Book Title: Annikaputra Charitram
Author(s): Shubhshil Gani
Publisher: Shravak Hiralal Hansraj
Catalog link: https://jainqq.org/explore/020043/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth arg Acharya Shri Kailassagarsuri Gyanmandir Far Private and Personal Use Only Page #2 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra (9999999999 ॥ श्रीजिनाय नमः ॥ संवत् १९९१ www.kobatirth.org OOOOOOOOOOO ॥ अन्निकापुत्रचरित्रं ॥ ( कर्त्ता - शुभशीलमणि ) छपावीप्रसिद्ध करनार पण्डित हीरालाल हंसराज - जामनगर. — (*) — ( द्वितीयावृत्तिः ) For Private and Personal Use Only सने १९३५ Acharya Shri Kailassagarsuri Gyanmandir किंमत ०-८-० OOOOOOOOOO660000000 eeeeeeeeeee Page #3 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only Page #4 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनिकापुत्र चरित्रं ॥ श्री जिनाय नमः ॥ ॥ श्रीचारित्रविजयगुरुभ्यो नमः ।। ॥ अथ श्रीअन्निकापुत्रचरित्रं प्रारभ्यते ॥ (कर्ता-श्रीशुभशीलगणी ) (छपावी प्रसिद्ध करनार-पंडित श्रावक हीरालाल हंसराज जामनगरवाळा) घ्नत्सु वेरिषु योऽत्यंतं ! क्षमां कुर्यात्सुभावतः ॥ अन्निकापुत्रसूरोश । इवानोति शिवश्रियं ॥१॥ तथाहि-पूर्व श्रीराजगृहाभिधाने नगरे श्रीवीरजिनपादांबजसेवया बद्धतीर्थकरनामकर्मा श्रीश्रेणिकाभिधा राजा राज्यं करोतिस्म. स सर्वदा न्यायमार्गेणेव पृथिवीं प्रशसास. यतः-राज्ञि धर्मिणि धर्मिष्टाः । पापे पापाः समे समाः ॥ राजानमनु वर्तते । यथा राजा तथा प्रजाः ॥१॥ तस्य राज्ञश्चिल्लणाद्या अनेका राश्यो बभूवुः, कोणिकाभयकुमारमेघकुमारादयो बहवः, पुत्राश्चासन्. तन्मध्याल्लाभाभिभूतः कोणिको राज्यवांछया श्रेणिकनृपं काष्टपंजरे क्षिप्त्वा स्वयं च राज्ये समुपविष्टः, कमेग श्रेणिकतृपस्य मृत्योरनंतर For Private and Personal Use Only Page #5 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तेन कोणिकेन जनकघातोत्थपश्चातापचिंतयोद्विग्नेन नूतना चपाख्या नगरी वासिता. ततः स उद्धतः' अनिकापुत्र कोणिकनृपो निजचक्रित्वमभिलषन् कृत्रिमचकिरत्नानि निर्माय खंडत्रयं साधयित्वा वैताढ्याग्रेतनखंडचरित्रं | त्रयं साधयितुं गुहायां प्रविष्टस्तदधिष्टायकदेवेनाग्निज्वालया दग्धो मृत्वा षष्टे नरके गतः. ततस्तत्पुत्र उ. दायिनामा भूपो राज्यमलंचकार. सोऽपि चंपानगर्या स्वजनककारित सभा क्रीडा शयनादिस्थानानि दर्श दर्शमतीव खिन्नः शोकसागरे पतितः शून्यहृदयो जातः. सर्वराज्यकार्याणि परिहत्य मृढ इव एकांत एव तस्थी. एवंविधं शून्यहृदयं राजानं निरीक्ष्यामात्यैः प्रोक्तं, स्वामिन्नत्र नगरे भवदीयमनश्चेस्थिरता न प्राप्नोति, तदा नवीनमेव नगरं स्थाप्यते इत्यमात्यवचनानि निशम्य राज्ञा नव्यपुरस्थापनार्थ वर्यस्था । ६ नगवेषणाय नैमित्तिकवराः समादिष्टाः, तेऽप्यमात्यवरसहिताः पुरस्थापनार्थ वयं स्थानं पश्यंतो गंगान दीतटे प्राप्ताः. तत्रैक पाटलपादपं प्रफुल्लनवसुगंधपुष्पप्रकरं स्थिरच्छायं समीक्ष्य ते स्थिताः, तत्तशाखायां निविष्टस्यै कस्य व्यायतास्राचाषपक्षिणो मुखे स्वयमेवागत्य निपतंतं कीटकपेटकं समोक्ष्य ते स्वचेतस्येवं चिंतयामासुः, अहो ! यथास्य चाप विहंगमस्य मुखे स्वयमेवागत्य कोटकाः पतंतो विलोक्यते, तथात्र SAXERॐॐॐॐ For Private and Personal Use Only Page #6 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 18/ स्थाने नगरे स्थापिते सति राज्ञो भूरिसपदः स्वयमेवागमिष्यंति. ततस्तेऽमात्यादयः सर्वेऽपि नैमित्तिका अनिकापुत्र नृपाग्रे समागत्य तदुत्तमस्थानस्वरूपं निवेदयामासुः,तान्निशम्यातीवसंतुष्टो राजा तन्मध्यादेकं वृक्ष नैमिचरित्र त्तिकमपृच्छत्, भो नैमित्तिकोत्तम ! तस्य पाटलतरोः कोहग्माहात्म्यमस्ति ? अथ पूर्व ज्ञाततत्पाटलतरुवृ. ॥३॥ त्तांतः स नैमित्तिकोऽवदत्, ! हे राजन् ! स पाटलतरुः सायान्यो नास्ति. पूर्वमेकेन ज्ञानिनामम कथित मस्ति, यदयं पाटलद्रुमोऽतिपावित्र्यभाजनं वर्तते, एकावतारिमहामुनिकरोटिकातः समुत्पऽन्नोस्ति. राज्ञोक्तं, भो नैमित्तिक ! एवंविधः परमपूज्यो महात्मा स को मुनिरासीत् ? नेमित्तिको वदति, हे देव ! पूर्वमुत्तरमथुरायां देवदत्ताख्यो वणिक्पुत्रो वसतिस्म, सोऽन्यदा द्रव्यार्जनार्थ दक्षिणमथुरायां समायातः. तत्र च तस्य जयसिंहनाम्नैकेन वणिपुत्रो वसतिस्म, सोऽन्यदा तेन जयसिंहवाणिजाग्रहपूर्व निमंत्रितोऽसौ देवदत्तस्तद्गृहे भोजनार्थ गतः, भोक्तं च समुपविष्टः. तदा नान्निकाहां जयसिंहजामि | भोजनं परिवेषयंती वीक्ष्यं तद्रूपमोहितो देवदत्तस्तस्यामनुरक्तोऽजनि. ततो द्वितीयेऽह्नि देवदत्तो निजमेकं मंत्र जयसिंहसमीपे प्रेष्य तामन्निकां परिणेतुं मार्गयामास. जयसिंहेन प्रोक्तं समीचीनमेतत् खलु, परंत For Private and Personal Use Only Page #7 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra अभिकापुत्र चरित्रं ॥ ४ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यो महाद्दूरमगच्छन् मदीय एव गृहे तिष्टति, तस्मै एव निजामिमां स्वसारं यच्छामि, नान्यस्य यत इयं मे स्वसा प्राणेभ्योऽप्यतीववल्लभास्ति ततो देवदत्तेनापि जयसिंहपार्श्वे गत्वा तदीयवचनं स्वीकृतं. ततो वर्ये दिवसे जयसिंहस्तां निजस्वसारमन्निकां देवदत्तेन सह पर्यणाययत्. अथ तया सह भोगान् भुंजानो देवदत्तस्तत्रैव निवसतिस्म. तत एकदा देवदत्तपितृभ्यां देवदत्तायैको लेखः प्रेषितः, तद्यथा-त्वं दूरे वर्तसे पुत्र । ह्यावां वृद्धत्वमागतौ । त्वमेव चेदिहायासि । तदा नौ जीवितं भवेत् ॥१॥ तं लेख वाचयतस्तस्य देवदत्तस्य नेत्राभ्यामश्रूणि वर्षुः एवं निजस्वामिनं दृष्ट्वा दुःखं प्राप्तयाऽन्निया रुदनकारणं पृष्टोऽपि स देवदत्तो न किंचिदपि जल्पति तदा तया स्वयमेव लेखमादायेत्यवाचि, भो वत्स ! अथावां वृद्धो निकनिधन स्वः, यदि त्वं नो जीवंतो दृष्टुं समोहसे, तदा त्वया शोधमत्रागंतव्यं, अत्र विषयेत्वया म नागपि विचारो न कार्यः, ततस्तयाश्रुपूर्णनेत्रया अन्निकयापि खेदातुराय निजस्वामिने प्रोक्तं, स्वामिन्!भवतो मातापितरो वार्धक्यं प्राप्तो स्तः, तेनावाभ्यामधुना तत्रैव गंतुं युज्यते इति निजप्रियावचो निशम्यदेवदत्तो जगौ, है प्रिये ! मया त्वदीयभ्रातुरग्रे पूर्व प्रतिपन्नमस्ति यदहमत्रेव स्थास्यामि सांप्रतं मया For Private and Personal Use Only मूल 118 11 Page #8 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra अन्निकापुत्र चरित्र ॥ ५॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गमनार्थं कथं जल्प्यते ? यतः सज्जनाः प्राणांतेऽपि प्रतिज्ञाभंगं न कुर्वेति यतः - अर्थो विनश्यतु विरज्यतु बंधुवर्गों । राज्यं क्षयं व्रजतु बंधनमस्तु बाढं ॥ प्राणाः प्रयांतु निधनं न तथापि संतो । धीरा निजानि न वचांसि विलोमयति ॥ १ ॥ तत्तियमित्तं जपह । जत्तियमित होइ निरवाहो || वाया मुयाण नासइ | जीवता मा सूआ होतु ॥ २ ॥ तत् श्रुत्वा अन्निका प्राह, हे स्वामिन्! मातापित्रोः सममन्यत् तीर्थ नास्ति, तेन तदर्थ कदाचित प्रतिज्ञाभंगमपि कुर्वतां न दोषः, यतः- माता गंगासमं तीथे । पिता पुष्करमेव ॥ गुरुर्जंगमतीर्थं च । माता तीर्थं पुनः पुनः ॥ १ ॥ अथैवं निजस्वामिनमाश्वास्य सातीव कोमलवचनैः स्वभ्रातरमपि संतोषयामास तेन सोऽपि देवदत्ताय निजगृहगमनायानुज्ञामयच्छत्. ततो हृष्टो देवदत्तो दध्यौ, अहो ! एवंविधा स्नेहला पतिहितकारिणी पत्नी मया क्वापि न दृष्टा ! यतः श्वश्र श्वशुरस्वस्वामि -भक्ता स्वजनवत्सला ॥ धर्मकर्मरता पत्नी । सुभाग्यादेव लभ्यते ॥ १ ॥ ततः स देवदत्तः सप्रिय उत्तरमथुराप्रति प्रस्थितः तदा सा अन्निका प्रायः संपूर्णकाला गर्भवत्यासीत्, ततः सा मार्गे एवैकं दिव्यं सुतमत् तेन कियद्दिनानि तत्रैव स्थित्वा देवदतः सपुत्रप्रियोऽये प्रस्थितः तदा अन्निकया प्रातमस्य सुत For Private and Personal Use Only मूल ॥५॥ Page #9 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandie অঙ্কিা चरित्र ॥६॥ स्याभिधानं श्वश्रूश्वशुरो दास्यतः. तेन वर्त्मनि सवोंऽपि परिवारस्तं बालमनिकापुत्र इत्युल्ललाप. मात् प्रयाणं देवदेत्तः कुशलेन परिवारयुतः स्वीयपुरे समायातः. मातापित्रोश्च पादेभ्यो नत्वा तावुल्ला सयामास. अन्निकापि श्वश्रूश्वशुरयोः क्रमयोः पतिता. मनोहरं च पुत्रं दृष्ट्वा तन्मातापितृभ्यां तस्य संधोहै रण इति नाम दत्तं, परं तस्य अन्निकापुत्र इत्येव नाम प्रसिहं बभूत्र. वर्धमानोऽयमन्निकापुत्रकुमारः सर्वेषां हर्षोत्कर्षमुत्पादयामास. क्रमेण प्राप्ततारुण्योऽसावन्निकापुत्रकुमारः सर्वेन्द्रियविषयपराङ्मुखा गुरूणां समीपे धर्म शृण्वानो धर्मकार्यतत्परो बभूव, यतः--जंतुनामवनं जिनेशनमनं भक्त्यागमाक णनं । साधूनां नमनं मदापनयनं सम्यग्गुरोर्माननं ॥ मायाया हननं कधश्च शमनं लोभमोन्मूलनं । | चेतः शोधनमंद्रियाश्वदमनं प्रांते शिवप्रापकं ॥ १ ॥ इत्यादि गुरोर्मुखाद्धमोपदेशाकर्णनतो भोगांस्तृणवन्मन्यमानोऽन्निकापुत्रो जयसिंहाचार्यपावें दीक्षामग्रहीत्. ततोऽसौ विनयपूर्वकं गुरोः पार्श्व शास्त्राणि पठन् क्रमेणाचाचार्यपदं प्राप्तः. अथेकदा सोऽन्निकापुत्राचार्यों बहुपरिवारसहितो भव्य जीवान् प्रबोधयन् वृद्धावस्थायां गंगातटे पुष्पभद्राख्यं पुरं संप्राप्तः. तत्र पुष्पकेतुनामा राजा राज्यं करोतिस्म. तस्य पुष्पवत्यभिधाना %7CA4%AXCCCCC For Private and Personal Use Only Page #10 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra अन्निकापुत्र afta ॥७॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir राज्ञी बभूव अन्यदा तस्या राज्याः पुत्रपुत्रीरूपौ युग्मी जातो. तयोः पुष्पचूलः पुष्पचूला चेत्यभिधाने कृते. तो सहैव वर्धमानो क्रीडंतौ च परस्परमतीवप्रीतिमंतौ जातौ यौवनं च प्राप्तो. तदा राजा दध्यौ यद्येतौ दारकौ पृथक्पृथक् विवाहकरणेन वियोजयिष्येते, तदा नृनमेतो वियोगदुःखेन मरिष्यते, किंचाहमपि तयोर्वियोगं सोढुमशक्तोऽस्मि तदनयोरेव परस्परं विवाहकरणं सुंदरं. इति विचित्य तेन निजामात्य पौरादिवर्ग समाकार्य पृष्ट, भो लोकाः ! यद्रत्नमंतःपुरे समुत्पद्यते तस्य कः स्वामी ? तैरुक्तं स्वामिन्! तस्य रत्नस्य यूयमेव स्वामिनः पुरोत्पन्न वस्तूनामपि यदि यूयमेव स्वामिनः, तर्हि अंतः पुरोत्पन्नरत्नानां तु नितरां यूयमेव स्वामिनः, स्थ, अस्मिन् विषये कः संदेहः ? तदा राज्ञा प्राकं मम पुत्रपुत्रयो परस्परं विवाहं कर्तुं मदीयाभिलाषोऽस्ति. इत्युक्त्वा राज्ञा तयोर्निजसंतानयोः परस्परं विवाहः कारितः, तद्विधाने निवारयंत्या अपि राज्ञ्या वचो नृपेण न मेने अथ कृतविवाहो तो दंपती सुखेन नानाविधभोगान् भुंजातेस्म. मनस्यतीव दुःखिता राज्ञी पुष्पचूला स्वामिनं प्राह, हे नाथ ! कोऽयं त्वया ह्यनर्थो विहितः ? तन्निशम्य को धोद्रतो राजा राज्ञी निर्भत्स्यवाच दुष्टे ! पुनर्यद्विषये प्रजल्पिष्यसि तदाखां निश्चितं हनिष्यामि, इति धिक्कृता सा राज्ञी समुत्पन्नवैरा For Private and Personal Use Only मूल 119:11 Page #11 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie बECREGA5 ॥८॥ 18. ग्या श्रीगुरूणां समीपे चारित्रं जग्राह. तीत्रतरं तपश्च तप्त्वा शुभाराधनया पंचत्वं प्राप्य सा स्वगें देवीअनिकापुत्र भृता तदनंतरं क्रमेण स पुष्पकेतुनृपोऽपि कथाशेषो जातः, ततः स पुष्पचुला राजा बभूव. अथ स चरित्र पुष्पवतीजीवदेवोऽवधिज्ञानात् स्वकीयपुत्रपुयोरकृत्यं विज्ञाय तन्निवारणाय तत्रागत्य पुष्पचूलायाः स्व॥८॥ प्नांतर्नरकस्य भयंकरदुःखानि दर्शयामास. ततः सा जागरिताऽतीवभयभीता कंपितांगी पत्युः पुरस्तत्सर्व PI वृत्तांत निवेदयामास. तन्निशम्य भीतः पुष्पचुलनृपोपि शांतिकपौष्टिकादिकर्म कारयामास. अथ स देवस्त्वेवं प्रतिदिनं तस्यै नारकदुःखानि स्वप्नांतदर्शयामास. अथातीवभीतो राजा बोद्धादिसर्वतीथिकानाकार्य पप्रच्छ, भो तीथिकाः ! न(काः किंस्वरूपा विद्यते ? तदा केचिदाहः राजन् ! गर्भावास एव नरकः, केचि हा दूचुः कारावास एव नरकः, केचिद् दरिद्रता केचिच्च पारतंत्र्यमेव नरकं निवेदयामासुः परं कैरपि स त्यं नरकस्वरूपं न निवेदितं. एवं बौद्धादिभिः प्रोक्तं नरकस्वरूपं निशम्य तत्सर्व स्वदृष्टनरकस्वरूपविपरीतं विभाव्य राज्ञी प्राह, भो दार्शनिकाः! एवंविधा नरकान भवंति. तता नृपतीराज्ञीयुतोऽन्निकापुत्राचायोंपांते गत्वावदत्, हे भगवन् ! नरकाः कीदृशा भवंति ? तेराचार्यथास्थितं नरकस्वरूपं तस्मै निवे 3AXECACCORK - - For Private and Personal Use Only Page #12 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyarmandir 18 ॥९॥ चरित्र ॥९॥ दितं. तन्निशम्य राज्ञो प्राह, हे भगवन् ! किं भवद्भिरप्ययं स्वप्ना दृष्टः ? सुरिराह, भो श्राविके ! मया अनिकापुत्र ४ स्वप्नो नैव दृष्टः, किंतु सर्वज्ञभाषितशास्त्रज्ञानादयं वृत्तांतः सत्यस्वरूपेण मया भवतोरणे कथितोऽस्ति. जैनागमज्ञानात् सकलमप्येवंविधं स्वरूप ज्ञायते. तदा पुष्पचूला प्राह, भगवन् ! केन कर्मणा प्राणिनां है नरके गमनं जायते ? गुरुराह भो महाभागे! महारंभपरिग्रहः, गुरुप्रत्यनीकतया. पंचेंद्रियवधात्, मांसाहा. राच्च जंतवो नरकेषूत्पाते. इति विज्ञाय गतसंशया राज्ञो भूपान्विता गुरुं प्रणम्य स्वस्थानं गता, अथैकदा स पुष्पवतीजोवसुरस्तस्यै स्वर्गसुखानि दर्शयतिस्म. ततो राज्ञोप्रेरितनृपेण स्वर्गस्वरूपं पृष्टास्ते सर्वे. पि पाखंडिनः प्रोचुः, यद्वर्यपक्वान्नादि भक्ष्यते, पट्टकुलादि परिधार्यते, वर्य यानासनादिषूपविश्यते, रमणीयविलासादि परिभुज्यते, तानि सर्वाणि स्वर्गसुखान्येव कथ्यते. तदाकर्णनतोऽसंतुष्टा राज्ञो भूपयुता अन्निका पुत्राचार्यसमीपे गत्वा पुनः स्वर्गस्वरूपमपृच्छत्. गुरुभिरुन सर्वज्ञोक्तगृहियतिधर्मसेवनेन द्वादशदेवलोकेषु यानि भूयांस्यनुग्मानि सुखानि प्राप्यंते, तानि स्वर्गसुखान्युच्यते. इत्युक्त्वा जिनागमप्राक्तं सत्यं स्वर्गस्वरूपं गुरुभिस्ताभ्यां निवेदितं. एकविधं स्वर्गसुखस्वरूपं निशम्य प्रतिबुद्धा वैराग्यं प्राप्ता राज्ञी For Private and Personal Use Only Page #13 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandie ॥१०॥ कृतांजलिपुटा निजस्वामिनं प्राह, भो कांत ! मम जिनोक्तप्रवज्याग्रहणाभिलाषो वर्तते, अतो मामनुजा-४ अनिकापुत्र नीथ? राजा प्राह, हे प्रिये ! अहं क्षणमपि भवत्या वियोगं सोढुमसमर्थः, अतस्त्वं प्रव्रज्यां गृहीत्वात्रैव चरित्र स्थिता मदीयगृहादेव शुद्धाहारग्रहणपरा भवेस्तदेव त्वां प्रवज्यार्थमनुजानामि, नान्यथा. तयापि तदोय. है वचसि स्वीकृते राजा तस्यै प्रवज्यां दापयामास. एवं गृहीतदीक्षा पतिगृहस्थिता सा पुष्पचूला राज्ञी द्वि चत्वारिंशदोषरहितं विशुद्धमाहारं गहातिस्म. अथान्यदा श्रुतोपयोगाद्भाविदुर्भिक्षं परिज्ञायान्निकापुत्रसूरिर्मुनिसमुदायं देशांतरे प्रेषयामास, क्षीणजंघाबलाः सूरयस्तु तत्रैव तस्थुः, सा पुष्पचूलासाध्वी च नृपांत:पुरात शुई भक्तपानीयादि समानीय गुरुभ्यः समर्पयति. एवं क्रमेण गुरुसेवाप्रकर्षात् क्षपकश्रेणिमारूढायास्तस्याः पुष्पचूलासाव्याः केवलज्ञानं समुत्पन्नं. एवमुत्पन्नकेवलज्ञानापि सा गुरुवेयावृत्यकरणतो न विरराम. छद्मस्थेन गुरुणापि तस्याः केवलज्ञानोत्पत्तिस्वरूपं न ज्ञातं, यदियं केवलज्ञानालंकृतापि शुद्धाहारानयनादिना मे विनयं करोतीति. अथान्यदा वर्षत्यपि जलदे सा पुष्पचूला साध्वी केवलवत्यपि याव: दगुरुसमीपे आहारमानीयापयति, तदा गुरुभिरुक्तं, हे वत्से! त्वं पुण्यवती च श्रतज्ञासि, तत्कथमेवंविधे EXAMBALSAX5 For Private and Personal Use Only Page #14 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra अभिकापुत्र चरित्रम् ॥ ११ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वर्षत्यपि जलदे त्वयाहारः समानीतः ? तयोक्तं, भगवन् ! यत्र यत्र प्रदेशेष्वचित्तोऽप्काय आसीत्, तेषु तेषु प्रदेशेषु यत्नाद्दत्तपादाहमत्रागतास्मि गुरुराह ! भो भाग्यवति ! कथं त्वया सोऽचित्तप्रदेशो ज्ञातः ? | तयोक्तं भगवन् ! भवदीयप्रसादादेव मया ज्ञानेन ज्ञातः तत् श्रुत्वा विस्मितैर्गुरुभिः पृष्टं, हे भगवति ! किं तव प्रतिपाति ज्ञानं विद्यते ? वा अप्रतिपाति ? तयोक्तं भगवन् ! अप्रतिपाति ज्ञानं मे वर्तते तन्निशम्य गुरुरुत्थायोवाच, मिथ्या दुष्कृतं भवतु, हा हा! मया केवल्याशातना कृता ! इति पुनः पुनर्निजात्मानं निंदतो गुरुवस्तामपृच्छन्, भो भगवति ! किमहं सेत्स्यामि ? वा न ? सा प्राह भगवन् ! अधृतिं मा कुरुध्वं ? गंगानदीमुत्तरतां युष्माकमपि केवलज्ञानं भविष्यति ततः सोऽन्निकापुत्राचार्या अपि भूरिलोकैः सह गंगानदीमुत्तरितुं नाव मेकामागेहन्. अथ यत्न यत्र नौमध्ये स सूरिर्न्यषीदत्, तत्र तत्र सा नौर्जले निमज्जनं कर्तुं प्रवृत्ता तदनु मध्यासने सूरी सा सर्वापि नोर्जले मंक्तुं लग्ना तदा नौस्थितैः सर्वैर्जनैर्मिलित्वोत्पाट्य स सूरिर्जलमध्ये प्रक्षिप्तः. तदा दुर्भगीकरणपूर्वविराद्धया प्राग्भवपत्न्या व्यतरीभूतया स सूरिरंतर्जलं शूलायां निहितः. एवं शूल For Private and Personal Use Only मूल ॥ ११ ॥ Page #15 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyarmandie प्रोतोऽपि स महात्मा सूरिामदीयरुधिरेणाप्कायविराधना भवतीति ध्यायन् क्षपकश्रेण्यारूढः सर्वकर्मজলিঙ্কা | क्षयादुत्पन्नकेवलज्ञानः सद्यः समातायुष्कोतकरकेवलीभूय मुक्ति प्रयातः, तदा तत्रासन्नसुरौमिलित्वा तचरित्रम् 151 स्यांतकृत्केवलिनः केवलज्ञानमहश्चक्रे, ततस्तत्तीर्थं जगति 'प्रयाग ' इति नाम्ना प्रख्यातं जातं. एवं तस्य सूरेः शूलप्रोतत्वाद्गतानुगतिकतया चाद्यापि मिथ्यात्वाभिभूता माहेश्वरादयः परसमयानुयायिनः स्वांगेषु क्रकचं दापयंति. अथ तस्य सूरिवरस्य करोटिर्यादोभित्रोट्यमानापि जलोमिभिरुच्छलिता नदीतोरं प्राप्ता. तत्र नदीतटे शुक्तिवत् क्वापि गुप्ते विषमप्रदेशे सा करोटिर्मृत्तिकास्थगिता तस्थौ. एवं दैवयोगात्कदाचित्तस्यां पवनप्रेरितं पाटलाबीजं पपात. वर्षाकाले तदबीजोत्पन्नांकुरःक्रमेण करोटीकपर भित्या भूमी विलनः, क्रमात् स पाटलातरुद्धिं प्राप्नुवन् महान् वृक्षो जातः. एवं स पाटलापादपो महाप्रभावोऽस्ति. एवं वृद्धनैमित्तिकोक्तं निशम्य राजा तत्रैव स्थाने नवीननगरस्थापनार्थं निजसेवकानादिदेश. विचक्षणास्ते नृपसेवका अपि तस्य पाटलातरोः स्थानाच्चतुःषु दिक्ष जायमानं शिशशब्दं श्रुत्वा तावंतं प्रदेशमधिकृ रस्य चतुरस्रं निवेशं चक्रुः. एवं पटलायाश्चतसृषु दिक्षु स्थापित्वात्तस्य नगरस्य पाटलीपुत्रमि For Private and Personal Use Only Page #16 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra अनिकापुत्र चरित्रम् ॥ १३ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir त्यभिधानं बभूव राजापि तत्रैव समागत्य निजनिवासमकरोत् व्यवहार्यादयो भूरिलोका अपि तत्रैव समेत्य न्यवसन्, महानंदश्च प्रवर्तितः, तस्य पाटलातरोरसम कुसुमबाहुल्यतया कुसुमपुरमित्यपि तस्य पुरस्य रूढं नाम जातं. ततस्तस्य नगरस्य मध्ये स उदायिराजा कैलासशैलसोदरं स्फटिकाश्ममयं श्रीजिनप्रासादमपि कारयामास, तन्मध्ये चारिष्टरत्नमयीं श्रीनेमिजिनप्रतिमां भूरिद्रव्यव्ययपूर्वकं महोत्सवेन स्थापयामास एवं प्राकाराने कजिनप्रासाद महेभ्यालयवापीकूपतडाग सत्रागारादिरम्यं तन्नगरं स्वश्रिया स्वर्गपुरीमपि जिगाय तत्र नगरे स उदायिराजा जैनधर्मसुवासितसप्तधातुश्चिरं न्यायेन राज्यं पालयामास. | अथान्येद्युः स उदायिराजा धर्मश्रवणार्थं गुरुपार्श्वे गतः, तदा गुरुभिरपि तस्य धर्मोपदेशो दत्तः, यथा - प्राज्यानि भोज्यानि हि वांछितानि । सौभाग्यनैरोग्य सुयोग्य वयः ॥ रामारमारम्ययशोविलासाः । स्वर्गापवर्गों प्रभवंति धर्मात्. ॥ १ ॥ दारिद्र्यमुद्रा परसेवनं च । दुष्टखभावो विपदागमश्च ॥ एकस्वरंकत्वकदन्नभोज्य- कुरूपमुख्यानि भवत्यधर्मात् ॥ २ ॥ किं च यः कोऽपि भव्यजीवः श्रीशत्रुंजयतीर्थे गत्वा श्रीयुगादिजिनं प्रणमति, स स्वर्गापवर्गों लभते, यतः शत्रुंजये जिने दृष्टे । दुर्गतिद्वितयं क्षिपेत् ॥ सागराणां For Private and Personal Use Only मूल ॥ १३ ॥ Page #17 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra अभिकापुत्र चरित्रम् ॥ १४ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सहस्रं तु । ध्यानाल्लक्षमभिग्रहात्. ॥ १ ॥ नमस्कारसमो मंत्रः । शत्रुंजयसमो गिरिः ॥ गजेंद्रपदजं नीरं | निद्वंद्वं भुवनत्रये ॥ २ ॥ दृष्ट्वा शत्रुंजयं तीर्थं । नत्वा रैवतकाचलं ॥ स्नात्वा गजपदे कुंडे | पुनर्जन्म न विद्यते ॥ ३ ॥ एवंविधां धर्मदेशनां निशम्य शत्रुंजयतीर्थमाहात्म्यं च विज्ञाय शुभभावोल्लासितमना नृपः श्रीशत्रुंजयतीर्थयात्रार्थं भूरिदेशेभ्यश्चतुर्विधसंघ समाकार्य शुभमुहूर्ते चतुरंगसैन्ययुतो महोत्सवेन शत्रुंजयतीर्थप्रति चचाल. मार्गे च स्थने स्थाने जिनप्रासादेषु पूजास्नात्रमहोत्सवारात्रिकध्वजारोपणादिकार्याणि | कुर्वन् स राजा शत्रुंजयतीर्थे ययौ तत्रापि स भूपालो महताडंबरेण श्रीयुगादिदेवस्य स्नात्रपूजारात्रिकोत्ता| रणादिक्रियापुरस्सरं चतुर्विधसंघं भोजनवस्त्रद्रव्यदानादिना सच्चकार ततोऽसौ गिरनारगिरौ गत्वा संघयुतः श्रीनेमिजिनमभ्यर्च्य निजजीवितं रूफलमकरोत् यतः शत्रुंजयाद्रिश्यमादियुगे गरीया - नासीदसीमसुकृतोदयराशिरेव ॥ आदीयमानसुकृतः किमु भव्यलोकैः । काले कलो भजति संप्रति दुर्बलत्वं ॥१॥ एवं तयोर्द्वयोरपि तीर्थयोर्यालां विधाय स उदायिनृपः संघयुक्तो निजनगरमासादयामास तत्र निजनग | रेsपि स जिनप्रासादेषु स्नात्रमहोत्सवं कारयामास एवमयमुदायिराजा अनेक भव्य जिनप्रासादनिर्मापण For Private and Personal Use Only मूल ॥ १४ ॥ Page #18 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir हा मूल | पुरस्सरं श्रीदेवगुरुभक्ति करोतिस्म, उभयकालं प्रतिक्रमणं च कुर्वन् त्रिसंध्यं जिनपूजामकरोत्. क्रमाद् वृद्धअभिकापुत्र है भावं प्राप्तः सन् वपुत्रं राज्ये निवेश्य स्वयं कृताराधनः पंचत्वं प्राप्य स्वर्ग जगाम, क्रमेण स मुक्तिमपि चरित्रम् यास्यति. ॥ इति श्री अन्निकापुत्राचार्यचरित्रं समाप्तं ॥ श्रीरस्तु॥ आ ग्रंथ श्री जामनगर निवासी पंडित श्रावक हीरालाल हंसराजे स्वपरना श्रेयमाटे श्री शुभशीलगणीजीए रचेला कथाकोषमाथी उद्धरीने तेनी मूलभाषामां वनता प्रयासे सुधारो वधारो करीने पोताना श्री जैनभास्करोदय छापखानामां छापी प्रसिद्ध कयों छे. 5ACCORK For Private and Personal Use Only Page #19 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra D00 www.kobatirth.org 90 ॥ इति श्रीअन्निका पुत्रचरित्रं समाप्तम् ॥ For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 00000000000000000000 SSSSSS8888888 Page #20 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassacarsuri Gyanmandir For Private and Personal Use Only