Page #1
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
RUUUULSAVA JUURAS WAUWYVYZRas
RARAR
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
22722
SAVARARURU
Page #2
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
શ્રીમદ બુદ્ધિદીતિસાગરસુરી છે.
१
+
1
१५५ विषय
॥श्रीजिनाय नमः ॥ ___ (श्रीशुभशीलगणिविरचितं) ॥ श्रीअवंतीसुकमालचरित्रम्
(द्वितीयावृत्तिः)
DOS000
छपावी प्रसिद्ध करनार पण्डित हीरालाल हंसराज (जामनगरवाळा)
किंमत. रु. ०-८-०
विक्रम संवत् १९८९
1000000000BBC
For Private and Personal Use Only
Page #3
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
Page #4
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandi
अवंती०
चरित्रम
651-
॥ श्रीजिनाय नमः॥
॥ श्री चारित्रविजयगुरुभ्यो नमः॥ ॥ अथ श्रीअवंतीसुकुमालचरित्रं प्रारभ्यते ॥
( कर्ता-श्रीशुभशीलगणो) छपावी प्रसिद्ध करनार-पंडित श्रावक हीरालाल हंसराज (जामनगरवाळा) श्वापदादिकृतान् योऽत्र । सहते चोपसर्गकान् ॥ प्राप्नोति चिंतितं स्थान-मवंतीसुकुमालवत. अथ श्रीआर्यसुहस्तिनामानः सूरयो भूवलये विहरंतो भव्यजीवांश्च प्रतिबोधयंतोऽन्येयुः श्रीदेवाधिदेवप्रतिमाबंदनार्थमवंतिनगर्यां समाययुः. तत्र च ते श्रीसुहस्तिसूरयः साधुपरिवारयुता नगरनिकटे उद्याने स्थिताः. एवं तान् श्रुतपारगान् श्रीआर्यसुहस्तिसूरिवरानुद्याने स्थितान् विज्ञाय सहर्षा नगरलोकास्तेषां वंदनार्थ तत्र समाययुः. यतः-विना गुरुभ्यो गुणनीरधिभ्यो । जानाति धर्म न विचक्षणोऽपि ॥ विना प्रदीपं
For Private and Personal Use Only
Page #5
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobalirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अवंती०
-
शुभलोचनोऽपि । निरीक्षते कुत्र पदार्थसार्थ ॥१॥ अवद्यमुक्त पथि यः प्रवर्तते । प्रवर्तयत्यन्यजनं च
चरित्र निःस्पृहः ॥ स एव सेव्य स्वहितैषिणा गुरुः । स्वयं तरंस्तारयितुं क्षमः परं ॥ २ ॥ विदलयति कुबोधं P बोधयत्यागमार्थ । सुगतिकुगतिमार्गों पुण्यपापे व्यनक्ति ॥ अवगमयति कृत्याकृत्यभेदं गुरुयों । भवजल
निधिपोतस्तं विना नास्ति कश्चित् ॥ ३ ॥ ततः सर्वेषु लोकेषु यथास्थानं समुपविष्टेषु गुरुभिर्देशना प्रारब्धा, यथा -आर्य देशकुलरूपबलायु-बुद्धिबंधुरमवाप्य नरत्वं ॥ धर्मकर्म न करोति जडो यः। पोतमु. ज्झति पयोधिगतः सः ॥ १॥ यः प्राप्य दुःप्राप्यमिदं नरत्वं । धर्म न यत्नेन करोति मूढः ॥ क्लेशप्र-2 बंधेन स लब्धमब्धी । चिंतामणि पातयति प्रमादात् ॥ २ ॥ आदित्यस्य गतागतैरहरहः संक्षीयते जोवितं । व्यापार्बहुकार्यभारगुरुभिः कालो न विज्ञायते ॥ दृष्ट्वा जन्मजराविपत्तिमरणं त्रासश्चनोत्पद्यते। पीत्वा मोहमयीं प्रमादमदिरा मुन्मत्तभृतं जगत् ॥ ३ ॥ प्रमादः परमो द्वेषी । प्रमादः परमं विषं ॥ प्र-3 मादो मुक्तिपूर्दस्युः । प्रमादो नरकालयः ॥ ४ ॥ अतो भो भव्याः ! प्रमाद परिहत्य मोक्षसुखदायके धर्मे आदरो विधेयः. एवं सरिवराणां धनोपदेशं श्रुत्वा बहवो धर्मार्थिनो भव्यमनुष्या सम्यक्त्वमूलानि
--
For Private and Personal Use Only
Page #6
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अवंती.
चरित्रम
4-%15-
द्वादशश्राद्धव्रतानि जग्रहः. अथ तत्रैवावंत्यां नगयाँ भद्राभिधः श्रेष्टिवयों वसतिस्म, तस्य भद्रानाम्नी शीलादिभुरिगुणगणालंकृता भार्याबभूव. तो दंपतो जैनधर्मरतो सर्वदा शुभभावेन देवगुरुभाक्तं कुर्वातेस्म.. एवं धर्मकार्यपरयोस्तयोरन्येयुः शुभस्वप्नसूचितो नंदनोऽभृत् हृष्टाभ्यां मातापितृभ्यां तस्य जन्मोत्सवो विहितः, पुत्रमुख च दृष्ट्वा तौ दम्पती परमानंदं प्रापतुः, यतः-उत्पतन्त्रिपतन् रिंखन् । हसन् लालावलीर्वमन् ॥ कस्माश्चिदेव धन्यायाः । क्रोडमायाति नंदनः ॥ १॥ शर्वरोदीपकश्चंद्रः। प्रभाते रविदीपकः॥ त्रैलोक्यदीपको धर्मः । सुपुत्रः कुलदीपकः ॥ २ ॥ एवं हृष्टाभ्यां मातापितृभ्यां तस्य बालस्यावंतीसुकुमाल इति नाम महोत्सवपूर्वकं विहितं. अथ स भद्राभिधः श्रेष्टी तं बालं पाठशालायां कलाभ्यासार्थ कलाचार्यपाछे प्रेषयामास. तत्र सोऽवंतीसुकुमालोऽपि सकलकलाभ्यासनिपुणो बभूव, ततः स भद्रश्रेष्टयपि तं श्रीआर्य सुहस्तिनमाचार्यवरमुद्याने समेतं निशम्य तेषां वंदनार्थ परिवारयुतो ययौ. तत्र तेन सपरिवारेण विधिपूर्वकं ते सूरिवरा वंदिताः, सूरिभिरपि तेभ्यो धर्मपदेशो दत्तः, यथा-विलंबो नैव कर्तव्य । आयुर्याति दिने दिने । न करोति यमः क्षांति। धर्मस्य त्वरिता गतिः ॥ १॥ रम्येषु वस्तुषु
4-
.4-
1
8
For Private and Personal Use Only
Page #7
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अवंती
অধিনু
मनोहरतां गतेषु । रे चित्त केदमुपयासि किमत्र चित्रं ॥ पुण्यं कुरुष्व यदि तेषु तवास्ति वांछा । पुण्यं विना न हि भवंति समीहितार्थाः ॥ २ ॥ पुनः प्रभातं पुनरेव शर्वरी । पुनः शशांकः पुनरुत्थितो रविः॥ कालस्य किं गच्छति पाति जीवितं । तथापि मूढः स्वहितं न बुध्यते ॥ ३ ॥ ग्रामांतरे विहितसंबलकः | प्रयाति । सोऽपि लोक इह रूढिरिति प्रसिद्धा ॥ मूढस्तु दीर्घपरलोकपथप्रयाणे । पाथेयमात्रमपि नो विदधात्यधन्यः ॥ ४ ॥ इत्यादिधमोपदेशं गुरुमुखान्निशम्य ताभ्यां दंपतीभ्यां सम्यक्त्वमूलानि द्वादशश्राद्धव्रतानि स्वीकृतानि. ततस्तया भद्रया श्रेष्टिन्या गुरुभ्यो विज्ञप्तिः कृता, हे भगवन् ! यूयमस्माकमुपरि कृपां विधाय नगरमध्ये समेत्य मदोयोपाश्रये चतुर्मासी कुरुध्वं ? गुरुभिरुक्तं भो श्राविकोत्तमे ! यथावसरं विलोकयिष्यामः. ततः स भद्रः श्रेष्टी स्वपरिवारयुतो गुरुभ्यो वंदनं विधाय नगरमध्ये निजगृहे समाययो. अथ कियदिनानंतरं ते श्रीआर्यसुहस्तिसूरयोऽपि तस्या भद्राश्रेष्टिन्या विज्ञप्त्या पुरोमध्ये समेत्य परिवारयुतास्तस्या एव गृहनिकटे उपाश्रयमध्ये चतुर्मासी स्थिताः. अथान्येयुः प्रदोषसमये प्रतिक्रमणक्रियानंतरं ते श्रीसूरिवरा मधुरया गिराजदरपूर्वकं श्रीनलिनीगुल्माध्ययनपाठं गुणयंतिस्म, तदा
नाटक
INEERS.
For Private and Personal Use Only
Page #8
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अवंती०
অন্বিমু ॥ ५ ॥
45%
भद्रात्मजः सोऽवंतीसुकुमालो निजालये द्वात्रिंशल्ललनाभिः समं विविधप्रकारान् विलासभोगान् भुंजान उन्निद्रो गुरुवरैर्गुण्यमानं तन्नलिनीगुल्माध्ययन गठमशगोत. नत श्रुत्वा स लघुकर्मा निजचेतसीति दध्यो, किमिदं गुरुभिः पठ्यमानवर्गनं नलिनीगुल्मविमानं मया क्वापि विलोकितमस्ति ? एवं पुनः पुनरुहापो- हपरः सोऽवंतीसुकुमालो जातिस्मरणज्ञानमवाप्तवान्. तेन ज्ञानेन च तेनेति ज्ञातं, यत्पूर्वस्मिन् भवेऽहं नलिनीगुल्मविमाने देवोऽभवं, तत्र विमाने च मया यानि सुखानि विलसितानि, तेषां सुखानामग्रे मयेह | भुज्यमानमिदं सुखं न किंचिदपि. तत्सुखेतत्सुखयोमेरुसर्षपयोरिवांतरं विद्यते. यतः-देवस्स देवलोए । । जं सुहं तं नरो सुभणिओवि ॥ न भणइ वाससएणवि । जस्तवि जीहासयं हजं ॥१॥ इति विमृश्य सोऽवंतीसुकुमालो नलिनीगुल्मविमानसुखलाभोत्सुकस्तासां विलासवतीनामपि निजस्त्रोणां भोगविलासास्तृणवत्यक्त्वा विरक्तीभूय गुरुपाचे गमनोत्सुको जातः, निजमनसि च स एवं मन्यतेस्म, यथा-दाराः परभवकारा | बंधुजनो बंधनं विषं विषयाः ॥ कोऽयं जनस्य मोहो। ये रिपवस्तेषु सुहृदाशाः ॥१॥ त्यक्तेऽपि वित्ते दमितेऽपि चित्ते । ज्ञातेऽपि तत्वे गलिते ममत्वे ॥ दुःवैकगेहे विदिते च देहे । तथापि
CAME%%
For Private and Personal Use Only
Page #9
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
अवंती०
॥ ६ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मोहस्तरुणप्ररोहः || २ || जानामि क्षणभंगुरं जगदिदं जानामि तुच्छं सुखं । जानामींद्रियवर्ग मेतमखिलं स्वार्थे कनिष्टं सदा । जानामि स्फुरिताचिरद्युतिचलं विस्फुर्जितं संपदां । नो जानामि तथापि कः पुनरसौ मोहस्य हेतुर्मम || ३ || एवनिभवाद् वैराग्यपरोऽपि नलिनीगुल्मविमानसुखाधिगमेच्छया सवंसीसुकुमालो निजप्रासादात्तत्कालमुनीर्य श्री आर्य सुहस्तिगुरोः पार्श्वे समाययौ तत्र भक्तिपूर्वकं गुरुन्नमस्कृत्य स पप्रच्छ, हे भगवन् ! यूयं किमधुनैव नलिनीगुल्मविमानादत्र समायाताः ? येन श्री पूज्यैस्तत्रत्यं सकलं स्वरूपं कथ्यमानमस्ति तत् श्रुत्वा गुरुभिः प्रोकं भो महाभाग ! वयमधुना तत्र विमाने न गताः स्मः, इदानीमस्माभिस्तद्विमानं लोचनाभ्यामपि दृष्टं नस्ति. किंतु श्रीभगवता सिद्धांतोक्तं श्रीनलिनीगुल्मविमानस्वरूपपाठं वयमधुना गुणयामः किंच तस्मिन् विमाने ये देवाः समुत्पद्यते, तेऽतोवसुखानि विलसंति तत् श्रुत्वा सोऽवनीसुकुमालो गुरुन् प्रति जगो, हे भगवन् ! जातिस्मरणज्ञानतोऽहंजानामि यत् पूर्वभवेऽहं तत्रैव विमाने सुरतया समुत्पन्नोऽभवं आयुःक्षये च ततश्च्युत्वाहमत्र मनुष्यलोके समुत्पन्नोऽस्मि अथ तद्विमानसुखस्मरणादहमल मनुष्यलोके स्थातुं नेच्छामि, अथैतां मदोयललनाथे
For Private and Personal Use Only
चरित्रम
॥ ६ ॥
Page #10
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अवंती
२४२२१२-१२-
है णिमहं राक्षसीतुल्या मन्ये, अतस्ताभ्योऽहं विरक्तो जातोऽस्मि, यतः-दुरितवनघनाली शोककासारपाली। भव कमलमराली पापतोयप्रणाली ॥ विकटकपटपेटी मोहभूपालचेटी। विषयविषभुजंगो दुःखसारा
| মিনু कृशांगी ॥ १ ॥ स्मितेन भावेन मदेन लजया । पराङ्मुखर्धकटाक्षशेक्षितैः ॥ वचोभिरोाकलहेन ली- ॥७॥ लया। समंतपाशं खलु बंधनं स्त्रियः ॥ २॥ संमोहयति मदयंति विडंबयंति । निर्भत्सयंति रमयति विषादयंति ॥ एताः प्रविश्य सदयं हृदयं नराणां । किं नाम वामनयना न समाचरंति ॥ ३ ॥ पापागारमिदं वपुर्मलभृतं दृष्टिः सदोषाकुला । वक्त्रं चर्ममयं विगंधि कलुषं मांसोत्कराभौ स्तनौ ॥ जंघाद्यस्थिविभूषितं च सकलं यस्या विरूपं सदा । पश्यन्नप्ययमातनोति हृदये रागी कथं संमदं ॥ ४ ॥ ततो हे भगवन् ! मह्यं कृपां विधाय दीक्षां यच्छत, येन मदीयं जन्म कृतार्थ करोमि. तत् श्रुत्वा गुरुभिरुक्तं, भो । महाभाग ! तब मातृपितृवंधुप्रभृतीनां मनुज्ञांविनास्माभिस्ते दीक्षा दातुं न शक्यते. तत् श्रुत्वा तद्विमानगमनोत्सुकीभूतेन तेनावंतीसुकुमालेन स्वयमेव तत्कालं दीक्षा गृहीता. ततः सोऽवंतोसुकुमालो वनमध्ये श्मशाने गत्वा कायोत्सर्गध्यानस्थस्तस्थी, निजहृदये मनुष्यशरीरासारतां च चिंतयामास, यथा
.
For Private and Personal Use Only
Page #11
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 4 / // 8 // MP अमेध्यपूर्णे कृमिजालसंकुले / स्वभावदुगंध अशौच अध्रुये // कलेवरे मूत्रपुरीषभाजने / रमंति मूढा / अवतो. विरमंति पंडिताः // 1 // इदं शरी परिणामदुबैलं / पतत्यवश्यं श्लथसंधिजर्जरं // किमोषधैः क्लिश्यति * दुर्मते / निगमयं धर्मरसायनं पिब // 2 // कस्तुरी पृषनां रदाः करटिनां कृत्तिः पशूनां पयो / धेनूनां छदमंडलानि शिखिनां रोमाण्यवीनामपि // पुच्छस्नायुवसाविषाणनखरस्वेदादिकं किंचन | स्या-4 स्कस्याप्युपकारि मर्त्यवपुषो नामुष्य किंचित्पुनः॥३॥ जन्मेदं न चिराय भूरिभयदा लक्ष्योऽपिनैव स्थिराः। किंगकांमफला नितांतकटवः कामाः क्षणध्वंसिनः // आयुः शारदमेघचंचलतरं ज्ञात्वा तथा यौवनं / हे लोकाः कुरुतादरं प्रतिदिनं धर्मेऽधविश्वंसिनि // 4 // इत्यादिशरोरासारतां चिंतयन् स कायो। गेंण स्थिन:. इतस्तस्यावंतीसकमालस्य प्रर्वभवसंबंधिनी प्रिया पूर्वमपमानीता मृत्वा शगाली जाताभृत्. सा क्षुधातुरा शृगाली निजापत्यगणयुता दैवयोगेन रात्री तत्र श्मशाने समागता. तत्र निजपूर्वभवस्वामिनं स्वीयापमानकारकं तमवंतीसुकुमालं कायोत्सर्गस्थितं दृष्ट्वा समुल्लसितस्वाभाविकवैरानुभावा सा शगाली क्रोधातुरा निजापत्यैः सह तदीयशरीरं खंडखंड त्रोटयामास. अवश्यं भाविनो भावान्निवारयितुं For Private and Personal Use Only
Page #12
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
***
अवंती
चरित्रम
564
न कोऽपि समर्थः, यतः-पातालमा विशतु यातु सुरेंद्रलोक-मारोहतु क्षितिधराधिपति सुमेरुं ॥ मंत्री षधैः प्रहरगश्च करोतु रक्षां । यद्भावि तद्भवति नात्र विचारहेतुः ।। १ । अथैवं शगाल्या विदार्यमाणशरीगेऽवंतीसुकुमालस्तस्यै मनागपि निजमनसा क्रोधं न चकार. प्रत्युत निजहृदये इति विचारयामासनो विद्या न च भेषजं न च पिता नो बांधवा नो सुना । नाभीष्टा कुलदेवता न जननी स्नेहानुबंधान्विता ॥ नार्थो न स्वजनो न वा परिजनः शारीरिकं नो बलं । नो शकाः सततं सुरासुरवराः संधातुमायुः क्षमाः ॥ १ ॥ सदा सदाचारपरायणात्मनां । विवेकधाराशतधौतचेतसां । जिनोदितं पंडितमृत्युमीयुषां । न जातु शोच्यं महतां महीतले २ ॥ त्यक्त्वा पुत्रधनादिमोहममतां कृत्वांतिमालोचना-मुचार्य व्रतमालिकामनशनं चादाय वीतस्पृहः ॥ सर्वप्राणिषु निष्कषायहृदयः कृत्वा त्रिधा क्षामणां । धन्यः पंचनमस्कृतिस्मृतिपरः कोऽपि त्यजेत स्वं वपुः ॥३॥ जातस्य हि ध्रवं मृत्यु-वं जन्म मृतस्य च॥ तस्मादपरिहार्येऽर्थे । का तत्र परिदेवना ॥ ४ ॥ एवं निजहृदि विचारयन् साऽवंतीसुकुमालो मुनिः शु. भध्यानातं मनुष्यदेहं त्यक्त्वा तदानोमेव पुनर्देवलोके नलिनीगुल्मविमाने समुत्पन्नः. अथ प्रातस्तस्य
For Private and Personal Use Only
Page #13
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अवंती०
चरित्रम
॥१०॥
ॐ+91-4
मातापितरौ प्रियाश्च तमवंतीसुकुमालमदृष्ट्वा भृशं शोकातुरा बभूवुः, नानाविधविलापांश्च चक्रुः. तदा । श्रीआर्यसुहस्ति गुरवस्तान् सर्वानप्याश्वास्य तस्यावंतीसुकुमालस्य सर्वमपि निशावृत्तातं जगुः, तदनंतरं च तेभ्यः प्रोक्तं अथ यूयं शोकं मा कुरुत ? स महापुण्यशाली अवंनोसुकुमालो निजदेहं परित्यज्य नलिनीगुल्मविमाने समुत्पन्नोऽस्ति, तत्र च देवांगनाभिः सह नानाविधविषयसुखानि भुंजानोऽस्ति. त र सांतं श्रुत्वा तस्य मातापितरौ स्त्रियश्चातीवखेदं प्राता मोहेन भृशं विलापान् कुर्वतिस्म, यतो जगति मोहत्यागकरणं दुर्लभं. यदुक्तं त्यक्तेऽपि विते दमितेऽपि चिते । ज्ञातेऽपि तत्वे गलिते ममत्वे ॥ दुःखैकगेहे विदिते च देहे । तथापि मोहस्तरुणप्ररोहः ॥ १ ॥ जानामि क्षणभंगुरं जगदिदं जानामि तुच्छं सुखं । जानामींद्रियवर्गमेनमखिलं स्वार्थेकनिष्ठं सदा ॥ जानामि स्फुरिताचिरद्युतिचलं विस्फुर्जितं संपदां । नो जानामि तथापि कः पुनरसो मोहस्य हेतुर्मम ॥ २ ॥ एवं तान् सर्वान् विलापान् कुर्वतो दृष्ट्वा तच्छोकव्यपोहार्थ गुरुभिस्तेभ्य उपदेशो दत्तः, यथा-जातस्य हि ध्रुवं मृत्यु-ध्रुवं जन्म मृतस्य च ॥ तस्मादपरिहार्येऽथे। का तत्र परिदेवना ॥१॥ संयोगाः स्युर्वियोगांता । विपत्सीमाश्च संपदः । स्यादा
RSSIS
-CCICK
For Private and Personal Use Only
Page #14
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अवंती०
नंदा विषादांतो । मरणांता जनिर्धवं ॥ २॥ वज्रकायशरीरागा-महतां यद्यनित्यता ॥ कदलीसारतुल्येषु।।
অম্বি का कथा शेषजंतुषु ॥ ३ ॥ उत्पत्तिरत्रास्ति विपत्तिसंयुता । न कोऽप्युपायोऽस्त्यमृतौ शरीरिणां सर्वे. क्षिते चावनि सर्वदावहे । ध्रवे शुचा किं सुकृतं विधीयते ॥४॥रुदता कुत एव सा पुन-र्न शुचा नानुमृतापि लभ्यते ॥ परलोकजुषां स्वकर्मभि-गतयो भिन्नपथा हि देहीनां ॥ ५॥ सदा सदाचारपरायणात्मनां । विवेकधाराशनधोतचेतसां ॥ जिनोदितं पंडितमृत्युमीयुषां । न जातु शोच्यं महतां महीतले ॥ ६ ॥ अर्हद्भक्तिमतां गुरुस्मृतिजुषां क्रोधादिशत्रुद्विषां । शक्त्या पंचनमस्कृति च जपतामाज्ञाविधि। तन्वतां ॥ इत्थं सिद्धिनिबंधनोद्यतधियां पुंसां यशःशालिनां । श्लाघ्यो मृत्युरपि प्रणष्टरजसा पर्यंतकालागतः ॥ ७ ॥ गुरुमुखादित्यायुपदेशं श्रुत्वा शोकं परिहत्य ते सर्वेऽपि गृहमध्ये प्राप्ताः. अथ यत्र स्थाने । सोऽवंतोसुकुमालो देहं त्यक्त्वा स्वर्गे गतस्तत्र स्थाने तस्य मातापितृभ्यां महाफालाभिधो जिनप्रासादः कारितः, तत्र श्चीपार्श्वनाथप्रतिमा ताभ्यां स्थापिता. ततस्तस्य ताः सर्वा अपि प्रिया गुरोः पाश्वे दीक्षा जगृहः. ॥ इति श्रीअवंतीसुकुमालचरित्रं समाप्तं ॥ श्रीरस्तु ॥
For Private and Personal Use Only
Page #15
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अवंती ॥ १२ ॥
आ चरित्र श्रीशुभशीलगणीजीए रचेला कथाकोष नामना ग्रंथमाथी उद्धरीने तेनी मूलभाषामां बनता प्रयासे सुधारो वधारो करी जामनगरनिवासी पंडित श्रावक हीरालाल हंसराजे स्वपरना श्रेयने
৫ ঝিমু माटे पोताना श्रीजनभास्करोदय प्रेसमां छापीने प्रसिद्ध कयु.
। समाप्तोऽयं ग्रंथः गुरुश्रीमच्चारित्रविजयसुप्रसादात् ॥
-
4%%%AHI
RE
For Private and Personal Use Only
Page #16
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
Page #17
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Qebeeeeeeeeeeeeeee
45454545454545454545454545454545454545454545454545
Qe20@@@0
454545454545451
॥ इति श्री अवंतीसुकुमालचरित्रं समाप्तम् ॥
551461454545454545
54th 141414141414141414141414141414141415451
श्री जैनभास्करोदय मिटिंग प्रेसमां छाप्यु-जामनगर...
@@lele@@@@@@@@@@@@@@@
For Private and Personal Use Only
Page #18
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only