 'चोदयित्री ‘सूनृतानाम्' / 'एषां नेत्री' / 'ऋतं देवाय कृण्वते सवित्रे' // 3721 / नोधात्वोः (6-1175) / अनयोर्यणः परे शसादय उदात्ता न स्युः / ब्रह्मबन्ध्वा / 'सित्पृश्निः सुभ्ने' // 3722 / ह्रखनुड्भ्यां मतुप् (6.1.176) / ह्रस्वान्तादन्तोदात्तान्नुटश्च परो मतुबुदात्तः। 'यो अब्दिमाँ उदनिमाँ इयर्ति' / 'अक्षण्वन्तः कर्णवन्तः सखायः' / 'अन्तोदात्तात् किम् / ‘मा त्वा विददिषुमान्' / 'स्वरविधौ व्यञ्जनमविद्यमानवत्' इत्येतदत्र न / 'मुरुत्वं इन्द्र' / 'नियुत्वान्वा युवागहि' / 'रेशब्दाच्च' (वा 3763) रेवाँ इद्रेवतः' // 3723 / नामन्यतरस्याम् (6-1-177) / मतुपि यो ह्रस्वस्तदन्तादन्तोदात्तात्परो नामुदात्तो वा / 'चेतन्ती सुमतीनाम् // 3724 / ड्याश्छन्दसि बहुलम् (6-1-178) / ड्याः परो नामुदात्तो वा / 'देवसेनानामभिभञ्जतीनाम्' / वेत्युक्तेनेह / 'जयन्तीनां मरुतो यन्तु' // 3725 / षट्त्रिचतुर्यो हलादिः (6-1-179) / एभ्यो हलादिविभक्तिरुदात्ता / 'आषड्भिहूयमानः' / 'त्रिभिष्टुं देव' // 3726 / न गोश्वन्साववर्णराड कृद्रयः (6-1-182) / एभ्यः प्रागुक्तं न / 'गवां शता' / 'गोभ्यो गातुः' / 'शुनश्चिच्छेपम्' / सौ प्रथमैकवचनेऽवर्णान्तात् / 'तेभ्यो द्युम्नम्' / 'तेषां पाहि श्रुधी हव॑म् // 3727 / दिवो झल् (6-1-183) / दिवः परा झलादिर्विभक्तिर्नोदात्ता / For Private And Personal Use Only
Page #750
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 748 सिद्धान्तकौमुद्याम् 'द्युभिरक्तुभिः' / 'झल्' इति किम् / 'उप त्वाने दिवेदि'वे' // 3728 / नृ चान्यतरस्याम् (6 1 184) / नुः परा झलादिर्विभक्तिर्वोदात्ता / 'नृभिर्येमानः' // 3729 / तित्स्वरितम् (6.1185) / निगदव्याख्यातम् / 'के नूनम् // 3730 / ताखनुदात्तेन्ङिददुपदेशाल्लसार्वधातुकमनुदात्तमन्विङोः (6.1 186) / अस्मात्परं लसार्वधातुकमनुदात्तं स्यात् / तासि / कर्ता / कर्तारौ / कर्तारः / प्रत्ययस्वरापवादोऽयम् / अनुदात्तत् / य आस्ते / डितः / 'अभि चष्टे अनृतेभिः'। अदुपदेशात् / 'पुरुभुजा चनस्यतम्' / चित्खरोऽप्यनेन बाध्यते / 'वर्धमानं स्वे दम' / 'तास्यादिभ्यः' किम् / 'अभि वधे गृणीतः' / उपदेशग्रहणान्नेह / 'हतो वृत्राण्यार्या' / 'लग्रहणम्' किम् / 'कतीह निघ्नानाः' / ‘सार्वधातुकम्' किम् / शिश्ये / 'अन्विङोः' किम् / हृते / यदधीते / 'विदीन्धिखिदिभ्यो नेति वक्तव्यम्' (वा 3742) / 'इन्धे राजा' / एतच्च ‘अनुदात्तस्य च यत्र-' (सू 3651) इति सूत्रे भाष्ये स्थितम् // 3731 / आदिः सिचोऽन्यतरस्याम् (6 1-187) / सिजन्तस्यादिरुदात्तो वा 'यासिष्टं वर्तिरश्विनौ' // 3732 / थलि च सेटीडन्तो वा (6-1-196) / सेटि थलन्ते पदे इडुदात्तः अन्तो वा आदिर्वा स्यात् / यदा नैते त्रयस्तदा ‘लिति' (सू 3676) इति प्रत्ययात्पूर्वमुदात्तम् / लुलविथ अत्र चत्वारोऽपि पर्यायेणोदात्ताः // 3733 / उपोत्तमं रिति (6-1-217) / रित्प्रत्ययान्तस्योपोत्तममुदात्तं स्यात् / 'यदाहवनीये // इति प्रत्ययस्वराः। 3734 / समासस्य (6-1-223) / अन्त उदात्तः स्यात् / 'यजश्रियम्' // 3735 / बहुव्रीहौ प्रकृत्या पूर्वपदम् (62-1) / उदात्तस्वरितयोगि पूर्वपदं प्रकृत्या स्यात् / 'सत्यश्चित्रश्रवस्तमः' / 'उदात्त-' इत्यादि किम् / सर्वानुदात्ते पूर्वपदे समासान्तोदात्तत्वमेव यथा स्यात् / समपादः // 3736 / तत्पुरुषे तुल्यार्थतृतीयासप्तम्युपमानाव्ययद्वितीयाकृत्याः (6-2-2) / सप्तैत पूर्वपदभूतास्तत्पुरुष प्रकृत्या / तुल्यश्वेतः सदृशश्वेतः- ‘कृत्यतुल्याख्या अजात्या' (सू 749) इति तत्पुरुषः / किरिणा काण: किरिकाणः / 'पतयन्मन्दयत्सखम्' / मन्दयति मादके इन्द्र सखेति सप्तमीतत्पुरुषः / शस्त्रीश्यामा / 'अव्यये नकुनिपातानाम्' (वा 3808) / अयज्ञो वा एषः / ‘परिगणनम् ' किम् / स्नात्वाकालकः / मुहूर्तसुखम् / भोज्योष्णम् // 3737 / वर्णो वर्णेष्वनेते (6-2.3) / वर्णवाचिन्युत्तरपद एतवर्जित वर्णवाचि पूर्वपदं प्रकृत्या तत्पुरुषे / कृष्णसारङ्गः / लोहितकल्माषः / कृष्णशब्दो नक्प्रत्ययान्तः / लोहितशब्द इतनन्तः / ‘वर्णः' किम् / परमकृष्णः / ‘वणेषु' किम् / कृष्णतिलाः / 'अनेते' किम् / कृष्णतः // 3738 / गाधलवणयोः प्रमाणे (6-2-4) / एतयोरुत्तरपदयोः प्रमाणवाचिनि तत्पुरुषे पूर्वपदं प्रकृत्या स्यात् / अरित्रगाधमुदकम् / तत्प्रमाणमित्यर्थः / गोलवणम् / यावद्वे दीयते तावदित्यर्थः / अरित्रशब्द इत्रन्नन्तो मध्योदात्तः / प्रमाणमियत्तापरिच्छेदमात्रं न पुनरायाम एव / 'प्रमाणे' किम् / परमगाधम् // 3739 / दायाचं दायादे (6.2-5) / तत्पुरुष प्रकृत्या / धनदायादः / धनशब्दः क्युप्रत्ययान्तः प्रत्ययस्वरेणाद्युदात्तः / ‘दायाद्यम् ' किम् / परमदायादः // 3740 / प्रतिबन्धि चिरकृच्छ्रयोः (6-2-6) प्रतिबन्धवाचि पूर्वपदं प्रकृत्या एतयोः परतस्तत्पुरुषे / गमनचिरम् / व्याहरणकृच्छम् / For Private And Personal Use Only
Page #751
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्वरप्रकरणम् / 749 गमनं कारणविकलतया चिरकालभावि कृच्छ्रयोगि वा प्रतिबन्धि जायते / 'प्रतिबन्धि' किम् / मूत्रकृच्छ्रम् // 3741 / पदेऽपदेशे (6-2-7) / व्याजवाचिनि पदशब्द उत्तरपदं पूर्वपदं प्रकृत्या तत्पुरुष / मूत्रपदेन प्रस्थितः / उच्चारपदेन / मूत्रशब्दो घअन्तः उच्चारशब्दो घअन्तः 'थाथ-' (सू 3878) आदिस्वरेणान्तोदात्तः / ‘अपदेशे' किम् / विष्णुपदम् // 3742 / निवाते वातत्राणे (6-2-8) / निवातशब्दे परे वातत्राणवाचिनि तत्पुरुषे पूर्वपदं प्रकृत्या / कुटीनिवातम् / कुड्यनिवातम् / कुटीशब्दो गौरादिङीषन्तः / कुड्यशब्दो ड्यगन्तः / यगन्त इत्यन्ये / 'वातत्राण' किम् / राजनिवाते वसति / निवातशब्दोऽयं रूढः पार्श्वे // 3743 / शारदेऽनातवे (6-2-9) / ऋतौ भवमार्तवम् / तदन्यवाचिनि शारदशब्दे परे तत्पुरुषे पूर्वपदं प्रकृतिस्वरं स्यात् / रज्जुशारदमुदकम् / शारदशब्दो नूतनार्थः / तस्यास्वपदविग्रहः / 'रज्ज्वोः सद्य उद्धतम्' / रज्जुशब्द: 'सृजेरसुन् च ' (उणा 15) इत्याद्युदात्तो व्युत्पादितः / 'अनातवे' किम् / उत्तमशारदम् // 3744 / अध्वर्युकषाययोर्जातौ (6-2-10) / एतयोः परतो जातिवाचिनि तत्पुरुषं पूर्वपदं प्रकृतिस्वरम् / कटाध्वर्युः / दौवारिककषायम् / कठशब्दः पचाद्यजन्तः / तस्मात् ‘-वैशम्पायनान्तेवासिभ्यश्च' (सू 1484) इति णिनेः 'कठचरकाल्लुक्' (सू 1487) / इति लुक् / द्वारि नियुक्त इति ठक्यन्तोदात्तो दौवारिकशब्दः / 'जातो' किम् / परमाध्वर्युः // 3745 / सदृशप्रतिरूपयोः सादृश्ये (6-2-11) / अनयोः पूर्व प्रकृत्या / पितृसदृशः / पितृप्रतिरूपः / ‘सादृश्ये ' किम् / परमसदृशः / समासार्थोऽत्र पूज्यमानता न सादृश्यम् // 3746 / द्विगौ प्रमाणे (6.2 12) / द्विगावुत्तरपदे प्रमाणवाचिनि तत्पुरुषे पूर्वपदं प्रकृतिस्वरम् / प्राच्यसप्तसमः / सप्त समाः प्रमाणमस्य / 'प्रमाणे लो द्विगोर्नित्यम्' (वा 3128-29) इति मात्रचो लुक् / प्राच्यशब्द आधुदात्तः / प्राच्यश्चासौ सप्तसमश्च प्राच्यसप्तसमः / 'द्विगौ' किम् / व्रीहिप्रस्थः / 'प्रमाणे' किम् / परमसप्तसमम् // 3747 / गन्तव्यपण्यं वाणिजे / (6-2.13) / वाणिजशब्दे परे तत्पुरुष गन्तव्यवाचि पण्यवाचि च पूर्वपदं प्रकृतिस्वरम् / मद्रवाणिजः / गोवाणिजः / सप्तमीसमासः / मद्रशब्दो रक्प्रत्ययान्तः। 'गन्तव्य-' इति किम् / परमवाणिजः // 3748 / मात्रोपज्ञोपक्रमच्छाये नसके (6 2-14) / मात्रादिषु परतो नपुंसकवाचिनि तत्पुरुष तथा / भिक्षायाम्तुल्यप्रमाणं भिक्षामात्रम् / भिक्षाशब्दो 'गुरोश्च हल:' (सू 3280) इत्यप्रत्ययान्तः / पाणिन्युपज्ञम् / पाणिनिशब्द आद्युदात्तः / नन्दोपक्रमम् / नन्दशब्दः पचाद्यजन्तः / इषुच्छायम् / इषुशब्द आद्यदात्तो नित्वात् / 'नपुंसके' किम् / कुड्यच्छाया // 3749 / सुखप्रिययोहिते (6-2. 15) / एतयोः परयोहितवाचिनि तत्पुरुषे तथा / गमनप्रियम् / गमनसुखम् / गमनशब्दो लित्स्वरेण आद्यदात्तः। 'हिते' किम् / परमसुखम् // 3750 / प्रीतौ च (6-2-16) / प्रीती गम्यायां प्रागुक्तम् / ब्राह्मणसुखं पायसम् / छात्तृप्रियोऽनध्यायः / ब्राह्मणच्छात्तूशब्दौ प्रत्ययस्वरेणान्तोदात्तौ / 'प्रीतौ' किम् / राजसुखम् // 3751 / स्वं स्वामिनि (6-2-17) / स्वामिशब्दे परे स्ववाचि पूर्वपदं तथा / गोस्वामी / 'स्वम्' किम् / परमस्वामी // 3752 / पत्यावैश्वर्ये (6-2 18) / 'दमूना गृहपतिर्दमे' // 3753 / न भूवाक्चिद्दिधिषु (6-2-19) / पतिशब्दे परे ऐश्वर्यवाचिनि तत्पुरुषे नैतानि प्रकृत्या / भुवः पतिर्भूपतिः / For Private And Personal Use Only
Page #752
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 750 सिद्धान्तकौमुद्याम् वाक्पतिः। चित्पतिः / दिधिषूपतिः // 3754 / वा भुवनम् (6.2.20) / उक्तविषये / भुवनपतिः। 'भूसूधूभ्रस्जिभ्यः-' (उणा०) इति क्युन्नन्तो भुवनशब्दः // 3755 / आशङ्काबाधनेदीयस्सु संभावने (62-21) / अस्तित्वाध्यवसायः संभावनम् / गमनाशङ्कमस्ति / गमनाबाधम् / गमननेदीयः / गमनमाशङ्कयत आबाध्यते निकटतरमिति वा संभाव्यते / 'संभावने' किम् / परमनदीयः // 3756 / पूर्वे भूतपूर्वे (3-2-22) / आन्यो भूतपूर्वः आन्यपूर्वः / पूर्वशब्दो वृत्तिविषय भूतपूर्वे वर्तते / ‘भूतपूर्वे' किम् / परमपूर्वः // 3757 / सविधसनीडसमर्यादसवेश पदेशेषु सामीप्ये (62-23) / एषु पूर्व प्रकृत्या / मद्रसविधम् / गान्धारसनीडम् / काश्मीरसमर्यादम् मद्रसवेशम् / मद्रसदशम् / 'सामीप्ये' किम् / सह मर्यादया समर्यादं क्षेत्रम् / चैत्रसमर्याद- // 3758 / विस्पष्टादीनि गुणवचनेषु (6-2-24) विस्पष्टकटुकम् / विस्पष्टशब्दो ‘गतिरनन्तरः' (सू 3783) इत्याद्युदात्तः / 'विस्पष्ट-' इति किम् / परमलवणम् / ‘गुण-' इति किम् / विस्पष्टब्राह्मणः / विस्पष्ट / विचित्र / व्यक्त / संपन्न / पण्डित / कुशल / चपल / निपुण // 3759 / श्रज्यावमकन्पापवत्सु भावे कर्मधारये / (6-2-25) / 'श्र' 'ज्य'। 'अवम' 'कन्' इत्यादेशवति पापवाचिनि चोत्तरपदे भाववाचि पूर्वपदं प्रकृत्या / गमनश्रेष्ठम् / गमनज्यायः / गमनावमम् / गमनकनिष्ठम् / गमनपापिष्ठम् / 'श्र-' 'इत्यादि' किम् / गमनशोभनम् / 'भावे' किम् / गम्यतेऽनेनेति गमनम् , गमनं श्रेयो गमनश्रेयः / 'कर्म-' इति किम् / षष्ठीसमासे मा भूत् // 3760 / कुमारश्च (6-2-26) / कर्मधारये / कुमारश्रमणा / कुमारशब्दोऽन्तोदात्तः // 3761 / आदिः प्रत्येनास / (6-2.27) / कुमारस्यादिरुदात्तः प्रत्येनसि परे कर्मधारये / प्रतिगतमेनोऽस्य प्रत्येनाः / कुमारप्रत्येनाः // 3762 / पूगेष्वन्यतरस्याम् (6-2-28) / पूगा गणास्तेघूक्तं वा / कुमारचातकाः / कुमारजीमूताः / आयुदात्तत्वाभावे 'कुमारश्च' (सू 3760) इत्येव भवति // 3763 / इगन्तकालकपालभगालशरावेषु द्विगौ (6-2-29) / एषु परेपु पूर्व प्रकृत्या / पञ्चारत्नयः प्रमाणमस्य पञ्चारनिः। दश मासान्भूतो दशमास्यः / पञ्च मासान्भूतः / पञ्चमायः / 'तमधीष्टो-' (वा 1744) इत्यधिकारे 'द्विगार्यप , (वा 1746) / पञ्चकपालः / पञ्चभगालः / पञ्चशरावः / 'त्रः संख्यायाः' (फि. 28) इति पञ्चञ्छब्दः, आयुदात्तः / 'इगन्तादिषु' किम् / पञ्चाश्वः / 'द्विगौ' किम् / परमारनिः // 3764 / बबन्यतरस्याम् (6-230) / बहुशब्दस्तथा वा / वह्वरनिः / बहुमास्यः / बहुकपालः / बहुशब्दोऽन्तोदात्तः / तस्य यणि सति 'उदात्तस्वरितयोः'। (सू 3657) / इति भवति // 3765 / दिष्टिवितस्त्योश्च (6-2-31) / एतयोः परतः पूर्वपदं प्रकृत्या वा द्विगौ / पञ्चदिष्टिः / पञ्चवितस्तिः / 3766 / सप्तमी सिद्धशुष्कपक्कबन्धेष्वकालात् (62.32) / अकालवाचि सप्तम्यन्तं प्रकृत्या सिद्धादिषु / सांकाश्यसिद्धः / सांकाइयेति ण्यान्तः / आतपशुष्कः / भ्राष्ट्रपक्वः / भ्राष्ट्रति ष्ट्रनन्तः / चक्रबन्धः / चक्रशब्दोऽन्तोदात्तः / ‘अकालात्' किम् / पूर्वाह्नसिद्धः / कृत्स्वरेण बाधितः सप्तमीस्वरः प्रतिप्रसूयते / 3767 / परिप्रत्युपापा वय॑मानाहोरात्रावयवेषु (6-2-33) / एते प्रकृत्या वय॑मानवाचिनि चोत्तरपदे / परित्रिगत वृष्टो देवः / प्रतिपूर्वाह्नम् / प्रत्यपररात्रम् / उपपूर्वरात्रम् / अपत्रिगर्तम् / उपसा आद्युदात्ताः / बहुव्रीहितत्पुरुषयोः सिद्धत्वा THEHTHHTHHTHHTHH For Private And Personal Use Only
Page #753
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्वरप्रकरणम् / दव्ययीभावार्थमिदम् / अपपर्योरेव वय॑मानमुत्तरपदम् / तयोरेव वय॑मानार्थत्वात् / अहोरात्रावयवा अपि वय॑माना एव तयोर्भवन्ति / 'वयं-' इति किम् / अग्निं प्रति प्रत्यग्नि / 3768 / राजन्यबहुवचनद्वन्द्वेऽन्धकवृष्णिषु (6-2-34) / राजन्यवाचिनां बहुवचनानामन्धकवृष्णिषु वर्तमाने द्वन्द्वे पूर्वपदं प्रकृत्या / श्वाफल्कचैत्रकाः / शिनिवासुदेवाः। शिनिराद्युदात्तो लक्षणया तदपत्ये वर्तते / 'राजन्य-' इति किम् / द्वैप्यभमायनाः / द्वीपे भवा द्वैप्याः / भैमेरपत्यं युवा भैमायनः। अन्धकवृष्णय एते न तु राजन्याः। राजन्यग्रहणमिहाभिषिक्तवंश्यानां क्षत्त्रियाणां ग्रहणार्थम् / नैते तथा / 'बहुवचनम् ' किम् / सङ्कर्षणवासुदेवो / 'द्वन्द्वे' किम् / वृष्णीनां कुमारा वृष्णिकुमाराः / 'अन्धकवृष्णिषु' किम् / कुरुपञ्चालाः // 3769 // सङ्ख्या (6-2-35) / संख्यावाचि पूर्वपदं प्रकृत्या द्वन्द्वे / द्वादश / त्रयोदश / त्रेस्त्रयसादेश आद्युदात्तो निपात्यते // 3770 / आचार्योपसर्जनश्चान्तेवासी (6-2-36) / आचार्योपसर्जनान्तेवासिनां द्वन्द्वे पूर्वपदं प्रकृत्या / पाणिनीयरौढीयाः / छस्वरेण मध्योदात्तावेतौ / आचार्योपसर्जनग्रहणं द्वन्द्वविशेषणम् / सकलो द्वन्द्व आचार्योपसर्जनो यथा विज्ञायते / तेनेह न। पाणिनीयदेवदत्तौ / 'आचार्य-' इति किम् / छान्दसवैयाकरणाः / 'अन्तेवासी' किम् / आपिशलपाणिनीयेति शास्त्रे // 3771 / कार्तकौजपादयश्च (6-2-37) / एषां द्वन्द्वे पूर्वपदं प्रकृत्या / कार्तकोजपौ / कृतस्येदं कुजपस्येदमित्यण्णन्तावेतौ / सावर्णिमाण्डूकेयौ // 3772 / महान्त्रीह्यपरागृष्टीष्वासजाबालभारभारतहैलिहिलरौरवप्रवृद्धेषु (6-2-38) / महच्छब्दः प्रकृत्या व्रीह्यादिषु दशसु। महानीहिः / महापराह्नः / महागृष्टिः / महेष्वासः / महाहैलिहिलः / महच्छब्दोऽन्तोदात्तः / 'सन्महत्-' (सू 740) इति प्रतिपदोक्तसमास एवायं स्वरः / नेह / महतो व्रीहिः महदीहिः // 3773 / क्षुल्लकश्च वैश्वदेवे (6-2-39) / चान्महान् / क्षुल्लकवैश्वदेवम् / महावैश्वदेवम् / क्षुधं लातीति क्षुल्लः / तस्मादज्ञातादिषु केऽन्तोदात्तः // 3774 / उष्ट्र: सादिवाम्योः (6-2-40) / उष्ट्रसादी / उष्ट्रवामी / उषेः ष्ट्रनि उष्ट्रशब्द आयुदात्तः // 3775 / गौः सादसादिसारथिषु (6-2-41) / गोसादः / गोसादिः / गोसारथिः // 3776 / कुरुगार्हपतरिक्तगुर्वसूतजरत्यश्लीलदृढरूपापारेवडवातैतिलकद्रूपण्यकम्बलो दासीभाराणां च (6-2-42) / एषां सप्तानां समासानां दासीभारादेश्च पूर्वपद प्रकृत्या / कुरूणां गार्हपतं कुरुगार्हपतम् / उप्रत्ययान्तः कुरुः / 'वृजेरिति वाच्यम्' (वा 3811) / वृजिगार्हपतम् / वृजिरायुदात्तः / रिक्तो गुरुः रिक्तगुरुः / 'रिक्ते विभाषा' (सू 3696) इति रिक्तशब्द आद्यदात्तः / असूता जरती असूतजरती / अश्लीला दृढरूपा अश्लीलदृढरूपा / अश्लीलशब्दो नसमासत्वादाद्यदात्तः / श्रीर्यस्यास्ति तत श्लीलम् / सिध्मादित्वालच् / कपिलकादित्वाल्लत्वम् / पारे वडवेव पारेवडवा / निपातनादिवार्थे समासो विभक्त्यलोपश्च / पारशब्दो घृतादित्वादन्तोदात्तः / तैतिलानां कद्रूः तैतिलकदूः / तितिलिनोऽपत्यं छात्तो वेत्यण्णन्तः / पण्यशब्दो यदन्तत्वादायुदात्तः / ‘पण्यकम्बलः / संज्ञायामिति वक्तव्यम्' (वा 3820) / अन्यत्र पणितव्ये कम्बले समासान्तोदात्तत्वमेव / प्रतिपदोक्के समासे ‘कृत्याः' (सू 2831) इत्येष स्वरो विहितः / दास्या भारो दासीभारः / देवहूतिः / यस्य तत्पुरुषस्य पूर्वपदप्रकृतिस्वरत्वमिष्यते न विशिष्य वचनं विहितं स सर्वोऽपि दासीभारादिषु द्रष्टव्यः / ‘स राये सपुरन्ध्रयाम्' / पुरं शरीरं ध्रियतेऽस्यामिति 'कर्मण्यधिकरणे च' For Private And Personal Use Only
Page #754
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 752 सिद्धान्तकौमुद्याम् (सू 3271) इति किप्रत्ययः / अलुक्छान्दसः / 'नविषयस्य-' (फिट 26) इत्यायुदात्तः पुरशब्दः // 3777 / चतुर्थी तदर्थे (6-2-43) / चतुर्थ्यन्तार्थाय यत्तद्वाचिन्युत्तरपदे चतुर्थ्यन्तं प्रकृत्या / यूपाय दारु यूपदारु // 3778 / अर्थे (6-2-44) / अर्थे परे चतुर्थ्यन्तं प्रकृत्या। दवार्थम् // 3779 / क्ते च (6-2-45) / क्तान्ते परे चतुर्थ्यन्तं प्रकृत्या / गोहितम् 3780 / कर्मधारयेऽनिष्ठा (6-2-46) / कान्ते परे पूर्वमनिष्ठान्तं प्रकृत्या / श्रेणिकृताः / श्रेणिशब्द आयुदात्त. / पूगकृताः / पूगशब्दोऽन्तोदात्तः / 'कर्मधारये' किम् / श्रेण्या कृतं श्रेणिकृतम् / ‘अनिष्ठा' किम् / कृताकृतम् // 3781 / अहीने द्वितीया (6.2-47) / अहीनवाचिनि समासे क्तान्ते परे द्वितीयान्तं प्रकृत्या / कष्टश्रितः / ग्रामगतः / कष्टशब्दोऽन्तोदात्तः / ग्रामशब्दो नित्स्वरेण / 'अहीने' किम् / कान्तारातीतः / 'अनुपसर्ग इति वक्तव्यम् ' (वा 3821) / नेह / सुखप्राप्तः / 'थाथ-' (सू 3878) इत्यस्यापवादोऽयम् // 3782 / तृतीया कर्मणि (6-2-48) / कर्मवाचके तान्ते परे तृतीयान्तं प्रकृत्या / 'त्वोतासः' / रुद्रहतः / महाराजहतः / रुद्रो रगन्तः / 'कर्मणि' किम् / रथेन यातो रथयातः // 3783 / गतिरनन्तरः (6.2-49) / कर्मार्थ क्तान्ते परेऽव्यवहितो गतिः प्रकृत्या / पुरोहितम् / 'अनन्तरः' किम् / अभ्युद्धृतः / कारकपूर्वपदस्य तु सतिशिष्टस्थाथादिस्वर एव / दूरादागतः / 'थाथ-' (सू 3878) इत्यस्यापवादः // 3784 / तादौ च निति कृत्यतौ (6-2-50) / तकारादौ निति तुशब्दवर्जिते कृति परेऽनन्तरो गतिः प्रकृत्या / अग्नेरायो नृतमस्य प्रभूतौ' / 'सङ्गति गोः' / कृत्स्वरापवादः / 'तादौ ' किम् / प्रजल्पाकः / 'निति' किम् / प्रकर्ता / तृजन्तः / 'अतौ' किम् / आगन्तुः // 3785 / तवै चान्तश्च युगपत् (6-2-51) / तवैप्रत्ययान्तस्यान्त उदात्तो गतिश्चानन्तरः / प्रकृत्या युगपञ्चैतदुभयं स्यात् / 'अन्वतवा ' / कृत्स्वरापवादः // 3786 / अनिगन्तोऽञ्चतौ वप्रत्यये (6-2-52) / अनिगन्तो गतिर्वप्रत्ययान्तेऽञ्चतौ परे प्रकृत्या / 'ये पराञ्चस्तान्' / 'अनिगन्तः' इति किम् / प्रत्यञ्चो यन्तु / कृत्स्वरात् परत्वादयमेव / 'जहि वृष्ण्यांनि कृणुही पराचः' / ‘वप्रत्यय' किम् / उदञ्चनम् / 3787 / न्यधी च (6-2-53) / वप्रत्ययान्तेऽञ्चताविगन्तावपि न्यधी प्रकृत्या / न्यथैतानः / 'उदात्तस्वरितयोर्थण-' (सू 3657) इति अञ्चतेरकारः स्वरितः / अध्यङ् // 3788 / ईषदन्यतरस्याम् (6-2-54) / ईषत्कडारः / ईषदित्ययमन्तोदात्तः / ईषद्भेद इत्यादौ कृत्स्वर एव // 3789 / हिरण्यपरिमाणं धने (6-2.55) / मुवर्णपरिमाणवाचि पूर्वपदं वा प्रकृत्या धने / द्वे सुवर्णे परिमाणमस्येति द्विसुवर्ण तदेव धनं द्विसुवर्णधनम् / बहुव्रीहावपि परत्वाद्विकल्प एव / 'हिरण्यम्' किम् / प्रस्थधनम् / 'परिमाणम्' किम् / काञ्चनधनम् / ‘धने' किम् / निष्कमाला // 3790 / प्रथमोऽचिरोपसंपत्तो (6-2-56) / प्रथमशब्दो वा प्रकृत्याभिनवत्वे / प्रथमवैयाकरणः / संप्रति व्याकरणमध्यतुं प्रवृत्त इत्यर्थः / प्रथमशब्दः प्रथेरमजन्तः / 'अचिर-' इति किम् / प्रथमो वैयाकरणः // 3791 / कतरकतमौ कर्मधारये (6-2-57) / वा प्रकृत्या / कतरकठः / कर्मधारयग्रहणमुत्तरार्थम् / इह तु प्रतिपदोक्तत्वादेव सिद्धम् // 3792 / आर्यों ब्राह्मणकुमारयोः (6-2.58) / आर्यकुमारः। आयब्राह्मणः / आर्यो ण्यदन्तत्वादन्तस्वरितः / ‘आर्यः' किम् / परमब्राह्मणः / 'ब्राह्मणादि-' For Private And Personal Use Only
Page #755
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्वरप्रकरणम् / इति किम् / आर्यक्षत्रियः। कर्मधारय इत्येव // 3793 / राजा च (6-2-59) / ब्राह्मणकुमारयोः परतो राजा वा प्रकृत्या कर्मधारये / राजब्राह्मणः / राजकुमारः / योगविभाग उत्तरार्थः // 3794 / षष्ठी प्रत्येनसि (6-2-60) / षष्ठ्यन्तो राजा प्रत्येनसि परे वा प्रकृत्या / राजप्रत्येनाः। 'षष्ठी' किम् / अन्यत्र न॥३७९५। क्ते नित्यार्थे (6-2-61) / कान्ते परे नित्यार्थे समासे पूर्व वा प्रकृत्या / नित्यप्रहसितः / 'कालाः' (सू 690) इति द्वितीयासमासोऽयम् / नित्यशब्दस्त्यबन्त आयुदात्तः। प्रहसित इति थाथादिखरेणान्तोदात्तः। 'नित्यार्थे' किम्। मुहूर्तप्रहसितः // 3796 / प्रामः शिल्पिनि (6-2-62) / वा प्रकृत्या। ग्रामनापितः / प्रामशब्द आयुदात्तः / 'ग्रामः' किम् / परमनापितः / 'शिल्पिनि' किम् / ग्रामरथ्या // 3797 / राजा च प्रशंसायाम् (6-2-63) / शिल्पिवाचिनि परे प्रशंसाथै राजपदं वा प्रकृत्या। राजनापितः / राजकुलालः / 'प्रशंसायाम् ' किम् / राजनापितः। 'शिल्पिनि' किम् / राजहस्ती // 3798 / आदिरुदात्तः (6-2-64) / अधिकारोऽयम् // 3799 / सप्तमीहारिणौ धर्थेऽहरणे (6-2-65) / सप्तम्यन्तं हारिवाचि च आद्युदात्तं धर्म्य परे / देयं यः स्वीकरोति स हारीत्युच्यते / धर्म्यमित्याचारनियतं देयम् / मुकुटेकार्षापणम् / हलेद्विपदिका / 'संज्ञायाम् ' (सू 721) इति सप्तमीसमासः / 'कारनानि च-' (सू 968) इत्यलुक् / याज्ञिकाश्वः / वैयाकरणहस्ती / क्वचिदयमाचारो मुकुटादिषु कार्षापणादि दातव्यं याज्ञिकादीनां त्वश्वादिरिति / 'धये-' इति किम / स्तम्बरमः / 'अहरणे' किम / वाडवहरणम / वडवाया अय वाडवः / तस्य बीजनिषेकादुत्तरकालं शरीरपुष्ट्यर्थे यद्दीयते तद्धरणमित्युच्यते / परोऽपि कृत्वरो हारिस्वरेण बाध्यते इत्यहरण इति निषेधेन ज्ञाप्यते / तेन वाडवहार्यम् इति हारिस्वरः सिध्यति // 3800 / युक्त च (6-2-66) / युक्तवाचिनि समासे पूर्वमायुदात्तम् / गोवल्लवः / 'कर्तव्ये तत्परो युक्तः' // 38.1 / विभाषाध्यक्षे (6-2-67) / गवाध्यक्षः / 3802 / पापं च शिल्पिनि (6-2-68) / पापनापितः / 'पापाणके-' (सू 733) इति प्रतिपदोक्तस्यैव ग्रहणात्षष्ठीसमासे न // 3803 / गोत्रान्तेवासिमाणवब्राह्मणेषु क्षेपे (6-2.69) / भार्यासौश्रुतः / सुश्रुतापत्यस्य भार्थाप्रधानतया क्षेपः / अन्तेवासी / कुमारीदाक्षाः / ओदनपाणिनीयाः / कुमादिलाभकामा ये दाक्ष्यादिभिः प्रोक्तानि शास्त्राण्यधीयते त एवं क्षिप्यन्ते / भिक्षामाणवः। भिक्षा लप्स्येऽहमिति माणवः / भयब्राह्मणः / भयेन ब्राह्मणः संपद्यते / ‘गोत्रादिषु' किम् / दासाश्रोत्रियः / 'क्षेपे' किम् / परमब्राह्मणः // 3804 / अङ्गानि मैरेये (6-2-70) / मद्यविशेषो मैरेयः / मधुमैरेयः / मधुविकारस्य तस्य मध्वङ्गम् / 'अङ्गानि' किम् / परममैरेयः / 'मैरेये' किम् / पुष्पासवः // 3805 / भक्ताख्यास्तदर्थेषु (6-2-71) / भक्तमन्नम् / भिक्षाकंसः / भाजीकंसः / भिक्षादयोऽनविशेषाः / 'भक्काख्याः' किम् / समाशशालयः / समशनं समाश इति क्रियामात्रमुच्यते / 'तदर्थेषु' किम् / भिक्षाप्रियः / बहुव्रीहिरयम् / अत्र पूर्वपदमन्तोदात्तम् / 3806 / गोबिङालसिंहसैन्धवेषूपमाने (6-2-72) / धान्यगवः / गोबिडालः / तृणसिंहः / सक्तुसैन्धवः / धान्यं गौरिवेति विग्रहः / व्याघ्रादिः / गवाकृत्या सनिवेशितं धान्यं धान्यगवशब्देनोच्यते / 'उपमाने' किम् / परमसिंहः // 3.07 / अके जीविकार्थे (6-2-73) / For Private And Personal Use Only
Page #756
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 754 सिद्धान्तकौमुद्याम् अकप्रत्ययान्त उत्तरपदे जीविकार्थवाचिनि समासे पूर्वपदमायुदात्तं स्यात् / दन्तलेखकः / यस्य दन्तलेखनेन जीविका / 'नित्यं क्रीड-' (सू 711) इति समासः / 'अके' किम् / रमणीयकर्ता / जीविकार्थे ' किम् / इक्षुभक्षिकां मे धारयसि // 3808 / प्राचां क्रीडायाम् (6-2-74) / प्राग्देशवाचिनां या क्रीडा तद्वाचिनि समासे अकप्रत्ययान्तपरे पूर्वमायुदात्तं स्यात् / उद्दालकपुष्पभन्जिका / 'संज्ञायाम्' (सू 3286) इति ण्वुल् / 'प्राचाम् ' किम् / जीवपुत्रप्रचायिका / इयमुदीचा क्रीडा / क्रीडायाम्' किम् / तव पुष्पप्रचायिका / पर्याये ण्वुल् // 3809 अणि नियुक्ते (6-2-75) / अण्णन्ते परे नियुक्तवाचिनि समासे पूर्वमायुदात्तम् / छत्तधारः / 'नियुक्त' किम् / काण्डलावः // 3810 / शिल्पिनि चाकृमः (6-2-76) / शिल्पिवाचिनि समासेऽण्णन्ते परे पूर्वमायुदात्तं स चेदण्कृञः परो न भवति / तन्तुवायः। 'शिल्पिनि' किम् / काण्डलावः / 'अकृञः' किम् / कुम्भकारः // 3811 / संज्ञायां च (6-277) / अण्णन्ते परे / तन्तुवायो नाम कृमिः / 'अकृञः' इत्येव / रथकारो नाम ब्राह्मणः // 3812 / गोतन्तियवं पाले (6-2-78) / गोपालः / तन्तिपालः / यवपालः / अनियुक्तार्थो योगः / 'गो' इति किम् / वत्सपाल: / 'पाले' इति किम् / गोरक्षः // 3813 / णिनि (6-2-79) / पुष्पहारी // 3814 / उपमानं शब्दार्थप्रकृतावेव (6-2-80) / उपमानवाचि पूर्वपदं णिन्यन्ते पर आयुदात्तम् / उष्ट्रकोशी / ध्वाङ्करावी / उपमानग्रहणमस्य पूर्वयोगस्य च विषयविभागार्थम् / 'शब्दार्थप्रकृती' किम् / वृकवञ्ची / 'प्रकृतिग्रहणम्' किम् / प्रकृतिरेव यत्रोपसर्गनिरपेक्षा शब्दार्था तत्रैव यथा स्यात् / इह मा भूत् / गर्दभोच्चारी // 3815 / युक्तारोह्यादयश्च (6-2-81) / आयुदात्ताः / युक्तारोही / आगतयोधी / क्षीरहोता / अत्र णिन्यन्तानां केषाञ्चित्पाठः पूर्वोत्तरपदनियमार्थः / तेनेह न / वृक्षारोही / युक्ताध्यायी // 3816 / दीर्घकाशतुषभ्राष्ट्रवटं जे (6-2-82) / कुटीजः / काशजः / तुषजः / भ्राष्ट्रजः / वटजः // 3817 / अन्त्यात्पूर्व बह्वचः (6.2-83) / बह्वचः पूर्वस्यान्त्यात्पूर्वपदमुदात्तं ज उत्तरपदे / उपसरजः / आमलकीजः / 'वह्वचः' किम् / दग्धजानि तृणानि // 3818 / ग्रामेऽनिवसन्तः (6-2-84) / प्रामे परे पूर्वपदमुदात्तम् / तचेन्निवसद्वाचि न / मल्लयामः / प्रामशब्दोऽत्र समूहवाची / देवग्रामः / देवस्वामिकः / 'अनिवसन्तः' किम् / दाक्षिग्रामः / दाक्षिनिवासः // 3819 / घोषादिषु च (6-2-85) / दाक्षिघोषः / दाक्षिकटः / दाक्षिह्रदः // 3820 / छात्तथादयः शालायाम् (6-2-86) / छात्तिशाला / व्याडिशाला / यदापि शालान्तः समासो नपुंसकलिङ्गो भवति तदापि 'तत्पुरुषे शालायां नपुंसके' (सू 3857) इत्येतस्मात्पूर्वविप्रतिषेधेनायमेव स्वरः / छात्तूिशालम् // 3821 / प्रस्थेऽवृद्धमकादीनाम् (6-2-87) / प्रस्थशब्द उत्तरपदे कादिवर्जितमवृद्धं पूर्वपदमायुदात्तं स्यात् / इन्द्रप्रस्थः। 'अवृद्धम्' इति किम् / दाक्षिप्रस्थः / 'अकादीनाम्' इति किम् / कर्कीप्रस्थः / मकरीप्रस्थः // 3822 / मालादीनां च (6-2-88) / वृद्धार्थमिदम् / मालाप्रस्थः। शोणाप्रस्थः // 3823 / अमहनवन्नगरेऽनुदीचाम् (6-2-89) / नगरे परे महनवन्वर्जितं पूर्वमायुदात्तं स्यात् तच्चेदुदीचां न / ब्रह्मनगरम् / ‘अम-' इति किम् / महानगरम् / नवनगरम् / 'अनुदीचाम्' किम् / कार्तिनगरम् // 3824 / अर्मे चावणे द्यच्च्यच् (6-2-90) / अर्मे परे व्यच्यच्पूर्वमवर्णान्तमायुदात्तम् / For Private And Personal Use Only
Page #757
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्वरप्रकरणम् / 755 गुप्तार्मम् / कुक्कुटामम् / 'अवर्णम्' किम् / बृहदर्मम् / ‘यच्च्यच्' किम् / कपिञ्जलार्मम् / अमहन्नवन्नित्येव / महार्मम् / नवार्मम् // 3825 / न भूताधिकसञ्जीवमद्राश्मकज्जलम् / (6-2-91) / अर्मे परे नैतान्यायुदात्तानि / भूतार्मम् / अधिकार्मम् / सञ्जीवार्मम् / मद्राश्मग्रहणं सङ्घातविगृहीतार्थम् / मद्रार्मम् / अश्मामम् / मद्राइमार्मम् / कज्जलार्मम् / 'आयुदात्तप्रकरणे दिवोदासादीनां छन्दस्युपसङ्ख्यानम्' (वा 3840) / 'दिवोदासाय दाशुषे' // 3826 / अन्तः (6-2-92) / अधिकारोऽयम् / प्रागुत्तरपदादिग्रहणात् // 3827 / सर्व गुणकात्स्न्ये (6-2-93) / सर्वशब्दः पूर्वपदमन्तोदात्तम् / सर्वश्वेतः / सर्वमहान् / 'सर्वम्' किम् / परमश्वेतः / आश्रयव्याप्त्या परमत्वं श्वेतस्येति गुणकात्स्न्ये वर्तते / 'गुण-' इति किम् / सर्वसौवर्णः / 'कात्स्न्ये' किम् / सर्वेषां श्वेततरः सर्वश्वतः // 3828 / संज्ञायां गिरिनिकाययोः (6-2-94) / एतयोः परतः पूर्वमन्तोदात्तम् / अञ्जनागिरिः। मौण्डनिकायः / 'संज्ञायां' किम् / परमगिरिः / ब्राह्मणनिकायः // 3829 / कुमार्यो वयसि (6-2-95) / पूर्वपदमन्तोदात्तम् / वृद्धकुमारी / कुमारीशब्दः पुंसा सहासंप्रयोगमात्रं प्रवृत्तिनिमित्तमुपादाय प्रयुक्तो वृद्धादिभिः समानाधिकरणः / तच्च वय इह गृह्यते न कुमारत्वमेव / 'वयसि' किम् / परमकुमारी // 3830 / उदकेऽकेवले (6-2-96) / अकेवलं मिश्रं तद्वाचिनि समास उदके परे पूर्वमन्तोदात्तम् / गुडोदकम् / स्वरे कृतेऽत्र एकादेशः / 'स्वरितो वानुदात्ते पदादौ' (सू 3659) / इति पक्षे स्वरितः / 'अकेवले' किम् / शीतोदकम् // 3831 / द्विगौ कती (6-2-97) / द्विगावुत्तरपदे ऋतुवाचिनि समासे पूर्वमन्तोदात्तम् / गर्गत्रिरात्रः / 'द्विगौ' किम् / अतिरात्रः / 'क्रतौ' किम् / बिल्वहोमस्य सप्तरात्रो बिल्वसप्तरात्रः // 3832 / सभायां नपुंसके (6-2.98) / सभायां परतो नपुंसकलिङ्गे समासे पूर्वमन्तोदात्तम् / गोपालसभम् / स्त्रीसभम् / 'सभायाम्' किम् / ब्राह्मणसेनम् / 'नपुंसके' किम् / राजसभा / प्रतिपदोक्तनपुंसकग्रहणान्नेह / रमणीयसभम् ब्राह्मणकुलम् // 3833 / पुरे प्राचाम् / (6-2-99) / देवदत्तपुरम् / नान्दीपुरम् / 'प्राचाम्' किम् / शिवपुरम् // 3834 / अरिष्टगौडपूर्वे च (6-2-100) / पुर परऽरिष्टगौडपूर्व समासे पूर्वमन्तोदात्तम् / अरिष्टपुरम् / गौडपुरम् / 'पूर्व' ग्रहणं किम् / इहापि यथा स्यात् / अरिष्टाश्रितपुरम् / गौडभृत्यपुरम् // 3835 / न हास्तिनफलकमायाः (6-2-101) / पुरे परे नैतान्यन्तोदात्तानि / हास्तिनपुरम् / फलकपुरम्। मार्देयपुरम्। मृदरपत्यमिति शुभ्रादित्वात् ढक् // 3836 / कुसूलकूपकुम्भशालं बिले (6-2-102) / एतान्यन्तोदात्तानि बिले परे / कुसूलबिलम् / कूपबिलम् / कुम्भाबलम् / शालाबिलम् / 'कुसूलादि' किम्। सपबिलम् / 'बिल' इति किम् / कुमूलस्वामी // 3837 / दिक्छब्दा ग्रामजनपदाख्यानचानराटेषु (6-2-103) / दिक्छब्दा अन्तोदात्ता भवन्त्येषु / पूर्वेषुकामशमी / अपरकृष्णमृत्तिका / जनपदे / पूर्वपञ्चालाः / आख्याने / पूर्वयायातम् / पूर्वचानराटम् / शब्दग्रहणं कालवाचिदिक्छब्दस्य परिग्रहार्थम् // 3838 / आचार्योपसर्जनश्वान्तवासिनि (6-2.104) / आचार्योपसर्जनान्तेवासिनि परे दिक्छब्दा अन्तोदात्ता भवन्ति / पूर्वपाणिनीयाः। 'आचार्य-' इति किम् / पूर्वान्तवासी / 'अन्तेवासिनि' किम् / पूर्वपाणिनीयं शास्त्रम् // 3839 / उत्तरपदवृद्धौ सर्व च (6.2.105) / उत्तरपदस्येत्यधिकृत्य या वृद्धिर्विहिता For Private And Personal Use Only
Page #758
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुद्याम् तद्वत्युत्तरपदे परे सर्वशब्दो दिक्छब्दाश्चान्तोदात्ता भवन्ति / सर्वपाञ्चालकः / अपरपाञ्चालकः / 'अधिकारग्रहणं' किम् / सर्वगासः / सर्वकारकः // 3840 / बहुव्रीहौ विश्वं संज्ञायाम् (6-2-106) / बहुव्रीहौ विश्वश दः पूर्वपदभूतः संज्ञायामन्तोदात्तः स्यात् / पूर्वपदप्रकृतिस्वरेण प्राप्तस्यायुदात्तस्यापवादः / 'विश्व इर्मा विश्वदेवः' / 'आविश्वदेवं सप्ततिम्' / 'बहुव्रीहौ' किम् / विश्वे च ते देवाश्च विश्वे देवाः। 'संज्ञायाम् ' किम् / विश्वदेवाः। प्रागव्ययीभावाद्बहुव्रीह्यधिकारः॥ 3841 / उदराश्वेषुषु (6-2-107) / संज्ञायामिति वर्तते / वृकोदरः / हर्यश्वः। महेषुः // 3842 / क्षेपे (6-2-108) / उदराश्वेषुषु पूर्वमन्तोदात्तं बहुव्रीहौ निन्दायाम् / असंज्ञार्थमारम्भः / घटोदरः / कन्दुकाश्वः / चलाचलेषुः / अनुदर इत्यत्र ‘नसुभ्याम्-' (सू 3906) इति भवति पूर्वविप्रतिषेधेन // 3843 / नदी बन्धुनि (62 109) / बन्धुशब्दे परे नद्यन्तं पूर्वमन्तोदात्तं बहुव्रीहौ / गार्गीबन्धुः। 'नदी' किम् / ब्रह्मबन्धुः। ब्रह्मशब्द आयुदात्तः / 'बन्धुनि' किम् / गार्गीप्रियः // 3844 / मिष्टोपसर्गपूर्वमन्यतरस्याम् / (6-2-110) / निष्टान्तं पूर्वपदमन्तोदात्तं वा / प्रधौतपादः / “निष्टा' किम् / प्रसेवकमुखः / 'उपसर्गपूर्वम्' किम् / शुष्कमुखः // 3845 / उत्तरपदादिः (6-2-111) / उत्तरपदाधिकार आपादान्तम् / आद्यधिकारस्तु 'प्रकृत्या भगालम्' (सू 3871) इत्यवधिकः // 3846 / कर्णो वर्णलक्षणात् (6-2-112) / वर्णवाचिनो लक्षणवाचिनश्च परः कर्णशब्द आयुदात्तो बहुव्रीहौ / शुक्लकर्णः / शङ्कुकर्णः / ‘कर्णः' किम् / श्वेतपादः / ‘वर्णलक्षणात् ' किम् / शोभनकर्णः // 3847 / संज्ञौपम्ययोश्च (62113) / कर्ण आयुदात्तः / मणिकर्णः / औपम्ये / गोकर्णः / 3848 / कण्ठपृष्ठप्रीवाजद्धं च (6.2.114) / संजौपम्ययोबहुव्रीहौ / शितिकण्ठः / काण्डपृष्ठः / सुप्रीवः / नाडीजङ्घः / औपम्ये / खरकण्ठः / गोपृष्ठः / अश्वग्रीवः / गोजकः // 3849 / शृङ्गमवस्थायां च (6-2-115) / शृङ्गशब्दोऽवस्थ यां संज्ञौपम्ययोश्वायुदात्तो बहुव्रीहौ / उद्गतशृङ्गः / झ्यङ्गुलशृङ्गः / अत्र शृङ्गोद्गमनादिकृतो गवादेवयोविशेषोऽवस्था। संज्ञायाम् / ऋष्यशृङ्गः / उपमायाम् / मेषशृङ्गः / 'अवस्था-' इाते किम् / स्थूलशृङ्गः // 3850 / नबो जरमरमित्र मृताः (6-2-116) / नञः पर एते आयुदात्ता बहुव्रीहौ / ‘ता मे जराय्वजरम्' / अमरम् / 'अमित्रमर्दय' / 'श्रवो देवेष्वमृतम्' : 'नत्रः' किम् / ब्राह्मणमित्रः / 'ज-' इति किम् / अशत्रुः // 3851 / सोर्मनसी अलोगोषसी (6-2.117) / सोः परं लोमोषसी वर्जयित्वा मन्नन्तमसन्तं चाद्युदात्तं स्यात् / 'नञ्सुः याम्' / (सू 3906) इत्यस्यापवादः / 'सुकाणः सुयुजः' / ‘स नो वक्षदनिमानः सुवत्प्रा सुब्रह्मा / 'शिवा पशुभ्यः सुमनाः सुवर्चाः' / 'सुपेशसस्करति' / 'सोः' किम् / कृतकर्मा / 'मनसी' किम् / सुराजा / ‘अलोमोषसी' किम् / सुलोमा। सूषाः। कपि तु परत्वात् / कपि पूर्वम्' (सू 3907) इति भवति / सुकर्मकः / 'सुस्रोतस्कः' // 3852 / क्रत्वादयश्च (6-2-118) / सोः पर आयुदात्ताः स्युः / ‘साम्राज्याय सुक्रतुः' / 'सुप्रतीकः' / 'सुहव्यः' / 'सुप्रर्तृर्तिमनेहसंम्' // 3853 / आयुदात्तं यच्छन्दसि (6-2-199) / यदायुदात्तं इच्तत्सोरुत्तरं बहुव्रीहावाद्युदात्तम् / 'अधा स्वश्वाः' / 'सुरथा आतिथिग्व' / नित्स्वरेणाश्वरथानायुदात्तौ / ‘आयुदात्तम्' किम् / ‘यासुबाहुः' / 'यच' किम् / ‘सुगुरसत्सुहिरण्यः' / हिरण्ाशब्दस्त्र्यच् // 3854 / वीरवीयौं च (6-2-120) For Private And Personal Use Only
Page #759
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir खरप्रकरणम् / सोः परौ बहुव्रीहौ छन्दस्यायुदात्तौ / 'सुवीरेण रयिणा' / 'सुवीर्यस्य गोम॑तः' / वीर्यशब्दो यत्प्रत्ययान्तः / तत्र 'यतोऽनावः' (सू 3701) इत्यायुदात्तत्वं नति वीर्यग्रहणं ज्ञापकम् / तत्र हि सति पूर्वेणैव सिद्धं स्यात् // 3855 / कूलतीरतूलमूलशालाक्षसममव्ययीभावे (6-2-121) / उपकूलम् / उपतीरम् / उपतूलम् / उपमूलम् / उपशालम् / उपाक्षम् / सुषमम् / निःषमम् / तिष्ठद्गप्रभृतिष्वेते। 'कूलादि' ग्रहणं किम् / उपकुम्भम् / 'अव्ययीभावे' किम् / परमकूलम् // 3856 / कंसमन्थशूर्पपाय्यकाण्डं द्विगौ (6-2-122) / द्विकंसः / द्विमन्थः / द्विशूर्पः / द्विपाय्यम् / द्विकाण्डम् / 'द्विगौ' किम् / परमकंसः // 3857 / तत्पुरुषे शालायां नपुसके (6-2-123) / शालाशब्दान्ते तत्पुरुष नपुंसकलिङ्ग उत्तरपदमायुदात्तम् / ब्राह्मणशालम् / 'तत्पुरुषे' किम् / दृढशालम् / ब्राह्मणकुलम् / 'शालायाम् ' किम् / ब्राह्मणसेनम् / 'नपुंसके' किम् / ब्राह्मणशाला // 3858 / कन्था च (6-2-124) / तत्पुरुष नपुंसकलिङ्गे कन्थाशब्द उत्तरपदमायुदात्तम् / सौशमिकन्थम् / आह्वरकन्थम् / 'नपुंसके' किम् / दाक्षिकन्था // 3859 / आदिश्चिहणादीनाम् (6-2-125) कन्थान्ते तत्पुरुषे नपुंसकलिङ्गे चिहणादीनामादिरुदात्तः। चिहणकन्थम् / मदुरकन्थम् / आदिरिति वर्तमाने पुनर्ग्रहणं पूर्वपदस्यायुदात्तार्थम् // 3860 / चेलखेटकटुककाण्डं गर्हायाम् (6-2-126) / चेलादीन्युत्तरपदान्यायुदात्तानि / पुत्तचेलम् / नगरखेटम् / दधिकटुकम् / प्रजाकाण्डम् / चेलादिसादृश्येन पुत्तादीनां गर्दा / व्याघ्रादित्वात्समासः / 'गर्हायाम्' किम् / परमचेलम् // 3861 / चीरमुपमानम् (6-2-127) / वस्त्रं चीरमिव वस्त्रचीरं / कम्बलचीरम् / 'उपमान' किम् / परमचीरम् // 3862 / पललसूपशाकं मिश्रे (6-2-128) / घृतपललम् / घृतसूपः / घृतशाकम् / 'भक्ष्येण मिश्रीकरणम्' (सू 697) इति समासः / ‘मिश्रे' किम् / परमपललम् // 3863 / कूलसूदस्थलकर्षाः संज्ञायाम् (62-129) / आद्युदात्तास्तत्पुरुषे / दाक्षिकूलम् / शाण्डिसूदम् / दाण्डायनस्थलम् / दाक्षिकर्षः / ग्रामसंज्ञा एताः / 'संज्ञायाम्' किम् / परमकूलम् // 3864 / अकर्मधारये राज्यम् (6-2-130) / कर्मधारयवर्जिते तत्पुरुषे राज्यमुत्तरपदमायुदात्तम् / ब्राह्मणराज्यम् / 'अक-' इति किम् / परमराज्यम् / 'चेलराज्यादिस्वराव्ययस्वरः पूर्वविप्रतिषेधेन' (वा 3847) कुचेलम् / कुराज्यम् // 3865 / वर्यादयश्च (6-2-131) / अर्जुनवर्यः / वासुदेवपक्ष्यः / अकर्मधारय इत्येव / परमवर्यः / वादिर्दिगाद्यन्तर्गणः // 3866 / पुत्रः पुम्भ्यः (6 2.132) / पुम्शब्देभ्यः परः पुत्रशब्द आद्युदात्तस्तत्पुरुषे / दाशकिपुत्रः / माहिषपुत्रः। 'पुत्रः' किम् / कौनटिमातुलः / 'पुम्भ्यः' किम् / दाक्षीपुत्रः // 3867 / नाचार्यराजर्विक्संयुक्तज्ञाल्याख्येभ्यः (6-2-133) / एभ्यः पुत्रो नायुदात्तः / आख्याग्रहणात्पर्यायाणां तद्विशेषाणां च ग्रहणम् / आचार्यपुत्रः / उपाध्यायपुत्रः / शाकटायनपुत्रः / राजपुत्रः / ईश्वरपुत्रः / नन्दपुत्रः / ऋत्विक्पुत्रः। याजकपुत्रः / होतुःपुत्रः / संयुक्ताः संबन्धिनः / श्यालपुत्रः / ज्ञातयो मातापितृसंबन्धेन बान्धवाः / ज्ञातिपुत्रः / भ्रातुःपुत्रः // 3868 / चूर्णादीन्यप्राणिषष्ठ्याः (6-2-134) / एतानि प्राणिभिनषष्ठ्यन्तात्पराण्याद्युदात्तानि तत्पुरुषे / मुद्चूर्णम् / 'अप्रा-' इति किम् / मत्स्यचूर्णम् // 3869 / षट् च काण्डादीनि (6-2-135) / अप्राणिषष्ठ्या आद्युदात्तानि / दर्भकाण्डम् / HTHHTHHTHAN For Private And Personal Use Only
Page #760
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुद्याम् दर्भचीरम् / तिलपललम् / मुद्गसूपः / मूलकशाकम् / नदीकूलम् / 'षट्' किम् / राजसूदः / 'अप्रा-' इति किम् / दत्तकाण्डम् // 3870 / कुण्डं वनम् (6.2-136) / कुण्डमायुदात्तं वनवाचिनि तत्पुरुषे / दर्भकुण्डम् / कुण्डशब्दोऽत्र सादृश्ये / 'वनम्' किम् / मृत्कुण्डम् // 3871 / प्रकृत्या भगालम् (62-137) / भगालवाच्युत्तरपदं तत्पुरुषे प्रकृत्या / कुम्भीभगालम् / कुम्भीनदालम् / कुम्भीकपालम् / मध्योदात्ता एते। 'प्रकृत्या' इत्यधिकृतम् 'अन्तः' (सू 3877) इति यावत् // 3872 / शितेर्नित्याबह्वज्बहुव्रीहावभसत् (6-2-138) / शितेः परं नित्याबह्वच्कं प्रकृत्या / शितिपादः / शियंसः / पादशब्दो वृषादित्वादायुदात्तः / अंसशब्दः प्रत्ययस्य नित्त्वात् / 'शितेः किम् / दर्शनीयपादः / नित्येति किम् / शितिककुत् / अवस्थायां लोपः। अन्यत्र शितिककुद इति बह्वजुत्तरपदम्। 'अभसत्' किम् / शितिभसत् / शितिरायुदात्तः / पूर्वपदप्रकृतिस्वरापवादोऽयं योगः // 3873 / गतिकारकोपपदात्कृत् (6-2-139) / एभ्यः कृदन्तं प्रकृतिस्वरं स्यात्तत्पुरुषे / प्रकारकः / प्रहरणम् / 'शोणा' धृष्णू नृवाहंसा'। इध्मप्रत्रश्चनः / उपपदात् / उच्चैःकारम् / ईषत्करः / 'गति' इति किम् / देवस्य कारकः / शेषे षष्ठी / कृद्रहणं स्पष्टार्थम् / प्रपचतितरामित्यत्र तरबाद्यन्तेन समासे कृत आम् / तत्र सतिशिष्टत्वादाम्स्वरो भवतीत्येके / प्रपचतिदेश्यार्थ तु कृद्रहणमित्यन्ये // 3874 / उभे वनस्पत्यादिषु युगपत् (6-2-140) / एषु पूर्वोत्तरपदे युगपत्प्रकृत्या / 'वनस्पति वन आ' / 'बृहस्पति यः' बृहच्छब्दोऽत्रायुदात्तो निपात्यते / 'हर्षया शचीपतिम् / शारिवादित्वादायुदात्तः शचीशब्दः ‘शचीभिर्न' इति दर्शनात् / 'तनपादुच्यते' / 'नराशंस वाजिनम्' / निपातनाद्दीर्घः / 'शुनःशेपम्' // 3875 / देवताद्वन्द्वे च (6-2 141) / उभे युगपत्प्रकृत्या स्तः / 'आय इन्द्रावरुणौ' / 'इन्द्राबृहस्पती वयम्' / 'देवता' किम् / लक्षन्यग्रोधौ / 'द्वन्द्वे' किम् / अग्निष्टोमः' // 3876 / नोत्तरपदेऽनुदात्तादावपृथिवीरुद्रपूषमन्थिषु / (6-2-142) / पृथिव्यादिवर्जितेऽनुदात्तादावुत्तरपदे प्रागुक्तं न / 'इन्द्राग्निभ्यां कं वृषणः' / 'अपृथिव्यादौ' किम् / 'शावापृथिवी जनयन्' / आयुदात्तो द्यावा निपात्यते / पृथिवीत्यन्तोदातः / रुद्रसोमौ / 'रोदर्णिलुक्व' (उणा०) इति रगन्तो रुद्रशब्दः / 'इन्द्रा पूषणौ' / श्वन्नुक्षन्पूषन्-' (उणा०) इति पूषा अन्तोदात्तो निपात्यते / शुक्रामन्थिनौ / मन्थिभिन्नन्तत्वादन्तोदात्तः / उत्तरपदग्रहणमुदात्तादावित्युत्तरपदविशेषणं यथा स्याइन्द्वविशेषणं मा भूत् / अनुदात्तादाविति विधिप्रतिषयोर्विषयविभागार्थम् // 3877 / अन्तः (6-2.143) / अधिकारोऽयम् // 3878 / थाथघक्ताजबित्रकाणाम् (6-2-144) / 'थ' 'अथ' 'घञ्' 'क्त' 'अच्' 'अप्' 'इत्र' 'क' एतदन्तानां गतिकारकोपपदात्परेषामन्त उदात्तः / 'प्रभृथस्यायोः' / आवसथः / घञ् / प्रभेदः / क्तः / 'धर्ता वज्री पुरुष्टुतः' / पुरुषु बहुप्र-. देशेषु स्तुत इति विग्रहः / अच् / प्रक्षयः / अप् प्रलवः / इत्र / प्रलवित्रम् / क / गोवृषः / मूलविभुजादित्वात्कः / गतिकारकोपपदादित्येव / सुस्तुतं भवता // 3879 / सपमानात्क्तः (6-2-145) / सोरुपमानाच्च परं तान्तमन्तोदात्तम् / 'ऋतस्य योनौ सुकृतस्य' / शशप्लुतः॥ 3880 / संज्ञायामनाचितादीनाम् (6-2-146) / गतिकारकोपपदात्तान्तमन्तोदात्तमाचितादीन्वर्जयित्वा / उपहृतः शाकल्यः / परिजग्धः / कौण्डिन्यः / 'अन-' इति किम् / For Private And Personal Use Only
Page #761
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्वरप्रकरणम् / आचितम् / आस्थापितम् // 3881 / प्रवृद्धादीनां च (6-2-147) / एषां क्तान्तमुत्तरपदमन्तोदात्तम् / प्रवृद्धः / प्रयुक्तः / असंज्ञार्थोऽयमारम्भः / आकृतिगणोऽयम् // 3882 / कारकाद्दत्तश्रुतयोरेवाशिषि (6-2-148) / संज्ञायामन्त उदात्तः / देवदत्तः / विष्णुश्रुतः / 'कारकात्' किम् / संभूतो रामायणः / 'दत्तश्रुतयोः' किम् / देवपालितः / अस्मानियमादत्र 'संज्ञायामन-' (सू 3880) इति न / 'तृतीयाकर्मणि' (सू 3782) इति तु भवति / 'एव' क्रिम् / 'कारकावधारणं' यथा स्वादत्तश्रुतावधारणं मा भूत् / अकारकादपि दत्तश्रुतयोरन्त उदात्तो भवति / संश्रुतः / 'आशिषि' किम् / देवैः खाता देवखाता / आशिष्येवेत्येवमत्रेष्टो नियमः / तेनानाहतो नदति देवदत्त इत्यत्र न / शङ्खविशेषस्य संज्ञेयम् / 'तृतीया कर्मणि' (सू 3782) इति पूर्वपदप्रकृतिस्वरत्वमेव भवति // 3883 / इत्थंभूतेन कृतमिति च (6-2.149) / इत्थंभूतेन कृतमित्येतस्मिन्नर्थे यः समासस्तत्र तान्तमुत्तरपदमन्तोदात्तं स्यात् / सुप्तप्रलपितम् / प्रमत्तगीतम् / कृतमिति क्रियासामान्ये करोति भूतप्रादुर्भाव एव / तेन प्रलपिताद्यपि कृतं भवति / 'तृतीया कर्मणि' (सू 3782) इत्यस्यापवादः / 3884 / अनो भावकर्मवचनः (6-2-150) / कारकात्परमनप्रत्ययान्तं भाववचनं कर्मवचनं चान्तोदात्तम् / पयःपानं सुखम् / राजभोजनाः शालयः / 'अनः' किम् / हस्तादायः / 'भा-' इति किम / दन्तधावनम् / करणे ल्युट् / ‘कारकात् ' किम् / निदर्शनम् / 3885 / मन्क्तिन्ब्याख्यानशयनासनस्थानयाजकादिक्रीताः (6-2-151) / कारकात्पराण्येतान्युत्तरपदान्यन्तोदात्तानि तत्पुरुषे / कृत्स्वरापवादः / रथवर्त्म / पाणिनिकृतिः। छन्दोव्याख्यानम् / राजशयनम् / राजासनम् / अश्वस्थानम् / ब्राह्मणयाजकः / गोक्रीतः। 'कारकात्' किम्। 'प्रभूतौ सङ्गतिम्' / अत्र 'तादौ चानिति-' (सू 3784) इति स्वरः // 3886 / सप्तम्याः पुण्यम् (6-2-152) / अन्तोदात्तम् / अध्ययनपुण्यम् / 'तत्पुरुषे तुल्यार्थ-' (सू 3736) इति प्राप्तम् / 'सप्तम्याः' किम् / वेदेन पुण्यं वेदपुण्यम् // 3887 / ऊनार्थकलहं तृतीयायाः। (6-2-153) / माषोनम् / माषविकलम् / वाकलहः / तृतीयापूर्वपदप्रकृतिस्वरापवादोऽयम् / अत्र केचिदर्थेति स्वरूपग्रहणमिच्छन्ति / धान्यार्थः / ऊनशब्देन त्वर्थनिर्देशार्थेन तदर्थानां प्रहणमिति प्रतिपदोक्तत्वादेव सिद्धे तृतीयाग्रहणं स्पष्टार्थम् // 3888 / मिश्रं चानुपसर्गमसन्धौ (6-2-154) / पणबन्धेनैकार्थ्य संधिः / तिलमिश्राः / सपिर्मिश्राः / ‘मिश्रम्' किम् / गुडधानाः / अनुपसर्गम्' किम् / तिलसंमिश्राः / 'मिश्रग्रहणे सोपसर्गग्रहणस्य' इदमेव ज्ञापकम् / 'असंधौ' किम् / ब्राह्मणमिश्रो राजा / ब्राह्मणैः सह संहित ऐकार्थ्यमापन्नः // 3889 / नओ गुणप्रतिषेधे संपाद्यहंहितालमर्यास्तद्धिताः (6-2-155) / संपाद्याद्यर्थतद्धितान्तान्नओ गुणप्रतिषेधे वर्तमानात्परेऽन्तोदात्ताः। कर्णवेष्टकाभ्यां सम्पादि कार्णवेष्टकिकं, न कार्णवेष्टकिकमकार्णवेष्टकिकम् / छेदमर्हति छैदिकः / न छैदिकोऽच्छैदिकः / न वत्सेभ्यो हितोऽवत्सीयः / न सन्तापाय प्रभवति असन्तापिकः / 'नमः' किम् / गर्दभरथमर्हति गार्दभरथिकः / विगार्दभरथिकः / 'गुणप्रतिषेधे किम् / गार्दभरथिकादन्योऽगार्दभरथिकः / गुणो हि तद्धितार्थे प्रवृत्तिनिमित्तं संपादितत्वायुच्यते तत्प्रतिषेधो यत्रोच्यते तत्रायं विधिः। कर्णवेष्टकाभ्यां न संपादि मुखमिति / 'संपादि-' इति किम् / पाणिनीयमधीते पाणिनीयः / न पाणिनीयः अपाणिनीयः। 'तद्धिताः' किम् / वोढुमर्हति For Private And Personal Use Only H
Page #762
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुद्याम् वोढा / न वोढा अवोढा // 3890 / ययतोश्चातदर्थे (6-2-156) / ययतौ यौ तद्धितौ तदन्तस्योत्तरपदस्य नओ गुणप्रतिषेधविषयात्परस्यान्त उदात्तः स्यात् / पाशानां समूहः पाश्या / न पाइया अपाश्या / अदन्त्यम् / 'अतदर्थे ' किम् / अपाद्यम् / 'तद्धितः किम् / अदेयम् / 'गुणप्रतिषेधे' किम् / दन्त्यादन्यददन्त्यम् / 'तदनुबन्धग्रहणे नातदनुबन्धकस्य' इति नेह / अवामदेव्यम् // 3891 / अच्कावशक्तौ (6-2-157) / अजन्तं कान्तं च नञः परमन्तोदात्तमशक्तौ गम्यायाम् / अपचः पक्तुमशक्तः / अविलिखः / 'अशक्तौ' किम् / अपचो दीक्षितः / गुणप्रतिषेध इत्येव / अन्योऽयं पचादपचः // 3892 / आक्रोशे च (6-2-158) / नञः परावच्कावन्तोदात्तावाक्रोशे / अपचो जाल्मः / पक्तुं न शंकोतीत्येवमाक्रोश्यते / अविक्षिपः // 3893 / संज्ञायाम् (6-2-159) / नञः परमन्तोदात्तं संज्ञायामाक्रोशे / अदेवदत्तः। 3894 / कृत्योकेष्णुच्चार्वादयश्च (6-2-160) / नञः परेऽन्तोदात्ताः स्युः / अकर्तव्यः / उक् / अनागामुकः / इष्णुच् / अनलंकरिष्णुः / इष्णुज्ग्रहणे खिष्णुचो धनुबन्धकस्यापि ग्रहणमिकारादेविधानसामर्थ्यात् / अनाढ्यंभविष्णुः / चार्वादिः / अचारुः / असाधुः / 'राजाह्नोश्छन्दसि' (गण 161) / अराजा / अनहः / ‘भाषायाम् ' नञः स्वर एव // 3895 / विभाषा तृन्नन्नतीक्ष्णशुचिषु (6-2-161) / तृन् अकर्ता / अन्न / अनन्नम् / अतीक्ष्णम् / अशुचि / पक्षेऽव्ययस्वरः // 3896 / बहुव्रीहाविदमेतत्तभ्यः प्रथमपूरणयोः क्रियागणने (6-2-162) / एभ्योऽनयोरन्त उदात्तः / इदं प्रथममस्य स इदंप्रथमः / एतदितीयः / तत्पनमः / 'बहुव्रीहौ' किम् / अनेन प्रथम इदंप्रथमः / तृतीया-' (सू 692) इति योगविभागात्समासः / 'इदमेतत्तयः' किम / यत्प्रथमः / 'प्रथमपूरणयोः' किम् / तानि बहून्यस्य तद्बहुः / 'क्रियागणने' किम् / अयं प्रथमः प्रधानं येषां त इदंप्रथमाः / द्रव्यगणनमिदम् / 'गणने' किम् / अयं प्रथम एषां त इदंप्रथमाः / इदंप्रधाना इत्यर्थः / उत्तरपदस्य कार्यित्वात्कपि पूर्वमन्तोदात्तम् / इदंप्रथमकाः। बहुव्रीहावित्यधिकारो 'वनं समासे' (सू 3912) इत्यतः प्राग्बोध्यः // 3897 / सङ्खचायाः स्तनः (6-2-163) / बहुव्रीहावन्तोदात्तः / द्विस्तना / चतुःस्तना / 'संख्यायाः' किम् / दर्शनीयस्तना / 'स्तनः' किम / द्विशिराः // 3898 / विभाषा छन्दसि (6-2-164) / 'द्विस्तनां करोति' / 3899 / 'संज्ञायां मित्ताजिनयोः' (6-2-165) / देवमित्तः / कृष्णाजिनम् / 'संज्ञायाम् ' किम् / प्रियमित्तः / 'ऋषिप्रतिषेधोऽत्र मिते' (वा 3857) / विश्वामित्तर्षिः // 3900 / व्यवायिनोऽन्तरम् (6-2-166) / व्यवधानवाचकात्परमन्तरमन्तोदात्तम् / वस्त्रमन्तरं व्यवधायकं यस्य स वस्त्रान्तरः / 'व्यवाथिनः' किम्। आत्मान्तरः। अन्यस्वभाव इत्यर्थः / 3901 / मुखं स्वाङ्गम् (6-2-167) / गौरमुखः / 'स्वाङ्गम्' किम् / दीर्घमुखा शाला // 3902 / नाव्ययदिक्छब्दगोमहत्स्थूलमुष्टिपृथुवत्सेभ्यः (6-2-168) / उच्चैर्मुखः / प्राङ्मुखः / गोमुखः / महामुखः / स्थूलमुखः / मुष्टिमुखः / पृथुमुखः / वत्समुखः / पूर्वपदप्रकृतिस्वरोऽत्र / गोमुष्टिवत्सपूर्वपदस्योपमानलक्षणोऽपि विकल्पोऽनेन बाध्यते // 3903 / निष्ठोपमानादन्यतरस्याम् (6-2-169) / निष्टान्तादुपमानवाचिनश्च परं मुखं स्वाङ्गं वान्तोदात्तं बहुव्रीहौ / प्रक्षालितमुखः / पक्षे ‘निष्टोपसर्ग-' (सू 3844) इति पूर्वपदान्तोदात्तत्वम् / पूर्वपदप्रकृतिस्वरत्वेन गतिस्वरोऽपि भवति / For Private And Personal Use Only
Page #763
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्वरप्रकरणम् / उपमानम् / सिंहमुखः // 3904 / जातिकालसुखादिभ्योऽनाच्छादनात्तोऽकृतमितप्रतिपन्नाः। (6-2-170) / सारङ्गजग्धः / मासजातः / सुखजातः / दुःखजातः / 'जातिकाल-' इति किम् / पुत्रजातः / 'अनाच्छादनात्' किम् / वस्त्रच्छन्नः / 'अकृत-' इति किम् / कुण्डकृतः। कुण्डमितः / कुण्डप्रतिपन्नः / अस्माज्ज्ञापकानिष्ठान्तस्य परनिपातः // 3905 / वा जाते (6-2-171) / जातिकालसुखादिभ्यः परो जातशब्दो वान्तोदात्तः / दन्तजातः / मासजातः // 3906 / नञ्सुभ्याम् (6-2-172) / बहुव्रीहावुत्तरपदमन्तादात्तम् / अव्रीहिः / सुमाषः // 3907 / कपि पूर्वम् (6-2-173) / नञ्सुभ्यां परं यदुत्तरपदं तदन्तस्य समासस्य पूर्वमुदात्तं कपि परे / अब्रह्मबन्धुकः / सुकुमारीकः // 3908 / ह्रस्वान्तेऽन्त्यात्पूर्वम् (6-2-174) ह्रस्वान्त उत्तरपदे समासे चान्त्यात्पूर्वमुदात्तं कपि नसुभ्यां परं बहुव्रीहौ / अव्रीहिकः / सुमाषकः / पूर्वमित्यनुवर्तमाने पुनः पूर्वग्रहणं प्रवृत्तिभेदेन नियमार्थम् / ह्रखान्तेऽन्त्यादेव पूर्वपदमुदात्तं न कपि पूर्वमिति / अज्ञकः / कबन्तस्यैवान्तोदात्तत्वम् // 3909 / बहोर्नञ्चदुत्तरपदभूग्नि (6-2-175) / उत्तरपदार्थबहुत्ववाचिनो बहोः परस्य पदस्य नञः परस्येव स्वरः स्यात् / बहुव्रीहिकः / बहुमित्तकः / 'उत्तरपद-' इति किम् / बहुषु मानोऽस्य स बहुमानः // 3910 / न गुणादयोऽवयवाः (6-2-176) / अवयववाचिनो बहोः परे गुणादया नान्तोदात्ता बहुव्रीहौ / बहुगुणा रज्जुः / बह्वक्षरं पदम् / बह्वध्यायः ग्रन्थः / गुणादिराकृतिगणः / 'अवयवाः' किम् / बहुगुणो द्विजः / अध्ययनश्रुतसदाचारादयो गुणाः // 3911 / उपसर्गात्स्वाङ्गं ध्रुवमपशु (6-2-177) / प्रपृष्ठः / प्रललाटः / ध्रुवमेकरूपम् / 'उपसर्गात् ' किम् / दर्शनीयपृष्ठः / 'स्वाङ्गम् ' किम् / प्रशाखो वृक्षः / 'ध्रुवम् ' किम् / उद्बाहुः / 'अपशु' किम् / विपशुः // 3912 / वनं समासे (6-2-178) / समासमात्र उपसर्गादुत्तरपदं वनमन्तोदात्तम् / तस्यादमे प्रवणे // 3913 / अन्तः (6-2-179) / अस्मात्परं वनमन्तोदात्तम् / अन्तर्वणो देशः / अनुपसर्गार्थमिदम् // 3914 / अन्तश्च (6-2-180) / उपसर्गादन्तःशब्दोऽन्तोदात्तः / पर्यन्तः / समन्तः // 3915 / न निविभ्याम् (6-2-181) / न्यन्तः / व्यन्तः / पूर्वपदप्रकृति खरे यणि च कृत 'उदात्तस्वरितयोर्यण:-' (सू 3657) इति स्वरितः // 3916 / पररभितो. भावि मण्डलम् (6-2-182) / परेः परमभित उभयतो भावो यस्यास्ति तत्कूलादि मण्डलं चान्तोदात्तम् / परिकूलम् / परिमण्डलम् // 3917 / प्रादस्वाङ्गं संज्ञायाम् (6.2-183) / प्रगृहम् / 'अस्वाङ्गम् ' किम् / प्रपदम् // 3918 / निरुदकादीनि च (6-2-184) / अन्तोदात्तानि / निरुदकम् / निरुपलम् // 3919 / अभेर्मुखम् (6-2-185) / अभिमुखम् / 'उपसर्गात्स्वाङ्गम्-' (सू 3911) इति सिद्धे अबहुव्रीह्यर्थमध्रुवार्थमस्वाङ्गाथै च / अभिमुखा शाला // 3920 / अपाच (6-2-186) / अपमुखम् / योगविभाग उत्तरार्थः // 3921 / स्फिगपूतवीणाओऽध्वकुक्षिसीरनामनाम च (6-2.187) / अपादिमान्यन्तोदात्तानि / अपस्फिगम् / अपपूतम् / अपवीणम् / अञ्जस् / अपाञः / अध्वन् / अपाध्वा / 'उपसर्गादध्वनः' (सू 953) इत्यस्याभाव इदम् / एतदेव च ज्ञापकं समासान्तानित्यत्वे / अपकुक्षि / सीरनाम / अपसीरम् / अपहलम् / नाम / अपनाम / स्फिगपूतर्वाणाकुक्षिग्रहणमबहुव्रीह्यर्थमध्रुवार्थमस्वाङ्गार्थ च // 3922 / अधेरुपरिस्थम् (62-188) / अध्यारूढो दन्तोऽधिदन्तः। दन्तस्योपरिजातो 96 For Private And Personal Use Only
Page #764
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुद्याम् दन्तः / 'उपरिस्थम् ' किम् / अधिकरणम् // 3923 / अनारप्रधानकनीयसी (6-2189) / अनोः परमप्रधानवाचि कनीयश्चान्तोदात्तम् / अनुगतो ज्येष्ठमनुज्येष्ठः / पूर्वपदार्थप्रधानः प्रादिसमासः / अनुगतः कनीयाननुकनीयान् / उत्तरपदार्थप्रधानः / प्रधानार्थ च कनीयोग्रहणम् / 'अप्र-' इति किम् / अनुगतो ज्येष्ठोऽनुज्येष्ठः // 3924 / पुरुषश्चान्वादिष्टः (6-2-190) / अनोः परोऽन्वादिष्टवाची पुरुषोऽन्तोदात्तः / अन्वादिष्टः पुरुषोऽनुपुरुषः / 'अन्बादिष्टः' किम् / अनुगतः पुरुषोऽनुपुरुषः // 3925 / अतेरकृत्पदे (6-2-191) / अतेः परमकृदन्तं पदशब्दश्चान्तोदात्तः / अत्यङ्कुशो नागः / अतिपदा गायत्री / 'अकृत्पदे-' किम् / अतिकारकः / 'अतेर्धातुलोप इति वाच्यम्' (वा 3863) / इह मा भूत् / शोभनो गार्योऽतिगार्यः। इह च स्यात् / अतिक्रान्तः कारुमतिकारुकः // 3926 / नेरनिधाने (6-2-192) निधानमप्रकाशता / ततोऽन्यदनिधानं प्रकाशनमित्यर्थः / निश्चितं मूलं निमूलम् / न्यक्षम् / 'अनिधाने' किम् / निहितो दण्डो निदण्डः // 3927 / प्रतेरंश्वादयस्तत्पुरुष (6-2-193) / प्रतेः परेंऽश्वादयोऽन्तोदात्ताः / प्रतिगतोऽशुः प्रत्यंशुः / प्रतिजनः / प्रतिराजा / समासान्तस्यानित्यत्वान्न टच् // 3928 / उपाइयजजिनमगौरादयः (6-2-194) / उपात्परं यहयच्कमजिनं चान्तोदात्तं तत्पुरुषे गौरादीन्वर्जयित्वा / उपदेवः / उपेन्द्रः / उपाजिनम् / 'अगौरादयः' किम् / उपगौरः / उपतैषः / 'तत्पुरुष' किम् / उपगतः सोमोऽस्य स उपसोमः // 3929 / सोरवक्षेपणे (6-2-195) / सुप्रत्यवसितः / सुरत्र पूजायामेव वाक्यार्थस्त्वत्र निन्दा असूयया तथाभिधानात् / 'सोः किम् / कुब्राह्मणः / 'अवक्षेपणे' किम् / सुवृषणम् // 3930 / विभाषोत्पुच्छे (6-2-196) / तत्पुरुषे / उत्क्रान्तः पुच्छादुत्पुच्छः / यदा तु पुच्छमुदस्यति उत्पुच्छयतेः 'एरच्' (सू 3231) उत्पुच्छः, तदा थाथादिवरेण नित्यमन्तोदात्तत्वे प्राप्ते विकल्पोऽयम् / सेयमुभयत्र विभाषा / 'तत्पुरुष' किम् / उदस्तं पुच्छं येन स उत्पुच्छः // 3931 / द्वित्रिभ्यां पाइन्मूर्धसु बहुव्रीही (6-2-197) / आभ्यां परेष्वेष्वन्तोदात्तो वा / 'द्विपाच्चतुष्पाञ्च रथाय' / 'त्रिपादूर्ध्वः' / द्विदन् / 'त्रिमूर्धान सप्तरश्मिम्' / मूर्धनित्यकृतसमासान्त एव मूर्धशब्दः / तस्यैतत्प्रयोजनमसत्यपि समासान्तेऽन्तोदात्तत्वं यथा स्यात् / एतदेव ज्ञापकम् 'अनित्यः सामासान्तो भवति' इति / यद्यपि च समासान्तः क्रियते तथापि बहुव्रीहिकार्यत्वात्तदेकदेशत्वाच्च समासान्तोदात्तत्वं पक्षे भवत्येव / द्विमूर्धः / त्रिमूधः / 'द्वित्रिभ्याम्' किम् / कल्याणमूर्धा / 'बहुव्रीहौ' किम् / द्वयोमूर्धा द्विमूर्धा // 3932 / सक्थं चाक्रान्तात् (6-2-198) / गौरसक्थः / श्लक्ष्णसक्थः / 'आक्रान्तात्' किम् / चक्रसक्थः / समासान्तस्य षचश्चित्त्वान्नित्यमेवान्तोदात्तत्वं भवति // 3933 / परादिश्छन्दसि बहुलम् (6-2-199) / छन्दसि परस्य सक्थशब्दस्यादिरुदात्तो वा / 'अजिसक्थमालभेत' / अत्र वार्तिकम् 'परादिश्च परान्तश्च पूर्वान्तश्चापि दृश्यते / पूर्वादयश्च दृश्यन्ते व्यत्ययो बहुलं ततः // (वा 3868-69) इति / परादिः। 'तुविजाता उरुक्षयो' / परान्तः / 'नियेनं मुष्टिहत्यया' / 'यस्त्रिचक्रः' पूर्वान्तः / 'विश्वायुधेहि // इति समासवराः। For Private And Personal Use Only
Page #765
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्वरप्रकरणम् / 763 3934 / तिङो गोत्रादीनि कुत्सनाभीक्ष्ण्ययोः (8-1-27) / तिङन्तात्पदाद्गो त्रादीन्यनुदात्तान्येतयोः / पचति गोत्रम् / पचतिपचति गोत्रम् / एवं प्रवचनप्रहसनप्रकथनप्रत्यायनादयः / कुत्सनाभीक्ष्ण्यग्रहणम् पाठविशेषणम् / तेनान्यत्रापि गोत्रादिग्रहणे कुत्सनादावेव कार्य ज्ञेयम् / ‘गोत्रादीनि-' इति किम् / पचति पापम् / 'कुत्स-' इति किम् / खनति गोत्रं समेत्य कूपम् // 3935 / तिङ्ङतिङः (8-1-28) / अतिङन्तात्पदात्परं तिङन्तं निहन्यते / ‘अग्निमीळे' / 3936 / न लुट् (8-1-29) / लुडन्तं न निहन्यते / श्वःकर्ता // 3937 / निपातैयद्यदिहन्तकुविनेचेच्चकच्चिद्यत्रयुक्तम् (8-1-30) / एतैर्निपातैर्युक्तं न निहन्यते / 'यदग्ने स्यामहत्वम्' / 'युवा यदी कृथः' / 'कुविदङ्ग आसन्' / 'अचित्तिभिश्चकृमा कच्चित्' / 'पुत्रासो यत्रं पितरो भवन्ति' // 3938 / नह प्रत्यारम्भे (8-1-31) / नहेत्यनेन युक्तं तिङन्तं नानुदात्तम् / प्रतिषेधयुक्त आरम्भः प्रत्यारम्भः / 'नह भोक्ष्यसे / 'प्रत्यारम्भे' किम् / ‘नह वैतस्मिँल्लोके दक्षिणमिच्छन्ति' // 3939 / सत्यं प्रश्न (8-1-32) / सत्ययुक्तं तिङन्तं नानुदात्तं प्रश्ने / सत्यं भोक्ष्यसे / 'प्रश्ने' किम् / 'सत्यमिद्वा उ त वयमिन्द्र स्तवाम' // 3940 / अङ्गाप्रातिलोम्ये (8-1-33) / अङ्गेत्यनेन युक्तं तिङन्तं नानुदात्तम् / अङ्ग कुरु / 'अप्रातिलोम्ये' किम् / 'अङ्ग कूजसि वृषल इदानी ज्ञास्यसि जाल्म'। अनभिप्रेतमसौ कुर्वन्प्रतिलोमो भवति // 3941 / हि च (8-1-34) / हियुक्तं तिङन्तं नानुदात्तम् / 'आ हि ष्मा यात' / आ हि रुहन्तम्' // 3942 / छन्दस्यनेकमपि साकाङ्क्षम् (8-1.35) / हीत्यनेन युक्तं साकाश्मनेकमपि नानुदात्तम् / 'अनृतं हि मत्तो वदति' / 'पाप्मा न चैनं पुनाति' / तिङन्तद्वयमपि न निहन्यते // 3043 / यावद्यथाभ्याम् (8-1-36) / आभ्यां योगे तिङन्तं नानुदात्तम् / यावद्भुङ्क्ते 'यथा चित्कण्वमावतम् // 3944 / पूजायां नानन्तरम् (8-1-37) / यावद्यथाभ्यां युक्तमनन्तरं तिङन्तं पूजायां नानुदात्तम् / यावत्पचति शोभनम् / यथा पचति शोभनम् / 'पूजायाम्' किम् / यावद्भुते। 'अनन्तरम्' किम् / यावद्देवदत्तः पचति शोभनम् / पूर्वेणात्र निघातः प्रतिषिध्यते // 3945 / उपसर्गव्यपेतं च (8-1-38) / पूर्वेणानन्तरमित्युक्तम् / उपसर्गव्यवधानार्थं वचनम् / यावत्प्रपचति शोभनम् / अनन्तरमित्येव / यावद्देवदत्तः प्रपचति शोभनम् // 3946 / तुपश्यपश्यताहैः पूजायाम् (8-1-39) / एभिर्युक्तं तिङन्तं न निहन्यते पूजायाम् / 'आदहे स्वधामनु पुनर्गर्भत्वमेरिरे' // 3947 / अहो च (8-1-40) / एतद्योगे नानुदात्तं पूजायाम् / अहो देवदत्तः पचति शोभनम् // 3948 / शेषे विभाषा (8-1-41) / अहो इत्यनेन युकं तिङन्तं वानुदात्तं पूजायाम् / अहो कटं करिष्यति // 3949 / पुरा च परीप्सायाम् (8.1-42) / पुरेत्यनेन युक्तं वानुदात्तं त्वरायाम् / अधीष्व माणवक पुरा विद्योतते विद्युत् / निकटागामिन्यत्र पुराशब्दः / 'परीप्सायाम्' किम् / न ते स्म पुराधीयते / चिरातीतेऽत्र पुरा // 3950 / नन्वित्यनुज्ञेषणायाम् (8-143) / नन्वित्यनेन युक्तं तिङन्तं नानुदात्तमनुज्ञाविषयप्रार्थनायाम् / ननु गच्छामि भोः / अनुजानीहि मां गच्छन्तमित्यर्थः / 'अनु-' इति किम् / अकार्षीः कटं त्वम्। ननु करोमि / पृष्टप्रतिवचनमेतम् // 3951 / किं क्रियाप्रश्नेऽनुपसर्गमप्रतिषिद्धम् (8-1-44) / क्रियाप्रश्ने वर्तमानेन किंशब्देन युक्तं तिङन्तं HHHHTHHTHE For Private And Personal Use Only
Page #766
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 764 सिद्धान्तकौमुद्याम् नानुदात्तम् / किं द्विजः पचत्याहोखिद्गच्छति / 'क्रिया-' इति किम् / साधनप्रश्ने मा भूत् / भकं पचत्यपूपान्वा / 'प्रश्ने' किम् / किं पठति / 'क्षेपोऽयम् / 'अनुपसर्गम्' किम् / किं प्रपचति उत प्रकरोति / 'अप्रतिषिद्धम् ' किम् / किं किं द्विजो न पचति // 3952 / लोपे विभाषा (8-1-45) / किमोऽप्रयोग उक्तं वा / देवदत्तः पचत्याहोखित्पठति // 3953 / एहिमन्ये प्रहासे लट् (8-1-46 / एहिमन्य इत्यनेन युक्तं लुडन्तं नानुदात्तं क्रीडायाम् / एहि मन्ये भक्तं भोक्ष्यसे नहिभोक्ष्यसे भुक्तं तत्त्वतिथिभिः / 'प्रहासे' किम् / एहि मन्यसे ओदनं भोक्ष्य इति सुष्टु मन्यसे / गत्यर्थलोटा लट्-' (सू 3958) इत्यनेनैव सिद्ध नियमार्थोऽयमारम्भः / एहिमन्येयुक्ते प्रहास एव नान्यत्र / 'एहि मन्यसे ओदनं भोक्ष्ये' // 3954 / जात्वपूर्वम् (8-1-47) / अविद्यमानपूर्व यज्जातु तेन युक्तं तिङन्तं नानुदात्तम् / जातु भोक्ष्यसे / 'अपूर्वम्' किम् / कटं जातु करिष्यसि // 3955 / किंवृत्तं च चिदुत्तरम् (8-1-48) / अविद्यमानपूर्व चिदुत्तरं यत्किंवृत्तं तेन युक्तं तिङन्तं नानुदात्तम् / विभक्त्यन्तं डतरडतमान्तं किमो रूपं किंवृत्तम् / कश्चिद्भुङ्क्ते / कतरश्चित् / कतमश्चिद्वा / 'विदुत्तरम्' किम् / को भुङ्क्ते / अपूर्वमित्येव / रामः किंचित्पठति // 3956 / आहो उताहो चानन्तरम् (8-1-49) / आहो उताहो इत्याभ्यां अपूर्वाभ्याम् युक्तं तिङन्तं नानुदात्तम् / आहो उताहो वा भुङ्क्ते / अनन्तरमित्येव / शेषे विभाषां वक्ष्यति / 'अपूर्व-' इति किम् / दिव आहो भुते // 3957 / शेषे विभाषा (8-1.50) / आभ्यां युक्तं व्यवहितं तिङन्तं वानुदात्तम् / आहो देवः पचति // 3958 / गत्यर्थलोटा लण्न चेत्कारकं सर्वान्यत् (8-1-51) / गत्यर्थानां लोटा युक्तं तिङन्तं नानुदात्तम् / यत्रैव कारके लोट् तत्रैव लुडपि चेत् / आगच्छ देव प्राम द्रक्ष्यसि / उह्यन्तां देवदत्तेन शालयः / रामेण भोक्ष्यन्ते / 'गत्यर्थ- किम / पच देव ओदनं भोक्ष्यसेऽत्रम् / 'लोटा' किम् / आगच्छेर्देव ग्रामं द्रक्ष्यस्येनम् / 'लुट' किम् / आगच्छ देव देव प्रामं पश्यस्येनम् / 'न चेत्' इति किम् / आगच्छ देव प्रामं पिता ते ओदनं भोक्ष्यते / 'सर्वम्' किम् / आगच्छ देव प्रामं त्वं चाहं च द्रक्ष्याव एनमित्यत्रापि निघातनिषेधो यथा स्यात् / यल्लोडन्तस्य कारकं तच्चान्यच्च लडन्तेनोच्यते // 3959 / लोट् च (8-1-52) / लोडन्तं गत्यर्थलोटा युक्तं नानुदात्तम् / आगच्छ देव प्रामं पश्य / 'गत्यर्थ-' इति किम्। पच देवौदनं भुवनम् / 'लोट् किम् / आगच्छ देव प्रामं पश्यसि / न चेत्कारकं सर्वान्यदित्येव / आगच्छ देव प्रामं पश्यत्वेनं रामः / सर्वग्रहणात्त्विह स्यादेव / आगच्छ देव प्रामं त्वं चाहं च पश्याव / योगविभाग उत्तरार्थः॥ 3960 / विभाषितं सोपसर्गमनुत्तमम् (8-1.53) / लोडन्तं गत्यर्थलोटा युक्तं तिङन्तं वानुदात्तम् / आगच्छ देव प्रामं प्रविश / ' सोपसर्गम्' किम् / आगच्छ देव ग्रामं पश्य / 'अनुत्तमम्' किम् / आगच्छानि देव प्रामं प्रविशानि // 3961 / हन्त च (8 1-54) / हन्तेत्यनेन युक्तमनुत्तमं लोडन्तं वानुदात्तम् / हन्त प्रविश / सोपसर्गमित्येव / हन्त कुरु / 'निपातैर्यद्यदि-' (सू 3937) इति निघातप्रतिषेधः / 'अनुत्तमम्' किम् / हन्त प्रभुञ्जावहै // 3962 / आम एकान्तरमामन्त्रितमनन्तिके (8-1-55) / आमः परमेकपदान्तरितमामन्त्रितं नानुदात्तम् / आम् पचसि देवदत्त 3 / 'एकान्तरम्' किम् / आम्प्रपचसि देवदत्त३ / 'आमन्त्रितम् 'किम्। आम्पचति देवदत्तः। 'अनन्तिके' किम् / आम्पचसि देवदत्त // For Private And Personal Use Only
Page #767
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्वरप्रकरणम् / 765 3963 / यद्धितुपरं छन्दसि (8-1-56) / तिङन्तं नानुदात्तम् / 'उदसृजो यदङ्गिरः' / उशन्ति हि' / आख्यास्यामि तु ते / 'निपातैर्यत्-' (सू 3937) इति हि च' (सू 3941) इति 'तुपश्य-' (सू 3946) इति च सिद्ध नियमार्थमिदम् / एतैरेव परभूतैर्योगे नान्यैरिति / जाये खारोहावैहि / एहीति गत्यर्थलोटा युक्तस्य लोहावेति लोडन्तस्य निघातो भवति // 3964 / चनचिदिवगोत्रादितद्धितामेडितेष्वगतेः (8.1-57) / एषु षट्सु परतस्तिङन्तं नानुदात्तम् / देवः पचति चन। देवः पचति चित् / देवः पचतीव / देवः पचति गोत्रम् / देवः पचतिकल्पम् / देवः पचतिपचति / 'अगतेः' किम् / देवः प्रपचति चन // 3965 / चादिषु च (8-1-58) / चवाहाहैवेषु परेषु तिङन्तं नानुदात्तम् / देवः पचति च खादति च / अगतेरित्येव / देवः प्रपचति च प्रखादति च / प्रथमस्य ‘चवायोगे-' (सू 3966) इति निघातः प्रतिषिध्यते द्वितीयं तु निहन्यत एव // 3966 / चवायोगे प्रथमा (8.1.59) / चवेत्याभ्यां योगे प्रथमा तिड्विभक्तिर्नानुदात्ता / गाश्च चारयति वीणां वा वादयति / 'इतो वा सातिमीमहे' / उत्तरवाक्ययोरनुषञ्जनीयतिङन्तापेक्षयेयं प्राथमिकी / 'योगे' किम् / पूर्वभूतयोरपि योगेऽनिघातार्थम् / प्रथमाग्रहणं द्वितीयादेस्तिङन्तस्य मा भूत् // 3967 / हेति क्षियायाम् (8-1-60) / हयुक्ता प्रथमा तिथिभक्तिर्नानुदात्ता धर्मव्यतिक्रमे / स्वयं ह रथेन याति 3 / उपाध्यायं पदातिं गमयति / ‘क्षियाशी:-' (सू 3623) इति प्लुतः // 3968 / अहेति विनियोगे च (8-1-61) / अहयुक्ता प्रथमा तिथिभक्तिर्नानुदात्ता नानाप्रयोजन नियोगे क्षियायां च / त्वमह प्रामं गच्छ / त्वमह रथेनारण्यं गच्छ / क्षियायां स्वयमह रथेन याति३ / उपाध्यायं पदातिं नयति // 3969 / चाहलोप एवेत्यवधारणम् (8-1-62) / 'च' 'अह' एतयोलोपे प्रथमा तिदिभक्तिर्नानुदात्ता / देव एव ग्राम गच्छतु / देव ए देव एवारण्यं गच्छतु / ग्राममरण्यं च गच्छत्वित्यर्थः / देव एव प्रामं गच्छतु / राम एवारण्यं गच्छतु / ग्रामं केवल . मरण्यं केवलं गच्छत्वित्यर्थः / इहाहलोपः स च केवलार्थः / 'अवधारणम्' किम् / देव केव भोक्ष्यसे / न क्वचिदित्यर्थः / अनवक्लुप्तावेवकारः // 3970 / चादिलोपे विभाषा (8-1-63) चवाहाहैवानां लोपे प्रथमा तिडिभक्तिर्नानुदात्ता / चलोपे / 'इन्द्र वाजेषु नोऽव'। शुक्ला वीहयो भवन्ति / श्वेता गा आज्याय दुहन्ति / वालोपे / व्रीहिभिर्यजत / यवैर्यजेत // 3971 / वैवावेति च छन्दसि (8.1-64) / 'अहवै देवानामासीत्' / 'अयं वाव हस्त आसीत् // 3972 / एकान्याभ्यां समर्थाभ्याम् (8-1-65) / आभ्यां युक्ता प्रथमा तिडिभक्तिर्नानुदात्ता छन्दसि / 'अजामेकां जिन्वति' / 'प्रजामेकां रक्षति' / तयोरन्यः पिप्पलं स्वाद्वत्ति' / 'समर्थाभ्याम् ' किम् / एको देवानुपातिष्ठत् / एक हाते सङ्ख्यापरं नान्यार्थम् // 3973 / यद्वृत्तानित्यम् (8-1-66) / यद्वृत्तात् परं तिङन्तं नानुदात्तम् / यत्र पदे यच्छन्दः तद्यद्वृत्तं यो भुङ्क्ते / यदव्यतायुर्वाति। अत्र 'व्यवहिते कार्यमिष्यते // 3974 / पूजनात्पूजितमनुदात्तं काष्ठादिभ्य (8-1-67) / पूजनेभ्यः काष्ठादिभ्यः पूजितवचनमनुदात्तम् / काष्ठाध्यापकः 'मलोपश्च वक्तव्यः' (वा 4735) / दारुणाध्यापकः / अज्ञाताध्यापकः / समासान्तोदात्तत्वापवादः / 'एतत्समास इष्यते' / नेह / दारुणमध्यापक इति वृत्तिमतम् / पूजनादित्येव पूजितग्रहणे सिद्धे पूजितग्रहणमनन्तरपूजितलाभार्थम् / एतदेव ज्ञापकम् 'अत्र प्रकरणे पञ्चमी For Private And Personal Use Only
Page #768
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुद्याम् निर्देशेऽपि नानन्तर्यमाश्रीयते' इति // 3975 / सगतिरपि तिङ् (8-1-68) / पूजनेभ्यः काष्ठादिभ्यस्तिङन्तं पूजितमनुदात्तम् / यत्काष्टं प्रपचति / ' तितिङः' (सू 3935) इति निघातस्य 'निपातैर्यत्' (सू 3937) इति निषेधे प्राप्ते विधिरयम् / सगतिग्रहणाच गतिरपि निहन्यते / 'गतिग्रहणे उपसर्गग्रहणमिष्यते' (वा 4732) / नेह / यत्काष्ठं शुष्कीकरोति // 3976 / कुत्सन च सुप्यगोत्रादौ (8-1-69) / कुत्सने च सुबन्ते परे सगतिरगतिरपि तिङनुदात्तः / पचति पूति / प्रपचति पूति / पचति मिथ्या / 'कुत्सने' किम् / प्रपचति शोभनम् / 'सुपि' किम् / पचति क्लिश्नाति / 'अगोत्रादौ' किम् / पचति गोत्रम् / 'क्रियाकुत्सन इति वाच्यम्' (वा 4739) / कर्तुः कुत्सन मा भूत् / पचति पूतिर्देवदत्तः। 'पूतिश्चानुबन्ध इति वाच्यम्' (वा 4741) / तेनायं चकारानुबन्धत्वादन्तोदात्तः / ‘वा बह्वर्थमनुदात्तमिति वाच्यम्' (वा 4742) / पचन्तिपूति // 3977 / गतिगतो (8-1-70) / अनुदात्तः / अभ्युद्धरति / 'गतिः' किम् / दत्तः पचति / ‘गतौ' किम् / 'आमन्द्ररिन्द्र हरिभिर्याहि मयूरोमभिः' / / 3978 / तिङि चोदात्तवति (8-1-71) / गतिरनुदात्तः / यत्प्रपचति / तिङ्ग्रहणमुदात्तवतः परिमाणार्थम् / अन्यथा हि यत्क्रियायुक्ताः प्रादयस्तं प्रत्येव गतिस्तत्र धातावेवोदात्तवति स्यात्प्रत्यये न स्यात् / 'उदातवति' किम् / प्रपचति // _इति तिङन्तस्वराः। अथ वैदिकवाक्येषु स्वरसञ्चारप्रकारः कथ्यते–'अग्निमीळे' इति प्रथमझ् / तत्राग्निशब्दोऽव्युत्पत्तिपक्षे 'फिष' (फिट 1) इत्यन्तोदात्त इति माधवः। वस्तुतस्तु घृतादित्वात् / व्युत्पत्तौ तु निप्रत्ययस्वरेण / असुप्त्वादनुदात्तः / 'अमि पूर्वः' (सू 194) इत्येकादेशस्तु 'एकादेश उदात्तेन-' (सू 3658) इत्युदात्तः / ईळे / 'तिङ्ङतिङः' (सू 3935) इति निघातः / संहितायां तु 'उदात्तादनुदात्तस्य-' (सू 3660) इतीकारः स्वरितः / ‘स्वरितात्संहितायाम्-' (सू 3668) इति 'के' इत्यस्य प्रचयापरपर्याया एकश्रुतिः / पुरःशब्दोऽन्तोदात्तः 'पूर्वाधरावराणाम्-' (1975) इत्यसिप्रत्ययस्वरात् / हितशब्दोऽपि धाओ निष्ठायाम् 'दधातेर्हिः' (सू 3076) इति ह्यादेशे प्रत्ययस्वरेणान्तोदात्तः। 'पुरोऽव्ययम् ' (सू 768) इति गतिसंज्ञायां 'कुगति-' (सू 761) इति समास समासान्तोदात्त 'तत्पुरुषे तुल्यार्थ-' (सू 3736) इत्यव्ययपूर्वपदप्रकृतिस्वरे ‘गतिकारकोपपदात्कृत्' (सू 3873) इति कृदुत्तरपदप्रकृतिस्वरे थाथादिस्वरे च पूर्वपूर्वोपमर्दैन प्राप्ते 'गतिरनन्तरः' (सू 3783) इति पूर्वपदप्रकृतिस्वरः / पुरःशब्दोकारस्य संहितायां प्रचये प्राप्ते 'उदात्तस्वरितपरस्य सन्नतरः' (सू 3669) इत्यनुदात्ततरः / यज्ञस्य / नङः प्रत्ययस्वरः / विभक्तः सुप्त्वादनुदात्तत्वे स्वरितत्वम् / देवम् / पचाद्यच् / फिटस्वरेण प्रत्ययस्वरेण चित्स्वरेण वान्तोदात्तः / ऋत्विक्छब्दः कृदुत्तरपदप्रकृतिस्वरेणान्तोदात्तः / होतृशब्दस्तृन्प्रत्ययान्तो नित्स्वरेणाद्युदात्तः / रत्नशब्दो 'नविषयस्य' (फिट् 26) इत्यायुदात्तः / रत्नानि दधातीति रत्नधाः / समासस्वरेण कृदुत्तरपदप्रकृतिस्वरेण वान्तोदात्तः / तमपः पित्त्वादनुदात्तत्वे स्वरितप्रचयावित्यादि यथाशास्त्रमुग्नेयम् // इति स्वरप्रकरणम् // इत्थं वैदिकशब्दानां दिङ्मात्रमिह दर्शितम् / तदस्तु प्रीतये श्रीमद्भवानीविश्वनाथयोः // For Private And Personal Use Only
Page #769
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // श्रीरस्तु॥ // वैयाकरणसिद्धान्तकौमुदी // अथ लिङ्गानुशासनप्रकरणम् / 1. 'लिङ्गम् // 2. 'स्त्री' / अधिकारसूत्रे एते // 3. 'ऋकारान्ता मातृदुहितृस्वसृयातृननान्दरः' / ऋकारान्ता एते पञ्चैव स्त्रीलिङ्गाः / स्वस्रादिपञ्चकस्यैव डीनिषेधेन कीयादेडींपेकारान्तत्वात् / तिसृचतस्रोस्तु स्त्रियामादेशतया विधानेऽपि प्रकृत्योस्त्रिचतुरोक्रंदन्तत्वाभावात् // 4. 'अन्यूप्रत्ययान्तो धातुः' / अनिप्रत्ययान्त ऊप्रत्ययान्तश्च धातुः स्त्रियां स्यात् / अवनिः / चमूः / 'प्रत्ययग्रहणम्' किम् / देवयतेः क्विप् ऊ द्यूः / विशेष्यलिङ्गः // 5. 'अशनिभरण्यरणयः पुंसि च' / इयमयं वाशनिः // 6. 'मिन्यन्तः' / मिप्रत्ययान्तो निप्रत्ययान्तश्च धातुः स्त्रियां स्यात् / भूमिः / ग्लानिः // 7. 'वह्निवृष्ण्यग्नयः पुंसि' / पूर्वस्यापवादः // 8. 'श्रोणियोन्यूर्मयः पुंसि च' / इयमयं वा श्रोणिः // 9. 'क्तिन्नन्तः' / स्पष्टम् / कृतिरित्यादि // 10. 'ईकारान्तश्च' / ईप्रत्ययान्तः स्त्री स्यात् / लक्ष्मीः / ईबन्तश्च स्त्रियां स्यात् देवी कुरुचरीत्यादि // 11. 'ऊङाबन्तश्च' / कुरू: / विद्या // 12. 'यवन्तमेकाक्षरम् / श्रीः / भूः / 'एकाक्षरम् ' किम् / पृथुश्रीः // 13. 'विंशत्यादिरानवतेः' / इयं विंशतिः / त्रिंशत् / चत्वारिंशत् / पञ्चाशत् / षष्टिः / सप्ततिः / अशीतिः / नवतिः // 14. 'दुन्दुभिरक्षेषु' / इयं दुन्दुभिः / 'अक्षेषु' किम् / अयं दुन्दुभिर्वाद्यविशेषोऽसुरो वेत्यर्थः // 15. 'नाभिरक्षत्रिये' / इयं नाभिः // 16. 'उभावप्यन्यत्र पुंसि' / दुन्दुभिर्नाभिश्चोक्तविषयादन्यत्र पुंसि स्तः / नाभिः क्षत्रियः / कथं तर्हि 'समुल्लसत्पङ्कजपत्रकोमलैरुपाहितश्रीण्युपनीविनाभिभिः' इति भारविः / उच्यते / दृढभक्तिरित्यादाविव कोमलैरिति सामान्ये नपुंसकं बोध्यम् / वस्ततस्तु 'लिङ्गमशिष्यं लोकाश्रयत्वाल्लिङ्गस्य' इति भाष्यात्पुंस्त्वमपीह साधु / अत एव 'नाभिर्मुख्यनृपे चक्रमध्यक्षत्रिययोः पुमान्' / 'द्वयोः प्राणिप्रतीके स्यास्त्रियां कस्तूरिकामदे' इति मेदिनी / रभसोऽप्याह-'मुख्यराक्षत्रिये नाभिः पुंसि प्राण्यङ्गके द्वयोः / चक्रमध्ये प्रधाने च स्त्रियां कस्तूरिकामदे' इति / एवमेवंविधेऽन्यत्रापि बोध्यम् // 17. 'तलन्तः' / अयं स्त्रियां स्यात् / शुक्स्य भावः शुक्लता / ब्राह्मणख कर्म ब्राह्मणता। ग्रामस्य समूहो प्रामता / देव एव देवता // 18. 'भूमिविद्युत्सरिलतावनिताभिधानानि' / भूमिभूः / विद्युत्सौदामिनी / सरिनिम्नगा। लता वल्ली। वनिता योषित् / 19. 'यादो नपुंसकम्' / यादःशब्दः सरिद्वाचकोऽपि क्लीबं स्यात् // 20. 'भाःउक्स्रग्दिगुष्णिगुपानहः / एते स्त्रियां स्युः / For Private And Personal Use Only
Page #770
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 768 सिद्धान्तकौमुद्याम् इयं भाः इत्यादि // 21. 'स्थूणोणे नपुंसके च' / एते स्त्रियां क्लीबे च स्तः / स्थूणा-स्थूणम् / ऊर्णा-ऊर्णम् / तत्र स्थूणा काष्ठमयी द्विकर्णिका / ऊर्णा तु मेषादिलोम // 22. 'गृहशशाभ्यां क्लीबे' / नियमार्थमिदम् / गृहशशपूर्वे स्थूणोणे यथासङ्खयं नपुंसके स्तः / गृहस्थूणम् / 'शशोर्ण शशलोमनि' इत्यमरः // 23. 'प्रावृट्विप्रुट्तृ वित्विषः' / एते स्त्रियां स्युः // 24. 'दर्विविदिवेदिखनिशान्त्यत्रिवेशिकृष्योषधिकट्यङ्गुलयः' / एते स्त्रियां स्युः / पक्षे ङीप् / दर्वी-दर्विरित्यादि // 25. 'तिथिनाडिरुचिवीचिनालिधूलिककिकेलिच्छविनीविराज्यादयः' / एते प्राग्वत् / इयं तिथिरित्यादि / अमरस्त्वाह-'तिथयो द्वयोः' इति / तथा च भारविः'तस्य भुवि बहुतियास्तिथयः' इति / स्त्रीत्वे हि बहुतिथ्य इति स्यात् / श्रीहर्षश्च–'निखिलां निशि पौर्णिमातिथीन्' इति // 26. 'शष्कुलिराजिकुट्यशनिवर्तिभृकुटित्रुटिवलिपतयः' / एतेऽपि स्त्रियां स्युः / इयं शष्कुलिः // 27. 'प्रतिपदापद्विपत्संपच्छरत्संसत्परिषदुषःसंविक्षुत्पुन्मुसमिधः' / इयं प्रतिपदित्यादि / उषा उच्छन्ती। उषाः प्रातरधिष्ठात्री देवता // 28. आशीधूं:पूरिः ' / इयमाशीरित्यादि // 29. 'अप्सुमनस्समासिकतावर्षाणां बहुत्वं च' / अबादीनां पञ्चानां स्त्रीत्वं स्याद्बहुत्वं च / आप इमाः / 'स्त्रियः सुमनसः पुष्पम् ' / 'सुमना मालती जातिः' देववाची तु पुंस्येव / 'सुपर्वाणः सुमनसः' / बहुत्वं प्रायिकम् / 'एका च सिकता तैलदानेऽसमर्था' इत्यर्थवत्सूत्रे भाष्यप्रयोगात् / 'समांसमां विजायते' (सू 1813) इत्यत्र 'समायां समायाम्' इति भाष्याच्च / 'विभाषा घ्राधेट' (सू 2376) इति सूत्रे ‘आघ्रासातां सुमनसौ' इति वृत्तिव्याख्यायां हरदत्तोऽप्येवम् // 30. 'सक्त्वग्ज्योग्वाग्यवागूनौस्फिचः' / इयं स्रक्त्वज्योक् वाक्यवागूः नौ स्फिक् // 31. 'तृटिसीमासम्बध्याः' / इयं तृटिः सीमासंबध्या // 32. चुल्लिवेणिखार्यश्च' / स्पष्टम् // 33. 'ताराधाराज्योत्स्नादयश्च' / 'शलाका स्त्रियां नित्यम्' / नित्यग्रहणमन्येषां क्वचिद्यभिचारं ज्ञापयति // इति स्यधिकारः // 34. 'पुमान्' / अधिकारोऽयम् // 35. 'घजबन्तः' / पाकः / त्यागः / करः / गरः। भावार्थ एवेदम् / नपुंसकत्वविशिष्टे भावे क्तल्युड्भ्यां स्त्रीत्वविशिष्टे तु क्तिन्नादिभिर्बाधेन परिशेषात् / कर्मादौ तु घनाद्यन्तमपि विशेष्यलिङ्गम् / तथा च भाष्यम्-'सम्बन्धमनुवर्तिप्यते' इति // 36. 'घाजन्तश्च' / विस्तरः / गोचरः। चयः / जयः इत्यादि // 37. 'भयलिङ्गभगपदानि नपुंसके' / एतानि नपुंसके स्युः / भयम् / लिङ्गम् / भगम् / पदम् / 38. 'नङन्तः' / नङ्प्रत्ययान्तः पुंसि स्यात् / यज्ञः / यत्नः // 39. 'याच्या स्त्रियाम्' / पूर्वस्यापवादः // 40. 'क्यन्तो घुः' / किप्रत्ययान्तो घुः पुंसि स्यात् / आधिः / निधिः / उदधिः / 'क्यन्तः' किम् / दानम् / 'घुः किम् / जज्ञिर्बीजम् // 41. 'इषुधिः स्त्री च' / इषुधिशब्दः स्त्रियां पुंसि च / पूर्वस्यापवादः // 42. 'देवासुरात्मस्वर्गगिरिसमुद्रनखकेशदन्तस्तनभुजकण्ठखड्गशरपङ्काभिधानानि' / एतानि पुंसि स्युः / देवाः सुराः / असुरा दैत्याः / आत्मा क्षेत्रज्ञः / स्वर्गो नाकः / गिरिः पर्वतः / समुद्रोऽब्धिः / नख: कररुहः / केशः शिरोरुहः / दन्तो दशनः / स्तनः कुचः / भुजो दोः / कण्ठो गळ: / खड्गः करवाल: / शरो मार्गणः / पङ्कः कर्दम इत्यादि // 43. 'त्रिविष्टपत्रिभुवने नपुंसके' / स्पष्टम् / तृतीयं विष्टपं त्रिविष्टपम् / स्वर्गाभिधानतया पुंस्त्वे प्राप्तेऽयमारम्भः // 44. 'द्यौः स्त्रियाम्' / द्योदिवोः For Private And Personal Use Only
Page #771
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir लिङ्गानुशासनप्रकरणम् / 769 तन्त्रेणोपादानमिदम् // 45. 'इषुबाहू स्त्रियां च' / चात्पुंसि // 46. 'बाणकाण्डौ नपुंसके च' / चात्पुंसि / त्रिविष्टपेत्यादिचतुःसूत्री देवासुरेत्यस्यापवादः // 47. 'नन्तः' / अयं पुंसि / राजा / तक्षा / न च चर्मवादिष्वतिव्याप्तिः / 'मन्यच्कोऽकर्तरि' इति नपुंसकप्रकरणे वक्ष्यमाणत्वात् / 48. 'ऋतुपुरुषकपोलगुल्फमेघाभिधानानि' / क्रतुरध्वरः / पुरुषो नरः / कपोलो गण्डः / गुल्फः प्रपदः / मेघो नीरदः // 49. 'अत्रं नपुंसकम्' / पूर्वस्यापवादः / / 50. 'उकारान्तः' / अयं पुंसि स्यात् / प्रभुः / इक्षुः / 'हनुहट्टविलासिन्यां नृत्यारम्भे गदे स्त्रियाम् / द्वयोः कपोलावयवे' इति मेदिनी / 'करेणुरिभ्यां स्त्री नेभे' इत्यमरः / एवंजातीयकविशेषवचनानाक्रान्तस्तु प्रकृतसूत्रस्य विषयः / उक्तं च-'लिङ्गशेषविधिर्व्यापी विशेषैर्यद्यबाधितः' इति / एवमन्यत्रापि // 51. धेनुरज्जुकुहुसरयुतनुरेणुप्रियङ्गवः स्त्रियाम् // 52. 'समासे रज्जुः पुंसि च' / कर्कटरज्ज्वा -कर्कटरज्जुना // 53. '३मश्रुजानुवसुस्वाद्वश्रुजतुत्र. पुतालूनि नपुंसके' // 54. 'वसु चार्थवाचि' / 'अर्थवाचि' इति किम् / 'वसुर्मयूखाग्निधनाधिपेषु' // 55. 'मद्गुमधुसीधुशीधुसानुकमण्डलूनि नपुंसके च'। चात्पुंसि / अयं मद्गुः / इदं मद्गु // 56. 'रुत्वन्तः' / मेरुः / सेतुः // 57. 'दारुकसेरुजतुवस्तुमस्तूनि नपुंसके' / रुत्वन्त इति पुंस्त्वस्यापवादः / इदं दारु // 58. 'सक्तुर्नपुंसके च'। चात्पुंसि / सक्तुः-सक्तु। 59. 'प्राप्रश्मेरकारान्तः' / 'रश्मिदिवसाभिधानानि' इति वक्ष्यति ततः प्राक् एतस्मादका. रान्त इत्यधिक्रियते // 60. 'कोपधः' / कोपधोऽकारान्तः पुंसि स्यात् / स्तबकः / कल्कः // 61. 'चिबुकशालूकप्रातिपदिकांशुकोल्मुकानि नपुंसके ' / पूर्वसूत्रापवादः // 62. 'कण्टकानीकसरकमोदकचषकमस्तकपुस्तकतडाकनिष्कशुष्कवर्चस्कपिनाकभाण्डकपिण्डककटकशण्डकपिटकतालकफलकपुलाकानि नपुंसके च'। चात्पुंसि / अयं कण्टकः / इदं कण्टकमित्यादि // 63. 'टोपधः' / टोपधोऽकारान्तः पुंसि स्यात् / घटः / पटः // 64. 'किरीटमुकुटललाटवटविटशृङ्गाटकराटलोष्टानि नपुंसके' / किरीटमित्यादि // 65. 'कुटकूटकपटकवाटकर्पटनटनिकटकीटकटानि नपुंसके च'। चात्पुंसि / कुटः / कुटमित्यादि // 66. 'णोपधः' / णोपधोऽकारान्तः पुंसि स्यात् / गुणः / गणः / पाषाणः // 67. 'ऋणलवणपर्णतोरणरणोष्णानि नपुंसके' / पूर्वसूत्रापवादः // 68. 'कार्षापणस्वर्णसुवर्णव्रणचरणवृषणविषाणचूर्णतृणानि नपुंसके च' / चात्पुंसि // 69. 'थोपधः' / रथः // 70. 'काष्ठपृष्ठसिक्थोक्थानि नपुसके' / इदं काष्ठमित्यादि / 'काष्ठा दिगा स्त्रियाम्' / इमाः काष्ठाः // 71. 'तीर्थप्रोथयूथगाथानि नपुंसके च' / चात्पुंसि / अयं तीर्थः / इदं तीर्थम् // 72. 'नोपधः' / अदन्तः पुंसि / इनः / फेनः // 73. 'जघनाजिनतुहिनकाननवनवृजिनविपिनवेतनशासनसोपानमिथुनश्मशानरत्ननिम्नचिह्नाने नपुंसके' / पूर्वस्यापवादः // 74. 'मानयानाभिधाननलिनपुलिनोद्यानशयनासनस्थानचन्दनालानसम्मानभवनवसनसम्भावनविभावनविमानानि नपुंसके च'। चात्पुंसि / अयं मानः / इदं मानम् / 75. 'पोपधः' / अदन्तः पुंसि / यूपः / दीपः / सर्पः // 76. 'पापरूपोड्डपतल्पशिल्पपुष्पशष्पसमीपान्तरीपाणि नपुंसके'। इदं पापमित्यादि // 77. 'शूर्पकुतपकुणपद्वीपविटपानि नपुंसके च' / अयं शूर्पः / इदं शूर्पमित्यादि // 78. 'भोपधः' / स्तम्भः / कुम्भः // 79. 'तलमं नपुंसकम् ' / पूर्वस्यापवादः // 80. 'जृम्भं नपुंसके च। For Private And Personal Use Only
Page #772
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुद्याम् जृम्भम्-जृम्भः // 81. 'मोपधः' / सोमः / भीमः // 82. 'रुक्मसिध्मयुग्मेध्मगुल्माध्यात्मकुङ्कुमानि नपुंसके' / इदं रुक्ममित्यादि // 83. 'सङ्ग्रामदाडिमकुसुमाश्रमक्षेमक्षौमहोमोद्दामानि नपुंसके च' / चात्पुंसि / अयं सङ्ग्रामः / इदं सङ्ग्रामम् // 84. 'योपधः' / समयः / हयः // 85. 'किसलयहृदयेन्द्रियोत्तरीयाणि नपुंसके' / स्पष्टम् // 86. 'गोमयकषायमलयान्वयाव्ययानि नपुंसके च' / गोमयः-गोमयम् // 87. 'रोपधः' / क्षुरः / अङ्कुरः // 88. 'द्वाराग्रस्फारतक्रवक्रवप्रक्षिप्रक्षुद्रनारतीरदूरकृच्छ्ररन्ध्राश्रश्वभ्रभीरगभीरक्रूरविचित्रकेयूरकेदारोदराजस्रशरीरकन्दरमन्दारपञ्जरजठराजिरवैरचामरपुष्करगह्वरकुहरकुटीरकुलीरचत्वरकाश्मीरनीराम्बर शिशिरतन्त्रयन्त्रनक्षत्रक्षेत्रमित्तकलत्रचित्रमूत्रसूत्रवक्रनेत्रगोत्राङ्गुलित्रभलत्रशस्त्रशास्त्रवत्रपत्तपात्र क्षत्ताणि नपुंसके' / इदं द्वारमित्यादि // 89. 'शुक्रमदेवतायाम्' / इदं शुक्र रेतः // 90. 'चक्रवज्रान्धकारसारावारपारक्षीरतोमरशृङ्गारभृङ्गारमन्दारोशीरतिमिरशिशिराणि नपुंसके च' / चात्पुंसि / चक्र:-चक्रमित्यादि // 91. 'षोपधः' / वृषः / वृक्षः // 92. 'शिरीषशीर्षाम्बरीषपीयूषपुरीषकिल्बिषकल्माषाणि नपुंसके' // 93. 'यूषकरीषामिषविषवर्षाणि नपुंसके च' / चात्पुंसि / अयं यूषः / इदं यूषमित्यादि // 94. 'सोपधः' / वत्सः / वायसः / महानसः / 95. 'पनसबिसबुससाहसानि नपुंसके' // 96. 'चमसांसरसनिर्यासोपवासकार्पासवासभासकासकांसमांसानि नपुंसके च' / इदं चमसम् / अयं चमस इत्यादि // 97. 'कंसं चाप्राणिनि' / 'कंसोऽस्त्री पानभाजनम्। प्राणिनि तु कंसो नाम कश्चिद्राजा // 98. 'रश्मिदिवसाभिधानानि' / एतानि पुंसि स्युः / रश्मिर्मयूखः / दिवसो घस्रः // 99. 'दीधितिः स्त्रियाम् ' पूर्वस्यापवादः // 100. 'दिनाहनी नपुंसके' / अयमप्यपवादः // 101. 'मानाभिधानानि' / एतानि पुंसि स्युः / कुडवः / प्रस्थः // 102. 'द्रोणाढकों नपुंसके च' / इदं द्रोणम् / अयं द्रोणः // 103. 'खारीमानिके स्त्रियाम्' / इयं खारी / इयं मानिका // 104. 'दाराक्षतला. जासूनां बहुत्वं च' / इमे दाराः // 105. 'नाड्यपजनोपपदानि व्रणाङ्गपदानि' / यथासङ्खयं नाड्याद्युपपदानि व्रणादीनि पुंसि स्युः / अयं नाडीव्रणः / अपाङ्गः / जनपदः / व्रणादीनामुभयलिङ्गत्वेऽपि क्लीबत्वनिवृत्त्यर्थ सूत्रम् // 106. 'मरुद्गरुत्तरदृत्विजः' / अयं मरुत् // 107. 'ऋषिराशिदृतिग्रन्थिक्रिमिध्वनिबलिकौलिमौलिरविकविकपिमुनयः। एते पुंसि स्युः / अयमृषिः / 108. "ध्वजगजमुञ्जपुञ्जाः' / एते पुंसि // 109. 'हस्तकुन्तान्तवातवातदूतधूर्तसूतचूतमुहूर्ताः'। एते पुंसि / अमरस्तु 'मुहूर्तोऽस्त्रियाम्' इत्याह // 110. 'षण्डमण्डकरण्डभरण्डवरण्डतुण्डगण्डमुण्डपाषण्डशिखण्डाः' / अयं षण्डः // 111. 'वंशांशपुरोडाशाः' / अयं वंशः। पुरो दाश्यते पुरोडाशः / कर्मणि घञ् / भावव्याख्यानयोः प्रकरणे ‘पौरोडाशपुरोडाशात्ष्टन्' (सू 1449) इति, विकारप्रकरणे 'व्रीहेः पुरोडाशे' (सू 1528) इति च निपातनात्प्रकृतसूत्र एव निपातनाद्वा दस्य डत्वम् / 'पुरोडाशभुजामिष्टम्' इति माघः // 112. 'हृदकन्दकुन्दबुहुदशब्दाः'। अयं ह्रदः // 113. 'अर्घपथिमथ्यभुक्षिस्तम्बनितम्बपूगाः' / अयमर्घः // 114. 'पल्लवपल्वल. कफरेफकटाहनियूहमठमणितरगतुरङ्गगन्धस्कन्धमृदङ्गसङ्गसमुद्रपुङ्खाः' / अयं पल्लव इत्यादि // 115. 'सारथ्यतिथिकुक्षिवस्तिपाण्यञ्जलयः / एते पुंसि / अयं सारथिः // इति पुंलिङ्गाधिकारः। For Private And Personal Use Only
Page #773
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir लिङ्गानुशासनप्रकरणम् / 116. 'नपुंसकम्' / अधिकारोऽयम् // 117. 'भावे ल्युडन्तः' / हसनम् / 'भाव' किम् / पचनोऽग्निः / इध्मव्रश्चनः कुठारः // 118. 'निष्ठा च' / भावे या निष्ठा तदन्तं क्लीबं स्यात् / हसितम् / गीतम् // 119. 'त्वष्यौ तद्धितौ' / शुक्लत्वम्-शौक्ल्यम्। ध्यञः पित्त्वसामर्थ्यात्पक्षे स्त्रीत्वम् / चातुर्यम्-चातुरी / सामग्र्यम्-सामग्री / औचित्यम् - औचिती // 120. 'कर्मणि च ब्राह्मणादिगुणवचनेभ्यः' / ब्राह्मणस्य कर्म ब्राह्मण्यम् // 121. ‘यद्यढग्यगअण्वुञ्छाश्च भावकर्मणि' / एतदन्तानि क्लीबानि / 'स्तेनाद्यन्नलोपश्च' (सू 1790) स्तेयम् / 'सख्युर्यः' (सू 1791) / सख्यम् / ‘कपिज्ञात्योर्डक्' (सू 1792) / कापेयम् / 'पत्यन्तपुरोहितादिभ्यो यक्' (सू 1793) / आधिपत्यम् / 'प्राणभृजातिवयोवचनोद्गात्रादिभ्योऽञ्' (सू 1794) / औष्ट्रम् / 'हायनान्तयुवादिभ्योऽण् ' (सू 1795) / द्वैहायनम् / द्वन्द्वमनोज्ञादिभ्यो वुञ् / पितापुत्रकम् / ‘होत्राभ्यश्छः' (सू 1800) / अच्छावाकीयम् / 'अव्ययीभावः-' (सू 659) / अधिस्त्रि // 122. 'द्वन्द्वैकत्वम्' / पाणिपादम् // 123. 'अभाषायां हेमन्तशिशिरावहोरात्रे च' / स्पष्टम् // 124. 'अनकर्मधारयस्तत्पुरुषः' / अधिकारोऽयम् // 125. 'अनल्पे छाया' / शरच्छायम् // 126. 'राजामनुष्यपूर्वा सभा'। इनसभमित्यादि // 127. 'सुरासेनाच्छायाशालानिशा स्त्रियां च // 128. 'परवत्' / अन्यस्तत्पुरुषः परवल्लिङ्गः स्यात् / 'रात्राहाहाः पुंसि' (सू 814) // 129. 'अपथपुण्याहे नपुंसके'॥ 130. 'सङ्खयापूर्वा रात्रिः' / त्रिरात्रम् / 'सङ्ख्यापूर्वा' इति किम् / सर्वरात्रः / 131. 'द्विगु: त्रियां च' / व्यवस्थया / पञ्च फली / त्रिभुवनम् // 132. 'इसुसन्तः' / हविः। धनुः // 133. 'अर्चिः स्त्रियां च' / इसन्तत्वेऽप्यर्चिः स्त्रियां नपुंसके च स्यात् / इयमिदं वार्चिः // 134. 'छदिः स्त्रियामेव' / इयं छदिः / छाद्यतेऽनेनेति छदेश्चुरादिण्यन्तात् 'अर्चिशुचि-' इत्यादिना इस् / ‘इस्मन्' इत्यादिना ह्रस्वः / 'पटलं छदिः' इत्यमरः / तत्र पटलसाहचर्याच्छदिषः क्लीबतां वदन्तोऽमरव्याख्यातार उपेक्ष्याः // 135. 'मुखनयनलोहबनमांसरुधिरकार्मुकविवरजलहलधनान्नाभिधानानि' / एतेषामभिधायकानि क्लीबे स्युः। मुखमाननम्। नयनं लोचनम् / लोहं कालम् / वनं गहनम् / मांसमामिषम् / रुधिरं रक्तम् / कार्मुकं शरासनम् / विवरं बिलम् / जलं वारि / हलं लाङ्गलम् / धनं द्रविणम् / अन्नमशनम् / अस्यापवादानाह त्रिसूत्र्या // 136. 'सीरार्थोदनाः पुंसि' // 137. वक्रनेत्रारण्यगाण्डीवानि पुंसि च' / वक्रो वक्रम् / नेत्रो नेत्रम् / अरण्योऽरण्यम् / गाण्डीवो गाण्डीवम् // 138. 'अटवी स्त्रियाम् // 139. 'लोपधः' / कुलम्-कूलम् / स्थलम् // 140. 'तूलोपलतालकुसूलतरलकम्बलदेवलवृषलाः पुंसि' / अयं तूलः // 141. 'शीलमूलमङ्गलसालकमलतलमुसलकुण्डलपललमृणालवालबालनिगलपलालविडालखिलशूलाः पुंसि च' / चाक्लीबे / इदं शीलमित्यादि / 142. 'शतादिः सङ्खया' / शतम् / सहस्रम् / 'शतादिः' इति किम् / एको द्वौ बहवः / 'सङ्खया' इति किम् / शतशृङ्गो नाम पर्वतः // 143. 'शतायुतप्रयुताः पुंसि च' / अयं शतः / इदं शतमित्यादि // 144. 'लक्षा कोटिः स्त्रियाम्' / इयं लक्षा। इयं कोटिः / 'वा लक्षा नियुतं च तत्' इत्यमराक्लीबेऽपि लक्षम् / 145. 'शङ्कुः पुंसि' / सहस्रः क्वचित् / अयं सहस्रः / इदं सहस्रम् // 146. 'मन्यच्कोऽकर्तरि' / मन्प्रत्ययान्तो द्यच्कः क्लीबः स्यान तु For Private And Personal Use Only
Page #774
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 772 सिद्धान्तकौमुद्याम् कर्तरि / वर्म / चर्म / 'द्यच्कः' किम् / अणिमा / महिमा। ‘अकर्तरि' किम् / ददाति इति दामा // 147. 'ब्रह्मन्पुंसि च' / अयं ब्रह्मा / इदं ब्रह्म // 148. 'नामरोमणी नपुंसके' / 'मन्यच्क:-' इत्यस्यायं प्रपञ्चः // 149. 'असन्तो यच्कः' / यशः / मनः / तपः / यच्कः' किम् / चन्द्रमाः // 150. 'अप्सराः स्त्रियाम् / एता अप्सरसः / प्रायेणायं बहुवचनान्तः // 151. 'त्रान्तः' / पत्तम् / छत्तम् // 152. 'यात्रामात्राभस्त्रादंष्ट्रावरत्राः स्त्रियामेव' // 153. 'भृत्रामित्रछातपुत्रमन्त्रवृत्रमेष्टाः पुंसि' / अयं भृत्रः / न मित्रममित्रः / 'तस्य मित्राण्यमित्रास्ते' इति माघः / 'स्वाताममित्रौ मित्रे च' इति च / यत्तु 'द्विषोऽमित्रे' (सू 3111) इति सूत्रे हरदत्तेनोक्तम्-'अमेर्द्विषदित्यौणादिक इत्रच् / अमैरमित्रं मित्रस्य व्यथयेत्' इत्यादौ मध्योदात्तस्तु चिन्त्यः / नञ्समासेऽप्येवम् / परवल्लिङ्गतापि स्यादिति तु तत्र दोषान्तरम्' इति, तत्प्रकृतसूत्रापर्यालोचनमूलकम् / खरदोषोद्भावनमपि 'नो जरमरमित्रमृताः' (सू 3850) इति षाष्ठसूत्रास्मरणमूलकमिति दिक् // 154. 'पत्रपात्रपवित्रसूत्रच्छत्राः पुंसि च' // 155. 'बलकुसुमशुल्बयुद्धपत्तनरणाभिधानानि' / बलं वीर्यम् // 156. 'पद्मकमलोत्पलानि पुंसि च' / पद्मादयः शब्दाः कुसुमाभिधायित्वेऽपि द्विलिङ्गाः स्युः / अमरोऽप्याह'वा पुंसि पद्मं नलिनम्' इति / एवं च 'अर्ध दिसूत्रे तु जलजे पद्म नपुंसकमेव' इति बृत्तिग्रन्थो मतान्तरेण ज्ञेयः // 157. 'आहवसङ्ग्रामौ पुंसि' // 158. 'आजिः स्त्रियामेव' // 159. 'फलजातिः' / फलजातिवाचिशब्दो नपुंसकं स्यात् / आमलकम् / आम्रम् // 160. 'वृक्षजातिः' / स्त्रियामेव क्वचिदेवेदम् / हरीतकी // 161. 'वियजगत्सकृत्शकन्पृषच्छकृद्यकृदुदश्वितः' / एते क्लीबाः स्युः // 162. 'नवनीतावतानृतामृतनिमित्तवित्तचित्तपित्तव्रतरजतवृत्तपलितानि' // 163. 'श्राद्धकुलिशदैवपीठकुण्डाङ्गदधिसक्थ्यक्ष्यस्थ्यास्पदाकाशकण्वबीजानि'। एतानि क्लीबे स्युः // 164. 'दैवं पुंसि च' / दैवम्-दैवः // 165. 'धान्याज्यसस्यरूप्यपण्यवर्ण्यधृष्यहव्यकव्यकाव्यसत्यापत्यमूल्यशिक्यकुड्यमद्यहर्म्यतूर्यसैन्यानि' / इदं धान्यमित्यादि / 166. 'द्वन्द्वबर्हदुःखबडिशपिच्छबिम्बकुटुम्बकवचवरशरबृन्दारकाणि' // 167. 'अक्षमिन्द्रिये' 'इन्द्रिये' किम् / रथाङ्गादौ मा भूत् // इति नपुंसकाधिकारः / 168. 'स्त्रीपुंसयोः' / अधिकारोऽयम् // 169. 'गोमणियष्टिमुष्टिपाटलिवस्तिशाल्मलित्रुटिमसिमरीचयः' / इयमयं वा गौः // 170. 'मृत्युसीधुकर्कन्धुकिष्कुकण्डुरेणवः' / इयमयं वा मृत्युः // 171. 'गुणवचनमुकारान्तं नपुंसकं च' / त्रिलिङ्गमित्यर्थः / पटु-पटुःपट्टी // 172. 'अपत्यार्थतद्धिते' / औपगवः-औपगवी // __ इति स्त्रीपुंसाधिकारः / 173. 'पुनपुंसकयोः' / अधिकारोऽयम् // 174. 'घृतभूतमुस्तक्ष्वेलितैरावतपुस्तकबुस्तलोहिताः' / अयं घृतः / इदं घृतम् // 175. ' शृङ्गार्घनिदाघोद्यमशल्यदृढाः' / अयं शृङ्गः। इदं शृङ्गम् // 176. 'व्रजकुञ्जकुथकूर्चप्रस्थदार्माधर्चदर्भपुच्छाः ' / अयं व्रजः / इदं व्रजम् // 177. 'कबन्धौषधायुधान्ताः' / स्पष्टम् // 178. 'दण्डमण्डखण्डशवसैन्धवपार्थाकाशकुशकाशाङ्कुशकुलिशाः' / एते पुनपुंसकयोः स्युः / 'कुशो रामसुते दर्भे योके द्वीपे कुशं For Private And Personal Use Only
Page #775
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir लिङ्गानुशासनप्रकरणम् / जले' इति विश्वः / शलाकावाची तु स्त्रियाम् / तथा च 'जानपद-' (सू 500) आदिसूत्रेणायोविकारे डीषि / कुशी / दारुणि तु टाप् 'कुशा वानस्पत्याः स्थ ता मा यात' इति श्रुतिः / 'अतः कृकमि-' (सू 160) इति सूत्रे 'कुशाकणीषु' इति प्रयोगश्च / व्याससूत्रे च–'हानी तूपायनशब्दशषत्वात्कुशाच्छन्दः' इति / तत्र शारीरकभाष्येऽप्येवम् / एवं च श्रुतिसूत्रभाष्याणामेकवाक्यत्वे स्थित आच्छन्द इत्याप्रश्लेषादिपरो भामतीग्रन्थः प्रौढिवादमात्रपर इति विभावनीयं बहुश्रुतैः // 179. 'गृहमेहदेहपट्टपटहाष्टापदाम्बुदककुदाश्च' // इति पुंनपुंसकाधिकारः / 180. 'अवशिष्टलिङ्गम् // 181. 'अव्ययं कतियुष्मदस्मदः' // 182. ष्णान्ता सङ्ख्या ' / शिष्टा परवत् एकः पुरुषः / एका स्त्री / एक कुलम् // 183. 'गुणवचनं च' / शुक्ल: पटः / शुक्ला पटी / शुक्लं वस्त्रम् // 184. 'कृत्याश्च // 185. 'करणाधिकरणयोयुट्'। 186. 'सर्वादीनि सर्वनामानि' / स्पष्टार्थेयं त्रिसूत्री // इति लिङ्गानुशासनप्रकरणम् / // इति श्रीभट्टोजिदीक्षितविरचिता वैयाकरणसिद्धान्तकौमुदी समाप्ता // For Private And Personal Use Only
Page #776
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only
Page #777
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // श्रीरस्तु // // अकाराद्यनुक्रमेण कौमुद्युत्तरार्धगतसूत्रसूचिकाः // सूत्रम् पार्श्वम्। सूत्रम् पार्श्वम् | 2176 अजादेर्द्वितीयस्य (6-1-2) 10 3186 अकर्तरि च कारके०(३-३-१९) 668 2876 अजिव्रज्योश्च (7-3-60) 489 2693 अकर्मकाच्च (1-3-26) 402 2292 अजेय॑घअपोः (2-4-56) 71 2708 अकर्मकाच्च (1-3-35) 407 2614 अज्झनगमां सनि (6-4-16) 329 2718 अकर्मकाच (1-3.45) 410 3047 अञ्चेः पूजायाम् (7-2-53) 540 3864 अकर्मधारये० (6-2-130) 757 3716 अञ्चश्छन्दस्यसर्व 0(6-1-170)747 2298 अकृत्सार्वधातुक० (7-4-25) 76 | 3024 अञ्चोऽनपादाने (8.2.48) 535 3807 अके जीविकार्थे (6-2-73) 753 2546 अञ्जः सिचि (7-2-71) 271 3247 अक्षेषु ग्लहः (3-3-70) 680 2476 अगायेगालवयोः (7-3-99) 209 2338 अक्षोऽन्यतरस्याम् (3-1-75) 107/2754 अणावकर्मकाच्चित्त०(१३-८८)४२७ 3256 अगारैकदेशे प्रघणः०(३.३-७९)६८२ 3809 अणि नियुक्ते (6-2-75) 754 3611 अग्नीत्प्रेषणे परस्य च(८-२.९२)७३६ 3181 अण्कर्मणि च (3-3-12) 666 3001 अग्नौ चेः (3-2-91) 530 3219 अणिनुणः (5-4-15) 675 2892 अग्नी परिचाय्योप०(३-१-१३१)४९३ | 2248 अत आदेः (7-4-70) 40 3462 अप्राद्यत् (4-4-116) 726 2467 अत उत्सार्वधातुके (6-4-110)206 3553 अङितश्च (6-4-103) 731 2282 अत उपधायाः (7-2-116) 60 3522 अङ्ग इत्यादौ च (6-1-119) 729 2260 अत एकहल्मध्ये (6-4.120) 49 3615 अङ्गयुक्तं तिडाकासम्(८.२-९६)७३६ 3925 अतेरकृत्पदे (6-2-191) 762 3804 अङ्गानि मैरेये (6-2-70) 753 2170 अतो दी? यत्रि (7-3.101) 8 3940 अङ्गाप्रातिलोम्ये (8-1-33) 763 2212 अतो येयः (7-2-80) 24 3078 अच उपसर्गात्तः (7.4.47) 550 2308 अतो लोपः (64-48) 85 3678 अचः कर्तृयकि (6-1-195) 7412330 अतो रान्तस्य (7-2-2) 99 2768 अचः कर्मकर्तरि (3.1.62) 448 2184 अतो हलादेर्लघोः (7-2-7) 60 2294 अचस्तास्वत्थल्य० (7.2.61) 73 2202 अतो हेः (6-4-105) 2541 अचि विभाषा (8-2-21) 263 2620 अत्र लोपोऽभ्यासस्य (7-4-58)332 2842 अचो यत् (3-1-97) 479 2566 अत्स्मृदृत्वरप्रथ० (7-4-95) 287 3891 अच्कावशक्तौ (6-2-157) 760 2426 अदः सर्वेषाम् (7-3-100) 181 2853 अजय सङ्गतम् (3-1-105) 482 2479 अदभ्यस्तात् (7-1-4) 212 For Private And Personal Use Only
Page #778
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कौमुद्युत्तरार्धगतसूत्रसूचिकाः। 523 सूत्रम् पार्श्वम् / सूत्रम् पार्श्वम् 2423 अदिप्रभृतिभ्यः शपः (2-4-72)180 2349 अनुविपर्यभिनिभ्यः (8-3-72)116 3080 अदो जग्धिय॑प्ति०(२-४-३६) 551 | 3601 अनो नुट् (8-2-16) 735 2977 अदोऽनन्ने (3-2-68) 522 | 3884 अनोभावकर्म० (6.2-150) 759 3480 अद्भिः संस्कृतम् (4-4-134) 727 2722 अनोरकर्मकात् (1-3-49) 412 3362 अधिकरणे बन्धः (3-4-41) 714 3923 अनोरप्रधानक० (6-2-189) 762 2929 अधिकरणे शेतेः (3-2.15) 509 3010 अनौ कर्मणि (3-2-100) 531 2820 अधीष्टे च (3-3-166) 468 3826 अन्तः (6-6-92) 2706 अधेः प्रसहने (1-3-33) 407 3877 अन्तः (6.2 143) 758 3922 अधेरुपरिस्थम् (6-2-188) 761 3913 अन्तः (6.2-179) 3301 अध्यायन्यायो० (3-3-122) 696 2984 अन्तः (8-4-20) 3744 अध्वर्युकषाययोर्जातौ(६.२ 10)749 3294 अन्तरदेशे (8.4.24) 695 2205 अनद्यतने लङ् (3-2-111) 20 | 3255 अन्तर्घनो देशे (3-3-78) 682 2185 अनद्यतने लुट् (3-3-15) 14 3914 अन्तश्च (6.2.180) 761 3624 अनन्त्यस्यापि० (8-2-105) 737 3688 अन्तश्च तवै० (6.1.200) 742 2802 अनवक्लप्त्यमर्ष०(३.३ 145) 463 | 2965 अन्तात्यन्ताध्वदूर०(३-२-४८) 518 3505 अनसन्तानपुंस० (5-4-103) 728 | 3715 अन्तोदात्तादुत्तर० (6.1 169)747 3786 अनिगन्तोऽश्चतौ० (6-2-52) 752 3706 अन्तोऽवत्याः (6 1-220) 743 2478 अनितेः (8.4-19) 211 | 3817 अन्त्यात्पूर्व बह्वचः (6.2.83) 754 * 2157 अनुदात्तडित० (1.3.12) 5/3348 अन्यथैवंकथ० (3-4-27) 711 3670 अनुदात्तं च (8-1-3) 741, 3158 अन्येभ्योऽपि० (32.178) 571 3650 अनुदात्तं पदमेक०(६-१.१५८)७३९ 3422 अन्येभ्योऽपि० (3.3.130) 723 3619 अनुदात्तं प्रश्ना० (8-2-100) 736 2980 अन्येभ्योऽपि० (3-2-75) 523 3651 अनुदात्तस्य च० (6.1.161) 739 3539 अन्येषामपि दृश्यते(६.३.१३७)७३० 2402 अनुदात्तस्य च१० (6-1-59) 164 3011 अन्येष्वपि दृश्यते(३-२.१०१) 531 3674 अनुदात्ते च (6.1-190) 741 3386 अन्वच्यानुलोम्ये (3.4-64) 720 3523 अनुदात्ते च कुध०(६.१-१२०)७२९ | 3375 अपगुरो णमुलि (6.1.53) 717 3129 अनुदात्तेतश्च० (3.2.149) 564 3258 अपघनोऽङ्गम् (3-3-81) 682 2428 अनुदात्तोपदेश० (6-4-37) 182 3071 अपचितश्च (7-2-30) 548 3709 अनुदात्तौ सुप्पितौ (3-1-4) 746 3580 अपरिहृताश्च (7-2-32) 733 2666 अनुनासिकस्य क्वि०(६-४-१५) 377 2779 अपरोक्षे च (3-2.119) 456 2745 अनुपराभ्यां कृमः (1-3-79) 424 3512 अपस्पृधेथामानृ० (6-1-36) 729 2743 अनुपसर्गाज्ज्ञः (1-3-76) 422 2717 अपह्नवे ज्ञः (1.3.44) 410 3035 अनुपसर्गात्फुल्ल (8.2-55) 537 | 3920 अपाच्च (6-2-186) 761 2716 अनुपसर्गाद्वा (1-3-43) 4102688 अपाश्चतुष्पाच्छकु०(६-१-१४२)४०० 2900 अनुपसर्गाल्लिँप०(३-१-१३८) 500 3373 अपादाने परी० (3-4.52) 717 For Private And Personal Use Only
Page #779
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कौमुद्युत्तरार्धगतसूत्रसूचिकाः / सूत्रम् पार्श्वम् सूत्रम् पार्श्वम् 2741 अपाद्वदः (1-3-73) 422 2851 अर्यः स्वामि० (3.1.103) 482 2967 अपे क्लेशतमसोः (3.2-50) 519 2926 अर्हः (3-2-12) 508 3124 अपे च लषः (32.144) 563 | 3113 अर्हः प्रशंसायाम् (3.2-133)560 3279 अ प्रत्ययात् (3-3.102) 689 / 2822 अर्हे कृत्यतृचश्च (3-3-169) 469 2773 अभिज्ञावचने लट् (3-2.112)454 3116 अलंकृग्निराकृञ्०(३-२-१३६)५६० 3193 अभिनिसः स्तनः० (8-3.86) 670 3316 अलंखल्वोः प्रति० (3-4-18) 700 2746 अभिप्रत्यतिभ्यः० (1-3-80) 425 | 3442 अवचक्षे च (3.4.15) 725 3218 अभिविधौ भाव० (3-3-44) 675 / 2849 अवधपण्यवर्या० (3-1-101) 481 3919 अभेर्मुखम् (6-2-185) 761 3524 अवपथासि च (6-1-121) 730 3065 अभेश्चाविदूर्ये (7.2-25) 546 3416 अवयाः श्वेतवाः० (8-2-67) 723 2417 अभ्यस्तख च (6.133) 176 2273 अवाचालम्बना० (8-3-68) 57 3673 अभ्यस्तानामादिः (6.1 189)741 2724 अबादः (1-3-51) 412 2290 अभ्यासस्यासवर्णे (6-4-78) 66 3226 अवे ग्रहो वर्षप्रति०(३.३५१)६७६ 2430 अभ्यासाच्च (7-3-55) 183 3299 अवे तृस्त्रोद्यञ् (3.3.120) 696 2182 अभ्यासे चर्च (8.4-54) 12 | 3415 अवे यजः (3.2.72) 723 3403 अभ्युत्सादयां० (3.1 42) 722 | 3189 अवोदैधौद्मप्रश्रथ० (6-4-29) 668 2970 अमनुष्यकर्तृके च (3.253) 519 | 3197 अवोदोर्नियः (3.3-26) 671 3823 अमहन्नवं नगरे० (6-2-89) 754 | 3381 अव्ययेऽयथाभिप्रे०(३-४.५९) 718 2874 अमावस्यदन्यतर०(३-१-१२२)४८८ | 3519 अव्यादवद्यादव०(६.१-११६) 729 3503 अमु च च्छन्दसि (5-4-12) 728 | 2661 अशनायोदन्य० (7-4.34) 370 3562 अमो मश् (7-1-40) 732 2533 अश्नोतेश्च (7 4.72) 254 3604 अन्नरूधरवरि० (8-2-70) 735 / 2662 अश्वक्षीरवृषलवणा०(७.१.५१) 371 2918 अम्बाम्बगोभूमि० (83.95) 506 | 3590 अश्वाघस्यात् (7-4-37) 734 2649 अयङ्यि विङति (7.4.22) 348 | 3472 अश्विमानण् (4-4-126) 727 3295 अयनं च (8-4 25) 695 3718 अष्टनो दीर्घात् (6-1172) 747 3390 अयस्मयादीनि० (1-4.20) 721 2242 असंयोगालिकित् (1-2.5) 36 2311 अयामन्ताल्वाय्ये० (6-4 55) 88 2183 असिद्धवदत्राभात् (6-4-22) 13 3834 अरिष्टगौडपूर्वे च (6-2.100) 755 3469 असुरस्य स्वम् (4.4.123) 726 2942 अरुषिदजन्तस्य० (63-67)513 2951 असूर्यललाटयोई० (3-2-36) 515 2493 अर्तिपिपोश्च (7 4-77) 222 2225 अस्तिसिचोऽक्ते (7-3-96) 28 3165 अर्तिलूधूसूखन० (3.2.184) 573 2470 अस्तेर्भूः (2-4.52) 207 2570 अर्तिहीन्लीरी० (7-3.36) 291 2164 अस्मद्युत्तमः (1-4-107) 3778 अर्थे (6-2-44) 752 | 3379 अस्यतितृषोः० (3-4-57) 718 3064 अर्दैः संनिविभ्यः (7-2-24) 546 2438 अस्यतिवक्ति० (3.1-52) 188 3824 अर्मे चावणे० (6-2-90) 754 2520 अस्यतेस्थुक् (7.4-15) 246 88 , For Private And Personal Use Only
Page #780
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra ___www. kobatirth.org www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कौमुद्युत्तरार्धगतसूत्रसूचिकाः। सूतम् पार्श्वम् / सूत्रम् पार्श्वम् 3781 अहीने द्वितीया (6-2.47) 752 2696 आत्मनेपदेष्वन्य० (2-4.44) 403 3968 अहेति विनियोगे च (8-1-61)765 2419 आत्मनेपदेष्वन्य० (3.1 54) 176 3947 अहो च (8-1-40) 763 2993 आत्ममाने खश्च (3-2-83) 527 3761 आदिः प्रत्येनसि (6.2-25) 750 3892 आक्रोशे च (6-2-158) 760 | 3731 आदिः सिचोऽन्य०(६.१.१८७)७४८ 3289 आक्रोशे नव्यनिः (3-3-112)693 | 3053 आदिकर्मणि क्तः० (3-4-71) 542 3220 आक्रोशेऽवन्यो० (3.3.45) 675 3036 आदितश्च (7-2-16) 538 3114 आक्वेस्तच्छीलत०(३-२-१३४)५६० 3798 आदिरुदात्तः (6-2-64) 753 2713 आङ उद्गमने (1-3-40) 410 2289 आदिर्जिटुडवः (1-3-5) 63 2925 आङि ताच्छील्ये (3-2-11) 5083677 आदिर्णमुल्यन्य० (6-1-194) 741 3250 आङि युद्धे (3.3.73) 681 3859 आदिश्चिहणादी०(६-२-१२५) 757 2686 आङो दोऽनास्य० (1-3.20) 399 | 3151 आगमहनजनः (3-2-171) 568 3525 आडोऽनुनासिक (6.1.126) 730. 2370 आदेच उपदेशे० (6-1-45) 141 2695 आङो यमहनः (1-3.28) 403 / 3853 आद्युदात्तं० (6.2-119) 756 2845 आङो यि (7-1.65) 480 3708 आधुदात्तश्च (3-1-3) 746 2499 आ च हौ (6-4-115) 225 2888 आनाय्योऽनित्ये (3-1-127) 491 3838 आचार्योपसर्जन०(६-२-१०४) 755 2231 आनि लोट् (8-4-16) 31 3770 आचार्योपसर्जन० (6-2-36) 751 3101 आने मुक् (7-2-82) 557 3572 आजसेरसुक् (7-1-50) 733 | 3521 आपो जुषाणो० (6-1-118) 729 2254 आडजादीनाम् (6-4-72) 42 2619 आप्शप्यधामीत् (7-4-55) 332 2204 आडुत्तमस्य पिच्च (3-4-92) 20 3343 आभीश्ये णमुल्च (3-4-22)708 2973 आन्यसुभगस्थूल० (3.2.56) 520 3962 आम एकान्तर० (8-1-55) 764 3429 आत ऐ (3-4-95) 724 | 2238 आमः (2-4-81) 34 2371 आत औ णल: (7.1-34) 141 3653 आमन्त्रितस्य च (6-1-198) 739 2227 आतः (3-4-110) 29 3654 आमन्त्रितस्य च (8-1-19) 739 2898 आतश्वोपसर्गे (3.1-136) 499 2251 आमेतः (3-4-90) 42 3283 आतश्चोपसर्गे (3.3.106) 690 2240 आम्प्रत्ययवत्कृत्रो० (1.3.63) 35 2235 आतो डितः (7.2.81) 33 3614 आनेडितं भर्त्सने (8-2-95) 736 3632 आतोऽटि नित्यम् (8-3-3) 737 2305 आयादय आर्ध० (3.1.31) 84 2915 आतोऽनुपसर्गे कः (3.2.3) 505 2187 आर्धधातुकं शेषः (3-4-114) 15 3418 आतो मनिन्वनि० (3.2-74) 723 2184 आर्धधातुकस्येवला०(७.२.३५) 14 2761 आतो युक्चिण्कृतोः(७-३-३३) 435 2432 आर्धधातुके (2-4-35) 183 3309 आतो युच् (3.3.128) 698 2307 आर्धधातुके (6-4-46) 85 2372 आतो लोप इटि च (6-4-64)141 3792 आर्यो ब्राह्मण० (6-2-58) 752 2258 आत्मनेपदेष्वनतः (7-1.5) 44 | 3311 आवश्यकाध० (3-3-170) 699 For Private And Personal Use Only
Page #781
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कौमुद्युत्तरार्धगतसूत्रसूचिकाः / 779 सूत्रम् पार्श्वम् | सूत्रम् पार्थम् 2790 आशंसायां० (3-3 132) 459 / 2682 इतरेतरान्योन्यो० (1.3.16) 398 2792 आशंसावचने लिङ् (3.3 134)460 2207 इतश्च (3-4-100) 21 3755 आशङ्काबाध० (6-2-21) 750 3426 इतश्च लोपः० (3.4.97) 724 3695 आशितः कर्ता (6-1-207) 742 3883 इत्थंभूतेन कृत० (6-2.149) 759 2962 आशिते भुवः० (3.2-45) 517 3568 इदन्तो मसि (7-1-46) 732 2912 आशिषि च (3-1-150) 504 2262 इदितो नुम्धातोः (7-1-58) 51 2195 आशिषि लिङ्लोटौ(३.३.१७३) 17 2482 इद्दरिद्रस्य (6-4-114) 213 2966 आशिषि हनः (3.2.49) 519 3393 इन्धिभवतिभ्यां च (1.2-6) 721 2887 आसुयुवपिरपि० (3-1-126) 491 3547 इरयो रे (6-4-76) 731 2451 आहस्थः (8-2-35) 196 2269 इरितो वा (3-1-57) 56 3956 आहो उताहो० (8-1-49) 764 2400 इषुगमियमा छः (7-3-77) 163 3570 इष्टीनमिति च (7-1-48) 732 3536 इकः सुजि (6-3.134) 730 2985 इस्मन्त्रन्क्विषु च (6-4-97) 524 2612 इको झल् (1-2.9) 328 3763 इगन्तकालक० (6.2 29) 750 | 2648 ई घ्राध्मोः (7-4-31) 348 2897 इगुपधज्ञाप्रीकिरः०(३-१-१३५)४९९ 2860 ई च खनः (3-1-111) 485 2616 इडश्च (2.4-48) 330 2573 ई च गणः (7-4-97) 301 3191 इडश्च (3.3 21) 670 3576 ई च द्विवचने (7-1-77) 733 3110 इधार्योः शत्रकृ०(३-२-१३०)५५९ 2440 ईडजनोधै च (7-2-78) 188 2994 इच एकाचोऽ० (6-3-68) 527 3702 ईडवन्दवृशंस० (6-1-214) 742 3278 इच्छा (3-3-101) 688 3104 ईदासः (702-83) 2816 इच्छार्थेभ्यो वि० (3.3 160) 467 2843 ईद्यति (6-4-65) 479 2814 इच्छार्थेषु लिङ्० (3-3-157) 467 3707 ईवत्याः (6-1-221) 743 2838 इजादेः सनुमः (8 4.32) 478 2439 ईशः से (7-2-77) 2237 हजादेश्च गुरुमतो० (3 1-36) 33 3440 ईश्वरे तोसुन्कसुनौ (3-4-13) 725 2266 इट ईटि (8.2.28) 55 3788 ईषदन्यतरस्याम् (6-2-54) 752 2257 इटोऽत् (3.4.106) 43 3305 ईषदुःसुषु कृच्छ्रा०(३-३-१२६)६९७ 2625 इट् सनि वा (7-2-41) 336 2497 ई हल्यघोः (6-4-113) 224 2384 इडत्यर्तिव्यय० (7-2-66) 149 3639 इडाया था (8-3-54) 738 2952 उग्रंपश्येरंमद० (3-2-37) 515 2247 इणः षीध्वंलुङ्० (8-3 78) 40 3664 उच्चैस्तरां वा० (1-2-35) 740 2458 इणो गा लुङि (2-4 45) 198 3681 उञ्छादीनां च (6-1-160) 741 2455 इणो यण् (6-4.81) 197 3169 उणादयो बहुलम् (3.3-1) 663 3143 इण्नशिजिसर्ति० (3.2.163) 567 2334 उतश्च प्रत्यया० (6-4-106) 103 3045 इनिष्ठायाम् (7-2-47) 540 2809 उताप्योः समर्थ०(३-३-१५२) 465 188 For Private And Personal Use Only
Page #782
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatith.org www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कौमुद्युत्तरार्धगतसूबसूचिकाः। सूत्रम् पार्श्वम् सूत्रम् पार्श्वम् 2443 उतो वृद्धि कि० (7-3-89) 191 3945 उपसर्गव्यपेतं च (8.1-38) 763 3839 उत्तरपदवृद्धौ० (6-2-105) 755 2326 उपसर्गस्यायतौ (8-2-19) 97 3845 उत्तरपदादिः (6-2-111) 756 3496 उपसर्गाच्छन्दसि०(५-१-११८)७२८ 2637 उत्परस्यातः (7-4-88) 344 3306 उपसर्गात्खल्घयोः (7-1-67) 697 3830 उदकेऽकेवले (6-2-96) 755 2270 उपसर्गात्सुनोति० (8-3-65) 57 3302 उदकोऽनुदके (3 3-123) 696 3911 उपसर्गात्स्वाङ्गं 0 (6.2.177) 761 3841 उदराश्वेषुषु (6-2-107) 756 2287 उपसर्गादसमासे० (8-4-14) 62 2726 उदश्चरः सकर्मकात्(१-३-५३) 413 2702 उपसर्गाभव ऊहतेः(७ 4 23) 406 3720 उदात्तयणो ह. (6-1-174) 747 | 3270 उपसर्गे घोः किः (3-3-92) 685 3669 उदात्तस्वरित० (1-2-40) 741 3009 उपसर्गे च संज्ञायाम् (3-2.99)531 3657 उदात्तखरितयो० (8-2-4) 740 3235 उपसर्गेऽदः (3-3-59) 678 3660 उदात्तादनुदात्तस्य०(८-४-६६) 740 3192 उपसर्गे रुवः (3-3 22) 670 2946 उदि कूले रुजिवहोः(३-२-३१)५१४ 2852 उपसर्या काल्या० (3-1 104) 482 3207 उदि ग्रहः (3-3-35) 672 2750 उपाच्च (1-3-84) 425 3328 उदितो वा (7-2-56) 704 2552 उपात्प्रतियत्नवै० (3.1 139) 274 3224 उदि श्रयति. (3-3-49) 676 | 2846 उपात्प्रशसायाम् (7-1-66) 480 3317 उदीचां माडो० (3-4-19) 700 3928 उपायजजिन० (6-2-194) 762 3056 उदुपधाद्भावादि० (12.21) 542 2729 उपाद्यमः स्वकरणे (1-3.56) 414 2691 उदोऽनूर्ध्वकर्मणि (1-324) 401/2692 उपान्मन्त्रकरणे (1-3.25) 402 2494 उदोष्ठ्यपूर्वस्य (7-1-102) 222 3098 उपयिवाननाश्चा०(३-२-१०९) 556 3257 उद्धनोऽत्याधानम् (3.3-80) 682 3733 उपोत्तमं रिति (6.1217) 748 2694 उद्विभ्यां तपः (1.3.25) 402 3630 उभयथर्बु (8.3-8) 737 3200 उन्न्योHः (3.3.29) 671 3874 उभे वनस्पत्यादि०(६२-१४०) 758 3263 उपन्न आश्रये (3-3-85) 683 2606 उभौ साभ्यासस्य (8-4-21) 324 3368 उपदंशस्तृतीयायाम् (3-4-47)715 | 2244 उरत् (7 4 66) 2295 उपदेशेऽत्वतः (7-2-62) 73 2567 उर्ऋत् (7 4 5) 2265 उपधायां च (8-2-78) 52 2368 उश्च (1-2-12) 140 2571 उपधायाश्च (7.1-101) 292 | 2341 उषविदजागृभ्यो० (3.138) 110 2712 उपपराभ्याम् (1-3-39) 409 3774 उष्ट्रः सादिवाम्योः (6-2-40) 751 3814 उपमानं शब्दार्थ० (6-2-80) 754 2214 उख्यपदान्तात् (6-1-96) 25 2664 उपमानादाचारे (3-1-10) 372 3366 उपमाने कर्मणि च (3-4-45)714 3717 डिदंपदाद्यप्पु० (6.1.171) 747 3621 उपरिस्विदासी० (8-2-102) 736 | 3274 ऊतियूतिजूति० (3.3.97) 687 3431 उपसंवादाशङ्कयोश्च (3-4-8) 724 2364 ऊदुपधाया गोहः (6-4-89) 137 2472 उपसर्गप्रादुा० (8-3-87) 207 3887 जनार्थकलहं० (6.2.153) 759 (74 7) 287 ऊ For Private And Personal Use Only
Page #783
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कौमुद्युत्तरार्धगतसूत्रसूचिकाः। 781 सूत्रम् पार्श्वम् / सूत्रम् पार्श्वम् 2449 ऊोतेर्विभाषा (7-2-6) 194 | 3953 एहिमन्ये प्रहासे० (8-1-46) 764 2445 ऊर्णोतेर्विभाषा (7-3-90) 193 ओ 3365 ऊर्चे शुषिपूरोः (3-4-44) 714 2577 ओः पुयण्ज्यपरे (7-4-80) 312 2880 ओक उचः के (7-3-64) 490 3535 ऋचि तुनुघमक्षु० (6-3-133) 730 3476 ओजसोऽहनि० (4-4-130) 727 23.3 ऋच्छत्यृताम् (7-4-11) 149 / 2510 ओतः श्यनि (7-3-71) 235 3043 ऋणमाधमर्ये (8-2-60) 540 3019 ओदितश्च (8-2.45) 534 2653 ऋतश्च (7-4-92) 359 | 3606 ओमभ्यादाने (8-2-87) 736 2526 ऋतश्च संयोगादेः (7-2-43) 2512886 ओरावश्यके (3-1-125) 491 2379 ऋतश्च सयोगादेर्गुणः(७-४-१०)१४६ 3534 ओषधेश्च विभक्ता०(६-३-१३२)७३० 3508 ऋतश्छन्दसि (5-4-158) 728 2422 ऋतेरीयङ् (3-1.29) 178 | 3635 कः करत्करति० (8-3-50) 738 1296 ऋतो भारद्वाजस्य (7-2-63) 73 3856 कंसमन्थशूर्प० (6-2-122) 757 3556 ऋत्व्यवास्त्व्यवा०(६.४-१७५) 731 3848 कण्ठपृष्ठग्रीवा० (6-2-114) 756 2859 ऋदुपधाच्चाक्ल० (3-1-110) 484 2678 कण्ड्डादिभ्यो यक् (3-1-25) 393 2406 ऋदृशोऽङि गुणः (7-4-16) 166 3791 कतरकतमौ० (6-2-57) 752 2366 ऋद्धनोः स्ये (7.2-70) 139 3449 कद्रुकमण्डल्वो० (4-1-71) 726 2872 ऋहलोय॑त् (3-1-124) 488 3858 कन्था च (6-2-124) 757 3907 कपि पूर्वम् (6-2-173) 761 2390 ऋत इद्धातोः (7-1-100) 156 3084 कपिष्ठलो गोत्रे (8-3-91) 552 3232 ऋदोरप् (3-3-57) 677 2310 कमेणिङ् (3-1-30) 88 3293 करणाधिकरणयोश्च(३-३-११७)६९५ 3662 एकश्रुति दुरात्संबुद्धौ(१-२-३३)७४० 2996 करणे यजः (3-2-85) 529 2246 एकाच उपदेशे० (7-2-10) 38 3259 करणेऽयोविद्रुषु (3-3-82) 682 2175 एकाचो द्वे प्रथमस्य (6-1-1) 103358 करणे हनः (3-4-37) 713 3658 एकादेश उदात्तेनोदात्त (8-2.5)740 3846 कर्णो वर्णलक्षणात् (6-2-112)756 3972 एकान्याभ्यां० (8-1-65) 765 2680 कर्तरि कर्मव्यतिहारे(१-३-१४) 397 3626 एचोऽप्रगृह्यस्या०(८-२-१०७) 737 2832 कर्तरि कृत् (3-4-67) 476 2941 एजेः खश् (3-2-28) 512 3167 कर्तरि चर्षि० (3-2-186) 573 2253 एत ऐ (3-4-93) 42 | 2974 कर्तरि भुवः० (3-2-57) 521 2857 एतिस्तुशास्वृदृ 0 (3-1-109) 483 2167 कर्तरि शप् (3-1-68) 7 2457 एतेर्लिङि (7.4-24) 198 2989 कर्तर्युपमाने (3-2-79) 526 3231 एरच (3-3-56) 677 / 2665 कर्तुः क्यङ्० (3-1-11) 372 2196 एरुः (3-4-86) 17 3308 कर्तृकर्मणोश्च० (3-3-127) 698 2374 एलिङि (6-4-65) 142 | 2710 कर्तृस्थे चाशरीरे (1-3-37) 409 . For Private And Personal Use Only
Page #784
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 782 कौमुद्युत्तरार्धगतसूत्रसूचिकाः / सूत्रम् पार्श्वम् | सूत्रम् पार्श्वम् 3364 कोंजीवपुरुषयो० (3-4-43) 714 | 3870 कुण्डं वनम् (6-2-136) 758 3291 कर्मणि च० (3-3-116) 694 3976 कुत्सने च सुप्य० (8-1-69) 766 3350 कर्मणि दृशिविदो:०(३-४-२९) 711/2968 कुमारशीर्षयोणिनिः(३-२-५१) 519 2936 कर्मणि भृतौ (3-2-22) 511 3760 कुमारश्च (6.2.26) 750 2997 कर्मणि हनः (3-2-86) 529 3829 कुमार्या वयसि (6-2-95) 755 3003 कर्मणीनिविक्रियः (3.2-93) 530 3776 कुरुगाईपत० (6.2.42) 751 2671 कर्मणो रोमन्थ० (3-1-15) 382 2772 कुषिरोः प्राचां० (3.1-90) 453 3002 कर्मण्यग्न्याख्यायाम्(३-२-९२)५२० 3836 कुसूलकूपकुम्भ० (6-2.102) 755 2913 कर्मण्यण (3-2.1) 504 | 2245 कुहोश्चुः (7-4 62) 37 3271 कर्मण्याधेकरणे च (3-3-93) 685 | 3855 कूलतीरतूल. (6-2-121) 757 3346 कर्मण्याक्रोशे० (3-4-25) 710 | | 3863 कूलसूदस्थल० (62.129) 757 3780 कर्मधारयेऽनिष्ठा (6-2-46) 752 | 3062 कृच्छ्रगहनयोः० (7-2-22) 546 2766 कर्मवत्कर्मणा० (3-1-87) 444 3277 कृषः श च (3-3.100) 688 3215 कर्मव्यतिहारे० (3-3-43) 674 | 2934 कृओ हेतुताच्छी० (3.2-20) 510 3680 कर्षाऽऽत्वतो घ०(६.१.१५९) 7412239 कृञ्चानुप्रयुज्यते. (3-1-40) 34 3592 कव्यध्वरपृतनस्यर्चि०(७ 4-39)734 | 2835 कृत्यचः (8-4-29) 477 3411 कव्यपुरीषपु० (3-2-65) 723 | 2841 कृत्यल्युटो बहुलम् (3-3-113)479 3367 कषादिषु यथावि० (3-4-46) 715, 2831 कृत्याः (3-1-95) 2670 कष्टाय क्रमणे (3-1-14) 382 | 3441 कृत्यार्थे तवैके० (3-4-14) 725 2810 कामप्रवेदनेऽक० (3-3-153) 466 | 3312 कृत्याश्च (3-3-171) 699 2663 काम्यच्च (3-1-9) 371 3894 कृत्योकेष्णुच्चा० (6.2-160) 760 3882 कारकादत्तश्रुतयो०(६-२-१४८)७५९ | 2350 कृपो रा लः (8-2-18) 117 3771 कार्तकौजपादयश्च (6-2-37) 751/3406 कृमृद्दहि-य० (3-159) 2795 कालविभागे चान०(३-३-१३७)४६१ 3595 कृषेश्छन्दसि (7-4-64) 735 3179 कालसमयवेलासु०(३-३.१६७) 665 / 2293 कृसृवृस्तुद्रुस्रु० (7-2-13) 72 2306 कास्प्रत्ययादाम० (3-1-35) 84 | 3201 कृ धान्ये (3-3.30) 671 3955 किंवृत्तं च चि० (8-1-48) 764 2217 विडति च (1-1-5) 26 2801 किंवृत्ते लिडल्टौ (3-3-144) 463 3012 तक्तवतू निष्ठा (1-1-26) 532 2785 किंवृत्ते लिप्सायाम् (3-3-6) 458 3313 क्तिच्क्तौ च सं० (3-3-174) 699 2803 किंकिलास्त्यर्थेषु० (3-3-146)464 | 3779 ते च (6-2-45) 752 3951 किं क्रियाप्रश्ने० (8-1-44) 763 3795 तेन नित्यार्थे (6-2-61) 753 3712 कितः (6-1-165) 746 3087 तोऽधिकरणे च० (3.4-76) 553 2216 किदाशिषि (3-4-104) 26 | 3560 कापि च्छन्दसि (7-1-38) 732 2539 किरतौ लवने (6-1-140) 263 3321 कि स्कन्दिस्यन्दोः (6-4-31) 702 2611 किरश्च पञ्चभ्यः (7-2-75) 327 3569 को यक् (7-1-47) 732 22 For Private And Personal Use Only
Page #785
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कौमुयुत्तरार्धगतसूत्रसूचिकाः। 783 सूत्रम् पार्थम् | सूत्रम् पार्श्वम् 2658 क्यचि च (7-4-33) 368 2660 क्यस्य विभाषा (6-4-50) 3703873 गतिकारकोप० (6-2-139) 758 3150 क्याच्छन्दसि (3.2.170) 5683783 गतिरनन्तरः (6-2-49) 752 2891 ऋतौ कुण्डपाय० (3-1-130) 492 3977 गतिर्गतौ (8-1-70) 766 3852 क्रत्वादयश्च (6-2-118) 756 3958 गत्यर्थलोटा लण्न०(८१-५१) 764 2322 क्रमः परस्मैपदेषु (7-3-76) 96 | 3086 गत्यर्थाकर्मक० (3.4.72) 552 3329 क्रमश्च क्ति (6-4-18) - 704 3144 गत्वरश्च (3-2-164) 567 2978 क्रव्ये च (3-2-69) 522 2848 गदमदचर० (3-1-100) 481 2825 क्रियासमभिहारे. (3-4-2) 470 3747 गन्तव्यपण्यं वाणिजे(६-२-१३)७४९ 2600 क्रीजीनां णौ (6-1-48) 321/ 2705 गन्धनावक्षेपण० (1-3-31) 406 2687 क्रीडोऽनुसंपरिभ्यश्च (1-3-21)399 2986 गमः क्वौ (6-4-40) 525 3131 क्रुधमण्डार्थेभ्यश्च (3-2-151) 564 | 2964 गमश्च (3.2-47) 518 2554 क्रयादिभ्यः श्ना (3-1-81) 277 | 2363 गमहनजनखन० (6-4-98) 137 3049 क्लिशः छानिष्ठयोः (7-2-50) 541 2401 गमेरिट परस्मै० (72-58) 163 3242 क्वणो वीणायां च (3-3-65) 679 | 2799 गर्दायां लडपि० (3-3-142) 462 3095 क्वसुश्च (3-2-107) 555 | 2806 गर्दायां च (3-3-149) 465 2983 क्विप्च (3 2908 गस्थकन् (3-1-146) 503 3689 क्षयो निवासे (6-1-201) 742 2461 गाङ्कुटादिभ्यो० (1.2.1) 200 3032 क्षायो मः (8-2-53) 537 2459 गाङ् लिटि (2-4-49) 199 2791 क्षिप्रवचने लट् (3-3-133) 460 2223 गातिस्थाधुपाभूभ्यः०(२-४-७५) 28 3338 क्षियः (6-4-59) 3738 गाधलवणयोः प्रमाणे(६-२-४) 748 3623 क्षियाशीःश्रेषेषु० (8-2-104) 737 2922 गापोष्ठक् (3-2.8) 507 3015 क्षियो दीर्घात् (8-2-46) 532 2448 गुणोऽपृक्त (7-3-91) 194 3058 क्षुब्धस्वान्त० (7-2-18) 544 2630 गुणो यङ्लुकोः (7-4-82) 341 3773 क्षुल्लकश्च वैश्वदेवे (6-2-39) 751 2380 गुणोऽर्तिसंयोगाद्योः(७-४-२९) 147 3842 क्षेपे (6-2-108) 756 2303 गुपूधूपविच्छि० (3-1-28) 84 2961 क्षेमप्रियमद्रेऽण्च (3-2-44) 517 3404 गुपेश्छन्दसि (3-1-50) 722 2337 क्सस्याचि (7-3-72) 106 2393 गुप्तिज्किङ्ग्यः सन् (3-1-5) 158 3280 गुरोश्च हलः (3-3.103) 689 2739 गृधिवञ्चयोः० (1-3-69) 421 3478 ख च (4-4-132) 727 2906 गेहे कः (3.1-144) 503 3955 खचि ह्रस्वः (6-4-94) 516 3574 गोः पादान्ते (7.1.57) 733 3304 खनो घ च (3-3-125) 696 | 3298 गोचरसञ्चर० (3.3.119) 695 2943 खित्यनव्ययस्य (6-3-66) 513 3812 गोतन्तियवं पाले (6-2-78) 754 3513 खिदेश्छन्दसि (6-1-52) 729 / 3803 गोत्रान्तेवासि० (6-2-69) 753 707 For Private And Personal Use Only
Page #786
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 784 कौमुद्युत्तरार्धगतसूत्रसूचिकाः / सूत्रम् पार्श्वम् / सूत्रम् पार्श्वम् 3806 गोबिडालसिंह० (6-2-72) 753 3128 चलनशब्दार्था० (3.2-148) 564 3775 गौः सादसादि० (6-2.41) 751 3966 चवायोगे प्रथमा (8.1-59) 765 3582 प्रसितस्कभित० (7-2-34) 733 3970 चादिलोपे विभाषा (8-1-63) 765 3234 ग्रहवृदृनिश्चिगमश्च (3-3.58) 677 3965 चादिषु च (8-158) 765 2412 अहिज्यावयि० (6-1-16) 173 2647 चायः की (6.1-21) 347 2562 प्रहोऽलिटि दीर्घः (7.2-37) 283 3511 चायः की (6-1-35) 729 3796 प्रामः शिल्पिनि (6.2.62) 753 3969 चाहलोप एवे० (8-1-62) 765 3818 ग्रामेऽनिवसन्तः (6-2-84) 754 2329 चिणो लुक् (6-4-104) 98 2639 प्रो यङि (8-2-20) 345 2762 चिण्णमुलोर्दी?० (6-4 93) 438 3119 ग्लाजिस्थश्च ग्स्नु:(३.२-१३९)५६१ 2513 चिण्ते पदः (3.160) 237 घ 2758 चिण्भावकर्मणोः (3-1-66) 432 3463 घच्छौ च (4.4.117) 726 3710 चितः (6 1.163) 746 3236 घनपोश्च (2-4-38) 678 2893 चित्यानिचित्ये च (3-1-132)493 3187 घनि च भावकरणयोः(६-४-२७)६६८ 2807 चित्रीकरणे च (3-3-150) 465 3550 घसिभसोर्हलि च (6-4-100) 731 3620 चिदिति चोप० (8-2-101) 736 2462 धुमास्थागापाज० (6-4-66) 201 3282 चिन्तिपूजिक० (3.3.105) 690 3063 घुषिरविशब्दने (7-2-23) 546 2569 चिस्फुरोौँ (6.1.54) 291 3584 घोर्लोपो लेटि वा (72-70) 734, 3861 चीरमुपमानम् (62.125) 757 3819 घोषादिषु च (6-2-85) 754 | 3868 चूर्णादीन्यप्रा० (6-2 134) 757 2471 ध्वसोरेद्धाव० (6-4-119) 207 | 3860 चेलखेटकटु० (6-1-126) 757 3354 चेले कोपेः (3-4.33) 712 3700 ङयि च (6-1-212) 742 3652 चौ (62-222) 3724 ङ्याश्छन्दसि० (6-1-178) 747 2561 च्छोः शूडनुना० (6-4-19) 282 2221 चिल लुङि (3.1-43) 2436 चक्षिङः ख्याञ् (2-4-54) 187 | 2222 च्लेः सिच् (3 1.44) 28 2315 चङि (6-1-11) 90 3677 चड्यन्यतरस्याम् (6-1-218)741 3421 छन्दसि गत्यर्थेभ्यः(३-३-१२९)७२३ 2863 चजोः कु घिण्यतोः (7-3-52) 486 3495 छन्दसि घस् (5-1-106) 728 3682 चतुरः शसि (6-1-167) 741 | | 3492 छन्दसि च (5.1-67) 728 3777 चतुर्थी तदर्थे (6-2-43) 752 3507 छन्दसि च (5-4.142) 728 3396 चतुर्थ्यर्थे बहुलं० (2-3-62) 722 3532 छन्दसि च (6-3.126) 730 3964 चनचिदिवगोत्रादि०(८-१-५७)७६५ | 3450 छन्दसि ठञ् (4.3 19) 726 2636 चरफलोश्च (7-4-87) 344 | 3407 छन्दसि निष्टळ० (3.1.123)722 2930 चरेष्टः (3.2.16) 509 3391 छन्दसि परेऽपि (14-81) 721 3352 चर्मोदरयोः पूरेः (3-4.31) 712 3387 छन्दसि पुनर्वस्वो०(१-२.६१) 721 For Private And Personal Use Only
Page #787
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कौमुद्युत्तरार्धगतसूत्रसूचिकाः / 785 सूत्रम् CANA A AN AN WW arr पार्श्वम् | सूत्रम् पार्श्वम् 3093 छन्दसि लिट् (3-2-105) 555 2589 जिघ्रतेर्वा (7-4-6) 318 3423 छन्दसि लुङ्लङ्० (3-4-6) 724 3137 जिदृक्षिविश्री० (3-2-157) 566 3408 छन्दसि वनसन० (3-2-27) 723 3092 जीर्यतरतृन् (3.2-104) 554 3634 छन्दसि वाप्राम्र० (8-3-49) 738 3130 जुचक्रम्य० (3-2-150) 564 3432 छन्दसि शायजपि (3-1-84) 724 3697 जुष्टार्पिते च० (6-1.209) 742 3409 छन्दसि सहः (3-2-63) 723 2481 जुसि च (7.3-83) 213 3600 छन्दसीरः (8-2-15) 735 2489 जुहोत्यादिभ्यःश्लुः (2-4-75) 220 3942 छन्दस्यनेकम० (8-1-35) 763 3327 जुवश्च्योः वि (7-2-55) 703 3545 छन्दस्यपि दृश्यते (6-4-73) 731 2291 जुस्तम्भु० (3 1-58) 69 3575 छन्दस्यपि दृश्यते (7-1-76) 733 2511 ज्ञाजनोर्जा (7-3-79) 236 3435 छन्दस्युभयथा (3-4-117) 725 2731 ज्ञाश्रुस्मृदृशां सनः (1 3-57) 414 3540 छन्दस्युभयथा (6-4-5) 731 3340 ज्यश्च (6-1-42) 708 3548 छन्दस्युभयथा (6-4-86) 731 2654 ज्वरत्वरस्रि० (6-4-20) 365 3648 छन्दस्य॒दवग्रहात् (8-4-26) 738 2902 ज्वलितिकसन्ते. (3.1-140)501 3205 छन्दोनाम्नि च (3-3-34) 672 3206 छन्दोनाम्नि च (8-3-94) 672 2281 झलो झलि (8-226) 60 3820 छात्र्यादयः० (6-2-86) 754 3683 झल्युपोत्तमम् (6-1-180) 741 3297 छादेर्धेऽद्वयुप० (6-4-96) 695 2280 झषस्तथो|ऽधः (8.2.40) 59 2256 झस्य रन् (3.4-105) 3413 जनसनखन० (3-2-67) 723 2213 झेर्जुस् (3.4.108) 2504 जनसनखनां० (6-4-42) 230 2169 झोऽन्तः (7 1.3) 3542 जनिता मन्त्रे (6-4-53) 731 2512 जनिवध्योश्च (7-3-35) 236 3088 जीतः क्तः (3-2-187) 554 2638 जपजभदहदश० (7-4-86) 344 3686 नित्यादिनित्यम् (6.1-197) 742 3690 जयः करणम् (6-1202) 742 3135 जल्पभिक्षकुट्ट० (3-2-155) 565 2233 टित आत्मनेपदानां०(३.४-७९) 32 2498 जहातेश्च (6-4-116) 225 3267 ट्वितोऽथुच् (3-3.89) 684 3331 जहातेश्च वि (7-4-43) 705 3145 जागरूकः (3.2.165) 567 3266 भितः क्रिः (3.3-88) 684 2480 जाग्रोऽविचिण्ण० (73-85) 212 3904 जातिकालसुखा० (6-2-170) 761 3455 ढश्छन्दसि (4-4-106) 726 2804 जातुयदोर्लिङ् (3-3-147) 464 2335 ढो ढे लोपः (8-3.13) 105 3954 जात्वपूर्वम् (8-1-47) 764 ण 3330 जान्तनशां विभाषा (6-4-32)704 3216 णचः स्त्रियामञ् (5-4-14) 674 3303 जालमानायः (3.3-124) 696 2283 णलुत्तमो वा (7 1-91) 60 nm mm For Private And Personal Use Only
Page #788
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 786 कौमुद्युत्तरार्धगतसूत्रसूचिकाः / सूत्रम् पार्श्वम् / सूत्रम् पार्श्वम् 2564 णिचश्च (1-3-74) 284 3627 तयोविचि सं०(८-२-१०८) 737 3813 णिनि (6-2-79) 754 3785 तवै चान्तश्च० (6-2-51) 752 2312 णिश्रिQत्रुभ्यः० (3-1-48) 89 2834 तव्यत्तव्यानीयरः (3-1-96) 476 2738 रणौ यत्कर्म० (1-3-67) 416 2199 तस्थस्थमिपां. (3-4.101) 19 3066 जेरध्ययने वृत्तम् (7-2-26) 547 2288 तस्मान्नुड् द्विहल: (7-4 71) 62 2313 णेरनिटि (6-4-51) 89 3566 तस्य तात् (7-1-44) 732 2836 विभाषा (8-4-30) 477 3109 ताच्छील्यवयो० (3-2-129) 559 3117 णेश्छन्दसि (3-2-137) | 3784 तादौ च निति० (6-2-50) 752 2286 णो नः (6-1-65) 61 2161 तान्येकवचनद्वि० (1-4-102) 6 2607 णौ गमिरबोधने (2-4-46) 324 3174 ताभ्यामन्यत्रोणादयः(३-४-७५)६६४ 2314 णौ चङयुपधाया० (7-4-1) 90 2191 तासस्त्योर्लोपः (7-4-50) 16 2579 णौ च संश्चङोः (6-1-31) 313 2352 तासि च क्लपः (7-2-60) 118 2601 णौ च संश्वङोः (2-4-51) 322 3730 तास्यनुदात्तेन्डि० (6-1-186) 748 2881 ण्य आवश्यके (7-3-65) 490 2160 तिङस्त्रीणि० (1-4-101) 6 3284 ण्यासश्रन्थो युच (3-3-107) 691 3978 तिङि चोदात्तवति (8-1-71) 766 2909 ण्युट् च (3-1-147) 503/3934 तिङो गोत्रादीनि० (8-1-27) 763 2895 ण्वुल्तृचौ (3-1-133) 495 3935 तितिङः (8-1-28) 763 | 2166 तिङ्शित्सार्व० (3-4-113) 7 2156 तङानावात्मनेपदम्(१-४-१००) 4 3037 ति च (7 4-89) 538 3736 तत्पुरुषे तुल्यार्थ० (6-2-2) 748 3163 तितुत्रतथसि० (7-2-9) 572 3857 तत्पुरुषे शालायां०(६-२-१२३)७५७ 3729 तित्स्वरितम् (6-1-185) 748 2575 तत्प्रयोजको हेतुश्च (1-4-55) 311 2154 तिप्तस्झिसिप्थ० (3-4-78) 4 3711 तद्धितस्य (6-1-164) 746 2484 तिप्यनस्तेः (8-2-73) 215 3471 तद्वानासामुप० (4-4-125) 726 3382 तिर्यच्यपवर्गे (3-4-60) 719 2466 तनादिकृञ्भ्य उः (3.1-79) 205 2588 तिष्ठतेरित् (7-4-5) 318 2547 तनादिभ्यस्तथासोः (2-4-79) 272 3713 तिसृभ्यो जसः (6-1-166) 746 3549 तनिपत्योश्छन्दसि (6-4-99) 731 2340 तीषसहलुभ० (7 2-48) 110 2339 तनूकरणे तक्षः (3-1-76) 108 3461 तुग्राद्धन् (4.4-115) 726 2759 तनोतेर्यकि (6-4-44) 434 3509 तुजादीनां दी?० (6-1-7) 728 2622 तनोतेर्विभाषा (6-4-15) 334 2534 तुदादिभ्यः श: (3-1-77) 255 2771 तपस्तपःकर्मकस्यैव (3-1-88) 450 2919 तुन्दशोकयोः० (3-2-5) 507 2760 तपोऽनुतापे च (3-1-65) 434 | 3946 तुपश्यपश्यताहै 0 (8-1-39) 763 3567 तप्तनप्तनथनाश्च (7-1-45) 7323436 तुमर्थे सेसेनसेऽ० (3.4-9) 725 2833 तयोरेव कृत्यक्त० (3-4-70) 476 3175 तुमुन्ण्वुलौ क्रिया०(३-३.१०) 664 3499 तयोर्दा हिलौ च० (53-20) 728 2444 तुरुस्तुशम्यमः सा०(७-३-९५) 192 For Private And Personal Use Only
Page #789
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कौमुयुत्तरार्धगतसूत्रसूचिकाः / WWW सूत्रम् पार्श्वम् सूत्रम् पार्श्वम् 2197 तुह्योस्तातडाशि० (7-1-35) 18 3172 दाशगोनौ संप्र० (3-4 73) 663 3385 तूष्णीमि भुवः (3-4-63) 719 3629 दाश्वान्साहान्मी० (6-1-12) 737 2545 तृणह इम् (7-3 92) 270 3837 दिक्छब्दा प्राम०(६-२-१०३) 755 3782 तृतीया कर्मणि (6-2-48) 752 2505 दिवादिभ्यः श्यन् (3-1-69) 232 3394 तृतीया च हो० (2-3-3) 721 2935 दिवाविभानिशा० (3-2-21) 510 3115 तृन् (3-2-135) 3727 दिवो झल् (6-1-183) 747 3326 तृषिमृषिकृषेः० (1-2-25) 703 3028 दिवोऽविजिगीषा० (8-2-49) 536 2301 तृफलभजत्रपश्च (6-4-122) 82 3765 दिष्टिवितस्त्योश्च (6-2-31) 750 2230 ते प्राग्धातोः (1-4-8.) 31 2507 दीडो युडचि० (6-4-63) 234 3106 तौ सत् (3-2-127) 558 2190 दीधीवेवीटाम् (1-1-6) 16 3704 त्यागरागहास० (6-1-216) 742 | | 2328 दीपजनबुध० (3-1-61) 98 3120 त्रसिगृधिधृषि० (3-2-140) 561 2456 दीर्घ इणः किति (7-4-69) 197 3816 दीर्घकाशतुष०(६-२-८२) 754 3497 थट् च च्छन्दसि (5.2-50) 728 3448 दीर्घजिह्वी च० (4-1-59) 725 2261 थलि च सेटि (6-4-121) 50 3631 दीर्घादटि समानपादे (8 3-9) 737 3732 थलि च सेटी० (6-1-196) 748 2632 दीर्घोऽकितः (7-4-83) 343 3878 थाथघक्ताज० (6-2-144) 758 2318 दी? लघोः (7-4-94) 92 2236 थासः से (3-4-80) 33 2904 दुन्योरनुपसर्गे (3.1.142) 502 3500 था हेतौ च० (5-3-26) 728 | 3589 दुरस्युर्दविण० (7-4-36) 734 2979 दुहः कब्घश्च (3-2-70) 522 2396 दंशसञ्जस्वजां शपि(६-४-२५) 160 2769 दुहश्च (3-1.63) 448 2901 ददातिदधात्यो० (3-1-139) 501 | 3466 दूतस्य भागकर्मणी(४-४ 120)726 2501 दधस्तथोश्च (8-2-38) 226 3577 दृक्स्ववः स्वव० (7-183) 733 3076 दधातेर्हिः (7-4-42) 549 | | 3060 दृढः स्थूलबलयोः (7.2.20) 545 2621 दम्भ इञ्च (7-4-56) 332 3004 दृशेः क्वनिप् (3-2-94) 530 2388 दयतेर्दिगि लिटि (7-4-9) 155 | | 3438 दृशे विख्ये च (3.4-11) 725 2324 दयायासश्च (3-1-37) 96 | 3875 देवताद्वन्द्वे च (6-2-141) 758 2468 दश्च (8-2-75) 206 3667 देवब्रह्मणोरनुदात्तः (1-2-38) 740 3079 दस्ति (6-3-124) 551 3591 देवसुम्नयोर्यजुषि० (7 4.38) 734 2728 दाणश्च सा चे० (1-3-55) 413 | 3127 देविक्रुशोश्चोपसर्गे (3-2.147)563 3596 दाधर्तिदर्धर्ति० (7-4-65) 735 | 3077 दो दरोः (7-4-46) 550 2373 दाधा वदाप् (1-1-20) 142 | 2604 दोषो णौ (6-4-90) 323 3139 दाधेसिशदस० (3-2-159) 566 | 3074 यतिस्यतिमास्था० (7.4.40) 549 3162 दाम्नीशसयुयुज० (3-2.182) 572 2344 युतिस्वाप्योः संप्र०(७-४.६७) 113 3739 दायाचं दायादे (6-2-5) 748 | 2345 धुझ्यो लुङि (1-3-91) 113 MS 0 For Private And Personal Use Only
Page #790
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पार्श्वम् 788 कौमुद्युत्तरार्धगतसूत्रसूचिकाः / सूत्रम् पार्श्वम् / सूत्रम् 3020 द्रवमूर्तिस्पर्शयोः श्यः(६-१-२४)५३४ | 3588 न च्छन्दस्य पुत्रस्य (7-4-35) 734 3831 द्विगौ कतौ (6-2-95) 755 3889 नओ गुणप्रति० (6-2-155) 759 3746 द्विगौ प्रमाणे (6-2-12) 749 3850 नो जरमर० (6-2-116) 756 3395 द्वितीया ब्राह्मणे (2-3-60) 722 3906 नसुभ्याम् (6-2-172) 761 3374 द्वितीयायां च (3-4-53) 717 3843 नदी बन्धुनि (6-2-109) 756 3931 द्वित्रियां पा६० (6-2-197) 7622767 न दुहस्नुनमां० (3-1-89) 447 2243 द्विवचनेऽचि (1-1-59) 36 2407 न दृशः (3-1-47) 166 2954 द्विषत्परयोस्तापेः (3-2-39) 516 | 2656 न धातुलोप० (1-1-4) 366 2435 द्वेिषश्च (3-4-112) 184 | 3040 न ध्याख्यापृ० (8-2.57) 539 3111 द्विषोऽमित्रे (3.2-131) 559 3915 न निविभ्याम् (6-2-181) 761 3453 यचश्छन्दसि (4-3-150) 726 / 2780 ननौ पृष्टप्रतिवचने(३-२-१२०)४५६ 3537 यचोऽतस्तिङः (6-3-135) 730 2896 नन्दिप्रहिपचादि०(३-१-१३४)४९७ ध 2446 नन्द्राः संयोगादयः (6-1-3) 193 3161 धः कर्मणि ट्रन् (3-2-181) 572 3950 नन्वित्यनुज्ञैषणायाम् (8.1-43)763 2824 धातुसम्बन्धे प्रत्ययाः(३.४-१) 469 2781 नन्वोर्विभाषा (3-2-121) 456 2829 धातोः (3-1-91) 2755 न पादम्याङ्य० (1-3-89) 427 3671 धातोः (6-1-162) 741 3090 नपुंसके भावे क्तः(३-३.११४) 554 2608 धातोः कर्मणः० (3-1-7) 326 2840 न भाभूपुकमि० (8-4-34) 478 2629 धातोरेकाचा० (3-1-22) 341 3825 न भूताधिकसंजीव० (6-2-92)755 2264 धात्वादेः षः सः (6-1-64) 52 / 3753 न भूवाक्चिद्दिधिषु (6-2 19) 749 2249 धि च (8-2-25) 41 | 2228 न माझ्चोगे (6-4-74) 30 2332 धिन्विकृयोर च (3-1-80) 102 3147 नमिकम्पिस्म्य० (3-2.167) 567 3059 धृषिशसी वैयात्ये (7-2-19) 545 | 2675 नमावरिवश्चित्रङः (3.1.19) 384 3564 ध्वमो ध्वात् (7-1-42) 732 / 3132 न यः (3 2.152) - 565 2774 न यदि (3.2 113) 455 2659 नः क्ये (1-4-15) 369 | 3344 न यद्यनाकाङ्के (3.4.23) 709 3217 न कर्मव्यतिहारे (7-3-6) 674 | 3168 न रपरसृपिजि०(८-३.११०)५९८ 2641 न कवतेयडि (7-4-63) 2770 न रुधः (3-1-64) 450 3314 न क्तिचि दीर्घश्च (6.4-39) 699 2529 न लिङि (7-2-39) 252 3322 न क्वा सेट् (1-2-18) 702 3936 न लुट् (8-1-29) 2875 न क्वादेः (7-3-59) 489 3335 न ल्यपि (6-4-69) 707 3487 नक्षत्राद्धः (4-4-141) 727 2646 न वशः (6-1-20) 347 2681 न गतिहिंसार्थेभ्यः (1-3-15) 398 2348 न वृद्भ्यश्चतुर्व्यः (7.2-59) 115 3910 न गुणादयोऽ० (6-2-176) 761 2416 न व्यो लिटि (6-1-46) 175 3726 न गोश्वन्साववर्ण०(६-१-१८२)७४७ | 2937 न शब्दश्लोककलह 0(3.2.23)512 For Private And Personal Use Only
Page #791
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कौमुद्युत्तरार्धगतसूत्रसूचिकाः / 789 पार्श्वम् सूत्रम् पार्श्वम् | सूत्रम् 2263 न शसददवादि०(६-४-१२६) 52 / 3937 निपातैर्यद्यदि० (8.1-30) 763 2518 नशेः षान्तस्य (8-436) 243 3251 निपानमाहावः (3.3.74) 681 3649 नश्च धातुस्थो० (84 25) 738 3355 निमूलसमूलयोः कष (3.4.34)712 3603 नसत्तनिषत्ता० (8 2.61) 735 2560 निरः कुषः (7-2-46) 281 3307 न सुदुर्यों के० (7-1-68) 697 3199 निरभ्योः पूल्वोः (3-3-28) 671 3666 न सुब्रह्मण्यायां० (1-2.37) 740 3918 निरुदकादीनि च (6-2-184) 761 3938 नह प्रत्यारम्भे (8.1-31) 763 3029 निर्वाणोऽवाते (8.2-50) 536 3835 न हास्तिनफलक०(६.२.१०१)७५५ 3742 निवाते वातत्राणे (6-2.8) 749 2572 नाग्लोपिशास्व० (7-4-2) 297 3213 निवासचितिशरी० (3-3-41) 673 3867 नाचार्यराजवि० (6-2-133) 757 3647 निव्यविभ्यो० (8.3.119) 738 2945 नाडीमुष्टयोश्च (3-2-30) 514 | 3013 निष्टा (3-2-102) 532 3602 नाद्धस्य (8-217) 735 3693 निष्ठा च धजनात् (6-1205)742 3384 नाधार्थप्रत्यये च्च्यर्थे(३-४ 62) 719 | 3057 निष्ठायां सेटि (6.4.52) 543 2793 नानद्यतनव० (3-3-135) 460 3014 निष्ठायामण्यदर्थे (6-4-60) 532 2732 नानोः (1-3.58) 414 | 3052 निष्ठा शीस्विदि० (1.2.19) 541 2503 नाभ्यस्तस्याचि० (7-3-87) 227 3903 निष्ठोपमानादन्य०(६२-१६९) 760 3723 नामन्यतरस्याम् (6.1-177) 747 | 3844 निष्ठोपसर्गपूर्व० (6-2 110) 756 3380 नाम्न्यादिशिग्रहोः (3 4 58) 718 | 2703 निसमुपविभ्यो ह्वः (13-30) 406 3902 नाव्ययदिक्छब्द० (6 2-168) 760 2403 निसस्तपतावना०(८-३.१०२) 164 2944 नासिकास्तनयो० (3 2 29) 513 | 2642 नीग्वञ्चुलंसु० (7 4.84) 346 2753 निगरणचलनार्थे० (13 87) 426 2643 नुगतोऽनुनासि० (7 4-85) 346 3613 निगृह्यानुयोग च (82.94) 736 : 3038 नुदविदोन्दत्रा० (8-2.56) 538 3265 निघो निमितम् (3-3.87) 683 3728 नृ चान्यतरस्याम् (6-1-184) 748 2502 निजां त्रयाणां० (7-4-75) 227 2268 नेटि (7 2-4) 2596 नित्यं स्मयतेः (6-1-55) 320 2516 नेट्यलिटि रधेः (7.1-62) 243 2548 नित्यं करोतेः (6-4-108) 273 2981 नेडशि कृति (7-2.8) 523 2634 नित्यं कौटिल्ये० (3 1-23) 343 3559 नेतराच्छन्दसि (7-1-26) 731 2200 नित्यं डितः (3 4-99) 19 3926 नेरनिधाने (6-2-192) 762 3446 नित्यं छन्दसि (4-1-46) 725 2285 नेर्गदनदपतपद० (8.4.17) 61 3587 नित्यं छन्दसि (7 4.8) 734 2683 नेर्विशः (1-3. 15) 398 3243 नित्यं पणः० (3-3-66) 679 3721 नोधात्वोः (6-1.175) 747 3698 नित्यं मन्त्रे (6.1.210) 742 3876 नोत्तरपदऽनु० (6-2-142) 758 3082 निनदीभ्यां स्नातेः०(८-३-८९)५५२ 3454 नोत्वद्वर्धबिल्वात् (4-3.151) 726 3126 निन्दहिंसक्लिश० (3-2-146) 563 3661 नोदात्तस्वरितोदय०(८-४.६७) 740 3538 निपातस्य च (6-3.136) 7302763 नोदात्तोपदेशस्य० (7-3-34) 440 For Private And Personal Use Only
Page #792
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 790 कौमुद्युत्तरार्धगतसूत्रसूचिकाः / . सूत्रम् . पार्श्वम् / सूत्रम् पार्श्वम् 3405 नोनयतिध्वनय० (3.1-51) 722 | 3261 परौ घः (3-3-84) 683 3324 नोपधात्थफान्ताद्वा (1223) 702 3230 परौ भुवोऽवज्ञाने (3.3-55) 677 3241 नौ गदनदपठस्वनः(३-३-६४) 679 3222 परौ यज्ञे (3-3-47) 675 3237 नौ ण च (3-3-60) 678 3178 पर्याप्तिवचनेष्व० (3 4-66) 665 3223 नौ वृ धान्ये (3-3.48) 675 3288 पर्यायाहणो० (3.3-111) 693 2864 न्यङ्क्वादीनां च (7-3-53) 486 3862 पललसूपशाकं० (6-2.128) 757 3787 न्यधी च (6-2-53) 752 3501 पश्च पश्चा च० (5-3-33) 728 2899 पाघ्राध्माधेट० (3-1-135) 500 3031 पचो वः (8-2-52) 537 2360 पाघ्राध्मास्था० (7-3.78) 134 3636 पञ्चम्याः परावध्यर्थे (8-351)738 2972 पाणिघताडघौ०(३-२-५५) 520 3008 पञ्चम्यामजातौ (3-2-98) 531 3637 पातौ च बहुलम् (8-3 52) 738 2355 पतः पुम् (7-4-19) 132 3457 पाथोनदीभ्यां० (4.4.111) 726 3530 पथि च च्छन्दसि (6-3-108)730 3802 पापं च शिल्पिनि (6.2-68) 753 3687 पथिमथोः सर्व० (6.1.199) 742 2890 पाय्यसांनाय्य० (3.1-129) 492 3182 पदरुजविश० (3-3-16) 667 3528 पितरामातरा च०(६ 3.33) 730 2870 पदास्वैरिबाह्या० (3-1-119) 488 3296 पुंसि संज्ञायां घः (3-3-118) 695 3741 पदेऽपदेशे (6.2.7) 749 2189 पुगन्तलघूपधस्य च(७-३-८६) 15 2796 परस्मिन्विभाषा (3-3-138) 462 2676 पुच्छभाण्डचीवरा०(३-१-२०) 384 2173 परस्मैपदानां णल०(३-४-८२) 10 3866 पुत्रः पुम्भ्यः (6-2-132) 757 3933 परादिश्छन्दसि० (6-2-199) 762 3949 पुरा च परीप्सायाम् (8-1-42)763 3210 परावनुपात्यय इणः (3.3-38)673 2782 पुरि लुङ् चास्मे (3.2-122) 457 3319 परावरयोगे च (3-4-20) 700 3924 पुरुषश्चान्वादिष्टः (6-2-190) 762 3377 परिक्लिश्यमाने च (3-4-55) 717 | 3833 पुरे प्राचाम् (6-2-99) 755 2275 परिनिविभ्यः सेव०(८-३-७०) 58 2932 पुरोऽप्रतोऽप्रेषु० (3-2-18) 510 3209 परिन्योर्माणो ता०(३-३-३७) 673 3166 पुवः संज्ञायाम् (3-2-185) 573 3767 परिप्रत्युपापा० (6-2-33) 7502343 पुषादिद्युताल० (3-1-55) 112 3190 परिमाणाख्यायां०(३.३.२०) 669 2867 पुष्यसिद्ध्यौ नक्षत्रे(३-१-११६) 487 2948 परिमाणे पचः (3-2-33) 514 | 2958 पू:सर्वयोर्दारिसहोः (3-2-41) 516 2684 परिव्ययेभ्यः क्रियः (13.18) 398 3762 पूगेष्वन्यतरस्याम् (6-2-28) 750 3026 परिस्कन्दः प्राच्य०(८ 3.75) 536 3051 पूडः क्वा च (1-2-22) 541 3916 परेरभितोभावि० (6.2.182) 761 3050 पूडश्च (7-1-51) 541 2748 परेम॑षः (1-3-82) 425 |3108 पूङ्यजोः शानन् (3-2-128) 559 2399 परेश्च (8.3-74) 162 | 3974 पूजनात्पूजितम० (8-1-67) 765 3262 परेश्च घायोः (8-2 22) 683 3944 पूजायां नानन्तरम् (8-1-37) 763 2171 परोक्षे लिट् (3-2-115) 9 | 3617 पूर्व तु भाषायाम् (8-2.98) 736 WW. For Private And Personal Use Only
Page #793
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कौमुद्युत्तरार्धगतसूत्रसूचिकाः। 791 सूत्रम् पार्श्वम् सूत्रम् पार्श्वम् 3643 पूर्वपदात् (8-3-106) 738 3599 प्रसमुपोदः पादपूरणे (8-1-6) 735 2734 पूर्ववत्सनः (1-3-62) 415 3034 प्रस्त्योऽन्यतरस्याम्(८-२५४) 537 2933 पूर्वे कर्तरि (3-2-19) 5103821 प्रस्थेऽवृद्धमका०(६.२-८७) 754 3756 पूर्वे भूतपूर्वे (6-2-22) 750 2163 प्रहासे च मन्यो०(१-४-१०६) 6 3479 पूर्वैः कृतमिनयौ च(४.४-१३३)७२७ 2276 प्राक्सितादब्य०(८-३.६३) 58 2178 पूर्वोऽभ्यासः (6-1-4) 11 3808 प्राचां क्रीडायाम् (6-2-74) 754 2844 पोरदुपधात् (3-1-98) 480 3917 प्रादस्वाङ्गं० (6.2.183) 761 3072 प्यायः पी (6-1-28) 549 2747 प्राद्वहः (1.3.81) 425 2690 प्रकाशनस्थेयाख्य०(१-३-२३) 401 2953 प्रियवशे वदः खश् (3.2-38)515 3518 प्रकृत्यान्तःपाद० (6 1-115) 729 | 3750 प्रीतौ च (6-2-16) 749 3871 प्रकृत्या भगालम् (6-2-137) 758/2911 पुसल्वः समभि० (3.1-149) 504 2603 प्रजने बीयतेः (6-1-55) 322 2920 प्रे दाज्ञः (3-2.6) 507 3248 प्रजने सर्तेः (3-3-71) 680 | 3198 प्रे द्रुस्तुस्रुवः (3-3-25) 671 3136 प्रजोरिनिः (3.2-156) 565 3227 प्रे वणिजाम् (3-3-52) 676 3608 प्रणवष्टेः (8-2-89) 736 3125 प्रे लपसुद्रुमथ० (3-2-145) 563 2889 प्रणाय्योऽसम्मतौ (3-1.128)492 3221 प्रेलिप्सायाम् (3-3-46) 675 3740 प्रतिबन्धि चिर० (6-2-6) 748 3203 प्रेस्रोऽयज्ञे (3-3.32) 672 3618 प्रतिश्रवणे च (8-2-99) 736 / 2817 प्रैषातिसर्ग० (3.3.163) 468 3027 प्रतिस्तब्धनिस्त०(८ 3.114) 536 2735 प्रोपाभ्यां युजे० (1.3-64) 416 3927 प्रतेरंश्वादय० (6-2-193) 762 2715 प्रोपाभ्यां सम० (1-3.42) 410 3022 प्रतेश्च (6-1-25) 535 3625 प्लुतावैच इदुतौ (8.2.106) 737 3502 प्रत्नपूर्वविश्वे० (5-3111) 728 2558 प्वादीनां ह्रस्वः (7-3-80) 278 2869 प्रत्यपिभ्यां ग्रहेः (3-1.118) 487 | 2733 प्रत्याङ्भ्यां श्रुवः (1.3.59) 415 / 2354 फणां च सप्तानाम् (6-4-125)131 3204 प्रथने वावशब्दे (3.3.33) 672 | 2940 फलेपहिरात्म० (3-2-26) 512 3790 प्रथमोऽचिरोप० (6.2.56) 752 3061 प्रभौ परिबृढः (7-2-21) 546 2527 बभूथाततन्थ० (7-2-64) 252 3245 प्रमदसम्मदी हर्षे (3.3.68) 679 3465 बर्हिषि दत्तम् (4-4-119) 726 3372 प्रमाणे च (3.4-51) 716 | 3506 बहुप्रजाश्छन्दसि (5-4-123) 728 2878 प्रयाजानुयाजौ० (7-3-62) 489 3398 बहुलं छन्दसि (2-4-39) 722 3437 प्रयै रोहिष्यै० (3-4-10) 725 | 3400 बहुलं छन्दसि (2.4.73) 722 2884 प्रयोज्यनियोज्यौ० (7-3-68) 490 3401 बहुलं छन्दसि (2.4.76) 722 3881 प्रवृद्धादीनां च (6.2.147) 759 3419 बहुलं छन्दसि (3.2-88) 723 2777 प्रश्ने चासनकाले (3-2-115) 456 | 3498 बहुलं छन्दसि (5-2-122) 728 2917 प्रष्ठोऽप्रगामिनि (8-3.92) 506 3510 बहुलं छन्दसि (6.1-34) 728 For Private And Personal Use Only
Page #794
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 792 कौमुद्युत्तरार्धगतसूत्रसूचिकाः। सूत्रम् पार्श्वम् / सूत्रम् पार्श्वम् 3557 बहुलं छन्दसि (7 1-8) 731 | 349. भावे च (4-4-144) 727 3558 बहुलं छन्दसि (7-1-10) 731 3252 भावेऽनुपसर्गस्य (3-3-75) 681 3578 बहुल छन्दसि (7-1-103) 733 3597 भाषायां सद० (3-2-108) 556 3586 बहुलं छन्दसि (7-3-97) 734 2720 भासनोपसम्भाषा (1-3-47) 411 3598 बहुलं छन्दसि (7-4-78) 735 2931 भिक्षासेनादायेषु च (3-2-17)509 3546 बहुलं छन्दस्व० (6-4-75) 731 3042 भित्तं शकलम् (8-2.59) 539 2991 बहुलमाभीक्ष्ण्ये (3-2-81) 527 2866 भिद्योध्यौ नदे (3-1-115) 487 3896 बहुव्रीहाविद० (6-2-162) 760 3154 मियः कुक्लुकनौ (3.2-174) 569 3735 बहुव्रीहौ प्रकृत्या० (6-2-1) 748 2492 भियोऽन्यतरस्याम् (6-4 115)221 3840 बहुव्रीहौ विश्वं० (6-2-106) 756 2595 मियो हेतुभये० (7-3-40) 320 3909 बहोर्नवदुत्तर० (6-2-175) 761 3173 भीमादयोऽपादाने (3-4-74) 664 3764 बह्वन्यतरस्याम् (6-2-30) 750 2594 भीस्म्योर्हेतुभये (1-3-68) 319 2672 बाष्पोष्मभ्या० (3-1-16) 383 |3675 भीहीभृहुमद० (6-1-192) 741 2593 बिभेतेहेतुभये (6-1-56) 319 | 2491 भीहीभृहुवां० (3-1-39) 220 2752 बुधयुधनशजने० (1-3-86) 426 | 2877 भुजन्युजौ पाण्यु०(७-३-६१)४८९ 2998 ब्रह्मभ्रूणवृत्रेषु क्विप् (3-2.87)529 | 2737 भुजोऽनवने (1-3-66) 416 2452 ब्रुव ईट् (7-3.93) 196 3159 भुवः संज्ञान्तरयोः(३-२-१७९) 571 2450 ब्रुवः पञ्चाना० (3-4.84) 195 3118 भुवश्च (3.2.138) 561 2453 ब्रुवो वचिः (2-4-53) 196 3447 भुवश्च (4-1-47) 725 3610 ब्रूहिप्रेष्यश्रौष० (8-2-91) 736 3605 भुवश्च महाव्याहृतेः (82.71)735 भ 2855 भुवो भावे (3-1-107) 483 3805 भक्ताख्यास्तदर्थेषु (6-2-71) 753 2174 भुवो वुग्लुड्लिटो:(६-४-८८) 10 2976 भजो ण्विः (3-2-62) 522 2995 भूते (32-84) 528 3141 भाभासमिदो० (3-2-161) 566 2797 भूते च (3-3-140) 462 2764 भञ्जुश्च चिणि (6-4-33) 440 3170 भूतेऽपि दृश्यन्ते (3-3-2) 663 3517 भय्यप्रवय्ये च० (6-1-83) 729 2224 भूसुवोस्तिहि (7-3-88) 28 2181 भवतेरः (7-4-73) 12 2496 भृञामित् (7 4-76) 223 3171 भविष्यति गम्यादयः (3-3-3)663 2861 भृञोऽसंज्ञायाम् (3-1-112) 485 2794 भविष्यति मर्या०(३-३-१३६) 461 2667 भृशादिभ्यो भु० (3.1-12) 378 3456 भवे छन्दसि (4-4-110) 726 2885 भोज्यं भक्ष्ये (7-3-69) 491 2894 भव्यगेयप्रवच० (3-4-68) 494 2535 भ्रस्जो रोपधयो० (6-4.47) 256 2679 भावकर्मणोः (1-3-13) 397 3157 भ्राजभासधु० (3-2-177) 570 3443 भावलक्षणे स्थेण्कृ०(३-४-१६) 725 2565 भ्राजभासभाष० (7 4.3) 286 3189 भाववचनाश्च (3-3-11) 666 3184 भावे (3-3-18) 667 | 3089 मतिबुद्धिपूजा० (3-2-188) 554 For Private And Personal Use Only
Page #795
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कौमुद्युत्तरार्धगतसूत्रसूचिकाः। पार्श्वम् | सूत्रम् पार्श्वम् 3628 मतुवसो रु० (8-3-1) 737 2473 मृजेवृद्धिः (7-2-114) 208 3705 मतोः पूर्वमात्संज्ञा० (6-1219)742 3323 मृडमृदगुध० (1.2.7) 702 3482 मतौ च (4-4-136) 727 3055 मृषस्तितिक्षायाम् (1-2-20) 542 3474 मत्वर्थे मासतन्वोः(४-४.१२८) 727 / 2960 मेघर्तिभयेषु कृत्रः (3-2 43) 517 3244 मदोऽनुपसर्गे (3-3-67) 679 2203 मेनिः (3-4-89) 3485 मधोः (4-4-139) 727 2538 म्रियतेलङ्लिङोश्च (1-3-61) 262 3475 मधोर्ज च (4-4-129) 727 2309 म्वोश्च (8-2-65) .88 2992 मनः (3-2-82) 527 3885 मन्क्तिन्व्याख्यान०(६-२-१५१)७५९ 2633 यङि च (7-4-30) 343 3402 मन्त्रे घसहरण. (2-4-80) 722 2650 योऽचि च (2-4-74) 349 3420 मन्त्रे वृषेषपच० (3-3.96) 723 2651 यडो वा (7-3.94) 351 3414 मन्त्रे श्वेतवहोक्थ०(३-२-७१) 723 | 2805 यच्चयत्रयोः (3-3-148) 464 3554 मन्त्रेष्वाङ्यादे० (6-4-141) 731, 3146 यजजपदशां यङः(३-२.१६६) 567 3533 मन्त्रे सोमाश्वे. (6-3-131) 730 | 3565 यजध्वैनमिति च (7-1-43) 732 3318 मयतेरिदन्य० (6-4-70) 700 3268 यजयाचयत० (3.3.90) 685 3484 मये च (4-4-138) 727 | 2882 यजयाचरुच० (7.3-66) 490 2517 मस्जिनशोझलि (7-1-60) 243 3520 यजुष्युरः (6-1-117) 3772 महान्त्रीह्य० (6-2-38) 751, 3641 यजुध्येकेषाम् (8-3-104) 738 2219 माडि लुङ् (3-3-175) 27 | 3397 यजेश्च करणे (2.3.63) 722 3748 मात्रोपज्ञोपक्रम० (6.2.14) 749 3663 यज्ञकर्मण्य 0 (1-2-34) 740 2394 मान्बधदान्शा० (3-1-6) 158 3202 यज्ञे समि स्तुवः (3-3-31) 672 3470 मायायामण (4-4.124) 726 3701 यतोऽनावः (6-1-213) 742 3822 मालादीनां च (6-2-88) 754 | 3349 यथातथयोरसूया० (3.4.28) 711 2949 मितनखे च (3-2-34) 514 | 2827 यथाविध्यनुप्रयोगः० (3.4.4) 472 2568 मितां ह्रस्वः (6-4.92) 290 / 3963 यद्धितुपरं छन्दसि (8-1-56) 765 2740 मिथ्योपपदात्० (1-3-71) 422 / 3973 यद्वृत्तानित्यम् (8-1.66) 765 2346 मिर्गुणः (7.3.82) 113 | 3240 यमः समुपनिविषु च(३-३-६३)६७९ 3888 मिश्रं चानुपस० (6.2 154) 759 / 2377 यमरमनमातां सक्च(७ 2.73)143 2508 मीनातिमिनोति. (6-1.50) 234 2698 यमो गन्धने (12-15) 4.4 3585 मीनातेर्निगमे (7-3-81) 734 3890 ययतोश्चातदर्थे (6-2 156) 760 3901 मुखं वाङ्गम् (6-2-167) 760 | 3156 यश्च यङः (3.2 176) 569 2624 मुचोऽकर्मकस्य० (7-4.57) 336 2521 यस ऽनुपसर्गात् (3.171) 246 2677 मुण्डमिश्र० (3.1-21) 385. 3025 यस्य विभाषा (7-2-15) 535 3254 मूर्ती घनः (3-3-77) 681, 2631 यस्य हलः (6-4-49) 242 2862 मृजेर्विभाषा (3-1-113) 486 | 3609 याज्यान्तः (82.90) 736 arma ___100 For Private And Personal Use Only
Page #796
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 794 कौमुद्युत्तरार्धगतसूत्रसूचिकाः। सूत्रम् पार्श्वम्। सूत्रम् पार्श्वम् 3351 यावति विन्दजीवोः(३-४-३०) 712 2644 रीगृदुपधस्य च (7 4-90) 346 2783 यावत्पुरा० (3-3-4) 457 , 2652 रुग्रिकौ च लुकि (7 491) 359 3943 यावद्यथाभ्याम् (8-1-36) 763 2609 रुदविदमुष० (1-2-8) 327 2209 यासुट परस्मैपदे०(३-४-१०३) 22 2475 रुदश्च पञ्चभ्यः (7-3-98) 209 2488 यीवर्णयोर्दी० (7-4-53) 217 / 2474 रुदादिभ्यः सार्व० (72-76) 209 3815 युक्तारोह्यादयश्च (6-2-81) 754 | 2543 रुधादिभ्यः श्नम् (3-1 78) 267 3800 युक्त च (6-2-66) 753 3069 रुष्यमत्वर० (7-2 28) 548 2873 युग्यं च पत्रे (3-1-121) 488 2599 रुहः पोऽन्यतर० (7 3.43) 321 3544 युप्लुबोर्दीर्घश्छन्दसि(६-४-५८)७३१ 3468 रेवतीजगती० (4-4-122) 726 3640 युष्मत्तत्ततक्षु० (8-3-103) 738 | 3285 रोगाख्यायां ण्वु० (3 3.108)691 3699 युष्मदस्मदोर्डसि (6-1-211) 742 2162 युष्मद्युपपदे समा०(१-४-१०५) 6 2152 लः कर्मणि च० (3-4.69) 3 2549 ये च (6-4-109) 274 2155 ल: परस्मैपदम् (1-4.99) 4 3607 ये यज्ञकर्मणि (8-2-88) 736 3103 लक्षणहेत्वोः० (3.2-126) 558 2319 ये विभाषा (6.4-43) 95 2969 लक्षणे जाया० (3 2-52) 519 2463 लङः शाकटायन०(३-४-१११)२०२ 3467 रक्षोयातूनां० (4-4-121) 726 3100 लटः शतृशान० (3-2-124) 557 2397 रञ्जेश्च (6-4-26) 160 2778 लट् स्मे (3.2.118) 456 3016 रदाभ्यां निष्ठातो० (8-2-42) 533 / 2582 लभेश्च (7.1.64) 315 2515 रधादिभ्यश्च (7-2 45) 243 | 3134 लषपतपदस्था० (3-2-154) 565 2302 रधिजभोरचि (7 1.61) 83 | 2153 लस्य (3-4.77) 4 2581 रभेरशब्लिटोः (7-1-63) 315 2211 लिङः सलोपोऽ० (72-79) 23 2617 रलो व्युपधाद्धला० (1.2.26) 330 2255 लिङः सीयुट् (3-4-102). 43 3228 रश्मौ च (3-3.53) 676 | 3424 लिङर्थे लेट् (3-4-7) 724 3005 राजनि युधिकृत्रः (3-2-95) 531 2215 लिङाशिषि (3.4-116) 26 3768 राजन्यबहुवचन० (6-2-34) 751 | 2815 लिङ् च (3.3 159) 467 2865 राजसूयसूर्य० (3.1-114) 486 2788 लिट् चोर्ध्व० (3.3.9) 458 3793 राजा च (6.2.59) 753 2818 लिङ् चोर्ध्वमौ० (3-3.169) 468 3797 राजा च प्रशं० (6.2.63) 753 2229 लिनिमित्ते० (3-3-139) 30 3445 रात्रेश्चाजसौ (4-1-31) 725 2821 लिङयदि (3-3-168) 469 2532 राधो हिंसायाम् (6-4 123) 253 3434 लिङयाशिष्यङ् (3-1.86) 725 2655 राल्लोपः (6-4.21) 366 / 2300 लिङ्सिचावात्मने०(१२.११) 81 3696 रिक्ते विभाषा (6-1-208) 742 2528 लिङ्सिचोरात्मने० (7.2.42) 252 2367 रिशयग्लिक्षु (7-4.28) 139 3094 लिटः कानज्वा (3.2.106) 555 2192 रि च (7-4-51) 16 2241 लिटस्तझयोरेशरेच् (3-4-81) 36 For Private And Personal Use Only
Page #797
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कौमुद्युत्तरार्धगतसूत्रसूचिकाः / 795 सूत्रम् पार्श्वम् सूत्रम् पार्श्वम् 2177 लिटि धातो० (6-1-8) 11 3290 ल्युट् च (3-3-115) 2413 लिटि बयो यः (6-1-38) 173 3018 ल्वादिभ्यः (8-2-44) 2172 लिट् च (3-4-115) 2424 लिट्यन्यतरस्याम् (2-4-40) 180 2454 वच उम् (7-4-20) 197 2408 लिट्यभ्यासस्यो० (6-1-17) 170 2409 वचिस्वपि० (6-1-15) 170 2327 लिज्यडोश्च (6-1.29) 98 2883 वचोऽशब्द० (7-3.67) 490 3676 लिति (6-1-193) 741 3325 वञ्चिलुञ्च्यूतश्च (1-2-24) 703 2418 लिपिसिचिवश्व (3-1-53) 176 2879 वञ्चेर्गतौ (7-3-63) 489 2786 लिप्स्यमानसिद्धौ च (3-3-7) 458 3493 वत्सरान्ताच्छ० (5-1-91) 728 2592 लियः संमानन० (1-3-70) 319 2854 वदः सुपि क्यप्च (3-1-106) 483 2591 लीला ग्लुका० (7-3-39) 319 | 2267 वदवजहलन्तस्याचः (7.2-3) 55 2365 लुग्वा दुहदिह० (7-3-73) 138 3912 वनं समासे (6-2-178) 761 2218 लुङ् (3. 2429 वमोर्वा (8-4-23) 182 2434 लुङि च (2-4-43) 2924 वयासे च (3-2-10) 508 2206 लुट्लङलुङ० (6-4-71) 21 3473 वयस्यासु मू|० (4-4-127) 727 2427 लुड्सनोर्घस्ल (2-4-37) 181 3865 वादयश्च (6-2-131) 757 2188 लुटः प्रथमस्य० (2-4-85) 15 3737 वर्णो वर्णेष्वनेते (6.2.3) 748 2351 लुटि च क्लपः (1-3-93) 117 2789 वर्तमानसामीप्ये० (3-3-131)459 2635 लुपसदचरजप० (3-1-24) 344 | 2151 वर्तमाने लट् (3.2-123) 3 3048 लुभो विमोहन (7-2-54) 540 3353 वर्षप्रमाण ऊलोप०(३-४-३२) 712 3107 लटः सद्वा (3-3-14) 558 2414 वश्चास्यान्यतर० (6-1-39) 173 2193 लट् शेषे च (3.3-13) 17. 3046 वसतिक्षुधोरिट् (7-2-52) 540 3427 लेटोऽडाटौ (3-4-94) 724 | 3451 वसन्ताच्च (4-3-20) 26 2198 लोटा लङ्कृत् (3-4 85) 19 3486 वसोः समूहे च (4-4-140) 727 2194 लोट् च (3-3-162) 17 3096 वस्वेकाजाद्धसाम् (7-2.65) 555 3959 लोट् च (8-1-52) 764 3410 वहश्च (3-2-64) 723 2787 लोडर्थलक्षण च (3-3-8) 458 | 2947 वहाभ्रे लिहः (3-2-32) 514 2587 लोपः पिबतेरी० (7-4-4) 317 2850 वा करणम् (3-1.102) 482 2333 लोपश्चास्वान्य. (6-4-107) 103 2669 वा क्यषः (1-3-90) 381 3563 लोपस्त आत्मने० (7-1-41) 732 | 3081 वा कोशदैन्ययोः (6-4.61) 551 3952 लोपे विभाषा (8-1-45) 764 2700 वा गमः (1-2-13) 404 2500 लोपो यि (6-4-118) 225 2957 वाचंयमपुरन्दरौ च(६-३.६९) 516 2668 लोहितादिडाज्भ्यः (3-1-13) 381 2605 वा चित्तविरागे (6-4-91) 323 3339 ल्यपि च (6-1-41) 708 | 2956 वाचि यमो व्रते (3.2.40) 516 3336 ल्यपि लघुपूर्वात् (6-4-56) 707 | 3552 वा छन्दसि (3-4-88) 531 For Private And Personal Use Only
Page #798
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कौमुद्युत्तरार्धगतसूत्रसूचिकाः। पार्श्वम् सूत्रम् पार्थम् / सूत्रम् 3515 वा छन्दसि (6-1-106) 729 3099 विभाषा गमहन० (7-2-68) 557 3905 वा जाते (6-2-171) 761 2905 विभाषा ग्रहः (3.1-143) 502 2356 वा भ्रमुत्रसाम् (6-4-124) 133 3345 विभाषाप्रथम० (3-4-24) 709 3068 वा दान्तशान्त० (7-2-27) 547/2376 विभाषा घ्राधेट्० (2-4-78) 142 2839 वा निसनिक्षनिन्दाम(८-४-३३)४७८ 3225 विभाषाङि रुप्लुवो (3-3-50) 676 2378 वाऽन्यस्य संयोगादेः(६-४-६८) 143 2765 विभाषा चिण्णमुलो:(७-१-६९)४४० 3754 वा भुवनम् (6-2-20) 750 2525 विभाषा बेः (7-3.58) 251 2321 वा भ्राशभ्लाश. (3-1-70) 96 3665 विभाषा छन्दसि (1-2-36) 740 3292 वायौ (2.4-57) 695 3898 विभाषा छन्दसि (6-2-164) 760 2437 वा लिटि (2-4-55) 187, 3593 विभाषा छन्दसि (7-4-44) 734 3334 वा ल्यपि (6-4-38) 706 3895 विभाषा तृनन्नती०(६.२.१६१)७६० 3541 वा षपूर्वस्य निगमे (6-4-9) 731 2812 विभाषा धातौ० (3-3-155) 466 2830 वाऽसरूपोऽस्त्रियाम् (3-1-94) 475 2375 विभाषा धेट्रव्यो (3-1-49) 142 3085 विकुशमिपरिभ्यः०(८-३-९६) 552 3801 विभाषाध्यक्षे (6-2-67) 753 3616 विचार्यमाणानाम् (8-2.97) 736 3337 विभाषाऽऽपः (6-4-57) 707 2536 विज इट (1-2-2) 2583342 विभाषा परेः (6-1-44) 708 3417 विजुपे छन्दसि (3-2-73) 723 | 3612 विभाषा पृष्टप्रति० (8-2-93) 736 2982 विडनोरनुनासिक० (6.4 41)523 3054 विभाषा भावादि० (7-2-15) 542 3041 वित्तो भोगप्रत्यययोः(८-२-५८)५३९ 3684 विभाषा भाषायाम् (6-1-181)742 2465 विदाकुर्वन्त्वि. (3-1-41) 205 3023 विभाषाम् यव० (6-1-26) 535 3142 विदिभिदिच्छिदेः (3-2-162)567 2509 विभाषा लीयतेः (6-1-51) 234 3105 विदेः शतुर्वसुः (7-1-36) 558 2460 विभाषा लुङ्लडोः(२-४-५०) 200 2464 विदो लटो वा (3-4-83) 204 : 2723 विभाषा विप्रलाप (1-3-50) 412 2208 विधिनिमन्त्रणा०(३-३-१६१) 21 3703 विभाषा वेण्विन्धा०(६-१.२१५)७४२ 2950 विधरुषोस्तुदः (3-2-35) 514 2583 विभाषा वेष्टिचेष्ट्योः(७-४-९६) 314 3149 विन्दुरिच्छुः (3-2-169) 568 2420 विभाषा श्वेः (6-1.30) 177 2685 विपराभ्यां जेः (1-3-19) 398 2775 विभाषा साकाङ्के (3-2-114) 455 2868 विपूयविनीय० (3-1-117) 487 / 2404 विभाषा सृजिदृशोः(७-२-६५) 165 3160 विप्रसंभ्यो संज्ञा०(३.२-१८०)५७२ 3655 विभाषितं विशेष०(८-१-७४) 739 3555 विभाष|श्छन्दसि(६-४-१६२)७३१ 3960 विभाषितं सोपसर्ग०(८-१-५३)७६४ 2800 विभाषा कथ० (3-3-143) 463 | 2325 विभाषेटः (8-3-79) 97 2784 विभाषा कदाकोः (3-3-5) 457 3930 विभाषोत्पुच्छे (6.2.196) 762 2751 विभाषाऽकर्मकात् (1-3-85) 426 2744 विभाषोपपदेन० (1-3 75) 423 2871 विभाषा कृवृषोः (3.1-120) 488 | 2730 विभाषोपयमने (1-2-16) 414 3287 विभाषाख्यान० (3-3-110) 692 | 2447 विभाषोर्णोः (1-2-3) N 194 For Private And Personal Use Only
Page #799
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कौमुद्युत्तरार्धगतसूत्रसूचिकाः / सूत्रम् पार्श्वम् / सूत्रम् पार्श्वम् 3388 विशाखयोश्च (1-2-62) 721 3211 व्युपयोः शेतेः० (3 3-39) 673 3378 विशिपतिपदि० (3-4-56) 717 | 3275 व्रजयजो वे० (3-3-98) 687 3758 विस्पष्टादीनि० (6-2-24) 750 | 2990 व्रते (3-2-80) 526 3854 वीरवीयौ च (6-2-120) 756 श 3504 वृकज्येष्ठाभ्यां० (5-4-41) 728 | 3177 शकधृषज्ञा० (3-4-65) 665 3233 वृक्षासनयोर्विटरः (8-3-93) 677 3439 शकि णमुल्कमुलौ (3-4-12) 725 3229 वृणोतेराच्छादने (3-3-54) 677 2823 शकि लिङ् च (3-3-172) 469 2711 वृत्तिसर्गतायनेषु० (1-3-38) 409 2847 शकिसहोश्च (3.1-99) 480 2347 वृद्ध्यः स्यसनोः (1-3-92) 115 / 2971 शक्तौ हस्तिकवाटय :(3.2.54)520 3691 वृषादीनां च (6-1-203) 742 3719 शतुरनुमो नद्य० (6.1.173) 747 2391 वृतो वा (7-2-38) 157 2362 शदेः शितः (13-60) 135 2714 वेः पादविहरणे (1-3-41) 410 2598 शदेरगतौ (7-3-42) 321 2707 वेः शब्दकर्मण: (1-3-34) 407, 2673 शब्दवैरकलहा० (3-1-17) 383 2398 वेः स्कन्देरनिष्ठायाम्(७-३-७३)१६२ 2519 शमामष्टानां० (7-3-74) 245 2556 वेः स्कन्नातेर्नित्यम् (8-3-77)278 | 3543 शमिता यज्ञे (6-4-54) 731 2415 वेञः (6-1-40) 174 | 3121 शमित्यष्टाभ्यो० (3.2-141) 561 2411 वेो वयिः (2-4-41) 173 | 2928 शमि धातोः० (3-2.14) 509 2701 वेत्तेर्विभाषा (7-1-7) 404 | 2259 शपूर्वाः खयः (7 4-61) 48 3458 वेशन्तहिमवन्या०(४-४-११२)७२६ / 2336 शल इगुपधा० (3-1-45) 106 3477 वेशोयशआदे० (4-4-131) 727 2585 शाच्छासाह्वा० (7 3.37 317 2274 वेश्च स्वनो भोजने (8-3.69) 58 | 3075 शाच्छोरन्य० (7.4.41) 549 3430 वैतोऽन्यत्र (3-4-96) 724 | 3743 शारदेऽनातवे (6-2-9) 629 3971 वैवावेति च च्छन्दसि(८-१.६४)७६५ 2486 शास इदङ्हलोः (6.4.34) 216 2798 वोताप्योः (3-3.141) 406 2410 शासिवसि० (8-3-60) 372 2590 वो विधूनने जुक् (7.3-38) 318, 2487 शा हौ (6-4-35) 216 3123 वो कषलसकत्थ०(३-२-१४३)५६२३८७२ शितेर्नित्या० (6-2 138) 758 3196 वौ क्षुध्रुवः (3-3-25) 671/3810 शिल्पिनि चाकृतः (6-2-76) 754 2721 व्यक्तवाचां समुच्चारणे(१-३.४८)४१२२९०७ शिल्पिनि वुन् (3-1-145) 503 3433 व्यत्ययो बहुलम् (3.1-85) 724 | 3489 शिवशमरिष्टस्य 0 (4-4-143)727 2353 व्यथा लिटि (7-4-68) 120 2441 शीङः सार्वधातुके० (7-4-21) 191 3238 व्यधजपोरनुपसर्गे (3 3-61) 678 2442 शीडो रुट (7 1-6) 191 3392 व्यवहिताश्च (1-4-82) 721 3514 शीर्षश्छन्दसि (6.1-60) 729 3900 व्यवायिनोऽ० (62-166) 760 3030 शुषः कः (8-2-51) 537 3341 व्यश्च (6-1-43) 708 3356 शुष्कचूर्णरूक्षेषु० (3.4.35) 713 2749 व्यापरिभ्यो रमः (1-3-83) 425 | 3694 शुष्कधृष्टौ (6.1.206) 742 For Private And Personal Use Only
Page #800
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पार्श्वम् rur 798 कौमुद्युत्तरार्धगतसूत्रसूचिकाः / सूत्रम् पार्श्वम् / सूत्रम् 3849 शृङ्गमवस्थायां च (6-2-115)756 3281 षिद्भिदादिभ्यो० (3.3.104) 689 3067 शृतं पाके (6.1.27) 5472320 प्टिवुक्लसुचमां शिति(७-३-७५) 95 2495 सृदृप्रां ह्रस्वो वा (7-4-12) 222 / 3153 शृवन्योरारु. (3-2-173) 569 3428 स उत्तमस्य (3-4-98) 724 2542 शे मुचादीनाम् (7.1-59) 266 2342 सः स्यार्धधातुके (7-4-49) 111 3516 शेश्छन्दसि० (6-1-70) 729 2628 स: स्विदि० (8-3-62) 340 2159 शेषात्कर्तरि० (1-3-78) 5 2522 संयसश्च (3.1-72) 246 2165 शेषे प्रथमः (1-4-108) 7 3017 संयोगादेरातो० (8 2.43) 533 2808 शेषे लड्यदौ (3-3-151) 465 3932 सक्थं चाक्रान्तात (62.198)762 3948 शेषे विभाषा (8.1.41) 763 3975 सगतिरपि तिङ् (8-1-68) 766 3957 शेषे विभाषा (8-1-50) 764 3460 सगर्भसयूथ० (4 4-114) 726 2232 शेषे विभाषाऽक० (8-4-18) 31 | 3769 संख्या (6-2-35) 751 2469 श्नसोर लापः (6-4-111) 206 3897 संख्यायाः स्तनः (6-2-163) 760 2544 भान्नलोपः (6-4-23) 268 3214 संघे चानौत्तराधर्ये (3 3 42) 674 2483 भाभ्यस्तयोरातः (6-4-112) 214 3264 संघाद्धी गण० (3-3 86) 683 2903 श्यायधानु० (3-1-141) 502 3286 संज्ञायाम् (3-3-109) 692 3021 श्योऽस्पर्शे (8-2-45) 534 : 3363 संज्ञायाम् (3-4.42) 14 3759 श्रज्यावमकन्पा० (62-25) 750 / 3893 संज्ञायाम (6.2.159) 760 3195 श्रिणी भुवोऽनुपसर्गे(३-३-२४) 671 3276 सज्ञायां समज. (3-3-99) 687 3573 श्रीग्रामण्योश्छन्दसि(७-१५६) 733 3828 संज्ञायां गिरि 0 (6-2.94) 755 2386 श्रुवः श च (3-1-74) 151 3811 संज्ञायां च (62-77) 754 3551 श्रुशृणुपृकृवृभ्य०(६-४-१०२) 731, 3880 संज्ञायामना० (6.2.146) 758 2381 श्रयुकः किति (7 2-11) 147 3692 गज्ञायामुपमानम् (6-1-204) 742 2514 श्लिष आलिङ्गने (3 1.46) 240 2963 संज्ञायां भत० (3.2 46) 517 2490 श्लौ (6-1-10) 220 3899 संज्ञायां मित्रा० (62.165) 760 2421 श्वयतेरः (7-4-18) 178 3847 संज्ञौपम्ययोश्च (6.2-113) 756 3039 वीदितो निष्ठायाम् (7-2-14) 539 3939 सत्यं प्रश्ने (8-1-32) 763 2563 सत्यापपाश० (3.1-25) 284 3869 षट च काण्डादीनि(६-२.१३५)७५७ 2975 सत्सद्विषहदुह. (32.61) 521 3725 षट्त्रिचतुर्यो० (6-1-179) 747 2271 सादर प्रतः (8-3-66) 57 3333 पत्वतुकारसिद्धः (6-1.86) 705 | 3745 सदृशप्रतिरूपयो: 0 (62-11) 749 3794 षष्ठी प्रत्येनसि (6-2-60) 753 | 2361 सदेः परस्य लिटि(८-३.११८) 135 3389 षष्ठीयुक्तश्छन्दसि वा(१-४-९) 721 | 3529 सध मादस्थयो० (6.3.96) 730 3638 षष्ट्याः पतिपुत्र० (8-3.53) 738 3315 सनः क्तिचि लो० (6-4-45) 699 3310 षात्पदान्तात् (8-4-35) 699 2304 सनाद्यन्ता धातवः (3.1-32) 84 For Private And Personal Use Only
Page #801
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कौमुद्युत्तरार्धगतसूत्रसूचिकाः / / 799 ur m सूत्रम् पार्श्वम् | सूत्रम् पार्श्वम् 3148 सनाशंसभिक्ष उः (3-2-168)5683464 समुद्राभ्राद्धः (4-4-118) 726 3583 सनिससनिवांसम् (7-2-69) 733 3357 समूलाकृतजीवेषु०(३.४.३६) 713 2610 सनि ग्रहगुहोश्च (7-2-12) 327 2699 समो गम्युच्छिभ्याम्(१-३-२९)४०४ 2615 सनि च (2.4-47) 329 3494 संपरिपूर्वात्ख च (5-1-92) 728 2623 सनि मीमाधुर० (7.4.54) 335 2550 संपरिभ्यां करोती (6 1-137)274 2618 सनीवन्तर्ध० (7-2-49) 331 | 3122 संपृचानुरुधा० (3 2.142) 562 3645 सनोतेरनः (8-3-108) 738 | 2719 संप्रतिभ्यामनाध्याने(१.३ 46) 411 2395 सन्य डोः (6-1-9) 158 | 3102 संबोधने च (3.2.125) 557 2317 सन्यतः (7-4-79) 912811 संभावनऽलमिति०(३ 3.154)466 2331 सन्लिटोर्जेः (7-3-54) 101 2709 संमाननोत्संज. (1336) 408 2316 सन्वलघुनि चङ् (7-4-93) 91 2382 सर्तिशास्त्यति 0 (3-1-56) 148 3491 सप्तनोऽञ्छन्दसि (5-1-61) 727 / 2959 सर्वकूलाभ्रकरी० (3-2-42) 517 3766 सप्तमी सिद्धशुष्क 0(6-2-32) 750 3827 सर्व गुणकात्स्न्र्ये (62.93) 755 3799 सप्तमीहारिणौ० (6-2-65) 753 3488 सर्वदेवात्तातिल (4 4 142) 727 3886 सप्तम्याः पुण्यम् (6-2-152) 759 | 3685 सर्वस्य सुपि (6-1-191) 742 3370 सप्तम्यां चोपपीड०(३ 4-49) 7162252 सवाभ्यां वामौ (3-4-91) 42 3007 सप्तम्यां जनेर्डः (3-2 95) 531 3757 सविधसनीड० (6.2.23) 750 3832 सभायां नपुंसके (6-2-98) 755 3597 ससूवेति निगमे (7 4-74) 735 2736 समः क्ष्णुवः (1-3-65) 4163481 सहस्रेण संमितौ पः(४-४-१३५)७२७ 2725 समः प्रतिज्ञाने (1-3-52) 413, 2357 सहिवहोरोद० (6.3-112) 133 2689 समवप्रविभ्यः स्थः (1-3-22) 401 3646 सहेः पृतना० (8 3.109) 738 2551 समवाये च (6-1-138) 274 | 3006 सहे च (3.2.96) 531 2727 समस्तृतीयायुक्तात् (1-3-54) 413 | 3531 साढ्यै साढा० (6.3-113) 730 3320 समानकर्तृकयोः० (3-4.21) 701 3655 सामान्यवचनं० (8-1-74) 739 3176 समानकर्तृकेषु० (3-3-158) 664 2234 सार्वधातुकमपित् (1-2-4) 33 3371 समासत्ती (3-4.50) 716 2168 सार्वधातुकार्ध० (7-3-84) 8 3734 समासस्य (6-1.223) 748 2756 सार्वधातुके यक (3.167) 429 3332 समासेऽनपूर्वे० (7 137) 705 3714 सावेकाचस्तृतीया०(६१.१६८)७४६ 2921 समि ख्यः (3.2.7) 507 2392 सिचि च पर० (7-2-40) 157 3208 समि मुष्टौ (33-36) 673 2297 सिचि वृद्धिः पर० (7-21) 75 3194 समि युट्ठदुवः (3-3-23) 671 2640 सिचो यङि (83-112) 345 2826 समुच्चयऽन्य 0 (3-4-3) 471 2226 सिजभ्यस्तविदि०(३-४-१०९) 29 2828 समुच्चये सामान्य० (3.4.5) 4722602 सिद्ध्यतेरपारलौकिके(६-१-४९) 322 2742 समुदाङ्भ्यो० (1-3.75) 422 2485 सिपि धातो रा (8-2-74) 216 3246 समुदोरजः पशुषु (3-3-69) 680 : 3425 सिब्बहुलं लेटि (3-1-34) 724 For Private And Personal Use Only
Page #802
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 800 कौमुद्युत्तरार्धगतसूत्रसूचिकाः / पार्श्वम् पार्श्वम्। सूत्रम् 2359 सिवादीनां वाड्० (8-3-71) 134 2938 स्तम्बशकृतोरिन् (3-2-24) 512 2999 सुकर्मपापमन्त्र० (3-2-89) 529 3260 स्तम्बे क च (3-3-83) 683 3749 सुखप्रिययोहिते (6-2-15) 749 2580 स्तम्भुसिवुसहां० (8-3-116)314 2674 सुखादिभ्यः कर्तृ० (3-1-18) 384 | 2272 स्तन्भेः (8-3-65) 57 3644 सुअः (8-3-107) 7383642 स्तुतस्तोमयो० (8-3-105) 738 3112 सुओ यज्ञसंयोगे (3-2-132) 559 2385 स्तुसुधूभ्यः० (72-72) 151 2553 सुटकात्पूर्वः (6.1-135) 275 / 2627 स्तौतिण्यारेव षण्य 0(8-3-61)339 2210 सुट् तिथोः (3-4-107) 23, 3033 स्त्यः प्रपूर्वस्य (6-1-23) 537 3594 सुधितवसुधित० (7-4-45) 734 | 3272 स्त्रियां क्तिन् (3-3-94) 685 2524 सुनोतेः स्यसनोः (8-3-117) 250 | 2987 स्थः क च (3.2.77) 525 2657 सुप आत्मनः क्यच् (3-1-8) 368 3273 स्थागापापचो० (3-3.95) 686 3561 सुपां सुलुक्पूर्व० (7-1-39) 732 / 2389 स्थाध्वोरिञ्च (1-2-17) 156 2916 सुपि स्थः (3-2-4) 505 / 2277 स्थादिष्वभ्यासेन० (8-3-64) 58 2988 सुप्यजातौ० (3-2-78) 525 | 3155 स्थेशभासपिस० (3-2.175) 569 3656 सुबामन्त्रिते परा० (2.1-2) 739 | 3571 स्नात्व्यादयश्च (7-1.49) 732 3091 सुयजो निप् (3-2-103) 554 2323 स्नुकमोरनात्मने०(७-२-३६) 96 2477 सुविनिर्दुभ्यः (8-3-88) 210 3359 स्नेहने पिषः (3-4.38) 713 3083 सूत्रं प्रतिष्णातम् (8-3-90) 552 | 2704 स्पर्धायामाङः (1-3-31) 406 3133 सूददीपदीक्षश्च (3-2-153) 565 3138 स्पृहिगृहिपति० (3.2-158) 566 3879 सूपमानात्क्तः (6-2-145) 7583044 स्फायः स्फी० (6-1-22) 540 3140 सृघस्यदः क्मरच् (3-2-160)566 / 2597 स्फायो वः (7-3-41) 321 2405 सृजिशोझल्यम० (6-1-58) 165 3921 स्फिगपूत० (6-2-187) 761 3444 सृपितृदोः कसुन् (3-4-17) 725 3185 स्फुरतिस्फुलत्यो० (6 1.47) 667 3183 स स्थिरे (3-3-17) 667 2537 स्फुरतिस्फुलत्योर्नि०(८-३-७६)२६२ 2278 सेधतेर्गतौ (8-3-113) 59 | 2626 स्मिपूज्ज्व शां० (72-74) 336 2201 सेह्यपिञ्च (3-4-87) 19 2819 स्मे लोट् (3-3-165) 468 2506 सेऽसिचि कृत० (7-2-57) 233 2220 स्मोत्तरे लङ् च (3-3.176) 28 2358 सोढः (8-3.115) 134 2186 स्यतासी ललुटोः (3-1-33) 14 3483 सोममर्हति यः (4-4-137) 727 3188 स्यदो जवे (6-4.28) 668 3000 सोमे सुञः (3-2-90) 530 3526 स्यश्छन्दसि० (6-1-133) 730 3581 सोमे ह्वरितः (7-2-33) 733 2757 स्यसिसीयुट० (6-4.62) 431 3929 सोरवक्षेपणे (6-2-195) 762/2578 स्रवतिशृणोति० (7481) 312 3851 सोर्मनसी अलो० (6-2-117)756 3459 स्रोतसो विभाषा (4-4.113) 726 2555 स्तन्भुस्तुन्भु० (3-1-82) 278 | 3751 स्खं स्वामिनि (62.17) 749 2927 स्तम्बकर्णयो० (3-2-13) 508 3633 स्वतवान्पायौ (8-3-11) 737 For Private And Personal Use Only
Page #803
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Serving Jinshasan 093610 gyanmandirkobatirth.org For Private And Personal Use Only