Book Title: Atmakhyati
Author(s): Yashovijay Gani
Publisher: 
Catalog link: https://jainqq.org/explore/020080/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दर्भावतीमण्डन-परमप्रभावक-श्रीलोढणपार्श्वनाथाय नमः // न्यायविशारद-न्यायाचार्य-महोपाध्यायश्रीमद्यशोविजयगणिविरचिता आत्मख्यातिः। - ऐं नमः // ऐन्द्रवृन्दनतं नत्वा वीरं तत्त्वार्थदेशिनम् / आत्मख्यातिं करोत्युच्चैर्यशोविजयवाचकः // आत्मनः शरीरपरिमाणत्वम् / आत्मा तावद् ज्ञानेच्छाद्याश्रयः पृथिव्यादिद्रव्येभ्यो भिन्न इति निर्विवाद सर्वेषामास्तिकानां, परं स विभुर्वा मध्यमपरिमाणो वेति विप्रतिपत्तिः / तत्र विभुरेवेति नैयायिकादयस्तद्वयं न मृष्यामहे / आत्ममो विभुत्वे गौरवम् आत्मनो विभुत्वे सुषुप्त्युपधायकात्ममनःपूर्वसंयोगनाशोत्पत्तिकाले तदुत्तरं च सुषुप्तिक्षणे आत्ममनोविभागकालोत्पन्नविशेषणज्ञानादिना ज्ञानाद्युत्पादप्रसंगस्य दुरित्वात्तदानीमप्यात्मनि पुरुषान्तरीयमनःसंयोगसत्त्वात् / न च तत्तन्मनःसंयोगत्वेन तत्तदात्मसमवेतात्मविशेषगुणत्वेन हेतुहेतुमद्भावान्नायं दोष / इति वाच्यम् / आत्मनो विभुतायां स्वशरीरावच्छेदेन स्वात्मनि स्वीयमनःसंयोगोत्पत्तिदशायां स्वशरीरावच्छेदेन पुरुषान्तरीयात्मन्यपि स्वीयमनःसंयोगोत्पत्त्या पुरुषान्तरीयात्मन्यपि स्वात्मसमवेताम'विशेषगुणोत्पादप्रसंगात् / न च तदात्मसमवेतविशेषगुणत्वावच्छिन्नं प्रति - तदात्मत्वेनापि समवायिकारणत्वान्नायमतिप्रसंग इति वाच्यम् , . प्रत्येकात्मस्थल एव कार्यकारणभावद्वयापत्तौ महागौरवात् / शरीरपरिमाणत्वनये तु सामान्यत.. एव समवायेन ज्ञानादौ स्वजन्योपयोगव्यापारसम्बन्धेन मनःसंयोगत्वेनैक एव हेतुहेतुमद्भाव इति लाघवात् / / व्यापारसम्बन्धानुधावनं सुषुप्तौ ज्ञानाद्यनुत्पादाय। तदानीमुपयोगरूपव्यापारस्याकरे निरस्तत्वात् / अस्तु वा सुषुप्तिव्यावृत्तमनःसंयोगविशेषत्वेनव सामान्यतो हेतुता। एवमप्युक्तगौरखा For Private and Personal Use Only Page #2 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आत्मख्यातिः भावात्। विभुत्वे त्वेकत्र मनःसंयोगविशेषोत्पादेऽन्यात्मन्यप्यत्रावर्जनीयहेतुकतया तदापत्तेरुक्तानन्तकार्यकारणभावकल्पनागौरखं दुष्परिहरमिति / एतेन - तत्तदात्मत्वविशिष्टसमवायसम्बन्धेन तत्तदात्मनिष्ठत्वोपलक्षितसमवायसम्बन्धावच्छिन्नाधारताविशेषसम्बन्धेन वाऽऽत्मविशेषगुणत्वावच्छिन्नं प्रति तेनैव सम्बन्धेन तत्तन्मनःसंयोगत्वेन कार्यसहवृत्तितया हेतुत्वम् , आत्मविशेषगुणत्वं चात्मेतरसमवेता. समवेतधर्मसमवायित्वं विभुविशेषगुणत्वव्याप्यो जातिविशेषो वा / न चोभयरूपस्यापि तस्य नित्यवृत्तितया न कार्यतावच्छेदकत्वमिति वाच्यम् , समवायकालिकविशेषणत्वोभयसम्बन्धेनात्मविशेषगुणत्ववत्त्वरूपस्वजन्यात्मविशेषगुणत्वस्यैव कार्यतावच्छेदकत्वात् / वस्तुतः कार्यतावच्छेदकस्य नित्यसाधारण्येऽपि प्रकृते बाधकाभावात् / नित्यज्ञानादिमढ्यावृत्ताधारत्वस्य कार्यतावच्छेदकसम्बन्धतया कार्योत्पत्यव्यवहितपूर्वत्वस्य च कारणताघटकतया नित्यज्ञानादावनतिप्रसंगात् / तत्र मनःसंयोगजन्यत्वव्यवहारापत्तेश्च / जन्यतावच्छेदकतानियामकसम्बन्धेन जन्यतावच्छेदकधर्मवत्त्वस्यैव जन्यत्वव्यवहारनियामकत्वेनैव निरासादित्यपि निरस्तम् , एवमप्यात्मभेदेनानन्तहेतुहेतुमद्भावस्य दुर्निवारत्वात् / ___किं चैवमपि स्वकीययोरात्ममनसोः संयोगात् स्वशरीरावच्छेदेनात्मविशेषगुणोत्पत्तिदशायां परकीयशरीरेऽप्यवच्छेदकतासम्बन्धेन तदुत्पत्तिवारणाय तच्छरीरत्वविशिष्टावच्छेदकतासम्बन्धेनात्मविशेषगुणत्वावच्छिन्न प्रति तादात्म्यसम्बन्धेन तच्छरीरत्वेन कारणता वाच्या / तच्छरीर च चैत्रत्वादिजातिविशेषेण ग्राह्यं, तथा च विशेषसामग्रीविरहादेव तदानी तादृशपरशरीरे आत्मविशेषगुणसामान्यापत्यसंभवः / स्वात्मसमवेतज्ञानादेः स्वशरीरावच्छिन्नस्यैव संभवादवच्छेदकतया तदुत्पत्तौ च तादास्येन स्वशरीरस्यैव हेतुत्वात् , परात्मसमवेतज्ञानादेश्च परशरीरे आपादनस्यैवासम्भवात् , सम. वायसम्बन्धेनोत्पत्ति विनाऽवच्छेदकतासम्बन्धेनोत्पत्तिविरहादिति तत्तच्छरीरस्य विशिष् हेतुत्वकल्पयनेऽपि महागौरवम् / आत्मविभुत्वे परात्मशरीरसमवेतत्वावच्छिन्नत्वाभावो ज्ञानादीनां कुतं इति प्रश्ने तदजन्यत्वादित्युत्तरे तदपि कुत इति प्रश्ने क्रियासंयोगकार्यकारणभावोक्तयुक्त्या सर्वासामेव समवायिकारणव्यक्तीनां स्वस्वसमवेतं प्रति- तादात्म्येन समवायिकारणत्वस्य सर्वासामेव वावच्छेदकव्यक्तीनां स्वस्वावच्छिन्नत्वं प्रति तादात्म्येन निमित्तकारणत्वस्यावश्यकतया विशेषसामग्रीविरहादेव परात्मपरमरीरयोरनतिप्रसंग इति त्वन्योन्याश्रयपराहतेरेवानुद्घोष्यम् / अस्माकं तु समुद्घातातिरिक्तस्थले शरीरस्य विशिष्यहेतुत्वाकल्पनारलाघवमात्मनः शरीरपरिमाणत्वेनैवानसिप्रसंगात् / For Private and Personal Use Only Page #3 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आत्मनः शरीरपरिमाणत्वम् परात्मशरीरस्य समवेतत्वावच्छिन्नत्वाभावादित्यस्यैवोत्तरत्वात् / अपि चात्मनो विभुत्वे मृतात्मनि पारलौकिकशरीरावच्छेदेन ज्ञानाद्युत्पाददशायां विद्यमानमृतशरीरावच्छेदेन कुतो न ज्ञानाद्युत्पादः ? मृतात्मसमवेतज्ञानादिकं प्रति जीवद्दशायां मृतशरीरस्य कारणत्वेन कारणसमाजसत्त्वात् / __ अत एव सामान्यतोऽवच्छेदकतासम्बन्धेनात्मविशेषगुणत्वावच्छिन्नस्य शब्देतरात्मविशेषगुणत्वावच्छिन्नस्य चोत्पत्तौ तादात्म्येनं चेष्टाविशिष्टत्वेन शरीरस्य च समवायेन चेष्टात्वेन चेष्टाया वा हेतुत्वं कल्प्यते / मृतशरीरे च चेष्टाविरहान्न दोषः / चेष्टात्वं च जातिविशेषः, उत्क्षेपणापक्षेपणत्वादेस्तद्व्याप्यविरुद्धभेदेन नानात्वाभ्युपगमात् , चेष्टात्वस्योत्क्षेपणत्वादिविरुद्धत्वाभ्युपगमाद्वा न सांकर्यमिति चेत्-न, ज्ञाने क्रियाया हेतुत्वस्य तदवच्छेदकत्वस्य वादृष्टस्य कल्पनाया अन्याय्यत्वात् / __ चेष्टावत्त्वेन चेष्टात्वेन वा सामान्यतो हेतुत्वेन परकीयशरीरेऽतिप्रसंगवारणायोगाच्च / चैत्रत्वादिजातिरूपेण शरीरविशेषस्येव चेष्टात्वव्याप्यजातिविशेषेण तद्विशेषस्योपादातुमशक्यत्वात् / चैत्रादिशरीरजन्यत्वावच्छेदकचेष्टागतविशेषोपादानेऽवयवचेष्टाया अवयवजन्यतावच्छेदकतद्गतविशेषोपादाने चावयविचेष्टाया अनुपसंग्रहादवयवावयविनोरमेदस्य च त्वन्मतेऽनुपगमात् / .. किं च मृतशरीरे चेष्टाभाव एव कुतः ? आत्मनो विभुत्वे प्रयत्नवदात्मसंयोगस्यापि तत्र सुलभत्वादिति पर्यनुयोगे किमुत्तर वाच्यमायुष्मता ? तदानीं तच्छरीरावच्छिन्नतदीयप्रयत्नाभावात्तच्छरीरावच्छिन्नचेष्टाभाव इत्युक्तौ तादृशप्रयत्नाभावोऽपि तादृशचेष्टाभावादिति व्यक्त एवान्योन्याश्रय इत्यात्मसम्बन्धविगमादेव मृतशरीरे निश्चेष्टत्वं भोगानवच्छेदकत्वं चेति प्रतिपत्तव्यम् / अत एव जीवद्दशायामप्यावच्छिन्ननखकेशाद्यवच्छेदेन सुखदुःखाभाव आत्मसम्बन्धविरहकृत एव, तथा चेष्टाभावस्यापि तत्प्रयुक्तत्वादिति निश्चितमात्मनः शरीरपरिमाणत्वम् / __ अथासमवायिनः कार्यसहभावेन हेतुत्वान्मनोयोगनाशकालोत्पत्तिकपरामर्शादिना सुषुप्तिसमकालोत्पत्तिकमनोयोगसहभूतेन तद्वितीयक्षणेऽनुमित्याद्यनापत्तावपि तदानीमात्मात्मत्वादिमानसोत्पत्तिवारणार्थमात्ममनःसंयोगस्य समवायसम्बन्धनिरूपितशरीरावच्छिन्नाधारतासम्बन्धेनामविशेषगुणत्वावच्छिन्नं प्रत्यसमवायिकारणत्वं कल्प्यते / इत्थं च त्वचः शरीरव्यापकतया निस्त्वचि. पुरीततौ शरीराभावेन सुषुप्तिकाले शरीरापच्छेदेन मनःसंयोगविरहान्नोक्तापत्तिरिति मृतशरीरावच्छेदेनापि मनःसंयोगे मानाभावान्न तदवच्छिन्नज्ञानाद्युत्पत्तिरिति चेत्-न, सुषुप्तौ जीवनयोनियत्नधर्माधर्माणामप्यनुत्पत्त्यापत्तेस्तथाहेतुत्वे मानाभावात् , आत्मनो विशेषगुणोपधानेनैव भानेन तता विशेषगुणाभावेन तत्प्रत्यक्षाभावा For Private and Personal Use Only Page #4 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आत्मख्यातिः तत्तद्गुणानां विषयतया तद्धेतुत्वात् / सविषयकप्रकारकात्ममानसत्वस्यैव मनोयोगादिकार्यतावच्छेदक त्वाद्वा तदानीमात्ममानसादिनिरासात् / एतेनावच्छेदकतासम्बन्धेन जीवनयोनियत्नधर्माधर्मेतरात्मविशेषगुणोत्पत्ति प्रत्यवच्छेदकतासम्बन्धेन शरीरनिष्ठतया त्वङ्मनःसंयोग-प्राणमनःसंयोग-चर्ममनःसंयोगानां त्रयाणामेव विनिगमनाविरहेण निमित्तकारणत्वमिति न सुषुप्तिद्वितीयक्षणे आत्मादिमानसं न वा मृतशरीरे ज्ञानाद्यनुत्पाद[ ज्ञानाद्युत्पाद ?] इति प्राचां प्रलपितमपास्तम् / त्वङ्मनोयोगस्य सामान्यतो हेतुत्वे रसादिसाक्षात्कारकाले त्वचा द्रव्यसाक्षात्कारापत्तेः, सामान्यसामग्रोतया त्वङ्मनोयोगस्यावश्यकत्वात् / तदा न द्रव्येण समं त्वक्सनिकर्ष इत्यत्र वेदाभावात् / रसनमनोयोगादेस्त्वाचप्रतिबन्धकत्वे तु गौरवात् / मानसत्वावच्छिन्न एव त्वङ्मनोयोगो हेतुरित्यपि वार्तमेव, त्याचत्वावच्छिन्नं प्रति पृथक्कारणत्वे गौरवादिति न किंचिदेतत् / किं च विभुत्वे मृतशरीरावच्छेदेन स्वमनःसंयोगो न कुत इत्यपि प्रेर्यमेव स्वादृष्टोपगृहीतशरीरस्यैव स्वमनःसंयोगावच्छेदकत्वान्मृतशरीरस्यापि जीवदशायां तथात्वादिति ततो मनःसम्बन्धविगमोऽपि जीवसम्बन्धविगमादित्यकामेनापि प्रतिपत्तव्यम् / किं चात्मनो विभुत्वे संसारस्यैवानुपपत्तिः / संसरणं हि संसारः, स च भवान्तरगतिस्वरूप एवेति / विभोरपि सतः शरीरान्तरपरिग्रह एव भवान्तरगमनमिति चेत्-न, परिग्रहपदार्थानिरुक्तेः संयोगस्य तदर्थत्वेऽतिप्रसंगात् / तद्विशेषस्य च क्षीरनीरन्यायेनान्योन्यानुगमलक्षणस्य भिन्नदेशत्वेऽनुपपत्तेः, शरीरान्तरावच्छेदेन लब्धस्ववृत्तिकादृष्टजन्यभोग एव शरीरान्तरपरिग्रह इति चेत्-न, तस्य भवान्तरत्वे दिव्यर्द्धिमतां नानाशरीरैर्नानाभोगभुजामेकस्मिन् भवे भवान्तरापत्तेः / पूर्वशरीरसम्बन्धनाशे सतीति विशेषणान्नायं दोष इति चेत्-न, विभोः *सतः शरीरसत्त्वे पूर्वशरीरसम्बन्धनाशानुपपत्तेः तत्काले भवान्तरानापत्तेः पूर्वशरीरावच्छिन्नमनःसम्बन्धनाश. एव तदर्थ इति चेत्-न,त्ममनसोरन्योन्यानुगतत्वेन एकाविगमेऽन्याविगमात् / / - किं चैवं सति पूर्वशरीरसम्बन्धनाशे यावन्नोत्तरशरीरमुत्पन्न न च तदवच्छेदेन भोगो जातस्तावन्न पूर्वो भवो नापि भवान्तरमिति महद्वैशसम् / किं च पूर्वशरीरसम्बन्धनाशोऽपि स्ववृत्तितत्प्रागभावा सहवृत्तिर्वाच्योऽन्यथा नानाशरीरवतां कस्यचित्पूर्वशरीरस्य सम्बन्धस्य नाशेनातिप्रसंगात् , तथा च देवत्वे नरत्वभवमपेक्ष्य भवान्तरत्व' दुर्वचः भाविनरशरीरसम्बन्धप्रागभावस्य यदा सत्त्वादिति दिक् / * मूलादर्शस्थोऽयं पाठः सन्दिग्धः प्रतिभाति / For Private and Personal Use Only Page #5 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आत्मनः शरीरपरिमाणत्वम् स्वदेहमात्रव्यापकत्वेन हर्षविषादाद्यनेकविवर्तात्मकस्याहमिति स्वसंवेदनस्य प्रत्यक्षसिद्धत्वादात्मनो विभुत्वसाधकत्वेनोपन्यस्यमानः सर्वोऽपि हेतुः कालात्ययापदिष्ट इति संमतिटीकाकारः, तथा चात्मनो मध्यमपरिमाणे तद्गतवैलक्षण्ये च प्रत्यक्षमेव मानमित्युक्तं भवति / युक्तं चैतत् , *तत्परिमाणतद्गतवैलक्षण्ययोरयोग्यत्वकल्पने गौरवात् / अयोग्यत्वस्य प्रतिबन्धकत्वे विश्रामात् / न चैवमात्मा विभुन वेति वादिनां संशयानुपपत्तिर्ज्ञानप्रामाण्यसंशयात्तदुपपत्तेः, न चाणुना मनसा शरीरख्यापकात्मसन्निकर्षाभावात्कथं तस्य शरीरपरिमाणत्वग्रह इति शंकनीयम् , तत्तदात्मनिष्ठलौकिकविषयत्वतत्तदात्मसमवेतनिष्ठलौकिकविषयत्वसम्बन्धेन मानसोत्पत्ति प्रति यथाक्रमं तदात्मत्वतदात्मसमवेतत्वतदात्मसमवेतसमवेतत्वसम्बन्धेन तत्तदात्मत्वेनैव हेतुत्वात् , आत्ममनःसंयोगादिसन्निकर्षाणां स्वतन्त्रैरेवानभ्युपगमात् , जन्यसाक्षात्कारमात्रस्य सन्निकर्षजन्यत्वे मानाभावात् , उक्तरीत्यात्मभेदेन कार्यकारणभावभेदे साम्प्रदायिकोक्तरीत्या कारणतावच्छेदके मनःसंयुक्तसमवायतत्समवैतसमवाययोः कार्यतावच्छेदके तत्पुरुषीयत्वप्रवेशेन तत्कार्यतावच्छेदके च गौरवात् / अस्तु वा मनसोऽपि शरीरपरिमाणत्वात्सर्वशरीरावच्छिन्नतत्सम्बन्धादात्मपरिमाणग्रहः, अणुचे तु तस्य सर्वाङ्गीणसुखानुभवस्यापि दुःसमाधानत्वापत्तेः / उक्तावच्छिन्नत्वं चाधारताविशेषपरिचायकं न तु सम्बन्धमध्ये निविशते / अत एव भूयोवयवावच्छेदेन चक्षुःसंयोगाभावान्नार्द्धनिखातवंशादेवि: हस्तादिपरिमाणग्रह इति परेषामभिमतम् / + भूयोऽवयवावच्छिन्नत्वोपलक्षितसमवायावच्छिन्नाधारताविशेषेण 'चक्षुःसंयोगवत् ' समवेतत्वस्य महत्त्वादिग्राहकस्याभावान्न तद्ग्रह इति तदुक्तिपरमार्थः / अन्यथा यावदवयवसन्निकर्षस्य कुत्राप्यसंभवादनेकतत्संयोगस्य चातिप्रसञ्जकत्वा() भूयोऽवयवाव. च्छिन्नत्वाभिधानमनर्थकं स्यात् / यत्तु ---विषयतासम्बन्धेन - परिमाणसाक्षात्कारत्वावच्छिन्नं प्रति स्वाश्रयसमवेतत्वसम्बन्धेन तत्तदावरकसंयोगत्वेन प्रतिबन्धकत्वान्नार्धनिखातवंशादिपरिमाणग्रहो यद्वाऽर्धनिखातवंशादेमहत्त्वादिकं गृह्यत एव महानयं वंश इति प्रतीतेस्तदवान्तरवैजात्यं तु नानुभूयत इति तत्तद्वैजात्यग्रह प्रत्यावश्यकसंयोगस्य विरोधिता। न च निखातानिखातसदृशवंशयोः सन्निकर्षदशायां तन्महत्त्वादिवृत्तिवैलक्षण्यानुभवाद्वैजास्यप्रत्यक्षं प्रत्यावारकसंयोगानां प्रतिबन्धकत्वासंभव इति वाच्यम् , तादृशवैलक्षण्यप्रकारकप्रत्यक्षं प्रत्येव तेषां विरोधित्वाद्विशेष्यत्वं प्रतिबध्यतावच्छेदकः सम्बन्धः स्वाश्रयसमवेतत्वं च प्रतिबन्धकतावच्छेदक इत्यनतिप्रसंगात् / न चैवं निखातसन्निकर्षात्तादृशवैलक्षध्यनिर्विकल्पकापचिरिष्टत्वादिति मथुरानाथादिभिरभिहितं-तत्तुच्छम् / एवमपि निखातसन्निकर्षान्महत्त्वाकारकतादृशवैलक्षण्यविशेष्यक * एष एवार्थ उपाध्यायैः स्वकृतन्यायालोकस्य प्रथमप्रकाशे प्रतिपादितः / (मु नेतन्यायालोकः, पृ. 31-11) + एषोऽप्यर्थः स्वकृतनयोपदेशग्रन्थस्य नयामृततरैगिणीटीकायां मभिहितः। For Private and Personal Use Only Page #6 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 6]. आत्मख्यातिः साक्षात्कारापत्तेर्वारत्वात् / किञ्चैवमावृतैकपाविच्छेदेन यस्य चक्षुःसंयोगान्नोक्तवैजात्यस्य तद्ग्रहस्तस्यैवान्यदा पुरुषान्तरस्य वा तदानी पार्थान्तरावच्छेदेन चक्षुःसंयोगेऽप्यग्रहः स्यादावारकसंयोगस्य विरोधिनः सत्त्वात् / तत्कालीनतत्तत्पुरुषीयमहत्त्वादिप्रत्यक्षं प्रत्येवोक्तप्रतिबन्धकत्वे त्वनावरणकालीनस्य विलक्षणमहत्त्वादिप्रत्यक्षस्यावरणदशायामुत्पत्तिप्रसंगः, न हि तत्रापि सन्निकर्ष विनाऽन्यद्विशिष्य कारणं क्लप्तं येन तद्विलम्बात्तद्विलम्बः स्यात् / स्वप्राचीस्थपुरुषीयोक्तवैजात्यसाक्षात्कारत्वावच्छिन्न एव स्वप्रतीच्यवच्छिन्नावरकसंयोगत्वेन प्रतिबन्धकत्वे तु द्रव्यचाक्षुषेऽप्येवं भित्त्यादिसंयोगप्रतिबन्धकत्वेन निर्वाहे व्यवहितार्थादर्शनान्यथानुपपत्त्या चक्षुःप्राप्यः कारित्वसाधनप्रयासवैफल्यापत्तिरिति न किंचिदेतत् / समवायसम्बन्धावच्छिन्नावारकसंयोगाभावावच्छेदकावच्छिन्नचक्षुःसंयोगवत्समवेतसमवेतत्वस्योक्तवैजात्यग्रहे प्रत्यासत्तित्वात्तत्साक्षात्कारप्रयोजकतयापि चक्षुरादिसंयोगनिष्ठवैजात्यान्तरस्वीकाराद्वा नार्धनिखातस्थलीयवैजात्यस्य निर्विकल्पकाप त्तिरित्यपि केचित् ,-तदप्यसत् / सन्निकर्षे आवश्यकसंयोगाभावस्य निवेशे चक्षुःसंयोगवृत्तिजात्यन्तरकल्पने गौरवात् , आधारताविशेषस्य सन्निकर्षमध्ये निवेश एव लाघवादिति दिक् / . किं चात्मनो विभुत्वे ज्ञानादीनां ज्ञानाद्यभावविरोधोऽवच्छेदकगर्भ एव कल्पनीय इत्यपि गौरवम् / अस्माकं तु तदगर्भस्यैव तद्विरोधस्य कल्पनालाघवम् / 3. अपि चावयवावयविनोरत्यन्तभेदवादिनामात्मविभुत्ववादिनां मते शरीरावयवावच्छिन्नानामात्मगुणानां कथं शरीरावच्छिन्नत्वम् ? न ह्यवयवसंयोगजावयविसंयोगतदवयवावच्छिन्नज्ञानजमवयव्यवच्छिन्नज्ञानं परैरभ्युपगम्यते / चेष्टावदवच्छिन्नत्व एव निर्भरे तु शरीरतदवयवानुगतचेष्टासमवायिकारणतावच्छेदकाभावादिन्द्रियाणां निश्चेष्टत्वे मानाभावाद् , घटादिवृत्तिचक्षुरवयवावच्छेदेनाप्यात्मगुणोत्पत्तिप्रसंग इति शरीरपरिमाणत्वं विनात्मनो गुणानां तदवच्छिन्नत्वमेव दुर्घटमिति ध्येयम् / एतेनादृष्टं स्वाश्रयसंयुक्ते आश्रयान्तरे कारभते एकद्रव्यत्वे सति ...कियाहेतुगुणत्वाद्वेगवदित्यनुमानादात्मविभुत्वसिद्धिः स्वाश्रयासंयुक्तस्तम्भादिचलनहेतौ मुशलहस्तसंयोगे व्यभिचारधारणाय सत्यन्तं, रूपादौ व्यभिचारवारणाय विशेष्यं, स्वाश्रयसंयुक्तलोहादिभ्रामकेऽयस्कान्ते व्यभिचारवारणाय गुणत्वादितीत्यपि निरस्तं, स्वाश्रयसंयोगघटितसम्बन्धेनादृष्टस्यात्मवर्तिनो द्वीपान्तरवर्तिमुक्ताफलाद्याकर्षणहेतुत्वेऽतिप्रसंगा त्वसिद्धेः / तत्रस्थस्यैवान्यत्र स्थितोपसर्पणहेतुत्वस्य प्रासप्रयत्नादावदर्शनात् , अन्यथा विस्फारितमुखस्य हस्तादिसंचलनहेत्वान्तरा लिकप्रयत्नं विना मुखे प्रासोपसर्पणप्रसंगात् / * एषाऽर्थः किञ्चिच्छबभेदेन न्यायालोकस्य प्रथमप्रकाशे दरीदृश्यते / For Private and Personal Use Only Page #7 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आत्मनः शरीरपरिमाणत्वम् आत्मस्थितशरासनाध्यासनप्रयत्ने दूरस्थितलक्ष्यक्रियाप्राप्तिहेतौ तथादर्शने च विचित्रशक्तिकत्वाद्भावानामदृष्टस्य स्वाश्रयसंयोगं विनाऽपि कार्यहेतुत्वान्न साध्यसिद्धिः / अयस्कान्तनिष्ठलोहम्रामकस्पर्शगुणेन व्यभिचारश्च / न च तत्स्पर्शस्य न लोहाकर्षणहेतुत्वं तेनैवान्यथासिद्धत्वा दिति वाच्यम् , तदुत्कर्षेण क्रियोत्कर्षात्तस्य तद्धेतुत्वात् / एतेनादृष्टमेवायस्कान्ताकृष्यमाणलोहदर्शनसुखवत्पुंसो निःशल्यत्वेन तक्रियाहेतुरिति परास्त, दृष्टेनोपपत्तावदृष्टकल्पनाया अन्याय्यत्वादन्यथाऽन्यत्रापि तद्धेतृत्वप्रसंगात् / यदपि शत्रुजिघांसया कृतेन श्येनेनादृष्टजननात्तस्य शत्रावसंबन्धात्कथमात्मविभुत्वं विना क्रियाफलोपपत्तिरिति, तदपि न, शक्तिविशेषरूपस्य कारणत्वस्यासम्बन्धेऽप्यविरोधात् , सम्बन्धघटितत्वे वा तस्य प्रकृतेऽपि फलयोग्यताख्यः कश्चित्सम्बन्धः कल्प्यतामिति / अथात्मनो महत्त्वं तावन्निर्विवाद, द्रव्यचाक्षुषं प्रति कल्पनीयहेतुभावस्य महत्त्वस्य लाघवेन जन्यद्रव्यसाक्षात्कारत्वावच्छिन्नं प्रत्येव हेतुत्वकल्पनात् , आत्मसाक्षात्कारनिर्वाहायात्मनि महत्त्वावश्यकत्वात् , तच्च महत्त्वं न जन्यं, कार्य महत्त्वमवयवबहुत्वजन्यं स्यात्तन्महत्त्वजन्यं वा प्रचयजन्यं वा न च त्रितयमपि निरवयवस्यात्मनः संभवति / एवं चायं प्रयोगः-'आत्मा विभुनित्यमहत्त्वादाकाशवदिति चेत्-अत्रोच्यते / अत्र हि परमप्रकृष्टपरिमाणवत्त्वलक्षणं विभुत्वं साध्यते / न च नित्यमहत्त्वे सत्यपि परमप्रकर्षविपर्यय बाधते कश्चित्तक इत्यप्रयोजकोऽयं हेतुः / अप्रकृष्टत्वे तस्य जन्यत्वापत्तिर्बाधिका गगनमहत्त्वावधिकापकर्षस्य बहुत्वजन्यतावच्छेदकत्वादिति चेत्-न, परमाणुपरिमाणसाधारणतया तस्य कार्यतानवच्छेदकत्वात् , त्रुटिमहत्त्वावधिकोत्कर्षेण सम सांकर्यात्तादृशापकर्षस्य जातित्वासिद्धेश्च / किं च युष्मन्मते आत्मनो महत्त्वं तावन्निर्विवादमित्यपि वार्तामात्रम् / ईश्वरस्य च परिमाणवत्त्वे मानाभावो द्रव्यत्वस्य त्रुटित्वादेखि परिमाणस्यासाधकत्वात् , तस्य चापरिमिता-: वृत्तित्वमसिद्धमिति पदार्थखण्डनप्रतीके / . वस्तुतः पुनरीश्वरस्य द्रव्यत्वेऽपि मानाभावस्तत्र संयोगे विभागेऽपि मानाभावात् , मानाभावाच्च क्रियाविशेष प्रति प्रयत्नवात्मसंयोगासमवायिकारणकत्वस्य / नत्वेवमात्ममनोयोगेन्द्रियजन्यताया ज्ञानादौ त्वयैव बहुशो निरासादस्मदादीनामपि संयोगविभागौ न स्यातामिति चेत्-न, स्यातामेव / - अत एव द्रव्यत्वमपि दूरपराहतं, द्रव्यमहमिति न प्रतीतिर्लोकानाम् / तस्मान्मूर्तत्वमेव द्रव्यत्वमिति युक्तमुत्पश्याम इति रामभद्रसार्वभौमैर्व्याख्यानाद्र्व्यसाक्षात्कारावलम्बनेनात्मनि महत्त्वासिद्धेः / अथाशुद्धमेतत्सार्वभौममतं, जन्यसत्त्वावच्छिन्नसमवायिकारणतावच्छेदकतया सिद्धस्य For Private and Personal Use Only Page #8 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यात्मख्यातिः दव्यत्वस्यात्मन्यपि सत्त्वाजन्यसत्त्वावच्छिन्नं प्रति द्रव्यत्वेनासमवायिकारणत्वे समवायेन नीलादौ स्वाश्रयसमवेतत्वेन नीलादेहेतुत्वेनावयवगुणादावपि निलाद्युत्पादप्रसंगात् / न च स्वसमवा यिसमचेतत्वं स्वसंमवायिनिष्ठसमवायप्रतियोगित्वं, तच्च प्रतियोगिभेदेन भिन्नमिति द्रव्यनिष्ठेन तेन नीलादौ हेतुत्वान्नोक्तापत्तिरिति वाच्यम् , समवायप्रतियोगित्वं समवायिद्रव्यव्यक्तिभेदादेव भिन्नं, न तु प्रतियोगिभेदेन गौरवादित्यभ्युपगमात् / न च स्वाश्रयसमवेतत्वविशिष्टद्रव्यत्वसम्बन्धेन नीलादेरसमवायिकारणत्वमस्त्विति वाच्यम् , स्वाश्रयसमवेतत्वद्रव्यत्वयोर्विशेषणविशेष्यभाबेन गुरुतरकार्यकारणभावद्वयापत्तेः / न च स्वाश्रयसमवेतत्वद्रव्यत्वोभयसम्बन्धेन तदस्त्विति वाच्यम्, नीलपीतादीनामनन्तानां कारणतावच्छेदकसम्बन्धकोटौ द्रव्यत्वप्रवेशापेक्षया सत्त्वावच्छिन्ने द्रव्यत्वेन पृथक्कारणताया एव लघुत्वात् / न च तथापि तत्तस्क्रियाधीनविभागसंयोगोत्पत्तेः पूर्वोत्तरदेशनियमान्यथानुपपत्या तत्तद्र्व्यव्यक्तित्वेन हेतुत्वावश्यकतया यावद्विशेषसामग्रीबाधादेवावयवगुणादौ नीलाद्यनुत्पादात् सामान्यतो द्रव्यत्वेन न कारणत्वमिति वाच्यम् , तथापि सत्त्वावच्छिन्नं प्रति सामान्यतो द्रव्यत्वेन समबायिकारणत्वावश्यकत्वात् / अन्यथा विनश्यदवस्थद्रव्येनापि स्वनाशोत्पत्तिक्षणे गुणकर्मणोर्जननापत्तेः / तत्तद्र्व्यव्यक्तित्वेन समवायिकारणतासु गुणकर्मणोरसमवायिकारणतासु वा कार्यसहवर्तित्वप्रवेशे महागौरवात् / येषां येषां हि कार्यसहवर्तित्वेन हेतुत्वं सामग्रन्यवहितोत्तरत्वस्य कार्यात्पत्तिव्याप्यत्वे तत्तत्कारणाधिकरणत्वे सतीत्यपि विशेषणं देयमितीति चेत्-न, विनश्यदवस्थद्रव्येण गुणकर्मजननापत्तिवारणाय मूर्तत्वेनैव लाघवाद्धेतुत्वसिद्धावात्मसाधारणद्रव्यत्वासिद्धेः / ___ किं च सत्ता च न द्रव्यगुणकर्मवृत्तिरेका प्रत्यक्षसिद्धा जातिधर्मादीनामतीन्द्रियत्वेन तत्र प्रत्यक्षायोगाज्जात्यादावपि सद्व्यवहाराच्च, घटादौ सद्व्यवहारश्च वर्तमानत्वादिनिबन्धन इति शिरोमणिनैवाभिधानात् सत्ताया एव जातित्वासिद्धेः, तदवच्छिन्नजनकतावच्छेदकत्वेन द्रव्यत्वसाधनेऽसिद्धमसिद्धेन साधयतो भवतो महानैयायिकापत्तिरिति न किंचिदेतत् / . वस्तुतः संसार्यात्मपरिमाणे शरीरनामकर्मपरिणतिविशेषः सिद्धात्मपरिमाणे च चरमभवीयत्रिभागहीनावगाहनापरिणामो योगनिरोघजनितो हेतुरिति नित्यमहत्त्वादिति हेतु नं प्रत्यन्यथासिद्धेः / नन्वेवं शरीरपरिमाणभेदे, आत्मपरिमाणभेदादात्मभेदापतिः परिमाणभेदे द्रब्यभेदनियमादिति चेत्-न, एकत्र घटे श्यामरक्तादिभेदेन घटभेदेऽपि तद्घटव्यक्त्यभेदवत्परिमाणभेदेन तद्विशिष्टात्मभेदेऽपि तदात्मव्यक्त्यभेदोपपत्तेः, विशिष्टभेदस्य पर्यायनियतस्य शुद्धद्रव्याभेदापरिपन्थित्वात् / इत्थमेव क्षणभेदसमर्थ संगच्छते शुद्धक्षणभेदस्तु पुञ्जात्पुञ्जान्तरोत्पत्ति स्वीकुर्वतां बौद्धानामेव सिद्धान्ते नास्माकम् / विशिष्टानतिरेके विशिष्टभेदोऽपि दुर्घट इति चेत्, तदपि कथंचिदतिरिव्यता For Private and Personal Use Only Page #9 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आत्मनः शरीरपरिमाणत्वम् / सार्वभौमैर्विशिष्टातिरेकाभ्युपगमात् / न चैवं विशिष्टसत्तानिश्चयेऽपि सत्तासंदेहापत्तिः नवापि विशिष्टसत्तानिश्चयस्य विशिष्टासत्तासंशयव्यावृत्तसत्तानिश्चयत्वशून्यतया विशिष्टसत्तानिश्चयत्वेन व्यावतकतयैव वा पृथक्प्रतिबन्धकत्वध्रौव्यात् / __ अस्माकं तु कथंचित्पदेनैव निस्तारः, विशिष्टसत्ताया विशिष्टसत्तात्वेनातिरेकेऽपि सत्तात्वेनानतिरेकात् / अत एवानन्तपदार्थकल्पनागौरवमपि निरस्तं, समाहितं च प्रत्यभिज्ञानादिकम् / . सर्वथा विशिष्टानतिरेके नारकशरीरविशिष्टात्मनि तदवस्थे सुखाभावः कष्टसाध्यः / आत्मत्वसामानाधिकरण्येन नारकशरीरावच्छिन्नसुखाभावसाधने नारकिमात्रे तत्सिद्धेरुद्देश्यायो अभावादात्मत्वावच्छेदेन तत्साधने च बाधात् , विशिष्टातिरेके तु तन्मात्रवृत्तिहेतुना तन्मात्रवृत्तिसाध्यसिद्धिरनावाधेति विभावनीयं सुधीभिः / ____ननु विशिष्टानतिरेकेऽपि प्रतीतिबलाद्विशिष्टाभावातिरेकत्वादिना तत्तत्परिमाणविशिष्टात्मभेदाभ्युपगम इति संभवात् किमधिकं भवतामिति चेत्-न, कथंचिद्वादेनेवास्माकमाधिक्यात् / अयमिदानीं न देवत्वविशिष्टो मनुष्यत्वविशिष्टो न देवत्वविशिष्टो मनुष्यत्वेनाय स्वाभिन्नो देववेन स्वभिन्न इत्यादिप्रतीतिभिर्विशिष्टधर्मावच्छिन्नप्रतियोगिताकतादृशाधिकरणताकतत्तद्विशेषणावच्छिन्नस्वप्रतियोगिकभेदानां यथोपयोगं भूयसामेव ग्रहणाच्छबलात्मके वस्तुनि यथाक्षयोपशमं कियतामेव पर्यायाणां ग्रहेऽपि तत्त्वतोऽनन्तधर्मात्मकवस्तुपरिच्छेदादेव सम्यग्दृष्टित्वोपपत्तेः / ____ अत एव व्यधिकरणधर्मावच्छिन्नाधिकरणताप्रतियोगिकभेदाभिप्रायेण घटत्वेन चैत्रो नात्मा चैत्रो घटत्वेन नात्मेत्यादिप्रयोगा अप्यात्मा नात्मादिसप्तभंग्यां संगच्छन्ते / उवाच च वाचकचक्रवर्तीद्रव्यात्मेत्युपचारः सर्वद्रव्येषु नयविशेषेण आत्मादेशादात्मा भवत्यनात्मा परादेशादिति / अवच्छेदकभेदेनाप्येकत्र भेदाभेदानभ्युपगन्तृभिश्च दण्डत्वेन दण्डो घटकारणं न द्रव्यत्वेन, धूमत्वेन धूमो वह्निव्याप्यो न द्रव्यत्वेनेत्यादि कथं समर्थनीयम् ? अत्र तृतीयार्थेऽवच्छिन्नत्वे दण्डत्वपदार्थस्य धूमत्वपदार्थस्य च निरूपितत्वसम्बन्धेन, तस्य चावच्छिन्नत्वीयस्वरूपसम्बन्धेन कारणपदार्थैकदेशकारणतायां व्याप्यपदार्थंकदेशव्याप्तौ च व्युत्पत्तिविशेषेणान्वयान्न दोषः, अन्यथासिद्धिनिरूपकतानवच्छेदकघटव्यापकतावच्छेदकत्वविशिष्टदण्डत्वरूपायाः कारणतायाः शुद्धदण्डत्वेन, स्वसमानाधिकरणात्यन्ताभावप्रतियोगितानवच्छेदकवह्नित्वावच्छिन्नसामानाधिकरण्यविशिष्टघूमत्वरूपाया व्याप्तेश्च शुद्धधूमत्वेनावच्छेद्यत्वादिति चेत्-न, तथापि दण्डत्वं घूमत्वं च विशिष्टत्वेनावच्छेद्य शुद्धत्वेन च नावच्छेद्यमिति बलाद्मेदाभेदान्तरोपनिपातात् / विशिष्टातिरेकोपगमेऽपि विशिष्टदण्डत्वरूपायाः कारणताया आधारता चेद्दण्डस्वरूपा तदा दण्डवति तद्वत्त्वात्ययप्रसंगो दण्डत्वस्वरूपाच्चेत्तदा सा दण्डावच्छेदेनाधारतात्ववती विशेषणावच्छेदेन च न तथेति सर्वत्र सूक्ष्मेक्षिकायां भेदाभेदं विना न आ-२ . For Private and Personal Use Only Page #10 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 10] आत्मख्याति: निर्वाहः / किं च न द्रव्यत्वेनेत्यत्र नार्थे कस्यान्वयः दण्डत्वधूमत्वगर्भकारणताव्याप्त्यौव्यत्वावच्छिन्नत्वाभावेन तदवच्छिन्नतद्वतो अर्थे भेदेऽन्वयस्य कर्तुमशक्यत्वात् / प्रतियोम्यभावान्वययोस्तुल्ययोगक्षेमत्वाद्र्व्यत्वावच्छिन्नत्वस्य नगर्थेऽभावे तस्य च कारणव्याप्यपदार्थ कदेशकारणताव्याप्त्योरेवात्रान्वय इति चेत्-न, अनुभूयमानप्रतियोगिकभेदापलापे न प्रतीतेरन्यथात्वव्यवस्थापने शाखायां न संयोग इत्यत्रापि संयोगे शाखावच्छिन्नत्वाभावावगाहित्वव्यवस्थापने शाखावच्छिन्नसंयोगाभावादेरप्यसिद्धिप्रसंगात् / अपि चात्मद्रव्यात्तत्परिमाणादीनां भेदस्तावदन्यैरपि स्वीक्रियत एव,अभेदस्तु तत्संबन्धतयैव सेत्स्यतीत्येवमपि भेदाभेदः सुलभ एव, समवाये मानाभावात् / समवायनिरासः * तथा हि —गुणक्रियाजातिविशिष्टबुद्धयो विशेषणसंबन्धविषयाः विशिष्टबुद्धित्वाद्दण्डीति बुद्धिवदित्यनुमानान्न तत्सिद्धिः, अभावज्ञानादिविशिष्टबुद्धिभिर्व्यभिचारात् / न च तासामपि स्वरूपसम्बन्धविषयत्वान्न व्यभिचारस्तर्हि तेनैवार्थान्तरत्वात् / न च लाघवात्पक्षधर्मताबलेनैकसमवायसिद्धिः, पक्षबाहुल्ये लाघवस्यानुपादेयत्वात् / अन्यथा द्रव्यमपि पक्षेऽन्तर्भाव्य समवायसिद्धिप्रसंगात् / न चानुभवसिद्धसंयोगाद् द्रव्ये समवायबाधः, प्रमाणसमाहारे प्रमेयसमाहाराविरोधात् / न च नानाविशेषणसम्बन्धे एकत्वानेकत्वादर्शनात्तत्र लाघवगौरवानवकाशेऽप्येकत्र सम्बन्धैकत्वानेकत्वयोर्दर्शनेन तत्र तदवकाशात् प्रत्येकविशिष्टबुद्धिपक्षीकरणे लाघवात्समवायसिद्धिः। ... स्वरूपसम्बन्धस्य सम्बन्धिद्वयात्मकत्वेन गौरवाद्धर्मीति न्यायस्याप्येककल्पनालाघवमूलत्वेना. त्रानवतारादिति वाच्यम् , द्रव्येऽपि तत्सिद्ध्यापत्तेः / न च संयोगत्वावच्छेदेन सम्बन्धत्वकल्पनात्संयोगसम्बन्धवति सम्बन्धान्तरकल्पने लाघववैपरीत्यं, गुणगुण्यादिद्वये तु नैवमनुगतधर्मान्तरमस्ति येन क्लुप्तलाघवाद्वैपरीत्यं स्यादिति वाच्यम् , तत्रापि वस्तुत्वसत्त्वाद्यवच्छेदेन वैलक्षण्यविशेषावच्छेदेन वा सम्बन्धत्वकल्पनात् , किं च प्रतीतेविषयनियमोऽनुभवात्सामग्रीमेदावा न तु लाघवात् , अन्यथा सविषयकत्वानुमानं सर्वविषयकत्वावगायेव स्यात्तत्तदविषयकत्वापेक्षया तत्तद्विषयकत्व एव लाघवात् / / ___अथ विशेषणसम्बन्धनिमित्तका इति साध्यं हेतौ च सत्यत्वं विशेषणं तेन विशिष्टश्रमे न व्यभिचारः बुद्धिपदं च प्रत्यक्षपरं तेन नांशतो बाधव्यभिचाराविति समवायसिद्धिरिति चेत्-न, गुणादिविशिष्टप्रत्यक्षे विशेषणसम्बन्धत्वेन न हेतुत्वं सम्बन्धत्वस्य विषयत्वादिगर्भतया जनकतावच्छेदकत्वादिति मिश्रेणोक्तत्वात् / अत एव गुणादिविशिष्टप्रत्यक्षे गुणादिसमवायेन हेतुत्वं, * एतत् समवायनिराकरण 'न्यायालोकस्य द्वितीयप्रकाशेऽप्यस्त्यैव / For Private and Personal Use Only Page #11 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आत्मनः शरीरपरिमाणत्वम् [ 11 समवायत्वं च न नित्यसम्बन्धत्वं किंत्वखण्डसमवायव्यक्तिरेवेति चेत्-न, गुणादिसमवायत्वापेक्षया गुणत्वादिनैव हेतुत्वौचित्यात् / न चाभावादिविशिष्टबुद्धिव्यावृत्तानुभवसिद्धवैलक्षण्यविशेषवबुद्धित्वावच्छिन्नं प्रति समवायं विना नान्यन्नियामकं गुणत्वादिना हेतुत्वे व्यभिचारादिति वाच्यम् , वैलक्षण्यस्य जातिरूपस्यानुमितित्वादिना सांकर्यात् , विषयितारूपस्य न समवायासिद्ध्या दुर्वचत्वात् / एतेन संबन्धांशे विलक्षणविषयताशालिगुणादिविशिष्टपत्यक्षे तद्धेतुत्वमिति परास्तम् / __यत्तु प्रथमानुमानादेव समवायसिद्धिः समवायबाधोत्तरकालकल्पनीयेन स्वरूपसम्बन्धेनार्थान्तराभावादिति मिश्रेणाभिहितम्-तत्तुच्छम् , अन्यत्र क्लप्तजातीयत्वेनोपजीव्यत्वेन च स्वरूपसम्बन्धस्यैव प्रथमोपस्थितिकत्वात् ,अन्यथाऽभावादिविशिष्टबुद्धावपि स्वरूपसम्बन्धानवगाहित्वप्रसंगात्, समवायबाघोत्तरकालोपस्थितिकस्वरूपसम्बन्धस्य पूर्व भानायोगात् / किं च समवायस्याखंडस्यालीकत्वाच्छशशंगस्येव बाधः कुत्रापि नापेक्षितः, समवायत्वबाधस्तु स्वरूपे सम्बन्धत्वकल्पनानन्तरमेवेति विपरीतमेतत् / यदपि तद्घटरूपयोविशिष्टबुद्धौ विनिगमनाविरहादुभयोः सम्बन्धिनोः सम्बन्धत्वं कल्पनीय, तथा च लाघवादेक एक समवायः सम्बन्धत्वेन कल्पते, अभावस्थले त्वधिकरणानां नानात्वादेकस्याभावस्यैव सम्बन्धत्वं युक्तमिति न तत्र सम्बन्धान्तरकल्पनप्रतिबन्ध्यवकाश इति, तदपि न / समवायस्तत्र समवायत्वं क्लप्तभावभेदो नानाधिकरणवृत्तित्वमित्यादिकल्पनायां महागौरवात् / एतेन गुणगुण्यादिस्वरूपद्वये सम्बन्धत्वमतिरिक्तसमवाये वेति विनिगमनाविरहादप्यन्ततः समवायसिद्धि रित्यप्यपहस्तितं जातेरनुगतत्वेन व्यक्तिसम्बन्धत्वौचित्ये जातिव्यक्त्योः समवायोच्छेदापत्तेश्च / किं च रूपिनीरूपवस्थानुरोधेन रूपादीनां सम्बन्धकल्पनावश्यकत्वान्न समवायस्य सम्बन्धत्वं वाग्वादेर्नीरूपत्वस्य रूपीयतद्धर्मताख्यसम्बन्धाभावादेव मिश्ररप्युपपादितत्वात् तद्धमतायाश्च तद्रूपानतिरिक्तत्वात् / उक्तानुमितौ (1) समवायबाधाभावविशिष्टलाघवज्ञानस्य समवायविषयत्वनियामकस्य तद्वाधाभावेऽव्याहत्वात्स्वरूपसम्बन्धेन नार्थान्तरमिति। मिश्राशयस्तु प्रकृते लाघवप्रयोजकखण्डनादेव निरस्तः / एतेनेयमनुमितिरेकसम्बन्धविषयिणी लाघवज्ञानकालीनसम्बधानुमितित्वादित्याद्यपिः निरस्त द्रव्यपक्षकसम्बन्धानुमितौ व्यभिचाराच्च*। यत्तु रूपसमवायसत्त्वेऽपि वायौ स्वभावतो रूपाभावादेव नीरूपत्वमिति चिन्तामणिकृतोक्त सदविचारितरमणीय, प्रतियोगिसम्बन्धसत्त्वे तत्सम्बन्धावच्छिन्नाभावायोगात् / अथ प्रतियोगिसम्बन्धसत्त्वेऽपि तद्वत्ताया अभावात्तत्र तदभावाविरोधः / न च तत्सम्बन्धस्तद्वत्तानियतो गगनीयसयोगे व्यभिचारात् , न च वृत्तिनियामकेति विशेषणान्न दोष इति .... * एतदनन्तरं 'न्यायालोके' 'यत्तु रूपे त्यादिप्रन्थः / For Private and Personal Use Only Page #12 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 12 . आत्मख्यातिः वाच्यम् , करवृत्तितानियामककपालसंयोगवति काले कपालाभावसत्त्वेन व्यभिचारात् / यत्र यद्वृत्तितानियामकः सम्बन्धस्तत्र तद्वत्त्वनियम इति चेत् तर्हि रूपसमवायस्य वायुवृत्तित्वानियामकत्वादेव वायौ न तद्रूपत्वमिति चेत् –न, तत्र तदृत्तितानियामकत्वं हि तत्र तद्विशिष्टबुद्धि. जनकत्वं, अस्ति च वायावपीह रूपमिति धीः, तदभावप्रत्यक्षवादिनाऽपि तत्रावश्यं तत्स्वीकारात् / सारोपरूपा न तु प्रमेति चेत्-न, तदभावधियः सत्यत्वासिद्धौ तदप्रमात्वासिद्धेरिति मिश्रेणैवो. क्तत्वात् / वस्तुतस्तत्र तद्विशिष्टधीविरहोऽपि तद्वत्ताभावादित्यन्योन्याश्रयः / यच्चैकस्यैव समवायस्य किंचिदधिकरणावच्छेदेन रूपसम्बन्धत्वकल्पनेनैव व्यवस्थोपपत्तिरितितन्न, रूपसम्बन्धत्वं हि रूपप्रकारकविशिष्टज्ञानीयसम्बन्धताख्यविषयताविशेषशा लित्वं तच्च तत्तदधिकरणान्तर्भावेन विशिष्टबुद्धिहेतुतयैव निर्वहतीति महागौरवात् / अस्माकं तु रूपप्रकारकविशिष्टबोध एव रूपसम्बन्धस्तन्त्रमिति लाघवात् / अथाधारताख्यं पदार्थान्तरमवश्यं स्वीकर्तव्यं कुण्डादेबंदराधारतास्वरूपत्वे कुण्डे कुण्डमिति प्रतीत्यापत्तेः / बदराधारतात्वेन कुण्डे कुण्डवृत्तित्वं न तु कुण्डत्वेनेत्युपगमे आधारतात्वस्याप्यघिकस्यावश्य कल्पनीयत्वात् / तच्च सम्बन्धभेदेन भिन्नमिति वायों रूपसमवायसत्त्वेऽपि समवायसम्बन्धावच्छिन्नरूंपाधारत्वाभावान्नानुपपत्तिः, तत्सत्त्वे तत्र समवायेन रूपं नेति बुद्ध्यनुदयप्रसंगात् , तेन सम्बन्धेन तदभाववत्ता बुद्धौ तत्सम्बन्धावच्छिन्नाधारतासंसर्गकतत्प्रकारकबुद्धेरेव विरोधित्वात् , अत एव कुण्डादिप्रतियोगिकसंयोगमात्रेण बदरादौ कुण्डादिप्रकारकबुद्धावपि बदरादौ कुण्डादिक नेति धीरिति चेत्-न, रूपादिभेदेन समवायसम्बन्धावच्छिन्ननानाधारताकल्पनापेक्षया नानासमवायकल्पनस्यैवोचितत्वात् , इत्थमेव जले स्नेहस्य समवायो न गन्धस्येत्यादि प्रतीत्युपपत्तेः / अनुमतमेतच्छिरोमणिमतानुयायिनाम् / / - ते हि वदन्ति-रूपिनीरूपव्यवस्थानुरोधान्नानैव समवायः, समनियतकालदेशावच्छेदकानों संख्यापरिमाणपृथक्त्वादीनां चैक एव / तदभिप्रायेणैव समवायकत्वप्रवाद इति चेत् -- न, एवं ह्यस्य तादात्म्यस्यैव नामान्तरत्वात् , गुणत्वावच्छेदेन गुणिस्वरूपसम्बन्धत्वकल्पनानौचित्यादतिरिक्तानो सम्बन्धत्वकल्पनापेक्षया क्लप्तानां रूपादीनामेव तत्त्वकल्पनौचित्यादिति दिग् [क्] / ___यदि पुनरप्येवमनुगतधीनिर्वाहाय समवायोऽभ्युपेयते तदा लाघवादभावादिसाधारण वैशिष्ट्यमेवाभ्युपगन्तुमुचितम् / न च घटवति भूतले घटाभावधीप्रसंगः,तदानीं तदधिकरणता स्वाभाव्या भावस्य वक्तुमशक्यत्वात् , स्वभावस्य यावद्द्व्यभावित्वात् / रक्ततादशायां घटे श्यामाधिकरणसास्वाभाव्येऽपि श्यामाभावेन तदंशे लौकिकप्रत्यक्षाभावादिति वाच्यम् / समवाय. For Private and Personal Use Only Page #13 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आत्मनः शरीरपरिमाणत्वम् [13 वादिनो वृक्षे शाखायां कपिसंयोगस्य मूलावच्छेदेनेव वैशिष्ट्यवादिनो भूतलादौ घटाभाववैशिष्ट्यस्य घटकालावच्छेदेनासम्बन्धत्वात् / न च तत्र शाखासमवायोभयमेव सम्बन्धो न तु समवायसम्बन्धत्वे शाखावच्छेदिकेति वाच्यम् , शाखावच्छेदेन समवायसम्बन्धावच्छिन्नसंयोगाभावग्रहेऽपि शाखाया संयोगीति बुद्ध्यापत्तेः, तत्रोक्तोभयसम्बन्धावच्छिन्नसंयोगाभावग्रहस्यैव विरोधित्वात् / अन्वयव्यतिरेकाभ्यां तत्रोक्ताभावग्रहस्यापि प्रतिबन्धकत्वकल्पने तु गौरवम् / अस्तु चेदानी घटाभाव इत्यत्रापि तत्कालवैशिष्ट्योभयसम्बन्धेन घटाभाव एव विषय इति न किंचिदनुपपन्नम् / - अथ समवायेन जन्यभावत्वावच्छिन्नं प्रति द्रव्यत्वेन हेतुत्वात्समवायसिद्धिः स्वरूपसम्बन्धेन कालिकादिरूपेण जन्यभावस्य स्पन्दादावप्युत्पत्याऽतिप्रसंगादिति चेत्-न, तथा हेतुत्वस्य प्रागेव निरासात्। समवायस्थाने कालिकविशेषणतादिभिन्नपदार्थमात्राधारतानियामकवैशिष्ट्याख्यसम्बन्धस्याभिषेकयोग्यत्वाच्च / न च प्रतियोगितया घटादिसमवेतनाशे स्वप्रतियोगिसमवेतत्वेन घटादिनाशस्य हेतुत्वात्समवायसिद्धिः, स्वप्रतियोगिवृत्तित्वेन हेतुत्वे घटादिवृत्तिध्वंसध्वंसापत्तेः / न च जात्यादौ तदापत्तिवारणाय महाप्रलयावृत्तित्वेन प्रतियोगिनो हेतुत्वाद्ध्वंसेऽपि न तदापत्तिर्जात्यादौ तदापत्तिवारणाय कालावच्छिन्नस्वप्रतियोगिसमवेतत्वेनैव नाशकत्वस्वीकारादिति वाच्यम् , रूपादावपि समवायस्य कालावच्छिन्नत्वे मानाभावात् , रूपादिविशिष्टसमवायस्य तत्तदाधारत्वरूपस्य कालावच्छिन्नत्वे विशिष्य ग्रहणप्रसंगेनासमंजस्यात् , कथंचिज्जात्यादिव्यावृत्तसमवेतत्वस्येव ध्वंसादिव्यावृत्तवृत्तित्वस्यापि सुग्रहत्वाच्च / किं च घटादिसमवेतनाशमात्रे घटादिनाशो न हेतुः, घटादिकालीतद्वृत्तिक्रियासंयोगविभागवेगद्वित्वादिनाशे व्यभिचारात् , नापि घटादिनाशक्षणवृत्तितत्समवेतनाशे, क्षणानामानन्त्येन तत्त्वतत्त्वेन नाश्यनाशकभावस्यैवोचितत्वात् / किं तु घटादिनाशवृत्तेघटा दिनाशवत एव वा तत्समवेतस्य नाशे, तथा च घटादिनाशवृत्तेस्तन्नाशवत एव वा नाशे तद्धेतुत्वमस्तु, कार्यकारणयोः कालिक एव सम्बन्धः / न चैव घटादिनाशानिमाग्रिमक्षणेषु तादृशनाशापत्तिरिष्टत्वात् , प्रतिक्षणं तादृशस्य कस्यचिन्नाशात् / न च विनाऽपि पटादिनाशं पटादिरूपादेशिपित्तिः पटादिनाशवृत्तेः पटादिरूपादेर्नाशे पटादिनाशस्यापि हेतुत्वात् ? / इत्थं च चरमद्रव्यनाशादेव चरमद्रव्यनाशवृत्तेस्तन्नाशवतो वा ध्वंसमात्रस्य महाप्रलये नाश इत्येव किं नाद्रियते ? अथ प्रतियोगितया स्वप्रतियोगिसमवेतत्वस्वाधिकरणत्वोभयसम्बन्धेन नाशवन्नाशत्वावच्छिन्न एव स्वप्रतियोगिसमवेतत्वेन नाशत्वावच्छिन्नस्य हेतुत्वात्समवायसिद्धिरिति चेत्-न, तादृशनाशवद् घटनाशस्य प्रतियोगितया घटप्रागभावेऽपि जायमानत्वेन For Private and Personal Use Only Page #14 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 14] आत्मख्यातिः व्यभिचारात्समवेतत्वं परित्यज्य वृत्तित्वस्यैव निवेशात् , नाशत्वावच्छिन्ने सत्त्वेनातिरिक्तहेतुतयैवानतिप्रसंगात् / कि च परमाणुरूपशब्दकर्मवेगद्वित्वादिनाशधारावारणाय प्रतियोगिनो विशिष्य हेतुत्वान्न ध्वंसे ध्वंसापत्तिरित्यलं समवायेन / न च तावताप्याश्रयनाशजन्यनाशे प्रतियोगिनो विशिष्या. हेतुत्वाद् ध्वंसे तदापत्तेर्दुरित्वम् , नाशकारणानां विशिष्य नाश्यनिष्ठतथैव हेतुत्वान्न नाशधारापचिरिति वाच्यम् , तथापि घटादिनाशात्तद्रूपादिनाशस्तद्रूपादौ तद्वित्वादिनाशस्तु तद् द्वित्वादाविति नियमाय प्रतियोगिनो विशिष्य हेतुत्वावश्यकत्वात् , न च व्यक्तिस्थानीयापत्यभावान्नैवम् , तत्सत्त्वेऽपि तत्तद्घटपटादिरूपरसगन्धैकत्वपृथक्त्वपरिमाणवेगादिनाशे तत्तद्घटाद्यन्यासमवेतत्वे सति समवेतत्वेनैव विशिष्य प्रतियोगिहेतुत्वात्समवायसिद्धेः, अन्यथा तत्तद्घटादिमात्रवृत्तिवेगक्रियादिध्वंसध्वंसापत्तेः / न च सत्त्वेन नाशहेतुत्वान्न तदापत्तिः सत्त्वेनातिरिक्तकारणान्तरकल्पनातः क्लप्तकारणतावच्छेदकेऽतिरिक्तसमवायनिवेशस्यैव युक्तत्वादिति वाच्यम् , नानाकारणताघटकप्रत्यासत्तिष्वक्लप्तसमवायनिवेशपेक्षयोक्तककार्यकारणभावस्यैव लघुत्वात् / किं च प्रतियोगिसमवेतत्वस्थाने प्रतियोगिवृत्तिसत्त्वस्यैव संबन्धमध्ये निवेशयितुं शक्यत्वान्न कुतोऽपि समवायसिद्धिरिति / यदपि द्विवक्षणस्थायिघटादिनाशस्य तत्तत्समवेतनाशत्वावच्छिन्न एव हेतुत्वाज्जात्यादिनाशवारणाय प्रतियोगितया ध्वंसे समवायवत्त्वेनैव हेतुत्वात्तत्सिद्धिरिति, तदपि तुच्छम् , सत्वेनैव तावता तद्धेतुत्वौचित्यात् / किं च रूपाभावान्यमहत्तिचाक्षुषे चक्षुःसंयुक्तमहदुद्भूतरूपवद्वैशिष्टयस्य हेतुत्वाद्वैशिष्ट्यसिद्धिः। म चैवमपि महत्त्वाभावरूपाभावयोश्चाक्षुषे कार्यकारणभावद्वयान्तरावश्यकत्व रूपाभावान्यद्रव्यवृत्त्यभावचाक्षुषे चक्षुःसंयुक्तोद्भतरूपवद्विशेषणता, महत्त्वाभावान्यद्रव्यवृत्त्यभावचाक्षुषे चक्षुःसंयुक्त महत्त्ववद्विशेषणता, महत्समवेतचाक्षुषे चक्षुःसंयुक्तमहदुद्भतरूपवत्समवायो हेतुरिति कल्पनायाएव युक्तत्वम् / अत एव जातिसाधारणसमवायसिद्धिरिति वाच्यम् , उभयोः कार्यकारणभावत्रयसाम्येऽपि द्रव्यवृत्तिरूपाभावचाक्षुषे चक्षुःसंयुक्तमहत्त्ववद्विशेषणताद्रव्यवृत्तिमहत्त्वाभावचाक्षुषे चक्षुःसंयुक्तोद्भतरूपवद्विशेषणताहेतुरित्येवं.-. कल्पने कार्यतावच्छेदकलाघवात् / किंचोक्तरीत्यापि प्रथमद्वितीयाभ्यामेव कार्यतावच्छेदके चरमाभावत्वाप्रवेशे द्वितीये द्रव्यभेदप्रवेशे च वैशिष्ट्यवादिनो निर्वाहे न नान्त्यस्य हेतुतेति लाघवमेव / यदि चैवं पार्थिवाणुघाणमात्रेन्द्रियसन्निकर्षे पृथिवीत्वादिप्रत्यक्षतापत्तिरित्युच्यते तदा तवापि तन्मात्रसन्निकर्षाज्जलवाभावादिप्रत्यक्षवारणार्थ रूपाभावमहत्वाभावचाक्षुषयोरुक्तरीत्या कार्यकारणाभावद्वयं, महत्त्ववद्वृत्ते रूपाभावमहत्त्वाभावभिन्नस्य चाभावस्य For Private and Personal Use Only Page #15 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आत्मनः शरीरपरिमाणत्वम् [15 चाक्षुषे चक्षुःसंयुक्तमहदुद्भतरूपवद्विशेषणताहेतुरित्येवमभावप्रत्यक्ष एव त्रयं वाच्यं भावप्रत्यक्षेऽन्यत् , तथा च तृतीये कार्यतावच्छेदकेऽभावत्वाप्रवेशाद्भावप्रत्यक्षेऽपि वैशिष्ट्यवादिनो निर्वाहः / एवं चक्षुःसंयुक्तसमवायादेरप्यस्वीकारालाघबमिति / न च मयापि व्यासज्यवृत्तिधर्मप्रत्यक्षानुरोधेन तत्तद्र्व्यचाक्षुषादौ चक्षुःसंयोगा दिहेतुत्वेनैव तत्तवृत्तिगुणकर्माभावादिप्रत्यक्षनिर्वाहं कृत्वा चक्षुःसंयुक्तसमवायादिप्रत्यासत्तिर्नाद्रियत इति वाच्यम् , तथापि यत्र न व्यासज्यवृत्तिधर्मप्रत्यक्षानुरुद्धा हेतुता तत्र लाघवाद्वैशिष्ट्यसिद्धेर्दुरित्वात् / न च गन्धग्राहकं घ्राणसंयुक्तमहत्त्वोद्भतगन्धवद्वैशिष्ट्यं गन्धाभावग्राहकं च घ्राणसंयुक्तमहत्त्ववद्वैशिष्टयमात्रमिति तत्प्रत्यासत्योरुभूतगन्धघटिताघटितयो३क्यसंभव इति वाच्यम् , अनुभूतगन्धभेदत्य गन्धसाक्षात्कारहेतुतयोद्भूतगन्धस्य सन्निकर्षाघटकत्वादिति / द्रव्यजात्यन्यचाक्षुषे महदुद्भतरूपवद्भिन्नसमवेतत्वेन प्रतिबन्धकत्वात्समवायसिद्धिरिति तु मन्दम् , द्रव्यान्यसच्चाक्षुषत्वावच्छिन्न एव महदुतरूपवद्भिन्नवृत्तित्वेन प्रतिबन्धकत्वस्य वक्तुं शक्यत्वात् , जात्यन्यत्वस्थाने नित्यान्यत्वनिवेशेनापि निर्वाहाच्चेति दिक् / . - तदेवं परनीत्या वैशिष्ट्येनापि समवायान्यथासिद्धेर्न तत्र मानं पश्यामः / न च वैशिष्ट्यमपि गुणगुणिभ्यो भिन्नं तृतीयतत्त्वमनुभूयत इति कथंचित्तादात्म्यमेव तत् तथा च परिमाणभेदात् कथंचिदात्मभेदेऽपि तदात्मद्रव्याभेदो निष्प्रत्यूह एवेति नियूँढम् / शरीरजीवात्मन उत्पादव्ययध्रौव्यशालित्वम् नन्वेवं बालयुवशरीरादेरिवात्मन उत्पत्तिः स्यादिति चेत्-सत्यम् , बालत्वयुवत्वाभ्यामुत्पादव्यययोश्चत्रत्वेन च ध्रौव्यस्य भेदाभेदाभ्यामात्मनि शरीरतुल्ययोगक्षेमत्वात् / तदुक्तं सम्मतौ पडिपुण्णजोव्वणगुणो, जह लज्जइ बालाभावचरिएण / कुणइ य गुणपणिहाणं, अणागयसुहोवहाणत्थं // ण य होइ जोवणत्थो, बालो अण्णो वि लज्जइ ण तेण / ण वि य अणागयवयगुण-पसाहणं जुज्जइ विभत्ते // जाइकुलरूवलक्खणसण्णासंबंधओ अहिगयस्स / बालाइभावदिट्ठविगयस्स जह तस्स संबंधो // तेहिं अतीताणागयदोसगुणदुगुंछणऽब्भुवगमेहिं / तह बंधमोक्खसुहदुक्खपत्थणा होइ जीवस्स // [ काण्ड 1, गा. 43-46 ] For Private and Personal Use Only Page #16 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 16] आत्मख्यातिः . व्याख्या-यथेत्युदाहरणे प्रतिपूर्णो व्यतीतवयःसन्धितयोद्भतो यौवनमेव गुणो यस्य स तथा बालभावचरितेन चौर्यासंस्पृश्यस्पर्शरजःक्रीडादिना लज्जते स्वस्मिन्नविवेकित्वं जानाति / ततो युवा बाल एव बालाभेदप्रत्यभिज्ञानजत्वाल्लज्जायाः, अतोऽतीतवर्तमानैकत्वम् / करोति च युवाऽनागतसुखोपधानार्थ वृद्धावस्थायां सुखप्राप्तिरूपोपेयेच्छया गुणोनोपायेच्छालक्षणेन प्रणिधानं सुखसाधनमलम् , एवं च वृद्धोऽहं सुखी स्यामित्यभेदाध्यवसायादनागतवर्तमानयोरेक्यमिति भावः / न च भवति यौवनस्थो बालः किन्त्वन्य एव बालभेदाध्यवसाये तस्य तदाभेदाध्यवसायप्रयुक्तलज्जाभावस्यापि दर्शनात् / तदाह--तेन बालचरितेनान्योऽपि न लज्जते तस्मात्पुरुषान्तखबालादन्य एव युवा / एवमतीतवर्तमानयोर्भेदः तथा विभक्तं विभागो भेद इति यावद्, भावे क्तः, अकारप्रक्षेपादविभक्तमभेदस्तस्मिन् सति अनागतं वयोवृद्धावस्था तत्र गुणप्रसाधनं प्राप्त्यर्थो यत्नस्तदपि ज संभवति अविचलितकस्वरूपतया तत्सुखसाधनार्थ यत्नासंभवात् / एवमनागतवर्तमानयोर्भेद इति भेदाभेदशबलमेव पुरुषतत्त्वं सिद्धम् , जातिः पुरुषत्वादिकं कुलं प्रतिनियतपुरुषजन्यत्वव्यंग्यः पर्यायविशेषः, रूपं श्वेतरक्तादिलक्षणं सुखदुःखसूचकं तिलकादि, संज्ञानामाभिधेयत्वम् एभिर्यः संबन्धस्तदात्मपरिणामस्तमाश्रित्यावगतस्य भिन्नत्वेनाध्यवसितस्य बालादिभावैर्दुष्टैविगतस्य तैरुत्पादविगमतामापन्नस्येति यावत् / यथा तस्य संबन्धो भेदाभेदापरिणतिरूपः, ताभ्यामतीतानागतगुणदोषजुगुप्साभ्युपगमाभ्यां यथा भेदाभेदात्मकस्य पुरुषस्य सिद्धिः तथा बन्धमेक्षिसुखदुःखप्रार्थना तत्साधनोपादानपरित्यागद्वारेण भेदाभेदात्मकस्यैव जीवद्रव्यस्य भवति, उत्पादव्ययध्रौव्यात्मकस्य तस्यानाद्यनन्तस्य प्रसाधितत्वात् / तथाहि-मरणचित्तं भाव्युत्यादस्थित्यात्मकं मरणचित्तत्वाज्जीवदवस्थाविनाशचित्तवत् / तथा जन्मादौ चित्तप्रादुर्भावोऽतीतचित्तस्थित्तिविनाशात्मकश्चित्तप्रादुर्भावत्वान्मध्यावस्थाचित्तप्रादुर्भाववत् , इत्यादिनात्मनस्त्रयात्मकत्वम् / दृष्टं च मृद्र्व्यस्यापि घटकपालादिनाशोत्पादाभिन्नस्थित्यात्मकत्वम् , य एव हि कपालाद्यात्मना मृद्रव्यस्योत्पादः स एव घटात्मना नाशः, तावेव च मृद्रव्यस्थितिरिति सार्वजनीनानुभवात् / - घटादिपरिणामेष्वेव घटत्वावच्छिन्नध्वंसत्वकपालत्वावच्छिन्नोत्पादत्वसत्त्वकल्पनात् अतिरिक्ततत्कल्पने गौरवात् तदाश्रयताया एव च स्थितिरूपत्वात् / न च ध्वंसस्यैवोत्पादत्वे द्वितीयादिक्षणेष्वप्युत्पादप्रतीत्यापत्तिः, उत्पादत्वावच्छिन्नवृत्तावाद्यक्षणनियतसामयिकसंबन्धस्यैव नियामकत्वात् / न च ध्वस्त इति प्रतीतौ ध्वंसाश्रयत्वेन घटस्थितिविषयीकरणे घटध्वंसकालेऽषि प्रतियोगिसत्त्वे पूर्ववत्प्रत्यक्षत्वापत्तिरिति वाच्यम् , तस्मिन् काले घटासत्वेऽपि निराश्रयधर्मप्रतीत्ययोगाद्व्यरूपेण सत्त्वे द्रव्यरूपेण प्रत्यक्षस्याप्यनपवादाच्च / घटध्वंसकाले घटत्वेन सत्त्वं तु नाङ्गीक्रियते एवेति / सत्कार्यनयाव. लम्बिनस्त्वाहुर्घटध्वंसकाले ध्वंसाश्रयत्वेन प्रतीत्या ध्वंसात्मकभावरूपातिशयाश्रयघटसत्ताङ्गीकारेऽपि For Private and Personal Use Only Page #17 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 17] आत्मनः शरीरपरिमाणत्वम् न तत्प्रत्यक्षापत्तिः, प्रत्यक्षत्वमन्तरेणापि कुड्यादिव्यवहितस्य सत्ताजीकारात् , प्रत्यक्षत्वाव्याप्येन तदापादनायोगात् , व्यवधानानां च फलैकोन्नेयत्वात् , कुड्यादिविलक्षणव्यवधानं ध्वंसान्यथानुपपत्तिरेव गमयतीति न दोष इति / अथ ध्वस्त इति प्रतीतोल साश्रयत्वावगाहित्वे घटो ध्वस्त इतिवत्कपालं ध्वस्तमिति प्रतीत्यापत्तिः, कपाले घटध्वंस इति प्रतीत्याऽभेदेऽपि घटाभावे पटाभाव इतिवत्तत्र तदाश्रयत्वस्य निरपवादत्वादिति चेत्न , उत्पादत्वावच्छिन्नाश्रयत्वानवच्छिन्नताश्रयताया एव ध्वस्त इति प्रतीतिविषयत्वस्वीकारात् , ध्वस्त इति प्रतीतिः ध्वंसप्रतियोगित्वमेवावगाहतां किमनया कुसृष्टयति चेत्–न, प्रतियोगित्वस्य निर्वक्तुमशक्यत्वात् / प्रतियोगित्वनिर्वचनम् न च प्रतियोगिव्यवच्छेदकसम्बन्धेन स्वाभाववति तेन सम्बन्धेनासंबद्धत्वं प्रतियोगित्वं, समवायेन वयभाववति संयोगेन वनेः सम्बद्धत्वाद्वन्यभावप्रतियोगितायामव्याप्तिवारणाय सम्बन्धेनेत्यंतमन्योन्याभावप्रतियोगितायामव्याप्तिवारणायावृत्तित्वस्थानेऽसंबद्धत्वनिवेशः / न चाव्याप्यवृत्तेरभावस्य प्रागभायादेश्च प्रतियोगितायामव्याप्तिवारणायैकदेशकालावच्छेदेनेति विशेषणावश्यकत्वात्तदव्याप्त्यनुद्धार एव, तत्तदभावस्य देशतयानवच्छेदकेनानवच्छिन्नं सत् कालतयानवच्छेदकेनानवच्छिन्नं यत्तत्तदभाववत्संबन्धित्वं तदभावस्य तदर्थत्वात् / देशतया कालतयानवच्छेदकत्वं च तत्तदवच्छेदकतया तत्तदभावशून्यत्वं, नातो गोत्वाभावान्योन्याभावादेविशेषणतया वृत्ताववच्छेदकापसिद्धावपि क्षतिरिति वाच्यम्, सत्ताभावप्रतियोगित्वेऽव्याप्तेः, समवायेन सत्ताभाववति समवायेन संबन्धत्वाप्रसिद्धेः / प्रतियोगितावच्छेदकसंबन्धेन प्रतियोगिसंबन्धि यदधिकरणं तदवृत्त्यभावकत्वं प्रतियोगित्वमित्यभिधाने च व्यधिकरणसंबन्धावच्छिन्नाभावप्रतियोगितायामव्याप्तेः, तेन संवन्धेन प्रतियोग्यधिकरणाप्रसिद्धेः / अवृत्तित्वं चाभावतानियामकसंबन्धेन वाच्यमिति सत्तापतियोगित्वेऽव्याप्तेः, सत्ताभावरूपप्रतियोगिसंबन्ध्यधिकरणेऽभावतानियामकसमवायेन सत्ताया वृत्तेरप्रसिद्धेः / ___ यादृशसंबन्धसामान्ये / यद्धर्मावच्छिन्नप्रतियोगिकत्वयदभावाधिकरणत्वानुयोगिकत्वोभयाभावस्तद्धर्मवत्त्वं तद्धर्मावच्छिन्नतत्संवन्धावच्छिन्नतदभावप्रतियोगित्वमिति खण्डशः प्रसिद्धया लक्षणकरणे चाकाशादावाकाशत्वावच्छिन्ननिखिलाभावप्रतियोगित्वापत्तेः संयोगादिसामान्ये आकाशत्वाद्यवच्छिन्नप्रतियोगिकत्वनिखिलाभावाधिकरणानुयोगिकत्वोभयाभावसत्त्वात् , एवं संयोगाधवच्छिन्नघटाद्यभावप्रतियोगितायामव्याप्तेः संयोगस्य घटीयत्वाऽघटानुयोगिकत्वोभयवत्त्वात् , एवमव्याप्यवृत्तेः प्रागभावादेश्च प्रतियोगित्वेऽव्याप्तेश्च / अभावविरहात्मत्वं प्रतियोगित्वमित्युक्ता ... आ-३ For Private and Personal Use Only Page #18 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 18.] आत्मख्यातिः ........ वप्यन्योन्याभावप्रतियोगित्वतदवच्छेदकयोरप्रसक्त्यतिप्रसक्त्योः, विरहपदस्य. तज्ज्ञानप्रतिबन्धकज्ञानविषयार्थत्वे : प्रतिबन्धकत्वस्य चैककालावच्छेदेनैकत्रावर्तमानत्वग्रहेऽपि . व्यधिकरणसम्बन्धेन. सर्वस्य प्रतियोगिनस्तादृशभ्रमेऽन्यत्रापि स्वाभाववत्वेन ज्ञाते. सर्वत्र धर्मिणि प्रतियोगिमत्ताज्ञाने मानाभावात् / यद्धर्मावच्छेदेन यत्सम्बन्धावच्छिन्नयदभावप्रकारकज्ञानकालीनज्ञानीयप्रकारतासामान्ये तद्धर्मावच्छिन्नविशेष्यतानिरूपितत्वतत्सम्बन्धावच्छिन्नत्वोभयाभावस्तज्ज्ञानं तद्विरोधिवाच्यमित्युक्तावपि यदभावेत्यादौ षष्ठ्यर्थप्रतियोगित्वस्य दुर्वचत्वात् , तत्र स्वरूपसम्बन्धस्यैव शरणीकरणीयत्वेऽन्यत्रापि तस्यैवावश्यकत्वात् , तस्य च विनाश्रयमसंभवाद् ध्वंसकाले प्रतियोगिस्थितिसिद्धिः / हन्तैवं प्रतियोगितानुप्रवेशेन ध्वंसे घटादेखि घटे पटादेरपि भेदप्रतियोगितानुप्रवेशेन स्थितिप्रसंग इति सर्व सर्वात्मकमिति खण्डनमखण्डनीयं स्यादिति चेत्-न, तव्यत्वाद्रव्यत्वाभ्यां भेदात् स्यात्कारमुद्रया खण्डनस्य मण्डनत्वाच्च / यदा च पूर्वोत्तराकारपरित्यागोपादानतयैकं मृदादिवस्त्वध्यक्षतोऽनुभूयते तदा तत्तदपेक्षया कारणं कार्य विनष्टमविनष्टं उत्पन्नमनुत्पन्नं नामेति संमतिवृत्तिकृदादयः, तथा च बालयुवत्वाद्यवस्थाभेदेन शरीरद्रव्यमात्मद्रव्यं च त्र्यामकमिति सुव्यवस्थितम् / इदमेवानूदितं हरिभद्रसूरिभिः शास्त्रवासिमुच्चये लज्जते बालचरितैर्बाल एव न चापि तत् / युवा न. लेज्जते चान्यस्तैरायत्यैव चेष्टते // युवैव न च वृद्धोऽपि, नान्यार्थ चेष्टते च तत् / / अन्वयादिमयं वस्तु, तदभावोऽन्यथा भवेत् // इति बालत्वाद्याः . शरीरस्यैवावस्था नत्वात्मनस्तस्य सदाऽविचलितस्वरूपत्वादिति चेत्-न, अहत्वसामानाधिकरण्येन प्रतीत्यैतासामात्मधर्मत्वस्याप्यविरोधात् / अन्यथा बालत्वादिप्रयोज्यदोषगुणयोरात्मन्यनुपपत्तेः। हन्तैवं गौरोऽहमित्यादिधिया कायात्मनोरभेदः सिध्यन् चार्वाकमतं न प्रतिक्षिपेदिति चेत् - न, स्यात्कारस्यैव चार्वाकनैयायिकयोरुभयोरपि वारणे समर्थत्वान्मूगपतेरिव मृगवारणयोः ये तु प्रत्यभिज्ञाभिया बाल्यादिभेदेऽपि शरिरमप्येकमेवेत्येकान्तेऽभिनिविशन्ते / तदुक्तं पदार्थरत्नमालायाम् "परे तु तत्राश्रय एक एव प्रत्यभिज्ञानादिति मन्यमानाः परिमाणान्तरोत्पादमाहुरि "ति ते त्वबाधितभेदव्यवहारमेव नानुरुन्धते / अथ युवा न बाल इत्यत्र यूनि बालवैधर्म्यमेव भासते, तत्र ततो वृत्तिमान् भिन्नं चार्थः वृत्तिमति बालपदार्थस्य बालत्वावच्छेककालावच्छिन्नाघेयतया वृत्तिमतो भिन्ने तत्रैव च कालादेरप्यन्वय For Private and Personal Use Only Page #19 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आत्मनः शरीरपरिमाणत्वम् इतीदानी न बाल इत्यस्य - बालस्वविशिष्टवृत्तिमद्भिन्नैतत्कालीनधर्मवानित्यर्थः, युक्तं चैतन्न पृथगिति प्रतीतेस्तदवधिक पृथक्त्वाभाववद्र्व्यत्वेन तदन्योन्याभावाभावसिद्धेः, तदाहुायाचार्या: 'श्यामाद्रक्तो विधर्मा न तु पृथग' इति चेत्–न, प्राङ् न बाल इत्यस्याप्यापत्तेः, बाल्यकालावच्छेदेन बालवृत्तियों धर्मस्तद्भिन्नस्यं सत्त्वादेः प्राक्कालवृत्ते यूनि सत्त्वात् , ईदृशश्यामवैधय॑स्य श्यामनिष्ठत्वाच्छयामो न श्याम इत्यादेरपि प्रसंगात् / किं च भेदोऽप्यस्माकं नात्यन्तमतिरिक्तः, किंतु द्रव्यपर्यायात्मैवेति वैध→पर्यायमादाय न भेदप्रतीत्यपह्नवः। अन्यथा कथंचिच्छाब्दबुद्धयुपपादनेऽप्युक्तवैधर्म्यस्य प्रत्यक्षबुद्धौ कथमारोह इति विचारणीयम् / अत एव भेदानामभेदानां चापरिमितत्वादात्मनः शरीरपृथक्त्वाभावात्तद्धर्माभेदोऽप्यत्यन्तविशेषपर्यायं यावदवर्जनीय इति कथंचिन्मूर्तत्वेन तस्य शरीरानुप्रवेशादिकमपि नानुपपन्नम् / अनेनैवाभिप्राये एक आत्मेत्यादिसूत्रप्रसिद्धेः, 'अन्योन्यानुप्रवेशेन शरीरै क्यमापन्नस्यैव करणभेदेनानेकान्तात्रैविध्यसिद्धेः,बाह्याभ्यन्तरविभागस्य चेन्द्रियनोइन्द्रियबुद्धिमात्रकृतत्वेन शङ्गाग्राहिकयाऽव्यवस्थितः,उभयपर्यायाणां शरीरात्मद्वित्ववदविवेचनीयत्वादिति विभावनीयम् / यन्महावादी.--. अण्णुण्णाणुगयाणं, 'इमं च तव' ति विभयणमजुत्ते / जह दुद्धपाणियाणं, जावंत विसेसपज्जाया // स्वाइपज्जवा जे, देहे जीवदवियंमि सुद्धंमि / ते अण्णुण्णाणुगया, पण्णवणिज्जा भवत्थंमि // एवं 'एगे आया, एगे दंडे य होइ किरिया य' / करणविसेसेण तिविहजोगसिद्धी वि अविरुद्धे // // य बाहिरओ भावो, अब्भतरओ य अस्थि समयमि / णोइंदियं पुण पडुच्च, होइ अब्भंतरविसेसो // [सम्मतिप्रकरण काण्ड 1, गा. 47-50] न च शरीरसम्बन्धात्प्रागात्मनोऽमुर्तत्वं दुर्वारं संसारावस्थायां तदा तैजसकामणशरीरसम्बन्धाभ्युपगमात् , अन्यथा तत्तद्व्यवच्छिन्नस्थूलशरीरसम्बन्धायोगात्पुद्गलोपष्टम्भव्यतिरेकेणोर्ध्वगतिस्वभावस्य दिग्गमनासम्भवात् / मनुष्यशरीराधक्षणे आहारक्रियायाः पूर्वशरीरप्रयोग विनाsसम्भवात्प्रांगपि शरीरसम्बन्धसिद्धेः / शरीरवृद्धित्वावच्छिन्ने आहारस्य हेतुत्वं च लोकावगतमेव, शरीरवृद्धित्वं च शरीरत्वव्याप्यो जातिविशेषः, स्वविशिष्टौदारिकाद्यन्यतमत्वं वा। न चैवं लाघवांच्छरीरत्वावच्छिन्न एवाहारस्य हेतुत्वाद्विग्रहगतावप्याहारप्रसंग इति वाच्यम् , आगमानुपग्रहे लाघवस्याकिंचित्करस्वात् / किंचानादिशरीरबन्धनसिद्धावेव तन्नाशार्थ मुमुक्षोः प्रवृत्त्युपपत्तिः, For Private and Personal Use Only Page #20 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 20] आत्मख्यातिः स्थूलशरीरनाशस्यानात्यन्तिकत्वेनाकाम्यत्वात् / अपि च "अशरीरं वा वसन्त, प्रियाप्रिये न स्पृशत" इति श्रुतिरेवात्मनः शरीरसम्बन्धाभावस्य कालिके न सुखदुःखप्रागभावाभावव्याप्यत्वमवगाहमाना संसारावस्थायां सदा शरीरसम्बन्धसाक्षिणी / एतेन खण्डप्रलये शरीरसम्बन्धाभाववतामेवात्मनां सर्गादावुबुद्धवृत्तिकेनादृष्टेन जनितस्य शरीरस्य पुनः सम्बन्ध इति नैयायिकादिमतमपास्तम् / __अशरीरस्यादृष्टसम्बन्धे मानाभावात् , अन्यथा मुक्तावपि तत्प्रसंगात् / इष्यत एव शिरोमणिमतानुयायिभिर्मुक्तावप्यदृष्टं, तन्मते मोक्षस्यानुच्छिद्यमानसुखधारास्वरूपत्वात् / तस्याश्च विनश्यदवस्थमिथ्याज्ञानवासनासहकृततत्त्वज्ञानजनितादृष्टधारयैवोपपत्तेः / तस्याश्च न क्षणिकत्वं मिथ्याज्ञानवासनानाशनाश्यतावच्छेदकोटौ प्रारब्धेतरत्वत्तत्तददृष्टेतरख्वस्यापि दानादिति चेत्न , तन्मतस्यात्यन्तनियुक्तिकत्वात् , मुक्तौ नानादृष्टजन्यनानासुखाभ्युपगमे तद्वैचित्र्यप्रसंगात् / किंचैव वैषयिकमपि सुखं मुक्तौ प्रसज्येतादृष्टस्येव विषयाणामपि सुखे हेतुत्वावधारणात् / विषयजन्यतावच्छेदकजातिभिन्नैव जातिर्मुक्तिसुखे स्वीक्रियत इति चेत्त हिं तस्याऽदृष्टजन्यतावच्छेदकजातिभिन्नत्वस्वीकारे किं वञ्छिद्यते / एवं हि नानादृष्टादिकल्पनागौरवमपि परिहृतं भवति / तस्मान्नाशरीरस्यादृष्टम् / प्रलयनिरासः / प्रलयेऽपि मानाभावोऽहोरात्रत्वस्वाव्यवहिताहोरात्रपूर्वकत्वव्याप्यत्वात् / न चात्राव्यवहितसंसारपूर्वकत्वमुपाधिर्यथा वर्षादिनस्वेनाव्यवहितवर्षादिनपूर्वकत्वे साध्ये राशिविशेषावच्छिन्नरविपूर्वकत्वमुपाधिः, पक्ष एव साधनाव्यापकत्वेन, अस्य पक्षेतरतुल्यत्वाच्च / कालत्वस्य भोगव्याप्यत्वाच्च भोगरहितकाले न मानमस्ति, न हि कर्मणां विषमविपाकतया सर्वेषां युगपन्निरोधः संभवी। न च सुषुप्तिकाले कतिपयादृष्टनिरोधवत्कदाचित्समस्तादृष्टस्य निरोधस्यापि नानुपपत्तिरिति वाच्यम् , एकस्य सुषुप्तावप्यन्यस्य सुषुप्त्यभावात् , एकस्य समस्तादृष्टनिरोघेऽपि सर्वस्य तदसंभवात् , कतिपयसमस्तादृष्टनिरोधयोः स्वस्वदोषगुणविशेषप्रयोज्यत्वात् , कालविशेषस्य कालविपाकिकर्मोदये सहकारित्वेऽपि स्वस्वपरिणामस्य सर्वत्र प्रधानकारणत्वात् / किं च, प्रलय इति षष्ठारकस्यैव नाम, सर्वथा बीजाभावे पुनर्मनुष्याद्यनुत्पत्तिप्रसंगात् , अदृष्टविशेषमनुष्यजन्यतावच्छेदकमनुष्यनिष्ठजातिभेदकल्पने च महागौरवम् / अदृष्टे पापपुण्यरूपे सांकर्यात्तद्गतजातिरूपविशेषासिद्धेश्च / किं च प्रलये बीजाभावे आद्यप्रवर्तकपुरुषानुत्पत्त्या युगादौ संकेतग्राहकाभावाच्छाब्दव्यवहारानुपपत्तिः, घटादिनिर्माणनैपुण्यादर्शनाद् घटादिसंप्रदायोच्छेदश्च / न च तदेश्वर. एव प्रयोज्यप्रयोजकवृद्धीमय संकेतं आहयति, स एव च कुलालादिशरीरं परिगृध घटादिसंप्रदाय For Private and Personal Use Only Page #21 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आत्मनः शरीरपरिमाणत्वम् -[21 प्रवर्तयतीति वाच्यम् , शरीरत्वावच्छिन्नेऽदृष्टस्य हेतुत्वेनेश्वरादृष्टं विनेश्वरशरीरस्यैवानुत्पत्तेः / तदधीनोपदेशाद्यभावे न तेन व्यवहारस्य प्रवर्तयितुमशक्यत्वात् / न च चैत्रादृष्टान्मैत्रशरीरानुत्पत्त्या तदीयशरीरे तदीयादृष्टस्य विशिष्य हेतुत्वादीश्वरशरीरस्यादृष्टं विनाप्युत्पत्तौ न दोष इति वाच्यम् , तदीयतानिरूपकत्वसंबन्धेनात्मनिष्ठतया शरीरोत्पत्तावदृष्टस्य समवायेन सामान्यत एव हेतुत्वात् / एतेन भूतावेशन्यायादीश्वरस्य तत्तच्छरीरपरिग्रह इत्यपि निरस्तम्, भूतावेशस्यापि चैत्राद्यदृष्टोत्पा. दितशरीरे स्वादृष्टाधीनस्वात्मप्रदेशानुप्रवेश विनानुपपत्तेः, जगददृष्टेन भगवच्छरीरोत्पत्तिरिति तु बालिशभाषितं तेन मुक्तशरीरोत्पत्तेरपि वक्तुं शक्यत्वात् / किं च, प्रलयोत्तरसगै भगवत्सिसृक्षाया अपि परेण हेतुत्वं वाच्यम् , सिसृक्षा च सर्गसामग्रीसमवहितत्वविशिष्टेच्छेति मित्रैः प्रतिपादितम् , सामग्रीत्वं च नैकमिति सर्गाद्यघटोत्पत्तेः स्वसामग्रीसमव. हितत्वविशिष्टेश्वरेच्छाघटितस्वसामग्रयव्यवहितोत्तरक्षणत्वं व्याप्य वाच्यमिति महागौरवम् , तद्वरं घटसामग्रीत्वेनैव घटोत्पत्तिव्याप्यतया कालत्वस्य चघटसामग्रीव्याप्यतयाऽनन्तस्रष्टसंहर्तृशरीरादिकल्पनागौरवकलंकनस्तानन्तसर्गप्रलयाद्यकल्पनमेव / एतेन महाप्रलयोऽपि सुतरां निरस्तस्तत्र मानाभावात् / न च सर्वमुक्तौ सवात्पत्तिमन्निमित्तस्यादृष्टस्यापायात् सर्वभोक्तृप्रवृत्तौ प्रयोजनाभावाच्च न तदनन्तरं सृष्टिरस्ति / न हि . बीजप्रयोजनाभ्यां विना कार्योत्पत्चिरित्यर्थान्महाप्रलयसिद्धिरिति वाच्यम् , सर्वमुक्तावेव मानाभावात् / सर्वमुक्तिनिषेधः *तर्हि संसार्यकस्वभावा एव केचिदात्मान इति स्थितेऽहमपि यदि तथा स्यां तदा सम विफलं पारिव्रज्यमिति शङ्कया ब्रह्मचर्यादौ कश्चिदपि न प्रवर्ततेति विपक्षबाधकतर्कसहकृतदुःखसन्ततिरत्यन्तमुच्छिद्यते सन्ततित्वात्प्रदीपसन्ततिवदित्यनुमानमेव सर्वमुक्तिसाधकमिति चेत्–न, सन्ततिः खल्वेकजातीयमनेक वस्तु, तत्रैकजात्यं यदि सत्त्वादिना तदा मनसा . व्यभिचारात्, यदि च गुणत्वदुःखत्वादिना तदा दृष्टान्ते साधनवैकल्यात् , अयोग्यत्वशङ्कानिवृत्तेस्तु स्वव्याप्नभव्यत्वशङ्कामूलभव्यत्वनिश्चयादेव संभवेनोक्तयुक्तेनिर्मूलत्वात् / एतेन शमदमभोगानभिष्वंङ्गादिना मुमुक्षुचिहेन श्रुत्युदितेन न तच्छङ्कानिवृत्तिः, संसारित्वेनैव मोक्षं प्रति स्वरूपयोग्यत्वाच्छमादावपि संसारित्वेनैव हेतुत्वाच्चेति वर्धमानोक्तमप्यपास्तम् , संसारित्वस्य नित्यज्ञानादिमद्भिन्नात्मत्वरूपस्य नानाबाद्गुरुत्वाच्च, लाघवाद्भव्यत्वस्यैव मुक्तिशमादिस्वरूपयोग्यतावच्छेदकत्वकल्पनात् / एतेन आमादेः श्रुतौ सहकारित्वेन बोधनान्न स्वरूपोग्यतावच्छेदकत्वं शमादिसंपन्नत्वेन च न मोक्षाधिकारिता, श्रुतिसंकोचापत्तेः / शमादिसंपत्तेरधिकारनिश्चयस्ततश्च तदर्थप्रवृत्तौ शमादिसंपतिरियुक्तावपि व क्षतिः, भन्यत्वस्यैव स्वरूपयोग्यतावच्छेदकत्वाधिकारिविशेषणत्वसंभवात् , भवान्तरीय For Private and Personal Use Only Page #22 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 22] - आत्मख्यातिः / पाच / वासनाधीनानतिशयितशमादिना प्रवृत्त्युत्तरमतिशयितशमादिसंपत्तिसंभवात् , शमादिसंपन्नत्वेनाधिकारित्वेऽप्यन्योन्याश्रयाभावाच्च / किंच, सर्वमुक्त्युपगमे प्रतिकल्पमेकैकस्यापि मुक्तावनन्तकल्पविगमेऽनन्तजीवानां मुक्ताविदानी संसारोच्छेदप्रसंगः / ननु कृतमेव तत्राचार्यैः समाधान, सत्यमनन्ता एवापवृक्ता न तु सर्वे, संप्रति संसारस्यानुभविकत्वादितीति चेत् , सत्यं कृतमेव, न तु सम्यग्विचार्य कृतं, कालानन्त्यसंख्यातो जीवानन्त्यसंख्याया अतिशयिताया अनभ्युपगमे दृष्टबाधाया एवोद्धर्तुमशक्यत्वात् / तदुपगमश्च न परार्धपर्यन्तसंख्यावादिनां मिथ्या समसंख्यातानन्तादिविभागस्य जिनशासन एव सिद्धत्वात् / ___किं च, प्रथमसृष्टेः पूर्व शरीराद्यधीनादृष्टाभावेऽपि यथात्मनां भगवदिच्छामात्रेण स्वन्मते शरीरेन्द्रियादिसंपर्कस्तथा महाप्रलयानन्तरमपि कथं न तत्संभवः ? प्रथममुक्तस्येवानन्तरमुक्तस्यापि भोगादेर्भगवतैव संपादयितुं शक्यत्वात् / कालानादित्वात् सृष्टिप्रलयधारा प्रवाहतोऽनादिरेवेष्यत इति चेत् , तर्हि कालानन्तत्वेन साऽनन्ताप्येष्टव्येति दत्तो महाप्रलयाय जलाञ्जलिः / . किं च महाप्रलये हेतुरपि दुर्वचः / न चेश्वरप्रयत्नवदात्मसंयोगजैरणुकर्मभिर्विभागद्वारा शरीरेन्द्रियारम्भकाणुसंयोगध्वंसे तेषां परमाण्वन्तो विनाशः, तथैव पृथिव्यादेः, चरमद्वयणुकनाशानुगुणपरमाणुक्रियाया जन्यद्रव्यरूपोत्तरदेशसंयोगात् / अस्य चाश्रयनाशाच्चरमादृष्टस्य चरमभोगादिति क्लुप्तनाशकादेव सर्वनाशे महाप्रलयोत्पत्तिसंभवः इति वाच्यम् , तत् क्रिया गणनादिनापि परमाणुसंयोगजननसंभवेन तत्संयोगनाशानुपपत्तेः / अथान्यस्य क्लप्तनाशकादेव नाशः परमाण्वाकाशादिसंयोगचरमदुःखसाक्षात्कारजनकात्ममनोयोगनाश एव च चरमादृष्टनाशे हेतुः / वस्तुतो युगपदेव तत्कालीननिखिलकार्यनाशे चरमभोगनाश्यादृष्टनाश एव हेतुः / इत्थं हि चरमदेशानां नाशस्यैक्याल्लाघवमपि। न च दिनियमाय स्वाश्रयनाशहेतुत्वमावश्यकं, तत्तत्प्रतियोगिहेतुत्वेनापि तन्नियमोपपत्तेः / भिन्नदिक्कालानामप्येकनाशस्वीकारे तदा प्रतीत्यादिविरोधसंभावनाभावाच्चेति चेत् -- न, भोगेऽदृष्टनाशे च चरमत्वस्यैवासिद्धेः, सिद्धौ वा सर्वात्मनां तद्योगपद्ये नियामकं वाच्यम् / खण्डप्रलयनिमित्तादृष्टेन युगपदखिलात्मशरीरेन्द्रियादिनिमित्तादृष्टवृत्त्यनुद्द्बोधवद् युगपदखिलात्मचरमभोगचरमादृष्टनाशहेतुमहाप्रलयनिमित्तादृष्टस्य स्वीकर्तुमशक्यत्वात् , स्वभावस्यैव नियामकत्वे च गतमीश्वरादिनापि / ईश्वरेच्छायाश्च हेतुत्वं तत्तत्सामग्रीघटितत्वेनात्माश्रयादिदोषग्रस्तम् / तत्कालावच्छिन्नतद्देशावच्छिन्नविशेषणतया तद्धेतुल्वमप्येककारणपरिशेषादिकलंकितमिति न किंचिदेतत् / तस्मादनाद्यनन्तमेव जगत् / संसारिणश्च सतः सशरीरत्वमेव सशरीरस्य कथंचिन्मूर्तत्वमेवेति व्यवस्थितम् / For Private and Personal Use Only Page #23 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आत्मनः शरीरपरिमाणत्वम् [23 अथ शरीरात्मनोस्तादात्म्ये शरीरावयवच्छेदे आत्मावयवस्यापि छेदप्रसक्तिरिति चेत्-न, कथंचित्तादात्म्ये कथंचिच्छेदस्याप्यभ्युपगमात् , अन्यथा शरीरात्पृथग्भूतावयवस्य कम्पोपलब्ध्यनुपपत्तेः / न च छिन्नावयवानुप्रविष्टपृथगात्मत्वप्रसक्तिस्तत्रैव पश्चादनुप्रवेशाभ्युपगमात् / अत एव तदनन्तरं न छिन्नावयवकम्पोपलब्धिः / कथं छिन्नाछिन्नयोः पश्चात्संघटनमिति चेत्–न, एकान्तेन छेदस्याप्यनभ्युपगमात् , पद्मनालतन्तुवदविच्छेदस्यापि दृष्टेः, संघटनस्यापि तथामूतादृष्टवशादविरुद्धत्वात् / न चात्मनः शरीरतादात्म्येन सावयववत्त्वे प्राक्प्रसिद्धसमानजातीय-* कपालसंयोगपूर्वको मृत्पिण्डात्प्रथममेव स्वावयवसंयोगाद्यात्मनस्तस्य प्रादुर्भावदर्शनात् / ननु नैतद् युक्त, भावकार्यमात्रेऽसमवायिकारणस्य हेतुत्वेन - कपालसंयोग विना घटानुत्पत्तेरिति चेत्-न, असमवायिकारण एव मानाभावात् / असमवायिकारणनिर्वचननिरासः यन्निवृत्त्यवच्छिन्ना यदुत्पत्तिस्तत्तस्य समवायिकारणमितरच्च निमित्तमिति यौगिकसंज्ञया निमित्तकारणस्यैवासमवायिकारणपदेनाभिधानात् / तथा चोक्तं कारणविभागे भाष्यकृता “समवाइअसमवाई, णेमित्तियमेव य णिमित्तमिति / " परिभाषाऽप्यसमवायि कारणस्य परैः कर्तुमशक्या / तथाहि किं नामासमवायिकारणत्वम् न तावत्कायैकार्थप्रत्यासत्या कारणत्वं, तन्तुरूपादौ पटरूपादेस्तदभावात् / नापि कारणैकार्थप्रत्यासत्या तत्त्वं, शब्दे शब्दस्य तदभावात् / नापि कार्यकारणभावनिरूपकसंबन्ध्येकार्थसमवायित्वावच्छिन्नकारणावं तत् , संयोगादेविभागादिकं प्रति, तुरीतन्तुसंयोगादेश्च पटादिकं प्रत्यसमवायिकारणत्वापत्तेः / न च संयोगादिकमपि किंचित्कार्यासमवायिकारणं भवत्येव, कार्यविशेषासमवायिकारणत्वलक्षणे तु तत्तत्कारणान्यत्वमपि निवेश्यमिति वाच्यम् , निमित्तपवनाकाशसंयोगमनोगगनसंयोगादेः कार्यमात्रासमवायिकारणभिन्नस्य शब्दविभागाद्येकार्थसमवायप्रत्यासत्त्या हेतोरसमवायिकारणत्वापत्तेः, ज्ञानादेरिच्छाद्यसमवायिकारणत्वापत्तेश्च / न चात्मविशेषगुणान्यत्वे सति कार्यकारणान्यतरैकार्थप्रत्यासत्तिगर्भकारणत्वाभावव्याप्यजात्यसमानाधिकरणधर्मसमवायित्वं तत् , तादृशकारणत्वाभावव्याप्यं च परत्वापरस्वबुद्धिपृथक्त्वत्वादिकं तदसमानाधिकरणं रूपत्वैकपृथक्त्वादिकं तत्समवायित्वं रूपादेरिति लक्षणसमन्वयः / मनोगगनसंयोगादयस्तु 1) * एतत्संवादिनी न्यायालोकपाठस्यानुसारेणात्र “समानजातीयावायवारभ्यत्वप्रसक्तिरिति वाच्यम् , तथा मात्यसिद्धे, घटादिना व्यभिचारात् / घटादिहि सावयवोऽपि न तन्तुवत्प्रासिद्धसमानजातीयकपालसंयोग" इति पाठस्य संयोजनेनार्थसंगतिः स्पष्टा जायते। .. For Private and Personal Use Only Page #24 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir *] ... आत्मख्यातिः सामान्यतो * भवन्त्येवासमवायिकारणानि, विशेषे तु पूर्वोक्तैव गतिरिति वाच्यम् , निमित्तपवन. संयोगादिवदणुत्वपरत्वयोरपि सामान्यतस्तद्वयवहारभाजोख्याप्तेः / ___ नाप्यात्मविशेषगुणान्यत्वे सति कार्यकारणैकार्थप्रत्यासत्त्या कारणत्वं तत्त्वं, कारणं समवायि तेन तेजःसंयोगायेकार्थसमवेतस्योष्णस्पर्शादेर्न पाकजादिकं प्रत्यसमवायित्वं, यद्यत्कार्यस्य तादृशप्रत्यासत्या कारणे यत्र नासमवायिकारणत्वव्यवहारस्तत्तत्कार्यप्रतियोगिकतवृत्तिभिन्नत्वेन कारणत्वंविशेषणान्न तुरीसंयोगादावतिव्याप्तिः, विभागप्रतियोगिकसंयोगवृत्तिभिन्नत्वपटादिप्रतियोगिकतुरीतन्तुसंयोगादिवृत्तिभिन्नत्वादिनाऽविशेषणान्न पटत्वादिप्रवेशादननुगम इति निष्कर्षोऽपि युक्तः, भेदप्रतियोगितावच्छेदककोटौ तत्त्कार्यप्रतियोगिकत्वादेविशिष्यनिवेशेऽननुगमस्य दुर्वास्त्वात् , अखण्डभेदनिवेशे चेतरविशेषणोपादानक्लेशस्यापि निरर्थकत्वात् , सामान्यतो विशेषतश्चान्यापोहाभ्यामेव तथा तथाऽसमवायिकारणत्वव्यवहारसंभवादिति यत्किचिदेतत् / अथास्तु यत्किंचिदसमवायिकारणत्वं, न हि तेन जन्यभावत्वावच्छिन्नहेतुता, किंतु जन्यद्रव्यत्वाद्यवच्छिन्ने विजातीयसंयोगत्वादिनेति। न च कपालयोः संयोगविशेषाद्रव्यान्तरोत्पत्तौ घटोत्पत्तिवारणाय घयादिजनकतावच्छेदकः संयोगनिष्ठो जातिविशेषोऽवश्यं स्वीकरणीयस्तासामेवोत्तरकालं संयोगविशेषेण घटारम्भदर्शनात् , तत् कपालत्वमेव नास्तीति वक्तुमशक्यत्वात् , तथा च जन्यद्रव्यजनकतावच्छेदकजातौ मानाभाव इति वाच्यम् , तथापि जलज्वलनादिद्वयणुकादिजनकतावच्छेदके मानाभावात्सामान्यतो जन्यद्रव्यजनकतावच्छेदकजातिकल्पन एव लाघवात् , तदाश्रयजलादिसंयोगे सति जलाधुत्पत्तौ विलम्बाभावात् , तथा च कपालसंयोग विना कथं घटोत्पत्चिरिति चेत्न , संयोगकर्मजन्यतावच्छेदकजातिभ्यामंभिघातत्वनोदनात्वाभ्यां च परापरभावानुपपत्त्या जन्यद्रव्यजनकतावच्छेदकजातेरेवासिद्धेः / अथ संयोगादिजन्यतावच्छेदकजातीनामेतज्जातिव्याप्यत्वस्वीकारान्न दोषः। न च विनिगमनाविरहः द्रव्यजनकतावच्छेदकजातेनोदनात्वादिव्याप्यत्वे तदाश्रयजन्यद्रव्ये जातिविशेषो. वाच्यः, सोऽपि विशेषो घटत्वपटत्वादिना परापरभावानुपपत्त्या घटत्वादिव्याप्यः स्वीकरणीय इत्यनन्तकार्यकारणभावापत्तेः / , अभिघातत्वादीनां नानात्वे च कर्मादिनिष्ठं तज्जनकतावच्छेदके जातिचतुष्टयमेव कल्पनीयमिति लाघवस्य विनिगमकत्वात् / वस्तुतो द्रव्यासमवायिकारणं संयोगः कर्मज एव, न संयोगजः / किमत्र विनिगमकमिति चेत् , परमाणोस्त्रसरेणोर्वा समवेतद्रव्यं प्रत्यसमवायिकारणस्य संयोगजत्वानुपपत्तिरेवेत्यतिलाधवमिति चेत् ? हत ! यद्येवं लाघवे दत्तदृष्टिर्भवान् तर्हि जन्यद्रव्यत्वं द्रव्यत्वं वा न जन्यतावच्छेदकं किंतु त्वदभिमतगुणकर्मादिसाधारणं, तथा चोत्पादव्ययपरिणामा गुणानामेव न द्रव्यस्येत्यस्मन्मतमेव किमिति नाश्रीयते ! - For Private and Personal Use Only Page #25 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आत्मनः शरीरपरिमाणत्वम् [25 गुणमात्रवृत्त्युदयव्ययपरिणामनिषेधः हन्तेदं नव्यनास्तिकमतमेव तथा च तदुपगमः - सन्त्यणवो नित्यास्तथापि संयुक्ताणुद्वयं हृयणुकं संयुक्ताणुषट्कं त्र्यणुकं संयुक्ताणुचतुर्विशतिकं चतुरणुकमित्याद्यस्तु / लौकिकविषयतया द्रव्यसाक्षाकारत्वावच्छिन्ने त्र्यणुकत्वादिघटकसंयोगानां पिशाचत्वादिघटकसंयोगभिन्नानां वैजात्येन कारणत्वान्न केवलाणुव्यणुकादेः प्रत्यक्षता / न च वैजात्यकल्पने गौवं, त्वया द्रव्यारम्भकतावच्छेदकत्वेनाभिमतस्यैव मया पिशाचाद्यारम्भकत्वाभिमतसंयोगव्यावृत्तत्वस्वीकारात् / न च कार्यतावच्छेदकगौरवं द्रव्यनिष्ठलौकिकविषयतायां सम्बन्धत्वावश्यकत्वे साक्षात्कारत्वस्यैव तत्त्वसंभवात् / एवं हि महत्वोद्भतरूपयोर्द्रव्यसाक्षात्कारे पृथग्धेतुत्वाकल्पनालाघवम् , तादृशसंयोगविशिष्टवृत्तित्वादिकं गुणादिप्रत्यक्षे तन्त्रमिति केवलाणुव्यणुकादिगुणाप्रत्यक्षत्वेऽपि न त्र्यणुकादिगुणाप्रत्यक्षत्वम् / .. न च तन्तुनामेव पटत्वे तन्तुषु पट इत्यादिधीन स्यात् स्याद्वा तन्तुषु तन्तुरित्यादिकमपीति शङ्कनीय, फलबलेन विलक्षणसंयोगवत्त्वरूपतन्तुत्वादेरेव विलक्षणसंयोगत्वरूपपटत्वादिविशिष्टाधारतावच्छेदकत्वस्वीकारात् / पट उत्पन्नः पटो विनष्ट इत्यादिप्रतीतिस्तु शिखी विनष्ट इत्यादिप्रत्ययवद्विशेषणस्य पटत्वादिघटकसंयोगस्योत्पादविनाशविषयका / . एकः पट इति प्रतीतिरेकं वनमित्यादिवत्समूहैकत्वविषया / एतेन पटो महानिति प्रतीत्यनुपपत्रिणूनां महत्वासंभवादिति परास्तम् , समूहमहत्त्वबुद्धौ संयोगविशेषस्यैव विषयत्वात् / इत्थमेव महान् धान्यराशिरिति प्रयोगः सूपपादः / त्रुटावेव विश्रामे तु त्रुटिपुञ्ज एव घटादिरिति नानुपपत्तिलेशोऽपि / -अथ नानांशुक्रिययांशुसंयोगनाशात्तन्तुनाशस्तन्नाशात्पटनाश इति संभवति / तव मते तु नायं संभवो विलक्षणसंयोगवत्तावदणुपुञ्जात्मकस्य पटस्य यत्किचिन्नाशेऽपि नाशाभ्युपगमे विलक्षणसंयोगवत्तावदणुत्वस्य पटत्वादिरूपत्वे तावत्वस्य विलक्षणद्वयत्वादिरूपस्य प्रतिसन्धानं विना पटत्वादिप्रत्ययानुपपत्तेः / विलक्षणसंयोगत्वादिकमेव पटत्वतन्तुत्वादिकमित्युपगमे चाशुक्रिययांशुसंयोगनाशात्तन्तुनाशस्थले पटत्वघटकविजातीयसंयोगनाशानुपपत्तिस्तदवच्छेदकाक्च्छेदेनांशुक्रियाभावादिति चेत् , न, अनायत्या पटत्वघटकविजातीयतत्संयोगनाशे तन्तुत्वघटकतत्संयोगनाशत्वेन - हेतुत्वस्वीकारात् , इत्थमप्यन्तरा. तन्त्वादिनाशाकल्पने लाघवादिति चेत् / नन्विदं नव्यनास्तिकत्वं स्वीकुर्वतां नैयायिकानां मतं नास्माकम् , वयं हयेवं बमोऽपरित्यक्ताजनकावस्थास्वभावानां परमाणूनां न द्वयणुकादिजनकत्वं, न वा द्वयणुकत्वादिघटकस्य तज्जननेऽतिशयरूपस्य वा संयोगस्य जनकत्वं तत्राप्यतिशयान्तरापेक्षायामनवस्थानात् / न च तदुत्पत्तौ क्रियैवातिशयस्तदुत्पत्तावप्यतिशयान्तरापेक्षाया अविरामात् / अदृष्टवदात्मसंयोग एव तत्राप्यतिशय इति चेत्तत्राप्यदृष्टवृत्युबोधादिकारणं गवेषणीयमेवेत्यवश्यं स्वभावभेद आश्रयणीयः / आ-४ For Private and Personal Use Only Page #26 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 26] आत्मख्यातिः ___यदि च परमाणवः स्वरूपापरित्यागतः कार्यद्रव्यमारभन्ते स्वात्मनोऽव्यतिरिक्तं तदा कार्यद्रव्यानुत्पत्तिप्रसक्तिः / न हि कार्यद्रव्ये परमाणुस्वरूपापरित्यागे स्थूलत्वस्य संभवस्तस्य तदभावात् / स्वसमवेतव्यतिरिक्तकार्योत्पादस्तु समवायनिरासादेव वक्तुमशक्यः / किंचात्र पक्षे भूयस्योऽनुपपत्तयस्तथाहि___ कारणगतनीलादिना कार्यगतनीलादिवत्कारणगताणुत्वाकार्यगताणुस्वस्योत्पत्तिप्रसंगः, न चेष्यत एव परमाणुजन्यद्वयणुके जन्याणुत्वमितीष्टापचिरिति वाच्यं, व्यणुकादावपि तत्प्रसंगात् / प्रकृष्टपरिमाणसामग्र्या च प्रतिबन्धात्व्यणुके नाणुत्वोपपत्तिरिति चेत् , तर्हयवयवबहुत्वमेवाणुत्वप्रतिबन्धकमित्यागतं तथा चोदासीनं(?)मादाय बहुत्ववत्परमाणुद्वयारब्धेऽणुत्वानुपपत्तिप्रसंगः / स्वपर्याप्तिमत्समवेतत्वसम्बन्धेनैव बहुत्वमणुत्वप्रतिबन्धकमिति चेत् , तथापि ह्यणुकाभ्यामारब्धं किंचिद द्रव्यं स्यात् / द्वयणुकाभ्यां नारम्भः प्रयोजनाभावादिति तु स्वगृहगोष्ठिमात्रं, एवं हि परमाणुभ्यामपि द्वयणुकं नारभ्यते किन्तु त्रिभिस्त्र्यणुकमित्युक्तावपि कः प्रतीकारः ? न च प्रयोजनक्षतिभिया सामग्रीकार्य नार्जयति / किंच त्रिभिद्यणुकैस्त्र्यणुकारम्भकालेऽपि द्वाभ्यां सामान्यसामग्र्या द्रव्यमारभ्य तत्राणुत्व मुत्प(पा.)द्यतां, एतेन त्रिभिः परमाणुभिस्यणुकजननपक्षेऽपि चणुकोत्पत्तिकाले व्यणुकोत्पत्तिरापादयितुमशक्या द्वयणुकत्वस्य कार्यतावच्छेदकत्वात् , अन्यथा त्रिकपालघटस्थलेऽपि द्वाभ्यां द्वाभ्यां घटान्तरोत्पत्यापत्तेरिति केषांचित् समाधानं निरस्तम् , द्वाभ्यां द्वाभ्यामणुभ्यां द्रव्यारम्भे तत्र चाणुत्वोपपत्तिसंभवेऽर्थत एव तदा व्यणुकोत्पत्यापत्तेः। - अथ द्वषणुकत्रयसंयोगानां संभूयैव कार्यजनकत्वान्नोक्त दोष इति चेत् , तर्हि परमाणुत्रयसंयोगस्थलेऽप्येवं कल्पनया गतं द्वयणुकजन्याणुत्वाभ्याम् / अस्त्वयमेव पक्षः परिमाणत्वेनैव महत्वासमवायिकारणकारणत्वौचित्यादिति चेत् , न, तथापि परमाणूनां तथा तथा कार्यत्वपरिणत्यनभ्युपगमें परमाणुत्रयजन्यव्यणुकादेकपरमाण्वपगमेऽनिर्वचनीयद्रव्यप्रसंगात् / अयमेव दोषों द्वयणुकत्रयजन्यत्र्यणुकपक्षेऽपि द्वयणुकस्य परमाणुत्रयादेर्वाऽपगमेऽप्युद्भावनीयः / अवयवायविनोरेकान्तभेदस्य निराकरणम् ___किंचावयवेभ्योऽवयविन एकान्तभेर्दै एकदेशरागे सर्वस्य रागः स्यादेकदेशावरणे च सर्वस्यावरणं भवेद्रक्तारक्तयोरावृतानावृतयोश्च भवदभ्युपगमेनैकत्वात् / यत्त्वेकस्मिन् भेदाभावे सर्वशब्दप्रयोगानुपपत्तिरित्युद्योतकरेणोक्तं तत्तु स्वशस्त्रं स्वोपघातायैवेति न्यायमनुसृतम् , एकान्ताभिनिवेश एव सर्व वस्त्रं रक्तं किंचिद्वस्त्रं रक्तमिति सार्वजनीनव्यवहारविलोपादनेकान्तवादिनां तु स्कन्ध For Private and Personal Use Only Page #27 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आत्मनः शरीरपरिमाणत्वम् [27 देशादिभेदेन तदुपपत्तेः / न च सर्वत्वमपेक्षाबुद्धिजन्यमशेषत्वरूपमिति वस्त्रपदस्य वस्त्रावयवे लक्षगया तत्र सर्वपदप्रयोगो नानुपपन्न इति वाच्यम् , अस्खलवृत्तित्वात्तप्रयोगस्य / यदपि शंकरस्वामिनोक्तं-वस्त्रस्य रागः कुंकुमा दिद्रव्येण संयोग उच्यते स चाव्याप्यवृत्तिस्तत एकत्र रक्ते न सर्वस्य रागो न च शरीरादेरेकदेशावरणे सर्वस्यावरणं युक्तमिति / तदप्ययुक्तं पटादेनिरंशस्यैकद्रव्यस्य कुंकुमादिना व्याप्ताव्याप्तंशाभावेन तत्र संयोगाव्याप्यवृत्तित्वस्यासंभवदुक्तिकत्वात् , तदारम्भकावयवस्यैव रक्तत्वे च न तस्य किंचिदव्याप्यवृत्तित्वं नाम, अवयवं व्याप्यैव रागस्य वृत्तेरवयविनश्चारक्तत्वादेव। न च स्यादित्थमवयविनि रक्तत्वप्रतीतिः / अथ तत्तदवयवे कुंकुमसंयोगाख्यो रागो जातस्तत्तदवयवावच्छेदेनावयविनी रागं जनयति कारणाकारणसंयोगात् कार्याकार्यसंयोगोत्पत्तेः अतस्तस्याव्याप्यवृत्तित्वरूपमवच्छिन्नत्वं युक्तमिति चेत् , न, तत्रावयवावयविवृत्तिक्रमोत्पद्यमानरागद्वयानुपलम्भात् / क्रमिकनानावयवसंयोगैरवयविनि संयोगस्य प्रतिबन्धकस्य सत्त्वे संयोगजसंयोगस्य जनयितुमशक्यत्वात् , तत्तत्संयोगजसंयोगत्वेन तत्तत्संयोगजसंयोगप्रतिबन्धकत्वे गौरवेण / संयोगजसंयोगे मानाभावाच्च / संयोगजसंयोगप्रत्याख्यानम् दुर्वचं च संयोगे संयोगस्य हेतुत्वं न हि संयोगसामान्ये संयोगो हेतुः कर्मजसंयोगे व्यभिचारात्, न च विजातीयसंयोगे संयोगस्य हेतुत्वं कार्यैकार्थसमवायेन तत्त्वे घटाकाशसंयोगस्य घटेऽपि सत्त्वे न तत्र कपालाकाशसंयोगस्याभावेन व्यभिचारात् , कारणैकार्थसमवायेन तत्त्वे चाकाशेऽपि घटाकाशसंयोगसत्त्वेन तत्र च कारणैकार्थसमवायाभावेन व्यभिचारात् / न च यत्र घटाकाशसंयोगाव्यवहितपूर्वक्षणत्वं तत्र कालिकसम्बन्धेन कपालाकाशसंयोग इति कालिकव्यापकतैव कारणताघटिकेति वाच्यं, तथापि घटपटसंयोगे तन्तुघटसंयोगस्येव कपालपटसंयोगस्यापि हेतुत्वेन व्यभिचारात् / न च तन्तुघटसंयोगाजन्ये तत्र कपालपटसंयोगो हेतुः कपालपटसंयोगाजन्य एव तन्तुघटसंयोगस्य हेतुताया वाच्यतयान्योन्याश्रयात् / न च विजातीये घटपटसंयोगे तन्तुघटसंयोगस्य तद्विजातीये च तत्र कपालपटसंयोगस्य हेतुत्वोक्तावपि निस्तारः, कालिकसम्बन्धेन हेतुत्वे कर्मजसंयोगस्थलेऽप्युक्तसंयोगस्यानन्त [सं.] सारे क्वचित्सत्त्वेन वैजात्यस्याव्यावर्तकत्वात् / स्वाश्रयंसमवेतत्वेन समवायेन वा तत्त्वे घटपटयोः पटघटयो, व्यभिचारात् / ... एतेन 'स्वाश्रयसमवेतत्वसमवायान्यतरसम्बन्धेन तद्धेतृत्वमप्यपास्तं तन्तुकपालयोरपि ताटसंघटपटसंयोगोत्पत्तिप्रसंगात् , घटपटसंयोगत्वावच्छिन्ने घटपटयोविशिष्य हेतुत्वेन तद्वारणं तु तदसिद्धेरेव दुर्वचम् / एतेनैव-घटवृत्तित्वविशिष्टसमवायेन विजातीये घटपटसंयोगे समवायेन तन्तुघटसंयोगो हेतुः पटवृत्तित्वविशिष्टसमवायेन च तत्र स्वाश्रयसमवेतत्वसम्बधेन स हेतुरित्यादिरित्येकत्रैव सम्बन्धभेदेन For Private and Personal Use Only Page #28 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 28] आत्मख्यातिः कार्यकारणभावद्वयमित्यपि निरस्तं, तन्तुघटसंयोगस्य समवायेन तन्तावपि सत्त्वेन तत्रापि घटवृत्तित्वविशिष्टसमवायेन विजातीयटघपटसंयोगोत्पत्त्यापत्त्यावारणात् , घटवृत्तित्वविशिष्टसमवायेन कार्यत्वावच्छिन्ने तादात्म्येन घटत्वादिना हेतुत्वकल्पने तु महागौरवम् / तन्तुप्रतियोगिकत्वविशिष्टघटपटसंयोगत्वादिना हेतुत्वेऽपि न निस्तारस्तन्त्वनुयोगिकघटसंयोगादपि घटपटसंयोगोत्पत्यभ्युपगमात् / ____किंच तन्तुघटसंयोगसमानकालोत्पत्तिककपालपटसंयोगजन्ये घटपटसंयोगे वैजात्यस्य सांकर्यम् / उभयजन्यतावच्छेदकजात्यन्तरस्वीकारे तदवच्छिन्नोत्पत्तिकाले प्रत्येकजन्यतावच्छेदकावच्छिन्नोत्पत्यापत्तिः / अन्यतरजन्येऽन्यतरस्य प्रतिबन्धकत्वे तु महागौखम् / अवच्छेदकभेदेन संयोगनानात्वाभ्युपगमस्त्वतिप्रसक्त इति न किंचिदेतत् / कर्मजन्यसंयोगस्य निराकरणम् 'एतेन कर्मजन्यसंयोगे कर्मणो हेतुतापि पराभ्युपगमनीत्या निरस्ता बोध्या तथाहि संयोगसामान्ये न कर्मणो हेतुता संयोगजसंयोगे व्यभिचारात् / न च तव्यावृत्तसंयोगनिष्ठवैजात्यावच्छिन्नं प्रति कर्मणो हेतुत्वं शरादिकर्मणाकाशे संयोगोत्पत्या तथापि व्यभिचारात् / क्वचिदेकतरकर्म क्वचिच्चोभयकर्महेतुरिति तु कार्यविशेषं विना दुर्वचम् / न चाम्युपगम्यत एव कार्यविशेष इति विजातीयसंयोग प्रति उभयकर्मत्वेन तद्विजातीयसंयोग प्रति चैकतरकर्मत्वेन हेतुतेति वाच्यं, घटं प्रति उभयदण्डत्वेनेव संयोगं प्रत्युभयकर्मत्वेन हेतुताया अप्रसिद्धेः / न च समवायेन विजातीयसंयोगे व्याप्यतासम्बन्धेन कर्मणो हेतुतयैवोभयकर्मणो हेतुत्वमिति साम्प्रतम् , 'तद्वयक्तित्वेन व्याप्यतया कर्मणोऽन्यतरकर्मजसंयोगस्थलेऽपि सत्वात्कार्यघटितव्याप्यतासम्बन्धेन च हेतोः कार्यात् पूर्वमसत्त्वेन तस्य कारणतानवच्छेदकत्वात् / . एतेन-विजातीसंयोगं प्रति कर्मत्वेनैव हेतुता तत्र, यद्यपि यत्र विजातीयः संयोगः समवायेन तत्र कमैंतादृशव्यापकताव्यभिचारेण न सिद्धा / तथापि यत्र तादात्म्येन विजातीयसंयोगस्तत्र सामानाधिकरण्येन कमैतादृश्येव व्यापकता कारणताघटिकेति प्राचां प्रलापा निरस्ताः। कार्यघटितसम्बन्धेन कर्मणः पूर्वकाले [ कालेऽसत्त्वेनै—] सत्त्वेनैतादृशन्यापकताया असंभवात् / ___ अथ यत्र कार्यतावच्छेदकसम्बन्धेन कार्योत्पत्तिस्तत्र तदव्यवहितपूर्वक्षणे कारणतावच्छेदकसम्बन्धेन कारणमिति नियमः / कारणताघटको यद्यप्यन्यत्र प्रसिद्धस्तथापि प्रकृते यदी यत्र तादात्म्यसम्बन्धेन विलक्षणसंयोगोत्पत्तिस्तदा तत्र तदव्यवहितपूर्व क्षणावच्छिन्नस्वसमवायाधारतावत्समवेतत्वसम्बन्धेन कर्मेति नियमस्यैव कारणताघटकत्वं कार्यभेदेन कारणताशरीरभेदात् / क्रियोत्पत्तिसमकालं For Private and Personal Use Only Page #29 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आत्मनः शरीरपरिमाणत्वम् 29] संयोगोत्पत्तिवारणायावच्छिन्नान्तमाधारताविशेषणं, पूर्वसंयोगस्य प्रतिबन्धकत्वेन तदानीं संयोगोत्पत्तिवारणे तु नोपादेयमेव तत् / तद्वयक्तिनिष्ठतत्कालपूर्वोत्पन्नमूर्तान्तरक्रियाधीनमूर्त्तान्तरसंयोगव्यक्तिषु तत्कालपूर्वोत्पन्नासु तदानीमुत्पद्यमानासु वा तद्व्यक्तिनिष्ठसंयोगव्यक्तिषु तदानीं तादात्म्येन संयोगोत्पत्तिप्रसंगे तु तद्वारणाय विलक्षणसंयोगत्वविशिष्टस्वसमवाय्युत्पत्तिकत्वं कारणतावच्छेदकसम्बन्ध एष्टव्य इति चेत् ? न, एवं हि कारणाव्यवहितोत्तरक्षणत्वापेक्षया लाघवात्सर्वत्र कारणक्षणत्वमेव कार्योत्पत्तिव्याप्यमिति तुल्यकालयोरपि शक्तिविशेषात् प्रतिनियतरूषेण कार्यकारणभावः / अत एव ‘क्रियमाणं कृत 'मिति सिद्धान्तप्रवाद इत्यस्मदीयं निश्चयनयमतमेवादृतं स्यादिति कृतान्तकोष एव परेषाम् / / ___किंचैतावतापि समवायसम्बन्धेन विलक्षणसंयोगोत्पत्तौ नियामकं मृग्यम् , एतेन स्वाव्यवहितपूर्ववर्तिक्रियावद्वृत्तित्वविशिष्टसमवाये न विलक्षणसंयोगावच्छिन्ने समवाये न क्रियात्वेन हेतुत्वान्न व्यभिचारः, घटस्य समवायेनोत्पादं विना संयोगेनोत्पादवत् तादृशविशिष्टसमवायेनोत्पादं विना केवलसमवायेनोत्पत्तेरलीकतया न क्रियाविरहदशायां केवलसमवायेन विलक्षणसंयोगोत्पत्तिरित्यपि निरस्तम् , तावतापि विलक्षणसंयोगः केवलसमवायेन क्वचिदेव जायते क्वचिन्नेत्यत्र नियामकाकथनात् / - यत्तु रुद्रभट्टाचार्यदृष्टम् उभयकर्मजसंयोगस्थले विजातीयसंयोगं प्रति कर्मणो या हेतुता सा नोभयकर्मत्वेन किन्तु कर्मत्वेनैव, कारणता कार्यतावच्छेदकश्च समवाय एव, एकतरकर्मजसंयोगे तादृशवैजात्याभावेन व्यभिचाराभावात् / एकतरकर्मणां तु तत्संयोग प्रति तद्व्यक्तित्वेनैव हेतुता सत्र कालिक्यैव व्यापकता कारणताघटिकेति, तन्न। सुष्ठु दृष्टम् , प्रमाणान्तरसिद्धवैजात्याभावे कर्मत्वावच्छिन्नजन्यतावच्छेदकतयोभयकर्मजस्थले तदवच्छिन्नवैजात्यस्यैकतरकर्मजस्थले (1) बलादापत्तेः एकतरकर्मजस्य समवायेनोत्पत्तौ नियामकानुपलब्धेश्च / / ___नव्यास्तु तत्तत्यिात्कवेन कारणता तत्तक्रियाधीनसंयोगत्वेन कार्यता तद्व्यक्तिवृत्तित्व-: विशिष्टसमवायः समवायश्च कार्यकारणतावच्छेदकसम्बन्धौ, तत्तत्कर्माधीनत्वं च तत्तत्कर्मजन्यतावच्छेदको जातिविशेषो, न च यत्कर्मव्यक्त्या . एक एव द्रव्ये संयोगो जनितस्तत्र तदसंभवो जातेरेकव्यक्तिवृत्तित्वाभावादिति वाच्यम् / एकयैव कर्मव्यक्त्यैकेन सममुत्तरसंयोगजननदशायामनन्तपवनगगनादिसंयोगानामवश्यं जननात् / न चोभयकर्मजन्यसंयोगे तत्तत्कर्मव्यक्तिद्वयजन्यतावच्छेदकयोः सांकर्य तत्रापि जात्यन्तरापन्युपगमात् / न च तस्यैकव्यक्तिवृत्तित्वम् , अवच्छेदकभेदेन सर्वत्रोभयकर्मव्यक्तिजन्यसंयोगानां नानात्वावश्यकत्वात् / .. न च द्रव्यारम्भकसंयोगजनककर्मव्यक्तिजन्यतावच्छेदकस्य द्रव्यारम्भकतावच्छेदिकया सांकर्य तत्कर्मव्यक्त्याऽनारम्भकगगनादिसंयोगस्याप्यवश्यं जननादिति वाच्यम् , तादृशकर्मजन्यतावच्छेदक For Private and Personal Use Only Page #30 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 30] आत्मख्यातिः योरारम्भकतावच्छेदकजातिव्याप्यतद्विरुद्धयोवैजात्ययो नात्वाभ्युपगमात् / न चारम्भकैकसंयोगव्यक्तिजननस्थले तदसंभवः सर्वाभिरपि तादृशकर्मव्यक्तिभिरवच्छेदकभेदेन द्रव्यारम्भकनानासंयोगजननात् / न चैतावद्वैजात्यकल्पनापेक्षया लाघवात्तत्कर्मव्यक्तित्वेन तत्कर्मवद्वत्तित्वविशिष्टसंयोगत्वेन च कार्यकारणभावौचित्यमिति वाच्यम् , तत्कर्मसमकालोत्पन्नमूर्त्तान्तरक्रियाधीनसंयोगे व्यभिचारात् , तत्कर्माव्यवहितोत्तरसंयोगत्वं च न कार्यतावच्छेदकं तदव्यवहितोत्तरत्वस्य तच्चतुर्थक्षणोत्पन्नत्वरूपस्यानुगतस्य दुर्वचत्वात् / तथापि तत्तत्क्रियाधीनसंयोगस्य तद्देशवृत्तित्वविशिष्टसमवायेनोत्पत्तौ कर्मणां नियामकत्वं सिद्धम् , स क्वचिदेवोत्तरदेशे जायते नान्यत्र क्वचिदेवावच्छेदके नान्यत्रेत्यत्र किं नियामकमिति चेत् , तत्तक्रियाधीनसंयोगवत्त्वावच्छिन्नं प्रति तत्तदुत्तरदेशव्यक्तीनां तत्तदवच्छेदकव्यक्तीनां च तादाम्येन हेमुत्वमेव / तत्तद्देशवृत्तित्वविशिष्टसमवायस्य तादृशावच्छेदकत्वस्य च कार्यतावच्छेदकसम्बन्धत्वान्न मिथो व्यभिचार इति / अथैवं तवृत्तिक्रियात्वेन तदीयसंयोगत्वेन च हेतुहेतुमद्भावोऽस्तु कियाभेदेन कार्यकारणभावभेदस्य जातिभेदस्य च कल्पने गौरवात् / तदीयत्वं च तत्तवृत्तिकर्मजन्यसंयोगमात्रनिष्ठजातिविशेषो, नातस्तवृत्तिकर्मणा विनापि जायमाने संयोगजतदीयसंयोगमूर्तान्तरक्रियाधीनतन्निष्ठमूर्त्तान्तरसंयोगे च व्यभिचारो, न चोभयवृत्तिकर्मजसंयोगे सांकर्य तत्र चित्रसंयोगभेदस्यैवाभ्युपगमादिति चेत् ? न, अङ्गुलीनिष्ठकर्मान्तरजन्यशाखाङ्गुलीसंयोगनाशद्वारा भूतलादावजुलीसंयोगजननदशायां तच्छाखायामप्यङ्गुलीसंयोगोत्पादप्रसंगस्य दुरित्वात् , अङ्गुलीपूर्वसंयोग प्रति तच्छारवाया अपि हेतुत्वेनोत्तरदेशस्थलत्वेन हेतुतयापि तद्वारणासंभवात् / एतेन समवायेन सामान्यतो विलक्षणसंयोगत्वेन कर्मत्वेनैव कार्यकारणभावोऽस्तु द्विष्ठकार्यस्थले यत्किञ्चिदधिकरणव्यभिचारस्य कारणताशरीराविघटकत्वात् / प्रकृते. कार्यतावच्छेदकावच्छिन्ना यावत्यो व्यक्तयस्तत्तद्वयक्त्युत्पत्तित्वावच्छिन्नपूर्वकालावच्छेदेन तत्तद्वयक्त्युत्पत्यधिकरणदेशव्यक्तिषु वर्तमानत्वे सत्यन्यथा सिद्धयनिरूपकधर्मवत्वस्यैव कारणताशरीरघटकत्वादिति केषांचिन्मतं निरस्तम् / ... एतेनैव च प्रतियोगितया विलक्षणसंयोगत्वावच्छिन्ने समवायेन कर्मत्वेन हेतुत्वम् , प्रतियोगित्वं चायमेतत्प्रतियोगिकसंयोगवानित्यादिप्रतीतिसाक्षिकः स्वरूपसम्बन्धविशेषः, स . च यदीयकर्मणा संयोगो जायते तत्रैव वर्त्तते नान्यत्रेति न व्यभिचार इति स्वतन्त्रमतमपि निरस्तं क्रियायास्तद्व्यक्तित्वेन कारणत्वं विनोत्तरदेशस्य तद्वयक्तित्वेन हेतुतयाऽयुक्तातिप्रसंगावारणादित्याहुः For Private and Personal Use Only Page #31 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आत्मनः शरीरपरिमाणत्वम् / 31 तुच्छम्, कर्मद्वयजन्यसंयोगस्थले वैजात्यान्तरस्वीकारे कर्मत्रयजन्यस्थलेऽपि वैजात्यान्तरस्वीतेः, तत्र द्वाभ्यां संयोगद्वयस्वीकारे एकैककर्मवृद्धौ बहुबहुतरकार्यवृद्धिप्रसंगात् / किंचैवमुभयजस्थलेऽपि प्रत्येकजन्यकार्यद्वयं कुतो न स्वीक्रियते ? जातिसंकरभिया यागस्यैव सांकर्यस्य तत्रादोषत्वस्वीकारस्य वौचित्यात् , अनुभवस्तु प्रत्येकसमुदायकार्यस्थले रिणामं विना सर्वथैवानुपपन्नः स्कन्धदेशभेदेनैकत्वानेकत्वाभ्यामेव संयोगानुभवस्य सार्वत्वात् / किंचोभयकर्मजन्यसंयोगे वैजात्याभ्युपगमे परमाण्वोः क्रियाभ्यां जनिते संयोगे तदनुपपत्तिर्जायक्तिवृत्तित्वाभावात् , निरंशे परमाणाववच्छेदकभेदेन संयोगनानात्वस्यापि स्वीकर्तुमशक्यत्वात् / भागाय तत्राप्यवच्छेदकभेदः स्वीकर्तव्य इति चेत् , सम्यक्अनेकान्तवादे मार्गे समायातोऽसि, तः सांशत्वस्य द्रव्यतो निरंशत्वस्याभ्युपगमं विनेत्थं वक्तुमशक्यत्वात् / किंच सामान्यतस्तत्तद्देशव्यक्तिसमवेतसत्त्वावच्छिन्नं प्रति तत्तद्देशव्यक्त्यवच्छिन्नं च प्रत्येव शव्यक्तीनां तत्तदवच्छेदकव्यक्तीनां च तादात्म्येन हेतुत्वं कल्पते न तु तत्तत्कर्माधीनवादीनामनन्तानां कार्यतावच्छेदके प्रवेशो गौरवात् , इत्थं च तत्तत्कर्मणः स्वाव्यवहितोत्तरसंबावच्छिन्ने कालिकेनंव हेतुत्वमस्तु, अयमेवास्माकं तथाभव्यत्वहेतुतावादस्तव्यपरिणामच्छन्ने, तव्यं तद्रव्यविशिष्टपरिणामे च तद्रव्यविशिष्टस्वभावो हेतुरिति तदर्थात् , इत्थमेव -कालिकातिप्रसंगनिरासात् / नन्वेवं कर्मणः संयोगे केवलंकालिककारणत्वे निमित्तकारणत्वमेव स्यान्नासमवायिकारणते सिद्धान्तहानिरिति चेत् , किं नश्छिन्नं, मिथ्याभिनिवेशहेतुः सिद्धान्त एव तवास्माकं येतव्य इति / किंच तत्तत्कर्मणाऽवयवे संयोगे जननीयेऽवयविन्यप्यवर्जनीयसंनिधितया सर्जनीय इति कुतः संयोगस्य वैलक्षण्यम् ? अवयवाभिमुख्येऽवयविन्याभिमुख्याभावस्य वक्तुमशक्यत्वात् / हन्तैविक्रिययाऽवयवान्तर इवावयविन्यपि संयोगजननापत्तिरिति चेत् , एकान्तसमुद्रपाते कियती तः / इष्यत एव नवीनैरवयवावयविनोरपि संयोगः शिरसि शरीरसंयुक्तः पाणिरिति प्रत्ययात् / सुखदेश चावयवकर्मणोऽन्य इवावयव्यपीति न कारणबाधः अत एवैकतन्तुकः पटोऽपि संगच्छतेऽन्तुसंयोगेन पटोत्पत्तेः / अंशौ पटोत्पत्यापत्तिस्तु द्रव्यान्तरस्य प्रतिबन्धकस्य सत्त्वादेव न 'ति तैरभिधानात् / . For Private and Personal Use Only Page #32 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आत्मख्यातिः _अथ तन्तुकर्मणा तन्त्वाकाशसंयोगे जननीये तन्तोः समवायित्वादाकाशस्य चोत्तरदेशत्वात्तयोरेव तदुत्पत्तिः, पटाकाशसंयोगस्तु न तेन जननीयः पटस्योदासीनत्वादिति संयोगजसंयोगात् कर्मजसंयोगवैलक्षण्यमिति चेत् , न, तन्तुक्रियाकाले पटक्रियाया आवश्यकत्वान्नायं नियमः / अत एव कम्पजनकाभिधातादेः फलबलेन कल्पनात् पाणौ शरीरं चलतीति प्रत्ययस्य पाणिवृत्तिकम्पस्य शरोरे परम्परासम्बन्धविषयकत्वेनोपपादनात्सकम्पनिःकम्पत्वाभ्यां शरीरभेदः प्राङ्भिनिरस्त इति चेत् ? न, ए सति कर्मणोऽणुमात्रगतत्वस्य त्रुटिमात्रगतत्वस्य पाणावेवापत्तेः / सर्वावच्छेदेनोपलभ्यमानकर्मवत्यपि शरीरादौ कर्मधियः परम्परासम्बन्धविषयत्वस्य सुवचत्वात् / साक्षात्सम्बन्धविषयत्वेऽतिरिक्तशरीरकल्पनाया एव बाधकत्वात् , कर्माभावोपलम्भस्य च परितः प्रतियोग्युपलब्धिदोषादेवाप्रसंगात् / यदि च तत्र साक्षात्सम्बन्धविषयक एवानुभवः प्रमाणीक्रियते तदा तब्दलादेवावयवक्रियाकालेऽवयविक्रियाऽवश्यमभ्युपगन्तव्या इष्यते च नवीनैः / ____ कर्माव्याप्यवृत्तित्वम् / अन्यथा संयोगाव्याप्यवृत्तित्वेऽपि का प्रत्याशा ? मूले वृक्ष इत्यादावपि मूलवृत्तिसंयोगशाखावृत्तिसंयोगाभावयोर्वक्षे परम्परासम्बन्धविषयकप्रतीतेर्वक्तुं शक्यत्वादिति विभावनीयम् / . यदि चैवमपि स्वप्रक्रियया कर्मजसंयोगजसंयोगौ विलक्षणाविष्येतेतदाप्यवयविनि कर्मजसंयोगे मानाभावः / परमाणुकर्मणामेवसंयोगजनकत्वोदवयविनि कारणाकारणसंयोग[-ज]संयोगस्यैव सुवचत्वात् , एकस्यामप्यवयविव्यक्तौ कालभेदेनानन्तकर्मव्यक्तीनां हेतुत्वकल्पने गौरवात् / घटादिकर्मोत्पत्तिसमये तदारम्भकपरमाणाववश्य कर्मोत्पत्त्या चतुर्थक्षणे परमाणोरुत्तरदेशसंयोगस्ततः पञ्चमक्षणे परमाणूत्तरदेशसंयोगात् घटादेरुत्तरदेशस्य संयोग इत्येकक्षणविलम्बकल्पनस्यादोषत्वात् / साक्षात्परम्परासाधारणावयवसंयोगस्यैवावयविसंयोगजनकत्वाम्युपगमेनानुपपत्त्यभावात् / अथानया युक्त्या स्वतन्त्रैः परमाणुकर्मणामेव विभागजनकत्वं स्वीक्रियतेऽवयविनि तु विभागजविभाग एव स्वीक्रियतेऽवयविकर्मणां गौरवान्मानाभावाच्च विभागाजनकत्वात् / संयोगस्थले तु नैवं, परमाणुकर्मस्थले लाघवात्सामान्यतो नाशाजन्यकर्मनाशत्वावच्छिन्नं प्रति फलोपधायकत्वसम्बन्धेन संयोगत्वेन कारणत्वस्य क्लप्ततयाऽवयविकर्मणां नाशान्यथानुपपत्त्यैव संयोगजनकत्वकल्पनादिति चेत् ! न, नाशाजन्यत्वस्य सामान्यतो दुर्वचत्वात् , संयोगजन्यस्यापि कर्मनाशस्य कालिकेन नाशजन्यत्वात् स्वप्रतियोगिसमवेतत्वसम्बन्धावच्छिन्ननाशजन्यताश्रयो यो यस्तत्तद्भिन्नत्वनिवेशे च गौरवात्परमाणुक्रियासु वैजात्यस्यैव नाश्यतावच्छेदकत्वौचित्यात् / इत्थं चावयविकर्मणां क्रियाभेदेन क्रियाजन्यतावच्छेदकसंयोगनिष्ठवैजात्यभेदस्थले क्रियानाशकतावच्छेदकसंयोगनिष्ठवैजात्यभेदस्यापि सुवचत्वात् / नहयेवं परमाण्ववयविनोः / उभयत्रैव क्रियाव्यक्तिभेदेन क्रियासंयोगयोरनन्तनाश्यना . ... For Private and Personal Use Only Page #33 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आत्मनः शरीरपरिमाणत्वम् शकभावकल्पनामपेक्ष्य केवलावयविस्थले क्रियाव्यक्तिभेदेन क्रियासंयोगयोरनन्तकार्यकारणभावकल्पनस्यैव लघुत्वमिति-मथुरानाथवचनस्यावकाशः परमाणुक्रियानाशस्थले सामान्यतः * क्लप्तनाश्यनाशकभाव एव नाशाजन्यत्वं परित्यज्य वैजात्यप्रदेशेन निर्वाहात् / नन्वेवं परमाणुक्रियाकालोत्पन्नघटक्रियायाः परमाणूत्तरदेशसंयोगोत्तरोत्पन्नघटोत्तरदेशसंयोगेन नागत्तस्याः पञ्चक्षणस्थायितया कर्मणश्चतुःक्षणस्थायित्वनियमभंगप्रसंग इति चेत्-न, तन्नियमस्य रेषामव्यवस्थापराहतत्वात् / तथा च तेषां प्रक्रिया शिष्यबुद्धिवैशद्यार्थमुपदश्यते / कर्मण तुःक्षणस्थायित्वं तावत्सुप्रसिद्धमेव, त्रिक्षणस्थायित्वं वाऽजनितसंयोगस्य, द्विक्षणस्थायित्वं वाऽजनितविभागसंयोगस्य / अजनितसंयोगविभागत्वे कर्मणः कथमिति चेत् , अवयविनि कर्मोत्पत्तिर्यावदवयवकर्मोत्पत्तिव्याप्येति वैशेषिकवृद्धाः / यावदवयवकर्मव्याप्येत्यन्ये / युज्यते चैतत् , विभागग्रन्थे भाष्यकारेणांशौ कर्मोत्पत्यनन्तरं तदारब्धे तन्तौ कर्मकथनात् / द्वयमप्यौत्सर्गिक तन्तुकर्मनाशक्षणे सामग्रीबलात्पटे कर्मोत्पत्तेरियितुमशक्यत्वात् , तदा च तन्तौ कर्मोत्पत्तेरसंभवात्कर्मणस्तत्प्रतिबन्धकस्य सत्वादिति नैयायिकाः / .. .. मतत्रयेऽपि क्वचिदजनितसंयोगस्यापि विनाशः अवयविक्रियादिक्रमेणोत्तरसंयोगजननकाल एवाश्रयविनाशात् / अन्तिममतद्वये चावयविनाशकसामग्रीकाले जातस्यायवविकर्मणोऽजनितविभागः संयोगद्विक्षणस्थायित्वं तत्पूर्वकालोत्पन्नस्य वाऽजनितसंयोगस्य त्रिक्षणस्थायित्वं युक्तिसिद्धिमिति / आरम्भकसंयोगप्रतिद्वन्द्विविभागजनकस्य च कर्मणः पञ्चक्षणस्थायित्वमपि / दीधितिकृन्मतेन कर्मणः पञ्चक्षणस्थायित्वम् / दीधितिकृतस्तु प्रकारान्तरेणापि कर्मणः पञ्चक्षणस्थायित्वम् , तथाहि कर्मादिक्रमेण शरीरे पूर्वसंयोगनाशः शाखायां च कर्मेत्येकः कालः, ततः शाखाकर्मणा शाखाकाशविभागः शरीरकर्मणा शरीरशाखासंयोगश्च, तयोविभागस्तु तदा नोत्पद्यते संयोगविरहात् / असंयुक्तयोविभागजनने मेरुवन्ध्ययोरपि विभागापत्तेः। ततश्च शाखाकाशयोविभागात्त्योः संयोगनाशः शाखाकर्मणा च शाखाशरीर विभागःततश्च शाखाशरीरयोः संयोगनाशः, तदानीं च शाखाया नोत्तरसंयोगः शरीरात्मकपूर्वदेशसंयोगेन प्रतिबन्धात्। पूर्वदेशसंयोगस्याप्रतिबन्धकत्वे युगपदेव परमाणोः पूर्वापरदेशवृत्तित्वप्रसंगात् / पूर्वोत्पन्नस्तु शाखाकाशविभागो न शाखाशरीरसंयोगनाशकस्तदनधिकरणवृत्तित्वात् , ततः शाखाया उत्तरसंयोगस्ततः कर्मनाशः / एवं पाणिपूर्वसंयोगनाशकालोत्पन्नस्य शाखाकर्मणः षट्क्षणांवस्थायित्वं पाणिशाखासंयोगेन शरीरशाखासंयोगजनने क्षणविलम्बात् / / एवं अङ्गल्याः पूर्वसंयोगनाशकालोत्पन्नस्य सप्तक्षणावस्थायित्वमिति / एवं शाखाकर्मणो आ-५ For Private and Personal Use Only Page #34 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 34] आत्मख्यातिः तस्थले शाखाशरीरविभागकाले मूर्त्तान्तरेण संयोगस्य एवं पूर्व मूर्तविभागकाले उत्तरोत्तरमूर्तसंयोगस्योत्पादेऽधिककालावस्थायित्वमपि / / ननु पूर्वोक्तस्थले शाखाकाशविभागस्यैव शाखाशरीरसंयोगनाशकत्वमस्तु / न च संयोगव्याप्यो विभागो नाशको येन केनचिद्विभागेन यस्य कस्यचित्संयोगस्यानाशादिति वाच्यम् , यत्र दीर्पण तन्तुनकस्तरोः शाखावच्छेदेन संयोगो जनितो विलम्बेन च मूलावच्छेदेनान्यस्तत्रामावच्छिन्नतरुतन्तुविभागेन मूलावच्छेदेन तरुतन्तुसंयोगनाशापत्तेः / न च तत्र मूलावच्छिन्नतरुतन्तुसंयोगो नश्यत्येव मूलावच्छिन्नांशुतरुसंयोगात्पुनस्तरुतन्तुसंयोगोऽन्यो जायत इति वाच्यम् , तथाग्रावच्छिन्नतरुतन्तुविभागकालोत्पन्नस्य मूलावच्छिन्नतरुतन्तुसंयोगस्य क्षणिकतापत्तेः, एतेन संयोगव्यापको विभागो नाशक इत्यपास्तं तस्य विभागस्य समवायेन मूलावच्छिन्नतरुतन्तुसंयोगव्यापकत्वात् / न चावच्छेदकतासम्बन्धेन संयोगव्यापको विभागो नाशक इति वाच्यम् , तन्तुकर्मणा शाखादिनानावयवावच्छेदेन तरुतन्तुसंयोगे जाते शाखाकर्मजशाखातन्तुविभागाच्छाखामात्रावच्छेदेन जातेन तरुतन्तुविभागेन पूर्वोत्पन्नतरुतन्तुसंयोगनाशानापत्तेः / एवमग्रेऽप्यवयवान्तरावच्छेदेन तरुतन्तुविभागादपि स संयोगो न नश्येत्तस्यापि संयोगाव्यापकत्वादिति / न चावच्छेदकतासम्बन्धेन संयोगव्याप्य एव विभागो नाशक इति वाच्यम् , यत्र दीर्धेण सन्तुना तरोरग्रमूलावच्छेदेन क्रमिकं संयोगद्वयं जनितं तत्र सर्वावयवावच्छेदेन जाताद्विभागात्तयोः संयोगयो शानापत्तेः / न च तत्र विभागद्वयं लाघवादेकस्यैवोत्पत्तेरुपगमादिति, मैवं, प्रतियोगितासम्बन्धेन संयोगनाशं प्रति जनकतासम्बन्धेन विभागस्य हेतुत्वेन स्वजनकसंयोगस्यैव विभागनाश्यत्वादिति तरुतन्तुसंयोगनाशं प्रति तरुतन्तुसंयोगावच्छेदकावच्छिन्नतरुतन्तुविभागो हेतुरेवमन्यत्रापि, तेन नांशुतरुविभागजन्यतरुतन्तुविभागात्स्वाजनकतरुतन्तुसंयोगनाशानापत्तिरित्यपि केचित् , अतः सिद्धं प्रकारान्तरेणापि पञ्चक्षणस्थायित्वं कर्मण इत्याहुः / __अत्र चिन्तयन्ति, कर्मणा संयोगे जननीये संयोगमात्रं न प्रतिबन्धकं तद्देशावच्छिन्नसंयोगे सत्येवान्यदीयकर्मणा तत्र संयोगस्योत्पत्तेः / न च तद्वृत्तिसंयोगस्य तद्वृत्तिकर्मजसंयोगप्रतिबन्धकत्वं सत्यारम्भकसंयोगेऽनारम्भकसंयोगविरोधिक्रियया तन्तोरुत्तरदेशसंयोगानुत्पत्यापत्तेः / ' आरम्भकसंयोगान्यत्वविशेषणेऽपि - सति जतुसंयोगादौ शरादेरुत्तरसंयोगानापत्तेः / न च तत्कर्मप्रयोज्यविभागनाश्यः संयोगस्तत्कर्मजन्यसंयोगप्रतिबन्धकः / प्रयोज्यत्वविशेषणादारम्भकसंयोगप्रतिद्वन्द्विविभागहेतुकर्मजन्यसंयोगेऽप्याकाशसंयोगस्य विरोधित्वमिति वाच्यम् , अनारम्भकसंयोगविरोधिक्रियाया आरम्भकसंयोगनाशकविभागाहेतुत्वस्यापि तत्तक्रियायास्तत्तत्संयोगनाशकतत्तद्विभागहेतुत्वाभ्युपगम एव संभवात् , तथा चारम्भकसंयोगसत्त्व इव शाखाकर्मजविभागकालीनशरीरसंयोगे सत्येव शाखाया उत्तरसंयोगे बाधकाभावात् तक्रियायाः शरीरसंयोगनाशकविभागहेतुत्वनिर्णयात् / For Private and Personal Use Only Page #35 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आत्मनः शरीरपरिमाणत्वम् तस्मादात्मसंयोग एवोत्तरसंयोगप्रतिबन्धकः। न चाकाशसंयोगत्वादिना विनिगमनाविरह आत्मत्वस्य जातित्वेन लघुत्वात् / न चात्मसंयोगवत्येवोत्तरदेशे शरादिकर्मणा संयोगजननात्सोऽपि कथं प्रतिबन्धक इति वाच्यम् , विशिष्यैवैतच्छरक्रियाविशिष्टात्मसंयोगत्वेनैतच्छरक्रियाजन्यसंयोगे प्रतिबन्धकत्वात् तस्मान्नोक्तरीत्या-पञ्चादिक्षणस्थायित्वमिति, नैतद् युक्तम् , क्रियाविरहविशिष्टनिरूपिततवृत्त्यनारम्भकसंयोगस्य तवृत्तिक्रियाजन्यसंयोगे प्रतिबन्धकत्वावश्यकत्वात् / नहि निश्चले पूर्वदेशे ततोऽविभज्यैवोत्तरदेशे संयुज्यतेऽननुभवात् / जतुसंयोगस्तु न तथा शरकर्मकाले जतुद्रव्येऽपि कत्पिादात् / एकतन्तुक्रियानाशकालीनापरतन्तुक्रिययोत्तरदेशसंयोगोत्पत्तयेऽनारम्भकेति, तद्वृत्तेरारम्भकसंयोगस्याप्रतिबन्धकत्वादिति दीधितिकृन्मतस्यैव युक्तत्वादित्यपरे / अन्यमतेन कर्मणः क्षणत्रयस्थायित्वम् __अन्ये तु कर्मण औत्सर्गिक क्षणत्रयस्थायित्वं / तथाहि-क्रियातो विभागस्तत उत्तरसंयोगस्ततः कर्मनाश इति। . न च पूर्वसंयोगस्याप्रतिबन्धकत्वे युगपदेव परमाणोः पूर्वापरदेशवृत्तित्वप्रसंग उत्तरसंयोगे विभागस्य हेतुत्वेनैव तन्निरासात् / .. न च परमाणौ यत्किचिद्विभागसत्त्वात्परमाणुकर्मद्वितीयक्षणे पूर्वसंयोगे सत्येवोत्तरसंयोगापत्तिरिति बाच्यम् , . एतद्वयक्तिवृत्तित्वविशिष्टं एतद्वयक्तिकर्मजं संयोग- प्रत्येतद्वयक्तिवृत्तिकर्मजो विभागो हेतुरित्युपगमादेवानतिप्रसंगात् / त्वयाऽप्यारम्भकसंयोगस्याप्रतिबन्धकत्वानुरोधेन पूर्वसंयोगस्य विशिष्यव प्रतिबन्धकताया वाच्यत्वात् / न च कारणाकारणसंपोगात्कार्याकार्यसंयोगधारावारणाय तयोः संयोगं प्रति तयोः संयोगस्य प्रतिबन्धकत्वावश्यकत्वात्सत्यात्ममनःसंयोगे मनःकर्मणा नात्मसंयोग उत्पादयितुं शक्यः, किन्तु तन्नाशे सति चतुर्थक्षणे, तदा च मनःकर्मतृतीयक्षणोत्पन्नशरीरमनःसंयोगादिना मनःकर्मनाश इत्यात्ममनःसंयोग एव न स्यादिति वाच्यम् , मनःकर्मणः स्वजत्यात्ममनःसंयोगस्यैव नाशकत्वात् , उत्तरसंयोगत्वस्याननुगतत्वात् , तत्त्वतत्वेन प्रतिबन्धकवे आत्ममुनःसंयोगे आत्ममनःसंयोगस्याप्रतिबन्धकत्वाद्वा, उत्तरसंयोगेन मनःकर्मनाशात, कार्यसहवृत्तित्वेन कर्मणो हेतुत्वाच्च मनःकर्मजात्मसंयोगधारानापत्तेः / - अतथात्वे तु प्रकृते शरीरमनःसंयोगेन मनःकर्मनाशक्षणे आत्मसंयोगसंभवात् / वस्तुतः संयोगजसंयोगस्यैव विजातीयसंयोगे परस्परं प्रतिबन्धकत्वं वाच्यमिति मनःकर्मणा तृतीयक्षणे आत्मसंयोगजनने बाधकाभावः कर्मजमनःसंयोगे मनःसंयोगस्याप्रतिबन्धकत्वादित्याहुः / For Private and Personal Use Only Page #36 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आत्मख्यातिः परमतेन कर्मणो द्विक्षणस्थायित्वम् परे तु कर्मणो द्विक्षणस्थायित्वमेव / तथाहि ---शरादौ कर्म, तत उत्तरदेशसंयोगस्ततः कर्मनाश इति. पूर्वसंयोगस्य विरोधित्वे विभागस्य हेतुत्वे च मानाभावात् , विभक्त इति प्रत्ययस्य संयोगध्वंसेनोत्पत्तौ विभाग. एव मानाभावात् / न चैवं कथं " पूर्वसंयोगनाशः कर्मणैव द्वितीयक्षणे. पूर्वसंयोगनाशस्योत्तरसंयोगस्य च जननात् / न चैवमविशेषाच्छरकर्मणा शरजतुसंयोगनाशापतिरारम्भकसंयोगविरोधिविभागाजनकेनापि च तन्तुकर्मणारम्भकसंयोगनाशापत्तिरिति वाच्यम् , तवापि मते तेन कर्मणा जतुविभागादिजननापत्तेः। यदि च तत्तत्कर्मणो विशिष्यैव तत्तद्विभागजनकत्वं त्वयेष्यते तदा मयापि विशिष्यैव तत्तत्संयोगनाशकत्वं वाच्यमित्याहुः / भारम्भकसंयोगविरोधिविभागजनककर्मणः पञ्चक्षणस्थायित्वम् .. अथारम्भकसंयोगविरोधिविभागजनककर्मणः कथं पञ्चक्षणस्थायित्वमिति चेत् , इत्थम् / तन्तौ कर्म, तत आरम्भकसंयोगप्रतिद्वन्द्वी तन्तुद्वयविभागः, ततस्तन्तुद्रयविभागातन्त्वाकाशादिविभागस्तत आकाशादिसंयोगनाशस्ततस्तन्तूत्तरदेशसंयोगस्ततः कर्मनाश इति / विभागजविभागो द्विविधः कारणाकारणविभागजः कारणमात्रविभागजश्च / तन्त्वाकाशविभागात्पटाकाशविभागः कारणाकारणविभागजः / तन्तुद्वयविभागातन्त्वाकाशविभागः कारणमात्रवृत्तिविभागज इति व्यवस्थितेः / नन्वारम्भकसंयोगविरोधिविभागजनकतन्तुकर्मणैव न कुतस्तन्त्वाकाशविभाग इति* चित्रारम्भकसंयोगप्रतिद्वन्द्विविभागजनककर्मणो नानारम्भकसंयोगप्रतिद्वन्द्विविभागजनकत्वमिति नियमस्य प्रमाणसिद्धत्वात् , अन्यथा विकसत्कमलकुडूमलभङ्गप्रसंगात् / कमलदलकर्मणाऽनारम्भकसंयोगविरोधिविभागस्येवारम्भकसंयोगविरोधिविभागस्यापि जननसंभवात् / न चैतदुपपत्तये अनारम्भकसंयोगप्रतिद्वन्द्विविभागजनककर्मणोऽनारम्भकसंयोगविरोधिविभागजनकत्वमित्येव नियमः सिध्यति, नत्वारम्भकसंयोगप्रतिदन्द्रिविभागजनकेन कर्मणा नानारम्भकसंयोगप्रतिद्वन्दिविभागजननमिति विपरीतनियम इति चेत् ? न, तुल्ययोगक्षेमतया तद्व्याप्त्यैवार्थत एतद्वयाप्तेरपि सिद्धेः / आरम्भकसंयोगप्रतिद्वन्द्विविभागजनककर्मणः षट्सप्तक्षणस्थायित्वम् ....... एवं च कारणमात्रवृतिविभागस्यारम्भकसंयोगनाशमपेक्ष्य तन्त्वाकाशादिविभागजनकत्वमिति पक्षे आरम्भकसंयोगप्रतिद्वन्द्विविभागजनककर्मणः षट्क्षणावस्थायित्वम् / द्रव्यनाशमपेक्ष्य तस्य तन्त्वाकाशादिविभागजनकत्वपक्षे सप्तक्षणस्थायित्वमिति / - - * इति चेत् ? नारम्भक * For Private and Personal Use Only Page #37 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आत्मनः शरीरपरिमाणत्वम् [ 31 ननु तन्त्वारम्भकसंयोगप्रतिद्वन्द्रिविभागजनिका क्रिया ततस्तन्तुद्वयविभागः, तत आरम्भकसंयोगनाशः, ततस्तन्त्वाकाशविभागः, ततस्तन्त्वाकाशसंयोगनाशः, ततस्तन्तूत्तरदेशसंयोग इति षट्क्षणस्थायित्वं तन्तुकर्मणः / एवमारम्भकसंयोगनाशद्रव्यनाशे सति तन्त्वाकाशविभाग इति मते सप्तक्षणावस्थायित्वं तस्येत्यभिप्रेतं तच्च न संभवति तथाहि तन्तुकर्मोत्पत्तिकाले शुकर्मोत्पत्तिसंभवाद्वितीयक्षणेश्वाकाशविभागः, तृतीये तेनैव तन्त्वाकाशविभागः, चतुर्थे तन्त्वाकाशसंयोगनाशः, पञ्चमे तन्तूत्तरदेशसंयोग इति पञ्चक्षणस्थायित्वस्यैव संभवात् / युक्तं चैतदन्यथा यत्रतत्तन्तुकोत्पत्तिचतुर्थक्षणे तन्त्वन्तरनाशात्तन्तुद्वयविभागनाशस्तनतत्तन्तुकर्मणैतत्तन्तोरुत्तरसंयोगो न स्यादेतत्तन्त्वाकाशसंयोगनाशकविभागाभावात् / तस्मात्तत्रांश्वाकाशविभागात्तद्विभागो वाच्यस्तथा चान्यत्रापि तथेति चेत् , न, परमाण्वोरारम्भकसंयोगप्रतिद्वन्द्रिक्रियाया एव मतभेदेन षट्सप्तक्षणस्थायित्वसंभवात् / पाकजप्रक्रियायाः दशैकादशक्षणस्थायित्वम् - एवं चास्य कर्मणः षट्क्षणस्थायित्वमते आचायैर्दशक्षणा पाकजप्रकिया प्रादर्शि सप्तक्षणस्थायित्वपक्षे चैकादशक्षणा / तथाहि घणुकनाशमारभ्य कतिभिः क्षणैः पुनरन्त्यव्यणुकमुत्पद्य रूपादिमद्भवतीति जिज्ञासायामुच्यतेऽन्यभिघातात्परमाणौ कर्म, ततः परमाणुद्वयविभागः, ततः परमाणुद्वयसंयोगनाशः, ततो यणुकनाशः परमाण्वाकाशविभागश्च युगपदेव, द्वयणुकनाशद्वितीयक्षणे परमाण्वाकाशसंयोगनाशः, तृतीये परमाणुत्तरदेशसंयोगः, चतुर्थे परमाणुकर्मनाशः, पञ्चमेऽदृष्टवदात्मसंयोगावयणुकान्तरारम्भणाय परमाणुक्रिया, षष्ठे परमाणुपूर्वदेशविभागः, सप्तमे परमाणुपूर्वदेशसंयोगनाशः, अष्टमे परमाण्वोराम्भकसंयोगः, नवमे द्वयणुकस्य, दशमे तद्रपस्योत्पत्तिरिति दशक्षणाः, द्वयणुकनाशद्वितीयक्षणे परमाण्वाकाशविभागोत्पादाभ्युपगमे चैकादशक्षणाः, पक्षद्वयेऽपि द्वयणुकनाशोत्तरमग्निसंयोगात्परमाणौ श्यामादिनिवृत्तिस्तदुत्तरक्षणे रक्ताद्युत्पत्तिः पाकजरूपनिवृत्तौ समवायेन द्रव्यस्य प्रतिबन्धकत्वात्सति द्वयष्णुके तदसंभवात् / . . एकस्मादग्निसंयोगात्परम्परया परमाण्वादिक्रियाक्रमेण द्वयणुकनाशोऽन्यस्माच्च श्यामादिविनाशोऽन्यस्माच्च रक्ताद्युत्पाद इति भाष्यकृतः / युक्तं चैतत्कदाचित्परमाणौ नीलस्य कदाचिपीतादेरुत्पत्तिरिति नियमाय विजातीयाग्निसंयोगानां परमाणुनीलत्वादेविजातीयामिसंयोगस्य च परमाणुरूपनाशत्वस्य. कार्यतावच्छेदकत्वात् / इदं तु बोध्यम् - For Private and Personal Use Only Page #38 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 38] आत्मख्यातिः स्वोत्तरभाविनमपेक्ष्यैव कारणमात्रविभागस्य विभागजनकत्वमिति सिद्धान्तमनुरुध्याचायैर्दशैकादशक्षणा प्रक्रियाऽभिहिता तामपेक्ष्यैव यथा संयोगस्य संयोगजनकत्वं कारणाकारणविभागस्य च विभागजनकत्वं तथा कारणमात्रविभागस्यापि, यथा च तथात्वेऽपि न तयोः कर्मलक्षणातिव्याप्तिस्तथाऽत्रापीति स्वतन्त्रमते नवक्षणा, कारणमात्रविभागपूर्वकविभागनङ्गीकर्तृनैयायिकमते पुनरष्टक्षणा, कर्मणैवारम्भकसंयोगप्रतिद्वन्द्वयप्रतिद्वन्द्विविभागजननात् / इयं च क्षणगणना एकस्मिन्नेव पूर्वद्वयणुकनाशकोत्तरद्वयणुकोत्पादकक्रियासत्त्वमधिकृत्य ज्ञेया / पञ्चमादि क्षणेषु गुणोत्पत्तिः .... यदा त्वेकत्र द्वयणुकविनाशिकाऽन्यत्र द्वयणुकोत्पादिका क्रिया तदा व्यणुकविनाशमारभ्य पञ्चमे षष्ठे सप्तमेऽष्टमे नवमे वा क्षणे गुणोत्पत्तिः। कथमिति चेत् ? इत्थं, यदा द्रव्यारम्भकसंयोगो विनश्यति तदैव परमाण्वन्तरे कर्म, तत एकत्र क्रमेण द्रव्यनाशपरमाण्वाकाशसंयोगनाशपरमाणूत्तरसंयोगाः, अन्यत्र विभागपूर्वसंयोगनाशोत्तरसंयोगाः, ततो द्रव्योत्पत्तिस्तदुत्तरक्षणे गुणोत्पत्तिः / एवं द्रव्यविनाशक्षणे परमाण्वन्तरे क्रियाचिन्तनात् षष्ठे, परमाण्वाकाशसंयोगनाशकाले क्रियाचिन्तायां सप्तमे, परमाणूत्तरसंयोगोत्पत्तिकाले क्रियाचिन्तायामष्टमे, परमाणुसंयोगद्वितीयक्षणे च कर्मचिन्तनातु नवमे क्षण इति / एवं द्वित्रिचतुःक्षणा प्रकिया न संभवत्येवेत्याचार्याः / यणुकनाशकाले परमाण्वन्तरसंयुक्तेन विनश्यदवस्थश्यामादिशालिना द्वितीये क्षणे व्यणुकान्तरस्योत्पादः / तृतीये च परमाण्वन्तररूपादिना तत्र रूपादेरुत्पत्तिः, रूपाद्यन्तरसहकृतस्यैव रूपादे रूपान्तरजनकत्वे तु चतुर्थे / क्षणद्वयं नीरूपादिकं द्वयणुकमिति पुनरुच्छंखलाः। संयोगजसंयोगनिषेधस्योपसंहारः - *इति तस्मात्कर्मणश्चतुःक्षणस्थायित्वं परेषां न नियतमिति घटक्रियाकालीनपरमाणुक्रियाजनितपरमाणुसंयोगजस्यैव घटसंयोगस्यसम्भवात्तन्नाश्यघटक्रियायाश्च पञ्चक्षणस्थायित्वस्यापि सम्भवात्संयोगजसंयोगाभ्युपगमेऽवयविनि कर्मजसंयोगोच्छेद इति दूषणं वज्रलेपायितमेव / यदि चावयविसंयोगेवयबसंयोगस्यैव हेतुत्वमिति परमाणोरवयविनि साक्षादवयवत्वाभावात्परम्परासम्बन्धेनावयवत्वे गौरवमित्युप्रेक्ष्यते तदा स्कन्धसम्बन्धनियतोऽवयविनि परमाणोः साक्षात्सम्बन्ध एव कल्प्यतां; तेनैवास्माकं प्रदेशत्वव्यवहारः। प्रदेशे संयोगनियामकमेव च प्रदेशावच्छिन्नदेशादिसंयोगनियामकम् ।स्वानयाभि न्नदेशा* 'इति' पदं चिन्त्यम् / For Private and Personal Use Only Page #39 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आत्मनः शरीरपरिमाणत्वम् [39 दिवृत्तित्वरूपं प्रदेशावच्छिन्नत्वं हेत्वनियम्यमेव वार्थसमाजसिद्धत्वात् / न वं प्रदेशगतसत्त्वादेरप्यव्याप्यवृत्तित्वापत्तिरनेकान्ते तददोषात् / इत्थं च परमाणुसंयोगजानामपि परम्परासम्बन्धेन द्वयणुकादावनन्तानां संयोगानामकल्पने लाघवमेव / अनयैव दिशाकाशादौ परमाण्वादिसंयोगावच्छिन्नत्वाय प्रदेशसिद्धिः परमाणौ त्वप्रदेशत्वान्न व्यभिचार इति विभावनीय स्वसमयनिष्णातैः / अधयवायविनोरेकान्तभेदे पुनः दूषणम् तस्मात्संयोगजसंयोगादिप्रकियायां मानाभावान्नावयवरागजाव्याप्यवृत्तिरागसंभव इत्यवयविन एकान्तभेदे एकदेशरागे सर्वरागस्यैकदेशावरणे सर्वावरणस्य च प्रसंगावनुद्धृतावेव / यत्त्वयवव्यरक्त एव केवलं क्वचिदवयवे रक्तरूपेणारक्तरूपाभिभवात्तदनुपलम्भ इति कस्यचित्समाधानं तदज्ञानविलसितम् , अवयविरूपस्यैकत्वेनान्यावयवेऽप्यरक्तानुपलम्भप्रसंगात् / न च तदवयवावच्छिन्नं रक्तत्वं तदवयवावच्छेदेनैवारक्ताभिभावकमिति वाच्यम् , अरक्तत्वग्रहप्रतिबन्धकग्रहविषयत्वरूपस्याभिभावकत्वस्यानवच्छिन्नत्वात् / न च रक्तावयवविषयकतदरक्तत्वग्रहे तद्रागः प्रतिबन्धक इति वाच्यं गौरवात् , रक्तावयवावच्छेदेन चक्षुःसन्निकर्षे रक्तावयवाविषयकतदरक्तत्वप्रतीतिप्रसंगाच्च / .. किंच किंचिद्वस्त्रं रक्तं सर्व वस्त्रं रक्तमिति प्रतीतौ किंचिदिति सर्वमिति च वस्त्रगतावेव विशेषौ भासेते न तु रागे किंचित्सर्वावयवावच्छिन्नत्वविशेष इति किमपुष्टसमाधानेन / देशस्कन्धादिभेदानभ्युपगमेऽर्धादिव्यवहारस्य कथमप्यनुपपत्तेः। अवयवगतार्धादिपरिणामात्स्कन्धगतस्य तस्य वैलक्षण्यात् / एतेन, रक्तत्वं पटे रञ्जकद्रव्यनिष्ठमेव परम्परासम्बन्धेन प्रतीयतेऽरक्तत्वं तु समवायसम्बन्धावच्छिन्नप्रतियोगिताको रक्तभेद एवेति न विरोध इत्यपि निरस्तम् , परम्परासम्बन्धाप्रतीतावपि तथा प्रतीतेः, किंचित्त्वाद्यवच्छिन्नाधारताया असमर्थनाच्च / एतेन देशावरणस्थलेडप्यवयव्यनावृत एव तद्गतपरिमाणग्रहोऽपीष्ट एव / तद्गतहस्तत्वादिजातिमहे तु यावदवयवाविच्छेदेन सन्निकर्षोपि हेतुरिति लीलावतीकाराद्याशयो निरस्तो यावंदवयवावच्छेदेन सन्निकर्षासंभवाच्च परभागमध्यावयवाद्यवच्छेदेन तदनुपपत्तेः प्रतिनियतावयवावच्छेदेन सन्निकर्षाद्धस्तत्वादिग्रहाभ्युपगमे च हस्तादिमानावयवानन्तरत्वमेवावयविन आगतम्, अन्यथा प्रासादधान्यराश्यादिगतं. हस्तत्वादिकमपि स्वसमवायिसमवायिद्रव्यान्तरमाक्षिपेत् एवं प्रतिनियतानावृतावयवोपलम्भे पटादेः पृथुपृथुतरपृथुतमत्वाद्युपलम्भोऽप्यवयवाभेदे साक्षी अतिरिक्तपरिमाणस्याव्यवस्थितोपलम्भायोगात् / परिमाणभेदिपटादेरध्यक्षं भ्रान्तमिति चेत् , तर्हि स्थूलाकारे प्रान्तत्वं पूत्कुर्वाणो मायासू नुशिष्यः कथं निर्धारणीयः [?], कथमेकत्र वस्तुनि पृथुपृथुतरत्वादि भेदेन चित्रप्रतिभास इति चेत् ? तदिदं तस्यैव प्रष्टव्यं, यश्चित्रे वस्तुनि चित्रोल्लेखमुन्मीलयन्नेव(?)विजृम्भते / युक्तं चावान्तरदेशपरिमा For Private and Personal Use Only Page #40 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आत्मख्यातिः णेन वस्तुनश्चित्रत्वं अधिकावयवापगमे तावत एव दर्शनात् / तदाऽन्यदेव स्वल्पपरिमाणं द्रव्यमुत्पन्नमिति चेत् , प्रागपि तावदन्यदेवेति कुतो न स्वीक्रियते ? अत एव दशतन्तुकपटादेश्वरमतन्तुसंयोगवियोगक्रमेण नाशे नवतन्तुकपटाद्युपलब्धिनिराबाधा, तत्रावस्थितसंयोगैर्नवतन्तुकपटान्तरोत्पत्तिकल्पने तु गौरवम् , प्रथमतन्तुसंयोगवियोगक्रमेण दशतन्तुकनाशेऽपि नवतन्तुकोपलब्धेर्नानुपपत्तिर्दशतन्तुकोत्पत्तिकाल एव चरमतन्तुपर्यन्ते द्वितीयतन्तुमादाय नवतन्तुकपरिणामस्वीकारात् / न चैवं प्रतिलोमानुलोमक्रमेणानन्तपटकल्पनापत्तिद्वितीयमादाय नवतन्तुकस्येव तृतीयमादायाष्टतन्तुकस्यापि स्वीकर्त्तव्यत्वादिति वाच्यम् , अनन्तपर्यायद्रव्योपगमे तादृशकल्पनागौरवस्यादोषत्वात् / अग्रे स्वीकर्त्तव्यस्यैव प्रथमतः स्वीकारान्नवतन्तुकादौ दशतन्तुकादिध्वंसस्य हेतुत्वे मानाभावाच्च / न च जन्यद्रव्ये द्रव्यस्य प्रतिबन्धकत्वाद्वितन्तुकादिसत्त्वे त्रितन्तुकायनुत्पादो दीर्घतन्त्वादौ वस्त्रयुग्माद्यनुपत्यापत्तेस्तत्प्रतिबन्धकल्वे मानाभावात् / न च वस्त्रयुग्मादिव्यवहार एकस्मिन् दशहस्तादियुग्मव्यवहारवदुपपाद्य इति वाच्यम् , तद्व्यवहारस्यापि वास्तवस्यानेकान्ताभ्युपगमं विनानुपपत्तेः प्रदर्शितत्वात् / यादृच्छिकत्वे तु तस्य घटादावेकत्वव्यहारेऽपि नाश्वासो, न चैवमेकत्र नानापटोपलम्भापत्तिः। अङगुलीभूतलसंयोगावच्छेदेन पाण्याद्यनन्तसंयोगानुपलम्भवत्सादृश्यादिवत्तदनुपपलम्भोपपत्तेः। विविच्योपयोगे तावत्तावदवयवसन्निकर्षे नानापटोपलम्भस्येष्टत्वाच्च / न चैकः पट इति प्रतीतेः लोके स्मृत्यादौ च तथाव्यवहारस्यानुपपत्तिर्महापटमादाय तदुपपत्तेः, अनेकान्तेऽनेकत्वेऽप्येकत्वोपपत्तेश्च / कथमन्यथा प्रासादादावेकत्वप्रत्ययः ? नहि प्रासादायेकद्रव्यं भवद्भिरभ्युपेयते विजातीयानां द्रव्यानारम्भकत्वात् , समूहकृतं तत्रैकत्वमिति चेत्पटादांवपि किं न तथा ? अवयव्येकत्वस्य निश्चयतः परमाणुसमूहकृतत्वात् / स्निग्धरूक्षत्वविशेषकृतबन्धतदभावाभ्यां पुनर्व्यावहारिको विशेष इत्युपगमात् / एकान्तभेदेऽवयेष्वयवव्येकदेशेन समवेयात् कात्स्येन वा ? आये तद्देशस्यापि देशादिकल्पनायामनवस्था, द्वितीये च प्रत्यवयवसमवेतावयविबहुत्वप्रसक्तिः न च देशकास्न्यतिरेकेणान्यावृत्तिरस्तीति बहुशो विवेचितमिति प्राश्चः / संयोगेन द्रव्यवृत्तित्र एवावच्छिन्नानवच्छिन्नत्वरूपदेशकात्यविकल्पसंभवो न तु समवायेन वृत्तित्व इति नाय प्रसंग इति चेत्-, न, द्वित्वस्य द्वयोः पर्याप्तत्ववत् यावदवयवेष्ववयविनः पर्याप्तत्वे यावदवयवाग्रहे तद्ग्रहो न स्यात् प्रत्येकपर्याप्तत्वे चैकत्वद्रव्यादिवढ़ेदप्रसंग इति प्राचीनमतनिष्कर्षात् / For Private and Personal Use Only Page #41 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आत्मख्यातिः [41 . अथ वहित्वादिकमेकैकस्मिन् पर्याप्तं द्वित्वं तु द्वयोरेवेत्यादिप्रतीत्या वह्नित्वादिपर्याप्त्यवच्छेदकमेकत्वम् / द्वित्वादेस्तु द्वित्वादिकमेवेति सिद्धेः, प्रत्येकपर्याप्तत्वेऽपि वह्नित्वादिवन्नावयविभेद इति चेत्–न, अत्यन्तातिरिक्तजात्यभ्युपगमेऽप्यस्यैव दूषणस्य साम्प्रदायिकैरुद्भावनात् , असिद्धदृष्टान्तात् प्रकृतसिद्धययोगात् / द्वित्वादिपर्याप्तौ प्रमाणप्रदर्शनम् - अथ प्रत्येकावृत्तेः समुदायावृत्तित्वनियमाद्वित्वादेरेकत्रापि पर्याप्तिर्वारेति द्वित्वादेरपि पर्याप्तौ मानाभावो द्वावित्यादिप्रतीतेः समवायादिविषयत्वेनैवोपपत्तेः / एको द्वाविति प्रतीतिस्तु पर्याप्तिस्वीकारेऽपि दुर्वारा। _ वस्तुत एकत्र द्वाविति न शाब्दधीरेकत्वावच्छिन्ने द्वित्वाद्यन्वयस्य निराकांक्षत्वात् , नापि तथा प्रत्यक्षं तत्र यावदाश्रयसन्निकर्षस्य हेतुत्वात् / न चोभयाश्रयसंनिकर्षकालीनस्थायमेको द्वाक्यं चैको द्वाविति प्रत्यक्षस्य प्रामाण्यापत्तिस्तत्प्रामाण्यस्य यावदाश्रयविशेष्यताकत्वघटितत्वात् / एकघटवति च द्वित्वावच्छिन्नाधिकरणताविरहादेव नोभयघटवत्ताधीरिति चेत् ? न, पर्याप्त्यनभ्युपगमे त्रित्वाश्रयसन्निकर्षकाले जायमानायास्त्रिषु त्रयो द्वाविति प्रत्यक्षधियो यावदाश्रयविशेष्यताकत्वस्यापि सत्वेनू प्रामाण्यापत्तेर्दुरित्वात् / द्वित्वसमव्याप्यविशेष्यकताकत्वं चोदासीनमादाय समूहालम्बनेऽप्रसक्तं तस्मात्पर्याप्तिसम्बन्धेनैकत्वद्वित्वादेवत्ताविदन्त्वद्वित्वादिकम् अवच्छेदकम् / न चात्माश्रयो द्वित्वादिव्यक्तिभेदेनापि तत्त्वसंभवादित्ययमेक इमौ द्वाविति प्रमा न तु द्वावेकोऽयं द्वावित्यादिकम् / घटावित्यादि शाब्दधीस्तु वृक्षः संयोगीतिवदवच्छेदकाविषयिण्यपि / पर्याप्त्यवच्छिन्नावच्छेदकताकैकत्ववित्वाद्यवच्छिन्नभेदवृत्तौ तु द्वित्वैकत्वाद्यवच्छेदकम् , तेन द्वौ नैक एको न द्वाविति प्रमा, न त्वयं नैको द्वौ न द्वावित्यादि / न वा विरोधः मूलाग्रयोरिवेदंत्वद्वित्वाद्यवच्छेदकभेदात् / न च समवायेनैवं संभवति तेनैकत्ववान् द्वित्ववान् द्वित्ववान् एकत्ववानिति प्रमोत्पादात् , एकचवान्नद्वित्ववानिति प्रमानुत्पादाच्च / इयांस्तु विशेषो द्वित्वादेः कालिकादिनैकत्रापि पर्याप्तिस्वीकारे समवायावच्छिन्नपर्याप्तित्वादिना सम्बन्धत्वमन्यथा पर्याप्तित्वेनैवेति त्वदीयैः प्रतिपादनात् / . वस्तुतः सामान्यविशेषरूपशबलपरिणत्यनभ्युपगमे एप्त्यिाधारताविशेषाभ्युपगमेऽप्येकघटवत्युभयघटवत्त्वधीप्रसंग एकैकघटवतोरेवोभयघटवत्वात् / चालनीयन्यायेनेमो घटद्वयवन्तावित्यविगानेन प्रतीतेः / न च पर्याप्त्या द्वयवृत्तौ द्वित्वमेवावच्छेदकं एकस्याप्युभयत्वात् / न च घटवृत्तिद्वित्वमेव पर्याप्त्या घटद्वयवृत्ताववच्छेदकतावच्छेदकं तदनुल्लेखिन्या एवेमौ घटद्वयवन्ताविति बुद्धेर्जाय.... 1. इदन्त्वद्वित्वाद्यवच्छेदकयोर्भेदादिति भावः / आ-६ For Private and Personal Use Only Page #42 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 42] आत्मख्यातिः मानत्वात्। शबलवादे तु संग्रहबुद्धयैकीकृते आधारद्वये तादृशाधेयद्वयबुद्धरुपपत्तरेतद्वाक्यस्य योग्यता / व्यवहारदृष्टया तु मेदविवक्षावश्यकत्वान्न योग्यतेति व्यवस्थितिः / ____ अत एव घटपटयो रूपमित्यत्रापि संग्रहनयोपस्थापिते घटपटोभयसामान्ये रूपसामान्यस्यान्वयसंभवात् योभ्यत्वं, व्यवहारदृष्ट्या तु सामान्यवाचिनोऽपि रूपपदाद्भिन्नाश्रयवाचकपदसमभिव्याहारेण भिन्नमूर्तिकतयैवोपस्थितेरयोग्यत्वम् / अत एव तन्मते न पञ्चानां प्रदेशः किन्तु पञ्चविध इति विवेचितं प्रदेशदृष्टान्ते / अत एव चात्र स्याद् घटपटयो रूपं स्याद् घटपटयोन रूपमित्यादिसप्तभङ्गया एव प्रवृत्तिरिति स्वसमयरहस्यम् / __ यत्तु घटपटयो रूपमित्यादौ द्वित्वाश्रयवृत्तित्वबोधे तयोर्धटरूपमित्यपि स्याद्विवृत्तित्वबोधेऽपि तथा, द्वित्वपर्याप्तिमतोऽप्युभयस्य प्रत्येकानतिरिक्तत्वात् / द्वित्वपर्याप्त्यवच्छिन्नाधारतानिरूपितत्वसम्बन्धेन घटपटयोः सप्तम्यर्थवृत्तित्वेऽन्वयस्वीकारे च तयो रूपमित्यपि न स्यात् , न हि किमपि रूपमुभयवृत्तीति / द्वित्वस्य समवायेनैवान्वयस्तद्ववृत्तित्वस्यापि च रूपत्वादिसामानाधिकरण्येनान्वयबोध एवेदं साकांक्षमिति न दोष इति परेषां समाधानम् , तत्तुच्छम् , व्युत्पत्तिभमाद् घटपटयोर्घटरूपमिति बोधस्य जायमानस्य प्रामाण्यापत्तेः, रूपमित्यत्रैकत्वानन्वयप्रसंगाच्च, ऐकत्वविशिष्टे उभयवृत्तित्वानन्वयात् घटपटयोनक रूपमिति बोधस्य सार्वजनीनत्वात् / ... न चैकत्वमविवक्षितं, एवं सति द्वित्वाविवक्षया घटो नास्तीत्यत्र घटौ नास्तीत्यादेरपि प्रसंगात् / तस्मादत्र संग्रहनयाधीनसंकेतेन रूपपदस्य रूपसामान्यपरत्वं विना न निस्तारः। किंचोक्तदिशापि द्वयोर्गुरुत्वं न गन्ध इत्यादावगतिः गुरुत्वत्वसामानाधिकरण्येनेव गन्धत्वसामानाधिकरण्येनापि पृथिवीजलोभयत्वाश्रयवृत्तित्वसाम्याद्विधिनिषेधविषयार्थानिरुक्तेः / __ अत्र सप्तम्याः स्वार्थान्वयितावच्छेदकस्वरूपा तत्समव्याप्याऽतिरिक्तैव वाधेयतार्थस्तत्र प्रकृत्यर्थस्य तन्निष्ठनिरूपितत्वविशेषेणान्वयात् , पृथिवीजलोभयविशिष्टाधेयतात्वेन गुरुत्वं विधेयतया, गन्धो निषेध्यतया च प्रतीयत इति चेत् , तर्हि पृथिवीजलयोन गन्धो घटपटयोर्न रूपमिति केवलनिषेधस्थले का गतिः ? तत्र सप्तम्याः स्वार्थान्वयितावच्छेदकादिस्वरूपाधेयताविशेषानुपस्थापनेन तन्निषेधस्य कर्तमशक्यत्वात् / द्वित्ववद्विशिष्टाधेयतात्वावच्छिन्नं तु प्रत्येकधर्मे दुनिषेधम् | अथ जातिघटयोर्न सत्तेत्यत्र या गतिः सैव घटपटयोर्न घटरूपमित्यत्र ज्ञेया तथाहि- . तत्रं सत्ताभावे नोभयत्वपर्याप्त्यधिकरणवृत्तित्वान्वयो बाधात् / नाप्युभत्वाधिकरणवृत्ति त्वान्वयस्तथात्वे पृथिवीतद्भिन्नयोर्न द्रव्यत्वमित्यस्याप्यापत्तेः, द्रव्यत्वाभावस्याप्युभयत्वाधिकरणपृथिवी भिन्नगुणादिवृत्तित्वात् / किन्तु सप्तम्यर्थी निरूपितत्वं, समवेतत्वं च। तत्र निरूपितत्वे For Private and Personal Use Only Page #43 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आत्मख्यातिः [43 द्वित्वान्वितप्रकृत्यर्थान्त्रयः, तस्य नर्थेऽभावे तस्य च समवेतत्व इति जातिघटोभयनिरूपितत्वाभावक्समवेतत्त्ववती सत्तेत्यर्थः। . समवायेन जातिघटयोर्न सत्तेत्यत्र च वृत्तित्वमानं सप्तम्यर्थस्तदभावस्य समवायेऽन्वयस्तृतीयायाश्च वैशिष्टयमर्थ इति जातिघटोभयवृत्तित्वाभाववत्समवायविशिष्टा सत्तेति बोधस्तद्वत् घटपटयोर्न घटरूपमित्यादायपि घटपटोभयनिरूपितत्वाभाववत्समवेतत्ववद् घटपटोभयवृत्तित्वाभाववत्समवायविशिष्टं वा घटरूपमिति बोधसंभवः / न चैवं घटवत्यपि भवने संयोगे न घट इति स्याद्भवनावृत्तिप्रांगणादिसंयोगवैशिष्टयस्य घटे सत्त्वादिति वाच्यम्, घटान्वथिसंयोगत्वव्यापकत्वविशिष्टविशेषणतया भवनावृत्तित्वान्वय एब तथाव्यवहारादिति चेत्-न, द्वित्ववन्निरूपितत्वाद् द्विनिरूपितत्वस्थानतिरेकेऽस्या अप्युक्तेर्निरवकाशत्वात् / . किं चैवमपि घटपटयोर्न रूपमित्यपि स्यात् / अव्यासज्यवृत्तितया कस्यापि रूपस्य समवेतत्वस्य द्विनिरूपितत्वाभावात् / अपि च घटपटयोर्घटरूपपटरूपे इत्यस्य 'कथमप्यनुपपत्तिर्घटरूपत्वादिस्वरूपाया आधेयताया उभयानिरूपितत्वात् / तत्र तद्वित्वादिस्वरूपैवाधेयतेति चेत्तहि द्वयोः प्रत्येकरूपावच्छेदेन द्वित्वाभावान्निषेधस्यापि प्रवृत्तिः स्यात् / अनुयोगितावच्छेदकावच्छेदेनैव सप्तम्यर्थाधेयत्वान्वयव्युत्पत्तेयं दोष इति चे तथापि घटपटयोर्न घटरूपाकाशे इत्यादिकं कथम् ? घटपटोभयनिरूपितत्वाभाववत्समवेत्त्वस्योभयर त्राभावात् / जातौ समवायेन न गगनमित्यत्रेवात्र नत्र उभयत्र सम्बन्धातादंशसमवेतत्वाभावबोधस्याप्यत्र वक्तुमशक्यत्वात् , घटरूपे तदभावात् / एतेनान्व आकाशं न पश्यतीत्यत्रापि नत्र उभयत्र सम्बन्धादेव घटकर्मकत्वाभाववदर्शनाश्रयत्वाभाववानन्ध इति बोधो गच्छत्यपि नः गच्छतीति प्रयोगस्य च तात्पर्यसत्त्वे इष्टापत्तिरित्यादि निरस्तम् / / किचैकषटवति भूतले न घटाविति / कथं समाधेयम् ? तत्र घटान्वयिसंयोगत्वावच्छेदेन तद्भूललावृत्तित्वायोगादेकघटसंयोगस्य तद्भुतलवृत्तित्वात् / न च नत्र उभयत्र सम्बन्धेनापि निस्तारस्तद्भूतलावृत्तिसंयोगाभावस्याप्यपस्पटेऽसत्त्वात् / अथ तत्र संयुक्तत्वमानं सप्तम्यर्थस्तस्य च मअर्थऽन्व्यासद्भूतलसंयुक्तत्वाभाववन्तौ घटावित्यन्वयबोध इति चेत् , तर्हि विना व्यासज्यवृत्तिधर्मावच्छिन्नाधिकरणताकाभावाभ्युपगम नोक्तसंभवः / द्वित्वसामानाधिकरण्येन तत्र भूतलवृत्तित्वाभावाबमाभ्युपगमे घंटे सत्तातद्भिन्नजाती न स्तः इत्यस्यापि प्रसंगात् / / ... अथ इदपर्वतयोर्न वहिरिख्यादिप्रतीत्याऽस्त्येव व्यासज्यवृत्तिधर्मावच्छिन्नाधिकरणताकोऽभावः / में हूदपर्वलोभयत्तिस्वाभाववत्संयुक्तो बहिरिल्येव तत्र प्रलीयत इति वाच्य, तथा सलि अयमपि नापत्तिरिति भावः / / For Private and Personal Use Only Page #44 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 44] आत्मख्यातिः महानसपर्वतयोर्न वह्निरित्यस्यापि प्रसंगात् / कस्यापि वह्निसंयोगस्य महानसपर्वतोभयावृत्तित्वात् , वहिसंयोगविशेषा एवोभयावृत्तयो न तु बहिसंयोगसामान्यम् , उक्तावृत्तित्वान्वयश्च संयोगसामान्ये वाच्य इत्यनतिप्रसंग इत्युक्तौ च विशेषाणां कथंचित्सामान्यपरिणत्यनभ्युपगमे सामान्यधर्मावच्छिन्नाधिकरणताकोऽप्यतिरिक्तो भावः स्वीकर्तव्यः स्यादिति / किंच हृदपर्वतयोर्न वह्निपर्वतत्वे इति प्रतीत्यनुरोधेनापि व्यासज्यवृत्तिधर्मावच्छिन्नाधिकरणताकाभावसिद्धिः / न च तत्र सम्बन्धद्वयावच्छिन्नैकाभावानुपपत्तिः, संयोगसमवायाभ्यां कपाले गुणे वा न वस्तुमात्रमिति प्रतीत्या सम्बन्धद्वयावच्छिन्नाव्यासज्यवृत्तिधर्मावच्छिन्नप्रतियोगिताकाभावसिद्धौ तादृशव्यासज्यवृत्तिधर्मावच्छिन्नप्रतियोगिताकाभावसिद्धेरपि निरपायत्वात् / न च व्यासज्यवृत्तिधर्मावच्छिन्नाधिकरणताकाभावसत्त्वे पर्वते न वहिरित्यपि स्यादिति वाच्यं, तादृशाधिकरणतावच्छेदकद्वित्वादिविशिष्ट एव तदन्वयस्य साकांक्षत्वात् / हन्तैवं गुणे न गुणकर्मान्यत्व. विशिष्टसत्तेति प्रतीत्या विशिष्टावच्छिन्नाधिकरणताकोऽप्यतिरिक्तः सिध्येदिति चेत् , सिध्यतु नाम तादृशप्रतीतिसत्त्वे तत्सिद्धेर्हस्तेन पिधातुमशक्यत्वादिति चेत्-न, तथापि संयोगेन घटे न रूपमित्यादावगतेः / तत्र घटसंयुक्तत्वाभाव एव प्रतीयत इति चेत्-न, स्पर्श संयोगेन घट इत्यत्र तथाप्यगतेः तत्र स्पर्शवृत्तित्वाभाववत्संयोगाभाव एव प्रतीयत इति चेत्—न, रूपे तबुद्ध / सयोगेन रूपवत्ताश्रमस्याप्रतिबन्धकत्वेन तत्सत्त्वेऽपि तदापत्तेः / अथाऽत्र संयोगसम्बन्धावच्छिन्नप्रतियोगिकरूपाभाव एव . घटे प्रतीयते भूतले न घट इत्यादौ द्विविधबोधस्यैव शिरोमणिना स्वीकारात् / तदुक्तं नब्दीधितौ-अत्र च तात्पर्यवशात्कंदाचिभूतलादौ घटाद्यभावः कदाचिच्च घटादौ भूतलवृत्तित्वाभावः प्रतीयत इति / अत एव घटपटयोर्न रूपमित्यपि वाक्यं तात्पर्यभेदेनं योग्यायोग्यं रूपत्वावच्छेदेन घटपटोभयवृत्तित्वाभावान्वयतात्पर्य योग्यम् / रूपत्वावच्छिन्नाभावस्य घटपटोभयवृत्तित्वान्वयतात्पर्ये त्वयोग्यमिति विवेकादिति चेत्-न, रूपे संयोगेन न रूपमित्यादेरपि योग्यायोग्यत्वापत्तेः / रूपे संयोगसम्बन्धावच्छिन्नरूपाभावान्वयविवक्षायां योग्यत्वाद्रूपवृत्तित्वाभाववत्संयोगान्वयविवक्षायां चायोग्यत्वात् / अथानेष्टापत्तिरत एव द्रव्ये नः रूपं घटे न जातिरित्यादिवाक्यानामपि तात्पर्यभेदेन योग्यायोग्यत्वं गीयते, दुव्ये ख्याभावो जातित्वसामानाधिकरण्येन घटवृत्तित्वाभाव इत्यभिप्रायेण योग्यतान्यथात्वयोग्यतैवेति / यदि च घटे न जातिः पृथिव्यां न रूपमित्याद्ययोग्यमेवानुयोगितावच्छेदकावच्छेदेनैव वृत्तित्वाभावान्वयव्युत्पत्तेः, द्रव्ये म रूपमित्यस्याप्ययोग्यत्वे तु तत्र विशेषणतावच्छेदकावच्छिन्नस्यैवाभावान्वये साकांक्षत्वादेकान्तयोग्यत्वमिति चेत्-न, एवं सत्येकरूपबोध एव नादिपदानां साकांक्षत्वापत्तेः, उभयबोधानुरोधेनोभयत्र साकांक्षत्वावश्यकत्वे चोक्तदोषानुद्धारात् / किंचानियमपक्षे द्वितीयकल्पे धातोः कालसम्बन्धोऽर्थ आख्याताओं वर्तमानत्वाद्याश्रयत्वं संख्येव तथा च भूतले घटो नास्तीत्यतो भूतलवृत्तित्वा For Private and Personal Use Only Page #45 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आत्मख्यातिः [45 भाववान् घटो वर्तमानकालसम्बन्धाश्रय इति वोधेऽविद्यमानोऽपि घटो भूतले नास्त्युत्पद्यमानोऽपि घटो भूतले नास्तीति प्रयोगानुपपत्तेः सप्तम्या निरूपितत्वं धातोराधेयत्वमर्थस्तथा च भूतलनिरूपितवर्तमानाधेयत्वाश्रयत्वाभाववान् घट इत्यन्वयो वाच्यः / इत्थमेव परम्परया भावना विशेष्ये घटादौ तिडपस्थाप्यसंख्याया अन्वयात् सुतिङोर्वचनैश्यनियमोपपत्तेः / इत्थमेव च भवनान्निर्गते घटे भवने घटोऽस्तीति भवनस्थे च घटे भवने घटो नास्तीति व्यवहाराप्रामाण्योपपत्तेः / गगनमस्तीत्यनुरोधेन कालसम्बन्धस्थैवास् धात्वर्थत्वे तु सप्तम्यर्थस्यावच्छिन्नत्वस्यास्त्यर्थेऽन्वयो वाच्यः, मेयत्वं घटेऽस्तीत्यादौ तु वृत्तित्वमेव सप्तम्यर्थ इति / तथा च घटपटयोर्घटपटरूपे इत्यस्य सर्वथाऽनुपपत्तिः, उभयनिरूपितस्याधेयत्वस्य उभयावच्छिन्नकालसम्बन्धस्य वा प्रकृतस्थलेsभावादित्येतादृशस्थले प्रत्येकसमुदायापेक्षायां योग्यायोग्यत्वव्यवस्थायै नयभेदोऽवश्यमाश्रयणीयो, द्वित्वेन संगृहीताधेययोत्वेिन संगृहीतसम्बन्धाभ्यां द्वित्वेन संगृहीताधारवृत्तित्वस्य, विभक्ते च विभक्तद्वयावृत्तित्वस्य संभवात् / एवमवयविनोऽप्येकान्तभेदे प्रत्येकसमुदायापेक्षायामवयववृत्तित्वं दुनिरूपम् , नयभेदाश्रयणे तु न काप्यनुपपत्तिरेकत्वेन संगृहीतस्यावयविनः स्वद्रव्यत्वेन संगृहीतयावदवयववृत्तित्वसंभवात् / तत्किम् ? अवयव्येकत्वमपि द्वित्वादिबद्बुद्धिजन्यमेवेति चेत्न , एकत्वद्वित्वादीनामनन्तानां संख्यापर्यायाणामेकद्रव्यवृत्तीनामेव सतां यथाक्षयोपशमं बुद्धिविशेषेण प्रतिनियतानामेव ग्रहणमित्युपगमात् / युक्तं चैतत् , अन्यथा एकत्रैव घटे तद्रूपतद्रसवतोरेक्यमित्यादिना द्विवचनप्रयोगस्य बहुषु च करितुरगरथपदातिषु सेनेत्येकवचनप्रयोगस्यानुपपत्तेः / अथैकत्र द्वित्वादितत्तद्धर्मप्रकारकबुद्धिविषयत्वादिकं, गौणमेव द्वित्वादिव्यवहारनिमित्तं, तच्च तत्तद्धर्मावच्छेदेनैव पर्याप्तमिति नैको द्वावित्यादेः प्रसंग इंति चेत्-न, उक्तविषयतारूपद्वित्वादेरप्येकत्र पर्याप्तत्वात् , तत्तद्धर्मप्रकारतानिरूपितत्वविशिष्ट विषयताया अपि क्वचित्सम्बन्धादिभेदेन प्रकारताभेदादेकस्या अभावात् / भावेऽपि च द्वयस्य प्रत्येकानतिरिक्तत्वेनैकधर्मावच्छेदेन द्वित्वादिपर्याप्तिप्रसंगात् , धर्मगतद्वित्वस्यैव तत्पर्याप्यवच्छेदकत्वस्वीकारे च तत्रापि द्वित्वस्य वास्तवस्याभावाद्रूपत्वरसत्वादिप्रकारकत्रुद्धिविषयत्वरूपस्यैव गौणस्य स्वीकारे तत्याप्त्यवच्छेदकादिगवेषणेऽनवस्थेति वास्तवद्वित्वाभावे ज्ञानाकारतैव तत्र पर्यवस्येदिति द्रव्यत्वावच्छि नैकत्वावच्छेदेन पर्यायत्वावच्छिन्नद्वित्वादेः पयायवावच्छिन्नद्वित्वाद्यवच्छेदेन च द्रव्यत्वावच्छिन्नैकत्वादेः पर्याप्तिस्वीकारेऽनेकान्तवाद एवानाविला व्यवस्थेति ध्येयम् / अत एव "दव्यद्वया एगे अहं नाणदसणडया दुवे अहं' इत्यादि पारमर्षम् / [ For Private and Personal Use Only Page #46 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ... आत्मख्यातिः द्वित्वादिकस्यापेक्षाबुद्धया जन्यगम्यत्वम् इदमप्यत्र विचार्यते द्वित्वादिकमपेक्षाबुद्ध्या जन्यं वा व्यंग्यं वेति ? तत्र' जन्यमेवेति नैयायिकाः, व्यंग्यमिति प्राभाकराः, जन्यगम्यमिति वयम् / तत्र नैयाकानामयमाशयः. द्वित्वस्य व्यंग्यत्वनयेऽपेक्षाबुद्धेर्दित्वत्वप्रकारकलौकिकप्रत्यक्षत्वं कार्यतावच्छेदकं वाच्यमिति तदपेंक्षया द्वित्वत्वस्यैव कार्यतावच्छेदकत्वे लाघवम् / न च व्यंग्यत्वनयेऽपि लौकिकप्रकारतासम्बन्धेन द्वित्वत्वमेव तत्कार्यतावच्छेदकं वक्तुं शक्यं, गुणत्वसंख्यात्वतव्यक्तित्वादिना विनाऽप्यपेक्षाबुद्धिं तत्प्रत्यक्षप्रसंगात् / तेन तेन रूपेण तत्प्रत्यक्ष प्रति तस्या हेतुल्वकल्पने चातिगौरवात् / न च स्वाश्रयविषयतया द्वित्वत्वस्य कार्यतावच्छेदकत्वे न दोष इति वाच्यम्, तथापि व्यंग्यत्वनये स्वाश्रयविषयत्वं कार्यतावच्छेदकतावच्छेदकः सम्बन्धो, जन्यत्वनये तु समवाय इति जन्यत्वपक्ष एव लाघवात्। ___ अथ द्वित्वप्रत्यक्षेऽपि प्रत्यक्षत्वमेव कार्यतावच्छेदकं द्वित्ववृत्तिविषयतायाः कार्यतावच्छेदकसम्बन्धवत्वेनैवानतिप्रसंगात् / अन्यथा द्वित्वप्रत्यक्षस्य विषयतया द्वित्वत्वेऽपि जायमानत्वेन व्यभिचारात् / अपेक्षाबुद्धित्वं कारणतावच्छेदकं तच्च मानसत्वव्याप्यो जातिविशेषः, कारणतावच्छेदकः सम्बन्धः स्वविषयपर्याप्तत्वं तेन घटपटैकत्वबुद्धित्वेनापेक्षाबुद्धेर्धटपट द्वित्वप्रत्यक्षे हेतुत्वेऽनन्तकार्यकारणभावा द्वित्वप्रत्यक्षत्वावच्छिन्नेऽपेक्षाबुद्धित्वेन सामान्यता हेतुत्वेऽपि घटपटद्वित्वप्रत्यक्षकाले घटकुड्यद्वित्वप्रत्यक्षापत्तिः, विषयवृत्तिसम्बन्धेनाप्यपेक्षाबुद्धेस्तत्र सत्त्वादित्यादिदूषणं निरस्तम् / घटपटै. कन्वबुद्धेर्घटकुड्यद्वित्वे स्वविषयपर्याप्तत्वसम्बन्धेनासत्त्वादिति व्यंग्यत्वनयेऽपि न गौरवमिति चेत्-न, एवं सति प्रत्यक्षत्वं वा कार्यतावच्छेदकं ज्ञानत्वं वानुभवत्वं चेत्यादौ विनिगमकाभावात् / किं च व्यंग्यत्ववादिना मैत्रीयापेक्षाबुद्ध्या सन्निकर्षादिवशाद्वित्वे चैत्रीयप्रत्यक्षोत्पत्तिवारणाय चैत्रीयापेक्षाबुद्धित्वचैत्रीयप्रत्यक्षत्वेन कार्यकारणभावो वाच्य इति गौरवमेव / ... अथ तव पुरुषान्तरापेक्षाबुद्धिजनितद्वित्वस्य पुरुषान्तराप्रत्यक्षत्वाय द्वित्वनिष्ठविषयतासम्बन्धेन चैत्रीयप्रत्यक्षे मैत्रीयद्वित्वादिभेदस्यापि हेतुत्वं कल्पनीयम्। - - - यद्वा चैत्रीयद्वित्वप्रत्यक्षं प्रति चैत्रापेक्षाबुद्धिजन्यद्वित्वत्वेन हेतुता कल्पनीया, कार्यतावच्छेदकः सम्बन्धी विषयता, कारणतावच्छेदकस्तादात्म्यमत एव चैत्रमैत्रापेक्षाबुद्धिभ्यां तुल्यविषयाभ्यां युगपदुत्पन्नाभ्यामुत्पादितं द्वित्वमेकमेवेति मतेऽपि न क्षतिरिति कल्पनायामधिकं गौरवमिति चेत्-न, तद्गौरवस्य फलमुखेनादोषत्वात् / / 1. एष विषयो 'नयोपदेशे' प्रथमप्रकाशेऽपि वर्तते / For Private and Personal Use Only Page #47 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आत्मख्यातिः / 47 यद्यपि द्वित्वादावपेक्षाबुद्धेनैकत्वावगाहिबुद्धिवेन हेतुताऽयं धट एक इति बुद्धितोऽपि द्वित्वोत्पत्त्यापत्तेः, नापि नानैकत्वावगाहिबुद्धित्वेन अयमेकश्चिरनष्टो घटश्चैक इति बुद्धितोऽपि तदापत्तेः, तथापि द्वित्वादिजनकतावच्छेदिका. मानसत्वव्याप्या नानाजातयो वाच्याः, अन्यथा कदाचिद्वित्वं कदाचित्रित्वमिति नियमो न स्यात् / न च स्मृतिव्याप्यत्वमेव तासां न कुत इति वाच्यं, यद्वयक्तिविशेष्यकैकत्वस्मरणं कस्यापि न जातं तत्र स्मरणानुभवकार्यकारणभावकल्पने संस्कारव्यवधानेन क्षणविलम्बे च गौरवात् , स्मृतिव्याप्यत्वेऽपि स्मरणात्मकैकत्वबुद्धिकल्पनाक्षणे मानसोत्पत्तौ बाधकामावात् , उपनायकज्ञानघटितसामग्रीसत्त्वात् , मानसं प्रति तत्तत्स्मृतिसामग्रयाः प्रतिबन्धकत्वकल्पने गौरवान् / सन्तु वा चाक्षुषत्वादिव्याप्या नानाजातयो द्वित्वादौ च* तदाश्रयजन्यतावच्छेदिकाः; न च विलक्षणबुद्धयैव द्वित्वादिव्यवहारोपपत्तावतिरिक्तद्वित्वादौ मानाभावः द्वौ त्रय इत्यादिविलक्षणबुद्धेः प्रकारभेदं विनाऽसम्भवात् / अन्यथा सर्वत्र विषयनिरपेक्षैरेव ज्ञानैस्तत्तद्वयवहारजननप्रसंगात् / में च द्वावित्यादिबुद्धे विजातीयज्ञानं विषयोऽचाक्षुषत्वापत्तेः / न चेमौ द्वौ मधुपावेते त्रयः कमलकल्हारकलहंसा इत्यादौ युगपदेव द्वित्वत्रित्वप्रतीतेरेकत्र बुद्धौ द्वित्वत्रित्वजनकतावच्छेदकजात्युपगमे जातिसंकरप्रसंग इति वाच्यम् , द्वित्वत्रित्वोत्पादकापेक्षाबुद्धयोरुत्पादे सूक्ष्मकालभेदकल्पनात् / गिरिरय वहिमानहं तज्ज्ञानवानित्यनुमितिप्रत्यक्षयोरिव। अथ तत्र भिन्नविषयेऽनुमितिसामग्रयाः प्रतिबन्धकत्वादस्तु तयोर्युगपदनुत्पादो न तु प्रकृते इति चेत्-तर्हि प्रतिबन्धकं किंचिदत्रापि कल्प्यताम् अन्यथानुपपत्तेर्बलीयस्त्वात् / अस्तु वा तत्रापेक्षाबुद्धावुभयजनकतावच्छेदको जातिविशेषः, आस्ता च द्वित्वत्रित्वयोस्तज्जन्यतावच्छेदको जातिभेदौ / एतेन समवाय्यसमवायिनिमित्तानामविशिष्टत्वे द्वित्वत्रित्वाद्युत्पत्तिनियमे किं कारणं द्वाभ्यामेकत्वाभ्यां द्वित्वं त्रिभिस्त्रित्वमारभ्यं इति वक्तुमशक्यत्वात् / एकत्वे बुद्धित्वादेरभावात् / न च शुद्धयाऽपेक्षाबुद्ध्या द्वित्वं द्वित्वसहितया च तया त्रित्वमुत्पाद्यत इत्यपि सुवचम् , द्वित्वत्रित्वयोयुगपदेवोक्तप्रत्ययविषयत्वात् / न चैकत्वेष्वेव द्वित्वादिजनकतावच्छेदका जातिविशेषा अभ्युपेयास्तत एव द्वित्वादिव्यवहारोपपत्तौ द्वित्वाधुच्छेदप्रसंगादित्यादिपर्यनुयोगो निरस्तः / अपेक्षाबुद्धिनिष्ठद्वित्वत्रित्वादिजनकतावच्छेदकजातिभेदेनैव तयोः सामग्रीभेदात् , एकापेक्षाधीजन्यद्वित्व योरप्यन्यत्र परिदृष्टभेदवज्जातीयत्वेनैव भेदात्। . __ आचार्यास्तु द्वित्वप्रागभावगर्भव द्वित्वसामग्री त्रित्वप्रागभावगर्भा च त्रित्वसामग्रीति तयोविशेषः इतोऽपि. प्रागभावसिद्धिः, अन्यथा तयोर्विशेषो न स्यात् / पर्याप्तिसम्बन्धेन द्वित्वादिकं प्रति *'च' अधिकं प्रतिभाति / For Private and Personal Use Only Page #48 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 48] आत्मख्यातिः पर्याप्तिसम्बन्धेन तत्प्रागभाव एव नियामकः, अत एवैकस्मिन्न पर्याप्तिसम्बन्धेन द्वित्वादिप्रत्ययस्तप्रागभावस्यैकस्मिन् पर्याप्त्यभावेन तस्यापि तदभावादित्याहु / अथापेक्षाबुद्धिजन्यत्वे द्वित्वस्य द्वे द्रव्ये इति लौकिकप्रत्यक्षानुपपत्तिः अपेक्षाबुद्धिरथ द्वित्वं अथ द्वित्वत्वनिर्विकल्पकं, ततो द्वित्वत्वविशिष्टप्रत्यक्षं, तदैव च द्वित्वनिर्विकल्पकेन स्वोत्तरवर्तिविशेषगुणविधया जनितोऽपेक्षाबुद्धिविनाशस्ततश्च द्वे द्रव्ये इति लौकिकप्रत्यक्षं तदैव चाऽपेक्षाबुद्धिविनाशाद्वित्वविनाश इति हि त्वदभिमता व्यवस्था, सा चानुपपन्नाऽपेक्षाबुद्धेः स्वजन्यसंस्कारेण द्वित्वनिर्विकल्पकोत्पत्तिक्षणं एव नाशात् , योग्यविभुविशेषगुणनाशं प्रति स्वोत्तरवर्तियोग्यजातीयविभुविशेषगुणत्वेन हेतुत्वात् , सुषुप्तिप्राक्कालवर्तिज्ञाननाशकतयैव तत्सिद्धेः। अन्यथाऽनुभवध्वंसेनैव संस्कारान्यथासिद्धेरिति चेत्-न,अपेक्षाबुद्धेः संस्काराजनकत्वादु पेक्षाबुद्धिभिन्नत्वस्येवापेक्षा बुद्धिभिन्नत्वस्यापि संस्कारजनकतावच्छेदके प्रवेशात् / न चैवमप्यपेक्षाबुद्धिजनितैकत्वादिविशिष्टबुद्ध्यपेक्षाबुद्धिनाशप्रसंगस्तदुक्तम् 'अपेक्षाबुद्धिः संस्कारं मां कार्षीद्विशिष्टबुद्धिं तु कुर्यादेवे ति वाच्यम् , विशिष्टबुद्धिजननेऽपि द्वित्वसामग्र्यादेरेव फलबलेन प्रतिबन्धकत्वकल्पनात् / वस्तुतोऽपेक्षाबुद्धिनाशे द्वित्वलौकिकप्रत्यक्षस्य विशिष्य कारणत्वकल्पनान्न दोषः / न च तथापि पूर्वीपेक्षाजनितद्वित्वनिर्विकल्पकेन स्वद्वितीयक्षणोत्पन्नेनापेक्षाबुद्धस्तृतीयक्षणे नाशप्रसंगः प्रतियोगितयाऽपेक्षाबुद्धिनाशेः स्वविषयजनकत्वसम्बन्धेन द्वित्वलौकिकप्रत्यक्षत्वेन हेतुत्वात् / ... नन्वेवमपि द्वे द्रव्ये इति लौकिकप्रत्यक्षं कथं तदुत्पत्तिक्षणे द्वित्वनाशादिति चेत् ? मैवम् , द्वित्वस्य हि प्रत्यक्षे विषयविधया हेतुत्वं न तु कार्यसहवर्तितयेति दोषाभावात् , न हि सर्वेषां कारणानां कार्यसहवर्तितयैव हेतुत्वं, प्रागभावपक्षतादेरहेतुत्वप्रसंगादिति / सोऽयमाशयो न युक्तः। अनन्तद्वित्वादिध्वंसप्रागभावादिकल्पनायां गौरवात् , तद्वयंग्यत्वपक्षस्यैव युक्तत्वात् , अन्यथा नानापुरुषीयक्रमिकापेक्षाबुद्धिसमसंख्यतुल्यव्यक्तिकनानाद्वित्वादिकल्पनरयापि प्रसंगात् / मम तु नित्यानामेव तेषां तत्तदपेक्षाबुद्धिव्यंग्यत्वे दोषाभावात् / - न चैवं तेषां जातित्वापत्तिरसमवायित्वे सत्यनेकसमवेतत्वस्य समवेतत्वस्यैव वा जातिव्यववहारनिमित्तत्वात् , न च विशेषेऽतिप्रसंगस्तत्र मानाभावात् / किं च द्वित्वादेर्जन्यत्वे प्रतियोगितया नाशाजन्यतन्नाशे स्वप्रतियोगिजन्यत्वसंबन्धेनापेक्षाबुद्धिनाशत्वेन हेतुता वाच्या, तथा च द्वयणुकपरिमाणहेतुपरमाणुद्वित्वस्येश्वरापेक्षाबुद्धिजन्यस्य नाशानुपपत्तिः / न च यादृशोपाधिविशिष्टायास्तस्या अपेक्षाबुद्धित्वं तादृशोपाधिनाशादेव . तन्नाशोऽविशिष्टायास्तस्या द्वित्वहेतुत्वे सर्वदा द्वित्वोत्पत्तिप्रसंगादिति वाच्यम् , स्वाव्यवहितपूर्वक्षणावच्छिन्नत्वेनैव तस्या. अपेक्षाबुद्धित्वे तन्नाशात्परमाणुद्वित्वनाशे तस्य क्षणिकत्वप्रसंगात् , अतिरिक्तानुगतोपाधेश्चानिर्वचनात् / For Private and Personal Use Only Page #49 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आत्मख्यातिः [49 किंचैवं तत्तद्वित्वनाशे तत्तदपेक्षाबुद्धिनाशत्वेन हेतुत्वे महागौरवम् / अपि च मानसत्वव्याप्यजातिविशेषेणापेक्षाबुद्धेर्द्वित्वादिहेतुत्वे ईश्वरापेक्षाबुद्धया परमाणुद्वित्वादिजननापत्तिः, ईश्वरज्ञान साधारणद्वित्वादिजनकतावच्छेदकजातिस्वीकारे च जन्यसाक्षात्कारत्वादिना सांकयं त्रित्वाद्युत्पत्तिकाले द्वित्वाद्यापत्तिश्च दुर्निवारा। एतेन द्वित्वादिजनकतावच्छेदकतयाऽपेक्षाबुद्धिनिष्ठलौकिकविषयत्वस्वीकारोऽपि निरस्तः / परार्धादिसंख्यानुत्पत्तिप्रसक्तेश्च; तदाश्रययावद्र्व्यवृत्तिलौकिकविषयताया असंभवात् / अथ परार्धस्य कस्यापि न प्रत्यक्षं तस्य विद्यमानतादृशयावद्र्व्यवृत्तितयाऽतीन्द्रियगुणत्वेनातीन्द्रियत्वात् / स्वाव्यापकयावत्संख्याव्यापकत्वस्यैव परार्धलक्षणत्वात् / न च परार्धद्वितीयक्षणोत्पन्नद्रव्यमादायोत्पन्नपरार्धाश्रययावद्र्व्यमादाय च परार्धान्तरमुत्पन्न तत्परार्धाव्यापके पूर्वपरार्धेऽव्याप्तिः, एकद्रव्योत्पादक्षणे नियमेन द्रव्यान्तरविनाशोत्पादोपगमात् / तदनुपगमे तु स्वसमानक्षणोत्पत्तिकैकत्वान्ययावत्संख्याव्यापकत्वं परार्धत्वं, यावत्वमशेषत्वं, तेन स्वा स्व व्यापकस्य स्वस्यैव व्यापकत्वमादाय लक्षणसमन्वयः / द्वयमपि चेदं परार्धस्य स्वाव्यवहितपूर्ववृत्तियावद्र्व्यवृत्तित्वनियमेनान्यथाऽपेक्षाबुद्धिवैचित्र्यान्यूनाधिकदेशवृत्तिपरार्धद्वयोत्पादे न्यूनवृत्तेरधिकदेशवृत्त्यव्यापकत्वेनाव्याप्तेः, तादृशव्यापकजातीयत्वं वक्तव्यं कस्याश्चित्परार्धव्यक्तेः स्वव्यापकयावत्संख्याव्यापकतया तज्जातीयत्वेनैव तादृशपरार्धन्यूनवृत्तिपरार्धेऽपि लक्षणस्याक्षुण्णत्वादिति 'तवापि परार्धप्रत्यक्षेऽपेक्षाबुद्धहेतुत्वानुपपत्तिरिति चेत्-न, मम सामान्यत एकत्वान्यसंख्याप्रत्यक्षत्वावच्छिन्न एवापेक्षाबुद्धित्वेन हेतुत्वेऽपि व्यासज्यवृत्तिगुणप्रत्यक्षे यावदाश्रयप्रत्यक्षस्य हेतुत्वेन विशेषसामध्यभावादेव परार्धाप्रत्यक्षत्वोपपत्तेरिति प्राभाकरवृद्धाः / केचित्तु द्वित्वत्रित्वादिकं तुल्यव्यक्तिवृत्तिकमेव सामान्यं अनित्यस्य संयोगादेखि नित्यस्यापि द्वित्वादेर्व्यासज्यवृत्तित्वे विरोधाभावात् , भिन्नेन्द्रियग्राह्याणां रूपरसादीनामिव समानेन्द्रियग्राह्याणामपि सत्यप्येकावच्छेदेन समानदेशत्वे प्रतिनियतव्यंजकव्यंग्यत्वे विरोधाभावात् , सहचारदर्शनमात्रस्याकिंचित्करत्वात् / भेदश्च विरुद्धधर्माध्यासात् स च न्यूनाधिकदेशपर्याप्तवृत्तिकत्वमित्याहुः / परे तु घटकुटकुड्यकुशूलेषु द्वित्वत्रित्वादिप्रतीतावेकतरनाशे तद्वत्तेर्द्वित्वादेरपि संयोगादेखि विनाशप्रत्ययादनित्यवृत्ति नानाव्यक्तिकमेव द्वित्वादिकम्। आश्रयविनाशोत्पादाभ्यामेव तस्योत्पादविनाशौ, असमवायिकारणं चाश्रयस्यैकत्वं परिमाणं वा, एकवृत्तिकमेकत्वमिव तुल्यव्यक्तिवृत्तिकं द्वित्वाद्यपि नानेकं तुल्यव्यक्तिवृत्तिकद्वित्वादेः प्रतिबन्धकत्वात् / बुद्धिविशेषस्तद्वयञ्जको नतूत्पादको नित्येषु चैकव्यक्तिकमनेकव्यक्तिकं वा नित्यमित्याहुः / आ. 7 For Private and Personal Use Only Page #50 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 50] आत्मख्यातिः - वयं तु ब्रूमः--एकत्वान्यसंख्यात्वे द्वित्वादिपरार्द्धपर्यन्तसंख्यावृत्तिजातिविशेषे वा नापेक्षाबुद्धेर्जन्यतावच्छेदकत्वं व्यङ्ग्यतावच्छेदकत्वं वा। एको धान्यराशिरित्यादिप्रत्ययसिद्धे सामूहिकैकत्वे व्यभिचारात् / न द्वे इमे नीलपीते इति गौणद्वित्वाद् विलक्षणं 'द्वे इमे पटकुण्डे ' इत्यत्र द्वित्वमनुभूयते, न चैकत्र ज्ञाने द्वित्वं प्रकारोऽन्यत्र तु नेत्यपि विनिगन्तुं शक्यम् , एकत्रापि च घटे नीलत्वघटत्वाभ्यां द्वित्वमनुभूयत एवेति स्वसामग्रीप्रभवैकत्वद्वित्वाद्यनन्तपर्यायोपेतद्रव्य एव कयाचिदपेक्षयैकत्वं कयाचिच्च द्वित्वादिकं प्रतीयत इति जन्यस्य सतो द्वित्वादेरपेक्षाबुद्धिगम्यत्वं गीयते, अपेक्षाबुद्धिद्वित्वबुद्धयोः पौर्वापर्यानवभासाद्वित्वाचंशेऽपेक्षात्वाख्यविषयताशालिन्या एव बुद्धेरपेक्षाबुद्धित्वस्वीकारात् / अयं घट एतद्वयक्त्यपेक्षयको नीलत्वघटत्वाभ्यां च द्वयात्मक इत्यत्रैतव्यक्तित्वावच्छिन्नैकत्ववति घटे नीलत्वघटत्वप्रकारताद्वयनिरूपितापेक्षात्वाख्यविषयतावच्छिन्नद्वित्वप्रकारताकबुद्धेरेव नयरूपायाः स्वीकारात् / अत एव समूहालम्बनस्थलेऽपेक्षात्वस्यांशिकत्वोपपत्तिः, बाधधियश्चापेक्षान्तर्भावेनैव प्रतिबन्धकता / इमौ द्वावित्यादिस्थलेऽपि याशविषयताविशिष्टाया अपेक्षाबुद्धेः परैर्जनकत्वं व्यंजकत्वं वा स्वीक्रियते तादृशविषयतानिरूपितापेक्षात्वाख्यविषयता द्वित्वादौ सुलभा / सामान्यविशेषत्वादेरापेक्षिकत्वेऽपीयमेव रीतिरनुसतम्या / न चैवमनपेक्षकत्वाद्वित्वादिप्रत्यक्षानुपपत्तिव्यतयाऽनपेक्षविषयतान्तरस्यापि स्वीकारात् , अत एव सापेक्षत्वानपेक्षत्वाभ्यां स्याद्वादोऽपि संगच्छते, अत एव च घटोऽघटो नो घटो नो अधट इत्याकारिते विभक्तनयपरिच्छेदोपपत्तिः। न चेयं विकल्पपरम्परा शब्दशुद्ध स्पृशतु प्रत्यक्ष तु न मातंगीव स्प्रष्टुमर्हतीति वाच्यम् , अस्या धन्यायाः कन्याया भाग्यवतः प्रत्यक्षस्यैव स्प्रष्टुमर्हत्वात् / अवग्रहेहापायधारणात्मके तत्र सम्यक्त्ववासनोपनीतपरिच्छिन्नानन्तधर्मात्मकत्वावगाहितयैव लोकोत्तरप्रामाण्यव्यवस्थितेः / . जे एगं जाणइ, से सव्वं जाणइ / जे सव्वं जाणइ, से एग जाणइ // ति [ ]. भगवद्वचनप्रामाण्यस्येत्थमेव विशेषावश्यकादौ व्यवस्थापनात् / लौकिकं तु यथार्थप्रवृत्तिजनकत्वादि रूपं प्रामाण्यं घट इत्याद्यांशिकज्ञानस्यापि न वारयाम इति दिक् / तदेवमवयवावयविरूपतयैव घटादेरेकानेकत्वादिकमुपपद्यत इति स्थितम् / अवयवायविनोरेकान्तभेदे दूषणान्तरम् किञ्चावयविन एकान्तभेदे शतमाषकारब्धेऽवयविन्यवयवगुरुत्वाधिकगुरुत्वादवनतिविशेषप्रसंगः / न च गुरुतरद्रव्ययोः समयोरुत्तोलने एकत्रसंलमतृणादिगुरुत्वाधिक्यादनवनतिवदुपपत्तिः, अवयविन्यत्यन्तापकृष्टगुरुत्वस्वीकारादिति समाधानं साम्प्रतम् , समवायेन समवेतसम्बन्धेन For Private and Personal Use Only Page #51 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आत्मख्यातिः द्रव्यवत्त्वरूपावयवित्वेन स्वसमवायिनिष्ठगुरुत्वात्यन्तापकृष्टगुरुत्वत्वावच्छिन्नं प्रति हेतुत्वे गुरुत्वेनवा स्वात्यन्तापकृष्टगुरुत्वत्वावच्छिन्नं प्रत्येवासमवायिकारणत्वे द्वयणुकाद्यन्तावयविपर्यन्तेष्वत्यन्तापकृष्टगुरुत्वस्यैवापत्तेः। तथेष्टापत्तावपि तृणादिसमुदायगुरुत्वेनेवावयविसमुदायगुरुत्वेन तुलादाववनतिविशेषस्य दुर्वास्त्वाच्च / अवयविन्यवनतिस्वरूपायोग्यमेव गुरुत्वमित्यत्र तु मानाभावः / - अस्तु तर्हि परमाणावेव गुरुत्वं व्यणुकादेरधःसंयोगस्तु गुरुत्वसापेक्षपातजन्यावयववेगजवेगाधीनक्रियया, पातव्यवहारस्तु वर्त्तिस्थदीपपातव्यवहारवद्गौण इति वाच्यम् , कर्ममात्रं न वेगजनकं मन्दकर्मणोऽपि वेगापत्तेः, किन्तु नोदनाभिघाताद्यपेक्षमिति भाष्योक्ते!दनाभिवातसापेक्षाया एव क्रियाया वेगजनकत्वोपगमेन गुरुत्वसापेक्षायाः क्रियाया अतथात्वात् , अन्यथा गुरुत्वादेवोत्तरोत्तरकर्मसन्तानसंभवाद्वेगोच्छेदापत्तेः, अथ नोदनाभिधातसापेक्षत्वं कर्मण उत्कर्षोपलक्षणं तथा च गुरुत्वसापेक्षाया अप्युत्कृष्ट क्रियाया वेगजनकत्वमविरुद्धम् / युक्तं चैतत् , अधःसंयोगत्य क्वचिदभिघातात्मकस्य विना वेगमसंभवात् , वेगेन पततीत्यादिव्यवहाराच्च। न चैवं महावयविपाते बहुविलम्बः मिथो विश्र[ष्ट ?]ब्धावयवानां' विष्टम्भाधीनक्रियाजन्यवेगेनान्त्यावयविनि द्रुतवेग[गा ?]संभवादिति वाच्यम् , वेगजनकतावच्छेदकोत्कर्षस्य तज्जन्यतावच्छेदकाप्रकर्षेण समं सांकर्यात् , चरमादिमक्रिययोरैकै काभावान्मध्यमासु चोभयसत्त्वात् / उत्कृष्टक्रियात्वेन वेगजनकताया वक्तुमशक्यत्वात् / समवायेन तद्वेगेन तत्तक्रियात्वेन वेगजवेगे च स्वसमवायिसमवेतत्वेन वेगत्वेन हेतुत्वे च गुरुत्व एव मानमुच्छिन्नं तक्रियाहेतुतया गुरुत्वासिद्धेर्विजातीयकार्यस्यैव विजातीयकारणानुमापकत्वात् / एतेन पातव्यवहारवत्परंपरया सम्बन्धविशेषेण वा परमाणुगुरुत्वमेव पतननियामकमित्यपि निरस्त तुल्यन्यायेनैवं परमाणुगतरूपादेरेवायविचाक्षुषाद्युपपत्तावयविरूपादेरप्युच्छेदापत्तेश्च / किं च वेगाख्यगुण एव तावन्मानाभावः, एकस्या एवं क्रियायाः प्रकर्षानुसारेण फलबाहुल्यकल्पनायाश्चरमसंयोगनाश्यतायाश्चोपपत्तेः, वेगाभ्युपगमेऽप्येकस्मादेवादृष्टात्स्वर्गसन्तानवदेकस्मादेव तत उत्तरोत्तरकर्मसन्तान इति मतस्योपपन्नत्वात् / स्वजन्यक्रियाजन्यसंयोगस्य वेगनाशकत्वे प्राथमिकवेगद्वितीयकर्मणोर्युगपदेव नाशाद् द्वितीयवेगानुपपत्तेः, वेगवति वेगानुपत्तेः प्राक् तदसंभवात् / स्वजन्यकर्मणो वेगनाशकत्वे तु वेगः स्पर्शवद्र्व्यसंयोगविरोधीति भाष्यविरोधादिति. गुरुत्वसापेक्षपातजन्यावयववेगजवेगाधीनक्रियाया द्वयणुकादेरधःसंयोग इति रिक्तं वचः / / - एतेन प्रलये परमाणवो दोधूयमानास्तिष्ठन्तीति भाष्यमपि नियुक्तिकमेव द्रष्टव्यम् , तदानीं तत्र गुरुत्वाधीनकर्मसन्तानस्य दुरभ्युपगमत्वात्पातप्रतिबन्धकवेगाभावेन तदा परमाणूनां पातस्यैव 1. परस्परसम्बद्धावयवानामिति भावः / For Private and Personal Use Only Page #52 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 52]. आत्मख्यातिः प्रसंगादिति किमप्रकृतेन / यत्तु गुरुत्व एव मानाभावो वायुतेजसोस्तियंगूर्ध्वगमनवत्पाथःपृथिव्योरधोगमनस्यासतिप्रतिबन्धकेऽदृष्टवदात्मसंयोगादिनैवोपपत्तेः / पतनप्रकर्षस्त्ववयवाधिक्यात् , अवयविनि गुरुत्वापकर्षोपगमे परेणापि तथैव वाच्यत्वादिति केषांचित्समाधानम् , तन्न रमणीयम् , वार्कतूलादौ त्वक्सन्निकर्षविशेषेण गुरुत्वलघुत्वयोः प्रत्यक्षसिद्धत्वात् , अत एवाधोवच्छेदेन संयुक्तसमवायाद् गुरुत्वं प्रत्यक्षमिति वल्लभाचार्याः / ..... इदं तु ध्येयं, गुरुत्वलघुत्वे स्पर्शत्वव्याप्तौ जातिविशेषौ न तु गुरुत्वं गुणान्तरं लघुत्वं च तदभावो विनिगमकाभावात् , तारतम्यस्योभयत्रापि दर्शनात् / गुरुत्वस्य गुणत्वे च पतनहेतुतावच्छेदकं गुरुत्वत्वं वक्तव्यम् , उक्तजातिविशेषत्वे च तदेव हेतुतावच्छेदकमिति लाघवम्, अत. एव गुरुद्रव्यस्य भस्मीभावदशायामपकर्षदर्शनाद् गुरुस्पर्शस्य पाकजत्योपपत्तिरिति दिक् / . .. तस्मादत्यन्तभेदेऽवयविनो गुरुत्वविशेषादवनतिविशेषप्रसंग इति दूषणमनुद्भतमेव / तदेवं व्यतिरिक्तस्वसमवेतकार्याभ्युपगमे बहुदोषसद्भावादवयवव्युत्पत्तिकाले परमाणूनामेवैकत्वसंख्यासंयोगमहत्त्वापरत्वादिपर्यायैस्तद्विनाशकाले च तेषामेव बहुत्वसंख्याविभागाणुपरिणामपरत्वात्मकत्वेनोत्पत्तिः स्वीकर्तव्या। न च य एव कार्यद्रव्यारंभका परमाणवस्त एव तद्विनाशोत्तरकालं स्वरूपेण व्यवस्थिताः कार्यद्रव्यप्रागभावप्रध्वंसयोरेकत्वविरोधात् घटद्रव्यप्रागभावप्रध्वंसमृत्पिण्डकपालवत् / तुच्छरूपता तु तयोः सकलप्रमाणबाधिता। अपि च घटे ध्वस्ते कपालद्रव्योत्पत्तिदर्शनात्तत्र परेण घटध्वंसत्वेन हेतुता वाच्या, मया तु विलक्षणद्रव्ये विलक्षणसंयोगत्वेनेव विलक्षणद्रव्ये विलक्षणविभागत्वेनेति लाघवं तथा च परमाणोप्रिदेशिकविभागजन्यतानायाससिद्धव / तदिदमुक्तं सम्मतौ दव्वंतरसंजोगाहि, केइ दवियस्स बिंति उप्पायं / . उप्पायच्छा कुसला, विभागजायं ण इच्छंति // त्ति [3-38] परमाणुनाशोपपादनम् . ....... इत्थं च परमाणावपि संयुक्तत्वादिनोत्पादस्यासंयुक्तत्वादिना विनाशस्य विभक्तत्वादिनोत्पादस्य संयुक्तत्वादिना च ध्वंसस्य द्रव्यार्थतया ध्रौव्यानुविद्धस्य सत्त्वात् त्रैकालक्षण्यं [त्रैलक्षण्यं ? ] त्रैकाल्यानु विद्धत्वं चोपपद्यते / यत्तु प्राचां मते क्वचित्समवायिकारणनाशस्य क्वचिच्चासमवायिकारणनाशस्य नव्यमते च सर्वत्रासमवायिकारणनाशस्यैव द्रव्यनाशहेतुत्वान्न परमाणुनाशसंभव इति, तन्न, उत्तरपर्यायत्वावच्छिन्नोत्पादस्यैव पूर्वपर्यायत्वावच्छिन्नध्वंसत्वेन तदवच्छिन्ने पृथग्घेतुताया एवाकल्पनात् / 1. सन्म तितर्क ग्रन्थे / For Private and Personal Use Only Page #53 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आत्मख्यातिः [53 अन्यथा' जन्यद्रव्यापेक्षया लाधवाद्र्व्यत्वमेव नाश्यकतावच्छेदकमित्यतोऽपि परमाणुनाशस्य निराबाधत्वात् / __यदप्यन्तरगमनलक्षणो विनाशः परमाणूनामसंभवी परमाणुपर्यन्तत्वात्सर्वविनाशानामिति केषांचिदभिधानं तदप्यसंगतम् , तथाभूतविनाशे प्रमाणाभावात् / अध्यक्षस्य कपालादिपर्यन्तघटादिविनाशोपलम्भ एव व्यापारात् , तत एव तन्मूलानुमानादेरप्यप्रवृत्तेः / परमाणुपर्यन्ते च विनाशे घटादिध्वंसे न किंचिदुपलभ्येत / न वा पाकनिक्षिप्तेन घटेन व्यभिचार उक्त प्रसंगसाधने सर्वस्य पक्षीकृतत्वात् / पाकान्यथानुपपत्त्या परमाणुपर्यन्तो विनाशः परिकल्प्यत इति चेत्-न, विशिष्टसामग्रीवशाद्विशिष्टवर्णस्य घटादेव्यस्य कथंचिदविनाशेऽप्युत्पत्तिसंभवात् / वैशेषिकमते परमाणुपाकनिरूपणम् अत्र वैशेषिकमतानुयायिन उदयनाचार्याः२ सर्वदिगवच्छेदेनामिसंयोगस्य रूपपरावृत्तिनिमित्तत्वान्मूर्तयोः समानदेशताविरोधेन परमाण्वन्तरावष्टब्धे परमाणौ तदसंभवात्तीवाग्निसंयोगात्परमाणुक्रियाविभागादिक्रमेण द्वयणुकाद्यन्तावयविपर्यन्तनाशः / पुनर्यथोक्तरीत्या द्वयणुकान्तरोत्पत्तौ परम्परया घटादिपर्यन्तोत्पत्तिः / - न च निबिडद्रव्ये पावकप्रवेश एव कथं येन तदधीनपरमाणुक्रियादिक्रमेण व्यणुकाद्यन्यावयविपर्यन्तनाशः स्यादिति शङ्कनीयम् , अवयविद्रव्याणां सान्तरत्वेन तदुपपत्तेः / कथमन्यथा मध्यस्थानामपां स्यन्दनम् ? ईदृशो हि तेजसो वेगातिशयः स्पर्शातिशयश्च यत् तजन्मकर्म कार्यव्यं पूर्वव्यूहात् प्रच्यावयति तदवयवांश्च व्यूहान्तरं प्रापयति / असान्तरत्वे चावयविद्रव्याणामन्तरे - प्रविशति पावके क्वथ्यमानाः क्षीरनीरादयो नोचं मापयेरन् (?) / न च मृदुसंयोगत्वात्तथाऽतिदृढानामप्युपलादीनामग्निदग्धानां स्फुटनात् , तस्माद् यथा शरीरादौ प्रत्यहमनुपलक्षणीयोऽपि कालान्तरे स्फुटीभूतो विशेषः प्रतीयते तथा घटादिपाकेऽपीति युक्तम् / एतेन पाकोत्तरं तस्यैवावयविनः प्रत्यभिज्ञानं सर्वदा दर्शनम् उपरि निहितमूर्त्तान्तरधारणसंख्यापरिमाणरेखोपरेखादिचिह्नाविपर्ययः पूर्वद्रव्याविनाशे प्रमाणमिति निरस्तं सूचीप्रभेदविदलितत्रिचतुरत्रसरेणुघटादिवदुषपरित्याहुः / न्यायमतेनावयविपाकनिरूपणम् नैयायिकास्तु पाकात्परमाणाविवावयविन्यपि रूपपरावृत्तौ बाधकामावो, निबिडयोरेव मूर्तयोः समानदेशताविरोधेन परमाण्वन्तरावष्टब्धेऽपि परमाणौ पावकप्रवेशे सर्वदिगवच्छेदेन च तत्संयोगे बाधकाभावात् / अनन्तद्रव्यनाशोत्पादादिप्रक्रियायां मानाभावात् / उपगम्यते हि करसंयुक्तशिलादौ 1. 'अन्यथा 'पदेन पूर्वपर्यायत्वावच्छिन्नध्वंसे पृथग् हेतुतायाः कल्पने, इत्यों ग्राह्यः / 2. किरणावल्यां [ पृ. 187] अंशतः पाठभेदो वर्तन्ते / For Private and Personal Use Only Page #54 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 54] आत्मख्यातिः शीतोष्णत्वोपलम्भादन्तरा तोयतेजसोः सत्त्वम् / न च समवायेन पाकजरूपे तेन* द्रव्यस्य प्रतिबन्धकत्वात्कथं सति द्रव्येऽवयवे पाकजोत्पत्तिरिति वाच्यम् , तथाप्यन्त्यावयविनि तदुत्पत्तौ बाधकाभावात्। उक्तप्रतिबन्धकतायां मानाभावाच्च, केवलपरमाणुपाकेऽर्थसिद्धस्य कार्यद्रव्यावष्टम्भविरहस्य रूपविनाशोत्पादाप्रयोजकत्वात् / न च दाहप्रतिबन्धकमण्याद्यवयवेषु दाहानुत्पत्तये दाहं प्रति समवायेन मणेः प्रतिबन्धकत्वमवेक्ष्य लाघवेन समवायेन द्रव्यस्यैव। पाकजरूपादौ प्रतिबन्धकत्वं परमाणुत्वेन वा रूपजनकविजातीयामिसंयोगहेतुत्वं कल्पत इति नावयविनि पाकजसंभव इति वाच्यम्, हस्तान्तगतान्यादाविव मण्यवयवेषु परम्परासम्बन्धविशेषेण मणेः प्रतिबन्धकत्वसंभवात् , विजातीयामिसंयोगाभावादेव वा तत्र दाहानुत्पत्तेः / परमाणुत्वेन च विजातीयामिसंयोगं प्रति न हेतुता, संयोगस्य वहनावपि वृत्तेर्व्यभिचारात् , वहिभेदविशिष्टतादृशसंयोगत्वस्य च घटभेदविशिष्टसंयोगत्ववज्जन्यतानवच्छेदकत्वात् / यदि च कार्यद्रव्यसाधारणी मण्यादेविरोधिता तदा द्वयणुकनाशात्परमाणौ पाकजस्येव मण्यवयवेऽपि मण्यादिनाशात्तदापत्तिरिति / ... यत्तु रूपादिध्वंसात्मकदाहे मण्यादेः प्रतिबन्धकत्वे गौरवान्मण्यादियुक्ते तृणादौ वहन्याद्युत्पत्तेरिणीयत्वाच्च विजातीयवहूनावेवोत्तेजकाभावविशिष्टमण्याद्यभावो हेतुः स्वजन्यवहूनेरेव स्वस्मिन्दाहजनकत्वान्मण्यादियुक्ते न दाहः / मणितदवयवानां तु वह्रिस्वरूपायोप्यत्वादेव न स इति कैश्चिदभिहितं तच्चिन्त्य, स्वजन्यवः स्वस्मिन् रूपादिध्वंसात्मकदाहहेतुत्वे परमाणुजन्यवयपसिद्धया तत्र रूपध्वंसानुपपतेः / अवयविदाहे स्वजन्यवह्नित्वेन हेतुत्वे गौरवात् / वैजात्यविशेषणेनानुद्भूतवनिव्यावृत्तौ मणिसंयुक्ततप्तायःशलाकादिसंसर्गजन्यतादृशवहिना शरीरे दाहानापत्तेः, एतेन धारणाकर्षणहेतुविलक्षणसंयोगेन वन्युत्पत्तौ तद्धेतुत्वमप्यपास्तं, तस्माज्ज्वरादाविव वहौ मण्यादेः पृथगेव प्रतिबन्धकत्वं दाहे तु पृथगिति न किंचिदेतत् / __अथ विजातीयस्यामिसंयोगस्य परमाणुरूपत्वं जन्यतावच्छेदकं विजातीयस्य परमाणुरूपस्त्वं नाश्यतावच्छेदकमिति मतद्वये तुल्यमेव, न्यायनयेऽवयविरूपेऽवयवरूपस्याग्निसंयोगस्य च हेतुत्वमवयविरूपनाशेऽवयविनाशस्याग्निसंयोगस्य हेतुत्वमिति गौरवम्। काणादनये.वैयविरूपेऽवयवरूपस्यैवावयविरूपनाशेऽवयविनाशस्यामिसंयोगस्य च हेतुत्वमिति लाधवादिति चेत–न, नीलपीतादिकादाचित्कत्वनियमाय विजातीयविजातीयाग्निसंयोगजन्यतावच्छेदकं परमाणुनीलत्वादिकं परैर्वाच्यम् , मया तु नीलत्वादिव्याप्यजातिविशेषः, स च पाकजावयविनीलादिनिष्ठोऽपीत्यधिकाकल्पनात् / प्रत्युत परमाणुनीलत्वादिकं जन्यतावच्छेदकं परमहस्वनीलस्वादिकं नेत्यत्रैव विनिगमनाविरहात् / * समवायेनेत्यर्थः। For Private and Personal Use Only Page #55 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आत्मख्यातिः [55 अत एव नीलादिजन्यनीलादावपि जातिविशेषोपगमादवयविनीलत्वादेगुरुत्वादवयवित्वस्य, समवेतद्रव्यत्वस्येव प्रकृते समवेतपृथिवीत्वस्यापि सुवचतया, विनिगमनाविरहात्पाकाजन्यनीलत्वादेरपि 'नीलादिजन्यतावच्छेदकत्वे गौरवात् / अवयविरूपेऽवयविनाशनाश्यता. च परिमाणादिसाधारण्येन क्लप्तैव / प्रतियोग्यधिकरणतावच्छिन्नविशेषणताविशेषसम्बन्धेन रूपनाशत्वं नाशाजन्यरूपनाशत्वं वाऽवयविपरमाणुरूपनाशसाधारणं विजातीयाम्निसंयोगजन्यतावच्छेदकमिति न तत्राप्यधिककल्पनमिति / न च चित्ररूपेऽग्निसंयोगहेतुत्वकल्पने गोरखं पाकादवयवेषु नानारूपोत्पत्त्यनन्तरमेवावयविनि चित्ररूपस्वीकारात्। न चावयविनि चित्रजनकत्वाभिमतस्य पाकस्यावयवनीलपीतादिजनकत्वे नीलपीतादिजनकताच्छेदकजातिसांकर्य तत्र पाकनानात्वस्वीकारात् / न चैवं गौरवम् अवयविनि पाकजचित्रस्वीकारेऽवच्छेदकत्वसम्बन्धावच्छिन्नप्रतियोगिताकनीलजनककाग्निसंयोगाद्यभावषट्कस्य स्वाश्रयसमवेतस्वसम्बन्धेन पाकजचित्रे वाय्वादौ तदापत्तिवारणाय रूपजनकविजातीयाग्निसंयोगस्य च हेतुत्वकल्पन एव महागौरवात् / न चाव्याप्यवृत्तिरूपपक्षे यदा सर्वनीलघटस्यैककपालावच्छेदेन पाकाद्रक्तस्यान्यकपालावच्छेदेन पाकात्पीतादेरुत्पत्तिस्तदा रक्तानवच्छेदकावच्छेदेन रक्तोत्पत्तिवारणाय रक्तं पीत्तोत्पादकस्य प्रतिबन्धकत्वकल्पनेऽवच्छेदकतासम्बन्धेन विजातीयरक्तं प्रति. तेनाग्निसंयोगस्य हेतुत्वकल्पने वा गौरवमिति वाच्यम् , स्वावच्छेदकावच्छिन्नसमवायेन रक्तादिकं प्रति विजातीयाग्निसंयोगानां हेतुत्वेनैवोपपत्तेः / न चैवं पाकात्सर्वरक्तस्यापि रूपमवच्छिन्नवृत्तिकं स्यादिष्टापत्तेः, सामग्या एव तदव्याप्यवृत्तित्वे मानत्वात्। अस्तु वा स्वानवच्छेदकानवच्छिन्नसमवायेन रक्तादिकं प्रति विजातीयाग्निसंयोगानां. हेतुत्वम् / यद्वा तत्र स्थले परमाणावेव रक्ताद्युत्पादको विजातीयतेजःसंयोगः स्वीक्रियते, अव्याप्यवृत्तिरूपं वावयविनि चित्ररूपांगीकारपक्षे चित्ररूपमिव कारणगुणक्रमेणैव जायत इत्यदोषः / अपि च परेषामनन्तघटकपालादिकल्पनाप्यनल्पगौखावहा / अपि चैवं घटत्वमपि दण्डजन्यतावच्छेदकं. न स्यात् / न च खण्डघटवदुपपत्तिः, तत्र दण्डदिव्यापाराणां कपालसंयोगादीनां सत्त्वात् अत्र तेषामपि नाशात् / न च कुलालस्वर्णकारादिजन्यतावच्छेदकमृत्त्वसुवर्णत्वादिव्याप्यघटत्वनानात्वमावश्यकं, नहिं स्वर्णघटादौ चक्रादिकं मृद्घटादौ च लोहवर्तुलादिकं हेतुः, अनुगतधीस्तु कथंचित्सौसादृश्यात्। घटपदं नानार्थ तद्वदिहापि घटत्वभेदे नानुपपत्तिरिति वाच्यम् , कुलालविशेष * गौरवमिति भावः / For Private and Personal Use Only Page #56 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आत्मख्यातिः . जन्यतावच्छेदिकाया. अप्यामघटसाधारण्या एकस्याः पक्वघटसाधारण्याश्चान्यस्यास्तत्तद्वयवहारप्रयोजिकाया जातेवैशेषिकाणां कल्पनीयत्वात् / एवमनन्तशरावत्वादिभेदकल्पनेऽपि गौरवम् , एवमापाकनिहितघटनाशे तदुपरिनिहितद्रव्यधारणमपि न स्यात् , न च खण्डधटवदुपपत्तिः, तत्र तदवयवान्तराणां धारकत्वात् , अत्र तु सर्वेषामेव नाशात् / स्यादेतत् न्यायनये रूपनाशकाग्निसंयोगस्यानावपि सत्त्वात्तत्र तदापत्तेः [त्तिः ?], अस्मन्नये चावयवात्मकाग्निसंयोग एव रूपनाशप्रयोजकं वैजात्यं स्वीकार्यम् , अग्न्यवयवे च द्रव्यस्य प्रतिबन्धकस्य सत्त्वान्न तादृशरूपोत्पत्तिरित्ति, मैवम् , तादृशरूपनाशे पृथिवीत्वेनापि हेतुत्वोपगमात् , न चैवं गौवं दण्डादिप्रयोज्यघटत्वादिभिन्नघटत्वशरावत्वस्थालीत्वाद्यनन्तजातितदवच्छिन्नहेतुत्वादिकल्पनागौरवस्याग्रेऽस्याणीयस्त्वात् / ... वस्तुतः प्रतियोगितया नाशाजन्यरूपपृथिवीगर्भस्यासामानाधिकरण्येन विजातीयतेजःसंयोगस्य तेजःप्रतियोगिकविजातीयसंयोगत्वेन वा हेतुत्वान्नोक्तदोषो न वाऽधिककल्पनमपीति ध्येयम् / एतेन नीलपीतादिकं प्रति पृथिवीत्वेन हेतुत्वं त्वया वाच्यं अन्यथाऽग्निसंयोगादग्नौ नीलाद्यापत्तेः / न च रूपस्य प्रतिबन्धकस्य सत्त्वान्नाग्नौ तदापत्तिः, ऊष्मादेर्नीरूपत्वपक्षे सूक्ष्मसंयोगजनीलादनूष्मण्यप्युत्पत्त्यापत्तेः / एवं च नीलपीतादिनानांकायें पृथिव्या नानाहेतुत्वमपेक्ष्य रूपरसगन्धस्पर्शसाधारणकजात्यवच्छिन्ने द्रव्याभावस्य हेतुत्वकल्पनौचित्यं कार्यतावच्छेदकतया च तादृशजातिसिद्धिः, न च द्रव्याभावस्य वन्यवयविनि सत्त्वात्तत्र नीलाद्यापत्तिन्यवयवसंयोग एवं नीलादिहेतुतावच्छेदकजातेरुपगमादित्यपि परेषां कुकल्पनमपास्तम् , द्रव्याभावस्य मूर्तीभावस्य स्पर्शवतोऽभावस्य रूपवतोऽभावस्य वा तेजोभावस्य वा पृथिवीतेजोन्यतराद्यभावादेश्च विनिगमकाभावेन हेतुत्वापत्तावनेककारणतापत्तेः। पाकजरूपत्वावच्छिन्ने पृथिवीत्वेनैव हेतुत्वे सामान्यसामग्र्यभावे उक्तपदर्शितस्थले विशेषापत्यभावादिति दिग [क्] / स्वमतेन परमाणौ पाकजरूपाद्यसम्भवस्य प्रतिपादनम् वयं तु ब्रूमः-केवलपरमाणौ पाकजरूपाद्यसंभव एव पाकजविशेषे पृथिवीजलसाधारणस्थूलपरिणामविशेषस्यैव नियामकत्वात् / -जलेऽपि पाकजगन्धरसविशेषाणामानुभविकत्वात्सूक्ष्मपुद्गलेष्वपि तदुपगमे घ्राणसहगतपुद्गलेषु शब्दादिषु च तदापत्तेः / / किं च पाकादिव क्लेदादपि मुद्गादौ रूपादिपरावृत्तिदर्शनात् परमाणौ पाकजविशेषस्वीकारे क्लेदजविशेषस्याप्यापत्तिः / एवं च पच्यमानेऽपि मुगादौ जलसंयोगवैषम्यात्तेजःसंयोगवैषम्याच्चा For Private and Personal Use Only Page #57 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आत्मख्यातिः पक्वत्वव्यवहारात्तदुभयसंयोगज एकत्र विकृतिलक्षणो विशेषः स्वीकर्तव्य इति सोऽपि परमाणावभ्युपगन्तव्यः स्यात्, न च तत्र जलजन्यविलक्षणवहिनैव पाकः स्वीक्रियत इति वाच्यं भाजनजन्यविलक्षणवहिप्रवेशादापरमाण्वन्तनाशप्रक्रिययोत्पन्नेन विलक्षणजलेनैव तत्स्वीकारसंभवात् / अनुभवविरुद्धा च पाकस्थले आपरमाण्वन्तभंगप्रक्रियेति विलक्षणतेजःसंयोगस्य जन्यतावच्छेदकं घटादिनिष्ठ वैशिष्टयमेव कल्पनीयम्, एवं च प्रत्यभिज्ञादयोऽपि निराबाधा विशिष्टोत्पादस्याविशिष्टस्थित्यविरोधित्वात् / तच्च वैशिष्टयं यथा दर्शनं प्रतिनियतरूपादिनिरूपित प्रतिनियतावच्छेदकावच्छिन्नं च स्वीकार्यम् / .. न चैवं निरूपकादिभेदेन भेदप्रसंगो भेदेऽप्यभेदांशेनानुगतजन्यतासंभवात् / न च तथापि घटादिभेदेन पाकहेतुताभेदाद् गौरवम् / एकेनैव वह्निना पक्वानां नानाविधरसवत्त्वादिदर्शनेन रसरूपादिविशेषे द्रव्यविशेषस्य हेतुत्वकल्पनापेक्षया तत्तत्तेजः क्रियाजन्यतावच्छेदकसंयोगनिष्ठजात्या विशिष्ट घटत्वाधवच्छिन्न एव हेतुत्वे लाघवात् / अस्तु वा विशिष्टद्रव्यत्वावच्छिन्ने विजातीयतेजःसंयोगस्य सामान्यतो हेतुतैव, व्यक्तिस्थानीयापत्तिसत्त्वे तु कल्प्यतां विशेषहेतुताऽपि, सामान्यविशेषभावेन हेतुताकृतगौरवस्यानेकान्तदोषानावहत्वात् / अवश्यं च घनिष्ठ पाकजन्यतावच्छेदकं वैशिष्टयं स्त्रीकर्तव्यम्, नहि रूपविशेषाद्याधानार्थमापाके कुभं निदधति कुंभकाराः, किन्तु जलधारणाद्यसमर्थाऽऽमताविरोधिवैशिष्टयाद्याधानार्थमिति प्रतिपत्तव्यम् / उक्तानभ्युपगमे नैयायिकनये चित्ररूपस्वीकारपक्षे चित्ररूपे विजातीयतेजासंयोगस्य हेतुत्वकल्पने गौरवमेव, तत्रावयवगतनानारूपोत्पत्त्यनन्तरमवयविनि चित्ररूपस्वीकारस्य नियुक्तिकत्वात्, अवयवावयविनोयुगपदेव पाकाभ्युपगमात् / __अनयैव हि युक्त्या पाकावयवनीलहेतुत्वतज्जन्यतावच्छेदकजात्यकल्पने लाघवादवयवगतनीलाभावादेनीलहेतुत्वात् पृथिवीत्वसिद्धिरिति पदार्थमालायां भट्टाचार्य निरस्तं नीलाभावादेनीलाधवच्छिन्ने विरोधित्वाभावादवयवावयविनोयुगपदेव पाकानीलाधुत्पत्तेः, अपाकजनीलादौ विरोधित्वं जन्यपृथिवीत्वेन च हेतुत्वमित्यादिकल्पनें महागौरवादिति / अत एव व्याप्यवृत्तिरूपपक्षेऽपि सर्वनीलघटे पाकादवयवपीतरक्तोत्पत्तिक्रमेण तदुत्पत्तिरसंबद्धा। वस्तुतः पाकस्यावयविविशिष्टपरिणामहेतुत्वानभ्युपगमे पीतनीलघटे पीतमात्र नाशकपाकेन व्यापकनीलजननानुपपत्तिरवस्थितनीलनाशकाभावेन तत्सत्त्वे घटे पाकर्ज For Private and Personal Use Only Page #58 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आत्मख्यातिः नौलोत्पत्यसंभवात् , पाकजनीले पाकजनीलस्यैव विरोधित्वेन तदुपपादनेऽपि स्वस्व सामग्रीप्रभवावच्छिन्ननीलद्वयापत्तेः अवच्छिन्ननीलादौ नीलाभावादिषट्कस्यावयवगतस्या नालापत्यसभवात जन पाकजनालम्यक पादनऽपि स्वस्व .. . ." वयावगतस्य '. कजनालस्या जमारस्थानमास्या . . . पकिनावच्छिन्नानवच्छिन्ननीलद्वयाभ्युपगमप्रसंगः / न च तत्रानत्यगत्याऽवस्थितनीलनाशानन्तरमेव पाकजव्यापकनीलोत्पत्त्यभ्युपगमान्नानुपपत्तिः कार्यसहभावेन नीलाभावाभावादेवावच्छिन्ननीलोत्पत्तिवारणात, अत एवं नीलपीतश्वेताधारब्धे श्वेताधवच्छेदेन नीलजनकपाके सति प्राक्तननीलनाशपूर्वमेव तत्तवच्छिन्ननानानीलोत्पत्तिः, अत एव च नीलमात्रारब्धे पाकेन क्वचिद्रक्तरूपोत्पत्ती प्राक्तननीलनाशादेवावच्छिन्ननीलोत्पत्तिरभ्युपगम्यत इति चेत्, न, विजातीयतेजः संयोगत्वेनैव नीलनाशकत्वाद् व्यापकनीलजनकस्यावस्थितनीलनाशकत्वे स्वजन्यनीलस्यापि तन्नाश्यतया, क्षणिकतापत्तेः न च नीलजनकतावच्छेदकजातिव्याप्यजात्यवच्छि-. नस्यावच्छिन्ननीलनाशकत्वाददोषो, नीलपीतारब्धे नीलावच्छेदेन पीतजनकैनाप्यवच्छिन्ननीलनाशात, पीतजनकसंयोगाधनाश्यावच्छिन्ननीलनाशत्वावच्छिन्ने उक्तहेतुत्वकल्पने च महागौरवात् / किं च नीलमात्रारब्धे पाकेन रक्तोत्पत्तौ प्राक्तननीलनाशपूर्वमवच्छिन्न-नीलोत्पत्यभ्युपगमेऽवयवाक्यविनोयुगपदेव नीलनाशात् केनानन्तरमवच्छिन्ननीलोत्पत्तिः पाकस्य रक्तमात्रजनने नीलध्वंस एव व्यापारात्, अवच्छिन्ननीलज़ननेऽपि तव्यापारोपगमें च नीलरक्तजनकतावच्छेदकयोः सांकर्य, तत्र नीलपीतज़नकाक्यवनिष्ठपाकद्वयस्वीकारे च कपालिकादिपरमाण्वन्तावयवावच्छेदेन पीतजनकपाकेऽनन्तनीलध्वंसनीलोत्पत्त्यादिवैययादवयविनीलोत्पत्तिदरापास्तव / किं च पीतपीतेतररूपध्वंससाधारणधर्मविशेषावच्छिन्ने विलक्षणेपाकस्य समानावच्छेदकत्वप्नत्यासत्या हेतुत्वाद्विनष्टाविनष्टैकनीलाद्यापत्तिवारा / * चित्ररूपविचारः विशिष्टद्रव्यपरिणामवादे तु नानुपपत्तिरवच्छिन्ननीलद्वयेऽपि व्यापककनील चित्ररूपवियाग, नयोपदेशग्रन्थगतचित्ररूपविचारेण शब्दतोऽर्थ तश्च संवदति [नयो. पृ, 57] तत्रैव, उपाध्यायः “यथा च सर्वस्य वस्तुनश्चितत्व तथोकमस्माभिरासरयानी विस्तारभियाँ नेह प्रतन्यते।” अस्यां पंक्तौ आत्मख्यातिग्रन्थस्य नामोल्लेखः कृतः / For Private and Personal Use Only Page #59 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [59 ......... . . . आत्मख्यातिः परिणामस्वीकारात् केवलनीले पीतादिजनकपाके चावच्छिन्नपरिणामस्यैव जननात् अनन्त'नीलादिनाशोत्पत्तितद्धेतुत्वादिकल्पनापेक्षयोक्तपरिणामकल्पन एवं लाघवात् / अत एवं चित्रव्यवहारोऽप्येकानेकरूपविशिष्टद्रव्यपरिणामादेव / अन्यथा कथमप्यनुपपत्तेः। तथा हि नीलं नीलान्यरूपासमवायिकारणं न वेति चित्ररूपे विप्रतिपत्तिः, विधिकोटिः सामानाधिकरण्येन निषेधकोटिरवच्छेदकावच्छेदेन, तेन नांशतो बाधः सिद्धसाधनं वा / ___ यत्तु नीलरूपासमवायिकारणकं पीतरूपासमवायिकारणकं नवेति विप्रतिपत्तिरिति तन्न, नीलरूपासमवयिकारणकस्य नीलस्य पक्षत्वे बाधात्, चित्ररूपस्य पक्षत्वे आश्रयासिद्धेः / यदपि नीलरूपासमवायिकारणकवृत्तित्वविशिष्टरूपत्वं पीतरूपासमवायिकारणकवृत्ति नवेति केषांचिद्विप्रतिपत्त्युद्धावनम्, तदपि न, विशिष्टस्य विशिष्टाधेयताया वा अनतिरिक्तत्वादिति दिन / तत्र नानारूपवदवयवारब्धेऽवयविनि नीलपीतादिभिरेक संभूय चित्रं 'रूपमारभ्यते, न च सामग्रीसत्त्वान्नीलादिमिनीलादेरपि तत्र जननापत्तिः। अंगत्या नीलेतररूपादेनीलादिकं प्रति प्रतिबन्धकत्त्वकल्पनातं / प्रतिबन्धकतावच्छेदकः सम्बधा : स्वंसमवायिसमवेतत्वं प्रतिबध्यतावच्छेदकश्च समवायः, चित्रत्वावच्छिन्नेऽपि, नीलेतरपीतेतररूपादिनव हेतुता तेन. न केवलनीलकपालारब्धे चित्रसंगः / यत्ववयवनिष्ठनीलाभावादिषट्कस्यैव चित्रं प्रति हेतुत्वमिति, तन्न, नीलपीतोभयकपालारब्धे घटे - पाकनाशिताक्यवषीतस्वचित्रेऽवयवे व्याप्यवृत्तिनीलोत्पत्तिकाले चित्रोत्पत्त्यापत्तेः, न च कार्यसहभावेन नीलाभावादीनां तदेतुत्वादयसंदोषः, नीलपीतश्वेत्तत्रितयकपालारब्धे पीतश्वेतयोः क्रमेण नाशे श्वेतनाशकालेऽपि तदापत्तेरिति पाकजचित्रे चं नव्या चार, पाकादवयवनानारूपोत्पत्त्यनन्तरमेवावयिविनि चित्रस्वीकारात् / पाकजचित्र स्वीकारे च विजातीयचित्र प्रति नीलेतरत्वादिना हेतुता अग्निसंयोगजचित्रे चावच्छेदकत्वसम्बन्धावच्छिन्नप्रतियोगिताका नीलजानकाग्निसंयोगादेरभावा रूपजनकविजातीयाग्निसंयोगाश्च हेतवः / अस्तु वा तेजासंयोगमात्रजन्ये विजातीयचित्रे विजाउपाध्यायः सर्वत्र "दिगु प्रयोग एवं स्वतिः। S hr FDM 11.01 ... ता Pाज For Private and Personal Use Only Page #60 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आत्मख्यातिः [60 तीयतेजःसंयोगस्य हेतुत्वम् पाकरूपोभयजन्ये विजातीयचित्रे चभियोरेव, रूपमात्रजातिरिक्त एव वा विजातीयतेजासयोगो हेतुः फलबलेन वैनात्यकल्पनात् / अग्निसंयोगजमात्रातिरिक्ते रूपहेतुताया वक्तुममशक्यत्वादुभयस्थले नीलेतरादिसमानाभावादिति नैयायिकसंप्रदायवृद्धाः / / नव्यास्तु चित्रपटेऽव्याप्यवृत्तीन्येव नीलपीतादीनि नानारूपाणि, एक रूपमिति प्रतीतेरेको धान्यराशिरितिवत्समूहैकत्वविषयत्वात् / सविषयावृत्तिव्याप्यवृत्तिवृत्तिजातेरव्याप्यवृत्तिवृत्तित्वविरोधस्त्वप्रामाणिक एव अत एव लोहितो यस्तु वर्णेन, मुखे पुच्छे च पाण्डुरः / श्वेतः खुरविषाणाभ्यां स नीला वृष उच्यत | इति स्मृतिरप्युपपद्यते / न चाव्याप्य-वृत्तिनीलादिकल्पने गौरवम् तथाहि-अवच्छेद कतासम्बन्धेन नीलादिकं प्रति समवायेन नीलेतररूपादोनां प्रतिबन्धकत्वं वाच्यम, अन्यथा पीतावयवावच्छेदेन नीलोत्पत्तिप्रसंगात्, न च नीलस्य स्वाश्रयावच्छेदेन नीलजनकत्वस्वाभाव्यादेव न तदापत्तिरिति वाच्यं, विनैतादृशप्रतिवध्यप्रतिबन्धकभावं तथा स्वाभाव्यानिर्वाहात् / ननु समवायेन नीलं जायत एव पीतावयवावच्छेदेनेत्यत्र चापादकाभाव इति चेत्,न, समवायस्येवावच्छेदकताया अपि कारणनियम्यत्वात् / ___ * एवं च नीलादौ नीलेतररूपादीनां नीलेतररूपादौ वा नोलादीनां प्रतिबन्धकत्वे विनिगमकाभावो मम तु नीलेतररूपादौ नीलादीनां न प्रतिबन्धकत्वं नीलपीतारब्धे नीरूपत्वप्रसंगस्य बाधकस्य सत्त्वादिति वाच्यम्, ममापि नीलत्वादिकमेव प्रतिबध्यतावच्छेदकं न तु नीलेतररूपत्वादिकं गौरवादिति वक्तुं शक्यत्वात्, न च नीलत्वेन प्रतिबन्धकत्वं नतु नीलेतरत्वेन गौरवादित्येव किं न स्यादिति वाच्यम्, प्रतिबन्धकताक्छेदकगौरवस्यादोषत्वात् / अस्तु वाऽत्रच्छेदकतया नीलादौ समवायेन नीलादोनामेव हेतुत्वम्, न च नानारूपवत्कपालारब्धघटनीलस्य तत्कपालावच्छेदेनोत्पत्तिप्रसंगः केवलनीलत्वादिनैव तद्धेतुत्वात् / न च केवलत्वं नीलाभावासमानाधिकरणत्वमिति गौरवम्, अनवच्छिन्नसमवायेन नीलादिहेतुत्वस्यैव तदर्थत्वात् / समवायेन नीलादौ * नव्यमते अवच्छेदकता सम्बन्धेन नीलादिक प्रति समवायसम्बन्धेन नीलेतररूपादीनां प्रतिबन्धकत्वाभ्युपगमे सतीत्यर्थः / For Private and Personal Use Only Page #61 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आत्मख्यातिः च स्वसमवायिसमवेतत्वसम्बन्धेन नीलादीनां हेतुत्वम्, व्याप्यवृत्तिनीलस्थलेऽव्याप्यवृत्तित्ववारणाय चावच्छेदकतया नीलादौ त्वसमवायिसमवेतद्रव्यसमवायित्वसम्बन्धेननीलेतररूपादीनां हेतुत्वमित्यष्टादशकार्यकारणभावाः, चित्ररूपेऽप्येतावन्त एव, चित्ररूपे नीलेतररूपादिषटकस्य, नीलादौ नीलादिषट्कस्य हेतुत्वानीलेतरादिषट्कस्य नीलादौ प्रतिबन्धकत्वाच्चेत्याधिक्याभावात्, वस्तुतोऽवच्छेदकतया नीलादावुक्तसम्बन्धेन नोलेतररूपविशिष्टनीलत्वादिनैव हेतुत्वम्, न च नीलेतरत्वाद्यवच्छिन्नं प्रति नील विशिष्टनीलेतरत्वादिना हेतुत्वेन विनिगमकाभावः, नीलत्वापेक्षया नीलेतरत्वस्य गुरुत्वात्, इत्थं चाभिनिष्कर्षे ऽस्माकं द्वादशैव कार्यकारणभावा इति लाघवादित्याहुः, चित्ररूपस्वीकारपक्षेऽपि नोलादौ नीलेतरादिप्रतिबन्धकत्वेनैव शुक्लावयवमात्रारब्धे नीलाद्यनुत्पत्तिनिर्वाहात् नीलादौ नीलादिहेतुत्वाकल्पनात् कार्यकारणभावसंख्यासाम्यात्, अव्याप्यवृत्तिनानारूपतत्प्रागभावध्वंसादिकल्पने परम्परस्यैव गौरवात् / / किंचाव्याप्यवृत्तिरूपपक्षेऽवच्छेदकतासम्बन्धेन रूपे उत्पन्ने पुनस्तेनैव सम्बन्धेनावयवे रूपोत्पत्तिवारणायाऽवच्छेदकतासम्बधेन रूपं प्रत्यवच्छेदकतासम्बन्धेन रूप प्रतिबन्धक कल्पनीयमिति गौरवम् / / न चावयविनि समवायेनोत्पद्यमानमेवावयवेऽवच्छेदकतयोत्पत्तुमर्हतीत्यवयविनि रूपस्य प्रतिबन्धकस्य सत्त्वेन रूपसामान्याभावादेव नावयवेऽवच्छेदकतया तदा रूपोत्पत्त्यापत्तिरिति वाच्यम्, एवं हवयविनिष्ठरूपाभावोऽवच्छेदकतासम्बन्धेन रूपं प्रति हेतुर्वाच्यः. तथा च नानारूपवत्कपालारब्धघटस्य नीलरूपादेनीलकपालिकावच्छेदेनानुत्पत्तिप्रसंगात्तदवयविाने कपाले रूपसत्त्वात् / अपि च नीलपीतवत्यग्निसंयोगाकपालनीलनाशात्तदवच्छेदेन रक्तं न स्यात् समवायेन रूपं प्रति तेन रूपस्य प्रतिबन्धकत्वात्, तदवच्छिन्नरूपे तदवच्छिन्नरूपस्य प्रतिबन्धकत्वकल्पने चातिगौरवम् / ___अथावच्छिन्ननीलादौ नीलाभावादिषट्कमवयवगतमवयविगतं च हेतू रक्तनीलारब्धे रक्तनाशकपाकेन व्याप्यवृत्तिनीलोत्पत्तौ चावयविनि नीलाभावाभावान्नावच्छिन्ननी लोत्पत्तिः, केवलनीले पाकैन क्वचिद्रतोत्पत्तौ च प्राक्तननीलनाशादेवावच्छिन्ननीलोत्पत्तिरिति चेत्, न, नीलपीतश्वेताघरब्धे श्वताद्यवच्छेदेन, नीलजनकपाके सति प्राक्तननीलनाशेन तत्तदवच्छिन्ननानानीलकल्पनापेक्षयैकचित्रकल्पनाया एव लघुत्वात् / 15. / For Private and Personal Use Only Page #62 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आत्मख्यातिः . *अथ व्याप्यवृत्तिरूपस्याप्यवच्छेदकत्वस्वीकारादवच्छेदकतया नीलादिक, प्रत्येव समवायेन नीलादेहेतुत्वम्, न चैव घटेपि तया नीलाधापत्तिः अवयवनीलत्वेन द्रव्य विशिष्टनीलत्वेन वा तद्धेतुत्वात् न, च नीलमात्रपीतमात्रकपालिकाद्वयारधनीलपीतकपाले तदापत्तिः नीलकपालिकावच्छिन्नतदवच्छेदेन तदुत्पत्तेरिष्टत्वात्, अस्तु वा तया नीलादौ नीलेतररूपादेरेवं विरोधित्वमिति चेत्, न, नीलादौ नीलोतररूपादिप्रतिबन्धकतयैवोत्पत्तौ तत्र नीलादिहेतुतायां मानाभावेन नानारूपवदवयवारब्धे चित्ररूपस्यैव प्रामाणिकत्वात् व्याप्यवृत्तेरवच्छेदकायोगात्, नीलेतरादौ नीलादेः प्रतिबन्धकत्वेऽविनिगमाच्च / ., यदि च स्वाश्रयसम्बन्धेन नीलं प्रति स्वव्यापकसमवायेन नीलरूपं हेतुरुपेयते, नीलपीताधारब्धस्थले च स्वाश्रयसम्बन्धेन नीलरूपस्य पीतकपालेऽपि संभवेन व्यभिचारात् उक्तसम्बधेन हेत्वभावादेव न तत्र नीलोत्पत्तिरिति विभाव्यते, तदा नीलं प्रति नोलेतररूपादेः प्रतिबन्धकत्वं चित्ररूपवादिना न कल्पनीयमित्यतिलाघवम्, एवं सामानाधिकरण्यसम्बन्धावच्छिन्नप्रतियोगिताको नीलेतराभावः समानावच्छेदकत्वप्रत्यासत्या नीलहेतु रित्यपि निरस्तं सामानाधिकरण्यस्य व्याप्यवृत्तित्वेन तत्सम्बन्धावच्छिन्नप्रतियोगिताकनीलेतराभावासत्त्वाच्चेति बहवः संप्रदायं समादधते / केचित्तु विजातीयचित्रं प्रति स्वविजातीयत्वस्वसंवलितत्वोभयसम्बन्धेन रूपविशिष्ट रूपत्वेनैक हेतुत्वम् स्ववैजात्यं च चित्रत्वातिरिक्तं यत्स्ववृत्ति तद्भिन्नधर्मसमवायित्वम् स्वसंवलितत्वं च स्वसमकायिसमधेताव्यसमवायिवृत्तित्वम्, न च स्वत्वाननुगमः सम्बन्धमध्ये तत्प्रवेशादित्याहुम। परे तु नीलपीतोभयाभावपीतरक्तोभयाभावादीनां * स्वसमवायिसमवेतत्वसम्बन्धावच्छिन्नप्रतियोगिताकानां समवायावच्छिन्नप्रतियोगिताकानां च विजातीयविजातीयपाकोभयाभावादीनां यावत्त्वावच्छिन्नप्रतियोगिताक एकोऽभावचित्रत्वावच्छिन्न प्रति हेतुरित्याहुः / रूपत्वेनैव चित्रं प्रति हेतुत्वं कार्यसहभावेन चित्रेतराभावस्य हेतुत्वेनानतिप्रसंगादित्यन्ये / Today ".......... .. . .. ... . .... .eruiryarving , un ** अयं नयोपदेशेऽपि। For Private and Personal Use Only Page #63 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आत्मख्यातिः [63 परे तु चित्रत्वावच्छिन्ने जरूपत्वेनैव हेतुत्वं नीलपीतोभयारब्धवृत्तिचित्रत्वावान्तर लक्षण्यावच्छिन्ने च नीलपीतोभयत्वेन हेतुता, एवं तत्त्रितयारब्धे तत्त्रितयत्वेन, नील पीतोभयादिमात्रारब्धे नीलपीताद्यन्यतरादीतररूपत्वेन, प्रतिबन्धकत्वान्न त्रितयारब्धचित्रवति द्वितयारब्धचित्रप्रसंगः, न 3 गौरवं प्रामाणिकत्वात् / / वस्तुतः समवायेन द्वितयजचित्रादौ स्वाधिकरणपर्याप्तवृत्तिकत्वसम्बन्धेनैव द्वितयादीनां हेतुत्वं, नातः प्रागुक्तप्रतिबन्धकत्वकल्पनागौरवमित्याहुः / - उच्छृङ्खलास्तु नीलपीतरक्ताधारब्धघटादौ नीलपीतरक्तादिभ्य एवं नीलपीतोभयजपीतरक्तोभयजनीलरतोभयजतस्त्रितयजादीनामुत्पत्तिः सर्वेषां ..सामग्रीसत्वात्, चरमं व्याप्यवृत्ति इतराणि त्वव्याप्यवृत्तीनीति विशेषः / न चैकमेव तदस्त्विति वाच्यं तत्तदवयवद्वयमात्रावच्छेदेनेन्द्रियसन्निकर्षे विलक्षण विलक्षणचित्रोपलम्भात्, न च. नीलपीतादिविशिष्टचित्रेणावान्तरचित्रप्रतीतिसंभवः. अखण्डेन सामान्यचित्रत्वेनाखण्डावान्तरचित्रत्वानां सामानांधिकरण्यप्रत्ययात्, न. चेदेवं तदा नीलाविशेषिता ये नीलादिभेदास्तत्तदाश्रितरूपसमुदायेनानुगतचित्रप्रतीतेत्रित्वं अनीलादिसमुदायेन नीलाद्यनुगतप्रतीतिसंभवान्नीलत्वादिकमपि च विलीयेतेति, जातेरव्याप्यवृत्तित्वे पुनरस्त्वेकमेव तत्, किंचिदवच्छेदेन तत्र नीलत्वपीतत्वरक्तत्वविलक्षणचित्रत्वादिसंभवादित्याहुः / तदिदमखिलमसंबद्धं चित्रपटादौ चित्रैकरूपप्रति पत्तेरनुभवविरुद्धत्वात्, शुक्लादिरूपाणामपि साक्षात्सम्बन्धेन निर्विगानं तत्र प्रतीतेः, प्रत्येतव्यकल्पनागौरवेण प्रतीतिबाधे रूपादेस्त्रुटिमाघगतत्वापत्तेस्तदिदमाहुः सम्मतिटीकाकृतः न च चित्रपटादाचपास्तशुक्लादिविशेष रूपमात्रं तदुपलम्भान्यथानुपपत्त्याऽस्तीत्य भ्युपगन्तव्यम्, कथं ? चित्ररूपः पट इति प्रतिभासाभावप्रसक्तेरिति / एकाधिकरणावच्छिन्नशुक्लादिसमुदाय, एवं कथंचित्समुदायातिरिक्तचित्रमिति तत्र शुक्लाद्यग्रहे चित्राग्रहप्रसक्तिरित्येतत्तात्पर्यम् / किं चैवं शुक्लावयवावच्छेदेनापि चित्रोपलम्भः स्यात् / अथः चित्रत्वग्रहे परम्परयावयवगतनीलेतररूपपीतेतरूपादिसत्त्वग्रहों हेतुः, अत एव दूयणुकचित्रं चक्षुषा नः गृह्यत इत्याचायो: *एकाधिकरण्यामिति भावः / For Private and Personal Use Only Page #64 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आत्मख्यातिः [64 --- न च चित्रत्वनिष्ठविषयतया चित्रत्वग्रहे स्वविशेष्यसमवेतसमवेतसमवेतत्वसम्बन्धेनोक्तस्य हेतुत्वे घटावयवगततद्ग्रहाच्छुक्लावयवावच्छेदेन चित्रपटसन्निकर्षेऽपि तद्पचित्रत्वप्रत्यक्षापत्तिरिति वाच्यम्, विशेष्यतया चित्रत्वप्रकारकप्रत्यक्ष एव चरमसमवेतत्वविनिर्मुक्तसम्बन्धेन तद्धेतुत्वात्, न च नीलेतररूपत्वाधवच्छिन्नप्रकारताकग्रहो न हेतुः,नीलत्वपीतत्वादिनाऽवयवगतनीलपीतादिग्रहेऽप्यवयविचित्रप्रत्यक्षादिति वाच्यम् विलक्षणचित्रप्रत्यक्षे तेन तेन रूपेण तत्तदग्रहस्यापि हेतुत्वात् / / . ___वस्तुतो नीलेतररूपत्वादिव्याप्यत्वेन नीलेतररूपत्वपीतत्वाधनुगमान्न क्षतिरिति चेत्, न, व्यणुकचित्ररूपाग्रहे चतुरणुकचित्रप्रत्यक्षानुपपत्तेः, चित्रावयवारब्धे चित्रग्रहेऽवयवविषयकनीलेतररूपत्वादिव्याप्यचित्रत्वावच्छिन्नप्रकारताकयहस्यैव हेतुत्वात् / यदि च नीलेतररूपपीतेतररूपादिमदवयवावच्छेदेनेन्द्रियसन्निकर्षस्यावयवनीलादिगतनीलत्वादिग्रहप्रतिबन्धकदोषाभावानां च चित्रप्रत्यक्षे हेतुत्वमतस्त्रसरेणुचित्रस्यापि चक्षुषा ग्रह इत्युद्भाव्यते, तदाऽनन्तहेनुहेतुमद्भावकल्पनागौरवाच्चित्रत्वे समानाधिकरणनानारूपग्रहव्यङ्गयत्वकल्पनमेव ज्यायो, नह्येवं गौरवम्, चित्रत्वग्रहे सामानाधिकरण्येन रूपविशिष्टरूपग्रहत्नैव हेतुत्वात् / न चैवमनेकरूपधर्म एव चित्रत्वमित्यागतं नानावयवावच्छिन्नपर्याप्तवृत्तिकस्यैकस्य चित्रस्याप्यनुभवसिद्धत्वात्, अत एवैकावयवावच्छेदेन चित्राभावप्रतीतिरपीत्येकानेकचित्रद्रव्यस्वभावभ्युपगमं विना न काप्युपपत्तिः / किंच नीलेतररूपादिषट्कस्यैव चित्ररूपे हेतुत्वमित्येतावतैव नोपपत्तिरवयवगतेत्कृष्टापकृष्टनीलाभ्यामपि चित्रसंभवात्, ते चोत्कर्षापकर्षा अनन्ता एव, विगतभविष्यद्भिः पर्यायैरिव प्रत्युत्पन्नपर्यायैरपि भेदाभेदौ द्रव्यस्य संमतौ भावितौ तथाहि दन्त्र जहा परिणयं, तहेव अच्छित्ति तमि समयंमि / विगयभविस्सेहि उ, पजएहिं भयणा विभयणाया || ... सन्मति- ] द्रव्यं चेत्समवेतं न वा यथा तदाकारेण तदाकारार्थग्रहणतया वा परिणत तस्मिन् वर्तमानसमये तत्तथैवास्ति, इतिरुक्तिसमाप्त्यर्थः, विगतभविष्यद्विस्तु पर्यायैस्तु भजना कथंचिदेकत्वं, विभजना कथंचिन्नानात्वं, वा शब्दः कथंचिदर्थः, तदेवोपपादयति For Private and Personal Use Only Page #65 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आत्मल्योतिः परपज्जवहिं असरिस गमेहिं णियमेण णिच्चमविणच्छि / ... सरिसेहि वि वंजणओ, अस्थि ण पुण अस्थपज्जाए // [...] परयायैर्वर्तमानपर्यायव्यतिरिक्तभूतभविष्यत्पर्यायैर्विसदृशगमैर्विजातीयज्ञानग्रानियमेन निश्चयेन नित्यमपि नास्ति तैरपि" सत्वेऽवस्थासंकरप्रसक्तेः, सदृशैरेकज्ञानविषयैस्तु व्यंजनत आयनय"त्रयविषयव्यंजनपर्यायमाश्रित्य - सत्त्वद्रव्यत्वपृथिवीत्वादिसदादिपदंप्रतिपाद्यसामान्यविशेषात्मक स्ति, न'पुनरर्थपर्यायैरन्योन्यव्यावृत्तस्वलक्षणग्राहकर्जुसूत्रादिसंमतैः, सप्तम्येकवचनं तृतीयाबहुवचनार्थपरम् / प्रत्युत्पन्नपर्यायेण भावस्यास्तित्वनियमेऽप्येकान्तवादापत्तिरित्यत आह पच्चुष्पणमि विपज्जयमि भयणागई पडइ / . दव्वं जे एगगुणाई या अणतकप्पा गुणविसेसा // [ . . ] प्रत्युत्पन्ने वर्तमानेऽपि पर्याये भननागति भेदाभेदप्रकारं पतत्यासादयति द्रव्य, यद् यस्मादेकगुणकृष्णत्वादयोऽनन्तप्रकारास्तत्र 'गुणविशेषाः / ' कल्पशब्दः प्रकारवाची,' तेषां मध्ये 'कमचिंदेव गुणविशेषेण युक्तं तदिति / कृष्णं हि द्रव्यं द्रव्यान्तरेण तुल्यमधिकमूनं वा भवे"अकारान्तराभावात्, आधे सर्वतुल्यत्वे तदेकतापत्तिः, उत्तरयोः संख्येयादिभागगुणवृद्धिहानिभ्यां 'घटस्थानकप्रतिपत्तिरवश्यंभाविनी, तथा च प्रतिनियतहानिवृद्धियुक्तकृष्णादिपर्यायेणं सत्त्वं नान्येति / इत्थं च नोलत्वाद्यवान्तरजातीनामनन्तत्वात्तरतमशब्दमात्रेण तदनुगमस्य कर्तुमशक्यत्वात्, तत्तवान्तरजातीयनीलेतरपीतेतरत्वादिनाऽनन्तकार्यकारणभावापत्तिः,विलक्षणविलक्षणचित्रत्वावच्छिन्ने 'तत्तदवान्तरजातीयनीलोमयत्वादिना हेतुत्वे चाधिकमेव गौरवम् / एतेन चित्रप्रत्यक्षजनकतावच्छेदकमपि चक्षुः संयोगनिष्ठं वैजात्यं स्वीकत्तव्यमित्यपि निरस्तं, विलक्षणचक्षुः संयोगसत्त्वेऽपि सौसादृश्येनावयवनीलद्वयादिगतवैजात्याग्रहेऽवयविनि चित्राप्रत्यक्षादिति द्रष्टव्यम् / अव्याप्यवृत्तिरूपपक्षे ऽप्यवयवगतोत्कृष्टापकृष्टनीलाभ्यामवयविनि तयोरवच्छिन्नयोः सामान्यसामग्रीवशादर्थादमवच्छिन्ननीलस्यापत्तिप्रसंगः, अवयविनीलतरत्वाद्यवच्छिन्न एवावयवनीलतरत्वादिना हेतुत्वे नीलत्वावच्छिन्नस्याकस्मिकत्वप्रसंगः, किमाकस्मिकत्वमिति चेत् , तद्धर्मावच्छिन्नार्थितया प्रवृत्तिविरहः एतत्कारणसत्त्वे नीलत्वावच्छिन्नस्यावश्यमुत्पत्तिरित्यनिश्चयश्च / प्रतीयते च तत्र नीलसामान्यमनवच्छिन्नामवच्छिन्नाश्च तद्विशेषाः, केवलशुक्लेऽपि. स्वल्पबह्ववयवावच्छेदेनेन्द्रियसन्निकर्षेऽणुमहत्वोपेतशुक्लविशेषास्तदनुगतं शुक्लसामान्य च-प्रतीयत इत्येकानेकवर्णविशिष्टद्रव्यपरिणामोपगमं विना न निस्तारः / एतेनाव्याप्यवृत्तिनीलादिकल्पे ताडगनोलादिप्रत्यक्षं प्रति द्रव्यसमवेतप्रत्यक्षत्वावच्छिन्नं प्रत्यव्याप्यवृत्तिद्रव्यसमवेतप्रत्यक्षत्वावच्छिन्नं प्रति वा चक्षुःसंयोगावच्छेदकावच्छिन्नसमवायसम्बन्धाधारतासन्निकर्षों निरूपकतया विषयनिष्ठो हेतुः संयोगादिप्रत्यक्षस्थले क्लम एवेति नाधिक आ.९ For Private and Personal Use Only Page #66 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आत्मख्यातिः कल्पनीयम् , न च नीलकपालिकावच्छेदेन चक्षुःसंनिकर्षस्य तत्समवेतनोलपीतोभयकपालावच्छिन्नत्वनियमात्तदवच्छेदेन सन्निकर्षे पोतादिग्रहापत्तिः, संयोगव्यक्तिर्यद्देशव्यापिनी तत्र परम्परया तद्देश एवावच्छेदको न तु संपूर्णोऽवयव इत्याद्यभ्युपगमादित्यादि निरस्तम्, शाखामूलोभयावच्छिन्नदीर्घतन्तुतरुसंयोगसदृशोभयाद्यवयवाच्छिन्नचित्रादेरपि विलक्षणस्यानुभवसिद्धत्वेनोभयादिपर्याप्तावच्छेदकताकाधिकरणतागर्भसन्निकर्षस्य तत्प्रत्यक्षेऽपि . हेतुत्वाश्रयणावश्यकत्वात् / उपदर्शितसंयोगस्थलेऽप्येकैकावच्छिन्नसंयोगद्वयस्वीकारे च तत्तदवयवावच्छेदेन नानानीलस्यैवासंभवादवयविनि केवलनीलमप्युच्छिद्यते, तथा च यदुक्तं दीधितिकृता-. . "सर्वैश्च नीलैरारब्धेऽवयविनि नीलान्नीलं स्वस्वावच्छेदेन - समुत्पद्यमानं रूपमविरोधायापकमेवोत्पद्यते सजातीयविजातीयेषु नानापदार्थेषु जायमानं समूहालम्बनमिवैकं ज्ञानमिति"तत्सर्वे विलनशीण स्यात् ; घटावच्छेदेन पटज्ञानाननुव्यवसायाद्दार्टान्तिके ऽप्यवच्छेदकभेदेन भेदसिद्धेः, यथादर्शनमंशकात्या॑भ्यां नानैकरूपसंयोगरूपाभ्युपगमे च जितं स्याद्वादिनैव, यत्र परैनियमः- स्वीक्रियते तत्रानियमाभिषेक एव स्याद्वादसाम्राज्यात् / एतेन नानारूपवदवयवारब्धे व्याप्यवृत्तीन्येव नीलपीतादीन्युत्पद्यते नीलादिकं प्रति नीलेतरादिप्रतिबन्धकत्वनीलाभावादिकारणत्वकल्पनापेक्षया व्याप्यवृत्तिनीलपीतादिकल्पनाया एव न्याय्यत्वादित्यपि परेषां मतं निरस्तं, नीलकपालावच्छेदेन चक्षुःसन्निकर्षे पीतादेरुपलम्भापत्तेरपि तत्र दोषत्वात् , तदाह संमति. टीकाकारः .. "आश्रयव्यापित्वेऽप्येकावयविसहि तेऽप्यवयविन्युपलभ्यमानेऽपरावयवानुपलब्धावप्यनेकरूपप्रतिपत्तिः स्यात् सर्वरूपाणामाश्रयव्यापित्वादिति” / न च नीलाद्यवयवावच्छिन्नसन्निकर्षस्य नीलादिग्राहकत्वकल्पनाददोषः, पीतकपालिकावच्छिन्ननीलपीतोभयकपालावच्छेदेन सन्निकर्षेऽपि नीलग्रहप्रसंगात्, न च केवलनीलावयवावच्छिन्नसन्निकर्षस्य नीलादिग्राहकत्वकल्पनाददोषः, पीतकपालिकावच्छिन्ननीलपीतोभयकपालावच्छेदेन सन्निकर्षेऽपि नीलग्रहप्रसंगात् / न च केवलनीलावयवावच्छिन्नसन्निकर्षस्य - नीलादिग्राहकत्वं चित्रकपालस्थले तदसंभवात्, न च तत्र नीलकपालिकावच्छिन्नसन्निकर्ष एव ग्राहक इति वाच्यम्, नीलपीतोभयद्वयणुकारब्धत्रसरेणुनीलाप्रत्यक्षापत्तेः, परमाणुसन्निकर्षस्येव परमाण्ववच्छिन्नसन्निकर्ष स्यापि द्रव्याग्राहकत्वेन तद्गतरूपाग्राहकत्वात् / एतेन नीलेतरानवच्छिन्नसन्निकर्षादेनीलादिग्राहकत्वमप्यपास्तम् / यत्वेतत्कपालावच्छिन्नसंयोगादिप्रत्यक्षानुरोधेनैतत्कषालानवच्छिन्नवृत्तिकत्वे सति यत्तन्नीलान्यत् तद्भिन्नं यदेतद्घटसमवेतं तस्यतत्कपालविषयकसाक्षात्कारं प्रत्येतत्कपालावच्छेदेनैतद् For Private and Personal Use Only Page #67 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [67 आत्मख्यातिः घटचक्षुःसन्निकर्षस्य हेतुत्वान्न पीताक्यवावच्छेदेन सन्निकर्षे नीलादिचाक्षुषापत्तिरिति; तन्न, तथाहेतुतायांमतिगौरवात्, तत्कपालावच्छिन्नप्रत्यक्ष एव तत्कपालावच्छिन्नसन्निकर्षहेतुत्वौचित्यात्, अन्यथा पीतकपालावच्छेदेन - सन्निकर्षे पोतकपालविषयकनीलप्रत्यक्षस्य बलादापत्तेः, पीतकपालावच्छि नसंयोगप्रत्यक्षनिष्ठकार्यतावच्छेदकाक्रान्तत्वात्तस्य, तत्कार्यतावच्छेदककोटौ भेदप्रतियोगितया पोतान्यमेवि निविशते न नीलान्यमिति चेत्, न; उभयावच्छिन्नदीर्घतन्तुसंयोगप्रत्यक्षानुरोधेनोभयान्यस्यापि प्रतियोगिकोटौं निवेशनीयत्वादिति दिग् / ... - तस्मादवस्थितद्रव्यस्य चित्रादिविशिष्टवर्णपरिणाम एव पाकायधीन इति न तदन्यथानुपपत्त्या परमाणुपर्यन्तो विनाशो न वा सर्वे विनाशाः परमाण्वन्ताः किन्तु परमाणोरर्थान्तरगमनलक्षणो विनाशः स्थौल्यादिपर्यायेनोत्पत्ति व्यतया च ध्रौव्यमिति तद्वदेवात्मनो द्रव्यपर्यायरूपस्य नित्यानित्यत्वं सुव्यवस्थितम् / . घटज्ञ एवाहं पटज्ञी भूत इति स्वसंवदेनमप्यात्मनस्तथात्वे प्रमाणम्, अत्र विप्रत्ययार्थो .. ध्वंस उत्पत्तिश्च, तत्रोत्पत्तौ प्रकृत्यर्थस्य प्रकृत्यर्थतावच्छेदकावच्छिन्नत्वसम्बन्धेनान्वयो ध्वंसे समभिव्याहतपदार्थस्यान्वयप्रतियोगितावच्छेदकावच्छिन्नत्वसम्बन्धेन, धात्वर्थश्च ध्रौव्यमिति घटज्ञत्वावच्छिन्नध्वंसाभिन्नपटज्ञानत्वावच्छिन्नोत्पत्यवच्छिन्नध्रौव्याश्रयोऽहमिति शाब्दबोधः / च्चिप्रत्ययस्याभेदमात्रार्थत्वे अहं द्रव्यीभूतस्तन्तुर्द्रव्यभूत इत्याद्यपि स्यादिति भावनीयम् / ज्ञानस्य स्वसंविदितत्त्वम् ननु स्वसंवेदनमात्मनस्तथात्वे प्रमाणमिति यदुक्तं तद्वयं न सहामहे ज्ञानस्य * स्वसंविदितत्वोसिद्धेः / न च सर्वज्ञानानां घटमहं जानामोत्याद्याकारत्वात्प्रत्यक्षेणैव' स्वविषयत्वसिद्धिस्तत्र ज्ञाने घटविषयत्वग्रहेऽपि स्वस्य ज्ञानविषयत्वाग्रहात् , स्वस्य स्वाविषयत्वेन स्वविषयत्वाविषयत्वात्अन्यथा घटज्ञानज्ञानवानित्याकारप्रसंगात् / किंच 'घटमहं जानामि' इति ज्ञाने क्रियायाः कृतेर्वा समवायित्वलक्षणमात्मनः कर्तत्व, परसमवेतक्रियाफलशालित्वं करणव्यापारविषयत्वं वा विषयस्य कर्मत्वं धात्वर्थत्वं कृतिजन्यत्वं वा ज्ञानस्य क्रियात्वमयोग्यत्वान्न भासत इतिः कर्तृकर्मक्रियावगाहित्रिपुटीप्रत्यक्षान्न स्वसंविदितत्वसिद्धिः / किं चार्थविषयत्वेनैव ज्ञानस्य प्रवर्तकत्वं न तु स्वविषयत्वेनापि गौरवादित्यर्थमात्रविषयत्वं व्यवसायस्य / / *अयं ज्ञानस्य स्वसंविदितत्वप्रतिपादकः सन्दी न्यायालोके [78-10-2], स एव शास्त्रवार्तासमुच्चयस्य स्याद्वादकल्पलतायामल्पमेदेन [पृ.४१-७८] वर्तते / For Private and Personal Use Only Page #68 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 68 आत्मख्याति:.. अपि. चाहमिदं जानामोत्यत्रेदन्त्वविशिष्टज्ञानवैशिष्टयमात्मनि भासते, न च स्वप्रकाशे तदुपपत्तिः ज्ञानस्य : पूर्वमज्ञातत्वेन प्रकारत्वानुषपत्तेः / न चाभावत्वाभानेऽप्यभावत्वविशिष्टबोधात्तस्तत्र, व्यभिचारवारणाय समानवित्तिवेद्यभिन्नविशेषणज्ञानत्वेन विशिष्टबुद्धौ : हेतुत्वान्न दोष इति वाच्यं यद्धि : येन विना न भासते तत्तत्समानवित्तिवेधं तद्ग्रहसामग्रोनियतमहसार मग्रीकमित्यर्थः / न च ज्ञानाभाने आत्माभानमित्यस्ति तदभानेऽपि 'अहं सुखी' इति भानस्य सर्वसिद्धत्वात् / अपि च प्रत्यक्षविषयतायामिन्द्रियसन्निकर्षस्य नियामकत्वात्कथं तदनाश्रयस्य. स्वस्य प्रत्यक्षत्वं ? कथं वा प्रत्यक्षाजनकस्य प्रत्यक्षविषयत्वं प्रत्यक्षावेषयतायास्तज्जनकत्वव्याप्तत्वात् / न च संस्कारस्मृत्याधुपनीततत्तादौ व्यभिचारः अनागतगोचरसाक्षात्कारजनकप्रत्यासत्यजन्यप्रत्यक्षविषयतायास्तथात्वात्, न च विद्यमानत्वसामान्यलक्षणाजन्यप्रत्यक्षविषये व्यभिचारवारणायानागतगोचरत्वं परित्यज्याजनकगोचरसाक्षात्कारजनकप्रत्यासत्यजन्यप्रत्यक्षविषयतायास्तस्वोक्तो लाधवात्प्रत्यासत्तिजन्यत्वभागमपहायाजनकविषयसाक्षात्कारान्यप्रत्यक्षविषयताया एव प्रत्यक्षजनकत्वनियमकल्पने स्वस्याजनकत्वेन . स्वविषयतायां जनकत्वस्यानियामकत्वेन स्वविषयता न बाधितेति मिश्रकल्पना युक्ता, परमते ज्ञानमात्रस्यैवाजनकविषयत्वेनः यथाश्रुतेऽप्रसिद्धेरजनकवृत्तिविषयतान्यसाक्षात्कारविषयताप्रत्यक्षजनकत्वनैयत्यकल्पने साक्षात्करोमीत्यनुभवसिद्धलौकिकविषयताया एव तथात्वकल्पनौचित्यात् / / - किंच लौकिकप्रत्यक्षविषयत्वेन लाघवादिन्द्रिययोग्यता नेच्छात्वरूपत्वादिना, लौकिकप्रत्यक्षविषयत्वं चोपलक्षणं न तु विशेषणं तेन प्रत्यक्षपूर्व प्रत्यक्षाविषयत्वेऽपि न क्षतिः / अयमों, विषयस्य प्रत्यक्षे कारणता लाधवाद्विषयत्वेनैव, विषयत्वं च लौकिकविषयतासम्बन्धेन साक्षाकारवत्वम्, सम्बन्धेनेत्यन्तं गुरुत्वादिव्यावर्तनाय, साक्षात्कारत्वेन कार्यता, कार्यतावच्छेदकः सम्बन्धो लौकिकविषयता, तेनातीतादिविषय कालौकिकप्रत्यक्षेऽव्यभिचारो, न च तद्वारणाय लौकिकत्वं कार्यतावच्छेदककोटावेव दीयतामिति वाच्यम् लौकिकालौकिकसमूहालम्बने व्यभिचारखारणाय सम्बन्धमध्य एवं तन्निवेशावश्यकत्वात्, कार्यतावच्छेदकेसम्बन्धेन कार्यस्य कारणतावच्छेदकल्वे च बाध काभावः, केवलविशेष्ये विशिष्टान्योन्याभावानभ्युपगमात्प्रतियोग्यवृत्तित्वेन कारणताशरीरेऽन्योन्याभावविशेषणाद्वा. साक्षात्कारविशिष्टस्य सर्वत्र पूर्वमसत्वेऽपि न व्यभिचारः / न च तथापि लौकिकविषयतया ज्ञानवत्वानुभवत्त्वमादाय विनिगमनाविरहः कारणतावच्छेदकस्येव तदवच्छेदकतावच्छेदकस्यापि . व्यापकधर्मत्वेऽन्यथासि।विनिगमकत्वात् / न च साक्षात्कारत्वस्य नित्यवृत्तित्वान्न जन्यतावच्छेदकत्वम् तद्धर्माश्रयीभूतयत्किंचिद्वयक्त्यव्यवहितपूर्वसमयान्यत्वं यद्धर्मावच्छिन्तवन्मिष्ठान्योन्याभावप्रतियोगितानवच्छेदकं तदन्यो धर्म एव तद्धर्मावच्छिन्नं प्रति नियतपूर्ववर्तितावच्छेदक इति नित्यानित्यवृत्तेरपि धर्मस्य जन्यतावच्छेदकत्वसंभवात्मकृते नित्यसाधार For Private and Personal Use Only Page #69 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आत्मख्यातिः.. ण्येऽपि लौकिकविषयतासंबन्धाभावादेवेश्वरसाक्षात्कारव्यभिचाराभावात् ।तत्र लौकिकविषयताभ्युपगमेऽपि विनश्यदवस्थविषय जन्य लोकिकसाक्षात्कारस्थितिक्षणे व्यभिचारवारणाय लौकिकविषयत्वावच्छिन्नोत्पत्तरेव कार्यतावच्छेदकसम्बन्धत्वेन तत एवेश्वरसाक्षात्कारे व्यभिचाराभावाच्च / कार्यत्वे सति कार्यतावच्छेदकधर्मवत्त्वस्यैव च तज्जन्यत्वव्यवहोरनियामकतया न तत्र विषयजन्वत्वव्यवहार इति दिग् / - एतेन। क्षणिकात्मविशेषगुणत्वेन न योग्यता निर्विकल्पकजीवनयोनियत्नसाधारण्यात् , नाफि तदितस्त्वनिवेशे दोषाभावो निर्विकल्पकान्यत्वजीवनयोनियत्नान्यत्वयोर्विशेषणविशेष्यभावे विनिगमनाविरहात् , क्षणिकत्वस्य चतुर्थक्षणवृत्तिव्वंस प्रतियोगित्वरूपत्वात्, क्षणस्य स्वत्वटितत्वेनाननुगमाञ्च, नापि. ज्ञानेच्छादिवृत्तिर्जातिविशेष एव मनो-योग्यतावच्छेदको ज्ञानत्वादिना सांकर्येण तादृशजात्यमिद्धेः / न च तादृशजातेनिर्विकल्पकवृत्तित्वेऽपि ससम्बन्धिकपदार्थनिरूपणस्य सम्बन्धितावच्छेदकंप्रकारकज्ञानाधीनत्वेन तद्विरहादेव तस्य विषयोपरागेणाज्ञानं तदनुपरागेण च तद्- ज्ञानं ज्ञानभानसामग्रया विषयभानसामग्रोनियतत्वादेव नेति मिश्रमतं युक्तम्, निर्विकल्पकानन्तरव्यवसायस्य सम्बन्धितावच्छेदकघटत्वादिप्रकारकस्य सत्वान्निर्विकल्पकाध्यक्षापतेः / न च प्रत्यक्षे स्वसमयवृत्तित्वेन विषयस्य हेतुत्वान्नोक्तदोष इति वाच्यं, गौरवेण स्वसमयवृत्तित्वे. नाहेतुल्कात, न चानुव्यवसायत्त्य , प्रमात्वनियमाद् घटत्वप्रकारकत्वप्रकारकानुव्यवसायस्य निर्विकल्पकविषयत्वे : भ्रमत्वापातात्तादृशप्रमासामग्रोभूतगुणस्य निर्विकल्पकविरोधित्वादेव न तत्प्रत्यक्षमितिः वाच्यम्, तादृशगुणस्यात्ममनोयोगविशेषस्य वा विरोधित्वमित्यत्र विनिगमनाविरहालादृशप्रतिबध्यप्रतिबन्धकभावकल्पनापेझया तदयोग्यत्वकल्पनाया एवौचित्यात् / नापि भेदविशेषस्तथा प्रतियोग्यननुगमे तदननुगमादखण्डभेदस्य चासिद्धेरिति नानुगतरूपेण योग्यतास्तीति परास्तम्, परप्रकाशेऽनवस्थानात् स्वप्रकाशसिद्धिरित्यपि न युक्तं स्वप्रकाशत्वस्य : परिशेषानुमेयतया तदनुमितिस्वप्रकाशताया अपनुमानान्तरगम्यतयाऽनवस्थासाम्यात्, विषयान्तसंचारादिना प्रतिबन्धेन तद्भगस्याप्युभयत्र साम्यात् / किंचैवं प्रत्यक्षत्वं जातिने स्यादनुमित्यादाव यंशतो. वृत्तित्वात् / न चेष्टापत्तिः स्वविषयत्वे ज्ञानानपेक्षत्वस्यैव प्रत्यक्षलवस्याभ्युपगमादिति वाच्यम्, एकत्र ज्ञानापेझानपेक्षयोर्विरोधात् / न च भ्रमस्य यथाधर्मविषयकत्वावच्छेदेन दोषापेक्षा धर्मिविषयकत्वावच्छेदेन च तदनपेक्षा तथानुमित्यादौ. वह्नयादिविषयतावच्छेदेन ज्ञानापेक्षा स्वविषयतावच्छेदेन च न सेति वयादिविषयतावच्छेदेन परोक्षत्वं स्वविषयतावच्छेदेन च प्रत्यक्षत्वमिति वाच्यम् दोषापेक्षे भ्रमे तदनपेक्षानभ्युपगमात्, धम्यंशे स्वभावादेवाभ्रमत्वात् / For Private and Personal Use Only Page #70 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 70] . आत्मख्यातिः किंच ज्ञानजन्यतावच्छेदकं यत्किचिजन्यतावच्छेदकं यद्विषयत्वं तदवच्छेदेन प्रत्यक्षत्वं वाच्यम्, स्वविषयकत्वं च न तथा ज्ञानसामग्रया ज्ञानत्वस्यैव जन्यतावच्छेदकत्वात् विशेषसामप्रोजन्यतावच्छेदके च तस्यातिप्रसक्तत्वादेवाप्रत्यक्षादित कथं तदवच्छेदेन प्रत्यक्षत्वम् / - अथ वित्तेरवश्यवेद्यत्वात् स्वप्रकाशत्वं नो चेद् या वित्तिर्न वेद्यते तदधीनसत्त्वस्य विषयपर्यन्तस्यासत्त्वं स्यादिति चेत्, न सर्वासां वित्तीनां ज्ञानज्ञानत्वेनावश्यवेद्यत्वादिति पूर्वपक्षः / अत्रोच्यते-'जानामि' इति सार्वलौकिकं ज्ञानं पूर्वापरज्ञानकल्पनागौरवसहकृतं कर्तृकर्मक्रियावगाहि सत् स्वविषयत्वे प्रमाणम् / तदिदमुक्तं संमतिटीकाकृता-एकस्मादेव. विषयावभाससिद्धेः किं द्वयकल्पनयेति / ... न च जानामोत्यत्र ज्ञानावभासेऽपि . तद्विषयत्वानवभास इति वाच्यम्, अर्थविषयताया इव स्वविषयताया अपि प्रागनुपस्थितायाः प्रकारतया संसर्गतया वा ज्ञाने भानाभ्युपगमात्, ज्ञानस्येदं जानामीदं ज्ञानं जानामीत्युभयाकारत्वात् / आंशिकतझेदाच्चाभिलापभेदस्तस्य विवक्षाधीनत्वात्, एतेन स्वविषयत्वे सिद्धे गौरवसहकृतं ज्ञानगोचरताग्राहकं प्रत्यक्षं स्वप्रकाशतायां प्रमाणं तेन च भानेन तस्य स्वार्थविषयत्वसिद्धिरित्यन्योन्याश्रय इति / परास्तम्, ज्ञानविषयत्वेनानुभूयमानस्यानुव्यवसायस्य व्यवसायात्मकत्वकल्पन एव लाघवव्यापारात्, इत्थं चार्थविषयताया ज्ञाने स्वविषयतानयत्यसिद्धेः न चैवमनुव्यवसितनष्टज्ञानानभ्युपगमादुपेक्षात्मकज्ञानासिद्धिः, धारणानात्मकत्वेनैव *ज्ञानार्णवादावुपेक्षात्वव्यवस्थापनादिति / . . . ...परप्रकाशवादे तु ज्ञानस्य प्रत्यक्षानुपपत्तिरेव / न च ज्ञानत्वनिर्विकल्पकजन्यज्ञानक्षणे व्यवसायस्याभावेऽपि पूर्वं तत्सत्त्वात्तदा ज्ञानत्वप्रकारकं. व्यवसायप्रत्यक्षमुपपद्यते, ततो विशेषण ज्ञानादात्मनि ज्ञानप्रकारकधीः विशेषणं च न विशिष्टप्रत्ययहेतुस्तत्तां विनापि तबुद्धेः प्रत्यभिज्ञादर्शनादिति वाच्यम्, प्रत्यक्षे विषयस्य स्वसमयवृत्तित्वेनैव हेतुत्वात् , अन्यथा विनश्यदवस्थघटचक्षुःसन्निकर्षात् घटनाशक्षणे घटप्रत्यक्षप्रसंगात्, ज्ञानस्यातीतत्वे न जानामीति वर्तमानज्ञानानुपपत्तेश्च. न च वर्तमानत्वेन स्थूलउपाधिर्भासते न तु क्षणस्तस्यातीन्द्रियत्वादिति वाच्यम्, स्थूलोपाधेरपि नियमतो भासकसामग्रयभावात् संसर्गशब्दादिना तु क्षणस्यापि सुज्ञानत्वात् स्थूलोपाधिमादायैव वर्तमानत्वसमर्थने च घटपूर्वसमये इदानी घटो भवतीति व्यवहारप्रामाण्यप्रसंगात् / नयभेदेनेष्टापत्ति चैकान्तवादिभिर्दुष्करा।। . किंचाहं घटज्ञानवानितिवन्मयि घटज्ञानमित्यात्मविशेषणको ज्ञानविशेष्यकोऽप्यनुभवो नेच्छामात्रेणापह्नोतुं शक्यः तत्र च विशेष्यसन्निकर्षस्यापि पूर्व सत्त्वमपेक्षितमिति तं विना कथं तत्प्रत्यक्षम् ? तदिदमुक्तं-स्याद्वादरत्नाकरे / . * स्वविरचितोऽयं प्रन्थः / For Private and Personal Use Only Page #71 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आत्मख्यातिः ... [71 किंचेन्द्रियज प्रत्यक्षं सन्निकृष्ट विषये प्रवर्ततेऽतीतक्षणवर्तिनश्च ज्ञानस्य मनोलक्षणेन्द्रियसन्निकर्षों न युज्यते ततः कथं प्राचीनज्ञाने मानसप्रत्यक्षवार्ताऽपोति / व्यवसायनाशक्षणोत्पन्नव्यवसायान्तरे ज्ञानत्वविशिष्टबुद्धिरित्यांप न रमणोयम्, तद्धेतोश्चक्षुःसन्निकर्षादेस्तदानी नियतसन्निधिकत्वाभावात्, अनुमितिपाश्चात्यव्यवसायेऽनुमितित्वाभावात्पूर्वव्यवसोयविशेष्यकज्ञानस्य कथमप्यनुपपत्तेश्च / एतेन ज्ञान ज्ञानत्वं च निर्विकल्पके भासते ततो ज्ञानत्ववैशिष्टयं ज्ञाने चात्मनि भासत इति विशेष्ये विशेषणन्यायेन ज्ञानप्रत्यक्षमित्यपि निरस्तम्. अनुभूयमानविशिष्टवैशिष्ट्यविषयतापलापाच्च / . यत्तु ज्ञानमभाव इव विशिष्टज्ञानविषय एवानुव्यवसायस्य विषयरूपविशेषणविषयकव्यवसायसाध्यत्वेन विशिष्टज्ञानसामग्रीसत्त्वात् , ज्ञानत्वमपि तत्र भासते सामग्रीसत्त्वात् , अंशे तत्सप्रकारकं निष्प्रकारकं चेति नरसिंहाकारं, तत्रैव विशिष्टं ज्ञानत्ववैशिष्टयं च भासते, अनुमित्यादौ च न तथाऽनुव्यवसायेऽनुमितित्वाभावादिति वस्तुतस्त्विति कृत्वा चिन्तामणिकृतोक्तं, तदसत् , सार्वत्रिकप्रकारं विना क्वाचित्कप्रकाराभिधानस्य प्रयासमात्रत्वात् , अभावप्रत्यक्षस्य घटत्वाद्यन्यतमविशिष्टविषयकत्वनियमवद् ज्ञानप्रत्यक्षे तन्नियमाभावात् , अहं सुखीतिवदहं ज्ञानवानिति विषयविनिर्मुक्तप्रतीतेः सार्वजनीनत्वात् , विषयविशिष्टज्ञानप्रत्यक्षस्यैव सन्निकर्षकार्यतावच्छेदकत्वकल्पनेन तदपलापेच महागौरवात्, ज्ञाने नृसिंहाकारतोपगमे विषयेऽपि तदावश्यकत्वेन स्याद्वादापाताच्च / नरसिंहकारज्ञाने ज्ञानत्वघटत्वप्रकारकत्वोभयाश्रयज्ञानवैशिष्टयधीन स्यादिति तु विषयनिरूप्यं हि ज्ञानं न तु विषयपरंपरानिरूप्यमित्यादिना मिश्रेण समाहितम् / यत्त स्वसंवेदने कृतिसमवायित्वादिरूपकर्तृत्वाद्यनवभास इत्युक्तं तदभिप्रायापरिज्ञानात् / आश्रयत्वरूपकर्तृत्वस्य विषयत्वरूपकर्मत्वस्य विशेषणत्वरूपक्रियात्वस्य च दोषाकलंकितत्वात्, अधिकविषयकत्वेऽपि च व्यवसायस्यार्थविषयत्वेन च प्रवर्तकत्वमविरुद्धम्, इष्टतावच्छेदकप्रवृत्तिविषयवैशिष्ट्यावगाहिज्ञानत्वेन प्रवर्तकत्वात् / न चात्र प्रमेयमिति ज्ञानात्प्रवृत्यापत्तिरिष्टतावच्छेदके तद्भिन्ननिष्ठधर्माप्रकारकत्वविशेषणात्, न चेष्टतावच्छेदकप्रकारकज्ञानस्य मुख्यविशेष्यतया प्रवृत्तिहेतुत्वं तद्रनतमिदं द्रव्यामाते ज्ञानात्मवृत्तिवारणाय प्रवृत्तिविशेषष्यकत्वाव छेदेनेष्टतावच्छेदकप्रका रकत्वस्य वाच्यत्वे इष्टतावच्छेदकविशेष्यकत्वावच्छेदेन प्रवृत्तिविषयप्रकारकत्वेनापि हेतुतायां विनि..मनाविरहादुभयबुद्धयोरुक्तेनैकरूपेण हेतुत्वौचित्यात् / For Private and Personal Use Only Page #72 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 2] आत्मख्यातिः यत्तु वह्विव्याप्यधूमवत्पर्वतवान् देश इति परामर्शात् पर्वतों वह्निमानित्यनुमितेरनुदयावह्निव्याप्यधूमत्वावच्छिन्नप्रकारतानिरूपितपर्वतत्वावच्छिन्नमुख्यविशेष्यताकपरामर्शत्वेन पर्वतो चह्निमानित्यनुमितौ हेतुता वाच्या, मुख्य विशेष्यतात्वं च प्रकारतानात्मकविशेष्यतात्वं, स्वप्रकाशनये च तदनुपपत्तिः पर्वतविशेष्यताया ज्ञानविशेष्यतानिरूपितप्रकारतात्मकत्वात् , तदतिरिक्तविशेष्यतानिरूपितप्रकारतानात्मकत्वनिवेशेन गौरवमिति, तन्न, स्वप्रकाशस्य व्यवसायानुभ्यवसायोमयाकारत्वेऽप्यविरोधात् ,तव ज्ञानमानसादौ वह्नयनुमितिसामग्र्यादिप्रतिबन्धकत्वकल्पने महागौरवाच / न च मनःसंयोगनिष्ठवैजात्यस्यैव मानसप्रत्यक्षप्रत्यक्षप्रयोजकत्वान्मानसप्रत्यक्षं प्रति मानसेतरज्ञानसामग्रया एव प्रतिबन्धकत्वं, वैजात्यस्य फलबल कल्पतया मानसेतरज्ञानजनकमनःसंयोगे तदनभ्युपगमात् / न च मनः संयोगनिष्ठवैजात्यस्य लौकिकमानसप्रत्यक्षं प्रत्येव प्रयोजकतया मानसेतरज्ञानोत्पत्ति'समये सर्वाशालौकिकमानसवारणायैव मानसेतरज्ञानसामग्याः प्रतिबन्धकत्वमावश्यकम् , अति-रिक्तप्रतिबध्यप्रतिबन्धकमावकल्पनाभियैव सर्वांशालौकिकमानसानभ्युपगमादिति वाच्यम्, मानसप्रत्यक्षप्रयोजकवैजात्यस्य मानसेतरज्ञानजनकव्यावृत्तत्वाभ्युपगमे स्वोत्पत्तिद्वितीयक्षणोत्पादितमानसपरामर्शमनः संयोगनाशे प्राक्तनपरामर्शस्यैवाभावाकेनापि मनः संयोगेन तदानुमित्यनुत्पत्तिप्रसंगात्, त्रिचतुरादिक्षणबिलम्बेन तत्र स्मरणात्मकपरामर्शकल्पनाया अपि महागौरवग्रस्तत्वात् , तदापि / संयोगो न मानसजनक इत्यस्य शपथप्रत्यायनोयत्वात्, किंचैवं जागरद्वितीयक्षणोत्पन्ननिर्विकल्प२. कजन्यघटत्वादिविशिष्टज्ञानानुव्यवसायः षष्ठक्षणोत्पन्नमनःसंयोगान्तरेण सप्तमक्षणे स्यादिति क्षण त्रयापलापप्रसंगः / किं चैवं समानविषयत्वान्तर्भावेन प्रत्यक्षसामग्या अपि बलवत्त्वकल्पनाद्विशेषदर्शनोत्तरमनुमितिः प्रत्यक्षं वेत्येपि कथं विनिगमनीयम् / न च पूर्वं तत्रानुमितिरेव पश्चात्तु सिद्धयाऽनुमितिप्रतिबन्धात् प्रत्यक्षमिति साम्प्रतम् , अनुमितिद्वयेष्टापत्या सिद्विप्रतिबन्धकत्वे मानाभावात्, मानसविशेषदर्शनस्थले उक्तवदनुपपत्तेश्चेति किमप्रकृतेन / __ यत्तु ज्ञानस्य पूर्वमनुपस्थितत्वाज्जानामीत्यत्र विशेषणतया भानानुपपत्चिरिति, तदयुक्तम्, तस्यात्मवित्तिवेद्यत्वात्, अहं सुखोत्यस्यापि सुखं साक्षात्करोमोत्याकारत्वात् , यदपि प्रत्यक्षविषयसायामिन्द्रियसन्निकर्ष एव नियामक इति तदपि न, अलौकिकप्रत्यक्षविषयतायां व्यभिचारात्, लौकिकत्वस्य प्रत्यक्षविशेषणत्वं च तस्येन्द्रियसन्निकर्षजन्यत्वरूपतया इन्द्रियसन्निकर्षजप्रत्यक्षविषतायामिन्द्रियसन्निकर्षनियामकत्वस्य प्रकृतापरिपन्थित्वात् , लौकिकत्वाख्यविषयताविशेषोऽपि नेन्द्रियसन्निकर्षमात्रप्रयोज्यः शंखादाविद पीतरूपमिति दोषप्रभवप्रत्यक्षविषयतायां व्यभिचारात् / वस्तुतश्चक्षुर्मनसोरप्राप्यकारित्वादोषाजन्यलौकिकप्रत्यक्षविषयतायामपि नेन्द्रियसन्निकर्षस्य नियामकत्वमिति स्मर्त्तव्यम् अभेदे कथं विषयत्वमिति चेद् / यथा घटा भावे घटामावविशेषत्वम् For Private and Personal Use Only Page #73 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आत्मख्यातिः किं तदिति चेत् , स्वभावविशेष एव, अनिर्वचनात्तदसिद्धिरिति चेत् , न, माधुर्यादिवत्तस्याख्यातुमशक्यत्वेऽपि प्रत्याख्यातुमशक्यत्वात् / ___ यदपि प्रत्यक्षाजनकस्य प्रत्यक्षाविषयत्वं स्यादित्युक्तं तदपि प्रागुक्तयुक्त्यैव प्रत्युक्तम्, ईश्वरसाक्षात्कारविषये दोषविशेषप्रभवसाक्षात्कारविषये व्यभिचाराच्च / अतएव लौकिकप्रत्यक्षविषय वेन लाघवादिन्द्रिययोग्यत्वात् ज्ञानविषयं मानसं ज्ञानमावश्यकमिति निरस्तम्, कार्यतावच्छेदकसम्बन्धेन कार्यस्य कारणतावच्छेदकत्वे समवायेन घटादिमत्तयापि कपालादिहेतुतापत्तेश्च / / तस्माच्छक्तिविशेषेणैवेन्द्रिययोग्यतावच्छेदे इति युक्तम् / एतेन ज्ञानस्य मानससाक्षात्काकारानभ्युपगमे धर्माधर्मादीनामिव मानससाक्षात्कारप्रतिबन्धकत्वकल्पने गौरवमिति सार्वभौममतं निरस्तम्, अयोग्यत्वस्य प्रतिबन्धकत्वेऽविश्रामात् स्वरूपायोग्यतयैव तत्त्वादिति यौक्तिकाः / यत्तु ज्ञानस्य स्वप्रकाशानुमितौ तत्स्वप्रकाशतायामप्यनुमित्यन्तरापेक्षायामनवस्थेति, तन्न, ज्ञानत्वावच्छेदेन स्वप्रकाशत्वानुमितौ तद्विशेषे तत्संशयायोगात् , विशेषे तदनुमित्सया च तादशानुमितेर्यावसिसाधयिषमनुसरणेनानवस्थापरिहारात् , न चानुव्यवसायेऽप्ययं न्यायः संभवी, प्रत्यक्षस्येच्छानधीनत्वात् , घटदिदृक्षयोन्मीलितनयनस्य पुंसः सन्निकृष्टस्य पटस्यैव दर्शनात् / ___यदप्युक्तं ज्ञानजन्यतानवच्छेदकं यत्किचिज्जन्यतानवच्छेदकं यद्विषयत्वं / तदंवच्छेदेनैव प्रत्यक्ष स्वविषयत्वं तु न तथेति तदवच्छेदेन न प्रत्यक्षसंभव इति, तदप्ययुक्तं, यत्किंचिजन्य. तानवच्छेदकत्वदानस्य व्यर्थत्वात् / ___ अत एवाहमेतत्क्षणवर्तिज्ञानवानेतत्सामग्रीत इत्यनुमितावपि परामर्शजन्यतावच्छेदकपक्षसाध्यविषयतातिरिक्तपितृमातृविषयत्वावच्छेदे नैव प्रत्यक्षत्वं संगिरन्ते अहमेतत्क्षणवर्तिज्ञानवानेतदहं जानामीति तदाकारत्वात् / - ननु भवतु ज्ञानस्य स्वसंविदितत्वमात्मनस्तु कथम् ! संविदभेदादिति चेत् , न, संविदभिन्नात्माभिन्नत्वेनैवं सर्वात्मधर्माणां स्वसंविदितत्वापत्तेः, न च संविद भेदोऽपरोक्षतेति जैनानां मतं किन्तु वेदान्तिनामेव / वेदान्तमतेन संविदभेदोऽपरोक्षतेति निरूपणम् . ते व संगिरन्ते साक्षी तावत्स्फुटं चिद्रूपत्वादपरोक्षः / अज्ञानादेर्दैहपर्यन्तस्य तु तत्राध्यस्तत्वादेवापरोक्षत्वं अध्यस्यमानाधिष्ठानयोरभेदात् , तत्राज्ञानमनादिभ्रान्तिकारणमात्मन्यध्यस्ततयैव धर्मिग्राहकमानेन सिद्धम् , तच्च स्वपराध्यासे कारणं, न चात्माश्रयादिदोष उत्पत्तिज्ञप्त्यविरोधित्वात् , तेनाज्ञानाध्यासविशिष्टे चैतन्ये अहंकारध्यासः / 'अहमज्ञ' इति त्वहंकाराज्ञानयोरेकचैतन्याध्यासादेकवह्निसम्बन्धादग्धृत्वाऽयसोरयो दहतीतिवत्प्रत्ययः, अहंकारश्वाहमाकारेण परिणतमन्तःकरणमेव, तद्धि स्मृतिप्रमाणवृत्तिसंकल्पविकल्पाहंवृत्त्याकारेण परिणतं आ. 10 For Private and Personal Use Only Page #74 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आत्मख्याति चित्तबुद्धिममीऽहंकारशब्दळवहियते, इदमेवात्मतादात्म्येनाध्यस्यमानमात्मनि सुस्वदुःखादिस्वत्रमा ध्यासे उपाधिः, स्फटिके जपाकुसुममिव लौहित्यावभासे, यथा स्फटिकेऽधिष्ठाने लौहिल्पमानिर्भवतीय तसंसो वाऽनिर्वचनीयः समुत्पद्यते एवमात्मनि कर्तृत्वाद्यन्तरं तत्संसर्गो वाऽनिर्वचनीय इत्यर्थः / एवं च नान्यथाख्यतिः, इयांस्तु विशेषः स्फटिके जपाकुसुमे सतो लाहित्यसंसदिन्यः संसर्गः, आत्मनि तु संसर्गोत्पत्तिपक्षे न संसर्गान्तरं किन्तु स्वाश्रयतादात्म्यमेव, अहं कत्तति कर्तृत्वविशिष्टस्यैवान्तःकरणस्य तादात्म्येनाध्यासस्य विवरणाचार्यादिसंमतत्वात् , सर्वस्याच्या स्तत्वेन तंत्र संसर्गान्तरकल्पने मानाभावात् , कर्तृत्वान्तरोत्पत्तिपक्षे तु संसर्गान्तरोत्पत्तिः स्वीक्रियत एव, न च स्फटिके लौहित्यसंसर्गोत्पत्तिपक्षे लौहित्यापरोक्षत्वानुपपत्तिः स्फटिकावच्छिन्ने प्रमातचैतन्ये लौहित्याध्यासाभावादिति वाच्यम् , जपाकुसुमनिष्ठस्य प्रमाणवृत्त्याऽपरोक्षस्यैवं सतों लौहित्यस्य संसर्गः स्फटिके उत्पद्यत इति स्वीकारात् , यथा ह्यधिष्ठानापरोक्षत्वदशायामेव रजतोत्पत्तिस्तथा लौहित्यस्यापरोक्षत्वदशायामेव स्फटिके तत्संसर्गोत्पत्तिरुभयज्ञानस्यापि गृह्यमाणारी कारणत्वादिति दिए / एवं प्राणापानादयस्तद्धर्माश्चाशनायापिपसादयस्तथा श्रोत्रादयो वागादयश्च तद्धर्माश्च बधिरत्वान्धत्वादयोध्यस्यन्ते, तथा देहस्तद्धर्माः स्थूलत्वादयश्चात्मन्यध्यस्यन्ते, लत्रेन्द्रियादींना न तादात्म्याध्यासोऽहं श्रोत्रमित्यप्रतीतेः, देहस्तु मनुष्योऽहमिति प्रतीतेस्तादात्म्येनाध्यस्थल इत्याबूह्याम्। घटस्तु ब्रह्मणस्तावदपरोक्ष एव, संविद्रूपे ब्रह्मण्यभेदेनाध्यस्तत्वात् / जीवस्य तु परिच्छिन्नस्य पक्षे, अयपि न तेन सम्बन्धस्तथाप्यदृष्टेन्द्रियार्थसनिकर्षादिनोत्पद्यमानेन "वियद्वस्तुस्वभावानुरोधादेव न कारकात् / वियत्संपूर्णतोत्पत्तौ कुम्भस्यैवंदृशा धियाम् // " इति न्यायेन चित्खचितेन घटादिपर्यन्तं लम्बमानेन स्वाध्यस्तान्तः करणपरिणामम वृत्त्याख्येन संसुष्टो घटो घटसंसृष्टा वा वृत्तिर्धटावच्छिन्नब्रह्मचैतन्यावरणनिवृत्तौ तदहीननिवृत्ती वा तदुभाभावपक्षे वा विषय चैतन्याभेदेनाभिव्यक्तिहेतुः संपद्यते, ततः स्वाध्यस्तो घटः सुखवदपरीक्षः, एकत्र साक्ष्यपरोक्षत्वमन्यत्र प्रमाणापरोक्षत्वमित्येतावान् विशेषः / अपरिच्छिन्नस्य पक्षेऽपि अपरिच्छिन्नत्वं घटादिभिर्व्यवधानाभावः, तावतैवापरोक्षत्वे जगदपरोक्षत्वप्रसंग इत्यसगस्य जीवचैतन्यस्य घटोपरागार्थवृत्तिः, उपरागश्च न संयोगादिरूपः किन्तु प्रागुक्तदिशा स्वाध्यस्तत्वमेव, तथाहि; अस्मिन् पक्षे व्यवहारसौकर्याय घटावच्छिन्नचैतन्ये आवरणान्तरमज्ञाना. .न्तरं वा नोपंगम्यते; घटं जानामोति व्यवहारस्तु प्रमाणवृत्त्यभावादेव, अतो नावरणनिवृत्य For Private and Personal Use Only Page #75 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आत्मख्यातिः ज्ञाननिवृत्यर्था वा वृत्तिः किन्तूपरागार्था / जीवचैतन्यस्य ह्यसंगत्वाद् घटानधिष्ठानत्वाच्च न वृत्तेः प्राग्घटसम्बन्धः, अन्तःकरणवृत्तिस्तु जीवेध्यस्तेति युज्यते तया सह सम्बन्धः; तेनेन्द्रियद्वारा निस्तान्तःकरणवृत्त्या संसृष्टे घटे घटसंसृष्टायां वा वृत्तौ जीवचैतन्यं विषयाधिष्ठानचैतन्याभेदापन्न भवति ।अनेन प्रकारेण घटाध्यास एवोपरागः / न च ब्रह्माध्यस्तो घटः प्रमाणवृत्त्या जीवाध्यस्तो भवतीत्येवाभ्युपगन्तव्यं किमुभवचैतन्याभेदोपत्त्येति वाच्यम् ,वृत्तहिन्निस्सरणवैयर्थ्यप्रसंगाद, उभयचैतन्याभेदाभिव्यक्त्यर्थमेव तदुपगमात्तदनंगीकारे चान्तःस्थया वृत्त्यान्तःकरणोपहिते जीवे कथं बहिष्ठघटाध्यासः / .. न च घटाव्यवहिततया घटावच्छिन्नजीवचैतन्यस्यासंगस्याध्यासिकघटसंसर्गार्थमेव वृत्तेर्बहिनिस्सरणम् अयमेव चोपराग इति वाच्यम् , एवं सति ब्रह्माध्यस्तघटसंसर्गस्य जीवचैतन्ये उत्पत्तौ तस्यैवापरोक्षत्वं स्यान्नतु घटस्य, नहि देशान्तरीयरजततादात्म्योत्पत्तावपि रजतस्यापरोक्षत्वं नामेति तस्मादुभयचैतन्याभेदाभिव्यक्त्या घटस्य स्वाध्यस्तत्वमेवोपराग इत्येव सम्यक् / यद्वा वरणाभिभवार्था वृत्तिः सर्वगतेपि जीवचैतन्येऽखण्डावरणस्य, स्वविषयचैतन्यगोचरप्रमात्रादिविस्पष्टव्यवहारप्रतिबन्धके उत्तेजकस्थानीयेनान्तःकरणपरिणामेन तत्कार्यप्रतिबन्धरूपाभिभवाधानात् , संदर्थत्वावृत्तेः, भवति हि तदभिभवे परिणतान्तःकरणसम्बन्धात्प्रमात्राकारं परिणामसम्बन्धा प्रमाणे परिणामसंसृष्टविषये विषयचैतन्याभेदेनाभिव्यक्तं जीवचैतन्यं फलमिति विस्पष्टव्यव'हारः, न चास्मिन्पक्षे परिणामसंसृष्टविषयाभिव्यक्तजीवचैतन्येन घटविषयीकरणे किमुभयचैतन्यामेदाभिव्यक्त्येति वाच्यम् , ब्रह्माध्यस्तघटस्य जीवचैतन्यापरोक्षत्वाय तदाश्रयणावश्यकत्वात् , संविदभेदो ह्यपरोक्षता नामेति / - एवं घटावच्छिन्नब्रह्मचैतन्याभेदेनाभिव्यक्तं प्रमातृचैतन्यं घटं विषयोकरोतीति घटस्य फलव्याप्यत्वमुच्यते / विषयेऽभिव्यक्तं चैतन्यं फलं वृत्त्यवच्छिन्नं प्रमाणं प्रमापरिणतान्तःकरणावच्छिन्नं च प्रमातेत्यंशभेदेन त्रिधाव्यवहारः / वह्नयादौ त्वनुमानादिवृत्या प्रमातृचैतन्यनिष्ठा ज्ञानमात्रनिवृत्तावप्युभयचैतन्या-भेदाभिव्यक्त्यभावावृत्तेश्चान्तरेवोत्पादात्परोक्षता, भ्रमस्थले तु शुक्त्यज्ञानसमुत्पन्नमनिर्वचनीयं रजताद्यवभासत इत्युपगम्यते, तत्रेदंवृत्त्येदमंशस्य घटादित्यायेनापरोक्षत्वं, रजतं तु प्रमातृचैतन्याभिन्नेदमंशचैतन्येध्यस्तं सुखादिवदपरोक्षम् , इदमंशतादात्म्येनोत्पन्नत्वाच्चेदं रजतमिति प्रत्ययो नत्वहं सुखीतिवदहं रजतमिति / कथं तर्हि तत्र सत्तावभासः शुक्तिसत्ताचभासेऽन्यथाख्यात्यापत्तेरिति चेत्, न, अनिर्वचनीयशुक्तिसत्तासंसर्गस्यैव तत्रोत्पत्त्यंगीकाकारात्, तर्हि देशान्तरीयरजतसंसर्ग एव शुक्तौ स्वीक्रियतामनिर्वचनीयो भ्रमानुमित्यादाविव तेनैव निर्वाहसंभवात् , किं रजतान्तरोत्पादकल्पनयेति चेत् , न, एवं सति रजतस्य वहरिव परोक्षत्वापत्तेः शुक्तिसत्तायास्त्वपरोक्षत्वं प्रमाणवृत्त्यैवेदमंशवत् / 441 For Private and Personal Use Only Page #76 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आत्मख्यातिः . अन्ये तु तत्रापि वह्नयंशे शुक्तिसत्तांशे वान्यथाख्यातिप्रसंगो मा भूदिति वह्नयुत्पत्तिं रजते सत्तान्तरोत्पत्तिं चाचक्षते / : नन्वेवं सुखादिवदपरोक्षत्वे रजताकारा वृत्तिर्न स्यात् , वृत्तिर्हि नाज्ञाननिवृत्यर्था सुखादिवद्रजतस्य यावत्सत्त्वं साक्षिणा भासनात् , नापि सम्बन्धार्था तत्रैवाध्यस्तत्वात् , नापि सुषुप्तावज्ञानसुखसाक्षात्कारवृत्तिवत्संस्कारार्था रजतनाशादेव विशिष्टसाक्षिनाशात् संस्कारोत्पत्तेरिति चेत् , अत्र केचित्-साक्षिचैतन्यं हि स्वतः स्फुरदपि सर्वगतमप्यसंगततत्तद्विषयावभासनायासमर्थ ज्ञानसंशब्दितवृत्तिप्रतिबिम्बितं विषयावभासकं भवति वृत्त्यवभासकं च, परेषां घटत्वादेः सर्वगतस्याऽपि घटादाविवास्माकं तादृशस्यापि चैतन्यस्य वृत्त्यैव सम्बन्धात् तदवच्छेदेनैवाभिव्यक्तेः, वृत्ति. विषययोस्तु वृत्त्याकारमन्तरेणापि प्रकाशसंसर्गात् प्रकाशमानता, एवं चाज्ञानसुखादीनामपि तदाकाराविद्यावृत्तिप्रतिफलितचिद्भास्यत्वमेव, केवलमाक्षिवेद्यत्वं तु प्रमाणवृत्त्यनपेक्षत्वात् / ततो वक्तव्यैव रजतवृत्तिरन्यथा घटायज्ञानानां साक्षिणि साक्षादध्यस्तत्वेन तेषां, तद्विशेषणतया च घटादीनां सदा भानप्रसंगः विषयविशिष्टत्वादेवाज्ञानप्रतीतेस्तदाकाराविद्यावृत्तिप्रतिफलित चिद्भास्यत्वे तु नायं दोषो वृत्तेरसदातनत्वादित्याहुः।। . अपरे तु वृत्तौ तादृशसामर्थ्याभावावृत्तिभानप्रयोजकाध्यासिकसम्बन्धस्यैवाज्ञानदिभानप्रयोजकत्वे वृत्तिकल्पनानवकाशान्नाज्ञानाचा कारावृत्तिर्भानार्थाऽज्ञानविशेषणतया सर्वविषयभानं त्विष्टमेव मनुष्यत्वाधभिमानवत् , अत एव स्वसत्तायामव्यभिचारि-प्रकाशत्वमहंकारादीनामुक्तं ग्रन्थकारैः / हन्तैवमज्ञानसुखादिवत् साक्षिण्यध्यस्तं रजतमपरोक्षमिति न स्वाकारां वृत्तिमपेक्षेत तद्धीदं वृत्त्येन्द्रियद्वारा बहिनिःसृतयेदमंशावच्छिन्नब्रह्मचैतन्याभिन्नप्रमातृचैतन्ये उत्पन्न : ततश्च प्रमातृचैतन्यमिदमाकारवृत्तिप्रतिफलिततयेदमंशे प्रमाणमपि तत्रैव विषयेऽभिव्यक्ततया फलमपि, रजतांशे शुद्धसाक्षिरूपं न प्रमाणं फलं प्रमाता वा तदाकारप्रमाणवृत्यभावादिति सुखादिवत्साक्षिगम्यं रजतं न वृत्यपेक्षमिति, न, इदमंशावच्छेदेन तस्यापरोक्षत्वेऽपि अन्तरवच्छेदेन वृत्तिविशेषणतया तद्भानाथै वृत्तेरवश्याश्रणोयत्वात् , न चेदंवृत्तिविशेषणतया रजतस्यान्तः प्रतिभासस्तस्यास्तदाकारत्वाभावात् , घटापरोझत्वमप्यन्तरवच्छे देन वृत्तिविशेषणतयैव, स्वातन्त्र्येण तु बहिरवच्छेदेनैव वृत्तेबहिनिस्सरणस्य बहिरवच्छेदेनैव घटापरोक्षत्वनियामकत्वात्, अज्ञाननिवृत्तेः शब्दादिजन्यवृत्तपि भावात् / . * ब्रह्मचैतन्यं हि घटावच्छेदेनैव घटमपरोक्षीकरोति न शरीरावच्छेदेन नवाऽन्यावच्छेदेन / नहि पटावच्छिन्नं ब्रह्मचैतन्यं घटं विषयोकरोतीति युज्यते, पटावच्छिन्नस्य सर्वज्ञत्वप्रसंगात्, अतो घटसंसृष्ट वृत्तिर्वृत्तिसंसृष्टो वा घटश्चैतन्यद्वयस्याभेदाभिव्यञ्जक इत्युभयथापि घटावच्छेदेन चैतन्य योरभेदाभिव्यक्त्यर्थवृत्तेर्बहिर्निस्सरणं दृष्टार्थं भवत्यन्यथाऽदृष्टार्थत्वप्रसंगात् / .-. - .-. For Private and Personal Use Only Page #77 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आत्मख्यातिः [77 किंच विषयावच्छिन्नं फलमित्यविवादं, तेन फलव्याप्यता विषयावच्छेदेनैव, सा हि न केवलसाक्षिगम्ये सुखादौ नापि परोक्षे किंतु प्रमाणापरोक्षे, तत्त्वं च जडस्य फलव्याप्यत्वमिति सिद्धं विषयावच्छेदेनैव घटापरोक्षत्वमिति शरीरावच्छेदेन तत्स्फुरणं वृत्तिविशेषणतयैव / न चैवं * शरीरावच्छेदेन घटं साक्षात्करोमीति धी स्याद्वहिरवच्छेदेनैव घटापरोक्षत्वादिति वाच्यम्, विषयापरोक्षत्वनिमित्तकस्य वृत्तिगतस्य साक्षात्कारत्वधर्मस्यानुमितित्वस्येव शरीरावच्छेदेन साक्षिगम्यत्वाविरोधात् / .. तदेवं केवलसाक्षिवेद्यत्वे तुल्येऽपि रजतादौ वृत्तिरपेक्षिता नाज्ञानादौ, न च देहस्य न केवलसाक्षिवेद्यता चक्षुह्यत्वेन प्रमाणवेद्यत्वादिति वाच्यम् / तथा सत्यज्ञानविषयत्वेन कदाचिदहं मनुष्यो नवेति संदेहापत्तेः, तस्मादेक एव देहो देहत्वेन ब्रह्मण्यध्यस्तो न जीवेऽहं देह इत्यप्रतीतेः, तादात्म्याभिनिविष्टमनुष्यत्वेन तु जीवेध्यस्तो न ब्रह्मणि, अहं मनुष्य इति प्रतीतेः, परेण मनुष्यमात्रस्य चक्षुषा ग्रहणेऽपि चित्तादात्म्यापन्नमनुष्यत्वस्याऽयोग्यत्वान्न ग्रह इति तेन रूपेण केवलसाक्षिवेद्यत्वमेव / एवमन्तःकरणादिरपि तत्त्वादिना ब्रह्मण्यध्यस्तोऽहन्वादिना तु जीव इति सिद्धमज्ञानोपहितचैतन्यरूपसाक्षिवेद्यत्वं देहस्य / नन्वेवं भवतु देहस्य केवलसासिंवेद्यत्वं अप्रत्यक्षेऽपि ह्याकाशे बालास्तलमलिनताद्यध्यस्यन्तीति भाष्यप्रतीके केवलसाक्षिवेद्य इति व्याख्यातॄणां विवरणाचार्याणामभिमतमाकाशस्य तत्वं तु कथं घटते ? ईश्वरसाक्षिवेद्यत्वेन तत्त्वस्यातिप्रसंगात्, जीवसाक्षिवेधं च कथमाकाशं तत्र तस्यानध्यस्तत्वात् / स्वानध्यस्तस्यापि साक्षिवेद्यत्वे घटादावतिप्रसंगात् / न चेदमंशस्य प्रमाणगम्यत्वेऽपि रजतस्य साक्षिवेद्यत्ववद् घटस्य स्वाकारप्रमाणवृत्ति गम्यत्वेऽपि घटावच्छिन्नाकाशस्य साक्षिवेद्यत्वमुपपत्तिमद्रजतस्यानावृतत्वादाकाशस्य त्वावृतत्वात् / घटवृत्त्या च घटाकाशावरणानिवृत्तेः अन्याकारवृत्त्याऽन्यावरणनिवृत्तावतिप्रसंगात्, एतेनोर्ध्वदेशवर्तिप्रभामण्डलावच्छिन्ने नभसि नैल्यारोपस्तच्च प्रभामण्डलवृत्त्यैव स्फुरति इदंवृत्त्येव रजतमित्यपि निरस्तम्, उक्तदोषात् / न च प्रभामण्डलवृत्त्या तदवच्छिन्नचैतन्यावरणनिवृत्तिवत्तदवच्छिन्नाकाशावरणस्यापि निवृत्ती नातिप्रसंगः तद्विषयावृत्तिस्तदवच्छिन्नविषयावरणनिवृत्तिहेतुरित्येव नियमादिति वाच्यम् , विषयावच्छिन्नचैतन्यस्यैव सर्वत्र प्रमाणवृत्तिविषयत्वात्, प्रभामंडलविषयत्वस्यापि तदवच्छिन्नचैतन्यावरण. निवृत्तावपि न तदवच्छिन्नाकाशावरणनिवृत्तिः, अन्यथेदंवृत्त्या शुक्त्यावरणनिवृत्तिप्रसंगादिति / 'यत्तु रजतवत्केवलसाक्षिवेद्यमेव प्रभामण्डलावच्छिन्नं नभो न तु तत्रावरणमस्ति ऊर्ध्वदेशवत्तिप्रभामण्डलज्ञानमात्रेण नीलं नम इति बोधदर्शनादिति; तन्न, इदंवृत्येदमंशावच्छिन्नब्रह्मचैतन्याभिन्ने साक्षिण्यध्यस्तस्य. रजतस्य साक्षिवेद्यत्वोपपत्तावपि नभसि. तदनुपपत्तेः, न हि तत्प्र For Private and Personal Use Only Page #78 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 7] आत्मख्यातिः भामण्डलावच्छिन्नब्रह्मचैतन्याभिन्ने साक्षिण्यध्यस्तमिदंवृत्तेः प्राग्रजतस्येव प्रभामण्डलवृत्तेः प्राग्नमसोऽसत्वाभावात् / तच्च नभो ब्रह्मचैतन्य एवाध्यस्तमिति न केवलसाक्षिवेद्यता, नापि ज्ञानविषयतयाऽज्ञानविषयतया वा नभसः साक्षिण्यध्यासात्साक्षिवेद्यता तादृशसाक्षिवेद्यत्वस्य शुक्स्याछावपि सत्त्वात् , तस्मान्न केवलसाक्षिवेद्यं नमः / नापि चाक्षुषम् , अपसिद्धान्तात् , चक्षुःप्रसारणस्थाकाशानुगतसत्तास्फुरणेऽन्यथासिद्धान्थिकैरभिधानात् , अत्र सत्ताशब्देन सदेव सत्तेति देवतादिवत् स्वार्थिकनल् प्रत्ययेन प्रभामण्डलमुच्यते, तस्मान्नीलं नभ इत्ययं भ्रमो दुर्घटो न ह्ययं परोक्षोऽपरोक्षानुभवविरोधात् , नाप्यपरोक्ष उक्तविधया नभसः साक्ष्यपरोक्षत्वस्य चाक्षुषवस्य चाभावे परोक्षत्वात् / परोक्षे चाधिष्ठाने नैल्यापारोक्ष्यानुपपत्तेः / स्वाभिन्नत्वेन ह्यपरोक्षत्वं, न च नैल्ये तद्वक्तुं शक्यत इति चेत् , अत्र वदन्ति यथा सिद्धान्ते केवलसाक्षिगम्यस्याप्यज्ञानरजतादेः प्रामाणिकभावत्वमिथ्यात्वादिधर्मपुरस्कारेण प्रमाणगम्यत्वं एवं प्रामाणिकस्यापि नभसः केवलसाक्षिवेद्यनैल्यादिधर्मपुरस्कारेण केवलसाक्षिवेद्यत्वं, चक्षुपा प्रभामण्डलज्ञाने जाते तदुत्पादितनभोनैल्यावगा काविद्यावृत्या प्रतिफलितेन साक्षिणा नैल्यस्य तदाश्रयस्य नभसश्च विषयीकरणात् , नभसि समुत्पन्न नैल्यं विनोक्तवृत्त्या तु सक्षिणा विषयोकर्तुमशक्यं साक्षिण इदमंशेनेव नभसाऽनन्द्रियकेणानवच्छेदात् / न चैवमपि नभोव्ययोः साक्षात्साक्षितम्बन्धाभावादविद्यावृत्तिवेषयतयैव साक्षिणा विषयीकरणे भ्रमानुमितौ वढे रिवापरोक्षत्वानुपपत्तिः, ईश्वरस्य मायावृत्तिविषयानामतीतानागतकल्पानामिव लिङ्गाद्यप्रतिसन्धानेन ज्ञायमानत्वेन तयोः साक्ष्यपरोक्षत्वात् , अतएवाज्ञानविषयतया घटवहयादेः साक्षिसम्बन्धेऽपरोक्षत्वव्यवहारो, भ्रमप्रमानुमित्योस्त्वतथात्वादेवाविद्यान्तःकरणवृत्तिविषयतया वह्नेः साक्षिसम्बन्धेऽपि नापराक्षत्वव्यवहारः / तस्मान्नभ सो नैल्यं नमोनिष्ठनैल्याभावाज्ञानजनितं नभोवच्छिन्नचैतन्यनिष्ठमपि खाकाराविद्यावृत्तिविषयतया साक्षिणि स्वाध्यस्तं लिंगाद्यप्रतिसन्धानादपरोक्षं व्यवहियत इति तोलं नभ इति भ्रमोऽप्यपरोक्ष एव / न चाधिष्ठानज्ञानाभावे कथमसौ भ्रमः न चाधिष्ठानज्ञानमप्यविद्यावृत्तिरूपमेव केवलस्य नभसः प्रामाणिकस्य घटादेरिव तदसंभवादिति वाच्यम् , अनुमिति रूपस्यैवाधिष्ठानज्ञानस्य स्वीकारात् , अधिष्ठानापरोक्षत्वं च प्राग्भ्रमाद् यद्यपि नास्ति तथाप्यु"क्तविधया नोलं नभं इति भ्रमस्यापरोक्षत्वम् , प्रागपरोक्ष एवाधिष्ठानेऽपरोक्षभ्रम इति नियमे मानाभावात् , तस्मादाविद्य कनैल्यपुरस्कारण नभोऽविद्यावृत्तिविषयतया केवलसाक्षिवेद्यम् / यद्वा साक्षादज्ञानारब्धत्वेन तमोवदविद्यावृत्या साक्षिवेद्यम् , एवं दुःखाभावादयोऽप्यविया कृत्यैव केवलसाक्षिवेधाः, तेहि स्वाध्यस्ता अपि न सुखादिवत्साक्षिगम्या यावत्सत्वं सुखादिबनानाभावात् , सोऽपि सर्वदा प्रतियोगिज्ञानाभावात् , न च साक्षिरूपे दुःखाद्यभावज्ञान प्रतियोमिज्ञानं न. कारण, लाघवादभावज्ञानत्वावच्छेदेनैव. तद्धेतुत्वावधारणात् अत एव सुप्तोत्थितस्य For Private and Personal Use Only Page #79 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आत्मख्यातिः [79 सुखमङ्मस्वास न किंचिद्दवेदिषमिति प्रत्ययो न दुःखाभावज्ञानाभावानुमितिरूपो लिंगाभावात्., नाफि दुःखाभावज्ञानाभावस्मरणरूपः सुषुप्तौ प्रतियोगिज्ञानाभावेन तद्रूत्वनुभवासंभवात् , किन्तु सुखाज्ञानस्मरणरूपः स्वीकर्त्तव्य इति तदन्यथानुपपत्या सुखाकाराऽज्ञानाकारा च वृत्तिः सुषुतो, तक्रतत्र व्यवस्थापिता, ताभ्यां चाज्ञानसुखाभ्यां स्मर्यमाणाभ्यां सौषुप्तिकज्ञानाभावदुःखाभावा.. सुमाजम् / न. चाज्ञानस्य न ज्ञानामावलिंगत्वं व्यभिचारादिति वाच्यम् , अवस्थाविशेषविशिष्टस्य तस्य तल्लिंगत्वसंभवात् / स चावस्थाविशेषोऽज्ञानाद्याकारा वृत्तिरेव तेन न ज्ञानाभावादिरूपत्वे तस्थाऽन्योन्याश्रयादिदोषः / / * नन्वेवे विवरणग्रन्थविरोधस्तत्र हि क्वचित्सुषुप्तौ साक्षिाण विद्यमानोऽपि दुःखामाबो नानु भूयते प्रतियोगिज्ञानादित्युक्तं क्वचिच्च प्रकाशसंसर्गः प्रकाशमानतेत्यभिधाना दुःखाभावस्य साक्षिवैधत्वमुक्तमिति चेत् , न, साक्षिगम्येऽपि दुःखाद्यभावे विस्पष्टसाक्षिगम्यता प्रतियोगिज्ञानेनैव प्रतियोगिभूतदुःखस्मरणमन्तरादुःखाभावत्वेन तद् ज्ञानाभावादित्युभयाभिधाने विरोधाभावात् , सुषुप्तौ चं प्रतियोगिज्ञानाभावान दुःखाभावो विस्पष्टसाक्षिगम्यः / न चाविस्पष्टसाक्षिबोधात् स्मृतिसंभवः परैरपि निर्विकल्पस्य स्मृतिजनकत्वानभ्युपगमात् / सुखदुःखादीनां तु विस्पष्टसाक्षिगम्यताऽप्यविद्यावृत्तिमन्तरेणैव तस्याः प्रयोजनाभावात् , दुःखाधभावस्त्वविद्यावृत्तिः स्वीकार्या, एवं ज्ञानाभावेऽपि / अस्तु तर्हि दुःखाभावः प्रमाणगम्यो दुःखानुपलब्ध्यैव दुःखाभावप्रमाणवृत्तिसंभवादिति चेत् , न, ज्ञानाभावेऽनुपलब्धिग्राह्यताया वक्तुमशक्यत्वात् , ज्ञाताया एव तस्याः प्रमितिजनकत्वेनानवस्थाप्रसंगात् , क्वचिद् ज्ञातायाः क्वचिदज्ञातायाश्च हेतुत्वेऽव्यवस्थाप्रसंगादिति ज्ञानाभावस्य साक्षिवेद्यत्वे दुःखाभावस्यापि तथात्वमेव, एकत्र क्लृप्तमन्यत्रापि प्रतिसन्धीयत इति न्यायात् / नन्वेवं स्वाप्निकपदार्थानां कथं साक्षिवेद्यत्वम् इदन्तया प्रतिभासमानतया घटादिवत्तदनुपपत्तेः नापि प्रमाणगम्यत्वं तत्र प्रमाणानुपरमात् / . किंचानिर्वचनीयं साक्षिवेद्यं भवति, न च स्वाप्निकरथानामनिर्वचनीयत्वम् अज्ञानाजन्यत्वात् तथाहि न तावन्मूलाज्ञानं तदारम्भकं संसारदशायां बाधाभावप्रसंगात्, नहि मूलाज्ञानकार्य संसारदशायां बाध्यते, बाध्यते च स्वप्नः / किंच मूलाज्ञानकार्यत्वे तस्य रजतभ्रमे शुक्त्यज्ञानस्येव तत्र जाग्रत्प्रपंचाज्ञानस्यान्वयव्यतिरेकानुविधायित्वं न स्यात्,अस्ति तदिति / अस्तु तर्हि जाग्रत्प्रपंचाज्ञानमेवारम्भकमिति चेत्, न, तथा सति शुक्तौ रजतोत्पत्तिवज्राग्रत्प्रपंचे स्वाप्निकरथाद्युत्पत्तिप्रसंगात् / / न चेष्टांपत्तिस्तत्सामानाधिकरण्येन स्फुरणाभावात्, करणोपरमेण तदप्रतीतेः / न च यद्वि१. 'पंचपादिका नामकरन्यस्य विवरण' इत्याख्या टोका वर्तते / For Private and Personal Use Only Page #80 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आत्मख्यातिः षयाज्ञानेन यदुत्पद्यते तत्तत्सामानाधिकरण्येन स्फुरतीति न नियतं शुक्तिविषयाज्ञानेनोत्पन्नस्य रजतस्य शुक्तिसामनाधिकरण्येनेदं स्जतमिति स्फुरणात् , अहंकारसुखादेरपि चिन्मात्राज्ञानारब्धस्य चित्सामानाधिकरण्येनाहमित्यहं सुखीति स्फुरणात्, आकाशघटादेरपि सत्सामानाधिकरण्येनानुभूयभानत्वात् , क्वचिदपि व्यभिचाराभावात्, न च पर्वते वह्नयभावाज्ञानारब्धस्य वहनेंवह्नयभावसामानाधिकरण्येन स्फुरणाभावाद्वयभिचारः शुक्तौ शुक्तित्वप्रकारकशुक्तिविशेष्यकाज्ञानस्य रजतारम्भकत्ववद्वह्यभावप्रकारकपर्वतविशेष्यकाज्ञानस्यैव पर्वते वहन्यारम्भकत्वात्तत्सामानाधिकरण्येन च पर्वतो वह्निमानिति बढ्नः स्फुरणस्य सर्वसिद्धत्वात् / एतेन भ्रमानुमितौ पर्वते वहनेस्तत्संसर्गस्य वा न जन्म वहन्यभावाज्ञानस्य तद्भुतुत्वे तत्सामानाधिकरण्येन वह्नः स्फुरणप्रसंगात्, पर्वताज्ञानस्च च दे॒तुत्वे हेत्वभावादेव वहन्यनुत्पत्तेरिति पर्वतो वहिनमानित्यन्यथाख्यातिरेव तत्र स्वीकर्तव्येति केषांचिदर्धजरतीयाश्रयणमपास्तं पर्वते प्रतिभासमानस्य देशान्तरसत्त्वे मानाभावात् तत्र वढेमिथ्यात्वानुभवानुरोधेनोक्तदिशा हेतुतयैव सर्वसामंजस्यात्, गौरवेणमिथ्यार्थानङ्गीकारे तेनैव मिथ्याज्ञानानङ्गीकाराद्गुरुमतसाम्राज्यापत्तेः / तस्मादस्ति वह्वेस्तत्संसर्गस्य वा पर्वते उत्पत्तिः, न च पर्वतापरोक्षत्वेन शुक्तिरजतवत्तदपरोक्षत्वापत्तिः पर्वतावच्छिन्नेसाक्षिणि वयुत्पत्तेरभावात् दृश्यमानप्रदेशावच्छेदेन वह्नयभावानुभवात् , प्रदेशविशेषावच्छिन्ने पर्वते. च वह्नयुत्पत्तावपि तदधिष्ठानापरोक्षत्वेन तदपारोक्ष्यात् / अत एवेदंवृत्त्या चैत्रापरोक्षे इदमंशचैतन्ये उत्पन्नं चैत्रस्य रजतं, तयैव तस्मिन्नेव चैतन्ये मैत्रापरोक्षेऽपि न मैत्रस्यापरोक्षं, मैत्रे चैतन्याभेदे नानुत्पन्नत्वादित्येकलोलीभावोऽपि निष्कलंकः / पर्वत-: त्वेन ज्ञानाच्चाधिष्ठानज्ञानसंपत्तिर्वह्निभ्रमे पक्षता तु पर्वतत्वेनापीष्टेति दिए / तत्सिद्धमेतत् यद् यदज्ञाने नोत्पद्यते तत्तत्सामानाधिकरण्ये न स्फुरतीति न जायत्प्रपं चज्ञानारब्धः स्वप्नप्रपञ्चः / नाप्यन्तःकरणावच्छिन्नचैतन्याज्ञानं तदारम्भकमुक्तहेतोरेव अन्तःकरणे च साक्षिवेधे नाज्ञानसंभव इत्यनिर्वचनीयत्वाभावान्न स्वाप्निको रथादिः साक्षिवेद्य इति चेत् , अत्रायं संप्रदायः / रथादिस्तावदध्यस्तो दृश्यत्वात् तदारम्भकं च मूलाज्ञानमेव / चिन्मानिष्ट हि तत्स्वकार्यमाकाशादीश्वरत्वावच्छेदेन जनयति, किंचित्त्वहंकारस्वप्नादि जीवत्वावच्छेदेनापि, उभयमप्याकाशाहंकारादि चित्सामानाधिकरण्येन स्फुरतीति न मूलाज्ञान कार्यत्वे दूषणम् , न च तथात्वे संसारदशायां बाधानापत्तिः ‘सविलासाज्ञाननिवृत्तिरूपबाधाभावादिष्टापत्तेः / दोषनिवृत्त्याऽभावबोधरूपबाधस्य तु स्वप्नारम्भकाज्ञानानिवृत्तावपि तूलाज्ञानानङ्गीकारपक्षे मूलाज्ञानकार्यरजतादाविवानुपपत्यभावात्जाप्रत्प्रपंचाज्ञानान्वयव्यतिरेकानुविधानं तु स्वप्नारंभकनिद्रादोषेणान्यथासिद्धम् / मूलाज्ञानकार्यमपि स्वाप्निकरथादि जीवे उत्पन्नमिति न, तदाकारवृत्त्यपेक्षाऽहंकारादिवत्स्वाध्यस्ततयैव भानात , एवं तमोपि साक्षिवेद्यम् / स्वाप्नादि साक्षात्, तमस्त्वविद्यावृत्तिविषयतयेति परं. विशेषः / '. . For Private and Personal Use Only Page #81 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आत्मख्यातिः यद्यपि चक्षुर्वेद्यं तम इति पक्षोऽप्यस्ति, तथापि चक्षुषः स्वविषये आलोकसापेक्षप्रवृत्तिनियमात् साक्षादज्ञानारब्धस्य स्वप्नशुक्तिरजतादौ चक्षुर्ग्राह्यत्वाभावव्याप्तिग्रहात् , निमीलितनयनस्यान्तरतमोदर्शनस्य चाक्षुषत्वानुपपत्तेश्च साक्षिवेद्यं तम इति पक्षोऽप्यभियुक्तैः स्वीक्रियत इति / केचित्त्वन्तःकरणसम्बन्धमात्रं न साक्षिभानप्रयोजक तत्सम्बद्धेऽनावृतेऽपि शुक्तिरजतादावस्वच्छत्वात्स्वच्छेपि ब्रह्मण्यावृतत्वाद्धर्माधर्मादौ त्वस्वच्छत्वादावृतत्वाच्च तदाकारवृत्तिमन्तरेण भानाभावात्, स्वच्छानावृतसुखदुःखादेरेव तत्सम्बन्धमात्रेण भानात् / स्वप्नस्थलेऽपि मन एव रथाद्याकारेण परिणमते इति मते मनःपरिणामरूपम् अविद्यैव तथा परिणमत इति मते चाविद्यापरिणामरूपम्, स्वाप्निकरथाद्यविद्यावृत्या भासते / न च तदा मनसो. वृत्त्याकारपरिणामे द्रष्टत्वसंभवे नात्मनः स्वयंज्योतिष्वासिद्धिर्बहिरिन्द्रियवृत्त्यभावेन तदानीं मनसोऽग्राहकत्वात्तसहकारेणैव तस्य ग्राहकत्वनियमात् सवृत्तिकान्तःकरणावच्छिन्नस्यैव च चैतन्यस्य प्रमातृत्वनियमात् , तदान्तःकरणसत्त्वेऽपि प्रमात्रभावः, अधिष्ठानं च स्वप्नाध्यासस्य मनोवच्छिन्नं जीवचैतन्यमित्येके / मूलाज्ञानावच्छिन्नं ब्रह्मचैतन्यमित्यपरे / ... किं श्रेयो ? मतभेदेनोभयमपि, तथाहि ब्रह्मचैतन्यस्याधिष्ठानत्वे संसारदशायां तद्भानाभावाजाग्रदोधात्तन्निवृत्तिर्न स्यात् , आकाशादिवत्स्वप्नस्य सर्वसाधारण्यापत्तिश्चेति न तदधिष्ठानम् , न च जीवचैतन्यस्यानावृतत्वेन सर्वदा भासमानत्वात्कथं तदधिष्ठानत्वम् , ? तत्रापि स्वप्नाध्यासानुकूलव्यावहारिकसंघातभानविरोध्यवस्थाज्ञानाभ्युपगमात् , स्वप्नदशायां चाहं मनुष्य इत्यादिक प्रातीतिकसंघातान्तरज्ञानाभ्युपगमात्, न चाहं मनुष्य इत्यादि व्यावहारिकसंघातज्ञानस्य प्रमाणाजन्यत्वात्कथमज्ञाननिवर्तकत्वम् ? अवस्थान्तरान्यथानुपपत्या तत्कल्पने सुषुप्तावपि स्वप्नबाधकज्ञानोपगमेन जाग्रत्वापत्तेरिति वाच्यम् , स्वप्नावस्थाज्ञानस्यैवान्तःकरणलयसहितस्य सुषुप्तिरूपत्वेन तत्र तदबाधात् जागरणे तु मिथ्णैव स्वप्नोभादित्यनुभवात् , अहमिति ज्ञानस्य प्रमाणजन्यत्वेपि यथार्थत्वाच्छरीरादिज्ञानस्य च प्रमाणजन्यवादवस्थाविरोधित्वमनुभवसिद्धम् / विशेषाज्ञानं तु प्रमाणजन्यवृत्तिमन्तरेण न निवर्तते साक्षिणो विद्यासाधकत्वेनैव धर्मिग्राहकमानसिद्धत्वात् / ... यावन्ति ज्ञानानि तावन्त्यज्ञानानीति वाऽभ्युपगमाच्छक्तिज्ञानेनेव व्यावहारिकसंघातज्ञानेनाज्ञाननिवृत्तावपि पुनरपि कदाचिद्रजतभ्रमवन्न स्वप्नाध्यासानुपपत्तिरिति जीवचैतन्याधियानत्वपक्ष न कोऽपि दोषः / मूलाज्ञानावच्छिन्नब्रह्मचैतन्याधिष्ठानत्वपक्षेऽपि रज्वा दण्डभ्रमेण सर्वभ्रमतिरोधानवदधिष्ठानज्ञानाभावेऽपि जाग्रमेण स्वप्नुभ्रमतिरोभावः / प्रतिजीवं स्वप्नासाधारण्यं तु मनोगतवासनानाम माधारण्यादिति नानुपपत्तिः, अस्तु वा मनोवच्छिन्नं ब्रह्मचैतन्यमेवाधिष्ठानम् , अवस्थाज्ञानस्यावरणत्वाङ्गीकाराच्च नानुपपत्ति: अत एव शास्त्रे क्वचित्तथा व्यपदेशः / न चात्र पक्षेऽहं गज इत्यहंकारसामानाधिकरण्येन प्रतीत्यापत्तिः अहंकारस्य शुक्तिवदधिष्ठानावच्छेदकत्वात् , आ. 11 For Private and Personal Use Only Page #82 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आत्मख्यातिः तद्ज्ञानस्य भ्रमविरोधित्वाच्छुक्तो रजतमितिवदहं गज इति भ्रमायोगात् , इदमाकारस्तु रजतभ्रमा विरोध्येव तत्र भासते / स्वप्ने तु गजाकारवदिदमाकारोऽपि मिथ्यैव / उभयाकारबाधेऽप्यधिष्ठान चैतन्याबाधान्न शून्यवादः / अध्यस्तमेव परिस्फुरति भ्रमेष्विति न्यायानुसरणे त्विदमाकारो रजतभ्रमेऽपि प्रातीतिक एवाधिष्ठानसत्यत्वमेव चाध्यासप्रयोजकमिति दिगित्याहुः / वेदान्तमतनिराकरणम् / ... इयं च प्रक्रिया निर्मूला अद्वैतवादेऽज्ञानस्यैवासत्त्वेन तन्मूलकप्रपंचाध्यासस्य तन्निष्ठावरणशक्त्यभिभवनाशादिद्वारा प्रमातृविषय चैतन्याभेदादेश्च वक्तुमशक्यत्वात् , अनिर्वचनीयविचित्रशक्तिकाज्ञानाभ्युपगभे सदद्वैताब्याकोपान्न दोष इति चेत् , न, अनिर्वचनीयरजतस्येवानिर्वच. नीयाज्ञानस्य कार्याक्षमत्वात् , अन्यथा मृगे शशत्वभ्रमे तच्छंगे शशशृंगमिदमिति प्रतीत्यनुरोधेनानिर्वचनीयशशशंगोत्पत्यभ्युपगमेन तस्यापि कार्यक्षमतां वदन् वेदजडो भवान् कस्य नोपहास्यः स्यात् / न च तत्र मृगे तादात्म्येनोत्पन्नेऽनिर्वचनीयशशे तादृशशंगस्यौवोत्पत्तिः स्वोक्रियते न त्वखण्डशशशंगस्येति वाच्यम् , शुक्तौ रेजतभेदाज्ञानस्यातादात्म्येन तत्र रजतोत्पादकत्ववन्मृगशंगे शशशृंगभेदाज्ञानस्य तत्र तादात्म्येन शशशंगोत्पादकताया एव त्वन्मते युक्तत्वात् अन्यथा तत्र शंगत्वेन द्वेधा भानप्रसंगात् / / अपि चेन्द्रियद्वारा निःसृतान्तःकरणवृत्तिपरिणामापादितस्य विषयचैतन्ये प्रमातृचैतन्यामे.दस्यापरोक्षत्वनियामकत्वे कविकाव्यमूलभूतज्ञानविषयाणां प्रातिभज्ञानविषयाणां च पदार्थानां कथमपरोक्षत्वं तदवच्छिन्नब्रह्मचैतन्ये प्रमातृचैतन्याभेदस्य तत्रोपायाभावेन वक्तुमशक्यत्वात् / __अथ स्वाकाराविद्यावृत्तिप्रतिफलितसाक्षिविषयीक्रियमाणनभोनॆल्यादिवदीश्वरीयमायावृत्तिविषयोक्रियमाणातीतानागतानन्तकल्पवच्च तेषां लिंगाद्यप्रतिसन्धानेन ज्ञायमानतयैवापरोक्षत्वव्यवहार इति चेत् , नन्वेवं घटादावपीत्थमेवापरोक्षत्वोपपत्तौ तत्र विषयचैतन्याभेदाभिव्यक्तिप्रयासवैफल्यम् / न च ज्ञानस्य घटादिनिष्ठत्वोपपादकतया तत्साफल्यं विषयेन्द्रियसन्निकर्षमात्रादेव तदुपपत्तेः / द्विविधं ह्यावरणमेकमसत्त्वापादकमन्तःकरणावच्छिन्नसाक्षिनिष्ठमन्यदभानापादकं विषयावच्छिन्नब्रह्मचैतन्यनिष्ठम् / आयं परोक्षापरोक्षसाधारणप्रमामात्रनिवर्तनीयम् अनुमितेऽपि वह्नौ नास्तीति प्रतीत्यनुदयात् , अन्त्यं तु साक्षात्कारेणैव निवर्तते साक्षात्कृत एवार्थे न भातीत्यप्रतीतेः, ततो ज्ञानाज्ञानयोः . समानश्रयविषयक्रत्वेन -निवर्त्यनिवर्तकभावादभानापादकघटावच्छिन्नब्रह्मचैतन्यनिष्ठावरणनिवृत्तये घटसाक्षात्कारस्य सन्निकर्षाधीनान्तः करणपरिणामेन घटनिष्ठत्वमात्रं स्वीक्रियतामुभयचैतन्याभेदाभिव्यक्तिस्तु निष्प्रयोजना / परोक्षत्वस्य लिंगाधजन्यज्ञानत्वेनैवोपपादनात् / वस्तुतस्तत्तदाकारसाक्षात्कारत्वेनैव तत्तदज्ञाननिवर्तकत्वात्तत्र विषयनिष्ठत्वमप्रयोजकं नमोनैल्यादावभावाच्च / साक्षात्कारत्वं च लिंगायजन्यज्ञाननिष्ठविषयताविशेष इति तन्निरूपकतयैव For Private and Personal Use Only Page #83 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आत्मख्यातिः - विषयापरोक्षत्वसंभवात्संविदभेदो ह्यपरोक्षतेति रिक्तं वचः / न च नभोनैल्यादावपि स्वाकाराविद्यावृत्तिविषयतया साक्षिणि स्वाध्यस्तत्वमेवापरोक्षत्वप्रयोजकमिति वाच्यं अनुमानवृत्तिविषये वह्नयादावतिप्रसंगात् , लिंगाद्यजन्यत्वेन वृत्तिविशेषणे तस्यैव प्रयोजकत्वात् , ईश्वरेऽपि सर्वाकारमायावृत्तिविषयतयाऽतीतानागतकल्पा वर्तमानकाले यद्यध्यस्तास्तदा वर्तमानन्वेन तदज्ञानापत्तिः यदि च नाध्यस्तास्तदा तदज्ञानादीश्वरस्यासाश्यम् / अथ साक्षादध्यस्तत्वमेव वर्तमानत्वप्रयोजकं न तु वर्तमानेश्वरज्ञानविषयतयाऽध्यस्तत्वमतीतानागतार्थानां तथेति चेत् , ज्ञानविषयत्वमपि तेषां तदा सतामसतां वा ? आये वर्तमानत्वापत्तिः अन्त्येऽसत्ख्यात्यापत्तिः; अथेश्वरज्ञानविषयतया तदा तत्सत्वेऽपि स्वरूपेणासत्वं न विरुध्यते भावत्वादिना प्रमाणगम्येऽप्यज्ञानादौ स्वरूपेण तद्गम्यत्ववदिति न दोष इति चेत् , नन्वेवं स्याद्वादपक्षे प्रवेशात्सर्वत्रानाविलमर्हन्मतमेवाश्रयणीयम् / रजतादेः प्रमातृचैतन्याभिन्नेदमंशचैतन्येऽध्यस्तत्वात्सुखादिवदपरोक्षत्वमित्यपि न समीचीनम् ,इदंवृत्त्या चैत्रापरोक्षे इदमंशचैतन्ये उत्पन्नस्य चैत्ररजतस्य मैत्रस्याप्यपरोक्षत्वापत्तेः / इदंवृत्त्येदमंशस्य चैतन्यस्य मैंत्रस्याप्यपरोक्षत्वान्मैत्रचैतन्याभेदेनानुत्पन्नत्वान्न तत्र मैत्रापरोक्षत्वमिति चेत् , न, चैत्रचैतन्य इव मैत्रचैतन्येऽपोदमंशचैतन्याभेदाविशेषे चैत्रचैतन्याभेदेन तदुत्पन्नं न मैत्रचैतन्याभेदेनेत्यत्र नियामकाभावात् , तच्चैतन्याभेदेन रजतोत्पतौ तद्गतविशेषादर्शनाघेव नियामकमिति नातिप्रसंग इति चेत् तर्हि येन रूपेणास्माकं तत्तद्रेतूनां रजतादिभ्रमहेतुता तेन रूपेण तव रजतादिहेतुतेति पर्वतत्वावच्छेदेन कूटलिंगजपरामर्शात्पर्वतत्वावच्छेदेनैव मिथ्या वह्नयुत्पत्तिरिति पर्वतापारोक्ष्यात्तदपारोक्ष्यापत्तिः / अथ पर्वतत्वावच्छेदेन परामर्शोऽपि नीलपर्वते वह्निकल्पने लाघवमिति लाघवज्ञानसहकृतो यथा परेषां मते नीलपर्वतत्वावच्छेदेनैव वह्नयनुमितिं जनयति तथास्माकं पर्वतत्वावच्छेदेन कूटलिंगजपरामर्शोऽप्यदृश्यमानप्रदेशावच्छेदेन वह्नयभावाज्ञानसहकृतस्तदवच्छेदेनैव पर्वते वह्निमुत्पादयतीत्यदोष इति चेत् , तर्हि तत्प्रदेशस्थतादृशपरामर्शवत्पुरुषान्तरस्य तदपारोक्ष्यापत्तिः, तत्प्रदेशावच्छिन्नपर्वते तदीयवह्नयुत्पत्तौ तत्प्रदेशावच्छेदेन तदीयवह्नयभावाज्ञानत्वादिना हेतुत्वकल्पने चातिगौरवम् , एवं सन्निकर्षादिवशाच्चैत्रीयरजतादेमैत्रादेः प्रत्यक्षवारणाय चैत्रीयरजतप्रत्यक्ष चैत्रीयरजतत्वादिना विषयविधया हेतुत्वेऽप्यतिगौरवमिति न किंचिदेतत् / ___ अपि च विशेषादर्शनादे रजतभ्रमत्वापेक्षया लाघवाद्रजतत्वं यथा कार्यतावच्छेदकं त्वयोच्यते तथा घटचक्षुःसन्निकर्षादेरपि घटज्ञानत्वापेक्षया लाघवाद् घटत्वमेव कार्यतावच्छदेकं कल्पयितुमुचितमिति शुक्तिरजतवद्घटादेरपि प्रातोतिकत्वमागतम् एवं च तदाकारवृत्त्याश्रयणे गौरवावृत्तिगतमेव रजतत्वघटत्वादि तथा कल्पयितुमुचितमिति ज्ञानाकारमानं जगदिति वदन् योगाचार एव विजयते / अथ दृष्टिसृष्टिवादे चतन्यातिरिक्तपदार्थानामज्ञातसत्त्वं नास्त्येवेति घटादीनां यदा प्रतीतिस्तदा सत्त्वं नान्यदा, न च तत्र दण्डादिजन्यत्वं किन्त्वज्ञानमात्रजन्यत्वं, स्वप्नवच्च दण्डाद्यपादानं For Private and Personal Use Only Page #84 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आत्मख्यातिः अज्ञान देहादिकं तु भासमानमेव तिष्ठति अभावनिश्चयाभावाच्च पुत्राधभावकृतरोदनाधप्रसंगः / प्रत्यभिज्ञानमपि भ्रम एवाकाशादिक्रमेण सृष्ट्यादिवर्णनमपि मतान्तरसिद्ध नादियते / ज्ञानजन्यत्वसाक्ष्यध्यस्तत्वयोस्तौल्येऽपि घटादेरपरोक्षत्वं वह्नयादेः परोक्षत्वं च, तत्रापरोक्षत्वादेरप्यध्यस्तत्वादेवेत्येतावन्मात्रेण सौगतप्ताम्येऽप्यधिष्ठानस्य स्थायित्वादबाधितत्त्वाच्चाज्ञानस्याप्यनादेः सकलदृष्टिहेतोरङ्गीकारादस्ति वेदान्तिनां विशेष इति चेत् , न, दण्डघटादाविव यागस्वर्गादावपि कार्यकारणभावस्य स्वप्नतुल्यत्वेन यजेत स्वर्गकाम इत्यादेः प्रामाण्याभावे वेदान्तेष्वपि प्रामाण्यानाश्वासप्रसंगात् / लोकेऽज्ञानातिरिक्तकारणाभावेऽपि वेदे यागादौ स्वर्गादिसाधनता प्रामाणिक्येवेत्यर्धजरतीयाश्रयणीयं तु परेषां वासनामात्रजम्भितमिति संविदभेदस्यापरोक्षतानिमित्तत्वे ज्ञानाकारमात्रमेव जगत्स्यादित्यवधेयम् / तथा च सुष्ठपहसितमेतत्-. प्रत्यक्षादिप्रसिद्धार्थ-विरुद्धार्थाभिधायिनः / वेदान्ता यदि शास्त्राणि, बौद्धैः किमपराध्यते 1 // इति / तदेवं वेदान्तिनामिव जैनानां संविदभेदस्य नापारोक्षतानिमित्तित्वमिति ज्ञानस्य स्वसंविदितत्वेऽपि कथमात्मनः स्वसंविदितत्वमिति चेत् , न, अर्हन्मतस्य सकलनयमयत्वेन वेदान्ति• नयेऽखण्डाद्वितीयस्वविषयज्ञानरूपत्वेन सौगतमते च स्वाकारज्ञानपर्यायमात्ररूपत्वेनात्मनः स्वसंविदितत्वोपगमे दोषाभावात् / - यत्त्वपरोक्षत्वे सति फलाव्याप्यत्वमेव स्वप्रकाशत्वमिति वेदान्तिनये परिभाष्यते, तच्चिन्त्यम् , विशेषणद्वयेनानुमेये घटादौ चातिव्यप्तिवारणेऽपि रजतेऽतिव्याप्तेः / प्रमातृचैतन्याभेदेनाभिव्यक्तचैतन्येन फलेनेदमंशस्य व्याप्यत्वेऽपि पश्चात्तत्रोत्पन्नस्य रजतस्यातथात्वात् , प्रमाणतोऽपरोक्षत्वविवक्षया रजतव्यावृत्तौ च प्रमाणप्रवृत्त्यविषये चैतन्येऽगतेः / प्रमाणापरोक्षत्वयोग्यत्वोपादाने चानुमेयवहयादावतिव्याप्तेः / सर्वदा स्फुरद्रूपत्वं स्वप्रकाशत्वमिति फलितार्थोऽपि न युक्तः सर्वदेत्यस्य व्यर्थत्वात् / स्वविषयत्वस्वभावविशेषेणैव स्वसंविदितत्वव्यवहारोपपत्तेरिति दिग् / वस्तुत आत्मा ज्ञानद्वारा ज्ञानानन्य एवेति तद्द्वारा स्वसंविदितत्वं ज्ञानातिरिक्तपर्यायद्वारा तु न तथात्वमिति स्याद्वाद एवानाविल इति सर्व मवदातम् | समाप्तेयं न्यायविशारदन्यायाचार्यश्रीमद्-यशोविजयवाचकेन विरचिता-आत्मख्यातिः / / इयं आत्मख्यातिः परमपूज्याचार्यश्रीविजयधर्मसूरीश्वरशिष्यमुनियशोविजयेन संशोधिता संपादिता च / वि०सं० 2020 वर्षे For Private and Personal Use Only