Book Title: Adhyatmabindu
Author(s): Bhavyadarshanvijay
Publisher: Padmvijay Ganivar Jain Granthmala Trust
Catalog link: https://jainqq.org/explore/022281/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ श्रीहर्षवर्धनोपाध्यायनिबद्धद्वात्रिंशिकाचतुष्टयीमयः प्रथमद्वात्रिंशिकोपरि स्वोपज्ञवृत्त्या युतः द्वितीय- तृतीय-चतुर्थ-द्वात्रिंशिकोपरि पूज्य सिद्धान्तसंरक्षक-धर्मतीर्थप्रभावकाखण्डबाल-ब्रह्मचार्या-चार्यदेव श्रीमविजयमित्रानन्दसूरीश्वरोपज्ञया पद्मप्रभाटीकया परिशोभितः। अध्यात्मबिन्दुः संपादक : मुनिभव्यदर्शनविजयो गणी Page #2 -------------------------------------------------------------------------- ________________ पू. पं. पद्मविजयजीगणिवरजैनग्रन्थमाला पुष्प - ४७ श्रीहर्षवर्धनोपाध्यायनिबद्धद्वात्रिंशिकाचतुष्टयीमयः प्रथमद्वात्रिंशिकोपरि स्वोपज्ञवृत्त्या युतः द्वितीय तृतीय - चतुर्थ- द्वात्रिंशिकोपरि पूज्य सिद्धान्तसंरक्षकधर्मतीर्थप्रभावकाखण्डबाल - ब्रह्मचार्या- चार्यदेव श्रीमद्विजयमित्रानन्दसूरीश्वरोपज्ञया पद्मप्रभाटीकया परिशोभितः । अध्यात्मबिन्दुः मुनि भव्यदर्शनविजयो गणी पू. पं. पद्मविजयजी गणिवर जैन ग्रन्थमाला ट्रस्ट अमदावाद - ३८० ००२. Page #3 -------------------------------------------------------------------------- ________________ पू.पं.श्री पद्मविजयजीगणिवर जैन ग्रंथमाळा ट्रस्ट Clo. अशोककुमार हिंमतलाल शाह एच.ए.मार्केट, जीजे माळ, कपासिया बजार, अमदावाद - ३८०००२. गुजरात. फोन : (R) 6612507 (O) 2123287 सं.२०५९, का.सु द्वितीया पूर्णिमा 1. नकल : ५०० : प्राप्तिस्थान : (१) प्रकाशक ट्रस्ट (२) सरस्वती पुस्तक भंडार, हाथीखाना, रतनपोळ, अमदावाद - ३८०००१. किमतः 5.७५-०० जिनेश्वर ग्राफीक्स, ४, नवकार डुप्लेक्ष, शांतिनगर, अमदावाद - ३८००१३. फोन : ७५५१६५४, मोबाईल : ९८२४०-१५५१४ Page #4 -------------------------------------------------------------------------- ________________ સુકૃતના સહભાગી શ્રી શંખેશ્વરપાર્શ્વનાથ આરાધક ટ્રસ્ટ પુખરાજ રાયચંદ આરાધના ભવન clo. પુખરાજ રાયચંદ આરાધના ભવન સત્યનારાયણ સોસાયટી, રામબાગ રોડ, સાબરમતી, અમદાવાદ - ૩૮૦ ૦૦૫. આ ગ્રંથના પ્રકાશનનો સંપૂર્ણ લાભ ઉપર્યુક્ત ટ્રસ્ટે જ્ઞાનખાતામાંથી લીધો છે. તેના અમે આભારી છીએ.. લિ. પૂ૫.શ્રી પદ્મવિજયજી ગણિવર જૈનગ્રંથમાળા ટ્રસ્ટનું ટ્રસ્ટીગણ Page #5 -------------------------------------------------------------------------- ________________ 25ESE पशानां महोपकारिणां पावने पादपद्मे प्रणमनं कृतज्ञभावप्रकटनं च * जिनशासनशिरोरत्नानां संयमत्यागतपोमूर्तीनां गुरुप्रदत्त-सिद्धान्त महोदधिसार्थकोपाध्युपेतानां कर्मशास्त्ररहस्यवेदिनां मां संसारसागरादुद्धारकाणां पूज्यपादानां परमगुरुदेवानां श्रीमद् विजयप्रेमसूरीश्वराणां पादारविन्दं तेषामनन्तोपकारभारं वहन्नहं मन-वचन-कायैः प्रणमे। जिनशासनपरमप्रभावकाणां व्याख्यानवाचस्पतीनां लोकोत्तरागणितगुणरत्नरत्नाकराणां षण्णवतिवर्षायुष्मतामेकोनाशीतिवर्ष-संयमपर्याय-षट्पञ्चाशद्वर्षाचार्यपदपर्यायधारकाणां तपोगच्छाधिपतीनां पूज्यपादाचार्यदेवश्रीमद्विजयरामचन्द्रसूरीश्वराणां पावनं पदकमलं कृतज्ञोऽहं प्रवन्दे । मूढचेतसं मां सम्यग्ज्ञानदानं कृत्वाऽऽन्तरलोचनोद्धाटकानां प्रभावकप्रवचनकाराणां परमतपोनिधीनां परमोपकारिणां ज्ञानदिवाकराणां न्यायविशारदानां प्रगुरूदेवानां श्रीमद्विजयभुवनभानुसूरीश्वराणां पावनचरणयुगलं सहर्षं प्रणौमि। अध्यात्मयोगिनां प्रशान्तमूर्तीनां अजातशत्रूणां भावनाज्ञानभावितान्त:करणानां तत्त्वसंवेदनज्ञानसुधापानपुष्टानां ममानुपमं योगक्षेमकारकाणां भावनाज्ञानतत्त्वसंवेदनज्ञानांशदानेनानुपमं परार्थं कृतवतां स्वर्गतपूज्यपादानां पंन्यास प्रवरश्रीभद्रंकरविजयगणिवरनामधेयानां पवित्रक्रमयुग्मं भूरिभावेन विनमामि। * चारित्ररत्नानां ज्ञाननिधीनां वात्सल्यमूर्तीनां राजरोगासह्यपीडायामपि स्मारितपूर्वमुनिप्रशमरसपयोनिधीनां परमगुरुभक्तानां विशालगच्छगताबालवृद्धमुनिवृन्दयोग-क्षेमकारकाणां गुरुकुलवासेन धन्यता प्राप्तानां शिष्यलेशं मां ग्रहणासेवनशिक्षादायकानां मद्गुरुवर्याणां स्वर्गीयपूज्यपादानां पंन्यासप्रवराणां पद्मविजयगणिवराणांक्रमयमलं सानन्दं सहृदयं प्रणमामि। - सबहुमानं प्रवन्दकाचार्यविजयमित्रानन्दसूरिः । Page #6 -------------------------------------------------------------------------- ________________ પ્રાકથન ૫.પૂ.સિદ્ધાંતમહોદધિ કર્મશાસ્રરહસ્યવેદી સંયમત્યાગતપોમૂર્તિ સુવિશાલગચ્છાધિપતિ ભવસાગરોદ્ધારક આ.ભગવંત શ્રીમદ્ વિજય પ્રેમસૂરીશ્વરજી મહારાજાની કલ્યાણકારિણી આજ્ઞા અને આશીર્વાદથી વિ.સં.૨૦૧૪નું ચાતુર્માસ રાધનપુરમાં થયું. આસો માસમાં ૨૦ દિવસમાં ૫ દ્રવ્યનાં એકાસણાંથી ૧ લાખ નવકારનો જાપ થયો. એ જ દિવસોમાં ૫.પૂ.વર્ધમાન તપોનિધિ ન્યાયવિશારદ પ્રભાવકપ્રવચનકાર પરમગુરુદેવ આચાર્યદેવ શ્રીમદ્ વિજય ભુવનભાનુસૂરીશ્વરજી મહારાજે વિ.સં.૨૦૧૦ના અહમદનગરના ચાતુર્માસમાં આપેલી મહાનિશીથગ્રંથ ઉપરની બે અધ્યયનની વાચનાની નોટ ફેર કરી. રાધનપુરના અખીડોસીની પોળના, તંબોલીશેરીના, ખજૂરીની પોળના તેમજ વીરસૂરિ મ.ના હસ્તલિખિત જ્ઞાનભંડારનું નિરીક્ષણ કર્યું. એમાં (૧) મન્નહ જિણાણુંની સજ્ઝાય ઉપર પ્રબોધ દીપિકા ટીકાની પ્રત (૨) અધ્યાત્મબિંદુની ચાર બત્રીસીની પ્રત (૩) ધર્મરત્નપ્રકરણની અવસૂરિ (૪) ઉપદેશસંગ્રહ (ઉપદેશકલ્પવેલી) વગેરે ઘણી મહત્ત્વની પ્રતો મળી. એની પ્રેસ કોપી ત્યાંના પાઠશાળાના શિક્ષક મણીભાઈ પાસે કરાવી. એમાં ઉપદેશ કલ્પવેલી બે વર્ષ પૂર્વે અનુવાદ સાથે પ્રકાશિત કરવામાં આવી છે. અધ્યાત્મબિંદુ ગ્રંથની પહેલી બત્રીસી ઉપર ગ્રંથકાર મહર્ષિ શ્રી હર્ષવર્ધન ઉપાધ્યાયજીએ સ્વોપજ્ઞ ટીકા રચી છે. એનું સંશોધન કર્યા પછી બાકીની ત્રણ બત્રીસી ઉ૫૨ કોઈ વિવેચન-ટીકા ન હતી. બત્રીસીઓ અર્થગંભીર હોવાથી એનાં રહસ્યોને પ્રગટ કરવાની જરૂર હતી. સંસ્કૃતમાં એ વિવેચન લખવાનો વિચાર આવ્યો અને એક મંગલઘડીએ એનો પ્રારંભ થયો. એ સમય હતો વિ.સં.૨૦૨૯ની સાલનો. ત્યારબાદ એનું નિરીક્ષણ, સંશોધન આ.વિ.જગચ્ચન્દ્રસૂરિજીએ આ.વિ.ચન્દ્રગુપ્તસૂરિજીએ (ત્યારે મુનિ), આ.વિ.કુલચન્દ્રસૂરિજીએ (ત્યારે મુનિ) મુનિશ્રી વૈરાગ્યરતિવિજયજીએ તથા મુનિશ્રી ઉદયવલ્લભવિજયજીએ સહૃદયભાવે કરી ગ્રંથનું ગૌરવ વધાર્યું છે. ત્રીજી બત્રીસીની આઠ શ્લોકની ટીકા બાકી હતી અને હું માંદગીમાં સપડાયો. એમાં વર્ષો વીતી ગયાં. હવે તે કાર્ય પૂર્ણતાના આરે પહોંચ્યું છે. ચોથી બત્રીસીના ૨૫મા શ્લોકના અર્થઘટનમાં ઘણી કસોટી થઈ. ઘણા મહાત્માઓને પૂછાવ્યું પણ કોઈ સંતોષ ન થયો. છેવટે........ ટીકાનું નામકરણ સહજભાવે પદ્મપ્રભા સૂઝી આવ્યું. મારા જ્ઞાનનિધિ, ચારિત્રરત્ન, સમતાસિંધુ પૂ.ગુરુદેવ પં.પદ્મવિજયજી ગણિવરશ્રીએ મને આપેલી જ્ઞાનની પ્રભા આમાં વિસ્તાર પામી છે. ટીકાનું નામ પદ્મપ્રભા રાખવાથી એની સ્મૃતિ ચિરંજીવ બની છે. વિ.સં.૨૦૨૨ની સાલમાં આ ગ્રંથનું સંશોધન કરી પ્રિન્ટ કરવા માટે પ્રેસમાં મોકલવાની તૈયારી કરતો હતો એવામાં મુનિશ્રી કીર્તિચંદ્ર વિજયજીએ એલ.ડી.ઈન્સ્ટીટ્યુટમાં અનેક ગ્રંથોનાં સંશોધન સંપાદનનું કાર્ય કરી રહેલા નગીનદાસ જી. શાહને પૂછ્યું : હાલ શું ચાલે છે? નગીનદાસ Page #7 -------------------------------------------------------------------------- ________________ જી. શાહે કહ્યું હવે અધ્યાત્મબિંદુનું સંશોધન કરવા વિચાર્યું છે. ત્યારે કીર્તિચંદ્રવિજયજીએ કહ્યું: અમારા સમુદાયના પૂ.મુનિરાજશ્રી મિત્રાનંદવિજયજી મહારાજે એનું સંશોધન પૂર્ણ કર્યું છે. ત્યારે એમણે કહ્યું કે અમને આપે તો અમે એને એલ.ડી. તરફથી છપાવીએ અને એ ગ્રંથ એલ.ડી.ને સુપ્રત કરવામાં આવ્યો. નગીન જી. શાહે લખેલા અંગ્રેજી ઈન્ટ્રોડક્શન સાથે એ ગ્રંથ ઈ.સ.૧૯૭૨માં પ્રકાશિત થયો હતો. આજે બાકી રહેલી ત્રણ બત્રીસીની સંસ્કૃત ટીકા સહિત પ્રગટ થઈ રહ્યો છે. આમાં અંગ્રેજી ઈન્ટ્રોડક્શનનો સમાવેશ કર્યો નથી. | મુનિશ્રી ભવ્યદર્શન વિજયજી ગણીએ સુંદર અક્ષરોમાં પ્રેસ કોપી કરી છે અને સંશોધન, સંપાદનમાં સહયોગી બન્યા છે. વિ.સં.૨૦૫૭ અષાઢ સુ.૧૦ નારણપુરા, અમદાવાદ. લિ. આ.વિ.મિત્રાનંદસૂરિ विषयानुक्रमः प्राक्कथनम् निश्चयव्यवहारप्ररूपणप्रवणा प्रथमा द्वात्रिंशिका कर्तृकर्मप्रकाशनप्रवणा द्वितीया द्वात्रिंशिका आत्मस्वरूपभावनपरा तृतीया द्वात्रिंशिका शुद्धस्वरूपप्रकाशिका चतुर्थी द्वात्रिंशिका अध्यात्मबिन्दुश्लोकानुक्रमणिका अध्यात्मबिन्दुविवरणगतान्यवतरणानि Page #8 -------------------------------------------------------------------------- ________________ ॐ ऐं नमः। श्रीहर्षवर्धनोपाध्यायनिबद्धः अध्यात्मबिन्दुः स्वोपज्ञवृत्तिविभूषिता निश्चयव्यवहारप्ररूपणप्रवणा प्रथमा द्वात्रिंशिका अनन्तविज्ञानविभूतिशाली, सत्प्रातिहार्याद्भुतभूतिमाली । तीर्थान्तरीयानवबुद्धयोगा-गमार्थदेशी जयताज्जिनेन्द्रः ॥ अथातः शुद्धात्मानुभवरसिकानामनेककदागमार्थश्रवण-कुदृष्ट्युपासन-संस्तवनादिक्रियाभासप्रक्रियापर्याप्तात्मतत्त्वविप्रतिपत्तीनां भव्यसत्त्वानामुपकाराय शुद्धात्मस्वरूपप्रतिपादनपटिष्ठाऽध्यात्मबिन्दुप्रथमद्वात्रिंशिकाविवरणं स्पष्टमुपक्रम्यते । तस्य चेदमाद्यं पद्यम् ब्रूमः किमध्यात्ममहत्त्वमुच्चै र्यस्मात् परं स्वं च विभिद्य सम्यक् । समूलघातं विनिहत्य घाति नाभेयभूः केवलमाससाद ॥१॥ व्याख्या : वयम् अध्यात्ममहत्त्वं किं ब्रूमः ? आत्मनि इत्यध्यात्मम्, विभक्त्यर्थे अव्ययीभावः [पा.२।१।६] । आत्मानमधिकृत्य प्रवर्तमानः कर्तृत्वभोक्तृत्वादिधर्मनिरासपुरस्सरः कश्चन विचारविशेषः शुद्धात्मस्वरूपश्रवण-मनन-निदिध्यासरूपोऽपि लक्षणयाऽध्यात्मम् । तस्य महत्त्वं किं ब्रूमः ? यस्मात् अध्यात्मतः । परम् आत्माऽतिरिक्तमखिलपदार्थजातम् । स्वं च आत्मानम् । सम्यक् संशयविपर्ययाऽनध्यवसायापोहपूर्वकम्, संदिग्धस्य विपर्यस्तस्यानध्यवसितस्यार्थक्रियाऽसाधकत्वाद् अज्ञानतः प्रवृत्तानां फलासंवाददर्शनाच्च । विभिद्य अनादिबन्धपर्यायनिरूपणया क्षीरोदकवत् कर्मपुदगलैः समं प्राप्तैकत्वमपि भेदज्ञानबलेन पृथक्त्ववृत्त(त्ति)स्वलक्षणतः पृथग् निर्धार्य । तथा घाति आत्मगुणहन्तृत्वात् समयप्रसिध्दया मोहनीय-ज्ञान-दर्शनावरणान्तरायलक्षणं प्रकृतिचतुष्टयम्। समूलघातं विनिहत्य समूलं हत्वा, 'समूलाकृतजीवेषु हन्कृञग्रहः' [पा.३/४/३६] इति णमुल् । 'कषादिषु यथाविध्यनुप्रयोगः' [पा. ३/४/४६] इति हन्तेरनुप्रयोगः। नाभेरपत्यं नाभेयो भगवान् युगादिदेवस्तस्माद् भवतीति नाभेयभूः प्रथमचक्रवर्ती भरतः । केवलमाससाद केवलज्ञानं लेभे। १ 'अव्ययं विभक्तिसमीप' इत्यादि सूत्रम् । २ फलविसं० सू० । Page #9 -------------------------------------------------------------------------- ________________ हर्षवर्धनोपाध्यायनिबद्धः [प्रथमा अयं भावः - अनादौ संसारे-आसंसारात् सकलस्यापि प्राणिवर्गस्यानवरतमनन्तैर्द्रव्यादिपञ्चपरावर्तेश्चक्रवर्द्राम्यमाणस्य महता मोहान्धकारेण मुद्रितविवेकलोचनपुटस्य विषयतर्षोत्कर्षविवशीकृतस्याप्रवितायतौ दुःखोदर्कदृष्टनष्टान् स्वप्नोपमान् विषयान् उपरुन्धानस्यानन्तकृत्वो नानायोनिषूत्पत्तिविपत्तिक्लेशैरभिद्रुतस्य परभावेष्वेवाश्रान्तविश्रान्तदृष्टेः स्वतत्त्वविमुखस्य सिकतासरस्वतिपतिता वज्रकणिकेव दुर्लभा मनुष्यत्वावाप्तिः । कथञ्चित् कर्मलाघवात् तदवाप्तावपि जनुषान्धस्य दृगवाप्तिरिव दुर्लभा विवेकख्यातिः, तल्लाभ एव संसारस्य निस्तीर्यमाणत्वात्, तदधिगमोऽपि के षाञ्चित् पुण्यशालिनां भरतादीनां चणकमुष्टिक्रीतचिन्तारत्नगृहकोणवर्तिवणिजवदयत्नसाध्य एवेति भरतोपाख्यानेन तस्य माहात्म्यमुपनिबद्धम् । भरतोपाख्यानं च प्रसिद्धमेवेति न लिखितमिति ॥१॥ लब्ध्वाऽऽयंत्वमथ प्रपद्य च गुरोर्नैकट्यमेनःक्षया च्छ्रुत्वाऽध्यात्ममथ प्रपीय च ततस्तत्त्वामृतं यत् पुनः । क्षेत्रज्ञः किल मोमुहीति विषयग्रामेषु बद्धस्पृह ___ स्तन्नूनं त्रिजगज्जये धृतिमतो मोहस्य विस्फूर्जितम् ॥२॥ व्याख्या - आर्यत्वं प्रज्ञापनादौ' बहुधोक्तमपि इह देश-कुलरूपमेव ग्राह्यम्, उभयरूपस्यापि धर्मोपलब्ध्यङ्गत्वात् । तद् लब्ध्वा-आर्यत्वमन्तरेण गुरूपसर्पणधर्मश्रवणं प्रति आभिमुख्याभावाद् अनार्य-कुलदेशोत्पन्नानाम् आर्द्रकुमारप्रभृतीनां केषाञ्चिद् धर्मानुरागं प्रति आभिमुख्यं तत् कादाचित्कमिति न व्यभिचारः । अथैनःक्षयाद् इति निचितनिकाचितकर्मणां हि पापात्मनां जमदग्निसुतमुख्यानामिव गुरुसङ्गमाभावात् पुण्योदयलभ्यतोक्ता । गुरो कट्यं प्रपद्य इति महामिथ्यादृशामपि केकयपतिप्रभृतीनां गुर्वनुशिष्टिसद्भाव एव सम्यक्त्वमूलस्वर्गावाप्तिश्रवणात् । तदुक्तम् - नरयगइगमणपडिहत्थएण तह पएसिणा रण्णा। अमरविमाणं पत्तं तं आयरियप्पहावेणं ॥ [उपदेशमाला, १०३] इति निसर्गाधिगमयोः कारणत्वोक्तावपि बुद्धबोधितानामेव नैकेषां दर्शनाद् गुरुग्रहणम् । हिमानीदूनस्य [= शीतपराभूतस्य] नरस्य दूरस्थेन्धनसन्धुक्षिताशुशुक्षणिवदनुपकारकत्वान्निकटत्वोक्तिः । तथा अध्यात्मं श्रुत्वा विषयव्यासक्तानामर्थलालसानां च केषाञ्चिद् गुरुसङ्गमेऽपि आगमश्रवणस्य दुर्घटत्वात् चतुरङ्ग्यां श्रुतेः परमाङ्गत्वेन वर्णनाच्च श्रुत्वेत्युक्तम्। १ द्रव्य-क्षेत्र-काल-भाव-भवाः इति पञ्चपरावर्ताः । २ भ्र० रा० ला० । ३ पण्णवणा-प्रज्ञापनासूत्रे प्रथमपदे सू०९९-सू०१३८ पृ० ३६-४४-महावीर जैन विद्यालय प्रकाशन। ४ केकयपतिप्रदेशिनृपकथानकं रायपसेणियसूत्रे समागच्छति । ५ 'तद् निसर्गाद् अधिगमाद्वा' तत्त्वार्थसूत्र १.३।६ "चत्तारि परमंगाणि" इत्यादिना उत्तराध्ययनस्य चतुर्थाध्ययने। Page #10 -------------------------------------------------------------------------- ________________ द्वात्रिंशिका] अध्यात्मबिन्दुः अध्यात्मग्रहणमितरशास्त्रेभ्योऽस्य मुख्यत्वख्यापनार्थम्। 'पक्षि-पिपीलिकागति'न्यायेनैतस्य झटिति मोक्षसमर्पकत्वात् 'अध्यात्मविद्या विद्यानाम्' [भगवद्गीता, १०.३२] इति तीर्थान्तरीयैरपि स्वीकाराच्च । अथ ततः अध्यात्मतः । तत्त्वामृतं प्रपीय केवलश्रवणस्य साध्यसिद्ध्यनङ्गत्वात् प्रपाणमुक्तम् । प्रपाणं नाम श्रद्धापूविका तदुक्तार्थप्रतीतिः । एवं सति यत् पुनः क्षेत्रज्ञः आत्मा, बद्धस्पृहः सन् अनादिमोहवासनाजनिततृष्णान्तकत्वेन बद्धनिबिडानुरागः विषयग्रामेषु शब्दादिष्विष्टविषयसङ्घातेषु मोमुहीति अतिशयवदात्मोत्थानाकुलस्वभावानन्दामृतमनश्नुवानोऽनास्वादितपूर्वेष्विव अदृष्टचरेष्विव अलब्धपूर्वेष्विव अत्यन्ताकुलत्वजनकेषु स्वभावप्रतिघातेषु पञ्चाक्षात्मकवपुःपिशाचपीडामनधिसहमानो व्याधिसात्म्यतां प्रपन्नेषु सुखाभासोत्पत्तिभूमिभूतेषु अतिशयेन मुग्धो भवति, तन्नूनं त्रिजगज्जये धृतिमतः उत्साहवतो मोहस्य विस्फूर्जितं स्वपराविवेकहेतोरलध्यशासनस्य मोहस्यैतच्चेष्टितम्-यद् विवेकिनोऽपि मुह्यन्तीति भावः । अत्र च ब्रह्मदत्तचक्युपाख्यानं बोध्यम् । नन्वात्मनः क्रियावत्त्वसिद्धौ हि बन्धः सिद्ध्यति । निष्क्रियत्वे मुक्तस्येव बन्धानुपपत्तेः । क्रिया च परिस्पन्दात्मिका । तस्याश्च - "रेजाव णं एस जीवे चलइ खुभइ घट्टइ फंदइ तं तं भावं परिणमइ ताव णं एस जीवे छव्विहबंधए वा सत्तविहबंधए वा अट्ठविहबंधए वा एगविहबंधए वा नो चेव णं अबंधए।" इत्यादिना परमागमेन बन्धहेतुत्वाभिधानात्। सा च स्वतोऽसम्भवन्ती कारणान्तरमाक्षिपति। तच्चान्यदसम्भवत् कर्मैवेति तत्कर्तृकां क्रियामाह - धत्तेऽम्भोधिर्जवनपवनाऽऽच्छोटनोन्मूर्च्छदुग्रो ल्लोलश्रेणीचटुलितवपुर्व्याकुलत्वं यथाऽयम् । निष्कम्पोऽपि स्वरसवशतः कर्मकम्पाकसङ्गं तद्वत् क्षुभ्यत्ययमपि परः पूरुषः संप्रपद्य ॥३॥ व्याख्या-यथाऽयम् अम्भोधिः समुद्रःजवनो वेगवान् यः पवनः तस्यआच्छोटनम् अभिघातः सङ्घट्ट इति यावत् तेन उन्मूर्च्छन्त्यः प्रवर्धमाना उग्रा अभंकषा या उलोलश्रेण्यः कल्लोलपङ्क्तयस्ताभिः चटुलितं तरलीकृतं वपुः शरीरं यस्य तादृशः सन् यथा व्याकुलत्वं धत्ते तद्वत् स्वरसवशतःस्वभावतो निष्कम्पोऽपि निष्क्रियोऽप्ययमपि परः पूरुषः प्रत्यगात्मा कर्मैव कम्पाक': पवनः तस्य सङ्गं प्रपद्य क्षुभ्यति क्रियावान् भवति । अयं भावः - जीवः स्वयं यद्यपरिणाम्येव स्यात् तदा दृश्यमानत्रस-स्थावरत्वादिपर्या१ अक्षाणि इन्द्रियाणि । २ द्र० प्रज्ञापना० सू०२२.२८६ । भगवती० ३.३.१५३ । ३ असंभवत् इति वर्तमानकृदन्तरूपम्। ४ कम्पनशीलः कम्पाकः । Page #11 -------------------------------------------------------------------------- ________________ हर्षवर्धनोपाध्यायनिबद्धः [प्रथमा यवैचित्र्याभावात् संसारस्यैवाभावः स्यात् । निष्परिणामत्वे गगनकुसुमवदवस्तुत्वापत्तेश्च । 'वस्तु चन विक्रियते च' इति गाढशपथप्रत्याय्यत्वात् दृश्यमानगोरसादिपरिणामविरोधाच्च । एकान्तनित्यत्वे कृतनाशाकृताभ्यागमादिदोषप्रसङ्गात् पुण्य-पाप-बन्ध-मोक्षाभावश्च प्रसज्येत । अथ यदि कर्मसंसर्गात् तथा परिणमति तत् किं स्वयमपरिणममानः परिणममानो वा? न तावदपरिणममानः परेण परिणमयितुं पार्येत। न हि स्वतोऽसती शक्तिः कर्तुमन्येन पार्यते" [ ]। परिणममानस्तु न परं परिणमयितारमपेक्षते । न हि वस्तुशक्तयः परमपेक्षन्ते । ततो जीवः स्वयं परिणामस्वभावः स्वीकर्तव्यः । एवं स्वयं सिद्धपरिणामस्वभावो जीवः कर्मणः समवधानात् पारावार इव पवमानसंसर्गात् क्रियावान् भवतीति भावः । ॥३॥ अथैकमेव जीवद्रव्यं परिणामस्वभावत्वात् तिर्यगादिनानावस्थान्तरभाग भवतीत्यभिधीयते कुम्भोदञ्चनवर्द्धमानकरकस्थाल्याद्यवस्थान्तरा __ण्येकोऽपि ध्रुवमम्बुयोगवशतो मृद्व्यपिण्डोऽश्नुते । तद्वत् कर्मजलीययोगमुपलभ्यात्माऽपि तिर्यड्नरा मर्त्यप्रेतपुरोगजातिनिकरत्वेन स्वयं जायते ॥४॥ व्याख्या - एकोऽपि मृद्रव्यपिण्डः अम्बुयोगवशतः पानीयसम्बन्धात् कुम्भश्च घटः, उदच्यते जलमनेनेति उदञ्चनं च पिधानम्, वर्द्धमानश्च शरावः, करकः चलुः, स्थाली च उखा - तदादीन्यवस्थान्तराणि पर्यायभेदाद् अश्नुते प्राप्नोति तद्वद् आत्माऽपि कर्मजलस्यायं कर्मजलीयः स चासौ योगश्च सम्बन्धः तमुपलभ्य तिर्यड्नरामर्त्यप्रेतपुरोगजातिनिकरत्वेन स्वयं जायते संपद्यते। भावार्थस्त्वयम्-परिणामस्वभावो जीवः कर्मसंसर्गात् क्रियावान् भवतीति प्राक् प्रतिपादितम् । परिणामश्च तद्भावलक्षणः, तद्भावः परिणामः' [तत्त्वार्थसूत्र ५.४१] इत्युक्तेः। भवनं भावः आत्मलाभः, परिणामः पर्याय इति यावत्, यदित्यनेन द्रव्यषट्कमभिसम्बध्यते, तदेव हि द्रव्यजातं गति-स्थित्यवगाह-व्यणुकादिस्कन्ध-ज्ञानादि-समयादीनां तेन तेन रूपेण भवति, न कूटस्थमवतिष्ठते, न सर्वथोत्पद्यते, नापि सर्वथोच्छिद्यते, किन्त्वन्वयिरूपं सत्त्वमजहदेव तथा तथा विवर्तते । तथाहि-द्रव्यं हि ध्रौव्यरूपामन्वयशक्तिमपरित्यजद् भवति सदेव, यत्तु तस्या व्यतिरेकव्यक्तेः प्रादुर्भावस्तस्मिन्नपि द्रव्यत्वभताया अन्वयशक्तेप्रच्यवनाद द्रव्यमनन्यदेव, ततोऽनन्यत्वेन निश्चीयते द्रव्यस्य सदुत्पादः । एवं च यथाऽनेकासु कुम्भादिव्यतिरेकव्यक्तिषु अन्वयशक्तिमपरित्यज्य सङ्क्रामन् मृद्रव्यमेवैकं नानावस्थान्तरभाक् तथा जीवोऽपि १ द्रव्यभूतमे० ला प्रतौ। Page #12 -------------------------------------------------------------------------- ________________ ११ द्वात्रिंशिका] अध्यात्मबिन्दुः तिर्यगादिपर्यायेण भवन् द्रव्यत्वभूतामन्वयशक्तिमपरित्यजन् स्वयमेव नानावस्थान्तरभाक् किं न स्यात् ? । यथा च मृद्रव्यस्य स्वयं परिणामशक्तियोगित्वेऽपि जलादिसामग्रीसव्यपेक्ष एव कुम्भादित्वेनात्मलाभः तथा जीवस्यापि स्वयं परिणामशक्तियोगित्वेऽपि नामकर्मप्रकृत्युदयसव्यपेक्ष एव तिर्यगादित्वेनात्मलाभः । एवं चानादिसिद्धौपाधिकसंसरणधर्मा जीव इति सिद्धम् ॥४॥ अथ पदार्थस्वरूपबोधस्य निश्चय-व्यवहारमूलकत्वेन तत्स्वरूपं किञ्चित् प्रकटयति - भूतार्थो ननु निश्चयस्तदितरोऽभूतार्थमावेदयन्, ___ संत्याज्यो नितरां यतः स्व-परयोर्भेदे स बीजं न हि । भूतार्थस्तु विशुद्धवस्तुकलनाऽभिज्ञो ध्रुवं यत् ततो, भूतार्थं ननु संश्रितो विशदधीः सम्यग्दृगात्मा भवेत् ॥५॥ व्याख्या - ननु निश्चितं निश्चयो निश्चयनयो भूतार्थः सद्भूतार्थाभिधायी यद् वस्तु यथास्वरूपं तत् तथैव प्रतिपादयतीत्यर्थः । एतन्नयमन्तरेण ह्यनाद्यशुद्धचिद्रव्यस्य नवतत्त्वरूपतयाऽनादिकालात् परिणतस्य पङ्कसंवलितसलिलवत् तिरोहितस्वच्छत्वस्य कतमो नामोपायः सहजज्ञायकमात्रस्वरूपसंवेदने स्यादतो वस्तुस्वरूपावबोधार्थं निश्चयोऽनुसर्तव्य इत्यर्थः। निश्चयनयो हि द्रव्याश्रितत्वात् केवलस्य जीवस्य स्वाभाविकं भावमवलम्ब्य प्रवर्तमानः परभावं परस्य सर्वमपि निषे[य]धन् शुद्धं वस्तु व्यवस्थापयति । अत एव "द्रव्याश्रितो निश्चयः" इति [ ] लक्षणम् । सोऽपि द्विविधः-शुद्धनिश्चयः अशुद्धनिश्चयश्च । तत्र निरुपाधिकगुण-गुण्यभेदनिरूपणप्रवण आद्यः, द्वितीयस्तु सोपाधिकगुण-गुण्यभेदनिरूपणप्रवणः । तदत्र शुद्धात्मप्रतिपत्तौ शुद्धनिश्चय[नय] एव प्रयोजनवान् । तदन्वय-व्यतिरेकसाध्यत्वात् तत्त्वज्ञानस्येति, अयं हि निखिलकर्मविकारानपोह्य केवलज्ञातृत्वमात्रविशिष्टं शुद्धं नीरूपं सिद्धसदृशं पर्यन्तपाकोत्तीर्णजात्यजाम्बूनदस्थानीयमात्मानमनुभावयतीति सिद्धं भूतार्थत्वं निश्चयस्य । तदितरो व्यवहार: अभूतार्थम् असत्यार्थम् आवेदयन् नितरां संत्याज्यः । अयमर्थः-व्यवहारो हि पर्यायाश्रितत्वात् परभावं परस्य विदधन्नीलः स्फटिक इतिवदौपाधिकभावं जीवे समारोप्य योगस्थानोपयोगस्थानबन्धस्थान-गुणस्थान-संक्लेशस्थान-लेश्यास्थान-मार्गणास्थान-जीवस्थानादिभावभावितवैश्वरूप्यं जीवद्रव्यं व्यवस्थापयति, तादृशश्च कथं शुद्धबुद्धटङ्कोत्कीर्ण-स्वभावस्यात्मनः स्वरूपावगतौ बीजं स्यात् ? अनादिप्रसिद्धाशुद्धतापुरस्कारेणैव वस्तु-स्वरूपावेदनात् । अतो भेदज्ञानरहस्यासमर्पकत्वेन तदन[]गतेत्येतदेवाह- 'यतः स्व-परयोर्भेदे स बीजं न हि' इति । स्वश्चात्मा, परश्चौपाधिको योगस्थानादिरूपो भावस्तयोर्भेदे विवेके स व्यवहारो न हि योगस्थानादिकर्मेरितमात्मानं प्रतिष्ठापयन्नुपदर्शितौपाधिकभावविशिष्टं तं चानुभावयन् १ जाम्बूनदं सुवर्णम्। Page #13 -------------------------------------------------------------------------- ________________ १२ हर्षवर्धनोपाध्यायनिबद्धः [प्रथमा विज्ञानस्वभावातिरिक्तस्वभावबोधकत्वेनाशुद्धद्रव्याऽऽदेशितया नात्मनो याथात्म्यावेदकः । ननु तहि सर्वथैतस्यानुपादेयता भविष्यतीति चेन तीर्थप्रवृत्त्यन्यथानुपपत्त्यैतस्यावश्यं कक्षीकरणीयत्वादिति स्वयमेवाग्रे भावयिष्यामः। एवंद्वयोः स्वरूपाभिधानपुरस्सरं व्यवहारस्य हेयतामभिधाय किञ्चिद् विशेषाभिधानपूर्वकं निश्चयस्योपादेयत्वमाह - "भूतार्थस्तु" इति ।तु विशेषद्योतनार्थः। यस्माद्धेतो तार्थो विशुद्धवस्तुकलनाऽभिज्ञः सकलोपाधिविविक्त-शुद्धद्रव्याऽऽदेशितया शुद्धं वस्तु परिचाययितुं प्रवीणः । ततो ननु निश्चितं भूतार्थं संश्रितः सम्यग्दृगात्मा विशदधीः भवेत् । यथा यथा निश्चयनयं' भाति तथा तथा विषयेष्वरज्यमानः शुद्धात्मानुभवाभिमुखी भवति । यथा यथा शुद्धात्मानुभवाभिमुखी भवति तथा तथा वैशद्यमस्य चिति २ समुल्लसतीति भावः ॥५॥ पुनरपि व्यवहारस्वरूपमेव वृत्तान्तरेण स्पष्टयतिव्यवहरणनयोऽयं पुंस्वरूपं विकारि भणति च नवतत्त्वैर्मुद्रितं क्षुद्ररूपम् । अबुधजनविबोधार्थ किलास्योपदेशो जिनसमयविमूढः केवलं यः श्रितोऽमुम् ॥६॥ व्याख्या - अयं व्यवहरणनयः पुंस आत्मनः स्वरूपं विकारि भणति, परमार्थतः शुद्धनिरञ्जनानादिनिधनचैतन्यमात्रयुक्तमपि अनादिवस्त्वन्तरभूतमोहोपाधिसमुत्थमिथ्यादर्शनाज्ञानाविरत्यादिविकारभाग् ब्रूते, तथा नवतत्त्वैर्मुद्रितं ब्रूते, नवसङ्ख्याकानि तत्त्वानि नवतत्त्वानि तैर्मुद्रितं सुगतमित्यर्थः । जीवाजीव-पुण्य-पापास्रवसंवर-निर्जरा-बन्ध-मोक्षलक्षणानि हि नवतत्त्वानि जीव-कर्मणोरनादिबन्धपर्यायवशत आत्मन्युत्प्लवमानानि केवलजीवविकारभूतानि । तथा केवलाजीवविकाररूपाः पुण्यपापास्रव-संवर-निर्जरा[बन्ध]-मोक्षाः स्वयमेकस्य पुण्यपापास्रव-निर्जरा-बन्ध-मोक्षानुपपत्तेः । तथाहि-शुभपरिणामः पुण्यम्, [तन्निमित्तीकृत्य शुभतया सञ्चीयमानः कर्माणुप्रचयोऽपि पुण्यम् । अशुभः परिणामः पापम्,]५ तन्निमित्तीकृत्याशुभतया सञ्चीयमानः कर्माणुप्रचयोऽपि पापम् । तथा येन परिणामेन करणभूतेन इन्द्रियकषायाव्रतादिना कर्म आस्रवति स आस्रवकः, आस्राव्यं च कर्मेत्युभयमप्यास्रवः । तथा संवार्याः कर्माणुसङ्घाः संवारक आत्मपरिणामस्तदुभयमपि संवरः । भुक्तरसकर्मपुद्गलपरिशाटनहेतुरात्मपरिणामो निर्जरक: निर्जर्याश्च भुक्तरसकर्मपुद्गलास्तदुभयमपि निर्जरा । बन्धको राग-द्वेष-मोहरूप आत्मपरिणामो १ क्रियाविशेषणम् । २ 'चित्'पदस्य सप्तम्यन्तम् । चिति-चैतन्ये । ३ टीकारहितमूलद्वात्रिंशिका-प्रतौ क्वचित् निम्नलिखिते अन्त्ये द्वे पङ्क्ती यथा - 'नियतनयविरुद्धं पुंस्वरूपं व्यवस्यन्नयमपि निखिलोऽन्तशिभिस्त्याज्य एव' ॥६॥ ४ तुलनार्थं 'समयसार-टीका' १३ टीका (पृ.३१, ३२ प्रका० रायचन्द्र जैनशास्त्रमाला) दृष्टव्या।५ कोष्ठगतः पाठः रा-प्रतौ नास्ति । Page #14 -------------------------------------------------------------------------- ________________ द्वात्रिंशिका ] अध्यात्मबिन्दुः बध्यः कर्मपुद्गलसङ्घश्चेत्युभयमपि बन्ध: । मोच्याः कर्मपुद्गला मोचक आत्मपरिणामश्चेत्युभयमपि मोक्षः । १३ एतैर्हि नवतत्त्वैरासंसारादविच्छिन्नसन्तत्या मुद्रितं छन्नं नवतत्त्वरूपमित्यर्थः । तथा क्षुद्ररूपं नानायोनिसंसरणधर्मात्मकमेकेन्द्रियाद्यनेकपर्यायपरिपाटीपर्याप्तशोभनाशोभनशरीरधारि जन्मेमरणाद्यनेकदशोपप्लुतं भणति । नन्वेकेन्द्रियादिशरीरे पुद्गलप्रचयघटिते अतस्मिंस्तद्ग्रहरूपत्वादात्मबुद्धेर्विपर्ययत्वेन मिथ्यात्वमिति चेन्न संवादिभ्रमरूपत्वादस्य । तथाहि मणिप्रदीपप्रभयोर्मणिबुद्ध्याऽभिधावतोः । मिथ्याज्ञानाविशेषेऽपि, विशेषोऽर्थक्रियां प्रति ॥ [ प्रमाण. वा. २.५७ ] दीपोऽपवरकस्यान्तर्वर्तते तत्प्रभा बहिः । दृश्यते द्वार्यथान्यत्र, तद्वद् दृष्टा मणेः प्रभा ॥ दूरे प्रभाद्वयं दृष्ट्वा मणिबुद्ध्याऽभिधावतोः । प्रभायां मणिबुद्धिस्तु, मिथ्याज्ञानं द्वयोरपि ॥ न लभ्यते मणिर्दीपप्रभां प्रत्यभिधावता । प्रभायां धावताऽवश्यं, लभ्यते वै मणिर्मणेः ॥ दीपप्रभामणिभ्रान्तिर्विसंवादिभ्रमः स्मृतः । मणिप्रभामणिभ्रान्तिः संवादिभ्रम उच्यते ॥ [ ] तद्वदत्राप्येकेन्द्रियशरीरे जीवोऽयमिति बुद्ध्या प्रवर्तमानस्यातस्मिंस्तद्ग्रहरूपत्वाद् विपर्ययत्वेऽपि संवादिभ्रमत्वाज्जीवपदार्थबोधो निर्बाध इति, एतन्नयस्यैवं विषयत्वाच्च । अयं हि क्वचिद् द्रव्ये द्रव्यमारोप्य पदार्थं व्यवस्थापयति, यथैकेन्द्रियादिजीवोऽयमिति, अत्र हि पुद्गलद्रव्ये जीवद्रव्यस्योपचारः १ । क्वचिद् द्रव्ये गुणमारोपयति, यथा ज्ञेये जीवे [Sजीवे ]' च ज्ञानमिति २। क्वचिद् द्रव्ये पर्यायमारोपयति, यथा परमाणुर्बहुप्रदेशीति । परमाणोर्हि द्रव्येणैकप्रदेशमात्रत्वेऽपि द्विप्रदेशाद्युद्भवहेतुभूततथाविधस्निग्धरूक्षत्वपरिणामशक्तियोगित्वादनेकप्रदेशत्वमिति ३। एवं गुणे गुणारोपः, यथा मूर्तं मतिज्ञानं मूर्तक्षायोपशमिकोपयोगशक्तिजन्यत्वान्मूर्तेन्द्रियजन्यत्वाच्चेति ४। गुणे द्रव्यारोपः, यथा शुक्लः पटः ५ । गुणे पर्यायोपचारः, यथा ज्ञानं ज्ञेयाकारमिति ६। पर्याये पर्यायोपचारः, यथा एतस्येदं प्रतिबिम्बमिति ७। पर्याये द्रव्योपचारः, यथा स्थूलस्कन्ध अहो पुद्गलद्रव्यमिति ८। पर्याये गुणोपचारः, यथा उत्तमं वपुः पश्यतः सुन्दर (रं) वपुरिदमिति ९। एवं नवधा वस्तु व्यवहरन्नव्युत्पन्नव्युत्पत्त्यङ्गं भवतीति । एतदेवाह - 'अबुधजनविबोधार्थम् ' १ रूपीत्यर्थः रा० । २ जनन सू० । ३ कोष्ठान्तर्गतः पाठः रा प्रतौ नास्ति । Page #15 -------------------------------------------------------------------------- ________________ १४ हर्षवर्धनोपाध्यायनिबद्धः [प्रथमा इति अबुधा यथावद् वस्तुस्वरूपानभिज्ञेया' ये जना लोकास्तेषां विबोधार्थम् अस्य व्यवहारस्य उपदेशःप्रणयनम् । अयं हि अबुधानां म्लेच्छभाषेव म्लेच्छानां परमार्थाभिधायकत्वादपरमार्थोऽपि वस्तुस्वरूपावबोधार्थं दर्शितः । तथाहि - यथा म्लेच्छस्य 'स्वस्ति' इत्यभिहिते सति किमस्य वाच्यमित्यनवबोधे न कदाचिदपि पदार्थस्फूतिः स्यात् तथाऽबुधस्यापि 'आत्मा' इति उक्ते किमस्य वाच्यमित्यनवबोधे न काचिदपि पदार्थस्फूर्तिः स्यात् । यदा तु तद्भाषाविदा केनचित् स्वस्तिपदस्य कल्याणोऽरोगाद्यभिधेयमभिधीयते तदा झटित्येव प्रमदभरभृतस्तत् प्रतिपद्यत एव तथाऽबुधस्यापि निश्चय-व्यवहारविदा सद्भूतासद्भूतव्यवहारमास्थाय अतेति दर्शन-ज्ञानचारित्राणीत्यभेदात्मके वस्तुनि भेदमुत्पाद्य, यथा वा अतति ताँस्तान् स्थावर-जङ्गमपर्यायानिति विकारिणं प्रदाभिधेयं प्रतिपाद्यते तदा झटित्येव प्रमदभरभृतस्तत् प्रतिपद्यते । यतो ह्यनन्तधर्मात्मकस्य वस्तुनोऽनभिज्ञस्य विनेयस्य धर्म-धर्मिणोनिश्चयतोऽभेदेऽपि व्यपदेशतो भेदमुत्पाद्य केनचिधर्मेणानुशासतः सूरर्व्यवहारेणैव दर्शनं ज्ञानं चारित्रमित्युपदेशः संजाघटीति। यद्वक्ष्यते व्यवहारेण तु ज्ञानादीनि भिन्नानि चेतनादिति । यथा वा त्रस-स्थावरादयो य एते पर्यायास्ते सर्वेऽपि निश्चयेन सहजविजृम्भितानन्तज्ञानशक्तिहेतुकसर्वदाऽनपायिनिर्विकारस्वाभाविकजीवत्वभृतोऽप्यस्यैवानाद्यविद्यादूषिततयोद्भवतः कार्यरूपा इति मिश्रपरिणामात्मकेषु तेषु जीवत्वं प्रतिपाद्यते तदा तेषु जीवोऽयमिति बुद्ध्या करुणया सङ्घट्टन-मर्दन-हिंसनादीनि परिहरतः संसारनिस्तारो भवतीति महानुपकारः कृतः स्यात् । तीर्थप्रवृत्तेश्चैवमेव व्यवस्थितत्वादित्यनुपदमेव वक्ष्यते । एवं व्यवहारस्वरूपमभिधाय केवलव्यवहारपक्षपातिनं दूषयति - जिनसमयेति । जिनो भगवान् षड्जीवकायनिशुम्भनव्यावृत्तः सर्वज्ञभट्टारकस्तस्य समयः सिद्धान्तः । तत्र विमूढः स्याद्वादरूपभगवदागमानभिज्ञ इत्यर्थः । कोऽसौ ? यः केवलं निरपेक्षम् अमुं व्यवहारं श्रितः। ___ अयमर्थः - निश्चयतो निरुपरागात्मतत्त्वमश्रद्दधानो धर्मानुरागेणोपलिप्तचित्तभित्तिर्भूयो भूयः शुभोपयोगतया परिणमन् बन्धसाधनमपि व्रत-तप:प्रभृतिकर्मकाण्डं मोक्षहेतुत्वेनाभ्युपयन् भिन्नसाध्य-साधनभावावलोकनेन निरन्तरं खिद्यमानः प्रवचनजननीसमाराधननिविष्टदृष्टिः परीषहाद्युपनिपातेऽपि [मनागप्यनुद्विजमानः सकलक्रियाकाण्डोत्तीर्णदृग्ज्ञानवृत्त्यैक्य-परिणतिरूपां ज्ञानचेतनां] मनागप्यनुतिष्ठन् समुपचितशुभकर्मभरमन्थरः सुरलोकादिक्लेशमनुभूय पुनः संसारमेव विशतीति केवलव्यवहारावलम्बिनः साध्यासिद्धिरेव । तदुक्तम् - "चरण-करणप्पहाणा, ससमय-पररसमयमुक्कवावारा । चरण-करणस्स सारं, णिच्छयसुद्धं ण याणंति ॥" [सन्मतिप्रकरण, ३.६७] १ वस्तुस्वरूपं अनभिज्ञेयं येषां ते इति समासविग्रहः । २ अतति इति आत्मा इति व्युत्पत्तिदर्शनाय अत्र 'अतति' इति क्रियापदं न्यस्तम् । ३ अभ्युपगच्छन् - स्वीकुर्वन् इति भावः । Page #16 -------------------------------------------------------------------------- ________________ द्वात्रिंशिका ] अध्यात्मबिन्दुः अमुमित्युपलक्षणं केवलनिश्चयस्यापि । यः खलु केवलनिश्चयावलम्बी अबद्धस्पृष्टमात्मानं मन्यमानः सकलमपि क्रियाकाण्डमस्वभावत्वेनानाद्रियमाणः भिन्नसाध्य - साधनभावोपरतचित्तवृत्तिः अभिन्नसाध्य-साधनभावमनासादयन्नन्तराल एव विषण्णः पारमेश्वरीकर्मचेतनां पुण्यबन्धभयेनानङ्गीकुर्वाणः परमनैष्कर्म्यरूपज्ञानचेतनास्वादं स्वप्नेऽप्यसम्भावयन् प्रमादपरतन्त्रः सुप्तोन्मत्तमूच्छित इव प्रकामं पापबन्धमेव प्रकुरुते । उक्तं च - - "निच्छयमालंबंता, निच्छयदो निच्छयं अयाणंता । १५ नासंति चरण-करणं, बाहिरचरणालसा केई ||" [ ओघनिर्युक्ति गा. ७६१] केवलग्रहणात् परस्परसापेक्षयोरन्यतरानवलम्बनात् साध्यासिद्धिरुदाहृता । तथाहि ये खलु परमर्षयः चैतन्यरूपात्मतत्त्वविश्रान्ते विहितश्रमाः अनादिप्रवृत्तपरभावविश्रान्तिवैमुख्यमासूत्रयन्तः निष्कम्पवृत्त्याऽऽत्मन्येवात्मानं संचिन्तयमानाः प्रमादकादम्बरीलेशस्याप्यवकाशमयच्छन्तः स्वच्छोच्छलच्चिच्छक्तिनिर्झरानन्दसन्दर्भगर्भितात्मीयानन्तशक्तिसमुज्जीवनासाधारणकारणसमरसीभावप्रधानात्मवृत्तयः स्वर्णादिनिष्कम्पाः समलेष्टुकाञ्चनास्तेऽनाद्यपारसंसारपारावारपारमासाद्यानन्तसुखभाजनं भवन्तीति उभयनयायत्तैव पारमेश्वरीदेशनेति सर्वं सुस्थम् ॥६॥ पूर्वं सामान्यतः प्रोक्तमपि निश्चयस्वरूपं पुनर्विशेषजिज्ञासार्थमाह आत्मस्वरूपं पररूपमुक्त मनादिमध्यान्तमकर्तृभोक्तृ । चिदङ्कितं चन्द्रकरावदातं, प्रद्योतयन् शुद्धनयश्चकास्ति ॥७॥ व्याख्या - आत्मस्वरूपं शुद्धं चिदानन्दमयम्, पररूपं स्वरूपातिरिक्तमौपाधिकरागद्वेषसंवलितचैतन्यानुभवस्तेन मुक्तम् । तथा अनादिमध्यान्तम् इति आदिमध्यान्तवन्तो हि देवनारकादिपर्याया नामप्रकृत्युदयसम्भूता: संख्येयमसङ्ख्येयं कालमात्मनि कृतस्थितयोऽपि न निश्चयतः शुद्धस्य चिदात्मनः स्वरूपभूता आदिमध्यान्तशून्यत्वात् तस्येत्यकृतकस्वरूपमुक्तम्। तथा अकर्तृ, आत्मा हि अशुद्धनिश्चयेन संसारावस्थायामनादिबन्धनबद्धत्वादात्मनः पारिणामिकचैतन्यभावमत्यजन्नेव राग-द्वेषादिभावैः परिणमन् तत्काले तन्मयत्वेन स्थितत्वाद् भवति तत्तद्भावानां कर्ता, 'यः परिणमति स कर्ता' इति उक्तम् । शुद्धनिश्चयतस्तु अबद्धस्पृष्टत्वेनौपाधिकभावानवकाशात् कुतस्तान् परिणामान् व्याप्यान् व्यापकीभूय कुर्याद् येन कर्ता स्यान्नाम? ततः स्थितमेतदकर्त्रिति । तथा अभोक्तृ, यद्यप्यशुद्धनिश्चयेन निमित्तमात्रभूतद्रव्यकर्मनिर्वर्तित Page #17 -------------------------------------------------------------------------- ________________ १६ हर्षवर्धनोपाध्यायनिबद्धः [प्रथमा सुखरूपात्मपरिणामानां व्यवहारेण द्रव्यकर्मोदयापादितेष्टानिष्ट-विषयाणां च भोक्ता तथापि शुद्धनिश्चयत उभयरूपस्यापि भोक्तृ त्वस्याभाव इति । तथा चिदङ्कितम्, द्रव्यगुणानामेकास्तित्वनिर्वृत्तत्वेन स्वतः पृथग्भावाभावात् सर्वकालं चैतन्यमजहदित्यर्थः । तथा चन्द्रकरावदातम् इति समुल्लसच्चन्द्रचन्द्रिकाभरवद् अनुपलभ्यमानमलकलङ्कमात्मस्वरूपं प्रद्योतयन्, शुद्धनयश्चकास्ति प्रकाशते, शुद्ध-नयप्रकाश्यमेतादृगात्मतत्त्वमित्यर्थः ॥७॥ तीर्थप्रवृत्त्यर्थमयं फलेग्रहि स्त्रिकालविद्भिर्व्यवहार उक्तः । परःपुनस्तत्त्वविनिश्चयाय नयद्वयात्तं हि जिनेन्द्रदर्शनम् ॥८॥ व्याख्या - त्रिकालविद्भिः सर्वज्ञैः । अयं व्यवहार: तीर्थप्रवृत्त्यर्थं तीर्थं चातुर्वर्ण्यसङ्घःश्रमणप्रधानस्तस्य प्रवृत्तिस्तदर्थम् । फलेग्रहिः फलवान् उक्तः। अयमर्थः - व्यवहारो हि मोक्षोपायप्रवृत्यङ्गत्वाद् दर्शयितुमवंश्यं तादृगेव । तथाहिनिश्चयेन ह्यात्मनः शरीराद् भेददर्शनेऽमूर्तत्वेन हिंसाऽभावात् त्रस-स्थावराणां भस्मन इव निःशङ्कमुपमर्दनप्रवृत्तेर्भवत्येव बन्धाभावः । व्यवहारनयेन तु क्षीरोदकवच्छरीरेण सह लोलीभावमापन्नस्यात्मनो मूर्तत्वाङ्गीकाराद् य एते एकेन्द्रियादयश्चतुर्दशभूतग्रामास्ते जीवा इति शरीरेण सहाभेदप्रदर्शने शरीरखधे तद्वधस्य कथञ्चिदिष्टत्वाद् भवत्येव प्रत्यवायः। अतस्तत्परिहारार्थं मोक्षोपायप्रज्ञापनमर्हद्देवानां सङ्गच्छते । अन्यथा तद्वैयर्थ्यापत्तेः । तदधिकरणं हि चातुर्वयं क्षयोपशमशक्तिसव्यपेक्षत्वाच्चातुर्वर्ण्यप्रवृत्तेः । किञ्च, बद्धस्पृष्टत्वादीनां भावानां व्यवहारनयेनैव प्रज्ञाप्यमानानां साधुता सङ्गच्छते, निश्चयेन तु निर्लेपत्वादात्मनो निर्विषयतामेवैते आस्तिघ्नुवीरन्। किञ्च, रागादिपरिणामेभ्यः परमार्थतो भेददर्शने तन्मेजासाधनसाम्यमूलकयम-नियमाधुपायप्रदर्शनमपि व्यर्थमेव स्यादिति । व्यवहारनये तु सर्वमपीदं प्रज्ञाप्यमानं सङ्गच्छत इति सुष्ठूक्तम्-'तीर्थप्रवृत्त्यर्थम्' इति। परइति व्यवहारापेक्षया परो निश्चयः । सपुनस्तत्त्वविनिश्चयाय उक्तः । निर्विकारनिरुपाधिदृशि-ज्ञप्तिस्वभावनियतवृत्तिरूपात्मतत्त्वपरिज्ञानं हि निश्चयमन्तरेण न भवतीति स्वसमयप्रवृत्त्यर्थमवश्यं क्रोडीकर्तव्यः । अन्यथाऽनाद्यविद्यावशाद् दृशिज्ञप्तिस्वभावनियतवृत्तिरूपात्मत्वात् प्रच्युतस्य परद्रव्यप्रत्ययमोहरागद्वेषादिभिः भावैरेकत्त्वं गतस्य उदयोदीरणादिवोत्याऽऽवतैविटपिन इव निर्भरं घूर्णमानमूर्तेः प्रावृषि कॉपगापाथःपूरस्येव नितान्तं प्रदेशोपयोगाभ्यां कलुषस्य परसमयीभूतस्यात्मनः श्रद्धान-ज्ञानानुचरणैर्वर्षकोटीतप्ततपोभिरपि १ मजा शुद्धिः । २ वात्या वातसमूहः । ३ कापगा कुत्सिता नदी तस्याः पाथः जलं तस्य पूरस्य इव । Page #18 -------------------------------------------------------------------------- ________________ द्वात्रिंशिका] अध्यात्मबिन्दुः १७ विशुद्ध्यभावात् । तस्मात् कतकस्थानीयत्वात् निश्चयस्य पर्येषणं न्याय्यमेव । एतदेवाह-नयद्वय इति । जिनेन्द्रदर्शनं भगवत्सर्वज्ञशासनम् । नयद्वयेन आत्तं क्रोडीकृतम् । स्याद्वादबलेनोभयोरपि विरोधमपोह्य कृतमैत्रीकयोः परस्परसापेक्षयोरेवाङ्गीकरणात्। तथैव वस्तुव्यवस्थितिसिद्धेनॆरपेक्ष्ये हि सर्वं विप्लवेत् । तदुक्तम् - "जइ जिणमयं पवज्जह ता मा ववहार-निच्छए मुअह। एक्केण विणा छिज्जइ तित्थं, अण्णेण उण तच्चं पि" ॥- ॥८॥ अथाऽपवर्गमूलत्वेन भेदज्ञानमभिष्टौतिये यावन्तो ध्वस्तबन्धा अभूवन् भेदज्ञानाभ्यास एवात्र बीजम् । नूनं येऽप्यध्वस्तबन्धा भ्रमन्ति तत्राभेदज्ञानमेवेति विद्मः ॥९॥ व्याख्या - ये यावन्तः केचन प्राक्काले ध्वस्तबन्धाः ज्ञान-क्रियासमुच्चयसमनुष्ठानेन निनकर्माणः अभूवन् अत्र बन्धध्वंसे भेदज्ञानाभ्यास एव बीजम् । अयमर्थः - प्रकृतिपुरुषयोविवेकख्यातौ जातायामेव क्रियमाणस्य कर्मणः सम्यग्ज्ञानमूलकत्वेन बन्धापनयनं प्रति सामर्थ्यम् । तदविवेकख्यातौ तु मोच्य-मोचकयोर्याथात्म्यानवगमात् कस्य मोक्षाय प्रयतताम् ? परद्रव्यविभागेन परद्रव्योपरज्यमानस्वधर्मविभागेन च आत्मन एकाग्रचिन्तने ह्यासंसाराबद्धदृढतरमोहग्रन्थेरुद्ग्रन्थनं स्यात्, ततस्तन्मूलराग-द्वेषक्षपणम्, ततस्तद्धेतुकोत्तरकर्माभावः, केवलयोगोपादीयमानस्य च बन्धस्य शैलेशीकरणे योगनिरोधादेव निरोधे आत्मनः स्वरूपावस्थानलक्षणो मोक्षः सिद्ध्यतीति सिद्धं भेदज्ञानाभ्यासस्य मोक्षं प्रति बीजत्वम् । नूनं निश्चितम्। येऽपि प्राणिनो अध्वस्तबन्धा मोक्षोपायालाभाद् अनपनीतकर्मरज:संश्लेषा भ्रमन्तिअविद्याकन्दलीकन्दायमानमोहानुवृत्तितन्त्रतया गृहीतनानानारकतिर्यगादिपर्यायाः संसरन्तितत्र भ्रमणेअभेदज्ञानमेव बीजमिति विद्मः । अयमर्थः - परात्मनोविवेकाभावे परम् आत्मत्वेनाध्यास्य रज्यन्तो द्विषन्तो मुह्यन्तश्चात्यन्तप्रत्यस्तमितविविक्तात्मख्यातित्वाद् आत्मानं कर्तारं मन्यमाना नानारम्भान् समनुष्ठाय तद्विपाकवेदनाविधुरीकृता अनन्तकालं संसृतिनिवासं नोज्झन्तीति सोऽयमभेदज्ञानानुभावः ॥९॥ पुनरपि भेदज्ञानाय श्लाघते - भेदज्ञानाभ्यासतः शुद्धचेता नेता नाऽयं नव्यकर्मावलीनाम् । १ जलशुद्धीकरणाय व्याप्रियमाणः 'कतक'नामा पदार्थः । Page #19 -------------------------------------------------------------------------- ________________ हर्षवर्धनोपाध्यायनिबद्धः [प्रथमा लीनां स्वस्मिन् तामयंस्तां नितान्तं तान्तं स्वीयं रूपमुज्जीवयेत ॥१०॥ व्याख्या - भेदज्ञानाभ्यासतः शुद्धचेताः शुद्धं निरुपरागं चित्तं यस्य तादृशः अयं सम्यग्दृष्टिः नव्यकर्मावलीनां शुभाशुभाध्यवसायतः सञ्चीयमानपौद्गलिककर्मणां नेता आस्रवयिता न स्यात् । अयमर्थः - भेदज्ञानबलेन शुद्धात्मभावनारसिकः परद्रव्येषु ममत्ववासनोन्मेषशून्यः स्व-स्वामिभावसम्बन्धस्य मोहजन्यत्वेनापारमार्थिकत्वात् 'नाहं धर्मः' 'नाहमधर्मः' 'नाहमन्तरिक्षम्' 'नाहं कालः' 'नाहं पुद्गलः' नाहं जीवान्तरम्' 'न चैते मम' इति समस्तपरद्रव्येभ्य आत्मानं व्यपोह्य केवलमात्मानं सञ्चेतयमानः परारोपितविकाराणां चात्मत्वेनाऽमननाद् भावास्रवाभावे भवत्येव द्रव्यास्रवाभावः । ननु तर्हि पूर्वसञ्चितायाः कर्मावले: का गतिरित्यत आह - लीनाम् इति । स्वस्मिन् आत्मनि लीनां श्लिष्टां तां कर्मावली नितान्तम् अत्यन्तं तामयन् 'तमू ग्लानौ' इति वचनात्, अन्तरङ्ग-बहिरङ्ग-तपोऽनलेन ग्लपयन् निर्जस्यन्निति यावत्। तान्तम् अनादि मोहेन शुद्धचैतन्यरूपाद् आत्मतत्त्वात् प्रच्याव्य क्षायोपशमिकशक्त्यधीनतया नितान्तं मन्दत्वापादनेन ग्लानि नीतंस्वीयं रूपम्आत्मनः स्वरूपम् उज्जीवयेतशुक्लध्यानानलेन घातीनि समूलकाषं कषित्वा पुनस्तादवस्थ्यमापादयेत् ॥१०॥ अथास्यात्मनः कर्तृत्वाध्यासे हि संसारः, स एव कथमिति तद्वीजमुद्घाटयति अज्ञानतो मुद्रितभेदसंवि च्छक्तिः किलायं पुरुषः पुराणः । परात्मनोस्तत्त्वमसंविदानः कर्तृत्वमात्मन्यसकृत् प्रयुङ्क्ते ॥११॥ व्याख्या - अज्ञानतः स्व-परयोरेकत्वाध्यासेन एकत्वश्रद्धानेन एकत्वानुष्ठानेन चमुद्रिता स्थगिता भेदसंविच्छक्तिः 'त्रिसमयानवधिप्रवृत्तानवरतानुभूयमानात्यन्तस्वादीयश्चैतन्यरसोऽयमात्मा' 'एतद्विपरीतस्वभावाश्च कषायाः' इत्येवं भेदज्ञानसामर्थ्य यस्य तादृशः अयम् अनुभवसिद्धः। पुराण इति अनादिनिधनत्वाद् द्रव्यव्यवस्थिते: अनादिनिधनस्य च साधनान्तरानपेक्षत्वाद् गुणपर्यायात्मानमात्मनः स्वभावं मूलसाधनमुपादाय सिद्धत्वात् । यत् तूत्पद्यते न तद् द्रव्यं कादाचित्कत्वात्, स पर्यायः व्यणुकादिवत् मनुष्यादिवच्चेति । पुरुष इति पुरि-देहे शयनात् १ अयं देवादिको धातु तेन च 'तान्त'शब्दस्य निष्पत्तिः २ घाति इति नामकं कर्म। Page #20 -------------------------------------------------------------------------- ________________ द्वात्रिंशिका] अध्यात्मबिन्दुः पुरुषः आत्मा । परात्मनोस्तत्त्वमसंविदानः रागाद्युपहितस्वरूपशंवेदनेन ज्ञेय-ज्ञायकभावापन्नौ परात्मानावेकत्वेनावबुध्यमानः आत्मन्यसकृत् कर्तृत्वं प्रयुडक्ते । अयं सिद्धान्त :- अयं किल आत्मा परभावसंवलितस्वरूपस्वादनेनानुबुद्धभेदज्ञानशक्तिरनादित एवास्त। ततः परात्मानावेकत्वेन जानन् 'क्रोधोऽहम्' इत्यादिविकल्पं करोति । ततो निर्विकल्पादकृतक-ज्ञानरसनिर्भरात् स्वस्वरूपात् प्रच्युतो भूयो भूयोऽनेकविकल्पैरात्मानं व्याकुलयन् ‘करोम्यहमेषः' इति कर्तृत्वमात्मन्यध्यास्य कर्ता प्रतिभाति। ज्ञानी तु सन् परभावविविक्तस्वस्वरूपस्वादनेन उद्बुद्धभेदज्ञानशक्तिः 'ये एते कषायास्ते ममास्वभावभूताः, एतैः सह यदेकत्वविकल्पकरणं तदज्ञानात्' इत्येवं नानात्वेन स्व-परौ जानन् क्रोधादिभ्य आत्मनो व्यावर्तनेन समस्तमपि कर्तृत्वमत्यस्यति, ततो नित्यं जगत्साक्षीभूतो जानीत एवेति सिद्धं भेदज्ञानस्यैव पुरुषार्थसिद्ध्युपायत्वम् । तदभावे तु कर्तृकर्मजा क्लेशसन्ततिरविच्छनप्रवाहैवेति ॥११॥ अथ परद्रव्येष्वात्माऽऽत्मीयबुद्धेः स्वाज्ञानविजृम्भितत्वेन तदपनोदप्रकारमाहस्वतोऽन्यतो वाऽप्यधिगत्य तत्त्वं यदेष देवः किल संप्रबुद्धः । द्रव्यं परं नो मम नाहमस्ये तीयति बुद्धि यदि बध्यते किम् ? ॥१२॥ व्याख्या - एषः अनुभवसिद्धज्ञानदर्शनसामान्यात्मा देवः सकलाऽविद्याविलये ज्ञानानन्दात्मनि स्वरूपे क्रीडनात् स्वतो निसर्गतः अन्यतो गुरूपदेशाद्वा तत्त्वमधिगत्य प्राप्य । निसर्गाधिगमयोरुभयोरपि तत्त्वाधिगमं प्रति हेतुत्वादुभयोपन्यासः । तत्र निसर्गतोऽनादिमिथ्यादृष्टेर्दर्शनमोहोपशमात्, तदितरस्य तु तत्क्षयक्षयोपशमादिप्रकारेणाऽऽजन्म-दुःस्थस्य चिन्तारत्नलाभ इव स्वरूपज्ञानलाभो जायते । एवं संप्रबुद्धः सन् 'परं द्रव्यं मम नो''अहमस्य नो' इति यदि बुद्धिमियर्ति अधिगच्छति तर्हि किं बध्यते अपि तु न । अयं भावः - अस्य किलात्मनो मोहानलतप्तस्याविचारितरमणीयेषु परभावेषु तृष्णातिरेकवशात् स्व-स्वामिभावबुद्धिर्जायते, ततोऽनवरतं तेष्वभिष्वङ्गपरस्य ज्ञेयार्थपरिणमनलक्षणया क्रियया युज्यमानत्वात् क्रियाफलभूतो बन्धः सम्पद्यते। तथाहि - अस्ति हि इष्टानिष्टान् विषयानवाप्य राग-द्वेषाभ्यां तद्भावनाभावितस्य तन्मयीभूय तदेव वस्त्वध्यवस्यतो ज्ञानस्य ज्ञेयाकारता । ज्ञानं हि भावनाबलादसन्निहितमपि वस्तु तदाकारीभूय पुरःस्थितमिवावभासयति । तथा - १ कर्तृत्वम् अत्यस्ति-दूरे क्षिपति । Page #21 -------------------------------------------------------------------------- ________________ २० हर्षवर्धनोपाध्यायनिबद्धः पिहिते गर्भागारे तमसि च सूचीमुखाग्रदुर्भेदे । मयि च निमिलितनयने तथापि कान्ताननं व्यक्तम् ॥ इति ॥ ज्ञानात्तु तेष्वात्मात्मीयबुद्ध्यभावादौदासीन्यपरस्य सततोल्लसदनेकविकल्पव्यपोहाद् निर्विकल्पमात्मानं चेतयमानस्य प्रतिवस्तु पातोत्पाताभावाद् ज्ञेयार्थपरिणमनेनायुञ्जानस्य कारणाभावादेव कार्यानुदयात् तत्फलभूतो बन्धोऽपि न सिद्ध्येत ॥१२॥ अथ प्रमाणादयोऽप्यधोभूमिकास्थस्यैव वस्तुन आवेदका ऊर्ध्वं तु न तेषां व्यापार इत्यावेदयति प्रमाण-निक्षेप - नयाः समेऽपि स्थिताः पदेऽधः किल वर्तमाने । प्रपश्यतां शान्तमनन्तमूर्ध्वं पदं न चैषां कतमोऽपि भाति ॥ १३ ॥ [ प्रथमा व्याख्या - प्रमाण-निक्षेप - नयाः समेऽपि अधो वर्तमाने पदे स्थिता । तत्र प्रमीयते येन तत् प्रमाणम् । तच्च द्विविधम्- प्रत्यक्षं परोक्षं चेति । तत्र स्पष्टावभासं प्रत्यक्षम् । अन्तःकार्मणमलविश्लेषविशेषनिबन्धनो विशुद्धिविशेषः स्पष्ट्यम् । तत् प्रत्यक्षं द्विविधम् - सांव्यवहारिकं मुख्यं च। सांव्यवहारिकमपि द्विविधम् - इन्द्रियप्रत्यक्षम् अनिन्द्रियप्रत्यक्षं चेति । तत्रेन्द्रियस्य चक्षुरादेः कार्यं बहिर्नीलादिविषयसंवेदनमिन्द्रियप्रत्यक्षम्, तत्रापि शक्तिनियमादेव विषयनियमः । अनिन्द्रियं मनः । मुख्यं प्रत्यक्षं द्विविधम् - विकलं सकलं च । तत्र अवधि - मनः पर्यायौ विकलप्रत्यक्षम् । केवलं तु सकलप्रत्यक्षम्, केवलात्मप्रतिनियतत्वेन प्रवर्तमानत्वात् सकलद्रव्यपर्यायसाक्षात्कारित्वाच्च । अस्पष्टावभासं परोक्षम् । तत् पञ्चविधम्- स्मृतिः प्रत्यभिज्ञानं तर्कोऽनुमानमागमश्चेति । निक्षिप्यते नामादिभेदैर्वस्तु व्यवस्थाप्यते एभिरिति निक्षेपा नाम-स्थापनाद्रव्य-भावाख्याश्चत्वारः । तत्रातद्गुणे वस्तुनि संज्ञाकरणं नाम । तदुक्तम् - यद् वस्तुनोऽभिधानं स्थितमन्यार्थे तदर्थनिरपेक्षम् । पर्यायानभिधेयं च नाम यादृच्छिकं च तथा ॥ इति । सोऽयमित्यन्यत्र प्रतिनिधिव्यवस्थापनं स्थापना । तदुक्तम् -यत्तु तदर्थवियुक्तं तदभिप्रायेण यच्च तत् करणि । लेप्यादिकर्म तत् स्थापनेति क्रियतेऽल्पकालं च ॥ इति । वर्तमानतत्पर्यायाद् अन्यद् द्रव्यम् । तदुक्तम् - Page #22 -------------------------------------------------------------------------- ________________ __ २ द्वात्रिंशिका] अध्यात्मबिन्दुः भूतस्य भाविनो वा भावस्य हि कारणं तु यल्लोके। तद् द्रव्यं तत्त्वज्ञैः सचेतनाचेतनं गदितम् ॥ वर्तमानतत्पर्यायो भावः । तदुक्तम् - भावो विवक्षितक्रियाऽनुभूतियुक्तो हि वै समाख्यातः । सर्वज्ञैरिन्द्रादिवदिहेन्दनादिक्रियाऽनुभावात् ॥ नयः प्रमाणप्रतिपन्नाथै कांशग्राही । स द्विविधः - द्रव्यार्थिकः पर्यायार्थिकश्च । तत्र द्रव्य-पर्यायात्मके वस्तुनि द्रव्यं यो मुख्यतया व्यवहरति स द्रव्यार्थिकः । शुद्धाशुद्धनिश्चयावप्यत्रैवान्तर्भवतः, अभेदानुपचरिततया वस्तुनो निश्चयात् । यस्तु पर्यायं मुख्यतया व्यवहरति स पर्यायार्थिकः । तत्र द्रव्यार्थिकस्त्रिधा - नैगम-सङ्ग्रहव्यवहारभेदात् । पर्यायार्थिकश्चतुर्धा-ऋजुसूत्रशब्द-समभिरूद्वैवंभूतभेदेनेति । एते सर्वेऽपि अधो वर्तमाने पदे स्थिताः विकल्परूपत्वेनैषां शुद्धवस्त्ववबोधार्थप्रवणो हि व्यापारः । एतैर्हि सम्यक् स्व-परविभागपूर्वकं बोधिताः शिष्याः सुष्ठ वस्तु परिच्छिन्दन्ति । ततश्च निर्विकल्पपदवीमनधिरूढानां सविकल्पपदे वर्तमानानां धर्मधर्मिशुद्धाशुद्धभेदाभेदादिविवेचनार्थं तदात्वे प्रयोजनवन्तोऽप्येते नित्यनिर्विकल्पानन्दघनपरमसमाधिप्रपन्नानां नार्थक्रियाकारिण इति । एतदेवाह - प्रपश्यताम् इति । शान्तं प्रलीनवासनोन्मेषतयाऽनाकुलम् । अनन्तम् इति आविद्यकसंसारित्वपर्यायप्रध्वंसेऽपि नित्यानन्दस्वरूपेणाऽऽयतौ निरवधिप्रतपनाद् अन्तरहितम् । ऊर्ध्वम् इति कर्तृत्वभोक्तृत्वादिभावव्यपोहपूर्वकं बन्ध-मोक्षपद्धतेरूचं वर्तमानं पदम् आत्माख्यं वस्तु प्रपश्यतां साक्षाद् अनुभवतां योगिनाम् एषां प्रमाणादीनां कतमोऽपि न भाति । साध्यसिद्ध्यर्थं हि कारकचक्रप्रक्रियापर्येषणं प्रामाणिकानां प्रसिद्धम्, परिनिष्ठिते तु कार्ये न तदुपयोगो दण्डादिवदेवेति सिद्धं प्रमाणादीनामधः पदे वर्तमानत्वम्॥१३॥ अथ बन्धादयोऽपि कर्मजा भावा न त्वात्मस्वरूपभूता इत्यावेदयति - बन्धोदयोदीरणसत्त्वमुख्याः, भावाः प्रबन्धः खलु कर्मणां स्यात् । एभ्यः परं यत्तु तदेव धामा ऽस्म्यहं परं कर्मकलङ्कमुक्तम् ॥१४॥ व्याख्या - सकषायस्य जीवस्य कर्मयोग्यपुद्गलादानं बन्धः । तथा च वाचकः 'सकषायत्वाज्जीवः कर्मणो योग्यान् पुद्गलानादत्ते स बन्धः' [तत्त्वार्थसूत्र, ८.२] । स च प्रकृत्यादिभेदाच्चतुर्विधः। तदुक्तम् – 'प्रकृति-स्थित्यनुभाग-प्रदेशास्तद्विधयः' इति [तत्त्वार्थसूत्र, Page #23 -------------------------------------------------------------------------- ________________ हर्षवर्धनोपाध्यायनिबद्धः [प्रथमा ८.४] । प्रकृत्यादितया बद्धानामेव त्वेषामबाधापरिक्षये विपाकवेदनम् उदयः। अप्राप्तकालवेदनम् उदीरंणा । बन्धादिलब्धात्मलाभानां कर्मणामात्मप्रदेशेष्ववस्थानं सत्त्वम् । एतन्मुख्या भावाः खलु कर्मणां प्रबन्धः स्यात् ।कर्माण्येव हि बन्धादिनानावस्थाभाञ्जि आत्मनि स्वशक्तिप्रदर्शनेन विकारान् आपादयन्त्यपि निश्चयेन भावान्तरस्वभावेनाभवतों जीवाद् द्रव्यान्तरभूतान्येव नात्र जीवस्य स्वभावलेशोऽपीति । एभ्यः परम् इति दुरन्तकषायचक्रोदयवैचित्र्यबलेन प्रवर्तमानानामप्येषां स्वरूपेणापरिणमनाद् एभ्यो बन्धादिभ्यः परं भिन्नं यत् तदेवाहं परंसर्वातिशायि चन्द्रार्कादितेजसां मितक्षेत्रावभासित्वेन ततोऽप्युपरि वर्तमानं धाम नित्योदितविशदज्ञप्तिज्योतिषाऽक्रमाक्रान्तमूर्तामूर्तातीन्द्रियन्द्रियकादिसमस्तवस्तुस्तोमलक्षणं मेहोऽस्मि । कीदृग् धाम ? इति विशिनष्टि कर्मकलङ्कमुक्तम् इति । व्यवहारदृष्टया संसारित्वभावेऽपि निश्चयतस्तत्कारणीभूतसकलशक्तिप्रतिबन्धककर्मप्रपञ्चदूरीभूतत्वात् कर्मतद्विकाराऽस्पृष्टम् ॥१४॥ अथ कर्मजन्याखिलविकारनाश एव स्वरूपाभिव्यक्तिरिति व्यक्तीकरोति - वातोल्लसत्तुङ्गतरङ्गभङ्गाद् ___यथा स्वरूपे जलधिः समास्ते। तथाऽयमात्माऽखिलकर्मजन्य विकारनाशात् स्पृशति स्वरूपम् ॥१५॥ व्याख्या - यथा जलधिः समुद्रः वातेन उल्लसन्तो ये तुङ्गाः तरङ्गाः तेषां भङ्गाद् ध्वंसात् स्वरूपे निस्तरङ्गत्वरूपे समास्ते । अयं भावः - यथा जलधिः समीरसञ्चारनिमित्तं प्राप्य उत्तरङ्गीभवति तदभावाच्च निस्तरङ्गतां प्रपद्यते । तत्रोत्तरङ्ग-निस्तरङ्गत्वे यद्यप्येकस्यैवावस्थे तथाप्युपाधि-तदभावाभ्यां भवन्त्यौ अस्वभावस्वभावतां द्योतयतः । तत्रौपाधिकस्य भावस्योपाधिविलयाद् विलयेऽपि अनौपाधिकस्य स्वरसत एव प्रवृत्तत्वाद् निर्हेतुकत्वाच्च नास्ति विलयः 'नित्यं सत्त्वमसत्त्वं वाऽहेतोरन्यानपेक्षणात्' [प्रमाणवार्तिक, ३.३४] इत्युक्तेः । अत उक्तम् स्वरूपे' इति। तथाऽयमात्मा' इत्यादि तथा-जलधिवद् अयमात्मा अखिलाः कर्मजन्या . ये 'विकाराः' राग-द्वेष-मोह-सुख-दुःखादयस्तेषां नाशात् स्वरूपं स्पृशति । अनादिबन्धनोपाधि-प्रवृत्ता हि रागादयो बन्धनसन्निधानासन्निधानाभ्यामात्मनि उन्मज्जन-निमज्जने जनयन्तोऽस्वभावतां ख्यापयन्ति । तथाहि-यत्सद्भावे यज्जायते, यदभावे च यन्न जायते तत् तज्जन्यम् । अस्ति च कर्मोदयेन सहान्वय-व्यतिरेको रागादीनामतस्तद्धेतुकत्वमिति तदभावे च शुद्धात्मनि अप्रादुर्भवन्तः पररूपतां व्यञ्जयन्तो नात्मना सहैकार्थत्वं श्रयन्ति ॥१५॥ अथ चैतन्यातिरिक्ताः सर्वेऽपि परभावा इति बोधयति - १ आसंसारात् । २ तेजः। Page #24 -------------------------------------------------------------------------- ________________ द्वात्रिंशिका] अध्यात्मबिन्दुः चैद्रूप्यमेकमपहाय परे किलामी, यावन्त एव पुरुषेऽत्र लसन्ति भावाः । तान् संप्रपद्य च परत्वधिया समस्ता - नास्ते तदाऽऽस्रवति किं ननु कर्म नव्यम् ? ॥१६॥ व्याख्या - एकं चेद्रूप्यं चिद्रूपताम् अपहाय वर्जयित्वा चेतनायाः स्वधर्मत्वेन ततो व्यतिरेकस्य कर्तुमशक्यत्वात् । परे किलामी यावन्त एवात्र पुरुषे आत्मनि भावाः राग-द्वेषसुख-दुःखादयः समलाश्चिद्विवर्ता लसन्ति स्फुरन्ति तान् समस्तान् परत्वधिया परभावबुद्ध्या संप्रपद्य अङ्गीकृत्य यदा आस्ते स्वरूपलीनस्तिष्ठति तदा नव्यं कर्म किमास्त्रवति ? अपि तु नेत्यर्थः । अयं भाव:- चेतना ह्यात्मनोऽसाधारणधर्मस्तत एवेतद्रव्यव्यावृत्तिसिद्धेः । सा च दृग्रूपा ज्ञप्तिरूपा च । उभयरूपाया अपि तस्या यथाक्रमं सामान्य-विशेषपरिच्छेदकत्वेन चेतनात्वसामान्यानतिक्रमादविशेषेण ग्रहणम् । अनेकधर्माधारत्वेऽपि चेतनाग्रहणं "प्राधान्येन व्यपदेशा भवन्ति" [ ] इति न्यायानुसरणार्थम् । सा च त्रिधा, कर्मचेतनाकर्मफलचेतना-ज्ञानचेतनेति । तत्राऽऽद्ये द्वे कर्मसम्पर्कतो जायमानेऽस्वभावभूते । ज्ञानचेतना तु निरुपरागोपयोगस्वभावा आत्मनः स्वलक्षणभूता स्व-परप्रकाशशालितया स्वपरपरिच्छेत्री तयैव समानजातीयद्रव्यव्यवसायसिद्धः । सा चैकाऽपवरकप्रबोधिताऽनेकप्रदीपप्रकाशेष्विव सम्भूयावस्थितेष्वपि षट्सु द्रव्येषु मत्स्वरूपादप्रच्यवमाना मामेव पृथगवगमयति । तत इदमेव मम रूपं त्रिकालानुयायित्वादिति तया सहैकत्वं प्रपद्य तदितरान् रागादीन् परत्वबुद्ध्याऽध्यवसाय स्वरूपगुप्तसुषुप्तकल्पान्तस्तत्त्ववृत्तितया विषयाननुध्यायत उपरञ्जकाभावादेव बन्धनिरोधः सिद्ध्येत् ॥१६॥ अथ शरीरसम्बन्धेन भासमाना अपि वर्णादयो नात्मस्वलक्षणभूता इति द्योतयति - शरीरसंसर्गत एव सन्ति वर्णादयोऽमी निखिलाः पदार्थाः। जाम्बूनदादेरुपधेरिव द्राग वैशद्यभाजि स्फटिके तरङ्गाः ॥१७॥ व्याख्या - अमी प्रत्यक्षदृश्या वर्णादयो निखिलाः पदार्थाः वर्ण-गन्ध-रस-स्पर्शसंस्थान-संहननादयः शरीरसंसर्गत एव सन्ति । तथाहि - पुद्गलविपाकिकर्मोदयाज्जीवेन सह वपुषः परस्परावगाहलक्षणे सम्बन्धे सत्यपि उपयोगगुणविशिष्टस्यात्मनः स्वलक्षणेनैव समं व्याप्यव्यापकभावसम्बन्धाद् अनलस्यौष्ण्येनेव वर्णादिभिस्तादात्म्याभावात् स्वलक्षणत्वासिद्धौ न नाम Page #25 -------------------------------------------------------------------------- ________________ २४ हर्षवर्धनोपाध्यायनिबद्धः [प्रथमा वर्णादयः सन्ति, तथापि देहात्मनोः समावर्तितावस्थायां कनक-कलधौतयोरिव परमार्थत एकार्थत्वानुपपत्तावपि व्यवहारमुग्धानां पृथक् स्वलक्षणानिर्ज्ञानाद् एकत्वाध्यासेन जीवस्यैते वर्णादय इति मतिराविरस्ति । तन्मूलं च शरीरसम्बन्धः एवेति एवकारेण, 'मुष्यते एष पन्थाः' इतिवत् "तात्स्थ्यात् तदुपचारः" [ ] इति न्यायेन बन्धपर्यायेणावस्थितस्य वपुषो वर्णादयो जीवे व्यवह्रियन्ते न तु परमार्थतोऽमूर्तस्यासाधारणचैतन्यसर्वस्वस्य जीवस्य सन्ति केचन वर्णादय इति द्योत्यते। कस्मिन् क इव? जाम्बूनदादेरुपधेः सकाशाद्वैशद्यभाजि स्फटिके तरङ्गा इव । यथा प्रकृत्या स्वच्छस्फटिकमणेर्जाम्बूनदाधुपाश्रयवशात् स्वच्छताविकारमात्रेण भाव्यमानाः पीततादिवर्णोर्मयो न नाम स्वरूपभूतास्तद्वद् आत्मनोऽपीति भावः । एवं चैतद् अप्रतिबुद्धोक्तं समाहितं दृष्टव्यम् - जीवो भवेनैव यदा शरीरं तीर्थङ्कराचार्यनुतिस्तदानीम् । सर्वापि मिथ्यैव भवेत् ततो हि देहात्मनोः साधुरभेद एव ॥ तथाहिवक्त्रं पूर्णशशाङ्ककान्तममलं स्वान्तं प्रशान्तं वपु नेत्रे नीलसरोजपत्ररुचिरे वाणी सुधासारणी। दीप्तिर्यस्य च चण्डरुप्रभृतिसज्ज्योतिष्मतां जित्वरी __भव्यान् पातु स विश्वविश्रुतयशास्तीर्थेशभट्टारकः ॥ इत्यादिका व्यवहारस्तुतिरेव आत्मस्वरूपबोधकविशेषणालाभात् वक्त्र-स्वान्तादीनां पौद्गलिकत्वात् । तर्हि कीदृशी निश्चयस्तुतिरिति चेत् - मोहं विजित्य करणानि च संनिरुध्य यो भावयत्यपमलं परमात्मतत्त्वम् । साक्षात्कृताखिलपदार्थमपार्थितोद्यत् - कर्मप्रपञ्चमवतात् स जिनेन्द्रदेवः ॥ इत्यादिकेति प्रतीहि ॥१७॥ अथ रागादिपरिणामेऽपि नासौ स्वरूपं प्रोज्झतीत्याविर्भावयति - स्फटिकमणिरिवायं शुद्धरूपश्चिदात्मा, भजति विविधभावं द्वेष-रागाधुपाधेः । यदपि तदपि रूपं नैव जाहात्ययं स्वं, न खलु भवति चान्द्री ध्वान्तरूपा मरीचिः ॥१८॥ १ चण्डरुक् सूर्यः। Page #26 -------------------------------------------------------------------------- ________________ २५ द्वात्रिंशिका] अध्यात्मबिन्दुः व्याख्या - अयं शुद्धरूपः शुद्धद्रव्यार्थिकनिरूपणया क्षीरोदकवत् कर्मपुद्गलसंश्लेषेऽपि स्वरूपापरित्यागाद् विशुद्धस्वभावः । चिदात्मा सत्त्वप्रमेयत्वाद्यनन्तधर्माधारत्वेऽपि चेतनयैवेतरद्रव्यव्यावृत्तिसम्भवादसाधारणगुणत्वख्यापनार्थं चिद्ग्रहणम् । द्वेषरागाद्युपाधेः स्वतः पृथग्भूतद्रव्यान्तरपौद्गलिकमोहोत्तरप्रकृतिभूताद् द्वेष-राग-लक्षणादुपाधेः । आदिशब्देन द्रव्यान्तरभूता मिथ्यात्वादयोऽपि गृह्यन्ते। मिथ्यात्वादयो हि भावा जीवाजीवाभ्यां भाव्यमानत्वाज्जीवाजीवभूताद्वैततां नातिवर्तन्ते। अत एव जीवमिथ्यात्वमजीवमिथ्यात्वम्, जीवाविरतिरजीवाविरतिः, जीवकषायोऽजीवकषाय इत्यादि तन्त्रान्तरे गीयते । तत्र पौद्गलिककर्मणा भाव्यमाना अजीवा इत्युच्यन्ते, चैतन्यविकारमात्रेण जीवेन भाव्यमाना जीवा इत्युच्यन्ते । तदत्र पौद्गलिका गृह्यन्ते । तल्लक्षणादुपश्लेषाद् यदपि स्फटिकमणिरिव विविधभावं नानारूपतां भजति । तथाहि - यथा स्फटिकमणिः परिणामस्वभावत्वे सति काञ्चन-कदली-पा(प)त्रादिविचित्रोपाश्रयवशात् पीत-हरितादिरूपतामास्कन्दति।तदपि अयम् आत्मास्वं रूपं नैव जाहाति चिन्मात्रतां त्यक्त्वा अचिद्रूपतां नाऽऽपद्यते । कारणसहस्रेणापि स्वभावस्यापोहितुमशक्यत्वादिति भावः । एतदेवार्थान्तरन्यासेन दृढयति-न खलु इति । चान्द्री मरीचिर्ध्वान्तरूपा न खलु भवति । एवं च रागाद्यात्मपरिणामानां पौद्गलिकमोहप्रकृतिविपाकजन्यत्वात् "कारणानुविधायि कार्यम्" [ ] इति न्यायाद् असद्भूतव्यवहारेणाचेतनत्वमपि सिद्धमिति भावः । यत्तु 'मोहणकम्मस्सुदया' [समयसार, १.६८] इति समयसारीयगाथाव्याख्यानावसरे अमृतचन्द्रसूरिणा गुणस्थानातिदेशेन मार्गणास्थानादिप्रमुखाणामपि केषाञ्चिदौदयिकत्वेनाचेतनत्वमापादितम्, तत्र मार्गणान्त:पातिकेवलज्ञानदर्शनादीनामप्यौदयिकत्वमचेतनत्वं चापतत् केन निवार्यम् ? न चैतदिष्टं जैनागमे क्वाऽप्यदृष्टत्वात् । तस्मात् तदभिप्रायं स एव वेद । जाहाति इति 'ओहाक् त्यागे' इत्यस्य यङ्लुकि रूपम् ॥१८॥ अथ अज्ञानादेव कर्म प्रभवतीत्याह - परं स्वात्मत्वेन स्वमपि च परत्वेन कलय नयं रागद्वेषाद्यनियतविभावैः परिणतः। ततो रज्ये रुष्याम्यहमिति विकल्पाननुकलं ----- प्रकुर्वन् जीवोऽयं ननु जगति कर्माणि कुरुते ॥१९॥ व्याख्या - परं राग-द्वेष-सुख-दुःखादिरूपपुद्गलपरिणाम, तन्निमित्ततयाऽनुभवन् पुद्गलप्रचयरूपं शरीरादिकं च स्वात्मत्वेन कलयन् अज्ञानेन परस्परविशेषानिर्ज्ञानात् स्वस्वभावत्वेन जानन् । तथा शुद्धबुद्धैकचैतन्यस्वरूपस्वात्मानं च परत्वेन विश्वरूपोऽहमिति Page #27 -------------------------------------------------------------------------- ________________ २६ हर्षवर्धनोपाध्यायनिबद्धः [प्रथमा दर्शने सर्वद्रव्यमयत्वेन रागादिपरभावत्वेन च कलयन् । अयं स्वसंवेदनसिद्धो भगवान् आत्मा राग-द्वेषादयो ये अनियता अपरिमिता विभावा स्वभावाऽन्यथाभावरूपाः विकाराश्चैतन्यपरिणामास्तै परिणतः सहजोदासीनावस्थात्यागेन तत्तां प्रपन्नो भवतीति शेषः । अयं भावःकर्मविकाराकलङ्कितजगत्साक्षिनिर्मलकेवलालोकविविक्तमात्मस्वरूपमनवगच्छन् सन् नानाविकारकरम्बितमेवात्मानमनुभवति मन्यते च, न च नवतत्त्वोत्तीर्णम्। तादृशश्च न परभावकर्तृतां कदाचिदप्यपोहतीत्याह-तत इति । ततः अशुद्धपरिणामानामात्मत्वेन मननाद्धेतोः । अहं रज्ये, अहं रुष्यामि इति विकल्पान् अनुकलं प्रतिक्षणं प्रकुर्वन् अयं जीवो जगति कर्माणि कुरुते । रागद्वेषादिपरिणामान् ज्ञानादिवत् स्वसमानाधिकरणतयाऽनुभवन्ननादिनिधनाविकल्पाकर्तृकविज्ञानघनस्वरूपात् प्रभ्रष्टो वारंवारमनेकविकल्पैः परिणमन् द्रव्यभावभेदभाञ्जि कर्माणि तनोतीत्यर्थः । शुभाशुभभावैः परिणमन् योगद्वारेण प्रविशतां पुद्गलानां कर्मभावोत्पत्तौ निमित्तं भवतीत्यर्थः ॥१९॥ स्व-परयोरेकत्वाध्यासादेव कर्तृत्वमाविरस्तीति दृष्टान्तद्वारेण समर्थयतेभूताविष्टो नर इह यथाऽज्ञानतः स्वं च भूतं, चैकीकुर्वन् भवति विसदृक्चेष्टितानां विधाता। अप्यात्माऽयं निज-परविवेकच्युतः कामकोपा दीनां कर्ता भवति नितरां शुद्धचिद्रूषकाणाम् ॥२०॥ व्याख्या - इह जगति यथा भूताविष्टो नरः अज्ञानतः स्व-परविवेकानवबोधात् स्वम् आत्मानं भूतं चैकीकुर्वन् विसदृक्चेष्टितानाम् अमानुषोचितविशिष्टधावन-वल्गनासम्बद्धभाषितादिचेष्टानां विधाता भवति तथा अयमात्मापि निज-परविवेकच्युतः स्वपरयोरेकत्वाध्यासाद् आत्म-परयोविवेकमलभमानःशुद्धचिद्रूषकाणां काम-कोपादीनां नितरां कर्ता प्रतिभाति । आत्मा हि कामादिपरिणतिक्षणे तन्मयत्वेन व्यापकीभूय तत्परिणामानां कर्ता भवति । कामादयो स्वपरिणतिक्षणे तन्मयत्वेन व्याप्यत्वाद् आत्मनः कर्म भवन्ति । परिणामिनः कर्तृत्वोक्तौ परिणामानां कर्मत्वमर्थादेवाऽऽपद्यते निश्चयेन कर्तृकर्मणोख्यतिरेकात् । अयं भावःयथाऽयमात्माऽनौपाधिकस्य स्वलक्षणभूतस्य कालत्रयेऽप्यात्मनोऽविष्वग्भूतस्य ज्ञानस्यात्मनश्च भेदमपश्यन्नात्मतया ज्ञाने वर्तते तथाभूतश्च ज्ञानक्रियाया अप्रतिषिद्धत्वाज्जानाति तथा सोपाधिकस्यास्वलक्षणभूतस्य कालत्रयेऽप्यात्मनो विश्वग्भूतस्य क्रोधादेरात्मनश्च विवेकाऽऽलोकानुद्गमाद् भेदमपश्यन्नात्मतया क्रोधादिषु वर्तते तथाभूतश्च निषिद्धानामपि क्रोधादिक्रियाणामात्मीकरणात् क्रुद्ध्यति रज्यते कामयते; ततश्च तत्तन्मोहविकारात्मानं कलुषीकुर्वन् Page #28 -------------------------------------------------------------------------- ________________ द्वात्रिंशिका] अध्यात्मबिन्दुः २७ परभावकर्तृतामात्मन्युपढौकमानो न कदाचिदपि स्वरूपाभिमुखीभवति, नित्यं कर्तृभावमेवावलम्बते ॥२०॥ अथ स्वभावकर्तृत्ववत् परभावकर्तृत्वे महान् दोषोपनिपात इत्याह - व्याप्यव्यापकभावतः प्रकुरुते जीवः स्वभावान् यथा भावान् वेदकवेद्यतोऽनुभवति स्वांस्तान् स्वभावान् पुनः । तद्वद् वेदयतेऽथवा प्रकुरुते भावान् परांश्चेदयं स्यादेवं हि कृतिद्वयस्य करणात् सिद्धान्तबाधः स्फुटम् ॥२१॥ व्याख्या - जीवः यथा व्याप्य-व्यापकभावतः स्वभावान् प्रकुरुते ।स्वस्य भावाः स्वभावाः शुद्धाशुद्धरूपाः स्वपरिणामास्तान्। भावशब्दोऽत्र परिणामवाची। परिणाम-परिणामिनोश्च तादात्म्यम् एकवस्तुत्वात् । वस्त्वेव हि तन्नानाकारतया विवर्तते । द्रव्यं हि मयूराण्डकललवत् सम्मूच्छितसर्वभेदप्रभेदं द्रव्यादिसामग्रीमवाप्य तत्तवृत्त्यन्तरव्यक्तिरूपेण व्यपदिश्यते - 'जायते अस्ति विपरिणमते वर्धते अपक्षीयते अपचीयते विनश्यति' (व्याकरणमहाभाष्य) इत्यादि । तथाहि - एकमेव मृद्रव्यं पिण्डातिरिक्तवृत्त्यन्तररूपतया परिणममानंजायत इत्युच्यते, सव्यापारा हि भवनवृत्तिः। अस्ति इत्यनेन निर्व्यापारा आत्मसत्ता आख्यायते; भवनवृत्तेरुदासीनं हि अस्ति इत्युच्यते। विपरिणमते इत्यनेनापि तिरोभूतात्मरूपस्यानुच्छिन्नतथावृत्तिकस्य रूपान्तरेण भवनम्, यथा क्षीरं दधिभावेन विपरिणमते - विकारान्तरवृत्त्या भवनवृत्तिय॑ज्यते । [ वर्धते' इत्यनेन तस्यैव परिणामोपचयवृत्तिः कथ्यते] अपक्षीयते इत्यनेन तु तस्यैव परिणामस्यापचयवृत्तिराख्यायते, दुर्बलीभवत्पुरुषवद् अपचयरूपभवनवृत्त्यन्तर-व्यक्तिरुच्यते। विनश्यति इत्यनेन आविर्भूतभवनवृत्तितिरोभवनमुच्यते यथा विनष्टो घट इति प्रतिविशिष्टसंस्थानात्मिका भवनवृत्तिस्तिरोभूता, न त्वभावरूपतैव जाता, कपालाद्युत्तरीभवनवृत्त्यन्तरक्रमावच्छिनरूपत्वादित्येवमादिभिराकारैर्द्रव्यमेव तथा विवर्तते । तदत्र रागादिपरिणामो व्याप्यस्तनिष्ठत्वात्, आत्मा तु व्यापकः विवक्षितपरिणाममन्तरेऽपि तस्य वृत्तिसद्भावात्; 'व्यापकं तदतन्निष्ठम् व्याप्यं तन्निष्ठमेव हि' [ ] इति वचनात् । तथा च, यथा जीवः स्वयं व्यापको भूत्वा व्याप्यान् रागादिपरिणामान् प्रकुरुते - करोतिः इह परिणामार्थः - रागादिरूपतया परिणमतीत्यर्थः । तथा वेदक-वेद्यतो भावान् तान् स्वान् आत्मीयान् स्वभावान् वेदयते अनुभवति रागादिपरिणतिक्षणे हि 'रागादिमान् अहम्' इत्यनुभवस्य सर्वजनसिद्धत्वात् । तदत्र स्वपरिणामा वेद्या वेदकस्त्वात्मा।अयं भावः - इष्टानिष्टविषयसमवधाने हि सुख-दुःखादिपरिणत आत्मा तानेव स्वपरिणामान् वेदयमानः ['सुख्यहम्, दुःख्यहमित्यभिमन्यते । तदत्र सुख१ कोष्ठान्तर्गतः पाठः रा प्रतौ नास्ति । Page #29 -------------------------------------------------------------------------- ________________ २८. हर्षवर्धनोपाध्यायनिबद्धः [प्रथमा दुःखादिषु भावेषु तन्मयीभूयस्थितत्वाद् भवत्यात्मा वेदकः] सुख-दुःखादयो भावा अप्यनुभाव्यत्वाद् भवन्ति वेद्याः । 'स्वपरिणामान्' इति वाच्ये औपाधिकस्यापि रागादेः स्वभावत्वकथनम्, अनौपाधिकभाववदौपाधिकभावोऽपि स्वभावः, ‘एवं हि' जीवपुद्गलयोविभाव-स्वभावलक्षणपर्यायाधिकरणत्वं सिद्धम् । तथाहि-द्विधा पर्यायः - अर्थपर्यायः व्यञ्जनपर्यायश्च । तत्र अर्थपर्यायो नाम भूतत्व-भविष्यत्त्वसंस्पर्शरहित-शुद्धवर्तमानकालावच्छिन्नं वस्तुस्वरूपम् । तदेतद् ऋजुसूत्रविषयमामनन्ति । तदुक्तम् - "स्थूलो व्यञ्जनपर्यायो वाग्गम्यो नश्वरः स्थिरः। सूक्ष्मः क्षणप्रतिध्वंसी पर्यायश्चार्थगोचरः" ॥ इति [ ] व्यञ्जनं व्यक्तिः । प्रवृत्ति-निवृत्तिनिबन्धनयत्किञ्चिदर्थक्रियाकारित्वम्, तेनोपलक्षितः पर्यायो व्यञ्जनपर्यायः । सोऽपि द्विविधः-स्वभावव्यञ्जनपर्याय: विभावव्यञ्जनपर्यायश्च । उभयोऽपि द्रव्य-गुणनिष्ठत्वेनो भयरूपः । तत्र जीवद्रव्यस्य स्वभावद्रव्यव्यञ्जनपर्यायश्चरमशरीरात् त्रिभागोनसिद्धावगाहनारूपः, विभावद्रव्यव्यञ्जनपर्यायो नर-नारकादिः । स्वभावगुणव्यञ्जनपर्यायोऽनन्तचतुष्टयरूपः, विभावगुणव्यञ्जनपर्यायो मत्यादिः । पुद्गलद्रव्यस्य तु अविभागी पुद्गलपरमाणुः स्वभावद्रव्य-व्यञ्जनपर्यायः, व्यणुकादिर्विभावद्रव्यव्यञ्जनपर्यायः वर्ण-गन्धरसैकत्वात्; विरुद्धस्पर्शद्वयं स्वभावगुणव्यञ्जनपर्यायः, रसरसान्तरगन्धगन्धान्तरादिविभावगुणव्यञ्जनपर्यायः । आत्मीयात्मीयागुरुलघुगुणद्वारेण प्रतिसमयमुदीयमानषट्स्थानपतितवृद्धिहानिनानात्वानुभूतिलक्षणः स्वभावगुणपर्यायस्तु समस्तद्रव्येष्वपि साधारणः । धर्मादीनां तु चतुर्णा द्रव्याणां स्वभावपर्याया एव, न तु विभावपर्यायाः । तदत्र रागादिविभावगुणव्यञ्जनपर्यायः, "जो दु कलुसोवओगो जीवाणं सो कसाउदओ" [ ] इति वचनात् । तद्वद् इति शुद्धाशुद्धस्वभावकर्तृत्ववत् । अयं जीवः चेत् परान् भावान् ज्ञानावरणादिकान् पौद्गलिकान् प्रकुरुते अथवा वेदयते । एवं सति कृतिद्वयस्य स्वपरिणामक्रियालक्षणस्य करणाद् विधानात् स्फुटं सिद्धान्तबाधः स्यात् । अयं भावः - यथा व्याप्य-व्यापकभावेन स्वपरिणामं करोति, भाव्यभावकभावेन तमेवानुभवति जीवस्तथा व्याप्य-व्यापक-भावेन पौगलिकं कर्मापि कुर्यात् भाव्यभावकभावेन तदेव यद्यनुभवेत् ततः स्व-परसमवेतक्रियाद्वयाव्यतिरिक्ततायां प्रसञ्जन्त्यां स्वपरविभागप्रत्यस्तमनाद् अनेकात्मकमेकमात्मानमनुभवन् कुर्वंश्च मिथ्यादृष्टिरेव स्यात् । न ह्येकं द्रव्यं स्वभिन्नद्रव्यान्तरस्य परिणामं कुर्वत् कदापि दृष्टम्, द्रव्यान्तरोच्छेदापत्तेः सर्वसङ्करादिदोषाच्च। ततः समस्तद्रव्याणामात्मीयात्मीयपरिणामैव समं कर्तृकर्मभावः सिद्ध्यति ॥२१॥ Page #30 -------------------------------------------------------------------------- ________________ द्वात्रिंशिका] अध्यात्मबिन्दुः एतदेव वृत्तान्तरेण विशदयति --- सर्वे भावा निश्चयेन स्वभावान् कुर्वन्तीत्थं साधु सिद्धान्ततत्त्वम् । भिन्नद्रव्यीभूतकर्मप्रपञ्चं जीवः कुर्यात् तत् कथं वस्तुतोऽयम् ॥२२॥ व्याख्या - सर्वे भावा जीवादयः षट् पदार्थाः निश्चयेन स्वभावान् स्वपरिणामान् कुर्वन्ति स्वपरिणामैरेव समं सर्वद्रव्याणां व्याप्य-व्यापकसद्भावात् परभावस्य परेण कर्तुमशक्यत्वात्। कुम्भोत्पत्तौ व्याप्रियमाणः कुम्भकारो हि स्वपरिणामानां ज्ञानेच्छाप्रयत्नानामेव कर्ता न तु घटस्य । कथं तर्हि घटोत्पत्तिरिति चेत् उच्यते-हस्ते उद्यम्यमाने हस्तस्य दण्डोद्यमनवत् हस्तचालनारूपकुलालवीर्यव्यापारमासाद्य मृत्पिण्ड एव घटत्वेन स्वयं परिणमते । तथाहि - कुलालस्तावदिदमस्योपादानमित्यादावुपादानज्ञानेन परिणमति ततो घटं करोमीति चिकीर्षया, ततश्चके मृत्पिण्डारोपण-चक्रभ्रामण-मृत्पिण्डपृथुत्व-सङ्कोचकारिस्ववीर्यव्यापारेणेति योगोपयोगयोरेव कर्तृत्वं सिद्धं न तु घटस्येति । योगोपयोगौ चात्मस्वभावौ । ततः सर्वद्रव्याणां स्वभावकर्तृत्वमेव न तु परभावकर्तृत्वमित्यायातम् । एतदेवाह-इत्थं साधु सिद्धान्ततत्त्वम् इति । ततः किमित्याह-भिन्नद्रव्यीभूतेति ।तत्तस्माद् हेतोः अयंजीवः भिन्नद्रव्यीभूतंजीवद्रव्यात् द्रव्यान्तरभूतं कर्मप्रपञ्चं वस्तुतः कथं कुर्यात्, न कथमपीत्यर्थः । तथाहि - परद्रव्यपरिणाम हि व्याप्य-व्यापकभावेन न तावदयं कुर्यात् तन्मयत्वानुषङ्गात् स्वद्रव्योच्छेदापत्तेश्च, निमित्तनैमित्तिकमात्रभावस्य त्वप्रतिषिद्धत्वादितरेतरनिमित्तमात्रीभवनेन द्वयोरपि परिणामाः। ततो मृदा घटस्यैव स्वेन भावेन स्वस्य भावस्य करणाज्जीवः स्वभावस्यैव कर्ता स्यात्-मृदा पटस्येव स्वेन भावेन परभावस्य कर्तुमशक्यत्वात् पुद्गलपरिणामानां कर्ता न कदाचिदपि स्यादिति निश्चयः। किञ्च, 'स्वभाव'शब्देनात्र परिणाममात्रलक्षणो भावः परिस्पन्दलक्षणा क्रिया चोभयमपि विवक्षितम्, भवनमात्रस्योभयत्राविशेषात् । तत्र भाववन्तः क्रियावन्तश्च जीवपुद्गलाः परिणामाद् भेद-सङ्घाताभ्यां चोत्पद्यमानावतिष्ठमानोच्छिद्यमाना उत्पादव्यय-ध्रौव्यैक्यानुभूतिलक्षणां सत्तामपरित्यजन्तः स्वभाव-विभावरूपतया परिणमन्ति । तत्र जीवानां भेदसङ्घातौ कर्मवपुरादिपुद्गलेभ्योऽवसेयौ । शेषद्रव्याणि भाववन्त्येव परिणामादेवोत्पद्यमानावतिष्ठमानोच्छिद्यमानत्वात् । ततो भिन्नसत्ताकत्वाद् द्रव्यान्तरपरिणामः कालत्रयेऽपि द्रव्याणां न सङ्गच्छत इति भावः ॥२२॥ Page #31 -------------------------------------------------------------------------- ________________ ३० हर्षवर्धनोपाध्यायनिबद्धः अथ रागद्वेषजय एव शुद्धात्मलाभो भवतीत्यावेदयति राग द्वेषो मोह इत्येवमाद्या भावा नूनं शुद्धचिद्दूषकाः स्युः । रोधादेषां जायते द्रव्यकर्मा भावस्तस्मान्निर्विकारानुभूतिः ॥२३॥ व्याख्या - द्विविधो ह्युपयोगः - शुद्धोऽशुद्धश्च । तत्र निरुपरागः शुद्धः । तदुक्तम्'क्षीणे रागादिसन्ताने प्रसन्ने चान्तरात्मनि । यः स्वरूपोपलम्भः स्यात् स शुद्धाख्यः प्रकीर्तितः ॥" [ ] [ प्रथमा सोपरागस्त्वशुद्धः । तत्राशुद्धोपयोगः परद्रव्यसंश्लेषहेतुः परद्रव्यप्रवृत्तत्वात् । स च त्रिधा भिद्यते राग-द्वेष-मोहभेदात् । तत्र प्रीतिलक्षणो रागः, अप्रीतिलक्षणो द्वेषः, तत्त्वाप्रतीतिलक्षणो मोहः । तदत्र मोह-द्वेषयोः सर्वथाऽशुद्धोपयोगत्वम्, रागस्तु विशुद्धि-सङ्क्लेशाङ्गत्वेन द्विविधः । तत्रार्हदादिभक्तिरूपो विशुद्ध्यङ्गत्वाच्छुभः विषयाभिष्वङ्गलक्षणस्तु सङ्क्लेशाङ्गत्वादशुभः । एवमाद्या भावाः परिणामाः शुद्धचितः ' शुद्धोपयोगसंज्ञिकायाश्चिच्छक्तेः दूषकाः अशुद्धत्वहेतवः स्युः । अयं भावः- रागादयो हि भावाः आत्मन्युत्प्लवमाना आत्मनः शुद्धचैतन्यशक्तिमुन्मूल्य स्वानुरञ्जितामात्मवृत्तिं कुर्वाणा निस्तरङ्गचिच्छक्तेस्तरङ्गितत्वं प्रकटयन्तः परभावपरिणतिरूपत्वेन कर्मबन्धहेतवो भवन्ति । एवं च भावास्रवा एव द्रव्यास्रवहेतव इत्यावेदितं भवति, तदभावे तु न द्रव्यकर्मास्रवः सिद्ध्यति । एतदेवाह - 'रोधादेषाम्' इति । एषां रागादीनां भावानां रोधात् द्रव्यकर्माभावो जायते । शुद्धात्मानुभवरसिको हि स्वरूपमग्नो निवातस्थदीप इव मनागपि स्वरूपादप्रच्यवमानो रागादिभावानात्मसादकुर्वाणो बन्धहेतुतामनास्कन्दन्ननास्रवो भवति । ततः किं भवतीत्यत आह तस्मान्निर्विकारानुभूतिः इति । बन्धाभावे ह्युदयाभावस्ततश्च विकारहेतोरभावादनुभूतेर्निर्विकारत्वमित्यर्थः ॥२३॥ अथ क्रोधादिव्यतिरेकद्वारा ज्ञानं साधयति ज्ञानं ज्ञाने भवति न खलु क्रोधमुख्येषु तत् स्यात् क्रोधः क्रोधे न हि पुनरयं पूरुषे चित्स्वरूपे । कर्मद्वन्द्वे न हि भवति चिच्चिन्न कर्मावरुद्धे तीत्थं शुद्धग्रहणरसिकः किं विधत्तेऽन्यभावम् ॥२४॥ व्याख्या - ज्ञानं कर्तृ ज्ञाने भवति, सर्वभावानां निश्चयतः स्वरूप एव वृत्तिसद्भावात् कारणसहस्रेणापि द्रव्यान्तरस्वभावस्य द्रव्यान्तरं नेतुमशक्यत्वात् । ज्ञान एव वर्तते क्रोधमुख्येषु १ चित् शब्दस्य षष्ट्या एकवचनम् । Page #32 -------------------------------------------------------------------------- ________________ द्वात्रिंशिका ] अध्यात्मबिन्दुः ३१ न खलु तत् ज्ञानं स्यात् । ननु कतरत् तद् ज्ञानं यद् ज्ञाने विधीयते ? न कतरदपि किन्तु प्रसिद्धमेव ज्ञानमनूद्य इतरत्र वृत्तिबाधनार्थं स्वस्मिन्नेव विधीयते मा विज्ञायि आत्मनीवेतरत्रापि वर्तत इति । तथा क्रोधः क्रोधे वर्तते, सर्वभावानां निश्चयतः स्वरूप एव वृत्तिसद्भावात् । ननु कतरः स क्रोधो यः क्रोधे विधीयते ? न कतरोऽपि किन्तु प्रसिद्ध एव क्रोधोऽनूद्य इतरत्र वृत्तिबाधनार्थं स्वस्मिन्नेव विधीयते मा विज्ञायि क्रोधे इवेतरत्रापि वर्तत इति । अयं क्रोधः पुनश्चित्स्वरूपे पूरुषे न भवति द्रव्यस्य द्रव्यान्तरे सङ्क्रमाभावात् भिन्नसत्ताकत्वेनैकद्रव्यत्वानुपपत्तेश्च । क्रोध इत्युपलक्षणमशेषमोहविकारस्यापीति । तथा कर्मद्वन्द्वे ज्ञानावरणादिकर्मसङ्घाते चिन्न भवति, ज्ञानावरणादीनां पौद्गलिकत्वेन चिता' तादात्म्यानुपपत्तेः तथा चित् कर्मावरुद्धा न भवति, निर्लेपस्वभावायाश्चितो निश्चयेन कर्मभिरावरितुमशक्तेः । इत्थं शुद्धं परद्रव्यासम्पृक्तं यद् ग्रहणं ज्ञानं गृह्यन्ते परिच्छिद्यन्तेऽर्था अनेनेति कृत्वा, अथवा शुद्धस्यात्मनो ग्रहणं द्रव्यान्तरविवेकेन अनुभवः, तत्र रसिकः किमन्यभावं विधत्ते रागादिपरिणामानां स्वप्नेऽपि कर्ता स्याद् अपि तु न । तदकर्तृत्वे तन्निमित्तः पुद्गलद्रव्यकर्मसम्बन्धोऽपि निवर्तते । तथा सति ज्ञानमात्रादेव बन्धनिरोधः कथं न सिद्ध्येत् ? ॥२८॥ कदेयमनादिप्रवृत्ता कर्तृकर्मप्रवृत्तिर्निवर्तत इत्यभिधित्सायां तदुपायमाह यदात्मनाऽऽत्मास्त्रवयोर्विभेदो ज्ञातो भवेत् ज्ञानदृशा तदानीम् । निवर्ततेऽज्ञानजकर्तृकर्म - प्रवृत्तिरस्मान्निखिलाऽपि मक्षु ॥२५॥ व्याख्या यदा आत्मना ज्ञानदृशा भेदज्ञानचक्षुषा कृत्वा आत्मास्त्रवयोर्विभेदो ज्ञातो भवेत्, भिन्नः खल्वात्मा भिन्नाश्च क्रोधादयः आस्रवाः आत्मस्वभावातिरिक्तत्वात्, सोपाधिकत्वेन जन्याः खल्वास्रवाः भगवानात्मा तु स्वयंसिद्धत्वेनाजन्यः, तदात्वे आकुलत्वोत्पादकत्वाद् दुःखाः खल्वास्रवाः भगवानात्मा तु नित्यमेवानन्दघनत्वादनाकुलस्वभावः, उपयोगकालुष्यजनकाः खल्वास्रवाः भगवानात्मा तु नित्यमेव दृग्-ज्ञानवृत्तात्मकस्वलक्षणस्थितत्वात् स्वसमयः, एवं यदा भेदः सुष्ठु परिच्छिन्नो भवति तदानीम् अस्माद् आत्मनः निखिलाऽपि अज्ञानजा कर्तृकर्मप्रवृत्तिः मङ्क्षु शीघ्रं निवर्तते । तदत्रात्मा क्रोधाद्युत्पत्तौ ज्ञानरूपतामात्रसहजोदासीनावस्थात्यागेन व्याप्रियमाणत्वात् कर्ता, "यः परिणमति स कर्ता" [ ] इति वचनात्, क्रोधाद्यास्त्रवास्त्वात्मना व्याप्यत्वात् कर्म, तच्च वस्तुत आत्मै [व] "परिणामः स्वयमात्मा" [ ] इति वचनात् परिणामिनः परिणामस्वरूपकर्तृत्वेन परिणामादनन्यत्वात् । तदेवमात्मास्रवयोर्विशेषदर्शनाद् भेदं पश्यतः क्रोधाद्यास्रवनिवृत्तिः, १ तृतीयान्तम् । चिता सह इति भावः । I Page #33 -------------------------------------------------------------------------- ________________ ३२ हर्षवर्धनोपाध्यायनिबद्धः [प्रथमा ततोऽनादिकालादवच्छिन्नप्रवृत्तः कर्तृकर्मप्रवृत्तिनिरासः इति चेद् भेदज्ञानस्येहास्रवनिवृत्त्यविनाभाविनो विवक्षितत्वात् । तथाहि - यदिदमात्मास्रवयोर्भेदज्ञानं तत् किमास्रवेषु प्रवृत्तम् उतास्रवेभ्यो निवृत्तम् ? यदि प्रवृत्तं कस्तर्हि तस्य तदभेदज्ञानाद्विशेषः आस्रवप्रवृत्तस्य पारमार्थिकभेदज्ञानत्वासिद्धेः। "तद् ज्ञानमेव न भवति यस्मिन्नुदिते विभाति रागगणः । तमसः कुतोऽस्ति शक्तिर्दिनकरकिरणाग्रतः स्थातुम् ॥" [ ] इत्युक्तेः । यदि निवृत्तं तर्हि कथं न ज्ञानमात्रादेव बन्धनिरोधः ? एतेन केवलात् सुष्ठ्वनुष्ठितात् कर्मकाण्डादेवात्मनः शुद्धिरिति निरस्तम्, अज्ञानात् कृतस्य कर्मणो मोक्षं प्रत्यहेतुत्वात् ॥२५॥ ज्ञानात् तु न कर्म प्रभवतीत्याह - स्वत्वेन स्वं परमपि परत्वेन जानन् समस्ता - न्यद्रव्येभ्यो विरमणमितश्चिन्मयत्वं प्रपन्नः। स्वात्मन्येवाभिरतिमुपयन स्वात्मशीली स्वदर्शी त्येवं कर्ता कथमपि भवेत् कर्मणां नैष जीवः ॥२६॥ व्याख्या - स्वम् आत्मानं स्वत्वेन जानन् शुद्धस्वलक्षणनिर्ज्ञानात् परद्रव्याहंबुद्धिहेतुभूतमिथ्यादर्शनापगमाच्चात्मानमात्मत्वेनावगच्छन् । तथा परं सुख-दुःखादिरूपपुद्गलपरिणाम तन्निमित्ततथानुभवं पुद्गलप्रचयात्मकं शरीरादिकं च परत्वेन जानन् परस्परविशेषनिर्ज्ञानाच्छरीरादावात्माऽऽत्मीयबुद्धिमकुर्वन् इत्यर्थः । तथासमस्तानि यान्यन्यद्रव्याणि आत्मनः पृथग्भूतानि पुद्गलादीनि तेभ्यो विरमणमितः स्वत्वभावाव्याप्यतया परत्वेन ज्ञात्वा विरतिं प्रपन्नः परद्रव्यप्रवृत्तिमनादधान इत्यर्थः । अत एव चिन्मयत्वं प्रपन्नः सकलसङ्कल्पविकल्पनिरोधाच्छुद्धात्मनिष्ठां बिभ्रत् । तथा स्वात्मन्येवाभिरतिमुपयन् अनादिमोहेन स्वात्मनोऽप्रकृष्य बहिर्नीतायाः सततं पदव्यचक्रमणशीलायाश्चिद्वत्तेनिरोधात् पारावारमध्यसृत्वरैकपोतकूपस्तम्भपतत्रीवाऽनन्यशरणतयाऽनन्तसहजचैतन्यात्मनि क्रीडां कलयन् तथा स्वात्मानं शीलयति अभ्यस्यति परिचिनोतीति स्वात्मशीली । आत्मनो ज्ञायकस्वभावत्वावधारणेन ज्ञेयज्ञायकसम्बन्धस्यानौपाधिकत्वेन दुस्त्यजत्वानिखिलद्रव्यैः समं मम ज्ञेय-ज्ञायक एव सम्बन्धः, नान्ये स्व-स्वामिभावादय इत्येवं तेषु ममत्वव्युदासेन विषयपरिशीलनां गरनिगरणादप्यत्यन्तविरसां मत्वा स्वरूपमेव परिशीलयनित्यर्थः । तथा स्वदर्शी आसंसारात् परद्रव्यविश्रान्तं ज्ञानं परद्रव्याद् व्यपोह्य निष्कम्पतया स्वरूप एव लीनं कुर्वन् । एवमिति दृग-ज्ञप्ति-वृत्तात्मकात्मतत्त्वैकाग्र्येण वर्तमान एष जीवः कथमपि कर्मणां द्रव्य-भावभेदभाजां कर्ता न भवेत् । आत्मानं १ ला प्रतौ तु ०शरीरादावात्मीय० इति पाठः । २ ला प्रतौ तु 'वृतात्मतत्त्व० इति पाठः । Page #34 -------------------------------------------------------------------------- ________________ द्वात्रिंशिका ] अध्यात्मबिन्दुः रागादितयाऽपरिणमयंस्तन्निमित्तीकृत्य कर्मभावेन परिणममानानां पुतलानामपि स्वस्मिन्नवकाशं न ददातीत्यर्थः । इदमत्र तात्पर्यम्-सकलज्ञेयाकारकरम्बित - चिद्वृतिमात्मानं जानानोऽनुभवन्नपि यदि स्वरूप एव नियम्य न वर्तते तदाऽनादिवासनोपजनितपरद्रव्यप्रवृत्तेश्चिद्वृत्तेर्निरर्गलपरद्रव्यप्रसरस्य हठेन व्यावृत्त्यभावात् स्वस्मिन्ननवस्थानेऽज्ञानोत्थितकर्तृकर्मक्लेशानापायाद् निरुपरागात्मतत्त्वोपलम्भाभावः । अत आत्मज्ञानानुभवसंयतानां यौगपद्य एव पारमार्थिकमकर्तृत्वं सिद्ध्यति ॥२६॥ अथ तादात्म्यलक्षणपुरस्सरं वर्णादीन् परद्रव्यत्वेन निश्चिन्वन्नाह - व्याप्तं यत् किल वर्वृतीति निखिलावस्थासु याद्रूप्यतो जातु स्यान्न तदात्मताविरहितं तेनास्य साकं भवेत् । तादात्म्यं तदिह स्फुरन्न च भवन् मुक्तौ नितान्तं ततो वर्णादिः सकलो गणो ननु परद्रव्यत्वमेव श्रयेत् ॥२७॥ ३३ व्याख्या - यत् किल द्रव्यं निखिलावस्थासु याद्रूप्यतो यद्रूपत्वेन व्याप्तं वर्वृतीति जातु कदाचिदपि तदात्मताविरहितं तेन रूपेण शून्यं न स्यात् तेन साकम् अस्य द्रव्यस्य तादात्म्यं भवेत् । अयमर्थः यथा किल पुद्गलद्रव्यस्य सर्वास्वप्यवस्थासु वर्णादिव्याप्तस्य भावतो वर्णादिव्याप्तिशून्यस्याभावतश्च वर्णादिभिस्तादात्म्यम्। ननु च अब्ज्योतिर्मरुतां पौद्गलिकानामपि अगन्धागन्धरसागन्धरसवर्णानामुपलब्धेरसिद्धा पुद्गलानां त्रैकालिकी व्याप्तिरिति चेत्, न क्वचित् कस्यचिद् गुणस्य व्यक्ताव्यक्तत्वस्य कादाचित्कपरिणामवैचित्र्य - प्रत्ययत्वेन स्वभावप्रतिघाताभावात् व्यक्तस्पर्शादिचतुष्काणां चन्द्रकान्ताऽरणियवानामारम्भकैरेव पुद्गलैरव्यक्तगन्ध-रसवर्णानाम् अब्ज्योतिर्मरुतामारम्भदर्शनात् । तेजसः पौगलिकस्यापि उद्भूतरूपस्पर्शानुद्भूतरूपस्पर्शोद्भूतरूपानुद्भूतस्पर्शानुद्भूतरूपोद्भूतस्पर्शप्रकारेण चतुर्विधस्य परैरङ्गीकाराच्चेति सिद्धं वर्णादितादात्म्यं पुद्गलानाम् । किञ्च, पुद्गलपरिणतिवैचित्र्यस्याऽऽनन्त्य - दर्शनान्न वर्णाद्याविर्भाव-तिरोभावमात्रत्वं विस्मयाय । इदं हि तत्तत्सामग्रीमवाप्य स्थूलं भूत्वा सूक्ष्मं भवति सूक्ष्मं भूत्वा स्थूलं भवतीति तदुक्तम् - "थूलंथूलं थूलं थूलसुहुमं च सुहुमथूलं च । सुमं सुहुमसुमं पुग्गलदव्वस्स पज्जाया ॥” तत्र छिन्नाः स्वयं सन्धानासमर्थाः काष्ठ - प्रस्तरादयः स्थूलस्थूलाः । छिन्नाः स्वयं सन्धानसमर्थाः क्षीर-सर्पिः-पाथः प्रभृतयः स्थूलाः । स्थूलोपलम्भा अपि छेत्तुं भेत्तुमादातुमशक्याश्च्छायाऽऽतपतमोज्योत्स्नादयः स्थूलसूक्ष्माः । सूक्ष्मत्वेऽपि स्थूलोपलम्भाः स्पर्श-रस- गन्ध Page #35 -------------------------------------------------------------------------- ________________ हर्षवर्धनोपाध्यायनिबद्धः ३४ [ प्रथमा शब्दाः सूक्ष्मस्थूलाः । सूक्ष्मत्वेऽपि करणानुपलभ्याः कर्मवर्गणादयः सूक्ष्माः । अत्यन्तसूक्ष्माः कर्मवर्गणाभ्योऽधो द्व्यणुकपर्यन्ताः सूक्ष्मसूक्ष्मा इति । एवं सर्वावस्थासु चैतन्यव्याप्तस्य भवतश्चैतन्यव्याप्तिशून्यस्याभवतश्च जीवस्य चेतनातादात्म्यम् । यद्यपि निगोदाद्यवस्थायां परिस्पन्दाद्यभावेन चैतन्योपलकम्भकं न किश्चिदपि लिङ्गमुपलभ्यते तथापि "सव्वजीवाणं पि अ णं अक्खरस्स अणंतमो भागो णिच्चुग्घाडिओ चिट्ठइ जइ पुण सो चेव आवरिज्जा जीवो अजीवत्तणं पाविज्जा ।" [नंदिसुत्तं, सू.७७] इत्यादिवचनप्रामाण्याद् अण्डावस्थायामण्डजानामिव व्यापार-व्याहारादिकार्याभावेऽपि चैतन्यसद्भावो बोध्यः न्यायप्राप्तस्यानभ्युपगमायोगात् । एवं तादात्म्यलक्षणं प्रकटय्य जीवे वर्णादितादात्म्यं निराकुर्वन्नाहतदिहेति । तत् तस्माद्धेतोः इह संसारदशायां स्फुरन् पौगलिककर्मकार्यत्वेन पुद्गलगुणत्वाच्छरीरेष्वाविर्भवन् । न च भवन् मुक्तौ इति सकलाविद्याविलये तत्कार्यभृतदेहानुदयादनुद्भवन् वर्णादिः सकलो गणः वर्ण- गन्ध-रस-संस्थान-संहननादिः परद्रव्यत्वमेव श्रयेत् । अयं भावः - यद्यपि संसारदशायां वर्णादिव्याप्तता जीवस्यास्ति तदव्याप्तता च नास्ति तथापि मुक्तौ वर्णादिव्याप्त्यभावान्न वर्णादिभिस्तादात्म्यं सिद्ध्यति । किञ्च, वर्णादिमत्त्वं पुद्गलासाधारणधर्मः, तस्य जीवेन क्रोडीकरणे जीव- पुद्गलयोरेकत्वापत्तेः पुद्गलातिरिक्तजीवद्रव्यस्याभावाद् भवत्येव जीवाभाव इति । तस्माद् वर्णादयः पुद्गलधर्मा एव न जीवस्येति स्थितम् ॥२७॥ अनवरतमनेकान् भावयन् कल्पनौघान् कथमिव परतत्त्वाऽऽबध्यसे कर्मजालैः । यदि सकलविकल्पातीतमेकं स्वरूप मनुभवसि ततः किं संसृतिः किं च बन्धः ॥२८॥ व्याख्या- हे परतत्त्व ! "भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे" ॥ [ मुण्डकोप०, २. २.८ ] इति वचनादात्मस्वरूपलाभ एवानादिनिचितमोहग्रन्थिभेदादात्मेतरपदार्थबोधे आत्मानवबोधे च सर्वस्याकिञ्चित्करत्वाच्चेत्यात्मैव परमं तत्त्वम् । “एको भावस्तत्त्वतो येन बुद्धः सर्वे भावास्तत्त्वतस्तेन बुद्धाः "" [ ] इत्युक्तेश्च । ततस्तत्संबुद्धिर्हे परमतत्त्व ! अनवरतम् अविच्छिन्नधारम् अध्यवसायस्थानानामागमेऽसङ्ख्येयत्वेनाभिधानात् तद्वियुतेः कदाचिदप्यसम्भूतत्वाद् अनेकान् अपरिमितान् कल्पनौघान् भावयन् 'एतल्लब्धम्, इदं लभे, पुनरिदं लब्ध्वा-नृपतिरहम्, दुःस्थोऽहम्, सुख्यहम्, दुःख्यहम्, इदं कृतम्, इदं करिष्ये' एवं १ तुलना :- 'जे एगं जाणइ से सव्वं जाणई' आचाराङ्गसूत्र १.३.४.१२२ । २ संबुद्धि:- सम्बोधनम् । Page #36 -------------------------------------------------------------------------- ________________ द्वात्रिंशिका] अध्यात्मबिन्दुः ३५ नानाविकल्पपरम्परया परिणमन् त्वं कर्मजालैः कथमिवाऽऽबध्यसे ? विकल्पानां शुभाशुभत्वेन तदनुगुणबन्धजन[न] एव व्यापारात्, कृति-ज्ञप्त्योः परस्परविरोधेन कृतिसद्भावे स्वसमयस्थितेर्दुर्घटत्वात्, तदभावे बन्धनिरोधस्यासम्भवात् । ततः किं भावयितव्यमित्यत आह - यदीति । यदि सकलविकल्पातीतं बुद्धिगोचरस्थूलसूक्ष्मविकल्पव्युपरतम्, एकम् इति रागद्वेषद्वैतानुवृत्तेर्दूरापास्तत्वादद्वैतम्, स्वरूपम् इति विज्ञानैकरसनिर्भरस्वरूपास्तित्वमात्रव्यञ्जितपराप्रवेशमात्मरूपम् अनुभवसि ततः किं संसृतिः किं च बन्धः ? उभयोरपि स्वाज्ञानविजृम्भितत्वात् स्वप्रबोधं विना स्वस्वप्नस्येवानुच्छिद्यमानत्वाच्चेत्यनुभव एव निशितं शस्त्रं तदुच्छेदे । ज्ञाततत्त्वानामप्यनुभवाभ्यासविधुराणां स्वरूपलयाभावे कर्मक्षयायोगात् तदभावे संसृतेः संसरणस्याशक्यनिरोधत्वादिति भावः ॥२८॥ एनमेव पुनरप्यर्थं विभावयति - किं मुग्ध ! चिन्तयसि काममसद्विकल्पां - स्तद्ब्रह्मरूपमनिशं परिभावयस्व । यल्लाभतोऽस्ति न परः पुनरिष्टलाभो यदर्शनाच्च न परं पुनरस्ति दृश्यम् ॥२९॥ व्याख्या - हे मुग्ध ! स्व-परविवेकानभिज्ञ ! कामम् अत्यर्थम् असद्विकल्पान् 'बाला मामियमिच्छतीन्दुवदना सानन्दमुद्रीक्षते । नीलेन्दीवरलोचना पृथुकुचोत्पीडं परिरिप्सते।' इत्येवमादिकान् किं चिन्तयसि असद्विकल्पज्ञानपरिणतः किं किं भवसीति भावः । तहि किमित्यत आह - तद्ब्रह्मेति । तत् स्वानुभवगोचरम् अनिशं विच्छित्तिजनकविषयसंचरिष्णुबुद्धिधारानिरासपूर्वकम्, ब्रह्म इति असङ्ख्येयलोकाकाशपरिमितप्रदेशशालित्वेन बृहत्त्वाद् ब्रह्म प्रत्यग्ज्योतिः, तस्य रूपं शुद्धबुद्धनिर्विकारलक्षणं परिभावयस्व विषयान्तरव्युदासेन तस्मिन्नेव लीनो भवेत्यर्थः । कोऽस्य विशेषः? इत्याशङ्कायामाह-यल्लाभत इति । यल्लाभतः पुनः परः अपर इष्टलाभो नास्ति । कुलिशायुधचक्रधरादिपदलाभो हि विषयविमुग्धानां शुद्धात्मानुभवविमुखानामिष्टत्वेन भासते, ब्रह्मास्वादलुब्धानां तु अनाद्यविद्याकवलप्रत्यलचित्कलाशालिपरमात्मसाक्षात्कारान्नापरो लाभः । किञ्च, 'सर्वे भावाः सर्वजीवैः प्राप्तपूर्वा अनन्तशः" [ ] इतिवचनात् कामभोगाश्चानन्तशो लब्धपूर्वा आस्वादितपूर्वाश्च, इदं तु १ ला प्रतौ 'बुद्धिगोचराबुद्धिगोचर०' इति पाठः । २ कुलिशायुधः इन्द्रः । ३ अनादिभूतायाः अविद्यायाः कवले कवलीकरणे अर्थाद् विनाशे प्रत्यला समर्था चित्कला तया शालते-शोभते एतादृशः परमात्मा तस्य साक्षात्काराद् इति भावः। Page #37 -------------------------------------------------------------------------- ________________ ३६ हर्षवर्धनोपाध्यायनिबद्धः [प्रथमा भगवदात्मद्रव्यं नित्यव्यक्ततया अन्त:प्रकाशमानमपि कामक्रोधाद्यनेकमोहविकारैरेकीक्रियमाणत्वाद् अत्यन्तं तिरोभूतं सत् स्वस्यानात्मवित्तया आत्मविदां च महात्मनां परमकारुणिकानां परमर्षीणामनुपासनाच्च न कदाचिदपि अनुभूतपूर्वं लब्धपूर्वं चेत्येतल्लाभ एव महान् लाभ इति। तथा यदर्शनाच्च परं दृश्यं नास्ति ग्रामाकरनगरोपवनप्रासादप्रभृतिरमणीयपदार्थदर्शनस्यापारमार्थिकत्वात् सोपरागसंविदाऽध्यवसीयमानत्वेन बन्धहेतुत्वाच्च भगवदात्मदर्शनमेव निःशेषकर्मक्लेशापरामृष्टस्पष्टतरचिदुद्गमनिपीतलोकालोकतया सर्वातिशायीति ॥२९॥ अथ मोक्षमार्गोऽप्येतदतिरिक्तो नास्तीति निरूपयति - पन्था विमुक्तेर्भविनां न चान्यो ___ यतः परः केवलिभिः प्रदिष्टः । आनन्द-बोधावपि यद् विहाय पदेऽपरस्मिन्न कदापि भातः ॥३०॥ व्याख्या - केवलिभिर्यतः परो भविनां विमुक्तेः पन्था न प्रदिष्टः । मोक्षमार्गो हि निश्चयव्यवहाराभ्यां साध्यमान एव साधीयस्तां दधाति । तत्र व्यवहारतः "जीवादिसद्दहणं सम्मत्तं तेसिमधिगमो णाणं । रायादिपरिहरणं चरणं एसो दु मोक्खपहो ॥" ति[समयसार गा० १५५]. निश्चयतस्तु द्दग्-ज्ञप्ति-वृत्तत्रयात्मक आत्मैव मोक्षमार्गः । तदुक्तम् - "दर्शनमात्मविनिश्चितिरात्मपरिज्ञानमिष्यते बोधः । स्थितिरात्मनि चारित्रं कुत एतेभ्यो भवति बन्धः ॥" [ ] अयमर्थ:- यदा हि सम्यक् (ग्) दर्शन-ज्ञान-चारित्रः स्वभावभूतै: सममङ्गाङ्गिभावपरिणत्यां तत्समाहितो भूत्वा त्यागोपादानविकल्पशून्यत्वाद् विश्रान्तसमस्तव्यापारः सुनिष्प्रकम्पोऽयमात्माऽवतिष्ठते तदाऽयमेव स्वस्वभावनियतचरितत्वान्निश्चयेन मोक्षमार्ग इत्युच्यते। अयं परमार्थः-अमून्येव सम्यग्दर्शनादीनि कियन्मात्रयाऽपि परसमयप्रवृत्त्या संवलितानि सप्ताचिःसंवलितानि सी(पी)षीव विरुद्धकार्यकर्तृत्वाद् बन्धकारणान्यपि भवन्ति । यदा तु समस्तपरसमयनिवृत्तिरूपया स्वसमयप्रवृत्त्या सङ्गच्छन्ते तदा सप्ताचिःसंवलनोपराञ्चि सीषीव विरुद्धकार्यकर्तृत्वाभावात् साक्षादपवर्गबीजान्येव । ततः स्वसमयप्रवृत्तिलक्षणान्निरस्तसमस्तोपाधेः शुद्धात्मोपासनादेव मोक्षः। एतदेव मनसि निधायोक्तम्- न चान्यो यतः पर इति । एतेन के वलव्यवहारावलम्बिना परसमय[प्रवृत्तानां स्व-] समयप्रवृत्तिस्पर्शशून्यानां १ सप्ताचिः अग्निः । २ सीषि घृतानि । ३ ०संवलनापराश्चि संवलनअपरमुखानि संवलनपराङ्मुखानि । ४. कोष्ठान्तर्गतः पाठः रा प्रतौ नास्ति । Page #38 -------------------------------------------------------------------------- ________________ ३७ द्वात्रिंशिका] अध्यात्मबिन्दुः चिरेणाभ्यस्तदुष्करतपोभिरपि न निर्वाणप्राप्तिरित्यावेदितम् । तथा आनन्द-बोधौ इति, आनन्दोऽनाकुलत्वलक्षणं सौख्यम्, बोधश्च ज्ञानम्, तौ अपि यत् परब्रह्म विहाय अपरस्मिन् तदतिरिक्त पदे स्थाने न एव भातः । तथाहि- घातिकर्माण्येव हि उन्मत्तकवद् अतस्मिंस्तबुद्धिमाधाय परिच्छेद्यमर्थं प्रत्यात्मानं परिणमयन्ति सन्तैि प्रत्यर्थं प्रोताप्रोतसद्भावात् खेदनिदानतां प्रपद्यन्ते, तदभावाच्च शुद्धात्मनः कुतः खेदस्यात्मलाभः स्वभावप्रतीघाताभावात् । आत्मानो हि दृशि-ज्ञप्ती स्वभावः, तयोश्च प्रतिबन्धकक्षयाविर्भूतनिरर्गलप्रचारत्वादखिलं लोकालोकं कवलीकृत्ये व्यवस्थितत्वादस्त्यनाकुलत्वम्, तदेव पारमार्थिकं सौख्यमिति । बोधश्चानन्दनिरूपणेनैव लब्ध इति न तदर्थं पुनर्यत्नः ॥३०॥ अथ शुद्धनयव्यवस्थापितं जीवस्वरूपं प्रपञ्चयन्नाहयत् पञ्चेन्द्रियवर्जितं प्रविगलत्कर्माष्टकं प्रस्खलत् - स्वान्तं विग्रहपञ्चकेन वियुतं स्पृष्टं न च प्रत्ययैः । शान्तं शाश्वतमक्रियं निरुपधि द्रव्यान्तरासङ्गतं . विष्वक् प्रोल्लसदर्चिषा परिगतं तत्त्वं तदेवास्म्यहम् ॥३१॥ व्याख्या - यत् महः पञ्चेन्द्रियवर्जितम् । इन्द्रियाणि किल द्रव्य-भावभेदाद् द्विधा । तत्र द्रव्येन्द्रियाणि स्पर्शन-रसन-घ्राण-चक्षुः-श्रोत्राणि पञ्च पौद्गलिकानि शरीरपरिणामापन्नानि निरवधिबन्धपर्यायवशतः आत्मना सहानादिसंसर्गवन्ति अनात्माज्ञानानामात्मवदवभासमानानि, तैः वर्जितम्-इन्द्रियाणि यस्य न सन्तीत्यर्थः । व्यतिरिक्तास्तित्वयोगित्वाद् इतद्रव्यतादात्म्यस्य सर्वथा निषिद्धत्वान्निश्चयतः परद्रव्यसंस्पर्शशून्यत्वान्निर्माणनामोदयवन्ध्यत्वाच्चेति शुद्धद्रव्यनिरूपणाया इह प्रक्रान्तत्वात् । यानि तु प्रतिविशिष्टस्वस्वविषयव्यवसायितया खण्डशः आकर्षणलक्षणानि लब्ध्युपयोगलक्षणभावेन्द्रियाणि तान्यपि क्षायोपशमिकत्वान्नात्मस्वरूपभूतानि, ततस्तैरपि वर्जितम्, अखण्डचिच्छक्तिशालितया भगवदात्मनः क्षायोपशमिकभावानवकाशात् क्षायोपशमिकस्य कर्मजपरिणामाच्च । तथा प्रविगलत्कर्माष्टकम् इति ज्ञानावरणादीनि स्वसमयप्रसिद्धानि तैरपि शून्यं यत् तत्त्वं निश्चयतः स्वरूपपर्यालोचनायामबद्धस्पृष्टत्वात् पुष्करपलाशवनिर्लेपत्वादितरद्रव्यस्य स्वरूपे प्रवेशाभावाच्च, यानि तु भावकर्माणि द्रव्यकर्मारोपितविकाररूपाणि तैरप्यपोढं निश्चयतो निर्विकारत्वात् । तथा प्रस्खलत्स्वान्तम् इति, स्वान्तं मनः । तच्च द्रव्य-भावभेदाद् द्विधा । तत्र द्रव्यमनः पुद्गलघटितं मनः पर्याप्त्याख्यनामकर्मोदयजन्यम्, भावमनस्तु सङ्कल्पात्मकम्। तदुभयशून्यं द्रव्यम्, मनोव्यतिरेकस्तु भिन्नसत्ताकत्वादेव सिद्धः, निश्चयतः परारोपितविकाराणामात्मन्यसत्त्वाद् भावमनसोऽप्यसत्त्वम्। १ परिणमयन्ति तथा सन्ति एते द्वे अपि वर्तमानकृदन्तरूपाणि प्रथमाबहुवचनं 'धातिकर्माणि' इत्यस्य विशेषणरूपाणि । २ कवलीकृत्य प्रत्यक्षीकृत्य इति भावः । Page #39 -------------------------------------------------------------------------- ________________ ३८ हर्षवर्धनोपाध्यायनिबद्धः [प्रथमा तथा विग्रहपञ्चकेन औदारिकादिवपुःपञ्चतयेन वियुतम् अनेकपरमाणुद्रव्यसङ्घातरूपत्वाद् वपुषां भिन्नास्तित्वयोगित्वं सकलप्रामाणिकजनप्रसिद्धमेव । तथा प्रत्ययैः मिथ्यात्वादिभिरपि न स्पृष्टं मिथ्यात्वादीनां पौद्गलिकत्वेन भिन्नद्रव्यत्वात्, चैतन्यविकाररूपाणामपि निश्चयतः शुद्धात्मन्यसम्भवात् । अयमर्थः - एते हि इन्द्रियादयः परे भावाः, न चैतेषां यस्य कर्तृत्वं प्रयोक्तृत्वं वा, न चैतैः समं यस्य सम्बन्धः, न चैतेषां स्वामित्वं, यद्धि परद्रव्यसंस्पर्शशून्यं स्वास्तित्वमात्रनियतं निष्कम्पोपयोगरूपमात्मानं बिभ्रत् केवलं ज्ञायकमेव एतदेवाह - शान्तं निरुपद्रवम्, कर्मोत्थविकाराणामभूतार्थत्वात्, शाश्वतम् इति अकार्याकारणत्वात्, तत्त्वं च कुतश्चिदनुत्पन्नत्वात् कस्याप्यनुत्पादकत्वाच्चेति, यद्धि कुतश्चिदुत्पद्यते यच्च किञ्चिदुत्पादयति तद्ध्याद्यन्तवद् दृष्टम् । तथा अक्रियम् इति; क्रिया हि प्रदेशान्तरप्राप्तिहेतुः परिस्पन्दरूपा, सा चोपाधेरुद्भवन्ती तदभावाच्छुद्धात्मनि स्वाभावं गमयति, ततश्च प्रदेशसंवर्तविस्ताराभावान्निष्कम्पप्रदेशपिशुनितपरमसौस्थितमित्यर्थः । तथा निरुपधि उपधीयत इत्युपधिः उपरञ्जककर्मपुद्गलसंश्लेषः ततो निर्गतम् कर्मरहितमित्यर्थः । अथवा प्रकृतिलक्षणं यैरुपधानं स्वीक्रियते तन्मतव्युदासार्थम् इदं विशेषणम् । अत एव प्रविगलत्कर्माष्टकमित्यनेन पौनरुक्त्यम् । तथा द्रव्यान्तरासङ्गतम् इति, द्रव्यान्तराणि स्वतोऽतिरिक्तानि मूर्तामूर्तानि तैरसङ्गतम् लोकवर्त्यपि परद्रव्यैरात्मानमसंपर्चयत् परद्रव्यासंवलितमात्मानं धारयदित्यर्थः । तथा विष्वक्सर्वतः, प्रोल्लसद् विकाशि यद्, अच्चि: केवलज्ञानाख्यं तेजस्तेन परिगतं व्याप्तं निष्प्रतिघविजृम्भितसहजचिच्छक्तिभरनिर्भरमित्यर्थः । तदेव स्वानुभवप्रत्यक्षम् अहम् तत्त्वमस्मि। निरस्तसकलोपाधि स्वसत्तामात्रद्योतितपरभावविवेकं द्रव्यान्तरसंपर्कशून्यं चिच्छक्तिव्याप्तसर्वस्वं परमं तत्त्वमहमस्मीति भावः ॥३१॥ द्वात्रिंशिकार्थमुपसंहरनाहइत्येवं संप्रधार्य द्रुततरमखिलं भेदसंविद्बलेन जीवाजीवप्रपञ्चं विदलति किल यो मोहराजानुवृत्तिम् । ज्ञानानन्दस्वरूपे भगवति भजति स्वात्मनि स्थैर्यमाशु प्रक्षिप्याज्ञानभावं स भवति नचिराच्छुद्धबुद्धस्वरूपः ॥३२॥ इति अध्यात्मबिन्दौ सदुपाध्यायश्रीमद्धर्षवर्धनविरचिता निश्चयव्यवहारप्ररूपणप्रवणा प्रथमद्वात्रिंशिका समाप्ता ॥ १ उपाधेः अभावात् । २ स्वाभावम् क्रियायाः अभावम् । Page #40 -------------------------------------------------------------------------- ________________ द्वात्रिंशिका ] अध्यात्मबिन्दुः व्याख्या - इत्येवं पूर्वोक्तप्रकारेण । भेदसंविद्बलेन आत्मेतरपदार्थानामात्माऽनात्मविवेकज्ञानसामर्थ्येन । अखिलं [ जीवाजीवप्रपञ्चं धर्माधर्मादिद्रव्यकदम्बकं स्वपरपरिणामसमुपात्तद्वैततयोपात्तद्रव्यभाववैश्वरूप्यं जीवाजीव- पुण्यपापादिरूपं वा ] जीवाजीवपदेन नवानामपि तत्त्वानां ग्रहणं जीवाजीवपरिणामरूपत्वात् तेषाम् द्रुततरं संप्रधार्य स्वभाव-परभावत निश्चित्य यः किल मोहराजानुवृत्तिं विदलति आसंसारात् समस्तपरद्रव्येष्वात्मात्मीयबुद्ध्या प्रसह्यात्मानं खेदयतः स्वरसमात्मनि सङ्क्रमय्य भावकत्वेन भवतो मोहस्यानुवृत्तिं तदानुकूल्येन प्रवृत्तिं विदलति निरुणद्धि । तथा ज्ञानानन्दस्वरूपे भगवति आत्मनि आशु स्थैर्यं भजति कर्मतत्फलसंन्यासपूर्वकं क्रियान्तरविहारनिरोधेन स्वस्मिन्नेव स्थेमानमास्तिघ्नुते स पुमान्, अज्ञानभावं प्रक्षिप्य नचिरात् अल्पीयसाऽनेहसा शुद्धबुद्धस्वरूपो भवति । तत्र शुद्धत्वमवगुण्ठितात्मप्रदेशानां कर्मरजसां समूलोत्सारणात्, बुद्धत्वं तु स्वरूपप्रत्यक्षीकरणात् । अयं भावः- पुरुषार्थः किलास्यात्मनो जीवाजीवावगमपूर्वकं मोहानुवृत्तिनिर्दलनम्, तस्मिन् सत्येव जीवाजीवावबोधस्य साफल्यात् । मोहनिर्दलनं च स्वात्मस्थैर्यमन्तरेण नोपपद्यते । तद्धि आसूत्रयमाणानां द्रव्याणां द्रव्यान्तरप्रतिबन्धाभावादेव मनसोऽनन्यविषयतयाऽयत्नसिद्धं मोहक्षपणं स्यात् । स्वरूपग्रहणमुपलक्षणं पररूपस्यापि, आत्मावबोधस्य सर्वावबोघनन्तरीयकत्वात् । तथाहिआत्मा हि ज्ञानमयः गुणगुणिनोरभिन्न-सत्ताकत्वात्, ज्ञानं तु प्रतिभासमयमहासामान्यमयं तस्य च निर्विशेषसामान्याभावात् प्रतिभासमया-नन्तविशेषमयत्वम् । तदुक्तम् - ३९ निर्विशेषं हि सामान्यं भवेत् खरविषाणवत् । सामान्यरहितत्वेन विशेषास्तद्वदेव हि ॥" [ श्लो. वा. आकृति. १०] इति । ते च विशेषाः सर्वद्रव्यपर्यायनिबन्धनाः । तदयमर्थः - प्रतिभासमानानन्तविशेषव्यापिप्रतिभासमयमहासामान्यरूपमात्मानं स्वानुभवप्रत्यक्षीकुर्वदेव हि ज्ञानं प्रतिभासमानानन्तविशेषहेतुभूतसर्वद्रव्यपर्यायान् प्रत्यक्षीकुर्यात् । तथा च 'आत्मज्ञानात् सर्वज्ञानं सर्वज्ञानादात्मज्ञानम्' इत्यवतिष्ठते । यद्येवं न स्यात् तदा ज्ञानस्य परिपूर्णात्मसञ्चेतनाभावात् परिपूर्णस्यैकस्यात्मनोऽपि ज्ञानं न सिद्धयेदिति ॥३२॥ इति श्रीस्वोपज्ञाध्यात्मबिन्दुविवरणे सदुपाध्याय श्रीमद्धर्षवर्धनविरचिते प्रथमा द्वात्रिंशिका समाप्ता ॥ ऐं नमः ॥ मङ्गलम् ॥ संवत १९४०ना आश्विनमासे शुक्लपक्षे प्रतिपदातिथौ शनिवासरे लिखितं लैया ब्रा • पुष्करणाज्ञाती लुद्र पदवी कला गुमानीरांमना पुत्र शिवदान पालीका गांव कपडवंजमध्ये लिखावितं भट्टार्क श्री श्रीगुणरत्नसु (सू) रिजीमहाराजनी तरफथी पठनार्तं (थ) बाई अमरत्त || श्री || १ कोष्ठान्तर्गतः पाठः ला प्रतौ नास्ति । २ रा प्रतिगता पुष्पिका । Page #41 -------------------------------------------------------------------------- ________________ ४० हर्षवर्धनोपाध्यायनिबद्धः [प्रथमा विद्वद्वरेण्य-महोपाध्याय-श्रीहर्षवर्दनगणिमणिविरचितः, तपागच्छीयाचार्य विजयमित्रानन्दसूरिसंदृब्धया द्वितीयादिद्वात्रिंशिकात्रयस्य पद्मप्रभावृत्त्योपशोभितः अध्यात्मबिन्दुः Page #42 -------------------------------------------------------------------------- ________________ द्वात्रिंशिका] अध्यात्मबिन्दुः ॥२॥ द्वितीया द्वात्रिंशिका मंगलाचरणम् - श्रीमच्छंखेश्वरं पाश्र्वं, शंखेश्वरपुराधिपम्। कलौ कल्पतरूं मन्ये, सिद्धिदं स्तौमि भावतः ॥१॥ श्रीमज्जिनेन्द्रशासन - सम्राजं शीलनिर्मलम् । विजय प्रेमसूरीशं, वन्दे संसारतारकम् महाप्रभावकं वन्दे, शासनस्य धुरन्धरम् । तपोगच्छाधिपं भक्त्या, रामचन्द्रं सूरीश्वरम् ॥३॥ महातपस्विनं वन्दे, शास्त्रसागरपारगम् । भुवनभानुसूरीशं, प्रेमपट्टप्रभावकम् ॥४॥ सच्छिष्यं पद्मनामानं, मद्गुरुं गुणशालिनम् । पंन्यासप्रवरं पूज्यं, वन्दे वात्सल्यसागरम् ॥५॥ नत्वा च भारती कुर्वे, बालानां बोधदायिनीम् । .. अध्यात्मबिन्दुग्रन्थस्य, टीकां पद्मप्रभाभिधाम् ॥६॥ पाठकप्रवरैर्हर्ष - वर्धनैर्ग्रथिता वरा । द्वात्रिंशिकाचतुष्टयी, तत्त्वनिस्यन्दस्यन्दिनी ॥७॥ स्वोपज्ञवृत्तिसंयुक्तां, प्रथमां तां विहाय च । द्वात्रिंशिकात्रयस्यैव, पञ्जिकां विवृणोम्यहम् ॥८॥ Page #43 -------------------------------------------------------------------------- ________________ ४२ अध्यात्मबिन्दुः [द्वितीया अथ कर्तृकर्मप्रकाशनप्रवणामिमां द्वितीयां द्वात्रिंशिकां विरचयन् ग्रन्थकार आह - मूर्छा विषान्मणेर्दाहा - भावो भ्रामकतो भ्रमः । चुम्बकात्कर्षणं चेति, नाना पुद्गलशक्तयः ॥१॥ पद्मप्रभा ० 'मूर्छ' त्यादि, मूर्च्छति मूर्छा-मूर्च्छनं चैतन्यस्य तिरोभावः, भवतीति गम्यते । कस्मादित्याह-विषात्-हालाहलात् तथा 'मणेर्दाहाभावो' इति मणेश्चन्द्रकान्तमणेस्सन्निधानाद्दाहाभावो दाहस्य-ज्वलनस्याभावः, वह्निस्पर्शेन त्ववश्यं दाहो भवति परं वह्निपार्श्वे स्थापितश्चन्द्रकान्तमणिवढेर्दाहकशक्तिमवरुणद्धि, दाहशक्तियुक्तस्यापि वढेर्दाहशक्त्यवरोधनं करोति, तदिदं मणेरद्भुतं सामर्थ्यम् । तथा 'भ्रामकतो भ्रमः' इति चक्रदोलारूपाद् भ्रमणशीलाद्यन्त्राद् भ्रम:- बुद्धिविपर्यासः । किं स्वरूपो विपर्यास इति चेदुच्यतेऽस्थिरस्य स्थिरतया स्थिरस्यास्थिरतया दर्शनरूप इति । तथा'चुम्बकाकर्षणं चेति' चुम्बकादयस्कान्तात्कर्षणमाकर्षणं निकटनयनंलोहशकलस्येति गम्यते। चः समुच्चय इतीति निदर्शन एभिनिदर्शनैरित्यर्थः । 'नाना' इति नाना-विविधा विचित्रा वा 'पुद्गलशक्तयः' इति पुद्गलानां रूपिद्रव्याणां शक्तयः सामर्थ्यविशेषाः सन्तीति शेषः । अयं भावः - विष-मणि - भ्रामक - चुम्बकादि-विश्ववर्तिपुद्गलद्रव्याणां विविधा विचित्रा विलक्षणा इति यावत् शक्तयः सन्ति ॥१॥ सामान्यतः पुद्गलानां नानाविधां शक्तिं दर्शयित्वा कर्मपुद्गलानां शक्तिविशेषं दर्शयन्नाह - ज्ञानावृत्त्यादयोऽप्येते, पुद्गला दृढशक्तयः । जीवशक्तिं बलाद् भङ्क्त्वा, कुर्वन्त्याशु विकारिणीम् ॥२॥ ____ पद्मप्रभा ० 'ज्ञाने' त्यादि 'ज्ञानावृत्त्यादयोऽप्येत' इति, ज्ञानगुणावारका आदिशब्देनानन्तदर्शनानन्तसुख-चारित्राक्षयस्थित्यरूप्यवस्था-गुरुलघ्ववगाहनानन्तवीर्यादिगुणावारकाः सङ्ग्रहीताः, 'अपिः' समुच्चयार्थे, 'एत' इति अतिसंनिकृष्टाः समीपवर्तिन आत्मना सह लोहाग्निवन्निबद्धाः 'पुद्गला' इति कर्मपुद्गलाः कर्माणवस्ते च कीदृशास्सन्तीत्याह 'दृढशक्तयः' प्रकृष्टसामर्थ्यवन्तो जीवेन मिथ्यात्वादिहेतुभिर्गृहीत्वा शक्तिमन्तः कृता इति । यथा औदारिकादिपुद्गलेषु नानावर्णगन्धरसस्पर्शादिरूपवत्त्वं स्वाभाविकं वर्तमानमस्ति तथैव वर्णादिस्वाभाविकगुणवत्सु कर्मपुद्गलेषु जीवन सामान्येन Page #44 -------------------------------------------------------------------------- ________________ ४३ द्वात्रिंशिका] अध्यात्मबिन्दुः गृहीतेषु सत्सु अध्यवसायविशेषात् त एव ज्ञानादिगुणावारकप्रबलशक्तिमन्तो भवन्ति । एतादृशास्ते कर्मपुद्गलाः किं कुर्वन्तीत्याह -'जीवशक्ति मिति जीवस्य-आत्मनोऽनन्तकेवलज्ञानादिशक्तिं बलादिति'हठात् 'भक्त्वे ति आच्छाद्य 'कुर्वन्ती'ति सुगम आशु' झटिति विकारिणी' विकृतरूपामिति । अयमर्थः - चतुर्दशरज्ज्वात्मकेऽस्मॅिल्लोकेऽनेकविधाः पुद्गलाः सन्ति तेष्वेकप्रकार: कर्मयोग्यपुद्गलानामस्ति । मिथ्यात्वादिहेतुभिर्जीवेन गृहीतास्ते कर्मपुद्गला दृढशक्तियुक्ता भवन्ति, अध्यवसायविशेषैर्गृहीतेषु तेषु प्रकृतिबन्धादिरूपं दायं प्रादुर्भवति इत्थं दृढीभूताश्च ते विमलकेवलज्ञानादिकां जीवशक्तिं सामर्थ्य स्वरूपमिति यावत् विकारवती विरूपां कुर्वन्तीत्यर्थः ॥२॥ अथ पौद्गलिके कर्मणि कथं विकारकारितेति सन्देहं निराकुर्वन्नाह - मद्यान्मौढ्यं धियस्तैक्ष्ण्यं, दृष्टं ब्राह्मीं हविष्यतः । कर्मापि पौद्गलं तद्वत्, कथं न स्याद्विकारकृत् ॥३॥ ___ पद्मप्रभा - 'मद्यादि'त्यादि, 'मद्यान्मौढ्य' मिति, मद्यात्-मदिरायाः सेवनतः, मौढ्यं - मूढता मुग्धभावः, कस्याः ? इत्याह – “धियः' मेधायास्तथा च 'तैक्ष्ण्यं' तीक्ष्णता धिय एवेति बोध्यं, 'दृष्टं' - अनुभूतं कस्येत्याह - 'ब्राह्मी हविष्यतः' ब्राह्मीति स्वनामख्यातौषधिविशेषस्तां हविष्यतो हविरिच्छतीति हविष्यति तस्य वर्तमानकृदन्तं हविष्यन् तस्य ब्राह्मी हवीरूपेणेच्छत इत्यर्थः, ब्राह्मीं भक्षयत इति यावत् । 'कर्मापी ति कर्मआत्मना सह लोहाग्निवत् बद्धं कार्मणशरीरं तत् 'अपिः' समुच्चयार्थे 'पौद्गलं' पुद्गलात्मकम् । पौद्गलमिति कर्मणः स्वरूपदर्शकं विशेषणं 'तद्वदिति मद्यादिवत् 'कथमिति प्रश्ने नस्यात्' न भवेत् विकारकृत्' विकारकारीत्यर्थः, अपि तु विकारकारि भवेदेवेति काकुः । इदमत्र हृदयम्-यथा पुद्गलरूपाया मदिराया पानतो बुद्धेर्मूढभावो ब्राया भक्षणतो बुद्धेस्तीक्ष्णता-प्रकर्षरूपता दृष्टचरा तद्वत् कर्मापि पौद्गलिकं तच्च विकारं जनयत्येवेति ॥३॥ अथ वेदान्तदर्शनसम्मतामविद्यां निराकुर्वन्नाह - अविद्या हि विकारित्वं, जनयेदात्मनः सती। नासती गगनाब्जस्येवासतोऽर्थक्रियाच्युतेः ॥४॥ Page #45 -------------------------------------------------------------------------- ________________ अध्यात्मबिन्दुः [ द्वितीया पद्मप्रभा ० 'अविद्ये 'ति, अविद्या मायारूपा 'हि' शब्दोऽप्यर्थे तेन वेदान्तसम्मताऽप्य-विद्येत्यर्थः । 'विकारित्वं' विकारभावं विकृतत्वं' जनयेत्' उत्पादयेत्। कस्य विकारित्वमुत्पादयेदित्याह - 'आत्मनो' जीवस्य । सा ह्यविद्या कीदृशी विकारभावं जनयेदित्याह-‘सती' सा हि अविद्या यदि सत्स्वरूपा स्यात् तर्हि विकारभावं जनयेत् । विपक्षे बाधकमाह' नासती' न असती असत्स्वरूपा विद्या जीवस्य विकारभावं जनयेदिति। अत्र दृष्टान्तं दर्शयितुमाह ‘गगनाब्जस्येव' गगनारविन्दस्येवाऽकस्मात् कारणादित्याह 'असतोऽर्थक्रियाच्युतेः' असत्पदार्थस्यार्थक्रियाकारित्वाभावात् । अयमर्थःयथाऽसत्स्वरूपे गगनारविन्देऽर्थक्रियाकारित्वं स्वप्नायमानमेव तथा वेदान्तिनां मताऽविद्या यदि सत्स्वरूपा भवेत्तर्हि तस्यामात्मनः विकारकारित्वं सङ्गच्छेत् परं तैस्तु सा न तथाऽङ्गीकृता परमसत्स्वरूपा खपुष्पप्राया अभ्युपगता । एवं सति तस्यां जीवविकारकारित्व रूपमर्थक्रियाकारित्वं कथं प्रतीतिपथावतारि स्यात् ? यद्यसतोऽप्यर्थक्रियाकारित्वं स्यात् खपुष्पस्यापि तत् स्यात् । तथा चात्र प्रयोगः - अविद्या न विकारकृत् असत्त्वात्, यो ह्यसत् तस्य नार्थक्रियाकारित्वं गगनाब्जवदिति, विकारान्यथानुपपत्त्याविद्यायाः सत्त्वमिष्यते तर्हि कर्मण एव विकारोऽस्तु, अविद्या च कर्मण एव नामान्तरं तस्मादलं गौरवग्रस्तेनाविद्याविकल्पेनेति ध्वनिः ॥४॥ ४४ अविद्यायाः सत्त्वाभ्युपगमे किमित्याह - सत्त्वे द्वैतं ततः कर्म, पौद्गलं तद्विकारकृत् । अनुग्रहोपघातौ यत्, पुद्गलेभ्य इति श्रुतेः ॥५॥ पद्मप्रभा ० 'सत्त्वे' इति, सद्रूपत्वे प्रस्तावादविद्याया इति गम्यते, उपर्युक्तरीत्या विकारान्यथानुपपत्त्या अविद्यायाः सत्त्वस्वीकार इत्यर्थः । अत्रोपपत्तिमाह' द्वैत 'मिति, द्वैतं सिद्धम् । अयं भावः-अविद्या हि वेदान्तिभिरनादिः स्वीक्रियतेऽत्र प्रष्टव्यं किमिदमनादित्वं ? यदि ब्रह्मवदेवादिरहितत्वं तर्हि ब्रह्मभिन्नायाः सदात्मिकाया अविद्यायाः सिद्धिरिति द्वैतं सिद्धमथ प्रवाहतोऽनादित्वं तर्हि प्रवाहे कारणाभावादविद्याया असिद्धिः, ब्रह्मण एव कारणत्वं चेत् शुद्धस्याशुद्धकारणत्वायोगात् वेदान्तिनां कार्यकारणयोरभेदात् ब्रह्मणोऽशुद्धत्वापत्ति श्चेति । 'ततो' द्वैतस्वीकारतः कर्मण एव स्वीकारो जातः । इयाँस्तु विशेषः - अस्माकं कर्म पौद्गलं तदेव च विकारकृत् - विकारकारि, अमूर्तस्यातिरिक्तस्याविद्यापदार्थान्तरस्य Page #46 -------------------------------------------------------------------------- ________________ द्वात्रिंशिका ] अध्यात्मबिन्दुः ४५ स्वीकारे गौरवात् पुद्गलानां पूर्वोक्तरीत्या विकारकारित्वस्य सिद्धत्वाच्च । तदेत त्सर्वमभिप्रेत्याह-कर्म पौद्गलं तच्च विकारकृदिति । अत्रैव श्रुतिं प्रमाणयन्नाह 'अनुग्रहोपघाता 'वित्यादि 'यद् 'यस्मात्कारणात् 'पुद्गलेभ्यः' पुद्गलानां सकाशात् जीवस्यानुग्रहोपघातौ भवतः, पुद्गला एव शरीरादिरूपेण परिणता जीवानामुपकारका भवन्ति तथा विषादिरूपतया परिणताः पुद्गला एव प्राणोपघातकत्वेनापकारका अपि भवन्ति, तथा चोक्तं तत्त्वार्थसूत्रे - शरीरवाड्मनः प्राणापानाः पुद्गलानाम् (अ. ५-१९) सुखदुःखजीवितमरणोपग्रहाश्च (अ. ५ - २० ) इति सूत्रद्वयेन पुद्गलानामनुग्रहोपघातौ सुतरां सिद्धौ भवतः । अयं भावः - सद्रूपाया अविद्याया: स्वीकारे द्वैतं स्वीकृतं भवति, द्वैतस्वीकारे च कर्मण एव स्वीकारो जातः, तच्च कर्म पौद्गलं तच्च विकारकृत् पुद्गलेभ्यो जीवस्यानुग्रहोपघातौ भवत इत्यनुभवसिद्धं तस्मात् कर्मण एव स्वीकारो युक्तियुक्तो वेदान्तिनामसत्याया अविद्यायाः विकारकारित्वं न युक्तिसहमित्यर्थः ॥५॥ कर्मजीवयोः संश्लेषेऽनन्तत्वं निरस्यन्नाह - अनादित्वादनन्तः स्यात्, संश्लेषः कर्मजीवयोः । खात्मयोगवदित्येवं, प्रवितर्क्यं न तार्किकैः ॥६॥ अनादित्वेऽपि भावस्य, ध्वंसः स्याद्धेतुसन्निधेः । सुवर्णमलवत् भव्य-संसारपरिणामवत् ॥७॥ पद्मप्रभा० 'अनादित्वादिति, आदिरहितत्वात् (व्यक्तिरूपेण कर्मसंयोगस्यादिमत्त्वेऽपि प्रवाहरूपेणानादिमत्त्वमिति जैनमतम् ) 'अनन्तः' अन्तरहितः 'स्यात् ' भवेत् । कः ? इत्याह – 'संश्लेषः ' सम्यग्श्लेषः संश्लेषः संयोगो बन्ध इति यावत् । कयोः ? इत्याह - ‘कर्मजीवयो: ' कर्मणो जीवस्य च परस्परमित्यर्थः । किंवदित्याह - ‘खात्मयोगवत्' खमिति आकाशः, तस्यात्मना सह योगः संयोगः, सो यथाऽनादिः सन् अनन्तस्तथा । अयं भावः - यथात्मना सहाकाशस्य संयोगोऽनादिः सन् अनन्तस्तथा कर्मजीवयोरपि स तथा । अत एव कर्मजीवयोः सम्बन्धो नानादिरिति तार्किकाणां मतमनादित्वेऽनन्तत्वापत्त्या मोक्षासिद्धेस्तेषां मतमनादेः सतो भावस्यानन्तत्वनियमात् । 'इत्येवं' इत्येवं प्रकारं 'प्रवितर्क्यं' प्रकर्षेण विपरीतं तर्कणीयं 'न' इति निषेधे तर्को न कर्तव्य इत्यर्थः-कैः ? इत्याह- 'तार्किकैः ' तर्कणशीलैर्विद्वद्भिः । इदमत्राकूतम् - Page #47 -------------------------------------------------------------------------- ________________ ४६ अध्यात्मबिन्दुः [द्वितीया कर्मजीवयोः सम्बन्धो यद्यनादिरिति कथ्यते जैनैस्तर्हि स सम्बन्धोऽनन्तोऽपि स्यात्, अनादिभावस्यानन्तत्वनियमात्, अत्र दृष्टान्तमाह-खात्म-योगवद् यथाकाशात्मनोः संयोगोऽनादित्वादनन्तस्तद्वत् कर्मजीवयोः संयोगोऽपीति तर्ककर्कशशेमुषीभिर्न ऊहनीयमिति॥६॥ अत्रोत्तरं-अनादिर्भावोऽनन्त इति न नियमः, अनादित्वेऽपि' आदिरहितत्वेऽपि भावस्य' पदार्थस्य 'ध्वंसः' नाशः 'स्यात्' भवेत् 'हेतुसन्निधेः' निमित्तानां संनिधानात् ध्वंसस्य कारणानां लाभादित्यर्थः । अत्र दृष्टान्तः - 'सुवर्णमलवदिति यथा खनौ सुवर्णमनादित एव मलसम्पृक्तं भवति पश्चादग्नितापेन कचवरं प्रज्वाल्य विशुद्धं क्रियते तद्वद् । अयमाशयः- नहि अनादिभावोऽनन्त एवेति नियमः स्वीकारयोग्य एकान्तेन योग्यः सुवर्णमलसंयोगस्यानादित्वेऽपि वयादिहेतुसमवधाने संयोगनाशदर्शनात, किञ्च-अत्रैव दाढाय दृष्टान्तान्तरमाह-'भव्यसंसारपरिणामवत्' भव्यस्य मुक्तिगमनयोग्यस्य जीवस्य संसारपरिणामवत् - संसारात्मकजन्मादिपरिणामवत् रागादिपरिणामवद्वा, यथा भव्यात्मनो जन्मादिरागादिरूपसंसारपरिणामोऽनादिमान् तथापि सम्यग्दर्शनादिहेतुभिस्तस्य नाशोऽपि सञ्जायते तद्वत् कर्मजीवयोरनादिसंश्लेषस्यापि ध्वंसः सुतरां घटते तन्नैतद् विषये तार्किकाणां कुतर्ककरणावकाशः । अत एवानादिभावस्यानन्तत्वमिति नियमो व्यभिचारदूषणाद्धेय इत्याशयः ॥७॥ अथ शुद्धनिश्चयनयेनात्मनः कर्तृत्वं दर्शयन्नाह - कर्ताऽयं स्वस्वभावस्य, परभावस्य न क्वचित् । कर्तात्मेति श्रुतिः साक्षात्, यत्स्वभावक्रियापरा ॥८॥ पद्मप्रभा० 'कर्ताऽय'मित्यादि, 'कर्ता'-क्रियायां स्वातन्त्र्येण अधिकृतोऽर्थः 'अयम्' आत्मा प्रत्यक्षतयानुभूयमानः 'स्वस्वभावस्य' स्वस्य-आत्मनः स्वभावस्यसम्यग्ज्ञानादिस्वरूपस्य 'परभावस्य' ज्ञानाद्यतिरिक्त-घटपटदेरिव कर्मबन्धादेरिति 'न' इति निषेधे, आत्मा स्वस्वभावस्य कर्ता न परभावस्येति भावः । ननु 'आत्मा कर्ते 'ति श्रुतिः सामान्यतयैवात्मनः कर्तृत्वं बोधयति, एवं च घटपटादिकर्तृत्वमप्यात्मनः समायातमेव तथा च व्यवहारः कुम्भारः कुम्भं करोतीति चेद् अत्रेदं बोध्यं - नयो द्विविधो निश्चयो व्यवहारश्च । तत्र निश्चयनयेनात्मा न परभावस्य कर्ता किन्तु स्वभावस्यैव, परभावकरणे तस्य सामर्थ्याभावात् । एवं चोक्ता श्रुतिनिश्चयनयापेक्षया ज्ञानादिस्वस्वभावकर्तृत्वाभिप्राये Page #48 -------------------------------------------------------------------------- ________________ द्वात्रिंशिका] अध्यात्मबिन्दुः ४७ णैवेति भावः, तदाह-'कर्तात्मेति श्रुतिः' आत्मा कर्तेति या श्रुतिः - आगमवाक्यं तत् 'साक्षादिति उपादानात्मना इत्यर्थः 'यत्' यतः 'स्वभावक्रियापरा' स्वस्य भावः परिणामः स एव ज्ञानादिरूपा क्रिया तत्कर्तृत्वाभिप्रायात्मिका इति ॥८॥ शुद्धनिश्चयनयेनात्मनः कर्तृत्वं निरूप्याथाशुद्धनिश्चयनयमतेन कर्तृत्वं साधयन्नाह अशुद्धनिश्चयेनाऽयं, कर्ता स्याद् भावकर्मणः । व्यवहाराद् द्रव्यकर्म - कर्तृत्वमपि चेष्यते ॥९॥ पद्मप्रभा० 'अशद्धनिश्चयेने' त्यादि-शुद्धनिश्चयाद्भिन्नो विपरीतोऽशुद्धनिश्चयनयस्तेनाशुद्धनिश्चयनयमतेनेत्यर्थः 'अयमि'ति आत्मा 'कर्ते 'ति जनक: ‘स्यात्' भवेत् कस्येत्याह -'भावकर्मणः' मिथ्यात्वादेः रागादेश्च तत्परिणतिरूपभावकर्मणः न पुनर्द्रव्यकर्मण इत्यर्थः। अत्रार्थे व्यवहारनयो यदिच्छति तद्दर्शयति 'व्यवहारादिति व्यवहारनयमपेक्ष्य' द्रव्यकर्मकर्तृत्वं' ग्रहणयोग्यकार्मणवर्गणात्मकं द्रव्यकर्म तस्य कर्तृत्वं बन्धसाधकत्वमिति अपिः' समुच्चयार्थे अपिचेत्यव्ययसमुदायेन ग्राम-नगर-घटादिकर्तृत्वं समुच्चीयते, न केवलं द्रव्यकर्मकर्तृत्वमिति 'इष्यते' मन्यत इति । इदमत्र हार्दम्आत्मनोऽनन्तज्ञानादिमयमितरनिरपेक्षं स्वाभाविकं शुद्धं स्वरूपमवलोकयन्ती दृष्टिः शुद्धनिश्चयनयः तद्विपरीता त्वशुद्धनिश्चयनयदृष्टिः आत्मनः कर्मबद्धमुपचरितमशुद्धं सांसारिकं स्वरूपमवलोकयति तत्राप्ययं नयो भावकर्मणः प्राधान्यं स्वीकृत्य संसारिजीवे रागादिभावपरिणामदर्शनात् तद्बन्धकत्वमुद्घोषयति। आत्मनोऽशुद्धस्वरूपावलोकनस्वभावत्वादस्य नयस्याशुद्धत्वम् । शुद्धस्वरूपादितरत् भावकर्मभिलिप्तमात्मस्वरूपमपेक्षतेऽयं नयः पूर्वपूर्वकालिकैः कर्मभिलिप्तस्वरूप आत्मैवापूर्वापूर्वभावकर्मणः कर्तृत्वमासादयतीति ध्वनिः ॥९॥ द्रव्यकर्मणो न कर्तृकर्मभावो व्याप्यव्यापकत्वाभावादिति अशुद्धनिश्चयनयमतं निरूपयन्नाह - व्याप्यव्यापकभावो हि, यदिष्टः कर्तृकर्मणोः । तदभावे द्रव्यकर्म-कर्तृत्वं घटते कथम् ॥१०॥ पद्मप्रभा० व्याप्येत्यादि 'व्याप्यव्यापकभावो' अविनाभावसम्बन्धः 'हि' स्फुटार्थे 'यदिति' यस्मात् 'इष्टः' मान्यः, कयोरित्याह-'कर्तृकर्मणोः' सुगम तदभावे' Page #49 -------------------------------------------------------------------------- ________________ ४८ अध्यात्मबिन्दुः ___ [द्वितीया व्याप्यव्यापक-भावाभावे 'द्रव्यकर्मकर्तृत्वं' द्रव्यकर्मणः कर्तृत्वं बन्धकत्वं 'कथमिति आक्षेपार्थे घटते' सङ्गतं भवति ? न भवत्येवेत्यर्थः, किञ्च कर्तृकर्मणो व्याप्यव्यापकभावो यदि न स्वीक्रियते तर्हि कर्तारं विना अन्योऽपि कश्चित् कर्मफलभोक्ता स्यात्, तस्मादेव येन का सह यस्य कर्मणो व्याप्यव्यापकभावो विद्यते स एव कर्ता, तस्य कर्मणःफलं लभते इति नियमः सिद्ध्यति, अत एव कर्तृकर्मणोाप्यव्यापकभाव इष्ट एव । परं द्रव्यकर्मकोंश्च व्याप्यव्यापकभावो नास्ति । ततश्च तादृशकर्मकर्तृत्वमप्यात्मनो न घटते तेनैव च भोक्तृत्वमपि न घटते इत्याकूतम् ॥१०॥ ननु जीवद्रव्यकर्मणोः कथं न व्याप्यव्यापकभाव इत्याशङ्कायामाह तदात्मनि भवेद् व्याप्त-व्याप्यता नातदात्मनि । तदभावे कथं कर्तृ-कर्मता जीवकर्मणोः ॥११॥ निमित्तनैमित्तिकते, कर्माऽत्मपरिणामयोः । तस्मादस्तु भ्रामकाश्मायसकृत्योरिव स्फुटम् ॥१२॥ पद्मप्रभा० जीवकर्मणोः व्याप्यव्यापकभावो न घटते कथमित्याह - 'तदात्मनीति' अभिन्ने वस्तुनि व्याप्यव्यापकभावो 'नातदात्मनि' न तु भिन्ने वस्तुनि स इति नियमः, एतन्नियमेन जीवभावकर्मणोश्च व्याप्यव्यापकभावो, जाघटीति भावकर्मणो जीवपरिणामत्वात् तयोरभिन्नत्वादिति । जीवभावकर्मणोळप्यव्यापकभावात् जीवे भावकर्मणः कर्तृत्वं तत्फलभोक्तृत्वमपि संघटते तदभावे नेत्याह - 'तदभावे' इति व्याप्यव्यापकभावस्याभावे सति 'द्रव्यकर्मकर्तृत्वं' द्रव्यकर्मणः कर्तृत्वं बन्धकत्वं 'कथं' केन प्रकारेण 'घटते' सिद्ध्यति ? न सिद्ध्यतीति भावः । इदमत्र बोध्यम् - द्रव्यकर्मात्मनो भेदसम्बन्धः किन्तु भेदसम्बन्धोऽत एव तयोर्न व्याप्यव्यापकभावो व्याप्यव्यापकभावाभावाच्च कथं जीवद्रव्यकर्मणोः कर्तृकर्मभावः? अर्थात् व्याप्यव्यापकभावस्यैव कर्तृकर्मभावनियामकत्वात् तदभावे जीवद्रव्यकर्मणोः कर्तृकर्मभावो न सिद्ध्यतीति ॥११॥ अत्रोत्तरमाह"निमित्तनैमित्तिकते' इत्यादिना निमित्तनैमित्तिकभावः कयोरित्याह कर्मात्मपरिणामयोः' कर्मणः द्रव्यकर्मण आत्मपरिणामस्य च तयोर्द्वयोरित्यर्थः । अत्र दृष्टान्तमाह'भ्रामकाश्मायसकृत्योरिवे'ति भ्रामकाश्मा-चक्रभ्रमिकारणम् - तादृशविलक्षणशक्तिरचनादिविशिष्टः पाषाणविशेषः यदुपरिस्थितमायसं (राधावेधसत्कं)चक्रं बम्भ्रमीति । Page #50 -------------------------------------------------------------------------- ________________ द्वात्रिंशिका] अध्यात्मबिन्दुः तादृशभ्रमणे च निमित्तं तादृशः पाषाणः येन चक्रं भ्रमात्मना परिणमते तथैव द्रव्यकर्मात्मपरिणामयोश्च निमित्तनैमित्तिकभावो वर्तते । तेन किमायातमित्याह तस्मात्' निमित्तनैमित्तिकतारूपात् कारणात् अस्तु' भवतु'स्फुटं' व्यक्तं जीवद्रव्यकर्मणोः कर्तृकर्मता तत्फलभोक्तृता च । अयं भाव:- यथा व्याप्यव्यापकभावेन जीवभावकर्मणोः कर्तृकर्मता तत्फलभोक्तृता च तथैव निमित्तनैमित्तिकभावेनाऽपि जीवद्रव्यकर्मणोः कर्तृकर्मता तत्फलभोक्तृता चाऽस्तु न तत्र काऽपि बाधा यथा घटदेः कर्तृता कुलालस्येति ॥१२॥ व्यवहारनयेनात्मनः कर्तृत्वं भोक्तृत्वं च संस्थाप्य निश्चयनयेन तं निराकुर्वन्नाह - अनादिनिधनं ज्योतिः, कर्तृत्वादिविकारभाक् । स्वस्वरूपात् परिच्युत्य, विशत्यन्धे तमस्यहो ! ॥१३॥ पद्मप्रभा० 'अनादी'त्यादि 'ज्योतिः' शुद्धस्वरूपः स्वप्रकाशात्मा 'अनादिनिधन' मिति आदिश्च निधनं चेति आदिनिधने, न आदिनिधने यस्येति अनादिनिधनं स्वरूपेण इदृक् ज्योतिः स्वरूपादधोऽवतीर्य कर्तृत्वादिविकारभाक्' स्वस्याकर्तृत्वेऽपि अहं कर्ता, अहं कर्तेति कर्तृत्वाभिमानधारकः, आदिशब्देन भोक्तृत्वादेः परिग्रहः, अर्थात् अस्वस्वभावभाक् सद् अन्धयतीति अन्धं तस्मिन् अन्धे-वस्तुयाथात्म्यबोधपरिपन्थिनि 'तमसि' तमस्तुल्येऽज्ञाने गाढाज्ञानान्धकारे इति मिलितोऽर्थः, तत्र विशति तद्वान् भवति तदेतदहो आश्चर्यमिति प्रकाशात्मनोऽन्धकारपरिणाम आश्चर्यजनक इति यावत् ॥१३॥ आत्मनि कर्तृत्वादिविकारः क्रियाभ्रमपुरस्सरस्तादृग्विकारजनकक्रियाभ्रमस्यापि किं कारणं तदर्शयन्नाह - शरीरेष्वात्मसम्भ्रान्तेः, स्वरूपाद् दृक्परिच्युता। भूताविष्टनरस्येव, तस्मादेव क्रियाभ्रमः ॥१४॥ पद्मप्रभा० 'शरीरेष्वे'त्यादि, 'शरीरेषु' - अनात्मसु 'आत्मसम्भ्रान्तेः' आत्मबुद्ध्यात्मक-भ्रमस्य कारणात् स्वरूपाद्' आत्मस्वरूपात्'दृग्' दृष्टिरात्मन्यात्मबुद्धिः 'परिच्युता' भ्रष्टा निर्गता नष्टेति यावत् । तस्मादेव' स्वरूपदर्शनविरहादेव 'क्रियाभ्रमः' अहं करोमीत्येवं भ्रमः कर्तृत्वाभिमानमिति । अत्र दृष्टान्तमाह-'भूताविष्टनरस्येवेति यथा भूतः प्रेतस्तेनाविष्टो-गृहितो नरो भूतात्मानमेव स्वात्मतया मन्यते भूतक्रियामेव च स्वक्रियां मन्यते तद्वदनात्मभूतेषु शरीरादिषु य आत्मबुद्धिरूपभ्रमस्तस्मात्स्वरूपदृष्टिनाशस्तस्माच्चाहं Page #51 -------------------------------------------------------------------------- ________________ ५० अध्यात्मबिन्दुः [द्वितीया कर्तेति क्रियाभ्रमः । क्रियाया भ्रमरूपत्वात् निश्चयनयदृष्ट्यात्मनः कर्तृत्वमपि भ्रान्तस्वरूपमेवेति तात्पर्यम् ॥१४॥ अथ आवारकत्वेनाऽऽत्मस्वभावलाभप्रतिबन्धकयोः पुण्यपापयो: कथाया वृथात्वं प्रकटीकुर्वन्नाह बहिष्पदार्थेष्वासक्तं, यथा ज्ञानं विवर्तते । तथैवान्तर्विवर्तेत, का कथा पुण्यपापयोः ॥१५॥ पद्मप्रभा० बहिष्पदार्थे 'वेति बाह्यभूतेषु पदार्थेष्वात्मातिरिक्तवस्तुषु आसक्तं'अनुरक्तं 'यथा'येन प्रकारेण 'ज्ञानं विवर्तते' प्रवृत्तिशीलं भवति, अर्थात् आभासिकं सुखं दुःखं चानुभवति तथैव' तेनैव प्रकारेण यदि अन्तर्विवर्तेत' अन्तर्मुखेन प्रवृत्तिशीलं भवेत्, बहिर्मुखेन वर्तमानं ज्ञानं यदि बहिर्मुखतां तिरस्कृत्य अन्तर्मुखेन प्रवृत्तिशीलं भूत्वा आत्मिकसुखानुभवप्रसक्तं स्यात्तर्हि 'पुण्यपापयोः' शुभाशुभकर्मणोः तत्फलानुभवस्य 'का कथा' का वार्ता ? वार्ताऽपि नास्ति । किं नामाऽस्तित्वम् ? अन्तरात्मभावेन ध्रुवः पुण्यपाप-प्रलयः । किं महत्त्वं? न किमपि इति । अयं भावः - बहिर्विषयेषु प्रवर्तमाना बुद्धिराभासिकसुखादिविषया भवति रागादिवशात् सैव बुद्धिश्चेदात्मनि प्रसक्ता स्यात्तर्हि रागादिनिरपेक्षतया सत् चित्सुखमनुभवेदिति । तत्र च कारणाभावात्पुण्यपापयोरनवसर इति आत्मनः स्वरूपसमवस्थानं लभ्यते ॥१५॥ आत्मभिन्ने देहे आत्मबुद्धेः किं कारणं ? आत्मन्येवात्मबुद्धेश्च किं कारणमिति सन्देहं निराकुर्वन्नाह - देहो नास्मीति संवित्तेरात्मतत्त्वं दृढीकृतम् । अज्ञानाहितसंस्कारात्तमेवात्मतयेक्षते ॥१६॥ पद्मप्रभा० देहो'इत्यादि, आत्मना एव आत्मा चिन्तयति, यदहं - आत्मा देहो' शरीरं नास्मि । अयमर्थः- अहं देहो नास्मि, अहं तु शरीरात्पृथगात्मसंज्ञकं वस्तुतत्त्वमस्मि । 'अहं' देहो नास्मि इत्याकारक संवित्तेः' संवेदनात् पुनः पुनः चिन्तनादनुभवात् आत्मतत्त्वं दृढीकृतं' अर्थात् आत्मनि आत्मबुद्धिः स्थिरा भवति । इत्यनेन श्लोकार्थेन विवेकालोकवतां देहाध्यासविप्रमुक्तानां केषाञ्चिदात्मन्येव या आत्मबुद्धिर्जायते सा कथं - केन कारणेनेति शङ्काशङ्कनिरस्तः । अथ देहे आत्मबुद्धिः कथं भवतीति सन्देहापोहार्थमाह - 'अज्ञानाहित संस्कारात्' अज्ञानकृतवासनावशात् 'तमेव देहमेव आत्मतया'ऽऽत्मबुद्ध्या 'ईक्षते' पश्यति । देहस्वरूपस्याज्ञानादेव देहमात्मतया मन्यते मूढात्मान इति गर्भः ॥१६।। Page #52 -------------------------------------------------------------------------- ________________ द्वात्रिंशिका ] अध्यात्मबिन्दुः ५१ देहात्मनोः स्वरूपभिन्नतां प्रदर्श्यात्मनि देहगतजङस्वभावत्वं - विकृतत्वं निषेधयन्नाह - देहः पुद्गलसङ्घातो जडस्त्वं तु चिदात्मकः । एतत्सौरूप्यवैरूप्ये स्वा(सा) दनादि कथं तव ? ॥१७॥ पद्मप्रभा० ‘देह' इत्यादि, 'देहः' काय: 'पुद्गलसङ्घातः ' पूरणगलनस्वभावानां पुद्गलानां समुदायरूपस्तस्मादेव कारणा ज्जडः' - जडस्वरूपः - चैतन्यविकलः 'त्वं तु' आत्मा तु, तुशब्द आत्मानं पुद्गलाद्विशिनष्टि - 'चिदात्मकः' ज्ञानादिचैतन्यस्वरूपः चैतन्यवानिति । 'एतत्सौरूप्यवैरूप्ये' एतस्य देहस्य सुरूपविरूपाऽवस्थायां स्वादनादि'हर्षः आदिपदात् शोकः ‘कथं तवा 'त्मनः ? 'सादनादि' इति पाठे तु सौरूप्यं - सुरूपता वैरूप्यं - विरूपता तयोः सत्योः 'सादनादि' इति सादनं-क्षयः, आदि शब्देन जीर्णताशीर्णतेत्यादि तव - आत्मनः कथं ? सादनादिधर्मा देहस्य न तु तवात्मनः चित्स्वरूपस्येत्यर्थः । इदमत्र तात्पर्यं - निश्चयदृष्ट्याऽऽत्मा चिदात्मकश्चिन्मयश्चित्स्वरूप अत एव सुरूपो अजरामराविनाशिस्वभावो वर्तते, तस्मिन्न सादनादिकं सम्भवति । देहस्तु पुद्गलरूपः पुद्गलस्य सडन- पडन - विध्वंसनस्वभावत्वात् सादनादिका धर्मा देहस्य न त्वात्मन इति । परन्तु अज्ञानाहितविपरीतवासनया कर्मजनितविकारेण वा विकृतात्मा देहधर्मानात्मन्यारोपयति तं प्रत्ययं 'सादनादि कथं तव' इति प्रश्नः । अर्थान्न ते तव धर्मा इति । 'सादमादि' इत्यपि क्वचित्पाठः स त्वशुद्ध इति सम्भाव्यते ॥१७॥ स्वकीयचित्स्वरूपं विस्मृत्य देहे ममायमानमात्मानं स्वीयचित्स्वरूपे विश्रान्तये आत्मैव सम्बोधयतीत्याह - यद्दृश्यं तदहं नास्मि, यच्चादृश्यं तदस्म्यहं । अतोऽत्रात्मधियं हित्वा, चित्स्वरूपं निजं श्रये ॥ १८ ॥ पद्मप्रभा० ‘यदृश्य' मित्यादि, 'दृश्यं' चर्मचक्षुगोचरं देहादि तद्देहादिस्वरूपोऽहं नास्मि । तर्हि अहं कः ? कीदृशो वाऽस्मि ? इत्याह- 'यच्चादृश्यं तदस्म्यहं ' अहमित्याकारकप्रत्ययमात्रगम्योऽदृश्यश्चर्म - चक्षुदर्शनाविषयो स्वसंवेदनसंवेद्यो ज्ञानादिमानात्माऽस्मि । अर्थात् दृश्यमानो देहो नात्मा । 'अतोऽत्र' अतः अस्मात्कारणादत्र - देहे 'आत्मधियं 'ऽऽत्मबुद्धिं त्यक्त्वा निजं 'स्वं चित्स्वरूपं 'श्रये' - भजे, आश्रयामि Page #53 -------------------------------------------------------------------------- ________________ अध्यात्मबिन्दुः [ द्वितीया ध्यायामीति यावत् । देह्याध्यासं त्यक्त्वैष स्वस्वरूपावस्थानस्थितिलाभो भवति जीवस्येति तात्पर्यम् ॥१८॥ ५२ देहे आत्मबुद्धिरूपविपर्ययस्य कारणं दर्शयन्नाह - मांसास्थ्याद्यशुचिद्रव्यात्, स्वयमेव जुगुप्सते । तदेवात्मतया हन्त !, मन्यतेऽज्ञानसंस्कृतः ॥१९॥ पद्मप्रभा० 'मांसे' त्यादि, 'मांसं' अस्थि च, आदिशब्देन मलमूत्रादिग्राह्यम् । एतादृगशुचिद्रव्यात् हेतोरात्मा स्वयमेव यं देहं जुगुप्सते तमेव जुगुप्सनीयं देहं 'हन्ते 'ति खेदे' अज्ञानसंस्कृतः’- अज्ञानवासनावासितः सन् आत्मतया - आत्मेति मन्यते । तदेतद्धन्त खेदातिशयस्य विषयः । यत्र जुगुप्सा तत्रैव स्वता । इत्यतः परं किमन्यत्खेदजनकं स्यात् ? न हि बालोऽपि जुगुप्सितं स्वं मन्यत इति भावः । निःशङ्कं जुगुप्सनीये देहेऽऽत्मबुद्धिरित्येतत्त्वज्ञानस्यैव प्रगल्भप्रागल्भ्यमिति निष्कर्षः ॥१९॥ संसृतेः-संसारपरिभ्रमणस्य बीजं - कारणं किं तद्दर्शयन् तत्त्यागोपदेशं च कुर्वन्नाहतटस्थः पश्य देहादीन्, मैषु स्वीयधियं सृज । स्वत्वाभिमानो ह्येतेषु, संसृतेर्बीजमग्रिमम् ॥२०॥ पद्मप्रभा० 'तटस्थः 'इत्यादि, 'तटस्थ' मध्यस्थ उदासीन उपेक्षामाश्रितो वैराग्यभावनाभावितः सन् ‘पश्य' अवलोकय । कानित्याह-‘देहादीन्’-देहेन्द्रियधनधान्यमातृपितृपुत्रकलत्रभ्रातृ - प्रभृतीन् सर्वान् । अथ पारिशेष्याल्लब्धमर्थमाह- 'एषु' - एतेषु देहादिषु ‘स्वीयधियं’-इमे मम स्वीया इत्येवं बुद्धि'मा सृज'मा कुर्विति । ननु किमिति ताटस्थ्येन देहादिषु अवलोकन - स्वत्वबुद्धित्यागोपदेशश्च भवतामिति चेत्तत्राह - 'हि’यत ‘एषु' देहादिषु‘स्वत्वाभिमानो' स्वत्वाभिमानिनामस्वेऽपि या स्वत्वबुद्धिः सैव‘संसृतेः’ संसारस्य 'बीजं' - निदानं तदपि 'अग्रिमं' आदिमं कारणमिति । तदुक्तं - अनित्ये धनदेहादौ, नित्यत्वेन ममेति च । अज्ञानेनावृता बुद्धि-र्मोह इत्यभिधीयते ॥ ( स च संसारस्य कारणमिति च वाचोयुक्तिमपेक्षते ॥२०॥ ) ननु देहादिषु स्वत्वबुद्धित्यागे कथं भवतामियान्महानादर इत्यत आह Page #54 -------------------------------------------------------------------------- ________________ द्वात्रिंशिका] अध्यात्मबिन्दुः स्वरूपार्पितदृष्टीनां, शक्रत्वेऽपि स्पृहा न हि। स्वरूपानर्पितदृशां, पदेऽल्पेऽपि महादरः ॥२१॥ पद्मप्रभा० स्वरूपे' त्यादि, स्वरूपे' स्वस्यात्मनो रूपे सच्चिदानन्दमये स्वभावे 'अर्पितदृष्टीनां' अर्पिता न्यस्ता स्थापिता दृष्टिर्बुद्धिर्यैस्तेषामात्ममात्रैकलीनानामात्मारामानामिति यावत् । 'शक्रत्वेऽपि' लोकदुर्लभे शक्रस्य-इन्द्रस्यैश्वर्येऽपि विनश्वरत्वेन कर्माधीनत्वेन च स्पृहा न हि'आकांक्षा नैव भवति । कथं चेदाह-शनैश्वर्यसुखादप्यात्मसुखास्वादस्यानन्तगुणितत्वात् । यदुक्तं - जं च कामसुहं लोए, जं च दिव्वं महासुहं। वीयरायसुहस्स य, णंतभागं पि णग्घइ ॥- (बृहत्संग्रहणी) तल्लाभे तदपेक्षयात्यन्ताल्पतरलाभस्वरूपशकैश्वर्यलाभस्य स्पृहा कस्य सचेतसः स्यात् ? अपि तु न कस्यापि सचेतसः स्यादिति भावः । अथ विपक्षे वैषम्यमाह'स्वरूपानर्पितदृशामिति स्वरूपेऽऽत्मनः सच्चिदानन्दस्वभावेऽनर्पिता दृग्-दृष्टियस्तेषां देहादिषु स्वत्वाभिमानिनां पदेऽल्पेऽपि' राजपुरुषादावतितुच्छे पदेऽपि स्थानेऽपि महादरः' महती स्पृहा भवतीति शेषः । अपीत्यनेन शक्रत्वादावत्युच्चे लोकदुर्लभे पदे तु सुतरामादरातिशयो भवतीति द्योत्यते । देहादिषु स्वत्वाभिमानिनोऽतितुच्छेऽपि वस्तुनि महती स्पृहेति महान्-विनिपातस्तस्मात् मुमुक्षुभिः स्वरूपार्पितदृष्टिनैव भाव्यमिति भावः ॥२१॥ ननु विषयास्तु विषसन्निभाः सन्ति तर्हि कुतस्तत्र जीवानां प्रवृत्तिरित्याशङ्कायामाह अनादिभ्रष्टस्वात्मोत्थानन्दस्वादा हि दुर्धियः । मन्यन्ते विषयैस्तृप्ति, जम्बालैरिव पोत्रिणः ॥२२॥ पद्मप्रभा० 'अनादी'त्यादि, अनादिकालतो ये भ्रष्टाश्च्युता वियुतेति । कुतः वियुता इत्याह-स्वस्वरूपार्पितबुद्धरात्मन आविर्भूतस्यानन्दस्य स्वादतो वियुताः स्वात्मोत्थात्मानन्दास्वादहीना इत्यर्थः । 'हि' निदर्शने, किं निदर्शयतीत्याह- 'दुर्धियः' आत्मज्ञानहीना देहादिषु स्वत्वाभिमानिनो यतो दुर्धियस्ततस्तादृशस्वादहीना इति दृष्टव्यम् । एतादृशा जीवाः शब्दादिरूपै विषयैस्तृप्ति'-सुखं मन्यन्ते जानन्ति कल्पयन्तीत्यर्थः । अत्र 'मन्यन्त' इत्युक्त्या तेषां जीवानां विषयेषु केवलं तथा मतिरेव न पुनर्विषयाणां Page #55 -------------------------------------------------------------------------- ________________ अध्यात्मबिन्दुः [ द्वितीया तृप्तिप्रदत्वमिति ध्वन्यते । अत्र दृष्टान्तमाह - 'इव 'यथा 'पोत्रिणः ' - शूकरा 'जम्बालैः ' - कर्दमैस्तृप्तिं मन्यन्ते तथा स्वात्मोत्थानन्दास्वादहीना जीवा विषयैस्तृप्तिं मन्यन्ते । जम्बाला हि शरीरेषु लग्नाः शूकरान् विरूपयन्त्येव तथापि ते तत्र जम्बाले सुखबुद्धिं कुर्वन्ति तद्वदित्याशयः ॥२२॥ ५४ दुर्धियां विषयेषु वृत्तिमुक्त्वा सुधियां तत्र तामाह प्रत्यग्ज्योतिःसुखास्वादनिष्ठनैष्ठिकदृष्टयः । विषयान् हन्त ! पश्यन्ति, कुत्स्यवल्लवदप्रियान् ॥२३॥ पद्मप्रभा० ‘प्रत्यगि’त्यादि, प्रत्यग्ज्योतिरन्तरात्मा तस्य यत्सुखं तज्जन्याखण्डानन्दस्तस्यास्वादोऽनुभवस्तन्निष्ठा तत्र स्थिता - तदेकताना नैष्ठिकी - निष्ठावती दृष्टिर्बुद्धिर्येषां ते सुधियः । ‘विषयान्' शब्दादीन् - लौकिकक्षणिकसुखप्रयोजकान् प्रति 'हन्ते 'ति याथातथ्ये, तेन इत्थमेव (ईदृशीरेव) स्थितिर्दृष्टिः, सुधियां भवतीति भावः । 'कुत्स्यवल्लवन्’'निन्दनीयान् - 'अप्रियान् 'सुखकरान् 'पश्यन्ति' - अवबुद्ध्यन्त इति । इदमत्र बोध्यं - एकः प्रत्यग्ज्योतिरात्माऽपरश्च पराग्ज्योतिरात्मा । अत्र ज्योतिः शब्देन सप्रकाशः प्रकाशरूप आत्मोच्यते । स यदा बहिर्मुखप्रवृत्तिकस्तदा स पराग्ज्योतिः कथ्यते । यदा तु अन्तर्गतशुद्धरूपस्तदा स प्रत्यग्ज्योतिः कथ्यते । ये तु सुधिय आत्मारामास्तेषां विषयेषु न रतिः प्रत्युत विरतिरेव । तेषां ते विषया न प्रियाः प्रत्युत कुत्स्या हेयाश्च भान्ति । ये तु बहिर्मुखास्ते तु विषयाभिनन्दिन आत्मस्वरूपमपश्यन्तो हेयान् कुत्स्यानपि विषयानेव बहुमन्यन्त इति भावः ॥२३॥ ये तु आत्मपरास्तेषां परमनिर्वृतिलाभ इत्याह - शुद्धं ब्रह्मेति संज्ञान- सुधाकुण्डसमाप्लुताः । धौतकर्ममलाः सन्तो, निर्वृतिं परमां श्रिताः ॥२४॥ पद्मप्रभा० 'शुद्ध'मित्यादि, 'शुद्धं'-निर्मलं कर्ममलरहितं' ब्रह्मेति 'आत्माऽहमिति यत् ‘संज्ञान-सुधाकुण्डसमाप्लुताः ' संज्ञानं - सम्यग्ज्ञानं तदेव सुधायाः कुण्डमिव कुण्डं तद्वदेवालौकिक- सुखप्रदत्वात्तस्मिन् समाप्लुता सम्यक्स्नाता तत्र निमग्नेति यावत् । शुद्धात्मसंज्ञानसुधाकुण्ड-समाप्लुता अत एव 'धौतकर्ममलाः ' धौतं परिक्षालितं कर्मैव मलिनीकारणत्वात् मलं यैस्ते तादृशा जाताः । यथामृतकुण्डे स्नातस्य सर्वशारीरमल Page #56 -------------------------------------------------------------------------- ________________ द्वात्रिंशिका] अध्यात्मबिन्दुः शुद्धिस्तथैव सुधात्मकज्ञानमग्नस्य सर्वकर्मपरिक्षालनं भवतीति भावः । ततश्च ते सम्यग्ज्ञानसुधाकुण्डसमाप्लुता धौतकर्ममला: ‘परमां' निरतिशयां 'निर्वृति' शान्ति सुखं मोक्षं "श्रिताः' - प्राप्ताः सन्ति । शुद्धात्मध्यानात् कर्ममलापाकरणेन निर्वृतिलाभ इति तदेव विधेयं धीमद्भिरित्याशयः ॥२४॥ प्राक् संसृतेर्बीजमुक्तं मुक्तेर्बीजं किमिति जिज्ञासानिवृत्तये तद्बीजमाह स्वरूपालम्बनान्मुक्ति-र्नान्यथाऽतिप्रसङ्गतः । अहमेव मयोपास्यो, मुक्ते/जमिति स्थितम् ॥२५॥ पद्मप्रभा० स्वरूपे'त्यादि, स्वरूपालम्बनात्' स्वरूपं चिदानन्दमयः शुद्धात्मा, तस्यालम्बनात् - आश्रयणात्पुनः पुनस्तस्य चिन्तनाद्ध्यानादित्यर्थः । 'मुक्तिः' स्वरूपावस्थानं कर्मबन्धविच्छेदश्चेति, मुक्तिम्प्रत्यात्मज्ञानमेव हेतुरित्याशयः । नान्यथे'ति आत्मज्ञानं विना न मुक्तिप्राप्तिः 'अतिप्रसङ्गतः' अतिव्याप्त्यापत्तेः । आत्मज्ञानं विनाऽपि सा मुक्तिः स्यात् तत्तु न सङ्गतं न चेष्टम् । अथ मुक्तिकारणज्ञानस्य स्वरूपमाह - 'अहमेव -मयोपास्यो' इति, अहं शुद्धचिदानन्दस्वरूप आत्मा स एव मया मुमुक्षुणोपास्यः - सेवनीयश्चिन्तनीय इति यावत् । इत्येवं प्रकारो व्यवसायो 'मुक्ते/जमिति स्थितम्' देहे स्वत्वाभिमानिनां मुक्त्यलाभादात्मज्ञानिनां च तल्लाभस्य निर्विवादत्वात् मुक्तिं प्रति शुद्धात्मज्ञानालम्बनमवन्ध्यो हेतुरिति सिद्धम् ॥२५॥ ननु शुद्धात्मस्वरूपमेव दुर्लभमनादिकालत एव कर्मण आश्लेषादेवं च शुद्धस्य तस्याभावात्तादृशतद्विषयकज्ञानवार्ता वार्तामात्रमिति चेन्न, आत्मनस्तु सदा सर्वदैव शुद्धत्वादित्याह - यथैव पद्मिनीपत्र-मस्पष्टं तोयबिन्दुभिः । तथाऽऽत्माऽयं स्वभावेन, न स्पृष्टः कर्मपुद्गलैः ॥२६॥ पद्मप्रभा० 'यथैवे'त्यादि, यत्प्रकारेणैव 'पद्मिनीपत्रं' नलिनीदलं, 'अस्पृष्टं' - असम्पृक्तं असम्बद्धमिति यावत् । कैरित्याह - 'तोयबिन्दुभिः' - जलबिन्दुभिः, प्रसिद्धमेतन्निदर्शनं - पद्मपत्रे स्थितोऽपि जलबिन्दुनै पद्मपत्रं क्लेदयति, पद्मपत्रस्थितोऽपि बिन्दुः पद्मपत्रेन सम्बन्धं न प्राप्नोति, पद्मपत्रस्य तथा निर्लेपस्वाभाव्यात् । क्लेदो हि जलसम्बन्धजन्यः । यदि जलसम्बन्धः स्यात् तदावश्यं क्लेदः स्यात् । अत्र दार्खान्तिकमाह Page #57 -------------------------------------------------------------------------- ________________ ५६ अध्यात्मबिन्दुः [द्वितीया - 'तथा' तत्प्रकारेणैव देहादिसंपृक्तत्वेन दृश्यमानो आत्माऽयं'ऽयमात्मा पुष्करपलाशवन्निर्लेपः 'स्वभावेन' तथास्वाभाव्येन हेतुना'नस्पृष्टो' न सम्पृक्तः, कैरित्याह - 'कर्मपुद्गलैः' कार्मणपुद्गलैः । आत्मनो हि तथास्वाभाव्यं तस्मात् पुद्गलेन सह न सम्बध्यत इति । यदुक्तं ज्ञानसारे विद्याष्टके - मिथोयुक्तपदार्थाना-मसङ्क्रमचमक्रिया। चिन्मात्रपरिणामेन, विदुषैवानुभूयते ॥७॥( ) अयमाशयः - निश्चयेन सर्ववस्तु स्वप्रतिष्ठमेवं च द्रव्ययोः संयोग औपचारिक एवातिसामिप्यनिमित्तः । एवं च कर्मात्मनोऽपि संयोग उक्तरीत्योपचरित एव । वस्तुतस्त्वात्मा स्वप्रतिष्ठः कर्मपुद्गला अपि तथैव, यथा पद्मिनीपत्रस्य जलबिन्दोश्चोक्तसंयोगस्य सत्त्वेऽपि स्वप्रतिष्ठा अक्षुण्णाऽत एव पद्मिनीपत्रस्य क्लेदाभावस्तथैवात्मनोऽपि कर्मसम्बन्धाभावोऽत आत्मा सर्वदा शुद्धरूप एव । संसारित्वादिभावस्तूक्तोपचाराश्रयणादिति ॥२६॥ ननु सांसारिकं सुखमपि सुखमेवोपस्थितं तत् त्यक्त्वा चानुपस्थितमोक्षसुखार्थं च प्रयास इति सिद्धानपरित्यागेन भिक्षाटनप्रयासवदेव प्रतिभातीति चेन्न, सांसारिकसुखस्य दुःखमिश्रिततया सुखाभासत्वादित्याशयेनाह - सौख्यं सांसारिकं दुःखानुषक्तं व्यक्तमध्वनि । ग्रीष्मे पान्थस्य मध्याह्ने, मरौ पक्त्वैव खादतः ॥२७॥ पद्मप्रभा० 'सौख्य'मित्यादि, सुखमेव सौख्यं तच्च ‘सांसारिकं' वैषयिकमित्यर्थः। 'दुःखानुषक्तं' दुःखात्मकमित्यर्थः, 'व्यक्तं'-स्पष्टमनुभूयमानं क्वेत्यपेक्षायामुदाहरणमाह - 'अध्वनि' इति मार्गे, कालमाह-'ग्रीष्मे' निदाघे तत्रापि 'मध्याह्ने'-दिवसस्य मध्यभागे तरणितापोत्कर्षसमये, तापोत्कर्षदर्शनार्थमेव स्थलमाह'मरौ'-मरुदेशे पक्त्वा' अन्नादिकं संसाध्य 'खादतः' भक्षयतः 'पान्थस्य' पथिकस्य यथा सुखं दुःखानुषक्तं तथेति। इदमत्र गुह्य-ग्रीष्मे मरुदेशेऽध्वनि सूर्यतापातिशयः सर्वजनवेद्यः । क्षुदो जाठराग्नेरुपशमनमात्रं, न पुनः सुखविशेषं, न वा दुःखमात्रस्य निवृत्तिः, ग्रीष्मादितापस्य तु अनिवृत्त्या तदवस्थत्वादेव, यत् सुखलेशानुभवः स सुखाभासः, दुःखसंमिश्रता एव वा, न पुनः तात्त्विकः सुखानुभवः इति भावः । मध्याह्ने त्वन्यत्रापि तापातिशयस्तर्हि का वार्ता मरुदेशस्य? तत्रापि पाकक्रियायां वह्निसंनिधानाद्वर्धमानस्तापोत्कर्षस्तथापि तत्र क्षुत्पीडितः Page #58 -------------------------------------------------------------------------- ________________ द्वात्रिंशिका ] अध्यात्मबिन्दुः पान्थो भुञ्जन् क्षुण्णिवृत्तिजन्यं सुखं मन्यते परं तत्सुखं तु दुःखानुषक्तं सुखाभासमेव तस्मिन् दुःखांशस्यैवाधिक्यात्तथैव वैषयिकमन्यदपि सांसारिकं सर्वं सुखं सुखाभासमेव । यदुक्तं - 'न हि सुखं दुःखेन विना लभ्यते' इति, पारिशेष्यात् सांसारिकं सुखं दुःखाविनाभूतमिति व्यक्तमेवातस्तदर्थं प्रयासं विहाय निरतिशयैकान्तिकात्यन्तिकमोक्षसुखार्थं प्रयास आदरणीय इति ॥२७॥ सांसारिकसुखानां दुःखानुषक्तत्वमुक्त्वा तत्रासक्तेरनर्थकारित्वमुपदिशन्नाह भोगेष्वश्रान्तविश्रान्तिर्धियः क्षेमङ्करी न हि । ५७ पन्नगीव नयत्येषाऽतुच्छां मूर्च्छा यदात्मनः ॥२८॥ पद्मप्रभा० 'भोगेष्वित्यादि, भोगाः तत्तत्शब्दादिविषयजन्यसुखानि तेषु 'अश्रान्तविश्रान्तिः ' अश्रान्तमविरतमनवरतं 'विश्रान्तिः '- प्रसक्तिरिति, कस्येत्याहधियः- मनोवृत्तेः 'न हि' नैव 'क्षेमङ्करी' - सुखकरी हितकरी शुभानुबन्धिनीति यावत् । 'यद्' - यस्मात् कारणात् यैषा भोगेष्वश्रान्तविश्रान्ति:, 'आत्मनः ' जीवस्य स्वरूपस्याप्यज्ञानजनकत्वात्' अतुच्छंछं' अतिगाढामतिदीर्घं च' मूर्च्छा'- मूढतां'नयति'प्रापयति । अत्रोदाहरणं- 'पन्नगीवे 'ति पन्नगी - सर्पिणी यथा स्वविषयं महतीं मूर्च्छा मृत्युरूपां प्रापयति तया यथा देही स्वरूपाच्च्युतो भवति तथैवात्मा भोगप्रसक्त्येति, अतः सुष्ठुक्तं क्षेमङ्करी न हीति ॥२८॥ दर्शितविपाकेषु भोगेष्वविरतासक्तमपायं प्रदर्श्वोपदिशि यदुच्चैः पदतः पातः, सोऽनुभावो विभावजः । तत्रैवाविरतं सक्तिं, श्रयन्नद्यापि न खिद्यसे ॥ २९ ॥ पद्मप्रभा० ‘यदुच्चै 'रित्यादि, 'यत्' - यस्माद्धेतोः 'उच्चैः ' उत्कृष्टात् स्वभावसमवस्थानरूपान्महतः प्रयासादेव साध्यात्' पदतः ' स्थानात् स्थितेरित्यर्थः 'पातः ' पतनमधोगमनं संसारित्वरूपौपचारिकावस्थाप्राप्तिरिति यावत् । स यच्छब्दनिर्दिष्टः पातः पातरूप:‘सोऽनुभावः' (परिणामः) प्रभावो माहात्म्यं, 'विभावजः ' - रागादिविभावजन्य एवं ज्ञात्वाऽपि 'तत्रैव' विभावेष्वेव, अत्रैवकारेण स्वभावव्यवच्छेदस्तादृशविभावानां नितरां हेयत्वं ध्वन्यते यतश्च पातस्तत्रैवासक्तिरित्यहो मूढतेत्यपि च । 'अविरतं' सततं 'सक्ति' आसक्तिं रागभावमित्यर्थः ' श्रयन्' - कुर्वन् 'अद्यापि' जगत्तत्त्वावगमानन्तरमपि न - Page #59 -------------------------------------------------------------------------- ________________ ५८ अध्यात्मबिन्दुः [ द्वितीया नैव ‘खिद्यसे' श्राम्यसि दुःखमनुभवसि किं न विरमसीति । इदमत्र बोध्यम् - मूढता हि महानर्थकारिणी यतोऽपकारो, मूढस्तत्रैव हितबुद्ध्या प्रवर्तते ततश्च पुनर्दुःखमनुभवति, तस्मान्मूढतां विहाय विभावरतिं परिहरेति सुहृद्भूत्वा पाठकवर्यारुपदिशन्तीति ॥ २९॥ अथ देहे स्वत्वाभिमानं बन्धनं तन्नाशोपायं चोपदर्शयति - वपुष्यहंधीनिगडेन कामं, चिराय बद्धोऽसि महानुभाव ! बोधस्वरूपोऽयमहं न देहीत्यवेत्य तं चिद्भुघणेन भधि ॥३०॥ पद्मप्रभा० ‘वपुष्यह' मित्यादि, वपुषि - शरीरे 'अहं धी' आत्मबुद्धिस्तदेव निगडं - शृङ्खलं बन्धननिबन्धनत्वात्तेन कृत्वा' कामं' बाढं 'चिराय' चिरकालादनन्तकालाद् 'बद्धोऽसि ' - निगडितोऽसि त्वमत एव शृङ्खलाबद्धनर इव किमपि स्वातन्त्र्येण प्रवृत्ति कर्तुमसमर्थोऽसीत्याशयः । 'महानुभाव !' इत्यामन्त्रणे, महान् - उत्कृष्टफलसाधकत्वात् 'अनुभावः 'परिणामो दर्शनाद्यात्मको यस्य स महानुभावो मुमुक्षुरित्यर्थस्तं प्रति सम्बोधनम् । ननु कस्तर्हि तादृशनिगडभङ्गोपाय इति चेत्तत्राह - 'बोधस्वरूपो 'इत्यादि, बोधस्वरूपः - शुद्धचिदात्मकः 'अयमहं' एषोऽहमितिबुद्धिविषयः - स्वसंवेदनप्रत्यक्षोपलभ्यमानत्वादात्मा' न देही' न देहवान् - न देहस्वामी परस्य परस्वामिकत्त्वस्यौपचारिकत्वादुपचारहेत्वभावे उपरिचारस्याप्यभावात् । देहस्वामित्वं ह्यात्मनो देहे स्वत्वाभिमाननिमित्तकमौपचारिकं तादृशनिमित्ताभावे तथोपचारस्याप्यभावादिति भावः । इत्येवं रूपेण 'अवेत्य' - विज्ञाय तं - तादृशनिगडं' भङ्ग्ध' इति परेणान्वयः, केनेत्याह - चिद् - विज्ञानं बोधस्वरूपोऽहं न देहीत्यादि प्रकारो यो द्रुघणः घनस्तेन भङ्ग्धि त्रोटयेति । अर्थात् बोधस्वरूपोऽहं न देहीत्येवंबुद्ध्या देहे स्वत्वाभिमानं परिहरेति ॥३०॥ - देहे स्वत्वाभिमानिनामात्मनो बोधे सति निर्वेदमाह - - नाहं वपुष्मान् न च मे वपुर्वा, बोधोऽहमस्मि प्रकृतेर्विभिन्नः । इयाननेहा न मया व्यभावि - गच्छन्नहो मोहविडम्बितेन ॥ ३१ ॥ पद्मप्रभा० ‘नाह'मित्यादि, 'न' नहि 'अहं' शुद्धस्वरूप आत्मा 'वपुष्मान्' वपुरस्त्यस्येति स देही देहधारीत्यर्थः । अत एव 'न च' नैव 'मे' मम मत्स्वामिकमिति यावत् 'वपुः' शरीरं 'वा' समुच्चये । अयं भावः पुरुषस्य राज्ञा सम्बन्धे सति राज्ञः पुरुषे स्वामित्वं सम्बन्धाभावे तु उदासीने न तथा । तथैवात्र यदि आत्मनि न देहसम्बन्धस्तदा T Page #60 -------------------------------------------------------------------------- ________________ ५९ द्वात्रिंशिका] अध्यात्मबिन्दुः देहे नात्मस्वामित्वमिति । ननु तर्हि आत्मा न सिद्ध्यति देहवतोऽन्यस्य तस्य दुरुपपादत्वात् इति चेत् तत्राह - 'बोधोऽहमिति, अहमात्मा बोधः बोधानतिरिक्तः बोधमात्रस्वभाव इति यावद् अस्मीति, अत एव परिशेषात् 'प्रकृतेः' कर्मप्रकृतेः उपलक्षणाद्विकाराच्च विभिन्नः' विलक्षणः बोधस्वरुपोऽहमिति बुद्धेर्दैहादौ स्वत्वबुद्धिप्रतिबन्धकत्वात् देह - द्रव्यकर्मात्मनोर्भेदः सिद्धः। ___ननु तर्हि सोऽयं भेदोऽनादिकालत एवाद्यैव कथं बुद्ध्युन्मेष इति चेत्तत्राह'इयानि ति इयान् - अनादि कालादारभ्याद्यावधि 'अनेहाः' कालः 'न' निषेधे 'मया' आत्मना व्यभावि अलक्षि । तमेव कालं विशेषयन्नाह - 'गच्छन्नि'ति व्यतीयमानः 'अहो' इति खेदे-आश्चर्ये च मोहविडम्बितेने'ति आत्मनो विशेषणं मोहाच्छादितसद्बोधेनेत्यर्थः । अयं भावः बुद्धिर्वस्तुनो तथात्वं न गृह्णात्यद्यावधि तत्त्वाऽऽत्मनो मोहपरवशतेति । देहे स्वत्वाभिमानिनोऽपि जाते बोधे तु खिद्यते, चित्रीयते च मोहसामर्थ्यमालोच्य बोधस्वरूपं दृष्ट्वा चेति ॥३१॥ सम्प्रत्युपसंहरन्नाहप्रकृतिगुणविरक्तः शुद्धदृष्टिर्न भोक्ता, तदितर इह भोक्ता तत्स्वरूपानुरक्तः । तदिह भवति भेदाभ्यासशाली जयीति, प्रकृतिगुणविकारानङ्कितं स्वं भजध्वम्॥३२॥ पद्मप्रभा० 'प्रकृतिगुणविरक्त' इत्यादि, 'प्रकृतिगुणविरक्तः 'प्रकृतिः सत्वरजस्तमसां समानावस्था साङ्ख्यशास्त्रप्रसिद्धाऽचेतना तस्या गुणाः परिणामाः शब्दादयो विषयास्ततो विरक्तस्तेष्वप्रीतिमान् तथा शुद्धदृष्टिः' शुद्धनिश्चयनयदृष्टि अर्थान्न केवलं - वैराग्यं पर्याप्तं सत्यपि तस्मिन्नशुद्धदृष्टेभॊगानिवृत्तेरित्याशयः, शुद्धात्मस्वरूपदृष्टा तु विरक्तो 'न भोक्ता'न भोगानां भोक्ता भवति, न भोगफलेन युज्यते, आसक्तिपूर्वकभोगस्यैव भोक्तृत्वप्रयोजकत्वादिति भावः । ननु भोगे सत्यपि न भोक्ता तर्हि को भोक्तेत्याशङ्कायामाह 'तदितर' इति प्रकृतिगुणासक्तोऽशुद्धदृष्टिश्च 'इह' अस्मिन् संसारे भोक्ता कर्मफलभाग् विषयसुखानुभवकर्ता वा 'तत्स्वरूपानुरक्तः' भोक्तृस्वरूपानुरक्तस्तस्य भोक्तुः स्वरूपं प्रकृतिगुणासक्तत्वमशुद्धदृष्टित्वं च तेनानुरक्तो लिप्तो विषयेषु प्रीतिमाननात्मज्ञ इत्यर्थः, अथवा तत्स्वरूपानुरक्तोऽर्थात् प्रकृतिगुणानां यत्स्वरूपं शब्दादिकं तत्रानुरक्त आसक्त अत एव तदितरस्तस्मात् पूर्वोक्तात् प्रकृतिगुणविरक्तात् शुद्धदृष्टश्चेतरो भिन्नः । अयं भावः - Page #61 -------------------------------------------------------------------------- ________________ अध्यात्मबिन्दुः [द्वितीया शुद्धनिश्चयतो विरक्तानुरक्तावस्थयोरात्मनो न भेदः किन्तु व्यवहारतो विरक्त्यनुरक्तिकृतभेदः। अत एव भोक्तृत्वमात्मनोऽशुद्धनयदृष्ट्याऽत एव शुद्धदृष्टिविरक्तो न भोक्ता किन्त्वशुद्धदृष्टिरनुरक्त एवैतत्प्रतिपादितं विस्तरेण प्रागुक्तेन कर्ताऽयमित्यादिना चेष्यतेन्तेन श्लोकद्वयेनेति । तदिहेति तस्मात्कारणात् इह'-भवे भेदाभ्यासशाली' जडात्मनोभ॑दस्य योऽभ्यासः पुनः पुनश्चिन्तनं तेन शालत इति शाली भेदाभ्यासपरायण इत्यर्थः स चाभ्यासः प्रागुक्तप्रकारेण बोध्यः 'यदृश्यं तदहं नास्मी' त्यादिना 'जयी' जयनशीलो विजेतेत्यर्थः कर्माणि निर्जीर्य स्वरूपसमवस्थानात्मकपदस्य लब्धा 'इति' एतस्माद्धेतोः 'प्रकृतिगुणविकारानङ्कितं' प्रकृतेर्गुणाः-धर्माः शब्दादयस्तज्जन्या विकारा रागद्वेषादयस्तैरनङ्कितमस्पृष्टमनालिङ्गितमर्थात् सर्वाधिकारशून्यमेतादृशं स्वं' स्वकीयं रूपं 'भजध्वं' आश्रयत कर्मात्मनोः स्वरूपं ज्ञात्वा तद्भेदाध्यवसायेन स्वरूपज्ञानमेव परमः पुरुषार्थस्तल्लाभ एव जयस्तदर्थमेव यतनीयमित्युपदेशोपसंहारः ॥३२॥ इति विद्वद्वरेण्योपाध्याय-हर्षवर्दनगणिभिः संदृब्धायाः कर्तृकर्मप्रकाशनप्रवणाया द्वितीयद्वात्रिंशिकाया इयं टीका तपागच्छीयाचार्यविजयमित्रानन्दसूरिणा विरचिता समाप्तिमगात् । शुभं भवतु श्रमणप्रधानचतुर्विधश्रीसंघस्य ॥ Page #62 -------------------------------------------------------------------------- ________________ द्वात्रिंशिका ] अध्यात्मबिन्दुः तृतीया द्वात्रिंशिका अथ आत्मस्वभावभावनपरां तृतीयां द्वात्रिंशिकामारभमाणो ग्रन्थकार आह विकल्पजालकल्लोलै-र्लोले किल मनोजले । ६१ नात्मा स्फुरति चिद्रुप - स्तोयचन्द्र इव स्फुटम् ॥१॥ पद्मप्रभा० 'विकल्पे 'त्यादि, 'विकल्पाः ' संकल्पास्तेषां जालं - -समूहः परम्परेत्यर्थः त एव 'कल्लोला' महोर्मयस्तैः 'लोले' अस्थिरे मनोजले - मनोरूपे जले, किलेति निश्चये 'चिद्रूपः ' ज्ञानैकस्वभाव आत्मा'न स्फुरति' न सम्यक् प्रतिभासते यथास्थितस्वरूपो नाऽनुभूयते । अत्र दृष्टान्तः - 'तोयचन्द्र - इवे 'ति तोये- जले चन्द्रस्तत्प्रतिबिम्बं तस्य इव, यथा तरङ्गिते जले चन्द्रप्रतिबिम्बस्य न सम्यग् अवभासस्तथा विषयाभिष्वङ्गजन्य-विकल्पाकुले मनसि न सम्यगात्मदर्शनमिति स्फुटमेवैतत् ॥१॥ सम्यगात्मदर्शनोपायं दर्शयन्नाह - आत्मानं भावयेन्नित्यं, भावितैः किमनात्मभिः । प्रपद्य निस्तरङ्गत्त्वं, येनात्मा मुच्यतेऽचिरात् ॥२॥ पद्मप्रभा० 'आत्मानमि 'त्यादि, 'आत्मानं ' - शुद्धात्मानं चिदेकरूपं' भावयेत चिन्तयेत् मुहुर्मुहुः स्मृतिपथमानयेदित्यर्थः 'नित्य' मिति प्रतिदिनं पुनः पुनः निरन्तरमित्यर्थः तत्र हेतुमाह -'भावितैः' चिन्तितैरासेवितैरित्यर्थः ' किमिति काकुः, न किमपि व्यर्थमेवेत्यर्थः । कैरिति विशेषाकाङ्क्षायामाह अनात्मभिः आत्मभिन्नैः जडैः शब्दादिविषयैरित्यर्थः । अयमाशयः अनात्मानः शब्दादयः भाविताः स्वरूपलाभे अन्तरायभूता एव भवन्तीष्टफलबाधकत्वात् अशुभानुबन्धित्वाच्चेति । अनात्मभावना प्रयत्नतः परिहर्तव्या आत्मभावना च न विकल्पदूषिते चंचले मनसि संभाव्यते इत्यतो वाक्यशेषमाह – ‘प्रपद्ये 'ति प्रपद्य-प्राप्य ' निस्तरङ्गत्वं' निर्विकल्पत्वम् । इदमत्र बोध्यंविकल्पजालेत्याद्युक्तरीत्या विकल्पवशादस्थिरे मनसि आत्मभावना न संभाव्यतेऽतो आदौ प्रयस्य सद्ध्यानादिभिर्विकल्पत्यागो विधेयस्तत आत्मानं निरन्तरं भावयेत् न कदापि अनात्मनः शब्दादीन्निति, एवं कृते चेष्टसिद्धिमाह - 'येने 'ति येनानात्मभावनात्यागपूर्वकं स्थिरमनसाऽऽत्मभावनेन हेतुना 'आत्मा' जीवः 'अचिरात्' झटित्येव मुच्यते कर्मबन्धनात् तत्फलाच्च जन्मजरामरणादेः मुक्तो भवतीति भावः ॥२॥ Page #63 -------------------------------------------------------------------------- ________________ ६२ अध्यात्मबिन्दुः [तृतीया ननु स्व एवात्मा कथमन्य इति चेत्तत्राह - परद्रव्योन्मुखं ज्ञानं, कुर्वन्नात्मा परो भवेत् । । स्वद्रव्योन्मुखतां प्राप्तः, स्वतत्त्वं विन्दते क्षणात् ॥३॥ पद्मप्रभा० परे' त्यादि, परद्रव्योन्मुखं परद्रव्याभिमुख्येन क्रियमाणं पराणि यानि द्रव्याणि शरीरादीनि तदुन्मुखं तद्विषयकमित्यर्थः 'ज्ञानं' इति तु स्पष्टं 'कुर्वन्' विषयान् ध्यायन्निति सम्पूर्णार्थः । कर्तुरपेक्षां पूरयन्नाह - 'आत्मेति आत्मा 'परो' पररूपेण देहादिरूपेण भवेत्' - परिणमेत् । अन्यः स्वरूपाच्च्युतः परभावाभिष्वङ्गवान्, अन्य इव भासते बहुरूपी नटवत् तदाह-'भवेदिति । प्रतिपक्षमाह - 'स्वद्रव्योन्मुखतामिति स्वद्रव्योन्मुखता स्वेति आत्मा स एव द्रव्यं शुद्धचिदात्मकं तत्र उन्मुखस्तस्य भाव उन्मुखता तामात्मचिन्तनपरायणतामित्यर्थः 'प्राप्तः' आश्रितः आत्माराम इति सकलार्थ: 'स्वतत्त्वं'स्वस्वरूपं 'विन्दते विस्मृतकण्ठगतचामीकरहारवत् साक्षात्करोति 'क्षणात्' अचिरेणैवेत्यर्थः । आत्मध्यानपरायणः शुद्धचिदात्मकमात्मस्वरूपं साक्षात्करोति विषयान् ध्यायंश्च स एवात्मा परभावं प्राप्नोतीत्याशयः ॥३॥ कालत्रयेऽपि निबिडकर्मबन्धस्याभावं विभावयति - देहे यथाऽऽत्मधीरस्य, तथाऽऽत्मन्येव चेद् भवेत् । -- कालत्रयेऽपि बन्धोऽस्य, न भवेदिति मन्महे ॥४॥ पद्मप्रभा० 'देहे' इत्यादि, 'अस्य' - जीवस्य 'यथा'-यादृशी 'आत्मधी:'अहम्मतिः स्वत्वाभिमानिनः 'देहे' शरीरे भवति तथा तादृशी आत्म(स्वत्व)बुद्धिः आत्मनि एव' - शुद्धचिदात्मनि एव 'भवेत्'-जायेत चेत् अत्र एवकारेण आत्मातिरिक्ते देहगेहादिवस्तुनि आत्मबुद्धिव्यवच्छेदः । तहि अस्य-जीवस्य 'कालत्रयेऽपि' भवद्भाविभूतात्मकेषु त्रिषु कालेषु 'बन्धः कर्मसंश्लेषो न भवेत् कारणाभावादिति भावः । देहे आत्मबुद्ध्यैव पूर्वमस्य बन्धो जातो वर्तमाने जायते भविष्यत्कालेऽपि तथैव स्यात् एवं च तदभावे तदभावः' कारणाभावे कार्याभाव इति 'मन्महे' मन्यामह इति । देहे स्वत्वाभिमाने सत्येव कर्मबन्धस्य कारणान्तरमपि सम्भवति । तदभावे तु आत्मारामस्य न कारणान्तरप्रादुर्भाव इति सुनिश्चितमेवेति । देहात्मबुद्धित्यागः स्वरूपज्ञानं च मुक्तावपेक्षितमिति भावः । उक्तं च - परेष्वहम्मतिः स्वस्माच्च्युतो बध्नात्यसंशयम् । स्वस्मिन्नहमति: च्युत्वा परस्मान्मुच्यते बुधः ॥१॥ ॥४॥ Page #64 -------------------------------------------------------------------------- ________________ ६३ द्वात्रिंशिका] अध्यात्मबिन्दुः स्वपरभेदं भावयितुर्न कर्मबन्ध इत्याह - न स्वं मम परद्रव्यं, नाहं स्वामी परस्य च । अपास्येत्यखिलान् भावान्, यद्यास्ते बध्यतेऽथ किम् ? ॥५॥ पद्मप्रभा० 'ने' त्यादि, न-नैव किं ? 'स्वं'-धनं, धिनोतीति धनमिति व्युत्पत्त्या अशुद्धनयेन यत्किमपि धिनोति प्रीणयति तत्सर्वं देहाद्यपि धनमेव, तत्'मम'-स्वसम्बन्धिस्वकीयमित्यर्थः । तत्सर्वं धनादि 'परद्रव्यं' - आत्मभिन्नं परभावस्य स्वभावत्वायोगात् अत्र भेदहेतुस्तयोविरुद्धधर्माध्यासत्वमेव, स्वे-जडत्वं, आत्मनि चैतन्यमिति विरुद्धधर्मत्वम्। यदि च देहादीनामस्वत्वं तदा न तत्र स्वस्य स्वामित्वमपीत्याह - 'परस्य' आत्मभिन्नस्य पौद्गलिकदेहादेरहमिति बुद्धिविषय आत्मा 'स्वामी'ति भोक्ता 'न च' नैव यद्वा चः समुच्चये, तेन स्वत्वनिषेधेन स्वामित्वनिषेधस्य समुच्चयः, यत्र न स्वत्वं तत्र तस्य स्वामित्वमपि नेत्युचितमेव । शुद्धनिश्चयो हि चिदात्मकं शुद्धमात्मानमेव स्वीकरोति न तु सांसारिकं स एव च शुद्धात्मा बन्धव्यवच्छेदार्थं चिन्तनीय इत्यभिप्रायः । तदभिप्रेत्याह'अपास्येति यत आत्मपुद्गलयोः स्वस्वामित्वाभावोऽतः अखिलान्-'सर्वानेव देहादीन् 'भावान्' पदार्थान्, अपास्य - मनसा दूरीकृत्य तेषु ममत्वं विहाय 'यदि आस्ते'आत्मा स्वभावस्थो भवति तर्हि 'बध्यते किं ?' किमिति काकुः, नैव बध्यत इत्यर्थः । देहादिषु स्वत्वाभिमानादेव रागादीनां प्रभवस्ततश्च बन्धः, देहादिषु स्वत्वाभिमानाभावात् 'तदभावे तदभाव' इति न्यायेन बन्धस्याभावः कारणविरहादिति । नाहमित्यादिरूपेण चिन्तयतो न कर्मबन्ध इति स्थितम् । उक्तं च - यद् दृश्यं तदहं नास्मि, यच्चादृश्यं तदस्म्यहम् । अतोऽत्रात्मधियं हित्वा, चित्स्वरूपं निजं श्रये ॥१॥ ततो विविक्तमात्मानं, सदानन्दं प्रपश्यतः । नास्य संजायते द्वेषो, दुःखे नापि सुखे स्पृहा ।।२।। ।।५।। ननु आत्मा सर्वथा सर्वदा च शुद्ध एव तर्हि कथं तस्य सांसारिकत्वमित्याशङ्कायामाह निष्क्रियस्याऽयसोऽयस्कान्तात् स्यात् सक्रियता यथा । कर्मोपाधेस्तथा जीवो, निष्क्रियः सक्रियो भवेत् ॥६॥ पद्मप्रभा० 'निष्क्रियस्ये 'त्यादि, 'निष्क्रियस्य'-क्रि यारहितस्य स्थिरस्थितस्येत्यर्थः, कस्येत्याह - 'अयसः' लोहस्य 'अयस्कान्तात्' कान्तलोहात् Page #65 -------------------------------------------------------------------------- ________________ अध्यात्मबिन्दुः [ तृतीया लोहाकर्षणशक्तिमतः सकाशात् 'स्यात्' भवेत् किमित्याह 'सक्रियता ' आकर्षणरूपक्रियायोगः 'यथे 'ति दृष्टान्ते कान्तलोहं ह्यपरं लोहं सक्रियं करोति तेन च तल्लोहं कान्तलोहस्य समीपमेतीत्याशयः । अथ दार्ष्यन्तिकमाह- ' तथा ' तेन प्रकारेण 'निष्क्रियः ' - शुद्धस्वभावस्तेनैव च स्थिरस्वभाव आत्मा शब्दादिपुद्गलादिकं प्रत्युन्मुखो जीवः आत्मा‘सक्रियः' शब्दादिषु प्रवृत्तिमान् भवेत् स्यात्, कुत इति हेत्वाकाङ्क्षापूरणायाह'कर्मोपाधेः' कर्मरूपो य उपाधिस्तस्मादिति । उप आधीयते इत्युपाधिरागन्तुको भावः कर्म यदात्मनि उपाधीयते समीपस्थं सम्बद्धं भवतीत्यर्थः, तदात्मनि क्रियायोगः नान्यथा, तादृशकर्म-संश्लेषाभावेऽऽत्मनः पुनः स्वरूपेणैव समवस्थानादिति भावः ||६|| - ६४ जीवपरमात्मनोः कर्मोपाधिकृत एव भेदो न तु तात्त्विक इत्याहशुद्धो बुद्धश्चिदानन्दो, निष्क्रियो निर्मलोऽव्ययः । परमात्मा जिनः सोऽयं सकर्मा जीवनामभाक् ॥७॥ पद्मप्रभा • 'शुद्धो' इत्यादि 'शुद्धो' - कर्मपङ्करहितत्वात् शुद्ध इव शुद्धः शुचिरित्यर्थः 'बुद्धः '- केवलज्ञानवान् अनावृतत्वात् यद्यप्यात्मनो ज्ञानैकरूपता तथापि व्यवहारतो बुद्धत्वं कथ्यते । शुद्धनयेनाह - 'चिदानन्दो' चिच्चासौ आनन्दश्च चिद्रूप आनन्दरुपश्चेत्यर्थः, शुद्धनयेन चिदात्मन आनन्दात्मनोश्चाभेदादिति 'निष्क्रियो' शब्दादिषु प्रवृत्तिशून्यस्तत्र हेतुगर्भं विशेषणमाह - 'निर्मलः ' कर्ममलरहितः कर्मोपाधेर्हि आत्मनः सक्रियता प्रागुपपादिता तद् राहित्ये च निष्क्रियतैवावशिष्टा स्वतः सिद्धेति । 'अव्ययः ' नित्योऽविनाशी, अत एव 'परमात्मा'- परमो जीवात्मापेक्षया श्रेष्ठः आत्मेति परमात्माऽखण्डचिदानन्दमयत्वात् परमत्वमात्मन एवति ध्येयम्। 'जिनः ' रागद्वेषादि जयाद् रागद्वेषादिप्रयोजक-कर्मोपाधेरभावादात्मा सदैव जिन एव भवतीत्यर्थः 'सः' उक्तप्रकार: 'अयं' अहमिति अनुभवगम्य आत्मा, 'सकर्मा' 'कर्मभिः सह वर्तमानः सन् 'जीवनामभाक्' जीव इति नाम-संज्ञां भजति इति सो जीव इत्यभिधीयत इत्यर्थः । एवं शब्दनयेन यस्यैवऽऽत्माख्या तस्यैव जीवाख्येति न जीवात्मनोर्भेद इन्द्रशक्रादिवदिति भावः ॥७॥ दाढर्क्ष्यार्थं उक्तामप्यात्मभावनां पुनरपि शब्दान्तरेणाह - कर्मभ्यः कर्मकार्येभ्यः, पृथग्भूतं चिदात्मकम् । आत्मानं भावयेन्नित्यं, नित्यानन्दपदप्रदम् ॥८॥ Page #66 -------------------------------------------------------------------------- ________________ द्वात्रिंशिका] अध्यात्मबिन्दुः ६५ पद्मप्रभा० 'कर्मभ्यः' इत्यादि, 'कर्मभ्यः' कर्मणां ज्ञानावरणाद्यष्टविधानां सकाशात् तथा कर्मकार्येभ्यः' कर्माणि उक्तानि तेषां कार्याणि देहादीनि सुखदुःखरूपाणिं वा तेभ्यः 'पृथग्भूतं' भिन्नं, अत्र हेतुग विशेषणमाह - 'चिदात्मकं' चिदेकस्वभावं यतश्चात्मा चित्स्वभावस्ततश्च कर्मादिभ्यो भिन्न इति भावः । अथ विशेष्यमाह - 'आत्मानं' शुद्धस्वरूपं चेतनं 'भावयेत्' पुनः पुनश्चिन्तयेत् 'नित्यं' निरन्तरं यावन्नात्मलाभो नात्मसाक्षात्कारस्तावदित्यर्थः । फलगर्भ विशेषणमाह - 'नित्यानन्दपदप्रदं' नित्योऽप्रतिपाती यः केवलानन्दस्तस्य यत्पदं सिद्धशीलादिपदं तत्प्रददातीति तादृशम् । अयं भावः - आत्मैव शुद्धरूपश्चिन्तितो मोक्षाय भवतीति ॥८॥ शुद्धात्मभावनापूर्वकं रागादिक्षपणमाह एको वै खल्वहं शुद्धो, निर्ममो ज्ञानदृङ्मयः । स्वस्वरूपे निमज्ज्य द्राग्, रागादीन् क्षपयाम्यमून् ॥९॥ पद्मप्रभा० 'एको' इत्यादि, ‘एको' केवलः परपुद्गलाद्यसम्पृक्त इत्यर्थः, अत एव 'शुद्धः' कर्ममलरहितो यत्र मलसम्बन्धः स न शुद्धस्तदभावाच्च शुद्ध इव शुद्धः । "वै खल्वि'ति अव्ययसमुदायो निश्चये, निश्चयत आत्मा एकः शुद्धश्चेति प्राग् प्रतिपादितमेव । न तु शुद्धस्य रागादिसम्बन्धोऽन्यत्र सम्भाव्यत इत्याह- 'निर्ममो' इति परपदार्थेषु ममेत्येवं वासनाशून्यो यो हि शुद्धः स वासनाशून्यो भवत्येवेति स्वरूपविशेषणमेतदीदृशश्च न चर्मचक्षुषा ग्राह्य इत्याह - 'ज्ञानदृङ्मयः' - ज्ञानमेवात्मोपलम्भसाधनत्वात् दृगिव दृष्टिरिव तन्मयश्चिदेकस्वभाव इत्यर्थः, ज्ञानदृष्ट्यैव हि इदृश आत्मा लभ्यो नान्यथा । नन्वीदृशः क इत्याकाङ्क्षायामाह - 'अहमिति ज्ञानविषयः आत्मा । 'स्वस्वरूपे' स्वस्यात्मनो यत् स्वरूपं चिदानन्दरूपं तत्र 'निमज्ज्य' नितरां मग्नो भूत्वा निरन्तरं तदेकतान इत्यर्थः 'द्राग्' शीघ्रमेव 'रागादीन्' रागद्वेषप्रभृतीनन्तरङ्गारी नमून्' शुद्धज्ञानदृष्ट्या विप्रकृष्टान् 'क्षपयामि' - निरस्यामि । अयं भावः यावन्न नैरन्तर्येण शुद्धात्मचिन्तनं न तावत् रागादिनिरास इति । यद्यात्मिकलाभ इष्यते तर्हि शुद्धात्मचिन्तनपरायणेन भवितव्यमिति ॥९॥ सुवर्णदृष्टान्तेन चिदेकात्मत्वमात्मनो भावयति - पीत-स्निग्ध-गुरुत्वानां यथा स्वर्णान्नभिन्नता । तथा दृग्-ज्ञान-वृत्तानां निश्चयान्नात्मनो भिदा ॥१०॥ Page #67 -------------------------------------------------------------------------- ________________ अध्यात्मबिन्दुः [तृतीया - पद्मप्रभा० पीते'त्यादि, निश्चयनयापेक्षया यथा येन प्रकारेण स्वर्णात्' सुवर्णात् 'पीत-स्निग्ध-गुरुत्वानां' पीतत्व-स्निग्धत्व-गुरुत्वानां त्वप्रत्ययस्य द्वन्द्वान्ते श्रूयमाणत्वात् प्रत्येकमभिसम्बन्धः 'द्वन्द्वान्ते द्वन्द्वादौ वा श्रूयमाणं पदं प्रत्येकमभिसम्बध्यते' इति न्यायात् । पीतत्वं स्वर्णस्य पीतिम गुणः, स्निग्धत्वं स्वर्णस्य तापसंयोगे द्रवावस्था, गुरुत्वं भारवत्त्वं एतत्रयं व्यवहारतो भिन्नं प्रतीयमानमपि न भिन्नं पृथगनुपलम्भात्, यो हि भिन्नः स पृथगुपलभ्यते तदेतदभिप्रेत्याह - 'न भिन्नता' न भेदरूपता द्रव्यार्थिकनये हि द्रव्यमेव तथा तथा भासते न पीतत्वादिपर्यायो नाम कोऽप्यस्तीत्यभेद एव द्रव्यगुणयोरिति । अथ दार्टान्तिकमाह - 'तथा' तेन प्रकारेण 'आत्मनो' द्रव्यार्थिकनयमतात् शुद्धरुपादात्मसकाशात् 'दृग्-ज्ञानवृत्तानां' दृग्-सम्यग्दर्शनं, तत्त्वार्थश्रद्धानं, ज्ञान-तत्त्वावबोधः, वृत्तंचारित्रं तत्त्वपरिणतिः विरतिभाव इत्येषां त्रयाणां 'न भिदा' न भेदः । आत्मन एव तथा तथा प्रतिभासः । ज्ञानादीनां आत्मनः सकाशाद् भेदस्तु व्यवहारेणैवेति सर्वविदितमेतत् तदुक्तं वीतरागस्तोत्रे - ध्याता ध्येयं तथा ध्यानं, त्रयमेकात्मतां गतम्। - इति ते योगमाहात्म्यं, कथं श्रद्धीयतां परैः ॥१४/८।। यस्मिन् विज्ञानमानन्दं, ब्रह्मचैकात्मतां गतम् । स श्रद्धेयः स च ध्येयः, प्रपद्ये शरणं च तम् ॥१/४॥ इति ज्ञानादीनां आत्मनो अपृथग्भावात् पृथगनुपलम्भात् न तेषु परस्परं भेदस्तत एवाऽऽत्मनश्च न ततो भेद इति शुद्धद्रव्यार्थिकनिश्चयदृष्टिरिति ध्येयम् ॥१०॥ ननु ज्ञानात्मनोरभेदे ज्ञानवानित्यादि व्यवहारो न सिद्धयति भेदे सति एव तद्वान् इति व्यवहारदर्शनादित्याशङ्कायामाह - व्यवहारेण तु ज्ञानादीनि भिन्नानि चेतनात् । राहोः शिरोवदप्येषोऽभेदे भेदप्रतीतिकृत् ॥११॥ पद्मप्रभा० 'व्यवहारेणे'त्यादि, तु पूर्वस्मात् भेदे विशेषे च । व्यवहारदृष्टिनिश्चयतो भिन्ना तत एव चात्मनो ज्ञानवत्त्वादि विशेषणमिति । तद्विवृणोति 'व्यवहारेणे'ति व्यवहारेण-व्यवहारनयदृष्ट्या 'ज्ञानादीनि' दृगज्ञानवृत्तानि, आदिशब्दः प्रकारे न तु व्यवस्थायां ततश्च ज्ञानप्रकारता दृशौ वृत्तस्यापीति ज्ञानादीनि इत्यनेन त्रयाणां ग्रहणं यद्वा Page #68 -------------------------------------------------------------------------- ________________ द्वात्रिंशिका ] अध्यात्मबिन्दुः ६७ ज्ञानस्य यथा पर्यायता तथा सर्वे आत्मनः पर्याया इति । तानि कथं ? इत्याह- 'भिन्नानि ' भेदेन प्रतीयमानानि कुत इत्याह- चेतनात्-आत्मनो यदि हि भेदो न स्यात् पृथग् व्यवहारो न स्यादस्ति च पृथग् व्यवहारस्ततः कथञ्चिद् ज्ञानात्मनोर्भेदोऽपि । ननु वस्तुतोऽभेदे कथं भेदेन व्यवहार इति चेत् तत्र दृष्टान्तमाह - 'राहोः शिरोवद्' यथा राहो ः शेषदेहाऽभावात् शिरोदेश एव राहुः । एवं राहोस्तच्छिरसोरभेदस्तथापि राहोः शिर इत्यौपचारिक भेदमाश्रित्य भेदसम्बन्धे षष्ठी, अभेदे तदनुपपत्तेः, दान्तिक माह तद्वद् 'एषो ' व्यवहारनयोऽपीत्यभेदेऽपि इत्यर्थः व्युत्क्रमेण सम्बन्धः निश्चयतो भेदाभावेऽपीत्यर्थोऽपिना यत्र वास्तवो भेदस्तत्र तु भेद - प्रतीतेः कथैव केति द्योत्यते । 'भेदप्रतीतिकृत्' भेदस्य भेदविषयतया तत्सम्बन्धिनीं प्रतीतिं ज्ञानं करोतीति । स व्यवहारनयो निश्चयनयतोऽभेदे सत्यपि भेदधियं जनयेत् निश्चयाभिमतपदार्थादर्शनात्तस्य । एवं च तदभिप्रायेणैव ज्ञानादीनामात्मनो भेदेन प्रतिपादनमित्याशयः ॥११॥ कर्मपरिशाटयर्थं भेदभावनां विभावयति - - भेदविज्ञानमभ्यस्येद् धारावाहितया बुधः । येन विक्षिप्य कर्माणि स्वयं शुद्धोऽवतिष्ठते ॥१२॥ पद्मप्रभा० ‘भेदे’त्यादि, 'भेदविज्ञानं' - भेदः कर्मजीवयोः पार्थक्यं तस्य विज्ञानं, विशिष्टं देहादिषु स्वत्वाभिमानादिपरिहारेण ज्ञानं-निश्चयस्तं देहादिषु स्वत्वाभिमानादिपरिहारपूर्वकं कर्मजीवभेदभावनामित्यर्थः, 'अभ्यस्येत्' पुनः पुनर्भावयेत् तदपि न पुनर्यदाकदाचिदित्याह - ‘धारावाहितया' यथा धारा प्रवाहेऽत्रुटिता प्रवर्तते तथा नैरन्तर्येणेति, तदुक्तं चान्यत्रापि 'श्रोतव्यः श्रुतिवाक्येभ्यो, मन्तव्यश्चोपपत्तिभिः । श्रुत्वा तु सततं ध्येयः, एतेदर्शनहेतवः ॥ १॥ इत्थं भावनावांश्च न साधारणो जन इत्याह 'बुधः ' सदसद्विवेकसम्पन्नः स्वरूपसमवस्थानमिच्छन्नित्यर्थः, न हि अनीदृशस्तादृश इति, तादृश भावनावान् बुध एव, बुध एव च तादृश भावनावानिति ध्वन्यते । अभ्यासप्रयोजनमाह - 'येन' तादृशभेदविज्ञानाभ्यासेन 'विक्षिप्य' परिशाट्य किमित्याह कर्माणि ज्ञानावरणीयादीनि, कर्मपरिशाटेनेष्टसिद्धिमाह - 'स्वयं' स्वत एव 'शुद्धः ' निरावृतः सन् 'अवतिष्ठते' स्थितो भवति, स्वरुपसमवस्थानं लभत इत्यर्थः । अयं भावः- यथा मेघाद्यावृत्तः सूर्य आवरणापगमे स्वयं प्रकाशस्तिष्ठति नत्वाऽऽवरणानपगमेन स एतादृशः क्रियते तथैव उक्तभेदविज्ञानाभ्यास-वशादावरणानि कर्माणि व्यपगतानि भवन्तीति, आत्मा - - Page #69 -------------------------------------------------------------------------- ________________ ६८ अध्यात्मबिन्दुः [तृतीया स्वयं शुद्धोऽवतिष्ठते स्वरूपेण समवस्थितः प्रकाशते न तु कर्मपरिशाटेन आत्मनस्तथास्थितिसम्पादनमिति ॥१२॥ देहात्मबुद्धिपरिहारमुपदिशन्नाह - स्वस्मिन् स्वधीनयेन्मुक्तिं देहेऽहंधी: पुनर्भवम् । ततो देहादहंबुद्धि प्रच्याव्याऽऽत्मनि योजयेत् ॥१३॥ पद्मप्रभा० 'स्वस्मिन्नि'त्यादि, 'स्वस्मिन्' इति स्व-आत्मा तस्मिन् शुद्धचिदानन्दात्मकात्मनीत्यर्थः स्वधी: ममत्वबुद्धिरहमिति बुद्धिरित्यर्थः, नयेत्' प्रापयेत् प्राप्याकाङ्क्षामाह - 'मुक्तिं' स्वरूपमवस्थानात्मकं कर्ममलरहितं स्वरूपमित्यर्थः, आत्मन्यात्मबुद्धिरेव मुक्तिसाधिकेति मुमुक्षुणाऽऽत्मारामेणैव भवितव्यमिति भावः । अन्यत्रात्मबुद्धिस्तु मोहः स च बन्धसाधकत्वात् भवपरंपराहेतुरित्याशयेनाह - 'देहे' औदारिकादिशरीरे विशरारुस्वभावे अहंधीः' अहमिति बुद्धिरात्मत्वभ्रमः पुनर्भवं-भवपरम्परां नयेदित्यनेन सम्बन्धः, अतस्मिन्स्तबुद्धिर्भवहेतुस्तस्मिंश्च तद्बुद्धिर्भवोच्छेदहेतुरिति यावत्। नन्वस्त्वेवं तावता किमिति चेद् तत्राह - 'ततो' इति तत उक्तविवेकाद्धेतोर्दैहादुपलक्षणत्वाद् गेहादित इत्यर्थः, अहंबुद्धिमात्मबुद्धिं ममत्वबुद्धिं च 'प्रच्याव्य' अपसार्य देहादिष्वात्मबुद्धिमपोह्याऽऽत्मनि' तां ‘योजयेदा'त्मानमेव तादृशबुद्धिविषयतया भावयेदतस्मिन् तद्बुद्धि विहाय मुमुक्षुणा तस्मिन्नेव तद्बुद्धिः करणीयाऽन्यथा भवपरम्परानुषङ्ग इति भावः ॥१३।। आत्मध्यानेन कर्मपरिशाट: ततश्च जन्माभावः कारणविरहादित्याह - पुण्य-पापद्वयं रुद्ध्वा, ध्यायेदात्मानमात्मना । बीजाभावे ततो जन्म-प्ररोहोऽयं न संभवेत् ॥१४॥ पद्मप्रभा० 'पुण्यपापद्वयमित्यादि, 'पुण्यपापद्वयं' पुण्यं च पापं च तयोर्द्वयं पुण्यपापद्वयं पुण्यपापहेतुशुभाशुभाश्रवसमूहमित्यर्थः,'रुद्ध्वा' संवृत्त्य ध्यायेत्' स्थिरतया चिन्तयेत्- पुनः पुनः स्मरेत् कमित्याह - 'आत्मानं' शुद्धं चिदानन्दात्मकं केनेत्याह'आत्मना'ऽन्तरात्मना साधनरूपेण । अयमाशयः- यदात्माऽन्तर्मुखप्रवृत्तिर्भवति तदाऽऽत्मा आत्मानमेव ध्यायति तदानीं च पुण्यपाप कथा हीयतेऽऽत्मनः स्वमग्नत्वात् । एवं च मुखं व्यादण्य स्वपितीतिवत् रुद्ध्वेति त्वान्तः प्रयोगस्तेन चाऽऽत्मध्यानसहभावेनैव पुण्यपापरोधो Page #70 -------------------------------------------------------------------------- ________________ द्वात्रिंशिका] अध्यात्मबिन्दुः ध्वन्यते नत्वादौ पुण्यपापरोधः पश्चादात्मध्यानं, ध्यानस्यैव तत्र हेतुत्वादिति बोध्यम् । ननु एवं कृते सति किं लभ्यमित्याकाङ्क्षायामाह- तत आत्मध्यानेन पुण्यपापयो रोधे सति - 'बीजाभावे' बीजस्य पुण्यपापरूपनिदानस्याभावे सति 'अयं' सर्वत्र लोके दृश्यमानः 'जन्मप्ररोहः' जन्म-जनिः-भवः तदेव प्ररोहोऽङ्करः स न नैव 'सम्भवेत्' आत्मलाभं लभेत । अयमाशयः- बीजे सत्यङ्करोत्पादस्तथैव जन्मकारणं पुण्यपापे स्तः । आत्मध्यानेन तद्रोधे च पुण्यपापयोरभाव इति हेत्वभावात् पुनर्भवस्याप्यभावः, न हि कारणाभावे कार्यमिति ॥१४॥ ननु प्राग् यदुक्तं निष्क्रियः कर्मभ्यः कर्मकार्येभ्यश्च पृथगाऽत्मा तर्हि कथं रागादीनां कर्तेत्याह - अनादिबन्धनोपाधिसन्निधानप्रधावितान् । रागादीनात्मनः कुर्वन्नात्मा भवति कारकः ॥१५॥ पद्मप्रभा० 'अनादि' इत्यादि, न आदिर्यस्य तत् अनादि प्रवाहरूपेण न तु व्यक्तिरुपेण बीजाङ्करवत्, तादृशं यद् बन्धनं' कर्मसंश्लेषः स एव उपाधि'वैगुण्यापादक आगन्तुको धर्मस्तस्य 'सन्निधानं' नैकट्यं तेन हेतुना 'प्रधावितान्' प्रधाविताः स्वयमेवापतिताः तान् । अयमाशयः- कर्मसन्निधानेन रागादयः कर्ममाहात्म्यात् स्वयमेव जायन्ते इत्यतस्तेऽनादिबन्धनोपाधिसंन्निधानप्रधाविता इति विशेष्यमाह - 'रागादीन्' रागो विषयाभिष्वङ्ग आदिना द्वेषादिपरिग्रहस्तान् ‘आत्मनः' - स्वस्य स्वपरिणामतया 'कुर्वन्' सम्पादयन्नात्मा 'कारकः'- कर्ता पुण्यपापयोर्हेतुर्भवति ॥१५॥ ननु स्वयं स्वस्य बन्धाय कथं प्रवर्तेतेत्याह - यथाऽऽत्मानं निबध्नाति तन्तुभिः कोशकृत् कृमिः । तथाऽशुद्धाशयै वो बध्नात्यात्मानमात्मना ॥१६॥ पद्मप्रभा० 'यथे' त्यादि यथा-येन प्रकारेणात्मानं स्वयमेव 'निबध्नाति' नितरां बन्धनविषयं करोति कैरित्याह - 'तन्तुभिः' स्वमुखोगिरितलालाभिः । कोशं तन्तुजालं करोतीति कोशकृत् कृमिः' - क्षुद्रजन्तुविशेष: 'तथा' तद्वत् अशुद्धा अनिष्टापादकत्वात् आशया सगादिपरिणामास्तैः करणभूतैः कथञ्चिदात्मनोऽपृथग्भूतैरिति करणरूपेणाऽऽत्मना जीव आत्मानं बध्नातीति । कर्मरज्जुवेष्टितं करोति, कमित्याह - 'आत्मानं' स्वमेव, तत्र Page #71 -------------------------------------------------------------------------- ________________ ७० अध्यात्मबिन्दुः [तृतीया न किमप्यन्यत् साधनमित्याह-'आत्मना' कारणान्तरनैरपेक्ष्येणेत्यर्थः, एतेनैवं ईश्वरादीनां कारणत्वं निराकृतं बोध्यम् । न हि कोशकृत्कृमः स्वबन्धने प्रयोजकापेक्षा तद्वदात्मनोऽपीति । ईश्वरादेः तन्निमित्तत्वकल्पना कुहेवाकमात्रमिति ॥१६।। अत्रार्थे दाार्थं दृष्टान्तान्तरमाह - लूताऽऽत्मानं निबध्नाति यथा स्वात्मोत्थतन्तुभिः । शुभाशुभाध्यवसायैरात्मा बनंस्तथेष्यताम् ॥१७॥ पद्मप्रभा० 'लूते' त्यादि, लूता' - मर्कटक: जन्तुविशेष: 'आत्मानं' निबध्नाति निवासतया स्वरागविषयं करोति, यथेति दृष्टान्ते स्वात्मोत्थतन्तुभिः' स्वात्मा - स्वशरीरं तदुत्थास्तदुद्भवा ये- तन्तवः सूत्राणि तैः कृत्वा अयमर्थः- यथा लूता स्वमुखान्निर्गतलालाभिः जालं रचयति तेनैवाऽऽत्मानं स्वं निबध्नाति' नितरां दृढं बध्नाति - निगडयति । दाान्तिकमाह-'तथा' तेन प्रकारेणैव 'शुभे' त्यादि शुभाः कुशलानुबन्धिनोऽशुभा अकुशलानुबन्धिनो येऽध्यवसायाः रागादिरूपपरिणामास्तैः कृत्वाऽऽत्मा बध्नन्'-बन्धनं सम्पादयन् आत्मानमिति, कर्मतयेह सम्बन्धनीयम्'इष्यताम्' - स्वीक्रियताम् । आत्मा शुभाशुभाध्यवसायेन स्वयमेव स्वस्य पुण्यपापस्वरूपं बन्धनं सम्पादयति लूतावदिति न तत्र ईश्वरादिप्रयोजकापेक्षेति भावः ॥१७॥ जीवस्य कर्मबन्धनादौ पराभिमतं ईश्वरस्य कर्तृत्वं निरस्यति - ईश्वरस्य न कर्तृत्वमशरीरत्वाद् दिगादिवत् । ततस्तत्प्रेरितो हन्त ! कथमेव विचेष्टते ? ॥१८॥ पद्मप्रभा० 'ईश्वरस्ये' त्यादि, ईश्वरस्य नित्यज्ञानेच्छाकृतिमतश्चेतनस्येश्वरपदवाच्यस्य नैयायिकाद्यैरभ्युपगतस्य न 'कर्तृत्वं' कृतिमत्वं जीवस्य संसारिसत्त्वस्य कर्मबन्धनादौ कर्म शुभाशुभमदृष्टं तस्य बन्धनं - आत्मना सह संयोगः आदिपदात् तत्फले सुखदुःखादि जन्मादिक्लेशश्च तज्जन्मादिग्रहणं प्रति न प्रेरकत्वं, तत्र हेतुमाह - 'अशरीरत्वात्' देहरहित्वात् तत्र दृष्टान्तमाह - ‘दिगादिवत्' इति दिगाकाशादेदेहरहितत्वात् यथा न कर्तृत्वं तथेति । इदमिह ध्येयं- नैयायिका हि कर्तृत्वेन कार्यत्वेन कार्यकारणभावं स्वीकृत्य जन्मादिकार्य प्रतीश्वरस्य कर्तृत्वमनुमिन्वन्ति, तत्रायं सप्रतिपक्षस्तथा च प्रयोगः - ईश्वरो न कर्ताऽदेहत्वात् यो योऽदेहः स स न कर्ता दिगादिवदिति । उक्तानुमानेनेश्वरस्य कर्तृत्वनिषेधे फलितमाह - Page #72 -------------------------------------------------------------------------- ________________ द्वात्रिंशिका] अध्यात्मबिन्दुः ७१ 'ततः' इति तत ईश्वरस्यादेहत्वादकर्तृत्वाद्धेतोः 'तत्प्रेरितो' ईश्वरप्रेरणापरवश आत्मेति प्रस्तावाल्लभ्यते । हन्तेति खेदेऽलीके च कथमेव' इति च प्रश्नकाकुः, नैव कथमपीत्यर्थः 'विचेष्टते' कर्मशरीरादिग्रहणं प्रति व्यापारवान् भवति । यस्य हि प्रेरणं स देही दृष्टः, न च ईश्वरो देही सम्मतः तस्मान्न प्रेरकः, एवं च तथाभ्युपगमोऽज्ञानजनित इति खेदजनकोऽलीकश्चेत्याशयः ॥१८॥ ननु शुद्धस्यात्मनः कथं प्रवृत्तिरित्याशङ्कयन्नाह - अनाभोगेन वीर्येण, कर्ता देहादिकर्मणाम् । भुक्ताहारस्य मांसासृग्रसादिपरिणामवत् ॥१९॥ पद्मप्रभा० अनाभोगेने'त्यादि, इदमिह द्रष्टव्यम् - आत्मनो वीर्यद्वयं आभोगवीर्यमनाभोगवीर्यं च । अभिसन्धिपूर्वकं प्रवृत्तिहेतुराभोगवीर्य, अनभिसन्धितः प्रवृत्तिहेतुस्तु अनाभोगवीर्य, तेनानाभोगेनानभिसंधिजेन वीर्येण सामर्थ्येन कृत्वा कर्ता सम्पादक आत्मेति प्रस्तावात् लभ्यते केषामित्याकाङ्क्षायामाह-'देहादिकर्मणां' देहादीनां तन्निमित्तकर्मणां च 'जीवस्य' आत्मनः कर्मबन्धो देहादिग्रहणं चानभिसन्धिजेन व्यापारेण । ननु अनभिसन्धिजो व्यापारोऽसिद्ध इति चेत्र, तबाह-'भुक्ताहारस्य' भुक्तस्याहारस्यानादे' माँसासृग्रसादिपरिणामवत्' मांसं प्रसिद्धं, असृग्-शोणितं, रसो-वीर्यं भुक्तान्नादेः परिणामविशेषा आदिना मज्जास्थ्यादिः तद्रूपो यः परिणामः तद्वत् यथा भुक्तस्यान्नादेर्मासादिपरिणामोऽनभिसन्धिजो, नाभिसन्धिना मांसादिपरिणाम इति सार्वजनीनमेतत् तथात्मनोऽप्यनभिसन्धिजमेव देहादिकर्तृत्वमिति । तदर्थमीश्वरकल्पना न युज्यते इत्याशयः ॥१९॥ ननु ईश्वरस्यैकस्य कर्तृत्वाभ्युपगमे लाघवं अनन्तानां आत्मनां तत्त्वे च गौरवमिति चेन्न प्रामाणिकगौरवस्य दोषानावहत्वादित्याह - प्रत्येकं कर्तृतायां स्यान्न चैवं गौरवं किल । प्रामाणिकं यत् तद् दुष्ट, नेति क्रोडीकृतं परैः ॥२०॥ पद्मप्रभा० 'प्रत्येकमि'त्यादि, 'प्रत्येकं' पृथग् तस्मिंस्तस्मिन्नात्मनि ‘एवं' उक्तरीत्याऽनाभोगवीर्येण कर्तृत्वस्वीकारे सति 'गौरवं' अनन्तकर्तृत्वकल्पनात्मको बुद्धिव्यायामः 'न च' नैव 'स्यात्' भवेत् 'किले 'ति निश्चये । ननु अनन्तात्मा कर्ता इति तद् गौरवं दुर्निवारमिति चेत् तत्राह - 'प्रामाणिकमि'त्यादि प्रामाणिकं प्रमाणसिद्धं यत्' Page #73 -------------------------------------------------------------------------- ________________ ७२ अध्यात्मबिन्दुः [तृतीया यत्प्रकारं तत्त्वं तत्'तत्प्रकारं तत्त्वं गौरवग्रस्तत्वाद् ‘दुष्ट' दोषग्रस्तं हेयमिति 'न' - नैव । 'इति'- हेतोः एवं परैः 'परतीर्थिकवादिभिः न केवलं जैनादिभिरिति क्रोडीकृतं' अभ्युपगतम् । प्रामाणिकं गौरवं न दोषायेति परं नयः । ईश्वरस्योक्तरीत्या कर्तृत्वासम्भवे प्रत्येकमात्मनश्च तदस्वीकारे जगदसिद्धिरित्यकामेनाप्यात्मनः कर्तृत्वं प्रत्येकमास्थेयमेवेति जगदन्यथानुपपत्त्या सिद्धमात्मनो प्रत्येकं कर्तृत्वं गुरुभूतमपि स्वीकरणीयमेवेति भावः ॥२०॥ _ ननु कोऽप्यात्मनोऽनर्थाय न प्रवर्तत इत्यात्मनः कर्तृत्वमसमञ्जसं परवशतयैव दुःखप्रवृत्तिदर्शनाच्चेश्वरस्य कर्तृत्वमावश्यकमिति चेन्न आत्मनः कर्माधीनप्रवृत्तिकत्वात् ईश्वरप्रेरणां विना कर्मणैव जीवस्याधोगमनं दुर्योनिगमनं सदृष्टान्तं दर्शयन्नाह - स्वयं प्रयाति दुर्योनि कर्मणा विवशीकृतः। अमेध्यसम्भृतं कूपमुन्मत्त इव चेतनः ॥२१॥ पद्मप्रभा० स्वयमि'त्यादि, स्वयं' ईश्वरकृतप्रेरणां विनैवात्मनैव प्रयाति' प्रकर्षण याति गच्छति 'दुर्योनि' दुष्टां दुःखबहुलां योनि श्व-शूकरादिभवं नरकादिगतिमित्यर्थः, अधोगति स्वभावप्रच्युतिमिति यावत् 'कर्मणा' ज्ञानावरणीयाद्याख्येन 'विवशीकृतः' पराधीनः कृतः सन् क इत्याह- 'चेतनः' चेतनावान्, चेतनावानपि कर्मवशादधोगति यातीति महन्माहात्म्यं ध्वन्यते कर्मण इति । अत्र दृष्टान्तमाह-'अमेध्ये 'त्यादि अमेध्यैरशुचिद्रव्यैः कृमिविष्टादिभिः सम्भृतं' - पूर्णममध्यसञ्चयकलुषमित्यर्थः, 'कूपं' - निम्नमवटादिक मुन्मत्तः' हिताहितविवेकविकल उन्मादपरवश 'इव' सम्भ्रान्तचित्तः स इवेति । यथा उन्मादग्रस्तोऽनवस्थितचित्तत्वात् विवेकभ्रष्टोऽशुचावपि कूपादौ निमज्जति तथात्मापि कर्मवशात् स्वभावप्रच्युतोऽशुद्धपरिणामो दुःखबहुलनानायोनि प्रतिपद्यत इति कर्मणः स्वीकारेणैवेष्टसिद्धेरीश्वरस्यातिरिक्तस्य पदार्थस्य स्वीकारे गौरवं विहाय नान्यः कोऽपि लाभ इति भावः ॥२१॥ विनात्मज्ञानात् न हि सिद्धिरित्याह - अन्वय-व्यतिरेकाभ्यां, मोक्षहेतुः स्वधीभवेत् । तदभावे तपस्तप्तं, योगक्षेमकरं न हि ॥२२॥ पद्मप्रभा० अन्वये 'त्यादि, अन्वयः 'तत्सत्त्वे तत्सत्त्वं' 'व्यतिरेकः' 'तदभावे तदभावः' ताभ्यां कृत्वा 'स्वधी:' आत्मज्ञानं 'मोक्षहेतुः' मोक्षकारणं भवेत् स्यात् । Page #74 -------------------------------------------------------------------------- ________________ ७३ द्वात्रिंशिका] अध्यात्मबिन्दुः इदमत्राकूतम् - आत्मज्ञानसत्त्वे मोक्षसम्भव आत्मज्ञानाभावे च मोक्षाभाव इत्यन्वयव्यतिरेकाभ्यां आत्मज्ञानस्य मोक्षहेतुत्वं सिद्ध्यति। एवं च आत्मज्ञानं विना कृतस्य तपःप्रभृतेन फलसाधकत्वमपि त्वकिञ्चित्करत्वमेवेत्याह - 'तदभावे' तस्यात्मज्ञानस्याऽभावें आत्मज्ञाननैरपेक्ष्येणेत्यर्थः, 'तपः' अनशनोनोदरतादि 'तप्तं'आचरितमिति 'योगक्षेमकरं योगः अलब्धस्य लाभः, क्षेमः प्राप्तस्य रक्षणं तत्करं योगक्षेमकरं 'न हि' नैव, एवं चानशनादेर्बाह्यतपसो ज्ञानद्वारेणैव मोक्षसाधकत्वं न तु स्वरूपतः । आत्मज्ञाननिरपेक्ष-मासक्षपणादितपसो निष्फलत्वं सुविदितमेव तदुक्तं -'ज्ञानं लब्ध्वा परां शान्तिमचिरेणाधिगच्छति' इति तथा “देहान्तरगते/जं देहेऽस्मिन्नात्मभावना । बीजं विदेहनिष्यत्तेरात्मन्येवाऽऽत्मभावना ॥१॥" इत्यनेनाऽऽत्मज्ञानस्यैव प्राधान्येन योगक्षेमकरत्वं ध्वन्यते ॥२२॥ आत्मज्ञानान्मुक्तिरित्युक्तं तत्रानुग्राह्यसौकर्यार्थमात्मज्ञानं भावयति - वेत्ता सर्वस्य भावस्य, वेद्यं च परमं हि यः। अनाद्यनन्तो निर्द्वन्द्वो, महानन्दो महोदयः ॥२३॥ पद्मप्रभा० 'वेत्ते'त्यादि, 'वेत्ता'-ज्ञाता कस्येत्याह 'सर्वस्य' - अशेषस्य 'भावस्य' पदार्थजातस्य सर्वद्रव्यगुणपर्यायस्येत्यर्थः, छाद्मस्थिकं हि ज्ञानं अल्पविषयकं, शुद्धा चित्तु सर्वानेव भावान् विषयीकरोति, कथमन्यथा कैवल्ये सर्वद्रव्यगुणपर्यायप्रत्यक्षं स्यात् ? इति ध्येयम् । 'हि' पुनः 'यः' शुद्ध आत्मा ‘परमं' सर्वमुख्यतया परमपुरुषार्थसाधकतया च सर्वोत्कृष्टं वेद्यं' - ज्ञेयं अर्थात् तस्मिन्नेकस्मिन् ज्ञाते सर्वं ज्ञातं भवति नान्यत् किमपि ज्ञातुमवशिष्यते । इदमत्र बोध्यम् - वेद्यमिति सामान्येन नपुंसकं, सर्वेषु ज्ञेयेषु मुख्यतया तदेवैकं ज्ञेयमिति नपुंसकनिर्देशो न विरुध्यते । तथा अनाद्यनन्तो' न आदिर्यस्य स तथा न अन्तो यस्य स, स च नित्य इत्यर्थः 'निर्द्वन्द्वो' द्वन्द्वः - रागद्वेषादि, कामक्रोधादि, इष्टवियोगानिष्टसंयोगादि तस्मानिष्क्रान्तः । अत एव 'महानन्दः' महान् - निरतिशय आनन्दो यस्य स निरतिशयाखण्डानन्दात्मेत्यर्थः 'महोदयः' महान् सर्वोत्कृष्ट उदयः प्रकाशनं यस्य स, तदुक्तं-वीतरागस्तोत्रे - "आदित्यवर्णं तमसः परस्तादामनन्ति यम्"। (वीतरागस्तोत्र १/१) ॥२३॥ यो हि वीतराग आनन्दमयः सर्वज्ञश्च स निर्विकल्पक एव स्यादित्याह - Page #75 -------------------------------------------------------------------------- ________________ ७४ अध्यात्मबिन्दुः विकल्पैरपरामृष्टः, स्पृष्टः कर्माणुभिर्न च । परं ज्योतिः परं तत्त्वं, तदेवाहं न चापरम् ॥२४॥ [ तृतीया पद्मप्रभा० ‘विकल्पै 'रित्यादि, शब्दादिविषयकसंकल्पैः‘अपरामृष्टः'असंस्पृष्टः शून्य इत्यर्थः ननु कर्मसंश्लेषे विकल्पो दुर्वार इति चेत् तत्राह - 'स्पृष्टः' सम्पृक्तः, 'न च' नैव, कैरित्याह - 'कर्माणुभिः ' कर्मपुद्गलैरित्यर्थः । शुद्धनये हि सर्वं स्वप्रतिष्ठमिति न कर्मात्मनः कोऽपि सम्बन्ध इत्याशयः । 'परं' सर्वोत्कृष्टं सर्वभवद्भाविभूतभावावभासकत्वात् अत एव‘ज्योतिः' प्रकाशकत्वसाधर्म्यात् ज्योतिरिव ज्योति: । 'परं' श्रेष्ठानन्दैकस्वभावत्वात् ‘तत्त्वं' भावः-वस्तुः अत्यन्तोपादेयमिति भावः । ननु इदृशो भवतु कोऽपि तेन स्वस्य को लाभः ? इति चेत् तत्राह - 'तदेवाह 'मिति एवकारेणानीदृशो व्यवच्छेदस्तदिति वेत्तृत्वादिविशेषणविशिष्टं तत्त्वमेव 'अहं' अहमितिपदबोध्य आत्मा न च नैव 'अपरं ' अन्यादृशं, शुद्धनयस्य सोपाधिकात्मनोऽविषयत्वादिति भावः ||२४|| - पुनरपि शुद्धात्मानं विशिनष्टि अणोरणीयानीत्यादिनाअणोरणीयान् महतो महीयानपि य पुनः । यस्य भासा जगत् सर्वं भात्यलक्ष्यः पुनः स्वयम् ॥२५॥ पद्मप्रभा० 'अणोरणीयानि 'त्यादि, 'अणोः ' सूक्ष्मदृशा अपि दुर्ग्राह्यत्वात् सूक्ष्मः तस्मादपि' अणीयान्' सूक्ष्मादपि सूक्ष्म इत्यर्थः । 'महतः' मेर्वादेः सकाशात् 'महीयान्' महत्तमः केवलिसमुद्धाते सर्वाकाशप्रदेशव्याप्तेरिति ध्येयम् । अपिश्चार्थे न केवलमणुरेव महानपीति अथवा अपिर्भिन्नक्रमः तथा च महतोऽपि महीयानित्यर्थः । 'य' इति विशेष्यमाह • यः इति शुद्धात्मा पुनरिति वाक्यालङ्कारे, यदुक्तं परंज्योतिरिति (श्लोक-२४) तद्विवरणमाह - 'यस्ये 'ति शुद्धात्मनो' भासा' चित्प्रकाशेन' जगत् ' विश्वं सर्वं अशेषं' भाति' प्रकाशते । यदि शुद्धचिदात्मात्मा न स्यात् तर्हि सर्वज्ञकथा अस्तमेवोपेयात्, इदृशोऽपि 'स्वयं' आत्मा 'पुनः' 'अलक्ष्यः' अगम्यः छद्मस्थानां, निरावृतज्ञानमात्रगम्यत्वात् तस्य । इदृश आत्मा भावितः सन् मोक्षहेतुरिति सम्बन्धनीयम् ॥२५॥ आत्मना ननु मोक्षो दुर्लभः कर्मबन्धानिवृत्तेरित्याशङ्कायामाह विषमश्नन् यथा वैद्यो, विक्रियां नोपगच्छति । कर्मोदये तथा ज्ञानी, भुञ्जानोऽपि न बध्यते ॥२६॥ पद्मप्रभा० 'विषमित्यादि, 'विषं 'गरलं अश्नन् भुञ्जान: 'यथा' येन प्रकारेण Page #76 -------------------------------------------------------------------------- ________________ द्वात्रिंशिका] अध्यात्मबिन्दुः ७५ 'वैद्यः' भिषक् 'विक्रियां' विषभक्षणजन्यचैतन्यविलोपादिरूपं विकारं नोपगच्छति न प्राप्नोति 'तथे ति दाान्तिकोपदर्शनार्थमाह - 'कर्मोदये' इति कर्मण उदये फलदानाभिमुख्ये 'भुञ्जानोऽपि' कर्मफलमनुभवन्नपि विषयाननुभवन्नपि 'ज्ञानी' उक्तस्वरूपात्मज्ञानवान् 'न बध्यते' न कर्मणा श्लिष्यते । अयं भावः - वैद्यो हि विषविकारज्ञः विषं विशोध्यैव विषस्य विकारसामर्थ्य तथा तथा प्रक्रियाभिरपनीयैव भक्षयति ततश्च दोषकारकादपि भेषजरूपतां प्राप्तात् विषाद् दोषोपशम एव जायते तथा ज्ञानी कर्मोदये तत्फलभोगस्यावर्जनीयत्वेऽपि भरतादिवदनासक्तभावेनैव ज्ञानमहिम्ना भोगान् भुञ्जानोऽपि न बध्यते, रागादेरेव बन्धप्रयोजकत्वात् ज्ञानिनस्तदभावादिति । एवं चोदितस्य कर्मणो भोगेन क्षयात् नूतनबन्धस्य चाभावात् ज्ञानिनो मोक्षः कथं न स्यादिति ?. स्यादेवेत्यर्थः ॥२६॥ उक्तमेवार्थं दृष्टन्तान्तरेण विशदयन्नाह - मन्त्रादिध्वस्तसामर्थ्यो, न दहत्यनलो यथा । बद्धं नालं तथा ज्ञान-शक्तिकुण्ठीकृतोऽप्ययम् ॥२७॥ पद्मप्रभा० मन्त्रादी'त्यादि, यथा' - येन प्रकारेणेति, मन्त्रादिध्वस्तसामर्थ्यः' मन्त्रः - अग्निबन्धनमन्त्रः तन्त्रशास्त्रप्रसिद्धः, आदिना तथाविधविद्याभेषज-लेपादि तेन कृत्वा ध्वस्तं सामर्थ्य शक्तिर्यस्येत्येवं प्रकार: 'अनलः' अग्निः 'न दहति' न दाहं करोति ध्वस्तसामर्थ्यात् न भस्मसात्करोतीत्यर्थः 'तथा' - तेन प्रकारेण 'ज्ञानशक्तिना' - ज्ञानसामर्थ्येन 'कुण्ठीकृतोऽप्ययं' दग्धरज्जुकल्पकृतः पुनः कर्मबन्धशक्तिशून्यः कृतः, अयं कर्मोदयः 'बद्धं' - निगडितुं 'नालं' न समर्थः 'अपिः एवार्थे भिन्नक्रमश्च न इत्यनेन सम्बध्यते, नैव अलमित्यर्थः । तदुक्तं - "अज्ञानी क्षपयेत् कर्म, यज्जन्मशतकोटिभिः । तज्ज्ञानी तु त्रिगुप्तात्मा, निहन्त्यन्तर्मुहूर्तके" ॥१॥॥२७॥ सम्यग्दृष्टिश्च ज्ञानी एव भवति ततस्तस्य द्रव्यभोगो नालं कर्मलेपायेति दृष्टान्तपूर्वकमाह ____ मद्यं पिबन् यथा मत्तो, न स्यादरतिमान् पुमान् । द्रव्यभोगं तथा कुर्वन्, सम्यग्दृष्टिर्न लिप्यते ॥२८॥ पद्मप्रभा० 'मद्यमित्यादि, 'मद्यं' मादकं मदिरादिकं तत् 'पिबन्' सेवमानः Page #77 -------------------------------------------------------------------------- ________________ ७६ अध्यात्मबिन्दुः [ तृतीया 'यथा' येन प्रकारेण 'मत्तः ' मदपरवशः 'पुमान्' नरो' ऽरतिमान् ' अरतिश्चित्तविप्लुतिरनानन्दः प्रतिकूलसंवेदनं वा तद्वान् न स्यात् न भवेत् प्रत्युत मदजन्यहर्षाविष्ट एव भवति । तथा तेन प्रकारेण 'सम्यग्दृष्टिः' सम्यग् समीचीना दृष्टिर्दर्शनं यस्य स सम्यग्दृष्टिः सम्यग्दर्शनसम्पन्नः सम्यक्त्वगुणधारक इत्यर्थः 'द्रव्यभोगं' द्रव्यतोऽन्यचित्तः सन् सक्तिं विहायौदासीन्येन भोगं - विषयसेवनं 'कुर्वन्' अनुतिष्ठन् 'न लिप्यते' न बध्यते कर्मणा रत्यभावादिति शेषः । अयंभावः- मद्यं पिबतोऽपि मत्तस्य यथाऽरतिर्न जायते विप्लुतचेतनत्वात् तथैव सम्यग्दृष्टेर्मोक्षे चित्तत्वात् विषयसेवनं कुर्वतोऽपि रतिर्न जायते रतेरभावाच्च न लेप इति भावः । आसक्तितः कृतो हि भोगो - भावभोगो बन्धाय भवति न पुनर्द्रव्यभोगोऽत एव सम्यग्दृष्टेर्न बन्धः कारणाभावादिति ॥२८॥ अथ कर्तृकर्मभावानाम् निरर्थकत्वमाविष्कुर्वन्नाह - स्वरूपनिष्ठाः सर्वेऽपि, भावा इति जिनेशगीः । तान् मत्वाऽऽत्मतया कर्तृ - कर्मक्लेशो वृथैव किम् ॥२९॥ पद्मप्रभा० 'स्वरूपनिष्ठा' इत्यादि, 'स्वरूपे' - स्वस्मिन् 'निष्ठाः ' प्रतिष्ठावस्थानं येषां ते तादृशा स्वप्रतिष्ठा आधाराधेय - स्वस्वामित्वकल्पना त्वौपचारिकीति सर्वं स्वप्रतिष्ठितमिति शुद्धनयस्तदेतदभिप्रेत्याह - 'सर्वेपि ' निरवशेषाऽपि न केवलं पञ्चषा एव किन्तु सर्वेऽपि इत्यपेरर्थः । 'भावा:' देहगेहधनस्वजनादिपदार्थाः स्वप्रतिष्ठेति । 'इति' एवं प्रकारा 'जिनेशगी : ' - जिनेश: - समस्तलोकालोकप्रकाशको भगवान् तीर्थकरस्तस्य गीः - वचनं प्रमाणं अविसंवादित्वात्। अमूढलक्ष्या हि वीतरागाः । ननु भवतु तथा, तेन किमिति चेत् तत्राह - 'तान्' सर्वानेव भावान् स्वप्रतिष्ठान् 'मत्वा' अवकल्प्य, केन रूपेणेत्याह - 'आत्मतया' - स्वतया स्वकीयतया च' कर्तृकर्मक्लेशो' स्वस्य कर्तृभावं देहगेहादिपरभावानां च कर्मभावना ताभ्यां जन्यश्च क्लेशो बन्धादिद्वारा जन्मादिरूपः स ‘वृथैव' निष्प्रयोजन एव 'किमि ति क्षेपे, तादृशः क्लेशो वृथा कथं त्वयाऽऽत्मन्ननुभूयत इति ? अयमत्राशय:- सर्वे भावाः स्वप्रतिष्ठा तन्न किमपि कस्यापि स्वकीयमसंलग्नत्वाद् ततश्चाहं ममेति बुद्धिस्तेषु क्लेशजनिका एवेति सा बुद्धिः परिहरणीया बन्धच्छेदाभिलाषिणा मुमुक्षुणेति ॥२९॥ Page #78 -------------------------------------------------------------------------- ________________ द्वात्रिंशिका ] विषयेष्वासक्तिं निन्दति - अध्यात्मबिन्दुः भावाः स्वरूपविश्रान्ता लोके सर्वेऽत्र यद्यमी । मूढो हन्ताहमेवैको, रज्ये यत्परवस्तुषु ॥३०॥ — पद्मप्रभा० ‘भावा' इत्यादि, 'भावा:' भवनशीला भावा: पदार्थाः द्रव्यपर्यायाः विधेयांशमाह - 'स्वरूपविश्रान्ताः ' स्वरूपे - स्वस्मिन् विश्रान्ताः स्थिताः - स्वप्रतिष्ठा इत्यर्थः, आधारविशेषाकाङ्क्षां निराकुर्वन्नाह - अत्रास्मिन् 'लोके' चतुर्दशरज्ज्वात्मके विश्वे । न कतिपय इत्याह- 'सर्वे' अशेषास्ते च प्रत्यासन्ना विप्रकृष्टाश्चेत्याह - 'अमी' ये दृष्टादृष्टरूपास्ते सर्वे‘यदि' इति चेद् उक्तजिनेशवचनानुसारत इति ध्येयम् । तर्हि ' हन्त' इति खेदे ‘अहमेव' न त्वन्यः 'एकः ' केवलो न द्वितीय: 'मूढः' मन्दबुद्धिः, कुत इत्याह - 'यत्' यस्मात् 'परवस्तुषु' - अस्वेषु - अस्वकीयेषु च देहादिषु विषयादिषु वस्तुषुभावेषु रज्येऽनुरक्तो भवामि । इदमत्र तत्त्वं - जिनोक्तप्रवचनानुसारेण सर्वेषां भावानां स्वप्रतिष्ठतया न किमपि स्वं स्वकीयं वा एवं च देहादिषु विषयेषु चाहं - ममेति बुद्धिर्मिथ्या तथापि तत्र मोहस्तथा जानतोऽपि सर्वोत्कृष्टा मूढता जीवस्येत्यर्थः ॥३०॥ स्वरूपस्थमुनेरात्मस्थितिमाह - न रज्यते न च द्वेष्टि, परभावेषु निर्ममः । ज्ञानमात्रं स्वरूपं स्वं, पश्यन्नात्मरतिर्मुनिः ॥३१॥ ७७ पद्मप्रभा० 'न रज्यत' इत्यादि, 'न रज्यते' न रागभावं करोति नासक्तो भवति 'न च' नैव 'द्वेष्टि' द्वेषबुद्धिं करोति । क्वेत्याह-' परभावेषु' परपदार्थेष्वात्मभिन्नेष्वित्यर्थः । एतादृशः क इत्याह 'निर्ममः ' ममत्वशून्यो नाहं कस्यचिद् न किमपि ममेति बुद्धिमान् 'मुनिः' मननशीलः स्वपरविवेकवान् तमेव विशिनष्टि, 'आत्मरतिः 'आत्मन्येवासक्तिर्यस्य स आत्मध्यानलीनः । तत्रापि हेतुगर्भं विशेषणमाह - ज्ञानमात्रमित्यादि ' स्वं' - निजं स्वरूपं - तत्त्वं ' ज्ञानमात्रं ' - ज्ञानैकस्वभावं ' पश्यन् ' - अवलोकमान: निश्चितवानित्यर्थः इदमत्र तात्पर्यं - यो राग-द्वेषरहितः परभावेषु निर्ममो यश्चात्मरतिमान् स्वं स्वरूपं ज्ञानमात्रमेव पश्यति स एव मुनिरिति ध्येयम् ॥३१॥ उपसंहरन्नाह - इत्येवं स्वपरद्वयास्खलित - चिच्छक्त्या विभाव्य स्फुटं, भेदं स्वेतरयोविहाय च परान् भावान् समग्रानमून् । चित्तत्वे स्थिरतामुपैति परमां यो निर्विकाराशयः, स स्यात्कर्मकलङ्कपङ्कविकलो नित्यस्फुरच्चिद्धनः ॥३२॥ Page #79 -------------------------------------------------------------------------- ________________ ७८ अध्यात्मबिन्दुः [तृतीया पद्मप्रभा० 'इत्येव' मित्यादि, 'इति एवं' - अनेनोक्तप्रकारेण 'स्वपरद्धयास्खलितचिच्छत्या' स्वः - आत्मा पर: - पुद्गलादिस्तयोर्द्वयं तत्रास्खलिता अकुण्ठा - आत्मानं परं च ज्ञातुं समर्था सम्यक्प्रवृत्तिमती या चित् - ज्ञानं सैव शक्तिः चिच्छक्तिस्तया कृत्वा स्वेतरयोः' स्वपरयोः आत्मपुद्गलयोः भेदं भिन्नस्वभावता। भेदः किदृशस्तदाह - 'स्फुटं' - चिदचिदात्मना व्यक्तं विभाव्य' परिशील्य, तदुक्तं योगशास्त्रे -"कर्मजीवं च संश्लिष्टं, परिज्ञातात्मनिश्चयः । विभिन्नीकुरुते साधुः, सामायिकशलाकया" ॥४/५२॥ ज्ञानसारे विवेकाष्टकेऽपि - 'कर्मजीवं च संश्लिष्टं, सर्वदा क्षीरनीरवत् । विभिन्नीकुरुते योऽसौ, मुनिहंसो विवेकवान् ॥१॥ इति । 'अमून्' - सन्निकृष्टान् विप्रकृष्टांश्च परान्' आत्मेतरान् भावान्' पदार्थान् विषयान् शब्दादीन्, न कतिपयानेवेत्याह - 'समग्रान्' - अशेषान् ‘विहाय' त्यक्त्वा तेष्वासक्तिं दूरीकृत्य परिहत्येत्यर्थः । यो हि स्वपरयोर्भेदं जानाति स एव परभावेष्वनासक्तिवान् भवतीति भावः । निर्विकाराशयः' रागद्वेषादिविकारान्निर्गतो रहित आशयो मनोवृत्तिर्यस्य सः तादृशः सन् । 'यः' अनिर्दिष्टस्वरूपः पुरुषः विवेकी परभावेष्वनासक्तश्च स एव निविकाराशयो भवति नान्य इति विशेषणक्रमेण ध्वन्यते । 'चित् तत्त्वे' ज्ञानस्वरूपेऽत्माख्ये वस्तुनि ‘परमां' - अविचलितां निर्वाताऽपवरककोणगतदीपशिखोपमां - 'स्थिरतां'-लीनतां-मग्नतां तदेकतानतामित्यर्थः 'उपैति' प्राप्नोति । उक्त स्वरुप एव पुरुष आत्मलीनो भवतीत्याशयः। स यत्पदनिर्दिष्टपुरुष: 'नित्यस्फुरच्चिद्घनः' नित्यं - अविरतं न तु कदाचिदिति स्फुरन्ती प्रकाशमाना निरावृता या चित् तया कृत्वा घनः निबिड: शुद्धचिन्मय इत्यर्थः । 'कर्मकलङ्कपङ्कविकलो' कर्माण्येव दूषकत्वात् कलङ्काः कलङ्का एव लेपसाधर्म्यात् पता इव ततो विकलो रहितः परिशटितसर्वकर्मा इत्यर्थः 'स्यात्' भवेत् । इदमत्रावधेयम् - यावन्न स्वपरविवेकस्तावन्न परभावविरतिः न च विरतिं विनाऽऽशयशुद्धिः न वाऽशुद्धाशयस्य स्थिरप्रज्ञता, न च स्थिरप्रज्ञतां विनाऽविरत प्रकाशमानचिन्मयता न चानीदृशः कर्मभिर्मुच्यत इत्यनुक्रमेण तथा तथा विशेषः सम्पादनीय इति ॥३२॥ ____ इत्येवं श्रीमदुपाध्यायहर्षवर्धनगणिविरचिता आत्मस्वरूपभावनाख्या तृतीया द्वात्रिंशिका तपागच्छीयाचार्यविजयमित्रानन्दसूरिणा पद्मप्रभाटीकारूपेण विभाविता विवेचिता चेति । शिवमस्तु सर्वजगतः । शुभं भवतु श्रीसंघस्य । Page #80 -------------------------------------------------------------------------- ________________ द्वात्रिंशिका] अध्यात्मबिन्दुः चतुर्थी द्वात्रिंशिका अथ शुद्धस्वरूपप्रकाशिका नाम्नी चतुर्थी द्वात्रिंशिका प्रारभ्यते-तत्र च उक्तप्रकारेणात्मस्वरूपभावनान्तरं तत्फलभूतं, शुद्धस्वरूपं आत्मानं विशदतया विवृण्वन्नाह प्रत्यग्ज्योतिर्जयति तदिदं पिष्टकर्मप्रपञ्चं, दूरोन्मग्नं घनतरविभावार्णवावर्तवेगात् । प्रोद्यत्तेजःप्रकरदलितध्वान्तकर्माष्टकाष्ठो -, त्फुल्लत्काष्ठावदननलिनं किन्नु मार्तण्डबिम्बम् ॥१॥ मन्दाक्रान्तावृत्तम् । पद्मप्रभा-'प्रत्यगि'त्यादि, 'प्रत्यग्ज्योतिः' अन्तरात्मा शुद्धचिदानन्दस्वरूपश्चेतनः 'तत्' पूर्वद्वात्रिंशिकोक्तस्वरूपं 'इदं' अहंपदवाच्यतयानुभूयमानं 'पिष्टकर्मप्रपञ्चं' पिष्टो दलितः कर्मणां प्रपञ्चो विस्तारो येन तादृशं कर्मसत्तारहितमित्यर्थः । ततः 'दूरोन्मग्नं' अत्यन्तमुद्बुडितं । कुत इत्याह - 'घनतरविभावार्णवावर्तवेगात्' घनतरा अत्यन्तं निबिडा ये विभावा रागादयस्त एव दुस्तरत्वादर्णवः सागर इव तस्य य आवर्तः निवर्तनं तस्य यो वेगः-रयस्तस्मात्, यथाहि समुद्रावर्तवेगात् किमपि वस्तुजातं निमग्नं सदुन्मग्नं भवति तथेदं प्रत्यग्ज्योतिरपि कर्मप्रपञ्चविगमाद् विभावपरम्पराशून्यं सत् स्वभावसुन्दरमाविर्भवतीति भावः । सा च स्थितिः सर्वोत्कृष्टा तदाह - 'जयति' सर्वोत्कर्षेण वर्तते । आत्मनः सा स्थितिरेव सर्वोत्कृष्टा परमपुरुषार्थरूपेत्यर्थः । तथास्थितं प्रत्यग्ज्योतिरुत्प्रेक्ष्यते 'प्रोद्यत्' इत्यादिना प्रकर्षेण उद्यन् दिक्षुविदिक्षु प्रसरन् यस्तेजसां प्रभाणां प्रकरो राशिस्तेन दलितं-नाशितं, ध्वान्तं तमोरूपं स्वरूपप्रकाशविरोधित्वात्, ध्वान्तरुपा कर्माष्टकानां काष्ठा-परा स्थितिः, अत एव 'उत्फुल्लदिति विकसमानानि 'काष्ठावदनानि' दिङ् मुखान्येव 'नलीनानि' कमलानि यस्य तत् 'किन्नु ?' इति उत्प्रेक्षायां, आह 'मार्तण्डबिम्बं' - सूर्यमण्डलं तस्य सूर्यमण्डलस्य तेज:प्रकरेण यथा ध्वान्तं नश्यति, दिक्कमलानि च विकसन्ति तथा प्रत्यग्ज्योतिषोऽपि ज्ञानप्रभाभिः कर्माष्टकं नश्यति स्वरूपं च प्रकाशते ॥१॥ Page #81 -------------------------------------------------------------------------- ________________ ८० अध्यात्मबिन्दुः प्रत्यग्ज्योतिषः स्वरूपमाह कर्तृत्वादिविकारभारविगमाद् बिभ्रत् सनत् सुस्थतां, त्रुट्यद्बन्धचतुष्टयोल्लसदमन्दानन्दसंवर्मितम् । शुद्धं शान्तमनन्तमप्रतिहतं विष्वग् विचित्रोल्लसद्ज्ञेयाकारकरम्बितं निरुपधि ज्योतिः समुज्जृम्भते ॥२॥ शार्दूलविक्रीडित वृत्तम् । पद्मप्रभा० ‘कर्तृत्वादी'त्यादि, 'कर्तृत्वादिविकारभारविगमाद्' कर्तृत्वादयः, आदिना भोक्तृत्वादीनां परिग्रहः, त एव 'विकाराः ' परनिमित्तजत्वात् परोक्षत्वात् दोषा इव दोषा तेषां यो ' भारः 'अतिशयस्तस्य 'विगमात् ' प्रागुक्तद्वात्रिंशिकारीत्या स्वरूपचिन्तनेन कृत्वा निराकरणाद्धेतोः ‘सनत्'- सदा ' सुस्थतां' - स्वरूपसमवस्थानं 'बिभ्रत्' - धारयत् स्वरूपस्थमित्यर्थः, स्वरूपमात्र विश्रान्तमिति यावत् । पुनः कीदृशमित्याह - त्रुट्यदित्यादि 'त्रुट्यत्' विनश्यद् यद्' बन्धचतुष्टयं' - बन्धानां चतुष्टयं कर्मणां प्रकृतिस्थितिरसप्रदेशात्मकं बद्धस्पृष्टनिधत्तनिकाचितरूपं वा तेन' उल्लसन्' - प्रादुर्भवन्यो 'अमन्दानन्दः ' निरतिशयानन्दस्तेन ‘संवर्मितं ' - कञ्चुकितं निरतिशयानन्दमयमित्यर्थः । सर्वोऽपि हि बन्धविगमे आनन्दतीति । 'शुद्धं' - कर्ममलरहितत्वात् शुचिः, पुनः कीदृशमित्याह'शान्तं' अक्षुब्धं क्षोभजनकरागाद्यभावात् । पुनः कीदृशमित्याह - 'अनन्तं'- अपरिमेयं पुनः कीदृशमित्याह - 'अप्रतिहतं' जन्ममरणादिप्रतिघातशून्यं, पुनः कीदृशमित्याह - 'विष्वक्' समन्तात् 'विचित्रोल्लसद्ज्ञेयाकारकरम्बितं' विचित्रा - विविधा उल्लसन्तोभासमाना ये ज्ञेयाकारास्तैः करम्बितं सम्पृक्तं, शुद्धचिद्धि सर्वविषयावभासि भवतीति ध्येयम् । तथा 'निरुपधि' - निर्व्याजं - स्वाभाविकं 'ज्योतिः समुज्जृम्भते' - सम्यक् प्रकाशते ॥२॥ 1 तदेव ज्योतिर्विशेषयति सर्वद्रव्यविवर्तचक्रमखिलं यद् बोधवारांनिधा वेकांशस्थमिवोच्चकास्ति कलयच्छुद्धत्वमाकालिकम् । [ चतुर्थी - प्रोद्यत्त्विड्भरलीढविश्वभुवनाभोगं भरादुल्ल च्छान्तं तत्परमात्मतत्त्वमुदितानन्दं समुद्योतते ॥३॥ शार्दूलविक्रीडितं वृत्तम्। Page #82 -------------------------------------------------------------------------- ________________ द्वात्रिंशिका] अध्यात्मबिन्दुः पद्मप्रभा० 'सर्वद्रव्ये 'त्यादि, सर्वाणि-पुद्गलादीनि द्रव्याणि तद् ‘विवर्ता' उत्पादव्ययात्मनः पर्यायास्तेषां 'चक्र' मण्डलं समुदाय इत्यर्थः । तच्च अखिलं'निःशेषं 'यद्' यस्मिन् ‘बोधवारांनिधौ' बोध एव वारांनिधिरतिविस्तृतत्वात् समुद्रस्तत्र 'एकांशस्थमिव' एकभागस्थितमिव उच्चकास्ति' भासते, इदृशं च तत्त्वं शुद्धमेव भवितुमर्हतीत्याह - 'कलयत्' धारयत् 'शुद्धत्वं' साकल्येन कर्मनाशात् निर्मलत्वम् । न च तदनित्यमित्याह - 'आकालिकं' अनाद्यनन्तं, पुनः कीदृशं 'प्रोद्यत्त्विड्भरलीढ' प्रकर्षेण उद्यत्-प्रसरत् यस्त्विषां-प्रभाणां भरस्तेन ‘लीढः'-स्पृष्टः प्रकाशित इति यावत्, "विश्वेत्यादि विश्वेषां-सर्वेषां भुवनानां-लोकानामाभोगः-विस्तारो येन तादृशं, स्वप्रभाभिः प्रकाशित- त्रिभुवनमित्यर्थः, पुनः कीदृशमित्याह - 'भरात्' उत्कर्षात् 'उल्लसत्-' आह्लादयत् पुनः कीदृशमित्याह 'शान्तं' शीतं-कषायतापाभावात् पुनः कीदृशमित्याह - 'उदितानन्दं' आनन्दमयमुक्तप्रकारकमानन्दमयमेव भवतीति भावः । ननु किं तत् तत्त्वमित्याकांक्षायां नामग्राहमाह - 'तत्' छद्मस्थानामप्रत्यक्षमुक्तस्वरूपं 'परमात्मतत्त्वमिति, परमः शुद्धत्वादिविशेषणविशिष्टत्वाद् भवस्थापेक्षयोत्कृष्टो य आत्मा तदेव तत्त्वं-यथावस्थितवस्तु तत् 'समुद्योतते' सम्यगुत्कर्षेण प्रकाशते-विजयत इत्यर्थः । परमात्मतत्त्वं हि सर्वज्ञं सार्वदिकं शुद्धमशेषभुवनप्रकाशकं शान्तमानन्दमयं चात एव तत्प्राप्तये यतनीयमित्यर्थः ॥३॥ अनुभूतानन्तरालस्वरूपज्योतिषोऽप्रमत्तस्य भिक्षाटनादिकर्ममात्रं निजरेत्याह - मुक्तेरध्वाऽयमेको भवति हि किल दृक्-ज्ञान-वृत्तत्रयात्मा, तां संसूत्र्य स्थिति यो विहरति निखिलान्यस्वसंस्पर्शशून्यः । तदर्शी तत्सतत्त्वानुचरणकलनाबद्धकेलिः किलासौ, ..यत् किञ्चित् कर्म कुर्यात् तदखिलमुदितं निश्चितं निर्जरैव ॥४॥स्रग्धरावृत्तम्। पद्मप्रभा० मुक्तरित्यादि, 'मुक्तेः' इति परमपदस्य अध्वा' अध्वेव प्रापकत्वादध्वा मार्गो हेतुरित्यर्थः 'अयं' उच्यमान ‘एको'ऽद्वितीयो भवति' - अस्ति । 'हि किले 'ति प्रसिद्धौ, कः स? इत्याह - 'दृक् - ज्ञान - वृत्तत्रयात्मा' दृक् - सम्यग्दर्शनं, ज्ञानं - सम्यग्ज्ञानं, वृत्तं - सम्यक्चारित्रं, तेषां त्रयं तदेवात्मा - स्वरूपं यस्य स सम्यग्दर्शनादिसमुदायात्मकः। तथा च तत्त्वार्थसूत्रं - सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः अ० १-१ । 'तां' Page #83 -------------------------------------------------------------------------- ________________ अध्यात्मबिन्दुः [चतुर्थी सम्यग्दर्शनाद्यात्मिकां स्थितिं'-अवस्थां 'संसूत्र्य'एकात्मतां गतामिव कृत्वा प्रत्येकस्य सम्यग्दर्शनादेर्मार्गकदेशरूपत्वात् सम्मिलितानामेव तेषां मार्गरूपत्वात् दर्शनादीनि त्रिण्यपि समुपाऱ्यांनीत्यर्थः 'यो' यो जीवो विहरति' विचरति । ईदृशश्च निःसङ्ग एव भवतीति स्वरूपविशेषणान्तरमाह - 'निखिलान्यस्वसंस्पर्शशून्यः' निखिला-अशेषा येऽन्ये आत्मभिन्ना विषयाद्याः पदार्थास्तेषु यः स्वसंस्पर्श:-स्वत्वाभिमानं ममत्वं मोहो वेति यावत्, तेन शून्यो निःसङ्गो निर्मोहश्चेत्याशयः । तद्दी'मुक्तिदर्शी-शुद्धस्वरूपरुचिः तत्सतत्त्वा०' इत्यादि तस्यैव - शुद्धस्वरूपस्यैव सतत्त्वं - यथार्थानुचरणं-सेवनं तथा तस्यैव कलनंज्ञानमिति । एतत्त्रये आसमन्ताद् ‘बद्धकेलिः' बद्धा क्रीडा येन स तथा 'किले' ति वाक्यालङ्कारे 'असौ' शुद्धात्मतत्त्वरुचिरमणताविबोधपरायणो 'यत्किञ्चित्' आहारविहारनिहारादिकं 'कर्म'- क्रियां प्रवृत्तिं 'कुर्यात्' आचरेत् 'तदखिलं' तत्सर्वं निश्चितं 'निर्जरैवेति क्षपणा एव कर्मपरिशाटनसाधनत्वात् कारणे कार्योपचारात् कर्मक्षयहेतुरेवेति उदितं' प्रतिपादितमिति । सम्यग्दर्शनादिसम्पन्नो निःसङ्ग आराधनापरायणो मुमुक्षुर्यदपि कर्म करोति तत्तस्य निर्जरासाधनमेव न तु बन्धसाधनं, कर्मबन्धकारणस्य सङ्गस्याभावात् कर्मक्षयकारणीभूतचारित्रादेश्च सद्भावादिति भावः ॥४॥ भगवद्वचनपरिणतिरेवासङ्गतानुभवद्वारेण निर्जरा सम्पादिकेति तन्माहात्म्यमाह - अहं कर्ता भोक्तेत्यनवरतमिहाज्ञानमुदभूदियत्कालं शुद्धानुभवनरहस्यं ह्यविदुषाम् । इदानी सार्वज्ञवचनममृतादप्यतिरसं, चिरं पायं पायं निचितमपि तन्नो निरगलत् ॥५॥ शिखरिणीवृत्तम् । पद्मप्रभा० अहमित्यादि, 'अहं'-आत्मा' कर्ते 'ति कर्ता नानाविधकर्मसम्पादकः 'भोक्तेति' भोक्ता नानाविधकर्मफलानामनुभवकर्ता, इत्येवं प्रकारं 'इह' अस्मिँल्लोके संसारे 'अज्ञानं' मिथ्याज्ञानं 'उदभूत्' उत्पन्नं 'अनवरतं' सततमिति क्रियाविशेषणम् । कदा? इत्याह - ‘इयत्कालं' अद्यावधीत्यर्थः केषां ? इत्याह - 'शुद्धानुभवनरहस्यं' शुद्धात्मस्वरूपम् अविदुषाम्'अजानतां सम्यग्ज्ञानशून्यानामित्यर्थः । 'हि' इति याथातथ्ये, यथार्थमेतदित्यर्थः । इदानीं' इति अस्मिन् काले सर्वज्ञवचनपानानन्तरमित्यर्थः 'सार्वज्ञं' सर्वज्ञेन वीतरागेण प्रज्ञप्तं प्रोक्तं वा नत्वसर्वहरुक्तमिति ध्वनिः, किं तदित्याह - 'वचनं' Page #84 -------------------------------------------------------------------------- ________________ ८३ द्वात्रिंशिका ] अध्यात्मबिन्दुः प्रवचनं तदेव विशिनष्टि 'अमृतादपि' पीयूषादपि 'अतिरसं' अतिशयितरसं, अमृतास्वादजनितसुखापेक्षयोत्कृष्टमुक्तिसुखजनकत्वादिति बोध्यम् । 'चिरं' दीर्घकालं निरन्तरं न तु यदाकदाचिदेवेति 'पायं पायं' पीत्वा पीत्वा सादरं श्रावं श्रावमित्यर्थः तेन तथा भावना तथाचारश्च प्रतिपादितः 'निचितमपि' निकाचितमपि - अनादिवासनावासितमपि ऐदंयुगीनस्य तु कथैव का ? इति अपेस्तात्पर्यम् । 'तत्' उक्तप्रकारमज्ञानं 'नो' इति अस्माकं 'निरगलत्’विनष्टम् । नैव सार्वज्ञवचनश्रवणादन्योऽज्ञाननाशोपाय इति भावः ॥५॥ सार्वज्ञवचनश्रवणजन्याज्ञाननाशश्च कर्तृत्वादिपरिहारेणैव सम्भवति स च माध्यस्थ्यभावनया विना न निर्वहतीति माध्यस्थ्योपदेशमाह - स्वरूपस्याज्ञानाद् भवति किल कर्तेष पुरुषो, अतो राग ह्यकर्तृत्वं तस्यावगम इह सिद्धं स्वरसतः । ग-द्वेषावुदयजनितावित्यनुकलं, तटस्थः सन् पश्यन् कथमिव भवत्येष कृतिमान् ॥६॥ शिखरिणीवृत्तम् । पद्मप्रभा० ‘स्वरूपस्ये 'त्यादि 'स्वरूपस्य' - शुद्धात्मस्वरूपस्य चिन्मयस्य 'अज्ञानात्' ज्ञानाभावात् 'भवति' जायते, क इत्याह - 'कर्ते 'ति कर्तृत्वाभिमानवान्, उपलक्षणत्वात् भोक्तृत्वादिपरिग्रहस्तेन भोक्तृत्वाभिमानवान्' एष' प्रतिशरीरं वर्तमानः 'पुरुष: ' आत्मा 'किले 'ति याथार्थ्ये स्वरूपाज्ञानादेवात्मनः कर्तृत्वं, न तु कृतिमत्त्वतः 'तस्य' शुद्धस्वरूपस्य' अवगमे' यथावस्थितस्वरूपेण परिज्ञाने हि स्पष्टं प्रमाणान्तरनैरपेक्ष्येणेत्यर्थः 'अकर्तृत्वं' निर्विकारत्वं 'स्वरसतः' स्वभावतः 'सिद्धं' निश्चितं 'इह' आत्मनः कर्तृत्वाकर्तृत्वविषये । ‘अतो 'उक्तविवेचनाद्धेतोः रागद्वेषौ ' रागो - विषयाभिष्वङ्गो द्वेषइष्टालाभादप्रीतिरुपलक्षणत्वात् कषाया इत्यर्थः 'उदयजनितौ' चारित्रमोहनीय कर्मोदयात् निष्पादितावित्येवं-प्रकारेण 'अनुकलं' कलायां कलायामिति अनुकलं प्रतिक्षणमित्यर्थः 'तटस्थः सन्' माध्यस्थ्यभावनामाश्रितः 'पश्यन् ' जानन् । माध्यस्थ्यभावनां विना रागद्वेषावुदयजनितौ न त्वात्मपरिणामाविति बुद्धिः । न त्वात्मनः स्वसिद्धधर्माविति ध्वन्यते । 'कथमिव' - केन प्रकारेणैष आत्मा 'कृतिमान्' कर्तृत्वादिविकारभाक् 'भवती 'ति काकुस्तटस्थस्य न केनापि प्रकारेण कर्तृत्वादिभावः सम्भवतीत्यर्थः ॥६॥ माध्यस्थ्यभावनया भेदज्ञानमुदेति । भेदज्ञानमेव च स्वरूपावस्थितिलाभहेतुरिति स्वरूपावस्थितिलाभाय भेदाभ्यासं समर्थयन्नाह - Page #85 -------------------------------------------------------------------------- ________________ अध्यात्मबिन्दुः [चतुर्थी यदाऽविद्याजन्यं दृढतममभूदन्धतमसं, तदा राग-द्वेषादिषु समभवत् स्वात्मधिषणा। चिरं भेदाभ्यासादधिगतमिदानीं तु विशदं, परं पूर्ण ब्रह्म च्युतविकृतिकमस्मि ध्रुवमहम् ॥७॥ शिखरिणीवृत्तम् । पद्मप्रभा० यदेत्यादि, 'यदे' ति यस्मिन्काले अविद्याजन्यं' अविद्या अतस्मिन् तबुद्धिजनकं मिथ्यात्वं तज्जन्यं-तदुत्पादितं 'अन्धतमसं' अन्धं तमो गाढाज्ञानान्धकारमित्यर्थः प्रागनादौ काले 'दृढतमं' दुरुच्छेद्यत्वात् तबलवद् 'अभूत्' अभवत् 'तदा रागद्वेषादिषु' पूर्वोक्तस्वरूपेषु 'स्वात्मधिषणा' अहंममेति बुद्धिः समभवत्' सञ्जाता। मिथ्यात्वजनिताज्ञानवशादेवास्वेषु रागद्वेषादिषु स्वबुद्धिरितिभावो मोह इति यावत्। 'तु' भेदे विशेषे च, स्वस्मिन् स्वबुद्धिरिति भेदः अथवा शरीरादितः पृथग्भावः स च भेदाभ्यासादिति विशेषः । 'इदानीं' भेदाभ्यासानन्तरं 'चिरं' चिरकालं-दीर्घकालं 'भेदाभ्यासादा'त्मनात्मभेदस्य पुनः पुनः मननाद्धेतोः 'विशदं' सुस्पष्टं याथातथ्येन 'अधिगतं' प्राप्तं ज्ञातमित्यर्थः । किमित्याह - 'परं' निरतिशयत्वात् परमं 'पूर्ण' निर्विकारत्वादविकलं चिदानन्दमयमित्यर्थः । अथ विशेष्यमाह- 'ब्रह्म' शुद्धात्मेत्यर्थः । तदेवं 'अहं' - आत्मतत्त्वं 'ध्रुवं' शाश्वतं 'च्युतविकृतिकं' च्युता रागादिरुपा विकृतिर्यस्मादिति तादृशनिर्विकारमित्यर्थः । 'अस्मि' - भवामि, भेदाभ्यासादेव ॥७॥ आत्मज्ञानादानन्दानुभवमाह - यदज्ञानात् सुप्तः समभवमलं यद्व्यवसितौ, प्रबुद्धस्तत् तत्त्वं चिरमधिगतं मा मदयति । दरिद्रः संप्राप्तधनमिव निधानं प्रतिकलं, समालोक्याघ्रातिं कथमिव न गन्तास्म्यहमतः ॥८॥ शिखरिणीवृत्तम् । पद्मप्रभा० यदित्यादि, 'यदज्ञानादिति यस्य - प्रस्तावादात्मतत्त्वस्याज्ञानात् स्वरूपाव्यवसायाद्धेतोः 'अलं' अत्यर्थं 'सुप्तः' सुप्त इव सुप्तः, सुप्तस्य हि न स्वरुपप्रकाशनं तथात्मविषयाज्ञानवत इति भावः समभवं'इति सञ्जातः निद्रामगमदित्यर्थः। यथा हि सुप्तस्य न वस्तुस्वरूपप्रकाशनं तथात्मविषयाज्ञानवतोऽपीति भावस्तथा यद्व्यवसितौ' यत्प्रकारात्मतत्वविनिश्चये सति 'प्रबुद्धः' सुप्तोत्थित इव समभवं यथा Page #86 -------------------------------------------------------------------------- ________________ द्वात्रिंशिका] अध्यात्मबिन्दुः सुप्तोत्थितस्य विषयप्रकाशन तथा प्रबुद्धस्यात्मतत्त्वप्रकाशनमिति भावः । 'तत्'तादृशं 'तत्त्वं'आत्मस्वरूपं 'चिरं' अनन्तानन्तभवानन्तरं 'अधिगतं' ज्ञातं सत् 'मा' मां ज्ञानस्वरूपात्मानं मदयति'हर्षयति हर्षपूर्ण करोतीत्यर्थः, अत्रैव दृष्टान्तमाह - 'दरिद्रः इति दरिद्रं दुर्विधं निर्धनं इत्यर्थः, 'सम्प्राप्तं' स्वतयोपस्थितं 'निधानं' निधानात्मकं धनं भूमिस्थाकरादिकं धनं सुवर्णादिरूपं द्रव्यमिव सम्प्राप्तं हि 'धनं' द्रव्यं दरिद्रं मदयतीति व्यक्तं तथेत्याशयस्तादृशं चात्मतत्त्वं प्रतिकलं प्रतिक्षणं समालोक्य'दर्श दर्श'कथमिव' केन प्रकारेण 'आघ्राति' तृप्तिं निरतिशयानन्दं 'अहं' प्रबुद्ध आत्मा 'न गन्ताऽस्मि' न लब्धास्मि किं ? अर्थात् लब्धास्मीति भावः । 'अतः' इत्यात्मतत्त्वप्राप्त्यनन्तरमिति यदात्मतत्त्वप्राप्तिर्भवति तदा निरतिशयानन्दानुभूतिर्भवत्येव तादृशात्मतत्त्वदर्शनस्य नैरन्तर्येण पारम्पर्येण च निरतिशय-शाश्वताखण्डानन्दात्मको मोक्षलाभो ध्रुव इत्याशयः ॥८॥ महासत्त्वाः यदास्वादानन्दान्मुक्त्यै यतन्ते तां महाभिलाषामाह - विवर्तेरस्पृष्टं विशदतममत्यन्तगहनं, महः स्तान्नः स्पष्टं प्रकटितनिजानन्दविभवम् । यदास्वादानन्दादगणितमहाभोगविभवाः, महासत्त्वा मुक्त्यै चिरमिह यतन्ते कृतधियः ॥९॥ शिखरिणीवृत्तम् । पद्मप्रभा० "विव' रित्यादि, 'विवरैः' विकल्पैः 'अस्पृष्टं' अतीतं निर्विकल्पकमित्यर्थः, 'विशदतमं' निरावरणत्वादतिस्पष्टं अत्यन्तगहनं' दुरधिगमं तथा 'प्रकटितनिजानन्दविभवं' प्रकटितः-प्रादुष्कृतः निजानन्दस्य विभवः सम्पत्तिर्येन तत् निरतिशयं 'महः' ज्योति: शुद्धात्मतत्त्वमित्यर्थः 'नः' अस्माकं स्पष्टं' आविर्भूतं 'स्तात्' जायतामित्यभिलाषा । तादृशमह एव विशिनष्टि - 'यदास्वादानन्दाद् 'यस्यात्मतत्त्वात्मक स्य महस आस्वादोऽनुभवस्तज्जनितो य आनन्दस्तमपेक्ष्य 'अगणितमहाभोगविभवाः' अगणित: न गणितो महाभोग:-चक्री तस्य विभवः नवनिधानादिसम्पत् यैस्ते । इदृशाश्च ते के इत्याह - 'महासत्त्वाः' अविचलितस्वभावाः 'कृतधियः' सुधियः 'मुक्त्यै' मुक्त्यर्थं 'इह' अस्मॅिल्लोके 'चिरं' दीर्घकालं 'यतन्ते' प्रयस्यन्ति ॥९॥ Page #87 -------------------------------------------------------------------------- ________________ ८६ अध्यात्मबिन्दुः - [चतुर्थी आत्मानवबोधे तपःप्रभृतीनामकिञ्चित्करत्वमाहतपश्चण्डं तीव्रव्रतकलनमत्युल्बणपरी - षहेभ्योऽभीरुत्वं क्षितिशयनमुख्यः परिकरः। यदज्ञानान्निर्नायक इव हि सेनाचरगणः, समग्रो व्यर्थः स्यात् तदिदमहमस्म्यद्भुतमहः ॥१०॥ शिखरिणीवृत्तम् । पद्मप्रभा० 'तप' इत्यादि, 'तपः' अनशनादिद्वादशविधं 'चण्ड'-उग्रं मासक्षपणादिकं तस्याचरणमित्यर्थः 'तीव्रव्रतकलनं' तीव्राणां दुष्करत्वादुत्कृष्टानां व्रतानामहिंसादीनां कलनं - आश्रयणं 'अत्युल्बणपरीषहेभ्यः' अत्युल्बणेभ्यःसुदुःसहेभ्यः परीषहेभ्यो द्वाविंशतिक्षुत्तृडादिभ्यः ख्यातेभ्यो अभीरुत्वं'निर्भयत्वमाभिमुख्येन परीषहसहनमिति संमीलितोऽर्थः 'क्षितिशयनमुख्यः' क्षितिशयनं-भूमिशयनादिमुख्यं यत्र तादृशः परिकरः' साधनसमुदायो व्यवहारचारित्रधर्माराधनरूप इत्यर्थः 'समग्रः' सकल: 'यदज्ञानात्' यस्य शुद्धात्मभूतमहसोऽज्ञानात्-अलाभात् 'व्यर्थः' निष्फलस्तपःप्रभृतिष्वात्मज्ञानमेव मुख्यं फलं तदभावे तपःप्रभृतीनां निष्फलत्वं, स्वर्गादिकं चानुषङ्गिकमनिष्टं चेति मुख्यफलेनैव फलवत्त्वमेष्टव्यमित्याशयः । तत्र दृष्टान्तमाह-'हि' इति निदर्शने 'निर्नायकः' निर्गतो नायको यस्मादिति निर्मायको नायकरहितः 'सेनाचरगणः' सैन्यगणः सैन्यसमूह इव, नायकाभावदशायां बहून्यपि सैन्यानि अकिञ्चित्कराणीति यथा स्फुटं तथैवात्मज्ञानाभावदशायां तपःप्रभृतीन्यप्यकिञ्चित्कराणीति बोध्यम् । तत् पदसूचितं विवृण्वन्नाह - 'तदिति तत्-स्वाज्ञाने उक्तसर्ववैयर्थ्यांपादकं 'इदं' अहंपदवाच्यं प्रत्यक्षं भासमानं 'अद्भुत' अद्भुतमद्वितीयमनतिशयं च 'महः' ज्योतिस्तद्रूपमहमस्मि। आत्मतत्त्वसंवेदनं विना तपश्चरणादिकं सर्वं निरर्थकमित्याशयः॥१०॥ अत एव लौकिकसुखमुपेक्ष्यात्मसुखार्थमेव यतनीयमित्याह - तदन्वेष्यं तत्त्वं सततमत्युत्कटतर - स्फुरत्तेजःपुञ्जप्रदलितदृढाविद्यममलम् । यदास्वादाद् भान्ति त्रिदशपतिचक्रित्वपदवी - सुखास्वादाः क्षारोदकवदमृताने ध्रुवममी ॥११॥ शिखरिणीवृत्तम् । Page #88 -------------------------------------------------------------------------- ________________ द्वात्रिंशिका ] अध्यात्मबिन्दुः ८७ I पद्मप्रभा० 'तदन्वेष्यमित्यादि, 'तत्' - तदिति हेत्वर्थकं अत एवेत्यर्थः तदिदं उक्तप्रकारं ‘अहं’पदोल्लेख्यं 'तत्त्वं' आत्माख्यं वस्तु, तद्विशिनष्टि - ' अत्युत्कटतरस्फुरत्तेज:- पुञ्जप्रदलितदृढाविद्यं' अत्युत्कटतरं सर्वातिशायि स्फुरत्-विलसत्तेजसां ज्ञानात्मकप्रभाणां पुञ्जः- राशिस्तेन प्रदलिता- विनाशिता दृढा - अनादि- सम्पर्काद्धेतोर्यादुरुच्छेद्या अविद्या - मिथ्यात्वरूपा अज्ञानरूपा वा येन तत्तादृशं ' अमलं' अविद्याविगमादेव निर्मलं शुचीत्यर्थः 'अन्वेष्यं मार्गणीयं द्रष्टव्यं ज्ञातव्यमित्यर्थः । क्रियाविशेषणमाह - 'सततं' निरन्तरमिति यदाकादाचित्कः प्रयासो न तदर्थं पर्याप्त इति भावः आदृतं चैतत्सातत्यं पतञ्जल्यादिभिर्योगमार्गज्ञैरपि, तदाहुः स तु दीर्घकालादरनैरन्तर्य - सत्कारसेवितो दृढभूमिरिति । पातं० सू. १.१४ । कुतः इति चेत् ? ताह- 'यदास्वादाद्' यस्य उक्तप्रकारस्य तत्त्वस्यास्वादादनुभवात् 'त्रिदशपतिचत्रित्वपदवीसुखास्वादाः ' त्रिदशपतिः-इन्द्रः चक्रित्वं चक्रवर्तिता तयोः पदवी - स्थानं तस्य सुखास्वादा इन्द्रपदचक्रिपदलभ्याः सुखानुभवा 'अमी' लौकिकत्वात्तु विप्रकृष्टत्वेन निर्देश्या 'ध्रुवं' - नि: शङ्क' अमृताग्रे' पीयूषस्य पुरतः ' क्षारोदकवत्' - लवणरसयुक्तजलवत् ' भान्ति' तत्तुल्या ज्ञायन्त इति भावः ॥ ११ ॥ देहात्माभिमानिनां शास्त्राभ्यासो न मोक्षायेत्याह समभ्यस्यन्तां नन्वखिलमतशास्त्राणि कुधियः, स्वपाण्डित्योत्कर्षोद्दलितपरदर्पाः किल परे । वपुष्यात्मभ्रान्तिर्यदि न विनिवृत्ता किमु ततो, विमुच्यन्ते पाठो न भवति कदाचिद् गुणकरः ॥ १२ ॥ शिखरिणीवृत्तम् । पद्मप्रभा० ‘समभ्यस्यन्ता' मित्यादि 'समभ्यस्यन्तामिति परिशीलयन्ताम् नन्वित्युपेक्षायामुपेक्ष्या इमे इत्यर्थः, के ते ? इत्याह 'कुधियः ' कुत्सिता मिथ्यात्वोपहतत्वात् निन्दिता धीर्येषां ते कुधियः, अज्ञातात्मयाथात्म्याः 'परे' परतीर्थिकाः 'स्वपाण्डित्योत्कर्षो द्दलितपरदर्पा:' स्वेषां तेषां कुधियामेव यत्पाण्डित्यमसत्शास्त्राभ्यासजन्यविलक्षणाज्ञानं तस्योत्कर्षः - उत्कटत्वं तेन उद्दलितः, उत्-प्र - प्राबल्येन दलितः खण्डितः परस्य स्वसमुदायवर्तिनोऽप्येकेनापरस्य दर्पस्तादृशाज्ञानाभिमानो यैस्ते तादृशाः परस्परं स्व-मतसमर्थन - परमतखण्डनप्रवीणा 'अखिलमतशास्त्राणि ' Page #89 -------------------------------------------------------------------------- ________________ ८८ अध्यात्मबिन्दुः - [चतुर्थी अखिलानि-अशेषाणि यानि मतानि वादास्तत्समर्थकानि शास्त्राणि च 'समभ्यस्यन्तां' रारट्यन्तां किले'त्यलीके तेषां शास्त्राभ्यासो मिथ्येत्याशयः । तत्र बीजमाह - 'यदि'चेत् ततस्तादृशशास्त्राभ्यासतो 'वपुषि' देहे 'आत्मभ्रान्तिः' स्वत्वभ्रमो देहे आत्माभिमानमित्यर्थः, 'न विनिवृत्ता' न विनष्टा 'विमुच्यन्ते किमु' इति काकुः, नैव विमुच्यन्त इत्यर्थः, यावद्धि देहात्मबुद्धिस्तावदेव संसारस्तद् विनाशे च मोक्ष इत्यत्र न केषामपि विमतिरिति मत्वैतदेव सामान्येन समर्थयति 'पाठो' पाठ:- पाठमात्रं मननहीनोऽभ्यास इत्यर्थः, न भवति कदाचित् गुणकरः" न भवति कदापि साध्यसाधक आत्मतत्त्वज्ञानजनक इति यावत् । आत्माऽयं देहतो भिन्नोः, मनसा वचसाऽपि च । कर्मतोऽपि सदा भिन्नः पुद्गलेन तथैव च ॥१॥ प्राप्तं यैर्भेदविज्ञानं, विमलं देहदेहिनाम् । तैः समाप्तं समत्वं वै, केवलज्ञानदायकम् ॥२॥ प्रार्जितं प्रभूतं ज्ञानं, महाक्लेशेन यत्त्वया । भेदज्ञानं परं नाप्तं, सर्वं तत्तु निरर्थकम् ॥३॥ जिनवचसैव तत्त्वज्ञानमित्याह - अविद्यासंस्काराद् बहुतरककालाद् यदभवच्च्युतं मे स्वं रूपं तदिदमुपलब्धं खलु मया । विविक्तं चिद्भासा परिगतमनन्तं सुविशदं, स्वतन्त्रं तत्रेदं जयति ननु बीजं जिनवचः ॥१३॥ शिखरिणीवृत्तम् । पद्मप्रभा० अविद्येत्यादि 'अविद्यासंस्कारादिति - अविद्यायाः - अज्ञानस्य, संस्कारो-वासना तद्वशात्तद्धेतोः स च संस्कारोऽनादिकालत एवेत्याह - 'बहुतरककालात्' अनेकानेकजन्माभ्यस्ततया चिरकालोपार्जितात् स्वार्थे कः प्रत्ययः । 'यत्' वक्ष्यमाणं 'मे' मम प्रबुद्धस्य मुमुक्षोः 'स्वं' निजं 'रूप' स्वरूपं शुद्धात्मस्वरूपमित्यर्थः, 'च्युतं' विस्मृतवदभवत् तदुक्तप्रकारमिदमधुनानुभूयमानं 'मया' मुमुक्षुणा 'उपलब्ध' प्राप्तं, 'खल्वि'ति निश्चये, निश्चयेन प्राप्तमित्यर्थः, यादृशं च स्वरूपं पूर्वमप्राप्तमिदानीं च प्राप्तं तदाह - 'विविक्तं' देहादितः पृथग् 'चिद्भासा' ज्ञानात्मकप्रकाशेन 'परिंगतं' व्याप्तं Page #90 -------------------------------------------------------------------------- ________________ द्वात्रिंशिका] अध्यात्मबिन्दुः चिन्मयमितिसंमीलितोऽर्थः । पुनःकीदृशं 'अनन्तं' अविनाशि ‘सुविशदं' निर्मलं, पुन:कीदृशं तदित्याह - 'स्वतन्त्रं' स्वाधीनं कर्मपारतन्त्र्यरहितमित्यर्थः । 'तत्र' - तादृशस्वरूपोपलम्भ 'इदं' अभ्यस्यमानत्वादतिसंनिकृष्टं 'जिनवचः' जिनोपदेशो 'बीज' निदानं कारणं 'ननु' इति निश्चयेन 'जयति' सर्वोत्क र्षेण वर्तते, जिनवचनाभ्यासादेव स्वरूपलाभोऽन्यथात्व-विद्यावशात् स्वरूपच्युतिरेवेति जिनवचसि मुमुक्षुणा महानादरो विधेय इति भावः । तदुक्तं अयोगव्यवच्छेदिकायां - यदीयसम्यक्त्वबलात् प्रतीमो, भवादृशानां परमस्वभावम् । कुवासनापाशविनाशनाय, नमोऽस्तु तस्मै तव शासनाय ॥१३॥ शिवाप्तेः सरणिमाह - मथित्वात्मात्मानं भवति परमज्योतिरचिराद्यथा घृष्ट्वात्मानं क्षितिरुह इहैतिज्वलनताम् । अतः शुद्धे ब्रह्मण्यविरतनिमग्नाऽमलदृशां शिवाप्तिनिर्दिष्टा सरणिरपरा काचन न हि ॥१४॥ शिखरिणीवृत्तम् । पद्मप्रभा० मथित्वे' त्यादि 'मथित्वा'-पुनः पुन:चिन्तयित्वा आलोड्येत्यर्थः, 'आत्मात्मानं' आत्मा - निजं शुद्धरूपं पुनः पुनश्चिन्तयित्वा निरन्तरं ध्यात्वेत्याशयः 'अचिरात्' झटित्येव 'परमज्योतिः' केवलज्ञानप्रकाशात्मा 'भवति' सम्पद्यते । अत्र दृष्टान्तमाह - यथा - येन प्रकारेण इह' - अस्मिँल्लोके क्षितिरुहः 'वृक्षः अरणिकाष्ठादिः 'आत्मानं' स्वं घृष्ट्वा पुनः पुनः घर्षणं प्रापय्य 'ज्वलनतां' अग्निरूपतामेति-गच्छतिप्राप्नोति, प्रसिद्धो हि लोके अरण्यादिकाष्ठादीनां घर्षणादग्नेरुद्भवः । एतेन किं? तबाह - 'अतो'अस्मात् कारणादात्ममन्थनेनैवात्मलाभाद्धेतोः 'शुद्धे ब्रह्मणि'चिदानन्दमये आत्मनि 'अविरत' अनवरतं 'निमग्नाऽमलदृशां' प्रसक्ता अमला-शुद्धा दृग-दृष्टिनिरूपा येषां तेषामेव, 'सर्वं वाक्यं सावधारणमिति' न्यायादवधारणावगतिः, 'शिवाप्तिः' निःश्रेयसलाभो 'निर्दिष्टा' प्रतिपादिता, अत्रोपायान्तरं निषेधयति 'हि' निश्चयेन 'अपरा' उक्तप्रकारातिरिक्ता - भिन्ना 'काचन' काऽपि 'सरणिः' पद्धतिर्मार्गो वा न निर्दिष्टा न प्रतिपादिता शास्त्रेष्वित्याशयः । आत्मध्यानादेवाऽऽत्मस्वरूपलाभो नान्यथा, तच्च ध्यानं श्रुतादेव स्वभ्यस्तादिति निर्गलितोऽर्थः ॥१४॥ Page #91 -------------------------------------------------------------------------- ________________ अध्यात्मबिन्दुः शुद्धस्याप्यात्मनो कथं भवभ्रमणमित्याशङ्कायामाह - यथा रज्जौ सर्पभ्रममतिरविज्ञानजनिता, क्रियाहेतुर्भूत्वा बुधमपि चिरं व्याकुलयति । तथा देहेऽप्यस्मिन्नहमिति विपर्यस्तधिषणा, भवभ्रान्तेर्मूलं परमपुरुषस्यापि समभूत् ॥१५॥ शिखरिणीवृत्तम् । पद्मप्रभा० ‘यथे'त्यादि, 'यथा' येनप्रकारेण 'रज्जौ ' दवरके ' अविज्ञानजनिता' रज्जुविषयकविशदज्ञानाभावजन्या 'सर्पभ्रममतिः' अतस्मिंस्तद्ग्रहस्य भ्रमत्वात् सर्पभ्रमात्मिका बुद्धिः सर्पभ्रमात्मकोऽयथार्थोऽनुभवः 'क्रियाहेतुः ' क्रियाया भयाद् अपसर्पणादिरुपाया हेतुर्जनिका ' भूत्वा' सम्पद्य 'बुधं' बुद्धिमन्तमपि रज्जुसर्पयोर्विवेकज्ञमपि, ‘अपि’ना अबुधस्य तु कथैव केति द्योत्यते ' चिरं' दीर्घकालं 'व्याकुलयति' अस्वस्थचित्तं करोति भयभीतं करोतीति यावत् । ' तथा ' तेन प्रकारेण 'अस्मिन् ' भोगायतनतया सन्निकृष्टे ‘देहे' शरीरे' ऽपि 'ना आस्तां रज्जौ सर्पभ्रममतिरित्यपेरर्थः । 'अहमि 'ति अहमित्येवं प्रकारा 'विपर्यस्ता' भ्रमात्मिका 'धिषणा' बुद्धिः 'परमपुरुषस्यापि' परमो निश्चयनयेन शुद्धो यः पुरुषः आत्मा तस्यापि परमात्मनोऽपि अज्ञानदशायां सम्यक्त्वाप्तेः प्राक् । अपिना संसारोदरवर्तिनां जीवानां परिग्रहः, 'भवभ्रान्तेः ' भवपरम्परायाः भवभ्रमणस्य मूलं' बीजं 'समभूत्' संजातम् । शुद्धस्याप्यात्मनः देहात्माभिमानतयैव भवपरम्परेत्याशयः ॥१५॥ ९० [ चतुर्थी भवभृत्स्थितिमाह चिरं सुप्ता ह्येते गुरुभवभवद्दुः खतलिने, दृढाविद्यानिद्रापरिगतविवेकेक्षणपुटाः । भृशं स्वप्नायन्तेऽहमिति च परं मामकमिति, व्यवस्यन्तः सन्तः कुगतिभवनेऽमी भवभृतः ॥ १६ ॥ शिखरिणीवृत्तम् । पद्मप्रभा० 'चिर' मित्यादि ' एतेऽमी' दृश्यमाना अज्ञानित्वात् विप्रकृष्टा भवभृतः प्राणिनः कुगतिभवने कुगतिर्नरकादिस्तदेवाश्रयत्वात् भवनं तत्राज्ञानसद्भावे मनुष्यादिगतिरपि कुगतिरेव दुर्गतिसाधनत्वादिति ध्येयम्।'गुरुभवभवद्दुःखतलिने' गुरुः कर्मभाराक्रान्तत्वात् Page #92 -------------------------------------------------------------------------- ________________ द्वात्रिंशिका] अध्यात्मबिन्दुः गुरुरिव यो भवः संसारस्ततो भवत् - जायमानं यद् दुःखं तदैवाविद्यात्मकनिद्रोपयोगित्वात् तलिनं तत्र 'दृढविद्यानिद्रापरिगतविवेकेक्षणपुटाः' दृढा दुरुच्छेद्यत्वात् प्रबला या अविद्या-मिथ्याज्ञानं सैव ज्ञानेक्षणनिमीलनाद्धेतोनिद्रेव निद्रा तया परिगतमाक्रान्तं विवेके क्षणस्य पुटं देहात्मभेददृष्टिपुटं येषां ते तादृशा अविद्यानिद्रावशात् वस्तुयाथाम्यावबोधासमर्थाश्चिरमनेकभवान् यावत् 'सुप्ताः'-निद्रायिताः सुप्तवत् ज्ञानचैतन्यस्फुरणरहिताः 'अहमिति देहादौ अहमित्येवंप्रकारं, चो भिन्नक्रमः मामकमित्यनन्तरं योज्यः ततश्च परं' स्वभिन्नं पुत्रकलत्रादिकं विषयादिकं च मामकमिति' ममेदमित्येवं व्यवस्यन्तः'व्यवसायं कुर्वन्तः 'सन्तः'-सुगमं भृशं' अत्यर्थं स्वप्नायन्ते' स्वप्नदशामनुभवन्ति देहे आत्मबुद्धिः पुत्रादौ च ममेतिबुद्धिर्व्यवसाय: स च अयथार्थः, एवं च यथा स्वप्नेऽसद्भूता क्रिया तथा भवेऽपि अविद्यावशादुक्तव्यवसायात्मिका क्रियासद्भूतैवेति भावः ॥१६॥ शास्त्रस्यात्मज्ञानमेव प्रयोजनमित्याह - प्रविज्ञाते यस्मिन्नतिशयितचिच्छक्तिकवलीकृते त्रैलोक्ये किं समवगमयोग्यं किल परम् । अविज्ञातेत्वस्मिन्नतिनिशितशास्त्रार्थपटुता, श्रमायैवात्यन्तं भ्रमकृततुषाकण्डनमिव ॥१७॥ शिखरिणीवृत्तम् । पद्मप्रभा० 'प्रविज्ञाते' इत्यादि, 'अतिशयितचिच्छक्तिकवलीकृतत्रैलोक्ये' अतिशयिता-सर्वोत्कृष्टा-परमेत्यर्थः या चिच्छक्तिः चिदेव शक्तिस्तया कवलीकृतंविषयभावेनाभ्यन्तरीकृतं त्रैलोक्यं-जगत्पदार्थसार्थं येन स तस्मिन् यत्प्रकारेऽऽत्मनि प्रविज्ञाते' प्रकर्षण-साक्षात्रूपतया विशेषेण यथावस्थितरूपेण ज्ञाते सति, किमित्याक्षेपे, परमन्यत् 'समवगमयोग्यं' ज्ञेयं, 'किं' किल निश्चयेनावशिष्यते? किमपि नावशिष्यत इत्यर्थः । तस्मिन्नेकस्मिन् ज्ञाते सर्वं ज्ञातं भवति, तदुक्तं-'यस्य भासा सर्वमिदं विभाती'ति भावः, विपक्षेऽकृतकृत्यतामाह- तुः पूर्वस्मात् भेदे, 'अविज्ञाते' अस्मिन्नुक्तात्मतत्त्वेऽविज्ञाते यथावस्थितरूपेणाज्ञाते सति 'अतिनिशितशास्त्रार्थपटुता' अत्यन्तं निशिता-तीक्ष्णा परपराजयसमर्था शास्त्रार्थे-वादादौ पटुता-प्रावीण्यं भ्रमकृततुषाकण्डनमिव' भ्रमकृतं भ्रान्त्या निष्पादितं यत् तुषाकण्डनं-तुषा-बुशावहननं तदिवा 'त्यन्तंश्रमायैव'-केवलं Page #93 -------------------------------------------------------------------------- ________________ अध्यात्मबिन्दुः [चतुर्थी श्रमजनकमेव, यथा तुषाकण्डने न तण्डुललाभः, एवं च तत् श्रमायैव तथा शास्त्रार्थपटुतया नात्मस्वभावलाभश्चेत् सा श्रमायैव, एवं चात्मस्वरूपलाभ एव शास्त्रज्ञानफलं 'तस्मिन्नेकस्मिन्नेव ज्ञाते च सर्वं ज्ञातं भवतीति तदर्थमेव यतनीयमिति भावः ॥१७॥ आत्मनि ज्ञात एव भवोच्छेद इति तदर्थमेव यतनीयमित्याह - भवाबन्धः सर्वोऽनुभवपदवीं यत्र विशति, ग्रहाधीशे व्योमाङ्गणमिव तमस्त्रुट्यतितमाम् । भिदामेति क्षिप्रं निबिडतरहृद्ग्रन्थिरपि तत्, पदं शान्तं भाव्यं सततमुपयुक्तैर्यतिवरैः ॥१८॥ शिखरिणीवृत्तम् । पद्मप्रभा० भवाबन्ध' इत्यादि, 'भवाबन्धः' संसाराभिष्वङ्गः 'यत्र' यस्मिन् स्थितौ अनुभवपदवीं' ज्ञानविषयतां विशति-प्राप्नुवति सति आत्मनि ज्ञाते सत्येत्यर्थः, 'सर्वः' समग्रोऽशेषो भवाबन्धः स 'त्रुट्यतितमां' अत्यन्तं नश्यति । तत्र उपमानमाह 'ग्रहाधीशे'सूर्ये 'व्योमाङ्गणं'व्योम-आकाशं विस्तृतत्वादंगणमिव तस्मिन् विशतीत्यनेन सम्बध्यते 'तमः' अन्धकारं 'इव' यथा व्योम्न्युदिते सूर्ये तमोऽत्यन्तं नश्यति तथेत्यर्थः । आत्मज्ञानस्य फलान्तरमप्याह-'भिदामेति' भेदं प्राप्नोति 'क्षिप्रं' त्वरितमेव, केत्याह - 'निबिडतरहृत्ग्रंथिः' निबिडतराऽत्यन्तं गाढा या हृदो-मनसो ग्रन्थिन्थिरिव दुर्भेद्यत्वाद् मिथ्यादर्शनमोहनीयादिकर्मजन्यो रागादिपरिणाम: 'अपिः' समुच्चये 'तत्' तस्माद् 'उपयुक्तैः' ज्ञानाधुपयोगवद्भिरप्रमत्तैः 'यतिवरैः' संयमिभिः 'सततं' अनवरतं 'शान्तं' रागाद्यैरक्षुब्धं 'पदं' मुक्तिपदं शुद्धात्मस्वरूपं वा 'भाव्यं' अनुचिन्त्यमिति । तदुक्तं - भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि, तस्मिन् दृष्टे परावरे ॥१॥ अयमत्र सारांश:-यथा व्योम्नि सूर्ये उदिते सति अंधकारो विनश्यति तथा शुद्धात्मनि ज्ञाते सति सर्वोऽपि संसाराभिष्वङ्गः अत्यन्तं प्रणश्यति। अपरं च शुद्धात्मनि ज्ञाते सति रागादीनां निबिडतरा हृद्ग्रंथिः त्वरितमेव भेदमुपैति तस्माद् ज्ञानाधुपयोगवद्भिः संयमिभिः सततं शान्तं पदं अनुचिन्तनीयमिति ॥१८॥ रागादिनाशासाधारणकारणामात्मज्ञानमित्याहस्वरूपे विश्रान्ति अयति यदि चैतन्यमचला, न तु ज्ञेयासत्त्या व्रजति विकृति काञ्चन मनाक् । Page #94 -------------------------------------------------------------------------- ________________ द्वात्रिंशिका] अध्यात्मबिन्दुः ततो राग-द्वेषद्वितयमिदमप्राप्तविषयं, क्षयं दाह्याभावादहन इव गच्छत्यतितमाम् ॥१९॥ शिखरिणीवृत्तम् । पद्मप्रभा० 'स्वरूपे' इत्यादि, स्वरूपे' शुद्धात्मनि विश्रान्ति' विश्रामं, 'श्रयति' आश्रयं करोति, 'यदि' चेत् 'चैतन्यं' बुद्धिः 'अचलां' निश्चलां, एतेषां पदानां सम्मिलितोऽयमर्थः - यदि चैतन्यं स्थिरां-अप्रच्युतां-विश्रान्ति श्रयति-अनवरतमात्मध्यान - परा भवतीत्यर्थः । तया 'ज्ञेयासत्त्या' ज्ञेयस्य-स्वस्वरूपस्य आसत्त्या सान्निध्यतो 'मनाक्'इषदपि काञ्चन' कामपि विकृति' विकारभाव 'न तु' नैव व्रजति' प्राप्नोति 'ततः तेन हेतुना 'इदं' सर्वजीवसुलभं रागद्वेषद्वितयं' राग-द्वेषयोर्युगलं 'अतितमाम्' एकान्तिकात्यन्तिक-रूपेण 'क्षयं'-नाशं 'गच्छति'-प्राप्नोति, 'अप्राप्तविषयं' रागद्वेषयोर्विषयाणामप्राप्त्यात् तत्र दृष्टान्तमाह- 'दाह्याभावात्' दाह्यस्य दाहविषयस्य काष्ठादेरभावाद् 'दहनो'अग्निरिव । यदा प्रथमं बुद्धिरात्मनिष्ठा निर्विकारा च भवति ततथाश्रयाभावादेव रागाद्यभाव इति भावः ॥१९॥ आत्मैव भजनीय इत्यत्रोपपत्तिमाह - महानन्दस्थानं न हि परमतस्त्रस्यसि यतः, प्रविश्वस्तो यस्मिन् भयपदमतो नान्यदपरम् । ततः स्वात्मारामे क्षणमपि भजस्व स्थितिमहो, यतः शीर्यन्तेऽमी भ्रमनिचितकर्माणुनिकराः ॥२०॥ शिखरिणीवृत्तम् । पद्मप्रभा० 'महानन्दस्थान' मित्यादि 'यतः'-यस्मात् सकाशात् त्वं त्रस्यसि' उद्वेगं प्राप्नोसि । कुत इत्याह - दुष्करनानाक्रियाविधानतः 'अत'स्तस्मादात्मन इति प्रस्तावात् बोध्यं, 'परं' उत्कृष्टं महानन्दस्थानं' निरतिशयत्वादखण्डत्वात् शाश्वतत्वाच्च सर्वमहान् य आनन्दस्तस्य 'स्थानं' आश्रयो 'न हि' नैवास्तीति शेषः । आत्मन आनन्दमयत्वादिति बोध्यम् । तथा 'यस्मिन्' यत्र शब्दादिविषये 'प्रविश्वस्तः' प्रकर्षेण विश्वासमाप्तः कृतप्रत्ययोऽसीति शेषः । अतः' अस्मात् शब्दादिविषयाद् अन्यद्' भिन्नं अपरं द्वितीयं 'भयपदं' भयस्थानं 'न' नास्ति जन्ममरणादिदुःखजनकत्वादिति ध्येयम् । अन्यदित्यैतावतैवेष्टसिद्धेरपरमित्युक्तिर्लोके तथा व्यवहारादिति बोध्यम् । 'ततः' तस्मात् कारणात् स्वात्मारामे' स्वस्यात्मा स एवानन्दप्रदत्वादारामस्तत्र'क्षणमपि'अल्पकालमपि Page #95 -------------------------------------------------------------------------- ________________ ९४ अध्यात्मबिन्दुः [ चतुर्थी 'भजस्व' सेवस्व'स्थितिं 'स्थिरतां' अहो' इति कोमलामन्त्रणे, आत्मानमल्पकालमप्यनुचिन्तयेत्यर्थः । ‘यतः' यस्मात् कारणात् 'अमी' आत्मनिबद्धाऽऽत्मनि संश्लिष्टा 'भ्रमनिचितकर्माणुनिकराः ' भ्रमो मिथ्यात्वं तद्वशात् निचिता:-अर्जिताः कर्माणूनां कर्मपुद्गलानां निकराः समूहाः शीर्यन्ते परिशटन्ति । आत्मध्यानेनावश्यं कर्मपरिशाट इति तद्यथाशक्ति अल्पकालमपि मुमुक्षुणा विधेयं अत्यन्तमधुरस्वादमल्पमपि पयः पीतं पुनस्तत्पानरुचि जनयति तथाल्पकालमप्यादृतं ध्यानं विशेषध्यानरुचिं जनयतीति भावः ॥२०॥ बन्धमोक्षयोः स्वस्यैव हेतुत्वमाह भवारण्यभ्रान्तौ स्वयमजनि हेतुः स्व-परयोरविज्ञानात् स्वस्मिन् यदतनुत कर्तृत्वधिषणाम् । विमोक्षेऽपि स्वस्मिन् स्थितिपरिणतेर्यत्स्वयमसा - वतः शास्ता स्वस्य स्वयमयमतोऽन्यः किल नहि ॥ २१ ॥ शिखरिणीवृत्तम् । पद्मप्रभा० ‘भवारण्यभ्रान्तौ ' इत्यादि, भव एव नानादुःखकारणत्वादरण्यं वनमिव तत्र भ्रान्तिः-भ्रमणं तत्र भवपरम्परायामित्यर्थः 'स्वयं' आत्मनैव 'हेतुः' कारणं 'अजनि ' • अभूदात्मेति शेषः । कुत इति चेत् तत्राह' यद्' यस्मात् ' स्वपरयोः ' आत्मतद्भिन्नयोर्विषये 'अविज्ञानात् ' विशेषेण यथावस्थितरूपेण ज्ञानस्य स्वपरविवेकात्मकस्याभावाद्धेतोः 'स्वस्मि'न्नकर्तुरपि स्वस्य विषये 'कर्तृत्वधिषणां' कर्तृत्वादिबुद्धि 'अतनुत' अकरोत् स्वपरभेदाग्रहादात्मनि कर्तृत्वादिबुद्धिरेव भवपरम्पराहेतुरित्याशयः । अथ 'विमोक्षेऽपि ' भवपरम्परापरिहारेऽपि अपिना उक्तभ्रमणे स्वस्य हेतुत्वसमुच्चयो यद् - यस्मात् ' स्वस्मिन् ' स्वविषये ‘स्थितिपरिणतेः' स्थिरतापरिणामवशात् स्वस्यानवरतमनुचिन्तनेनेत्यर्थः । 'असा 'वात्मा 'स्वय 'मात्मनैव हेतुरिति सम्बध्यते स्थिरात्मचिन्तनेन भवपरम्परोच्छेद इत्याशयः । अत उक्तरीत्या बन्धमोक्षयोः स्वस्यैव हेतुत्वाद्धेतोरयमात्मा 'स्वस्य' निजस्य स्वयमात्मनैव ‘शास्ता' शुभाशुभनियामकोऽतो निजात्मनः सकाशादन्योऽपरः कोऽपि ‘किले 'ति वाक्यालङ्कारे‘नहि' नैवेति भावः । तदुक्तं - आत्मैव स्वात्मनो बन्धुः आत्मैव रिपुरात्मनः । सुहृदात्मात्मनस्तस्य येनात्मैवात्मना जितः ||२१|| Page #96 -------------------------------------------------------------------------- ________________ द्वात्रिंशिका ] अध्यात्मबिन्दुः ९५ भवोच्छेदोपायमाह भवाद्भोगेभ्यो वा ननु यदि च भोगायतनतो, विरज्य क्षिप्रं चेदनुभवति रूपं निजमयम् । ततः संसाराख्या व्रततिरियमप्राप्तविषयप्रपञ्चार्णःसेकात् क्षणत इव संशुष्यतितमाम् ॥ २२ ॥ शिखरिणीवृत्तम् । पद्मप्रभा० ‘भवा ं दित्यादि, 'भवात्' - संसारात्, 'भोगेभ्यः '- शब्दादिभ्यः सांसारिकसुखजनकत्वेनेष्टेभ्यः, 'वा'कारस्तुल्यकक्षतायां भवाद् विरागो विषयाद्विराग एवेति बोध्यम् । इत्थमपि देहे ममता चेत् नेष्टसिद्धिरित्यत आह- ' ननु यदि चे 'त्यवयवसमूहस्तथार्थे तथा 'भोगायतनतो' भोगायतनं शरीरं तस्माद् विरज्य वैराग्यमाप्य भवनैर्गुण्यदर्शनादिति बोध्यम् । चेत्-यदि 'क्षिप्रं' झटिति 'अयं' आत्मा 'निजं' स्वकीयं 'रूपं' शुद्धं स्वरूप' मनुभवति' पश्यति जानाति च । विरक्तः सन्नात्मा यदा स्वानुध्यानपरो भवति 'ततः' तस्मात् स्वानुभवहेतोः सर्वजीवसाधारणरूपा 'संसाराख्या' संसाराभिधा 'व्रततिरियं ' इयं लता 'अप्राप्तविषयप्रपञ्चार्णः सेकात्' अप्राप्तविषयविस्तारा एवार्णांसि जलानीव तेषां सेकस्तस्माद्धेतोः 'क्षणत इव' अचिरेणैव ' संशुष्यतितमाम्' समूलं नश्यति । लता हि सेकाभावे संशुष्यतीति यथा प्रसिद्धं तथैव वैराग्ये सति विषयसम्पर्काभावात् संसारोच्छेदोऽप्यित्याशयः ॥२२॥ विना वैराग्यमिष्टसिद्धिर्नास्तीत्याह - यथा रोगाद्युक्तः सरसपटुकट्वम्ललवण - द्रवान्नानाहारांस्त्यजति निजनैरुज्यकृतये । तथाऽयं दृङ्मोहज्वररहितचिन्मूर्तिरखिलां, स्त्यजन्भोगास्वादाननुभवति नैरुज्यमचिरात् ॥२३॥ शिखरिणीवृत्तम् । पद्मप्रभा० ‘यथे' त्यादि, 'यथे 'ति दृष्टान्तोपन्यासे 'रोगात्' ज्वरादितो 'युक्तः ' 'निजनैरुज्यकृतये' स्वारोग्यार्थं 'सरसपटुकट्वम्ललवणद्रवान्' सरसा:- स्वादवः, पटवा - रुचिकरा, कटवः - कटुरसयुक्ताः, अम्ला-अम्लरसयुक्ताः, लवणा-लवणरसयुक्ताः, द्रवाः- द्रवात्मकास्तानेतादृशान् 'नानाहारान्' विविधभोज्यान् 'त्यजति' Page #97 -------------------------------------------------------------------------- ________________ ९६ अध्यात्मबिन्दुः [चतुर्थी परिहरत्यन्यथाऽपथ्यवशात् पुना रोगोत्पत्तिसंभवात् तथा' तेन प्रकारेण 'अयं' आत्मा 'दृङ्मोहज्वररहितचिन्मूर्तिः' दृङ्मोहो-दर्शनमोहनीयं कर्म तदेव तापप्रदत्वात् ज्वरस्तेन रहिता चिदात्मिका मूर्तिः-स्वरूपं यस्य स तादृशो दर्शनमोहनीयादिक्षयेण सम्यग्ज्ञानवान् सन्नित्यर्थः, 'अखिलान्' सकलान् न तु कतिपयानेव 'भोगास्वादान्' भोगरसान् विषयगृद्धिमित्यर्थः, 'त्यजन्' परिहरन् 'अचिरात्' शीघ्रमेव 'नैरुज्यं' स्वरूपसमवस्थानरूपमात्मारोग्यं 'अनुभवति' प्राप्नोति । दर्शनमोहनीयक्षयतो विषयविरागस्ततश्चात्मस्वरूपलाभ इत्याशयः ॥२३।। आत्मनो विभावपरिणामवशादेव जन्मादीन्न यथावस्थितरूपेण पश्यति तदाह - चकास्त्येतद्यस्मिन् जगदखिलमूतं च महसि, जगत्यप्यस्मिन् यद्वसति न दधत्तत्परिणतिम् । अविद्यानिद्रापूर्णिततरक्वचिदृक् जनिमुखान्, बहून्स्वप्नान्पश्यत्यथ तदिदमस्तस्वविभवम् ॥२४॥ शिखरिणीवृत्तम् । पद्मप्रभा० चकास्ती' त्यादि, 'चकास्ति' द्योतते 'यस्मिन्' यत्प्रकारे 'महसि' ज्योतिषि शुद्धचिदात्मकात्मनि एतत्' दृश्यमानं जगद्' सचराचरं विश्वं' अखिलं' अशेषंपरिपूर्णं 'उतं च' स्यूतमिव, च इवार्थे 'यद्' इति महो 'अस्मिन्' जगति 'अपिना' परमपदस्थस्य तु का कथेति द्योत्यते । 'तत्परिणतिं' - जगत्परिणतिं 'न दधत्' न कलयदेव 'वसति' तिष्ठति । शुद्धात्मनश्चित्ते हि जगत्पदार्थसार्थ एव विषयस्तादृशश्चात्मा शुद्धत्वादेव न जगद्विकारभाग् भवतीत्याशयः । 'अथेति पक्षान्तरे 'तद्' उक्तमेवेदं जीवावस्थापन्नं महः अस्तस्वविभवं' गतस्वसम्पत् कर्मसंश्लेषैः शुद्धचिदात्मकमैश्वर्यमाव्रियते ततश्च अविद्ये 'त्यादि अविद्या' मिथ्याज्ञानं सैवायथार्थदर्शनहेतुत्वात् निद्रेव, तया 'घूर्णिततरा' नितरां भ्रान्ता क्वचित्' देहादौ दृग्' दृष्टिर्बुद्धिर्यस्य तादृशं सत्‘जनिमुखान्' जन्मजरामरणादिरूपान् ‘बहून्' विविधान् ‘स्वप्नान्' स्वप्नवदेवासत्पदार्थान्न यथावस्थितरूपेण 'पश्यति' अवलोकयति ॥२४॥ Page #98 -------------------------------------------------------------------------- ________________ द्वात्रिंशिका] अध्यात्मबिन्दुः खग्रामाणां प्रादुर्भावस्तेषामेव शून्यत्वं शुद्धात्मनश्वानन्द प्रदत्वं विशदयन्नाह - वसेयुः खग्रामा यदमलचिदध्यासकलिता, लभन्ते शून्यत्वं क्षणमपि तदध्यासवियुताः । अथादत्ते तेभ्यो विषयरसनाख्यं करमलं, स एवायं देवो निजपदमितः कस्य न मुदे ? ॥२५॥ पद्मप्रभा० वसेयुरित्यादि, वसेयुः' इति अस्तित्वं प्राप्नुयुः - वसन्ति अस्तित्वं प्राप्नुवन्तीत्यर्थः, के वसन्तीत्याह - 'खग्रामाः' इन्द्रियाणां विषयाः, कीदृशास्त इत्याह - 'यदमलचिदध्यासकलिताः' यदिति यस्य अनिर्दिष्टस्य कस्यचिद् निर्मलचिदोऽध्यासेन - मिथ्याज्ञानेन कलिताः - ज्ञाताः सुखदायका इति ज्ञानविषयीकृताः । इदमत्राकूतं - ये जना: निर्मलचिदो मिथ्याज्ञानवन्तः प्राकृतजना विषतुल्यान् विषयानमृतमिव मत्वा तत्प्राप्त्यर्थं तान् प्रति प्रधावन्ति महता क्लेशायासेन च तं प्राप्नुवन्ति । मिथ्याज्ञानस्य प्रभावेन विषयाणामेतद् विषचक्रमनादिकालतो गतिशीलमस्तीत्यर्थः । पुनः किमित्याह - 'त एवेन्द्रियाणां विषयाः 'लभन्ते शून्यत्वं' प्राप्नुवन्त्यकिञ्चित्करत्वं पुरुषार्थरहितत्वम्, कथमेवमित्याह - 'क्षणमपि तदध्यासवियुताः' क्षणमपि - अल्पकालमपि तत् - तस्य-चिदात्मनोऽध्यासेन मिथ्याज्ञानेन वियुताः - विशेषेण रहिता इन्द्रियाणां विषया इति । अयं भावः - चिदात्मनो मिथ्याज्ञानेन जना विषयाननुधावन्ति शुद्धात्मनश्च सम्यग्ज्ञानेन विषयान् विषवदामनन्ति तत्पुरुषार्थं च कण्टकशाखामर्दनवनिष्प्रयोजनं गणयन्ति । अपरं चाह- 'अथ' अत एव ज्योतिस्वरूप आत्मा 'आदत्ते' गृह्णाति 'तेभ्यः' खग्रामेभ्यः 'विषयरसनाख्यं' शब्दादिविषयास्वादाभिधं करमलं' करं - राजदेयरूपं अलं- अत्यर्थं धर्मकायनिर्वाहार्थं न तु रसास्वादनिमित्तं 'स एवायं' पूर्णज्योतिस्वरूपात्मा 'देवः' पूर्णावस्थाप्राप्तौ पूज्यत्वाद्देव इति देवः 'निजपदं' स्वशुद्धस्वरूपं इतः' प्राप्तः सन् 'कस्य न मुदे' कस्य प्रमोदाय न स्यात् ? अपि तु सर्वस्याऽपि जगज्जन्तोर्यथाभव्यं परार्थकरणादअपरोपतापित्वाच्च प्रमोदाय स्यादिति । इदमत्र रहस्यं - चिन्मयानन्द आत्मा शब्दादीनामास्वादं राजदेयकररूपेणं गुणाति न तु स्वरसतः । पूर्णावस्थामापन्नः स विशुद्धात्मा देवो भूत्वा जनमनांसि परमानन्दपूर्णानि करोतीति ॥२५॥ Page #99 -------------------------------------------------------------------------- ________________ अध्यात्मबिन्दुः [चतुर्थी अथ कीदृशं पूर्णं ज्योतिर्विजयते तदाह - जगद् भासा यस्य स्फुरति सहजानन्दसरसं, स्थितं विश्वं व्याप्योल्लसद्मलचिद्दीप्तिपटलैः । अवाग्व्यापारं यत् कृतिविधुरमत्यन्तगहनं, परं पूर्णं ज्योतिर्दलितदृढमोहं विजयते ॥२६॥ पद्मप्रभा० जगदित्यादि, 'जगत्' -विश्वं सर्वप्राणिगण इत्यर्थः । 'यस्य' चिदानन्दस्वरूपस्यात्मन 'भासा' ज्ञानतेजसा 'स्फूरति' संवेद्यभावमागच्छति, किं स्वरूपंसंवेद्यभावमित्याह - 'सहजानन्दसरसं' स्वाभाविकसुखपूर्णम् । किञ्च यत् स्वस्मिन् 'उल्लसद्' प्राबल्येन स्फुरत् 'अमलचिद्' निरावरणज्ञानं तस्य 'दीप्तिपटलैः' तेजःसमूहै: 'विश्वं जगत् व्याप्य स्थितं क्षायिकत्वात्। तदेव ज्ञानं ज्योतिर्वा विशिनष्टि - 'अवाग्व्यापारं' वचनागोचरं वचनव्यापारशून्यमित्यर्थः । किञ्च – 'यत्कृति विधुरं यदित्यादि, यज्ज्योतिः कृतिविधुरं कृत्या-कार्यजातेन विधुरं रहितं ज्योतिस्वरूपावस्थाप्राप्त्यनन्तरं न किमपि कार्यजातमवशिष्यते कृतकृत्यत्वात् । 'अत्यन्तगहनं' अतिशयेन गूढस्वरूपं छद्मस्थाविषयत्वात्, किञ्च 'परं' परमं सर्वश्रेष्ठं सर्वोत्कृष्टमित्यर्थः, 'पूर्ण' संपूर्ण परिपूर्ण ऊनतारहितमित्यर्थः । दलितदृढमोहं' दलितः प्रणाशितो दृढो निबिडो मोहो: ममत्वभावो यस्मिन् तत्, ‘ज्योतिः' केवलज्ञानं तत् ‘विजयते' सर्वोत्कर्षेण वर्तत इति ॥२६॥ शुद्धात्मनः रागद्वेषयोरनुदयं कर्मबन्धाभावं च दर्शयन्नाह - राग-द्वेषद्वितयमुदितं यस्य नैवास्ति सर्व - द्रव्येष्वात्मस्थित दृढमतेनिर्विकारानुभूतेः । टोत्कीर्णप्रकृतिकलसंज्ञानसर्वस्वभाजो,... यत्कर्मस्यात् तदिदमुदितं बन्धकृज्जातु नैव ॥२७॥ पद्मप्रभा० रागद्वेषद्वितयेत्यादि, रागद्वेषयोर्द्वितयं - युगलं तस्य 'उदयो यस्य नैवास्ति' यस्येत्यनेन कीदृशस्य पुरुषस्य राग-द्वेषद्वितयोरुदयो नैवास्तीति जिज्ञासायामाह - 'आत्मस्थितदृढमतेः' शुद्धात्मनि स्थिता दृढमतिर्यस्य, किञ्च - निर्विकारानुभूतेः' Page #100 -------------------------------------------------------------------------- ________________ द्वात्रिंशिका ] अध्यात्मबिन्दुः यस्यानुभूतिर्विषयेषु विकारान्न भजते- न धारयति तादृशस्य - एतादृशस्य पुण्यपुरुषस्य कुत्र रागद्वेषयोर्द्वितयं न उदेति – इत्याशङ्कायामाह - 'सर्वद्रव्येषु' विश्ववर्तिमनोज्ञामनोज्ञेषु सर्वबाह्यपदार्थेष्विति । ‘टोत्कीर्णप्रकृतिकलसंज्ञान - सर्वस्वभाज: ' यः पुरुषः टङ्केणोत्कीर्णाया मूर्तेरिव स्वच्छं प्रकृत्या मधुरं संज्ञानस्य सर्वस्वं धारयति तादृशस्य पुरुषस्य यदुदितं कर्म तदिदं 'जातु' कदाचिदपि नैव नूतनकर्म बन्धकारकं भवति । अयं भावः - सामान्यतो मोहनीयकर्मोदयेन रागद्वेषौ उदयं लभेते परं येषां पुरुषोत्तमानामात्मनि ' दृढा' निश्चला मतिर्येषां च विषयाणां सम्पर्केऽपि निर्विकारानुभूतिश्व वर्तते । तेषां सर्वेष्वपि द्रव्येषु रागद्वेषयोरुदयो न भवति । यथा च टङ्केणोत्कीर्णा मूर्तिः सुन्दरा प्रतिभाति तथैव प्रकृत्या मधुरं यत्संज्ञानं चैतन्यं ज्ञानं वा तस्य सर्वस्वं यो भजति स टङ्कोत्कीर्णप्रकृतिकलसंज्ञानभाक्, एतादृशस्य पुरुषस्य नूतनानां कर्मणां बन्धो न भवति रागद्वेषरहितत्वादिति । परपदं प्रोज्झ स्वं रूपं कलय येन संसारान्मुच्यस इत्युपदेशं ददन्नाह - मत्तो यस्मिन् स्वपिषि न पदं तावकं भावकं ( प्र ) तत् त्वाधायीदं परपदमिति प्रोज्झ दूरं महात्मन् ! यस्मिन् शुद्धः स्वरसवसतः स्थायितामेतिभाव स्तत् स्वं रूपं झटिति कलयन् मुच्यसे किं न बन्धो ! ॥ २८ ॥ ९९ पद्मप्रभा०- - मत्त इत्यादि, 'मत्त: ' प्रमत्त उन्मत्तो वा, विषयेषु मग्नो जनो मत्त इति उच्यते । 'यस्मिन् ' यस्यां स्थित्यां त्वं स्वपिषि सा स्थिति विषयमग्नता 'न पदं तावकं' न तव न भावकं - तात्त्विकं वास्तविकं पदं 'तत्त्वाधायीदं' तत्त्विदं आधायि इति अध्यारोपितं न तु साहजिकं, भावकम्प्रत्वमित्यपि पाठो लभ्यते, तस्यायमर्थः तत्पदं कम्पनशीलं परिणामीति, भावेषु - पदार्थेषु कम्प्रत् - चलनशीलं अत एव 'परपदं ' परकीयं पदमिति हेत्वर्थे, तस्मात् 'हे महात्मन् !' तत्पदं अतिशयेन 'दूरं' 'प्रोज्झ' त्यज त्वमिति शेषः । 'यस्मिन्' यत्पदे यस्यां स्थितौ 'भावः' परिणामः 'स्थायितामेति' स्थिरत्वं लभते तत्‘स्वं रूपं ' स्वस्य आत्मनः शुद्धं स्वरूपं 'कलयन्' जानन् 'झटिति' सत्व विना विलम्बं 'बन्धो !' हे भ्राता, अत्र बन्धो शब्दस्य प्रयोगः आत्मानमुद्दिश्य कृतोऽस्ति । ‘मुच्यसे किं न ?' सुतरां सर्वथा मुच्यस एव भवबन्धादिति शेषः ॥२८॥ - Page #101 -------------------------------------------------------------------------- ________________ अध्यात्मबिन्दुः [ चतुर्थी नानाभवपादपानां मूलभेदकमिदं शस्त्रमिति प्रदर्शनपूर्वं तदेव ध्येयमित्याह इदं हि नानाभवपादपानां, मूलोद्भिदं शस्त्रमुदाहरन्ति । सद्ध्याननिष्णात मुनीश्वराणां, ध्येयं तदेतत् कृतिभिः प्रदिष्टम् ॥२९॥ पद्मप्रभा० इदमित्यादि, 'इदं' अध्यात्मशास्त्रं आत्मस्वरूपं आत्मज्ञानं वा तं ‘हि' निश्चयार्थे ‘नानाभवपादपानां' विविधा भवा एव पादपास्तेषां 'मूलोद्भिदं ' मूलानि उद्भिनत्तीति 'मूलोद्भिदं तं मूलोद्भिदं आमूलचूलखण्डनकरमित्यर्थः । शस्त्रं इति तु सुगमं' उदाहरन्ति 'शास्त्रकारा निर्दिशन्ति, अन्यच्च - ' कृतिभिः 'आत्मज्ञानिभिः 'तदेतत्' आत्मस्वरूपं ‘ध्येयं' ध्यातुं योग्यं चिन्तनीयमिति ; 'प्रदिष्टं' निर्दिष्टं - निदर्शितमिति । केषामित्याह - ' सद्ध्याननिष्णात मुनीश्वराणां' सद्ध्याने निष्णातानां प्रवीणानां मुनीश्वराणां यतीनामिति । इदमन्न तात्पर्यं - आत्मस्वरूपज्ञानं नानाभवपादपानां मूलोद्भेदकं शस्त्रं सद्ध्यान- निष्णात-मुनीश्वराणां तदेव ध्येयमिति ॥२९॥ १०० आत्मस्वरूपं विमलबोधेन प्राप्यते कर्मकाण्डेन तु तद् दूरवापमिति दर्शयन्नाह - कर्मकाण्डदुरवापमिदं हि प्राप्यते विमलबोधबलेन । खिद्यते किमु वृथैव जनस्तद्, देहदण्डनमुखैः कृतिकाण्डैः ॥३०॥ पद्मप्रभा० कर्मकाण्डमित्यादि, 'इदं' शुद्धात्मस्वरूपं कर्मकाण्डेन - ज्ञान रहितक्रियाकलापेन 'दुरवापं' प्राप्तं न शक्यं 'हि' निश्चये यथार्थत इति, अपि तु 'विमलबोधबलेन' विमलज्ञानबलेन 'प्राप्यते' प्राप्तुं शक्यते । 'तद्' तस्मात् 'जनः ' लोकः 'किमु' - आश्चर्ये 'वृथैव' निष्कारणमेव 'खिद्यते' श्रमं कुरुते । कैरित्याह - ‘देहदण्डनमुखैः - कृतिकाण्डैः' देहदमनप्रमुखैर्ज्ञानरहितक्रियाकलापैः । अयं भावः आत्मस्वरूपं विमलबोधबलेनैव प्राप्यतेऽत एवाज्ञानवद्भिर्जनैः कर्मकाण्डे वृथा श्रमो न कर्तव्यः, अपि तु विमलबोधबलेन क्रियाकलापस्याराधना कर्तव्या ||३०|| ग्रन्थकारोऽस्यां द्वात्रिंशिकायां जिनागमविरुद्धं छद्मस्थधिया यद् गदितमासीत् तस्य शुद्धिकरणार्थं प्रार्थयति - अज्ञानतो यदिह किञ्चिदपि न्यगादि, जैनागमार्थमतिलङ्घ्य मया विरुद्धम् । Page #102 -------------------------------------------------------------------------- ________________ १०१ द्वात्रिंशिका] ___ अध्यात्मबिन्दुः तच्छोधयन्तु निपुणाः स्वपरार्थदक्षा श्छद्मस्थधीननु यतः स्खलनस्वभावा ॥३१॥ पद्मप्रभा० 'अज्ञानत' इत्यादि, 'अज्ञानतः' मतिमान्द्यात् 'यदिह किञ्चिदपि' यदिह-अस्मिन् ग्रन्थेऽस्यां चतुर्थ्यां द्वात्रिंशिकायां वा किञ्चिदपि 'मया' ग्रन्थकृता 'जैनागमार्थमतिलय' आगमशास्त्रे प्ररूपितां जिनाज्ञामुल्लङ्ग्य 'विरुद्धं' आगमार्थबाह्यमागमार्थबाधकं वा 'न्यगादि' कथितमासीत् 'तच्छोधयन्तु' तां क्षति दूरीकुर्वन्तु, के इत्याह-'निपुणाः' प्राज्ञाः, तेऽपि निपुणाः कीदृशा इत्याह - 'स्वपरार्थदक्षाः' स्वस्य परस्य चार्थो मोक्षस्तस्मिन् दक्षाः 'छद्मस्थधीः' छद्मस्थानां बुद्धिः - प्रज्ञा 'यतः' हेत्वर्थे 'ननु' निश्चये सर्वत्र 'स्खलनस्वभावा' प्रमादयुक्ता भवति ॥३१॥ अथ ग्रन्थकारो द्वात्रिंशिकाचतुष्टयं तत्त्वार्थिनां कीदृशं भवतु तद्भावनां प्रगट्यन्नाहश्रीहर्षवर्दनकृतं स्वपरोपकारि - द्वात्रिंशिकावरचतुष्टयमिष्टबोधम् । तत्त्वार्थिनां रसदमस्तु लसद्विवेक - ख्याति (त्य) स्खलबलवदात्मपरा (र) प्रतीतिः ॥३२॥ पद्मप्रभा० श्री हर्षवर्दनकृतमि'त्यादि, 'श्री हर्षवर्दनकृतं' श्री हर्षवर्दननामा ग्रन्थकार उपाध्यायपदवीसुशोभितस्तेन रचितं 'द्वात्रिंशकावरचतुष्टयं' वरं - श्रेष्ठं द्वात्रिंशिकाचतुष्टयं तत्त्वार्थिनां' जिनोक्ततत्त्वजिज्ञासूनां 'स्वपरोपकारि' स्वस्य परेषां च उपकारि भवतु । 'इष्टबोधं' शास्त्रानुसारिज्ञानप्रदं च भवतु तथा व रसदमस्तु' ज्ञानानन्ददं भवतु 'लसद्विवेकख्याती' त्यादि लसद् - शोभमाना - प्रकाशमाना 'विवेकख्यातिः' आत्मपरभेदज्ञानं अस्खलत् विनावरोधेन बलवत् - बलवती आत्मपरयोः प्रतीतिः तत्कारकमस्तु इति शेषः॥३२॥ सदुपाध्याय - श्रीमद्धर्षवर्दनगणि - विरचितेऽध्यात्मबिन्दौ शुद्धस्वरूपप्रकाशिकानाम्नी चतुर्थी द्वात्रिंशिका समाप्ता। Page #103 -------------------------------------------------------------------------- ________________ १०२ [चतुर्थी अध्यात्मबिन्दुः प्रशस्तिः ॥३॥ ॥५॥ वन्दे वीरविभुं भक्त्या, चरमं जिनबान्धवम् । शासनं स्थापितं येन, तत्त्वातत्त्वविवेचकम् ॥१॥ विभूषितं प्रभोः पढें, सूरिसूर्यनिरन्तरम् । क्रमानुक्रमतः पट्टे, आगता भूरिसूरयः ॥२॥ पञ्चसप्ततिपट्टे वै, दानसूरीश्वरा वराः । सकलागमनिस्यन्दान्, जानन्तो ये प्रभास्वराः प्रदत्ता मुनिचर्या यैः, कठोरा गच्छनायकैः । भीमकान्तगुणाभ्यां ये, योगक्षेमकराः पराः ॥४॥ युग्मम् । पट्टपूर्वाचले तेषां, भासमानाः सुमित्रवत् । कर्माशास्त्रेषु निष्णाता, गुरवः प्रेमसूरयः तेषां वरदहस्तेन, दीक्षितेन तथैव च। शिक्षितेन मुनिचाँ, मित्रानन्देन सूरिणा अध्यात्मबिन्दुग्रन्थस्य, कृता टीका सुधोपमा । प्रगुरुभुवनभानु-सूरीणां प्रतपस्विनाम् । ॥७॥ मद्गुरूणां च पद्मति, नाम्नां कारुण्यभावतः । सरस्वतीप्रसादेन, भव्येन भद्रकारिणा ॥८॥ युग्मम् । श्रीरामचन्द्रेति मुनीश्वराणां, प्रभावकाणां च प्रबोधकानाम् । दिव्याशिषा या प्रगता समाप्ति, ग्रन्थस्य टीका सुखदा सुबोधा ॥९॥ तुलाश्रवाम्बरदन्ते (२०५७) वैक्रमीये तु चाश्विने । शुक्ले पक्षे च सप्तम्यां, संपूर्णा भोमवासरे ॥१०॥ ॥६॥ Page #104 -------------------------------------------------------------------------- ________________ ___१०३ ॥१॥ ॥२॥ द्वात्रिंशिका] अध्यात्मबिन्दुः निश्चयव्यवहार प्ररूपणप्रवणा ॥ प्रथम द्वात्रिंशिका ॥ ब्रूमः किमध्यात्ममहत्त्वमुच्चैर्यस्मात् परं स्वं च विभिद्य सम्यक् । समूलघातं विनिहत्य घाति, नाभेयभूः केवलमाससाद लब्ध्वाऽऽर्यत्वमथ प्रपद्य च गुरोर्नैकट्यमेनःक्षयाच्छ्रुत्वाऽध्यात्ममथ प्रपीय च ततस्तत्त्वामृतं यत् पुनः । क्षेत्रज्ञः किल मोमुहीति विषयग्रामेषु बद्धस्पृहस्तन्नूनं त्रिजगज्जये धृतिमतो मोहस्य विस्फूर्जितम् धत्तेऽम्भोधिर्जवनपवनाऽऽच्छोटनोन्मूर्च्छदुग्रोलोलश्रेणीचटुलितवपुर्व्याकुलत्वं यथाऽयम् । निष्कम्पोऽपि स्वरसवशतः कर्मकम्पाकसङ्गं तद्वत् क्षुभ्यत्ययमपि पर: पूरुषः संप्रपद्य कुम्भोदञ्चनवर्द्धमानकरकस्थाल्याद्यवस्थान्तराण्येकोऽपि ध्रुवमम्बुयोगवशतो मूद्र्व्यपिण्डोऽश्रुते । तद्वत् कर्मजलीययोगमुपलभ्यात्माऽपि तिर्यग्नरामर्त्यप्रेतपुरोगजातिनिकरत्वेन स्वयं जायते भूतार्थो ननु निश्चयस्तदितरोऽभूतार्थमावेदयन्, संत्याज्यो नितरां यतः स्व-परयोर्भेदे स बीजं न हि। भूतार्थस्तु विशुद्धवस्तुकलनाऽभिज्ञो ध्रुवं यत् ततो, भूतार्थं ननु संश्रितो विशदधीः सम्यग्दृगात्मा भवेत् व्यवहरणनयोऽयं पुंस्वरूपं विकारि भणति च नवतत्त्वैर्मुद्रितं क्षुद्ररूपम् । अबुधजनविबोधार्थं किलास्योपदेशो जिनसमयविमूढः केवलं यः श्रितोऽमुम् ॥३॥ ॥४॥ ५॥ ॥६॥ Page #105 -------------------------------------------------------------------------- ________________ १०४ अध्यात्मबिन्दुः [चतुर्थी ॥७॥ ॥८ ॥ ॥९॥ आत्मस्वरूपं पररूपमुक्तमनादिमध्यान्तमकर्तृभोक्तु । चिदङ्कितं चन्द्रकरावदातं, प्रद्योतयन् शुद्धनयश्चकास्ति तीर्थप्रवृत्त्यर्थमयं फलेग्रहिस्त्रिकालविद्भिर्व्यवहार उक्तः । परःपुनस्तत्त्वविनिश्चयाय नयद्वयात्तं हि जिनेन्द्रदर्शनम् ये यावन्तो ध्वस्तबन्धा अभूवन् भेदज्ञानाभ्यास एवात्र बीजम् । नूनं येऽप्यध्वस्तबन्धा भ्रमन्ति तत्राभेदज्ञानमेवेति विद्मः भेदज्ञानाभ्यासतः शुद्धचेता नेता नाऽयं नव्यकर्मावलीनाम् । लीनां स्वस्मिन् नामयंस्तां नितान्तं तान्तं स्वीयं रूपमुज्जीवयेत अज्ञानतो मुद्रितभेदसंविच्छक्तिः किलायं पुरुषः पुराणः । परात्मनोस्तत्त्वमसंविदानः कर्तृत्वमात्मन्यसकृत् प्रयुक्ते स्वतोऽन्यतो वाऽप्यधिगत्य तत्त्वं यदेष देवः किल संप्रबुद्धः। द्रव्यं परं नो मम नाहमस्येतीयर्ति बुद्धि यदि बध्यते किम् ? प्रमाण-निक्षेप-नयाः समेऽपि स्थिताः पदेऽधः किल वर्तमाने । ॥१०॥ ॥११॥ ॥१२॥ Page #106 -------------------------------------------------------------------------- ________________ १०५ ॥१३॥ ॥१४॥ ॥१५॥ द्वात्रिंशिका] अध्यात्मबिन्दुः प्रपश्यतां शान्तमनन्तमूर्ध्वं पदं न चैषां कतमोऽपि भाति बन्धोदयोदीरणसत्त्वमुख्याः, भावाः प्रबन्धः खलु कर्मणां स्यात् । एभ्यः परं यत्तु तदेव धामाऽस्म्यहं परं कर्मकलङ्कमुक्तम् वातोल्लसत्तुङ्गतरङ्गभङ्गाद् यथा स्वरूपे जलधिः समास्ते । तथाऽयमात्माऽखिलकर्मजन्यविकारनाशात् स्पृशति स्वरूपम् चैद्रूप्यमेकमपहाय परे किलामी, यावन्त एव पुरुषेऽत्र लसन्ति भावाः । तान् संप्रपद्य च परत्वधिया समस्ता - नास्ते तदाऽऽस्रवति किं ननु कर्म नव्यम् ? शरीरसंसर्गत एव सन्ति वर्णादयोऽमी निखिलाः पदार्थाः । जाम्बूनदादेरुपधेरिव द्राग वैशद्यभाजि स्फटिके तरङ्गाः स्फटिकमणिरिवायं शुद्धरूपश्चिदात्मा, भजति विविधभावं द्वेष-रागाधुपाधेः । यदपि तदपि रूपं नैव जाहात्ययं स्वं, न खलु भवति चान्द्री ध्वान्तरूपा मरीचिः परं स्वात्मत्वेन स्वमपि च परत्वेन कलयनयं रागद्वेषाधनियतविभावैः परिणतः । ततो रज्ये रुष्याम्यहमिति विकल्पाननुकलं प्रकुर्वन् जीवोऽयं ननु जगति कर्माणि कुरुते ॥१६॥ ॥१७॥ ॥१८॥ ॥१९॥ Page #107 -------------------------------------------------------------------------- ________________ १०६ अध्यात्मबिन्दुः भूताविष्टो नर इह यथाऽज्ञानतः स्वं च भूतं, चैकीकुर्वन् भवति विसद्दृक्चेष्टितानां विधाता । अप्यात्माऽयं निज-परविवेकच्युतः कामकोपादीनां कर्ता भवति नितरां शुद्धचिदूषकाणाम् व्याप्यव्यापकभावतः प्रकुरुते जीवः स्वभावान् यथा भावाद् वेदकवेद्यतोऽनुभवति स्वांस्तान् स्वभावान् पुनः । तद्वद् वेदयतेऽथवा प्रकुरुते भावान् परांश्चेदयं स्यादेवं हि कृतिद्वयस्य करणात् सिद्धान्तबाधः स्फुटम् सर्वे भावा निश्चयेन स्वभावान् कुर्वन्तीत्थं साधु सिद्धान्ततत्त्वम् । भिन्नद्रव्यीभूतकर्मप्रपञ्चं जीवः कुर्यात् तत् कथं वस्तुतोऽयम् रागो द्वेषो मोह इत्येवमाद्या भावा नूनं शुद्धचिद्दूषकाः स्युः । रोधादेषां जायते द्रव्यकर्माभावस्तस्मान्निर्विकारानुभूतिः ज्ञानंज्ञा भवति न खलु क्रोधमुख्येषु तत् स्यात् क्रोधः क्रोधेन हि पुनरयं पूरुषे चित्स्वरूपे । कर्मद्वन्द्वे न हि भवति चिच्चिन्न कर्मावरुद्धेतीत्थं शुद्धग्रहणरसिकः किं विधत्तेऽन्यभावम् यदात्मनाऽऽत्मास्त्रवयोर्विभेदो ज्ञातो भवेत् ज्ञानदृशा तदानीम् । निवर्ततेऽज्ञानजकर्तृकर्म - प्रवृत्तिरस्मान्निखिलाऽपि मक्षु स्वत्वेन स्वं परमपि परत्वेन जानन् समस्ता न्यद्रव्येभ्यो विरमणमितश्चिन्मयत्वं प्रपन्नः । - tie ॥२०॥ ॥२१॥ ॥२२॥ ॥२३॥ ॥२४॥ ॥२५॥ [ चतुर्थी Page #108 -------------------------------------------------------------------------- ________________ १०७ ॥२६॥ ॥२७॥ ॥२८॥ द्वात्रिंशिका] अध्यात्मबिन्दुः स्वात्मन्येवाभिरतिमुपयन् स्वात्मशीली स्वदर्शी - त्येवं कर्ता कथमपि भवेत् कर्मणां नैष जीवः व्याप्तं यत किल वर्वतीति निखिलावस्थासु याद्रूप्यतो जातु स्यान्न तदात्मताविरहितं तेनास्य साकं भवेत् । तादात्म्यं तदिह स्फुरन च भवन् मुक्तौ नितान्तं ततो वर्णादिः सकलो गणो ननु परद्रव्यत्वमेव श्रयेत् अनवरतमनेकान् भावयन् कल्पनौघान् कथमिव परतत्त्वाऽऽबध्यसे कर्मजालैः । यदि सकलविकल्पातीतमेकं स्वरूपमनुभवसि ततः किं संसृतिः किं च बन्धः? किं मुग्ध ! चिन्तयसि काममसद्विकल्पां - स्तद्ब्रह्मरूपमनिशं परिभावयस्व । यल्लाभतोऽस्ति न परः पुनरिष्टलाभो यदर्शनाच्च न परं पुनरस्ति दृश्यम् पन्था विमुक्तेर्भविनां न चान्यो यतः परः केवलिभिः प्रदिष्टः । आनन्द-बोधावपि यद् विहाय पदेऽपरस्मिन्न कदापि भातः यत् पञ्चेन्द्रियवर्जितं प्रविगलत्कर्माष्टकं प्रस्खलत् - स्वान्तं विग्रहपञ्चकेन वियुतं स्पृष्टं न च प्रत्ययैः । शान्तं शाश्वतमक्रियं निरुपधि द्रव्यान्तरासङ्गतं विष्वक् प्रोल्लसदर्चिषा परिगतं तत्त्वं तदेवास्म्यहम् इत्येवं संप्रधार्य द्रुततरमखिलं भेदसंविबलेन जीवाजीवप्रपञ्चं विदलति किल यो मोहराजानुवृत्तिम् । ज्ञानानन्दस्वरूपे भगवति भजति स्वात्मनि स्थैर्यमाशु प्रक्षिप्याज्ञानभावं स भवति नचिराच्छुद्धबुद्धस्वरूपः ॥२९॥ ॥३०॥ ॥३१॥ ॥३२॥ Page #109 -------------------------------------------------------------------------- ________________ १०८ [चतुर्थी ॥१॥ ॥२॥ ॥३॥ ॥४॥ अध्यात्मबिन्दुः कर्तृकर्मस्वरूपप्रकाशनप्रवणा ॥ द्वितीया द्वात्रिंशिका ॥ मूर्छा विषान्मणेर्दाहाभावो भ्रामकतो भ्रमः । चुम्बकात् कर्षणं चेति नाना पुद्गलशक्तयः ज्ञानावृत्यादयोऽप्येते पुद्गला दृढशक्तयः । जीवशक्ति बलाद् भक्त्वा कुर्वन्त्याशु विकारिणीम् मद्यान्मौढ्यं धियस्तैक्ष्ण्यं दृष्टं ब्राह्मीहविष्यतः । कर्मापि पौद्गलं तद्वत् कथं न स्याद् विकारकृत् ? अविद्या हि विकारित्वं जनयेदात्मनः सती। नासती गगनाब्जस्येवासतोऽर्थक्रियाच्युतेः सत्त्वे द्वैतं ततः कर्म पौद्गलं तद्विकारकृत् । अनुग्रहोपघातौ यत् पुद्गलेभ्य इति श्रुतेः अनादित्वादनन्तः स्यात् संश्लेषः कर्म-जीवयोः । स्वात्मयोगवदित्येवं प्रवितयं न तार्किकैः ।। अनादित्वेऽपि भावस्य ध्वंसः स्याद्धेतुसन्निधेः । सुवर्णमलवद् भव्यसंसारपरिणामवत् कर्ताऽयं स्वस्वभावस्य परभावस्य न क्वचित् । कर्ताऽऽत्मेति श्रुतिः साक्षाद् यत् स्वभावक्रियापरा अशुद्धनिश्चयेनायं कर्ता स्याद् भावकर्मणः । व्यवहाराद् द्रव्यकर्मकर्तृत्वमपि चेष्यते व्याप्यव्यापकभावो हि यदिष्टः कर्तृ-कर्मणोः । तदभावे द्रव्यकर्मकर्तृत्वं घटते कथम् ? तदात्मनि भवेद् व्याप्तृव्याप्यता नातदात्मनि । तदभावे कथं कर्तृकर्मता जीव-कर्मणोः? ॥६॥ ७॥ ॥८॥ ॥९॥ ॥१०॥ ॥११॥ Page #110 -------------------------------------------------------------------------- ________________ १०९ ॥१२॥ . ॥१३॥ ॥१४॥ ॥१५॥ ॥१६॥ द्वात्रिंशिका] अध्यात्मबिन्दुः निमित्त-नैमित्तिकते कर्माऽऽत्मपरिणामयोः । तस्मादस्तु भ्रामकाश्मायसकृत्योरिव स्फुटम् अनादिनिधनं ज्योतिः कर्तृत्वादिविकारभाक् । स्वस्वरूपात् परिच्युत्य विशत्यन्धे तमस्यहो ! शरीरेष्वात्मसम्भ्रान्तेः स्वरूपाद् दृक् प्रविच्युता। भूताविष्टनरस्येव तस्मादेव क्रियाभ्रमः बहिष्पदार्थेष्वासक्तं यथा ज्ञानं विवर्तते । तथैवान्तर्विवर्तेत का कथा पुण्य-पापयोः ? देहो नास्मीति संवित्तेरात्मतत्त्वं दृढीकृतम् । अज्ञानाहितसंस्कारात् तमेवात्मतयेक्षते देहः पुद्गलसङ्घातो जडस्त्वं तु चिदात्मकः। एतत्सौरूप्यवैरूप्ये साद( स्याता)मादौ कथं तव ? यद् दृश्यं तदहं नास्मि यच्चादृश्यं तदस्म्यहम् । अतोऽत्रात्मधियं हित्वा चित्स्वरूपं निजं श्रये मांसास्थ्याद्यशुचिद्रव्यात् स्वयमेव जुगुप्सते । तदेवात्मतया हन्त ! मन्यतेऽज्ञानसंस्कृतः ।। तटस्थः पश्य देहादीन् मैषु स्वीयधियं सृज। स्वत्वाभिमानो ह्येतेषु संसृतेर्बीजमग्रिमम् स्वरूपार्पितदृष्टीनां शक्रत्वेऽपि स्पृहा न हि। स्वरूपानर्पितदृशां पदेऽल्पेऽपि महादरः अनादिभ्रष्टस्वात्मोत्थानन्दस्वादा हि दुर्धियः । मन्यन्ते विषयैस्तृप्ति जम्बालैरिव पोत्रिणः प्रत्यग्ज्योतिःसुखास्वादनिष्ठनैष्ठिकदृष्टयः । विषयान् हन्त ! पश्यन्ति कुत्स्यवल्लवदप्रियान् ॥१७॥ ॥१८॥ ॥१९॥ ॥२०॥ ॥२१॥ ॥२२॥ ॥२३॥ Page #111 -------------------------------------------------------------------------- ________________ अध्यात्मबिन्दुः ११० शुद्धं ब्रह्मेति संज्ञानसुधाकुण्डसमाप्लुताः । धौतकर्ममलाः सन्तो निर्वृतिं परमाश्रिताः स्वरूपालम्बनान्मुक्तिर्नान्यथाऽतिप्रसङ्गतः । अहमेव मयोपास्यो मुक्तेर्बीजमिति स्थितम् यथैव पद्मिनीपत्रमस्पृष्टं तोयबिन्दुभिः । तथाऽऽत्माऽयं स्भावेन न स्पृष्टः कर्मपुद्गलैः सौख्यं सांसारिकं दुःखानुषक्तं व्यक्तमध्वनि । ग्रीष्मे पान्थस्य मध्याह्ने मरौ पक्त्वैव खादतः भोगेष्वश्रान्तविश्रान्तिर्धियः क्षेमङ्करी न हि । पन्नगीव नयत्येषाऽतुच्छं मूर्च्छा यदात्मनः यदुच्चैः पदतः पातः सोऽनुभावो विभावजः । तत्रैवाविरतं सति श्रयन्त्रद्यापि खिद्यसे नाहं वपुष्मान् न च मे वपुर्वा बोधोऽहमस्मि प्रकृतेर्विभिन्नः । इयाननेहा न मया व्यभावि गच्छन्नहो ! मोहविडम्बितेन ॥२४॥ प्रकृतिगुणविरक्तः शुद्धदृष्टिर्न भोक्ता तदितर इह भोक्ता तत्स्वरूपानुरक्तः । तदिह भवति भेदाभ्यासशाली जयीति प्रकृतिगुणविकारानङ्कितं स्वं भजध्वम् ॥२५॥ ॥२६॥ ॥२७॥ ॥२८॥ वपुष्यहंधीनिगडेन कामं चिराय बद्धोऽसि महानुभाव ! । बोधस्वरूपोऽयमहं न देही-त्यवेत्य तं चिद्गुघणेन भङ्गिध ॥३०॥ ॥२९॥ ॥३१॥ ॥३२॥ [ चतुर्थी Page #112 -------------------------------------------------------------------------- ________________ द्वात्रिंशिका] १११ अध्यात्मबिन्दुः आत्मस्वरूपभावनपरा ॥ तृतीया द्वात्रिंशिका ॥ ॥१॥ ॥२॥ ॥३॥ ॥४॥ विकल्पजालकल्लोलैर्लोले किल मनोजले। नात्मा स्फुरति चिद्रूपस्तोयचन्द्र इव स्फुटम् आत्मानं भावयेन्नित्यं भावितैः किमनात्मभिः । प्रपद्य निस्तरङ्गत्वं येनात्मा मुच्यतेऽचिरात् परद्रव्योन्मुखं ज्ञानं कुर्वन्नात्मा परो भवेत् । स्वद्रव्योन्मुखतां प्राप्तः स्वतत्त्वं विन्दते क्षणात् देहे यथाऽऽत्मधीरस्य तथाऽऽत्मन्येव चेद् भवेत् । कालत्रयेऽपि बन्धोऽस्य न भवेदिति मन्महे न स्वं मम परद्रव्यं नाहं स्वामी परस्य च। . अपास्येत्यखिलान् भावान् यद्यास्ते बध्यतेऽथ किम् ? निष्क्रियस्याऽयसोऽयस्कान्तात् स्यात् सक्रियता यथा। कर्मोपाधेस्तथा जीवो निष्क्रियः सक्रियो भवेत् शुद्धो बुद्धश्चिदानन्दो निष्कियो निर्मलोऽव्ययः । परमात्मा जिनः सोऽयं सकर्मा जीवनामभाक् कर्मभ्यः कर्मकार्येभ्यः पृथग्भूतं चिदात्मकम् । आत्मानं भावयेन्नित्यं नित्यानन्दपदप्रदम् एको वै खल्वहं शद्धो निर्ममो ज्ञानदृङ्मयः। स्वस्वरूपे निमज्जय द्राग् रागादीन् क्षपयाम्यमून् पीत-स्निग्ध-गुरुत्वानां यथा स्वर्णान्न भिन्नता। तथा दृग्-ज्ञान-वृत्तानां निश्चयान्नात्मनो भिदा ॥६॥ ॥७॥ ॥८॥ ॥९॥ ॥१०॥ Page #113 -------------------------------------------------------------------------- ________________ [चतुर्थी ॥११॥ ॥१२॥ ॥१३॥ ॥१४॥ ॥१५॥ ११२ अध्यात्मबिन्दुः व्यवहारेण तु ज्ञानादीनि भिन्नानि चेतनात् । राहोः शिरोवदप्येषोऽभेदे भेदप्रतीतिकृत् भेदविज्ञानमभ्यस्येद् धारावाहितया बुधः । येन विक्षिप्य कर्माणि स्वयं शुद्धोऽवतिष्ठते स्वस्मिन् स्वधीनयेन्मुक्तिं देहेऽहंधीपुनर्भवम् । ततो देहादहंबुद्धि प्रच्याव्याऽऽत्मनि योजयेत् पुण्य-पापद्वयं रुद्ध्वा ध्यायेदात्मानमात्मना । बीजाभावे ततो जन्मप्ररोहोऽयं न संभवेत् अनादिबन्धनोपाधिसन्निधानप्रधावितान् । रागादीनात्मनः कुर्वन्नात्मा भवति कारकः यथाऽऽत्मानं निबध्नाति तन्तुभिः कोशकृत् कृमिः । तथाऽशुद्धाशयै वो बध्नात्यात्मानमात्मना लूताऽऽत्मानं निबध्नाति यथा स्वात्मोत्थतन्तुभिः । शुभाशुभाध्यवसायैरात्मा बध्नंस्तथेष्यताम् ईश्वरस्य न कर्तृत्वमशरीरत्वाद् दिगादिवत् । ततस्तत्प्रेरितो हन्त ! कथमेव विचेष्टते ? अनाभोगेन वीर्येण कर्ता देहादिकर्मणाम् । भुक्ताहारस्य मांसासृग् रसादिपरिणामवत् प्रत्येकं कर्तृतायां स्यान्न चैवं गौरवं किल । प्रामाणिकं यत् तद् दुष्टं नेति क्रोडीकृतं परैः स्वयं प्रयाति दुर्योनि कर्मणा विवशीकृतः । अमेध्यसंभृतं कूपमुन्मत्त इव चेतनः अन्वय-व्यतिरेकाभ्यां मोक्षहेतुः स्वधीभवेत् । तदभावे तपस्तप्तं योगक्षेमकरं न हि ॥१६॥ ॥१७॥ ॥१८॥ ॥१९॥ ॥२०॥ ॥२१॥ ॥२२॥ Page #114 -------------------------------------------------------------------------- ________________ ११३ ॥२३॥ ॥२४॥ ॥२५॥ ॥२६॥ ॥२७॥ द्वात्रिंशिका] अध्यात्मबिन्दुः वेत्ता सर्वस्य भावस्य वेद्यं च परमं हि यः। अनाद्यनन्तो निर्द्वन्द्वो महानन्दो महोदयः विकल्पैरपरामृष्टः स्पृष्टः कर्माणुभिर्न च । परं ज्योतिः परं तत्त्वं तदेवाहं न चापरम् अणोरणीयान् महतो महीयानपि यः पुनः । यस्य भासा जगत् सर्वं भात्यलक्ष्यः पुनः स्वयम् विषमश्नन् यथा वैद्यो विक्रियां नोपगच्छति । कर्मोदये तथा भुञ्जानोऽपि ज्ञानी न बन्धते मन्त्रादिध्वस्तसामर्थ्यो न दहत्यनलो यथा। बढुं नालं तथा ज्ञानशक्तिकुण्ठीकृतोऽप्ययम् मद्यं पिबन् यथा मत्तो न स्यादरतिमान् पुमान् । द्रव्यभोगं तथा कुर्वन् सम्यग्दृष्टिर्न लिप्यते स्वरूपनिष्ठाः सर्वेऽपि भावा इति जिनेशगीः । तान् मत्वाऽऽत्मतया कर्तृ-कर्मक्लेशो वृथैव किम् ? भावाः स्वरूपविश्रान्ता लोके सर्वेऽत्र यद्यमी। मूढो हन्ताहमेवैको रज्ये यत् परवस्तुषु न रज्यते न च द्वेष्टि परभावेषु निर्ममः । ज्ञानमात्र स्वरूपं स्वं पश्यन्नात्मरतिर्मुनिः इत्येवं स्व-पद्धयास्खलितिचिच्छक्त्या विभाव्य स्फुटं भेदं स्वेतरयोविहाय च परान् भावान् समग्रानमून् । चित्तत्त्वे स्थिरतामुपैति परमां यो निर्विकाराशयः स स्यात् कर्मकलङ्कपङ्कविकलो नित्यस्फुरच्चिद्घनः ॥२८॥ ॥२९॥ ॥३०॥ ॥३१॥ ॥३२॥ Page #115 -------------------------------------------------------------------------- ________________ ११४ अध्यात्मबिन्दुः शुद्धस्वरूपप्रकाशिका ॥ चतुर्थी द्वात्रिंशिका ॥ प्रत्यग्ज्योतिर्जयति तदिदं पिष्टकर्मप्रपञ्चं दूरोन्मग्नं घनतरविभावार्णवावर्तवेगात् । प्रोद्यत्तेजः प्रकरदलितध्वान्तकर्माष्टकाष्ठो - त्फुल्लत्काष्ठावदननलिनं किन्नु मार्तण्डबिम्बम् कर्तृत्वादिविकारभारविगमाद् बिभ्रत् सनत् सुस्थतां त्रुट्यद्बन्धचतुष्टयोल्लसदमन्दानन्दसंवर्मितम् । शुद्धं शान्तमनन्तमप्रतिहतं विष्वग् विचित्रोल्लसद् - ज्ञेयाकारकरम्बितं निरुपधि ज्योतिः समुज्जृम्भते सर्वद्रव्यविवर्तचक्रमखिलं यद् बोधवारांनिधा वेकांशस्थमिवोच्चकास्ति कलयच्छुद्धत्वमाकालिकम् । प्रोद्यत्विड्भरलीढविश्वभुवनाभोगं भरादुल्लसच्छान्तं तत्परमात्मतत्त्वमुदितानन्दं समुद्योतते मुक्तेरध्वाऽयमेको भवति हि किल दृग्-ज्ञान-वृत्तत्रयात्मा तां संसूत्र्य स्थिति यो विहरति निखिलान्यस्वसंस्पर्शशून्यः । तद्दर्शी तत्सतत्त्वानुचरणकलनाबद्धकेलिः किलासौ यत् किञ्चित् कर्म कुर्यात् तदखिलमुदितं निश्चितं निर्जरैव अहं कर्ता भोक्तेत्यनवरतमिहाज्ञानमुदभूदियत्कालं शुद्धानुभवनरहस्यं ह्यविदुषाम् । इदानीं सार्वज्ञं वचनममृतादप्यतिरसं चिरं पायपायं निचितमपि तन्नो निरगलत् स्वरूपस्याज्ञानाद् भवति किल कर्तेष पुरुषो ह्यकर्तृत्वं तस्यावगम इह सिद्धं स्वरसतः । ॥१॥ ॥२॥ ॥३॥ ॥४॥ ॥५॥ [ चतुर्थी Page #116 -------------------------------------------------------------------------- ________________ ॥६॥ ॥७॥ ॥८॥ द्वात्रिंशिका] अध्यात्मबिन्दुः अतो राग-द्वेषावुदयजनितावित्यनुकलं तटस्थः सन् पश्यन् कथमिव भवत्येष कृतिमान् ? यदाऽविद्याजन्यं दृढतममभूदन्धतमसं तदा राग-द्वेषादिषु समभवत् स्वात्मधिषणा। चिरं भेदाभ्यासादधिगतमिदानीं तु विशदं परं पूर्णं ब्रह्म च्युतविकृतिकमस्मि ध्रुवमहम् यदज्ञानात् सुप्तः समभवमलं यद्व्यवसितौ प्रबुद्धस्तत् तत्त्वं चिरमधिगतं मा मदयति । दरिद्रः संप्राप्तधनमिव निधानं प्रतिकलं समालोक्याघ्राति कथमिव न गन्तास्म्यहमतः विवर्तेरस्पृष्टं विशदतममत्यन्तगहनं महः स्तानः स्पष्टं प्रकटितनिजानन्दविभवम् । यदास्वादानन्दादगणितमहोभोगविभवाः महासत्त्वा मुक्त्यै चिरमिह यतन्ते कृतधियः तपश्चण्डं तीव्रव्रतकलनमत्युल्बणपरी - षहेभ्योऽभीरुत्वं क्षितिशयनमुख्यः परिकरः । यदज्ञानान्निर्नायक इव हि सेनाचरगणः समग्रो व्यर्थः स्यात् तदिदमहमस्म्यद्भुतमहः तदन्वेष्यं तत्त्वं सततमिदमत्कटतर - स्फुरत्तेजः पुञ्जप्रदलितदृढाविद्यममलम् । यदास्वादाद् भान्ति त्रिदशपतिचक्रित्वपदवीसुखास्वादाः क्षारोदकवदमृताग्रे ध्रुवममी समभ्यस्यन्तां नन्वखिलमतशास्त्राणि कुधियः स्वपाण्डित्योत्कर्षोद्दलितपरदाः किल परे। वपुष्यात्मभ्रान्तिर्यदि न विनिवृत्ता किमु ततो विमुच्यन्ते, पाठो न भवति कदाचिद् गुणकरः ॥९॥ ॥१०॥ ॥११॥ ॥१२॥ Page #117 -------------------------------------------------------------------------- ________________ [चतुर्थी ॥१३॥ ॥१४॥ ॥१५॥ ११६ अध्यात्मबिन्दुः अविद्यासंस्काराद् बहुतरककालाद् यदभवच्च्युतं मे स्वं रूपं तदिदमुपलब्धं खलु मया । विविक्तं चिद्भासा परिगतमनन्तं सुविशदं स्वतन्त्रं तत्रेदं जयति ननु बीजं जिनवचः मथित्वाऽऽमाऽऽत्मानं भवति परमज्योतिरचिराद् यथा घृष्ट्वाऽऽत्मानं क्षितिरुह इहैति ज्वलनताम् । अतः शुद्धे ब्रह्मण्यनवरतनिमग्नाऽमलदृशां शिवाप्तिर्निर्दिष्टा सरणिरपरा काचन नहि यथा रज्जौ सर्पभ्रममतिरविज्ञानजनिता क्रियाहेतुर्भूत्वा बुधमपि चिरं व्याकुलयति । तथा देहेऽप्यस्मिन्नहमिति विपर्यस्तधिषणा भवभ्रान्तेर्मूलं परमपुरुषस्यापि समभूत् चिरं सुप्ता ह्येते गुरुभवभवदुःखतलिने दृढाविद्यानिद्रापरिगतविवेकेक्षणपुटाः । भृशं स्वप्नायन्तेऽहमिति च परं मामकमिति व्यवस्यन्तः सन्तः कुगतिभवनेऽमी भवभृतः प्रविज्ञाते यस्मिन्नतिशयितचिच्छक्तिकवलीकृतत्रैलोक्ये किं समवगमयोग्यं किल परम् । अविज्ञाते त्वस्मिन्नतिनिशितशास्त्रार्थपटुता श्रमायैवात्यन्तं भ्रमकृततुषाऽऽकण्डनमिव भवाबन्धः सर्वोऽनुभवपदवीं यत्र विशति ग्रहाधीशे व्योमाङ्गणमिव तमस्त्रुट्यतितमाम् । भिदामेति क्षिप्रं निबिडतरहद्ग्रन्थिरपि तत् पदं शान्तं भाव्यं सततमुपयुक्तैर्यतिवरैः स्वरूपे विश्रान्ति श्रयति यदि चैतन्यमचला न तु ज्ञेयासत्या व्रजति विकृति काञ्चन मनाक् । ॥१६॥ ॥१७॥ ॥१८॥ Page #118 -------------------------------------------------------------------------- ________________ . द्वात्रिंशिका ] ततो राग-द्वेषद्वितयमिदमप्राप्तविषयं क्षयं दाह्याभावाद्दहन इव गच्छत्यतितमाम् महानन्दस्थानं न हि परमतस्त्रस्यसि यतः प्रविश्वस्तो यस्मिन् भयपदमतो नान्यदपरम् । ततः स्वात्मारामे क्षणमयीं भजस्व स्थितिमहो यतः शीर्यन्तेऽमी भ्रमनिचितकर्माणुनिकराः भवारण्यभ्रान्तौ स्वयमजनि हेतुः स्व-परयोरविज्ञानात् स्वस्मिन् यदतनुत कर्तृत्वधिषणाम् । विमोक्षेऽपि स्वस्मिन् स्थितिपरिणतेर्यत्स्वयमसा वतः शास्ता स्वस्य स्वयमयमतोऽन्यः किल नहि भवाद् भोगेभ्यो वा ननु यदि च भोगायतनतो विरज्य क्षिप्रं चेदनुभवति रूपं निजमयम् । ततः संसाराख्या व्रततिरियमप्राप्तविषय - प्रपञ्चार्णः सेकात् क्षणत इव संशुष्यतितमाम् यथा रोगान्मुक्तः सरसपटुकट्वम्ललवणद्रवान् नानाहारांस्त्यजति निजनैरुज्यकृतये । तथाऽयं दृग्मोहज्वररहितचिन्मूर्तिरखिलां - स्त्यजन् भोगास्वादाननुभवति नैरुज्यमचिरात् चकास्त्येतद्यस्मिन् जगदखिलमूतं च महसि जंगत्यप्यस्मिन् यद् वसति न दधत् तत्परिणतिम् । अविद्यानिद्राघूर्णिततरक्वचिद्दृग्जनिमुखान् बहून् स्वप्नान् पश्यत्यथ तदिदमस्तस्वविभवम् वसेयुः खग्रामा यदमलचिदध्यासकलिता लभन्ते शून्यत्वं क्षणमपि तदध्यासवियुताः । अथादत्ते तेभ्यो विषयरसनाख्यं करमलं स एवायं देवो निजपदमितः कस्य न मुदे अध्यात्मबिन्दुः ॥१९॥ ॥२०!! ॥२१॥ ॥२२॥ ॥२३॥ ॥२४॥ ॥२५॥ ११७ Page #119 -------------------------------------------------------------------------- ________________ [चतुर्थी ॥२६॥ ॥२७॥ ११८ अध्यात्मबिन्दुः जगद् भासा यस्य स्फुरति सहजानन्दसरसं स्थितं विश्वं व्याप्योल्लसदमलचिद्दीप्तिपटलैः । अवाग्व्यापारं यत् कृतिविधुरमत्यन्तगहनं परं पूर्ण ज्योतिर्दलितदृढमोहं विजयते राग-द्वेषद्वितयमुदितं यस्य नैवास्ति सर्व - द्रव्येष्वात्मस्थितदृढमतेर्निविकारानुभूतेः । टोत्कीर्णप्रकृतिकलसंज्ञानसर्वस्वभाजो यत् कर्म स्यात् तदिदमुदितं बन्धकृज्जातु नैव मत्तो यस्मिन् स्वपिषि न पदं तावकं भावं प्र(तत्) त्वाधायीदं परपदमिति प्रोज्झ दूरं महात्मन् ! यस्मिन् शुद्धः स्वरसवशतः स्थायितामेति भावस्तत् स्वं रूपं झटिति कलयन् मुच्यसे किं न बन्धो! ॥२८॥ इदं हि नानाभवपादपानां मूलोद्भिदं शस्त्रमुदाहरन्ति । सध्याननिष्णातमुनीश्वराणां ध्येयं तदेतत् कृतिभिः प्रदिष्टम् ॥२९॥ कर्मकाण्डदुरवापमिदं हि प्राप्यते विमलबोधबलेन । खिद्यते किमु वृथैव जनस्तद् देहदण्डनमुखैः कृतिकाण्डैः ॥३०॥ अज्ञानतो यदिह किञ्चिदपि न्यगादि जैनागमार्थमतिलय मया विरुद्धम् । तच्छोधयन्तु निपुणाः स्वपरार्थदक्षा - श्छद्मस्थधीननु यतः स्खलनस्वभावा ॥३१॥ श्री हर्षवर्धनकृतं स्वपरोपकारि द्वात्रिंशिकावरचतुष्टयमिष्टबोधम् । तत्त्वार्थिनां रसदमस्तु लसद्विवेक - ख्याति( त्य) स्खलद्बलवदात्मपरा (र) प्रतीति ॥३२॥ Page #120 -------------------------------------------------------------------------- ________________ १. अध्यात्मबिन्दुश्लोकानुक्रमणिका अज्ञानतो मुद्रितभेदसंवि - १, ११ अज्ञानतो यदिह किञ्चिदपि न्यगादि ४.३१ अणोरणीयान् महतो ३.२५ अनवरतमनेकान् भावयन् कल्पनौघान् १.२८. जगद् भासा यस्य स्फुरति ४ . २६ ज्ञानं ज्ञाने भवति न खलु १.२४ ज्ञानावृत्यादयोऽप्येते २.२ तटस्थः पश्य देहादीन् २.२० तदन्वेष्यं तत्त्वं सततमिदमुत्कटतर ४.११ तदात्मनि भवेद् व्याप्तृ २.११ तपश्चण्डं तीव्रव्रतकलनमत्युल्बणपरी ४.१० तीर्थप्रवृत्त्यर्थमयं फलेग्रहि १.८ | देहः पुद्गलसङ्घातो २.१७ अनादित्वादनन्तः स्यात् २.६ अनादित्वेऽपि भावस्य २.७ अनादिनिधनं ज्योतिः २.१३ अनादिबन्धनोपाधि ३.१५ अनादिभ्रष्टस्वात्मोत्था २.२२ अनाभोगेन वीर्येण ३.१९ अन्वयव्यतिरेकाभ्यां ३.२२ अविद्यासंस्काराद् बहुतरकालाद् यदभव ४.१३ अविद्या हि विकारित्वं २.४ अशुद्धनिश्चयेनायं २.९ अहं कर्ता भोक्तेत्यनवरतमिहाज्ञानमुदभू ४.५ देहे यथाऽऽत्मधीरस्य ३.४ देहो नास्मीति संवित्तेः २.१६ धत्तेऽम्भोधिर्जवनपवनाऽऽच्छोटनान्मूर्च्छदुग्रो १.३ न रज्यते न च द्वेष्टि ३.३१ न B स्वं मम परद्रव्यं ३.५ नाहं वपुष्मान् न च मे वपुर्वा २.३१ आत्मस्वरूपं पररूपमुक्त - १.७ आत्मानं भावयेन्नित्यं ३.२ इत्येवं संप्रधार्य द्रुतरमखिलं १.३२ इत्येवं स्वपरद्वयास्खलितचिच्छक्त्या ३.३२ निमित्तनैमित्तिकते २.१२ निष्क्रियस्याऽयसोऽयस्कान्तात् ३.६ पन्था विमुक्तेर्भविनां न चान्यो १.३० : स्वात्मत्वेन स्वमपि च १.१९ इदं हि नानाभवपादपानां ४.२९ ईश्वरस्य न कर्तृत्वम् ३.१८ परद्रव्योन्मुकं ज्ञानं ३.३ पीतस्त्रिग्धगुरुत्वानां ३.१० पुण्यपापद्वयं रुद्ध्वा ३.१४ एको वै खल्वहं शुद्धो ३.९ कर्ताऽयं स्वस्वभावस्य २.८ कर्तृत्वादि विकारभारविगमाद् ४.२ कर्मकाण्डदुरावापमिदं हि ४.३० कर्मभ्यः कर्मकार्येभ्यः ३.८ किं मुग्ध ! चिन्तयसि काममसद्विकल्पां १.२९ कुम्भोदञ्चनवर्द्धमानकरक्रस्थाल्याद्यवस्थान्तरा १.४ चकास्त्येतद्यस्मिन् जगदखिलमूतं ४.२४ चिरं सुप्ता ह्येते गुरुभवभवदुः खतलिने ४.१६ चैद्रूप्यमेकमपहाय परे किलामी १.१६ प्रकृतिगुणविरक्तः शुद्धदृष्टिर्न भोक्ता २.३२ प्रत्यग्ज्योतिःसुखास्वाद २.२३ प्रत्यग्ज्योतिर्जयति तदिदं पिष्टकर्मप्रपञ्च ४.१ प्रत्येकं कर्तृतायां स्यात् ३.२० प्रमाण - निक्षेप - नयाः समेऽपि १.१३ प्रविज्ञाते यस्मिन्नतिशयित ४.१७ बन्धोदयोदीरणसत्त्वमुख्याः १.१४ बहिष्पदार्थेष्वासक्तं २.१५ | ब्रूमः किमध्यात्ममहत्त्वमुच्चै १.१ Page #121 -------------------------------------------------------------------------- ________________ भवाद् भोगेभ्यो वा ननु यदि च ४.२२ | वपुष्यहंधीनिगडेन कामं २.३० भवाबन्धः सर्वोऽनुभवपदवीं यत्र विशति ४.१८ | वसेयुः खग्रामा यदमलचिदध्यासकलिता ४.२५ भवारण्यभ्रान्तौ स्वयमजनि हेतुः ४.२१ | वातोल्लसत्तुङ्गतरङ्गभङ्गाद् १.१५ भावाः स्वरूपविश्रान्ता ३.३० | विकल्पजालकल्लोलैः ३.१ भूतार्थो ननु निश्चयस्तदितरो १.५ विकल्पैरपरामृष्टः ३.२४ भूताविष्टो नर इह यथा १.२० विवर्तेरस्पृष्टं विशदतममत्यन्तगहनं ४.९ भेदज्ञानाभ्यासतः शुद्धचेता १.१० विषमश्नन् यथा वैद्यो ३.२६ भेदविज्ञानमभ्यस्येद् ३.१२ वेत्ता सर्वस्य भावस्य ३.२३ भोगेष्वश्रान्तविश्रान्तिः २.२८ व्यवहरणनयोऽयं पुंस्वरूपं विकारि १.६ मत्तो यस्मिन् स्वपिषि न पदं ४.२८ व्यवहारेण तु ज्ञानादीनि ३.११ मथित्वाऽऽत्माऽऽत्मानं भवति ४.१४ व्याप्तं यत् किल १.२७ मद्यं पिबन् यथा मत्तो ३.२८ व्याप्यव्यापकभावतः प्रकुरुते १.२१ मद्यान्मौढ्यं धियस्तैक्षण्यं २,३ व्याप्यव्यापकभावो हि २.१० मन्त्रादिध्वस्तसामर्थ्यो ३.२७ शरीरसंसर्गत एव सन्ति १.१७ महानन्दस्थानं न हि ४.२० शरीरेष्वात्मसम्भ्रान्तेः २.१४ मांसास्थ्याद्यशुचिद्रव्यात् २.१९ | शुद्धं ब्रह्मेति संज्ञान २.२४ मुक्तेरध्वाऽयमेको भवति हि ४.४ | शुद्धो बुद्धश्चिदानन्दो ३.७ मूर्छा विषान्मणेर्दाहा २.१ श्रीहर्षवर्धनकृतं स्वपरोपकारि ४.३२ यत् पञ्चेन्द्रियवर्जितं प्रविगलत् १.३१ सत्त्वे द्वैतं ततः कर्म २.५ यथाऽऽत्मानं निबध्नाति ३.१६ समभ्यस्यन्तां नन्वखिलमतशास्त्राणि ४.१२ यथा रज्जौ सर्पभ्रममतिरविज्ञानजनिता ४.१५ सर्वद्रव्यविवर्तचक्रमखिलं यद् ४.३ यथा रोगान्मुक्तः सरसपटुकट्वम्ललवण ४.२३ | सर्वे भावा निश्चयेन स्वभावान् १.२२ यथैव पद्मिनीपत्र २.२६ सौख्यं सांसारिकं दु:खा २.२७ यदज्ञानात् सुप्तः समभवमलं ४.८ स्फटिकमणिरिवायं शुद्धरूपश्चिदात्मा १.१८ यदात्मनाऽऽत्मास्रवयोविभेदो १.२५ स्वतोऽन्यतो वाऽप्यधिगत्य तत्त्वं १.१२ यदाऽविद्याजन्यं दृढतममभूदन्धतमसं ४.७ स्वत्वेन स्वं परमपि परत्वेन १.२६ यदुच्चैः पदतः पातः २.२९ स्वयं प्रयाति दुर्योनि ३.२१ यद् दृश्यं तदहं नास्मि २.१८ स्वरूपनिष्ठाः सर्वेऽपि ३.२९ ये यावन्तो ध्वस्तबन्धा अभूवन् १.९ स्वरूपस्याज्ञानाद् भवति किल ४.६ रागद्वेषद्वितयमुदितं यस्य नैवास्ति सर्व ४.२७ स्वरूपार्पितदृष्टीनां २.२१ रागो द्वेषो मोह इत्येवमाद्या १.२३ स्वरूपालम्बनान्मुक्तिः २.२५ लब्ध्वाऽऽर्यत्वमथ प्रपद्य च १.२ स्वरूपे विश्रान्ति श्रयति यदि ४.१९ लूताऽऽत्मानं निबध्नाति ३.१७ स्वस्मिन् स्वधीनयेन्मुक्ति ३.१३ Page #122 -------------------------------------------------------------------------- ________________ મહાપુરુષોનાં શબ્દોમાં, અધ્યાત્મનો મહિમા અધ્યાત્મશાસ્ત્રના વાંચન-મનન-પરિશીલનથી ઉત્પન્ન થતા સંતોષના સુખને ધારણ કરતા પુણ્યાત્માઓ રાજાને, ધનપતિ કુબેરને કે દેવેન્દ્રને પણ ગણકારતા નથી, મહત્ત્વ આપતા નથી. અધ્યાત્મશાસ્ત્રના સુંદર રાજ્યમાં ધર્મનો માર્ગ વ્યવસ્થિત થાય છે. પાપરૂપી ચોર ભાગી જાય છે અને કોઈપણ પ્રકારનો ઉપદ્રવ રહેતો નથી. જે આત્માઓના હૃદયમાં અધ્યાત્મશાસ્ત્રનો અર્થ પરિણત થાય છે તે આત્માઓના હૃદયમાં વિષય-કષાયના આવેશનો ક્લેશ ક્યારેય પણ ઉત્પન્ન થતો નથી. નિર્દય એવો કામ-ચંડાલ પંડિતોને પણ પડે છે પરંતુ અધ્યાત્મશાસ્ત્રના અર્થના બોધરૂપી યોદ્ધાની કૃપા થાય તો તે હરગીજ પડી શકતો નથી. - વનમાં ઘર, દરિદ્ર અવસ્થામાં ધન, અંધકારમાં પ્રકાશ અને મરુદેશમાં પાણી મળવું જેમ દુર્લભ છે, તેમ કલિકાલમાં અધ્યાત્મશાસ્ત્રની પ્રાપ્તિદુર્લભ છે. કામસુખનો રસ ભોગના કાળ સુધી છે. ભક્ષ્ય પદાર્થોનો રસ ભોજન સુધી મળે છે પરંતુ અધ્યાત્મશાસ્ત્રના વાંચનાદિનો રસનિરવધિહોયછે. મોહનો અધિકાર જેમના ઉપરથી ઊઠી ગયો છે અને આત્માને અનુલક્ષીને જે ક્રિયાઓ થાય છે તેને જિનેશ્વરદેવો અધ્યાત્મ કહે છે; તે અધ્યાત્મશાસ્ત્ર ભણવું જોઈએ, વારંવાર વિચારવું જોઈએ. એમાં કહેલો અર્થ આચરણમાં લાવવો જોઈએ અને એ અધ્યાત્મશાસ્ત્ર કોઈ યોગ્ય આત્માને આપવું જોઈએ. "JINESHWAR" Ph. : 079-6404874 (M) 98240 15514,