Page #1
--------------------------------------------------------------------------
________________
___ अहम् । श्रीविजयधर्मसूरिभ्यो नमः । श्रीहेमचन्द्राचार्यविरचितःअभिधानचिन्तामणिः ।
धर्मतीर्थकृतां वाचं नत्वा तत्त्वाभिधायिनीम् । खोपज्ञनाममालाया विवृतिं विदधाम्यहम् ॥ १॥ श्रेयोऽर्थमयमारम्भः किं तत्रात्मविकत्थनैः ।। परात्मनिन्दास्तोत्रे हि नाद्रियन्ते मनीषिणः ॥ २॥ प्रामाण्यं वासुकेप्डेयुत्पत्तिर्धनपालतः ।
प्रपञ्चश्च वाचस्पतिप्रभृतेरिह लक्ष्यताम् ॥ ३ ॥ तत्रायमादिश्लोकः
प्रणिपत्यार्हतः सिद्धसाङ्गशब्दानुशासनः ।
रूढयौगिकमिश्राणां नाम्नां मालां तनोम्यहम् ॥ १॥ प्रणिपत्यार्हतइति मङ्गलार्थम् । मङ्गलं चाविघ्नेन शास्त्रस्य समाप्त्यर्थम् । सिद्ध प्रतिष्ठा प्राप्तं साहं शब्दानुशासनं यस्येति कर्तृविशेषणम् । अङ्गानि लिङ्गधातुपारायणादीनि । एतावता च शब्दानुशासनेन सहास्या एककर्तृकत्वमाह । एककर्तृकत्वख्यापनं चान्योन्यसंवादात्प्रतीतिदायॊपदर्शनार्थम्। शब्दानुशासनस्य च कीर्तनं तदधीनः सर्वविद्यानां प्रकर्ष इति प्रदर्शनार्थम् । यदाह
'वक्तृत्वं च कवित्वं च विद्वत्तायाः फलं विदुः । - शब्दज्ञानादृते तन्न द्वयमप्युपपद्यते' ॥१॥
रूढादीनां नामां शब्दानां मालाममिधानचिन्तामणिनाम्नी तनोमि । अहमिति कर्तृनिर्देशः ॥ १॥ तत्र रूढान् शब्दान् व्याचष्टे
व्युत्पत्तिरहिताः शब्दा रूढा आखण्डलादयः । प्रकृतिप्रत्ययविभागेनान्वर्थवर्जिता व्युत्पत्तिरहिताः । शब्दा इत्यनुवाद्यनिर्देशः । रूढा इति विधेयपदम् । आखण्डलादय इत्युदाहरणम् । नपत्र प्रकृतिप्रत्ययविभागेन
Page #2
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणौ
व्युत्पत्तिरस्ति । आदिशब्दात् मण्डपादयः ॥ यद्यपि 'नाम च धातुजम्' इति शाकटायनमतेन रूढा अपि व्युत्पत्तिभाजः, तथापि वर्णानुपूर्वीविज्ञानमात्रप्रयोजना तेषां व्यु. त्पत्तिः, न पुनरेन्वार्थप्रवृत्तौ कारणमिति रूढा अव्युत्पन्ना एव ॥ यौगिकान् शब्दान् व्याचष्टे
योगोऽन्वयः स तु गुणक्रियासम्बन्धसंभवः ॥ २॥ __ शब्दानां परस्परमर्थानुगमनमन्वयः स योगः । स पुनर्योगो गुणात् , क्रियायाः सम्बन्धाच भवति । गुणो नीलपीतादिः । क्रिया करोत्यादिका । संबन्धो वक्ष्यमाणः। तेभ्यः संभवो यस्य योगस्य स तथा ॥ २॥ __गुणक्रियासंबन्धसम्भवयोगेन यौगिकानामुदाहरणम्
गुणतो नीलकण्ठाद्याः क्रियातः स्रष्ट्रसन्निभाः।। गुणतो गुणनिबन्धनो येषां योगस्ते शब्दा नीलकण्ठाद्याः। नीलः कण्ठोऽस्य इति गुणप्राधान्यानीलकण्ठः शंकरः। आदिशब्दात् शितिकण्ठः कालकण्ठ इत्यादि ॥ संख्यापि गुण एव इति त्रिलोचनः । तेन-पञ्चबाणः षण्मुखः अष्टश्रवाः दशग्रीव इत्यादि संगृहीतम् ॥ क्रियातः क्रियानिबन्धनो योगो येषां ते स्रष्ट्रप्रभृतयः । सृजति इति सर्जनप्राधान्यात् स्रष्टा ब्रह्मा । एवं धाता इत्यादयः ॥ सम्बन्धं व्याचष्टे
खखामित्वादिसम्बन्धस्तत्राहुर्नाम तद्वताम् ॥ ३ ॥
खात् पाल-धन-भुग्-नेतृ-पति-मत्वर्थकादयः । खम् आत्मीयम् , स्वामी यस्तत्र प्रभविष्णुः, तयोर्भावः स्वस्वामित्वम् । तदादिः संबन्धः । आदिशब्दाजन्यजनकभावादिपरिग्रहः । तत्र खखामिभावसंबन्धे पाला दयः शब्दाः खात्परे नियोजिताः तद्वतां खामिनां नाम आहुः ॥३॥ मत्वर्थक इति । मतुस्तद्धितः । तस्यार्थोऽस्त्यर्थविशिष्टप्रकृत्यर्थेन सह देवदत्तादेः सम्बन्धः। तदाधारो वा “तदस्यास्त्यस्मिन्निति मतुः"॥७॥२॥१॥ इति मतुप्रत्ययविधानात् । मतोरों यस्य स मत्वर्थकस्तद्धितो मतुना समानार्थ इत्यर्थः । स च इन्नणिकादिः । मत्वर्थाव्यभिचारान्मतुरपि । आदिशब्दात्पादयोऽपि । 'तत्राहुर्नाम तद्वताम्' इति उत्तरेप्वप्यनुवर्तनीयम् ॥ क्रमेणोदाहरणान्याह
भूपालो भूधनो भूभुग् भूनेता भूपतिस्तथा ॥ ४ ॥ १ -निर्ज्ञान- इत्यपि पाठः । २ -अन्वर्थोऽर्थ- इत्यपि पाठः ।
Page #3
--------------------------------------------------------------------------
________________
भूमांश्चेति
१ देवाधिदेवकाण्ड: ।
. इतिशब्दः प्रकारार्थः । तेन भूपादयोऽपि ॥
कविरूढ्या ज्ञेयोदाहरणावली ।
कवीनां रूढिः परम्परायाता प्रसिद्धिस्तया न तु कविरूढ्यऽतिक्रमेण । यथा 'कपाली' इत्यादौ सत्यपि स्वस्वामिभावसंबन्धे 'कपाली' इति मत्वर्थीयान्त एव भवति, न तु 'कपालपालः, कपालधनः, कपालभुक्, कपालनेता, कपालपतिः' इत्यादि । जन्यजनकभावसंबन्धे यथा
जन्यात् कृत्-कर्तृ-सृट्-स्रष्टृ-विधातृ-कर-सू-समाः ॥५॥ जनकाद् योनि-ज-रुंह-जन्म-भू-सूत्यणादयः ।
M
जन्यात्कार्यात्परे कृदादयस्तद्वतां जनकानां कारणानां नाम आहुः ॥ यथाविश्वकृत्, विश्वकर्ता, विश्वसृट्, विश्वस्रष्टा, विश्वविधाता, विश्वकरः, विश्वसूः ब्रह्मा । तस्य हि विश्वं जन्यामति रूढिः ॥ समशब्द आद्यर्थः । तेन - 'विश्वकारकः, विश्वजनक : ' इत्याद्यपि ॥ कविरूढ्येत्येव । नहि यथा चित्रकृदुच्यते तथा चित्रसूः इति ॥५॥ तथा जनकात् परे योन्यादयः शब्दास्तद्वतां कारणवतां कार्याणां नाम आहुः ॥ यथा- आत्मयोनिः, आत्मजः, आत्मरुहः, आत्मजन्मा, आत्मभूः आत्मसूतिः, ब्रह्मा ॥ तस्य यात्मा कारणमिति रूढिः ॥ वक्ष्यमाणस्यादिशब्दस्याभिसंबन्धात् संभवादयोऽपि गृह्यन्ते ॥ अणादयस्तु भृगोरपत्यं भार्गवः । दितेरपत्यं दैत्यः । वात्स्यस्यापत्यं वात्स्यायन इत्यादि ॥ अत्रापि हि भार्गवादीनां भृग्वादयो जनका इति रूढिः ॥ रूढ्या' इत्येव । नहि - आत्मयोनिवत् 'आत्मजनकः, आत्मकारकः' इति भवति ॥
'कवि
धार्यधारकभावसम्बन्धे यथा
धार्याद् ध्वजा-ऽस्त्र-पाण्य-ऽङ्क-मौलि-भूषण-भृन्निभाः ॥ ६ ॥ शालि-शेखर-मत्वर्थ-मालि - भर्तृ-धरा अपि ॥
धार्यवाचकात्परे ध्वजादयो धरान्ता धारकस्य नाम आहुः ॥ यथा - वृषध्वजः, शूलास्त्रः, पिनाकपाणिः, वृषाङ्कः, चन्द्रमौलिः, शशिभूषणः, शूलभृत् । निभग्रहणात्तत्स"दृशा वृषकेतन - शूलायुध - वृषलक्ष्म- चन्द्रशिरस् - चन्द्राभरणादयो गृह्यन्ते ॥ ६॥ तथापिनाकशाली, शशिशेखरः, शूली, पिनाकमाली । पिनाकं मलते धारयतीति कृत्वा पिनाकभर्ता, गङ्गाधरः ॥ 'कविरूढ्या' इत्येव । तेन सत्यपि धार्यधारकसंबन्धे न सर्वेभ्यो धार्येभ्यो ध्वजाद्यर्थाः शब्दाः प्रयोज्याः । नहि भवति वृषध्वजवत् शूलध्वजः, शूलास्त्रवत् चन्द्रास्त्रः, पिनाकपाणिवत् अहिपाणिः, वृषाङ्कवत् चन्द्राङ्कः, चन्द्रमौलिवत् गङ्गा
Page #4
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणौ--
मौलिः, शशिभूषणवत् शूलभूषणः, शूलशालिवत् चन्द्रशाली, चन्द्रशेखरवत् गङ्गाशेखरः, शूलिवत् शूलवान् , पिनाकमालिवत् सर्पमाली, पिनाकभर्तृवत् चन्द्रभर्ता, गङ्गाधरवत् चन्द्रधरः, इति ॥ भोज्यभोजकभावसंबन्धे यथा
भोज्याद् भुग-न्धो-व्रत-लिट्-पायि-पा-शा-शनादयः ॥७॥ भोज्यं भक्ष्यं तद्वाचिनः शब्दात्परे भुगादयः शब्दास्तद्वतां भोज्यवतां भोक्तृणां नाम आहुः ॥ यथा-अमृतभुजः, अमृतान्धसः, अमृतव्रताः, अमृतलिहः, अमृतपायिनः, अमृतपाः, अमृताशाः, अमृताशनाः, देवाः । 'तेषां ह्यमृतं भोज्यम्' । इति रूढिः ॥ आदिशब्दस्तत्समानार्थभोजनादिशब्दपरिग्रहाय ॥ 'कविरूड्या' इत्येव । नहि यथा अमृतभुजः, तथा अमृतवल्भा इति भवति ॥ ७॥ पतिकलत्रभावसंबन्धे यथा
पत्युः कान्ता-प्रियतमा-वधू-प्रणयिनी-निभाः ।
कलत्राद् वर-रमण-प्रणयी-श-प्रियादयः ॥ ८ ॥ पतिर्वरयिता तद्वाचकात् शब्दात् कान्तादिसदृशाः शब्दाः तद्वतीनां पतिमतीनां भार्याणां नाम आहुः ॥ यथा-शिवकान्ता, शिवप्रियतमा, शिववधूः, शिवप्रणयिनी, गौरी ॥ तस्या हि शिवः पतिः इति रूढिः ॥ निभग्रहणाद्रमणी-वल्लभा-प्रिया-प्रभृतयो गृह्यन्ते ॥ 'कविरूद्ध्या' इत्येव । नहि भवति यथा शिवकान्ता तथा शिवपरिग्रहः इति ॥ तथा-कलत्रवाचिनः शब्दात्परे वरादयः शब्दास्तद्वतां कलत्रवतां वरयितृणां नाम आहुः ॥ यथा-गौरीवरः, गौरीरमणः, गौरीप्रणयी, गौरीशः, गौरीप्रियः, शिवः ॥ 'तस्य हि गौरी कलत्रम्' इति रूढिः॥आदिशब्दात् तत्समानार्थाः पत्यादयो गृह्यन्ते॥ 'कविरून्या' इत्येव ॥ नहि भवति यथा गौरीवरः शिवः, तथा गङ्गावर इति ॥८॥
सख्युः सम्बन्धे यथा_____ सख्युः सखिसमाः
सखिवाचकात् शब्दात् परे सखिसमानार्थाः तद्वतां सख्यवतां नाम आहुः ॥ यथा-श्रीकण्ठस्य सखा श्रीकण्ठसखः कुबेरः । मधुसखः कामः । समग्रहणात् सुहृदादयो गृह्यन्ते ॥ 'कविरून्या' इत्येव । नहि भवति यथा-श्रीकण्ठसखो धनदः, तथाधनदसखः श्रीकण्ठ इति ॥ वाह्यवाहकभावसम्बन्धे स्था
वाह्याद् मामि-याना-सनादयः ।
Page #5
--------------------------------------------------------------------------
________________
१ देवाधिदेवकाण्डः ।
बाह्यात् वाह्यवाचिनः शब्दात्परे गामिप्रभृतयः तद्वतां वाह्यवतां वाहयितॄणां नाम आहुः ॥ यथा - वृषगामी, वृषयानः, वृषासन:, शम्भुः ॥ तस्य हि वृषो यानम् इति रूढिः ॥ आदिशब्दाद् वृषवाहन इत्यादयोऽपि ॥ 'कविरूढ्या' इत्येव । नहि भवति यथा - ' नरवाहनः कुबेर:' तथा 'नरगामी, नरयानः' इत्यादि ॥
ज्ञातेयसंबन्धे यथा—
ज्ञातेः स्वसृ-दुहित्रा - त्मजा - प्रजा - वरजा - दयः ॥ ९॥
यमस्वसा
ज्ञातिः स्वजन:, तद्वाचिनः शब्दात्परे स्वस्रादयस्तद्वतां ज्ञातेयवतां ज्ञातीनां नाम आहुः । स्वत्रादीनां च ज्ञातिविशेषवाचित्वात् ज्ञातिविशेषादेव प्रयोगो यथा - यमुना । हिमवद्दुहिता गौरी । चन्द्रात्मजो बुधः । गदाग्रज इन्द्रावरजश्च विष्णुः । यमादयो हि यमुनादीनां भ्रात्रादिज्ञातय इति रूढिः ॥ आदिशब्दात्सोदरादयो गृह्यन्ते । यथा - कालिन्दीसोदरो यमः । 'कविरूढ्या' इत्येव । नहि भवति यथायमुना यमखसा, तथा शनिखसापि ॥ ९॥
आश्रयाश्रयिभावसंबन्धे यथा
आश्रयात् सद्मपर्याय-शय-वासि - सदा ऽदयः ।
आश्रयो निवासः तद्वाचिनः शब्दात् परे सद्मपर्यायाः शयवासिसदादयश्च तद्वतां नाम आश्रयवतां आश्रितानां नाम आहुः ॥ यथा - सद्मानः, युसदनाः, दिवौकसः । दिवशब्दो वृत्तावकारान्तोऽप्यस्तीति । द्युवसतयः, दिवाश्रयाः, युशयाः, युवासिनः, द्युसदः, देवाः ॥ द्यौः स्वर्गः, स च तेषामाश्रय इति रूढिः । 'कविरूढ्या' इत्येव । नहि भवति यथा सद्मानो देवाः, तथा भूमिसद्मानो मनुष्या इति ।
वध्यवधकभावसम्बन्धे यथा
वध्याद् भिद्-द्वेषि-जिद्-घाति-ध्रुग-ऽरि-ध्वंसि शासनाः ॥ १० ॥ अप्यऽन्तकारि-दमन-दर्पच्छित्-मथना - ऽदयः ।
,
,
यो घात्यः तद्वाचिनः शब्दात्परे भिदादयः अन्तकार्यादयोऽपि तद्वतां वधकानां नाम आहुः ॥ यथा— पुरभित्, पुरद्वेषी, पुरजित् पुरघाती, पुरधुक् पुरारिः, पुरध्वंसी, पुरशासनः ॥ १० ॥ पुरान्तकारी, पुरदमनः, पुरदर्पच्छित्, पुरमथनः शिवः ॥ तस्य हि पुरो वध्यः' इति रूढिः ॥ आदिशब्दात् - पुरदारी, पुरनिहन्ता, पुरकेतुः, पुरहा, पुरसूदनः, पुरान्तकः, पुरजयीति । वध्यः इति वधार्हमात्रेऽपि । तेन — कालियदमनः, कालियारिः, कालियशासनः, विष्णुः । इत्यादयोऽपि गृह्यन्ते ॥ 'कविरूढ्या' इत्येव । तेन कालियदमनादिवत् 'कालियघाती' इति न भवति ॥
1
,
Page #6
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणौ- .
उक्ता: खस्वामित्वादयः संबन्धभेदाः । ते च यथा भिन्नद्रव्याश्रयास्तथैकद्रव्याश्रया अपि भवन्ति इति दर्शयितुमाह
विवक्षितो हि सम्बन्ध एकतोऽपि पदात्ततः ॥ ११ ॥
प्राक्प्रदर्शितसंबन्धिशब्दा योज्या यथोचितम् । विवक्षानिबन्धनो हि संबन्धः , तत एकस्मादपि वृषादेः संबन्धिपदात् परे संबन्धान्तरनिबन्धना वाहनादयः शब्दा यथोचितं प्रयुज्यन्ते ॥ एतदेवाह
दृश्यते खलु वाह्यत्वे वृषस्य वृषवाहनः ॥ १२ ॥ स्वत्वे पुनर्वृषपतिर्धार्यत्वे वृषलाञ्छनः । अंशो(र्यत्वेऽशुमाली स्वत्वेऽशुपतिरंशुमान् ॥ १३ ॥
वध्यत्वेऽहेरहिरिपुर्भोज्यत्वे चाहिभुक् शिखी । वाह्यवाहकभावसंबन्धविवक्षायां यथा-'वृषवाहनो रुद्रः' इति भवति ॥१२॥ तथा खस्वामिभावसंबन्धविवक्षायां 'वृषपतिः॥धार्यधारकभावसंबन्धविवक्षायां च 'वृषलाञ्छनः' इत्यपि ॥ तथा-धार्यधारकभावसबन्धविवक्षायां यथा-'अंशुमाली' रविः इति भवति । तथा खखामिभावसंबन्धविवक्षायां 'अंशुपतिः, अंशुमान्' इत्यपि ॥१३॥ तथा-वध्यवधम्भावसंबन्धे यथा-'अहिरिपुर्मयूरः' । तथा-भोज्यभोजकभावसंबन्धे 'अहिभुक्' इत्यपि भवति ॥ संबन्धनिबन्धनां व्युत्पत्तिमुक्त्वा व्युत्पत्त्यन्तरमाह
चिरैर्व्यक्तैर्भवेद्व्यक्तेर्जातिशब्दोऽपि वाचकः ॥ १४ ॥
तथाह्यगस्तिपूता दिग् दक्षिणाशा निगद्यते । चिह्नविशेषणैर्व्यक्तनिःसंदेहैर्जात्यभिधायकोऽपि शब्दो व्यक्तेर्वाचको भवेत् । व्यक्ते मतां यातीत्यर्थः ॥ १४ ॥ तथाहीत्यादिनोदाहरणमाह-अगस्तिना ऋषिविशेषेण पूता खस्थित्या पवित्रिता इति व्यक्तं चिह्नम् । तेन चिह्नितो 'दिक्' इति जातिशब्दो दक्षिणाशाया व्यक्तेरभिधायी भवति ॥ एवं 'सप्तर्षिपूता दिक् उत्तराशा', 'अत्रेनयनसमुत्थं ज्योतिश्चन्द्रः' इत्यादयोऽपि ॥ व्युत्पत्त्यन्तरमाह
अयुग्-विषमशब्दौ त्रि-पञ्च-सप्तादिवाचकौ ॥ १५ ॥
Page #7
--------------------------------------------------------------------------
________________
१. देवाधिदेवकाण्डः ।
त्रिनेत्रपञ्चेषुसप्तपलाशादिषु योजयेत् ।
त्रि-पञ्च- सप्तादिस्थाने अयुग् - विषम शब्दौ त्रिनेत्रादिपदेषु योजनीयौ । यथात्रिनेत्रः, अयुड्नेत्रः, विषमनेत्रश्च शम्भुः ॥ पञ्चेषु, अयुगिषुः विषमेषुश्च कामः । सप्तपलाश:, अयुक्पलाशः, विषमपलाशश्च सप्तपर्णः ॥ उभयत्रादिशब्दात् नवशक्तिः अयुक्शक्तिः, विषमशक्तिश्च शम्भुः ॥ १५ ॥ एवं त्र्यक्ष- पञ्चवाणसप्तच्छ्दादिष्वपि ॥
व्युत्पत्त्यन्तरमाह
गुणशब्दो विरोध्यर्थं नञादिरितरोत्तरः । १६ ॥ अभिधत्ते यथा कृष्णः स्यादसितः सितेतरः ।
गुणवाची शब्दो नञ्पूर्व इतरशब्दोत्तरश्च विरोधिनमर्थमभिधत्ते ॥ १६ ॥ यथाअसितः, सितेतरश्च कृष्णः ॥ एवम् - अकृशः, कृशेतरश्च स्थूल इत्यादि ॥
व्युत्पत्त्यन्तरमाह—
"
वार्ध्यादिषु पदे पूर्वे वडवाग्न्यादिषूत्तरे ॥ १७ ॥ द्वयेऽपि भूभृदाद्येषु पर्यायपरिवर्तनम् ।
वार्ध्यादिषु शब्देषु पूर्वस्मिन्नेव पदे पर्यायस्य परिवर्तनं भवति ॥ यथा - वार्धिः, जलधिः, तोयधिः ॥ आदिशब्दग्रहणात् जलदः, तोयदः नीरदः इत्यादि ॥ वडवाम्न्यादिषु शब्देषु उतरस्मिन्नेव पदे पर्यायस्य परिवर्तनं भवति । यथा-- वडवाग्भिः, वडवानलः वडवावह्निः ॥ आदिशब्दात् सरोजम्, सरोरुहम्, इत्यादि ॥ १७ ॥ भूभृदाद्येषु शब्देषु द्वयेऽपि पूर्वत्र उतरत्र च पदे पर्यायस्य परिवर्तनम् ॥ यथा- भूभृत्, उर्वीभृत् भूधरः, उर्वीधरः ॥ आद्यशब्दात् सुरपतिदेवराजः इत्यादयः ॥
एवं परावृत्तिसहा योगात् स्युरिति यौगिकाः ॥ १८
፡
एवमिति - पूर्वत्र उत्तरत्र उभयत्र च पदे परावृत्तिं पर्यायपरिवर्त्तनं सहन्ते . क्षमन्ते परावृत्तिसहा वार्ध्यादयः शब्दाः योगाद् अन्वयाद् भवेयुः इति यौगिकाः ॥ १८ ॥
मिश्राः पुनः परावृत्त्यसहा गीर्वाणसन्निभाः ।
प्रवक्ष्यन्तेऽत्र
गीर्वाणादयः शब्दाः पूर्वत्र उतरत्र उभयत्र पदे पर्यायपरावृत्तिमसहमानाः मिश्र
१ योगा इत्यपि पाठः ।
Page #8
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणौ
योगयुक्ता रूढिमन्तश्च अत्राभिधानचिन्तामणौ नाममालायां प्रवक्ष्यन्ते ।। सन्निमा ग्रहणात् दशरथ-कृतान्त-प्रभृतयः ॥
लिङ्गं तु ज्ञेयं लिङ्गानुशासनात् ॥ १९ ॥ लिङ्गमिति पुंलिङ्गं स्त्रीलिङ्गं नपुंसकलिङ्गं मिश्रलिङ्गं च अस्मदुपज्ञलिङ्गानुशासनात् ज्ञेयं निर्णेतव्यम् । अत एव अस्माभिरमरकोशाद्यभिधानमालास्विवाऽत्र लिङ्गनिर्णयो नोक्तः ॥ इह तु विनेयजनानुग्रहार्थ सन्दिग्धलिङ्गानां नानालिङ्गानां च शब्दानां लिङ्गनिर्णयो वक्ष्यते ॥ १९ ॥ ___ इह हि 'मुक्तगतिः, देवगतिः, मनुष्यगतिः, तिर्यग्गतिः, नारकगतिः' इति जीवानां पञ्च गतयो भवन्ति । तद्भेदात् जीवा अपि । 'मुक्ताः, देवाः, मनुष्याः, तिर्यश्चः, नारकाश्च' इति पञ्चधा भवन्ति । ततोऽभिधास्यमानरूढयौगिकमिश्रशब्दविभागमुक्त्वा प्रथमादिकाण्डेष्वभिधास्यमानमुक्तादिनामक्रमनिर्देशमाह-.
देवाधिदेवाः प्रथमे काण्डे देवा द्वितीयके। . नरास्तृतीये तिर्यञ्चस्तुर्य एकेन्द्रियादयः ॥ २० ॥ एकेन्द्रियाः पृथिव्यम्बुतेजोवायुमहीरुहः । कृमिपीलकलूताद्याः स्युर्द्वित्रिचतुरिन्द्रियाः ॥ २१ ॥ पञ्चेन्द्रियाश्चेभकेकिमत्स्याद्याः स्थलगाम्बुगाः । पञ्चेन्द्रिया एव देवा नरा नैरयिका अपि ॥ २२ ॥ नारकाः पञ्चमे साङ्गाः षष्ठे साधारणाः स्फुटम् ।
प्रस्तोष्यन्तेऽव्ययाश्चात्र देवाधिदेवा अर्हन्तो वर्तमानातीतानागताः । तद्वाचकाः शब्दा अपि देवाधिदेवाः, वाच्यवाचकयोरभेदोपचारात् ॥ एवं वक्ष्यमाणदेवादिष्वपि योज्यम् ॥ साङ्गा इति सर्वत्र संबध्यते ॥ ततः प्रथमे काण्डे गणधराद्यङ्गैः सह देवाधिदेवाः सर्वप्राधान्यात् ॥ द्वितीये काण्डे देवाः साङ्गाः ॥ तृतीये काण्डे मनुष्या: साङ्गाः । चतुर्थे तिर्यञ्चः साङ्गाः ॥ ते च एकेन्द्रियादयः ॥ २० ॥ तत्र एकं स्पर्शनं इन्द्रियं येषां ते एकेन्द्रियाः पृथ्वीकायादयः पञ्च ॥ तत्र पृथ्वीकायोऽनेकविधः-शुद्धपृथ्वीशर्करावालुकादिः । अप्कायो हिमादिः। तेजःकायोऽङ्गारादिः । वायुकाय उत्कलिकादिः । वनस्पतिकायः शैवलादिः । द्वे स्पर्शन--रसने, त्रीणि स्पर्शनरस
१ नर इत्यपि पाठः।
Page #9
--------------------------------------------------------------------------
________________
१ देवाधिदेवकाण्डः ।
मघ्राणानि, चत्वारि तान्येव चक्षुःसहितानि, इन्द्रियाणि येषां ते तथा ॥ ततो दीन्द्रियाः कृम्यादयः, त्रीन्द्रियाः पिपीलकादयः, चतुरिन्द्रियाः लूतादय: ॥२१॥ पश्च स्पर्शनादीनि श्रोत्रसहितानि इन्द्रियाणि येषां ते पञ्चेन्द्रियाः। ते च त्रिविधाःस्थलचराः, खचराः, अम्बुचराश्च । तत्र स्थलचरा इभाद्याः, खचराः केकिप्रभृतयः, अम्बुचरा मत्स्याद्याः ॥ देवा नरा नारकाश्च पश्चेन्द्रिया एव । न तु तिर्यश्च इव एकद्वित्रिचतुरिन्द्रिया अपि ॥२२॥ पश्चमे काण्डे नारकाः साङ्गाः॥षष्ठे काण्डे साधारणाः सामान्यवाचिनः ॥ अव्ययाश्च अत्रेति षष्ठ एव काण्डे प्रस्तोष्यन्ते प्रेक्रस्वन्ते इति ॥ - त्वन्ताथादी न पूर्वगौ ॥ २३ ॥ 'तुशब्दोऽन्ते यस्यासौ त्वन्तः, अथशब्द आदिर्यस्पासावथादिश्च शब्द: पूर्व न गच्छति । अप्रिमेण संबध्यते, इत्यर्थः ॥ न्यायसिद्धं चैतत् । तुनां पूर्वस्माद्विशेषद्योतनात् । अथशब्देन चार्थान्तरारम्भात्। यथा
‘स्यादनन्तजिदनन्तः सुविधिस्तु पुष्पदन्तः' इति,
'मुक्तिर्मोक्षोऽपवर्गोऽथ मुमुक्षुः श्रमणो यतिः' इति भ्रान्तिस्थानविषये चैतत् इति ॥ २३॥
अर्हन् जिनः पारगतस्त्रिकालवित्क्षीणाष्टकर्मा परमेष्ठ्यधीश्वरः । ... शंभुः स्वयम्भूभगवान् जगत्प्रभुस्तीर्थङ्करस्तीर्थकरो जिनेश्वरः॥२४॥
. स्याहाद्यभयदसार्वाः सर्वज्ञः सर्वदर्शिकेवलिनौ ।
- देवाधिदेवबोधिदपुरुषोत्तमवीतरागाप्ताः ॥ २५ ॥ ... चतुस्त्रिंशतमतिशयान् सुरेन्द्रादिकृतां पूजां वार्हतीत्यर्हन् “सुद्विषार्हः सत्रिशत्रुस्तुत्ये"॥५।२।२६॥ इत्यतृश्प्रत्ययः अरिहननात् रजोहननात् रहस्याभावाचेति वा पृषोदरादित्वात् ॥ १ ॥ जयति रागद्वेषमोहान्' झते जिनः “जीणशीदीबुध्यविमीभ्यः कित्॥ ( उणा-२६१) ॥ इति नः ॥ २॥ संसारस्य प्रयोजनजातस्य वा पारं • 'पर्यन्तं गतः पारगतः ॥ ३ ॥ त्रीन् कालान् वेत्ति त्रिकालवित् ॥ ४ ॥ क्षीणानि अष्टौ
ज्ञानावरणीयादीनि कर्माणि अस्य क्षीणाष्टकर्मा ॥ ५॥ परमे पदे तिष्ठतीति परमेष्ठी "परमात्स्थः कित्" ॥ (उणा-९२५)॥ इति इनि प्रत्यये भीरुष्ठानादित्वात् षत्वं सप्तम्या अलुप् च ॥६॥ जगतां अधीष्टे इत्येवंशीलोऽधीश्वरः “स्थेशभासपिसकसो वरः ॥५।२१८१॥ इति वरः ॥७॥ शं शाश्वतसुखं तत्र भवति शम्भुः ॥८॥ “शंसंस्वयंविप्राद् भुवो डुः"॥५।२।८४॥ इति डुः; स्वयमात्मना तथाभव्यत्वादिसामग्रीपरिपाकात् न तु परोपदेशात् भवति स्वयम्भूः॥९॥ भगो जगदैश्वर्यं ज्ञानं वास्त्यस्य भगवान् . १ प्रकाश्यन्ते इत्यपि पाठः
Page #10
--------------------------------------------------------------------------
________________
१०
अभिधानचिन्तामणौ
अतिशायने मतुः ॥१०॥ जगतां प्रभुः जगत्प्रभुः ॥११॥ तीर्यते संसारसमुद्रोऽनेनेति तीर्थे प्रवचनाधारश्चतुर्विधः सङ्घः प्रथमगणधरो वा । यदाहु:-"तित्थं भन्ते तित्थं तित्थयरे तित्थं गोअमा अरिहा तावनियमा तित्थंकरे तित्थं पुण चाउवण्णे समणसंधे पढमगणहरे वा" तत्करोति तीर्थङ्करः, तीर्थकरः "हेतुतच्छीलानुकूले-"॥५।१११०३॥ इति टे “ नवाखित्कृदन्ते-"॥३।२।११७॥ इत्यत्र योगविभागव्याख्यानाद्वा मोऽन्तः ॥ १२ ॥ १३ ॥ रागादिजेतारो जिनाः केवलिनः तेषामीश्वरो जिनेश्वरः ॥ १४ ॥ ॥ २४ ॥ स्यादित्यव्ययं अनेकान्तवाचकं ततः स्यादित्यनेकान्तं वदति इत्येवं. शीलः स्याद्वादी स्याद्वादोऽस्यास्ति वा स्याद्वादी यौगिकत्वादनेकान्तवादीत्यपि ॥ १५ ॥ भयं इहपरलोकादानाकस्मादाजीवमरणाश्लाघाभेदेन सप्तधा; एतत् प्रतिपक्षतो ऽभयं विशिष्टमात्मनः स्वास्थ्यं निःश्रेयसधर्मनिबन्धनभूमिकाभूतं तत् गुणप्रकर्षादचिन्त्यशक्तियुक्तत्वात् सर्वथा परार्थकारित्वात् ददाति इति अभयदः ॥ १६ ॥ सर्वेभ्य: प्राणिभ्यो हितः सार्वः सर्वीय इत्यपि “सर्वाण्णो वा" ॥४१॥४३॥ इति वा णः ॥ १७ ॥ सर्वे जानाति इति सर्वज्ञः ॥ १८ ॥ सर्व पश्यतीत्येवंशील: सर्वदर्शी ॥ १९ ॥ सर्वथावरणविलये चेतनस्वरूपाविर्भावः केवलं तदस्यास्ति केवली ॥ २० ॥ देवानामप्यधिदेवः देवाधिदेवः ॥ २१ ॥ बोधिः जिनप्रणीतधर्मप्राप्तिः तां ददाति बोधिदः ॥ २२ ॥ पुरुषाणामुत्तमः सहज़तथाभव्यत्वादिभावतः श्रेष्ठः पुरुषोत्तमः ॥ २३ ॥ वीतो गतो रागो ऽस्माद्वीतरागः ॥ २४ ॥ हितोपदेशकत्वात् आप्त इव आप्त: ॥ २५ ॥ २५ ॥
एतस्यामवसर्पिण्यामृषभोऽजितशंभवौ । अभिनन्दनः सुमतिस्ततः पद्मप्रभाभिधः ॥२६॥ सुपार्श्वश्चन्द्रप्रभश्च सुविधिश्वाथ शीतलः । श्रेयांसो वासुपूज्यश्च विमलोऽनन्ततीर्थकृत् ॥२७॥ धर्मः शान्तिः कुन्थुररो मल्लिश्च मुनिसुव्रतः ।
नमिर्नेमिः पार्थो वीरश्चतुर्विशतिरहताम् ॥२८॥ एतस्यामिति वर्तमानायां अवसर्पिण्यां दशसागरोपमकोटीकोटिप्रमाणायां कालविशेषे, ऋषति गच्छति परमपदमिति "ऋषिवृषिलुसिभ्यः कित्" ॥ ( उणा३३१) ॥ इत्यभे ऋषभः ; यद्वा ऊर्वोवृषभलाञ्छनमभूद्भगवतो जनन्या च चतुर्दशानां स्वप्नानामादावृषभो दृष्टस्तेन ऋषभः ॥१॥ परीषहादिभिर्न जितः इति अजित:; यद्वा गर्भस्थे अस्मिन् गते राज्ञा जननी न जितेत्यजितः ॥ २ ॥ शं सुखं भवत्यस्मिन् स्तुते शंभवः; यद्वा गर्भगतेऽप्यस्मिन्नभ्यधिक्सस्यसंभवात् संभवोऽपि ॥ ३ ॥ अभि
Page #11
--------------------------------------------------------------------------
________________
१ देवाधिदेवकाण्डः ।
नन्द्यते देवेन्द्रादिभिरित्यभिनन्दनः भुज्यादित्वादन ; यद्वा मर्भात्प्रभृत्येव अभीक्ष्णं शक्रेणाभिनन्दनाद् अभिनन्दनः ॥ ४ ॥ शोभना मतिरस्य सुमतिः; यद्वा गर्भस्थे जनन्याः सुनिश्चिता मतिरभूदिति सुमतिः ॥ ५ ॥ निष्पङ्कतामङ्गीकृत्य पद्मस्येव प्रभाऽस्य पमप्रभः; यद्वा पद्मशयनदोहदो मातुर्देवतया पूरित इति पद्मवर्णश्च भयवानिति वा पद्मप्रभः ॥६॥२६॥ शोभनौ पार्थावस्य सुपार्श्वः; यद्वा गर्भस्थे भगवति जनन्यपि सुपार्श्वभूदिति सुपार्श्वः ॥ ७ ॥ चन्द्रस्येव प्रभा ज्योत्स्ना सौम्यलेश्याविशेषोऽस्य चन्द्रप्रभः; तथा गर्भस्थे देव्या: चन्द्रपानदोहदोऽभूदिति चन्द्रप्रभः ॥८॥ शाभनो विधिविधानमस्य सुविधिः; यद्वा गर्भस्थे भगवति जनन्यऽप्येवमिति सुविधिः ॥ ९ ॥ सकलसवसन्तापहरणात् शीतलः; तथा गर्भस्थे भगवति पितुः पूर्वोत्पन्नाचिकित्स्यपित्तदाहो जननीकरस्पर्शादुपशान्तः इति शीतलः ॥ १० ॥ श्रेयांसावंसावस्य श्रेयांसः पृषोदरादित्वात् ; यथा गर्भस्थेऽस्मिन् केनाप्यनाक्रान्तपूर्वदेवताधिष्ठितशय्या जनन्याक्रान्तेति श्रेयो जातमिति श्रेयांसः ॥११॥ वसुपूज्यनृपतेरयं वासुपूज्यः; यद्वा गर्भस्थेऽस्मिन् वसु हिरण्यं तेन वासवो राजकुलं पूजितवानिति वसवो देवविशेषास्तेषां पूज्यो वा वसुपूज्यः प्रज्ञाद्यणि वासुपूज्यः ॥१२॥ विगतो मलोऽस्य विमलज्ञानादियोगाद्वा विमलः; यद्वा गर्भस्थे मातुर्मतिस्तनुश्च विमला जातेति विमलः ॥ १३ ॥ न विद्यते गुणानामन्तोऽस्य अनन्तः; अनन्तजिदेकदेशो वा अनन्त भीमो भीमसेन इति न्यायात् स चासौ तीर्थकृच्च अनन्ततीर्थकृत् ॥१४॥२७॥ दुर्गतौ प्रपतन्तं सत्त्वसकातं धारयति धर्मः; तथा गर्भस्थे जननी दानादिधर्मपरा जातेति धर्मः ॥ १५ ॥ शान्तियोगात् तदात्मकत्वात् तत्कर्तृकत्वाच्चायं शान्तिः; तथा गर्भस्थे पूर्वोत्पन्नाऽशिवशान्तिरभूत् इति शान्तिः ॥१६॥
कु: पृथ्वी तस्यां स्थितवानिति कुन्थुः पृषोदरादित्वात् ; तथा गर्भस्थे भगवति • जननी रत्नानां कुन्थुराशिं दृष्टवतीति कुन्थुः ॥ १७ ॥
“सर्वो नाम महासत्त्वः कुले य उपजायते।
___ तस्याभिवृद्धये वृद्धरसावर उदाहृतः” ॥ १॥ इति वचनादरः; तथा गर्भस्थे भगवति जनन्या खप्ने सर्वरत्नमयोऽरो दृष्ट इत्यरः ॥१८॥ परीषहादिमल्लजयाग्निरुक्तान्मल्लिः; तथा गर्भस्थे भगवति मातुः सुरभिकुसुममाल्यशयनीयदोहदो देवतया पूरित इति मल्लिः ॥१९॥ मन्यते जगतस्त्रिकालावस्थामिति मुनिः “मनेरुदेतौ चास्य वा" ॥ (उणा-६१२) ॥ इति इप्रत्यये उपान्त्यस्योत्वं शोभनानि व्रतान्यस्य सुव्रतः मुनिश्चासौ सुव्रतश्च मुनिसुव्रतः; तथा गर्भस्थे जननी मुनिवत् सुव्रता जातेति मुनिसुव्रतः॥२०॥ परीषहोपसर्गादिनामनात् "-नमेस्तु वा"॥ (उणा-६१३)। इति विकल्पेनोपान्त्यस्येकाराभावपक्षे नमिः; यद्वा गर्भस्थे भगयति परचकनृपैः अपि प्रणतिः कृतेति नमिः ॥२१॥धर्मचक्रस्य नेमिवन्नेमिः, नेमीतीन
Page #12
--------------------------------------------------------------------------
________________
१२
अभिधानचिन्तामणौ
न्तोऽपि दृश्यते यथा “वन्दे सुव्रतनेमिनौ” इति ॥२२॥ स्पृशति ज्ञानेन सर्वभावानिति पार्श्वः; तथा गर्भस्थे जनन्या निशि शयनीयस्थयाऽन्धकारे सर्पो दृष्ट इति गर्भानुभावोऽयमिति मत्वा पश्यतीति निरुक्तात् पार्श्वः पार्थोऽस्य वैयावृत्त्यकरो यक्षस्तस्य नाथः पार्श्वनाथः 'भीमो भीमसेनः' इति न्यायाद् वा पार्श्वः ॥ २३ ॥ विशेषेण ईरयति प्रेरयति कर्माणीति वीरः ॥ २४ ॥ एवमवसर्पिण्यां अर्हतां तीर्थकराणां चतुविशतिरिति ॥ २८ ॥
ऋषभो बृषभः वृषलाञ्छनत्वाद् वृषभः ।।
श्रेयान् श्रेयांसः सकलभुवनस्यापि प्रशस्यतमत्वेन श्रेयान् ॥ ..
. स्यादनन्तजिदनन्तः । अनन्तकर्माशान् जयति अनन्तैर्सानादिभिर्वा जयत्यनन्तजित ; यद्वा गर्भस्थिते जनन्या अमन्तरत्नदाम दृष्ठं जयति च त्रिभुवनेऽपि इत्यनन्तजित् ॥
(विधिस्तु पुष्पदन्तः पुष्पकलिकामनोहरदन्तत्वात् पुष्पदन्तः ॥
मुनिसुव्रतसुव्रतौ तुल्यौ ॥ २९ ॥ मुनिसुव्रतैकदेशः सुव्रत: सत्यभामा भामेति न्यायात् तथा मुनिरपि भीमो भीमसेनवत् ॥ २९ ॥
अरिष्टनेमिस्तु नेमिः अरिष्टस्याऽशुभस्य नेमिरिव प्रध्वंसकत्वाद् अरिष्टनेमिः; यद्वा गर्भस्थे भगवति अनन्या रिष्टरत्नमयो महानेमिदृष्ट इति रिष्टनेमिः अपश्चिमादिशब्दवत् नपूर्वत्वे अरिष्ठनमिः ॥
वीरश्चरमतीर्थकृत् ।
महावीरो वद्धमानो देवार्यो ज्ञातनन्दनः ॥ ३० ॥ चरमः पश्चिमोऽन्तिम इति यावत् स चासौ तीर्थकृत् चरमतीर्थकृत् ॥ अन्तरङ्गारिजेतृत्वात् महांश्चासौ वीरश्च महावीरः ॥ उत्पत्तेरारभ्य ज्ञानादिभिर्वर्धत इति वर्द्धमानः; यद्वा गर्भस्थे भगवति ज्ञातकुलं धनधान्यादिभिर्वर्धत इति वर्द्ध
द्वे। २ टे। ३ दे। ४ द्वे । ५ द्वे। ६ वे।. ७ षट् ।
Page #13
--------------------------------------------------------------------------
________________
१ देवाधिदेवकाण्डः।
१३
मानः ॥ देवश्चासौ आर्यश्च देवार्यः देवैरर्यतेऽभिगम्यत इति वा देवानां इन्द्रादीनामर्यः खामीति वा ॥ ज्ञातकुलोत्पन्नत्वात् ज्ञातः सिद्धार्थराजः तस्य नन्दनो ज्ञातनन्दनः ॥ ३० ॥
गणा नवास्यर्षिसंघाः अस्य वीरजिनस्य ऋषीणां सङ्घाः समूहाः गणाः । ते च नवसङ्ख्याः । यद्यपि परमेश्वरस्य एकादश गणधरा आसंस्तथापि नवानामेव गणधराणां विभिन्ना याचना अभवन् । अकम्पिताचलभ्रात्रोर्मेतार्यप्रभासयोश्च यतः सदृक्षा एव वाचना अभूवनिति नवैव गणाः। यदवोचाम त्रिषष्टिशलाकापुरुषचरिते
"श्रीवीरनाथस्य गणधरेष्वेकादशस्खपि। .
द्वयोर्द्वयोर्वाचनयोः साम्यादासन् गणा नव” ॥१॥ इति ॥ एकादश गणाधिपाः। इन्द्रभूतिरमिभूतिर्वायुभूतिश्च गोतमाः ॥ ३१ ॥ व्यक्तः सुधर्मा मण्डितमौर्यपुत्रावकम्पितः ।
अचलभ्राता मेतार्यः प्रभासश्च पृथक्कुलाः ॥ ३२ ॥ इन्द्रोऽस्य भूयादितीन्द्रभूतिः ॥ १॥ अमिरस्य भूयादिति अभिभूतिः ॥ २ ॥ वायुरस्य भूयादिति वायुभूतिः ॥ ३ ॥ "तिक्कृतौ नाम्नि"॥५।१।७१॥ इति तिक । एते त्रयोऽपि गोतमस्यापत्यानि वृद्धानि " ऋषिवृष्णि-"॥६।१।६१॥ इत्यण "भृग्वशिरस्कुत्स-"॥६।१।१२८॥ इत्यादिना तस्य लुपि गोतमाः गोतमवंशजाः ॥ ३१ ॥ व्यज्यते गुणैरिति व्यको भारद्वाजगोत्रः ॥ ४ ॥ शोभनो धर्मो ऽस्य सुधर्मा अमिवैश्यगोत्रजः "द्विपदाधर्मादन्"॥७॥३।१४१॥ इत्यन्समासान्तः ॥ ५॥ गुणैमण्ज्यते स्म मण्डितः; मौर्यस्य पुत्रो मौर्यपुत्रः मण्डितमौर्ययोः पुत्राविति मण्डितपुत्रोऽपि एतौ वाशिष्ठकाश्यपौ ॥ ६ ॥ ७॥ न कम्पितवान् अकम्पितो गौतमः ॥८॥ अचलस्य भ्राता अचलभ्राता हारितगोत्रः॥९॥ मां लक्ष्मी इतः प्राप्तः मेतः स चासावार्यश्च मेतार्यः ॥ १०॥ प्रभासते प्रभासः एतौ कौण्डिन्यौ ॥ ११॥ एवं पृथग विभिन्नानि कुलान्येषां पृथक्कुलाः इति ॥ ३२ ॥
केवली चरमो जम्बू खामी .. केवली न तु तीर्थकरः चरमोऽन्तिमः । अतः परं एतस्यामवसर्पिण्यां
Page #14
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणौ
केवलिनामसम्भवात् । गुणरत्नमयत्वेन जम्बूद्वीपे जम्बूरिव जम्बूः स चासौ स्वामी
च जम्बूखामी ॥
१४
अथ प्रभवप्रभुः ।
शय्यंभवो यशोभद्रः सम्भूतविजयस्ततः ॥ ३३ ॥ भद्रबाहुः स्थूलभद्रः श्रुतकेवलिनो हि षट् ।
प्रभवति अस्मात् श्रुतमिति प्रभवः स चासौ प्रभुश्च प्रभवप्रभुः ॥ १ ॥ शय्याया भवतीति शय्यंभवः पृषोदरादित्वात् ॥ २ ॥ यशसा भद्रः कल्याणो यशोभद्रः ॥ ३ ॥ सम्भूतो रागादिविजयोऽस्य सम्भूतविजयः ॥ ४ ॥ ३३ ॥ भद्रौ बाहू अस्य भद्रबाहुः ॥ ५ ॥ स्थूलं उपचितं भद्रं कल्याणमस्य स्थूलभद्रः ॥ ६ ॥ एते षट् श्रुतेन केवलिनः श्रुतकेवलिनः चतुर्दशपूर्वरत्वात् ॥
महागिरिसुहस्त्याद्या वज्रान्ता दशपूर्विणः ॥ ३४ ॥
परीषहाद्युपद्रवैरकम्प्यत्वात् महागिरिरिव महागिरिः कर्म मोन्मूलने सुहस्तीव सुहस्ती तावाद्यैौ येषां ते तथा । गुरुत्वाद् वज्र इव वज्रो वज्रस्वामी । सोऽन्ते येषां ते वज्रान्ताः । दशभिः पूर्विणो दशपूर्विणो दशपूर्वधराः । दशपूर्वाणि एषां सन्तीत्यर्थः । ततः परं दशपूर्वधराणामसम्भवात् ॥ ३४ ॥
इक्ष्वाकुकुलसम्भूताः स्याद्द्द्वाविंशतिरईताम् । मुनिसुव्रतनेमी तु हरिवंशसमुद्भवैौ ॥ ३५ ॥
इक्ष्वाकुनामधेयं कुलं वंश इक्ष्वाकुकुलं तत्र संभूता जाता अर्हतामृषभादीनां द्वाविंशतिः । शेषं स्पष्टम् ॥ ३५ ॥
नाभिश्च जितशत्रुश्च जितारिरथ संवरः ।
मेघो घरः प्रतिष्ठश्च महासेननरेश्वरः ॥ ३६ ॥ सुग्रीवश्च दृढरथो विष्णुश्च वसुपूज्यराट् । कृतवर्मा सिंहसेनो भानुश्च विश्वसेनरा ॥ ३७ ॥ सूरः सुदर्शन: कुम्भः सुमित्रो विजयस्तथा । समुद्रविजयश्चाश्वसेनः सिद्धार्थ एव च ॥ ३८ ॥ मरुदेवा विजया सेना सिद्धार्था च मङ्गला । ततः सुसीमा पृथ्वी लक्ष्मणा रामा ततः परम् ॥ ३९ ॥
Page #15
--------------------------------------------------------------------------
________________
१ देवाधिदेवकाण्डः |
- नन्दा विष्णुर्जया श्यामा सुयशाः सुत्रताऽचिरा । श्रीदेवी प्रभावती च पद्मा वप्रा शिवा तथा ॥ ४० ॥ बामा त्रिशला क्रमतः पितरो मातरोऽर्हताम् ।
१५
नह्यति अन्यायिनो हाकारादिभिर्नीतिभिरिति नाभिरन्त्यः कुलकरः । “नहेर्भ च" ॥ (उणा - ६२१) ॥ इति णिः ॥ १ ॥ जिताः शत्रवोऽनेन जितशत्रुः ॥ २॥ जिताः अरयोऽनेन जितारिः ॥ ३ ॥ संवृणोतीन्द्रियाणि संवरः ॥ ४ ॥ सकलसत्त्वसन्तापहरणात् मेघ इव मेघः ॥ ५ ॥ धरति धात्रीं इति धरः ॥ ६ ॥ प्रतिष्ठते धर्मकार्ये प्रतिष्ठः ॥ ७ ॥ महापूज्या सेनाऽस्य महासेनः स चासौ नरेश्वरश्च महासेननरेश्वरः ॥ ८ ॥ ३६ ॥ शोभना प्रीवाऽस्य सुग्रीवः ॥ ९ ॥ दृढो रथोऽस्य दृढरथः ॥ १० ॥ वेवेष्टि बलैः पृथ्वीं विष्णुः ॥ ११ ॥ अन्यै राजभिर्वसुभिः धनैः पूज्यते इति वसुपूज्यः स चासौ राट् च वसुपूज्यराद् ॥ १२ ॥ कृतं वर्माऽनेन कृतवर्मा ॥ १३ ॥ सिंहवत् पराक्रमवती सेनाऽस्य सिंहसेनः ॥ १४ ॥ भाति त्रिवर्गेण भानुः ॥ १५ ॥ विश्वव्यापिनी सेनाऽस्य विश्वसेनः स चासौ राट् च विश्वसेनराद् ॥ १६ ॥ ३७ ॥ तेजसा सूर इव सूरः ॥ १७ ॥ शोभनं दर्शनमस्य सुदर्शनः ॥ १८ ॥ गुणपयसामाधारभूतत्वात् कुम्भ इव कुम्भः ॥ १९ ॥ शोभनानि मित्राणि अस्य सुमित्रः ॥ २० ॥ विजयते शत्रूनिति विजयः ॥ २१ ॥ गाम्भीर्येण समुद्रस्यापि विजेता समुद्र विजय ॥ २२ ॥ अश्वप्रधाना सेनाऽस्य अश्वसेनः ॥ २३ ॥ सिद्धा अर्थाः पुरुषार्था अस्य सिद्धार्थः ॥२४॥ इति ऋषभादीनां तीर्थकराणां क्रमेण चतुर्विंशतिः पितर इति ॥ ३८ ॥ मरुद्भिर्दीव्यते स्तूयते मरुदेवा पृषोदरादित्वात् तलोपः । मरुदेव्यपि ॥ १ ॥ विजयते विजया ॥ २ ॥ सह इनेन जितारिखामिना वर्तते सेना || ३ || सिद्धोऽर्थोऽस्याः सिद्धार्थ ॥ ॥ मङ्गलहेतुत्वात् मङ्गला ॥ ५ ॥ शोभना सीमा मर्यादा अस्याः सीमा ॥ ६ ॥ थेना पृथ्वी इव पृथ्वी ॥ ७ ॥ लक्ष्मीः शोभनाऽस्त्यस्याः लक्ष्मणा
॥ ८ ॥ धर्मकृत्येषु रमते रामा ॥ ९ ॥ ३९ ॥ नन्दति सुपुत्रेण नन्दा ॥ १० ॥ वेवेष्टि गुणैर्जगदिति विष्णुः ॥ ११ ॥ जयति सतीत्वेन जया || १२ || श्यामवर्णत्वात् श्यामा ॥ १३ ॥ शोभनं यशोऽस्याः सुयशाः ॥ १४ ॥ शोभनं व्रतमस्याः सुव्रता ॥ १५ ॥ पतिव्रतात्वात् न चिरयति धर्मकार्येषु अचिरा ॥ १६ ॥ श्रीवि श्रीः ॥ १७ ॥ देवीव देवी ॥ १८ ॥ प्रभाऽस्त्यस्याः प्रभावती ॥ १९ ॥ पद्मेव पद्मा ॥ २० || वपति धर्मबीजमिति वप्रा । “भीवृधि " ॥ ( उणा - ३८७ ) ॥ इति रः ॥२१॥ शिवहेतुत्वात् शिवा ॥ २२ ॥ ४० ॥ मनोज्ञत्वाद् वामा पापकार्येषु प्रातिकूल्या - द्वा वामा ॥ २३ ॥ त्रीणि ज्ञानदर्शनचारित्राणि शलति प्राप्नोति त्रिशला लिहादित्वादच् ॥ २४ ॥ इति क्रमेण ऋषभादीनां अर्हतां चतुर्विंशतिर्मातर इति ।
Page #16
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणौ--
स्याद्गोमुखो महायक्षस्त्रिमुखो यक्षनायकः ।। ४१ ।। तुम्बुरुः कुसुमश्चापि मातङ्गो विजयोऽजितः । ब्रह्मा यक्षेट् कुमारः षण्मुखपातालकिन्नराः ॥ ४२ ॥ गरुडो गन्धर्वो यक्षेट् कुबेरो वरुणोऽपि च ।
भृकुटिगोमेधः पार्थो मातङ्गोऽर्हदुपासकाः ॥ ४३ ॥ गौरिव मुखमस्य गोमुखः ॥ १॥ महांश्चासौ यक्षश्च महायक्षः ॥ २ ॥ त्रीणि मुखान्यस्य त्रिमुखः ॥ ३ ॥ यक्षाणां नायको यक्षनायकः ॥ ४ ॥ ४१ ॥ तुम्बति अर्दति विघ्नान् तुम्बुरुः “तुम्बेरुरुः" ।। (उणा-८१७) ॥ इत्युरुः ॥ ५॥ कुस्यति युज्यते पद्मप्रभोपासनाय कुसुमः " उद्वटिकुल्यलि-" ॥ (उणा-३५१) ।। इति कुम: ॥ ६॥ मातङ्ग इव महाबलत्वाद् मातङ्गः ॥ ७ ॥ विजयते विजयः ॥ ८॥ न जीयते स्म अजितः ॥ ९ ॥ बृंहति वर्धते प्रभावोऽस्मिन्निति ब्रह्मा ॥ १० ॥ यक्षाणामीशो यक्षेट् ॥ ११॥ कुमारयति क्रीडति कुमारः ॥ १२ ॥ षण्मुखान्यस्य षण्मुखः ॥ १३ ॥ पातं रक्षितमालमनर्थोऽनेनं पातालः ॥ १४ ॥ किश्चिन्नरः किन्नरः ॥ १५ ॥ ४२ ॥ गरुड इव गरुडः प्रचण्डत्वाद् ॥ १६ ॥ गन्धयते अर्दयति विघ्नान् गन्धर्वः ॥ १७ ॥ यक्षाणामीशो यक्षेट् ॥ १८॥ कुत्सितं बेर शरीरमस्य
कुबेरः ॥ १९॥ वृणोति वाञ्छितमसौ वरुणः ॥ २० ॥ भृकुटिभीषणत्वाद् भृकुटि: ५ ॥ २१ ॥ गां मैधते पवित्रीकरोति गोमेधः ३२ ॥ श्रीपार्श्वजिनस्य सदा पादौ
स्पृशति पार्श्वः सदा तत्पार्श्ववर्तित्वाद्वा ॥ २३ ॥ मातङ्ग इव महाबलत्वात् मातङ्गः ॥२४॥ एते चतुर्विशतिरपि यक्षाः क्रमेण अर्हतां ऋषभादीनां उपासका: ॥ ४३ ॥
चक्रेश्वर्यजितबला दुरितारिश्च कालिका । महाकाली श्यामा शान्ता भृकुटिश्च सुतारका ॥४४॥ अशोका मानवी चण्डा विदिता चाङ्कुशा तथा । कन्दर्पा निर्वाणी बला धारिणी धरणप्रिया ॥ ४५ ॥ नरदत्ताथ गान्धाम्बिका पद्मावती तथा ।
सिद्धायिका चेति जैन्यः क्रमाच्छासनदेवताः॥४६॥ चक्रस्य ईश्वरी चक्रेश्वरी अप्रतिचक्रेत्यपि ॥ १ ॥ बलेन न जिता इति अजितबला राजदन्तादित्वात् पूर्वनिपातः। अजितेत्यपि भीमसेनवत् ॥ २ ॥ दुरितानामरिः दुरितारिः ॥ ३ ॥ काल्येव कालिका वर्णेन ॥ ४ ॥ महती चासौ काली
Page #17
--------------------------------------------------------------------------
________________
१ देवाधिदेवकाण्डः।
१७
च महाकाली । काश्चनवर्णाया अपि संज्ञा ॥ ५॥ श्यामा वर्णेन श्यामा अच्युतदेवीत्यपि ॥ ६ ॥ शाम्यति पूजया शान्ता ॥ ७ ॥ भीषणभृकुटित्वात् भृकुटिः ॥ ८ ॥ शोभना तारका अस्याः सुतारका सुतारेत्यपि ॥ ९ ॥ ४४ ॥ अविद्यमानः शोकोऽस्या अशोका ॥१०॥ मानवीव मानवी अभिगम्यदर्शनत्वात् ॥ ११ ॥ चण्डा प्रचण्डत्वात् ॥ १२ ॥ लोके विद्यते ज्ञायते विदिता ॥ १३ ॥ अङ्कशमस्त्यस्या अङ्कशा अभ्रादित्वादः ॥ १४ ॥ कमित्यव्ययं के कुत्सितं दृप्यति कन्दर्पा ॥ १५ ॥ निर्वाति भक्तानां दुःखाग्निः अनया निर्वाणी ॥ १६ ॥ बलमस्त्यस्या बला ॥ १७ ॥ मातुलिङ्गादीन्यवश्यं धरति धारिणी ॥ १८॥ धरणोरगेन्द्रस्य प्रिया धरणप्रिया वैरोठ्या ॥१९॥४५॥ नरेभ्यो दत्तमनया नरदत्ता ॥ २० ॥ गां धारयतीति गान्धारी पृषोदरादित्वात् ॥ २१ ॥ लोकानामम्बेव अम्बिका कुष्माण्डीयपि ॥ २२ ॥ पद्मं करेऽस्त्यस्याः पद्मावती । “अनजिरादि-" ॥३॥२१७८॥ इति मतो दीर्घत्वम् ॥ २३ ॥ सिद्धानयते सिद्धायिका ॥ २४ ॥ एवमेताश्चतुर्विशतिरपि जिनानां ऋषभादीनां भकाः क्रमेण जिनशासनस्य अधिष्ठात्र्यो देवताः शासनदेवताः ॥ ४६॥
वृषो गजोज्वः प्लवगः क्रौञ्चोऽब्जं खास्तिकः शशी । मकरः श्रीवत्सः खड़ी महिषः शूकरस्तथा ॥ १७ ॥ श्येनो वज्रं मृगश्छागो नन्द्यावर्तो घटोऽपि च ।
कूर्मो नीलोत्पलं शङ्खः फणी सिंहोऽर्हतां ध्वजाः ॥ ४८ ॥ वृषादयः चतुर्विंशतिः अर्हतां ऋषभादीनां ध्वजाः चिह्नानि । एते च दक्षिणागविनिवेशिनो लाञ्छनभेदा इति ॥ ४७ ॥ ४ ॥
रक्तौ च पद्मप्रभवासुपूज्यौ शुक्लौ तु चन्द्रप्रभपुष्पदन्तौ ।
कृष्णौ पुनर्नेमिमुनी विनीलौ श्रीमल्लिपाझे कनकत्विषोऽन्ये॥४९॥ नेमिमुनी इत्यरिष्टनेमिमुनिसुव्रतौ, अन्ये इति उक्तेभ्योऽन्ये ऋषभादयः षोडश कनकत्विषः सुवर्णवर्णाः ॥ ४९ ॥
उत्सर्पिण्यामतीतायां चतुर्विशतिरर्हताम् । केवलज्ञानी निर्वाणी सागरोऽथ महायशाः ॥ ५० ॥ विमलः सर्वानुभूतिः श्रीधरो दत्ततीर्थकृत् । दामोदरः सुतेजाश्च खाम्यथो मुनिसुव्रतः ॥ ५१ ॥ मुमतिः शिवगतिश्चैवास्तागोऽथ निमीश्वरः ।
१ व इत्यपि पाठः।
Page #18
--------------------------------------------------------------------------
________________
.१८
अभिधानचिन्तामणौअनिलो यशोधराख्यः कृतार्थोऽथ जिनेश्वरः ॥ ५२ ॥
शुद्धमतिः शिवकरः स्यन्दनश्चाथ संप्रतिः। उत्सर्पिण्यामिति दशसागरोपमकोटीकोटिप्रमाणायां कालविशेषे, अतीतायामिति अतिक्रान्तायां, तीर्थकराणां चतुर्विंशतिः । यथा-केवलज्ञानमस्यास्ति केवलज्ञानी ॥ १॥ निर्वाणमस्त्यस्य निर्वाणी ॥ २ ॥ गाम्भीर्येण सागर इव सागरः ॥ ३ ॥ महद् व्यापकत्वाद्यशोऽस्य महायशाः ॥ ४ ॥ ५० ॥ विगतो मलोऽस्य विमलः ॥ ५॥ सर्वत्र सर्वचत्वाद् अनुभूतिरस्य सर्वानुभूतिः ॥ ६ ॥ मुक्तिश्रियं धरति श्रीधरः॥ ७ ॥ दानं दत्तं तदस्यास्ति दत्तः स चासौ तीर्थकृच्च दत्ततीर्थकृत् ॥ ८ ॥ जन्माभिषेके सुरैः क्षिप्तं पुष्पदाम कण्ठाल्लम्बमानमुदरेऽस्य दामोदरः ॥ ९ ॥ शोभनमाह्लादकत्वात् तेजोऽस्य सुतेजाः ॥ १०॥ जगतां स्वाम्यात् स्वामी ॥ ११॥ मुनिश्चासौ सुव्रतश्च मुनिसुव्रतः ॥ १२॥५१॥ शोभना मतिरस्य सुमतिः ॥१३॥ शिवे मोक्षे गतिरस्य शिवगतिः ॥ १४ ॥ न विद्यते गाम्भीर्यात् स्तागो लब्धमध्यताऽस्य अस्तागः ॥ १५ ॥ परीषहोपसर्गादिनामनानिमिः "-नमेस्तु वा" ॥ (ठणा-६१३)॥ इति उपान्त्यस्य वेत्वं, स चासौ ईश्वरश्च निमीश्वरः ॥१६॥ अनिल इव महाबलत्वाद् अनिल: ॥ १७ ॥ यशांसि धरति यशोधरः ॥ १८ ॥ कृतोऽर्थः पूजाऽस्य कृतार्थः ॥ १९ ॥ जिनश्चासावीश्वरश्च जिनेश्वरः ॥ २० ॥ ५२ ॥ शुद्धा निर्मला मतिरस्य शुद्धमतिः ॥ २१ ॥ शिवं करोति शिवकरः ॥ २२ ॥ स्यन्दते देशनामृतं स्यन्दनः ॥ २३ ॥ नित्यप्रवृत्तत्वेन ध्यायमानत्वात् संप्रतिः ॥ २४ ॥
भाविन्यां तु पद्मनाभः शूरदेवः सुपार्श्वकः ॥ ५३ ॥ खयंप्रभश्च सर्वानुभूतिर्देवश्रुतोदयौ । पेढालः पोट्टिलश्चापि शतकीर्तिश्च सुव्रतः ॥ ५४ ॥ अममो निष्कषायश्च निष्पुलाकोऽथ निर्ममः । चित्रगुप्तः समाधिश्च संवरश्च यशोधरः ॥ ५५ ॥
विजयो मल्लदेवौ चानन्तवीर्यश्च भद्रकृत् । भाविन्यामित्यागामिन्यामुत्सर्पिण्यां चतुर्विंशति: तीर्थकराः । यथा-पद्मं नाभावस्य पद्मनाभ: । " नाभेनानि" ॥१३॥१३४॥ इत्यप्समासान्तः ॥ १॥ रागाद्यरीन् प्रति शूरो विक्रमी स चासौ देवश्च शूरदेवः ॥ २ ॥ शोभनौ पाश्वौं अस्य सुपार्श्वः खार्थिके के सुपार्श्वकः ॥३॥५३॥ स्वयं प्रकर्षण भाति स्वयंप्रमः ॥४॥ सर्वज्ञत्वात् सर्वानुभूतिरस्य सर्वानुभूतिः ॥ ५॥ देवैः श्रुतः प्रतीतो देवश्रुतः ॥ ६ ॥
Page #19
--------------------------------------------------------------------------
________________
१ देवाधिदेवकाण्डः।
उदेति धर्मोऽस्मादित्युदयः ॥ ७॥ पठति तत्त्वं पेढालः “चात्वालकङ्काल-" ॥ ( उणा-४८० )॥ इत्यादिशब्दादालान्तो निपात्यते ॥ ८ ॥ पोटयति भासते पुटति जन्मत एव ज्ञानत्रयेण श्लिष्यतीति वा पोट्टिलः। “स्थण्डिलकपिल-"॥(उणा-४८४)। इत्यादिशब्दान्निपात्यते ॥ ९ ॥ शतं बह्वयः कीर्तयोऽस्य शतकीर्तिः ॥१०॥ शोभनं व्रतमस्य सुव्रत: ॥११॥ ५४ ॥ नास्ति ममताऽस्य अममः ॥ १२ ॥ निर्गता कषाया अस्मात् निष्कषायः ॥ १३ ॥ निश्चितं पोलयति ज्ञानेन महान् भवति निष्पुलाकः "शुभिगृहिविदिपुलिगुभ्यः कित्" ॥ (उणा-३५) ॥ इत्याकः ॥ १४ ॥ निर्गता ममताऽस्मात् निर्ममः ॥ १५ ॥ चित्राण्याश्चर्यकारीणि गुप्तानि मनोवाक्कायगुप्तयोऽस्य चित्रगुप्तः ॥ १६ ॥ सदा समाधियुक्तत्वात् समाधिः ॥ १७ ॥ संवर आश्रवनिरोधोऽस्त्यस्य संवरः ॥ १८॥ यशो धरति यशोधरः ॥ १९ ॥ ५५ ॥ विजयते जन्मादिकल्याणैर्विजयः ॥ २० ॥ कर्मभटानां मल्ल इव मल्लः ॥ २१ ॥ दीव्यति ज्ञानश्रिया देवः ॥ २२ ॥ अनन्तं वीर्य बलमस्याऽनन्तवीर्यः ॥ २३ ॥ भद्रं करोति भद्रकृत् । भद्रोऽपि २४ ॥
उपसंहारमाह" एवं सर्वावसर्पिण्युत्सर्पिणीषु जिनोत्तमाः ॥ ५६ ॥ एवमिति चतुर्विंशतिश्चतुर्विंशतिः, सर्वासु वर्तमानातीतानागतासु अवसर्पिण्युत्सर्पिणीषु कालविशेषेषु जिनोत्तमास्तीर्थकरा भवन्ति इति ॥ ५६ ॥
तेषां च देहोऽभूतरूपगन्धो निरामयः स्वेदमलोज्झितश्च । श्वासोऽब्जगन्धो रुधिरामिषं तु गोक्षीरधाराधवलं ह्यविस्रम् ॥५७॥ आहारनीहारविधिस्त्वदृश्यश्चत्वार एतेऽतिशयाः सहोत्थाः ।
तेषामिति तीर्थकराणां, देहः काय: अद्भुतं लोकोत्तरं रूपं गन्धश्च यस्य स तथा, निरामयो नीरोगः, खेदेन अङ्गजलेन मलेन च त्वगावारककिटेनोज्झितः स्वेदमलोज्झितः एष प्रथमः सहोत्थोऽतिशयः॥श्वास उच्छ्वासनिःश्वासं, अब्जं पद्मं तस्यैव गन्धोऽस्याब्जगन्धः इति द्वितीयः ॥ रुधिरं चामिषं चः “अप्राणिपश्वादेः" ॥३।१।१३६॥ इति समाहारे रुधिरामिषं मांसशोणितं, गोक्षीरधारावद्धवलं पाण्डुरम् , अविलं, अनामगन्धि इति तृतीयः ॥५७॥ आहारोऽभ्यवहरणं नीहारो मूत्रपुरीषोत्सर्गस्तयोविधिः क्रिया न दृश्यते इति अदृश्य मांसचक्षुषा न पुनरवध्यादिलोचनेन पुंसा । यदाहुः“पच्छन्ने आहारनीहारे अदिस्से मंसचक्खुणा" एष चतुर्थः ॥ एते चत्वारोऽपि जगतोऽप्यतिशेरते तीर्थकरा एभिरित्यतिशयाः, सहोत्थाः सहजन्मानः ॥
Page #20
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणौअथ कर्मक्षयजानतिशयानाहक्षेत्रे स्थितिर्योजनमात्रकेऽपि नृदेवतिर्यग्जनकोटिकोटेः ॥५८॥ वाणी नृतियक्सुरलोकभाषासंवादिनी योजनगामिनी च । भामण्डलं चारु च मौलिपृष्ठे विडम्बिताहर्पतिमण्डलश्रि ॥१९॥ साग्रे च गव्यूतिशतद्वये रुजा वैरेतयो मार्यतिवृष्टयवृष्टयः । दुर्भिक्षमन्यस्वकचक्रतो भयं स्यान्नैत एकादश कर्मघातजाः।।६.०॥ योजनप्रमाणेऽपि क्षेत्रे समवसरणभुवि नृणां देवानां तिरश्चां च जनानां कोटीकोटिसङ्ख्यानां स्थितिरवस्थानमिति प्रथमः कर्मक्षयजोऽतिशयः ॥ ५८ ॥ वाणी भाषा अर्द्धमागधी नरतिर्यक्सुरलोकभाषया संवदति तद्भाषाभावेन परिणमतीत्येवला, योजनमेकं गच्छति व्यामोतीत्येवंशीला योजनगामिनी चेति द्वितीयः॥भानां प्रभाणां मण्डलं भामण्डलम्, मौलिपृष्ठे शिरःपश्चिमभागे तच्च विडम्बितदिनकरबिम्बलक्ष्मीकमित्यत एव चारु मनोहरमिति तृतीयः ॥ ५९ ॥ साग्रे पञ्चविंशतियोजनाधिके गव्यूतिः क्रोशद्वयम् , गव्यूतीनां शतद्वये योजनशत इत्यर्थः, रुजा रोगो ज्वरादिर्न स्यादिति चतुर्थः ॥ तथा वैरं परस्परविरोधो न स्यादिति पञ्चमः ॥ तथा ईतिर्धान्याद्युपद्रवकारी प्रचुरो मूषिकादिः प्राणिगणो न स्यादिति षष्ठः ॥ तथा मारिरौत्पातिकं सर्वगतं मरणं न स्यादिति सप्तमः॥ तथा अतिवृष्टिनिरन्तरं वर्षणं न स्यादित्यष्टमः॥ तथा अवृष्टिः सर्वथा वृष्ट्यभावो न स्यादिति नवमः ॥ दुर्भिक्षं भिक्षाणामभावो न स्यादिति दशमः ॥ तथा स्वराष्ट्रात् परराष्ट्राश्च भयं न स्मादित्येकादशः ॥ एवमेकादश अतिशयाः कर्मणां ज्ञानावरणीयादीनां चतुर्णा चातात् क्षयात् जायन्ते इति ॥६॥ देवकृतानतिशयानाह
खे धर्मचक्रं चमराः सपादपीठं मृगेन्द्रासनमुज्ज्वलं च । छत्रयं रत्नमयध्वजोऽह्रिन्यासे च चामीकरपङ्कजानि ॥११॥ वप्रत्रयं चारु चतुर्मुखाङ्गता चैत्यद्रुमोग्धोवदनाश्च कण्टकाः । [मानतिर्दुन्दुभिनाद उच्चकैतोऽनुकूलः शकुनाः प्रदक्षिणाः॥२॥ गन्धाम्बुवर्ष बहुवर्णपुष्पवृष्टिः कचश्मश्रुनखाप्रवृद्धिः । चतुर्विधाऽमहँनिकायकोटिजघन्यभावादपि पार्श्वदेशे ॥१३॥
ऋतूनामिन्द्रियार्थानामनुकूलत्वमित्यमी । एकोनविंशतिर्दैव्याश्चतुस्त्रिंशञ्च मीलिताः॥६४ ॥
Page #21
--------------------------------------------------------------------------
________________
१ देवाधिदेवकाण्डः ।
२१
आकाशे धर्मप्रकाशकं चक्रं धर्मचक्रं भवतीति देवकृतः प्रथमोऽतिशयः ॥ तथा खे चमरा इति द्वितीयः ॥ तथा खे पादपीठेन सह मृगेन्द्रासनं सिंहासनमुज्ज्वलं निर्मलमाकाशस्फटिकमयत्वादिति तृतीयः ॥ तथा खे च्छत्त्रत्रयमिति चतुर्थः ॥ तथा खे रत्नमयो ध्वज इति पञ्चमः ॥ तथा पादन्यासनिमित्तं सुवर्णकमलानि भवन्तीति षष्ठः ॥ ६१ ॥ तथा समवसरणे रत्नसुवर्णरूप्यमयं प्राकारत्रयं मनोज्ञं भवतीति सप्तमः ॥ तथा चत्वारि मुखानि अङ्गानि गात्राणि च यस्य स तथा तद्भावश्चतुर्मुखाङ्गता भवतीति अष्टमः ॥ तथा चैत्याभिधानो द्रुमोऽशोकवृक्षः स्यादिति नवमः ॥ तथा अधोमुखः कण्टका भवन्तीति दशमः ॥ तथा द्रुमाणामानतिर्नम्रता स्यादिति एकादशः ॥ तथा उच्चैर्भुवनव्यापी दुन्दुभिध्वानः स्यादिति द्वादश: ॥ वातः सुखदत्वादनुकूलो भवतीति त्रयोदशः तथा ॥ शकुनाः पक्षिणः प्रदक्षिणगतयः स्युरिति चतुर्दशः ॥६२॥ तथा गन्धोदकदृष्टिरिति पञ्चदशः ॥ बहुवर्णानां पञ्चवर्णानां जानूत्सेधप्रमाणपुष्पाणां वृष्ठिः स्यादिति षोडशः ॥ तथा क्रचानां केशानामुपलक्षणत्वात् लोम्नां च श्मश्रुणः कूर्चस्य, नखानां पाणिपादजानामप्रवृद्धिरवस्थितस्वभावत्वमिति सप्तदशः॥ तथा भवनपत्यादिचतुर्विधदेवनिकायानां जघन्यतोऽपि समीपे कोटिर्भवतीति अष्टादश: ॥ ६३ ॥ तथा ऋतूनां वसन्तादीनां सर्वदा पुष्पादिसामग्रीभिरिन्द्रियार्थानां स्पर्शरसगन्धरूप'शब्दानाममनोज्ञानामपकर्षेण, मनोज्ञानां च प्रादुर्भावेनानुकूलत्वं भवतीत्येकोनविंशः ॥ इति देवैः कृता एकोनविंशतिस्तीर्थकृतामतिशयाः । एते च यदन्यथाऽपि दृश्यन्ते तन्मतान्तरमवगम्यमिति । ते च सहजैश्चतुर्भिः कर्मक्षयजैरेकादशभिः सह मीलिताएकत्र योजिताश्चतुस्त्रिंशद्भवन्तीति ॥ ६४ ॥
अथ वचनातिशयानाह—
संस्कारवत्त्वमौदात्त्यमुपचारपरीतता ।
'मेघगम्भीरघोषत्वं प्रतिनादविधायिता ॥ ६५ ॥
दक्षिणत्वमुपनीतरागत्वं च महार्थता ।
अव्याहतत्वं शिष्टत्वं संशयानामसंभवः ॥ ६६ ॥
निराकृतान्योत्तरत्वं हृदयङ्गमतापि च । मिथः साकाङ्क्षत्ता प्रस्तावैौचित्यं तत्त्वनिष्ठता ॥ ६७ ॥ अप्रकीर्णप्रसृतत्वमख श्लाघान्यनिन्दता । आभिजात्यमतिस्निग्धमधुरत्वं प्रशस्यता ॥ ६८ ॥
१ मेघनिर्घोषगाम्भीर्यम् इत्यपि पाठः ।
Page #22
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणौअमर्मवेधितौदार्य धर्मार्थप्रतिबद्धता । कारकाद्यविपर्यासो विभ्रमादिवियुक्तता ॥ १९॥ चित्रकृत्त्वमद्भुतत्वं तथानतिविलम्बिता । अनेकजातिवैचित्र्यमारोपितविशेषता ॥ ७० ॥ सत्त्वप्रधानता वर्णपदवाक्यविविक्तता ।
अव्युच्छित्तिरखेदित्वं पञ्चत्रिंशच वाग्गुणाः॥ ७१ ।। संस्कारवत्त्वं संस्कृतादिलक्षणयुक्तत्वम् ॥ १ ॥ औदात्त्यमुच्चैर्वृत्तिता ॥ २ ॥ उपचारपरीतता अग्राम्यत्वम् ॥३॥ मेघगम्भीरघोषत्वं मेघस्येव गम्भीरशब्दत्वम् ॥४॥ प्रतिनादविधायिता प्रतिरवोपेतत्वम् ॥५॥६५॥ दक्षिणत्वं सरलत्वम् ॥६॥ उपनीतरागत्वं मालवकैशिक्यादिग्रामरागयुक्तता ॥७॥ एते च सप्त शब्दापेक्षयाऽतिशयाः। अन्ये त्वर्थाश्रया:- तत्र महार्थता बृहदभिधेयता ॥ ८॥ अव्याहतत्वं पूर्वापरवाक्यार्थाविरोधः ॥ ९॥ शिष्यत्वं अभिमतसिद्धान्तोक्तार्थता । वक्तु: शिष्टतासूचकत्वं च ॥ १० ॥ संशयानामसम्भवोऽसन्दिग्धत्वम् ॥११॥६६॥ निराकृतान्योत्तरत्वं परदूषणाविषयता ॥ १२ ॥ हृदयङ्गमता हृदयग्राह्यत्वम् ॥ १३ ॥ मिथःसाकादक्षता परस्परेण पदानां वाक्यानां वा सापेक्षता ॥ १४ ॥ प्रस्तावौचित्यं देशकालाव्यतीतत्वम् ॥ १५॥ तत्त्वनिष्ठता विवक्षितवस्तुस्वरूपानुसारिता ॥ १६ ॥ ६७ ॥ अप्रकीर्णप्रसूतत्वं सुसम्बद्धस्य सत: प्रसरणं, अथवा असम्बद्धाधिकारत्वातिविस्तरयोरभावः ॥ १७ ॥ अखश्लाघान्यानिन्दता आत्मोत्कर्षपरनिन्दाविप्रयुक्तत्वम् ॥ १८॥ आभिजात्यं वक्तुः प्रतिपाद्यस्य वा भूमिकानुसारिता ॥१९॥ अतिस्निग्धमधुरत्वं घृतगुडादिवत् सुखकारित्वम् ॥२०॥ प्रशस्यता उक्तगुणयोगात् प्राप्तश्लाघ्यता ॥२१॥६८॥ अमर्मवेधिता परमर्मानुयटनखरूपत्वम् ॥ २२॥ औदार्यमभिधेयस्यार्थस्यातुच्छत्वम् ॥ २३ ॥ धर्मार्थप्रतिबद्धता धर्मार्थाभ्यामनपेतत्वम् ॥ २४ ॥ कारकाद्यविपर्यासः कारककालवचनलिङ्गादिव्यत्ययवचनदोषापेतता ॥ २५ ॥ विभ्रमादिवियुक्तता विभ्रमो वक्तमनसो भ्रान्तता स आदिर्येषां विक्षेपादीनां ते विभ्रमादयो मनोदोषास्तैवियुक्तत्वम् ॥२६॥६९॥ चित्रकृत्त्वमुत्पादिताच्छिन्नकौतूहलत्वम् ॥ २७ ॥ अद्भुतत्वं प्रतीतम् ॥ २८ ॥ तथानतिविलम्बिता प्रतीता ॥ २९ ॥ अनेकजातिवैचित्र्यं जातयो वर्णनीयवस्तुखरूपवर्णनानि तत्संश्रयाद्विचित्रत्वम् ॥ ३० ॥ आरोपितविशेषता वचनान्तरापेक्षया आहितविशेषणत्वम् ॥३१॥७०॥ सत्त्वप्रधानता साहसोपेतता॥३२॥ वर्णपदवाक्यविविक्तता वर्णादीनां विच्छिन्नत्वम् ॥ ३३ ॥ अव्युच्छित्तिर्विवक्षितार्थसम्यसिद्धिर्यावदव्यवच्छिन्नवचनप्रमेयता ॥ ३४ ॥ अखेदित्वं अनायाससम्भव: ॥ ३५ ॥ इत्येवमहतां पञ्चत्रिंशद्वाचां गुणा अतिशया भवन्तीति । ७१॥
Page #23
--------------------------------------------------------------------------
________________
१ देवाधिदेवकाण्डः।
. अन्तराया दानलाभवीर्यभोगोपभोगगाः । हासो रत्यरती भीतिर्जुगुप्सा शोक एव च ॥७२॥ कामो मिथ्यात्वमज्ञानं निद्रा चाविरतिस्तथा ।
रागो द्वेषश्च नो दोषास्तेषामष्टादशाप्यमी ॥७३॥ दानगतोऽन्तराय इत्येको दोषः ॥ लाभगतोऽन्तराय इति द्वितीयः॥ वीर्यगतोऽन्तराय इति तृतीयः ॥ भुज्यते भोगः स्रगादिः तद्गतोऽन्तराय इति चतुर्थः ॥ उपभुज्यते उपभोगोऽङ्गनादिः तद्गतोऽन्तराय इति पञ्चमः ॥ हासो हास्यमिति षष्ठः ॥ रतिः पदार्थानामुपरि प्रीतिरिति सप्तमः ॥ अरती रतिविपर्यय इति अष्टमः ॥ भीतिर्भयमिति नवमः॥ जुगुप्सा घृणेति दशम: ॥ शोकश्चित्तवैधुर्यमित्येकादशः ॥७२॥ कामो मन्मथ इति द्वादशः ॥ मिथ्यात्वं दर्शनमोह इति त्रयोदशः ॥ अज्ञानं मौव्यमिति चतुर्दशः ॥निद्रा खाप इति पञ्चदशः॥अविरतिरप्रत्याख्यानमिति षोडशः॥रागः सुखाभिज्ञस्य सुखानुस्मृप्तिपूर्वः सुखे तत्साधनेऽप्यऽभिमते विषये गर्द्ध इति सप्तदशः ॥ द्वेषो दुःखाभिज्ञस्य दुःखानुस्मृतिपूर्वः दुःखे तत्साधने वा क्रोध इत्यष्टादशः ॥ इत्यष्टादश दोषास्तेषामृषभादीनामर्हतां न भवन्तीति ॥ ७३ ॥
महानन्दोऽमृतं सिद्धिः कैवल्यमपुनर्भवः । शिवं निःश्रेयसं श्रेयो निर्वाणं ब्रह्म निर्वृतिः ॥७४॥
महोदयः सर्वदुःखक्षयो निर्याणमक्षरम् । .. मुक्तिर्मोक्षोऽपवर्गः - महानानन्दोऽत्र महानन्दः ॥ १ ॥ नास्ति मृतमत्र अमृतम् ॥ २ ॥ सिद्धयत्यस्यामिति सिद्धिः ॥ ३ ॥ सर्वकर्मक्षयात्केवलस्यात्मनो भावः कैवल्यम् ॥ ४ ॥ न पुनर्भवो जन्मात्र अपुनर्भवः । न पुनर्भवतीति वा ॥ ५॥ सदानन्दमनैः शय्यते स्थीयतेऽस्मिन्निति शिवम् । “शीङापो हखश्च वा" ॥ (उणा-५०६) ॥ इति वः ॥ ६ ॥ निश्चितं श्रेयो निःश्रेयसम् । “निसश्च श्रेयसः” ॥७॥३।१२२॥ इत्यत्समासान्तः ॥ ७ ॥ अतिशयेन प्रशस्यं श्रेयः "गुणाङ्गात्"-॥७॥३॥९॥ इतीयसौ "प्रशस्यस्य श्रः" ॥७॥४॥३४॥ इति श्रादेशः ॥ ८॥ निर्वात्यात्माऽत्रेति निर्वाणम् । "निर्वाणमवाते" ॥४॥२॥७९॥ इति साधुः ॥ ९॥ बंहति वर्द्धतेऽस्मिन्नानन्द इति ब्रह्म पुंक्लीबलिङ्गः ॥१०॥ निर्बियते सुखीभूयतेऽस्यामिति निर्वृतिः ॥११॥७४॥ महान् ज्ञानस्योदयोऽत्रेति महोदयः ॥ १२ ॥ सर्वदुःखानां क्षयोऽत्र सर्वदुःखक्षयः ॥ १३ ॥ निर्यान्ति सर्वदुःखान्यत्र निर्याणम् ॥ १४ ॥ न क्षरति चलत्यस्मादात्मेत्यक्षरम् ।
Page #24
--------------------------------------------------------------------------
________________
२४
अभिधानचिन्तामणौ
अश्यते प्राप्यते क्षीणकर्मभिरिति वा । “मीज्यजिमामयशौवसिकिभ्यः सरः" । (उणा-४३९) ॥ इति सरः ॥ १५॥ कर्मभिर्मुच्यतेऽत्र मुक्तिः ॥ १६ ॥ मुच्यते सर्वकर्मभिरत्रेति मोक्षः “मावावद्यमि"-॥ (उणा-५६४) ॥ इति सः; मोक्ष्यन्ते त्यज्यन्ते दुःखान्यत्रेति वा ॥ १७ ॥ कर्मभिरपवृज्यतेऽत्रापवर्गः ॥ १८ ॥ शेषश्चात्र “निर्वाणे स्यात् शीतीभावः । शान्ति श्चिन्त्यमन्तिकः” ।
अथ मुमुक्षुः श्रमणो यतिः ॥७॥ वाचंयमो यती साधुरनगार ऋषिमुनिः ।. ..
निर्ग्रन्थो भिक्षुः मोक्तुमिच्छुर्मुमुक्षुः ॥ “सन्भिक्षाशंसेरुः" ॥५॥२॥३३॥ इति उः ॥ १॥ श्राम्यति तपसेति श्रमणः; श्रवणोऽपि नन्द्यादित्वादनः ॥ २ ॥ यतते मोक्षायेति यति: “पदिपठि-" ॥ (उणा-६०७) ॥ इत्यादिना इः ॥ यच्छत्युपरमति सर्वसङ्गेभ्य इति वा ॥ ३ ॥ वाचं यच्छति नियमयति वाचंयमः । “वाचंयमो व्रते" ॥५/११११५॥ इति साधुः ॥ ४ ॥ यतं यमनमस्त्यस्य यती ॥ ५॥ उत्तमक्षमादिभिगुणविशेषैर्भावितात्मा सानोति साधुः सम्यक्दर्शनादिभिः परमं पदं साधयतीति वा "कृवापाजिखदिसाधि"-॥ (उणा-१) ॥ इत्युण ॥ ६॥ नास्त्यगारमस्य अनगारः ॥ ७ ॥ ऋषति जानाति तत्त्वं ऋषिः “नाम्युपान्त्य"-॥ (उणा--६०९)॥ इति किः, दर्शनाद्वा ऋषिः, यद्भट्टतोतः-ऋषिश्च किल दर्शनादिति ॥ ८ ॥ मन्यतेऽसौ मुनि: “मनेरुदेतौ चास्य वा” (उणा-६१२) ॥ इति इः पुंस्त्रीलिङ्गः ॥९॥ ग्रन्थात् द्रव्यानिष्कान्तो निर्ग्रन्थः ॥१०॥ भिक्षणशीलो भिक्षुः । भिनत्ति क्षुधमटप्रकारं कर्मेति वा ॥११॥
अस्य स्वं तपो-योग-शमादयः ॥६॥ अस्य मुमुक्षोस्तपोयोगशमादयो धनं आदिशब्दात् क्षान्त्यादयः। ततस्तपोधनः, योगी, शमभृत् , क्षान्तिमानित्यादीनि यौगिकानि नामानि भवन्तीति ॥ ७६ ॥
मोक्षोपायो योगो ज्ञानश्रद्धानचरणात्मकः । मोक्षस्योपाय: कारणम् । मुमुक्षुभियुज्यते योगः ज्ञानं यथावस्थिततत्त्वावबोधः, श्रद्धानं सम्यक्तत्त्वेषु रुचिः, चरणं चारित्रं सावद्ययोगत्यागः, तानि आत्मा खरूपं यस्य स तथा ॥
__ अभाषणं पुनर्मोनं न भाष्यतेऽभाषणम् ॥ १ ॥ मुनेः कर्म मौनं 'क्लीबलिङ्गः "वृवर्णाल्लवादेः" ॥७१॥६९॥ इत्यण् ॥ २॥
Page #25
--------------------------------------------------------------------------
________________
१ देवाधिदेवकाण्डः। .गुरुर्धर्मोपदेशकः ॥७७॥ . ....... गृणाति धर्म गुरुः “कृ ऋत उर्च ॥ (उणा-७३४) ॥ इति उः । धर्मस्योपदेष्टा धर्मोपदेशकः । निषेकादिकरो गुरुरित्यन्ये ॥ १॥ ७७ ॥ अनुयोगकदाचार्यः
......: - अनुयोग व्याख्या करोत्यनुयोगकृत् । आचर्यते सेव्यत इत्याचार्यः ; आचारे साधुरिति वा । आचारं ग्राहयतीति नैरुक्तः, मन्त्रव्याख्याकृदाचार्यः इत्यन्ये ॥१॥
उपाध्यायस्तु पाठकः । उपेत्याधीयतेऽस्मादित्युपाध्यायः “इडोऽपादाने तु टिद्वा" ॥५॥३॥१९॥ इति घञ् ॥१॥ पाठयति इति पाठकोऽध्यापकः ॥ २ ॥
अनूचानः प्रवचने साङ्गेऽधीती गणिश्च सः ॥७॥ अनूवाचेत्यनूचानः ॥ “वेयिवदनाश्वदनूचानम् ॥५।२।३॥ इति काने साधुः ॥१॥प्रोच्यते प्रवचनमागमस्तत्र साङ्गे इत्याचाराद्यङ्गयुक्ते अधीतमनेनाधीती “इष्टादेः" ।।७।१।१६८॥ इतीनि “व्याप्ये क्तेनः ॥२।२।९९॥ इति कर्मणि सप्तमी । गण्यते पूज्यतया इति गणिः “स्वरेभ्य इ.” । (उणा-६०६) ॥ इति इः ॥२॥ ७८ ॥
शिष्यों विनेयोऽन्तेवासी ........ :: . - शासनीयः शिष्य: “दृवृग्स्तुजुषेतिशासः" ॥५॥१॥४०॥ इति क्यपि । "इसासः शासः-"॥४।४।११८॥ इतीसादेशः ॥ १॥ विनीयते विनेयः । “यएच्चातः"॥५।१।२८॥ इति यः ॥ २ ॥ गुरोरन्ते वसत्यवश्य इति अन्तेवासी "शयवासिवासेष्वकालात् ” ॥३।२।२५॥ इति सप्तम्या अलुप् ॥ ३ ॥ शेषश्चात्र " शिष्ये छात्रः"॥
.
.... . शैक्षः प्राथमकल्पिकः।
. : शिक्षाशीलमस्य शैक्षः । “अस्थाच्छत्रादेर ॥६।४।६०॥ इत्यम् । शिक्षायों भव इति वा “शिक्षादेश्वाण्"॥६।३।१४८॥ इत्यण् ॥ १॥ प्रथमकल्प आद्यारम्भः प्रयोजनमस्य प्राथमकल्पिकः; प्रथमकल्पमधीत इति वा “पद्कल्पलक्षणान्तक्रत्वाख्यानाख्यायिकात्" ॥६।२।११९॥ इतीकण् ॥ २ ॥.
सतीर्थ्यास्त्वेकगुरवः
.. १. एकम् ।
२. एकम् ।
................
. |
|
Page #26
--------------------------------------------------------------------------
________________
__ अभिधानचिन्तामणौ
तरन्त्यनेन विद्याम्भोधिमिति तीर्थ गुरुः, समाने तीर्थे वसन्ति सतीर्थ्याः “सतीर्थ्यः॥६।४।७८॥ इति यान्तो निपात्यते ॥ १ ॥ एकः समानो गुरुरेषामेकगुरवः ॥२॥
'विवेकः पृथगात्मता ॥७९॥ विवेचनं हेयोपादेयज्ञानं विवेकः । अविवेकात् पृथक् भिन्न आत्मा पृथगात्मा तद्भावः पृथगात्मता ॥ ७९ ॥
एकब्रह्मव्रताचारा मिथः सब्रह्मचारिणः। तुल्यागमास्तुल्यव्रतास्तुल्याचाराश्च अन्योन्यं समाने ब्रह्मण्यागमे गुरुकुले वा व्रतं चरन्तीत्येवंशीलाः सब्रह्मचारिणः ; समाना ब्रह्मचारिण इति वा “सब्रह्मचारी" ॥३।२।१५०॥ इति निपात्यते ॥
स्यात्पारम्पर्यमाम्नायः संप्रदायो गुरुक्रमः ॥८०॥ परम्पराया गुरुशिष्यप्रशिष्यादिसन्तानरूपाया भावः पारम्पर्यम् ॥१॥ आम्नायते आम्नायः ॥२॥ सम्यक् प्रदीयते सम्प्रदायः ॥३॥गुरोः क्रमो गुरुक्रम: ॥४॥८॥
व्रतादानं परिव्रज्या तपस्या नियमस्थितिः __ व्रतं शास्त्रविहितो नियमस्तस्यादानं व्रतादानम् ॥१॥ परिव्रजनं परिव्रज्या । प्रवज्यापि । “आस्यटिव्रज्यजः क्यप् "॥५:३९७॥ इति क्यप् ॥२॥ तपसः करणं तपस्या "तपसः क्यन् ॥३॥४॥३६॥ इति क्यनि “शंसिप्रत्ययात्' ॥५।३।१०५॥ इति अः ॥३॥ नियमे व्रतेऽवस्थानं नियमस्थितिः ॥ ४॥ ___अहिंसासूनृतास्तेयब्रह्माकिञ्चनता यमाः ।।८१॥
हिंसा प्राणव्यपरोपणं तदभावोऽहिंसा ॥ १॥ सूनृतं प्रियं सत्यं च वचः ॥२॥ तेयमदत्तादानं तदभावोऽस्तेयम् ॥३॥ ब्रह्मेति ब्रह्मचर्य मैथुनत्यागः॥४॥ अकिञ्चनता परिग्रहत्यागः ॥५॥ यम्यते चित्तमेभिरिति यमाः ॥ ८१ ॥
नियमाः शौचसन्तोषौ स्वाध्यायतपसी अपि ।
देवताप्रणिधानं च नियम्यते चित्तमेभिर्नियमाः । शुर्भावः कर्म वा शौचं कायमनसोः शुद्धिः . ॥१॥ सन्तोष: सन्निहितसाधनादधिकस्याऽनुपादित्सा ॥२॥ वकीयमध्ययनं स्वाध्यायो १ एकम् । २ एकम् । ३ एकम् । ४ एकम् । ५ शौचं सन्तोषः इत्यपि पाठः।
Page #27
--------------------------------------------------------------------------
________________
१ देवाधिदेवकाण्डः ।
२७
मोक्षशास्त्राध्ययनं प्रणवजपो वा ॥ ३ ॥ तप्यते तदिति तपश्चान्द्रायणादि ॥ ४ ॥ देवताया वीतरागस्य प्रणिधानमात्मना सर्वतः सम्भेदः ॥ ५॥
करणं पुनरासनम् ॥८२॥ क्रियते मनोऽवश्यमनेन करणम् ॥ १ ॥ आस्यतेऽनेन आसनं पद्मासनादि ॥ २ ॥ ८२ ॥
प्राणायामः प्राणयमः श्वासप्रश्वासरोधनम् । प्राणस्य आयमनं प्राणायामः ॥१॥ प्राणस्य यमनं प्राणयमः ॥२॥ सत्यासने बाह्यस्य वायोराचमनं श्वासः, कोष्ठ्यस्य वायोनिःश्वसनं प्रश्वासः, तयो रोधनं गति
च्छेदः ॥
प्रत्याहारस्त्विन्द्रियाणां विषयेभ्यः समाहृतिः ॥८॥ . प्रतीपमाहरणं विषयेभ्यः इन्द्रियाणां प्रत्याहारः ॥ १ ॥ ८३ ॥
धारणा तु कचिद्धयेये चित्तस्य स्थिरबन्धनम् । धारणं धारणा क्वचिदिति देवतादौ ध्यातव्ये चित्तस्य स्थिरो बन्धः स्थैर्यमिति यावत् ॥
ध्यानं तु विषये तस्मिन्नेकप्रत्ययसन्ततिः ॥८४॥ ध्यायते ध्यानं विषये तस्मिन्निति देवतादौ ध्येये एका प्रत्ययान्तरेणापरामृष्टा प्रत्ययस्य ध्येयालम्बनस्य सन्तति: सदृश: प्रवाह इति ॥ ८४ ॥
समाधिस्तु तदेवार्थमात्राभासनरूपकम् । । सम्यगाधीयते समाधिः तदेव ध्यानमेवार्थमात्राभासनरूपं ध्येयाकारनिर्भासात्मकं ध्येयखभावावेशात् ॥
उपसंहारमाह• एवं योगो यमाद्यङ्गैरष्टभिः सम्मतोऽष्टधा ॥८५॥ स्पष्टम् ॥ ८५॥
श्वःश्रेयसं शुभशिवे कल्याणं श्वोवसीयसं श्रेयः । क्षेमं भावुकभविककुशलमङ्गलभद्रमद्रशस्तानि ॥८६॥
, एकम् । २ एकम् । ३ एकम् ।
Page #28
--------------------------------------------------------------------------
________________
.२८
अभिधानचिन्तामणौ
. शोभनं श्रेयः श्वःश्रेयसं, श्व आगामि श्रेयो वा। "निसश्च श्रेयसः” ॥७॥३॥ १२२॥ इत्यत्समासान्तः ॥१॥ शोभते शुभम् ॥२॥ शेतेऽशुभमनेन शिवम् ॥ ३ ॥ कल्यते धार्यते कल्याणम् । “कल्याणपर्याणादयः" ॥ (उणा-१९३ )॥ इत्याणान्तो निपात्यते, कल्यं नीरुजत्वमणतीति वा ॥४॥ वसुमच्छब्दादीयसौ मतोरन्त्यखरादेश्च लोपे वसीयः शोभनं वसीयः श्वोवसीयसं,श्व आगामि वसीयो वा "श्वसो वसीयसः” ॥७।३।१२१॥ इत्यत्समासान्तः॥५॥ अतिशयेन प्रशस्यं श्रेयः ॥६॥ क्षीयन्ते क्लेशा . अनेन क्षेमं पुंक्लीबलिङ्गः । “अर्तीरि"॥ (उणा-३३८) ॥ इति मः ॥७॥ भवनशीलं भावुकम् ॥ ८ ॥ भवोऽस्त्यस्य भविकम् ॥ ९॥ कुश्यति पुण्यात्मना सम्बध्यते कुशलम् । “ तृपिवपिकुपिकुशि"-॥ (उणा-४६८) ॥ इत्यलक् । कुशं लातीति वा ॥ १० ॥ मङ्ग्यते सेव्यते मङ्गलम् । मृदिकन्दि-॥ ( उणा-४६५) ॥ इत्यलः ॥ ११ ॥ भन्दते भद्रं “भन्देर्वा" ॥ ( उणा-३९१ )॥ इति रो नलुक् च, भन्द्रमपि ॥ १२ ॥ माद्यति हृष्यत्यनेन मद्रम् । “भीवृधि"-॥ ( उणा-३८७ )॥ इति रः ॥ १३ ॥ शस्यते स्तूयते इति शस्तम् । प्रशस्तमित्यपि ॥ १४ ॥ शेषश्चात्र “भद्रे भव्यं काम्यं सुकृतसूनृते” ॥ ८६ ॥ इत्याचार्यश्रीहेमचन्द्रविरचितायां खोपज्ञाभिधानचिन्तामणिनाममालाटीकायां
देवाधिदेवकाण्डः प्रथमः ॥ १॥
अर्हम्
अथ देवकाण्डः ।
- अथ द्वितीयं देवकाण्डं व्याख्यायते । तत्र देवानामाश्रयः खर्ग इति प्रथम खर्गनामान्युच्यन्ते
स्वस्त्रिविष्टपं द्योदिवौ भुविस्तविषताविषौ नाकः। .
गौस्त्रिदिवमूर्ध्वलोकः सुरालयः
खर्यते सुखहेतुतया कथ्यते इति स्वर्गः “गम्यमिरमि"-॥ (उणा-९२) ॥ इति गः । सुष्टु अर्यते इति वा भावाकोंर्घञ् ॥ १॥ तृतीयं विष्टपं त्रिविष्टपम् । "भूर्भुवःस्वः” इति श्रुतेः, अत्र मयूरव्यंसकादित्वात्समासे पूरणप्रत्ययलोपः। त्रिपिष्ट--पमिति-प्राच्याः, ते हि प्रायेण पवौ शसौ च व्यत्यस्य पठन्ति ॥ २॥ युंक् अभिगमे द्यौति अभिगच्छति अमूं सुरजन इतिः "शुगमिभ्यां डोः” ॥ (उणा-८६७) ॥
Page #29
--------------------------------------------------------------------------
________________
... २ देवकाण्डः।
२९
इति डोप्रत्यये; द्योशब्द ओकारान्तः ॥ ३ ॥ दीव्यन्त्यस्यां देवा इति “दिवेर्डिव्" ॥ ( उणा-९४९ ) ॥ इति डिवप्रत्यये दिवशब्दो वन्तः ॥ द्वयोरपि सौ द्यौः स्त्रीलिङ्गः ॥ ४ ॥ भवत्यस्यां सुखमिति “तुभूस्तुभ्यः कित्" ॥ (उणा-९९६) ॥ इति इस्प्रत्यये भुविः स्त्रीलिङ्गः यद्वाचस्पतिः- “त्रिपिष्टपं देवलोको भुविः स्त्री द्योदिवौ स्त्रियौ" ॥५॥ तव गताविति सौत्रो धातुः तव्यते शुभकर्मवशादस्मिन्निति “तवेर्वा ॥ ( उणा-५५० ) ॥ इति वा णिति इषे तविषः ताविषः ॥ ६॥ ७ ॥ नास्मिन्नकं दुःखमस्तीति नाकः पुंक्लीबलिङ्गः । नखादित्वात् “ अन् खरे" ॥३।२।१२९॥ इत्यन् न भवति । न आकम्यते अभिलष्यते नास्तिकैरिति “ नञः क्रमिगमि”- ॥ ( उणा-४)॥ इति डिति अप्रत्यये वा नाकः ॥ ८ ॥ गच्छन्त्याश्रयन्ति देवास्तामिति “युगमिभ्यां डोः ॥ ( उणा-८६७) ॥ इति डोप्रत्यये गौः स्त्रीपुंसलिङ्गः ॥९॥ तृतीयं दिवं लोकस्त्रिदिवम् । पुंक्लीबलिङ्गः । मयूरव्यंसकादित्वात् समासस्तीयलोपश्च । अत्र दीव्यन्त्यस्मिन्निति घअर्थे "स्थादिभ्यः कः"॥५॥३॥८२॥ इति कप्रत्यये दिवमिति सिद्धम् ॥ १० ॥ ऊर्ध्वश्चासौ लोकश्च ऊर्ध्वलोकः ॥ ११॥ सुराणामालय आवासः सुरालयः ॥ १२ ॥ अस्य यौगिकत्वात् त्रिदशावासदेवलोकप्रभृतयो गृह्यन्ते । शेषश्चात्र
"फलोदयो मेरुपृष्ठं वासवावाससैरिको।
दिदिविर्दीदिविर्युश्च दिवं च खर्गवाचकाः" ॥१॥ खरव्ययेषु वक्ष्यते ॥ अथ देवनामानि
तत्सदस्त्वमराः ॥१॥ देवाः सुपर्वसुरानर्जरदेवतर्भुबर्हिर्मुखानिमिषदैवतनाकिलेखाः ।
वृन्दारकाः सुमनसस्त्रिदशा अमर्त्याः ‘खाहास्वधाक्रतुसुधाभुज आदितेयाः ॥२॥
गीर्वाणा मरुतोऽस्वप्ना विबुधा दानवारयः । तत्सद इति तच्छब्देन स्वर्गः परामृश्यते । तत्र सीदन्तीति तत्सदः स्वर्गसदः “क्विप्॥५।१।१४८॥ इति क्विप् । यौगिकत्वात् द्युसद्मान इत्यादयः ॥ १॥ न म्रियन्त इत्यमराः अमरशब्दश्चिरस्थायित्वादिलक्षणया देवेषु यौगिको रूढश्च ॥२॥ ॥१॥ दीव्यन्ति क्रीडन्तीति देवाः “लिहादिभ्यः"॥५।१।५०॥ इत्यच् ॥ ३ ॥
Page #30
--------------------------------------------------------------------------
________________
३०
अभिधानचिन्तामणौ
शोभनं पर्व चरितमुत्सवो वा येषां ते सुपर्वाणः ॥ ४ ॥ सुरत् ऐश्वर्यदीप्त्योः सुरन्तीति सुराः । “नाम्युपान्त्य - " ॥ ५|१|५४ ॥ इति कः । सुन्वन्तीति वा "ऋज्यजितञ्चि - " ॥ ( उणा - ३८८ ) ॥ इत्यादिना कित् रः । सुष्ठु राजन्त इति वा "क्वचित्” ॥५।१।१७१ ॥ इति ङः । सुरा एषामस्तीति वा “ अभ्रादिभ्यः”॥७॥२॥४६॥ इत्यप्रत्ययः । यतोऽधिजा सुरा तैः पीतेति प्रसिद्धिः ॥ ५ ॥ निष्क्रान्ता जराया निर्जराः सदायौवनत्वात्तेषाम् ॥ ६ ॥ देवा एव देवताः स्त्रीलिङ्गः “देवात्तल्” ॥ ७।२।१६२॥ इति तल् ॥ ७ ॥ रभन्ते पुण्यकार्येषु उत्सुका भवन्तीति ऋभवः । “रभिप्रथिभ्यामृच्च रस्य” ॥ ( उणा - ७३० ) ॥ इति उप्रत्ययः । ऋशब्दोऽदितिवाची ततो भवन्तीति वा "केवयुभुरण्" - ॥ ( उणा - ७४६ ) ॥ इति डुः ॥ ८ ॥ बर्हिरग्निर्मुखमेषां बर्हिर्मुखाः ॥ ९ ॥ न निमिषन्तीत्यनिमिषाः ॥ १० ॥ देवता एव दैवताः पुंक्लीबलिङ्गः “ प्रज्ञादिभ्योऽण् ” ॥ ७|२| १६५॥ इत्यण् ॥ ११ ॥ नाक: स्वर्गो विद्यते येषां ते नाकिनः । यौगिकत्वात् स्वर्गिणः, त्रिदिवाधीशा इत्यादयोऽपि -॥ १२ ॥ लिख्यन्ते चित्रादौ ध्यानार्थमिति लेखा:, हस्तादौ प्रशस्ता लेखाः सन्त्येषामिति वा अभ्रादित्वादः || १३ || प्रशस्तं वृन्दमस्त्येषां वृन्दारकाः “वृन्दादारकः ॥७|२|११॥ इत्यारकः ॥ १४ ॥ शोभनं मनो येषां ते सुमनसः सङ्कल्पमात्रेण लब्धसिद्धित्वात्, मलिनसङ्कल्पाभावाद्वा । सुष्ठु मान्यन्ते इति वा “विहायस्सु मनस् " - ॥ (उणा- ९७६)॥ इत्यसन्तो निपात्यते ॥ १५ ॥ त्रिर्दश त्रिदशाः “प्रमाणीसंख्याड्डः ॥७॥ ३।१२८॥ इति ड:“त्रिंशादेता देवतास्त्रयस्त्रिंशदेतास्त्रिंशदक्षरा विराड्” इति श्रुतेः । तिस्रो दशा वयोऽवस्था येषां ते त्रिदशास्त्रिंशद्वर्षा मनुष्ययुवानः त्रिदशा इव त्रिदशा इति वा ॥ १६ ॥ न म्रियन्ते इत्यमर्त्याः “मृशीपसिवस्यनिभ्यस्तादिः " ॥ ( उणा३६०)॥ इति तकारादिर्यप्रत्ययः । म्रियन्त इति मर्त्ताः “लूम्रो वा”॥ ( उणा२०२) ॥ इति तप्रत्ययः मर्त्ता एव मर्त्याः " मर्त्तादिभ्यो यः ॥ ७२ ॥ १५९ ॥ इति स्वार्थे यः; न मर्त्त्या अमत्य इति वा ॥ १७ ॥ स्वाहास्वधाक्रतुसुधाभुज इति भुक्शब्दः स्वाहादीनां प्रत्येकं संबध्यते तेन स्वाहाभुजः, स्वधाभुजः, ऋतुभुजः, सुधाभुजश्च स्वाहा भुञ्जते इत्यादि कृत्वा । एषां यौगिकत्वात् स्वाहाशनाः, स्वधाशनाः, यज्ञाशनाः, अमृतान्धस इत्यादयोऽपि ॥ २१ ॥ न ददाति दुःखमित्यदितिः। “नञो दागो डितिः ॥ (उणा - ६६७ ) ॥ इति डितिः । अदितेयिमदिती, तस्या अपत्यानि आदितेयाः “ङयाप्त्यूङः”॥६।१।७०॥ इत्येयण् । यौगिकत्वादादित्याः, अदितिजाइत्यादयोऽपि ॥ २२ ॥ २ ॥ गीरेव वाणोऽत्रं येषां ते गीर्वाणाः ॥ २३ ॥ म्रियन्ते पुण्यक्षयाच्च्यवन्त इति मरुतः “म्र उत्" ॥ ( उणा - ८८९ ) ॥ इति उत् ॥ २४ ॥ नास्ति स्वप्नो निद्रा येषां ते अस्वनाः || २५ ॥ विबुध्यन्ते जानन्त्यवधिनेति विबुधाः ॥ २६ ॥ दानवानामरयो दानवारयः । यौगिकत्वात् दनुजद्विष इत्यादयः ॥ २७ ॥
Page #31
--------------------------------------------------------------------------
________________
शेषश्वात्र
२ देवकाण्डः ।
“निलिम्पाः कामरूपाश्च साध्याः शोभाश्चिरायुषः । पूजिता मर्त्यमहिताः सुबाला वायुभाः सुराः ॥ १ ॥
तथा -
"द्वादशार्का वसवोऽष्टौ बिश्वेदेवास्त्रयोदश । षट्त्रिंशत्तुषिताश्चैव षष्ठिराभाखरा अपि ॥ २ ॥ षट्त्रिंशदधिके माहाराजिकाश्च शते उभे । रुद्रा एकादशैकोनपञ्चाशद्वायवोऽपरे ॥ ३ ॥ चतुर्दश तु वैकुण्ठाः सुशर्माणः पुनर्दश । साध्याश्च द्वादशेत्याद्या विज्ञेया गणदेवताः” ॥ ४ ॥
तेषां यानं विमानः
तेषां देवानां यानं वाहनं देवयानं सुरयानमित्यादि । विमान्ति वर्त्तन्तेऽस्मिन् देवा इति विमान: पुंक्लीबलिङ्गः । व्योम्नि यान्त्यनेन व्योमयानमित्यपि । तेषां विमानो यानमिति संबन्धात् विमानयानाः, वैमानिकाः, विमानिका इत्यादीनि यौगिकान देवनामानि ज्ञेयानि ॥
तत्र भवनपतीनाह -
३१.
अन्धः पीयूषममृतं सुधा ॥३॥
"
तेषां देवानामन्धोऽन्नं भोज्यमाहार इति यावत् देवान्धो, देवान्नं, देवभोज्यं, देवाहार इत्यादि । पीयि सौत्रो धातुः पीय्यत इति पीयूषम् । “खलिफलि- 11 ( उणा - ५६० ) ॥ इत्यादिना ऊषः; पेयूषमित्यपि ॥ १ ॥ नास्ति मृतमत्रेत्यमृतम् ॥ २ ॥ सुष्ठु धीयते पीयत इति सुधा “ उपसर्गादात: " ॥५।३।११०॥ इत्यङ् ॥ ३ ॥ 'समुद्रनवनीतमपि । देवाश्च जैनसमये भवनपतिव्यन्तरज्योतिष्कवैमानिकभेदाश्चतुर्धा भवन्ति ॥ ३ ॥
असुरा नागास्तडितः सुपर्णका वह्नयोऽनिलाः स्तनिताः । उदधिपदिशो दश भवनाधीशाः कुमारान्ताः ॥ ४ ॥
दशेति दशसंख्या असुरादयः रत्नप्रभाया मध्ये भवन्तीति भवनानि आवासाः तेषामधीशा भवनाऽधीशाः कुमारान्ताः कुमारशब्दान्ताः । तेन असुरकुमाराः, नागकुमाराः, तडित्कुमाराः, सुपर्णकुमाराः, वह्निकुमाराः, अनिलकुमाराः, स्तनितकुमाराः, उदधिकुमाराः, द्वीपकुमाराः, दिक्कुमारा इत्युच्यन्ते । कुमारवदेते कान्तदर्शनाः
Page #32
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणौ
सुकुमाराः मृदुमधुरलालतगतयः शृंगाराभिजातरूपविक्रिया: कुमारवच्चोद्धतवेषभाषाभरणप्रहरणावरणयानवाहनाः । कुमारवच्चोल्वणरागाः क्रीडनपराश्चेत्यतः कुमाराइत्युच्यन्ते ॥ ४ ॥
अथ व्यन्तरानाह
३२
स्युः पिशाचा भूता यक्षा राक्षसाः किन्नरा अपि । किंपुरुषा महोरगा गन्धर्वा व्यन्तरा अमी ||५||
पिशाचादयोऽष्टौ विविधेषु शैलकन्दरान्तरवनविवरादिषु प्रतिवसन्तीति व्यन्तराः, वनानां समूहो वानं तस्यान्तरे भवन्तीति पृषोदरादित्वाद्वानमन्तरा इत्यपि ॥५॥ अथ ज्योतिष्कानाह—
ज्योतिष्काः पञ्च चन्द्रार्कग्रहनक्षत्रतारकाः ।
द्योतन्त इति ज्योतींषि विमानानि तान्यावासतया सन्त्येषां ज्योतिष्काः । व्रीह्यादिभ्यस्तौ’॥७॥२॥५॥ इतीक्प्रत्ययः । भाखरशरीरत्वात् समस्तदिग्मण्डलद्योतनाद् ज्योतींषि देवाः ज्योतींष्येव वा ज्योतिष्काः । पञ्चेति पञ्चसंख्या: पञ्चविधा इत्यर्थः । ते तु चन्द्रा अर्का ग्रहा नक्षत्राणि तारकाश्च ॥
वैमानिकानाह—
वैमानिकाः ः पुनः कल्पभवा द्वादश ते त्वमी || ६ || सौधर्मेशान सनत्कुमारमाहेन्द्रब्रह्मलान्तकजाः ।
शुक्रसहस्रारानतप्राणतजा आरणाच्युतजाः ॥ ७ ॥ कल्पातीता नव ग्रैवेयकाः पञ्च त्वनुत्तराः ।
विमानेषु भवा वैमानिकाः। अध्यात्मादित्वादिकण् । ते च द्विविधाः कल्पभवाः कल्पातीताश्च । इन्द्रादिदशतया कल्पनात् कल्पः समुदायः सन्निवेशो विमानमात्रपृथिवीप्रस्तारस्तत्र भवाः कल्पभवा द्वादश ते पुनरमी ॥ ६ ॥ सुधर्मा देवसभां साऽस्मिन्नस्तीति सौधर्मः कल्पः “तदत्रास्ति” ॥ ६ | २|७० ॥ इत्यण् । तत्र जाताः सौधर्मजाः, ईशानस्येन्द्रस्य निवासः ऐशानः कल्पस्तत्र जाता ऐशानजाः, एवं सनत्कुमारादिकल्पेषु जाताः सनत्कुमारजाः, माहेन्द्रजाः, ब्रह्मा ब्रह्मलोकोऽभिधीयते भीमो भीमसेनइंति न्यायादिति ब्रह्मजाः, लान्तकजाः, महाशुक्रजाः, सहस्रारजाः, आनतजाः, प्राणतजाः, आरणजाः, अच्युतजाः । अत्रार्यायां तु ब्रप्रारयोः पूर्वौ द्रतौ हादिसंयोगवर्जनात् गुरू न भवतः ॥७॥ कल्पानतीताः कल्पातीताः कल्पान् अतिक्रम्यो
Page #33
--------------------------------------------------------------------------
________________
- २ देवकाण्डः ।
३३
परि स्थिता इत्यर्थः । नवसंख्या नव, लोकपुरुषस्य प्रीवाप्रदेशविनिविष्टा ग्रीवाभरणभूता नैवेयकाः । “कुलकुक्षिणीवाच्छ्वास्यलङ्कारे" ॥६।३।१२॥ इत्येयकञ् । पञ्च त्विति पञ्चसंख्याः, न विद्यते उत्तरो येभ्यस्ते अनुत्तराः विजयवैजयन्तजयन्तापराजितसर्वार्थसिद्धनामानः ॥ उपसंहारमाह
निकायभेदादेवं स्युर्देवाः किल चतुर्विधाः ॥ ८॥ एवमुक्तप्रकारेण, देवा भवनपत्यादयः चतुर्विधा निकायभेदात् निकायो निवास उत्पादस्थानं तद्भेदात् । तथाहि- भवनपतयोऽशीतिसहस्राधिकयोजनलक्षपिण्डायां रत्नप्रभायामूर्ध्वमधश्च योजनसहस्रमेकैकमपहाय जन्माऽऽसादयन्ति । व्यन्तरास्तस्या एवोपरि यत्परित्यक्तं योजनसहस्रं तस्याध ऊवं च योजनशतमेकैकमपहाय मध्येऽष्टसु योजनशतेषु जन्म प्रतिलभन्ते । ज्योतिष्कास्तु समतलाद् भूभागात् सप्त शतानि नवत्यधिकानि योजनानामारुह्य दशोत्तरयोजनशतपिण्डे नभोदेशे लोकान्तात् किश्चिन्न्यूने जन्म गृह्णन्ति । वैमानिका रज्जुमध्य‘मधिरुह्याऽतः सौधर्मादिषु कल्पेषु सर्वार्थसिद्धविमानपर्यवसानेषूत्पद्यन्ते, तदेवमुत्पादनिवासभेदाच्चतुर्विधा देवाः। स्वधामसूत्पन्ना भवनपत्यादयोऽन्यत्रापि लषणजलधिमन्दरवर्षधराद्रिद्रुमगहनप्रभृतिषु वसन्ति । उक्तस्थानव्यतिरेकेणान्यत्रैषामुत्पादो जन्म नास्तीति निवासार्थः, सङ्घार्थो वा निकायशब्दः ॥ ८॥ अथ देवविशेषनामान्याह
आदित्यः सवितार्यमा खरसहस्रोष्णांशुरंशू रविमार्तण्डस्तरणिर्गभस्तिररुणो भानुर्नभोऽहर्मणिः ।
सूर्योऽर्कः किरणो भगो ग्रहपुषः पूषा पतङ्गः खगो - मार्ताण्डो यमुनाकृतान्तजनकः प्रद्योतनस्तापनः ॥९॥ बध्नो हंसश्चित्रभानुर्विवस्वान्सूरस्त्वष्टा द्वादशात्मा च हेलिः । मित्रो ध्वान्तारातिरब्जांशुहस्तश्चक्राब्जाहर्बान्धवः सप्तसप्तिः ॥१०॥ दिवादिनाहर्दिवसप्रभाविभाभासः करः स्यान्मिहिरो विरोचनः । ग्रहाब्जिनीगोधुपतिर्विकर्तनो हरिः शुचीनौ गगनाद्धजाध्वगौ॥११॥
हरिदश्वो जगत्कर्मसाक्षी भास्वान्विभावसुः । - त्रयीतनुर्जगच्चक्षुस्तपनोऽरुणसारथिः ॥१२॥
Page #34
--------------------------------------------------------------------------
________________
.. अभिधानचिन्तामणौ
____ अदितेरपत्यं लोकरूड्या आदित्यः । “ अनिदमि-"॥६।१।१५॥ इत्यादिना ज्य: ॥१॥ सूते प्रकाशं सविता ॥२॥ अरीनामयति अर्यमा “श्वन्मातरिश्वन्"-॥ (उणा-९०२) ॥ इत्यादिना अनन्तो निपात्यते ॥३॥ खराः, सहस्रम् , उष्णाश्चांशवो यस्य खरसहस्रोष्णांशुः खरांशुः, सहस्रांशुः, उष्णांशुः; यौगिकत्वात् खररश्मिः, दशशतरश्मिः, शीतेतररश्मिरित्यादयोऽपि ॥६॥ अश्नुते यां अंशुः “अशेरानोऽन्तश्च" ॥(उणा-७१९) ॥ इति उनॊऽन्तश्च ॥ ७ ॥ रूयते स्तूयते रवि: "खरेभ्य इः" ॥ (उणा-६०६) ॥ इति इः॥८॥ मृतण्डस्यापत्यं मार्तण्ड: "ऋषि-"॥६।१।६१॥ इत्यादिनाऽण् ॥९॥ तरन्यनेन तम इति तरणिः पुंस्त्रीलिङ्गः । “ऋहसू-'॥ (उणा-६३८)। इत्यादिना अणिः ॥१०॥गृध्यते अभिकाझ्यते लोकैरसाविति गभस्ति: “गृधेर्गभच" ॥ (उणा-६६१)॥ इति अस्तिक् गृधेर्गभादेशश्च, गां बभस्ति दीपयतीति वा पृषोदरादित्वात् ॥११॥ अरुणः सारथिरस्यास्तीत्यरुणः । अभ्रादित्वादप्रत्ययः, अरुणवर्णत्वाद्वा अरुणः ॥१२॥ भातीति भानुः “दाभाभ्यां नुः"॥ (उणा-७८६) ॥ इति नुः ॥१३॥ नभोऽहोमणि भोऽहमणिः मणिशब्दः प्रत्येक संबध्यते तेन नभोमणिः, अहमणिः । यौगिकत्वायोमरत्नं, दिनरत्नमित्यादि ॥१४॥१५॥ सरति सुवति वा कर्मसु लोकानिति सूर्यः । “कुप्यभिद्य-"॥५।१।३९॥ इत्यादिना कृत्रिपातः । सूर एव वा सूर्यः मादित्वाद्यः ॥१६॥ अय॑ते स्तूयते इत्यर्क: । अर्च्यत इति वा “भीण्शलि-" ॥(उणा-२१)॥ इति कः ॥१७॥ किरति तमांसीति किरणः । “कृगपृकृपिवृषिभ्यः कित्-" ॥ (उणा-१८८) ॥ इत्यणः ॥१८॥ भज्यते आश्रीयते अनेन कृत्वा लोकैरालोक इति भगः । “गोचरसञ्चर-" ॥५॥३।१३१॥ इत्यादिना घः ॥१९॥ ग्रहान् पुष्णातीति ग्रहपुष: । “मूलविभुजादयः" ॥५।१।१४४॥ इति कः ॥ आदित्यो हि सुषुम्णाभिर्नाडिभिर्ग्रहान् पुष्णाति ।
यद्याडि:- “सुषुम्णाद्याश्च नाड्योऽस्य पुष्णन्ति सततं ग्रहान्" ॥२०॥
पूषति वर्द्धते ऋतुभेदादश्मिभिरिति “ उक्षितक्षि-" ॥ (उणा-९०० ) ॥ इत्यादिना अनि पूषा । यद्याडि:
"ऋतुभेदात् पुनस्तस्यातिरिच्यन्तेऽपि रश्मयः । शतानि द्वादश मधौ त्रयोदशैव माघवे ॥ १॥ चतुर्दश पुनज्येष्ठे नभोनभस्ययोस्तथा । पञ्चदशैव त्वाषाढे षोडशैव तथाश्विने ॥ २ ॥ कार्तिकके त्वेकादश शतान्येवं तपस्यपि । मार्गे तु दश सार्द्धानि शतान्येवं च फाल्गुने ॥ ३ ॥
Page #35
--------------------------------------------------------------------------
________________
२ देवकाण्डः ।
पौष एव परं मासि सहस्रं किरणा रवेः " ॥ २१ ॥
""
""
"
पतति गच्छति व्योम्नीति पतङ्गः । “पतितमि " ॥ ( उणा - ९८ ) ॥ इत्यादिना अङ्गः, पतः सन् गच्छतीति वा "नाम्रो गमः खड्डौ च ॥५।१।१३१ ॥ इत्यादिना खड् ॥२२॥ खे गच्छतीति डे खगः ॥२३॥ मृतमण्डमस्येति मृताण्ड: । "मृतमण्डमजायत " इति श्रुतेः । तस्यापत्यमृष्यणि मातीण्डः ॥ २४ ॥ यमुनायाः, कृतान्तस्य च जनकः यमुनाजनकः, कृतान्तजनकः । यौगिकत्वात्कालिन्दीसूः, यमसूरित्यादयोऽपि ॥ २५ ॥ २६॥ प्रद्योतते प्रद्योतनः ॥ २७॥ तापयतीति तापनः नन्द्यादित्वादनः ॥ २८ ॥ ९ ॥ बध्नाति तेजसा दृष्टीरिति ब्रघ्नः “दिननग्न-" ॥ (उणा - २६८ ) ॥ इत्यादिना निपातः ॥२९॥ हन्ति तमो हंसः “मावावद्यमि-”॥ (उणा - ५६४) ॥ इत्यादिना स: ॥३०॥ चित्रा नानाप्रकारा भानवो यस्य चित्रभानुः ॥ ३१ ॥ विवस्तेजोऽस्यास्तीति विवस्वान् मतुः ॥ ३२ ॥ तेज इति सूरः ऋज्यजि " - ॥ ( उणा - ३८८ ) ॥ इत्यादिना रक् । तालव्यादिरित्यन्ये ॥ ३३ ॥ त्वेषति दीप्यते त्वष्टा “त्वष्टृक्षत्तदुहित्रादयः ( उणा - ८६५ ) ॥ इति निपातनात् ॥ ३४ ॥ द्वादशात्मानो रूपाण्यस्य द्वादशात्मा । द्वादशादित्या इति रूढिः ॥ ३५ ॥ हेलयति क्रीडयत्यंशू निति हेलि: । “ खरेभ्यइ: ” ॥ ( उणा-६०६ ) ॥ इति इ: ॥ ३६ ॥ मेद्यति मित्रः “ चिमिदिशंसिभ्यः कित्" ॥ ( उणा - ४५४ ) ॥ इति त्रः ॥ ३७ ॥ ध्वान्तस्यारातिर्ध्वान्तारातिः । यौगिकत्वात्तिमिरारिरित्यादयः ॥ ३८ ॥ अब्जानि अंशवश्च हस्ते यस्य स तथा अब्जहस्तः, अंशुहस्तः । यौगिकत्वात् पद्मपाणिः, गभस्तिपाणिरित्यादयः ॥ ३९॥४०॥ चक्रस्याब्जस्याह्रश्च बान्धवः चक्रबान्धवः, अब्जबान्धवः, अहर्बान्धवः । यौगिकत्वात् चक्रवाकबन्धुः, पद्मबन्धुः, दिनबन्धुरित्यादयः ॥४१॥ ४२ ॥ ४३ ॥ सप्तसंख्याः सप्तयो यस्य सप्तसप्तिः । यौगिकत्वाद्विषमाश्व इत्यादयः । सप्तभिर्नामभिरुपलक्षितोऽश्वो यस्येति वा सप्तसप्तिः । यद्वेदे “ सप्त युञ्जन्ति रथमेकचक्रमेकोऽश्वो वहति सप्तनामा " ||४४ ॥ १० ॥ दिवादिभ्यः सप्तभ्यः शब्देभ्यः करशब्दः तेन दिवाकरः, दिनकरः, अहस्करः, दिवसकरः, प्रभाकरः, विभाकरः, भास्करः । दिवा करोतीत्यादिव्युत्पत्तौ ‘“संख्याहर्दिवा-”॥५।१।१०२॥ इत्यादिना टः । यौगिकत्वाद्वासरकृद्, दिनप्रणीः, दिनकृदित्यादयः ॥ ५१ ॥ मेहति सिञ्चति मिहिरः “ शुषीषि - " ॥ ( उणा - ४१६)॥ इत्यादिना इरक् " आदित्याज्जायते वृष्टिः" इति हि स्मृतिः ॥ ५२ ॥ विरोचते इति विरोचनः नन्द्यादित्वादन: ॥ ५३ ॥ प्रहाणामब्जिनीनां गवां दिवां च पतिः ग्रहपतिः, अब्जिनीपतिः, गोपतिः, ग्रुपतिः । यौगिकत्वात् प्रशः, पद्मिनशिः, त्विषामीशः, दिनेश इत्यादयोऽपि ॥ ५७ ॥ विकृन्तत्यात्मानं, विविधं कर्त्तनमस्येति वा विकर्तनः चक्रभ्रमेण तेजः शातनात् ॥ ५८ ॥ हरति तमांसीति हरिः । " खरेभ्यइः” ॥ ( उणा - ६०६ ) ॥ इति इः ॥ ५९ ॥ शोचत्यस्मिन्नुलुक इति शुचिः ।
((
३५
Page #36
--------------------------------------------------------------------------
________________
३६
अभिधानचिन्तामणौ
नाम्युपान्त्यत्वादिः कित् ॥ ६० ॥ एति इनः " जीणशीदीबुध्यविमीभ्यः कित्” ॥ ( उणा - २६१) ॥ इति नः ॥ ६५ ॥ गगनशब्दाद् ध्वजशब्दोऽध्वगशब्दश्च गगनध्वजः, गगनाध्वगः । यौगिकत्वान्नभः केतनः, नभः पान्थ इत्यादयः ॥ ६२॥६३॥११॥ हरितो नीला अश्वा अस्य हरिदश्वः ॥ ६४ ॥ जगतः, कर्मणां च साक्षी जगत्साक्षी, कर्मसाक्षी च ॥ ६६ ॥ भासः सन्त्यस्य भाखान् । यौगिकत्वादंशुमान, अंशुमालीत्यादयः ॥ ६७ ॥ विभा दीप्तिर्वसु घनमस्य विभावसुः ॥ ६८ ॥ त्रयो वेदास्त्रयी सा तनुरस्य त्रयीतनुः । " त्रयीतेजोमयो भानुः" इति स्मृतेः ॥ ६९ ॥ जगतां `चक्षुर्जगन्चक्षुः प्रकाशकत्वात् ॥ ७० ॥ तपतीति तपनः नन्द्यादित्वादनः ॥ ७१ ॥ अरुणः सारथिरस्यारुणसारथिः ॥ ७२ ॥ शेषश्चात्र
“सूर्ये वाजीलोकबन्धुर्भानेमिर्भानुकेसरः । सहस्राङ्को दिवापुष्टः कालभृद्रात्रिनाशनः ॥ १ ॥ पपीः सदागतिः पीतुः सांवत्सररथः कपिः । दृशानः पुष्करो ब्रह्मा बहुरूपश्च कर्णसूः ॥ २ ॥ वेदोदयः खतिलकः प्रत्यूषाण्डं सुरावृतः । लोकप्रकाशनः पीथो जगद्दी पोऽम्बुतस्करः " ॥ ३ ॥ १२ ॥
रोचिरुत्ररुचिशोचिरंशुगोज्योतिरर्चिरुपधृत्यभीशवः । प्रग्रहः शुचिमरीचिदीप्तयो धाम केतुवृणिरश्मिपृश्नयः ॥ १३॥ पाददीधितिकरद्युतितो रुग्विरोकाकरणत्विषित्विषः । भाः प्रभावसुगभस्तिभानवो भा मयूखमहसी छविर्विभा ॥ १४ ॥
रोचत इति रोचिः क्लीबलिङ्गः “ रुच्यर्चि -” ॥ ( उणा - ९८९ ) ॥ इत्यादिना इस् ॥ १ ॥ वसन्त्यस्मिन् रसा इत्युखः “ ऋज्यजि - " ॥ ( उणा - ३८८ ) ॥ इत्यादिना रः कित् ॥ २ ॥ रोचते रुचिः स्त्रीलिङ्गः । नाम्युपान्त्यत्वादिः कित् ॥ ३ ॥ शोचति तमोऽस्मिन्निति इसि शोचि : क्लीबलिङ्गः || ४ || अश्नुते द्यामित्यंशुः पुंलिङ्गः ॥ ५ ॥ गच्छत्यस्मात्तम इति गौः पुंस्त्रीलिङ्गः ॥ ६ ॥ द्योतते ज्योतिः क्लीबलिङ्गः। “द्युतेरादेश्व जः " ॥ ( उणा - ९९१) ॥ इति इस् ॥ ७ ॥ अर्च्यत इति इसि अर्चिः स्त्रीक्लीबलिङ्गः ॥ ८ ॥ उपध्रियते अवतिष्ठते रसोऽस्मिन्निति उपधृतिः । “दृमुषि - " ॥ ( उणा - ६५१) ।। इत्यादिना बहुवचनात् तिः कित् ॥९॥ अभ्यश्नाति तमांसीत्यभीशुः पुंलिङ्गौ । “केवयुभुरण्य्वध्वर्वादयः " ॥ ( उणा - ७४६ ) ॥ इति उदन्तो निपात्यते । अभीषुरिति गौडः ॥ १० ॥ प्रगृह्यतेऽनेनेति अलि प्रग्रहः ॥ ११ ॥ शुचिर्नैर्मल्याSesx शोचतीति शुचिः पुंलिङ्गः कित् इः ॥ १२ ॥ म्रियते तमोऽस्मिन्निति मरीचिः
Page #37
--------------------------------------------------------------------------
________________
.२ देवकाण्डः।
पुंस्त्रीलिङ्गः! "मृश्विकण्याणिदध्यविभ्य ईचिः" ॥(उणा-६२७)॥ इति ईचिः ॥ १३ ॥ दीप्यतेऽनयेति दीप्तिः स्त्रियां क्तिः ॥ १४ ॥धीयते धाम “मन्" ॥ (उणा-९११)॥ इति मन् ॥ १५ ॥ चाय्यते पूज्यते केतुः “चायः के च-" ॥ (उणा-७७८)॥ इति तुः ॥ १६ ॥ घरति घृणिः “ऋघृसृकुवृषिभ्यः कित्" || ( उणा-६३५)॥ इति णिः ॥ १७ ॥ अश्नुते द्यामिति रश्मिः, एते त्रयः पुंलिङ्गाः “अशो रश्चादिः" ॥ (उणा-६८८)॥ इति मिः ॥ १८॥ पृच्छयते पृश्निः पुंस्त्रीलिङ्गः “लूधूप्रच्छिभ्यः कित्" ॥ ( उणा-६७९)॥ इति निः, पृष्णिरित्येके, वृष्णिरित्यन्ये ॥१९॥१३॥ प्रद्यतेऽनेन पादः ॥ २० ॥ दीधीयते दीप्यतेऽस्या दीधितिः स्त्रियां क्तिः ॥२१॥ कीर्यते करः अल् ॥ २२ ॥ द्योतते युति: स्त्रीलिङ्गः ॥ २३ ॥ द्योतनं द्युत् । "कुत्संपदादिभ्यः क्विप्" ॥५।३।११४॥ इति क्विप् ॥ २४ ॥ रोचनं रुक् ॥ २५ ॥ विरोचतेऽनेन विरोकः ॥ २६ ॥ किरणः प्राग्वत् ॥ २७ ॥ त्वेषते त्विषिः स्त्रीलिङ्गः ॥ २८ ॥ त्वेषणं त्विट् ॥ २९ ॥ भासते भाः पुंस्त्रीलिङ्गः ॥ ३० ॥ प्रभानं प्रभा ॥ ३१ ॥ वसति वाविति वसुः । “भृमृतत्सरि-" ॥ (उणा-७१६) ॥ इत्युः॥३२॥ गभस्तिभानू पूर्ववत् त्रयोऽपि पुंलिङ्गाः ॥ ३४ ॥ भानं भा "मृगयेच्छा-"॥५॥३॥ १०१॥ इत्यादिना निपात्यते ॥ ३५ ॥ मयते विस्तारं गच्छति मयूखः । “ मयेधिभ्यामूखेखौ" ॥ ( उणा-९१) ॥ इत्यूखः ॥ ३६ ॥ मह्यते महः । “अस्" ॥ (उणा-९५२)॥ इत्यस् ॥ ३७ ॥ छथति तम इति च्छविः स्त्रीलिङ्गः । “छविच्छिवि-"॥ (उणा-७०६ ॥ इत्यादिना निपात्यते ॥३८॥ विभानं विभा ॥३९॥१४॥
प्रकाशस्तेज उद्दयोत आलोको वर्च आतपः । प्रकाशते प्रकाशः ॥ १॥ तेजयति तेजः ॥ २ ॥ उद्योतते उद्द्योतः॥ ३ ॥ आलोकते जनोऽनेनेत्यालोकः ॥४॥ वर्चते दीप्यते वर्चः ॥५॥ आतपति आतपः । द्योत इत्यपि ॥ ६॥
मरीचिका मृगतृष्णा ___ मरीचिप्रतिकृतिमरीचिका । “तस्य तुल्ये कः संज्ञाप्रतिकृत्योः॥१॥१०॥ इति कः । ग्रीष्मे हि सिकताखर्ककराः प्रतिफलिता जलत्वेनाभान्ति, अत एव मरुमरीचिकेत्युच्यते ॥१॥ मृगाणां तृष्णाऽस्यां मृगतृष्णा ॥२॥
मण्डलं तूपसूर्यकम् ॥ १५॥
परिधिः परिवेषश्च मण्डयति मण्डलं त्रिलिङ्गः “मृदिकन्दि-"॥ ( उणा-४६५)॥ इत्यादिना अलः ॥१॥ समीपे सूर्यस्य प्रतिकृतिरुपसूर्यकं क्लीबम् ॥२॥१५॥ परितो धीयते परिधिः
Page #38
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणौ
पुंलिङ्गः “उपसर्गाद: किः॥५॥३॥८७॥ इति किः ॥३॥ परितो विष्यते व्याप्यतेऽनेन परिवेषः ॥ ४॥
सूरसूतस्तु काश्यपिः।
अनूरुर्विनतासूनुररुणो गरुडाग्रजः॥१६॥ सूरस्य सूतः सूरसूतः। यौगिकत्वाद्रविसारथिरित्यादयः ॥ १॥ कश्यपस्यापत्यं काश्यपिः ऋष्यणं बाधित्वा “बाह्वादिभ्यो गोत्रे"॥६।१।३२॥ इतीञ् ॥२॥ न विद्यते ऊरू अस्य अनूरुः ॥३॥ विनतायाः सूनुर्विनतासूनुः यौगिकत्वाद्वैनतेय इत्यादयः ॥४॥ अरुणवर्णत्वादरुणः ॥५॥ गरुडस्याग्रजो गरुडाग्रजः ॥ ६॥ शेषश्चात्र-“अरुणे विपुलस्कन्धो महासारथिराइमनः” ॥ १६ ॥
रेवन्तस्त्वर्करेतोजः प्लवगो हयवाहनः । रेवते गच्छति हयेनेति रेवन्तः। “तृजिभूवदि-" ॥ (उणा-२२१)॥ इत्यादिना अन्तः ॥१॥ अर्करेतसो जातः अर्करेतोजः । “अजातेः पञ्चम्याः" ॥५।१।१७०॥ इति डः ॥२॥ प्लवमानो गच्छति प्लवगः ॥३॥ हयो वाहनमस्य हयवाहनः ॥४॥
अष्टादश माठराद्याः सवितुः पारिपार्श्विकाः ॥१७॥ मठरस्यापत्यं माठरः॥"विदादेव॒द्धे"॥६॥१॥४१॥ इत्यञ्। माठराया माठरप्रभृतयः, ते यथा-माठरः पिङ्गलः दण्डो राजश्रोथौ खरद्वारिको कल्माषपक्षिणी जातृकारः कुतापकौ पिङ्गगजौ दण्डिपुरुषौ किशोरकाविति । यद्याडि:
"सुरावृतस्त्वसावष्टादशभिः पारिपार्श्विकैः । । इन्द्रादयश्च ते देवाः सर्वे नामान्तरैः स्थिताः ॥१॥ तत्र शको वामपार्श्वे दण्डाख्यो दण्डनायकः । वह्निस्तु दक्षिणे पार्श्वे पिङ्गलो वामनश्च सः ॥ २ ॥ पूर्वद्वारे गुहहरौ राजश्रोथौ क्रमेण तौ । द्वितीये तु धर्माधर्मों तौ खरद्वारिकौ कमात् ॥ ३॥ तृतीये तु यमताक्ष्यौँ क्रमात् कल्माषपक्षिणौ । चित्रगुप्तश्च कालश्च रवेदक्षिणपार्श्वगौ ॥ ४ ॥ प्रथमो जातृकाराख्यो माठराख्यो द्वितीयकः । पश्चिमेनाब्धिवरुणौ तौ प्राप्नुयात् कुतापकौ ॥ ५॥ उदीच्यां यक्षहेरम्बौ तौ च पिङ्गगजौ क्रमात् । प्राच्यां तु रुद्ररेवन्तौ तौ दण्डिपुरुषो क्रमात् ॥ ६ ॥
Page #39
--------------------------------------------------------------------------
________________
२ देवकाण्डः ।
आश्विन तु पार्श्वद्वये तौ द्वावेव किशोरकौ । इत्यष्टादशको वर्गश्चण्डांशोः पारिपार्श्विकः” ॥ ७ ॥
३९
परितः पार्श्वे वर्त्तन्ते पारिंपार्श्विकाः । “परेर्मुखपार्श्वात् ॥ ६ ॥४॥ २९ ॥ इतीकण् ॥१७॥ चन्द्रमाः कुमुदबान्धवो दशश्वेतवाज्यमृतसूस्तिथिप्रणीः । कौमुदीकुमुदिनीभदक्षजारोहिणीद्दिजनिशौषधीपतिः ॥ १८॥ जैवातृकोऽब्जश्च कलाशरौणच्छायाभृदिन्दुर्विधुरत्रिदृजः । राजा निशो रत्नकरौ च चन्द्रः सोमो ऽमृतश्वेतहिमद्युतिग्लैः॥ १९ ॥ चन्दति दीप्यते, आह्लादयति वा चन्द्रमाः । " चन्दो रमस् ॥ ( उणा - ९८६ ) ॥ इति रमस् ॥ १ ॥ कुमुदानां बान्धवः कुमुदबान्धवः; यौगिकत्वात्, कैरवबन्धुरित्या - दयः, सुहृदपि बन्धुप्रायत्वाद्बन्धुरेवेति कुमुदसुहृदित्यादयोऽपि ॥ २ ॥ दशसंख्याः श्वेताश्च वाजिनो यस्य स तथा दशवाजी, दशाश्वः । यदाह व्याडि:
"अश्वास्तु दश चन्द्रस्य यजुश्चन्द्रमना वृषः । सप्तधातुर्हयो वाजी हंसो व्योममृगो नरः ॥ १ ॥
अर्वा चाथ चन्द्रमनः स्थानेऽस्ति त्रिघनाः क्वचित् । सप्तधातोः पुनः स्थाने सहरुण्योऽस्ति कुत्रचित् ” ॥ २ ॥ श्वेतवाजी सिताश्वः ॥ ४ ॥ अमृतं सूते अमृतसूः; यौगिकत्वात् सुधासूरित्यादयः ॥ ५ ॥ तिथीः प्रणयति तिथिप्रणीः ॥ ६ ॥ कौमुद्याः कुमुदिन्या भानां दक्षजानां रोहिण्या द्विजानां निशायाः औषधीनां च पतिः कौमुदीपतिः, कुमुदिनीपतिः, भपतिः, दक्षजापतिः, रोहिणीपतिः, द्विजपतिः, निशापतिः, औषधीपतिः। यौगिकत्वात् ज्योत्स्नेशः, कुमुद्वतीशः, नक्षत्रेशः, दाक्षायणीशः, रोहिणीशः, द्विजेशः, निशेशः, औषधीश इत्यादयः || १४ || १८ || जीवत्यनेन अमृतवर्षिखाज्जगदिति जैवातृकः । “जीवेरातृको जैव् च ' ॥ (उणा - ६७ ) ॥ इत्यातृकः ॥ १५ ॥ अप्सु जातोऽब्ज:, समुद्रजातत्वात् समुद्रनवनीतमपि ॥ ५६ ॥ कलां शशमेण छायां च बिभर्त्ति कलाशशैणच्छायाभृत् कलाभृत्, शशभृत् एणभृत्, छायाभृत् ; यौगिकत्वात् कलानिधिः, शशधरः, मृगलाञ्छनः, छायाङ्क इत्यादयः ॥ २० ॥ इन्दि इन्दुः “भृमृ-” ॥ ( उणा - ७१६ ) ॥ इत्यादिना उः ॥ २१ ॥ विध्यति ताडयति विरहिणः करैरिति विधु: । “ काहषि " ॥ ( उणा - ७२९ ) ॥ इत्यादिना उ: कित् ॥ २२ ॥ अत्रेर्मुनेर्दृशो नेत्राजातः अहिग्ज: ; यौगिकत्वादत्रिनेत्रप्रसूत इत्यादयः ॥२३॥ राजते राजा “उक्षितक्षि- " || ( उणा ९०० ) ॥ इत्यादिना अन् ॥ २४ ॥ निशाशब्दानं करश्च शब्दौ निशारत्नम् निशाकरः यौगिकत्वान्निशामणिः, रजनी
"
,
Page #40
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणी
करः ॥२६॥ चन्दति चन्द्रः “भीवृधि-" ॥ (उणा-३८७) ॥ इत्यादिना रः ॥२७॥ सुनोति धातूनामनेकार्थत्वात् सूतेऽमृतमिति सोमः “अतीरि-" ॥ (उणा-३३८)॥ इत्यादिना मः, सूयते वा सोमः॥ “नवो नवो भवति जायमानः' इति श्रुतेः ॥२८॥ अमृतं श्वेताः हिमाश्च द्युतयो यस्य स तथा अमृतद्युतिः, श्वेतद्युतिः, हिमद्युतिः; यौगिकत्वात् सुधांशुः, सितांशुः, शीतांशुरित्यादयः ॥३१॥ ग्लायते क्षीयते ग्लौः । "ग्लानुदिभ्यां डौः” ॥ (उणा-८६८) ॥ इति डौः ॥३२॥
शेषश्चात्र"चन्द्रस्तु मास्तपोराजौ शुभांशुः श्वेतवाहनः । जर्णः सृप्रो राजराजो यजतः कृत्तिकाभवः। यज्ञराडौषधीगर्भस्तपसः शयतो बुधः ॥ १ ॥ स्यन्दः खसिन्धुः सिन्धूत्थः श्रविष्ठारमणस्तथा । आकाशचमसः पातुः क्लेदुः पर्वरिचिक्लिदौ ॥ २ ॥ परिज्वा युवनो नेमिश्चन्दिरः स्नेहुरेकभूः” ॥ १९ ॥ षोडशोऽशः कला चन्द्रस्येति शेषः । षोडशानां पूरणः षोडशः संख्यापूरणे डट् । कलयति संख्यां कला ॥१॥
चिह्न लक्षणं लक्ष्म लाञ्छनम् ।
अङ्कः कलङ्कोऽभिज्ञानं चाहयति चिह्न "दिननग्न-" ॥ (उणा-२६८) ॥ इत्यादिना नान्तो निपात्य. ते॥१॥ लक्ष्यते अनेनेति लक्षणं लक्ष्म च “मन्" ॥ ( उणा-९११ ) ॥ इति मन् ॥ २॥ ३ ॥ लाञ्छयते अनेनेति लाञ्छनम् ॥ ४ ॥ अङ्कयते अनेन अङ्कः ॥५॥ किरति सन्देहं कलङ्कः । “किरोऽङ्को रो लश्च वा" ॥ (उणा-६२) ॥ इत्यङ्कः ॥६॥ अभिज्ञायतेऽनेनेत्यभिज्ञानम् ॥ ७ ॥
चन्द्रिका चन्द्रगोलिका ॥ २० ॥
चन्द्रातपः कौमुदी च ज्योत्स्ना चन्द्रोऽस्त्यस्यां चन्द्रिका "अतोऽनेकखरात्"॥७॥२६॥ इतीकः ॥१॥ चन्द्रगोलोऽस्त्यस्यां चन्द्रगोलिका ॥२॥२०॥ चन्द्रस्यातपश्चन्द्रातपः ॥ ३ ।। कुमुदानामियं विकाशहेतुत्वात् कौमुदी ॥ ४ ॥ ज्योतिरस्त्यस्यां ज्योत्स्ना "तमिस्रार्णवज्योत्स्नाः" ॥७॥२॥५२॥ इति निपात्यते चन्द्रिमेत्यपि वाचस्पतिः ॥ ५ ॥
Page #41
--------------------------------------------------------------------------
________________
- २ देवकाण्डः।
बिम्बं तु मण्डलम् । बनाति रश्मिभिव्योमेति बिम्बं पुंक्लीबलिङ्गः । “डिनीबन्धि-"॥(उणा-३२५)। इत्यादिना डिम्बः, बिम्बेति सौत्रो वा धातुः बिम्बति भाति बिम्बम् ॥१॥ मण्डलं प्राग्वत् ॥ २ ॥
नक्षत्रं तारका ताराज्योतिषी भमुडु ग्रहः ॥ २१ ॥
धिष्ण्यमृक्षम् - नक्षति गच्छति व्योमनीति नक्षत्रं "वृग्नक्षि-' ॥ (उणा-४५६ ) ॥ इत्यादिना अत्रः, यद्वा क्षद संवरणे इति सौत्रो धातुः न क्षदति प्रभामिति नक्षत्रम् । "हुयामा-॥ (उणा-४५१)॥ इत्यादिना त्रे नखादित्वात्सिद्धम् ॥१॥ तरतीति तारका त्रिलिकः “तारकावर्णका-"॥२।४।११३॥ इत्यादिना इत्वाभावः ॥२॥ तरन्त्यनया तारा। स्त्रीपुंसलिङ्गः “भिदादयः"॥५।३।१०८॥ इत्यङन्तो निपात्यते ॥ ३॥ द्योतते ज्योतिः ॥ ४ ॥ भाति भं "क्वचित् ॥५।१।१७१॥ इति डः । भा विद्यतेऽस्येति वा ॥ ५॥ इत्ति खमिति उडुः । स्त्रीक्लीबलिङ्गः । “उड् च भे" ॥(उणा-७३८)। इति उः अर्तेरुडादेशश्च ॥६॥ गृह्यते इति ग्रहः ॥७॥२१॥ धृष्णोति प्रगल्भते निशीति . धिष्ण्यम् । “शिक्यास्या-" ॥ (उणा-३६४) ॥ इत्यादिना यान्तो निपात्यते ॥८॥ अर्जते गच्छनि ऋक्षं "ऋजिरिषि-" ॥ ( उणा-५६७ ) ॥ इत्यादिना सः कित् । ऋष्णोति तम इति वा ॥९॥
अथाश्विन्यश्वकिनी दस्रदेवता ।
अश्वयुग्वालिनी च अश्वोऽस्या अस्तीति अश्विनी ॥१॥ अज्ञातोऽश्वोऽश्वकः सोऽस्या अस्ति अश्वकिनी ॥२॥ दस्रो देवता अस्या दस्रदेवता ॥३॥ अश्वान् युङ्क्ते अश्वयुक् स्त्रीलिङ्गः । अश्वकर्मण्यानानात् ॥ ४ ॥ बालाः केशाः सन्त्यस्या बालिनी ॥ ५ ॥
- अथ भरणी यमदेवता ॥ २२ ॥ बिभर्ति भरणी "ऋह-''॥ (उणा-६३८) ॥ इत्यादिना आणिः ॥ १॥ यमो देवताऽस्या यमदेवता ॥ २ ॥ २२ ॥
कृत्तिका बहुलाश्वामिदेवाः कृन्तन्ति शुभमिति कृत्तिका: । “कृतिपुति-"॥ (उणा-७६)॥ इत्यादिना तिक् कित् ॥ १ ॥ बंहन्ते खे बहुलाः “स्थावङ्कि-" ॥ (उणा-४८६) ॥ इत्यादिना उलः
Page #42
--------------------------------------------------------------------------
________________
.४२
अभिधानचिन्तामणौ
कित् , नलुक् च । “मघा अकृत्तिका बहौ"(लिङ्गा-२६) इति स्त्रीलिङ्गौ, नित्यं बहुवचनान्तौ चैतौ ॥ २ ॥ अग्निर्देव आसामग्निदेवाः ॥ ३॥ .
ब्राह्मी तु रोहिणी। ब्रह्मा देवतास्या ब्राह्मी ॥१॥ रोहन्ति कार्याण्यस्यां रोहिणी । "दुहृवृहि-"॥ (उणा-१९४) ॥ इत्यादिना बहुवचनादिणे "रेवतरोहिणाझे" ॥२॥४॥२६॥ इति डीः ॥ २॥
मृगशीर्ष मृगशिरो मार्गश्चान्द्रमसं मृगः ॥ २३ ॥
मृगस्येव शीर्षमस्य मृगशीर्षम् ॥१॥ तथा, मृगशिरः खे ताराणां तथावस्थानात् पुंक्लीबलिङ्गोऽयम् , यद्वाचस्पति:-सौम्यं मृगशिरोऽस्त्रियाम् ॥ २॥ मृग एव मार्गः प्रज्ञादित्वादण् ॥ ३॥ चन्द्रमा देवताऽस्य चान्द्रमसम् ॥ ४ ॥ मृगाकारत्वातू मृगः ॥ ५॥२३॥
इल्वलास्तु मृगशिरःशिरस्थाः पञ्च तारकाः । इलन्ति गच्छन्ति इल्वलाः स्त्रीलिङ्गः । “तुल्वलेल्वलादयः"॥ (उणा-५००)। इति निपातनम् , इन्वन्ति प्रीणन्ति इन्वका इत्यपि ॥१॥
आर्द्रा तु कालिनी रौद्री अर्दति हिनस्ति कार्यमिति आर्दा "चिजि-"। (उणा-३९२) ॥ इत्यादिना रो दीर्घश्च ॥१॥ कालोऽस्यामस्ति कालिनी ॥२॥ रुद्रो देवताऽस्या रौद्री ॥३॥
पुनर्वसू तु यामकौ ॥२४॥
आदित्यौ च पुनर्वखनयोः पुनर्वसू पुंलिङ्गः ॥१॥ यमके यमले भवौ यामकौ युग्मरूपावित्यर्थः ॥ २ ॥ २४ ॥ अदितिर्देवता अनयोरादित्यौ ॥३॥
पुष्यस्तिष्यः सिध्यश्च गुरुदैवतः । पुष्यन्ति त्वेषन्ति सिध्यन्ति च कार्याण्यत्र पुष्यः, तिष्यः, सिद्धयः । “कुप्यभिद्य-"॥५॥१॥३९॥ इत्यादिना क्यबन्ता निपात्यन्ते ॥३॥ गुरुर्दैवतमस्य गुरुदैवतः॥४॥
सार्थ्यऽश्लेषा सी देवताऽस्याः सापी ॥१॥ न विद्यते श्लेषोऽस्यां जातापत्यस्येत्यश्लेषा । पुंस्त्रीलिङ्गः ॥२॥
मघाः पित्र्याः
Page #43
--------------------------------------------------------------------------
________________
२ देवकाण्डः।
४३
महन्ते गच्छन्ति पितरः प्रीतिमास्विति मघाः।“मघाघवा-''॥ (उणा-११०)॥ इत्यादिना घान्तो निपात्यते ॥१॥ पितरो देवता आसां पित्र्याः । “न्याय्तुपित्रुषसो यः" ॥६।२।१०९॥ इति यः ॥ २ ॥
फल्गुनी योनिदेवता ॥२१॥ फलतीति फल्गुनी “फलेोऽन्तश्च" ॥ (उणा-२९१) ॥ इत्युने गौरादित्वात् डीः, उत्तरत्रोत्तराविशेषणात् पूर्वेति लभ्यते । तेन पूर्वफल्गुनी एकवचनान्तोऽपि यद्वाचस्पतिः-पूर्वफल्गुनी योनिदेवता । शाब्दिकास्तु पूर्वफल्गुन्यौ पूर्वफल्गुन्य इति मन्यन्ते । “फल्गुनीप्रोष्ठपदस्य भे"॥२।२।१२३॥ इति द्वित्वस्य वा बहुत्वविधानात् ॥१॥ योनिर्देवतास्या योनिदेवता ॥२॥२५॥
सा तूत्तरार्यमदेवा सा फल्गुनी, उत्तरा उत्तरेतिविशेषणविशिष्टा, उत्तरफल्गुन्यावुत्तरफल्गुन्य इति ॥१॥ अर्यमा देवोऽस्या अर्यमदेवा ॥ २ ॥ .
हस्तः सवितृदेवतः। हसति हस्तः पुंस्त्रीलिङ्गः । “दम्यमि-" ॥ (उणा-२००) ॥ इत्यादिना तः ॥१॥ सविता देवतास्य सवितृदेवतः ॥ २ ॥
_त्वाष्ट्री चित्रा त्वष्टा देवताऽस्यास्त्वाष्ट्री ॥१॥चिनोतीति चित्रा "चिमिदिशंसिभ्यः कित्॥ (उणा-४५४) ॥ इति त्रः ॥२॥
आनिली स्वातिः अनिलो देवताऽस्या आनिली ॥१॥ सुष्टु अतति खातिः पुंस्त्रीलिङ्गः । “पादाचात्यजिभ्याम्" ॥ (उणा-६२०) ॥ इति इर्णित् ॥२॥
विशाखेन्द्रामिदेवता ॥ २६ ॥ . राधा
- विशेषेण श्यति तक्ष्णोति अशुभं विशाखा "श्यतेरिच्च वा-" ॥ (उणा-८५) । इति खः । विशाखति व्याप्नोतीति वा ॥ १ ॥ इन्द्राग्नी देवते अस्या इन्द्राग्निदेवता ॥२॥२६॥ राधोति कार्ये राधा ॥ ३ ॥
अनुराधा तु मैत्री
Page #44
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणौअनुराधोति अनुराधा । एकदेशविकृतत्वादनूराधेत्यपि ॥१॥ मित्रो देवतास्या मैत्री ॥२॥
___ ज्येष्ठेन्द्री प्रकृष्टा वृद्धा ज्येष्ठा ॥१॥ इन्द्रो देवताऽस्या ऐन्द्री ॥२॥ - मूल आश्रपः ।
मूलति मूलः पुंक्लीबलिङ्गः ॥१॥ अश्रपो राक्षसो देवताऽस्य आश्रपः ॥ २॥ ___ पूर्वाषाढापी
न सहते अशुभं अषाढा । “नअः सहे: षाच' ॥ (उणा-१८१) ॥ इति ढः ॥१॥ आपो जलं देवताऽस्या आपी ॥ २॥
सोत्तरा स्याद्वैश्वी सा अषाढा उत्तरा उत्तराषाढेत्यर्थः ॥१॥ विश्वे देवताऽस्या वैश्वी ॥२॥
श्रवणः पुनः ॥२७॥
हरिदेवः
श्रूयतेऽसौ श्रवणः पुंस्त्रीलिङ्गः । “तृकश-"॥(उणा-१८७) ॥ इति अणः ॥१॥ .. २७॥ हरिर्विष्णुर्देवोऽस्य हरिदेवः ॥२॥
__ श्रविष्ठा तु धनिष्ठा वसुदेवता ।
बहूनां मध्ये प्रकृष्टा श्रोतृमती "गुणाङ्गाद्वेष्ठेयंसू"॥७॥३॥९॥ इति इष्टप्रत्यये श्रविष्ठा । एवं बहूनां मध्ये प्रकृष्टा धनवती धनिष्ठा। श्रूयते शुभकर्मणि श्रविष्ठा, धनति धनं करोति धनिष्ठा " षष्ठैधिठादयः” ॥ (उणा-१६६) ॥ इति ठान्तौ वा निपात्येते ॥ १॥ २ ॥ वसवो देवताऽस्या वसुदेवता ॥३॥
वारुणी तु शतभिषक् - वरुणो देवताऽस्या वारुणी ॥१॥ शतं भिषजोऽस्यां शतभिषक् स्त्रीलिङ्गः ॥२॥
अजाहिर्बुध्नदेवताः ॥ २८ ॥
१ पूर्वभद्रपदाया उत्तरभद्रपदायाश्च प्रत्येकं द्वे द्वे नाम्नी, अजाहिर्बुध्नाभ्यामग्रे देवतेति योज्यते । पूर्वोत्तराभ्यामग्रे भद्पदा इति योज्यते ततोऽयमर्थः-अजदेवताः, पूर्वभद्रपदाश्च एकार्थों; अहिर्बुध्नदेवताः, उत्तरभद्रपदाश्च एकार्थो । पूर्वभद्रपदानां उत्तरभद्रपदानां च एकोक्त्या एकं नाम प्रोष्ठपदा इति ।
Page #45
--------------------------------------------------------------------------
________________
२ देवकाण्डः।
पूर्वोत्तरा भद्रपदा इय्यः प्रोष्ठपदाश्च ताः। अजपादो अजो भीमवत् । अजोऽहिर्बुध्नश्च देवते आसामजाहिर्बुध्नदेवताः॥२८॥ पूर्वाश्चोत्तराश्च पूर्वोत्तराः। भद्रौ पादावासां भद्रपदाः। “सुप्रात-''॥७॥३।१२९॥ इत्यादिना डसमासान्तो निपात्यते । यथासंख्यादजदेवता पूर्वभद्रपदाः। अहिर्बुध्नदेवता उत्तरभद्रपदाः । द्वावयवावासां द्वय्यः, ता इति पूर्वभद्रपदा उत्तरभद्रपदाश्च प्रोष्ठपदा उच्यन्ते। प्रोष्ठी गौस्तस्येव पादावासामिति प्रोष्ठपदाः, प्रोष्टौ सारौ पादावासामिति वा ॥
रेवती तु पौष्णं रेवते गच्छति "दृपृ-'॥ (उणा-२०७) ॥ इत्यादिना बहुवचनादतप्रत्यये ड्यां रेवती ॥१॥ पूषा देवताऽस्याः पौष्णं ज्योतिषे क्लीबे रूढम् ॥२॥ .
दाक्षायण्यः सर्वाः शशिप्रियाः ॥ २९ ॥ दक्षोऽथ्यते पितृतया आभिरिति अनटि प्रज्ञाद्यणि या "पूर्वपदस्थ ॥२॥३ १६४॥ इति णत्वे च दाक्षायण्यः । दक्षस्यापत्यानि इति इअन्तादायनणि दाक्षायण्य इत्यमरटीका, तत्र च स्त्रीणां युवसंज्ञाया अभावादायनण् चिन्त्यः॥१॥ सर्वा अश्विन्यादयः सप्तविंशतिरपि शशिप्रियाश्चन्द्रदाराः । सर्वा अपि दाक्षायण्यः, शशिप्रियाश्चोच्यन्ते इत्यर्थः ॥ २ ॥ २९ ॥
• राशीनामुदयो लग्नम्
अश्नुवते अहोरात्रमिति राशयः, "अशो रश्चादिः” ॥ (उणा-६२२) ॥ इति • इणित् तेषामुदयः प्राप्तकालता लगति क्षितिजे लग्नम् , पुंक्लीबलिङ्गः "क्षुब्धविरिन्ध-" ॥४४७०॥ इत्यादिना शील्यादिक्तान्तो निपात्यते ॥ १॥
मेषप्रभृतयस्तु ते। ते राशयो मेषादयः । यथा-मेषो वृषो मिथुनः कर्कटः सिंहः कन्या तुला वृश्चिको धनुर्मकरः कुम्भो मीन इति ॥ . आरो वक्रो लोहिताङ्गो मङ्गलोऽङ्गारकः कुजः ॥३०॥ .
आषाढाभूर्नवार्चिश्व __. आ समन्तादियति नक्षत्रेष्वित्यारः ॥१॥वश्चति कुटिलं गच्छति वक्रः । “ऋज्यजि-"॥ (उणा-३८८)॥ इत्यादिना रक् ॥२॥ लोहितमङ्गमस्य लोहिताङ्गः ॥३॥ मङ्गति मङ्गलः । “मृदिकन्दि-" ॥ (उणा-४६५) ॥ इत्यादिना अलः ॥ ४ ॥ अङ्गति कुटिलं कामति अङ्गारः । “अग्यङ्गि-” ॥ (उणा-४०५) ॥ इत्यादिना आरः । अङ्गानीयर्ति पानत्वादिति वा स्वार्थे क अङ्गारकः ॥ ५॥ कौ पृथिव्यां जातः कुजः, यौगि
Page #46
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणौ
कत्वाद्भौमो माहेयो धरणीसुत इत्यादयः ॥६॥३०॥ आषाढा उत्तराषाढास्तासु भवति आषाढाभूः ॥७॥ नवार्चिषोऽस्य नवार्चिः॥८॥शेषश्चात्र-भौमे व्योमोल्मुकैकाङ्गौ ॥३०॥
बुधः सौम्यः प्रहर्षुलः ।
ज्ञः पञ्चार्चिः श्रविष्ठाभूः श्यामाङ्गो रोहिणीसुतः ॥ ३१ ॥ बुध्यते बुधः॥१॥ सोमः पिताऽपि देवताऽस्य सौम्यः। “कसोमाट् ट्यण्॥६॥ २।१०७॥ इति ट्यण, यौगिकत्वाच्चन्द्रात्मजः, चान्द्रमसायनिरित्यादयः ॥२॥प्रहृष्यतीति प्रहर्षुल: "हृषिवृति-"॥ ( उणा-४८५) ॥ इत्यादिना उल: ॥३॥ जानातीति ज्ञः॥४॥ पञ्चार्चिषोऽस्य पञ्चार्चिः ॥५॥ श्रविष्ठासु भवति श्रविष्ठाभूः ॥॥ श्याममङ्गमस्य श्यामाङ्गः॥ ७ ॥ रोहिण्याः सुतो रोहिणीसुतः, यौगिकत्वाद्रौहिणेय इत्यादयः ॥ ८ ॥ ३१॥
.. बृहस्पतिः सुराचार्यो जीवश्चित्रशिखण्डिजः ।
वाचस्पतिर्वादशार्चिर्धिषणः फल्गुनीभवः ॥३२॥
गीर्वृहत्योः पतिरुतथ्यानुजाङ्गिरसौ गुरुः । बृहतां पतिवृहत्पतिः इति वा बृहस्पति: “वर्चस्कादिष्ववस्करादयः॥३।२। ४८॥ इति निपात्यते॥१॥ सुराणामाचार्यः सुराचार्यः, यौगिकत्वाद्देवगुरुरित्यादयः ॥ २॥ जीव्यतेऽनेन मृतसञ्जीवनीज्ञत्वाज्जीवः ॥ ३ ॥ अङ्गिरसोऽपत्यत्वाच्चित्रशिखण्डिजः, सप्तर्षिजोऽपि समुदाये प्रवृत्ताश्च शब्दा एकदेशेऽपि प्रवर्तन्त इति न्यायात् ॥४॥ वाचः पतिर्वाचस्पति: “वाचस्पति-"॥३२॥३६॥ इत्यादिना षष्ठीलुबभावे निपात्यते ॥ ५ ॥ द्वादशाऽर्चिषोऽस्य द्वादशार्चिः ॥ ६ ॥ धृष्णोति प्रगल्भते धिषणः । “धृषिवहेरिश्चोपान्त्यस्य" ॥ (उणा-१८९) ॥ इत्यणः । धिषणास्यास्तीति वा ॥ ७ ॥ फल्गुन्यामुत्तरफल्गुन्यां भवति फल्गुनीभवः ॥८॥३२॥ गीश्च बृहती च गीर्बहत्यौ तयोः पतिः गी:पतिबृहतीपतिः ॥ ९ ॥ १० ॥ उतथ्यस्यानुज उतथ्यानुजः॥ ११ ॥ अङ्गिरसोऽपत्यमृष्यणि आङ्गिरसः ॥ १२ ॥ गृणात्युपदिशति गुरुः “कृग्र ऋत उर्च" ॥ (उणा-७३४) ॥इति उः ॥ १३ शेषश्चात्र
गीष्पतिस्तु महामतिः। प्रख्याः प्रचक्षा वाग्वाग्मी गौरो दीदिविगीरथौ ॥
शुक्रो मघाभवः काव्य उशना भार्गवः कविः ॥ ३३ ॥
षोडशाचिर्दैत्यगुरुर्धिष्ण्यः शोचति दानवानिति शुक्रः । रुद्रशुक्रद्वारेण निर्यातत्वाद्वा यद्वामनपुराणे
Page #47
--------------------------------------------------------------------------
________________
२ देवकाण्डः ।
इत्येवमुक्त्वा भगवान्मुमोच शिश्नेन शुक्रं स च निर्जगाम ॥१॥
मघासु भवति मघाभवः ॥ २ ॥ कवेरपत्यं काव्यः । “ कुर्वादेः " ॥ ६ ॥१॥१००॥ इति ञ्यः, कविरेव वा काव्यः, भेषजादित्वात् व्यण् ॥३ ॥ वष्टीत्युशना “वष्टेः कनस्’॥ ( उणा - ९८५) ॥४॥ भृगोरपत्यं भार्गवः ॥ ५ ॥ कवते कविः । कविजातत्वाद्वा ॥ ६ ॥३३॥ षोडशार्चिषोऽस्य षोडशार्चिः ॥ ७ ॥ दैत्यानां गुरुर्दैत्यगुरुः, यौगिकत्वादसुराचार्य इत्यादयः ॥ ८ ॥ धिष्ण्यः प्राग्वत् ॥ ९ ॥ शेषश्चात्र
शुक्रे भृगुः ॥
शनैश्वरः शनिः ।
छायासुतोऽसितः सौरिः सप्तार्ची रेवतीभवः ॥ ३४ ॥ मन्दः क्रोडो नीलवासाः
शनैश्चरति शनैश्चरः॥१॥ श्यति दृष्ट्या जनमिति शनिः “धूशाशीङो हखश्च ॥ (उणा - ६७८ ) ॥ इति निः ॥ २ ॥ छाया आदित्यपत्नी तस्याः सुतश्छायासुतः॥ ३ ॥ असितः कृष्णाङ्गः ॥ ४ ॥ सूरस्यापत्यं सौरिः " तस्येदम्” ॥६।३।१६०॥ इत्यणि सौरोऽपि ॥५॥ सप्तार्चिषोऽस्य सप्तार्चिः ॥ ६ ॥ रेवत्यां भवति रेवतीभवः ॥ ७ ॥ ३४ ॥ मन्दगतित्वान्मन्दः ॥८॥ करोति पीडां क्रामति क्षेत्रं राशिं च चिरेणेति वा क्रोडः । “विहडकहे-” ॥ (उणा-१७२ ) ॥ इत्यादिना डान्तो निपात्यते ॥ ९ ॥ नीलं वासो - Sस्य नीलवासाः ॥ १० ॥ शेषश्चात्र
नौ
पङ्गुः श्रुतकर्मा महाग्रहः ॥
rasar: कालो ब्रह्मण्यश्च यमः स्थिरः ।
क्रूरात्मा च ॥
४७
स्वर्भास्तु विधुन्तुदः ।
तमो राहुः सैंहिकेयो भरणभूः
स्वर्भाति स्वर्भाणुः “पूर्वपदस्थान्नाम्न्यगः ” || २|३|६४ ॥ इति णत्वम् ॥१॥ विधुं तुदति विधुन्तुदः। “बहुविध्वरुस्तिलात्तुदः || ५ | १|१२४ ॥ इति खश् ॥२॥ तमस्कारित्वात्तमः पुंक्लीबलिङ्गः॥३॥ रहति गृहीत्वा चन्द्राक खशरीरं वा राहुः " कुवापाजि - " ॥ ( उणा - १) ॥ इत्यादिना उण् ॥४॥ अभ्रपिशाचग्रहकल्लोलावपि । सिंहिकाया अपत्य सैंहिकेयः “ङयाप्त्यूङ’” :”॥६|१|७०॥ इत्येयण् ॥५॥ भरण्यां भवति भरणीभूः ॥ ६ ॥ शेषश्चात्र
अथ राहौ स्यादुपराग उपप्लवः ॥ अथाहिकः ॥ ३५ ॥
Page #48
--------------------------------------------------------------------------
________________
४८
अभिधानचिन्तामणौ
अश्लेषाभूः शिखी केतुः
अहिना संसृष्ट आहिकः || १ ||३५|| अश्लेषायां भवतीति अश्लेषाभूः ॥२॥ शिखारूपा तेजोलेश्याऽस्यास्ति शिखी “शिखादिभ्य इन् " || ७|२| ४ | ३ ॥ चाय्यते निशाम्यते शुभाशुभमनेन केतुः ॥४॥ शेषश्चात्र
`केतावूर्ध्वकचः ॥
ध्रुवस्तूत्तानपादजः ।
ध्रुवति ध्रुवः “ तुदादिविषिगुहिभ्यः कित्" | ( उणा - ५) ॥ इति अः ॥ १ ॥ उत्तानपादान्नृपतेर्जात उत्तानपादजः यौगिकत्वादौत्तानपादिः, औत्तानपाद इत्यादयः ॥ २ ॥ शेषश्वात्र
ज्योतीरथग्रहाश्रयौ ध्रुवे ॥
,
अगस्त्योऽगस्तिः पीताब्धिर्वातापिद्विड् घटोद्भवः ॥ ३६ ॥ मैत्रावरुणिराग्य और्वशेयाग्निमारुतौ ।
स्तम्भिः सौत्रः । अगं स्तनाति अगस्त्यः । " अगपुलाभ्यां स्तम्भेर्डित्" ॥ ( उणा - ३६३) ॥ इति यः ॥ १॥ अगति कुटिलं गच्छति अगस्तिः “ अगिविलि-"॥ ( उणा - ६६० ) ॥ इत्यादिना अस्तिक् ॥ २॥ पीतोऽब्धिरनेन पीताब्धिः ॥ ३ ॥ वातापिं द्वेष्टि वातापिद्विद् ॥४॥ घटादुद्भवति घटोद्भवः ॥५॥ ३६ ॥ मैत्रावरुणयोरुर्वशीदर्शनाद्रेतः कुम्भे पतितमिति हि प्रसिद्धिः। मैत्रश्च वरुणश्च मैत्रावरुणौ " वेदसहश्रुतावायुदेवतानाम्”॥३॥ २।४१॥ इति पूर्वपदस्यात्वं तयोरपत्यं मैत्रावरुणिः, ऋषिसमुदायस्य ऋषित्वादिञ् ॥६॥ अग्नेरपत्यमाग्नेयः तदंशत्वात् " कल्यग्नेरेयण्” ॥ ६ ॥ १।१७ ॥ इत्येयण् ॥७॥ उर्वश्या अपत्यमौर्वशेयः॥८॥ अग्निश्च मरुच तयोरपत्यमाग्निमारुतः तदंशत्वात् अणि " देवतानामात्वादौ’’॥७|४|२८॥ इत्युभयपदवृद्धौ “ इर्वृद्धिमत्यविष्णौ”॥३।२।४३॥ इति आत्वापवाद इः ॥ ९ ॥ पीताब्ध्यादयो यौगिकाः । शेषश्चात्र
अगस्त्ये विन्ध्यकूटः स्याद्दक्षिणाशारतिर्मुनिः ।
सत्याग्निर्वारुणिः क्वाथिस्तपनः कलशीसुतः ॥ १॥
लोपामुद्रा तु तद्भार्या कौषीतकी वरप्रदा ॥ ३७ ॥
पतिशुश्रूषालोपेषु न मुदं राति लोपामुद्रा ॥ १ ॥ तस्यागस्तेर्भार्या तद्भार्या । कुष्णात्यात्मानं तपसा कुषीतकः “कुषेः कित्” ॥ ( उणा - ८० ) ॥ इतीतकः तस्यापत्यमृष्यणि ङयां च कौषीतकी || २ || वरं प्रददाति वरप्रदा ॥३॥३७॥ ॥ मरीचिप्रमुखाः सप्तर्षयश्चित्रशिखण्डिनः ।
Page #49
--------------------------------------------------------------------------
________________
२ देवकाण्डः ।
मरीचिः प्रमुख एषां मरीचिप्रमुखाः । यदाह- ...... .
मरीचिरत्र्यङ्गिरसौ पुलस्त्यः पुलहः क्रतुः ।
वसिष्ठश्च महातेजाः सप्तमः परिकीर्तितः ॥ १॥ सप्त च ते ऋषयश्च सप्तर्षयः। “संख्या समाहारे च-"॥३।१।९९॥ इति संज्ञायो कर्मधारयः ॥ १॥ शिखण्डश्चूडाऽस्त्येषां शिखण्डिन: चित्राश्च ते शिखण्डिनश्च चित्रशिखण्डिनः ॥२॥
पुष्पदन्तौ पुष्पवन्तावेकोक्त्या शशिभास्करौ ॥३८॥ पुष्पे इव पुष्पे दन्ताविव दन्तौ, पुष्पे च ते दन्तौ च पुष्पदन्तौ, यद्विश्वदत्तःरविशशिनौ पुष्पदन्ताख्याविति ॥ १॥ पुष्पं विकासोऽस्त्यनयोः पुष्पवन्तौ एकयोक्त्या अपृथग्वचनेन रोदसीवच्छशिभास्करावुच्येते । न तु पुष्पदन्तः पुष्पवान् वा इन्दुः सूर्यो वोच्यते ॥ २ ॥ ३८ ॥ ......... .
... राहुमासोऽर्केन्द्रोफेह उपराग उपप्लवः । ... राहुणा प्रसनं राहुप्रासः । अर्केन्द्रोः कर्मभूतयोर्ग्रहणं ग्रहः ॥ १ ॥ उपरज्यते छायेते चन्द्रार्कावनेनोपरागः ॥ २ ॥ उपप्लूयेते अनेन उपप्लवः ॥ ३॥
उपलिङ्गं त्वरिष्टं स्यादुपसर्ग उपद्रवः ॥ ३९ ॥
अंजन्यमीतिरुत्पातः उपलिङ्गयते दोषैर्गम्यते जनोऽत्र उपलिङ्गम् ॥ १॥ नास्ति रिष्टं क्षेममत्र अरिष्टम् ॥ २ ॥ उपसृज्यते उपद्रूयते प्रजाऽत्र उपसर्गः ॥ ३ ॥ उपद्रूयते प्रजाऽत्र उपद्रवः ॥ ४॥३९॥ न जने साधु अजन्यम्, पुंक्लीबलिङ्गः ॥ ५ ॥ ईयते प्राप्यते दुःखमस्यामीतिः, स्त्रीलिङ्गः । “टमुषि-" ॥ ( उणा-६५१ ) ॥ इति बहुवचनात्तिः कित् ॥ ६ ॥ उत्पतत्यकस्मादायाति अशुभमस्मादुत्पातः, घञ् ॥ ७ ॥
. वह्नयुत्पात उपाहितः। - वहिकृत उत्पातो वन्युत्पातः ॥१॥उपासन्नमहितमस्योपाहितः; धूमकेत्वाख्य . उत्पात इत्येके ॥ २॥
- स्यात्कालः समयो दिष्टानेहसौ सर्वमूषकः ॥ ४० ॥
कालयति क्षिपति सर्वभावान् , कल्यतेऽसाविति वा कालः ॥ १॥ समेति समयः, पुंक्लीबलिङ्गः ॥ २ ॥ दिश्यते स्म दिष्टः ॥ ३ ॥ न ईहते चेष्टते अनेनाघ्रात इत्यनेहा:, पुंलिङ्गः । “नत्र ईहेरेहेधौ च"॥ (उणा-९७५) ॥ इत्यस् ; न ईहत इति वा ॥ ४ ॥
Page #50
--------------------------------------------------------------------------
________________
भभिधानचिन्तामणौ-. सर्व मूषति सर्वमूषकः । यदाह-कालः पचति भूतानि कालः संहरते प्रमाः इति ॥ ५ ॥ ४० ॥
कालो द्विविधोऽवसर्पिण्युत्सर्पिणीविमेदतः। सागरकोटिकोटीनां विंशत्या स समाप्यते ॥ ४१॥ अवसर्पो भावानां पतत्प्रकर्षता, सोऽस्यामस्ति अवसर्पिणी ॥१॥ उत्सर्पो भावानामेव रोहत्प्रकर्षता, सोऽस्यामस्ति उत्सर्पिणी ॥ २ ॥ तयोविभेदात्कालस्य द्वैविध्यम् । सागरः सागरोपमं दशकोटीकोटिपल्योपमप्रमाणम् , सागराणां कोटिकोट्यः सागरकोटिकोट्यस्तासां विंशत्या स कालो द्विविधोऽपि परिपूर्यते ॥४१॥
अवसर्पिण्यां षडरा उत्सर्पिण्यां त एव विपरीताः ।
एवं द्वादशभिररैर्विवर्तते कालचक्रमिदम् ॥ ४२ ॥ .. षट् षट्संख्याः । इयूति गच्छन्ति अरा वक्ष्यमाणा एकान्तसुषमादय एकान्तदुःषमान्ताः, अवसर्पिण्यां भवन्ति । त एवेति । एकान्तसुषमादयः विपरीता एकान्तदुःषमाद्या एकान्तसुषमान्ताः, उत्सर्पिण्यां भवन्ति । एवमुक्तप्रकारेण द्वादशभिररै श्वक्रमिव चक्रं कालस्य चक्र कालचक्रं विवर्त्तते परिभ्रमति ॥ ४२ ॥
तत्रैकान्तसुषमाऽरश्चतस्रः कोटिकोटयः।
सागराणां तत्रेति । द्वादशारे कालचके शोभनाः समा वर्षाण्यस्यां सुषमा "निर्दुःसुवेः समसूतेः" ॥२॥३॥५६॥ इति षत्वम् । एकान्तेन सुषमा दुःषमानुभावरहिता एकान्तसुषमा सुषमसुषमेत्यर्थः प्रथमोऽरः। सागराणां सागरोपमानां चतस्रश्चतुस्संख्याः कोटीनां कोटयो भवन्ति । चतुस्सागरोपमकोटाकोटप्रमाण इत्यर्थः ॥
सुषमा तु तिस्रस्तत्कोटिकोटयः ॥ ४३ ॥ सुषमाख्यो द्वितीयोऽरः, तिस्रः सागरोपमकोटिकोटयो भवन्ति ॥ ४३ ।।
सुषमदुःषमा ते दे दुष्टाः समा अस्यां दुःषमा सुषमा चासौ दुःषमा च सुषमदुःषमा, सुषमाऽनुभावबहुला अल्पदुःषमानुभावत्यर्थः । तदाख्यस्तृतीयोऽरः । ते द्वे इति । सागरोपमकोटिकोव्यौ ॥
दुःषमसुषमा पुनः ।
Page #51
--------------------------------------------------------------------------
________________
५१
२ देवकाण्डः । सैका सहस्रैर्वर्षाणां द्विचत्वारिंशतोनिता ॥४४॥ दुःषमा चासौ सुषमा च दुःषमसुषमा, दु:षमानुभावबहुला; अल्पसुषमानुभावेत्यर्थः । तदाख्यश्चतुर्थोऽरः, सा सागरोपमकोटिकोटी एका एकसंख्या द्विचत्वारिंशद्वर्षसहस्रैरूना ॥४४॥
अथ दुःषमैकविंशतिरब्दसहस्राणि दुःषमाख्यः पञ्चमोऽरः, एकविंशतिवर्षसहस्राणि ॥
तावती तु स्यात् ।
एकान्तदुःषमाऽपि हि एकान्तेन दुःषमा सुषमानुभावरहिता एकान्तदुःषमा; दुःषमदुःषमेत्यर्थः । तदाख्यः षष्ठोऽरः, तावती दुःषमावदेकविंशतिवर्षसहस्रप्रमाणा ॥
एतत्संख्याः परेऽपि विपरीताः ।।४५|| एषैव अवसर्पिण्यरकोक्ता संख्या येषां त एतत्संख्याः, परेऽपि उत्सर्पिण्यरका अपि, विपरीताः प्रतिलोमवृत्तयः एकान्तदुःषमाराद्या: एकान्तसुषमारपर्यन्ता भवन्ति ॥४५॥
प्रथमेऽरत्रये मास्त्रियेकपल्यजीविताः । त्रिव्येकगव्यूतोच्छ्रायास्त्रियेकदिनभोजनाः ॥४६॥
कल्पद्रुफलसन्तुष्टाः त्रीणि द्वे एकं च पल्यं पल्योपमं जीवितं येषां ते तथा । पल्यमिति धान्याधारविशेषः ॥ इह तु तत्प्रतिकृतिरायामविष्कम्भावगाहैर्योजनप्रमाणः प्रदेश उच्यते । स चैकाहिकादिभिः साप्ताहिकपर्यन्तैः केशलेशैः पुनरसंख्यातखण्डीकृतैर्भूतः, उपरि च लोहशकटेनाप्यन्यग्भूतो वर्षशते च गते एकैकवालाग्रापनयने यावता कालेन निर्लेपो भवति, तावान् कालः पल्योपमम् , अद्धापल्योपममित्युच्यते। त्रीणि द्वे एकं च गव्यूतं क्रोशं उच्छ्रायो येषां ते तथा । त्रिषु द्वयोरेकस्मिंश्च दिने गते भोजनं येषां ते तथा । तत्र प्रथमे अरके मास्त्रिपल्योपमजीविताः, त्रिगव्यूतोच्छ्रायाः, चतुर्थदिनभोजिनो भवन्ति; द्वितीयेऽरके द्विपल्योपमजीविताः, द्विगव्यूतोच्छ्रायाः, तृतीयदिनभोजिनों भवन्ति; तृतीयेऽरके एकपल्योपमजीविताः, एकगव्यूतोच्छ्रायाः, द्वितीयदिनभोजिनो भवन्तीति यथासंख्यार्थः ॥४६॥ ते च कल्पद्रुमफलैः सन्तुष्टा भवन्ति; कल्पद्रुमफलान्याहरन्तीत्यर्थः।
____ चतुर्थे त्वरके नराः ।
Page #52
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणौपूर्वकोट्यायुषः पञ्चधनुःशतसमुच्छ्याः ॥४७॥ वर्षाणां सप्ततिः कोटिलक्षा षट्पञ्चाशच वर्षकोटिसहस्राः पूर्वम्, तत्कोव्यायुष इति ॥ ४७ ॥
पञ्चमे तु वर्षशतायुषः सप्तकरोच्छ्याः । षष्ठे पुनः षोडशाब्दायुषो हस्तसमुच्छ्याः ॥४॥ एकान्तदुःखप्रचिता उत्सर्पिण्यामपीदृशाः ।
पश्चानुपूर्व्या विज्ञेया अरेषु किल षट्स्वपि ॥४९॥ स्पष्टौ ॥४८॥४९॥
अष्टादश निमेषाः स्युः काष्ठा निमेषोऽक्षिस्पन्दकालः, काशते काष्ठा “वनिकणिकाश्युषिभ्यष्ठ :" ॥ (उणा१६२) ॥ इति ठः॥
काष्ठाद्वयं लवः। लुनाति परिच्छिनत्ति कालमिति लवः ॥
कला तैः पञ्चदशभिः तैलवैः कलयति कालं कला ॥
लेशस्तहितयेन च ॥५०॥ लिश्यतेऽल्पीभवति लेशः, तस्याः कलाया द्वितयेन तद्वितयेन ॥५०॥
क्षणस्तैः पञ्चदशभिः क्षणोति क्षणः, तैलेशैः ॥ क्षणैः षेड्मिस्तु नाडिका ।
सा धारिका घटिका च - णल गन्धे, नलति गन्धति अर्दति नाली, ज्वलादित्वात् णः, नाल्येव नालिका; उलयोरैक्ये नाडिका । नडण् अवस्कन्दने, इत्यस्य नाडीति नन्दी ॥१॥सा नाडिका, धारयति कालं धारिका ॥२॥ घटयति कालं घटिका चोच्यते ॥३॥
मुहूर्तस्त हयेन च ॥५१॥ हूर्च्छति मुहूर्तः, पुंक्लीबलिङ्गः । “पुतपित्त-" ॥ ( उणा-२०४ ) ॥ इति तान्तो निपात्यते, मुहुरियर्ति वा, पृषोदरादित्वात् । तयोर्घटिकयोद्वयेन तवयेन ॥५१॥ .
त्रिंशता तैरहोरात्रः (१) निमेषास्तु इत्यपि । (२) षड्भिश्चेत्यपि ।
Page #53
--------------------------------------------------------------------------
________________
.
२ देवकाण्डः ।
५३
तैर्मुहूर्तः, अहश्च रात्रिश्च अहोरात्रः, पुंक्लीबलिङ्गः । “ऋक्सामयजुष-" ॥ १३ । ९७ ॥ इति द्वन्द्वे अदन्तो निपात्यते ॥ - तत्राहार्दवसो दिनम् ।
दिवं धुर्वासरो घस्रः तत्रेति । अहोरात्रमध्ये, अंहते गच्छति अहः । " श्वन्मातरिश्वन-" || (उणा-९०२) इत्यनन्तो निपात्यते ॥१॥ दीव्यत्यत्रादित्य इति दिवसः "दिवादिरभिलभ्युरिभ्यः कित्" ॥ (उणा-५७२) ॥ इत्यसः ॥२॥ दीव्यति रविस्त्र, यति तम इति वा दिनम् , पुंक्लीबलिङ्गौ । “दिननग्न-" (उणा-२६८)॥ इति नान्तो निपात्यते ॥ ३ ॥ दीव्यन्त्यत्र लोका दिवम् ॥ ४ ॥ द्यौति गच्छति द्युः, पुंलिङ्गः । "शुद्रुभ्याम्” (उणा-७४४) ॥ इति डुः ॥५॥ वासयति रविं वासरः, पुंक्लीबलिङ्गः । "ऋछिचटि-" ( उणा-३९७ ) ॥ इत्यरः ॥ ६॥ घसत्यत्ति तमो घनः ॥७॥ दिवा अव्ययम् ॥
प्रभात स्यादहर्मुखम् ॥१२॥ व्युष्टं विभातं प्रत्यूषं कल्यप्रत्युषसी उषः ।
काल्यं भातुं प्रवृत्तं प्रभातम् । “आरम्भे" ॥५।१११०॥ इति क्तः ॥१॥ अहो मुखमारम्भः अहर्मुखम् ॥ २॥५२॥ विशेषेण उश्यतेऽतिक्रम्यते व्युष्टम् । “ज्ञानेच्छा-" ॥ ५।२।९२ ॥ इत्यादिना क्तः ॥३॥ विभातुं प्रवृत्तं विभातम् ॥४॥ प्रत्यूषति निशा रुजति प्रत्यूषम् , पुंक्लीबलिङ्गः ॥५॥ कलासु साधु कल्यम् ॥ ६॥ प्रत्योषत्यर्ककरैः
प्रत्युषः "मिथिरञ्ज्युषि-" ॥ ( उणा-९७१ ) ॥ इत्यस् ॥ ७॥ एवमुषः ॥ ८॥ : प्राप्त: कालोऽस्य काल्यम् । “ कालाद्यः" ॥६।४।१२६॥ इति यः, काले साध्विति
वा ॥ ९ ॥ शेषश्चात्र-व्युष्टे निशात्ययगोसौ ॥ प्रातः, प्रगे, प्राढे, पूर्वेयुश्चाव्ययानि । गोसो देश्याम् ; संस्कृते ऽप्येके ॥
मध्याह्नस्तु दिवामध्यं मध्यन्दिनं च सः ॥१३॥ . अहो मध्यं मध्याह्नः, “सर्वांशसंख्याऽव्ययात्" ॥ ७॥३।११८॥ इति अट् , अहादेशश्च ॥ १ ॥ दिवा अहो मध्यं दिवामध्यम् ॥२॥ दिनस्य मध्यं मध्यन्दिनम् । " लोकम्पृण-" ॥ ३।२।११३ ॥ इत्यादिना निपात्यते ॥ ३॥५३ ॥
दिनावसानमुत्सूरो विकालसबली अपि।। सायं
Page #54
--------------------------------------------------------------------------
________________
५४.
अभिधानचिन्तामणौदिनावसानं दिनान्तः ॥ १॥ उत्क्रान्तः सूरोऽस्मिन्नुत्सूरः ॥ २॥ विरुद्धः कालो विकालः ॥३॥ सह बलिभिरुपहारैर्वर्तते सबलिः, पुंलिङ्गः ॥ ४ ॥ स्यति दिन सायं, क्लीबलिङ्गः ॥ गौडस्तु-उत्सूरश्च विकालश्च सायश्च सबलिश्च स इति पुंस्याह । "स्थाच्छामासा-" ( उणा ३५७) ॥ इत्यादिना यः॥ ५॥ तथा सायमव्ययम् ॥
. सन्ध्या तु पितृसूः
संध्यायन्त्यस्यां सन्ध्या, सज्येते सन्धीयेते अहोरात्रावस्यामिति वा "सजे-. धं च ॥ ( उणा-३५९) ॥ इति यः ॥ १ ॥ पितॄन् सूते पितृसूः । ब्रह्मणो येषा • पितृप्रसवित्री तनुरिति प्रसिद्धिः ॥ २ ॥
त्रिसन्ध्यं तूपवैणवम् ॥५४॥ तिनः सन्ध्याः प्राणमध्याहापराह्नलक्षणा: समाहृतास्त्रिसन्ध्यम् ॥ १॥ उप समीपे वैणवो व्रतदण्डो यत्र तदुपवैणवम् ॥ २ ॥ ५४॥
. श्राद्धकालस्तु कुतपोऽष्टमो भागो दिनस्य यः। ..
श्राद्धं पितृकर्म तस्य कालः श्राद्धकालः ॥१॥ कुतिः सौत्रः कोतन्ति गच्छन्ति प्रीतिं पितरोऽस्मिन् कुतपः, पुंक्लीबलिङ्गः । " भुजकुति-॥ ( उणा-३०५)॥ इत्यादिना अपः कित् ; कुं तपति सूर्योऽत्रेति वा । यो दिनस्याष्टमो भागः स कुतप इत्यर्थः । यत्स्मृतिः
दिवसस्याष्टमे भागे मन्दीभवति भास्करे ।। स कालः कुतपो यत्र पितॄणां दत्तमक्षयम् ॥१॥२॥ निशा निशीथिनी रात्रिः शर्वरी क्षणदा क्षपा ॥१५॥ त्रियामा यामिनी भौती तमी तमा विभावरी । रजनी वसतिः श्यामा वासतेयी तमस्विनी ॥५॥
उषा दोषेन्दुकान्ता निश्यति तनूकरोति चेष्टा निशा । उपसर्गादातो डोऽश्यः" ॥ ५।१।५६ ॥ इति डः । निशन्ति समाहितमनस्का भवन्ति अस्यामिति वा स्थादित्वात्कः ॥ १॥ निशीथोऽस्त्यस्यां निशीथिनी ॥२॥ राति सुखं रात्रि: "राशदि"- ॥ (उणा-६९६) इत्यादिना त्रिः, ङ्या रात्री च ॥ ३ ॥ शृणाति चेष्टाः शर्वरी, वनि “णस्वराघोषादनो रश्च" ॥ २॥४।४ ॥ इति ङीः ॥ ४ ॥ क्षणमवसरं ददाति क्षणदा, विश्रान्तिप्रदेत्यर्थः ॥५॥ क्षिप्यते क्षपा, भिद्यायङ् ॥ ६॥५५॥ त्रयो यामा यस्यां त्रियामा, आद्यन्तयोरर्द्धयामयोर्दिनव्यवहारात् ॥ ७ ॥ यामाः सन्त्यस्यां यामिनी । यौगिकत्वाद्यामपतीत्यपि ॥ ८ ॥ भूतानामियं भौती, रात्रिंचरत्वात्तेषाम् ॥ ९ ॥ ताम्यन्ति चक्र
Page #55
--------------------------------------------------------------------------
________________
२ देवकाण्डः । पाका अस्यो, गौरादित्वात् त्यो तमी ॥१०॥ तमेति त्वमरटीकाभिप्रायेण ॥११॥ विभातीति वनि ढयां विभावरी ॥१२॥ रजन्त्यस्यामिति रजनिः । “रजेः कित्" ॥ (उणा-६८१)॥ इत्यनिः । ड्यां रजनी ॥ १३ ॥ वसन्त्यस्यां वसतिः, खल्यमि." ॥ ( उणा-६५३) ॥ इत्यादिना अतिः ॥ १४ ॥ श्यायते गच्छति श्यामा, "विलिभिलि-" ॥ ( उणा-३४० ) ॥ इत्यादिना मः, श्यामत्वाद्वा श्यामा ॥१५॥ वसतौ साधुर्वासतेयी । “पथ्यतिथिवसतिखपतेरेयण्” ॥ ७१।१६ ॥ इत्येयणि डीः ॥१६॥ तमोऽस्त्यस्यां तमस्विनी ॥१७॥५६॥ ओषति दहत्यहाक्लेशमुषा । अव्ययमपि ॥१८॥ दुष्यत्यस्यां दृष्टि>षा, अव्ययमपि ॥१९॥ इन्दोः कान्ता इन्दुकान्ता ।।२०॥ शेषश्चात्र- .
निशि चक्रभेदिनी निषदरी निशीथ्या निड् घोरा वासरकन्यका। शताक्षी राक्षसी याम्या घृतार्चिस्तामसी तमिः।
शार्वरी क्षणिनी नक्तं पैशाची वासुरा उशाः ॥ १ ॥ नक्तमव्ययम् । तुङ्गी देश्याम् ; संस्कृतेऽपि ॥ .
अथ तमिस्रा दर्शयामिनी । तमांसि विद्यन्तेऽस्यां तमिस्रा "तमिस्रार्णवज्योत्स्नाः" । २।५२ ॥ इति । निपात्यते ॥१॥ दर्शोऽमावास्या तस्य यामिनी । तमिस्रा तामसी रात्रिरित्यमरः ॥ २॥
. ज्योत्स्वी तु पूर्णिमारात्रिः
‘ज्योस्नाऽस्त्यस्यां ज्योत्स्नी "ज्योत्स्नादिभ्योऽण्" ॥ ७२॥३४ ॥ इत्यण् ॥१॥ पूर्णिमाया रात्रिः पूर्णिमारात्रिः, ज्योत्स्नी चन्द्रिकयाऽन्वितेत्यमरः ॥
गणरात्रो निशागणः ॥१७॥
गणा रात्रयः समाहृता गणरात्रः, पुंक्लीबलिङ्गः । “संख्यातैक-" ॥ १९ ॥ इत्यादिना अत्समासान्तः ॥ १॥ निशागणो निशासमूहः ॥२॥५॥
पक्षिणी पक्षतुल्याभ्यामहोभ्यां वेष्टिता निशा । पक्षौ विद्येते अस्याः पक्षिणी, वर्तमानागामिदिवसयोः पक्षयोरिव मध्ये वर्तमान. स्वात् । एवं निशयोर्मध्ये दिवसोऽपि पक्षीत्याहुः ॥
गर्भकं रजनीद्वन्द्वं गर्भयतीति गर्भकम्, अन्तर्भूतदिनत्वात् । रजनीद्वन्द्वं रात्रिद्वयम् ।।
Page #56
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणौप्रदोषो यामिनीमुखम् ॥१८॥ प्रारब्धा दोषा अस्मिन् इति प्रदोषः। यामिन्या मुखं प्रारम्भो यामिनीमुखम् ॥ ५८ ॥ शेषश्चात्र
दिनात्यय: प्रदोषे स्यात् ॥
- यामः प्रहरः ।
याति यामः । “अरि-" ॥ ( उणा-३३८)॥ इत्यादिना मः ॥ १॥ प्रहियतेऽस्मिन् कालसूचकं वाद्यं प्रहरः "पुन्नाम्नि घः" ॥५३।१३०॥२॥
निशीथस्त्वर्धरात्रो महानिशा । नियतं शेरतेऽस्मिन्निशीथः । “न्युद्यां शीङः" ॥ (उणा-२२८) ॥ इति थः कित् । अत एव कात्यो निशीथं सुप्तजनमाह ॥ १॥ अर्द्ध रात्ररर्द्धरात्रः ॥२॥ महती प्राप्तप्रकर्षत्वात् , सा चासौ निशा च महानिशा ॥ ३ ॥ निःसम्पातोऽपि ।।..
उच्चन्द्रस्त्वपररात्रः उत्क्रान्तश्चन्द्रो ऽस्मिन् उच्चन्द्रः ॥ १॥ रात्रेरपरो भागः अपररात्रः ॥ २ ॥
तमिस्र तिमिरं तमः ॥ ५९॥ ____ध्वान्तं भूच्छायान्धकारं तमसं समवान्धतः ।
तमोऽस्याऽस्ति तमिस्रम् , स्त्रीक्लीबलिङ्गः । “तमिस्रार्णवज्योत्स्नाः" ॥ ७।२।५२ ॥ इति साधुः ॥ १॥ तिम्यतीव तिमिरं, पुंक्लीबलिङ्गः । “शुषी-" ॥ ( उणा-४१६ ) ॥ इत्यादिना इरः कित् ॥ २॥ ताम्यन्त्यनेन तमः। “अस्' ॥ (उणा-९५२)॥ इत्यस्।।३।।५९।। ध्वन्यते सर्वरोगहरतया तदिति ध्वान्तम्, पुंक्लीबलिङ्गः। "क्षुब्धविरिब्ध-" ॥ ४।२।७० ॥ इत्यादिना तान्तो निपात्यते ॥ ४ ॥ भुवश्छाया भूच्छाया; पुराणे भूगुणश्रुतेः । “ सेनाशाला-" ॥ (लिङ्गा-६२) इत्यादिना क्लीबत्वे भूच्छायं च ।।५|| अन्धं करोत्यन्धकारम् , पुंक्लीबलिङ्गः।। ६ ।। समवान्धतः समवान्धेभ्यः परं तमसम्, सततं तमः सन्तमसम्॥७॥ अवगतं अवहीनं वा तम: अवतमसम्॥॥ अन्धयत्यन्ध तच्च तत्तमश्च अन्धतमसम् । “समवान्धात्तमसः" ।। ७ । ३ । ८० ॥ इत्यत् ॥९॥ बाहुलकाद्दीर्घत्वे अन्धातमसमित्यपि । अमरस्तु-ध्वान्ते गाढेऽन्धतमसं, क्षीणेऽवतमसं तमः । विष्वक् संतमसमिति विशेषमाह । शेषश्चात्र
ध्वान्ते वृत्रो रजोबलम् ॥ रात्रिरागो नीलपङ्को दिनाण्डं दिनकेसरः । खपरागो निशावर्म वियद्भूतिदिगम्बरः॥ १ ॥
Page #57
--------------------------------------------------------------------------
________________
२ देवकाण्डः ।
५७
. तुल्यनक्तंदिने काले विषुवद् विषुवं च तत् ॥ ६०॥
तुल्ये नक्तंदिने यत्र काले तत्र विषुवत् विषुवं च, विषुर्नाम मुहूर्तः सोऽस्यास्ति विषुवत् , पुंक्लीबलिङ्गः; यद्वैजयन्ती-पुरी तन्महिमा हेम विषुवत् कर्म लोम दोः नृषण्ढलिङ्गाः । विषु साम्येऽव्ययम् तदस्यास्तीति वा ॥ १॥ एवं मण्यादित्वाद् वे विषुवम् । तच्च मेषादौ तुलादौ च भवति ॥ २ ॥ ६० ॥
पञ्चदशाऽहोरात्रः स्यात् पक्षः पञ्चदशाऽहोरात्रा अत्र पञ्चदशाहोरात्रः, पचति भूतानि पक्षः “मावावद्यभि-"॥ ( उणा-५६४ ) ॥ इत्यादिना सः ॥ १ ॥
स बहुलोऽसितः । स पक्षोऽसितः कृष्णः, बहते वर्द्धते तमोऽस्मिन्नित बहुलः ॥ १ ॥ शेषश्चात्रपक्षः कृष्णः सितो द्वेधा कृष्णो निशाह्वयोऽपरः । शुक्लो दिवाह्वयः पूर्वः ॥
तिथिः पुनः कर्मवाटी तन्यते तिथिः पुंस्त्रीलिङ्गः “ तनेर्डिद् ” ॥ ( उणा-६७४ ) ॥ इति इथिः ॥ १॥ कर्मणां वाटीव कर्मवाटी तत्प्रतिबद्धत्वात् तेषाम् ॥ २ ॥
प्रतिपत् पक्षतिः समे ॥ ६१ ॥ प्रतिपद्यते पक्षस्याऽऽद्यतया प्रतिपत् ॥ १॥ पक्षस्य मूलं प्रारम्भः पक्षतिः, स्त्रीलिङ्गो, “पक्षात्तिः " ॥ ७ । १ । ८९ ॥ इति तिः ॥ २ ॥ ६१ ॥
पञ्चदश्यौ यज्ञकालौ पक्षान्तौ पर्वणी अपि । पञ्चदशानां पूरण्यौ पञ्चदश्यौ ॥ १ ॥ यज्ञस्य कालौ यज्ञकालौ “दर्शपौर्णमासीभ्यां मिष्टान्नेन यजेत" इति श्रुतेः ॥ २॥ पक्षस्यान्तौ पक्षान्तौ ॥ ३ ॥ पूर्यन्ते पितरोऽत्र पर्वणी “ स्नामदि-" ॥ ( उगा-९०४ ) ॥ इत्यादिना वन् ॥ ४ ॥
- तत्पर्वमूलं भूतेष्टापञ्चदश्योर्यदन्तरम् ॥ ६२ ॥
पर्वणो मूलं पर्वमूलं, भूतेष्टा चतुर्दशी सा च पञ्चदशी च भूतेष्टापञ्चदश्यौ तयोरन्तरं मध्यम् ॥ १ ॥ ६२ ॥ ___ स पर्व सन्धिः प्रतिपत्पञ्चदश्योर्यदन्तरम् ।
स सन्धिः पर्वेति संबन्धः, यद दुर्गः-प्रतिपत्पञ्चदश्योस्तु सन्धिः पर्व । प्राच्यास्तु पर्वसन्ध्याख्यमाख्यन् ॥ १ ॥
-
Page #58
--------------------------------------------------------------------------
________________
५८
पूर्णिमा पौर्णमासी
।। ६ । ४ । २१ ।
""
पूरणं पूर्ण, पूर्णेन निर्वृत्ता पूर्णिमा “ भावादिमः इतीमः । केचित्तु, पूरणं पूर्णिः, पूर्णि मिमीते पूर्णिमेत्याहुः ॥ १ ॥ पूर्णो मान्द्रो ऽस्त्यस्यां पौर्णमासी “ पूर्णमासो ऽण् ॥ ७ । २ ।। ५५ ॥ इत्यण् । पूर्णमासइयमिति वा “ तस्येदम् ॥ ६ । ३ । १६० ॥ इत्यण् । पूर्णो मासोऽस्यामिति वा, पूर्णमासा युक्तेति वा “ साऽस्य पौर्णमासी ॥ ६ । २ । ९८ ॥ इति सूत्र
""
""
निपातनादण् ॥ २ ॥
अभिधानचिन्तामणौ
सा पौर्णमासी, पूर्णे चन्द्रे, रात्यानन्दं इति का ॥ ( उणा - २१ ) ॥ इत्यादिना कः ॥ १ ॥ ६३ ॥
कलाहीने त्वनुमतिः
सा राका पूर्णे निशाकरे ।। ६३ ॥
66
66
कलया हीने कलाहीने, अनुमन्यते अनुमतिः ॥ १॥ मार्गशीर्ष्याऽऽग्रहायणी ।
(C
""
मृगशीर्षेण चन्द्रयुक्तेन युक्ता पौर्णमासी मार्गशीर्षी प्रयुक्ते ॥। ६ । २ । ६ ॥ इत्यण् ॥ १ ॥ अग्रहायनस्य ॥ २ । ३ । ६४ ॥ इति णत्वे, अग्रहायणमेव प्रज्ञादित्वादणि ङयाम्, मार्गशीर्षादारभ्य वत्सरप्रवृत्तेः ॥ २ ॥
भीणशलिवलि
66
65
चन्द्रयुक्तात्कालं पूर्वपदस्था - " अग्रहायणी:
66
अमाऽमावस्यमावस्या दर्शः सूर्येन्दुसङ्गमः ॥ ६४ ॥ अमावास्याऽमावासी च
अमेति अमावस्याशब्दैकदेशोऽयं भीमवत् । न विद्यते माश्चन्द्रमा अस्यामिति वा पृषोदरादित्वात् ॥ १ ॥ अमा सह वसतोऽस्यां चन्द्रार्कावित्यमावसी औणादिके अप्रत्यये ङी ॥ २ ॥ तथाऽमावस्या arssertsमावास्या ॥ ५ । १ । २१ ॥ इति ध्यणन्तो निपात्यते ॥ ३ ॥ दृश्यते याज्ञिकैर्दर्शः, दृश्यते चन्द्रोऽस्मिन्निति वा विपरीतलक्षणया ॥ ४ ॥ सूर्येन्द्रो ः सङ्गमोऽत्र सूर्येन्दुसङ्गमः ।। ५ ।। ६४ ॥ अमावस्याया विकल्पपक्षे अमावास्या ॥ ६ ॥ अमावस्येव बाहुलकाद्दीर्घत्वे अमावासी॥ ७ ॥
सा नष्टेन्दुः कुहुः कुहूः ।
पृकाहृषि – ” ॥ ( उणा - ७२९ ) ॥ इति
सा अमावास्या नष्ट इन्दुरस्यां नष्टेन्दुः, कुहयते विस्मापयते कुहुः, स्त्रीलिङ्गः उः कित् ॥ १ ॥ तथा कुहूः
नृतिश्वधिरुषिकुहिभ्यः कित् ॥ ( उणा - ८४४ ) ॥ इति ऊ ॥ २ ॥
""
27
Page #59
--------------------------------------------------------------------------
________________
२ देवकाण्डः।।
५९
· दृष्टेन्दुस्तु सिनीबाली सिता बाला चन्द्रकलाऽस्यां सिनीबाली पृषोदरादित्वात् ॥ १ ॥ __ भूतेष्टा तु चतुर्दशी ॥ ६५ ॥ भूतानामिष्टा भूतेष्टा ॥ १ ॥ चतुर्दशानां तिथीनां पूरणी चतुर्दशी ॥२॥६५॥
पक्षौ मासः माति मिमीते वा मासः, पुंक्लीबलिङ्गः “मावावद्यमि--” ॥ (उणा--५६४) ॥ इति सः । मस्यते परिमीयते सावनचान्द्रसूर्यादिभेदेनेति वा घञ् ॥ १ ॥
शेषश्चात्रमासे वर्षांशको भवेत् वर्षकोशो दिनमलः ॥ वत्सरादिर्मार्गशीर्षः सहः सहाः।
आग्रहायणिकश्च - वत्सरस्यादिवत्सरादिः ॥ १॥ मार्गशीर्षी पौर्णमास्यस्य मार्गशीर्षः “सास्य पौर्णमासी" ॥ ६।२। ९८ ॥ इत्यण् । यौगिकत्वाद मार्गी पौर्णमास्यस्य मार्गः ॥ २ ॥ सहते सहः, अच् ॥ ४ ॥ सहते लोकोऽस्मिन् शीतमिति सहाः, पुंलिङ्गः " अस्" ॥ ( उणा-९५२) ॥ इत्यस् ॥ ४ ॥ आग्रहायणी पौर्णमास्यस्य आग्रहायणिकः “ आग्रहायण्यश्वत्थादिकण् ” ॥ ६ । २ । ९९ ॥ ___ अथ पौषस्तैषः सहस्यवत् ॥ ६६ ॥
पुष्येण चन्द्रयुक्तेन युक्ता पौर्णमासी पौषी साऽस्यास्ति पौषः ॥ १ ॥ एवं तषः ॥ २ ॥ सहसि साधुः सहस्यः स इव सहस्यवत् । यथा सहस्यः पौषवाची तथा तेषोऽपीत्यर्थः ॥ ३ ॥ ६६ ॥
माघस्तपाः माघी पौर्णमास्यस्य माघः ॥ १ ॥ तपति तपाः, पुंक्लीबलिङ्गः॥
· फाल्गुनस्तु फाल्गुनिकस्तपस्यवत् । 'फाल्गुनी पौर्णमास्यस्य फाल्गुनः ॥ १॥ एवं फाल्गुनिकः “ चैत्रीकार्तिकीफाल्गुनीश्रवणाद् वा” ॥६।२। १०० ॥ इति इकण् ॥ २॥ तपसि साधुस्तपस्यः ॥३॥ शेषश्चात्र
फाल्गुनालस्तु फाल्गुने ॥ - चैत्रो मधुश्चैत्रिकश्च
Page #60
--------------------------------------------------------------------------
________________
६०
अभिधानचिन्तामणौ- .. चैत्री पौर्णमास्यस्य चैत्रः ॥ १॥ एवं चैत्रिकः ॥ २ ॥ मन्यते मधुः पुंलिङ्गः “ मनिजनिभ्यां धतौ च " ॥ ( उणा-७२१ ) ॥ इत्युः। शेषश्चात्रचैत्रे मोहनिकः कामसखश्च फाल्गुनानुजः ॥
वैशाखे राधमाधवौ ॥ ६७ ॥ वैशाखी पौर्णमास्यस्य वैशाखस्तत्र ॥ १ ॥ एवं राधः ॥ २ ॥ मधुरेव माधवः प्रज्ञादित्वादण् ॥ ३ ॥
शेषश्चात्रवैशाखे तूत्सरः ॥ ६ ॥
ज्येष्ठस्तु शुक्रः वासरैर्वृद्धतमत्वात् ज्येष्ठः ॥१॥ शोचन्ति पान्था अत्र शुक्रः, पुंक्लीबलिङ्गः ॥२॥ शेषश्चात्रज्येष्ठमासे तु खरकोमलः ज्येष्ठामूलीय इति च ।।
अथाऽऽषाढः शुचिः स्यात् आषाढी पौर्णमास्यस्य आषाढः ॥ १॥ शोचन्ति पान्था अत्र शुचिः, पुंसि ॥२॥
श्रावणो नभाः।
श्रावणिकः श्रावणी पौर्णमास्यस्य श्रावणः ॥ १॥ एवं श्रावणिकोऽपि ॥२॥ नभ्यति हिनस्ति पान्थानिति नभाः पुंसि ॥ ३ ॥ ..
अथ नभस्यः प्रोष्ठभाद्रपरः पदः ॥ ६८ ॥
भाद्रश्चापि नभसि साधुनभस्यः ॥१॥ प्रौष्ठभाद्राभ्यां परः पद इति प्रौष्ठपदी पौर्णमास्यस्य प्रौष्ठपदः ॥ २ ॥ एवं भाद्रपदः ॥ ३ ॥ ६८ ॥ भीमवद्भद्रया युक्ता पौर्णमासी भाद्री साऽस्त्यस्य भाद्रः, भाद्रपदैकदेशो वा ॥ ४ ॥
आश्विने त्वाश्वयुजेषौ
आश्विनी पौर्णमास्यस्य आश्विनस्तत्र ॥ १॥ एवमाश्वयुजः ॥ २ ॥ इष्यते इतीषः “ तुदादिविषिगुहिभ्यः कित् " ॥ ( उणा-५) ॥ इति अः कित् ॥ ३ ॥
अथ कार्तिकः ।
Page #61
--------------------------------------------------------------------------
________________
२ देवकाण्डः ।
६१
कार्तिकिको बाहुलोज
कार्तिकी पौर्णमास्यस्य कार्त्तिकः ॥ १ ॥ एवं कार्त्तिकिकः ॥ २ ॥ बाहुल: ॥३॥ ऊर्जयन्ति बलिनो भवन्ति प्राणिनोऽत्र ऊर्जः “ पुन्नाम्नि घः ॥ ५|३|१३० ४ ॥
शेषश्चात्र – कार्त्तिके सैरकौमुदौ ॥
द्वौ मार्गादिकावृतुः ॥ ६९॥
मासाविति शेषः । मार्गादिकाविति मार्गपौषौ, माघफाल्गुनो, चैत्रवैशाखी, ज्येष्ठाषाढौ, श्रावणभाद्रपदौ, आश्विनकार्त्तिकाविति । इयर्त्ति ऋतुः पुंसि, यत्कात्यः - " आदाय मार्गशीर्षाच्च द्वौ द्वौ मासावृतुर्मतः " । हेमन्ताद्धि वत्सरस्यारम्भः ||
१ ॥ ६९ ॥
हेमन्तः प्रसलो रौद्रः
हन्ति दिनमसौ, हिन्वन्ति वर्द्धन्ते रात्रयोऽत्रेति वा हेमन्तः “सीमन्तहेमन्त - भदन्तदुष्वन्तादयः”॥ (उणा - २२२ ) ॥ इत्यन्तान्तो निपात्यते । हिमोऽन्तोऽस्येति पृषोदरादित्वाद् वा ॥ १ ॥ प्रकर्षेण सलति प्रसलः ॥ २ ॥ रुद्रस्यायं पूजाहेतुत्वाद् रौद्रः ॥ ३ ॥
शेषश्चात्र —— हिमागमस्तु हेमन्ते ॥ अथ शेषशिशिरौ समौ ।
शेषस्यायं पूजाहेतुत्वात् शैषः ॥ १ ॥ शशति शीघ्रं गच्छति दिनमत्र शिशिरः पुंक्लीबलिङ्गः “शवशशेरिच्चातः " ॥ ( उणा - ४१३ ) ॥ इति इरः ॥ २ ॥
वसन्त इष्यः सुरभिः पुष्पकालो बलाङ्गकः ।। ७० ।।
वसत्यस्मिन् सुखं, वस्ते भुवं वा वसन्तः पुंक्लीबलिङ्गः “ तृजिभूवदि - " ॥ ( उणा - २२१ ) ॥ इत्यादिना अन्तः ॥ १ ॥ इषस्य तुल्यः समरात्रिन्दिवत्वादिष्यः शाखादित्वाद् यः, एषणमिट् पुष्पादिवाञ्छा तस्यां साधुरिति वा इष्यः पुंक्लीबलिङ्गः, यद्वाचस्पतिः-वसन्ते त्वस्त्रियामिष्यः ॥ २ ॥ सुष्ठु रभते सुरभिः पुंसि “ नाम्युपान्त्य - " ॥ ( उणा - ६०९ ) ॥ इति बहुवचनात् किदिः ॥ ३ ॥ पुष्पाणां कालः समयः पुष्पकालः ॥ ४ ॥ बलं वीर्यमङ्गेऽस्माद् बलाङ्गकः ॥ ५ ॥
. शेषश्चात्र – वसन्ते पिकबान्धवः पुष्पसाधारणश्चापि ॥ ७० ॥
उष्ण उष्णागमो ग्रीष्मो निदाघस्तप ऊष्मकः । ओषति उष्णः (( घृवीह्वा - "॥ ( उणा -१८३ ) ॥ इति णः कित् ॥ १॥ उष्णस्य धर्मस्यागमोऽत्र उष्णागमः ॥ २ ॥ प्रसते जलं ग्रीष्मः “ रुक्मग्रीष्म ( उणा - ३४६ ) ॥ इत्यादिना मान्तो निपात्यते ॥ ३ ॥ निदह्यन्तेऽस्मिन् इति
11
९
Page #62
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणौ
निदाघः व्यञ्जनाद् घनि “न्यङ्गमेघादयः"॥४।१।११२॥ इति घत्वम् ॥४॥ तपति तपः अच्, यक्लक्षम्-तपेन वर्षा शरदा हिमागमः ॥ ५॥ ऊष्मयतीति ऊष्मः, ऊष्मप्रतिकृतिर्वा ॥ ६॥ शेषश्चात्र-ग्रीष्मे तूष्मायणो मतः आखोरपद्मौ ॥
वर्षास्तपात्ययः प्रावृड् मेघात्कालागमौ क्षरी ॥ ७१॥ वियते छाद्यते नभोऽत्र मेधैरिति वर्षाः " वृकृतृमीङ्माभ्यः षः” ॥ (उणा५४० ) ॥ इति षः, वर्षमस्त्यासु, वर्षन्तीति वा; नित्यबहुवचनान्तः स्त्रीलिङ्गश्च । वरिषा इत्यपि ॥ १ ॥ तपस्यात्ययोऽत्र तपात्ययः ॥ २॥ प्रवर्षन्त्यस्यां मेघाः प्रावृट् स्त्रीलिङ्गः “गतिकारकस्य-"॥ ३ । २ । ८५ ॥ इत्यादिना क्विपि दीर्घः ॥ ३ ॥ मेघशब्दात्परः कालः, आगमश्च मेघकालः ॥ ४ ॥ मेघागमः ॥ ५॥ क्षरा मेघाः सन्त्यत्र क्षरी ॥ ६ ॥ ७१ ॥
. शरद् घनात्ययः
शीर्यन्तेऽस्यां पाकेनौषधयः शरद् स्त्रीलिङ्गः, “शृदृभसेरद्” ॥( उणा८९४ ) ॥ इत्यद् ॥ १ ॥ घनस्यात्ययोऽत्र घनात्ययः ॥२॥
अयनं शिशिराद्यैस्त्रिभिस्त्रिभिः । अयतेऽर्कोऽनेनेत्ययनम् , त्रिभिस्त्रिभिरिति शिशिरायैवर्षाद्यैश्च ॥ १ ॥ ... अयने द्वे गतिरुदम् दक्षिणाऽर्कस्य वत्सरः ॥ ७२ ॥
उदगुत्तरा, दक्षिणाऽपाची याऽर्कस्य गतिस्ते द्वे अयने उत्तरायणं दक्षिणायनञ्च, ते मिलिते वत्सरो वर्षे भवति, वसन्ति ऋतवोऽत्र वत्सरः “मज्यजि-" ॥ (उणा४३९) ॥ इत्यादिना सरः ॥ २ ॥ ७२ ॥
स संपर्यनूभ्यो वर्ष हायनोऽब्दं समाः शरत् । स वत्सरः, संपर्यनूभ्यः परः-संवत्सरः, परिवत्सरः, अनुवत्सरः, उद्वत्सरः ॥४॥ वृणोति छादयति वर्षम् ॥ ५॥ जहाति जिहीते वा भावान् हायनः "हः कालव्रीह्योः" ॥५।१।६८॥ इति टनण् ॥ ६ ॥ आप्यते अब्दः “ आपोऽप् च " ॥ ( उणा-२३८ ) ॥ इति दः । वर्षादयस्त्रयः पुंक्लीबलिङ्गाः ॥ ७ ॥ समन्ति समाः स्त्रीलिङ्गः, सह मान्ति वर्तन्ते ऋतव आसु वा; बहुत्वेऽयम् ॥ ८ ॥ शीर्यत इति शरत् स्त्रीलिङ्गः ॥ ९ ॥ शेषश्चात्र-वर्षे तु ऋतुवृत्तियुगांशकः । - कालग्रन्थिर्मासमलः संवत् सर्वर्तुशारदौ ॥
वत्स इद्वत्सर इडावत्सरः परवाणिवत् । ... संवदित्यनव्ययम् । अव्ययं त्वव्ययेषु वक्ष्यते ॥
Page #63
--------------------------------------------------------------------------
________________
२ देवकाण्डः ।
ar
• भवेत् पैत्रं त्वहोरात्रं मासेन
पितृणामिदं पैत्रम् , अहोरात्रम् , तत्र कृष्णपक्षोऽहः, शुक्लो रात्रिः, मासेन मानुषेणेति शेषः ॥ १॥
अब्देन दैवतम् ॥ ७३ ॥ मानुषेणेति शेषः । देवतानामिदं, दैवतं, अहोरात्रम् , तत्रोत्तरायणमहः, दक्षिणायनं रात्रिः ॥ ७३ ॥
दैवे युगसहस्र द्वे ब्राह्म - अहोरात्रमित्येव । दैवैर्हि षष्ट्यधिकैस्त्रिभिरहोरात्रशतैर्दिव्यं वर्षे, तैदशभिः सहस्रैलौकिकं चतुर्युगम् , तच्च देवानामेकं युगं तत्सहस्रं ब्रह्मणो दिनं भूतानां स्थितिकालः, तावत्येव रात्रिभूतानां प्रलयकालः । . . यन्मनुः
चत्वार्याहुः सहस्राणि वर्षाणां तु कृतं युगम् । तस्य तावच्छती संध्या संध्यांशश्च तथाविधः ॥ १ ॥ इतरेषु ससंध्येषु ससंध्यांशेषु च त्रिषु । एकापायेन वर्तन्ते सहस्राणि शतानि च ॥ २॥
यदेतत् परिसंख्यातमादावेव चतुर्युगम् । . .. 'एतद्द्वादशसाहस्रं देवानां युगमुच्यते ॥ ३ ॥
दैविकानां युगानां तु सहस्रं परिसंख्यया ।
ब्राह्ममेकमहर्जेयं तावती रात्रिरुच्यते ॥ ४ ॥ मानुषमानेन ब्राह्ममहोरात्रं यथा
मानुषाणि सहस्राणां शतान्याहुश्चतुर्दश । चत्वारिंशत् सहस्राश्च वर्षाणां तत् कृतं युगम् ॥ १ ॥ लक्षाणि चतुहीनानि सहस्रा द्विगुणास्ततः। इति त्रेतायुगे कालगणना मानुषी कृता ॥ २ ॥ नियुतानि पुनः सप्त सहस्राणि च विंशतिः । द्वापरं युगमन्ये तु लक्षाण्यष्टौ मृषैव तत् ॥ ३ ॥ त्रीणि लक्षाणि षष्टिश्च सहस्राणि कलौ युगे। चतुर्युगसहस्राणि द्वादश ब्रह्मणो दिनम् ॥ ४ ॥
इयं च मानुषेणैव मानेन गणना कृता । कल्पौ तु ते नृणाम् ।
ये द्वे देवे युगसहस्रे ते नृणां कल्पौ, एक स्थिति कल्पयति स्थितिकल्प इति, . द्वितीयं तु क्षयमिति ॥
Page #64
--------------------------------------------------------------------------
________________
६४.
अभिधानचिन्तामणौ
मन्वन्तरं तु दिव्यानां युगानामेकसप्ततिः ॥ ७४ ॥
मनूनां स्वायंभुवचाक्षुषवैवस्वतादीनामन्तरमवकाशोऽवधिवी तैर्हि चतुर्दशभिर्ब्रह्मणो दिनम् ॥७४॥
कल्पो युगान्तः कल्पान्तः संहारः प्रलयः क्षयः । संवर्त्तः परिवर्त्तश्च समसुप्तिर्जिहानकः ॥ ७५ ॥
कल्पते जगदस्मिन् कल्पः॥१॥ युगस्यान्तो युगान्तः॥२॥ कल्पस्यान्तोऽवधिः कल्पान्तः, , अनैकः कल्पः क्षयार्थोऽन्यो ब्राह्मदिनार्थः यच्छाश्वतः कल्पः शास्त्रे विधौ न्याये संवर्त्ते ब्रह्मणो दिने ॥ ३ ॥ संहियते प्रलीयते क्षीयते जगदत्र संहारः ॥ ४ ॥ प्रलयः ॥५॥ क्षयः ॥६॥ संवर्तते, परिवर्तते जगदत्र संवर्तः, परिवर्तः ॥ ७ ॥ ८ ॥ समा सुप्तिरत्र समसुप्तिः ॥ ९ ॥ जिहीते गच्छति जिहानः स्वार्थे के जिहानकः ॥ १० ॥ ७५ ॥
तत्कालस्तु तदात्वं स्यात्
स चासौ कालश्च तत्कालः ॥ १॥ तदेत्यस्य भावः तदात्वम् ॥२॥
तज्जं सान्दृष्टिकं फलम् ।
तज्जं तात्कालिकं फलं, संदृष्ट प्रत्यक्षं प्रयोजनमस्य सांदृष्टिकम् | " प्रयोजनम्" ॥६|४|११७॥ इतीकण् । सांसृष्टिकमित्यन्यः ॥ १॥
आयतिस्तूत्तरः कालः
आयमनमायतिः, एष्यत्यायतिरित्यन्ये । उत्तर आगामी कालः ॥ १ ॥ उदर्कस्तद्भवं फलम् ॥ ७६ ॥
उदियर्ति उदर्कः “निष्कतुरुष्कोदर्क - " ॥ ( उणा - २६ ) ॥ इति कान्तो निपात्यते, उदृच्यते अभिलाषात् श्रूयते इति वा, तद्भवमायतिभवं फलम् ॥१॥७६॥ व्योमान्तरिक्षं गगनं घनाश्रयो विहाय आकाशमनन्तपुष्करे । अभ्रं सुराम्रोडुमरुत्पथोऽम्बरं
खं द्योदिवौ विष्णुपदं वियद् नभः ॥ ७७ ॥
""
व्ययति छादयति क्ष्मां व्योम “व्येग एदोतौ च वा ॥ (उणा--९१४) ॥ इति मन्, व्यवतीति वा मनि " मव्यविश्रिविज्वरि " ॥ ४।१।१०९ ॥ इत्यूट् ॥ १ ॥ अन्तर्मध्ये ऋक्षाण्यस्य, द्यावापृथिव्योरन्तरीक्षते वा अन्तरिक्षं पृषोदरादित्वात्, अन्तरीक्षमित्यपि ॥ २ ॥ गच्छन्त्यनेन देवा गगनं
""
22
विदनगगनगहनादयः 44
Page #65
--------------------------------------------------------------------------
________________
२ देवकाण्डः ।
( उणा--२७५ ) ॥ इत्यनान्तो निपात्यते ॥ ३॥ घनानामाश्रयो घनाश्रयः ॥ ४ ॥ विजहाति सर्व विहायः “ विहायस्सुमनस्-" ॥ ( उणा--९७६ ) ॥ इत्यादिना असन्तो निपात्यते ॥ ५॥ आकाशन्ते सूर्यादयोऽस्मिन्निति आकाशम् , पुंक्लीबलिङ्गौ, न काशते वा बाहुलकाद् दीर्घः ॥ ६ ॥ नास्त्यन्तोऽस्य अनन्तम् ॥ ७ ॥ पोषति मेघान् पुष्करं “ सूपुषिभ्यां कित्" ॥ ( उणा--४३६ ) ॥ इति करः, पुष्कं वारि रातीति वा ॥ ८ ॥ अभ्राण्यऽस्य सन्तीत्यभ्रं “ अभ्रादिभ्यः " ॥ ७॥२॥४६॥ इत्यः ॥९॥ सुराणां देवानाम् , अभ्राणां मेघानाम् , उडूनां नक्षत्राणां, मरुतां वायूनां . पन्थाः सुरपथः, अभ्रपथः, उडुपथः, मरुत्पथः, यौगिकत्वात् देववर्त्म, मेघवर्त्म, नक्षत्रवर्ल्स, वायुवर्मेत्यादयः ॥ १०॥११।१२॥ १३ ॥ अमन्त्यत्र देवा अम्बरं " जठरक्रकर-"॥ (उणा-४०३) ॥ इत्यरान्तो निपात्यते, अम्बते शब्दायतइत्यन्ये ॥ १४ ॥ खन्यते खं " क्वचिद् "॥५।१।१७१॥ इति डः ॥ १५॥ द्योदिवौ पूर्ववत् ॥ १६॥१७॥ विष्णोः पदं क्रमोऽत्र विष्णुपदम्।।१८।। वियच्छति न विरमति वियत् क्विप् ॥ १९ ॥ नभ्यतीति नभः, न बभस्तीति वा नखादित्वात् , क्लीबलिङ्गो ॥२०॥ विहायसा भुवश्वाव्यये । महाविलं देश्याम् ॥ शेषश्चात्र-नक्षत्रवर्त्मनि पुनर्ग्रहनेमिनभोवटी । छायापथश्च ॥ ७७ ॥
नभ्राट् तडित्वान् मुदिरो घनाघनो. ऽभ्रं धूमयोनिस्तनयित्नुमेघाः । जीमूतपर्जन्यबलाहका घनो
धाराधरो वाहदमुग्धरा जलात् ॥ ७८ ॥ ___ मन भ्राजते नभ्राट् पृषोदरादित्वादेकस्य नो लोपे नखादित्वात् साधुः ॥१॥ तडिद्विद्यतेऽस्य तडित्वान् ॥ २॥ मोदन्ते जना अनेन मुदिरः “शुषीषि-" ॥ ( उणा--४१६ ) ॥ इति किदिरः ॥ ३॥ हन्ति प्रवासिन इति घनाघनः चराचरचलाचल-"॥४।१।१३॥ इत्यादिना अजन्तो निपात्यते ॥ ४ ॥ अभ्रति अभ्रं, न भ्रश्यन्त्यापोऽस्मादित्येके, यदुक्तम्--न भ्रश्यन्ति यतस्तेभ्यो जलान्यभ्राणि तान्यतः, आप्नोति सर्वा दिश इति वा अभ्रं “खुरक्षुर"--॥ ( उणा--३९६ ) ॥ इति साधुः ॥५॥ धूमो योनिः कारणमस्य धूमयोनिः ॥६॥ स्तनयति गर्जति स्तनयित्नुः “ हृषिपुषि"--॥ ( उणा--७९७ ) ॥ इत्यादिना इत्नुः ॥७॥ मेहति सिञ्चति भुवं मेघः "न्यद्गमेघादयः॥४।१।११२॥ इति साधुः॥८॥ जीवन्त्यनेन जीमूतः "जीवेम च-"॥ ( उणा--२१६ ) ॥ इत्यूतः, जीवनस्य जलस्य मूतः पुटबन्धइति पृषोदरादित्वाद् वा ॥ ९॥ परिवर्षति गर्जति वा पर्जन्यः “ हिरण्यपर्जम्यादयः-" ॥ ( उणा--३८० ) इत्यन्यान्तो निपात्यते ॥ १० ॥ बलन्ति जीवन्त्यनेन बलाहकः “बलिबिलि-" ॥ ( उणा--८१)॥ इत्याहकः, वारिणो वाहको वा पृषो
Page #66
--------------------------------------------------------------------------
________________
६६
अभिधत्नचिन्तामणौ
दरादित्वात् ॥११॥ हन्यते वायुना घनः “ मूर्त्तिनिचिताभ्रे घनः ॥५।३।३७ ॥ इत्यन्तो निपात्यते ॥ १२ ॥ धारां धरति धाराधरः आयुधादिभ्यो धृगोऽदण्डादेः " ।। ५।१।९४।। इत्यच् || १३ || वाहश्च दश्च मुक् च धरश्च वाहदमुग्धराः, ते जलात् परा मेघस्य वाचका इत्यर्थः जलवाहः, जलदः, जलमुक्, जलधरः, यौगिकत्वात् वारिवाहः, वारिदः, वारिमुक्, वारिधरः, इत्यादयः । अभ्रवर्ज सर्वे: पुंलिङ्गाः । इन्द्रवंशेन्द्रवज्रयोरुपजातिरियम् ॥ १४ ॥ १५ ॥ १६ ॥ १७ ॥
शेषश्चात्र मेघे तु व्योमधूमो नभोध्वजः । गण्डायित्नुर्गदायित्नुर्वार्मसिवारिवाहनः ॥
खतमालोऽपि ॥ ७८ ॥
<<
"
कादम्बिनी मेघमाला
कमाददते कादम्बाः मेघाः ते सन्त्यस्यां कादम्बिनी, कदम्बविकासः कादम्बः सोsस्त्यस्यां वा; मेघमाला मेघपङ्किः । कालिकाऽपि ॥ १ ॥
दुर्दिनं मेघजं तमः ।
दुष्टं दिनमत्र दुर्दिनं, मेघाज्जातं मेघजं, तमोऽन्धकारं, यद्भागुरिः--दुर्दिनं ह्यन्धकारो ऽब्दैः । वार्दलमपि ॥ १ ॥
आसारो वेगवान् वर्षः ।
आसरणमासारः, स वेगवान् वर्ष इत्युच्यते ॥ १ ॥ शेषश्चात्र -- अथासारे धारासंपात इत्यपि ॥
वाताऽस्तं वारि शीकरः ॥ ७९ ॥
वातेनास्तं क्षिप्तं वातास्तम्, शीकते सिञ्चति शीकरः " ऋछिचटि " ॥ ( उणा--३९७ ७ ) ॥ इत्यरः ॥ १ ॥ ७९ ॥ वृष्टयां वर्षणवर्षे
वर्षणाद् वृषभ इति भाष्यकारवचनाद् वर्षणमिति साधुः ॥ १ ॥ वर्ष पुंक्लीबलिङ्गः, “ वर्षादयः क्लीबे " || ५|३|२९ ॥ इत्यल् | यद्वाचस्पतिः -- अथ वृष्टिर्वर्षमस्त्री केचिदिच्छन्ति वर्षणम् ॥ २ ॥
तद्विघ्ने ग्राहग्रहाववात् ।
तद्विघ्ने त्रृष्टिविघ्ने अवात्परौ ग्राहग्रहौ अवग्राहः, अवग्रहः “ वर्षविघ्नेऽवाद् महः” ॥ ५ । ३ । ५० ॥ इति वा अल् ॥ १ ॥ २ ॥
घनोपलस्तु करकः
Page #67
--------------------------------------------------------------------------
________________
२ देकाण्डः ।
घनोपलो मेघग्रावा, कीर्यते करकः त्रिलिङ्गः " दृकुन-" ॥( उणा--२७ ) ॥ इत्यादिना अकः ॥ १॥ शेषश्चात्र--करकेऽम्बुघनो मेघकफो मेघास्थि पुञ्जिका ॥
बीजोदकं तोयडिम्भो वर्षाबीजमिरावरम् ॥ काष्ठाऽऽशा दिग् हरित् ककुप् ॥ ८० ॥ काशते काष्ठा ॥ १॥ आऽश्नुते आशा ॥ २॥ दिशत्यवकाशं दिक् ऋत्विग्दिश्-" ॥ २ । १ । ६९ ॥इति गत्वम् ॥ ३॥ हरन्त्यनया हरित् "हृसृरुहियुषितडिभ्य इत् " ॥ (उणा--८८७) ॥ इति इत् ॥ ४ ॥ कं वायु स्कुम्नाति विस्तारयति ककुप् “ककुत्रिष्टुबनुष्टुभः” ॥ ( उणा-९३२ ) ॥ इति क्विबन्तो निपात्यते । एते स्त्रीलिङ्गाः ॥ ५॥ ८० ॥
पूर्वा प्राची - पृणाति पूर्वा " निघृषि-" ॥ (उणा-५११) ॥ इति वः कित् , पूर्वति व्याप्नोतीति वा ॥ १ ॥ प्रथममस्यामञ्चत्यादित्य इति प्राची क्विपि “अञ्चः ॥ २।४। ३ ॥ इति डीः ॥ २॥
दक्षिणाऽपाची दक्षते शीघ्रं गच्छत्यस्यां रविरिति दक्षिणा “द्रुवृहि"- ॥ (उणा-१९४) ॥ इति इणः ॥ १ ॥ अपाञ्चत्यस्यां रविरित्यपाची । जपादित्वाद् वत्वे अवाची इत्यपि ॥ २॥
प्रतीची तु पश्चिमा ।
अपरा प्रत्यञ्चति रविरस्यां प्रतीची ॥ १ ॥ पश्चाद् भवा पश्चिमा “पश्चादाद्यन्ताग्रादिमः” ॥ ६।३।७५ ॥ इतीमः ॥२॥ न पृणाति रविश्चिरमेतामपरा ॥३॥ शेषश्चात्र-यथाऽपरेतरा पूर्वाऽपरा पूर्वेतरा तथा ॥ .
अथोत्तरोदीची · अतिशयेनात्कृष्टा उत्तरा "द्वयोर्विभज्ये च तरप्" ॥७॥३॥६॥ इति तरप्, उत्तरतीति वा ॥ १ ॥ उत्तरमञ्चत्यर्कोऽस्यां उदीची ॥ २ ॥
शेषश्वात्र-ययोत्तरेतराऽपाची तथाऽपाचीतरोत्तरा ॥
विदिक् त्वपदिशं प्रदिक् ॥ ८१ ॥ विशिष्टा दिक् विदिक् उभयव्यपदेशात् , यदाहुः–यान्यासामन्तरालानि विदिशः प्रदिशश्च ताः ॥ १ ॥ दिशोरिदमपादिशं, विभक्त्यर्थेऽव्ययीभावे "शर
Page #68
--------------------------------------------------------------------------
________________
६८
अभिधानचिन्तामणौ
दादेः” ॥७३।९२॥ इत्यत् समासान्तः ॥ २ ॥ प्रकृष्टा दिक् प्रदिक् ॥ ३.॥ ८१ ॥
दिश्यं दिग्भववस्तुनि दिश्यमिति “दिगादिदेहांशाद् यः” ॥६।३।१२४ ॥ १ ॥
अवागपाचीनम् अपाञ्चतीति अपाक् ॥ १ ॥ अपागेवाऽपाचीनम् “ अदिस्त्रियां वाऽञ्चः ॥७१।१०७॥ इति स्वार्थे ईनः ॥ २ ॥ एवम्
उदगुदीचीनम् । एवम्
प्राक् प्राचीनं च समे एवम्
प्रत्यक् तु स्यात् प्रतीचीनम् ॥ ८२॥ तिर्यदिशां तु पतय इन्द्राग्नियमनैर्ऋताः ।
वरुणो वायुकुबेरावीशानश्च यथाक्रमम् ॥ ८३ ॥ तिर्यगित्यूर्ध्वाधोदिग्व्यवच्छेदार्थम् । विदिगपि प्रसिद्ध्या दिक् । एवं च स्वस्वामिसंबन्धे पूर्वा दिग् ऐन्द्री, ततो विदिक् आग्नेयी, दक्षिणा याम्या, ततो विदिक् नैर्ऋती, पश्चिमा वारुणी, ततो विदिक् वायव्या, उत्तरा कौबेरी, ततो विदिक् ऐशानी इति सिद्धम् ॥ ८३ ॥
ऐरावतः पुण्डरीको वामनः कुमुदोऽञ्जनः ।
पुष्पदन्तः सार्वभौमः सुप्रतीकश्च दिग्गजाः ॥ ८४ ॥ इरावति अब्धौ जातः ऐरावतः “जाते” ॥६।३।९८॥ इत्यण् ॥ १ ॥ पुण्डरीकवर्णत्वात् पुण्डरीकः ॥ २ ॥ वामनाकारत्वाद् वामनः ॥ ३ ॥ कुमुदवर्णत्वात् कुमुदः ॥ ४ ॥ अञ्जनवर्णत्वात् अञ्जनः ॥ ५॥ पुष्यवद् दन्ता अस्य पुष्पदन्तः ॥ ६ ॥ सर्वभूमेर्शातः सार्वभौमः " पृथिसिर्वभूमेरशिज्ञातयोश्चाञ्" ॥ ६।४ । १५६ ॥ इत्यञ् ॥ ७ ॥ शोभनानि प्रतीकानि अङ्गानि अस्य सुप्रतीकः ॥ ८ ॥ दिशां धारका गजा दिग्गजाः । दिक्क्रमेणेति प्रस्तावाद् लभ्यते । 'ऐरावतः पुण्डरीकः कुमुदाञ्जनवामनाः' इति भागुरिः क्रममाह । माला तु--ऐरावतः सुप्रतीक इति ॥ ८४ ॥ - इन्द्रादयोऽष्टौ दिक्पालाः, तत्राग्निर्वायुश्चैकेन्द्रियेषु तिर्यकाण्डे वक्ष्येते, शेषानुक्तक्रमेणाह
पुष्पा
Page #69
--------------------------------------------------------------------------
________________
__ २ देवकाण्डः। · इन्द्रो हरिर्दश्च्यवनोऽच्युताग्रजो
___ वज्री विडोजा मघवान् पुरन्दरः । प्राचीनबर्हिः पुरुहूतवासवौ
संक्रन्दनाऽऽखण्डलमेघवाहनाः ॥ ८५ ॥ सुत्रामवास्तोष्पतिदल्मिशका
. वृषा शुनासीरसहस्रनेत्रौ । पर्जन्यहर्यश्वऋभुक्षिबाहु
दन्तेयवृद्धश्रवसस्तुरापाट् ॥ ८६ ॥ सुरर्षभस्तपस्तक्षो जिष्णुर्वरशतक्रतुः । कौशिकः पूर्वदिग्देवाऽप्सरःस्वर्गशचीपतिः ॥ ८७ ॥
पृतनापाड्डप्रधन्वा मरुत्वान् मघवा इन्दति इन्द्रः “ भीवृधि-" ॥ ( उणा-३८७ ) ॥ इति रः ॥१॥ हरति दैत्यप्राणानिति हरिः ॥ २॥ दुष्टं च्यवते परदारेषु रेतश्च्युतेर्तुश्च्यवनः, नन्द्यादित्वादनः । दुःखेन च्यवते रणाद् वा ॥ ३ ॥ अच्युतस्याऽप्रजो अच्युताग्रजः ॥ ४ ॥ वज्रमस्यास्ति वज्री ॥५॥ वेबेष्टि विड् व्यापकं ओजोऽस्य चिडौजाः पृषोदरादित्वात् , विडं भेदकं ओजो यस्येति वा ॥ ६ ॥ मघः सौख्यमस्याऽस्ति मघवान् , मघो देवसभा सोऽस्यास्तीति वा ॥ ७ ॥ पुराणि अरीणां दारयति, त्रिपुरं वा पुरन्दरः “ पुरन्दरभगन्दरौ” ॥ ५।११११४ ॥ इति खान्तो निपात्यते ॥ ८॥ प्राचीनमुखा बर्दिषो दर्भा अस्य प्राचीनबर्हिः । यद्विष्णुपुराणे
प्राचीनामाः कुशास्तस्य पृथिव्यां विश्रुता मुनेः ।
प्राचीनबर्हिरभवत् ख्यातो भुवि महाबलः ॥ १ ॥९॥ - पुरु प्रभूतं हूतं यज्ञेष्वाह्वानमस्य पुरुहूतः ॥ १० ॥ वसति खर्गे वासवः " मणिवसेर्णित् ” ॥ ( उणा-५१६ ) ॥ इत्यवः, वसुरेव वा प्रज्ञाद्यण् , वस्वपत्यं वा ॥ ११ ॥ संक्रन्दयत्यरिस्त्रीः संक्रन्दनः ॥ १२ ॥ आखण्डयत्याखण्डलः ॥ १३ ॥ मेघो वाहनमस्य मेघवाहनः, इन्द्रो हि मेघानाविश्य वर्षति ; मेघऐरावतो वा, अभ्राधिष्ठातृत्वात् ॥ १४॥८५ ॥ सुष्ठु त्रायते सुत्रामा मन् , शोभनं त्राम बलमस्य वा । बाहुलकाद् दीर्घत्वे सूत्रामाऽपि ॥ १५ ॥ वास्तोहक्षेत्रस्याऽधिछाता वास्तोष्पतिः " वाचस्पतिवास्तोष्पति-" ॥ ३ । २ । ३६ ॥ इति षष्ठयलुपि षत्वम् ॥ १६ ॥ दलति गिरीन् दल्मिः " नीसाब्युशवलिदलिभ्यो मिः" ॥(उणा-६८७) ॥ इति मिः ॥ १७ ॥ शक्नोति शक्रः " भीवृधि-” ॥ (उणा-३८७)॥
Page #70
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणौ
इति रः, शक्रं नाम सिंहासनमस्यास्तीति वा ॥ १८॥ वर्षतीति वृषा “इन्द्रो वै वर्षति" इति श्रुतेः " लूपूयुवृषि-" ॥ ( उणा-९०१)॥ इत्यादिना कन् ॥१९॥ शोभनं नासीरमग्रयानमस्य शुनासीरः, शुः पूजायाम् , श्वशुरवत् । दन्त्यादिरपि ॥ २० ॥ सहस्रं नेत्राण्यस्य सहस्रनेत्रः, यत् कौटल्यः- इन्द्रस्य हि मन्त्रिपर्षदृषीणां सहस्रं, स तच्चक्षुस्तस्मात् इन्द्रं द्वयक्षं सहस्राक्षमाहुः ॥ २१ ॥ परिपर्षति पर्जन्यः ॥ २२ ॥ हरयः पिङ्गा अश्वा अस्य हर्यश्वः ॥ २३ ॥ इयर्ति ऋभुक्षाः " अर्ते क्षिनक्” ॥ ( उणा-९२८ ) ॥ ऋभून् देवान् क्षयत्यधिवसति इत्यन्ये ॥ २४ ॥ बहुदन्त्या अपत्यं बाहुदन्तेयः ॥ २५ ॥ वृद्धे श्रवसी अस्य वृद्धश्रवाः, वृद्धेभ्यः शृणोतीति वा ॥ २६ ॥ तुरं त्वरितं साहयत्यभिभवत्यरीन् , तुरं वेगं सहते वा तुराबाट , पृषोदरादित्वात् ॥ २७॥८६ ॥ सुराणामृषभः सुरर्षभः ॥ २८ ॥ तपस्तक्ष्णोति इन्द्रपदप्राप्तिशङ्कयाऽन्येषां तपस्तक्षः ॥ २९ ॥ जयतीत्येवंशीलो जिष्णुः " भूजेः ष्णुक्” ॥ ५।२।३० ॥ इति ष्णुक् ॥ ३० ॥ वराः शतं च क्रतवोऽस्य वरशतक्रतुः वरऋतुः, शतक्रतुः; शतं क्रतवः प्रतिमाभिग्रहविशेषाः कार्तिकभवेऽस्याऽभूवन् इत्यागमविदः ॥३१॥३२॥ कुशैर्दभैश्चरति कौशिकः, जातमात्रस्याऽदित्या कुशैश्छादितत्वात् ; यत्पुराणे
जातमात्रोऽथ भगवानदित्या स कुशैर्वृतः ।
तदा प्रभृति देवेशः कौशिकत्वमुपागतः ॥ १॥ कुशिकापत्यमिति वा ॥ ३३ ॥ पूर्वदिशः, देवानां, अप्सरसां, स्वर्गस्य, शच्याश्च पतिः पूर्वदिक्पतिः, देवपतिः, अप्सरःपतिः, स्वर्गपतिः, शचीपतिः, यौगिकत्वात् प्राचीशः, पूर्वदिगशिः, सुरेशः, सुरस्त्रीशः, नाकेशः, शचीशः, पौलोमीश इत्यादयः ॥ ३४॥३५॥३६॥३७॥ ३८ ॥ ८७ ॥ पृतनां साहयति पृतनापाट् , पृषोदरादित्वात् षत्वम् ॥ ३९ ॥ उग्रं धनुरस्य उग्रधन्वा ॥ ४० ॥ मरुतो देवाः सन्त्यस्य मरुत्वान् ॥ ४१॥ . मङ्घते मघवा “ श्वन्मातरिश्वन्-" ॥ ( उणा-९०२)॥ इत्यनन्तो निपात्यते । मघाऽस्यास्तीति वा " ड्यापो बहुलं नाम्नि" ॥ २।४।९९ ॥ इति ह्रस्वः । मघं सुखमस्यास्तीति वा ॥ ४२ ॥ शेषश्चात्र
इन्द्रे तु खदिरो नेरी त्रायस्त्रिंशपतिर्जयः। गौरावस्कन्दी वन्दीको वराणो देवदुन्दुभिः ॥ १ ॥ किणालातश्च हरिवान् यामनेमिरसन्महाः ।
शयीचिर्माहिरो वज्रदक्षिणो वियुनोऽपि च ॥ २ ॥ अस्य तु। द्विषः पाकोऽद्रयो वृत्रः पुलोमा नमुचिर्बलः ॥ ८८ ॥ जम्भः
Page #71
--------------------------------------------------------------------------
________________
२ देवकाण्डः ।
अस्येतीन्द्रस्य, द्विषः शत्रवः, ते तु पाकादयः-पात्यात्मानं पाकः "भीणशलिवलि-" ॥ ( उणा-२१)॥ इति कः ॥ १॥ अदन्ति अद्रयः ॥ २॥ वर्तते वृत्रोऽहिः “ ऋज्यजि-" ॥ ( उणा-३८८) ॥ इति रक् ॥ ३ ॥ पुते लोमान्यस्य पुलोमा, पृषोदरादित्वात् तलोपः ॥ ४ ॥ न मुञ्चत्यहंकारं नमुचिः “ नाम्युपान्त्य-- " ॥ ( उणा--६०९) ॥ इति किः, नखादित्वात् साधुः ॥ ५॥ वलति बलः ॥ ६ ॥ ८८ ॥ जम्भते जम्भः, जायत इति वा “गृदृरमि--" ॥ ( उणा३२७ ) ॥ इति भः ॥ ७ ॥ ततो 'वध्याद भिवेषि-' (पृ. ५ श्लो. १०) इत्यादिवचनात् पाकद्विट् , अदिद्विट् , वृत्रद्विद् , पुलोमद्विट् , नमुचिद्विद् , बलद्विट् , जम्भद्विट् इन्द्रः; यौगिकत्वात् पाकशासनादयः ॥
प्रिया शचीन्द्राणी पौलोमी जयवाहिनी । अस्येत्यनुवर्तते । प्रिया भार्या, शचते मधुरं वक्ति शची ॥१॥ इन्द्रस्य भार्या इन्द्राणी “ वरुणेन्द्र--" ॥२।४।६२॥ इत्यादिना डीः , आन् चान्तः ॥ २ ॥ पुलोम्नो मुनेरपत्यं पौलोमी, बाह्रादित्वात् इञ् ॥३॥ जयं वहतीत्येवंशीला जयवाहिनी ॥ ४ ॥ शेषश्चात्र
स्यात् पौलोम्यां तु शकाणी चारुधारा शतावरी।
महेन्द्राणी परिपूर्णसहस्रचन्द्रवत्यपि ॥ १॥ . तनयस्तु जयन्तः स्याज्जयदत्तो जयश्च सः ॥ ८९॥
इन्द्रस्य तनयः, जयतीति जयन्तः “ तृजिभूवदि --" ॥ (उणा-२२१) ॥ इत्यन्तः ॥ १॥ जय एनं देयात् जयदत्तः “ तिक्कृतौ नाम्नि" ॥५। १। ७१॥ इति साधुः ॥ २॥ जयतीति जयः ॥ ३ ॥ शेषश्चात्र-जयन्ते यागसंतानः ॥ ८९॥
सुता जयन्ती तविषी ताविषी इन्द्रस्य सुता, जयतीति जयन्ती ॥१॥ तवति गच्छति तविषी , ताविषी ॥२॥३॥
उच्चैःश्रवा हयः। इन्द्रस्य हयः, उच्चैः श्रवसी अस्य उच्चैःश्रवाः ॥ १॥ शेषश्चात्र--वृषणश्वो हरेर्हये ॥
मातलिः सारथिः इन्द्रस्य सारथिः , मतलस्यापत्यं मातलिः ॥१॥
शेषश्चात्र---मातलौ हयंकषः स्यात् ॥ देवनन्दी द्वाःस्थः
Page #72
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणौइन्द्रस्य द्वाःस्थः, देवान् नन्दयतीत्येवंशीलो देवनन्दी ॥१॥
गजः पुनः ।। ९०॥ ऐरावणोऽभ्रमातङ्गश्चतुर्दन्तोऽर्कसोदरः ।।
ऐरावतो हस्तिमल्लः श्वेतगजोऽभ्रमुप्रियः ।। ९१ ।। इन्द्रस्य गजः ॥९०॥इरावणे भव ऐरावणः॥१॥अभ्रस्थत्वात् अभ्रमातङ्गः, अभ्ररूप इत्येके, यत्कात्यः--ऐरावतं विजानीयात् नागमम्बुदगाचरम् ॥२॥ चत्वारो दन्ता अस्य चतुर्दन्तः ॥ ३ ॥ अर्कस्य सोदरोऽकसोदरः, द्वयोः समुद्रजातत्वात् ॥ ४ ॥ इरावत्यब्धौ जातः ऐरावतः पुंक्लीबलिङ्गः ॥ ५॥ हस्तिनां मल्लः हस्तिमल्लः ॥६॥ श्वेतश्चासौ गजश्च श्वेतगजः ॥७॥ अभ्रतीति अभ्रमुः “ अभ्रेरमुः" ॥ ( उणा-८००) ॥अभ्रे खे माति न भ्राम्यति वा मन्थरगामित्वात् ; यल्लक्ष्यम्-अभ्रम्वां जघनान्तदोलितकरः। तस्याः प्रियोऽभ्रमुप्रियः ॥ ८ ॥
शेषश्चात्र---ऐरावणे मदाम्बरः सदादानो भद्ररेणुः ॥९१॥ - वैजयन्तौ तु प्रासादध्वजौ
इन्द्रस्य प्रासादो ध्वजश्च, वैजयन्ती पताकाऽनयोरस्ति वैजयन्तौ , विजयते विजयन्तो जिष्णुस्तस्येमाविति वा ॥१॥
पुर्यमरावती। .... इन्द्रस्य पुरी, अमराः सन्त्यस्यां अमरावती " अनजिरादि-"॥३॥२१७८॥ इत्यादिना मतौ दीर्घत्वम् ॥ १॥
शेषश्चात्र-पुरे त्वैन्द्रे सुदर्शनम् ॥
सरो नन्दीसरः इन्द्रस्य सरः, नन्दीनाम्ना सरो नन्दीसरः ॥ १॥
- पर्षत् सुधर्मा इन्द्रस्य पर्षत् , शोभनो धर्मोऽस्यां सुधर्मा । यल्लक्ष्यम्-सुधर्माऽनवमा पुरी ॥१॥
नन्दनं वनम् ॥ ९२ ॥ इन्द्रस्य वनम् , नन्दयंति नन्दनम् ॥ १॥ ९२ ॥
वृक्षाः कल्पः पारिजातो मन्दारो हरिचन्दनः ।
सन्तानश्च इन्द्रस्य वृक्षाः, कल्पः संकल्पपूरणत्वात् ॥१॥ पारिणः पारवतोऽग्धेर्जातः पारिजातः ॥ १॥ मन्दन्ते मोदन्ते देवा अनेन मन्दारः "अग्यङ्गिमदिमन्दि-"।
Page #73
--------------------------------------------------------------------------
________________
२ देवकाण्डः ।
( उणा-४०५) ॥ इत्यारः ॥ १॥ हरेरिन्द्रस्य चन्दनो हरिचन्दनः पुंक्लीबलिङ्गः, हरिः कषे पिङ्गश्चन्दन इति वा ॥ १ ॥ संतन्यन्ते पुष्पाण्यस्मिन् संतानः ॥ १ ॥
धनुर्देवायुधं इन्द्रस्य धनुः, देवानामायुधं देदायुधम् ॥ १ ॥
तहजु रोहितम् ॥ ९३ ॥ तद् देवेन्द्रधनुरुत्पाते ऋजु अवक्र, रोहः संजातोऽस्य रोहितम् , रोहितवर्णत्वाद् वा । केचितु ऋजुरोहितमिति समस्तमिच्छन्ति ॥ १ ॥ ९३ ॥
दीर्घवैरावतं तदेव दीर्घ ऋजु च, इरावति मेघेऽब्धौ वा भवं ऐरावतं पुंक्तीबलिङ्गः ॥१॥
वज्रं त्वशनि दिनी स्वरुः । शतकोटिः पविः शंवो दम्भोलिभिदुरं भिदुः ॥ ९४ ॥
व्याधामः कुलिशः वजति यात्येव न प्रतिहन्यते वज्रं पुंक्लीबलिङ्गः “भीवृधि-" ॥ (उणा-३८७) ॥ इति रः ॥ १॥ अश्नुते व्याप्नोति रिपून ज्वालाभिः अशनिः पुंस्त्रीलिङ्गः “सदिघृत्यमि-" ॥ ( उणा-६८० ) ॥ इत्यनिः ॥ २ ॥ हादः स्फूर्जथुरस्यास्ति ह्रादिनी ॥ ३ ॥ खरर्ति स्वरुः पुंसि "भृमृतृत्सरि-" ॥ (उणा--७१६) ॥ इत्युः ॥ ४ ॥ शतं बह्वयः कोटयोऽस्येति शतकोटिः पुंलिङ्गः, यौगिकत्वात् शतारशतधारौ च ॥ ५ ॥ पुनाति पविः पुंसि हीरकस्य पवित्रत्वाम्नानात् ॥६॥ कृत्वा कार्य शाम्यति शंवः “शम्यमेणिद् वा” ॥ ( उणा--३१८ ) ॥ इति वः, शं विद्यतेऽस्येति वा “कंशंभ्यां-" ॥ ७।२।१८॥ इति वः ॥ ७ ॥ दन्नोति खेदयति दानवान् दम्भोलिः पुंसि " बहुलं" ॥ ५। १ । २ ॥ इत्योलिः ॥ ८॥ भिनत्तीत्येवंशीलं भिदुरम् ॥९॥ भिनत्तीति भिदुः पुंसि “पृकाहृषि-" ॥ (उणा--७२९ ) ॥ इति कुः ॥ १० ॥ ९४ ॥ विशेषेणाऽऽदधाति भयं दैत्यानां व्याधामः “अर्तीरि-" ॥ ( उणा--३३८) ॥ इति मः ॥ ११॥ कोलति सङ्घीकरोति भयदत्वाद् गिरीन् कुलिशः पुंक्लीबलिङ्गः “कुलिकनि-" ॥ (उणा--५३५)॥ इति किशः, कुलिनः कुलपर्वतान् श्यति पक्षच्छेदेन तनूकरोतीति वा, कुत्सितं लिशति तक्ष्णोत्यरीनिति वा ॥ १२ ॥
अस्यार्चिरतिभीः अस्य वज्रस्य, अर्चिाला, अतिशयेन बिभेत्यस्याः अतिभीः स्त्रीलिङ्गः ॥१॥
स्फूर्जथुर्ध्वनिः । पत्रस्य ध्वनिः, स्फूर्जनं स्फूर्जथुः पुंसि "ट्वितोऽथुः ॥५।३।८३॥ इत्यथुः ॥१॥
Page #74
--------------------------------------------------------------------------
________________
७४
अभिधानचिन्तामणौ
स्वर्वैद्यावश्विनीपुत्रावश्विनौ वडवासुतौ ॥ ९५ ॥ नासिक्यावर्कजौ दखौ नासत्यावब्धि यमौ ।
,
स्वर्गस्य वैद्यौ स्वर्वैद्यौ ॥ १ ॥ अश्विन्याः पुत्रौ अश्विनीपुत्रौ यौगिकत्वात् आश्विने ॥ २ ॥ अश्वो विद्यतेऽनयोरश्विनौ सदाऽश्वारूढावित्यर्थः ॥ ३ ॥ वडवायाः सुतौ वडवासुतौ ॥ ४ ॥ ९५ ॥ नासिकाभवत्वेन नासिक्य वर्णसदृशौ नासिक्यौ, अश्विन्या नासिकारन्ध्रयो रवे रेतःपातात् उत्पन्नाविति प्रसिद्धिः ॥ ५॥ अर्का अर्कौ ॥ ६ ॥ दस्यतो हरतो रोगान् दस्रौ " भीवृधि- ॥ (उणा-३८७) ॥ इति रः ॥ ७ नाऽसत्सु साधू नासत्यौ, नाऽसत्याविति वा नखादित्वात् साधुः ॥ ८ ॥ अन्धेजीतौ अब्धिजौ ॥ ९ ॥ यमौ युग्मरूपौ ॥ १० ॥ नित्यद्विवचनान्ता इमे ॥
शेषश्चात्र-नासिक्ययोस्तु नासत्यदत्रौ प्रवरवाहनौ ।
तज्ञ ॥
विश्वकर्मा पुनस्त्वष्टा विश्वकृद् देववर्धकिः ।। ९६ ।।
विश्वं करोति विश्वकर्मा, मनू ॥१॥ त्वक्षति त्वष्टा " त्वष्टृक्षत्तृदुहित्रादयः ”॥ (उणा--८६५) ।। २ ॥ विश्वं करोति विश्वकृत् || ३ || देवानां वर्धकिः देववर्धकिः ।। ४ ।। ९६ ।।
स्वः स्वर्गियध्वोऽप्सरसः खर्वेश्या उर्वशीमुखाः ।
स्वर्गस्य स्वर्गिणां, च वध्वः स्वर्वध्वः, स्वर्गिवध्वः, यौगिकत्वात् स्वर्गस्त्रियः, सुरस्त्रियः ॥ १॥२ ॥ आप्यन्ते पुण्यैरप्सरसः “ आपोपाप्ताप्सराब्जाश्व " ॥ ( उणा९६४ ) ॥ इत्यस्, आपोऽप्सरादेशश्च; अपः सरन्ति स्मेति वा समुद्रजातत्वाद्, वा बहुवचनान्तः स्त्रीलिङ्गोऽयम् तेनाऽप्सरा इत्यपि ॥ ३ ॥ स्वर्गस्य वेश्याः स्वर्वेश्याः, स्वरिति स्वर्गिणोऽप्युपलक्षणम् तेन देवगणिका इत्यपि ॥ ४ ॥ ऊरू अश्नुते नारायणस्योरूद्भवत्वात् उर्वशी, पृषोदरादित्वात् ह्रस्वः, यल्लक्ष्यम् – ऊरूद्भवा नरसखस्य मुनेः सुरस्त्रीमुखग्रहणात् प्रभावत्याद्याः ।
यद्वयाडि:
>
अथ ब्रह्मणोऽग्निकुण्डात् समुत्पन्ना प्रभावती । वेदितलाद् वेदिवती यमात् पुनः सुलोचना ॥ १ ॥ उर्वशी तु हरेः सव्यमूरुं भित्त्वा विनिर्गता । रम्भा तु ब्रह्मणो वक्त्राच्चित्रलेखा तु तत्करात् ॥ २ ॥ शिरसस्तु महाचित्ता स्मृता काकलिसा वसा । मरीचिसूचिका चैव विद्युत्पर्णा तिलोत्तमा ॥ ३ ॥ after लक्षणा क्षेमा दिव्यां रामा मनोरमा ।
Page #75
--------------------------------------------------------------------------
________________
२ देवकाण्डः।
हेमा सुगन्धा सुवपुः सुबाहूः सुव्रता सिता ॥ ४ ॥ शारद्वती पुण्डरीका सुरसा सूनृतापि च । सुवाता कामला हंसपादी च सुमुखीति च ॥ ५॥ मेनका सहजन्या च पर्णिनी पुञ्जिकास्थला ।
ऋतुस्थला घृताची च विश्वाचीत्यप्सरःस्त्रियः ॥ ६ ॥ हाहादयस्तु गन्धर्वा गान्धर्वा देवगायनाः ॥ ९७ ॥ गानप्रारम्भे हाहाकरणात् हाहाः पुंसि, गन्धर्वविशेषस्य नामेदम् , हाहा आदिर्येषां ते हाहादयः, आदिशब्दात् हूहूस्तुम्बुरुर्वृषणाश्वो विश्वावसुर्वसुरुचिरित्यादयः । हाहाहूहूरिति पुंलिङ्गमेकमखण्डं नामेत्येके । गन्धौ च हाहाहू हूरिति तु लक्ष्यम् । अव्ययावित्येके, यद्वाचस्पतिः- हसो हाहाहूहू च द्वौ वृषणाश्वश्च तुम्बुरुः । गन्धयन्ते हिंसन्ति दुःखं गन्धर्वाः “गन्धेरर् चान्तः” ॥ ( उणा५०८ ) ॥ इति वः, गौर्धियते वाक् सप्तस्वरसंपन्ना तिष्ठत्यत्रेति वा ॥ १॥ गन्धर्वा एव गान्धर्वाः ॥ २॥ देवानां गायना देवगायनाः ॥ ३ ॥ ९७ ॥
यमः कृतान्तः पितृदक्षिणाशाप्रेतात्पतिर्दण्डधरोऽर्कसूनुः । कीनाशमृत्यू समवर्तिकालौ शीर्णाहिहर्यन्तकधर्मराजाः ॥९८॥
यमराजः श्राद्धदेवः शमनो महिषध्वजः ।
कालिन्दीसोदरश्चापि . यमयति यमः, यमलजातत्वाद् वा ॥ १॥ कृतोऽन्तोऽनेन कृतान्तः ॥ २ ॥ पितृशब्दात् , दक्षिणाशाशब्दात् , प्रेतशब्दाच्च परः पतिः पितृपतिः, दक्षिणाशापतिः, प्रेतपतिः ॥ ३॥४॥५॥ दण्डमस्त्रं धरति दण्डधरः॥ ६ ॥ अर्कस्य सूनुः अर्कसूनुः ॥ ७ ॥ कनति दीप्यते कीनाशः “कनेरीश्चातः” ॥ ( उणा-५३४ )। इत्याशः ॥ ८॥ म्रियतेऽनेन मृत्युः पुंसि “मुस्त्युक्” ॥ (उणा--८०५) ॥ इति त्युक् ॥ ९॥ राज्ञि रके च समं वर्तत इत्येवंशीलः समवर्ती ॥१०॥ कालयति क्षिपत्यायुः कालः ॥ ११ ॥ शीर्णावंही अस्य शीर्णोहिः, शनैश्चरेणास्य दृशाऽवलोकितौ पादौ दग्धौ इति हि प्रसिद्धिः ॥१२॥ हरति प्राणान् हरिः ॥ १३ ॥ अन्तयतीति अन्तकः ॥१४॥ धर्मस्य राजा धर्मराजः ॥१५॥९८॥ यमनेन राजते यमराजः, यमराड् इत्यपि ॥१६॥ श्राद्धे देवः श्राद्धदेवः पितृपतित्वात् ॥ १७ ॥ शमयति शमनः ॥१८॥ महिषो ध्वजोऽस्य महिषध्वजः, महिषवाह्नत्वात् ।।१९।। कालिन्द्याः सोदरः कालिन्दीसोदरः ॥२०॥
शेषश्चात्र--यमे तु यमुनाग्रजः । महासत्यः पुराणान्तः कालकूटः ।।
Page #76
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणौ- ..
धूमोर्णा तस्य वल्लभा ॥ ९९ ॥ - तस्य यमस्य, वल्लभा भार्या, धूमवद् धूसरा ऊर्णा भ्रूमध्यावर्तोऽस्या धूमोर्णा ॥ १॥ ९९ ॥
पुरी पुनः संयमनी संयम्यन्ते प्राणिनोऽस्यां संयमनी ॥ १ ॥
प्रतीहारस्तु वैध्यतः । विध्यतोऽपत्यं वैध्यतः ॥ १॥
दासौ चण्डमहाचण्डौ अत्यन्तकोपनत्वात् चण्डो महाचण्डश्च ॥ १ ॥ २ ॥
चित्रगुप्तस्तु लेखकः ॥ १० ॥ चित्रे लिखिते गुप्तः, चित्रमेनं गुप्यादिति वा चित्रगुप्तः ॥ १ ॥ १०० ।। स्याद् राक्षसः पुण्यजनो नृचक्षा ...
यात्वाशरः कौणपयातुधानौ । रात्रिंचरो रात्रिचरः पलादः
कीनाशरक्षोनिकसात्मजाश्च ॥ १०१ ।। कव्यात् कर्बुरनैर्ऋतावसृक्पः रक्ष एव राक्षसः, प्रकृतेलिङ्गवचने बाधन्ते स्वार्थिकाः क्वचित्॥ (लिङ्गा--१३५) ।। इति पुंस्त्वम् ॥ १ ॥ पुण्यश्चासौ जनश्च पुण्यजनो विपरीतलक्षणया ॥ २ ॥ नृन् चष्टे नृचक्षाः “चक्षः शिद् वा" ॥ (उणा--९६९) इत्यस् ॥ ३॥ यातीति यातु क्लीबलिङ्गः “कृसिकमि-" ॥(उणा-७७३ )॥ इति तुन् , यातयति व्यथयतीति वा, यातुधानशब्दैकदेशो वा भीमवत् ; पुंस्यपि धनपालः , यदाह--क्रव्यादा यातवो यातुधानाः ॥ ४ ॥ आ शृणाति हिनस्ति आशरः ॥ ५॥ कुणपस्यायं भक्षकः कौणपः, कुणपं अत्तीति वा “ क्वचित् " ॥ ६ । २। १४५ ॥ इत्यण् ॥ ६॥ यातूनि यातना धीयन्तेऽस्मिन् यातुधानः ॥ ७॥ रात्रौ चरति रात्रिंचरः “ चरेष्टः " ॥५।१। १३८ ॥ इति टे " नवाऽखित्कृदन्ते रात्रेः” ॥ ३ । २ । ११७ ॥ इति वा मोऽन्तः पक्षे रात्रिचरः ॥ ८॥९॥ पलमत्ति पलादः ॥ १० ॥ कनति दीप्यते कीनाशः, कीनमामं मांसं अश्नातीति वा ॥ ११॥ रक्षन्ति अस्मात् रक्षः “ अस्” ॥(उणा-- ९५२) इत्यस् ॥ १२ ॥ नितरां कसति पतिं गच्छति निकसा तस्या आत्मजो निकसात्मजः , यौगिकत्वात् नैकसेय इत्यादयः ॥ १३ ॥ १०१ ॥ क्रव्यमामं मांसमत्तीति व्याद् “ क्रव्यात्क्रव्यादावामपक्वादौ ” ॥ ५। १ । १५१ ॥ इति
Page #77
--------------------------------------------------------------------------
________________
२ देवकाण्डः ।
साधुः । क्रव्यादोऽपि ॥ १४ ॥ कर्बुरवर्णत्वात् कर्बुरः, कवैति गच्छतीति वा “ वाश्यंसि-” “ ( उणा--४२३ ) ॥ इत्युरः ॥ १५ ॥ निर्ऋतेर्दिक्पालस्याऽपत्यं बैर्ऋतः ॥ १६ ॥ असृक् पिबति असृक्पः ।। १७ ।।
शेषश्चात्र - अथ राक्षसे ।
पलप्रियः खसापुत्रः कर्बरो नरविष्वणः । आशिरो हनुषः शङ्कुर्विधुरो जललोहितः ।। १ ।। उद्वरः स्तब्धसंभारो रक्तग्रीवः प्रवाहिकः । संध्याबलो रात्रिबलस्त्रिशिराः समितीपदः ॥ २ ॥ वरुणस्त्वर्णवमन्दिरः प्रचेताः । जलयादःपतिपाशिमेघनादा
जलकान्तारः स्वात् परञ्जनश्च ॥ १०२ ॥
""
वृणाति बिभर्ति वरुणः ‘ऋकृवृधृदारिभ्य उणः ५ ( उणा-१९६ ) ॥ इत्युः ॥ १ ॥ अर्णवो मन्दिरमस्याऽर्णवमन्दिरः ॥ २ प्रकृष्टं चेतोऽस्य, प्रचेतयते वा प्रचेताः ॥ ३ ॥ जलयादसोः पतिर्जलयादः पतिः जलपतिः, यादः पतिः, यौगिकत्वात् अपां नाथः, यादोनाथ इत्यादयः ॥ ४ ॥ ५ ॥ पाशोऽस्याऽस्तीति पाशी, यौगिकत्वात् पाशपाणिरित्यादयः ॥ ६ ॥ मेघवद् नादोऽस्य मेघनादः ॥ ७ ॥ जलमेव कान्तारमस्य जलकान्तारः ॥ ८ ॥ परं जयति परञ्जनः "विदनगगन- ॥ ( उणा-२७५ ) ॥ इत्यादिशब्दाद् निपात्यते ॥ ९ ॥
""
""
शेषश्चात्र
वरुणे तु प्रतीचीशो दुन्दुभ्युद्दामसंवृताः ॥ १०२॥ श्रीदः सितोदरकुहेशसखाः पिशाचकीच्छावसुस्त्रिशिरऐलविलैकपिङ्गाः । पौलस्त्यवैश्रवणरत्नकराः कुबेर
यक्षौ नृधर्मधनदौ नरवाहनश्च ॥ १०३ ॥ कैलासौका यक्षधननिधिकिंपुरुषेश्वरः ।
کی
""
श्रियं ददाति श्रीदः ॥ १ ॥ सितमुदरं यस्य सितोदरः, कुष्ठित्वात् ॥ २ ॥ कुहयते विस्मापयते कुहः || ३ || ईशस्य रुद्रस्य सखा ईशसखः ॥ ४ ॥ पिशाचाः सन्त्यस्य पिशाचकी “ वातातीसारपिशाचात् कश्चान्तः ६१ ॥ इति इन् ॥ ५ ॥ इच्छया वस्वस्य इच्छावसुः ॥ ६ ॥ त्रीणि त्रिशिरः ॥७॥ ईज्यतेऽसाविति ईडविड् विश्रवाः “ ईडेरविड् हखश्च
॥ ७।२।
शिरांस्यस्य
११
"
॥ ( उणा
Page #78
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणौ
८७९ ) ॥ तस्याऽपत्यं ऐडविडः, लत्वे ऐलविलः, ईडविड् धनदमातेत्यन्ये ॥ ८ ॥ एक पिङ्गमस्य एकपिङ्गः, पिङ्गलैकनेत्रत्वात् , अत एव भागुरिणा हर्यक्ष उक्तः ॥ ९॥ पुलस्तेरपत्यं वृद्धं पौलस्त्यः “गर्गादेर्यञ्” ॥ ६ । १ । ४२ ॥ इति यञ् ॥१०॥ विश्रवसोऽपत्यं वैश्रवणः “णश्च विश्रवसो विश्लुक् च वा” ॥ ६ । १।६५॥ इति साधुः ॥ ११॥ रत्नानि करेऽस्य रत्नकरः ॥ १२ ॥ कुत्सितं बेरं शरीरमस्य कुष्ठित्वात् कुबेरः, कूयत इति वा “कुगुपतिकथि-" ॥ ( उणा४३१)॥ इति केरः ॥ १३ ॥ किन्नरादिखाम्येऽपि यक्षजातित्वाद् यक्षः ॥१४॥ नुर्मनुष्यस्येव धर्मः श्मश्रुलत्वादिरस्य नृधर्मा " द्विपदाद् धर्मादन् "॥७।३। १४१ ॥ इत्यन् समासान्तः, एवं मनुष्यधर्माऽपि ॥ १५ ॥ धनं ददाति धनदः ॥ १६ ॥ नरो वाहनमस्य नरवाहनः ॥ १७ ॥ १०३.॥ कैलास ओकोऽस्य कैलासौकाः ॥ १८ ॥ यक्षाणां, धनस्य, निधीनां, किंपुरुषाणां च ईश्वरः यक्षेश्वरः, धनेश्वरः, निधीश्वरः, किंपुरुषेश्वरः, यौगिकत्वाद् गुह्यकेशः, वित्तेशः, निधानेशः, किंनरेशः । राजराजस्तु राज्ञां यक्षाणां राजेति यौगिकत्वाद् गृहीतः ॥ १९ ॥ २० ॥ २१ ॥ २२ ॥ शेषश्चात्र
धनदे निधनाक्षः स्याद् महासत्त्वः प्रमोदितः । रत्नगर्भ उत्तराशाऽधिपतिः सत्यसंगरः ॥
धनकेलिः सुप्रसन्नः परिविद्धः ॥ विमानं पुष्पकं
श्रीदस्येति शेषः । पुष्पस्य तुल्यं पुष्पकं “ तस्य तुल्ये कः संज्ञाप्रतिकृत्योः " ॥ ७ ॥ १।१०८॥ इति कः ॥ १॥
चैत्ररथं वनं चित्ररथेन निवृत्तं चैत्ररथं “तेन निवृत्ते च” ॥ ६ । २ । ७१ ॥ इत्यण् ॥ १॥
पुरी प्रभा ॥ १०४ ॥
__ अलका वखोकसारा प्रकर्षेण भाति प्रभा ॥ १ ॥ १०४ ॥ अलति भूषयति अलका " ढकन-" ॥ (उणा--२७)॥ इत्यकः, क्षिपकादित्वादित्वाभावः ॥ २ ॥ वसुयुक्तानि ओकांसि सारमस्यां वखोकसारा, पृषोदरादित्वात् सलोपः ॥ ३ ॥ शेषश्चात्र-अलका पुनः । वसुप्रभा वसुसारा ॥
सुतोऽस्य नलकूबरः।
Page #79
--------------------------------------------------------------------------
________________
२ देवकाण्डः ।
चलो नडः कूबरं रथावयवोऽस्य नलकूबरः ॥ १॥
वित्तं रिक्थं खापतेयं राः सारं विभवो वसु ॥ १०५ ॥ द्युम्नं द्रव्यं पृक्थमृक्थं स्वमृणं द्रविणं धनम् ।
हिरण्यार्थी विद्यते लभ्यते वित्तं “ वित्तं धनप्रतीतम्" ॥ ४ । २। ८२ ॥ इति क्तस्य नत्वाभावः ॥१॥ रिच्यते विभज्यते रिक्थम् " नीनूरमि-" ॥ ( उणा२.२७ ) ॥ इति थक् ॥ २ ॥ खपतौ साधु स्वापतेयम् “ पथ्यतिथि-" ॥ ७ । १।१६ ॥ इत्येयण् ॥ ३ ॥ राति एतं राः स्त्रीपुंसलिङ्गः “राते?: " ॥ (उणा-- ८६६)॥ इति डैः ॥ ४ ॥ सरति कालान्तरं सारं क्लीबलिङ्गः, पुंस्यपि धनपालः, यदाह-- सारोऽर्थो द्रविणं धनम् । सरतेः स्थिरार्थे घञ् ॥ ५॥ विभवति विभवः ॥ ६ ॥ वस्ते छादयति, वसतीश्वरगृहे वा वसु क्लबिलिङ्गः ॥ ७ ॥ १०५ ॥ युभिमर्मीयते द्युम्नं “ युसुनिभ्यो माडो डित् ॥ ( उणा-२६६)॥ इति नः ॥ ८॥ द्रुतुल्यं द्रव्यं “ द्रोभव्ये" ॥ ७।१ । ११५ ॥ इति यः; यथा-द्रुरप्रन्थि अजिनं दारु उपकल्प्यमानं विशिष्टेष्टरूपं भवति, तथा धनमपि विनियुज्यमानं विशिष्टेष्टमाल्यागुपभोगफलं भवतीति द्रव्यमुच्यते ॥ ९ ॥ पृणक्ति संयुज्यते पृक्थं " नीनूरमि-" ॥ ( उणा--२२७ ) ॥ इति बहुवचनात् थक् ॥ १० ॥ एवं ऋच्यते स्तूयते ऋक्थम् ॥ ११॥ अस्यते क्षिप्यते स्वं पुंक्लीबलिङ्गः " प्रह्वाहा." ॥ ( उणा--५१४ ) ॥ इति वान्तो निपात्यते, स्वनतीति वा ॥ १२ ॥ ऋच्यते स्तूयते ऋक्णं “घृवीह्वा-" ॥ ( उणा--१८३ ) ॥ इति बहुवचनाद् णक् ॥ १३ ॥ द्रवति द्रविणम् “द्रुहवृहि-" ॥ ( उणा--१९४)॥ इति इणः ॥ १४ ॥ धनति शब्दायते धनं पुंक्लीबलिङ्गः, धन्यत इति वा वर्षादित्वाद् अल् ॥ १५॥ ह्रियते हिरण्यं “हिरण्यपर्जन्यादयः" ॥ ( उणा--३८०)॥ इति साधुः ॥ १६ ॥ अर्यतेऽसौ अर्थः “ कमिग्रगार्तिभ्यस्थः" ॥ ( उणा--२२५)॥ इति.थः, अर्थ्यत इति वा ॥ १७ ॥
निधानं तु कुनाभिः शेवधिनिधिः ॥ १०६ ॥ निधीयते एतदिति निधानं, भुज्यादित्वात् कर्मणि अनट् ॥१॥ कोः पृथिव्या नाभिरिव कुनाभिः पुंसि ॥ २ ॥ शेते शेवं स्थाप्यधनं "शीडापो ह्रस्वश्च वा" ॥ ( उणा--५०६)॥ इति वः, तद्धीयतेऽस्मिन्निति शेवधिः पुंसि " व्याप्यादाधारे" ॥ ५। ३ । ८८ ॥ इति किः, पुंक्लीबयोर्वाचस्पतिः, यदाहनिधिः शेवधिरस्त्रियाम् ॥ ३ ॥ नियतं धीयते निधिः पुंसि ॥ ४ ॥ १०६ ॥
निधिविशेषानाह---- __ महापद्मश्च पद्मश्च शङ्खो मकरकच्छपौ ।
Page #80
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणौ-. मुकुन्दकुन्दनीलाश्च चर्चाश्च निधयो नव ॥ १०७॥ . महापद्माकृतित्वात् महापद्मः ॥१॥ पद्माकृतित्वात् पद्मः पुंसि; वाचस्पतिस्तु- पद्मोऽस्त्रियाम् , इत्याह ॥ १॥ शङ्खाकारत्वात् शङ्खः ॥१॥ मकराकारत्वाद् मकरः ॥ १॥ कच्छपाकारत्वात् कच्छपः ॥१॥ मुकुन्दवर्णत्वाद् मुकुन्दः ॥ १॥ कुन्दवर्णत्वात् कुन्दः ॥१॥ नीलवर्णत्वाद् नीलः ॥ १ ॥ चर्च्यत इति चर्चाः पुंसि ॥ १॥ जैनसमये तु नैसर्पाद्या निधयः, यदवोचाम त्रिषष्टिशलाकापुरुषचरिते
नैसर्पः पाण्डुकश्वाथ पिङ्गलः सर्वरत्नकः ।। महापद्मः कालमहाकालौ माणवशङ्खकौ ॥ १॥ तेषामेवाभिधानैस्तु तदधिष्ठायकाः सुराः ।। पल्योपमायुषो नागकुमारास्तन्निवासिनः ॥ २ ॥ १०७ ।।
यक्षः पुण्यजनो राजा गुह्यको वटवास्यपि । इज्यत इति यक्षः “मावावद्यमि-" ॥ ( उणा--५६४ ) ॥ इति सः, यक्ष्यत इति वा ॥ १ ॥ पुण्यश्चासौ जनश्च पुण्यजनः ॥ २ ॥ राजते राजा ॥३॥ गुह्यं वित्तं करोति गुह्यकः, गूहतीति वा " कीचक-" ॥ ( उणा--३३ ) ।। इत्यादिशब्दाद् निपात्यते ॥ ४ ॥ वटे वसतीत्येक्शीलो वटवासी ॥ ५ ॥
किंनरस्तु किंपुरुषस्तुरङ्गवदनो मयुः ॥ १०८ ॥ कुत्सितो नरः, अश्वमुखत्वात् किंनरः “ किं. क्षेपे" ॥३।१।११०॥ इति समासः ॥ १॥ एवं किंपुरुषः ॥ २॥ तुरङ्गस्येव वदनमस्य तुरङ्गवदनः ॥३॥ मिनोति मयुः “मिवहिचरिचटिभ्यो वा” ॥ (उणा--७२६ ) ॥ इत्युः ॥ ४ ॥ १०८ ॥ .. शंभुः शर्वः स्थाणुरीशान ईशो
रुद्रोड्डीशौ वामदेवो वृषाङ्कः । कण्ठेकालः शङ्करो नीलकण्ठः - श्रीकण्ठोग्रौ धूर्जटिभीमभौ ॥१०९॥ मृत्युञ्जयः पञ्चमुखोऽष्टमूर्तिः
श्मशानवेश्मा गिरिशो गिरीशः। पण्ढः कपर्दीश्वर ऊर्ध्वलिङ्ग
एकत्रिदृग्भालहगेकपादः ॥ ११० ॥ मृडोऽट्टहासी घनवाहनोऽहि
Page #81
--------------------------------------------------------------------------
________________
...२ देवकाण्डः । . र्बुध्नो विरूपाक्षविषान्तकौ च । महाव्रती वह्निहिरण्यरेताः
शिवोऽस्थिधन्वा पुरुषास्थिमाली ॥ १११ ॥ स्याद् व्योमकेशः शिपिविष्टभैरवौ
दिक्कृत्तिवासा भवनीललोहितौ । सर्वज्ञनाट्यप्रियखण्डपर्शवो ___ महापरा देवनटेश्वरा हरः ॥ ११२ ॥ पशुप्रमथभूतोमापतिः पिङ्गजटेक्षणः । पिनाकशूलखवाङ्गगङ्गाऽहीन्दुकपालभृत् ॥ ११३ ॥
गजपूषपुरानङ्गकालान्धकमखाऽसुहृत् ।
शं सुखं तत्र भवति शंभुः “शंसंस्वयंविप्राद् भुवो डुः "॥५। २ । ८४ ॥ इति दुः॥१॥ शृणाति संहरति शर्वः “लटिखटि--." ॥( उणा--- ५०५)॥ इति वः ॥ २ ॥ तिष्ठति शाश्वतं स्थाणुः “ अजिस्थावरीभ्यो णुः"॥ ( उणा--७६८) ॥ इति णुः ॥ ३ ॥ ईष्ट इत्यवंशीलः ईशानः, ताच्छील्ये शानः॥ ४ ॥ ईष्टे इशः ॥ ५ ॥ रोदनाद् रुद्रः “ऋज्यजि--" ॥ (उणा--३८८) ॥ इति रक् , “ सोऽरोदीद् यदरोदीत् त रुद्रस्य रुद्रत्वम्” इति श्रुतेः; रोदयत्यरिस्त्रीर्वा “ खुरक्षुर--" ॥ ( उणा--३९६) इति निपात्यते ॥६॥ उद्दिशत्यागमविशेषं उड्डीशः, पृषोदरादित्वात् ॥ ७ ॥ वामः श्रेष्ठो देवो वामदेवः, संसारवामत्वाद् वा ॥ ८ ॥ वृषोऽङ्क चिह्नमस्य वृषाङ्कः, यौगिकत्वाद् वृषलाञ्छन इत्यादयः ॥ ९ ॥ कण्ठे कालोऽस्य कण्ठेकालः “अमूर्धमस्तकात् स्वाङ्गादकामे" ॥ ३ । २ । २२ ॥ इति सप्तम्या अलुप् ॥ १० ॥ शं सुखं करोति शङ्करः “ हेतुतच्छीलानुकूले-" ॥ ५ । १। १०३ ॥ इति टः ॥ ११॥ नीलः कण्ठोऽस्य नीलकण्ठः ॥ १२ ॥ श्रीः शोभा कण्ठेऽस्य श्रीकण्ठः; तथाहि महाभारते
___ इन्द्रेण तत् पुरा क्षिप्तं वनं श्रीकण्ठकाषिणा।।
... दग्ध्वा कण्ठं तु तं पार्थ! ततः श्रीकण्ठता मम ॥ १॥ १३ ॥ : उच्यति क्रुधा समवैति, ओषति पुरं दहतीति वा उग्रः “ खुरक्षुर-"
॥ ( उणा--३९६ ) ॥ इति रान्तो निपात्यते ॥ १४ ॥ धूर्गङ्गा जटासु अस्य धूर्जटिः पृषोदरादित्वात् , धूर्भारभूता जटयो जटा अस्येति वा, “धूम्रं रूपं च . यत् तस्य तेन धूर्जटिरुच्यते " इति वा ॥ १५ ॥ बिभ्यत्यस्माद् भैरवरूपाद् भीमः
“भियः षोऽन्तश्च वा" ॥ ( उणा--३४४ ) ॥ इति मः ॥ १६ ॥ बिभर्ति • शक्तिं भर्गः “गम्यमि-” ॥ ( उणा--९२ ) ॥ इति गः, भृज्ज्यन्तेऽनेन काम
Page #82
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणौ
कालादयो वा ॥ १७ ॥ १०९ ॥ मृत्युं जयति मृत्युञ्जयः " भृवृजि - " ॥ ५ ॥ १ । ११२ ॥ इत्यादिना संज्ञायां खः ॥ १८ ॥ पञ्च मुखानि सद्योजातवामदेवाsघोरतत्पुरुषेशानलक्षणानि अस्य पञ्चमुखः ॥ १९ ॥ अष्टौ मूर्त्तयः क्षितिजलपवनहुताशनयजमानाकाशसूर्यचन्द्रलक्षणा अस्य अष्टमूर्तिः ॥ २० ॥ श्मशानं वेश्माऽस्य श्मशानवेश्मा ॥ २१ ॥ गिरिरस्यास्ति गिरिशः “ लोमपिच्छादेः शेलम् ” ॥ ७ । २ । २८ ॥ इति शः, गिरौ शेते, गिरिं श्यति उपभोगेन तनू - करोतीति वा ॥ २२ ॥ गिरेरीशो गिरीशः ॥ २३ ॥ ऋषिभिः शापेन पातितलिङ्गत्वात् षण्ढः, यद्वामनपुराणे
८२
ततस्तमृषयो दृष्ट्रा भार्गवाङ्गिरसो मुने ! |
क्रोधभाजोऽब्रुवन् सर्वे लिङ्गोऽस्य पततां भुवि ॥ १ ॥ २४ ॥ कपर्दोऽस्याऽस्ति कपर्दी ॥ २५ ॥ ईष्ट इत्येवंशील ईश्वरः " स्थेशभास - " ॥ ५ । २ । ८१ ॥ इति वरः ॥ २६ ॥ ऊर्ध्व लिङ्गमस्य ऊर्ध्वलिङ्गः, नकुलीशमूर्ती ॥ २७ ॥ एका तिस्रश्च दृशो यस्य स तथा एकदृक्, अर्धनारीश्वरमूर्ती महेश्वराङ्गस्य एकदृक्त्वात् ; त्रिदृक् ललाटे नेत्रयोगात्, यौगिकत्वात् एकनेत्रः, विषमनेत्रः ॥ २८ ॥ २९ ॥ भाले दृगस्य भालदृग् ॥ ३० ॥ अर्धनारीश्वरमूर्ती एकः पादोऽस्य एकपात् “ सुसंख्यात् “ ॥ ७ । ३ । १५० ॥ इति पादस्य पाद्भावः । एकत्रिदृगादीनां त्रयाणां द्वन्द्वः ॥ ३१ ॥ ११० ॥ मृडति सुखयति मृडः ॥ ३२ ॥ अट्टहासोऽस्याऽस्ति अट्टहासी ॥ ३३ ॥ घना मेघा वाहनमस्य घनवाहनः, यौगिकत्वात् अब्दवाहनादयोऽपि ॥ ३४ ॥ अहिः शेषनागो बुभेऽस्य भूमूर्तेः अहिर्बुनः, पृषोदरादित्वाद् रेफागमः, द्वाभ्यां पृथक्पदाभ्यां प्रथमैकवचनान्ताभ्यां एकं नामेत्यन्ये, विभक्त्यन्तरेऽपि यथा-" अहये बुधाय नमो बुधाय नमो नमोऽस्तु गणपतये ” ॥ ३५ ॥ विरूपाणि विषमत्वाद् अक्षीण्यस्य विरूपाक्षः “ सक्थ्यक्ष्णः स्वाङ्गे " ।। ७ । ३ । १२६।। इति टः ।।३६।। विषमन्तयति विषान्तकः, समुद्रमथने विषभक्षणात् ॥ ३७॥ महाव्रतं कापालिकलिङ्गं विद्यतेऽस्य महाव्रती ॥ ३८ ॥ वह्निहिरण्यशब्दाभ्यां परो रेतःशब्दः वह्निरेताः वहौ रेतोऽस्येति कृत्वा, देव्या सोढुमशक्यत्वात् अग्नौ हि क्षिप्तं रेतः, अत एव अग्निभूः कुमारः ॥ ३९ ॥ हिरण्यं रेतोऽस्य हिरण्यरेताः, अग्निमूर्तिना यमुना हिरण्यं प्रसूतमिति ॥ ४० ॥ शिवहेतुत्वात् शिवः, शेते वसति प्रलये जगदस्मिन्निति वा शापो हस्वश्च वा ।। ( उणा - ५०६ ) ॥ इति वः ॥ ४१ ॥ अस्थिमयं धन्वाऽस्य अस्थिधन्वा ।। ४२ ।। पुरुषास्थीनि मलते धारयतीत्येवंशीलः पुरुषास्थिमाली ॥ ४३ ॥ १११ ॥ व्योम द्यौः के मूर्धनि शेतेऽस्य व्योमकेशः “ शीर्षे द्यौः समवर्तत " इति श्रुतेः, गङ्गां धारयितुं व्योमव्यापिनः केशा अस्येति वा ॥ ४४ ॥ शिविर्नाम राजा नारायणेन हतः स चेश्वरस्याऽत्यन्तं प्रिय इति तस्याऽस्थीनि शिरसि धृतानि, अतः पिष्टोऽस्थ्यादिरूपेण शिविरत्र शिपिविष्टः पृषोदरादित्वात् ; शिपिरिन्द्रलुप्तवातस्तेन विष्टो व्याप्त इति
<<
""
Page #83
--------------------------------------------------------------------------
________________
२ देवकाण्डः ।
८३
वा ॥ ४५ ॥ बिभर्ति कपालं, बिभ्यत्यस्मादिति वा भैरवः " कैरवभैरव - " ॥ ( उणा५१९ ) ॥ इति निपात्यते ॥ ४६ ॥ दिशः कृत्तिश्च वासोऽस्य दिकृत्तिवासाः दिग्वासा नग्नत्वात्, कृत्तिवासा गजाजिनसंव्यानत्वात्; यौगिकत्वाद् दिग्वस्त्रः, चर्मवसन इत्यादयः ॥ ४७ ॥ ४८ ॥ भवत्यस्माद् रजोगुणापन्नाद् विश्वमिति भवः, औणादिकः अः ॥ ४९ ॥ नीलः कण्ठे लोहितश्च केशेषु अतो नीललोहितइति पुराणम् ॥ ५० ॥ सर्व जानाति सर्वज्ञः ॥ ५१ ॥ नाट्यं प्रियमस्य नाट्यप्रियः ॥ ५२ ॥ दैत्ययुद्धे खण्डीभूतः परस्य खण्डपर्शः ॥ ५३ ॥ महापरा देवनटेश्वरा इति महांश्चासौ देवश्च महादेवः, तथा महानटः, नाट्यसृष्टिकारित्वात् ; तथा महेश्वरः महोदधिवद् रूढः ॥ ५४ ॥ ५५ ॥ ५६ ॥ हरत्यघं हरः ॥ ५७ ॥ ॥ ११२ ॥ पशूनां प्रमथानां, भूतानां, उमायाश्च पतिः पशुपतिः, सुरनरतिरश्चां पशुत्वेनोक्तत्वात् " आब्रह्मान्तं लोकाः पशवः " इति स्मृतेः प्रमथपतिः, भूतपतिः, उमापतिः; यौगिकत्वात् पशुनाथः, गणनाथः, भूतनाथः, गौरीनाथ इत्यादयः ।। ५८ ।। ५९ ।। ६० ।। ६१ ।। पिङ्गा जटा ईक्षणं च यस्य स तथा पिङ्गजटः, पिङ्गेक्षणः ।। ६२ ।। ६३ ।। पिनाकं च शूलं च खट्वाङ्गं च गङ्गां च अहिं च इन्दुं च कपालं च बिभर्ति पिनाकभृत् शूलभृत्, खट्वाङ्गभृत्, गङ्गाभृत्, अहिभृत् इन्दुभृत्, कपालभृत् ; यौगिकत्वात् पिनाकपाणिः, शूली, खट्वाङ्गधरः, गङ्गाधरः, उरगभूषणः, शशिभूषणः, कपाली इत्यादयः ।। ६४ ।। ६५ ।। ६६ ।। ६७ ।। ६८ ।। ६९ ।। ७० ।। ११३ ॥ गजस्य, पूष्णः, पुरस्य, अनङ्गस्य, कालस्य, अन्धकस्य, मखस्य असुहृत् गजासुहृत्, गजासुरहन्तृत्वात् ; पूषासुहृत्, दक्षाध्वरध्वंसने हि पूष्णो दन्ता महेश्वरेण पातिताः, यद्वामनपुराणे----
ततः क्रोधाभिभूतेन पूष्णो वेगेन शंभुना ।
मुष्टिनाssहत्य दशनाः पातिता धरणीतले ॥ १॥
पुरासुहृत्, शंभोराग्नेयबाणेन त्रिपुरस्य प्लुष्टत्वात्; अनङ्गासुहृत्, शंभो - स्तृतीयनेत्राग्निना कामस्य दग्धत्वात्; कालासुहृत्, दक्षमखध्वंसे यमस्य जित - त्वात्; अन्धकासुहृत्, अन्धको हि समरे शूलेन शूलिना प्रोतः; मखासुहृत्, दक्षस्य हि मखो महेश्वरेण विध्वंसितः; यौगिकत्वात् गजासुरद्वेषी, पूषदन्तहरः, त्रिपुरान्तकः, कामध्वंसी, यमजित्, अन्धकाऽरिः, दक्षाध्वरध्वंसक इत्यादयः ।। ७१ ।। ७२ ।। ७३ ।। ७४ ।। ७५ ।। ७६ ।। ७७ ।।
शेषश्चात्र-
शंकरे नन्दिवर्धनः ।
बहुरूपः सुप्रसादो मिहिराणोऽपराजितः ॥ कङ्कटीको गुह्यगुरुर्भगनेत्रान्तकः खरुः । परिणाहो दशबाहुः सुभगोऽनेकलोचनः ॥ १ ॥ गोपालो वरवृद्धोऽहिपर्यङ्कः पांसुचन्दनः ।
Page #84
--------------------------------------------------------------------------
________________
८४
अभिधानचिन्तामणौ
कूटकृद् मन्दरमणिर्नवशक्तिर्महाम्बुकः ॥ २ ॥ कोणवादी शैलधन्वा विशालाक्षोऽक्षतखनः । उन्मत्तवेषः शबरः शिताङ्गो धर्मवाहनः ॥ ३ ॥ महाकान्तो वह्निनेत्रः स्त्रीदेहा? नृवेष्टनः। महानादो नराधारो भूरिरेकादशोत्तमः ॥ ४ ॥ जोटी जोटीङ्गोऽर्धकूटः समिरो धूम्रयोगिनौ। उलन्दो यजतः कालो जटाधरदशाव्ययौ ॥५॥ संध्यानाटी रेरिहाणः शंकुश्च कपिलाञ्जनः। .. जगद्रोणिरर्धकलो दिशांप्रियतमोऽतलः ॥ ६ ॥ जगत्स्रष्टा कटाटङ्कः कटप्रूहीरहृत्कराः ॥
कपर्दोऽस्य जटाजूटः अस्य शंभोः, कं शिरः पिपर्ति कपर्दः “शाशीप-" ॥ ( उणा--२३७ ) । इति बहुवचनाद् दः ॥१॥ जटानां जूटो रचनाविशेषो जटाजूटः ॥ २ ॥
खटाङ्गस्तु सुखंसुणः ॥ ११४ ॥ खट्वाया अङ्गमिव सरलत्वेनेषासदृशत्वात् खट्वाङ्गः, क्लीवेऽपि, ययाडि:खट्वाङ्गं शिवपांशुलम् ॥ १ ॥ सुष्ठु खं सुनोति संबध्नाति सुखंसुणः “भ्रूणतृण-" ॥ (उणा-१८६)॥ इत्यादिशब्दाद् णान्तो निपात्यते ॥ २ ॥ ११४ ॥
पिनाकं स्यादाजगवमजकावं च तद्धनुः । पिनष्टि अरीन् पिनाकं पुंक्लीबलिङ्गः “ पिषेः पिपिण्यौ च" ॥ ( उणा३६) ॥ इत्याकः ॥ १॥ अजगवोऽस्थिविकारः तस्येदं आजगवं, यत्कात्यःधनुर्वदन्त्याजगवं पिनाकिकरगोचरम् ॥ २ ॥ अजका- ग्रहणस्थानमस्याऽस्ति अजकावं “ मण्यादिभ्यः "॥ ७ । २ । ४४ ॥ इति वः, अमरस्तु-"पिनाकोऽजगवं धनुः" इत्याह; प्राच्यास्तु-"अजगावं धनुः प्रोक्तम्" इत्याहुः ॥ ३ ॥ ... ब्राह्म्याद्या मातरः सप्त
ब्रह्मण इयं ब्राह्मी, ब्रह्माणीति शैवप्रसिद्धम् , सा आया आसां ब्राम्याद्याः । मान्ति वर्तन्ते मातृनाम्न्यः शम्भोः परिकरभूताः, यदुक्तम्
स्मृताद्या ब्रह्माणी सिद्धी माहेश्वरी च कौमारी। वैष्णव्यथ वाराही चामुण्डा मातरः सप्त ॥ १॥
प्रमथाः पार्षदा गणाः ॥ ११५॥ प्रमथन्ति अरीन् प्रमथाः ॥ १॥ पर्षदि साधवः पार्षदाः “ पर्षदो ण्यणौ " ॥ ७।१।१८ ॥ इति णः, पारिषदा इत्यपि, यद् व्याडि:-गणास्तु प्रमथाः पारिषदाः कूष्माण्डकादयः ॥२॥ गण्यन्ते दिव्यपदप्राप्त्येति गणाः ॥३॥११५॥
Page #85
--------------------------------------------------------------------------
________________
२ देवकाण्डः ।
लधिमा वशितेशित्वं प्राकाम्यं महिमाऽणिमा ।. . यत्रकामावसायित्वं प्राप्तिरैश्वर्यमष्टधा ॥ ११६ ॥
लघो वो लघिमा, महानपि लघुर्भूत्वा इषीकतूल इव आकाशे विहरति ॥१॥ वशिनो भावो वशिता, भूतानि पृथिव्यादीनि, भौतिकानि गोघटादीनि, तेषु वशी स्वतन्त्रो भवति तेषां त्ववश्यः, तत्कारणतन्मात्रपृथिव्यादिपरमाणुवशीकारात् तत्कार्यवशीकारः, तेन तानि यथाऽवस्थापयति तथाऽवतिष्ठन्त इत्यर्थः ॥१॥ ईष्ट इत्येवंशील ईशी ईशिनो भाव ईशित्वं, तेषां भूतभौतिकानां विजितमूलप्रकृतिः 'सन् य उत्पादो यो विनाशो यच्च यथावदवयवसंस्थानं तेषामाष्टे ॥ १॥ प्रकृष्टः कामोऽस्य प्रकामस्तद्भावः प्राकाम्यं इच्छाऽनभिघातः, नास्य भूतस्वरूपैर्मूर्त्यादिभिरिच्छाऽभिहन्यते, भूमावुन्मज्जति निमज्जति यथोदके ॥ १ ॥ महतो भावो महिमा, अल्पोऽपि नागनगनगरगगनपरिमाणो भवति ॥ १ ॥ अणोर्भावोऽणिमा, महानपि भवत्यणुः ॥ १॥ यत्र कामस्तत्राऽवस्यतीत्येवंशीलो यत्रकामावसायी तद्भावस्तत्त्वं सत्यसङ्कल्पता, विजितगुणार्थतत्त्वो हि यद्यदर्थतया सङ्कल्पयति, तत्तदस्मै प्रयोजनाय कल्पते, विषमप्यमृतकार्ये सङ्कल्प्य भोजयन् जीवयतीति ॥ १॥ प्रापणं प्राप्तिः, सर्वे भावाः संनिहिता भवन्ति तस्य, तद्यथा-भूमिष्ठ एवाङ्गुल्यग्रेण चन्द्रमसं स्पृशति ॥१॥ इत्यैश्वर्यमष्टप्रकारं भवति ॥ ११६ ॥
गौरी काली पार्वती मातृमाता
ऽपर्णा रुद्राण्यम्बिका त्र्यम्बकोमा । दुर्गा चण्डी सिंहयाना मृडानी___ कात्यायन्यौ दक्षजाऽऽर्या कुमारी ॥ ११७ ॥ सती शिवा महादेवी शर्वाणी सर्वमङ्गला । भवानी कृष्णमैनाकखसा मेनाद्रिजेश्वरा ॥ ११८ ॥
निशुम्भशुम्भमहिषमथनी भूतनायिका । . गौरवर्णत्वाद् गौरी ॥ १ ॥ संहारमूर्ती कृष्णवर्णत्वात् काली ॥ २ ॥ पर्वतस्याऽपत्यं पार्वती ॥ ३ ॥ मातॄणां ब्रह्माण्यादीनां माता मातृमाता ॥ ४ ॥ न विद्यन्ते पर्णान्यस्या अपर्णा, तपसि पर्णानामप्यनशनात् ॥ ५ ॥ रुद्रस्य भार्या रुद्राणी "वरुणेन्द्र-" ॥२ । ४ । ६२ ॥ इत्यादिना ङीः, आन् चान्तः ॥ ६ ॥ अम्बैव अम्बिका, जगन्मातृत्वात् ॥ ७॥ त्रीण्यम्बकानि नेत्राण्यस्याः त्र्यम्बका ॥ ८ ॥ अवतीति उमा “ अवेर्हखश्च वा” ॥ ( उणा-३४२ )॥ इति मक् , उ मेति मात्रा तपसे निषिद्धति वा ॥ ९ ॥ दुःखेन गन्तुं शक्यतेऽस्यां दुर्गा "सुगदुर्गमाधारे" ॥५। १ । १३२ ॥ इति डान्तो निपात्यते ॥ १० ॥ चण्डी, कोपनत्वात् " नवा
१२
Page #86
--------------------------------------------------------------------------
________________
८६
अभिधानचिन्तामणौ
""
शोणादेः ॥ २ । ४ । ३१ ॥ इति ङीः ॥ ११ ॥ सिंहो यानमस्याः सिंहयाना, यौगिकत्वात् सिंहवाहनाऽपि ॥ १२ ॥ मृडस्य भार्या मृडानी ॥ १३ ॥ कतस्याSपत्यं वृद्धं कात्यायनी, गर्गादित्वाद् यत्रि " लोहितादिशकलान्तात् " ॥ २ ॥ ४॥ ६८ ॥ इति ङीः, डायन् चाऽन्तः ॥ १४ ॥ दक्षाजाता दक्षजा, यौगिकत्वाद् दाक्षायणी ॥ १५ ॥ अर्यत इत्यार्या ॥ १६ ॥ कुमारी, अवस्थाभेदात् ॥ १७॥ ११७ ॥ सतीति पूर्वजन्मनि दक्षपुत्रीत्वे नाम, दक्षजेतिवत् ; यद् वामनपुराणे
ब्रह्मंस्त्वया समाख्याता मृता दक्षात्मजा सती । सा जाता हिमवत्पुत्रीत्येवं मे वक्तुमर्हसि ॥ १ ॥
सत्यशीलत्वात् सती ।।१८।। शिवा, स्वतः श्रेयस्करीत्वात्; पुंयोगे तु शिवस्य स्त्री शिवी ॥१९॥ महादेवस्य भार्या महादेवी ॥ २० ॥ शर्वस्य भार्या शर्वाणी ॥२१॥ सर्वाणि मङ्गलान्यस्याः सर्वमङ्गला ॥ २२ ॥ भवस्य भार्या भवानी ॥ २३ ॥ कृष्णमैनाकयोः खसा कृष्णखसा, नन्दपुत्रीत्वात् ; मैनाकस्वसा हिमादिपुत्रीत्वात् ॥ २४ ॥ २५॥ मेनाऽद्रिभ्यां जाता मेनाद्विजा मेनाजा, अद्रिजा ॥ २६ ॥ २७ ॥ ईष्ट इत्येवंशीला ईश्वरा “ स्थेश - " ॥ ५ । २ । ८१ ॥ इति वरः, ईश्वरीति तु “ अश्नोतेरीच्चादेः ' ॥ ( उणा-४४२ ) ॥ इति वरटि ङयां सिद्धम् ; ईश्वरस्य भार्येति वा ॥ २८ ॥ ११८ ॥ निशुम्भं शुम्भं महिषं मथति निशुम्भमथनी, शुम्भमथनी, महिषमथनी ॥ २९ ॥ ३० ॥ ३१ ॥ भूतानां नायिका भूतनायिका ॥ ३२ ॥
66
""
शेषश्चात्र -
गौतम कौशिक कृष्णा तामसी बाभ्रवी जया । कालरात्रिर्महामाया भ्रामरी यादवी वरा ।
ध्वजा शूलधरा परमब्रह्मचारिणी ॥ १ ॥ अमोघा विन्ध्यनिलया षष्ठी कान्तारवासिनी । जाडुली बदरीवासा वरदा कृष्णपिङ्गला ॥ २ ॥ दृषद्वतीन्द्रभगिनी प्रगल्भा रेवती तथा । महाविद्या सिनीबाली रक्तदन्त्येकपाटला ॥ ३ ॥ • एकपर्णा बहुभुजा नन्दपुत्री महाजया । भद्रकाली महाकाली योगिनी गणनायिका ॥ H हासा भीमा प्रकूष्माण्डी गदिनी वारुणी हिमा । अनन्ता विजया क्षेमा मानस्तोका कुहावती ॥ ५ ॥ चारणा च पितृगणा स्कन्दमाता घनाञ्जनी । गान्धर्वी कर्बुरा गार्गी सावित्री ब्रह्मचारिणी ॥ ६ ॥ कोटिश्रीर्मन्दरावासा केशी मलयवासिनी । कालायनी विशालाक्षी किराती गोकुलोद्भवा ॥ ७ ॥
Page #87
--------------------------------------------------------------------------
________________
२ देवकाण्डः ।
८७
एकानसी नारायणी शैला शाकम्भरीश्वरी । प्रकीर्णकेशी कुण्डा च नीलवस्त्रोग्रचारिणी ॥ ८ ॥ अष्टादशभुजा पौत्री शिवदूती यमखसा । सुनन्दा विकचा लम्बा जयन्ती नकुला कुला ॥ ९ ॥ विलङ्का नन्दिनी नन्दा नन्दयन्ती निरञ्जना। कालजरी शतमुखी विकराला करालिका ॥ १० ॥ विरजाः पुरला जारी बहुपुत्री कुलेश्वरी । कैटभी कालदमनी दर्दुरा कुलदेवता ॥ ११ ॥ रौद्री कुन्द्रा महारौद्री कालङ्गमा महानिशा । बलदेवस्वसा पुत्री हीरी क्षेमङ्करी प्रभा ॥ १२ ॥ मारी हैमवती चापि गोला शिखरवासिनी ॥
तस्याः सिंहों मनस्तालः तस्या गौर्याः, सिंहो वाहनं, मनस्ताडयति कम्पयति मनस्तालः ॥ १ ॥
सख्यौ तु विजया जया ॥ ११९ ॥ गौर्याः सख्यौ, विजयते विजया ॥ १ ॥ जयति जया ॥ १ ॥ ११९ ॥
चामुण्डा चर्चिका चर्ममुण्डा मार्जारकर्णिका । कर्णमोटी महागन्धा भैरवी च कपालिनी ॥ १२० ॥ चमत्यत्ति प्रलये जगत् चामुण्डा " पिचण्डैरण्ड-” ॥ ( उणा-१७६ )॥ इत्यादिशब्दात् साधुः, चण्डमुण्डदैत्ययोर्मारणाद् वा; यदाह
यस्माच्चण्डं च मुण्डं च गृहीत्वा त्वमुपागता।
चामुण्डेति ततो लोके ख्याता देवी भविष्यसि ॥ १ ॥१॥ चर्च्यते पूज्यते चर्चा चचैव चर्चिका ॥ २ ॥ चर्म मुण्डेऽस्याः चर्ममुण्डा ॥३॥ मार्जारः कर्णिकाऽस्याः, मार्जारवत् कर्णावस्या इति वा मार्जारकर्णिका ॥ ४ ॥ कर्णान् मोटयति दैत्यानां कर्णमोटी ॥ ५ ॥ महान् गन्धोऽस्या महागन्धा, दैत्यास्त्रविस्रत्वात् ॥ ६ ॥ भैरवस्य भार्या भैरवी ॥ ७ ॥ कपालमस्त्यस्याः कपालिनीं ॥८॥
शेषश्चात्रचामुण्डायां महाचण्डी चण्डमुण्डाऽपि ॥ १२० ॥ हेरम्बो गणविघ्नेशः पशुपाणिर्विनायकः ।
द्वैमातुरो गजास्यैकदन्तौ लम्बोदराखुगौ ॥ १२१ ॥ प्रत्यूहे रम्बते शब्दायते हेरम्बः, पृषोदरादित्वात् , देश्योऽपि बहुशः संस्कृते .
Page #88
--------------------------------------------------------------------------
________________
८८.
अभिधानचिन्तामणौ-.. प्रयुक्तत्वाद् निबद्धः ॥ १॥ गणानां विघ्नानां चेशो गणेशः, विघ्नेशः, यौगिकत्वात् प्रमथाधिपः, विघ्नराज इत्यादयः ॥ २ ॥ ३ ॥ पशुः पाणावस्य पशुपाणिः, यौगिकत्वात् परशुधर इत्यादयः ॥ ४ ॥ विगतो नायको नियन्ताऽस्य विनायकः, यद् वामनपुराणे
नायकेन मया देवि ! विनोदभूतोऽपि पुत्रकः । यस्माज्जातस्ततो नाम्ना भविष्यति विनायकः ॥ १ ॥
अन्येषां विनेता वा ॥ ५ ॥ द्वयोर्मात्रोरपत्यं द्वैमातुरः “संख्यासंभद्राद मातुर्मातुर् च " ॥ ६।१।६६ ॥ इत्यण् ॥ ६ ॥ गजस्येवाऽऽस्यमस्य गजास्यः ॥ ७ ॥ गुहोत्पाटितदन्तत्वात् एको दक्षिणो दन्तोऽस्य एकदन्तः ॥ ८ ॥ लम्बमुदरमस्य लम्बोदरः ॥ ९ ॥ आखुना गच्छति आखुगः, यौगिकत्वाद् मूषिकरथोऽपि ॥ १०॥ शेषश्चात्र-- अथाखुगे। प्रश्निगर्भः पृश्निको द्विशरीरस्त्रिधातुकः । हस्तिमल्लो विषाणान्तः ॥ १२१॥ स्कन्दः स्वामी महासेनः सेनानीः शिखिवाहनः । पाण्मातुरो ब्रह्मचारी गङ्गोमाकृत्तिकासुतः।। १२२ ॥
द्वादशाक्षो महातेजाः कुमारः षण्मुखो गुहः । . विशाखः शक्तिभृत् क्रौञ्चतारकारिः शराग्निभूः ॥ १२३ ।।
स्कन्दत्यरीन् स्कन्दः, स्कन्नं शुष्कं रेतोऽस्य वा ॥ १ ॥ स्वमस्याऽस्तीति स्वामी “स्वाद् मिन्नीशे” ॥ ७ । २ । ४९ ॥ इति मिन् दीर्घश्च ॥ २॥ महती सेनाऽस्य महासेनः ॥ ३ ॥ सेनां नयति सेनानीः ॥ ४ ॥ शिखी वाहनमस्य शिखिवाहनः, यौगिकत्वाद् मयूररथ इत्यादयः ॥ ५ ॥ षण्णां मातृणामपत्यं पाण्मातुरः ॥ ६ ॥ ब्रह्म चरतीत्येवंशीलो ब्रह्मचारी ॥ ७॥ गङ्गायाः, उमायाः, कृत्तिकानां च सुतः गङ्गासुतः, उमासुतः, कृत्तिकासुतः, यौगिकत्वाद् गाङ्गेयः, पार्वतीनन्दनः, बाहुलेय इत्यादयः ॥ ८ ॥ ९ ॥ १० ॥ १२२ ॥ द्वादशाऽक्षीणि अस्य द्वादशाक्षः, षण्मुखत्वात् ॥ ११ ॥ महत् तेजोऽस्य महातेजाः ॥ १२ ॥ कामयते ब्रह्म कुमारः “ कोरत उच्च" ॥ (उगा-४०९ ) ॥ इत्यारः, कुत्सितो ब्रह्मचारित्वाद् मारः स्मरोऽस्येति वा ॥ १३ ॥ षड् मुखान्यस्य षण्मुखः, अग्निपत्नीनां षण्णां स्तनपानत्वात् ॥ १४ ॥ गृहति सेनां गुहः ॥ १ ॥ विशाखासु जातो विशाखः " भर्तुसन्ध्यादेरण् " ॥ ६ । ३ । ८९ ॥ इत्यण् , तस्य " बहुलानुराधा-" ॥ ६ । ३। १०७ ॥ इति लुप् ॥ १६ ॥ शक्तिमायुधं बिभर्ति शक्तिभृत् , यौगिकत्वात् शक्तिपाणिरित्यादयः ॥ १७ ॥ क्रौञ्चस्य गिरेः,
Page #89
--------------------------------------------------------------------------
________________
२ देवकाण्डः ।
८९
तारकस्य च दानवस्य, अरिः क्रौञ्चारिः, अन्धकासुरे हि महेश्वरात् क्रौञ्चमध्ये प्रनष्टेऽनेन क्रौञ्चो दारित इति प्रसिद्धिः; तारकारिः, यौगिकत्वात् क्रौञ्चदारणः, तारकान्तक इत्यादयः ॥ १८ ॥ १९ ॥ शराग्निभ्यां भवति शराग्निभूः, शरभूः, अग्निभूः, यौगिकत्वात् शरजन्मा, अग्निजन्मेत्यादयः ॥ २० ॥ २१ ॥
शेषश्चात्र --
स्कन्दे तु करवीरकः ।
सिद्धसेनो वैजयन्तो बालचर्यो दिगम्बरः ॥ १२३ ॥
भृङ्गी भृङ्गिरिटिभृङ्गिरीटिर्नाड्यस्थिविग्रहः ।
भृङ्गाः षिङ्गाः क्रीडापात्रत्वात् सन्त्यस्य भृङ्गी ॥ १ ॥ भ्रमन् गिरावटति भृङ्गिरिटिः, पृषोदरादित्वात् ॥ २ ॥ एवं भृङ्गिरीटिः ॥ ३ ॥ नाडीशेषोऽस्थिशेषश्च विग्रहोऽस्येति नाड्यस्थिविग्रहः नाडीविग्रहः, अस्थिविग्रहः, अन्धकासुरो हि रुद्रेण वर्षसहस्राणि शूलप्रोतो धृतो नाड्यस्थिशेषशरीरश्च दासत्वं प्रपन्नो मुक्तो भृङ्गिगोऽभूत् इति प्रसिद्धिः ॥ ४ ॥ ५ ॥
शेवश्चात्र -- भृङ्गी तु चर्मी ॥ कूष्माण्डके केलिकिलः
66
कुण निपात्यते, स्वार्थे के कूष्माण्डकस्तत्र ॥ गुणवृद्धी चादेः " ॥ ( उणा - १९ ) ॥
नन्दीशे तण्डुनन्दिनौ ॥
पिचण्डैरण्ड”- ॥ ( उणा - १७६ ) ॥ इत्यादिशब्दाद् १ ॥ किलति क्रीडति केलिकिलः " बहुलं इत्यः किद्, द्वित्वादि च ॥ २ ॥
१२४ ॥
""
66
""
नन्दतीति नन्दी " पदिपठि- ॥ ( उणा - ६०७ ) ॥ इति इः, नन्दिश्चासावशश्च नन्दीशस्तत्र ॥ १ ॥ तनोति नृत्तं तण्डुः तनिमनिकणिभ्यो डुः ॥ ( उणा - ७६५ ) ॥ इति डुः ॥ २ ॥ अवश्यं नन्दतीति नन्दी ॥ ३ ॥ गणाअन्येऽप्यत्र, यद् व्याडिः-
➖➖
महाकालः पुनर्बाणो लूनबाहुर्वृषाणकः ।
. वीरभद्रस्तु धीराजो हेरुकस्तु कृतालकः ॥ १ ॥ अथ चण्डो महाचण्डः कुशाण्डी कङ्कणप्रियः । . मज्जनोन्मज्जनौ छागच्छागमेषौ महाघसः ॥ २ ॥ महाकपाल आलानः सन्तापनविलापनौ । महाकपोल ऐलोजः शङ्खकर्णः खरस्तपः ॥ ३ ॥
उल्कामाली महाजम्भः श्वेतपादः खराण्डकः । गोपाल ग्रामणीमालुर्घण्टाकर्णकरन्धमौ ॥ ४ ॥
Page #90
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणौ-...
कपाली जृम्भको लिम्पः स्थूलोऽकर्णविकर्णको । लम्बकर्णो महाशीर्षों हस्तिकर्णः प्रमर्दनः ॥ ५॥ ज्वालाजिह्वो धमधमः संहातः क्षेमकः पुलः । भीषको ग्राहकः सिस्नो धीरुण्डो मकराननः ॥ ६ ॥ पिशिताशी महाकुण्डो नखारिरहिलोचनः । कूणकुच्छो महाजानुः कोष्टकोटिः शिवङ्करः ॥ ७ ॥ वेतालो लोमवेतालस्तामसः सुमहाकपिः । उत्तुङ्गो गृध्रजम्बूकः कण्डानककलानको। चर्मग्रीवो जलोन्मादो ज्वालावकत्रो विहुण्डनः । हृदयो वर्तुलः पाण्डुर्भुण्डिरित्यादयोऽपरे ॥ ९ ॥ १२४ ॥ द्रुहिणो विरञ्चिद्रघणो विरिञ्चः
परमेष्ठ्यजोऽष्टश्रवणः स्वयंभूः । कमनः कविः सात्त्विकवेदगी
स्थविरः शतानन्दपितामहौ कः ॥ १२५ ॥ धाता विधाता विधिवेधसौ ध्रुवः ___पुराणगो हंसगविश्वरेतसौ । प्रजापतिर्ब्रह्म चतुर्मुखो भवा
न्तकृद् जगत्कर्त्तसरोरुहासनौ ॥ १२६ ॥ शंभुः शतधृतिः स्रष्टा सुरज्येष्ठो विरिञ्चनः । हिरण्यगर्भो लोकेशो नाभिपद्मात्मभूरपि ॥ १२७ ॥ द्रुह्यत्यसुरेभ्यो द्रुहिणः "ऋगृहेः कित्" ॥ (उणा-१९५) ॥ इतीणः ॥ १॥ विरिङ्ने सूते विरिञ्चिः “वौ रिचेः स्वराद् नोऽन्तश्च" ॥ ( उणा-६१७ ) ॥ इति इ: ॥ २ ॥ द्रुर्हन्यतेऽनेन दुघणः कुठारः, द्रुघण इव द्रुघणः, संसारच्छेदकत्वात् ॥ ३॥ विरिङ्क्ते सूते, विभिहसै रिच्यते उह्यते वा विरिञ्चः, पृषोदरादित्वात् साधुः ॥ ४ ॥ परमे पदे तिष्ठतीति परमेष्ठी “परमात् कित् ” ॥ ( उणा-९२५) ॥इतीनि "भीरुटानादयः” ॥२।३।३३॥ इति षत्वम् , सप्तम्या अलुप् च ॥५॥ न जायतइति अजः ॥ ६ ॥ अष्टौ श्रवणान्यस्य, चतुर्मुखत्वात् अष्टश्रवणः ॥ ७ ॥ स्वयं भवति स्वयंभूः ॥ ८ ॥ कामयतेऽभिलषति सुतां कमनः॥ ९ ॥ कवते वेदान् कविः ॥ १० ॥ सत्त्वानि प्रयोजनमस्य सात्त्विकः ॥ ११ ॥ वेदा गर्भेऽस्य वेदगर्भः॥१२॥ स्थविरः, पुराणपुरुषत्वात् ॥ १३ ॥ शतमानन्दानामस्य शतानन्दः ॥ १४ ॥ पितृणामपि पिता पितामहः “पित्रोर्डामहट्” ॥६।२।६३॥१५॥ कायतरति कः ॥१६॥
Page #91
--------------------------------------------------------------------------
________________
२ देवकाण्डः ।
९१
१२२।। दधाति धारयति भूतानिति धाता ॥ १७ ॥ विदधाति विधाता ॥ १८ ॥ विधति सृजति विधिः, नाम्युपान्त्यत्वात् किः ॥ १९ ॥ विधति वेधाः " अस् ” ॥ ( उणा९५५ ) ।। इत्यस् ।। २० ।। ध्रुवत्वाद् ध्रुवः ॥ २१ ॥ पुराणानि गायति पुराणगः ।। २२ ।। हंसेन गच्छति हंसगः, यौगिकत्वात् श्वेतपत्ररथः ॥ २३ ॥ विश्वाय रेतोऽस्य विश्वरेताः ||२४|| प्रजानां पतिः प्रजापतिः प्रजाया दुहितुः पतिरिति वा " प्रजापतिः स्वां दुहितरमकामयत ” इति श्रुतेः ॥ २५ ॥ बृंहन्ति वर्धन्ते चराचराणि भूतान्यत्र ब्रह्मा पुंक्लीबलिङ्गः “ बृंहेर्नोऽच " ॥ ( उणा - ९१३ ) ॥ इति मन् ॥ २६ ॥ चत्वारि मुखान्यस्य चतुर्मुखः ॥ २७ ॥ भवान्तं करोति भवान्तकृत् ॥ २८ ॥ जगतां कर्ता जगत्कर्ता, यौगिकत्वाद् विश्वसृड् इत्यादयः ॥२९॥ सरोरुहमासनमस्य सरोरुहासनः ||३०|| १२६ ॥ शं सुखं तत्र भवति शंभुः ॥ ३१ ॥ शतं वृतीनामस्य शतधृतिः ॥ ३२ ॥ सृजति स्रष्टा ॥ ३३ ॥ सुराणां ज्येष्ठः सुरज्येष्ठः ॥ ३४ ॥ विरिङ्क्ते विरिञ्चनः “ विदनगगन - " || ( उणा - २७५) ।। इत्यादिना निपात्यते ॥ ३५ ॥ हिरण्यं गर्भेऽस्य हिरण्यगर्भः, हिरण्यस्य गर्भो वा, हिरण्यवर्णब्रह्माण्डप्रभवत्वात् यत् पुराणम्-
,
हिरण्यवर्णमभवदत्राण्डमुदकेशयम् ।
तत्र जज्ञे स्वयं ब्रह्मा स्वयंभूर्लोकविश्रुतः ।। १ ।। ३६ ॥
भूरादीन् सप्त लोकानीष्टे लोकेशः ॥ ३७ ॥ नाभेः पद्मात् आत्मनश्च भवति नाभिभूः, पद्मभूः, आत्मभूः यौगिकत्वात् नाभिजन्मा, कमलजन्मा, आत्मयो - निरित्यादयः ॥ ३८ ॥ ३९ ॥ ४० ॥
शेषश्चात्र -- ब्रह्मा तु क्षेत्रज्ञः पुरुषः सनत् ॥ १२७॥ विष्णुर्जिष्णुजनार्दनौ हरिहृषीकेशाच्युताः केशव
दाशार्ह : पुरुषोत्तमोऽब्धिशयनोपेन्द्रावजेन्द्रानुजौ । विष्वक्सेननरायणौ जलशयो नारायणः श्रीपति
दैत्यारिश्च पुराणयज्ञपुरुषस्तार्क्ष्यध्वजोऽधोक्षजः ॥ १२८ ॥ गोविन्दषड्बिन्दुमुकुन्दकृष्णा
वैकुण्ठपद्मेशयपद्मनाभाः ।
वृषाकपिर्माधववासुदेवौ
विश्वम्भर: श्रीधरविश्वरूपौ ॥ १२९ ॥
दामोदरः शौरिसनातनौ विधुः
पीताम्बरो मार्जजिनौ कुमोदकः ।
त्रिविक्रमो जह्न्नुचतुर्भुजौ पुन
Page #92
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणौ
र्वसुः शतावर्तगदाग्रजौ स्वभूः ॥ १३० ॥ मुञ्जकेशिवनमालिपुण्डरीकाक्ष शशविन्दुवेधसः । प्रश्निशृङ्गधरणीधरात्मभूपाण्डवायनसुवर्णबिन्दवः ॥ १३१ ॥ श्रीवत्सो देवकीसूनुर्गोपेन्द्रो विष्टरश्रवाः । सोमसिन्धुर्जगन्नाथ गोवर्धनधरोऽपि च ।। १३२ ।
यदुनाथ गदाशाङ्गचक्र श्रीवत्सशङ्खभृत् ।
""
वेवेष्टि व्याप्नोति विश्वं विष्णुः “ विषेः कित् ॥ ( उणा- ७६९ ) ॥ इति णुक् ।। १ ।। जयनशीलो जिष्णुः ।। २ ।। जनान् अर्दयति जनार्दनः ।। ३ ।। हरति पापं हरिः ॥ ४ ॥ हृषीकाणामिन्द्रियाणामीशो वशिता हृषीकेशः ॥ ५ ॥ न च्यवते अच्युतः || ६ || प्रशस्ताः केशाः सन्त्यस्य केशवः " केशाद् वः ॥ ७ । २ । ४३ ।। इति वः ॥ ७ ॥ दशार्हो वसुदेवस्तस्यापत्यं दाशार्हः " ऋषिवृष्ण्यन्धक”- ।। ६ । १ । ६१ ।। इत्यण्, दशार्ह एव वा दाशार्हः, प्रज्ञाद्यण् ॥ ८ ॥ पुरुषेषूत्तमः पुरुषोत्तमः ॥ ९ ॥ अब्धौ शयनमस्य अब्धिशयनः ॥ १० ॥ इन्द्रमुपगतोऽनुजत्वाद् उपेन्द्रः ।। ११ ।। न जायत इति अजः ॥ ११ ॥ इन्द्रस्यानुजः इन्द्रानुजः, इन्द्रमातुरदितेर्गर्भे बलिनिग्रहार्थे वामनरूपेणोत्पन्नत्वात्, यद् माघः-दीप्तिनिर्जितविरोचनादयं द्यां विरोचनसुतादभीप्सतः । आत्मभूरवरजाखिलप्रजः स्वर्पतेरवरजत्वमाययौ ॥ १ ॥
यौगिकत्वाद् वासवावरजादयः ॥ १३ ॥ विष्वक् सर्वव्यापिनी विषूची वा सेना - Sस्य विष्वक्सेनः || १४नरा आपो भूतानि वा तान्ययते नरायणः, नन्द्यादित्वादनः, यदुक्तम्-- " आपो नरा इति प्रोक्ताः " तथा " नरा जातानि भूतानि " ॥ १५॥ जले शेते जलशयः, जलेशयोऽपि ।। १६ ।। नरस्याऽपत्यं नारायणः, नडादित्वाद आयनण् ; नारमम्मयं नरसमूहो वाऽयनमस्येति वा ।। १७ । श्रियः पतिः श्रीपतिः, यौगिकत्वाद् लक्ष्मीनाथ इत्यादयः || १८ || दैत्यानामरिः दैत्यारिः ॥ १९ ॥ पुराणयज्ञशब्दाभ्यां पुरुषः पुराणश्चासौ पुरुषश्च पुराणपुरुषः, यज्ञेषु पुरुषो यज्ञपुरुषः ।। २० ।। २१ ।। तार्क्ष्यो ध्वजोऽस्य तार्क्ष्यध्वजः, यौगिकत्वाद् गरुडाङ्क इत्यादयः ॥ २२ ॥ अधः कृत्वाऽक्षाणीन्द्रियाणि जातोऽधोक्षजः, अधोऽक्षाणां जितेन्द्रियाणां जायते प्रत्यक्षीभवति वा, अक्षजं ज्ञानमधोऽस्येति वा ॥ २३ ॥ १२८ ॥ गां भुवं विन्दति गोविन्दः, वराहरूपेणोद्धारात् “निगवादेर्नाम्नि || ५|१|६१ ॥ इति शः, गोपत्वाद् वा ।। २४ ।। षड् बिन्दवो लाञ्छनभूता अस्य षड्बिन्दुः ।। २५ ।। मुञ्चति पापिनो मुकुन्दः “ मुचेर्डुकुन्दकुकुन्दौ ” || ( उणा -- २५० ) ॥ इति डुकुन्दः ॥२६॥
""
९२
-
Page #93
--------------------------------------------------------------------------
________________
२ देवकाण्डः।
__९३
कृष्णवर्णत्वात् कृष्णः ॥ २७ ॥ विकुण्ठाया इदमपत्यं वैकुण्ठः, यद् विष्णुपुराणे--
चाक्षुषे चान्तरे देवो वैकुण्ठः पुरुषोत्तमः ।
विकुण्ठायामथो जज्ञे वैकुण्ठैर्दैवतैः सह ॥ १ ॥ विकुण्ठेरादिवराह्या अपत्यमिति वा; विकुण्ठितसिंहादिवत्रो वा, संहितासु तथा दर्शनात् ॥ २८ ॥ पद्मे शेते पद्मशयः “शयवासिवासेष्वकालात् ” ॥ ३।२।२५ ॥ इति सप्तम्या अलुप् ॥ २९ ॥ पद्म नाभावस्य पद्मनाभः “ नाभेर्नाम्नि" ॥ ७॥३॥
१३४ ॥ इत्यप् समासान्तः ॥ ३० ॥ वृषो धर्मः कपिर्वराहस्ताद्रूप्याद् वृषाकपिः, . यत् पुराणम्--
कपिर्वराहश्रेष्ठश्च धर्मश्च वृष उच्यते ।
तस्माद् वृषाकपिं प्राह काश्यपो मां प्रजापतिः ॥१॥ वृष दानवमाकम्पितवान् वा, पृषोदरादित्वात् ॥ ३१ ॥ माया लक्ष्म्या धवो भर्ता माधवः, मधोरपत्यं वा ॥ ३२ ॥ वसुदेवस्याऽपत्यं वासुदेवः, वृष्णित्वाद् अण् ॥ ३३ ॥ विश्वं बिभर्ति विश्वंभरः " भृवृजि-"॥५।१।११२॥ इति खः ॥ ३४ ॥ श्रियं धरति श्रीधरः ॥ ३५॥ विश्वं रूपमस्य विश्वरूपः ॥ ३६ ॥ १२९ ॥ दाम उदरेऽस्य दामोदरः, बाल्ये हि चापलाद् दाम्ना बद्धोऽभूत् ॥ ३७ ॥ सूरस्याऽपत्यं वृद्धं सौरिः, बाह्वादित्वाद् इञ् ॥ ३८ ॥ सना भवः सनातनः, अव्ययत्वात् तनट ॥ ३९ ॥ विध्यति दैत्यान् विधुः “ पृकाहृषि-" ॥ (उणा-७२९ ) ॥ इति कुः ॥ ४० ॥ पीतमम्बरमस्य पीताम्बरः ॥ ४१ ॥ मार्जयति पापं मार्जः, मां लक्ष्मीमर्जयतीति वा ॥ ४२ ॥ जयति दैत्यान् जिनः ॥ ४३ ॥ कुं पृथ्वी मोदयति कुमोदकः ॥ ४४ ॥ त्रयो विशिष्टाः क्रमाः सृष्टिस्थितिप्रलयलक्षणाः शक्तयोऽस्य त्रिविक्रमः, त्रिषु लोकेषु विक्रमः पादविन्यासोऽस्येति वा ॥ ४५ ॥ जहाति मुञ्चति पादाङ्गुष्ठाद् गङ्गामिति जगुः “हो जह् च"॥(उणा-७८९) ॥ इति नुः ॥४६॥ चत्वारो भुजाअस्य चतुर्भुजः ॥ ४७ ॥ पुनर्वखोर्जातः पुनर्वसुः “बहुलानुराधा-"॥६।३।१०७॥ इति भाऽणो लुप् , पुनर्वस्वस्येति वा ॥ ४८ ॥ शतमावर्ता अस्य शतावर्तः ॥४९॥ गदस्याऽप्रजो गदाग्रजः ॥ ५० ॥ स्वतो भवति स्वभूः ॥ ५१॥१३० ॥ मुजवर्णकेशयुक्तत्वात् मुञ्जकेशी, यत् पुराणम्
. . स शूलतेजसाऽऽविष्टो नारायणविभुस्तदा ।
____ बभूव मुञ्जवर्णश्च ततोऽहं मुञ्जकेशवान् ॥ १॥ ५२ ॥
वनमालाऽस्त्यस्य वनमाली, शिखादित्वादिन् ॥ ५३ ॥ पुण्डरीके इवाऽक्षिणी अस्य पुण्डरीकाक्षः ॥ ५४ ॥ बिभर्ति विश्वं बभ्रुः " हनिया-” ॥ ( उणा७३३ ) ॥ इति कुः, द्वित्वं च ॥ ५५ ॥ शशाकारा बिन्दवो लाञ्छनमस्य शशबिन्दुः ॥ ५६ ॥ विधति सृजति वेधाः ॥ ५७ ॥ पृश्नि शृङ्गमस्य पृश्निशृङ्गः ॥५०॥ धरणी धरति धरणीधरः, यौगिकत्वाद् महीधरादयः ॥ ५९ ॥ आत्मनो भवति
१३
Page #94
--------------------------------------------------------------------------
________________
९४
अभिधानचिन्तामणौ- ...
आत्मभूः ॥ ६० ॥ पाण्डवानयते पाण्डवायनः ॥ ६१ ॥ सुवर्णवर्णा बिन्दवो लाञ्छ- . नान्यस्य सुवर्णबिन्दुः ॥ ६२ ॥ १३१ ॥ श्रीवत्सो हृदि अस्य श्रीवत्सः ॥ ६३ ॥ देवक्याः सूनुः देवकीसूनुः ॥ ६४ ॥ गोपानामिन्द्रो गोपेन्द्रः ॥ ६५ ॥ विष्टरे इव श्रवसी अस्य विष्टरश्रवाः ॥ ६६ ॥ सोमोऽभिगम्यः सिन्धुरस्य सोमसिन्धुः ॥६७॥ जगतां नाथो जगन्नाथः ॥ ६८ ॥ गोवर्धनं धरति गोवर्धनधरः ॥ ६९ ॥ १३२ ॥ यदूनां नाथो यदुनाथः ॥ ७० ॥ गदां, शाङ्ग, चक्र, श्रीवत्सं, शङ्ख च बिभर्ति गदाभृत् , शार्ङ्गभृत् , चक्रभृत् , श्रीवत्सभृत् , शङ्खभृत् , यौगिकत्वाद् गदाधरः, शाम, चक्रपाणिः, श्रीवत्साङ्कः, शङ्खपाणिरित्यादयः ॥ ७१ ॥ ७२ ॥ ७३. ॥ ७४ ॥ ७५ ॥ शेषश्चात्र
नारायणे तीर्थपादः पुण्यश्लोको बलिन्दमः ।। उरुकमोरुगायौ च तमोघ्नः श्रवणोऽपि च ॥ १ ॥ उदारथिलतापर्णः सुभद्रः पांशुजालिकः । चतुव्यूहो नवव्यूहो नवशक्तिः षडङ्गजित् ॥ २ ॥ द्वादशमूलः शतको दशावतार एकदृग् । हिरण्यकेशः सोमोऽहिस्त्रिधामा त्रिककुत् त्रिपात् ॥ ३ ॥ मानजरः पराविद्धः पृश्निगर्भोऽपराजितः। . हिरण्यनाभः श्रीगर्भो वृषोत्साहः सहस्रजित् ॥ ४ ॥ ऊर्ध्वकर्मा यज्ञधरो धर्मनेमिरसंयुतः । पुरुषो योगनिद्रालुः खण्डास्यः शलिकाऽजितौ ॥ ५ ॥ कालकुण्ठो वरारोहः श्रीकरो वायुवाहनः ।। वर्धमानश्चतुर्दष्ट्रो नृसिंहवपुरव्ययः ॥ ६ ॥ कपिलो भद्रकपिलः सुषेणः समितिञ्जयः । ऋतुधामा वासुभद्रो बहुरूपो महाक्रमः ॥ ७ ॥ विधाता धार एकाङ्गो वृषाक्षः सुवृषोऽक्षजः । रन्तिदेवः सिन्धुवृषो जितमन्युर्वृकोदरः ॥ ८ ॥ बहुशृङ्गो रत्नबाहुः पुष्पहासो महातपाः । लोकनाभः सूक्ष्मनाभो धर्मनाभः पराक्रमः ॥ ९ ॥ पद्महासो महाहंसः पद्मगर्भः सुरोत्तमः । शतवीरो महामायो ब्रह्मनाभः सरीसृपः ॥ १० ॥ वृन्दाकोऽधोमुखो धन्वी सुधन्वा विश्वभुक् स्थिरः । शतानन्दः शरुश्चापि यवनारिः प्रमर्दनः ॥ ११ ॥
यज्ञनेमिर्लोहिताक्ष एकपाद् द्विपदः कपिः । ... एकशृङ्गो यमकील आसन्दः शिवकीतनः ॥ १२ ॥ .
Page #95
--------------------------------------------------------------------------
________________
२ देवकाण्डः ।
९५ शद्रुवंशः श्रीवराहः सदायोगी सुयामुनः ॥ मधुधेनुकचाणूरपूतनायमलार्जुनाः ॥ १३३ ॥ कालनेमिहयग्रीवशकटारिष्टकैटभाः । कंसकेशिमुराः साल्वमैन्दद्विविदराहवः ॥ १३४ ॥ हिरण्यकशिपुर्वाणः कालीयो नरको बलिः ।
शिशुपालश्चास्य वध्याः मन्यते मधुः ॥ १ ॥ धेनुं कायति धेनुकः ॥ २॥ चणति शब्दायते प्रतिमल्लाह्वाने चाणूरः “महिकणिचणि-" ॥ (उणा-४२८) ॥ इति शूरः ॥ ३ ॥ पुनाति पूतना " पृपूभ्यां कित्" ॥ (उणा-२९३) ॥ इति तनः ॥ ४ ॥ यमलरूपौ अर्जुनवृक्षौ यमलार्जुनौ ॥५॥ १३३ ॥ कालस्य नेमिरिव कालनेमिः ॥ ६॥ हयस्येव ग्रीवाऽस्य हयग्रीवः ॥ ७ ॥ शकटाकारत्वात् शकटः ॥ ८॥ न विद्यते रिष्टं क्षेममस्माद् अरिष्टः ॥ ९॥ कैतवेन भाति कैटभः, पृषोदरादित्वात् ॥ १० ॥ कामयते जयं कंसः “मावावद्यमि-" ॥ (उणा-५६४) ॥ इति सः ॥ ११ ॥ केशाः सन्त्यस्य केशी ॥ १२॥ मुरति चेष्टयति मुरः ॥१३॥ सल्वा आभिजनो निवासोऽस्य साल्वः “ सिन्ध्वादेरञ्॥६।३।२१६॥ इत्यञ् , सलति गच्छतीति वा “सलेर्णिद्वा" ॥(उणा-५१०) ॥ इति वः ॥ १४ ॥ मया लक्ष्म्या इन्दति मेन्दः, प्रज्ञायणि मैन्दः ॥ १५॥ द्वयोः नेताद्वापरयोर्विदो द्विविदः ॥ १६ ॥ रहति गृहीत्वा सूर्याचन्द्रमसौ राहुः ॥ १७ ॥ १३४ ॥ हिरण्येन युक्तः कशिपुरस्य हिरण्यकशिपुः ॥ १८ ॥ वाणयति युद्धाय रिपून् बाणः ॥ १९ ॥ के पानीये आलयोऽस्य कालीयः, पृषोदरादित्वात् ॥ २० ॥ नृणाति नरकः "दृकृनृ-" ॥ (उणा-२७) ॥ इत्यकः ॥ २१ ॥ बलति बलि: “पदिपठि-" ॥ (उणा-६०७)॥ इति इः ॥ २२ ॥ शिशून् पालयति शिशुपालः ॥ २३ ॥ एते त्रयोविंशतिरस्य विष्णोर्वध्याः, यौगिकत्वात् तेन मधुमथनः, धेनुकध्वंसी, चाणूरसूदनः, पूतनादूषणः, यमलार्जुनभञ्जनः, कालनेमिहरः, हयग्रीवरिपुः, शकटारिः, अरिष्टहा, कैटभारिः, कंसजित् , केशिहा, मुरारिः, साल्वारिः, मैंन्दमर्दनः, द्विविदारिः, राहुमूर्धहरः, हिरण्यकशिपुदारणः, बाणजित् , कालियदमनः, नरकारिः, बलिबन्धनः, शिशुपालनिसूदन इति विष्णोर्नामानि भवन्ति ॥
वैनतेयस्तु वाहनम् ॥ १३५॥ विष्णोर्वाहनं वैनतेयः, तेन वैनतेयवाहनः, गरुडगामी इत्यादि सिद्धम्॥१३५॥
शोऽस्य पाञ्चजन्यः .. पञ्चजने पाताले भवः पाञ्चजन्यः “गम्भीरपञ्चजनबहिर्देवात्" ॥६।३।१३५॥ इति ञः ॥ १॥
Page #96
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणौ
पानामा
.
अङ्कः श्रीवत्सः श्रिया युक्तो वत्सो वक्षोऽनेन श्रीवत्सः रोमावर्तविशेषः ॥ १॥ __ असिस्तु नन्दकः । नन्दयति नन्दकः ॥ १॥
गदा कौमोदकी कुमोदकस्य विष्णोरियं कौमोदकी । संहितासु मेण्ठादौ च कौपोदकीति पाठः, कूपोदकाज्जातेत्याम्नायात् ॥ १॥ ... चापं शाई
शृणाति शाङ्गै “ शृङ्गशामदयः " ॥ ( उणा-९६) इति गान्तो निपात्यते, शृङ्गस्येदमिति वा ॥१॥
___ चक्रं सुदर्शनः ॥ १३६ ॥
सुखेन दृश्यते सुदर्शनः “ शासूयुधि-" ॥ ५।३।१४१ ॥ इत्यनः पुंलिजोऽयम् , वाचस्पतिस्तु- “ चक्र सुदर्शनोऽस्त्रियाम्" इत्याह ॥ १॥ १३६ ॥
मणिः स्यमन्तको हस्ते सीमन्तयति द्यां दीप्तिभिः स्यमन्तकः, पृषोदरादित्वात् ॥ १ ॥ ___ भुजमध्ये तु कौस्तुभः । भुजमध्यं वक्षः, कुं भुवं स्तोभते व्याप्नोति कुस्तुभोऽब्धिस्तस्यायं कौस्तुभः ॥१॥
वसुदेवो भूकश्यपो दिन्दुरानकदुन्दुभिः ॥ १३७ ॥ वसुना दीव्यति वसुदेवः ॥ १ ॥ भुवि कश्यप इव भूकश्यपः ॥ २ ॥ द्विषो दमयति दिन्दुः" केवयुभुरण्यु-"॥ ( उणा-७४६) ॥ इत्यादिशब्दाद् निपात्यते ॥३॥ हरौ जाते आनका दुन्दुभयश्वास्य गृहे नेदुरिति आनकदुन्दुभिः, आनकदुन्दुभो वसुदेवपितेत्येके ॥ ४ ॥ १३७ ॥ रामो हली मुसलिसात्वतकामपालाः
संकर्षणः प्रियमधुर्बलरौहिणेयौ । . रुक्मिप्रलम्बयमुनाभिदनन्तताल
लक्ष्मैककुण्डलसितासितरेवतीशाः ॥ १३८ ॥
बलदेवो बलभद्रो नीलवस्त्रोऽच्युताग्रजः । रमते रामः, ज्वलादित्वाद् णः ॥ १॥ हलं प्रहरणमस्त्यस्य हली ॥ २॥
Page #97
--------------------------------------------------------------------------
________________
२ देवकाण्डः ।
मुसलमस्त्यस्य मुसली ॥ ३ ॥ सत्वतोऽपत्यं, तत्र भवो वा सात्वतः “ उत्सादेरञ्" ॥ ६।१।१९ ॥ इत्यञ् ॥ ४ ॥ कामान् पालयति, कामं स्मरं भ्रातृव्यत्वात् पालयति वा कामपालः ॥ ५॥ संकर्षति यमुनां संकर्षणः ॥ ६ ॥ प्रियं मधु मद्यमस्य प्रियमधुः ॥ ७ ॥ बलभद्रकदशो बलः, भीमवत् ; बलमस्यास्तीति वा ॥ ८ ॥ रोहिण्या अपत्यं रौहिणेयः, शुभ्रादित्वादेयण ॥९॥ रुक्मिणं, प्रलम्ब, यमुनां च भिनत्ति रुक्मिाभित् , प्रलम्बभित् , यमुनाभित् , यौगिकत्वाद् रुक्मिदारणः, प्रलम्बघ्नः, कालिन्दीकर्षण इत्यादयः ॥ १० ॥ ११ ॥ १२ ॥ अनन्तः शेषः, तन्मूर्तित्वाद् अनन्तः ॥ १३ ॥ तालो वृक्षो लक्ष्माऽस्य स ताललक्ष्मा ॥ १४ ॥ एकं कुण्डलमस्य एककुण्डलः, शेषमूर्तित्वात् ॥ १५ ॥ सितः सिताङ्गत्वात् , असितो नीलाम्बरत्वात् सितासितः ॥ १६ ॥ रेवत्या ईशो रेवतीशः ॥ १७ ॥ १३८ ॥ बलेन दीव्यति बलदेवः ॥ १८ ॥ बलेन भद्रो बलभद्रः ॥ १९ ॥ नीलं वस्त्रमस्य नीलवनः॥२०॥ अच्युतस्याऽग्रजः अच्युताग्रजः ॥ २१॥ शेषश्चात्र
बलभद्रे तु भद्राङ्गः फालो गुप्तचरो बली ॥ प्रलापी भद्रचलनः पौरः शेषाहिनामभृत् ॥
मुसलं त्वस्य सौनन्दं सुनन्दाया इदं सौनन्दम् ॥ १॥
हलं संवर्तकाह्वयम् ॥ १३९ ॥ संवर्तयति संहरति शत्रून् संवर्तकम् ॥ १ ॥ १३९ ॥
लक्ष्मीः पद्मा रमा या मा ता सा श्रीः कमलेन्दिरा ।
हरिप्रिया पद्मवासा क्षीरोदतनयाऽपि च ॥ १.४० ॥ लक्ष्यते लक्ष्मीः " लक्षेर्मोऽन्तश्च" ॥ (उणा-७१५)॥ इति ईः ॥ १॥ पद्ममस्त्यस्याः पद्मा, अभ्रादित्वाद् अः ॥२॥ रमते रमा ॥ ३ ॥ अस्य विष्णोर्भार्या ईः ॥ ४ ॥ अटति, अतति वा आ “क्वचित् ” ॥५।१।१७१॥ इति डः, यातीति या इत्यखण्डं वा ॥ ५॥ मीयते संख्यायते पुरुषेषु पुमान् अनया मा ॥ ६॥. सनोति ऋद्धि ता ॥ ७ ॥ स्यति दारिद्यं सा ॥ ८ ॥ श्रयतीत्येवंशीला श्रीः “दिद्युद्दद्द-"॥५।२।८३॥ इत्यादिना क्विपि दीर्घो निपात्यते ॥ ९॥ कमलमस्त्यस्याः कमला ॥ १० ॥ इन्दत्यनया इन्दिरा “मदिमन्दि-" ॥ (उणा--४१२) ॥ इति बहुवचनादिरः ॥ ११॥ हरेः कृष्णस्य प्रिया हरिप्रिया ॥ १२ ॥ पद्मे वासोऽस्याः पद्मवासा ॥ १३ ॥ क्षीरोदस्य तनया क्षीरोदतनया ॥ १४ ॥
शेषश्चात्रलक्ष्म्यां तु भर्भरी विष्णुशक्तिः क्षीराब्धिमानुषी ॥ १४० ॥
Page #98
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणौमदनो जराभीरुरनङ्गमन्मथौ ___ कमनः कलाकेलिरनन्यजोऽङ्गजः । मधुदीपमारौ मधुसारथिः स्मरो
विषमायुधो दर्पककामहृच्छयाः ॥ १४१ ॥ प्रद्युम्नः श्रीनन्दनश्च कन्दर्पः पुष्पकेतनः । मदयति मदनः ॥ १ ॥ जराया भीरुः जराभीरुः ॥ २ ॥ न विद्यतेऽङ्गमस्य अनङ्गः ॥ ३ ॥ मथति चित्तं रागिणां मन्मथः “ ऋमिमथिभ्यां चन्मनौ च".॥ ( उणा-१२ ) ॥ इति अः, द्विर्वचनस्य च मनादेशः; मनो मनातीति वा, पृषोदरादित्वात् ; मननं मन् चेतना, मनो मथः मन्मथ इति वा ॥ ४ ॥ कामयते शृङ्गारं कमनः “ रम्यादिभ्यः कर्तरि ” ॥ ५।३।१२६ ॥ इत्यनट् ॥ ५॥ कलासु केलिरस्य कलाकेलिः ॥ ६ ॥ न मनसोऽन्यस्माज्जायते अनन्यजः ॥ ७ ॥ अङ्गाज्जायते अङ्गजः ॥ ८ ॥ मधौ वसन्ते दीप्यते मधुदीपः ॥ ९ ॥ मारयति मारः ॥ १० ॥ मधुः सारथिरस्य मधुसारथिः ॥ ११ ।। स्मरन्त्यनेन स्मरः “ पुंनानि घः"।।५।३। १३० ॥ १२ ॥ विषमाणि आयुधान्यस्य विषमायुधः, पञ्चेषुत्वात् ॥ १३ ॥ दर्प-. यति दर्पकः ॥ १४ ॥ कामयतेऽनेन कामः “ व्यञ्जनाद् घञ्” ॥५।३।१३२॥ कामोऽस्त्यस्य वा ॥ १५ ॥ हृदि शेते हृच्छयः, यौगिकत्वाद् मनसिशयः ।। १६ ।।१४१ ।। प्रकृष्टं शुम्नं बलमस्य प्रद्युम्नः ॥ १७ ॥ श्रिया लक्ष्म्या नन्दनः श्रीनन्दनः, रुक्मिण्याः श्रियोऽवतारत्वात् ॥ १८ ॥ कं अव्ययं कुत्सायाम् , कं दर्पोऽस्य कन्दर्पः ॥ १९ ॥ पुष्पाणि केतनमस्य पुष्पकेतनः, यौगिकत्वात् पुष्पध्वजः ॥ २० ॥ शेषश्चात्र--
कामे तु यौवनोद्भेदः शिखिमृत्युर्महोत्सवः । शमान्तकः सर्वधन्वी रागरज्जुः प्रकर्षकः ॥ १ ॥
मनोदाही मथनश्च ॥ .. कन्तुर्दश्यां संस्कृतेऽपि ॥
पुष्पाण्यस्येषुचापास्त्राणि
अस्य कामस्य पुष्पाणि, इषुर्बाणः, चापं धनुः, अस्त्रमायुधम् , तेन पुष्पेषुः, कुसुमबाणः, पुष्पचापः, कुसुमधन्वा, पुष्पास्त्रः, कुसुमायुधः कामः स्यात् ; इषुचापयोः सत्यप्यस्त्रत्वे भेदेन ग्रहणम् , लोके तथाव्यवहारात् ।।
अरी शंवरशूर्पकौ ॥ १४२॥ अरिः शंवरः शं वृणोतीति कृत्वा, शूर्पयति परवीर्याणि मिमीते शूर्पकश्च; तेन शंवरारिः, शूर्पकारिः ॥ १४२ ॥
Page #99
--------------------------------------------------------------------------
________________
२ देवकाण्डः ।
९९ . . केतनं मीनमकरौ
केतनं ध्वजः, मीनो मकरश्च, तेन मीनकेतनः, झषध्वजः, मकरकेतनः, मकरध्वजः ।।
बाणाः पञ्च बाणाः पञ्चसङ्ख्याः , तेन पञ्चबाणो, विषमेषुः ॥
रतिः प्रिया । रतिः प्रिया कलत्रम् , तेन रतिवरो, रतिपतिः ॥ .. - मनःशृङ्गारसंकल्पात्मानो योनिः
मनश्च शृङ्गारश्च संकल्पश्च आत्मा च ते योनिः, तेन मनोयोनिः, चेतोभवः, शृङ्गारयोनिः, शृङ्गारजन्मा, संकल्पयोनिः, स्मृतिभूः, आत्मयोनिः, आत्मभूः ॥
सुहृद् मधुः ॥ १४३ ॥ मधुश्चैत्रः, सुहृत् सखा, तेन मधुसुहृत् , चैत्रसखः ॥ १४३ ॥
सुतोऽनिरुद्ध ऋप्याङ्क उषेशो ब्रह्मसूश्च सः । कामस्य सुतः, न निरुद्धयते स्म अनिरुद्धः॥१॥ ऋष्यनामा मृगोऽङ्कश्चिद्रं यस्य ऋष्याङ्कः, यौग्मिकत्वाद् ऋष्यकेतुः ॥ २ ॥ उषा बाणदुहिता तस्या ईशः उषेशः, यौगिकत्वाद् उषारमणः ॥ ३ ॥ ब्रह्म ज्ञानं सूते ब्रह्मसूः ॥ ४ ॥
गरुडः शाल्मल्यरुणावरजो विष्णुवाहनम् ॥ १४४ ॥ सौपर्णेयो वैनतेयः सुपर्णः
सर्पारातिर्वनिजिद् वज्रतुण्डः। पक्षिवामी काश्यपिः स्वर्णकाय
. स्तार्श्वः कामायुर्गरुत्मान् सुधाहृत् ॥ १४५ ॥ - गिलति नागान् गरुडः “गृजदृवृभृभ्य उट उडश्च" ॥ (उणा-१५३)॥ इत्युडः, गरुद्भिर्डयते इति वा पृषोदरादित्वात् ; डस्य लत्वे गरुलः ॥ १ ॥ कूटशाल्मलो नाम गरुडस्य राजधानीपर्वतः, शाल्मलो भीमवत् , सोऽस्याऽस्ति शाल्मली ॥ २॥ अरुणस्याऽवरजोऽरुणावरजः ॥ ३ ॥ विष्णोर्वाहनं विष्णुवाहनम् ॥ ४ ॥ १४४ ॥ सुप
ाः सुपर्णाया वाऽपत्यं सौपर्णेयः ॥ ५ ॥ विनताया अपत्यं वैनतेयः ॥ ६ ॥ शोभनानि स्वर्णमयत्वात् पर्णान्यस्य सुपर्णः ॥ ७ ॥ सर्पाणामरातिः सर्पारातिः ॥ ८ ॥ वर्जिणं जितवान् वज्रिजित् ॥ ९ ॥ वज्रवत् तुण्डमस्य वज्रतुण्डः ॥ १० ॥ पक्षिणां स्वामी पक्षिस्वामी ॥ ११ ॥ काश्यपस्याऽपत्यं काश्यपिः॥ १२ ॥ स्वर्णरूपः कायोऽ
Page #100
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणौ
सामिगः ।
स्य स्वर्णकायः ॥ १३ ॥ तृक्षस्याऽपत्यं तायः, गर्गादित्वाद् यञ् ॥ १४ ॥ कामेन इच्छया आयुरस्य कामायुः॥ १५ ॥ गरुतः पक्षाः सन्त्यस्य गरुत्मान् , ऊम्यादित्वाद् वत्वं न भवति ॥ १६ ॥ सुधां हृतवान् सुधाहृत् ॥ १७ ॥ शेषश्चात्र--
गरुडस्तु विषापहः । पक्षिसिंहो महापक्षो महावेगो विशालकः । उन्नतीशः खमुखभूः शिलाऽनीहोऽहिभुक् च सः ॥ १४५ ॥ बुद्धस्तु सुगतो धर्मधातुस्त्रिकालविजिनः । बोधिसत्त्वो महाबोधिरायः शास्ता तथागतः ॥ १४६ ॥ पञ्चज्ञानः षडभिज्ञो दशा) दशभूमिगः । चतुस्त्रिंशज्जातकज्ञो दशपारमिताधरः ॥ १४७ ॥ द्वादशाक्षो दशबलस्त्रिकायः श्रीघनाऽद्वयौ । समन्तभद्रः संगुप्तो दयाकूर्ची विनायकः ॥ १४८ ॥ . मारलोकखजिद् धर्मराजो विज्ञानमातृकः ।
महामैत्रो मुनीन्द्रश्च बुध्यते तत्त्वानि बुद्धः॥१॥ 'सर्वे गत्यर्था ज्ञानार्थाः' इति शोभनं गतं ज्ञानमस्य सुगतः ॥ २॥ धर्मः सत्त्वोद्धरणादिः तेनानुविद्धा धातवोऽस्य धर्मधातुः ॥ ३ ॥ त्रीन् कालान् वेत्ति त्रिकालवित् ॥ ४ ॥जयति भवं जिनः ॥ ५ ॥ बोधिः सत्त्वमस्य बोधिसत्त्वः, यद् व्याडि:- बोधिः स्वबोधजं ज्ञानं तन्मयो बोधिसत्त्वकः ॥ ६ ॥ महती बोधिरस्य महाबोधिः ॥ ७ ॥ अर्यतेऽभिगम्यते आर्यः, आरात् पापेभ्यः कर्मभ्यो यात इति वा ॥ ८ ॥ शास्ति विनेयान् शास्ता “ शासिशंसि-" ॥ ( उणा८५७) ॥ इति तृः ॥९॥ तथा सत्यं गतं ज्ञानमस्य तथागतः ॥१०॥१४६॥ पञ्चानां विज्ञानवेदनासंज्ञासंस्काररूपलक्षणानां स्कन्धानां ज्ञानमस्य पञ्चज्ञानः ॥ ११॥ दिव्यं चक्षुः, दिव्यं श्रोत्रं, पूर्वनिवासानुस्मृतिः, परचित्तज्ञानं, आश्रवक्षयः, ऋद्धिश्चेति षड् अभिज्ञा अस्य षडभिज्ञः॥१२॥ दश भूमीर्बलानि पारमिता वा अर्हति दशार्हः॥१३॥ दश भूमार्गच्छति दशभूमिगः, यद् व्याडि:
भूमयस्तु प्रमुदिता विमला च प्रभाकरी। अर्चिष्मती सुदुर्जयाऽभिमुखी च दुरङ्गमा ॥१॥
अचला साधुमती च धर्ममेघेति च क्रमात् ॥ १४ ॥ चतुस्त्रिंशतं जातकानि व्याघ्रीप्रभृतीनि जानाति चतुस्त्रिंशज्जातकज्ञः, यद् व्याडि:
जातकानि पुनर्व्याघ्री शितिः श्रेष्ठी शशो विशम् ।
Page #101
--------------------------------------------------------------------------
________________
२ देवकाण्डः ।
१०१
हंसो विश्वन्तरः शक्रो मैत्रीबलसुपारगौ ॥ १॥ अपुत्रो ब्राह्मणः कुम्भः कल्माषः पिण्डिजातकम् । अधिमुह्यं श्रेष्ठिजातं दमयन्ती महाकपिः ॥२॥ बोधिब्रह्मा महाबोधिर्वानरः शरभो रुरुः ।
क्षान्तिवादी च हस्ती च कुन्थुश्चेत्येवमादयः॥ ३ ॥ १५॥ दश पारमिताः प्रज्ञाद्या धारयति दशपारमिताधरः, यद् व्याडि:--
प्रज्ञा पारमिता तारा वृन्दा च जिनशक्तयः।
मारीची चतुदुर्वासा मारीचा वज्रकाल्यपि ॥१॥ .. द्वादशाऽक्षीण्यस्य द्वादशाक्षः ॥ १७ ॥ दश बलानि दानशीलक्षान्तिवीर्यध्यानशान्तिबलोपायप्रणिधानज्ञानलक्षणान्यस्य दशबलः ॥ १८ ॥ त्रयः काया निर्माणाद्या अस्य त्रिकायः ॥ १९ ॥ श्रिया योगविभूत्या घनो निबिडः, श्रिया घन इव वर्षिता वा श्रीघनः ॥ २० ॥ न विद्यते द्वयं ज्ञानार्थौ किन्त्वेकमेव ज्ञानमस्य अद्वयः ॥ २१ ॥ संपूर्णान्तं निष्पन्नं भद्रमस्य समन्तभद्रः ॥ २२ ॥ सम्यग् गुप्तः संगुप्तः, योगिनामगम्यत्वात् ॥ २३ ॥ दयैव कूचेः दयाकूर्चः, यदू व्याडि:"कोष्ठागारोऽभवत् कूर्ची निधिर्वा तेन तादृशः" ॥२४॥ विनयति शास्ति विनायकः ॥ २५ ॥ १४८ ॥ मारान् कामक्रोधादीन् , लोकान् भूरादीन् , खानि इन्द्रियाणि, जयति मारजित् , लोकजित् , खजित् ; बौद्धास्तु स्कन्धमारः, क्लेशमारः, मृत्युमारः, देवपुत्रमारश्चेति चतुरो मारानाहुः ॥ २६ ॥ २७ ॥ २८ ॥ धर्मेण राजते, धर्मस्य राजा वा धर्मराजः ॥ २९ ॥ विज्ञानं मातृकाऽस्य विज्ञानमातृकः ॥३०॥ महांश्चासौ मैत्रश्च महामैत्रः ॥ ३१ ॥ मुनीनामिन्द्रो मुनीन्द्रः, मुनिस्तु भीमवत् ॥ ३२॥ शेषश्चात्र
बुद्धे तु भगवान् योगी बुधो विज्ञानदेशनः ॥ महासत्त्वो लोकनाथो बोधिरहन सुनिश्चितः । गुणाब्धिर्विगतद्वन्द्वः ॥ बुद्धाः स्युः सप्त ते त्वमी ॥ १४९ ॥ विपश्यी शिखी विश्वभूः ककुच्छन्दश्च काञ्चनः ।
काश्यपश्च विशेषेण पश्यति विपश्यं ज्ञानं, तदस्यास्ति विपश्यी ॥ १ ॥ शिखाऽस्याऽस्ति शिखी ॥ २ ॥ विश्वं भवत्यस्माद् विश्वभूः ॥३॥ क्रमेण कौ च्छन्दोऽस्य क्रकुच्छन्दः, पृषोदरादित्वात् ॥ ४ ॥ काञ्चनवर्णत्वात् काञ्चनः ॥५॥ कश्यपस्याऽपत्यं वृद्ध काश्यपः, विदादित्वादञ् ॥ ६॥ इति षड बुद्धाः ॥
Page #102
--------------------------------------------------------------------------
________________
१०२
अभिधानचिन्तामणौ
सप्तमस्तु शाक्यसिंहोऽर्कबान्धवः ॥ १५० ॥ तथा राहुलसूः सर्वार्थसिद्धो गोतमान्वयः । मायाशुद्धोदनसुतो देवदत्ताप्रजश्च सः ॥ १५१ ॥
शका अभिजनो निवासोऽस्य शाक्य: “शण्डिकादेर्ण्यः " ॥ ६।३।२१५ ॥ इति ण्यः, शाक्यः सिंह इव शाक्यसिंहः, शाक्योऽपि भीमवत् ॥ १ ॥ अर्कस्य बान्धवः सूर्यवंश्यत्वाद् अर्कबान्धवः ॥ २ ॥ १५० ॥ राहुलं सूते राहुलसूः ॥ ३ ॥ सर्वार्थेषु सिद्धो निष्पन्नः सर्वार्थसिद्धः, अत एव सिद्धार्थः, यच्छाश्वतः–“सिद्धार्थौ बुद्धसर्षपौ” ॥ ४ ॥ गोतमोऽन्वयेऽस्य गोतमान्वयः ॥ ५ ॥ मायाया देव्याः, शुद्धोदनस्य च राज्ञः, सुतो मायासुतः, शुद्धोदनसुतः, यौगिकत्वात् शौद्धोदनिरित्यादिः ॥ ६ ॥ ७ ॥ देवदत्ता प्रजाऽपत्यमस्य देवदत्ताप्रजः ॥ ८ ॥ १५१ ॥
असुरा दितिदनुजाः पातालौकः सुरारयः । पूर्वदेवाः शुक्रशिष्याः
अस्यन्ति देवान् असुराः “वाश्यसि - " ॥ ( उणा - ४२३) ॥ इत्युरः, सुरविरुद्धा बा, अनर्थवत् ; सुराया अपानाद् वा ॥ १ ॥ दितिः, दनुश्चासुरमातरौ ताभ्यां जाता दितिजाः, दनुजाश्च, यौगिकत्वात् दैतेयाः, दानवी इत्यादयः ॥ २ ॥ ३ ॥ पाताले ओको येषां ते पातालौकसः ॥ ४ ॥ सुराणामरयः सुरारयः ॥ ५ ॥ पूर्वे च ते देवाश्च पूर्वदेवाः, अनयाद् देवत्वाद् भ्रष्टा इति प्रसिद्धेः ॥ ६ ॥ शुकस्य शिष्याः शुक्रशिष्याः ॥ ७ ॥
विद्यादेव्यस्तु षोडश ॥ १५२ ॥
रोहिणी प्रज्ञप्तिर्वज्रशृङ्खला कुलिशाङ्कुशा ।
चक्रेश्वरी नरदत्ता काल्यथाऽसौ महापरा ।। १५३ ।। गौरी गान्धारी सर्वास्त्रमहाज्वाला च मानवी । वैरोट्याऽच्छुप्ता मानसी महामानसिकेति ताः ॥१५४॥
रोहत्यवश्यं रोहिणी ॥ १ ॥ प्रकृष्टा ज्ञप्तिरस्याः प्रज्ञप्तिः ॥ २ ॥ वज्रमयी शृङ्खलाऽस्या वज्रशृङ्खला ॥ ३ ॥ कुलिशमयमङ्कुशमस्याः कुलिशाङ्कुशा ॥ ४ ॥ चक्रस्येश्वरी चक्रेश्वरी ॥ ५ ॥ नरेषु दत्तमस्या नरदत्ता ॥ ६ ॥ कालवर्णत्वात् काली ॥ ७ ॥ अथासौ महापरेति - असौ काली महाशब्दपरा महाकालीत्यर्थः ॥ ८ ॥ १५३॥ गौरी, गौरवर्णत्वात् ॥९॥ गां धारयतीति गान्धारी, पृषोदरादित्वात् ॥१०॥ सर्वेषात्राणां महत्यो ज्वाला अस्यां सर्वास्त्रमहाज्वाला ॥ ११ ॥ मनोरियं मानवी ॥ १२ ॥ वैरोपशान्त्यै अटयाऽस्या वैरोटया, पृषोदरादित्वात् ॥ १३ ॥ न पापेन
Page #103
--------------------------------------------------------------------------
________________
२ देवकाण्डः ।
१०३
च्छुप्यते स्पृश्यते अच्छुप्ता ॥ १४ ॥ मनसि भवा मानसी ॥ १५॥ मानसी एव मानसिका, महती चासौ मानसिका च महामानसिका ॥ १६ ॥ १५४ ॥
वाग् ब्राह्मी भारती गौगीर्वाणी भाषा सरखती ।
श्रुतदेवी उच्यते वाक् “दिद्युद्दद्द-" ॥ ५। २ । ८३ ॥ इति क्विबन्तो निपात्यते ॥१॥ ब्रह्मण इयं ब्राह्मी "तस्येदम् ॥ ६ । ३ । १६० ॥ इत्यणप्रत्यये "ब्रह्मणः" ॥ ७ । ४ । ५७ ॥ इत्यन्तखरादिलोपः, अत एव शब्दब्रह्मणोऽधिष्ठात्र्याः पर्यायाएते, वचनादयस्त्वधिष्ठेयाः ॥ २॥ भरतानां नटानामियं देवता भारती, भरतानां ऋत्विजां स्तुतिलक्षणां तैरवतारितत्वात् इति याज्ञिकाः, बिभर्तीति वा, पृषोदरादित्वात् ॥ ३ ॥ गच्छति गौः पुंस्त्रीलिङ्गः ॥ ४ ॥ गृणातीति गीः ॥५॥ वण्यते वाणिः “ कमिवमि-" ॥ ( उणा-६१८ ) ॥ इति णिः, ङ्यां वाणी ॥ ६ ॥ भाष्यते भाषा " क्वेटो गुरोर्व्यञ्जनात् " ॥ ५। ३ । १०६ ॥ इत्यः ॥ ७॥ सरः प्रसरणमस्त्यस्याः सरस्वती, सरो ज्ञानं विद्यतेऽस्यामिति वा ॥ ८॥ श्रुतस्य प्रवचनस्याऽधिठात्री देवी श्रुतदेवी ॥.९ ॥ एते वचःपर्याया अपि ॥
वचनं तु व्याहारो भाषितं वचः ॥ १५५ ॥
उच्यते वचनम् ॥ १॥ व्याह्रियते व्याहारः ॥२॥ भाष्यते भाषितम् ॥३॥ उच्यते वचः “अस्” ॥ ( उणा-९५२ ) इत्यस् ॥ ४ ॥ शेषश्चात्र
वचने स्यात् तु जल्पितम् । लपितोदितभणिताभिधानगदितानि च ॥ १५५ ॥
सविशेषणमाख्यातं वाक्यं त्याद्यन्तं पदमाख्यातं, तत् प्रयुज्यमानमप्रयुज्यमानं वा, प्रयुज्यमानैरप्रयुज्यमानैर्वा कादिभिर्विशेषणैः सहितम्--उच्यत इति वाक्यम् , यथा-धर्मो वो रक्षतु । अप्रयुज्यमानमाख्यातं यथा-शीलं ते खम् , अत्राऽस्तीति गम्यते । अप्रयुज्यमानविशेषणं यथा-प्रविश, अत्र गृहमिति गम्यते । अनयोरर्थात् प्रकरणाद् वाऽऽख्यातादेरवगमात् अप्रयोगः । आख्यातमित्यत्र चैकत्वस्य विवक्षितत्वात् 'ओदनं पच तव भविष्यति' इत्यादौ वाक्यभेदः ॥
स्त्याद्यन्तकं पदम् । स् इत्युत्सृष्टानुबन्धस्य सेर्ग्रहणम् , ति इत्युत्सृष्टानुबन्धस्य तिवः, स् च तिश्च स्ती तावादी येषां प्रत्ययानां ते स्त्यादयः, आदिशब्दः प्रत्येकमाभिसंबध्यते, तेन स्यादयः सुप्पर्यन्ताः, त्यादयश्च स्यामहिपर्यन्ता गृह्यन्ते, ते अन्ते यस्य तत् स्त्याद्यन्तकं, पद्यते गम्यतेऽर्थोऽनेनेति पदम् , वर्षादित्वाद् अल् ॥
Page #104
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणौ___राद्धसिद्धकृतेभ्योऽन्त आप्तोक्तिः समयागमौ ॥१५६॥
राद्धशब्दात् , सिद्धशब्दात् , कृतशब्दाच परोऽन्तः राद्धान्तः, सिद्धान्तः, कृतान्तः, राद्धः, सिद्धः, कृतश्च अन्तो निश्चयोऽस्येति कृत्वा ॥ १ ॥ २ ॥ ३ ॥ आप्तानामुक्तिः आप्तोक्तिः ॥ ४ ॥ समेति संगच्छते समयः ॥ ५ ॥ आगम्यतआगमः ॥ ६॥ १५६ ॥
आचाराङ्गं सूत्रकृतं स्थानाङ्ग समवाययुक् । पञ्चमं भगवत्यङ्गं ज्ञाताधर्मकथाऽपि च ॥ १५७ ॥ .. उपासकान्तकृदनुत्तरोपपातिकाद् दशाः। . प्रश्नव्याकरणं चैव विपाकश्रुतमेव च ॥ १५८ ॥
इत्येकादश सोपाङ्गान्यङ्गानि
आचरणं आचारः, आचर्यत इति वा; शिष्टाचरितो ज्ञानाद्यासेवनविधिरित्यर्थः; तत्प्रतिपादको ग्रन्थोऽपि आचारः, स चासौ अङ्गं च आचाराङ्गम् ॥ १ ॥ सूचनात् सूत्रं, सूत्रेण खपरसमयसूचनेन कृतं सूत्रकृतम् ॥ २ ॥ तिष्ठन्त्यस्मिन् प्रतिपाद्यतया जीवादय इति स्थानं, एकादिदशान्तसंख्याभेदो वा स्थानं, तत्प्रतिपादको ग्रन्थोऽपि स्थानम् , तच्च तदङ्गं च स्थामाङ्गम् ॥ ३ ॥ समवायनं समवायः, एकादिशतान्तसंख्यासमाविष्टानां पदार्थानां संग्रहः, तद्धेतुश्च ग्रन्थोऽपि समवायः ॥ ४ ॥ भगवतीति पूजाऽभिधानं व्याख्याप्रज्ञप्तेः पञ्चमाङ्गस्य, सा चासौ अङ्गं च भगवत्यङ्गम् ॥ ५ ॥ ज्ञातानि उदाहरणानि तत्प्रधाना धर्मकथा ज्ञाताधर्मकथा, तत्प्रतिपादको ग्रन्थोऽपि तथा ॥ ६ ॥ १५७ ॥ उपासकाः श्रावकाः, तद्गतक्रियाकलापप्रतिबद्धा · दशा दशाऽध्ययनरूपा उपासकदशाः, बहुवचनान्तमेतद्ग्रन्थनाम ॥७॥अन्तो विनाशः स च कर्मणः, तत्फलभूतस्य वा संसारस्य; तं कुर्वन्ति ये तीर्थकरादयस्तेऽन्तकृतः, तेषां दशाः प्रथमवर्गे दशाध्ययनानि इति तत्संख्यया अन्तकृद्दशाः ॥८॥न विद्यते उत्तरः प्रधानोऽस्मात् इत्यनुत्तरः, उपपतन उपपातो जन्म, अनुत्तरः प्रधानः संसारेऽन्यस्य तथाविधस्याऽभावात् , उपपातोऽस्त्येषामित्यनुत्तरोपपातिकाः विजयाद्यनुत्तरविमानपञ्चकजन्मानो देवाः, तद्वक्तव्य. ताप्रतिबद्धा दशा दशाऽध्ययनोपलक्षिता अनुत्तरोपपातिकदशाः ॥ ९ ॥ प्रश्नः पृच्छा तन्निर्वचनं व्याकरणं प्रश्नव्याकरणं, तत्प्रतिपादको ग्रन्थोऽपि प्रश्नव्याकरणम् ॥ १० ॥ विपचनं विपाकः शुभाऽशुभकर्मपरिणामः, तत्प्रतिपादकं श्रुतं विपाकश्रुतम् ॥ ११ ॥ १५८ ॥ इत्येकादश प्रवचनपुरुषस्य अङ्गानीवाऽङ्गानि सहोपाझैरौपपातिकादिभिर्वर्तन्ते सोपाङ्गानि ॥
द्वादशं पुनः। दृष्टिवादः
Page #105
--------------------------------------------------------------------------
________________
२ देवकाण्डः ।
१०५
श्टयो दर्शनानि तासां वदनं दृष्टिवादः, दृष्टीनां पातो यत्र असौ दृष्टिपातोऽपि, सर्वनयदृष्टय इहाऽऽख्यायन्त इत्यर्थः। तथा चाह-"दृष्टिवादेन दृष्टिपातेन वा सर्वभावप्ररूपणा आख्यायते” ॥
द्वादशाङ्गी स्याद् गणिपिटकावया ॥ १५९ ॥ द्वादशानामाचारादीनां दृष्टिवादान्तानामङ्गानां समाहारो द्वादशाङ्गी ॥१॥ गुणानां साधूनां वा गणो विद्यतेऽस्य गणी आचार्यः, गणिर्वा साङ्गप्रवचनाध्येता, तस्य पिटकमिव सर्वार्थरत्नाधारत्वात् गणिपिटकं तदाह्वया, द्वादशाङ्गी गणिपिटकमुच्यत इत्यर्थः ॥ २ ॥ १५९ ॥
तत्र दृष्टिवादभेदानाह-- ___ परिकर्मसूत्रपूर्वानुयोगपूर्वगतचूलिकाः पञ्च ।
स्युर्दृष्टिवादभेदाः परिकर्म च सूत्रं च पूर्वानुयोगश्च पूर्वगतं च चूलिका चेति द्वन्द्वः । सूत्राणि ग्रहणयोग्यतासंपादनसमर्थानि परिकर्माणि गणितपरिकर्मवत्॥१॥सर्वद्रव्यपर्यायनयाद्यर्थसूचनात् सूत्राणि ॥२॥ अनुरूपोऽनुकूलो वा योगोऽनुयोगः, सूत्रस्य निजेनाभिधेयेन सार्धे अनुरूपः संबन्धः, स च मूलप्रथमानुयोगो गण्डिकानुयोगश्चेति द्विविधः; इह धर्मप्रणयनाद् मूलं तावत् तीर्थकराः, तेषां प्रथमसम्यक्त्वाऽवाप्तिलक्षणपूर्वभवादिगोचरोऽनुयोगो मूलप्रथमानुयोगः स एव पूर्वानुयोगः, स च गण्डिकानुयोगोऽस्य उपलक्षणम् , इहैकवक्तव्यतार्थाधिकारानुगता गण्डिका उच्यन्ते, तासामनुयोगोऽर्थकथनविधिः गण्डिकानुयोगः ॥ ३ ॥ पूर्वाणां गतं ज्ञानमस्मिन् पूर्वगतम् ॥ ४ ॥ इह दृष्टिवादे परिकर्मसूत्रपूर्वानुयोगोक्तानुफ्तार्थसंग्रहपरा ग्रन्थपद्धतयश्चूला इव चूलिकाः, एताश्चाद्यानां चतुर्णा पूर्वाणां भवन्ति, न शेषाणाम् ॥ ५॥ एते परिकर्मादयः पञ्चापि दृष्टिवादभेदाः ॥
पूर्वाणि चतुर्दशापि पूर्वगते ॥ १६० ॥
उत्पादपूर्वमग्रायणीयमथ वीर्यतः प्रवादं स्यात् । • अस्तेर्ज्ञानात् सत्यात् तदात्मनः कर्मणश्च परम् ॥ १६१ ॥ . प्रत्याख्यानं विद्याप्रवादकल्याणनामधेये च ।।
प्राणावायं च क्रियाविशालमथ लोकबिन्दुसारमिति ॥१६२॥ सर्वाङ्गेभ्यः पूर्वं तीर्थकरैरभिहितत्वात् पूर्वाणि, तानि यथा-सर्वद्रव्याणां पर्यायाणां चोत्पादप्रज्ञप्तिहेतुरुत्पादम् ॥ १ ॥ सर्वद्रव्याणां पर्यायाणां सर्वजीवविशेषाणां च अग्रं परिमाणं वर्ण्यते यत्र तद् अग्रायणीयम् ॥ २ ॥ जीवानामजीवानां च सकर्मेतराणां वीर्य प्रवदति वीर्यप्रवादम् ॥ ३ ॥ अस्तीति नास्तेरुपलक्षणम् , ततो
Page #106
--------------------------------------------------------------------------
________________
१०६
अभिधानचिन्तामणौ
यल्लोके यथाsस्ति, यथा वा नास्ति; अथवा स्याद्वादाभिप्रायेण तदेवाऽस्ति नास्तीति प्रवदति अस्ति नास्तिप्रवादम् ॥ ४ ॥ मतिज्ञानादिपञ्चकं सभेदं प्रवदतीति ज्ञानप्रवादम् ॥ ५ ॥ सत्यं संयमः, सत्यवचनं वा; तत् सभेदं सप्रतिपक्षं च यत् प्रवदति तत् सत्यप्रवादम् ॥ ६ ॥ नयदर्शनैरात्मानं प्रवदति आत्मप्रवादम् ॥ ७ ॥ ज्ञानावरणाद्यष्टविधं कर्म प्रकृतिस्थित्यनुभागप्रदेशादिभेदैरन्यैश्चोत्तरभेदैर्भिन्नं प्रवदति कर्मप्रवादम् ॥ ८ ॥ १६१ ॥ सर्वप्रत्याख्यानस्वरूपं प्रवदति प्रत्याख्यानप्रवादम्, तदेकदेशः प्रत्याख्यानम्, भमिवत् ॥ ९ ॥ विद्यातिशयान् प्रवदति विद्याप्रवादम् ॥ १० ॥ कल्याणफलहेतुत्वात् कल्याणम्, अवन्ध्यमिति चोच्यते ॥ ११ ॥ आयुः प्राविधानं सर्वे सभेदं, अन्ये च प्राणा वर्णिता यत्र तत् प्राणावायम् ॥ १२ ॥ कायिक्यादयः संयमाद्याश्च क्रिया विशाला सभेदा यत्र तत् क्रियाविशालम् ॥१३॥ इह लोके श्रुतलोके वा बिन्दुरिवाऽक्षरस्य सर्वोत्तमं सर्वाक्षरसंनिपातपरिनिष्ठितत्वेन लोकबिन्दुसारम् ॥ १४ ॥ १६२ ॥
स्वाध्यायः श्रुतिराम्नायश्छन्दो वेदः
""
छन्दः,
सुष्ठु आ समन्तात् अधीयते स्वाध्यायः “ इङोऽपादाने तु टि वा ॥ ५ | ३ | १९ ॥ इति घञ् ॥ १ ॥ श्रूयते श्रुतिः “ श्रवादिभ्यः ' ॥ ५ । ३ । ९२ ॥ इति क्तिः ॥ २ ॥ आम्नायते पारम्पर्येणा नायः ॥ ३ ॥ छादयति पापं क्लीबलिङ्गः, “ छदिवहिभ्यां छन्दोधौ च " ॥ ( उणा - ९५४ ) ॥ इत्यस् ॥ ४ ॥ विन्दत्यनेन धर्मं वेदः ॥ ५ ॥
त्रयी पुनः । ऋग्यजुःसामवेदाः स्युः
त्रयोsarवा अस्याः त्रयीं । ऋच्यते स्तूयतेऽनया ऋक् स्त्रीलिङ्गः ॥ १॥ इज्यतेऽनेन यजुः “ रुद्यर्ति - " ॥ ( उणा - ९९७ ) इत्युस् ॥ २ ॥ स्यति पापं साम, क्लीबलिङ्गः ॥३॥ ऋग्यजुः सामानि च ते वेदाश्चेति विग्रहः ॥ १ ॥
अथर्वा तु तदुद्धृतिः ॥ १६३ ॥
न थर्वति अथर्वा पुंलिङ्गः " श्वन्मातरिश्वन्- " ॥ ( उणा - ९०२ ) ॥ इत्यन्नन्तो निपात्यते, तेभ्य ऋग्यजुः सामवेदेभ्य उद्धृतिरुद्धारस्तदुद्धृतिः ॥ १॥ १६३ ॥ वेदान्तः स्यादुपनिषद्
वेदस्याsन्तो निश्चयो वेदान्तः ||१|| उप समीपे ब्रह्मणो निषीदन्त्यनया उपनिषद् ॥ २ ॥
ओङ्कारप्रणवैौ समौ |
"
अवति विघ्नाद् ओम् अव्ययम् “ अवेर्मः ॥ ( उणा - ९३३ ) ॥ इति मः,
Page #107
--------------------------------------------------------------------------
________________
२ देवकाण्डः ।
१०७
ओमेव ओङ्कारः “ वर्णाव्ययात् स्वरूपे कारः ” ॥ ७॥२।१५६ ॥ इति कार :॥१॥ प्रणूयते प्रस्तूयते प्रणवः ॥२॥
शिक्षा कल्पो व्याकरणं छन्दो ज्योतिर्निरुक्तयः ॥ १६४ ॥
षडङ्गानि शिक्ष्यते वर्णविवेकोऽनया शिक्षा, यद् वाचस्पतिः-“शिक्षा वर्णविवेचिका" ॥१॥ कर्मणां सिद्धरूपः प्रयोगः कल्प्यतेऽवगम्यतेऽनेन कल्पः, यद् वाचस्पतिः
सिद्धरूपः प्रयोगो यैः कर्मणामवगम्यते ।
ते कल्पा लक्षणार्थानि सूत्राणीति प्रचक्षते ॥ १ ॥ २ ॥ व्याक्रियन्तेऽन्वाख्यायन्ते शब्दा अनेन व्याकरणम् । यदाह
प्रकृतिप्रत्ययोपाधिनिपातादिविभागशः ।
पदान्वाख्यानकरणं शास्त्रं व्याकरणं विदुः ॥ १॥ ३ ॥ छाद्यतेऽनेन प्रस्ताराद् भूरिति च्छन्दः, छन्दोविचितिः॥४॥ज्योतिषां ग्रहाणां गतिज्ञानहेतुर्ग्रन्थों ज्योतिः ज्योतिषम् ॥ ५॥ वर्णागमादिभिर्निर्वचनं निरुक्तिः निरुकम् ॥ ६ ॥ १६४ ॥ अङ्ग्यते ज्ञायतेऽमीभिरित्यङ्गानि उपकारकाणि ॥ १॥
धर्मशास्त्रं स्यात् स्मृतिधर्मसंहिता। धर्मप्रतिपादकं शास्त्रं धर्मशास्त्रम् ॥ १॥ उच्छन्नविप्रकीर्णशाखानां मन्वा.. दिभिः स्मरणात् स्मृतिः ॥ २ ॥ धर्मः संधीयतेऽस्यां धर्मसंहिता ॥ ३ ॥ . आन्वीक्षिकी तर्कविद्या
प्रत्यक्षागमाभ्यामीक्षितस्य पश्चादीक्षणं अन्वीक्षा सा प्रयोजनमस्यामान्वीक्षिकी ॥ १॥ तर्कप्रधाना विद्या तर्कविद्या ॥२॥
मीमांसा तु विचारणा ॥ १६५ ॥ मीमांस्यतेऽनया मीमांसा ॥ १ ॥ विचार्यतेऽनया विचारणा ॥२॥१६५॥
सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च ।
वंशानुवंशचरितं पुराणं पञ्चलक्षणम् ॥ १६६ ॥ . सर्गः सृष्टिः ॥१॥ प्रतीपः सर्गः प्रतिसर्गः संहारः ॥२॥ वंशः सूर्यवंशादिः ॥३॥ मन्वन्तराणि खायंभुवादीनि चतुर्दश ॥ ४ ॥ वंशादनु वंशः वंशानुवंशः सूर्यवंशवंशादिः, तस्य चरितम् ॥ ५ ॥ पुरापि न नवं पुराणम् ॥ १॥ १६६ ॥
षडङ्गी वेदाश्चत्वारो मीमांसाऽन्वीक्षिकी तथा ।
धर्मशास्त्रं पुराणं चं विद्या एताश्चतुर्दश ॥ १६७ ॥ स्पष्टम् ॥ १६७ ॥
Page #108
--------------------------------------------------------------------------
________________
१०८
अभिधानचिन्तामणौ
सूत्रं सूचनकृद् सूत्र्यते प्रथ्यत इति सूत्रं पुंक्तीबलिङ्गः, सूचनाद् वा “पुत्रादयः" ॥ ( उणा४५५ ) ॥ इति निपात्यते; सुवतीति वा “ सूमूखन्युषिभ्यः कित्” ॥ ( उणा४४९ ) ॥ इति त्रट , सूचनं करोति सूचनकृत् ॥ १॥
भाष्यं सूत्रोक्तार्थप्रपञ्चकम् । भाष्यत इति भाष्यम् , सूत्रे उक्तमर्थ प्रपञ्चयति ॥ १ ॥
प्रस्तावस्तु प्रकरण प्रस्तूयते प्रस्तावः “प्रात् स्तुद्रुस्तोः” ॥ ५। ३ । ६७ ॥ इति घञ् ॥ १॥ प्रक्रियतेऽस्मिन् प्रकरणम् ॥२॥
निरुक्तं पदभञ्जनम् ॥ १६८ ॥ वर्णागमादिभिः पदानां निर्वचनं निरुक्तम् ॥१॥ पदानि भज्यन्तेऽस्मिनिति पदभञ्जनम् ॥ २ ॥ १६८ ॥
अवान्तरप्रकरणविश्रामे शीघ्रपाठतः।
आह्निकम् । अवान्तरप्रकरणानां विश्रामः तत्र शीघ्रपाठात् अह्ना निवृत्तमिव आह्निकम् , " निवृत्ते" ॥ ६ । ४ । १०५ ॥ इतीकण् ॥ १ ॥
अधिकरणं त्वेकन्यायोपपादनम् ॥ १६९ ॥ अधिक्रियतेऽस्मिन् अधिकरणम् , एकन्यायमुपपादयति एकन्यायोपपादनम् ॥१॥ १६९ ॥
उक्तानुक्तदुरुक्तार्थचिन्ताकारि तु वार्तिकम् । उक्तानां अनुक्तानां दुरुक्तानां चार्थानां चिन्तां करोतीत्येवंशीलम् , वृत्तिः प्रयोजनमस्य वार्तिकम् ॥१॥
टीका निरन्तरव्याख्या टीकयति गमयत्यर्थान् टीका, सुषमाणां विषमाणां च निरन्तरं व्याख्या यस्यां सा तथा ॥१॥
पञ्जिका पदभञ्जिका ॥ १७० ॥ पञ्च्यन्ते व्यक्तीक्रियन्ते पदार्था अनया पञ्चिका “ नाम्नि पुंसि च ॥ ५।३।१२१ ॥ इति णकः, पृषोदरादित्वाद् जत्वे पञ्जिका, अर्थाद् विषमाण्येव पदानि भनक्ति पदभञ्जिका ॥ १ ॥ १७ ॥
Page #109
--------------------------------------------------------------------------
________________
२ देवकाण्डः ।
१०९
. निबन्धवृत्ती अन्वर्थे
निबध्यते विशेषोऽस्मिन् निबन्धः ॥ १॥ वर्ततेऽर्थावगमोऽत्रेति वृत्तिः ॥१॥ अनुगतोऽर्थोऽनयोरन्वर्थे ॥
संग्रहस्तु समाहृतिः । संगृह्यन्ते वाच्यविशेषा अनेन संग्रहः ॥ १ ॥ समाह्रियन्तेऽनया समाहृतिः ॥ २ ॥
परिशिष्टपद्धत्यादीन् पथाऽनेन समुन्नयेत् ॥ १७१ ॥ परिशिष्यत इति परिशिष्टम् ॥ १॥ अनवच्छिन्नक्रमत्वात् पद्धतिरिव पद्धतिः ॥१॥ आदिग्रहणाद् अध्यायोच्छ्वासाङ्कसर्गादयो गृह्यन्ते, पथाऽनेनेति अन्वर्थमार्गेणैव ॥ १७१ ॥
कारिका तु स्वल्पवृत्तौ बहोरर्थस्य सूचनी । पदार्थान् गम्यान् करोति कारिका, शेषं सुगमम् ॥ १ ॥
कलन्दिका सर्वविद्या कलन्दी भाजनविशेषः तत्प्रतिकृतिः कलन्दिका, डलयोरैक्ये कडन्दिका अपि, सर्वा आन्वीक्षिक्याद्या विद्या अस्यां सर्वविद्या ॥ १॥
निघण्टुर्नामसंग्रहः ॥ १७२ ॥ नितरां घण्ट्यन्ते एकत्र भाष्यन्ते शब्दा अनेन निघण्टुः “ भृमृतृत्सरि-" ॥ ( उणा-७१६ ) ॥ इति बहुवचनाद् उः, पुंस्ययम् , यद् वैजयन्ती-" नामशास्त्रे निघण्टुर्ना,” व्याडिस्तु-"अर्थान् निघण्टयत्यस्माद् निघण्टुः परिकीर्तितः। पुनपुंसकयोः स स्यात्" इति ॥ १ ॥ नाम्नां संग्रहो नामसंग्रहः ॥ २ ॥ १७२ ॥
इतिहासः पुरावृत्तं इति एवमर्थे, ह किलार्थे, इति ह आसीदत्र इतिहासः ॥ १॥ पुरा वृत्तं पूर्वचरितम् ॥ २ ॥
प्रवल्हिका प्रहेलिका। प्रवल्हते प्राधान्यं भजते प्रवल्हिका ॥ १ ॥ प्रहेलयति अभिप्रायं सूचयति प्रहेलिका । सा शाब्दी आर्थी च । शाब्दी यथा
पयस्विनीनां धेनूनां ब्राह्मणः प्राप्य विंशतिम् ।
ताभ्योऽष्टादश विक्रीय गृहीत्वैकां गृहं गतः ॥ १॥ आर्थी यथाजइ सासुआइ भणिआ पियवासघरंमि दीवयं देसु । १५
Page #110
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणौता कीस मुद्धडमुही हिअयंमि निवेसये दिदिम् ॥ १॥
जनश्रुतिः किंवदन्ती जनेभ्यः श्रूयते जनश्रुतिः ॥ १॥ किं वदति जनोऽत्र किंवदन्ती " तृजिभूवदि-” ॥ ( उणा-२२१) इति टिदन्तः, यद्वा, उद्यते वदन्तिः कथा “वद्यवि." ॥ ( उणा-६६५)॥ इत्यन्तिः, कुत्सिता वदन्तिः ङ्यां किंवदन्ती ॥२॥
वातैतिचं पुरातनी ॥ १७३ ॥ पुरातनी वार्ता, इतिह इति निपातसमुदायः उपदेशपारम्पर्य वर्तते, इतिह इत्येव ऐतिह्यम् , भेषजादित्वात् ट्यण् ॥ १ ॥ १७३ ॥
वार्ता प्रवृत्तिवृत्तान्त उदन्तः वृत्तिर्लोकवृत्तं अस्त्यस्यां वार्ता “ प्रज्ञाश्रद्धाऽर्चावृत्तेणः ” ॥ ७॥२।३३। इति णः ॥ १॥ प्रवर्तते जनोऽनया प्रवृत्तिः ॥ २ ॥ वृत्तस्य आचरितस्यान्तोऽत्र वृत्तान्तः ॥ ३ ॥ उद्यते उदन्तः “ सीमन्तहेमन्त-" ॥ (उणा-२२२) इत्यादिशब्दाद् निपात्यते ॥ ४ ॥
अथाऽऽहयोऽभिधा।
गोत्रसंज्ञानामधेयाऽऽख्याऽऽहाऽभिख्याश्च नाम च ॥१७४॥
आहूयतेऽनेन आह्वयः " ह्वः समाह्वयाह्वयौ द्यूतनाम्नोः ” ॥ ५॥३॥४१॥ इति अलन्तो निपात्यते ॥१॥ अभिधीयतेऽनया आभिधा ॥२॥ गूयतेऽनेन गोत्रम् “ हुयामा-" ॥ ( उणा-४५१ ) ॥ इति त्रः ॥ ३ ॥ संज्ञायतेऽनया संज्ञा ॥ ४ ॥नाम एव नामधेयम् “ नामरूपभागाद् धेयः" ॥७।२।१५८॥ इति धेयः ॥ ५ ॥ आख्यायतेऽनया आख्या ॥ ६ ॥ आहूयतेऽनया आह्वा ॥ ७ ॥ अभिख्यायतेऽनया अभिख्या ॥ ८ ॥ नमत्यनेन नाम, पुंक्लीवलिङ्गः “ सात्मनात्मन्-" ॥ ( उणा-९१६ ) ॥ इति मनन्तो निपात्यते ॥ ९ ॥ १७४ ॥
संबोधनमामन्त्रणम् संबोध्यतेऽनेन संबोधनम् ॥ १ ॥ आमन्त्र्यतेऽनेन आमन्त्रणम् ॥ २ ॥
आह्वानं त्वभिमन्त्रणम् ।
आकारणं हवो इतिः ह्वानं हवः, “ भावेऽनुपसर्गाद् " ॥ ५।३।४५ ॥ इत्यल् , वश्चोत्वम् ॥५॥ शेषश्चात्र-हूतौ हक्कारकाऽऽकारौ ॥
संहूतिर्बहुभिः कृता ॥ १७५ ॥
Page #111
--------------------------------------------------------------------------
________________
२ देवकाण्डः ।
१११ बहुभिः कृता हूतिः संभूय ह्वानं संहूतिः, “ सदृशाह्वया” इति भागुरिः ॥१॥ १७५ ॥
उदाहार उपोद्घात उपन्यासश्च वाङ्मुखम् । उद्धृत्याहियते उदाहारः ॥ १ ॥ उप समीपे उद्धृत्य हन्यते उपोद्घातः, यदाह" चिन्तां प्रकृतसिद्धयर्थामुपोद्घातं प्रचक्षते" ॥ २ ॥ उपन्यस्यते उपन्यासः ॥३॥ वाचो मुखं वाङ्मुखम् , वाक्प्रारम्भः ॥ ४ ॥
व्यवहारो विवादः स्यात् व्यवहरणं व्यवहारः, यत् स्मृतिः
वि नानाऽर्थेऽव सन्देहे हरणं हार उच्यते ।
नानासंदेहहरणाद् व्यवहारः प्रकीर्तितः ॥ १ ॥१॥ विविधो वाद ऋणादानादिर्विवादः ॥ २ ॥
शपथः शपनं शपः ॥ १७६ ॥ शपनं शपथः " भृशीशपि." ॥ ( उणा-२३२ ) ॥ इति अथः ॥ १॥ शपनं शपः “ अः” ॥ ( उणा--२ ) ॥ इत्यः ॥ ३ ॥ १७६ ॥
उत्तरं तु प्रतिवचः उत्तरन्ति अस्मात् उत्तरम् , उदो वा तरप् ॥ १ ॥ प्रतीपं वचः प्रतिवचः ॥२॥
प्रश्नः पृच्छाऽनुयोजनम् ।
कथंकथिकता च प्रच्छनं प्रश्नः “ यजिस्वपि-" ॥ ५।३।८५ ॥ इति नः ॥ १ ॥ पृच्छा, भिदादित्वात् ॥ २ ॥ अनुयुज्यते अनुयोजनम् , अनुयोगः, पर्यनुयोगश्च ॥३॥
कैथं कथकमिति जल्पोऽस्यामिति कथंकथिकता, मयूरव्यंसकादित्वात् साधुः ॥ ४ ॥ ... अथ देवप्रश्न उपश्रुतिः ॥ १७७ ॥ ... देवेभ्यः प्रश्नः देवप्रश्नः ॥१॥ उप समीपे श्रूयतेऽस्यां उपश्रुतिः ॥२॥१७७॥
चटु चाटु प्रियप्रायं . चटतीति चटु, चाटु, पुंक्लीबलिङ्गौ " मिवहिचरिचटिभ्यो वा" ॥ ( उणा७२६) ॥ इति उर्वा णित् ॥ १॥ २ ॥ प्रियं प्रायेण बाहुल्येनाऽत्र प्रियप्रायम् ॥३॥ • प्रियसत्यं तु सूनृतम् ।
१ कथं कथमिति पाठान्तरम् । श्रीबल्लभगणिकृतटीकायां तु-“कथं कथक ! हे वक्तः ! इति जल्पोऽस्याम्” इत्येवं व्युत्पादितम् ।
Page #112
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणौ
प्रियं च तत् सत्यं च प्रियसत्यं वचनम्, सुष्ठु नृत्यति सतां मनोऽनेनेति सूनृतं, स्थादित्वात् के “ घञ्युपसर्गस्य- " ॥ ३।२।८६ ॥ इति बाहुलकाद दीर्घः ॥ १ ॥ सत्यं सम्यक् समीचीनमृतं तथ्यं यथातथम् ॥ १७८॥
यथास्थितं च सद्भूते
११२
सति साधु सत्यम् ॥ १ ॥ समञ्चति सम्यक्, क्विपि "सहसमः सनिसमी" ॥३।२।१२३॥ इति सम्यादेशः ॥ २ ॥ सम्यगेव समीचीनम् " अदिस्त्रियां वाञ्चः ॥ ७।१।१०७॥ इतीनः॥३॥ इयर्ति गच्छति जनः प्रत्ययमत्र ऋतम् " शीरी - " ( उणा२०१) ॥ इति तक् ॥ ४ ॥ तथा साधु तथ्यम् ॥ ५ ॥ यथावत् तथाऽत्र यथातथम् ॥६॥१७८॥ यथावत् स्थितमत्र यथास्थितम् ॥ ७॥ सच्च तद् भूतं च सद्भूतं तत्र ॥ ८ ॥ अलीके तु वितथानृते ।
अलति वारयति सद्गतिं अलीकम् “स्यमिकषि - " ॥ ( उणा - ४६ ) ॥ इतीकः, तत्र ॥ १ ॥ विगतं तथा सत्यमत्र वितथम् ॥ २ ॥ न ऋतं अनृतम्, यौगिकत्वात् असत्यम्, सत्येतरद् इत्यादि ॥ ३ ॥ मृषा मिथ्या वा अव्यये ॥
अथ क्लिष्टं संकुलं च परस्परपराहतम् ।। १७९ ॥
क्लिष्टं संकुलं च अन्योऽन्यविरुद्धम्, यथा
अन्धो मणिमुपाविध्यद् तमनङ्गुलिरासदत् ।
तमग्रीवः प्रत्यमुञ्चत् तमजिह्वोऽभ्यपूजयत् ॥ १ ॥ १ ॥ २ ॥ १७९ ॥
सान्त्वं सुमधुरं
सान्त्व्यतेऽनेन सान्त्वम्, सुष्ठु मधुरं सुमधुरम् ॥ १॥
ग्राम्यमश्लीलं
""
ग्रामे भवं ग्राम्यं, " ग्रामादनिञ् च ॥ ६ ॥ ३ । ९ ॥ इति यः ॥ १ ॥ न श्रियं लाति अश्लीलम्, न श्रीरस्यास्तीति वा, सिध्मादित्वाद् ले, ऋफिडादित्वाद् रस्य लः, तत्तु व्रीडाजुगुप्साऽमङ्गलव्यञ्जकत्वेन त्रेधा । अलङ्कारकृतां तु ग्राम्यं अश्लीलं च पृथगेव ॥ २॥
लिष्टमस्फुटम् ।
म्लेच्छति स्म लिष्टम् " क्षुब्धविरिब्ध " ||४|४|७० ॥ इति साधुः, अस्फुटं अस्पष्टम् ॥ १ ॥
लुप्तवर्णपदं ग्रस्तं
लुप्ता वर्णाः पदानि चात्र लुप्तवर्णपदम् ग्रस्यते स्म प्रस्तम् ॥ १ ॥ असंपूर्णोचारितं ध्वस्तं लुप्तवर्णपदमित्यन्यः ॥
,
Page #113
--------------------------------------------------------------------------
________________
२ देवकाण्डः ।
अवाच्यं स्यादनक्षरम् ॥ १८० ॥
विरोधे नञ् ॥ १ ॥ २ ॥ १८० ॥
अम्बूकृतं सधूत्कारे
अनम्बुनो अम्बुनः करणं अम्बूकृतम्, सथूत्कारं सनिष्ठेवम् ॥ १ ॥ निरस्तं त्वरयोदितम् ।
११३
निरस्यते स्म निरस्तम् ॥ १ ॥ आम्रेडितं द्विविरुक्तं
आम्रेड्यते स्म आम्रेडितम्, द्वौ वारौ द्विः, त्रीन् वारान् त्रिः ॥ १ ॥ अबद्धं तु निरर्थकम् ॥ १८१ ॥
अबद्धं असंबद्धं, दशदाडिमादिवाक्यं समुदायार्थशून्यम् ॥ १ ॥ १८१ ॥ पृष्ठमांसादनं तद् यत् परोक्षे दोषकीर्तनम् ।
पराक्षे अप्रत्यक्षे दोषाणां कीर्तनं यत्, तत् पृष्टमांसस्यादनमिव पृष्टमांसादनम् ॥ १ ॥
मिथ्याऽभियोगोऽभ्याख्यानं
मिथ्याऽभियोगोऽसत्याक्षेपः, अभ्याख्यायत अभ्याख्यानम् ॥ १ ॥ संगतं हृदयङ्गमम् || १८२ ॥
""
11
संगच्छते स्म संगतम् ॥ १ ॥ हृदयं गच्छति हृदयङ्गमम् “नाम्नो गमः -' |५|१|१३१ ॥ इति खः ॥ २ ॥ १८२ ॥
परुषं निष्ठुरं रूक्षं विक्रुष्टं
पृणाति पूरयति परं कोपेनेति परुषम् " ऋपृनहि " ॥ (उणा - ५५७ ) ॥ इत्युषः ॥ १ ॥ निशिते तिष्ठति निष्ठुरं " श्वशुरकुकुन्दुर - " ॥ ( उणा - ४२६ ) ॥ इत्युरान्तो निपात्यते ॥ २ ॥ रूक्षयति रूक्षम् ॥ ३ ॥ विकुश्यते विष्टम् ॥ ४ ॥
. अथ घोषणा । उच्चैर्घुष्टं
घोष घोषणा “णिवेत्त्यास - " |५|३|१११ ॥ इति अनः ॥ १ ॥ उच्चैस्तरं यथा भवति घोषणं घुष्टं “घुषेरविशब्दे " ||४|४|६८ ॥ इति नेट् ॥ २ ॥
वर्णनेडा स्तवः स्तोत्रं स्तुतिर्नुतिः ॥ श्लाघा प्रशंसाऽर्थवादः
१८३ ॥
Page #114
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणौस्तवनं स्तोत्रम् “त्रद्" ॥ ( उणा-४४६) ॥ इति त्रट् ॥ ४ ॥ अर्थस्य . प्रशस्यस्य वदनं अर्थवादः ॥ ९ ॥
सा तु मिथ्या विकत्थनम् । सा वर्णना, मिथ्या असत्यार्था, विरुद्धं कत्थनं विकत्थनम् ॥ १ ॥
जनप्रवादः कौलीनं विगानं वचनीयता ॥ १८४ ॥ जनस्य प्रतीपो वादः जनप्रवादः ॥१॥ कुलस्य जल्पः कोलीनं "कुलाजल्पे" ॥७॥१८६॥ इति ईनञ् ॥ २ ॥ विरुद्धं गीयते विगानम् ॥ ३ ॥ वचनीयस्य भावो वचनीयता ॥ ४ ॥ १८४ ॥
स्यादवर्ण उपक्रोशो वादो निष्पर्यपात् परः। .
गर्हणा धिक्रिया निन्दा कुत्सा क्षेपो जुगुप्सनम् ॥१८५॥ विपरीतं वर्णनं अवर्णः ॥ १ ॥ उपक्रोशनं उपक्रोशः ॥ २ ॥ निरः, परेः, अपाच्चोपसर्गात् परो वादः निर्वादः, परिवादः, अपवादः ॥ ३ ॥ ४ ॥ ५ ॥ गहणं गर्हणा, गोऽपि ॥ ६ ॥ धिक्करणं धिक्किया ॥ ७ ॥ निन्दनं निन्दा ॥ ८ ॥ कुत्सनं कुत्सा ॥९॥ क्षेपणं क्षेपः ॥ १० ॥ जुगुप्स्यते जुगुप्सनम् , जुगुप्साऽपि ॥ ११ ॥ १८५॥
आक्रोशाभीषङ्गाक्षेपाः शापः
आक्रोशनं आक्रोशः ॥ १॥ अभिषजनं पराभिमुख्येन वाक्ययोजनं अभीषङ्गः “घञ्युपसर्गस्य बहुलम्" ॥३।२।८६॥ इति दीर्घः ॥ २ ॥ आक्षेपणं आक्षेपः ॥ ३ ॥ शपनं शापः ॥ ४ ॥
स क्षारणा रते स शापः, रते मैथुनविषये, क्षारणा; मैथुनमुद्दिश्य गालीत्यर्थः। दूषणमित्येके । आक्षारणाऽपि ॥ १॥
विरुद्धशंसनं गालिः विरुद्ध शंसनं अवद्योद्भावनम् , गालयते गुणान् गालिः स्त्रीलिङ्गः ॥ २ ॥
आशीमङ्गलशंसनम् ॥ १८६ ॥ आशासनं आशीः “आङः ॥४।४।१२०॥ इति क्विपि इसादेशः, मङ्गलस्य शंसनं मङ्गलशंसनम् ॥ १ ॥ १८६ ॥
श्लोकः कीर्तिर्यशोऽभिख्या समाज्ञा श्लोक्यते श्लोकः ॥ १ ॥ कीर्त्यते कीर्तिः “ सातिहेतियूतिजूतिज्ञप्तिकीर्ति" ॥५।३।९४॥ इति साधुः ॥ २ ॥ अश्नुते व्याप्नोति दिशः यशः “अशेर्यश्चादिः” ।
Page #115
--------------------------------------------------------------------------
________________
. २ देवकाण्डः।
११५
(उणा-९५८)॥ इत्यस् ॥ ३ ॥ अभिख्यानं अभिख्या ॥ ४ ॥ समाज्ञायतेऽनया समाज्ञा, समाख्यति भागुरिः ॥ ५॥
रुशती पुनः ।
अशुभा वाक् रुशति हिनस्ति परं रुशती हिंस्रा, आश्रयलिङ्गश्चायं, तेन रुशन् शब्दः, रुशद्वच इत्यपि; न शुभा अशुभा यथा- “न तां वदेद् रुशती पापलोक्याम्"। उशती इत्यन्ये ॥ १॥
शुभा कल्या शुभा शुभात्मिका, कलासु साधुः कल्या, काव्या इति कात्याद्याः ॥ १॥
चर्चरी चर्भटी समे ॥ १८७ ॥ चारु चर्यतेऽनया चर्चरी ॥ १ ॥ चारु भव्यतेऽनया चर्भटी ॥ २ ॥१८७॥ ___ यः सनिन्द उपालम्भस्तत्र स्यात् परिभाषणम् । मैवं कृथा इति वाच्यत इत्यर्थः ॥ १ ॥
आपृच्छाऽऽलापः संभाषः आप्रच्छनं आपृच्छा, भिदादित्वादङ् ॥ १॥ आलपनं आलापः ॥ २॥ . संभाषणं संभाषः ॥ ३ ॥
अनुलापः स्याद् मुहुर्वचः ॥ १८८ ॥ . मुहुर्वचनं पौनःपुन्येन उक्तिः ॥ १ ॥ १८८ ॥ ___ अनर्थकं तु प्रलापः अनर्थकं वचः, प्रलपनं प्रलापः ॥ १॥ _ विलापः परिदेवनम् । विलपनं विलापः, परिदेवनं उपशोचनमित्यर्थः ॥ १॥ .....उल्लापः काकुवाक् . ... उल्लपनं उल्लापः, काक्का वचनं काकुवाक् ॥ १ ॥
- अन्योऽन्योक्तिः संलापसंकथे ॥ १८९ ॥
अन्योऽन्येन उक्तिर्भाषणं अन्योऽन्योक्तिः, संमुखं लपनं संलापः॥१॥ संमुखं कथनं संकथा “ भीषिभूषि-" ॥५।३। १०९ ॥ इत्यङ् ॥ २ ॥ १८९॥
विप्रलापो विरुद्धोक्तिः
Page #116
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणौ
विरुद्धं प्रलपनं विप्रलापः ॥ १ ॥
अपलापस्तु निह्नवः । अपलपनं अपलापः ॥ १ ॥ निह्नवनं निह्नवः ॥ २ ॥
सुप्रलापः सुवचनं सुष्ठु प्रलपनम् ॥ १॥
संदेशवाक् तु वाचिकम् ॥ १९० ॥ अन्येन अन्यो अन्यस्मै यदाह-त्वयैवं कर्तव्यमिति, स संदेशः, तद्रूपा. वाक् संदेशवाक् , संदिष्टा वाग् वाचिकं “वाच इकण्"॥७।२।१६८॥ इति स्वार्थे इकण् ॥ १ ॥ १९० ॥
आज्ञा शिष्टिर्निराङ्निभ्यो देशो नियोगशासने । .. अववादोऽपि
आज्ञापनं आज्ञा , चुरादिणिचोऽनित्यत्वात् “ उपसर्गादातः” ॥५।३।११०॥ इत्यङ् ॥ १॥ शासनं शिष्टिः ॥२॥ निरः, आङः, नेश्च परो देशः निःशेषेण, समन्तात् , नितरां देशनं निर्देशः, आदेशः, निदेशः ॥ ३ ॥ ४ ॥ ५ ॥ नियोजन नियोगः ॥ ६ ॥ शिष्यते शासनम् ॥ ७ ॥ अवनम्य वदनं अववादः ॥ ८ ॥
अथाऽऽहूय प्रेषणं प्रतिशासनम् ॥ १९१ ॥ स्पष्टम् ॥ १ ॥ १९१ ॥ संवित् संधाऽऽस्थाभ्युपायः संप्रत्याभ्यः परः श्रवः ।
अङ्गीकारोऽभ्युपगमः प्रतिज्ञाऽऽगूश्च संगरः ॥ १९२ ॥ पक्षोक्तिः प्रकृताङ्गीकारश्चेत्युभयी हि प्रतिज्ञा । संवेदनं संवित् ॥१॥ संधानं संधा ।। २॥ आस्थानं आस्था ॥ ३ ॥ अभ्युपायनं अभ्युपायः ॥ ४ ॥ समः, प्रतेः, आडश्च परः श्रवः संश्रवः, प्रतिश्रवः, आश्रवः॥ ५ ॥ ६ ॥ ७ ॥ अङ्गीकरणं अङ्गीकारः ॥ ८ ॥ अभ्युपगमनं अभ्पुपगमः ॥ ९ ॥ प्रतिज्ञानं प्रतिज्ञा ॥ १० ॥ आगच्छत्यनया पौरुषं आगूः, स्त्रीलिङ्गः “ भ्रमिगमितनिभ्यो डित्"। (उणा-८४३) ॥ इति ऊः ॥ ११ ॥ संगरणं संगरः ।। १२ । समाधिरपि ॥ १९२ ॥
गीतनृत्यवाद्यत्रयं नाट्यं तौर्यत्रिकं च तत् ।
गीतादित्रयं समुदितं नाट्यं नटस्य कर्म ॥१॥ तूर्यस्येदं त्रिप्रमाणं तौर्यत्रिक ॥ २ ॥ वक्ष्यमाणं नाट्यं नटनमात्रम् ॥
संगीतं प्रेक्षणार्थेऽस्मिन्
Page #117
--------------------------------------------------------------------------
________________
देवकाण्डः ।
११७
. अस्मिन् गीतनृत्तवाद्यत्रये प्रेक्षणनिमित्तं प्रयुक्ते संगीतं संभूय गीयतेऽस्मि - निति कृत्वा ॥ १ ॥
शास्त्रोक्ते नाट्यधर्मिका ॥ १९३ ॥
अस्मिन् गीतादित्रये भरतादिशास्त्रनिर्दिष्टे नाट्यं धर्मोऽस्या नाट्यधर्मी, स्त्रीलिङ्गः, यद् वाचस्पतिः– “ नाट्यधर्मी तु स्त्रियां नाट्ये यथाऽऽगमम्,” नाट्यधयैव नाय्यधर्मिका ॥ १ ॥ १९३ ॥
गीतं गानं गेयं गीतिर्गान्धर्वम्
गीयते गेयम् ॥ ३ ॥ गन्धर्वैः कृतं गान्धर्वम् ॥ ५ ॥ रागगीत्यादिकं गीतम्, प्रावेशिक्यादिध्रुवारूपं गानम्, पदखरतालाबधानात्मकं गान्धर्वमिति भरतायुक्त विशेषो नाश्रितः ॥
अथ नर्तनम् ।
नटनं नृत्यं नृत्तं च लास्यं नाट्यं च ताण्डवम् ॥
""
,,
१९४ ॥ नृत्यते नृत्यम् " ऋदुपान्त्या - " ।। ५ । १ । ४१ ।। इति क्यप् ॥ ३ ॥ नर्तनं नृतं " क्लीबे क्तः ।। ५ । ३ । १२३ ।। इति क्तः ॥ ४ ॥ लस्यते लास्यम् || ५ || नढानामिदं नृत्तं नाट्यम् " नटाद् वृत्ते त्र्यः ।। ६ । ३ । १६५ ।। इति ञ्यः, नय्यत इति वा ॥ ६ ॥ तण्डुना कृतं ताण्डवं, पुंक्लीबलिङ्गः, नाट्यशास्त्रे नृतलास्य नाट्यताण्डवानां भेदोऽस्ति, स तु नेहादृतः, तथाहि - अङ्गविक्षेपमात्रं विवा - हाभ्युदयादौ नृत्तम्, ललितकरणाङ्गहाराभिनयं कैशिकीवृत्तिप्रधानं वासकसज्जादिनायिकाचरितं डाम्बिलिकादिनिबद्धं श्लिष्टत्वाद् लास्यम्, सर्वरसं पञ्चसन्धि चतुर्वृत्ति दशरूपकाश्रयं कर्म नाट्यम्, उद्वृत्तकरणाङ्गहारनिर्वर्त्यमारभटिवृत्तिप्रधानं गीतकासारिकादौ तण्डुना प्रणीतं ताण्डवमिति ॥ ७ ॥ १९४॥
मण्डलेन तु यद् नृत्तं स्त्रीणां हल्लीसकं हि तत् ।
हेलया लस्यतेऽस्मिन् इति हल्लीसकम् " कीचकपेचक- " ॥ ( उणा-३३ ) ॥ इत्यादिना निपात्यते, क्लीबोऽयम्, वाचस्पतिस्तु - “हल्लीसको ऽस्त्रियाम् ” इत्याह ॥ १ ॥
"
पानगोष्ठ्यामुच्चताल
पानगोष्ठ्यां आपाने नृत्तं, उच्चस्तालोऽत्रेत्युच्चतालम् ॥ १ ॥
रणे वीरजयन्तिका ॥ १९५ ॥
रणे संग्रामे, वृत्तं, जयन्ती पताका, जयन्त्येव जयन्तिका, वीराणां जयन्ति
Esa वीरजयन्तिका ॥ १ ॥ १९५ ॥
स्थानं नाट्यस्य रङ्गः स्यात्
१६
Page #118
--------------------------------------------------------------------------
________________
११८
अभिधानचिन्तामणौ
स्थीयतेऽस्मिन्निति स्थानं प्रदेशः, नाट्यस्य नृत्तस्य, रमते जनोऽत्र रङ्गः “गम्यमि-" ॥ ( उणा-९२ ) ॥ इति गः, रजत्यऽस्मिन् जन इति वा ॥ १ ॥
पूर्वरङ्ग उपक्रमः। नाट्यस्य उपक्रमः प्रारम्भः, रजति अस्मिन् जन इति रङ्गो मण्डपो नाट्यं वा बुद्धिस्थम् , पूर्वो रङ्गे पूर्वरङ्गः प्रत्याहारादिः “ नाम नाम्नैकार्थ्ये समासो बहुलम्" ॥३। १ । १८ ॥ इति समासः, रङ्गात् पूर्व इति वा राजदन्तादित्वात् पूर्वनिपातः, श्रीहर्षस्तु
रङ्गशब्देन तौर्यत्रिकं ब्रुवन् नाट्ये रङ्गप्रयोगस्य पूर्वतां मन्यमानः पूर्वश्चासौ रङ्गश्चेति समासममस्त ॥ १॥
__ अङ्गहारोऽङ्गविक्षेपः
अङ्गानां हरणं स्थानात् स्थानान्तरनयनं अङ्गहारः अङ्गानां हार इव, शोभाजनकत्वात् , अथवा हरस्यायं हारो हरेणाभिनीतत्वात् , अङ्गप्रधानो हारः अङ्गहारः स्थिरहस्तादिात्रिंशद्भेदः ॥ १ ॥ अङ्गानां विक्षेपः अङ्गविक्षेपः ॥ २ ॥
व्यञ्जकोऽभिनयः समौ ॥ १९६ ॥ व्यनक्ति भावान् व्यञ्जकः ॥ १॥ आभिमुख्यं नीयन्तेऽर्था अनेनेति अभिनयो भावसूचकः ॥ २ ॥ १९६ ॥
स चतुर्विध आहार्यो रचितो भूषणादिना ।।
वचसा वाचिकोऽङ्गेनाऽऽङ्गिकः सत्त्वेन सात्त्विकः ॥ १९७ ॥ सोऽभिनय आहार्यादिभेदाच्चतुर्विधः, सत्त्वं मनो गुणो वा ॥ १९७ ॥
स्याद् नाटकं प्रकरणं भाणः प्रहसनं डिमः । व्यायोगसमवकारौ वीथ्यकेहामृगा इति ॥ १९८ ॥
अभिनेयप्रकाराः स्युः नाटयति नर्तयति सामाजिकमनांसि इति नाटकम् ॥ १॥ वस्त्वादिकं काव्याभिधेयं आत्मशक्त्योत्पाद्य प्रकुरुते यत्र काव्येन तत् प्रकरणम् ॥ १॥ एकमखेनैव भण्यन्ते उक्तिमन्तः क्रियन्ते अप्रविष्टा अपि पात्रविशेषा अत्रेति भाणः, पंक्लीबलिङ्गः ॥ १ ॥ एकस्य बहूनां वा चरितं प्रहस्यते यत्र तत् प्रहसनम् ॥ १ ॥ डिमो डिम्बो विद्रव इति पर्यायास्तद्योगाद् अयं डिमः ॥ १ ॥ व्यायामे युद्धनियद्धप्राये युज्यन्ते पुरुषा अत्र व्यायोगः ॥ १॥ समवक्रियन्ते संघातीक्रियन्ते नेतारोऽत्र समवकारः ॥ १ ॥ सर्वेषां रसानां लक्षणानां च वीथी श्रेणीव वीथी ॥१॥ उत्क्रमणोन्मुखी सृष्टिर्जीवितं प्राणा यासां ता उत्सृष्टिकाः शोचन्त्यः स्त्रियः, ता
Page #119
--------------------------------------------------------------------------
________________
. २ देवकाण्डः 1
११९
भिरङ्कोऽङ्कनं यस्य स उत्सृष्टिकाङ्कः, तदेकदेशो अङ्कः, भीमवत् ॥ १॥ ईहा चेष्टा मृगस्येव, स्त्रीमात्रार्था यत्र स ईहामृगः ॥ १ ॥ १९८ ॥ एतेऽभिनेयस्य प्रबन्धस्य प्रकारा भेदाः स्युः ॥
भाषाः षट् संस्कृतादिकाः। भाष्यन्ते भाषाः, संस्कृत-प्राकृत-मागधी-शौरसेनी--पैशाच्यऽपभ्रंशलक्षणाः॥
भारती सात्वती कैशिक्यारभट्यौ च वृत्तयः ॥ १९९ ॥ ... भारती वाक् तत्प्रधाना वृत्तिरपि भारती, तत्र वाचिकाभिनयप्राधान्यात् ॥१॥ सदिति प्रत्याख्यानरूपं संवेदनं तद् यत्रास्ति तत् सत्वत् मनः तस्येयं सात्वती, सात्त्विकाभिनयप्राधान्यात् ; अथवा सत् सत्त्वरूपं विद्यते येषां ते सत्वन्तः तेषामियं, सत्त्वं च तत्र परच्छिद्रान्वेषणोपायप्रतिभानवैचित्र्योत्प्रेक्षणलक्षणप्रकाशलाघवात्मकम् ॥ १ ॥ केशाः किंचिदप्यर्थक्रियाजातमकुर्वन्तो यथा देहशोभोपयोगिनः, तद्वत् सौन्दर्योपयोगी व्यापारः कैशिकी, आहार्याभिनयप्राधान्यात् ; यद्वा, विष्णोः केशेषु बध्यमानेषु भवा कैशिकी, अध्यात्मादित्वादिकण् ; यदाह
विचित्रैरङ्गहारैश्च देवो लीलासमन्वितैः ।
बबन्ध यच्छिखापाशं कैशिकी तत्र निर्मिता ॥ १॥ इति ॥ १॥ इयूतीति अरा भटाः सोत्साहा अनलसास्तेषामियं आरभटी, आङ्गिकाभिनयप्राधान्यात् ॥ १ ॥ १९९ ॥
__ वाद्यं वादित्रमातोद्यं तूर्य तूरं स्मरध्वजः ।
वाद्यते वाद्यम् “य एचातः” ॥ ५। १ । २८ ॥ इति यः ॥ १॥ वदति आहन्यमानं वादित्रम् “ भूगृवदिचरिभ्यो णित् ” ॥ ( उणा--४६० ) ॥ इति इत्रः ॥२॥ आतुद्यते आतोद्यम् ॥ ३ ॥ तूर्यत इति घ्याण तूर्य, पुंक्लीबलिङ्गः ॥ ४ ॥ तूर्यते तूरम् “ नाम्युपान्त्य-" ॥ ५। १ । ५४ ॥ इति कः ॥ ५ ॥ स्मरस्य ध्वज इव स्मरध्वजः ॥ ६॥ . ततं वीणाप्रभृतिकं तन्त्रीतननात् ततं, प्रभृतिशब्दात् सैरन्ध्रीरावणहस्तकिन्नरादि ॥ १ ॥
तालप्रभृतिकं घनम् ॥ २० ॥ कांस्यमयं वादिनं तालः, प्रभृतिग्रहणात् कांस्यतालादि, हन्यते धनम् ॥ १ ॥ ॥२०० ॥
वंशादिकं तु शुषिरं आदिग्रहणाद् नालिकानलकादि, शुषिश्छिद्रं विद्यतेऽस्य शुषिरम् ॥ १ ॥
Page #120
--------------------------------------------------------------------------
________________
. १२०
अभिधानचिन्तामणौ- ..
आनद्धं मुरजादिकम् । आनयते स्म आनद्धम् , अवनद्धं च; आदिशब्दाद् दर्दरकरटादि ॥ १॥
वीणा पुनर्घोषवती विपञ्ची कण्ठकूणिका ॥ २०१॥
वल्लकी
वेति प्रजायते खरोऽस्यां वीणा " घृवीह्वा-” ॥ ( उणा-१८३)॥ इति । किद् णः ॥ १॥ घोषोऽम्त्यस्यां घोषवती ॥ २ ॥ विपञ्चयति विस्तारयति खरान् विपश्ची ॥ ३ ॥ कण्ठं कूणयते कण्ठकूणिका ॥ ४ ॥ २०१॥ वल्लते खरोऽस्यां वल्लकी “ दृकृन-" ॥ ( उणा-२७) ॥ इत्यकः ॥ ५ ॥
साऽथ तन्त्रीभिः सप्तभिः परिवादिनी । खरान् परिस्फुटं वदत्येवंशीला परिवादिनी ॥१॥ . शिवस्य वीणाऽनालम्बी न आलम्बते अनालम्बी ॥१॥
सरस्वत्यास्तु कच्छपी ॥ २०२ ॥ कच्छपसदृशत्वात् कच्छपी ॥ १॥ २०२॥ ..
नारदस्य तु महती महत्त्वाद् महती ॥१॥
गणानां तु प्रभावती। प्रभाऽस्त्यस्यां प्रभावती ॥१॥
विश्वावसोस्तु बृहती बृहत्त्वात् बृहती ॥ १ ॥
तुम्बुरोस्तु कलावती ॥ २०३ ॥ कलाऽस्त्यस्यां कलावती ॥ १ ॥ २० ॥
चण्डालानां तु कटोलवीणा चाण्डालिका च सा । कट्यते तन्त्रीभिरात्रियते कटोलः “ कटिपटि." ॥ ( उणा-४९३) ॥ इत्योलः, कटोलाख्या वीणा कटोलवीणा ॥ १॥ चण्डालैः कृता चाण्डालिका " कु. लालादेरकञ् ” ॥ ६।३।१९४ ॥ इत्यकम् ।। २ ॥
शेषश्चात्रचण्डालानां तु वलकी।
Page #121
--------------------------------------------------------------------------
________________
२ देवकाण्डः।
१२१
काण्डवीणा कुवीणा च डकारी किंनरी तथा । सारिका खुङ्खणी च
कायः कोलम्बकस्तस्याः तस्या वीणायाः शरीरं, केऽवलम्बन्ते तन्त्र्योऽत्रेति कोलम्बकः, पृषोदरादित्वात् , कुल संस्त्याने अस्मादम्बकच् इत्येके ॥ १॥
उपनाहो निबन्धनम् ।। २०४ ॥ वीणाया निबन्धनं येन चर्मणोपनह्यते स उपनाहः, प्रान्ते यत्र तव्यो निबध्यन्ते वा ॥ १ ॥ २०४ ॥
दण्डः पुनः प्रवालः स्यात् वीणाया दण्डः, प्रवलति प्रवालः, पुंक्तीबलिङ्गः, ज्वलादित्वाद् णः । यच्छाश्वतः--"प्रवालो वल्लकीदण्डे विद्रुमे नवपल्लवे" ॥ १॥
ककुभस्तु प्रसेवकः । कक्यते ककुभः " ककेरुभः" ॥ ( उणा--३३३ ) ॥ इत्युभः, दण्डाधः शब्दगाम्भीर्यार्थ दारुमयं खण्डं यद् भत्रया आच्छाद्यते ॥ १ ॥ प्रसीव्यते प्रसेवः, खार्थे के, प्रसेवकः ॥२॥
मूले वंशशलाका स्यात् कलिका कूणिकाऽपि च ॥२०५॥ वीणाया मूले कलयति तन्त्री कलिका ॥१॥ कूणयते तन्त्री कूणिका ॥ २ ॥ २०५॥
__कालस्य क्रियया मानं तालः
क्रियया आवापनिष्क्रमणादिकया कालस्य मानं परिच्छेदकं तल्यते प्रतिष्ठीयतेऽनेन तालः चञ्चत्पुटादिः । गेयाया गानक्रियायाः काले नियमहेतुरित्येके। यद् दन्तिलः
तत्र ज्ञेयाः कलापाताः पादभागास्तथैव च । ___ मात्रा च परिवर्तश्च वस्तु चैव विशेषतः ॥ १ ॥१॥
साम्यं पुनर्लयः।
मानमेययोरन्यूनाधिक्ये श्लिष्टता लयः द्रुतादिः वाद्यादीनामन्योन्यं समत्वमिति यावत् , तालविशेषस्तु लयोऽन्यः ॥ १ ॥
द्रुतं विलम्बितं मध्यमोघस्तत्त्वं घनं क्रमात् ॥ २०६॥ द्रुतादीनां लयानां मोघाद्याः क्रमेण पर्यायाः, भागुरिस्तु घनस्थानेऽनुगतमित्याह, यत्पाठः- “ लम्बितदुतमध्यानि तत्त्वौघानुगतानि तु । अभिधानकृतामेष
Page #122
--------------------------------------------------------------------------
________________
१२२
समयः
१ ॥ १ ॥ २०६ ॥
अभिधानचिन्तामणौ
॥ नाट्ये तु द्रुतादिलयानुसारेण क्रमादोघाद्याः वाद्यप्रकाराः ॥ १ ॥ -
मृद् अङ्गमस्य मृदङ्गः, मृद्यत इति वा “ विडिविलि - " ॥ ( उणा - १०१ ) ॥ इत्यङ्गक् ॥ १ ॥ मुरात् संवेष्टनाज्जातो मुरजः, मूर्व्यते बध्यत इति वा मुमुर्च ॥ ( उणा - १३२ ) इत्यजः ॥ २ ॥
"6
""
सोऽङ्क्यालिङ्ग्यूर्ध्वक इति त्रिधा ।
मृदङ्गो मुरजः
स मृदङ्गः, त्रिधा त्रिप्रकारः, अङ्कोऽस्यास्तीति अङ्की, उत्सङ्गस्थत्वात् ॥ १ ॥ आलिङ्गोऽस्यास्तीति आलिङ्गी, आलिङ्ग्य वादनात् ॥ १ ॥ ऊर्ध्व कृत्यैकेन मुखेन वादनाद् ऊर्ध्वं कायति ऊर्ध्वकः आभोगिकाख्यः ॥ १ ॥ आहुश्च
८८
८८
हरीतक्या कृतिस्त्वङ्क्यो यवमध्यस्तथोर्ध्वकः ।
आलिङ्ग्यश्चैव गोपुच्छो मध्यदक्षिणवामृगाः ॥ १ ॥
नाट्ये चैते भेदाः ॥
बिभ्यति अस्या रणे, भेरी " भीवृधि - ॥ ( उणा - ३८७ ) इति रः, इकारान्ताद् वा ङीः, ॥ १ ॥ दाम्यति शब्दोऽन्येषांमंत्र दुन्दुभिः, पुंलिङ्गः
""
"
""
दमेर्दुभिर्दुम् च ॥ ( उणा - ६८६ ) ॥ इति साधुः, दुन्दुशब्देन भाति भाययतीति वा ॥ २ ॥ अणति शब्दायते आनकः " अणेर्डित् ॥ ( उणा - ७२ ) ॥ इति आनकः, पुंलिङ्गः, वाचस्पतिस्तु - " पटहस्त्वानकोऽस्त्रियाम् -इत्याह । आ अनितीति वा ॥ ३ ॥ २०७ ॥ पठन्ति हर्षे गच्छन्ति अत्र पटहः, पुंक्लीबलिङ्गः कॄपृकटिपटि- ” ॥ ( उणा-५८९. .) ॥ इत्यहः, पटे हन्यत इति वा पटहः । केचिद् द्वौ द्वौ भिन्नार्थी आहुः; वाद्यविशेषः ॥ ४ ॥
शेषश्चात्र
स्याद् यशःपटहो ढक्का
शोsर्थ पटहो यशः पटहः ॥ १ ॥ ढगित्यव्यक्तं कायति ढक्का ॥२॥ भेरी दुन्दुभिरानकः ॥ २०७ ॥
पटह:
अथ दर्दरे कलशीमुखः । सूत्रकोणो डमरुकं समौ पणव कङ्कण 1
शृङ्गवाद्ये शृङ्गमुखं हुडुकस्तालमर्दकः ॥ १ ॥ काहला तु कुहाला स्यात् चण्डकोलाहला च सा । संवेशप्रतिबोधार्थे द्रगडद्रकटावुभैौ ॥ २ ॥
Page #123
--------------------------------------------------------------------------
________________
२ देवकाण्डः ।। १२३ देवताऽर्चनतूर्ये तु धूमलो बलिरित्यपि। क्षुण्णकं मृतयात्रायां माङ्गले प्रियवादिका ॥ ३ ॥ रणोद्यमे त्वर्धतूरो वाद्यभेदास्तथाऽपरे । डिण्डिमो झझरो मड्डुस्तिमिला किरिकिच्चिका ॥ ४ ॥ लम्बिका टट्टरी वेध्या कलापूरादयोऽपि च ॥
अथ शारिका स्यात् कोणो वीणादिवादनम् ।
शृणाति ताडयति वाद्यं शारिका ॥ १ ॥ कुणति शब्दायते वाद्यमनेन कोणः पुंलिङ्गः, वाचस्पतिस्तु- “ द्वयोस्तु कोणो वीणादेर्वादने शारिका च सा” इत्याह ॥ २ ॥ वीणादि वाद्यतेऽनेन वीणादिवादनं वादनकाष्टमित्यर्थः ॥
शृङ्गारहास्यकरुणा रौद्रवीरभयानकाः ॥२०८॥ बीभत्साद्भुतशान्ताश्च रसाः
श्रयति एनं जनः शृङ्गारः, पुंक्लीबलिङ्गः “ द्वारशृङ्गार-" ॥ (उणा-४११) ॥ इत्यारान्तो निपात्यते, रसेषु शृङ्गमुत्कर्षमियर्तीति वा ॥ १ ॥ हासे साधुः हास्यः हास एव वा, सामाजिकांनां चर्वणागोचरं गतो हास्यः, यदाह- " स्थाय्येव तु. रसीभवेत् ” इति ॥ १॥ किरति विक्षिपति चित्तानि इति करुणः “ ऋकवृध्दारिभ्य उणः ” ॥ ( उणा-१९६ ) ॥ इत्युणः ॥ १॥ रुद्रस्यायं रौद्रः ॥ १॥ अजति गच्छत्यनेन अस्मिन् वा सत्त्ववृद्धिमिति वीरः "ऋज्यजि-" ॥ (उणा-३८८)॥ इति रक् , वीरयन्ते विक्रामन्ति जना अनेनेति वा ॥ १ ॥ बिभ्यत्यस्माद् भयानको व्याघ्रादिः, तद्धेतुकत्वात् तु रसः “शीभीराजेश्चानकः" ॥ ( उणा-७१)॥ इत्यानकः ॥१॥२०८॥ बीभत्सा अस्त्यस्मिन् बीभत्सः ॥१॥ अद् इत्याश्चर्यार्थमव्ययम् , अद् विस्मितं भवति अनेनास्मिन् वा मनोऽद्भुतः “ अदो भुवो डुतः " ॥ ( उणा--२१४ ) ॥ इति डुतः ॥ १॥ शम्यते स्म शान्तः “णौ दान्त-" ॥ ४ । ४ । ७४ ॥ इति साधुः ॥ १॥ हास्यादयस्तु पुंलिङ्गाः । गौडस्तु
" शृङ्गारवीरौ बीभत्सं रौद्रं हास्यं भयानकम् ।
करुणा चाद्भुतं शान्तं वात्सल्यं च रसा दश ॥१॥ ' इति लिङ्गनिर्णयमाह । सामाजिकै रस्यन्ते चय॑न्ते इति रसाः, पुंक्लीवलिङ्गः ॥
भावाः पुननिधा स्थायिसात्त्विकसंचारिप्रभेदैः
भावयन्ति कुर्वन्ति रसान् , स्वकारणाद् भवन्ति इति वा भावाः, भावयन्ति व्याप्नुवन्ति सामाजिकानां मनांसीति वा, त्रिधा त्रिप्रकाराः, सामाजिकानां वासनारूपेण तिष्ठन्तीति स्थायिनः; ग्रहादित्वाद् णिन् । सीदत्यस्मिन् मन इति व्युत्पत्तेः सत्त्वगुणो
Page #124
--------------------------------------------------------------------------
________________
१२४
अभिधानचिन्तामणौ- .
.
स्कर्षात् साधुत्वाच्च प्राणात्मकं वस्तु सत्त्वं, तत्र भवाः सात्त्विकाः। संचरन्ति न सततमवतिष्ठन्त इति संचारिणो व्यभिचारिणः ते च ते प्रभेदाश्च तैः ॥
स्याद् रतिः पुनः ॥ २०९॥ रागोऽनुरागोऽनुरतिः
रमणं रतिः परस्परास्थाबन्धः ॥१॥२०९॥ रञ्जनं रागः ॥२॥ अनुरञ्जनमनुरागः ॥ ३ ॥ अनुरमणं अनुरतिः ॥ ४ ॥
हासस्तु हसनं हसः ।
घर्घरो हासिका हास्यं हसनं हासः ॥ १ ॥ हस्यते हसनम् ॥ २॥ हसश्चेतसो विकाशः “ नवा क्वणयमहसखनः " ॥ ५। ३ । ४८ ॥ इति वा अल् ॥ ३ ॥ घरति घर्घरः सघोषा.अव्यक्तवाक् “ ऋतष्टित् " ॥ ( उणा-९)॥ इति बहुलाधिकारादप्रत्यये द्वित्वं च, घर्घरहेतुत्वात् घर्घरः ॥ ४ ॥ हसनं हासिका " भावे” ॥ ५।३।१२२ ॥ इति णकः ॥५॥ हसनीयं हास्यम् ॥ ६॥ स्थाय्येव तु रसीभवेदिति भावरसयोः पर्यायत्वेन ध्वनति ॥ हासभेदानाह
तत्रादृष्टरदे स्मितम् ॥ २१ ॥
वक्रोष्ठिका तत्र हासेऽदृष्टदन्ते ईषद्धसितं स्मितम् ॥१॥२१०॥ वक्र ओष्ठोऽस्यां वक्रोष्ठी, खार्थे के, वक्रोष्ठिका, स्त्रीक्लीबलिङ्गः ॥२॥
अथ हसितं किञ्चिद् दृष्टरदावरे । स्पष्टम् ॥ १॥
किञ्चिच्छूते विहसितम् सशब्दत्वात् किश्चित् श्रुते हासे विहसितम् । यद् भरतः--
आकुश्चिताक्षिगण्डं यत् सस्वनं मधुरं तथा। . कालागतं साऽऽस्यरागं तद्वै विहसितं भवेत् ॥ १ ॥१॥
अट्टहासो महीयसि ॥ २११॥ महाशब्दत्वात् महीयसि हासे अट्रेति हसनं अट्टहासः ॥ १॥ २११ ॥
अतिहासस्त्वनुस्यूते अनुस्यूतेऽनवच्छिन्ने हासेऽतिशयेन हसनादतिहासः ॥ १ ॥
Page #125
--------------------------------------------------------------------------
________________
.२ देवकाण्डः ।
१२५
१२५ अपहासोऽकारणात् कृते । कारणं विना कृते हासे,अपकृष्ठं हसितं अपहासः ॥ १॥
सोत्प्रासे त्वाच्छुरितकम् उत्प्रास्यते सामर्षोऽन्यः क्रियतेऽनेनोत्प्रास उपहासः, उत्प्राससहिते हासे आछुरणमाच्छुरितकम् ; “परच्छेदनं अवच्छुरितम्" इति कात्यः ॥१॥
____ हसनं स्फुरदोष्ठके ॥ २१२ ॥ • स्पष्टम् ॥ २१२ ॥
शोकः शुक् शोचनं खेदः शोको वैधुर्यम् ॥ १ ॥ शुक् , स्त्रीलिङ्गः ॥ २ ॥ खेदनं खेदः ॥ ४ ॥
क्रोधो मन्युः क्रुधा रुषा ।
क्रुत् कोपः प्रतिघो रोषो रुट् च क्रोधस्तैक्ष्ण्यप्रबोधः ॥ १॥ मन्यते मन्युः, पुंलिङ्गः “ यजिशुन्धि-" ॥ ( उणा-८०१) ॥ इति युः ॥२॥ क्रोधनं क्रुधा ॥३॥ रोषणं रुषा, भिदाद्यङ् ॥४॥ बोधन ऋत. स्त्रीलिङ्गः ॥५॥ कोपनं कोपः ॥ ६ ॥ प्रतिहन्यते अनेन प्रतिघः "चित"॥५।१।१७१ ॥ इति डे, मेघादित्वात् साधुः ॥ ७ ॥ रोषणं रोषः ॥ ८ ॥ रुद् , स्त्रीलिङ्गः ॥ ९॥
उत्साहः प्रगल्भता ॥ २१३ ॥ • अभियोगोद्यमौ प्रौढिरुद्योगः कियदेतिका ।
अध्यवसाय ऊर्जः उत्सहनं उत्साहः, स्थेयान् संरम्भः॥१॥ प्रगल्भस्य भावः प्रगल्भता॥२॥२१३॥ अभियोजन अभियोगः ॥ ३ ॥ उद्यमनमुद्यमः, पुनपुंसकः, घनि “ उद्यमोपरमौ"
॥४।३ । ५७ ॥ इति साधुः ॥ ४ ॥ प्रवहणं प्रौढिः “ प्रस्यैषैष्योढोव्यहे . . खरेण" ॥ १।२ । १४ ॥ इति औत्वम् ॥ ५ ॥ उद्योजनं उद्योगः ॥६॥ कियदेतत् इति अभिप्रायोऽस्यां कियदेतिका, मयूरव्यंसकादित्वात् साधुः ॥ ७॥ अध्यवसीयते अध्यवसायः ॥ ८ ॥ ऊर्जनं ऊर्जः ॥ ९ ॥
अथ वीर्य सोऽतिशयान्वितः ॥ २१४ ॥ स उत्साहः सातिशयो वीरे साधु वीर्यम् ; वीर्यते विक्रम्यत इति वा, भावे यः, चीरस्य कर्म इत्यन्ये ॥ १॥ २१४ ॥
भयं भीीतिरातङ्क आशङ्का साध्वसं दरः।
अशा
. . .
Page #126
--------------------------------------------------------------------------
________________
-
१२६
अभिधानचिन्तामणौ
भिया च भीतिर्भयं वैक्लव्यं “वर्षादयः क्लीबे" ॥५। ३ । २९ ॥ इति अल् ॥१॥ भीः, स्त्रीलिङ्गः ॥२॥ आतङ्कनं आतङ्कः ॥ ४ ॥ आशङ्कनं आशङ्का ॥५॥ साधूनस्यति साध्वसम् ॥ ६॥ दरणं दरः, पुंक्लीबलिङ्गः ॥ ७ ॥ भिया भिदादित्वात् ॥ ८॥
तच्चाहिभयं भूपतीनां वपक्षजम् ॥ २१५॥ तच्चेति भयं खपक्षात् राजपुत्रादेरहेरिव गृहस्थितात् भयम् ॥ १॥ २१५ ॥
अदृष्टं वह्नितोयादेः वह्नितोयाभ्यां आदिशब्दात् पिशाचाऽशन्यादेर्भयमदृष्टम् ॥ १॥
दृष्टं खपरचक्रजम् । स्वराष्ट्राचौराटविकादिभयं परराष्ट्रात् दाहघिलोपादिभयं च दृष्टम् ॥ १॥
भयङ्करं प्रतिभयं भीमं भीष्मं भयानकम् ॥ २१६ ॥
भीषणं भैरवं घोरं दारुणं च भयावहम् । भयं करोतीति भयङ्करं “ मेघर्तिभयाभयात् खः ” ॥ ५।१।१०६ ॥ इति खः॥ १ ॥ प्रतिगतं भयेनेति प्रतिभयम् ॥ २ ॥ बिभ्यत्यस्माद् भीमं, भीष्मं च " भियः षोऽन्तश्च वा " ॥ ( उणा-३४४ ) ॥ इति मक् ॥ ३ ॥ ४ ॥ बिभ्यत्यस्माद् भयानकम् ॥ ५ ॥ २१६ ॥ भीषयते भीषणम् ॥ ६ ॥ बिभ्यत्यस्माद् भैरवम् “ कैरवभैरव." ॥ ( उणा-५१९ ) ॥ इति साधुः, भीरोरिदं त्रासकृदिति वा ॥ ७ ॥ घुरत्यस्माद् घञि, घोरम् ॥ ८ ॥ दारयति चित्तं दारुणं “ ऋक-" ॥ (उणा-१९६) ॥ इत्युणः ॥ ९ ॥ भयमावहति भयावहम् , लिहादित्वादच् ॥१०॥ शेषश्चात्र-भयङ्करे तु डमरमाभीलं भासुरं तथा ॥
जुगुप्सा तु घृणा जुगुप्सनं जुगुप्सा, चित्तसंकोचः ॥१॥ घरति घृणा “ घृवीह्वा-" ॥ (उणा१८३) ॥ इति णक् ॥ २॥
अथ स्याद् विस्मयश्चित्रमद्भुतम् ॥ २१७ ॥
चोद्याश्चर्ये विस्मयनं विस्मयः, चेतसो विस्तारः ॥ १॥ चीयते चित्रं " चिमिदि-"॥ ( उणा-४५४ ) ॥ इति त्रक् , चित्रयति वैचित्र्यं संपादयतीति वा अच् ॥ २ ॥ अद् भवनं अद्भुतम् ॥ ३ ॥ २१७ ॥ चोद्यत इति चोद्यम् ॥४॥ आचर्यते आश्चर्यम् , वर्चस्कादित्वात् साधुः ॥ ५॥
Page #127
--------------------------------------------------------------------------
________________
२ देवकाण्डः ।
१२७
शेषश्चात्र-आश्चर्ये फुल्लकं मोहो वीक्ष्यम् ॥
शमः शान्तिः शमथोपशमावपि ।
तृष्णाक्षयः शमनं शमः, शान्तिः ॥ १ ॥ २ ॥ शमथः “ भृशीशपिशमि-" ॥ ( उणा२३२ ) ॥ इति अथः ॥ ३ ॥ उपशमनमुपशमः ॥ ४ ॥ तृष्णाया गर्द्धस्य क्षयः तृष्णाक्षयः ॥५॥ स्थायिनामुपसंहारमाह
स्थायिनोऽमी रसानां कारणं क्रमात् ॥ २१८ ॥ अमी रत्यादयः स्थायिनः शृङ्गारादीनां रसानां कारणभूताः ॥ २१८ ॥
स्तम्भो जाड्यम् स्तम्भनं स्तम्भः ॥ १ ॥ जडस्य भावो जाज्यम् , विष्टब्धचेतनत्वम् ॥ २ ॥
स्वेदो धर्मनिदाघौ स्वेदनं स्वेदः ॥१॥ घरति सिञ्चत्यङ्गं धर्मः, “ अत्तारि-" ॥ ( उणा३३८ ) ॥ इति मः ॥ २ ॥ निदह्यतेऽनेनाङ्गं निदाघः ॥ ३ ॥
पुलकः पुनः। रोमाञ्चः कण्टको रोमविकारो रोमहर्षणम् ॥ २१९ ॥
रोमोद्गम उद्भुषणमुल्लकसनमित्यपि । पोलति महद् भवत्यङ्गमनेन पुलकः, पुंक्लीबलिङ्गः, “ध्रुधून्दि-" ॥ (उणा२९) ॥ इत्यकः ॥ १॥ रोम्णामञ्चनं रोमाञ्चः ॥ २ ॥ कण्टतीति कण्टकः तरुरोम "दकन-" ॥ ( उणा-२७)॥ इत्यकः, कण्टकतुल्यत्वात् कण्टकः, पुंक्लीबलिङ्गः ॥३॥ रोमाणि विक्रियन्तेऽनेन रोमविकारः ॥ ४ ॥ रोमाणि हृष्यन्त्यनेन रोमहर्षणम् ॥ ५ ॥ २१९ ॥ रोमाण्युद्गच्छन्त्यनेन रोमोद्गमः ॥ ६ ॥ उद्धृषत्युच्छ्वसित्यनेनाङ्गमुद्दषणम् ॥ ७ ॥ उल्लकसत्यनेनाङ्गमुल्लकसनम् ॥ ८ ॥
- स्वरभेदस्तु कल्लत्वं स्वरे स्वरस्य भेदः स्वरभेदः कल्लत्वमव्यक्तत्वं स्वरे स्वरविषये ॥ १ ॥
कम्पस्तु वेपथुः ॥ २२० ॥ कम्पनं कम्पः ॥१॥ वेपनं वेपथुः, पुंलिङ्गः “ द्वितोऽथुः” ॥५।३।८३ ॥ इत्यथुः ॥ २ ॥ २२० ॥
वैवर्ण्य कालिका ..
Page #128
--------------------------------------------------------------------------
________________
१२८
अभिधानचिन्तामणौ
विरुद्धो वर्णोऽस्य विवर्णस्तद्भावो वैवर्ण्यम् ॥ १॥ कालस्य भावः कालिका, . चोरादित्वादकञ् , कालयतीति णको वा ॥ २ ॥
अथाश्रु बाष्पो नेत्राम्बु रोदनम् ।
असमस्रु अश्नुते आकण्ठमश्रु, क्लीबलिङ्गः “ चिनीपीम्यशिभ्यो रुः” ॥ ( उणा-- ८०६ ) ॥ इति रुः ॥ १ ॥ बाधते चक्षुरिति बाष्पः पुंक्लीबलिङ्गः, “शदिवाधिखनिहनेः ष् च" ॥ (उणा-२९९) ॥ इति पः ॥ २ ॥ नेत्रस्याम्बु नेत्राम्बु ॥ ३॥ रुद्यते रोदनम् ॥ ४ ॥ अस्यते असं, “ भीवृधि-" ॥ (उणा-३८७) ॥ इति रः ॥ ५॥ अस्यते अनु, क्लीबलिङ्गः, "चिनीपी-"॥ (उणा-८०६)॥ इत्यादि बहुवचनाद्
शेषश्चात्र-लोतस्तु दृग्जले ॥
प्रलयस्त्वचेष्टता प्रलीयते क्रियाऽत्र प्रलयो मूछेत्यर्थः। अचेष्टता गतचेतनत्वम् । यदाहुः--स्तम्भे विचेतनत्वं, प्रलये गतचेतनत्वम् ; अत एव सहसैव निपतनं भुवि भवति महाभूतशैथिल्यात् ॥ उपसंहारमाह
इत्यष्टसात्त्विकाः ॥ २२१ ॥
धृतिः सन्तोषः स्वास्थ्यं स्यात् धरणं धृतिः ॥ १ ॥ संतोषणं संतोषः ॥२॥ स्वस्थस्य भावः स्वास्थ्यम् ॥३॥
आध्यानं स्मरणं स्मृतिः। स्पष्टम् ॥
मतिर्मनीषा बुद्धिर्धिषणाज्ञप्तिचेतनाः ॥ २२२ ॥ प्रतिभाप्रतिपत्प्रज्ञाप्रेक्षाचिदुपलब्धयः ।
संवित्तिः शेमुषी दृष्टिः
मन्यतेऽनया मतिः, अर्थनिश्चयः ॥ १॥ मनस ईषा मनीषा, पृषोदरादित्वात् ॥ २ ॥ बुध्यतेऽनया बुद्धिः ॥ ३ ॥ ध्यायति दधाति वा धीः "दिद्युत्-" ॥५।२।८३॥ इति क्विबन्तो निपात्यते ॥ ४ ॥ धृष्णोत्यनया धिषणा"धृषिवहेरिश्चोपान्त्यस्य" ॥ (उणा--१८९) ॥ इत्यणः ॥ ५ ॥ ज्ञपनं ज्ञाप्तिः “सातिहेति-" ॥५॥३॥ ९४ ॥ इति क्त्यन्तो निपात्यते ॥ ६ ॥ चेतनं चेतना ॥ ७ ॥ २२२ ॥ प्रतिभानं प्रतिभा ॥८॥ प्रतिपत्तिः प्रतिपत् ; सर्वे गत्यर्था ज्ञानार्थाः ॥९॥ प्रज्ञानं प्रज्ञा ॥१०॥
Page #129
--------------------------------------------------------------------------
________________
२ देवकाण्डः ।
१२९
प्रेक्षणं प्रेक्षा ॥ ११ ॥ चेतनं चित् , स्त्रीलिङ्गः ॥१२ ॥ उपलम्भनमुपलब्धिः ॥१३॥ संवेदनं संवित्तिः ॥ १४ ॥ शेत इति शेर्मोहस्तं मुष्णाति शेमुषी, मूलविभुजादित्वात् के ङीः, शमेः क्वसौ ङ्यां वा, पेचुषीवत् ॥ १५ ॥ दर्शनं दृष्टिः ॥ १६ ॥
सा मेधा धारणक्षमा ॥ २२३ ॥ सा मतिर्धारणसमर्था मेधते संगच्छतेऽस्यां सर्वे मेधा ॥ १ ॥ २२३ ॥
पण्डा तत्त्वानुगा तत्त्वानुगामिनी मतिः पण्यते स्तूयते पण्डा “पञ्चमाडः " ॥ (उणा-- १६८) ॥ इति डः ॥१॥
मोक्षे ज्ञानम् । मोक्षविषया मोक्षफला वा मतिर्ज्ञानम् ॥ १ ॥
विज्ञानमन्यतः मोक्षशास्त्रादन्यत्र शास्त्रे शिल्पे च चित्रादौ मतिर्विज्ञानम् ॥ १ ॥
शुश्रूषा श्रवणं चैव ग्रहणं धारणं तथा ॥२२४॥
ऊहोऽपोहोऽर्थविज्ञानं तत्त्वज्ञानं च धीगुणाः । श्रोतुमिच्छा शुश्रूषा ॥ १ ॥ श्रूयते श्रवणम् , आकर्णनम् ॥१॥ गृह्यते ग्रहणं आदानम् ॥ १॥ धार्यते धारणं अविस्मरणम् ॥ १ ॥ २२४ ॥ ऊहनमूहः युक्तिगम्यस्तर्कः ॥१॥ अपोहनमपोहोऽसत्पक्षनिराकरणम् ॥ १ ॥ अर्थस्य यथावस्थतया विज्ञानमर्थविज्ञानम् ॥ १ ॥ तत्त्वस्य परमार्थस्य ज्ञानं तत्त्वज्ञानम् ॥ १॥ इत्यष्टौ बुद्धिगुणाः ॥
व्रीडा लज्जा मन्दाक्षं हीस्त्रपा वीडनं व्रीडा, चित्तसंकोचः । व्रीडोऽपि ॥१॥ लज्जनं लज्जा ॥२॥ मन्दमाक्षि यत्र मन्दाक्षं, स्वोत्थलज्जावशाद्धि चक्षुरवनमति, शूका मन्दाक्षमित्येके ॥ ३ ॥ हीयते हीः, स्त्रीलिङ्गः, “क्रुत्संपदादिभ्यः-" ॥ ५।३।११४ ॥ इति क्विप् ॥ ४ ॥ त्रप्यते त्रपा ॥५॥
साऽपत्रपाऽन्यतः ॥ २२५ ॥ सा लज्जाऽपरस्माद् लज्जावहे जातेऽपत्रपा ॥ १॥ २२५ ॥
जाज्यं मौख्यं जडस्य भावः कर्म वा जाड्यम् ॥ १॥ मूर्खस्य भावः कर्म वा मौर्यम् ॥२॥
विषादोऽवसादः सादो विषण्णता।
Page #130
--------------------------------------------------------------------------
________________
- १३०
अभिधानचिन्तामणौ
विषदनं विषादो मनःपीडा ॥१॥ अवसदनमवसादः ॥ २ ॥ सदनं सादः ॥ ३ ॥ विषण्णस्य भावो विषण्णता ॥ ४ ॥
___ मदो मुन्मोहसंभेदः
मदनं मदः “ व्यधजपमद्भयः" ॥ ५।३।४७ ॥ इत्यल् , आनन्दसंमोहयोः संगमः ॥ १ ॥
व्याधिस्त्वाधी रुजाकरः ॥ २२६॥ रुजाकरः आधिर्मनःपीडा, व्याधिहेतुत्वाद् व्याधिः ॥ १ ॥ २२६ ॥ . .
निद्रा प्रमीला शयनं संवेशस्वापसंलयाः ।
नन्दीमुखी श्वासहेतिस्तन्द्रा . नियतं द्रान्तीन्द्रियाणि अस्यां निद्रा ॥ १ ॥ प्रमीलन्तीन्द्रियाण्यस्यां प्रमीला ॥ २ ॥ शय्यते शयनम् ॥ ३ ॥ संविशन्तीन्द्रियाण्यत्र संवेशः ॥ ४॥ स्वपनं स्वापः ॥ ५ ॥ संलीयन्ते इन्द्रियाण्यत्र संलयः ॥ ६ ॥ नन्दीव मुखमस्यां नन्दीमुखी ॥४॥ श्वासा हेतयोऽस्यां श्वासहेतिः, एतौ सुप्तवाचकावित्यन्ये ॥८॥ तन्द्रिः सादमोहनयोः, सौत्रः, तन्द्रयते तन्द्रा, तननं द्रात्यस्यां वा; तन्द्रिस्तन्द्रीत्यपि ॥ ९ ॥ शेषश्चात्र--निद्रायां तामसी
सुप्तं तु साधिका ॥२२७॥
सा निद्रा अधिका साऽतिशया वपनं सुप्तम् ॥ १॥ शेषश्चात्र-सुप्ते सुस्वापः सुखसुप्तिका ॥ २२७ ॥
औत्सुक्यं रणरणकोत्कण्ठे आयल्लकारती । हृल्लेखोत्कलिके च उत्सुकस्य भाव औत्सुक्यं, विलम्बासहत्वम् ॥ १॥ अतिशयेन चित्तं रणत्यत्रेति रणरणः, “ अदुपान्त्यऋद्भ्यामश्चान्ते" ॥ ( उणा--१४ ) इति अः, द्वित्वं च, स एव रणरणकः ॥ २ ॥ उत्कण्ठनमुत्कण्ठा, उत्कण्ठोऽपि ॥३॥ आयत आगच्छतो लकति आसादयति आयल्लकम् ॥ ४ ॥ इयर्ति सुखमस्यामरतिः, स्त्रीलिङ्गः, " खल्यमि-" ॥ ( उणा--६५३ ) ॥ इति अतिः; न रतिररतिरिति वा ॥ ५ ॥ हृदयं लिखति हल्लेखः “ हृदयस्य हृल्लासलेखाण्ये" ॥ ३।२।९४ ॥ इति हृदादेशः ॥ ६ ॥ उत्कलनमुत्कलिका " क्रीकल्याल." ॥ ( उणा--३८ )॥ इति इकः॥७॥
अथावहित्थाऽऽकारगोपनम् ॥ २२८ ॥
आकारस्य भूविकारमुखरागादेर्गोपनमाच्छादनमाकारगोपनं, न बहिःस्थं चित्तमस्यां अवहित्था, स्त्रीक्लीबलिङ्गः, पृषोदरादित्वात् साधुः । .
Page #131
--------------------------------------------------------------------------
________________
२ देवकाण्डः।
१३१
शेषश्चात्रआकारगृहने चावकटिकाऽवकुटारिका। गृहजालिका ॥ १ ॥ २२८ ॥
शङ्काऽनिष्टोत्प्रेक्षणं स्यात् अनिष्टस्योत्प्रेक्षणं संभावनम् ॥ १॥
चापलं त्वनवस्थितिः। अनवस्थानं अनवस्थितिः ॥ १॥ चपलस्य भावः कर्म वा चापलम् , “युवादेरण्" ॥ ७ । १ । ६७ ॥ इत्यण् ॥ २ ॥
आलस्यं तन्द्रा कौसीद्यम् अलसस्य भाव आलस्यम् ॥ १॥ तन्द्रणं तन्द्रा ॥ २ ॥ कुसीदस्य अलसस्य भावः कौसीद्यम् ॥ ३ ॥
हर्षश्चित्तप्रसन्नता ॥ २२९ ॥ हादः प्रमोदः प्रमदो मुत्प्रीत्यामोदसम्मदाः ।
आनन्दानन्द) हर्षणं हर्षः ॥१॥ चित्तप्रसन्नता मनःप्रसादः ॥२॥२२९॥ हादनं हादः॥३॥ प्रमोदनं प्रमोदः ॥ ४ ।। प्रमदनं प्रमदः, “ संमदप्रमदौ हर्षे' ॥ ५ । ३ । ३३ ॥ इत्यल् ॥ ५ ॥ मोदनं मुत् , स्त्रीलिङ्गः ॥ ६॥ प्रीयते मनोऽस्यां प्रीतिः ।। ७ ।। आमोदनं आमोदः ॥ ८ ॥ संमदनं संमदः ॥ ९ ॥ आनन्दनमानन्दः, आनन्दथुः, पुंलिङ्गः ॥ १० ॥११॥
गर्वस्त्वहङ्कारोऽवलिप्तता ॥ २३० ॥
दोऽभिमानो ममता मानश्चित्तोन्नतिः स्मयः । . गर्वणं गर्वः. गिरतीव परमिति वा " लटिखटि-" ॥ ( उणा--५०५ ) ॥ इति वः, पुंलिङ्गः। वैजयन्तीकारस्तु--"अभिमानस्त्वहकारो गर्वोऽस्त्री" इत्याह ॥१॥ अहङ्कृतिरहङ्कारः ॥२॥ अवलिप्तस्य भावोऽवलिप्तता अवलेपः ॥ ३ ॥२३०॥ दर्पणं दर्पः ॥ ४ ॥ अभिमाननं अभिमानः ॥ ५॥ ममेत्यस्य भावो ममता ॥ ६ ॥ मत्समो नास्तीति मननं मानः, पुंक्लीबलिङ्गः ॥ ७ ॥ चित्तस्योन्नतिश्चित्तोन्नतिः॥८॥ स्मयनं स्मयः ॥ ९॥
स मिथोऽहमहमिका स गर्वो मिथः परस्परमहं शक्तोऽहं शक्त इत्यस्यामहमहमिका, मयूरव्यंसकादित्वात् साधुः, अहंशब्दो निपातः ॥ १॥
Page #132
--------------------------------------------------------------------------
________________
१३२
अभिधानचिन्तामणौया तु संभावनाऽऽत्मनि ॥ २३१॥
दर्षात् साऽऽहोपुरुषिका स्यात् अहो अहं पुरुष इत्यस्यां आहोपुरुषिका ॥ १ ॥ २३१ ॥
अहंपूर्विका पुनः ।
अहं पूर्वमहं पूर्वमिति अहं पूर्वमित्यस्यामहपूर्विका, एवं अहंप्रथामिका, अहमग्रिका च ॥ १ ॥
उग्रत्वं तु चण्डता ॥ २३२ ॥ उग्रस्य भाव उग्रत्वम् ॥ १॥ चण्डस्य भावश्चण्डता ॥ २ ॥ २३२ ॥
प्रबोधस्तु विनिद्रत्वम् प्रबोधनं प्रबोधः ॥ १॥ विनिद्रस्य भावो विनिद्रत्वम् ॥ २ ॥ - ग्लानिस्तु बलहीनता।
ग्लानं ग्लानिः, स्त्रीलिङ्गः, “ग्लाहाज्यः" ॥ ५। ३ । ११८ ॥ इत्यनिः, बलहीनता बलापचयः ॥ १॥
दैन्यं कार्पण्यम् दीनस्य भावो दैन्यम् ॥ १॥ कृपणस्य भावः कार्पण्यम् ॥ २॥
श्रमस्तु क्लमः क्लेशः परिश्रमः ।। २३३ ॥
प्रयासायासव्यायामाः श्रमणं श्रमः ॥ १॥ क्लमनं क्लमः ॥ २ ॥ क्लेशनं क्लेशः ॥ ३ ॥ परिश्रमणं परिश्रमः ॥ ४ ॥ २३३ ॥ प्रयसनं प्रयासः ॥ ५॥ आयसनं आयासः ॥६॥ व्यायमनं व्यायामः ॥ ७॥
उन्मादश्चित्तविप्लवः । उन्मदनं उन्मादः ॥ १ ॥ चित्तस्य विप्लुतिश्चित्तविप्लवः ॥ २ ॥
मोहो मौढ्यम् मोहनं मोहः ॥ १ ॥ मूढस्य भावो मौढ्यम् ॥ २॥
चिन्ता ध्यानम् चिन्तनं चिन्ता “ भीषिभूषि-" ॥ ५। ३ । १०९ ॥ इत्यङ् ॥ १ ॥
अमर्षः क्रोधसंभवः ॥ २३४ ॥ .
Page #133
--------------------------------------------------------------------------
________________
२ देवकाण्डः ।
१३३
मार स्वादावशः
. गुणो जिगीषोत्साहवान्
क्रोधाद् जातो जिगीषोत्साहयुक्तो गुणो न मर्षणं अमर्षः प्रतिचिकीर्षारूपः ॥ १ ॥ २३४ ॥
त्रासस्त्वाकस्मिकं भयम् । वसनं त्रासः, निर्घातादिभ्यश्चेतश्चमत्कृतिरूपः अकस्माद् भवं आकस्मिकं भयम्। अत्र न पूर्वापरविमर्श इति भयाद् भेदः ॥ १॥
.. अपस्मारः स्यादावेशः . अपस्मरणमपस्मारः, धातुवैषम्यादेरावेशः ॥ १ ॥
निर्वेदः स्वावमाननम् ॥ २३५ ॥ निवेदनं निर्वेदः, स्वस्यात्मनोऽवमाननं स्वावमाननम् ॥ १ ॥ २३५ ॥ ..
आवेगस्तु त्वरिस्तूर्णिः संवेगः संभ्रमस्त्वरा । आवेजनमा-गः ॥ १॥ त्वरणं त्वरिः, मण्यादित्वाद् इः ॥ २ ॥ तूरणं तूर्णिः, स्त्रीलिङ्गो, "कावावी-"। ( उणा--६३४ ) ॥ इति णिः ॥ ३ ॥ संवेजनं संवेगः
॥ ४ ॥ संभ्रमणं संभ्रमः ॥ ५ ॥ त्वरणं त्वरा ॥ ६ ॥ - वितर्कः स्यादुन्नयनं परामर्शो विमर्शनम् ॥ २३६॥ .
- अध्याहारस्तर्क ऊहः ... वितर्कणं वितर्कः ॥ १ ॥ उन्नीयते उन्नयनम् ॥ २ ॥ परामृश्यते परामर्शः ॥ ई॥विमृश्यते विमर्शनम् ॥ ४ ॥ २३६ ॥ अध्याहरणमपूर्वोत्प्रेक्षणमध्याहारः ॥५॥ तर्कणं तर्कः, तरन्त्यनेन संशयविपर्ययाविति वा पुंलिङ्गः, वैजयन्तीकारस्तु "वितर्क स्तर्कमस्त्रियाम्” इत्याह ॥ ६ ॥ ऊहनमूहः, ऊहाऽपि ॥ ७ ॥
असूयाऽन्यगुणदूषणम् । असूयनं असूया ॥ १ ॥
मृतिः संस्था मृत्युकालौ परलोकगमोऽत्ययः ॥ २३७ ॥ पञ्चत्वं निधनं नाशो दीर्घनिद्रा निमीलनम् ।
दिष्टान्तोऽस्तं कालधर्मोऽवसानं . मरणं मृतिः ॥ १॥ संस्थानं संस्था ॥२॥ मरणं मृत्युः, स्त्रीपुंसलिङ्गः ॥३॥ कालयति क्षिपत्यायुः कालः ॥ ४ ॥ परलोके गमनं परलोकगमः ॥ ५ ॥ अत्ययनमत्ययः ॥ ६ ॥ २३७ ॥ देहस्तावत् पञ्चभूतारब्धो मरणे त्वेतस्य पञ्चानां भावः पञ्चत्वं, प्रत्येकं खांशसंक्रमात् ॥ ७ ॥ निवृत्तं धनमत्र निधनं, पुंक्लीबलिङ्गः, निपूर्वो
१८
.
Page #134
--------------------------------------------------------------------------
________________
१३४
अभिधानचिन्तामणौ
धनिमरणार्थ इति सभ्याः ॥ ८ ॥ नशनं नाशः ॥ ९॥ दीर्घा चासौ निद्रा च दीर्घनिद्रा ॥१०॥ निमील्यतेऽस्मिन्निन्द्रियैरिति निमीलनम् ॥ ११॥ दिष्टस्य कालस्य जीवितावधेरन्तो दिष्टान्तः ॥ १२ ॥ अस्यते अस्तम् ॥ १३ ॥ कालो मृत्युदूतः, क्षण. त्रुट्याद्यात्मको वा । यदाहुः- "कालः संहरति प्रजाः” तस्य धर्मः कालधर्मः संहारः ॥ १४ ॥ अवसीयते अवसानम् ॥ १५ ॥
सा तु सर्वगा ॥ २३८ ॥
मरको मारः
सा तु मृतिः सर्वगा सर्वलोकव्यापिनी ॥ २३८ ॥ मरणं मरकः, पुंक्लीकलिङ्गः, " दृकुन-" ॥ ( उणा-२७ ) ॥ इत्यकः ॥१॥ मृश् हिंसायामित्यस्य णिचि मारणं मारिः, स्त्रीलिङ्गः ॥२॥ उपसंहारमाह
त्रयस्त्रिंशदमी व्यभिचारिणः। अमी धृत्यादयो विविधमाभिमुख्येन चरन्ति व्यभिचारिणः ।
स्युः कारणानि कार्याणि सहचारीणि यानि च ॥ २३९ ।। रत्यादेः स्थायिनो लोके तानि चेत् काव्यनाट्ययोः। विभावा अनुभावाश्च व्यभिचारिण एव च ॥ २४०॥
व्यक्तः स तैर्विभावाद्यैः स्थायी भावो भवेद् रसः। रत्यादेः स्थायिनो लोके यानि कारणान्यालम्बनोद्दीपनस्वभावानि ललनोद्यानादीनि, तानि काव्ये नाट्ये च विभावाः वागाद्यभिनयसंहिताः स्थायिव्यभिचारिलक्षणाश्चित्तवृत्तयः, विभाव्यन्ते विशिष्टतया ज्ञायन्ते यैरिति कृत्वा एवं कार्याणि कटाक्षभुजाक्षेपादीनि अनुभावाः स्थायिव्यभिचारिलक्षणं चित्तवृत्तिविशेष सामाजिकजनोऽनुभवन्ननुभाव्यते यैरिति कृत्वा, तथा सहचारीणि धृत्यादीनि व्यभिचारिणः ॥२४०॥ तैर्विभावाद्यैरभिव्यक्तः सामाजिकानां वासनारूपेण स्थितः स स्थायी रत्यादिको भावः कविसहृदयै रस्यमानो रसः शृङ्गारादिः ॥
पात्राणि नाट्येऽधिकृताः पान्ति स्वभूमिकामिति पात्राणि, "त्र-” ॥ ( उणा-४४६) ॥ इति नट् ॥ १॥
तत्तद्वेषस्तु भूमिका ॥ २४१॥ तेषां तेषां रामादीनां वेषो रूपपरिग्रहस्तत्तद्वेषः रूपान्तरपरिग्रहाधारभूतत्वाद् भूमिप्रतिकृतिभूमिका ॥ १ ॥ २४१ ॥
Page #135
--------------------------------------------------------------------------
________________
२ देवकाण्डः ।
१३५ • शैलूषो भरतः सर्वकेशी भरतपुत्रकः । धर्मीपुत्रो रङ्गजायाऽऽजीवो रङ्गावतारकः ॥ २४२ ॥
नटः कृशाश्वी शैलाली शिलूपस्य ऋषेरपत्यं शैलूषः, शलति वेषान्तरमिति वा “कोरदूषाटरूषः'। (उणा-५६१) ॥ इत्यादिना ऊषान्तो निपात्यते ॥ १॥ तां तां भूमिकां बिभर्ति भरतः "दृपृभृमृशी-" ॥ (उणा-२०७) ॥ इति अतः, भरतापत्यत्वाद् वा ॥ २ ॥ सर्वे केशा रूपान्तराण्यस्य सन्ति सर्वकेशी, सर्वादेरिन् ॥ ३ ॥ भरतस्य पुत्रको भरतपुत्रकः ॥ ४ ॥ धर्मी द्विधा--नाट्यधर्मी लोकधर्मी च, तस्याः पुत्रो धर्मीपुत्रस्तदुपजीवकत्वात् ॥ ५ ॥ रङ्गेण जायया वाऽऽजीवति रङ्गाजीवो जायाऽऽजीवः ॥६॥७॥ रङ्गं नाट्यमवतारयति रङ्गावतारकः ॥ ८ ॥ २४२ ॥ नटति नृत्यति नटः, पुंक्लीबलिमः ॥ ९॥ कृशाश्वेन प्रोक्तं नटसूत्रं वेत्त्यधीते वा कृशाश्वी " कृशाश्वकर्मन्दा. दिन्" ॥ ६ ॥ ३ । २९० ॥ इति इन् ॥ १० ॥ शिलालिना प्रोक्तं नटसूत्रमधीते शैलाली “ शिलालिपाराशर्यान्नटभिक्षुसूत्रे” ॥ ६ । ३ । १८९ ॥ इति णिन् ॥ ११॥
चारणस्तु कुशीलवः । चरणस्य भ्रमणस्यायं चारणः, यतो देशान्तरभ्रमाद् जीवति ॥ १॥ कुत्सितं शीलं वाति कुशीलवः ॥२॥
भ्रभ्रुभ्रूभृपरः कुंसो नटः स्त्रीवेषधारकः ॥ २४३ ॥ स्त्रीवेषधारी नटः भ्रवः कुंसनं भासनमस्य भ्रकुंसः भ्रुकुंसः “भ्रवोऽच कुंसकुट्योः" ॥२॥ ४ । १०१ ॥ इत्यत् ह्रखश्च ॥ १ ॥२॥ भ्रूकुंसो भृकुंसः एतौ तु मतान्तराश्रयेण । यद् वाचस्पतिः
स्त्रीभूमिकां तु यः प्राप्तश्चत्वारस्तस्य वाचकाः। __ भ्रकुंसश्च भ्रुकुंसश्च भ्रूकुंसश्च भृकुंसवत् ॥ १॥ इति ॥ ३ । ४ । २४३ ॥
वेश्याऽऽचार्यः पीठमर्दः वेश्याऽऽचार्यो वेश्यानां नृत्तोपाध्यायः ॥ १॥ पीठं नर्तनस्थानं पादैम॒द्नाति पीठमर्दः ॥२॥
सूत्रधारस्तु सूचकः। सूत्रं धरतीति सूत्रधारः सूचयति भाविनमर्थं सूचकः, स्थापकोऽपि ॥३॥
Page #136
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणौ- . .
शेषश्चात्र... अथ सूत्रधारे स्याद् बीजदर्शकः ॥ १॥
नन्दी तु पाठको नान्द्याः । नन्दत्यवश्यं नन्दी, नन्दनं नन्दः समृद्धिस्तत्र भवा तत्प्रयोजनत्वाद् नान्दी पूर्वरङ्गाङ्गम् , तस्याः पाठकः ॥ १॥
पार्श्वस्थः पारिपार्श्विकः ॥ २४४ ॥ पार्श्वे तिष्ठति पार्श्वस्थः ॥ १ ॥ परिपार्श्व वर्तते पारिपार्श्विकः ॥ २ ॥२४४॥
वासन्तिकः केलिकिलो वैहासिको विदूषकः ।
प्रहासी प्रीतिदश्व ..वसन्तेन चरति वासन्तिकः ॥ १॥ केल्या किलति केलिकिलः, केलीकिल इत्यपि ॥ २ ॥ विचित्रो हासो विहासः, तेन चरति वैहासिकः ॥ ३ ॥ सन्धि विग्र. हेण विग्रहं च सन्धिना दूषयति विदूषकः ॥ ४ ॥ प्रहसतीत्येवं शीलः प्रहासी ॥५॥ प्रीतिं ददातीति प्रीतिदः ॥ ६ ॥
अथ षिङ्गः पल्लवको विटः ॥२४५॥ - सेटनं सिट अनादरः सिटा गायति गच्छतीति वा षिड्गः, पृषोदरादित्वात् षत्वम् ॥ १ ॥ पल्लति चतुरं गच्छति पल्लवः “वडिवटि."॥ (उणा-५१५)॥ इत्यकः, खार्थे के, पल्लवकः, -पल्लवयतीति वा ॥२॥ वेटति शब्दायते विटः, पुंक्लीबलिङ्गः ॥ ३ ॥ २४५॥
पिता त्वावुकः
अवतीत्यावुकः “कञ्चुकांशुक" ॥ (उणा-५७) ॥ इत्यादिशब्दादुकान्तो निपात्यते ॥१॥
आवुत्तभावुकौ भगिनीपतौ । अवतीत्यावुत्तः “पुतपित्त' ॥ (उणा-२०४) ॥ इत्यादिशब्दात्तान्तो निपात्यते ॥ १ ॥ भवतीति भावुकः, “कञ्चुकांशुक-" ॥ ( उणा-५७) ॥ इत्यादिना निपात्यते ॥ २॥
भावो विद्वान् भावयति भावः ॥ १॥
युवराजः कुमारो भर्तृदारकः ॥ २४६ ॥ युवा चासौ राजा च युवराजः कुमारयति क्रीडयति कुमारः भर्तुर्दारको भर्तृद्वारकः ॥१॥२४६ ।।
Page #137
--------------------------------------------------------------------------
________________
देवकाण्ड: ।
१३७
- बाला वासू:
- ८३५ ) ॥
वसति पितृगृहे वासूः “कसिपद्यर्त्यादिभ्यो णित्" ॥ ( उणा - ८३५ इत्यादिशब्दादूः ॥ १ ॥
मार्ष आर्यः
मर्षणात् सहनाद् मार्षः, मारिषोऽपि यथा-- पर्षत्, परिषत् ॥ १ ॥ अरणीयोऽभिगम्य आर्यः ॥ २ ॥
देवो भट्टारको नृपः ।
दीव्यतीति देवः ॥ १ ॥ भटति भट्टारः “ द्वार शृङ्गार - " ॥ ( उणा - ४११) ॥ इत्यादिशब्दादारान्तः साधुः; स्वार्थे के भट्टारकः ॥ २ ॥
राष्ट्रियो नृपतेः श्यालः
राष्ट्रे भवो राष्ट्रियः “राष्ट्रादियः" || ६ | ३ | ३॥ इति इयः ॥ १॥ दुहिता भर्तृदारिका ॥ २४७ ॥
नृपतेर्दुहिता भर्तुर्दारिका भर्तृदारिका ॥ १ ॥ २४७ ॥ देवी कृताभिषेका
" कृताभिषेका राज्ञी देवी, वासवदत्तादिः ॥ १ ॥ अन्या भट्टिनी
अकृताभिषेका राज्ञी भट्टिनी, पद्मावत्यादिः ॥ १ ॥
गणिकाऽज्जुका ।
गणयति ईश्वरानीश्वरौ गणिका, गणः पेटकोsस्त्यस्याः । अज्जुकाया असस्प्रकृतिप्रत्ययविभागां देशीपदप्रायाः । अर्जयतीति वा अज्जुका " कञ्चुकांशुक- " ॥ ( उणा-५७ ) ॥ इत्यादिना निपात्यते ॥ १ ॥
नीचाचेटीसखीहूतौ हण्डेहओहलाः क्रमात् ॥ २४८ ॥
नीचाया आह्वाने इण्डे ॥ १ ॥ चेट्या आह्वाने हजे ॥ १ ॥ सख्या आह्वाने हला ॥ १ ॥ २४८ ॥
अब्रह्मण्यमवध्योक्तौ
वधानर्हस्य ब्राह्मणस्य पूत्करणे न ब्राह्मणे साधु अब्रह्मण्यमिति वर्तते " प्राण्यङ्गरथ ” ॥ ७ । १ । ३७ ॥ इति यः । अवधयाञ्चाऽर्थमित्येके ।
ज्यायसी तु खसाऽत्तिका ।
Page #138
--------------------------------------------------------------------------
________________
१३८
अभिधानचिन्तामणौ
अत्ता मातेव अतिका ॥१॥
भर्ताऽऽर्यपुत्रः
भर्ता पतिरार्यस्य पुत्र आर्यपुत्रः ॥ १ ॥
माताऽम्बा
अमति वात्सल्यं गच्छति अम्बा " शम्यमेर्णिद्वा - " ॥ ( उणा - ३१८ ) ॥ इति बः, अम्बते अपत्यं जल्पतीति वा ॥ १ ॥
भदन्ताः सौगतादयः ॥ २४९॥
सौगत आदिरेषां सौगतादयः आदिशब्दाद् निर्ग्रन्थादयः भन्दन्ते कल्याणिनो भवन्ति भदन्ताः “ सीमन्तहेमन्तभदन्तदुष्वन्तादयः " ॥ ( उणा - २२२ ) ॥ इति साधुः ॥ १ ॥ २४९ ॥
पूज्ये तत्रभवानत्रभवांश्च भगवानपि ।
""
स भवान् तत्रभवान् “त्रप् च ॥ ७ । २ । ९२ ॥ इति सर्वादित्वात् त्रप् ॥ २ ॥ एवमेष भवान् अत्रभवान् ॥ ३ ॥ भगो ज्ञानमस्यास्ति भगवान् ॥४॥
पादा भट्टारको देवः प्रयोज्यः पूज्यनामतः ॥ २५० ॥
यथा गुरुपादाः, अर्हद्भट्टारकः, कुमारपालदेवः । शेषश्चात्र
पूज्ये भरटको भट्टः प्रयोज्यः पूज्यनामतः । आबुकादयो नाट्य प्रस्तावाद्ं नाट्योक्तौ द्रष्टव्याः ॥ २५० ॥ इत्याचार्यश्री हेमचन्द्रविरचितायां खोपज्ञाभिधानचिन्तामणिनाममालाटीकार्या देवकण्डो द्वितीयः ॥ २॥
Page #139
--------------------------------------------------------------------------
________________
अर्हम् अथ मर्त्यकाण्डः ।
अथ तृतीयं मर्त्यकाण्डमारभ्यते -
मर्त्यः पञ्चजनो भूम्पृक् पुरुषः पूरुषो नरः । मनुष्यो मानुषो ना विट् मनुजो मानवः पुमान् ॥ १ ॥
((
म्रियत इति मर्त्यः मृशी सिवस्यनिभ्यस्तादिः " ॥ उणा--३६० ) ॥
"(
""
इति तकारादिर्यप्रत्ययः, यद्वा " लूम्रो वा " ॥ ( उणा -- २०२ ) ॥ इति ते मर्तः मर्तादिभ्यो यः ॥ ७ । २ । १५९ ॥ इति स्वार्थे ये मर्त्यः ॥ १ ॥ पञ्चभिः पृथिव्यादिभूतैर्जायते पञ्चजनः ॥ २ ॥ भुवं स्पृशति भूरपृक् ॥ ३ ॥ पृणाति पुमर्थानिति पुरुषः “ विदिपृभ्यां कित् ” ॥ ( उणा - ५५८ ) ॥ इत्युषः, बाहुलकाद् दीर्घत्वे पूरुषः ॥ ४ ॥ ५ ॥ नृणातीति नरः ॥ ६ ॥ मनोरपत्यं मनुष्यः, मानुषः
""
""
मनोर्याणी पश्चान्तः ।। ६ । १ । ९४ ॥ इति योऽग् च प्रत्ययौ ॥ ७ ॥ ८ ॥ नयतीति ना " नियो डित् " ॥ ( उणा - ८५४ ) ॥ कार्येषु विट् ॥ १० ॥ मनोर्जातो मनुजः ॥ ११ ॥ पाति त्रिवर्ग पुमान्
इति ऋः ॥ ९ ॥ विशति
66
मनोरयं मनवः ॥ १२ ॥ पातेर्हुम्सुः” ॥ ( उणा-- १००२ ) ॥ इति डुम्सुः ॥ १३ ॥ १ ॥ बालः पाकः शिशुर्डिम्भः पोतः शावः स्तनन्धयः । पृथुकातानशयाः क्षीरकण्ठः कुमारकः ॥ २ ॥
“
66
बलति प्राणिति स्तन्येन बालः, ज्वलादित्वाणः ॥ १ ॥ पान्त्येनं पिवति स्तन्यं : वा पाकः " भीणशलिवलि - " ॥ ( उणा - २१ ) ॥ इति कः ॥ २ ॥ इति ऋशयति मातरं शिशुः " शः सन्वच्च " ॥ ( उणा -- ७४७ ) ॥ इति ङौ द्वित्वम् ॥ ३ ॥ डिम्भयति डिम्नः ॥ ४ ॥ पुनाति गोत्रं पोतः " दम्यमि " ॥ ( उगा - २०० ) ॥ इतितः ॥ ५ ॥ इति मातरं शावः लटिखटि-” ॥ ( उणा-- ५०५ ) ॥ इति वः ॥ ६ ॥ स्तनं धयति स्तनन्धयः शुनस्तन - " ॥ ५ । १ । ११९ ॥ इति खश्, यौगिकत्वात् स्तनपोऽपि ॥ ७ ॥ प्रथते जन्मना पृथुकः कञ्चुकांशुक-” ॥ ( उणा - ५७ ) ॥ इत्युकान्तो निपात्यते, पृथु कायति इति वा ॥ ८ ॥ इयर्ति वृद्धिमर्भः “ गृदृरमि -” ॥ ( उणा -- ३२७ ) ॥ इति भः, ऋभ्यत इति वा ॥ ९ ॥ उत्तानः शेते उत्तानशयः ॥ १० ॥ क्षीरं कण्ठेऽस्य क्षीरकण्ठः, यौगिकत्वात् क्षीरपोऽपि ॥ ११॥ कामयते यदपि तदपि दृष्टं इति कुमारः " कमेरत उच्च - " ॥ ( उणा -- ४०९ ) ॥ इत्यारः, कुमारयति क्रीडयति वा कुत्सितो मारोऽस्येति वा, स्वार्थे के कुमारकः ॥ १२ ॥ २ ॥
66
Page #140
--------------------------------------------------------------------------
________________
१४०
अभिधानचिन्तामणौ
शिशुत्वं शैशवं बाल्यं शिशोर्भावः शिशुत्वं, शैशवं “म्वृवर्णात्.” ॥ ७ । १ ! ६९ ॥ इत्यग् ॥१॥ २ ॥ बालस्य भावः कर्म वा बाल्यं, राजादित्वाद् ट्यग् ॥ ३ ॥
___ वयःस्थस्तरुणो युवा ।
वयसि यौवने तिष्ठतीति वयःस्थः ॥१॥ तरति कौमारं तरुणः “यम्यजि." ॥ ( उणा--२८८ ) ॥ इत्युनः ॥२॥ यौति मिश्रीभवति स्त्रिया युवा, “लूयूयुवृषि-" ॥ ( उणा--९०१) इति कन् ॥ ३ ॥
तारुण्यं यौवनं तरुणस्य भावः कर्म वा तारुण्यम् ॥ १॥ यूनो भावो यौवनम् , पुंक्लीवलिङ्गः, "युवादेः-" ॥ ७ । १ । ६७ ॥ इत्यण् , यौवनिकाऽपि ॥ २ ॥
वृद्धः प्रवयाः स्थविरो जरन् ॥ ३ ॥
जरी जीर्णो यातयामो जीनः वर्धते वृद्धः, शील्यादित्वात् क्तः ॥ १॥ प्रगतं वयो यौवनमस्य प्रवयाः ॥ २ ॥ यौवनमतिक्रम्य तिष्ठति स्थविरः " स्थविरपिठिर-” ॥ ( उणा--४१७ ) ॥ इतीरान्तो निपात्यते ॥ ३ ॥ जीर्यति स्म जरन् “जृषोऽतृः" ।। ५ । १ । १७३ ॥ इत्यतः ॥ ४ ॥ ३ ॥ जराऽस्त्यात्य जरी, शिखादित्वादिन् ॥ ५ ॥ जीर्यति स्म जीर्णः ॥ ६ ॥ याता यामा अस्य यातयामः ॥७॥ जिनाति स्म जीनः, क्ते “ ज्याव्यधः क्ङिति' ॥ ४ । १ । ८१ ॥ इति यति " दीर्घमवोऽन्त्यम्” ॥ ४ । १ । १०३ ॥ इति दीर्घत्वे “ ऋल्वादेरेषां तो नोऽप्रः ” ॥ ४ । २ । ६८ ॥ इति नत्वम् ॥ ८ ॥
अथ विस्रसा जरा । . विस्रंसते अनयाऽहं विस्रसा, भिदादित्वादङ्॥१॥ जीर्यतेऽनया जरा “षितो. ऽ” ॥ ५ । ३ । १०७ ॥ इत्यङि " ऋवर्णदृशोऽडि-" ॥ ४ । ३ । ७ ॥ इति गुणः ॥ २॥
वार्धकं स्थाविरं वृद्धस्य भावः कर्म वा वार्धकं, चोरादित्वादकञ् ॥ १ ॥ स्थविरस्य भावः कर्म वा स्थाविरं, युवादित्वादण् ॥ २ ॥
ज्यायान् वर्षीयान् दशमीत्यपि ॥ ४ ॥ _अतिशयेन वृद्धो ज्यायान् “ ज्यायान्” ॥ ७ । ४ । ३६ ॥ इति साधुः ॥१॥" प्रियस्थिर-” ॥ ७ । ४ । ३८ ॥ इति वर्षादेशे तु वर्षीयान् ।। २ ।।..
Page #141
--------------------------------------------------------------------------
________________
३ मकाण्डः ।
पूरणाद् वयंसि
दशमोऽवस्थाविशेषोऽस्त्यस्य दशमी “ इतीन् । दशमीस्थ इत्यपि । यदाह भागुरि:“इष्टो वयोदशोपेतः पञ्चमी सप्तमीति च । प्रवयाः दशमस्थि: स्यात्" इति ॥ ३ ॥ ४ ॥ विद्वान् सुधीः कविविचक्षणलब्धवर्णाज्ञः प्राप्तरूपकृतिकृष्ट्यभिरूपधीराः । मेधाविकोविदविशारदसूरिदोष
""
१४१
॥ ७ । २ । ६२ ॥
ज्ञाः प्राज्ञपण्डितमनीषिबुधप्रबुद्धाः ॥ ५ ॥ व्यक्तो विपश्चित् संख्यावान् सन्
""
"
वेत्तीति विद्वान् " वा वेत्तेः क्वसुः " ॥ ५ । २ । २२ ॥ इति क्वसुः ॥ १ ॥ सुष्ठु दधाति ध्यायति वा सुधीः " दिबुद्दहत्- " ॥ ५ । २ । ८३ ॥ इति साधुः, शोभना धीरस्येति वा ॥ २ ॥ कवते कौति वा कविः, कविताऽपि " स्वरेभ्य इः ॥ ( उणा--६० ६ ) ॥ इति इः ॥ ३ ॥ विचष्टे विचक्षणः “ तृकॄशृ-” ॥ ( उणा१८७ ॥ इत्यादिना अणः ॥ ४ ॥ लब्धं वर्णनं प्रसिद्धिर्येन स लब्धवर्णः ॥ ५ ॥ जानातीति ज्ञः ॥ ६ ॥ प्राप्तं रूपं येन प्राप्तरूपः ॥ ७ ॥ कृतमस्यास्तीति कृती कृतकृत्यः ॥ ८ ॥ कर्षति विविले कृष्टिः " हमुषिकृषि - " ॥ ( उणा -- ६५१ ) ॥ इति तिक् ॥ ९ ॥ अभिगतं रूपं येन अभिरूपः ॥ १० ॥ दधाति धियं धीरः 'इण्धाग्भ्यां वा " ॥ ( उणा -- ३८९ ) ॥ इति रक्, धियमीरयतीति वा ॥११॥ मेधाऽस्त्यस्य मेधावी “ अस्तपोमायामेधाखजो विन्” ॥ ७|२|४७ ॥ इति विन् ॥ १२ ॥ को वेत्ति अभिप्रायमस्य, ओकः स्थानं वेत्तीति वा कोविदः, पृषोदरादित्वात् ; कवत इति वा “ कुमुद - " || ( उणा - २४४ ) ॥ इत्यादिशब्दाद् निपात्यते ॥ १३ ॥ विशेषेण शारदोऽधृष्टः प्रत्ययो वा विशारदः ॥ १४ ॥ सुवति संदेहं सूरि : "भूसूकुशि -” ॥ ( उणा - ६९३) ॥ इति रिक् ॥१५॥ दोषान् जानाति ज्ञात्वा जह्यात् इति दोषज्ञः ॥ १६ ॥ प्रज्ञा अस्त्यस्य प्राज्ञः “ प्रज्ञाश्रद्धा - " ॥७|२|३३॥ इति णः, प्रज्ञ एवेति वा “ प्रज्ञादिभ्योऽण् ॥ ७ । २ । १६५ ॥ १७ ॥ पण्डते जानाति इति पण्डितः, पण्डा बुद्धिः संजाता अस्येति वा तारकादित्वादितः ॥ १८ ॥ मनस ईष्टे मनीषी पृषोदरादित्वात्, मनीषा अस्त्यस्येति वा शिखादित्वादिन्, यौगिकत्वाद् धीमान्, मतिमानित्यादयः ॥ १९ ॥ बुध्यते बुधः ॥ २० ॥ प्रबुध्यते प्रबुद्धः ॥२१॥५॥ व्यनक्त्यर्थं व्यक्तः ॥ २२ ॥ विपश्यंश्चेतयते विपश्चित् पृषोदरादित्वात् ॥ २३ ॥ सम्यक् ख्यानं ज्ञानं अस्त्यस्य संख्यावान्, यद्वा संख्या विचारणा गणना वा ॥ २४ ॥ अस्तीति सन् विद्यमान उत्तम इत्यर्थः, अभ्ये
""
त्वसत्कल्पाः ॥ २५ ॥
१९
Page #142
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणौ
प्रवीणे तु शिक्षितः । निष्णातो निपुणो दक्षः कर्म-हस्त-मुखाः कृतात् ॥६॥ कुशलश्चतुरोऽभिज्ञविज्ञवैज्ञानिकाः पटुः ।
प्रकर्षेण वयिते गम्यते प्रवीणः "घृवीह्वा -” ॥ ( उणा - १८३ ) ॥ इति णक्तत्रं ॥ १ ॥ शिक्षा संजाता अस्य शिक्षितः, शिक्षते इति वा ॥ २ ॥ निष्णाति स्म निष्णातः, निष्णातेर्मुख्यार्थ परित्यज्य निपुणे रूढः " निनद्याः स्नातेः कौशले” ॥२॥३ ॥२०॥ इति षत्वम् ॥ ॥ नियतं पुणति शोभनकर्मत्वाद् निपुणः ॥ ४ ॥ दक्षते दक्षः ॥ ५ ॥ कृतशब्दात् पराः कर्महस्तमुखाः, तेन कृतं कर्माऽनेन कृतकर्मा, यौगिकत्वात् कृतकृत्यः, कृतार्थः, कृती च कृतो वशीकृतो हस्तोऽनेन कृतहस्तः, कृतं संस्कृतं मुखमस्य कृतमुखः ॥ ६ ॥ ७ ॥ ८ ॥ ६ ॥ कुशान् लाति कुशलः, ते हि व्युत्पन्नैरादातुं शक्याः; कुश्यति इति वा “तृपिवपि " ॥ ( उणा-४६८)॥ इत्यलक् ॥९॥ चतते कर्म इति चतुरः “वाश्यसि - " ॥ ( उणा - ४२३) ॥ इत्युरः, चत्वारः पुमर्थाः सन्त्यस्येति वा अभ्रादित्वाद् अः ॥ १० ॥ अभिजानाति अभिज्ञः ॥ ११ ॥ विजानाति विज्ञः ॥ १२ ॥ विज्ञानं प्रयोजनमस्य वैज्ञानिकः ॥ १३ ॥ पटति दाक्ष्यं पटुः “भृमृतॄत्सरि-” ॥ (उणा-७१६) ॥ इत्युः ॥१४॥
शेषश्चात्र
१४२
अथ प्रवीणे क्षेत्रज्ञो नदीष्णो निष्ण इत्यपि ॥
छेको विदग्धे
छयति छिनत्ति मूर्खदुष्टाचत्तानि इति छेकः "निष्कतुरुष्क- " ॥ ( उणा - २६ ॥ इति कान्तो निपात्यते ॥ १ ॥ विशेषेण मूर्खचित्तं दहति विदग्धः तत्र ॥ २ ॥ शेषश्चात्र
छेकालच्छेकिलौ छेके ॥ छइल्लो देश्याम् ॥ प्रौढस्तु प्रगल्भः प्रतिभान्वितः ॥ ७ ॥
प्रो स्म प्रौढः ॥ ॥ प्रगल्भते प्रगल्भः ॥ २ ॥ प्रतिभा नवनवोल्लेखशालिनी प्रज्ञा तयाऽन्वितः प्रतिभान्वितः ॥ ३ ॥ ७ ॥
कुशाग्रीयमतिः सूक्ष्मदर्शी
कुशाग्रस्य तुल्या तीक्ष्णत्वात् कुशाग्रीया " कुशाप्रादीयः
" ॥७।१।११६॥
इति ईयः, कुशाग्रीया मतिरस्य कुशाग्रीयमतिः ॥ १ ॥ सूक्ष्मं पश्यतीत्येवंशीलः सूक्ष्मदर्शी ॥ २ ॥
तत्कालधीः
ः पुनः ।
Page #143
--------------------------------------------------------------------------
________________
३ मर्यकाण्डः ।
१४३
प्रत्युत्पन्नमतिः तत्कालं धीरस्य तत्कालधीः ॥१॥ प्रत्यग्रमुत्पन्ना मतिरस्य प्रत्युत्पन्नमतिः ॥२॥
दूराद् यः पश्येद् दीर्घदर्यसौ ॥ ८ ॥ दीर्घ पश्यतीत्येवंशीलो दीर्घदर्शी दूरदर्शी ॥ १ ॥ ८ ॥
हृदयालुः सहृदयश्चिद्रूपोऽपि प्रशस्तं हृदयं मनोऽस्त्यस्य हृदयालुः “कृपाहृदयादालुः ॥७॥२॥४२॥ इत्यालुः ॥ १॥ सह हृदयेन मनसा न तु वक्षसा वर्तते सहृदयः ॥२॥ चिदिति विशिष्टे चैतन्ये वर्तते, चिद् रूपमस्य तन्मयत्वाद् चिद्रूपः ॥ ३ ॥
अथ संस्कृते ।
व्युत्पन्नाहतक्षुण्णाः शास्त्रादिना संस्क्रियते स्म संस्कृतस्तत्र ॥ १॥ व्युत्पद्यते स्म व्युत्पन्नः ॥२॥ प्रहण्यते स्म प्रहतः ॥ ३. ॥ क्षुद्यते स्म क्षुण्णः ॥ ४ ॥
अन्तर्वाणिस्तु शास्त्रवित् ॥ ९॥ - अन्तर्हृदयमध्ये न तु मुखे वाणिर्वागस्य अन्तर्वाणिः, शास्त्रं वेत्ति न च तथा वक्तुं शक्नोति शास्त्रवित् ॥ १ ॥ ९ ॥
__ वागीशो वापतौ
वाचामीशो वागीशः ॥ १॥ वाचां पतिर्वाक्पतिस्तत्र ॥ २ ॥ - वाग्मी वाचोयुक्तिपटुः प्रवाक् ।
समुखो वावदूकः .प्रशस्ता वागस्यास्ति वाग्ग्मी “ ग्मिन् ” ॥ ७॥२।२५ ॥ इति ग्मिन् ॥१॥ वाचो युक्तौ पटुर्वाचोयुक्तिपटुः “पश्यद्वाग्दिशो हरयुक्तिदण्डे " ॥३॥२॥३२॥ इति षष्ठया अलुप् ॥ २ ॥ प्रकृष्टा वागस्य प्रवाक् ॥ ३ ॥ मुखशब्देन वचनमत्र लक्ष्यते ततः सह मुखेन वचनेन वर्तते इति समुखः ॥ ४ ॥ वावद्यते इत्येवंशीलो वावदूकः " यजिजपिदंशिवदादूकः " ॥ ५।२।४७ ॥ इत्यूकः ॥ ५॥
अथ वदो वक्ता वदावदः ॥ १०॥ वदतीति वदः ॥ १॥ वक्तीति वक्ता ॥२॥ वदतीति वदावदः "चराचर-" ॥ ४।१।१३ ॥ इत्यचि कृतद्वित्वो वा निपात्यते ॥ ३॥ १० ॥
स्याजल्पाकस्तु वाचालो वाचाटो बहुगीवाक् ।
Page #144
--------------------------------------------------------------------------
________________
१४४
अभिधानचिन्तामणौ- . .
जल्पनशीलो जल्पाकः " वृद्भिक्षिलुण्टिजल्पिकुटाटाकः ॥५।२।७०॥ इति टाकः ॥१॥ निन्दिता वागस्यास्ति वाचालः, वाचाटः, “वाच आलाटौं"॥७॥२॥२४॥ इत्याल आटश्च ॥ २ ॥ ३ ॥ बहुनिःसारतया गया वागस्य बहुगावाक् ॥ ४ ॥
यद्वदोऽनुत्तरे यदेव निःसरति तदेव वदति यद्वदः ॥१॥ नास्त्युत्तरमस्य अनुत्तरस्तत्र ॥२॥
दुर्वाक् कद्वदे स्यात्
निन्दितं वक्ति दुर्वाक् गर्यवादी ॥ १ ॥ कुत्सितं वदति कद्वदः "रथवदे" ॥३।२।१३१॥ इति कोः कदादेशस्तत्र ॥ २ ॥
अथाधरः ॥ ११ ॥
हीनवादिनि अवति गच्छति हीनत्वमधरः “अवेध् च वा” ॥ (उणा-३९८)॥ इत्यरः॥' १॥ ११॥ हीनं वदतीत्येवंशीलो हीनवादी तत्र ॥२॥
एडमूकोऽनेडमूको त्ववाक्श्रुतौ।
एडो बधिरः मूकोऽवाक् एडश्चासौ मूकश्च एडमूकः, “कलमूकस्त्ववाश्रुतिः” इति हलायुधः ॥ १॥ अनेडोऽपि अवर्करोऽपि मूकः अनेडमूकः, “अन्धो ह्यनेड. मक; स्यात्" इति हलायुधः, “अनेडमूकस्तु जडः” इति वैजयन्ती, "शठो ह्यनेडम स्यात्" इति भागुरिः, तदयमनेकार्थो द्रष्टव्यः ॥२॥ न विद्यते वाक् श्रुतिश्चास्य अवाक्श्रुतिस्तत्र ॥ ३ ॥
रवणः शब्दनस्तुल्यौ रौतीत्येवंशीलो रवणः, शब्दयतीत्येवंशीलः शब्दनः शब्दकरः "चलशब्दादकर्मकात्" ॥५।२।४३॥ इत्यनः ॥ १॥ २ ॥
कुवादकुचरौ समौ ॥ १२ ॥ कुत्सितो वादोऽस्य कुवादः ॥१॥ कुत्सितं चरति कुचरः, कुचरः कुटिलाशयइति कश्चित् ॥ २ ॥ १२॥
लोहलोऽस्फुटवाग् लहः सौत्रः, लोहति मुह्यति लोहल: “ मृदिकन्दि-" ॥ (उणा-४६५) ॥ इत्यादिशब्दादलः ॥ १ ॥ अस्फुटा अव्यक्ता वागस्य अस्फुटवाक् ॥ २ ॥ शेषश्चात्र-काहलोऽस्फुटभाषिणि ॥
मूकोऽवाक्
.
Page #145
--------------------------------------------------------------------------
________________
३ मर्त्यकाण्डः ।
१४५
मूयते बद्ध्यते वागभावेन मूकः “ विचिपुषि- " ॥ ( उणा - २२ ) ॥ कित् कः ॥ १ ॥ न विद्यते वागस्य अवाक् ॥ २ ॥
शेषश्चात्र - मूके जडकडौ ॥
असौम्यस्वरोऽस्वरः ।
न सौम्यः स्वरोऽस्य असौम्यस्वरः ॥ १ ॥ विपरीतः स्वरोऽस्य अस्वरः, नञ् विरुद्धे अनर्थवत् ॥ २ ॥
वेदिता विदुरो विन्दुः
""
वेत्तीत्येवंशीलो वेदिता ज्ञाता ॥ १ ॥ विदुरः “ वेत्तिच्छिदभिदः कित् ॥ ५।२७५ ॥ इति घुरः ॥ २ ॥ विन्दुः “ विन्द्विच्छू " || ५ | २|३४ ॥ इति
साधुः ॥ ३ ॥
वन्दारुस्त्वभिवादकः ॥ १३ ॥
वन्दनशीलो वन्दारुः “ शृवन्देरारुः " || ५|२|३५ ॥ इत्यारुः ॥ १ ॥ अभिवादयते अभिवादकः ॥ २ ॥ १३ ॥
आशंसुराशंसितरि
आशंसत इत्येवंशील आशंसुः " सन् भिक्षा " ||५|२|३३|| इति उः ॥ १२ ॥ कट्वरस्त्वतिकुत्सितः ।
कटत्यारृणोति कट्वरः “कृगृशृद्दृवग्चति ” ॥ (उणा-४४१) ॥ इति वरद्, कुत्सितं वृणोति कवर इत्यन्ये ; अतिशयेन अत्यर्थ कुत्सितोऽतिकुत्सितः ॥ १ ॥
निराकरिष्णुः क्षिप्नुः स्यात्
. निराकरणशीलो निराकरिष्णुः “भ्राज्यलङ्कृग्निराकृग्-" ॥५॥२२८॥ इति इष्णुः ॥ १ ॥ क्षिपतीत्येवंशीलः क्षिप्नुः “ सिगृधि - " ॥५॥२॥३२॥ इति क्नुः ॥२॥ विकासी तु विकस्वरः ॥ १४ ॥
विकसनशीलो विकासी विकस्वरः ॥ १ ॥ २ ॥ १४ ॥
दुर्मुखे मुखराबद्धमुखौ
मुखशब्देन वाग् लक्ष्यते, दुष्टं मुखं वागस्य दुर्मुखः तत्र ॥ १ ॥ मुखं सर्वस्मिन् वक्तव्येऽस्त्यस्य मुखरः “ मध्वादिभ्यो रः " ॥ २२६ ॥ इति रः ॥ २॥ अब
मनियन्त्रितं निरर्थकं वा मुखमस्य अबद्धमुखः ॥ ३ ॥
शक्लः प्रियंवदः ।
Page #146
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणौ- -
___ शक्नोति वक्तुं शक्ल: “शामाश्याशक्यम्ब्यमिभ्यो लः” ॥ (उणा--४६२) ॥ इति लः॥१॥ प्रियं वदति प्रियंवदः "प्रियवशाद् वदः"॥५।१।१०७॥ इति खः ॥२॥
___ दानशीलः स वदान्यो वदन्योऽपि ___ स प्रियंवदः दानशीलः सन् वदति प्रियं ददानो वदान्यः “वदिसहिभ्यामान्यः” ॥ (उणा--३८१) ॥ इत्यान्यः, दानशीलप्रियवाचौ वदान्यौ पृथगित्येके । यद्भागुरिः-" शक्लो वदान्यः प्रियवाक् वदान्यो दानशीलकः" इति ॥ १ ॥ वदने साधुर्वदन्यः ॥२॥
अथ बालिशः ॥ १५ ॥ मूढो मन्दो यथाजातो बालो मातृमुखो जडः । मूर्योऽमेधोविवर्णाज्ञा वैधेयो मातृशासितः ॥ १६ ॥
देवानांप्रियजाल्मौ च बलति प्राणिति जनन्येति बालिशः “बलेणिद् वा” ॥ (उणा--५३६) ॥ इति इशः ॥ १ ॥ १५ ॥ मुह्यति स्म मूढः ॥ २ ॥ मन्दोऽलस इव मन्दः ॥ ३ ॥ यथैव जातस्तथैव स्थितोऽसंस्कृतत्वाद् यथाजातः, यथोद्गतोऽपि ॥ ४ ॥ बालइव बालः ॥ ५॥ मातैव मुखमस्य मातृमुखः ॥ ६ ॥ जलति न तीक्ष्णो भवति डलयोरैक्ये जडः ॥ ७ ॥ मुह्यति कार्ये मूर्खः “ पूमुहोः पुन्मूरो च” ॥ ( उणा--८६ ) ॥ इति खः ॥ ८ ॥ नास्ति मेधाऽस्य अमेधाः “मन्दाल्पाच मेधायाः " ॥ ७।३ । १३८ ॥ इत्यस् समासान्तः ॥९॥ विगतं वर्णनं श्लाघाऽस्य विवर्णः ॥१०॥ प्रश्नोत्तरे न जानात्यज्ञः ॥ ११॥ विधाया भोजनस्यापत्यमिव वैधेयः, विधेयात् स्वार्थे प्रज्ञाद्यण् वा ॥ १२॥ अज्ञत्वात् मात्रा शास्यते मातृशासितः ॥१३॥१६॥ देवानां प्रियः देवानांप्रियः "देवानांप्रियः” ॥३॥२॥३४॥ इति षष्ट्याअलुप् ॥ १४ ॥ जलतीति जाल्मः “ रुक्मग्रीष्म-" ॥ ( उणा--३४६ ) ॥ इति मान्तो निपात्यते " जाल्मोऽसमीक्ष्यकारी स्यात् ” इत्यमरः ॥१५॥ शेषश्चात्र-मूर्ख त्वनेडो नामवर्जितः ॥
दीर्घसूत्रश्चिरक्रियः। दीर्पण चिरेण सूत्रयति दीर्घसूत्रः, दीर्घण सुवतीति वा ॥ १ ॥ चिरेण कियाऽस्य चिरक्रियः ॥ २ ॥
मन्दः क्रियासु कुण्ठः स्यात् क्रियासु कर्मसु मन्दोऽलसः, कुण्ठति कुण्ठः, कुणति शब्दायते न तु करोतीति वा “ पीविशिकुणिपृषिभ्यः कित् ” ॥ ( उणा--१६३ ) ॥ इति ठः ॥ १ ॥
Page #147
--------------------------------------------------------------------------
________________
३ मर्त्यकाण्डः ।
क्रियावान् कर्मसूद्यतः ॥ १७ ॥
क्रियाऽस्त्यस्य क्रियावान् नित्ययोगे मतुः ॥ १ ॥ १७॥
१४७
कर्मक्षमोऽलङ्कमणः
कर्मणि क्षमः शक्तः कर्मक्षमः अलं कर्मणे अलङ्कर्माणः " अषडक्षाशितंग्वलङ्क -
मलंपुरुषादीनः ” ॥ ७|१|१०६ ॥ इतीनः ॥ १ ॥
कर्मशूरस्तु कर्मठः ।
कर्मणि शूरः कर्मशूरः ॥ १ ॥ कर्मणि घटते कर्मठः " तत्र घटते कर्मणष्टः " ॥ ७।१।१३७ ॥ इति ठः ॥ २ ॥
कर्मशीलः कार्मः
कर्मशीलमस्य कर्मशीलः ॥ १ ॥ कार्मः “ अंथाच्छत्रादेरञ् " ॥ ६।४१६० ॥ इत्यञ् ॥ २ ॥
आयःशूलिकस्तीक्ष्णकर्मकृत् ॥ १८ ॥
66
तीक्ष्ण उपायोऽयः शूलसाम्यादयः शूलं तेन अन्वेष्टा आयः शूलिकः, यो मृदुनोपायेनाऽन्वेष्टव्यानर्थास्तीक्ष्णोपायेनान्विच्छति रामसिकः स एवमुच्यते दाण्डाजिनिकायःशूलिकपार्श्वकम् " ॥ ७।१।१७१ ॥ इति निपात्यते ॥ १ ॥ १८ ॥
सिंहसंहनन: खङ्गः
सिंहस्येव संहननं देहोऽस्य सिंहसंहननः ॥ १ ॥ सुरूपमङ्गमस्य स्वङ्गः ॥२॥ स्वतन्त्रो निरवग्रहः ।
यथाकामी स्वरुचिश्च स्वच्छन्दः स्वैय्र्य्यपावृतः ॥ १९ ॥
स्व आत्मा तन्त्रं प्रधानमस्य स्वतन्त्रः ॥ १ ॥ अवग्रहान्नियन्त्रणात् निष्क्रान्तों निरवग्रहः ॥ २ ॥ यथा कामयते यथाकामी ॥ ३ ॥ वा आत्मीया रुचिरस्य स्वरुचिः ॥ ४ ॥ स्व आत्मीयश्छन्दोऽभिप्रायो ऽस्य स्वच्छन्दः ॥ ५ ॥ स्वयमीरितुं शीलमस्य' स्वैरी स्वैरोऽस्यास्तीति वा " स्वैरस्वैर्यक्षौहिण्याम् ॥ १।२।१५ ॥ इति ऐत्वम् ॥ ६ ॥ अपगतं आवृतं नियन्त्रणमस्य अपावृतः ॥ ७ ॥ १९ ॥
""
यदृच्छा स्वैरिता स्वेच्छा
या या इच्छा यदृच्छा, पृषोदरादित्वात् ॥१॥ स्वैरिणो भावः स्वैरिता ॥२॥ स्वस्येच्छा स्वेच्छा ।। ३ ।
नाथवान् निघ्नगृह्मकौ ।
Page #148
--------------------------------------------------------------------------
________________
१४८
अभिधानचिन्तामणौ- . .
तन्त्रायत्तवशाधीनच्छन्दवन्तः परात् परे ॥ २० ॥ ___ नाथो नियन्ताऽस्त्यस्य नाथवान् ॥ १॥ निहन्यते निघ्नः स्थादित्वात् के " हनो ह्रो नः ” ॥ २।१।११२॥ इति नादेशः ॥ २ ॥ गृह्यते गृह्यः “ पदास्वैरिबाह्यापक्ष्ये ग्रहः " ॥५।१।४४॥ इति क्यप् स्वार्थे के गृह्यकः ।।३।। परशब्दात् परे तन्त्रादयः तेन परस्य तन्त्रं आयत्तः परतन्त्रः, परस्यायत्तः परायत्तः, परस्य वशः परवशः, परस्याधीनः पराधीनः, परस्य च्छन्दोऽस्य परच्छन्दः, परो नियन्ताऽस्त्यस्य परवान् ॥ ४॥५॥ ६ ॥ ७ ॥ ८॥ ९ ॥ २० ॥ शेषश्चात्र-परतन्त्रे वशायत्तावधीनोऽपि।
लक्ष्मीवान् लक्ष्मणः श्लीलः लक्ष्मीरस्त्यस्य लक्ष्मीवान् , लक्ष्मणः “ लक्ष्म्या अनः " ॥ ७।२।३२ ॥ इ. त्यनः ॥ १॥ २॥ श्रियं लाति श्लीलः, श्रीरस्यास्तीति वा सिध्मादित्वाद् लः, ऋफिडादित्वाद् रस्य लत्वम् , श्रीमान् इत्यपि ॥ ३ ॥
इभ्य आढ्यो धनीश्वरः ।
ऋद्धे इभमर्हति इभ्यः “ दण्डादेर्यः” ॥ ६।४।१७८ ॥ इति यः ॥ १॥ अध्यायन्ति तामेति आढ्यः, पृषोदरादित्वात् ; आढौकत इति वा “ शिक्यास्याढ्य-" ॥ ( उणा--३६४ ) ॥ इति यान्तो निपात्यते ॥ २ ॥ धनमस्यास्तीति धनी, अतिशायने इन् ॥ ३ ॥ ईष्ट इत्येवंशीलः ईश्वरः ।। ४ ।। ऋध्यति स्म ऋद्धः समृद्धः तत्र ।। ५॥
विभूतिः संपत्तिलक्ष्मीः श्रीऋद्धिसंपदः ॥ २१ ॥ विभवनं विभूतिः ॥ १॥ संपदनं संपत्तिः ॥ २ ॥ लक्ष्यते लक्ष्मीः ॥ ३ ॥ श्रयणशीला श्रीः ॥ ४ ॥ अर्धनं ऋद्धिः ॥ ५ ।। संपदनं संपत् ॥ ६ ॥२१॥
दरिद्रो दुर्विधो दुःस्थो दुर्गतो निःस्वकीकटौ ।
अकिञ्चनः दरिद्राति दरिद्रः ॥१॥ दुष्टा विधा प्रकारो भोजनं वा अस्य दुर्विधः ॥ २ ॥ दुःखेन तिष्ठति दुःस्थः ॥ ३ ॥ दुःखन गच्छति दुर्गतः ॥ ४ ॥ निर्गतं स्वमस्य निःस्वः ॥ ५ ॥ ककते कीकट: “ कपटकीकटादयः " ॥ ( उणा--१४४ ) ॥ इति साधुः ॥ ६ ॥ नास्ति किञ्चनाऽस्य अकिञ्चनः ॥ ७ ॥
शेषश्चात्र-अथ दुर्गते। क्षुद्रो दीनश्च नीचश्च ।।
Page #149
--------------------------------------------------------------------------
________________
१४९
१३ मर्त्यकाण्डः ।
अधिपस्त्वीशो नेता परिवृढोऽधिभूः ॥ २२ ॥ पतीन्द्रस्वामिनाथार्याः प्रभुर्भर्तेश्वरो विभुः । ईशितेनो नायकश्च
"
अधिपातीति अधिपः ।। १ ॥ ईष्टे ईशः ॥ २ ॥ नयति नियुङ्क्ते नेता ॥३॥ परिवर्हति परिबृंहति वा परिवृढः “ क्षुब्धविरिब्ध- " ||४|४|७० ॥ इति साधुः ॥४॥ अधि उपरि भवति अधिभूः ।। ५ ।। २२ ।। पातीति पतिः " पातेर्वा " ॥ ( उणा--६५९ ) ।। इति किदतिः ||६ ॥ इन्दनाद् इन्द्रः “ भीवृधि - " 11 ( उणा -- ३८७) ॥ इति रः || ७ || स्वमस्यास्तीति स्वामी " स्वाद् मिन्नीशे ।। ७।२।४९ ।। इति मिन् दीर्घश्च ॥ ८ ॥ नाथति ईष्टे नाथः ||९|| अर्यते सेव्यते अर्यः " स्वामिवैश्येऽर्यः ” ॥ ५।१।३३ ॥ इति साधुः ॥ १० प्रभवति प्रभुः “ शंसंस्वयंविप्राद् भुवो डुः ||५|२|८४ ॥ इति डुः ॥ ११ ॥ बिभर्ति पुष्णाति भर्ता ॥ १२ ॥ ईशनशीलः ईश्वरः ।। १३ ।। विभवति विभुः ।। १४ ।। ईष्टे ईशिता ॥ १५ ॥ एति स्वामित्वमिनः " जीणसी - " । ( उणा - २६१ ) ॥ इति नक् ॥ १६ ॥ नयति नायकः ।। १७ ।।
॥
33
नियोज्यः परिचारकः ॥ २३ ॥
डिङ्गरः किङ्करो भृत्यश्चेटो गोप्यः पराचितः ।
दासः - प्रेप्यः परिस्कन्दो भुजिष्यपरिकर्मिणौ ॥ २४ ॥ परान्नः परपिण्डादः परजातः परैधितः ।
"
नियोक्तुं शक्यो नियोज्यः ||१|| परिचरति परिचारकः, प्रतिचरोऽपि ॥ २ ॥२३॥ डिप्यते क्षिप्यते डिङ्गरः “जठरक्रकर- " ॥ ( उणा - ४०३) ॥ इत्यादिशब्दाद् निपात्यते ॥३॥ किं करोमीत्याज्ञां प्रतीक्षते किंकरः " किंयत्तद्बहोरः ” ॥५|१|१०१ ॥ इति अः ॥ ४ ॥ भरणीयो भृत्यः “ भृगोऽसंज्ञायाम् " ॥ ५ । १ । ४५ ॥ इति क्यप् ॥ ५ ॥ चेटति चेटः ॥ ६ ॥ गोपनीयो गोप्यः ॥ ७ ॥ परेराचीयते बध्यते पराचितः ॥ ८ ॥ दासते सुखं स्वामिनेऽचि दासः ॥ ९ ॥ प्रेषणीयः प्रेष्यः ॥ १० ॥ परिस्कन्दते आक्रम्य नियुज्यते परिस्कन्दः ॥ ११ ॥ भुङ्गे स्वाम्युच्छिष्टं भुजिष्यः “रुचिभुजिभ्यां किष्यः ” ॥ ( उणा – ३८४ ) ॥ इति किष्यः ॥ १२ ॥ परितः कर्माऽस्यास्ति परिकर्मी, शिखादित्वादिन् ॥ १३ ॥ २४ ॥ परस्याऽन्नमस्य परान्नः ॥ १४ ॥ परस्य पिण्डमत्ति परपिण्डादः ॥ १५ ॥ परेण जातः परजातः ॥ १६ ॥ परैरेध्यते वर्ध्यते परैधितः ॥ १७ ॥ परान्नादयश्चत्वारः पृथगेकार्था इत्यन्ये ॥
भृतके भृतिभुग् वैतनिकः कर्मकरोऽपि च ॥ २५ ॥
ते स्म स्वार्थे के भृतकः, तत्र ॥ १ ॥ भृतिर्वेतनं भुङ्क्ते भृतिभुक् ॥ २ ॥
२०
Page #150
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणौ
वेतनेन जीवति वैतनिकः " वेतनादेर्जीवति" ॥ ६॥ ४ ॥ १५॥ इतीकण् ॥३॥ कर्म करोति कर्मकरः " भृतौ कर्मणः" ॥ ५।१११०४ ॥ इति टः ॥ ४ ॥ २५ ॥
स नि तिः कर्मकारः स भृतको निर्वतनः कर्म कुर्वन् कर्मकारः ॥ १॥
भृतिः स्याद् निष्क्रयः पणः । कर्मण्या वेतनं मूल्यं निवेशो भरणं विधा ॥ २६ ॥
भर्मण्या भर्म भृत्या च भ्रियतेऽनया भृतिः ॥ १॥ निष्कयणं निष्क्रयः ॥ २ ॥ पण्यते आभाष्यते पणः “पणेर्माने" ॥ ५ । ३ । ३२ ॥ इत्यल् ॥ ३ ॥ कर्मणि साधुः कर्मण्या ॥४॥ वीयतेऽद्यते वेतनं " वीपतिपटिभ्यस्तनः" ॥ ( उणा-२९२ ) ॥ इति तनः ॥ ५ ॥ मूलेन आनाम्यं मूल्यं “ हृद्यपद्य." ॥ ७॥ १॥ ११ ॥ इति यः ॥६॥ निर्विश्यते भुज्यते निर्वेशः ॥ ७ ॥ ध्रियतेऽनेन भरणम् ॥ ८ ॥ विधीयतेऽनया विधा ॥ ९ ॥ २६ ॥ भर्मणि साधुर्भमण्या ॥ १०॥ भ्रियतेऽनेन भर्म " मन् ॥ ( उणा- ९११)॥ इति मन् ॥ ११॥ भियतेऽनया भृत्या "भृगो नानि" ॥ ५। ३ । ९८ ॥ इति क्यप् ॥ १२॥
भोगस्तु गणिकाभृतिः। भुज्यते भोगः , गणिकाया भृतिवेतनम् ॥१॥ शेषश्चात्र- भाटिस्तु गणिकाभृतौ ॥
खलपूः स्याद् बहुकरः खलं पुनाति खलपूः ॥ १॥ बहु करोति बहुकरः संमार्जकः, बहुधान्यार्जक इत्यन्ये ॥२॥
. भारवाहस्तु भारिकः ॥२७॥ भारं वहति भारवाहः ॥१॥ भारोऽस्त्यस्य भारिकः ॥ २ ॥२७॥
वार्तावहे वैवधिकः
वृत्ति विकाऽस्त्यस्यां वार्ता अन्नाद्यम् , वार्ताया वहो वार्तावहः, तत्र॥ १॥ वीवधो भारः पर्याहारो वा तेन हरति वैवधिकः, विवधवीवधिकावपि; " विवधवीवधान वा" ॥ ६ । ४ । २५ ॥ इतीकण् ॥ २॥
भारे विवधवीवधौ । विवध्यते विवधः “न जनवधः” ॥ ४ । ३ । ५४ ॥ इति घमि वृद्धरेभावः, पनि उपसर्गस्य दीर्घत्वे वीवधः ॥ २॥३॥
Page #151
--------------------------------------------------------------------------
________________
३ मर्त्यकाण्डः ।
१५१
. काचः शिक्य तदालम्बः
कच्यते बध्यतेऽनेन काचः ॥ १॥ शक्नोति वोढुं शिक्यम् “ शिक्यास्याख्य.” ॥ (उणा-३६४) ॥ इति यान्तो निपात्यते। तस्य भारस्याऽऽलम्बनं तदालम्बनं तदालम्बो यत्र रज्जुपञ्जरे कोढव्यमास्ते ॥ २ ॥
भारयष्टिविहङ्गिका ॥ २८॥
भारोहनार्था चतुर्दण्डिका यष्टिर्भारयष्टिः शिक्याधारः, स्कन्धग्राह्यः लगुड. . इति द्रमिलाः; विहङ्गप्रतिकृतिश्चादिमयी विहङ्गिका, या भित्त्यादौ लम्बमाना स्थाप्यते, प्रयाणके च संधार्यते । विहङ्गमेत्येके ॥ १ ॥ २८ ॥
शूरश्चारभटो वीरो विक्रान्तश्च
शूरयते शूरः ॥ १॥ चारेण गमनेन भटति युद्धमाकाङ्कति चारभटः ॥२॥ अजति क्षिपति शत्रून् वीरः "ऋज्यजि-" ॥ ( उणा-३८८ ) ॥ इति रक्, वीरयत इति वा ॥ ३ ॥ विक्रामति उत्सहते स्म विक्रान्तः ॥ ४ ॥
अथ कातरः ।
दरितश्चकितो भीतो भीरुभीरुकभीलुकाः ॥ २९ ॥ कायति कातरः “अनिकाभ्यां तरः" ॥ (उणा-४३७) ॥ इति तरः, ईषत्तरति या कातरः ॥१॥ दरः संजातोऽस्य दरितः॥२॥चकति बिभेति स्म चकितः॥३॥बिभेति स्म भीतः ॥ ४ ॥ विभेतीत्येवंशीलो भीरुः, भीरुकः, भीलुकः “ भियो रुरुकलुकम्" ॥५।२।७६॥ इति साधवः ॥५॥६॥७॥ "अधीरे कातरः” इत्यमरः॥२९॥ शेषश्चात्र
त्रस्नुत्रस्तौ तु चकिते ॥ विहस्तव्याकुलौ व्यग्रे विगतौ किर्तव्यतामूढत्वाद् हस्तावस्य विहस्तः ॥ १ ॥ विशेषेणाकुलो व्याकुलः ॥ २ ॥ विगतमप्रमस्य व्यग्रस्तत्र विशेषेण अगति वा ॥ ३ ॥
कान्दिशीको भयद्रुते । - को दिर्श व्रजामि इत्याकुलः कान्दिशीकः, पृषोदरादित्वात्साधुः, भयेन द्रुतः पलायितो भयद्रुतः, तत्र ॥१॥
उत्पिञ्जलसमुत्पिञ्जपिञ्जला भृशमाकुले ॥ ३० ॥ उत्पिञ्जयतीति उत्पिजलः ॥१॥ समुत्पिञ्जयति समुत्पिञ्जः ॥ २ ॥ पिज. यति पिजलः, भृशमत्यर्थमाकुले ॥ ३ ॥ ३० ॥
Page #152
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणौ-.. महेच्छे तूद्भटोदारोदात्तोदीर्णमहाशयाः ।
महामना महात्मा च महती इच्छा अस्य महेच्छस्तत्र ॥ १॥ उद्भटति उद्धरत्युद्भटः ॥ २ ॥ साधुभिरुदर्यते गम्यते उदारः ॥ ३ ॥ उत्कर्षेणादीयते गम्यते उदात्तः ॥ ४ ॥ उदीयते स्म उदीर्णः ॥ ५॥ महानाशयोऽस्य महाशयः ॥ ६ ॥ महद् मनोऽस्य महामनाः ॥ ७ ॥ महान् आत्माऽस्य महात्मा ॥ ८ ॥
कृपणस्तु मितम्पचः ॥ ३१ ॥ कीनाशस्तद्धनः क्षुद्रकदर्यदृढमुष्टयः ।
किम्पचानः कल्पते कृपणः " कृगप्रकृपि-" ॥ ( उणा-१८८) ॥ इति अणक् ॥ १ ॥ मितं पचति मितपचः “ परिमाणार्थमितनखात् पचः" ॥ ५। १ । १०९ ॥ इति खः ॥२॥३१॥ कनति दीप्यते तृष्णया कीनाशः “कनेरीश्चातः" ।( उणा-५३४ ) ॥ इत्याशः ॥ ३ ॥ तदेव धनमस्य तद्धनः ॥ ४ ॥ क्षुद्यतेऽल्पत्वात् क्षुद्रः "ऋज्यजि-" ॥ ( उणा-३८८ ) ॥ इति रक् ॥ ५ ॥ कुत्सितोऽर्यः खामी कदर्यः ॥ ६ ॥ दृढा मुष्टिरस्य दृढमुष्टिः ॥ ७ ॥ किञ्चित् पचति किम्पचानः “मुमुचान-" ॥ ( उणा-२७८ ) ॥ इति बहुवचनादानान्तो निपात्यते ॥ ८ ॥ ..
दयालुस्तु कृपालुः करुणापरः ॥ ३२ ॥
सूरतः दयत इत्येवंशीलो दयालु: "शीशद्धानिद्रा-" ॥ ५। २ । ३७ ॥ इत्यालुः ॥१॥ कृपाऽस्त्यस्य कृपालुः “कृपाहृदयादालुः" ॥ ७ । २ । ४२ ॥ इत्यालुः ॥२॥ करुणायां परः करुणापरः॥३॥३२॥ सुष्टु रमते कृपायां सूरतः "पुतपित्त-" ॥ ( उणा-२०४) ॥ इति तान्तो निपात्यते ॥ ४ ॥
अथ दया शूकः कारुण्यं करुणा घृणा।
कृपाऽनुकम्पाऽनुक्रोशः
दयन्तेऽनया दया, भिदादित्वादङ् ॥ १ ॥ शवन्ति गच्छन्ति परदुःखप्रहाणेच्छामनेन शूकः पुंक्लीबलिङ्गः “ घुयुहिपितुशोर्दीर्घश्च” ॥ ( उणा-२४ ) ॥ इति कः ॥ २ ॥ करुणस्य भावः कारुण्यम् , करुणैव वा भेषजादित्वात् स्वार्थे ट्यण ॥३॥ किरति चित्तं करुणा “ऋकृवृ." ॥ ( उणा-१९६) ॥ इत्युणः ॥ ४ ॥ घ्रियन्तेऽनया घृणा; घृण्यन्तेऽनयेति वा ॥ ५ ॥ कृपणं कृपा “ मृगयेच्छा.''॥५।३।१०१॥
Page #153
--------------------------------------------------------------------------
________________
३ मर्यकाण्डः ।
१५३
इति साधुः ॥ ६॥ अनुकम्पनं अनुकम्पा ॥ ७ ॥ अनुक्रोशन्ति समदुःखा भवन्त्यनेन अनुक्रोशः ॥ ८ ॥
हिंस्र शरारुघातुकौ ॥ ३३ ॥ हिंसनशीलो हिंस्रः “ स्म्यजसहिंस." ॥ ५।३।७९ ॥ इति रः, तत्र ॥१॥ शृणातीत्येवंशीलः शरारुः “ शृवन्देरारुः " ॥ ५।२।३५ ॥ इत्यारुः ॥२॥ हन्तीति घातुकः “ शृकमगम-" ॥५।२।४०॥ इत्युकण् ॥ ३ ॥ ३३ ॥
व्यापादनं विशरणं प्रमयः प्रमापणं
निम्रन्थनं प्रमथनं कदनं निबर्हणम् । निम्तहणं विशसनं क्षणनं परासनं
प्रोजासनं प्रशमनं प्रतिघातनं वधः ॥ ३४ ॥ प्रवासनोद्वासनघातनिर्वा- सनानि संज्ञप्तिनिशुम्भहिंसाः। निर्वापणालम्भनिसूदनानि
निर्यातनोन्मन्थसमापनानि ॥ ३५ ॥ अपासनं वर्जनमारपिञ्जा
निष्कारणकाथविशारणानि । - अत्र अहिंसार्था अपि धातवः उपसर्गवशाद् हिंसार्था ज्ञेयाः, अकर्मकास्तु णिजा सकर्मकाः; व्यापादनमिति विआपूर्वात् पदर्णिग्यनम् ॥ १ ॥ शृश् हिंसायां . विशरणम् ॥२॥ मीग्र हिंसायामलि प्रमयः पुंक्लीबलिङ्गः “ कदनं प्रमयोऽस्त्रियाम्" इत्यमरशेषः ॥ ३ ॥ मीनातेरेव खार्थे णिचि “ मिग्मीगोऽखलचलि' ॥४॥२८॥ इत्यात्वेऽनटि च प्रमापणम् ॥ ४ ॥ ग्रथुङ् कौटिल्ये निग्रन्थनम् ॥ ५॥ मथे वि. लोडने प्रमथनम् ॥ ६॥ कदेः सौत्रस्य कदनम् ॥ ७॥ निपूर्वाद् बृहेही निब. हणम् ॥ ८॥ तृहेर्हिसार्थस्य निष्पूर्वस्य , स्तृहेवा निपूर्वस्य निस्तहणम् ॥ ९ ॥ शसू हिंसायां विशसनम् ॥ १० ॥ क्षणूग् हिंसायां क्षणनम् ॥ ११ ॥ परापूर्वस्याऽस्यतेः परासनम् ॥ १२ ॥ जसण् हिंसायां प्रोज्जासनम् ॥ १३ ॥ प्रशमेः प्रशमनम् ॥१४॥ हन्तेः खाणिजन्तस्य प्रतिघातनम् ॥ १५॥ हननं वधः “ हनो वा वध् च " ॥ ५॥३॥४६॥ इत्यल् ॥ १६ ॥ ३४ ॥ प्रवसतः प्रयुक्तिः प्रवासनम् , एवमुद्वासनम् ॥ १७ ॥ १८ ॥ हननं घातः ॥ १९ ॥ निर्वसतः प्रयुक्तिनिर्वासनम् ॥ २० ॥ संज्ञपनं संज्ञप्तिः “ सातिहेति-" ॥ ५।३।९४ ॥ इति क्तिः ॥२१॥ निशुम्भनं निशुम्भः ॥ २२ ॥ हिंसनं हिंसा ॥ २३ ॥ 4 ओवै शोषणे इत्यस्य निष्पूर्वस्य णिगि
Page #154
--------------------------------------------------------------------------
________________
१५४
अभिधानचिन्तामणौ- . .
निर्वापणम् ॥ २४ ॥ आलम्भनमालम्भः ॥ २५ ॥ षूदि क्षरणे निसूदनम् ॥२६॥ निष्पूर्वस्य यतणो णिचि निर्यातनम् ॥ २७ ॥ उन्मथ्लातेपनि उन्मन्थः ॥ २८ ॥ संपूर्वस्य आप्नोतेः समापनम् ॥ २९ ॥ ३५॥ अपादस्यतेरपासनम् ॥ ३० ॥ व.
य॑ते वर्जनम् ॥ ३१ ॥ मृश् हिंसायां खार्थणिचि अलि च मारः ॥ ३२ ॥ पिजुण् हिंसादौ अलि पिञ्जः ॥ ३३ ॥ कृश् हिंसायाम् स्वार्थणिचि निष्कारणम् ॥३४॥ कथण् हिंसायां अचि क्राथः ॥ ३५ ॥ शृश् हिंसायां स्वार्थणिचि विशारणम् ॥३६॥
स्युः कर्तने कल्पनवर्धने च
छेदश्च कृत्यते कर्तनम् , तत्र ॥१॥ कल्प्यते कल्पनम् ॥२॥ वय॑ते वर्धनम् ॥ ३ ॥ छेदनं छेदः ॥ ४ ॥
. घातोद्यत आततायी ॥ ३६॥
घातोद्यतो वधोयुक्तः संनद्धः सन् यो वधार्थमुद्यतः स आततः, तादृशः सन् एति वधार्थ धावत्याततायी, आततं पलायमानं वा तयते आततायी, वध उपलक्षणं यत्स्मृतिः
"अग्निदो गरदश्चैव शत्रपाणिर्धनापहः । , .
क्षेत्रदारहरश्चैव षडेते आततायिनः " ॥ १ ॥ ३६ ॥ स शैर्षच्छेदिकः शीर्षच्छेद्यो यो वधमर्हति । शीर्षच्छेदमर्हति शेषच्छेदिकः “ तमर्हति-" ॥ ६ । ४ । १७७ ॥ इतीकण् ॥ १॥ शीर्षच्छेद्यः "शीर्षच्छेदाद् यो वा" ॥६॥४.१८४॥ इति यः ॥ २॥
प्रमीत उपसम्पन्नः परेतप्रेतसंस्थिताः ॥ ३७॥ नामालेख्ययशःशेषो व्यापन्नोपगतौ मृतः ।
परासुः प्रमीयते स्म प्रमीतः ॥१॥ उपसंपद्यते स्म उपसंपन्नः ॥ २ परैति लोकान्तरे परेतः ॥ ३ ॥ प्रैति स्म प्रेतः ॥ ४ ॥ संतिष्ठते स्म संस्थितः ॥ ५॥ ३७ ॥ नामालेख्ययशःशब्दभ्यः परः शेषः, तेन नामशेषः, आलेख्यशेषः, यशःशेषः, नामैव शेषमस्येत्यादि कृत्वा ॥ ६ ॥ ७ ॥ ८॥ व्यापद्यते स्म व्यापनः ॥ ९॥ उपगच्छति स्म उपगतः ॥ १० ॥ म्रियते स्म मृतः ॥ ११ ॥ परागता असवः प्राणा अस्य परासुः ॥ १२॥
तदहे दानं तदर्थमौर्ध्वदेहिकम् ॥ ३८ ॥ । तस्य मृतस्य अहनि दिवसे, तमुद्दिश्य दानं पिण्डोदकादि, ऊर्ध्वं देहाद् भवमौ
Page #155
--------------------------------------------------------------------------
________________
३ मकाण्डः ।
वैदेहिकम्, अध्यात्मादित्वादिकण्, एकदेशविकृतत्वादूर्ध्वदेहिकम्, अनुशतिकादिपाठमताश्रयणे तु उभयपदवृद्धौ और्ध्वदेहिकमपि ॥ १ ॥ ३८ ॥
१५५
मृतस्नानमपस्नानं
मृते स्नानं मृतस्नानम्, अपकृष्टं स्नानमपस्नानम् ॥ १ ॥ निवापः पितृतर्पणम् ।
नितरामुप्यते दीयते निवापः, पितॄणां तर्पणम् पितृतर्पणम् ॥ १ ॥
चितिचित्याचितास्तुल्या
चीयते चितिः ॥ १ ॥ चितैव चित्या, मर्तादित्वाद् यः ॥ २ ॥ चीयते चिता ॥ ३ ॥ एते प्रेतदाहार्थे अग्न्याधाने वर्तन्ते ॥
ऋजुस्तु
प्राञ्जलोऽञ्जसः T: 11| 39 ||
अर्ज्यते ऋजुः “ अर्जेर्ऋज् च " ( उणा - ७२२ ) ॥ इति उः ॥ १ ॥ प्राञ्जलयति अञ्जलिं प्रबध्नाति प्राञ्जलः, प्राज्यते अभिगम्यते इति वा ॥ २ ॥ अजोऽस्त्यस्य अञ्जसः ॥ ३ ॥ ३९ ॥
दक्षिणे सरलोदारौ
दक्षते दक्षिण: "दुहिदक्षिभ्य इणः" || ( उणा - १९४ ) ॥ इति इणः, तत्र ॥ १ ॥ सरति सरलः " मृदिकन्दि - " ॥ ( उणा - ४६५ ) इत्यलः ॥ २ ॥ उदर्यते उदारः ॥ ३ ॥
शठस्तु निकृतोऽनृजुः ।
शठ कैतवे च शठति शठः, शाम्यतीति वा “शमेर्लुक् च वा" ।। ( उणा१६५ ) ॥ इति ठः, एकदेशविकृतत्वात् शण्ठोऽपि ॥ १ ॥ निकृणोति हिनस्ति निकृतः ॥ २ ॥ न ऋजुः अनृजुः ॥ ३ ॥
क्रूरे नृशंसनिस्त्रिंशपापाः
"(
कृतेः क्रूकृच्छ्रौ च”॥ ( उणा-३९५ ) ॥ इति रः, तत्र निस्त्रिंश इव घातुकत्वाद् निस्त्रिंशः
कृन्ततीति क्रूरः
॥
॥ १ ॥ नृन् शंसति हिनस्ति नृशंसः ॥ २ ।। ३ ।। पापमस्यास्ति पापः ॥ ४ ॥
धूर्तस्तु वञ्चकः ॥ ४० ॥
व्यंसकः कुहको दाण्डाजिनिको मायिजालिकौ ।
धूर्बति हिनस्ति धूर्तः " शीरी - " ॥ ( उणा - २०१ ) इति तः कित् ॥ १ ॥
Page #156
--------------------------------------------------------------------------
________________
• १५६
अभिधानचिन्तामणौ
वश्चयते वञ्चकः ॥ २ ॥ ४० ॥ व्यसयति च्छलयति व्यसकः, विगतावंसौ यस्य . व्यंसः, तत्तुल्यो वा ॥ ३ ॥ कुहयते विस्मापयते कुहकः, कुहकमिन्द्रजालं वा यस्यास्ति ॥ ४ ॥ दण्डश्च अजिनं च दम्भोपलक्षणत्वाद् दण्डाजिनं दम्भः, तेन अन्वेष्टा “ दाण्डाजिनिका- " ॥ ७।१।१७१ ॥ इत्यादिना निपात्यते ॥ ५ ॥ मायाऽस्ति अस्य मायी, व्रीह्यादित्वात् इन् , मायाविमायिकावपि ॥ ६ ॥ जालेन चरति जालिकः ।। ७ ॥
माया तु शठता शाठ्यं कुमृतिनिकृतिश्च सा॥ ४१ ॥ माति अनया माया " स्थाछामासा-" ॥ ( उणा--३५७ ) इति यः ॥ १ ॥ शठस्य भावः शठता शाठ्यम् ॥२॥३॥ कुत्सिता सृतिहिंसाथै कुसृतिः ॥ ४ ॥ नृकृष्टा कृतिः निकृतिः ॥ ५ ॥ ४१ ॥
कपटं कैतवं दम्भः कूटं छद्मोपधिश्छलम् ।
व्यपदेशो मिषं लक्षं निभं व्याजः कम्पयत्यनेन कपटं पुंक्लीबलिङ्गः “कपटकीकटादयः” ॥ ( उणा--१४४ ) ॥ इति साधुः, के मूर्ध्नि पटमिवाच्छादकमिति वा ॥ १ ॥ कितवस्य कर्म कैतवं, युवा. दित्वादण् ॥ २ ॥ दम्भनं दम्भः ॥ ३ ॥ कूटयति दहति अनेन कूटं पुंक्लीबलिङ्गः ॥ ४ ॥ छाद्यते रूपमनेन छद्म “ छदेरिस्मन्त्रटक्कौ ” ॥ ४ । २ । ३३ ॥ इति मनि ह्रखः ॥ ५ ॥ उपधीयते स्फटिकस्येव सिन्दूरमुपधिः, उपधा अपि ॥६॥ छयति छिनत्त्यनेन छलम् “ छोर्डग् गादिवा" ॥ ( उणा--४७१ ) ॥ इति किदलः ॥ ७ ॥ व्यपदिश्यते व्यपदेशोऽतद्रूपस्य ताद्रूप्यम् ॥ ८ ॥ क्रीडाथै वञ्चनेन यद् मिषति मिषम् ॥ ९॥ स इव लक्ष्यतेऽनेन लक्षं पुंक्लीबलिङ्गः ॥ १० ॥ नितरां तदिव भाति निभम् ॥ ११ ॥ व्यजन्ति विक्षिपन्त्यनेन व्याजः स्वरूपाच्छादनम् , यल्लक्ष्यम्-- "ध्यानव्याजमुपेत्य चेतयसि किम्” ॥ १२॥ मायादयः कपटादयश्च एकार्था इत्येके, कपटादयो व्यपदेशादयश्च भिन्नार्था इत्यमरः ॥
अथ कुक्कुटिः ॥ ४२ ॥
कुहना दम्भचर्या च __ कुक्कुट इव आचरति कुक्कुटति दम्भेन निभृतं चरति, कुक्कुटनं कुक्कुटिः "खरेभ्य इ:" ॥ (उणा--६०६) ॥१॥४२॥ कुहयतेऽनया कुहना, दम्भेन परविस्मापनार्थ मिथ्याकल्पना ॥ २ ॥ दम्भेन चरणं " समजनिपद् ॥ ५।३।९९ ॥ इति क्यप् ॥ ३ ॥
वञ्चनं तु प्रतारणम् । व्यलीकमतिसन्धान
Page #157
--------------------------------------------------------------------------
________________
- ३ मयंकाण्डः।
१५७
बञ्च्यते वञ्चनम् ॥ १॥ प्रतार्यते प्रतारणम् ॥२॥ विशिष्टमलीकमत्र पलीकम् ॥ ३ ॥ अति संधीयतेऽतिसंधानम् ॥ ४ ॥
साधौ सभ्यायसन्जनाः ॥ १३ ॥ साधयति कार्याणीति साधुः “कृवापाजि-" ॥ ( उणा-१) ॥ इति उण, तत्र ॥१॥ सभायां साधुः सभ्यः ॥२॥ अर्यतेऽभिगम्यते आर्यः ॥ ३ ॥ सत् शोभनं जनयति सज्जनः, संश्वासौ जनश्चेति वा सज्जनः ॥ ४ ॥ ४३ ॥ .
दोषैकदृक् पुरोभागी दोषे एव एकस्मिन् दृग् ज्ञानं यस्य स दोषैकदृक् । यत्कात्यः-दोषैकग्राहिहृदयः पुरोभागीति कथ्यते ॥१॥ पुरोऽप्रं सर्पवद् भजतीत्येवंशीलः पुरोभागी "युजभुजभज-"॥ ५ । २ । ५० ॥ इति घिनण् ॥ २॥
कर्णेजपस्तु दुर्जनः।
पिशुनः सूचको नीचो द्विजिह्वो मत्सरी खलः ॥ ४४ ॥
कर्णे जपति सूचयति कर्णेजपः “शोकापनुदतुन्दपरिमृज-"॥५।१।१४३॥ इति के निपात्यते ॥ १॥ दुष्टो जनो दुष्टं जनयति वा दुर्जनः ॥ २ ॥ पिंशति एकदेशेन सूचयति पिशुनः “पिशिमिथिक्षुधिभ्यः कित्" ॥ (उणा-२९०) ॥ इत्युनः, पिशुनयतीति वा, अपिशुनति वा पृषोदरादित्वात् , अपिश्यति खण्डयतीति भोजः ॥ ३ ॥ सूचयतीति सूचकः ॥ ४ ॥ निकृष्टमश्चति नीचः “न्युद्भयामञ्चेः-" ॥ ( उणा-१००३)॥ इति के टावद्भावे च “अच्च् प्राग्दीर्घश्च" ॥२॥ १।१०४ ॥ इति साधुः ॥ ५॥ द्वे जिह्वे वचने अस्य द्विजिह्वः ॥ ६ ॥ मत्सरोऽस्त्यस्य मत्सरी ॥७॥ खनति साधुहृदयं खलः पुंक्लीबलिङ्गः, आश्रयलिङ्गइत्यन्ये "मृजिखन्याहनिभ्यो डित्" ॥ ( उणां-४७२ )॥ इत्यलः, खलति संचिनोति पापम् , खलति गुणेभ्य इति वा, खं शून्यं लातीति वा ॥ ८॥ शेषश्चात्र-अथ क्षुद्रप्रखलौ खले ॥ ४४ ॥
व्यसनाचस्तूपरक्तः । म्यसति श्रेयोमार्गाद् व्यसनं तेन ऋतः व्यसनातः “ ऋते तृतीयासमासे " ॥१॥२॥ ८ ॥ इत्यार् ॥ १॥ उपरज्यते स्म उपरक्तः ॥ २॥
चोरस्तु प्रतिरोधकः। दस्युः पाटच्चरः स्तेनस्तस्करः पारिपन्थिकः ॥ ४५ ॥
परिमोषिपरास्कन्धैकागारिकमलिम्लुचाः। चोरयति चोरः, प्रज्ञाद्यणि चौरोऽपि ॥ १ ॥ प्रतिरुणद्धि प्रतिरोधकः ॥ २॥
२१
Page #158
--------------------------------------------------------------------------
________________
१५८
अमिधानचिन्तामणौ
दसति उपक्षणोति दस्युः “यजिशुन्धिदहिदसि-" ॥ ( उणा-८०१)॥ इति युः ॥ ३ ॥ पाटयंश्चरति पाटच्चरः, पृषोदरादित्वात् , पटच्चरे जीर्णवस्त्रे भवो वा पाटचरः, पटचोर इत्येके ॥ ४ ॥ स्तेनयति स्तेनः पुंक्लीबलिङ्गः ॥ ५॥ तत् करोतीति तस्करः, वर्चस्कादित्वात् साधुः ॥ ६॥ परिपन्थं तिष्ठति हन्ति वा पारिपन्थिकः " परिपन्थात् तिष्ठति च"॥६।४।३२॥ इति इकण् ॥७॥४५॥ परिमुष्णातीत्येवंशीलः परिमोषी ॥ ८॥ परानास्कन्दति परास्कन्दी ॥ ९ ॥ एकमसहायमगारं प्रयोजनमस्य ऐकागारिकः “एकागाराचौरे" ॥ ६।४।११८ ॥ इति इकण् ॥१०॥ मलिनं म्लोचति मलिम्लुचः ॥ ११ ॥ शेषश्चात्र-चौरे तु चोरडो रात्रिचरः॥
यः पश्यतो हरेदर्थ स चौरः पश्यतोहरः ॥ ४६ ॥ “पश्यद्वाग्दिशो हरयुक्तिदण्डे" ॥३॥२॥३२॥ इति षष्ठया अलुप् ॥१॥४६॥ - चौर्य तु चौरिका स्तेयं
चौरस्य भावः कर्म वा चौर्यम् , राजादित्वात् व्यण् ॥ १॥ चोराद्यकत्रि चौंरिका स्त्रीक्लीबलिङ्गः ॥२॥ स्तेनस्य भावः स्तेयं “स्तेनाद् नलुक् च" ॥१६॥ इति यः, राजादित्वात् व्यणि स्तैन्यमपि ॥ ३ ॥
लोप्नं त्वपहृतं धनम् । लुप्यते लोप्नं चौर्यधनं “हुयामा-" ॥ (उणा--४५१) ॥ इति त्रः ॥१॥
यद्भविष्यो दैवपरः यद् भविष्यति तद् भवत्वित्येवमाचष्टे यद्भविष्यः ॥ १॥ दैवपरो दैववादी दैवप्रमाणकः ॥ २ ॥
अथाऽऽलस्यः शीतकोऽलसः ॥ १७ ॥ मन्दस्तुन्दपरिमृजोऽनुष्णः
आलस्यमस्त्यस्य आलस्यः, अभ्रादित्वादः॥१॥ शीतं मन्दं करोतीति शीतकः "शीताच्च कारिणि "॥७१।१८६॥ इति कः ॥ २ ॥ न लसत्सलसः, अलतीति वा "तप्यणि-"॥ (उणा-५६९)॥ इत्यसः॥३॥४७॥ मन्दते खपितीव मन्दः, अत एव मदि जाड्ये इति चान्द्रो धातुः, मन्यते वा “शाशपिमनि-"॥( उणा-२३७)॥ इति दः ॥ ४ ॥ तुन्दं परिमार्टि तुन्दपरिमृजः “सोकापनुदतुन्दपरिमृज-" ॥ ५।१।१४३ ॥ इति कः ॥ ५ ॥ न उष्णः अनुष्णः ॥ ६॥
दक्षस्तु पेशलः। पटूष्णाष्णकसूत्थानचतुराश्च
Page #159
--------------------------------------------------------------------------
________________
-३ मर्त्यकाण्डः ।।
१५९
दक्षते शीघ्रं करोति दक्षः ॥ १॥ पिंशत्येकदेशेन सर्व करोति पेशल: "मृदिकन्दि-" ॥ ( उणा-४६५ ) इत्यलः ॥ २॥ पटति पटुः ॥ ३ ॥ ओषति दहतीति उष्णः “घृवीह्ना-" ॥ (उणा-१८३ ) ॥ इति णक् ॥ ४ ॥ उष्णं क्षिप्रं करोति इत्युष्णकः “शीताच्च कारिणि "॥७१।१८६॥ इति कः ॥ ५ ॥ सुष्ठ उत्थानमुद्योगोऽस्य सूत्थानः ॥ ६ ॥ चतते कर्म चतुरः ॥ ७॥
अथ तत्परः ॥ ४८॥
आसक्तः प्रवणः प्रहः प्रसितश्च परायणः । । तत्परमस्य तत्परस्तनिष्ठः ॥१॥४८॥ आसजति स्म आसक्तः॥ २ ॥ प्रकर्षण वनति संभजते प्रवणः ॥ ३ ॥ प्रह्वयते कार्ये स्पर्धते प्रह्वः “ उपसर्गादातो डोऽश्यः" ॥५।१।५६ ॥ इति डः ॥ ४ ॥ प्रसिनोति स्म प्रसितः ॥५॥ परं कार्य पारमयते परायणः ॥ ६॥
दातोदारः ददाति दाता ॥ १ ॥ उदर्यते उदारः ॥ २ ॥
स्थूललक्षदानशौण्डी बहुप्रदे ॥ ४९ ॥ स्थूलं लक्षयति आलोचयति ददाति इति यावत् स्थूललक्षः ॥ १॥ दाने प्रसक्तः शौण्ड इव दानशाण्डः ॥ २ ॥ बहु प्रदत्ते बहुप्रदः, तत्र ॥ ३ ॥ ४९ ॥
दानमुत्सर्जनं त्यागः प्रदेशनविसर्जने । विहायितं वितरणं स्पर्शनं प्रतिपादनम् ॥ ५० ॥
विश्राणनं निर्वपणमपवर्जनमंहतिः । दीयते दानम् ॥ १॥ उत्सृज्यते उत्सर्जनम् ॥ ॥ २ ॥ त्यजनं त्यागः ॥३॥ प्रदिश्यते प्रदेशनम् , प्रादेशनमपि ॥ ४ ॥ विसृज्यते विसर्जनम् ॥ ५ ॥ हिनोतेय॑न्तस्य. ते विहायितम् ॥ ६॥ वितीर्यते वितरणम् ॥ ७॥ स्पृश्यते . स्पर्शनं दानमुपचारात्, पुच्छादौ गवादिकं स्टष्ट्वा हि दीयते ॥ ८ ॥ प्रतिपाद्यते
प्रतिपादनम् ॥९॥५०॥ विश्राण्यते विश्राणनम् ॥१०॥ निरुप्यते निर्वपणम् , निर्वापणमपि ॥ ११ ॥ अपवृज्यतेऽपवर्जनम् ॥१२॥ हन्यते दौर्गत्यमनया अंहतिः, स्त्रीलिगः "हन्तरंह च" ॥ ( उणा-६५४) ॥ इत्यतिः; स्वतः, उपसर्गवशाचैते दानार्थाः ॥ १३॥
अर्थव्ययज्ञः सुकलः अर्थव्ययं जानाति अर्थव्ययज्ञो दाता भोक्ता च, शोभना कलाऽस्य सुकलः ॥१॥
Page #160
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणौ
याचकस्तु वनीपकः ॥ ५१॥
मार्गणोऽर्थी याचनकस्त°कः याचते याचकः ॥ १॥ वनुते याचते वनीपकः "कीचकपेचक-" ॥ (उणा३३)॥ इत्यादिशब्दादकान्तो निपात्यते ॥२॥५१॥ मार्गति मार्गणः ॥ ३ ॥ अर्थनशीलोऽर्थी, अर्थोऽस्यास्तीति वा " अर्थार्थान्ताद्भावात् ” ॥७॥२८॥ इतीन् ॥ ४ ॥ याचते याचनः खार्थे के याचनकः ॥ ५॥ चतते तर्कुकः "कञ्चुकांशुक-" ॥(उणा-५७)॥ इत्युकान्तो निपात्यते ॥६॥
अथार्थनैषणा।
अर्दना प्रणयो याच्या याचनाध्येषणा सनिः ॥ ५२॥
अर्थनमर्थना ॥ १ ॥ एषणमेषणा “इषोऽनिच्छायाम्" ॥ ५।३।११२॥ इत्यनः ॥ २ ॥ अर्दनमर्दना ॥ ३ ॥ प्रणयनं प्रणयः ॥ ४ ॥ याचनं याच्या “ मृगयेच्छायाच्ञा-" ॥५॥३।१०१॥ इति साधुः ॥५॥ याचेः खार्थण्यन्तस्याउने याचना ॥ ६ ॥ अध्येषणमध्येषणा " पर्यधेर्वा" ॥ ५।३।११३ ॥ इत्यनः ॥ ७ ॥ सन्यते सनिः “ पदिपठि-" ॥ (उणा-६०७)॥ इति इः, स्त्रीलिङ्गोऽयं, पुंस्यपि वैजयन्ती, यदाह-'भिक्षा च सनिरक्ली स्यात् ' इति । 'सनिस्त्वध्येषणा' इति गुर्वादेः क्वचिदर्थे प्रार्थनया नियोजनमित्यमरः पृथगाह ॥ ८ ॥५२॥
शेषश्चात्रयाच्या तु भिक्षणा । अभिषस्तिर्मार्गणा च ॥
उत्पतिष्णुस्तूत्पतिता उत्पतति ऊर्ध्व गच्छतीत्येवंशील उत्पतिष्णुः " उदः पचिपतिपदिमदेः" ॥ ५।२।२९ ॥ इतीष्णुः ॥ १॥२॥
अलङ्करिष्णुस्तु मण्डनः। अलंकरोतीत्येवंशीलोऽलकरिष्णुः " भाज्यलकृग्-" ॥५।२।२८॥ इतीष्णुः ॥१॥ मण्डयति तच्छीलो मण्डनः “ भूषाकोधार्थ-" ॥५॥२॥४२॥ इत्यनः ॥२॥
भविष्णुर्भविता भूष्णुः भवतीत्येवंशीलो भविष्णुः, इष्णुः ॥ १ ॥ भवतीति भविता ॥ १॥ भवतीसेवंशीलो भूष्णु: “ भूजेः ष्णुक्” ॥५॥२॥३०॥ इति ध्णुक् ॥ ३ ॥
समौ वर्तिष्णुवर्तनौ ॥ ५३ ॥ इष्णुः ॥ १ ॥ “ इङितः-" ॥ ५।२।४४ ॥ इत्यनश्च ।। २ ।। ५३ ॥
विसृत्वरो विस्मरः प्रसारी च विसारिणि ।
Page #161
--------------------------------------------------------------------------
________________
३ मर्त्यकाण्डः ।
१६१
विसरतीत्येवंशीलो विसृत्वरः " सृजिण्-" ।। ५।२।७७ ॥ इति कित् ट्वरप् ॥१॥ विसुमरः “ सृघस्यदः-"।५।२।७३॥ इति मरक् ॥ २ ॥ प्रसारी " विपरिप्रात् सर्तेः" ॥ ५।२।५५ ॥ इति घिनण् तत्र ॥ ३ ॥ ४ ॥
___ लज्जाशीलोऽपत्रपिष्णुः
लज्जाशीलमस्य लज्जाशीलः लज्जालुः ॥ १ ॥ अपत्रपते अपत्रपिष्णुः, इष्णुः ॥२॥
सहिष्णुः क्षमिता क्षमी ॥ ५४ ॥
तितिक्षुः सहनः क्षन्ता ___ सहेः शीलाद्यर्थे इष्णौ सहिष्णुः ॥ १ ॥ क्षमेस्तृनीटि च क्षमिता ॥ २ ॥ " शमष्टकाद् " ॥५॥२॥४९॥ इति घिनणि क्षमी ॥ ३ ॥५४ ॥ तिजेः “गुप्तिज-" ॥३॥४॥५॥ इति सनि “ सन्भिक्षा-" ॥ ५।२।३३ ॥ इत्युप्रत्यये च तितिक्षुः ॥४॥ सहेरने सहनः ॥ ५ ॥ क्षमेरौदित्त्वाद् वेदवे क्षन्ता ॥ ६ ॥
तितिक्षा सहनं क्षमा। तितिक्षणं तितिक्षा ॥ १ ॥ सत्यते सहनम् ॥ २ ॥ क्षमणं क्षमा “षितोऽङ्" ॥ ५॥३१०७ ॥ इत्यङ्, शान्तिरित्यपि ॥ ३ ॥
ईर्ष्यालुः कुहनः ईय॑ति ईर्ष्यालुः “लस्जीयिशलेरालुः" ॥ (उणा-८२२) ॥ इत्यालुः ॥ १॥ कुहयते विस्मापयते कुहनः ॥ २ ॥
अक्षान्तिरीp .. jणमीर्ष्या भार्यादेः परदर्शनासहने रूढा । कश्चित्तु परोत्कर्षासहनं मात्स
यमीयो मन्यते यथा--" य ईप॒ परवित्तेषु ” इति ॥ १ ॥ १ ॥ . क्रोधी तु रोषणः ॥ ५५ ॥
अमर्षणः क्रोधनश्च
अध्यति क्रोधी ॥ १ ॥ रुष्यतीत्येवंशीलो रोषणः ॥ २ ॥ ५५ ॥ न मृष्यति . अमर्षणः ॥३॥ क्रुभ्यति कोधनः “भूषाकोधार्थ-" ॥ ५।२।४२ ॥ इत्यनः, कोपनोऽपि ॥ ४॥
चण्डस्वत्यन्तकोपनः। . . चडुङ् कोपे चण्डते चण्डः, चणति शब्दायते वा " पञ्चमाइः ॥ ( उणा१६८)॥ इति डः ॥१॥
बुभुक्षितः स्यात् क्षुधितो जिघत्सुरशनायितः ॥ ५६ ॥
Page #162
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणौ
बुभुक्षा संजाताऽस्य बुभुक्षितः, तारकादित्वादितः ॥ १ ॥ क्षुध्यति क्षुधितः, क्षुत् संजाताऽस्य वा ॥ २ ॥ अत्तुमिच्छुः जिघत्सुः ॥ ३ ॥ अशनमिच्छति आत्मनइति अमाव्ययात्-” ॥३।४।२३॥ इति क्यनि “ क्षुत्तृड्गर्ध ॥४।३।११३॥ इत्यात्वम्, ततः क्तेऽशनायितः ॥ ४ ॥ ॥ ५६ ॥
बुभुक्षायामशनाया जिघत्सा रोचको रुचिः ।
भोक्तुमिच्छा बुभुक्षा, तस्याम् ॥ १ ॥ अशनेच्छा अशनाया ॥ २ ॥ अतुमिच्छा जिघत्सा " घस्लृ सनद्यतनी " || ४|४|१७ ॥ इति संन्यदेर्घसादेशः ॥ ३ ॥ रोचनम्, रोचतेऽस्मिन्निति वा रोचकः पुंक्लीबलिङ्गः " नाम्नि पुंसि च ॥ ५ | ३|१२१॥ इति णकः ॥ ४ ॥ एवं रुचिः, स्त्रीलिङ्गः “ नाम्युपान्त्य - " ॥ ( उणा - ६०९) ॥ इति कः ॥ ५ ॥
शेषश्चात्र - बुभुक्षायां क्षुधाक्षुधौ ॥ पिपासुस्तृषितस्तृष्णक्
पातुमिच्छुः पिपासुः, पिपासितोऽपि ॥ १ ॥ तृष्यति तृषितः व्यनुबन्धत्वात् सति क्तः, तृट् संजाताऽस्य वा तर्षितोऽपि ॥ २ ॥ तृष्यतीत्येवंशीलः तृष्णक् " तृषिधृषि - " || ५|२|८० ॥ इति नजिङ् ॥ ३ ॥
१६२
66
तृष्णा तर्षोऽपलासिका ॥ ५७ ॥ पिपासा तृट् तृषोदन्या धीतिः पाने तर्षण तृष्णा “ मृगयेच्छा- ” ॥ ५ । ३ । तर्षः ॥ २ ॥ अपकृष्टं लसत्यनया अपलासिका "
१०१ ॥ इति नङ् ॥१॥ घनि नानं पुंसि च ॥५।३।१२१॥ इति णकः ॥ ३ ॥ ५७ ॥ पातुमिच्छा पिपासा ॥ ४ ॥ तर्षणं तृट्, तृषा ॥ ५ ॥ ६॥ उदकेच्छा उदन्या क्यनि “ क्षुत्तृड्गर्ध - " ||४|३|११३ ॥ इत्युदकस्योदन् ॥ ७ ॥ ट्वें पाने धयनं धीतिः ॥ ८ ॥ पीयते पानं, तत्र ॥ ९ ॥
अथ शोषणम् । रसादानं
शुष्यते शोषणम् ॥ १ ॥ रसानामादानं रसादानम् ॥ २ ॥ भक्षकस्तु घस्मरोऽमर आशितः ॥ ५८ ॥ भक्षयति भक्षकः ॥ १ ॥ घसतीत्येवंशीलो घस्मरः, अत्ति अद्मरः स्यो - " |५|२|७३ ॥ इति मरक् ॥ २ ॥ ३ ॥ आ समन्तात् अश्नाति आशितः, आशिरोऽपि ॥ ४ ॥ ५८ ॥
८८ सूघ
भक्तमन्नं कुरमन्धो भिस्सा दीदिविरोदनः ।
Page #163
--------------------------------------------------------------------------
________________
३ मर्मकाण्डः।। अशनं जीवनकं च याजो वाजः प्रसादनम् ॥ ५९ ॥ भज्यते भक्तम् ॥१॥ अनित्यनेन अन्नं "प्याधापन्यनि-"॥ (उणा-२५८) ।। इति नः, अद्यते वा ॥ २ ॥ कौत्यनेन कूरं पुंक्लीबलिङ्गः, “खुरक्षुर-” ॥ (उणा-- ३९६)॥ इति रान्तो निपात्यते ॥ ३ ॥ अद्यते अन्धः “अदेरन्ध् च वा" ॥ ( उणा-९६३ ) ॥ इत्यस् ।। ४ ।। अभिप्सायते भक्ष्यते भिस्सा, पृषोदरादित्वात् साधुः ॥ ५॥ दीव्यन्त्यनेन दीदिविः पुंलिङ्गः, स्त्रियामपि वैजयन्ती, यदाह" भिस्सा स्त्री दीदिविन षण्" न षण्ढ इत्यर्थः, “छविछिवि-" ॥ (उणा-७०६)। इति व्यन्तो निपात्यते ॥ ६ ॥ उन्नत्ति क्लिद्यत्योदनः “ उन्देर्नलुक् च" ॥ ( उणा-२७१) ॥ इत्यनः ॥ ७ ॥ अश्यते एतदित्यशनं 'क्लीबलिङ्गो, भुज्यादित्वादनट् ॥ ८॥ जीव्यतेऽनेन अनटि खार्थे के जीवनकम् ॥ ९ ॥ इज्यतेऽनेन याजः, घनि “यजेर्यज्ञाङ्गे" ॥४।१।११४ ॥ इति गत्वाभावः ॥ १० ॥ वज्यते वाजः ॥ ११॥ प्रसाद्यतेऽनेनात्मा प्रसादनम् ॥ १२ ॥ ५९ ॥
भिस्सट्टा दुग्धिका कुत्सिता भिस्सा भिस्सटा लक्षानुरोधाः, यथा--ओदनभिस्सटा, खर्गटी, प्रामटी, वधूटीत्यादि ॥ १ ॥ कुत्सिता दग्धा दग्धिका ॥ २ ॥
__सर्वरसागं मण्डं सर्वरसानां द्रवद्रव्याणामपं मुख्यं मण्डयति मण्डं पुंक्लीबलिङ्गः ॥ १ ॥
अत्र तु।
दधिजे मस्तु अत्र तु मण्डे, दधिसंभवे मस्यति परिणमते मस्तु क्लीबलिङ्गः “ कृसिकम्यमि-" ॥ ( उणा--७७३ ) ॥ इति तुन् ॥१॥
भक्तोत्थे निःस्रावाचाममासराः ॥ ६० ॥ मण्डे भक्तसमुद्भवे निःस्राव्यते निःस्रावः ॥ १॥ आचाम्यते आचामः ॥२॥ मीयते मासरः “मीज्यजिमा-" ॥ ( उणा-४३९)॥ इति सरः ॥ ३ ॥ शेषश्चात्र
भक्तमण्डे तु प्रस्रावप्रस्रवाच्छोटनास्रवाः ॥ ६ ॥
श्राणा विलेपी तरला यवागूरुष्णिकाऽपि च । श्रायते स्म श्राणा " व्यञ्जनान्तस्थातः-" ॥ ४ । २ । ७१ ॥ इति क्तस्य नत्वम् ॥ १॥ विलिम्पति विलेपी, विलेप्याऽपि ॥ २ ॥तरला लेह्यत्वाच्चपला, स्त्रीक्लीबलिङ्गः॥३॥ यूयते पिप्पल्यादिना यवागूः स्त्रीलिङ्गः “योरागू:"॥ (उणा-८५०)
Page #164
--------------------------------------------------------------------------
________________
१६४
अभिधानचिन्तामणौ- .
इति आगूः ॥४॥ उष्णादग्नेरचिरोद्धृता उष्णिका “ उष्णात् " ॥ ७ ॥ १। १८५॥ इति संज्ञायां कः ॥५॥
सूपः स्यात्प्रहितं सूदः सुन्वन्त्येनं सूपः "युसुकुरुतुच्युस्त्वादेरूच्च" ॥ ( उणा-२९७ ) ॥ इति पः पुंस्ययम् , क्लीबेऽपि वैजयन्ती, यदाह-'सूपोऽस्त्री प्रहितं सूदः' इति ॥१॥ प्रकर्षण हितं प्रहितम् ॥ २ ॥ सूयते सूदः ॥ ३ ॥
___ व्यञ्जनं तु वृतादिकम् ॥ ६१ ॥ व्यज्यन्ते रसविशेषा अत्र व्यञ्जनम् ॥ १॥ ६१ ॥
तुल्यौ तिलान्ने कृसरत्रिसरौ तिलैर्मिश्रमन्नं तिलान्नं तत्र क्रियते पर्वणीति कृसरः "कृधूतन्य॒षिभ्यः कित्"॥ (उणा-४४०)॥ इति सरः॥१॥ त्रीन् सरति त्रिसरः, पुंस्त्रीलिङ्गो, क्लीबेऽपि वैजयन्ती, यदाह-'तिलतन्दुलमाषैस्तु कृसरा त्रिसरा त्रयी' इति ॥ २॥
अथ पिष्टकः ।
पूपोऽपूपः पिष्टस्य विकारः पिष्टकः " नाम्नि कः" ॥६।२।५४॥ इति कः पुंक्लीबलिङ्गः, पिष्ट एव वा खार्थे कः ॥ १॥ पूयते पूपः “ क्षुचुंपिपूभ्यः कित्-" ॥ ( उणा३०१) ॥ इति पः ॥ २ ॥ अश्नुते अपूपः “ अश ऊपः पश्च" ॥ (उणा-३१२) ॥ इत्यूपः, 'अद्भिरुप्यते' इति नैरुक्ताः ॥ ३ ॥ शेषश्चात्र-अपूपे पारिशोलः ॥
पूलिका तु पोलिकापोलिपूपिकाः ॥ ६२ ॥
पूपली
पूलति संहता भवति पूलिका ॥ १ ॥ पोलति वर्धते पोलिका ॥ २॥ पोल्यते वय॑ते पोलिः “ खरेभ्य इ:" ॥ ( उणा-६०६ ) ॥ इति इः, ङ्यां तु पोली. ॥ ३ ॥ ह्रस्वः पूपः पूपिका ॥४॥६२॥ पूयते पूपली " मुरलोरल-" ॥ (उणा४७४ ) ॥ इत्यले निपात्यते ॥५॥
___ अथेषत्पके स्युरभ्यूषाभ्योषपौलयः। . ईषत्पक्कं ईषद्धृष्टम् , तत्र, अभ्यूषति भजत्यभ्यूषः ।। १ ।। अभ्यूष्यते पच्यते अभ्योषः ॥ २ ॥ पोलति वर्धते पोलिः, पृषोदरादित्वात् ॥ ३ ॥ .... निष्ठानं तु तेमनं स्यात्
Page #165
--------------------------------------------------------------------------
________________
. ३ मर्यकाण्डः ।
१६५
नितिष्ठति अन्नमनेन निष्ठान, पुंक्लीबलिङ्गः । यद्वाचस्पतिः-'तेमने तु निष्ठानोऽस्त्री, ॥ १ ॥ तिम्यत्यार्दीभवत्यनेन तेमनमुपसेचनं, कोपनाख्यम् ॥ २॥
करम्भो दधिसक्तवः ॥ ६३ ॥ करोति तृप्तिं करम्भः “ कृकलेरम्भः ” ॥ (उणा-३३६) ।। इत्यम्भः, केन रभ्यते मील्यते वा, दध्युपसिक्ताः सक्तवः ॥१॥
शेषश्चात्र--अथ करम्बो दधिसक्तुषु ।। ६३ ॥ .. घृतपूरो धृतवरः पिष्टपूरश्च घार्तिकः ।
घृतेन पूर्यते, घृतपूरः क्षीराढ्यः समितापिण्डो घृतेन शृतः ॥ १॥ घृतेन वरो घृतवरः ।। २ ।। पिष्टेन पूर्यते पिष्टपूरः ।।३॥ घृतेन संसृष्टो घार्तिकः, “संसृष्टे" ॥६।४।५।। इतीकण् ॥ ४ ॥
चमसी पिष्टवर्तिः स्याद् । .. चम्यते चमसी “ तप्यणि-"॥ ( उणा-५६९) ॥ इत्यसः। गौडस्तु 'चमसः पिष्टवर्तिः स्यात् ' इति पुंस्याह ॥ १॥ मुद्गादीनां पिष्टस्य वर्तिः पिष्टवर्तिः ॥२॥
वटकस्त्ववसेकिमः ॥ ६४ ॥ वट्यते वेष्ट्यते वटकः “ बहुलम् "॥५।१।२ ॥ इत्यकट ; यद्वा-वटति वटः, ततः खार्थे कः, पुंक्लीबलिङ्गः ॥ १ ॥ अवसेकेन निवृत्तो अवसेकिमः “भावादिमः" ॥ ६।४।२१ ॥ इतीमः, भक्ष्यविशेषः ॥ २ ॥
शेषश्चात्रईण्डेरिका तु वटिका शष्कुली त्वर्धलोटिका । पर्पटास्तु मर्मराला घृताण्डी तु घृतौषणी ॥ १॥ समिताखण्डाज्यकृतो मोदको लड्डुकश्च सः। एलामरिचादियुतः स पुनः सिंहकेसरः ॥ २ ॥ ६४ ॥
भृष्टा यवाः पुनर्धानाः
धीयन्ते धानाः, स्त्रियां बहुवचनान्तोऽयम् , “प्याधा-"॥ (उणा-२५८)॥ इति नः ॥ १॥
धानाचूर्ण तु सक्तवः। - षचि सेचने, सच्यन्ते सक्तवः, पुंक्लीबलिङ्गः, एकवचनान्तोऽप्ययम् “कृसिकम्यमि-''॥ (उणा-७७३ ) ॥ इति तुन् ॥ १ ॥
पृथुकश्चिपटस्तुल्यौ
Page #166
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणौ
पृथुत्वात् पृथुकः आर्द्र भृष्टं सस्यम्, तद्धि पाकात् पृथुर्भवति, प्रथते वा "कचुकांशुक - " ॥ ( उणा - ५७ ) ॥ इत्युके निपात्यते ॥ १ ॥ चिपिटीभवनाच्चिपिटः, चिपिटक इत्यमरः ॥ २ ॥
१६६
लाजाः स्युः पुनरक्षताः ॥ ६५ ॥
लाज्यन्ते भृज्यन्ते लाजाः, पुंस्त्रीलिङ्गः, बहुवचनान्तश्च ॥ १ ॥ न क्षण्यन्ते भक्षताः, पुंक्लीबलिङ्गः, पुंस्ययं बहुवचनान्तः ॥ २ ॥। ६५ ।।
शेषश्चात्र
लाजेषु भरुजोद्भूषखटिका परिवारकाः ॥ गोधूमचूर्णे समिता
समीक्रियते समिता ॥ १ ॥ यवक्षोदे तु चिक्कसः ।
33
चीयते चिक्कसः, पुंक्लीबलिङ्गः “ फनसतामरसादयः ॥ ( उणा-५७३) ॥ इत्यसे निपात्यते, चिक्कस्यति वा । कौशिकस्तु चिक्क इति व्यसने पठस्तस्मादसमिच्छति ॥ १ ॥
गुड इक्षुरसकाथः
. गूयते कथ्यते गुडः, “कुगुहुनी - " ॥ ( उणा - १७० ) ॥ इति ङः कित्, गुडति रक्षति वा ॥ १ ॥
शर्करा तु सितोपला ॥ ६६ ॥
सिता च
शीर्यते शर्करा “किशॄत्रृभ्यः करः " ॥ ( उणा - ४३५) ॥ इति करः ॥ १ ॥ सितोपलः स्फटिकस्तत्सदृशत्वात् सितोपला ॥२॥ ६६॥ सीयते बध्यते सिता ॥३॥
मधुधूलिस्तु खण्ड:
मधुनः क्षौद्रस्य धूलिरिव मधुरत्वाद् मधुधूलिः ॥ १ ॥ खडुङ् मन्थे, खण्ड्यते खण्डः, पुंक्लीबलिङ्गः ॥ २ ॥
तद्विकृती पुनः । मत्स्यण्डी फाणितं चापि
तस्य खण्डस्य विकारः, मदं स्यन्दते मत्स्यण्डी सामान्यशर्करा, पृषोदरादित्वात् ; मत्स्यान् अमति रुजति मत्स्याण्डीति वैद्याः, यद् धन्वन्तरिः – “शर्करोक्ता तु मीनाण्डी श्वेता मत्स्याण्डिका सिता” इति । " मत्स्यण्डिका खण्डसिता
Page #167
--------------------------------------------------------------------------
________________
३ मर्यकाण्डः ।
१६७
क्रमेण गुणवत्तरा" इति तु वाग्भटः ॥ १॥ फाण्यते द्रवत्वात् फाणितं खण्डश्चोतः, पुंक्लीबलिङ्गोऽयम् , यद्वाचस्पतिः- “फाणितमस्त्रियाम्" ॥१॥
रसालायां तु मार्जिता ॥ ६७ ॥ शिखरिणी
रसमलति रसाला, तत्र ॥१॥ मायते मार्जिता, मर्जिताऽपि ॥ २ ॥ ६७ ॥ शिखरमस्त्यस्यां शिखरिणी ॥ ३ ॥
.. अथ यूयूषो रसः ___ यौतीत्येवंशीलो यूः, पुंलिङ्गः, भ्राजादित्वात् क्विपि साधुः, यद् वैजयन्ती'"यूषोऽस्त्री यूः पुमान् रसे"॥ १ ॥ यूयते मिश्रीक्रियते यूषः, पुंक्लीबलिङ्गः “योरूब वा" ॥ (उगा-५४१) ॥ इति षः, यूषति हिनस्ति रुजं वा ॥ २॥ रस्यते रसो मुद्रादीनाम् ॥ ३ ॥
दुग्धं तु सोमजम् ।
गोरसः क्षीरमूधस्यं स्तन्यं पुंसवनं पयः ॥ ६८ ॥ दुयते दुग्धम् ॥ १॥ सोमरसाज्जातं सोमजम् ॥ २ ॥ गोर्धेन्वा रसो गोरसः ॥३ ॥ घस्यते क्षीरम् , पुंक्लीबलिङ्गः । “घसिवाश-" ॥ ( उणा-४१९) ॥ इति किदीरे, “गमहन-"॥४।२।४४॥ इत्युपान्त्यलोपे, च "घस्वसः" ॥२॥३॥३६॥ इति सस्य षस्वम् ॥ ४ ॥ ऊधसि भवमूधस्यम् ॥ ५ ॥ स्तने भवं स्तन्यम् , देहांशत्वाद् यः ॥ ६ ॥ पुंभिः सूयतेऽनेन पुंसवनम् ॥ ७ ॥ पीयते पयः “पाहाभ्यां पयह्यो च" ॥ (उणा--९५३) ॥ इत्यस् ॥ ८ ॥ ६८ ॥
शेषश्चात्र
दुग्धे योग्य बालसात्म्यं जीवनीयं रसोत्तमम् । सरं गव्यं मधुज्येष्ठं धारोष्णं तु पयोऽमृतम् ॥
पयस्यं घृतदध्यादि .. पयसो विकारः पयस्यम् “ पयोद्रोर्यः" ॥ । २ । ३५ ॥ इति यः, आदिशब्दाप्रवनीतादि ॥१॥
पेयूषोऽभिनवं पयः । ___ पीयते पेयूषः " कोरदूषाटरूष-" ॥ ( उणा-५६१ ) ॥ इत्यूषान्तो निपास्यते । वैजयन्ती तु- “ आ सप्ताहात् तु पेयूषं ततो मोरटमोरके” इति क्लीबमाह । पीयूषमित्यपि, नवप्रसूतगवीक्षीरं कथितं सदभिनवम् ॥ १॥ .
उभे क्षीरस्य विकृती किलाटी कूर्चिकाऽपि च ॥ ६९ ॥
Page #168
--------------------------------------------------------------------------
________________
- १६८
अभिधानचिन्तामणौ- .
... किरति क्षुधं किलाटी, पुंस्त्रीलिङ्गः “किरो लश्च वा” ॥ (उणा-१४७) ॥ . इत्याटः ॥१॥ कूर्चस्तन्मस्तु तदस्त्यस्याः कूर्चिका, कूचति कूचिका इत्यके ॥१॥६९॥ ..... पायसं परमान्नं च क्षरेयी
पयसि संस्कृतं पायसं, पुंक्लीबलिङ्गः "संस्कृते भक्ष्ये" ॥६।२।१४०॥ इत्यण ॥१॥ परमं च तदन्नं च परमान्नम् ॥ २ ॥ क्षीरे संस्कृता क्षैरेयी “क्षीरादयण" ॥६२।१४२॥ इत्येयम् ॥ ३ ॥
क्षीरजं दधि ।
गोरसश्च क्षीराजातं क्षीरजम् ॥ १ ॥ दधते बलिष्ठतां दधि, क्लीबलिङ्गः, “पदिपठि-" (उणा-६०७) इति इः ॥ २ ॥ ३॥ शेषश्चात्र
दनि श्रीघनमङ्गल्ये ॥
तदघनं द्रप्सं पत्रलमित्यपि ॥ ७० ॥ : दृप्यतेऽनेन द्रप्स "मावा-" ॥ (उणा-५६४) ॥ इति बहुवचनात् सः, ततः "स्पृशादिसृपो वा'॥४।४।११२॥ इत्यकारागमः; द्रप्स्यमित्यपि ॥ १॥ पत्रं लाति पत्रलम् , पत्रमस्यास्तीति वा, सिध्मादित्वाद् लः ॥ २ ॥ ७० ॥ .
घृतं हविष्यमाज्यं च हविराघारसर्पिषी । घरति घतं, पुंक्तीबलिङ्गः "शीरी-" ॥ (उणा-२०१) ॥ इत्यादिना तः कित् ॥१॥ हविषे हितं हविष्यम् "उवर्णयुगादेः” ॥७१।३०॥ इति यः ॥ २ ॥ आ अज्यतेऽनेन आज्यम् "कुप्याभिद्य-"॥५।१।३९॥ इति क्यापि निपात्यते ॥ ३ ॥ हूयते हविः, क्लीबलिङ्गः ॥ ४ ॥ आधारयति आघारः ॥ ५ ॥ सर्पति सर्पिः, क्लीबलिङ्गः “रुच्यर्चि-" ॥ (उणा-९४९) ॥ इति इस् ॥ ६॥
ह्योगोदोहोद्भवं हैयङ्गवीनं . ह्योगोदोहस्य विकारो हैयङ्गवीनं “ह्योगोदोहादीनञ् हियङ्गुश्चास्य” ॥६॥२॥ ५५॥ इति ईनञ् , प्रस्तावाद् घृतं लभ्यते । कात्यो नवनीतमित्याह ॥ १ ॥
शरजं पुनः ॥ ७१॥
दधिसारं तकसारं नवनीतं नवोद्धृतम् । - शराज्जातं शरजम् ॥ १॥ ७१ ॥ दनः सारं दधिसारम् ॥ २ ॥ तक्रस्य सारं तक्रसारम् ॥ ३ ॥ दनो मथिताद् नवं तत्कालं नीतमुद्धृतं च नवनीतम् , नवोद्धृतम् ॥ ४ ॥ ५॥. .
Page #169
--------------------------------------------------------------------------
________________
. ३ मर्यकाण्डः ।
१६९
दण्डाहते कालशेयघोलारिष्टानि गोरसः ॥ ७२ ॥
रसायनं
मन्थदण्डेनाऽऽहतं दण्डाहतम् , तत्र ॥ १ ॥ कलश्यां मन्थन्यां भवं कालशेयं "दृतिकुक्षिकलशि." ॥६।३।१३०॥ इत्येयम् ॥ २॥ हन्यते मथा घोलं "पिञ्छोलकल्लोल-" ॥ (उणा-४९५) ॥ इत्योले निपात्यते ॥ ३ ॥ न रेषति हिनस्ति अरिष्टम् , सर्वरोगाजितत्वात् ॥ ४ ॥ गोर्धेन्वा रसो गोरसः ॥ ५ ॥ ७२ ॥ अम्लादीन् रसानयते रसायनम् ॥ ६ ॥
'अथाऽर्धाम्बूदश्वित्
अर्धमम्बु जलं यत्र अर्धाम्बु; उदकेन श्वयति उदश्वित् , क्लीबलिङ्गः "उदकाच्छ्वेर्डित्" ॥ (उणा-८८८) ॥ इति इत् , “नाम्युत्तरपदस्य च ॥३।२। १०७॥ इत्युदकस्योदः॥ १॥
श्वेतं समोदकम् । श्वेतते श्वेतम् , श्वेतरसमित्यपि; सममुदकं यत्र समोदकम् ॥ १॥ .
तकं पुनः पादजलं
तश्चति द्रुतं गच्छति तक्रं, पुंक्लीबलिङ्गः “ ऋज्यजि-" ॥(उणा-३८८)॥ इति किद् रः; पादेन तुर्याशेन जलं यत्र पादजलम् ॥ १॥
शेषश्चात्रतके कट्वरसारणे।
अर्शोघ्नं परमरसः ॥ मथितं वारिवर्जितम् ॥ ७३ ॥ दधा मथनमात्रसाध्यं माथतम् ॥ १॥ ७३ ॥
सार्पिष्कं दाधिकं सर्पिर्दधिभ्यां संस्कृतं कमात् ।
सर्पिषा संस्कृतं सार्पिष्कम् , दना संस्कृतं दाधिकम् “संस्कृते" ॥६।४।३॥ .इतीकण् ॥ १ ॥१॥
लवणोदकाभ्यां दकलावणिकं उदकलवणाभ्यां संस्कृतं दकलावणिकं ,बाहुलकादुत्तरपदवृद्धिः ॥ १ ॥ उदाश्चिति ॥ ७४ ॥
औदश्वितमौदश्वित्कं .... उदश्विति संस्कृतं औदश्वितम् , औदश्वित्कं “वोदश्वितः” ॥ ६।२।१४४ ॥
इतीकण , पक्षेऽण् ॥ १ ॥ २ ॥ ७४ ॥
Page #170
--------------------------------------------------------------------------
________________
१७०
अभिधानचिन्तामणौ
लवणे स्यात् तु लावणम् । लवणे संस्कृतं लावणम् “संस्कृते भक्ष्ये" ॥६।२।१४०॥ इत्यण् ॥ १॥
पैठरोख्ये उखासिद्धे - उखायां स्थाल्यां सिद्धे संस्कृते; पिठरे संस्कृतं पैठरम् ॥१॥ उखायां संस्कृतम्ख्यम् “शूलोखाद् यः” ॥६।२।१४१॥ इति यः ॥ २ ॥
प्रयस्तं तु सुसंस्कृतम् ॥ ७५ ॥ परिव्ययपाकादिना प्रयत्नसाध्यं प्रयस्तम् , सुष्ठु संस्कृतम् ॥ १ ॥ ७५ ॥
पक्के राद्धं च सिद्धं च पच्यते स्म पक्वम् , तत्र ; उत्तरत्र 'विनाऽम्बुना' इति वचनादिहाऽम्बुनेति लभ्यते ॥ १ ॥ राध्यति स्म राद्धम् ॥ २ ॥ सिध्यति स्म सिद्धम् ॥ ३ ॥
भृष्टं पक्कं विनाऽम्बुना । भृज्ज्यते स्म भृष्टम् , जलेन विना पक्वम् ॥ १॥
भृष्टामिषं भटित्रं स्याद्भतिर्भरूटकं च तत् ॥ ७६ ॥ भृष्टं यदङ्गारेषु विपक्कं मांसं तत् ; भटत्यनेन भुटित्रम् “बन्धिवहि." ॥ (उणा-४५९) ॥ इतीत्रः ॥ १॥ भवति बलमनया भूतिः ॥ २॥ बिभर्ति बलं भरूटकम् “कीचकपेचक-"॥ (उणा-३३) ॥ इत्यके निपात्यते ॥ ३ ॥ ७६ ॥
शूल्यं शूलाकृतं मांसं . शूले संस्कृतं शूल्यम् “शूलोखाद् यः " ॥६।२।१४१॥ इति यः ॥ १॥ शूलाक्रियते स्म पाकाय शूलाकृतम् “शूलात् पाके" ॥॥२॥१४२॥ इति डाच् । भन्ये तु सामान्यविशेषभावं परिहत्य अनयोभटित्रेणैकार्थतामाहुः ॥ २ ॥
निष्क्वाथो रसकः समौ। निष्क्वाथो मांसस्य; प्रस्तावात् ॥ १॥ रसः पिष्टमांसजस्तत्तुल्यो रसकः ॥२॥
प्रणीतमुपसंपन्नं प्रणीयते स्म प्रणीतं रूपरसादिनिष्पन्नमन्नम् ॥१॥ उपसंपद्यते स्म उपसंपन्नम् ॥२॥
स्निग्धे मसृणचिक्कणे ॥ ७७ ॥ स्निह्यति स्म स्निग्धः, तत्र ॥ १ ॥ मस्यति मसृणं "भ्रूणतृण-" ॥ ( उणा१८६ ) ॥ इति णे निपात्यते ॥ २ ॥ चीयते चिक्कणं “चिक्कणकुक्कण-" ॥ ( उणा-१९० ) इति अणे निपात्यते, चिगिल्यव्यक्त कणति वा । कौशिकस्तु-चिक इत्यस्याणे चिकणमिच्छति ॥ ३ ॥ ७ ॥
Page #171
--------------------------------------------------------------------------
________________
३ मर्त्यकाण्ड:
मिच्छिलं तु विजिविलं विज्जलं विजिलं च तत् ।
पिच्छ । आचामोsस्याऽस्ति पिच्छिलं " लोमपिच्छादेः शेलम् " ॥ ७ । २ । २८ ॥ इतीलः ॥ १ ॥ विजते चलति विजिविलम्, विजिलं च " स्थण्डिलकपिल-” ॥ ( उणा - ४८४ ४ ) ॥ इतीलान्तौ निपात्येते ॥ २ ॥ ३ ॥ विज् चलं जलं यत्र विज्जलम्, विजिपिल मित्यपि ॥ ४ ॥
१७१
भावितं तु वासितं स्यात्
भ्रूण अवकल्कने भाव्यते द्रवद्रव्येण मिश्रीक्रियते स्म भावितम् ॥ १ ॥ वास्यते द्रव्यान्तरेण मिल्यते, धूपपुष्पादिना वाऽधिवास्यते वासितम्, यन्मुनिः'धूपितं वासितं विदुः ॥ २॥
तुल्ये संसृष्टशोधिते ॥ ७८ ॥
संमृज्यते स्म संमृष्टं बालमक्षिकादिरहितम् ॥ १ ॥ शोध्यते स्म शोधितम् ॥ २ ॥ ७८ ॥
काञ्चिकं काञ्जिकं धान्याम्लारनाले तुषोदकम् । कुल्माषाभिषुतावन्तिसोमशुक्तानि कुञ्जलम् ॥ ७९ ॥ चुकं धातुन्नमुन्नाहं रक्षोघ्नं कुण्डगोलकम् । महारसं सुवीराम्लं सौवीरं
कञ्चयति दीपयति अग्निं, कञ्चते बध्नाति दोषान् वा काञ्चिकं “ कुषिकह दिक - ॥ ( उणा -- ४५ ) ॥ इतीके निपात्यते, काञ्च्यां पुरि भवं वा ॥ १ ॥ चस्य जत्वे पञ्जिकावत् काञ्जिकं, कं जलमनक्तीति वा ॥ २ ॥ धान्यमम्लयति धान्याम्लम् ॥ ३ ॥ अरनालोऽरभक्तं तज्ज्ञमारनालम् ॥ ४ ॥ तुषाणामुदकं तुषोदकम् ॥ ५ ॥ कुल्माषैर्यवादिभिरर्द्धखिन्नैरभिषूयते परिवास्यते स्म कुल्माषाभिषुतः, व्यस्तमपि तेन कुल्माषमभिषुतं चेति ॥ ६ ॥ अवन्तिषु सूयते अवन्तिसोमम् ॥७॥ शक्नोति निर्मलीकर्तुम्, शोचति निर्मलीभवत्यनेन वा शुक्तं “ पुतपित्त-” ॥ (उणा२०४) ॥ इति ते निपात्यते ॥ ८ ॥ कुञ्ज लाति कुञ्जलम्, कुत्सितं जलमस्य पृषोदरादित्वात् ॥ ९ ॥ ७९ ॥ चकते तृप्यत्यनेन चुक्रं, पुंक्लीबलिङ्गः, “ चकिरमिविकसेरुच्चाऽस्य ॥ ( उणा -- ३९३ ) ॥ इति रः ॥ १० ॥ धातून् हन्ति धातुघ्नं “ अचित्ते " ॥ ५ । १ । ८३ ॥ इति टक् ॥ ११ ॥ उन्नह्यत्यनेन उन्नाहम् ॥ १२ ॥ रक्षांसि हन्ति रक्षोन्नम्, तद्योगे आधिदैविकदोषाभावात् ॥ १३॥ कुण्डं गुडति रक्षति लत्वे कुण्डगोलकम् ॥ १४ ॥ महान् रसोऽत्र महारसम् ॥ १५ ॥ सुवीरेष्वम्लं सुवीराम्लम् ॥ १६ ॥ सुवीरेषु प्रायो भवं सौवीरम् ॥ १७ ॥
वा,
""
Page #172
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणौ- .
शेषश्चात्रकुल्माषाभिषुते पुनः । गृहाम्बु मधुरा च ॥
म्रक्षणं पुनः ॥ ८० ॥ । तैलं स्नेहोऽभ्यञ्जनं च
म्रक्ष्यतेऽनेन म्रक्षणम् ॥ १॥ ८० ॥ तिलानां विकारस्तैलम् , स्निह्यत्यऽनेन स्नेहः, पुंक्लीबलिङ्गी ॥ २ ॥ ३ ॥ अभ्यज्यतेऽनेन अभ्यञ्जनम् ॥ ४॥ .
वेषवार उपस्करः । वेषं व्याप्तिं वृणीते वेषवारः, काशमर्दत्रिकटुकादि ॥ १॥ शाकाद्युपस्क्रि. यतेऽनेन उपस्करः “पुनानि.” ॥ ५ । ३ । १३० ॥ इति घः ॥ २ ॥ . तद्भेदानाह
' स्यात् तिन्तिडीकं तु चुकं वृक्षाम्लं चाम्लवेतसे ॥ ८१ ॥
तिम्यति आर्दीभवति तिन्तिडीकं " सृणीकाऽस्तीक-" ॥ ( उणा--५० ) ॥ इतीके निपात्यते, तिन्तिडिशैलभवं वा ॥ १॥ चकते तृप्यत्यऽनेन चुक्रम् , पुंक्तीबलिङ्गः ॥ २ ॥ वृक्षस्याम्लं वृक्षाम्लम् ॥ ३ ॥ अम्लवेतसवृक्षनिर्यासोऽम्लवेतसः, तत्र ॥ ४ ॥ ८१ ॥
हरिद्रा काञ्चनी पीता निशाख्या वरवर्णिनी। हरिं पीतं वर्ण द्राति गच्छति हरिद्रा ॥१॥ काञ्चनवर्णत्वात् काश्चनी ॥२॥ पीता पीतवर्णेन ॥ ३ ॥ निशाख्यति रात्रिपर्याया ॥ ४ ॥ वरो वर्णोऽस्त्यस्या वरवर्णिनी ॥५॥
क्षवः क्षुताभिजननो राजिका राजसर्षपः ॥ ८२॥
असुरी कृष्णिका चासौ .क्षौत्यनेन क्षवः ॥ १॥ क्षुतमभिजनयति क्षुताभिजननः ॥२॥ राजते राजिका ॥ ३ ॥ सर्षपाणां राजा राजसषपः, राजदन्तादित्वात् पूर्वनिपातः ॥ ४ ॥ ८२ ॥ अस्यते शाकादौ असुरी “वाश्यसि-" ॥ (उणा--४२३) ॥ इत्युरः; असुरनीव वा ॥ ५॥ कृष्णेव कृष्णिका वर्णेन ॥ ६॥
कुस्तुम्बुरु तु धान्यकम् ।
धन्या धन्याकं धान्याकं । कुत्सिता तुम्बुरुः कुस्तुम्बुरुरौषधिजातिः वर्चस्कादित्वात् ; तत्फलमपि कुस्तुम्बुरु, पुंक्लीबलिङ्गः ॥ १॥ धान्यमिव धान्यकम् ॥ २॥ धने साधुर्धन्या ॥३॥ धन्यमकति धन्याकम् ॥ ४ ॥ धान्यमकति धान्याकम् ॥ ५॥ .
Page #173
--------------------------------------------------------------------------
________________
'३ मर्त्यकाण्डः ।
शेषवात्र -- अथ स्यात् कुस्तुम्बुरुरल्लका ॥ मरिचं कृष्णमूषणम् || ८३ ॥ कोलकं वेल्लजं धार्मपत्तनं यवनप्रियम् ।
॥ ( उणा - ११७ ) । इतीचः ऊषति रुजति ऊषणम् ॥ ३ ॥
म्रियते जिह्वाऽनेन मरिचं " मृत्रपिभ्यो - " ॥ १ ॥ कृष्णं वर्णेन कर्षति तैक्ष्ण्याद् वा ॥ २ ॥ ८३ ।। कोलति संस्त्यायति कोलकम् ॥ ४ ॥ वेल्ले वेल्लातटे जायते वेल्लजम्, रूयः शाखीत्येके ॥ ५ ॥ धर्मपत्तने भवं धार्मपत्तनम् ॥
वेला
॥ यवनानां प्रियं
यवनप्रियम् ॥ ७ ॥
शेषवात्र - मरिचेतु द्वारवृत्तं मरीचं बलितं तथा ॥
शुण्ठी महौषधं विश्वा नागरं विश्वभेषजम् ॥ ८४ ॥
१७३
शुण्ठति शुष्यति शुण्ठिः, " किलिपिलि-" ॥ ( उणा - ६०८ ) ॥ इति इः,
"
डयां तु शुण्ठी ॥ १ ॥ महश्च तदौषधं च महौषधम् ॥ २ ॥ विशति दोषान् विश्वा, स्त्रीक्ली बलिङ्गः " नीघृषीष्यृ ” ॥ ( उणा - ५११ ) ॥ इति किः ॥ ३ ॥ नगराख्ये देशे भवं नागरम्, न न गिरति कफमिति वा नखादित्वात् ॥ ४ ॥ विश्वस्य भेषजं विश्वभेषजम्, अनेकदोष जित्त्वात् ॥ ५ ॥ ८४ ॥
वैदेही पिप्पली कृष्णोपकुल्या मागंधी कणा ।
विदेहेषु भवां वैदेही ॥ १ ॥ पलत्यातुरं पिप्पली "पृपलिभ्यां टित् पिप् पूर्वस्य ॥ ( उणा - ११) ॥ इत्यः ॥ २ ॥ कृष्णा वर्णेन कर्षति कफं वा ॥ ३ ॥ उपकोलति संस्त्यायति उपकुल्या "कुले च वा " ॥ ( उणा - ३६२ ) ॥ इति किद् यः || ४ || मगधेषु भवा मागधी ॥ ५ ॥ कणाः सन्त्यस्याः कणा ॥ ६ ॥
,
शेषवात्र
पिप्पल्यामूषणा शौण्डी चपला तीक्ष्णतण्डुला । . उषणा तण्डुलफला कोला च कृष्णतण्डुला ॥ १ ॥
तन्मूलं ग्रन्थिकं सर्वग्रन्थिकं चटिकाशिरः || ८५ ॥
तन्मूलं पिप्पलीमूलम्, प्रन्थिप्रतिकृतिः प्रन्थिकम् ॥ ॥ सर्वे प्रन्थयोsx सर्वप्रन्थिकम् ॥ २ ॥ चटिकाशिरोरूपत्वात् चटिकाशिरः ॥ ३ ॥ ८५ ॥
त्रिकटु व्यूषणं व्योषं
त्रीणि कटूनि ऊषणानि च शुण्ठीमरिचपिप्पल्याख्यानि समाहृतानि त्रिकट, त्र्यूषणम्, त्रिकटुकमपि ॥ १ ॥ २ ॥ विशेषेण ओषति दहति व्योषम् ॥ ३॥ अजाजी जीरकः कणा ।
Page #174
--------------------------------------------------------------------------
________________
१७४
अमिधानचिन्तामणौ___अजं खाभाविकं मन्दामित्वमजति क्षिपति अजाजी, लिहादित्वादचि अजेर्वीने भवति ॥ १॥ जयति मन्दाग्नित्वं जीरः “चिजि-"॥ (उणा-३९२)॥ इति रे दीर्घत्वम् , ततः के, जीरकः, पुंक्लीवलिङ्गः ॥ २ ॥ कणाः सन्त्यस्याः कणा ॥३॥
शेषश्चात्र-जीरे जीरणजरणौ ॥ - सहस्रवेधि वाल्हीकं जतुकं हिङ्गु रामठम् ॥ ८६ ॥
सहस्रं बहु वेधयति सहस्रवेधि ॥ १॥ वाल्हीके उदीच्यदेशे भवं वाल्हीकम् ॥ २ ॥ जायते जतुकं “कञ्चुकांशुक-" ॥ (उणा-५७) ॥ इत्युके निपात्यते ॥ ३ ॥ हिनोति नासां हिङ्गः, पुंक्लीबलिङ्गः "हर्हिन् च" ॥ ( उणा-७६० ) ॥ इति गुः ॥ ४ ॥ रमठे उदीच्यदेशे भवं रामठम् ॥ ५ ॥
शेषश्चात्रहिौ तु भूतनाशनम् । भगूढगन्धमत्युप्रम् ॥ ८६ ॥ न्यादः स्वदनं खादनमशनं
निघसो वस्भनमभ्यवहारः । जग्धिर्जक्षणभक्षणलेहा
प्रत्यवसायं घसिराहारः ॥ ८७ ॥ प्सानाऽवष्वाणविष्वाणा भोजनं जेमनादने । न्यादनं न्यादः "न्यादो नवा" ॥५।३।२४॥ इत्यलि निपात्यते ॥१॥ खद्यते खदनम् ॥ २ ॥ खाद्यते खादनम् ॥ ३ ॥ अश्यतेऽशनम् ॥ ४ ॥ न्यदनं निघसः “घस्ल सनातनी-" ॥४।४।१७॥ इत्यलि अदेघस्लः ॥ ५॥ वल्भ्यते वल्भनम् ॥ ६ ॥ अभ्यवहरणमभ्यवहारः ॥ ७ ॥ अदनं जग्धिः “यपि चादो जग्ध ॥४।४।१६॥८॥ जक्ष्यते जक्षणम् ॥ ९॥ भक्ष्यते भक्षणम् ॥ १०॥ लेहनं लेहः ॥ ११ ॥ प्रत्यवसीयते प्रत्यवसानम् ॥ १२ ॥ घसनं घसिः "पदिपठि-" ॥ (उणा६०७) ॥ इति इः ॥ १३ ॥ आहारणमाहारः ॥ १४ ॥ ८७ ॥ प्सायते प्सानम् ॥१५॥ अवष्वणनमवष्वाणः; विष्वणनं विष्वाणः, "व्यवात्स्वनोऽशने" ॥२॥३॥४३॥ इति षत्वम् ॥ १६ ॥ १५ ॥ भुज्यते भोजनम् ॥ १८ ॥ जिम्यते जेमनम् , जवनं च। यद् दुर्गः-'जवनं भोजनं क्वचित् ॥ १९ ॥ अद्यते अदनम् ॥ २०॥
चर्वणं चूर्णनं दन्तैः चर्वत्ये चर्वणम् ॥ १॥
जिहाऽऽस्वादस्तु लेहनम् ॥ ८८ ॥ जिहया आखादनं जिह्वाऽऽखादः; लियते लेहनम् ॥ १॥ ८८ ॥
Page #175
--------------------------------------------------------------------------
________________
३ मर्यकाण्डः ।
कल्यवर्तः प्रातराशः कल्ये प्रभाते वय॑ते कल्यवर्तः ॥ १॥ प्रातरशनं प्रातराशः ॥ २ ॥
सग्धिस्तु सहभोजनम् । सह जग्धिर्भोजनं सग्धिः; स्त्रीलिङ्गः, पृषोदरादित्वात् ॥ १ ॥ २॥
प्रासो गुडेरकः पिण्डो गडोलः कवको गुडः ॥ ८९ ॥
गण्डोलः कवलः प्रस्यते प्रासः ॥ १॥ गुड्यते गुडेरः “ कुगुपति-" ॥ ( उणा-४३१) । इति किदेरः; के गुडेरकः ॥२॥ पिण्ड्यते पिण्डः, पुंस्त्रीलिङ्गः ॥ ३ ॥ गज्यते गडोलः “ पिञ्छोल-” ॥ ( उणा-४९५)॥ इत्योले निपात्यते ॥४॥ कौत्यनेन कवकः “दृकृ." ॥ ( उणा-२७) ॥ इत्यकः ॥ ५॥ गुडति गुडः; गूयते वा ॥ ६ ॥ ॥ ८९ ॥ गण्डति वदनैकदेशे भवति गण्डोलः “ कटिपटि-" ॥ ( उणा-४९३ ) ॥ इत्योलः ॥ ७ ॥ कौत्यनेन कवलः, पुंक्लीबलिङ्गः, “ कोर्वा " ॥ ( उणा-४६९)॥ इत्यलः ॥ ८॥
तृप्ते त्वाधातसुहिताऽऽशिताः। तृप्यति तृप्तस्तत्र ॥ १॥ आध्रायति स्म आध्रातः, आध्राणोऽपि ॥२॥ सुष्ठ दधाति स्म सुहितः ॥ ३ ॥ आ अश्नाति स्म आशितः ॥ ४ ॥
तृप्तिः सौहित्यमाध्राणम् तर्पणं तृप्तिः ॥ १॥ सुहितस्य भावः सौहित्यम् ॥ २ ॥ आध्रायते आध्राणम् ॥ ३॥ ___ अथ भुक्तसमुज्झिते ॥ ९० ॥
फेला पिण्डोलिफेली च __ भुक्तं च तत् समुज्झितं च भुक्तसमुज्झितं भुक्तोच्छिष्टं तत्र ॥१॥९० ॥ फेल्यते त्यज्यते फेला "क्तेट:-" ॥ ५ । ३ । १०६ ॥ इत्यः ॥ २ ॥ पिण्ड्यते पिण्डोलिः, बाहुलकादोलिः । फेल्यते फेलिः, स्त्रीलिङ्गो, “ नाम्युपान्त्य-'॥ (उणा.६०९) ॥ इति किः ॥३॥ ४ ॥
खोदरपूरके पुनः । कुक्षिम्भरिरात्मम्भरिरुदरम्भरिरप्यथ ॥ ९१ ॥ स्वमेवोदरं पूरयति यस्तत्र कुक्षिमात्मानमुदरमेव च बिभर्ति कुक्षिम्भरिः, आत्मम्भरिः; उदरम्भरिः “ कुक्ष्यात्मोदरात् भृगः खिः ''॥ ५ । १ । ९० ॥ इति • खिः ॥ १॥ २ ॥ ३ ॥ ९१ ॥
Page #176
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणी
आयुनः स्यादौदरिकः विजिगीषाविवर्जिते । ईषद्दीव्यति स्म आयूनः " पूदिव्यश्चेः-" ॥ ४ ॥ २ ॥ ७२ ॥ इति क्तस्य नत्वे " अनुनासिके च." ॥ ४ ॥ १ ॥ १०८ ॥ इति व ऊट् ॥ १॥ उदरे प्रसक्त औदरिकः “ उदरे विकणायूने " ॥ ७॥ १ । १८१ ॥ इतीकण् ॥ २ ॥
. उदरपिशाचः सर्वान्नीनः सर्वान्नभक्षकः ॥ ९२ ॥
उदरे पिशाच इव प्रसक्त उदरपिशाचः ॥ १॥ सर्वप्रकारमन्नं सर्वानं तदति सर्वानीनः “ सर्वान्नमत्ति" ॥ ७॥ १ ॥ ९८ ॥ इति ईनः ॥ २ ॥ सर्वाअस्य भक्षयिता सर्वान्नभक्षकः ॥ ३ ॥ ॥ ९२ ॥
शाष्कुलः पिशिताशी
शष्कुली मांसोपलक्षणं, तामत्ति शाकुलः ‘शौष्कलः' इति भागुरिः ॥ १ ॥ पिशिताशी मांसभक्षकः ॥ २॥
... उन्मदिष्णुस्तून्मादसंयुतः ।। उन्मादशील उन्मदिष्णुः “ उदः पचि-" ॥ ५।२।२९ ॥ इतीष्णुः ॥ १ ॥
गृध्नुस्तु गर्धनस्तृष्णक् लिप्सुक्षुब्धोऽभिलाषुकः ॥१३॥ ....... लोलुपो लोलुभः
गर्धनशीलो गृघ्नुः " त्रसिगृधि-" ॥ ५।२।३२ ॥ इति क्नुः, “भूषा-" ॥ ५।२।४२ ॥ इत्यने गर्धनः ॥ १।२ ॥ तृष्णाशीलः तृष्णक् ॥ ३ ॥ लब्धुमिच्छु. लिप्सुः ॥ ४ ॥ लुभ्यति स्म लुब्धः ॥ ५॥ अभिलषणशीलोऽभिलाषुकः ॥६॥९३॥ लुप्यतेलृभ्यतेश्च यङ्लुबन्तादचि लोलुपः; लोलुभः । एतौ पृथगावित्येके ॥७॥८॥ शेषश्चात्र-लिप्सौ लालसलम्पटौ। .
लोलः ॥, , :. लोभस्तृष्णा लिप्सा वशः स्पृहा । . काङ्क्षाऽऽशंसागर्धवाञ्छाऽऽशेच्छेहातृड्मनोरथाः ॥ ९४ ।।
कामोऽभिलाषः
लोभनं लोभः ॥ १॥ तर्षणं तृष्णा ॥ २ ॥ लब्धुमिच्छा लिप्सा ॥ ३ ॥ वशनं वशः “युवर्ण-" ॥ ५।३।२८ ॥ इत्यल् ॥ ४ ॥ स्पृहणं स्पृहा “भीषिभूषि." ॥ ५।३।१०९ ॥ इत्यङ् ॥ ५॥ काङ्क्षणं काङ्क्षा ॥ ६ ॥ आशंसनमाशंसा ॥७॥ गर्धन गर्धः ॥ ८ ॥ वाञ्छनं वाञ्छा ॥ ९ ॥ आ श्यति अनया आशा “ उपसर्गादातः ॥५।३।११० ॥ इत्यङ् ॥१०॥ एषणमिच्छा “ मृगयेच्छा-" ॥५।३।१०१॥ इति साधुः ॥ ११ ॥ ईहनमीहा " क्तेट:." ॥ ५।३।१०६ ॥ इत्यः; घनि ईहो
Page #177
--------------------------------------------------------------------------
________________
३ मर्यकाण्डः ।
ऽपि ॥ १२ ॥ तर्षणं तृट् ॥ १३ ॥ मन एव रथो दूरगामि यत्र मनोरथः; मनोगवी च ॥१४॥९४॥ कमनं कामः, पुंकीबलिङ्गः ।।१५।। अभिलषणमभिलाषः॥१६॥ शेषश्चात्र-लिप्सा तु धनाया।
रुचिरीप्सा तु कामना ॥ अभिध्या तु परखेहा अभिचारेण ध्यानमभिध्या; परस्वविषया स्पृहा परखेहा; परखे विषमस्पृह्त्येके । दोषचिन्तापूर्व परखे लिप्सेत्यर्थः । यत्कात्यः- 'विषमप्रार्थनाऽभिध्या'॥१॥
उद्धतः पुनः ।
अविनीतः उत्कण्ठं हन्ति गच्छति हिनस्ति वा उद्धतः ॥ १॥ न विनीतोऽविनीतः॥२॥
विनीतस्तु निभृतः प्रश्रितोऽपि च ॥ ९५ ॥
शास्त्रादिना विनीयते स्म विनीतः ॥ १॥ निभृतोऽचपलः ॥ २ ॥ प्रश्रयति स्म प्रश्रितः ॥ ३ ॥ ९५ ॥
विधेये विनयस्थः स्यात् . विधातव्यो विधेयस्तत्र ॥ १ ॥ विनयः शास्त्रजः संस्कारः; इन्द्रियजयो वा तत्र तिष्ठति विनयस्थः ॥ २॥
आश्रवो वचने स्थितः । आशृणोति वाक्यमाश्रवः, वचनश्रवणे तत्परः ॥ १॥
वश्यः प्रणेयः
वशं गतो वश्यः “ हृद्यपद्य-" ॥७।१।११। इति यः ॥१॥ प्रणेतव्यः प्रणेयः . ॥ २ ॥ ‘विधेयादयः षडेकार्थाः' इत्येके।
धृष्टस्तु वियातो धृष्णुधृष्णजौ ॥ ९६ ॥ . धृष्णोति प्रगल्भते धृष्टः “ धृषशसः- " ॥ ४।४।६६ ॥ इतीडभावः ॥१॥ विरुद्धं, याति स्म वियातः ॥ २ ॥ धर्षणशीलो धृष्णुः “ त्रसिगृधि-" ॥५।२॥३२॥ ... इति क्नुः, “तृषिधृषि-" ॥ ५।२।८० ॥ इति नजिङि धृष्णक् ॥३॥४॥९६॥ . वीक्षापन्नो विलक्षः
वक्षिं विस्मयमापनः प्राप्तः वीक्षापन्नः ॥१॥ विरुद्धं लक्षयते; विगतं लक्षमस्य वा विलक्षः, निष्प्रतिपत्तिरित्यर्थः ॥ २ ॥ : अथाधृष्टे शालीनशारदौ ।
Page #178
--------------------------------------------------------------------------
________________
१७८
अभिधानचिन्तामणौ
न धृष्णोति अधृष्टस्तत्र ॥ १॥ शालाप्रवेशनमर्हति शालीनः “शालीनकौपीन-" ॥ ६।४।१८५ ॥ इति निपात्यते ॥ २ ॥ शारदो नव इव सर्वत्र शारदः, . स्खलद्गतित्वात् ॥ ३॥
शुभंयुः शुभसंयुक्तः शुभमिति विभक्त्यन्तप्रतिरूपकमव्ययं; शुभमस्याऽस्ति शुभंयुः "ऊर्णाऽहम्-" ॥ ७॥२।१७ ॥ इति युस् ॥१॥
स्यादहंयुरहंकृतः ॥ ९७ ॥ अहमित्यव्ययम् ; अहमस्याऽस्ति अहंयुः ॥१॥ अहंकारी ॥२॥९॥ ..
कामुकः कमिता कम्रोऽनुकः कामयिताऽभिकः ।
कामनः कमरोऽभीकः कमनशीलः कामुकः “ शकम-"॥ ५।२।४० ॥ इत्युकण् , तृनि कमिता; कामयिता च, “ स्म्यजस-" ॥ ५।२।७९ ॥ इति रे कम्रः ॥१॥२॥३॥४॥ अनु कामयते अनुकः “ अनोः कमितरि" ॥ ७।१।१८८ ॥ इति कः ॥ ५॥ अभि कामयतेऽभिकः; अभीकश्च “अभेरीश्च वा" ॥११८९॥ इति के साधू ॥६॥७॥ " इष्टितः " ॥५।२।४४॥ इत्यने कामनः; कमनोऽपि ॥ ८॥ कामयते कमरः " ऋच्छिचटि" ॥ ( उणा-३९७ ) इत्यरः ॥ ९॥ .
पञ्चभद्रस्तु विप्लुतः ॥९८॥
व्यसनी पञ्च भद्राणि कल्याणानि अस्य पञ्चभद्रोऽभद्रः; विपरीतलक्षणया भद्रमुखवत् ॥१॥ विप्लवते स्म विप्लुतः ॥२॥९८॥ द्यूतपरस्त्रीप्रमुखाणि व्यसनान्यस्य सन्ति व्यसनी ॥ ३ ॥
हर्षमाणस्तु प्रमना हृष्टमानसः ।
विकुर्वाणः हर्षति इत्येवंशीलो हर्षमाणः “वयःशक्ति." ॥ ५। २ । २४ ॥ इति शानः ॥१॥ प्रहृष्टं मनोऽस्य प्रमनाः ॥ २ ॥ हृष्टं मानसमस्य हृष्टमानसः ॥ ३ ॥ हर्षाद् विकारं याति विकुर्वाणः ॥ ४ ॥
विचेतास्तु दुरन्तर्विपरो मनाः ॥ ९९ ॥ विरुद्धं चेतोऽस्य विचेताः ॥ १॥ दुरन्तर्विभ्यः परो मनःशब्दः दुर्मनाः; अन्तर्मनाः; विमनाः; दुष्टमन्तीनं विरुद्धं च मनोऽस्येति कृत्वा ॥ २॥३॥४॥९९ ॥
Page #179
--------------------------------------------------------------------------
________________
. ३ मर्त्यकाण्डः।
१७९
मत्ते शौण्डोत्कटक्षीवाः मद्येन माद्यति स्म मत्तस्तत्र ॥ १ ॥ शुण्डा मदिरा तस्यां भवः शौण्डः; शुण्डाऽस्त्यस्य वा, ज्योत्स्नादित्वादण् ॥ २ ॥ उद्रिक्तः उत्कटः “संप्रोन्नेः-" ॥ ७॥ १। १२५ ॥ इति कटः; उत्क्रान्तकटीच्छादनो वा ॥३॥ क्षीबते क्षीबः " अनुपसर्गाः-" ॥ ४ । २ । ८० ॥ इति के निपात्यते ॥ ४ ॥
उत्कस्तृत्सुक उन्मनाः।
उत्कण्ठितः उद्गतं मनोऽस्य उत्कः “ उदुत्सोः-” ॥ ॥१।१९२ ॥ इति कः ॥१॥ उद्गतं मनोऽस्य उत्सुकः “ उदुत्सोरुन्मनसि" ॥ १।१९२ ॥ इति कः ॥ २ ॥ उद्गतं मनोऽस्य उन्मनाः ॥ ३ ॥ उत्कण्ठा संजाताऽस्योत्कण्ठितः ॥ ४ ॥ 'इष्टार्थोयुक्त उत्सुकः' इत्यमरः पृथगाह ।।
__ अभिशस्ते तु वाच्यक्षारितदूषिताः ॥ १० ॥ __अभिशस्यते स्माभिशस्तस्तत्र ॥ १॥ वननीयो वाच्यः ॥ २ ॥ क्षार्यते खरूपाच्चाल्यते स्म क्षारितोऽलीकोत्पन्नपातकन्यपदेशः; आक्षारितोऽपि ॥ ३ ॥ दूष्यते स्म दूषितः, मैथुनं प्रतीत्येके ॥ ४ ॥ १०॥
गुणैः प्रतीते त्वाहतलक्षणः कृतलक्षणः । आहतान्युद्धोषितानि लक्षणान्यस्य आहतलक्षणः ॥ १॥ कृताः प्रसिद्धा लक्षणरूपा गुणा अस्य कृतलक्षणः ॥ २॥
निर्लक्षणस्तु पाण्डुरपृष्ठः - निर्गतानि लक्षणान्यस्य निर्लक्षणः ॥ १॥ पाण्डुरं निर्लक्षणं पृष्ठमस्य पाण्डुरपृष्ठः ॥ २॥
. संकसुकोऽस्थिरे ॥ १०१ ॥ . संकसति संकसुकः “ संविभ्यां कसेः" ॥ ( उणा-५२ ) ॥ इत्युकः ॥१॥ अस्थिरवपलस्तत्रं ॥ २ ॥ १.१॥
- तूष्णींशीलस्तु तूष्णीकः
तूष्णींभावः शीलमस्य तूष्णीकः " तूष्णीकः " ॥६।४।६१॥ इति के निपात्यते ॥ १॥२॥ .
विवशोऽनिष्टदुष्टधीः। विरुद्धं वष्टि कामयते विवशः; अनिष्टा दुष्टा च धीर्यस्य स तथा ॥ १ ॥
बद्धो निगडितो नद्धः कीलितो यन्त्रितः सितः ।। १०२॥
Page #180
--------------------------------------------------------------------------
________________
१८०
अभिधानचिन्तामणौ
संदानितः संयतश्च बध्यते स्म बद्धः ॥१॥ निगन्यते निगडितः ॥२।। नद्यते स्म नद्धः ॥ ३ ॥ फील्यते स्म कीलितः ॥ ४ ॥ यथ्यते यन्त्रितः ॥ ५॥ सीयते स्म सितः ॥६॥ १०२ ।। संदान्यते स्म संदानितः ॥ ७ ॥ संयम्यते संयतः ॥ ८ ॥
स्यादुद्दानं तु बन्धनम् । 'दोंच छेदने' 'देंङ् पालने' वा उद्दीयते उद्दानम् ॥॥ बध्यतेऽनेन बन्धनम् ॥ २॥
मनोहतः प्रतिहतः प्रतिबद्धो हतश्च सः ॥ १०३ ॥
मनसि हतो मनोहतः ॥१॥ प्रतिहन्यते स्म प्रतिहतः ॥२॥ प्रतेर्बन्धिः प्रवृत्तनिवारणार्थः; प्रतिबध्यते स्म प्रतिबद्धः ॥३॥ हन्यते स्म हतः ॥४॥१०३।।
प्रतिक्षिप्तोऽधिक्षिप्तः प्रतिक्षिप्यते स्म प्रतिक्षिप्तः ॥ १ ॥ एवमाधिक्षिप्तः ॥ २ ॥
अवकृष्टनिष्कासितौ समौ । ।
अवकृष्यते दूरीक्रियते स्म अवकृष्टः ॥ १॥ निष्कास्यते स्म निष्कासितः, . निस्सारित इत्यर्थः ॥ २ ॥
आत्तगन्धेऽभिभूतः आत्तो गृहीतो गन्धोऽभिमानोऽस्य आत्तगन्धस्तत्र ॥ १॥ अभिभूयते स्माऽ. भिभूतः ॥ २॥
___ अपध्वस्ते न्यक्कृतधिक्कृतौ ॥१०४॥
अपध्वस्यते स्म अपध्वस्तस्तत्र ॥ १ ॥ न्यक्क्रियते स्म न्यक्कृतः ॥ २ ॥ धिक्क्रियते स्म धिक्कृतः ॥ ३ ॥ आत्तगन्धादयः पश्चाप्येकार्थाः इत्येके ॥ १०४ ॥
__निकृतस्तु विप्रकृतः निक्रियते खलीक्रियते स्म निकृतः ॥ १ ॥ एवं विप्रकृतः ।। २ ।।
न्यक्कारस्तु तिरस्क्रिया। परिभावो विप्रकारः परापर्यभितो भवः ॥ १०५ ॥
अत्याकारो निकारश्च न्यकरणं न्यक्कारः ॥ १॥ तिरस्करणं तिरस्क्रिया ॥२॥ परिभवनं परि भावो बाहुलकाद् घञ् ॥ ३ ॥ विप्रकरणं विप्रकारः ॥ ४ ॥ परापभिभ्यः परो
Page #181
--------------------------------------------------------------------------
________________
.. ३ मर्त्यकाण्डः।
१८१
भवः-पराभवः; परिभवः; अभिभवः ॥ ५ ॥ ६ ॥ ७॥ १०५ ॥ अत्याकरणमत्याकारः ॥ ८ ॥ निकरणं निकारः ॥ ९ ॥
विप्रलब्धस्तु वञ्चितः । विप्रलभ्यते स्म विप्रलब्धः ॥ १ ॥ वञ्च्यते स्म वञ्चितः ॥ २॥
खप्नक् शयालर्निद्रालुः खापशीलः स्वप्नक् " तृषिधृषि-" ॥ ५। २ । ८० ॥ इति नजिङ् ॥१॥ शयनशीलः शयालुः; निद्रातीत्येवंशीलो निद्रालुः “ शीशद्धा-" ॥५॥२॥३०॥ इत्यालुः ।। २ ॥ ३ ॥
- घूर्णिते प्रचलायितः ॥ १०६ ॥
घूर्णते स्म घूर्णितस्तत्र ॥ १॥ प्रचला निद्राविशेषो यस्यामुपविष्टोऽपि घूर्णते, अप्रचलावान् प्रचलावान् भवति स्म प्रचलायितः, लोहितादित्वात् क्यङि कः; प्रचलइवाचरितो वा ॥ २ ॥ १०६ ॥
निद्राणः शयितः सुप्तः निद्राति स्म निद्राणः ॥१॥ शेते स्म शयितः ॥२॥ स्वपिति स्म सुप्तः ॥३॥
जागरूकस्तु जागरी। जागरणशीलो जागरूकः “जागुः ॥५॥२॥४८॥ इत्यूकः, जागरिताऽपि ॥१॥ जागरोऽस्त्यस्य जागरी ॥ २॥
जागर्या स्याज्जागरणं जागरा जागरोऽपि च ॥ १०७ ॥
जागर्यते जागर्या, जागरा "जागुरश्च" ॥५।३।१०४॥ इत्ययौ, घत्रि जागरः .. "जागुर्बिणवि" ॥४॥३॥५२॥ इति नियमादत्र वृद्धयभावः ॥४॥१०७॥
विष्वगञ्चति विष्वद्या विष्वक् सर्वतोऽर्थेऽव्ययम् , “ सर्वादिविष्वक्-" ॥३।२।१२२ ॥ इति उद्रौ विष्वद्या ॥१॥
देवव्यङ् देवमञ्चति । स्पष्टम् ॥ १॥
सहाञ्चति तु सध्यङ् स्यात्
“सहसमः-" ॥३।२।१२३॥ इति सध्यादेशे सध्यङ् ॥१॥ - १ 'अयं तालव्यमध्योऽपि ' इति श्रीदेवसागरगणयः
Page #182
--------------------------------------------------------------------------
________________
१८२
अभिधानचिन्तामणौ
तिर्यङ् पुनस्तिरोऽञ्चति ॥ १०८ ॥ " तिरसस्तियति " ॥३।२।१२४॥ इति तिरौ तिर्यङ् ॥१॥१०॥
संशयालुः संशयिता संशयशीलः संशयालुः “ शीङ्-" ॥५॥२॥३७॥ इत्यालुः, सांशयिकोऽपि॥२॥
गृहयालुर्ग्रहीतरि। गृहयते इत्येवंशीलो गृहयालुः ॥ २॥
पतयालुः पातुकः स्यात् पतयतीत्येवंशीलः पतयालुः ॥१॥ पतनशीलः पातुकः “ लषपत-" ॥५।२।४१॥ इत्युकण् ॥ २॥
समौ रोचिष्णुरोचनौ ॥ १०९॥ इष्णुः, अनश्च ॥ १॥२॥१०९ ॥
दक्षिणार्हस्तु दक्षिण्यो दक्षिणीयः दक्षिणामर्हतीति दक्षिणार्हः ॥१॥ दक्षिण्यः, दक्षिणीयः “ दक्षिणाकडङ्गर-" ॥६।४।१८१॥ इति यः, ईयश्च ॥२॥३॥
अथ दण्डितः ।
दापितः साधितः दण्ड्यते स्म दण्डितः ॥ १ ॥ दाप्यते स्म दापितः ॥ २ ॥ एवं साधितः ॥३॥ __ अर्यस्तु प्रतीक्ष्यः अर्चनीयोऽयः पूज्यः ॥ १ ॥ प्रतीक्षणीयो मुख्यत्वात् प्रतीक्ष्यः ॥ २ ॥
पूजितेऽर्हितः ॥ ११०॥
नमस्थितो नमसिताऽपचितावञ्चितोऽर्चितः ।
पूज्यते पूजितः, तत्र ॥ १ ॥ अह्यतेऽर्हितः ॥ २॥११०॥ नमस्क्रियते नमस्थितः, नमसितः “ नमोवरिवः-" ॥३४॥३७॥ इति क्यन् , तस्य क्त "क्यो वा" ॥४।३।८१॥ इति वा लुक् ॥३॥४॥ अपचाय्यतेऽपचितः “अपचितः" ॥४।४।७७॥ इति क्त निपात्यते, अपचायितोऽपि ॥५॥ अञ्च्यतेऽश्चितः॥६॥ अर्यतेऽर्चितः॥७॥
पूजाऽर्हणासपर्याऽर्चाः पूजनं पूजा “ भीषिभूषि-" ॥ ५।३।१०९ ॥ इत्यङ् ॥ १॥ अर्हणादीनां
१ दय् दाने इत्यादिधातोर्दायित इति पाठ इति कलिङ्गपुरुषोत्तमौ" इति व्युत्पत्तिरत्नाकरे।
Page #183
--------------------------------------------------------------------------
________________
. ३ मर्यकाण्डः ।
१८३
द्वन्द्वः, अर्हणमर्हणा ॥ २ ॥ सपरेति धातुः कण्ड्वादौ तस्माद् यकि “ शंसिप्रत्ययात्" ॥ ५।३।१०५ ॥ इत्यप्रत्यये च सपर्या ॥ ३ ॥ अर्चनमर्चा ॥ ४ ॥ शेषश्चात्र-पूजा त्वपचितिः ॥
उपहारबली समौ ॥ १११॥ उपह्रियते देवार्थमुपहारः ॥ १॥ बलत्यनेन बलिः, पुंस्त्रीलिङ्गः “पदिपठि-" ॥ (उणा-६०७) ॥ इतीः ॥२॥१११॥
विक्लवो विह्वलः क्लविर्धातुर्गणाऽपरिसमाप्तेलौकिकः, विक्लवते कातरीभवति विक्लवः ॥ १॥ विरुद्ध ह्वलति विह्वलः ॥ २॥
स्थूलः पीवा पीनश्च पीवरः । तिष्टत्युपचयेन “ स्थाविडेः कित्" ॥ (उणा-४२९) ॥ इत्यूरे स्थूरः, लत्वे स्थूलः, 'स्थूलणि परिवहणे' इत्यस्य वाऽच् ॥ १ ॥ प्यायते पीवा “ध्याप्योर्धीपी च" ॥ ( उणा-९०८) ॥ इति कनिप् ॥ २ प्यायते स्म पीनः “ सूयत्यादि-" ॥४॥२७०॥ इति तस्य नत्वे " क्तयोरनुपसर्गस्य "॥४।१।९२॥ इति प्यायः पीरादेशः ॥३॥ प्यायते पावरः “ तीवरधीवर-" ॥ ( उणा-४४४ ) ॥ इति वरटि निपात्यते ॥ ४॥
चक्षुष्यः सुभगः
चक्षुषे हितश्चक्षुष्यः, यं दृष्ट्वा चक्षुः प्रह्लादते “ प्राण्यङ्गरथ-"॥१॥३७॥ ' इति यः ॥१॥ शोभनो भगो.रूपं श्रीर्वा यस्य स सुभगः ॥ २ ॥
द्वेष्योऽक्षिगतः द्वेषणीयो द्वेष्यः ॥ १ ॥ आक्षगतो यथा किंशारुकादिः खेदकृत् ॥ २ ॥
अथांसलो बली ॥ ११२ ॥
निर्दिग्धो मांसलश्चोपचितः .' अंसावस्य स्तः अंसलः सिध्मादित्वाद् लः ॥१॥ बलमस्त्यस्य बली, बलवानपि ॥२॥११२॥ निर्देग्धि स्म निर्दिग्धः ॥३॥ मांसमस्त्यस्य मांसलः ॥४॥ उपचीयते स्मोपचितः ॥ ५॥
१ "आक्षिगतो यथा किंशारुकादिः खेदकृत् तथाऽयमपीति भावः, अक्षिगतशब्दो यथा प्रियो हितत्वेन व्यपदिश्यते, तथा शत्रुरपि सदा रुषा दृश्यमानत्वात् भाक्षिगतत्वेनेति व्यपदिश्यते इति मिश्राः" इति व्युत्पत्तिरत्नाकरे ।
Page #184
--------------------------------------------------------------------------
________________
__१८४
अभिधानचिन्तामणौअथ दुर्बलः कृशः।
क्षामः क्षीणस्तनुश्छातस्तलिनाऽमांसपेलवाः ॥ ११३।। निन्दितं बलमस्य दुर्बलः ॥ १ ॥ कृश्यति स्म कृशः “अनुपसर्गाः क्षीब-" ॥ ४ । २ । ८० ॥ इति ते निपात्यते ॥ २ ॥ क्षायति स्म क्षामः “शुषि-" ॥४।२।७८॥ इति तस्य मः ॥ ३ ॥ क्षयति स्म क्षीणः “क्षेः क्षी च" ॥४।२।७४॥ इति क्तस्य नः ॥ ४ ॥ तनोति कार्य तनुः “ भृमृतृ-" ॥ ( उणा-७१६ ) ॥ इति उः ॥५॥ छयति स्म छातः ॥६॥ तनोति कार्य तलिनः “विपिनाजिनादयः” ॥ ( उणा-२८४ ) ॥ इतीने निपात्यते ॥ ७ ॥ नास्ति मांसमस्य अमांसः ॥ ८ ॥ पेलति गच्छति क्षामतां पेलवः “वडिवटि-" ॥ ( उणा-५१५) ॥ इत्यवः ॥ ९ ॥ ॥ ११३ ॥
पिचिण्डिलो बृहत्कुक्षिस्तुन्दितुन्दिकतुन्दिलाः ।
उदयुदरिले पिचिण्डोऽस्त्यस्य पिचिण्डिलः, तुन्दादित्वादिलः ॥ १॥ बृहत्कुक्षिरस्य बृहकुक्षिः ॥ २ ॥ तुन्दमस्यास्ति तुन्दी ॥ ३ ॥ तुन्दिकः ॥ ४ ॥ तुन्दिलः । “व्रीह्यर्थतुन्दादेः-" ॥७॥२॥९॥ इति इन् इक् इलश्च ॥ ५॥ एवमुदरी ॥ ६ ॥ उदरिलः, उदरिकोऽपि ॥७॥ तुन्दिरस्याऽस्ति तुन्दिभोऽपीत्यमरः, अत्र तुन्दिशब्दाद् भप्रत्ययश्चिन्त्यः॥
विखविखुविना अनासिके ॥ ११४ ॥ विगता नासिका अस्य विनः ॥ १ विखुः ॥ २ ॥ विप्रः “वेः खुखग्रम्' ॥॥३।१६३॥ इति साधवः ॥ अनासिको नासिकारहितस्तत्र ॥३॥११४॥
नतनासिकेऽवनाटोऽवटीटोऽवभ्रटोऽपि च । नतनासिकश्चिपिटनासिकस्तत्र अवनता नासिकाऽस्याऽवनाटः, अवटीटः, अवभ्रटः, "नासानतितद्वतोष्टीटनाटभ्रटम्" ॥७१।१२७ ॥ इत्यवात् प्रत्ययाः, नासायां नासानमनेऽप्येते वर्तन्ते ॥ १ ॥ २ ॥ ३ ॥
शेषश्चात्रअथ चिपिटो नम्रनासिके ॥
खरणास्तु खरणसः खरा तीक्ष्णा खरस्येव वा नासिका अस्य खरणाः “खरखुराद"-॥॥३।१६०॥ इति नस् समासान्तः ॥१॥ “अस्थूलाद"-॥७॥३।१६१॥ इति नसे खरणसः ॥२॥
नःक्षुद्रः क्षुद्रनासिकः ॥ ११५ ॥
Page #185
--------------------------------------------------------------------------
________________
३ मर्त्यकाण्डः।
१८५
- नासिकायां क्षुद्रो नःक्षुद्रः “ नस् नासिकायाः- " ॥ ३।२।९९ ॥ इति नसादेशः ॥ १॥२॥ ११५ ॥
खुरणाः स्यात् खुरणसः खुराकृतिर्नासिकाऽस्य खुरणाः ॥ १ ॥ खुरणसः विकटघोणः ॥२॥
उन्नसस्तूग्रनासिकः । उन्नता उद्गता वा नासिकाऽस्य उन्नसः “ उपसर्गात् " ॥ ७।३।१६२ ॥ इति नसः समासान्तः ॥१॥
___ पङ्गुः श्रोणः
पायति शुष्यति पादवैकल्यात् पङ्गुः “ प्रीकैपैनीले:- " ॥ (उणा-७६१) ॥ इत्यङ्गुक् ॥ १ ॥ 'श्रोण सङ्घाते' श्रोणति श्रोणः ॥ २ ॥ शेषश्चात्र
पङ्गुलस्तु पीठसी। खलतिस्तु खल्वाट ऐन्द्रलुप्तिकः ॥ ११६ ॥
शिपिविष्टो बभ्रुः
खलन्ति केशा अस्मादिति खलतिः, भीमादित्वादपादाने " खल्यमि-"॥ ( उणा-६५३ ) ॥ इत्यतिः ॥ १ ॥ “कपाटविराट-''॥ ( उणा-१४८ ) ॥ इत्याटे निपातनात् खल्वाटः खलतोऽपि ॥२॥ इन्द्रलुप्तं केशघ्नं तेन चरत्यैन्द्रलुप्तिकः ॥३॥११६॥ शिपिश्चर्म विष्टं दोषव्याप्तमस्य शिपिविष्टः ॥ ४ ॥ बिभर्ति निष्केशितां बभ्रुः “ हनिया-" ॥ (उणा-७३३) ॥ इति किदुर्द्वित्वं ॥ ५ ॥
अथ काणः कनन एकदृक् । 'कणण् निमीलने' काणयति चक्षुः काणः ॥ १॥ कनति दीप्यते एकदृष्टया कननः ॥ २ ॥ एकहक् एकाक्षः ॥३॥
पृश्निरल्पतनौ • पृच्छति पृश्निः “लूधूप्रच्छिभ्यः कित्" ॥ (उणा-६७९) इति निः ॥ १॥ भल्पा तनुरस्य अल्पतनुस्तत्र ॥२॥
शेषश्चात्रकिरातस्त्वल्पवर्मणि .........
___ कुब्जे गडुलः - कूयते कुजो वक्रनताङ्गः " कुवः कुकुनौ च " ॥ ( उणा-१२९ ) ॥ इति
Page #186
--------------------------------------------------------------------------
________________
१८६
अभिधानचिन्तामणौ
जक् ॥ कुत्सितः उब्ज इति वा पृषोदरादित्वात् , तत्र न्युब्जोऽपि॥ १॥ गडुः पृष्ठग्रन्थिरस्यास्ति गडुलः सिध्मादित्वालः ॥ २ ॥
कुकरे कुणिः ॥ ११७ ॥ कुत्सितः करो बाहुरस्य पाणिवैकल्यात् कुकरः तत्र ॥१॥ कुण्यते निन्द्यते कुणिः " नाम्युपान्त्य-" ॥ (उणा-६०९) ॥ इति किदिः ॥ कौतीति वा“ऋत्घृ." ॥ ( उणा-६३५) ॥ इति कित् णिः; कुत्सितः पाणिरस्येति नैरुक्ताः ॥२॥११७॥
निखर्वः खट्टनः खर्वः खर्वशाखश्च वामनः । नितरां खर्वति निखर्वः ॥ १ ॥ 'खट्टण संवरणे' खट्टयति खट्टनः ॥२॥खर्वति खर्वः ॥ ३ ॥ खर्वाः शाखाः करचरणलक्षणा अस्य खर्वशाखः ॥ ४ ॥ वामनशब्दोऽत्र करचरणह्रखे शरीरे वर्तते, ततो वामा अस्यास्ति वामनः "नोऽङ्गादेः"॥॥२॥२९॥ इति नः ॥ ५ ॥ - शेषश्चात्र-खर्वे ह्रस्वः ।
अकर्ण एडो बधिरः अविद्यमानौ कर्णावस्य अकर्णः श्रुतिविकलः ॥ १॥ एडः पशुरिव, आई. ड्यते वा ॥ २ ॥ बन्नाति को बधिरः “शुषीषि-" ॥ (उणा-४१६) ॥ इति किंदिरः ॥ ३ ॥
दुश्चर्मा तु द्विनग्नकः ॥ ११८ ॥
वण्डश्च शिपिविष्टश्च असम्पूर्णत्वात् निन्दितं शेफाग्रस्य चर्माऽस्य दुश्चर्मा, शैशवे निश्चर्माऽप्रशिश्नत्वात् निराच्छादनत्वाच्च ॥ १ ॥ द्विननो द्विनग्नकः ॥ २ ॥ ११८ ॥ वण्डते पिधत्ते वण्डः वनति वा “पञ्चमाड्डः" ॥ ( उणा-१६८) ॥ इति डः ॥ ३ ॥ शिपिश्चर्म विष्टं दोषव्याप्तमस्य शिपिविष्टः ॥ ४ ॥
खोडखोरौ तु खञ्जके। . खोडति गतौ प्रतिहन्यते खोडः 'खोड प्रतीघाते' ॥१॥ खोरति खोरः ॥२॥ खजति खञः, के खञ्जकस्तत्र ॥ ३ ॥
विकलाङ्गस्तु पोगण्डः
विकलाङ्गः ॥ १ ॥ पूयते अपसार्यते पोगण्डः "पूगोगादि:-"॥(उणा-१७४)॥ इत्यण्डः ॥२॥
ऊर्ध्वजुरू जानुकः ॥ ११९ ॥
Page #187
--------------------------------------------------------------------------
________________
३ मर्त्यकाण्डः ।
ऊर्ध्वज्ञश्चापि ऊर्वे जानुनी अस्य ऊर्ध्वजुः ॥१॥११९॥ ऊर्ध्वज्ञः “वोर्ध्वात्"॥३॥७॥१५६॥ इति साधू ॥ ३ ॥
अथ प्रजुप्रज्ञौ विरलजानुके । प्रगते प्रविरले वातादिदोषात् जानुनी अस्य प्रशुः ॥ १॥ प्रज्ञः “संप्रा. जानोर्जुझौ" ॥७।३।१५५॥ इति साधू ॥ २ ॥
- संजुसंज्ञौ युतजानौ सङ्गते जानुनी अस्य संजुः ॥ १ ॥ संज्ञः ॥ २ ॥
वलिनो वलिभः समौ ॥ १२० ॥ चलिस्त्वक्संकोचोऽस्त्यस्य वलिनः अङ्गादित्वान्नः ॥१॥ " वलिवटि"॥७॥२॥१६॥ इति भे, वलिभः ॥ २ ॥ १२० ॥
- उदग्रदन् दन्तुरः स्यात्
उदग्रा दन्ता अस्य उदग्रदन् “वा प्रान्त”-॥७॥३।१५४॥ इति दन्तस्य दतः ॥१॥ उन्नता दन्ताः सन्त्यस्य दन्तुरः "दन्तादुन्नतात्" ॥७॥२॥४०॥ इति डुरः॥२॥
प्रलम्बाण्डस्तु मुष्करः।
प्रलम्बावण्डौ अस्य प्रलम्बाण्डः ॥१॥ प्रवृद्धौ मुष्कावस्य स्तः मुष्करः : मध्वादित्वात् रः ॥ २॥ .
अन्धो गताक्षः - अमति गच्छति अनेन अन्धः “स्कन्द्यमिभ्याम्"- ॥ (उणा-२५३) ॥ इति धः 'अन्धण् दृष्टयुपसंहार' इत्यस्य वा ॥१॥ गताक्षश्चक्षुर्विकलः ॥ २ ॥ शेषश्चात्र-अनेडमूकस्त्वन्धे।
उत्पश्य उन्मुखः ऊर्ध्वं पश्यत्युत्पश्यः “ घ्रामा-" ॥ ५।१।५८ ॥ इति शः ॥ १॥ ऊर्व मुखमस्योन्मुखः ॥ २ ॥
अधोमुखस्त्ववाङ् ॥ १२१॥ अधःस्थितं मुखमस्य अधोमुखः ॥ १॥ अवाञ्चत्यवाङ् ॥ २॥१२१ । शेषश्चात्रन्युजस्त्वधोमुखे
मुण्डस्तु मुण्डितः
Page #188
--------------------------------------------------------------------------
________________
१८८
अभिधानचिन्तामणौ- -
___ मुण्ड्यते मुण्डः ॥ १॥ मुण्ड्यते स्म मुण्डितः ॥ २ ॥
केशी केशवः केशिकोऽपि च । प्रशस्ताः केशाः सन्त्यस्य केशी केशिकः “ अतोऽनेकखरात् " ॥२६॥ इतीन् इकश्च, “ केशाद्वः " ॥ ७।२।४३ ॥ इति वे, केशवः ॥ ३ ॥
वलिरः केकरः वलते वेष्टते वलिरं नेत्रं तद्योगात् वलिरः ॥१॥ 'किः सौत्रः,' कयति केकरः वक्रदृष्टिः " किशृवृभ्य-" ॥ ( उणा-४३५) ॥ इति करः ॥ के मूर्ध्नि करोत्यक्षिणी चलतारकत्वादिति वा ॥ २॥
वृद्धनाभौ तुण्डिलतुण्डिभौ ॥ १२२ ॥ वृद्धा नाभिर्यस्य तत्र, उन्नता नाभिस्तुण्डिः साऽस्त्यस्य तुण्डिलः सिध्मादित्वाल्लः ॥ १॥ वलिवटि-" ॥७॥२॥१६॥ इति भे, तुण्डिभः ॥२॥१२२॥
आमयाव्यपटुर्लानो ग्लास्नुर्विकृत आतुरः । व्याधितोऽभ्यमितोऽभ्यान्तः
आमयोऽस्त्यस्य आमयावी “ आमयाद्दीर्घश्च" ||७॥२॥४८॥ इति विन् ॥१॥ न पटुरपटुः ॥२॥ ग्लायति स्म ग्लानः “ व्यञ्जनान्तस्थातः-" ॥८।२।७१॥ इति क्तस्य नत्वम् ॥३॥ ग्लानिशीलो ग्लास्नुः “स्थाग्लाम्ला- " ॥५।२।३१॥ इति स्नुः ॥४॥ विकरोति स्म विकृतः ॥५॥ 'तुर त्वरणे' सौत्रः आतोरति आतुरः।।६।।व्याधिः संजातोऽस्य व्याधितः रोगितोऽपि ॥ ७ ॥ अभितोऽम्यते स्म अभ्यमितः ॥ ८ ॥ अभ्यान्तः " श्वसजप-" ॥४।४।७५।। इति विकल्पेनेट् ॥ ९ ॥
दर्दुरोगी तु दर्गुणः ॥ १२३ ॥ दरिद्राति वपुरनया दर्द्वः “ केवयु-" ॥ ( उणा-७४६ ) ॥ इति उदन्तो निपात्यते, स चासौ रोगश्च तद्वान् दरोगी ॥ १॥ दीर्यते अनया दर्दू : कुष्ठभेदः "तृदृभ्यां-" ॥ (उणा-८४६) ॥ इति दूः, साऽस्त्यस्य दर्द्वणः “ शाकीपलालीददूर्वा हखश्च" ॥७॥२॥३०॥ इति नः ॥ २॥१२३ ॥
पामनः कच्छुरस्तुल्यौ पामाऽस्त्यस्य पामनः अङ्गादित्वान्नः पामर इत्येके, द्वावपीति भोजः ॥१॥ कच्छुरस्त्यस्य कच्छुरः “कछ्वा डुरः " ॥७॥२॥३९॥ इति डुरः ॥२॥
सातिसारोऽतिसारकी । सह अतिसारेण वर्तते सातिसारः ॥ १॥ अतिसारोऽस्त्यस्य अतिसारकी
Page #189
--------------------------------------------------------------------------
________________
३ मयंकाण्डः ।
१८९ एकदेशविकृतस्यानन्यत्वात् अतिसारशब्दादपि “वातातीसार-" ॥७॥२॥६१॥ इत्यादिना इन कंश्चान्तो भवति, अतीसारक्यपि ॥२॥
वातकी वातरोगी स्यात् चातोऽस्याऽस्ति वातकी, “वातातीसार-"।७।२१६१॥ इति इन् कश्चान्तः ॥२॥
श्लेष्मल: श्लेष्मणः कफी ॥ १२४ ॥ श्लेष्मा अस्त्यस्य श्लेष्मलः, सिध्मादित्वाल्लः ॥ १॥ अङ्गादित्वादने, श्लेष्मणः ॥ २ ॥ कफोऽस्याऽस्तीति कफी ॥ ३ ॥ १२४ ॥
क्लिन्ननेत्रे चिल्लचुल्लो पिल्लः क्लिन्नं नेत्रं यस्य स क्लिननेत्रः, क्लिन्नं च तन्नेत्रं चेति कर्मधारयो वा; तेन क्लिन चक्षुश्चिल्लं चुलं पिलम् “ क्लिन्नालश्चक्षुषि चिल् पिल चुल चास्य" ॥ ७।१।१३० ॥ इति ले साधवः, तद्योगात् पुरुषोऽपि चिल्लः, चुल्लः, पिल्लः ॥ ४ ॥
अथाऽशेयुगर्शसः । अर्शसा युज्यते अर्घायुक् ॥१॥अर्शोऽस्त्यस्य अर्शसः, अभ्रादित्वाद् अः॥२॥
मूर्छिते मूर्तमूर्छालौ मूर्छा संजाता अस्य मूर्छितस्तत्र ॥ १॥ मूर्छति स्म मूर्तः आदित्त्वात् क्ते इडभावः ॥२॥ मूर्छा अस्त्यस्य मूर्छाल: "सिध्मादि-" ॥७॥२॥२१॥ इति लः ॥३॥
सिध्मलस्तु किलासिनि ॥ १२५ ॥ - सिध्माऽस्याऽस्ति सिध्मल सिध्मादित्वाल्लः ॥ १॥किलासमस्त्यस्य किलासी तत्र ॥ २ ॥ १२५ ॥ - पित्तं मायुः - पीयते जलमनेन, पतति संसते वा पित्तम् “ पुतपित्त-" ॥ (उणा-२०४)॥
इति ते निपात्यते ॥ १॥ मिनोति मलान् संसकत्वात् मायुः, पुंलिङ्गः “ मिवहि-" . (उणा-७२६ ) ॥ इति णिद् उः ॥ २॥ शेषश्चात्र-पित्ते पलाग्निः पललज्वरः स्यादग्निरेचकः ॥ .
कफः श्लेष्मा बलाशः स्नेहभूः खटः । कायत्यनेन कफः “शफकफ-" ॥ ( उणा-३१६ ) ॥ इति फे निपात्यते, कात् फलतीति वा ॥१॥ श्लिष्यति हृदयादौ श्लेष्मा “ मन्” ॥ (उणा-९११) । इति मन् ॥ २ ॥ बलमश्नाति बलाशः ॥ ३ ॥ स्नेहाद्भवति स्नेहभूः ॥ ४ ॥ खटति खटः ॥ ५ ॥ शेषश्चात्र-कफे शिवानकः खेटः ॥
Page #190
--------------------------------------------------------------------------
________________
. १९०
अभिधानचिन्तामणौरोगो रुजा रुगातको मान्धं व्याधिरपाटवम् ॥ १२६ ॥ ..
आम आमय आकल्यमुपतापो गदः समाः। रूजति रोगः “ पदरुज-" ॥ ५ । ३ । १६ ॥ इति घञ् ॥१॥ रुज्यतेऽनया रुजा, भिदादित्वादङ्॥२॥ क्रुधादित्वात् क्विपि रुक् ॥ ३ ॥ आतङ्कत्यनेन आतङ्कः ॥ ४ ॥ मन्दस्य भावो मान्यम् ॥ ५॥ व्याधीयते कुपथ्यैर्व्याधिः पुंलिङ्गः, विविधा आधयोऽत्रेति वा; यद्वाचस्पतिः-'विविधान् यः करोत्याधीन व्याधिः स हि निरुच्यते' ॥ ६ ॥ न पाटवमपाटवम् ॥ ७ ॥ १२६ ॥ आमयति रुजत्यामः, आमनं वा ॥ ८॥ " कुगुवलि-" ॥ ( उणा-३६५)॥ इति अये आमयः , आमीनातीति वा ॥ ९ ॥ अकल्यस्य भाव आकल्यम् ॥ १० ॥ उपतापयत्युपतापः ॥११॥ गदति व्यथां गदः ॥ १२॥
क्षयः शोषो राजयक्ष्मा यक्ष्मा क्षीयतेऽनेन क्षयः ॥ १॥ शुष्यत्यनेन शोषः ॥ २ ॥ राजा चासौ यक्ष्मा च राजयक्ष्मा ॥ ३ ॥ यक्ष्यते पूज्यते रोगराजत्वाद् यक्ष्मा पुंलिङ्गः, यसतीति का “सात्मन्नात्मन्-"॥ (उणा-९१६)॥ इति मनि निपात्यते ॥ ४ ॥
अथ क्षुक्षुतं क्षवः ॥ १२७ ॥ क्षवणं क्षुत् ॥ १॥ भावे ते क्षुतम् ॥ २॥ अलि क्षवः; छिक्का देश्याम् ॥३॥ ॥ १२७॥
कासस्तु क्षवथुः कासृङ् शब्दकुत्सायाम्, कासतेऽनेन कासः ॥ १ ॥ क्षौत्यनेन क्षवथुः, पुंलिङ्गः, ट्वित्वादथुः ॥२॥
पामा खसः कच्छूर्विचर्चिका । पिबत्यङ्गं पामा, स्त्रीलिङ्गः “मन्" ॥(उणा-९११)॥ इति मनि, "ताभ्यां-" ॥२।४।१५॥ इति वा डापि नन्त आकारान्तश्च ॥ १॥ खनति त्वचं ससः " फनस-' ॥ (उष्णा-५७३)॥ इति असे निपात्यते ॥२॥ कषति त्वचं कच्छूः स्त्रीलिङ्गः, “ कषेडछबै च-"॥(उणा-८३१)॥इति ऊः ॥ ३ ॥ विचर्च्यतेऽनया विचर्चिका "नाम्नि पुंसि च" ॥५।३।१२१॥ इति णकः ॥ ४ ॥
कण्डूः कण्डूयनं खजूः कण्डूया कषति वपुः "कषेडछौ च-" ॥ (उणा-८३१)॥ इति ऊः, कण्डूय्यते वा "भ्यादिभ्यो वा" ॥५।३।११५॥ इति वा क्विप् ॥१॥ अनटि कण्डूयनम् ॥२॥ खर्जति व्यथते खर्जूः, स्त्रीलिङ्गः “कृषिचमि-" ॥ (उणा-८२९) ॥ इति ऊः ॥ ३ ॥ "शंसि-"॥५।३।१०५॥ इति अप्रत्यये कण्डूया, कण्डूतिरपि ॥ ४ ॥
Page #191
--------------------------------------------------------------------------
________________
३ मर्त्यकाण्डः।
१९१
अथ क्षतं व्रणः ॥ १२८ ॥
अरुरीमें क्षणनुश्च क्षण्यते स्म क्षतम् ॥१॥ व्रणयति व्रणः, पुंक्लीबलिङ्गः ॥२॥१२८॥ इयर्ति व्यथामनेन अरुः, क्लीबलिङ्गः "रुद्यात-" ॥ (उगा-९९७) ॥ इति उस् ॥ ३ ॥ ईरयति अङ्गमीर्मम् "अर्तीरि-" ॥ (उणा-३३८)॥ इति मः; क्लीबेऽयम् , वैजयन्तीकारस्तु-'व्रणोऽपीर्मोऽपि न स्त्रियाम् ,' इति पुंस्यप्याह ॥ ४ ॥ क्षण्यते क्षणनुः पुंलिङ्गः, “दाभूक्षण्यु-" ॥ (उणा-७९३) ॥ इत्यनुङ् ॥५॥
- रूढवणपदं किणः । कणत्यनेन किणः, पुंश्लीबलिङ्गः, पृषोदरादित्वात् ; किणः सौत्रो वा ॥१॥
श्लीपदं पादवल्मांकः श्लिष्टं पदं येन श्लीपदं, पृषोदरादित्वात् ॥ १॥ पादे वल्मीक इव पादवल्मीकः, पुंक्तीबलिङ्गः ॥२॥
पादस्फोटो विपादिका ॥ १२९ ॥ पादस्य स्फोटनं विशरणं पादस्फोटः ॥१॥ विपद्यतेऽनया विपादिका "नानि पुंसि." ॥५।३।१२१॥ इति णकः ॥ २ ॥ १२९ ॥
स्फोटकः पिटको गण्डः
स्फोटति स्फोटः, के स्फोटकः, विस्फोटोऽपि ॥ १ ॥ पेटति संश्लिष्यति पि: टकः, त्रिलिङ्गः “छिदिभिदि." ॥ (उणा-३०) ॥ इति किदकः ॥ २ ॥ गच्छति विकारं गण्डः “पञ्चमाः " ॥ (उणा-१६८)॥ इति डः ॥ ३ ॥
पृष्ठप्रन्थिः पुनर्गडुः । _____पृष्ठे प्रन्थिः पृष्ठप्रन्थिः ॥१॥गडति वैरूप्यं सिञ्चति गडः, पुंलिङ्गः "भृमृत-" ॥ (उणा-७१६) ॥ इति उः ॥ २ ॥
श्चित्रं स्यात् पाण्डुरं कुष्ठं .. श्वेतते श्वित्रं "ऋज्यजि." ॥ (उणा-३८८)॥ इति किद् रः ॥ १॥ पाण्डुरं
श्वेतम् ॥२॥ कुष्णाति कुठं "कुषेर्वा" ॥ (उणा-१६४) ॥ इति कित् ठः, कुत्सिते तिष्ठतीति वा “गोऽम्बाऽऽम्ब-" ॥२॥३॥३०॥ इति षत्वम् ॥ ३ ॥
केशनं विन्द्रलुप्तकम् ॥ १३० ॥
केशान् हन्ति केशम्नम् “अचित्ते." ॥५।१।८३॥ इति टक् ॥ १॥ इन्द्रेण - सुप्यते स्म इन्द्रलुप्तं, के इन्द्रलुप्तकं वातविशेषः ॥ २ ॥ १३० ॥
Page #192
--------------------------------------------------------------------------
________________
१९२
अभिधानचिन्तामणौ
सिध्म किलासं त्वक्पुष्पं सिध्मं सिध्यति सिध्म, क्लीबलिङ्गः “ कुष्युषि-” ( उणा-९१२ ) इति बहुवचनात् किद् मन् ॥ १॥ किलति श्वेतते किलासम् “किलेः कित्" ॥ (उणा-५७५)॥ इत्यासः ॥ २॥ त्वचः पुष्पमिव त्वक्पुष्पम् ॥ ३ ॥ सिध्यति सिध्मं, त्वग्रोगः "विलिभिलि." ॥ (उणा-३४०) ॥ इति किद् मः ॥ ४ ॥
कोठस्तु मण्डलम् । कुठिः सौत्रः, कोठयत्यङ्ग कोठः, कुण्ठयत्यङ्गमिति वा “षष्टैधिष्ठादयः” । (उणा-१६६) इति साधुः ॥१॥ मण्डलाकृतित्वाद् मण्डलम् , त्रिलिङ्गः, मण्डलकमपि ॥२॥
गलगण्डो गण्डमालः मले गण्डो गलगण्डः ॥ १॥ गण्डान् स्फोटान् मलते गण्डमालः ॥ २॥
रोहिणी तु गलाङ्कुरः ॥ १३१ ॥ रोहयत्यवश्यं रोहिणी ॥ १ ॥ गलेऽङ्कुरो गलाङ्कुरः ॥ २ ॥ १३१॥ . ___ हिक्का हेक्का च हृल्लासः
हिक्कत्यनया हिक्का ॥ १ ॥ हेगिति कायति हेक्का ॥ २ ॥ हृदयं लसत्यनेन हृल्लासः " हृदयस्य हृल्लास-" ॥ ३ । २ । ९४ ॥ इति हृदादेशः ॥ ३ ॥
प्रतिश्यायस्तु पीनसः । प्रतिश्यायते श्रवति प्रतिश्यायः " तन्व्यधी-" ॥५। १ । ६४ ॥ इति णः ॥ १॥ पीनं स्यति अन्तं नयति पीनसः ॥ २ ॥ .
शोथस्तु श्वयथुः शोफे - शवति विसर्पति शोथः, पुंलिङ्गः ; क्लीबेऽपि वैजयन्ती, यदाह-'शोथोऽस्त्री श्वयथुः शोफः,' “ कमिग्र." ॥ ( उणा-२२५ ) ॥ इति बहुवचनात् थः ॥१॥ श्वयति अनेन श्वयथुः, पुंलिङ्गः, वित्त्वादथुः ॥२॥ श्यति धातून शोफः "शफकफ-" ॥ ( उणा-३१६ ) ॥ इति फे निपात्यते, तत्र ॥ ३॥ .
दुर्नामाऽझे गुदाङ्कुरः ॥ १३२ ॥ पापरोगत्वाद दुष्टं नाम अस्य दुर्नामा ॥ १॥ इयति पीडामनेन अर्शः. क्ली. बलिङ्गो, " अर्तेरुराशी च" ॥ ( उणा-९६७) ॥ इत्यस् ॥ २॥ गुदस्याऽङ्कुरो गुदाङ्कुरः, गुदकीलोऽपि ॥ ३ ॥ १३२ ॥
छौ प्रच्छर्दिका छर्दिवमथुर्वमनं वमिः ।।
Page #193
--------------------------------------------------------------------------
________________
३ मर्त्यकाण्डः ।
१९३
छर्दनं छर्दिः, स्त्रीक्लीबलिङ्गः, तत्र “ पदिपठि-" ॥ ( उणा-६०७ ) ॥ इति इः ॥ १॥ प्रच्छर्दनं प्रच्छर्दिका ॥२॥ छ्णर्ति छर्दनं वा छर्दिः, स्त्रीलिङ्गः “रुच्यचिं." ॥ (उणा-९८९) ॥ इति इस् ॥ ३ ॥ वम्यते वमथुः, पुंलिङ्गः, द्वित्त्वादथुः ॥ ४ ॥ अनटि वमनम् ॥ ५ ॥ वमिः, स्त्रीलिङ्गः, “ पदिपठि-" ॥(उणा-६०७)। इति इः ॥६॥
गुल्मः स्यादुदरग्रन्थिः गुप्यत्यऽनेन गुल्मः, पुंक्लीबलिङ्गः “ रुक्मग्रीष्म-" ॥ (उणा-३४६) ॥ इति मे निपात्यते ॥ १॥ उदरे ग्रन्थिरुदरप्रन्थिः ॥ २ ॥
उदावर्तो गुदग्रहः ॥ १३३ ॥ ऊर्ध्वमावर्तते वायुरस्मिन्नुदावर्तः ॥ १॥ गुदे ग्रहणं गुदग्रहः ॥२॥१३३॥
गतिर्नाडीव्रणे गच्छत्यनया रुधिरं गतिः ॥ १॥ नाडीयुक्तं व्रणं नाड्या वा व्रणं नाडीव्रणः, लिङ्गेषु प्रतिपदपाठात् पुंलिङ्ग एव ॥ २ ॥
वृद्धिः कुरण्डश्चाण्डवर्धने । वर्धतेऽण्डोऽस्यां वृद्धिः ॥ १ ॥ कुत्सितं रमतेऽनेन कुरण्डः “पञ्चमाद् डः” ॥ ( उणा-१६८ ) ॥ इति डः, अण्डस्य वर्धनं वृद्धिस्तत्र ॥ २ ॥
अश्मरी स्यान्मूत्रकृच्छ्रे अश्माभं शुक्र राति ददाति अश्मरी ॥१॥ मूत्रस्य कृच्छं मूत्रकृच्छं तत्र ॥२॥ प्रमेहो बहुमूत्रता ॥ १३४ ॥ प्रमेहति मूत्रयत्यनेन प्रमेहः, मेहोऽपि ॥ १ ॥ १३४ ॥ ___ आनाहस्तु विबन्धः स्यात्
आनहनं विण्मूत्रनिरोधः आनाहः १ ॥ विबन्धनं विबन्धः ॥२॥ - ग्रहणीरुक् प्रवाहिका ।
गृह्णाति ग्रहणी जाठरोऽग्निस्तच्छैथिल्याद् रुग् रोगः ॥१॥ मलप्रवहणं प्रवाहिका ॥१॥
____ व्याधिप्रभेदा विद्रधिभगन्दरज्वरादयः ॥ १३५ ॥
वोत्त पीडामत्र विद्रधिः “ विदो रधिक् ” ( उणा-६७६ ) ॥ इति रधिक् । विद्रो धीयतेऽस्यामिति वा स्त्रीलिङ्गोऽयम् , पुंस्यपि वैजयन्ती, यदाह-'विद्रधिर्न षण्'। १॥ भगं दारयति भगन्दरः, स्फिटति सन्धौ पिटकं "पुरन्दरभगन्दरौ' ।।५।१।
Page #194
--------------------------------------------------------------------------
________________
१९४
अभिधानचिन्तामणौ११४॥ इति खे साधुः ॥१॥ ज्वरयति ज्वरः ॥१॥ आदिशब्दादर्बुदादयः ॥१३५॥
दोषज्ञस्तु भिषग्वैद्य आयुर्वेदी चिकित्सकः ।
रोगहार्यगदङ्कारः दोषान् वातपित्तश्लेष्मलक्षणान् संकीर्णानसंकीर्णाश्च जानातीति दोषज्ञः ॥ १॥ भिषिः सौत्रः, भेषति भिषक् "ऋधिपृथि-"॥(उणा-८७४)॥ इति किदच् , भिषज्यतीति वा ॥२॥ विद्यामधीते वैद्यः ॥३॥ आयुर्वेत्तीत्येवंशील आयुर्वेदी, आयुर्वेदिकोऽपि ॥ ४ ॥ कितो व्याधिप्रतीकारे सनि चिकित्सति चिकित्सकः ॥ ५॥ रोगं हरतीत्येवंशीलो रोगहारी ॥६॥ अगदं करोत्यगदः क्रियतेऽनेन वा अगदङ्कारः "सत्यागदाऽस्तोः-" ॥३।२।११२॥ इति मोऽन्तः ॥ ७ ॥
भेषजं तन्त्रमौषधम् ॥ १३६ ॥
भैषज्यमगदो जायुः भिषिः सौत्रः, भेषत्यनेन भेषजम् "भिषेः-" ॥ ( उणा-१३१) ॥ इत्यजः भिषज्यत्यनेन वा भेषजादिनिर्देशाद् गुणः ॥१॥ तनोत्यारोग्यं तन्त्रम् “हुयामा-" ॥ (उणा-४५१) ॥ इति त्रः, तन्त्र्यत इति वा ॥२॥ ओषधिरेव औषधं, पुंक्लीबलिङ्गः . "श्रोत्रौषधि-" ॥१२।१६६॥ इति खार्थेऽण् ॥३॥१३६॥ भेषजमेव भैषज्यं, भेषजादित्वाद् व्यण् ॥ ४ ॥ अविद्यमानो गदोऽस्मिन् अगदः ॥ ५॥ जयति रोगान् जायुः, पुंलिङ्गः “कृवापाजि-" ॥ (उणा-१)॥ इति उण् ॥ ६ ॥
चिकित्सा रुप्रतिक्रिया ।
उपचर्योपचारौ च चिकित्सनं चिकित्सा ॥१॥ रुजः प्रतीकारो रुक्प्रतिक्रिया ॥ २ ॥ उपचर• णमुपचर्या “समज-" ॥५॥३॥९९॥ इति क्यप् ॥ ३ ॥ घनि उपचारः ॥ ४ ॥
__ लङ्घनं त्वपतर्पणम् ॥ १३७ ॥
लभ्यतेऽतिक्रम्यते रोगोऽनेन लङ्घनं, लघु शोषणे इत्यस्य वा॥१॥अपतृप्यते अपतर्पणम् ॥ २॥ १३ ॥
जाङ्गुलिको विषभिषक् जाङ्गुली विषविद्यामधीते जाङ्गुलिकः, न्यायादिपाठादिकण् , विषभिषग् विषवैद्यः ॥ १॥
खास्थ्ये वार्तमनामयम् । सह्यारोग्ये खस्थस्य भावः स्वास्थ्यं तत्र ॥ १॥ वृत्तिरत्रास्ति वार्तम् ॥ २ ॥ आमयस्या
Page #195
--------------------------------------------------------------------------
________________
३ मर्त्यकाण्डः।
१९५
भावोऽनामयम् ॥ ३ ॥ सह्यते सह्यं “शकितकि-" ॥ ५।१।२९ ॥ इति यः ॥ ४ ॥ अरोगस्य भाव आरोग्यम् ॥ ५॥
पटूल्लाघवार्तकल्यास्तु नीरुजि ॥ १३८ ॥ पटति आरोग्यं पटुः ॥१॥ उल्लाघते स्म उल्लाघः "अनुपसर्गाः क्षीब-" ॥४।२८०॥ इति ते निपात्यते ॥ २ ॥ वृत्तिरस्याऽस्ति वार्तः ॥३॥ कलयत्यारोग्यं कल्यः “स्थाच्छा-"॥(उणा-३५७) इति यः, कलासु साधुरिति वा ॥४॥ निष्कान्तो रोगाद् नीरुक् तत्र ॥ ५ ॥ १३८ ॥
कुसृत्या विभवाऽन्वेषी पार्श्वकः सन्धिजीवकः । पार्श्वमनृजु उपायो लञ्चादिः, तेनाऽन्वेष्टा पार्श्वकः " दाण्डाजिनिक-" ॥॥१।१७१॥ इति साधुः ॥ १ ॥ सन्धिना जीवति सन्धिजीवकः ॥२॥
सत्कृत्याऽलङ्कृतां कन्यां यो ददाति स कूकुदः ॥१३९।। कोकते आदत्ते धर्म कूकुदः, कुमुदादौ उदे निपात्यते ॥ १॥ ब्राह्मे विवाहे दाताऽयम् , यन्मनु:
" आच्छाद्य चाहयित्वा च श्रुतशीलवते खयम् । ___ आहूय दानं कन्याया ब्राह्मो धर्मः प्रकीर्तितः" ॥१॥ १३९ ॥ शेषश्चात्र-स्यात् कूकुदे तु कूपदः पारिमितः ॥
चपलश्चिकुरः
चप्यते चपलः “मृदिकन्दि-" ॥ (उणा-४६५) ॥ इत्यलः ॥ १ ॥ चिनोति चिनुते वा चिकुरः "श्वशुरकुकुन्दुर-" ॥ (उणा-४२६) इत्युरे निपात्यते । यलक्ष्यम्"तां वीक्ष्य लीलाचिकुरामनङ्गः खचापसौन्दर्यमदं मुमोच" ॥२॥
नीलीरागस्तु स्थिरसौहृदः । नील्या इव स्थिरो रागोऽस्य नीलीरागः, स्थिरं सौहृदमस्य स्थिरसौहृदः स्थिरप्रेमा ॥१॥
___ ततो हरिद्रारागोऽन्यः
ततः स्थिरसौहृदादन्यः क्षणमात्रानुरागी हरिद्राया इव क्षणिको रागोऽस्य हरिद्रारागः ॥१॥
सान्दस्निग्धस्तु मेदुरः ॥ १४० ॥ . सान्द्रः पीनः स चासौ स्निग्धश्च ॥१॥ मेद्यतीत्येवंशीलो मेदुरः " भजिभासि-"॥५।२।७४॥ इति घुरः ॥ २ ॥ १४० ॥
Page #196
--------------------------------------------------------------------------
________________
१९६
अभिधानचिन्तामणौ
द गेहेशूरः पिण्डीशूरः
गेहे एव नर्दति गेहेनद ॥ १ ॥ एवं गेहेशूरः “ पात्रे समितेत्यादयः ॥३।१।९१॥ इति तत्पुरुषः सप्तम्यलुप् च ॥ २ ॥ पिण्ड्यां शूरः पिण्डीशूरः ॥ ३ ॥
अस्तिमान् धनी ।
अस्तीत्यव्ययं धनार्थे, अस्ति धनमस्याऽस्ति अस्तिमान् ॥ ॥ धनमस्याऽस्तीति धनी ॥ २ ॥
स्वस्थानस्थः परद्वेषी गोष्ठश्वः
स्वस्थानस्थो यः परान् द्वेष्टि स गोष्ठे श्वेव गोष्टश्वः
३।११०॥ इत्यट् समासान्तः ॥ १ ॥
अथापदि स्थितः ॥ १४१ ॥
आपन्नः
""
गोष्ठाः शुनः " ॥७॥
आपद्यते विपदं गच्छति स्म आपन्नः ॥ १ ॥ १४१ ॥ अथाऽऽपद् विपत्तिर्विपत्
आपदनं आपत्, विपदनं विपत् ॥१॥२॥३॥
स्निग्धस्तु वत्सलः ।
स्निह्यति स्म स्निग्धः ॥ १ ॥ वत्सोऽस्त्यस्य वत्सलः, सिध्मादित्वाद् लः ॥ २ ॥ उपाध्यभ्यागारिकौ तु कुटुम्बव्यापृते नरि ॥ १४२ ॥
उपाधीयते उपाधिः, पुंलिङ्गः ॥ १ ॥ अभ्यागारमंस्याऽस्ति अभ्यागारिकः “ अतोऽनेकस्वरात् ” ॥ ७१२६ ॥ इतीकः । कुटुम्बे कलत्रादौ व्यापृतः पोषणोद्यु
कस्तत्र ।। २ ।। १४२ ॥
त्रासदायी तु शङ्कुरः ।
जैवातृकस्तु दीर्घायुः
जीवति चिरं जैवातृकः “ जीवेरातृको जैव् च ।। (उणा - ६७) ।। इत्यातृकः ॥ १ ॥ दीर्घमायुरस्य दीर्घायुः, आयुष्मानपि ॥ २ ॥
“ वाश्यसि-” ।। (उणा-४२३) इति बहुवचनादुरः,
शङ्कयतेऽस्मात् शङ्कुरः,
हृदि शङ्कुमिव राति ददातीति वा ॥ १ ॥
अभिपन्नः शरणार्थी
अभिमुखं पद्यते स्म अभिपन्नः, शरणमर्थयते शरणार्थी ॥ १ ॥
Page #197
--------------------------------------------------------------------------
________________
३ मर्त्यकाण्डः ।
कारणिकः परीक्षकः ॥ १४३ ॥
करणेनाऽधिकारिवर्गेण चरति कारणिकः || १ || परीक्षते परीक्षकः । आक्षपटलिकोऽपि ॥ २ ॥। १४३ ।।
समर्धुकस्तु वरदः
समृनोति संवर्धयति समर्धुकः “ कम्न्चुकांशुक-” ।। (उणा-५७) । इत्युके
साधुः ।। १ ।। २ ॥
ब्रातीनाः सङ्घजीविनः ।
१९७
नानाजातीया अनियतवृत्तयः शरीरायासजीविनः सङ्घाः, व्राताः, तत्साहचर्यात् तत्कर्माऽपि व्रतम्, तेन जीवन्ति व्रातीनाः “ वातादीनञ् " || ६ |४| १९ ॥ ॥ १ ॥ सङ्खेन जीवन्ति सङ्घजीविनः ।। २ ।।
सभ्याः सदस्याः पार्षद्याः सभास्ताराः सभासदः ॥ १४४ ॥ सामाजिकाः
सभायां सदसि च साधवः सभ्याः, सदस्याः || १ || २ || पर्षदं समवयन्ति पार्षद्याः “ पर्षदो यः " || ६ |४| ४७ ॥ पारिषद्या अपि ॥ ३ ॥ सभामास्तृणन्ति सभास्ताराः ॥४॥ सभायां सीदन्ति सभासदः || ५ || १४४ ।। समाजं समवयन्ति सामाजिकाः “ समूहार्थात् समवेते” ॥६।४।४६।। इतीकण् ॥। ६ ॥
सभा संसत् समाजः परिषत् सदः ।
पत् समज्या गोष्ट्यास्था आस्थानं समितिर्घटा ॥ १४५॥
"
,
"
सन्यते भज्यते सभा “ सनेर्डित् ” ॥ ( उणा - ३३० ) ॥ इत्यभः सह भा`न्त्यस्यामिति वा ॥ १ ॥ संभूय सीदन्त्यस्यां संसत् संपदादित्वात् क्विप् ॥ २ ॥ समजन्ति मिलन्त्यस्मिन् समाजः ॥ ३ ॥ परितः सीदन्त्यस्यां परिषत् ॥ ४ ॥ सीदन्त्यस्मिन्निति सदः, स्त्रीक्लीबलिङ्गः “ अस् ” ॥ (उणा-९५२) ॥ इत्यस् ॥ ५॥ पृणन्त्येनां पर्षत्, स्त्रीलिङ्गः “प्रः सद् ” ( उणा - ८९७) ॥६॥ समजन्त्यस्यां समज्या " समज -” ॥ ५३ ॥९९॥ इति क्यप् ॥७॥ गावो नानोक्तयस्तिष्ठन्त्यस्यां गोष्ठी, स्थादित्वात् के "गोऽम्बा - " |२| ३ | ३० ॥ इति षत्वम् ॥ ८ ॥ आतिष्ठन्ति अस्यामास्था ॥ ९ ॥ अनटि, आस्थानम्, स्त्रीक्लीबलिङ्गः ॥ १० ॥ संयन्त्यस्यां समितिः, श्रवादित्वात् तिः ॥ ११ ॥ घटन्तेऽस्यां घटा, षित्त्वादङ् ॥। १२ ।। १४५ ।।
सांवत्सरो ज्यौतिषिको मौहूर्तिको निमित्तवित् । दैवज्ञगणकादेशिज्ञानिकान्तिका अपि ॥ १४६ ॥ विप्रश्निकेक्षणिकौ च
२६
Page #198
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणौ
संवत्सरः कालोपलक्षणं तं वेत्ति सांवत्सरः ॥ १ ॥ ज्योतींषि अधिकृत्य कृतो ग्रन्थो ज्योतिष, तद्वेत्त्यधीते वा न्यायादित्वादिकाणि ज्यौतिषिकः ॥ २ ॥ मुहूर्त वेत्ति मौहूर्तिकः, न्यायादिपाठादिकण्; मौहूर्तोऽपि ॥ ३ ॥ निमित्तं वेत्ति निमित्तवित्, नैमित्तनैमित्तिकावपि ॥ ४ ॥ दैवं पूर्वकृतं कर्म जानाति दैवज्ञः ॥ ५ ॥ गणयति गणकः ॥ ६ ॥ शुभाशुभमादिशतीत्येवंशील आदेशी ॥ ७ ॥ कालादिज्ञानमस्त्यस्य ज्ञानी ॥ ८ ॥ कृतान्तं वेत्ति कार्तान्तिकः ॥ ९ ॥ १४६ ॥ विप्रश्नो दैवप्रच्छनं, शुभाशुभेक्षणं चाऽस्त्यस्य विप्रश्निकः, ईक्षणिकः ।। १० ।। ११ ॥
सैद्धान्तिकस्तु तान्त्रिकः ।
१९८
सिद्धोऽनिवारितविप्रतिपत्तिरन्तो निष्ठाऽत्र सिद्धान्तः, सिद्धान्तं वेत्ति सैद्धान्तिकः ॥ १ ॥ तन्यते तन्त्र्यते वाऽनेन तन्त्रं पारमेश्वर - वैद्यक - ज्योतिषादि ; तद् वेत्ति तान्त्रिकः || २ ||
लेखकेऽक्षरपूर्वाः स्युश्चणजीवकचञ्चवः ॥ १४७ ॥ वार्णिको लिपिकरश्च
लिखति लेखकस्तत्र ॥ १ ॥ अक्षरशब्दपूर्वाश्चणादयः, अक्षरैर्वित्त अक्षरचणः अक्षरचञ्चुः “तेन वित्ते चञ्चुचणौ ॥७|१|१७५॥ अक्षरैर्जीवति अक्षरजीवकः ॥ २॥३॥४॥१४७॥ वर्णाः शिल्पमस्य वार्णिकः " शिल्पम् " || ६|४|५७॥ इतीकण् ॥ ५ ॥ लिपिं करोति लिपिकरः संख्याऽर्हदिवा- " ।। ५।१।१०२ ॥ इति टः लिविकरोऽपि ॥ ६ ॥
८८
शेषश्चात्र
अथ कायस्थः करणोऽक्षरजीविनि ॥ अक्षरन्यासे लिपिर्लिंविः ।
लिप्यतेऽनया पत्रं लिपिः “ नाम्युपान्त्य - " ॥ ( उणा - ६०९ ) ॥ इति कः, जपादित्वाद् वत्वे लिविः द्वौ स्त्रीलिङ्गौ लिखिताऽपि ॥ १ ॥ २ ॥
मषिधानं मषिकूपी
मषिर्धीयतेऽस्मिन्निति मषिधानं मषीभाजनम् ॥ १॥ मषेः कूपीव मषिकूपी ॥२॥ मलिनाम्बु मषी मसी ॥ १४८ ॥
अञ्जनाक्तत्वाद् मलिनं च तदम्बु च मलिनाम्बु ॥ १ ॥ मषति हिनस्ति औज्ज्वल्यं मषिः, मस्यति परिणमति मसिः पुंस्त्रीलिङ्गौ “पदिपठि " ॥ (उणा - ६०७) ॥ इति इ: ड्यां मषी मसी ॥ २ ॥ ३ ॥ १४८ ॥
कुलिकस्तु कुलश्रेष्ठ
Page #199
--------------------------------------------------------------------------
________________
। ३ मर्त्यकाण्डः । कुलमस्त्यस्य कुलिकः, कुलं कायति कुलकः, इत्यमरः ॥ १॥ कुले वणिग्वन्दे श्रेष्ठत्वमस्त्यस्य कुलश्रेष्ठी ॥२॥
सभिको द्यूतकारकः । ___सभा तशालास्त्यस्य सभिकः " नावादेरिकः " ॥ ७१२॥३॥ १॥ द्यूतं करोति द्यूतकारकः ॥२॥
कितवो द्यूतकृद् धूर्ताऽअधूर्तश्चाक्षदेविनि ॥ १४९॥ केतति निवसति यत्र तत्रेति कितवः " कितिकुडि-"॥ (उणा-५१८) ॥ इति किंदवः किं तवास्तीति पणते वा ॥१॥ द्यूतं करोति द्यूतकृत् ॥ २॥ धूर्वति हिनस्ति धूर्तः ॥ ३ ॥ अक्षेषु धूर्तोऽक्षधूर्तः ॥ ४ ॥ अक्षैर्दीव्यति विजिगीषतेऽक्षदेवी तत्र ॥ ५ ॥ १४९ ॥
दुरोददरं कैतवं च द्यूतमक्षवती पणः । दुष्टमासमन्तादुदरमस्य दुरोदरं पुंक्लिबलिङ्गः ॥१॥ कितवस्य कर्म कैतवम् “युपादेरण्" ॥ ७॥ १।६७ ॥ २ ॥ दीव्यते स्म द्यूतं पुंक्तीबलिङ्गः ॥ ३ ॥ अक्षाः सन्त्यस्यामक्षवती ॥४॥ पणनं पणः ॥ ५॥
पाशकः प्रासकोऽक्षश्च देवनः पाश्यते बध्यतेऽनेन पाशकः " नाम्नि पुंसि च" ॥ ५।३।१२१ ॥ इतिणकः ॥ १ ॥ प्रास्यन्ते क्षिप्यन्ते अनेन प्रासकः ॥ २ ॥ अक्ष्णोति अक्षः ॥ ३ ॥ दीव्यन्त्यनेन देवनः ॥ ४ ॥
तत्पणो ग्लहः ॥ १५० ॥ पण्यते पणो बन्धकः तेषु अक्षेषु पणस्तत्पणः, अक्षाणां ग्रहणं ग्लहः "सृग्लहः : : प्रजनाक्षे” ॥ ५॥३॥३१ ॥ इत्यल् ग्रहेश्च सूत्रनिपातनाद् लत्वं, ग्लहिः प्रकृत्यन्तरं वा॥१॥ १५०॥
- अष्टापदः शारिफलं ... ... अष्टौ पदान्यत्र अष्टापदः " नाम्नि " ॥ ३।२७५ ॥ इति दीर्घत्वम्', शारयः
फलन्यत्र शारिफलं खेलनाधारश्चतुरङ्गफलकादिः, पुंक्लीबलिङ्गौ शारीणां फलं फलकमिति वा शारिफलकोऽपि ॥ १॥ २॥
शारः शारिश्च खेलनी। शार्यते मार्यते शारः पुंस्त्रीलिङ्गः ॥ १ ॥ शृणन्त्येनो शारिः स्त्रीलिङ्गः, शाब्दिकास्तु परिणायेन शारीन् हन्ति पुंस्यप्युदाहरन्ति " कृशृकुटि-" ॥ (उणा-६१९)। इति णिदिः ॥२॥ खेल्यतेऽनया खेलनी ॥३॥-"...........
Page #200
--------------------------------------------------------------------------
________________
२००
अभिधानचिन्तामणौ-- .. परिणायस्तु शारीणां नयनं स्यात् समन्ततः ॥ १५१ ॥
वामदक्षिणयोः शारीणां परिणयनं परिणायः “ परे ते " ॥५॥३॥६३ ॥ इति घञ् ॥ १॥ १५१॥
समायः प्राणिद्यूतं संघर्षेणाऽऽहूयन्ते अत्र समाह्वयः “ ह्वः समाह्वया--" ॥ ५॥३॥४१॥ इत्यलि निपात्यते, प्राणिभिर्मेषकुक्कुटादिभिर्वृतं प्राणिद्यूतम् ॥ १॥ ...
व्यालग्राह्याहितुण्डिकः । व्यालान् सर्पान् गृह्णातीत्येवंशीलो व्यालग्राही ॥ १ ॥ अहितुण्डेन दीव्यत्याहितुण्डिकः ॥ २॥
स्यान्मनोजवसस्ताततुल्यः मनो जवतेऽस्मिन् पिताऽयमिति धावति मनोजवसः “ बहुलम्" ॥५॥१॥२॥ इत्यसः, मनोजे अभिलाषे वसति वा ताततुल्यः 'पितृसदृशः मनोजव इत्यन्ये, यद् व्याडि:- "जनः पितृसधर्मा यः स तातार्हो मनोजवः” ॥१॥
शास्ता तु देशकः ॥ १५२ ॥ , शास्तीति शास्ता ॥ १ ॥ दिशतीति देशकः ॥ २ ॥ १५२ ॥
सुकृती पुण्यवान् धन्यः सुकृतमस्त्यस्य सुकृती ॥ १ ॥ पुण्यमस्यास्ति पुण्यवान् ॥ २ ॥ धनं लब्धा धन्यः " धनगणाल्लब्धरि ” ॥ १९ ॥ इति यः ॥ ३ ॥
मित्रयुमित्रवत्सलः । मित्रं स्नेहाद्याति मित्रयुः “ पीमृग-" ॥ (उणा-७४१ ) ॥ इति किदुः॥१॥
क्षेमकरो रिष्टतातिः शिवतातिः शिवङ्करः ॥ १५३ ॥ : क्षेमं करोति क्षेमङ्करः "क्षेमप्रिय--" ॥ ५।१।१०५ ॥ इति खः ॥ १ ॥ रिष्टे क्षेमे तातिः तायनमस्य रिष्टतातिः ॥ २ ॥ एवं शिवतातिः ॥ ३ ॥ शिवं करोति शिवङ्करः, हेतुतच्छीला-" ॥५।१।१०३॥ इति टे, तीर्थक्करवत् " नवा खित्कृदन्ते--"॥३।२।११७॥ इति योगविभागाश्रयणाद् मोऽन्तः ॥ ४ ॥ १५३॥ .. श्रद्धालुरास्तिकः श्राद्धः - । श्रद्धानशीलः श्रद्धालुः " शीशद्धा--" ॥ ५।२।३७ ॥ इत्यालुः ॥१॥ अस्ति परलोकः पुष्यं पापमिति मतिरस्य आस्तिकः " नास्तिकास्तिक--" ॥६ । ४ । ६६ ॥
Page #201
--------------------------------------------------------------------------
________________
३. मर्त्यकाण्डः ।
२०१
इति इकणि निपात्यते ॥ २ ॥ श्रद्धाऽस्त्यस्य श्राद्धः प्रज्ञाश्रद्धा--" || ७|२|३३ ॥
इतः ॥ ३ ॥
66
नास्तिकस्तद्विपर्यये ।
नास्ति परलोकादीति मतिरस्य नास्तिकः तस्य आस्तिकस्य विपर्यये वैपरीत्ये सति ॥ १ ॥
बैरको विरागार्हः
नित्यं विरागमर्हति वैरङ्गिकः " विरागाद्विरङ्गश्च " ॥ ६ । ४ । १८३ ॥ इति इकण् ॥ १ ॥ २ ॥
दम्भस्तवकल्कनः ॥ १५४ ॥
वीतो विगतो दम्भोऽस्माद्वीतदम्भः ॥ १ ॥ नास्ति कल्कनं शाठ्यमस्य अ
कल्कनः ।। २ ।। १५४ ।।
प्रणाय्योऽसम्मतः
sorted प्रणाय्यः “ प्रणाय्यो निष्कामाऽसंमते " || ५ | १|२३ ॥ इति ध्यणि निपात्यते ॥ १ ॥ २ ॥
अन्वेष्टाऽनुपदी
अनुपदमन्वेष्टा अनुपदी “ अनुपद्यन्वेष्टा " || ७|१|१७० ।। इतीनि साधुः ॥ १ ॥ २ ॥
अथ सहः क्षमः ।
शक्तः प्रभूष्णुः
सहते सहः ।। १ ।। क्षमते क्षमः ॥ २ ॥ शक्नोति स्म शक्तः ॥ ३ ॥ प्रभ'वतीत्येवंशीलः प्रभूष्णुः प्रभविष्णुरपि ॥ ४ ॥
शेषश्चात्र
क्षमे समर्थोऽलम्भूष्णुः ।। भूतात्तस्त्वाविष्टः
भूतेन आत्तो गृहीतो भूतात्तः ॥ १ ॥ आविशति संरभते स्म आविष्टः ॥ २ ॥
शिथिलः श्लथः ॥ १५५ ॥
""
थुङ् शैथिल्ये श्रन्थते शिथिरः " श्रन्थेः शिधू च इतीरः लत्वे शिथिलः ॥ १ ॥ श्लथयति श्लथः ॥२॥१५५॥
संवाहकोऽङ्गमर्दः स्यात्
11 (3017-898) 11
Page #202
--------------------------------------------------------------------------
________________
२०२
अभिधानचिन्तामणौ.. - संवाहयत्यङ्गानि संवाहकः ॥ १॥ अङ्गानि मर्दयत्यङ्गमर्दः ॥२॥
नष्टबीजस्तु निष्कलः । नष्टं गतं बीजं रेतोऽस्य नष्टबीजः ॥१॥ निर्गतं कलं रेतोऽस्य निष्कलः ॥२॥
आसीन उपविष्टः स्यात् आस्ते आसीनः "आसीनः" ॥ ४ । ४ । ११५ ॥ इत्यानशि साधुः ॥ १॥ उपविशति स्म उपविष्टः ॥ २॥
- ऊर्ध्व ऊर्ध्वन्दमः स्थितः ॥ १५६ ॥ .. ___ऊर्दते परिमाति क्रीडति वा ऊर्ध्वः “उर्ध च" ॥ (उणा-५०७ ) ॥ इति वः ॥ १ ॥ ऊर्ध्वं दाम्यति ऊर्वदमः, अध्यात्मादावूर्ध्वदमपाठान्मोऽन्तः ऊर्ध्वमिति मान्तमव्ययं वा ॥ २ ॥ तिष्ठति स्म कार्याय स्थितः ॥ ३ ॥ १५६ ॥
अध्वनीनोऽध्वगोऽध्वन्यः पान्थः पथिकदेशिकौ ।
प्रवासी अध्वानमलंगामी अध्वनीनः अध्वन्यः "अध्वानं येनौ” ॥७॥ १।१०३ ॥ इति साधू ॥१॥२॥ अध्वानं गच्छत्यध्वगः ॥ ३ ॥ पन्थानं नित्यं याति पान्थः "नित्यं णः पन्थश्च" ॥ ६ । ४ । ८९ ॥ इति साधुः ॥ ४॥ पन्थानं याति पथिकः “पथ इकट् ॥ ६ । ४ । ८८ ॥ अदूरविप्रकर्षादनयोः पर्यायत्वम् ॥ ५ ॥ देशो देशान्तरमस्त्यस्य देशिकः ॥ ६ ॥ प्रवसनशीलः प्रवासी ॥ ७ ॥
तद्णो हारिः तेषां पथिकानां गणः सार्थस्तद्गणः, हार्यन्ते प्राप्यन्ते अनया हारिः “खरेभ्यइ:"॥ (उणा-६०६) ॥ १॥ .
___ पाथेयं शम्बलं समे ॥ १५७ ॥ - पथि साधु पाथेयम् " पथ्यतिथि-"॥ ७ । १। १६ ॥ इत्येयण ॥ १ ॥ शाम्यति क्षुदनेन शम्बलं पुंक्लीबलिङ्गः “ शमिकमि- " ॥ (उणा-४९९ ) इति बलः ॥ २॥ १५७ ॥
जङ्घालोऽतिजवः - जङ्ग्रे स्तोऽस्य जङ्घालः “प्राण्यङ्गादातो सः" ॥ ७ ॥ २ ॥ २० ॥१॥
अतिशायी जवोऽस्य अतिजवः ॥ २ ॥ ... जङ्घाकरिको जाजिकः
जङ्घा एव करो राज्यदेयोऽस्त्यस्य जङ्घाकरिकः ॥ १ ॥ जनाभ्यां जीवति जानिकः, वेतनादित्वादिकण्; जमाकरोऽपि ।। २ ॥
Page #203
--------------------------------------------------------------------------
________________
-- ३ मर्त्यकाण्डः।
... जवी।
जवनस्त्वरिते . जवोऽस्त्यस्य जवी, जुः सौत्रो वेगाख्ये संस्कारे वर्तते ॥१॥ जवतीत्येवंशीलो जवनः ॥ २ ॥ त्वरते त्वरितः तत्र “जङ्घालादयस्त्वरितान्ता एकार्था इत्येके" ॥३॥
वेगे रयो रंहस्तरः स्यदः ॥ १५८ ॥.............
जवो वाजः प्रसरश्च ...................... अजति गच्छत्यनेन वेगः “गम्यमि-"॥ (उणा-९२)॥ इति गः तत्र, विजन्तेऽनेनेति वा " व्यञ्जनाद्वञ् "॥५।३।१३२॥१॥ रीयते गच्छत्यनेन रयः ॥२॥ रंहत्यनेन रंहः " अस्" ॥ (उणा-९५२) ॥ इत्यस् , एवं तरन्त्यनेन तरः क्लीबलिङ्गी ॥ ३ ॥४॥ स्यन्दनं स्यदः " स्यदो जवे" ॥ ४।२।५३ ॥ इति पनि निपात्यते ॥ ५ ॥ १५८॥ जवन्त्यनेन जवः ॥ ६ ॥ वजन्त्यनेन वाजः ॥ ७ ॥ प्रसरणं प्रसरः बाहुलकादल् ॥ ८ ॥ ..
मन्दगामी तु मन्थरः । ___मन्दं गच्छतीत्येवंशीलो मन्दगामी ॥१॥ मनाति पादौ मन्थरः “ ऋच्छिचटि-"॥ (उणा- ३९७ ) ॥ इत्यरः ॥२॥
कामंगाम्यनुकामीनः ___ अनुकामं यथेच्छं गामी अनुकामीनः “ यथाकामा- "॥ ७॥ १।१०॥ इति ईनः ॥ १॥२॥
अत्यन्तीनोऽत्यन्तगामिनि ॥ १५९ ॥ अत्यन्तं भृशं गामी अत्यन्तीनः ॥ १॥२॥५१९ ॥ सहायोऽभिचरोऽनोश्च जीविगामिचरप्लवाः ।
सेवकः . सह अयते सहायः॥ १॥ आभिमुख्येन चरति अभिचरः ॥२॥ अनोः परतो जीव्यादिशब्दाः, अनुजीवी ॥ ३ अनुगामी ॥ ४ ॥ अनुचरः ॥ ५ ॥ अनुप्लवः, अनुगोऽपि ॥ ६ ॥ सेवते सेवकः ॥ ७ ॥
अथ सेवा भक्तिः परिचर्या प्रसादना ॥ १६० ॥ शुश्रूषाराधनोपास्तिवरिवस्यापरीष्टयः ।
-
उपचार...
.
.
.
Page #204
--------------------------------------------------------------------------
________________
२०४
अभिधानचिन्तामणौ-...
सेवन सेवा ॥ १॥ भजनं भक्तिः ॥ २ ॥ परिचरणं परिचर्या ॥ ३ ॥ प्रसाद्यते प्रसादना ॥४॥१६०॥ शुश्रूषणं शुश्रूषा ॥ ५॥ आराधनमाराधना ॥६॥ उपासनमुपास्तिः , उपासनाऽपि ॥ ७ ॥ वरिवःकरणं वरिवस्या " नमोवरिव-" ॥३। ४ । ३७ ॥ इति सेवायां क्यन् ॥ ८ ॥ पर्येषणं परीष्टिः, पर्येषणाऽपि । अमरस्तु-पर्येषणा परीष्टिश्व- श्राद्धे द्विजशुश्रूषेति विशेषमाह ॥ ९ ॥ उपचरणमुपचारः ॥ १० ॥
पदातिस्तु पत्तिः पद्गः पदातिकः ॥ १६१ ॥
पादातिकः पादचारी पादाजिपदिकावपि । पादाभ्यामतति गच्छति पदातिः “ पादाच्चात्यजिभ्याम् " ॥(उणा-६२०)। इति णिदिः " पदः पादस्या-" ॥३ । २ । ९५ ॥ इति पदादेशः ॥ १ ॥ पद्यते पत्तिः “ प्लुज्ञायजि-" ॥ ( उणा-६४६ ) ॥ इति तिः ॥ २ ॥ पादाभ्यां गच्छति पद्गः “हिमहति-" ॥३।२ । ९६ ॥ इत्यत्र मतान्तराश्रयणाद् गे पद्भावः ॥३॥ पादाभ्यामतति पदातिकः " कुशिकहृदिक-"॥ ( उणा-४५) इति इके निपात्यते ॥ ४ ॥ १६१ ॥ एवं पादातिकः, पदातेः स्वार्थे विनयादित्वादिकण् वा ॥ ५ ॥ पादाभ्यां चरति पादचारी ॥ ६ ॥ पादाभ्यामजति गच्छति पदाजिः ॥ ७ ॥ पादाभ्यां चरति पदिकः “ पदिकः” ॥ ६ । ४ । १३ ॥ इतीकटि निपात्यते ॥ ८ ॥ शेषश्चात्र- पादातपदगौ समौ ॥
सरः पुरोऽप्रतोऽग्रेभ्यः पुरस्तो गमगामिगाः ॥ १६२ ॥
प्रष्टः
पुरःप्रभृतिशब्देभ्यः परः सरः, पुरोऽग्रतोऽग्रे च सरति पुरःसरः अग्रतःसरः अग्रेसरः "पुरोऽप्रतोऽग्रे सर्तेः" ॥५। १ । १४० ॥ इति टः, अग्रेगूरपि ॥ १॥ २॥३॥ पुरो गच्छति पुरोगमः, पुरोगः “नाम्नों गमः-"॥५।१।१३१॥ इति खडौ, णिनि पुरोगामी ॥ ४ ॥ ५॥ ६॥ १६२ ॥ प्रतिष्ठते प्रष्ठः “प्रष्ठोऽप्रगे" ॥२॥
३।३२ ॥ इति षत्वम् ॥ ७॥ . . .. . अथावेशिकागन्तू प्राघुणोऽभ्यागतोऽतिथिः। .
प्राघूर्णके अवेशे अप्रतिवेशे भव आवेशिकः । “नैकग्रामीणमतिथिं विप्रं सांगतिकं तथा" इति स्मृतेः । अध्यात्मादित्वादिकम् ॥ १॥ आगच्छत्यागन्तुः “कृसिकम्य-" ॥ ( उणा-७७३) ॥ इति तुन् ॥ २॥ प्राघुणति भ्राम्यति प्राघुणः ॥ ३ ॥ अभ्यागच्छति अभ्यागम्यते स्म वा अभ्यागतः ॥ ४ ॥ अतति सततं गच्छति अतिथिः पुंलिङ्गः “अतेरिथिः” ॥ (उणा-६७३) ॥ आतिथ्योऽपि ।.
Page #205
--------------------------------------------------------------------------
________________
. ३ मर्त्यकाण्डः ।
२०५ “ तिथिपर्वोत्सवाः सर्वे त्यक्ता येन महात्मना ।
अतियिं तं विजानीयाच्छेषमभ्यागतं विदुः" ॥१॥ इति तु विशेषो नाश्रितः ॥ ५ ॥ प्राघूर्णते प्राघूर्णकस्तत्र ॥ ६ ॥
अथावेशिकमातिथ्यं चाऽऽतिथेय्यपि ॥ १६३ ॥
अवेशेऽप्रतिवेशे भवमावेशिकम् ॥ १॥ अतिथये इदमातिथ्यम् “ण्योsतिथेः" ॥७।१ । २४ ॥ इति ण्यः ॥ २ ॥ अतिथौ साधुरातिथेयी, स्त्रीक्ली. बलिङ्गः "पृथ्यतिथि." ॥ ७ । १ । १६ ॥ इत्येयण् ॥ ३ ॥ १६३ ॥
सूर्योदस्तु स संप्राप्तो यः सूर्येऽस्तं गतेऽतिथिः । सूर्यप्रकाशव्याप्तः कालोऽपि सूर्यस्तमूढवान् सूर्योढः ॥ १॥
पादार्थ पाचं वारीत्युत्तरतः संबध्यते, पादार्थमुदकं पाद्यम् “पाद्यायें" ॥ ७ ॥ १ ॥ २३ ॥ इति ये साधुः ॥ १॥
... अर्धामध्ये वारि अर्घार्थमयं वारि " पाद्यार्थे " ॥ ७ ॥ १॥ २३ ॥ इति यः ॥ १॥ .
अथ गौरवम् ॥ १६४ ॥
अभ्युत्थानं गुरोर्भावो गौरवम् ॥ १ ॥ १६४ ॥ अभिमुखमुत्थीयते अभ्युत्थानम् ॥ २ ॥
व्यथकस्तु स्याद् मर्मस्पृगरुन्तुदः। व्यथयति ब्यथकः ॥ १ ॥ मर्म स्पृशतीति मर्मस्पृक् ॥ २ ॥ अरुस्तुदति अरुन्तुदः “बहुविध्वरु-" ॥ ५। १ । १२४ ॥ इति खश् ॥ ३ ॥
__ ग्रामेयके तु ग्रामीणग्राम्यौ
प्रामे भवो ग्रामेयकस्तत्र “कच्यादेश्चैयकम् " ॥६।३ । १० ॥ १ ॥ "प्रामादीनश्च" ॥ ६ । ३ । ९ ॥ इतीनजि ग्रामीणः ॥ २ ॥ ये ग्राम्यः ॥ ३ ॥
लोको जनः प्रजा ॥ १६५ ॥ लोकते पश्यति व्यवहारान् , लोक्यते वा लोकः ॥१॥ जायते जनयति वा जनः ॥ २ ॥ प्रजायते प्रजा "ऋचित् " ॥ ५। १।१७१ ॥ इति डः ॥ ३ ॥ १६५॥
स्यादामुष्यायणोऽमुष्यपुत्रः प्रख्यातवप्तृकः । अमुष्यापत्यमामुष्यायणः, नडादित्वादायनणि “ अदसोऽकायनणोः" ॥३॥
२७
Page #206
--------------------------------------------------------------------------
________________
'२०६
__ अभिधानचिन्तामणौ
२। ३३॥ इति षष्ठ्यलुप् ॥ १॥ अमुष्यपुत्रः, अत्र चौरादिपाठसामर्थ्यात् समासे . षष्ठ्यलुप् ॥ २॥ प्रख्यातो कप्ता पिताऽस्य प्रख्यातवप्तृकः ॥ ३ ॥
कुल्यः कुलीनोऽभिजातः कौलेयकमहाकुलौ ॥ १६६ ॥ .
जात्यः कुलस्यापत्यं कुल्यः, कौलेयकः “यैयकावसमासे वा" ॥६।१।९७॥१॥ २॥ "कुलादीनः" ॥६।१।९६ ॥ इति कुलीनः ॥३॥ अभिजायते स्म अभिजातः, अभिजोऽपि ॥ ४ ॥ महत्कुलमस्य महाकुलः ॥५॥१६६ ॥ जातौ साधुर्जात्यः ॥६॥
गोत्रं तु सन्तानोऽन्ववायोऽभिजनः कुलम् ।
अन्वयो जननं वंशः गूयते कथ्यतेऽनेन गोत्रम् “ हुयामा-" ॥ ( उणा-४५१ ) ॥ इति त्रः ॥१॥ संतन्यतेऽनेन सन्तानः, सन्ततिरपि ॥ २ ॥ अन्ववैत्यन्ववायः ॥ ३ ॥ अभिजन्यतेऽनेन अभिजनः “व्यञ्जनाद् घञ्” ॥५। ३ । १३२ ॥ ४ ।। कोलति संस्त्यायति कुलम् ॥ ५ ॥ अन्वीयतेऽन्वयः ॥ ६ ॥ जन्यतेऽनेन जननम् ॥ ७ ॥ वम्यते जन्यतेऽनेन वंशः “पादावमि-" ॥ ( उणा-५२७ ) ॥ इति शः ॥ ८॥
स्त्री नारी वनिता वधूः ॥ १६७ ॥ ' वशा सीमन्तिनी वामा वर्णिनी महिलाऽबला ।
योषा योषित् स्यति कुलं, सूतेऽपत्यं, स्तृणाति धर्म, स्त्यायत्यस्यां गर्भ इति वा स्त्री "स्त्री " ( उणा-४५०)॥ इति त्रटि निपात्यते ॥ १॥ नृनरयोः " नारीसखी- "॥२॥ ४ । ७६ ॥ इति ङ्यां नारादेशे नारी ॥ २ ॥ वन्यते भज्यते स्म वनिता ॥ ३ ॥ उह्यते वधूः "वहेध च"॥ (उणा-८३२)॥ इत्यू: ॥४॥१६७॥ वष्टि कामयते वसा ॥५॥ सीमन्तः केशविन्यासोऽस्त्यस्याः सीमन्तिनी ॥६॥ वाति गच्छति नरं वामा “ अर्तीरि-" ॥ ( उणा-३३८)॥ इति मः, यद्वा वामा विपरीतलक्षणया, शृङ्गारिखेदनाद्वा ॥ ७॥ वर्णोऽस्त्यस्या वर्णिनी ॥ ८ ॥ मह्यते महिला “ कल्यनिमहि-"॥ ( उणा-४८१)॥ इतीलः, महेलाऽपि ॥ ९ ॥ नास्ति बलमस्या अबला ॥१०॥ यौति नरेण योषा “ योरूच वा” ॥ ( उणा-५४१) ॥ इति षः ॥ ११॥ युषः सौत्रः, योषति गच्छति पुरुषं योषित् "हृसृरुहि-" ॥ (उणा-८८७) ॥ इति इत् , योषिताऽपि ॥ १२ ॥
विशेषास्तु कान्ता भीरुनितम्बिनी ॥ १६८ ॥ प्रमदा सुन्दरी रामा रमणी ललनाऽङ्गना ।।
Page #207
--------------------------------------------------------------------------
________________
...३ मर्यकाण्डः । ।
२०७
काम्यते कान्ता ॥ १ ॥ बिभेतीत्येवंशीला भीरुः, अत्र क्रियावाचित्वाजातिलक्षण ऊ न भवति, यथा “असूर्यम्पश्यरूपा त्वं किमभीरुररार्यसे” इति । ताच्छीलिकाः संज्ञाप्रकाराश्चेत् तदा मनुष्यजातित्वे सत्यूङ् भवत्येव, यथा “न हि भीरु ! गतं निवर्तते" इति ॥ २ ॥प्रशस्तो नितम्बोऽस्त्यस्या नितम्बिनी ॥३॥१६८॥ प्रकृष्टो मदः कामवेगोऽस्याः प्रमदा ॥ ४॥ सुन्दः सौत्रः, सुन्दन्त्येनां सुन्दरी "ऋच्छिचटि-" ॥ ( उणा-३९७ ) ॥ इत्यरः, सुष्ठु आद्रियते वा पृषोदरादित्वात् ॥५॥ रमते रामा, ज्वलादित्वाण्णः ॥ ६ ॥ रम्यादिभ्यः कर्तर्यनटि रमणी ॥ ७ ॥ ललति, लल्यते वा ललना ॥ ८ ॥ प्रशस्तान्यङ्गानि सन्त्यस्या अङ्गना “ नोऽङ्गादेः " ॥७।२।२९॥९॥
खगुणेनोपमानेन मनोज्ञादिपदेन च ॥ १६९ ॥ विशेषिताङ्गकर्मा स्त्री यथा तरललोचना । अलसेक्षणा मृगाक्षी मत्तेभगमनाऽपि च ॥१७॥
वामाक्षी सुस्मिता अजस्य कर्मणो वा खश्चासौ गुणश्च स्वगुणस्तेन तद्वाचिना शब्देनेत्यर्थः, अत्र खशब्दोपादानात् तरलत्वादीनां गुणानामसाधारणतामाह, तेन मनोज्ञत्वादीनां गुणत्वेऽपि साधारणत्वाद् मनोज्ञादिपदेन चेति पृथग निर्देशः; उपमीयते अनेन उपमान मुगलोचनादिः, मनोज्ञ आदिर्यस्य तद् मनोज्ञादिपदं तेन च। एतैत्रिभिर्विशेषितमङ्गमवयवो लोचनादिः, कर्म च क्रिया गमनादिर्यस्याः सा तथा स्त्री। यथाशब्दः खगुणादिक्रमेणाङ्गकर्मोदाहरणोपन्यासार्थः । तरले लोचने अस्यास्तरललोचना, अत्र तरलत्वं लोचनस्याऽसाधारणः खकीयो गुणः ॥ १ ॥ अलसमीक्षणमालोकोऽस्या अलसेक्षणा, अत्र ईक्षणलक्षणायाः क्रियाया अलसत्त्वमसाधारणः स्वकीयो गुणः ॥ २ ॥ मृगाक्षिणीव अक्षिणी अस्या मृगाक्षी, उष्टमुखादित्वादुपमानवाच्यक्षिशब्दस्य बहुव्रीही लोपः, अत्र मृगाक्षिलक्षणेनोपमानेनाक्षिलक्षणमङ्गं विशेषितम् ॥ ३॥ एवं मत्तेभगमनमिव गमनमस्याः सा तथा, अत्रोपमानभूतमत्तेभगमनेनापरा गमनक्रिया विशेषिता ॥४॥१६९॥१७०॥ वामे मनोज्ञे अक्षिणी अस्या वामाक्षी, अत्र वामत्वेनाक्ष्यङ्गं विशेषितम् ॥५॥ शोभनं स्मितमस्याः सुस्मिता, अत्र शोभनत्वेन स्मितक्रिया विशेषिता । वरारोहा, वरवर्णिनी, प्रतीपदार्शनीत्यादयः शब्दा अत्र अभ्यूह्याः ॥६॥. - अस्याः स्वं मानलीलास्मरादयः ।
अस्याः स्त्रियाः खं धनं मानादयः- मानोऽभिमानः, लीला शृङ्गारचेष्टाविशेषः, स्मरो मन्मथः; तेन मानिनी, लीलावती, स्मरवतीत्यादिनामानि भवन्ति, आदिग्रहणाद मनोविलासादयः॥
लीला विलासो विच्छित्तिर्विव्वोकः किलिकिञ्चितम् ॥१७॥
Page #208
--------------------------------------------------------------------------
________________
२०८
अभिधानचिन्तामणौ
मोटायितं कुट्टमितं ललितं विहृतं तथा । विभ्रमश्चेत्यलङ्काराः स्त्रीणां खाभाविका दश ॥ १७२ ।। । लीयते लीला वाम्बेषचेष्टितैः प्रियस्याऽनुकृतिः॥१॥ विलसनं क्लिास: स्थानगमनादिवैशिष्टयम् ॥ २ ॥ विशिष्टा छित्तिर्भनिर्विच्छित्तिः शोभाकृद्गदिल्पाकल्पविन्यासः ॥३॥ विपरीतं बुक्कणं भाषणं निरुक्तत्वाद् विव्वोकः सौभाग्यगर्वादिष्टेप्ववज्ञा ॥ ४ ॥ अलीकं किञ्चिच्चितं किलीति कण्ठकूजितं का निरुक्तात् किलिकिञ्चितं सौभाग्यगर्वात् स्मितादीनां सङ्करः ॥ ५॥१७१ ॥ मदनाङ्गपर्यन्ताङ्गमोटनाद् मोटायितं प्रियकथादौ तद्भावभावनोत्था चेष्टा ॥ ६ ॥ कुट्टण् कुत्सनादौ कुटेन मितं लक्ष्यादुत्वे कुटुमितमधरादिग्रहणाद् दुःखेऽपि हर्षः॥७॥ लल्यते ललितं ममृणाङ्गन्यासः ॥८॥ विह्रियते विहृतं भाषणाक्सरेऽपि व्याजादभाषणम् ॥९॥ विभ्रमणं विभ्रमः सौभाग्यगर्वाद् वचनादीनामन्यथानिवेशः ॥ १० ॥ इत्येवमलङियन्ते, एभिरित्यलङ्काराः, स्त्रीणामिति न तु पुंसाम् । स्वस्माद् रतिभावाद् हृदयगोचरीभूताद् भवन्ति खाभाविकाः, यद्वा कस्याश्चिद् नायिकायाः कश्चिदेव स्वभावबलाद् भवति, अन्यस्या अन्यः, कस्याश्चिद् द्वौ, त्रय इत्यादि, अतोऽपि स्वाभाविकाः; ते च दशसंख्याः स्युरिति ॥ १७२॥
प्रागल्भ्यौदार्यमाधुर्यशोभाधीरत्वकान्तयः ।
दीप्तिश्वाऽयत्नजाः . प्रागल्भ्यं प्रयोगे निःसाध्वसत्वम् ॥ १॥ औदार्यममर्षेाद्यवस्थास्वपि प्रश्रयः ॥ २॥ माधुर्य क्रोधादिष्वपि चेष्टयमसृणत्वम् ॥३॥ शोभा रूपायैः पुंभोगोपबंहितैः किश्चिच्छायान्तराश्रयणम् ॥ ४ ॥ धीरत्वमचापलमविकत्थनत्वं च ॥५॥ कान्तिः रूपाद्यैः पुंभोगोपहितैर्मध्यानच्छाया ॥ ६ ॥ सैव तीव्रा दीप्तिः॥ ७॥ यत्नाजाता यत्नजाः क्रियाऽऽमानः, “ इच्छातो यत्नस्ततो देहे क्रिया” इति हि पदार्थविदः, ततोऽन्ये त्वयत्रजा गुणात्मानः सप्तालङ्काराः ॥
___ भावहावहेलास्त्रयोऽङ्गजाः ॥ १७३ ॥
अन्तर्गतवासनात्मतया वर्तमान रत्याख्यं भावं भावयतीति भाकः, अङ्गस्याल्पो विकारः ॥१॥ स्वचित्तवृत्तिं परत्र जुहती ददतीं हावयतीति हावो भूतारकादीनां बहुर्विकारः ॥ २॥ हेलनं हावस्य प्रसरणं हेला अङ्गस्य भूयान् विकारः ॥३॥ प्राग्जन्माभ्यस्तरतिमात्रेण सत्त्वोबुद्धेनाङ्गाद देहाद् भवन्तीत्यङ्गजास्त्रयोऽलङ्कारा इति ॥ १७३ ॥
सा कोपना भामिनी स्यात् . भामतेऽवश्यं, भामः क्रोधोऽस्त्यस्या वा भामिनी ॥ १॥ .
Page #209
--------------------------------------------------------------------------
________________
-.३ मर्त्यकाण्डः ।
२०९
• छेका मत्ता च वाणिनी। छेका मत्ता वणत्यवश्यं वाणिनी ॥ १॥ ___ कन्या कनी कुमारी च
कनति दीप्यते कन्या " स्थाछा- " ॥ ( उणा-३५७) ॥ इति यः ॥१॥ कनति अचि कनी " वयस्यनन्ये" ॥२।४।२१ ॥ इति ड्याम् ॥ २ ॥ कुमारयति कीडयति कुमारी, कुत्सितो मारोऽस्या वाऽनूढत्वात् ॥ ३ ॥ . गौरी तु नग्निकाऽरजाः ॥ १७४ ॥
स्त्रीधर्मरहिता गूयते उपादेयतया गौरी “ खुरक्षुर-" ॥ ( उणा-३९६ )॥ इति साधुः । 'ओनजैत् वीडे' इति केचित् , नजायते स्म नग्ना के नग्निका, " अष्टवर्षा भवेद् गौरी दशमे नग्निका भवेत्” इति स्मा? विशेषो नाश्रितः ॥१॥ नास्ति रजोऽस्या अरजा अप्राप्तर्तुः ॥ २ ॥ १७४ ॥
मध्यमा तु दृष्टरजास्तरुणी युवतिश्चरी ।
तलुनी दिक्करी मध्यमा मध्यमवयाः॥ १॥ दृष्टं रजोऽस्या दृष्टरजाः प्राप्ततुः ॥ २॥ तरति कौमारं वयस्तरुणी " यम्यजि-" ॥ ( उणा-२८८ ) ॥ इत्युनः “ वयस्यनन्ये" ॥२ । ४ । २१ ॥ इति डीः ॥ ३ ॥ " यूनस्तिः " ॥ २ । ४ । ७७ ॥ युवतिः, यौतीति वा “ योः कित् " ॥ ( उणा-६५८ ) ॥ इत्यौणादिकोऽतिः, तस्मात् " इतोऽक्त्यर्थात् " ॥ २। ४ । ३२ ॥ इति वा ट्यां युवतीत्यपि भवति ॥ ४ ॥ चरति चरी ॥ ५॥ रस्य लत्वे तलुनी ॥ ६ ॥ दिशमाश्रयं करोति दिक्करी, यल्लक्ष्यम्-“ परिणतदिकरिकास्तटीविभति" इति ॥ ७ ॥ . वर्या पतिंवरा स्वयंवरा ॥ १७५ ॥
वियते वर्या “ वर्योपसर्या-" ॥५॥ १॥ ३२ ॥ इति ये साधुः, वरमर्हति वा “ दण्डादेर्यः" ॥ ६ । ४ । १७८ ॥ इति यः ॥ १॥ पतिं वृणीते पतिंवरा "भृवृजि-" ॥ ५। १ । ११२ ॥ इति खः ॥ २॥ स्वयं वृणीते स्वयंवरा ॥ ३ ॥ १७५ ॥
सुवासिनी वधूटी स्याच्चिरिण्टी सुष्ठ वसति सुवासिनी, स्ववासिनीति द्रमिलाः ॥ १॥ बध्नाति कटाक्षैर्वधूटी " बन्धेः" ॥ ( उणा--१५७ ) ॥ इति किदूटः " वयस्यनन्त्ये" ॥ २ ॥ ४ । २१॥ इति ङीः, वध्वटीत्यपि व्याडिः ॥ २ ॥ चिरिः सौत्रः स्वादिः, चिरिणोति चिरिण्टी " टिण्टश्चर् च वा” ॥ ( उणा-१५० ) ॥ इति साधुः; चरिण्टीत्यपि, चिरण्टीत्यमरः । चरण्टीत्यन्ये ॥ ३ ॥
Page #210
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणौ
अथ सधर्मिणी। पत्नी सहचरी पाणिगृहीती गृहिणी गृहा ॥ १७६ ॥ दाराः क्षेत्रं वधूर्भार्या जनी जाया परिग्रहः ।
द्वितीयोढा कलत्रं च सह धर्मोऽस्त्यस्याः सधर्मिणी, यज्ञादौ सहाधिकारात् , सहधर्मिणी, सधर्मचारिण्यपि ॥ १॥ पत्नीति पतिशब्दात् “ ऊढायाम् ” ॥ २ । ४ । ५. ॥ इति ङीः नकारश्चान्तादेशः ॥ २॥ सह धर्म चरति सहचरी ॥ ३ ॥ पाणिर्गृहीतोऽस्याः, पाणौ वा गृहीता पाणिगृहीती “ पाणिगृहीतीति" ॥ २ । ४ । ५२ ॥ इति डीः, करात्तीत्यपि ॥ ४ ॥ गृहमस्त्यस्या गृहिणी, गेहिनीत्यपि ॥ ५॥ गृहवासहेतुभूतत्वाद् गृहाः, पुंक्लीबलिङ्गः, पुंस्ययं बहुवचनान्त एव ॥ ६॥१७६॥ दारयन्ति, दीर्यन्तएभिरिति वा दाराः, पुंलिङ्गो बहुवचनान्तश्च, एकवचनान्तोऽपि दृश्यते, यल्लक्ष्यम्-"धमप्रजासम्पन्ने दारे नान्यं कुर्वीत" इति, “न्यायावाया-" ॥ ५।३।५३४॥ इति घमि साधुः ॥ ७ ॥ क्षयन्ति निवसन्यत्र क्षेत्रम् “ हुयामा-" ॥ ( उणा-४५१)॥ इति त्रः॥ ८ ॥ उह्यते वधूः ॥ ९॥ भियते भार्या ॥ १० ॥ जायतेऽस्यां पतिरिति जनिः, ड्या जनी ॥ ११॥ “ ऋशिजनि-" ॥ ( उणा-३६१ ) ॥ इति किति ये जाया, यन्मनुः-- "जायायास्तद्धि जायत्वं यदस्यां जायते सुतः ॥१२॥ परिगृह्यते परिग्रहः ॥ १३ ॥ द्वयोः पूरणी द्वितीया ॥ १४ ॥ उह्यते परिणीयते स्म ऊढा ॥ १५॥ कडति माद्यति कडत्रं, लस्वे कलत्रम् “ वृनक्षि-.” ॥ ( उणा४५६) ॥ इत्यत्रः ॥ १६ ॥
पुरन्ध्री तु कुटुम्बिनी ॥ १७७ ॥ पुरं धत्ते पुरन्ध्रिः, पृषोदरादित्वाद् ड्यां पुरन्ध्री ॥ १ ॥ कुटुम्बं पुत्रभृत्याद्यस्त्यस्याः कुटुम्बिनी ॥ २ ॥ १७७ ॥
प्रजावती भ्रातुर्जाया प्रजाऽस्त्यस्याः प्रजावती ॥१॥ भ्रातुर्जायेत्यत्र " ऋतां विद्या-"॥३॥२॥३७॥ इति समासे षष्ठयलुप्। “द्रक्ष्यसि भ्रातृजायाम्" इत्यादौ तु सप्तमीसमासः ॥२॥
सूनोः स्नुषा जनी वधूः। सूनोर्जाया, स्नौति अपत्यवात्सल्यात् स्नुषा " स्नुपूसू-" ॥ (उणा-५४२) ॥ इति कित् षः ॥ १॥ जायतेऽस्यां जनी ॥ २ ॥ उद्यते वधूः, वधूटीत्यपि ॥३॥
भ्रातृवर्गस्य या जाया यातरस्ताः परस्परम् ॥ १७८ ।।
Page #211
--------------------------------------------------------------------------
________________
. ३ मर्त्यकाण्डः ।
२११ यतन्ते स्पर्धया यातरः “ यतिननन्दिभ्यां दीर्घश्च" ॥ (उणा-८५६)॥ इति क्रः॥ १७८॥
वीरपत्नी वीरभार्या वीरः पतिरस्या वीरपत्नी “ सपत्न्यादौ " ॥ २ । ४ । ५० ॥ इति ड्यां साधुः ॥१॥२॥
कुलस्त्री कुलबालिका। कुलस्य स्त्री कुलस्त्री ॥१॥ कुलस्य बालिका कुलबालिका; कुलपालिकेत्यमरः॥२॥
प्रेयसी दयिता कान्ता प्राणेशा वल्लभा प्रिया ॥ १७९ ॥
हृदयेशा प्राणसमा प्रेष्ठा प्रणयिनी च सा ।
अतिशयेन प्रिया प्रेयसी " गुणाङ्गा" ॥ ७॥३॥ ९॥ इतीयसि " प्रियस्थिर-" ॥ ७॥ ४ । ३८ ॥ इति प्रादेशः ॥ १॥ नरस्य दयिते ईष्टे दयिता ॥२॥ काम्यते कान्ता ॥३॥ प्राणान् ईष्टे प्राणेशा ॥ ४ ॥ वल्लते वल्लभा " कृश-." ॥ ( उणा-३२९)॥ इत्यभः ॥ ५॥ प्रीणाति प्रिया " नाम्युपान्त्य-"॥५।१। ५४ ॥ इति कः ॥ ६ ॥ १७९ ॥ हृदयस्येष्ट हृदयेशा ॥ ७ ॥ प्राणानां समा तुल्या प्राणसमा ॥ ८ ॥ अतिशयेन प्रिया प्रेष्ठा ॥ ९॥ प्रणयः प्रेम सोऽस्त्यस्याः प्रणयिनी, प्रेमवतीत्यपि ॥ १० ॥
प्रेयस्याद्याः पुंसि पत्यौ भर्ता सेक्ता पतिर्वरः ॥ १८० ॥ विवोढा रमणो भोक्ता रुच्यो वरयिता धवः । प्रेयसीप्रभृतयः शब्दाः पुंलिङ्गे वर्तमानाः सन्तः पत्यौ वर्तन्ते, तद्यथा-प्रेयान् ॥१॥ दयितः ॥ २॥ कान्तः ॥ ३ ॥ प्राणेशः ॥ ४ ॥ वल्लभः ॥५॥ प्रियः॥६॥ हृदयेशः ॥ ७ ॥ प्राणसमः ॥ ८ ॥प्रेष्ठः ॥ ९ ॥ प्रणयी च ॥ १० ॥ बिभर्ति प्रियां भर्ता ॥ ११ ॥ सिञ्चति सेक्ता ॥ १२ ॥ पाति पतिः "पातेर्वा ॥ ( उणा६५९)॥ इति किदतिः ॥ १३ ॥ वृणीते वरयति वा वरः ॥ १४ ॥ १८० ॥ विवहति परिणयते वा विवोढा, यौगिकत्वात् परिणेता, पाणिग्राहः, उपयन्तेत्यादयः ॥१५॥ रमते चित्तं, रमयति वा रमणः ॥ १६ ॥ भुते कान्तां भोक्ता ॥ १७ ॥ रोचते रुच्यः ॥ " रुच्याव्यथ्य " ॥ ५।१।६ ॥ इति ये निपात्यते ॥ १८ ॥ वरयति वरयिता ॥ १९ ॥ धुनाति धवः ॥ २० ॥
जन्यास्तु तस्य सुहृदः तस्य वरस्य सुहृदो वयस्याः, जनीं वहन्ति जन्याः "हृद्यपद्य-" ॥७।१।११॥ इति यः ॥१॥
Page #212
--------------------------------------------------------------------------
________________
२१२
अभिधानचिन्तामणौ
विवाहः पाणिपीडनम् ॥ १८१ ॥ पाणिग्रहणमुद्वाह उपाद् याम-यमावपि ।
दारकर्म परिणयः विवहनं विवाहः ॥ १॥ पाणिः पीड्यतेऽस्मिन् पाणिपीडनम् ॥ १८१ ॥ एवं पाणिग्रहणम् ॥ २ ॥३॥ उद्वहनमुद्वाहः ॥ ४ ॥ उपात्परतो याम-यमौ- उपयमनमुपयामः, उपयमः “ संनिव्युपाद्यमः " ॥ ५। ३ । २५ ॥ इति वाऽल् ॥५॥ ६ ॥ दाराणां कर्म क्रिया दारकर्म ॥ ७ ॥ परिणयनं परिणयः ॥ ८॥ ... , शेषश्चात्र
जाम्बूलमालिकोद्वाहे वरयात्रा तु दौन्दुभी । गोपाली वर्णके शान्तियात्रा वरनिमन्त्रणे । स्यादिन्द्राणी महे हेलिरुलूलुमङ्गलध्वनिः ॥ १ ॥ स्यात्तु स्वस्त्ययनं पूर्णकलशे मङ्गलाह्निकम् । शान्तिके मङ्गलस्नानं वारिपल्लववारिणा ॥ २ ॥ हस्तलेपे तु करणं हस्तबन्धे तु पीडनम् ।
तच्छेदे समवभ्रंशो धूलिभक्ते तु वार्तिकम् ॥ ३ ॥ जामाता दुहितुः पतिः ॥ १८२ ॥ जायां प्रजायां मिन्वन्ति तमिति जामाता " जायामिगः"॥ (उणा-८६०)। इति तृः ॥१॥ १८२॥
उपपतिस्तु जारः स्यात् उपजातः पतिरुपपतिः ॥१॥ जीर्यतेऽनेन, जरयति वा जारः " न्यायावाया- " ॥५। ३ । १३४ ॥ इति पनि साधुः ॥ २ ॥
भुजङ्गो गणिकापतिः ।
भुजङ्गाभ्यां नृत्यद्भयामिव गच्छति भुजङ्गः, “नानो गमः" ॥५।१।१३१॥ इति खड्॥१॥
जम्पती दम्पती जायापती भार्यापती समाः ॥१८३॥ जाया च पतिश्च जम्पती, दम्पती, राजदन्तादित्वाज्जायाशब्दस्य जम्-दम्-भावो वा निपात्यते, पक्षे जायापती ॥ १ ॥ २ ॥ ३॥ भायो च पतिश्च भायोपती ॥४॥ १८३ ॥
यौतकं युतयोर्देयं सुदायो हरणं च तत् । युतयोर्वधूवरयोरिदं यातकम् ॥ १॥ सुष्ठु दीयते सुदायः, दाय इत्येके,
Page #213
--------------------------------------------------------------------------
________________
३ मर्त्यकाण्डः ।
२१३
यच्छाश्वतः - " यौतकादि धनं दायो दयो दानमुदाहृतम्” इति ॥२॥ हियतेऽनेनेति हरणम् ॥ ३ ॥
कृताभिषेका महिषी
नृपस्त्रीत्युत्तरतः संबध्यते, महादेवीत्वे कृताभिषेका, यथा वासवदत्ता । मह्यते पूज्यते महिषी " मह्यविभ्यां टित् " ॥ ( उणा - ५४७ ) ॥ इतीषः ॥ १ ॥ भोगिन्योऽन्या नृपस्त्रियः ॥ १८४ ॥
भोगोsस्त्यासां भोगिन्यः, अन्याः पद्मावत्याद्याः ॥ १ ॥ १८४ ॥
सैरन्ध्री याऽन्यवेश्मस्था स्वतन्त्रा शिल्पजीविनी ।
याऽन्यवेश्मस्था परवेश्मोपजीविनी स्वतन्त्रा स्वायत्ता एकायत्ता न भवतीत्यर्थः, शिल्पं प्रसाधनादि तेन जीवति सा सह ईरमीरणं धरते सैरन्ध्री पृषोदरादित्वात् “चतुःषष्टिकलाभिज्ञा शीलरूपादिसेविनी । प्रसाधनोपचारज्ञा सैरन्ध्री " इति कात्यः ॥१॥
असिक्त्यन्तःपुरप्रेष्या
असिताऽसिक्तिः “ क्नः पलितासितात् " ॥ २ । ४ । ३७ ॥ इति ड्यां साधुः, अन्तःपुरे प्रेष्या नियोज्या ॥ १ ॥
दूतीसंचारिके समे ॥ १८५ ॥
(2
दूयते मौखर्याद दूती शीरी - " ॥ ( उणा - २०१ ) ॥ इति कित्तः ॥ १ ॥ संचारयति संदेशं प्रापयति संचारिका ॥ २ ॥ १८५ ॥
प्रज्ञा प्राज्ञी प्रजानत्यां
प्रजानाति प्रज्ञा ॥१॥ सैव प्रज्ञाद्यणि प्राज्ञी ॥ २॥ प्राज्ञा तु प्रज्ञयाऽन्विता ।
प्रज्ञाऽस्त्यस्याः प्राज्ञा " प्रज्ञाश्रद्धा " ।। ७ । २ । ३३ ॥ इति णः ॥ १॥ स्यादाभीरी महाशुद्री जातिपुंयोगयोः समे ॥ ९८६ ॥
आभीरजातीया, आभीरस्य स्त्री वा आभीरी, एवं महाशुद्री, जातिलक्षणो धवयोगलक्षणो वा ङीप्रत्ययः, वैश्यभेद एव आभीरो गवाद्युपजीवी, अन्यत्र महती चासौ शुद्रा च महाशुदेत्येव भवति ॥ १ ॥ २ ॥ १८६॥
पुंयुज्याचार्य्याचार्यानी
"
पुंसा योगः पुंयुक् तत्र, आचार्यस्य भार्या आचार्य, आचार्यानी “ मातुलाचार्योपाध्यायाद्वा ॥ २ । ४ । ६३ ॥ इति ङीः, पक्षे तत्सन्नियोगे आनू चान्तः, क्षुम्नादित्वाद् णत्वाभावः ॥ १ ॥ २ ॥
२९
Page #214
--------------------------------------------------------------------------
________________
२१४
अभिधानचिन्तामणौ
मातुलानी तु मातुली । अत्राऽपि पुंयोगे मातुलस्य भार्या मातुलानी मातुली ॥ १ ॥ २ ॥
उपाध्यायान्युपाध्यायी घुयोगादुपाध्यायस्य भार्याऽप्युपाध्यायानी, उपाध्यायी ॥ १॥२॥ .. - क्षत्रिय्यर्यां च शूद्रयपि ॥ १८७ ॥
घुयोगे क्षत्रियस्य भार्या क्षत्रियी ॥१॥ अर्यस्य भार्या अर्थी ॥ १॥ शूद्रस्य भार्या शूद्री “धवाद् योगा-" ॥ २॥४॥५९ ॥ इति ङीः ॥ १ ॥ १८ ॥ ..
खत आचार्या शूद्रा च खतः पुंयोगं विना स्त्री आचार्या ॥१॥ शूद्रा अत्राऽऽबेव ॥ १ ॥
क्षत्रिया क्षत्रियाण्यपि।
खत एव स्त्री "अर्यक्षत्रियाद्वा" ॥ २।४।६६ ॥ इति विकल्पेन डीः, तत्सनियोगे आन् चान्तः, पक्षे आप् ॥ १॥२॥
उपाध्याय्युपाध्याया स्यात् । खत एव स्त्री, उपेत्य अधीयतेऽस्या इत्युपाध्यायी, उपाध्याया "इडोऽपादाने नु टिद्वा " ॥५॥३॥१९॥ इति घो विकल्पेन टित्त्वादेकत्र डीः, पक्षे आप् ॥१॥२॥ 1. अर्याऽाण्यौ पुनः समे ॥ १८८ ॥ खत एव ॥ १॥ २॥ १८८ ॥
दिधिषूस्तु पुनर्भूढेिरूढा धृष्णोति दिधिषू : " धृषेदिधिषदिधीषौ च" ॥ ( उणा-८४२ ) ॥ इत्यूः, दिधीपूरपि ॥ १॥ पुनर्भवति पुनर्भू: । द्वौ वारावस्य द्विरूढा संस्कृता "अक्षता च क्षता चैव पुनर्भूः संस्कृता पुनः" । मनुस्त्वन्यथाह
"ज्येष्ठायां यद्यनूढायां कन्यायामुह्यतेऽनुजा ।
सा चादिधिपूर्वैया पूर्वा तु दिधिषमता" ॥ १. ॥ २॥ . .. अस्या दिधिषू ः पतिः ।
अस्याः पुनर्वाः पतिः दिधिषूमिच्छत्यात्मनो दिधिषू : “ अमाव्ययात्-" ॥ ३।४।२३ ॥ इति क्यन् , ततः क्विपि यलोपः ॥ १॥
स तु द्विजोऽग्रेदिधिपूर्यस्य स्यात् सैव गेहिनी ॥ १८९॥ . अग्रेऽनन्यभार्यत्वात् प्रधानं दिधिपूर्यस्य सोऽग्रेदिधिपूसमासान्तविधेरनित्यत्वातू कच् न भवति, सैवेति पुन रेव ॥ १ ॥ १८१ ॥
""
Page #215
--------------------------------------------------------------------------
________________
३ मर्त्यकाण्डः ।
२१५ ' - ज्येष्ठेऽनूढ़े परिवेत्ताऽनुजो दारपरिग्रही। ... ज्येष्ठे भ्रातरि अकृतविवाहे कनिष्ठो विवाहाद्धेतोः परिवर्ण्य विन्दति परिवेत्ता, यस्मृतिः- “ येऽप्रजेष्वकलत्रेषु कुर्वते दारसंग्रहम् ।
ज्ञेयास्ते परिवेत्तारः परिवित्तिस्तु पूर्वजः" ॥ १ ॥ इति। उपलक्षणं चैतत् , यतोऽग्निहोत्रादावपि परिवेदनव्यवहारोऽस्ति ॥१॥
तस्य ज्येष्ठः परिवित्तिः • तस्व परिवेत्तुज्येष्ठोऽप्रजः परिवयं यं विन्दति स परिवित्तिः ॥ १ ॥
जाया तु परिवदिनी ॥ १९ ॥ तस्य परिवेत्तुर्जाया परिवर्ण्य विन्दति परिवेदिनी ॥ १ ॥ १९० ॥
वृषस्यन्ती कामुकी स्यात् । वृष मैथुनमिच्छति वृषस्यन्ती " वृषाश्वान्मथुने स्सोऽन्तः " ॥ ४ । ३ । ११४ ॥१॥ कमनशीला कामुकी " भाजगोण-" ॥ २ । ४ । ३० ॥ इति रिरंसायां डीः ॥ २॥
इच्छायुक्ता तु कामुका। अत्र च रिरंसाया अभावादेव ॥ १ ॥
कृतसापनिकाऽध्यूढाऽधिविना कृतं सापत्नं सपत्नीभावोऽस्याः कृतसापत्निका ॥ १ ॥ अधि उपरि उह्यते द्वितीया अस्या अध्यूढा ॥ २ ॥ अधिविन्दति अस्यामधिविना ॥ ३ ॥ - अथ पतिव्रता ॥ १९१ ॥
एकपत्नी सुचरित्रा साध्वी सती पतिसेवैव व्रतमस्याः पतिव्रता, यत्स्मृतिः- नास्ति स्त्रीणां पृथग यज्ञो न प्रतमिति ॥ १ ॥ १९१ ॥ एकः पतिरस्या एकपत्नी “ सपत्न्यादौ " ॥ २॥४॥५०॥ .. ' इति ड्यो साधुः ॥ २॥ शोभनं चरित्रमस्याः सुचरित्रा ॥ ३ ॥ सानोति पतिसेवा साध्वी ॥ ४ ॥ अस्ति नित्यं भर्तृभक्ता सती ॥ ५ ॥
असतीत्वरी। पुंश्चली चर्षणी बन्धक्यविनीता च पांसुला ॥१९२ ॥
खैरिणी कुलटा म सती. असती ॥ १॥ एत्येवंशीला इत्वरी “ सृजीण-" ॥ ५॥ २ ॥ ७७॥
Page #216
--------------------------------------------------------------------------
________________
२१६
अभिधानचिन्तामणौ
इति ट्वरप् ॥ २ ॥ पुमांसं चलयति पुंश्चली ॥ ३ ॥ कर्षति मनश्चर्षणिः “ कृषेश्व चादेः" ॥ ( उणा-६४१ ) ॥ इति अणिः, कस्य चत्वं च, ह्यां चर्षणी ॥ ४ ॥ बध्नाति चित्तं बन्धकी "दृक-" ॥(उणा-२७)॥ इत्यकः ॥ ५ ॥ न विनीता अ. विनीता ॥ ६ ॥ पांसुर्मालिन्यहेतुरस्त्यस्याः पांसुला, सिध्मादित्वाद् लः ॥७॥१९२॥ स्वयमीरितुं शीलमस्याः खैरिणी " खैरखैर्यक्षौहिण्याम् " ॥ १।२।१५ ॥ इत्यैत्वम् ॥ ८ ॥ कोलति कुलटा “ कुलिविलिभ्यां कित्" ॥ ( उणा-१४३ ) ॥ इत्यटः कुलान्यटति शीलं भेत्तुं वा पृषोदरादित्वात् , कुत्सितं लटति इति वा ॥ ९ ॥
शेषश्चात्रकुलटायां तु दुःशृङ्गी बन्धुदा कलकूणिका। धर्षणी लाञ्छनी खण्डशीला मदननालिका ॥
त्रिलोचना मनोहारी ॥ - याति या प्रियं साऽभिसारिका ।
मदनेन मदेन वा या श्लिष्टा प्रियमभिसरति, अभिसारयति वा सा अभिसारिका, यद्भरतः
“ हित्वा लज्जाभये श्लिष्टा मदेन मदनेन वा ।
अभिसारयते कान्तं सा भवेदभिसारिका" ॥१॥१॥ वयस्यालिः सखी सध्रीची वयसा तुल्या वयस्या " हृद्यपद्य-" ॥७।१।११॥ इति यः ॥ १ ॥ अलतीत्यालिः " कृशकुटि-" ॥ ( उणा-६१९) ॥ इति णिदिः ॥ २ ॥ सनुते सखी " सनेडंखिः " ॥ ( उणा-६२५ ) ॥ " नारीसखी-" ॥ २।४।७६ ॥ इति डी: ॥ ३ ॥ सहाश्चति सध्रीची “ अञ्चः " ॥ २।४।३ ॥ इति ङीः ॥ ४ ।।
अशिश्वी तु शिशुं विना ॥ १९३ ॥ ...नास्ति शिशुरस्या अशिश्वी “अशिशोः" ॥२॥४८॥ इति ङीः ॥१॥१९३॥
पतिवत्नी जीवत्पतिः पतिरस्त्यस्याः पतिवत्नी “पतिवन्यन्तर्वन्यौ भार्यागर्भिण्योः " ॥२॥४॥५३॥ इति ङ्यां साधुः ॥१॥ जीवन् पतिरस्या जीवत्पतिः, जीवत्पत्नी अपि ॥ २ ॥
विश्वस्ता विधवा समे। विश्वसिति स्म विश्वस्ता ॥ 5 ॥ विगतो धवो भर्ता अस्या विधवा ॥ २ ॥
निवारा निष्पतिसुता निर्गतौ वीरौ पतिपुत्रौ अस्या निर्वीरा, अवीराऽपि ॥ १॥
Page #217
--------------------------------------------------------------------------
________________
३ मर्त्यकाण्डः।
२१७
• जीवत्तोका तु जीवसूः ॥ १९४ ॥
जीवत्तोकमपत्यमस्या जीवत्तोका ॥ १॥ जीवा जीवन्ती सूः प्रसूतिरस्या जीवसूः ॥ २ ॥ १९४ ॥
नश्यत्प्रसूतिका निन्दुः नश्यन्ती म्रियमाणा प्रसूतिर्यस्याः सा तथा, निन्दत्यात्मानं निन्दुः"भृमृतृ-'॥ ( उणा-७१६ ) ॥ इति बहुवचनाद् उः ॥१॥
सश्मश्रुर्नरमालिनी। सह श्मश्रुणो वर्तते सश्मश्रुः, नरत्वं मलते धारयति नरमालिनी ॥ १ ॥ शेषश्चात्र-- पालिः सश्मश्रुयोषिति ॥
कात्यायनी त्वर्धवृद्धा काषायवसनाऽधवा ॥ १९५ ॥ कतस्यापत्यमिव कात्यायनी, ऋषिपत्न्याकारत्वात् त्रिलक्षणेयम् , अर्ध वृद्धा अर्धवृद्धा, कषायेन रक्तं काषायं वसनमस्याः काषायवसना, नास्ति धवो अस्या अधवा रण्डेत्यर्थः ॥ १॥ १९५ ॥
श्रवणा भिक्षुकी मुण्डा
शृणोति श्रवणा, श्रमणाऽपि च ॥ १॥ भिक्षणशीला भिक्षुः, के, इयां च भिक्षुकी ॥ २ ॥ मुण्ड्यते मुण्डा ॥ ३ ॥ . शेषश्चात्र- श्रवणायां भिक्षुणी स्यात् ॥
पोटा तु स्त्री नृलक्षणा। पुठ्यते संश्लिष्यते क्लीबत्वेन घनि पोटा स्त्री नृलक्षणा इत्युभयव्यञ्जना नपुंसंकाख्या ॥१॥
साधारणस्त्री गणिका वेश्या पण्यपणाङ्गना ॥१९६ ॥
भुजिष्या लञ्जिका रूपाऽऽजीवा ___ साधारणा चासौ स्त्री च साधारणस्त्री ॥१॥ गणयतीश्वरानीश्वरौ गणिका, गणः पेटकमस्त्यस्या वा ॥२॥ वेशे वेश्यावाटे भवा वेश्या दिगादित्वाद् यः, वेशेन शोभते इत्येके ॥३॥ पण्येन पणेन चाङ्गना पण्याङ्गना, पणाङ्गना ॥४॥५॥ १९६ ॥ भुज्यते भुजिष्या " रुचिभुजिभ्यां किष्यः" ॥ ( उणा-३८४ ) ॥६॥ लजति भर्त्सयते लजिका ॥७॥ रूपेणाऽऽजीवति रूपाजीवा ॥८॥
शेषश्चात्र-- वेश्यायां तु खगालिका।। . . वारवाणिः कामलेखा क्षुद्रा ॥ . . .
Page #218
--------------------------------------------------------------------------
________________
२१०
अभिधानचिन्तामणी- . .
वारवधूः पुनः ।
सा वारमुख्या सा वेश्या वारे सेवाक्रमे नियुक्ता वधूः स्त्री वारवधूः ॥ १॥ वारे सेवाक्रमे मुख्या वारमुख्या ॥ २॥
अथ चुन्दी कुट्टनी शम्भली समाः ॥१९७ ॥ चुङ हावकरणे चुइति चुन्दी पृषोदरादित्वात् , देश्योऽयमित्यन्ये ॥ १ ॥ कुट्टयति कुटनी “ रम्यादिभ्यः कर्तरि " ॥५।३।१२६ ॥ इत्यनट् ॥ २॥ शं श्रेयो भलते हिनस्ति शम्भली, शम्भं श्रेयोयुक्तं लाति वा ॥ ३ ॥ १९७॥
पोटा वोटा च चेटी च दासी च कुटहारिका । पुटति अधमेन संश्लिष्यति पोटा, जपादित्वाद् वत्वे वोटा ॥१॥२॥ चेटति चेटी ॥ ३ ॥ दासते दस्यते वा दासी ॥ ४ ॥ कुटं घटं हरति कुटहारिका ॥ ५ ॥ शेषश्चात्र-चेट्यां गणेरुका ॥
वडवा कुम्भदासी च ॥ नमा तु कोटवी न वस्ते " दिननग्न-" ॥ ( उणा-२६८ ) ॥ इति ने निपातनाद नग्ना, विवस्त्रा योषिद् मुक्तकेशीत्यागमः, नग्निकाऽपि ॥ १॥ कोटेन लजावशात् कुटिलत्वेन वेति याति कोटवी " क्वचित् " ॥५।१।१७१ ॥ इति डः, कुटतीति वा " कैरवभैरव."॥ ( उणा-५१९)॥ इति निपात्यते ॥ २ ॥
वृद्धा पलिक्नी पलिता पलिक्नी “क्नः पलिता-" ॥२४॥३७॥ इति ड्यां साधुः॥१॥ . । अथ रजस्वला ॥ १९८॥ पुष्पवत्यधिरात्रेयी स्त्रीधर्मिणी मलिन्यवीः ।
उदक्या ऋतुमती च रजोऽस्त्यस्या रजस्खला, कृष्यादित्वाद् वलच् ॥१॥ १९८ ॥ मतौ पुष्पवती " पुष्पिता"इंति माला ॥२॥ अत्ति भूमावित्यधिः "तृभ्रम्य-" ॥ (उणा-६११) । इति इः, अधादेशश्च; न धीयते मनोऽस्यामिति वा ॥ ३ ॥ आत्रायते आत्रेयी " य एच्चातः " ॥ ५।१।२८ ॥ गौरादित्वाद् ङीः, अत्रेरपत्यमित्येके ॥ ४ ॥ स्त्रीधर्मो रजोऽस्त्यस्याः स्त्रीधर्मिणी ॥ ५॥ मलोऽस्त्यस्या मलिनी, गौरादित्वाद रजखलायां डीः ॥६॥ अव्यते रक्ष्यते अवीः "तृस्तृतन्द्रि-" ॥ ( उणा-७११) ॥
Page #219
--------------------------------------------------------------------------
________________
३ मर्यकाण्डः ।
२१९ इति ईः ॥७॥ उदके भवा उदक्या " नाम्न्युदकात् " ॥ ६।३।१२५ ॥ इति यः, उदकमर्हतीति वा दण्डादित्वाद् यः ॥ ८ ॥ ऋतू रजोऽस्या अस्ति ऋतुमती ॥९॥
पुष्पहीना तु निष्कला ॥ १९९ ॥ निर्गता कला अस्या निष्कला, निष्क्रान्ता कलाभ्योऽशुद्धिभ्य इति वा॥१॥१९९॥
राका तु सरजाः कन्या गुरूणां लज्जा राति ददाति राका "भीण-" ॥(उणा-२७)॥ इति कः ॥१॥ __ स्त्रीधर्मः पुष्पमार्तवम् ।
रजः
स्त्रीणां धर्मः स्त्रीधर्मः ॥१॥ पुष्पत्यनेन वराङ्गमिति पुष्पं, पुष्पं सुतफलहेतुत्वाद वा ॥२॥ ऋतुरेव आर्तवम् , ऋतुः स्त्रीरजोऽत्र ऋतौ गर्भग्रहणकाले भवं वा, ऋतुः प्राप्तोऽस्य वा "ऋत्वादिभ्योऽण् " ॥६।४।१२५॥३॥ रज्यतेऽनेन रजः क्लीबलिङ्गः " मिथिरज्यु-" ॥ ( उणा-९७१ ) ॥ इति किदस् ॥ ४ ॥
तत्कालस्तु ऋतुः तस्य रजसः कालः समयस्तत्कालः, इयर्ति ऋतुः पुंलिङ्गः "अफेयर्तेः कित्” ॥ ( उणा-७७७) ॥ इति तुन् ॥ १॥
सुरतं मोहनं रतम् ॥ २० ॥ संवेशनं संप्रयोगः संभोगश्च रहो रतिः । ग्राम्यधर्मो निधुवनं कामकेलिः पशुक्रिया ॥ २०१॥
व्यवायो मैथुनं । सुखं रमन्तेऽत्र, शोभनं रतं वा सुरतम् ॥ १ ॥ मुह्यन्तीन्द्रियाण्यत्र मोहनम् ॥ २॥ रमणं रतम् ॥ ३ ॥ २०० ॥ संविशन्त्यङ्गान्यत्र संवेशनम् ॥४॥ संप्रयोजनं संप्रयोगः ॥ ५॥ संभुज्यते सुखमत्र संभोगः ॥ ६ ॥ रहसि जायमानत्वाद् रहः ॥ ७॥ रमणं रतिः ॥ ८॥ ग्राम्याणामक्वेिकिनां धर्मो ग्राम्यधर्मः ॥ ९ ॥ निधूयन्तेऽङ्गान्यत्र निधुवनम् ॥१०॥ कामस्य केलिः कामकेलिः ॥११॥ पशूनां क्रिया चेष्टा पशुक्रिया, पशुधर्मोऽपि ॥ १२ ॥ २०१॥ व्यवायनं व्यवायः ॥ १३ ॥ मिथुनस्य स्त्रीपुंसयोः कर्म मैथुनं, युवादित्वादण् ॥ १४ ॥ . .
स्त्रीपुंसौ द्वन्द्व मिथुनं च तत् । स्त्री च पुमांश्च स्त्रीपुंसौ, "स्त्रियाः पुंसो द्वन्द्वाच्च"॥ ७।३।९६ ॥ इत्यत्समासान्तः ॥ १ ॥ द्वौ द्वौ द्वन्द्वं "द्वन्द्वं वा” ॥ ७॥४।८२ ॥ इति निपात्यते ॥२॥ मेथते
Page #220
--------------------------------------------------------------------------
________________
२२०
अभिधानचिन्तामणौ- .. संगच्छते मिथुनम् “ पिशिमिथि-" ॥ (उणा-२९० ) ॥ इति किदुनः ॥ ३ ॥ .
अन्तर्वत्नी गुर्विणी स्याद्गर्भवत्युदरिण्यपि ॥ २०२ ॥
आपन्नसत्त्वा गुर्वी च अन्तर्विद्यतेऽस्यामन्तवत्नी “ पतिवल्यन्तर्वन्यौ-" ॥ २॥४।५३ ।। इति ङ्यां साधुः ॥ १ ॥ गुरुगर्भोऽस्त्यस्या गुर्विणी, शिखादित्वादिनि पृषोदरादित्वात् साधुः " भ्वादेर्नामिनो-" ॥२।१।६३॥ इति दीर्घस्यानित्यत्वेन ज्ञापितत्वात् , अवश्यं गुर्वति गर्भपालनायेति वा ॥ २ ॥ गर्भोऽस्त्यस्या गर्भवती, एवमुदरिणी ॥३॥४॥२०२॥ आपनं गृहीतं सत्त्वं गर्भोऽनया आपन्नसत्त्वा ॥५॥ गुर्वी गर्भवत्त्वात् ॥ ६ ॥
श्रद्धालुदोहदाऽन्विता । श्रद्धाशीला श्रद्धालुः "शीश्रद्धा-" ॥ ५।२।३७ ॥ इत्यालुः ॥ १॥ दोहदं गर्भिण्या अभिलाषस्तेनाऽन्विता ॥ २ ॥
विजाता च प्रजाता च जाताऽपत्या प्रसूतिका ॥ २०३ ॥ विजायते स्म विजाता, एवं प्रजाता ॥१॥२॥ जातमपत्यमस्या जाताऽपत्या ॥३॥ प्रसूते स्म प्रसूता सैव प्रसूतिका, प्रजाता सूतिरस्या वा ॥ ४॥२०३ ॥
गर्भस्तु गरभो भ्रूणो दोहदलक्षणं च सः । गीर्यते गर्भः “ गृदृरमि-" ॥ (उणा-३२७ ) ॥ इति भः ॥ १ ॥ “कृशृग-" ( उणा-३२९ ) ॥ इत्यभे गरभः ॥ २॥ नियते कुक्षौ भ्रूणः “ भ्रूणतृण-” ॥ ( उणा-१८६ ) ॥ इति णे निपात्यते ॥ ३ ॥ दोहदो लक्षणं चिह्नमस्य दोहदलक्षणं क्लीबलिङ्गः ॥ ४ ॥
गर्भाशयो जरायूल्बे
गर्भ आशेतेऽत्र गर्भाशयः ॥ १॥ जरामेति जरायुः, पुंलिङ्गः “कृवापाजि." ( उणा-१)॥ इत्युण ॥२॥ अलत्यावृणोति उल्ब पुंक्लीवलिङ्गः, “शल्यलेरुचातः॥ ( उणा-३१९) ॥ इति बः ॥ ३ ॥
कललोल्बे पुनः समे ॥ २०४ ॥ कलयति कललं शुक्रशोणितसमवायः “ मृदिकन्दि-" ॥ ( उणा-४६५)॥ इत्यलः, के ललतीति वा; अलत्यूल्बं पुंक्लीवलिङ्गौ ॥१॥२॥२०४ ॥
___ दोहदं दौ«दं श्रद्धा लालसा
द्वे हृदये अत्र दोहदं पुंक्लीबलिङ्गः पृषोदरादित्वात् , दोहमिच्छापूरणं ददाति वा ॥१॥ अभिलाषान्तरेण दुष्टं हृदयं दुहृदयं तस्य भावः कर्म वा दौहृदं, युवादित्वादण् ,
Page #221
--------------------------------------------------------------------------
________________
३ मर्यकाण्डः ।
२२१
बाहुलकाद् ." हृद्भगसिन्धोः ” ॥ ७४।२५ ॥ इत्युत्तरपदस्य न वृद्धिः ॥ २ ॥ श्रद्धानं श्रद्धा ॥ ३ ॥ भृशं लसनं लालसा पुंस्त्रीलिङ्गः । अमरस्तु “दोहदमिच्छाम्, इच्छातिरेकं तु लालसाम्" आह ॥ ४॥ .
सूतिमासि तु वैजननः सूतेः प्रसवस्य मासस्तत्र “दशमे मासि सूते वै” इति श्रुतेः,
"नवमे दशमे चाऽपि प्रबलैः सूतिमारुतैः।
निःसार्यते बाण इव यन्त्रच्छिद्रेण स ज्वरः ” ॥१॥ इति स्मृतेश्च नवमो दशमो वा मासः । विजनने भवो वैजननः॥१॥
विजननं प्रसवः विजन्यते विजननम् ॥१॥ प्रसवमं प्रसवः ॥ २ ॥
नन्दनः पुनः ॥ २०५॥ उद्वहोऽङ्गात्मजः सूनुस्तनयो दारकः सुतः ।
पुत्रः
नन्दयति नन्दनः “नन्यादिभ्यः-" ॥ ५५११५२ ॥ इत्यनः ॥ १॥२०५॥ उद्वहत्युद्वहः ॥२॥ अङ्गादात्मनश्च जायतेऽङ्गजः , आत्मजः “ अजातेः-" ॥५।१।१७०॥ इति डः ॥ ३ ॥ ४ ॥ सूयते सूनु : "सुवः कित्" ॥(उणा-७८८)। इति नुः ॥ ५॥ तनोति कुलं तनयः "कुगुवलि-" ॥ (उणा-३६५) ॥ इत्ययः ॥ ६॥ दारयति दुःखं दारकः ॥ ७ ॥ सुनोति सुतः "सुसितनि-"॥ (उणा-२०३) ॥ इति कित् तः ॥ ८ ॥ पुनाति, पवते वा पितृपूतिमिति पुत्रादौ निपातनात् पुत्रः, यदाहुः- " पूतीति नरकस्याख्या दुःखं च नरकं विदुः” इति, पुनानो नरकात् त्रायते इति वा 1 यन्मनु:
"पुग्नाम्नो नरकाद् यस्मात् पितरं त्रायते सुतः ।
तस्मात् पुत्र इति प्रोक्तः खयमेव खयम्भुवा" ॥१॥ इति । . “स्थांपास्नात्रः कः" ॥ ५ । १ । १४२ ॥ ९ ॥ शेषश्चात्र-पुत्रेतु कुलधारकः ॥
सदायादो द्वितीयश्च ॥ दुहितरि स्त्रीत्वे नन्दनादयः शब्दाः स्त्रीत्वे वर्तमाना दुयतेऽनया जामाता दुहिता "त्वष्टक्षत्त-" ॥ (उणा-८६५) ॥ इति साधुः, तस्यां दुहितरि वर्तन्ते तेन नन्दनादिभ्यः “आत्" ॥ २।४।१८॥ इत्यापि नन्दना ॥१॥ उद्वहा ॥ २ ॥ अङ्गजा ॥ ३ ॥ आत्मजा
२९
Page #222
--------------------------------------------------------------------------
________________
२२२
अभिधानचिन्तामणौ
॥ ४ ॥ सूनुः ॥ ५॥ तनया ॥६॥ दारिका ॥७॥ सुता ॥ ८॥ पुत्राद् गौरादित्वाद् ङ्यां पुत्रीति ॥ ९॥ शेषश्चात्र- पुत्र्यां धीदा समधुका ।
देहसंचारिणी चापि ॥ तोकापत्यप्रसूतयः ॥ २०६ ॥
तुक् प्रजोभयोः उभयोः- पुत्रे, दुहितरि च, तौति हिनस्ति दुःख तोकं "भीण्-''॥ (उणा२१) ॥ इति कः ॥ १॥ न पतन्ति येन जातेन पूर्वजास्तदपत्यं “ नो हलिपतेः" ॥ (उणा-३५८)॥ इति यः ॥ २ ॥ प्रसूयतेऽसौ प्रसूतिः ॥ ३ ॥ २०६॥ तौतीति तुक् “तोः किक् ॥ (उणा-८६९) ॥ ४ ॥ प्रजायते प्रजा ॥५॥ शेषश्चात्र- अपत्ये सन्तानसन्तती ॥
भ्रात्रीयो भ्रातृव्यो भ्रातुरात्मने । भ्रातुरपत्यं भ्रात्रीयः “ईयः वसुश्च" ॥ ६ । १ । ८९ ॥ इतीयः ॥ १ ॥ "भ्रातुर्व्यः" ॥ ६ । १ । ८८ ॥ इति व्ये भ्रातृव्यः ॥२॥
खस्रीयो भागिनेयश्च जामेयः कुतपश्च सः ॥ २०७॥ __ खसुरपत्यं खस्रीयः “ईयः खसुश्च" ॥ ६ । १ । ८९ ॥ १॥ भागन्या । अपत्यं भागिनेयः "ड्याप्त्यूङः॥६॥ १॥ ७० ॥ इत्येयण् ॥ २॥ जामेरपत्यं जामेयः "इतोऽनिजः" ॥ ६ ॥ १।७२ ॥ इत्येयण ॥ ३ ॥ कुतः सौत्रः, कोतति कुतपः "भुजिकुति-" ॥ (उणा-३०५) ॥ इति किदपः ॥ ४ ॥ २०७॥
नप्ता पौत्रः पुत्रपुत्रः नमति पूर्वजेभ्यो नप्ता “नमेः प् च ॥ (उणा-८६२) ॥ इति तृः॥१॥ पुत्रस्यापत्यमनन्तरं पौत्रः "पुनर्भूपुत्र-" ॥ ६ । १ । ३९ ॥ इत्यञ् ॥ २ ॥
- दौहित्रो दुहितुः सुतः । दुहितुरपत्यं दौहित्रः " पुनर्भूपुत्र-" ॥ ६।१।३९ ॥ इत्यञ् ॥१॥ शेषश्चात्र- नप्ता तु दुहितुः पुत्रे ॥
प्रतिनप्ता प्रपौत्रः स्यात् प्रतिजातो नप्तृतः प्रतिनप्ता ॥ १॥ प्रजातः पौत्रात् प्रपौत्रः पौत्रापत्यम्, आदिपुरुषाच्चतुर्थः ॥२॥
तत्पुत्रस्तु परम्परः ॥ २०८॥
Page #223
--------------------------------------------------------------------------
________________
३ मकाण्डः ।
२२३
तस्य प्रपौत्रस्य पुत्रस्तत्पुत्रः, परात्परतरः परम्परः पृषोदरादित्वात् परम्परा अस्यास्तीति वा ॥ १ ॥ २०८ ॥
पैतृष्वसेयः स्यात् पैतृष्वस्त्रीयस्तुक् पितृष्वसुः ।
"
पितृष्वसुरपत्यं पैतृष्वसेयः, पैतृष्वस्रीयः " मातृपित्रादेर्डेयणीयणौ ” ॥६।१। ९० ॥ पितृष्वसुस्तुक् अपत्यम् ॥ १॥२॥
मातृष्वस्त्रीयस्तुग् मातृष्वसुर्मातृष्वसेयवत् ॥ २०९ ॥
मातृष्वसुः सुतोऽपत्यं मातृष्वस्रीयः, मातृष्वसेयः ॥ १ ॥ २ ॥ २०९ ॥ विमातृजो वैमात्रेयः
चिरुद्धा माता विमाता तस्या जातो विमातृजः, विमातुरपत्यं वैमात्रेयः, शुभ्रा - दित्वादेयण् ॥ १ ॥
द्वैमातुरोद्विमातृजः ।
द्वयोर्मात्रोरपत्यं द्वैमातुरः “संख्यासंभद्राद् मातुर्मातुर्च” ॥६।१।६६॥ इत्यण्, द्वाभ्यां जातो द्विमातृजः ॥ १ ॥
सत्यास्तु तनये सांमातुरवद् भाद्रमातुरः ॥ २१० ॥
संगताया मातुरपत्यं सांमातुरः, एवं भाद्रमातुरः संख्यासंभद्रा
॥ ६।१।६६ ।। इत्यण् ॥ १ ॥ २ ॥ २१० ॥
सौभागिनेयकानीनौ सुभगाकन्ययोः सुतौ ।
66
·
""
""
सुभगाया अपत्यं सौभागिनेयः " कल्याणादेरिन् चान्तस्य ॥६।१।७७॥ इत्येयण् ॥ १ ॥ कन्याया अपत्यं कानीनः " कन्यात्रिवेण्याः कनीनत्रिवणं च ॥६।१।६२॥ इत्यण् ॥ १॥
पौनर्भवपारस्त्रैणेयो पुनर्भूपरस्त्रियोः ॥ २१९ ॥
""
सुत इत्येव, दास्या अपत्यं दासेरः “ क्षुद्राभ्य एरण् वा एयण दासेयः ॥ १ ॥ २ ॥
""
पुनर्वा अपत्यं पौनर्भवः “पुनर्भूपुत्र - " ॥ ६।१ । ३९ ॥ इत्यञ् ॥ १ ॥ परस्त्रिया अपत्यं पारस्त्रैणेयः “ कल्याणादेः - " ॥ ६।१1७७ ॥ इत्येयम्॥ १॥२११॥ दास्या दासेरदासेयौ
॥६।१।८० ॥ पक्षे
नाटेरस्तु नटीसुतः ।
नव्या अपत्यं नाटेर ः “क्षुद्रा - " ॥ ६।१।८० ॥ इत्येयण् । नाटेयोऽपि ॥ १ ॥ बन्धुलो बान्धकिनेयः कौलटेरोऽसतीसुतः ॥ २१२ ॥
Page #224
--------------------------------------------------------------------------
________________
२२४ अभिधानचिन्तामणौ... बन्धून् लाति बन्धुलः ॥१॥ बन्धक्या अपत्यं बान्धकिनेयः "कल्याण्यादे-" . ॥६।१।७७॥ इत्येयण् ॥ २ ॥ अत्र कुलटा असती, तदपत्यं कौलटेरः "क्षुद्रा-" ॥६।११८०॥ इलेरण् ॥ १ ॥ २१२ ॥ .. स तु कौलटिनेयः स्याद् यो भिक्षुकसतीसुतः ।
भिक्षार्थिनी कुलान्यटति कुलटा भिक्षुकसती तस्या अपत्यं कौलटिनेयः " कुलटाया वा" ॥६।११७८॥ इत्येयण, इन् चान्तस्य ॥१॥
द्वावप्येतौ कौलटेयौ एतौ- असतीभिक्षुकसत्योः सुतौ ॥ १ ॥
क्षेत्रजो देवरादिजः ॥ २१३ ॥ क्षेत्रे जातः क्षेत्रजः, यन्मनु:. “यस्तल्पजः प्रमीतस्य क्लीबस्य व्याधितस्य वा।
खधर्मेण नियुक्तायां स पुत्रः क्षेत्रजः स्मृतः" ॥१॥१॥२१३॥ खजाते त्वौरसोरस्यौ उरसा कृत औरसः, उरस्यः “उरसो याणौ” ॥६।३।१९६॥ यन्मनुः--
"वक्षेत्रे संस्कृतायां तु स्वयमुत्पादयेद् धियम्।
तमौरसं विजानीयात् पुत्रं प्राथमकल्पिकम्” ॥ १ ॥ २॥ मृते भर्तरि जारजः ।
गोलकः जाराज्जातो जारजः, गुड्यते लज्जावशाद् गोप्यते घनि लत्वे च गोलः, के गोलकः ॥ १॥
अथाऽमृते कुण्डः अमृते जीवीत भर्तरि जाराज्जातः, कुण्ड्यते दह्यतेऽनेन कुलं कुण्डः; यत्स्मृतिः
"परनार्या प्रजायेते द्वौ सुतौ कुण्डगोलको ।
पत्यौ जीवति कुण्डश्च मृते भर्तरि गोलकः" ॥ १ ॥ इति ॥१॥ भ्राता तु स्यात् सहोदरः ॥ २१४ ॥ समानोदर्यसोदर्यसगर्भसहजा अपि ।
सोदरश्च ... भ्राजतेऽनेन भ्राता “ मानिभ्राजेर्लक् च " ॥ ( उणा-८५९ ) ॥ इति तृः ॥१॥ सह तुल्यमुदरमस्य सहोदरः ॥ २ ॥ २१४ ॥ समाने उदरे जातः समानो
Page #225
--------------------------------------------------------------------------
________________
३ मयंकाण्डः । .
२२५
दयः, सौदर्यः “सोदर्यसमानोदयौं' ॥६।३।११२॥ इति यान्तौ निपात्येते ॥३॥४॥ समानो गर्भोऽस्य सगर्भः “समानस्य-"॥ ३।२।१४९ ॥ इति सभावः। “सगर्भः" इत्यमरः ॥ ५ ॥ सह जायते सहजः ॥ ६ ॥ समानमुदरमस्य सोदरः ॥ ७ ॥ ___स तु ज्येष्ठः स्यात् पित्र्यः पूर्वजोऽग्रजः ॥ २१५ ॥
स तु भ्राता, द्वयोर्मध्ये प्रकृष्टो वृद्धो ज्येष्ठः ॥ १ ॥ पितुरागतः पित्र्यः " पितुर्यो वा" ॥ ६।३।१५१ ॥ इति यः॥ २ ॥ पूर्व जातः पूर्वजः ॥ ३ ॥ अग्रे जातोऽप्रजः “कचित्"॥५।१।१७१।। इति डः, यौगिकत्वादग्रिमोऽपि ॥४॥२१५॥
जघन्यजे यविष्ठः स्यात् कनिष्ठोऽवरजोऽनुजः ।
स यवीयान् कनीयांश्च जघन्यजः पश्चाजातस्तत्र ॥ १ ॥ अतिशयेन युवाऽल्पो वा यविष्ठः, कनिष्ठः " गुणाङ्गा-" ॥७३।९॥ इतीष्ठे “ अल्पयूनोः कन्वा " ॥७।४।३३॥ इति कनादेशः ॥ २ ॥ ३ ॥ अवरे जातोऽवरजः ॥४॥ अनुजातोऽनुजः ॥५॥ अतिशयेन युवा यवीयान् , कनीयान् ॥ ६ ॥ ७ ॥ शेषश्चात्र- स्यात् कनिष्ठे तु कन्यसः ॥
पितृव्यश्यालमातुलाः ॥ २१६ ॥
पितुः पत्न्याश्च मातुश्च भ्रातरः पितुर्भ्राता पितृव्यः “ पितृभ्रातुर्व्यडुलं भ्रातरि ” ॥६।२।६२॥ इति साधुः ॥१॥ पन्या भ्राता, श्यायति श्यालः " श्यामाश्या-" ॥ ( उणा-४६२) ॥ इति लः ॥ १ ॥ मातु ता मातुलः ॥ १ ॥ २१६ ॥
देवृदेवरौ ।
देवा चावरजे पत्युः पत्युभर्तुरनुजे दीव्यतीति देवा “दिव ऋ:"॥ (उणा-८५२)॥१॥ देवते देवरः "ऋछिचटि-"॥ ( उणा-३९७) ।। इत्यरः ॥ २ ॥ " बहुलम् " ॥५।१।२॥ इत्यनि . देवा ॥३॥
- जामिस्तु भगिनी स्वसा ॥ २१७ ॥
जमति, अतीव जामिः “ कमिवमि-" ॥ ( उणा-६१८ ) ॥ इति णिदिः ॥१॥ भगः कल्याणमस्त्यस्या भगिनी ॥ २ ॥ सुष्ठु अस्यते स्वसा “सोरसेः " ॥ ( उणा-८५३ ) ॥ इति ऋः ॥ ३ ॥ २१७ ॥
शेषश्चात्र- ज्येष्टभगिन्यां तु वीरभवन्ती ॥ ननान्दा तु स्वसा पत्युननन्दा नन्दिनीत्यपि ।
Page #226
--------------------------------------------------------------------------
________________
२२६
अभिधानचिन्तामणौ
पत्युः स्वसा न नन्दयति वधूं ननान्दा “ यतिननन्दिभ्यां दीर्घश्च" (उणा-८५६)॥ इति ऋः, नखादित्वान्नोऽदभावः बाहुलकाद् दीर्घत्वाभावे ननन्दा ॥ १ ॥ २ ॥ नन्दति नन्दयति वा अवश्यं नन्दिनी ॥ ३ ॥
पत्न्यास्तु भगिनी ज्येष्ठा ज्येष्ठश्वश्रूः कुली च सा ॥२१८॥ ज्येष्ठा चासौ श्वश्रूश्च ज्येष्टश्वश्रूः ॥ १॥ कोलति कुली ॥२॥ २१८॥
कनिष्ठा श्यालिका हाली यन्त्रणी केलिकुञ्चिका । पत्न्याः कनिष्ठभगिनी श्याल्येव श्यालिका ॥ १॥ हलति हाली, ज्वलादित्वाद् णे ङीः ॥ २ ॥ यन्त्रयति यन्त्रणी ॥३॥ केल्यां कुञ्चति कुटिलीभवति केलिकुञ्चिका ॥ ४ ॥
केलिर्द्रवः परीहासः क्रीडा लीला च नर्म च ॥ २१९ ।।
देवनं कूर्दनं खेला ललनं वर्करोऽपि च । केलनं केलिः, पुंस्त्रीलिङ्गः “ किलिपिलि-" ॥ ( उणा-६०८) ॥ इति इ. ॥१॥ द्रवति हृदयमनेन द्रवः ॥ २ ॥ परिहसनं परिहासः “ घञ्युपसर्गस्य." ॥३॥२॥८६॥ इति दीर्घत्वे परीहासः ॥ ३ ॥क्रीडनं क्रीडा 'केलिपरिष्वष्कितोयम्' इति केचित् ॥४॥ ललनं लीला भिदादित्वादङि निपात्यते ॥ ५॥ नृणाति विनयति नौ, क्लीबलिङ्गः " मन् "॥ ( उणा-९११)॥ इति मन् ॥ ६॥ २१९ ॥ दीव्यते देवनम् ॥ ७ ॥ कूर्यते कूर्दनम् ॥ ८ ॥ खेलनं खेला ॥ ९ ॥ लल्यते ललनम् ॥ १० ॥ वृणोत्यनेन वर्करः “ किशृवृभ्यः करः ” ॥ (उणा-४३५) ॥ खेलाकूर्दनशब्दौ केलिपरिष्वष्किते रूढावपि विशेषानाश्रयणादस्माभिः केलिपर्यायत्वेनोक्तौ ॥ ११ ॥ शेषश्चात्र- स्यात्तु नर्मणि ॥
सुखोत्सवो रागरसो विनोदोऽपि किलोऽपि च ।। वप्ता तु जनकस्तातो बीजी जनयिता पिता ॥ २२०॥ वपति बीजं वप्ता ॥ १ ॥ जनयति जनकः, जायतेऽस्माद् वा " दृकृ-" ॥ (उणा-२७) ॥ इत्यकः ॥ २ ॥ तनोति सन्ततिं तातः “सुसितनि-" ॥ (उणा२०३)॥ इति कित् , तो दीर्घत्वं च, यद्वा तनोति ततः, ततः स्वार्थेऽण् ॥३॥ बीजमस्त्यस्य बीजी ॥ ४ ॥ जनयति जनयिता ॥५॥ पाति रक्षति पिता “ पातेरिच" ॥ ( उणा-८५८ ) ॥ इति तृः ॥ ६ ॥ २२० ॥
शेषश्चात्र- वप्यो जनित्रो रेतोधास्ताते ॥
पितामहस्तस्य पिता
Page #227
--------------------------------------------------------------------------
________________
३. मर्यकाण्डः।
२२७
तस्य पितुः पिता पितामहः "पित्रो महद्" ॥ ६।२।६३ ॥ १॥
तत्पिता प्रपितामहः । तस्य पितामहस्य पिता, प्रवृद्धः पितामहात् प्रपितामहः ॥ १॥
मातुर्मातामहाद्येवं एवमित्यमुना प्रकारेण, मातुः पिता मातामहः, तस्य पिता प्रमातामहः॥१॥
माताऽम्बा जननी प्रसूः ॥ २२१ ॥
सवित्री जनयित्री च मान्यते माता “मानिभ्राजेर्लक् च" ॥ (उणा-८५९) ॥ इति तृः ॥ १॥ अमति याति वात्सल्यमम्बा "शम्यमेणिद्वा" ॥ (उगा-३१८) ॥ इति बः, अम्बते' जल्पतीति वा ॥ २ ॥ जायतेऽस्यामिति जननी ॥ ३ ॥ प्रसूते प्रसूः ॥ ४॥२२१॥ सूते सवित्री ॥५॥ जनयति जनयित्री " या जनित्री त्रिलोक्याः" इति त्वन्तर्भावितण्यर्थत्वात् ॥ ६॥ शेषश्चात्र- जानी तु मातरि ॥
कृमिला तु बहुप्रसूः।
अपत्यानि भूयस्त्वात् कृमीनिव लाति जनयति कृमिला । बहून्यपत्यानि प्रसूते बहुप्रसूः ॥३॥
धात्री तु स्यादुपमाता . धयन्ति तामिति धात्री स्तनदायिनी "धात्री" ॥५।२।९१॥ इति त्रटि निपात्यते ॥ १॥ उपजाता, उपचरिता वा मातोपमाता ॥ २ ॥
वीरमाता तु वीरसू ः ॥ २२२ ॥
वीरं सूते वीरसूः ॥ १ ॥ २२२ ॥ . श्वश्रूर्माता पतिपत्न्योः . . प्रत्युः, पल्याश्च माता श्वशुरस्य भार्या श्वश्रूः "नारीसखी-" ॥२॥४॥७६॥
इत्यूङि निपात्यते ॥१॥ . . श्वशुरस्तु तयोः पिता।
... तयोरिति पत्युः पल्याश्च पिता, सुशोभनमश्नुते, अन्नाति वा श्वशुरः "श्वशुरफुकुन्दुर-" ॥ (उणा-४२६) ॥ इत्युरे निपात्यते ॥ १ ॥
पितरस्तु पितुर्वश्याः पितुशे भवाः पूर्वपुरुषाः, पान्ति रक्षन्तीति पितरः ॥ १॥
Page #228
--------------------------------------------------------------------------
________________
२२८
अभिधानचिन्तामणौ
मातुर्मातामहाः कुले ॥ २२३ ॥ मातुः कुले वंशे भवाः पूर्वपुरुषा मातामहाः ॥ १ ॥ __ पितरौ मातापितरौ मातरपितरौ पिता च माता च ।
पिता च माता च द्वौ पितरौ "पिता मात्रा वा” ॥ ३ । १ । १२२ ॥ १॥ इत्येकशेषः “आ द्वन्द्वे''॥३। २ । ३९ ॥ इत्यात्वे मातापितरौ ॥२॥ “मातरपितरं वा" ॥ ३ । २ । ४७ ॥ इति निपातनाद् मातरपितरौ ॥ ३ ॥
श्वश्रूश्वशुरौ श्वशुरौ श्वशुरश्च श्वश्रूश्च द्वौ श्वशुरौ " श्वशुरः श्वश्रूभ्यां वा” ॥ ३ । १ । १२३ ॥ इत्येकशेषः ॥ १ ॥२॥
'पुत्रौ पुत्रश्च दुहिता च ॥ २२४ ॥ . "भ्रातृपुत्राः स्वसृदुहितृभिः” ॥ ३ । १ । १२१ ॥ इत्येकशेषः ॥ १॥२२४॥
भ्राता च भगिनी चापि भ्रातरौ स्पष्टम् ॥ १॥
अथ बान्धवः ।
स्वो ज्ञातिः स्वजनो बन्धुः सगोत्रश्च , बन्धुरेव वान्धवः, प्रज्ञादित्वादण् ॥ १ ॥ अस्यत्यन्यजाति स्वः "प्रबाहा-" ॥ (उणा-५१४) ॥ इति निपात्यते ॥ २ ॥ ज्ञायते ज्ञातिः पुंलिङ्गः "प्लुज्ञा-" ॥ (उणा-६४६) ॥ इति तिः ॥३॥ स्व आत्मीयश्चासौ जनश्च स्वजनः ॥४॥ बध्नाति स्नेहं बन्धुः "भृमृतृ-" ॥ (उणा-७१६) ॥ इत्युः ॥ ५ ॥ समानं गोत्रमस्य सगोत्रः " समानस्य धर्मादिषु " ॥३।२।१४९॥ इति सभावः ॥ ६ ॥
निजः पुनः ॥ २२५॥
आत्मीयः स्वः स्वकीयश्च निजातो निजः "क्वचित्" ॥५।१।१७१॥ इति डः ॥ १॥ २२५॥ आत्मनोऽयमात्मीयः “ दोरीयः "॥ ६।३।३२ ॥ २ ॥ अस्यति परं खः ॥ ३ ॥ स्वकस्यायं स्वकीयः, गेहादित्वादीयः ॥ ४ ॥
सपिण्डास्तु सनाभयः । समानः पिण्ड एषां सपिण्डाः, यत्स्मृतिः- “सपिण्डता तु पुरुषे सप्तमे विनिवतते, सप्तमादूर्ध्व सगोत्राः" ॥१॥ सपा नाभिर्मूलं येषां ते सनाभयः “समानस्य"॥ ३।२।१४९ ॥ इति सत्वम् ॥ २॥
तृतीया प्रकृतिः पण्डः षण्ढः क्लीबो नपुंसकम् ॥ २२६ ॥
Page #229
--------------------------------------------------------------------------
________________
३ मर्यकाण्डः ।
२२९
स्त्रीपुंसाभ्यां तृतीया प्रकृतिर्लिङ्गमत्र तृतीयाप्रकृतिः स्त्रीलिङ्गः “ तद्धिताककोपान्त्य-" ॥ ३।२।५४ ॥ इति पुंवद्भावाभावः ॥ १॥ पण्डते गच्छति उभयव्यजनता पण्डः, पनायति स्त्रीपुंसाविति वा “पञ्चमाड्डः" ॥(उणा-१६८)॥ पण्डुरपि ॥ २ ॥ सनति षण्डः “ शमिषणिभ्यां-" ॥ (उणा-१७९) ॥ इति ढे बाहुलकात् सत्वाभावः ‘शण्ढः' इत्यमरः ‘शण्ठः' इत्यन्ये ॥ ३ ॥ क्लीबते क्लीबः ॥ ४ ॥ पुंसण् अभिमर्दने, न पुंसयति नपुंसकं, पुंक्लीबलिङ्गौ " नञः पुंसेः " ॥ ( उणा-३२) ॥ इत्यके नखादित्वाद् अद् न भवति, न स्त्री न पुमान् इति वा, नखादित्वात्॥५॥२२६॥
इन्द्रियायतनमङ्गविग्रही क्षेत्रगात्रतनुभूघनास्तनू : । मूर्तिमत्करणकायमूर्तयो वेरसंहननदेहसंचराः ॥ २२७ ॥ घनो बन्धः पुरं पिण्डो वपुः पुद्गलवर्मणी ।
कलेवरं शरीरः . इन्द्रियाणामायतनमिन्द्रियायतनम् ॥ १॥ अमति वृद्धिमङ्गम् "गम्यमि-" ॥ (उणा-९२)॥ इति गः, अङ्गतीति वा ॥ २ ॥ विगृह्यते रोगादिभिरिति विग्रहः ॥३॥ क्षयत्यवश्यं क्षेत्रम् " हुयामा-" ॥ ( उणा-४५१)॥ इति त्रः ॥ ४ ॥ गच्छति गात्रम् “ गमेरा च " ॥ ( उणा-४५३ ) ॥ इति त्रः॥५॥ तन्यते. तनुः, स्त्रीलिङ्गः "भृमृतृ-" ॥ ( उणा-७१६ ) ॥ इत्युः ॥ ६ ॥ भुवा पृथिव्या घनो भूघनः ॥ ७ ॥ तन्यते तनू :, स्त्रीलिङ्गः “कृषिचमि-"॥(उणा-८२९)। इत्यूः ॥ ८ ॥ मूर्तिः काठिन्यमस्त्यस्य मूर्तिमत् ॥९॥ क्रियतेऽनेन करणम् ॥१०॥ चीयतेऽसौ कायः “चितिदेहा-” ॥ ५।३।७९ ॥ इति घञ् कत्वं च ॥ ११ ॥ मूच्छत्यनया मूर्तिः ॥ १२ ॥ वेति प्रजायते वेरं, पुंक्तीबलिङ्गः "खुरक्षुर-"॥(उणा३९६)॥ इति रे साधुः ॥१३॥ संहन्यन्तेऽङ्गान्यत्र संहननम् ॥ १४ ॥ धातुभिर्दिह्यते देहः, पुंक्लीबलिङ्गः ॥१५॥ संचरत्यनेन संचरः “गोचरसंचर-"॥५।३।१३१॥ इति घः ॥१६॥२२७॥ धातुभिर्हन्यते घनः “मूर्तिनिचिताऽभ्रे घनः" ॥ ५।३।३७ ॥ इत्यलि निषात्यते ॥१७॥ बध्यते पञ्चभिर्भूतैर्बन्धः ॥ १८॥ पुरति पुरम् ॥ १९ ॥ धातुभिः पिण्ड्यते पिण्डः, पुंक्लीबलिङ्गः ॥२०॥ उप्यते वपुः, क्लीबलिङ्गः "रुद्यर्ति-" ॥(उणा९९७ ) ॥ इत्युस् ॥ २१ ॥ पद्यते पुद्गलः “मुरलो-" ॥ ( उणा-४७४ ) ॥ इत्युले निपात्यते, पूरण-गलनधर्मत्वाद्वा, पृषोदरादित्वात् ॥ २२ ॥ वृष्यते सिच्यते, वर्षति मलान् वा वर्म, क्लीबलिङ्गः “मन्” ॥ (उणा-९११ )॥ इति मन् ॥२३॥ कडति माद्यति कडेवरम् “ कडेरेवरा-” ॥ (उणा-४४५) ॥ इत्येवरः, लत्वे कलेवरम् ॥२४॥ शीर्यते शरीरः, पुंक्लीबलिङ्गः “कृशृप-" ॥ ( उणा-४१८ ) ॥ इतीरः ॥२५॥
Page #230
--------------------------------------------------------------------------
________________
२३०
अभिधानचिन्तामणौ- -
হাম্বান্ত
देहे सिनं प्रजनुकश्चतुःशाख षडङ्गकम् । व्याधिस्थानं च ॥
अस्मिन्नजीवे कुणपं शवः ॥ २२८ ॥
मृतकं
अस्मिन् शरीरेऽजीवे जीवनिर्मुक्ते कुणति शब्दायते कुणपं " भुजिकुति-" ॥ ( उणा-३०५)॥ इति किदपः, कुणं शब्दं पाति रक्षति वा, धनञ्जयाख्यस्य वायोः शवे संभवात् ॥१॥ शवति यात्यस्माज्जीवः शवः, पुंक्लीबलिङ्गौ ॥ २॥२२८ ॥ म्रियते स्म मृतं, के मृतकम् ॥ ३ ॥
रुण्डकबन्धौ त्वपशीर्षे क्रियायुजि । अपगतं छिन्नत्वात् शीर्षमस्यापशीर्ष वपुस्तत्र क्रियायुक्ते नृत्यतीत्यर्थः, रूयते शब्द्यते रुण्डः “ पिचण्डै-” ॥ ( उणा-१७६ ) ॥ इति निपात्यते ॥ १॥ कूयते शब्द्यते कवन्धः, पुंक्लीबलिङ्गः “ कोरन्धः " ॥ ( उणा-२५७ ) ॥ इत्यन्धः, कस्य शिरसो बन्धोऽत्रेति वा, केन बध्यत इति वा, पृषोदरादित्वात् ॥ २॥
वयांसि तु दशाः प्रायाः - अर्थात् शरीरस्य वियन्ति क्रमेण गच्छन्ति वयांसि ॥ १ ॥ बाल्यादीनि दश्यन्ते दशाः, स्त्रीलिङ्गः, स्थादित्वात् कः ॥ २ ॥ प्रकर्षणाऽयन्ते प्रायाः, पुंलिङ्गः ॥३॥
सामुद्रं देहलक्षणम् ॥ २२९ ॥ समुद्रे शरीरे भवं सामुद्रम् ॥ १॥ देहस्य लक्षणं चक्रध्वजादि ॥ २२९ ॥ _____एकदेशे प्रतीकोऽङ्गावयवाऽपघना अपि ।
शरीरस्य एकश्चासौ देशश्च एकदेशस्तत्र प्राति शरीरमिति प्रतीकः “ सृणीकास्तीक-" ॥ (उणा-५०)॥ इतीके निपात्यते ॥ १॥ अङ्गत्येकदेशत्वमङ्गम् ॥ २ ॥ अवयौत्यवयवः ॥ ३ ॥ अपहन्यतेऽनेनेत्यपधनः “निघोद्घ-" ॥५॥३॥३६॥ इत्यलि चिपात्यते ॥ ४ ॥
शेषश्चात्र- देहैकदेशे गात्रम् ॥
उत्तमाङ्गं शिरो मूर्धा मौलिर्मुण्डं कमस्तके ॥ २३० ॥ वराङ्गं करणत्राणं शीर्ष मस्तिकमित्यपि । उत्तमं च तदङ्गं चोत्तमाङ्गम् ॥ १॥ शृणाति वियुक्तमिति शिरः, क्लीबलिङ्गः " मिथिरजि-" ॥ ( उणा-९७१) ॥ इति किदस् ॥ २ ॥ मूर्च्छन्त्यस्मिन्नाहताः
Page #231
--------------------------------------------------------------------------
________________
३ मर्त्यकाण्डः।
२३१
प्राणिन इति मूर्धा, पुंलिङ्गः “ श्वन्मातरि-" ॥ ( उणा-९०२ ) ॥ इत्यनि निपात्यते ॥ ३ ॥ मूयते बध्यते मुकुटादिकमत्रेति मौलिः, पुंस्त्रीलिङ्गः "धूमूभ्यां-" ॥ ( उणा-७०१)॥ इति लिण् ॥ ४ ॥ मुण्यते प्रतिज्ञायते मुण्डः, पुंक्लीबलिङ्गः "कुगुहु-" ॥ ( उणा-१७० ) ॥ इति किद् डः, मुण्ड्यते वा ॥ ५ ॥ कायति कं " क्वचित् " ॥ ५ । १ । १७१ ॥ इति डः ॥ ६॥ मस्यति परिणमते तस्य "दम्यमि-" ॥ ( उणा-२०० ) ॥ इति ते मस्तं, खार्थे के मस्तकं, पुंक्लीबीलङ्गः, मसेः “इष्याश-" ॥ ( उणा-७७ ) ॥ इति तकक् वा ॥७॥ २३०॥ वरमङ्गं वराङ्गम् ॥ ८ ॥ करणानीन्द्रियाणि त्रायन्तेऽनेनेति करणत्राणम् ॥ ९ ॥ शीयते मस्यति जरसा शीर्षे “ ऋजिरिषि." ॥ ( उणा-५६७ ) ॥ इति कित् सः ॥१०॥ मस्तिकं " कुशिक-" ॥ ( उणा-४५) ॥ इति इके निपात्यते ॥ ११ ॥
तज्जाः केशास्तीर्थवाकाश्चिकुराः कुन्तलाः कचाः ॥ २३१ ॥ वालाः स्युः
तस्मिन् शिरसि जातास्तजाः शिरसिजाः, क्लिश्यत एभिः केशाः " क्लिशः के च"॥(उणा-५३०)॥ इति शः, के शेरत इति वा ॥१॥ तीर्थे उच्यन्त उपयाच्यन्ते तीर्थवाकाः ॥ २॥ चक्यन्ते प्रतिहन्यन्ते चिकुराः "श्वशुर-" ॥ ( उणा-४२६ ) ॥ इत्युरे निपात्यते, विहुरास्तु प्राकृते कस्य हादेशात्, संस्कृतेऽपीति दुर्गः; यदाह-"कुन्तला मुर्धजास्त्वस्राश्चिकुराश्चिहुराः" इति ॥ ३ ॥ कनन्ति दीप्यन्ते कुन्तलाः "मुरलोरल-" ॥ ( उणा-४७४ ) ॥ इत्यले निपात्यते, कुन्ताकारं लान्ति वा ॥ ४ ।। कचन्ते कचाः ॥ ५ ॥ २३१ ॥ वल्यन्ते वालाः, पुंक्तीबलिङ्गः, वलन्ति वा ज्वलादित्वाद् णः ॥ ६ ॥ शेषश्चात्र-कचे पुनः ।
वृजिनो वेल्लितायोऽश्रः ॥ . तत्पराः पाशो रचना भार उच्चयः ।
हस्तः पक्षः कलापश्च केशभूयस्त्ववाचकाः ॥ २३२ ॥ तेभ्यः केशादिशब्देभ्यः पराः पाशादयः शब्दाः केशभूयस्त्वं वदन्ति, यथा केशपाशः ॥ १॥ केशरचना ॥ २ ॥ केशभारः ॥ ३ ॥ केशोच्चयः ॥ ४ ॥ केशहस्तः ॥ ५ ॥ केशपक्षः ॥ ६॥ केशकलाप इति ॥ ७ ॥ प्रशंसारूढत्वादेभिः कर्मधारयः ॥ २३२॥
अलकस्तु कर्करालः खङ्खरश्चूर्णकुन्तलः । __ अलयति भूषयत्यलकः, पुंक्लीबलिङ्गः “ दृकृन-" ॥ ( उणा-२७ ) ॥ इत्यकः ॥ १ ॥ कर्करत्वेन कटोरत्वेन अलति कर्करालः ॥ २ ॥ खमिन्द्रियं खरयति खतरः, पृषोदरादित्वात् ॥३॥ चूर्णाकारः कुन्तलश्चूर्णकुन्तलः कुटिलकेशः ॥ ४ ॥
Page #232
--------------------------------------------------------------------------
________________
२३२
अभिधानचिन्तामणौ
स तु भाले भ्रमरकः कुरुलो भ्रमरालकः ॥ २३३ ।। . . . स त्वलको भाले ललाटे भ्रमरप्रतिकृतिभ्रमरकः, पुंक्लीबलिङ्गः ॥१॥ कु ईषल्लुलति कुरुलः, पृषोदरादित्वात् , यलक्ष्यम्- “कुरुलालसभ्रूलेहे” इति ॥ २ ॥ भ्रमराकृतिरलको भ्रमरालकः ॥ ३ ॥ २३३ ॥
धम्मिल्लः संयताः केशाः ऊर्ध्व मिलति धम्मिल्लः, पृषोदरादित्वात् , धमेः सौत्रस्य “भिल्लाच्छभल्ल-''। ( उणा-४६४ ) ॥ इति निपातनाद् वा ॥ १ ॥ शेषश्चात्र- धम्मिल्ले मौलिजूटको ।।
केशवेषे कबरी केशानां वेषे रचनायां कूयते कवरी "ऋच्छिचटि-" ॥ ( उणा-३९७ ) ॥ इत्यरे " भाजगोण-" ॥ २।४।३० ॥ इति ङीः, कं वृणोतीति वा ॥१॥ शेषश्चात्र- कर्बरी तु कबर्यो स्यात् ॥
अथ ।
वेणिः प्रवेणी वीयते वेणिः, स्त्रीलिङ्गः “कावावी-" ॥ ( उणा-६३४ ) ॥ इति णिः॥१॥ प्रकृष्टा वेणिः प्रवेणी ॥ २॥
___ शीर्षण्यशिरस्यौ विशदे कचे ॥ २३४ ॥
शिरसि भवः शिरस्यः, शीर्षण्यः “ दिगादि-" ॥ ६।३।१२४ ॥ इति ये " केशे वा” ॥३।२।१०२॥ इति शीर्षन्नादेशः, पक्षे शिरस्यः ॥ १ ॥ २ ॥ विशदेऽन्योन्यासंपृक्त स्नानादिनिर्मले वा ॥ २३४ ।। शेषश्चात्र- प्रलोम्न्यो विशदे कचे॥
केशेषु वर्त्म सीमन्तः सिनोति केशाननेन सीमन्तः “ सीमन्तहेमन्त-" ॥ ( उणा-२२२ ) ॥ इत्यन्ते निपात्यते, सीम्रोऽन्त इति वा पृषोदरादित्वात् ॥ १॥
पलितं पाण्डुरः कचः । पलति याति श्वेतत्वं पाकातू पलितं, पुंक्लीबलिङ्गः "हृश्यारुहि-" ॥ ( उणा२१०) ॥ इति तः ॥ १॥
चूडा केशी केशपाशी शिखा शिखण्डिकाः समाः ॥२३५॥ चोट्यते चूडा, भिदादित्वादङि निपात्यते ॥ १॥ के शेते केशी " क्वचित् "
Page #233
--------------------------------------------------------------------------
________________
३ मर्त्यकाण्डः ।
२३३
||५|१|१७१ ॥ इति डे ङीः ॥ २ ॥ केशान् पाशयतीति केशपाशी ॥ ३ ॥ इत्येनां
46
शिखा " श्यतेरिच्च वा
""
॥ ( उणा - ८५ ) ॥ इति खः ॥ ४ ॥ शिखण्डतुल्याः
शिखण्डिकाः ॥ ५ ॥ २३५ ॥
सा बालानां काकपक्षः शिखण्डकशिखाण्डकौ ।
काकपक्ष इव काकपक्षः ॥ १ ॥ शिरसि खण्ड्यते, शिखिवद् डयते वा शिखण्डः, पृषोदरादित्वात्, के शिखण्डकः ॥ २ ॥ शिरो मण्डयति शिखाण्डकः, पृषोदरादित्वात् ॥ ३ ॥
तुण्डमास्यं मुखं वक्त्रं लपनं वदनानने ॥ २३६ ॥
66
"2
""
तुज्यतेऽनेन, तुण्डं तुणति कुटिलीभवति वा " कुगुहु - " ॥ ( उणा - १७० ) ॥ इति किद् डः ॥ १ ॥ अस्यत्यनेन वर्णमास्यं “ शिक्यास्य- " ॥ ( उणा - ३६४ ) ॥ इति निपात्यते ॥ २ ॥ मह्यते मुखं, पुंक्लीबलिङ्गः मरुच्चास्य वा 11 ( उणा - ८९ ) ॥ इति साधुः ॥ ३ ॥ उच्यतेऽनेनेति वक्त्रं “ हुयामा- ॥ ( उणा - ४५१ ) ॥ इति त्रः, मुदितांनि खान्यत्रेति वा पृषोदरादित्वात् ॥ ४ ॥ लप्यतेऽनेनेति लपनम् ॥ ५ ॥ उद्यतेऽनेनेति वदनम् ॥ ६ ॥ आ समन्तादनित्यनेनाऽऽननम् ॥ ७ ॥ २३६ ॥
शेषश्चात्र - मुखे दन्तालयस्तेरं घनं चरं घनोत्तमम् ॥
भाले गोध्यलिकालीकललाटानि
""
भल्यते परिभाष्यते शुभाशुभमत्र भालं, पुंक्लीबलिङ्गः, तत्र ॥ १ ॥ गुध्यते पढादिना वेष्टयते गोधिः, स्त्रीलिङ्गः “ किलिपिलि- ॥ ( उणा - ६०८ ८ ) ॥ इति इः ॥ २ ॥ अल्यते भूयते तिलकादिभिरलिकं " क्रीकल्यलि - " 11 (JO11-32) 11 इतीकः “ स्यमिकषि- ” ॥ ( उणा - ४६ ) ॥ इतीऽलीकम् ॥ ३ ॥ ४ ॥ ललतेऽत्रालङ्कारो ललाटम् “ अनिशृ- " ॥ ( उणा - १४५ ) ॥ इत्यादः ॥ ५ ॥
श्रुतौ श्रवः ।
शब्दाधिष्ठान पैज्जूषमहानादध्वनिग्रहाः ॥ २३७ ॥ कर्णः श्रोत्रः श्रवणं च
66
श्रूयतेऽनया श्रुतिः, श्र्वादित्वात् तिः, तत्र ॥ १ ॥ शृणोति श्रवः क्लीबलिङ्गः अस् ”॥(उणा - ९५२) ॥ इत्यस् || २ || शब्दोऽधितिष्ठत्यत्र शब्दाधिष्ठानम् ॥ ३ ॥ पिज्जूषः कर्णमलः सोऽत्रास्ति ज्योत्स्नाद्यणि पैंजूषः, पुंक्लीबलिङ्गः, यद्वाचस्पति:श्रवः पैञ्जूषमस्त्रियाम् ॥ ४ ॥ महान् नादो निर्घोषोऽत्रेति महानादः ॥ ५ ॥ ध्वनिर्गृह्यतेऽनेन ध्वनिग्रहः, शब्दग्रहोऽपि ॥ ६ ॥ २३७ ॥ कर्ण्यतेऽनेन कर्णः,
Page #234
--------------------------------------------------------------------------
________________
. २३४
अभिधानचिन्तामणौ
किरत्यनेन वा “ इणुवि-" ॥ ( उणा-१८२ ) ॥ इति णः ॥ ७ ॥ श्रूयतेऽनेन श्रोत्रं “ हुयामा-" ॥ ( उणा-४५१ ) ॥ इति त्रः ॥ ८ ॥ अनटि श्रवणं, पुंक्लीबलिङ्गः ॥ ९॥ ___वेष्टनं कर्णशष्कुली।
वेष्टयतेऽनेन वेष्टनं कर्णशष्कुली ॥ १ ॥ शक्नोत्यनया श्रोतुं शष्कुली कर्णस्य शष्कुली कर्णशष्कुली ॥ २ ॥
पालिस्तु कर्णलतिका पाल्यते पालिः, स्त्रीलिङ्गः “ खरेभ्य इ:" ॥ ( उणा-६०६ ) ॥१॥ कर्णस्य लतेव कर्णलतिका ॥२॥ शेषश्चात्र- कर्णप्रान्तस्तु धारा स्यात् कर्णमूलं तु शीलकम् ॥
शङ्खो भालश्रवोऽन्तरे ॥ २३८ ॥ शाम्यन्त्यत्राऽऽहते प्राणा इति शङ्खः, 'क्लीबलिङ्गः “ शमिमनिभ्यां खः" ॥ ( उणा-८४) ॥ १ ॥ २३८ ॥
चक्षुरक्षीक्षणं नेत्रं नयनं दृष्टिरम्बकम् ।
लोचनं दर्शनं दृक् च चष्टे शुभाशुभं स्फुरणाच्चक्षुः “ चक्षेः शिद्वा" ॥ ( उणा-१००१ ) ॥ इत्युस् , अश्नुतेऽक्षि, क्लीबलिङ्गौ " पुषिप्लुषि-" ॥ ( उणा-७०७ ) ॥ इति कित्सिः ॥१॥२॥ ईक्ष्यतेऽनेनेक्षणम् ॥ ३ ॥ नीयतेऽनेन दृश्यमिति नेत्रं, पुंक्लीबलिङ्गः " नीदाम्ब्-" ॥ ५।२।८८ ॥ इति त्रट् ॥ ४ ॥ अनटि नयनम् ॥ ५ ॥ दृश्यतेऽनया दृष्टिः ॥ ६ ॥ अम्बतेऽम्बकम् ॥ ७ ॥ लोच्यतेऽनेन लोचनं, विलोचनमपि ॥८॥ दृश्यतेऽनेन दर्शनम् ॥ ९ ॥ पश्यति, दृश्यतेऽनया वा दृक् , स्त्रीलिङ्गः॥१०॥
शेषश्चात्र- अक्षिण रूपग्रहो देवदीपः ॥ तत्तारा तु कनीनिका ॥ २३९ ॥
तस्याऽक्ष्णः, तरयति तमस्तारा, पुंस्त्रीलिङ्गः, के तारकाऽपि, तच्छब्दोऽत्राक्षिपरामर्शी नक्षत्रव्यवच्छेदार्थः ॥ १॥ कनति दीप्यते कनीनिका “ कनेरीनकः " ॥ (उणा-७३ ) ॥ २ ॥ २३९ ॥
वामं तु नयनं सौम्यं सोमो देवताऽस्य सौम्यं “ कसोमाढ्यण् ” ॥ ६ ॥२।१०७ ॥ १ ॥
भानवीयं तु दक्षिणम् ।
Page #235
--------------------------------------------------------------------------
________________
२३५
२३५
३ मर्त्यकाण्डः । भानोरिदं भानवीयं “ दोरीयः " ॥ ६ । ३ । ३२ ॥ १ ॥
असौम्येऽक्षण्यनक्षि स्यात् सोमदेवताकत्वेन लक्षणया सौम्यमविकृतं न सौम्यमसौम्यं तत्राक्षणि, चिकृतमक्षि अनक्षि, नञ् विरोधे, अनर्थवत् ॥ १ ॥
ईक्षणं तु निशामनम् ॥ २४०॥ निभालनं निशमनं निध्यानमवलोकनम् ।
दर्शनं द्योतनं निर्वर्णनं च ईक्ष्यत ईक्षणम् ॥ १॥ शमिण् आलोचने, निशामनम् ॥ २ ॥२४० ॥ निभाल्यते निभालनम् ॥ ३ ॥ निशाम्यते निशमनं “शमोऽदर्शने" ॥ ४ । २।२८ ॥ इत्यत्र दर्शने एव ह्रख इति मताश्रयणाद् ह्रस्वः ॥४॥ निध्यायते निध्यानम् ॥५॥ अवलोक्यतेऽवलोकनम् ॥ ६ ॥ दृश्यते दर्शनम् ॥ ७ ॥ द्योत्यते द्योतनम् ॥ ८ ॥ निर्वर्ण्यते निवर्णनम् ॥ ९॥
अथार्धवीक्षणम् ॥ २४१ ॥
अपाङ्गदर्शनं काक्षः कटाक्षोऽक्षिविकूणितम् । अर्धे वीक्षणमस्यार्धवीक्षणम् ॥ १ ॥ अपाङ्गेन दर्शनमपाङ्गदर्शनम् ॥ २ ॥ ईषद् विकूणितत्वाद् अक्ष्यत्र काक्षः " अल्पे ” ॥ ३।२। १३६ ॥ इति कादेशः " सक्थ्यक्ष्णः- " ॥ ७।३।१२६ ॥ इति ८ः समासान्तः ॥ ३ ॥ कटस्य कपोलस्याऽक्षि कटाक्षः " संकटाभ्याम् ” ॥ ७।३ । ८६ ॥ इत्यत् समासान्तः ॥ ४ ॥ अक्ष्णोविकूणनमक्षिविकूणितम् ॥ ५ ॥
स्यादुन्मीलनमुन्मेषः उन्मील्यते उन्मीलनम् ॥ १ ॥ उन्मेषणमुन्मेषः ॥ २॥.
निमेषस्तु निमीलनम् ॥ २४२ ॥ निमेषणं निमेषः ॥ १ ॥ निमील्यते निमीलनम् ॥ २ ॥ २४२ ॥
अक्ष्णोर्बाह्यान्तावपाडौ नेत्रयोरुपान्तप्रदेशौ अपकृष्टावङ्गावपाझौ ॥ १ ॥
भ्रूरूचे रोमपद्धतिः। अक्ष्णोरुपरि रोमराजिस्तन्नाम, भ्राम्यति भ्रूः, स्त्रीलिङ्गः "भ्रमिगमि"॥ (उणा८४३) ॥ इति डूः ॥१॥
Page #236
--------------------------------------------------------------------------
________________
२३६
अभिधानचिन्तामणौसकोपभ्रूविकारे स्याद् भ्र भ्रूभृपरा कुटिः ॥ २४३ ॥
भ्रादिभ्यः परा कुटिः भ्रवः कुटनं कुटिलीकरणं भ्रकुटिः, भ्रकुटि: "कृशकुटि.". ॥ ( उणा- ६१९ ) ॥ इति इः, ततो “भ्रुवोऽच्च कुंसकुट्योः " ॥ २।४।१०१ ॥ इत्यत्वं, ह्रखत्वं च ॥ १॥ २ ॥ भ्रूकुटिभृकुटी तु मतान्तराश्रयेण, स्त्रीलिङ्गाः, यद्गौडः- “अथ भ्रकुटिर्घकुटिभ्रुकुटिभ्रकुटि स्त्रियः” इति ।। ३ ॥ ४ ॥ २४३ ॥
कूच कूपै भ्रुवोर्मध्ये कीर्यते कूचे, पुंक्लीबलिङ्गः “कूर्चचूर्च-" ॥ ( ॥ उणा-११३ ) ॥ इति ने निपात्यते ॥ १ ॥ कीर्यते कूपै “ कृशसभ्य ऊर्चान्तस्य " ॥ ( उणा-२९८ ) ॥ इति यः ॥ २॥
___ पक्ष्म स्याद् नेत्ररोमणि ।
पच्यते विस्तीर्यते पक्ष्म, पुंक्लीबलिङ्गः “सात्मन्नात्मन् ," ॥ (उणा-९१६) ।। इति मनि निपात्यते ॥ १ ॥
गन्धज्ञा नासिका नासा घ्राणं घोणा विकूणिका ॥ २४४ ॥
नक्रं नर्कुटकं शिचिनी गन्धं जानाति गन्धज्ञा ॥ १॥ नस्यते कुटिलीक्रियते नासिका “नसिवसि." ॥ (उणा-४० ) ॥ इति णिदिकः, नासत इति वा णकः ॥ २ ॥ घनि, अचि वा नासा ॥ ३ ॥ जिघ्रत्यनेन घ्राणम् ॥९॥ घुणति गन्धाथै घोणा ॥ ५ ॥ विकूणयति विकूणिका ॥ ६ ॥ २४४ ॥ न कामति वायुरस्मिन् नर्क "नञः क्रमिगमि-" ।। (उणा-४)।। इति डप्रत्यये नखादित्वात् साधुः, क्लीबलिङ्गोऽयम् । वाचस्पतिस्तु-"नको नासा विकूणिका” इति घुस्याह ॥ ७ ॥ नृत्यति पवनोऽत्र नटं " नर्कुटकुक्कुट-" ॥( उणा-१५५ )॥ इत्युटे निपात्यते, के नकुटकम् ॥८॥ शिवत्यवश्यं शिचिनी ।।९।। शेषश्चात्र- नासा तु गन्धहृत् ॥
नसा गन्धवहा नस्या नासक्यं गन्धनालिका ॥ ओष्ठोऽधरो रदच्छदः । दन्तवस्त्रं च उष्यते तीक्ष्णाहारेण ओष्ठः “ वनिकणि-” ॥ ( उणा-१६२ ) ॥ इति ठः ॥१॥ अवति शोभामधरः, अयमधस्तनोष्ठवाचीति कश्चित् ॥ २ ॥ रदानां छदो रदच्छदः ॥ ३ ॥ दन्तानां वस्त्रमिव दन्तवस्त्रं पुंक्लीबलिङ्गः ।। ३ ।।
शेषश्चात्र- ओष्ठे तु दशनोच्छिष्टो रसालेपी च वाग्दलम् ।
तत्प्रान्तौ सृक्कणी
Page #237
--------------------------------------------------------------------------
________________
- ३ मर्यकाण्डः ।
२३७
तस्यौष्ठस्य प्रान्तौ सृजतो लालां मृकणी "सृजेः सज्सको च" ॥ ( उणा९०७) ॥ इति क्वनिप् 'सूक्किणी' इत्यमरः ॥ १॥
_असिकं त्वधः ॥ २४५ ॥
अधरस्याऽधोभागोऽस्यतेऽसिकं " क्रीकलि-" ॥ ( उणा-३८ ) ॥ इति बहुवचनादिकः ॥ १ ॥ २४५ ॥
असिकाधस्तु चिबुकं चीयते चिबुकं हन्वग्रसन्धिः " कञ्चुकांशुक-" ॥ ( उणा- ५७ ) ॥ इत्युके निपात्यते ॥ १॥
स्याद् गल्लः सृक्कणः परः । गल्यतेऽनेन गल्लः “ शामाश्या-" ॥ ( उणा- ४६२ ) ॥ इति बहुवचनालः ॥ १॥
गल्लात् परः कपोलश्च । कपिः सौत्रः, कप्यते कपोल: “ कटिपटि- " ॥ ( उणा- ४९३ ) ॥ इत्योलः ॥ १॥
परो गण्डः कपोलतः ॥ २४६ ॥ कपोलात् परो गण्डति गण्डः;गल्लादयस्त्रयोऽल्पविशेषत्वादेकार्था इत्येके॥१॥२४६॥
ततो हनुः ततो गण्डात् परो हन्त्याहारं हनुः, पुंस्त्रीलिङ्गः “कृहने-'॥ (उणा-७९१)॥ इति नुकि बाहुलकाद् नलोपः ॥ १॥
— श्मश्रु कूर्चमास्यलोम च मासुरी ।। - मनि मुखैकदेशे शेते श्मश्रु, क्लीबलिङ्गः "श्मनः शीडो डित्" ॥ (उणा-८१०)॥ इति रुः ॥ १॥ कीर्यते कूचं, पुंक्लीबलिङ्गः ॥२॥ आस्यैकदेशे लोम आस्यलोम॥३॥
मस्यति परिणमते मासुरी "श्वशुर-" ॥ (उणा-४२६) ॥ इत्युरे निपात्यते ॥ ४ ॥ ...शेषश्चात्र- श्मश्रुणि व्यञ्जनं कोटः ॥
- दाढिका दंष्ट्रिका दाढाप्रकृतिर्दाढिका ॥ १ ॥ एवं दंष्ट्रिका, द्राढिकाऽपि ॥ २ ॥
दाढा दंष्ट्रा जम्भः
द्यति खण्डयति दाढा " बहुलम् " ॥५।१।२॥ इति ढः ॥ १॥ दश्यते... ऽनया दंष्ट्रा “ दंशेस्त्रः " ॥५।२।९०॥ इति त्रः ॥ २ ॥ जायते जम्भः “ गृदृर. मि." ॥ ( उणा-३२७ ) ॥ इति भः ॥ ३ ॥
Page #238
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणौ- .
द्विजा रदाः ॥ २४७ ॥
रदना दशना दन्ता दंशखादनमल्लकाः । द्विर्जायन्ते द्विजाः ॥ १॥ रदन्ति विलिखन्ति रदाः ॥२॥२४७ ॥ रद्यतेऽमीभिरिति रदनाः ॥ ३ ॥ दश्यतेऽमीभिर्दशनाः “ दशनाऽवोदै." ॥४॥२॥५४॥ इत्यनटि निपात्यते ॥ ४ ॥ दाम्यन्त्यम्लभक्षणाद् दन्ताः " दम्यमि-" ॥ ( उणा२००)॥ इति तः ॥५॥ दश्यतेऽमीभिर्देशाः “ व्यञ्जनाद् घञ्" ॥५।३।१३२॥ ॥ ६ ॥ खादन्त्येभिः खादनाः ॥ ७ ॥ मल्लन्ते धारयन्ति. दृढत्वं मल्लाः, के मल्लकाः ॥ ८॥ शेषश्चात्र-दन्ते मुखखुरो दालुः ॥
राजदन्तौ तु मध्यस्थावुपरिश्रेणिको क्वचित् ॥२४८॥ दन्तानां राजानौ राजदन्तौ दन्तपङ्केपर्यधश्च द्वौ द्वौ मध्यभूतौ । क्वचिदिति मतान्तरे- उपरि न त्वधः श्रेणिः पतिर्ययोरुपरिश्रेणिकौ, वैजयन्तीकारस्तु- 'मध्यदन्ता राजदन्ता दंष्ट्रा तत्पार्श्वयोर्द्वयोः' इति चतुरो राजदन्तानाह ॥ १ ॥ २४८ ॥
रसज्ञा रसना जिह्वा लोला रसान् मधुरादीन् जानाति रसज्ञा ॥ १ ॥ रस्यतेऽनया रसना, स्रीक्लीबलिङ्गः "प्वसिरसि-" ॥ (उणा-२६९) ॥ इत्यनः ॥ २ ॥ लेढि रसान् जिह्वा “लिहेर्जिङ् च" ॥ (उणा-५१३) ॥ इति वः ॥ ३ ॥ लोलतीति लोला ॥ ४ ॥ शेषश्चात्र-जिह्वा तु रसिका रस्ना रसला रसमातृका ।
रसा काकुर्ललना च ॥ तालु तु काकुदम् ।
तरत्याहारोऽत्रेति तालु, क्लीबलिङ्गः "ऋतृ-"॥ (उणा-७२७) ॥ इति णिदुलत्वं च रस्य ॥ १ ॥ ककते जिह्वाऽत्र काकुदं “कर्णिद्वा" ॥ (उणा-२४३) ॥ इति णिदुदः, काकुं ददातीति वा ॥ २॥ शेषश्चात्र- वक्त्रदलं तु तालुनि ॥
सुधास्रवा घण्टिका च लम्बिका गलशुण्डिका ॥२४९।। सुधाममृतकलां स्रवति सुधारवा ॥ १ ॥ घण्टाप्रतिकृतिर्घण्टिका ॥२॥ लम्बते लम्बिका ॥ ३ ॥ गलस्य शुण्डेव गलशुण्डिका ॥४॥२४९॥
कन्धरा धमनिीवा शिरोधिश्च शिरोधरा । कं शिरो धारयति कन्धरा "धारेधर्च" ॥५।१।११३॥ इति खो, धरादेशश्च ॥१॥ धमेः सौत्रस्य धम्यतेऽनयेति “सदिवृत्य-"॥ (उणा-६८०) ॥ इत्यनौ धमनिः,
Page #239
--------------------------------------------------------------------------
________________
३ मर्त्यकाण्डः ।
२३९
स्त्रीलिङ्गः ॥ २ ॥ गृणाति गिरति गृध्नाति वा प्रीवा "प्रह्वाह्वा - " ॥ ( उणा - ५१४ ) ॥ इति वे निपात्यते ॥ ३ ॥ शिरो धीयतेऽस्यां शिरोधिः, स्त्रीलिङ्गः “व्याप्यादाधारे" ||५|३|८८ ॥ इति कः ॥ ४ ॥ शिरो धारयति शिरोधरा ॥ ५ ॥
सात्रिरेखा कम्बुग्रीवा
सा प्रीवा रेखात्रयाङ्किता शङ्खाकृतिर्वा कम्बुग्रीवा ॥ १ ॥
अवटुर्घाटा काटिका ॥ २५० ॥
"
भवत्यवटुः, पुंस्त्रीलिङ्गः “ अव्यर्तिगृभ्योऽदुः ॥ ( उणा - ७६२ ) ॥ १ ॥ नन्त्यस्यां हिंसा घाटा घटाघाटा- ॥ ( उणा - १४१ ) ॥ इति निपात्यते ॥२॥ कृकं कन्धरामध्यमटति कृकाटिका प्रीवापश्चाद्भागः ॥३॥२५०॥
"
"(
शेषश्चात्र - अवटौ तु शिरःपीठम् ॥ कस्तु कन्धरामध्यं
क्रियतेऽसौ कृकः " कृगो वा ॥ ( उणा - २३ ) ॥ इति कित्कः ॥ १ ॥
>>
कृपार्थौ तु वीनौ ।
वेति गच्छत्यनयोरपान इति वीतनौ
इति त बाहुलकाद् गुणाभावः ॥ १ ॥ ग्रीवाधमन्यौ प्राग् नीले
" वीपति- " ॥ ( उणा - २९२ ) ॥
प्रीवायाः प्राग्भागे धमन्यौ नाड्यौ नीलवर्णत्वान्नीले ॥ १ ॥ पश्चान्मन्ये कलम्बिके ।। २५१ ॥
प्रीवायाः पश्चाद् भागे धमन्यौ नाड्यौ मन्यतेऽनयोरपान इति मन्ये, स्त्रीलिङ्ग: " स्थाछा- ॥ ( उणा - ३५७ ) ॥ इति यः ॥ १ ॥ के शिरसि लम्बे लम्बके || २ || २५१ ॥
गलो निगरणः कण्ठः
गिरत्यनेन " पुंनानि - " |५|३|१३० ॥ इति घे लत्वे च गलः, गिलतीति वा ॥ १ ॥ निगरत्यनेनेति निगरणः ॥ २ ॥ कणयति शब्दायते कण्ठः कण्ठते वा पुंलिङ्गोऽयम् । वाचस्पतिस्तु - ' ग्रीवामूले तु कण्ठोऽस्त्री ' इति क्लीबेऽप्याह ॥ २॥
काकलकस्तु तन्मणिः ।
66
तस्य कण्ठस्य मणिः कु ईषत्कलः, काकलः, के काकलकः ॥ १ ॥
अंसो भुजशिरः स्कन्धः
""
अस्यते भारेणांसः, पुंक्ली बालिङ्गः मावावद्याम- ॥ ( उणा - ५६४ ) ॥
Page #240
--------------------------------------------------------------------------
________________
२४०
अभिधानचिन्तामणौ
इति सः ॥ १ ॥ भुजस्य बाहोः शिर इव भुजशिरः, भुजशिखरमपि ॥ २॥ स्कद्यते भारेण स्कन्धः “ स्कन्द्यमिभ्यां-" ॥ ( उणा-२५१) ॥ इति धे बाहुलकाद् दलोपः ॥ ३ ॥
जत्रु सन्धिरुरोंसगः ॥ २५२ ॥ वक्षःस्कन्धगतसन्धेरन्तरं जायत उद्भिनाऽस्थीति जत्रु, क्लीवलिङ्गः " जनिहनिशद्यतेस्त च" ॥ (उणा-८०९) ॥ इति रुः ॥ १॥ २५२ ॥
भुजो बाहुः प्रवेष्टो दोहा भुज्यतेऽनेन भुजः “भुजन्युज-" ॥ ४।१।१२०॥ इति घञि निपात्यते ॥१॥ वहति बाहुः, पुंस्त्रीलिङ्गो “मिवहि-"॥ (उणा-७२६) ॥ इति णिदुः ॥२॥ प्रवेष्टते प्रवेष्टः ॥ ३ ॥ दाम्यति दोः, पुंक्लीबलिङ्गः “यमिदमिभ्यां डोस्' ॥ (उणा१००५) ॥ ४ ॥ वाहृङ् प्रयत्ने वाहते प्रयतते वाहा ॥ ५ ॥
अथ भुजकोटरः ।
दोर्मूलं खण्डिकः कक्षा भुजस्य कोटरो भुजकोटरः, पुंक्लीबलिङ्गः ॥ १ ॥ दोष्णोर्मूलं दोर्मूलम् ॥ २ ॥ खण्डमस्याऽस्ति खण्डिकः ॥ ३ ॥ कष्यते कक्षा, पुंस्त्रीलिङ्गः “माका-" ॥ (उणा५६४) ॥ इति सः ॥ ४ ॥
पार्श्व स्यादेतयोरधः ॥ २५३ ॥ एतयोः कक्षयोरधस्तात् पर्शनां समूहः पार्श्व, पुंक्लीबलिङ्गः “ पर्वा ड्वण " ॥६।२।२०॥१॥२५३॥
कफोणिस्तु भुजामध्यं कफणिः कूपरश्च सः । कं फणति गच्छति कफोणिः स्त्रीलिङ्गः, पृषोदरादित्वात्, कफाणिरपि ॥१॥ भुजयोर्मध्यं भुजामध्यम् ॥ २ ॥ कं फणति कफणिः स्त्रीलिङ्गः “कूर्परः कफणिनषण्" इति पुंस्यपि वैजयन्ती ॥ ३ ॥ कल्पते कुरति वा कूर्परः "जठरककर-" ॥ (उणा-४०३) ॥ इत्यरे निपात्यते, कुपरोऽपि । शेषश्चात्र- कफोणौ रत्नपृष्ठकम् ॥ ४ ॥
बाहूपबाहुसन्धिश्च ।। अधस्तस्याऽऽमणिबन्धात् स्यात् प्रकोष्ठः कलाचिका ॥२५४॥
तस्य कूपरस्य मणिबन्धमवधीकृत्य प्रकुष्णाति प्रकोष्ठः, उपबाहु “कुषेर्वा" ॥ ( उणा-१६४ ) ॥ इति ठः ॥ १ ॥ करमञ्चति, आचिनोति वा पृषोदरादित्वात् कलाचिका ॥ २ ॥ २५४ ।। .
Page #241
--------------------------------------------------------------------------
________________
- ३ मर्त्यकाण्डः । .
२४१ . प्रगण्डः कूर्परांसान्तः । कूर्परांसमध्यं प्रगण्यते, प्रगण्ज्यते वा प्रगण्डः ॥ १॥
पञ्चशाखः शयः शमः ।
हस्तः पाणिः करः पञ्च अङ्गुलिलक्षणाः शाखा अस्य पञ्चशाखः ॥ १॥ शेतेऽस्मिन् सर्वं शयः ॥ २ ॥ शाम्यति शमः ॥ ३ ॥ हसत्यनेन हस्तः, पुंक्तीबलिङ्गः “ दम्यमि" ॥ ( उणा-२००) ॥ इति तः, हसद्भिर्मुखे दीयते वा ॥ ४ ॥ पण्यतेऽनेन पाणिः पुंलिङ्गः “ कमिवमि-" ॥ ( उगा-६१८) ॥ इति णिदिः ॥ ५ ॥ कुर्वन्त्यनेन, कार्यते वा करः ॥ ६॥ शेषश्चात्र-हस्ते भुजदलः सलः॥
अस्यादौ मणिबन्धो मणिश्च सः ॥ २५५ ।। अस्य पाणेरादौ मूले मणेर्वन्धोऽत्र मणिबन्धः पाणिप्रकोष्ठसन्धिः ॥ १॥ मणति मणिः, पुंस्त्रीलिङ्गः “पदिपठि-" ॥ ( उणा-६०७ ) इतीः ॥ २ ॥ २५५ ।।
करभोऽस्मादाकनिष्ठं अस्माद् मणिबन्धात् कनिष्ठां यावत् करे भाति करभः ॥ १ ॥ करशाखाङ्गुली समे।
अङ्गुरी च करस्य शाखेव करशाखा ॥१॥ अङ्गत्यङ्गुरिः “मस्यसि-" ॥ (उणा-६९९) इत्युरिः, लत्वे ड्यां चाऽङ्गुली ॥२॥३॥
अङ्गुलोऽङ्गुष्ठः __ अङ्गु शरीरावयवं लाति अङ्गुलः ॥ १॥ अङ्गौ तिष्ठत्यङ्गुष्ठ: " गोऽम्बा-" ॥२॥३॥३०॥ इति षत्वम् ॥ २ ॥
- तर्जिनी तु प्रदेशिनी ॥ २५६ ।। तय॑तेऽनया तर्जनी ॥ १ ॥ प्रदिशति प्रदेशिनी ॥ २॥ २५६ ॥ - ज्येष्ठा तु मध्यमा मध्या
अतिवृद्धा ज्येष्ठा ॥ १ ॥ मध्ये जाता मध्यमा “मध्यान्मः"॥६।३।७६॥२॥ मध्ये भूतत्वाद् मध्या ॥ ३ ॥
सावित्री स्यादनामिका ।
Page #242
--------------------------------------------------------------------------
________________
२४२
अभिधानचिन्तामणौ-..
.
सविता देवताऽस्याः सावित्री ॥ १ ॥ नामग्रहणाऽयोग्याऽनामा, सैव अनामिका, ब्रह्मणोऽनया शिरश्छेदात् , अत एवाऽस्यां पवित्रकः क्रियते ॥ २॥
कनीनिका तु कनिष्ठा कनति दीप्यते कनीनिका ॥ १ ॥ अत्यल्पा कनिष्ठा ॥ २ ॥
अवहस्तो हस्तपृष्ठतः ॥ २५७ ॥ हस्तपृष्ठेऽवकृष्टो हस्तोऽवहस्तः ॥१॥२५७॥
कामाङ्कुशो महाराजः करजो नखरो नखः ।
करशूको भुजाकण्टः पुनर्भवपुनर्नवौ ॥ २५८ ॥ कामस्याङ्कुश इव कामाङ्कुशः ॥ १ ॥ महाराज इव शोभनत्वाद् महाराजः ॥ २॥ कराज्जातः करजः, यौगिकत्वात् पाणिजकररुहादयः ॥ ३ ॥ न खं राति नखरस्त्रिलिङ्गः, नखादित्वाद् नोऽद्भावाभावः,न खन्यते वा “जठर-"॥(उणा-४०३)॥ इत्यरे निपात्यते ॥ ४ ॥ नास्ति खमस्य नखः, पुंक्लीबलिङ्गः, न खन्यते वा " नञः कमि-" ॥ ( उणा-४) ॥ इति डः, नखादित्वाद् नमोऽदभावः, नखति गच्छतीति वा ॥ ५ ॥ करस्य शूक इव करशूकः ॥ ६ ॥ भुजायां कण्ट इव भुजाकण्टः ॥७॥ पुनर्भवति पुनर्भवः ॥ ८ ॥ पुनरपि नवः पुनर्नवः ॥९॥२५८॥
प्रदेशिन्यादिभिः सार्धमङ्गुष्ठे वितते सति । प्रादेशतालगोकर्णवितस्तयो यथाक्रमम् ॥ २५९ ॥ प्रदेशिन्या सार्धमङ्गुष्ठे प्रसारिते प्रादिश्यते प्रादेशः ॥ १॥ मध्यमया ततेऽङ्गुष्ठे ताल्यते तालः ॥ १ ॥ अनामिकया ततेऽङ्गुष्ठे गोः कर्णाकृतिर्गोकर्णः ॥ १॥ कनिष्ठया युतेऽङ्गुष्ठे वितस्यतीति वितस्तिद्वादशाङ्गुलः, पुंस्त्रीलिङ्गः "प्लुज्ञा-" ॥(उणा ६४६ ) ॥ इति तिः ॥ १ ॥ २५९ ॥
प्रसारिताङ्गुलौ पाणौ चपेटः प्रतलस्तलः ।
प्रहस्तस्तालिका तालः चप्यतेऽनेन चपेटः, पुंस्त्रीलिङ्गः “चपेरेटः" ॥ (उणा-१५८) ॥१॥ प्रसृतं तलमस्य प्रतलः ॥ २॥ तलति तलः ॥ ३ ॥ प्रसृतो हस्तः प्रहस्तः ॥ ४ ॥ तालयति तालिका ॥ ५ तलति तालः ॥ ६ ॥
सिंहतलस्तु तौ युतौ ॥ २६० ॥
तौ प्रसारितागुलवामदक्षिणौ पाणी सिंहस्येव तलः सिंहतलः, सिंहो हि मिलिताभ्यां चपेटाभ्यां हन्ति, संहतं संघर्ट लातीति वा । संहतालाख्य इत्येके ॥१॥२६॥
संपिण्डिताङ्गुलिः पाणिर्मुष्टिर्मुस्तुर्मुचुट्यपि। .
Page #243
--------------------------------------------------------------------------
________________
३ मयंकाण्डः ।
२४३
संग्राहश्च मुष्णाति मुष्टिः “ दृमुषि-" ॥ ( उणा-६५१ ) ॥ इति कित्तिः ॥ १॥ मुस्यति खण्डयति मुस्तुः “बहुलम्" ॥५।१।२॥ इति तुक्, पुंस्त्रीलिङ्गौ, यद्वैजयन्ती"अक्लीबे मुष्टिमुस्तू द्वौ संग्राहो मुचुटिः स्त्रियाम्” इति ॥ २ ॥ मुहुश्चुटति मुचुटिः, पृषोदरादित्वाद् डयां मुचुटी, मुच्यतेर्बाहुलकात् किदुटिः ॥ ३ ॥ संगृह्यते संग्राहः " समो मुष्टौ" ॥ ५।३।५८ ॥ इति घञ् ॥ ४ ॥
__ अर्धमुष्टिस्तु खटकः - मुष्टेरर्धमर्धमुष्टिः, खटति खटकः "दृक-" ॥ (उणा-२७) ॥ इति बहुवचनादकः ॥ १॥
कुब्जितः पुनः ॥ २६१ ॥ पाणिः प्रसृतः प्रसूतिः
कुब्जित आकुञ्चिताङ्गुलिः पाणिः प्रस्रियते स्म प्रसृतः ॥ १॥ प्रस्रियते प्रसूतिः "स्त्रियां तिः" ॥५। ३ । ९१ ॥२॥
तौ युतौ पुनरञ्जलिः । ___ तौ प्रसृतौ वामदक्षिणौ पार्श्वश्लिष्टौ, अनक्त्यनेनाञ्जलिलौकिकः पुंलिङ्गः " पाव्यजिभ्यामलिः" ॥ ( उणा-७०२)॥ अम्यते जलमनेनेति नैरुक्ताः , नाव्ये तु- “पताकाभ्यां तु हस्ताभ्यां संश्लेषादञ्जलिः स्मृतः” ॥ १ ॥
प्रसृते तु द्रवाधारे गण्डूपश्चुलुकश्चलुः ॥ २६२ ॥ - गण्डयति गण्डूषः " खलिफलि." ॥ ( उणा-५६० ) ॥ इत्यूषः ॥ १ ॥ चुलुम्पः सौत्रः, चुलुम्पतीति चुलुकः, पुंस्त्रीलिङ्गौ " कञ्चुकांशुक-" ॥ (उणा५७) ॥ इत्युके निपात्यते ॥ २॥ चलति चलुः, पुंलिङ्गः " भृमृतृ." ॥ (उणा-७१६)॥ इति बहुवचनादुः, के चलुकोऽपि ॥ ३॥२६२ ॥
हस्तः प्रामाणिको मध्ये मध्यमाङ्गुलिकूपरम् । . मध्यमाङ्गुलिकूपरान्तरे प्रामाणिकश्चतुर्विंशत्यङ्गुलप्रमाणवान् हस्तः, यदाह___ "हस्तोऽङ्गुलविंशत्या चतुरन्वितया” इति ॥ १॥
बद्धमुष्टिरसौ रनिः असौ हस्तो बद्धेन मुष्टिना, रमन्ते मल्ला अस्मिन् रनिः, पुंस्त्रीलिङ्गः ॥ १॥ ___अरनिनिष्कनिष्ठिकः ॥ २६३ ॥
निष्कान्ता कनिष्ठा अस्मिन् निष्कनिष्ठिको हस्तः, इयर्ति प्रमाणतामरनिः पुंस्त्रीलिङ्गः “ अरनिः ” ॥ ( उणा-६८२ )॥ न रनिरिति वा ॥ १॥२६३ ॥
ति
Page #244
--------------------------------------------------------------------------
________________
.२४४
अभिधानचिन्तामणौ-.. ___ व्यामव्यायामन्यग्रोधास्तिर्यग्बाहू प्रसारितौ । :- तिर्यप्रसारितौ बाहू बाहुदण्डौ व्यामीयते रज्ज्वाद्यनेन व्यामः, वक्षो भुजा: वेति, व्ययति वा “ अर्तीरि-" ॥ ( उणा-३३८ ) ॥ इति मः ॥ १॥ विशिष्ट आयामोऽत्रेति व्यायामः ॥ २ ॥ न्यग् रुणद्धि न्यग्रोधः ॥ ३ ॥
शेषश्चात्र- अथ व्यामे वियामः स्याद् बाहुचापस्तनूनलः ॥
ऊर्वीकृतभुजापाणि नरमानं तु पौरुषम् ॥ २६४ ॥
ऊवीकृतभुजो पाणिनरो मानं यस्य तत्तथा, पुरुषः प्रमाणमस्य पौरुषं, वाच्यलिङ्गः "हस्तिपुरुषाद्वाऽण्” ॥ १।१४१॥ “पुरुषोर्ध्वमानं पौरुषम्” इत्येके द्वादशाङ्गुलं पौरुषं छायामानम् ॥१॥२६४॥
दनद्वयसमात्रास्तु जान्वादेस्तत्तदुन्मिते । जान्वादेः परतो दनादयः प्रत्ययास्ते नरजान्वादिनोन्मिते वर्तन्ते यथा- जानुः प्रमाणमस्य जानुदघ्नं, जानुद्वयसं, जानुमात्रं जलमित्यादि; एवं पुरुषदन्नमित्यादि ।
रीढकः पृष्ठवंशः स्यात् _ रिहः सौत्रोऽविकत्थनादौ रिह्यते स्म रीढः, के रीढकः ॥ १ ॥ पृष्ठस्य वंशः पृष्ठवंशः ॥२॥ ' पृष्ठं तु चरमं तनोः ॥ २६५ ॥
तनोः पश्चाद्भागः पृष्यते सिच्यते पृष्ठं “ पीविशि-" ॥ ( उणा-१६३) ॥ इति कित् ठः, पश्चान्मात्रेऽयमुपचारात् ॥१॥२६५॥
पूर्वभाग उपस्थोऽङ्कः क्रोड उत्सङ्ग इत्यपि । . शरीरस्य पूर्वभागे उपतिष्ठन्तेऽत्रोपस्थः ॥ १॥ अञ्चति तमित्यङ्कः ॥२॥ क्रियते कोड: “ विह डकहोड-" ॥ ( उणा-१७२)॥ इत्यडे निपात्यते ॥ ३ ॥ उत्कर्षेण सजत्यत्रोत्सङ्गः ॥ ४ ॥
क्रोडोरो हृदयस्थानं वक्षो वत्सो भुजान्तरम् ॥ २६६ ॥ करोति क्रोडा, स्त्रीक्लीबलिङ्गः ॥ १॥ अर्यते गम्यते उरः क्लीबलिङ्गः " अतेरुराशौ च " ॥ ( उणा-९६७ ) ॥ इत्यस् , कण्ड्वादावुरस्यतीति वा क्विम् ॥ २ ॥ हृदयस्य बुक्कयोः स्थानं हृदयस्थानम् ॥ ३ ॥ वक्ष रोषे सपत्नीरोषविषयस्वाद् वक्षतीति वक्षः, क्लीबलिङ्गः " अस्" ॥ ( उणा-९५२) ॥ इत्यस् ॥ ४ ॥ वदत्यनेन वत्सः, पुंक्तीबलिङ्गः " मावावद्य-" ॥ ( उणा-५६४) ॥ इति सः ॥ ५ ॥ भुजयोरन्तरं भुजान्तरम् ॥६॥२६६।।
स्तनान्तरं हृद् हृदयं
P
Page #245
--------------------------------------------------------------------------
________________
_३ मर्यकाण्डः ।
. सनयोरन्तरं स्तनान्तरम् ॥ १॥ हरति मनो हृद् , नपुंसकः, "बहुलम् ॥५। १। २॥ इति दुक् ॥२॥ “ गयहृदय-" ॥ ( उणा-३७० ) ॥ इत्यये निपातनाद् हृदयम् ॥ ३ ॥
शेषश्चात्र- हृद्यसहं मर्मचरं गुणाधिष्ठानकं त्रसम् ।।
स्तनौ कुचौ पगोधरौ। ... .. __ उरोजौ च
स्तनतः पीयमानौ स्तनौ ॥ १ ॥ कुचतः संकुचतः कुचौ ॥ २ ॥ पयो दुग्धं धरतः पयोधरौ ॥ ३ ॥ उररासि जातावुरोजौ, यौगिकत्वादुरसिज-वक्षेःजादयः ।।४।। शेषश्चात्र- स्तनौ तु धरणी॥
चुकं तु स्तनाद् वृत्त-शिखा मुखाः ।। २६७ ।। चत्यते बालेन चूचुकं, पुंक्लीलिङ्गः “कञ्चुका-" ॥ (उणा-५७) ॥ इत्युके निपात्यते, बालेन पीयमानं चूच्चित्यव्यक्तं कायति वा ॥ १ ॥ स्तनशब्दात्परें- वृन्ता-' दयः स्तनवृन्तम् , स्तनशिखा, स्तनमुखं स्तनाग्रभित्यर्थः ॥ २ ॥ ३ ॥ ४ ॥ २६७ ॥
शेपश्चात्र- अग्रे तयोः पिप्पलमेचकौ ॥ __ तुन्दं तुन्दिर्गर्भकुशी पिचण्डो जठरोदरे ।
तूयते पूर्यते तुन्दं "वृतु कुसुभ्यो नोन्तश्च" ॥ (उणा-२४०) ॥इति दः॥१॥ तुन्दन्त्येनां तुन्दिः, स्त्रीलिङ्गः “ नाम्युपान्त्य-" ॥ ( उणा-६ ० ९.) ॥ इति किः, बाहुलकाद् नोऽन्तश्च ॥ २ गिरत्याहारं गर्भः “ गृदृरमि-" ( उणा-३२७ ) इति भः ॥ ३ ॥ कुष्मात्याहारं “ पुषिप्लुषि-" ॥ ( उणा-७०७ ) ॥ इति किति सौ कुक्षिः पुंलिङ्गः, गौडस्तु- “उदरं कुाक्षरक्लीवे' इति स्त्रियामप्याह । वाचस्पतिस्तु. "कुक्षिस्तु जठराधारे” इति जठरात् पृथगाह ॥ ४ ॥ पचत्यन्नमपि, चमत्याहारमिति वा पिचण्डः “पिचण्डैरण्ड." ॥ ( उणा-१७६ ) ॥ इत्यण्डे निपात्यते ॥ ५ ॥ जमत्याहारं जठरं, पुंक्तीबलिङ्गः "जठर-' ॥ ( उणा-४०३ ) ॥ इत्यरे निपात्यते॥६॥
उजत्त्यन्नमत्र "मृयुन्दि-" ॥ ( उगा-३९९ ) ॥ इति कित्यरे उदरं, क्लीवलिङ्गः, • वैजयन्तीकारस्तु. "जठरं चोदरं न ना" इत्याह; त्रिलिङ्गोऽयमिति बुद्धिसागरः । ",
उदियतीति वा ॥ ७ ॥ .. शेषश्चात्र- जठरे मलको रोमलताधारः ॥
कालखण्डं कालखनं कालेयं कालकं यकृत् ॥ २६८ ॥ .
दक्षिणे हृदयस्य दक्षिणपार्श्वे कालस्य मांसस्य खण्डं कालखण्डं कृष्णमांसांशः ॥ १ ॥ कालमपि भिनं सत् खजयति कालखञ्जम् ॥ २ ॥ कु ईषद् लीयते श्लिष्यते
Page #246
--------------------------------------------------------------------------
________________
२४६ अभिधानचिन्तामणौहृदयेन कालेयम् " य एच्चातः " ॥५।१।२८ ॥ कलिदेवताऽस्येति वा ॥३॥ . कालमेव कालकम् ॥ ४ ॥ इज्यतेऽनेन यकृत् क्लीबलिङ्गः “यजेः क च" ॥(उणा८९२ )॥ इति ऋत् प्रत्ययः॥ ५॥ यमं करोतीति वा ॥ २६८॥
तिलकं क्लोम हृदयस्य दक्षिणपार्श्वे तिलति तिलकमुदो जलाधारः "ध्रुधून्दि-" ॥(उणा२९)॥ इति किदकः ॥१॥ क्लाम्यति क्लोम, क्लीबलिङ्गः “सात्मनात्मन्-"॥ (उणा९१६ ) ॥ इति मनि निपात्यते ॥ २ ॥ शेषश्चात्र- अथ क्लोमनि स्यात्ताण्ज्यं क्लपुषं क्लोमम् ॥
वामे तु रक्तफेनजः ।
..
लामम् ॥
-
पुष्पसः स्यात्
हृदयस्य वामपार्श्वे रक्तफेनाज्जातो रक्तफेनजः ॥ १॥ पुष्यतीति पुष्पस: * "फनस-" ॥ ( उणा-५७३ ) ॥ इत्यसे निपात्यते ॥ २ ॥
अथ प्लीहा गुल्मः हृदयस्य वामभागे प्लेहते प्लीहा " श्वन्मातरि-" ॥ ( उणा-९०२)॥ इत्यनि निपात्यते ॥१॥ गुप्यते रक्ष्यते गुल्मः, पुंक्लीबलिङ्गः "रुक्मग्रीष्म-"॥(उणा३४६) ॥ इति मे निपात्यते ॥ २॥
अन्त्रं तु पुरीतति ॥ २६९ ॥ अमत्यनेनान्त्रं “ हुयामा-" ॥ ( उणा-४५१ ) ॥ इति त्रः॥ १ ॥ पूर्यते पुरीतत् “संश्चद्वहत्-" ॥ (उणा-८८२) ॥ इति कति निपात्यते, पुरी तनोति वा, क्लीबलिङ्गोऽयम् , वाचस्पतिस्तु- अन्त्रं पुरीतदस्त्रियाम् , इति पुंस्यप्याह, तत्र ॥२॥ ॥ २६९ ॥
रोमावली रोमलता रोम्णामावली रोमावली नाभिनिर्गता रोमराजिः ॥ १॥ रोम्णां लतेव रोमलता ॥२॥
नाभिः स्यात् तुन्दकूपिका । नह्यते स्नायुभिरिति नाभिः, पुंस्त्रीलिङ्गः “नहेर्भ च" ॥ ( उणा-६२१)॥ इति णिदिः ॥ १॥ तुन्दे कूपीव तुन्दकूपिका ॥२॥ शेषश्चात्र- अथ नाभौ पुतारिका सिरामूलम् ॥
नाभेरधो मूत्रपुटं वस्तिर्मुत्राशयोऽपि च ॥ २७० ॥
Page #247
--------------------------------------------------------------------------
________________
३. मर्त्यकाण्डः ।
२४७
"
""
मुत्रस्य पुटमाधारो मूत्रपुटम् ॥ १ ॥ वसत्यस्यां मूत्रं चस्तिः, पुंस्त्रीलिङ्गः ॥ ( उणा - ६४६ ) ॥ इति तिः, बस्तयत इति वा " स्वरेभ्य इ: 11 ( उणा - ६०६ ) ॥ २ ॥ मूत्रस्याऽऽशयो मुत्राशयः ॥ ३ ॥ २७० ॥
"प्लुज्ञा
मध्योऽवलग्नं विलग्नं मध्यमः
मध्यते बध्यते मेखलाद्यत्र मध्यः ॥ १ ॥ अवलगत्यवलग्नम् ॥ २ ॥ विलगति विलग्नमतिकृशत्वात् ॥ ३ ॥ मध्ये जातो मध्यमः, एते पुंक्लीबलिङ्गाः ॥ ४ ॥
अथ कटः कटिः ।
श्रोणिः कलत्रं कटीरं काञ्चीपदं ककुद्मती ॥ २७१ ॥
"
कटत्यावृणोति कटः, पुंक्लीबलिङ्गः ॥ १ ॥ कव्यते अत्रियते कटिः, स्त्रीलिङ्गः दिपाठ- ॥ ( उणा - ६०७ ) ॥ इति इः ॥ २ ॥ श्रूयते किङ्किणीध्वनिरत्र श्रोणिः, पुंस्त्रीलिङ्गः " कावा॥ ( उणा - ६३४ ) ॥ इति णिः, श्रोण्यते संहन्यते इति वा ॥ ३ ॥ कति माद्यत्यनेन कलत्रम् ॥ ४ ॥ कव्यते कटीरं “कृशृपृ-" ॥ ( उणा - ४१८ ) ॥ इतीरः ॥ ५ ॥ काञ्च्याः पदं स्थानं काञ्चीपदम् ॥ ६ ॥ ककुत् पार्श्वनिःसृतशोऽस्त्यस्याः ककुद्मती ॥ ७ ॥ २७१ ॥
नितम्बारोहौ स्वीकट्याः पश्चात्
४८
"3
स्त्रीकटेः पश्चाद्भागः, नितरां तनोति श्रियं नितम्बः " वलिनितनिभ्यां बः ॥ ( उणा - ३१७ ) ॥ १ ॥ आरोहति, आस्यते वाऽऽरोहः ॥ २ ॥
जघनमग्रतः ।
"
स्त्रीकटेर प्रभागः, हन्यते जघनं “ हनेर्घतजघौ च ॥ ( उणा - २७२ ) ॥ इत्यनः ॥ १ ॥
त्रिकं वंशाधः
पृष्ठवंशस्याऽधस्तादुर्वोः सन्धौ, त्रिसङ्घट्टस्त्रिकं “ संख्याङते-" ॥६।४।१३०॥ इति कः ।। १ ।।
तत्पार्श्वीकूपकौ तु कुकुन्दरे ॥ २७२ ॥
तस्य त्रिकस्य पार्श्वे गर्तौ कुत्सितं कुन्देते आप्लवेते कुकुन्दरे, क्लीवलिङ्गोऽयं
" जठर-" ।। . ( उणा - ४०३ ) ॥ इत्यरे निपात्यते, भागुरिस्तु - "कुकुन्दरौ समाचष्टे जनो जघनकू कौ” इति पुंस्याह । “श्वशुरकुकुन्दुर-" ।। . ( उणा - ४२६ ) ।। इत्युरे कुकुन्दुरोऽपि ।। १ ।। २७२ ।।
शेषवात्र - कटीकूपौ तूचलिङ्गौ रताके ॥
Page #248
--------------------------------------------------------------------------
________________
२४८
अभिधानचिन्तामणौ
पुतौ स्फिज कटिप्रोथ
पूयेते इति पुतौ, पुंक्लीबलिङ्गः " पुन पित्त - "।। (उणा - २०४) । इति निपात्यते ॥ १ ॥ स्फायत इति स्फिजौ, स्त्रीलिङ्गः " ककुत्रिष्टुव" ।। उणा - ९३२ ) ॥ इति बहुवचनात् विपि निपात्यते ॥ २ ॥ प्रथेते प्रोथौ कटः प्रोथौ कटिप्रोथौ ॥ ३ ॥
"
बराजं तु च्युतिर्बुलि: ।
. गोपत्यपथ योनिः स्मरा मन्दिरकूपिके || २७३ ॥ स्त्रीचिह्नं
वरमङ्गं वराङ्गम् ।। १।। च्यवन्तेऽस्यां च्युतिः, च्युतमनेन च्युत्यत आसिच्यते वा "नाम्युपान्त्य - " | | ( उणा - ६०९ ) ॥ इति किदिः || २ || बुलग् निमज्जने, बुल्यतेऽस्यां बुलिः, स्त्रीलिङ्गौ “नाम्युपान्त्य - " ।। ( उणा - ६०९ ) ॥ इति किः ॥ ३ ॥ भज्यतेऽनेनाऽस्मिन् वा भगः, पुंक्कबिलिङ्गः " गोचरसंचर - " || ५ | ३|१३१ ॥ इति घः ॥ ४ ॥ अप. त्यस्य निस्सरणे पन्था अपत्यपथः ॥ ५ ॥ यौत्यनया योनिः पुंस्त्रीलिङ्गः "वीयुसु- " ( उणा - ६७७ ) ॥ इति निः ॥ ६ ॥ स्मरशब्दाद् मन्दिरकृपिके स्मरमन्दिरं, स्मर"कूपिका ॥ ७ ॥ ८ ॥ २७३ ॥ स्त्रियाचि लक्षगं स्त्रीचिह्नम् ॥ ९ ॥
"
अथ पुंश्चिह्नं मेहनं शेपशेपसी ।
शिश्नं मेदुः कामलता लिङ्गं च
पुंस
( उणा - ९८२ ) ॥
चिह्नम् ॥ १ ॥ मेत्यनेन मेहनम् ॥ २ ॥ शेतेऽनेन शेपः "भापाचणि -” ॥ (उणा-२९६ ) ॥ इति पः ॥ ३ ॥ " शीङः फच " ॥ इति चकारात् पसि शेपः, क्लीबलिङ्गः ॥ ४ ॥ “ शीङः सवत् ' ॥ ( उणा - २६७) । - इति डिति ने द्वित्वे च शिनम् ॥ ५ ॥ मेहत्यनेन मेढ्रः, पुंक्लीबलिङ्गौ “पीदा " ||५|२'८८ ॥ इति त्रट् ॥ ६ ॥ कामस्य लतेव कामलता ॥ ७॥ लिङ्गथतेऽनेन लिङ्गम् ॥ ८॥ शेषचात्र - शिश्ने तु लङ्गुलं शङ्कु लागूलं शेफशेफसी ॥
द्वयमप्यदः || २७४ ॥
गुह्यप्रजननोपस्थाः
एतद् द्वयं स्त्रीचि, पुंश्चिलं च ॥ २७४ ॥ गुह्यते गुह्यं “ कृषि - " || ५|१|४२ ॥ इति क्यप् ॥ १ ॥ प्रजन्यतेऽनेन प्रजननम् ॥ २ ॥ उपतिष्ठते संगच्छत उपस्थः, पुंस्ययम्, वैजयन्तीकारस्तु- "उक्तं द्वयमुपस्थोऽस्त्री” इति क्लीबेऽप्याह ॥ ३ ॥ गुहामध्यं गुलो मणिः ।
गुह्यस्य मध्यं गुह्यमध्यं, गुडति रक्षति गुलः ॥ १॥ मन्यते मणिः पुंस्त्रीलिङ्गः ॥ २॥
2
सीवनी तदधः सूत्रं
7
Page #249
--------------------------------------------------------------------------
________________
३ मर्त्यकाण्डः ।
तस्य गुह्यस्याधःसूत्रं सीव्यतेऽनया सीवनी ॥ १ ॥ ... स्यादण्डं पेलमण्डकः ॥ २७५ ॥
मुष्कोऽण्डकोशो वृषणः अणत्यत्राहतः प्राणी अण्ड, क्लीबलिङ्गः' वैजयन्तीकारस्तु- "अस्त्रियो मुष्ककोशाण्डाः" इति पुंस्यप्याहू । “कण्यणि-" ॥ (उणा-१६९)॥ इति डः आण्डोऽपि ॥ १॥ पेलत्यूचं गच्छति भयेन पेलं के पेलकोऽपि पुंसि ॥ २ ॥ अण्डमेवाऽण्डकः । ३ ॥ २७५ ॥ मुष्णाति शुक्रं मुष्कः, पुंक्तीबलिङ्गः “विचिपुषि-” (उणा-२२) इति कित्कः ॥ ४ ॥ अण्डयोः कोशोऽण्डकोशः ॥ ५ ॥ वर्षति शुक्र वृषणः, पुंक्लीबलिङ्गः "कृगपु-" ॥ (उणा-१८८) ॥ इति किदणः ॥ ६॥ ... ___ अपानं पायुर्मुदं च्युतिः ।
अधोमर्म शकृद्वारं त्रिवलीक-बुली अपि ॥ २७६ ॥ अपाऽनित्यनेन, अपानम् ॥१॥ पिबत्यनेन तैलादि पायुः, पुंलिङ्गः “कृवापा-" (उणा-१) ॥ इत्युण , पाति मलोत्सर्गेणेति वा ॥२॥ गुंत् पुरीषोत्सर्गे, गुवत्यनेन गुदं पुंक्लीबलिङ्गः “गोः कित्" ॥ (उणा-२३९) ॥ इति दः, गोदते वा ॥ ३ ॥ च्यवते मलोऽस्याश्च्युतिः ॥४॥ अधस्ताद् मर्माऽस्याऽधोमर्म ॥५॥ शकृतो द्वारं शकृद्वारम्म ६ ॥ तिस्रो वलयोऽत्र त्रिवलीकम् ॥७॥ बुल्यते जनेषु बुलिः स्त्रीलिङ्गः ॥८॥२७६॥ ... विटपं तु महाबीज्यमन्तरा मुष्कवङ्क्षणम् ।
... वेटति विटपमण्डमूलं “भुजिकुति-" ॥ (उणा-३०५) ॥ इति किदपः ॥ १॥ महाबीजे साधु महाबीज्यम् , मुष्कस्य वङ्क्षणस्य च मध्यवर्ति ॥ २॥ .. ऊरुसन्धिर्वङ्क्षणः स्यात्
वस्तेरधस्तादूरुसन्धिः, वञ्चति यात्यनेन वक्षणः “चिकण-" ॥ (उणा१९०)॥ इत्यणे निपात्यते ॥१॥ : सक्थ्यरुः .." सजति मांसेन सक्थि क्लीबलिङ्गः “वीसज्य." ॥ (उणा-६६९) ॥ इति कित् थिः॥१॥ इयर्त्यनेनोरुः पुंस्त्रीलिङ्गः “अर्तेरूर् च ॥ (उणा-७३६)॥ इत्युः ॥२॥
तस्य पर्व तु ॥ २७७ ॥
जानुर्नलकीलोऽष्ठीवान् . तस्योरोः पर्व ग्रन्थिः॥२७७॥जायतेऽनेनाकुञ्चनादि जानुः, पंक्लाबलिङ्गः "कृवापा-" ॥ (उणा-१) ॥ इत्युण ॥ १ ॥ नलं कीलयति नलकीलः ॥ २ ॥ अस्थीनि सन्त्यत्राऽष्ठीवान् , पुंक्लीबलिङ्गः “चर्मण्वत्यष्ठीव-'" ॥२।१।९६॥ इति साधुः ॥ ३ ॥
Page #250
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणौ- . .
पश्चाद्भागोऽस्य मन्दिरः। अस्य जानोः पश्चाद्भागः, मन्दते गच्छत्यनेन मन्दिरः “मदिमन्दि-" ॥ (उणा-४१२) ॥ इतीरः ॥ १ ॥
कपोली त्वनिमः
जानोरप्रिमो भागः, कपेः सौत्रस्य “कटिपटि-" ॥ (उगा-४९३ ) ॥ इत्योले . कपोली ॥१॥
जङ्घा प्रसृता, नलकीन्यपि ॥ २७८ ॥ जायते जङ्घा "स्थार्तिजनिभ्यो घः" ॥ (उणा-१०९) ॥ जङ्घन्यते वा ॥१॥ प्रसरति स्म प्रसृता ॥ २ ॥ नलके विद्यते अस्यां नलकिनी ॥ ३ ॥ २७८ ॥
प्रतिजङ्घा त्वग्रजङ्घा जवां प्रतिगता प्रतिजङ्घा ॥ १ ॥ जङ्घाया अग्रभागोऽग्रजङ्घा ॥ २ ॥
पिण्डिका तु पिचण्डिका। मांसस्य पिण्डोऽस्त्यस्यां पिण्डिका, जङ्घायाः पश्चिमो भागः ॥ १ ॥ पिचण्ड- . प्रतिकृतिः पिचण्डिका ॥२॥
गुल्फस्तु चरणग्रन्थिधुटिको घुण्टको घुटः ॥ २७९ ॥ गलति गुल्फः पादप्रन्थिः पार्श्वनिसृतः "कलिगलेरस्योच्च” ॥ (उणा-३१५)॥ इति फः ॥ १ ॥ घुटति घुटिकः "पापुलि-" ॥ (उणा-४१) ॥ इति बहुवचनात् किदिकः ॥ २॥ घुणत्यनेन घुण्टः, “घटाघाटा-" ॥ ( उणा-१४१)॥ इति टे निपात्यते, के घुण्टकः ॥३॥ घुटति घुटः सर्वे स्त्रीपुंसलिङ्गाः ॥४॥२७९।।
चरणः क्रमणः पादः पदोंऽहिश्चलनः क्रमः । चरन्त्यनेन चरणः पुंक्लीबलिङ्गः ॥ १ ॥ कामन्त्यनेन क्रमणः ॥ २॥ पद्यते पादः “पदरुज--" ॥५।३।१६॥ इति घञ्, पादपि, “यद् दुर्ग:-" पादसमानार्थः पादप्यस्ति' ॥ ३ ॥ पद्यतेऽनेन पदः पुंक्लीबलिङ्गः, वर्षादित्वादल् पदपि' यद् व्याडि:- "पत्पादोंह्रिश्चरणोऽस्त्री" इति ॥ ४ ॥ अंहते यात्यनेनाहिः, पुंलिङ्गः "तङ्किवकि." ॥ (उणा-६९२) ॥ इति रिः, अङ्घ्रिरपि ॥ ५ ॥ चलन्त्यनेन चलनः ॥६॥ कामन्त्यनेन क्रमः ॥ ७ ॥
पादमूलं गोहिरं स्यात् गुह्यते गोहिरं “ मदिमन्दि-" ॥ (उणा-४१२) ॥ इति बहुवचनादिरः ॥१॥
पाणिस्तु घुटयोरधः ॥ २८० ॥
Page #251
--------------------------------------------------------------------------
________________
३ मर्त्यकाण्डः ।
२५१ पृष्यते सिच्यते पाणिः पश्चाद्भागः, स्त्रीलिङ्गः “वृषिहावभ्या वृद्धिश्च " a (उणा-६३६ ) ॥ इति णिः ॥ १ ॥ २८० ॥
पादानं प्रपदं प्रारम्भोऽत्र पदस्य प्रपदम् ॥ १ ॥
क्षिप्रं त्वङ्गुष्ठाऽङ्गुलिमध्यतः । क्षिप्यतेऽनेन क्षिप्रं “ ऋज्यजि." ॥ (उणा १८८ ) ॥ इति किद् रः ॥१॥
कूर्च क्षिप्रस्योपरि किरत्यनेन कूर्चे पुंक्लीबलिङ्गः ॥ १ ॥
अंहिस्कन्धः कूर्चशिरः समे ॥ २८१ ॥ अंहः स्कन्धोंऽह्रिस्कन्धः ॥ १ ॥ कूर्चस्य शिरः कूर्चशिरः ॥ २ ॥ २८१ ॥
तलहृदयं तु तलं मध्ये पादतलस्य तत् । तलस्य हृदयं तलहृदयम् ॥ १॥ तलति गच्छति तलं, तच्च पादतलस्य मध्ये भवतीति ॥ २ ॥
तिलकः कालकः पिप्लुर्जडुलस्तिलकालकः ॥ २८२ ॥ तिलप्रतिकृतिस्तिलकः ॥१॥ काल एव कालकः ॥ २ ॥ अपिप्लवते पिप्लुः, पुंलिङ्गः, पृषोदरादित्वात् ॥ ३ ॥ जलति जडुल: " हृषिवृति-" ॥ (उणा-४८५)॥ इति बहुवचनादुलः ॥४॥ तिल इव कालकस्तिलकालको देहे कृष्णं लक्ष्म॥५॥२८२॥
रसासृग्मांसमेदोऽस्थिमज्जाशुक्राणि धातवः ।
सप्तैव दश वैकेषां रोमत्वक्स्नायुभिः सह ॥ २८३ ॥ रसादीनि सप्तसंख्यानि, दधति शरीरमिति धातवः " कृसिकमि-" ॥ (उणा-७७३) ॥ इति तुन् , अथवा रोमादिभिस्त्रिभिः सार्धं केषांचिन्मतेन ते दश भवन्ति ॥ २८३ ॥
अथ रसादीन् क्रमेणाहरस आहारतेजोऽग्निसंभवः षड्रसासवः ।
आत्रेयोऽसृकरो धातुर्धनमूलमहापरः ॥ २८४ ॥ रसयति स्नेहयति रसः ॥ १॥ आहारस्य तेजो निर्यास आहारतेजः ॥ २ ॥ अमेः सम्भवत्यमिसंभवः ॥ ३ ॥ षण्णां मधुरादीनां रसानामासवः षड्रसासवः ॥ ४ ॥ अत्रेरपत्यमिव तज्जन्यत्वादात्रेयः ॥ ५ ॥ असूग रक्तं करोत्यसकरः
Page #252
--------------------------------------------------------------------------
________________
२५२ः .
अभिवानविन्तामगौ
हेतुतच्छील.'' ॥ ५। १ । १०३ ।। इति टः ॥ ६ ॥ घनादिभ्यः परो धातुघनधातुः ॥ ७ ॥ मूलध.तः ॥ ८ ॥ महाधातुः ॥ ९ ॥ २८४ ॥
रक्तं रुधिरभाग्नेयं विस्रं तेजोभवे रसात् । शोणितं लोहि तमसा वाशिष्ठं प्राणदाऽऽसुरे ॥ २८५ ॥ .
क्षतजं मांसकार्यत्रं । ... रक्तं वन ॥ १ ॥ रुगद्धि श्रोतांसि रुधिरं “शुषी." ॥ ( उणा-४१६ ) इति किदिरः ॥२॥ अग्नये हितमाग्नेयं “कल्यनेरेयण' ॥ ६ । १ । १७॥३।। विस्यते विलं “ ऋज्यजि.” ॥ ( उणा-३८८ ) इति किद्रः, विस्रायति वा ।।४।। रसशब्दात्परे तेजोभवे रसतेजः ।। ५ ।। रसंभवम् ।। ६ ।। शोणति शोणितं "हृश्यारुहि-" (उगा-२१०) ॥ इतीतः ॥ ७ ॥ लोहितं वर्णेन ॥ ८ ॥ अस्यत्यनेनाऽ. सृक्, क्लीवलिङ्गः “बहुलम् " ॥ ५। १।२ ॥ इति ऋक् , न सृज्यते वा ॥ ९ ॥ वशिष्ठस्येदं नाशिष्ठम् ॥ १० ॥ प्राणं बलं ददाति प्राणदम् ॥ ११ ॥ असुराणामिदं प्रियमासुरम् ।। १२ ॥ ॥ २८५ ॥ क्षताज्जायते क्षतजम् ॥ १३ ॥ मांसं करोति मांसकारि ।।१४।। अस्यतेऽनं "भीवृधि-"॥ (उणा-३८७) ॥इति रः॥१५।।२८५।।
शेषश्चात्र- रक्ते तु शोध्यकीलाले ॥
मांसं पललजङ्गले । रक्तात्तेजोभवे क्रव्यं काश्यपं तरसामिषे ॥ २८६ ॥
मेदस्कृत् पिशितं कीनं पलं मान्यतेऽनेन मांसं, पुंक्लीबलिङ्गः “मावावद्य-" ॥ (उणः-५६४) ॥ इति सः, मां स भक्षयिताऽपुत्र, इति नैरुक्ताः। यद् मनुः
"मां स भक्षयिताऽमुत्र यस्य मांसमिहाऽम्यहम् ।
एतन्मांसस्य मांसत्वं प्रवदन्ति मनीषिणः” ॥ १ ॥ इति ॥ १॥ ..... पलत्यनेन पललं "मृदिकन्दि-" ॥ (उणा-४६५) ॥ इत्यलः ॥ २ ॥ जायते रुधिराद् जङ्गलं, पुनपुंसकः "ऋजने!न्तश्च ॥ (उणा-४६७) ॥ इत्यलः ॥ ३ ॥ रक्तशब्दात्तेजोभवे रक्ततेजः ॥ ४ ॥ रक्तभवम् ॥ ५ ॥ अ॒ङ् गतौ सौत्रः, क्रूयते क्रव्यम्, कृनविकृत्तस्य ऋव्यम्, इति नैरुक्ताः ॥ ६ ॥ कश्यपस्येदं काश्यपम् ॥ ७ ॥ तरो बलमस्त्यत्र तरसमभ्रादित्वादः, तरन्त्यनेन कार्य वा “फनस-" (उणा-५७३)॥ इत्यसे साधुः ॥ ८ ॥ अमति गच्छति कार्यमनेनाऽऽमिषं, पुंक्लीबलिङ्गः “ अमिमृभ्यां णित्"॥ (उणा- ५४९) आमिषतीति वा ॥९॥२८६॥ मेदः करोति मेदस्कृत् ॥१०॥ पिंशति पिशितं "क्रुशिपिशि-" ॥ (उणा-२१२) ॥ इति किदितः ॥ ११॥ केनत्यनेन कीनं, पृषोदरादित्वात् ॥ १२ ॥ पलति देहं पलं पुनपुंसकः ॥ १३ ॥ :
Page #253
--------------------------------------------------------------------------
________________
३ मयंकाण्डः ।
२५३
मेषधात्र- मांसे तूघः समारटम् ॥
लेपनं च ॥ पेश्यस्तु तल्लताः । पिंशन्ति पेशयः "किलिपिलि-" ॥ (उणा-६०८)॥ इति इ., ड्या पेश्यः, तस्य मांसस्य लतास्तल्लताः ॥१॥
बुक्का हृद् हृदयं वृक्का सुरसं च तदग्रिमम् ॥ २८७ ॥
क्यते स्वादुत्वाद् मृग्यते बुक्का “उक्षितक्ष्य-''॥ (उणा-९००) ॥ इत्यनन्तः पुंस्ययम् "क्तेटो-" ॥५॥३।१०६॥ इत्यप्रत्यये तु बुक्का स्त्रियामाबन्तः, पुंलिङ्ग इति गौडः। भागुरिस्तु- "अग्रमांसं भवेद् बुक्कम्" इति क्लीबमाह ॥ १॥ ड्रियते हृद् हृदयम् ॥२॥३॥ वृज्यते वृक्का "निष्कतुरुष्क-" ॥ (उणा-२६)॥ इति के निपात्यते, स्त्रीलिङ्गोऽयम् , यद्गौडः- "स्त्रियां वृक्का बुक्कः सुरसमद्वयोः" इति। वैजयन्तीकारस्तु"वृक्कौ पार्श्वगतौ गुलौ" इत्याह । सुष्ठुरस्यते सुरसम् तद् मांसमग्रिमं मुख्यम् , “बुक्काऽप्रमांस, हृदयं च जीवाधारपद्मम, इत्यमरः पृथक् पृथगाह ॥४॥२८७॥
शुष्कं वल्लूरमुत्तप्तम् । शुष्कं मांसं वल्ल्यते वल्लूरं त्रिलिङ्गः “मीमसि." ॥ ( उणा- ४२७) । इत्यूरः, वलू लुनातीति वा ॥ १ ॥ उत्तप्यते शोष्यते उत्तप्तम् ॥ २ ॥
पूयदूष्ये पुनः समे । ... पूयते दुर्गन्धीभवति, पूयं पुंक्लीबलिङ्गः ॥ १॥ दूष्यते दूष्यम् ॥ २ ॥ . मेदोऽस्थिकृद् वपा मांसात् तेजो-जे गौतमं वसा ॥ २८८ ॥
मेद्यते निह्यते मेदः, क्लीबलिङ्गः “ अस्" ॥ (उणा-९५२) । इत्यस् अस्थीनि करोत्यस्थिकृत् ॥२॥ उप्यते वपा, भिदाद्यङि साधुः ॥ ३ ॥ मांसशब्दात् तेजोजे मांसतेजः, मांसजम् ॥४॥५॥ गोतमस्यदं गौतमन्न् ॥ ६ ॥ उष्यतेऽङ्गेऽनया भिदाद्यङि वसा "शुद्धस्य मांसस्य यः स्नेहः सा वसा" इति वैद्याः ॥७॥२८॥
. गोदं तु मस्तकस्नेहो मस्तिष्को मस्तुलनकः । __ गवते गोंदं कुमुदादौ निपात्यते, क्लीबलिङ्गोऽयम् , वाचस्पतिस्तु "गोदोऽस्त्री मस्तुलुङ्गकम्" इति पुंस्यप्याह ॥१॥ मस्तकस्य स्नेहो मस्तकस्नेहः ॥ २ ॥ मस्तकमिष्यति गच्छति मस्तिष्कः, पुंक्लीबलिङ्गः ॥ ३ ॥ मस्तकमालिङ्गति मस्तुलुङ्गः पृषोदरादित्वात्, के मस्तुलुङ्गकः ॥ ४ ॥
अस्थि कुल्यं भारद्वाजं मेदस्तेजश्च मज्जकृत् ॥ २८९ ॥ मांसपित्तं श्वदयितं कर्करो देहधारकम् । ३३
Page #254
--------------------------------------------------------------------------
________________
२५४
अभिधानचिन्तामणौ-..
मेदोजं कीकसं सारः
अस्यते अस्थि, क्लीबलिङ्गः “वीसजि-" ॥ (उणा-६६९) इति थिक् ॥१॥ कुले शरीरे साधु कुल्यं, पुंक्लीबलिङ्गः ॥२॥ भरद्वाजस्येदं भारद्वाजम् ॥३॥ मेदसस्तेजो मेदस्तेजः ॥ ४ ॥ मजानं करोति मजकृत् ॥५॥२८९॥ मांसस्य पित्तं मांसपित्तम् ॥६॥ शुनो दयितं श्वदयितम् ॥७॥ करोति मज्जानं कर्करः “किशवृभ्यः-" (उणा-४३५) ॥ इति बहुवचनात् करः ॥ ८ ॥ देहं धारयति देहधारकम् ॥ ९ ॥ मेदसो जातं मेदोजम् ॥ १० ॥ कीति कसति कीकसं, ककन्तेऽत्र श्वान इति वा "फनस-" ॥ ( उणा-५७३ ) ॥ इत्यसे निपात्यते ॥ ११॥ सरति कालान्तरमिति सारः, हडं देश्यां, संस्कृतेऽपि, यद्वैजयन्ती- "अथास्थि कीकसं हहम्" इति ॥१२॥
करोटिः शिरसोऽस्थनि ॥ २९० ॥
करोठ्यते करोटिः, स्त्रीलिङ्गः “ खरेभ्य इ:" ॥ ( उणा-६०६ ) ड्या करोटी ॥ १॥ २९० ॥
कपालकर्परौ तुल्यौ
कपिः सौत्रः, कप्यते कपालं, पुंक्तीबलिङ्गः "ऋकृमृ-"॥ (उणा-४७५) ॥ इत्यालः, कं पालयति वा तच्च मूर्भोऽधोस्थि, घटादिखण्डेऽप्युपचारात् ; शकलमपि॥१॥ कल्पते कापालिकानां कर्परः "जठर-" ॥ (उणा-४०३) ॥ इत्यरे निपात्यते ॥२॥
पृष्ठस्याऽस्थिन कशेरुका।
कस्यते कशेरु, क्लीबीलङ्गः "शिग्रुगे-" ॥ (उणा-८११) ॥ इति साधुः, स्त्रियामपि वैजयन्ती यदाह- "पृष्ठस्यास्थि कशेर्वना" इति, के कशेरुका स्त्रीक्लीबलिङ्गः; 'कशारुका' इति मुनिः ॥ १॥
शाखाऽस्थनि स्यान्नलकं नलति नलकम् ॥१॥
पार्थास्भि वकिपशुके ॥२९१॥ वङ्कते वक्रीभवति वद्भिः, स्त्रीलिङ्गः "तङ्किवय-" ॥ (उणा-६९२)॥ इति रिः॥ १ ॥ पूर्यते मांसादिना पशुः "प्रः शुः" ॥ (उणा-८२५) ॥ इति शुः, के पशुका ॥२॥२९१॥
शरीरास्थि करङ्कः स्यात् कंकालमस्थिपञ्जरः । कीर्यते श्वादिभिरिति करङ्कः "किरोऽङ्को रो लश्च वा" ॥ (उणा-६२) ॥१॥ क्रस्यते कंकालं, पुंक्तीबलिङ्गः “चात्वालकङ्काल-" ॥ (उणा-७४८) ॥१॥ इत्यले निपात्यते कंकान् अलति, कं कलयति वा ॥२॥३॥
Page #255
--------------------------------------------------------------------------
________________
३ मर्त्यकाण्डः ।
२५५ मज्जा तु कौशिकः शुक्रकरोऽस्नः स्नेहसम्भवौ ॥२९२॥ मज्जत्यस्थनि मज्जा “उक्षितक्षि-" ॥ ( उणा-९०० ) ॥ इत्यन् , नन्तः पुंस्ययम् । वाचस्पतिस्तु- “अथ मज्जा द्वयोः” इति स्त्रियामप्याह । वयं तु ब्रूमःमज्ज्यतेऽनयाऽस्थिनीति भिदाद्यङि मज्जा स्त्रीलिङ्गः ॥१॥ कुशिकस्यायं कौशिकः ॥२॥ शुक्र करोति शुक्रकरः ॥ ३ ॥ अस्थिशब्दात् स्नेहसम्भवौ- अस्थिस्नेहः, अस्थिसम्भवः, अस्थितेजोऽपि ॥ ४ ॥ ५ ॥ २९२ ॥
शुक्रं रेतो बलं बीजं वीर्य मज्जसमुद्भवम् । आनन्दप्रभवं पुंस्त्वमिन्द्रियं किट्टवर्जितम् ॥२९३॥
पौरुषं प्रधानधातुः शोचन्यस्मिन् पतिते शुक्रं "ऋज्यजि-" ॥ (उणा-३८८)॥ इति किद् रः ॥ १॥ रीयते स्रवति रेतः, क्लीबलिङ्गः “घुरीभ्यां तस्” ॥ ( उणा-९७८ ) ॥ २ ॥ बलति बलम् ॥ ३ ॥ वेति प्रजायतेऽनेन बीजं "वियो जक्" ॥ (उणा-१२७) ॥ ४॥ वीर्यते वीर्य, वीरे क्लीबे साधु वा ॥ ५॥ मज्जतः समुद्भवति मज्जसमुद्भवम् ॥ ६॥ आनन्दात् प्रभवति आनन्दप्रभवम् ॥ ७॥ पुंसो भावः पुंस्त्वम् ॥ ८॥ इन्द्रस्यात्मनो लिङ्गमिन्द्रियम् “इन्द्रियम्" ॥१।१७४॥ इति साधुः ॥९॥ किट्टेन मलेन वर्जितं किवर्जितम् ॥ १० ॥ २९३॥ पुरुषस्य भावः कर्म वा पौरुषं "पुरुषहृदया-" ॥॥१७०॥ इत्यण् ॥११॥ प्रधानं चासौ धातुश्च प्रधानधातुः ॥१२॥
लोम रोम तनूरुहम् । शिरसोऽन्यत्र रोहति रोम, क्लीबलिङ्गः “सात्मन्नात्मन्-" ॥ (उणा-९१६)। इति मनि निपात्यते, लत्वे लोम, लूयत इति वा ॥ १ ॥ २॥ तन्वां रोहति तनूरुहं, पुंक्लीबलिङ्गौ, मूलविभुजादित्वात् कः ॥ ३ ॥ - शेषश्चात्र- रोमणि तु त्वग्मलं वालपुत्रकः । - कूपजो मांसनिर्यासः परित्राणम् ॥
त्वक् छविश्छादनी कृत्तिश्चर्माऽजिनमसृग्धरा ॥ २९४ ॥ तनोति त्वक, "तने वच्” ॥ ( उणा-८७२) ॥ इति ड्वच ; सिरामांसादि त्वचतीति वा ॥१॥ छयन्ये नां छविः स्त्रीलिङ्गौ "छविच्छिवि-" ॥ (उणा७०६) ॥ इति वौ निपात्यते ॥ २ ॥ छाद्यते रुधिराद्यनया छादनी ॥ ३ ॥ कृत्यतेऽसौ कृत्तिः ॥ ४ ॥ चरत्यनेन चर्म “मन्" ॥ (उणा-९११) ॥ इति मन् ॥५॥ अजन्ति तदिति अजिनं “विपिनाऽजिना-" ॥ (उणा-२८४) ॥ इतीने निपात्यते ॥ ६॥ अमृग् धरत्यसृग्धरा' अमरस्तु-"अजिनं चर्म कृत्तिः स्त्री" इति कृत्यादीन् नि मृगयोनित्वात् पृथगाह; अत एव 'मृगा अजिनयोनयः'
Page #256
--------------------------------------------------------------------------
________________
.२५६
अभिधानचिन्तामणौ
इत्युक्ताः । वाचस्पतिरपि
"तत्राजिनं मृगयोनिगाश्च प्रिय कादयः ।
मृगप्रकरणे तेऽथ प्रोक्ता अजिनयोनयः " ॥ १॥ इत्याह ॥ २९४ ॥
वनसा तु नसा स्नायुः वस्ते छादयति कायं वस्नसा “फनस-"॥ (उणा-५७३) ॥ इत्यसे निपात्यते ॥॥ स्नस्यति निरस्यति नसा, स्त्रीलिङ्गः ॥२॥ स्नायति वेष्टयत्यस्थीनीति स्नायुः "कृवापा-" ॥ (उणा-१) ॥ इत्युण , स्त्रीलिङ्गोऽयं; क्लीबेऽपि वाचस्पतिर्यदाह"अथ स्नायुनसा तन्त्रीः” इति ।। शेषश्चात्र- अथ नसा । तन्त्रानखारुनावानः सन्धिबन्धनमित्यपि ॥
नाड्यो धमनयः सिराः । नडस्यवतौ नाड्यः शौषिर्यात् , नडेः सौत्रस्य वा घञ्; नडिरपि ॥१॥धम्यन्ते धमनयः स्त्रीलिङ्गः ॥२॥ सिन्वन्त्यस्थीनि सिराः “ऋज्यजि-" ॥ (उणा-३८८)॥ इति किदरः ॥३॥
कण्डरा तु महास्नायुः कण्डते माद्यति कण्डरा "जठर-" ॥ (उणा-४०३) ॥ इत्यरे निपात्यते ॥१॥ महती स्नायुर्महास्नायुः "नायुसंघातः” इति वैद्याः ॥२॥
मलं कि मलते धारयति कायं मलं, मृज्यते वा “मृज़िखन्या-" ॥ (उणा-४७२) । इति डिदलः ॥१।। केटति किटं, पुंक्लीबलिङ्गावेतौ ॥२॥
तदक्षिजम् ॥ २९५ ॥
दूषीका दूषिका तद् मलमक्षिसंभवम् ॥२९५॥ दूषयति चक्षुर्दूषीका "स्यमिकषि-॥ (उणा४६) ॥ इतीकः ॥१॥ “क्रीकल्य-" ॥ (उणा ३८) ॥ इतीके दूषिका ॥२॥
जैहं कुलुकं जिह्वायां जातं मलं जैह्व, कोलति संस्त्यायति कुलुकं "कञ्चुकांशुक-'' (उणा५७) ॥ इत्युके निपात्यते ॥१॥
पिप्पिका पुनः ।
दन्त्यं
प्यायते पिप्पिका "कुशिक- " ॥ (उणा-४५) ॥ इतीके निपात्यते ॥१॥
Page #257
--------------------------------------------------------------------------
________________
. ३ मर्यकाण्डः।
२५७
काण तु पिञ्जूषः कर्णयोर्जातं मलं कार्णं पिञ्ज्यते पिञ्जूषः “कोरदूषाटरूष-" ॥ (उणा-) ५६१) ॥ इत्यूषे निपात्यते ॥१॥
शिवाणो घाणसम्भवम् ॥ २९६ ॥ शिङ्घयते शिवाणः "बहुलम्" ॥५।१।२॥ इत्याणः “धालूशिद्धि" ॥ (उणा७०) ॥ इत्याणके, शिवाणकोऽपि ॥१॥२९६॥
. सृणीका स्यन्दिनी लालाऽऽस्यासवः कफकूचिका । - सरति मुखात् सृणीका "सृणीकास्तीक-"॥ (उणा-५०) ॥ इतीके निपात्यते 'सृणिका' इत्यमरः । स्यन्दतेऽवश्यं स्यन्दिनी ॥२॥ लाति लाला, "भिल्लाच्छभल्ल-"॥ (उणा-४६४) ॥ इति ले निपात्यते, लालयते वा ॥ ३ ॥ आस्यस्यासव आस्यासवः ॥ ४ ॥ कफस्य कूचिकेव कफकूचिका ॥ ५॥
मूत्रं वस्तिमलं मेहः प्रस्रावो नृजलं सवः ॥ २९७ ॥ मूत्र्यते मूत्रं, मूयते वा "सुमूख-" (उणा-४४९) ॥ इति कित् त्रट् ॥१॥ वस्तेर्मलं वस्तिमलम् ॥२॥ मेहत्यनेन मेहः ॥३॥ प्रत्यते प्रस्रावः “प्रात् सुद्रुस्तोः" ॥५।३।६७॥ इति घञ् ॥४॥ नुर्नरस्य जलं नृजलम् ॥५॥ सवणं सवः ॥६॥२९॥
पुष्पिका तु लिङ्गमलं पुष्प्यति पुष्पिका ॥१॥
विड् विष्ठाऽवस्करः शकृत् ।
गूथं पुरीषं शमलोच्चारौ वर्चस्कवर्चसी ॥२९८॥ 'विशति पक्वाशये विट् , स्त्रीलिङ्गः, वैजयन्तीकारस्तु- “उच्चारो विड् न ना". इति क्लीबेऽप्याह । अमरस्तु- "विष्ठाविषौ स्त्रियाम्” इति मूर्धन्यं षमाह ॥१॥ विशति विष्ठा "पीविशि-" ॥ (उणा-१६३) ॥ इति कित् ठः ॥२॥ अव- अधः कीर्यतेऽवस्करः, वर्चस्कादित्वात् साधुः ॥ ३ ॥ शक्नोत्यनेन शकृत् , क्लीबलिङ्गः
"शक ऋत्" ॥ ( उणा-८९१) ॥॥ ४ ॥ गूयत उत्सृज्यते गूथं, पुंक्लीबलिङ्गः - "पथयूथ-". । (उणा-२३१) ॥ इति थे निपात्यते ॥ ५॥ पृणात्यन्त्रं पुरीषं
"ऋजिशपृभ्यः कित्' ॥ (उणा-५५४) इतीषः ॥ ६ ॥ शाम्यति शमलं "शमेव च वा" ॥ (उणा-४७०) ॥ इयलः ॥ ७ ॥ उच्चार्यते प्रेर्यते उच्चारः ॥ ८ ॥ वर्च एव वर्चस्कं, पुंक्तीवलिङ्गः ॥ ९ ॥ वर्चतेऽनेन वर्चः “अस्" ॥ (उगा-९५२) ॥ इत्यस्' अशुच्यपि ॥१०॥२९८॥
वेषो नेपथ्यमाकल्पः
Page #258
--------------------------------------------------------------------------
________________
२५८
अभिधानचिन्तामणौवेवेष्ट्यङ्गं वेषो वस्त्राऽलङ्कारमाल्यप्रसाधनैरङ्गशोभा, पुंकीबलिङ्गः । “विशति चेतः” इत्यन्ये तालव्यं शमाहुः ॥ १ ॥ नेत्रयोः पथ्यं नेपथ्यं, पृषोदरादित्वात् ॥ २॥ आकल्पते आकल्पः ॥३॥
__ परिकर्माऽङ्गसंस्क्रिया। मलपरिमार्जनार्थं क्रिया परिकर्म नानोद्वर्तनादि ॥१॥ ___उद्वर्तनमुत्सादनं उद्वय॑तेऽनेनोद्वर्तनम् ॥१॥उत्साद्यतेऽनेनोत्सादनम् ‘उच्छादनम्' इत्यन्ये ॥२॥ __ अङ्गरागो विलेपनम् ॥ २९९ ॥ अङ्गं रज्यतेऽनेनाङ्गरागः ॥१॥ विलिप्यतेऽनेन विलेपनम् ॥२॥२९९॥
चर्चिक्यं समालभनं चर्चा स्यात्
चर्चिकायां चर्चने साधु चर्चिक्यं, चन्दनादिना पुण्ड्रादिक्षेपणम् ॥१॥ लाभण् प्रेरण इत्यत्र लाभणस्थाने लभण् इति सभ्याः पठन्ति, तस्य समालभ्यतेऽनेन समालभनम् ॥२॥ चर्च्यतेऽनया चर्चा “भीषिभूषि." ॥५।३।१०९॥ इत्यङ् ॥ ३ ॥
मण्डनं पुनः ।
प्रसाधनं प्रतिकर्म मण्ज्यतेऽनेन मण्डनं तिलकपत्रभङ्गादि ॥१॥ प्रसाध्यतेऽनेन प्रसाधनम् ॥२॥ प्रत्यङ्गं कर्म प्रतिकर्म ॥३॥
मार्टिः स्याद् मार्जना मृजा ॥ ३०० ।। माय॑ते मार्टिः शुद्धिमात्रं वादित्वात् क्तिः ॥ १ ॥मार्जनं मार्जना ॥ २ ॥ भिदाद्यङि मृजा ॥ ३ ॥ ३० ॥
वासयोगस्तु चूर्णं स्यात् वास्यते सुगन्धीक्रियते येन युज्यमानेन मिश्रेण स वासयोगः ॥१॥ चूर्यते चूर्ण पटवासादिक्षोदः, पुंक्लीबलिङ्गः ॥२॥
पिष्टातः पटवासकः । पिष्टेन कुङ्कुमचूर्णादिनाऽतति पिष्टातः ॥१॥ पटो वास्यतेऽनेन पटवासः, के. पटवासकः ॥२॥
___ गन्धमाल्यादिना यस्तु संस्कारः सोऽधिवासनम् ॥३०१॥
संस्कारस्तैलादिना गुणाधानम् , आदिशब्दाद् धूपादिभिरधिवास्यतेऽधिवासनम् ॥ १॥३०१ ॥
Page #259
--------------------------------------------------------------------------
________________
३ मत्यकाण्डः ।
२५९
.. निवेश उपभोगः निष्पूर्वो विशिरुपभोगार्थे वर्तते, निर्देशनं निर्देशः ॥१॥ उपभुतिरुपभोगः ॥२॥
अथ स्नानं सवनमाप्लवः । मायते स्नानम् ॥१॥ सूयते सवनम् ॥२॥ आप्लवनमाप्लवः, आप्लावोऽपि ॥३॥
कर्पूरागुरुककोलकस्तूरीचन्दनद्रवैः ॥ ३०२ ॥
स्याद् यक्षकर्दमो मित्रैः - यक्षप्रियः कर्दमो यक्षकर्दमः, धन्वन्तरिस्तु
"कुङ्कुमागुरुकस्तूरी करं चन्दनं तथा ।
महासुगन्धमित्युक्तं नामतो यक्षकर्दमः" ॥१॥ इत्याह।
वर्तिर्गात्राऽनुलेपनी । वर्तते वर्तिः, नटादौ प्रसिद्धा “विदितेर्वा" ॥ (उणा-६१०) ॥इति इः, स्त्रीलिङ्गोऽयम् ॥१॥ गात्रमनुलिप्यतेऽनया गात्रानुलेपनी ॥ २ ॥
चन्दनागरुकस्तूरीकुङ्कुमैस्तु चतुःसम् ॥ ३०३ ॥ चन्दनादीनि चत्वारि समान्यत्र चतुःसमम् ॥ १ ॥ ३०३ ॥
अगुवंगरुराजाहै लोहं कृमिजवंशिके । अनार्यजं जोङ्गकं च
न गुरु अगुरु; अगत्यनेनाऽगरु " कटिकुटि" ॥ ( उणा-८१२ ) ॥ इत्युपलक्षणत्वादरुः, अगं रुणद्धि इति वा, पुंक्लीबलिङ्गावेतौ ॥ १॥२॥ राज्ञोऽहं राजाहम् ॥ ३ ॥ रोहति लोहं पुनपुंसकः ॥ ४ ॥ कृमिभिर्जन्यते कृमिजं "क्वचित्" ॥५।१।१७१ ॥ इति डा; कृमिजग्धमित्यपि ॥ ५॥ वंशोऽस्या अस्ति वंशिका, नीलीबलिङ्गः "वंशाभं वंशकम्" इत्यमरटीका ॥६॥ अनार्यदेशे जातमनार्यजम् ॥ जोनकगिरिभवत्वाद् जोङ्गकम् ॥ ८॥ शेषश्चात्र- अगरौ प्रवरं शृङ्गं शीर्षकं मृदुलं लघु ॥
. वरदुमः परमदः प्रकरं गन्धदारु च ॥
मङ्गल्या मल्लिगन्धि यत् ॥ ३०४ ॥ मल्लिकाकुसुमगन्धि यदगुरु सो मङ्गले साधुर्मङ्गल्या ॥१॥ ३०४ ॥
कालागरुः काकतुण्डः काकस्य तुण्ड इव कृष्णवर्णत्वात् काकतुण्डः ॥१॥२॥
Page #260
--------------------------------------------------------------------------
________________
२६०
अभिधानचिन्तामणौ- ..
श्रीखण्डं रोहणद्रुमः ।
गन्धसारो मलयजश्चन्दने श्रिया खण्डयति श्रीखण्डम् ॥१॥रोहणाचलस्य हुमो रोहणद्रुमः ॥२॥ गन्धेन सारो गन्धसारः ॥३॥ मलयाद्रेर्जातो मलयजः ॥४॥ चन्द्यते ह्राद्यतेऽनेन चन्दनः "यवसिरसि-" ॥ ( उणा-२६९) इत्यनः, तत्र पुंक्लीबलिङ्गावेतौ ॥ ५॥ शेषश्चात्र- चन्दने पुनरेकाङ्गं भद्रश्रीफलकीत्यपि ॥
हरिचन्दने ॥ ३०५ ॥
तैलपर्णिकगोशीर्षों हरेरिन्द्रस्य चन्दनं हरिचन्दनं, पुंक्लीबलिङ्गस्तत्र; हरिकपिलं वा तच्चाति शीतं पीतं चाहुः, तत्र ॥१॥ ३०५ ॥ तैलपर्णो गिरिराकरोऽस्त्यस्य तैलपर्णिकः ॥२॥ गोशीर्षगिरिभवत्वाद् गोशीर्षः, पुंस्येतो, गौडस्तु- “गोशीर्ष तैलपर्णिकम्' इति क्लीबमाह ॥ १॥
पत्राङ्गं रक्तचन्दनम् ।
कुचन्दनं तामसारं रञ्जनं तिलपर्णिका ॥ ३०६ ॥ पत्रेष्वङ्गति पत्राङ्गं पतङ्गं त्वेतदपभ्रंशः ॥१॥ रक्तं च तच्चन्दनं च रक्तचन्दनम् ॥२॥ कौ चन्दनं कुचन्दनम् ॥३॥ तानेष्वरुणेषु सारं ताम्रसारम् ॥४॥ रज्यतेऽनेन रञ्जनम् ॥ ५ ॥ तिलस्येव पर्णान्यस्यास्तिलपर्णी सैव तिलपर्णिका, तिलपर्णी नदी आकरोऽस्या इत्येके ॥ ६ ॥ ३०६ ॥
जातिकोशं जातिफलं जातीलतायाः कोशं जातिकोशं. जातिसस्याख्यम् ॥ १ ॥ जात्याः फलं जातिफलम् ॥ २॥ शेषश्चात्र- जातीफले सौमनसं पुटकं मदशौण्डकम् ।
कोशफलम् ॥ कर्पूरो हिमवालुका।
घनसारः सिताभ्रश्च चन्द्रः कल्पते कर्पूरः, पुंक्लीबलिङ्गः “मीमसि-" (उणा-४२७)॥ इत्यूरः ॥१॥ हिमा चासौ वालुका च हिमवालुका ॥२॥ घनस्येव सारोऽस्य घनसारः ॥३॥ सिताभ्रसदृशत्वात् सिताभ्रः॥४॥ हादकत्वात् चन्द्रः, पुंक्लीबलिङ्गः, चन्द्रपर्याया अपि ।। ५॥
अथ मृगनाभिजा ॥ ३०७ ॥ मृगनाभिर्मगमदः कस्तूरी गन्धधूल्यपि ।
Page #261
--------------------------------------------------------------------------
________________
३ मर्त्यकाण्डः । .
२६१
सुगनाभेर्जाता मृगनाभिजा ॥१॥३०७॥ मृगनाभिजन्यत्वाद् मृगनाभिः, स्त्रीलिङ्गः ॥२॥ मृगस्य मदो मृगमदः ॥३॥ कसति कस्तूरी “सिन्दूरकर्चुर-" ॥ (उणा४३०)॥ इत्यूरे निपास्यते, विकसति सौगन्ध्यमस्या वा, के स्तूयत इति वा, पृषोदरादित्वात् ॥४॥ गन्धप्रधाना धूली गन्धधूली ॥५॥
कश्मीरजन्म घुसृणं वर्ण लोहितचन्दनम् ॥ ३०८ ॥ चाह्रीकं कुङ्कुमं वह्निशिखं कालेयजागुडे ।
सङ्कोचपिशुनं रक्तं धीरं पीतनदीपने ॥ ३०९ ॥
कश्मीरेषु जन्माऽस्य कश्मीरजन्म ॥१॥ घृस्यतेऽनेनाङ्गं, धुषते कान्ति करोति वा घुसृणं "भ्रूणतृण-" ॥ (उणा-१८६) ॥ इति णे निपात्यते ॥२॥ वर्ण्यते वर्णम् ; वर्ण्यमपि ॥ ३ ॥ लोहितं चन्दनमिव लोहितचन्दनम् ॥४॥३०८॥ वाह्लीकेषु जातं वाहीकं “कोपान्त्या-" ॥ ६।३।५६ ॥ इत्यण् , वाह्निकमपि ॥ ५ ॥ कुक्यते कुङ्कुम, क्लीबलिङ्गोऽयं, वाचस्पतिस्तु- “निदाघेऽपि कुङ्कुमः सुखः स्यात् " इति पुंस्याह । “कुन्दुमलिन्दुम-" ॥ ( उणा-३५२) ॥ इति निपात्यते ॥६॥ वतॆरिव शिखा केशरोऽस्य वह्निशिखम् ॥ ७॥ कु ईषल्लीयते कालेयम् ॥८॥ जागर्ति मण्डनेषु जागुडं “विहड." ॥ ( उणा-१७२ ) ॥ इति निपात्यते ॥ ९॥ संकाचस्य पिशुनं सूचकं संकोचपिशुनं, संकोचं पिशुनं चेति द्वयमपि ॥ १० ॥ रञ्जनाद् रक्तमत एवाऽसक्संज्ञम् ॥ ११॥ धीरं स्थिररागम् ॥ १२ ॥ पीतयत्यङ्गं पीतनम् ॥ १३ ॥ दीपयति दीपनम् ॥१४॥३०९॥ शेषश्चात्र
कुङ्कुमे तु करटं वासनीयकम् ॥ प्रियङ्गुपीतं काबेरं घोरं पुष्परजोवरम् ।
कुसुम्भं च जवापुष्पं कुसुमान्तं च गौरवम् ॥
लवङ्गं देवकुसुमं श्रीसंज्ञ . लूयते लवङ्गं “पतितमि-" ॥ ( उणा-९८ ) ॥ इत्यङ्गः ॥ १॥ देवं द्युति। मत् , देवानां वा कुसुमं देवकुसुमम् ॥ २ ॥ श्रीसंज्ञं श्रीपर्यायमित्यर्थः ॥ ३ ॥
अथ कोलकम् ।
कक्कोलकं कोशफलं कोलति कोलं, के कोलकम् ॥१॥ कचते दीप्यते ककोलं "पिञ्छोलकल्लोल-"॥ ( उणा-४९५) ॥ इत्योले निपात्यते, के ककोलकम् ॥ २ ॥ कोशे फलान्यस्य कोशफलम् ॥ ३॥
कालीयकं तु जापकम् ॥ ३१० ॥
Page #262
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणौ
कालाय भूमौ भवं कालीयं, के कालीयकम् ॥ १ ॥ जापकाद्रिभवत्वाज्जापकं कालानुसार्यमपि ॥२॥३१०॥
२६२
यक्षधूपो बहुरूपः सालवेष्टोऽग्निवल्लभः ।
सर्जमणिः सर्जरसः रालः सर्वरसोऽपि च ॥ ३११ ॥
यक्षं धूपयति यक्षधूपः ॥ १ ॥ नानाकृतिगन्धत्वाद् बहुरूपः ॥ २ ॥ सा - लस्य वेष्टो निर्यासः सालवेष्टः ॥ ३ ॥ अग्नेर्वल्लभोऽग्निवल्लभः ॥ ४ ॥ सर्जस्य तरोर्म - णिरिव सर्जमणिः ॥ ५ ॥ सर्जस्य रसः सर्जरसः ॥ ६ ॥ राति प्रीतिं रालः, पुंक्लीबलिङ्गः “भिल्लाच्छभल-” ॥ ( उणा - ४६४ ) ॥ इति ले साधुः ॥ ७ ॥ सर्वे रसा अत्र सर्वरसः ॥८॥३११॥
धूपो वृकात् कृत्रिमाच्च तुरुष्कः सिल्हपिण्डकौ ।
वृकशब्दात् कृत्रिमशब्दाच्च परो धूपः, वृकान् धूपयति वृकधूपः, कृत्रिम - श्वासौ धूपश्च कृत्रिमधूपः ॥ १ ॥२॥ तुरुष्को यवनदेशजः, पुंक्ली बलिङ्ग: ; यावनोऽपि ॥३॥ सिलत् उच्छे, सिलति सिल्हः, दन्त्यादिः सिलं जहातीति वा ॥ ४ ॥ पिण्डयति पिण्डकः, द्रव्यान्तरैः सह पिण्डितः खरूपाद् न च्यवते ॥ ५ ॥
पायसस्तु वृक्षधूपः श्रीवासः सरलद्रवः ॥ ३१२ ॥
पयसो द्रुमक्षीरस्यायं पायसः, पयसो विकारः स्रुतिरित्यन्वये "पयोद्रोर्यः " ॥६।२।३५॥ इति यः प्राप्नोति ॥ १ ॥ वृक्षस्य धूपो वृक्षधूपः ॥ २ ॥ श्रियो वासः श्रीवासः ॥ ३ ॥ सरलस्य देवदारुभेदस्य द्रवो निर्यासः सरलद्रवः ॥ ४ ॥ ३१२ ॥
शेषश्चात्र
वृक्षधूपे तु श्रीवेष्टो दधिक्षीरघृताह्वयः ॥
स्थानात् स्थानान्तरं गच्छन् धूपो गन्धपिशाचिका ।
धूप्यतेऽनेनेति धूपः गन्धद्रव्ययोगविशेषः, गन्धेन पिशाचिकेवाऽस्खलितादृश्यगतित्वाद् गन्धपिशाचिका ॥ १ ॥
स्थासकस्तु हस्तबिम्बं
तिष्ठत्यङ्गे स्थासकः “कीचकपेचक- " ॥ ( उणा-३ ॥ १ ॥ हस्तस्य बिम्बं हस्तबिम्बं कुङ्कुमादिरचितम् ॥ २ ॥
- ३३ ) ॥ इत्यके निपात्यते
अलङ्कारस्तु भूषणम् ॥ ३१३ ॥ परिष्काराssभरणे च
अलं क्रियतेऽनेनेत्यलङ्कारः कटक केयूरादिः ॥ १ ॥ भूष्यतेऽनेन भूषणं पुंक्ली
Page #263
--------------------------------------------------------------------------
________________
माण.
. ३ मयंकाण्डः ।
२६३ बलिङ्गः ॥ २ ॥ २१३ ॥ परिष्क्रियतेऽनेन परिष्कारः ॥ ३ ॥ आ समन्ताद् भ्रियते शोभाऽनेनाऽऽभरणम् ॥ ४ ॥
चूडामणिः शिरोमणिः । चूडायां शिरसि च मणिश्चूडामणिः,शिरोमणिः, चूडारत्नशिरोरत्ने अपि॥१॥२॥
नायकस्तरलो हारान्तर्मणिः
नयति शोभा नायकः ॥ १॥ तरतीव कान्त्या तरल: "मृदिकन्दि-" ॥ ( उणा-४६५) ॥ इत्यलः ॥ २ ॥ हारस्याऽन्तमध्ये स्थितो मणिः ॥
मुकुटं पुनः ॥ २१४ ॥
मौलिः किरीट कोटीरमुष्णीषं मङ्कयते मण्ज्यते शिरोऽनेन मुकुटं “मद्देमकमुको च" ॥ (उणा-१५४)॥ इस्युटः, मुखे कुव्यते वा, क्लीबोऽयम् , पुंस्यपि वैजयन्ती, यदाह-"मौलिः कोटीरमुष्णीषं किरीटं मुकुटोऽस्त्रियाः" मकुटोऽपि ॥१॥२१४॥ मूयते शिरसि मौलिः, पुंस्त्रीलिङ्गः ॥२ कीर्यते किरीटं “तृकृकृषि-" ॥ (उणा-१५१) ॥ इति किदीटः ॥ ३ ॥ कुटति कोटीरं “कृशप." ॥(उणा-४१८) ॥ इतीरः ॥ ४ ॥ उपत्यश्रियमुष्णीषं “उषेोऽन्तश्च" ॥ ( उणा-५५६ ) ॥ इतीषः, किरीटाद्यास्त्रयः पुंक्लीबंलिङ्गाः ॥ ५ ॥
पुष्पदाम तु।
मूर्ध्नि माल्यं माला स्रक् मर्धनि पुष्पदाम मालैव माल्यं, भेषजादित्वाट ट्यण् ॥ १॥ मान्ति पुष्पाण्यस्यां माला “शामाश्या-' ॥ (उणा-४६२) ॥ इति लः, मल्यते धार्यते इति वा ॥२॥ सूज्यते पुष्पैः स्रक् "क्रुत्संपदादि-" ॥५।३।११४॥ इति क्विपि "ऋत्विज्दिश्-"
॥२।१।६९॥ इति गत्वं, सूत्रपाठाद् ऋतो रत्वं च, सर्तेरौणादिकः कज् वा ॥ ३ ॥ - गर्भकः केशमध्यगम् ॥ ३१५ ॥ . . केशमध्यगतं पुष्पदाम गर्भस्थत्वाद् गर्भकः ॥१॥२१५॥
प्रभ्रष्टकं शिखालम्बि शिखालम्बि दाम केशमध्यात् प्रभ्रश्यति स्म प्रभ्रष्टं, के प्रभ्रष्टकम् ॥ १॥
पूरोन्यस्तं ललामकम् ।
लाति शोभा ललाम मुण्डमालाख्यं “सात्मनात्मन्-" ॥ ( उणा-९१६ ) ॥ इति मनि निपात्यते, लडत्यग्रे ललाममित्यदन्तं वा "रुक्मग्रीष्म-"॥ (उणा-३४६)॥ इति मे निपात्यते, द्वाभ्यामपि के ललामकम् ॥ १ ॥
Page #264
--------------------------------------------------------------------------
________________
२६४
अभिधानचिन्तामणौ___तिर्यग् वक्षसि वैकक्षं यज्ञोपवीतन्यायेन तिर्यग् वक्षसि विक्षिप्तं दाम विकक्षायां भवं वैकक्षम् ॥१॥
प्रालम्बमृजुलम्बि यत् ॥ ३१६ ॥ कण्ठादुभयतो वक्षसि लम्बमानं पुष्पदाम प्रालम्बते प्रालम्बम् ॥१॥३१६॥
सन्दर्भो रचना गुम्फः श्रन्थनं ग्रन्थनं समाः । सन्दर्भणं सन्दर्भः ॥ १ ॥ रचनं रचना ॥ २ ॥ गुम्फनं गुम्फः ॥ ३ ॥ श्रथ्यते श्रन्थनम् ॥ ४ ॥ प्रथ्यते प्रन्थनम् ॥ ५ ॥
স্বান্ত
रचनायां परिस्यन्दः प्रतियत्नः ॥ ।'' तिलके तमालपत्रचित्रपुण्ड्रविशेषकाः ॥ ३१७ ॥
तिलति तिलकं, पुंक्लीबलिङ्गः “ध्रुधून्दि-" ॥ (उणा-२९) ॥ इति किदकः, तिलाकृतिवा तत्र ॥१॥ तमालपत्राकृतिः कस्तूर्यादिना ललाटे तमालपत्रम् ॥ २ ॥ चित्र्यत चित्रं, चित्रकमपि ॥ ३ ॥ पुण्यति पुण्ड्यते वा पुण्डः "खुरक्षुर-" ॥ (उणा-३९६)॥ इति रे निपात्यते ॥ ४ ॥ विशिनष्टि ललाटं विशेषकः, पुंक्लीबलिङ्गः, इत्थं तिलकभेदाः, एतेषां पर्यायत्वं त्वदूरविप्रकर्षात् ॥५॥३१॥
आपीडशेखरोत्तंसाऽवतंसाः शिरसः स्रजि । __ आपीड्यते शिरस्यापीडः ॥ १॥ शाखति व्याप्नोति शिरः शेखरः "शाखेरिदेतौ चातः " ॥ (उणा-४०० ) ॥ इत्यरः ॥ २ ॥ उत्तस्यतेऽनेनोत्तंसः, अवतंस्यतेऽनेनाऽवतंसः' अवतनोति शोभामिति वा "व्यवाभ्यां-" ॥ (उणा-५६५) ॥ इति सः “वाऽवाप्योस्तनि." ॥ ३।२। १५६ ॥ इत्यवस्य वादेशे वतंसोऽपि । शेखरादयः पुंक्लीबलिङ्गाः ॥ ३ ॥ ४ ॥
उत्तरौ कर्णपूरेऽपि उत्तरावुत्तंसावतंसौ कर्ण पूरयति कर्णपूरस्तत्र, पुंक्लीबलिङ्गोऽयम् ॥१॥२॥३॥
पत्रलेखा तु पत्रतः ॥ ३१८ ॥ ... भङ्गिवल्लिलताङ्गुल्यः
द्राविड-कालिङ्गादिभेदेन पत्राकृतिर्लेखा पत्रलेखा स्त्रीणां कपोलस्तनमण्डलादिषु कस्तारकादिभिः पत्ररचना ॥ १॥ पत्रशब्दाद् भङ्गयादयः- पत्रभङ्गिः ॥२॥ पत्रवल्लिः ॥३॥ पत्रलता ॥४॥ पत्राङ्गुली; एवं पत्रवल्लरी-पत्रमञ्जरीत्यादयोऽपि ॥५॥
पत्रपाश्या ललाटिका।
Page #265
--------------------------------------------------------------------------
________________
३ मर्यकाण्डः।
२६५
पत्रपाशानो समूहः पत्रपाश्या "पाशादेश्च ल्यः" ॥६।२।२५॥१॥ ललाटे भवा ललाटिका ललाटमण्डनं “कर्णललाटात् कल्” ॥ ६ । ३ । १४१ । २॥
वालपाश्या पारितथ्या वालपाशे साधुर्वालपाश्या वालबन्धनाथै मुक्तावलयः, वालेषु पाशसमूहो वा फुल्ललतिकादि ॥ १॥ परितस्तथाभवा पारितथ्या “परिमुखादेरव्ययीभावात् " ॥ ६ । ३ । १३६ ॥ इति ज्यः, पायतिथ्या वा ॥ २ ॥
.. कर्णिका कर्णभूषणम् ॥ ३१९ ॥ कर्णे भवा कर्णिका “कर्णललाटात् कल्" ॥ ६ । ३ । १४१ । १ । ३१९ ॥
ताडङ्कस्तु ताडपत्रं कुण्डलं कर्णवेष्टकः । ताज्यते कर्णोऽनेन ताडङ्कः “रालापाका-'' ॥ (उणा-६३) ॥ इत्युपलक्षणादकः ॥१॥ ताडपत्रनिर्मितत्वात् ताडपत्रं, ताडपत्रवत् सौवर्णोऽपि ॥ २ ॥ कुण्डते दहत्यलक्ष्मी कुण्डलं, पुंक्लीबलिङ्गः “मृदिकन्दि-" ॥ ( उणा-४६५) ॥ इत्यल: ॥ ३ ॥ कर्ण वेष्टते कर्णवेष्टः के कर्णवेष्टकः ; द्वौ द्वौ भिन्नार्थावित्येके ॥ ४ ॥ शेषश्चात्र- अथ कुण्डले कर्णादर्शः ॥
उत्क्षिप्तिका तु कर्णान्दुः ।
उत्क्षिप्यते स्मोत्क्षिप्तिका ॥१॥ कर्णयोरन्द्यते कर्णान्दुः “ भृमृतृ-"॥ (उणा: ७१६) ॥ इति बहुवचनादुः स्त्रीलिङ्गः, वैजयन्तीकारस्तु-“कर्णान्दूः” इत्यूकारान्तमाह ॥ २ ॥
बालिका कर्णपृष्टगा ॥ ३२० ॥ बलते बालिका ॥१॥३२०॥ । अवेयकं कण्ठभूषा ग्रीवायां जातं अवेयकं “कुलकुक्षि-" ॥६॥३॥१२॥ इत्येयकञ् ॥१॥ ___ लम्बमाना ललन्तिका । लम्बमाना कण्ठभूषा लडत्यलङ्करोति ललन्ती, के ललन्तिका ॥ १॥
प्रालम्बिका कृता हेम्ना हेम्ना कृता कण्ठभूषा प्रालम्बते प्रालम्बिका ॥१॥
उरःसूत्रिको तु मौक्तिकैः ॥ ३२१ ॥ मौक्तिकैः कृता कण्ठभूषा, उरसि सूत्रमस्या उरःसूत्रिका ॥१॥३२१॥
Page #266
--------------------------------------------------------------------------
________________
२६६. अभिधानचिन्तामषौ
'हारो मुक्तातः प्रालम्बस्रक्कलापावलीलताः।
ह्रियतेऽनेन चित्तमिति हारः, पुंस्त्रीलिङ्गः॥१॥ मुक्ताशब्दात् परे प्रालम्बादयः, मुक्ताप्रालम्बः ॥२॥ मुक्तास्रक् ॥३॥ मुक्ताकलापः ॥४॥ मुक्तावली ॥५॥ मुक्तालता ॥६॥
देवच्छन्दः शतं उत्तरत्र ‘पञ्च हारफलं लताः' इत्यतो लता इति सम्बध्यते तेन शतंलतेति लभ्यते, देवानां छन्दोऽभिप्रायोऽत्र देवच्छन्दः ॥१॥
साष्टं विन्द्रच्छन्दः सहस्रकम् ॥ ३२२ ॥ अष्टोत्तरं सहस्रं लताः, इन्द्रस्य छन्दोऽन्द्रच्छन्दः ॥१॥ ३२२ ॥ ।'
तदर्धे विजयच्छन्दः तस्येन्द्रच्छन्दस्यार्ध चतुरधिकानि लतानां पञ्चशतानीत्यर्थः, विजयाय च्छन्दोऽत्र विजयछन्दः ॥१॥
हारस्त्वष्टोत्तरं शतम् । लतानामष्टोत्तरं शतम् ॥१॥
अधै रश्मिकलापोऽस्य अस्य हारस्यार्धं चतुष्पञ्चाशल्लता इत्यर्थः, रश्मीनां कलापोऽत्र रश्मिकलापः॥१॥
द्वादश वर्धमाणवः ॥ ३२३ ॥ द्वादश लता उत्तरस्मादर्धेन माणव इव लघुत्वादर्धमाणवः ॥१॥ ३२३ ॥
द्विादशार्धगुच्छः स्यात् द्विगुणिता द्वादश लताश्चतुर्विशतिरित्यर्थः, गुच्छस्यार्धमर्धगुच्छः ॥१॥
पञ्च हारफलं लताः। पञ्चलताः, हारस्य फलमत्र हारफलम् ॥१॥
अर्धहारश्चतुःषष्टिः . चतुःषष्टिलताः, अर्ध हारस्याहारः ॥ १॥
गुच्छमाणवमन्दराः ॥३२४ ॥
अपि गोस्तनगोपुच्छावर्धमधे यथोत्तरम् । यथोत्तरमर्धमधं यथा अर्धहारस्याओं द्वात्रिंशलताः, गुह्यच्छादनाद् गुच्छः ॥१॥
Page #267
--------------------------------------------------------------------------
________________
३ मर्त्यकाण्डः ।
२६७ गुच्छार्ध षोड़श लता अल्पत्वाद् माणवः ॥१॥ माणवार्धमष्टौ लता मन्यते स्तूयते मन्दरः ॥ १ ॥ ३२४ ॥ मन्दरार्धं चतस्रो लता गोस्तनवल्लम्बमानाः ॥१॥ गोस्तनस्यार्ध द्वे लते गोपुच्छाकृतित्वाद् गोपुच्छः ॥१॥ अन्ये तु
"चतुःषष्टिलतो हारोऽथाष्टहीनो यथोत्तरम् ।। रश्मिकलापो माणवकोऽर्धहारोऽर्धगुच्छकः ॥ १॥
कलापच्छन्दो मन्दरस्य गुच्छसप्ततियष्टिकः । ” इत्याहुः ॥ अथोपसंहारमाह- इति हारा यष्टिभेदात् इत्येवं लताभेदाच्चतुर्दश हारा इति ॥
एकावल्येकयष्टिका ।। ३२५ ॥
कण्ठिकाऽपि यष्टिलता सरिकेत्येकार्थी एका यष्टिरस्या एकयाष्टिका, एका आवलते एकावली ॥ १॥ २ ॥ ३२५ ॥ कणति कण्ठते वा कण्ठा, के कण्ठिका ॥ ३ ॥
अथ नक्षत्रमाला तत्संख्यमौक्तिकैः । नक्षत्रसंख्यैः सप्तविंशत्या मौक्तिकैनक्षत्रमालेव नक्षत्रमाला ॥ १ ॥
केयूरमङ्गदं बाहुभूषा : के बाहुशीर्षे यौति केयूर, पृषोदरादित्वात् ॥ १ ॥ अङ्गं दयतेऽङ्गदम् “अङ्गदो दोभूषा" इति पुंस्यमरः ॥ २ ॥ ३ ॥
अथ करभूषणम् ॥ ३२६ ॥ कटको वलयं पारिहार्यावापौ च कङ्कणम् ।
हस्तसूत्रं प्रतिसरः . करस्य भूषणं करभूषणम् ॥१॥ ३२६ ॥ कटति कटकः “वृकृत-" ॥ (उणा-५४०)॥ इत्यकः ॥ २॥ वलते वलयं “कुगुवलि-" ॥ (उणा-३६५) ॥ इत्ययः ॥ ३ ॥ परिहारे भवः पारिहार्यः "परिमुखादे-" ॥ ६।३। १३६ ॥ इति ज्यः, पारिवद् ह्रियते वा परिहार्य एव वा, प्रज्ञादित्वादण् पारिहार्यमित्यन्ये ॥ ४ ॥ आ उप्यते आवापः ॥ ५ ॥ कङ्कते हस्तं कङ्कणम् ॥ ६ ॥ हस्ते सूत्र्यते हस्तसूत्रम् । एते सप्त पुंक्तीबलिङ्गाः ॥ ७ ॥ प्रतिसरति प्रतिसरः, त्रिलिङ्गः, केचित्तु कङ्कणादन्ि मङ्गल्यसूत्रवाचकत्वेन पृथगाहुः ॥ ८ ॥
ऊर्मिका त्वङ्गुलीयकम् ॥ ३२७ ॥
Page #268
--------------------------------------------------------------------------
________________
२६८
अभिधानचिन्तामणौ-..
ऊर्मिप्रतिकृतिरूमिका ॥१॥ अङ्गुल्यां भवमङ्गुलीयं “ जिह्वामूलाङ्गु-" ॥ .. ६।३ । १२७ ॥ इतीयः, केऽङ्गुलीयकम् । 'अङ्गुच्छलं' देश्याम् ॥ २ ॥ ३२७ ॥
सा साक्षराऽङ्गुलिमुद्रा सा ऊर्मिकाऽक्षराङ्किता अमुल्यां मोदते, अङ्गुली मुद्रयति वाऽङ्गुलिमुद्रा ॥१॥
कटिसूत्रं तु मेखला ।
कलापो रसना सारसनं काञ्ची च सप्तकी ॥ ३२८ ।। कटेः सूत्रं कटिसूत्रम् ॥१॥ मीयते मेखला “मिगः खलश्चैव"(उणा-४९७)। इति खलः, मुहुः स्खलतीति वा, मेहनस्य खं मेहनखं तस्य माला वा पृषोदरादित्वात् ॥२॥ कल्पते कलापः “कलेरापः" ॥ (उणा-३०८) ॥३॥ अश्नुते कटिं रसना, स्त्रीक्लीबलिङ्गः "अशो रश्चादौ" ॥ (उणा-२७०)॥ इत्यनः ॥ ४ ॥ सारं सनोति सारसनम् ॥५॥ कञ्चते दीप्यते, कञ्च्यते बध्यते वा काञ्चिः “कमिवमि-" ॥ (उणा६१८) ॥ इति पौ साधुः, ङ्यां काञ्ची ॥६॥ सपति समवैति सप्तकी “कीचक-" ॥ (उणा-३३ )॥ इत्यके निपात्यते , उत्तरत्र 'पुंस्कटिस्था' इतिवचनादत्र स्त्रीकट्यामिति लभ्यते ॥७॥ ३२८ ॥ शेषश्चात्र- मेखला तु लालिनी कटिमालिका ॥ ,
सा शृङ्खलं पुंस्कटिस्था सा मेखला पुंस्कटिस्था शीर्यते शृङ्खलं त्रिलिङ्गः "श्रो नोन्तो ह्रखश्च" ॥ (उणा४९८) ॥ इति खलः, शृङ्गैः खलतीति वा ॥१॥
किङ्कणी क्षुद्रघण्टिका।
कङ्कते याति कटिं किङ्कणिः “कङ्केरिच्चाऽस्य वा ॥ (उणा-६३९) ॥ इत्यणिः, टयां किङ्कणी ,किञ्चित्क्वणतीति वा । 'किङ्किणीयेके ॥ १॥ क्षुद्रा अल्पा घण्टिका घुर्घरकाख्या ॥२॥ शेषश्चात्र- अथ किङ्कण्यां घर्घरी विद्या विद्यामणिस्तथा ॥
नूपुरं तु तुलाकोटिः पादतः कटकाङ्गदे ॥ ३२९ ॥
मञ्जीरं हंसकं शिञ्जिनी - नुवति स्तौतीव नूपुरं, पुंक्लीबलिङ्गः "श्वशुर-" ॥ (उणा-४२६) ॥ इत्युरे निपात्यते ॥१॥ तुलाकृतेर्जङ्घायाः कोटिरिव तुलाकोटिः, पुंक्लीबलिङ्गः॥२॥ पादशब्दात् कटकाङ्गदे पादस्य कटकं पादकटकं, पुंक्तीबलिङ्गः ॥३॥ पादोऽङ्गदमिव पादाङ्गदम्॥४॥ ॥३२९॥ मजिः सौत्रो मजति मञ्जीरं "कृशृपृ. ॥ (उणा-४१८) ॥ इतीरः' मन्जु मधुरमीरयति वा पृषोदरादित्वात् , हंसवत् कायति हंसकं,'क्लीबलिङ्गावेतौ ॥५॥ ॥६॥ शिलेऽव्यक्तं शब्दं करोति शिञ्जिनी, ग्रहादित्वाद् णिन्॥७॥
Page #269
--------------------------------------------------------------------------
________________
३ मयंकाण्डः।
२६९
शेषश्चात्र-नूपुरे तु पादशीली मन्दीरं पादनालिका । अलङ्कारशेषश्चात्र- पादाङ्गुलीयके पादपालिका पादकीलिका ॥
अंशुकं वस्त्रमम्बरम् । सिचयो वसनं चीराऽऽच्छादौ सिक् चेलवाससी ॥ ३३० ॥
पटः प्रोतः
अश्नुते वपुरंशुकं " कञ्चुकांशुक-" ॥ ( उणा-५७ ) ॥ इत्युके निपात्यते, अंशून् तन्तून् कायतीति वा ॥ १ ॥ वस्यते छाद्यतेऽनेन वस्त्रम् , पुंक्लीबलिङ्गः “हुयामा-" ( उणा-४५१ ) ॥ इति त्रः ॥ २ ॥ अमत्यनेन शोभामम्बरं “ जठर-" । ( उणा-४०३ ) ॥ इत्यरे निपात्यते ॥ ३ ॥ सिच्यते सिचयः “ लादिभ्यः कित्" ।। ( उणा-३६७ ) ॥ इत्ययः ॥ ४ ॥ वस्यतेऽनेन वसनम् ।। ५ ॥ चीयते तन्तुभिवीरं " चिजि-" ।। ( उणा-३९२ ) ॥ इति रः, दीर्घत्वं च ॥ ६ ॥ आच्छाद्यतेऽनेनाऽऽच्छादः “युवर्ण-" ॥५।३।२८ ॥ इत्यल् ; आच्छादनमपि ॥ ७ ॥ सिश्चति सिच्यते वा सिक, स्त्रीलिङ्गः ॥ ८॥ चिल्यते, चेलति वा चेलम् ॥ ९ ॥ वस्यतेऽनेन वासः “वस्त्यगिभ्यां णित्"॥(उणा-९७०)। इत्यस् ॥१०॥३३०॥पटति विस्तीर्यते पटः, त्रिलिङ्गः “सुचेलकः पटोऽस्त्री" इत्यमरो विशेषमाह ॥ ११ ॥ प्रकर्षणोयते प्रोतः, पुंसि गौडः, क्लीबे वाचस्पतिः ॥ १२ ॥
शेषश्चात्र-वस्त्रे निवसनं वनं सन्नं कर्पटमित्यपि ॥
- अञ्चलोऽस्यान्तः अस्यांशुकस्य प्रान्तः, अञ्चति वस्त्रं शोभामनेनाञ्चलः, पुंक्लीवलिङ्गः 'मृदिकन्दि-" ॥ (उणा-४६५) ॥ इत्यलः ॥१॥
वर्तिर्वस्तिश्च तद्दशाः। ___ वर्ततेऽचलान्ते वर्तिः “ विदिवृतेर्वा " ॥ ( उणा-६१० ) इति इः ॥ १॥ वस्यतेऽनया वस्तिः, अच्छिन्नदशस्य वस्त्रस्याच्छादनाम्नानात् , पुंस्त्रीलिङ्गौ “प्लुज्ञा-'॥ ( उणा-६४६ ) ॥ इति तिः ॥२॥ दश्यन्ते दशाः पुंस्त्रीलिङ्गः, बहुवचनान्तश्च, तस्य वस्वाञ्चलस्य दशास्तद्दशाः ॥ ३ ॥
शेषश्चात्र- दशास्तु क्त्रपेश्यः ॥
पत्रोणे धौतकौशेयम् लकुच-वटादीनां पत्रेषु कृमिलालोर्णाकृतं पत्रोर्ण पृषोदरादित्वात् ॥ १॥ धौतं च तत्कौशयं च धौतकौशयम् ॥ २ ॥
उष्णीषो मूर्धवेष्टनम् ॥ ३३१ ॥
३५
Page #270
--------------------------------------------------------------------------
________________
२७०
अभिधानचिन्तामणौ-..
उषत्यश्रियमुष्णीषः, पुंक्लीबलिङ्गः ॥१॥ मूर्धा वेष्टयतेऽनेन मूर्धवेष्टनम् ॥२॥३३१॥ - तत्स्यादुद्गमनीयं यद्धौतयोर्वस्त्रयोयुगम् ।
उद्गम्यतेऽभिलष्यते उद्गमनीयम् , युगमविवक्षितं तेनैकमपि यद्भागुरिः“धीरैरुगमनीयं तु धौतवस्त्रमुदाहृतम् ” लक्ष्यं च- “ गृहीतवत्युद्गमनीयवस्ने" इति ॥ १॥
त्वक्फलकृमिरोमभ्यः संभवात् तच्चतुर्विधम् ॥ ३३२ ॥ .
क्षौमकार्पासकौशेयराङ्कवादिविभेदतः ।।
तद् वस्त्रं त्वगादिभ्य उपादानकारणेभ्यः संभवात् क्षौमादिभेदेन चतुर्धा त्वग् वल्कलं तज्जं क्षौमादि ॥१॥ फलं सस्यं तज्जं कार्पासादि ॥१॥ कृमिः कीटस्तजं कौशेयादि ॥१॥ रोम तनूरहं तज्जं राकवादि ॥ १॥ अथैतानि क्रमेणाह
क्षौमं दुकूलं दुगूलं स्यात् क्षुमाऽतसी तस्या विकारः क्षौमं, पुंश्लीबलिङ्गः ॥ १॥ दुनोति शत्रुमनासि दुकूलम् ॥ २ ॥ दुह्यते क्षुमाया आकृष्यते दुगूलम् “ दुकूलकुकूल-" ॥ ( उणा४९१)॥ इत्यूल निपात्यते ॥ ३ ॥
कार्पासं तु बादरम् ॥ ३३३ ॥ कर्पासफलस्य विकारः कार्पासम् ॥ १ ॥ बदरस्य विकारो बादरम् ॥२॥३३३॥
कौशेयं कृमिकोशोत्थं कोशस्य विकारः कौशेयं " कौशेयम् " ॥६॥२॥३९॥ इत्येयजि साधुः, कृमिकोशादुत्तिष्ठते कृमिकोशोत्थम् ॥ १॥ .. ... ..राङ्कवं मृगरोमजम् । ... रहुर्मुगविशेषस्तस्येदम्, विकारो वा राङ्कवम् , मृगरोमभ्यो जातं मृगरोमजम् ॥१॥
कम्बलः पुनरूर्णायुराविकौरभरल्लकाः ॥ ३३४ ॥ काम्यते कम्बलः, पुंस्त्रीलिङ्गः “ शमिकमि-" ( उणा-४९९ ) ॥ इति बलः ॥ १॥ ऊर्णाः सन्त्यत्रोर्णायुः, पुंलिङ्गः " ऊर्णाहं-" ॥ ७।२।१७ ॥ इति युस ॥ २ ॥ अविकस्य उरभ्रस्य च विकार आविकः, औरभ्रः " प्राण्यौषधि-" ॥६॥२॥३१॥ इत्यण् ॥३॥४॥ रमते मनोऽत्रेति “ भिल्लाच्छभल्ल-" ॥(उणा-४६४)॥ इति निपातनाद् रल्लः, के रल्लकः ॥ ५ ॥ ३३४ ॥
नवं वासोऽनाहतं स्यात् तन्त्रकं निष्प्रवाणि च ।
Page #271
--------------------------------------------------------------------------
________________
३ मर्त्यकाण्डः ।
२७१
छेदः क्षालनं भोगश्चेत्याहतं तद्रहितमनाहतं नवं वस्त्रम् ॥ १ ॥ तन्त्रात्पटवानोपकरणादचिरोत्तीर्ण तन्त्रकम् “तन्त्रादचिरोद्धृते” || ७|१|१८३ || इति कः ॥ २ प्रोयतेऽस्यामिति प्रवाणी तन्तुवायशलाका, सा निर्गताऽस्माद् निष्प्रवाणिः, “निष्प्रवाणिः” ॥ ७।३।१८१ ॥ इति कजभावे निपात्यते । एते वाच्यलिङ्गाः ॥ ३ ॥
प्रच्छादनं प्रावरणं संव्यानं चोत्तरीयकम् ॥ ३३५ ॥
प्रच्छाद्यतेऽनेन प्रच्छादनम् ॥ १ ॥ प्रात्रियतेऽनेन प्रावरणम् ॥ २ ॥ संवी - यतेऽनेन संव्यानम् ॥ ३ ॥ उत्तरे ऊर्ध्वे भवमुत्तरीयं गहादित्वादीयः, के उत्तरीयकम् ॥ ४॥ ३३५ ॥
बैंकक्षे प्रायारोत्तरासङ्गौ बृहतिकाऽपि च ।
विकक्षायां भवं वैकक्षं तिर्यग् वक्षसि विक्षिप्तं वासस्तत्र ॥ १ ॥ प्राव्रियतेStar प्रावारः " गो वस्त्रे " || ५|३|५२ ॥ इति घञ् ॥ २ ॥ उत्तरे ऊर्ध्वाङ्ग आसज्यते उत्तरासङ्गः ॥३॥ बृहत्येव बृहतिका " तनुपुत्राणुबृहती- ” ॥७|३|२३॥ इति स्वार्थे कः ॥ ४ ॥
वराशिः स्थूलशाटः स्यात्
अवाश्नुतेऽङ्गं “अशो रश्श्रादिः ॥ ( उणा - ६८८ ) ॥ इति इप्रत्यये, आदेश्व रादेशे “वाऽवाऽयोस्तनि - " ॥ ३२॥ १५६ ॥ इत्यत्र धातुनियमाभावमतेनाऽवस्य वादेशे वराशिः, वृणोत्यङ्गमिति इप्रत्यये पृषोदरादित्वाद्वा पुंलिङ्गस्तालव्यान्तश्च ॥१॥ स्थूलश्चासौ शाटव स्थूलशाटः ॥ २ ॥
परिधानं त्वधशुकम् ||३३६॥
अन्तरीयं निवसनमुपसंख्यानमित्यपि ।
परिधीयते परिधानमधोवसनम् ॥ १ ॥ २ ॥ ३३६ ॥ अन्तरे कायस्य भवमन्तरीयं गहादित्वादयः || ३ || निवस्यतेऽनेन निवसनम् ॥४॥ उपसंवीयतेऽनेन कटिरूपसंव्यानम् ॥५॥
तद्ग्रन्थिरुच्चयो नीवी
तस्य परिधानस्य ग्रन्थिराग्रन्थनं तद्ग्रन्थिः, उच्चीयते बध्यतेऽनेनोश्वयः ॥ १ ॥ नोयते जघन्यवस्त्रे नीविः “कॄशृस - " ॥ (उणा - २९८ ) ॥ इति डिद्विः, ङयां नीवी ॥२॥ वरस्यरुकांशुकम् ||३३७॥
चण्डातकं चलनकः
वरस्त्रिया ऊर्वोरर्धाच्छादकमंशुकं वरस्त्र्यधरुकांशुकम् ॥ ३३७॥ चण्डते का.मोऽनेन चण्डातकं, मुंक्लीबलिङ्गः “ चण्डिभलिभ्या - " ॥ ( उणा - ८२ ) ॥ इत्यातकः ॥ १ ॥ चलतीत्येवंशीलश्चलन:, के चलनकः ॥ २ ॥
Page #272
--------------------------------------------------------------------------
________________
.२७२
अभिधानचिन्तामणौ
"चलनी त्वितरस्त्रियाः
इतरस्याः स्त्रिया अर्धोरुकवस्त्रं चलत्यनया चलनी ॥ १ ॥
चोलः कञ्चुलिका कूर्पासकोऽङ्गिका चकञ्चुके ॥ ३३८ ॥
""
चुलिः सौत्रः, चुल्यतेऽनन चोलः ॥ १ ॥ कञ्च्यते दीप्यतेऽनया, कच्यते बध्यते वा कञ्चुली " कुमुलतुमुल- ॥ ( उणा - ४८७ ) ॥ इत्युले निपात्यते, के कञ्चुलिका अर्थात् स्त्रिया एव, कं चोलतीति वा ॥ २ ॥ कुरांत कूर्पासः “ कृकुरिभ्यां पासः ॥ ( उणा - ५८३ ) | के कूर्पासकः, कूर्परेऽस्यते वा, कूर्पासोऽपि
,,
॥ ३ ॥ अङ्गस्य प्रतिकृतिरङ्गिका ॥ ४ ॥ कञ्च्यते बध्यते कञ्चुकः, पुंक्लीबलिङ्गः कञ्चुकां- ॥ ( उणा - ५७ ) ॥ इत्युके निपात्यते, तत्र ॥ ५ ॥ ३३८ ॥
"
शाटी चोटी
66
शाटयति कटिं शास्तालव्यादिः, ङयां शाटी पुंस्त्रीलिङ्गः, स्वार्थे के तु शाटकः क्लीवलिङ्गः || १ || चोटयल्पीभवति चोटः, ड्यां चाटी, पुंस्त्रीलिङ्गः ॥ २ ॥ अथ नीशारो हिमवातापहांशुके ।
निशीर्यते शीताद्युपद्रवोऽनेन नीशारः "श्रो वायुवर्ण” ॥ ५ । ३ । २० ॥ इति घञ्, यल्लक्ष्यम् – “गौरिवाकृतनीशारः प्रायेण शिशिरे कृशः" इति ॥ १ ॥ शेषश्चात्र - अथ हिमबातापहांशुके द्विखण्डको वरकश्च ॥
कच्छा कच्छाटिका कक्षा परिधानाऽपराञ्चले ॥ ३३९॥
कच्यते बध्यते कच्छा "तुदिमदि - " ॥ ( उणा - १२४) ॥ इति छक् ॥ १ ॥ कच्छैव कच्छाटी ग्रामटीवधूटीवत् के कच्छाटिका "कच्छाटी पुस्त्रियाः" इति व्याडिः ॥ २ ॥ कषति गुह्यं कक्षा " मावा - " ॥ ( उणा - ५६४ ) ॥ इति सः, परिधानस्य पश्चादश्चले ॥ ३ ॥ ३३९ ॥
कौपीनं
कक्षापटस्तु
"
कक्षायाः पटः कक्षापटः कक्षापुट इत्येके ॥ १ ॥ कूपप्रवेशनमर्हति कौपीनम्, अयं पायूपस्थावरणे चीवरखण्डे रूढः " शालीन कौपीन- ' ॥ ६ ॥ ४ । १८५॥ इति निपात्यते ॥ २ ॥
समौ नक्तककर्पटौ ।
"
नह्यते शिरसि नक्तकः " कीचक- ॥ ( उणा - ३३ ) ॥ इत्यके निपात्यते नक्तं भव इति वा, द्रवद्रव्यं येन पूयते तत्र रूढोऽयं तत्तुल्येऽपि वस्त्रे प्रतीतां वर्तते ॥ १ ॥ कल्पते कर्पटः, पुंक्लीबलिङ्गः “ दिव्यवि- ” ॥ ( उणा - १४२ ) इत्यटः ॥ २ ॥
निचोलः प्रच्छदपटो निचुलश्चोत्तरच्छदः ॥ ३४० ॥
Page #273
--------------------------------------------------------------------------
________________
३ मयंकाण्डः ।
२७३ चुलिः सौत्रः, निचुल्यतेऽनेन निचोलो येन तूलशय्यादि प्रच्छाद्यते ॥ १॥ प्रच्छाद्यतेऽनेनं प्रच्छदः “ पुनाम्नि-" ॥५।३।१३०॥ इति घे " एकोपसर्गस्य-" ॥४॥२॥३४॥ इति इखः, स चासौ पटश्च प्रच्छदपटः ॥ २॥ निचोलति निचुलः,' गौडस्तु- " निचोलस्तु निचुलकम् ” इति क्लीबमाह ॥ ३ ॥ उत्तरं छाद्यतेऽनेनोसरच्छदः ॥४॥३४॥
उत्सवेषु सुहृद्भिर्यद् बलादाकृष्य गृह्यते ।
वस्त्रमाल्यादि तत्पूर्णपात्रं पूर्णानकं च तत् ॥३४१॥ 'पूर्ण पात्रमस्मिन् पूर्णपात्रम् ॥ १ ॥ पूर्ण आनकोऽत्र पूर्णानकम् ॥२॥ ३४१॥
तत्तु स्यादाप्रपदीनं व्याप्नोत्याप्रपदं हि यत् । प्रगतं पदं प्रपदं पादानमित्यर्थः, प्रपदाद् आ आप्रपदं तद् व्याप्नोत्याप्रपदीनं " आप्रपदम् ” ॥७॥१।९५॥ इतीनः ॥ १॥
चीवरं भिक्षुसङ्घाटी चीयते चीवरं " नीमकुतुचेदीर्घश्च" ॥ (उणा-४४३) ॥ इति वरट् ॥१॥ संघमटति संघव्यते वा संघाटी मुनिजनाच्छादनं, भिक्षणां संघाटी भिक्षुसंघाटी॥२॥
जीर्णवस्त्रं पटच्चरम् ॥ ३४२ ॥ पट इवाचरत् पटत् भूतपूर्व पटत् पटच्चरम् “ भूतपूर्व प्चरट् ॥ ५ ॥ २ ॥ ७८ ॥ पटच्चरः पटो जीर्णः ” इति पुंसि माला ॥ १ ॥ ३४२ ॥
शाणी गोणी छिद्रवस्त्रे शणस्येयं शाणी ॥ १॥ गवा नीयते गोणी " क्वचित् " ॥५॥१॥१७१॥ इति डे पृषोदरादित्वाद् णत्वं “ भाजगोण-" ॥२॥४॥३०॥ इति डीः" छिद्रं च तद्वस्त्रं च छिद्रवस्त्रं तत्र ॥ २॥.
जला क्लिन्नवाससि । जलेना जलाय ॥ १॥
पर्यस्तिका परिकरः पर्यवश्वावसक्थिका ॥ ३४३ ॥ पर्यस्यते वेष्टयतेऽनया पर्यस्तिः, के पर्यस्तिका ॥१॥ परिक्रियते वपुरनेन परिकरः " पुग्नानि." ॥५॥३।१३०॥ इति घः ॥२॥ पर्यङ्कयतेऽसौ पर्यङ्कः, परिगतोऽङ्कमिति वा; पल्यकोऽपि ॥३॥ अवनद्धे अवकृष्टे वा सक्थिनी अस्यामवसक्थिका “सक्थ्यक्ष्णः-"॥७॥३।१२६॥इति टसमासान्ते डीः, ततः स्वार्थे कः॥४॥३४३॥
कुथे वर्णः परिस्तोमः प्रवेणीनवतास्तराः ।
Page #274
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणौ
कुथ्यते क्लिश्यते कुथः, त्रिलिङ्गः, स्थादित्वात्कः, क्रियते कीर्यते वा “पथयूथ - " ॥ ( उणा - २३१) ॥ इति थे निपात्यते तत्र ॥ १ ॥ वर्ण्यते वर्णः, वर्णकम्बलिकादेशो वा भीमवत् ॥ २ ॥ परिस्तोम्यते प्रस्तीर्यते परिस्तोमः, वर्णपरिस्तोम इत्यखण्डमन्ये ॥ ३ ॥ प्रवीयते प्रवेणिः “ कावा - " ( उणा - ६३४ ) ॥ इति णिः, ङयां प्रवेणी ॥ ४ ॥ नवं तनोत्यात्मानं नवतं " क्वचित् ॥ ५।१।१७१ ॥ इति डः, ॥ ५ ॥ आस्तीर्यते आस्तरः, आस्तरणमपि; अयं च हस्तिरथप्रावरणादावुपयुज्यते, यद्वाचस्पतिः- “ विनियोगस्त्वस्य हस्तिरथप्रावरणादिषु " इति ॥ ६ ॥
99
२७४
अपटी काण्डपटः स्यात् प्रतिसीरा जवन्यपि ॥ ३४४ ॥ तिरस्करिणी
प्रावरीतुमयोग्यत्वाद् न पटी अपटी ॥ १ ॥ काण्डः कुत्सितः पटः काण्डपटः ॥ २ ॥ प्रतिसिन्वन्त्येनां प्रतिसीरा “चिजि - " ॥ ( उणा - ३९२ ) ॥ इति रः, दीर्घत्वं च ॥ ३ ॥ जबन्तेऽस्यां जवनी, यमनीत्यपि ॥ ४ ॥ ३४४॥ तिरस्करोति छादयति तिरस्करिणी बाहुलकाद् हूखः ॥ ५ ॥
अथोलोचो वितानं कदकोऽपि च । चन्द्रोदये
उपरि लोच्यते उल्लोचः, उल्लुच्यतेऽपनीयतेऽनेनाऽऽनपादीनि वा ॥ १ ॥ चितन्यते वितानं, पुंक्लीवलिङ्गः ॥ २ ॥ कुत्सितमकति कदकः ॥ ३ ॥ वस्त्रकृतैश्चन्द्रैरुदयते चन्द्रोदयस्तत्र, चन्द्रोदय इवोज्ज्वलो वा ॥ ४ ॥
स्थूलं दूप्ये
स्थति संत्रणोति स्थुलं वस्त्रवेश्म, तिष्ठत्यत्रेति वा स्थावकि ( उणा - ४८६ ) ॥ इति किदुलः ॥ १ ॥ दूष्यतेऽनेनाऽन्यदर्शनं तत्र ॥२॥
केणिका पटकुट्यपि || ३४५ ॥ गुणलयनिकायां स्यात्
किणः सौत्रः, केणन्ति गच्छन्त्यत्र केणिका " नाम्नि पुंसि " || ५|३|१२१ ॥ इति णकः ॥ १ ॥ पटानां कुटी पटकुटी ॥ २ ॥ ३४५ ॥ गुणा लीयन्तेऽस्यां गुणलयनी के गुणलयनिका, तत्र ॥ ३ ॥
संस्तरस्रस्तरौ समौ |
समन्तात्तीयते संस्तरः पल्लवादिरचिता शय्या प्रस्तरोऽपि ॥१॥ स्रंसते ऽत्रेति खस्तरः जठर- ॥ ( उणा - ४०३ ) ॥ इत्यरे निपात्यते ॥ २ ॥
"
तल्पं शय्या शयनीयं शयनं तलिमं च तत् ॥ २४६ ॥
66
6. ८
11
Page #275
--------------------------------------------------------------------------
________________
३ मर्त्यकाण्डः। .
२७५.
: तलत्यस्मिन् तल्पं, पुंक्लीबलिङ्गः "भापाचणि-" ॥ ( उणा-२९६) ॥ इति पः ॥ १॥ शेरतेऽस्यां शय्या " समज-" ॥५।३।९९॥ इति क्यपि " कृिति यि शय " ॥४।३।१०५॥ इति शयादेशः ॥ २ ॥ शय्यतेऽत्र शयनीयं “ बहुलम् " ॥५।१।२॥ इति अधिकरणेऽप्यनीयः ॥३॥ अनटि शयनं पुंक्लीबलिङ्गः ॥४॥ तल्यते. ऽत्र तलिमम् “वयिमखचिम-" ॥ (उणा-३५०)॥ इति मे निपात्यते ॥५॥३४६॥.
मञ्चमञ्चकपर्यकपल्यङ्काः खट्दया समाः । मञ्च्यते धार्यतेऽनेन मञ्चः ॥ १॥ मञ्चते मञ्चकः, पुंक्लीबलिङ्गः ॥२॥ पर्यञ्च्यते पर्यक्यते वा पर्यङ्क: " परेोङ्क- " ॥ २।३।१०३ ॥ इति लत्वे पल्यङ्कः ॥ ३ ॥ ४ ॥ खटन्ति काङ्क्षत्येनां खट्वा " लटिखटि." ॥ ( उणा-५०५)॥ इति वः ॥५॥
उच्छीर्षकमुपाद् धानवी उपरि शीर्षमस्य उच्छीर्षकम् ॥ १॥ उपशब्दाद् धानबौं उपधीयते शिरोऽस्मिन्नुपधानम् ॥२॥ उपबृह्यतेऽनेन, उपबर्हति वा, उपवर्हः शिरोनिवेशनं गण्डूकम
ख्यम् ॥ ३॥
पाले पतग्रहः ॥ ३४७ ॥
प्रतिग्राहः, पाल्यते पालः, पुंलिङ्गः तत्र, क्लीबेऽपि वैजयन्ती यदाह- " पतद्ग्रहः प्रतिग्राहः पालोऽस्त्री" इति ॥ १ ॥ गण्डूषादि पतद् गृह्णाति पतद्ग्रहः, पतद्ग्राहोऽपि ॥ २ ॥ ३४७ ॥ प्रतिगृह्णाति आचेलकादि प्रतिग्राहः, “वा ज्वलादि-" ॥५।१।६२॥ इति णः; प्रतिग्रहोऽपि ॥ २ ॥
मकुरात्मदर्शाऽऽदर्शास्तु दर्पणे । मयते मण्ड्यते वपुरनेन मकुरः " मझेर्नलुक् वोच्चास्य "॥ (उणा-४२४)। इत्युरः, मुकुरोऽपि ॥ १॥ आस्मा दृश्यतेऽनेनात्मदर्शः ॥२॥ आदृश्यते रूपमस्मिन्नादर्शः ॥ ३ दृप्यन्त्येऽनेन सुवेषा इति दर्पणस्तत्र ॥ ४ ॥
स्याद्वेत्रासनमासन्दी
वेत्रलताघटितमासनं वेत्रासनम् ॥ १ ॥ एत्य सीदन्त्यस्यामासन्दी, पृषोदरादित्वात् , गौरादित्वाद् डीः ॥२॥
विष्टरः पीठमासनम् ॥ ३४८ ॥ - विस्तृणातीति विष्टरः, पुंक्लीबलिङ्गः " वेः स्त्रः " ॥ २।३।२३ ॥ इति षत्वम् । ॥ १ ॥ पीयते उपवेशनेन प्रस्यते पीठं स्त्रीक्लीबलिङ्गः “पीविशि." ॥ ( उणा- ।
Page #276
--------------------------------------------------------------------------
________________
२७६
अभिधानचिन्तामणौ
१६३ ) ॥ इति कित् ठः || २ || आस्यतेऽस्मिन्त्रासनं, पुंक्लीबलिङ्गः || ३|| ३४८ ॥ कसिपुर्भोजनाच्छादौ
कसति गच्छति क्लेशोऽनेन कसिपुः पुंक्लीबलिङ्गः " कस्यर्तिभ्या -" || ( उणा७९८) इति पुक् । अमरस्तु - ' कशति क्लेशं कशिपुः ' इति तालव्यमध्यमाह । भोजनं चाच्छादश्च भोजनाच्छादौ द्वयं युगपदुच्यते ॥१॥
औशीरं शयनासने
उश्यते कास्यते उशीरं तदेव प्रज्ञायणि औशीरं शयनासने युगपदुच्येते ॥ १ ॥ लाक्षा द्रुमामयो राक्षा रङ्गमाता पलङ्कषा || ३४९ ॥ जतु क्षतघ्ना कृमिजा
<<
93
"
>>
लसति श्लिष्यति लाक्षा लाक्षाद्राक्षा- ॥ ( उणा-५९७ 2 ) ॥ इत्यक्षे निपात्यते ॥ १ ॥ द्रुमस्यामय इव निर्यासो द्रुमामयः ॥ २ ॥ रक्षति देहं राति वा राक्षा लाक्षा- ॥ ( उणा - ५९७ ) ॥ इति निपात्यते ॥ ३ ॥ रङ्गस्य मातव रङ्गमाता ॥ ४ ॥ पलं कषति पलङ्कषा " बहुलम् ॥ ५।१।२ ॥ इत्यत्रापि खश् ॥५॥३४९॥ जायते जतु क्लीबलिङ्गः “मनिजनिभ्यां धतौ च " ॥ ( उणा - ७२१) ॥ इत्युः ॥ ६ ॥ तं हन्यते दह्यतेऽनया क्षतघ्ना, स्थादित्वात् के साधुः ॥ ७॥ कृमिभिर्जन्यते कृमिजा " क्वचित् " ||५|१|१७१ ॥ इति डः ॥ ८ ॥
यावालक्तौ तु तद्रसः ।
यूयते यति वा यवः स एव प्रज्ञायणि यावः, के यावकोऽपि ॥१॥ न लजते, अलति वा अलक्तः " पुतपित- " ॥ ( उणा - २०४ ) ॥ इति ते निपात्यते, यद्वा ईषद्रो रक्तस्ततो रस्य लत्वं केऽलक्तकोपि तस्या लाक्षाया रसस्तद्रसः, यद्धनपालः' तद्रागो यावकोऽलक्तकः स्मृतः अमरादयस्तु- यावालक्तौ लाक्षादिभिः सहैकार्यावाहुः || २ ||
"
<3
अञ्जनं कज्जलं
""
अज्यतेऽनेनाञ्जनम् ॥१॥ कजति व्यथते चक्षुः कज्जलं " मुरलोरल " H ( उणा - ४७४ ) ॥ इत्यले निपात्यते ॥ २ ॥
दीपः प्रदीपः कज्जलध्वजः ॥ ३५० ॥ स्नेहप्रयो गृहमणिर्दशाकर्षो दशेन्धनः ।
दीप्यते दीपः, पुंक्लीबलिङ्गः ॥ १ ॥ प्रः खार्थे, मेरुः सुमेरुवत्, प्रदीपः ॥२॥ कज्जलं ध्वजोऽस्य कज्जलध्वजः ॥ ३ ॥ ॥ ३५० ॥ स्नेहस्तैलं प्रियमस्य स्नेहप्रियः ॥ ४ ॥ गृहस्य मणिरिव गृहमणिः ॥ ५ ॥ दशां वर्तिमाकर्षति दशाकर्षः ॥ ६ ॥
Page #277
--------------------------------------------------------------------------
________________
२७७
३ मर्त्यकाण्डः । दशैवेन्धनमस्य दशेन्धनः ॥ ७॥ ।
व्यजनं तालवृन्तं व्यजन्ति विक्षिपन्ति वातमनेन व्यजनम्, वीजनमपि ॥१॥ तालस्येव वृन्तमस्य तालवृन्तम् , तालवृन्तैरुम्भ्यत इत्येके ॥ २ ॥
तद् धवित्रं मृगचर्मणः ॥ ३५१ ॥ । तद् मृगचर्मणा निर्मितं धूयतेऽग्निरनेन धवित्रम् “लूधूसूखनि-" ॥५॥२॥८॥ इति इत्रः । एतच्च यज्ञोपकरणे प्रसिद्धम् ॥ १ ॥ ३५१ ॥
आलावर्त तु वस्त्रस्य वस्त्रस्य व्यजनमारादावर्त्यते आरावतम् , पृषोदरादित्वात् ॥ १ ॥
कङ्कतः केशमार्जनः ।
प्रसाधनश्च कङ्कत्ते याति शिरः कङ्कतः, त्रिलिङ्गः, "दृपृभृ." ॥ ( उणा २०७)॥ इत्यतः, कङ्कान् दत्तांस्तनोति वा ॥१॥ केशा माय॑न्तेऽनेन केशमार्जनः ॥२॥ प्रसाध्यन्ते केशा अनेन प्रसाधनः ॥ ३ ॥
अथ बालक्रीडनके गुडो गिरिः ॥ ३५२ ॥
गिरियको गिरिगुडः बालाः क्रीडन्त्यनेन बालक्रीडनकं तत्र ॥ १ ॥ गुज्यते गुडः, स्थादित्वात् कः ॥ २ ॥ गीर्यते गिरिः, पुंलिङ्गः “नाम्युपान्त्यकृगृ." ॥ ( उणा-६०९ ) ॥ इति किदिः ॥ ३ ॥ ३५२ ॥ गीर्यते याति च गिरियकः ॥ ४ ॥ गीर्यते गुज्यते च गिरिगुडः, पृषोदरादित्वात्साधू; गिरीयक-गिरिकावपि ॥ ५ ॥
समौ कन्दुकगेन्दुको । काम्यते क्रीडार्थिभिरिति कन्दुकः, पुंक्लीबलिङ्गः “ कमितिमर्दोऽन्तश्च" ॥ ( उणा-५४ ) ॥ इति उकः, कन्दुरेव वा “कुमारीकीडनेयसोः" ॥ ॥३॥१६॥ इति कः, के शिरो नमनोनमनेक्षणाद् दुनोतीति वा ॥३॥ गाते गच्छति गा गच्छन् इन्दुको गेन्दुकः, गाने इन्दुरिव वा, पृषोदरादित्वात् ; गन्दुकोऽपि ॥ २ ॥
राजा राट् पृथिवीशक्रमध्यलोकेशभूभृतः ॥ ३५३ ॥
महीक्षित् पार्थिवो मूर्धाभिषिक्तो भू-प्रजा-नृ-पः । राजतेऽमात्यादिभिरिति राजा “उक्षितक्षि-" ॥ ( उणा-९०० ) ॥ इत्यन् , रज्जयति प्रजामिति वा ॥ १॥ राजते राट् “यजसृज-" ॥२।१। ८७ ॥ इति
Page #278
--------------------------------------------------------------------------
________________
२७८
अभिधानचिन्तामणौ-.
क्विपि षत्वम् "धुटस्तृतीयः" ॥२॥११७६॥ इति डत्वम् , “ विरामे वा" ॥१॥ ३।५१॥ इति टत्वम् ॥ २ ॥ पृथिव्यां शक्र इव पृथिवीशक्रः ॥ ३ ॥ मध्यलोकस्य ईशो मध्यलोकेशः ॥ ४ ॥ भुवं बिभतीति भूभृत् ॥ ५॥ ३५३ ॥ महीं क्षयत्यधिवसति महीक्षित् ॥ ६ ॥ पृथिव्या ईशः पार्थिवः “पृथिवीसर्वभूमे-" ॥ ६ । ४। १५६ ॥ इत्यण् ॥७॥ मूर्धन्यभिषिच्यते स्म मूर्धाभिषिक्तः, मूर्धावसित्तोऽपि ॥८॥ भुवं प्रजां नूंश्च पाति भूपः, प्रजापः, नृपः, यौगिकत्वाद् भूपालः, लोकपालः, नरपाल इत्यादयः ॥ ९ ॥ १० ॥ ११ ॥
मध्यमो मण्डलाधीशः मध्यमः सामान्योऽप्रेतनापेक्षया ॥१॥ मण्डलमात्रस्याधीशो मण्डलाधीशः ॥ २ ॥
सम्राट् तु शास्ति यो नृपान् ॥ ३५४ ॥ ....
यः सर्वमण्डलस्येशो राजसूयं च योऽयजत् ।। . सम्यग् राजते सम्राट “ सम्राट" ॥ १।३ । १६ ॥ इति साधुः । ॥१॥
चक्रवर्ती सार्वभौमः चक्रायुधरत्नेन वर्तते चक्रवर्ती, नृपाणां चक्रे समूहे वर्तते स्वाम्येनेति वा, चक्रं राष्ट्रं वर्तयतीति वा ॥ १ ॥ सर्वस्या भूमेरीशः सार्वभौमः "पृथिवीसर्वभूमे-" ॥ ६ । ४ । १५६ ॥ इत्यञ् , अनुशतिकादित्वादुभयपदवृद्धिः ॥ २ ॥ शेषश्चात्र- चक्रवर्तिन्यधीश्वरः ॥
। ते तु द्वादश भारते ॥ ३५५ ॥ . ते तु चक्रवर्तिनो भारते वर्षे द्वादश अवसर्पिणीकाले भवन्ति स्म ॥ ३५५ ॥ अथ तान् क्रमेणाह
आर्षभिर्भरतस्तत्र तत्र तेषु चक्रवर्तिषु प्रथमश्चक्रवर्ती ऋषभस्यादितीर्थकृतोऽपत्यमार्षभिः, "अत इञ्” ॥ ६॥ १ ॥ ३१ ॥ १॥ बिभर्ति षट्खण्डं भरतक्षेत्रं भरतः “दृपृभृ." ॥ ( उणा-२०७ ) ॥ इत्यतः ॥ २॥
: सगरस्तु सुमित्रभूः ।
सहते सर्व सगरः " जठर-" ॥ ( उणा-४१३ ) ॥ इत्यरे निपात्यते ॥१॥ सुमित्रविजयाद् भवति सुमित्रभूः ॥ २ ॥
.. मघवा वैजयिः :
Page #279
--------------------------------------------------------------------------
________________
३ मर्त्यकाण्डः ।
२७९
__ मघन्ते शत्रुषु . मघवा “श्वन्मातरि-" ॥ ( उणा-९०२) ॥ इत्यनि निपात्यते, मघवा शक इव वा ॥ १ ॥ विजयस्यापत्यं वैजयिः ॥ २ ॥
अथाश्वसेननृपनन्दनः ॥ ३५६ ॥
सनत्कुमारः __ अश्वसेननृपस्य नन्दनोऽश्वसेननृपनन्दनः ॥ १ ॥ ३५६ ॥ सनत् नित्यं कुमार इव रूपवत्त्वात् सनत्कुमारः ॥ २ ॥
.अथ शान्तिः कुन्थुररो जिना अपि । शान्तिनाथादयः प्रागुक्तास्त्रयस्तीर्थकृतोऽपि चक्रवर्तिनः ॥१॥१॥१॥
सुभूमस्तु कार्तवीर्यः सुष्ठु जातमात्रेण सुखेन गृहीता भूमिरनेन पृषोदरादित्वात् सुभूमः, यदवोचाम-"गृह्णन् भूमि सुखेनाभूत् सुभूमो नामतस्ततः” ॥१॥ कृतवीर्यस्यायं कार्तवीर्यः ॥ २ ॥ ___पद्मः पद्मोत्तरात्मजः ॥ ३५७ ।।
पद्यते निधींनिति पद्मः “अर्तीरि-" ॥ ( उणा-३३८ ) ॥ इति मः, पद्मोत्तरात्मजः ॥ १॥२॥ ३५७ ॥
हरिषेणो हरिसुतः हरेरिन्द्रस्येव सेनाऽस्य हरिषेण: "एत्यकः” ॥२३॥२६॥ इति षत्वम्॥१॥ हरेः मापालस्य सुतो हरिसुतः ॥ २ ॥
जयो विजयनन्दनः । जयत्यरातीनिति जयः ॥ १॥ विजयस्य नन्दनो विजयनन्दनः ॥ २॥
ब्रह्मसूनुर्ब्रह्मदत्तः ब्रह्मणो राज्ञः सूनुर्ब्रह्मसूनुः ॥ १ ॥ ब्रह्मा एनं देयात् ब्रह्मदत्तः “ तिक्कृतौ नाम्नि " ॥ ५।१।७१ ॥ इति क्तः ॥ २ ॥ एवं द्वादश चक्रवर्तिनः ॥
सर्वेऽपीक्ष्वाकुवंशजाः ॥ ३५८ ॥ सर्वेऽपि द्वादशापीक्ष्वाकोशे जाता इक्ष्वाकुवंशजाः ॥ ३५८ ॥ अथार्धचक्रवर्तिनो वासुदेवानाह
प्राजापत्यस्त्रिपृष्ठः __ प्रजापते राज्ञोऽपत्यं प्राजापत्यः “अनिदमि-" ॥६।१।१५॥ इति व्यः ॥१॥ त्रयो वंशाः पृष्टेऽस्य त्रिपृष्ठः, यदवोचाम
Page #280
--------------------------------------------------------------------------
________________
२८०.
अभिधानचिन्तामणौ-... "दृष्ट्वा वंशत्रयं पृष्ठे त्रिपृष्ठ इति भूपतिः।
नाम तस्याकरोत्सूनोरुत्सवेन महीयसा" ॥ १ ॥ इति। अथ द्विपृष्ठो ब्रह्मसंभवः । द्वौ वंशौ पृष्ठेऽस्य द्विपृष्ठः ॥ १ ॥ ब्रह्मणो राज्ञः संभवति ब्रह्मसंभवः ॥ २ ॥
स्वयंभू रुद्रतनयः स्वयं भवतीति स्वयंभू ः ॥ १॥ रुद्रनृपतेस्तनयो रुद्रतनयः ॥ २ ॥ __ सोमभूः पुरुषोत्तमः ॥ ३५९ ॥ सोमाद् राज्ञो भवति सोमभूः ॥ १ ॥ पुरुषेषूत्तमः पुरुषोत्तमः ॥२॥३५९॥
शैवः पुरुषसिंहः शिवस्य राज्ञोऽपत्यं शैवः, शिवादित्वादण् ॥१॥ पुरुषेषु सिंह इव पुरुषसिंहः॥२॥
अथ महाशिरःसमुद्भवः ।
स्यात्पुरुषपुण्डरीकः महाशिरसो राज्ञः समुद्भवति महाशिरःसमुद्भवः ॥ १ ॥ पुरुषेषु पुण्डरीको व्याघ्र इव पुरुषपुण्डरीकः ॥ २ ॥
दत्तोऽग्निसिंहनन्दनः ॥ ३६० ॥ दीयते स्म दत्तः ॥ १ ॥ अग्निसिंहस्य राज्ञो नन्दनः अग्निसिंहनन्दनः
नारायणो दाशरथिः नुर्धर्म नराणां समूहो वा नारम् , नारमयते नारायणः ॥१॥ दशरथस्थापत्यं दाशरथिः ॥ २॥
कृष्णस्तु वसुदेवभूः । कृष्णवर्णत्वात् कृष्णः, कति शत्रूनिति वा ॥१॥वसुदेवाद् भवति वसुदेवभूः॥२॥
वासुदेवा अमी कृष्णा नव वसुभिर्दीव्यन्ते वसुदेवास्त एव प्रज्ञाद्यणि वासुदेवाः, अमी पूर्वोक्ताः, कृष्णा वर्णेनेति ॥
शुक्ला बलास्त्वमी ॥ ३६१ ॥ नव इत्येव अमी वक्ष्यमाणाः, बलमस्त्येषां बलाः, बलदेवैकदेशो वा । शुक्ला वर्णेन ॥३६१॥
Page #281
--------------------------------------------------------------------------
________________
३ मकाण्ड: ः ।
अथ तान् क्रमेणाह -
अचलो विजयो भद्रः सुप्रभश्च सुदर्शनः ।
आनन्दो नन्दनः पद्मो रामः
न चलति सत्त्वादचलः, स्थैर्यादचल इव वा ॥ १ ॥ विजयते विजयः ॥२॥ भद्रयुक्तत्वाद् भद्रः ॥ ३ ॥ शोभना प्रभाऽस्य सुप्रभः ॥ ४ ॥ शोभनं दर्शनमस्य सुदर्शनः ॥ ५ ॥ आनन्दयांत लोकमानन्दनः ॥ ६ ॥ नन्दयति नन्दनः ॥ " पद्यते पद्मः ॥ ८ ॥ रमते रामः । एते च यथाक्रमं त्रिपृष्टादिवासुदेवानामग्रजाः प्रजापत्यादिसंभवाः ॥ ९ ॥
विष्णुद्विषत्वमी || ३६२ ॥
अमी वक्ष्यमाणा अश्वग्रीवादया विष्णूनां त्रिपृष्ठादीनां यथाक्रमं प्रतिपक्षाः ॥ ३६२ ॥
अथ तानाह
अश्वविस्तारकश्च मेरको मधुरेव च । निशुम्भबलिप्रह्लादलङ्केश मगधेश्वराः ॥ ३६३ ॥
रस्य
अश्वस्येव ग्रीवाऽस्य अश्वग्रीवः ॥ १ ॥ तारयति तारकः ॥ २ ॥ मां लक्ष्मीमीरयति मेरकः ॥ ३ ॥ मन्यते सर्वमसारं मधुः, यस्य कैटभो भ्राता ॥ ४ ॥ निशुम्भयति शत्रून् निशुम्भः ॥ ५ ॥ वलति प्राणिति बलिः ॥ ६ ॥ प्रह्लादते प्रह्लादः ॥ ७ ॥ लङ्काया ईशो लङ्कशो रावणः ॥ ८ ॥ मगधानामीश्वरो मगधेश्वरो जरासन्धाख्यः ॥ ९ ॥ ३६३ ॥
उपसंहारमाह
जिनैः
२८१
ः स्युः शलाकापुरुषा अमी ।
सह त्रिषष्टिः
:
जिनैर्ऋषभादिभिश्चतुर्विंशत्या सार्धममी द्वादश चक्रवर्तिनः, नव वासुदेवाः, नव बलदेवाः, नव प्रतिवासुदेवाश्चेति त्रिषष्टिः शलाकाभूताः शलाकापुरुषाः पुरुषेषु जातरेखा इत्यर्थः ॥
आदिराजः पृथुर्वेन्यः
आदिश्चासौ राजश्च आदिराजः ॥ ३ ॥ प्रथते इति पृधुः "अभिप्रथिभ्यामृच ॥ (उणा - ७३०) ॥ इत्युः ॥ २ ॥ वेनस्यापत्यं वैनिः, ततः खार्थे ये वैन्यः ॥३॥
""
मान्धाता युवनाश्वजः ॥ ३६४ ॥
धारयति मान्धाता, इन्द्रो हि जातमात्रस्यास्य मातुरभावाद् मां धास्यतीत्यभिधायाऽमृतस्राविणीमङ्गुलिममुं पायितवानिति प्रसिद्धिः ॥१॥ युवनाश्वाज्जातो युवनाश्वजः ॥ २ ॥ ३६४ ॥
Page #282
--------------------------------------------------------------------------
________________
२८२
अभिधानचिन्तामणौ
धुन्धुमारः कुवलाश्वः
धुन्धुमसुरं मारयति धुन्धुमारः ॥ १ ॥ कुवलं कुवलयं तद्वर्णा अश्वा अस्य
कुवलाश्वः ॥ २ ॥
हरिश्चन्द्रस्त्रिशङ्कुजः ।
C हरिश्चन्द्र इव आह्लादकोsस्य हरिश्चन्द्रः, वर्चस्कादित्वात् साधुः ॥ १ ॥ त्रिशङ्कोर्जातस्त्रिशङ्कुजः ॥ २ ॥
पुरूरवा बौध एल
उर्वशीरमणश्च सः || ३६५ ॥
पुरू रौति पुरूरवाः " विहायस्सुमनस्- " ॥ ( उणा - ९७६ ) ॥ इत्यि निपात्यते ॥ १ ॥ बुधस्यायं बौधः ॥ २ ॥ इलाया अपत्यमैलः, शिवादित्वादण् ॥ ३ ॥ उर्वश्या रमण उर्वशीरमणः || ४ | ३६५ ॥
दौप्यन्तिर्भरतः सर्वेदमः शकुन्तलात्मजः ।
दुष्यन्तस्यापत्यं दौष्यन्तिः ॥ १ ॥ बिभर्ति पृथ्वीं भरतः ॥ २ ॥ सर्वान् दमयति सर्वन्दमः, सर्वदमनोऽपि ॥ ३ ॥ शकुन्तलाया आत्मजः शकुन्तलात्मजः ॥४॥ हैहयस्तु कार्तवीर्यो दोःसहस्रभृदर्जुनः ॥ ३६६ ॥
हैहयस्यापत्यं वृद्धं हैहयः ।। १ ॥ कृतवीर्यस्यापत्यं कार्तवीर्यः " ऋषिवृष्णि" - ।। ६ । १ । ६१ ।। इत्यण् ॥ २ ॥ दोः सहस्रं बिभर्ति दोः सहस्रभृत् ॥ ३ ॥ अर्जति कीर्तिमर्जुनः “ यम्यजि - ” ॥ ( उणा - २८८ ) ॥ इत्युनः । मान्धातादयोऽमी लोके षट् चक्रवर्तित्वेन प्रसिद्धाः; यदाहुः
"
" मान्धाता धुन्धुमारश्च हरिश्चन्द्रः पुरूरवाः. ।
भरतः कार्तवीर्यश्च षडेते चक्रवर्तिनः " ॥ ४ ॥ ३६६ ॥
कौशल्यानन्दनः दाशरथी रामः
कौशल्याया नन्दनः कौशल्यानन्दनः || १|| दशरथस्यापत्यं दाशरथिः ॥ २ ॥ रमते रामः, रामचन्द्रैकदेशो वा, रामभद्रोऽपि ॥ ३ ॥
अस्य तु प्रिया ।
वैदेही मैथिली सीता जानकी धरणीसुता || ३६७ ॥
अस्य रामस्य प्रिया भार्या विदेहस्य राज्ञोऽपत्यं वैदेही “ राष्ट्रक्षत्रिया
॥ ६ ॥ १ ॥ ११४ ॥ इत्यन् ॥ १ ॥ मिथिलायां भवा मैथिली ॥ २ ॥ सिनोति सतीत्वं सीता “ मुसितनि- " ॥ ( उणा - २०३ ) ॥ इति तः, दीर्घश्च; सीता हलरेखा तद्भवत्वाद् वा ॥ ३ ॥ जनकस्यापत्यं जानकी ॥ ४ ॥ धरण्याः पृथिव्याः सुता धरणीसुता ॥ ५ ॥ ३६६ ॥
"
Page #283
--------------------------------------------------------------------------
________________
२८३
--- ३ मर्त्यकाण्डः । । रामपुत्रौ कुशलवावेकयोक्त्या कुशीलवौ । '
रामस्य पुत्रौ रामपुत्रौ, कुशः कुश्यति कुशनिर्मितत्वाद्वा ॥१॥ लुनाति शत्रून् लवः, द्वावप्येकेन वचसा कुशश्च लवश्च कुशीलवौ, राजदन्तादित्वात्साधुः ॥ २ ॥
सौमित्रिर्लक्ष्मणः सुमित्राया अपत्यं सौमित्रिः, बाह्वादित्वादिञ् ॥ १॥ लक्ष्मीरस्त्यस्य ल. क्ष्मणः ॥ २॥
. वाली वालिरिन्द्रसुतश्च सः ॥ ३६८॥
वालाः सन्त्यस्य वाली ॥ १ ॥ वालयतीति वालिः " खरेभ्य इः” ॥ (उ. णा-६०६) ॥२॥ इन्द्रस्य सुत इन्द्रसुतः, सुग्रीवाग्रजोऽपि ॥ ३ ॥ ३६८ ॥ ... आदित्यसूनुः सुग्रीवः ... आदित्यस्य सूनुरादित्यसूनुः ॥ १ ॥ शोभना ग्रीवाऽस्य सुग्रीवः ॥ २॥
हनुमान् वज्रकङ्कटः।
मारुतिः केशरिसुत आञ्जनेयोऽर्जुनध्वजः ॥ ३६९ ॥ हनुरस्त्यस्य हनुमान् “घञ्युपसर्गस्य बहुलम् " ॥ ३ । २ । ८६ ॥ इति दीर्घत्वे हनूमानपि ॥ १ ॥ वज्रमयः कङ्कटोऽस्य वज्रकङ्कदः ॥२॥ मास्तस्यापत्यं मारुतिः ॥ ३ ॥ केशरिणः कपेः सुतः केशरिसुतः ॥ ४ ॥ अञ्जनाया . अपत्यमाञ्जनेयः ॥ ५ ॥ अर्जुनस्य पार्थिवस्य ध्वजाऽर्जुनध्वजः ॥ ६ ॥ ३६९ ॥
पौलस्त्यो रावणो रक्षो-लकेशो दशकन्धरः । पुलस्तेरपत्यं वृद्धं पौलस्त्यः, गर्गादित्वाद् यञ् , पुलस्त्यस्यापत्यमिति वा " ऋषिवृष्णि-" ॥ ६।१६१ ॥ इत्यण् ॥ १ ॥ विश्रवसोऽपत्यं रावणः " णश्च विश्रवसो विश्लुक् च " ॥ ६।१।६५ ॥ इति णे साधुः, रावयति लोकानिति वा॥२॥ रक्षसां लङ्कायाश्चेशो रक्षईशः, लङ्केशः, यौगिकत्वाद् राक्षसेशः, लङ्कापतिः ॥३॥४॥ दश कन्धरा अस्य दशकन्धरः, दशास्य-दशशिरो-दशकण्ठा अपि ॥ ५॥ ...
रावणिः शक्रजिद् मेघनादो मन्दोदरीसुतः ॥ ३७० ॥ ... रावणस्यापत्यं रावणिः ॥ १॥ शक्रं जितवान् शक्रजित् ॥ २ ॥ मेघस्येव नादोऽस्य मेघनादः ॥ ३ ॥ मन्दोदर्याः सुतः मन्दोदरीसुतः ॥ ४ ॥ ३७० ॥ ..
अजातशत्रुः शल्यारिधर्मपुत्रो युधिष्ठिरः ।
कङ्कोऽजमीढः न जाताः शत्रवोऽस्य अजातशत्रुः ॥ १॥ शल्यस्य राज्ञोऽरिः शल्यारिः॥२॥
Page #284
--------------------------------------------------------------------------
________________
२८४
अभिधानचिन्तामणौ
धर्मस्य पुत्रो धर्मपुत्रः ॥ ३ ॥ युधि स्थिरो युधिष्ठिरः “गवियुधेः-" ॥२॥३॥२५॥ इति षत्वम् , सप्तम्यलक् च ॥४॥ कङ्को ब्राह्मणलिङ्गत्वात् , यद्गौड:-"कृतान्त लोह पृष्ठे च कङ्को ब्राह्मणलिङ्गिनि" । युधिष्ठिरो हि ब्राह्मणच्छद्मना विराटावासेऽवात्सीत्, इति ॥ ५ ॥ अजास्त्रिवार्षिका यवा मीढा अनेन अजमीढः ॥ ६ ॥
भीमस्तु मरुत्पुत्रो वृकोदरः ॥ ३७१ ॥ किरि-कीचक-बक-हिडिम्बानां निसूदनः । बिभ्यत्यस्मादिति भीमः ॥ १ ॥ मरुतो वातस्य पुत्रो मरुत्पुत्रः ॥२॥ पको भीमजठराग्निः स उदरेऽस्य वृकोदरः ॥३॥३७१॥ किरति किर्मीरः “ जम्वीराभीर-" ॥ (उणा-४२२) ॥ इति ईरे निपात्यते । कच्यते बध्यते भीमेन कीचकः "कीचकपेचक-" ॥ ( उणा-३३ ) ॥ इत्यके निपात्यते । बक इव शाठयेन बकः हिण्डते वनमध्ये हिडिम्बः “ हिडिविलेः किम्बो नलुक् च " ॥ (उणा-३२४ ) ॥ इति साधुः । तेषां निसूदनः किरिनिसूदना, कीचकनिसूदनः, वृकनिसूदनः, हिडिम्बनिसूदनः यौगिकत्वात् किर्मीरारिरित्यादयोऽपि॥ ४ ॥ ५॥ ६ ॥ ७ ॥ ... अर्जुनः फाल्गुनः पार्थः सव्यसाची धनञ्जयः ।। ३७२ ॥
राधावेधी किरीट्यन्द्रिर्जिष्णुः श्वेतहयो नरः । बृहन्नटो गुडाकेशः सुभद्रेशः कपिध्वजः ॥ ३७३ ॥
बीभत्सुः कर्णजित्
अर्जति कीर्तिमर्जुनः ॥ १॥ फलति फल्गुनः “ फलेोऽन्तश्च" ॥ (उणा२९१) । इत्युनः, प्रज्ञादित्वात्स्वार्थेऽणि फाल्गुनः; फल्गुन्योर्जात इति वा ॥ २ ॥ पृथायाः कुन्त्या अयं पार्थः ॥ ३ ॥ सव्येनापि सचते बाणान् वर्षति सव्यसाची ॥४॥धनं गोधनं विराटनगरे कौरवेभ्यो जयति धनञ्जयः "भृवृजि-"||५।१।११२॥ इति खः ॥ ५॥ ३७२ ।। राधां वेध्यविशेष वेधयति राधावेधी ॥ ६॥ किरीटमस्त्यस्य किरीटी ॥ ७ ॥ इन्द्रस्यापत्यमैन्द्रिः ॥ ८ ॥ जयनशीलो जिष्णुः ॥ ९ ॥ श्वेता हया अस्य श्वेतहयः ॥ १० ॥ नृणाति नरः ॥ ११ ॥ बृहंश्चासौ नटश्च बृहन्नटः, विराटगृहे छद्मना नाट्याचार्योऽसावभूदिति प्रसिद्धिः ॥ १२ ॥ गुडा गुटिका तदाकाराः केशा अस्य गुडाकेशः ॥ १३ ॥ सुभद्राया ईशः पतिः सुभद्रेशः ॥१४॥ कपिर्ध्वजोऽस्य कपिध्वजः ॥ १५ ॥ ३७३ ॥ बीभत्सते बीभत्सः, बीभत्सुरपि ॥१६॥ कर्ण जितवान् कर्णजित् , यौगिकत्वात् कर्णारिरित्यादयोऽपि ॥१७॥ शेषश्चात्र
अर्जुने विजयश्चित्रयोधी चित्राङ्गसूदनः। योगी धन्वी कृष्णपक्षो नन्दिघोषस्तु तद्रथः ॥ .
Page #285
--------------------------------------------------------------------------
________________
३ मर्यकाण्डः।
२८५
• ग्रन्थिकस्तु सहदेवो नकुलस्तन्तिपालकः।। माद्रेयाविमौ, कौन्तेया भीमार्जुनयुधिष्ठिराः ॥
द्वयेऽपि पाण्डवेयाः स्युः पाण्डवा पाण्डवायनाः॥ तस्य गाण्डीवं गाण्डिवं धनुः । तस्यार्जुनस्य धनुर्गाण्डीवम् , गाण्डी धनुष्पर्व साऽस्त्यस्य गाण्डीवम् , गाण्डिरस्त्यस्य गाण्डिवम् , मण्यादित्वाद् वः, पुंक्तीबलिङ्गावेतौ ॥ १ ॥ २ ॥
पाञ्चाली द्रौपदी कृष्णा सैरन्ध्री नित्ययौवना ॥ ३७४ ॥
वेदिजा याज्ञसेनी च पञ्चालस्य राज्ञोऽपत्यं पाञ्चाली “राष्ट्रक्षत्रिया-" ॥ ६।१।११४ ॥ इत्यञ् ॥१॥ द्रुपदस्य राज्ञोऽपत्यं द्रौपदी ॥ २ ॥ कर्षति मनः कृष्णा, वर्णेन वा ॥ ३ ॥ विराटगृहे सैरन्ध्रीकर्मकारित्वात्सैरन्ध्री ॥ ४॥ नित्यं यौवनमस्या नित्ययौवना ॥ ५ ॥ ३७४ ॥ यज्ञवेदेर्जाता वेदिजा ॥ ६ ॥ यज्ञसेनस्यापत्यं याज्ञसेनी ॥ ७ ॥
कर्णश्चम्पाधिपोऽङ्गराट् ।
राधा-सूता-ऽर्कतनयः किरति शत्रूनिति कर्णः ॥ १ ॥ चम्पाया नगर्या अधिपः चम्पाधिपः ॥२॥ अङ्गानां जनपदस्य राजा अङ्गराट् ॥३॥ राधायाः, सूतस्य, अर्कस्य च तनयो राधातनयः, सूततनयः, अर्कतनयः, यौगिकत्वाद् राधेय इत्यादयः ॥ ४ ॥ ५ ॥ ६ ॥
- कालपृष्ठं तु तद्धनुः ॥ ३७५ ॥ तस्य कर्णस्य धनुः, कालः पृष्ठेऽस्य कालपृष्ठम् ॥ १॥ ३७५ ॥
श्रेणिकस्तु भम्भासारः श्रेणीः कायति श्रेणिको मगधेश्वरः ॥१॥भम्भा जयढक्कैव सारमस्य भम्भासारः ॥२॥
हालः स्यात् सातवाहनः । हलत्यरातिहृदयं हालः, ज्वलादित्वाण्णः॥१॥ सातं दत्तसुखं वाहनमस्य सातवाहनः, सालवाहनोऽपि ॥ २॥
कुमारपालश्चौलुक्यो राजर्षिः परमार्हतः ॥ ३७६ ॥
मृतखमोक्ता धर्मात्मा मारिव्यसनवारकः । - कुमारान् शिशूनिव प्रजाः पालयतीति कुमारपालः, मयूरव्यंसकादित्वात् समासे साधुः, कुं पृथ्वीं मां लक्ष्मी च अरमत्यर्थ पालयति वा कुमारपालः ॥ १॥ चुलु
Page #286
--------------------------------------------------------------------------
________________
२८६
अभिधानचिन्तामणी
कस्यापत्यं चौलुक्यः, गर्गादित्वाद् यञ्, चुलुके भवश्चु लुक्यस्तस्यायमिति वा ॥२॥ राजते सप्ताङ्गराज्येनेति राजा, क्षमादिगुणधारणादृषिः, राजा चासौ ऋषिश्व राजर्षिः ॥३॥ अर्हन् देवताऽस्य आर्हतः, परमः क्षमादिगुणधारणात् स चासावार्हतश्च परमार्हतः ॥४ ॥ ३७६ ॥ मृतस्य स्वं मृतस्वं निर्वीराद्रविणं तद् मुञ्चति न गृह्णाति मृतस्वमोक्ता ॥५॥ अहिंसादिलक्षणो धर्मः स एव आत्माऽस्य धर्मात्मा ॥ ६ ॥ मारिं प्राणिवधं व्यसनानि मृगयाद्यूतमद्यपानादीनि च सर्वथा लोके वारयति निषेधयति मारिवारकः,
व्यसनवारकः ॥ ७ ॥
राजबीजी राजवंश्यः
राजबीजमस्त्यस्य राजबीजी ॥ १ ॥ राजवंशे साधुः राजवंश्यः ॥ २ ॥ बीज्यवंश्यौ तु वंशजे ॥ ३७७ ॥
बीजे साधुर्बीज्यः, यथा सूर्यबीज्यो रामः ॥ १ ॥ वंशे साधुः, वंश्यः ॥ २ ॥ ३७७ ॥
स्वाम्यमात्यः सुहृत्कोशो राष्ट्रदुर्गबलानि च ।
राज्याङ्गानि प्रकृतयः
स्वामी राजा, अमात्यो मन्त्री, सुहृद् मित्रम्, कोशो माण्डागारः, राष्ट्रं जनपदः, दुर्गे कः, बलं सैन्यम्, एतानि सप्त राज्यस्याङ्गान्यारम्भकाणि राज्याङ्गानि, प्रक्रियत आभिरिति प्रकृतयः ॥ १ ॥
पौराणां श्रेणयोऽपि च ॥ ३७८ ॥
भवो वा
एकमुख्यः सजातीयसमूहः श्रेणिः, प्रकृतयो राज्याङ्गानीत्येव, यत्कात्यः“अमात्याद्याश्च पौराश्च सद्भिः प्रकृतयः स्मृताः" इति ॥ ॥ ३७८ ॥
तन्त्रं स्वराष्ट्रचिन्ता स्यात्
तन्यते तन्त्रं “हुयामा - " ॥ ( उणा - ४५१ ) ॥ इति त्रः, तन्त्र्यते वा, स्वराष्ट्रस्य रक्षणपोषणादिका चिन्ता ॥ १ ॥
आवापस्त्वरिचिन्तनम् |
आ उप्यते आवापः, सन्ध्यादिषाड्गुण्येन परमण्डलचिन्ता ॥ १ ॥
परिस्यन्दः परिकरः परिवारः परिग्रहः || ३७९ ॥ परिच्छदः परिवर्हस्तन्त्रोपकरणे अपि ।
परिस्यन्दते परिस्यन्दः ॥ १ ॥ परिकीर्यते, परिकरोति वा परिकरः ॥ १ ॥ परिवार्यतेऽनेन, परिवारयति वा परिवारः ॥ ३ ॥ परिगृह्यते परिग्रहः ॥ ४ ॥३७९ ॥ परितश्छाद्यतेऽनेन परिच्छदः " पुंनाम्नि - " ॥ ५।३।१३० ॥ इति घे “ एकोप
Page #287
--------------------------------------------------------------------------
________________
३ मर्त्यकाण्डः।
२८७
सर्गस्य-" ॥ ४॥२॥३४ ॥ इति ह्रखः ॥ ॥ ५॥ परिवहति वर्धते, परिवहते प्राधान्यं भजति, हिनस्ति वा, परिवहत्युद्यच्छते वाऽनेन परिवर्हः परिवहणमपि ॥ ६॥ तन्यते तन्त्रम् ॥ ७ ॥ उपक्रियतेऽनेनोपकरणम् , परिजनोऽपि ॥ ८॥
राजशय्या महाशय्या राज्ञः शय्या राजशय्या ॥ १ ॥ महती चासौ शय्या च महाशय्या ॥ २ ॥
भद्रासनं नृपासनम् ॥ ३८० ॥ भद्रस्यासनं, भद्रं रूप्यादिमयं वा आसनं भद्रासनम् ॥ १॥ ३८॥
सिंहासनं तु त? तद् नृपासनं हेम्नो विकारो हैमम् , हेमादित्वाद, सिंहोपलक्षितमासनं सिंहासनम् ॥ १॥
छत्रमातपवारणम् । छाद्यतेऽनेन छत्रं त्रिलिङ्गः “त्रद्" ॥ ( उणा-४४६ ) ॥ इति त्रट् “ छदेरिस्मन्-" ॥४ । २ । ३३ ॥ इति इखः ॥ १॥ आतपो वार्यतेऽनेन आतपवारणम् , आतपत्रोष्णवारणादयोऽपि ॥२॥
शेषश्चात्र- राजश्छत्रे नृपलक्ष्म ॥
चामरं वालव्यजनं रोमगुच्छः प्रकीर्णकम् ॥ ३८१ ॥ चर्या इदं चामरम् ॥ १॥ वालानां व्यजनं वालव्यजनम् ॥ २ ॥ रोम्णां : गुच्छो रोमगुच्छः ॥ ३ ॥ प्रकीर्यते विक्षिप्यते प्रकीर्णकम् ॥ ४ ॥३८१ ॥
शेषश्चात्र- चमरः स्यात्तु चामरे ॥
स्थगी ताम्बूलकरङ्कः स्थग्यतेऽनया स्थगी ॥ १ ॥ ताम्बूलस्य करङ्कः स्थानं ताम्बूलकरङ्गः ॥२॥
भृङ्गारः कनकालुका। प्रियते भृङ्गारः "द्वारशृङ्गार-" ॥ (उणा-४११) ॥ इत्यारे निपात्यते ॥१॥ कनकस्यालः कनकालः, के कनकालुका ॥ २ ॥
.. भद्रकुम्भः पूर्णकुम्भः भद्रार्थ, भद्रार्थो वा कुम्भो भद्रकुम्भः ॥१॥ पूर्णश्वासौ कुम्भश्च पूर्णकुम्भः॥२॥
पादपीठं पदासनम् ॥ ३८२ ॥ पादयोः पीठं पादपीठम् ॥१॥ पदयोरासन पदासनम् ॥२॥ ३८२ ॥
अमात्यः सचिवो मन्त्री धीसखः सामवायिकः ।
Page #288
--------------------------------------------------------------------------
________________
२८८
अभिधानचिन्तामणौ- .
__अमा सह, समीपे वा भवोऽमात्यः “केहामात्रतस-" ॥ ६ । ३ । १६ ॥ . इति त्यच् , अमा सह अततीति वा ॥ १ ॥ सचते धिया समवैति सचिवः “पलिसचेरिवः" ॥ (उणा- ५२२) ॥ २ ॥ मन्त्रः कर्तव्यावधारणमस्त्यस्य मन्त्री ॥३॥ धिया सखा धीसखः “राजन्सखः” ॥ ७ । ३ । १०६ ॥ इत्यत्समासान्तः, बुद्धिसहायोऽपि ॥ ४ ॥ समवायेन चरति सामवायिकः ॥ ५॥
नियोगी कर्मसचिव आयुक्तो व्यापृतश्च सः ॥ ३८३ ॥ . नियोगोऽस्त्यस्य नियोगी ॥ १॥ कर्मसु सचिवः कर्मसचिवः, कर्मसहायः॥२॥ आयुज्यते स्म आयुक्तः ॥ ३ ॥ व्याप्रियते स्म व्यापृतः ॥ ४ ॥ ३८३ ॥ . '
द्रष्टा तु व्यवहाराणां प्राड्विाकोऽक्षदर्शकः । द्रष्टा निर्णता व्यवहाराणां ऋणादानादिन्यायानां, पृच्छतीत्येवंशील: प्राद "दिद्यद्दद्द-" ॥ ५। २ । ८३ ॥ इति क्विपि निपात्यते, प्राट् चासौ विविधवाकश्च प्राविवाकः ॥१॥ अक्षान् व्यवहारान् पश्यति अक्षदर्शकः ॥ २॥ शेषश्चात्र- स्याद् न्यायद्रष्टरि स्थेयः॥
महामात्राः प्रधानानि महती मात्रा परिच्छद एषां महामात्राः ॥१॥ प्रधीयते एप्विति प्रधानानि, अमात्यपुरोहितसेनापत्यादयः, आविष्टलिङ्गोऽयम् ॥ २ ॥
पुरोधास्तु पुरोहितः ॥ ३८४ ॥
सौवस्तिकः पुरोधीयते पुरोधीः " वयःपयःपूरोरेतोभ्यो धागः " ॥ (उणा- ९७४) इत्यस् ॥ १ ॥ पुरोधीयते हिनोति स्म पुरोहितः ॥ २ ॥ ३८४ ॥ स्वस्तीति ब्रूते सौवस्तिकः, प्रभूतादित्वादिकणि द्वारादित्वादौकारागमः ॥ ३ ॥
अथ द्वारस्थः क्षत्ता स्याद द्वारपालकः ।
दौवारिकः प्रतीहारो वेव्युत्सारकदण्डिनः ॥ ३८५ ॥ द्वारे तिष्ठतीति द्वारस्थः “स्थापास्त्रात्रः-" ॥ ५। १ । १४२ ॥ इति कः, द्वाःस्थद्वास्थितावपि ॥ १॥ क्षदः सौत्रः, क्षदति संवृणोति द्वारं क्षत्ता "त्वष्टक्षत्तु-" ॥ (उणा-८६५) ॥ इति तृः ॥ २ ॥ द्वारं पालयति द्वारपालः, के द्वारपालकः ॥३॥ द्वारे नियुक्तो दौवारिकः " तत्र नियुक्ते” ॥ ६ । ४ । ७४ ॥ इतीकणि द्वारादित्वादौकारागमः ॥ ४ ॥ प्रतिहियते वार्यतेऽनेन प्रतिहारः “घञ्युपसर्गस्य-" ॥ ३ । २ । ८६ ॥ इति दीर्घत्वे प्रतीहारः ॥ ५॥ वेत्रं दण्डोऽस्त्यस्य वेत्री, वेत्रधरोऽपि ॥ ६ ॥ उत्सारयत्युत्सारकः ॥ ७ ॥ दण्डोऽस्त्यस्य दण्डी ॥ ८ ॥ ३८५ ॥
शेषश्चात्र- द्वाःस्थे द्वाःस्थितदर्शकः ॥
Page #289
--------------------------------------------------------------------------
________________
३ मकाण्डः ।
२८९
रक्षिवर्गेऽनीकस्थः स्यात्
रक्षन्त्यवश्यं रक्षिणोऽङ्गरक्षकास्तेषां वर्गों वृन्दं रक्षिवर्गस्तत्र, अनीकेन तिष्ठत्यनीकस्थः ॥ १ ॥
अध्यक्षाधिकृतौ समौ ।
अधिकृतोऽक्षेष्वायमुखेष्वध्यक्षः, आयमध्यक्ष्णोति व्याप्नोति वा, अधिकान्यक्षीणीन्द्रियाण्यस्य वा ॥ १ ॥ अधिक्रियते उपरि नियुज्यते स्म अधिकृतः ॥ २ ॥ पौरोगवः सुदाध्यक्षः
पुरो गौर्जलमस्स्यां पुरोगू रसवती, तस्यामयमध्यक्षः पौरोगवः ॥ १ ॥ सूदानामध्यक्षः सूदाध्यक्षः ॥ २ ॥
सूदस्त्वौदनिको गुणः ॥ ३८६ ॥
भक्तकारः सूपकारः सूपारालिकवल्लवाः ।
सूदयति तन्दुलान् सूदः ॥ १ ॥ ओदने नियुक्त औदनिकः " तत्र नियुक्ते " ॥ ६।४।७४ ॥ इतीकण, ओदने साधुरिति वा, कथादित्वादिकण्, ओदनाय शक्त इति वा "तस्मै योगादेः - " ॥ ६ । ४ । ९४ ॥ इतीकण् ॥ २॥ गुणयति गुणः ॥ ३॥ ३८६ ॥ भक्तं करोति भक्तकारः ॥ ४ ॥ सूपं करोति सूपकारः ॥ ५ ॥ सुनोत्यन्नं सूपः “युसुकु -” ॥ (उणा--२९७ ) ॥ इति पः, ऊत्वं च ॥ ६ ॥ आरालं शिल्पमस्यारालिकः“शिल्पम्” ॥ ६ । ४ । ५७ ॥ इतीकण् ॥ ७॥ वल्लते संवृणोति वल्लवः “वडिवटि--" ॥ ( उणा - ५१५ ) ॥ इत्यवः ॥ ८ ॥
भौरिकः कनकाध्यक्षः
भूरिणि हेनि नियुक्तो भौरिकः ॥१॥ कनकस्याध्यक्षः कनकाध्यक्षः ॥२॥ . हिरण्ये नियुक्तो निरुक्ताद् हैरिक इत्यन्ये ॥
रूप्याध्यक्षस्तु नैष्किकः ॥ ३८७ ॥
रूपमाहतमस्य रूप्यं दीनारादि तस्याध्यक्षो रूप्याध्यक्षः ॥ १ ॥ निष्के दीनारादौ नियुक्तो नैष्किकः, टङ्कपतिरपि ॥ २ ॥ ३८७ ॥
स्थानाध्यक्षः स्थानिकः स्यात्
सनस्य पञ्चानां दशानां वा प्रामाणां रक्षानियुक्तोऽध्यक्षः स्थानाध्यक्षः ॥ १ ॥ स्थाने नियुक्तः स्थानिकः ॥ २ ॥
शुल्काध्यक्षस्तु शौल्किकः ।
शुल्कस्याध्यक्षः शुल्काध्यक्षः ॥ १ ॥ शुल्के नियुक्तः शौल्किकः ॥ २ ॥ शुल्कस्तु घट्टादिदेयं
Page #290
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणौ
शलति शवति वा सुखेन यात्यनेन शुल्क: पुंक्लीबलिङ्गः “ निष्कतुरुष्क - " ॥ ( उणा - २६ ) ॥ इति के निपात्यते, घटन्तेऽनेन, घट्टयति वा घट्टो नदीतरस्थानम्, आदिशब्दाद् गुल्मप्रतोल्यादि, ततः प्रवेश्य निःसार्य द्रव्येभ्यो राजग्राह्यो भागोऽत्र दौ दीयते घट्टादिदेयम् ॥ १ ॥
धर्माध्यक्षस्तु धार्मिकः ॥ ३८८ ॥
धर्माधिकरणी च
२९०
धर्मस्याध्यक्षो धर्माध्यक्षः ॥ १ ॥ धर्मे नियुक्तो धार्मिकः ॥ २ ॥ ३८८ ॥ धर्मेऽधिकारोऽस्त्यस्य धर्माधिकरणी ॥ ३ ॥
अथ हृट्टाध्यक्षोऽधिकर्मिकः ।
हट्टेष्वध्यक्षो हृट्टाध्यक्षः ॥ १ ॥ अध्युपरि कर्म अस्यास्ति अधिकर्मिकः, व्रीह्यादित्वादिकः ॥ २ ॥
चतुरङ्गबलाध्यक्षः सेनानीर्दण्डनायकः ॥ ३८९ ॥
"
चतुरङ्गस्य हस्त्यश्वरथपदातिलक्षणस्य बलस्याध्यक्षश्चतुरङ्गबलाध्यक्षः ॥ १ ॥ सेनां नयति ईष्टे सेनानीः “ क्विप् ” ॥ ५ । १ । १४८ ॥ इति क्विप् ॥२॥ दण्ड सैन्यं नयति दण्डनायकः ॥ ३ ॥ ३८९ ॥
स्थायुकोऽधिकृतो ग्रा
ग्रामेऽधिकृतो प्रामाध्यक्षः, तिष्ठत्येवंशीलः स्थायुकः “शुकमि -" ॥५॥२१४०॥ इत्युकण् ॥ १ ॥
गोपो ग्रामेषु भूरिषु ।
बहुषु प्रामेषु अधिकृतो गां भुवं पाति गोपः, गोपायतीति वा ॥ १ ॥ स्यातामन्तः पुराध्यक्षेऽन्तवै शिकावरोधिका ॥ ३९० ॥
"
अन्तःपुरेष्वधिकृतोऽन्तःपुराध्यक्षस्तत्र वंशस्यान्तरन्तवंश कुलस्त्रियः ताः सन्त्यस्यान्तर्वेशिकः, आन्तर्वेश्मिकोऽपि ॥१॥ अवरोधे नियुक्त आवरोधिकः, आन्तःपुरिकोऽपि ॥ २ ॥ ३९० ॥
अध्यक्षशेषश्चात्र
क्षुद्रोपकरणानां स्यादध्यक्षः पारिकर्मिकः ।
पुराध्यक्ष कोहपतिः पौरिको दाण्डपाशिकः ॥
शुद्धान्तः स्यादन्तः पुरमवरोधोऽवरोधनम् ।
शुद्धाः शुचयः सौविदल्ला अन्तेऽस्य शुद्धान्तः, पुंक्लीबलिङ्गः ॥ १ ॥ अन्तर्गत पुरस्य गृहस्यान्तःपुरम् ॥ २ ॥ अवरुध्यतेऽवरोधः, भुज्यादित्वात् कर्मण्यनव्यवरोधनम्, एते एकपुरुषपरिगृहीते स्त्रीसमुदाये वर्तन्ते, तन्निवासे तूपचारात् ॥ ३ ॥४॥
Page #291
--------------------------------------------------------------------------
________________
३ मयंकाण्डः ।
२९१ सौविदल्लाः कञ्चुकिनः स्थापत्याः सौविदाश्च ते ॥ ३९१ ॥ सुष्ठु विदन्त्यन्तःपुरव्यापार सौविदल्लाः “ भिल्लाच्छभल्ल-" ॥ ( उणा४६४ ) ॥ इति ले निपात्यते, सुविदन्दं सुविवाहं जानन्तं लान्ति सुविदल्ला ऊढाः स्त्रियस्तत्र भवा इति वा ॥ १॥ कञ्चुकं विनीतवेषार्थमस्त्येषां कञ्चुकिनः ॥ २ ॥ कुलस्त्रीयवस्थया स्थापयन्ति स्थपतयः, स्थपतय एव स्थापत्याः,भेषजादित्वाट ट्यण , यद्वा तिष्ठन्त्यस्मिन्निति स्थादित्वात्के स्थो वासः स्थश्चासौ पतिश्च स्थपतिस्तत्र भवः " अनिदम्य-" ॥ ६॥१५ ॥ इति ज्यः, स्थापयन्तीति वा "शिक्यास्याढ्य-" ॥ ( उणा-३६४ ) ॥ इति ये निपात्यते ॥ ३ ॥ सुविदस्योद्वोदरिमे सौविदाः कुब्जवामनादयः ॥ ४ ॥ ३९१ ॥
षण्ढे वर्षवरः . षण्ढो नपुंसकोऽत एवान्तःपुरपालकस्तत्र ॥१॥ वर्षे रेतःसेकं वृणोत्याच्छादयति वर्षवरः, 'कृषिण् शक्तिबन्धे' वर्षयते वा “जठर-" ॥ (उणा-४०३)॥ इत्यरे निपात्यते ॥ २॥
शत्रौ प्रतिपक्षः परो रिपुः । शात्रवः प्रत्यवस्थाता प्रत्यनीकोऽभियात्यरी ॥ ३९२ ॥ दस्युः सपत्नोऽसहनो विपक्षो द्वेषी द्विषन् वैर्यहितो जिघांसुः । दुहृत् परेः पन्थकपन्थिनौ द्विट्
प्रत्यर्थ्य मित्रावभिमात्यराती ॥ ३९३ ॥ - शीयते शातयतीति वा शत्रुः “जनिहनि-" (उणा- ८०९) ॥ इति रुः, ता. देशश्च तत्र ॥१॥ प्रतिकूलः पक्षः प्रतिपक्षः ॥ १॥ प्रियते परः ॥ ३ ॥ इयति रिपुः “कस्यतिभ्या-" ॥ ( उणा- ७९८) ॥ इतीपुक् ॥ ४ ॥ शत्रुरेव शात्रवः, प्रज्ञादित्वादण् ॥ ५ ॥ प्रतीपमवतिष्ठते प्रत्यवस्थाता ॥ ६॥ प्रतीपमनीकमस्य प्रत्यनीकः ॥ ५॥ अभिमुखं यातीत्यभियातिः "अभेर्यामाभ्याम्" ॥ (उणा६६३)॥ इत्यातिः ॥ ८॥ इयर्त्यरि; "स्वरेभ्य इ." ॥ (उणा-६०६)॥ ९॥३९२ ॥ दस्यते उपक्षीयते दस्युः “यजिशुन्धि-" ॥ (उणा-८०१) ॥ इति युः॥१०॥ सपल्यास्तुल्यः सपत्नः “अः सपल्याः"॥ ७।१।११९॥इति साधुः ॥ ११ ॥ न सहतेऽसहनः ॥१२॥ विरुद्धः पक्षो विपक्षः ॥१३॥ द्वेषणशीलो द्वेषी "युजभुज-" ॥५। २ ॥ ५० ॥ इति घिनण् ॥ १४ ॥ द्वेष्टीति द्विषन् “सुग्द्विषा-" ॥५॥२॥ २६ ॥ इति अतृश् ॥ १५ ॥ वैरमस्त्यस्य वैरी ॥ १६ ॥ न हितोऽहितः ॥ १७ ॥ हन्तुमिच्छर्जिघांसुः ॥ १८ ॥ दुष्टं हृदयमस्य दुहृद् “सु
Page #292
--------------------------------------------------------------------------
________________
२९२
अभिधानचिन्तामणौ--- हृदुहृद् मित्रामित्रे" ॥ ७ । ३ । १५७ ॥ इति हृदादेशः ॥ १९ ॥ परिशब्दा.. त्पन्थकपन्थिनौ, परितः पन्थयति गच्छति परिपन्थकः, परिपन्थी ॥ २०॥ २१ ॥ द्वेष्टीति द्विट् ॥ २२ ॥ प्रतीपमर्थयते प्रत्यर्थी ॥ २३ ॥ अमत्यमित्रः “बन्धिवहि. ॥ ( उणा- ४५९) ॥ इतीत्रः, न मित्रमिति वा, पुंलिङ्गोऽयम् ; असुहृदपि ॥२४॥ अभिमाति क्रुध्यत्यभिमातिः “अभर्यामाभ्याम्" ॥ (उणा-६६३) इत्यातिः ॥२५॥ इयर्त्यरातिः “वस्यर्तिभ्या-" ॥ (उणा- ६६२) ॥ इत्यातिः ॥ २६ ॥ ३९३ ॥
वैरं विरोधो विद्वेषः वीरैः कृतं वैरं "कृते" ॥ ६।३ । १९२ ॥ इत्यण् , वीरस्य कर्मेति वा ॥१॥ विरोधनं विरोधः ॥ २ ॥ विद्वेषणं विद्वेषः ॥ ३ ॥
वयस्यः सवयाः सुहृत् । ... स्निग्धः सहचरो मित्रं सखा
वयसा तुल्यो वयस्यः "हृद्यपद्य-" ७ । १।११ ॥ इति यः ॥१॥ समानं वयोऽस्य सवयाः “समानस्य -" ॥ ३ । २ । १४९ ॥ इति सभावः ॥ २ ॥ शोभनं हृदयमस्य सुहृत् “सुहृदुहृद्-" ॥ ७ ॥ ३ । १५७ ॥ इति हृदादेशः ॥३॥ स्निह्यति स्म स्निग्धः ॥ ४ ॥ सह चरति सहचरः, सहायोऽपि ॥ ५॥ मेद्यति स्नियति मित्रं "चिमिदि-" ॥ (उणा-४५४) ॥ इति कित् त्रः ॥ ६॥ सनोति सनति वा सखा “सनेडखिः" ॥ (उणा- ६२५) ॥ इति डखिः ॥ ७ ॥
___ सख्यं तु सौहृदम् ॥ ३९४ ॥
सौहार्द साप्तपदीनमैयजर्याणि संगतम् । सख्युर्भावः कर्म वा सख्यं “ सखिवणिग्दूताद्-" ७ ॥ १।६३ ॥ इति यः ॥१॥ सुहृदो भावः सौहृदं, युवादित्वादण् , बाहुलकादुत्तरपदस्य वृद्ध्यभावः ॥ २॥ ३९४॥ " हृद्भगसिन्धोः " ॥ ७ । ४ । २५ ॥ इत्युभयपदवृद्धौ सौहार्दम् ॥ ३॥ सप्तभिः पदैः क्रमैः, त्याद्यन्तैर्वाऽवाप्यते साप्तपदीनं “ समांसमीना-" ॥ ७।१। १०५ ॥ इतीनजि साधुः, सप्तभिः पदैरवाप्यते साप्तपदीनः सखाऽपि ॥ ४ ॥ मित्रस्य भावः कर्म वा मैत्र्यं “ पतिराजान्त-" ॥ ७ । १ । ६० ॥ इति व्यण् , टित्वाद् ड्यां मैत्री ॥ ५॥ न जीर्यत्यजये "संगतेऽजयम् ” ॥५। १॥ ५ ॥ इति ये साधुः ॥ ६॥ संगमनं संगतम् ॥ ७ ॥
आनन्दनं त्वाप्रच्छनं स्यात् सभाजनमित्यपि ॥ ३९५ ॥ आनन्द्यत आनन्दनम् ॥ १ ॥ आपृच्छयत आपृच्छनम् , आङ्पूर्वः प्रच्छिरालिङ्गनादिनाऽऽनन्दनार्थः, यथा- " आपृच्छस्व प्रियसखममुम्" इति ॥ २ ॥ सभाज्यते सभाजनम् ॥ ३ ॥ ३९५ ॥
Page #293
--------------------------------------------------------------------------
________________
३ मर्त्यकाण्डः।
२९३
विषयानन्तरो राजा शत्रुः विजिगीषोर्विषयाजनपदादनन्तरोऽव्यवहितो राजा शत्रुः ॥ १॥
मित्रमतः परम् । अतः शत्रोः परं परभूमिष्ठं विजिगीषोर्मित्रम् ॥ १ ॥
उदासीनः परतरः शत्रुमित्रयोभूमिभ्यः परतर ऊर्ध्वमासीन इवोदासीनस्तटस्थः ॥ १॥
पाणिग्राहस्तु पृष्ठतः ॥ ३९६ ॥ विजिगीषोः पश्चात् स्थितो राजा पाणिमिव पाणि पश्चाद्भागं गृह्णात्यवष्टनाति पाणिग्राहः, पञ्चस्वतेषु द्वादशराजमण्डलं समाप्तम् । यदाहुः
अरिमित्रममित्रं मित्रमित्रमतः परम् । तथारिमित्रं मित्रं च विजिगीषोः पुरः स्मृताः ॥ १ ॥ पाणिग्राहस्तथाक्रन्द आसारौ च तयोः पृथक् । मध्यमोऽथाप्युदासीन इति द्वादशराजकम्” ॥२॥ १॥ इति अनुवृत्तिस्त्वनुरोधः अनुवर्तनमनुवृत्तिरिच्छानुवर्तनमित्यर्थः ॥ १॥ अनुरोधनमनुरोधः ॥ २ ॥
हेरिको गूढपूरुषः । प्रणिधिर्यथार्हवर्णोऽवसर्पो मन्त्रविच्चरः ॥ ३९७ ।।
वार्तायनः स्पशश्चारः
हिनोति परराष्ट्रं गच्छति हेरिकः, “कुशिक-" ॥ ( उणा-४५) ॥ इतीके निपात्यते ॥ १॥ गूढश्चासौ पूरुषश्च गूढपूरुषः ॥ २॥ प्रकर्षण गुप्तो निधीयते प्रणिधिः ॥ ३ ॥ देशकालोचितो वर्ण आकारः, जातिवर्णनं वाऽस्य यथार्हवर्णः ॥४॥ अवच्छन्नः सर्पति अवसर्पः ॥५॥ मन्त्रं वेत्ति मन्त्रवित् ॥ ६ ॥ चरति चरः ॥ ७ ॥ ३९७ ॥ वार्तामयते वार्तायनः ॥ ८ ॥ 'स्पशिः सौत्रस्तालव्यान्तः,' स्पशति बाधते परान् स्पशः ॥ ९ ॥ चर एव चारः प्रज्ञादित्वादण् ॥ १० ॥
आप्तप्रत्ययितौ समौ । आप्यते स्म आप्तः, अविसंवादिवाक् ॥ १ ॥ प्रत्यय आश्वासः संजातोऽस्य प्रत्ययितः ॥ २ ॥
सत्रिणि स्याद् गृहपतिः
Page #294
--------------------------------------------------------------------------
________________
२९४
अभिधानचिन्तामणौ
सीदन्त्यस्मिन् सत्रं गृहं सर्वदादानं च, तदस्याऽस्ति सत्री तत्र ॥ १॥ गृहस्य पतिहपतिः ॥ २॥
दूतः संदेशहारकः ॥ ३९८ ॥ दूयतेऽनेन यथोक्तवादित्वात् पर इति दूतः "शीरी-" ॥ ( उणा-२०१)॥ इति कित्तः ॥ १॥ संदेशं मुखाख्यानं हरति संदेशहारकः ॥ २ ॥ ३९८ ॥
सन्धिविग्रहयानान्यासनद्वैधाश्रया अपि ।
षड्गुणाः सन्धानं सन्धिरेकत्वम् ॥ १॥ विरुद्धं ग्रहणं खस्थानात् परमण्डले दाहवि. लोपादि विग्रहः ॥१॥ यायते यानम् , यातव्यं प्रति यात्रा ॥१॥ आस्यते आसनंविग्रहादिनिवृत्तिः ॥१॥ द्वौ प्रकारौ द्विधा द्विधैव द्वैधमेकेन सन्धायान्यत्र यात्रेत्यर्थः' ।
. यद्वा
बलिनोषितोर्मध्ये वाचात्मानं समर्पयन् ।
द्वैधीभावेन वर्तेत काकाक्षिवदलक्षितः ॥ १॥ अशक्त्या बलवदाश्रयणमाश्रयः संश्रयाख्यः ॥ १ ॥ गुण्यन्ते गुणा राज्योपकारकाः ॥ १ ॥
शक्तयस्तिस्रः प्रभुत्वोत्साहमन्त्रजाः ॥ ३९९ ॥ शक्यते जेतुमाभिः शक्तयः प्रभुत्वादिभवास्तिस्रस्तत्र कोशदण्डसमृद्धिः प्रभुत्वशक्तिः ॥१॥ उद्यम्य सहनमुत्साहशक्तिः ॥१॥ मन्त्रः पञ्चाङ्गो मन्त्रशक्तिः ॥१॥३९९॥
सामदानभेददण्डा उपायाः । उपत्येभिरित्युपायाः सामादयश्चत्वारः ॥ १ ॥
साम सान्त्वनम् । स्यति वैरमनेन साम प्रियवचनादि, क्लीबलिङ्गः "स्यतेरी च वा" ॥ ( उणा९१५)॥ इति मन् , सामयति वा॥ १॥ सान्व्यतेऽनेन सान्त्वनम् ॥ २॥
उपजापः पुनर्भेदः उपांशु जपनमुपजापः ॥ १॥ संहितयोर्भेदनं भेदः ॥ २॥
दण्डः स्यात् साहसं दमः ॥ ४००॥ दण्डनं दण्डः पुंक्लीबलिङ्गः ॥ १ ॥ सहसि बले भवं साहसं क्लीबलिङ्गः' वैजयन्ती तु-“दण्डो दमः साहसोऽस्त्रि" इति पुंस्यप्याह ॥२॥ दमनं दमः ॥३॥४०॥
प्राभृतं ढौकनं लञ्चोत्कोचः कौशलिकामिषे ।.
Page #295
--------------------------------------------------------------------------
________________
३ मर्त्यकाण्डः ।
२९५ उपाचारः प्रदानं दाहारौ ग्राह्यायने अपि ॥ ४०१॥ प्रकर्षेण आराधनार्थ प्राऽऽभ्रियते ढौक्यते स्म प्राभृतम् ॥ १ ॥ ढौक्यते ढोकनम् ॥ २॥ लायते प्रच्छन्नं गृह्यते लञ्चा पुंस्त्रीलिङ्गः “कूर्चचूर्चा-" ॥(उणा-११३)। इति निपात्यते ॥ ३ ॥ उत्कुच्यते भाष्यत उत्कोचः, उत्कोचयति गुर्वपि कार्यमल्पीकरोति ॥ ४ ॥ कुशलं प्रयोजनमस्य कौशलिकम् ॥ ५॥ आमिषमिव आमिषंपरप्रतिलोभनात्, पुंक्लीबलिङ्गोऽयम्, अमत्यनेन खच्छभावं वा ॥६॥ उपशब्दाच्चारादयः शब्दाः , उपचर्यतेऽनेनोपचारः ॥ ७ ॥ उपप्रदीयते उपप्रदानम् ॥ ८ ॥ उपदीयतउपदा ॥ ९ ॥ उपह्रियते उपहारः ॥ १० ॥ उपगृह्यत उपग्राह्यः ॥ ११ ॥ उप समीपेऽयन्तेऽनेनोपायनम् ॥ १२ ॥ ४०१ ॥
मायोपेक्षेन्द्रजालानि क्षुद्रोपाया इमे त्रयः ।। माया रूपपरावर्तनादिका ॥१॥ उपेक्षाऽवधीरणम् ॥१॥ इन्द्रजालं मन्त्रद्रव्यहस्तप्रयोगादिनाऽसंभववद्वस्तुप्रदर्शनम् , क्षुद्रा अल्पा उपायाः ॥१॥
मृगयाऽक्षाः स्त्रियः पानं वाक्पारुष्याऽर्थदूषणे ॥ ४०२ ॥
दण्डपारुष्यमित्येतद् हेयं व्यसनसप्तकम् । मृगया पापर्द्धिः ॥१॥ अक्षाः पाशकास्ते च द्यूतोपलक्षणम् ॥१॥ स्त्रियः प्रसिद्धाः॥१॥पानं मद्यादेः।।१॥ वाचा पारुष्यं वाक्पारुष्यं कर्कशवचनत्वम्॥१॥अर्थस्य दूषमर्थदूषणं चतुर्धा- आदानम् , अदानम् , विनाशः, परित्यागश्चार्थस्य ॥१॥४.२॥ दण्डेन पारुष्यं दण्डपारुष्यम् , तीक्ष्णदण्डतो विशेषेणाऽस्यते क्षिप्यते चित्तमभिरिति व्यसनानि, तेषां सप्तकं तच्च राज्ञो हेयमिति प्रसङ्गादुक्तम् ॥ १ ॥
पौरुषं विक्रमः शौर्य शौण्डीय च पराक्रमः ॥ ४०३ ॥
पुरुषस्य भावः कर्म वा पौरुषं “पुरुषहृदया." ॥७॥११७०॥ इत्यण् ॥ १॥ विक्रमणं विक्रमः ॥ २ ॥ शूरस्य भावः कर्म वा. शौर्यम् ॥ ३ ॥ शौण्डीरस्य भावः कर्म वा शौण्डीर्यम् ॥ ४ ॥ पराक्रमणं पराक्रमः ॥ ५॥ ४०३ ॥
यत्कोशदण्डजं तेजः स प्रभावः प्रतापवत् । ... कोशदण्डजं.प्रभुत्वशक्तिभवं तेज उत्कटत्वम् , यद्भरतः
अधिक्षेपाऽपमानादेः प्रयुक्तस्य परेण यत् ।
प्राणात्ययेऽप्यसहनं तत्तेजः समुदाहृतम् ॥ १॥ प्रभवन्त्यनेन प्रभावो बाहुलकात् घञ् ॥ १ ॥ प्रतपन्त्यनेन प्रतापः ॥ २ ॥ - भिया धर्मार्थकामैश्च परीक्षा या तु सोपधा ॥४०४ ॥
Page #296
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणौ
भयधर्मार्थकामोपन्यासेनामात्यानामाशयान्वेषणम्, उपधीयते समीपे ढौ - क्यते परीक्षार्थमुपधा, यत्कौटिल्यः -- “ उपधाभिः शौचाशौचपरिज्ञानममात्यानाम्” इति ॥ १ ॥ ४०४ ॥
२९६
तन्मन्त्राद्यषडक्षीणं यत्तृतीयाद्यगोचरः ।
न षडक्षीण्यत्राषडक्षीणं मन्त्रक्रीडादि " अषडक्षाशितंग्वल - " ॥७।१।१०६ ॥ इतीनः ॥ १ ॥
रहस्याssलोचनं मन्त्रः
रहस्येकान्ते आलोच्यते आलोचनम्, मन्त्रणं मन्त्रः पञ्चाङ्गः, यत्कौटिल्यः“कर्मणामारम्भोपायः पुरुषद्रव्यसंपद्देशकालविभागो विनिपातप्रतीकारः कार्यसिद्धिश्वेति पञ्चाङ्गो मन्त्रः ॥ १ ॥
रहश्छन्नमुपह्वरम् ॥ ४०५ ॥ विविक्तविजनैकान्तनिःशलाकानि केवलम् ।
रहन्ति त्यजन्त्येतदिति रहः क्लीबलिङ्गः " अस् " ॥ ( उणा - ९५२ ) ॥ इत्यस्, अव्ययमपि ॥ १ ॥ छायते स्म छन्नम् ॥ २ ॥ उपह्वयत्युपह्वरं पुंक्लीबलिङ्गः ॥३॥४०५॥ विविच्यते पृथक् क्रियते स्म विविक्तम् ॥ ४ ॥ विगतो जनोऽस्माद्विजनम् ॥ ५ ॥ एको न तु द्वितीयोऽन्ते समीपेऽत्रैकान्तम् ॥ ६ ॥ निर्गतो शलाकाव्यथकोऽत्र निःशलाकम् ॥ ७ ॥ केव्यते सेव्यते निर्जनत्वात् केवलं मृदकन्दि( उणा - ४६५ ) ॥ इत्यलः । उपांश्वव्ययेषु वक्ष्यते ॥ ८ ॥
66
.
गुह्ये रहस्यं
66
गुह्यते गुह्यं “ कृषि - " || ५ | १|४२ ॥ इति क्यप् तत्र ॥ १ ॥ रहसि भवंरहस्यं दिगादित्वाद्यः ॥ २ ॥
न्यायस्तु देशरूपं समञ्जसम् ||४०६ ॥
कल्पाsश्रेषौ नयः
नियतमीयतेऽनेन न्यायः “न्यायाऽवाया- ” ॥५॥ ३|१३४ ॥ इति घञि निपात्यते ॥ १ ॥ दिश्यमानस्योचितस्य रूपं देशरूपम्, प्रशस्तं देशनं वा "त्यादेश्च प्रशस्ते रूपप्”।७।३।१०॥२॥ सम्यगञ्जसा सत्यमत्र समञ्जसम्, संगतमञ्जसानामृजूनामिति वा ॥३॥४०६॥ कल्पनं कल्पः सामर्थ्यम् ॥४॥ यथोचिताद् रूपाद् भ्रंशो भ्रेषः, नास्ति श्रेषोऽस्मिन्नभ्रेषः ॥ ५ ॥ नयनं नयः, नीतिरपि ॥ ६ ॥ 2. न्याय्यं तूचितं युक्तसाम्प्रते ।
लभ्यं प्राप्तं भजमानाभिनीतौपयिकानि च ॥ ४०७ ॥
Page #297
--------------------------------------------------------------------------
________________
३ मयंकाण्डः ।
२९७
न्यायादनपेतं न्याय्यं “ न्यायार्थादनपेते" ॥ ७।१।१३ ॥ इति यः ॥ १॥ उच्यते स्म उचितम् ॥ २ ॥ युज्यते स्म युक्तम् ॥ ३ ॥ सम्प्रति युज्यते साम्प्रतं " क्वचित् " ॥ ६।२।१४५ ॥ इत्यण् ॥ ४ ॥ लभ्यते लभ्यम् “ शकितकि-" ॥५।१।२९॥ इति यः ॥ ५ ॥ प्राप्यते स्म प्राप्तम् ॥ ६ ॥ भजते भजमानम् ॥७॥ अभिमुखं नीयते स्माभिनीतम् ॥ ८ ॥ उपाय एवौपयिकम् “उपायाद् ह्रखश्च" ॥७२।१७०॥ इति खार्थे इकणि साधुः, एते वाच्यलिङ्गाः ॥९॥४०७॥
प्रक्रिया त्वधिकारः प्रारम्भात् करणं प्रक्रिया ॥१॥ अधिक्रियते प्रस्तूयतेऽधिकारो व्यवस्थास्थापनमित्यर्थः ॥ २॥
अथ मर्यादा धारणा स्थितिः।
संस्था
मर्या इति सीमार्थेऽव्ययम् , तत्र दीयते मर्यादा ॥ १॥ धार्यतेऽनया धारणा ॥ २ ॥ स्थीयतेऽनया स्थितिः ॥ ३ ॥ संतिष्ठतेऽनया संस्था ॥ ४ ॥
अपराधस्तु मन्तुळलीकं विप्रियाऽऽगसी ॥४०८॥
अपराधनमपराधः ॥ १॥ मन्यते हृदि मन्तुः, पुंलिङ्गः “ कृसिकम्य-" ॥ ( उणा-७७३ ) ॥ इति तुन् ॥ २ ॥ विशेषेणाऽल्यते वार्यते व्यलीकं पुंक्लीवलिङ्गः "स्यमिकषि-" ॥ ( उणा-४६ ) ॥ इतीकः ॥ ३ ॥ विरुद्धं प्रियं विप्रियम् ॥ ४ ॥ अगति कुटिलं गच्छत्यनेनाऽऽगः क्लीबलिङ्गः " वस्त्यगिभ्यां णित् " ॥ ( उणा९७० ) ॥ इत्यस् ॥५॥४०८॥
बलिः करो भागधेयः - बलन्त्यनेन बलिः पुंस्त्रीलिङ्गः “ पदिपठि-" ॥ ( उणा-६०७ ) ॥ इतीः ॥१॥ कीर्यते क्रियते वा प्रत्येकं करः ॥२॥ भज्यते भागोंऽशः स एव भागधेयः स्त्रीपुंसलिङ्गः “ नामरूपभागा-" ॥७॥२।१५८॥ इति स्वार्थे धेयः, 'राजग्राह्यः षड्भागादिर्भागः' 'प्रत्येकं स्थावरजङ्गमाद् हिरण्यादानं करः' नियोग्युप‘जीव्या बलिरित्यवान्तरभेदोऽर्थशास्त्रोक्तोऽत्र नाश्रितः ॥ ३ ॥
.. द्विपाद्यो द्विगुणो दमः ।
द्वौ पादौ प्रमाणमस्य द्विपाद्यः “ पणपाद-" ॥ ६।४।१४८ ॥ इति यः, . द्विगुणो दमो दण्डः ॥ १॥
वाहिनी पृतना सेना बलं सैन्यमनीकिनी ॥ ४०९ ॥ कटकं ध्वजिनी तन्त्रं दण्डोऽनीकं पताकिनी ।
Page #298
--------------------------------------------------------------------------
________________
२९८
अभिधानचिन्तामणौ
वरूथिनी चमूश्चक्रं स्कन्धावारः
वाहाः सन्त्यस्यां वाहिनी ॥ १ ॥ ' पृङ्तू व्यायामे' प्रियते पृतना "पृभ्यां कित्” ॥ (उणा-२९३) ॥ इति तनः ॥ २ ॥ सिनोति सेना “ सेर्वा” ॥ ( उणा - २६२ )॥ इति नः, सह इनेन वर्तते वा ॥ ३ ॥ बलति प्राणिति बलम् ॥ ४ ॥ सेनैव सैन्यं भेषजादित्वात् द्यण् ॥ ५ ॥ अनीकं संग्रामोऽस्त्यस्यामनीकिनी ॥६॥४०९ ॥ कटत्यावृणोति पृथ्वीं कटकं पुंक्लीबलिङ्गः “दृकॄ-” ॥ ( उणा - २७ ) ॥ इत्यकः ॥ ७ ॥ ध्वजाः सन्त्यस्यां ध्वजिनी ॥ ८ ॥ तन्यते तन्त्रम् ॥ ९ ॥ दण्ड्यतेऽनेन दण्डः ॥१०॥ अनित्यनीकं पुंक्लीबलिङ्गौ " स्यमिकषि - " ॥ ( उणा - ४६ ) ॥ इतीकः ॥ ११ ।। पताकाः सन्त्यस्यां पताकिनी शिखादित्वादिन् ॥ १२ ॥ वरूथो रथगुप्तिरस्त्यस्यां वरूथिनी ॥ १३ ॥ चमत्यरीन् चमूः स्त्रीलिङ्गः “कृषिचमि " ॥ ( उणा - ८२९) ॥ इत्यूः ॥ १४ ॥ करोति चक्रं पुंक्लीबलिङ्गः "कृगो द्वे च " ॥ ( उणा - ७ ) ॥ इति किदप्रत्ययः ॥ १५ ॥ चतुरङ्गसैन्यस्य प्रधानभूतत्वाद् राजा स्कन्धः, तमावृणोति स्कन्धावारः, शिबिरमित्यन्ये ॥ १६ ॥
अस्य तु स्थितिः ॥ ४१० ॥
शिबिरम्
अस्य सैन्यस्य स्थितिः सन्निवेशः ॥ ४१० ॥ ' शव् गतौ तालव्यादिः, ' शवन्त्यत्र शिबिरं "शवशशेरिच्चातः ॥ ( उणा - ४१३ ) ॥ इतीरः ॥ १ ॥
"
रचना तु स्याद् व्यूहो दण्डादिको युधि ।
युद्धनिमित्तं सैन्यस्य दण्डाकृत्यादिभेदेन रचना, व्युह्यते रच्यते व्यूहो दण्डादिकः, आदिशब्दान्मण्डलादयः ।
यदाहुः—
“दण्डो मण्डलभागौ चाप्युच्छन्नश्चाबलो दृढः ।
""
व्यूहास्तेषां विशेषाः स्युश्चक्रव्यूहादयोऽपि च ॥१॥१॥ प्रत्यासारो व्यूहपाणिः
""
प्रत्यासरति भग्नान् प्रत्यासारः सर्तेः स्थिर- ” ॥ ५।३।१७ ॥ इति घञ् ॥ १ ॥ व्यूहस्य पाणिः पश्चाद्भागः ॥ २ ॥
सैन्यपृष्ठे प्रतिग्रहः ॥ ४११ ॥ प्रतिगृह्यतेऽवष्टभ्यतेऽनेन सैन्यं प्रतिग्रहः ॥ १ ॥ ४११॥ एकेभैकरथास्त्रयश्वाः पत्तिः पञ्चपदातिका । एक हस्त्यादियुक्त सेना पद्यतेऽस्यां पत्तिः ।
Page #299
--------------------------------------------------------------------------
________________
३ मर्त्यकाण्डः।
२९९
२९९
यदाहुः_ "एगो हत्थी एगो य रहवरो तिन्नि चेव य तुरंगा ।
पंचेव य पाइक्का एसा पत्ती मुणेयव्वा" ॥१॥१॥ सेना सेनामुखं गुल्मो वाहिनी पृतना चमूः ॥ ४१२ ॥
अनीकिनी च पत्तेः स्यादिभाद्यैस्त्रिगुणैः क्रमात् । पत्तेः संबन्धिभिरिभाद्यैः क्रमेण त्रिगुणितैः सेनादीनि नामानि क्रमेण भवन्ति, तेन पत्तिस्त्रिगुणा सेना ॥ १॥ सेना त्रिगुणा सेनामुखम् ॥ १॥ सेनामुखं त्रिगुणं गुडति गुल्मः पुंक्लीबलिङ्गः ॥१॥ गुल्मस्त्रिगुणो वाहिनी ॥१॥ ४१२॥ एवमुत्तरोत्तरं क्रमेण त्रिगुणिता यावदनीकिनी, अनीकिनीसंख्या तु हस्ति २१८७, रथ २१८७, अश्व ६५६१, पदाति १०९३५, एवमनीकिन्यां सर्वसंख्या २.१८७० । यदाहुः
"पेत्ती सेणा सेणामुहं च गुम्मं च वाहिणी चेव ।
पियणा चमू अणीगिणी दसगुणिआ अक्खोहिणी होइ" ॥१॥ अमरादयस्तु- “ सेनामुखं गुल्मगणो वाहिनी पृतना चमूः । अनीकिनी" इत्येवं क्रमेण नामान्याहुः ॥
दशानीकिन्योऽक्षौहिणी दशानीकिन्य इति दशगुणाऽनीकिनीत्यर्थः, अक्ष्णामिन्द्रियाणां रथानां वा ऊहः समूहो रचना वास्त्यस्यामक्षौहिणी । - यदाहु:
"स्यात्सेनाऽक्षौहिणी नाम खाऽगाष्टकद्विकैर्गजैः। . रथैश्वेभ्यो हयैस्त्रिनैः पञ्चप्नैश्च पदातिभिः” इति ॥ १ ॥१॥
सजनं तूपरक्षणम् ॥ ४१३ ॥ __सत् शोभनं जन्यतेऽनेन सज्जनम् , सज्ज्यतेऽनेन वा, उपरक्ष्यतेऽनेनोपरक्षणं सैन्यस्य प्रगुणीकरणं गुल्मको वा ॥ १॥ ४१३ ॥ ... वैजयन्ती पुनः केतुः पताका केतनं ध्वजः ।
विजयते विजयन्तः “तृजि-" ॥ (उणा-२२१)॥ इत्यन्तः, विजयन्तस्येयं वैज- यन्ती, जयन्तीत्यपि ॥ १॥ चाय्यतेऽनेन केतुः पुंलिङ्गः “चायः के च" ॥ (उणा
१ एको हस्ती एकश्च रथवरस्त्रय एव च तुरङ्गाः ।
पञ्चैव च पदातय एषा पत्तिर्जातव्या ॥१॥ २ पत्तिः सेना सेनामुखं च गुल्मं च वाहिनी चैव । पृतना चमूरनीकिनी दशगुणिताऽक्षौहिणी भवति ॥१॥
Page #300
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणौ
""
७७८
) ॥ इति तुः ॥ २ ॥ पतति धूयत पताका “ शलिबलि- ॥ ( उणा३४ ) ॥ इत्याकः, पटाकाऽपि ॥ ३ ॥ केत्यते संज्ञायतेऽनेन केतनम् ॥ ४ ॥ ध्वजति धूयते ध्वजः पुंनपुंसकौ, पताकादण्डो ध्वज इत्येके ॥ ५ ॥
अस्योच्चूलावचूलाख्यावूर्ध्वाधोमुख कूर्चकौ ॥ ४१४ ॥
३००
अस्य ध्वजस्योर्ध्वस्थितः कूर्चकः, उद्गता चूलाऽग्रभागोऽस्येत्युच्चूलः ॥ १ ॥ अधोमुखस्तु कूर्चकः, अवाङ्मुखा चूला अस्येत्यवचूलः ॥ १ ॥ ४१४ ॥ गजो वाजी रथः पत्तिः सेनाङ्गं स्याच्चतुर्विधम् ।
सेनाया अङ्गमवयवः सेनाङ्गं गजादि, चतुर्विधं चतुर्भेदं चतुरङ्गादिसेना, तत्र गजवाजिनौ तिर्यक्काण्डे वक्ष्येते, पत्तिः पूर्वमुक्तः, रथनामान्याह
युद्धार्थे चक्रवद्याने शताङ्गः स्यन्दनो रथः ॥ ४१५ ॥
युद्धप्रयोजने चक्रयुक्ते याने सांपरायिकाख्ये शतं बहून्यङ्गान्यवयवा अस्य शताङ्गः ॥ १ ॥ स्यन्दते याति स्यन्दनः ॥ २ ॥ रमन्तेऽनेन रथः पुंस्त्रीलिङ्गः
""
" नीनूरमि- ॥ ( उणा - २२७ ) ॥ इति कित् थः ॥३॥४१५॥
सक्रीडार्थः पुष्परथः
स रथः क्रीडानिमित्तो न पुनः समरार्थः, पुष्पे यात्रोत्सवादौ मङ्गल्यो रथः पुष्परथः ॥ १ ॥
देवार्थस्तु मरुद्रथः ।
देवाय अयं देवार्थः, देवनिमित्ते मरुतां देवानां रथो मरुद्रथः ॥ १ ॥ योग्यारथो वैनयिकः
योग्यायै शस्त्राभ्यासाय रथो योग्यारथः ॥ १ ॥ विनयः शिक्षाप्रयोजनमस्य वैनयिकः ॥ २ ॥
अध्वरथः पारियानिकः ॥ ४१६ ॥
अध्वनि गमनाय रथोऽध्वरथः, परियानं प्रयोजनमस्य पारियानिकः ॥ १॥ ४१६॥ कर्णीरथः प्रवहणं डयनं रथगर्भकः ।
कर्णाः सन्त्येषु कर्णिनः स्कन्धास्तेषु रथः कर्णीरथः पुंस्कन्धवाह्यो रथः बाहुलकाद् दीर्घः, कर्ण्या चतुष्काष्ठ्यां स्थितो रथ इति वा ॥ १ ॥ प्रवहन्त्यनेन, प्रोह्यते वा प्रवहणम् ॥ २ ॥ डयन्ते विहायसा यान्ति वाऽनेन डयनं विमानाख्यम् ॥ ३ ॥ रथस्य गर्भ इव रथगर्भकः ॥ ४ ॥
अनस्तु शकटः
Page #301
--------------------------------------------------------------------------
________________
३ मर्त्यकाण्डः ।
३०१
अनति चीत्करोत्यनः क्लीवलिङ्गः," अस् " ॥ (उणा-९५२)॥ इत्यस् ॥१॥ शक्नोति भारं वोढुं शकटः त्रिलिङ्गः,"दिव्यवि-" ॥ (उगा-१४२) ॥ इत्यटः ॥१॥
अथ स्याद् गन्त्री कम्बलिवाह्यकम् ॥ ४१७ ।। गमनशीला गन्त्री ॥ १ ॥ कम्बलिभिर्दान्तैर्वोढव्यं कम्बलिवाह्यम् , पुंक्लीबलिङ्गः ॥२॥ ४१७ ॥
अथ काम्बलवास्त्राद्यास्तैस्तैः परिवृते रथे । तैस्तैः कम्बलवस्त्रादिभिरावृत आच्छादिते रथे, कम्बलेन छन्नः काम्बलः ॥ १॥ वस्त्रेण छनो वास्त्रः “ तेन छन्ने रथ” ॥ ६ । २ । १३१ ॥ इत्यण् , आदिशब्दाद् दौगूलाद्याः ॥ २ ॥
स पाण्डुकम्बली यः स्यात् संवीतः पाण्डुकम्बलैः ॥४१८॥ पाण्डुकम्बलैइछ नः पाण्डुकम्बली “ पाण्डुकम्बला-" ॥ ६ । २ । १३२ ॥ इतीन् ॥ १ ॥ ४१८ ॥
स तु द्वैपो वैयाघ्रश्च यो वृतो द्वीपिचर्मणा । द्वैपेन चर्मणा छन्नो द्वैपः ॥ १ ॥ वैयाघेण चर्मणा छन्नो वैयाघ्रः ॥ २ ॥ _रथाङ्गं रथपादोऽरि चक्र
रथस्याङ्गं रथाङ्गम् ॥१॥ रथस्य पादो रथपादः ॥ २ ॥ आराः सन्त्यस्मिअरि ॥३॥ क्रियते तदिति चक्रं पुंक्लीबलिङ्गः,"कृगो द्वे च" ॥ (उणा-७)॥ इत्यप्रत्ययः ॥ ४ ॥
धारा पुनः प्रधिः ॥ ४१९ ॥
नेमिः
- धारा प्रान्तः प्रस्तावाचक स्य॥१॥ प्रान्ते प्रधीयते प्रधिः पुंस्त्रीलिङ्गः॥२॥४१९॥ नयति नेमिः स्त्रीलिङ्गः, नीसा-" ॥ ( उणा-६८७ ) ॥ इति मिः ॥ ३ ॥
__अक्षामकीले त्वण्याणी .: अक्षस्य नाभिक्षेप्यस्य काष्ठस्याऽग्रेऽन्ते बन्धार्थ कीलस्तत्र, अणति शब्दायते अणिः, आणिः "कृशृकुटि-" ॥ (उणा- ६१९) ॥ इति वा णिदिः, पुंस्त्रीलिङ्गावेतौ ॥१॥२॥
नाभिस्तु पिण्डिका । नयते लोहानाभिः स्त्रीलिङ्गः, “नहेभ च” ॥ (उणा-६२१) ॥ इति णिदिः .॥ १ ॥ पिण्ड्यन्ते अरा अस्यां पिण्डिका “नानि पुंसि च ॥५॥३।१२१॥ इति णकः ॥२॥
Page #302
--------------------------------------------------------------------------
________________
३०२
अभिधानचिन्तामणौ
युगन्धरं कूरं स्यात्
युगं वोढुस्कन्धकाष्ठं धारयति युगन्धरं “ धारेर्धर्च" || ५|१|११३ || इति खे साधुः ॥ १ ॥ कवते कूबरं "नीमीकु " ॥ ( उणा ४४३ ) ॥ इति वरद्, पुंक्लीबलिङ्गावेतौ ॥ २ ॥
दीर्घत्वं
च,
युगमीशान्तबन्धनम् ॥ ४२० ॥
युज्यते युगं पुंक्कबिलिङ्गः, वर्षादित्वादल् गत्वं च ईशान्ते बन्धोऽस्येशान्तबन्धनम् ॥ १ ॥ ४२० ॥
युगकीलकस्तु शम्या
युगस्य कीलको युगकीलकः ॥ १ ॥ शम्यते शम्या “शकितकि-” ॥५।१।२९॥ इति यः ॥ २ ॥
प्रासङ्गस्तु युगान्तरम् ।
प्रसज्ज्यते वोढुस्कन्धे प्रासङ्गः “ घञ्युपसर्गस्य - " || ३ |२| ८६ ॥ इति दीर्घः, द्वितीयं युगं युगान्तरम्, यत्काष्ठं वत्सानां दमनकाले स्कन्धे आसज्ज्यते, यन्मुनिः- युगं द्वितीयं प्रासङ्गः ॥ १ ॥
अनुकर्षो दधःस्थ
अधः स्थितं दारु, अनुकृष्यते अनुकर्षः ॥ १ ॥
धूर्वी यानमुखं च धूः ॥
४२१ ॥
धूर्वति हिनस्ति वोतॄन् धूवीं ॥ १ ॥ यानस्य रथादेर्मुखम यानमुखम् ॥२॥ धूर्वति धूः, यस्याग्रे वोढारो बध्यन्ते, स्त्रीलिङ्गोऽयम् ॥ ३ ॥ ४२१ ॥
रथगुप्तिस्तु वरूथः
रथस्य गोपनं रथगुप्तिः ॥ १॥ नृणन्ति गुप्त्यर्थं रथमनेन वरूथः, लोहादिमयी आवृत्तिः “जृवृभ्या-” ॥ (उणा - २३६ ) ॥ इत्यूथः पुंक्लीबलिङ्गोऽयम् ॥ २ ॥ रथाङ्गानि त्वपस्कराः ।
चक्रादन्यानि रथस्याङ्गानि आरम्भकाणि, अपकुर्वन्त्यपकीर्यन्ते वा अपस्कराः, वर्चस्कादित्वात् साधुः ॥ १ ॥
शिबिका याप्ययाने
शिबैव शिबिका ॥ १ ॥ याप्यस्य अशक्तस्य यानं युग्याख्यं याप्ययानम्, "कृपानम्” इति गौडः, तत्र ॥ २ ॥
अथ दोला प्रेङ्खादिका भवेत् ॥ ४२२ ॥
Page #303
--------------------------------------------------------------------------
________________
३ मर्यकाण्डः ।
३०३ दोल्यते दोला काष्ठमयी, रज्जुप्रालम्बश्च ॥ १॥ प्रेड यते प्रेङ्खा हिण्डोलकाख्यो, आदिग्रहणात् शयानकादि, याप्ययानानुवृत्तेः ॥ २ ॥ ४२२ ॥
वैनीतकं परम्परावाहनं शिबिकादिकम् । विनीतानामिदं याप्ययानादि वैनीतम् , के वैनीतकं पुंक्लीबलिङ्गः, वोढभिः परमरया वाह्यते परम्परावाहनम् , शिविका आदिरस्य शिबिकादिकम् ॥ १ ॥
यानं युग्यं पत्रं वाह्यं वां वाहनधोरणे ॥ ४२३ ॥ __ यान्त्यनेन यानम् ॥१॥ युञ्जन्ति तदिति युग्यं सर्व हस्त्यश्वादि “कुप्यभिद्य-"। ५। १।३९ ॥ इति क्यपि निपात्यते ॥ २ ॥ पतन्त्यनेन पत्त्रं पुंक्लीबलिङ्गः "नीदा. म्ब्-" ॥ ५ । २ । ८८ ॥ इति त्रट् ॥ ३ ॥ वाह्यते प्रेयते वाह्यम् ॥ ४ ॥ उह्यते. ऽनेन वह्य “वह्यं करणे" ॥ ५। १ । ३४ ॥ इति यः ॥ ५॥ उद्यतेऽनेन वाहनं "वाह्याद वाहनस्य” ॥ २॥३। ७२ ॥ इति सूत्रे निपातनादनटि दीर्घत्वम् , वहनमेव वा प्रज्ञादित्वात् स्वार्थेऽण् ॥ ६ ॥ धोयते चतुरं गम्यतेऽनेन धोरणम् ॥७॥४२३॥
नियन्ता प्राजिता यन्ता सूतः सव्येष्ठुसारथी ।
दक्षिणस्थप्रवेतारौ क्षत्ता रथकुटुम्चिकः ॥ ४२४ ॥ नियच्छति नियन्त्रयति नियन्ता ॥ १ ॥ प्राजति प्रेरयति प्राजिता ॥ २ ॥ यच्छति यन्ता ॥ ३ ॥ सुनोतीति सूतः "सुसितनि-" ॥ ( उणा-२०३) ॥ इति तो दीर्घत्वं च, सुवतीति वा ॥ ४॥ सव्ये तिष्ठति सव्येष्ठा “सव्यात्स्थः” ॥ ( उणा८५५)॥ इति डिद् ऋः, भीरुष्ठानादित्वात् षत्वं सप्तम्यलुप च, सव्यष्टोऽपि ॥५॥ सारयति वाहान् सारथिः,"सारेरथिः” ॥ ( उणा-६७०)॥ इत्यथिः, सरथस्यापत्यमिति वा ॥ ६॥ दक्षिणे तिष्ठति दक्षिणस्थः ॥ ७ ॥ प्राजति प्रवेता "त्रऽने वा" ॥४१४।३।। इति विकल्पेन वीरादेशः ।।८।। "क्षदः सौत्रः” क्षदति संवृणोति क्षत्ता ॥ ९॥ रथस्य कुटुम्बी वाहको रथकुटुम्धिकः, साद्यपि ॥ १० ॥ ४२४ ॥
रथरोहिणि तु रथी रथेऽवश्यं रोहति रथरोही रथयोद्धा तत्र, युद्धार्थो रथोऽयास्ति रथी ॥१॥
रथिके रथिरो रथी। रथोऽत्याऽस्ति रथिकः "अतोऽनेकखरात्" ॥ ७।२।६ ॥ इतीकस्तत्र ॥१॥ रथिरः “मेधारथा-" ॥ ७ । २ । ४१ ॥ इतीरः, इनि रथी ॥ २ ॥ ३ ॥
___ अश्वारोहे त्वश्ववारः सादी च तुरगी च सः ॥ ४२५ ॥
अश्वमारोहत्यश्वारोहस्तत्र ॥ १ ॥ अश्वं वृणोति वारयति वाऽश्ववारः ॥ २ ॥ सीदति सादी ॥ ३ ॥ तुरगोऽस्त्यस्य तुरगी ॥ ४ ॥ ४२५ ॥
Page #304
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणौ
हत्यारोहे सादियन्तृमहामात्रनिपादिनः ।
हस्तिनमारोहति हस्त्यारोहः, हस्तिनोऽधिकृतः प्रधानभूतस्तत्र ॥ १ ॥ सीदति सादी ॥ २ ॥ यच्छति यन्ता ॥ ३ ॥ महती मात्राऽस्य महामात्रः ॥ ४ ॥ निषीदति निषादी ॥ ५ ॥
आधोरणा हस्तिपका गजाजीवेभपालकाः || ४२६ ॥
३०४
आधोरयन्ति हस्तिनमाधोरणाः, नन्द्यादित्वादनः ॥ १ ॥ हस्तिनं पान्ति हस्तिपाः, के हस्तिपकाः || २ || गजान् गजेभ्यो गजेषु वा आजीवन्ति गजाजीवाः ।।३।। इभं पालयति इभपालकः, एते कर्मकरप्रायाः, हस्त्यारीहादयः, इभपालकपयता एकार्था इत्यन्ये, मण्ठो देश्याम् ॥ ४ ॥ ४२६ ॥ योद्धारस्तु भटा योधाः
युध्यन्ते योद्धारः ॥ १ ॥ भटन्ति धारयन्ति शस्त्राणि भटाः ॥ २ ॥ युध्यन्ते योधाः, लिहादित्वादच् ॥ ३ ॥
सेनारक्षास्तु सैनिकाः ।
सेनां रक्षन्ति सेनारक्षाः प्राहरिकाख्याः ॥ १ ॥ सेनां रक्षन्ति सैनिकाः “रक्षदुञ्छतोः” ॥ ६ । ४ । ३० ॥ इतीकण् ॥ २ ॥
सेनायां ये समवेतास्ते सैन्याः सैनिका अपि ॥ ४२७ ॥
सेनां समवयन्ति सैन्याः, सैनिकाः “सेनाया वा " ॥ ६ । ४ । ४८ ॥ इति यः, पक्षे इण् ॥ २ ॥ ४२७ ॥
ये सहस्रेण योद्धारस्ते साहस्राः सहस्रिणः ।
सहस्रं योद्धारः परे सन्त्येषां साहस्राः ज्योत्स्नादित्वादण्, शिखादित्वादिनि सहस्रिणः ॥ १ ॥ २ ॥
छायाकरः छत्रधारः
छायां करोति छायाकरः " हेतुतच्छीला - " ॥ ५|१|१०३ ॥ इति टः ॥ १ ॥ छत्रं धरति छत्रधारः ॥ २ ॥
पताकी वैजयन्तिकः ॥ ४२८ ॥
पताकाऽस्त्यस्य पताकी पताकाधरः, शिखादित्वादिन् ॥ १ ॥ वैजयन्त्या चरति वैजयन्तिकः ॥ २ ॥ ४२८ ॥
परिधिस्थः परिचरः
परिधौ सेनान्ते तिष्ठति परिधिस्थः ॥ १ ॥ परितः समन्ताद् चरति रक्षितुं परि
चरः ॥ २ ॥
Page #305
--------------------------------------------------------------------------
________________
३ मर्त्यकाण्डः।
आमुक्तः प्रतिमुक्तवत् ।
अपिनद्धः पिनद्धः आमुच्यते वध्यते स्माऽऽमुक्तः ॥ १ ॥ प्रतिमुच्यते स्म प्रतिमुक्तः ॥ २ ॥ अपिनाते स्म अपिनद्धः, “वाऽवाऽप्यो-" ॥ ३।२।१५६ ॥ इति प्यादेशे पिनद्धः
__ अथ सन्नद्धो व्यूढकङ्कटः ।। ४२९ ॥ - दंशितो वर्मितः सज्जः
संनह्यते स्म संनद्धः ॥ १ ॥ व्यूढो धृतः कङ्कटोऽनेन व्यूढकङ्कटः ॥२॥४२९॥ दश्यते वध्यते स्म दंशितः ॥ ३ ॥ वर्म संजातमस्य वर्मितः, कवचिताऽपि ॥ ४ ॥ सजते सज्जः, सन् जायते वा "कचित्" ॥ ५।१।१७। ॥ इति डः ॥ ५॥
सन्नाहो वर्म कङ्कटः ।
जगरः कवचं दंशस्तनुत्रं माठ्युरश्छदः ॥ ४३० ॥ संनह्यते सन्नाहः ॥१॥ वृणोत्यङ्गं वर्म क्लीबलिङ्गः, “मन्” ॥ (उणा-९११)॥ इति मन् ॥ २ ॥ कङ्कते यात्यङ्गं कङ्कटः "दिव्यवि-" ॥ (उणा-१४२)॥ इत्यटः, कङ्कटत्याच्छादयति वा ॥ ३ ॥ जायते जगरः “जठर-' ॥ (उणा४०३) ॥ इत्यरे निपात्यते, जागर्तीति वा बाहुलकाद् ह्रस्वः ॥ ४ ॥ कवते कवचं पुंक्लीबलिङ्गः, “कल्यवि-" ॥ (उणा-११४) ॥ इत्यचः, कं वञ्चतीति वा ॥ ५ ॥ दश्यते वच्यते दंशः, दशनमपि ॥ ६ ॥ तनुं त्रायते तनुत्रम् , तनुत्राणमपि ॥७॥ माठयत्यङ्गं माठिः स्त्रीलिङ्गः, “खरेभ्य इ.” ॥ (उगा-६०६) ॥ ङ्यां माठी ॥८॥ उरश्छाद्यतेऽनेनोरश्छदः “घुनाम्नि-" ॥५।३।१३०॥ इति घे "एकोपसर्गस्य-" ॥४।२।३४॥ इति हस्खः, त्वक्तमपि ॥ ९ ॥ ४३० ॥
निचोलकः स्यात् कूर्पासो वारबाणश्च कञ्चुकः । "चुलिः सौत्रः" निचुल्यते निचोलः, के निचोलकः ॥ १ ॥ कुरति कूर्पासः "कृकुरिभ्यां पासः" ॥ (उणा-५८३) ॥ इति पासः ॥ २ ॥ बाणान् वारयति वारबाणः,राजदन्तादित्वात् पूर्वनिपातः,वारमाच्छादकं वानमय्येति वा “पूर्वपदस्थात्-" ॥२।३।६४॥ इति णत्वम् ॥ ३ ॥ कञ्च्यते बध्यते कञ्चुकः पुंक्तीबलिङ्गौ ॥ ४ ॥
सारसनं त्वधिकाझं हृदि धार्य सकञ्चुकैः ।। ४३१ ॥
सारं सनोति ददाति सारसनम् ॥ १ ॥ अधिकमङ्गादधिकाङ्गं पुंक्लीवलिङ्गः, 'अधियाङ्गमित्येके, यन्मुनिः- “अधियाङ्गं सारसनम्' दुर्गस्तु- "तस्य सारसनं ज्ञेयं धियाङ्गं च निबन्धनम्” इत्याह । यत् सकञ्चुकैहृदि धार्यते ॥ २ ॥ ४३१ ॥
Page #306
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणौ
शिरस्त्राणे तु शीर्षण्यं शिरस्कं शीर्षकं च तत् ।
शिरस्त्रायतेऽनेन शिरस्त्राणं तत्र ॥ १ ॥ शिरसि भवं शीर्षण्यं देहांशत्वाद् ये “शिरसः शीर्षन् ” ||३|२|१०१॥ इति शीर्षन्नादेशः, शिरसे हितमिति वा " प्राण्य ङ्गरथ - ' ॥ ७।१।३७ ॥ इति यः, शिरसस्तुल्यमिति वा शाखादित्वाद् यः " शिरसः शीर्षन् " ॥ ३।२।१०१ ॥ इति शीर्षन्नादेशः || २ || शिरसः शीर्षस्य च प्रकृतिः शिरस्कम्, शीर्षकम् खोलमपि ॥ ३ ॥ ४ ॥
नागोदमुदरत्राणं
नह्यते जठरोपरि नागोदं, कुमुदादौ निपात्यते ॥ १ ॥ उदरं त्रायतेऽनेनोदरत्राणम् ॥ २ ॥
३०६
,
जङ्घात्राणं तु मत्कुणम् ॥ ४३२ ॥
जङ्घा त्रायतेऽनेन जङ्घात्राणम् ॥ १ ॥ माद्यति हृष्यत्यनेन मत्कुणं “भ्रूणतृण - " ॥ ( उणा - १८६ ) ॥ इति साधुः ॥ २ ॥ ४३२ ॥
बाहुत्राणं बाहुलं स्यात्
बाहुस्त्रायतेऽनेन बाहुत्राणम् ॥ १ ॥ बाहुं लाति बाहुलम् ॥ २ ॥ जालिका त्वङ्गरक्षणी । जालप्रायाऽऽयसी स्यात्
“जलण् अपवारणे” जालयति शस्त्राघातं जालिका ॥१॥ अङ्कं रक्ष्यतेऽनया अङ्गरक्षण ॥ २ ॥ जालप्राया जालसदृशी ॥ ॥ आयसी लोहमयीत्यर्थः ॥ ४ ॥
आयुधीयः शस्त्रजीविनि ॥ ४३३ ॥
काण्डपृष्ठ|युधिको च
शस्त्रेण जीवति शस्त्रजीवी तत्र ॥ १ ॥ ४३३ || आयुधेन जीवत्यायुधीयः, आयुधिक: "आयुधादीयश्च" || ६ | ४|१८ ॥ इतीयः, इकश्च ॥ २ ॥ ३ ॥ काण्डानि पृष्ठेऽस्य काण्डपृष्टः ॥ ४॥
तुल्यौ प्रासिककौन्ति ।
प्रासः कुन्तश्च प्रहरणमस्य प्रासिकः, कौन्तिकः "प्रहरणम्" ॥६|४|६२॥ इतीक ॥ १ ॥ २ ॥
पारश्वधिकस्तु पारश्वधः परश्वधायुधः ॥ ४३४ ॥
Page #307
--------------------------------------------------------------------------
________________
३ मकाण्डः ।
परश्वधः प्रहरणमस्य पारश्वधिकः, पारश्वधः " परश्वधाद् वाऽण्” || ६ |४| ६३ ॥ इत्यण्, पक्षे कण् ॥ १ ॥ ३ ॥ ४३४ ॥
३०७
स्युर्नैस्त्रिंशिकशाक्तीकयाष्टीकास्तत्तदायुधाः ।
निस्त्रिंशः प्रहरणमस्य नैस्त्रिशिक: “ प्रहरणम् || ६ |४| ६२ ॥ इतीकण् ॥ १ ॥ शक्तिर्यष्टिश्व प्रहरणमस्य शाक्तीकः, याष्ट्रीकः शक्तियष्टेष्टीकण् || ६ |४| ६४ ॥ १ ॥ १ ॥ तृणी धनुर्भृद् धानुष्कः स्यात्
तूणमस्त्यस्य तूणी, निषङ्गीत्यपि ॥ ॥ धनुर्विभर्ति धनुर्भृत्, यौगिकत्वाद् धनुर्धरः, धन्वी, धनुष्मानित्यादयः ॥ २ ॥ धनुः प्रहरणमस्य धानुष्कः " प्रहरणम् ” ॥ ६।४।६२ ॥ इतीकण्, धनुषा जीवतीति वा वेतनादित्वादिकण् ॥ ३ ॥ काण्डीरस्तु काण्डवान् ॥ ४३५ ॥
काण्डानि सन्त्यस्य काण्डीरः " काण्डाण्डभाण्डादीरः " || ७|२| ३८ ॥ १ ॥ तौ काण्डवान् ॥ २ ॥ ४३५॥
कृतहस्तः कृतपुङ्खः सुप्रयुक्तशरो हि यः ।
कृतौ सिद्धौ हस्तावस्यं कृतहस्तः ॥ १ ॥ कृताः पुङ्खा अनेन कृतपुङ्खः ॥ २ ॥ सुष्ठु प्रयुक्तो व्यापारितः शरोऽनेन सुप्रयुक्तशरः ॥
शीघ्रवेधी लघुहस्तः
शीघ्रमनवच्छेदेन वेधयति लक्ष्यं भिनत्ति शीघ्रवेधी ॥ १ ॥ लघुलघवयुक्तो हस्तोsस्य लघुहस्तः ॥ २॥
अपराद्धेषुस्तु लक्ष्यतः || ४३६ ॥
च्युतेषुः
अपराद्धा अलब्धलक्षा इषवो बाणा अस्य अपराद्धेषुः, लक्ष्याच्च्युतेषुबाणः ॥ १ ॥ ४३६ ॥
दूरवेधी तु दूरापाती
दूराद् वेधयति लक्ष्यं भिनत्ति दूरवेधी ॥ १ ॥ दूरादापातयति दूरापाती ॥ २ ॥ आयुधं पुनः । हेतिः प्रहरणं शस्त्रमस्त्रं
आयुध्यन्तेऽनेनायुधं पुंक्लीबलिङ्गः, स्थादित्वात्कः ॥ १ ॥ हन्यते अनया हेतिः “सातिहेति-” ॥ ५।३।९४ ॥ इति तौ निपात्यते ॥ १ ॥ प्रहरन्त्यनेन प्रहरणम् ॥ ३ ॥ शस्यतेऽनेन शस्त्रं स्त्रीक्लीबलिङ्गः, “नीदाम्ब्- " || ५|२|८८ इति ऋद् ॥ ४ ॥ अस्यते अस्त्रं " त्रट् " ॥ ( उणा - ४४६ ) ॥ इति ऋट ॥ ५ ॥
Page #308
--------------------------------------------------------------------------
________________
३०८
अभिधानचिन्तामणौ
तद् चतुर्विधम् ॥ ४३७ ॥ तदायुधं पाणिमुक्तादिभेदाद् चतुर्धेति ॥ ४३७ ॥ चातुर्विध्यमेव दर्शयतिमुक्तं द्विधा पाणियन्त्रमुक्तं शक्तिशरादिकम् ।
अमुक्तं शस्त्रिकादि स्याद् यष्टयाद्यं तु द्वयात्मकम् ॥ ४३८ ॥ मुच्यते क्षिप्यते मुक्तं द्विप्रकारकं क्रमाद् यथा-पाणिमुक्तं शक्तिप्रभृतिकम् ॥१॥ यन्त्रमुक्तं शरादिकम् ॥ २ ॥ अमुक्तं हस्तस्थितमेव यथा शस्त्रिकादि ॥ ३ ॥ द्वयात्मकमिति मुक्तामुक्तात्मकं यथा यष्टयादि ॥ ४ ॥ ४३८ ॥
धनुश्चापोऽस्त्रमिष्वासः कोदण्डं धन्व कार्मुकम् ।
द्रुणाऽऽसौ धन्यतेऽयंते, धमति शब्दायते ज्याघातेन वा धनुः "रुद्यर्ति-" ॥ (उणा९९७) ॥ इत्युस् , श्लिष्टनिर्देशात् “भृमृतृ-" ॥ (उणा-७१६) ॥ इत्युप्रत्यये धनुरुकारान्तोऽपि, द्वावपि पुंक्लीबलिङ्गो “कृषिचमि-" ॥ (उणा-८२९) ॥ इत्यूप्रत्यये स्त्रीलिङ्गो धनूरपि ॥ १ ॥ चपस्य वेणोविकारश्चापः पुंक्लीबलिङ्गः ॥ २ ॥ अस्यन्ते बाणा अनेन अस्त्रम् ॥ २ ॥ इषवोऽस्यन्तेऽनेनेति इष्वासः, शरासनमपि ॥ ४ ॥ 'कदिः सौत्रः' कद्यतेऽनेन कोदण्डः “पिचण्डैरण्ड-" ॥ (उणा-१७६) ॥ इत्यण्डे निपात्यते, कोपाद् दण्डयत्यनेन वा पृषोदरादित्वात् , पुंक्लीबलिङ्गावेतौ ॥५॥ धवु गतौ' "उदितः खराद्-" ॥४।४।९८॥ इति नागमे धन्वति धन्व क्लीबलिङ्गः, “उक्षितक्ष्य-" ॥ (उणा-९००) ॥ इत्यन् , धनति वा “मन्वन्-" ॥५।१।१४७॥ इति वन् ॥ ६ ॥ कर्मणे शक्त कार्मुकं “योगकर्मभ्यां-" ॥६।४।९५॥ इत्युकञ् ॥ ७ ॥ द्रुणति हिनस्ति द्रुणं, द्रवति याति शरोऽनेन वा "द्रोर्वी' ॥ (उणा-१८४) ॥ इति किद् णः ॥ ८ ॥ अस्यन्ते बाणा अनेनाऽऽसः पुंक्लीबलिङ्गः ॥ ९ ॥
लस्तकोऽस्यान्तः
अस्य धनुषोऽन्तमध्यं ग्रहणस्थानं, लसति श्लिष्यति करोऽत्र लस्तकः "कीचकपेचक-" ॥ (उणा-३३) ॥ इत्यके निपात्यते ॥ १ ॥
अग्रं त्वर्तिरटन्यपि ॥ ४३९ ।। अस्य धनुषोऽयं कोटिः अर्यतेऽनया अर्तिः इवादित्वात् क्तिः ॥१॥ अटत्यटनिः “सदिवृत्य-" ॥ (उणा-६८०)॥ इत्यनिः, ड्यामटनी ।। २ ॥ ४३९ ।।
मौर्वी जीवो गुणो गव्या शिञ्जा बाणासनं द्रुणा ।
Page #309
--------------------------------------------------------------------------
________________
३ मर्त्यकाण्डः ।
३०९
शिञ्जिनी ज्या च मूर्वा ज्यातृणविशेषस्तस्य विकारो मौर्वी ॥ ३ ॥ जीवत्यनया जीवा ॥ ४ ॥ गुण्यतेऽभ्यस्यते गुणः ॥ ५ ॥ गोभ्यो बाणेभ्यो हिता गव्या स्त्रीक्लीबलिङ्गः, “गोः खरे यः" ॥६।१।२७॥ इति यः ॥ ६ ॥ शिते शब्दायते शिजा ॥ ७ ॥ बाणाः अस्यन्तेऽनेन बाणासनम् ॥ ८ ॥ द्रुणति हिनस्ति गुणा, द्रवत्यनया शर इति वा ॥ ९॥ शिते शिञ्जिनी ॥ १० ॥ जिनाति ज्या "क्वचित्" ॥५।१।१७१॥ इति डः ॥ ११ ॥
- गोधा तु तलं ज्याघातवारणम् ॥ ४४० ॥
गुध्यते वेष्ट्यतेऽनया गोधा, भिदादित्वादङि साधुः ॥ १॥ तलति तलं क्लीवलिङ्गः स्त्रियामपि, वैजयन्तीकारस्तु यदाह- “गोधा तला च ननरौ”। चर्मादिमयं ज्याप्रहारनिवारणम् ॥ २ ॥ ४४० ॥
स्थानान्यालीढवैशाखप्रत्यालीढानि मण्डलम् ।
समपादं च तिष्ठन्त्येभिरिति स्थानानि, जङ्घयोश्चारीनिवृत्तौ स्थितिविशेषाः । आलेढि भुवमालीढम् ॥१॥ विशाखस्य स्कन्दस्येदं वैशाखम् ।। १।। प्रतिलोममालीढं प्रत्यालीढम् ॥१॥ मण्डलाकृतित्वाद् मण्डलम् ॥ १ ॥ समौ पादावत्र समपादम् ॥ १ ॥ यद्धनुर्वेदः
अग्रतो वामपादं तु तीक्ष्णं चैवाऽनुकुश्चितम् । आलीढं तु प्रकर्तव्यं हस्तद्वयसविस्तरम् ॥ १॥ पादौ सविस्तरौ कायौँ समहस्तप्रमाणतः । वैशाखस्थानके वत्स ! कूटलक्ष्यस्य वेधने ॥ २ ॥ प्रत्यालीढे तु कर्तव्यः सव्यस्तीक्ष्णोऽनुकुञ्चितः । तिर्यग्वामः पुरस्तत्र दूरापाते विशिष्यते ॥ ३ ॥
समपादे समौ पादौ निष्कम्पौ च सुसङ्गतौ । • मण्डले मण्डलाकारौ बाह्यतीक्ष्णौ विशेषतः ॥ ४ ॥ एते क्लींबलिङ्गाः, वैजयन्तीकारस्तु-" तत्र वैशाखमस्त्रियाम्" इत्याह ॥
वेध्यं तु लक्षं लक्ष्यं शरव्यकम् ॥ ४४१ ॥ वेध्यते वेध्यम् ॥ १॥ लक्ष्यते लक्षं “युवर्ण-" ॥ ५। ३ । २८ ॥ इत्यल, य एञ्चातः" ॥ ५। १ । २८ ॥ इति ये लक्ष्यम् ॥ २ ॥ ३ ॥ शृणाति शरुहिस्रः, शरवे हितं शरव्यं “ तस्मै हिते” ॥ ७ ॥ १ ॥ ३५ ॥ इति यः, एते क्लीबलिङ्गा :, वैजयन्ती तु-“वेध्यं शरव्यं न नरि" इत्याह ॥ ४ ॥ ४४१ ॥
४०
Page #310
--------------------------------------------------------------------------
________________
३१०
अभिधानचिन्तामणौ- ... शेषश्चात्र-वेध्ये निमित्तम् ॥ बाणे पृषत्कविशिखौ खगगार्धपक्षौ
काण्डाशुगप्रदरसायकपत्रवाहाः । पत्रीष्वजिह्मगशिलीमुखकङ्कपत्र
रोपाः कलम्बशरमार्गणचित्रपुडाः ॥ ४४२ ॥ बणन्त्यस्मिन् पुङ्खा इति बाणः पुंक्लीबलिङ्गः, “व्यञ्जनाद् घञ्'' ॥ ५ ॥ ३ । १३२ ॥ तत्र ॥ १॥ वर्षति सिञ्चति पृषत्कः “ निष्कतुरुष्क-" ॥ ( उणा२६) ॥ इति के निपात्यते, पुङ्खादीनां पृथक् षट्कमस्येति नैरुक्ताः, यद्धनुर्वेदः" पुतः शरस्तथा शल्यं पक्षस्नायुजतूनि षट्” इति ॥ २ ॥ विशेषेण श्यति विशिखः "इयतेरिच्च वा” ॥ ( उणा-८५ ) ॥ इति खः, विविधा शिखा अस्येति वा ॥३॥ खे गच्छति खगः ॥ ४ ॥ गृध्रपक्षस्यायं गार्धपक्षः ॥ ५ ॥ कणत्यनेनाऽऽहतः काण्डः पुंक्तीबलिङ्गः, “कण्याण-" ॥ ( उणा-१६९)॥ इति णिद् डः ॥६॥ आशु गच्छत्याऽऽशुगः ॥ ७ ॥ प्रदीर्यतेऽनेन प्रदरः ॥ ८ ॥ स्यत्यन्तं नयति सायकः ॥ ९॥ पत्राणि वहति पत्रवाहः ॥ १० ॥ पत्राण्यस्य सन्ति पत्री ॥११॥ इष्यति गच्छति इषुस्त्रिलिङ्गः," पृका-" ॥(उणा-७२९)॥ किदुः॥१२॥अजिममृजु गच्छति अजिमगः ॥ १३ ॥ शिलीव मुखमस्य शिलीमुखः ॥ १४ ॥ कङ्कस्य पत्राण्यत्र कङ्कपत्रः ॥ १५ ॥ रोप्यते लक्षे निखन्यते रोपः ॥ १६ ॥ कडति माद्यति कडम्बः, "कृकडि." ॥ ( उणा-३२१) ॥ इत्यम्बः, लत्वे कलम्बः, के शिरसि कृतसंधानोलम्बत इति वा ॥ १७ ॥ शृणाति शीयते वाऽनेन शरः पुंक्लीबलिङ्गः ॥ १८॥ मार्गयति मार्गणः नन्द्यादित्वादनः ॥१९॥ चित्रा पुङ्खा अस्य चित्रपुङ्खः ॥२०॥४४२॥ शेषश्चात्र
बाणे तु लक्षहा मर्मभेदनः ॥ वीरश्च वीरशङ्कुश्च कादम्बोऽऽप्यस्त्रकण्टकः ।
प्रक्ष्वेडनः सर्वलौहो नाराच एषणश्च सः । प्रक्ष्वेडते प्रक्ष्वेडनः ॥१॥लोहस्य विकारो लौहः, सर्वश्चाऽसौ लौहश्च सर्वलौहः ॥२॥नरमञ्चति नराची, नराच्यास्तुल्यो नाराचः शर्करादेरण् ॥७।१।११८॥,नराच्येव वा प्रज्ञादित्वात् खार्थेऽण् , नारं नरसमूहमञ्चतीति वा ॥३॥ इष्यतेऽनेन एषणः ॥४॥
शेषश्चात्रनाराचे लोहनालोऽस्रसायकः
निरस्तः प्रहितः
Page #311
--------------------------------------------------------------------------
________________
३ मर्त्यकाण्डः ।
३११
निरस्यते स्म निरस्तः ॥ १ ॥ प्रहीयते स्म प्रहितः क्षिप्त इत्यर्थः ॥
बाणे विषाऽक्ते दिग्धलिप्तकौ ॥ ४४३ ॥ वाणे विषेणाऽक्ते म्रक्षितपायित इत्यर्थः । दिह्यति स्म दिग्धः ॥ १॥ लिप्यते स्म लिप्तः ॥ २ ॥ ४४३ ॥
बाणमुक्तिर्व्यवच्छेदः बाणस्य धनुर्यन्त्राद् मुष्टिना मोक्षणं बाणमुक्तिः ॥ १ ॥ विशेषेण अवच्छिद्यते उद्भिद्यते बाणोऽनेन व्यवच्छेदः, यद्धनुर्वेदः
पञ्चाङ्गुलीभिर्युगपत् क्षिप्रश्रेष्ठत्वसिद्धये ।
मोक्षणं यच्च दुर्जेयं तं व्यवच्छेदमादिशत् ॥ २ ॥ दीप्ति।गस्य तीव्रता । बाणवेगस्य तीव्रता सुदुःसहत्वम् , दीप्यते बाणोऽनया दीप्तिः ॥ १ ॥
क्षुरप्रतद्बलाद्धेन्दुतीरीमुख्यास्तु तद्भिदः ॥ ४४४ ॥
क्षुराभं लोहं प्राति क्षुरपो धारामुखलोहः ॥ १ ॥ तत् प्रसिद्ध बलमस्य तबलः,“यदाह- मूषिकपुच्छाकृतयस्तबला नाम सायकाः” इति ॥ १॥ अर्धेन्दुसदृशमुखलोहत्वादर्धेन्दुरर्धचन्द्रः ॥ १॥ तीरयति संग्रामं पारयति तीरी, यदाह"त्रिभागशरजा तीरी शेषाङ्गे लोहसम्भवा" । मुख्यग्रहणात् दण्डासन-तोमर-वावल्लभल्ल-गरुडा-ऽर्द्धनाराचप्रभृतयस्तस्य बाणस्य भेदाः ॥१॥४४४॥
पक्षो वाजः पच्यते इति पक्षः, गृध्रकङ्कपत्रादिः॥१॥ वजत्यनेन बाणो वाजः, छदाऽऽवलिः, पत्रपालीति यावत् ॥ २॥
पत्रणा तन्न्यासः पत्रणं पत्रणा, तस्य पक्षस्य शरस्कन्धे न्यसनं तन्न्यासः ॥१॥
पुङ्खस्तु कर्तरी। .. पुनाति बाणं पुढो गुणविन्यासस्थानं पुंक्लीबलिङ्गः, "पूमुहोः पुन्मूरौ च". ॥ (उणा-८६) ॥ इति खे साधुः ॥१।। कृत्यते छिद्यतेऽसौ कर्तरिः काष्ठशृङ्गादिमयी, "नदिवल्लि-'' ॥ (उणा-६९८ ) ॥ इत्यरिः, ड्यां कतरी ॥ २ ॥
तूणो निषङ्गस्तूणीर उपासङ्गः शराश्रयः ॥ ४४५ ॥
शरधिः कलापोऽपि तूण्यते पूर्यते शरैस्तूणस्त्रिलिङ्गः ॥ १॥ निषज्ज्यन्ते बाणा अत्र निषङ्गः ॥२॥
Page #312
--------------------------------------------------------------------------
________________
३१२
अभिधानचिन्तामणौ
तूण्यते तूणीरः,“जम्बीरा-" ॥ ( उणा - ४२२ ) ॥ इतीरे निपात्यते ॥ ३ ॥ उपासज्ज्यन्तेऽत्र बाणा उपासङ्गः ॥ ४ ॥ शराणामाश्रयः ॥ ५ ॥ ४४५ ॥ शरा धीयन्तेऽत्र शरधिः पुंलिङ्गः, :, यौगिकत्वादिषुधिर्वाणिधिरित्यादयः ॥ ६ ॥ कल्यन्ते बाणा अनेन कलापः ॥ ७ ॥
अथ चन्द्रहासः
करवालनिस्त्रिंशकृपाणखङ्गाः । तरवारिकौक्षेयक मण्डलाग्राअसिॠष्टिरष्टी
चन्द्रवत् हासः प्रभाऽस्य चन्द्रहासः ॥ १ ॥ करं पालयति करपालः, जपादित्वाद् वत्वे करवालः, करे वालो वलनमस्येति वा ॥ २ ॥ निष्क्रान्तस्त्रिंशतोऽङ्गुलिभ्योनिस्त्रिंशः“नञव्ययात् सङ्ख्याया डः ॥ ७।३।१२३॥३॥ कल्पते कृपाणः 'कृपिविषि-' ।। (उणा - १९१) ।। इत्याणम् ॥४॥ खडति भिनत्ति खड्गः “गम्यमि - " ॥ ( उणा - ९२ ) ॥ इति गः ॥५॥ तरं तरत् लवमानं वार्यत्र तरवारिः पुंलिङ्गः ॥ ६ ॥ कुक्षौ भवो जातः कौक्षेयकः, कङ्ककुक्षिनिजीर्णेनाऽयसा निर्मितत्वात् " कुलकुक्षि - " ॥ ६ |३|१२ ॥ इत्येयकञ् ॥७॥ मण्डलाकारमग्रमस्य मण्डलाग्रः ॥ ८ ॥ अस्यतेऽसिः पुंलिङ्गः, “पदिपठि-" ॥ (उणा - ६०७ ) ॥ इतीः ॥ ९ ॥ ऋषति पाणिं गच्छति ऋष्टिः स्वरादिः ॥१०॥ रेषति हिनस्ति रिष्टिः ‘“दृमुषि ॥ ( उणा - ६५१) ॥ इति कि तू तिः, पुंस्त्रीलिङ्गावेतौ ॥११॥ शेषश्चात्र - असिस्तु सायकः ।
श्रीगर्भो विजयः शास्ता व्यवहारः प्रजाकरः । धर्मपालोऽक्षरो देवस्तीक्ष्णकर्मा दुरासदः ॥ प्रसङ्गो रुद्रतनयो मनुज्येष्ठः शिवङ्करः । करपालो विशसनस्तीक्ष्णधारो विषाग्रजः ॥ धर्मप्रचारो धाराङ्गो धाराधारकरालिकौ ।
"
चन्द्रभासश्च शस्त्रः
त्सरुरस्य मुष्टिः ॥ ४४६॥
अस्य खड्गस्य मुष्टिग्रहणस्थानं मुष्टि:, त्सरत्यनेन त्सरुः पुंलिङ्गः,“भृमृतृत्सरि-” ॥ (उणा- ७१६) ॥ इत्युः, खड्ग स्येत्युपलक्षणम्, तेनान्यस्यापि मुष्टिस्त्सरुरुच्यते । यदमरः- “त्सरुः खङ्गादिमुष्टौ स्याद्” इति ॥ १ ॥ ४४६ ॥
प्रत्याकारः परीवारः कोशः खङ्गपिधानकम् ।
प्रतिरूप आकारोsस्य प्रत्याकारः ॥ १ ॥ परिव्रियतेऽनेन परिवारः, "घञ्युपसर्गस्य-” ॥३॥२॥८६॥ इति दीर्घाच्च परीवारः ॥ २ ॥ कुश्यते इति कोशस्त्रिलिङ्गः । खङ्गः पिधीयतेऽनेन खड्गपिधानम्, स्वार्थे के खङ्गपिधानकम् ॥ ३ ॥
Page #313
--------------------------------------------------------------------------
________________
३ मर्त्यकाण्डः ।
३१३
अड्डनं फलकं चर्म खेटकाऽऽवरणस्फुराः ॥ ४४७ ॥ 'अद्ड् अभियोगे' अड्डत्यनेन अड्डनं ॥१॥ फलति विशीर्यते फलम् , के फलक फरकमपि, पुंक्लीबलिङ्गः ॥२॥ चर्ममयत्वाचर्म ॥ ३ ॥ खेटयत्युत्त्रासयति खेटं पंक्लीबलिङ्गः, के खेटकं ॥ ४ ॥ आवियते वपुरनेन आवरणं ॥ ५ ॥ स्फुरति चलति स्फुरः, स्फुरकोऽपि ॥ ६ ॥ ४४७ ॥
अस्य मुष्टिस्तु संग्राहः अस्य फलकस्य मुष्टिग्रहणस्थानं मुष्टिः, संगृह्यतेऽनेन संग्राहः, “समो मुष्टौ” ॥ ५। ३ । ५८ ॥ इति घञ् ॥ १ ॥
क्षुरी छुरी कृपाणिका।
शस्त्र्यसेर्धेनुपुत्र्यौ च क्षुरति विखनति क्षुरी, क्षुरिकाऽपि ॥ १ ॥ छुरति छिनत्ति छुरी ॥ २ ॥ कल्पते कृपाणी, के कृपाणिका ॥३॥ शस्यतेऽनया शस्त्री "नीदाम्ब्-" ॥ ५। २ । ८८ ॥ इति त्रट् ॥ ४ ॥ असिशब्दात् धेनु-पुत्र्यौ, चिन्तितार्थप्रदायित्वादसिरूपा धेनुरसिधेनुः, असेः पुत्रीव ह्रस्वत्वादसिपुत्री ॥ ५ ॥ ६ ॥ शेषश्चात्र-अथ क्षुर्यस्त्री कोशशायिका ॥
___ पत्रं च धेनुका।
पत्रपालस्तु साऽऽयता ॥ ४४८ ॥ सा क्षुरिका आयता दीर्घा । पत्रेण पालयति रक्षति पत्रपालः ॥१॥४४८॥ शेषश्चात्र-पत्रपाले तु हुलमातृका ।
कुट्टन्ती पत्रफला च दण्डो यष्टिश्च लगुडः दण्डयत्यनेन दण्डः पुंक्तीबलिङ्गः, “पञ्चमाडः” ॥ (उणा-१६८) ॥ इति डः ॥१॥ इज्यतेऽनया यष्टिः पुंस्त्रीलिङ्गः, “ प्लुज्ञा-" ॥ ( उणा-६४६ )॥ इति तिः ॥ २ ॥ लगति प्रहारोऽनेन लगुडः "लगेरुडः" ॥ ( उणा-१७७) ॥ ३ ॥
स्यादीली करवालिका। __ईड्यते ईली, एकधारोऽसिस्तुरुष्कायुधम् ॥१॥ अल्पः करवालः करवालिका, तरवालिकेत्यन्ये । “न्युजः खड्गः कडितलम्” इति व्याडिः,स चास्माभिर्देश्यामुक्तः॥२॥
भिन्दिपाले सृगः भिन्दतः पालयति भिन्दिपालो नाम हस्तक्षेप्यो महाफलो दीर्घदण्ड आ
Page #314
--------------------------------------------------------------------------
________________
३१४
अभिधानचिन्तामणौ
युधविशेषः, पृषोदरादित्वात् साधुस्तत्र ॥ १॥ सृज्यते सृगः, स्थादित्वात् के न्यवादित्वाद् गत्वं ॥ २ ॥
कुन्ते प्रासः कुणति कुन्तस्तत्र ॥ १ ॥ प्रास्यते प्रासः, हस्तधार्यः शल्यः ॥ २ ॥
अथ द्रुघणो घनः ॥ ४४९ ॥ मुद्गरः स्यात्
द्रुहन्यतेऽनेन द्रुघणः “त्ययोद्रोः करणे" ॥ ५ । ३ । ३८ ॥ इत्यलि घनादेशस्ततोऽराहणादिपाठात् णत्वम् , , घणतीति ग्रसते वा ॥ १ ॥ हन्यतेऽनेन घनः, "मूर्तिनिचिता-" ॥५। ३ । ३७ ॥ इत्यलि साधुः ॥ २ ॥ ४४९ ॥ मोदतेऽनेन मुद्गरः पुंस्त्रीलिङ्गः, “ मुदिगुरिभ्याम्-" ॥ ( उणा-४०३ ) ॥ इति टिदरो गोऽन्तश्च, मुदं गिरति ग्रसते वा ॥ ३ ॥
कुठारस्तु परशुः पशुपर्श्वधौ ।
परश्वधः स्वधितिश्च 'कुठिः सोत्रः' कोठति कुठारः पुंस्त्रीलिङ्गः, "तुषिकुठिभ्यां कित्-" ॥ (उणा४०८)॥ इत्यारः, कुठान् वृक्षान् इयर्तीति वा ॥१॥ परान् शृणाति परशुः " पराभ्यां शृखनिभ्यां डित्-" ॥ ( उणा-७४२ ) इत्युः ॥ २ ॥ पृणाति पशुः "प्रः शु:-" ॥ ( उणा-८२५)॥ इति शुः ॥ ३ ।। पशुकाभिर्न धीयते पर्वधः, स्थादित्वात् कः ॥ ४ ॥ परान् शृणाति परश्वधः “परात् श्रो डित्." ।। ( उणा२५५ ) ॥ इति वधः ॥ ५ ॥ खं धियति धारयति स्वधितिः “तिक्कृतौ नाम्नि-" ॥ ५। १ । ७१ ॥ इति तिक् , परश्वादयः पुंलिङ्गाः ॥ ६॥
परिघः परिघातनः ॥ ४५० ॥ परिहन्यतेऽनेन परिघः, लोहबद्धो लगुडः “परेघः-" ॥ ५॥ ३ ॥ ४० ॥ इत्यलि घादेशः, लत्वे पलिघोऽपि ॥१॥ परिघात्यतेऽनेन परिघातनः ॥२॥४५०॥
सर्वला तोमरे सर्वान् लाति सवला ॥ १॥ ताम्यत्यनेन तोमरः पुंक्लीबलिङ्गः, “जठर कर-" ॥ ( उणा-४०३)॥ इत्यरे निपात्यते, तत्र ॥ २ ॥
शल्यं शङ्को शलत्यन्तर्विशति शल्यं पुंक्लीबलिङ्गः, “ स्थाछामा." ॥ (उणा-३५७) ॥ इति यः, अन्यत्रोपचारात् शल्यम् ॥१॥ शाम्यत्यनेन शङ्कुः पुंलिङ्गः, "कैशीशमि-" ॥ ( उणा-७४९ )॥ इति कुस्तत्र ॥ २ ॥
Page #315
--------------------------------------------------------------------------
________________
३ मर्त्यकाण्डः ।
शूले त्रिशीर्षकम् ।
शूलति रुजति शूलं पुंक्लीबलिङ्गः, तत्र ॥१॥ त्रीणि शीर्षाण्यस्य त्रिशीर्षकम् ॥ २ ॥ शक्तिपट्टिसदुःस्फोटचक्राद्याः
शेषश्चात्र
शस्त्रजातयः ॥ ४५१ ॥
शक्नोति जेतुमनया शक्तिः ॥ १ ॥ पटत्यरातीन् पट्टिसः “पटिवीभ्याम् - " ( उणा - ५७९ ) इति टिसः, अयं तालव्य इत्यन्ये ॥ १ ॥ दुःखं स्फोटयति दुःस्फोटः ॥ १ ॥ क्रियते प्रहारोऽनेन चक्रं पुंक्लीबलिङ्गः, आदिग्रहणात् शतघ्नीमहाशिला-मुपुण्ढी-चिरिका वराहकर्णकप्रभृतयः ॥ १ ॥४५१॥
३१५
अथ शक्तिः कासूर्महाफला ॥
अष्टतालाऽऽयता सा च पट्टिशस्तु खुरोपमः । लोहदण्डस्तीक्ष्णधारो दुस्फोटाराफलौ समौ ॥ चक्रं तु वलयप्रायमरसंचितमित्यपि । शतघ्नी तु चतुस्ताला लोहकण्टकसंचिता ॥ अयः कण्टकसंच्छन्ना शतघ्न्येव महाशिला । मुढी स्याद् दारुमयी वृत्तायः कीलसंचिता ॥ कणयो' लोहमात्रोऽथ चिरिका तु हुलाग्रका | वराहकर्णकोऽन्वर्थः फलपत्रा के हुलम् ॥ मुनयोऽस्त्रशेखरं च
खुरली तु श्रमो योग्याऽभ्यासः
खुरन्ति छिन्दन्त्यस्यां खुरली, "मुरलोरल - " ॥ ( उणा - ४७४) ॥ इत्यले निपात्यते ॥१॥ श्राम्यत्यनेन श्रमः ॥ २॥ योगे चित्तैकाग्ये साध्वी योग्या " तत्र साधौ " ||७|१|१५ ॥ इति यः, योगाय शक्तेति वा “योगकर्मभ्यां - ॥६॥४॥९५॥ इति
"
यः ॥ ३ ॥ शस्त्राणामभ्यसनमभ्यासः ॥ ४॥
शेषश्चात्र - शराभ्यास उपासनम् ॥ तद्भूः खलूरिका ।
तस्य श्रमस्य साधनाय भूस्तभूः ॥ १ ॥ खड्यते लक्षं भिद्यतेऽत्र खडूरः “ ममिसि- " ॥ (उणा-४२७ ) ॥ इत्यूरः, लवे खलूरः, स्वार्थे के खलूरिका ॥ २ ॥
सर्वाभिसारः सर्वौघः
सर्व्वसंनहनं समाः ॥ ४५२ ॥
Page #316
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणौ
सर्वेण सैन्येन अभिसरणं सर्वाभिसारः ॥ १ ॥ सर्वेषामोघो वद्दनं सर्वौघः ॥ २ ॥ सर्वे संनह्यतेऽत्र सर्वसंनहनम् ॥ ३ ॥ ४५२ ॥
लोहाभिसारो दशम्यां विधिर्नीराजनात् परः ।
अस्त्रभृतां राज्ञां यः शास्त्रतो विधिः प्रस्थानात् प्राक् सः । लोहं शस्त्रमभिसार्यते प्रसार्यते प्रस्थाप्यतेऽत्रेति लोहाभिसारः, नीरस्य शान्त्युदकस्य अजनं क्षेपो नीराजनम्, मन्त्रोक्त्या निःशेषवाहनादे राजनं वा, तस्मात् परो विधिः, यदुदुर्ग:"लोहाभिसारस्तु विधिः परो नीराजनाद् नृपैः दशम्यां दंशितैः कार्य” इति । अमरस्तु
“लोहाभिसारोऽस्त्रभृतां राज्ञां नीराजनाविधिः । " इति ब्रुवन्नीराजनामेव लोहाभिसारमाह ॥ १॥
प्रस्थानं गमनं व्रज्याऽभिनिर्याणं प्रयाणकम् ।। ४५३ ॥
३१६
यात्रा
>
प्रस्थीयते स्थानाच्चल्यते प्रस्थानम् ॥ १ ॥ गम्यते गमनं ॥ २ ॥ व्रजनं व्रज्या " आस्यटि " ॥ ५ । ३ । ९७ ॥ इति क्यप् ॥ ३ ॥ अभिनिर्यायतेभिनिणं ॥ ४ ॥ प्रयायते प्रयाणम्, स्वार्थे के प्रयाणकं ॥ ५ ॥ ४५३ ।। यान्त्यस्यां यात्रा “हुयामा - " ( उणा - ४५१ ) इति त्रः ॥ ६ ॥
अभिषेणनं तु स्यात् सेनयाऽभिगमो रिपौ ।
सेनया रिपूनभियानमभिषेणनं “ णिज् बहुलं " ।। ३ । ४ । ४२ ।। इति णिज्यऽनटि च “स्थासेनि " ॥ २ ॥ ३ ॥ ४० ॥ इति षत्वम् ॥ १ ॥
स्यात् सुहृद्बलमासारः
आस्त्रियतेऽनेनेत्यासारोऽन्वागच्छन्मित्रबलम् ॥ १॥
प्रचक्रं चलितं बलम् ॥ ४५४ ॥
प्रस्थितं चक्रं सैन्यं प्रचक्रम् चलितं प्रयाणकस्थितम् ॥ १ ॥ ४५४ ॥ प्रसारस्तु प्रसरणं तृणकाष्ठादिहेतवे ।
,
सैन्याद् बहिस्तृणजलाद्यर्थ प्रसरणं गमनं प्रसारः, यल्लक्ष्यम्-निरुद्धवीवधाssसार प्रसारागा इव व्रजं ॥१॥ अमरस्तु - " स्यादासारः प्रसरणम्" इत्याह, तच्चाऽर्थशास्त्रेण न संवदतीति नादृतम् ॥
अभिक्रमो रणे यानमभीतस्य रिपून् प्रति ।। ४५५ ॥ आभिमुख्येन अभिभूय, अरीनभि वा क्रमणमभिक्रमः ।। १ ।। ४५५ ॥
Page #317
--------------------------------------------------------------------------
________________
३ मर्यकाण्डः। अभ्यमियोऽभ्यमित्रीयोऽभ्यमित्रीणोऽभ्यरित्रजन् । आभिमुख्येनाऽमित्रानलंगामी अभ्यमित्र्यः, अभ्यमित्रीयः, अभ्यमित्रीणः " अभ्यमित्रमीयश्च" ।। ७ । १ । १०४ ॥ इति यः, ईयः, ईनश्च ।।१।२।३॥ .
स्यादुरखानुरसिलः उरसा बलं लक्ष्यते, तदस्यास्ति उरखान् “तद-" ॥ ७ । २ । १॥ इति मतुः ॥ १ ॥ पिच्छादित्वादिले उरसिलः ॥ २ ॥ ___ . ऊर्जस्व्यूर्जस्वलौ समौ ॥ ४५६ ॥
ऊर्ग बलमस्त्यस्य ऊर्जस्वी ॥ १ ॥ ऊर्जखलः, ऊर्जातिशयान्वितः " ऊर्जाविन्वलावस् चान्तः” ॥ ७ । २ । ५१ ॥ इति साधू, ऊर्जखानपि ॥२॥४५६॥
___ सांयुगीनो रणे साधुः संयुगे साधुः सांयुगीनः “प्रतिजनादेरीनञ्" ॥ ७।१।२०॥१॥
जेता जिष्णुश्च जित्वरः । जयनशीलो जेता "तृन्-" ॥ ५। २ । २७ ॥ इति तृन् ॥१॥ "भूजे:-" ॥ ५।२।३० ॥ इति ष्णुकि जिष्णुः ॥ २ ॥ “ सृजीण-" ॥ ५।२।७७ ॥ इति ट्वरपि जित्वरः ॥ ३ ॥ शेषश्चात्र-जिष्णौ तु विजयी जैत्रः ।।
जय्यो यः शक्यते जेतुम् जेतुं शक्यो जय्यः “क्षय्यजय्यौ-" ॥४।३।९०॥ इति ये साधुः ॥ १॥
जेयो जेतव्यमात्रके ॥ ४५७ ॥ शक्यादन्यत्रेत्यर्थः ॥ १॥ ४५७ ॥
वैतालिका बोधकरा अर्थिकाः सौखसुप्तिकाः । वितालं शब्दः प्रयोजनमेषां वैतालिकाः प्रातर्बोधकाः ॥१॥ बोधं प्रबोधं कुर्वन्ति मङ्गलपाठोधकराः ॥ २ ॥ अर्थिन एव अर्थिकाः ॥ ३ ॥ सुखसुप्तं पृच्छन्ति सौखसुप्तिकाः “सुनातादिभ्यः पृच्छति" ॥ ६ । ४ । ४२ ॥ इतीकण , सौखशायनिकसौखशाय्यकावपि ॥ ४ ॥ अमरस्तु-"वैतालिका बोधकराः” इति राज्ञोऽवसरपाठकानाह ॥ . ..
घाण्टिकाश्चाक्रिकाः . घण्टया चरन्ति घाण्टिकाः, ये घण्टा घातेन देवताद्यप्रेशंसन्ति ते श्रावकाख्याः ॥१॥ चक्रं राष्ट्र प्रयोजनमेषां चाक्रिकाः ॥ २॥
Page #318
--------------------------------------------------------------------------
________________
३१८
अभिधानचिन्तामणौ- ...
सूतो बन्दी मलङ्गपाठकः ॥ ४५८ ॥ सुनोति सूतः ॥ १॥ वन्दते स्तौति बन्दी, ग्रहादित्वाद् णिन् ॥ २ ॥ मङ्गलं पठतीति मङ्गलपाठकः ॥ ३ ॥ ४५८ ॥
. मागधो मगधः .. मगध एव मागधः प्रज्ञादित्वादण् ॥ १ ॥ 'मगधः कण्ड्वादो' मगध्यति याचते मगधः, वंशोदीरणेन यो याचते, यदाहुः- "मागधाः स्तुतिवंशजाः" इति मङ्खोऽपि ॥२॥
संशप्तका युद्धाऽनिवर्तिनः । संशपन्ति, पलायमानान् संशपथं युद्ध्यन्ते वा संशप्ताः, के संशप्तकाः ॥१॥ युद्धान्न निर्वत्तन्ते युद्धाऽनिवर्तिनः ॥ २ ॥
- नग्नः स्तुतिव्रतः
न वस्ते नग्नः, कौपीनमात्रजरद्वस्त्रपरिधानात् “ दिननग्न-" ॥ ( उणा२६८ ) ॥ इति ने निपात्यते, न विद्यन्ते नाः श्रियश्छन्दांसि वा अस्येति वा नखादित्वानात्राऽद् भावः ॥ १॥ स्तुतिरेव व्रतमस्य स्तुतिव्रतः ॥ २ ॥
तस्य ग्रन्थो भोगावली भवेत् ॥ ४५९ ॥ तस्य नग्नस्य भोगः सुखं तद्धेतुत्वाद् भोगाः स्तुतयः, तासामावली भोगा. वली ॥ १॥ ४५९ ॥
प्राणः स्थाम तरः पराक्रमबलद्युम्नानि शौयौंजसी
शुष्मं शुष्म च शक्तिरू सहसी प्राणनं प्राणः ॥ १ ॥ तिष्ठन्त्यनेन स्थाम “मन्" ॥ ( उणा-९११ ) ॥ इति मन् ॥ २ ॥ तरन्त्यनेनापदं तरः “ अस्" ॥ (उणा-९५२) ॥ इत्यस्, क्लीबलिङ्गावेतौ ॥ ३ ॥ पराक्रमन्तेऽनेन पराक्रमः ॥ ४ ॥ बलत्यनेन बलं पुंक्लीबलिङ्गः, “ वर्षादयः क्लीवे" ॥ ५। ३ । २९ ॥ इत्यल् ॥ ५॥ दिवि मीयते द्युम्नं “द्युसुनिभ्यो माङो डित्” ॥ ( उणा-२६६ ) ॥ इति नः, द्रविणमपि ॥ ६ ॥ शूरस्य भावः शौर्यम् ॥ ७ ॥ ओषत्यरीननेन ओजः क्लीबलिङ्गः, “ उषे च." ॥ ( उणा९५९ ) ॥ इत्यस् ॥ ८ ॥ शुष्यत्यनेनारिः शुष्मं “ विलिभिलि." ॥(उणा-३४०)। इति किद् मः ॥ ९ ॥ “सात्मनात्मन्-" ॥ ( उणा-९१६ ) ॥ इति मनि निपातनात् शुष्म क्लीबलिङ्गः ॥ १० ॥ शक्यतेऽस्याः परो जेतुं शक्तिः ॥ ११ ॥ ऊ. जनमूर्जः पुंस्त्रीलिङ्गः, ऊर्गपि ॥ १२॥ सहते शत्रुमनेन सहः क्लीबलिङ्गः, “अस्' ॥ ( उणा-९५२) ॥ इत्यस् ॥ १३ ॥
Page #319
--------------------------------------------------------------------------
________________
३ मर्त्यकाण्डः ।
३१९
युद्धं तु सङ्ख्यं कलिः । संग्रामाहवसम्प्रहारसमरा जन्यं युदायोधनं संस्फोटः कलहो मृधं प्रहरणं संयद्रणो विग्रहः ॥ ४६० ॥ द्वन्द्वं समाघातसमाह्वयाभिसम्पातसंमर्दसमित्प्रघाताः। आस्कन्दनाजिप्रधनान्यनीकमभ्यागमश्च प्रविदारणं च ॥ ४६१ ॥ समुदायः समुदयो राटिः समितिसङ्गरौ । अभ्यामः सम्परायः समीकं साम्परायिकम् ॥ ४६२ ॥
आक्रन्दः संयुगं च युध्यन्तेऽत्र युद्धम् ॥ १॥ संचक्षतेऽत्र सङ्खयं पुंक्लीबलिङ्गः, "चक्षो वाचि-" ॥ ४ ॥ ४ ॥ ४ ॥ इति ख्यादेशः ॥२॥ कल्यते क्षिप्यतेऽत्र कलिः पुंलिङ्गः, "पदिपठि-” ( उणा- ६०७ ) इति इः ॥ ३ ॥ सङ्ग्रामयन्तेऽत्र सङ्ग्रामः ॥४॥ आहूयन्ते योद्धारोऽत्रेत्याहवः, “आडो युद्धे” ॥ ५। ३ । ४३ ॥ इत्यालि वस्योत्वं ॥ ५॥ सम्प्रहरन्तेऽन्योन्यं प्रत्यत्र सम्प्रहारः ॥ ६ ॥ समियूते सङ्घटन्तेऽत्र समरः पुंक्तीबः, “पुनाम्नि-" ॥ ५। ३ । १३० ॥ इति घः ॥ ७ ॥ जायते विद्वेषाजन्यं “भव्यगेय-" ॥ ५। १ । ७ ॥ इति यः, पुंक्तीबलिङ्गावेतौ ॥ ८ ॥ युध्यन्तेऽस्यां युत् क्रुधादित्वात् क्विप् ॥ ९॥ आयुध्यन्तेऽस्मिन्नायोधनम् ॥ १० ॥ संस्फुटन्त्यत्र कातरहृदयानि संस्फोटः, संस्फेट इत्यन्ये, संफेट इति भरतः ॥ ११ ॥ कल्यते क्षिप्यतेऽत्र कलहः, “कृपृकटि-"॥ (उणा-५८९) ॥ इत्यहः, कलं हीनबलं हन्तीति वा "क्वचित्” ॥ ५। १ । १७१ ॥ इति डः, कलां जहातीति वा "ठ्यापो बहुलं-" ॥ २ । ४ । ९९ ॥ इति पूर्वस्य हवः ॥ १२ ॥ 'मृधूग उन्दे मर्धते शोणितैमृधं "नाम्युपान्त्य-" ॥५। १ । ५४ ॥ इति कः ॥ १३ ॥ प्रहरन्तेऽत्र प्रहरणम् ॥ १४॥ संयतन्ते संयच्छन्ति वाऽत्र संयत् क्लीबलिङ्गः, अमरस्तु"स्त्रियां संयत्" इत्याह ॥१५॥ रणन्ति दुन्दुभयोऽत्र रणं पुंक्लीबलिङ्गः,"पुंनाम्नि-" ॥ ५।३।१३०॥ इति बाहुलकाद् घः ॥१६॥ विगृह्णन्त्यत्र विग्रहः ॥ १७ ॥ ४६० ।। द्वौ द्वौ युध्येतेऽत्र द्वन्द्वं पृषोदरादित्वात् ,वन्द्यते वीरैरिति वा "प्रहाह्वा-"॥(उणा-५१४)। इति वे निपात्यते, 'समासकलहयुग्मेषु' इति भोजः ॥ १८ ॥ सङ्गत्या नन्ति परस्परमत्र समाघातः ॥ १९॥ संपृच्छन्त्याह्वयं नामात्र समाह्वयः ॥ २० ॥ अभिसम्पतन्त्यत्र अभिसम्पातः ॥ २१ ॥ संमृद्नन्त्यत्र सम्मदः ॥ २२ ॥ संयन्ति सङ्गच्छन्तेऽत्र समित् 'क्रुत्सम्पदादि-" ॥ ५। ३ । ११४ ॥ इति क्विप् ॥ २३ ॥
Page #320
--------------------------------------------------------------------------
________________
३२०
अभिधानचिन्तामणौ-.
प्रकर्षण नन्त्यत्र प्रघातः ॥ २४ ॥ आस्कन्दन्त्यत्र आस्कन्दनम् ॥ २५ ॥ अजन्त्यधिक्षिपन्त्यस्यामाजिः स्त्रीलिङ्गः “पादाच्चात्यजि-" ॥ ( उणा- ६२.० ) ॥ इति णिदिः ॥ २६ ॥ प्रधनति हन्ति प्रधनं, धनिमरणार्थोऽत्र निधनवत् ॥२७॥ अनन्ति जीवन्ति सुभटा अनेन अनीकं पुंक्लीबलिङ्गः, अनीकं सैन्यमस्त्यत्र वा, अभ्रादित्वादः ॥२८॥ अभ्यागच्छन्त्यस्मिन्नभ्यागमः ॥२९॥ प्रविदार्यतेऽत्र प्रविदारणम्॥३०॥ ॥ ४६१ ॥ समुदयन्ते मिलन्त्यत्र समुदायः ॥ ३१ समुद्यन्त्यत्र समुदयः ॥ ३२ ॥ रटन्ति कलहायन्तेऽस्यां राटिः स्त्रीलिङ्गः, “कमिवमि-" ॥( उणा-६१८ )॥ इति बहुवचनाद् णिदिः ॥ ३३ ॥ संयन्त्यस्यां समितिः, श्व्रादित्वात् क्तिः ॥ ३४ ॥ सङ्गिरन्ते संगृणन्ति वाऽत्र सङ्गरः ॥ ३५॥ अभ्यामृद्नन्ति अस्मिन्नभ्यामर्दः ॥३६॥ सम्परैति मृत्युरत्र सम्परायः, पुंक्लीबलिङ्गः ॥ ३७ ॥ समीयतेऽत्र समीकं “ सृणीकास्तिक-" ॥ (उणा-५०) ॥ इति के निपात्यत ॥ ३८ ॥ सम्परायो मृत्युः प्रयोजनमस्य साम्परायिकम् ॥ ३९ ॥ ४६२ ॥ आक्रन्दन्त्यत्र कातरा आक्रन्दः ॥४०॥ संयुज्यन्तेऽत्र संयुगं पुंक्तीबलिङ्गः, स्थादित्वात् के न्यङ्कवादित्वाद् गत्वं, सङ्गता रथयुगा अत्रेति वा ॥ ४१॥
___ अथ नियुद्धं तद्भुजोद्भवम् । तत् युद्धं बाहुभिर्जनितम् , नियतं युद्धं नियुद्धम् ॥ १ ॥
पटहाडम्बरौ तुल्यौ पटे हन्यते स्म पटहो वाद्यविशेषः, यद्वाचस्पतिः- “महासमरतूर्य तु पटहाडम्बरावुभौ ॥ १ ॥ आदम्यते आडम्बरः, “जठर-” ( उणा- ४०३ ) इत्यरे निपात्यते पुंक्लीबलिङ्गावेतौ ॥ २ ॥
तुमुलं रणसङ्कुलम् ॥ ४६३ ॥ ताम्यन्त्यनेन तुमुलं, "कुमुलतुमुल-" ॥ (उणा-४८७) ॥ इत्युले निपात्यते ॥ १ ॥ रणेन सङ्कुलं रणसङ्कुलम् ॥ २ ॥ ४६३ ॥
नासीरं त्वग्रयानं स्यात् 'णासृङ् शब्दे' नासते नासीरं, "जम्बीराभीर-" ॥ (उणः-४२२) ।। इतीरे निपात्यते, स्त्रीक्लीबलिङ्गोऽयं, वैजयन्ती तु- “नासीरोऽस्त्री' इत्याह ॥ १ ॥ अग्रे यानमस्य अग्रयानम् ॥ २ ॥
अवमर्दस्तु पीडनम् । अवमर्दनमवमर्दः ॥ १ ॥ पांड्यते पीडनम् ॥ २ ॥
प्रपातस्त्वभ्यवस्कन्दो धाट्यभ्यासादनं च सः ॥ ४६४ ॥
Page #321
--------------------------------------------------------------------------
________________
३ मत्यकाण्डः ।।
३२१
प्रपतनं प्रपातः छलादाक्रमणमित्यर्थः ॥ १॥ अभ्यवस्कन्दनमभ्यवस्कन्दः, अवस्कन्दोऽपि ॥२॥ धावन्तोऽटन्त्यस्यां धाटिः पृषोदरादित्वात् , ड्यां धाटी ॥३॥ अभ्यासाद्यतेऽभ्यासादनम् ॥ ४ ॥ ४६४ ॥
तद् रात्रौ सौप्तिकं तदभ्यासादनं निशि सुप्तेषु भवं सौप्तिकम् , अध्यात्मादित्वादिकण् ॥ १ ॥
वीराशंसनं त्वाजिभीष्मभूः । वीरा आशंस्यन्तेऽत्र वीराशंसनम् ॥ १ ॥ आजेः सङ्ग्रामस्य भीष्माऽतिघोरा भूमिः "वाराशंसनी' इत्यमरः ॥
नियुद्धभूरक्षवाटः, अक्षो मल्लानां युद्धस्य व्यवहारस्तस्य वाटोऽक्षवाटः ॥ १ ॥ ___ मोहो मूर्छा च कश्मलम् ॥ ४६५ ।।
मोहनं मोहः प्रहारः ॥ १॥ मूर्छनं मूर्छा ॥ २ ॥ 'कश शब्दे' कशति वैचित्र्यादनेन कइमलं "रुचिकुटि-'' ( उणा- ५०२ ) इति मलः ॥ ३ ॥ ४६५ ॥
वृत्ते भाविनि वा युद्धे पानं स्याद्वीरपाणकम् । वीराणां मद्यपानं वीरपाणं “पानस्य भावकरणे" ॥ २ । ३ । ६९ ॥ इति णत्वम् ॥ १॥ ..
पलायनमपयानं संदावद्रवविद्रवाः ॥ ४६६ ॥
अपक्रमः समुत्प्रेभ्यो द्रावः पलायते पलायनम् ॥ १ ॥ अपमृत्य यायतेऽपयानम् ॥२॥ संदवनं संदावः, "युदुद्रोः” ॥ ५ । ३ । ५९ ॥ इति घञ् ॥ ३ ॥ द्रवणं द्रवः ॥ ४ ॥ विद्रवणं विद्रवः ॥५॥४६६॥ अपावृत्य क्रमणमपक्रमः ॥६॥ समुत्प्रेभ्यः परो द्रावशब्दः, संद्रवणं संद्रावः "युदुद्रोः” ॥ ५।३।५९ ॥ इति घञ् ॥७॥ “यपूद्रो-" ॥५।३।५४॥ इति घनि उद्दावः ॥ ८ ॥ “प्रात्स्नुद्रुस्तोः" ॥ ५ । ३ । ६७ ॥ इति घनि प्रद्रावः, नशनमपि ॥ ९ ॥
अथ विजयो जयः । विजयनं विजयः ॥ १ ॥ जीयते जयः ॥ २ ॥ ___ पराजयो रणे भङ्गः पराजयनं पराजयः ॥ १॥
डमरे डिम्बविप्लवौ ॥ ४६७ ॥
Page #322
--------------------------------------------------------------------------
________________
३२२
अभिधानचिन्तामणौ-
.
.
दाम्यति डमरः लुण्ट्यादिः अशस्तकलह इत्येके “दर्णिद्वा दश्च ड:-" (उणा- .. ४०२ ) इत्यरः तत्र ॥ १ ॥ डयन्तेऽस्माद् डिम्बः पुंक्लीबलिङ्गः, डीनी बध्नाति डिम्बः ॥ २॥ विप्लवनं विप्लवः ॥ ३ ॥ ४६७ ॥
शेषश्चात्र
स्याच्छृगाली तु विप्लवे । वैरनिर्यातनं वैरशुद्धिरैप्रतिक्रिया । 'यतण निकारोपस्कारयोः' निर्यात्यते शोध्यते निर्यातनं वैरस्य निर्यातनं वैरनिर्यातनम् ।।१।। वैरस्य शोधनं वैरशुद्धिः ॥२॥ वैरस्य प्रतिकारो वैरप्रतिक्रिया ॥३॥
बलात्कारस्तु प्रसभं हठः, 'बलादित्यव्ययं हठार्थे' बलात् करणं बलात्कारः ॥ १ ॥ प्रगता सभा अत्र प्रसभं, सभया युक्तायुक्तविचारो लक्ष्यते क्लीबलिङ्गोऽयम् , वैजयन्ती तु- “प्रसभोऽस्त्री बलात्कारः" इति पुंस्यप्याह ।। २ ।। हठति हठः ।। ३ ।।
अथ स्खलितं छलम् ॥ ४६८॥ . स्खलनं मार्गाचचलनं स्खलितम् ॥ १ ॥ छयति छलम् ॥ २ ॥
परापर्यऽभितो भूतो जितो भनः पराजितः । परादिशब्देभ्यः परो भूतः पराभूतः॥१॥ परिभूतः॥२॥ अभिभूतः।।३॥ जीयते स्म जितः ॥४॥ भज्यते स्म भन्नः ॥ ५ ॥ पराजीयते स्म पराजितः ।। ६ ।।
पलायितस्तु नष्टः स्याद् गृहीतदिक् तिरोहितः ॥ ४६९ ॥ परावृत्य अयते पलायितः, “उपसर्गस्यायौ” ॥ । ३ । १०० ॥ इति रस्य लत्वम् ।। १ ।। नश्यति स्म नष्टः ।। २ ॥ गृहीता दिग् येन गृहीतदिक् ॥ ३ ॥ तिरोधत्ते स्म तिरोहितः ॥ ४ ॥ ४६९ ॥
जिताहवो जितकाशी जित आहवोऽनेन जिताहवः ॥ १ ॥ जितेन काशते जितकाशी ॥ २ ॥
प्रस्कन्नपतितौ समौ । प्रस्कन्दते स्म प्रस्कन्नः ॥ १ ॥ पतति स्म पतितः ॥ २ ॥
चारः कारा गुप्तौ
चरन्त्यति चारः, के चारकोऽपि ॥ १॥ क्रियते कीर्यते वाऽस्यां कारा भिदादित्वादङि साधुः ॥ २ ॥ गुप्यतेऽस्यां गुप्तिर्बन्धनागारं तत्र ॥ ३ ॥
बन्द्यां ग्रहकः प्रोपतो ग्रहः ॥ ४७० ॥
Page #323
--------------------------------------------------------------------------
________________
३ मर्त्यकाण्डः ।
३२३
वन्दते. स्तौति भयेन बन्दी, हठाकृष्टा स्त्री, बलवतो हस्ते क्षिप्तो राजपुत्रादिश्व, यदाहुः-'बन्दी स्यात् पणबन्धस्थः' इति अचि गौरादित्वात् ङीस्तत्र ॥१॥ गृह्यते ग्रहः, के ग्रहकः ॥ २ ॥ प्रोपशब्दाभ्यां परो ग्रहः प्रग्रहः, उपग्रहः ॥३॥४॥४७०॥
चातुर्वर्ण्य द्विजक्षत्रवैश्यशूद्रा नृणां भिदः । ब्राह्मणः, क्षत्रियः, वैश्यः, शूद्रश्चेति वक्ष्यमाणा मनुष्याणां भिदो जातिविशेषाः, वर्ण्यन्ते इति वर्णाः, चत्वारो वर्णाश्चातुर्वर्ण्य भेषजादित्वात् खार्थे व्यण् ॥ १॥
ब्रह्मचारी गृही वानप्रस्थो भिक्षुरिति क्रमात् ॥ ४७१ ॥
चत्वार आश्रमाः ब्रह्मचर्यादयोऽर्था द्विजातीनां वक्ष्यमाणाश्चत्वारः, आश्राम्यन्ति तपस्यन्त्येष्वित्याश्रमाः, तात्स्थ्यात् पुमांसः पुंक्कीबलिङ्गः ॥ १ ॥ ४७१ ॥
__तत्र वर्णी स्याद् ब्रह्मचारिण।
तेष्वाश्रमेषु आद्यो वर्णशब्दो ब्रह्मचर्यपयार्यः, वर्णोऽस्ति अस्य वर्णी "वर्णाद् ब्रह्मचारिणि" ॥ ७ । २ । ६९ ॥ इतीन् , ब्रह्म वेदाः, ब्रह्म तपः, ब्रह्म ज्ञानं च शाश्वतं तच्चरत्यर्जयत्यवश्यं ब्रह्मचारी तत्र ॥१॥
ज्येष्ठाश्रमी गृहमेधी गृहस्थः स्नातको गृही ॥ ४७२ ॥
ज्येष्टश्चासौ आश्रमी च ज्येष्ठाश्रमी, यन्मनुः
यस्मात्त्रयोऽप्याश्रमिणो ज्ञानेनान्नेन चान्वहम् ।
गृहस्थैरेव धार्यन्ते तस्माद् ज्येष्ठाश्रमो गृही ॥ १॥ गृहेण मधते गृहमेधी ॥ २ ॥ गृहे तिष्ठति गृहस्थः ॥ ३ ॥ वेदं समाप्य स्नातः स्नातकः " स्नाताद्वेदसमाप्तौ” ॥ ७ । ३ । २२ ॥ इति कः ॥ ४ ॥ गृहमस्यास्ति गृही ॥ ५ ॥ ४७२ ॥
वैखानसो वानप्रस्थः • विशेषेण खनति कन्दफलमूलानि वैखानसः, “फनस-" ॥ (उणा-५७३)॥ इत्यसे निपात्यते ॥ १८ प्रतिष्ठन्तेऽत्र प्रस्थः, वनस्य प्रस्थे भवो वानप्रस्थः ॥२॥
भिक्षुः सांन्यासिको यतिः । कर्मन्दी रक्तवसनः परिव्राजकतापसौ ॥ ४७३ ॥
पाराशरी पारिकाङ्क्षी मस्करी पारिरक्षकः । भिक्षणशीलो भिक्षुः ॥१॥ कर्मणां संन्यासः प्रयोजनमस्य सांन्यासिकः ॥२॥
Page #324
--------------------------------------------------------------------------
________________
३२४
अभिधानचिन्तामणौ- . .
.
यततेऽपवर्गाय यतिः ॥ ३ ॥ कर्मन्देन प्रोक्तं भिक्षुसूत्रं वेत्त्यधीते वा कर्मन्दी, " कृशाश्वकर्मन्दात्-" ॥ ६ । ३ । १९० ॥ इतीन् ॥ ४ ॥ रक्तं वसनमस्य रक्तवसनः ॥ ५॥ परिव्रज्य सर्व संन्यस्य व्रजति परिव्राजकः ।। ६ ॥ तपः शीलमस्य तापसः, “अङ्स्थाच्छत्रादे-" ॥ ६ । ४ । ६० ॥ इत्यञ् , तपोऽस्यास्तीति वा ज्योत्स्नादित्वादण्, तपस्व्यपि ॥ ७ । ४७३ ॥ पाराशर्येण प्रोक्तं भिक्षुसूत्रं वेत्त्य. धीते वा पाराशरी, “ शिलालिपाराशर्यानटभिक्षुसूत्रे" ॥ ६ । ३ । १८९ ॥ इति णिन् ॥ ८ ॥ परिकाङ्क्षति पारिकाडी बाहुलकाद्दीर्घः ॥ ९ ॥ माकरणशीलो मस्करी स ह्याह-मा कृषत कर्माणि शान्तिर्वः श्रेयसीति, वर्चस्कादित्वात् साधुः ॥ १० ॥ परिरक्षा प्रयोजनमस्य पारिरक्षिकः ॥ ११ ॥ ___स्थाण्डिलः स्थण्डिलशायी यः शेते स्थण्डिले व्रतात् ॥ ४७४ ॥
स्थण्डिल एव शेते स्थाण्डिलः, “स्थण्डिलाच्छेते व्रती" ॥६।२ । १३९ ॥ इत्यण् ॥ १॥ स्थण्डिले शेते स्थण्डिलशायी, "व्रताऽऽभीक्ष्ण्ये” ॥५।१।१५७॥ इति णिन् ॥ २ ॥ ४७४ ॥
तपःक्लेशसहो दान्तः तपःक्लेशं सहते तपःक्लेशसहः, तपःक्लेशाऽनुद्विग्नः ॥ १॥ दम्यते स्म दान्तः, “णौ दान्त-" ॥ ४ । ४ । ७४ ॥ इति क्ते साधुः ॥ २ ॥
शान्तः श्रान्तो जितेन्द्रियः । __ शाम्यति स्म शान्तः ॥ १ ॥ श्राम्यति स्म श्रान्तः ॥२॥ जितानीन्द्रियाण्यनेन जितेन्द्रियः ॥ ३॥
अवदानं कर्म शुद्धं अवदीयतेऽनेन अवदानम् ॥ १ ॥ शुद्धं सोत्कर्ष कर्म चरितम् ॥ २ ।।
ब्राह्मणस्तु त्रयीमुखः ।। ४७५ ॥ भूदेवो वाडवो विप्रो व्यग्राभ्यां जातिजन्मजाः । वर्णज्येष्ठः सूत्रकण्ठः षट्कर्मा मुखसम्भवः ।। ४७६ ॥
वेदगर्भः शमीगर्भः सावित्रो मैत्र एतसः ।। ब्रह्मणोऽपत्यं ब्राह्मणः, " सोऽपत्ये." ॥६।१ । २८ ॥ इत्यणि "जातौ"॥७१४।५८॥ इत्यत्र अनपत्य एवेति नियमात् "अचमोऽमनो-" ॥७।४।५९॥ इत्यन्तस्वरादिलोपो न भवति, ब्रह्म अणति वा पृषोदरादित्वात् , ब्रह्माप्यभेदोपचारात् ॥ १॥ त्रयी ऋग्यजुःसामवेदा मुखेऽस्य त्रयीमुखः ॥२॥ ४७५ ॥ भुवि देवो भूदेवः ॥ ३ ॥ वाडव इवाऽतृप्तत्वाद वाडवः, वडवा ब्राह्मणी तदपत्यमिति
Page #325
--------------------------------------------------------------------------
________________
३ मर्त्यकाण्डः ।
३२५
वा ॥४॥ विविधं प्राति पूरयति विप्रः, विशेषेण पातीति वा “खुरक्षुर-" ॥(उणा३९६)॥ इति रे निपात्यते ॥५॥ द्यग्राभ्यां परे जातिजन्मजाः, “मातुरग्रे विजननं द्वितीयं मौजिबन्धनम्” इति स्मृतेः, द्वे जाती जन्मनी वाऽस्य द्विजातिः॥६॥ द्विजन्मा ॥७॥ द्विर्जातो द्विजः ॥८॥ अग्रे आदौ, अग्राद् मुखाद्वा जातिर्जन्म चाऽस्य अग्रजातिः ॥ ९ ॥ अग्रजन्मा ॥ १० ॥ अग्रे अग्राद् वा जातोऽग्रजः ॥११॥ वर्णानां ज्येष्ठो वर्णज्येष्ठः ॥१२॥ सूत्रं यज्ञोपवीतं कण्ठेऽस्य सूत्रकण्ठः॥१३॥षड्-अध्ययनम् , अध्यापनम् , यजनम् , याजनम्, दानम् ,प्रतिग्रहश्चेति काण्यस्य षट्कर्मा॥१४॥ब्रह्मणो मुखात् सम्भवति मुखसम्भवः,यच्छ्रतिः-"ब्राह्मणोऽस्य मुखमासीत् इति॥१५॥४७६॥ वेदा गर्भेऽस्य वेदगर्भः ॥१६॥ शमीगर्भोऽग्निः, स इव घस्मरत्वात् शमीगर्भः ॥१७॥ सावित्री देवताऽस्य सावित्रः, सावित्र्यनुवचनं विना मौजीबन्धनाऽभावात् ,यन्मनु:
"तत्र यद् ब्रह्मजन्माऽस्य मौजीबन्धनचिह्नितम् ।
तत्राऽस्य माता सावित्री पिता त्वाचार्य उच्यते ॥” इति ॥ १८ ॥ मित्रो देवताऽस्य मैत्रः ॥ १९ ॥ एतीत्येतसः " इणः " ॥ (उणा-५८१) ॥ इति तसः ॥ २० ॥
वटुः पुनर्माणवकः वटति वेष्टयति मौजी वटुः, “भृमृतृ-"॥(उणा-७१६)॥ इत्युः ॥१॥ मनोरपत्यं कुत्सितं मूढं माणवः, “माणवः कुत्सायाम् ॥ ६।१।९५ ॥ इत्यणि साधुः, मणति शब्दायते इति वा “मणिवर्णित्" ॥ (उणा-५१६) ॥ इत्यवः, के माणवकः ॥२॥
भिक्षा स्याद् ग्रासमात्रकम् ॥ ४७७ ॥ भिक्ष्यते भिक्षा, ग्रास इव ग्रासमात्रम् , यदाहुः
"ग्रासप्रमाणं भिक्षा स्यादग्रग्रासचतुष्टयम् ।
अग्रं चतुर्गुणं प्राहुर्हन्तकारं द्विजोत्तमाः" ॥ इति ॥ १॥ ४७७ ॥
उपनायस्तूपनयो वटूकरणमानयः । उपनायमुपनायो मौजीबन्धनम् , यन्मनु:-"गर्भाष्टमेऽब्दे कुर्वांत ब्राह्मणस्यो.फ्नायनम् ॥ १॥ उपनयनमुपनयः ॥२॥ अवटुर्वटुः क्रियतेऽनेन वटूकरणम् ॥३॥ आनयनमानयः ॥ ४ ॥
अग्नीन्धनं त्वग्निकार्यमानीध्रा चामिकारिका ॥ ४७८ ।।
अग्निरिध्यतेऽस्मिन् अग्नीन्धनम् ॥ १॥ अग्नेः कार्यमग्निकार्यम् ॥ २ ॥ अग्निमिन्धेऽग्नीध् ऋत्विविशेषः, तस्येयमाग्नीध्रा, “गृहेऽनीधो रणधश्च" ॥ ६।३।१७४ ॥ . इति रण् , प्रज्ञादित्वात् स्वार्थेऽणि आग्नीध्रीत्यपि ॥ ३ ॥ अग्नेः करणमग्निकारिका "भावे" ॥ ५।३।१२२ ॥ इति णकः ॥ ४ ॥ ४७८ ॥
Page #326
--------------------------------------------------------------------------
________________
३२६
अभिधानचिन्तामणौ- .
पालाशो दण्ड आषाढो व्रते
व्रते ब्रह्मचर्याश्रमकर्माण, पलाशस्य विकारोऽवयवो वा पालाशः, “प्राण्योष. धि-" ॥ ६॥२॥३१॥ इत्यण् ॥ १॥ दण्डो यष्टिः, आषाढाः प्रयोजनमस्य आषाढः "विशाखाऽऽषाढाद् मन्थदण्डे" ॥ ६।४।१२० ॥ इत्यण् ॥ २ ॥
राम्भस्तु वैणवः। व्रते दण्ड इत्येव, रम्भा वेणुपर्यायः, रम्भायाः विकारो राम्भः, “प्राण्यौषधि-" ॥६॥२॥३१॥ इत्यण् ॥ १ ॥ वेणोविकारो वैणवः, "प्लक्षादेः-" ॥६।२।५९॥ इत्यण ॥ २ ॥
बैल्वः सारस्वतो रौच्यः ___व्रते दण्ड इत्येव, बिल्वस्य विकारोऽवयवो वा बैल्वः ॥ १ ॥ सारस्वती-रुच्यशब्दौ बिल्वपर्यायौ, सरखत्या विकारः सारस्वतः ॥ २ ॥ रुच्यस्य रौच्यः ॥ ३ ॥
__पैलवस्त्वौपरोधिकः ॥ ४७९ ॥
व्रते दण्ड इत्येव, पीलोर्विकारः पैलवः ॥ १॥ समीपमागच्छतां दुष्टसत्त्वानां रोधो निवारणं प्रयोजनमस्य इकणि, पृषोदरादित्वात् औपरोधिकः ॥२॥४७९॥
आश्वत्थस्तु जितनेमिः व्रते दण्ड इत्येव, अश्वत्थस्य विकारोऽवयवो वाऽऽश्वत्थः ॥ १॥ क्षुद्रजन्तुघातेन जिता नेमिरनेन जितनेमिः ।। २ ॥
औदुम्बर उलूखलः । व्रते दण्ड इत्येव, उदुम्बरस्य विकारोऽवयवो वा औदुम्बरः ॥ १ ॥ उदुम्बरपर्याय उलूखलशब्दः, उलूखलस्य विकारोऽवयवो वा उलूखलः, “प्राण्यौषधि-" ॥६॥२॥३१॥ इत्यण, "लुब् बहुलं पुष्पमूले" ॥६॥२॥५७॥ इति तस्य लुप् ॥ २ ॥ मनुस्तु- ब्राह्मणो बैल्वपालाशौ क्षत्रियो वाटखादिरौ।
पैलवौदुम्बरौ वैश्यो दण्डानहन्ति धर्मतः ॥ इत्याह । जटा सटा जायते तपसि जटा, तपखिनां प्रथितः केशसङ्घातः ॥ १॥ सन्यते सटा "नमितनि-"॥ (उणा- १३९)॥ इति टो न लुक् च, 'जट सङ्घाते' 'षट अवयवे' इत्यनयोर्वाऽच् ॥ २॥
__ वृषी पीठं तपस्विनां पीठम् , ब्रुवन्तः सीदन्त्यस्यां वृषी, पृषोदरादित्वात् सः, गौरादित्वात् ङीः, वृसीत्यपि ॥ १ ॥२॥
नाम:
Page #327
--------------------------------------------------------------------------
________________
३ मर्यकाण्डः ।
___३२७
कुण्डिका तु कमण्डलुः ॥ ४८०॥
कुण्डते कुण्डी "भाजगोण-" ॥ २॥४॥३० ॥ इति ङी, के कुण्डिका ॥ १॥ कं पानीयमनित्यत्र कमण्डलुः पुंक्लीबलिङ्गः, “गूहलुगुग्गलुकमण्डलवः” ॥ (उणा८२४ ) ॥ इति साधुः, कं जलं अण्डे मध्ये लाति वा ॥ २ ॥ ४८० ॥
श्रोत्रियश्छान्दसः छन्दोऽधीते श्रोत्रियः, “छन्दोऽधीते श्रोत्रश्च वा" ॥११७३ ॥ इतीयः श्रोत्रादेशश्च, पक्षे “ तद् वेत्त्य-" ॥ ६।२।११७ ॥ इत्यणि छान्दसः ॥ १॥२॥
यष्टा त्वादेष्टा स्याद् मखे व्रती ।
याजको यजमानश्च यजते यष्टा ॥ १ ॥ आदिशति खाम्येन आदेष्टा, मखे यज्ञे व्रती सनियमः ॥२॥ यजात याजकः ॥३॥ यजते यजमानः “पूट्यजः शानः"॥५।२।२३॥४॥
सोमयाजी तु दीक्षितः ॥ ४८१ ॥ सोमेन यजति सोमयाजी ॥ १ ॥ दीक्षा संजाताऽस्य दीक्षितः ॥२॥४८१॥
इज्याशीलो यायजूकः इज्या यजनं शीलमस्य इज्याशीलः ॥ १॥ मृशं यजनशीलो यायजूकः, "यजिजपि-" ॥ ५।२।४७ ॥ इति यङन्तात् यजेरूकः ॥ २ ॥
यज्वा स्यादासुतीबलः । इष्टवान् यज्वा, "सुयजोवनिप्" ॥५।१।१७२॥१॥ आसुतिः सोमसंधानमस्त्यऽस्य आसुतीवलः कृष्यादित्वाद् बलच् , “बलच्यपित्रादेः" ॥३।२।८२॥ इति दीर्घः १ ॥२॥ . सोमपः सोमपीथी स्यात्
सोमं पिबति सोमपः ॥१॥ पानं पीथीः, “ नीनूर-" ॥ (उणा-२२७) । इति कित् थः, सोमपस्य पीथोऽस्त्यस्य सोमपीथी ॥२॥
स्थपतिंर्गी:पतीष्टिकृत् ॥ ४८२ ॥ गीपवृहस्पतेः इष्टिं यज्ञं करोतीति गीःपतीष्टिकृत् , बृहस्पतिसवेन हेतुना स्थापयतीति स्थपतिः ॥ १॥२॥४८२ ॥
___ सर्ववेदास्तु सर्वस्वदक्षिणं यज्ञमिष्टवान् । . सर्व विदन्यस्मात् सर्ववेदाः, “अस्” ॥(उणा-९५२)॥ इत्यस् ॥१॥ सर्वस्वं दक्षिणाऽत्र सर्वस्वदक्षिणस्तमिष्टवान् ॥ २ ॥
Page #328
--------------------------------------------------------------------------
________________
*३२८
अभिधानचिन्तामणो- .
यजुर्विदध्वर्युः , यजुर्वेदं वेत्ति यजुर्वित् ॥१॥ अध्वरं याति अध्वर्युः, “केवयुभुरणु-'' ॥ (उणा७४६) ॥ इति निपात्यते ॥ २ ॥
ऋग्विद होता ऋग्वेदं वेत्ति ऋग्वित् ॥१॥ जुहोतीति होता, "हूपूद्-" ॥ (उणा-८६३)॥ इति तृः ॥ २॥
उद्गाता तु सामवित् ॥ ४८३ ॥ सामान्युद्गायति उद्गाता, "हूपूद्ग-” ॥ (उणा-८६३)॥ इति तृः ॥१॥ सामवेदं वेत्तीति सामवित् ॥ २ ॥ ४८३ ॥ __ यज्ञो योगः सवः सत्रं स्तोमो मन्युर्मखः क्रतुः ।
संस्तरः सप्ततन्तुश्च वितानं बर्हिरध्वरः ॥ ४८४ ॥ इज्यते यज्ञः, “यजिखपि-" ॥ ५।३।८५ ॥ इति नः ॥ १॥ घञि यागः ॥ २॥ सूयते सोमोऽत्र सवः ॥ ३ ॥ सीदन्त्यत्र देवाः सत्रम् , “ हुयामा-" (उणा-४५१) ॥ इति त्रः ॥ ३ ॥ स्तुवन्ति अत्र यज्वानः स्तोमः, " अर्तीरि-" (उणा-३३८) ॥ इति मः, स्तोम्यते श्लाघ्यते वा ॥५॥ मन्यतेऽसौ मन्युः पुंलिङ्गः, "यजिशुन्धि-" ॥ (उणा-८०१) ॥ इति युः॥६।। मह्यन्ते देवा अत्र मखः, “महे. रुच्चास्य वा" ॥ ( उणा-८९) ॥ इति खो हलुक् , मखति धर्ममेति वा ॥ ७ ॥ क्रियते स्वर्गकामैः क्रतुः पुंलिङ्गः, " कृलाभ्यां किंत्" ॥ (उणा-७८०) ॥ इत्यतुः ॥८॥ संस्तीर्यन्ते दर्भा अत्र संस्तरः, "पुंनाम्नि-' ॥ ५॥३।१३० ॥ इति घः ॥९॥ पशुबन्धार्थ सप्त तन्तवोऽत्र सप्ततन्तुः पुंलिङ्गः, यद्वा सप्तसङ्ख्यास्तन्तवो भेदा अस्य, यदाह- 'अग्निष्टोमादयः संस्था भेदाः सप्ताऽस्य तन्तवः' इति॥१०॥ वितन्यते वितानं पुंक्तीबलिङ्गः ॥ ११॥ बृंहति वर्धते धर्मोऽत्र बहिः, क्लीबलिङ्गः "बंहिव॒हेर्नलुक् च" ॥ ( उणा-९९०)॥ इतीस् ॥ १२ ॥ न ध्वरत्यध्वरः, अध्वानं रातीति वा ॥ १३ ॥ ४८४ ॥
अध्ययन ब्रह्मयज्ञः ... अधीयतेऽध्ययनं खाध्यायः ॥ १ ॥ ब्रह्मणे यजनं दानं ब्रह्मयज्ञः ॥ २ ॥
स्याद् देवयज्ञ आहुतिः ।
होमो होत्रं वषट्कारः है. देदेभ्यो पजनं देवयहः ॥ १॥ आडूयतेऽसावकावाहुतिः ॥ २ ॥ हूयते होमः, " अर्तीरि-" ॥ ( उणा-३३८) ॥ इति मः ॥३॥ “हुयामा-" ॥ (उणा
Page #329
--------------------------------------------------------------------------
________________
३ मयंकाण्डः ।
३२९ ४५१ ) ॥ इति त्रे होत्रम् ॥ ४ ॥ वषट्करणं वषट्कारः ॥ ५ ॥
पितृयज्ञस्तु तर्पणम् ॥ ४८५ ॥
तच्छ्राद्धं पिण्डदानं च पितृभ्यो यजनं पितृयज्ञः ॥ १॥ तप्यतेऽनेन तर्पणम् ॥ २ ॥४८५ ॥ श्रद्धा प्रयोजनमस्य श्राद्धं पुंक्लाबलिङ्गः, चूडादित्वादण् ॥ ३ ॥ पिण्डो दीयतेऽस्मिन् पिण्डदानम् ॥ ४॥
.. नृयज्ञोऽतिथिपूजनम् ।
नृभ्यो यजनं दानं नृयज्ञः ॥ १ ॥ अतिथयः पूज्यन्तेऽस्मिन्निति अतिथिपूजनम् ॥ २॥
भूतयज्ञो बलिः . भूतेभ्यो काकादिभ्यो यजनं भूतयज्ञः ॥१॥ बलत्यनेनेति बलिः पुंस्त्रीलिङ्गः ॥२॥ उपसंहारमाह
पञ्च महायज्ञा भवन्त्यमी ॥ ४८६ ॥ अमी ब्रह्मयज्ञादयः, यन्मनु:
अध्यापनं ब्रह्मयज्ञः पितृयज्ञस्तु तर्पणम् । होमो देवो बालभूतो नृयज्ञाऽतिथिपूजनम् ॥ इति ॥ ४८६ ॥ पौर्णमासश्च दर्शश्च यज्ञौ पक्षान्तयोः पृथक् । शुक्लपक्षान्ते यज्ञः पूर्णमास्यां भवः पौर्णमासः, “भर्तुसन्ध्यादेरण"॥६।३।०९।। ॥ १ ॥ कृष्णपक्षान्त यज्ञः दर्शभवत्वाद् दर्शः, आमावास्य इत्यर्थः ॥ १ ॥ .... सौमिकी दीक्षणीयष्टिः __सोमः प्रयोजनमस्याः सौमिकी ॥ १॥ दीक्षणीयस्य दीक्षार्हस्य इष्टिीक्षणीयेष्टिः ॥२॥ .....दीक्षा तु व्रतसंग्रहः ॥ ४८७ ॥ दीक्षणं दीक्षा ॥ १ ॥ व्रतं शास्त्रतो नियमस्तस्य संग्रहः ॥ २॥ ४८७ ॥
वृतिः सुगहना कुम्बा वियतेऽनया वृतिः कण्टकाद्यावरणं प्रस्तावाद् यज्ञवाटस्य, सा सुगहना निचिता कुंम्ब्यते आच्छाद्यतेऽनया कुम्बा, "भिषिभूषि-" ॥५।३।१०९॥ इति अङ्॥ १ ॥
वेदी भूमिः परिष्कृता ।। परिष्कृता चातुरस्रेण यागार्थ भूषिता भूमिः ॥ १॥ विदन्त्येनां वेदी, “ वि
Page #330
--------------------------------------------------------------------------
________________
३३०
अभिधानचिन्तामणौ- ...
दिवृतेर्वा” ॥ ( उणा- ६१० ) ॥ इति इः, ड्यां वेदी ॥ २ ॥
स्थण्डिलं चत्वरं चान्या अन्या यागार्थमसंस्कृता भूमिः 'स्थल स्थाने' स्थलन्ति तिष्ठन्त्यत्र स्थण्डिलं, "स्थाण्डिलकपिल-" ॥ ( उणा- ४८४ ) ॥ इतीले निपात्यते ॥ १॥ चत्यते चत्वरं “कृगृश-" ॥ ( उणा- ४४१ ) ॥ इति वरट् ॥ २ ॥
यूपः स्याद् यज्ञकीलकः ॥ ४८८ ॥ यूयते पशुरनेन यूपः, “युसुकु." ॥ ( उणा-२९७ ) ॥ इति प ऊत्वं च पुंलिङ्गोऽयम् , वैजयन्ती तु- "यूपोऽस्त्री संस्कृतस्तम्भः” इति क्लीबेऽप्याह। यज्ञे पशुविशसनाय कीलको यज्ञकीलकः ॥ १॥ ४८८ ॥
___चषालो यूपकटके
तक्ष्णा घटितो यूपाग्रे कटकाकृतिः, चष्यते उत्कीर्यते चषालः पुंक्तीवलिङ्गः, "ऋकृमृ-" ॥ ( उणा- ४७५ ) ॥ इत्यालः ॥१॥
यूपकर्णो घृतावनौ। यूपस्य कर्णो यूपकर्णः । घृतस्य अवनिनिषेकस्थानं घृतावनिस्तत्र ॥१॥
यूपाग्रभागे स्यात् तम तरन्त्यनेन यूपं तर्म, “मन्” ॥ ( उणा- ९११ ) ॥ इति मन् क्लीबोऽयम् , वाचस्पतिस्तु- “यूपाग्रं तर्म न स्त्रियाम्” इति पुंस्यप्याह ॥ १ ॥
अरणिनिमन्थदारुणि ॥ ४८९ ॥ इयर्ति वह्निरस्मिन् अरणिः पुंस्त्रीलिङ्गः, "ऋहसू-" ॥ (उणा- ६३८) ॥ इत्यणिः, अग्नेर्निर्मथनाय दारु काष्ठं तत्र ॥ १ ॥ ४८९ ॥
स्युर्दक्षिणाऽऽहवनीयगार्हपत्यास्त्रयोऽमयः । दक्षिणे स्थाप्यत्वाद् दक्षिणः ॥ १॥ आहोतव्य आहवनीयः ॥ १ ॥ गृहपतिना संप्रयुक्तो गार्हपत्यः, “हृद्यपद्य-" ॥ ७॥१।११ ॥ इति ये निपात्यते ॥१॥
इदममित्रयं त्रेता इदमुक्तम् , त्रीन् इता प्राप्ता त्रेता पृषोदरादित्वाद् एत्वं ॥१॥
प्रणीतः संस्कृतोऽनलः ॥ ४९० ॥ मन्त्रादिना संस्कृतोऽनलः । प्रणीयते स्म प्रणीतः ॥ १॥४९० ॥
Page #331
--------------------------------------------------------------------------
________________
३ मर्त्यकाण्डः ।
ऋक् सामिधेनी धाय्या च समिदाधीयते यया ।
समिधामाधानी सामिधेनी ऋक्," समिध आधाने- " ॥ ६|३|१६२ ॥ इति टेन्यण् ॥ १ ॥ धीयते समिदम्मावनया “धाय्यापाय्य - " ॥ ५|१| २४ ॥ इति ध्याणि निपात्यते ॥ २ ॥
समिदिन्धनमेधेध्मतर्पणैधांसि
समिध्यते वह्निरनया समित्, संपदादित्वात् क्विप् ॥ १॥ इध्यतेऽनेन इन्धनम्॥२॥ “दशनाऽवोदै-” ॥४२॥५४॥ इति निपातनाद् नलोपे घञि एधः ॥ ३ ॥ “ विलिभिलि— ॥(उणा-३४०)॥ इति मे इध्मं क्लीबलिङ्गोऽयम्, वैजयन्ती तु–“होमेन्धनं स्यादिमोsस्त्री” इति पुंस्यप्याह ॥ ४॥ तृप्यत्यग्निरनेन तर्पणम् ॥५॥ इध्यतेऽनेन एधः क्लीबलिङ्गः, “येन्धिभ्यां यादेधौ च " || ( उणा - ९६८ ) ॥ इत्यस् ॥ ६ ॥
भस्म तु ॥ ४९१ ॥
स्वाद भूतिर्भसितं रक्षा क्षारः
" मन्"
'भस भर्त्सनदीप्त्योः ' सौत्रः, भसितं तदिति भस्म क्ली बलिङ्गः, ॥ ( उणा - ९११ ) ॥ इति मन् ॥ १ ॥ ४९१ ॥ भूयतेऽनया भूतिः ॥ २ ॥ बभस्ति वह्निना भसितम् ॥ ३ ॥ रक्ष्यतेऽनया रक्षा ॥ ४ ॥ क्षरति क्षारः, ज्वलादित्वाद् णः ॥ ५ ॥
पात्रं सुवादिकं ।
पिबन्त्यनेन पात्रं “नीदाम्बू - " || ५|२|८८ ॥ इति ऋट् ॥ १ ॥
३३१
स्रुवः सुक्
स्रवत्यस्मात् स्रुवः, “निघृषी - " ॥ ( उणा - ५११) ॥ इति द्विः ॥ १॥ स्रवति हविरस्याः स्रुक् स्त्रीलिङ्गः, “ स्रोश्चिक्” ॥ ( उणा - ८७१ ) ॥ इति चिक् ॥ २ ॥
अधरा-सोपभृत्
सा स्रुक् अधरा । उपभ्रियते उपभृत् संपदादित्वात् क्विप् ॥ १ ॥
,
· ॥ ४९२ ॥
जुहूः पुनरुत्तरा ॥ ४९२ ॥
जुह्वत्यनया जुहूः, " दिद्युद्ददृद् -" || ५|२|८३ ॥ इति क्विपि साधुः ॥ १ ॥
ध्रुवा तु सर्वसंज्ञार्थं यस्यामाज्यं निधीयते ।
ध्रुवति ध्रुवा " अच् " || ५|१|४९ ॥ इत्यच् कुटादित्वाद् गुणाभावः ॥१॥
,
Page #332
--------------------------------------------------------------------------
________________
३३२
अभिधानचिन्तामणौ- ..
योऽभिमन्व्य निहन्येत स स्यात् पशुरुपाकृतः ॥ ४९३ ॥ उप आमन्य क्रियते हन्यते स्म उपाकृतः ॥ १ ॥ ४९३ ॥
परम्पराकं शसनं प्रोक्षणं च मखे वधः । परम्परामकति परम्पराकम् ॥ १॥ शस्यते शसनम् , शमनमित्यन्ये ॥२॥ प्रोक्ष्यते प्रोक्षणं लक्षणया वधः, प्रोक्ष्य हि यज्ञे पशुहन्यते ॥ ३ ॥
हिंसार्थ कर्माभिचारः स्यात् विपक्षादीनां हिंसानिमित्तं कर्म उच्चाटनमारणादि, अभिभवितुं चरणमभिचारः ॥ १ ॥
यज्ञार्ह तु यज्ञियम् ॥ ४९४ ॥ . यज्ञमर्हति यज्ञियम् , “ यज्ञादियः” ॥ ६।४।१७९ ॥ १ ॥ ४९४ ।।
हविः सान्नाय्यम् हूयते हविः क्लीबलिङ्गः ।। १ ॥ संनीयते सांनाय्यम् , “धाय्यापाय्य" ।। ५।१।२४ ॥ इति घ्यणि निपात्यते ॥ २ ॥
आमिक्षा शृतोष्णक्षीरगं दधि । ।
क्षीरशरः पयस्या च आमृद्नाति चित्तम् , आमीयते क्षिप्यते दध्यत्रेति वा आमिक्षा "लाक्षाद्राक्षा-" ॥ ( उणा-५९७ ) ॥ इति निपात्यते, शृतं पक्कमुष्णं तप्तं च तद्गतं दधि ॥ १ ॥ क्षीरस्य शरो मण्ड इव क्षीरशरः ।। २ ॥ पयसो विकारः पयस्या “पयोद्रोर्यः " ॥ ६॥२॥३५ ॥ इति यः ॥ ३ ॥
तन्मस्तुनि तु वाजिनम् ॥ ४९५ ॥ तस्या आमिक्षाया मस्तुनि मण्डे वजति वाजिनम् , "विपिनाजिना-" (उणा२८४ ) ॥ इति इने निपात्यते ॥ १ ॥ ४९५ ॥
हव्यं सुरेभ्यो दातव्यं हूयते हव्यम् , अग्निमुखेन सुरेभ्यो दातव्यमोदनम् ।। १ ।।
पितृभ्यः कव्यमोदनम्। ब्राह्मणमुखेन पितृभ्यो दातव्यमोदनम् , कूयते शब्दायते पितृभिः कव्यम्॥१॥ उभयमुभयोति श्रुतिज्ञाः।
Page #333
--------------------------------------------------------------------------
________________
३ मयंकाण्डः ।।
३३३
आज्ये तु दधिसंयुक्ते पृषदाज्यं पृषातकः ॥ ४९६ ॥ पृषद्भिर्दधिबिन्दुभिः सहितमाज्यं पृषदाज्यम् , दध्याज्यमित्यपि ॥१॥ पृषद्भिरङ्कयते पृषातकः, पृषोदरादित्वात् ॥ २ ।। ४९६ ।।
दना तु मधुसंपृक्तं मधुपर्क महोदयः । मधुनः पर्कः संपर्को मधुपर्कम् ॥ १॥ महानुदयोऽस्मात् महोदयः ॥ २ ॥
हवित्री तु होमकुण्डं हूयतेऽस्यां हवित्री, “बन्धिवहि." ॥ ( उणा-४५९ ) ॥ इतीत्रः ॥१॥ होमाय कुण्डं होमकुण्डम् ॥ २ ॥
हव्यपाकः पुनश्वरुः ॥ ४९७ ।। हव्यस्य पाको हव्यपाकः ॥१॥ चर्यते भक्ष्यते चरुः पक्कं होतव्यम् , यद्वा हव्यस्य पाकोऽत्र हव्यपाकः स्थाली, चरन्त्यस्माद . देवपितृभूतानीति चरुः पुंलिङ्गः, "मिवहि-" ॥ ( उणा-७२६ ) ॥ इत्युः ॥ २ ॥ ४९७ ॥
अमृतं यज्ञशेष स्यात् न म्रियतेऽनेन न नश्यत्यमृतम् ॥ १ ॥ यज्ञस्य शेषो यज्ञशेषस्तत्र ॥ १ ॥
विघसो भुक्तशेषके। विशिष्टमदनं विघसः ॥ १ ॥ भुक्तस्य शेषो भुक्तशेषस्तत्र ॥ २ ॥ यन्मनुः-विघसाशी भवेद् नित्यं नित्यं चामृतभोजनः ।
विघसो भुक्तशेषः स्याद यज्ञशिष्टमथाऽमृतम् ॥
यज्ञान्तोऽवभृथः यज्ञस्य अन्तः समापनं यज्ञान्तः ॥ १॥ अवभ्रियते पूर्यतेऽनेन अवभृथः, “अवभृनिक्रसमिणभ्यः" ॥ ( उणा-२२९ ) ॥ इति कित् थः ॥ २ ॥
पूर्त वाप्यादि ... पूर्यते पूर्त पुंलाबलिङ्गः।
आह च-वापीकूपतडागानि देवतायतनानि च। अन्नप्रदानमारामाः पूर्तमार्याः प्रचक्षते ॥ १ ॥
इष्टं मखक्रिया ॥ ४९८ ॥ इज्यते इष्टम् ॥ १ ॥ मखस्य कर्म मखक्रिया यागादि । यदाह-एकाग्निकर्म हवनं त्रेतायां यच्च हूयते।।
अन्तर्वेद्यां यद्दानमिष्टं तदभिधीयते ॥ ४९८ ।।
Page #334
--------------------------------------------------------------------------
________________
३३४
अभिधानचिन्तामणौ
इष्टापूर्त तदुभयं तत् पूर्त्तमिष्टं च उभयमिष्टापूर्त राजदन्तादित्वात् साधुः ॥ १ ॥
बर्हिर्मुष्टिस्तु विष्टरः । बर्हिषां दर्भाणां मुष्टिर्बर्हिमुष्टिः, विस्तीर्यते विष्टरः पुंक्लबिलिङ्गः, "वेः स्वः" ॥ २।३।२३ ॥ इति षत्वं ॥ १ ॥
___ अमिहोत्र्यमिचित् चाऽऽहितामो
अग्निहोत्रमस्यास्त्यऽग्निहोत्री ॥ १ ॥ अग्निं चितवानग्निचित् “ अग्नेश्चः" ॥५।१।१६४॥ इति विप् ॥ आहितोऽग्निरनेनाऽऽहिताग्निस्तत्र, अग्न्याहितोऽपि॥२॥
अथानिरक्षणम् ॥ ४९९ ।।
अग्न्याधानमग्निहोत्रं अग्नेः रक्षणमग्निरक्षणम् ॥१॥४९९।। अग्निराधीयतेऽस्मिन् अग्न्याधानम्॥२॥ अग्निहूयतेऽत्रेति अग्निहोत्रं ॥ ३ ॥
दर्वी तु घृतलेखनी। दृणाति हव्यं दर्विः, "दृपृवृभ्यो विः' ॥ ( उणा-७०४ ) ॥ ड्यां दीं ॥१॥ घृतं लिख्यतेऽनया घृतलेखनी ॥ २ ॥
होमानिस्तु महाज्वालो महावीरः प्रवर्गवत् ॥ ५०० ॥ होमार्थमग्निहोमाग्निः ॥ १ ॥ महत्यो ज्वाला अस्य महाज्वालः ॥ २ ॥ चारयते वीरोऽग्निः, महांश्चासौ वीरश्च महावीरः ॥ ३ ॥ प्रवृज्यते पापमनेन प्रवर्गः ॥ ४ ॥ ॥ ५०० ॥
होमधूमस्तु निगणः होमे धूमो होमधूमः ॥१॥ नितरां गण्यते निगणः, “युवर्ण- ॥ ५॥३॥२८॥ इत्यल् ॥ २॥
होमभस्म तु वैष्टुतम् । विशेषेण स्तूयते स्म विष्टुतोऽग्निः, तस्येदं वैष्टुतम् ॥ १ ॥
उपस्पर्शस्त्वाचमनं उपस्पृश्यतेऽद्भिः खान्यस्मिन्नुपस्पर्शः, यन्मनु:
उपस्पृश्य द्विजो जित्यमन्नमद्यात् समाहितः ।
भुक्त्वा चोपस्पृशेत् सम्यगद्भिः खानि च संस्पृशेत् ॥ ३ ॥ आचम्यतेऽम्भोऽत्र आचमनं ॥ २ ॥
Page #335
--------------------------------------------------------------------------
________________
३
मर्त्यकाण्ड: ।
घारसेकौ तु सेचने ॥ ५०१ ॥
धरणं घारः, सेचनं सेकः, सेचनं घृतादिनाऽग्नेः प्रोक्षणं तत्र || १ |२| ३ || ५०१ ॥ ब्रह्मासनं ध्यानयोगासने
३३५
ब्रह्मणि परमज्योतिष्यासनं लयो ब्रह्मासनम्, ध्यानं तत् प्रत्ययैकतानता, योगश्चित्तवृत्तिनिरोधः, तयोरास्यतेऽनेन ध्यानयोगासनं तत्र ॥ १ ॥
अथ ब्रह्मवर्चसम् । वृत्ताध्ययनर्द्धिः
39
ब्रह्मणः तपःखाध्यायादेर्वर्चस्तेजो ब्रह्मवर्चसं "ब्रह्महस्तिराजपल्याद्वर्चसः ॥७।३।८३॥ इत्यत् समासान्तः ॥ १॥ वृत्तस्याध्ययनस्य च ऋद्धिर्वृत्ताध्ययनर्धिः ॥२॥ स्याद् ब्रह्माञ्जलिरञ्जलिः । ॥ ५०२ ॥
पाठे
वेदस्य पाठेऽध्ययनेऽञ्जलिः, ब्रह्मणे वेदाय अञ्जलिः ब्रह्माञ्जलिः ॥ १ ॥ यदाह - संहत्य हस्तावध्येयं स हि ब्रह्माञ्जलिः स्मृतः ॥ ५०२ ॥
पाठे तु मुखनिष्क्रान्ता विप्रुषो ब्रह्मविन्दवः ।
वेदपाठे वक्त निर्गता जलकणाः, ब्रह्मणो वेदस्येव बिन्दवो ब्रह्मबिन्दवः ॥१॥ साकल्यवचनं पारायणं
साकल्येन कार्त्स्न्येन वचनमध्ययनं साकल्यवचनम् ॥ १ ॥ पारमयतेऽनेन पारायणम् ॥ २ ॥
कल्पे विधिक्रमौ ॥ ५०३ ॥
. कल्प्यतेऽनेन विनियोगशास्त्रेण कल्पस्तत्र ॥ १ ॥ विधीयतेऽनेन विधिः ॥ २ ॥ क्रम्यते प्रक्रम्यतेऽनेन प्रक्रमः ॥ ३ ॥ ५०३ ॥
मूलेऽङ्गुष्ठस्य स्याद् ब्राह्मं तीर्थं
ब्रह्मा देवताऽस्य ब्राह्मं "देवता" ॥६।२।१०१॥ इत्यणि “ ब्रह्मणः || ७|४|५७ ॥ इत्यन्त्यस्वरादिलोपः, देवेभ्यस्तीर्यते दीयतेऽनेन तीर्थम् ॥ १ ॥
कायं कनिष्ठयोः ।
कनिष्ठयोर्मूले कः प्रजापतिर्देवताऽस्य कार्य तीर्थम्, अञ्जलिमध्येन प्रजापतियोऽञ्जलिदानात् ॥ ॥
पित्र्यं तर्जन्यङ्गुष्ठान्तः
तर्जन्यङ्गुष्ठमध्ये पितरौ देवताऽस्य पित्र्यं "वातुपिनुषसो यः " ॥६।२/१०९॥ इति यः ॥ १ ॥
Page #336
--------------------------------------------------------------------------
________________
३३६
अभिधानचिन्तामणौ
दैवतं त्वङ्गुलीमुखे ॥ ५०४ ॥
अङ्गुलीनां मुखेऽप्रभागे देवतानामिदं दैवतं तीर्थम् ॥ १ ॥ यद् याज्ञवल्क्यः"कनिष्ठातर्जन्यङ्गुष्ठमूलान्यग्रं करस्य च ।
प्रजापतिपितृब्रह्मदेवतीर्थान्यनुक्रमात् ॥ ५०४ ॥
"
शेषश्चात्र - करमध्ये सौम्यं तीर्थं
ब्रह्मत्वं तु ब्रह्मभूयं ब्रह्मसायुज्यमित्यपि ।
ब्रह्मणो ज्ञानस्य भाव ब्रह्मत्वं ॥ १ ॥ ब्रह्मणो भवनं ब्रह्मभूयं ब्रह्मणैकस्वम्मोक्ष इत्यर्थः, “हत्याभूयं भावे " || ५|११३६ ॥ इति क्यपि साधुः ॥ २ ॥ सह युक् योगोऽस्य सयुक् तस्य भावः सायुज्यम्, ब्रह्मणा सायुज्यं ब्रह्मसायुज्यम् ॥३॥
देवभूयादिकं तद्वत्
तद्वदिति देवत्वं देवसायुज्यं च, आदिशब्दात् मूर्खभूयादि ॥ १ ॥ २ ॥ अथोपाकरणं श्रुतेः || ५०५ ॥ संस्कारपूर्वग्रहणं स्यात्
उपाक्क्रियतेऽनेनोपाकरणं वेदपाठारम्भे विशिष्ट विधिः ॥ १ ॥ " रोहिण्यां छन्दांस्युपकुर्यात् " इति हि श्रुतिः ॥ २ ॥ ५०५ ॥ स्वाध्यायः पुनर्जपः ।
स्वस्य वेदस्याध्ययनं स्वाध्यायः ॥ १॥ जपनं जपः " व्यधजप-" || ५|३|४७॥ इत्यल् ॥ २ ॥
औपवस्त्रं तूपवासः
उपवस्ता प्राप्तोऽस्य औपवस्त्रं " ऋत्वादिभ्यः " || ६ |४|१२५ ॥ इत्यण् । ‘वसूच् स्तम्भे' इत्यस्मात् क्ते उपवस्तः, तस्येदमौपवस्तमित्येके, उपवस्त्रमित्यन्ये, उपवस्तुरिदमिति अन्नाद्यपि, यत् स्मृतिः - 'माषान् मधुमसूरांश्च वर्जयेदौपवस्त्र के ' ॥ १ ॥ उपवसनमुपवास: पुंक्लीबलिङ्गः ॥ २ ॥
कृच्छ्रं सान्तपनादिकम् ॥ ५०६ ॥
कृन्तति पापं कृच्छ्रं नाम तपः, पुंक्लीवलिङ्गः ॥ १ ॥ सन्तपने भवं सान्तपनं ॥ २ ॥ यत् स्मृतिः - व्यहं सायं त्र्यहं प्रातः त्र्यहमद्यादयाचितम् । त्र्यहं परं च नाश्नीयात् कृच्छ्रं सान्तपनं स्मृतम् ॥ १ ॥
,
आदिग्रहणात् चान्द्रायणादि ॥ ५०६ ॥ प्रायः संन्यास्यनशने
Page #337
--------------------------------------------------------------------------
________________
३ मत्यकाण्डः ।
प्रकणाप्यन्तेऽनेन परलोकं प्रायः । संन्यसनं संन्यासः, सर्वत्यागेन मरणाध्यवसायः सोऽस्त्यत्र संन्यासि, संन्यासयुक्तं तच्च तदनशनं च संन्यास्यनशनं तत्र ॥ १ ॥
नियमः पुण्यकं व्रतम् । नियम्यतेऽन्नाद्यत्र नियमः ॥ १॥ पुण्यमेव पुण्यकम् ॥ २ ॥ वियते उपवासाद्यत्र व्रतं पुंक्लीबलिङ्गः, “ पृषिरजि-" ( उणा-२०८) इति किदतः ॥३॥
शेषश्चात्र-अथ स्यानियमे तपः ॥ चरित्रं चरिताचारौ चारित्रचरणे अपि ॥ ५०७ ॥
वृत्तं शीलं च
चर्यते चरित्रं "लूधूसूखनि-" ॥ ५।२।८७ ॥ इति इत्रः ॥ १॥ चर्यते स्म चरितम् ॥२॥ आचरणमाचारः ॥३॥ चरित्रमेव चारित्रं प्रज्ञादित्वादण् ॥४॥ चर्यते चरणम् ॥ ५ ॥ ५०७ ॥ वर्त्तनं वृत्तम् ॥ ६ ॥ शेते सुखमनेन शीलं पुंक्लीबलिङ्गः, "शुकशी-" ॥(उणा-४६३)॥ इति किद् लः, शील्यते तदिति वा ॥७॥
सर्वैनोध्वंसि जप्येऽघमर्षणम् ।
सर्वैनसामपध्वंसिनि जप्ये, अघं मृष्यते शोध्यतेऽनेनाऽघमर्षणम् , अदैवत्यो मन्त्रः, तज्जपो वा, त्रिरात्रोपवासादिस्तूपचाराद् , वाच्यलिङ्गोऽयम् ॥ १॥
समास्तु पादग्रहणाभिवादनोपसंग्रहाः ॥ ५०८ ॥ पादयोरन्तर्ग्रहणं पादग्रहणम् ॥१॥ अभिवाद्यते आशिषं कार्यतेऽनेन अभिवादनम् ॥ २ ॥ उपसंग्रहणमुपसंग्रहः, यन्मनु:
व्यत्यस्तपाणिना कार्यमुपसंग्रहणं गुरोः । वामेन वामः स्प्रष्टव्यो दक्षिणेन तु दक्षिणः ॥ ३ ॥ ५०८ ॥
उपवीतं यज्ञसूत्रं प्रोद्धृते दक्षिणे करे । . . उपवीयते प्राक्रियते स्म उपवीतं पुंक्लीबलिङ्गः ॥ १ ॥ यज्ञसूत्रं यज्ञोपवीतम् , ब्रह्मसूत्रं पवित्रमिति चैकोऽर्थः तच्चेहानुवाद्यम् ॥ २ ॥
प्राचीनाऽऽवीतमन्यस्मिन् प्रागेव प्राचीनम् , आवीयते स्म आवीतम् अन्यस्मिन् , वामे करे प्रोद्धृते ॥१॥
निवीतं कण्ठलम्बितम् ॥ ५०९ ॥ नियतं वायते स्म निवीतम् ॥ १॥ कण्ठे ऋजु लम्ब्यते स्म कण्ठलम्बितम् ।
Page #338
--------------------------------------------------------------------------
________________
३३८
अभिधानचिन्तामणौ- -
यन्मनु:
प्रोवृते दक्षिणे पाणावुपवीत्युच्यते द्विजः । सव्ये प्राचीनमावीती निवीती कण्ठसर्जने ॥ ५०९ ॥ प्राचेतसस्तु वाल्मीकिर्वल्मीककुशिनौ कविः ।
मैत्रावरुणवाल्मीको प्रचेतसोऽपत्यं प्राचेतसः ॥ १॥ वल्मीकस्यापत्यं वाल्मीकिः, बाह्वादित्वादिञ् ॥ २ ॥ वल्मीकभवत्वाद् वल्मीकः ॥ ३ ॥ कुशाः सन्त्यस्य. कुशी ॥ ४ ॥ कवते कविः, आदिकविरपि ॥ ५ ॥ मित्रावरुणयोरयं मैत्रावरुणः, मैत्रावरुणिरपि ॥ ६ ॥ वल्मीकस्यायं वाल्मीकः ॥ ७ ॥
वेदव्यासस्तु माठरः ॥ ५१०॥ द्वैपायनः पाराशर्यः कानीनो बादरायणः । व्यासः
वेदार्थान् व्यासयति प्रपञ्चयति वेदव्यासः, यद् भारते- “वेदार्था भारते न्यस्ताः' इति ॥१॥ मठरस्यापत्यं माठरः विदादित्वादञ् ॥२॥५१०॥ द्विपस्यापत्यं द्वैपायनः, नरादित्वादायनण् ॥३॥ पराशरस्यापत्यं पाराशर्यः, गर्गादित्वाद् यञ् ॥४॥ कन्याया अपत्यं कानीनः "कन्यात्रिवेण्या-" ॥ ६।१।६२ ॥ इत्यणि साधुः ॥ ५॥ बादरस्यापत्यं बादरायणः, नडादित्वादायनण् ॥ ६ ॥ व्यासयति प्रपञ्चयति शुभाऽशुभमिति व्यासः ॥ ७ ॥
अस्याऽम्बा सत्यवती वासवी गन्धकालिका ॥ ५११ ॥ योजनगन्धा दाशेयी शालकायनजा च सा।
अस्य व्यासस्य अम्बा जननी, सत्यमस्त्यस्याः सत्यवती ॥ १॥ वसोरियं वासवी ॥२॥ गन्धेन युक्ता काली श्यामा गन्धकाली, के गन्धकालिका ॥३॥५११॥ योजन व्यापी गन्धः सौरभ्यमस्या योजनगन्धा ॥ ४ ॥ दाशी धीवराङ्गना तस्या अपत्यं दाशेयी ॥ ५ ॥ शालङ्कायनाज्जाता शालङ्कायनजा ॥ ६॥ शेषश्चात्र-सत्यवत्यां गन्धवती मत्स्योदरी।।
जामदग्न्यस्तु रामः स्याद् भार्गवो रेणुकासुतः ।। ५१२ ॥ जमदग्नेरपत्यं जामदग्न्यः , गर्गादित्वाद् यञ् ॥१॥रमते रामः, परशुरामोऽपि ॥२॥ भृगोरपत्यं भार्गवः, "ऋषिवृष्ण्य-" ॥६।१।६१॥ इत्यण् ॥३॥ रेणुका याः सुतो रेणुकासुतः, रेणुकेयोऽपि ॥ ४ ॥ ५१२ ॥
नारदस्तु देवब्रह्मा पिशुनः कलिकारकः । .
Page #339
--------------------------------------------------------------------------
________________
३ मर्त्यकाण्डः ।
३३९
नारं नरसमूह द्यति भिनत्ति कलहरुचिवान् नारदः॥ १॥ देवानां ब्रह्मा देवब्रह्मा ॥२॥ पिशुनयति कथयति पिशुनः ॥ ३ ॥ कलिं करोति कलिकारकः ॥ ४॥
__ वशिष्ठोऽरुन्धतीजानिः
अतिशयेन वसुमान् वशिष्ठः, "गुणाङ्गाद." ॥ ७।३।९ ॥ इति इष्ठे "विन्म. तोर्णीष्ठे-" ॥ ७।४।३२ ॥ इति मतोलपि "त्रन्त्यस्वरादेः" ॥ ७॥४।४३ ॥ इत्यन्तस्वरादिलोपः ॥ १ ॥ अरुन्धती जायाऽस्य अरुन्धतीजानिः “जायाया जानिः" ॥ ७॥३।१६४ ॥ इति जान्यादेशः ॥ २ ॥
___ अक्षमाला त्वरुन्धती ॥ ५१३ ॥
अक्षाणां मालाऽस्या अक्षमाला, न क्षमां लातीति वा खगामित्वात् ॥ १॥ न रुणद्धि अरुन्धती ॥ २ ॥ ५१३ ॥
त्रिशङ्कयाजी गाधेयो विश्वामित्रश्च कौशिकः । त्रिशकुं याजयतीति त्रिशङ्खयाजी ॥ १ ॥ गाधेरपत्यं गाधेयः, "इतोऽनिञः' ।। ६।१।७२ ॥ इत्येयण, गाधिनन्दनोऽपि ॥२॥ विश्वं मित्रमस्य विश्वामित्रः, "ऋषौ विश्वस्य मित्रे” ॥ ३।२।७९ ॥ इति दीर्घः ॥३॥ कुशिकस्यापत्यं कौशिकः, विदादित्वादञ् ॥ ४ ॥
कुशारणिस्तु दुर्वासाः कुशारणिग्रहणातू कुशारणिः ॥ १ ॥ दुष्टं वासोऽस्य दुर्वासाः ॥ २॥
शतानन्दस्तु गौतमः ॥ ५१४ ॥ शतं बहूनानन्दयति शतानन्दः ॥ १॥ गोतमस्यापत्यं गौतमः, “ऋषिवृष्ण्य." ॥ ६।१।६१ ॥ इत्यण् ॥ २ ॥ ५१४ ॥
याज्ञवल्क्यो ब्रह्मरात्रियोंगेशोऽपि यज्ञवल्कस्यापत्यं याज्ञवल्क्यः , गर्गादित्वाद् यञ् ॥१॥ ब्रह्मैव रात्रिरस्य सदायोगनिद्रापरवशत्वाद् ब्रह्मरात्रिः ॥ २ ॥ योगस्य ईशो योगेशः, योगीशोऽपि ॥३॥
अथ पाणिनौ।
सालातुरीयदाक्षेयौ पणिनोऽपत्यं पाणिनः “डसोऽपत्ये" ॥६।१।२८॥ इत्यण् ,“ गाथिविदथि-" ॥ ७।४।५४ ॥ इत्यन्तस्वरादिलोपनिषेधः, ततः पाणिनस्यापत्यं पाणिनिः, “अत इञ्' ॥ ६।१।३१ ॥ तत्र, सलातुरभिजनो निवासोऽस्य सालातुरीयः, “सलातुरादीयण” ॥ ६।३।२१७ ॥ दाक्ष्या अपत्यं दाक्षेयः, "डयाप्त्यूङः” ॥ ६।११७० ॥ इत्येयण , दाक्षीपुत्रोऽपि ॥ ३ ॥
Page #340
--------------------------------------------------------------------------
________________
३४०
अभिधानचिन्तामणौ
गोनींये पतञ्जलिः ॥ ५१५ ॥ गोनर्दे भवो गोनर्दीयः,"दोरीयः" ॥ ६।३।३२ ॥ तत्र ॥ १॥ पतति पतः, पतोऽजलेः पतञ्जलिः, पृषोदरादित्वात् ॥ २ ॥ ५१५ ॥
__ कात्यायनो वररुचिर्मेधाजिच्च पुनर्वसुः ।
कतस्यापत्यं कात्यः, तस्यापत्यं कात्यायनः “यजिञः" ॥६।१।५४ ॥ इत्यायनण् , कात्योऽप्यभेदोपचारात् ॥ १ ॥ वरा रुचिरस्य वररुचिः ॥२॥ मेधया जयति मेधाजित् ॥ ३ ॥ पुनरपि वस्खस्य पुनर्वसुः, पुनर्वखोर्जात इति वा ॥ ४ ॥
___ अथ व्याडिविन्ध्यवासी नन्दिनीतनयश्च सः ॥ ५१६ ।। विशेषेण आसमन्ताद् अडति उद्यच्छते, डीयते खे चरतीति वा व्याडिः, पृषो. दरादित्वात् ॥ १ ॥ विन्ध्ये वसति विन्ध्यवासी ॥ २ ॥ नन्दिन्यास्तनयो नन्दिनीतनयः ॥ ३ ॥ ५१६ ॥
स्फोटायने तु कक्षीवान् स्फोटं शब्दस्फोटमयते स्फोटवादित्वात् स्फोटायनस्तत्र, स्फुटस्थापत्यमित्यश्वाद्यायनञि, स्फोटनोऽपि ॥ १ ॥ कक्षावद् योगोऽस्त्यस्य कक्षीवान् “चर्मणवत्यष्ठीवद्." ॥ २।१।९६ ॥ इति मतौ निपात्यते ॥ २ ॥
पालकाप्ये करेणुभूः । पालकैहस्तिचिकित्सकैराप्यते आप्तत्वेन गम्यते पालकाप्यस्तत्र ॥ १ ॥ करेणोः करिण्या भवति करेणभूः, कारेणवोऽपि ॥ २ ॥
वात्स्यायने मल्लनागः कौटिल्यश्चणकात्मजः ॥ ५१७ ।।
द्रामिलः पक्षिलखामी विष्णुगुप्तोऽङ्गुलश्च सः । वत्सस्यापत्यं वात्स्यः, तस्यापत्यं वात्स्यायनः, “यजिजः " ॥ ६।१।५४ ।। इत्यायनण् , तत्र ॥१॥ मल्लो नवनन्दोच्छेदने स चासौ नागश्च मल्लनागः “वृन्दारकनागकुञ्जरैः" ॥३।१।१०८।। इति कर्मधारयः ॥ २ ॥ कुटो घटस्तं लान्ति कुटिलाः कुम्भीधान्याः, तेषामपत्यं कौटिल्यः, गर्गादित्वाद् यञ् ॥ ३ ॥ चणकस्य ऋषे. रात्मजश्चणकात्मजः, चाणाक्योऽपि ॥ ४ ॥ ५१७ ॥ द्रमिलदेशे भवो द्वामिल: ॥५॥ प्रशस्तौ पित्रोः पक्षावस्य स्तः पक्षिलः, स चासौ स्वामी पक्षिलवामी ॥६॥ विष्णुरेनं गुप्यादिति विष्णुगुप्तः, “तिक्कृतौ नाम्नि" ॥ ५।१।७१॥ इति क्तिः ॥ ७ ॥ अङ्गु शरीरावयवं लाति अङ्गुलः, हीनाङ्गुलिरस्याऽस्तीति वा " हीनात् स्वाशादः" ।। ७।२।४५ ॥
Page #341
--------------------------------------------------------------------------
________________
३ मकाण्डः ।
क्षततोऽवकीर्णी स्यात्
क्षतं विलुप्तं व्रतमनेन क्षतत्रतः ॥ १ ॥ अवान्तरे कीर्ण रेतोऽस्याऽस्त्यव - कीर्णी, यत् स्मृतिः - ब्रह्मचार्यवकीर्णी स्यात् कामतस्तु स्त्रियं व्रजन् ॥ २ ॥ व्रात्यः संस्कारवर्जितः | ५१८ ॥
व्रते साधुः कालो व्रत्यस्तत्र भवो व्रात्यः प्रायश्चित्तार्हः, बाते वृन्दे साधुरिति वा पृथग् व्यपदेश्यो न इत्यर्थः, संस्कारोऽत्रोपनयनं तेन वर्जितः
यन्मनुः - अत ऊर्ध्वं त्रयोऽप्येते यथाकालम संस्कृताः ।
सावित्रीपतिता व्रात्या भवन्त्यार्यविगर्हिताः ॥ १ ॥ ५१८॥ शिश्विदानः कृष्णकर्मा
३४१
श्वेतते शिश्विदानः, “मुमुचानयुयुधान " ॥ ( उणा - २७८ ) ॥ इत्याने निपात्यते ॥१॥ कृष्णं मलिनं कर्माऽऽचारोऽस्य कृष्णकर्मा दुराचारः, “शिश्विदानः कृष्णकर्मा" इत्यमरः || २ |
ब्रह्मबन्धुर्द्विजोऽधमः ।
ब्रह्मा बन्धुरेवाऽस्य ब्रह्मबन्धुः ॥ १ ॥ नष्टग्निहा
"
नष्ट उच्छिन्नोऽग्निरस्य नष्टानिः ॥ १ ॥ वीरयते वीरोऽग्निः, तमुपेक्षया हन्ति वीरहा, “ब्रह्मभ्रूण- ॥ ५ । १ । १६१ ॥ इत्यत्र ब्रह्मादिभ्यः एव हन्तेः किबिति भूते निपातनात् वर्तमाने “ क्विप् " ||५|१|१४८ ॥ इति क्विप् ॥ २ ॥
जातिमात्रजीवी द्विजब्रुवः ॥ ५१९ ॥
जातिमात्रेण जीवति जातिमात्रजीवी ॥ १ ॥ द्विजश्वाऽसौ ब्रुवश्च द्विजब्रुवः, " निन्द्यं कुत्सनैरपापाद्यैः " ॥ ३ । १ । १०० ॥ इति कर्मधारयः ॥२॥५१९॥ धर्मध्वजी लिङ्गवृत्तिः
धर्मस्य ध्वजश्चिह्नमेवाऽस्त्यस्य धर्मध्वजी ॥ १ ॥ लिङ्गाद् जटादेर्वृत्तिजीविकाऽस्य लिङ्गवृत्तिः ॥ २ ॥ .
वेदहीनो निराकृतिः ।
४४
वेदेन खाध्यायेन हीनो वेदहीनः ॥ १ ॥ आकृतेर्जातेर्निष्क्रान्तो निराकृतिः, यत् स्मृतिः - अनधीत्य तु यो वेदान् अन्यत्र कुरुते श्रमम् ।
स जीवन्नेव शूद्रत्वमाशु गच्छति सान्वयः ॥ २ ॥
वार्त्ताशी भोजनार्थं यो गोत्रादि वदति स्वकम् ॥ ५२ ॥
Page #342
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणौ
वार्त्तार्थं जीविका निमित्तं सत्रादावश्नाति वार्ताशी ॥ १ ॥ ५२० ॥ उच्छिष्टभोजन देवनैवेद्यबलिभोजनः ।
उच्छिष्टं भोजनमस्य उच्छिष्टभोजनः ॥ १॥ देवस्य नैवेद्यं बलिं च भोजनं यस्य स तथा ॥ २ ॥
३४२
अजपस्त्वसदध्येता
नास्ति जपः स्वाध्यायोऽस्य अजपः ॥ १ ॥ असदधीतेऽसदध्येता ॥ २ ॥ शाखारण्डोऽन्यशाखकः ॥ ५२१ ॥
स्वशाखया रण्डो विरहितः शाखारण्डः, अन्यशाखासु रमते वा " पञ्चमाद् डः” ॥(उणा-१६ ( - १६८ ) ॥१॥ अन्याः शाखा अस्य अन्यशाखकः ॥ २ ॥ ५२१ ॥
शस्त्राजीवः काण्डस्पृष्टः
"जा
शस्त्रेण जीवति शस्त्राजीवः ॥ १ ॥ स्पृष्टानि काण्डान्यनेन काण्डपृष्टः, तिकालसुखादेः-”॥ ३ । १ । १५२ ॥ इति तान्तस्य वा पूर्वनिपातः, काण्डोऽधमः सचासौ स्पृष्टश्चेति वा ॥ २ ॥
गुरुहा नरकीलकः ।
गुरुं हन्ति गुरुहा ॥ १ ॥ नरेषु कीलक इव नरकीलकः ॥ २ ॥ मलो देवादिपूजायामश्राद्धः
मलते पापं मलः, मलयोगाद् वा ॥ १ ॥
अथ मलिम्लुचः ।। ५२२ ॥
पञ्चयज्ञपरिभ्रष्टः
मलिनं म्लोचति मलिम्लुचः, मूलविभुजादित्वात् ॥ १॥ ५२२ ॥ पञ्चभिर्ब्रह्मयज्ञादिभिः परिभ्रष्टः ॥ २॥
निषिद्धैकरुचिः ः खरुः ।
"ख"
निषिद्धा एकत्र रुचिरनेन निषिद्धैकरुचिः ॥ १ ॥ खनति चित्तं खरुः, “ नो लुक् च ॥ ( उणा - ८०८ ) ॥ इति रुः ॥ २ ॥
सुप्ते यस्मिन्नुदेत्यर्कोऽस्तमेति च क्रमेण तौ ॥ ५२३ ॥ अभ्युदिताऽभिनिर्मुक्तौ
अभिभूय उदितोऽर्कोsस्य अभ्युदितः ॥ १ ॥ अभिभूय निर्मुक्तोऽस्तमितो - sasta सुप्तस्य अभिनिर्मुक्तः ॥ २ ॥५२३॥
Page #343
--------------------------------------------------------------------------
________________
३ मर्त्यकाण्डः ।
३४३ वीरोज्झो न जुहोति यः । वीरमग्निमुज्झति वीरोज्झः ॥ १॥
अग्निहोत्रच्छलाद् याञ्चापरो वीरोपजीवकः ॥ ५२४ ॥ वीरमग्निमुपजीवति वीरोपजीवकः ॥ १ ॥ ५२४ ॥
वीरविप्लावको जुहद् धनैः शूद्रसमाहृतैः । वीरमग्निं विप्लावयति वीरविप्लावकः ॥ १ ॥
स्याद्वादवाद्याऽऽर्हतः स्यात् स्याद्वादोऽनेकान्तवादस्तं वदति स्याद्वादवादी, अनेकान्तवाद्यऽपि ॥१॥ अर्हन् देवताऽस्य आहेतः, जैनोऽपि ॥ २ ॥
शून्यवादी तु सौगतः ॥ ५२५ ॥ शून्यं निराकारं वदति शून्यवादी ॥ १॥ सुगतो देवताऽस्य सौगतः, बौद्धोऽपि ॥ २ ॥ ५२५ ॥
नैयायिकस्त्वाक्षपादो योगः न्यायः पञ्चावयववाक्यादिः,तं वेत्त्यधीते वा नैयायिकः, न्यायादित्वाद् इकण् , " य्वः पदान्ताद्.” ॥ ७ । ४ । ५ ॥ इत्यैकारागमः ॥ १॥ अक्षस्तृतीयनेत्रं पादेऽस्य अक्षपादः, अक्षपादस्यायमाक्षपादः ॥२॥ योगः प्रत्याहारादिः, तं वेत्त्यधीते यौगः, “ तद्वेत्य-" ॥ ६ ॥ २ ॥ ११७ ॥ इत्यण् ॥ ३ ॥
साङ्ख्यस्तु कापिलः। पञ्चविंशतेस्तत्वानां सङ्ख्यानं संख्या, तदधिकृत्य कृतं शास्त्रं साङ्ख्यम् , तद्वेत्यधीते वा साङ्ख्यः ॥ १॥ कपिलेन कृतो ग्रन्थः कापिलः, तं वेत्यधीते वा कापिलः, कपिलस्यायमिति वा ॥ २ ॥
वैशेषिकः स्यादौलूक्यः . . नित्यद्रव्यवृत्तयोऽत्र विशेषाः, ते प्रयोजनमस्य वैशेषिकं शास्त्रं तद् वेत्यऽधीते वा वैशेषिकः ॥१॥ उलूकस्यापत्यमिव तज्जन्यत्वादौलूक्यं शास्त्रम् , उलूकवेषधारिणा महेश्वरेण प्रणीतमिति प्रसिद्धिः, गर्गादित्वाद् यञ् , तत्र साधुरौलूक्यः ॥ २ ॥
वार्हस्पत्यस्तु नास्तिकः ॥ ५२६ ॥
चार्वाको लौकायतिकश्च . बृहस्पतिना कृतं बार्हस्पत्यं शास्त्रम् , तत्र साधुर्वार्हस्पत्यः, बृहस्पतेरयं शिष्यइति वा “अनिदमि-" ॥ ६।१।१५ ॥ इति ज्यः ॥ १॥ नास्ति पुण्यं पापमिति
Page #344
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणो- . .
मतिरस्य नास्तिकः ॥ २ ॥ ५२६ ॥ चर्वत्यात्मानं चार्वाकः, “मवाकश्यामाक" ॥ ( उणा-३७ ) ॥ इत्याके निपात्यते ॥ ३ ॥ लोकेष्वायतं लोकायतं बृहस्पतिप्रणीतं शास्त्रं तद् वेत्त्यधीते वा लौकायतिकः, न्यायादित्वादिकण् , "याज्ञिकौथिक-" ॥ ६।२।१२२ ॥ इति निपातनाल्लोकायितिकोऽपि ॥ ४ ॥ उपसंहारमाह
एते षडपि तार्किकाः । एते आर्हतादयः, तर्कः प्रयोजनमेषां तार्किकाः ॥ १ ॥
क्षत्रं तु क्षत्रियो राजा राजन्यो बाहुसंभवः ।। ५२७ ॥ . क्षदति संवृणोति क्षत्रं पुंक्लीवलिङ्गः, "हुयामा-" ॥ ( उणा-४५१ ) ॥ इति त्रः, क्षतात् त्रायते वा पृषोदरादित्वात् ॥१॥ क्षत्रस्यापत्यं क्षत्रियः "क्षत्रादियः” ॥ ६।१।९३ ॥ २ ॥ राजते राजा, “उक्षितक्षि." ॥ ( उणा-९०० ) ॥ इत्यन् ॥३॥ “धाग्राजि-" ॥ ( उणा-३७९) ॥ इत्यन्ये राजन्यः, राज्ञोऽपत्यमिति वा "जातौ राज्ञः" ॥ ६।१।९२ ॥ इति यः ॥ ४॥ ब्रह्मणो बाहुभ्यां सम्भवति बाहुसम्भवः, यत् श्रुतिः- “बाहू राजन्यः कृतः” ॥ ५ ॥ ५२७ ॥
___ अर्या भूमिस्पृशो वैश्या ऊरव्या ऊरुजा विशः।
अर्यन्तेऽर्याः "स्वामिवैश्येयः” ॥ ५।१।३३ ॥ इंति साधुः ॥ १ ॥ भूमि स्पृशन्ति कृष्यादिना भूमिस्पृशः ॥ २ ॥ विश एव वैश्याः भेषजादित्वाद् ट्यण ॥३॥ ऊर्वोर्भवा ऊरव्याः देहांशत्वाद् यः ॥ ४ ॥ ब्रह्मण ऊर्वोर्जाता ऊरुजाः, यत् श्रुतिः- “ऊरू तदस्य यद्वैश्यः" इति ॥ ५ ॥ विशन्ति विशः ॥ ६ ॥
वाणिज्यं पाशुपाल्यं च कर्षणं चेति वृत्तयः ॥ ५२८ ॥ वणिकर्म वाणिज्यं ॥ १॥ पशुपालस्य कर्म पाशुपाल्यं ॥ १ ॥ कृष्यते भूमिरस्मिन् कर्षणं कृषिः, इत्येता वर्तन्ते जीवन्त्याभिरिति कृत्तयः ॥१॥५२८॥
आजीवो जीवनं वार्ता जीविका वृत्तिवेतने ।
आजीवनमाजीवः, आजीवन्त्यनेनेति वा ॥१॥ जीव्यतेऽनेन जीवनम् ॥२॥ वर्तनं वृत्तिसारोऽस्त्यस्यां वार्ता, "प्रज्ञाश्रद्धा-" ॥ ७।२।३३ ॥ इति णः ॥ ३ ॥ जीवत्यनया जीविका, “नाम्नि पुंसि च” ॥ ५।३।१२१ ॥ इति णकः ॥ ४ ॥ वर्ततेऽनया वृत्तिः ॥ ४ ॥ वेति खादत्यनेन वेतनं “वीपति-" ॥ ( उणा-२९२ )॥ इति तनः ॥ ६ ॥
उन्छो धान्यकणादानं उञ्छनमुञ्छः, पुंक्लीबलिङ्गः ॥ १॥ धान्यकणानामादानमुच्चयो धान्यकणादानम् ॥ १॥
Page #345
--------------------------------------------------------------------------
________________
. ३ मत्यकाण्डः ।
३४५
कणिशाद्यर्जनं शिलम् ॥ ५२९ ॥ कणिशं धान्यमञ्जरी आदिशब्दात् शिबादि तस्यार्जनं प्रहणम् , 'शिलत् उञ्छे' शिल्यते शिलम् , “तुदादि-" ॥ ( उणा-५) ॥ इति किदः ॥१॥५२९॥
ऋतं तद् द्वयम् तदुभयमुञ्छशिलं ऋतं सत्यं धर्मत्वात् ॥ १ ॥
अनृतं कृषिः न ऋतमनृतं पापिष्ठत्वात् , प्रमृतमित्यन्ये ॥ १॥
मृतं तु याचितम् । मृतं निर्जीवमिव ॥ १ ॥ याच्यते स्म याचितम् ॥ २ ॥
अयाचितं स्यादमृतं न याचितमयाचितम् ॥ १॥ अमृतमविनश्वरम् ॥ २ ॥
सेवावृत्तिः श्वजीविका ॥ ५३० ॥ सेवालक्षणा वृत्तिः सेवावृत्तिः ॥ १॥ शुन इव जीविका वृत्तिः परपिण्डोपजीवित्वादधमेत्यर्थः ॥ २ ॥ ५३० ॥
सत्यानृतं तु वाणिज्यं वणिज्या किञ्चित् सत्यं किञ्चिदसत्यं सत्यानृतम् ॥ १ ॥ वणिजः कर्म वाणिज्यं राजादित्वाद् ट्यण् ॥ २ ॥ “सखिवणिग्दूताद्-" ॥ ७।१।६३ ॥ इति ये वणिज्या स्त्रीक्लीबलिङ्गः, यन्मनु:
"ऋतमुञ्छशिलं ज्ञेयममृतं स्यादयाचितम् । मृतं तु याचितं भैक्षं प्रमृतं कर्षणं स्मृतम् ॥ १॥ सत्यानृतं तु वाणिज्यं तेनाऽपि खलु जीव्यते ।
सेवा श्ववृत्तिराख्याता तस्मात् तां परिवर्जयेत्” ॥ इति ॥ २॥ वाणिजो वणिक् । क्रयविक्रयिकः पण्याजीवाऽऽपणिकनैगमाः ॥ ५३१ ॥
वैदेहः सार्थवाहश्च वणिगेव वाणिजः, प्रज्ञादित्वादण् ॥ १॥ पणायति व्यवहरते वणिक् "भृपणिभ्याम्-" ॥ ( उणा-८७५) ॥ इतीज् वणादेशश्च ॥ २ ॥ क्रयविक्रयेण जीवति क्रयविक्रयिकः “व्यस्ताच्च क्रयविक्रयाद्-"॥६।४।१६॥ इतीकः ॥३॥ पण्येनाऽऽजीवति पण्याजीवः ॥४॥ आपणायतीत्यापणिकः “आङः पणिपनि-" ॥ (उणा-३९)॥
Page #346
--------------------------------------------------------------------------
________________
३४६
अभिधानचिन्तामणौ- ...
इति इकः, आपणः प्रयोजनमस्येति वा, प्रापणिकोऽपि ॥ ५ ॥ निगमे पुरे मार्गे वा भवो नैगमः ॥ ६ ॥ ५३१ ॥ विदेहे उपचये भवो वैदेहः ॥ ७ ॥ सार्थान् सधनान् सरतो वा पान्थान् वहति सार्थवाहः ॥ ८ ॥
क्रायकः क्रयिकः क्रयी। क्रीणाति मूल्येन भाण्डं क्रायकः ॥ १॥ क्रयेण जीवति क्रयिकः “व्यस्ताद्-" ॥ ६ । ४ । १६ ॥ इतीकः ॥ २ ॥ क्रयोऽस्त्यस्य क्रयी ॥ ३ ॥
केयदे तु विपूर्वास्ते क्रेयं क्रेतव्यं ददाति क्रेयदस्तत्र विशब्दपूर्वास्ते क्रायकादयः-विक्रायकः ॥१॥ विक्रयिकः ॥ २ ॥ विक्रयी ॥ ३ ॥
मूल्ये वस्त्रार्घवक्रयाः ॥ ५३२ ॥ मूलेनाऽऽनाम्यं मूल्यं तत्र, “ हृद्यपद्य-" ॥ ७।१।११ ॥ इति यः ॥ १ ॥ वसत्यस्मिन् पण्यं वस्नः पुंक्लीबलिङ्गः, “प्याधापनि-" ॥ ( उणा-२५८ ) इति नः ॥ २ ॥ अर्यते पण्यमस्मिन् अर्घः, “स्थाति-" ॥ (उणा-१०९)॥ इति घः; अर्घति पण्यमत्रेति वा ॥ ३ ॥ अवक्रीयतेऽनेन अवक्रयः, “ वाऽवाप्यो-" ॥३।२। १५६॥ इति वादेशे वक्रयः ॥ ४ ॥ ५३२ ॥ , शेषश्चात्र-अथ वक्रये भाटकः ॥
मूलद्रव्यं परिपणो नीवी मूलं लाभकरणं द्रव्यं मूलद्रव्यम् ॥ १ ॥ परिपण्यते वृद्ध्यर्थं प्रयुज्यते परिपणः, " पणेर्माने-" ॥ ५।३।३२ ॥ इत्यल् ॥ २ ॥ चीयते वृद्धिमसौ नीविः, ट्यां नीवी ॥ ३ ॥
लाभोऽधिकं फलम् । मूलधनाद् यदधिकं निष्पन्नम् , स लभ्यते इति लाभः ॥ १ ॥ फलति फलं कलान्तरादि ॥ २॥
परिदानं विनिमयो नैमेयः परिवर्तनम् ॥ ५३३ ॥.
व्यतिहारः परावर्तों वैमेयो निमयोऽपि च । परिवर्ताद् दानं परिदानम् ॥ १ ॥ विनिमानं विनिमयः ॥ २ ॥ निमेये परिवर्तनीये भवो नैमेयः ॥ ३ ॥ परिवर्त्यते परिवर्तनम् ॥ ४ ॥ ५३३ ॥ व्यत्ययेन हरणं व्यतिहारः ॥ ५॥ परावर्तन परावर्त्तः ॥ ६॥ विमेये परिवर्तनीये भवो वैमेयः ॥ ७ ॥ निमानं निमयः ॥ ८ ॥
निक्षेपोपनिधी न्यासे
Page #347
--------------------------------------------------------------------------
________________
. ३ मत्यकाण्डः ।
३४७
निक्षिप्यते भूतलादौ इति निक्षेपः ॥ १॥ उपसृत्य समीपे वा निधीयते उपनिधिः, उप समीपे निधिर्वा ॥ २॥ न्यस्यते निक्षिप्यते न्यासः तत्र-स्मात त्वेषां भेदोऽस्ति- “वासनस्थमनाख्याय हस्तेऽन्यस्य यदऽर्पितम् ।।
द्रव्यं तदुपनिधिासः प्रकाश्य स्थापितं तु यत् ॥१॥ विक्षेपः शिल्पिहस्ते तु भाण्डं संस्कर्तुमर्पितम्” । इति
प्रतिदानं तदर्पणम् ॥ ५३४ ॥ तस्य न्यासस्य निक्षिप्त्रे प्रतीपं दानं प्रतिदानम् , परिदानमित्येके ॥१॥५३४॥
क्रेतव्यमात्रके क्रेयं क्रीयते केयम् , यथा केये गौवर्तते, न च क्रय्योऽस्ति ॥ १ ॥
क्रय्यं न्यस्तं क्रयाय यत् । क्रयनिमित्तमापणे न्यस्तम् , क्रीयते क्रय्यम् , “क्रय्यः क्रयार्थे." ॥४।३।९१॥ इति साधुः ॥ १॥
पणितव्यं तु विक्रेयं पण्यं पण्यते पणितव्यम् ॥१॥ विक्रीयते विक्रेयम् ॥ २॥ पण्यते पण्यम् ," वर्योपसर्या-" ॥ ५।१।३२ ॥ इति ये साधुः ॥ ३ ॥
सत्यापनं पुनः ॥ ५३५॥
सत्यङ्कारः सत्याकृतिः अवश्यं मयैतद् विक्रेतव्यमिति सत्यस्य करणं सत्यापनम् , "सत्यार्थवेदस्याः-" ॥ ३।४।४४ ॥ इति णिचिं आकारादेशे च “ अर्तीरी-” ॥ ४।२।२१ ॥ इति पोऽन्तः ॥१॥५३५॥ सत्यस्य करणं सत्यङ्कारः “सत्यागदास्तोः कारे"॥३।२।११२॥ इति मोऽन्तः ॥ २ ॥ “सत्यादशपथे" ॥ ७।२।१४३ ॥ इति डाचि क्तौ च सत्याकृतिः ॥ ३॥
तुल्यौ विपणविक्रयौ। ...विपणनं विपणः, चुराद्यदन्ताद् अपरिपठितादल्, अन्यथा विपाणः स्यात् ॥१॥ विक्रयणं विक्रयः ॥ २॥
गण्यं गणेयं संख्येयं
गण्यते गण्यम् ॥१॥ गणेयम् , “गयहृदयादयः" ॥ (उणा-३७०) ॥ इति एये निपात्यते, यद्वाचस्पतिः-“गणनीयं तु गणेयम्” इति ॥२॥ सङ्ख्यायते सङ्ख्येयं
.
गण्य ग
Page #348
--------------------------------------------------------------------------
________________
३४८
अभिधानचिन्तामणौ
संख्या त्वेकादिका भवेत् ॥ ५३६ ॥ एत्येकत्वसङ्ख्यामित्येकः, “भीण्-'" ॥ ( उणा-२१)॥ इति कः, एकआदिरस्या एकादिका, आदिग्रहणात् द्वौ त्रयः चत्वारः एते वाच्यलिङ्गाः, पञ्चसप्तेत्यादयोऽष्टादशान्ता अलिङ्गाः, यदवोचाम
"नन्ता सङ्ख्या डतिर्युष्मदस्मच स्युरलिङ्गकाः" । इति षष्-शब्दस्य रूपविशेषाभावात् लिङ्गनिर्णयो नोक्तः, एकोनविंशति-त्रिंशदित्यादयः शतादर्वाक् स्त्रीलिङ्गाः, यदवोचाम स्त्रीलिङ्गनिर्णये- “विंशत्याद्या शताद् द्वन्द्वे" इति । षष्टिस्तु त्रिलिङ्गनिर्णये पृथक्लिङ्ग उक्तः। अत्र च एकाद्या अष्टा दशान्ता सङ्खयेये वर्तन्ते, विंशत्याद्यास्तु सङ्ख्याशब्दा एकत्वे वर्तमानाः सङ्खयेये सङ्खयाने च वर्तन्ते,यथा विंशतिर्घटाः, विशतिर्घटानाम् ; शतं गावः, शतं गवामिति। यदाह वाचस्पतिः- "अष्टादशभ्य एकाद्याः सङ्ख्याः सङ्खयेयगोचराः। ..
___ऊनविंशत्यादिकास्तु सर्वाः सङ्खयेयसङ्ख्ययोः,, ॥ १॥ भाष्यकारोऽप्याह- "अष्टादशभ्यः सङ्ख्या सङ्खयेये वर्तते, ततः परं सङ्ख्याने सङ्खयेये च" इति । द्वित्वबहुत्वयोर्वर्तमानास्तु विंशत्याद्याः सङ्ख्यायामेव वर्तन्ते, यथा द्वे विंशती, तिस्रो विंशतयः; गवां विंशती, विंशतय इति ॥ १ ॥ ५३६ ।।
यथोत्तरं दशगुणं भवेदेको दशायुतः । शतं सहस्रमयुतं लक्षप्रयुतकोटयः ॥५३७॥ अर्बुदमब्जं खर्व च निखर्व च महाम्बुजम् ।
शङ्कुर्वार्चिरन्त्यं मध्यं परार्द्ध चेति नामतः ॥ ५३८ ॥ एको दशभिर्गुणितो दश्यन्ते दश, “लूप्यु-” ॥ ( उणा-९०१ ) ॥ इति किदन् ॥१॥ एवं यथोत्तरं दशभिर्गुणिताः, दशदशतो मानमेषां संख्ये. यानाम् , अस्य वा संख्यानमस्य शतम् ॥ १ ॥ एवं दश शतानि मानमेषामस्य वा सहस्रम् , दश सहस्राण्ययुतम् , शतादयस्त्रयः पुंक्लीबलिङ्गाः ॥१॥१॥ दशाऽयुतानि लक्षं स्त्रीक्लीबलिङ्गः, नियुतमपि ॥ १ ॥ दश लक्षाणि प्रयुतं पुंक्लीबलिङ्गः ॥१॥ दश प्रयुतानि कोटिः स्त्रीलिङ्गः ॥१॥ ५३७ ॥ दश कोटयोऽबुदं पुंक्लीबलिङ्गः ॥ १ ॥ दशाऽर्बुदानि अब्जम् ॥ १॥ दशाऽब्जानि खर्वम् ॥ १ ॥ दश खर्वाणि निखर्वम् ॥ १॥ दश निखर्वाणि महाम्बुजम् ॥१॥ दश महाम्बुजानि शङ्कः, पुंस्त्रीलिङ्गः ॥ १४ ॥ दश शङ्कवो वार्द्धिः समुद्रः, पुंलिङ्गः ॥ १॥ दश वार्द्धयोऽन्त्यम् ॥ १॥ दशान्त्यानि मध्यम् ॥ १॥ दश मध्यानि परार्द्धमिति ॥१॥ शतादयः “ विंशत्यादयः.”॥ ६ । ४ । १६३ ॥ इति निपात्यन्ते, यदाह
Page #349
--------------------------------------------------------------------------
________________
३. मर्त्यकाण्डः ।
“एकं दश शतमस्मात् सहस्रमयुतं ततः परं लक्षम् । प्रयुतं कोटिमथाऽर्बुदमब्जं खर्वे निखर्व च ॥ १ ॥ तस्माद् महासरोजं शङ्कं सरितां पतिं ततस्त्वन्त्यम् । मध्यं परार्ध्यमाहुर्यथोत्तरं दशगुणं तज्ज्ञाः " ॥१॥ इति ॥ १८ ॥ ५३८ ॥ असङ्ख्यं द्वीपवार्ध्यादि
३४९
न विद्यते सङ्ख्या सङ्ख्यानमस्य असङ्खयम् ॥ १ ॥ द्वीपा जम्बूद्वीपादयः, बार्धयो लवणोदादयः, आदिग्रहणात् चन्द्राऽर्कादयः, यदाहुः - "असङ्ख्याता द्वीपसमुद्राः" इति ।
पुद्गलाऽऽत्माद्यऽनन्तकम् ।
पुद्गलः आत्मा च आदिर्यस्य तत् तथा, आदिग्रहणाद् आकाशप्रदेशादि, नास्त्यन्तोऽस्य अनन्तकम् ॥ १ ॥
सांयात्रिकः पोतवणिक्
समुदितानां यात्रा संयात्रा, सा प्रयोजनमस्य सांयान्त्रिकः ॥ १ ॥ पोतस्य वणिक् पोतवणिक् ॥ २ ॥
यानपात्रं वहित्रकम् || ५३९ ॥ वोहित्थं कहनं पोतः
जलमार्गे यानाय पात्रं यानपात्रम् ॥ १ ॥ उह्यतेऽनेन वहति जले वा वहित्रम्, “बन्धिवहि-" ॥ ( उणा - ४५९) इति इत्रः ॥ ५३९ ॥, “पथयूथ - " ॥ ( उणा- २३१) ॥ इति निपातनाद् वोहित्थम्, बहिस्तिष्ठतीति वा पृषोदरादित्वात् ॥२॥ ३॥ उद्यतेऽनेन वहनम् प्रवहणमपि ॥ ४ ॥ पूयते इति पोतः ' “दम्यमि - " ॥ ( उणा - २०० ) इति तः ॥ ५ ॥
पोतवाहो नियामकः ।
निर्यामः
पोतं वाहयति पोतवाहः ॥ १ ॥ नियन्तुं शक्नोति नियामकः ॥ २ ॥ निर्यामयति निर्यामः ॥ ३॥
कर्णधारस्तु नाविकः
कर्णमरित्रं धारयति कर्णधारः, यद् दुर्ग :- “कर्णः श्रोत्रमरित्रं च” इति ॥१॥ नावा तरति नाविकः, “ नौद्विस्वरादिकः " || ६|४|१० ॥ २ ॥
नौस्तु मङ्गिनी || ५४० ॥
Page #350
--------------------------------------------------------------------------
________________
३५०
अभिधानचिन्तामणौ
तरीतरण्यौ बेडा ___नुद्यते कर्णधारैनौः स्त्रीलिङ्गः, “ ग्लानुदिभ्यां डौः " ॥ (उणा-८६८)॥१॥ मङ्गो नौशीर्षमस्त्यस्यां मङ्गिनी ॥ २ ॥ ५४० ॥ तरत्यनया तरिः, “ स्वरेभ्यः" ॥(उणा-६०६)। ड्यां तरी, यद्वा "तृस्तृतन्द्रि-" ॥ (उणा-७११) इति ईप्रत्यये तरीरीदन्तः॥ ३ ॥ “ ऋहस” ॥ ( उणा-६३८) ॥ इत्यणौ, तरणिः, ङयां तरणी ॥ ४ ॥ विज्यते आक्रुश्यतेऽस्यां बेडा ॥ ५ ॥
___ अथ द्रोणी काष्ठाम्बुबाहिनी ।
द्रवत्यम्भोऽस्यां द्रोणी, “ द्रोर्वा " ॥ ( उणा-१८४ ) इति णः, काष्ठमम्बु च वहति काष्ठाऽम्बुवाहिनी, क्षीरस्वामी तु-काष्ठमुपलक्षणं काष्ठाऽश्मादिमयी जलधारिणी द्रोणी इति व्याख्यौ ॥ १॥
नौकादण्डः क्षेपणी स्यात् येन नौर्वाह्यतेऽसौ नौकादण्डः, क्षिप्यतेऽनया क्षेपणी ॥१॥
गुणवृक्षस्तु कूपकः ॥ ५४१ ॥ गुणयुक्तो वृक्ष इव गुणवृक्षः, यत्र नौ रज्ज्वा बध्यते. पोते ध्वजपटाद्याधारइत्येके ॥ १॥ कूपे आधारगर्ते कायति कूपकः, गौडस्तु- जलान्तस्तरून् कूपकानाह ॥ २ ॥ ५४१ ॥
पोलिन्दास्त्वन्तरादण्डाः पोलन्ति महत्त्वं यान्ति पोलिन्दाः, “ कल्यलिपुलि-" ॥ ( उणा-२४६ ) इति इन्दक् , बाहुलकाद् गुणः, नौकाया मध्ये दण्डा अन्तरादण्डाः ॥ १ ॥
स्याद् मङ्गो मङ्गिनीशिरः । मङ्गत्यनेन मङ्गः पुलिङ्गोऽयम् , वैजयन्ती तु- “नौशिरो मङ्गमस्त्रियाम्" इति हीबेऽप्याह, मङ्गिनी नौस्तस्याः शिर उपरिभागः ॥१॥
अभिस्तु काष्ठकुद्दालः अभ्रति अभिः स्त्रीलिङ्गः, “ पदिपठि-" ( उणा-६०७) इति इ:, काष्ठैः कुद्दालः, काष्ठमयो वा, येन निखन्य भग्नं भग्नं पोतादि कुथेन पूर्यते ॥ १॥
सेकपात्रं तु सेचनम् ॥ ५४२ ॥ सिच्यते उदच्यतेऽनेन सेचनम् , येन नावो जलमुध्रियते क्वचित् ॥१॥५४२॥
केनिपातः कोटिपात्रमरित्रे के जले निपात्यन्ते नीयन्ते नावोऽनेन केनिपातः, "अद्वपज्जनात्-" ॥३२॥
Page #351
--------------------------------------------------------------------------
________________
३ मयंकाण्डः । ।
३५१
१८ ॥ इति सप्तम्या अलुप् ॥ १॥ कोटिभिः पाति कोटिपात्रम् , “ त्रट " ॥ ( उणा-४४६ ) ॥ इति त्रट् ॥ २॥ इयर्त्यनेन नौररित्रम्- “ लूधूसूखनि-" ॥५। २ । ८७ ॥ इतीत्रस्तत्र ॥ ३ ॥
अथोडुप: प्लवः ।
कोलो भेलस्तरण्डश्च • उडः संघाते सौत्रः' उड्यते उडुपः पुंक्तीबलिङ्गः, “ उडेरुपक् " ॥ ( उणा-३११ ) ॥ १ ॥ प्लवतेऽम्भसि प्लवः ॥ २ ॥ कोलति संस्त्यायति कोल: ॥ ३ ॥ · भिलिः सौत्रः' भिल्यते भेलः, भेरस्य लत्वे वा ॥ ४ ॥ तीर्यनेऽनेन तरण्डः पुंक्लीबलिङ्गः, “ कृतृ-" ॥ ( उणा-१७३) इत्यण्डः ॥ ५ ॥
स्यात्तरपण्यमातरः ॥ ५४३ ॥ पणे साधु पण्यं मूल्यं तरस्य पण्यं तरपण्यम् ॥ १ ॥ आतरन्यनेन आतरः ॥ २ ॥ ५४३ ॥
वृद्ध्याजीवो द्वैगुणिको वाधुषिकः कुसीदिकः ।
वाधुषिश्च वृद्धिमाजीवति वृद्ध्याजीवः ॥१॥ द्विगुणं गृह्णाति द्वैगुणिकः ॥ २॥ वृधुषी वृद्धिस्तां गृह्णाति वाधुषिकः “ अवृद्धगृह्णाति गये” ॥ ६ । ४ । ३४ ॥ इतीकणि साधू ॥३॥ कुसीदवृद्धिं गृह्णाति कुसीदिकः " कुसीदादिकट " ॥६।४।३५॥ ॥ ४ ॥ वृधुष्यां भवो वाधुषस्तस्यापत्यं वाधुषिः ॥ ५॥
कुसीदार्थप्रयोगौ वृद्धिजीवने ॥ ५४४ ॥ . 'कुसच् श्लेषे दन्त्यान्तः' कुस्यति कुसीदम् , “कुसेरिदेदौ" ॥ (उणा-२४१)॥ इति इदः, कुत्सितं सीदत्यत्रोत वा पृषोदरादित्वात् ॥ १॥ अर्थस्य प्रयोगः कलान्तरेण दानमर्थप्रयोगः, वृद्ध्या जीविका वृद्धिजीवनं तत्र ॥२॥५४४॥
वृद्धिः कलान्तरं मूलद्रव्यस्य वर्धनं वृद्धिः ॥ १ ॥ मूलद्रव्यस्याऽपरा कला कलान्तरम् ॥२॥ . ... ऋणं तूद्धारः पर्युदञ्चनम् ।
अर्यते स्म ऋणम् , "ऋहीघ्रा-" ॥४।२।७६॥ इति तस्य नत्वं ॥१॥ उद्धियतेऽसौ उद्धार्यते वा उद्धारः ॥ २ ॥ परित उदश्चनमुत्तमर्णाद् उद्धारत्वेन ग्रहणं पर्युदञ्चनम् ॥ ३ ॥
याञ्चयाप्तं याचितकम् याचितेन निवृत्तं याचितकम्, “याचिताऽपमित्यात् कण्" ॥६।४।२२॥१॥
Page #352
--------------------------------------------------------------------------
________________
-३५२
अभिधानचिन्तामणौ
परिवृत्त्यापमित्यकम् ॥ ५४५ ॥
परिवृत्त्या आप्तं अपमित्य प्रतिदानेन निर्वृत्तमापमित्यकम्, “ याचिता." . ॥ ६।४।२३ ॥ इति कण् ॥ १ ॥ ५४५ ॥
अधमर्णो ग्राहकः स्यात्
ऋणेऽधमोऽधमर्णः, राजदन्तादित्वात् पूर्वनिपातः ॥ १॥ गृह्णाति प्राहकः ॥२॥ उत्तमर्णस्तु दायकः ।
ऋणे उत्तमः उत्तमर्णः ॥ १ ॥ ददाति इति दायकः ॥ २ ॥
प्रतिभूर्लग्नकः
"क्षु.
प्रतिनिधिः प्रतीतो वा भवति प्रतिभूः ॥१॥ लगति सम्बध्यते लग्नः, ब्धविरिब्ध-” ॥ ४|४|१७ ॥ इति साधुः, के लग्नकः ॥ २ ॥
साक्षी स्थेयः
"
साक्षात् दृष्टा साक्षी "साक्षाद् द्रष्टा- " ॥ ७ । ९ । ११७॥ इतीन्, “प्रायोऽव्ययस्य ॥ ७|४|६५ ॥ इत्यन्त्यखरादिलोपः ॥ १ ॥ तिष्ठन्त्यस्मिन् इति स्थेयः विवादपदे निर्णेता प्रमाणभूतः पुरुषः || २ |
शपश्चात्रे - - अथ साक्षिणि स्याद् मध्यस्थः प्राश्निकोऽप्यथ ।
कूटसाक्षी मृषासाक्ष्ये सूची स्याद् दुष्टसाक्षिणि ॥
आधिस्तु बन्धकः || ५४६ ॥
आधीयतेऽसौ आधिः ॥ १ ॥ बध्यते संबध्यते . बन्धकः,
. ( उणा - २७ ) इत्यकः ॥ २ ॥ ५४६ ॥
अथ मानविशेषानाहतुलाद्यैः पौतवं मानं
द्रोर्विकारो द्रुवयं मानम्, पाय्यं हस्तादिभिः
""
1)
तुला पदवती प्रतिमानवती च तदाद्यैर्यद् मीयते तन्मानम्, पुनातीति पोतुर्मानभाण्डशोधकः पौतवाध्यक्षः, “ कृसिकमि- ॥ ( उणा - ७७३ ) इति तुन्, पोतोरिदं पौतवम् ॥ १ ॥
द्रुवयं कुडवादिभिः ।
" द्रोर्वयः " ॥ ६२ । ४३ ॥ १ ॥
दकतἐξ ἐ
66
॥
""
मीयतेऽनेन पाय्यं मानम्, धाय्यापाय्य- ॥ ५ । १ । २४ ॥ इति ध्याणि निपात्यते ॥ १ ॥
{
तत्र स्याद् गुञ्जाः पञ्च माषकः || ५४७ ॥
Page #353
--------------------------------------------------------------------------
________________
86
३ मर्त्यकाण्डः ।
३५३
तत्रेति पौतवे गुञ्जा रक्तिकाः ॥ १ ॥ पञ्च संख्या: मोयतेऽनेन माषः
""
1. ( उणा - ५४० ) इति षः, के माषकः पुंक्लीबलिङ्गः ॥ १ ॥५४७॥ ते तु षोडश कर्षोऽक्षः
वृकृत
ते माषाः षोडशकसंख्याः, कर्षति कर्षः पुंक्लीबालङ्गः ॥१॥ अक्ष्णोत्यक्षः ॥ २॥
पलं कर्षचतुष्टयम् ।
पलति पलं पुंक्लीबलिङ्गः ॥ १ ॥ विस्तः सुवर्णो नो क्षे
हेम्नः सुवर्णस्य अक्षे कर्षे 'विसच प्रेरणे' विस्यते विस्तः, “शीरीभू-”॥ (उणा२०१ ) ॥ इति कित्तः ॥ १ ॥ सुवर्णमस्त्यस्य सुवर्णः अभ्रादित्वाद् अः, यदाह - " माषो दशार्धगुञ्जः षोडशमाषो निगद्यते कर्षः । ससुवर्णस्य सुवर्णस्तैरेव पलं चतुर्भिश्व” इति ॥ २ ॥ कुरुविस्तस्तु तत्पले || ५४८ ॥
तस्य सुवर्णस्य पले कुरुदेशे प्रसिद्धो विस्तो हेमपलं कुरुविस्तः, यन्माला - हि सुवर्णस्य कुरुविस्तः” ॥ १ ॥ ५४८ ॥
- "पलेन
अथ पौतवमाह
तुला पलशतं
तोत्यते तुला भिदादित्वाद् अङि साधुः ॥ १ ॥ पलानां शतं पलशतं ॥ २ ॥ तासां विंशत्या भार आचितः ।
शाकटः शाकटीनश्च शलाटः
तासां तुलानां विंशत्या पलसहस्रद्वयेनेत्यर्थः, म्रियते भारः ॥ १ ॥ पुंसा हि द्वे पलसह वोढुं शक्यते आचीयते स्म आचितः ॥ २ ॥ शकटेन वोढुं शक्यः शाकटः “ क्वचिद् ” ॥ ६।२।१४५ ॥ इत्यण् ॥ ३ ॥ शकट्या नीयते " क्वचिद् ” ॥ ५।१।११ ॥ इति डे स्वार्थेऽणि च शाकटीनः || ४ || शृणाति शराटः, "अनिशू " ॥ ( उणा - १४५ ) ॥ इत्याटः, लत्वे शलाटः ॥ ५ ॥
ते दशाचितः ॥ ५४९ ॥
ते भारा दशसंख्याः आचीयते स्म आचितः, क्लीवेऽयमित्यन्ये ॥ १॥ ५४९ ॥ अथ द्रुवयमाह
चतुर्भिः कुडवैः प्रस्थः
कुड्यते लक्ष्यते कुडवः प्रसृतद्वयम्, तैश्चतुर्भिः प्रतिष्ठते प्रस्थः पुंक्लीबलिङ्गः ॥ १ ॥
Page #354
--------------------------------------------------------------------------
________________
३५४
अभिधानचिन्तामणी-.. . प्रस्थैश्चतुर्भिराढकः ।
आढौक्यते आढकस्त्रिलिङ्गः , " कीचकपेचक-" ॥ (उणा-३३) इत्यके निपात्यते ॥ १॥
चतुर्भिराढकैयॊणः द्रवति द्रोणः पुंक्लीबलिङ्गः, “द्रोर्वा" ॥ (उणा-८४) ॥ इति णः ॥ १॥ .
खारी षोडशभिश्च तैः ॥ ५५० ॥ तैद्रोणैः षोडशभिः खन्यते खारी, " द्वारकार-" ॥ ( उपा-४१७) इत्यारे निपात्यते ॥ १॥ ५५० ॥
अथ पाय्यमाह
चतुर्विंशत्यङ्गुलानां हस्तः हस्यतेऽनेन हस्तः ॥ १॥
दण्डश्चतुष्करः। दाम्यति दण्डश्चतुर्हस्तः ॥ १॥
तत् सहस्रौ तु गव्यूतं क्रोशः तेषां दण्डानां द्वौ सहस्रौ गवां यूतिरत्र गव्यूतं पृषोदरादित्वात्॥ १ ॥ क्रुश्यते उच्यतेऽध्वपरिमाणमस्मात् क्रोशः ॥ २ ॥
तौ द्वौ तु गोरुतम् ॥ ५५१ ॥
गव्या गव्यूतगव्यूती - तौ कोशौ द्वौ गवां रुतमत्र गोरुतम् ॥ १ ॥ ५५१ ॥ गोभ्यो हिता गव्या ॥ २॥ गवां यूतिरत्र गव्यूतम् ॥ ३॥ गवां यूतिर्गव्यूतिः पुंस्त्रीलिङ्गः पृषोदरादित्वात् ॥ ४॥
चतुष्क्रोशं तु योजनम् । चत्वारः क्रोशाः समाहृता अत्र चतुष्कोशम् , युज्यतेऽनेन योजनम् , यदाह-हस्तोऽङ्गुलविंशत्या चतुरन्वितया चतुष्करो दण्डः ।
___ तद्धि सहस्र कोशो योजनमेकं चतुष्कोशः" इति ॥ १ ॥ वाणिज्यमुक्तम् पाशुपाल्यमाह
पाशुपाल्यं जीववृत्तिः पशुपालस्य भावः कर्म वा पाशुपाल्यम्, राजादित्वाद् दयण ॥१॥ जीवपालनाद् वर्तनं जीववृत्तिः ॥२॥
Page #355
--------------------------------------------------------------------------
________________
• ३ मर्त्यकाण्डः ।
३५५
गोमान् गोमी गवीश्वरे ॥ ५५२ ॥
गावः सन्त्यस्य गोमान् , मतुः ॥१॥" गोः" ॥ ७२॥ ५० ॥ इति मिनि गोमी ॥ २ ॥ गवामीश्वरो गवीश्वरस्तत्र, गवेश्वरोऽपि ॥ ३ ॥ ५५२ ॥ - गोपाले गोधुगाभीरगोपगोसङ्ख्यवल्लवाः ।
गाः पालयति गोपालस्तत्र ॥ १ ॥ गां दोग्धि गोधुक् ॥ २॥ आ अभितईरयत्याभीरः, आप्नोतीति वा "जम्बोराभीर.” ॥ ( उणा-४२२ ) ॥ इतीरे निपात्यते ॥ ३ ॥ गाः पाति गोपः ॥ ३ ॥ गाः सङ्ख्याति संचष्टे वा गोसङ्ख्यः, “समः ख्यः-" ॥५।१।७७॥ इति डः ॥५॥ वल्लते वल्लवः, "वडिवटि-" ॥(उणा-५१५) । इत्यवः ॥६॥
गोविन्दोऽधिकृतो गोषु गां विन्दति गोविन्दः “निगवादेर्नाम्नि" ॥ ५।१।६१ ॥ इति शः ॥ १॥
जावालस्त्वजजीविकः ॥ ५५३ ॥ अजाः पालयतीति जावालः पृषोदरादित्वात् , जवमलति जवालइछागस्तस्याऽयमिति वा ॥१॥ अजेभ्यो जीविकाऽस्य अजजीविकः अनृतं कृषिरिति कर्षणमुक्तम् ॥ २ ॥ ५५३ ॥ अथ कृषिवृत्तीन् कृषिवलानाह
कुटुम्बी कर्षकः क्षेत्री हली कृषिककार्षको ।
कृषीवलोऽपि कुटुम्बमस्त्यस्य कुटुम्बी ॥ १ ॥ कर्षति भुवं कर्षकः ॥ २ ॥ क्षेत्रमस्त्यस्य क्षेत्री, क्षेत्राजीवोऽपि ॥ ३॥ हलमस्त्यस्य हली ॥४॥ कर्षति कृषिकः “पापुलि-" ॥ ( उणा-४१ ) ॥ इति किदिकः कृषकोऽपि ॥५॥ " कृषेर्गुणवृद्धी च” ॥(उणा३१) ॥ इत्यके वृद्धौ च कार्षकः ॥६॥ कृषिरस्त्यस्य कृषीवलः “कृष्यादिभ्यो वलच्" ॥ ७ । २ । २७ ॥, " वलच्यऽपित्रादेः " ॥ ३।२।८२ ॥ इति दीर्घः ॥ ७ ॥
जित्या तु हलि: .. ' जीवते चिपुणेनेति जित्या, “ जिविपून्यो हलिमुञ्जकल्के " ॥ ५।१।४३ ॥ इति क्यप् ॥१॥ हलन्त्यनया हलिः महद् हलम् , “पदिपठि-" ॥(उणा-६०७)। इति इः पुंस्त्रीलिङ्गावेतौ ॥ २॥
सीरस्तु लाङ्गलम् ॥ ५५४ !!
गोदारणं हलं सीयते बध्यते सीरः पुंक्लीबलिङ्गः, "चिजि-" ॥ ( उणा-३९२ ) ॥ इति रो दीर्घत्वं च ॥१॥ लङ्गति गच्छति लाङ्गलम् , “ नहिलङ्गेर्दीर्घश्च"॥ ( उणा-४६६)
Page #356
--------------------------------------------------------------------------
________________
३५६
अभिधानचिन्तामणौ
इत्यलः ॥ २ ।। ५५४ ॥ गौर्दार्यतेऽनेन गोदारणम् || ३ || हलति हलं पुंक्ली
बलिङ्गः ॥ ४ ॥
ईषसीते तद्दण्डपद्धती |
ईषति ईषा लाङ्गलदण्डः ॥ १ ॥ सिनोति भुवं सीता, लाङ्गलस्य पद्धतिर्लेखेत्यर्थः ॥ २ ॥
निरीषे कुटकं
निष्क्रान्ता ईषाऽस्माद् निरीषं तत्र ॥ १ ॥ कुटति कुटकं यस्याग्रे फालो बध्यते ॥ २ ॥
फाले कृषकः कुशिकः फलम् ॥ ५५५ ॥
66
फलति विशीर्यते भूमिरनेन फालस्तत्र ॥ १ ॥ कर्षन्त्यनेन कृषकः, " कृषे. गुणवृद्धीच ॥ ( उणा - ३१) ॥ इति दिकः || २ || कुष्णाति भुवं कुशिकः 'कुशिकहृदिक- ॥ ( उणा - ४५ ) ॥ इती के निपात्यते ।। ३ ।। फलति विदारयति फलम् ।। ४ ।। ५५५ ।।
""
दात्रं लवित्रं
66
दान्त्यनेन दात्रम्, “ नीदाम्बू- " ॥ ५ । २ । ८८ ॥ इति त्रट् ॥१॥ लुनन्त्यनेन लवित्रम्, "लूधूसू- " ॥ ५२८७ ॥ इति इत्रः ॥ २ ॥
तन्मुष्टौ वटः
तस्य दात्रस्य मुष्टिग्रहणस्थानं तन्मुष्टिस्तत्र वण्टयते विभज्यते वण्टः ।। १ ।। मत्यं समीकृतौ ।
मतशब्दः साम्यपर्यायः, मतस्य करणं मत्यम्, “मतमदस्य करणे” ॥ ७ । ११४ ॥ इति यः, असमस्य समीकरणं तत्र ॥ १ ॥
गोदारणं तु कुद्दालः
गौर्दार्यतेऽनेन गोदारणम् ॥ १ ॥ कुंदल्यतेऽनेन कुद्दालः पृषोदरादित्वात् पुंस्ययम्, वैजयन्ती तु - "गोदारणं कुद्दालम्” इति क्लीबमाह ॥ १ ॥
खनित्रं त्ववदारणम् ॥ ५५६ ॥
खन्यतेऽनेन खनित्रं कुद्दालादि, " लूधूसू- " ॥ ५ । २ । ८७ ।। इतीत्रः ।। १ ।। अवदार्यतेऽनेनाऽवदारणम् ।। २ ।। ५५६ ।।
प्रतोदस्तु प्रवयणं प्राजनं तोत्रतोदने ।
१ कुः पृथिवी, इति हैममतम् ।
Page #357
--------------------------------------------------------------------------
________________
३ मर्यकाण्डः । .
३५७
प्रतुद्यन्ते वोढारोऽनेन प्रतोदः ॥ १ ॥ प्राजन्ति प्रेरयन्त्यनेन प्रवयणम् , "त्रऽने वा" ।। ४।४।३ ।। इति विकल्पेन वीरादेशः, पक्षे प्राजनम् ॥२॥३॥ तुद्यतेऽनेन तोत्रम् , “नीदाम्ब्." ॥ ५।२।८८ ।। इति त्रट् ।।४।। अनटि तोदनम् ॥५॥
योत्रं तु योक्त्रमाबन्धः यूयते युज्यते वाऽनेन योत्रम् , योक्त्रम् , “नीदाम्ब्" ॥ ५।२।८८ ॥ इति घट् ॥ १ ॥ २ ॥ आवध्यतेऽनेन आवन्धश्चमरज्जुः ॥ ३ ॥
कोटिशो लोष्ठभेदनः ॥ ५५७ ॥ कोटिभिः कोणैः श्यति कोटिशः ॥ १ ॥ लोष्टान् भिनत्ति लोष्ठभेदनः, कोटोशोऽपि ॥ २ ॥ ५५७ ॥
मेधिर्मेथिः खलेवाली खले गोबन्धदारु यत् । मेधन्ति संगच्छन्ते गावोऽस्यां मेधिः, "नाम्युपान्त्य-' ॥ ( उणा-६०९) ॥ इति कित् इः ॥ १ ॥ 'मिथग मेधाहिंसयोः' मेथते हिनस्ति मेथिः,"किलिपिलि-" ॥ (उणा-६०८) ॥ इति इः, पुंस्त्रीलिङ्गावेतौ ॥ २ ॥ खले वलन्ति भ्रमन्ति गावोऽनया खलेवाली, खले गोबन्धनार्थ दारु ॥ ३ ॥ ___शूद्रोऽन्त्यवर्णो वृषलः पद्यः पज्जो जघन्यजः ॥ ५५८ ॥
शीयते इति शूद्रः, “शदेरूच्च-" ॥ (उणा-३९४) इति रः ॥१॥ अन्त्यश्चासौ वर्णश्चान्त्यवर्णः ॥२॥ वर्षति वृषलः, "तृपिवपि-" ॥ (उणा-४६८) इति किदलः, वृषं लाति लुनातीति वा, नारदस्तु- “वृषो हि भगवान् धर्मस्तस्य यः कुरुते त्वलं वृषलं तं विजानीयात्" इत्याह ॥ ३ ॥ ब्रह्मणः पादयोभवः पद्यः देहांशत्वाद् यः, "हिमहति-" ॥३।२।९६॥ इति पदादेशः ॥४॥ पद्भ्यां जातः पन्जः; यत् श्रुतिः"पद्भ्यां शूदोऽजायत" इति ॥५॥ जघन्ये जातो जघन्यजः ॥६॥५५८॥
ते तु मूर्धावसिक्ताद् आरथकृद् मिश्रजातयः ।
ते शूदाः मूर्धावसिक्तादारभ्य रथकारं यावत् मिश्रा सङ्कीर्णाजातिरेषां मिश्र.' जातयः। ..
क्षत्रियायां द्विजाद् मूर्धावसिक्तः 'सूतस्तु क्षत्रियाद् जातः' इत्यतो वक्ष्यमाणाजात इति सम्बध्यते, ब्राह्मणात्. क्षत्रियायां जातः मूर्धनि अवसिच्यते स्म मूर्धावसिक्तः ॥ १ ॥
विस्त्रियां पुनः ॥ ५५९ ॥ अम्बष्टः
Page #358
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणौ
द्विजादिति सम्बध्यते, ब्राह्मणाद् वैश्यायां जातः, अम्बायां तिष्ठति अम्बष्ठः, “गोऽम्बाऽऽम्ब-”॥२|३|३० ॥ इति षत्वम्, “ड्यापो बहुलं नाम्नि || २|४|९९ ॥ इति ह्रखः ॥ १ ॥ ५५९ ॥
३५८
अथ पारशवनिषादौ शूद्रयोषिति ।
ब्राह्मणात् शूद्रायां जातः, परपुरुषाद् भिन्नवर्णा स्त्री परस्त्री तस्या अपत्यं पारशवः, " परस्त्रियाः परशुश्चासावर्ण्य” | ६|१|४०|| इति अनि साधुः ॥ १ ॥ निषीदति निषादः, ज्वलादित्वात् णः ॥ २ ॥
क्षत्राद् माहिप्यो वैश्यायां
क्षत्रियाद् वैश्यायां जातः, महिष्यां साधुर्महिष्यः प्रज्ञाद्यणि माहिष्यः, स हि अन्तःपुररक्षिता इति स्मार्तम् ॥ १ ॥
उमस्तु वृषलस्त्रियाम् ॥ ५६० ॥
क्षत्रियात् शूद्रायां जातः, उच्यत्युग्रः, “खुरक्षुर " ॥ ( उणा - ३९६ ) ॥ इति निपात्यते ॥ १ ॥ ५६० ॥
वैश्यात् तु करणः
वैश्यात् शूद्रायां जातः, करोति करणः, नन्यादित्वाद् अनः ॥ १ ॥ शूद्रात् तु आयोगवो विशः स्त्रियाम् ।
शूद्राद् वैश्यायां जातः, अयोवद् गौरस्य अयोगुस्तस्याऽयमायोगवः ॥ १ ॥
क्षत्रियायां पुनः क्षत्ता
शुद्रात् क्षत्रियायां जातः, क्षदति द्वाःस्थत्वात् क्षत्ता ॥ १ ॥ चण्डालो ब्राह्मणस्त्रियां || ५६१ ॥
शूद्राद् ब्राह्मणस्त्रियां जातः, चण्डमुद्रं कर्म अलति पर्याप्नोति चण्डालः ॥१॥
॥ ५६१ ॥
वैश्यात् तु मागधः क्षत्र्यां
वैश्यात् क्षत्रियायां जातः, मगध्यति स्तौति मगधः, प्रज्ञायणि मागधः ॥ १ ॥ वैदेहको द्विजस्त्रियां ।
वैश्याद् ब्राह्मण्यां जातः, वैदेह इव वैदेहको वणिक्कर्मा ॥ १ ॥ सूतस्तु क्षत्रियाद् जातः
क्षत्रियाद ब्राह्मण्यां जातः, सुवति प्रेरयत्यश्वान् सूतः ॥ १ ॥
Page #359
--------------------------------------------------------------------------
________________
३ मर्त्यकाण्डः ।
३५९
उपसंहारमाह
इति द्वादश तद्भिदः ॥ ५६२ ॥ तेषां शूद्राणां भिदो जातिविशेषाः ॥ ५६२ ॥
माहिप्येण तु जातः स्यात् करण्यां रथकारकः । माहिष्याद् वैश्यात् क्षत्रियजातात् करण्यां शूद्रावैश्यजातायां सुतः, रथं करोति रथकारस्तक्षा ॥ १ ॥
- कारुस्तु कारी प्रकृतिः शिल्पी
करोति कृणोति वा कारुः, “कृवापा-" ॥ ( उणा-१)॥ इत्युण ॥ १ ॥ ग्रहादिणिनि कारी ॥ २ ॥ प्रक्रियतेऽनया प्रकृतिः ॥ ३ ॥ शिल्पं कलाकौशलमस्त्यस्य शिल्पी ॥ ४ ॥
श्रेणिस्तु तद्गणः ॥ ५६३ ॥ तेषां कारूणां गणः, श्रीयते श्रेणिः पुंस्त्रीलिङ्गः, “कावावी.''॥ (उणा-६३४)॥ इति णिः ॥ १ ॥ ५६३ ॥
शिल्पं कला विज्ञानं च शील्यते शिल्पम्, “पम्पाशिल्पादयः" ॥ (उणा-३००) ॥ इति पे निपात्यते ॥ १॥ 'कलण् सङ्ख्यानगत्योरदन्तः' कल्यते कला "भीषिभूषि.” ॥ ५।३।१०९ ॥ इति बहुवचनाद् अङ् ॥ २ ॥ विविधं ज्ञायते विज्ञानम् ॥ ३ ॥
मालाकारस्तु मालिकः ।
पुप्पाजीवः . मालां स्रजं करोति प्रथ्नाति मालाकारः ॥ १ ॥ मालागुम्फनं शिल्पमस्य मालिकः,"शिल्पम्" ॥६।४।५७॥ इतीकण् , मालाऽस्य अस्तीति वा ब्रीह्यादित्वादिकः ॥ २ ॥ पुष्पैराजीवति पुष्पाजीवः ॥ ३ ॥
पुष्पलावी पुष्पाणामवचायिनी ॥ ५६४ ॥ पुष्पाणि लुनाति पुष्पलावी, “कर्मणोऽण् ' ॥ ५।३।१४ ॥ “अणज-" ॥ १।४।२० ॥ इति ङी, पुष्पाणामवचेत्री ॥ १ ॥ ५६४ ॥
कल्यपालः सुराजीवी शौण्डिको मण्डहारकः ।
वारिवासः पानवणिक् ध्वजो ध्वज्याऽऽसुतीबलः ॥ ५६५ ॥ कल्यं मद्यं पालयति रक्षति कल्यपालः ॥१॥ सुरया जीवति सुराजीवी ॥२॥
Page #360
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणी-
.
शुण्डा पानमदस्थानं सुरा वा पण्यमस्य शौण्डिकः, “तदस्य पण्यम्" ॥ ६।४।५४ ॥ इतीकण् ॥ ३ ॥ मण्डमच्छसुरां हरति मण्डहारकः ॥ ४ ॥ वारि वासयति वारि. वासः ॥ ५ ॥ पानस्य वणिग् पानवणिक् ॥ ६ ॥ ध्वजति ध्वजः ॥ ७ ॥ ध्वजः सुराभाण्डपताकाऽस्त्यस्य ध्वजी ॥८॥ आसुतिमद्यसंधानमस्त्यस्य आसुतीबलः ॥९॥
मद्यं मदिष्ठा मदिरा परिस्रुता कश्यं परिझुन्मधु कापिशायनम् । गन्धोत्तमा कल्यमिरा परिप्लुता कादम्बरी स्वादुरसा हलिप्रिया ॥ ५६६ ।।
शुण्डा हाला हारहूरं सप्रन्ना वारुणी सुरा । माध्वीकं मदना देवसृष्टा कापिशमब्धिजा ।। ५६७ ॥
मदस्य करणं मद्यम् , “मतमदस्य करणे" ॥७।१।१४॥ इति यः, माद्यन्त्यनेन इति वा "बहुलम्" ॥५।१।२॥ इति करणेऽपि “यमिमदि" ॥५।१।३०॥ इति यः ॥१॥ अतिशयेन मदवती मदिष्टा, "गुणाङ्गाद्-" ॥ ७३९ ॥ इतीष्ठे "विन्मतोः." ॥७।४।३२॥ इति मतुलोपे "व्यन्तस्वरादेः" ॥ ४॥४३ ॥ इति अन्त्यखरादिलोपः ॥२॥ माद्यत्यनया मदिरा “मदिमन्दि." ॥(उणा-४१२)॥ इतीरः ॥३॥ परिस्रवति स्म परिस्रुता ॥४॥ कशदेशे साधु कश्यं ॥५॥ परिस्रवति परिजुत् स्त्रीलिङ्गः ॥६॥ मन्यते मधु पुंक्तीबलिङ्गः ॥ ७ ॥ कापिश्यां नगर्यो भवं कापिशायनम् , “वल्हार्दि पर्दिकापिश्याष्टायनण् ॥ ६।३।१४ ॥ ८ ॥ गन्धेन उत्तमा गन्धोत्तमा ॥९॥ कल्यते कल्यं स्त्रीक्लीबलिङ्गः ॥ १० ॥ एति भ्राम्यत्यनया इरा, "इणधाग्भ्याम्-" ॥ ( उणा-३८९)॥ इति कित् रः ॥ ११ ॥ परिप्लवते स्म परिप्लुता ॥ १२ ॥ कृत्सिताम्बरस्य नीलवासस इयं कादम्बरी स्त्रीक्लीबलिङ्गः, कुत्सितमम्बु यत्र क्षारत्वात् कदम्बुः समुद्रः,तमियर्तीति वा, कादम्बे गिरौ अर्यते वा तत्र हि यादवैस्त्यक्ता,पृषोदरा, दित्वात् ॥ १३ ॥ स्वादू रसोऽस्याः स्वादुरसा ॥ १४ ॥ हलिनो बलस्य प्रिया हलिप्रिया ॥ १५ ॥ ५६६ ॥ शुनति वैकल्यमनया शुण्डा पुंस्त्रीलिङ्गः, "कुगुहु." ॥ (उणा-१७०)॥ इति कित् डः ॥१६॥ हलति विलिखत्यङ्गं हाला, ज्वलादित्वात् णः ॥१७॥ हरति इन्द्रियाणि हारहूरम् , “सिन्दूरकचूर-" ॥ ( उणा-४३० ) ॥ इत्यूरे निपात्यते, हारहूरा द्राक्षा तद्विकारो वा ।।१८॥प्रसीदत्यच्छत्वात् प्रसन्ना ॥१९॥ वरुणस्येयं वारुणी समुद्रोत्थत्वात् ॥ २० ॥ सुरति उद्दीप्यते सुरा, सूयते परिवास्यते वा "ऋज्यजि." ॥ (उणा--३८८)॥ इति कित् रः ॥२१॥ माद्यत्यनया माध्वीकम् , "सृणीकास्तीक." ॥ ( उणा-५०) ॥ इतीके निपात्यते, मृद्वीकाया -विकारो माध्वी
Page #361
--------------------------------------------------------------------------
________________
३ मर्त्यकाण्डः ।
३६१
कमित्यन्ये ॥ २२ ॥ मदयति मदना ॥ २३ ॥ देवैः सृज्यते स्म देवसृष्टा ॥ २४ ॥ कपिशमेव कापिशं प्रज्ञादित्वादन् ॥ २५ ॥ अब्जता अब्धिजा ॥२६॥५६७॥ मध्वासवे माधवकः
मधु माक्षिकं तन्मित्रे आसूयते मध्वासवस्तत्र, मधुनो विकारो माधवः, के
माधवकः ॥ १ ॥
मैरेये शीधुरासवः ।
मीरायां देशे भवो गौड्याः मुगया विशेषो मैरेयः, नद्यादित्वादेयण, मीरे समुद्रे भव इति वा तत्र ॥ १ ॥ शेरतेऽनेन शीधुः " शीङझे धुक्” ॥ ( उणा - ७८४) ।। क्लीलिङ्गावतौ ॥ २ ॥ आसूयते आसवः ॥ 11 जगलो मेदको मद्यपङ्कः
भृशं गलति जगलः, पृषोदरादित्वात् ॥ १ ॥ मेद्यति स्निह्यत्यनेन मेदकः, " नाम्नि पुंसि च " || ५|३|१२१ ॥ इति णकः ॥ २ ॥ मद्यस्य पङ्को मद्यपङ्कः ॥ ३ ॥
',
किण्वं तु नमः || ५६८ ।। नग्न हुर्मद्यबीजं च
'किणः सौत्रः, किण्यते किण्वम्, “ निघृषि " ॥ ( उणा - ५११ ) ॥ इति किद् वः ॥ १ ॥ नग्नेन ह्वयते स्पर्धते सुराच्छादनाभावात् नग्नहूः || २ || ५६८ ॥ “केवयुः” ॥ (उणा–७४६) ॥ इति निपातनाद् नग्नहुः, पुंलिङ्गावेतौ ॥३॥ मद्यस्य 1. बीजं मद्यबीजं माषादलन्यादि ॥ ४ ॥
मद्यसन्धानमा सुतिः । आसवोऽभिषवः
मद्यस्य सन्धानं मद्यसन्धानम् ॥ १ ॥ आसूयते आसुतिः ॥ २ ॥ आसवनमासवः ॥ ३ ॥ एवमभिषवः ॥ ४ ॥
मद्यमण्ड कारोत्तमौ समौ ॥ ५६९ ॥
मद्यस्य मण्डो मद्यमण्डः ॥ १ ॥ कारेण क्रियावशाद् उत्तमो मुख्यः कारोत्तमः सुरा स्वच्छो भागः ॥ २ ॥ ५६९ ॥
गल्वर्कस्तु चषकः स्यात् सरकश्चानुतर्षणम् ।
"
गलन्त्यनेन गल्वर्कः, “निष्कतुरुष्क - " ॥ ( उणा - २६ ) ॥ इति के निपात्यते ॥ १ ॥ चषन्ति पिवन्त्यनेन चषकः ॥ ९ ॥ सरन्त्यनेन सरकः, “दृकॄनृ-” ॥ ( उणा - २७ ) ॥ इत्यकः पुंक्कीच लिहावेतौ ॥ ३ ॥ अनुतृष्यन्त्यनेनाऽनुतर्षणं पानपात्रम्, अनुतर्षो । अमरस्तु सरकानुतर्षशब्दौ सुरापरिवेषणपर्यायावाह ॥ ४ ॥
Page #362
--------------------------------------------------------------------------
________________
३६२
अभिधानचिन्तामणौ
शुण्डा पानमदस्थानं शुन्यते शुण्डा पानमदयोरास्पदं कल्यपालगृहैकदेशः ॥ १ ॥
मधुवारा मधुक्रमाः ॥ ५७० ॥ मधुनो वारा अवसरा मधुवाराः ॥१॥ मधुनः क्रमा मधुक्रमाः ॥२॥ ५७० ।।
सपीतिः सहपानं स्यात् सह पानं सपीतिः ॥ १ ॥ सह पीयते सहपानम् ॥ २ ॥ .
आपानं पानगोष्ठिका। आपिबन्त्यस्मिन् आपानम् ॥ १॥ पानस्य गोष्टी आसनबन्धः ॥ २ ॥
उपदंशस्त्ववदंशश्चक्षणं मद्यपाशनम् ॥ ५७१ ॥ उपदश्यते पानरुचिजननार्थमुपदंशः ॥ १॥ अवदश्यतेऽवदंशः ॥ २ ॥ चक्ष्यते चक्षणम् ॥ ३ ॥ मद्यपस्य अशनं मद्यपाशनम् , खरविशदमभ्यवहार्यम् ॥४॥५७१ ॥
नाडिंधमः स्वर्णकारः कलादो मुष्टिकश्चसः । नाडी धमति नाडिंधमः, "नाडीघटी." ॥ ५।१।१२० ॥ इति खशि साधुः ॥ १ ॥ स्वर्ण करोति अलङ्कारादिरूपतया स्वर्णकारः ॥ २॥ कला आदत्ते कलादः, कलं सुवर्णकालिकाम् - आद्यति आखण्डयति वा, अत एव कलं धौतं यत्रेति कलधौतम् ॥ २ ॥ मुष्टिं कायति मुष्टिकः ॥ ४ ॥
तैजसावर्त्तनी मूषा तैजसं हेमादि तदावर्त्यतेऽनया तैजसावर्तनी ॥१॥ मूयते मूषा “सुपूसू." ।। ( उणा-५४२ ) इति कित् षः ॥ २ ॥
__भस्वा चर्मप्रसेविका ॥ ५७२ ॥
भसं जुहोत्यादौ स्मरन्ति, बभस्त्यनया वह्निर्भस्त्रालोहधमनी, “हुयामा." ॥ ( उणा-४५१) इति त्रः ॥ १॥ चर्मणा प्रसीव्यते चर्मप्रसेविका पुंस्त्रीलिङ्गः ॥ २ ॥ ५७२ ॥
आस्फोटनी वेधनिका आस्फोट्यतेऽनया आस्फोटनी ॥ १॥ वेध्यतेऽनया मौक्तिकादि वेधनी, के वेधनिका ॥२॥
शाणस्तु निकषः कषः ।
Page #363
--------------------------------------------------------------------------
________________
. ३ मर्त्यकाण्डः।
३६३
श्यति तनूकरोति शाणः पुंस्त्रीलिङ्गः, "इणुर्विश-" ॥ (उणा-१८२ ) ॥ इति णः ॥ १॥ निकष्यतेऽनेन निकषः, “गोचरसंचर-" ॥५।३।१३१॥ इति घः ॥२॥ एवं कषः ॥ ३ ॥
संदंशः स्यात् कङ्कमुखः संदश्यतेऽनेन तप्तहेमादि संदंशः ॥१॥ कङ्कस्येव मुखमस्य कङ्कमुखः ॥२॥
भ्रमः कुन्दं च यन्त्रकम् ॥ ५७३ ॥ भ्रमति भ्रम्यते वा भ्रमः ॥ १॥ कवते शब्दायते कुन्दं पुंक्लीबलिङ्गः, "वृतृकुसुभ्यो नोऽन्तश्च" ॥ ( उणा-२४० ) ॥ इति दः ॥ २ ॥ यन्त्र्यतेऽनेन यन्त्रम् , के यन्त्रकम् ॥ ३ ॥ ५७३ ॥
वैकटिको मणिकारः विकटा मणयः पण्यमस्य वैकटिकः ॥ १॥ उत्तेजनाद् मणिं करोति मणिकारः ॥२॥
शौल्विकस्ताम्रकुटकः । शुल्वघटनं शिल्पमस्य शौल्विकः ॥ १॥ तानं कुट्टयति ताम्रकुटकः ॥ २॥
शाङ्खिकः स्यात् काम्बविकः शङ्खघटनं शिल्पमस्य शाजिकः ॥ १॥ कम्बुघटनं शिल्पमस्य काम्बविकः, "शिल्पम्" ॥ ६।४।५३ ॥ इतीकण "ऋवर्णोवर्णात्-" ॥७॥३॥३७॥ इति लक्ष्यानुरोधाद् इकण्इकारस्य लोपो न भवति ॥ २ ॥
. तुन्नवायस्तु सौचिकः ॥ ५७४ ॥ ___ तुम्नं विद्धं वयति तुम्नवायः, "आतो डो." ॥ ५।१।७६ ॥ इत्यत्र वावर्जनात् "कर्मणोऽण्" ।। ५।१।७२ ॥ इत्यणेव ॥१॥ सूचीवानं शिल्पमस्य सौचिकः ॥२॥ ५७४ ॥ ... कृपाणी कर्तरी कल्पन्यपि
कल्पते कृपाणी, “कृपिविषि." ॥ ( उणा-१९१ ) ॥ इत्याणक् ॥ १॥ कृत्यतेऽनया कर्तरिः, “नदिवल्यर्ति" ॥ (उणा-६९८) ॥ इत्सरिः, डयां कर्तरी ॥ २ ॥ कल्पतेऽनया कल्पनी ॥ ३ ॥
सूची तु सेवनी। - सूचयति सूचिः, “ खरेभ्य इः" ॥ (उणा-६०६) ॥ डयां सूची ॥१॥ सीव्यतेऽनया सेवनी ॥ २ ॥
Page #364
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणौ-..
सूचिसूत्रं पिप्पलकम् सूचेः सूत्रं सूचिसूत्रम् ॥ १ ॥ पिप्पलमेव पिप्पलकम् ।। २ ।।
त'ः कर्तनसाधनम् ।। ५७५ ।। ‘कृतैप वेष्टने' कृत्यते वेष्टयते सूत्रमस्मिन् तर्कुः पुंलिङ्गः, “कृतेस्त च" ॥ ( उणा-७२३ ) ॥ इत्युः तर्कादेशश्च ॥ १ ॥ कृत्यत कर्तनं तस्य साधनं । ॥२॥ ५७५ ॥
पिञ्जनं विहननं च तुलस्फोटनकामुकम् । पिज्यते हन्यतेऽनेन पिञ्जनम् ।। १ ॥ विहन्यतेऽनेन विहननम् ॥ २ ॥ तुलस्कोटनाय कार्मुकम् ।। ३ ।।।।
सेवनं सीवनं स्यूतिः सेव्यते सेवनम् ।। १ ॥ “ष्ठिवसिवोऽनटि वा" ||४।२।११२॥ इति दीर्घत्वे सीवनम् ।। २ ॥ स्त्रियां क्तौ "अनुनासिके च." ।। ४।१।१०८ ॥ इत्यूटि च स्यूतिः ॥ ३ ॥
___ तुल्यौ स्यूतप्रसेवकौ ॥ ५७६ ॥ ,
सीव्यते स्म स्यूतः ॥ १॥ प्रसीव्यते प्रसेवः, के प्रसेवकः वस्त्राद्यावपनम् ॥ २ ॥ ५७६ ।।
तन्त्रवायः कुविन्दः स्यात् तन्त्रं तन्त्वातनं वयति तन्त्रवायः, तन्तुवायोऽपि ॥१॥ कुं विन्दति कुविन्दः "निगवादेर्नानि." ॥ ५।१।६१ ॥ इति शः ॥ २ ॥
त्रसरः सूत्रवेष्टनम् । त्रस्यति वलति त्रसरः, “जठर-" ॥ (उणा-४०३) ॥ इति बहुवचनाद् रः ॥ १ ॥ सूत्रं वेष्ट्यते वानार्थमत्र सूत्रवेष्टनम् ।। २ ॥
वाणिव्यूतिः
वानं वाणिः स्त्रीलिङ्गः, “कमिवमि-" ॥ ( उणा-६१८) ॥ इति णिः ॥१॥ 'ऊयैङ् तन्तुसन्ताने' विशेषेण ऊयनं व्यूतिः "स्त्रियां क्तिः” ॥ ५।३।९१ ॥ वोः "प्वय्." ॥ ४।४।१२१ ॥ इति यलोपः ॥ १ ॥
वानदण्डो वेमा वानाय दण्डो वानदण्डः ॥ १॥ वयन्यनेन वेमा 'क्लीबलिङ्गः, “सात्मन्नात्मन्-'" ॥ ( उणा-९१६ ) ।। इति मनि निपात्यते ॥ २ ॥
Page #365
--------------------------------------------------------------------------
________________
३ मयंकाण्डः।
३६५
सूत्राणि तन्तवः ॥ ५७७ ॥
सूयते पट एभिः सूत्राणि पुंक्लीवलिङ्गः, “सूमूखनि-" ॥ (उणा-४४९) । इति कित् त्रः, सूयते एभिरिति वा ॥ १ ॥ तन्यन्ते इति तन्तवः पुंलिङ्गः, "कृसिकमि-" ॥ ( उणा-७७३ ) ॥ इति तुन् ।। २ ।। ५७७ ॥
निर्णेजकस्तु रजकः निर्णेनेक्ति क्षालयति निर्णेजकः, धावकोऽपि ॥ १॥ रजति रजकः, "नृत्खन्जः -" ॥ ५।१।६५ ॥ इत्य कट , “अघिनोश्च-" ॥ ४।२।५० ॥ इति नलोपः ॥ २॥
पादुकाकृत् तु चर्मकृत् । पादुकाः पादत्राणानि करोतीति पादुकाकृत् ॥१॥ चर्म करोति परिशीलयति चर्मकृत् ॥ २ ॥
उपानत् पादुका पादू: पन्नद्धा पादरक्षणम् ॥ ५७८ ॥
प्राणहिता उपनयति पादमुपानत् स्त्रीलिङ्गः, क्विपि “गतिकारकस्य नहिवृति-" ॥३।२।८५॥ इति दीर्घः ॥ १॥ पादूरेव पादुका "ड्यादीदृतः के" ॥२।४।१०४॥ इति इखः ॥ २॥ पद्यतेऽनया पादू: स्त्रीलिङ्गः, “कसिपदि-" ॥ ( उणा-८३५ ) ॥ इति णिदूः ॥ ३ ॥ पदोनद्धा पनद्धा ॥४॥ पादौ रक्ष्येते अनेन पादरक्षणम् , पादत्राणमपि ॥ ५ ॥ ५७८ ॥ प्राणेभ्यो हिता प्राणहिता ॥ ६ ॥ शेषश्चात्र-पादुकायां पादरथी पादजङ्गुः पदत्वरा ।
पादवीथी चपेशीच पादपीठी पदायता ॥ अनुपदीना त्वाबद्धाऽनुपदं हि या। ____ अनुपदं पदायामेन बद्धा अनुपदीना, “अनुपदं बद्धा " ॥ ७॥ १। ९६ ॥ इतीनः ॥ १॥
नधी वधी वरत्रा स्यात् नह्यतेऽनया नद्धी, " नीदाम्व्-" ॥ ५। २ । ८८ ॥ इति ब्रट् ॥ १॥ वर्धते दीर्घाभवति चर्मरज्जुत्वात् वद्धी पुंस्त्रीलिङ्गः, “भीवृधि-" ॥ (उणा-३८७)॥ इति रः ॥२॥ वियतेऽनया वरत्रा, "ग्नक्षि" ॥ (उणा-४५६)॥ इति अत्रः ॥३॥
___ आरा चर्मप्रभेदिका ॥ ५७९ ॥ . इयर्ति तन्तुरनया आरा, भिदादित्वादङि साधुः ॥ १॥ चर्म प्रभिनत्ति
Page #366
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणी
चर्मप्रभेदिका चर्मसीवनी ॥ २ ॥ ॥ ५७९ ॥
कुलालः स्यात् कुम्भकारो दण्डभृत् चक्रजीवकः । ." कोलति संस्त्यायति कुलालः,"कुलिपिलि-" ॥ (उणा-४७६)॥ इति किदालः, कुलानि गृहाणि अलति वा, कुं मृदं लालयते मृद्नाति वा ॥१॥ कुम्भं करोति कुम्भ. कारः ॥ २ ॥ दण्डं बिभर्ति दण्डभृत् ॥ ३ ॥ चक्रेण जीवति चक्रजीवकः ॥ ४ ॥
शाणाजीवः शस्त्रमा| भ्रमासक्तोऽसिधावकः ॥ ५८० ॥ शाणया जीवति शाणाजीवः ॥ १ ॥ शस्त्राणि मार्टि शस्त्रमार्जः ॥ २ ॥ भ्रमयन्त्रे आसक्तो भ्रमासक्तः ॥३॥ असीन् धावति शोधयत्यसिधावकः ॥४॥५८०॥
धूसरश्चाक्रिकस्तैली स्यात् · धुवति धूसरः, "कृधूतनि-"॥ (उणा-४४०)॥ इति कित् सरः ॥१॥ चक्र पण्यमस्य चाक्रिकः ॥ २ ॥ तैलमस्त्यस्य तैली, तिलन्तुदोऽपि ॥ ३ ॥
पिण्याकखलौ समौ । पिष्यते पिण्याकः स्रुततैलः कल्कविशेषः, “पिषेः पिपिण्यौ च" ॥ (उणा-३६)॥ इत्याकः॥ १ ॥ खन्यते खलः, “मृजिखनि-" ।। ( उणा-४७२) ॥ इति डिदलः पुंक्लीबलिङ्गावेतौ ॥ २॥ :
रथकृत् स्थपतिस्त्वष्टा काष्ठतट तक्षवर्द्धकी ॥ ५८१ ॥
रथं करोति रथकृत् , रथकारोऽपि ॥ १॥ स्थापयति स्थपतिः ॥ २ ॥ त्वक्षति तनूकरोति दारूणि त्वष्टा ॥ ३ ॥ काष्ठं तक्ष्णोति काष्ठतट् ॥ ४ ॥ तक्ष्णोति तक्षा, "उक्षितक्षि-" ॥ (उणा-९००) ॥ इत्यन् ॥ ५ ॥ वर्द्धयति छिनत्ति वर्धकिः, "वर्धरकिः" ॥ (उणा-६२४) ॥ ६ ॥ ५८१॥
ग्रामायत्तो ग्रामतक्षः प्रामस्याऽऽयत्तः साधारणस्तक्षा ग्रामतक्षः, "ग्रामकौटात् तक्ष्णः" ॥७॥३।१०९॥ इत्यत् समासान्तः ॥ १॥
कौटतक्षोऽनधीनकः । - कुट्यां शालायां भवः कौटः स्वतन्त्रः स चासौ तक्षा च कौटतक्षः, “प्रामकौटात् तक्ष्णः" ॥ ७॥३।१०९ ॥ इत्यः समासान्तः, नास्ति अधि उपरि इनः खामी अस्य अनधीनः ॥ १॥
वृक्षभित् तक्षणी वासी
Page #367
--------------------------------------------------------------------------
________________
३ मर्त्यकाण्डः । ।
नृक्षान् भिनत्ति वृक्षभित् ॥ १॥ तक्ष्यतेऽनया तक्षणी ॥ २ ॥ वसति हस्ते बासिः, “कृशृकुटि." ॥ (उणा-६१९) ॥ इति णिदिः डयां वासी ॥ ३ ॥
क्रकचं करपत्रकम् ॥ ५८२ ॥ कामति ककचं पुक्कीबलिङ्गः, "क्रकचादयः” ॥ (उणा-११५)। इत्यचे निपात्यते ॥ १ ॥ करसंचार्य शस्त्रपत्रं करपत्रम् , करशब्दोच्चारणेन पततीति वा त्रट ॥ २ ॥ ५८२ ॥
स उद्धनो यत्र काष्ठे काष्ठं निक्षिप्य तक्ष्यते । उद्धन्यते काष्ठमस्मिन् उद्धनः, "निघोद्घ." ॥ ५।३।३६ ॥ इत्यलि निपात्यते, काष्टमुपलक्षणं. लोहादिरपि । यल्लक्ष्यम्- "लोहोद्धनघनस्कन्धाः" इति ॥ १॥
वृक्षादनो वृक्षभेदी वृक्षोऽद्यते छिद्यतेऽनेन शस्त्रकेण वृक्षादनः ।।१।। वृक्षान् भिनत्ति वृक्षभेदी ॥२॥
टङ्कः पाषाणदारकः ॥ ५८३ ॥ टक्यते टङ्कः पुंक्तीबलिङ्गः, हन्यमानष्ठं शब्दं कायति वा ॥ १ ॥ पाषाणं दारयति पाषाणदारकः ॥ २ ॥ ५८३ ॥ .
व्योकारः कर्मारो लोहकारः विशेषेण ओकं समवायमियति व्योकारः, व्यो' इत्ययःपर्याय इति भोजः ॥१॥ करोति कारः “ कृगो मादिश्च" ॥ ( उणा-४०७ ) ॥ इत्यारः, कर्म इयर्ति वा ॥ २ ॥ लोहं करोति लोहकारः ॥ ३ ॥
कूटं त्वयोधनः । कुट्यते हन्यतेऽनेन कूटं पुंकलीवलिङ्गः ॥ १॥ अयो हन्यतेऽनेन अयोधनः ॥२॥
व्रश्चनः पत्रपरशुः .. ' वृश्चति छिनत्ति व्रश्चनः, रम्यादित्वादनट् ॥ १॥ पत्राकारः पत्राणां वा छेदकः परशुः पत्रपरशुः ॥ २ ॥
ईषीका तूलिकेषिका ॥ ५८४ ॥ ईषति ईषीका, “रुचिऋजि.” ॥ (उणा-४८) ॥ इति ईकः ॥ १॥ तूल्यते तूलिः, “नाम्युपान्त्य-" ॥ (उणा-६०९) ॥ इति किः के तूलिका ॥ २ ॥ ईषति ईषिका काष्ठलोहादिमयी शलाका ॥ ३ ॥ ॥ ५८४ ॥ ... अव्ययमेतत् ।
Page #368
--------------------------------------------------------------------------
________________
३६८
अभिधानचिन्तामणौ
भक्ष्यकारः कान्दविकः
भक्ष्यं खरविशदमभ्यवहार्ये करोति भक्ष्यकारः ॥ १ ॥ कन्दुः पण्यमस्य कान्दविकः, “तदस्य पण्यम् " ||६|४|५४ ॥ इतीकण् " ऋवर्णोवर्ण - " ॥७॥४।७१ ॥ इत्यादिना लक्ष्यानुरोधादिकण्इलोपाभावः कन्दुना कृतं कान्दवं तत् पण्यमस्येति
वा ॥ २ ॥
कन्दुखेदनिके समे ।
कन्दन्त्येनां कन्दुः पुंस्त्रीलिङ्गः, “भ्रमृतृ" । (उणा - ७१६) ।। इत्युः ॥ १ ॥ स्वेद्यतेऽनया वेदनी, के स्वेदनिका ॥ २ ॥
रङ्गाजीवस्तौलिकिकश्चित्रकृच्च
रज्यन्त्येषु रङ्गा वर्णकाः, तेभ्य आजीवति रङ्गाजीवः ॥ १ ॥ तूलिकालिखनं शिल्पस्य तौलिकिकः ॥ २ ॥ चित्रं करोति चित्रकृत्, चित्रकरोऽपि ॥ ३॥
अथ तूलिका || ५८५ ॥
कूचिका
तूलति तूलिका ॥ १ ॥ ५८५ ॥ कूचति कूचिका ॥ २ ॥
चित्रमा लेख्यं
चीयते चित्रम्, “चिमिदि - " ॥ ( उणा - ४५४ ) ॥ इति कित्त्रः ॥ १ ॥ आलिख्यते आलेख्यम् ॥ २ ॥
पलगण्डस्तु लेप्यकृत् ।
पलेन मांसेनेव मृदादिना गण्डति संहन्ति पलगण्डः ॥ १ ॥ लेप्यं केराति लेप्यकृत् लेपकोऽपि ॥ २ ॥
पुस्तं लेप्यादिकर्म स्यात्
पुंस्यते अभिमते मृदत्र पुस्तं पुंक्लीबलिङ्गः, " शीरी " ॥ ( उणा - २०१) ॥ इति कित्तः, 'पुस्तण् आदरे' इत्यस्य वाडल, लेप्यमादिरस्य लेप्यादि कर्म ॥१॥ नापितश्चण्डिलः : दुरी ॥ ५८६ ॥
क्षुरमर्दी दिवाकीर्तिर्तुण्डको ऽन्तावसाय्यपि ।
न आप्यते नापितः, “नत्र आपे: - " ॥ ( उणा - २११) ॥ इति इतः ॥ १॥ चण्डते चण्डिलः, “कल्यनि " ॥ ( उणा - ४८१ ) ॥ इतीलः || २ || क्षुरोऽस्त्यस्य क्षुरी || ३ || ५८६ ॥ क्षुरेण मर्दयति क्षुरमर्दी ॥ ४ ॥ दिवा की दिवाकीर्तिः,
Page #369
--------------------------------------------------------------------------
________________
३ मर्त्यकाण्डः ।
३६९
रात्रौ क्षुरकर्मनिषेधात् ॥ ५ ॥ मुण्डयति मुण्डकः ॥ ६ ॥ अन्तमवस्यति अन्ता
वसायी ॥ ७ ॥
शेषश्चाऽत्र
नापिते ग्रामणीभण्डिवाहक्षौरिकमाण्डिकाः ॥ ७ ॥
मुण्डनं भद्राकरणं वपनं परिवापणम् ॥ ५८७ ॥
क्षौरं
66
मुण्ड्य मुण्डनम् ॥ १ ॥ भद्राक्रियते भद्राकरणम् * मद्रभद्राद् वपने " ||७|२|१४४॥ इति डाच् || २ || उप्यते वपनम् ॥ ३ ॥ परिवाप्यते परिवापणम् ॥ ४ ॥ ५८७ ॥ क्षुरस्येदं कर्म क्षौरम् ॥ ५ ॥
नाराची त्वेषिण्यां
नरमञ्चति नराङ् तस्येयं नाराची ॥१॥ इष्यते अन्विष्यते व्रणोऽनया एषणी, “इपोऽनिच्छायाम्” ॥ ५ । ३ । ११२ ॥ इत्यन: गौराादत्वात् ङीः, तत्र ॥ २ ॥
देवाजीवस्तु देवलः ।
॥ देवान् लाति देवलः दिव्यतीति वा "मृदि
2
देवानाजीवति देवाजीवः कन्दि-” ॥ ( उणा - ४६५ ) ॥ इत्यलः ॥ २ ॥ मार्दङ्गिको मौरजिकः
मृदङ्गो वादनं शिल्पमस्य मार्दङ्गिकः ॥ १ ॥ एवं मौरजिकः ॥ २ ॥ वीणावादस्तु वैणिकः ॥ ५८८ ॥
वीणां वादयति वीणावादः ॥ १ ॥ वीणावादनं शिल्पमस्य वैणिकः ॥ २ ॥ ५८८ ॥ वेणुध्मः स्याद् वैणविकः
वेणुं धमति वेणुमो वांशिकः ॥ १ ॥ वेणुवादनं शिल्पमस्य वैणविकः, लक्ष्यानुरोधात् “ऋवर्णोवर्ण -” ॥ ७ । ४ । ७१ ॥ इतीकण्इलोपाभावः ॥ २ ॥
पाणिघः पाणिवादकः ।
पाणी हन्तीति पाणिघः, “ पाणिघताडघौ शिल्पिनि ॥ ५ । १ । ८९ ॥ इति साधुः ॥ १ ॥ पाणी वादयति पाणिवादकः ॥ २ ॥
स्यात् प्रातिहारिको मायाकारः
Page #370
--------------------------------------------------------------------------
________________
३७०
अभिधानचिन्तामणौ
. प्रतिहरणं व्याजः प्रयोजनमस्य प्रातिहारिकः ॥ १॥ मायां करोति माया- . कारः ॥२॥
माया तु शाम्बरी ।। ५८९ ॥ मात्यस्यां विश्वं माया, “स्थाच्छा.” ॥ (उणा-३५७) ।। इति यः ॥ १॥ शम्बराख्यस्याऽसुरस्य इयं शाम्बरी, शं वृणोति शंवरो व्याजस्तस्ययमिति वा ॥२॥ ॥ ५८९ ॥
इन्द्रजालं तु कुहुकं जालं कुसृतिरित्यपि । इन्द्रस्य जालमिन्द्रजालम् ॥१॥ कुहयते विस्मापयते कुहुकम् , “मिवमि-'' ॥ (उणा५१)॥ इत्युकः, कुहकमपि ॥ २ ॥ जालमिव जालम् ॥ ३ ॥ कुत्सिता सृति कुमृतिः ॥ ४ ॥
कौतुहलं तु कुतुकं कौतुकं च कुतूहलम् ।। ५९० ॥ कुतूहलमेव कौतूहलम् , प्रज्ञादित्वादण् ॥ १॥ कुर्भूमिस्तुद्यतेऽनेन, कुत्सितं तन्यते वा कुतुकम् , “निष्कतुरुष्क-" ॥ ( उणा-२६ ) ॥ इति निपात्यते ॥ २ ॥ कुतुकमेव कौतुकं ॥ ३ ॥ कुत्सितं तोहति कुतूहलम् ,, "मुरलपरल." ॥ (उणा४७४ ) ॥ इत्यले निपात्यते, विनोदोऽपि ॥ ४ ॥
व्याधो मृगवधाजीवी लुब्धको मृगयुश्च सः । विध्यतीति व्याधः, "तन्व्यधि." ॥ ५। १ । ६४ ॥ इति णः ॥१॥ मृगबधेनाऽऽजीवति मृगवधाजीवी ॥ २ ॥ लुभ्यति स्म लुब्धः, के लुब्धकः ॥ ३ ॥ मृगान् याति मृगयुः, ‘पीमृगमित्र-" ॥ (उणा-७४१) ॥ इति किदुः ॥ ४ ॥
पापर्धिगयाऽऽखेटो मृगव्याच्छोदने अपि ॥ ५९१ ।। पापानि ऋश्नुवन्त्यस्यां पार्द्धिः ॥ १॥ मृग्यन्ते प्राणिनोऽस्यां मृगया "मृगयेच्छा." ॥ ॥ ॥ इति साधुः ॥ २ ॥ आखेट्यन्ते उत्त्रास्यन्ते प्राणिनोऽस्मिन् आखेटः ॥ ३ ॥ मृगान् व्ययत्याच्छादयति मृगव्यम् ॥ ४ ॥ आचोद्यन्ते प्राणिनोऽस्मिन् आच्छोदनं पृषोदरादित्वाच्चस्य छत्वम् , स्त्रीक्लीबलिङ्गावेतौ ॥५॥५९१॥
जालिकस्तु वागुरिकः जालेन जीवति जालिकः, वेतनादित्वादिऋण ॥१॥ वागुरया चरति बागुरिकः, “चरति” ॥ ६ । ४ । ११ ॥ इतीकण् ॥ २ ॥
वागुरा मृगजालिका।
Page #371
--------------------------------------------------------------------------
________________
३ मर्यकाण्डः ।
३७१
वान्ति पतन्ति मृगा अस्यां वागुरा मृगबन्धनरज्जुः, "श्वशुर-" ॥ (उणा४२६ ) ॥ इत्युरे निपात्यते ॥ १ ॥ मृगाणां ग्रहणाय जालं मृगजालिका ॥ २ ॥
शुम्बं वटारको रज्जुः शुल्वं तन्त्री वटी गुणः ॥ ५९२ ॥ शुनति शुम्बं स्त्रोक्लीबलिङ्गः, “तुम्बस्तम्बादयः" ॥ (उणा-३२०) ॥ निपात्यते ॥१॥ वट्यते वेष्ट्यते वटारः, "द्वारशृङ्गार-” ॥ (उणा-४११)॥ इत्यारे निपात्यते के वटारकः ॥ २ ॥ सृज्यते रज्जुः स्त्रीलिङ्गः “स्यन्दिसृजिभ्याम्." ॥ (उणा७१७) ॥ इत्युप्रत्ययो रज्ज्वादेशश्च ॥ ३ ॥ शलति शुल्वम् , “शल्यलेरुचातः" ॥ (उणा-३१९)॥ इति वः ॥४॥ तन्त्रयति धारयति तन्त्रिः ,“पदिपठि-" ॥ (उणा६०७) ।। इति इः ड्यां तन्त्री, तन्यते इति वा त्रडतात् ङीः ॥ ५॥ वटति वटी स्त्रीलिङ्गः ॥ ६ ॥ गुण्यतें अभ्यस्यते गुणः ॥ ७ ॥ ॥ ५९२ ॥
धीवरो दाशकैवत्तौ ध्यायति मत्स्यघातं धीवरस्तत्र, “तीवरधीवर." ॥ ( उणा-४४४ ) ॥ इति वरटि निपात्यते ॥ १ ॥ द्यति मत्स्यान् दाशः, “पादावमि." ॥ (उणा-५२७) ॥ इति शः ॥ २ ॥ के वर्तते केव” मत्स्यादिस्तस्याऽयं कैवर्तः ॥ ३ ॥
वडिशं मत्स्यवेधनम् । 'वड आग्रहणे सौत्रः' वज्यतेऽनेन वडिशं स्त्रीक्लीबलिङ्गः, "कुलिकनि-" ॥ ( उणा-५३४ ) ॥ इतीशः ॥ १ ॥ मत्स्या वेध्यन्तेऽनेन मत्स्यवेधनम् ॥ २ ॥
आनायस्तु मत्स्यजालं आनयन्त्यनेन आनायः, "आनायो जालम्" ॥५। ३ । १३६ ॥ इति घञ् ॥१॥ २ ॥
कुवेणी मत्स्यबन्धनी ॥ ५९३ ॥ ___ कुत्सितं वेणन्तेऽस्यां मत्स्याः कुवेणी ॥ १॥ मत्स्या बध्यन्तेऽस्यां मत्स्यबन्धनी ॥ २ ॥ ५९३ ॥
जीवान्तकः शाकुनिकः जीवान् कपोतादीन् अन्तयति जीवान्तकः ॥ १॥ शकुनान् हन्ति शाकुनिकः, “पक्षिमत्स्यमृगार्थाद् नति” ॥ इति इकण् ॥ २ ॥
वैतसिकस्तु सौनिकः ।
मासिकः कौटिकश्च वीतसेन चरति वैतंसिकः ॥ १ ॥ सूना प्रयोजनमस्य सौनिकः ॥ २ ॥ मांस
Page #372
--------------------------------------------------------------------------
________________
३७२
अभिधानचिन्तामणौ
पण्यमस्य मांसिकः ॥ ३ ॥ कूटः कूटयन्त्रं तेन चरति कौटिकः, खट्टिकोऽपि ॥ ४ ॥ अथ सूना स्थानं वधस्य यत् ॥ ५९४ ॥
सुन्वन्त्यस्यां सूना, “सोरू च " ॥ ( उणा - २६३) ॥ इति नः पशूनां घातस्थानम् ॥ १ ॥ ५९४ ॥
स्याद् बन्धनोपकरणं वतंसो मृगपक्षिणाम् ।
मृगादिबन्धननिमित्तं जालवागुरादिसाधनं वितन्यते बन्धाय वीतंसः पुंक्ली - लिङ्गः, "व्यवाभ्यां तनेरीच्च वेः " ॥ ( उणा - ५६५ ) ॥ इति सः, वितंस्यते बध्यतेSनेन वा “ घञ्युपसर्गस्य - " || ३|२|८६ ॥ इति दीर्घः ॥ १ ॥
पाशस्तु बन्धनग्रन्थिः
पश्यते बध्यतेऽनेन पाशः, पान्त्यऽनेन वा, “पादावमि " ॥ ( उणा - ५२७ ) ॥ इति शः ॥ १ ॥ मृगादीनां बन्धनाय ग्रन्थिर्बन्धनग्रन्थिः ॥ २ ॥ अवपातावटौ समौ || ५९५ ॥ .
अवपतन्ति मृगा अत्रेति अवपातः ॥ १ ॥ अव्यन्तेऽनेन अवटः, "दिव्यवि - " ॥ ( उणा - १४२ ) ॥ इत्यटः || २ || ५९५ ॥
उन्माथः कूटयन्त्रं स्यात्
ऊर्ध्वपातान्मथ्यतेऽनेन उन्माथः ॥ १ ॥ कूटेन छलेन यन्त्र्यते अनेन कूटयन्त्रम्, पाशयन्त्रमित्येके ॥ २ ॥
विवर्णस्तु पृथग्जनः ।
|| ५९६ ॥
इतर : प्राकृतो नीचः पामरो बर्बरश्च सः विरुद्धो वर्णोऽस्य विवर्णः वर्णान्तरालत्वात् ॥ १ ॥ पृथग् जनेभ्यः पृथग्जनः ॥ २ ॥ एतीति इतरः " इण्पूभ्यां कित् - " ॥ ( उणा - ४३८ ) ॥ इति तरः ॥ ३ ॥ प्रकृतौ भवः प्राकृतः गुणाऽसंस्कृतः ॥ ४ ॥ निम्नमञ्चति नीचः ॥ ५ ॥ पायते पामरः “जठर-” ॥ ( उणा - ४०३ ) ॥ इत्यरे निपात्यते ॥ ६ ॥ वृणोति बर्बर: ‘“कृगृशृ-” ॥ ( उणा–४४१ ) ॥ इति वरद् ॥ ७ ॥ ५९६ ॥ चण्डालेऽन्तावसाय्यन्तेवासिश्वपचबुक्कसाः ।
निषादप्लवमातङ्गदिवाकीर्तिजनङ्गमाः || ५९७ ॥
चण्डते चण्डालः,“ऋकृमृ-” ॥ ( उणा - ४७५ ) ॥ इत्यालः चण्डमालं मृषाऽस्येति वा, यद्याडि:- "चण्डमालं मृषा यस्येत्यर्थः शब्दवतां मतः" इति, तत्र । प्रज्ञाद्यणि चाण्डालोऽपि ॥१॥ अन्तमवस्यत्यन्तावसायी ॥ २ ॥ अन्ते दूरे क्सत्यन्तेवासी ॥३॥
Page #373
--------------------------------------------------------------------------
________________
३ भूमिकाण्डः ।
"शयवासि." १३॥२॥२५॥ इति सप्तम्या अलुप् ॥ ३ ॥ श्वानं पचति श्वपचः लिहादित्वादच् ॥ ४ ॥ बुक्कति श्वाऽस्य बुक्कसः, “ फनस-" ॥ (उणा-५७३) । इत्यसे निपात्यते, बुक्कामस्यतीति वा 'पुत् कुत्सितं कसति पुष्कस इत्येके, पुक्कस इत्यन्ये' श्वपचो डोम्बो बुक्कसो मृतप इत्यवान्तरभेदोऽत्र नाश्रितः ॥ ५ ॥ निषीदति निषादः ॥ ६ ॥ प्लवते प्लघः ॥ ७ ॥ मन्यते पापीयान् मातङ्गः, “ मनेर्मतमातौ च" ॥ (उण्ण-१००)॥ इत्यङ्गः, मा निषिद्धं तङ्गतीति वा, मातङ्गापत्यमिति पौराणिकाः ॥८॥ दिवा कीर्त्यते दिवाकीर्तिः रात्रौ भयदत्वात् , "स्वरेभ्य इ." ॥ (उणा-६०६)॥९॥ जनं गच्छति जनङ्गमः, “ नानो गमः-" ॥५।१।१३१॥ इति खः ॥ १० ॥५९७॥
पुलिन्दा नाहला निष्ट्याः शबरा वरुटा भटाः ।
माला भिल्लाः किराताश्च सर्वेऽपि म्लेच्छजातयः ॥५९८॥
पोलन्ति वर्द्धन्ते पुलिन्दाः, "कल्यलि." ॥ (उणा-२४६) इतीन्दक् ॥१॥ नह्यन्ति वल्कलानि नाहलाः, “नहिलङ्गेर्दीर्घश्च" ॥ (उणा-४६६) ॥ इत्यलः ॥२॥ निर्गता वर्णाश्रमेभ्यो निष्ट्याः , “ निसो गते" ॥६ । ३ । १८ ॥इति त्यच् ॥३॥ शवन्ति शबराः, "ऋच्छिचटि." ॥ (उणा-३९७) इत्यरः ॥ ४ ॥ वृणन्ति वरुटाः, "गृजद." ॥ ( उणा-१५३ ) इत्युटः ॥ ५ ॥ भटन्ति भटाः ॥ ६ ॥ मल्यन्ते मालाः, मां लान्तीति वा ॥७॥ भिन्दन्ति भिल्लाः, “भिल्लाच्छभल्ल-"॥ (उणा-४६४)। इति निपात्यते, भिदं विदारणं लान्तीति वा ॥ ८॥ किरन्ति शरान् किराताः, "कृव कल्य." ॥ (उणा-२०९) ॥ इत्यातक् ॥ ९॥ म्लेच्छन्त्यव्यक्तं वदन्ति म्लेच्छास्तेषां जातिरेषां म्लेच्छजातयः, एतेऽरण्यचरा देशभेदाद् भिन्नाः ॥५९८ ॥
इत्याचार्यश्रीहेमचन्द्रविरचितायां स्वोपज्ञाऽभिधानचिन्तामणिनाममालाटीकायां मयंकाण्डस्तृतीयः ॥ ३ ॥
अहम् अथ तिर्यकाण्डः
अथ तिर्यकाण्डं चतुर्थमारभ्यते । ____ तत्र पृथिव्यप्तेजोवायुवनस्पतिभेदेनैकेन्द्रियाः स्थावराः, द्वित्रिचतुष्पञ्चेन्द्रियभेदेन त्रसाश्च कृमिप्रभृतयस्तियञ्चो वक्ष्यन्ते, तत्र पृथिवीकायिकानाह
भूर्भूमिः पृथिवी पृथ्वी वसुधोर्वी वसुन्धरा । धात्री धरित्री धरणी विश्वा विश्वम्भरा धरा ॥१॥ क्षितिः क्षोणी क्षमाऽनन्ता ज्या कुर्वसुमती मही। गौर्गोत्रा भूतधात्री क्षमा गन्धमाताऽचलाऽवनिः ॥ २ ॥
४८
Page #374
--------------------------------------------------------------------------
________________
३७४
अभिधानचिन्तामणौ
सर्वसहा रत्नगर्भा जगती मेदिनी रसा । काश्यपी पर्वताधारा स्थिरेला रत्नबीजसूः ॥ ३ ॥ विपुला सागराच्चा स्युर्नमीमेखलाम्बराः ।
||५|३|११५॥ इति क्विप् ॥ १ ॥
93
<<
66
भवत्यस्यां सर्वे भूः, " भ्यादिभ्यो वा " कृभूभ्यां॥ ( उणा - ६९० ) ॥ इति किति मिप्रत्यये भूमिः ॥ २ ॥ प्रथते पृथिवी, “प्रथेरिवट् पृथ् च ' ॥ ( उणा - ५२१ ) ॥ इति साधुः ॥ ३ ॥ पृथ्वी पृथुत्वात् “स्वरादुतो- ”॥२|४ | ३५ ॥ इति ङीः ॥ ४ ॥ वसु धनं धत्ते वसुधा, " आतो डोs - " ॥५।१।७६॥ इति डः ॥ ५ ॥ उवीं विस्तीर्णत्वात् ॥ ६ ॥ वसूनि धारयति वसुन्धरा “धारेर्धर्च”॥५।१।११३ ॥ इति खः ॥ ७ ॥ दधाति विश्वं धात्री ॥ ८॥ धरति धरित्री, “बन्धिवहि-”॥ ( उणा - ४५९ ) ॥ इत्यादिग्रहणाद् इत्रः ॥ ९ ॥ " ऋहस्-" ॥ ( उणा - ६३८ ) ॥ इत्यणौ धरणिः, ड्यां धरणी ॥ १० ॥ विशति सर्वमस्यां विश्वा, “निघृषी-” ॥ (उणा–५११ ) इति द्विः ॥ ११ ॥ विश्वं जगद् बिभर्त्ति विश्वंभरा, “भृवृजि-” ॥५।१।११२ ॥ इति खः ॥ १२ ॥ धरति धरा || १३|| १ || क्षियन्त्यधिवसन्त्येनां क्षितिः,‘“स्त्रियां क्तिः” ॥५३॥९१॥१४॥ क्षौति भूपं क्षोणिः, “कावावि.” ॥ (उणा - ६३४) ॥ इति णिः, ङयां क्षोणी ॥१५॥ क्षमते भारं क्षमा ॥ १६ ॥ नास्त्यन्तोऽस्या अनन्ता ॥ १७ ॥ जिनाति हीयते ज्या, क्वचिद् " || ५|१|१७१ ॥ इति डः ॥ १८ ॥ कायति भूपं कु:, " पृकाहृषि- " ॥ ( उणा - ७२९ ) ॥ इति किदुः ॥ १९ ॥ वसूनि सन्त्यस्यां वसुमती ॥ २० ॥ महते मही गौरादित्वाद् ङीः ॥ २१ ॥ गच्छन्त्यस्यां गौः, गोरूपधरत्वाद् वा ॥ २२ ॥ गोत्राः शैलाः सन्त्यस्यां गोत्रा अभ्रादित्वादः, गास्त्रायते वा ॥ २३ ॥ भूतानि दधाति धारयति भूतधात्री ॥ २४ ॥ क्षमते भारं क्ष्मा " रुक्मंग्रीष्म " ॥ ( उणा - ३४६ ) ॥ इति मे निपात्यते ॥२५॥ गन्धस्य मातेव गन्धमाता, भुवो गन्धगुणाऽऽनानात् ॥ २६ ॥ न चलत्य - चला ॥२७॥ अवति प्रजाः, अव्यते भूपैरिति वा अवनिः, “सदिवृति-” ॥ (उणा६८०)॥ इत्यनिः ॥ २८ ॥ २ ॥ सर्वे सहते सर्वसहा, “ सर्वात् सहः - " ॥५॥१॥ १११॥ इति खः ॥ २९ ॥ रत्नानि गर्भेऽस्या रत्नगर्भा, रत्नवतीति भागुरिः ॥ ३० ॥ गच्छन्त्यस्यां जगती, “गमेदि द्वे च ' ॥ ( उणा - ८८५) इति कतृः “अधातूहदितः” ॥ २ । ४ । २ ॥ इति ङीः ॥ ३१ ॥ मेद्यत्यवश्यं मेदिनी, दैत्यमेदोयोगादित्यन्ये ॥ ३२ ॥ रस्यते रसा, रसाः सन्त्यस्यां वा अभ्रादित्वादः ॥ ३३ ॥ काश्यपस्येयं काश्यपी, भार्गवेण हि पृथ्वी जित्वा अस्मै दत्ता ॥ ३४ ॥ पर्वता आधारोऽस्याः पर्वतधारा ॥ ३५ ॥ स्थिरा अचलत्वात् ॥ ३६ ॥ इलति इला, “नाम्युपान्त्य-" ॥ ५ । १ । ५४ ॥ इति कः, इराशब्दस्य लत्वं वा ॥ ३७ ॥ रत्नानि बीजानि च सूते रत्नसूः ॥ ३८ ॥ बीजसूः ॥ ३९ ॥ ३ ॥ विपुला विशालत्वात् ॥ ४० ॥
Page #375
--------------------------------------------------------------------------
________________
३ भूमिकाण्डः ।
सागरशब्दाने नेमीमेखलाम्बराः, सागरो नेमिर्मेखला अम्बरं चाऽस्याः सागरनेमी ॥ ४१ । सागरमेखला ॥ ४२ ॥ सागराम्बरा, यौगिकत्वात् समुद्ररशना समुद्रकाञ्चिः समुद्रवसना इत्यादयोऽपि ॥ ४३ ॥ . .
হাম্বস্বান্ত
अथ पृथ्वी महाकान्ता क्षान्ता मेवद्रिकर्णिका । गोत्रकीला घनश्रेणी मध्यलोका जगद्वहा ॥ देहिनी केलिनी मौलिमहास्थाल्यम्बरस्थली ॥ ४३ ॥ द्यावापृथिव्यौ तु द्यावाभूमी द्यावाक्षमे अपि ॥ ४ ॥
दिवस्पृथिव्यौ रोदस्यौ रोदसी रोदसी च ते । द्योश्च पृथिवी च द्यावापृथिव्यौ, एवं द्यावाभूमी द्यावाक्षमे "दिवो द्यावा" ॥ ३।२।४४ ॥ इति द्यावादेशः ॥ १ ॥ २॥३॥४॥ "दिवस् दिवः पृथिव्यां वा" ॥ ३।२।४५ ॥ इति दिवसादेशे दिवस्पृथिव्यौ, दिवःपृथिव्यावित्यपि ॥ ४ ॥ रुदन्त्यनयोः रोदस्यौ स्त्रीलिङ्गोऽयं द्विवचनान्तः, “अस्" ॥ (उणा-९५२) ॥ इत्यस् गौरादित्वाद् ङीः ॥ ५॥ रोदसी अयं क्लीबलिङ्गो द्विवचनान्तः, स्पष्टार्थमुभयोनिर्देशः, इदन्ताद् रोदसिशब्दात् द्विवचने रोदसी, यदुत्पल:-" द्यावापृथिव्योर्द्विवचने रोदसिशब्द इवर्णान्तादेशः पृषोदरादित्वादिति,” रोदसीत्यव्ययमपि ॥ ६ ॥ ७ ॥
___ उर्वरा सर्वसस्या भूः - ऊर्वति क्षुधमुर्वरा “जठर-" ॥ ( उणा-४०३ ) इत्यरे निपात्यते, ऊरूनियर्ति वा सर्व सस्यमस्यां सर्वसस्या भूमिः ॥ १ ॥
इरिणं पुनरूषरम् ॥ ५ ॥ ऋणाति इरिणम् , "ऋद्रुहेः कित्-"॥ (उणा-१९५) इतीणः॥१॥ ऊषस्य निवास ऊषरम् , “रोऽश्मादेः "॥६।२।७९ ॥ इति चातुरर्थिको रः, ऊषोऽस्यास्तीति वा मध्वादित्वाद् रः ॥ २ ॥ ५ ॥
स्थल स्थली . . स्थलति स्थलम् , तिष्ठन्त्यस्मिन्निति वा "स्थो वा" ॥ ( उणा-४७३ ) इति किदलः ॥ १ ॥ स्थली अकृत्रिमा चेत् “ भाजगोण." ॥ २।४।३० ॥ इति डीः, कृत्रिमा तु स्थला, स्पष्टार्थमुभयलिङ्गनिर्देशः ॥ २ ॥
__ मरुधन्वा
नियन्ते तृषाऽत्र मरुः ॥ १ ॥ 'धुवु गतौ' धुन्वति धन्वा, "उक्षितक्षि." ॥ ( उणा-९०० ) इत्यन् , धनतीति वा " मन्वन्-" ॥५।१।१४७॥ इति वन् पुंलि. जावेतौ ॥ २ ॥
Page #376
--------------------------------------------------------------------------
________________
३७६
अभिधानचिन्तामणी
क्षेत्राद्यप्रहतं खिलम् । ___ न प्रहण्यते स्म अप्रहतं हलादिभिरकृष्टं क्षेत्र केदारादि ॥१॥ खलन्त्यत्र मूषिकाद्याः खिलम् , पृषोदरादित्वादित्वम् ॥ २ ॥
मृन्मृत्तिका मृद्यते मृत् क्रुधादित्वात् क्विप् ॥ १॥ मृदेव मृत्तिका, “ मृदस्तिकः " ॥७॥२११७१॥ इति स्वार्थे तिकः ॥ २ ॥
सा क्षारोषः सा मृत्तिका क्षारा, ऊषति रुजत्यूषः ॥ १ ॥
मृत्सा मृत्वा च सा शुभा ॥ ६ ॥ सा मृत्तिका शुभा प्रशस्ता मृदेव मृत्सा मृत्स्ना, “सस्नो प्रशस्ते" ॥ ॥२॥ १७२ ॥ इति साधू ॥१॥२॥ ६ ॥
रुमा लवणखानिः स्यात् रुवन्त्यस्यां रुमा, “विलिभिलि-" ॥ (उणा-३४०) इति किद् मः। लवणस्य खानिराकरो लवणखानिः ॥ १॥
सामुद्रं लवणं हि यत् ।
तदक्षीवं वशिरश्च
समुद्रे भवं सामुद्रम् ॥ १॥ लुनाति स्वस्थानं लवणम् ॥ २ ॥ अक्ष्णोति ब्यानोत्यक्षीवम् , “ प्रह्वाह्वा-" ॥ ( उणा-५१४ ) ॥ इति वे निपात्यते ॥ ३ ॥ उश्यते वशिरः पुंलिङ्गः, क्लीबोऽयमिति केचित् “स्थविर-" ॥ ( उणा-४१७) इंतीरे निपात्यते ॥ ४ ॥
सैन्धवं तु नदीभवम् ॥ ७ ॥
माणिमन्थं शीतशिवं सिन्धुनापलक्षिते देशे भवं सैन्धवं पुक्लीबलिङ्गः ॥१॥ नद्यां भवति नदीभवम् ॥ २॥ ७ ॥ मणिमन्थे गिरौ भवं माणिमन्थम् , माणिबन्धं माणिमन्तं वा आहुः ॥ ३ ॥ शीतं शिनोति उष्णवीर्यत्वात् शीतशिवम् , “प्रह्वाहा-''॥ (उणा५१४ ) ॥ इति वे निपात्यते ॥ ४ ॥
रोमकं तु रुमाभवम् । वसुकं वस्तूकं तच
Page #377
--------------------------------------------------------------------------
________________
३ भूमिकाण्डः ।
३७७
रुमायामाकरे भवं प्राग्जीतियेऽणि खार्थे के च रोमकम् ॥१॥२॥ वसति वसु वस्वेव वसुकम् ; यन्माला- “रौमकं वसुकं वसु" ॥३॥ वसूगन्धि वस्तूकं नाम लवणम् ॥ ४॥
विडपाक्ये तु कृत्रिमे ॥ ८ ॥ विलति भिनत्ति मलान् विडम् , पाके साधुः पाक्यं कल्लराख्यम् , पच्यते इति वा कृत्रिमे कृतके इत्यर्थः पाक्यविडलवणयोर्भेदेऽपि कृतकत्वादैक्यम् ॥ १॥२॥ ॥ ८ ॥
सौवर्चलेऽक्षं रुचकं दुर्गन्धं शूलनाशनम् । सुवर्चलाकरे भवं सौवर्चलं तत्र पुंक्लीबलिङ्गः। सुष्ठु वर्चते सुवर्चस्तस्येदं सौवर्चमग्निदीपनम् , तल्लातीति वा ॥१॥ अक्ष्णोति व्याप्नोति अक्षम् ॥२॥ रोचतेऽन्नमनेन रुचकम् , “ध्रुधून्दि-" ॥ (उणा-२९) ॥ इति किदकः ॥ ३॥ दुष्टो गन्धोऽस्य दुर्गन्धं ॥ ४ ॥ शूलरोगं नाशयति शूलनाशनम् ॥ ५ ॥
कृष्णे तु तत्र तिलकं तत्र सौवर्चले कृष्णे तिलति स्निह्यति तिलकं पुंक्लीबलिङ्गः, "ध्रुधून्दि-" ॥ (उणा-२९) इति किदकः, पूर्व तु मधुवर्णमगन्धं कृष्णवर्ण तिलकमित्येके, यद्वैद्याः"कृष्णे सौवर्चलगुणा लवणे गन्धवर्जिते" ॥ इति ॥ १॥
यवक्षारो यवाग्रजः ॥ ९॥
यवनालजः पाक्यश्च यवानां क्षारो यवक्षारः ॥ १ ॥ यवाग्रेभ्यो जातो यवाग्रजः दग्ध्वा यवालरान् जन्यत इत्यर्थः ॥ २ ॥ ९ ॥ यवनालेभ्यो जातो यवनालजः ॥ ३ ॥ पच्यते पाक्यः, असौ वनस्पतिकायजनितोऽपि क्षारप्रस्तावात् पृथ्वीकाये भणितः, एवं स्वर्जिकाक्षारादावप्यूह्यम् ॥ ४ ॥
पाचनकस्तु टङ्कणः ।
मालतीतीरजो लोहश्लेषणो रसशोधनः ॥ १० ॥ पाचयति पाचनः के पाचनकः ॥ १॥ टङ्कयति लोहं टङ्कणः, “चिक्कण-"॥ ( उणा-१९०) इत्यणे निपात्यते, टङ्कनोऽपि ॥ २॥ मालत्यास्तीरे जातो मालतीतीरजः ॥ ३ ॥ लोहं हेमादि श्लिष्यत्यनेन लोहश्लेषणः ॥ ४ ॥ रसं शोधयति रसशोधनः ॥ ५॥ १० ॥
समास्तु खर्जिकाक्षारकापातसुखवर्चकाः ।
Page #378
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणौ
स्वर्जिकां दग्ध्वा क्षार्यते स्वर्जिकाक्षारः ॥ १ ॥ कपोतस्यायं कापोतः कपोवर्णः कु ईषत् पूयते वा " दम्यमि- " ॥ ( उणा - २०० ) इति तः ॥ २ ॥ सुखाय वर्चते सुखवर्चकः ॥ ३ ॥
स्वस्तुि खर्जिका सुम्नी योगवाही सुवचिका ॥ ११ ॥
३७८
""
सुष्ठु अते स्वर्जिः स्त्रीलिङ्गः ॥ १ ॥ " स्वरेभ्य इ: " ॥ ( उणा - ६०६ ) ॥ के स्वर्जिका ॥ २ ॥ स्रुचो हन्ति स्रुघ्नी अचित्ते टक् ” ॥ ५।१।८३ ॥ ३ ॥ योगं वहन्ति योगवाही ॥ ४ ॥ सुष्ठु वर्चते सुवर्चिका ॥ ५ ॥ ११ ॥
भरतान्यैरावतानि विदेहाश्च कुरून् विना । वर्षाणि कर्मभूम्यः स्युः
बिभ्रति धर्मे भरतानि पञ्च तत्र । एकं जम्बूद्वीपे द्वे, धातकीषण्डे, द्वे च पुष्करवरइति एवं भरतस्थानक्रमेण ॥१॥ इरावतीनां नदीनां निवासा ऐरावतान्यपि पञ्च ॥ २॥ विदिह्यन्ते विदेहाः पञ्च, ते च द्विविधाः पूर्वे चापरे च कुरून् विनेति देवकुरूनुत्तरकुरूंश्च वर्जयित्वेत्यर्थः ॥ ३ ॥ तेषां हि युगलधर्मोत्पत्तिहेतुत्वात्तत्कर्मभूमित्वम्, वृष्यन्ते सिच्यन्ते वर्षाणि कर्मणां शुभाशुभानामुपार्जने भूमयः कर्मभूम्यः ॥ १ ॥
शेषाणि फलभूमयः ॥ १२ ॥
शेषाणीति हैमवत हरिवर्ष-रम्यक हैरण्यवतानीति चत्वारि वर्षाणि जम्बूद्वीपे एतन्नामानि द्विगुणानि धातकीखण्डे पुष्करवरद्वीपार्श्वे च एवं च विंशतिवर्षाणि देवकुरूत्तरकुरुरूपविदेहांशदशकसहितानि त्रिंशत् फलभोगाय भूमयः फलभूमयः
॥ १ ॥ १२ ॥
वर्ष वर्षधराद्य
वृष्यते वर्षे पुंक्लीबलिङ्गः ॥ १ ॥ वर्षधरादयो हिमवन्महाहिमवन्निषधनील रुक्मिशिखरिणः षड् जम्बूद्वीपे एतन्नामानो द्विगुणा धातकीखण्डे, पुष्करवरद्वीपा च एवं त्रिंशद् वर्षधरादयः तैरङ्क्यते चिह्नयते वर्षधराद्यङ्कम्, लौकिका नववर्षाण्याहुर्यथा
भारतं प्रथमं वर्षे ततः किंपुरुषं स्मृतम् । हरिवर्षं तथैवान्यद् मेरोर्दक्षिणतो द्विजः ॥ रम्यकं चोत्तरं वर्षे तस्यैवानुहिरण्मयम् । उत्तराः कुरवश्चैव यथा वै भारतं तथा ॥ भद्राचं पूर्वतो मेरोः केतुमालं तु पश्चिमे । नवसाहस्रमेकैकमेतेषां द्विजसत्तम ॥ इलावृत्तं च तन्मध्ये तन्मध्ये मेरुरुत्थितः ॥ २ ॥
Page #379
--------------------------------------------------------------------------
________________
. ३ भूमिकाण्डः।
३७९ विषयस्तूपवर्तनम् ।
देशो जनपदो नीवृद् राष्ट्र निर्गश्च मण्डलम् ॥ १३ ॥ विसिनोति विषयः ॥१॥ उपवर्तन्तेऽस्मिन्नुपवर्तनम् , “उपावर्तनम्” इति सत्यः ॥२॥ दिश्यते देशः ॥३॥ जनैः पद्यते जनानां वा पदं जनपदः ॥४॥ नियतं वर्तन्तऽस्यां नीवृत् स्त्रीलिङ्गः, अमरस्तु पुंस्याह ॥५॥ राजते राष्ट्र पुनपुंसकः, “बट् ( उणा--४४६) इति त्रट् ॥ ६ ॥ निर्गम्यतेऽस्मिन् निर्गः, “ निर्गो देशे " ॥५॥ १।१३३ ॥ इति साधुः ॥ ७ ॥ मण्डयते मण्डलं त्रिलिङ्गः, “ मृदिकन्दि-" ॥ ( उणा-४६५ ) ॥ इत्यलः, अमरस्तु- “नीवृज्जनपदो देशविषयौ तूपवर्त्तनम्” इति पृथगाह ॥ ८ ॥ १३ ॥
आर्यावर्तो जन्मभूमिर्जिनचक्यर्द्धचक्रिणाम् ।
पुण्यभूराचारवेदी मध्यं विन्ध्यहिमाऽगयोः ॥ १२ ॥ आर्या आवर्तन्तेऽत्र आर्यावर्त्तः, जिना अवसर्पिण्यामृषभादयः चतुर्विंशतिः, चक्रिणो भरतादयो द्वादश, अर्धचक्रिणोऽश्वग्रीवादयस्त्रिपृष्टादयश्च नव, साहचर्यादचलादयो बलदेवा नव तेषां जन्मभूमिः ॥ १॥ पुण्यस्य भूः पुण्यभूः ॥ २ ॥ आचारस्य वेदीव आचारवेदी विन्ध्यानेहिमाद्रेश्च मध्यभागः, यद्याडिः- आसमुद्राभ वै पूर्वादासमुद्राच्च पश्चिमात् ।
___ हिमवद्विन्ध्ययोर्मध्यमार्यावर्त विदुर्बुधाः ॥ इति ॥ ३ ॥ १४ ॥
गङ्गायमुनयोर्मध्यमन्तर्वेदिः समस्थली । गङ्गायमुनयोश्च नद्योर्मध्यभूमिरन्तर्मध्ये वेदिरिव अन्तर्वेदिः ॥ १ ॥ समा चासौ स्थली च समस्थली ॥ २ ॥
ब्रह्मावर्तः सरखत्या दृषद्वत्याश्च मध्यतः ॥ १५ ॥ ब्रह्माणो ब्राह्मणा आवर्तन्तेऽत्र ब्रह्मावर्त्तः ॥ १ ॥ १५ ॥
ब्रह्मवेदिः कुरुक्षेत्रे पञ्चरामहदान्तरम् । ब्रह्मणो वेदिब्रह्मवेदिः कुरुक्षेत्रे पञ्चानां रामदानां मध्यप्रदेशः ॥ १ ॥
धर्मक्षेत्रं कुरुक्षेत्रं द्वादशयोजनावधि ॥ १६ ॥ धर्मस्य क्षेत्रं धर्मक्षेत्रम् ॥ १॥ कुरवोऽत्र क्षयन्ति स्म कुरुक्षेत्रं तच्च द्वादशयोजनावधि भवति ॥ २॥ १६ ॥
हिमवद्विन्ध्ययोर्मध्यं यत् प्राग्विनशनादपि । प्रत्यगेव प्रयागाच्च मध्यदेशः स मध्यमः ॥ १७ ॥
Page #380
--------------------------------------------------------------------------
________________
३८०
अभिधानचिन्तामणौ- - उत्तरस्यां हिमवान् पर्वतः, दक्षिणस्यां विन्ध्यः, विनशनः सरखत्याः अन्तर्वा.. नदेशः, प्रयागः गङ्गायमुनयोः सङ्गमः तानवधीकृत्य मध्यश्चासौ देशश्च मध्यदेशः ॥ १ ॥ मध्ये भवो मध्यमः, नात्युत्कृष्टो नाप्यपकृष्ट इत्यर्थः ॥ २ ॥ ॥ १२ ॥
देशः प्रायदक्षिणः प्राच्यो नदी यावच्छरावतीम् । शरावत्याः सरितः पूर्वोत्तरेण वहन्त्या देशः पूर्वतो दक्षिणतश्च प्राच्यः ॥१॥
पश्चिमोत्तरस्तूदीच्यः शरावत्याः पश्चिमत उत्तरतश्च उदीच्यः, यदाह
प्रागुदञ्चौ विभजते हंसः क्षीरोदके यथा । विदुषां शब्दसिद्धथै या सा वः पायाच्छरावती ॥ १ ॥ प्रत्यन्तो म्लेच्छमण्डलः ॥ ९८ ॥ प्रतिगतोऽन्तं भोटादिदेशः प्रत्यन्तः, म्लेच्छानां मण्डलो देशो म्लेच्छमण्डलः
॥१॥१८॥
पाण्डूदक्कृष्णतो भूमः पाण्डूदक्-कृष्णमृत्तिके । पाण्डूदक्कृष्णशब्देभ्यः परो भूमः पाण्डुभूमिरत्र पाण्डुभूमः, पाण्डुमृत्तिको देशः ॥ १ ॥ उदीची भूमिरत्र उदग्भूमः, उदङ्मृत्तिकः ॥ २ ॥ कृष्णा भूमिरस्य कृष्णभूमः, कृष्णमृत्तिकः “सङ्ख्यापाण्डूदकृष्णाद् भूमेः-" ॥७३।७८॥ इत्यत् समासान्तः ॥ ३ ॥
जङ्गलो निर्जलः जायन्ते स्थलान्यत्र जङ्गलः स्थलप्रायः, "ऋजनेर्गोऽन्तश्च." ॥ (उणा४६७) ॥ इत्यलः, प्रज्ञाद्यणि जाङ्गलोऽपि ॥ १ ॥ निर्गतं जलमत्र निर्जलः ॥ २ ॥
अनूपोऽम्बुमान् अनुगता आपोऽत्र अनूपः, “ ऋक्पूःपथ्यपोऽत् " ॥७॥३७६॥ इत्यत् समासान्तः "अनोशे'' ॥२।२।११०॥ इत्युपादेशः॥१॥ अम्बुमान् जलप्रायः ॥२॥
__ कच्छस्तु तद्विधः ॥ १९॥
कच्यते कच्छः पुंक्लीबलिङ्गः, "तुदिमदि-" ॥ (उणा-१२४) इति छक तद्विधोऽनूपप्रायः ॥ १ ॥ १९ ॥
कुमुद्वान् कुमुदावासः
Page #381
--------------------------------------------------------------------------
________________
४ भूमिकाण्ड: ।
३८१
कुमुदानि सन्त्यत्र, कुमुदानां निवास इति वा कुमुद्वान् ॥१॥ " नडकुमुद - " ॥ ६।२।७४ ॥ इति चातुरर्थिको डिद् मतुप्रत्ययः ॥ २ ॥
वेतखान् भूरिवेतसः ।
वेतसाः सन्त्यत्र वेतस्वान् देशः, “नङकुमुदवेतसः " ॥ ६ | २|७४ ॥ इति डिमः ॥ १ ॥
नडप्रायो नडकीयो नडुांश्च नडुलश्च सः ॥ २० ॥
नडप्रायो नडबहुल इत्यर्थः ॥ १ ॥ नडाः सन्त्यत्र नडकीयः, "नडादेः कीयः " ॥६।२।९२ ॥ इति चातुरर्थिकः कीयः || २ || "नडकुमुद - " || ६ |२|७४॥ इति डिति मतौ नड्वान् ॥ ३ ॥ “ नडशादाद् -" ॥ ६।२।७५ || इति ङिति वले नड्वलः ॥ ४ ॥ २० ॥
शाद्वल: शादहरिते
शादाः सन्त्यत्र शाद्वलः, "नडशादाद् वलः " || ६ | २|७५ || 'नहि कोटरसंस्थेऽग्नौ तरुर्भवति शाद्वल:' इति । शाद्वलं दूर्वा इति च नीलत्वोपचारात्, शादः शष्पं तेन नीले, यच्छाश्वतः- “शष्पकर्दमयोः शादः" इति ॥ १ ॥
देशो नद्यम्बुजीवनः । स्याद् नदीमातृकः
नम्बुभ्यो जीवनं वृत्तिरत्र नद्यम्बुजीवनः, तत्र हि नद्यम्बुभ्यः सस्यनिष्पत्तिः । नदी माताऽस्य नदीमातृकः ॥ १ ॥
देवमातृको वृष्टिजीवनः ॥ २१ ॥
Parsi माताऽस्य देवमातृकः, वृष्टिर्जीवनमंत्र वृष्टिजीवनः, वृष्टनिष्पाद्यसस्यत्वात् ॥ १ ॥ २१ ॥
प्राग्ज्योतिषाः कामरूपाः
प्राग् ज्योतिषमत्र प्राग्ज्योतिषाः ॥ १॥ कामतो रूपमत्र कामरूपाः ॥२॥ मालवाः स्युरवन्तयः ।
मलन्ते मालवाः, “मलेर्वा " ॥ ( उणा - ५१७ ) ॥ इति णिदवः ॥ १ ॥ अव्यन्ते अवन्तयः पुंसि, “वद्यवि " ॥ ( उणा - ६६५ ) ॥ इति अन्तिः ॥ २ ॥ पुरास्तु डाहलाः स्युश्चैद्यास्ते चेदयश्च ते ॥ २२ ॥
त्रिपुर्यां अदूरभवास्त्रैपुराः, “निवासाऽदूरभवे ” || ६ |२| ६९ ॥ इति अण् ॥१॥ . दह्यन्ते डाहलाः, ईश्वरेण हि ते त्रिपुरदहनेन दग्धाः, " चात्वाल - " ॥ ( उणा - ४८० ) ॥
४९
Page #382
--------------------------------------------------------------------------
________________
३८२
अभिधानचिन्तामणो-...
इत्याले निपात्यते ॥ २ ॥ चेदय एव चैद्याः भेषजादित्वात् ट्यण् ॥ ३ ॥ चद्यन्ते - चेदयः, पृषोदरादित्वात् ॥ ४ ॥ २२ ॥
वङ्गास्तु हरिकेलीयाः वङ्गन्ति वङ्गाः ॥ १ ॥ हरिकेलौ भवा हरिकेलीयाः, "दोरीयः" ॥६॥३॥३२॥ ॥२॥
अङ्गाश्चम्पोपलक्षिताः। अङ्गन्त्यङ्गाः, चम्पया नगर्या उपलक्षिताः चम्पोपलक्षिताः ॥ १॥ ...
साल्वास्तु कारकुक्षीयाः सलन्ति साल्वाः, “सलेर्णिद् वा" ॥ ( उणा-५१० ) ॥ इति वः ॥ १ ॥ कारकुक्षेरिमे कारकुक्षीयाः ॥ २॥
मरवस्तु दशेरकाः ॥ २३॥ म्रियते तृषा एषु मरवः पुंसि, "भृमृतृ." ॥ (उणा-७१६) ॥ इत्युः ॥१॥ दशन्ति दशेराः, “कुगुपति-" ॥ ( उणा-४३१)॥ इति केरः, के दशेरकाः ॥ २॥ २३ ॥
जालन्धरास्त्रिगर्ताः स्युः
जालं धारयन्ति जालन्धराः, “धारेधर्च” ॥५।१।११३॥ इति खः ॥ १॥ तिस्रो गर्ता अत्रेति त्रिगर्ताः ॥ २ ॥ .
तायिकास्तर्जिकाभिधाः। तायन्ते तायिकाः ॥१॥ तर्जयन्ति तर्जिकाः, “कुशिक-" ॥ (उणा-४५)॥ इतीके निपात्यते ॥ २॥
कश्मीरास्तु माधुमताः सारखता विकर्णिकाः ॥ २४ ॥ 'कश शब्दे तालव्यान्तः' कशन्ति कश्मीराः, "कशेर्मोऽन्तश्च" ॥ ( उणा४२० ) ॥ इतीरः ॥ १॥ मधुमत्या निवृत्ता माधुमताः, चातुरर्थिकोऽण् ॥ २ ॥ सरस्वती देवता एषां सारखताः ॥ ३ ॥ विशिष्टाः कर्णिका अत्र विकर्णिकाः ॥४॥ ॥ २४ ॥
वाहीकाष्टकनामानः वहन्ति वाहीकाः, "सृणीकास्तीक-" ॥ (उणा-५०) ॥ इति ईके निपात्यते ॥१॥ टकन्ति टक्काः, "निष्कतुरुष्क-" ॥ (उणा-६०७) ॥ इति के निपात्यते ॥२॥
१ तृतीयान्तमेतत् ।
Page #383
--------------------------------------------------------------------------
________________
४ भूमिकाण्ड: ।
३८३
वाल्हीका वाल्हिकायाः ।
वल्हन्ते वाल्हीकाः, “सृणीकास्तीक " ॥ ( उणा -५० ) ॥ इति ईके निपात्यते ॥१॥ वल्हते वल्हिः, “पदिपठि " ॥ ( उणा - २६ ) ॥ इति इ: बाहुलकाद् दीर्घत्वे वाल्हयः, स्वार्थे के वाल्हिकाः ॥
11
तुरुपकास्तु साखयः स्युः
सूर्यन्ते तुरुष्काः, “निष्कतुरुष्क- " ॥ ( उणा - २६ ) ॥ इति के निपात्यते ॥ १ ॥ शाखन्ति साखयः, पृषोदरादित्वाद् दन्त्यादिः ॥ २ ॥
कारूषास्तु वृहद्गृहाः ॥ २५ ॥
"
कुर्वन्ति कारूषाः, “कोरदूषा- ” ॥ ( उणा - ५६१ ) ॥ इत्यूषे निपात्यते ॥१॥ बृहन्तिगृहाणि षु वृहद्गृहाः ॥ २ ॥ २५ ॥
लम्पाकास्तु मुरुण्डाः स्युः
लपन्ति लम्पाकाः, “मवाकश्यामाक - " || ( उणा - ३७ ) ॥ इत्याके निपात्यते ॥ १ ॥ मोदन्ते मुरुण्डाः, “पिचण्ड " ॥ ( उणा - १७६ ) ॥ इति निपात्यते ॥ २ ॥
सौवीरास्तु कुमालकाः ।
सुवीराणामिमे सौवीराः ॥ १ ॥ कुं पृथ्वीं मलन्ते कुमालकाः ॥ २ ॥ प्रत्यग्रथास्त्वहिच्छत्राः
प्रत्यग् रथा अत्र प्रत्यग्रथाः || १|| अहिच्छत्रमस्त्येषु अहिच्छत्राः, अभ्रादित्वाद् अः ॥ १ ॥
कीकटा मगधाह्वयाः ॥ २६ ॥
'ककन्ते कीकटाः, “कपटकीकटा - " ॥ ( उणा - १४४ ) ॥ इत्यटे निपात्यते ॥१॥ मङ्गन्ति मगधाः, “मङ्गेर्नलुक् च " ॥ ( उणा - २५३ ) ॥ इत्यधः ॥ २ ॥२६॥ ओण्ड्राः केरलपर्यायाः
'ओ अपनयने' ओणन्ति ओण्ड्राः, “खुरक्षुर- " ॥ ( उणा - ३९६ ) ॥ इति रे निपात्यते ॥ १ ॥ किरन्ति केरलाः, “ मुरलोरल - " ( उणा - ४७४ ) ॥ इत्यले निपात्यते ॥ २ ॥
॥
कुन्तला उपहालकाः ।
कनन्ति कुन्तलाः, “मुरलो - " ॥ ( उणा - ४७४ ) ॥ इत्यले निपात्यते ॥ १ ॥ उप समीपे हाला येषामुपहालकाः । अत्र प्राग्ज्योतिष - मालव-चेदि-यङ्गाऽङ्गमगधाः प्राच्याः, मरवः साल्वाश्च प्रतीच्याः, जालन्धर तायिक- कश्मीर वाल्हीक
Page #384
--------------------------------------------------------------------------
________________
३८४
अभिधानचिन्तामणौ
वाल्हक-तुरुष्क-कारूष-लम्पाक-सौवीर-प्रत्यग्रथा उदीच्याः, ओण्डाः कुन्तलाश्च अपाच्या इति ॥ २॥ . ग्रामस्तु वसथः सं-नि-प्रति-पर्यु-पतः परः ॥ २७ ॥ .
प्रस्यते कुण्ठैरिति ग्रामः, “असिहाग्भ्यां प्राजिही च” ॥( उणा-३३९) ॥ इति मः ॥ १ ॥ समादिभ्यः परो वसथः संवसति संवसथः ॥ २ ॥ एवं निवसथः ॥ ३ ॥ प्रतिवसथः ॥४॥ परिवसथः ॥५॥ उपवसथः, “उपसर्गाद् वसः" ॥ ( उणा-२३३ ) ॥ इत्यथः ॥ ६ ॥ २७ ॥
पाटकस्तु तदर्दू स्यात् तस्य प्रामस्याऽर्द्ध पाटयति पाटकः ॥ १॥
आघाटस्तु घटोऽवधिः ।
अन्तोऽवसानं सीमा च मर्यादाऽपि च सीमनि ॥ २८ ॥ आघटते जनोऽत्र आघाटः ॥ १॥ तिष्ठत्यत्र घटः, “घटाघाटा-" ॥ (उणा-१४१) ॥ इति टे निपात्यते ॥ २ ॥ अवधीयतेऽवधिः ॥ ३ ॥ अमत्यनेन अन्तः ॥ ४ ॥ अवसीयतेऽनेन अवसानम् ॥ ५॥ सीयते बध्यते सीमा, “सेरी च वा" ॥ (उणा-३४३) ॥ इति मः, मन्नन्ताद् वा डाप् ॥६॥ विवादिनां मरिं मरणमासमन्तात् यति खण्डयति मर्यादा ॥ ७ ॥ स्यति विवादमिति, “स्यतेरी च वा" ॥ (उणा-९१५) ॥ इति मनि आबभावे सीमा नकारान्तः स्त्रीलिङ्गस्तत्र ॥८॥२८॥
ग्रामसीमा तूपशल्यं । ग्रामस्य सीमा नामान्तः, अन्ते चिह्नार्थं शल्यप्रक्षेपादुपशल्यम् , उपशल्यते आशु गम्यतेऽत्रेति वा “स्थाच्छामा-" ॥ (उणा-३५७) ॥ इति यः ॥ १ ॥
मालं ग्रामान्तराऽटवी। मलन्ते भयमत्र मालम् , खार्थे के मालकोऽपि पुक्लीबलिङ्गः, प्रामस्य अन्तराले अटवी ॥१॥
पर्यन्तभूः परिसरः स्यात् - ग्रामस्य पर्यन्तेषु भूमिः पर्यन्तभूः ॥१॥ परितः सरम्ति संचरन्त्यत्र परिसरः "पुंनाम्नि-" ॥ ५।३।१३० ॥ इति घः ॥ २ ॥
कर्मान्तस्तु कर्मभूः ॥ २९ ॥ कर्मणामन्तो निष्पत्तिरत्र कर्मान्तः ॥ १॥ कर्मार्थ भूमिः कर्मभूः ॥ २९ ॥
गोस्थानं गोष्ठम्
Page #385
--------------------------------------------------------------------------
________________
४ भूमिकाण्डः ।
३८५
गवां स्थानं गोस्थानम् ॥ १ ॥ गावस्तिष्ठन्त्यत्र गोष्ठं क्लीबलिङ्गः, शाब्दिकास्तु गोष्ठो भूतपूर्व इति पुंस्यपि प्रयुञ्जते, स्थादित्वात् कः,“गोऽम्बाऽऽम्ब-"॥२॥३॥३०॥ इति षत्वम् ॥ २॥
एतत्तु गौष्ठीनं भूतपूर्वकम् ।
एतत्तु गोष्ठं भूतपूर्व गोष्ठीनं यत्र गावः प्राग् आसन् , “गोष्ठादीनञ्" ॥४२॥७९॥१॥
तदाशितंगवीनं स्याद गावो यत्राऽऽशिताः पुरा ॥ ३० ॥
आशितास्तृप्ता गावोऽस्मिन्नाशितङ्गवीनम् , “अषडक्षाऽऽशितंग्वल-" ॥१॥ १०६ ॥ इतीने साधुः ॥१॥ ३० ॥
क्षेत्रे तु वप्रः केदारः क्षयन्त्यत्र धान्यानि, क्षीयते हलैहिस्यते वा क्षेत्रम् . "हुआमा-" ॥ (उणा४५१) ॥ इति त्रः, तत्र उप्यन्ते बीजान्यत्र वप्रः, "भीवृधि." ॥ (उणा-३८७) ॥ इति रः ॥ १॥ 'कदिः सौत्रः' कद्यते केदारः, "द्वारशृङ्गार." ॥ (उणा-४११) ॥ इत्यरे निपात्यते, पुंक्तीबलिङ्गावेतौ ॥२॥
सेतौ पाल्याऽऽलिसंवराः। सीयते बध्यते सेतुः पुंलिङ्गः, “कृसिकम्य-" ॥ (उणा-७७२) ॥ इति तुन् तत्र ॥ १ ॥ पलति पालिः, “कृशृकुटि-" ॥ (उणा-६१९) ॥ इति णिदिः ॥ २ ॥ अलति आलिः स्त्रीलिङ्गावेतौ ॥ ३ ॥ संवृणोति जलं संवरः ॥ ४ ॥
क्षेत्रं तु शाकस्य शाकशाकटं शाकशाकिनम् ॥ ३१ ॥ शाकस्य क्षेत्रं शाकशाकटम् , शाकशाकिनम् , “शाकटशाकिनी क्षेत्रे" ॥७१।७८॥ इति साधू ॥ १ ॥२॥३१॥
हेयं शालेयं षष्टिक्यं कौद्रवीण-मौद्गीने ।
ब्रीह्यादिनां क्षेत्रे .' बोहेः शालेश्च क्षेत्रं हेयम, शालेयम् , "बीहिशालेरेयण्"॥७॥१८०॥१॥१॥ षष्टिकाः षष्टिरात्रेण पच्यमाना व्रीहयस्तेषां क्षेत्रं षष्टिक्यम् , “यवयवकषष्टिका." ॥ ७।१।८१ ॥ इति यः ॥ १॥ कोद्रवाणां मुद्गानां च क्षेत्र कोद्रवीणम् , मौद्गीनम् , "धान्येभ्यः” ॥ ७।१।७९ ॥ इतीनञ् ॥ १॥१॥
अणव्यं तु स्यादाणवीनमणोः ॥ ३२॥ . अणोः क्षेत्रमणव्यम् , आणवीनम् , “वाऽणुमाषात्-" ॥७॥१८२॥ इति यः पक्षे ईनम् च ॥१॥२॥ ३२ ॥
Page #386
--------------------------------------------------------------------------
________________
३८६
अभिधानचिन्तामणौ
भनयं भाङ्गीनमौमीनमुम्यं यव्यं यवक्यवत् । तिल्यं तैलीनं माषीणं माष्यं भङ्गादिसम्भवम् ।। ३३ ।।
भङ्गानां क्षेत्रं भङ्गयम् , "वोमाभङ्ग." ॥ १।८३ ॥ इति यः, पक्षे ईनजि भाङ्गीनम् ॥ १॥२॥ उमानामौमीनम् , उम्यम् ॥ १॥२॥ यवानां यव्यम् ॥१॥ यवकानां यवक्यम् , “यवयवक-" ॥ ७॥१८१ ॥ इति ये साधू ॥ २ ॥ तिलानां तिल्यम् , “वोमाभङ्ग-" ॥१८३॥ इति यः॥ १ ॥ पक्षे ईनजि तैलीनम् ॥ २ ॥ माषाणां माषीणम् , माष्यम् , भङ्गादिनां सम्भवोऽत्र भङ्गादिसम्भवं क्षेत्रम् ॥१॥२॥ ॥३३॥
सीत्यं हल्यम् सीतया सङ्गतं सीत्यम् , “सीतया सङ्गते" ॥ ७।१।२७ ॥ इति यः ॥१॥ हलस्य कर्षः क्षेत्रं कृष्यत इति कृत्वा हल्यम् , “हलस्य कर्षे” ॥ ७॥१।२६ ॥ इति यः॥२॥
त्रिहल्यं तु त्रिसीत्यं त्रिगुणाकृतम् ।
तृतीयाकृतं त्रयाणां हलानां कर्षस्त्रिहल्यम् , ॥१॥ तिसृभिः सीताभिः सङ्गतं त्रिसीत्यम् ॥ २ ॥ त्रिगुणाक्रियते स्म त्रिगुणाकृतम् , त्रिर्विलिखितम् , “सङ्खयादेर्गुणात्" ॥७।२।१३६॥ इति डाच् ॥ ३ ॥ तृतीयं वारं क्रियते स्म तृतीयाकृतम् , “तीयशम्बबीजाद." ॥७।२१।१३५॥ इति डाच् ॥ ४ ॥
द्विहल्याद्येवं शम्बाकृतं च तत् ॥ ३४ ॥ द्वयोर्हलयोः कर्षो द्विहल्यम्, आदिशब्दाद् द्वाभ्यां सीताभ्यां सङ्गतं द्विसीत्यम् , द्विगुणाकृतम् , द्वितीयाकृतमित्यादि ।।४॥ शम्बा क्रियते स्म शम्बाकृतं अनुलोमकृष्टम् , पुनस्तिर्यक् कृष्यते स्म, "तीयशम्बबीजाद." ॥२॥१३५॥ इति डाच् ॥५॥ ॥ ३४ ॥
बीजाकृतं तूप्तकृष्टं अजिं सबीजं बीजसंपन्नं बीजाकृतम् , “तीयशम्बबीजाद्-" ।।७।२।१३५॥ इति डाच् ॥ १॥ आदावुप्तं पश्चाद् बीजैः सह कृष्टं उप्तकृष्टम् , “पूर्वकालै." ॥३१॥ ९७॥ इति कर्मधारयः ॥ २ ॥
द्रौणिकाऽऽढकिकादयः। स्युर्दोणाढकवापादौ
Page #387
--------------------------------------------------------------------------
________________
४ भूमिकाण्डः ।
द्रोणस्य आढकस्य च वापो द्रौणिकः, आढकिकः, “तस्य वापे-”॥६।४।१५१॥ इतीकण, आदिशब्दात् खार्या वापः खारीक इत्यादयः, उप्यतेऽस्मिन् इति वापः क्षेत्रम्, द्रोणाढकयोर्वापो द्रोणाढकवापः, आदिशब्दाद् द्रोणं पचति संभवति अवहरति द्रौणिकः कटाह इत्याद्यर्थः ॥ १ ॥ १ ॥
३८७
खलधानं पुनः खलम् ।। ३५ ।।
खलन्ति सञ्चीयमानानि धान्यानि अत्र खलधानम्, पृषोदरादित्वात् ॥ १ ॥ खल्यन्ते सञ्चीयन्ते धान्यानि अत्र खलं त्रिलिङ्गः, “गोचरसंचर - " | ५|३|१३१ ॥ इति निपातनाद् घः ॥ २ ॥ ३५ ॥
चूर्णे क्षोदः
चूर्यते स्म चूर्ण पुंक्लीबलिङ्गः, तत्र ॥ १ ॥ क्षुद्यते क्षोदः धूलिप्रायोऽयम्, यत् “चूर्णानि वासयोगाः स्युश्चूर्णो धूलिः सशर्करः" इति ॥ २ ॥ अथ रजसि स्युः धूलीपांशुरेणवः ।
शाश्वतः
रज्यते वस्त्राद्यनेन रजः क्लीबलिङ्गः, “मिथिरञ्जि " ॥ ( उणा -९७१) ॥ इति किदस्, तत्र ॥१॥ धूयते धूलिः स्त्रीलिङ्गः, “धूमूभ्यां-” ॥ ( उणा - ७०१) ॥ इति लिक्, ङयां धूली ॥ २ ॥ ' पसुण् नाशने दन्त्यान्तः' पंसयति पांसुः पुंलिङ्गः, “पंसेर्दीर्घश्च” ॥ ( उणा-७१८ ) ॥ इत्युः ॥ ३ ॥ रीयते रेणुः स्त्रीलिङ्गः,“अजिस्था-" ॥ उणा - ७६८ ) ॥ इति णुः ॥ ४ ॥
लोष्टे लोप्टुर्दलिर्लेप्टुः
"
लुष्यते लोष्टः मृत्-शकलं पुंक्लीबलिङ्गः, “लुषेष्टः " ॥ ( उणा - १३८ ) ॥ तत्र ॥ १ ॥ ‘लोष्टि सङ्घाते' लोष्ट्यते लोष्टुः पुंलिङ्गः, “भृमृतृ-” ॥ ( उणा७१६ ) ।। इत्युः ।। २ ।। दलयति दलिः स्त्रीलिङ्गः, “स्वरेभ्य इः” ।। ( उणा६०६ ) ॥ ३ ॥ लिश्यते लेष्टुः पुंलिङ्गः, “कृसिकम्य-" ॥ ( उणा-७७३ ) ॥ इति बहुवचनात् तुन् ॥ ४ ॥
वल्मीकः कृमिपर्वतः ॥ ३६॥
वभ्रीकूटं वामलूरो नाकुः शक्रशिरश्च सः ।
वलन्ते प्राणिनोऽत्र वल्मीकः पुंक्लीबलिङ्गः, “सृणीकास्तीक - " । ( उणा - ५०) इतके निपात्यते ॥१॥ कृमीणां पर्वत इव कृमिपर्वतः ॥ २ ॥ ३६ ॥ वीणामुपदेहिकानां कूटं शिखरं वभ्रीकूटम् ॥ ३ ॥ वामं वामैर्वा लूयते वामलूरः, “सिन्दूर-” ॥ ( उणा - ४३० ) ॥ इत्यूरे निपात्यते ॥ ४ ॥ नमति नाकुः पुंलिङ्गः, "नमेर्ना - क् च” ॥ (उणा-७२०) ॥ इत्युः ॥ ५ ॥ शक्रस्य शिरो मूर्द्धा शक्रशिरः ॥ ६ ॥
Page #388
--------------------------------------------------------------------------
________________
३८८
अभिधानचिन्तामणी- ..
नगरी पू: पूरी द्रङ्गः पत्तनं पुटभेदनम् ॥ ३७॥
निवेशनमधिष्ठानं स्थानीयं निगमोऽपि च । नश्यन्त्यस्यां नगरी स्त्रोक्लीबलिङ्गः, “जठर-"॥ (उणा-४०३) ॥ इत्यरे निपास्यते, नगाः सन्त्यस्यामिति वा मध्वादित्वाद् रः॥१॥ पूर्यते पू:, संपदादित्वात् विप् ॥ २॥ पुरति पूरी त्रिलिङ्गः ॥ ३ ॥ द्रमन्त्यत्रेति द्रङ्गः, "द्रमो णिद् वा'॥ (उणा९५) ॥ इति गः ॥ ४ ॥ पतन्त्यस्मिन् पत्तनम् , “वीपति-"॥ (उणा-२९२)। इति तनः, पट्टनमपि ॥५।। पुटा भाण्डवासनानि भिद्यन्तेऽत्र पुटंभेदनम्॥६॥३॥ निविशन्तेऽत्र निवेशनम् ।। ७ ।। अधितिष्ठन्त्यस्मिन्नधिष्ठानम् ॥ ८ ॥ तिष्ठन्त्यस्मिन् स्थानीयम् , “बहुलम्" ॥ ५। १।२ ॥ इत्यधिकरणेऽप्यनीयः ॥ ९ ॥ नियतं गच्छन्त्यत्र निगमः, "गोचरसंचर-" ॥ ५।३।१३१ ॥ इति घः, वाचस्पतिस्तु
"स्यात् स्थानीयं त्वतिलम्बो ग्रामो ग्रामशताष्टके । तदद्धं तु द्रोणमुखं तच्च कवटमस्त्रियाम्" ॥ १॥ कर्वटार्द्ध कवुटिकं स्यात्तद॰ तु कार्वटम् । तदर्दू पत्तनं तच्च पत्तनं पुटभेदनम् ॥ २ ॥ निगमस्तु पत्तना॰ तदर्दू तु निवेशनम् । कर्वटादधमो द्रङ्गः पत्तनादुत्तमश्च सः ॥ ३ ॥
उद्रङ्गश्च निवेशश्च स एव द्रङ्ग इत्यपि ।” इति विशेषमाह ॥ १० ॥ शाखापूर तूपपुरम् शाखा समीपवर्ति पुरं शाखापुरम् , यदाह
"शाखा वेदिविभागे स्यात् पादपाङ्गान्तिकेऽपि च" । उप समीपे पुरस्य मूलनगरस्य उपपुरम् ॥ १॥ . खेटः पुरार्द्धविस्तरः ॥ ३८ ॥ खिटयते खेटः, पुरस्याऽर्द्ध विस्तरोऽस्य पुरार्द्धविस्तरः ॥ १ ॥ ३८ ॥
स्कन्धावारो राजधानी षण्णाममात्यादीनां प्रधानभूतत्वाद् राजा स्कन्धस्तमावृणोति स्कन्धावारः ॥१॥ राजा नृपो धीयतेऽस्यां राजधानी स्त्रीक्लीबलिङ्गः ॥ २ ॥
कोट्टदुर्गे पुनः समे। कुट्यते कोटः पुंक्लीबलिङ्गः, पृषोदरादित्वाद् गुणः ॥ १ ॥ दुःखेन गम्यतेऽस्मिन् दुर्गम् , "सुगदुर्गमाधारे" ॥५।१।१३२॥ इति साधुः ॥ २ ॥
१ वृक्षा इत्यर्थः ।
Page #389
--------------------------------------------------------------------------
________________
४ भूमिकाण्डः । . ३८९ गया पूर्गयराजर्षेः गच्छन्ति अस्यां गया, “गयहृदया-"॥ (उणा-३७०)॥ इत्यये निपात्यते॥१॥
कन्यकुब्जं महोदयम् ॥ ३९ ॥
कन्याकुब्जं गाधिपुरं कौशं कुशस्थलं च तत् । कन्याः कुब्जा अत्र कन्यकुब्जम् , तत्र हि जमदग्निना शापेन नरपतेः कन्याः कुब्जीकृता इति प्रसिद्धिः, "ड्यापो बहुलं." ॥ २।४।९९ ॥ इति एखः, इखत्वाऽभावे कन्याकुब्जम् ॥ १॥२॥ महान् उदयोऽस्य महोदयम् , एते त्रयः स्त्रीक्लीबलिङ्गाः ॥३॥३९॥ गाधेः राज्ञः पुरं गाधिपुरम्॥४॥कुशाः सन्ति अत्र कौशम् , चातुरर्थिकोऽण् ॥५॥ कुशानां स्थलं कुशस्थलम् ॥ ६ ॥
काशिर्वराणसी वाराणसी शिवपुरी च सा ॥ ४०॥ काशते काशिः स्त्रीलिङ्गः, “ पदिपठि-" ॥ ( उणा-६०७ ) ॥ इति इः ॥ १॥ वाराणसीशब्दस्य पृषोदरादित्वात् इस्खत्वे वराणसी ॥२।। वरणा च असिश्च वरणासी नद्यौ तयोरदूरभवा चातुरर्थिकोऽण् , "वृद्धिः स्वरेष्वादेः." ॥४१॥ इति वृद्धौ रेफाऽकारस्य पृषोदरादित्वाद् दीर्घत्वे णकाराऽऽकारस्य इखत्वे च ड्यां वाराणसी, यद्वा वृणातेः “मुमुचा-"॥ (उणा-२७८)।। इत्याने वराणो वीरणाभिधानम् , वराणाः सन्त्यत्र वराणसा नदी "तृणादेः सल्"।६।२।८१॥इति चातुरर्थिकः सल ,तस्या अदूरभवेति वा देशो वा वराणसंस्तत्र भवा वा, वारैरचितीति वा “ गोपादेरनेरसिः" । ( उणा-७०८ ) ॥ इत्यसिस्ततो डीः ॥३॥ शिवस्य पुरी शिवपुरी ॥४॥४०॥
साकेतं कोसलाऽयोध्या सा लक्ष्मीः कं सुखं ताभ्यामितं साकेतम् ॥ १ ॥ कोसलदेशयोगात् कोसला ॥२॥ न योध्यते परैरयोध्या ॥ ३ ॥
विदेहा मिथिला समे। विदिह्यते विदेहा ॥ १ ॥ मिथ्यते मिथिला, “ गुपिमिश्वि-" ॥ ( उणा४८३ ) ॥ इति किदिलः ॥ २ ॥
त्रिपुरी चेदिनगरी
तृतीया पुरी त्रिपुरी मयूरव्यंसकादित्वात् , त्रयाणां पुराणां समाहारो वा भाप्यकारवचनात् स्त्रीत्वम् ॥ १ ॥ चेदीनां नगरी चेदिनगरी ॥ २ ॥
कौशाम्बी वत्सपत्तनम् ॥ ४१ ॥ .. कुशाम्बेन निर्वृत्ता कौशाम्बी चातुरर्थिकोऽण् ॥ १॥ वत्सराजस्य वत्सदेशे चा पत्तनं वत्सपत्तनम् ॥ २ ॥ ४१॥
Page #390
--------------------------------------------------------------------------
________________
३९०
अभिधानचिन्तामणौ
उज्जयनी स्याद विशालाऽवन्ती पुष्पकरण्डिनी । उत्कर्षेण जयति उज्जयनी रम्यादित्वाद् अनट , अन्ये तु उज्जयनी नाम राक्षसी देवता वा तस्या निवास उज्जयनीति चातुरर्थिकमणमुत्पाद्य तस्य लोपमिच्छन्ति ॥१॥ विशेषेण शालते विशाला, विशिष्टाः शाला अत्रेति वा, विस्तीर्णत्वाद् वा॥२॥ अव्यतेऽवन्ती ॥३॥ पुष्पकरण्डं नामोद्यानम् , तदत्रास्ति पुष्पकरण्डिनी । यद्वयाडि:
" उज्जयन्यां यदुद्यानं तत् स्यात् पुष्पकरण्उकम्” इति ॥ ४ ॥
पाटलिपुत्रं कुसुमपुरं
पाटलिभिः पुनाति पाटलिपुत्रम् ," पुत्रादयः " ॥ ( उणा-४५५ ) ॥ इति निपात्यते ॥ १ ॥ कुसुमबहुलं पुरं कुसुमपुरम् ॥ २ ॥
चम्पा तु मालिनी ॥ ४२ ॥ - लोमपादकर्णयोः पू:
चणन्ति अस्यां चम्पा, “ भापाचणि." ॥ (उणा-२९६) ॥ इति पः ॥१॥ मालाः सन्त्यस्यां मालिनी ॥ २ ॥ ४२ ॥ लोमपादो राजर्षिः, कर्णः कौन्तेयः तयोः पूः लोमपादपूरी ॥ ३ ॥ कर्णपूरी ॥ ४ ॥
देवीकोट उमावनम् । कोटिवर्ष बाणपुरं स्यात् शोणितपुरं च तत् ॥ ४३ ॥
देव्याः कोटः कौटिल्यमत्र देवीकोटः ॥ १ ॥ उमाया वनमुमावनम् ॥ २॥ कोटिभिवर्षति कोटिवर्षम् ॥ ३ ॥ बाणाऽसुरस्य पुरं बाणपुरम् ॥ ४ ॥ शोणितलिप्तं पुरं शोणितपुरम् ॥ ५ ॥ ४३ ॥ .
मथुरा तु मधूपघ्नं मधुरा मथति चित्तं मथुरा, " वाश्यसि." ॥ ( उणा-४२३ ) ॥ इत्युरः, मथुरायाः पिशाच्या अदूरभवं नगरमित्यन्ये ॥ १ ॥ मधोर्दानवस्य उपघ्न आश्रयोऽत्र मधूपन्नम् ॥ २ ॥ मधुना राजते मधुरा, मधुरधिष्ठितोऽस्या अस्तीति वा मध्वादित्वाद् रः ॥ १ ॥
अथ गजाह्वयम् ।
स्याद् हास्तिनपुरं हस्तिनीपुरं हस्तिनापुरम् ॥ ४४ ॥ गजस्याह्वयोऽस्य गजाह्रयम् , यद्भारते-“नगरे नागसाह्वये" इति, “तेन गजपुरं नाम नगरम् , इत्यादि ॥१॥ हस्तिन्या इदं हास्तिनं तच तत्पुरं च हास्तिनपुरम् ॥२॥ हस्तिन्याः पुरं हस्तिनापुरम् ॥ ३ ॥ पृषोदरादित्वाद् आत्वे हस्तिनापुरम् ॥४॥४४॥
Page #391
--------------------------------------------------------------------------
________________
४ भूमिकाण्डः ।
३९१ तामलिप्तं दामलिप्तं तामलिप्ती तमालिनी ।
स्तम्बपूर्विष्णुगृहं च स्याद् ताम्यद्भिर्लिप्यते तामलिप्तम् , तामलिप्ती पृषोदरादित्वात् ॥१॥२॥ दामभिलिप्यते छाद्यते दामलिप्तम् ॥३॥ तमालाः सन्त्यस्यां तमालिनी ॥४॥ स्तम्बगहना पू : स्तम्बपूः, समासान्तविधेरनित्यत्वाद् अदभावः ॥५॥ विष्णोर्गृहं विष्णुगृहम् ॥६॥
विदर्भा तु कुण्डिनम् ॥ ४५ ॥ विशिष्टो दर्भः संदर्भः कुशो वाऽस्यां विदर्भा ॥१॥ कुड्यते पापमत्र कुण्डिनम् , "शाकठि." ॥ (उणा-२८२)। इतीनः, कुण्डिनपुरम् , कुण्डिनापुरमित्यपि।।२॥४५॥
द्वारवती द्वारका स्याद् द्वाराणि सन्ति अस्यां द्वारवती ॥१॥ द्वारैः कायति द्वारका, द्वरतीति वा णके क्षिपकादित्वाद् इत्वाभावः ॥ २ ॥
निषधा तु नलस्य पू:। नितरां स्यन्ति कर्माणि अस्यां निषधा, "नेः स्यतेरधक्" ॥ (उणा-२५२) ॥ इत्यधर ॥१॥
प्राकारो वरणः साले प्रकुर्वन्ति तमिति प्राकारः, “ घञ्युपसर्गस्य-" ॥ ३।२।८६ ॥ इति दीर्घः ॥ १ ॥ वृणोति वरणः, "तृक-" ॥ ( उणा-१८७ ) ।। इत्यणः ॥ २ ॥ सल्यते सालस्तत्र ॥ ३॥
चयो वप्रोऽस्य पीठभूः ॥ ४६॥ अस्य प्राकारस्य पीठभूर्मूलभूमिः चीयते चयः प्राकाराऽऽधारः ॥१॥ उप्यते. ऽत्र इति वप्रः पुंक्लीबलिङ्गः, " भीवृधि." ॥ (उणा-३८७) ॥ इति रः ॥२॥४६॥
प्राकाराग्रं कपिशीर्ष .. . प्राकारस्याऽयं प्राकाराग्रम् ॥१॥ कपेरिव शीर्षमस्य कपिशीर्षम् ॥२॥
क्षौमाऽट्टाऽट्टालकाः समाः । क्षुवन्ति शब्दायन्ते योधा अत्र क्षौमम् , “ रुक्मग्रीष्म-" ॥ ( उणा३४६) ॥ इति मे निपात्यते ॥ १ ॥ 'अहि हिंसाऽतिक्रमयोः ' अ इन्तेऽत्र अट्टः, पुंक्लीबलिङ्गौ ॥ २ ॥ चात्वाल-" ॥ (उणा-४८०) ॥ इत्याले नि पातनाद् अट्टालः, केऽष्टालकः प्राकाराग्रे रणगृहम् ॥ ३ ॥
पूर्वारे गोपुरं
Page #392
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणौ
पुरो द्वारं पूरं तंत्र ॥ १ ॥ गोप्यते गोपुरम्, ४२६ ) ॥ इति उरे निपात्यते ॥ २ ॥
३९२
""
श्वशु
॥ ( उणा
रथ्याप्रतोलीविशिखाः समाः || ४७ ||
66
"
रथान् वहति रथ्या, "वहति रथ - " || ७|१|२ || इति यः ॥ १ ॥ प्रतोत्यते प्रतोली || २ || विशायते जनसंमर्द्देन विशिखा, श्यतेरिच वा ॥ ( उणा८५ ) ॥ इति खः, विगता शिखा मुण्डितेव समत्वादिति वा ॥ ३ ॥ ४७ ॥ परिकूटं हस्तिनखो नगरद्वार कूटके ।
परितः कूट्यते परिकूटं पुंक्लीबलिङ्गः || १ || हस्तिनख इव हस्तिनख: दुर्गद्वारावतरणार्थः क्रमनिम्नो मृत्कूटोऽपसोपानाख्यः, बहिरतटमन्तः सोपानयुक्तं युद्धार्थमित्येके ॥ २ ॥ नगरद्वारे कूटो नगरद्वारकूटस्तत्र ॥ ३ ॥
मुखं निःसरणे
गृहादेर्निः खियते प्रविश्यते च येन तद् मुखमिव मुखम् यत् कौटिल्यः - " मुखसमः संक्रमः” इति ॥ १ ॥ निः स्त्रियतेऽनेन निःसरणं तत्र ॥ २ ॥ वाटे प्राचीनाssवेष्टौ वृतिः ॥ ४८ ॥
वय्यतेऽनेन वाटः त्रिलिङ्गस्तत्र ॥ ॥ प्रागेव प्राचीनम्, “अदिस्त्रियां-"
॥ ७।१।१०७ ॥ इतीनः ॥ २ ॥ आवेष्टते आवेष्टकः ॥ ३ ॥ त्रियतेऽनया वृतिः
॥ ४ ॥ ४८ ॥
पदव्येकपदी पद्या पद्धतिर्वर्त्म वर्त्तनी ।
अयनं सरणिर्मार्गोऽध्वा पन्था निगमः सृतिः ॥ ४९ ॥
""
पद्यन्तेऽनया पदविः, “छविछिवि " ॥ ( उणा - ७०६ ) ॥ इति वौ निपात्यते ङयां पदवी ॥ १ ॥ एकः पादोऽस्यामेकपदी कुम्भपद्यादित्वात् साधुः ॥ २ ॥ पदमस्यां दृश्यं पद्या, “ हृद्यपद्य - " ॥ ७|१|११ ॥ इति यः ॥ ३ ॥ पादाभ्यां हन्यते पद्धतिः, "हिमहति " || ३|२९६ ॥ इति पदादेशः ॥ ४ ॥ वर्त्तन्तेऽनेन वर्त्म क्लीबलिङ्गः, “ मन्' ॥ ( उणा - १११ ) ॥ इति मन् ॥ ५ ॥ “ सदिवृति - " ॥ ( उणा - ६८०) ॥ इति अनौ वर्तनिः, ङयां वर्तनी ॥६॥ अयन्तेऽनेन अयनम् ॥७॥ सरन्ति अस्यां सरणिः स्त्रीलिङ्गः, "ऋहसू " ॥ ( उणा - ' - ६३८ ) ॥ इत्यणिः ॥ ८ ॥ मार्गन्ति अनेन मार्गः, म्रियन्तेऽत्रेति वा, "शृङ्गशार्ङ्ग - " ॥ ( उणा - ९६ ) ॥ इति गे निपात्यते ||९|| अतन्ति अत्र पान्था अध्वा, “अतेर्धच " ॥ ( उणा - ९०९ ) ॥ इति क्वनिप् ॥१०॥ पथन्ति अस्मिन् पन्थाः पुंलिङ्गौ, “पथिमथिभ्याम् ॥ ( उणा - ९२६)॥ इतीन् ॥११॥ निगच्छन्ति अनेन निगमः || १२ || सरन्ति अनया सृतिः ॥ १३ ॥ ४९ ॥ सत्पथे स्वतितः पन्थाः
Page #393
--------------------------------------------------------------------------
________________
- ४ भूमिकाण्डः ।
३९३
संश्वासौ पन्थाश्च सत्पथस्तत्र ॥ १ ॥ स्वतिशब्दाभ्यां परः पन्था, पूजितः पन्थाः सुपन्थाः, पूजितः पन्थाः अतिपन्थाः, “पूजाखतेः प्राक् टात्" ॥ ७३१७२ ॥ इति समासान्तनिषेधः ॥ २ ॥ ३ ॥
__ अपन्था अपथं समे । न पन्था अपन्थाः, "नञ्तत्पुरुषात्" ॥७३।७१॥ इति समासान्तनिषेधः॥१॥ नी निर्दिष्टस्य अनित्यत्वात् समासान्ते सति अपथम् , “पथः सङ्ख्याऽव्ययोत्तरः"। (हैमलिङ्गानु० नपुं० श्लो-८)॥इति क्लीबत्वम् , पथोऽभाव इति अव्ययीभावो वा।।२॥ _____ व्यध्वो दुरध्वः कदध्वा विपथं कापथं च सः ॥ ५० ॥
विरुद्धोऽध्वा व्यध्वः ॥१॥ दुष्टोऽध्वा दुरध्वः, "उपसर्गादध्वनः." ॥७॥३॥७९॥ इत्यत्समासान्तः ॥ २ ॥ कुत्सितोऽध्वा कदध्वा ॥३॥ विरुद्धः पन्था विपथम् ॥४॥ कुत्सितः पन्था कापथम् , “काक्षपथोः" ॥३।२।१३४॥ इति कादेशः, “पथः सङ्ख्या ऽव्ययोत्तरः" ( हैमलिङ्गानु० नपुं० श्लो-८)॥ इति क्लीबत्वम् । अमरस्तु- विपथकापथशब्दौ पुस्याह, गौडश्च यदाह- "व्यध्वो विपथकापथौ" इति ॥ ५ ॥ ५० ॥
प्रान्तरं दशून्योऽध्वा प्रगता अन्तरेऽस्मात् प्रान्तरं दूरशून्यो मार्गः ॥ १ ॥ __कान्तारो वर्त्म दुर्गमम् ।
कम्यते कान्तारः पुंक्लीबलिङ्गः, “द्वारशृङ्गार-" ॥ ( उणा-४११) ॥ इत्यारे निपात्यते, कस्य अम्भसोऽन्तमियर्तीति वा ॥ १ ॥
सुरुङ्गा तु सन्धिला स्याद् गूढमार्गो भुवोऽन्तरे ॥ ५१ ॥ सरत्यनया सुरुङ्गा, “सर्तेः सुर्च" ॥ ( उणा-१०८ ) ॥ इत्युङ्गः ॥ १॥ सन्धि लाति सन्धिला, सन्धिरपि, भूमिमध्ये गूढोमार्गः ॥ २ ॥ ५१ ॥
चतुप्पथे तु संस्थानं चतुष्कं चतुर्णा पथां समाहारश्चतुष्पथं तत्र ॥ १ ॥ संतिष्ठतेऽत्र संस्थानम् ॥ २ ॥ चत्वारोऽवयवा अस्य चतुष्कम् ॥ ३ ॥
त्रिपथे त्रिकम् । त्रयाणां पथां समाहारस्निपथं तत्र ॥१॥ त्रयोऽवयवा अस्य त्रिकम् ॥२॥
द्विपथं तु चारपथः द्वौ पन्थानौ समाहृतौ द्विपथम् ॥ १॥ चाराय पन्थाश्चारपथः ॥ २॥
१ "समासान्ता-ऽऽगम-संज्ञा-ज्ञापक-गण ननिर्दिष्टानि अनित्यानि ” ॥ (न्यायमञ्जूषा-न्या-३५) ॥ इति परिभाषया ।
२ सङ्ख्यावाचिनोऽव्ययाच परः पथशब्दः क्लीबलिङ्गः, इति भावः ।
Page #394
--------------------------------------------------------------------------
________________
३९४
अभिधानचिन्तामणौ
गजाद्यध्वा त्वसङ्कुलः ॥ ५२ ॥ घण्टापथः संसरणं श्रीपथो राजवर्त्म च । उपनिष्क्रमणं चोपनिष्करं च महापथः ॥ ५३ ॥
असङ्कुलो गजादीनां मार्गः ॥ १ ॥ ५२ ॥ घण्टोपलक्षितानां हस्तिनां पन्था घण्टापथः, चाणाक्योक्तोऽष्टदण्डपृथुः पन्थाः ॥ २ ॥ सम्यक् सरन्त्यत्र संसरणम् ॥ ३॥ श्रिया उपलक्षितः पन्थाः श्रीपथः ॥ ४ ॥ राजयोग्यं वर्त्म राजवर्त्म ॥ ५ ॥ उपनिष्क्रम्यतेऽस्मिन् उपनिष्क्रमणम् ॥ ६ ॥ उपनिष्कीर्यते सैन्यमस्मिन् उपनिष्करम् · ॥ ७ ॥ महांश्चासौ पन्थाश्च महापथः ॥ ८ ॥ ५३ ॥
विपणिस्तु वणिग्मार्गः
C
विपण्यन्तेऽस्यां विपणिः स्त्रीलिङ्गः, “पदिपठि " ॥ ( उणा - ६०७ ) ॥ इति इः ॥ १ ॥ वणिजां मार्गो वणिग्मार्गः पण्यवीथ्यपि ॥ २ ॥
स्थानं तु पदमास्पदं ।
तिष्ठन्त्यस्मिन् स्थानम् ॥१॥ पद्यतेऽस्मिन् पदम्, “वर्षादयः क्लीबे” || ५|३|२९|| इत्यल् ॥ २ ॥ आ समन्तात् पदमास्पदं वर्चस्कादित्वात् साधुः ॥ ३ ॥
श्लेषस्त्रिमार्ग्याः शृङ्गाटं
त्रयाणां मार्गाणां श्लेषो मेलनं श्रीयते तदिति शृङ्गाटम्, “कपाटविराट " ॥ ( उणा - १४८ ) ॥ इत्याटे निपात्यते श्रङ्गैरटन्ति अस्मिन्निति वा, शृङ्गाटवद् मार्गेस्त्रिकोणत्वाद् वा ॥ १ ॥
बहुमार्गी तु चत्वरम् ॥ ५४ ॥
बहवो मार्गाः समाहृताः बहुमार्गी ॥ १ ॥ चत्यते चत्वरम्,
( उणा - ४४१ ) ॥ इति वरट् ॥ २ ॥ ५४ ॥
"कगश ἐξξ
"" 11
श्मशानं करवीरं स्यात् पितृप्रेताद् वनं गृहम् ।
"
शवानां शयनं श्मशानम्, पृषोदरादित्वात् ॥ १ ॥ करैर्वीरयन्तेऽत्र करवीरम् ॥ २ ॥ पितृप्रेतादिति समाहारद्वन्द्वो यथासंख्या निवृत्त्यर्थः तेन पितृप्रेतशब्दाभ्यां परं वनं गृहं च, पितॄणां वनं गृहं च पितृवनं पितृगृहम् ॥ ३ ॥ ४ ॥ एवं प्रेतवनम् ॥ ५ ॥ प्रेतगृहम् ॥ ६ ॥
गेहभूर्वास्तु
गेहाय भूमिर्गेहभूः ॥ १ ॥ वसन्त्यत्र वास्तु पुंक्लीबलिङ्गः, “ वसेर्णिद् वा ( उणा - ७७४ ) ॥ इति तुन् ॥ २ ॥
ܕܕ
"
Page #395
--------------------------------------------------------------------------
________________
३९५
४ भूमिकाण्डः । गेहं तु गृहं वेश्म निकेतनम् ॥ ५५ ।। मन्दिरं सदनं सद्म निकाय्यो भवनं कुटः । आलयो निलयः शाला सभोदवसितं कुलम् ॥ ५६ ॥ धिष्ण्यमावसथः स्थानं पस्त्यं संस्त्याय आश्रयः ।
ओको निवास आवासो वसतिः शरणं क्षयः ।। ५७ ॥ धामाऽगारं निशान्तं च केतन्ति निवसन्ति अत्र गेहम् , "कितो गे च" ॥ ( उणा-५८७) ॥ इति हः ॥ १ ॥ गृह्णाति पुरुषोपार्जितं द्रव्यमिति गृहम् , " गेहे ग्रहः ” ॥ ५।१।५५ ॥ इति कः, पुंक्लीबलिङ्गावेतौ ॥२॥ विशन्ति अस्मिन्निति वेश्म क्लीबलिङ्गः, “मन्"। ( उणा-९११ ) ॥ इति मन् ॥ ३ ॥ निकेतन्त्यत्र निकेतनम् ॥ ४ ॥५५ ॥ मन्द्यते स्तूयतेऽत्र मन्दिरं स्त्रीक्लीबलिङ्गः, “ मदिमन्दि-" ॥ (उणा-४१२) ॥ इतीरः ॥५॥ सीदन्त्यस्मिन् सदनम् ॥ ६ ॥ " मन्" ॥ (उणा-९११) ॥ इति मनि सद्म क्लीबलिङ्गः ॥७॥ नितरां चीयते निकाय्यः, "धाय्यापाय्य-" ॥५।१।२४॥ इति ध्यणि निपात्यते ॥ ८ ॥ भवन्त्यस्मिन् भवनं पुंक्लीबलिङ्गः ॥ ९ ॥ कुट्यतेऽस्मिन् कुटः स्त्रीपुंसलिङ्गः ॥ १० ॥ आलीयन्तेऽस्मिन्नालयः ॥ ११॥ एवं निलयः ॥ १२ ॥ शायते शाला, " शामाश्या." ॥ ( उणा-४६२)॥ इति ल: शालते वा, शलन्त्यस्यां वा ॥ १३ ॥ सह भान्त्यस्यां सभा ॥ १४ ॥ उदवसिनोति स्मोदवसितम् ,ऊर्ध्वमवसीयते वा ॥१५॥ कोलन्ति अत्र कुलम्, स्थादित्वात् कः ॥१६॥ ॥ ५६ ॥ धृष्णुवन्त्यस्मिन् धिष्ण्यम् “ शिक्यास्यात्या-" ॥ ( उणा-३६४ )॥ इति ये निपात्यते॥१७॥आवसन्ति अस्मिन्नावसथः “उपसर्गाद् वसः ॥(उणा-२३३) ॥ इत्यथः ॥ १८ ॥ तिष्ठन्त्यत्र स्थानम् ॥ १९ ॥ 'पसि निवासे' सौत्रो दन्त्यान्तः, पसन्त्यस्मिन् पस्त्यम् , “ मृशीपसि-" ॥ (उणा-३६०) ॥ इति तकारादि. यः, अपस्त्यायति संघातीभवतीति वा पृषोदरादित्वात् ॥ २० ॥ संस्त्यायन्त्यत्र संस्त्यायः ॥ २१ ॥ आश्रयन्त्येनमाश्रयः ॥२२॥ उच्यन्त्यस्मिन् ओकः क्लीबलिङ्गः, " उच्यञ्चेः कश्च ” ॥ ( उणा-९६५)॥ इत्यस् ॥ २३ ॥ निवसन्त्यस्मिन्निवासः ॥२४॥ एवमावासः ॥२५॥ वसन्त्यस्यां वसतिः स्त्रीलिङ्गः, “खल्यमि." ॥ ( उणा-६५३ ) ॥ इत्यतिः ॥ २६ ॥ शीर्यते शीताद्यनेन शरणम् ॥ २७ ॥ क्षयन्त्यत्र क्षयः ॥ २८ ॥ ५५ ॥ दधत्यस्मिन्नाश्रयं धाम क्लीबलिङ्गः, “ मन् " ॥ ( उणा-९११ ) ॥ इति मन् , “ अर्तीरि." ॥ ( उणा-३३८ ) ॥ इति मे धाममपि ॥ २९ ॥ अग्यतेऽस्मिन्नगारम् "अग्यनि-" ॥ ( उणा-४०५)॥ इत्यारः, अगान् वृक्षानियर्ति वा ॥ ३० ॥ निशाम्यन्त्यस्मिन्निशान्तम्, “ अद्यर्थाचाधारे" ॥५।१।१२॥ इति क्तः, निशाया अन्तोऽत्रेति केचित् ॥३१॥
Page #396
--------------------------------------------------------------------------
________________
३९६
अभिधानचिन्तामणी
कुट्टिमं त्वस्य बद्धभूः । अस्य गृहस्य पाषाणादिर्भिबद्धा भूमिः, कुट्ट्यते कुट्टिमं पुंक्तीबलिङ्गः, “कुट्टिवेष्टि." ॥ (उगा-३४९) ॥ इतीमः ॥ १॥
चतुःशालं संजवनं चतस्रः शालाः समाहृताश्चतुःशालम् ॥ १ ॥ संजवन्तेऽत्र संजवनम् ॥ २ ॥
सौधं तु नृपमन्दिरम् ॥ ५८ ॥ ___सुधया धवलीकृतं सौधं पुंक्लीबलिङ्गः ॥ १ ॥ ५८ ॥ व उपकारिकोपकार्या
उपकरोत्युपकारिका ॥ १ ॥ उपक्रियते उपकार्या, उपकर्याऽपि, पटमण्डपादि राजसदनम् ॥ २॥
सिंहद्वारं प्रवेशनम् । सिंहस्येव द्वारं सिंहद्वारम् ॥ १ ॥ प्रविश्यतेऽनेन प्रवेशनम् ॥ २ ॥ :
प्रासादो देवभूपानां
गृहमित्युत्तरतः संबध्यते, प्रसीदन्ति नयन-मनांस्यस्मिन्निति प्रासादः, "घञ्यु. पसर्गस्य." ॥ ३।२।८६ ॥ इति दीर्घः, प्रसादनोऽपि ॥१॥
हर्म्य तु धनिनां गृहम् ।। ५९ ॥ .. हरति मनो हर्म्यम् , “शिक्यास्याढ्यः" ।(उगा-३६४)॥ इति ये निपात्यते ॥१॥ ५९ ।।
मठाऽऽवसथ्याऽऽवसथाः स्युश्छात्र-व्रतिवेश्मनि । मठन्ति निवसन्यत्र मठः त्रिलिङ्गः, बाहुलकात् "पुंनाम्नि"- ॥५।३।१३०॥ इति घः ॥ १॥ आवसथ एव आवसथ्यम् , भेषजादित्वाद् ट्यण ॥२॥ आवसन्त्यस्मिन्नावसथः, छात्राणां व्रतिनां च वेश्मनि ।। ३ ॥
पर्णशालोटजः पर्णमुपलक्षणं तेन पर्णतृणादेः शाला पर्णशाला ॥१॥ वट्यते वेष्ट्यते सृणपर्णादिभिरित्युटजः मुनिकुटीरः पुंक्लीबलिङ्गः, “उटजादयः" ।। (उणा-१३४) ।। इत्यजे निपात्यते ॥ २ ॥
चैत्यविहारौ जिनसद्मनि ॥ ६० ॥ चीयते चैत्यम् , “शिक्यास्या-" । (उणा-३६४) ॥ इति ये साधुः ॥ १ ॥
Page #397
--------------------------------------------------------------------------
________________
४ भूमिकाण्ड: ।
३९७
विहरन्त्यस्मिन् विहारः पुंक्लीबलिङ्गः, अमरस्तु- "चैत्यमायतनं तुल्ये "इति, "बौद्धानां विहारोऽस्त्री " इति च चैत्यविहारौ भिन्नार्थावाह ।। २ ।। ६० ।।
गर्भागारेऽपवरको वासौकः शयनास्पदम् ।
(6
"
अगारस्य गर्भे गर्भागारम्, राजदन्तादित्वात् पूर्वनिपातः ॥ १॥ तत्र अपवृणोति आच्छादयति अपवरकः, ॥ ( उणा - २७ ) ॥ इत्यकः ॥ २ ॥ वासाय वासमध्ये वा ओको गृहं वासौकः ॥ ३ ॥ शयनस्य शय्याया आसदं शयनास्पदम् ॥ ४ ॥
દદદ
भाण्डागारं तु कोशः स्यात्
भाण्डागारं भाण्डागारम् ॥ १ ॥ कुश्यति भाण्डमत्र कोशः, पुक्लीबलिङ्गः
॥ २ ॥
चन्द्रशाला शिरोगृहम् ॥ ६१ ॥
चन्द्रेणाऽदूरवर्तिना शालते चन्द्रशाला ॥ १ ॥ शिरसि सौधस्य गृहं शिरोगृहम् ॥ २ ॥ ६१ ॥
कुप्यशाला तु सन्धानी
कुप्यं ताम्रादि तस्य शाला कुप्यशाला ॥ १ ॥ सन्धीयतेऽस्यां सन्धानी ॥ २ ॥ कायमानं तृणौकसि ।
कायो मानमस्य कायमानम् ॥ १ ॥ तृणं काष्ठादेरुपलक्षणम्, तेन तृणकाष्ठादिभिः गृहस्योपरि रचितमोको लभ्यते ॥ २ ॥
होत्रीयं तु हविर्गेह
जुह्वति अस्यां होत्रा, “हुयामा - " ॥ ( उणा - ४५१ ) ॥ इति त्रः, होत्रैव होत्रीयम्, " होत्राया ईयः " ।। ७।२।१६३ ।। इति स्वार्थे इयः ॥ १ ॥ हविषो होतव्यस्य गेहं हविर्गेहम् ॥ २ ॥
प्राग्वंशः प्रागृहविर्गृहात् ॥ ६२ ॥
.
'वंशः कुलं स्थूणा वा प्राग् वंशोऽत्र प्राग्वंशः, पत्नीशालाख्योऽग्निशालाया आद्यो भाग: ।। १ ।। ६२ ।।
आथर्वणं शान्तिगृहम्
22
आथर्वणिकानां धर्म आम्नायः सङ्घो वा आथर्वणः, “ आथवैणिकादण् इक ।। ६।३।१६७ ।। इत्यणि साधुः सोऽत्राऽस्ति आथर्वणम् अदिव... अः ।। १ ।। शान्त्यै गृहं शान्तिगृहं शान्तीगृहकमपि । यद् वाचस्पति:"आथर्वणं शान्तिगृहं शान्तीगृहकमप्यदः " इति ॥ २ ॥
लुक् च
८०
Page #398
--------------------------------------------------------------------------
________________
३९८
अभिधानचिन्तामणी- ..
.
आस्थानं गृहमिन्द्रकम् । आस्थानाय गृहमास्थानगृहम् ॥१॥ इन्द्रं कायतीव सश्रीकत्वाद् इन्द्रकम् ॥२॥
तैलिशाला यन्त्रगृहं तैलिनः शाला तैलिशाला ॥१॥ तिलनिष्पीडनयन्त्रस्य गृहम् ॥ २ ॥ ___ अरिष्टं सूतिकागृहम् ॥ ६३ ॥
न रिष्यते हिंः कृतरक्षत्वाद् अरिष्टम् ॥ १ ॥ सूतिकाय गृहं सूतिकागृहम् ॥ २॥ ६३ ॥
सूदशाला रसवती पाकस्थानं महानसम् ।' सूदानां शाला सूदशाला ॥ १ ॥ रसाः सन्त्यस्यां रसवती, रस आस्वादो. ऽस्त्यस्यामिति वा ॥२॥ पाकाय स्थान पाकस्थानम् ॥३॥ अनसा उपकरणसम्भारबत्त्वं लक्ष्यते ततो महच्च तदनश्चेति महानसम् , “सरोऽनोऽइमाऽयसो जातिनाम्नोः" ॥७।३।११५॥ इत्यट् समासान्तः ॥ ४ ॥
हस्तिशाला तु चतुरं हस्तिनां शाला हस्तिशाला ॥ १ ॥ चलते चतुरम् ॥ २॥
वाजिशाला तु मन्दुरा ॥ ६४ ॥ वाजिनां शाला वाजिशाला ॥१॥ मन्द्यते स्तूयते मन्दुरा स्रीक्लीबलिङ्गः, "वाश्यसि." ॥ (उणा-४२३) ॥ इत्युरः ॥ २ ॥. ६४ ॥
सन्दानिनी तु गोशाला सन्दाननं गोबन्धनरज्जुरस्त्यस्यां सन्दानिनी ॥१॥ गवां शाला गोशाला ॥२॥
चित्रशाला तु जालिनी। चित्राऽलङ्कृता शाला चित्रशाला ॥१॥ जालानि सन्त्यस्यां जालिनी ॥२॥
कुम्भशाला पाकपुटी कुम्भानां घटनाय शाला कुम्भशाला ॥१॥ पाकेन पुटति संश्लिष्यति पाकपुटी
तन्तुशाला तु गतिका ॥ ६५ ।। तन्तुवानाय शाला तन्तुशाला ।। १॥ कुविन्दस्थितये गर्तोऽस्त्यस्यां गर्तिका, "अतोऽनेकखरात्" ॥ ७।२।६ ॥ इतीकः ॥ २ ॥ ६५ ॥
नापितशाला वपनी शिल्पा खरकुटी च सा।
Page #399
--------------------------------------------------------------------------
________________
४ भूमिकाण्डः ।
३९९ नापितस्य शाला नापितशाला ॥१॥ वपन्त्यस्यां वपनी ॥२॥ शिल्पं विज्ञानमस्त्यस्यां शिल्पा ॥ ३ ॥ खरस्य कुटीव खरकुटी ॥ ४ ॥
आवेशनं शिल्पिशाला आविशन्यस्मिन् आवेशनं गृहादन्यत् कारूणां कर्मस्थानम् ॥१॥ शिल्पिना शाला शिल्पिशाला ॥ २ ॥
सत्रशाला प्रतिश्रयः ॥ ६६ ॥ सत्रं सदाद न तस्य शाला सत्रशाला ॥१॥ प्रतिश्रीयते प्रतिश्रयः ॥२॥६६॥
आश्रमस्तु मुनिस्थानम् . आश्राम्यन्ति तपस्यन्त्यस्मिन् आश्रमः पुंक्लीबलिङ्गः ॥ १ ॥
उपघ्नस्त्वन्तिकाश्रयः । उपहन्यते समीप इति ज्ञायते उपघ्नः, “निघोद्ध." ॥ ५।३।३६ ॥ इत्यलि निपात्यते ॥ १॥ अन्तिक आसन्न आश्रयोऽन्तिकाश्रयः ॥ २॥
प्रपा पानीयशाला स्यात् प्रपिबन्त्यस्यां प्रपा स्थादित्वात् कः ॥ १ ॥२॥
गञ्जा तु मदिरागृहम् ॥ ६७ ॥ गञ्जन्ति नदन्त्यस्यां क्षीवा ग़जा ॥ १ ॥ २ ॥ ६ ॥
पक्वणः शबरावासः पच्यतेऽस्मिन् पक्वणः पुंक्लीबलिङ्गः, “चिक्कण-" ॥ ( उणा-१९० ) ॥ इत्यणे निपात्यते ॥ १ ॥ २ ॥
घोषस्त्वाभीरपल्लिका। घोषन्ति गावोऽत्रेति घोषः ॥ १॥ आभीराणां गोपाना पल्लिहाली आभीरपल्लिका “वुटीग्रामकयोः पल्लिः” इति तु शाश्वतः ॥ २ ॥
पण्यशाला निषद्याऽट्टो हट्टो विपणिरापणः ॥ ६८ ॥ पण्यस्य शाला पण्यशाला ॥ १ ॥ निषीदन्त्यस्यां निषद्या, “समज-" ॥ ५।३।९९ ॥ इति क्यप् ॥ २ ॥ अन्तेऽस्मिन् अट्टः पुंक्तीबलिङ्गः ॥ ३ ॥ हटति दीप्यतेऽत्र हट्टः, “घटाघाटा-" ॥ ( उणा- १४१ ) ॥ इति टे निपात्यते ॥ ४ ॥ विविधं पणायन्त्यस्यां विपणिः स्त्रीलिङ्गः ॥५॥ एत्य पणायन्त्यस्मिन् आपणः, “गोचरसंचर-" ॥ ५।३।१३१ ॥ इति घः ॥ ६ ॥ ६८ ॥
Page #400
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणौ- ..
वेश्याऽऽश्रयः पुरं वेशः वेश्यानामाश्रयो वेश्याश्रयः ॥ १ पुरति पुरम् ॥ २ ॥ विशन्त्यस्मिन् भुजङ्गावेशः ॥ ३ ॥
मण्डपस्तु जनाश्रयः । मण्ज्यते नानालोकैर्मण्डपः पुंक्कीबलिङ्गः, “विष्टप-" ॥ (उणा-३०७) ॥ इत्यादिशब्दाद् अपे निपात्यते ॥ १ ॥ जनानामाश्रयो जनाश्रयः ॥ २ ॥
__ कुड्यं भित्तिः
कोलति संस्त्यायति कुड्यम् , “कुलेई च वा" ॥ (उणा-३६२) ॥ इति किद् यः, कुटयां साध्विति वा पृषोदरादित्वाद् डत्वम् , क्लीबलियोऽयम् , वाचस्पतिस्तु"कुड्यमस्त्रियाम्" इति पुंस्यऽप्याह ॥ १ ॥ भिद्यते भित्तिः ॥ २॥
__ तदेडूकमन्तर्निहितकीकसम् ॥ ६९ ॥
तत् कुड्यं अन्तर्निहिताऽस्थि एडयति एडूकम् , “ शम्बूकशाम्बूक" ॥ ( उगा-६१ ) ॥ इत्यूके निपात्यते ॥ १ ॥ ६९ ॥
वेदी वितर्दिः विदन्त्यस्यां वेदिः, यां वेदी दारुपरिष्कृता चतुरस्रा विश्रान्तभूः ॥ १॥ वितर्यते वितदिः, “पदिपठि.''॥ ( उणा- ६०७ ) ॥ इति इः, स्त्रीलिङ्गावेतौ ॥२॥
अजिरं प्राङ्गणं चत्वराऽङ्गने । अजन्त्यस्मिन्नजिरम् , “स्थविर-" ॥ ( उणा-४१७ ) ॥ इतीरे निपात्यते ॥१॥ प्राङ्गन्त्यत्र प्राङ्गणम् , "तृकश." ॥ ( उणा-१८७ ) ॥ इत्यणः, अगापि ॥२॥ चत्यते चत्वरम् ॥ ३ ॥ अङ्गन्त्यस्मिन्ननम् ॥ ४ ॥
वल प्रतीहारो द्वारे वल्यतेऽस्मिन् वलजम् , “वलेोऽन्तश्च वा” ॥ (उणा-१३३)॥ इत्यजः॥१॥ प्रतिहियन्ते रुध्यन्तेऽनेन बाहुलकाद् घनि दीर्घत्वे च प्रतीहारः ॥ २ ॥ वियते द्वारयति वा द्वाः स्त्रीलिङ्गः, “वाद्वारौ” ॥ ( उगा-९४४ ) ॥ इति क्विपि निपात्यते ॥३॥ उभ्यते पूर्यते द्वारम् , “द्वारशृङ्गार' ॥ ( उणा-४११)॥ इत्यारे निपात्यते, द्वारयतीति वा तत्र ॥ ४ ॥
अथ परिघोऽर्गला ॥ ७० ॥ परिहण्यतेऽनेन परिघः दारुमयो लौहो वा दण्डः, "परेघः" ॥ ५।३।४० ॥ इत्यल् ॥१॥ इयर्ति अर्गला त्रिलिङ्गः, "ऋजनेर्गोऽतन्श्च" ॥ (उणा-४६७) ॥ इत्यलः, अरेण कर्षणेन गलतीति वा ॥ २ ॥ ७० ॥
Page #401
--------------------------------------------------------------------------
________________
४०१
४ भूमिकाण्डः । साऽल्पा वर्गलिका सूचिः सा अर्गला अल्पा अर्गलिका ॥ १ ॥ सूचयति सूचिः स्त्रीलिङ्गः ॥ २ ॥
कुञ्चिकायां तु कूचिका ।
साधारण्यङ्कुटश्चासौ कुम्च्यतेऽनया कुञ्चिका, “नाम्नि पुंसि च” ॥ ५।३।१२१॥ इति णकः तत्र ॥१॥ कूचति कूचिका ॥२॥ साधारयन्ति अनया साधारणी ॥३॥ अङ्कयतेऽङ्कुटः, “नर्कुटकुक्कुट-" ॥ ( उणा-१५५) ॥ इत्युटे निपात्यते ॥ ४ ॥
द्वारयन्त्रं तु तालकम् ॥ ७१ ॥ द्वारपिधानाय लोहमयं यन्त्र द्वारयन्त्रम् ॥ १॥ ताज्यतेऽनेनेति ताडकम् , लत्वे तालकम् ॥ २ ॥ ७१ ॥
___ अस्योद्घाटनयन्त्रं तु ताल्यपि प्रतिताल्यपि ।
अस्य तालकस्य उद्घाटनाय यन्त्रमुद्घाटनयन्त्रं ताज्यतेऽनया ताली ॥ १ ॥ प्रतिताज्यतेऽनया प्रतिताली ॥ २ ॥
तिर्यगद्वारोदारूत्तरङ्गं स्याद् द्वारस्य ऊर्ध्व उपरि तिर्यग् निहितं दारु उत्तरमूर्च गच्छत्युत्तरङ्गम् , "नानो गमः ॥ ५।१।१३१ ॥ इति खड् ॥१॥
अररं पुनः ॥ ७२ ॥
कपाटोऽररिः कुवाटः इयर्ति अररम् , "ऋच्छिचटि." ॥ ( उणा-३९७ ) ॥ इत्यरः ॥१॥७२॥ कम्पते कपाटः त्रिलिङ्गः, “कपाटविराट-" ॥ (उणा-१४८) ॥ इत्याटे निपात्यते, कं शिरः पाटयति प्रविशतामिति वा जपादित्वाद् वत्वे कवाटोऽपि ॥२॥ इयर्ति अररिः पुंक्लीबलिङ्गः, “नदिवल्लि." ॥ (उणा-६९८) ॥ इत्यरिः ॥३॥ कुत्सितं वट्यतेऽनेन कुवाटः ॥ ४ ॥
पक्षद्वारं तु पक्षकः । पक्षद्वारं पार्श्वद्वारम् ॥ १॥ पक्षस्य तुल्यः पक्षकः, खटक्किकाऽपि ॥ २ ॥
प्रच्छन्नमन्तारं स्याद् प्रकर्षण छाद्यते स्म प्रच्छन्नम् , गृहस्य मध्यद्वारं एकमेतदिति । कात्यो यदाह- "प्रच्छन्नमन्तरं यत् पक्षद्वारं तदुच्यते ॥ १॥
बहिद्वार तु तोरणम् ॥ ७३ ॥
Page #402
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणीद्वाराने स्तम्भोपरि निबद्धं बहिरम् ॥ १॥ मङ्गलार्थ तोरयन्यत्र तोरणं. पुंक्लीबलिङ्गः ॥ २ ॥ ॥ ७३ ॥
तोरणोर्चे तु मङ्गल्यं दाम वन्दनमालिका । तोरणस्योपरि मङ्गलार्थं सहकारादि पल्लवनिर्मितं दाम माला वन्दनाय माला वन्दनमालिका ॥१॥
स्तम्भादेः स्यादधोदारौ शिला स्तम्भादीनामधः आधारदारुणि शिलति शिला, "स्तम्भोर्ध्वं दार्वन्तरस्थापनार्थ यदासज्यते सा शिला" इति गौडः ॥ १॥
नासोर्ध्वदारुणि ।। ७४ ॥ नासेव नासा स्तम्भादीनामुपरिस्थितं दारु, द्वारशाखाया अधऊर्ध्व दारुणी शिलानासेति तु माला, यदाह-नासा दारूपरि द्वारस्याऽधो दारुशिला स्त्रियाम्" इति ॥१॥ ७४ ॥
गोपानसी तु वलभीच्छादने वकदारुणि । गोपेन गोपनेन अनिति गोपानसिः, "गोपादेरनेरसिः” ॥ (उणा-७०८) ॥ इत्यसिः ड्यां गोपानसी वलभी, पटलाधारो वंशपञ्जरः तदाच्छादने वक्रे दारुणि॥१॥
__ गृहावग्रहणी देहल्युम्बरोदुम्बरोम्बुराः ॥ ७५ ।।
गृहे अवगृह्यते द्वारशाखे अनया गृहावग्रहणी ॥ १ ॥ दिह्यते घृतादिना देहली, "मृदिकन्दि." ॥ (उणा-४६५) ॥ इत्सलः ॥ २ ॥ उद्यते क्लिद्यते उम्बरः, उदुम्बरः, “तीवरधीवर-” ॥ (उणा-४४४) ॥ इति वरटि निपात्यते ॥ ३ ॥ ४ ॥ "श्वशुर-" ॥ (उणा-४२६) ॥ इत्युरे निपातनाद् उम्बुरः ॥ ५ ॥ ॥ ७५ ॥
प्रघाणः प्रघणोऽलिन्दो बहिरप्रकोष्ठके ।
प्रहण्यते प्रघाणः, प्रघणः, "प्रघणप्रघाणौ गृहाशे' ॥ ५। ३ । ३५ ॥ इत्यलि निपात्यते ॥ १ ॥ २ ॥ अलति भूषयति द्वारमलिन्दः पुंक्लीबलिङ्गः, "कल्यलि.'' ॥ ( उणा-२४६ ) ॥ इतीन्दक् , द्वारप्रकोष्ठकाद् बहिाराप्रवर्तिचतुष्किकान्ते उपालिन्दकाख्यः ॥ ३ ॥
कपोतपाली विटङ्कः कपोतान् पक्षिणः पालयति कपोतपाली ॥ १ ॥ विशिष्टं टङ्कयते विटङ्कः पुंक्तीबलिङ्गः, पक्षिविश्रामार्थ बहिनिर्गतं दारु वक्रदार्वाधारः, पक्षिपतिर्हि तत्रोस्कीर्यते ॥ २॥
Page #403
--------------------------------------------------------------------------
________________
४ भूमिकाण्डः ।।
४०३
पटलच्छदिषी समे ॥ ७६ ॥ पटति स्थगयति पटलं त्रिलिङ्गः, "मृदिकन्दि." ॥ (उणा-४६५) ॥ इत्यलः, पटं लातीति वा ॥ १ ॥ छाद्यतेऽनेन च्छदिः क्लीबलिङ्गः, “ रुच्यचि." ॥ (उणा-९८९) ॥ इति इस्, “छदेरिस्मन्-" ॥४।२।३३॥ इति ह्रस्वः ॥२॥६॥
नीव्र वलीकं तत्प्रान्तः नीयते जलमनेन नीव्रम् , “खुरक्षुर." ॥ (उणा-३९६) ॥ इति रे निपात्यते ॥१॥ वलते संवृणोति वलीकं पुंक्तीबलिङ्गः, “स्यमिकषि-" ॥ (उणा -४६) ॥ इतीकः, तस्य पटलस्य प्रान्तस्तत्प्रान्तः ॥ २ ॥
इन्द्रकाशस्तमङ्गकः। इन्द्रेण कुश्यतीव इन्द्रकोशः ॥ १ ॥ ताम्यन्ति काङ्क्षन्त्येनं तमङ्गो हर्म्यनियूहः, “पतितमि." ॥ (उणा- ९८ ) ॥ इत्यङ्गः ॥२॥
वलभी छदिराधारः 'वडः सौत्रः' वडति वडभी, “कृशग-" ॥ ( उणा-३२९ ) ॥ इत्यभः लत्वे, वलभी अयमिकारान्तोऽपि, छदिषः आधारो वंशपञ्जरादिश्छदिराधारः
नागदन्तास्तु दन्तकाः ॥ ७७ ॥ नागस्येव दन्ता नागदन्ताः ॥ १ ॥ दन्तप्रतिकृतयो दन्तकाः ॥२॥७॥ ___ मत्तालम्बोऽपाश्रयः स्यात् प्रग्रीवो मत्तवारणे ।
मत्तैः प्रमादिभिरालम्ब्यते मनालम्बः ॥ १॥ अपाश्रीयतेऽपाश्रयः ॥२॥ प्रसृता प्रीवाऽत्र प्रीवः पुंक्लीवलिङ्गः ॥ ३ ॥ मत्तान् वारयति मत्तवारणस्तत्र ॥४॥
वातायनो गवाक्षश्च जालके वातस्य अयनं मार्गोऽस्मिन् वातायनः पुंक्लीबलिङ्गः ॥१॥ गोरक्षीव गवाक्षः, " अक्ष्णोऽप्राण्यङ्गे" ॥ ७ । ३ । ८५ ॥ इत्यः समासान्तः, “गोर्नाम्न्यवोऽक्षे" ॥ १।२।२८ ॥ इत्यवादेशः ॥२॥ जलति जालं ज्वलादित्वात् णः, के जालकं तत्र ॥ ३ ॥
___ अथान्नकोष्टकः कुसूलः ॥ ७८ ॥
कुष्णाति कोष्टः, “कुषेर्वा ॥ ( उणा-१६४ ) ॥ इति टः, अन्नस्य कोष्टोऽन्नकोष्टकः ॥ १॥ 'कुसच संश्लेषे दन्त्यान्तः' कुस्यति धान्येन कुसूलः, "कुलपुलकुसिभ्यः कित्" ॥ (उणा- ४९०) ॥ इत्यूलः, तालव्यमध्योऽप्ययम् ॥२॥७८॥
अश्रिस्तु कोणोऽणिः कोटिः पाल्यस्र इत्यपि ।
Page #404
--------------------------------------------------------------------------
________________
४०४.
भभिधानचिन्तामणौ-...
अश्नुतेऽधिः स्त्रीलिङ्गः, " तङ्किवकि." ॥ (उणा-६९२)॥ इति रिः ॥१॥ कुणति कोणो गृहादेविदिक् ॥ २ ।। अणत्यणिः पुंस्त्रीलिङ्गः ॥ ३ ॥ कुटति कोटिः स्त्रीलिङ्गः ॥ ४ ॥ पलति पालिः, “कृशकुटि-" ॥ (उणा- ६१९)॥ इति णिदिः, यां पाली ॥ ५ ॥ अस्यतेऽस्मिन् अस्रः, “भीवृधि." ॥ ( उणा-३८७)॥ इति
आरोहणं तु सोपानं
आरुह्यतेऽवरुह्यते चाऽनेन आरोहणम् ॥१॥ सह उपानमन्त्यस्मिन् सोपानम् , पृषोदरादित्वात् ॥ २॥
निःश्रेणिस्त्वधिरोहणी ॥ ७९ ॥ - निःश्रयति भित्तिं निःश्रेणिः स्त्रीलिङ्गः, "कावावी" ॥ ( उणा-६३४)॥ इत्याणिः, नियोजिता श्रेणिः सोपानपतिरत्रेति वा ॥ १ ॥ अधिरोहन्त्यवरोहन्ति चाऽनया दारुमय्या अधिरोहणी ॥ २ ॥ ७९ ॥
स्थूणा स्तम्भः तिष्ठति अस्यामाधेयं स्थूणा, “स्थाक्षुतोरूच्च" ॥ ( उणा- १८५ ) ॥ इति णः ॥ १॥ स्तम्भ्यते स्तम्भः ॥२॥
सालभञ्जी पाञ्चालिका च पुत्रिका ।
काष्ठादिघटिता सालं वृक्षं भनक्ति तनिर्मितत्वात् सालभजी ॥ १ ॥ पञ्च्यते "ऋकृमृ." ॥ ( उणा- ४७५ ) ॥ इत्याले पञ्चाली ततः स्वार्थे आणि के च पाञ्चालिका ॥२॥ कृत्रिमा पुत्री पुत्रिका काष्ठदन्तादिमयी ॥ ३ ॥
लेप्यमयी त्वञ्जलिकारिका ॥ ८ ॥ ... लेप्यनिर्मिता पुत्रिका ॥१॥ अञ्जलिं करोति अञ्जलिकारिका ॥२॥४०॥
नन्द्यावर्त्तप्रभृतयो विच्छन्दा आब्यवेश्मनाम् । नन्दी आवतॊऽत्र नन्द्यावर्त्तः प्रभृतिग्रहणात् स्वस्तिक-सर्वतोभद्राद्याः ॥१॥ विशेषेण छन्दयन्त्याच्छादयन्ति विच्छन्दा रचनाविशेषाः ॥ १॥
समुद्गः सम्पुटः समुज्यते समुद्गः, घजिन्यक्वादित्वात् निपात्यते, समुद्गच्छनीति वा "क्वचित्" ॥५।१ । १७१ ॥ इति डः ॥ १॥ सम्पुट्यते श्लेष्यते सम्पुटो भूषणाद्यावपनम् , पुटोऽपि ॥२॥
Page #405
--------------------------------------------------------------------------
________________
४ भूमिकाण्डः ।
४०५
पेटा स्याद् मञ्जूषा पेटति पेटा, पेटकोऽपि 'पीडण् गहने' इत्यस्य पेडेत्यमरः ॥ १॥ 'मजिः सौत्रः ' मजति मञ्जूषा, “खलिफलि." ॥ (उणा-५६० ) ॥ इत्यूषः, मञ्जु मनोज्ञं कृत्वा वस्त्राद्यैरुष्यतेऽत्रेति वा ॥ २ ॥
अथ शोधनी ॥ ८१ ॥ संमार्जनी बहुकरी वर्धनी च समूहनी ।
शोध्यते निर्मलीक्रियते गृहमनया शोधनी, पवनी अपि ॥१॥८१॥ संमृ. ज्यतेऽनया संमार्जनी ॥ २ ॥ बहु करोति बहुकरी पुंस्त्रीलिङ्गः ॥ ३ ॥ वर्धते श्रीरनया वर्धनी ॥ ४ ॥ समुह्यते रजोऽनया समूहनी ॥ ५ ॥
सङ्कराऽवकरौ तुल्यौ समुह्य कीर्यतेऽसौ सङ्करः ॥ १ ॥ अवकीर्यते बहिः क्षिप्यतेऽवकरः ॥ २ ॥
उदूखलमुलूखलम् ॥ ८२ ॥ ऊर्ध्वं खं बिलं वाऽस्य उदूखलम्, उलूखलम् , कण्डनभाण्डं पृषोदरादित्वात साधू ॥१॥ २ ॥ ८२॥
प्रस्फोटनं तु प्रवनम् प्रस्फोठ्यते असारं बहिष्क्रियते प्रस्फोटनं निर्बुसीकरणम् ॥ १॥ पूयते पवनं तुषादिशोधनम् ॥ १॥
अवघातस्तु कण्डनम् । मुसलेन अवहननमवघातः ॥ १ ॥ कण्ड्यते कण्डनम् ॥ २॥ - कटः किलिञ्जः
कटति आवृणोति कटो वीरणादिनिर्मितः त्रिलिङ्गः ॥१॥ किल्यते क्षिप्यतेऽस्मिन् किलिजः, उटजादौ निपात्यते ॥ २ ॥
मुसलोऽयोऽयं - मुस्यते खण्ज्यतेऽनेन मुसलः, "तृपिवपि-" ॥ (उणा-४६८)॥ इति किदलः, मुहुः खनं लाति, मुहुर्मुहुर्लसतीति वापृषोदरादित्वात् ॥१॥ अयः अग्रे मुखे अस्य अयोऽप्रम् , पुक्लीबलिङ्गी, अयोनिरित्येके, यद्वैजयन्ती- “अयोनिर्मुसलोऽस्त्री स्यात्" इति ॥ २॥
१ श्रीवर्णनिर्देशनाकारस्तु मूर्धन्यमध्योऽप्ययम्, इति श्रीवल्लभगणिपादाः ।
Page #406
--------------------------------------------------------------------------
________________
४०६
अभिधानचिन्तामणौ
कण्डोलकः पिटम् || ८३ ॥
कण्ड्यते कण्डोलः, “ कटिपटि " ॥ ( उणा - ४९३) ॥ इत्योलः, के कण्डोलकः ॥ १ ॥ पेटति पिटम्, पुंक्लीबलिङ्गः, वंशदलादिमयं भाण्डम् के पिटकोऽपि ॥ २ ॥ ॥ ८३ ॥
चालनी तितउः
चाल्यतेऽनया चालनी क्षुद्रच्छिद्रशतोपेतं परिपवनं स्त्रीक्लीबलिङ्गः ॥ १ ॥ तनोति सारं तितउः पुंक्लीबलिङ्गः, “तनेर्डउः " ॥ ( उणा - ७४८ ) । इति ङउः सन्वद्भावश्च ॥ २ ॥
शूर्प प्रस्फोटनम्
शीर्यतेऽनेन शूर्पम्, “कृशृसृभ्य ऊर्चान्तस्य " ॥ ( उणा - २९८ ' शूर्पण माने ' इत्यस्य वा ॥ १ ॥ प्रस्फोट्यतेऽनेन प्रस्फोटनं धान्यादिनिष्पवनभाण्डमित्यर्थः ॥ २ ॥
अथाऽन्तिका ।
चुल्ल्यऽश्मन्तकमुद्धानं स्याद् अधिश्रयणी च सा ॥ ८४ ॥
अन्तोऽस्त्यऽस्यामन्तिका, “अन्त्यधिश्रयणी भवेत्” इति तु माला ॥ १ ॥ चुल्लति चुलि:, "किलपिलि"" ॥ ( उणा - ६० [ - ६०८ ) ॥ इति इ: ड्यां चुल्ली ॥ २ ॥ अश्नुतेऽश्मन्तम्, “सीमन्त " || ( उणा - २२२ ) ॥ इत्यन्ते निपात्यते केऽश्मन्तकम् ॥ ३ ॥ उद्धीयतेऽनेन उद्धानम् ॥ ४ ॥ अधि श्रीयतेऽस्यामधिश्रयणी ॥ ५ ॥
11 28 11
८ ) ॥ इति प
पुंक्खी बलिङ्गौ,
स्थाल्युखा पिठरं कुण्डं चरुः कुम्भी
तिष्ठत्यस्यां स्थाली, “स्थो वा " ॥ ( उणा - ४७३) ॥ इत्यल:, स्थलतिइति
66
उषेः किद् लुक्
वा ज्वलादित्वाद् णः ॥ १ ॥ उषन्ति पचन्त्यस्यामुखा, ॥ उणा-८८) ॥ इति खः, ओखतीति वा ॥ २ ॥ " मृयुन्दि - " ॥ ( उणा - ३९९ ) ॥ इति किदरः ॥ ३ ॥
८८
,, कुगुहु- ॥ (उणा-१७०) ॥ इति डः, त्रिलिङ्गावेतौ ॥ ४ ॥
क्लेदमनेन चरुः, पुंलिङ्गः "मिवहि
कायति कुम्भी, काकुसिभ्यां
भिन्नार्थावित्येके ॥ ६ ॥
"C
""
पिठ्यते अत्र पिठरम्, कुणति उपकरोति कुण्डम्,
"
॥ ( उणा - ७२६ ) ॥ इत्युः ॥ ५ ॥
""
॥ ( उणा - ३३७ ) ॥ इति कुम्भः द्वौ द्वौ
घटः पुनः ।
कुटः कुम्भः करीरश्च कलश: कलसो निपः ॥ ८५ ॥
Page #407
--------------------------------------------------------------------------
________________
४ भूमिकाण्डः ।
घटते घटः पुंस्त्रीलिङ्गः ॥१॥ कुटति कुटः पुंक्लीबालङ्गः ॥२॥ कायत्यम्भसा भ्रियमाणः कुम्भः पुंस्त्रीलिङ्गः, " काकुसिभ्यां- " ॥ (उणा-३३७) ॥ इति कुम्भः, कैरुम्भ्यते वा पृषोदरादित्वात् ॥ ३ ॥ कीर्यते करीरः पुंक्लीबलिङ्गः, “ कृशृप." ॥ ( उणा-४१८) ॥ इतरिः ॥ ४ ॥ कलते संख्याति शब्दायते वा कलशः, "कलोप्टत्" ॥ ( उणा- ५३२ ) ॥ इत्यशः ॥ ५॥ केन जलेन लसति कलसः त्रिलिङ्गाविमौ ॥६॥ निपिबन्त्यस्माद् निपः पुंक्लीवलिङ्गः, स्थादित्वात् कः ॥७॥८५॥
हसन्यङ्गारात् शकटीधानीपात्र्यो हसन्तिका । हसत्यनारैहसनी ॥ १ ॥ अङ्गारशब्दात् शकटीधानीपात्र्यः, अङ्गाराणां शकटी अङ्गारशकटी ॥ २ ॥ अङ्गारा धीयन्तेऽस्यामङ्गारधानी ॥ ३ ॥ अङ्गाराणां पात्री अङ्गारपात्री ॥ ४ ॥ अङ्गारैर्हसतीवं हसन्ती. के हसन्तिका ॥ ५ ॥
भ्राप्ट्रोऽम्बरीषः भृज्यतेऽस्मिन् भ्राष्ट्रः, “ जिभृसभ्रस्जि-"॥ ( उणा- ४४७. ) ॥ इति त्रट वृद्धिश्च ॥ १ ॥ अम्यतेऽम्बरीषः, “अमेर्वरादिः" ॥ (उणा- ५५५ ) ॥ इतीषः पुंक्लीबलिङ्गावेतौ ॥ २ ॥
ऋचीषमृजीषं पिष्टपाकभृत् ॥ ८६ ॥ ___ ऋच्यते स्तूयते पाकोत्कर्षाद् ऋचाषम् , “ऋजिश." ॥ ( उणा- ५५४ ) । इति बहुवचनादीषः ॥ १ ॥ ऋज्यते ऋजीषम् , “ऋजिशृ." ॥ (उणा- ५५४)। इति. किदीषः, पिष्टकृतस्य भक्ष्यस्य पाकं बिभर्ति पिष्टपाकभृद् भाजनविशेषः ॥ २ ॥ ॥ ८६ ॥
कम्बिदविः खजाका काम्यते कम्बिः, “छविछिवि-" ॥ ( उणा- ७०६ ) ॥ इति वौ निपात्यते ॥१॥ दृणाति पाक्यं दर्विः, "दृपृवृभ्यो विः” ॥ ( उणा- ७०४ ) ॥स्त्रीलिङ्गावेतौ ॥ २ ॥ खजति मथ्नाति खजाका, “शलिबलि-" ।। ( उणा- ३४ ) ॥ इत्याऽऽकः ॥ ३॥
अथ स्यात् तर्दूारुहस्तकः । तरति पाक्येषु तः, स्त्रीलिङ्ग, “ तृदृभ्यां-" ॥ (उणा-८४६) ॥ इति दुः, दारुमयो हस्तप्रतिकृतिर्दारुहस्तकः परिवेषणभाण्डम् ॥ १ ॥
वार्धान्यां तु गलन्त्यालूः कर्करी करकः · वाः पानीयं धीयतेऽस्यां वार्धानी तत्र ॥ १ ॥ गलति अम्भोऽस्यां गलन्ती, “सीमन्त-" ॥ ( उणा- २२२ ) ॥ इत्यन्ते निपात्यते ॥ २ ॥ अडत्यनया आलः
Page #408
--------------------------------------------------------------------------
________________
४०८
अभिधानचिन्तामणी- ..
स्त्रीलिङ्गः, "अडों ल च वा" ॥ (उणा-८३७) ॥ इति णिदूः ॥ ३ ॥ किरत्यम्भः कर्करी, " ऋतष्टित् ” ॥ ( उणा- ९) ॥ इत्यप्रत्ययः सरूपद्वित्वं च ॥ ४ ॥ "दृक-" ॥ ( उणा- २७ ) ॥ इत्यके करकः, पुंक्लीबलिङ्गः ॥ ५ ॥
अथ सः ॥ ८७ ॥
नालिकेरजः करङ्कः स करङ्कः ॥ ८७ ॥ नालिकेरफलाद् जातो नालिकेरजः, किरत्यम्बु करङ्कः "किरोऽङ्को." ॥ ( उणा- ६२ ) ॥ इत्यङ्कः ॥ १ ॥
तुल्यौ कटाहकपरौ। कटत्यावृणोति कटाहः त्रिलिङ्गः, “वृकटि." ॥ ( उणा ५९१ ) ॥ इत्याहः ॥१॥ कीयते कर्परः, “जठर-" ॥ ( उणा-४०३ ) ॥ इत्यरे निपात्यते ॥ २ ॥
माणकोऽलिञ्जरः मणत्यम्भसा त्रियमाणो मणिः, “पदिपटि." ॥ (उणा-६०७) ॥ इति. इः, यत् शाश्वतः-"अलिञ्जरं मणिं विद्याद् महनावयवा मणिः,” स्वार्थे के मणिकः ॥१॥ अलं जरयति जलमलिजरः पुंक्लाबलिङ्गो, पृषोदरादित्वात् ॥ २ ॥
गर्गरीकलश्यौ तु मन्थनी ॥ ८८ ॥ गिरति दधि गर्गरी, "ऋतष्टित्." ॥ ( उणा- ९ ) ॥ इत्यप्रत्ययः सरूपद्वित्वं च ॥ १॥ कल्यते कलाशिः ड्या कलशी, कस्य अम्भसो राशिरत्रेति वा पृषोदरादित्वात् ॥ २ ॥ मथ्यते दध्यस्यां मन्थनी ॥ ३ ॥ ॥८८ ॥
वैशाखः खजको मन्था मन्थानो मन्थदण्डकः ।
मन्थः क्षुब्धः विशाखा प्रयोजनमस्य वैशाखः, " विशाखापाढान् मन्थदण्डे" ॥ ६ ॥ ४। १२० ॥ इत्याणि विशाखस्य अयमिति वा, विशिष्टा शाखा अस्य विशाखस्ततः स्वार्थेऽण वा ॥१॥ खजति मथ्नाति खजकः, "कीचक." ( उणा-३३)। इत्यके निपात्यते, खजः खजकोऽपि ॥२॥ मथ्यतेऽनेन मन्थाः, "पन्थिमन्थिभ्याम्" ॥ (उणा-९२६) ॥ इतन् ॥ ३ ॥ " संस्तुस्पृशि-" ॥ ( उणा-२७६ ) । इत्यानेन मन्थानः ॥ ४ ॥ मन्थनाय दण्डः मन्थदण्डः ॥ ५॥ मथ्यतेऽनेन मन्थः ॥६॥ क्षुभ्नाति क्षुब्धः, "क्षुब्धावारब्ध." ॥४ । ४ । ७० ॥ इति के माधुः ॥ ७ ॥
अन्य विष्कम्भो मञ्जीरः कुटरोऽपि च ॥ ८९ ।।
Page #409
--------------------------------------------------------------------------
________________
४ भूमिकाण्डः ।
४०९
अस्य मन्थस्य विष्कम्नाति बध्नातीति विष्कम्भो दण्डकटकः, यस्मिन् बद्ध्वा मन्थ आकृष्यते, दण्डकरोटकमित्यन्ये ॥ १॥ 'मञ्जिः सौत्रः' मञ्जति मीरः, “ कृशप-" ॥ ( उणा-४१८) ।। इतीरः ।। २ ॥ कुटति कुटरः, "ऋच्छिचटि." ॥ ( उणा- ३९७) ॥ इत्यरः कुटादित्वाद गुणाऽभावः कुटकोऽपि, मंदीरम्' देश्याम् ॥३॥॥ ८९ ॥
शालाजीरो वर्धमानः शरावः __ शालायां जीर्यति शालाजीरः, पृषोदरादित्वात् ॥ १ ॥ वर्धते मृपिण्डाद् वर्धमानः, वय॑ते छेद्यते चक्रादिति वा ॥ २ ॥ शीर्यते मनागपि आघातेन शरावः, “शृणातरावः" ।। ( उणा- ५२० ) ॥ पुंक्लाबलिङ्गावेतौ ॥ ३ ॥
कोशिका पुनः ।
मल्लिका चषकः कंसः पारी स्यात् पानभाजनम् ॥ ९० ॥ कुश्यति कोशिका ॥ १ ॥ मल्लते मल्लिका ॥ २ ॥ चषन्ति अनेन चषकः ॥ ३ ॥ काम्यते कंसः, “ मावावद्य." ॥ (उणा-५६४) ॥ इति सः पुंक्लीबलिङ्गावेतौ ॥ ४ ॥ पारयति पारी ॥ ५ ॥ पानस्य भाजनं पानभाजनम् ॥६॥९०॥
कुतूश्चर्मस्नेहपात्रम् .
चर्मणः स्नेहपात्रं कुत्सितं तन्यते कुतू : स्त्रीलिङ्गः, " भ्रभिगमि-" ॥ (उणा-८४३) ॥ इति डिदूः ॥ १ ॥
कुतुपस्तु तदल्पकम् । तत् चर्मस्नेहपात्रं ह्रखा कुतूः कुतुपः, पुंक्लीबलिङ्गः,"कुत्वा डुपः ॥७॥३॥४९॥१॥
दृतिः खल्लः द्रियते इतिः पुंलिङ्गः, "हमुषि-" ॥(उणा-६५१)॥ इति कित् तिः ॥ १॥ खलति खल्लः, “भिल्लाच्छभल्ल.” ॥ (उणा-४६४) ॥ इति ले निपात्यते पुंलिङ्गोऽयम् , . वैजयन्ती तु. "खल्लं क्लीबम्" इत्याह ॥ २ ॥
चर्ममयी त्वालः करकपात्रिका ॥ ९१ ॥ करकवत् पिबन्त्यनया करकपात्री, के करकपात्रिका ॥ १ ॥ ९१ ॥
सर्वमावपनं भाण्ड
आ उप्यते आधेयमस्मिन्नावपनम् ॥१॥ भामतेऽस्माद् भाण्डम् , “पञ्चमाद्." ॥ (उणा-१६८) ॥ इति डः ॥ २ ॥
पात्राऽमत्रे तु भाजनम्
Page #410
--------------------------------------------------------------------------
________________
४१०
अभिधानचिन्तामणौ
पाति आधेयम् , पीयतेऽस्मादिति वा पात्रं त्रिलिङ्गः॥१॥ अमति आधेयमम्मिन् अमत्रम् , “वृनक्षि-" ॥ (उणा- ४५६) । इत्यत्रः ॥ २ ॥ भाज्यतेऽस्मिन्नाधेयमिति भाजनम् , अमरस्तु-आवपनादीन् पञ्चाऽप्येकार्थानाह ॥ ३ ॥
ताद्विशालं पुनः स्थालं तद् भाजनं विस्तीर्ण स्थलति स्थालं स्त्रीक्लीबलिङ्गः, ज्वलादित्वात् णः, तिष्ठति अत्रेति वा ॥ १ ॥
स्यात् पिधानमुदञ्चनम् ॥ ९२ ॥ पिधीयतेऽनेन पिधानम् ॥ १ ॥ उदच्यतेऽनेन उदञ्चनम् ॥ २ ॥ ९२ ॥
शैलोऽद्रिः शिखरी शिलोच्चयगिरी गोत्रोऽचलः सानुमान्
प्रावा पर्वतभूध्रभूधरधराहार्या नगः शिलानामयं शैलः, शिलाः सन्त्यत्रेति वा ज्योत्स्नादित्वादण् ॥ १ ॥ अद्यते वज्रेण अद्रिः, "तङ्किवति." ॥ ( उणा-६९२ ) ॥ इति रिः ॥ २ ॥ शिखराणि. सन्त्यत्र शिखरी ॥ ३ ॥ शिलानामुच्चयोऽत्र शिलोच्चयः ॥ ४ ॥ गीर्यते गिरिः, "नाम्युपान्य-" ॥ (उणा-६०९) ॥ इति किः ॥ ५ ॥ गां पृथ्वी त्रायते गोत्रः ॥ ६ ॥ न चलति अचलः ॥ ७ ॥ सानूनि सन्त्यस्य सानुमान् ॥ ८ ॥ गृह्णाति प्रावा, "प्रहेरा च" ॥ (उणा-९०५) ॥ इति वन् ॥ ९ ॥ पळते पूर्यते शिलाभिः पर्वतः, "दृपृभृ-" ॥ (उणा-२०७) ॥ इत्यतः, पर्वाणि सन्त्यत्रेति वा “ मरुत्पर्वणस्तः" ॥ ७॥२।१५ ॥ १० ॥ भुवं धरति भूध्रः मूलविभुजादित्वात् कः, यौगिकत्वात् कुध्र-महीध्रादयः, “आयुधादिभ्यः” ॥ ५।१।९४ ॥ इत्यपि भूधरः, यौगिकत्वात् महीधर-भूभृदादयः ॥ ११ ॥ १२ ॥ धरति ध्रियते वा धरः ॥ १३ ॥ हमशक्योऽहार्यः ॥ १४ ॥ न गच्छति स्थावरत्वाद् नगः, “नगोऽप्राणिनि वा" ॥ ३।२।१२७ ॥ इति वा नोऽदभावः, अगोऽपि ।। १५ ॥
शेषश्चात्रगिरौ प्रपाती कुट्टार उर्वङ्गः कन्दराकरः ।"
अथोदयः ।
पूर्वाद्रिः उदयत्यत्रोदयः ॥ १ ॥ पूर्वश्वासावद्रिश्व पूर्वादिः ॥ २ ॥
चरमादिरस्तः चरमः पश्चिमोऽद्रिश्वरमाद्रिः ॥१॥ अस्यत्यादीन् , अस्यते वाऽस्तः, “दम्य
Page #411
--------------------------------------------------------------------------
________________
४ भूमिकाण्डः ।
४११
मि-" ॥ ( उणा- २०० ) ॥ इति तः ॥ २ ॥
उदगद्रिस्त्वद्रिराड् मेनका
प्राणेशो हिमवान् हिमालयहिमप्रस्थौ भवानीगुरुः ॥९३ ॥ उदङ् उत्तरोऽदिरुदगद्रिः ॥ १ ॥ अद्रीणां सजा अद्रिराट् ॥ २॥ मेनकायाः प्राणेशो वल्लभो मेनकाप्राणेशः ॥३॥ हिममस्त्यस्मिन् हिमवान् ॥ ४ ॥ हिमस्याऽsलयो हिमालयः ॥ ५ ॥ हिमं प्रतिष्ठतेऽस्मात् , हिमं प्रस्थे अस्य वा हिमप्रस्थः॥६॥ भवान्या गौर्या गुरुः पिता भवानीगुरुः ॥ ७ ॥ ॥९३॥
हिरण्यनाभो मैनाकः सुनाभश्च तदात्मजः । हिरण्यं नाभावस्य हिरण्यनाभः, "नाभेर्नानि" ॥ ७॥३।१३४ ॥ इत्य समासान्तः ॥१॥ मेनकाया अपत्यं मैनाकः, पृषोदरादित्वात् ॥ २॥ शोभना नाभिरस्य सुनाभः, तस्य हिमालयस्यात्मजः तदात्मजः ॥ ३ ॥
रजताद्रिस्तु कैलासोऽष्टापदः स्फटिकाचलः ॥ ९४ ॥ रजतमयोऽद्रिः रजताद्रिः ॥ १॥ कं जलं इला भूमिस्तयोरास्ते, के लसनमस्य वा केलासः स्फटिकस्तस्यायं कैलासः, ॥ २ ॥ अष्टौ पदानि सन्त्यस्मिन् अष्टापदः, "नाम्नि" ॥३।२।७५॥ इति दीर्घः ॥ ३ ॥ स्फटिकमयोऽचलः स्फटिकाचलः ॥ ४ ॥ ॥ ९४ ॥ शेषश्वात्र-कैलासे धनदावासो हराद्रिर्हिमवद्धसः ।
क्रौञ्चः क्रुञ्चः क्रुञ्चति कुञ्चः प्रज्ञा द्यणि क्रौञ्चः, कौञोऽपि ॥ १ ॥२॥
अथ मलय आषाढो दक्षिणाचलः । मलते चन्दनान् मलयः पुंक्लीबलिङ्गः, "कुगुवलि." ॥ (उणा-३६५) ॥ इत्ययः ॥१॥ आषाढासु जातः आषाढः, "श्रविष्ठाषाढा-" ॥ ६।३।१०५ ॥ इत्यत्र मतान्तराश्रितोऽण् ॥ २ ॥ दक्षिणश्वासावचलश्च दक्षिणाचलः ॥ ३ ॥ शेषश्चात्र-मलयश्चन्दनगिरिः
स्याद् माल्यवान् प्रस्रवणः माल्याऽऽकारताऽस्ति अस्य माल्यवान् ॥१॥ प्रस्रवति निर्झरैः प्रस्रवणः ॥२॥
विन्ध्यस्तु जलवालकः, ॥ ९५ ॥ विध्यति विन्ध्यः, “शिक्याऽऽस्याऽऽद्य” ॥ (उणा-३६४) ॥ इति ये
Page #412
--------------------------------------------------------------------------
________________
४१२
अभिधानचिन्तामणौ
निपात्यते ॥ १ ॥ जलेन वाडते आप्लावयति जलवालकः ॥ २ ॥ ९५ ॥
शत्रुञ्जयो विमलाद्रिः
शत्रून् जयति शत्रुञ्जयः, “भृत्रुजि " ॥ ५।१।११२ ॥ इति खः ॥ १ ॥ विमलश्चासावद्रिश्च विमलाद्रिः ॥ २ ॥
इन्द्रकीलस्तु मन्दरः ।
इन्द्रेण कील्यते इन्द्रकीलः ॥ १ ॥ मन्द्यते मन्दरः, "ऋच्छिवटि " ॥ (उणा - ३९७) ॥ इत्यरः
सुवेलः स्यात् त्रिमुकुटस्त्रिकूटस्त्रिककुच्च सः ॥ ९६ ॥
शोभना वेलाऽस्य आसन्नपयोधित्वात् सुवेलः ॥ ॥ त्रयो मुकुटभूताः कूटाअस्य त्रिमुकुटः ॥ १ ॥ त्रीणि कूटान्यस्य त्रिकूटः ॥ ३ ॥ त्रीणि ककुदानि ककुदाकाराणि शिखराण्यस्य त्रिककुत्, “त्रिककुद् गिरौ” ॥ ७ । ३ । १६८ ॥ इति ककुदादेशः ॥ ४ ॥ ९६ ॥ उज्जयन्तो रैवतकः
उज्जयतीति उज्जयन्तः, “तृजि - " ॥ ( उणा - २२१ ) ॥ इत्यन्तः ॥ १ ॥ वन्यते स्म वतः राया सुवर्णेन वतो रैवतः के रैवतकः, रैवताः सन्त्यत्रेति वा अरीहणादित्वाच्चातुरर्थिकोऽण् ॥ २ ॥
सुदारुः पारियात्रकः ।
शोभनानि दारूण्यस्मिन् सुदारुः ||१|| परितो यात्रायां भवः स्वाऽऽरोहत्वात् पारियात्रकः ॥ २ ॥
लोकालोकश्चक्रवाल:
अन्तर्लोक्यते अस्य बाह्यं च न लोक्यतेऽनर्कत्वाद् लोकालोकः, यत्कालिदासः" प्रकाशश्चान्धकारश्च लोकालोक इवाऽचलः” इति ॥ १ ॥ चक्राऽऽकारेण वलति वाडते वा चक्रवालः, आवेष्ट्य द्वीपान्धीन् स्थितो ह्यसाविति प्रसिद्धिः ॥ २ ॥ ९६ ॥ अथ मेरुः कर्णिकाचलः ॥ ९७ ॥
रत्नसानुः सुमेरुः स्वः-स्वर्गि-काञ्चनतो गिरिः ।
,,
मिनोति क्षिपत्युच्चत्वाद् ज्योतींषि इति मेरुः, “चिनीपी - " ।। ( उणा - ८०६ ॥ इति रुः ।। १ ।। जम्बूद्वीपपद्मस्य कर्णिकाभूतोऽचलः कर्णिकाचलः ॥ २ ॥ ९७ ॥ रत्नानि सानुष्वस्य रत्नसानुः || ३ || सुमेरुमैरोरभिन्नाऽर्थः इन्द्र महेन्द्रवत् ॥ ४ ॥
Page #413
--------------------------------------------------------------------------
________________
४ भूमिकाण्ड: ।
""
लोकालोकश्चक्रवाल:
अन्तर्लोक्यतेऽस्य, बाह्यं च न लोक्यतेऽनर्कत्वात् लोकालोकः, यत्कालिदासःप्रकाशश्वान्धकारश्च लोकालोक इवाऽचलः " इति ॥ १ ॥ चक्राकारेण वलति चाडते वा चक्रवाल:, आवेष्ट्य द्वीपान्धीन् स्थितो ह्यसाविति प्रसिद्धिः ॥ २ ॥
अथ मेरुः कर्णिकाचलः ॥ ९७ ॥
रत्नसानुः सुमेरुः खः-खर्गि - काञ्चनतो गिरिः ।
४१३
मिनोति क्षिपत्युच्चत्वाज्ज्योतींषीति मेरुः, चिनीपी- " ॥ ( उणा८०६ ) ॥ इति रुः ॥ १ ॥ जम्बूद्वीपपद्मस्य कर्णिकाभूतोऽचलः कर्णिकाचलः ||२||९७॥ रत्नानि सानुष्वस्य रत्नसानुः ||३|| सुमेरुमेरोरभिन्नार्थः, इन्द्रो महेन्द्रवत् ॥ ४ ॥ स्वः स्वर्गि-काञ्चनशब्देभ्यो गिरिः- स्वर्गिरिः स्वर्गिरिः ॥ ५ ॥ स्वर्गिणां गिरिः स्वfर्गगिरिः ॥ ६ ॥ काञ्चनस्य गिरिः काञ्चनगिरिः ॥७॥ सर्वाणि पर्वतनामानि पुंलिङ्गानि ॥
"
८८
शृङ्गं तु शिखरं कूटं
""
शीर्यते निघातेन शृङ्गम्, शृङ्गशा- ॥ ( उणा - ९६ ) ॥ इति गे निपात्यते ॥ १ ॥ शाखति व्याप्नोति गगनं शिखरम्, “शाखेरिदेतौ चातः” ॥ (उणा) ॥ इत्यरः ॥ २ ॥ कूट्यते दह्यतेऽर्क- दावाभ्यां कूटम्, त्रयः पुंक्लीबलिङ्गाः ॥ ३ ॥
४००
प्रपातस्त्वतो भृगुः ॥ ९८॥
प्रपतन्त्यस्मात् प्रपातः, “ व्यञ्जनाद् घञ् " ॥ ५|३|१३२॥१ ॥ तटशून्योऽतटः ॥ २ ॥ भृज्यते दवेन भृगुः, पुंलिङ्गः " स्पशिभ्रस्जेः स्लुक् च ” ॥ ( उणा७३१ ) ॥ इति किदुः | " प्रपत्यते यस्मात् तटात् स भृगुः ” इत्येके ॥ ३ ॥ ९८ ॥ मेखला मध्यभागोऽद्रेर्नितम्बः कटकश्च सः ।
-४९७ ) u
अद्रेर्मध्यभागो मिनोति मेखला, "मिगः खलश्चैच्च” ॥ ( उणा - ४ ॥ ( उणा - ३१७) |
इति खलः ॥ १ ॥ नितरां तनोति नितम्बः, “वलिनितनिभ्यां इति बः ॥ २ ॥ कटकत्यावृणोति कटकः, पुंक्लीबलिङ्गः ॥ ३ ॥
दरी स्यात् कन्दरः
दीर्यते दरी ॥ १ ॥ कन्दन्ते विप्लवन्तेऽस्मिन् कन्दरः, त्रिलिङ्गः, "ऋच्छि चटि-” ॥ ( उणा-३९७ ) ॥ इत्यरः, कं दीर्यते, कं दृणातीति वा, कन्दाः सन्त्यत्र वा, अश्मादित्वाद् रः ॥ २ ॥
अखातबिले तु गह्वरं गुहा ॥ ९९ ॥
५३
Page #414
--------------------------------------------------------------------------
________________
४१४
भभिधानचिन्तामणौ- .
अखातमकृतकं यद् बिलं तत्र गृहति गाह्यते वा गह्वरम् , पुंक्लीबलिङ्गः, "तीवर." ॥ (उणा-४४४)॥ इति वरटि निपात्यते, गह्वाः सन्यत्र वा, अश्मादित्वाद् रः ॥.१ ॥ गुह्यतेऽनया गुहा, भिदादित्वादङ् ॥ २ ॥ ९९ ॥
द्रोणी तु शैलयोः सन्धिः द्रवन्त्यस्यां द्रोणी, द्रुणतीति वा, पर्वतयोः संश्लेषभूमिः ॥ १॥
पादाः पर्यन्तपर्वताः । पादा इव अधःस्थत्वाद् धारणत्वाच्च पादाः, मुख्यशैलान्ते क्षुद्रपर्वताः ॥१॥
दन्तकास्तु बहिस्तिर्यप्रदेशा निर्गता गिरेः ॥ १० ॥ दन्तप्रकृतयो दन्तकाः ॥ १॥
अधित्यकोर्ध्वभूमिः स्यात् .. पर्वतमधिरूढा ऊर्श्वभूमिरधित्यका, “उपत्यकाधित्यके” ॥ ७॥१।१३१॥ इति साधुः ॥१॥
.. अधोभूमिरुपत्यका। पर्वतस्याऽऽसन्ना अधोभूमिरुपत्यका ॥ १ ॥
स्नुः प्रस्थं सानुः ।
नौत्यम्भः स्नुः पुंलिङ्गः, पृषोदरादित्वात् ॥ १॥ प्रतिष्ठन्तेऽस्मिन् समभूभागत्वात् प्रस्थम् ॥ २ ॥ सनति मृगादीन् , सुनोति सुखं वा सानुः, “कृवापाजि-" ॥ ( उणा- १)॥ इत्युण् , पुंक्लीबलिङ्गावेतौ ॥ ३ ॥
अश्मा तु पाषाणः प्रस्तरो दृषद् ॥ १०१ ॥
मावा शिलोपलः अश्नुतेऽश्मा पुंलिङ्गः, “मन्” ॥ ( उणा- ९११ ) ॥ इति मन् ॥ १॥ पषति बाधते पादौ पाषाणः, “पषो णित्" ॥ ( उणा-१९२) ॥ इत्याणः ॥२॥ प्रस्तार्यते प्रस्तरः ॥ ३ ॥ दृणाति दीर्यते वा दृषत् , स्त्रीलिङ्गः, "द्रो ह्रखश्च" ॥ ( उणा- ८९८)। इति सद् ॥४॥१०१॥ “प्रहेरा च" ॥ (उणा-९०५)॥ इति वन् , पुंलिङ्गः ॥५॥ शिलति शिला ॥ ६ ॥ उप्यते उपलः, पुंक्लीवलिङ्गः, "तृपिवपि." ॥ ( उणा- ४६८) ॥ इति किदलः ॥ ७॥
गण्डशैलाः स्थूलोपलाश्च्युताः । ..........
शैलस्य गण्डा इव गण्डाः, शैला इव वा गण्डशैलाः, गिरेः स्थूलाऽश्मानश्च्युता भूकम्पादिना गलिताः ॥१॥
Page #415
--------------------------------------------------------------------------
________________
४ भूमिकाण्डः ।
४१५ - स्यादाकरः खनिः खानिर्गञ्जा ..
. आकीर्यन्ते धातवोऽस्मिन्नाकरः ॥१॥ खन्यन्ते धातवोऽस्यां खनिः, खानिः, स्त्रीलिङ्गौ "कृशृकुटि." ॥ ( उणा-६१९) ॥ इति वा णिदिः ॥ २ ॥ ३ ॥ गञ्जन्ति शब्दायन्तेऽस्यां गजा, पुंस्त्रीलिङ्गः ॥ ४ ॥
धातुस्तु गैरिकम् ॥ १०२ ॥ दधाति पीतत्वं धातुः, पुंलिङ्गः, “कृसिकमि." ॥ ( उणा- ७७३ ) ॥ इति तुन् ॥ १॥ गिरौ भवं गैरिकम् , अध्यात्मादित्वादिकण् ॥ २ ॥ १०२ ॥ ... शुक्धातौ पाकशुक्ला कठिनी खटिनी खटी।
शुक्लश्चासौ धातुश्च शुक्लधातुस्तत्र ॥१॥ पाके शुक्ला पाकशुक्ला ॥ २ ॥ कठन्त्यनया कठिनी, "श्याकठि-" ॥ ( उणा-२८२) ॥ इतीनः ॥ ३ ॥ खट आ. कासकोऽस्त्यस्याः खटिनी ॥ ४ ॥ खटति खदी, कखटीत्यपि ॥५॥
लोहं काल्पयसं शस्त्रं पिण्डं पारशवं धनम् ॥ १०३ ॥ गिरिसारं शिलासारं तक्ष्णि-कृष्णामिषे अयः ।
लुनाति लोहम् , पुंक्लीबलिङ्गः, "लूगो हः" ॥ (उणा-५८६ ) ॥ लुहेः सौ. त्रस्य वाऽच् ॥ १ ॥ कालं च तदयश्च कालायसम् , “सरोऽनोऽश्मायसोः" ॥ ७३।११५ ॥ इत्यट्समासान्तः ॥२॥ शस्यतेऽनेन शस्त्रम् ॥३॥ पिण्ड्यते पिण्डम् ॥४॥ परशवे इदं परशव्यम् , तस्य विकारः पारशवम् , पुंक्तीबलिङ्गः, “परशव्याद् यलुक् च ॥६॥२॥४०॥ इति अण् ॥५॥ हन्यते धनम् ॥६॥१०३॥ गिरेः सारं गिरिसारम् ॥ ७॥ शिलाया अश्मनः सारं शिलासारम् , यत्स्मृतिः- "अश्मभ्यो लोहमुत्थितम्” एतौ क्लीवे, पुंस्यपि इत्यमरः ॥८॥ तेजयति तेज्यते वा तीक्ष्णम् , "भ्रूणतृण-" ॥ ( उणा- १८६) ॥ इति णे निपात्यते ॥ ९॥ कृष्णेन वस्तुना आमिषति स्पर्धते कृष्णामिषम् ॥ १० ॥ अयते भेद्यमयः, क्लीवलिङ्गः “अस्" ॥ (उणा- ९५२ ) ॥ इत्यस् ॥ ११ ॥ . शेषश्चात्र- स्याल्लोहे धीनधीवरे ॥
सिंहानधूर्तमण्डूरसरणान्यस्य किट्टके ॥ १०४ ॥ .
अस्य लोहस्य ध्मायमानस्य किटके मले हिनस्ति सिंहानम् , पृषोदरादित्वात् ॥१॥ धूर्वति हिनस्ति धूर्तम् , "शीरी-" ॥ ( उणा- २०१)॥ इति कित् तः ॥ २ ॥ मण्उयति मण्डूरम् , “मीमसि." ॥ ( उणा-४२७ ) ॥ इत्यूरः ॥ ३ ॥ सरत्यनेन सरणम् ॥ ४ ॥ १०४ ॥
सर्व च तैजसं लोहं
Page #416
--------------------------------------------------------------------------
________________
४१६
अभिधानचिन्तामणो
तेजसो विकारस्तैजसं हेमाद्यपि, रोहति लोहम् 'क्लीबलिङ्गः, यदाहुः- . . "सुवर्ण रजतं तानं रीतिः कांस्यं तथा त्रपु ।
सीसं च धीवरं चैव अष्टौ लोहानि चक्षते" ॥ १ ॥ शस्त्रं तु विशेषलोहम् ॥ १॥
विकारस्त्वयसः कुशी।
अयसो विकारः कुश्यति कुशी फालः, यच्छाश्वतः-“कुशो दर्भः कुशी फालः" कुत्सितं श्यति इति वा "भाजगोण-" ॥ २।४।३० ॥ इंति ङीः ॥ १ ॥
तानं म्लेच्छमुखं शुल्वं रक्तं यष्टमुदुम्बरम् ॥ १०५ ।। म्लेच्छशावरभेदाख्यं मर्कटास्यं कनीयसम् ।
ब्रह्मवर्धनं वरिष्ठं ताम्यति वह्निना ताम्रम् , “चिजि." ॥ (उणा-३९२)॥ इति रो दीर्घत्वं च, वर्णेन वा ॥१॥ म्लेच्छदेशे मुखमुत्पत्तिरस्य म्लेच्छमुखम् ॥२॥ शिलति शुल्वम् , "शल्यलेरुच्चातः” ॥ ( उणा-३१९) ॥ इति वः, 'शुल्वण सर्जने' इत्यस्य वाऽच् ॥ ३ ॥ रक्तं वर्णेन ॥ ४ ॥ द्वे हेमरूप्येऽश्नुते स्म द्वयष्टम् ॥ ५॥ उनत्ति क्लिद्यते उदुम्बरम् , 'उद्गताम्बरम्' इति नैरुक्ताः, ओदुम्बरमित्यन्ये ॥६॥ १०५ ।। म्लेच्छशावरभेदेन आख्याऽस्य म्लेच्छशावरभेदाख्यं म्लेच्छम् , शावरं चेत्यर्थः ॥ ७॥८॥ मर्कटास्यवर्णत्वाद् मर्कटास्यम् ॥ ९ ॥ कनति दीप्यते कनीयसम् , "फनस." ॥ ( उणा-५७३ ) ॥ इत्यसे निपात्यते ॥ १० ॥ ब्रह्म वर्धयति पवित्रत्वाद् ब्रह्मवर्धनम् ॥ ११ ॥ अतिशयेन वर. वरिष्ठम् , कालिकानिवृत्तं स्वर्ण हि तत् ॥ १२ ॥
शेषश्चात्र- ताने पवित्रं कांस्यं च ॥
सीसं तु सीसपत्रकम् ॥ १०६ ॥ नागं गण्डूपदभवं वर्ष सीन्दूरकारणम् । वधै स्वर्णारियोगेष्टे यवनेष्टं सुवर्णकम् ॥ १०७ ॥ सिनोति बध्नाति पारतं सीसम् , “सेर्डित्" ॥ ( उणा-५७७ ) ॥ इतीसः क्लीबलिङ्गोऽयम् , वैजयन्ती तु-"सीसोऽस्त्री" इति पुंस्यप्याह ॥ १ ॥ सीसं च तत् पत्रं च सीसपत्रम् ॥ २॥१०६ ॥ न गच्छति द्रवत्वाद् नागम् , नखादित्वात् साधुः ॥ ३ ॥ गण्डूपदेभ्यो भवति गण्डूपदभवम् ॥ ४ ॥ उप्यते वप्रम् , हेनो वर्णोत्कर्षे बीजत्वात् ॥ ५ ॥ सिन्दूरस्य कारणं सिन्दूरकारणम् ॥ ६॥ वर्धते वर्धम् , पुंक्लीबलिङ्गः ॥७॥ स्वर्णस्य अरिः स्वर्णारिः ॥ ८॥ हेनो वर्णोत्कर्षार्थ योगे
Page #417
--------------------------------------------------------------------------
________________
४ भूमिकाण्ड: ।
४१७
श्लेषेइष्टं योगेष्टम् ॥ ९ ॥ यवनानामिष्टं यवनेष्टम् ॥ १० ॥ सुवर्णं करोति कारयति
षा सुवर्णकम् ॥ ११ ॥ १०७॥
शेषश्चात्र - सीसके तु महाबलम् ॥
चीनपट्टे समोलूकं कृष्णं च त्रपुबन्धकम् ॥ वनं त्रपु स्वर्णजनागजीवने
मृद्वङ्गरङ्गे गुरुपत्रपिच्चटे | स्याच्चकसंज्ञं तमरं च नागजं
करतीरमालीनकसिंहले अपि ॥ १०८ ॥
वङ्गति द्रवति वङ्गम् ॥ १ ॥ त्रपते इवाग्नेरा शुद्रवणात् त्रपु, क्लीबलिङ्गः, "भृमृतॄ-” ॥ ( उणा - ७१६ ) ॥ इत्युः ॥ २ ॥ स्वर्णाज्जायते स्वर्णजम् ॥ ३ ॥ नागं जीवयति नागजीवनम् ॥ ४ ॥ मृदु कोमलमङ्गमस्य मृद्वङ्गम् ॥ ५ ॥ रङ्गति रङ्गम् ॥ ६ ॥ गुरु पत्रमस्य गुरुपत्रम् ॥ ७ ॥ पिच्यते कुव्यते पिच्चटम्, "कपट " ॥ ( उणा- १४४ ) ॥ `इत्यटे निपात्यते ॥ ८ ॥ चक्रस्य संज्ञा अस्य चक्रसंज्ञम् ॥ ९ ॥ ताम्यत्यग्निसंपर्कात् तमरम्, "जठर- " ॥ ( उणा - ४०३ ) ॥ इत्यरे निपात्यते ॥ १० ॥ नागाज्जायते नागजम् ॥ ११ ॥ कसति कस्तीरम्, "जम्बीराभीर - " ॥ ( उणा - ४२२ ) ॥ इतीरे निपात्यते ॥ १२ ॥ आलीयते स्म आलीनम् ॥ १३ ॥ सिंहलदेशोद्भवत्वात् सिंहलम् ॥ १४ ॥ १०८॥
शेषश्चात्र- पुणि श्वेतरूप्यं स्यात् शण्ठं सलवणं रजः । परासं मधुकं ज्येष्ठं घनं च मुखभूषणम् ॥
स्याद् रूप्यं कलधौतताररजतश्वेतानि दुर्वर्णकं खर्जूरं च हिमांशुहसकुमुदाभिख्यं
रूप्यति रूप्यम्, “शिक्याऽऽस्याढ्यः” ॥ ( उणा - ३६४ ) ॥ इति ये निपात्यते ॥ १ ॥ कलं मनोज्ञं धौतं कलधौतम् ॥ २ ॥ तारयति तारम् ॥ ३ ॥ रज्यते हेना रजतम् पुंक्लीबलिङ्गः, " पृषिरञ्जि - " ॥ ( उणा - २०८ ) ॥ इति दितः ॥.४ ॥ श्वेतते श्वेतम्, सिताद्यपि ॥ ५ ॥ दुष्टो वर्णोऽस्य दुर्वर्णे सुवर्णापेक्षया ॥ ६ ॥ खर्जति खर्जूरम्, “मीमसि - " ।। ( उणा - ४२७ ) ।। इति ऊरः ॥ ७ ॥ हिमांशु - सकुमुदानामभिख्या यस्य तत्तथा चन्द्राह्वयम्, हंसाह्वयम्, कुमुदाह्वयम् इत्यर्थः ॥ ८ || ९ ||१० ॥
शेषश्चात्र - रजते त्रापुषं वङ्गजीवनं वसु भीरुकम् ।
श्वभ्रं सौम्यं च साध्यं च रूप्रं भीरु जवीयसम् ॥ सुवर्ण पुनः ।
Page #418
--------------------------------------------------------------------------
________________
४१८
अभिधानचिन्तामणौ-..
स्वर्ण हेम हिरण्यहाटकवसून्यष्टापदं काञ्चनं कल्याणं कनकं महारजतरैगाङ्गेयरुक्माण्यपि ॥ १०९ ॥
कलधौतलौहोत्तमवह्निबीजान्यपि गारुडं गैरिकजातरूपे । तपनीयचामीकरचन्द्रभर्मा
ऽर्जुननिष्ककार्तस्वरकर्बुराणि ॥ ११० ॥ जाम्बूनदं शातकुम्भं रजतं भूरि भूत्तमम् । ... - शोभनो वर्णोऽस्य सुवर्णम् , पृषोदरादित्वाद् उलोपे स्वर्णम् , पुंक्लीबलिङ्गावेतौ ॥१॥ २ ॥ हिनोति हेम, क्लीबलिङ्गः, “मन्" ॥ ( उणा-९११) ॥ इति मन् , "क्षुहिन्यां" ॥ ( उणा-३४१ )॥ इति मे हेमम् , अकारान्तः पुंक्लीबलिजोऽपि ॥३॥ हियते हिरण्यम् , पुंक्लीबलिङ्गः, “हिरण्यपर्जन्य." ॥ (उणा-३८०)॥ इत्यन्ये निपात्यते ॥ ४ ॥ हटति दीप्यते हाटकम् , हाटकाकरभवत्वाद् वा, क्लीबलिङ्गोऽयम् , पुंस्यपि वाचस्पतिः, यदाह- "हाटकमस्त्रियाम् , हाटका करसंभूतं पलाशकुसुमच्छविः ॥५॥ वसत्याकरे वसु, क्लीबलिङ्गः ॥ ६॥ अष्टसु लोहेषु पदं प्रतिष्ठाऽस्याऽष्टापदम् , पुंक्लीबलिङ्गः, "नानि" ॥३।२।७५॥ इति दीर्घः ॥७॥ कञ्चते दीप्यते काञ्चनम् , “विदनगगन-" ॥ ( उणा- २७५ ) ॥ इत्यने निपात्यते ॥८॥ कल्यते कल्याणम् , “कल्याणपर्याण-" ॥ ( उणा-१९३ ) ॥ इत्याणे निपात्यते ॥ ९ ॥ कनति दीप्यते कनकम् , “दृकृन." ॥ ( उणा-२७ )॥ इत्यकः ॥ १० ॥ महच्च तद् रजतं रजकं च महारजतम् ॥ ११॥ रायते उदारै राः, पुंस्त्रीलिङ्गः, "रात:" ॥ ( उणा-८६६)॥ इति डैः ॥ १२ ॥ गङ्गाया अपत्यं गाङ्गेयम् , शुभ्रादित्वादेयण ॥ १३ ॥ रोचते रुक्मम् , "रुक्मग्रीष्म-" ॥ ( उणा-३४६) ॥ इति मे निपात्यते ॥ १४ ॥ १०९ ॥ कलं सुवर्णकालिका तद्धौतमस्मिन् कलधौतम् ॥ १५ ॥ लोहेषूत्तमं लोहोत्तमम् ।। १६ ॥ वह्नेबीजं वह्निबीजम् , यदाहः-"अग्नेरपत्यं प्रथमं सुवर्णम्" इति ॥ १७ ॥ गरुडस्येदं गारुडम् ॥ १८ ॥ गिरौ जातं गैरिकम् ॥ १९ ॥ जातं रूपमस्य जातरूपमकृतकरूपं सुद्रीदेशजम् ॥२०॥ तप्यते तपनीयम् ॥ २१ ॥ चमीकराकरे भवं चामीकरम् ॥ २२ ॥ चन्दते चन्द्रः, पुक्लीबलिङ्गः ॥२३॥ भ्रियते भर्म, क्लीबलिङ्गः, “मन्' । ( उणा-९११)॥ इति मन् ॥२४॥ अयंते पुण्यैरर्जुनम् ॥ २५ ॥ निषीदति मनोऽत्र निष्कः, पुंक्लीबलिङ्गः, “निष्कतुरुष्क-" ॥ ( उणा-२६ ) ॥ इति के निपात्यते ॥ २६ ॥ कृतस्वराऽऽकरे भवं कार्तस्वरम् ॥ २७ ॥ कर्वति लोहमध्ये दृप्यति कर्बुरम् , "वाश्यसि." ॥ (उणा-४२३) ॥ इत्युरः, नानारूपत्वाद् वा ॥२८॥११०।। जम्बूदीपे जम्बूफल. रसोत्थनद्यां जातं जाम्बूनदम् , यत्पुराणम् -
Page #419
--------------------------------------------------------------------------
________________
-४ भूमिकाण्डः ।
४१९ तीरमृत् तद्रसं प्राप्य मुखवायुविशोषिता। ........)
जाम्बूनदाख्यं भवति सुवर्ण सिद्धभूषणम् ॥ १ ॥ २९ ॥ शतकुम्भे गिरी भवं शातकुम्भम् , अनुशतिकादित्वादुभयपदवृद्धौ शातकोम्भमपि ॥ ३० ॥ रज्यते रजतम् ॥ ३१ ॥ भवत्याकरे भूरि, "भूसूकुशि-" ॥ ( उणा-६९३ ) ॥ इति किद् रिः, क्लीबालङ्गोऽयम् , वाचस्पतिस्तु- "भूरिरष्टा, पदोऽस्त्रियाम्” इति पुंस्यप्याह ॥ ३२ ॥ भुवि उत्तमं भूत्तमम् ॥ ३३ ॥ शेषश्चात्र-सुवर्णे लोभनं शुक्र नारजीवनमौजसम् ।
दाक्षायणं रक्तवर्ण श्रीमकुम्भं शिलोद्भवम् ॥
वैणवं तु कणिकारच्छायं वेणुभटीभवम् । हिरण्यकोशाकुप्यानि हेन्नि रूप्ये कृताकृते ॥ १११ ॥ ह्रियते हिरण्यम् ॥ १॥ कूयते कोशम् , “कोर्वा” ॥ ( उणा- ५२९) ॥ इति शः ॥ २ ॥ न कुप्यमकुप्यम् , हेम्नि रूप्ये च कृताकृते घटिताऽघटिते इत्यर्थः ॥ ३ ॥
कुप्यं तु तवयादन्यद् हेमरूप्याभ्यामन्यत् ताम्रादि गोपाय्यते तदिति कुप्यम् , “कुप्यभिद्य-" ॥ ५।१।३९ ॥ इति क्यपि निपात्यते ॥१॥..
रूप्यं तु द्वयमाहतम् ।
आहतं रूपमस्य रूप्यं दीनारादि, "रूपात्प्रशस्ताहतात्" ॥ ॥२॥५४॥ इति यः, द्वयमिति कुप्याकुप्यम् ॥ १॥
अलङ्कारसुवर्ण तु शृङ्गीकनकमायुधम् ॥ ११२ ॥ ___ अलकाराय सुवर्णमलङ्कारसुवर्णम् ॥ १॥ शृङ्गी अलङ्कारमकरिका तदर्थ कनकं शृङ्गीकनकम् ॥ २ ॥ आयुधमिव आयुधम् ॥ ३ ॥ ११२ ॥
रजतं च सुवर्ण च संश्लिष्टे घनगोलकः । घनश्चासौ गोलकश्च घनगोलकः, पुंक्लीबलिङ्गः, यद्वाचस्पतिः- "तारहेनी तु.संश्लिष्टे घनगोलकमस्त्रियाम्” इति ॥ १॥
पित्तलाऽऽरे पित्तं लाति पित्तला, स्त्रीक्लीबलिङ्गः ॥१॥ आ इयर्ति आरः, पुंलिङ्गस्तत्र, वाचस्पतिस्तु- "पित्तलं त्वारमस्त्रियाम्" इति क्लीवेऽप्याह ॥ २ ॥
अथाऽऽरकूटः कपिलोहं सुवर्णकम् ॥ ११३ ॥ रिरी रीरी च रीतिश्च पीतलोहं सुलोहकम् । ।
Page #420
--------------------------------------------------------------------------
________________
४२०
अभिधानचिन्तामणौ- .
आ इयर्ति आरस्तस्य कूट आरकूटः, पुंक्लीबलिङ्गः, कश्चिदमुं पित्तलापर्याय माह ॥ १ ॥ कपिवणे लोहं कपिलोहम् ॥ २ ॥ सुवर्णप्रतिकृतिः सुवर्णकम् ॥ ३॥११३ ॥ रीयते द्रवति रिरी, रीरी, "खुरक्षुर-" ॥ (उणा- ३९६ ) ॥ इति रे निपात्यते ॥ ४ ॥ ५ ॥ रिणन्त्येनां रीतिः ॥ ६ ॥ पीतवर्ण लोहं पीतलोहम् ॥ ७ ॥ शोभनं लोहं सुलोहम् ॥ ७ ॥
ब्राह्मी तु राज्ञी कपिला ब्रह्मरीतिर्महेश्वरी ॥ ११४ ॥ ब्रह्मण इयं ब्राह्मी ॥ १ ॥ राजते राज्ञी ॥ २ ॥ कपिला वर्णेन ॥३॥ ब्रह्मणो रीतिब्रह्मरीतिः ॥ ४ ॥ महती चासावीश्वरी च महेश्वरी ॥ ५ ॥ ११४ ॥ . .
कांस्ये विद्युत्प्रियं घोषः प्रकाशं वङ्ग-शुल्वजम् ।।
घण्टाशब्दमसुराहरवणं लोहजं मलम् ॥ ११५ ॥ कंसाय इदं द्रव्यं कंसीयं तस्य विकारः कांस्यम् , “ कंसीयायः"॥ ६ । २। ४१ ॥ इति साधुः, कंसमेव वा भेषजादित्वाट ट्यण् तत्र ॥ १ ॥ विद्युतः प्रियं विद्युत्प्रियम् ॥ २॥ घोषति घोषः ॥ ३ ॥ प्रकाशते प्रकाशम् ॥ ४ ॥ वङ्ग-शुल्वाभ्यां जायते वङ्गशुल्वजम् ॥ ५॥ घण्टाया इव शब्दोऽस्य घण्टाशब्दम् , घण्टायां शब्दोऽस्येति वा ॥६॥ असुरस्य कंसनाम्न आह्वाऽस्य असुराडं कंसमित्यर्थः ॥ ७ ॥ रौति रवणम् ॥ ८ ॥ लोहाभ्यां जायते लोहनम् ॥९॥ मलोऽस्त्यस्य मलम् ॥ १० ॥ ११५ ॥
सौराष्ट्रके पञ्चलोहं सुराष्ट्रायां भवं सौराष्ट्र के सौराष्ट्रकम् , तत्र ॥ १ ॥ पञ्च ताम्र-रीति-त्रपुसीसक कालायसलक्षणानि लोहान्यस्मिन् पञ्चलोहम् ॥ २ ॥
वर्तलोहं तु वर्तकम् । वर्तते आवर्तते वर्तम् , तच्च तद् लोहं च वर्तलोहम् ॥ १॥ वर्तते आवर्तते वर्तकम् ॥ २ ॥
पारदः पारतः सूतो हरबीजं रसश्चलः ॥ ११६ ॥ पारं ददाति पारदः, पारं तनोति पारतः, “ क्वचित्" ॥ ५। १ । १७१ ॥ इति डः, अर्थप्राधान्यात् पुंक्लीबलिङ्गावेतौ ॥१॥२॥ सूते हेमायुषी सूतः, शिवात् प्रसूतो वा ॥ ३ ॥ हरस्य बीजं हरबीजम् ॥ ४ ॥ रस्यते रसायनार्थिभिरिति रसः ॥५॥ चलोऽस्थयात् , चपलोऽपि ॥ ६ ॥ ११६ ॥
अभ्रकं स्वच्छपत्रं खमेघाख्यं गिरिजामले । अभ्रप्रतिकृतिरभ्रकम् ॥ १॥ स्वच्छानि पत्राण्यस्य स्वच्छपत्रम् ॥ २॥
Page #421
--------------------------------------------------------------------------
________________
४ भूमिकाण्डः ।
खस्य गगनस्य मेघस्याम्बुदस्य आख्या अस्य ख-मेघाख्यम् , तेन खम् , गगनम् , मेघ. मम्बुदमित्यादि सिद्धम् ॥३॥४॥ गिरिजाबा गौर्या मलं गिरिजामलं तत्र, गिरिज च तदमलं चेति वा ॥५॥
स्रोतोऽञ्जनं तु कापोतं सौवीरं कृष्णयामुने ॥ ११७ ॥ यमुनास्रोतसोऽञ्जनं स्रोतोऽञ्जनम् ॥ १ ॥ कपोतस्येदं कापोतम् , कपोतवर्ण वा ॥२॥ सुवीरदेशे भवं सौवीरम् ॥ ३॥ कृष्णं वर्णेन ॥४॥ यमुनायां भवं यामुनम् ॥ ५॥ ११७ ॥
अथ तुत्थं शिखिग्रीवं तुत्थाजनमयूरके । तुदति अक्षिरोगांस्तुत्थम् , " नीनूरमि-" ॥ ( उणा- २२७ ) ॥ इति कित्थः ॥ १ ॥ शिखिग्रीवाभं शिखिग्रीवम् ॥ २ ॥ अज्यतेऽनेनाऽजनं तुत्थं च तदञ्जन च तुत्थाजनम् ॥ ३ ॥ मयूरस्य तुल्यं मयूरकम् ॥ ४ ॥
मूषातुत्थं कांस्यनीलं हेमतारं वितुन्नकम् ।। ११८ ॥ मूषायां तुत्थं मूषातुत्थम् ॥ १ ॥ कांस्यवन्नीलं कांस्यनीलम् ॥ २ ॥ हेमव. तारं हेमतारम् ॥ ३ ॥ वितुदत्यक्षिरोगान् वितुन्नम् , के वितुनकम् ॥४॥११८॥
स्यात्तु कर्परिकातुत्थममृतासङ्गमञ्जनम् । कल्पते रोगान् जेतुं कर्परिका, कर्परिकालक्षणं तुत्थं कर्परिकातुत्थम् ॥ १ ॥ अमृतमासजत्यनेनाऽमृतासङ्गम् ॥ २ ॥ अज्यते चक्षुरनेनाऽजनम् ॥ ३ ॥
रसगर्भ तायशैलं तुत्थे दार्वीरसोद्भवे ॥ ११९ ॥ दारिसस्य गर्भोऽत्र रसगर्भम् ॥१॥ तार्यशैले कुलूतायां भवत्वात् तार्यशैलम् , दावी दारुहरिद्रा तस्या रसः क्वाथस्तदुद्भवे तुत्थे रसजात रसाग्रे अपि ॥२॥११९॥
पुष्पाञ्जनं रीतिपुष्पं पौष्पकं पुष्पकेतु च । पुष्परूपमञ्जनं पुष्पाञ्जनम् ॥ १॥ रीते यमानायाः पुष्पाभं मलं रीतिपुष्पम् ॥ २ ॥ पुष्पति पुष्पकम् , स्वार्थेऽणि पौष्पकम् ॥ ३ ॥ पुष्पं केतुरस्य पुष्पकेतु ॥ ४ ॥..
माक्षिकं तु कदम्बः स्याचक्रनामाऽजनामकः ॥१२० ॥ माक्षिकं मधु तद्वर्ण माक्षिकम् ॥ १ ॥ कदम्बकुसुमाकारत्वात् कदम्बः ॥२॥ चक्रस्य नाम अस्य चक्रनामा ॥ ३ ॥ अजस्य विष्णोर्नाम अस्य अजनामकः, अत एव वैष्णवोऽपि ॥ ४ ॥ १२० ॥
ताप्यो नदीजः कामारिम्तारारिर्विटमाक्षिकः । ५४
Page #422
--------------------------------------------------------------------------
________________
४२२
अभिधानचिन्तामणी
ताप्यां साधुस्ताप्यः ॥ १॥ तापीनद्या जातो नदीजः ॥ २ ॥ कामस्याऽरिः कामारिः ॥३॥ तारस्याऽरिस्तारारिः ॥४॥ विटायो माक्षिको विटमाक्षिकः ॥५॥
सौराष्ट्री पार्वती काक्षी कालिका पर्पटी सती ॥ १२१ ॥
आढकी तुवरी कंसोद्भवा काच्छी मृदाह्वया ।
सुराष्ट्रायां भवा सौराष्ट्री ॥ १ ॥ पर्वते भवा पार्वती ॥ २ ॥ कक्षे भवा काक्षी ॥ ३ ॥ कालयति वस्त्रं कालिका ॥ ४ ॥ पिपर्ति पर्पटी, " कपट-" ॥ (उणा- ॥ १४४)॥ इत्यटे निपात्यते ॥ ५॥ अस्ति सती. ॥ ६ ॥ १२१ ॥ आढौकते आढकी ॥ ७ ॥ तूयते तुवरी ॥ ८ ॥ कंसादुद्भवति कंसोद्भवा ॥९॥ कच्छदेशे भवा काच्छी ॥ १० ॥ मृद आहयोऽस्या मृदाहया, तेन मृत्तिका, मृत्स्ना, मृत्सा अपि ॥ ११॥
___ कासीसं धातुकासीसं खेचरं धातुशेखरम् ॥ १२२ ॥ ...
कसति कासीसम् , “तलिकसिभ्यामी-" ॥ (उणा- ५१६ ) ॥ ईसण् ॥ १ ॥ धातुरूपं कासीसं धातुकासीसम् ॥ २ ॥ खे चरति खेचरम् ॥ ३ ॥ धातुषु शेखरमिव धातुशेखरम् ॥ ४ ॥ १२२ ॥
द्वितीयं पुष्पकासीसं कंसकं नयनौषधम् ।। पुष्परूपं कासीसं पुष्पकासीसम् ॥१॥ कंस्ते रजयति कंसकम् ॥२॥ नयनस्यौषधं नयनौषधम् ॥ ३ ॥
गन्धाश्मा शुल्वपामाकुष्ठारिर्गन्धिकगन्धकौ ॥ १२३ ॥
सौगन्धिकः शुकपुच्छः । गन्धप्रधानोऽश्मा गन्धाश्मा ॥ १ ॥ शुल्वस्य पामायाः कुष्ठस्य च अरिः शुल्वारिः, पामारिः, कुष्ठारिः ॥ २ ॥ ३ ॥ ४ ॥ गन्धोऽस्त्यस्य गन्धिकः ॥५॥ गन्धयते गन्धकः ॥ ६ ॥ १२३ ॥ सुगन्धो विपरीतलक्षणया स प्रयोजनमस्य सौगन्धिकः ॥ ७ ॥ शुकपुच्छवर्णत्वात् शुकपुच्छः ॥ ८॥
हरितालं तु पिञ्जरम् । बिडालकं विस्रगन्धि खजूरं वंशपत्रकम् ॥ १२४ ॥ आलपीतनतालानि गोदन्तं नटमण्डनम् ।
बङ्गारिलोमहच हरेः पीतवर्णस्य तालः प्रतिष्ठाऽस्य हरितालम् , हरितामलति भूषयति वा ॥१॥ पिञ्जयति पिजरम्, वर्णेन वा ॥२॥ बिडालनेत्रप्रतिकृतिर्बिडालकम् ॥३॥
Page #423
--------------------------------------------------------------------------
________________
४२३
४ भूमिकाण्डः । विस्रस्येव गन्धोऽस्य विस्रगन्धि ॥ ४ ॥ खर्जति खर्जूरम् ॥ ५॥ वंशपत्राभं वंशपत्रकम् ॥ ६॥ १२४ ॥ आलाति शोभा आलम् , अलन्ति भूषयन्ति अनेन वा ॥७॥पोतयति पीतनम् , पीतं वर्ण नयतीति वा, "क्वचित्" ॥५।१।१७१॥ इति डः ॥ ८ ॥ तालं हरितालैकदेशो भीमवत् , ताडयति इति वा ॥९॥ गोदन्तसदृशत्वाद् गोदन्तम् , गोपित्तमपि ॥ १० ॥ नटानां मण्डनं नटमण्डनम् ॥११॥ वङ्गस्य अरिङ्गारिः ॥ ११ ॥ लोमानि हरति लोमहृत् ॥ १३ ॥
अथ मनोगुप्ता मनःशिला ॥ १२५ ॥ · करवीरा नागमाता रोचनी रसनेत्रिका ।
नेपाली कुनटी गोला मनोहा नागजिहिका ॥ १२६ ॥ मनोऽभिधा गुप्ता मनोगुप्ता ॥१॥ मनोवाच्या शिला मनःशिला, शिला अपि ॥ २ ॥ १२५ ॥ करे विशेषेण ईर्यते करवीरा ॥ ३ ॥ नागस्य माता नागमाता ॥ ४ ॥ रोचते रोचनी ॥ ५॥ रसस्य नेत्री रसनेत्री, के रसनेत्रिका ॥ ६ ॥ नेपालदेशभवत्वाद् अभेदेन नेपाली, नैपाली अपि ॥ ॥ कौ नटति कुनटी ॥८॥ गां लाति, गुडति वा गोला ॥ ९ ॥ मनःशब्देन हूयते मनोहा ॥१०॥ नागजिह्वाप्रतिकृति गजिबिका ॥ ११ ॥ १२६ ॥
सिन्दूरं नाग नागरक्तं शृङ्गारभूषणम् ।
चीनपिष्टं स्यन्दते सिन्दूरम् , “सिन्दूर-” ॥ (उणा-४३०)॥इति ऊरे निपात्यते ॥१॥ नागात् शेषाद् जायते नागजम् ॥ २ ॥ नागेन रज्यते नागरक्तम् ॥३॥ शृङ्गारस्य भूषणं शृङ्गारभूषणम् , शृङ्गारमपि ॥ ४ ॥ चीनस्य नागस्य पिष्टं चीनपिष्टम् ॥ ५॥
___ हंसपादकुरुविन्दे तु हिङ्गुलः ॥ १२७ ॥ हंसपाद इव रक्तो हंसपादः॥१॥ कुरून् विन्दति कुरुविन्दम् ,"निगवादे म्नि" ॥५।१।६१।। इति शः ॥२॥ हिनोति हिङ्गुलः, “कुमुल-" ॥ (उणा-४८७) ॥ इति उले निपात्यते, पुंस्पयम् , वाचस्पतिस्तु-“हिङ्गुलस्त्वस्त्रियाम्" इति क्लयबेऽप्याह, हिङ्गुलुरपि ॥ ३ ॥ १२७ ॥
शिलाजतु स्याद् गिरिजमर्थ्य गैरेयमश्मजम् । शिलातः स्रवजत्वाकृतिः शिलाजतु, क्लीबलिङ्गः ॥ १॥ गिरेर्जायते गिरिजम् ॥ २ ॥ अर्थ्यते रसायनार्थिभिः अर्थ्यम् ॥ ३ ॥ गिरौ भवं गैरेयम् , नद्यादित्वाद् एयण् ॥ ४ ॥ अश्मनो जायते अश्मजम् ॥ ५ ॥
क्षारः काचः
Page #424
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणौ-.. क्षरति क्षारः, ज्वलादित्वाद् णः ॥ १॥ कथ्यते बध्यते काचः ॥ २॥ . .
कुलाली तु स्यात् चक्षुष्या कुलस्थिका ॥ १२८ ॥
कुलमलति कुलाली ॥१॥ चक्षुषे हिता चक्षुष्या दृक्प्रसादाख्या ॥२॥ कुले तिष्ठति कुलत्था पृषोदरादित्वात् , कुलत्थप्रकृतिर्वा ॥ ३ ॥ १२८ ।।
बोलो गन्धरसः प्राणः पिण्डो गोपरसः शशः । बोल्यते बोलः ॥ १॥ गन्धप्रधानो रसो गन्धरसः ॥ २ ॥ प्राणिति अनेन प्राणः ॥ ३ ॥ पिण्ड्यते द्रव्यान्तरैरिति पिण्डः, पिण्डसहत्वाद् वा ॥ ४ ॥ गां पाति रसोऽस्य गोपरसः, गोपः, रसोऽपि भीमवत् ॥ ५ ॥ शशति शशः ॥ ६ ॥
रत्नं वसु मणिः रमते मनोऽत्र रत्नम्- अष्टविधं हीरकादि, यद् वाचस्पतिः
"हीरकं मौक्तिकं स्वर्ण रजतं चन्दनानि च ।।
शङ्खश्चर्म च वस्त्रं चेत्यष्टौ रत्नस्य जातयः" ॥ १ ॥ "रमेस्त् च" ॥ (उणा-२६४)॥ इति नः॥१॥ वसति लक्ष्मीरत्र वसु, क्लीबलिङ्गः ॥ २ ॥ मणति महार्घतां मणिः पुंस्त्रीलिङ्गः, माणिक्यमपि ॥ ३ ॥
तत्र वैडूर्य वालवायजम् ॥ १२९ ।। . तेषु रत्नेषु विदूरात् प्रभवति वैडूर्यम् , विडूरग्रामे हि अदः संस्क्रियमाणं मणितया ततः प्रथमं भवति, विड्रादूर्जायते वा “वैडूर्यः” ॥६।३।१५८॥ इति ये निपात्यते ॥१॥ वालवायाद्रेर्जायते वालवायजम् , . "विदूरभवमुत्कृष्टं निकृष्टं वालवा. यजम्” इति विशेषो नाश्रितः ॥ २ ॥ १२९ ॥ .
मरकतं त्वमगर्भ गारुत्मतं हरिन्मणिः । मरकं तरन्ति अनेन मरकतम् , “ कंचित् " ॥ ५।१।१७१ ।। इति डः ॥१॥ अश्मनो गर्भो अश्मगर्भम् , अश्मयोनिरित्यर्थः ॥ २ ॥ गरुन्मत इदं जातं विषं हन्तुं गारुत्मतम् ॥ ३ ॥ हरिद् नीलवर्णो मणिः हरिन्मणिः ॥ ४ ॥
पद्मरागो लोहितकलक्ष्मीपुष्पाऽरुणोपलाः ॥ १३०॥ पद्मस्य इव रागोऽस्य पद्मरागः पुंक्लीबलिङ्गः, तत्र ॥ १॥ लोहित एव लोहितकः, “ लोहिताद् मणौ” ॥७३॥१७॥ इति खार्थे कः ॥ २ ॥ लक्ष्म्याः पुष्पमिव लक्ष्मीपुष्पम् ॥ ३ ॥ अरुणः शोण उपलः अरुणोपलः, शोणरत्नमपि ॥ ४ ॥ १३० ॥
नीलमणिस्त्विन्द्रनील;
Page #425
--------------------------------------------------------------------------
________________
४ भूमिकाण्डः ।
४२५
नीलवर्णो मणिनीलमणिः ॥ १॥ मणीनामिन्द्रो नीलश्च मणिरिन्द्रनील: पुंक्लीबलिङ्गः, “ इन्द्रनीलं महानीलम् ” इति क्लीबे वैजयन्तिः ॥ २ ॥
सूचीमुखं तु हीरकः ।
बरारकं रत्नमुख्यं वज्रपर्याय नाम च ॥ १३१ ॥ सूच्या इव मुखमस्य सूचीमुखम् ॥ १॥ हरति मनो हीरः, “ खुरक्षुर-" ॥ (उणा-३९६) ॥ इति रे निपात्यते, के हीरकः पुंलिङ्गः, वाचस्पतिस्तु- “अथाऽस्त्री हीरकः” इति क्लीवेऽप्याह ॥ २ ॥ वरा अरका अस्मिन् वरारकम् ॥ ३ ॥ रत्नेषु मुख्यं रत्नमुख्यम् ॥ ४ ॥ वज्रपर्याया दम्भोलिप्रभृतयो नामानि अस्य वज्रपर्यायनाम तेन वज्रम् , दम्भोलिरित्यादि ॥ ५ ॥ १३१ ॥
विराटजो राजपट्टो राजावर्तः विराटदेशे जातो विराटजः, वैराटोऽपि ॥ १ ॥ पटेन राजते राजपट्टः ॥२॥ आवर्तेन राजते राजावर्तः, राजदन्तादित्वात् पूर्वनिपातः ॥ ३ ॥
अथ विद्रुमः ।
रक्ताको रक्तकन्दश्च प्रवालं हेमकन्दलः ॥ १३२ ॥ विशिष्टो द्रुमो विद्रुमः, विद्रवति अब्धौ वा, "रुक्मग्रीष्म-" ॥ ( उणा-- ३४६) ॥ इति मे निपात्यते, विन्दतेः “कुमुद"- ॥ ( उणा-२४४ ) ॥ इति उमे वा ॥ १॥ रक्तः अङ्कोऽस्य रक्ताङ्कः ॥ २ ॥ रक्तश्चासौ कन्दश्च रक्तकन्दः ॥ ३ ॥ प्रवलति प्रवालं पुंक्लीबलिङ्गः, ज्वलादित्वाद् णः, प्रवते अब्धेरूचे वा "चात्वाल" ॥ ( उणा- ४४० )॥ इति निपात्यते ॥ ४ ॥ हेनः कन्दल इव हेमकन्दलः ॥ ५ ॥ १३२ ॥
. सूर्यकान्तः सूर्यमणिः सूर्याश्मा दहनोपलः ।
सूर्यस्य कान्तो वल्लभः सूर्यकान्तः ॥ १ ॥ सूर्यप्रियो मणिः सूर्यमणिः ॥ २ ॥ सूर्यस्य अश्मा सूयाइमा ॥ ३ ॥ दहनजननोपलो दहनोपलः ॥ ४ ॥
. चन्द्रकान्तश्चन्द्रमणिश्चान्द्रश्चन्द्रोपलश्च सः ॥ १३३ ॥ ___ चन्द्रस्य कान्तः चन्द्रकान्तः ॥ १॥ चन्द्रस्य मणिः चन्द्रमाणिः ॥ २॥ चन्द्रस्य अयं चान्द्रः ॥ ३ ॥ चन्द्रस्य उपलः चन्द्रोपलः ॥ ४ ॥ १३३ ॥
क्षीरतैलस्फटिकाभ्यामन्यौ खस्फटिकाविमौ ।। क्षीरधवलः स्फटिकः क्षीरस्फटिकः, तैलकान्तिः स्फटिकः तैलस्फटिकस्ताभ्यामन्यौ भिन्नवौँ इमौ सूर्यकान्त-चन्द्रकान्तौ द्वौ अपि आकाशस्फटिकाख्यौ इत्यर्थः, यदं वाचस्पतिः
Page #426
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणी
"स्फटिकास्तु त्रयस्तेषामाकाशस्फटिको वरः । द्वौ क्षीरतैलस्फटिकावाकाशस्फटिकस्य तु ।
भेदौ सूर्यकान्तश्च चन्द्रकान्तश्च तत्र च ॥ १ ॥ इति ॥ १ ॥ शुक्तिजं मौक्तिकं मुक्ता मुक्ताफलं रसोद्भवम् ॥ १३४ ॥ शुक्तेर्जायते शुक्तिजम्, शुक्तिरुपलक्षणं हस्तिमस्तकाद्युद्भवमपि यदाह - " हस्तिमस्तदन्तौ तु दंष्ट्रा शुनवराहयोः ।
मेघ भुजङ्गमो वेणुर्मत्स्यो मौक्तिकयोनयः " ॥ १ ॥ इति ॥ १ ॥ मुक्ता एव मौक्तिकम्, विनयादित्वाद् इकण् ॥ २ ॥ मुच्यतेशुक्तिभिर्मुक्ता ॥ ३ ॥ मुक्ता फलमिव मुक्ताफलम् ॥ ४ ॥ रसाद् अम्भसः उद्भवति रसोद्भवम् ।। ५ ।। १३४॥
॥ समाप्तोऽयं पृथ्वीक्ायः ॥
.४२६
,
अथ अप्कायमाह
नीरं वारि जलं दकं कमुदकं पानीयमभ्मः कुशं
तोयं जीवनजीवनीयसलिलाणस्यम्बु वाः संवरम् । क्षीरं पुष्करमेघपुष्पकमलान्यापः पयःपाथसी कीलालं भुवनं वनं घनरसो यादो निवासोऽमृतम् ॥ १३५ ॥ कुलीनसं कबन्धं च प्राणदं सर्वतोमुखम् ।
Sma
"
नीयते नयति वा नीरम्, “ ऋज्यजि " ॥ ( उणा - ३८८ ) ॥ इति किद्रः ॥ १ ॥ वार्यते बारि क्लीबलिङ्गः, " स्वरेभ्यः इः ॥ ( उणा - ६०६ ) ॥ २ ॥ जलति जाड्यं गच्छति जलम् ॥ ३ ॥ द्यति तृष्णां दकम्, " कीचक"" 11 ( उणा - ३३ ) ॥ इति अके निपात्यते ॥ ४ ॥ कायति कम्, “क्वचित्” ॥५।१।१७१॥ इति डः ॥ ५ ॥ उनत्ति उदकम्, “धूधून्दि " ॥ ( उणा - २९ ) ॥ इति किद् अकः ॥ ६ ॥ पीयते पानीयम् ॥ ७ ॥ अमति निम्नप्रदेशमम्भः क्लीबलिङ्गः, “ अमेर्भहौ चान्तौ " ॥ ( उणा - ९६२ ) ॥ इति अस् ॥ ८ ॥ कुश्यति भिनत्ति कुशम्, कुं श्यतीति वा ॥ ९ ॥ तुदति तुयते वा तोयम्, “शि. क्यास्य ॥ ( उणा - ३६४ ) ॥ इति ये निपात्यते ॥ १० ॥ जीव्यते अनेन जीवनम् ॥ ११ ॥ बाहुलकाद् करणेऽपि अनीये जीवनीयम् ॥ १२ ॥ सरति
""
""
""
सरिरम्,
मदमन्द- ॥ ( उणा - ४१२ ) इति इरः, ऋफिडादित्वाद् लत्वे सलिलम् ॥ १३ ॥ अर्थते तद् इति अर्णः, " अर्तीण्भ्याम् " ॥ ( उणा९६९ ) ॥ इति नस्, ऋणोतीति वा " अस् " ॥ ( उणा - ९५२ ) ॥ इति अस् ।।१४॥ अमति अम्बु क्लीबलिङ्गौ, “कम्यमिभ्याम् ” ॥ ( उणा-७९९ ) ॥
Page #427
--------------------------------------------------------------------------
________________
"४ भूमिकाण्डः ।
४२७
इति बुः ॥ १५ ॥ वृणोति वाः स्त्रीलिङ्गः, “ वाारौ " ॥ ( उणा-९४४ ) ॥ इति क्विपि निपात्यते ॥ १६ ॥ संवृणोति संवरम् ॥ १७ ॥ घस्यते क्षीरम्, " घसिवसि-” ॥ ( उणा-४१९) ॥ इति किद् इरः ।। १८॥ पुष्णाति तृप्तिं पुष्करम् , “ सूपुषिभ्यां" ॥ ( उणा-४३६ ) ॥ इति कित् करः ॥ १९ ॥ मेघानां पुष्पं प्रसवो मेघपुष्पम् ॥ २० ॥ काम्यते कमलम् , “ मृदि. कन्दि." ॥ ( उणा-४६५)॥ इत्यलः ॥ २१ ॥ आप्यन्ते सुखाद् आपः, स्त्रियां बहुवचनान्तः, “ आपः क्विप् इस्वश्च" ॥ (उणा-९३१)॥ इति साधुः ॥२२॥ पीयते पयः, “ पाहाग्भ्यां पयह्यौ च” ॥ ( उणा-९५३ ) ॥ इति अस् , पयते गच्छति वा, " अस्" ॥ ( उणा-९५२ ) ॥ इत्यस् ॥ २३ ॥ पान्ति एतत् पाथः, क्लीबलिङ्गो, “ पातेजस्थसौ” ॥ ( उणा-९७७ ) ॥ इति थस् ।। २४ ॥ कील्यते बध्यते सेतुभिः कीलालम् , “ ऋकृमृ." ॥ ( उणा-४७५) इति आलः, कीला ज्वाला अलति वारयति वा ॥ २५ ॥ भवति अस्मात् सर्व भुवनम् , “सूधूभूभ्रस्जिभ्यो वा "॥ (उणा-२७४) ॥ इति किद् अनः ॥ २६ ॥ वनति वनम् ॥ २७ ।। घनस्य रसो घनरसः, 'घनरसम्' इति क्लीबे माला ॥ २८ ॥ यादसां निवासो यादोनिवासः ॥ २९ ॥ न विद्यते मृतमस्माद् अमृतम् ॥ ३० ॥ १३५॥ को लीनं दिलष्टं स्यति कुलीनसम् ॥ ३१ ॥ कं सुखं वायु वह्नि वा बध्नाति कबन्धम् , 'कम् , अन्धम् , इति द्वे नाम्नी इत्येके' ॥ ३२॥ प्राणान् ददाति प्राणदम् ॥३३॥ सर्वतो मुखमस्य सर्वतोमुखं सर्वदिग्गतः ॥३४॥
शेषश्चात्र
जले दिव्यमिरासेव्यं कृपीटं घृतमङ्कुरम् । विष पिष्पलपातालमलिलानि च कम्बलम् ॥ १॥ पावनं षड्रसं चापि वल्लूरं तुसितं पयः । किहिमं तदतिक्षारं सालूकं पङ्कगन्धिकम् ॥ २॥
अन्धं तु कलुषं तोयमतिस्वच्छं तु काचिमम् । अस्थाघास्थागमस्ताघमगाधं चाऽतलस्पृशि ॥ १३६॥ तिष्ठति जनोऽत्र स्थाघम् , “ स्थार्ति-" ॥ (उणा-१०९)॥ इति घः, न स्थाघमस्थाघम् ॥ १॥ स्थग्यते स्थागं न स्थागमस्थागम् ॥ २॥ तिष्ठति स्ताघम् पृषोदरादित्वात् , न स्ताघमस्ताघम् ॥३॥ गाधते गाधम् , न गाधमगाधम् , ॥४॥ ॥ ४॥ नास्ति तले अधः स्पृक् स्पर्शोऽस्य अतलस्पृक् तत्र, एते वाच्यलिङ्गाः ॥ ५॥ ॥ १३६ ॥
निम्नं गभीरं गम्भीरम् नितरां मीयते निम्नम् , “ युसुनिभ्यो माङो डितू " ॥ (उणा-१०९) ।
Page #428
--------------------------------------------------------------------------
________________
४२८
अभिधानचिन्तामणी
इति नः, निमनति इंति वा ॥१॥ गच्छति जलमत्र गभीरम् , गम्भीरम् , . " जम्बीराभीर-" ॥ ( उणा-४२२) ॥ इति ईरे निपात्यते, अस्थाघादीन् एकार्थान् इत्येके ।। २ ॥ ३ ॥
उत्तानं तद्विलक्षणम् । ऊधै तन्यते उत्तानं ततो गम्भीराद् विलक्षणमन्यत् ॥ १ ॥ - अच्छं प्रसन्ने
अद्यते अच्छम् , “ तुदिमदि.” ॥ ( उणा-१२४ ) ॥ इति छक्,. न छाद्यते वा “ क्वचित् ” ॥ ५ । १ । १७१ ॥ इति डः ॥ १ ॥ प्रसीदति स्म प्रसन्नं तत्र ॥२॥
अनच्छं स्याद् आविलं कलुषं च तत् ॥ १३७ ॥ न अच्छमनच्छम् ॥१॥ आविलल्याविलम् ॥२॥ कल्यते कलुषम् , " ऋपृनहि-" ॥ ( उणा-५५७ ) ॥ इत्युषः ॥ ३ ।। १३७ ।।
अवश्यायस्तु तुहिनं प्रालेयं मिहिका हिमम् ।
स्याद् नीहारस्तुषारश्च
अवश्यायतेऽवश्यायः “ तन्व्यधीण- " ॥५॥ १। ६४ ॥ इति णः ॥ १ ॥ तोहति अर्दयति तुहिनम् , " वृजितुहि-" ॥ ( उणा-२८३ ) इति किदिनः ॥ २ ॥ प्रलयादागतं प्रालेयम् , “ तत आगते " ॥६।३।१४९॥ इत्यण् ततः “ केकयमित्रयुप्रलयस्य यादेः.” ॥४॥२॥ इति वृद्धौ इयादेशे च साधुः ॥३॥ मेहति मिहिका, “कुशिक-"॥ (उणा-४५) ॥ इति इके निपात्यते, धूममहिषी-धूमिका- धूमर्योऽपि ॥४॥ हिनोति वर्धते जलमनेन हिमम् , "शुहिभ्यां वा" ।। (उणा-३४१)॥ इति किद् मः ॥ ५॥ निहियते नोहारः, “घञ्युपसर्गस्य." ॥३।२।८६॥ इति दीर्घः ॥ ६ ॥ तुष्यन्तिऽनेन तुषारः, " तुषिकुठिभ्यां कित्" (उणा-४०८) ॥ इत्यारः, एते त्रयः पुंक्लीबलिङ्गाः ॥ ७ ॥
हिमानी तु महद्धिमम् ॥ १३८ ॥ महद् हिमं हिमानी हिमसंहतिः, “ यवयवनारण्य-" ॥२॥४॥५५॥ इति डीः, आन् चान्तः ॥ १ ॥ १३८ ॥
पारावारः सागरोऽवारपारो
ऽकूपारोदध्यर्णवो वीचिमाली । यादः-स्रोतो-वा-नदीश सरस्वान्
सिन्धूदन्वन्तौ मितद्रुः समुद्रः ॥ १३९ ॥
Page #429
--------------------------------------------------------------------------
________________
४ भूमिकाण्डः ।
४२९
आकरो मकराद् रत्नाजलाद् निधि-धि-राशयः । पारमापिपर्ति पारापारः, जपादित्वाद् वत्वे पारावारः, पारमिव अवारमकि कूलमस्य वा, पारमात्रणोतीति वा ॥ १ ॥ सगरपुत्राणामयं तैः खातत्वात् सागरः ॥ २ ॥ अवारमिव पारं परतटमस्याऽवारपारः ॥ ३ ॥ मर्यादास्थितत्वाद् न कुं पिपर्ति अकुपारः, बाहुलकाद् दीर्घः, जपादित्वाद् वत्वेऽकूवारोऽपि ॥ ४ ॥ उदकं धीयतेऽस्मिन् उदधिः “व्याप्यादाधारे" ।। ५। ३ । ८८ ॥ इति किः "उदकस्योदः पेषंधि." ॥३।२।१०४ ॥ इत्युदादेशः ॥ ५ ॥ अणांसि सन्त्यस्य अर्णवः "तमिस्राणवज्योत्स्नाः ” ॥ ७॥ २ । ५२ ॥ इति साधुः ॥ ६ ॥ वीचीमलते धारयति वीचिमाली ॥ ७ ॥ यादसां स्रोतसां वारां नदीनां च ईश : यादईशः, स्रोतईशः, वारीशः, नदीशः, यौगिकत्वाद् यादःपतिरित्यादयः ॥ ८ ॥ ९ ॥१०॥ ॥ ११ ॥ सरांसि जलप्रसरणानि सन्त्यस्य सरस्वान् ॥ १२ ॥ स्यन्दते सिन्धुः पुंस्त्रीलिङ्गः “ स्यन्दिसृजिभ्या-" ॥ ( उणा-७१७) ॥ इत्युः, सिन्धादेशश्च ॥१३॥ उदकानि सन्त्यस्य उदन्वान् “ उदन्वानब्धौ च" ॥ २।१ । ९७ ॥ इति मतौ निपात्यते ॥ १४ ॥ मितं समयादं द्रवति मितद्रुः पुंलिङ्गः " हरिपीतमित." ॥ (उणा-७४५) ॥ इति डिदुः॥ १५ ॥ समुन्दन्ति आर्दीभवन्ति वर्षाकालनद्योऽस्मात् समुद्रः "ऋज्याजि-" ॥ (उणा-३८८) ॥ इति किद् रः, सह मुद्रया मर्यादया वर्तते वा ॥ १६ ॥ १३९ ॥ मकरशब्दाद् रत्नशब्दाच्च पर आकरः, मकराणामाकरो मकराकरः, मकरालयोऽपि एवं रत्नाकरः, रत्नराशिरपि ॥१७॥१८॥ जलशब्दात् परे निध्यादयः जलस्य निधिर्जलनिधिः, जलं धीयतेऽस्मिन् जलधिः, जलानां राशिर्जलराशिः; यौगिकत्वाद् वारिनिधिः, वारिधिः, वारिराशिरित्यादयः ॥ १९ ॥ ॥ २० ॥ २१ ॥ - शेषश्चात्र
समुद्रे तु महाकच्छो दारदो धरणीप्लवः ॥
महीप्रावार उर्वङ्गस्तिमिकोशो महाशयः ॥ १ ॥
द्वीपान्तरा असङ्ख्यास्ते .ते समुद्राः, द्वीपानि अन्तरे येषां ते द्वीपान्तरा असंख्याः संख्यारहिता असंख्याता इत्यर्थः, यदाहुः- "असंख्याता द्वीपसमुद्राः” इति ॥
सप्तैवेति तु लौकिकाः ॥ १४० ॥ प्राहुरिति शेषः । लौकिका मिथ्यादृष्टयो गतानुगतिकाः सप्तैव समुद्रा इति प्राहुः ॥ १४ ॥
तानाहलवणक्षीरदध्याज्यसुरेक्षुस्वादुवारयः ।
Page #430
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणौ
लवर्ण, क्षीरं, दधि, आज्यं, सुरा, इक्षुरसः, स्वादु च वारि येषां ते तथा लवणवारिर्लवणोदः ॥ १ ॥ क्षीरवारिः क्षीरोदः ॥ २ ॥ दधिवारिर्दध्युदः ॥ ३ ॥ आज्यवारिराज्योदः ॥ ५ ॥ सुरावारिः सुरोदः ॥ ६ ॥ इक्षुवारिरिक्षूदः ॥ ६ ॥ स्वादुवारिः स्वादूदः; यदाहुः -
" लावणो रसमयः सुरोदकः सार्पिषो दधिजलः पयः पयाः ।
स्वादुवारिरुदधिश्च सप्तमस्तान् परीत्य त इमे व्यवस्थिताः ॥ १ ॥ " इति । तरङ्गे भङ्गवीच्यूयुत्कलिकाः
तरति तरङ्गः " पतितमि -” ॥ ( उणा - ९८ ) ॥ इत्यङ्गः, तरः सन् गच्छतीति वा" नाम्नो गमः ॥ ५ । १ । १३१ ॥ इति खड्, तत्र ॥ १ ॥ भज्यते वायुना भङ्गः ॥ २ ॥ ऊयते जलैर्वाचिः स्त्रीलिङ्गः "वेगो डित् ” ॥ ( उणा - ६२८ ) ॥
"
॥
( उणा-६८९ ) ॥
इतीचिः ॥ ३ ॥ इयर्यूर्मिः पुंस्त्रीलिङ्गः " स्रर्तेरूच्चातः इति मिः ॥ ४ ॥ उत्कलते उत्कलिका " क्रीक लि.”
इतीकः ॥ ५ ॥
४३०
ܕܕ
वेति वलति वेला ॥ १ ॥ १४२ ॥ डिण्डीरोऽब्धिकफः फेनः
॥
( उणा- ३८ ) ॥
महति त्विह ॥ १४१ ॥ लहर्युल्लोलकल्लोलाः
इह तरङ्गे महति ॥ १४१ ॥ जलं हरति लहरिः, पृषोदरादित्वात्, ड्यां लहरी ॥ १ ॥ ऊर्ध्वं लोलत्युल्लोलः ॥ २ ॥ कल्यते केल्लते वा कल्लोलः “पिञ्छोल-” ॥ [ उणा-४९५ ] ॥ इत्योले निपात्यते; कुत्सितो लोल इत्येके ॥ ३ ॥
आवर्त्तः पयसां भ्रमः । तालूरो वोलकश्चासौ
आवर्त्तते मण्डलेन भ्रमति आवर्त्तः अम्भसां भ्रमः ॥ १ ॥ तलति तालूरः ‘“महिकणि-” ॥ ( उणा- ४२८ ) ॥ इति णिदूरः ॥ २ ॥ वोलयत्यन्तर्निमज्जयति वोलकः ॥ ३ ॥
वेला स्याद् वृद्धिरम्भसः ॥ १४२ ॥
डयते जलाघातैर्डिण्डीरः " जम्बीर - " ॥ ( उणा - ४२२ ) ॥ इतीरे निपात्यते, डिंडीत शब्दमीरयति राति वा ॥ १ ॥ अब्धेः कफ इवाधिक्ये बहिः प्रसादब्धिकफः सागरमलाख्यः, नद्यादौ तूपचारात् ॥ २ ॥ स्फायते फेनः “दिननग्न-" ॥ ( उणा - २६८ ) ॥ इति ने निपात्यते ॥ ३ ॥
Page #431
--------------------------------------------------------------------------
________________
४ भूमिकाण्डः ।
४३१ ... . .बुद्बुदस्थासको समौ ।
बुन्दति बुबुदः जलस्फोटः “कुमुद-" ॥ ( उणा-२४४ ) ॥ इत्युदे निपात्यते ।। १ ॥ तिष्ठति स्थासकः “कीचक-" ॥ ( उणा-३३ ) ॥ इत्यके निपात्यते ॥ २ ॥
मर्यादा कूलभूः । मर्येति सीमार्थेऽव्ययम् , माँ ददाति मर्यादा कूलस्य समुद्रतटस्य भूः कूलभूः ॥ १॥
कूलं प्रपातः कच्छरोधसी ॥ १४३ ॥
तटं तीरं प्रतीरं च कूलत्यावृणोति कूलम् ॥ १॥ प्रपतन्त्यस्मिन् प्रपातः ॥ २ ॥ कच्यते कच्छः "तुदिमदि." ॥ ( उणा-१२४ ) ॥ इति छक् ॥ ३ ॥ रुणद्धीति रोधः क्लीबलिङ्गः "अस्" ॥ ( उणा-९५२.) ॥ इत्यस् ॥ ४ ॥ १४३ ॥ तन्यते तट त्रिलिङ्गः "नमितनि." ॥ [ उणा-१३९ J.॥ इति टोऽन्तलुक्च, तटत्युच्छ्रयते वा ॥ ५ ॥ तीर्यते तीरम् ॥ ६ ॥ प्रतीरं प्रदीपवत् ॥ ७ ॥
पुलिनं तज्जलोज्झितम् ।
सैकतं च . तत् कूलं च जलेन परित्यक्तं पोलति पुलिनम् , पुंक्लीबीलङ्गः "वृजितुहि." ॥ (उणा-२८३ ) ॥ इति किदिनः ॥ १ ॥ सिकताः सन्त्यस्मिन् सैकतम् , “सिकताशकरात्" ॥ ७ । २ । ३५ ।। इत्यण् ॥ २ ॥
अन्तरीपं तु द्वीपमन्तर्जले तटम् ॥ १४४ ॥ अन्तर्गता आपोऽस्मिन्नन्तरीपम् ॥१॥ द्विधा गता आपोऽत्र द्वीपं पुंक्लीबलिङ्गः "द्वयन्तरनवोपसर्गाद-” ॥ ३ । २ । १०९ ॥ इति समासान्ते सतीपादेशः, जलस्यान्तर्जलं तत्र यत्तटम् ॥ २ ॥ १४४ ।। - तत्परं पारं समुद्रस्य तत्तटं परत्र स्थित पार्यते समाप्यतेऽत्रेति पारं पुंक्लीबलिङ्गः ॥१॥
अवारं त्वर्वाक् समुद्रादेरर्वाक् पार्श्वे तटं न वार्विद्यतेऽस्य अवारं पुंक्लीबलिङ्गः, न वियत इति वा ॥१॥
पात्रं तदन्तरम् ।
Page #432
--------------------------------------------------------------------------
________________
४३२
अभिधानचिन्तामणौ
पीयते पात्रं प्रवाहः त्रिलिङ्गः तयोः पारावारयोरन्तरं मध्यं तदन्तरम् ॥ १॥
नदी हिरण्यवर्णा स्याद् रोधोवक्रा तरङ्गिणी ॥ १४५ ॥. सिन्धुः शैवलिनी वहा च हदिनी स्रोतस्विनी निम्नगा
स्रोतो निर्झरिणी सरिच्च तटिनी कूलङ्कषा वाहिनी । कर्षीपवती समुद्रदयिताधुन्यौ स्रवन्तीसर___ स्वन्त्यौ पर्वतजाऽऽपगा जलधिगा कुल्या च ज़म्बालिनी॥१४६॥
नदति श्रोतस्तरसा नदी गौरादित्वात् ङी ॥१॥ हिरण्येन वर्ण्यते 'पूज्यते हिरण्यवर्णा ॥ २ ॥ रोधोभिर्वका कुटिला रोधोवका ॥ ३ ॥ तरङ्गाः सन्त्यस्यां तरङ्गिणी ॥ ४ ॥ स्यन्दते सिन्धुः पुंस्त्रीलिङ्गः ॥॥ शैवलमस्त्यस्यां शैवलिनी ॥६॥ वहति वहा ॥ ७ ॥ ह्रदाः सन्त्यस्यां ह्रदिनी, हादोऽस्त्यस्या हादिनीत्येके ॥ ८ ॥ श्रोतांसि सन्त्यस्याः श्रोतस्विनी ॥ ९ ॥ निम्नं गच्छति निम्नगा ॥ १० ॥ श्रवति श्रोतः क्लीबलिङ्गः " सरीभ्याम् " ॥ ( उणा-९७८ ) ॥ इति तस् ॥ ११ ॥ निझरोऽस्त्यस्या निझरिणी ॥ १२॥ सरते सरित् स्त्रीलिङ्गः " हृमृरुहिः" ॥ ( उणा-८८७) ॥ इति इत् ॥ १३ ॥ तटानि सन्त्यस्यां तटिनी ॥ १४ ॥ कूलं कषति भिनत्ति कूलंकषा "कूलाभ्रकरीष.” ॥५। १ । ११० ॥ इति खः ॥१५॥ वहत्यवश्यं वाहिनी ॥ १६ ॥ कर्षति रोधसी कः स्त्रीलिङ्गः " कृषिचमि-" ॥ (उणा-८२९) ॥ इत्यूः ॥ ९७ ॥ द्वीपमस्त्यस्यां द्वीपवती ॥ १८ ॥ समुद्रस्य दयिता समुद्रदयिता ॥१९॥ धुनाति तटतरून् धुनिः “धूशाशीङो ह्रस्वश्च" ॥(उणा-६७८)। इति निः, ड्यां धुनी ॥ २० ॥ स्रवति स्रवन्ती ॥ २१ ॥ सरः प्रसरणमस्याः सरस्वती ॥ २२ ॥ पर्वताज्जाता पर्वतजा ॥ २३ ॥ आ अफ्गच्छति आपमब्धि गच्छतीति वा, अप्सम्बन्धिना वेगेन आपेन वेगेन गच्छतीति वा “नाम्नो गमः" ॥ ५।१।१३१ ॥ इति डः ॥ २४ ॥ जलधिं गच्छति जलधिगा ॥ २५ ॥ कोलति जलैः संस्त्यायति कुल्या "कुलेई च वा” ॥ ( उणा-३६२ ) ॥ इति किद् यः ॥ २६ ॥ जम्बालोऽस्त्यस्यां जम्बालिनी ॥ २७॥१४६॥
गङ्गा त्रिपथगा भागीरथी त्रिदशदीर्घिका । त्रिस्रोता जाह्नवी मन्दाकिनी भीष्मकुमारसूः ॥ १४७ ॥ सरिद्वरा विष्णुपदी सिद्ध-स्वः स्वर्गि-खापगा।
ऋषिकुल्या हैमवती स्वर्वापी हरशेखरा ॥ १४८ ॥ गच्छति समुद्रं गङ्गा “गम्यमि-" ॥ ( उणा-९२ ) ॥ इति गः, गामगं वा गच्छतीति वा पृषोदरादित्वात् ॥ १॥ त्रिपथेन गच्छति त्रिपथगा, त्रिमार्गगाऽपि ॥२॥ भगीरथस्येयं भागीरथी, भगीरथेन मार्गेऽवतारितत्वात् ॥ ३ ॥ त्रिदशानां
Page #433
--------------------------------------------------------------------------
________________
४ भूमिकाण्डः ।
४३३
दीर्घिका ॥ ४ ॥ त्रीणि श्रोतांस्यस्यां त्रिश्रोताः स्त्रीलिङ्गः ॥ ५ ॥ जहनुना सगरास्मजेनावताारतत्वात् जोरियं जाह्नवी, जनुना पीता श्रोत्रेण मुक्ता चेति जाह्नवीति लौकिकाः, जनुकन्याऽपि ॥ ६ ॥ मन्दमकति मन्दाकिनी मन्दाका औषधिविशेषाः सन्त्यस्यामिति वा ॥ ७ ॥ भीष्म कुमारं च सूते भीष्मसूः कुमारसूः, स्त्रीलिङ्गाविमौ ॥ ८ ॥ ९ ॥ १४७ ॥ सरितां वरा सरिद्वरा ॥१०॥ विष्णोः पादौ हेतुरस्या विष्णुपदी, विष्णुपादानोत्थितत्वात् “कुम्भपद्यादिः" ॥ ७ । ३ । १४९ ॥ इति साधुः ॥ ११ ॥ सिद्धानां स्वर्गस्य स्वर्गिणां खस्य च आपगा सिद्धापगा, स्वरापगा, स्वापगा, खापगा ॥ १२ ॥ १३ ॥ १४ ॥ १५ ॥ ऋषीणां कुल्या ऋषिकुल्या ॥ १६ ॥ हिमवतः प्रभवति हैमवती “प्रभवति" ॥ ६ । ३ । १५७ ॥ इत्यण ॥ १७ ॥ स्वर्गे वापी स्वर्वापी ॥ १८ ॥ हरस्य शेखरोऽनया हरशेखरा ॥ १९ ॥ ॥१४८ ॥
यमुना यमभगिनी कालिन्दी सूर्यजा यमी । __ यम्यते यमुना "यम्यजि-" ॥ ( उणा-२८८ ) ॥ इत्युनः ॥ १ ॥ यमस्य भगिनी यमभगिनी ॥ २ ॥ कलिन्दादेरियं कालिन्दी कलिन्दतनयाऽपि ॥ ३ ॥ सूर्याज्जाता सूर्यजा ॥ ४ ॥ यमेन यमलजातत्वाद् यमी ॥५॥
रेवेन्दुजा पूर्वगङ्गा नर्मदा मेखलाद्रिजा ॥ १४९ ॥ रेवते वेगेन गच्छति रेवा ॥ १॥ इन्दोर्जाता इन्दुजा ॥ २ ॥ पूर्व गङ्गा पूर्वगङ्गा ॥३॥ नर्म ददाति नर्मदा, नर्मार्थ सोमवंश्येन पुरूरवसाऽवतारितत्वात् ।।४।। मेकलाद्रेता मेकलाद्रिजा मेकलकन्याऽपि ॥ ५ ॥ १४९ ॥
__गोदा गोदावरी
गां द्यति गोदा, गोदन्ते क्रीडन्त्यस्यामिति वा ॥ १ ॥ पयःपूरेण गां पृथ्वी द्यति गोदावरी “मन्वन्-" ।। ५ । १ । १४७ ।। इति वन् “णस्वराघोषाद्वनो रश्च" ।। २ । ४ । ४ ॥ इति ड्यां साधुः ॥ २॥
तापी तपनी तपनात्मजा । . 'तापयति तापिः "स्वरेभ्य इ." ॥ ( उणा-६०६) ॥ ड्यां तापी ॥ १॥ तपति तपनी ॥ २ ॥ तपनस्यात्मजा तपनात्मजा ।। ३ ॥
शुतुद्रिस्तु शतद्रुः स्यात् शु पूजितमाशु वा तुदति शुतुद्रिः "शिग्रुगेझनमेादयः' ॥ ( उणा-८११)॥ इति रौ निपात्यते ॥ १ ॥ वसिष्ठशापभयेन शतधा द्रुतेति शतद्रुः, स्त्रीलिङ्गाविमौ "हरिपीत-" ॥ ( उणा-७४५) ॥ इति डिदुः ॥ २ ॥
कावेरी त्वर्द्धजाह्नवी ॥ १५० ॥
Page #434
--------------------------------------------------------------------------
________________
४३४
अभिधानचिन्तामणौ- .. . कवेरस्य जलदेहस्येयं कावेरी ॥ १॥ अर्ध जाह्नवी अर्धजाह्नवी ॥ २ ॥१५०१
करतोया सदानीरा गौरीविवाहे हरहस्तात् प्रदानतो या जाता करतोया ॥ १ ॥ सदा नीरमस्या सदानीरा ॥ २ ॥
चन्द्रभागा तु चन्द्रका । चन्द्रेण भागतो न्यस्ता चन्द्रभागा। 'चन्द्र-भागाभ्यां गिरिभ्यां प्रभवति चान्द्रभागा' इत्येके ॥ १ ॥ चन्द्रं कायति चन्द्रका ॥२॥
वासिष्ठी गोमती तुल्ये वसिष्टस्येयं वासिष्ठी, गौतमीत्यपि ॥१॥ गावो जलानि सन्त्यस्यां गोमती ।।२।।
ब्रह्मपुत्री सरस्वती ॥ १५१ ॥ ब्रह्मणः पुत्री ब्रह्मपुत्री ।।१॥ सरः प्रसरणमस्त्यस्याः सरस्वती ॥२॥ १५१ ॥
विपाड् विपाशा वशिष्ठं विपाशितवती विपाट् , स्त्रीलिङ्गः ॥ १॥ विपाशयति संसारपाशान मोचयति स्नानेन विपाशा ॥ २ ॥
आर्जुनी तु बाहुदा सैतवाहिनी । अर्जुनस्येयमार्जुनी ॥१॥ बाहुभिर्दीयते तीर्यते बाहुदा "क्वचित्" ॥ ५। १।१७१ ॥ इति डः, बाहुदेन कार्तवीर्यार्जुनेनावतारितेत्यन्ये ॥ २ ॥ सितैव सैती सा चासौ वाहिनी च सैतवाहिनी ॥ ३ ॥
वैतरणी नरकस्था । विगततरणौ व्यर्के पाताले भवा वैतरणी "भवे" ॥६।३ । १२३ ॥ इत्यण् विगततरणिर्वितरणिर्विनौका ततः खार्थेऽण्वा ॥१॥ नरके तिष्ठति नरकस्था नदीविशेषः ॥ २॥ शेषश्चात्र
मुरुदला तु मुरला सुरवेला सुनन्दिनी । चर्मण्वती रतिनन्दी संभेदः सिन्धुसङ्गमः ॥१॥
स्रोतोऽम्भःसरणं स्वतः ॥ १५२ ॥ स्रवति स्रोतः क्लीबलिङ्गः, स्वतोऽकृत्रिममम्भःसरणम् ॥ १ ॥ ॥ १५२ ॥ . __प्रवाहः पुनरोधः स्याद् वेणी धारा रयश्च सः । प्रवहन्त्यनेन प्रवाहः ॥ १॥ वहत्योघः, न्यड्क्वादित्वादविकृतघत्वो निपा
Page #435
--------------------------------------------------------------------------
________________
४ भूमिकाण्डः ।
४३५
त्यते ॥ २॥ वेति वेणिः ड्या वेणी ॥ ३ ॥ ध्रियते जलमनया धारा, भिदादित्वादङि साधुः ॥ ४ ॥ रीयते गच्छति रयः ॥ ५ ॥
घट्टस्तीर्थोऽवतारे . घट्टन्ते चलन्त्यनेन घट्टः ॥ १॥ तरन्त्यनेन तीर्थः, पुंक्लविलिङ्गः "नीनूरमि-" ॥ ( उणा-२२७ ) ॥ इति कित् थः ॥२॥ अवतरन्त्यनेनास्मिन्वाऽवतारः नद्यादीनामवतरणमार्गः तत्र, “अवात् तृस्तृभ्याम्" ॥ ५ । ३ । १३३ ॥ इति घञ् ॥ ३ ॥
अम्बुवृद्धौ पूरः प्लवोऽपि च ॥ १५३ ॥ . अम्बुनो वृद्धिराधिक्यमम्बुवृद्धिस्तत्र, पूरयति कूलयोर्मध्यं पूरः ॥ १॥ प्लवन्तेऽस्मिन् प्लवः ॥ २ ॥॥ १५३ ॥
पुटभेदास्तु वक्राणि पुटं तृणादिसंघातं भिन्दन्ति पुटभेदाः ॥ १ ॥ वञ्चन्ति कुटिलं गच्छन्ति वक्राणि "ऋज्यजि-" ॥ ( उणा- ३८८)॥ इति किद् रः । चक्राणीत्यन्यः ॥२॥
भ्रमास्तु जलनिर्गमाः । भ्राम्यन्ति भ्रमाः, जलं निर्गच्छत्येभिरिति निर्गमा जलपथाः ॥ १ ॥
परिवाहा जलोच्छ्वासाः जलं प्रवृद्ध परिवहति यैर्निर्गममार्गस्ते परिवाहाः “घञ्युपसर्गस्य-" ॥ ३ । २ । ८६ ॥ इति दीर्घत्वे परीवाहाः ॥ १ ॥ जलं प्रवृद्धमुच्छ्वसिति यैस्ते जलोच्छवासाः ॥ २ ॥ - कूपकास्तु विदारकाः ॥ १५४ ॥
कूपप्रतिकृतयः कूपकाः, शुष्कनद्यादौ हि जलार्थ गर्ताः क्रियन्ते, यत् कात्यःविवरान् कूपकानाहुः ॥ १॥ विदारयन्ति मां विदारकाः ॥ २ ॥ १५४ ॥
प्रणाली जलमार्गे प्रणलन्त्यम्भोऽनया प्रणाली त्रिलिङ्गः, जलनिर्गममार्गों मकरमुखादिस्तत्र॥१॥
अथ पानं कुल्या च सारणिः । पीयते वृक्षादिभिरनेन पानम् ॥ १॥ कोलति संस्त्यायत्यम्भसा कुल्या ॥२॥ सरति जलमनया सरणिः "ऋहसू-" ॥ ( उणा- ६३८) ॥ इत्यणिः, बाहुलकाद्दीर्घत्वे सारणिः स्त्रीलिङ्गः ॥ ३ ॥
शेषश्चात्र- नीका तु सारणौ ॥
Page #436
--------------------------------------------------------------------------
________________
४३६
अभिधानचिन्तामणौ
सिकता वालुकाः ____ 'सिकिः सौत्रः' सिक्यन्ते सिकताः "पृषिराजि-" ॥ ( उणा- २०८)॥ इति किदतः, स्त्रीलिङ्गो वा बहुवचनान्तोऽयं यदवोचाम- “वा तु जलौकाप्सरसः सिकता-सुमनःसमाः" (लिङ्गा० २६) इति ॥१॥ वलन्ते वालुकाः “कञ्चुक-" ॥ (उणा- ५७)॥ इत्युके निपात्यते । सिकतानां पृथ्वीकायिकत्वेऽपि नद्यङ्गभूतत्वादप्. कायमध्ये पाठः ॥ २ ॥
बिन्दौ पृषत् पृषतविग्रुषः ॥ १५५ ॥ ... 'बिदु अवयवे' बिन्दति बिन्दुः पुंलिङ्गः "भृमृतृ-" ॥ ( उणा- ७१६ ) ॥ इत्युः, तत्र ॥ १ ॥ पर्षति सिञ्चति पृषत् क्लीबलिङ्गः “द्रुहिवृहि-" ॥ ( उणा८८४) ॥ इति किदत् ॥ २ ॥ "पृषिरजि-" ॥ ( उणा- २०८ ) इति किदते पृषतः ॥ ३ ॥ विरुद्धं पुष्यतेऽनया विद्युत् “क्रुत्संपदादि-"५ । ३ । ११४ ॥ इति क्विप् , विगतः प्रोषोऽस्या इति वा ॥ ४ ॥ ॥ १५५ ॥
जम्बाले चिकिलो पङ्कः कमश्च निषद्वरः ।
शादः जायते जमति ग्रसते वा जम्बालः, पुंक्लीबलिङ्गः "चात्वाल-" ॥ ( उणा४८०) ॥ इत्याले निपात्यते ॥ १ ॥ अञ्चतीति चिकिलः "स्थाण्डिल-" ( उणा- ४८४ ) ॥ इतीले निपात्यते ॥ २॥ पञ्च्यते विस्तार्यते जालेन पङ्कः पुंक्लीबलिङ्गः, घनि न्यवादित्वात् कत्वम् ॥ ३ ॥ कर्दति निष्पीडितः कर्दमः "सृपृप्रथि-" ॥ ( उणा- ३४७ ) ॥ इत्यमः ॥ ४ ॥ निषीदन्त्यस्मिन्निषद्वरः "कृगश-" ॥ ( उणा- ४४१ ) ॥ इति रट् ॥ ५ ॥ शीर्यतेऽस्मिन् शादः विस्कल्लो देश्यां संस्कृतेऽपि ॥ ६ ॥
हिरण्यबाहुस्तु शोणः .... हिरण्यं वहति हिरण्यबाहुः “मिवहि-" ॥ ( उणा- ७२६ ) ॥ इत्युण् ॥१॥शोणजलत्वात् शोणः ॥ २ ॥
नदे पुनर्वहः ॥ १५६ ॥
भिद्य उद्ध्यः सरस्वांश्च नदति नदः, तत्र ॥१॥ वहति वहः ॥२॥ ॥ १५६ ॥ भिनति कूलानीति भिद्यः ॥ ३ ॥ उज्झत्युदकमुद्ध्यः "कुप्यभिद्योद्ध्य-" ॥ ५। १ । ३९ ।। इति क्यपि साधुः ॥ ४ ॥ सरः प्रसरणमस्त्यस्य सरस्वान् ॥ ५॥ .... द्रहोऽगाधजलो ह्रदः।
द्रुह्यति द्रहः, पृषोदरादित्वात् ॥ १॥ अगाधं जलमस्मिन् अगाधजलः ॥२॥ हादति हृदः, पृषोदरादित्वाद् ह्रस्वः ॥ ३ ॥ " .
Page #437
--------------------------------------------------------------------------
________________
४३७
. ४ भूमिकाण्डः। . कूपः स्यादुदपानोऽन्धुः प्रहिः ।
कौति प्रतिशब्देन कूपः पुंस्त्रीलिङ्गः “युसुकु-" ॥ (उणा-२९७)॥ इति प ऊत्वं च, कुत्सिताः कोर्वा आपोऽत्रेति वा; पृषोदरादित्वात् ॥१॥ उदकं पीयतेऽस्मिन् उदपानः पुंक्लीबलिङ्गः "नाम्न्युत्तरपदस्य च" ॥ ३ । २ । १०७ ॥ इत्युदादेशः ॥२॥ अन्धयत्यन्धुः "भृमृतृ-" ॥ ( उणा- ७१६ ) ॥ इत्युः ॥ ३ ॥ प्रहरति प्रहिः "नीवीप्रहृभ्यो डित्" ॥ ( उणा- ६१६) ।। इति इः, पुंलिङ्गावेतौ ॥ ४॥ .. नेमी तु तन्त्रिका ॥ १५७ ॥
नीयते जलमनया नेमिः स्त्रीलिङ्गः ॥ १ ॥ तस्य कूपस्यान्ते रज्ज्वादिधारणार्थ त्यत्रं दारु त्रिका तन्त्रिका ॥ २ ॥ ॥ १५७ ॥
नान्दीमुखो नान्दीपटो वीनाहो मुखबन्धने ।. 'नान्या इव मुखमस्य नान्दीमुखः ॥ १ ॥ नान्दीव पटति नान्दीपटः ॥२॥ कूपस्योर्ध्व इष्टकाभिर्विनह्यते वीनाहः पुंक्लीबलिङ्गः, यद्वैजयन्ती- 'वीनाहमस्त्रियाम्' । "धन्युपसर्गस्य-" ॥ ३ । २।८६ ॥ इति दीर्घः ॥३॥ कूपस्य मुखं बध्यतेऽनेन मुखबन्धनं, तत्र ॥
आहावस्तु निपानं स्यादुपकूपे
आहूयन्ते पशवः पानाय अस्मिन्नित्याहावः "आहावो निपानम्"॥ ५।३। ४४॥ इत्यलि निपात्यते ॥ १॥ नितरां पिबन्त्यत्र निपानं पुंक्लीबलिङ्गः । कूपस्य समीपे शिलादिबद्धं पशुपानार्थ कूपोद्धृताम्बुस्थानम्, तत्र ॥ २ ॥
अथ दीर्घिका ॥ १५८॥
वापी स्यात् दीर्धेव दीर्घिका ॥ १ ॥ ॥ १५८ ॥ उप्यतेऽस्यां पद्मादि वापिः “कमि. वमि-" ॥ ( उणा-६१८)॥ इति णिदिः, ड्यां वापी ॥ २ ॥ .....क्षुद्रकूपे तु चुरी चुण्ढी च चूतकः । ।
चोरति चुरिः “नाम्युपान्त्य-"॥५। १ । ५४ ॥ इति कः, यां चुरी ॥१॥ चमन्त्याचमन्त्यस्यां चुण्डिः “ चमेरुच्चातः " ( उणा-६३२)॥इति ढिः, यां 'चुण्डी ॥ २ ॥ श्चोतति चतकः "कीचक-" ॥ ( उणा- ३३ )॥ इत्यके निपात्यते
उद्घटिकं घटीयन्त्रं उद्घाटयति प्रकाशयत्यम्भ उद्घाटकम्, उद्घाटनमपि । ऊर्ध्व हन्यतेऽनेनेत्युद्घाट
Page #438
--------------------------------------------------------------------------
________________
४३८
अभिधानचिन्तामणौ
नमिति कौटिल्यः ॥ १॥ घटीनां यन्त्रं घट्यो यन्त्र्यन्तेऽत्रेति वा घटीयन्त्रं मालाख्यं येन कूपादेर्जलमूर्ध्व वाह्यते ॥ २ ॥
पादावर्तोऽरघट्टकः ॥ १५९ ॥ पादाभ्यामावर्त्यते भ्रम्यते पादावर्तः ॥ १ ॥ अरान् घट्टयति, अरा घट्टयन्तेऽत्रेति वा अरघट्टः, केऽरघट्टकः ॥ २ ॥ १५९ ॥
अखातं तु देवखातं न खातमखातं नागादिकुण्डमकृत्रिमम् ॥ १॥ देवैरिव खातं देवखातम् ॥२॥
पुष्करिण्यां तु खातकम् । पुष्करमस्त्यस्यां पुष्करिणी तडागिका "पुष्करादेर्देशे” ॥ ७ । २ । ७० ॥ इतीन् , तत्र ॥ १ ॥ खन्यते खातं इखं खातं खातकम् ॥ २॥
.. पद्माकरस्तडागः स्यात् कासारः सरसी सरः ॥ १६० ॥
पद्मानामाकरः पद्माकरः, योग्यत्वात् ॥ १ ॥ ताज्यते जलमस्मिंस्तडागः । तडे. रागः तडाग इत्यपरः । तटान्यकति तटाक इत्यपरे । 'कासृङ् शब्दकुत्सायाम्' इति दन्त्यान्तः, कासन्ते बकादयोऽत्र कासारः पुंक्लीबलिङ्गो "अग्यङ्गि-” ॥ (उणा-४०५)॥ इत्यारः कमासरत्यत्रेति वा ॥ २ ॥३॥ सरतिर्जलमत्र "अस्"। (उणा-९५२) इत्यसि स्त्रीलिङ्गे गौरादित्वात् ङ्यां सरसी, क्लीबे तु सरः। वाचस्पतिस्तु-'कासारस्त्वल्पसरसि सरसी तु महासरः' इति विशेषमाह ॥४॥५॥१६०॥
वेशन्तः पल्वलोऽल्पं विशन्ति मजन्यस्मिन् वेशन्तः "जविशिभ्याम्." ॥ ( उणा- २१९ ) ॥ इत्यन्तः ॥ १॥ 'पल गतौ' पल्यते पल्वलः पुंक्लीबलिङ्गः “शमिकमि-"॥ ( उणा- ४९९ ) ॥ इति वलः । तल्लो देश्यां संस्कृतेऽपि ॥ २ ॥
परिखा खेयखातिके । परिखन्यते परिखा "क्वचित्" ॥५। १ । १७१॥ इति डः ॥१॥ खन्यते खेयम् “खेयमृषोद्ये" ॥ ५। १ । ३८ ॥ इति साधुः ॥ २॥ खातैव खा. तिका दुर्गवेष्टनहेतुः ॥ ३॥
_ स्यादालवालमावालमावापः स्थानकं च सः ॥ १६१ ॥
आलूयते खन्यते आलवालः पुंक्लीबलिङ्गः "चात्वाल-" ॥ ( उणा-४८०)॥ इत्याले निपात्यते ॥ १ ॥ आवलते बहिर्निर्गमादम्भोऽत्र आवालं क्लीबलिङ्गः । व्या. डिस्तु-"आवालो जलपिण्डिलः" इति पुंलिङ्गमाह ॥ २॥ आ उप्यतेऽम्भोऽस्मिन्ना. वापः॥३॥ वृक्षसेकाऽथे द्रवतोऽम्भसः स्थानं स्थानकम् , यदाहुः- आलवालं विदुर्धारा धारणं द्रवतोऽम्भसः ॥ ४ ॥ १६१ ॥
Page #439
--------------------------------------------------------------------------
________________
४ भूमिकाण्डः।
४३९
आधारस्त्वम्भसां बन्धः आध्रियन्तेऽम्भांसि अस्मिन्नाधारः क्षेत्रादिसेकार्थ यत्राम्भः संचीयते सोऽम्भसां बन्धः ॥ १॥
निर्झरस्तु झरः सरिः।
उसः स्रवः प्रस्रवणं निसर्यति झीर्यति च जलमत्र निर्झरः, झरः ॥१॥२॥ सरति सरिः स्त्रीलिङ्गः "स्वरेभ्य इः" ॥ (उणा-६०६) ॥ ३ ॥ उनत्ति उस्रः "ऋजिरिषि-" ॥ (उणा५६७)॥ इति कित् सः, पुंस्ययम् । वाचस्पतिस्तु ‘सरिः स्त्री निझरो झरः उसस्त्वस्त्री' इति क्लीवेऽप्याह ॥ ४ ॥ स्रवति स्रवः ॥ ५॥ प्रस्रवन्त्यनेन गिरयः प्रस्रवणम् ॥६॥
जलाधारा जलाशयाः ॥ १६२॥ जलानामाधारा जलाधाराः सामान्येन चाप्यादयः ॥१॥ जलानामाशयो हृदयमेषां जलाशयाः, जलमाशेते एषु वा ॥ २ ॥ १६२ ॥
॥ समाप्तोऽयमप्कायः ॥ तेजःकायमाह
वहिव॒हद्भानु-हिरण्यरेतसौ ___ धनञ्जयो हव्यहविर्हताशनः। कृपीटयोनिर्दमुना विरोचना___ऽऽशुशुक्षणी छागरथस्तनूनपात् ॥ १६३ ॥ कुशानु-वैश्वानर-वीतिहोत्राः
वृषाकपिः पावक-चित्रभानू । अप्पित्त-धूमध्वज-कृष्णवा__ऽर्चिष्मत्-शमीगर्भ-तमोघ्न-शुक्राः ॥ १६४ ॥ शोचिष्केशः शुचि-हुतवहो-षर्बुधाः सप्तमन्त्रज्वालाजिह्वो ज्वलन-शिखिनौ जागृविर्जातवेदाः । बर्हिःशुष्मा-ऽनिलसख-वसू रोहिताश्वा-ऽऽश्रयाशौ बहिर्कोतिर्दहन-बहुलौ हव्यवाहोऽनलोऽग्निः ॥ १६५ ॥
विभावसुः सप्तो-दचिः वहति तेजो वह्निः “ वीयुसुवह्यगिभ्यः- " ॥ ( उणा-६७७ ) ॥ इति निः
Page #440
--------------------------------------------------------------------------
________________
४४०
अभिधानचिन्तामणौ- .
॥१॥ बृहन्तो भानवो रश्मयोऽस्य बृहद्भानुः ॥२॥ हिरण्यं रेतोऽस्य हिरण्यरेताः, यत् स्मृतिः- “अग्नेरपत्यं प्रथमं सुवर्णम्” इति ॥३॥ धनं जयति धनञ्जयः ॥ ४ ॥ हव्यं हविर्तुतं चाऽश्नाति हव्याशनः, हविरशनः, हुताशनः, नन्द्यादित्वादनः, यौगिकत्वाद् हव्यभुग इत्यादयः ॥ ५ ॥ ६ ॥ ७ ॥ कृपाटस्याम्भसो योनिधूमजत्वाद् मेघानां, कृपीटयोनिः। 'कृपीटं योनिरस्य' इत्येके; यदाहुः-"अभ्यो ऽग्निब्रह्मणः क्षत्रमश्मभ्यो लोहमुत्थितम्" ॥८॥ दाम्यति दमुनाः, दमेहनसूनसो, दमूना अपि ॥ ९ ॥ विरोचते विरोचनः ॥ १० ॥ आशोष्टुमिच्छति आशुशुक्षणिः " आङः कृशुषेः सनः" ॥ ( उणा-६४३ ) ॥ इत्यणौ साधुः ॥ ११ ॥ छागो रथोऽस्य च्छागरथः ॥१२॥ तनूं न पातयति तनूनपात्, देहधर्तृत्वात् ; नखादित्वात् : साधुः ॥ १३ ॥ ॥ १६३ ॥ कृश्यति दाह्याभावे कृशानुः " कृशेरानुक् ” ॥ ( उणा-७९४ )॥ १४ ॥ विश्वानरस्यापत्यं वैश्वानरः, विदादित्वादञ् ॥ १५॥ वीतयोऽश्वा होत्रं हव्यमस्य वीतिहोत्रः ॥ १६ ॥ वृषेण धर्मेण अकति वृषाकपिः, वृषेण तेजसा आकम्पते वा ॥ १७ ॥ पुनाति पावकः ॥१८॥ चित्रा नाना भानवः कान्तयोऽस्य चित्रभानुः ॥ १९ ॥ अपां पित्तं सारमपित्तम् ॥ २० ॥ धूमो ध्वजोऽस्य धूमध्वजः ॥ २१ ॥ कृष्णो धूमो वाऽस्य कृष्णवां ॥ २२ ॥ अर्चीषि विद्यन्तेऽस्यार्चिष्मान् ॥ २३ ॥ शम्या गर्भः शमीगर्भः; यत् कालिदासः-"शमीमिवाभ्यन्तरलानपावकाम्” इति ॥२४॥ तमो हन्ति तमोघ्नः ॥ २५ ॥ शुक्रं तेजोऽस्त्यस्य शुक्रः, अभ्रादित्वादः ॥ २६ ॥ १६४ ॥ शोचींषि ज्वालाः केशा अस्य शोचिष्केशः ॥ २७ ॥ शुचिः, शोधकत्वात् ॥ २८ ॥ हुतं वहति हुतवहः, लिहा. दित्वादच् ॥ २९ ॥ उषसि रात्रौ बुध्यते उषबुधः “वाऽहर्पत्यादयः" ॥ १। ३ । ५८ ॥ इति साधुः ॥ ३० ॥ सप्त-मन्त्र-ज्वालशब्देभ्यः परो जिह्वः सप्तजिह्वा अस्य सप्तजिह्वः, यदाहुः
"भवति हिरण्या कनका रक्ताकृष्णा वसुप्रभा कन्या।
रक्ता बहुरूपेति सप्त सप्तार्चिषां जिह्वाः ॥ १॥” . : मन्त्र एव जिह्वा अस्य मन्त्रजिह्वः, ज्वाला जिह्वाऽस्य ज्वालाजिह्वः॥३१॥३२॥ ॥ ३३ ॥ ज्वलंति इत्येवंशीलो ज्वलनः "भूषाकोधार्थ-" ॥५॥२॥ ४२ ॥ इत्यनः ॥ ३४ ॥ शिखाः सन्त्यस्य शिखी ॥ ३५ ॥ जागर्ति वायुना जागृविः, "जृशस्तृ-" ॥ ( उणा- ७०५) ॥ इति डिद् विः ॥ ३६ ॥ जाते विद्यते जातवेदाः “अस्" ॥(उणा-९५२)॥ इत्यस् , जाता वेदा अस्मादिति वा पृषोदरादित्वात् ॥३७॥ बर्हिर्दर्भः शुष्म बलमस्य बर्हिःशुष्मा। बहते वर्धते बर्हिरिरि व्यस्तम्, यथा 'बर्हिमुखा देवाः' शुष्यत्यनेन शुष्मा यथा-'शुष्मणि प्रणयनाभिसंस्कृते' इति बर्हिरुत्क इत्यमरमाला, यथा 'दृशां बर्हिणो बर्हिरुत्कः' इति ॥३८॥ अनिलः सखाऽस्य अनिलसखा ॥ ३९ ॥ वसन्ति देवा अस्मिन् वसुः ॥ ४० ॥ रोहिताख्यो मृर्गोऽश्वो
Page #441
--------------------------------------------------------------------------
________________
४ भूमिकाण्डः ।
४४१
वाहनमस्य रोहिताश्वः ॥ ४१ ॥ आश्रयमात्मस्थानमश्नाति आश्रयाशः आश्रयमाधारमनात्याश्रयाश इत्येके ॥ ४२ ॥ बर्हिषो दर्भा ज्योतिरस्य बर्हिज्योतिः ॥ ४३ ॥ दहति दहनः ॥ ४४ ॥ बंहते वर्धते बहुलः “स्थावङ्कि-” ॥ ( उणा४८६ ) ॥ इत्युलो नलुक् च ॥ ४५ ॥ हव्यं वहात हव्यवाहः ॥ ४६ ॥ अनित्यनेन लोक इत्यनलः “मृदिकन्दि - " || ( उणा - ४६५ ) ॥ इत्यलः ॥ ४७ ॥ अगत्यूर्ध्व याति अग्निः " वीयु - " ॥ ( उणा - ६७७ ) ॥ इति निः ॥ ४८ ॥ ॥ १६५ ॥ विभैव वसु धनमस्य विभावसुः ॥ ४९ ॥ सप्त ऊर्ध्वाश्च अर्चिषोऽस्य सप्तार्चिः, उदर्चिः ॥५०॥ ५१ ॥ एते पुंलिङ्गाः । अप्पित्तं नपुंसकम् ।
शेषश्चात्र
अग्नौ वमिद् दीप्रः समन्तभुक् । पपरीकः पविघासिः पृथुर्घ सुरिराशिरः ॥ जुहुराणः पृदाकुश्च कुषाकुर्हवना हविः । घृतार्चिर्नाचिकेतश्च प्रष्टो वञ्चतिरञ्चतिः ॥ भुजिर्भरथपीथौचा स्वनिः पवनवाहनः ॥ स्वाहाऽग्नायी प्रियाऽस्य च ।
अस्य वह्नेः प्रिया, सुष्ठु आहूयन्ते देवा अनया स्वाहा, पृषोदरादित्वात्, सुष्ठु आह ब्रूते देवान् ऋत्विग्नयेति वा, स्वाहेत्यव्ययमपि ॥ १ ॥ अग्नेर्भार्याऽग्नाय " पूतक्रतुवृषाकप्यभिः - " ॥ २ । ४ । ६० ॥ इति ङी, ऐकारश्चान्तस्य ॥ २ ॥ और्वः संवर्त्तकोऽब्ध्यग्निर्वाडवो वडवामुखः ॥ १६६ ॥
ऊर्वस्यापत्यमौर्वः, विदादित्वादञ् दधीचिसूनोः पिप्पलादस्य उरूद्भवत्वादिति चा । वरुणभयान्मात्रा ऊर्वोर्गोपितत्वादित्येके ॥ १ ॥ संवर्त्तयति संवर्त्तकः ॥ २ ॥ अब्धेरग्निरब्ध्यग्निः ॥ ३ ॥ वडवाया अपत्यं वाडवः " वाडवेयो वृषे " ॥ ६ । १ । ८५ ॥ इत्यत्र नियमादेयण् न भवति ॥ ४ ॥ वडवाया इव मुखमस्य वडवामुखः ॥ ५ ॥ १६६ ॥
दवो दावो वनवह्निः
,
दुनोति वन्यान् दवः, अच्,
णे
दावः ॥ २ ॥ वनस्य वह्निर्वनवह्निः ॥ ३ ॥
मेघवह्निरिरम्मदः ।
८८
वा ज्वलादि " ॥ ५ । १ । ६२ ॥ इति
मेघस्य वह्निर्मेघवह्निः ॥ ॥ इरया जलेन माद्यतीरम्मदः
॥ ५ । १ । १२७ ॥ इति खशि निपात्यते ॥ २ ॥
छागणस्तु करीषाग्निः
"
इरम्मदः
22
Page #442
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणौ
छगणस्यायं छागणः || १ || करीषस्याग्निः करीषाग्निः ॥ २ ॥
कुकूलस्तु तुषानलः ॥ १६७ ॥
(6
कूयते कुकूलः पुंक्लीबलिङ्गः दुकूलकुकूल-" ॥ ( उणा - ४९१ ) ॥ इति साधुः ॥ १ ॥ तुषाणामनलस्तुषानलः ॥ २ ॥ १६७ ॥
संतापः संज्वरः
सन्तापयति सन्तापः ॥ १ ॥ संज्वरयति संज्वरः ॥ २ ॥
४४२
बाष्प ऊष्मा
॥
बाधते बाष्पः पुंक्लीबलिङ्गः " शादिबाधि " षत्वं च ॥ १ ॥ ऊषति रुजत्यूष्मा पुंलिङ्गः “ मन् मन् ॥ २ ॥
( उणा - २९९ ) ॥ इति प
"
॥ ( उणा - ९११ ) ॥ इति
जिह्वाः स्युरच्चिषः ।
अग्नेरर्चिषः, लेढि हव्यमाभिर्जिह्वाः ॥ १ ॥
"
हेतिः फीला शिखा ज्वालार्चिः
हिनोत्यनया हेतिः “ सातिहेति - " ॥ ५ । ३ । ९४ ॥ इति तौ निपात्यते ॥ १ ॥ कीलति कीला पुंस्त्रीलिङ्गः ॥ २ ॥ श्यति शीखा ॥ ३ ॥ ज्वलति ज्वाला पुंस्त्रीलिङ्गः, ज्वलादित्वात् णः ॥ ४ ॥ अर्च्यतेऽचिः स्त्रीक्लीबलिङ्गः "रुच्यर्चि - " ॥ ( उणा - ९८९ ) ॥ इतीस् ॥ ५ ॥
उलक्का महत्यसैौ ॥ १६८ ॥
असौ ज्वाला महती उलक्कायति, ज्वलतीति वा
:
२६ ) ॥ इति के निपात्यते ॥ १ ॥ ॥ १६८ ॥
स्फुलिङ्गोऽग्निकणः
" निष्कतुरुष्क" ॥ ( उणा
स्फुलति संचिनोति स्फुलिङ्गः, त्रिलिङ्ग: “स्फुलिकंलि - " ॥ ( उणा -१०२ ) ॥ इतीङ्गक् । जातावपि स्त्रियां न डी, कन्दरावत् ॥ १ ॥
अलातज्वालोलका
अलातस्य ज्वाला अलातज्वाला 'उल दाहे' सौत्रस्य, ज्वलतेर्वा "निष्कतुरुष्क - " ॥ ( उणा - २६ ) ॥ इति के निपातनादुल्का ॥ १ ॥
अलातमुल्मुकम् ।
अलति दीप्त्या मण्डयत्यलातं "कुकलि - " ॥ ( उणा - २०९ ) ॥ इत्यात ॥ १ ॥ ज्वलत्युल्मुकं “कञ्चुक - " ॥ ( उणा - ५७ ) ॥ इत्युके निपात्यते ॥२॥
Page #443
--------------------------------------------------------------------------
________________
४ भूमिकाण्डः ।
'४४३ धूमः स्याद्वायुवाहोऽग्निवाहो दहनकेतनम् ॥ १६९ ॥
अम्भःमूः करमालश्च स्तरीर्जीमूतवाह्यपि । धुनाति धूमः “विलिभिलि-" ॥ ( उणा- ३४० ) ॥ इति किन मः ॥ १ ॥ वायुना उह्यते वाह्यते वायुवाहः ॥२॥ अग्निना उह्यतेऽग्निवाहः ॥३॥ दहनस्य केतनं ध्वजो दहनकेतनम् ॥ ४ ॥ १६९ ॥ अम्भः सूते धूमजत्वाद् मेघानामभ्भःसूः ॥ ५ ॥ कार्यते वायुना करमालः “चात्वाल-" ॥ ( उणा- ४८० ) ॥ इत्याले निपात्यते ॥ ६ ॥ मृणाति खं स्तरीः स्त्रीलिङ्गः "तृस्तृतन्द्रि-" ॥ ( उणा७११)॥ इति ईः ॥ ७ ॥ जीमूतं वहति जीमूतवाही ॥ ८ ॥
तडिदैरवती विद्युच्चला शम्पाऽचिरप्रभा ॥ १७० ॥ आकालिकी शतहदा चञ्चला चपलाऽशनिः ।
सौदामनी क्षणिका च हदिनी जलवालिका ॥ १७१ ॥ ताडयति तडित् "इसृरुहि-" ॥ ( उणा-" ८८७ ) ॥ इतीत् , स्त्रीलिङ्गोऽयम् ॥१॥ ऐरावतोऽभ्रगो गजस्तस्य स्त्री ऐरावती, इरावति मेघे समुद्रे वा भवेति वा ॥२॥ विद्योतते विद्युत् स्त्रीलिङ्गः ॥ ३ ॥ चलति चला ।। ४ ॥ शाम्यति शम्पा "भापा. चणि-" ॥ ( उणा- २९६)॥ इति पः, शं पिबतीति वा । दन्त्यादिरयमिति प्राच्याः सं पिबति नायनं तेज इति व्याख्यन् ॥ ५॥ न चिरं प्रभाऽस्य अचि. रप्रभा, क्षणप्रभाऽपि ॥ ६ ॥ १७० ॥ आकालमुत्पत्तिकालं यावद् भवति आकालिकी क्षणिकत्वात् “ आकालिकमिकश्चाद्यन्ते"!। ६ । ४ । १२८ ॥ इति इकण् ॥ ७ ॥ शतदोऽब्धिरस्त्यस्याः शतदा वाडवज्योतिष्ट्वात् अभ्रादित्वादः, शतधा हादते वा पृषोदरादित्वात् ह्रस्वः ॥ ८॥ चञ्चला, चपला, अस्थैर्यात् ॥ ९ ॥ ॥ १० ॥ अश्नुतेऽशनिः पुंस्त्रीलिङ्गः “सदिवृति-" ॥ ( उणा- ६८०) ॥ इत्यनिः ॥ ११ ॥ सुदाम्ना पर्वतेन एकदिक् सौदामनी "टस्तुल्यदिशि" ॥ ६ । । ३ । २१० ॥ इत्यण् ।। १२ ॥ क्षणोऽस्त्यस्याः क्षणिका ॥ १३ ॥ हादतेऽवश्यं हादिनी ॥ १४ ।। जलेन वलति प्राणिति जलवालिका ॥ १५ ॥ १७१ ॥
॥ समाप्तोऽयं तेजःकायः ॥ वायुकायमाहवायुः समीर-समिरौ पवना-ऽऽशुगौ नमःश्वासो नभस्वद-ऽनिल-श्वसनाः समीरणः । वातोऽहिकान्त-पवमान-मरुत्-प्रकम्पनाः कम्पाक-नित्यगति-गन्धवहः-प्रभञ्जनाः ॥ १७२ ॥ मातरिश्वा जगत्प्राणः पृषदश्वो महाबलः ।
Page #444
--------------------------------------------------------------------------
________________
४४४
अभिधानचिन्तामणौ-
..
.
: मारुतः स्पर्शनो दैत्यदेवः
वाति वायति वा द्रव्याणि वायुः "कृवापाजि-" ॥ ( उणा- १) ॥ इत्युण् ॥ १॥ समीरयति समीरः ॥ २ ॥ समेति समिरः “ इण्धाग्भ्यां वा" ॥ (उणा-३८९ ) ॥ इति किद् रः ॥ ३ ॥ पवते पवनः ॥ ४ ॥ आशु गच्छति आशुगः ॥ ५॥ नभसः श्वास इव नभःश्वासः ॥ ६॥ नभोऽस्त्यस्य नभस्वान् ॥ ७ ॥ अनन्त्यनेन अनिलः “कल्यनि" ॥ (उणा-४८१ ) ॥ इतीलः, न निलति इति वा ॥ ८ ॥ श्वसन्त्यनेन श्वसनः ॥ ९ ॥ समीरति समीरणः ॥ १० ॥ वाति वायति वा वातः “दम्यमि-" ॥ ( उणा- २०० ) ॥ इति तः ॥११॥ अहिभिः. काम्यते अहिकान्तः॥ १२ ॥ पवते पवमानः ॥१३॥ म्रियन्ते क्षुद्रजन्तवोऽनेन मरुत् , म उत् ।। १४ ॥ प्रकम्पयति प्रकम्पनः ॥१५॥ कम्पाकश्चिह्नमस्य कम्पाकः ॥१६॥ नित्यं गतिरस्य नित्यगतिः, सदागतिरपि॥१७॥ गन्धस्य वहो गन्धवहाः, गन्धबहोऽपि ॥ १८ ॥ प्रभनक्ति प्रभञ्जनः ॥ १९ ॥ १७२ ॥ मातरि खे श्वयति मातरिश्वा "श्वन्मातरिश्वन्-" ( उणा- ९०२) इत्यनि निपात्यते ॥२०॥ जगतां प्राणो जगत्प्राणः ॥ २१ ॥ पृषद् मृगविशेषोऽश्वोऽस्य पृषदश्वः । पृषन्त्यम्बुकणा अश्वा अस्य इत्यन्ये ॥ २२ ॥ महद् बलमस्य महाबलः ॥ २३ ॥ मरुदेव मारुतः, प्रज्ञादित्वादण् ॥ २४ ॥ स्पृशति स्पर्शनः ॥ २५ ।। दैत्यानां देवो दैत्यदेवः ॥ २६ ॥ एते पुंलिङ्गाः ॥ शेषश्चात्र
वाया सुरालयः प्राणः संभृतो जलभूषणः । शुचिर्वहो लोलपटः पश्चिमोत्तरदिपतिः ॥ १॥ अङ्कतिः क्षिपणुर्माा ध्वजप्रहरणश्चलः। . शीतलो जलकान्तारो मेघारिः सृमरोऽपि च ॥ २ ॥
झञ्झा स वृष्टियुक् ॥ १७३ ॥ स वायु वृष्टया युक्तः ‘झमू अदने' झमतीव झञ्झा, “झमेझः" ॥(उणा१३७) ॥१॥ १७३ ॥
प्राणो नासाग्रहन्नाभिपादाङ्गुष्ठान्तगोचरः । प्रकर्षणानयति प्राणः "क्वचित्” ॥ ५। १ । १७१ ॥ इति डः, प्रसरणेन अनित्यनेन वा नासाद्यं हृदयं नाभिः पादाङ्गुष्ठान्तश्च गोचरो यस्य स तथा ॥१॥
- अपानः पवनो मन्थापृष्ठपृष्ठान्तपाणिगः ॥ १७४ ॥
मूत्रपुरीषगर्भादीनपानयत्यपानः, अपसरणेन अनित्यनेन वा । मन्थे प्रीवापश्चाद्भागौ, पृष्ठ तदधोभागः, पृष्ठान्तो गुदः, पाणी पादपश्वाभागौ तेषु गच्छति यः स तथा ॥१॥॥ १७४॥
Page #445
--------------------------------------------------------------------------
________________
४ भूमिकाण्डः ।
४४५
'समानः सन्धिहन्नाभिषु अशितपीताहारपरिणतिभेदं रसं तत्र तत्र स्थाने समनुरूपमा समन्ततो नय. तीति समानः, पुंक्लीबलिङ्गः, समन्तादनित्यनेन वा; सर्वसान्धषु हृदये नाभावकस्थानमस्येति ॥१॥
उदानो हृच्छिरोऽन्तरे । रसादीनूवं समन्ततो नयति इत्युदान ऊर्ध्वमनित्यनेन वा; हृदये शिरसि अनयोरन्तरे कण्ठे तालुनि भ्रूमध्ये च स्थानमस्येति; यदवोचाम योगशास्त्रे
__ रक्तो हृत्-कण्ठ-तालु-भ्र-मध्ये मूर्धनि संस्थितः।
उदानो वश्यतां नेयो गत्यागतिविशेषतः ।। १॥” इति ।।
सर्वत्वग्वृत्तिको व्यानः सर्वतः सर्वस्यां त्वचि वृत्तिरस्य सर्वत्वग्वृत्तिकः, व्यानयति व्याप्नोति व्यानः व्याप्त्या अनित्यनेन वा ॥१॥ उपसंहारमाह
इत्यङ्गे पञ्च वायवः ।। १७५ ॥ इति समाप्तौ अङ्गे शरीरे प्राणादयः पञ्च वायवः स्युः ॥ १७५ ॥
समाप्तोऽयं वायुकायः॥ वनस्पतिकायमाह
अरण्यमटवी सत्रं वारू च गहनं झषः । कान्तारं विपिनं कक्षः स्यात् षण्डं काननं वनम् ॥ १७६॥
दवो दावः इयति भ्राम्यन्ति अस्मिन्नरण्यं पुंक्तीबलिङ्गः “धाप्राजि-" ॥( उणा-३७९)॥ इत्यन्यः, महत्त्वविवक्षायां तु अरण्यानी ॥ १ ॥ अटन्त्यस्यामटविः "छविछिवि-" ॥ ( उणा- ७०६) ॥ इति षौ निपात्यते, ड्यामटवी ॥ ॥१॥ सीदन्त्यत्र सत्रं "हुयामा-" ॥ ( उणा- ४५१)॥ इति त्रः ॥ ३ ॥ वृक्षा अत्र सन्ति वार्तम् , ज्योत्स्नादित्वादण् ॥ ४ ॥ गाह्यते गहनं "विदन-" ॥ ( उणा- २७५ )। इत्यने निपात्यते ॥ ५ ॥ झषति हिनस्ति झषः ॥ ६ ॥ काम्यते कान्तारं पुंक्लीकलिङ्गः "द्वारशृङ्गार-"॥ ( उणा- ४११) ॥ इत्यारे निपात्यते ॥ ७ ॥ विपन्ते भयेन अत्र विपिनं "विपिनाजि." ॥ ( उणा- २८४) ॥ इतीने निपात्यते ॥४॥ कषति कक्षः “मावावदि-"॥ ( उणा- ५६४ ) ॥ इति सः ॥९॥ सन्यते सेव्यते षण्डं पुंक्लीबलिङ्गः, बाहुलकातू सत्वाभावे "पञ्चमाडः" ॥ (उणा- १६०)।
...
.
Page #446
--------------------------------------------------------------------------
________________
४४६
अभिधानचिन्तामणौ
इति ङः ॥ १० ॥ कन्यते गम्यतेऽस्मिन् काननं "विदन - " ॥ ( उणा - २७५ ) ॥ इत्यने निपात्यते, कमनित्यस्मिन्निति वा ॥ ११ ॥ वन्यते वनं वर्षादित्वादल् ॥१२॥ ॥ १७६ ॥ दुनोति दवः, दावः ॥ ॥ १३ ॥ १४ ॥
प्रस्तारस्तु तृणाटव्यां झषोऽपि च ।
प्रस्तीयते प्रस्तारः ॥ १ ॥ तृणबहुलाऽटवी तृणाटवी तस्याम् ॥ २ ॥ झषति झषः ॥ ३ ॥
अपोपाभ्यां वनं वेलमारामः कृत्रिमे वने || १७७ ॥
अपोपाभ्यां परं वनं अपावृतं वनमपवनम् ॥ १ ॥ उप समीपे वनपवनम् ॥ २ ॥ वेलति वेलम् ॥ ३ ॥ आरमन्ति अस्मिन्नारामः ॥ ४ ॥ कृत्रिम उत्पादिते वने वृक्षसमूहे ॥ १७७ ||
निष्कुटस्तु गृहारामः
कुटाद् गृहाद् निष्क्रान्तो निष्कुटः, गृहस्यारामो गृहारामः ॥ १ ॥ बाह्यारामस्तु पौरकः
5: 1
पुरस्य बहिर्भव आरामो बाह्यारामः पुरस्यायं पौरः ॥ १ ॥
आक्रीडः पुनरुद्यानं
आक्रीडन्तेऽस्मिन्नाक्रीडः ॥ १ ॥ उद्यान्त्यस्मिन् उद्यानं राज्ञां लोकैः सह साधारणं वनम् । पुंक्लबिलिङ्गावेतौ ॥ २ ॥
राज्ञां त्वन्तःपुरोचितम् ॥ १७८ ॥ तदेव प्रमदवनं
तदेव उद्यानं राज्ञामन्तःपुरयोग्यं प्रमदार्थ प्रमदानां वा वनं प्रमदवनं "ङयापोर्बहुलम्–” ॥ २ । ४ । ९९ ॥ इति ह्रखः ॥ १ ॥ १७८ ॥
अमात्यादेस्तु निष्कुटे | वाटी पुष्पाद् वृक्षाच्चासौ
अमात्यादेरादिशब्दाद् गणिका - सार्थवाहादेर्निष्कुटे गृहोपवने वर्धते कण्टकादिभिर्वेष्टयते वाटी त्रिलिङ्ग: । पुष्पशब्दाद् वृक्षशब्दाच असौ वाटीशब्दः पुष्पाणां वृक्षाणां च वाटी पुष्पपाटी, वृक्षवाटी ॥ १ ॥ २ ॥
क्षुद्रारामः प्रसीदिका ॥ १७९ ॥
क्षुद्रो लघुरारामः क्षुद्रारामः, प्रसीदति मनोऽस्यां प्रसीदिका, पृषोदरादित्वात् ॥ ३ ॥ १७९ ॥
Page #447
--------------------------------------------------------------------------
________________
- ४ भूमिकाण्डः ।
४४७ ' वृक्षोऽगः शिखरी च शाखि-फलदावद्रिहरिदुर्दुमो . " :
___ जीर्णो द्रुर्विटपी कुटः क्षितिरुहः कारस्करो विष्टरः।।
नन्द्यावर्त-करालिको तरु-वसू पर्णी पुलाक्यहिपः । __ साला-ऽनोकह-गच्छ-पादप-नगा रूक्षाऽगमौ पुष्पदः ॥१८॥
वृश्च्यते छिद्यते वक्षः "ऋजिरिषि-" ॥ (उणा-५६७) ॥ इति कित् सः, वृक्षते वृणोति वा ॥ १ ॥ न गच्छत्यगः ॥ २ ॥ शिखरं शिरोऽस्त्यस्य शिखरी ॥ ३ ॥ शाखाः सन्त्यस्य शाखी, शिखादित्वादिन् ॥ ४ ॥ फलं ददाति फलदः ॥ ५ ॥ अद्यते अद्रिः "तङ्किवकि-" ॥ ( उणा- ६९२ ) ॥ इति रिः ॥ ६ ॥ हरिं वर्ण द्रवति हरिद्रुः, “हरिपीत-" ॥ ( उगा-७४५) ॥ इति डिदुः ॥ ७ ॥ द्रुः शाखाऽस्त्यस्य द्रुमः "शुद्रोमः" ॥७२॥३७॥ रिति मः ॥८॥ जीर्यते जीर्णः "इणुर्विशा-" ॥ ( उणा- १८२ ) ॥ इति णः ॥ ९ ॥ द्रवति द्रुः “द्रुभ्याम्" ॥ ( उणा७४४ ) ॥ इति डिदुः ॥ १० ॥ विटपो विस्तारोऽस्यास्ति विटपी ॥ ११ ॥ 'कुठिः सौत्रः' कोठति कुठः “नाम्युपान्त्य-" ॥ ५। १। ५४ ॥ इति कः ॥ १२ ।। क्षितौ रोहति क्षितिरुहः, मूलविभुजादित्वात् कः, यौगिकत्वात् कुज-महील्हादयः ॥ १३ ॥ कारं करोति कारस्करः, वर्चस्कादित्वात् साधुः ॥ १४ ॥ विसृणोति विष्टरः “वेः स्वः" ॥ २।३।२३ ॥ इति षत्वम् ॥ १५ ॥ नन्दी आवर्तोऽस्य नन्द्यावर्तः ॥ १६ ॥ करालमुच्चं शिखरमस्त्यस्य करालिकः ॥ १७ ॥ तरन्त्यापदमनेन तरुः "भृमृतृ-" ॥ (उमा- ७१६ ) ॥ इत्युः ॥ १८ ॥ वसन्ति पक्षिणोऽत्र वसुः ॥ १९ ॥ पर्णानि सन्त्यस्य पर्णी ॥ २० ॥ पोलति पुलो विस्तारः तमकति पुलाकी ॥ २१ ॥ अंहिभिर्मूलैः पिबत्यंछिपः, चरणपोऽपि ।। २२ ॥ 'सल गतौ' दन्त्यादिः सल्यते सालः, सीयते वा "भिल्लाच्छभल्ल-" ॥ ( उणा- ४६४ ) ॥ इति ले निपात्यते ॥ २३ ॥ अनिलम्भोभिरनोकहः, अनेरोकहः, अनसः शकटस्य अकं गतिं हन्तीति निर्वचनाद्वा ॥ २४ ॥ गम्यते गच्छ: “तुदिमदि-" ॥ ( उणा१२४ ) ॥ इति छक् ॥ २५ ॥ पादैर्मूलः पिबति पादपः ॥ २६ ॥ न गच्छति नगः “नगोऽप्राणिनि वा" ॥ ३ । २ । १२७ ॥ इति साधुः ॥ २७ ॥ रूक्षयति रूक्षः ॥ २८ ॥ न गच्छति अगमः ॥ २९ ॥ पुष्पाणि ददाति पुष्पदः । एते पुं. लिङ्गाः ।। ३० ॥ १८ ॥ . शेषश्चात्र
वृक्षे त्वारोहकः स्कन्धी सीमिको हरितच्छदः । उरुर्जन्तुर्वह्निभूश्च ॥
कुञ्ज-निकुञ्ज-कुडङ्गाः स्थाने वृक्षैर्वृतान्तरे । . कवन्तेऽस्मिन् कुजः “कुवः कुब्-कुनौ च" ॥ ( उणा-. १२९ ) ॥ इति
Page #448
--------------------------------------------------------------------------
________________
४४८
अभिधानचिन्तामणौ-.. जः ॥ १॥ एवं निकुञ्जः । पुंक्लीबलिजावेतौ ॥ २ ॥ कुडति कुडङ्गः "पतितमि-". ॥ ( उणा- ९८) । इत्यङ्गः, कुटादित्वाद् गुणाभावः ।। ३ ॥
पुष्पैस्तु फलवान् वृक्षो वानस्पत्यः पुष्पैर्हेतुभूतैः फलवान् वृक्षः वनस्पतिरेव वानस्पत्यः, भेषजादित्वाद् ट्यण् , वनस्पतौ भव इत्यन्ये ॥१॥
विना तु तैः ॥ १८१ ॥
फलवान् वनस्पतिः स्यात् तैः पुष्पैर्विना फलवान् वृक्षः वनस्पतिः, वर्चस्कादित्वात् साधुः ॥१॥१८॥
फलावन्ध्यः फलेग्रहिः। . .. फलैरवन्ध्यः फलानि गृह्णाति फलेपहिः "रजःफलेमलाद् ग्रहः” ॥ ५। १। ९८ ॥ इति इः ॥ १॥
फलवन्ध्यस्त्ववकेशी .. फलैर्वन्ध्य फलवन्ध्यः, नास्ति बकोऽप्यत्राबकं शून्यं तदीष्टेऽबकेशी ॥ १ ॥
फलवान् फलिनः फली ॥ १८२ ॥ ,. फलमस्त्यस्य फलवान् , मतुः ॥ १ ॥ “फलबर्हा-" ॥ ७॥२॥ १३ ॥ इतीने फलिनः ॥ २ ॥ इति फली ॥ ३ ॥ १८२ ॥
ओषधिः स्यादौषधिश्च फलपाकावसानिका । .. ओषत्योषधिः, उषेरधिः, उषो धीयतेऽस्यामिति वा ॥ १ ॥ बाहुलकाद् वृद्धौ
औषधिः । स्त्रीलिङ्गावेतौ ॥ २ ॥ फलस्य पाकोऽवसानमस्याः फलपाकावसानिका ॥ - क्षुपो हखशिफा-शाखः । .
क्षौति दह्यमानः क्षुपः "क्षुचुपिपूभ्यः कित्" ॥ ( उणा-३७१) ॥ इति पः, हखाः शिफा जटाः शाखाश्च यस्य स तथा ॥ १ ॥
प्रततिव्रततिर्लता ॥ १८३ ॥
वल्ली प्रकृष्टा ततिरस्याः प्रततिः ॥ १॥ जपादित्वाद् वत्वे व्रततिः, घृणोतीति वा "वृगो व्रत च" ॥ ( उणा- ६५५) ॥ इत्यनिः स्त्रीलिङ्गावतौ ॥ २ ॥ लाति लता "पृषिरज्जि-" ॥ ( उणा- २०८) ॥ इति किदतः ॥ ३ ॥ १८३ ॥ वल्लते संवृणोति वल्लिः “पदिपठि-" ॥ ( उणा-६०७) ॥ इति इः, ड्यां वल्ली गुडूच्यादिधिव्यादिश्च ॥ ४ ॥
Page #449
--------------------------------------------------------------------------
________________
४४९
४ भूमिकाण्ड: ।
अस्यां तु प्रतानिन्यां गुल्मिन्युलप - वीरुधः ।
अस्यामिति लतायाम् प्रतानोऽस्त्यस्यां प्रतानिनी तस्याम् ॥१॥ गुल्मोऽस्त्यस्या गुल्मिनी ॥ २ ॥ वलते वेष्टते वलपः “विष्टपालप - " ॥ ( उणा - ३०७ ) ॥ इत्यपे निपात्यते ॥ ३ ॥ विरोहति वरुित्, स्त्रीलिङ्गः “वीरुन्न्यग्रोधौ” ॥ ४ । १ । .१२१ ॥ इति धत्वे साधुः, विरुणद्धीति वा बाहुलकाद्दीर्घः ॥ ४ ॥
स्यात् प्ररोहोऽङ्कुरोऽङ्कुरो रोहश्च
प्ररोहति प्ररोहः ॥ १ ॥ अङ्कयतेऽनेन इति अङ्कुरः “वाश्यसि -” ॥ ( उणा४२३.) ॥ इत्युरः, बाहुलकाद्दीर्घत्वेऽङ्करः, पुंलिङ्गावेतौ, क्लीबेऽपि वैजयन्ती, यदाह- ‘स्यादङ्करोऽङ्कुरोऽस्त्रियौ' इति ॥ २ ॥ ३ ॥ रोहति रोहः ॥ ४ ॥
स तु पर्वणः ॥ १८४ ॥ समुत्थितः स्याद् बलिशं
;
स तु अङ्कुरः पर्वणो प्रन्थेः समुत्थितः बलति प्राणिति बलिशं “बलेर्णिद्वा" ॥ ( उणा - ५३६ ) ॥ इतीशः ॥ १ ॥ ॥ १८४ ॥
शिखा - शाखा - लताः समाः ।
श्यति शिखा, शाखा “श्यतेरिच्च वा " । ( उणा - ८५ ) इति खे साधू, शाखति व्याप्नोतीति वा शाखा || १ || २ || लाति लता ॥ ३ ॥
साला शाला स्कन्धशाखा
सीयते साला दन्त्यादिः || १ || इयन्त्येनां शाला "शामाश्या - " ॥ ( उणा४६२ ) ॥ इति लः, शलतीति वा ज्वलादित्वात् णः, तालव्यादिरयम् ॥ २ ॥ क• न्धाद् निःसृता शाखा स्कन्धशाखा ।। ३ ।।
स्कन्धः प्रकाण्डमस्तकम् ॥ १८५ ॥
स्कन्दते स्कन्धः 'स्कन्द्यामिभ्यां - " ॥ ( उणा - २५१ ) ॥ इति धः, बाहुलकाद्दस्य लुक् ।। १ ।। १८५ ॥
मूलात् शाखाबधिर्गण्डिः प्रकाण्डः
मूलतः स्कन्धशाखामवधीकृत्य या गण्डिका स प्रकाम्यते प्रकाण्डो वृक्षजङ्घा पुंक्लीबलिङ्गः । अमरस्तु-'अस्त्री प्रकाण्डः स्कन्धः स्यात्' इति प्रकाण्ड-स्कन्धौ तुल्यावाह ॥ १ ॥
अथ जटा शिफा ।
जटति जटा वृक्षादिमूलम् ॥१॥ शिनोति शेतेऽधः यन्त्येनामिति वा शिफा
Page #450
--------------------------------------------------------------------------
________________
४५०
अभिधानचिन्तामणौ
"शफकफ-" ॥ ( उणा-३१६ ) ॥ इति फे निपात्यते ॥ २॥ . .
- प्रकाण्डरहिते स्तम्बो विटपो गुल्म इत्यपि ॥ १८६ ॥ .. ... प्रकाण्डो गण्डिका तद्रहित उद्भिद्विशेषे तृणजङ्घायां वा, स्तभ्नाति स्तम्बः "तुम्बस्तम्बादयः" ॥ (उणा-३२०) ॥ इति बे निपात्यते ॥ १॥ वेटति विटपः "भुजिकुतिकुटि-" ॥ ( उणा-३०५) इति किदपः, गुडति गुल्मः पुंक्लीवलिंनावेतौ ॥ २ ॥ ३ ॥ १८६ ॥ .. शिरोनामाग्रं शिखरं .. शिरसो नामान्यस्य वृक्षादिप्रान्तस्य शिरोनाम शिरःपर्यायमित्यर्थः ॥ १ ॥ अगत्यमम् ॥ २ ॥ शाखति शिखरं पुंक्लीबलिङ्गः ॥ ३ ॥
मूलं बुध्नोऽहिनाम च । मूलति मूलं वृक्षस्य, पुंक्लीबलिङ्गः ॥ १॥ बुध्यतेऽनेन बुध्नः “जीणशीदी-॥ (उणा-२६१) ॥ इति किद् नः ॥२॥ अंहिनामान्यस्यांहिनाम पादपर्यायमित्यर्थः ॥ २ ॥
__ सारो मज्ज्ञि
सरति सारः “सर्तेः स्थिर-" ॥ ५।३।१७ ॥ इति घम् ॥ १॥ मज्जति मजा, पुंलिङ्गस्तत्र ॥ २॥
त्वचि छल्ली चोचं वल्कं च वल्कलम् ॥ १८७ ॥ त्वचति त्वक स्त्रीलिङ्गः तस्यां, त्वचाऽपि ॥१॥ छाद्यतेऽनया, छदयन्त्येनामिति वा छल्ली "भिल्लाच्छभल्ल-" ॥ (उणा-४६४)।। इति ल निपात्यते ॥ २॥ चन्यते चोचं "चमेोचडचौ ॥” (उणा-१२२) ॥ इति डोचः ॥ ३ ॥ वल्यते छाद्यतेऽनेन वल्कं "भीण्-" ॥(उणा-२१)॥ इति कः, “लिपुषेः-" ॥(उणा-४९६)। इति कलक्प्रत्यये वल्कलम् । (क्लीबलिङ्गावेतो ॥ ४ ॥५॥ १८७ ॥ ".. स्थाणौ तु ध्रुवकः शङ्कः
तिष्ठतीति स्थाणुः पुंक्लीबलिङ्गः "अजिस्था-" ॥ (उणा-७६८)॥ इति णुः तत्र ॥१॥ ध्रुवति ध्रुवः, के ध्रुवकः ॥ २ ॥ शाम्यति शङ्कुः पुंलिङ्गः “कैशीशमि-'॥ (उणा-७४९) ॥ इति कुः ॥ ३ ॥ - काष्ठे दलिक दारुणी ।
काशते काष्टं “वनिकणि--" ॥ (उणा-१६२) ॥ इति ठः, तत्र ॥१॥ दल्यते दलिकं “क्रीकलि-" ॥ (उणा-३८) ॥ इतीकः ॥२॥ दीर्यते दामः, पुंक्लीवलिङ्गः "कृवापाजि-" ॥ (उगा-१ ) ॥ इत्युण ॥ ३॥ .
Page #451
--------------------------------------------------------------------------
________________
-४ भूमिकाण्डः। निष्कुहः कोटरः " निष्कुह्यते निष्कुहः ॥ १ ॥ कुटति कोटरः वृक्षगतः पुंक्लीबलिङ्गः "ऋछिचटि-" ॥ (उणा-३९७) ॥ इत्यरे बाहुलकाद् गुणः ॥ २ ॥
मजा मञ्जरिवल्लरिश्च सा ॥ १८८ ॥ 'मञ्जिः सौत्रः' मञ्जति मजा ॥१॥ चूतादेर्नवोद्भिद् "बहुलम्” ॥ ५।१।२ ॥ इत्यरौ मञ्जरिः, स्त्रीलिङ्गः "ऋछिचटि-" ॥ ( उणा-३९७) ॥ इत्यरान्तात्तु ह्यां मञ्जरी ॥ २ ॥ वल्लते वल्लरिः स्त्रीलिङ्गः “नदिवल्लि-" ॥ (उणा६९८) ॥ इत्यरिः ॥ ३ ॥ १८८ ॥ . पत्रं पलाशं छदनं बर्ह पर्ण छदं दलम् । ___ पतति पत्रं पुंक्लीबलिङ्गः "हुयामा-" ॥ ( उणा- ४५१) ॥ इति त्रः ॥१॥ पलति पलाशं "पलेराशः” ॥ ( उणा- ५३३ ) ॥ २ ॥ छाद्यतेऽनेन छदनं युजादिपाठात् णिचोऽभावपक्षेऽनट् ॥ ३॥ बहते बह पुंक्लीबलिङ्गः ॥ ४ ॥ पृणाति पणे "इणुर्विशा-" ॥ ( उणा- १८२ ) ॥ इति णः ॥ ५॥ छाद्यतेऽनेन छदं "पुंनाम्नि-" ॥५। ३ । १३० ॥ इति घे "एकोपसर्गस्य-" ॥ ४ । २ । ३४ ॥ इति हूस्वः, दलति विशीर्यते दलम् । पुंक्लीबलिङ्गावेतौ ॥ ६ ॥ ७॥
नवे तस्मिन् किसलयं किसलं पल्लवः तस्मिन् पत्रे नवे कसति किसलयं “कसेरलादिरिच्यास्य" ( उणा- १६८)॥ इत्ययः ॥ १ ॥ "मुरल-" ॥ ( उणा- ४७४ ) ॥ इत्यले निपातनात् किसलम् , किञ्चित् सलतीति वा, पृषोदरादित्वात् ॥ २ ॥ 'पल्ल गतौ' पल्लति पल्लवः पुंक्लीबलिङ्गः "वडिवटि-" ॥ ( उणा- ५१५) ॥ इत्यवः ॥ ३ ॥ . अत्र तु ॥ १८९ ॥
नवे प्रवालः अत्र किसलये नवे प्रवलति प्रवालः पुंक्लीबलिङ्गः, ज्वलादित्वात् णः ॥१॥ १८९॥
___ अस्य कोशी शुङ्गा
अस्य प्रवालस्य, कुश्यति कोशी ॥ १ ॥ शाम्यति शुङ्गा पुंस्त्रीलिङ्गः "कमि. तमि-" ॥ ( उणा- १०७ ) ॥ इति डिदुङ्गः ॥ २ ॥
माढिदलस्नसा। मह्यतेऽनया माढिः स्त्रीलिङ्गः ॥ १॥ दलस्य पत्रस्य स्नसा दलस्नसा ॥२॥
Page #452
--------------------------------------------------------------------------
________________
४५२
अभिधानचिन्तामणौ-...
विस्तार-विटपौ तुल्यौ शाखादेविस्तृतिविस्तारः "वेरशब्दे-" ॥ ५ । ३ । ६९ ॥ इति घम् ॥ १ ॥ वेटति वातेन विटपः पुंक्लबिलिङ्गः “भुजिकुति-" ॥ ( उणा- ३०५ ) ॥ इति किदपः, विटान् पातीति वा ॥ २ ॥
प्रसूनं कुसुमं सुमम् ॥ १९० ॥
पुष्पं सूनं सुमनसः प्रसवश्च मणीवकम् । - प्रसूयते स्म प्रसून “सूयत्यादि-" ॥ ४ । २ । ७० ॥ इति तस्य नत्वम् ॥१॥ कुस्यति कुसुमं पुंक्लीबलिङ्गः "उद्वटि-" ॥ ( उणा- ३५१ ) ॥ इति किदुमः ॥ २ ॥ सुष्ठु माति सुमं, सूते फलमिति वा "रुक्मग्रीष्म-" ॥ ( उणा३४६)॥ इति मे निपात्यते ॥ ३॥ १९ ॥ पुष्प्यति पुष्पं पुंक्लीबलिङ्गः, पाचस्पतिस्तु 'पुष्पोऽस्त्री' इति पुंस्यप्याह ॥ ४ ॥ सूयते स्म सूनम् ॥ ५ ॥ सुष्ठु मान्यते पूज्यते आभिः सुमनसः, स्त्रीलिङ्गो वाबहुवचनान्तश्च "विहाय. स्सुमनस्-" ॥ (उणा- ९७६ ) ॥ इत्यसि निपात्यते ॥ ६ ॥ प्रसूयते प्रसवः "युवर्ण-" ॥ ५३॥२८॥ इत्यल् ॥ ७ ॥ मणति भ्रमरैर्मणीवक "कीचक-" ॥ ( उणा- ३३ ) ॥ इत्य के निपात्यते ॥ ८ ॥
__जालक-क्षारको तुल्यौ .
जलति गन्धेन जालकम् , जालमिव वा नवकलिकावृन्दम् ॥ १॥ क्षरति प्रसूयते क्षारकः पुंक्लीबलिङ्गः ॥ २ ॥
___ कलिकायां तु कोरकः ॥ १९१ ॥ ।
कल्यते शब्द्यते कलिका "क्रीकलि-" ॥ (उणा-३८) ॥ इतीकः, तत्र ॥१॥ कुरति कोरकः पुंक्लीबलिङ्गः "दृकुन-" ॥ (उणा-२७) । इत्यकः, कायति भृङ्गनादैः कोरः “कोरचोर-" ॥ (उणा-४३४) ॥ इत्योरे निपात्यते, कोर एव कोरक इति वा ॥ २ ॥ १९१॥
कुड्मले मुकुलं कुटति कुड्मलं "रुचिकुटि-" ॥ (उणा-५०२) ॥ इति मलक्, तत्र । मुञ्चति कलिकात्वमीषद्विकसितत्वाद् मुकुलं “कुमुल-" ॥ (उणा-४८७) ॥ इति उले निपात्यते। पुंक्लीबलिङ्गावेतौ ॥१॥२॥ हृद्यास्तु-- अवान्तरभेदं न मन्यन्ते, यदाहुः, "मुकुलाख्या तु कलिका कुड्मलं जालकं तथा । क्षारकं कोरकं च" इति ।
गुच्छे गुच्छ-स्तबक-गुत्सकाः। गुलुञ्छः
Page #453
--------------------------------------------------------------------------
________________
४ भूमिकाण्डः ।
४५३
गूयते गुञ्छः “गुलुञ्छ-"॥ (उणा-१२६) ॥ इति छ निपात्यते, तत्र ॥१॥ "तुदिमदि-" ॥ (उणा-१२४) ॥ इति छकि गुच्छः ॥ २ ॥ स्तूयते स्तबकः पुंक्लीबलिङ्गः “दृकुन-" ॥ (उणा-२७) । इत्यकः ॥ ३॥ गुध्यति वेष्टते गुत्सः "गुधिगृधेस्त च" ॥ (उणा-५६८)॥ इति कित् सः ॥ ४ ॥ गुज्यते गुलुञ्छः "गुलुञ्छपिलिपिञ्छैधिच्छ-" ॥ (उणा-१२६) ।। इति छ निपात्यते, पुंस्ययम् । क्लीबेऽपि वाचस्पतिः, यदाह- ‘गुलुञ्छोऽस्त्री' इति । गुलुञ्छु-लुम्बी अपि ॥ ५॥ .
अथ रजः पौष्पं परागः पुष्पाणां रजः, परागच्छति परागः ॥ १ ॥
अथ रसो मधु ॥ १९२ ॥
मकरन्दा मरन्दश्व पुष्पाणां रसः, मन्यते बहु भृङ्गैर्मधु, क्लीबलिङ्गः ॥ १ ॥ १९२ ॥ मक्यते मण्डयतेऽनेन पुष्पं मकरन्दः, मरन्दः “कुमुद-" ॥ ( उणा-२४४ ) ।। इति दे निपात्यते ॥ २ ॥ ३॥ .
वृन्तं प्रस्रवबन्धनम् । वृणोति वृन्तं "पुतपित्त-" ॥ (उणा-२०४) ॥ इति ते निपात्यते, । प्रसवः पुष्पादिस्तस्य बन्धनम्', यत् कात्यः- 'बन्धनं पुष्पफलयोर्वृन्तमाहुः' ॥ १ ॥ .. प्रबुद्धो-ज्जम्भ-फुल्लानि व्याकोशं विकच स्मितम् ॥१९३ ।।
उन्मिषितं विकसितं दलितं स्फुटितं स्फुटम् । प्रफुल्लो-त्फुल्ल-संफुल्लो-च्छसितानि विजृम्भितम् ॥ १९४ ॥
स्मेरं विनिद्रमुन्निद्र-विमुद्र-हसितानि च । प्रबुध्यते प्रबुद्धम् ॥ १ ॥ उज्जृम्भते उज्जृम्भम् , उद्गता जृम्भाऽस्येति वा ॥२॥ फलति विीयते फुल्लम् , " अनुपसर्गाः क्षीव-" ॥ ४ । २ । ८० ॥ इति के निपात्यते ॥ ३॥ व्याकुश्यति व्याकोशम् ॥ ४॥ विकचते विकचम् ॥५॥ स्मयते स्मितम् ॥६॥१९३॥ उन्मिषति स्म उन्मिषितम् ॥७॥ विकसति स्म विकसितम् ॥८॥ दलति स्म दलितम् ॥९॥ स्फुटति स्म स्फुटितम् ॥ १० ॥ स्फुटति स्फुटम् ॥११॥ प्रफुल्लति प्रफुल्लम् , एवमुत्फुल्लम् , संफुलं च ॥ १२ ॥१३॥ १४ ॥ उच्छ्वसिति स्म उच्छ्वसितम् ॥ १५ ॥ विजृम्भते स्म विजृम्भितम् ॥ १६ ॥ १९४ ॥ स्मयनशीलं स्मेरं "स्म्यजस-" ॥ ५। २ । ७९।। इति रः ॥१७॥ विनिद्राति विनिद्रम् ॥१८॥ उत्क्रान्तं निन्द्रामुन्निद्रम् ॥ १९ ॥ विगता मुद्रा संकोचोऽस्य विमुद्रम् ॥२०॥ हसति स्म हसितम् ॥ २१ ॥
Page #454
--------------------------------------------------------------------------
________________
४५४
अभिधानचिन्तामणो- -
संकुचितं तु निद्राणं मीलितं मुद्रितं च तत् ॥ १९५ ॥ संकोचति स्म संकुचितम् ॥ १॥ निद्राति स्म निद्राणम् ॥ २ ॥ मीलति स्म मीलितम् ।। ३ ।। मुद्रयते स्म मुद्रितम् ॥ ४ ॥ १९५ ॥
फलं तु सस्य फलति फलं वृक्षादीनाम् , पुंक्लीबलिङ्गः ॥१॥ षसक् स्वप्ने' ससन्त्य नेन सस्यम्" स्थाच्छामासा-" ॥ ( उणा-३५७ ) ॥ इति यः ॥ २॥ .
तच्छुष्कं वानं तत् फलं शुष्कं वायते स्म बानं वाच्यलिङ्गः “सूयत्यादि-" ॥ ४ । २ । ७० ॥ इति तस्य नत्वम् ॥ १॥
आमं शलाटु च । तत् फलमाममपक्कं शलति शलाटु वाच्यलिङ्गः “शलेराटुः" ॥ ( उणा७६३) ॥१॥
ग्रन्थिः पर्व परुः प्रथ्नाति संधत्ते प्रन्थिः पुंलिङ्गः " पदिपठि-"॥ ( उणा-६०७ ) ॥ इति इः ॥ १॥ पृणाति पर्व "स्नामदि-" ॥ ( उणा-९०४ ) ॥ इति वन्। “रुद्यति-" ॥ (उणा-९५१ ) इत्युसि परुः, क्लीबलिङ्गावेतौ ॥ २ ॥ ३ ॥
वीजकोशी शिम्बा शमी शिमिः ॥ १९६ ।।
शिम्बिश्व कुशन्त्यस्यां कोशी, बीजानां कोशीव पिधायकत्वाद् बीजकोशी ॥ १ ॥ शर्धतेऽनया शिम्बा "डीनीबन्धि-" ॥ ( उणा-३२५) इति डिम्बः ॥ २ ॥ शाम्यत्यस्यां सस्यं शमी ॥३॥ शमयति शिमिः " खरेभ्य इ." ॥ ( उणा६०६ ) ॥ पृषोदरादित्वादित् ॥ १९६ ॥ शिनोति शिम्बिः "छविछिवि-" ॥ ( उणा-७०६)॥ इति वौ निपात्यते । स्त्रीलिङ्गावेतौ ॥ ४ ॥५॥
पिप्पलोऽश्वत्थः श्रीवृक्षः कुञ्जराशनः ।
कृष्णावासो बोधितरुः पलति पिप्पलः पुंस्त्रीलिङ्गः "पृपलिभ्यां टित् पिप् च पूर्वस्य" ॥ ( उणा११)॥ इत्यः, पिप्पलानि देश्यां पत्राणि, तानि सन्त्यस्य वा । आपिप्लवत इति नरुक्ताः ॥ १॥ अश्वेषु तिष्ठत्यश्वत्थः, पृषोदरादित्वात् ॥ २ ॥ श्रिया युक्तो वृक्षः धीवृक्षः॥३॥ कुञ्जरैरश्यते कुञ्जराशनः ॥४॥ कृष्णस्यावासः कृष्णावासः ॥५॥
Page #455
--------------------------------------------------------------------------
________________
४ भूमिकाण्डः ।
४५५
बोधितरुः बोधिसत्वाख्यः, सर्वोपकारित्वात् ॥ ६ ॥
प्लक्षस्तु पर्कटी जटी ॥ १९७ ॥ प्लक्षत्यधो गच्छति प्लक्षः, प्लोषति अशिवमिति वा “प्लुषेः प्लष् च" (उणा५६६ ) ॥ इति सः ॥ १॥ पर्कटाख्यं फलमस्त्यस्य पर्कटी, यद्वाचस्पतिः- ‘फलं वेतस्य पर्कटम्' इति । पृच्छयते पकटीत्यकारान्तात् ड्यामीदन्तो वा, यत् शाश्वतः'विज्ञेया पर्कटी प्लक्षः प्लक्षः पिप्पलपादपः' इति ॥ २ ॥ जटाः सन्त्यस्य जटी, शिखादित्वादिन् ॥ ३ ॥ १९७ ॥
न्यग्रोधस्तु बहुपात् स्याद् वटो वैश्रवणालयः । न्यग् रोहति न्यग्रोधः “वीरुन्न्यग्रोधौ" ॥ ४ ॥ १।१२१ ॥ इति धत्वे साधुः, न्यक् तिर्यग् मार्ग मूलै रुणद्धि वा ॥ १ ॥ बहवः पादा म्लान्यस्य बहुपात् "सुसङ्ख्यात्" ॥ ७ । ३ । १५० ॥ इति पाद्भावः ॥२॥ वटति वेष्टयति मूलैटः, त्रिलिङ्गः ॥ ३ ॥ वैश्रवणस्य यक्षस्यालयो वैश्रवणालयः, यदाहुः- 'वटे वटे वैश्रवणः' इति ॥ ४ ॥
__ उदुम्बरो जन्तुफलों मशकी हेमदुग्धकः ॥ १९८ ॥
उनत्त्युदुम्बरः “तीवर-" ॥ ( उणा-४४४) ॥ इति बरटि निपात्यते, उल्ल. चिताम्बर इति वा, पृषोदरादित्वादुत्वम् ॥१॥ मशकगर्भाणि फलान्यस्य जन्तुफल: ॥२॥ मशकाः सन्त्यस्य मशकी ॥३॥ हेमवर्ण दुग्धमस्य हेमदुग्धकः ॥४॥१९॥
___ काकोदुम्बरिका फल्गुमलयुर्जघनेफला ।
काकप्रिया उदुम्बरी काकोदुम्बरिका ॥ १ ॥ फलति फल्गुः “फलिवलि-" ( उणा- ७५८ ) ॥ इति गुः ॥ २ ॥ 'युणि जुगुप्सायाम्' मलं श्वित्रं यावयते. मलयुः, पृषोदरादित्वात् ॥३॥ जघने बुने. फलान्यस्या जघनेफला । एते स्त्रीलिङ्गाः॥४॥
आम्रचूतः सहकारः अम्यतेऽभिलष्यते आनः “चिजि-" ॥ ( उणा-३९२) ॥ इति रो दीर्घश्च ॥ १॥ श्चोतति चूष्यते वा चूतः "पुतपित्त-" ( उणा- २०४ ) इति ते निपात्यते ॥ २ ॥ सहकारयति मेलयति स्त्रीपुंसौ सहकारः, माकन्दोऽपि ॥३॥
सप्तपर्णस्त्वयुक्छदः ॥ १९९ ॥ सप्त पर्णानि अस्य सप्तपर्णः ॥ १ ॥ अयुजि विषमाणि च्छदान्यस्यायुक्छदः ॥२॥ १९९॥
. शिग्रुः शोभाञ्जनोऽक्षीव-तीक्ष्णगन्धक-मोचकाः । . शिनोति तैपण्यात् शिग्रुः पुंक्लीबलिङ्गः " शिग्रुगेरु-" ॥ (उणा-८११) ॥
Page #456
--------------------------------------------------------------------------
________________
४५६
अभिधानचिन्तामणो- ..
इति से निपात्यते ॥ १ ॥ शोभामनक्ति शोभाञ्जनः, सुष्ठु भनक्ति मुखमिति वा, . पृषोदरादित्वात् ॥ २॥ न क्षीवन्तेऽनेन अदृप्यत्वादक्षीवः ॥३॥ तीक्ष्णो गन्धोऽस्य . तीक्ष्णगन्धः ॥ ४ ॥ मुञ्चति गन्धं मोचक्रः ॥ ५॥
श्वेतेऽत्र श्वेतमरिचः अत्र शिनौ श्वेते श्वेतानि मरिचतुल्यानि फलान्यस्य श्वेतमरिचः ॥ १॥
पुन्नागः सुरपर्णिका ॥ २० ॥ पूजितः पुमान् पुन्नागः स इव, प्राधान्यात् ॥१॥ सुरप्रियाणि पर्णानि सन्त्यस्यां सुरपर्णिका ॥ २ ॥ २० ॥
बकुलः केसरः बते पुष्पैर्बकुल: "स्थावकि-" ॥ ( उणा-४८६ ) ॥ इत्युलो नलुक् च ॥१॥ केसराः सन्त्यस्य केसरः, अभ्रादित्वादः, किं सौत्रं जुहोत्यादौ स्मरन्ति, चिकेति वा "मीज्यजि." ॥ (उणा-४३९) ॥ इति सरः, के सरतीति वा ॥२॥
अशोकः ककेल्लिः __न शवत्यशोकः “भीण्-" ॥ ( उणा-२१)॥ इति कः, नास्ति शोकोऽस्मादिति वा ॥१॥ कमुदकं केलति गच्छति कङ्केल्लिः, स्त्रीलिङ्गः, यदमरशेषः-'स्त्रियां त्वशोके कङ्केल्लिः' पृषोदरादित्वात् ॥ २ ॥
ककुभोऽर्जुनः । ककते ककुभः “ककेरुभः" ॥ ( उणा- ३३३ ) ॥ ककुभो व्यापकत्वादस्य सन्तीति वा, कं स्कुनाति वा, पृषोदरादित्वात् ॥ १ ॥ अय॑तेऽर्जुनः, शौक्ल्याद् वा ॥२॥
मालूरः श्रीफलो बिल्वः __मलते मालूरः “महिकणि-" ॥ ( उणा- ४२८ ) ॥ इति णिदूरः ॥ १॥ श्रीप्रदानि फलान्यस्य श्रीफलः ॥२॥ बिलति भिनत्ति बिल्वः "निधृषी-" ॥ (उणा-५११) ॥ इति किद्वः ॥ ३ ॥
किङ्किरातः कुरण्टकः ॥ २०१॥ - कुत्सितं किरति किङ्किरातः “कृवृकलि-" ॥ ( उणा-२०९) ॥ इत्यातक् , किञ्चित् किरातः खो वा ॥ १॥ 'रण्टिः सौत्रः' को रण्टति कुरण्टकः "कोरुरुण्टिरण्टिभ्यः" ॥ (उणा-२८)॥ इत्यकः, कुरुण्टकोऽपि । कुरण्डक इत्यन्ये ॥ ॥२॥ २०१॥
Page #457
--------------------------------------------------------------------------
________________
४ भूमिकाण्डः ।
४५७
त्रिपत्रकः पलाशः स्यात् किंशुको ब्रह्मपादपः । त्रीणि पत्राण्यस्य त्रिपत्रकः ॥ १ ॥ प्रशस्तानि पलाशानि सन्त्यस्य पलाशः, अभ्रादित्वादः, पलं मांसमश्नुत इव रक्तपुष्पत्वाद्वा ॥२॥ किञ्चित् शुको नीलः किंशुकः ॥ ३ ॥ ब्रह्मणः पादपो ब्रह्मपादपः ॥ ४ ॥
तृणराजस्तलस्तालः तृणानां राजा तृणराजः, तृणद्रुमध्ये मुख्यत्वात् ॥ १ ॥ तलति प्रतिबिम्बति बहुरूपत्वात् तलः ॥ २ ॥ प्रज्ञाद्यणि तालः ॥ ३ ॥
रम्भा मोचा कदल्यपि ॥ २०२ ॥ रमन्तेऽस्यां रम्भा “गृदृरमि-" ॥ ( उणा- ३२५ ) ॥ इति भः, रम्भत इति वा ॥ १॥ मुञ्चति मोचा ॥ २ ॥ 'कदिः सौत्रः' कद्यते कदली "मृदिकन्दि-" ॥ ( उणा- ४६५) इत्यलः, केन वायुना दल्यते वा, के दलमस्या इति वा ॥ ३ ॥ २०२॥
करवीरो हयमारः । किरति करवीरः “ जम्बीर-" ॥ ( उणा-४२२) इति निपात्यते, कृणोति हिनस्ति करः स वीर इव मारकत्वात् करवीरः ॥ १॥ हयानुपभक्तो मारयति हयमारः ॥ २॥
कुटजो गिरिमल्लिका। कुटति कुटजः “कुटेरजः" ॥ ( उणा-१३० ) ॥ कुटादित्वाद् गुणाभावः, कुटतो जायते वा ॥१॥ गिरिणा मल्ल्यते धार्यते गिरिमल्लिका, गिरौ मल्लिके. व वा ॥ २॥
विदुलो वेतसः शीतो वानीरो वजुलो रथः ॥ २०३ ॥ 'विदु अवयवे' विन्दति विदुलः 'स्थावङ्कि"- ॥ ( उणा- ४८६ ) ॥ इत्युलो न लुक् च ॥ १॥ वेति वेतसः पुंस्त्रीलिङ्गः "तसः" ॥ ( उणा- ५८०)॥ इति तसः ॥ २ ॥ शीतोऽनुष्णवीयत्वात् ॥ ३ ॥ वन्यते वानीरः " वनिवपिभ्यां णित्" ॥ ( उणा-४२१ ) इतीरः ॥ ४ ॥ वजति जुलः “कुमुल-" ॥ (उणा४८७ ) ॥ इत्युले निपात्यते ॥ ५॥ रमन्तेऽस्मिन् रथः, रथहेतुत्वाद्वा ॥ ६ ॥ ॥ २०३ ॥
कर्कन्धुः कुवली कोलिबदरी ___कर्कस्य अन्धुरिव कर्कन्धुः । कर्कन्धूरपि ॥१॥ कौति कुवली त्रिलिङ्गः “को
Page #458
--------------------------------------------------------------------------
________________
४५८
अभिधानचिन्तामणौर्वा" ॥ ( उणा-४६९) ॥ इति किदलः, कौ भूमौ वलतीति वा ॥ २ ॥ कोलति कोलिः स्त्रीलिङ्गः “ किलिपिलि-" ॥ (उणा-६०८) ॥ इति इः ॥ ३ ॥ 'बद स्थैर्ये' बदति बदरी "ऋछिचटि-" ॥ ( उणा-३९७ ) ॥ इत्यरः ॥ ४ ॥
अथ हलिप्रियः ।
नीपः कदम्बः .. हलिनः प्रियो हलिप्रियः, सुराधिवासनात् ॥१॥ नयति सुखं नीपः "नियो वा" ॥ ( उणा- ३०२)॥ इति कित् पः ॥ २ ॥ 'कदः सौत्रः, कद्यते कदम्बः. . “कदेर्णिद्वा" ॥ (उणा-३२२)॥ इत्यम्बः, कुत्सितमम्बते वा । धाराकदम्बो राजकदम्वश्चासौ । धूलिकदम्बोऽन्यः ॥ ३ ॥
सालस्तु सर्जः सीयते सालो दन्त्यादिः पुंक्लीबलिङ्गः ॥ १ ॥ सृजति सर्जति वा निर्यासं सर्जः ॥२॥
अरिष्टस्तु फोनलः ॥ २०४ ॥ नास्ति रिष्टमशुभमस्मादरिष्टो रक्षाहेतुः ॥ १॥ फेनाः सन्त्यस्य फेनिलः "प्रज्ञापर्णोदकफेनाद्-" ॥ ७ ॥ २ ॥ २२ ॥ इतीलः ॥ २ ॥
निम्बोऽरिष्टः पिचुमन्दः
नयति रोगानुपशमं निम्बः “डीनीबन्धि-" ॥ (उणा-३२५)॥ इति निम्बः, निव्यते सिच्यते वा ॥१॥ न रिष्यतेऽरिष्टः ॥२॥ पिचुं मन्दयति पिचुमन्दः, अरोगकृत्त्वादपिचमन्येनमिति वा “कुमुद-" ॥ (उणा-२४४) ॥ इति निपात्यते ॥३॥
समौ पिचुल-झाबुको । पिचुं तूलं लाति पिचुलः ॥ १ ॥ ध्यायते झाबुकः “कञ्चुक-" ॥ ( उणा५७) ॥ इति उके निपात्यते ॥ २ ॥
कर्पासस्तु बादरः स्यात् पिचव्यः
करोति शोभां कर्पासः पुंक्लीबलिङ्गः " कृकुरिभ्यां पासः" ॥ ( उणा५८३ ) ॥१॥ बदति स्थैर्य भजते बादरः " जठर-" ।। ( उणा-४०३)॥ इत्यरे निपात्यते ॥ २ ॥ पिचुभ्यो हितः पिचव्यः ॥ ३ ॥
तूलकं पिचुः ॥ २०५ ॥ ___ तुल्यते तूलं के तूलकं पुंक्तीबलिङ्गः ॥१॥ पच्यते पिचुः निरस्थीकृतफांसः पुंलिङ्गः “ पचेरिच्चातः" ॥ ( उणा-७३५)॥ इत्युः ॥ २ ॥ २०५॥
Page #459
--------------------------------------------------------------------------
________________
४ भूमिकाण्डः।
४५९ आरग्वधः कृतमाले आ समन्ताद् रङ्गन्ति शङ्कन्तेऽस्मादारग्वधः “आरगे:-" ॥ (उणा-२५४)। इति वधः, आ रज्जयन्त्यारजो मलास्तेषां वोऽत्रेति वा ॥१॥ कृतमतीसारं मलते धारयति कृतमालस्तत्र ॥ २ ॥
वृषो वासा-ऽऽटरूषके । वर्षति मधु वृषः पुंस्ययम् । स्त्रियामित्यन्यः ॥१॥ वाति गच्छति श्लेष्माऽनया वासा " मावावदि-" ॥ (उणा-५६४) ।। इति सः, दन्त्यान्तोऽयम् , 'उष्यते काम्यते वाशेति तालव्यान्तः' इत्यमरः ॥ २ ॥ आ अटत्याटरूषः “ कोरदूष-" ॥ ( उणा-५६१) । इत्यूषे निपात्यते तत्र, अटन् रूषयत्यटरूषोऽपि ॥ ३ ॥
करञ्जस्तु नक्तमालः करोति करञ्जः “कृगोऽजः” ॥ ( उणा-१३६ ) ॥ करं जयतीति वा ॥१॥ नक्तं रात्रावालमनर्थोऽस्मान्नक्तमालः, भूताश्रयत्वात् ॥ २ ॥
स्नुहिर्वज्रो महातरुः ॥२०६ ॥ स्नुह्यति क्षीरं स्नुहिः स्त्रीलिङ्गः “ नाम्युपान्त्य-" ॥ (उणा-६०९)॥ इति किः, स्नुहेति वैद्याः । वज्र इव वज्रो भेदकत्वात् ॥ २ ॥ महांश्चासौ तरुश्च महातरुः ॥ ३ ॥ २०६ ॥ : महाकालस्तु किंपाके
महान् कालो मृत्युरस्माद् महाकालः ॥ १॥ कुत्सितः प्राणहरः पाकोऽस्य विषवृक्षत्वात् किंपाकस्तत्र ॥ २ ॥
मन्दारः पारिभद्रके। मन्द्यते स्तूयते देवैर्मन्दारः "अग्यङ्गि-"n (उणा-४०५) ॥ इत्यारः, मन्दमियतीति वा ॥ १ ॥ पारि प्राप्तपारं भद्रमस्य पारिभद्रस्तत्र ॥२॥ - मधूकस्तु मधुष्ठीलो गुडपुष्पो मधुद्रुमः ।। २०७ ।।
मदयति मधूकः "शम्बुक-" ॥ (उणा-६१)॥ इत्यूके निपात्यते ॥१॥ मधु माधुर्यमस्तीले गर्भेऽस्य मधुष्ठीलः पृषोदरादित्वात् , मधु ठीवतीति वा ॥ २ ॥ गुडवद् मधुरं पुष्पमस्य गुडपुष्पः ॥ ३ ॥ मधुप्रधानो द्रुमो मधुद्रुमः ॥४॥२०७॥
पीलुः सिनो गुडफल: पीयते माधुर्यात् पीलुः "पीङः कित्" ॥ (उणा-८२१) ॥ इति लुः, पुंलिगः ॥१॥ सिनोति सिनः “सेर्वा" ॥ ( उणा- २६२) ॥ इति किद् नः ॥१॥
Page #460
--------------------------------------------------------------------------
________________
४६०
अभिधानचिन्तामणो- . .
गुडवद् मधुरं फलमस्य गुडफलः ॥३॥
गुग्गुलुस्तु पलङ्कषः । गूयते गुग्गुलुः पुंलिङ्गः “ गृहलुगुग्गुलुकमण्डलवः " ॥ (उणा- ८२४ )। इति साधुः ॥१॥ पलं मांसं कषति पलङ्कषः, पृषोदरादित्वाद् मोऽन्तः ॥२॥
राजादनः पियालः स्यात् राज्ञामदनं मृष्टत्वाद् राजादनः पुंक्लबिलिङ्गः ॥१॥ पीयते रसोऽस्य पियालः "कुलिपिलि" ।। ( उणा-४७६ ) ॥ इति किदालः । प्रियालोऽपि ॥ २॥
तिनिशस्तु रथद्रुमः ॥ २०८ ॥ तनोति रथादीन् तिनिशः “तिनिश." ॥(उणा- ५३७ ) ॥ इति निशे निपात्यते, अतिक्रान्तो निशाः, चिरकालिकत्वादिति वा पृषोदरादित्वात् ॥१॥ स्थहेतुईमो रथद्रुमः ॥२॥ २०८ ।।
नागरङ्गस्तु नारङ्गः नागरस्य सिन्दूरस्येव रङ्गो रागोऽस्य नागरङ्गः ॥ १ ॥ नृणाति नारङ्गः "सृवृ. नृभ्यो णित् " ॥ (उणा- ९९) इत्यङ्गः । नार्यङ्गोऽपि ॥२॥
इङ्गुदी तापसद्रुमः। । इङ्गति इङ्गुदी, त्रिलिङ्गः “इङ्गयर्विभ्याम् ." ॥ (उणा- २४२)॥ इत्युदः॥१॥ तापसानां द्रुमः तापसद्रुमः । तापसा हि अरण्येऽस्यास्तैलमुपयुञ्जते ॥१॥
___ काश्मरी भद्रपर्णी श्रीपर्णी
काशते काश्मरी “जठर." ।। (उणा-४०३) ॥ इत्यरे निपात्यते ॥ १॥ भद्राणि श्रीयुक्तानि च पर्णानि अस्या भद्रपर्णी श्रीपर्णी " पाककर्णपर्णवालान्तात्." ॥२।४।५५ ॥ इति ङी ॥ २॥३॥
अम्लिका तु तिन्तिडी ॥ २०९॥ अम्लैव अम्लिका ॥ १ ॥ तिम्यति तिन्तिडी "विहड-" ॥ (उणा-१७२)। इति निपात्यते ॥ २ ॥ २०९ ॥
शेलुः श्लेष्मातकः
शेरतेऽस्मिन् शेलुः पुंलिङ्गः “शीङो लुः" ॥ ( उणा-८२०)॥१॥ श्लिष्यति कफोऽस्मात् श्लेष्मातकः " श्लेष्मातक-" ॥ ( उणा-८३ ) ॥ इत्यातके निपात्यते श्लेष्माणमततीति वा ॥ २ ॥
पीतसालस्तु प्रियकोऽसनः।
Page #461
--------------------------------------------------------------------------
________________
४ भूमिकाण्ड: ।
४६१
पीतवर्णः सालः पीऩसालः ॥ १ ॥ प्रियकः, काम्यत्वात् || २ || अस्यत्यसनः
पुंक्लीबलिङ्गः ।। ३ ॥
पाटलि: पाटला
पाटयति दौर्गन्ध्यं पाटलिः पुंस्त्रीलिङ्गः पाटयजिभ्याम् - " ॥ ( उणा७०२ ) ।। इत्यलिः ॥ १ ।। " मृदिकन्दि - " || ( उणा - ४६५ ) ॥ इत्यले पाटला, ताम्रपुष्पत्वाद्वा ॥ २॥
भूर्जी बहुत्वक्को मृदुच्छदः ॥ २१० ॥
भृणाति भूर्जः, भुवि ऊर्जयतीति वा ॥ १ ॥ बह्व्यस्त्वचोऽस्य बहुत्त्रक्कः || २ || मृदूनि च्छदान्यस्य मृदुच्छदः ॥ ३ ॥ २१० ॥ दुमोत्पलः कर्णिकारे
द्रुमस्यापि उत्पलानीव पुष्पाण्यस्य द्रुमोत्पलः । सुरभिश्चायमन्यो निर्गन्धः ॥ १ ॥ कर्णिकामियति कर्णिकारस्तत्र ॥ २ ॥
निचुले हिज्जले- ज्जलौ ।
3-"
66
66
नेनेक्ति निचुलः “ कुमुल–” ॥ ( उणा - ४८७ ) ॥ इत्युले निपात्यते, निचुयतेऽम्बुनेति वा तत्र ॥ १ ॥ हिनोति हिज्जलः ॥ २ ॥ एति इज्जलः मुर॥ ( उणा - ४७४ ) ॥ इत्यले निपात्यते । 'हितजलापभ्रंशो हिज्जल:' इति क्षीरस्वामी, जलवेतसविशेषत्वादस्य ॥ ३ ॥
धात्री शिवा चामलकी
दधाति धात्री ॥ १ ॥ शेरते गुणा अस्यां शिवा ॥ २ ॥ आमलते धारयति गुणानामलकी “ कीचक- " ॥ ( उणा - ३३) ॥ इत्यके निपात्यते, त्रिलिङ्गोऽयम् ॥ ३ ॥
कलिरक्षो बिभीतकः ॥ २११ ॥
॥ ( उणा - ७८ ) ॥ इति
कल्यते कलिः पुंलिङ्गः, कलिहेतुत्वाद्वा ॥ १ ॥ अक्षति व्याप्नोत्यक्षः ॥ २ ॥ बिभेत्यस्माद् बिभीतकः त्रिलिङ्गः " भियो द्वे च तकक् । बिभेदक इत्यन्ये ॥ ३ ॥ २११ ॥ हरीतक्यभया पथ्या
८८
ܕܕ
हरति रोगान् हरीतकी, स्त्रीलिङ्गः हरुहि - ' ( उणा - ७९ ) ॥ इतीतकः ॥ १ ॥ नास्ति भयमस्या अभया ॥ २ ॥ पथि साधुः पथ्या हितेत्यर्थः ॥ ३ ॥
त्रिफला तत्फलत्रयम् ।
तेषामामलक्यादीनां फलत्रयं त्रीणि फलानि समाहृतानि त्रिफला, अजाजित्वादाप् ॥ १ ॥
५९
Page #462
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणौ-..
तापिञ्छस्तु तमालः स्यात् तापिनश्छादयति तापिञ्छः, पृषोदरादित्वात् । तापिच्छोऽपि ॥१॥ ताम्यति तमालः पुंक्लीबलिङ्गः “ ऋकृमृ-" ॥ ( उणा-४७५ ) ॥ इत्यालः ॥ २ ॥
चम्पको हेमपुष्पकः ॥ २१२ ॥ " चम्यतेऽद्यते भृ.श्चम्पकः " कीचक-"n ( उणा-३३) ॥ इत्यके निपास्यते ॥ १ ॥ हेमवणे पुष्पमस्य हेमपुष्पकः ॥ २ ॥ २१२ ॥
निर्गुण्डी सिन्दुवारे १.... निष्क्रान्ता गुण्डाद् वेष्टात् निर्गुण्डी । निर्गुण्टीत्यपि ॥ १ ॥ स्यन्दते सिन्दुवारः “ द्वारशृङ्गार-" ॥ ( उणा-४११ ) ॥ इत्यारे निपात्यते, स्यन्दं वृणोति वा, पृषोदरादित्वात् तत्र ॥२॥
अतिमुक्तके माधवी लता
वासन्ती च अतिक्रान्तो मुक्तान विरक्तानतिमुक्तकस्तत्र ॥ १ मधौ वसन्ते भवा माधवी "भर्तसन्ध्यादेः-"॥ ६ । ३ । ८९ ॥ इत्यण् ॥ २॥,लाति लता ॥ ३ ॥ व. सन्ते पुष्प्यति वासन्ती " साधुपुष्प्यतूपच्यमाने" ॥ ६।३।११७ ॥ इत्यण ॥४॥ ___औड्रपुष्पं जपा उडूदेशे भवं पुष्पमोड्रपुष्पम् ॥१॥ जपतीवं जपा। जपादित्वाद्वत्वे जवाऽपि ॥२॥
जातिस्तु मालती ॥ २१३ ॥ जायतेऽस्यां पुष्पादि जातिः ॥ १॥ मालयत्यामोदर्मालती " पुतपित्त-" ॥ ( उणा- २०४ ) ॥ इति ते निपात्यते ॥ २ ॥ २१३ ॥
मल्लिका स्याद्विचकिलः ___मल्ल्यते मूर्धनि मल्लिः “पदिपठि-" ॥ ( उणा- ६०७ ) ॥ . इति इ:, के मल्लिका, “दृकुन-" ॥ ( उणा- २७ ) ॥ इत्यको वा ॥१॥ विच्यते विचकिल: "स्थण्डिलकपिल-" ॥ ( उणा- ४८४ ) ॥ इतीले निपात्यते ॥ २ ॥
सप्तला नवमालिका । सप्त मनो बुद्धिमिन्द्रियाणि च लाति सप्तला, सपति समवैति वा "मुरल-" ॥ ( उणा- ४७४ ) ॥ इत्यले निपात्यते ॥ १॥ नवा स्रुत्या मालाऽस्या नवमालिका ॥२॥
Page #463
--------------------------------------------------------------------------
________________
४ भूमिकाण्ड: ।
૪૬૧
मागधी यूथिका
मगधदेशे भवा मागधी ॥ १ ॥ यूथते यूथी " पथयूथ - " ॥ ( उणा२३१ ) ॥ इति थे निपात्यते, के यूथिका; यूथो जालक मस्त्यस्यां वा ॥ २ ॥ सा तु पीता स्याद् हेमपुष्पिका ॥ २१४ ॥
सा यूथिका पीतवर्णा हेमवर्ण पुष्पमस्या हेमपुष्पी “असत्काण्ड प्रान्तश • काञ्चः पुष्पात्” ॥ २|४|५६ ॥ इति ङी ॥ १ ॥ २१४ ॥
प्रियङ्गुः फलिनी श्यामा
""
प्रीणाति प्रियङ्गुः स्त्रीलिङ्गः “प्रीकैपै- ॥ ( उणा - ७६१ ) ॥ इत्यङ्गुक् ॥ १ ॥ फलति फलिनी "श्याकठि - " ॥ ( उणा - २८२ ) ॥ इति बहुवचनादिनः ॥ २ ॥ श्यामा वर्णेन ॥ ३ ॥
बन्धुको बन्धुजीवकः ।
बध्नाति चित्तं बन्धूकः " मृमन्यञ्जि - " ॥ ( उणा - ५८ ॥ १ ॥ जीवानां बन्धुः, बन्धून् जीवयति वा बन्धुजीवकः ॥ २ ॥
करुणे मल्लिकापुष्पः
५८ ) ॥ इश्यूकः
कीर्यते करुणः “ऋलृवृ – ” ॥ ( उणा - १९६ ) ॥ इत्युणस्तत्र ॥ १ ॥ मल्लिकाया इव पुष्पमस्य मल्लिकापुष्पः ॥ २ ॥
जम्बीरे जम्भ - जम्भली ॥ २१५ ॥
जम्यते जम्बीरः "जम्बीर - " ॥ ( उणा - ४२२ ) ॥ इतीरे निपात्यते तत्र ॥ १ ॥ जम्भते जम्भ: पुंक्लीबलिङ्गः || २ || "मुरल-" । ( उणा ४७४) ॥ इत्यले निपातनाज्जम्भलः, जम्भान् दन्तान् लात्यम्लत्वाद् वा ॥ ३ ॥ २१५ ॥
मातुलिङ्गो बीजपूरः
99.
मातोऽत्यते मातुलिङ्गः “माङस्तुलेरुङ्गक् च - '॥ ( उणा - १०६ ) ॥ इति साधुः । मातुलिङ्गोऽपि ॥ १ ॥ बीजैः पूर्यते बीजपूरः ॥ २ ॥
करीर - ककरौ समौ ।
किरति करीरः पुंक्लीबलिङ्गः, करिण ईरयति कण्टकैर्वा ॥ १ ॥ क्रकरः जठरककर - " ॥ ( उणा - ४०३ ) ॥ इत्यरे निपात्यते, ऋतिं करोति
"(
तीक्ष्णकण्टकत्वाद्वा ॥ २ ॥
पञ्चाङ्गुलः स्यादेरण्डे
पञ्च अङ्गुलयोऽस्य पञ्चाङ्गुलः, अङ्गुलिसदृशपञ्चपत्रावयवत्वात् “बहुव्रीहेः
Page #464
--------------------------------------------------------------------------
________________
४६४.
अभिधानचिन्तामणौकाष्ठे-" ॥ ७ ॥ ३ । १२४ ॥ इति टः समासान्तः ॥ १ ॥ ईरयति वायुमेरण्डः .. "पिचण्डैरण्ड-" ॥ ( उणा- १७६ ) ॥ इत्यन्डे निपात्यते तत्र ॥ ३॥ ..
. . भ्रातक्यां धातुपुष्पिका ॥ २१६ ॥
दधाति धातकी "श्लेष्मातक-" ॥ ( उणा-८३ ) ॥ इत्यातके निपात्यते तम ॥१॥ धातुवद् रक्तानि पुष्पाण्यस्या धातुपुष्पी ॥ २ ॥ २१६ ॥
कपिकच्छूरात्मगुप्ता कपीन् कषति कपिकच्छूः स्त्रीलिङ्गः "कषेण्डछौ च षः” ॥ ( उणा८३१)॥ इति ऊः ॥ १॥ आत्मना गुप्ता आत्मगुप्ता, स्पर्शाविषयत्वात् ॥ २ ॥
धत्तूरः कनकाहवयः। धयति धातून धत्तूरः “सिन्दूर-" ॥ ( उणा- ४३०)॥ इत्यूरे निपात्यते धात्तोऽपि ॥ १ ॥ कनकाह्वयः, भुक्तेऽस्मिन् हेमवर्णपृथ्वीदर्शनात् ॥ २ ॥
कपित्थस्तु दधिफलः कपयोऽस्मिन् तिष्ठन्ति कपित्थः, कपिप्रियत्वात् कपिरिव तिष्ठतीति वा, पृषो. दरादित्वात् तत्वम् ॥ १ ॥ दधिवदम्लमधुरं फलमस्य दधिफलः ॥ २ ॥
नालिकेरस्तु लागली ॥ २१७ ।। वलति नालिकेरः पुंस्त्रीलिङ्गः “ शतेरादयः " ॥ (उणा-४३२ ) ॥ इत्येरे निपात्यते ॥ १ ॥ नालिकान् नालयुक्तान् पुष्पादीनीरयति वा हलाकारपत्रशाखखाल्लाङ्गली ॥ २ ॥ २१७ ॥
आम्रातको वर्षपाकी
अमति आनातकः " श्लेष्मातकाम्रातक-" ॥ ( उणा-८३ ) ॥ इति निपात्यते, आम्रमतति कपिचूतत्वादिति वा ॥१॥ वर्षेण पाकोऽस्त्यस्य वर्षपाकी ॥ २ ॥
केतकः क्रकचच्छदः । केतति वने केतकः पुंस्त्रीलिङ्गः, यद्वाचस्पतिः- 'केतकस्तु द्वयोः' इति ॥१॥ क्रकचाकाराणि च्छदान्यस्य कचच्छदः ॥ २॥
कोविदारो युगपत्रः कनति दीप्यते कोविदारः “ कनेः कोविद-" ॥ ( उणा-४१० ) ॥ इत्यारे साधुः, कुं भूमिं विदारयतीति वा, पृषोदरादित्वात् ॥ १॥ युगरूपं पत्रमुस्य युगपत्रः ॥ २ ॥
Page #465
--------------------------------------------------------------------------
________________
४ भूमिकाण्डः ।
४६५
सल्लकी तु गजप्रिया ॥ २१८ ॥ 'सल्लः सौत्रः' सल्लति सल्लकी, पुंस्त्रीलिङ्गः “दृकुन-" ॥ ( उणा- २७) ॥ इत्यकः, सत्कृत्य लक्यते खाद्यते गजैरिति वा ॥ १ ॥ गजस्य प्रिया ॥२॥२१८॥
वंशो वेणुर्यवफलस्त्वचिसारस्तृणध्वजः ।
मस्करः शतपर्वा च वमति वंशः “पादावमि-" ॥ ( उणा- ५२७)॥ इति शः ॥ १॥ अजन्यनेन वेणुः पुंलिङ्गः "अजिस्था-" ॥ ( उणा- ७६ ) ॥ इति णुः ।। २ ॥ यवाकारं फलमस्य यवफलः ॥ ३ ॥ त्वचि वल्के सारस्त्वचिसारः "अद्व्यञ्जनात्-" ॥ ३।२।१८ ॥ इति विकल्पेन सप्तम्यलुप् । त्वक्सारोऽपि ॥ ४ ॥ तृणानां ध्वज इव तृणध्वजः ॥ ५ ॥ मा क्रियते प्रतिषिध्यतेऽनेन मस्करः, वर्चस्कादित्वात् साधुः ॥ ६ ॥ शतं बहूनि पर्वाण्यस्य शतपर्वा ॥ ७ ॥
स्वनन् वातात् स कीचकः ॥ २१९ ॥ स वंशो वाताद् हेतोः शब्दायमानः कवते बध्नाति शब्दं कीचकः "कीचक-" ॥ ( उणा- ३३ ) ॥ इत्यके निपात्यते, कीति चकते वा, कीचेति कायति वा ॥ १ ॥ २१९ ॥
तुकाक्षीरी वंशक्षारी त्वक्षीरी वंशरोचना । क्षीरस्य त्वगिव तुकाक्षीरी ॥ १॥ वंशात् क्षीरमस्यां वंशक्षीरी ॥ २ ॥ त्वचः क्षीरमस्याः त्वक्षारी स्त्रीक्लीबलिङ्गः ॥ ३ ॥ वंशोत्था रोचना वंशरोचना ॥ ४ ॥
पूगे क्रमुक-गूवाको पवते पूगः “पूमुदिभ्याम्-" ॥ ( उणा- ९३ ) ॥ इति किद् गस्तत्र ॥ १॥ कामति क्रमुकः ' "क्रमेः कृम् च वा” ॥ ( उणा- ५३ ) ॥ इति उकः ॥ २ ॥ गुर्वत्यनेन संसकत्वाद् गूवाकः “मवाकश्यामाक-" ॥ ( उणा- ३७ ) ॥ इत्याके निपात्यते ॥ ३ ॥
तस्योद्वेगं पुनः फलम् ॥ २२० ।। तस्य पूगस्य फलमुद्गतो वेगोऽस्य उद्वेगम् , संसकत्वात् ॥ १ ॥ २२० ॥
ताम्बूलवल्ली ताम्बूली नागपर्यायवल्ल्यपि । ताम्बूलं पूगपर्ण-चूर्णसंयोगस्तद्धेतुर्वल्ली ताम्बूलवल्ली ॥ १ ॥ ताम्यन्ति काङ्कत्येनां ताम्बूली "तमेोऽन्तो दीर्घस्तु वा" ॥ ( उणा- ४८९)॥ इत्यूलः ॥ २ ॥ नागपर्यायेभ्यः सर्पादिभ्यो वल्ली, नागस्य वल्ली पातालानीतत्वाद् नागवल्ली,
Page #466
--------------------------------------------------------------------------
________________
४६६
अभिधानचिन्तामणौ-
..
सर्पवल्ली, फणिलता इत्यादि ॥ ३ ॥
तुम्ब्यलाबू: ताम्यति तुम्बी "तुम्बस्तुम्बादयः" ॥ ( उणा- ३२० ) ॥ इति बे निपा. त्यते ॥ १॥ न लम्बतेऽलाबूः काक्वाऽत्र नञ् “नो लम्बेर्नलुक् च" ॥ (उणा८३८ ) ॥ इत्यः, स्त्रीक्लीबलिङ्गावती ॥२॥
कृष्णला तु गुञ्जा कृष्णं प्रान्तं लाति कृष्णला ॥ १ ॥ गुजति शिम्ब्या गुजा ॥ २॥ ..
द्राक्षा तु गोस्तनी ।। २२१ ॥
मृद्वीका हारहूरा च रस्यते द्राक्षा " लाक्षाद्राक्षा-” ॥ ( उणा-५९५ ) ॥ इति निपात्यते यद्वा, द्राक् क्षरति क्षीयते क्षिपति क्षिणोतीति वा “ क्वचित् " ॥ ५।१। १७१ ॥ इति डः ॥ १ ॥ गोस्तानाभा गोस्तनी ॥ २ ।। २२१.। मृद्यते मृद्वीका “ मृदेखेंऽन्तश्च वा” ॥ ( उणा-४९ ) ॥ इति किदीकः ॥ ३ ॥ हरति पित्तं हारहूरा "सिन्दूर-" ॥ ( उणा-४३०) । इत्यूरे निपात्यते ॥ ४ ॥
गोक्षुरस्तु त्रिकण्टकः ।
श्वदंष्ट्रा स्थलशृङ्गाटः
गाः क्षुरयति व्यथयति गोक्षुरः ॥१॥ त्रयः कण्टका अस्य त्रिकण्टकः ॥२॥ शुनो दृष्ट्रेव श्वदृष्ट्रा संज्ञाशब्दत्वात् “शुनः” ॥ ३ । २ । ९० ॥ इति दीर्घत्वाभावः ॥ ३ ॥ स्थलस्य शृङ्गाटः, स्थलशृङ्गमटतीति वा स्थलशृङ्गाटः ॥४॥
गिरिकर्ण्यपराजिता ॥ २२२ ॥ गिरिरश्मेव कर्णोऽस्या गिरिकणी ॥ १ ॥ न पराजीयते रक्षाहेतुत्वादपराजिता अप्रतिहतेत्यर्थः ॥ २ ॥ २२२ ॥
___ व्याघ्री निर्दिग्धिका कण्टकारिका स्यात् । · व्याघ्रीव व्याघ्री, दुःस्पर्शत्वात् ॥ १ ॥ निर्दिह्यते निर्दिग्धा के निर्दिग्धिका ॥२॥ कण्टकानियति कण्टकारी, के कण्टकारिका ।। ३ ।।
अथामृता ।
वत्सादनी गुडूची च । न म्रियते अमृता छिनप्ररोहत्वात् ॥ १ ॥ वत्सैरद्यते वत्सादनी ॥२॥
Page #467
--------------------------------------------------------------------------
________________
४ भूमिकाण्डः ।
गुडति रक्षति कफं गुडूची " गुडेरूचट् " ॥ ( उणा - १२० ) ॥ ३ ॥ विशाला त्विन्द्रवारुणी ॥ २२३ ॥
विशाला, महाफलत्वात् ।। १|| इन्द्रवत् अक्षैर्वृणोति इन्द्रवारुणी ||२||२२३|| उशीरं वीरणीमूले
उश्यते उशीरं पुंक्लीबलिङ्गः “ घसिवशि - " ॥ ( उणा - ४१९ ) ॥ इति किदीरः || १ || वीरणी तृणविशेषस्तस्या मूलं वीरणीमूलं तत्र ॥ २ ॥
४६७
हीरे वालकं जलम् |
जिहतीव हीबरं " शतेरादयः " ॥ ( उणा - ४३२ ) ॥ इति केरे निपात्यते तत्र ॥१॥ वडते वालः स्वार्थे के वालकम् ||२|| जलति जलम्, यद्वाऽस्य केशसदृशश्वात् तृङ्घ्नत्वाच्च वाल-जलपर्यायवाच्यत्वमपि ॥ ३ ॥
प्रपुन्नाटस्त्वेडगजो दद्रुघ्नश्चक्रमर्दकः ॥ २२४ ॥
प्रणति प्रपुनाति वा प्रपुन्नाटः " कपाट - " ॥ ( उणा -- १४८ ) ॥ इति अटे निपात्यते ॥ १ ॥ एडवद् मेषाक्षत्वाद् गज्यते शब्द्यते एडगजः ॥ २ ॥ दद्धुं हन्ति दद्रुघ्नः ।। ३ ॥ चक्राणि दद्रुमण्डलानि मृद्नाति चक्रमर्दकम् ||४|| २२४|| लवायां महारजनं कुसुम्भं कमलोत्तरम् ।
2
लटति लट्वा “लटिखटि - " || ( उणा - ५०५ ) || इति वस्तत्र ॥ १ ॥ रज्यतेऽनेन रजनं महत्च तद् रजनं च महारजनम् || २ || कुस्यति कुसुम्भं " काकुसिम्यां कुम्भः” ॥ ( उणा- ३३७ ) || पुंक्लीबलिङ्गोऽयम् || ३ || कमलेभ्य उत्तरं वर्णाधिक्यात् कमलोत्तरम् ॥ ४ ॥
लोध्रे तु गालवो रोध-तिल्व- शावर - मार्जनाः ॥ २२५ ॥
रुणद्धि व्रणं रोधः, लत्वे लोध्रस्तत्र ॥ १ ॥ गालयति स्रावयति अक्षि गा लवः ‘“कैरव–” ।। ( उणा- ५१९ ) ॥ इत्यवे निपात्यते ॥ २ ॥ ३ ॥ तिलति स्निह्यतेऽङ्गमनेन तिल्वः “ प्रह्वाह्ना - " ॥ ( उणा - ५१४ ) ॥ इति वे निपात्यते ॥ ४ ॥ शवराणामयं वृक्षः शावरः ॥ ५ ॥ मार्ष्टि उद्वर्त्तयति अङ्गमनेन मार्जन
॥ ६ ॥ २२५ ॥
मृणालिनी पुटकिनी नलिनी पवजिन्यपि ।
मृणालमस्त्यस्यां मृणालिनी ॥ १ ॥ पुटकमस्त्यस्यां पुटकिनी " मन्माब्जादेर्नानि ॥ ७२६७ ॥ इति इन् ॥ २ ॥ नलोऽस्त्यस्यां नलिनी “अतोऽनेकस्वरात्-" ॥ ७|२।६ ॥ इतीन् ॥ ३ ॥ पङ्कजमस्त्यस्यां पङ्कजिनी, अब्जादित्वादिन्,
Page #468
--------------------------------------------------------------------------
________________
४६८
अभिधानचिन्तामणौयौगिकत्वात् कमलिनीत्यादयः ॥ ४ ॥
कमलं नलिनं पद्ममरविन्दं कुशेशयम् ॥ २२६ ॥ परं शत-सहस्राभ्यां पत्रं राजीव-पुष्करे । विसप्रसूतं नालीकं तामरसं महोत्पलम् ॥ २२७ ॥
तज्जलात् सरसः पङ्कात् परैरुड्-रुह-जन्म-जैः । - काम्यते श्रिया कमलं “मृदिकन्दि-" ॥ ( उणा- ४६५ ) ॥ इत्यलः, ... कमम्भोऽलति भूषयति वा, केन मल्यत इति वा ॥ १ ॥ नलति नलिनं "श्या. कठि-" ॥ ( उणा- २८२ ) ॥ इतीनः ॥ २ ॥ पद्यते पद्मं “अर्तीरि-" ॥ ( उणा- ३३८)॥ इति मः। एते पुंक्लीबलिङ्गाः ॥ ३ ॥ अरान् विन्दति अर• विन्दं “निगवादेनाम्नि" ॥ ५।१।६१ ॥ इति शः ॥ ४ ॥ कुशे जले शेते कुशेशयं “शयवासिवासेष्वकालात्" ॥ ३।२।२५ ॥ इति सप्तम्यलुप् ॥ ५ ॥ २२६ ॥ शत-सहस्रशब्दाभ्यां परं पत्रम् , शतसहस्रे बहूपलक्षणं शतं शहस्रं च पत्राण्यस्य शतपत्रम् , सहस्रपत्रम् ॥६॥७॥ राज्यः सन्त्यस्य राजीवम् , मण्यादित्वाद्वः ॥ ८॥ पुष्यति जले पुष्करं “सूपुषिभ्यां कित्" ॥ ( उणा- ४३६)॥ इति करः ॥ १॥ विसात् प्रसूतं विसप्रसूतम् । विसप्रसूनमपि ॥ १० ॥ नलति नालीकं पुंक्लीबलिङ्गः "सृणीक-" ॥ ( उणा- ५० ) ॥ इतीके निपात्यते ॥ ११ ॥ तम्यते तामरसं "फनस-" ॥ ( उणा- ५७३ ) ॥ इत्यसे निपात्यते, तामः सप्रकर्षों रसोऽस्यति वा, तमः प्रकषार्थः तारतम्यवत् , ताम्यद्भिभृङ्गरस्यते वा ॥१२॥ महच्च तदुत्पलं च महोत्पलम् ॥ १३ ॥ २२७ ॥ तत् कमलं जलशब्दात् , सरःशब्दात् , पङ्कशब्दाच परै रुडादिभिरुच्यत इत्यर्थः, जलरुट , जलरुहम् , जलजन्म, जलजम् , ॥ १४ ॥ १५ ॥ १६ ॥ १७ ॥ सरोरुट , सरोरुहम् , सरोजन्म, सरोजम् , ॥ १८ ॥ १९ ।। २०॥२१॥ पङ्कट , पङ्करहम् , पङ्कजन्म, पङ्कजम् । यौगिकत्वाद् वारिज-सरसीरुहादयः ॥ २२ ॥ २३ ॥ २४ ॥ २५ ॥
पुण्डरीकं सिताम्भोज पुणति पुण्डते वा पुण्डरीकं "सृणीक-” ॥ ( उणा- ५० ) ॥ इतीके निपात्यते ॥ १ ॥ सितं श्वेतमम्भोज सिताम्भोजम् ॥ २ ॥
अथ रक्तसरोरुहे ॥ २२८ ॥
रक्तोत्पलं कोकनदं रक्तं च तत् सरोरुहं च रक्तसरोरुहं तत्र ॥ १ ॥ २२८ ॥ रक्तं शोणमुत्पलं रक्तोत्पलम् ॥ २॥ कोकैश्चक्रवाकैर्नदति कोकनदम् ॥ ३॥
Page #469
--------------------------------------------------------------------------
________________
- ४ भूमिकाण्डः ।
४६९
कैरवाणि सन्त्यस्यां कैरविणी तत्र ॥१॥ कुमुदानि सन्त्यस्यां कुमुद्वती "नडकुमुद-" ॥ ६।२।७४ ॥ इति डिद् मतुः, व्यञ्जनान्ताद्वा " तदस्य-" ॥ ७ । २ । १ ॥ इति मतुः । कुमुदिन्यपि ॥ २ ॥ .. उत्पलं स्यात् कुवलयं कुवेलं कुवलं कुवम् ॥ २२९ ॥
___ उत्पिबत्युत्पलं पुक्लीबलिङ्गः "मुरल-" ॥ ( उणा- ४७४ ) ॥ इत्यले निपात्यते, उत्पलतीति वा ॥ १ ॥ को वलति प्राणिति कुवलयं "कुगुवलि-" ॥ (उणा३६५)॥ इत्ययः, कुत्सितो बहिर्वलयः पत्रवेष्टनमस्य वा ॥ २ ॥ को वेलति कुवेलम् ॥ ३ ॥ कवते भृङ्गारावैः कुवलं पुंक्लीबलिङ्गः "कोर्वा" ॥ (उणा४६९ ) ।। इति किदलः, कौ वलतीति वा ॥ ४ ॥ कुत्सितं वातीति कुवं "क्वचित्" ॥ ५। १ । १७१ ॥ इति डः ॥ ५ ॥ २२९ ॥ : अस्य विशेषानाह
श्वेते तु तत्र कुमुदं कैरवं गर्दभाह्वयम् । - तत्र उत्पले श्वेते काम्यते कुमुदं पुंक्लीबलिङ्गः “कुमुद-" ॥ ( उणा२४४ ) ॥ इत्युदे निपात्यते, को मोदत इति वा । कुमुदपि ॥ १ ॥ करोति सुखं कैरवं "कैरवभैरव-"॥ (उणा-५१९)॥ इत्यवे निपात्यते, के रौति कैरवो हंसस्तस्येदं प्रियमिति वा ॥ २ ॥ गर्दभस्यायोऽस्य गर्दभाह्वयम् ॥ ३ ॥
नीले तु स्यादिन्दीवरं - नीले उत्पल इन्दति श्रिया इन्दीवरं " तीवर-" ॥ ( उणा-४४४ ) ॥ इति वरटि निपात्यते ॥ १॥ हलकं रक्तसन्ध्यके ॥ २३० ॥
.. . हल्लति घूर्णते हलकम् ॥ १॥ रक्तान् सन्धीनकति रक्तसन्ध्यकम् , रक्तस. न्ध्येव वा तत्र । रक्तोत्पलं चैतत् ॥ २ ॥ २३० ॥
. सौगन्धिके तु कल्हारं . सुगन्धः प्रयोजनमस्य सौगन्धिकम् ॥ १॥ कल्यते कल्हारं " द्वारशृङ्गार-" ॥ ( उणा-४११) ॥ इत्यारे निपात्यते, के ल्हादते वा, पृषोदरादित्वात् । शारदं शुक्लं चैतत् ॥ २॥
बीजकोशो वराटकः ।
कर्णिका बीजानां पद्माक्षनाम्नां कोशो रोजकोशः ॥ १॥ वरमटति वराटकः
६०
Page #470
--------------------------------------------------------------------------
________________
४७०
अभिधानचिन्तामणी- ..
॥ २ ॥ असत्यपि कर्णभवत्वे रूढत्वात् कर्णे भवा कर्णिका " कर्णललाटात्-" . ॥६।३ । १४१ ॥ इति कल् ॥ ३ ॥
पद्मनालं तु मृणालं तन्तुलं विसम् ॥ २३१ ॥ पद्मस्य नालं पद्मनालम् ॥ १॥ 'मृणत् हिंसायां' मृण्यतेऽद्यते मृणालं . त्रिलिङ्गः “ कुलिपिलि-" ॥ ( उणा-४७६ ) ॥ इति किदालः, मृदमालीयते वा " क्वचित् " ॥५।१।१७१ ॥ इति डे पृषोदरादित्वात् साधुः ॥ २॥ तन्तून् लाति तन्तुलम् ॥ ३ ॥ वेति विसं " पटिवीभ्याम्-" ॥ (उणा-५७९)॥ इति डिसः, विस्यते प्रेयते वा ॥ ४ ॥ २३१॥ - किञ्जल्कं केसरं
किञ्चिजलति, किं कुत्सित जीर्यते वा किजल्कं " निष्कतुरुष्क-"॥ (उ. णा-२६) ॥ इति के निपात्यते ॥ १॥ के सरति केसरम् । पुंक्लीबलिङ्गावेतौ ॥२॥
संवर्तिका तु स्याद् नवं दलम् । संवर्तयति वेष्टयति संवर्तिका पद्मादीनां नवोद्भिन्नं दलं शरयन्त्रिकाख्यम् ॥१॥
करहाटः शिफा च स्यात् कन्दे सलिलजन्मनाम् ॥२३२॥ कं रहयन्ति करहाः पद्मादयो जलोत्थास्तानटति करहाटः, कीर्यते वा " कपाटविराट-" ॥ ( उणा-१४८ ) ॥ इत्याटे निपात्यते ॥ १॥ शिनोति दारयति मां शिफा ॥ २ ॥ कनति कन्दः “शाशपि-" ॥ (उणा-२३७) ॥ इति दः, पुंक्लीबलिङ्गः, कन्द्यतेऽन्विष्यते वा तत्र, सलिलंजन्मनां पद्मादीनाम् ॥३॥२३२॥
उत्पलानां तु शालूक उत्पलानां कन्दे शलति ' शालूकं " शल्यणेर्णित " ॥ ( उणा-५९ ) ॥ ॥ इत्यूकः ॥ १॥
नील्यां शैवाल-शेवले।
शेवालं शैवलं शेपालं जलात् शूक-नीलिके ॥ २३३ ॥ नीलति नाली, नीलीवर्णा वा तस्याम् ॥ १॥ शेतेऽम्भसि शैवालं शेवलं शैवलं शेपालं 'शीङस्तलक्पालवालण्वलण्वलाः” ॥ ( उणा- ५०१) ॥ इति चत्वारोऽपि साधवः। शेवालं तु शेपालस्य जपादित्वाद् वत्वे साधु ॥ २ ॥ ३ ॥ ॥ ४ ॥ ५॥ ६ ॥ जलशब्दात् परे शुक-नीलिके- जलस्य शूकमिव जलशूकम् । शैवालाद्याः षडपि पुंक्लीबलिङ्गाः ॥ ७ ॥ जलं नालयात अणि खार्थे के जलनी. लिका ॥ ८ ॥ २३३ ॥
Page #471
--------------------------------------------------------------------------
________________
४ भूमिकाण्डः । धान्यं तु सस्यं सत्यं च व्रीहिः स्तम्बकरिश्च तत् । धन्यते धान्यम् , धीयत इति वा "धामाजि-" ॥ ( उणा- ३७९ ) ॥ इत्यन्यः, व्रीह्यादिः, यदाहुः
" वाहियेवो मसूरो गोधूमा मुद्गमाषतिलवणकाः।
अणवः प्रियङ्गुः कोद्रवमयुच्छकाः शालिराढक्यः ॥ १ ॥
किञ्च कलाय-कुलत्थौ शणसप्तदशानि धान्यानि ॥"॥ १ ॥ सस्यते सुखमनेन सस्यं “स्थाच्छा-" ॥ ( उगा-३५७ ) ॥ इति यः॥२॥ सीतया सङ्गत सीत्यं “सीतया सङ्गते" ॥७।१ । २७ ॥ इति यः ॥ ३ ॥ ब्राह्यते याच्यत इति व्रीहिः “त्रियो हिक्” ॥ ( उणा- ७१० ) ॥ ४ ॥ स्तम्ब करोति स्तम्बकरिः । पुंलिङ्गावेतौ " शकृत् स्तम्बादत्सवीही कृगः ॥ ५। १ । १०० ॥ इति इः ॥ ५॥
आशुः स्यात् पाटलो व्रीहिः व्रीहिः षष्टिका धाम्यविशेषः पाटलच्छायः ॥ १ ॥ अश्नुते आशुः पुंलिङ्गः "कृवापाजि-" ॥ (उणा-.१ ) ॥ इत्युण , शीघ्रपाकत्वाद्वा; यद् दुर्गः'आश्वाख्या शालि-शीघ्रयोः' इति ॥ २ ॥
गर्भपाकी तु षष्टिकः ॥ २३४ ॥ गर्भे पच्यते खयमेवेत्येवंशीलो गर्भपाकी णिनि न्यवादित्वात् साधुः ॥१॥ षष्टिरात्रेण पच्यते षष्टिकः “यवयवकषष्टिकाद्यः" ॥ ७।१।८१ ॥ इत्यत्र षष्टिकेति निर्देशात् साधुः ॥ २ ॥ २३४ ।।
शालयः कलमाद्याः स्युः
शलन्ति शालयः पुंलिङ्गः "कमिवमि-" ॥ (उणा- ६१८)॥ इति णिदिः कलम आद्यो येषां कलमाद्याः ॥१॥
कलमस्तु कलामकः । . कडति माद्यत्यनेन कडमः “स्पृथि-" ॥ ( उणा- ३४७ ) ॥ इत्यमः, लत्वे कलमः॥ १ ॥ कलां कलनाममति कलामकः ॥ २ ॥
लोहितो रक्तशालिः स्यात् लोहितो वर्णेन ॥ १॥
महाशालिः सुगन्धिकः ॥ २३५ ॥ महांश्चासौ शालिश्च महाशालिः ॥ १॥ शोभनो गन्धोऽस्य सुगन्धिः " सु.
Page #472
--------------------------------------------------------------------------
________________
४७२
अभिधानचिन्तामणी
घूत्युत्सुरभेः-" ॥॥ ३ । १४४॥ इति इत् समासान्तः, के सुगन्धिकः ॥२॥२३५॥ ...
यवो हयप्रियस्तीक्ष्णशूकः यूयते यवः ॥ १॥ हयानां प्रियो हयप्रियः ॥ २ ॥ तीक्ष्णः शूकः किंशारस्य तीक्ष्णशूकः ॥ ३ ॥
तोक्मस्त्वसौ हरित् । असौ यवो हरिन्नीलः, तुज्यते तोक्मः "रुक्मग्रीष्म-" ॥ (उणा-३४६)॥ इति मे निपात्यते ॥ १॥ . मङ्गल्यको मसूरः स्यात्
, मङ्गले साधु मङ्गल्यः, के मङ्गल्यकः ॥ १॥ मस्यते परिणमते मसूरः, पुंस्त्रीलिङ्गः " मीमसि-" ॥ ( उणा-४२७ ) इत्यूरः ॥ २ ॥
कलायस्तु सतीनकः ॥ २३६ ॥ .
हरेणुः खण्डिकश्च कल्यते कलायः त्रिपुटाख्यः "कुलिलुलि-" ॥ ( उणा- ३७२ ) ॥ इति कायः, कलामतीसारमयते वा, कं लातीति वा ॥१॥ सीदन्त्यनेन सीनः "दिननग्न-" ॥ (उणा- २६८)॥ इति साधुः, के सतीनकः । सीतीनोऽपि ॥२॥२३६॥ ह्रियते हरेणुः, पुंलिङ्गः "कृहृभू-" ॥ ( उणा- ७७२ ) ॥ इत्येणुः ॥ ३ ॥ खण्ज्यते खण्डिकः “कुशिक-" ॥ ( उणा- ४५ ) ॥ इतीके निपात्यते ॥ ४ ॥
__ अथ चणको हरिमन्थकः ।
चणति दल्यमानश्चणकः " दृकुन-" ॥ ( उणा- २७ ) ॥ इत्यकः ॥१॥ हरिभिर्मथ्यते हरिमन्थकः ॥ २ ॥
माषस्तु मदनो नन्दी वृष्यो बीजवरो बली ॥२३७॥ . . मीयते माषः पुंक्लीबलिङ्गः “वृकृत-" ॥ ( उणा- ५४०)॥ इति षः ॥१॥ मदयति वृक्षत्वाद् मदनः ॥ २ ॥ नन्दयत्यवश्यं नन्दी ॥ ३ ॥ वृषाय मैथुनाय हितो वृष्यः "प्राण्यङ्गरथ-" ॥ ७।१।३७ ॥ इति यः, वृष्यते तैलादिनेति "कृवषि-" ॥ ५।१।४२ ॥ इति क्यप् वा ॥ ४ ॥ बीजेषु वरो बीजवरः, बीज शुकं वृणोति वा ॥ ५ ॥ बेलं रेतोऽस्त्यत्र बली ॥ ६ ॥ २३७ ॥
___ मुद्गस्तु प्रथनो लोभ्यो बलाटो हरितो हरिः ।
मोदतेऽनेन मुद्गः “पूमुदिभ्यां कित्" ॥ ( उणा- ९३) ॥ इति गः ॥१॥ प्रयते प्रथनः ॥ २ ॥ लुभ्यते लोभ्यः ॥३॥ बलमटति बलाटः ॥ ४ ॥ हरितो
Page #473
--------------------------------------------------------------------------
________________
४ भूमिकाण्डः।
४७३
नीलः ॥ ५ ॥ हरिः, हरिवर्णत्वात् पुंलिङ्गः ॥ ६ ॥
पीतेऽस्मिन् वसु-खण्डीर-प्रवेल-जय-शारदाः ॥ २३८ ॥ अस्मिन् मुद्रे पीतवर्णे वसति वित्ते वसुः पुंलिङ्गः ॥ १ ॥ खन्यते खण्डीरः "जम्बीर-" ॥ (उणा-४२२) ॥ इतीरे निपात्यते ॥ २॥ प्रवेलति प्रवेलः ॥ ३ ॥ जयत्यनेन जयः ॥ ४ ॥ शरदि भवः शारदः "भर्तुसन्ध्यादेरण" ।। ६ । ३ । ॥ ८९ ॥ ५ ॥ २३८ ॥
कृष्णे प्रवर-वासन्त-हरिमन्थज-शिम्बिकाः । कृष्ण मुद्गे प्रक्रियते प्रवरः ॥ १॥ वसन्ते भवो वासन्तः ॥ २॥ हरिमन्थाज्जायते हरिमन्थजः ॥ ३ ॥ शिम्बाऽस्त्यस्य शिम्बिकः, ब्रीह्यादित्वादिकः, शिम्बिभिः कायति वा ॥ ४ ॥
वनमुद्ने तुवरक-निगूढक-कुलीनकाः ॥ २३९ ॥
खण्डी च वनस्य मुद्गो वनमुद्गस्तत्र, तुवरः कषायः स एव तुवरकः ॥ १ ॥ निगृहति स्म निगूहकः ॥ २ ॥ को लीयते कुलीनकः " कीचक-" ॥ ( उणा-३३ ) ॥ इत्यके निपात्यते ॥ ३ ॥ २३९ ॥ खण्डमस्त्यस्य खण्डी ॥ ४ ॥
___ राजमुद्रे तु मकुष्ठक-मयुष्ठको ।
मुद्गानां राजा प्रधानत्वाद् राजमुद्गस्तत्र ॥ १ ॥ मयतेऽनेन मकुष्ठः ॥ २ ॥ मीयतेऽसौ मयुष्ठः “ पष्टेधिठ-" ॥ ( उणा-१६६ ) ॥ इति ठे निपात्यते ॥३॥
गोधूमे सुमनः गुध्यति परिवेष्टयति गोधूमः " कुथिगुधेरूमः " ॥ ( उणा-३.५३ )॥ गां धुनाति वा “ विलिभिलि-” ॥ (उणा-३४० ) इति किद् मस्तत्र ॥१॥ सुष्ठु मन्यते सुमनः, अच् ॥ २ ॥
वल्ले निष्पावः शितशिम्बिकः ॥ २४०॥ . . 'वल्लते वलस्तत्र ॥१॥ निष्पूयते निष्पावः " निरभेः पूल्वः ” ॥ ५। . ३ । २१ ॥ इति घञ् ॥ २ ॥ शिता शिम्बिरस्य शितशिम्बिकः ॥ ३ ॥ २४० ॥
कुलत्थस्तु कालवृन्तः कुले तिष्ठति कुलस्थः, पृषोदरादित्वात् ॥१॥ कालं वृन्तमस्य कालवृन्तः ॥२॥
ताम्रवृन्ता कुलस्थिका । तानं वृन्तमस्यास्ताम्रवृन्ता ॥ १ ॥ ह्रखः कुलत्थः कुलस्थिका ॥२॥
Page #474
--------------------------------------------------------------------------
________________
४७४
अभिधानचिन्तामणौ
आढकी तुवरी वर्णा स्यात् आ ढोकते आढकी " कीचक-" ॥ ( उणा-३३ ) ॥ इत्यके निपात्यते । ॥ १ ॥ तूयते तुर्वरी ॥ २ ॥ वर्ण्यते वर्णा ॥ ३ ॥
कुल्मासस्तु यावकः ॥ २४१ ॥ कोलति कुल्मासः अर्धखिन्नो माषादिः " कलिकुलिभ्यां मासक्" ॥ (उणा-५८४)॥ कुन मस्यति परिणमते वा पृषोदरादित्वात् । कुल्माषोऽपि ॥१॥ यौत्यम्भसा यावकः 'धान्यविशेषः' इत्यन्ये ॥ २ ॥ २४१ ॥ . .
नीवारस्तु वनव्रीहिः नियतैर्बियते नीवारः, मुन्यन्नत्वात् " नेवुः " ॥ ५। ३ । ७४ ॥ इति घञ् ॥१॥ वनस्य व्रीहिवर्नव्रीहिः ॥ २ ॥
श्यामाक-श्यामको समौ । श्यायते श्यामाकः जघन्यो व्रीहिः “मवाकश्यामाक-" ॥ ( उणा-३७) ॥ इत्याके निपात्यते ॥ १ ॥ "कीचक-" ॥ ( उणा- ३३ ) ॥ इत्यके निपातनात् श्यामाकः ॥ २ ॥
कङ्गुस्तु कङ्गुनी कङ्गुः प्रियङ्गुः पीततण्डुला ॥ २४२ ॥ ___ कायति कङ्गुः "प्रीकैपै-" ॥ ( उणा-७६१)॥ इति कङ्गुः ॥१॥ कङ्गति कङ्गुनी "दिननग्न-" ॥ ( उणा- २६८ ) इति ने निपात्यते ॥ २ ॥ कुत्सितममति क्वङ्गुः "फलिवल्यमेः ॥ ( उणा- ७५८)॥ इति गुः ॥ ३ ॥ प्रीणाति प्रियङ्गुः ॥४॥ पीतास्तण्डुला अस्याः पीततण्डुला । एते स्त्रीलिङ्गाः ॥ ५॥ २४२ ॥
सा कृष्णा मधुका . सा कङ्गुः कृष्णवर्णा मन्यते कल्प्यते मधुका "कञ्चुक-" ॥ ( उणा-५७)॥ इत्युके निपात्यते ॥ १॥
रक्ता शोधिका रक्तवर्णी कङ्गुः, शोधयति शोधिका ॥ १॥
मुसटी सिता। सिता कङ्गुः, मुस्यते खण्डयते मुसटी "कपट-" ॥ ( उणा- १४४ ) ॥ इत्यटे निपात्यते ॥ १॥
पीता माधवी पीतवर्णा कङ्गुः मधुन इवेयं तद्वर्णत्वाद् माधवी ॥१॥
Page #475
--------------------------------------------------------------------------
________________
४ भूमिकाण्डः। अथोद्दालः कोद्रवः कोरदूषकः ॥ २४३ ॥ उद्दाल्यते उद्दालः ॥ १॥ केन अम्भसा उनत्ति क्लिद्यते कोद्रवः ‘कैरव-" ॥ ( उणा- ५१९)॥ इत्यवे निपात्यते, केन उद्रौति वा ॥२॥ कुरन्त्यनेन कोरदूषकः “ कोरदूष-" ॥ ( उणा-५६१)॥ इत्यूषे निपात्यते, कोरं भक्तं दूषयतीति वा ॥ ३ ॥ २४३ ॥
चीनकस्तु काककङ्गुः चीयते चीनः " दिननग्न-" ॥ ( उणा-२६८) ॥ इति ने निपात्यते के चीनकः ॥ १ ॥ काकप्रिया कङ्गुः काककङ्गुः ॥ २ ॥
यवनालस्तु योनलः।
जूर्णाह्वयो देवधान्यं जोन्नाला बीजपुष्पिका ।। २४४ ॥ यवस्येव नालमस्य यवनालः ॥१॥ यूयते योनलः " मुरल-" ॥ ( उणा४७४ ) ॥ इत्यले निपात्यते ॥ २ ॥ 'जूचि जरायां' जूर्यते जूर्णः “डीयश्व्यैदितः" ॥ ४ । ४ । ६१ ॥ इति क्तस्य नत्वम्, जूर्ण इत्याह्वयो यस्य जूाह्वयः॥३॥ देवप्रियं धान्यं देवधान्यम् ॥ ४॥ जनाद् नालमस्या जोन्नाला, पृषोदरादित्वात् ॥५॥ बीजाकारं पुष्पमस्या बीजपुष्पिका ॥ ६ ॥ २४४ ॥
शणं भङ्गा मातुलानी स्यात् शणति शणम् ॥ १॥ भज्यते भङ्गा ॥ २ ॥ मानं तोल्यते मातुलानी "मु. मुंचान-" ॥ (उणा-२७८) ॥ इति निपात्यते, मायाः श्रियस्तुलया अनितीति वा ॥३॥
. उमा तु क्षुमाऽतसी।
अव्यते उमा “ अवेह्रस्वश्च-" ॥ ( उणा-३४२) ॥ इति किति मे साधुः ॥ १ ॥ क्षौत्यनया भुक्तया क्षुमा "क्षुहिभ्यां वा" ॥ ( उणा- ३४१)॥ इति किद् मः ॥ २ ॥ अतत्यनयाऽतसी “तप्यणि-" ॥ ( उणा- ५६९)॥ इति असः, न तस्यतीति वा ॥३॥
गवेधुका गवेधुः स्यात् गूयते गवेधुका मुन्यन्नं “गुड इधुक-एधुकौ” ॥ ( उणा- ७४ ) ॥ गवीधुकाऽपि ॥ १॥ गवाऽम्भसा एधते गवेधुः, स्त्रीलिङ्गः "भृमृतृ-" ॥ ( उणा७१६) ॥ इति बहुवचनादुः ॥ १ ॥
जर्तिलोऽरण्यजस्तिलः ॥ २४५ ॥
Page #476
--------------------------------------------------------------------------
________________
४७६
अभिधानचिन्तामणी
जीर्यते जत्तिलः “स्थण्डिल-" ॥ ( उणा- ४४४ ) ॥ इतीले निपा.. त्यते ॥ १॥ २४५ ॥
घण्ढतिले तिलपिञ्जस्तिलपेजः । - षण्ढो निष्फलस्तिलस्तत्र ।। १॥ तिलपिजः तिलपेजः "निष्फले तिलात् पिञ्जपेजो" ॥ ७ । २ । १५४ ॥ इति साधू ॥ २ ॥ ३ ॥
अथ सर्षपः ।
कदम्बकस्तन्तुभः सरति सर्षपः “सर्तेः षपः" ॥ ( उणा- ३१३ ) ॥१॥ कुत्सितमम्बते कदम्बकः ॥ २ ॥ तोतुभ्यते तन्तुभः, पृषोदरादित्वात् ।। ३ ॥
- अथ सिद्धार्थः श्वेतसर्षपः ॥ २४६ ॥ सिद्धप्रयोजनो रक्षाघ्नत्वात् सिद्धार्थः ॥ १॥ २४६ ॥
माषादयः शमीधान्यं माष आदिर्येषां मुद्गादीनां ते माषादयः, शमी शम्बा तत् प्रधानं धान्य शमीधान्यम् ॥ १ ॥
शूकधान्यं यवादयः । शूकप्रधानं धान्यं शूकधान्यं यव आदिर्येषां गोधूमादीनां ते यवादयः ॥१॥
स्यात् सस्यशूकं किंशारुः शवति शूकं पुंक्लीबलिङ्गः "घुयुहि-” ॥ ( उणा- २४ ) ॥ इति को दीर्घत्वं च सस्यस्य शूकं सस्यशूकम् ॥ १ ॥ कुत्सितं शृणाति किंशारुः पुंलिङ्गः "किमः श्री णित् " ॥ ( उणा- ७२५) ॥ इत्युः ॥ २ ॥
कणिशं सस्यशीर्षकम् ।। २४७ ॥ . कणति वातेन कणिशं पुंक्लीबलिङ्गः "कुलिकनि-" ॥ ( उणा-५२५)॥ इति किशः । कनिशमपि ॥१॥ सस्यमयं शीर्षमपि सस्यशीर्षकं सस्यमम्जरीत्यर्थः ॥ २ ॥ २४७ ॥
. स्तम्बस्तु गुच्छो धान्यादेः स्तभ्नाति स्तम्बः "तुम्बस्तम्ब-" ॥ (उणा-३२०)॥ इति निपात्यते, धान्यादेयः स्तम्बः स नालम् ॥१॥ गुध्यतेऽनेन गुच्छः ॥ २ ॥ यं प्रति स्तम्बोऽप्रसिद्धस्तं प्रत्यन्यथा विध्यनुवादौ कायौँ । एवं सर्वत्रोन्नेयम् ॥ .
Page #477
--------------------------------------------------------------------------
________________
४ भूमिकाण्डः।
४७७
नालं.काण्डः नलति नालमर्थाद् गुच्छस्य त्रिलिङ्गः, ज्वलादित्वात् णः ॥ १॥ कणति भज्यमानः काण्डः पुंक्लीबलिङ्गः ॥ २॥
अफलस्तु सः।
पलः पलाल: फलरहितः स काण्डः पलति पलः ॥ १ ॥ पल्यते पलालः "ऋकृमृ-'" ॥ ( उणा- ४७५ ) ॥ इत्यालः ॥ २ ॥ पुंक्लीबलिङ्गावेतौ ।।
धान्यत्वक् तुषः .. धान्यस्य त्वक् , तुष्यत्यनेनाग्निस्तुषः, स्थादित्वात् कः ॥ १ ॥
बुसे कडङ्गरः ॥ २४८ ॥ बुस्यते उत्कूज्यते बुसः पुंक्तीबलिङ्गः, स्थादित्वात् कः, तत्र ॥ १॥ कडन्ति माद्यन्त्यनेन पशवः कडङ्गरः " कडेरेवर-" ॥ ( उणा- ४४५)॥ इत्यङ्गरः ॥२॥ २४८॥
धान्यमावसितं रिद्धं धान्यं व्रीह्यादि ॥ १॥ आ अवसितं निष्पन्नम् । 'रक्षार्थमाच्छादितमावसितम्' इत्यन्ये ॥ २ ॥ राध्यति स्म रिद्धं सिद्धमित्यर्थः । 'सुसम्पन्नम्' इत्येके । पृषोदरादित्वादित्वम् ॥ ३ ॥
तत्पूतं निर्बुसीकृतम् । तद् धान्यं निर्बुसीकृतं पूर्यते स्म पूतम् ॥ १ ॥
मूलपत्रकरीराग्रफलकाण्डाविरूढकाः ॥ २४९ ॥ त्वक् पुप्पं फलकं शाकं दशधा शिग्रुकं च तत् । मूलं मूलकबिसादेः, पत्रं निम्बादेः, करीरं वंशादेः अमं करीरवृक्षादेः, फलं . वार्ताक्यादेः, काण्डमेरण्डवंशादेः, विरूढाः क्षेत्रोद्धृतस्य फलमूलादेः खेदानवोद्भिन्ना अङ्कुराः 'अविरूढकं तालास्थिमज्जा' इति गौडाः ॥ २४९ ॥ त्वक कदल्यादेः, पुष्पं करीरवृक्षादेः, कवकं छत्राकाख्यभूकन्दविशेषः । एवमेतद् दशधाऽपि शक्यतेऽनेन भोक्तुं शाकम् ॥ १॥ शिनोति शिग्रु, के शिग्रुकम् ॥२॥ पुंक्लीबलिङ्गावेतौ ॥ अथ शाकविशेषानाह
तण्डुलीयस्तण्डुलेरो मेघनादोऽल्पमारिषः ॥ २५० ॥
Page #478
--------------------------------------------------------------------------
________________
४७८
अभिधानचिन्तामणौ- . . तण्डुलेभ्यो हितस्तण्डुलीयः "हविरन्नभेदापूपादेर्यो वा" ॥ ॥१।२९ ॥ इतीयः ॥ १ ॥ तण्डुलानीरयति द्रावकत्वात्तण्डुलेरः ॥ २ ॥ मेघस्येव नादोऽस्माद् मेघनादः ॥ ३ ॥ अल्पं मृणाति हिनस्ति अल्पमारिषः "अमिमृभ्यां णित्" . ॥ ( उणा- ५४९ ) ॥ इतीषः ॥ ४ ॥ २५० ॥
बिम्बी रक्तफला पीलुपी स्यात्तुण्डिकेरिका । बनाति बिम्बी "डीनीबन्धि-" ॥ (उणा- ३२५) ॥ इति डिम्बः ॥ १॥ . रक्तं फलमस्या रक्तफला ॥ २ ॥ पिलोरिव पर्णान्यस्याः पीलुपर्णी ॥ ३॥ तुण्ड्यते तुण्डिकेरी "शतेरादयः" ॥ (उणा-४३२) ॥ इति निपात्यते, के तुण्डिकेरिका ॥४॥
जीवन्ती जीवनी जीवा जीवनीया मधुस्रवा ॥ २५१ ॥ जीवतात् जीवन्ती "रुहिनन्दि-" ॥ ( उणा- २२०.) ॥ इत्यन्तः ॥ १॥ जीवत्यनया जीवनी, "क्तेटो-" ॥ ५।३।१०६ ॥ इत्यप्रत्यये जीवा, “बहुलम्" ॥ ५।१।२. ॥ इति करणेऽप्यनीये जीवनीया ॥२॥३॥ ४ ॥ मधु स्रवति मधुस्रवा ॥ ५ ॥ २५१ ॥
वास्तुकं तु क्षारपत्रं
वसन्त्यस्मिन् गुणा वास्तुकं “कञ्चुकांशुक-" ॥ (उणा-५७) ॥ इति साधुः · ॥१॥ क्षीरं पत्रमस्य क्षीरपत्रम् ॥ २॥
पालक्या मधुसूदनी। पालके साधुः पालक्या, पाल्यत इति वा “शिक्यास्याढ्य-" ॥ ( उणा३६४ ) ॥ इति ये निपात्यते ॥ १॥ मधु माधुर्य सूदते मधुसूदनी ॥ २ ॥
रसोनो लशुनोऽरिष्टो म्लेच्छकन्दो महौषधम् ।। २५२ ।।
महाकन्दः अम्लेन रसेनोनो रसोनः, पञ्चरसत्वात् , ययाडि:- 'ऊनोऽम्लेन रसेनेति रसो. नस्तेन कीर्तितः ॥ १॥ लष्यतेऽभिलष्यते लशुनः “लषेः श च"॥(उणा-२८९)। इत्युनः ॥ २॥ पुंक्लीबलिङ्गावेतौ । न रिष्यतेऽरिष्टः ॥ ३ ॥ म्लेच्छानां प्रियः कन्दो म्लेच्छकन्दः ॥ ४ ॥ महौषधम् , रोगजित्त्वात् ॥ ५ ॥ २५२ ॥ महांश्चासौ कन्दश्च महाकन्दः ॥ ६॥
रसोनोऽन्यो गृञ्जनो दीर्घपत्रकः ।
अन्यो द्वितीयो रसोनः, गृज्यते कुत्सितः शब्द्यते गृजनः पुंक्लीबलिङ्गः ॥१॥ दीर्घपत्रमस्य दीर्घपत्रकः ॥ २ ॥
- भृङ्गराजो भृङ्गरजो मार्कवः केशरञ्जनः ॥ २५३ ॥
Page #479
--------------------------------------------------------------------------
________________
४ भूमिकाण्डः ।
४७९
भृङ्गवद् राजते भृङ्गराजः ॥ १॥ भृङ्गवद् रज्जयति कृष्णीकरोति भृङ्गरजः, अचि पृषोदरादित्वाद् नलोपः ॥ २ ॥ मर्कति संपृच्यते मार्कवः "कैरवभैरव-" ॥ ( उणा- ५१९)॥ इति साधुः ॥ ३ ॥ केशान् रज्जयति केशरज्जनम् ॥ ४ ॥ २५३ ॥
काकमाची वायसी स्यात् । काकवद् मचते वर्णेन संपृच्यते काकमाची ॥१॥ वायसवर्णत्वाद् वायसी ॥२॥
कारवेल्लः कटिल्लकः । कारेण वेल्लति कारवेल्लः ॥ १ ॥ कटत्यावृणोति कटिल्लः “भिल्लाच्छभल्ल-" ॥ ( उणा- ४६४ ) ॥ इति ले निपात्यते, कटि लातीति वा, पृषोदरादित्वाद् द्वित्वम् ॥ २॥
कूष्माण्डकस्तु कारुः कुष्यते कूष्माण्ड: "पिचण्ड-" ॥ ( उणा- १७६) ॥ इत्यण्डे निपात्यते, कोरुष्मणाऽनितीति वा, कुत्सितमुष्मा अण्डेषु बीजेष्वस्य वा, पित्तकारित्वात् ॥१॥ कर्किः सौत्रः, कर्कति कर्कारुः पुंलिङ्गः “करारुः” ॥ ( उणा-८१३ ) ॥ करोति तृप्तिं कर्कः, इयर्ति अरुबस्तिशोधनसरत्वात् , कर्कश्चासावरुश्चेति वा ॥२॥
कोशातकी पटोलिका ॥ २५४ ॥ कुश्यति कोशातकी "श्लेष्मातक-" ॥ ( उणा- ८३ ) ॥ इति निपात्यते, कोशाकाराणि फलान्यतति वा ॥१॥ पटति पटोली “कटिपटि-" ॥ (उणा४९३ ) ॥ इत्योलः ॥ २॥ २५४ ॥
चिभिटी कर्कटी वालुकयेर्वारुस्त्रपुसी च सा । .. चिरिः सौत्रः खादौ, चिरणोति चिभिटी "चिरेरिटो भ् च-" ॥ ( उणा१४९ ) ॥ इति साधुः ॥ १॥ कर्कति कर्कटी "दिव्यवि-" ( उणा- १४२ )॥ इत्यटः, हखः कर्क इति वा, प्रामटीवत् ॥ १॥ वलति वालकी "कञ्चुक-" ॥ (.उणा- ५७) ॥ इति निपात्यते ॥ ३ ॥ ऊर्वति हिनस्त्यार्तिमेरुः पुंस्त्रीलिङ्गः "उर्वेरादेरूदेतौ च" ॥ ( उणा- ८१४)॥ इत्यारुः ॥ ४ ॥ त्रपत इव त्रपुसी "त्रपेरुसः" ॥ ( उणा- ५७८ ) ॥ ५॥
___ अर्शोन्नः सूरणः कन्दः
अॉसि हन्ति अर्शीघ्नः ॥ १॥ सूर्यते प्रेर्यते वा सूरणः “चिक्कण-" ॥ ( उणा- १९०) ॥ इत्यणे निपात्यते ॥ २ ॥ कन्यते कन्दः पुंक्लीबलिङ्गः, मूलविशेषः ॥ ३ ॥
Page #480
--------------------------------------------------------------------------
________________
४८०
र
अभिधानचिन्तामणौ-
..
शृङ्गवेरकमाकम् ॥ २५५ ॥
शृणोति रसानां शृङ्गवरं "शतेरादयः" ॥ ( उणा- ४३२ ) ॥ इति निपात्यते, शृङ्गोपलाक्षतं बेरं देहोऽस्येति वा ॥ १ ॥ आर्द्रमेव आईक पुंक्लीबलिङ्गः ॥२॥ २५५ ॥
. कर्कोटकः किलासनस्तिक्तपत्रः सुगन्धकः i करोति किलासहिंसां कर्कोटः “कपोटबकोट-" ॥ ( उणा- १६१)॥ इत्योटे निपात्यते, के कर्कोटकः ॥ १॥ किलासं हन्ति किलासनः ॥ २ ॥ तिक्तं .
पत्रमस्य तिक्तपत्रः ॥ ३ ॥ सुष्टु गन्धयते सुगन्धकः ॥ ४ ॥ ... . मूलकं तु हरिपर्ण सेकिमं हस्तिदन्तकम् ॥ २५६ ॥
मूलमेव मूलकं पुंक्लीबलिङ्गः ॥ १॥ हरि नीलं पर्णमस्य हरिपर्णम् ॥ २ ॥ सेकेन निवृत्तं सेकिमं "भावादिमः" ॥ ६।४ । २१ ॥ इतीमः॥ ३ ॥ हस्तिदन्त. प्रतिकृति हस्तिदन्तकम् ॥ ४ ॥ २५६ ॥
तृणं नडादि नीवारादि च ... तृणं तृणजातीयमित्यर्थः ॥ १ ॥ नडादि नडप्रकारं नीवारादि नीवारप्रकारमित्यर्थः ॥ २॥ .. . शष्पं तु तद् नवम् ।
तत् तृणं नवोद्भिन्नं बालमिति यावत् , शीयते शष्पं पुंक्लीबलिङ्गः “शादिबाधि-" ॥ ( उणा- २९९ ) ॥ इति पः, षश्चान्तस्य ॥ १॥
सौगन्धिक देवजग्धं पौर कनृण-रौहिषे ॥ २५७ ॥
सुगन्धः प्रयोजनमस्य सौगन्धिकम् ॥१॥ देवैर्जग्धमिवान्तःशुषिरत्वाद् देवजग्यम् ॥ २ ॥ पुरे भवं पौरम् ॥ ३ ॥ कुत्सितं तृणं कत्तृणं "तृणे जातौ” ॥ ३॥२॥ १३२ ॥ इति कोः कदादेशः ॥ ४ ॥ रोहति यत्र तत्र रौहिषं, पुंक्लीबलिङ्गः “रुहेघृद्धिश्च" ॥ ( उणा- ५४८ ) ॥ इतषिः ॥ ५ ॥ २५७ ॥ . . .... दर्भः कुशः कुथो बर्हिः पवित्रं
दृणाति पारुष्याद् दर्भः “गृदृरमि-" ॥ (उणा- ३२७) ॥ इति भः, दृश्यते. ऽसाविति वा ॥ १॥ कौ शेते कुशः पुंक्लीबलिङ्गः "क्वचित्" ॥ ५। १ । १७१ ॥ इति डः ॥ २ ॥ कुनाति कुथः ॥२॥ बृंहति बर्हिः, पुंक्लीबलिङ्गः, "बंहिब्रूहेर्नलुक् च" ॥ ( उणा ९९०) ॥ इतीस् ॥ ४ ॥ पूयतेऽनेन पवित्रं "ऋषिनाम्नोः करणे" ॥ ५।२।८६ ॥ इतीत्रः ॥ ५॥
Page #481
--------------------------------------------------------------------------
________________
४ भूमिकाण्डः ।
४८१ अथ तेजनः ।
गुन्द्रो मुञ्जः शरः तेजयति शिनोति वा तेजनः ॥ १॥ गुणैर्दोषा द्रान्त्यस्मिन् गुन्द्रः, पृषो. दरादित्वात् ॥ २ ॥ मुजति वायुना मुजः ॥ ३ ॥ शृगाति पारुष्यात् शरः ॥ ४ ॥
दूर्वा त्वनन्ता शतपर्विका ॥ २५८ ॥ · हरिताली रुहा
दूर्व्यते पशुभिः, दूरे वाति वा, पृषोदरादित्वात् ॥१॥ अनन्ता, दूरप्रसरणात् ॥ २ ॥ शतं बहूनि पाण्यस्याः शतपर्विका ॥ ३ ॥ २५८ ॥ हरितां नलित्वमलति हरिताली ॥ ४ ॥ रोहति रुहा ॥ ५ ॥
पोटगलस्तु धमनो नडः । । पोटेन संश्लेषण गलति पोटगलः ॥१॥ 'धभिः सौत्रः' धमत्यन्तःशुषिरत्वाद धमनः ॥ २ ॥ नडत्यर्दयति डलयोरक्ये नडः पुंक्लोबलिङ्गः ॥ ३ ॥
कुरुविन्दो मेघनामा मुस्ता कुरुन् देशं विन्दति कुरुविन्दः ॥ १॥ मेघस्य नामाऽस्य मेघनामा मेघपर्यायः, अम्बुधरत्वात् ॥ २ ॥ मुस्यति खण्डयति मुस्ता त्रिलिङ्गः "शीरी-" ॥ ( उणा.२०१) ॥ इति कित्तः, मुस्तकोऽपि ॥ ३ ॥
गुन्द्रा तु सोत्तमा । २५९ ॥ सा मुस्ता उत्तमा गोदन्तेऽनया गुन्द्रा "खुरक्षुर-" ( उणा- ३९६)॥ इति रे निपात्यते, गुणैर्दोषा द्रान्त्यस्यामिति वा ।। १ ।। २५९ ॥
वल्वजा उलपः वलन्ति वल्वजाः पुंसि बहुवचनान्तः "वलेवान्तश्च वा" ॥ ( उणा- १३३)। इत्यजः ॥१॥ दलते उलपः "विष्टपोलप-" ॥ ( उणा- ३०७) ॥ इत्यपे निपात्यते ॥ २ ॥
अथेक्षुः स्याद् रसालोऽसिपत्रकः । इप्यते इक्षुः पुंलिङ्गः "मस्जीष्यशिभ्यः सुक्” ॥ ( उणा- ८२६ ) ॥ ॥ १॥ रसमलत्यालाति वा रसालः ।। २ ।। अस्याकाराणि पत्राण्यस्थ असि. पत्रकः ॥ ३॥
. भेदाः कान्तार-पुण्ड्राद्यास्तस्य
Page #482
--------------------------------------------------------------------------
________________
४८२
अभिधानचिन्तामणौ-...
तस्य इक्षोभैंदा जातय एकादश, काम्यते कान्तारः, कान्तमूषमियतीति वा, . कान्ता आरा भागा अस्येति वा ॥ १ ॥ पुणति पुण्ड्रयते वा पुण्ड्र: "खुरक्षुर-" ... ॥ (उणा- ३९६) ॥ इति रे निपात्यते । आदिशब्दात् कोषकाराद्याः, यद्वाचस्पतिः
"पुण्ड्रेक्षौ पुण्डूकः सेव्यः पौण्डूकोऽतिरसो मधुः। . श्वेतकाण्डो भीरुकस्तु हरितो मधुरो महान् ॥ १॥ शून्येश्वरस्तु कान्तारः कोषकारस्तु वंशकः । शतघोरस्त्वीषतक्षारः पीतच्छायोऽथ तापसः ॥ २॥ .. सितनीलोऽथ नेपालो वंशप्रायो महाबलः । अन्वर्थस्तु दीर्घपत्रो दीर्घपर्वा कषायवान् ।। ३ ॥ .. काष्टक्षुस्तु ह्रखकाण्डो धनप्रन्थिवनोद्भवः । नीलघोरस्तु सुरसो नीलपीतलराजिवान् ॥ ४ ॥ अनूपसंभवः प्रायः खनटी त्विक्षुबालिका । करङ्कशालिः शाकेक्षुः सूचिपत्रो गुडेक्षवः ॥ ५॥” इति ॥ २॥
मूलं तु मोरटम् ॥ २६० ॥ इक्षोर्मूलं मुरति संवेष्टयति मोरटं “कपट-" ॥ ( उणा- १४४ ) ॥ इत्यटे निपात्यते ॥ १॥ २६ ॥ .. काशस्त्विषीका
काशते काशः पुंक्लीबलिङ्गः ॥१॥ इष्यते इषीकः "ऋच्य॒जि-" ॥ ( उणा४८) ॥ इति किदीकः ॥ २ ॥ ... घासस्तु यवसं - अद्यते पशुभिर्घासः ॥ १ ॥ यूयते यवसं "वहियुभ्यां वा" ॥ ( उणा५७१)॥ इत्यसः, क्लीबलिङ्गोऽयम् । वाचस्पतिस्तु-'अथाऽस्त्री यवसो घासः' इति पुंस्यप्याह ॥ २॥
तृणमर्जुनम् । तरत्यम्भसि तृणं पुंक्लीबलिङ्गः, तृण्यतेऽद्यते पशुभिरिति वा ॥१॥ अय॑तेऽर्जुनम् । 'सर्वं च तृणमर्जुनम्' इति भागुरिः ॥ २ ॥
विषः क्ष्वेडो रसस्तीक्ष्णं गरलः वेवेष्टि विषः पुंक्लीबलिङ्गः, स च द्वेधा, स्थावर-जंगमभेदात् ; यदाह"कन्दजं कालकूटादि पुष्पजं दालवादिकम् । फालमोल्लसारादि दंष्ट्रादिजं तु जंगमम् ॥ १॥” इति ॥ १॥
Page #483
--------------------------------------------------------------------------
________________
४ भूमिकाण्डः ।
४८३
'विडा सौत्रः ' क्ष्वेडते मोहयति क्ष्वेडः ॥ २ ॥ रसयति रसः पुंक्लीबलिङ्गः ॥ ३ ॥ तेजयति तीक्ष्णम् ॥ ४ ॥ गीर्यते रागिभिर्गरलः “मुरलोरल-", ॥ ( उणा - ४७४) ॥ इति साधुः, गरं लातीति वा, पुंक्लीबलिङ्गः ॥ ५ ॥
अथ हलाहलः ॥ २६१ ॥
वत्सनाभः कालकूटो ब्रह्मपुत्रः प्रदीपनः ।
सौराष्ट्रकः शौल्किकेयः काकोलो दारदोऽपि च ॥ २६२ ॥ . अहिच्छत्रो मेषशृङ्गः कुष्ठ-वालूक-नन्दनाः ।
कैराटको हैमवतो मर्कटः करवीरकः ॥ २६३ ॥ सर्षपो मूलको गौरार्द्रकः सक्तक कर्द्दमैौ ।
-
अङ्कोल्लसारः कालिङ्गः शृङ्गिको मधुसिक्थकः ॥ २६४ ॥ इन्द्रो लाङ्गुलिको विस्फुलिङ्ग- पिङ्गल-गौतमाः । मुस्तको दालवश्चेति स्थावरा विषजातयः || २६५ ॥
हलति विलिखति जठरं न हलति चेति हलाहलः, यथा - 'कस्य सह्यो हलाहलः ' हालेव हलतीति लक्ष्ये हालाहलः, यथा -
"स्निग्धं भवत्यमृतकल्पमहो कलत्रं हालाहलं विषमिवाप्रगुणं तदेव ।”
हालहलोऽपि यथा- 'काममपायि मयेन्द्रियकुण्डैर्यद्यपि दुष्कृत हालहलैौघः' । एते पुंक्लीबलिङ्गाः ॥ १ ॥ २६१ ॥ वत्सस्येव नाभिरस्य वत्सनाभः ॥ २ ॥ कालस्य वर्णस्य कूटोऽत्र कालकूटः, पुंक्लीबलिङ्गः, कालसम्बन्धी कूटो व्याजो वा ॥ ३ ॥ ब्रह्मणः पुत्रो ब्रह्मपुत्रः, यद् याज्ञवल्क्यः - ' त्वं विष ! ब्रह्मणः पुत्रः सत्ये धर्मे व्यवस्थितः' ॥ ४ ॥ प्रदीपयति प्रदीपनः ॥ ५ ॥ सुराष्ट्रदेशे भवः सौराष्ट्रिकः, अध्यात्मादित्वादिकण् ॥६॥ शुल्किकादेशे भवः शौल्किकेयः, नद्यादित्वादेयण् ॥ ७ ॥ ईषत् कोलति संस्त्यायति काकोलः पुंक्लीबलिङ्गः, काकोल: काकस्तद्वन्मेचको वा ॥ ८ ॥ दरदि सिन्धुदेशे भवो दारदः ॥ ९ ॥ २६२ ॥ अहिच्छत्रदेशे भवत्वादहिच्छत्रः ॥ १० ॥ मेषशृङ्गाकारत्वाद् मेषशृङ्गः, यद्वाचस्पति:- मेषशृङ्गं त्वविश्टङ्गाकृतिः ॥ ११॥ कुष्णाति कुष्ठः, कुष्ठसदृशत्वाद् वा यदाह
"कुष्ठं तु कुष्टसदृशमुप्रगन्धं भ्रमिप्रदम् ||" ॥ १२॥
वालुकाभो वालूकः ।।१३ || नन्दयति नन्दनः || १४ | | किराटके म्लेच्छदेशे भवः कैराटकः ॥ १५ ।। हिमवति भवो हैमवतः ।। १६ ।। मर्कटाभो मर्कटः ॥ १७॥ करवीरमूलजत्वात् करवीरः, यदाह - 'करवीरं त्वश्वसारमूलजं सर्वतो भवम् ॥१८॥
Page #484
--------------------------------------------------------------------------
________________
४८४
जभिधानचिन्तामणौं- ...
.
॥२६३ ॥ सर्षपवत् पीतवर्णः सर्षपः ॥ १९ ॥ मूलकामा मूलकः ॥ २० ॥ गौरश्वाककन्दाभश्च गौराईकः ॥ २१ ॥ सक्तुप्रतिकृतिः सक्तुकः, सक्तुवच्चूर्णी.. भवनत्वात् ॥ २२ ॥ कर्दमसंभवत्वात् कर्दमः ॥ २३॥ अङ्गोल्लफलाभोऽङ्गोलसारः, पृषोदरादित्वात् ॥ २४ ॥ कलिङ्गदेशे भवः कालिङ्गः, अजस्तनाकृतित्वात् ॥ २५ ॥ शृङ्गमस्त्यस्य शृङ्गिकः, यदाह- 'शृङ्गिकं तु कृष्णवर्णमजनस्तनसमाकृतिः ॥ २६ ॥ मधुसिक्थं मधूच्छिष्टं तत्सदृशत्वाद् मधुसिक्थकः ॥ २७ ॥ २६४ ॥ इन्दति इन्द्रः, इन्द्रशैलभवत्वाद्वा ॥ २८ ॥ लाङ्गुली प्रयोजनमस्य लाङ्गुलिकः, यदाह'लाङ्गुलिकं तूपविषं लाङ्गुलीमूलमेव तत्' ॥ २९ ॥ विरुद्धाः स्फुलिङ्गा अस्य विस्फुलिङ्गः ॥ ३० ॥ बहिरन्तश्च पिङ्गलत्वात् पिङ्गलः ॥ ३१ ॥ गोतमस्यायं गौतमः ॥ ३२ ॥ मुस्तकाभो मुस्तकः ॥ ३३ ॥ दलति दालवः "कैरव-" ॥ ( उणा- ५१९ ) ॥ इत्यवे निपात्यते ॥ ३४ ।। एते सर्वेऽपि स्थावरवनस्पतिभवत्वात् स्थावरा. विषस्य जातयो भेदा इति ॥१॥ एते सर्वेऽपि पुंक्लीबलिङ्गाः' इति वाचस्पतिः ॥ २६५ ॥
४. कुरण्टाद्या अग्रबीजा अग्रभागो बीजमुत्पतिकारणमेषां अग्रबीजाः, आदिशब्दात्पारिभद्राद्याः ॥१॥
मूलजास्तूत्पलादयः । मूलतः कन्दाजायन्ते मूलजाः, आदिशब्दात् सूरणाद्याः ॥ २ ॥
पर्वयोनय इक्ष्वाद्याः पर्व योनिरेषां पर्वयोनयः, आदिग्रहणात् तृणवंशाद्याः ॥ ३॥
स्कन्धजाः सल्लकीमुखाः ॥ २६६ ॥ . स्कन्धाज्जायन्ते स्कन्धजाः, मुखग्रहणाद् वटाद्याः ॥ ४ ॥ २६६ ॥
शाल्यादयो बीजरुहाः बीजात् सस्याद् रोहन्ति बीजरुहाः, आदिग्रहणात् षष्टिकमुद्गादयः ॥ ५॥
संमूर्च्छजास्तृणादयः । संमूर्च्छनाज्जायन्ते संमूर्छजाः, आदिग्रहणाद् भूच्छत्राद्याः ॥ ६ ॥ उपसंहारमाह-- __ स्युर्वनस्पतिकायस्य षडेता मूलजातयः ॥ २६७ ॥ स्पष्टम् ।। २६७ ॥
. ॥ समाप्तोऽयं वनस्पतिकायः ॥ पिप्पलादिवृक्षजातीनां तु नामशेषोऽस्मदुपज्ञनिघण्टोरवसेयः ॥
Page #485
--------------------------------------------------------------------------
________________
४ भूमिकाण्डः।
४८५
पृथिव्यादीनेकेन्द्रियानभिधाय द्वीन्द्रियानाह- ...
नीलङ्गुः कृमिरन्तर्जः शरीरस्यान्तर्भवः कृमिः, नीलति नीलङ्गुः, पुंलिङ्गः “ प्रीकैपै.” ॥ ( उणा७६१ ) ॥ इत्यङ्गुक् ॥ २१ ॥
क्षुद्रकीटो बहिर्भवः । बहिर्भवः क्षुद्रो ह्रस्वः कृमिः, कीट्यति कीटः, पुंस्त्रीलिङ्गः ॥१॥
पुलकास्तूमयेऽपि स्युः उभयेऽन्तर्भवा बहिर्भवाश्च कृमयः पोलन्ति पुलकाः ॥ १॥
कीकसाः कृमयोऽणवः ॥ २६८ ॥ अणवः सूक्ष्माः कृमयः, कुत्सितं कसन्ति कीकसाः, पृषोदरादित्वात् ॥१॥२६॥
काष्ठकीटो घुणः काष्ठोद्भवः कीटः काष्ठकीटः ॥ १ ॥ घुगति घुणः ॥ २॥
गण्डूपदः किञ्चुलकः कुसू ।
भूलता
गण्डा प्रन्थयः पदान्यस्य गण्डूपदः ॥ १॥ किञ्चित् चुलुम्पति किञ्चुलकः "कीचक." ॥ ( उणा-३३)॥ इति अके निपात्यते। किञ्चुलुकोऽपि ॥२॥ कोभूमेः सूते कुसूः, कुं मृदं सूते वा, मृदुत्सर्गात् ॥ ३ ॥ भुवो लतेव भूलता ॥४॥
- गण्डूपदी तु शिली गण्डूः पदान्यस्या गण्डूपदी ॥ १ ॥ शिलति शिली, शिल्याकृतिर्वा ॥ २ ॥
अस्रपा जलौकसः ॥ २६९ ॥ .. जलालोका जलूका च जलौका जलसर्पिणी ।
असं पिबत्यस्रपा 'विचका' इत्येके ॥१॥ जलमोक आसां जलौकसः स्त्रियां वाबहुवचनान्तोऽयम् ॥ २ ॥ २६९ ॥ जले आलोक्यते । जलालोका, जले आलोकोऽस्या इति वा ॥ ३ ॥ जलति जलूका "मृमन्यज्जि-" ॥ (उणा-५८) ॥ इत्यूकः ॥ ४ ॥ ओकशब्दोऽकारान्तोऽप्यस्ति, जले ओकोऽस्या जलौकाः ॥ ५ ॥ जले सर्पति जलसर्पिणी ॥ ६ ॥
मुक्तास्फोटोऽब्धिमण्डूकी शुक्तिः
Page #486
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणी
मुक्ताः स्फुटन्त्यत्र मुक्तास्फोटः ॥१॥ अब्धर्मण्डूकीवाब्धिमण्डूकी ॥२॥ शोचति शुक्तिः स्त्रीलिङ्गः “दृमुषि-' ॥ ( उणा-६५१ ) ॥ इति कित् तिः ॥३॥ .. कम्बुस्तु वारिजः ॥ २७० ॥
त्रिरेखः षोडशावर्तः शङ्खः काम्यते कम्बुः पुंक्लीबलिङ्गः “कम्यमिभ्यां-" ॥ ( उणा-७९९ ) ॥ इति बुः ॥ १॥ वारिणो जातो वारिजः ॥ २ ॥ २७० ॥ तिस्रो रेखा अस्य त्रिरेखः ॥ ३ ॥ षोडश आवर्ता अस्य षोडशावर्तः ॥ ४ ॥ शाम्यति शङ्खः पुंक्लीबलिङ्गः “शभिमनिभ्याम्-" ॥ ( उणा-८४ ) ॥ इति खः, शं सुखं खनति, श्रेयों जनयतीति वा "क्वचित्" ॥५।१।१७१॥ इति डः ॥ ५॥
अथ क्षुद्रकम्बवः।
शङ्खनकाः क्षुल्लकाश्च क्षुद्राः कम्बवः क्षुद्रकम्बवः सूक्ष्मा नद्यादिजाः कृमयः ॥ १॥ शं खनन्ति शङ्खनकाः ॥ २ ॥ क्षुद्यन्ते क्षुल्लकाः "कीचक-" ॥ ( उणा- ३३) ॥ इत्यके निपात्यते ॥ ३ ॥
शम्बूकास्त्वम्बुमात्रजाः ॥२७१ ॥
शाम्यन्ति शम्बूकाः “शम्बूक-" ॥ ( उणा- ६९ ) ॥ इत्यूके निपात्यते । 'शम्बुकोऽपि ॥ १॥ अम्बुमात्रे जायन्तेऽम्बुमात्रजाः ॥ २ ॥ २७१ ॥
कपर्दस्तु हिरण्यः स्यात् पणास्थिक-वराटको । के पर्दते कपर्दः ॥१॥ ह्रियते हिरण्यः पुंक्लीबलिङ्गः ॥२॥ पणाय व्यवहारायास्थ्यस्य पणास्थिकः ॥ ३ ॥ वरमटति वराटः, वियते वा “अनिश-" ॥ ( उणा- १४५)॥ इत्याटः के वराटकः ॥ ४॥ शेषश्चात्र- स्यात्तु श्वेतः कपर्दकः ॥
दुर्नामा तु दीर्घकोशा दुष्टो नामो नमनमस्या दुर्नामा 'दुःसंज्ञा' इत्येके ॥ १ ॥ दीर्घः कोशोऽस्या जलूकाकारत्वाद् दीर्घकोशा, दीर्घा कुश्यतीति वा ॥२॥
॥ उक्ता द्वीन्द्रियाः ॥ - त्रीन्द्रियानाह। पिपीलकस्तु पीलकः ॥ २७२ ॥
अपिपीलति पिपीलकः, पृषोदरादित्वादपेः पिः ॥ १॥ पीलति पीलकः ॥२॥ २७२ ॥
Page #487
--------------------------------------------------------------------------
________________
४ भूमिकाण्डः।
४८७
.. पिपीलिका तु हीनाङ्गी - पीलति पिपीलिका "कुशिक-" ॥ ( उणा- ४५) ॥ इतके निपात्यते ॥१॥ हीनमङ्गमस्या हीनाङ्गी ॥ २॥
ब्राह्मणी स्थूलशीर्षिका । बृंहति ब्राह्मणी "चिक्कण-" ॥ ( उणा- १९० ) ॥ इत्यणे निपात्यते ॥१॥ स्थूलं शर्षिमस्या स्थूलशीर्षिका ॥ २ ॥
घृतेली पिङ्गकपिशा ____ घृतेन ईर्यते प्रेर्यते घृतेली ॥ १ ॥ पिझं ह्रीबेरं तद्वत् कपिशा पिङ्गकपिशा ॥ २ ॥
अथोपजिह्वोपदेहिका ॥ २७३॥
वम्युपदीका. ... उपलेढि उपजिह्वा, उप समीपे जहातीति वा “प्रह्वाह्वा-" ॥ ( उणा५१४ ) ॥ इति वे निपात्यते ॥१॥ उपदिह्यते मृदनया उपदोहका ॥२॥ ॥ २७३ ॥ वमति मृदं वमी "भीवृधि-" ॥ ( उणा- ३८७ ) ॥ इति र ॥ ३ ॥ उप समीपे ददाति उपदीका “सृणीक-" ॥ ( उणा- ५० ) ॥ इतीके निपात्यते ॥ ४ ॥
रिक्षा तु लिक्षा रेषति रिक्षा "ऋजिरिषि-" ॥ ( उणा- ५६७) ॥ इति कित् सः ॥१॥ लत्वे लिक्षा ॥ २॥
. यूका तु षट्पदी ।
यौति यूका "घुयुहि-" ॥ ( उणा- २४ ) ॥ इति को दीर्घत्वं च ॥१॥ षट् पादा अस्याः षट्पदी "सुसङ्ख्यात्" ॥ ७ । ३ । १५० ॥ इति पाद्भावे "वा पादः" ॥ २ ॥ ४ ॥ ६ ॥ इति ङी ॥ २ ॥
गोपालिका महाभीरुः गां पलति गच्छति गोपालिका ॥ १ ॥ अतिशयेन भीमहाभीरुः ॥ २ ॥
. गोमयोत्था तु गर्दभी ॥ २७४ ॥ __. गोमयादुत्तिष्ठति गोमयोत्था ॥ १ ॥ गर्दभवर्णत्वाद् गर्दभी ॥२॥२७४।।
मत्कुणस्तु कोलकुण उद्देशः किटिभो-त्कुणौ । ।
Page #488
--------------------------------------------------------------------------
________________
૪૮૮
अभिधानचिन्तामणौ
माद्यति शोणितेन मत्कुण: "भ्रूण तृण - " ॥ ( उणा - १८६ ) ॥ इति
णे निपात्यते ॥ १ ॥ कोल इव कुणति विदारयति कोलकुणः ॥ २ ॥ उद्दशत्युद्देशः
1
॥ ३ ॥ केटति किटिभः, बाहुलकात् किदिभः, किटिं त्रासं बिभर्त्ति वा "क्वचित्”
॥ ५।१।१७१ ॥ इति डः ॥ ४ ॥ उत्कुणति उत्कुणः ॥ ५ ॥
इन्द्रगोपस्त्वनिरजो वैराटस्तित्तिभोऽग्निकः ॥
२७५ ॥
इन्द्रेण गुप्यते इन्द्रगोपः ॥ १ ॥ अग्निवद् रज्यति अग्निरजः, पृषोदरादित्वात् ॥ २ ॥ वैरेण अटति वैराटः ॥ ३ ॥ तित्तीवद् भाति तित्तििभः “ड्यापो . बहुलम् - " ॥ २।४।९९ ॥ इति हखः ॥ ४ ॥ अग्नेस्तुल्योऽग्निकः ॥ ५ ॥ २७५ ॥ ॥ उक्तास्त्रीन्द्रियाः ॥
चतुरिन्द्रियानाह—
ऊर्णनाभस्तन्त्रवायो जालिको जालकारकः ।
कृमिर्मर्कटको लूता लालाखावोऽष्टपाच्च सः ॥ २७६ ॥
ऊर्णो नाभावस्य ऊर्णनाभः ॥ १ ॥ तन्त्रं तन्तून् वयति तन्त्रवायः ॥ २ ॥ जालमस्त्यस्य जालकः ॥ ३ ॥ जालं करोति जालकारकः ||४|| करोति जालं कृमिः “कृभूभ्यां कित्” ॥ ( उणा - ६९० ) ॥ इति मि: । क्रिमिरपि ॥ ५ ॥ मर्कट इव 'आरोहावरोहणाद् मर्कटकः ॥ ६ ॥ लूते लूता " लूम्रो वा " ॥ ( उणा - २०२ ) ॥ इति कित् तः ॥ ७ ॥ लालां स्रवति लालास्रावः ॥ ८ ॥ अष्टौ पादा अस्य अष्टपाद् ॥ ९ ॥ २७६ ॥
[
कर्णजलौका तु कर्णकीटा शतपदी च सा ।
कर्णस्य जलौकेव कर्णजलौका ।। १ ।। कर्ण कीटयति कर्णकीटा ॥ २ ॥ शतं पादा अस्या शतपदी ॥
वृश्चिको द्रुण आल्यालिः
वृश्चति वृश्चिकः पुंस्त्रीलिङ्गः “पापुलि - " ॥ ( उणा - ४१ ) ॥ इति किंदिकः ॥ १ ॥ द्रुणति द्रुणः । द्रुतोऽपि ॥ २ ॥ आलमनर्थोऽत्रास्ति आली ॥ ३ ॥ अलत्यालिः “कृशृकुटि–” ॥ ( उणा - ६१९ ) ॥ इति णिदिः ॥ ४ ॥
अलं तत् पुच्छकण्टकः ॥ २७७ ॥
अलत्यलम्, तस्य वृश्चिकस्य पुच्छकण्टकस्तत्पुच्छकण्टकः ॥ १ ॥ २७७ ॥ अमरो मधुकृद् भृङ्गश्चञ्चरीकः शिलीमुखः । इन्दिन्दिरोऽली रोलम्बो द्विरेफः
Page #489
--------------------------------------------------------------------------
________________
४ भूमिकाण्डः ।।
१८९
___ भ्राम्यति पुष्पेषु भ्रमरः "ऋच्छिचटि-" ॥ ( उणा- ३९७ ) ॥ इत्यरः, भ्रमन् रौति वा, पृषोदरादित्वात् ॥ १॥ मधु करोति मधुकृत् , मधुकरोऽपि ॥२॥ बिभर्ति भृङ्गः "भृवृभ्यां नोऽन्तश्च" ॥ ( उणा- ९४ ) ॥ इति किद् गः ॥ ३ ॥ चञ्चति चञ्चूर्यते वा चञ्चरीकः,“सृणीक-" ॥(उणा-५०)।। इतीके निपात्यते ॥४॥ शिला शाल्यं मुखेऽस्य शिलीमुखः, शिला मुखमस्य वा ॥ ५॥ इन्दति कुसुमैरिन्दिदिरः “स्थविर-" ॥ ( उणा-४१७) ॥ इतीरे निपात्यते ॥६॥ अलत्यलिः "कृशृकुटि-" ॥ ( उणा- ६१९ ) ॥ इति णिदिः । अली नकारान्तो वा ॥ ७ ॥ रुदन् लम्बतें रोलम्बः, पृषोदरादित्वात् ॥८॥ द्वौ रेफो नाम्न्यस्य द्विरेफः ॥९॥ एते स्त्रीपुंसलिङ्गाः । भसलो देश्याम् , संस्कृतेऽपि दृश्यते ॥
अस्य षडंहयः ॥ २७८ ॥
अस्य भ्रमरस्य षट् अंहूयश्चरणाः, तेन षडंहिः, षट्पदः, षट्चरण इत्यादि सिद्धम् ॥ १ ॥ २७८ ॥
भोज्यं तु पुष्प-मधुनी
अस्य भ्रमरस्य भोज्यं पुष्पं मधु च, तेन पुष्पलिट , पुष्पन्धयः, मधुलिट, मधुपः, मधुव्रत इत्यादि सिद्धम् ॥ १ ॥ २ ॥
खद्योतो ज्योतिरिङ्गणः । खे द्योतते खद्योतः ॥ १ ॥ ज्योतिभिरिङ्गति ज्योतिरिङ्गणः "चिक्कण-" ॥ ( उणा- १९० ) ॥ इत्यणे निपात्यते ॥ २ ॥ शेषश्चात्र
खद्योते तु कटिमणिज्योतिमाली तमोमणिः। ...
परार्बुदो निमेषाद ध्वान्तचित्रः ॥ - पतङ्गः शलभः
पतो गच्छति पतङ्गः "नानो गमः-" ।।५।२।१३१॥ इति खड्डः , पततीति वा 'पतितमि-" ॥ (उणा- ९८) ॥ इत्यङ्गः ॥ १ ॥ शलति शलभः "कृशृगृ." ॥ ( उणा- ३२९) ॥ इत्यभः ॥ २ ॥
क्षुद्रा सरघा मधुमक्षिका ॥ २७९ ॥ क्षुणत्यङ्ग क्षुद्रा ॥ १ ॥ सरति सरधा "सर्तेरघः” ॥ ( उणा- १११)॥ सरति घातयति वा, पृषोदरादित्वात् ॥ २ ॥ मधुनो मक्षिका मधुमक्षिका ॥ ३ ॥ ॥ २७९॥
माक्षिकादि तु मधु स्यात्
Page #490
--------------------------------------------------------------------------
________________
४९०
अमिधानचिन्तामणौ
मक्षिकाभिः कृतं माक्षिकं "नाम्नि मक्षिकादिभ्यः" ॥६।३.१९३॥ इत्यण् , आदिग्रहणात् पौत्तिकादि; यद्वाचस्पतिः
"पौत्तिक-भ्रामर-क्षौद्र-दालौ-हालक-माक्षिकम् । अध्ये छात्रकमित्यष्टौ जातयोऽस्य पृथग्गुणाः ॥ १॥ तत्र पौत्तिकमुत्तप्तघृताभं विषकीटजम् । भ्रामरं तु भ्रमरजं पाण्डुरं गुरुशीतलम् ॥ २ ॥ क्षौद्रं तु कपिलं दाहि क्षुदानीतं मलावहम् । दालं तु दलज सेव्यं दुर्लभं रूक्षवालकम् ॥ ३ ॥ उद्दालकं तु शालाकं विषजिद् मधुराम्लकम् । माक्षिकं तु मधु ज्येष्ठं विरूक्षं तैलवर्णकम् ॥ ४ ॥ अयं तु पूज्यमापाण्डु मनाक् तिक्तं सवालकम् ।
छात्रं त्वेकान्तमधुरं सर्वाध्ये राजसेवितम् ॥ ५॥” इति ॥ मन्यतेऽभिलष्यते मधु क्लीबलिङ्गः, पुंस्यपि वैजयन्ती, यदाह- 'मधुलं तु मधुनाऽत्री मधुकं तत्पुरातनम्' इति ॥ १ ॥
- मधूच्छिष्टं तु सिक्थकम् । ___ मधुनोच्छिष्टं कल्को मधूच्छिष्टं मदनाख्यम् ॥ १॥ सिच्यते सिक्थं "नीनूरमि-" ॥ ( उणा- २२७ ) ॥ इति कित् थः ॥ २ ॥
चर्वणा मक्षिका नीला नीलवर्णा मक्षिका चर्वति चर्वणा, नन्द्यादित्वादनः, वृणोतीति वा "चिकणकुक्कण-" ॥ ( उंणा- १९० ) ॥ इति साधुः ॥ १ ॥
पुत्तिका तु पतङ्गिका ॥ २८० ॥ पुतं कुत्सितं तनोति पुत्तिका "कुशिक-" ॥ ( उणा- ४५)॥ इतके निपात्यते, पुतेर्वा सौत्रस्य "कृतिपुतिलति-" ॥ ( उणा- ७६ ) ॥ इति कित् तिकः ॥ १॥ पतङ्गप्रतिकृतिः पतङ्गिका, अपतं गच्छतीति वा, पृषोदरादित्वात् ॥ २ ॥ २८ ॥
वनमक्षिका तु दंशः । मक्षति मक्षिका, वनस्य मक्षिका वनमक्षिका ॥ १ ॥ दशति दंशः ॥ २ ॥
- दंशी तज्जातिरल्पिका तजातिर्देशजातीयाऽल्पिका दशति दंशी ॥ १ ॥
तैलाटी वरटा गन्धोली स्यात्
Page #491
--------------------------------------------------------------------------
________________
- ४ भूमिकाण्डः।
४९१
तैलमटति तैलाटी ॥ १॥ वृणोति वरटा पुंस्त्रीलिङ्गः "दिव्यवि-" ॥(उणा१४२ ) ॥ इत्यटः ॥ २ ॥ गन्धयति अर्दयते गन्धोली “पिञ्छोल-" ॥ (उणा४९५)॥ इत्योले निपात्यत ॥ ३ ॥
चीरी तु चीरुका ॥२८१ ॥
झिल्लीका झिल्लिका वर्षकरी भृङ्गारिका च सा । चिनोति स्वरं चीरी "चिजि-" ॥ ( उणा- ३९२ ) ॥ इति रो दीर्घत्वं च, चीति रिणातीति वा “क्वचित्" ॥ ५।१।१७१ ॥ इति डः ॥ १॥ चीति रौति चीरुका “निष्कतुरुष्क-" ॥ ( उणा- २६ ) ॥ इति के निपात्यते ॥ २ ॥ ॥ २८१ ॥ झिल्ली वाद्यभेदः, तद्वत् कायति शब्दायते झिल्लीका, बाहुलकाद् इस्वत्वे झिल्लिका ॥ ३॥ ४ ॥ वर्ष वृष्टिं करोति सूचयति वर्षकरी ॥५॥ आकृत्या भृङ्गमियर्ति भृङ्गारी ॥ ६॥
॥ उक्ताश्चतुरिन्द्रियाः ॥ पञ्चेन्द्रियान् स्थलचर-खचर-जलचरभेदभिन्नान् क्रमेणाह__ पशुस्तिर्यङ् चरिः
स्पशिः सौत्रस्तालव्यान्तः, स्पशति बाधते पशु: "स्पशिभ्रस्जेः स्लुक् च" ॥ ( उणा- ७३१) ॥ इत्युः ॥ १ ॥ तिरोऽञ्चति तिर्यङ् “ तिरसस्तियति" ॥३॥ . २।१३४ ॥ इति रिः ॥ २ ॥ चरति चरिः कृशकुटि-" ॥ ( उणा- ६१९ ) ॥ इति इः ॥ ३ ॥ एते पुंलिङ्गाः ॥
हिंस्रेऽस्मिन् व्यालः श्वापदोऽपि च ॥ २८२ ॥
अस्मिन् पशौ व्याघ्रादिके हिंस्रे हिंसनशीले विशेषेण आ समन्तादडति व्याडः, लत्वे व्यालः, विविधमालमनर्थोऽस्माद्वा ॥ १॥ शुनः पदमिव पदमस्य श्वापदः "शुनः” ॥३।२।९०॥ इति दीर्घत्वम् ॥२॥२८२॥
हस्ती मतङ्गज-गज-द्वीप-कर्य-ऽनेकपा मातङ्ग-वारण-महामृग-सामयोनयः । स्तेम्बरम-द्विरद-सिन्धुर-नाग-दन्तिनो दन्ताबलः करटि-कुञ्जर-कुम्भि-पीलवः ॥ २८३ ॥
इभः करणुनर्जः हस्तः शुण्डाऽस्त्यस्य हस्ती “हस्तदन्तकराज्जातौ ॥ ७ ॥२॥ ६८ ॥ इतन् ॥१॥ मतङ्गात् ऋषेजातो मतङ्गजः ॥ २ ॥ गजति माद्यति गर्जति वा गजः ॥ ३ ॥ द्वाभ्यां पिबति द्विपः "स्थापास्नात्रः-" ॥५।१।१४२।। इति कः ॥ ४ ॥
Page #492
--------------------------------------------------------------------------
________________
४९२
अभिधानचिन्तामणौ- ...
करोऽस्त्यस्य करी ॥ ५ ॥ न एकेन पिबति अनेकपः ॥ ६॥ मन्यते मातङ्गः । "मनेर्मत्-मातौ च” ॥ (उणा-३००)॥ इत्यङ्गः, मतङ्गस्यायमिति वा, माततीति वा, मतङ्ग एव वा स्वार्थेऽण् ॥ ७ ॥ वारयत्यरीन् वारणः ।। ८॥ महांश्वासौ मृगश्च महामृगः ॥ ९ ॥ साम वेदो योनिः कारणमस्य सामयोनिः॥ १० ॥ स्तम्बे तृणे रमते स्तम्बेरमः “शोकापनुद-" ॥ ५। १ । १४३ ॥ इति के साधुः
॥ ११॥ द्वौ रदावस्य द्विरदः ॥ १२ ॥ स्यन्दते मदेन सिन्धुरः “श्वशुर.॥ ( उणा- ४२६) ॥ इत्युरे निपात्यते, सिन्धुर्मदोऽस्यास्तीति वा मध्वादित्वाद् रः॥ १३ ॥ नगे भवो नागः, न न गच्छति वा ॥ १४ ॥ दन्तावस्य स्तो दन्ती, कृष्यादित्वाद् बलचि दन्ताबलः "बलच्यपित्रादेः” ॥ ३ । २ । ८२ ॥ इति दीघः ॥ १५ ॥ १६ ॥ करटः कपालोऽस्त्यस्य करटी ॥ १७ ॥ कुजति कुञ्जरः पुंक्लीबलिङ्गः "जठर-" ॥ (उणा-४०३) इत्यरे निपात्यते, कुजौ हनू दन्तौ वा अस्य स्त इति वा मध्वादित्वाद् रः, को जीर्यतीति वा, पृषोदरादित्वात् ॥ १८ ॥ कुम्भावस्य स्तः कुम्भी ॥ १९ ॥ पीयते पीलुः “पीङः कित्" ॥ ( उणा- ८२१)॥ इति लुः ॥ २० ॥ ॥ २८३ ॥ एति इभः “इणः कित्" ॥ ( उणा- ३२८ ) ॥ इति भः ॥ २१ ॥ करोति प्रमोदं करेणुः, स्त्रीध्वजोऽपि पुंस्त्रीलिङ्गः “कृहृभू-" ।। ( उणा७७२) ॥ इत्येणुः, करेणुः सिन्दूररजोऽस्य वा ॥ २२ ॥ गर्जति गर्जः ॥ २३ ॥
शेषश्चात्रअथ कुञ्जरे।
पेचकी पुष्करी पद्मी पेचिलः सूचिकाधरः । विलोमजिह्वोऽन्तःखेदो महाकायो महामदः ।। सूर्पकर्णो जलाकाको जटी च षष्टिहायनः।।
असुरो दीर्घपवनः शुण्डालः कपिरित्यपि ॥ · · ·अस्य स्त्री धेनुका वशाऽपि च ।
अस्य हस्तिनः स्त्री हस्तिनीत्यर्थः, धयन्त्येनां धेनुः, के धेनुका ॥१॥ वष्टि कामयते वशा ॥२॥
शेषश्चात्र
वशायां वासिता कर्णधारिणी कणिकाऽपि च ॥
भद्रो मन्दो मृगो मिश्रश्चतस्रो गजजातयः ॥२८४ ॥ भद्रः सर्वलक्षणकल्याणत्वात् ॥ १॥ मन्दो मन्दसत्त्वात् ॥ २॥ मृगो मृग इव हीनसत्त्वत्वात् ॥ ३ ॥ मिश्रः संकीर्णजातिः ॥ ४ ॥ २८४ ॥
कालेऽप्यजातदन्तश्च स्वल्पाङ्गश्चापि मत्कुणौ । माद्यन् कुणति मत्कुणः, द्वयोरेकशेषे मत्कुणौ ॥ १॥ .
Page #493
--------------------------------------------------------------------------
________________
४ भूमिकाण्डः ।
४९३ पञ्चवर्षों गजो बालः बलति बालः ॥ १॥
स्यात् पोतो दशवर्षकः ॥ २८५ ॥ पूयते पुनाति वा पोतः ॥ १ ॥ २८५ ॥
विको विंशतिवर्षः स्यात् वितेऽवयवान् विकः " विचिपुषि" ॥ ( उणा- २२) ॥ इति कित् कः, पिक्कोऽपि ॥ १ ॥
कलभस्त्रिंशदब्दकः । कल्यते कलभः पुंक्कीबलिङ्गः “कृशृग-" ॥ (उणा- ३२९ ) ॥ इत्यभः, कलो भाति, कं लभते वा ॥ १ ॥
यूथनाथो यूथपतिः स्पष्टम् ॥१॥ ___ मत्ते प्रभिन्न-गर्जितौ ॥ २८६ ॥
माद्यति स्म मत्तस्तत्र ॥ १ ॥ प्रभिद्यते स्म गण्डपाल्यां प्रभिन्नः ॥२॥ गर्जा संजाताऽस्य गर्जितः ॥ ३ ॥ २८६ ॥ .
मदोत्कटो मदकलः - मदेन दानाम्बुना उद्भिनकटो मदोत्कटः ॥ १॥ मदेन कलो मनोज्ञो मदकलः ॥२॥
समावुद्वान्त-निर्मदा उद्वमाते स्म उद्वान्तः ॥ १ ॥ निर्गतो मदोऽस्य निर्मदः ॥ २ ॥
सज्जितः कल्पितः • युद्धाय सज्ज्यते प्रगुणीक्रियते स्म सज्जितः ॥ १ ॥ कल्प्यते स्म . कल्पितः ॥ २ ॥
तिर्यग्घाती परिणतो गजः ॥२८७ ॥ तिर्यग्घातीति तिर्यग् दत्तप्रहारः, परितो नमति स्म परिणतः ॥ १॥ ॥ २८७ ॥
_ व्यालो दुष्टगजः
Page #494
--------------------------------------------------------------------------
________________
४९४
अभिधानचिन्तामणी- .. विविधमालमनर्थोऽस्माद् व्यालः ॥ १ ॥
गम्भीरवेद्यवमताङ्कुशः। गाम्भीर्येण वेदयति गम्भीरवेदी, यदाहुः- . "त्वगभेदात् शोणितश्रावादामांसं व्यथनादपि ।
संज्ञा न लभते यस्तु गजो गम्भीरवेद्यसौ ॥१॥" ॥१॥ अवमतमवगणितमङ्कुशमेनन अवमताङ्कुशः ॥ २ ॥
राजवाह्यस्तूपवाह्यः राज्ञा बाह्यते आरोहणयोग्यत्वाद् राजवाह्यः ॥ १॥उप समीपे वाह्यते उपवाह्यः । औपवाय इत्यन्ये ॥ २ ॥
सन्नाद्यः समरोचितः ॥ २८८ ॥ संनद्यते संनाह्यः, सन्नाहे साधुरिति वा ॥ १ ॥ समरोचितः समामयोग्यः ॥२॥ २८ ॥
उदग्रदन्नीषादन्तः उदनौ दीर्घो दन्तावस्य उदप्रदन् “वामान्त-" ॥७।३ । १५४ ॥ इति दन्तस्थ दतः ॥ १॥ ईषाकारौ दन्तावस्य ईषादन्तः ॥ २॥
बहूनां घटना घटा। बहूनां गजानां घटना रचना घट्यते घटा "षितोऽङ्" ॥ ५॥३। १०७ ॥१॥
मदो दानं प्रवृत्तिश्च माद्यत्यस्माद् मदः "व्यधजप-" ॥ ५।३।४७ ॥ इत्यल् , मदयतीति वा ॥१॥ यति खण्डयत्यनेन दानम् ॥ २ ॥ प्रवर्ततेऽनया प्रवृत्तिः ॥ ३ ॥
वमथुः करशीकरः ॥ २८९ ॥ वम्यते वमथुः पुंसि, "द्वितोऽथुः" ॥ ५।३।८३ ॥ इत्यर्थः ॥ १॥ करस्य शीकरोऽम्बुकणः करशीकरः ॥ २ ॥ २८९ ॥
हस्तिनासा करः शुण्डा हस्तः हस्तिनो नासा हस्तिनासा ॥ १॥ करोति, किरत्यनेन वा करः ॥ २ ॥ शुनत्यनया शुण्डा "कुगुहु-" ॥ ( उणा- १७०)॥ इति कित् डः ॥ ३ ॥ हस्तः, हस्तक्रियाकारित्वात् ॥ ४ ॥
अगं त्वस्य पुष्करम् ।
Page #495
--------------------------------------------------------------------------
________________
४ भूमिकाण्डः ।
अस्य करस्याप्रभागः पुष्यत्यनेन पुष्करम्, पुष्करसदृशं वा ॥ १ ॥ अङ्गुलिः कर्णिका
गजस्याङ्गुलिः, किरत्यनया कर्णिका " कुशिक - " ॥ ( उणा - ४५ ) ॥ इतीके निपात्यते, कर्णिकेव वा कर्णिका ॥ १ ॥
दन्तौ विषाणौ
हस्तिनो दन्तौ, वेंवेष्टि आभ्यां विषाणौ त्रिलिङ्गः " कृपिविषि-” ॥ ( उणा१९१ ) ॥ इत्याणक ॥ १ ॥
स्कन्ध आसनम् ॥ २९० ॥
हस्तिनः स्कन्धः, आस्यतेऽस्मिन्नासनम् ॥ १ ॥ २९.० ॥
४९५
कर्णमूलं चूलिका स्यात्
गजस्य कर्णमूलं चोद्यते पार्श्वगमनेऽङ्कुशेनास्यां चूलिका, भिदादिनिपातनादङ्, ततः स्वार्थे कः ॥ १ ॥
ईषिका त्वक्षिकूटकम् ।
ईषा लाङ्गलकीलिकेव ईषिका ॥ १ ॥ अपाङ्गदेशो निर्याणं
निर्यात्यश्रु अनेन निर्याणम् ॥ १ ॥
गण्डस्तु करटः कटः ॥ २९९ ॥
करोति मदं करटः "दिव्यवि - " ॥ ( उणा - १४२ ) ॥ इत्यटः ॥ १ ॥ कति वर्षति मदं कटः ॥ २ ॥ २९१ ॥
अवग्रहो ललाटं स्यात् अवगृह्यतेऽङ्कुशेनावग्रहः ॥ १ ॥ २ ॥
आरक्षः कुम्भयोरधः ।
आरक्ष्यते आरक्षः ॥ १ ॥
कुम्भौ तु शिरसः पिण्डौ
कुम्भाकृती मांसपिण्डौ कुम्भौ ॥ १ ॥
कुम्भयोरन्तरं विदुः ॥ २९२ ॥ वेत्ति संज्ञामस्मादङ्कुशस्थानाद् विदुः, यत् पालकाप्यः
Page #496
--------------------------------------------------------------------------
________________
४९६
अभिधानचिन्तामणा- .. "तत्रारक्षविताने द्वे विद् द्वौ श्रवणे गतौ ।
प्राक् पश्चाच्च तिर्यक् च षड्भेदाङ्कुशवारणा ॥१॥" "पृका-" ॥ (उणा- ७२९) ॥ इति किदुः, पुंलिङ्गोऽयम् ॥ १॥ २९२ ॥
वातकुम्भस्तु तस्याधः तस्य विदोरधो भागः वातपूर्णः कुम्भ इव वातकुम्भः ॥ १ ॥
वाहित्थं तु ततोऽप्यधः । ततोऽपि वातकुम्भादधो भागः, वाह्यतेऽनेनाङ्कशनोदनया वाहित्थं "पथयूथ-" ॥ ( उणा- २३१)॥ इति निपात्यते, मदवाहिनि स्थाने तिष्ठतीति वा पृषोदरादित्वात् , वाह्यस्थापभ्रंशोऽयं वा ॥ १ ॥
वाहित्थाधः प्रतिमानं वाहित्थस्याधोभागो दन्तमध्यमित्यर्थः प्रतिमीयते प्रतिक्षिप्यतेऽनेन प्रतिमानं "मिग्मीगोऽखलचलि” ॥ ४ । २ । ८ ॥ इत्यात्वम् ॥ १॥
पुच्छमूलं तु पेचकः ॥ २९३ ॥ ..
पुच्छस्य मूलं पुच्छमूलम् , पुच्यते घातेन पेचकः "कीचक-"॥ (उणा३३) ॥ इत्यके निपात्यते ॥ १ ॥ ॥ २९३ ॥
दन्तभागः पुरोभागः दन्तयोर्भागो दन्तभागः, गजस्याग्रभागः ॥ १ ॥
पक्षभागस्तु पार्श्वकः । ..., पक्षयोर्भागः पक्षभागः, गजस्य पाश्र्वप्रदेशः ॥ १॥
. पूर्वस्तु जङ्घादिदेशो गात्रं स्यात् . हस्तिनः पूर्वः पादजङ्घादिभागः, गच्छत्यनेन गात्रं स्त्रीक्लीबलिङ्गः ॥१॥ __ पश्चिमोऽपरा ॥ २९४ ॥
गजस्य पश्चाभागः, अपरभागभवत्वादपरा स्त्रीक्लीबलिङ्गः, जपादित्वाद् वत्वेऽवराऽपि ॥ १ ॥ २९४ ॥
बिन्दुजालं पुनः पद्मं बिन्दूनां जालं बिन्दुजालम् ; तारुण्ये हि हस्तिनो देहे रक्ता बिन्दवः स्युरिति, पद्ममिव पद्मं रक्तत्वात् ॥ १॥
शृङ्खलो निगडोऽन्दुकः।
Page #497
--------------------------------------------------------------------------
________________
४ भूमिकाण्डः ।
४९७
हिञ्जीरश्च पादपाशः
I
शृणोति बन्धेन शृङ्खलः त्रिलिङ्गः “श्रो नोन्तो ह्रस्वश्व" ॥ ( उणा - ४९८ ) ॥ इति खलः ॥ १ ॥ निगल्यते बध्यतेऽनेनेति निगडः । निगलोsपि ॥ २ ॥ अन्दति बध्नात्यन्दूः ‘“कृषिचमि–” ॥ ( उणा - ८२९ ) ॥ इत्यूः, स्वार्थे केऽन्दुकः "ङयादीदूतः के” ॥ २|४|१०४ ॥ इति ह्रस्वः || ३ || हिनस्ति हिञ्जीरः "जम्बीर - " ॥ ( उणा - ४२२ ) ॥ इतीरे निपात्यते । निगडादयः पुंक्लीबलिङ्गाः ॥ ४ ॥ हस्तिनः पादस्य पाशो बन्धनं पादपाशः ॥ ५ ॥
वारिस्तु गजबन्धभूः
वार्यतेऽनया वारिः स्त्रीलिङ्गः "स्वरेभ्य इः " ॥ ( उणा - ६०६ ) ॥ गजानां बन्धनाय ग्रहणाय भूर्गर्ता गजबन्धभूः ॥ १ ॥ २९५ ॥
त्रिपदी गात्रयोर्बन्ध एकस्मिन्नपरेऽपि च ।
त्रयः पादा अस्यां त्रिपदी गात्रयोरिति द्वयोरग्रजङ्घयोः, एकस्मिन्नपरे इति पश्चिमजङ्घायां च गजस्य बन्धनमित्यर्थः ॥ १ ॥
तोत्रं वेणुकं
तुद्यतेऽनेन तोत्रं "नीदाम्बू - " ॥ ५।२।८८ ॥ इति त्रट् ॥ १ ॥ वेणुमयं वेणुक्रम् ॥ २ ॥
आलानं बन्धस्तम्भः
आलीयते बध्यतेऽस्मिन्नालानम्, गजस्य बन्धनाय स्तम्भो बन्धस्तम्भः ॥ १ ॥ अङ्कुशः सृणिः ॥ २९६ ॥
अङ्कते दम्यतेऽनेन अङ्कुशः पुंक्कीबलिङ्गः " मस्ज्यङ्किभ्याम् -” ॥ ( उणा५३८ ) ॥ इत्युशः ॥ १ ॥ सरत्यनया सृणिः पुंस्त्रीलिङ्ग: "ऋतूटसृकु - " ॥ ( उणा - ६३५ ) ॥ इति कित् णिः ॥ २ ॥ २९६ ॥
अपष्ठं त्वङ्कुशस्याग्रं
अपकृष्टं तिष्ठत्यपष्ठं "गोऽम्बाम्ब - " ॥ २|३ | ३० ॥ इति षत्वम् ॥ १ ॥
यातमङ्कुशवारणम् ।
यात्यनेन यातं, यततेऽनेन गन्तुमिति वा अङ्कुशेन वारणम् ॥ १ ॥ निपादिनां पादकर्म तं
पादयोः कर्म पादसंज्ञा यमनं यतम् ॥ १ ॥
Page #498
--------------------------------------------------------------------------
________________
४९८
अभिधानचिन्तामणौ
वीतं तु तद्वयम् ॥ २९७ ॥
तद् द्वयं यातं यतं च, अजन्ति प्रेरयन्ति अस्मिन् वीतम्, विशिष्टमितं गम
नमत्र वा ॥ १ ॥ २९७ ॥
कक्ष्या दूष्या वरत्रा स्यात्
कक्षायां मध्यप्रदेशे भवा कक्ष्या ॥ १ ॥ दूष्यते दूयतेऽनया दूष्या, बाहुलकात् करणेऽपि ध्यण् ॥ २॥ वियतेऽनया वरत्रा मध्यबन्धनी चर्मरज्जुः ॥३॥
कण्ठबन्धः कलापकः ।
कण्ठो बध्यतेऽनेन कण्ठबन्धः ॥ १॥ कल्प्यते कलापः, के कलापकः, कलामाप्नोतीति वा ॥ २ ॥
घोट कस्तुरगस्तार्क्ष्यस्तुरङ्गोऽश्वस्तुरङ्गमः ॥ २९८ ॥ गन्धर्वोsa सप्तिवती वाहो वाजी हयो हरिः ।
घोटते भूमौ परिवर्तते घोटकः ॥ १ ॥ तुरस्त्वरमाणो गच्छति तुरगः, तुरङ्गः, तुरङ्गमः “नाम्नो गमः खड्डौ - " ॥ ५ । १ । १३१ ॥ इति साधवः ॥२॥ ॥ ३ ॥ ४ ॥ तृक्षस्यापत्यं तार्क्ष्यः ॥ ५ ॥ अश्नुतेऽध्वानमश्वः "लटिखटि - " ॥ ( उणा - ५०५ ) ॥ इति वः ॥ ६ ॥ २९९ ॥ गन्ध्यतेऽर्ध्यन्ते गन्धर्वः "गन्धेरर्चान्तिः " ॥ ( उणा - ५०८ ) इति वः ॥ ७ ॥ इयति अर्वा "स्नामदिपदि - " ॥ ( उणा- ९०४) ॥ इति वन् ॥ ८ ॥ सपति समवैति सप्तिः “प्लुज्ञायजि - " ॥ ( उणा - ६४६ ) ॥ इति तिः ॥ ९ ॥ वेति गच्छति वीतिः "हमुषि - " ॥ ( उणा - ६५१ ॥ इति बहुवचनात् कित् तिः, विशिष्टा इतिरस्येति वा ॥ १० ॥ वाह्यते वाहः ॥ ११ ॥ वंजत्यवश्यं वाजी, वाजो वेगोऽस्त्यस्य वा ॥१२॥ हयति हिनोति वा हयः ॥ १३ ॥ हरति देशान्तरं प्रापयति हरिः ॥ १४ ॥ एते पुंलिङ्गाः ॥
शेषश्चात्र -
अश्वे तु क्रमणः कुण्डी प्रोथी हेषी प्रकीर्णकः । पालकः परुलः किण्वी कुटरः सिंहविक्रमः ॥ माषाशी केसरी हंसो मुहुर्भुग् ग्रहभोजनः । वासुदेवः शालिहोत्रो लक्ष्मीपुत्रा मरुद्रथः । चामयैकशफोऽपि स्यात् ।
वडवाऽश्वा प्रसूर्वामी
'as आग्रहणे' सौत्रः, वडति गर्भ वडवा “वडिवटि - " ॥ ( उणा
Page #499
--------------------------------------------------------------------------
________________
४ भूमिकाण्डः।
४९९
५१५)॥ इत्यकः, वडं वलं यं वा वातीति वा, अश्वोऽस्यां वेति नैरुक्ताः ॥ १॥ अश्वतेऽश्वा "अजादेः" ॥२ । ४ । १६ ॥ इत्याप् ॥ २ ॥ प्रसूते प्रसूः स्त्रीलिङ्गः ॥ ॥ वमति गर्भ वामी, ज्वालादित्वात् णे गौरादित्वात् ङी, वातेर्वा "अर्तीरि-" ॥ ( उणा- ३३८ ) ॥ इति मः ॥ ४ ॥ शेषश्चात्र- अश्वायां पुनरवती ।
किशोरोऽल्पवया हयः ॥ २९९ ॥ कृश्यति वयसा, केशति हेषते वा किशोरः "कोरचोर-" ॥ ( उणा४३४ ) ॥ इत्यारे निपात्यते, अल्पवया वालः ॥ १॥ २९९ ॥
जवाधिकस्तु जवनः जवत्येिवंशीलो जवनः ॥ १॥
रथ्यो वोढा रथस्य यः। . रथं वहति रथ्यः “वहति रथ-" ॥ ७॥ १।२॥ इति यः ॥ १॥
आजानेयः कुलीनः स्यात् आजेन क्षेपेण आनीयते वशीक्रियते आजानेयः ॥ १ ॥ कुलीनः प्रशस्यकुलोद्भवः पारसीकादिः ॥२॥
तत्तद्देशास्तु सैन्धवाः ॥ ३०० ॥ . वानायुजाः पारसीकाः काम्बोजा वाल्हिकादयः ।
स स देशो जन्मभूमिरेषां तत्तद्देशाः सिन्धु-वनायुज-पारसीक-कम्बोजवाल्हिकदेशेषु भवाः सैन्धवाः वानायुजाः, पारसीकाः, काम्बोजाः, वाल्हिकाः । लक्ष्ये तुं वाल्हीकाः । आदिग्रहणात् तुषारादयः॥ १॥ ३०० ॥ .
विनीतस्तु साधुवाही विनीयते विनीतः सुशिक्षितः साधु वहति साधुवाही " साधौ" ॥५।। १५५ ॥ इति णिन् ॥१॥
___ दुर्विनीतस्तु शकलः ॥ ३०१॥ - दुर्विनीतोऽनात्तशिक्षः शक्नोति खेच्छया गन्तुं शूकलः " मुरल-" ॥ ( उणा-४७४ ) ॥ इत्यले निपात्यते ॥ १॥
कश्यः कशाहः कशामर्हति कश्यः, दण्डादित्वाद् यः ॥१॥
Page #500
--------------------------------------------------------------------------
________________
५००
अभिधानचिन्तामणौ- ..
हृद्वक्त्रावर्ती श्रीवृक्षकी हयः । हृदये वक्त्रे च प्रशस्ता रोमावर्ताः सन्त्यस्य हृद्वक्त्रावर्ती, श्रीवृक्षको लाञ्छनमस्त्यस्य श्रीवृक्षकी ॥ २॥
पञ्चभद्रस्तु हृत्पृष्ठमुखपार्श्वषु पुष्पितः ॥ ३०२ ॥ पञ्च हृदयादीनि श्वेतानि भद्राणि कल्याणहेतवोऽस्य पञ्चभद्रः ॥१॥३०२॥
पुच्छोरःखुरकेशास्यः सितैः स्यादष्टमङ्गलः । . . .. अत्र द्वन्द्वगर्ने द्वन्द्वे प्राण्यङ्गसमुदायस्याप्राण्यङ्गत्वात् इतरेतरयोगः पुच्छाद्यैः सितैरष्टभिर्मङ्गलः कल्याणोऽष्टमङ्गलः ॥ १॥
सिते तु कर्क-कोकाही श्वेतवर्णेऽश्वे करोति प्रमोदं कर्कः " कृगो वा" ॥ ( उणा-२३ ) ॥ इति कः ॥ १॥ कोकवदाहन्ति भुवं कोकाहः ॥ २ ॥
खोङ्गाहः श्वेतपिङ्गले ॥ ३०३ ॥ खमुद्गाहते खोलाहः, पृषोदरादित्वात् , श्वेतश्वासौ पिङ्गलश्च श्वेतपिङ्गलस्तत्र ॥१॥ ३०३ ॥
पीयूषवणे सेराहः पीयूषममृतं दुग्धं वा तद्वद् वर्णोऽस्य पीयूषवर्णस्तत्र सीरवदाहन्ति भुवं सेराहः ॥१॥
__ पीते तु हरियो हये । हरिं वर्ण याति हरियः ॥ १॥
कृष्णवर्णे तु खुङ्गाहः खुरैर्गाहते खुङ्गाहः ॥ १॥
क्रियाहो लोहितो हयः ॥ ३०४ ॥ क्रियां न जहाँति क्रियाहः ॥ १ ॥ ३०४ ॥
आनीलस्तु नीलकः नील एव नीलकः ॥ १॥
अथ त्रियूहः कपिलो हयः। त्रीन् यूथति त्रियूहः ॥ १॥
Page #501
--------------------------------------------------------------------------
________________
४ भूमिकाण्डः । . ... वोल्लाहस्त्वयमेव स्यात् पाण्डुकेशरवालधिः ॥ ३०५ ॥ अयं त्रियह एव व्योम्नि उल्लङ्घते वोलाहः ॥ १ ॥ ३०५ ॥ . .
उराहस्तु मनाक् पाण्डुः कृष्णजो भवेद् यदि । उरसा आहन्ति उराहः ॥ १ ॥
सुरूहको गर्दभाभः .. ... ... .. सुखेन रोहति सुरूहकः ॥ १ ॥
वोरुखानस्तु पाटलः ॥ ३०६॥.... . वैरिणः खनति वोरुखानः ॥ १॥ ३०६ ॥
कुलाहस्तु मनाक् पीतः कृष्णः स्याद्यदि जानुनि । कुलमाजिहीते कुलाहः ॥ १॥
उकनाहः पीतरक्तच्छायः उच्चैनह्यते उकनाहः ॥ १॥
स एव तु क्वचित् ॥ ३०७॥
कृष्णरक्तच्छविः प्रोक्तः स एव उकनाहः ॥ ३०७ ॥ कृष्णरक्तच्छायः सन् क्वचिदुच्यते ॥ १॥
शोणः कोकनदच्छविः । शोणः शोणवर्णः ॥ १ ॥
हरिकः पीतहरितच्छायः स एव हालकः ॥ ३०८॥ हरिरेव हरिकः ॥ १॥ हलति क्षमा हालकः ॥ २ ॥ ३०८ ॥
पङ्गुलः सितकाचाभः पगन लाति पङ्गुलः ॥१॥ .. हलाहश्चित्रितो हयः। ..
चित्रितो कळूरवर्णो हलवदाहन्ति हलाहः ॥ १॥ खोङ्गाहादयः शब्दा दे. शीप्रायाः । व्युत्पत्तिस्त्वेषां वर्णानुपूर्वीनिश्चयार्थम् ।
शेषश्चात्रमल्लिकाक्षः सितैर्ने त्रैः स्याद् वाजीन्द्रायुधोऽसितैः । ककुदी ककुदावर्ती निर्मुक्तस्त्विन्द्रवृद्धिकः ॥ . ययुरश्वोऽश्वमेधीयः
Page #502
--------------------------------------------------------------------------
________________
५०२
अभिधानचिन्तामणौ- ..
याति स्वेच्छया ययुः पुंलिङ्गः "हनिया-” ( उणा-७३३) ॥ इति किदुर्द्वित्वं च ॥ १ ॥ अश्वमेधाय हितोऽश्वमेधीयः ॥ २॥
प्रोथमश्वस्य नासिका ॥ ३०९॥ प्रोथते चलति प्रोथं वृत्तो नासान्तःप्रदेशः "कमिग्रगार्ति-" ॥ ( उणा२२५) इति थः पुंक्लीबलिङ्गोऽयम् ॥ १ ॥ ३०९ ॥
मध्यं कश्यं अश्वस्य मध्यप्रदेशः कशामर्हति कश्यम् , तत्र हि कशाघाताधिकारः, दण्डादित्वाद् यः ॥१॥
निगालस्तु गलोद्देशः निगिलत्यनेन निगालः, गलजत्रुसन्धिः “न्युदो प्रः" ॥ ५। ३ । ७२ ॥ इति घञ् , गलस्य उद्देशः प्रदेशो देवमणेरावर्तस्थानम् ॥ १ ॥
__ खुराः शफाः।
खुरन्ति विलिखन्ति मां खुराः ॥ १॥ शायन्ते तक्ष्यन्ते शफाः पुंक्लीबलिङ्गः "शफकफ-" ॥ ( उणा-३१६ ) ॥ इति फे निपात्यते ॥ २ ॥
अथ पुच्छं वालहस्तो लाङ्गुलं लूम वालधिः ॥ ३१०॥ पवते दंशादीनुत्सारयति पुच्छं पुंक्लीबलिङ्गः “पीपूङो ह्रस्वश्व" ॥ (उणा१२५)॥ इति छक्, पुतौ छादयतीति पृषोदरादित्वाद्वा ॥१॥ वालानां हस्त इव दंशवारणाद् वालहस्तः, प्रशस्ता वाला इति वा ॥ २ ॥ लगति चलति लाङ्लं पुंक्लीबलिङ्गः "दुकूलकुकूल-" ॥ ( उणा-४९१) ॥ इत्यूले निपात्यते ॥ ३ ॥ लूयते लूम क्लीबलिङ्गः “सात्मनात्मन्-" ॥ ( उणा-९१६) इति निपात्यते ॥४॥ वाला धीयन्तेऽस्मिन् वालधिः पुंलिङ्गः ॥ ५ ॥ ३१० ॥
अपावृत्तपरावृत्तलुठितानि तु वेल्लिते। अपावर्तनमपावृत्तम् ॥ १॥ एवं परावृत्तम् ॥ २॥ लोठनम् लुठितम् ॥३॥ बेल्लनं वेल्लितं तत्र ॥ ४॥
धोरितं वल्गितं प्लुतोत्तेजितोत्तेरितानि च ॥ ३११ ॥
गतयः पञ्च धाराख्यास्तुरङ्गाणां क्रमादिमाः । धौरिताद्या वक्ष्यमाणास्तुरङ्गाणां पञ्च गतयः, ध्रियते गतौ स्थाप्यत आभिरिति धाराः, भिदादित्वादङि निपात्यते ॥ १॥३११ ॥
Page #503
--------------------------------------------------------------------------
________________
४ भूमिकाण्डः ।। ५०३ तत्र धौरितकं धौर्य धोरणं धोरितं च तत् ॥ ३१२ ।।
बभ्रुककशिखिक्रोडगतिवत् 'धोक्र गतेश्चातुर्ये' धोर्यते धोरितं स्वार्थेऽणि के च धौरितकम् ॥ १॥ यणि धौर्यम् ॥ २ ॥ अनटि धोरणम् ॥ ३ ॥ क्ते धोरितम् ॥ ४ ॥ ३१२ ॥ तच्च नकु. लादीनां गतिसदृशम् ॥ १॥
वल्गितं पुनः ।
अग्रकायसमुल्लासात् कुञ्चितास्यं नतत्रिकम् ॥ ३१३ ॥ वल्गनं वल्गितम् ॥ १॥
प्लुतं तु लङ्घनं पक्षिमृगगत्यनुहारकम् । प्लवनं प्लुतम् ॥ १॥ लङ्घयते लङ्घनम् ॥ २ ॥ पक्षिणां मृगाणां च गत्यनुयायि ॥३॥
उत्तेजितं रेचितं स्याद मध्यवेगेन या गतिः ॥ ३१४ ॥ उत्तेजनमुत्तेजितम् ॥ १ ॥ रेचनं रेचितम् ॥ २ ॥ ३१४ ॥
उत्तेरितमुपकण्ठमास्कन्दितकमित्यपि ।
उत्प्लुत्योत्प्लुत्य गमनं कोपादिवाखिलैः पदैः ॥ ३१५ ।। उत्तेरणमुत्तेरितम् ॥ १ ॥ उपनतः कण्ठोऽस्मिन्नुपकण्ठम् ॥ २ ॥ आस्कन्दनमास्कन्दितम् ॥ ३ ॥ ३१५ ॥
आश्वीनोऽध्वा स योऽश्वेन दिनेनैकेन गम्यते । अश्वेनाहा गम्य आश्वीनः “अह्ना गम्येऽश्वादीनञ्" ॥७॥१८५॥१॥
कवी खलीनं कविका कवियं मुखयन्त्रणम् ॥ ३१६ ॥
पञ्चाङ्गी कवते दन्तचर्वणात् शब्दायते कविः "खरेभ्य इः" ॥ ( उणा- ६०६ ) ॥ यां कवी ॥१॥ खलति चलति खलीनं पुंक्लीबलिङ्गः "खलिहिंसिभ्याम्-" ॥ ( उणा- २८६)॥ इतीनः, खे तालुनि लीनं वा । खलिनमपि ॥ १ ॥ कवते कविका "कुशिक-" ॥(उणा- ४५) ॥ इतीके साधुः ॥ ३ ॥ कौति कवियं पुंक्लीबलिङ्गः “कौतेरियः-" ॥ ( उणा- ३७५ ) ॥ ४ ॥ मुखं यन्व्यतेऽनेन मुखयन्त्रणम् ॥ ५ ॥ ३१६ ॥ पञ्च अङ्गान्यवयवा यस्याः पञ्चाङ्गी ॥ ६ ॥
वक्त्रपट्टे तु तलिका तलसारकम् ।
Page #504
--------------------------------------------------------------------------
________________
५०४ . अभिधानचिन्तामणौ
वक्त्रस्य चर्ममये पट्टे तलमस्त्यस्यास्तलिका ॥१॥ तले सरति साथैते वा तलसारकम् ॥ २॥ ....... - दामाञ्चनं पादपाशः ... दाम्नेव बद्धोऽञ्चत्यनेन दामाञ्चनम् ॥१॥ पादयोः पाशः पादपाशः ॥ २॥
प्रक्षरं प्रखरः समौ ॥ ३१७ ॥ प्रच्छादितः क्षरति चलत्यनेन प्रक्षरं तुरङ्गसन्नाहः "पुनाम्नि" ॥५।३।१३०॥ इति बीहुलकाद् घः ॥१॥ प्रावृतः खरत्यनेन प्रखरः "जठर"-॥ (उणा-४०३)। इत्यरे निपात्यते, प्रखरेति कठोरो वा, आयुधैरभेद्यत्वात् पुंस्ययम् , क्लीबेऽपि वैजयन्ती, यदाह- प्रक्षरं प्रखरोऽस्त्रियाम् ॥ २ ॥३१७॥ . .
चर्मदण्डे कशा...... .. अश्वानां ताडनाय चर्मणो दण्डश्चर्मदण्डस्तत्र ॥ १॥ कशति कशा ॥ २ ॥ {" रश्मौ वल्गाऽवक्षेपणी कुशा।
अश्नुतेऽनया रश्मिः स्त्रीलिङ्ग: "अशो रश्वादिः" ॥ ( उणा-६८८) ॥ इति मिः, तत्र ॥ १॥ वल्गत्यनया वल्गा । वल्ग-वागे अपि ॥ २॥ अवक्षिप्यतेऽनयाऽवक्षेपणी ॥ ३ ॥ कुश्यति कुशा ॥ ४ ॥ . .
पर्याणं तु पल्ययनं परितोऽश्वपृष्ठमेति पर्याणं "कल्याणपर्याणादयः” ॥ ( उणा- १९३ ) ॥ इति साधुः ॥ १ ॥ परितोऽयतेऽनेन पल्ययनं "उपसर्गस्यायौ' ॥ २।३।१०० ॥ इति लत्वम् ॥ २॥
वीतं फल्गु हयद्विपम् ॥ ३१८ ॥ 'वीयतेऽसारतया क्षिप्यते वीतम् , फल्गु असारम् , हयाश्च द्विपाश्च हयद्विपं सेनाङ्गभूतम् ॥ १ ॥ ३१८ ॥
वेसरोऽश्वतरो वेगसरश्च . अजन्त्यनेन वेसरः "मीज्याजि-" ॥ ( उणा- ४३९.) ॥ इति सरः ॥१॥ अश्वेन अश्वायां जातोऽश्वः स गर्दभपितृकतया संजातह्रासोऽश्वतरः "वत्सोक्षा. श्वर्षभाद् हासे पित्" ॥ ७॥३।५१ ॥ इति तरट् ॥२॥ वेगेन सरति वेगसरः ॥३॥ ... अथ क्रमेलकः
कुलनाशः शिशुनामा शलो भोलिमरुप्रियः ।। ३१९ ॥
Page #505
--------------------------------------------------------------------------
________________
४ भूमिकाण्डः ।
मयो महाङ्गो वासन्तो द्विककुद् दुर्गलङ्घनः । भूतन उष्टो दाशेरो रवणः कण्टकाशनः ॥ ३२० ॥ दीर्घग्रीवः केलिकीर्णः
५०५
क्रामन्त्यनेन क्रमेलकः “क्रमेरेलकः ॥ ( उणा - ६६.) ॥ क्रमानेलयति क्रमेलस्ततः स्वार्थे को वा ॥ १ ॥ कुलं नाशयति कुलनाशः ॥ २ ॥ शिशोर्नामाऽस्य शि शुनामा ॥ ३ ॥ शलति शलः ॥ ४ ॥ भूरुहान् लेढि भोलिः, पृषोदरादित्वात् ॥५॥ मरुः प्रियोऽस्य मरुप्रियः ॥ ६ ॥ ३१९ ॥ मीनात्यहीन् मयः, 'मयते गच्छतीति वामयः' इत्येके ॥ ७ ॥ महदङ्गमस्य महाङ्गः ॥ ८ ॥ वसन्ते भवो वासन्तः ॥ ९ ॥ द्वे ककुदी अस्य द्विककुद् ॥१०॥ दुर्गे मार्ग लङ्घयन्ति अनेन दुर्गलङ्घनः ॥ ११ ॥ भूतानिहन्ति भूतनः ॥ १२ ॥ उष्यते दह्यते मरौं उष्ट्रः “सूमूखन्युषिभ्यः कित्” ॥ ( उणा - ४४९ ) ॥ इति त्रट् ॥ १३ ॥ दशेरेषु मरुषु भवो दाशेरः || ४ || रौतीत्येवं शीलो रवणः ॥ १५ ॥ कण्टका अशनमस्य कण्टकाशनः ॥ १६॥३२० ॥ दीर्घा ग्रीवाऽस्य दीर्घग्रीवः ॥ १७ ॥ केल्या कीर्यते स्म केलिकीर्णः ॥ १८ ॥ करभस्तु त्रिहायणः ।
"
कीर्यते करभः “कृशृगॄ–” ॥ ( उणा - ३२९ ) ॥ इत्यभः कं शिरो रभत उन्नमयतीति वा ॥१॥ त्रीणि हायनान्यस्य त्रिहायणः “चतुर्ब्रहयवस्य वयसि ” ॥२॥ ३।७४ || इति णत्वम् ॥ १ ॥
स तु शृङ्ङ्खलकः काष्ठमयैः स्यात् पादबन्धनैः ॥ ३२१ ॥
स करभो दारुनिर्मितैः पादबन्धनैर्युक्तः, श्रृङ्खलं बन्धनमस्य शृङ्खलकः " शृङ्खलकः करभे” ॥ ७ । १ । १९१ ॥ इति साधुः ॥ १ ॥ ३२१ ॥
गर्दभस्तु चिरमेही वालेयो रासभः खरः । चक्रीवान् शङ्कुकर्णः
6
गर्दति शब्दायते गर्दभः “कृशृगृ–” ॥ ( उणा - ३२९ ) ॥ इत्यभः ॥ १ ॥ चिरं मेहति चिरमेही ॥ २ ॥ वाडते आप्लवते वालेयः “ गयहृदय - " ॥ ( उणा३७० ) ॥ इति निपात्यते, वालेभ्यो हित इति वा, वाले वलने भवो वा ॥ ३ ॥ रास्यते रासभः “कृशृगृ–” ॥ ( उणा - ३२९ ) ॥ इत्यभः ॥ ४ ॥ खनति खुरैः " जठर-" ॥ ( उणा - ४०३ ) ॥ इत्यरे निपात्यते, खं महत् कण्ठविवरमस्यास्तीति वा मध्वादित्वाद् रः, खं शब्दं रातीति वा ॥ ५ ॥ चक्रं मण्डलं मेहनान्तेऽस्य चक्रीवान् “चर्मण्वत्यष्ठीवच्चक्रीवत् - " ॥ २ । १ । ९६ ॥ इति मतौ साधुः ॥ ६ ॥ शङ्काकृती कर्णावस्य शङ्कुकर्णः ॥ ७ ॥
εξε
खरः
Page #506
--------------------------------------------------------------------------
________________
५०६ अभिधानचिन्तामणौ
अथ ऋषभो वृषभो वृषः ॥ ३२२ ॥ वाडवेयः सौरभेयो भद्रः शक्वर-शाक्वरौ ।
उक्षाऽनड्वान् ककुद्मान् गौर्बलीवर्दश्च शाङ्करः ॥ ३२३ ॥ . . - ऋषति गच्छति ऋषभः ॥ १ ॥ वर्षणात् वृषभः "ऋषिवृषि-" ॥ .. ( उणा- ३३१)॥ इति किदभः ॥ २॥ वर्षति वृषः ॥ ३ ॥ ३२२ ॥ वडवाया वृषो वाडवेयः "वाडवेयो वृषे" ॥ ६ । १ । ८५ ॥ इत्येयण ॥ ४ ॥ सुरभेरपत्यं सौरभेयः “चतुष्पाट्य-:" ।। ६ ।। ८३ ॥ इत्येयण् ॥ ५ ॥ भन्दते . भद्रः॥ ६ ॥ शक्नोति वोढुं शक्वरः “तीवर-" ( उणा- ४४४ ) ॥ इति वरटि साधुः ॥ ७ ॥ शक्वर एव शाक्वरः, प्रज्ञादित्वादण् ॥ ८ ॥ उक्षति मूत्रेण भुवमुक्षा "उक्षितक्षि-" ॥ ( उणा- ९००)॥ इत्यन् ॥ ९ ॥ अनो वहति अनड्वान् “अनसो वहेः क्विप् सश्च डः" ॥ ( उणा- १००६ ) ॥ इति साधुः ॥ १० ॥ ककुदस्यास्ति ककुद्मान् , अादित्वाद् मतोर्वत्वं न भवति ॥ ११ ॥ मच्छतीति गौः पुंस्त्रीलिङ्गः “युगमिभ्याम्-" ॥ (उणा- ८६७) इति डोः ॥१२॥ बलं वर्धयति बलीवर्दः, पृषोदरादित्वात् , बली वृणाति वा ॥ १२ ॥ शङ्करस्यायं शाङ्करः ॥ ४ ॥ ३२३ ॥
उक्षा तु जातो जातोक्षः उत्पन्न उक्षा जातोक्षः "जातमहवृद्धादुक्ष्णः कर्मधारयात्" ॥ ७ । ३ । १५ ॥ इत्यत् समासान्तः ॥ १॥
स्कन्धिकः स्कन्धवाहकः । प्रशस्यः स्कन्धोऽस्त्यस्य स्कन्धिकः ॥ १॥ स्कन्धेन वहति स्कन्धबाहकः ॥३॥
महोक्षः स्यादुक्षतरः - महांश्वासावुक्षा च महोक्षः “जातमहवृद्ध-" ॥ ७३९५ ॥ इत्यत् समासान्तः ॥ १॥ इसित उक्षा उक्षतरः "वत्सोक्षावर्षभ-" ॥ ७ ॥ ३ ॥५१॥ इति तरट् ॥१॥
वृद्धोक्षस्तु जरद्वः ॥ ३२४ ॥ घृद्धश्वासावुक्षा च वृद्धोक्षः "जातमहद्वद्ध-" ॥ ७ । ३ । ९५ ॥ इत्यत् समासान्तः ॥ १॥ जरंश्वासौ गौश्च जरद्वः "गोस्तत्पुरुषात्" ॥ ७॥३। १०५ ॥ इत्यत् समासान्तः ॥ २॥ ३२४ ॥
Page #507
--------------------------------------------------------------------------
________________
४ भूमिकाण्डः।
५०७
षण्ढतोचित आर्षभ्यः षण्ढतोचितोऽण्डाकर्षणयोग्य ऋषभाय अयमार्षभ्यः "ऋषभोपानहाञः" ॥ ७ । १ । ४६ ॥ षण्डतायोग्य इत्येके ॥ १॥
कूटो भग्नविषाणकः । कूट्यते कूटः ॥ १ ॥ भग्नं विषाणमस्य भग्नविषाणकः ॥ २॥
इट्चरो गोपतिः षण्डो गोवृषो मदकोहलः ॥ ३२५ ॥ एषणमिट् , इषा चरति इट्चरः स्वेच्छाचारी 'इत्वरः' इत्येके पेतुः ॥ १॥ गवां पतिर्गोपतिः ॥ २ ॥ सनोति सनति वा षण्डः “पञ्चमाड्डः" ( उणा१६८ ) ॥ इति डः, बाहुलकात् सत्वाभावः । शण्डोऽपि ॥ ३ ॥ वृषोऽनाकृष्टाण्डः गौश्चासौ वृषश्च गोवृषः, गवां वृषो बीजनिषेत्तेति वा ॥ ४ ॥ मदेन कोहलो नट इव मदकोहलः ॥ ५ ॥ ३२५ ॥
वत्सः शकृत्करिस्तर्णः वदति मातरं दृष्ट्वा वत्सः “मावावदि-" ॥ (५६४)॥ इति सः ॥ १॥ शकृत् करोति शकृत्करिः "शकृत्स्तम्बाद्-" ॥५। १ । १०० ॥ इति इः ॥२॥ तरति तर्णः “इणुर्विशा-" ॥ (उणा-१८२) ॥ इति णः, तृणुते भक्षयति, तृणातीति वा ॥ ३ ॥
दम्य-वत्सतरौ समौ । दममर्हति दम्यः, दण्डादित्वाद् यः, दम्यते वा ॥१॥ हसितो वत्सो वत्सतरः "वत्सोक्षाश्वर्षभ-" ॥ ७ । ३।५१ ॥ इति तर ट्, हासो द्वितीयवयःप्राप्तिः ॥२॥
- नस्योतो नस्तितः
नस्ये नासाकृते रन्ध्रे रज्ज्वादिना उत उम्भितो नस्योतः ॥ १॥ नासिकायां नम्रः, आद्यादित्वात् तस् "नस् नासिकायास्तः क्षुद्रे" ॥ ३ । २ । ९९ ॥ इति नसादेशः, ततो नस्तो नासिकायां क्रियते स्म नस्तितः, ततो "णिज् बहुलं नाम्नः-" ॥३॥ ४ ॥ ४२ ॥ इति णिचि "त्रन्त्यस्वरादेः" ॥ ७॥४।४३ ॥ इत्यन्त्यस्वरादिलोपे च क्तप्रत्ययः, नासायां कृतच्छिद्रो गौरित्यर्थः ॥२॥
षष्ठवाट तु स्याद् युगपार्श्वगः ॥ ३२६ ॥ पञ्चमं षष्ठं वा वर्षे वहति षष्ठवाट , पृषोदरादित्वात् ॥ १॥ युगस्य स्कन्धकाण्डस्य पाश्र्व गच्छति युगपार्श्वगः, हलवोढेत्यर्थः । 'दमनाय योजितः' इत्येके ॥ २॥ ३२६ ॥
Page #508
--------------------------------------------------------------------------
________________
५०८ .
.
अभिधानचिन्तामणौ
युगादीनां तु वोढारो युग्य-प्रासङ्गय-शाकटाः । युगं प्रासङ्गं च वहति युग्यः, प्रासङ्गयः, " वहति रथयुगप्रासङ्गात् " ॥ ७॥ १।२ ॥ इति यः ।। १ ॥२॥ शकटं वहति शाकटः "शकटादण्" ॥ ७ ॥ १॥ ७ ॥३॥
स तु सर्वधुरीणः स्यात् सौ वहति यो धुरम् ।। ३२७ ॥ - सर्वी धुरं वहति सर्वधुरीणः “वामाद्यादेरीनः" ॥ ७ ॥ १ ॥ ४ ॥ १ ॥
तत्र ॥६॥
एकधुरीणकधुरावुभावेकधुरावहे । एका एकस्य वा धूरेकधुरा तां वहति एकधुरीणः एकधुरः "अश्वकादेः" ॥ ७॥ १।५ ॥ इतीनोऽकारश्च प्रत्ययौ ॥ १ ॥२॥
धुरीण-धुर्य-धौरेय-धौरेयक-धुरंधराः ॥ ३२८ ।। . धूर्वहे
धुरं वहति धुरीणः 'परमतमनुमतं स्वमतं भवाते' इति मतान्तरेण ईनः ॥१॥ , “धुरो यैयण्" ॥ ७ । १ । ३ ॥ इति ये धुर्थः ॥ २॥ एयणि धौरेयः ॥ ३ ॥ मतान्तरेण एयकणि धौरेयकः ॥ ४ ॥ धुरां धारयति धुरंधरः "धारेर्धर्च" ॥ ५। १। ११३ ॥ इति खे साधुः ॥ ५ ॥३२८॥ धुरं वहति धूर्वहः, लिहादित्वादच्,
___ अथ गलिर्दष्टवृषः शक्तोऽप्यपूर्वहः। गलति भक्षयत्येव गलिः " पदिपठि-" ।। ( उणा-६०७)॥ इति इः ॥१॥
स्थौरी पृष्ठयः पृष्ठवाह्यः स्थूराणां पश्चाज्जङ्घाभागानामिदं स्थौरं बलं तदस्यास्ति स्थौरी। 'स्थूरी' इत्यन्ये ॥ १ ॥ पृष्ठे साधुः पृष्ठयः ॥ २ ॥ पृष्ठेन वाह्यते पृष्ठवाह्यः ॥ ३ ॥
द्विदन् षोडन् द्वि-षड्दौ ।। ३२९ ॥
द्वौ दन्तावस्य द्विदन् “वयसि दन्तस्य दतृः" ॥ ७ । ३ । १५१ ॥ १ ॥ एवं षड् दन्ता अस्य षोडन् “ एकादशषोडश-" ॥ ३ । २ । ९१ ॥ इति साधुः ॥ २ ॥ ३२९ ॥
वहः स्कन्धः
Page #509
--------------------------------------------------------------------------
________________
५०१
४ भूमिकाण्डः । " पृषस्य स्कन्धः, वहन्त्यनेन वहः "गोचरसंचर-" ॥ ५॥३॥१३॥ ॥ इति घः ॥१॥ ___अंशकूटं तु ककुदं
अंशयोरुपरिभागे कूटं शिखरमंशकूटम् ॥ १॥ ककते ककुद पुंक्लीबंलिङ्गः "ककेणिद्वा" ॥ ( उणा-२४३) ॥ इत्युदः । ककुत्-ककुदावपि ॥२॥
नैचिकं शिरः। नीचैश्चरति नेचिकम् । 'नैचिकी' इत्यन्ये ॥ १॥ __ . विषाणं कूणिका शृङ्ग
बेवेष्टि विषाणं त्रिलिङ्गः “कृपिविषि-" ॥ (उणा-१९१) ॥ इत्याणक् ॥१॥ कूषयति कूणिः, डयां खार्थे के व कूणिका ॥ २ ॥ शृणाति र “शाई." ॥ (उणा-९६)॥ इति गे निपात्यते, पुंक्लीबलिगः ॥३॥
सास्वा तु गलकम्बलः ॥ ३३० ।। सस्ति स्वपितीव निष्क्रियत्नात् साना "षणित्" ॥ ( उणा-२५९ ) ॥ इति नः॥१॥ गलस्य कम्बल इव लम्बमानवाद् गलकम्बलः ॥ २ ॥ ३३० ॥
गौः सौरभेयी माहेयी माहा सुरभिरर्जुनी। उसाऽन्या रोहिणी शृङ्गिण्यनड्वाएनडुयुषा ॥३३१॥
तम्पा निलिम्पिका तंवा गच्छति गौः पुंजीलिङ्गः ॥१॥ सुरभ्या अपत्यं सौरभेयी ॥ २ ॥ माहाया अपत्यं माहेयी, मयां भवेति वा नद्यादित्वादेयण ॥ ३ ॥ 'माहग् माने' माह्यते माहा ॥ ४ ॥ सुष्टु रभते सुरभिः "पदिपठि-" ॥ (उणा-६०७) ॥ इति इ.आगमस्यानित्यखात् "रभोऽपरीक्षाशवि" ॥ ४।४।१०२॥ इति नागमाभावः ॥५॥ अयंते अर्जुनी ॥ ६ ॥ वसति क्षीरमस्यामुला “ऋज्यजि." ॥ ( उणा-३८८) । इति किद् रः ॥ ७ ॥ न हन्त्यन्या "सिक्यास्याव्य-" ॥ (उणा-३६४) । इति ये निपात्यते ॥ ८ ॥ रोहत्यवश्यं रोहिणी ॥९॥ शृङ्गमस्त्यस्याः शृङ्गिणी, शृङ्गिण्यादयः सामान्या अपि विशेष वर्तन्ते ॥ १० ॥ अनड्वाही अनडुही, अनडुशब्दाद गौरादिपाठसामर्थ्याद् विकल्पेन कृतवाऽऽदेशात् ङी ॥ ११ ॥ १२ ॥ उषत्यशिवमुषा ॥ १३ ॥ ३३॥ ताम्यति तम्पा “ पम्पाशिल्पादयः " ॥ (उणा-३००)। इति निपातनात् पः ॥ १४ ॥ निलिम्पति निलिम्पा " निगवादे नि" ॥ ५॥१॥ ६१ ॥ इति शः, के निलिम्पिका ॥ १५ ॥ जपादित्वात् पस्य वत्वे तवा ॥ १६ ॥
सा तु वर्णैरनेकधा ।
Page #510
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणीसा गौः शबलादिभिर्वणैरनेकभेदा भवति, यथा शबला, धवलेत्यादि ॥ १॥
पष्ठीही गर्भिणी प्रष्ठं वहति पष्ठौही, गौरादित्वात् डी ॥ १॥ गर्भोऽस्त्यस्या गर्भिणी । 'पष्ठीही पालभिणी' इत्यमरः ॥ २॥ .
वन्ध्या वशा बध्नाति प्रसूतिं वन्ध्या "स्थाछामा-" ॥ ( उणा-३५५) ॥ इति यः॥१॥ वष्टि कामयते परं वशा ॥ २ ॥ . वेहद् वृषोपगा ॥ ३३२ ॥
विहन्ति गच्छति वृषं वहत् “संश्चद्वहत्." ॥ ( उणा-८८२)॥ इति कति निपात्यते ॥१॥ वृषमुपगच्छति वृषोपगा। विहन्ति गर्भामति 'वेहद् गर्भोपधातिनी' इत्यमरः ॥१॥३२॥
अवतोका स्रवद्गर्भा अवनुतं तोकमपत्यमस्या अवतोका, अपप्रसववती । ' मृतक्त्सा सवद्गर्भा' : इति माला ॥१॥ ... वृषाक्रान्ता तु सन्धिनी।
वृषेण आक्रम्यते वृषाक्रान्ता, सन्धान सन्धा गर्भग्रहणमस्त्यस्याः सन्धिनी, शिखादित्वादिन् । 'अदुग्धा दोहकाले तु सन्धिनी' इति कात्यः । 'सन्धिन्यकालदुग्धा गौषाकान्ता च सन्धिनी' इति तु शाश्वतः ॥ १ ॥
प्रौढवत्सा बष्कयिणी प्रौढो वत्सोऽस्याः प्रौढवत्सा चिरप्रसूतेत्यर्थः, षष्कतेऽतिकामति बष्कयश्चिरकालः "गयहृदया- ॥ ( उणा-३७० )॥ इति निपात्यते, सोऽस्त्यस्या बष्कयिणी ॥१॥
धेनुस्तु नवसूतिका ॥ ३३३॥ धयन्त्येनां धेनुः “धेः शित् ॥ ( उणा-७८७ ) ॥ इति नुः ॥ १॥ नवा प्रत्यमा सूतिरस्या नवसूतिका ॥ ३३३ ॥
___परेष्टुर्बहुसूतिः स्यात् परमिच्छति परेष्टुः, पृषोदरादित्वात् । बढी सूतिरस्या बहुसूतिः ॥ १॥
गृष्टिः सकृत्प्रसूतिका। गिरति गृष्टिः “यो गृष् च" || ( उणा-६४९) ।। इति तिः ॥ ॥१॥
प्रजने कालयोपसर्या
Page #511
--------------------------------------------------------------------------
________________
भूमिकाण्डः । " प्रजने गर्भग्रहणे प्रातः कालोऽस्या: कालया ॥ १॥ उपस्रियते वृषेणोपसर्या "वर्योपसर्या-" ॥ ५॥ १।३२ ॥ इति ये साधुः ॥ २ ॥
सुखदोह्या तु सुव्रता ॥ ३३४ ॥ सुखेन दुह्यते सुखदोग्धा शोभनं व्रतमस्याः सुव्रता सुशोलेत्यर्थः ॥ १॥ ३३४ ॥
दुःखदोह्या तु करटा करोति खेदं करटा "दिब्यवि." ॥ (उणा-१४२) ॥ इत्यटः, दुःशालेत्यर्थः ॥१॥
बहुदुग्धा तु वञ्जुला । बहु प्रचुर दुग्धमस्या बहुदुग्धा, वजति वञ्जुला "कुमुलतुमुल-* ॥ (उणा४८७ ) ॥ इति निपात्यते ॥१॥
द्रोणदुग्धा द्रोणदुघा द्रोणपरिमेयं दुग्धमस्या द्रोणदुग्धा ॥ १ ॥ द्रोणं दुग्धे द्रोणदुघा "दुहेर्दुघः ॥ ५।१।१४५ ॥ इति साधुः ॥ २॥
पीनोनी पावरस्तनी ॥ ३३५ ।। पीनमूधोऽस्या: पीनोधी “स्त्रियामूधसो न्" ॥७॥३॥१६९ ॥ इति समासान्तः "ऊनः" ।। २।४।७ ॥ इति ङी ॥ १॥ पावराः स्तना अस्याः पावरस्वनी "असहन विद्यमान-" ॥२॥४॥३८ ॥ इति ङी ॥ २ ॥ ३३५ ॥
पीतदुग्धा तु धेनुष्या संस्थिता दुग्धबन्धके । - पीतं दुग्धमस्याः पीतदुग्धा ॥ १॥ धेनुरेव धेनुष्या "हृद्यपद्य-" ॥ ७॥१॥ ११॥ इति ये निपात्यते, आऋणशुद्धेरधमणेन. उत्तमर्णस्य बन्धे स्थापिता ॥ २ ॥
.. नैचिकी तूतमा गोषु
नीचैश्चरति नैचिकी "चरति” ॥ ६।४।१९ ॥ इतीकण “प्रायोऽव्ययस्य" ॥ ७।४।६५ ॥ इत्यन्त्यस्वरादिलोपः ॥ १ ॥
. पलिक्नी बालगींणी ॥ ३३६ ।। • पलति गर्भ गच्छति पलिता सैव पलिक्नी " कः पलितासितात् ॥ ॥ २॥४॥ ३७ ॥ इति ङ्यां साधुः ‘मलिनी बालगर्भिणी' इति माला ॥ १ ॥ ३३६ ॥
समांसमीना तु सा या प्रतिवर्ष विजायते । - समां समां विजायते समांसमीना “समांसमीनाद्यवीन-" ॥ ११॥ १५ ॥ इति ईने निपात्यते ॥ १॥
स्वादचण्डी तु सुकरा
Page #512
--------------------------------------------------------------------------
________________
५१२
अभिधानचिन्तामणौ.. न चण्डतेऽचण्डी अकोपनेत्यर्थः, शोणादित्वात् ही, सुखेन क्रियते वो मुरूम ॥१॥
वत्सकामा तु वत्सला ।। ३३७ ॥ . ." वत्सं नेहात् कामयते वत्सलामा ॥१॥ वत्सं लाति वत्सला, वत्सांस्त्यस्या वा सिध्मादित्वाल्लः ॥ २ ॥ ३३७ ॥
चतुस्त्रेहायणी द्वयेकाद हायन्येकादिवर्षिका । :: चतुःशब्दात् त्रिशब्दाच्च हायणी चत्वारस्त्रयश्च हायना वयःप्रमाणमास्यचितुर्हायणी चतुर्वर्षा, त्रिहायणी त्रिवर्षा गौः " संख्यादेायनाद्वयसि " ॥ २॥ ४ ॥ ९ ॥ इति डी “ चतुस्नेहायनस्य वयसि" ॥ २ । ३ । ७४ ॥ इति णत्वम् - १॥ द्विशब्दादेकशब्दाच हायनी द्विहायनी द्विवर्षा ॥१॥ एकहायनी एकवर्षा नौः ॥५॥ एकादीनि वर्षाण्यस्या एकादिवर्षिका । अत्रैकवर्षादयश्चतुर्हायण्यादीनां प्रातिलोम्येन यथासंख्यं पर्याया लभ्यन्ते ॥ १॥
. आपीनभूधः
आप्यायते स्म आपीनं पुंक्लीबलिङ्गः "सूयत्यादि-* ॥४॥२॥ ७० ॥ इति क्तस्य नत्वं "आङोऽन्धूधसोः ॥ ४।१।९३ ॥ इति प्यादेशः ॥१॥ उद्यते गवा, वहति क्षीरमिति वा ऊधः क्लीवलिङ्ग: "छदिवहिभ्यां छन्दोधी च." ॥ ( उणा९५४) ॥ इत्यस् ॥ २॥
गोविट तु गोमयं भूमिलेपनम् ॥ ३३८ ॥ गवां विड् विष्ठा गोविट् ॥ १ ॥ गोः पुरीष गोमयं पुंक्लीबॉलङ्गः “गोः पुरोष" ॥६।२।५० ॥ इति मयट् ॥२॥ भूमिलिप्यतेऽनेन भूमिलपनम् । पवित्रभपि ॥३॥
शुष्क तु तत्र गोग्रन्थिः करीष-छगणे अपि। तत्र गोमये शुष्के उद्वाने गोः पुरीषस्य प्रन्थि!प्रन्थिः ॥ १ ॥ कीर्यतेऽना करीषं पुंक्लीबलिङ्गः "कृतृभ्याम्" ॥ ( उणा-५५३ ) ॥ इतीषः ॥ २ ॥ छाद्यते वहिरनेन छगणं "चिकण-" ॥ (उणा-१९०) ॥ इत्यणे निपात्यते ॥ ३॥
- गवां सर्व गव्यं - सर्व क्षीरादि गोरिदं गवि भवमित्यादिष्वर्येषु वा गव्यम् ॥ १॥
बने गोकुलं गोधनं धनम् ॥ ३३९ ॥ व्रजन्त्यस्मिन् व्रजो गोसंबन्धी समूहः पुंक्लीबलिकोऽयं "गोचरसंचर-१ ॥ ५ ३।१३१॥ इति घे साधुः, तत्र ॥१॥ गवां कुलं गोकुलम् ॥ २ ॥ गाव एक धनमत्र गोधनम् ॥ ३ ॥ धनति धनम् ॥ ४ ॥ ३३९॥
Page #513
--------------------------------------------------------------------------
________________
प्रजने स्यादुपसरः
प्रजायतेऽस्मिन् पशूनां गर्भग्रहणकालः प्रजनस्तत्र, " न जनवधः ' ॥ ४ । ३ । ५४ ॥ इति घञि वृद्ध्यभावः ॥ १ ॥ स्त्रीषु पुंसां प्रथममुपसरणमुपसरः " सृग्लहः प्रजनाक्षे || ५| ३ | ३१ ॥ इत्यल् ॥ २ ॥
(
कील:
ः पुष्पलकः शिवः ।
कील्यते रज्ज्वा बध्यतेऽस्मिन् कीलः पुंस्त्रीलिङ्गः ॥ १ ॥ पुष्पति पुष्पल: मुरलोरल - " ( उणा - ४७४ ) ॥ इति साधुः स्वार्थे के पुष्पलकः ॥ २ ॥ शेते भुवि शिवः ॥ ३ ॥
बन्धनं दाम संदानं
बध्यतेऽनेन बन्धनम् ॥१॥ दायते रक्ष्यतेऽनेन दाम स्त्रीक्लीवलिङ्गः "मन्"। ( उणा - ९११) ॥ इति मन् ॥ २ ॥ संदीयते रक्ष्यतेऽनेन संदानम् ॥ ३ ॥ पशुरज्जुस्तु दामनी ॥ ३४० ॥
पशूनां बन्धनाय रज्जुः पशुरज्जुः, द्यति दामनी, पृषोदरादिखात् ॥ १ ॥ ३४० ॥ अजः स्याच्छगलः छ|गश्छगो वस्तः स्तभः पशुः ।
66
"2
अजत्यजः ॥१॥ छ्यति छगल: छोड़ेग्गादिव ॥ ( उणा ४७१) ॥ इत्यलः ॥ २ ॥ " गम्यमि- " ॥ ( उणा - ९२ ) ॥ इति गे छागः ॥ ३ ॥ शृङ्गशार्ङ्ग-" || ( उणा-९६ ) ॥ इति गे निपातनात् छगः ॥ ४ ॥ वस्ते छादयति वस्तः
16
' दम्यमि " || ( उणा २०० ) ॥ इति तः ॥ ५ ॥ स्तभ्यते स्तभः स्थादिलात् कः | 'तुभः' इत्यमरः ॥ ६ ॥ स्पशति पशुः ॥ ७ ॥
A
अजा तु छागिका मञ्जा सर्वभक्षा गलस्तनी ॥ ३४१ ॥
अजति वातमजा ॥ १ ॥ छ्यति छागी ॥ २॥ मञ्जिः सौत्रः ' मञ्जति मज्जा ॥ ३ ॥ सर्व कटुतिक्तप्राय मर्कपत्रादि भक्षयति सर्वभक्षा || ४ || गले स्तनौ अस्या
४ भूमिकाण्डः ।
गलस्तनी ॥ ५ ॥ ३४१ ॥
युवा जो वर्करः
५१३
तरुणः पशुः व्रियते वर्करः “ किशुत्रृभ्यः करः अवौ तु मेषोर्णायु-हूडो -रणाः ।
97
॥ ( उणा - ४३५ ) ॥ १ ॥
उरो मेण्टको वृष्णिरेडको रोमशो हुडुः ।। ३४२ ॥ संफाल : शृङ्गिणो भेडः
अव्यतेऽविः " पदिपठि ' ॥ ( उणा - ६०७ ) ॥ इति इस्तत्र ॥ १ ॥ मीनाति
Page #514
--------------------------------------------------------------------------
________________
५१४
अभिधानचिन्तामणी
हिनस्ति मेष: पुंक्लीबलिङ्ग: “ वृकृतमी " ॥ ( उणा - ५४० ) ॥ इति षः, मिषति स्पर्धते वा ||२|| ऊर्णाऽस्त्यस्य ऊर्णायुः " ऊर्णाहंशुभमो युस् ” ॥ ७१२।१७ ॥ ३ ॥ हूयते हुङ: “कुगुहु - "|| ( उणा - १७० ) ॥ इति कि उ:, होडति गच्छतीति वा ॥४॥ इयत्युरण: " चिक्कण." ( उणा - १९० ) ॥ इत्यणे निपात्यते, 'उरणः कण्डवादी " उरण्यति देवताः प्रीणाति वा, उच्च रणोऽस्येति वा, उः खरप्रतिरूपकमध्ययम् ॥५॥ इयर्क्युरभ्रः “ खुरक्षुर- " ॥ ( उणा - ३९६ ) ॥ इति रे निपात्यते, उच्चै रमते, उरु भ्रमतीति वा पृषोदरादित्वात् ॥ ६ ॥ मेहति मेण्ढः पृषोदरादित्वात् ॥ ७॥ वर्षति वृष्णि: “ ऋद्धृसृ-” ॥ उणा- ६३५ ) ॥ इति कित् णिः ॥ ८ ॥ इज्यते देवता अनेन एडकः " कीचक- " ॥ ( उणा - ३३ ) ॥ इत्य के निपात्यते ॥ ९ ॥ रोमाणि सन्त्यस्य रांमशः, लोमादित्वात् शः ||१०|| होडति हुडुः “ पूकाहृषि-” ॥ ( उणा७२९ ) ॥ इति किदुः || ११|| ३४२ || संफलति संफालः, ज्वालादित्वात् णः ॥ १२॥ शृङ्गमस्त्यस्य शृङ्गिणः " फलबहीत्- " ॥ ७ । २ । १३ ॥ इतीनः || १३|| भिले: सौत्रात् लिहाद्यचि डलयोरैक्याद् भेडः ||१४||
"
68
मेषी तु कुररी रुजा । जालकिन्यविला वेणी
"
मिषति मेषी ||१|| कुरति शब्दायते कुररी "मृयुन्दि ” ॥ ( उणा- ३९९ ) ॥ इति किदरः ||२|| रुजति रुजा ॥३॥ जालकं रोमगुच्छोऽस्त्यस्या जालकिनी ॥ ४ ॥ न विलति भिनत्यविला, अवीन् लातीति वा ॥५॥ वेणते वेणी ॥६॥
अथेडिक्कः शिशुवाहकः ।। ३४३ ॥
पृष्ठशृङ्गो वनाजः स्यात्
इज्यते कौतुकादिडिक्क : "निष्कतुरुष्क- " ॥ ( उणा - २६ ) ॥ इति के निपात्यते ॥ १ ॥ शिशुं वहति शिशुवाहकः ॥ २ ॥ ३४३ ॥ पृष्ठे श्यामस्य पृष्ठतः ॥ ३ ॥ वनयाजो वनाजः ॥ ४ ॥
अविदुग्धे त्ववेः परम् । सोढं दूसं मरीसं च
अविशब्दात् परे सोढादय: अवेर्दुग्धमविसोढम् ॥ १॥ अविदूयम् ॥ २ ॥ अविमरीसं
अवेर्दुग्धे सोढदूसमरीसम् " || ६ |२|६४ ॥ इति साधवः ॥ ३ ॥
कुक्कुरो वक्रवालधिः ॥ ३४४॥ अस्थिभुग् भषणः सारमेयः कौलेयकः शुनः ।
(6
Page #515
--------------------------------------------------------------------------
________________
४ भूमिकाण्डः । शुनिः श्वानो गृहमृगः कुर्कुरो रात्रिजागरः ॥ ३४५ ।। रसनालिट् रतपराः कील-शायि-व्रणा-ऽन्दुकाः। .
शालावृको मृमदंशः श्वा कोकतऽस्थ्यादिकमादत्ते कुक्कुरः “ श्वशुर-" ॥ ( उणा-४२६) ॥ इत्युरे निपात्यते, कुकित्ति कुरति शब्दायते वा ॥१॥ वक्रो वालधिरस्य वक्रवालधिः ॥ २ ॥ ॥३४४॥ अस्थीनि भुङ्क्ते अस्थिभुक् ॥३॥ भषति कुत्सितं वाऽस्यते भषणः । भषकोऽपि ॥४॥ सरमाया अपत्यं सारमेयः ॥५॥ कुले गृहे भवः कौलेयक: “ कुलकुक्षि-" ॥६॥३॥१२॥ इत्येयकम् ॥६॥ शुनति गच्छति शुनः ॥७॥ "नाम्युपान्त्य-" ॥ ( उणा-६०९) ॥ इति किदिप्रत्यये शुनिः ॥ ८॥ शोभन आनः प्राणोऽस्य श्वानस्तालव्यादिः ॥९॥ गृहस्य मृगो गृहमृगः ॥१०॥ किरत्यस्थि कुर्कुरः श्वशुर-" ( उणा-४२६ ) ॥ इत्युरे निपात्यते ॥ ११ ॥ रात्रि जागर्ति रात्रिजागरः ॥१२॥ ॥३४५॥ रसनया लेढि रसनालिट् ॥१३॥ रतशब्दात् पराः कीलादयः-रतेन कील्यते बध्यते रतकीलः, रते कीलनमस्येति वा ॥१४॥रते शेते रतशायी ॥१५॥ रतेन व्रणमस्य रतव्रणः ॥१६॥ रतमेवान्दुको बन्धनमस्य रतान्दुकः ॥१७॥ शालायां गृहे वृक: शालावृकः ॥ १८ ॥ मृगान् दशति मृगदंशः ॥१९॥ श्वयति श्वा “श्वन्मातरि." । ( उणा-९०२) ॥ इत्यनि- निपात्यते ॥ २० ॥ शेषश्चात्र
शुनी क्रोधी रसापायी शिवारिः सूचको रुरुः। वनंतपः खजातिद्विट् कृतज्ञो भल्लहश्च सः ॥ १॥ . दीर्घनादः पुरोगामी स्यादिन्द्रमहकामुकः ।
मण्डलः कपिलो ग्राममृगश्चन्द्रमहोऽपि च ॥ २॥
अलास्तु स रोगितः ॥ ३४६ ॥ अल्पते वार्यते दशनभयादलर्क उन्मत्तः श्वा "निष्कतुरुष्क-"॥ (उणा-२६)॥ इति के निपात्यते, संजातगरादिप्रयोगत्वाद् यक्ष्मादिरोग: संजातोऽस्य रोगितः
विश्वकम्तु कुशलो मृगव्ये विश्व कत् कुत्सितं द्रवति विश्वकद्रुः " हरिपीतः ॥ ( उणा-०४५ ) ॥ इति डिटः, विगतं श्वकदनमस्येत्येके ॥॥ .. सरमा शुनी। .. ...
Page #516
--------------------------------------------------------------------------
________________
अभिधामचिन्तामणीसरति सरमा “ सूपप्रथि-" ॥ ( उणा-३४७ ) ॥ इत्यम: ॥॥ देवशुनी, विशेषवृत्तिरप्यसौ सामान्येष्वभिधानात् ॥ २॥
विट्चरः शूकरे ग्राम्ये विशं गूथं चरत्यत्ति विट्चर: प्राम्यशूकरः ॥
महिषी यमवाहनः ॥ ३४७ ।। रजस्वलो वाहरिपर्जुलायः सैरिभो महः । धारस्कन्धः कृष्णशृङ्गो नरन्तो दंशमीरुकः ॥ ३४८ ॥ ..
रक्ताक्षः कासरो हंसकालीतनय-लालिको। .. . महति महिषः "मह्यविभ्यां टित्-" ॥ (उणा-५४७ ) ॥ इतीषः, मयां शेते पा, पृषोदरादित्वात् ॥१॥ यमेन पात्यते यमवाहनः । यमरथोऽपि ॥ २ ॥ ३४७ ॥. रजोऽस्त्यस्य रजखलः ॥ ३ ॥ वाहानामश्वानां रिपुर्वाहरिपुः ॥ ४ ॥ 'लुलिः सौत्रः' लोलति पङ्के लुलायः "कुलिलुलि-" ॥ (उणा-३७२)॥ इति कायः ॥५॥ सीयते बध्यते सरिभः “सिटिकिभ्यामिभः सैरटिटौ च" || ( उणा-३३२) ॥ इति साधु: सीरिभिर्दन्तीति, सीरिंभः कुटुम्बी तस्यायमिति वा ॥ ६ ॥ महति महः ॥ ७ ॥ धीरः स्थिरः स्कन्धोऽस्य धीरस्कन्धः ॥ ८॥ कृष्णं शृङ्गमस्य कृष्णशृङ्गः ॥९॥ जीर्यति जरन्त: “जविशिभ्यामन्तः " || ( उणा-२१९) ॥ १०॥ दंशेभ्यो भीरुको दंशभीरुकः ॥ ११ ॥ ३४८ ॥ रक्ते अक्षिणी अस्य रक्ताक्षः ॥ १२ ॥ 'कामृङ् शब्दकुत्सायाम' कासते कासर: "ऋछिचटि-"|| ( उणा-३९७ ) ॥ इत्यरः घर्तिः कं जलमासरति वा, ईषत् सरति महाकायत्वादिति वा ॥१३॥ हंसकाल्याखनयो हंसकालांतनयः ॥१४|| लालाः सन्त्यस्य लालिकः, बीह्यादित्वादिकः ॥१५॥ शेषश्चात्र- : ..
महिषे कलुषः पिङ्ग कमहो गद्दस्वरः।
हेरम्बः स्कन्धाश्च ॥ १५ ॥ : अरण्यजऽस्मिन् गवलः . . ..
अस्मिन् महिषेऽरण्यसंभवे गवंत शब्दायते गवलः "मृदिकन्दि-" ॥ ( उणा४६५)॥ इत्यलः ॥१॥
सिंहः कण्ठीरवो हरिः ॥ ३४९ ॥ हर्यक्षः केसरीभारिः पञ्चास्यो नखरायधः । महानादः पञ्चशिखः पारिन्द्रः पत्यरी मृगात् ।। ३५० ॥
Page #517
--------------------------------------------------------------------------
________________
४ भूमिकाण्डः ।
श्रेतपिङ्गोऽपि हिनस्ति सिंहः “ हिंसेः सिम् च " ॥ (उणा ५८८) । इति हः, अचि वा, पृषोदरादित्वात् ॥ १॥ कण्ठे रवो ध्वनिरस्य कण्ठीरवः, पृषोदरादित्वादीत्वम् ॥२॥ हरति प्राणान् हरिः ॥ ३ ॥ ३४९ ॥ पिङ्गले अक्षिणी अस्य हर्यक्षः ॥ ४ ॥ केसराः स्कन्धसटाः सन्त्यस्य केसरी ॥ ५ ॥ इभानामरिरिभारिः ॥ ६ ॥ पञ्च आस्यानि मुखानि, मुखेन पादैश्च योद्धृत्वादस्य पञ्चाऽऽस्यः, पञ्च्यते पञ्चं विस्तारवदास्यमस्यति वा ॥ ७ ॥ नखरा आयुधमस्य नखरायुधः ॥ ८॥ महान् नादोऽस्य महानादः ॥ ९ ॥ पञ्च शिखा अस्य पञ्चशिखः, पञ्चभिः श्यति वा ॥ ५० ॥ पारिषु शक्तेष्विन्द्रः पारिन्द्रः, पृषोदरादित्वात् । पारीन्द्रोऽपि ॥ ११ ॥ मृगशब्दात् परः पतिररिश्व, मृगाणां द्वीप्यादिशशकान्तानां पतिररिश्च मृगपतिः ॥१२॥ मृगारिः ॥ १३॥ ॥३५० ॥ श्वेतश्वासौ पिङ्गश्र श्रेतापिङ्गः ॥ १४ ॥ शेषश्चात्र
सिंहे तु स्यात् पलंकषः । शैलाटो वनराजश्च नभःकान्तो गणेश्वरः ॥ १ ॥ शृङ्गाष्णीषो रक्तजिह्वो व्यादीर्णास्यः सुगन्धिकः । अथ व्याघ्रो द्वीपी शार्दूल-चित्रको ।
चित्रकायः पुण्डरीकः व्याजिघ्रति व्याघ्रः ॥ १ ॥ द्वीपमस्त्यस्य तन्निवासित्वाद् द्वीपी ॥ २॥ शृणाति शार्दूल: "दुकूल." ॥ ( उणा-४९१) ॥ इत्यूले निपात्यते ॥ ३ ॥ चित्रकश्चित्रवर्णस्वात् ॥४॥ चित्रः कायोऽस्य चित्रकायः ॥५॥ पुणति शोभते पुण्डरीकः "सृणीक'॥ ( उणा-५ ) ॥ इतीके निपात्यते ॥ ६ ॥
तरशुस्तु मृगादनः ॥ ३५१ ॥ . तरति तरक्षः "नृपलिमलेरक्षुः" ॥ ( उणा - ८२७) ॥ १॥ मृगानत्ति . मृगादनः ॥ २ ॥ ३५१ ॥
शरभः कुञ्जरारातिरुत्पादकोऽष्टपादपि । - शृगाति हस्तिनं शरभः “कृशग-" || ( उणा-३२९ ) ॥ इत्यभः ॥ १ ॥ कुन्नराणामरातिः कुञ्जरारातिः ॥ २ ॥ ऊर्ध्वाः पादा अस्य उत्पादकः ॥ ३ ॥ अष्टौ पादा अस्य अष्टपाद् “सुसङ्ख्यात्' ॥ ७ ॥३।१५० ॥ इति पाद्भावः । अष्टापदोऽपि ॥ ४॥
Page #518
--------------------------------------------------------------------------
________________
५१८
अभिधानचिन्तामणौ- गवयः स्याद् वनगवो गोसदृक्षोऽश्ववारणः ॥ ३५२ ॥ गवते गवयः "कुगुवलि-" ॥ ( उणा-३६५ ) ॥ इत्ययः ।।१॥ वनस्य गौनगवः ॥२॥ गोः सदृशो गोसदृक्षः ॥३॥ अश्वान् वारयत्यश्ववारणः ॥४॥ ३५२ ॥
खड्गी वाध्रीणसः खड्गो गण्डकः खड़गः शृङ्गमस्त्यस्य खड्गी ॥ १ ॥ वाध्रीव नासिकाऽस्य वाध्रोणसः "अस्थूलाच नसः" ॥ ७।३ । १६१ ॥ इति नसादेश. ॥ २ ॥ खडति भिनत्ति खड्गः "गम्यमि-" ॥ ( उणा-९२ ) इति गः ॥३॥ गण्डति संहन्यते गण्डकः ॥४॥
अथ किरः किरिः । भूदारः सूकरः कोलो वराहः क्रोड-पोत्रिणौ ॥ ३५३ ॥ घोणी घृष्टिः स्तब्धरोमा दंष्ट्री किट्या-ऽऽस्यलाङ्गलौ ।
आखनिकः शिरोमर्मा स्थूलनासो बहुप्रजः ॥ ३५४ ॥ किरति क्षमा किर: "नाम्युपान्य-" ॥ ५॥ १। ५४ ।। इति कः ॥ १ ॥ "नाम्युपान्त्य-" ॥ ( उणा-६०९) । इत्यादिना उणादिके किदिप्रत्यये किरिः ॥२॥ भुवं दारयति भूदारः ॥ ३ ॥ सुयते प्रेयते सूकरः “सूपुषिभ्यां कित्" ॥ ( उणा४३६ ) ॥ इति करः ॥ ४ ॥ कोलति संस्त्यायति पीनत्वात् कोलः ॥ ५ ॥ घृणोति घराहः “वृकटि-" ॥ ( उणा--५९१) इत्याहः, वरमाहन्तीति वा, वर आहारोऽस्येति पृषोदरादित्वाद्वा ॥ ६॥ किरति कोड: "विहड-" ।। ( उणा-१७२) । इत्यडे निपात्यते, क्रुडेः सौत्रस्य वाऽच् ॥ ७ ॥ पोत्रं मुखाग्रमस्त्यस्य पोत्री ॥ ८॥ ॥ ३५३ ॥ घोणोऽस्त्यस्य घोणी, शिखादित्वादिन् ॥ ९ ॥ घृष्याद् घृष्टिः “ तिकृतौ नाम्नि" ॥५/१।७१॥ इति तिक् ॥ १० ॥ स्तब्धं रोमास्त्यस्य स्तब्धरोमा ॥११॥ दंष्ट्राऽस्त्यस्य दंष्ट्री ॥ १२ ॥ केरति किटि: " नाम्युपान्त्य-" ॥ ( उणा-६०९)। इति किदिः ॥ १३ ॥ आस्यं दारकत्वाल्लाङ्गलभिवाऽस्य आस्यलाङ्गलः ॥ १४ ॥ आखनति आखनिकः “ आङः पणिपनि-" ॥ ( उणा-३९) ॥ इति बहुबच. नादिकः, आखनः खातविशेषः सोऽस्यास्तीति वा ॥ १५ ॥ शिरसि मर्माऽस्य शिरोमर्मा ॥ १६ ॥ स्थूला नासास्य स्थूलनासः ॥ १७ ॥ बढ्यः प्रजा अस्य बहुप्रजः ॥ १८ ॥ ३५४ ॥ शेषश्चात्र
सूकरे कुमुखः कामरूपी च सलिलप्रियः । तलक्षणो वक्रदंष्ट्रः पङ्कक्रीडनकोऽपि च ॥ .
Page #519
--------------------------------------------------------------------------
________________
४ भूमिकाण्डः।
५१९ भाल्लूके भालूक-क्षा-ऽच्छभल्ल-भल्लूक-भल्लुकाः । . भल्लते हिनस्ति भाल्लूकः भल्लूकः “ कणिभल्लेर्दीर्घश्च वा" ।। ( उणा-६० ) इति ऊके साधू ।। १॥२॥ भालयते भालूकः “ मृमन्यजि-" || ( उणा-५८) ।। इत्यूकः ॥ ३ ॥ ऋज्यति ऋक्ष: “ ऋजिरिषि-" ॥ ( उणा-५६७ ) ॥ इति कित् सः, ऋणोतीति वा ॥ ४ ॥ अच्छेत्याभिमुख्यार्थेऽव्ययम्ः' आभिमुख्यन भल्लते अच्छभल्लः ॥ ५ ॥ भल्लते भल्लुकः 'मिवमि-" ॥ (उणा-५१) ॥ इत्युकः॥६॥
सृगालो जम्बुकः फेरुः फेरण्ड: फेरवः शिवा ॥ ३५५ ॥ घोरवासी भूरिमायो गोमायुसुंगधूर्तकः ।
हूरवो भरुजः क्रोष्टा सरति भयेन सृगालः 'सर्तेर्गोऽन्तश्च' ॥ (उणा ..४७८) ॥ इत्यालः, असृगालीयतेऽत्र, असृग् गिलतीति वा, पृषोदरादित्वात् । तालव्यादिरपि ॥१॥ जमति जम्बुकः " कञ्चुक-" ॥ (उणा-५७) ॥ इत्युके निपात्यते ॥ २ ॥ 'फे' इति रौति फेरुः, पृषोदरादित्वात् ॥ ३ ॥ 'फे' इति रणति फेरण्डः “ पिचण्ड-" ॥ (उणा- १७६ ) । इत्यण्डे निपात्यते ॥ ४ ॥ 'फे' इति रवोऽस्य फेरवः ॥५॥ शेते दिवा शिवा 'शकुना. वेदनी' इति नैरुक्ताः । शृगालेऽप्ययं स्त्रीलिङ्गः, यत् शाश्वत:-'शिवः कीलः शिवा कोष्टा भवेदामलकी शिवा' n६ ॥ ३५५ ॥ घोरं वास्यते घोरवासी ॥ ७ ॥ भूरिः प्रचुरा मायाऽस्य भूरिमायः ॥ ८ ॥ गां मिनाति गोमायुः “मिवहि-" ॥ (उणा७२६ ) ॥ इति णिदुः ॥ ९॥ मृगान् धूर्वति मृगधूर्तः "शीरी-" ॥ ( उणा२०१ ) ॥ इति कितू तः, मृगेषु धूर्त इति वा ॥ १० ॥ हू इति रवोऽस्य हूरवः ॥ ११ ॥ बिभर्ति भरुजः “ उटजादयः " ॥ ( उणा-१३४ ) ॥ इति निपात्यते ॥ . १२ ॥ क्रोशति कोष्टा “ कृसिकमि-" ॥ ( उणा-७७३) ॥ इति तुन् "क्रुशस्तुनस्तृच पुंसि" ॥ १ ॥ ४ । ९१ ॥ इति तृजादेशः ॥ १३ ॥
शिवाभेदेऽल्पके किखिः ॥ ३५६ ॥ अल्पायां शिवाजातौ कौति किखिः स्त्रीलिङ्गः “ कोर्डिखिः" ॥ ( उणा-६२६) .
पृथौ गुण्डिव-लोपाको बृहति शिवाभेदे गृणाति गुण्डिव: “ प्रवाहा-" ॥ ( उणा-५१४ ) ॥ इति वे निपात्यते ॥ १ ॥ लुम्पति लोपाकः " मवाक-" ॥ ( उणा-३७ ) ॥ इति निपातनादाकः ॥ २॥
Page #520
--------------------------------------------------------------------------
________________
· अभिधानचिन्तामणौकोकस्त्वीहामृगो वृकः ।
अरण्यश्वा कोकतेऽजादिकमादत्ते कोकः ॥ १ ॥ ईहया मृग्यते ईहामृगः, ईहा मृगस्येवास्य वा ॥२॥ 'कुकि वाक आदाने' वर्कतेऽजादिकमादत्ते वृकः, वृणोतीति वा "विचि. पुषि-" ॥ उणा-२२ । ॥ इति कित कः ॥ ३ ॥ अरण्यस्य श्वा अरण्यश्वा ॥४॥
मर्कटस्तु कपिः कीशः प्लवङ्गमः ॥ ३५७ । प्लवङ्गः प्लवगः शाखामृगो हरिबलीमुखः ।
वनौका वानरः 'मार्केः सौत्रः' मर्कति मर्कटः “ दिव्यवि-"॥ ( उणा-१४२ ) ॥ इत्यटः ॥१॥ कम्पते चलति कपिः “ अम्भिकुण्ठि-"। ( उणा-६१४ ) ॥ इति इनलोपश्च ॥ २ ॥ चिकेति जानाति कीशः “ तिनिश-" ॥ ( उणा-५३७) ॥ इति इशे निपात्यते, कीति शब्दमीष्टे वा ॥ ३ ॥ प्लवेन गच्छति प्लवङ्गमः, प्लवङ्गः, प्लवंगः " नाम्नो गमः खड्डौ च-" ॥५।१।१३१ ॥ इति साधवः ॥४॥५॥ ६ ॥ प्रवङ्गोऽपि ॥ ३५७ ।। शाखासंचारी मृगः शाखामृगः ॥ ७ ॥ हरति हरिः ॥ ८ ॥ बल्यस्त्वक्सकोचा मुखेऽस्य बलीमुखः ॥ ९ ॥ बने ओकोऽस्य वनौकाः ॥ १०॥ वनति वनं वानरः “ जठर-" ॥ ( उणा-४०३ ) ॥ इत्यरे निपात्यते, वने रमते वनरस्तस्यायमिति वा, पक्षे नरो वा ॥ ११ ॥
अथासौ गोलाङ्गलोऽसिताननः ॥ ३५८ ।। असौ वानरः कृष्णमुखः, गोरिव लम्ब लागॅलमस्य गोलाङ्गेलः, गां लक्कृति उल्लङ्घते वा ॥ १ ॥ ३५८ ॥
मृगः कुरङ्गः सारङ्गो वातायु-हरिणावपि । मृग्यते व्याधैर्मृगः ॥ १॥ कुरति मार्यमाणः कुरङ्गः "विडिविलि-" ।। (उणा-१०१) ॥ इति किदङ्गः, को रगतीति वा ॥ २॥ सरति सारङ्गः "सृवृनभ्यो णित्" ॥ ( उणा-९९ ) ॥ इत्यङ्गः, सारं गच्छतीति वा ॥ ३ ॥ वातमेति पातायुः "कृवापाजि." ॥ (उमा-१) ॥ इत्युण् । 'वातं शुष्कमयते वातायुः' इत्यन्ये ॥ ४ ॥ ह्रियते गीतेन हरिणः “द्रुहृवृहि-" ॥ ( उणा-१९४ ) ॥ इतीणः ॥ ५ ॥ शेषश्चात्र
मृगे त्वजिनयोनिः स्यात् ॥ मृगभेदा रुरु-न्यङ्कु-रङ्कु-गोकर्ण-शवराः ॥ ३५९ ॥
Page #521
--------------------------------------------------------------------------
________________
. ४ भूमिकाण्डः ।
५२१ चमूरु-चीन-चमराः समूरै-ण-इर्य-रौहिषाः ।
कदली कन्दली कृष्णशारः पृषत-रोहितौ ॥ ३६० ॥ मृगाणां भेदा विशेषाः, रोति रुरुः महान् कृष्णसारः “रुपूभ्यां कित्" ॥ ( उणा८०७ ) ॥ इति रुः ॥ १ ॥ न्यञ्चति न्यथैः त्रिकेण विपुलोन्नतः शम्बराकृतिः "नेरचः" ॥ ( उणा-७२४ ) ॥ इत्युः, न्यङ्कवादित्वात् कत्वम् ॥ २ ॥ रमते रकुः "कैशीशमि-"॥ ( उणा-७४९ ) ॥ इति कुः ॥ ३ ॥ गोरिव कर्णोऽस्य गोकर्णः ॥ ४ ॥ शं वृणोति शंवरः अल्पो हरिणः ॥ ५ ॥ ३५९ ॥ चमति चमूरः महाग्रीवो धवलकेसरवालधिः “चमेरूरुः" ॥ (उणा - ८ १९) ॥ ६ ॥ चीयते चीनः शितकोड: ॥ ७ ॥ चमति चमरो गाविशेषः "ऋछिचटि-" ॥ (उणा-३९७ ) ॥ इत्यरः ॥८॥ समूयते समूरः "खुरक्षुर-" ॥ ( उणा-३९६ । ॥ इति निपात्यते ॥ ९ ॥ एत्येणः "इणुर्विश-" ॥ ( उणा-१८२) ॥ इति णः ॥ १० ॥ ऋश गतौ स्तुतौ वा' स्वरादिस्तालव्यान्तश्च, ऋश्यते ऋश्यः हरिणः प्रायो मृदुशृङ्गः “ऋशिजनिः" ॥ ( उणा३६१) ॥ इति किद् यः ॥ ११ ॥ रोहति रोहिषः, रोहति श्वेतराजीयुक्त; "रुहेवद्धिश्च ॥ ( उणा-५४८ ) ॥ इतीषः ॥ १२॥ कद्यते कदली "मृदिकन्दि-" || ( उणा-४६५) ॥ इत्यलः, स्त्रियामयम्, यदाह
"कदली तु बिले शेते मृदुभव कर्बुरैः।
नीला रोमभिर्युक्ता सा विंशत्यमुलायता ॥ १॥" ॥ १३ ॥ कन्दान् लाति कन्दली श्यामवर्णा हस्तायामा महोदरी, त्रिलिङ्गोऽयम् । अमरस्त्वेतो मत्वर्थीयेनन्तावाह ॥ १४ ॥ कृष्णेन वर्णेन शारः शबल: कृष्णशार: ॥ १५ ॥ पृषता विन्दवः सन्त्यस्य पृषतः बिन्दुमान् ॥ १६ ॥ रोहितो रोहितवर्णः ।। १७ ॥ ३६० ॥
दक्षिणा तु स मृगो यो व्याधैर्दक्षिणे क्षतः । दक्षिणमङ्गमीम कृतव्रणमस्य दक्षिणा व्याधैर्दक्षिणभागे कृतवणः "दक्षिणेर्मा न्यायोगे' ॥ ७१.३ । १४३ ।। इत्यन् समासान्तः ॥ १ ॥
वातप्रमीर्वातमृगः वातं प्रमिमीते वाताभिमुखधावनाद् वातप्रमीः “वातात् प्रमः कित्" ॥ (उणा-७१३) ॥ इति ईः ।। १ । वाताभिमुखो मृगो वातमृगः ॥ २ ॥
शशस्तु मृदुलोमकः ॥ ३६१ ॥ शूलिको लोमकर्णः
Page #522
--------------------------------------------------------------------------
________________
५२२
अभिधानचिन्तामणौ___ शशति प्लवते शशः ॥ १ ॥ मृदूनि लोमान्यस्य मृदुलोमकः ॥ २ ॥ ३६१ ॥ . शूलमस्त्यस्य शूलिकः ॥ ३ ॥ लोमाकीर्णो कर्णावस्य लोमकर्णः ॥ ४ ॥
अथ शल्ये शलल-शल्यको।
श्वाविच शलति चलति शल्यः "स्थाछामा-" ॥ । उणा-३५७ ) ॥ इति यः ॥१॥ "मृदिकन्दि-' ॥ ( उणा- ४६५) ।। इत्यले शललः ॥ २ ॥ शल्यानि किरति शल्यकः पुंक्लीबलिङ्गः "क्वचित्" ।। ५।१।१७१॥ इति डः ॥ ३ ॥ श्वानं विध्यति श्वावित् “ घजुपसर्गस्य-" ॥ ३।२।८६ ।। इति दीर्घः ॥४॥ ___ तच्छलाकायां शललं शलमित्यपि ॥ ३६२ ॥
तस्य श्वाविधो रोमशलाकायां शलति शललं त्रिीलङ्गः ॥ १ ॥ आचि शलम् ॥ २ ॥ ३६२ ॥.
गोधा निहाका गुध्यति गोधा ॥१॥ नितरां जहाति निहाका “ भीण्शलि-" ॥ ( उपा-२१) इति कः । एतौ पुंध्वजेऽपि स्त्रीलिङ्गौ ॥ २ ॥
गौधेर-गौधारौ दुष्टतत्सुते। ___ गोधाया दुष्टमपत्यं गौधेरः, गौधारः "गोधाया दुष्टे णारश्च " ॥ ६॥1॥८१॥ इति एरण् णारश्च प्रत्ययौ ॥१॥२॥
गौधेयोऽन्यत्र दुष्टादन्यत्र शुभ्रादित्वादेयणेव ॥ १ ॥
मुसली गोधिका-गोलिके गृहात् ॥ ३६३ ॥
माणिक्या भित्तिका पल्ली कुड्यमत्स्यो गृहोलिका । मुस्यति भित्तिर्मुसली ॥१॥ गृहशब्दात् परे गोधिका गोलिका च गृहं गुध्यति गृहगोधिका, गृहस्य गोधव वा ॥२॥ गृहं गुडति गृहगोलिका ॥३॥३६३॥ माणिक्यमस्त्यस्या माणिक्या, शिरोमणियुतत्वात् ॥ ४ ॥ भित्तो कायति शब्दायते भित्तिका ॥५॥ पल्लति गच्छति पल्ली ॥६॥ कुड्ये मत्स्य इव कुड्य मत्स्यः ॥ ७॥ गृणाति क्षुइजन्तून् गृहोली “ ग्रह्याद्भ्यः कित्" ॥ ( उणा-४९४ ) ॥ इत्योल: के गृहा लेका ॥ ८॥
स्यादञ्जनाधिका हालिन्यञ्जनिका हलाहलः ।। ३६४ ॥ __ अञ्जनेनाऽधिका अञ्जनाधिका ॥ १ ॥ हलत्यवश्यं हालिनी ॥ २ ॥ अञ्जयत्यञ्जन। केऽजनिका ॥ ३ ॥ हलति न हलति च हलाहलः ॥ ४ ॥ ॥ ३६४ ॥
Page #523
--------------------------------------------------------------------------
________________
. ४ भूमिकाण्डः ।
५२३ स्थूलाऽञ्जनाधिकायां तु ब्राह्मणी रक्तपुच्छिका । स्थूला या भजनाऽधिका तस्यां बृंहति ब्राह्मणी ॥ १ ॥ रक्तं पुच्छमस्या रक्तपुच्छिका ॥ २ ॥
कृकलासस्तु सरटः प्रतिसूर्यः शयानकः ॥ ३६५ ॥ कृतं शिरोग्रीवं लासयति कृकलासः ॥ १॥ सरति सरट: "दिव्यवि-" ॥ ( उणा-१४२ ) ॥ इत्यटः ॥ २ ॥ सूर्यस्य प्रतीपः प्रतिसूर्यः ॥ ३ ॥ शेते आदित्याभिमुखं शयानक: "शीभीराजेश्चानक: " ॥ ( उणा-७१) ॥ 'प्रतिसूर्य शेते प्रतिसूर्यशयानक इत्येकनाम' इत्यन्यः ॥ ४ ॥ ३६५ ॥
मूषिको मूषको वज्रदशनः खनको-न्दुरौ ।
उन्दुरुष आखुश्च सूच्यास्यो वृषलोचने ॥ ३६६ ॥ मुष्णाति गृहं मूषिकः पुंक्लीबलिङ्गः “ मुर्दीर्घश्च" ॥ ( उणा-४३ )॥ इतीकः ॥ १॥ मूषति मूषकः ॥ २॥ वज्रवद् दशना अस्य वज्रदशनः ॥ ३ ॥ खनति खनकः " नृत्खनरञ्जः.." ॥ ५। १।६५ ॥ इत्यकट् ॥ ४ ॥ उनत्ति उन्दुरः " वाश्यनि-" ॥ ( उणा-४२३ ) ॥ इत्युरः ॥ ५ ॥ “ शिगेरु-" ॥ ( उणा८११) ॥ इति निपातनादुन्दुरुः । उन्दरोऽपि ॥ ६ ॥ वर्षति वृषः ॥ ७ ॥ आखनत्याखुः पुंस्त्रीलिङ्गः " पराभ्यां शृखनिभ्याम्-'' ॥ (उणा-७४२) इति डिदुः ॥८॥ सूच्याकारमास्यमस्य सूच्यास्यः ॥ ९॥ वृषस्येव लोचने अस्य वृषलोचनः, तत्र ॥१०॥३६६॥
छुछुन्दरी गन्धमुष्यां छुछु इाते शब्देन उपलक्षिता उन्दरी छुछुन्दरी, पृषोदरादित्वात् ॥ ५ ॥ गन्धप्रधाना मूषी गन्धमुषी तत्र ॥ २ ॥
गिरिका बालमूषिका। गिरति गिरिका “ कुशिक-" ॥ ( उणा-४५) ॥ इतीके साधु: ॥ १ ॥ 'खटाखुर्बालमूषिका' इति दुर्ग: ॥ २ ॥
बिडाल ओतुर्मार्जारो ह्रीकश्च वृषदंशकः ॥ ३६७ ॥ बिडयते आक्रुश्यते बिडालः “ कलिापलि-" ॥ ( उणा-४७६ ) ॥ इति . किदालः, बिलं दारयति वा, विशन्नालाल्याखूनिति वा, पृषोदरादित्वात् , बिलान्यलति पर्याप्नोंतीति वा, विरुद्धं लाल्यते वा, विट् आलमस्य, अशुचित्वादिति वा ॥१॥ अव.
Page #524
--------------------------------------------------------------------------
________________
५२४
अभिधानचिन्तामणौ- ...
त्याखुभ्य ओतुः " कृसिकमि-" ( उणा-७७३) ॥ इति तुन् “मव्यवि-" ॥४।१।१०९॥ इत्यूटादेशे गुणः ॥ २ ॥ आखुभ्यो गृहं मार्टि माजीर: “अग्यङ्गि-॥ ( उणा-४०५ ) ॥ इत्यारः ॥ ३ ॥ जिहतीव आखुववसंकोचेन ह्रीकुः " ह्रियः कित्" ॥ (उणा-७५०) । इति कुः, 'हीकुर्बनमार्जारः' इत्यन्ये ॥४॥ वृषानाखून् दशति वृषदंशकः ॥ ५॥ ३६७॥
जाहको गात्रसंकोची मण्डली जहाति सादिभयं जाहकः "कीचक-" ( उणा-३३) इत्यके निपात्यते ॥.. १॥ गात्रं संकोचयति गात्रसंकोची ॥ २ ॥ मण्डलाकृतिरस्त्यस्य मण्डली ॥३॥
नकुलः पुनः। पिङ्गलः सर्पहा बभ्रुः नास्य कुलमस्ति नकुलः, नखादित्वात् , नश्यत्यस्मादहिरिति वा “ कुमुल-"। ( उणा-४८७ ) ॥ इत्युले निपात्यते ॥ १॥ पिङ्गलो वर्णेन ॥ २ ॥ सर्पान् हन्ति सर्पहा ॥ ३ ॥ बिभर्ति बभ्रुः " हनिया-" ॥ ( उणा- ७३३ ) ॥ इति किदु. र्द्वित्वं च ॥ ४ ॥
सर्पोऽहिः पवनाशनः ॥ ३६८ ॥ भोगी भुजङ्ग-भुजगावुरगो द्विजिह्वव्यालौ भुजङ्गम-सरीसृप-दीर्घजिह्वाः। . काकोदरो विषधरः फणभृत् पृदाकुईक्कर्ण-कुण्डलि-बिलेशय-दन्दशूकाः ॥ ३६९ ॥ दर्वीकरः कञ्चुकि-चक्रि-गूढपात्-पन्नगा जिह्मग-लेलिहानौ।
कुम्भीनसा-ऽऽशीविष-दीर्घपृष्टाः सर्पति सर्पः, सरतीति वा " भापाचणि-" ( उणा--२९६ ) ॥ इति प. ॥ १ ॥ अंहते अहिः पुंस्त्रीलिङ्ग: * अम्भिकुण्ठि -” ॥ ( उणा-६१४ ) ॥ इति इन लोपश्च ॥ २ ॥ पवनमश्नाति पवनाशनः ॥ ३ ॥ ३६८ ॥ भोगः सर्पदेहः फण :, कुटिला गतिर्वा, असोऽस्त्यस्य भोगी ॥ ४ ॥ भुजेन कौटिल्येन, भुज इव वा गच्छति भुजङ्गः, भुजगः, भुजङ्गमः " नान्नो गमः खड्डौ च-" ॥५१ । १३१॥ इति साधवः ॥५॥६॥७॥ उरसा गच्छत्युरगः, पृषोदरादित्वात् सलोपः ॥८॥ द्वे जिवे अत्य द्विजिवः ॥९॥ विविधमालमनर्थोऽस्माद् व्यालः, हन्तुमुद्य मोऽस्यास्तीति वा ॥१०॥
Page #525
--------------------------------------------------------------------------
________________
४ भूमिकाण्डः ।
५२५
सर्पति सरीसृपः जजलतितलका कोली सरीसृपादय: " । ( उणा - १८ ) ॥ इति साधुः, सरीसृप्यत इति वा ॥ ११ ॥ दीर्घा जिह्वाऽस्य दीर्घजिह्वः ॥ १२ ॥ काकस्येवोदरमस्य काकोदरः, काकोलं विषमुदरेऽस्येति वा ॥ १३ ॥ विषं धरति विषधरः ॥ १४ ॥ फणं बिभर्त्ति फणभृत् || १५ || प्रियते व्यागच्छति पृदाकुः “ सृपृभ्यां दाकुकू ” ॥ ( उणा - ७५६ ) ॥ १६ ॥ दृशावेव कर्णावस्य दृक्कर्ण: । अत एव गोकर्ण: ॥ १७ ॥ कुण्डलाकारताऽस्त्यस्य कुण्डली ॥ १८ ॥ बिले शेते बिलेशयः “ शयवासिवासे - " ॥ ३ । २ । २५ ॥ इति सप्तम्या अलुप् ॥ १९ ॥ गर्हितं दशतीत्येवंशीलो दन्दशूकः, दंशेर्यङन्ताद् " यजिजपिदंशि - " ॥ ५ । १ । ४७॥ इत्यूकः ॥ २० ॥ ३६९ ॥ दव फण एव करो हस्तोऽस्य प्रहारादौ दवकरः ॥ २१ ॥ कञ्चुकोऽस्त्यस्य कञ्चुकी ॥ २२ ॥ चक्रं मण्डलमस्त्यस्य चक्री ॥ २३ ॥ गूढ : पादा अस्य गूढपात्, पादसमानार्थः पाच्छब्दोऽस्ति ॥ २४ ॥ पद्भ्यां न गच्छति पन्नगः, नखादित्वात्, पन्नं गच्छतीति वा ॥ २५ ॥ जिमं वक्रं गच्छति जिह्नगः ॥ २६ ॥ भृशं लेढीत्येवंशीलो लेलिहानः, लिहेर्यङ्लुबन्ताद् “ वयःशक्तिशीले ॥ ५ । २ । २४ ॥ इति शानः ॥ २७ ॥ कुम्भीव नासिकाऽस्य कुम्भीनस: " अस्थूल|च्च–” ॥ ७ । ३ । १६१ ॥ इति नसादेश: ॥ २८ ॥ आशीस्तालुगता दंष्ट्रा तस्थां विषमस्य आशीविषः, पृषोदरादित्वाद् रलोपः, आश्वस्य विषमस्तीति वा ॥२९॥ दीर्घ पृष्ठमस्य दीर्घपृष्ठः ॥ ३० ॥
·
स्याद् राजसर्पस्तु भुजङ्गभोजी ॥ ३७० ॥
सर्पाणां राजा राजसर्पः ॥ १ ॥ भुजङ्गान् भुङ्क्ते भुजङ्गभोजी ॥ २ ॥ ३७० ॥
शेषश्चात्र
अथ भुजगभोजिनि ।
अहरणी द्विमुखश्च ||
चकमण्डल्य जगरः पारीन्द्रो वाहसः शयः ।
""
चक्राकारं मण्डलमस्त्यस्य चक्र मण्डली ॥ १ ॥ अजंति क्षिपत्यजंगरः " जठर-" ( उणा - ४०३ ) ॥ इत्यरे निपात्यते, अजं गिरतीति वा, अजो नित्यो गरोऽस्येति वा ॥ २ ॥ पारिणि इन्द्रः पारीन्द्रः || ३ || वहति वाहस: "वहियुभ्यां वा ( उणा - ५७१ ) ॥ इति णिदसः, वाहं गतिं स्यतीति वा ॥ ४ ॥ तेऽत्यर्थ शयुः, “भृमृतॄ-” ॥ ( उणा - ७१६ ) ॥ इत्युः ॥ ५ ॥
अलगर्दो जलव्यालः ६७
"
11
Page #526
--------------------------------------------------------------------------
________________
५२६
अभिधानचिन्तामणी- ... न लगन्नर्दयति निर्विषत्वादलगर्दः । 'अलीव गर्दत्यलीगर्दः' इत्यन्ये ॥१॥ जलस्य व्यालो जलव्यालः ॥ २ ॥
समौ राजिल-दुन्दुभौ ॥ ३७१ ॥ राजीदेहे लाति राजिलः ॥ १ ॥ दाम्यति दुन्दुभः " दमो दुण्ड् च ॥ ( उणा-३३५ ) ॥ इत्युभः । 'दुन्दु भाषते दुन्दुभः' इत्येके ॥ २ ॥ ३७१ ॥
भवेत् तिलित्सो गोनासो गोनसो घोणसोऽपि च । । तिलति स्निह्यति तिलित्सः “फनस-" ॥ ( उणा-५७३ ) ॥ इति निपात्यते, तिलतः स्यतीति वा, पृषोदरादित्वात् ॥ १ ॥ गोरिव नासोऽस्य गोनासः, गोरिव नासिकाऽस्य गोनसः, "अस्थूलाच नसः” ॥ ७।३। १६१ ॥ इति नसादेशः ॥२॥ ३ ॥ पृषोदरादित्वाद् घत्वे घोणसः, घोणतेऽनेन द्विष्टो वा "फनसतामरस." ॥ ( उणा-५७३ ) ॥ इति साधुः ॥ ४ ॥
कुक्कुटाहिः कुक्कुटाभो वर्णेन च वेन च ॥ ३७२ ।। कुक्कुटावयवयोगात् कुक्कुटः, अह्यवयवयोगादहिः, कुक्कुटश्चासावहिश्च कुक्कुटाहिः ॥१॥ ३७२॥
नागाः पुनः कावेयाः न न गच्छन्ति नागाः ॥१॥ कद्वा अपत्यानि काद्रवेयाः, शुभ्रादित्वादेयण् । सपेंभ्योऽन्ये देवयोनयोऽमी ॥ २॥
तेषां भोगावती पुरी। तेषां नागानां पुरी, भोगाः सन्यस्यां भोगावती "अनजिरादि-" ॥३२१७८॥ इति मतो दीर्घत्वम् ॥ १ ॥
शेषो नागाधिपोऽनन्तो द्विसहस्राक्ष आलुकः ॥ ३७३ ॥ श्लिष्यति अस्मिन् धात्रीति शेषः " श्लिषेः शे च " ॥ ( उणा-५४३ ) । इति षः, शिष्यत इति वा । 'शेतेऽस्मिन् हरिः' इत्यन्ये ।। १॥ नागानामधिपो नागाधिपः ॥ २ ॥ नास्त्यन्तोऽस्य अनन्तः ॥ ३ ॥ द्वे सहस्रे अक्ष्णामस्य द्विसहस्राक्षः ॥ ४ ॥ अलति पातालमालुक: " कञ्चुक-" ॥ ( उणा-५७ ) ॥ इत्युके निपात्यते । एक- . कुण्डलोऽपि ॥ ५ ॥ ३७३ ॥
तद्वर्णविशेषमाह. स च श्यामोऽथवा शुक्लः सितपङ्कजलाञ्छनः । स शेषनागः ॥ १ ॥
Page #527
--------------------------------------------------------------------------
________________
४ भूमिकाण्डः ।
५२७ वासुकिस्तु सर्पराजः श्वेतो नीलसरोजवान् ॥ ३७४ ॥ वसुकस्यापत्यं वासुकिः, सर्पाणां राजा सर्पराजः, श्वेतवर्णो नीलोत्पललाञ्छनवायम् ॥ १ ॥ ३७४ ॥
तक्षकस्तु लोहिताङ्गः स्वस्तिकाङ्कितमस्तकः । तक्ष्णोति रिपून तक्षकः ॥ १॥
महापद्मस्त्वतिशुक्लो दशबिन्दुकमस्तकः ॥ ३७५ ।। महान्ति पद्मान्यस्य महापद्मः ॥ १॥ ३७५ ॥
शङ्खस्तु पीतो बिभ्राणो रेखामिन्दुसितां गले । शाम्यति शङ्खः ॥ १॥
कुलिकोऽर्धचन्द्रमौलिालाधूमसमप्रभः ॥ ३७६ ॥ प्रशस्यं कुलमस्त्यस्य कुलिकः ॥ १॥ ३७६ ॥
अथ कम्बला-ऽश्वतर-धृतराष्ट्र-बलाहकाः । कामयते कम्बलः ॥ १ ॥ अश्ववत् तरति अश्वतरः ॥ २ ॥ धृतं राष्ट्रमनेन धृतराष्ट्रः ॥ ३ ॥ बलते बलाहकः ॥ ४ ॥ एवंनामानश्चत्वारो नागाः ॥
इत्यादयोऽपरे नागास्तत्तत्कुलसमुद्भवाः ॥ ३७७ ॥ आदिग्रहणाद् महानीलादयः; यदाह"महानीलः कुरहश्च पुष्पदन्तश्च दुमुखः । कपिलो वामनः शङ्कुरोमा च करवीरकः ॥१॥ एलापत्रः शुक्तिकर्ण-हस्तिभद्र-धनञ्जयाः । दधिमुख: समानासोत्तंसको दधिपूरणः ॥ २ ॥ हारिद्रको दधिकों मणिः शृङ्गारपिण्डकः । कालियः शङ्खकूटश्च चित्रकः शङ्ख चूडकः ॥ ३ ॥
इत्यादयोऽपरे नागास्तत्तत्कुलप्रसूतयः ॥" इति ॥ १ ॥ ३७७ ।। निर्मुक्तो मुक्तनिर्मोकः निर्मुच्यते स्म निर्मुक्तः ॥१॥ मुक्तो निर्मोकोऽनेन मुक्तनिर्मोकः ॥२॥ उपसंहारमाह
सविषा निर्विषाश्च ते । ते सर्पा: सविषा नागादयः, निर्विषा अजगरादयः ॥ १॥
नागाः स्युईविषाः
Page #528
--------------------------------------------------------------------------
________________
५२८
अभिधानचिन्तामणी
दृशि विषमेषां हविषाः ॥ १॥ प्रसङ्घादन्येषामपि सविषत्वं ज्ञापयन्नाह
लूमविषास्तु वृश्चिकादयः ॥ ३७८ ॥ व्याघ्रादयो लोमविषा नखविषा नरादयः । लालाविषास्तु लूताद्याः कालान्तरविषाः पुनः ॥ ३७९ ।।
सूषिकाद्याः स्पष्टम् ॥ ३७८ ॥ ३७९॥
दूषविषं त्ववीर्यमौषधादिभिः । दूष्यत दूषी, दूषीलक्षणं विषं दूषीविषम् , औषधमन्त्रप्रयोगैर्निीयाँकृतम् ॥१॥
कृत्रिमं तु विषं चारं गरश्चोपविषं च तत् ॥ ३.८० ॥ कृत्रिममौषधादियोयजनितं विषं चार्यते चारम् ॥ १ ॥ गिरति जीवं गरम ॥ २ ॥ उपगतं विषेण उपविषम् ॥ ३ ॥ ३८०॥
भोगोऽहिकायः भुजति कुटिलीभवत्यनेनास्मिन् वा भोगः ॥ १॥
दंष्ट्राशीः - अहेर्दष्ट्रा, आशस्यते हिंस्यतेऽनया आशी:, यदाह-"आशीस्तालगता दंष्ट्रा यया विद्धो न जीवति" । "क्रुत्संपदादि-* ॥ ५। ३ । ११४ ॥ इति विप् " को " ॥ ४ ॥ ४ | ११९ ॥ इतीसादेशः । ' ईकारान्तोऽयम् ' इत्यन्ये ॥ १॥
दर्वी भोगः फटः स्फटः ।
फणः दृणात्यनया दर्विः " दृपक्भ्यो विः * ॥ ( उणा-७०४ ) ॥ ड्यां दीं ॥१॥ भुजति भुङ्क्ते वाऽनेन भोगः ॥ २ ॥ स्फायते फट: " घटाघाटा-" ( उणा१४१.) ॥ इति दे निपात्यते ॥ ३ ॥ स्फटति विशीर्यतेऽनेन स्फटः, स्थादित्वात् कः ॥ ४ ॥ फणति विस्तारं गच्छति फणः ॥ ५ ॥ फटादयस्त्रयः पुंस्त्रीलिङ्गाः । फणं नपुंसक सस्मरुश्चान्द्राः॥
__ अहिकोशे तु निर्बयनी-निर्मोक-कञ्चुकाः ॥ ३८१ ॥
अहेः कोश इव अहिकोशोऽहित्वक् तत्र ॥ १ ॥ नितरां लूयते निर्वयनी " विदन-"॥ ( उणा-२७५ ) ॥ इत्यने निपात्यते । 'नितरां लीयते निर्लयनी" इत्यन्ये ॥ २ ॥ निर्मुच्यते निर्मोकः ॥ ३ ॥ कञ्चुक इव कञ्चुकः, पुंक्लीबालिङ्गः कञ्च्य ते बध्यतेऽनेन वा ॥ ४ ॥ ३८१ ॥
Page #529
--------------------------------------------------------------------------
________________
४ भूमिकाण्डः ।
५२९
॥ उक्ताः स्थलचराः पञ्चेन्द्रियाः ॥
खचरानाह
विहगो विहङ्गम-खगी पतगो विहङ्गः शकुनिः शकुन्ति-शकुनौ वि-वयः-शकुन्ताः । नभसङ्गमो विकिर-पत्ररथौ विहायो द्विज-पक्षि-विष्किर-पतत्रि-पतत्-पतङ्गाः ॥ ३८२ ॥
पित्सन् नीडा-ऽण्डजोऽगौकाः विहायसा गच्छति विहगः, विहङ्गमः, विहङ्गः, “ नानो गमः खड्डौ च विहायसस्तु विहः " ॥५।१।१३१ ॥ इति साधवः ॥ १॥२॥ ३ ॥ खे गच्छति खगः ॥ ४ ॥ पतत्यनेन पतः पक्षः स्थादित्वात् कः, पतैर्गच्छति पतगः ॥ ५ ॥ शक्नोति शकुनिः “ शकेरुनिः" ॥ ( उणा-६८४) ॥ ६ ॥ "शकेरुन्तिः " ॥ (उणा-६६६) इति शकुन्तिः ॥७॥ “यम्यजि-"॥ (उणा-२८८)॥ इत्युने शकुन: ॥ ८॥ वेति गच्छति विः " नीवीप्रहृभ्यो डित् " ॥ ( उणा-६१६) ॥ इति इ. ॥९॥ वयते वयः “ अस् " ॥ ( उणा-९५२)॥ इत्यस् ॥ १० ॥ शक्नोति शकुन्तः " शकेरुन्तः " ॥ ( उणा-२२३ ) ॥ ११ ॥ नभःपर्यायोऽकारान्तो नभसशब्दः, नभसं गच्छति नभसङ्गमः ॥ १२ ॥ विकिरति भक्ष्यं विकिरः “नाम्युपान्त्य-" ॥५। १।५४ ॥ इति कः ॥ १३ ॥ पत्राणि पक्षा रथोऽस्य पत्ररथः ॥ १४ ॥ विजिहीते विहाय: “ विहायस्सुमनस्-" ॥ ( उणा-९७६ ) ॥ इत्यसि निपात्यते ॥ १५ ॥ द्वाभ्यां मातृगर्भाण्डाभ्यां जातो द्विजः ॥ १६ ॥ पक्षाः सन्त्यस्य पक्षी ॥ १७ ॥ विकिरति विकिरः " वो विकिरो वा " ॥ ४ ॥ ४९६ ॥ इति स्सडागमः ॥ १८ ॥ पतति पतत्री " पतेरत्रिन् ” ॥ ( उणा-९३०) ॥ पतत्राणि सन्त्यस्य वा, पतति पतत्रिरितीकारान्तो वा * पतेरत्रिः " ॥ ( उणा-६९७ ) ॥ इत्यत्रिः ॥ १९ ॥ पतति पतन् ॥ २० ॥ “ पतितमि-" ॥ ( उणा-९८)॥ इत्यने पतङ्गः, पतैर्गच्छतीति वा ॥ २१ ॥ ३८२ ॥ पतितुमिच्छति पित्सन् "रंभलभशकपत-" ॥ ४।१ । २१ ॥ इति सनि इत्वं द्वित्वाभावश्च ॥ २२ ॥ नीडादण्डाछ जातो नीडजः ॥ २३ ॥ अण्डजः ॥ २४ ॥ अगो वृक्ष ओकोऽस्यागौका: ॥ २५ ॥ शेषश्चात्र
भवेत् पक्षिणि चञ्चुमान् ॥ कण्ठामिः कीकसमुखो लोमकी रसनारदः ।
Page #530
--------------------------------------------------------------------------
________________
५३०
अभिधानचिन्तामणीवारङ्गि-नाडीचरणौ ॥ चञ्चुश्चञ्चूः सृपाटिका ।
त्रोटिश्च चञ्चत्यनया चञ्चुः " भृमृत-" ॥ (उणा-७१६ ) ॥ इत्युः ॥ १ ॥ “ कृषिचमि-" ॥ ( उणा-८२९ ) ॥ इति बहुवचनादूप्रत्यये चञ्चूः ॥ २॥ सर्पति चलति सपाटी " सृस्पे: कित् " ॥ ( उणा-१४६ ) ॥ के सूपाटिका ॥ ३ ॥ त्रोटयति नोटिः ॥ ४ ॥ एते स्त्रीलिङ्गाः॥
पत्त्रं पतत्त्रं पिच्छं वाजस्तनूरुहम् ॥ ३८३ ॥ ..
पक्षो गरुच्छदश्चापि पतन्त्यनेन पत्त्रं " नीदाम्ब्-" ॥५।२।८८॥ इति त्रट् ॥ १॥" वृगनक्षि-" ॥ ( उणा-४५६ ) ॥ इत्यत्रे पतत्त्रम्, पतन्तं त्रायते वा ॥ २॥ पीयते पिच्छं “पीपूडो ह्रस्वश्च" ॥ (उणा-१२५) ॥ इति छक् । पिच्छमपि ॥ ३ ॥ वजत्यनेन वाजः ॥ ४ ॥ तन्वां रोहति तनूरुहं पुंक्तीबलिङ्गः ॥ ५ ॥ ३८३ ॥ पच्यते कालेन पक्षः " मावावदि-" ॥ ( उणा-५६४ ) ॥ इति सः ॥ ६ ॥ गिरति खं गरुत् "प्रो मादिर्वा" ॥ ( उणा-८९० ) इत्युत् ॥ ७ ॥ छाद्यतेऽनेन छदः ॥८॥ पुंक्लीबलिङ्गावेतौ॥
पक्षमूलं तु पक्षतिः । पक्षस्य मूलं पक्षतिः स्त्रीलिङ्गः " पक्षात् तिः " ॥ ७॥ १। ८९ ॥ १ ॥
प्रडीनो-ड्डीन-सण्डीन-डयनानि नभोगतौ ॥ ३८४ ॥ प्रडयनं प्रडीनं " क्लीबे क्तः " ॥ ५ । ३ । १२३ ॥ " सूयत्यादि-" ॥ ४ ॥ २॥ ७० ॥ इति क्तस्य नत्वम् ॥१॥ एवमुड्डीनम् ॥२॥ सण्डीयते सण्डीनम् ॥३॥ डीयते डयनम् ॥ ४ ॥ नभसि गमनं नभोगतिस्तस्याम् ॥ ५ ॥ ३८४ ॥
पेशीकोशोऽण्डे पेशीनां मांसखण्डानां कोशः ॥ १ ॥ अमति निःसरत्यस्मादण्डं पुंक्लोबलिङ्गः "पश्च माद्-" ॥ ( उणा-१६८ ) ॥ इति डः तत्र। तिस्रः संज्ञा इति गौडः ॥ २ ॥
कुलायो नीडे कोलन्त्यत्र कुलाय: "कुलिलुलि-" ॥ ( उणा-३७२ ) ॥ इति कायः, कुलमेति वा ॥ १ ॥ नीयते नीडः, त्रिलिङ्गः "कुगुहुनी-" ॥ ( उणा-१७० ) ।। इति कित् डस्तत्र ॥ २ ॥
Page #531
--------------------------------------------------------------------------
________________
४ भूमिकाण्डः ।
५३१ केकी-तु सर्पभुक् । मयूर-बर्हिणौ नीलकण्ठो मेघसुहृच्छिखी ॥ ३८५ ॥
शुक्लापाङ्गः केकाऽस्त्यस्य केकी, शिखादित्वादिन् ॥ १ ॥ सान् भुङ्क्ते सर्पभुक् ॥ २॥ मीनात्यहीन् मयूरः "मीमास-" ॥ ( उणा-४२७ ) ॥ इत्यूरः, मह्यां रौतीति वा, पृषोदरादित्वात् ॥ ३ ॥ बाँणि सन्त्यस्य बर्हिणः " फलबर्हाद्-" ॥७॥ २ ॥ १३॥ इतीनः, बहतीति वा "द्रुहृवृहि-" ॥ ( उणा-१९४ ) ॥ इतीण: । शिखादित्वादिनि बहाँति वा ॥४॥ नीलः कण्ठोऽस्य नीलकण्ठः ॥५॥ मेघस्य सुहृत्, मेघः सुहृदस्येति चा मेघसुहृत् ॥ ६ ॥ शिखाऽस्त्यस्य शिखी, यौगिकत्वात् शिखाबलः ॥ ७ ॥ ३८५ ॥ शुक्लावपाङ्गावस्य शुक्लापाङ्गः ॥ ८॥ शेषश्चात्र
मयूरे चित्रपिङ्गलः ॥ नृत्यप्रियः स्थिरमदः खिलखिल्लो गरव्रतः । । मार्जारकण्ठो मरुको मेघनादानुलासकः ॥ मयूको बहुलग्रीवः नगावासश्च चन्द्रकी ॥
अस्य वाक् केका अस्य मयूरस्य वाणी कायत्यनया केका " निष्कतुरुष्क-" ॥ ( उणा-२६) इति के निपात्यते, के मूर्ध्नि कायतीति वा ॥ १॥
पिच्छं बह शिखण्डकः।
प्रचलाकः कलापश्च अस्य मयूरस्य पिच्छम् ॥१॥ बर्हते नृत्येनो भवति बहम्, पुंक्लीबलिङ्गः ॥२॥ शिखाभिर्डयते शिखण्डः " क्वचित् " ॥ ५। १। १७१ ।। इति डे पृषोदरादित्वात् साधुः ॥ ३ ॥ प्रचलति प्रचलाकः " मवाक-" ।। ( उणा-३७ ) ॥ इति निपातनादाकः, प्रचलमकत्यनेन वा || ४ ॥ कल्पते कलापः, कलां पातीति वा ॥ ५ ॥
मेचकश्चंन्द्रकः समौ ॥ ३८६ ॥ मेचको मिश्रवर्णत्वात; यत् कात्यः- 'बर्हिकण्ठसमं वर्ण मेचकं ब्रुवते बुधाः' इति ॥१॥ चन्द्रप्रतिकृतिश्चन्द्रकः ॥ २॥ ३८६ ॥
वनप्रियः परभृतस्ताम्राक्षः कोकिलः पिकः । __ कलकण्ठः काकपुष्टः
Page #532
--------------------------------------------------------------------------
________________
५३२
अभिधानचिन्तामणौ- .. वनं प्रियमस्य वनप्रियः ॥ १ ॥ परेण अन्येन भ्रियते पुष्यते परभृतः, काकी. . पुष्टत्वात् । अन्यभृत-परपुष्टावपि ॥ २ ॥ ताने अक्षिणी अस्य ताम्राक्षः ॥३॥ कोकते चित्तं गृह्णाति कोकिल: "कल्यनि-" ॥ ( उणा-४८१ ) ॥ इतीलः, स्त्रियामजादि. त्वादापि कोकिला ॥ ४ ॥ पिबति चूतरसं पिक: "पापुलि. ॥ ( उणा-४१) ॥ इति किदिकः, अपिकायति वा, पृषोदरादित्वात् ॥ ५ ॥ कलः कण्ठोऽस्य कलकण्ठः ॥६॥ काकेन पुष्यते काकपुष्टः ॥ ७ ॥ शेषश्चात्र
कोकिले तु मदोल्लापी काकजातो रतोद्वहः । मधुघोषो मधुकण्ठः सुधाकण्ठः कुहूमुखः ।। घोषयित्नुः पोषयित्नुः कामताल: कुनालिकः ॥ काकोऽरिष्टः सकृत्प्रजः ॥ ३८७॥
आत्मघोषश्चिरजीवी घूकारिः करटो द्विकः ।
एकदृग् बलिभुग् ध्वाक्षो मौकुलिवायसोऽन्यभृत् ॥३८॥ कायति काकः “भीणशलि-" ॥ (उणा-२१) ॥ इति कः, काशब्दं कायति वा, ककते लोल्यादिति वा, ईषत् कायति वा ॥ १॥ नास्ति रिष्टं मरणमस्य, अमृतभुक्तत्वादरिष्टः ॥ २॥ सकृदेकवारं प्रजायते सकृत्प्रजः, सकृत् प्रजाऽपत्यमस्य वा ॥३॥ ३८७ ॥ आत्मनः स्वनाम्नो घोषोऽस्य आत्मघोषः, काकेति वाशनात ॥ ४ ॥ चिरं जीवति चिरजीवी ॥ ५॥ घूकानामरिः घूकारिः ॥ ६॥ करोति शब्दं करट: "दिव्यवि." ॥ ( उणा-१४२ ) इत्यटः, 'क' इति रटतीति वा ॥७॥ द्वौ ककारौ नाम्न्यस्य द्विक: ॥८॥ एका दृक्, एकदृगस्य रामेण काणीकृतत्वात् ॥९॥ बलिं भुङ्क्ते बलिभुक्, वैश्वदेवभागार्हत्वात् । बलिपुष्टोऽपि ॥१०॥ ध्वाङ्क्षति काङ्क्षति ध्वाङ्क्षः ॥ ११ ॥ माति मौकुलिः "माशालिभ्यामोकुलिमली" ॥ ( उणा--७०३) ॥ इत्योकुलिः ॥ १२ ॥ वयते वायसः "सृवयिभ्यां णित्" ॥ ( उणा-५७० ) ॥ इत्यस:, वया एव वा, प्रज्ञादित्वादः ॥ १३ ॥ अन्यान् पिकान् बिभर्ति पुष्णात्यन्य. भृत् ॥ १४ ॥ ३८८ ॥
वृद्ध-द्रोण-दग्ध-कृष्ण-पर्वतेभ्यस्त्वसौ परः ।
वनाश्रयश्च काकोलः वृद्धादिभ्यः परोऽसौ काकः वृद्धकाकः ॥ १ ॥ 'द्रुणत् हिंसायाम्' द्रोणकाकः । द्रोणोऽपि ॥ २॥ दग्धकाकः ॥ ३ ॥ कृष्णकाकः ॥ ४ ॥ पर्वतकाकः ॥ ५॥ वनमाश्रयोऽस्य वनाश्रयः ॥ ६ ॥ ईषत् कोलति काकोलः ॥ ७ ॥
Page #533
--------------------------------------------------------------------------
________________
४ भूमिकाण्डः ।
५३३
मद्गुस्तु जलवायसः ।। ३८९ ।। मजति जले मद्गुः "भृमृतृ." ॥ ( उणा--७१६) ॥ इत्युः, न्यव दित्वाद् गत्वम् ॥ १ ॥ जलचारी वायसा जलवायसः ॥ २ ॥ ३८९ ॥
घूके निशाटः काकारिः कौशिको लूक-पेचकाः ।
दिवान्धः घवते शब्दायते घूकः " घुयुहि- " ॥ ( उणा-२४ ) ॥ इति को दीर्घत्वं चं, घूशब्दं करोति वा, तत्र ॥ १ ॥ निशायामटति निशाटः ॥ २ ॥ काकामामरिः काकारिः ॥३॥ कोशः प्रयोजनमस्य कौशिकः, बिलेशयत्वात् , कुशिकस्यापत्यमिति वा, की शेते इति वा, पृषोदरादित्वात् ॥ ४ ॥ अलत्युलूकः "शम्बूक" ॥ ( उणा६१) ॥ इत्यूके निपात्यते, ऊचैलॊक्यते, ऊौ कर्णावस्येति वा. पृषोदरादित्वात् ॥५॥ पचति पेचक: “कीचक-* ॥ ( उणा--३३) । इत्य के निपात्यते ॥ ६ ॥ दिवा दिवसेऽन्धो दिवान्धः ॥ ७ ॥
अथ निशावेदी कुक्कुटश्चरणायुधः ॥ ३९० ॥
कृकवाकुस्ताम्रचूडो विवृताक्षः शिखण्डिकः । निशां वेदयति ज्ञापयांत निशावेदी ॥ १ ॥ कोकते गृह्णाति क्षुद्रेजन्तून् कुक्कुटः पुंक्लोबलिङ्गः “नकुटकुक्कुट-" ॥ ( उणा--१५५ ) ॥ इत्युटे निपात्यते, कुगित्युच्चारणेन कुटतोति वा ॥ २ ॥ चरणावेव आयुधमस्य चरणायुधः ॥ ३ ॥ ३९ ॥ कृकेण शिरोग्रीवेण, कृकमव्यक्तं वा वक्ति कृकवाकुः “कृकस्थूराद्वचः क् च" ॥ ( उणा--७२ ८ ) ॥ इति णिदुः ।। ४ ।। ताम्रा चूडाऽस्य ताम्रचूडः ॥ ५ ॥ विवृते भक्षिणी अस्य विवृताक्षः ॥ ६ ॥ शिखण्डोऽस्त्यस्य शिखण्डिकः ॥ ७ ॥ . शेषश्चात्र
कुक्कुटे तु दीर्घनादश्चर्मचूडो नखायुधः । मयूरचटकः शौण्डो रणेच्छुश्च कलाधिकः ॥ आरणी विकिरो बोधिनन्दीकः पुष्टिवर्धनः । चित्रवाजो महायोगी स्वस्तिको मणिकण्ठकः ॥ उषाकीलो विशाकश्च वाजस्तु ग्रामकुक्कुटः ॥
हंसाश्चक्राङ्ग-वक्राङ्ग-मानसौकः सितच्छदाः ॥ ३९१ ॥ घ्नन्ति गच्छन्ति हंसाः “मावावदि-" || ( उणा--५६४ ) ।। इति सः ॥ १ ॥ चक्राकारमङ्गमषां वृत्तत्वाचक्राङ्गाः ॥ २ ॥ वक्रमगमेषां वक्राङ्गाः ।। ३ ।। मामसाख्ये
देवसरसि ओक एषां मानसौकसः ॥४॥ सिताश्छदा एषां सितच्छदाः ॥५॥३९१॥ .. ६८
Page #534
--------------------------------------------------------------------------
________________
५३४
अभिधानचिन्तामणौ-. . शेषश्वात्र
. हंसेषु तु मरालाः स्युः ॥
राजहंसास्त्वमी चञ्चुचरणैरतिलोहितैः। हंसानां राजानो राजहंसाः, अमी इति हंसाः, चञ्चुसहितैश्चरणैरिति लक्षणे तृतीया ॥१॥
. मल्लिकाक्षास्तु मलिनैः । चञ्चुचरणैरित्यधिकारः, मल्लिकाकारे अक्षिणी एषां मल्लिकाक्षाः; शुक्लापाङ्गत्वात् ॥१॥ ___ धार्तराष्ट्राः सितैतरैः ॥ ३९२ ॥
कृष्णैश्चञ्चुचरणैः, धृतराष्ट्रेऽमाये भवा धार्तराष्ट्राः, राजहंसेभ्यो न्यूनत्वात् , धृतराष्ट्रा एव वा, प्रज्ञादित्वादण् ॥ १ ॥ ३९२ ॥
· कादम्बास्तु कलहंसाः पक्षैः स्युरतिधूसरैः । कदि वैक्लव्ये पौत्रः, कदन्ते प्रावृषि विक्लवन्ते कादम्बाः " कदेर्णिद्वा" ॥ ( उणा -३२२ ) ॥ इत्यम्बः, कदम्बस्यमै संघचारित्वादिति वा ॥ १ ॥ कलध्वनयो - हंसा: कलहंसाः ॥२॥
वारला वरला हंसी वारटा वरटा च सा ॥ ३९३ ॥ वियते वारला " मुरल-" ॥ ( उणा-४७४ ) ॥ इत्यले निपात्यते, वाः पानीयमलति वा ॥ १ ॥ वरं लाति वरला ॥ २ ॥ हंसी हंसकान्ता ॥ ३ ॥ वारि सलिले अटति वारटा ॥ ४ ॥ वियते वरटा "दिव्यवि-" ॥ ( उणा-१४२ )। इत्यटः ॥ ५ ॥ ३९३ ॥
दावाघाटः शतपत्रः दारु आहन्ति दाघाटः “कर्मणोऽण" ॥ ५। १ । ७२ ॥ इत्यणि पृषोदरादित्वात् टत्वम् , दारु आघटते वा ॥१॥ शतं बहूनि पत्राणि पक्षा अस्य शतपत्रः ॥२॥
खञ्जरीटस्तु खञ्जनः । खजति खञ्जरीट: " खनेररीटः " ॥ ( उणा-१५२ )॥ १ ॥ “य्वसिरसि-" ॥ ( उणा-२६९) ॥ इत्यने खञ्जनः ॥ २ ॥
सारसस्तु लक्ष्मणः स्यात् पुष्कराख्यः कुरङ्करः ॥ ३९४ ॥ सरति सारस: “ मृवयिभ्यां णित् "॥ ( उणा-५७० ) ॥ इत्यसः, सरसि भवो वा ॥ १ ॥ लक्ष्मीरस्त्यस्य लक्ष्मणः ॥ २ ॥ पुष्करस्य पद्मस्य आख्याऽस्य पुष्कराख्यः ॥ ३ ॥ कुरमिति शब्दं करोति कुरङ्करः ॥ ४ ॥ ३९४ ॥
Page #535
--------------------------------------------------------------------------
________________
शेषश्चात्र
४ भूमिकाण्डः ।
सारसे दीर्घजानुकः ॥
गोद मैथुनी कामी श्येनाख्यो रक्तमस्तकः ॥
सारसी लक्ष्मणा
लक्ष्मीरस्त्यस्या लक्ष्मणा 'लक्ष्मणी' इत्यन्ये ॥ १ ॥
अथ कुङ् क्रौञ्चे
क्रुञ्चति क्रुङ् ॥१॥ क्रुङ्ङेव क्रौञ्चः, प्रज्ञादित्वादण् तत्र ॥२॥ स्त्रियां त्वजातित्वादापि क्रुञ्च ॥
चाषे किकीदिविः ।
५३५
चष्यते भक्ष्यते श्येनेन चाषस्तत्र ॥ १ ॥ किक्रीति कुर्वन् दीव्यति किकीदिवि: “छविच्छिवि-” ॥ (उणा-७०६ ) ॥ इति वौ निपात्यते । 'द्वे नाम्नी' इत्यन्ये । किकिदीविरपि ॥ २ ॥
चातकः स्तोकको बप्पीहः सारङ्गो नभोऽम्बुपः ॥ ३९५ ॥
चतते याचते मेघाम्भश्चातकः ॥ १ ॥ स्तोकं कायति काश्यते याचते वा स्तोकको, स्तोकं कमस्येति वा ॥ २ ॥ नमोऽम्बुपानाद् वा पानमीहते बप्पीहः, पृषोदरादित्वात् ॥ ३ ॥ सरति सारङ्गः, सह आरङ्गति वा, यूथचारित्वात् ॥४॥ नभस्यम्बु पिबति नभोऽम्बुपः ॥ ५ ॥ ३९५ ॥
•
चक्रवाको रथाङ्गाः कोको इन्द्रचरोऽपिच ।
'चक्र' इति वाक् आख्यास्य चक्रवाकः ॥ १ ॥ रथाङ्गं चक्रं तस्य आवा नामाऽस्य रथाङ्गावः, तेन रथाङ्गश्च इत्यादि ॥ २ ॥ कौति शब्दायति कोकः " भी शालि - " ( उणा - २१ ) ॥ इति कः ॥ ३ ॥ द्वन्द्वेन मिथुनेन चरति द्वन्द्वरः ॥ ४ ॥
टिट्टिभस्तु कटुक्वाण उत्पादशयनश्च सः ॥ ३९६ ॥
""
'टिकि गतौ' टिकते टिट्टिभः " सिटिकिभ्याम् - " ॥ ( उणा - ३३२ ) ॥ इति इभ, टिकः टिट्टादेश, 'दिट्टि ' इति भाषते वा क्वचित् " ॥ ५ । १ । १७१ ॥ इति ड: । ' टीटिभ : ' इत्येके ॥ ॥ कटुः काणोऽस्य कटुकाणः || २ || उत्पादः शेते उत्पादशयनः ॥ ३ ॥ ३९६ ॥
चटको गृहबालभुक् कलविङ्कः कुलिङ्ककः ।
"
દદદ
चटति भिनत्ति आहारं चटकः दूकॄनृ-” ॥ ( उणा-२७ गृहबलिं भुङ्क्ते गृहबलिभुक् ॥ २ ॥ कलते शब्दायते कलविङ्कः
) ॥ इत्यकः ॥ १ ॥
"
""
'कलेरविङ्कः
॥
Page #536
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणो-
..
..
( उणा-६५ ) ॥ ३ ॥ कोलति कुलिङ्ककः " कुलिचिरिभ्यामिङ्कक् * ॥ (मा ६४ ) ॥ ४ ॥ कुलिङ्गोऽपि ॥
योषित् तु तस्य चटका अजादित्वादापि क्षिपकादित्वादित्वाभावः ॥ १ ॥
स्त्र्यपत्ये चटका तयोः ॥ ३९७ ॥ तयोद्वयोः स्त्रीलक्षणे अपत्ये वाच्ये चटकस्य चटकाया वाऽपत्यं चटका " बदल. काण्णैरः स्त्रियां तु लुप्" ॥६।१।७९ ॥ इति साधुः ॥१॥ ३९७ ॥
पुमपत्ये चाटकैरः तयोरिति संबध्यते, चटकस्य चटकाया वा पुलक्षणेऽपत्येऽभिधये चाटकर "चटकाएणैर:-" ॥६।१ । ७९ ॥ इति गैरः ॥ १॥
दात्यूहे कालकण्टकः ।
जलरङ्कजलरञ्जः ददात्यानन्दं दात्यूहः “ दस्त्यूहः" ॥ ( उणा-५९४ ) ॥ इति त्यूहस्तत्र । दात्योहोऽपि ॥१॥ कालाः कण्टका रोमोझेदा अस्य कालकण्टकः कालः कण्ठोऽस्येति कालकण्ठकः' इत्यके ॥२॥ जले रमते जलरङ्कु: "कैशीशमि." ॥ ( उणा-७४९) । इति कुः ॥ ३ ॥ जलेन रज्यति जलरजः ॥ ४ ॥
बके कहो बकोटवत् ।। ३९८ ॥ . वक्तीति बकः, न्यवादित्वात् कत्वं तत्र ॥ १ ॥ के जले केन वा वयते कहवः ॥ २ ॥ वक्ति बकोटः " कपोटबकोट-" ॥ ( उणा - १६१) ॥ इत्योटे निपात्यते ॥ ३ ॥ ३९८ ॥
बलाहकः स्याद् बलाकः बलति बलाहकः " बलिबिलि-" ॥ ( उणा-८१ ) ॥ इत्याहकः ॥ १॥ "शलिबलि-" ॥ ( उणा-३४ ) ॥ इत्याके बलाकः, पुंस्वयम्, यद्वाचस्पतिः'बलाकस्तु बलाहकः । 'पुंध्वजेऽपि स्त्रीलिङ्ग एवायम्' इति लिङ्गानुशासनकृतः ॥२॥
बलाका विसकण्ठिका । बलमकति बलाका ॥ । ॥ विसमिव कण्ठोऽस्या विसकण्ठिका । 'विसकण्टिका' इत्यन्ये । बकेरुकाऽपि ॥ २॥
भृङ्गः कलिङ्गो धूम्याट भृङ्ग इव भृङ्गः, कृष्णत्वात् , बिभत्तीति वा ॥ १ ॥ कलते शब्दायते कलिङ्गः
Page #537
--------------------------------------------------------------------------
________________
४ भूमिकाण्डः।
५३७ " स्फुलिकलि-" || ( उणा-१०२ ) ॥ इतीङ्गक् , के मूर्ध्नि लिङ्ग चूडास्येति वा, कालं गच्छति प्राप्नोति वा ॥ २ ॥ धूम्यायामिव अटति धूम्याटः, कृष्णत्वात् ॥३॥
कङ्कस्तु कमनच्छदः ॥ ३९९ ॥
लोहपृष्ठो दीघपादः कर्कटः स्कन्धमल्लकः । कङ्कते गच्छति कङ्कः ॥ १ ॥ कमन; कान्तश्छदोऽस्य कमनच्छदः ॥ २ ॥ ॥ ३९९ ॥ लोहवर्ण पृष्ठमस्य लोहपृष्ठः ॥ ३ ॥ दीर्धी पादावस्य दीर्घपादः ॥ ४ ॥ 'कर्किः सौत्रः' कर्कति कर्कटः " दिव्यवि-" ॥ ( उणा-१४२ ) ॥ इत्यटः॥ ५॥ स्कन्धेन मल्लः समर्थः स्कन्धमल्लकः ॥ ६ ॥
चिल्लः शकुनिरातापी चिल्लति वातेन शिथिलीभवति चिल्लः ॥ १॥ शक्नोति शकुनिः ॥ २॥ आतपत्यातापी ॥ ३ ॥
श्येनः पत्त्री शशादनः ॥ ४००॥ श्यायते श्येनः " श्याकठि ." ( उणा-२४२ ) ॥ इतीनः ॥ १ ॥ पत्त्री सामान्योऽपि विशेषे वर्तते, यत् शाश्वतः-'श्येनाख्यो विहगः पत्त्री पत्त्रिणौ शरपक्षिणा' इति ॥ २ ॥ शशानीत्त शशादनः ॥ ३ ॥ ४०० ॥
दाक्षाय्यो दूरदृग् गृध्रः : दक्ष्यते दाक्षाय्यः " श्रुदक्षिणहि-" ॥ (उणा-३७३ ) ॥ इत्याय्यः, दक्षाय्य एव दाक्षाय्यः, प्रज्ञादित्वादण् ॥ १ ॥ दूरात् पश्यति दूरदृक् ॥ २ ॥ गृध्यति मांसं गृध्रः " ऋज्यजि-" ॥ ( उणा-३८८ ) ॥ इति किद् रः ॥ ३ ॥
शेषश्चात्रगृध्रे तु पुरुषव्याघ्रः कामायुः कूणितक्षणः । सुदर्शनः शकुन्याजौ ॥ अथोत्क्रोशो मत्स्यनाशनः
कुररः उच्चैः क्रोशत्युत्कोशः ॥ १ ॥ मत्स्यान् नाशयति मत्स्यनाशनः ॥ २ ॥ कुरति कुररः “मृयुन्दि-" ॥ (उणा- ३९९) ॥ इति किदरः, 'कुर' इति शब्दं राति वा ॥३॥
कीरस्तु शुको रक्ततुण्डः फलादनः ।। ४०१ ॥ · कायति कीरः " घसिवशि-" ॥ ( उणा-४१९ ) ॥ इति किदीरः, कीति शब्दमीरयति वा ॥ १ ॥ शवति शुकः “ विचिपुषि-" ॥ ( उणा-२२ ) ॥ इति
Page #538
--------------------------------------------------------------------------
________________
५३८
आभिधानचिन्तामणौ
कित् कः 'शुक गतौ ' शोकति गच्छ्तीति वा ॥ २ ॥ रक्तं तुण्डं चञ्चुरस्य रक्त तुण्डः ॥ ३ ॥ फलान्यत्ति फलादनः । मेधाव्यपि ॥ ४ ॥ ४०१॥ शेषश्चात्र
शुके तु प्रियदर्शनः । श्रीमान् मेधातिथिर्वाग्मी ॥
शारिका तु पीतपादा गौराटी गोकिराटिका । शृणाति फलं शारिका ॥ १ ॥ पीती पादावस्याः पीतपादा ॥ २ ॥ गां रटक्ति गोराटी ॥ ३ ॥ गां किरति गोकिराटी “ किरो लश्च वा " ॥ ( उणा-१४७ ) ॥ इत्यादः ॥ ४ ॥
____ स्याचर्मचटकायां तु जतुकाऽजिनपत्रिका ॥ ४०२॥
चर्ममयी चटका चर्मचटका निर्लोमत्वात् तत्र ॥ १ ॥ जत्विव कृष्णपिङ्गत्वात् जतुका ॥ २ ॥ अजिनं पत्राणि पक्षा अस्या अजिनपत्रिका ॥ ३ ॥ ४.२ ॥
वल्गुलिका मुखविष्ठा परोष्णी तैलपायिका । वल्गु लाति वल्गुला, के वल्गुलिका ॥ १ ॥ मुखेन विष्ठा अस्या मुखविष्ठा ॥२॥ परं प्रकृष्टमुष्णमस्याः परोष्णी, शीतासहत्वात, परं विरुद्धमुष्णं तेजोऽस्या इति वा, तेजसान्धकारात् ॥३॥ तैलं पिबतीव तैलपायिका, नित्यमास्यविकासात् । निशादन्यपि ॥ ४ ॥
___ करेटुः करेटुः स्यात् करटुः कर्कराटुकुः ।। ४०३ ॥ 'कर्क' इति रेटते कर्करेटुः ॥१॥ 'क' इति रेटते रटति च करेटुः, करटुः ॥२॥ ॥३॥ कर्कति कर्कराटः, “केवयुभुरणु-* ॥ (उणा-७४६) ॥ इति उप्रत्यये निपात्यते ॥ ४ ॥ ४०३ ॥
__ आटिरातिः शरारिः स्यात्
आतत्याटिः, बाहुलकात् णिदिः ॥ १॥ अतत्यातिः “पादाश्चात्यजिभ्याम्" ॥ ( उणा-६२० ) ॥ इति णिदिः ॥ २ ॥ शृणन्त्येनो शरारिः “ बहुलम्" ॥५॥१२॥ इत्यारिः ॥ ३ ॥ एते स्त्रीलिङ्गाः ।।
कृकण-क्रकरौ समौ । करोति शब्दं कृकणः " चिक्कण-" ॥ ( उणा-१९० ) ॥ इत्यणे निपात्यते 'कृ' इति कणति वा, कृकं नयति वा ॥ १ ॥ करोति शब्दं क्रकर: गौरतित्तिरिः "जठर -" ॥ (उणा-४०३) ॥ इत्यरे निपात्यते, 'क' इति करोति वाश्यते वा ॥२॥
भासे शकुन्तः
Page #539
--------------------------------------------------------------------------
________________
४ भूमिकाण्डः।
५३९ भासते भासस्तत्र ॥ १ ॥ शकुन्तः सामान्योऽपि विशेषे वर्तते ॥ २ ॥
कोयष्टौ शिखरी जलकुक्कुभः ।। ४०४ ॥ कवते शब्दायते कोयष्टि: “ कोर्यषादिः " ॥ ( उणा-६४८ ) ॥ इति तिस्तत्र । 'ओको यजते' इत्यन्ये ॥ १॥ शिखरं चूडाऽस्त्यस्य शिखरी ॥२॥ जलचारी कुक्कुभो जलकुक्कुभः ॥ ३ ॥ ४०४ ॥
पारापतः कलरवः कपोतो रक्तलोचनः । पारमापतति पारापतः, जपादित्वाद् वत्वे पारावतोऽपि ॥१॥ कलो मधुरो रवो ध्वनिरस्य कलरवः ॥ २ ॥ 'कबृङ् वर्णे' कव्यते कपोतः “ कबेरोतः प च " ॥ ( उणा- २१७) ॥ इति साधुः ॥ ३ ॥ रक्त लोचने अस्य रक्तलोचनः ॥ ४ ॥
___ज्योत्स्नाप्रिये चलचञ्चु-चकोर-विषसूचकाः ॥ ४०५ ॥
ज्योत्स्ना प्रियाऽस्य ज्योत्स्नाप्रियस्तत्र ॥ १ ॥ चला चञ्चुरस्य चलचञ्चुः ॥२॥ चकते ज्योत्स्नया तृप्यति चकोरः “ कठिचकि-" ॥ ( उणा-४३३)॥ इत्योरः ॥ ३ ॥ विषं सूचयति विषसूचकः, यदाह-" चकोरस्य विरज्येते नयने विषदर्शनातू" इति ॥ ४ ॥ ४०५ ॥
जीवंजीवस्तु गुन्द्रालो विषदर्शनमृत्युकः । जीवेन सहचरेण जीवति जीवंजीवः, बाहुलकात् खः ॥ १॥ गुन्द्रामलति गुन्द्रालः ॥ २ ॥ विषदर्शनेन मृत्युरस्य विषदर्शनमृत्युकः ॥ ३ ॥
व्याघ्राटस्तु भरद्वाजः व्याजिघ्रन्नटति व्याघ्राटः ॥ १॥ भरन्तो वाजाः पक्षा अस्य भरद्वाजः ॥ २॥ .. प्लवस्तु गात्रसंप्लवः ॥ ४०६ ॥ प्लवते प्लवः ॥ १॥ गात्रेण संप्लवते गात्रसंप्लवः ॥ २ ॥४०६ ॥
तित्तिरिस्तु खरकोणः .तरत्यम्भसि तित्तिरिः “ तृभ्रम्यदि-"॥ ( उणा-६११)॥ इति इस्तित्तिरादेशश्च ॥ १ ॥ खरं कुणति शब्दायते खरकोणः ॥ २ ॥
हारीतस्तु मृदङ्कुरः। हरति जीवान् हारीतः “ हृग ईतण" ॥ ( उणा-२१३ ) ॥ हारिणं वर्णमितो वा॥ १ ॥ मृदमङ्कुरयति मृदङ्कुरः ॥ २ ॥
कारण्डवस्तु मरुलः ... करोति शब्दं कारण्डवः “ कैरव-" ॥ ( उणा-५१९)॥ इत्यवे निपात्यते,
Page #540
--------------------------------------------------------------------------
________________
५४०
अभिधानचिन्तामणौ-.. करण्डे भवं कारण्डं पन्जरबंधं वाति वा ॥ १ ॥ मरु लाति मरुलः ॥ २ ॥..
सुगृहश्चञ्चुसूचिकः ॥ ४०७ ॥ शोभनं गृहमस्य सुगृहः ॥ ॥ चञ्चुरेव सूचिरस्य नडिवाने चञ्चुसूचिकः ॥२॥
कुम्भकारकुक्कुटस्तु कुक्कुभः कुहकस्वनः। . कुम्भेति शब्दं करोति कुम्भकारः, स कुक्कुट इव कुम्भकार कुक्कुटः ॥ १॥ कोकते कुक्कुभः “कुकेः कोऽन्तश्च" ॥ ( उणा-३३४ ) ॥ इत्युभः, कुकुशब्देन भातीति वा ॥ २ ॥ 'कुहक' इति स्वनोऽस्य कुहकखनः ॥ ३ ॥
पक्षिणा येन गृह्यन्ते पक्षिणोऽन्ये स दीपकः ॥ ४०८॥ दीप्यते कोपाद्दीपकः श्येन-सिञ्चानकादिः ॥ १ ॥ ४०८.॥
छेका गृह्याश्च ते गेहासक्ता ये मृगपक्षिणः । । छ्यन्ति आत्मनो भयमिति छेका: “ निष्कतुरुष्क-" ॥ ( उणा-२६ ) ॥ इति के निपात्यते ॥१॥ गृह्यन्ते गृह्याः " पदास्खैरि-" ॥५॥१॥४४॥ इति क्यप् ॥ २ ॥
॥ उक्ताः खचराः पञ्चेन्द्रियाः ॥ जलचरानाह
मत्स्यो मीनः पृथुरोमा झषो वैसारिणोऽण्डजः ॥ ४०९॥ सङ्घचारी स्थिरजिह्व आत्माशी स्वकुलक्षयः ।
विसारः शकली शल्की शंवरोऽनिमिषस्तिमिः ॥ ४१० ॥ माद्यति जलेन मत्स्यः " मदे: स्यः " ॥ ( उणा-३८३) ॥ मत्सोऽपि ॥ १ ॥ मीनाति मन्तून् मीन: “ जीणशीदी-' ॥ ( उणा-२६१ ) ॥ इति किद् नः ॥२॥ पृथु रोम रोमपक्षोऽत्र ॥ ३ ॥ झषति हिनस्ति झषः ॥ ४ ॥ विसरति विपारि, ग्रहादित्वाद् णिन् , विसार्येव वैसारिणः “ विसारिणो मत्स्ये" ॥ ७ । ३ । ५९ ॥ इति स्वार्थेऽण ॥ ५ ॥ अण्डात् जातोऽण्डजः ॥ ६ ॥ ४०९ ॥ संघन चरति संघचारी ॥ ७ ॥ स्थिरा जिह्वाऽस्य स्थिरजिह्वः, कण्टकजिवत्वात् ॥ ८ ॥ आत्मैव आत्मा मत्स्यजातिस्तामश्नाति आत्माशी ॥ ९ ॥ स्वकुलस्य क्षयोऽस्मात् स्वकुलक्षयः ॥ १० ॥ विसरति विसारः “सर्तेः स्थिरव्याधिवलमत्स्ये' ॥ ५॥ ३॥ १७ ॥ इति घञ् ॥ ११ ॥ शकलानि शल्कानि च पृटेऽस्य शकली, शल्की ॥१२॥ १३ ॥ शं वृणोति शंवरः ॥ १४ ॥ न निमिषति लोचने अनिमिषः ॥१५॥ ताम्यति स्थले तिमिः "क्रमितमिस्तम्भे:-" ॥ ( उणा-६१३ ) ॥ इति इरित्वं च, तिम्यतीति वा "नाम्युपान्त्य-" ॥ ( उणा-६०९) ॥ इति किदिः ॥ १६ ॥ ४१० ॥
Page #541
--------------------------------------------------------------------------
________________
शेषश्चात्र -.
४ भूमिकाण्ड: ।
<
मत्स्ये तु जलपिप्पिकः ॥
मूको जलाशयः शेवः ॥
सहस्रदृष्ट्रे वादालः
सहस्रं बहुव्यो दंष्ट्रा अस्य सहस्रदृष्ट्रस्तत्र ॥ १ ॥ वदति वादालः " चात्वाल - "
( उणा - ४८० ) ॥ इत्याले निपात्यते ॥ १ ॥
शेषश्चात्र
५४१
सहस्रदंष्ट्रस्त्वेतनः ॥ जालवालो वदाल: !
पाठीने चित्रवल्लिकः ।
पठ्यते भक्ष्यत्वेन पाठीनः " पठेर्णित " ॥ ( उणा - २८७ ) ॥ इतीनस्तत्र ॥ १ ॥
चित्रा वल्लयोsस्य चित्रवल्लिकः ॥ २ ॥
शेषश्चात्र -
अथ पाठीने मृदुपाठकः ॥
शकुले स्यात् कलकः
शक्नोति शकुल: “हृषिवृति - " ॥ ( उणा - ४८५ ) ॥ इत्युल:, तत्र ॥ १ ॥ वलयति कलकः, कलं कायति वा ॥ २ ॥
अथ गडकः शकुलार्मकः ॥ ४११ ॥
गडति पुच्छाच्छोटनात् सिञ्चति गडकः ॥ १ ॥ शकुलस्यार्भकः शकुलार्भकः ॥ २ ॥ ४११ ॥
उलूपी शिशुके
उल्लुम्पतीत्येवंशील उलुपी, पृषोदरादिलात् ॥ १ ॥ शिशुमारप्रतिकृतिः शिशुकः तत्र ॥ २ ॥
प्रोष्ठी शफरः श्वेतकोलके ।
( उणा - १६२ ) ॥
प्रोषति दहति पित्तकारित्वात् प्रोष्ठी "वनिकणि " ॥
( उणा - ४०१ ) ॥
इति ठः ॥ १ ॥ शप्यते शफरः पुंस्त्रीलिङ्गः “शपेः फ् च” इत्यर:, शफान् राति शीघ्रगतित्वादिति वा ॥ २ ॥ श्वेतः कोल उत्सङ्गोऽस्य श्वेतकोलकस्तत्र ॥ ३ ॥
नलमीनश्चिलिचिमः
नलचारी मीनो नलमीनः शुषिरतृणान्तश्चारित्वात्, नडाभो वा ॥ १ ॥ चीयते
- लीयते चिलिचिमः, पृषोदरादित्वात् । 'चिलिचीम स्त्रिदोषकृत्' इति तु वैद्याः ॥ २ ॥
६९.
Page #542
--------------------------------------------------------------------------
________________
५४२
अभिधानचिन्तामणौमत्स्यराजस्तु रोहितः ॥ ४१२ ॥ मत्स्यानां राजा मत्स्यराजः ॥१॥ रोहति रोहितः, रक्तवाद्वा ॥२॥४१२॥
मद्गुरस्तु राजशृङ्गः मनति मद्गुरः “श्वशुर-" ॥ (उणा-४२६ ) ॥ इत्युरे निपात्यते, मद्गून् । राति वा ॥१॥ शृङ्गेण राजते राजशृङ्गः ॥ २॥
शृङ्गी तु मद्गुरप्रिया । शीर्यते शृङ्गी ॥ १॥
क्षुद्राण्डमत्स्वजातं तु पोताधानं जलाणुकम् ॥ ४१३ ॥ क्षुद्राश्च अण्डानिःसृताश्च मत्स्याः क्षुद्राण्डमत्स्यास्तेषां जातं सङ्घात: क्षुद्राण्डमत्स्यजातम् । 'क्षुद्राण्डी मत्स्यसंघातः' इत्यके । पोता आधीयन्तेऽत्र पोताधानम् ॥१॥ जलेऽणति जलाणुकं “कण्यणे:-" ॥ (उणा-५६)॥ इति णिदुकः ॥२॥४१३॥.
महामत्स्यास्तु चीरिल्लि-तिमिङ्गिलगिलादयः । __ महान्तश्च ते मत्स्याश्च महामत्स्याः॥१॥ चिरं लीयते चीरिलिः, पृषोदरादि. त्वात् ॥ २॥ तिमि गिलति “अगिलाद गिलगिलगिलयोः ॥३।२ । ११५॥ इाते मोऽन्ते तिमिगिलस्तं गिलति तिमिगिलगिल:, आदिशब्दाद् नन्द्यावर्तादयः ॥३॥
अथ यादांसि नकाद्या हिंसका जलजन्तवः ॥ ४१४ ॥ यान्ति यादांसि “येन्धिभ्यां यादेधौ च" ॥ (उणा-९६८) ॥ इत्यस्, नकाद्या वक्ष्यमाणा हिंस्रा जलचराः ॥१॥ ४१४ ॥
नक्रः कुम्भीर आलास्यः कुम्भी महामुखोऽपि च । ... तालुजिह्वः शङ्खमुखो गोमुखो जलसूकरः ।। ४१५ ॥
न कामति नकः "नमः क्रमिममि-" ॥ ( उणा-४)॥ इति डिदः, नखादित्वादेकस्य नओ लोपोऽपरस्यादभावः ॥१॥ स्कुभ्नाति कुम्भीरः "जम्बीर-" ॥ ( उणा-४२२) ॥ इतीरे निपासते, कुम्भिन ईरयति वा ॥२॥ आलमनर्थहेतुरास्यमस्य आलास्यः ॥ ३ ॥ कुम्भाकारताऽस्त्यस्य कुम्भ। ॥ ४ ॥ महद् मुखमस्य महामुखः ॥ ५॥ तालुनि जिह्वाऽस्य तालुजिह्वाः ॥ ६ ॥ शङ्खस्येव मुखमस्य शङ्खमुखः । शङ्कुमुखोऽपि ॥ ७ ॥ गोरिव मुखमस्य गोमुखः ॥ ८॥ जलचारी सूकरो जलसूकरः ॥ ९ ॥ ४१५ ॥
शिशुमारस्त्वम्बुकूर्म उष्णवीर्यो महावसः । शिशुन् मारयति शिशुमारः जलकपिः ॥ १ ॥ अम्बुनः कूर्मोऽम्बुकूर्मः ॥ २ ॥
Page #543
--------------------------------------------------------------------------
________________
४ भूमिकाण्डः ।
उष्णवर्यिमस्य उष्णवीर्यः ॥ ३ ॥ महती वसाऽस्य महावसः ॥ ४ ॥ उद्रस्तु जलमार्जारः पानीयनकुलो वसी ॥ ४१६ ॥
उनत्ति उद: "ऋज्याज- " ॥ ( उणा - ३८८ ॥ इति कि रः ॥ १॥ जलस्य मार्जारो जलमार्जारः ॥ २ ॥ पानीयस्य नकुलः पानीयनकुलः ॥ ३ ॥ वसाऽस्त्यस्य बसी ॥ ४ ॥ ४१६ ॥
ग्राहे तन्तुस्तन्तुनागोऽवहारो नाग - तन्तुणौ ।
गृह्णाति ग्राहः तत्र || १ || तनोति देहं तन्तुः ॥ २ ॥ तन्तुरूपो नागः सर्पस्तन्तुनागः ॥ ३ ॥ अवहरत्यवहारः अवहृसासंस्रोः " ॥ ५ । १ । ६३ ॥ इति णः || ४ || नागो जलसर्पः ॥ ५ ॥ तन्तुवत् तुणति कुटिलीभवति तन्तुण:, पृषोदर दित्वात् ॥ ६ ॥ चरणपाशोऽपि ॥
उपसंहारमाह
५४३
66
अन्येऽपि यादोभेदाः स्युर्बहवो मकरादयः ॥ ४१७ ॥
(6
मङ्कते मकरः 'जठर-' ॥ ( उणा - ४०३ ) ॥ इत्यरे निपात्यते, मा कुर्यात् किञ्चिदिति त्रस्यन्त्यस्मादिति वा ॥ १ ॥ आदिग्रहणात् शङ्कुफणिप्रभृतयः ॥ ४१७॥ कुलीरः कर्कटः पिङ्गचक्षुः पार्श्वोदरप्रियः ।
द्विधागतिः षोडशांहिः कुरचिल्लो बहिश्वरः ॥ ४९८ ॥
कोलति कुलीरः पुंक्लीबलिङ्ग : " घसिवशि - " ॥ ( उणा - ४१९ ) ॥ इति किदीरः कुलिनमीरयति वा जनकभक्ष्यत्वात् यत् कौटिल्य: - 'कटकसधर्माणो हि राजपुत्रा जनकभक्ष्या:' इति ॥ १ ॥ 'कर्किः सौत्रः ' कर्केति कर्कटः " दिव्यवि - " ( उणा - १४२ ) ॥ इत्यः ॥ २ ॥ पिङ्गे चक्षुषी अस्य पिङ्गचक्षुः ॥ ३ ॥ पार्श्वोदरं प्रियमस्य पार्श्वोदरप्रियः ॥ ४ ॥ द्विधाऽग्रतः पश्चाश्च गतिरस्य द्विधागतिः ॥ ५ ॥ षोडश अंह्नयोsस्य षोडशांहिः ॥ ६ ॥ कुरनू चिल्लति कुरचिह्नः ॥ ७ ॥ जलाद् बहिश्चरति तरीतुमनभिज्ञत्वाद् बहिश्वरः ॥ ८ ॥ ४१८ ॥ कच्छपः कमठः कूर्मः क्रोडपादश्चतुर्गतिः । पञ्चाङ्गगुप्त- दौलेयौ जीवथः
कच्छोऽनूपप्रायः, कूर्मपादो वा, कच्छं पाति कच्छपः, कच्छेन पिबतीति वा, कत् कुत्सितं शपतीति वा ॥ १ ॥ काम्यते यज्ञार्थ कमठः “ मृज़शू-" ॥ ( उणा१६७ ) ॥ इत्यठः, के मठति निवसतीति वा ॥ २ ॥ किरति कुरति वा कूर्म:
46
" रुक्मग्रीष्म - " ॥ ( उणा - ३४६ ) ॥ इति मे निपात्यते ॥ ३ ॥ क्रोडे पादा
अस्य क्रोडपादः ॥ ४ ॥ चतुर्धा अग्रतः पश्चात् पार्श्वयोश्च गतिरस्य चतुर्गतिः ॥ ५ ॥
Page #544
--------------------------------------------------------------------------
________________
५४४
अभिधानचिन्तामणौ- .. पश्चाङ्गेन गुप्तः पञ्चाङ्गगुप्तः ॥ ६ ॥ दुल्या अपत्यं दौलेयः ॥ ७ ॥ जीवति जीवयः " भृशीशपि-" ॥ (उणा-२३२) ॥ इत्यथः । उहारो देश्याम् , संस्कृतेऽपि ॥८॥
कच्छपी दुली ॥ ४१९ ॥ .. 'दुलण् उत्क्षेपे' दोलति जलं दुलि: " नाम्युपान्त्य-" ॥ (उणा-६०९)॥ इति किदिः, डयां दुली ॥ १ ॥ ४१९ ॥ ।
मण्डूके हरि-शालूर-प्लव-भेक-प्लवङ्गमाः ।
वर्षाभूः प्लवगः शालुरजिह्व-व्यङ्ग-दर्दुराः ॥ ४२० ॥ मण्डयति मण्डूकः " मृमन्यजि-" ॥ ( उणा-५८) ॥ इत्यूकस्तत्र ॥ १ ॥ ह्रियते सर्पण हरिः ॥२॥ शलति शालूरः “महिकणि-" ( उणा-४२८ ) ॥ इति णिदूरः ॥ ३ ॥ प्लवते प्लवः ॥ ४ ॥ बिभेति भेकः " भीणशलि-"॥ (उणा-२१)। इति कः ॥५॥ प्लवेन गच्छति प्लवङ्गमः, प्लवगः ॥ ६ ॥ ७॥ वर्षासु भवति वर्षाभूः पुंलिङ्गः॥ ८॥ शृणाति शालु: "ऋतृश-* ॥ (उणा-७२७ ) ॥ इति णिदुर्लत्वं च रस्य ॥ ९ ॥ नास्ति जिवाऽस्य अजिवः, ईषदर्थेऽत्र नञ् ॥ १० ॥ विशिष्टमङ्गमस्य व्यङ्गः ॥ ११॥ दीर्यते दर्दुरः " श्वशुर-" ॥ ( उणा-४२६ ) ॥ इत्युरे निपात्यते, दर्दुशब्दं रातीति वा ॥ १२॥ ४२० ॥ .
स्थले नरादयो ये तु ते जले जलपूर्वकाः। यावन्तो नर-करि-तुरगादय: स्थलचरा जीवास्तावन्तो जलशब्दपूर्वा जलचरा अपि स्युः, यथा जलनरः, जलहस्ती, जलतुरङ्ग इत्यादि ॥१॥ अथ सर्वजीवानामुत्पत्तिविषयबिभागमाह
अण्डजाः पक्षिसांद्याः आदिग्रहणाद् गोधा-कृकलासादयः ॥ १ ॥
पोतजाः कुअरादयः ॥ ४२१ ॥ पोतो जरायुरहितो गर्भः, पोतरूपा जायन्ते पोतजाः ॥ १॥ आदिग्रहणात श्वावित्-शशारिकादयः ॥ ४२१॥
रसजा मद्यकीटाद्याः रसाजायन्ते रसनाः, आदिशब्दाद् घृतकीटाद्याः ॥ १॥
नृगवाद्या जरायुजाः। मरायुर्गर्भशय्या तस्माजाता जरायुजाः, आदिग्रहणात् महिष-सूकरादयः ॥१॥
यूकाद्याः स्वेदजाः
Page #545
--------------------------------------------------------------------------
________________
५ नारक-काण्डः ।
५४५ खेदाद् धर्माजायन्ते स्वेदजाः, आदिग्रहणान्मत्कुण-मशकादयः ॥ १ ॥
मत्स्यादयः संमूर्छनोद्भवाः ॥ ४२२ ॥ . आदिग्रहणात् सर्पादयः ॥ १ ॥ ४२२ ॥
खञ्जनास्तूद्भिदः बहुवचनादन्येऽपि शलभादयः ॥ १॥
अथोपपादुका देव-नारकाः। उपपद्यन्ते स्वयमित्येवंशीला उपपादुकाः ॥ १॥ उपसंहारमाह
त्रसयोनय इत्यष्टौ त्रसानां जीवानां योनय उत्पत्तिस्थानानीति ॥ १॥
उद्भिदुद्भिजमुद्भिदम् ॥ ४२३ ।। उद्भिनत्ति भुवमुद्भिद् ॥ १॥ उद्भेदनमुद्भित् ततो जायते उद्भिजम् ॥ २॥ उद्भिनत्ति उद्भिदम् ॥ ३ ॥ ४२३ ॥ इत्याचार्यश्रीहेमचन्द्रविरचितायां स्वोपज्ञाभिधानचिन्तामणिनाममालाटीकायां
तियकाण्डश्चतुर्थः ॥ ४ ॥
- -*- -
|| अहम् ॥
अथ नारककाण्डः। अथ पश्चमं नारककाण्डमारभ्यते
स्युर्नारकास्तु परेत-प्रेत-यात्या-ऽतिवाहिकाः । नरके भवा नारकाः, यौगिकत्वाद् नारकिक-नैरयिक-नारकीयादयः ॥१॥ कर्मणां परावृत्त्या इताः परेताः ॥ २ ॥ प्रकर्षेण इताः प्रेताः ॥ ३ ॥ यात्यन्ते पाडां यात्याः ॥ ४ ॥ अतिवाह्यन्ते अतिवाहिकाः “कुशिकहृदिक-" ॥ (उणा-४५ ) ॥ इति साधुः ॥ ५ ॥
आजूर्विष्टिः आजवति आजू: "दिद्युद्दट्ट." ॥ ५। २ । ८३ ॥ इति क्विपि निपात्यते ॥१॥ वेवेष्टि विष्टिः नरके हठात् क्षेपः "हमुषि-" ॥ (उणा-६५१) ॥ इति कित्तिः। स्त्रीलीगावेतौ ॥२॥
Page #546
--------------------------------------------------------------------------
________________
५४६
अभिधानचिन्तामणौ
यातना कारणा तीव्रवेदना ॥ १॥ यातनं यातना ॥१॥ 'कृ गृ हिंसायाम्' इति हन्त्यर्थात् चुरादेः स्वार्थे णिजन्तः कारणं कारणा ॥ २ ॥ तीव्रा च सा वेदना तीव्रवेदना ॥ ३१ ॥
नरकस्तु नारकः स्यान्निरयो दुर्गतिश्च सः । नृणाति शिक्षयति पापिनो नरकः "दूकन-* ॥ (उणा-) ॥ इत्यकः, नराः कायन्यस्मिन् वा, नरान् कृन्तति कृणोति वेति वा ॥ १॥ नरकस्य बाहुलकाद् दीर्घत्वे नारकः, नारं कायत्यत्र वा ॥ २ ॥ निष्कान्तोऽयादनुकूलदैवानिरयः ॥ ३॥.. निन्दिता गतिर्दुर्गतिः पुंस्त्रीलिङ्गः ॥ ४ ॥
घनोदधि-घनवात-तनुवात-नमःस्थिताः ॥ २ ॥ रत्न-शर्करा वालुका-पङ्क-धूम-तमःप्रमाः । महातमःप्रभा चेत्यधोऽधो नरकभूमयः ॥ ३ ॥
क्रमात् पृथुतराः सप्त घनो निबिडो न तु द्रव उदधिर्धनोदधिः ॥ १॥ घनश्चासौ वातश्च घनवातो निबिडवातः ॥ २ ॥ तनुश्वासौ वातश्च तनुवातः ॥ ३॥ नभ आकाशः, तेषु प्रत्येकं स्थिताः प्रतिष्ठिताः ॥ ४ ॥ २ ॥ रत्नादिभ्यः परा प्रभा रत्नप्रभा ॥१॥ शर्कराप्रभा ॥ २॥ वालुकाप्रभा ॥ ३ ॥ पङ्कप्रभा ॥ ४ ॥ धूमप्रभा ॥५॥ तमःप्रभा चेति षट् ॥ ६ ॥ सप्तमी महातमःप्रभा चेति, रत्नादिभिः प्रभान्तीत्यन्वर्थाः ॥७॥ क्रमेण पृथुतराऽधोधो नरकभूमयो भवन्तीति ॥ ३॥ श्रेषश्वात्र
अथ रनप्रभा धर्मा वंशा तु शर्कराप्रभा । स्याहालकाप्रभा शैला भवेत् पङ्कप्रभाऽजना ॥१॥ धूमप्रभा पुना रिष्टा माधव्या तु तम:प्रभा। महातमःप्रभा माधव्येवं नरकभूमयः ॥ २ ॥ अथ त्रिंशत् पञ्चविंशतिः । पञ्चदश दश त्रीणि लक्षाण्यूनं च पञ्चभिः ॥ ४ ॥ लक्षं पञ्च च नरकावासा सीमन्तकादयः ।
एतासु स्युः क्रमेण एतासु रत्नप्रभाद्यासु सप्तसु नरकभूमिषु सीमन्तको रत्नप्रभापृथिवीप्रथमप्रतरमध्यवर्ती नरकेन्द्रः, तत्प्रभृतयः क्रमेण नरकावासा भवन्ति । तेषां च सङ्ख्या रन
Page #547
--------------------------------------------------------------------------
________________
५ नारक-काण्डः ।
५४७
प्रभायां त्रिंशल्लक्षाणि, शेषासु क्रमेण पञ्चविंशतिः, पञ्चदश, दश, त्रीणि च लक्षाणि पश्चोनं चैकलक्षमित्या षष्ठ्याः ॥ ४ ॥ सप्तम्यां तु पश्चैव नरकावासा भवन्तीति । आदिप्रहणात् रौद्र-हाहारव-घातनादयो गृह्यन्ते ॥
अथ पातालं वडवामुखम् ॥ ५ ॥
बलिवेश्माधोभुवनं नागलोको रसातलम् । पतन्यस्मिन् पातालं " पतिकृलूभ्यो णित् " ॥ (उणा-४७९ ) ॥ इत्यालः पातमलतीति वा ॥ १॥ वडवामुखमिव मुखमस्य वडवामुखम् ॥ २ ॥ ५ ॥ बलेवैरोचनासुरस्य वेश्म बलिवेश्म ॥ ३ ॥ अधस्ताद् द्यावापृथिव्योभुवनमधीभुवनम् ॥ ४ ॥ नागानां लोको भुवनं नागलोकः ॥ ५॥ रसायावलमधो रसातलम् , रसा भूस्तलं पृष्ठमस्य वा ॥६॥ एकदेशेन तलं, रसा चापि ॥
रन्धं बिलं निर्व्यथनं कुहरं शुषिरं शुषिः ॥ ६ ॥
छिद्रं रोपं विवरं च निम्नं रोकं वपान्तरम् । रध्यति रन्ध्र “खुरक्षुर-" ॥ ( उणा-३९६ ) ॥ इति रे निपात्यते ॥१॥ बिलति भिनत्ति विलम् ॥ २ ॥ निय॑थ्यन्तेऽमेन नियंथनम् ॥ ३ ॥ कुह्यते कुहरम् " मृयुन्दि-" ॥ ( उणा-३९९) इति किदरः, कुत्सितं हरतीति वा, कुं हरति, शून्यत्वादिति वा ॥४॥ शुष्यत्यस्मिन् शुषिरं "शुषीषि-"॥ ( उणा-४१६ ) ॥ इति किदर:, शुषिरस्यास्तीति वा, मध्वादित्वाद्रः, शुषिर्धर्ममात्रेऽपि मधुवत् ॥५॥ शुध्यत्यस्यां शुषिः "नाम्युपान्त्य-" ॥ ( उणा-६०९) इति किदिः स्त्रीलिङ्गोऽयम् , वैजयन्ती तु-'श्वभ्रं नक्ली शुषिर्वपा' इति पुंस्यप्याह । 'सुष्ठु स्यति सुषि सादिः' इत्येके ॥ ६ ॥ छिद्यते छिद्रं " ऋज्यजि-" ॥ (उणा-३८८) ॥ इति किद रः ॥ ७ ॥ रुप्यति विमोहयति रोपम् ॥ ८ ॥ विवियते विवरम् नी ९॥ निमिमीतेऽत्र निम्नं "युसुनिभ्यो माडो डित् " ॥ ( उणा-२६६)॥ इति नः ॥ १० ॥ रोचते प्रकाशतेऽनेन रोकम् ॥ ११ ॥ उप्यतेऽस्यां वपा, भिदादित्वात् साधुः ॥ १२ ॥ अनित्यनेनान्तरम् ॥ १३ ॥
गत-श्वभ्रा-ऽवटा-ऽगाध-दरास्तु विवरे भुवः ॥ ७ ॥ - गिरति गर्तः पुंस्त्रीलिङ्गः “दम्यमि-" ॥ ( उणा-२०० ) ॥ इति तः ॥१॥ श्वयति श्वत्रं " खुरक्षुर-" || (उणा-३९६) ॥ इति रे निपात्यते, श्वभिभ्रान्तमिति वा ॥ २ ॥ अवत्यस्मादवटः “ दिव्यवि-" ॥ (उणा-१४२) ॥ इत्यटः, न वट
Page #548
--------------------------------------------------------------------------
________________
५४८.* अभिधानचिन्तामणौ-.. तीति वा अवाक्, अटन्ति अस्मिन् बाहुलकात्, “घुनाम्नि-" ॥ ५। ३ । १३०॥ . इति 1 पृषोदरादित्वात् साधुः ॥ ३ ॥ न गाधोऽगाधः ॥ ४ ॥ दीर्यते दरः। त्रिलिङ्गः ॥ ५॥५॥ इत्याचार्यश्रीहेमचन्द्रविरचितायां, स्वोपज्ञाभिधानचिन्तामणिनाममालाटीकायां .
नारककाण्डः पञ्चमः ॥ ५ ॥ 1 --*-*-*
॥ अर्हम् ।।
अथ षष्ठः काण्डः। . उक्ता देवाधिदेवादयो मुक्ताः, संसारिणश्चतुर्गतयो देवा मास्तिर्यश्वी नारका"श्च कादसाधारणासहिताः पञ्चभिः काण्डैः । इदानीं तत्साधारणनामाभिधायि षष्ठं सामान्यकाण्डमारभ्यते
" स्यालोको विष्टपं विश्वं भुवनं जगती जगत् । ... लोकतेऽवलोकतेऽनन्तज्ञानो भावाभवानस्मिन्निति लोकः ॥ १॥ विशन्त्यस्मिन् जीवाजीवा विष्टपं पुंक्लोबलिङ्गः "विष्टपोलप-" ।। ( उणा-३०७ ) ॥ इत्यपे निपात्यते ॥ २ ॥ "निघृषी-" ॥ ( उणा-५११ ) ॥ इति किद्वे विश्वम् ॥ ३ ॥ भवत्यस्मिन् सर्व भुवनं पुंक्लीबलिङ्गः “सूधूभू." ॥ ( उणा-२७४ ) ॥ इति किदनः ॥४॥ प्रच्छन्त्यस्यां जगती “गमेर्डिद् द्वे च" || ( उणा-८८५ ) ॥ इति कतृः "अधातूददितः ॥ २।४।२ ॥ इति ङ ॥५॥ गच्छतीत्येवंशीलं जगत् क्लीबलिङ्गः "दिद्युद्दट्ट-" ॥ ५ ।। ८३ ॥ इति क्विपि निपात्यते ॥ ६ ॥
जीवाजीवाधारक्षेत्रं लोको लेकस्ततोऽन्यथा ॥ १ ॥ जीवाः प्राणवन एकन्द्रियादयः, तेभ्योऽन्येऽजीवा धर्मास्तिकायादयः, तेषामौकरभूतं क्षेत्र लोक इत्यनुवादः ॥ १॥ तस्मादन्योऽलोक आकाशस्वरूपः ॥१॥१॥
क्षेत्रज्ञ आत्मा पुरुषश्चेतनः क्षेत्रं देहमानं जानाति चेतयते शरीरप्रमाणत्वात क्षेत्रज्ञः ॥१॥ अतति संसरत्यात्मा पुंलिङ्गः "सात्मनात्मन्-' ॥ (उणा-९१६) ॥ इति मनि निपात्यते ॥२॥ पुरि शरीरे शेते पुरुषः, पृषोदरादित्वात् ॥ ३ ॥ चतयते चेतनः ॥४॥ जीवोऽपि ॥
स पुनर्भवी ।
जीवः स्यादसुमान् सत्त्वं देहभृत्-जन्यु जन्तवः ॥ २ ॥ स आत्मा भवोऽस्त्यस्य भवी संसारी ॥ 1 ॥ जीवति प्राणान् धारयति जीवः
Page #549
--------------------------------------------------------------------------
________________
६ षष्ठः काण्डः।
५४९
॥ २॥ असवः प्राणाः सन्त्यस्य असुमान् । प्राणीत्यपि ॥ ३ ॥ सीदति सत्त्वं पुंक्लीबलिङ्गः ॥ ४ ॥ देहं बिभर्ति देहभृत् , यौगिकत्वाद् देहभाक्, शरीरीत्यादयः ॥५॥ जायते जन्युः “यजिशुन्धि." ॥ (उणा-८०१) ॥ इति युः ॥६॥ "कृसिकमि" ॥ (उणा-७७३) ॥ इति तुनि जन्तुः पुंक्लीबलिङ्गः ॥७॥ शेषाः पुंसि ॥ २ ॥
उत्पत्तिजेन्म-जनुषी जननं जनिरुद्भवः । उत्पदनमुत्पत्तिः ॥ १॥ जननं जन्म "मन्" ॥ ( उणा-९११ ) ॥ इति मन् । अकारान्तोऽपि ॥ २ ॥ " रुति-" ॥ ( उणा-९९७ ) ॥ इत्युसि जनुः क्लीबलिङ्गावेतौ ॥३॥ जन्यते जननम् ॥४॥ “पदिपठि-" ॥ (उणा-६०७) ॥ इति इप्रत्यये जनिः स्त्रीलिङ्गः ॥ ५ ॥ उद्भवनमुद्भवः ॥ ६ ॥
जीवेऽसुजीवितप्राणाः जीवत्यनेन जीवः त्रिलिङ्गः तत्र ॥ १ ॥ अस्यन्तेऽसवः पुंसि बहुवचनान्तः "भृमृत." ॥ ( उणा-७१६) ॥ इत्युः ॥२॥ जीव्यतेऽनेनेति जीवितम्, जीवातुरपि ॥३॥ प्राणियेभिः प्राणाः पुंसि बहुवचनान्तः ॥ ४ ॥
जीवातु वनौषधम् ॥ ३॥ जीवत्यनेन जीवातुः पुंक्लीबलिङ्गः "जीवेरातुः" ॥ (उणा-७८२)॥१॥ जीवनाय औषधं जीवरक्षोपायः ॥ २ ॥३॥
श्वासस्तु श्वसितम् श्वसनं श्वासः ॥१॥ "क्लीबे" ॥५।३।१२३॥ इति भावे ते श्वसितम् ॥ २॥
सोऽन्तर्मुख उच्छ्वास आहरः ।
आनः स श्वासोऽन्तर्मुखो मध्यवृत्तिः उच्छवसित्यनेन उच्छ्वासः ॥ १॥ आंहरत्यनेन आहरः ॥ २ ॥ अनित्यनेन आनः ॥ ३ ॥
बहिर्मुखस्तु स्यान्निःश्वासः पान एतनः ॥ ४ ॥ . स श्वासो बहिर्मुखो बहित्तिः निःश्वसित्यनेन निःश्वासः ॥ १॥ पीयतेऽनेन पानः ॥ २ ॥ एत्येतनः “वीपति.' ॥ ( उणा- २९२ ) ॥ इति बहुवचनात् तनः
- आयुर्जीवितकालः
एत्यायुः क्लीबलिङ्ग: “इणो णित्" ॥ ( उणा-९९८ ) ॥ इत्युस् "कृवापाजि-" ॥ ( उणा-- 3 ) ॥ इत्युणि आयुरुकारान्तो वा पुंलिङ्गः ॥१॥ जीवितस्य कालो जीवित कालः ॥ २॥
Page #550
--------------------------------------------------------------------------
________________
५५०
अभिधानचिन्तामणौ. . . • अन्तःकरणं मानसं मनः । ...
हृच्चेतो हृदयं चित्तं स्वान्तं गूढपथोच्चले ॥५॥ अन्तर्गतं करणं करणानामन्तर्गतं वा अन्तःकरणम्, “आत्मा मनश्च तद्विदैरन्तःकरणमुच्यते" इति कामन्दकिः; मनो-बुद्धिरहंकार इत्यन्तःकरणं त्रिधेत्यन्ये ॥१॥ मन एव मानसं प्रज्ञादित्वादण् ॥२॥ मन्यते जानात्यर्थान् मनः, यदवोचामः तर्के-"सर्वार्थप्रहणं मनः" इति “अस्" ॥ ( उणा-९५२ ) ॥ इत्यस् ॥ ३ ॥ ह्रियते विषयैर्हत् "बहुलम्" ॥ ( उणा - ) ॥ इति दुक् ॥ ४ ॥ चेतयते चेतः “अस्' ॥ ( उणा९५२ ) ॥ इत्यस् ॥ ५॥ ह्रियते हृदयं "गयहृदेय-" ॥ ( उणा-३७० ) ॥ इत्यये निपात्यते ॥ ६॥ चेतयति चित्तं "ज्ञानेच्छार्चार्थ-" || ५।२।९२ ॥ इति
तः ॥ ७ ॥ स्वनति स्वान्तं "क्षुब्धविरिब्ध-" ॥ ४ । ४ । ७० ॥ इति क्त साधुः विषयेष्वनाकुलं मनः स्वान्तमित्यन्ये ॥ ८ ॥ गूढः पन्था अस्य गूढपथम् ॥ ९ ॥ उच्चलत्युच्चलम्, भनिन्द्रियमपि ॥ १० ॥ ५॥
मानसः कर्म सङ्कल्पः स्यात् संकल्पनं संकल्पः मनसो व्यापारः, विकल्पोऽपि ॥ १ ॥
अथो शर्म निर्वृतिः।
सातं सौख्यं सुखम् शृणाति दुःखं शर्म क्लीबलिङ्गः “मन्" ॥ ( उणा-९११ ) ॥ इति मन्, शर्ममपि ॥ १॥ निर्वरणं निर्वृतिः ॥ २॥ सन्वते सातं "आः खनिसनिजनः" ॥ ४ २।६० ॥ इत्यात्वम् ॥३॥ सुखमेव सौख्यं भेषजादित्वाद् ध्याण, सुखस्य भावो वा ॥ ४ ॥ सुखयति सुखम् , सुष्ठु खनतीति वा “क्वचित्." ॥ ५ ॥ १।१७१ ॥ इति डा, शोभनानि खान्यत्रेति वा । शं जोषं चाऽव्ययेषु वक्ष्येते ॥ ५ ॥
दुःखं त्वसुखं वेदना व्यथा ॥ ६ ॥ पीडा बाधाऽऽर्तिराभीलं कृच्छ्रे कष्टं प्रसूतिजम् ।
आमनस्यं प्रगाढं च दुःखयति दुःखं दुःखनतीति वा दुष्टानि खान्यत्रेति वा ॥१॥ न सुखमसुखम् ॥ २॥ वेदनं वेदना ॥ ३ ॥ व्यथनं व्यथा षित्वादङ्॥ ॥ ६ ॥ पीडनं - पीडा "भाषिभूषि-" ॥ ५।३।१०९॥ इति बहुवचनादङ् ॥५॥ बाधनं बाधा "क्तेट:." ॥५।३।१०६ ॥ इत्यः घनि बाधोऽपि ॥ ६ ॥ अर्दनमार्तिः ॥ ७ ॥ आ समन्ताद् भियं लायाभीलम् ॥ ८॥ कृन्तति कृच्छ्रे "कृते: क्रूकृच्छौ च" ॥ (उणा
Page #551
--------------------------------------------------------------------------
________________
६ षष्ठः काण्डः ।।
५५१
३९५)॥ इति ॥ ९ ॥ कषिष्यति कष्टं "कषोऽनिटः" ॥५।३।३॥ इति भविष्यति क्तः 'कषः कृच्छ्रगहने" ॥ ४।४।६७ ॥ इतीडभावः ॥ १० ॥ प्रसूते जातं प्रसूतिजम्, उपचारात् सामान्येऽपि ॥ ११ ॥ अमनसो भाव आमनस्यं वैमनस्यमित्यर्थः ॥ १२ ॥ प्रगाढुमारब्धं प्रगाढम् ॥ १३ ॥
स्यादाधिर्मानसी व्यथा ॥ ७ ॥ मनस: पीडा आधीयते चिन्ता अनेन आधिः पुंल्लिङ्गः ॥ १ ॥ ७ ॥
सपत्राकृतिनिष्पत्राकृती त्वत्यन्तपीडने । पत्रं शरः सह पत्रमनेन सपत्रः कायनिक्षिप्तशरः, निर्गतं पत्रमस्मानिष्पत्रः शरीरान्तनिष्क्रान्तशरो मृगादिः सपत्रस्य निष्पत्रस्य च करणं सपत्राकृतिः, निष्पत्राकृतिः, एतावुपचारादत्यन्तपीडनामात्रे वर्तते “ सपत्रनिष्पत्रादतिव्यथने " ॥ ७ ॥ २॥ ८ ॥ इति डाच ॥ १ ॥ २ ॥
क्षुज्जाठरामिज़ा पीडा क्षुध्यत्यनया क्षुत् ॥ १॥
व्यापादो द्रोहचिन्तनम् ॥ ८॥ विरुद्धमापादनं व्यापादः ॥ १॥ ८॥
उपज्ञा ज्ञानमायं स्यात् उपज्ञायते उपज्ञा इदं प्रथमतया ज्ञानं यथा चन्द्रस्योपज्ञा चन्द्रोपज्ञसंज्ञक न्याकरणम् ॥ १ ॥
चर्चा सङ्ख्या विचारणा। चर्चनं चर्चा "भीषिभूषि-" ॥ ५।३।१०९ ॥ इत्यङ्, च!ऽपि ॥ १॥ सङ्ख्यानं सङ्ख्या “ उपसर्गादात: " ॥ ५।३।११० ॥ इत्यङ् ॥ २॥ विचारणं विचारणा "णिवेत्त्यास." ॥ ५।३।१११ ॥ इत्यनः ॥ ३॥
वासना भावना संस्कारोऽनुभूताद्यविस्मृतिः ॥ ९ ॥ वास्यतेऽनया वासना ॥ १ ॥ भाव्यतेऽनया भावना ॥ २ ॥ संस्क्रियतेऽनेन . संस्कारः, अनुभूतादेवस्तुनोऽविस्मरणम् आदिग्रहणाद् दृष्टश्रुतादेः ॥ ३ ॥ ९ ॥
निर्णयो निश्चयोऽन्तः निर्णयनं निर्णयः ॥१॥ निश्चयनं निश्चयः ॥२॥ अमति संदेहाभावमन्तः ॥३॥
सम्प्रधारणा समर्थनम् । संप्रधार्यते भ्रष्टं स्वरूपमापाद्यतेऽनया संप्रधारणा युक्ताऽयुक्तपरीक्षा ॥१॥ समर्थ्यते समर्थनम् ॥ २॥
Page #552
--------------------------------------------------------------------------
________________
५५२
अभिधानचिन्तामणौ
अविद्याहंमत्यज्ञाने
विरुद्धवेदनमविद्या अधर्मानर्थवद् विपर्ययेऽत्र नञ्, यदाह - अनित्याशुचिद्दुः-. खात्मसु नित्यशुचिसुखात्मख्यातिरविद्या ॥१॥ अहमित्यस्य मननमहंमतिः, अनात्मन्यात्माभिमानात् अहं विभक्त्यन्तप्रतिरूपकमन्त्राऽव्ययम् ॥ २ ॥ विरुद्धज्ञानमज्ञानम् ॥
आन्तिर्मिथ्यामतिर्भ्रमः ॥ १० ॥
भ्रमण भ्रान्तिः अतस्मिंस्तदिति ज्ञानम् ॥१॥ मिथ्या मननं मिथ्यामतिः ॥ २ ॥ भ्रमणं भ्रमः ॥ ३ ॥ १० ॥
संदेहद्वापराऽऽरेका विचिकित्सा च संशयः ।
संदेहनं संदेह उभयकोटिपरामर्शि ज्ञानम् ॥१॥ द्वौ पक्षौ परावत्र द्वापरं पुंक्लीबलिङ्गः पृषोदरादित्वादात्वम् ॥ २ ॥ आरेचनमारेकः ॥ ३ ॥ विचिकित्सनं ि कित्सा “कितः संशयप्रतीकारे" || ३ | ४ | ६ ॥ इति कितः स्वार्थे सन् ॥ ४ ॥
संशयनं संशयः समन्ततः शेते आत्माऽस्मिन्निति वा ॥ ५ ॥
परभागो गुणोत्कर्षः
परस्य भजनं परभागः ॥ १ ॥ गुणानामुत्कर्षो गुणोत्कर्षः ॥ २ ॥ दोषे त्वादनिवाश्रवौ ॥ ११ ॥
२ || आश्रवन्ति गुणा
दुष्यत्यनेन दोषस्तत्र ॥ १ ॥ आ समन्ताद् दीयन्ते क्षीयन्ते गुणा अस्मिन्नादीनव: “कैरव-” ॥ ( उणा - ५१९ ) ॥ इत्यवे निपात्यते अस्मिन्नाश्रवः, आदीनवाश्रवौ क्लेशे इत्यमरः ॥ ३ ॥ ११ ॥ स्वाद् रूपं लक्षणं भावश्वात्मप्रकृतिरीतयः । सहजो रूपतत्त्वं च धर्मः सर्गों निसर्गवत् ॥ १२ ॥ शीलं सतत्त्वं संसिद्धिः
स्वशब्दात् परे रूपलक्षणभावाः स्वस्य रूपं लक्षणं भावश्च स्वरूपम् ॥ १॥ स्वलक्षणम् ॥ २ ॥ स्वभावः ॥ ३ ॥ अतत्यनेन आत्मा ॥ ४ ॥ प्रक्रियतेऽनया प्रकृतिः ॥ ५ ॥ रयिते यात्यनया रीतिः ॥ ६ ॥ सह जातः सहजः ॥ ७ ॥ रूपस्य वस्तुनस्तद्भावो रूपतत्त्वम् ॥ ८ ॥ धरति स्वैरितां धर्मः पुंक्लीबलिङ्ग: "अत्तरि -" ॥ ( उणा - ३३८ ) ॥ इतिमः ॥ ९ ॥ सृज्यतेऽनेन सर्ग: ॥ १० ॥ एवं निसर्गः ॥ ११ ॥ १२ ॥ शील्यते धार्यते शीलं पुंक्लीबलिङ्गः ॥ १२ ॥ सह तद्भावेन वर्त्तते सतत्त्वम् ॥ १३ ॥ संसिद्धयत्यनया संसिद्धिः ॥ १४॥ अवस्था तु दशा स्थितिः ।
Page #553
--------------------------------------------------------------------------
________________
६ षष्टः काण्डः ।
५५३ अवस्थानमवस्था ॥ १॥ दश्यतेऽनया दशा स्थादित्वात् कः ॥२॥ तिष्ठत्यनया स्थितिः ॥ ३ ॥
स्नेहः प्रीतिः प्रेमहार्दै स्नेहनं स्नेहः पुंक्लीबलिङ्गः ॥ १ ॥ प्रीयते प्रीतिः ॥ २ ॥ प्रियस्य भावः कर्म वा प्रेम पुंक्लोबलिङ्गः पृथ्वादित्वादिमनि "प्रियस्थिर-" ॥ ७॥ ४१३८ ॥ इति प्रादेशः, प्रीयतेऽनेनेति वा “मन्" ॥ ( उणा-९११ ) ॥ इति मन् ॥ ३ ॥ हृदयस्य भावो हाईम् ॥ ४ ॥
दाक्षिण्यं त्वनुकूलता ॥ १३ ॥
विप्रतिसारोऽनुशयः पश्चात्तापोऽनुतापश्च । वैपरीत्येन प्रतिसरणं विप्रतिसारः, एकदेशस्य विकृतत्वाद् विप्रतीसारोऽपि ॥ १ ॥ अनुशयनमनुशयः ॥ २॥ पश्चात् तपनं पश्चात्तापः ॥ ३ ॥ अनुपश्चात् तपनमनुतापः ॥ ४॥
अवधानसमाधानप्रणिधानानि तु समाधौ स्युः ॥ १४ ॥ अवधीयतेऽवधानम् ॥ १॥ एवमपरे अपि ॥ २ ॥ ३ ॥ समाधानं समाधिः तत्र ॥ ४ ॥ १४ ॥
धर्मः पुण्यं वृषः श्रेयःसुकृते :: धरतीति धर्म: “ अत्तीरि-" ॥ (उणा-३३८ ) ॥ इति मः, यदवोचामः"दुर्गतिप्रपतत्प्राणिधारणाद्धर्म उच्यते" ॥१॥ पुणति पुण्यं "ऋशिजनि-" ॥ (उणा -३६१) ॥ इति किद् यः, धूयतेऽनेन वा “शिक्यास्याख्या-" ।। (उणा-३.६४) ।। इति ये निपात्यते ॥२।। वर्षति कामान् वृषः ।। ३ ।। अतिशयेन प्रशस्यं श्रेयः ॥४॥ सुष्ठु क्रियते सुकृतं तत्र ॥५॥
नियतौ विधिः। .. दैवं भाग्यं भागधेयं दिष्टं च
नियम्यतेऽनया नियतिस्तस्याम् ॥ १ ॥ विधीयतेऽनेन विधिः ॥ २ ॥ देवस्य आत्मन इदं पूर्वकर्म दैवं 'क्लोबलिङ्गः ॥ ३ ॥ भज्यते भाग्यम् , भज्यते भागः स एवेति वा मादित्वात् स्वार्थे यः॥४॥भाग एव भागधेयं “नामरूपभागाद्धेयः" । ७।२।१५८ ॥ ५॥ दिश्यते स्म दिष्टम् ॥६॥
. अयस्तु तच्छुभम् ॥ १५ ॥ . तद् दैवं शुभम् एत्ययः "अच्" ॥ ५ ॥ ९॥४९॥ १ ॥ १५ ॥
Page #554
--------------------------------------------------------------------------
________________
५५४ अभिधानचिन्तामणौ- .. .
अलक्ष्मीनिक्रतिः कालकर्णिका स्यात् न लक्ष्मीरलक्ष्मीः ॥ १॥ निष्क्रान्ता ऋतेः सन्मार्गानिर्ऋतिः ॥ २ ॥ कालस्य यमस्य कर्णिका कर्णाभरणमिव कालकर्णिका ॥ ३ ॥
. अथाऽशुभम् ।
दुष्कृतं दुरितं पापमेनः पाप्मा च पातकम् ॥ ६॥ किल्विषं कलुषं किण्वं कल्मषं वृजिनं तमः। ..
अंहः कल्कमधं पङ्कः न शुभमशुभम् ॥ १ ॥ दुष्टं कृतं दुष्कृतम् ॥ २ ॥ दुरेति स्म दुरितम् ॥ ३ ॥ पान्त्यस्मात् पापं “भापाचणि." ॥ ( उणा-२९६ ) ॥ इति. पः॥ ४ ॥ एत्येनः क्लोबलिङ्गः "अतणिभ्यां-" ॥ ( उणा-९७९) ॥ इति नस् ॥ ५॥ पातयति दुर्गतौ पाप्मा "सात्मनात्मन्-" ॥ ( उणा-९१६ ) ॥ इति मनि निपात्यते पुंलिङ्गोऽयम् ॥ ६ ॥णके पातकं पुंक्लीबलिङ्गः ॥७॥१६॥ कल्यते किल्विषं “ कलेः किल्वच " ॥ ( उणा-५५१) । इतीषः ॥ ८॥ “ ऋपनहि. " ॥ ( उणा-५५७) ॥ इत्युषे कलुष कं सुखं लोषतीति वा ॥ ९ ॥ 'किणिः सौत्र' किण्यते किण्वं "निघृषि."। ( उणा-५११) ॥ इति किद्वः ॥ १० ॥ कल्यते कल्मषं "कलेमषः" ॥ ( उणा५६२ ) ॥ ११॥ वृज्यते वृजिनं "वृजितुहि." ॥ ( उणा-२८३)॥ इति किदिनः ॥ १२ ॥ ताम्यत्यनेन तमः ॥ १३ ॥ अमत्यंहः क्लीबलिङ्गी * अमेर्भही चान्ती" ॥ ( उणा-९६२)॥ इत्यस्, अंहते वा "अस्" ॥ ( उणा-९५२) ॥ इत्यस् ॥ १४ ॥ कल्यते कल्कं पुंक्लीबलिङ्गः “भीण्शलि." ॥ ( उणा-२१)॥ इति कः ॥ १५ ॥ अमत्यघं "मघाघरा-' || ( उणा-११०) ।। इति घे निपात्यते, न जहाति वा, अघयतीति वा ॥ १६ ॥ पञ्च्यते पङ्कः पुक्लीवलिङ्गः ।। १७ ।।
उपाधिधर्मचिन्तनम् ॥ १७॥ उपाधीयते उपाधिः पुंलिङ्गः ।। १॥ धर्मस्य चिन्ता धर्मचिन्तनम् ॥ २॥१७॥
त्रिवर्गो धर्मकामार्थाः त्रिसङ्ख्यो वर्गः त्रिवर्गः ॥ १॥
चतुर्वर्गः समोक्षकाः। धर्मकामार्था इत्येव चतुःसङ्ख्यो वर्गश्चतुर्वर्गः ॥ १॥
बलतुर्याश्चतुर्भद्रम् बलं तुर्य येषां ते बलतुर्या धर्मकामार्थाः ॥१॥ चतुर्णा भद्राणां समाहारश्चतुर्भद्रं पात्रादित्वात स्त्रीत्वाभावः ॥ २ ॥
Page #555
--------------------------------------------------------------------------
________________
६ षष्ठः काण्डः ।
प्रमादोऽनवधानता ॥ १८ ॥ प्रमदनं प्रमादः ॥ १ ॥ अनवधानस्य भावोऽनवधानताऽनवहितत्वं कार्येष्व. तात्पर्यम् ।। २ ।। १८ ।।
छन्दोऽभिप्राय आकूतं मतभावाशया अपि । । छन्दत्याल्हादयति छन्दः “अच्" ।। ५। १ । ४९ ॥ इत्यच् पृषोदरादित्वात् छत्वं ।। १ ।। आभिमुख्येन प्रयन्त्यनेन अभिप्रायः ।। २ ॥ आकूयते आकूतम् ।।३।। मन्यते मतम् ।।४।। भवत्यस्मिन् भावः पुंक्लोबलिङ्गः ॥५॥ आशेरतेऽस्मिन्नाशयः ॥६॥
हृषीकमक्षं करणं स्रोतः ख विषयीन्द्रियम् ॥ १९ ॥ हृष्यन्त्यनेन हृषीकं "ऋजि." ॥ ( उणा-५५४ ) ।। इति किदीषः ॥१॥ अक्ष्णोति व्याप्नोत्यक्षम् ॥ २ ॥ क्रियतेऽनेन करणम् ॥ ३ ॥ स्रवत्यस्मान्मलः स्रोतः क्लींबलिङ्गः ।। ४ ॥ अश्नुते व्याप्नोति खं " अशेर्डित्" || उणा-८७ ) ॥ इति खः "डित्यन्त्यस्वरादेः" ॥ २। १ । ११४ ।। इत्यन्त्यस्वरादिलोपः ॥ ५ ॥ विषयः स्पर्शादिरस्त्यस्य विषयि ॥ ६ ॥ इन्द्रस्यात्मनो लिङ्गमिन्द्रियं स्पर्शनादि अनेन हि आत्माऽनु मीयते, इन्द्रेण दृष्टं वा आत्मा हि स्पर्शनादीनि दृष्ट्वा स्वविषयेषु नियु
ङ्क्ते आत्मकृतेन हि शुभकर्मणा तथाविधविषयोपभोगाय स्पर्शनादिनी भवन्ति, इन्द्रेण जुष्टं वा तद्द्वारेणाऽस्य विज्ञानोत्पादात् , इन्द्रेण दत्तं वा विषयग्रहणाय विषयेभ्यः समर्पणात् , इन्द्रस्यावरणक्षयोपशमसाधनमिति वा “इन्द्रियम्" ॥ ७ ॥ १।१७४ ।। इति इयप्रत्ययान्तं निपात्यते ॥ ७ ॥ १९ ॥
बुद्धीन्द्रियं स्पर्शनादि बुद्धिहेतुरिन्द्रियं बुद्धीन्द्रियं स्पृश्यतेऽनेन स्पर्शनम् आदिग्रहणाद् रसनघ्राणचक्षुःश्रोत्राणीन्द्रियाणि ग्रह्यन्ते, यदवोचामः प्रमाणमीमांसायाम्- “स्पर्शरसगन्धरुपशब्दनहणलक्षणानि स्पर्शनरसनघ्राणचक्षुःश्रोत्राणीन्द्रियाणि द्रव्यभावभेदानि" इति । १ ।
पाण्यादि तु क्रियेन्द्रियम् । क्रियाव्यापार आदानादिः, यदाह-"उत्सर्गानन्दनादानगत्यालापाश्च ततक्रियाः" इति क्रियाहेतुरिन्द्रियं क्रियन्द्रियम् आदिग्रहणाद् वाक्पादपायूपस्था गृह्यन्ते ॥ १ ॥ .
स्पर्शादयस्त्विन्द्रियार्था विषया गोचरा अपि ॥ २० ॥ स्पर्शनं स्पर्शः, आदिग्रहणाद् रसगन्धरूपशब्दा गृह्यन्ते इन्द्रियैरर्थ्यन्ते इन्द्रियार्थाः, अर्था अपि ।। १ । विसिष्यन्ति विषयाः “सर्यासतस्य' ॥ २।३ । ४७ ॥ इति षत्वम् ॥ २ ॥ गाव इन्द्रियाणि चरन्त्येषु गोचरा: "गोचरसंचर." ।।५।३ । १३१॥ इति घः ॥ ३ ॥ २० ॥
Page #556
--------------------------------------------------------------------------
________________
.
।
.५५६ अभिधानचिन्तामणौ-
शीते तुषारः शिशिरः सुशीमः शीतलो जडः ।
हिमः . ..... शेतेऽनेन शीतः "शीरीभू-" ॥ ( उणा-२०१) ॥ इति कित् तः तत्र, श्यायते स्मेति वा "श्यः शीवमूर्ति:' ।। ४।१।९७ ।। इति शीरादेशः ॥ १।। तुष्यत्यनेन तुषारः "तुषिकुठिभ्यां कित्॥ (उणा-४०८) ॥ इत्यारः ॥ २ ॥ शशत्यनेन शिशिरः "शवशरिचात:" ॥ ( उणा-४१३) ॥ इतीरः ॥३॥ . सुष्टु श्यायते सुशीमः, सुषीमोऽपि ॥ ४ ॥ शेतेऽनेन शीतल: "शीडस्तलक्." ॥ ( उणा-५०१) ॥ इति तलक, शीतं शीतत्वमस्त्यस्य वा सिध्मादित्वालः, शीतं ला: . तीति वा ॥ ५ ॥ जलति जडः ॥ ६ ॥ हिनोति हिमः " क्षुहिभ्यां वा" ॥ ( उणा३४१) ॥ इति किद् मः ॥ ७ ॥
__ अथोष्णे तिग्मस्तीवस्तीक्ष्णश्चण्डः खरः पटुः ॥ २१ ॥
उष्णात्युष्ण: "वीहा-" ॥ (उणा-१८३) ।। इति किद् णस्तत्र ॥१॥ तेजयति तिग्मः "तिजियुजेर्ग च" ।। ( उणा-३४५ ) || इति किन मः ॥ २ ॥ तीवति तीव्रः "खुर क्षुर." ॥ ( उणा-३९६ ) ॥ इति रे निपात्यते ॥ ३ ॥ तेज-. यति तीक्ष्णः "भ्रूणतृण-" ।। ( उणा-१८६)॥ इति णे निपात्यते ॥ ४ ॥ चण्डते चण्डः चणत्यनेनेति वा “पञ्चमाद्-" || ( उणा-१६८)॥ इति डः ॥५॥ खनति खरः, खं रातीति वा ॥ ६ ॥ पटति उष्णतां पटुः ॥ ७॥ २१ ॥
___ कोष्णः कवोष्णः कदुष्णो मन्दोष्णश्चेषदुष्णवत् ।
ईषदुष्णः कोष्णः ॥ १ ॥ कवोष्णः "काकवौ वोष्णे" ॥ ३ । २ । १३७ ।। इति साधू ॥ २॥ "कोः कद्." ॥ ३१२ । १३० ॥ इति कदादेशे कदुष्णः ॥३॥ मन्दमुष्णो मन्दोष्णः ॥ ४ ॥ अल्पमुष्ण ईषदुष्णः ।। ५ ॥
निष्ठुरः कक्खटः क्रूरः परुषः कर्कशः खरः ॥ २२ ॥
दृढः कठोरः कठिनो जरठः . नियते तिष्ठति निष्ठुरः "श्वशुर-" ॥ (उणा-४२६) ॥ इत्युरे निपात्यते ॥१॥ 'कक्ख हसने' कक्ख्यते कक्खटः "दिव्यवि.'।। (उणा-१४१) । इत्यटः खक्कट इत्यन्ये ॥ २॥ कृन्तति क्रूरः “कृतेः कृच्छ्रौ च" || ( उणा-३९५)॥ इति रः ॥३॥ पृणाति परुषः "ऋपूनहि." ॥ ( उणा-५५७ ) ॥ इत्युषः, अपरुष्यतीति वा ॥४॥ कर्कोऽग्निरुपगानमस्त्यस्य कर्कशः लोमादित्वात् शः ॥ ५॥ खनति खरः ॥ ६ ॥ २२ ॥ दहति दृहति वा दृढः "बलिस्थूले दृढः" ||४|४।६९ ॥ इति ते साधुः ॥ ७ ॥ कठति कठोरः "कठिचाक-" ।। (उणा-४३३) । इत्यारेः ॥८॥
Page #557
--------------------------------------------------------------------------
________________
६ षष्ठः काण्ड: ।..
५५७
"इयाकठिः” ।। (उणा-२८२) || इतीने कठिनः ||९|| जीर्यति जरठ: "भ्रूज़ " ॥ ( उणा - १६७ ) । इत्यठः, जरठोऽपि ॥ १० ॥
कोमलः पुनः ।
मृदुलो मृदुसोमालसुकुमारा अकर्कशः ॥ २३ ॥
कौति कोमल : " मुरल" ।। ( उणा - ४७४ ) ॥ इत्यले निपात्यते ॥ १ ॥ मृदुरस्त्यस्य मृदुलः सिध्मादित्वालः ॥ २ ॥ मृयते मृदुः "पृकाहृषि " ।। ( उणा७२९ ) ।। इति किदुः || ३ || सोमं सोमत्वमालाति सोमालः ॥ ४ ॥ सुष्ठु कुमार इव मृदुत्वात् सुकुमारः ।। ५ ।। न कर्कशोऽकर्कशः ।। ६ ।। २३ ।।
मधुरस्तु रसज्येष्ठो गुल्यः स्वादुर्मधूलकः ।
मधु माधुर्यमस्त्यस्य मधुरः मध्वादित्वाद् रः, मायत्यनेनेति वा " श्वशुर - " ॥ ( उणा - ४२६ ) । इत्युरे निपात्यते ॥ १ ॥ रसेषु ज्येष्ठो रसज्येष्ठः ॥ २ ॥ गुडे साधुर्गुल्यः ॥ ३ ॥ स्वदते स्वादुः "कृवापाजि -" ॥ ( उणा - १ ) ॥ इत्युण् ॥ ४ ॥ माधत्यनेन मधूल: "दुकूल - " ॥ ( उणा - ४९१ ) ॥ इत्यूले निपात्यते ॥ ५ ॥
अम्लस्तु पाचनो दन्तशठो
अमत्यम्ल: “शामाश्या-" । ( उणा - ४६२ ) ॥ इति लः अम्ब्लोऽपि ॥ १ ॥ पाचयति पाचनः ॥ २ ॥ दन्तेषु शठो दन्तशठः ॥ ३ ॥
अथ लवणः सरः ॥ २४ ॥ सर्वरस :
स्वदते लवणः " चिक्कण " ॥ ( उणा - १९० ० ) ॥ इत्यणे निपात्यते, लुनाति 'जाड्यमिति वा नन्द्यादित्वाद् नो णत्वं च ॥ १ ॥ सरत्यनेन सर: "पुंनाम्नि घः " ॥ ५ । ३ । १३० ॥ ९ ॥ २४ ॥ सर्वे रसा अत्र सर्वरसः ॥ ३ ॥
अथ कटुः स्यादोषणो मुखशोधनः ।
.कटत्यावृणोति कटुः “भृमृत - " ॥ ( उणा - ७१६ ) ॥ इत्युः ॥ १ ॥ ओषत्यो • षणः ॥ २ ॥ मुखं शोधयति मुखशोधनः ॥ ३ ॥
वक्त्रभेदी तु तिक्तः
वक्त्रं भिनत्ति वक्त्रभेदी ॥ १ ॥ ताडयति तकति तेजयतिवा तिक्तः " पुतपित्त-" ॥ ( उणा - २०४ ) || इति ते निपात्यते ॥ २ ॥
अथ कषायस्तुवरो रसाः ॥ २५ ॥
कप्रति श्लेष्माणं कषायः “कुलिलुलि -" ॥ ( उगा - ३०२ ) ॥ इति काय : ७१
Page #558
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणौ- ...
॥ ॥ तबीति तुवरः “अडर-" ॥ (उमा-४०३ ) ॥ इत्यरे बिपात्यते पुल्लोबलिलो . ॥ २ ॥ रस्यन्ते इति रसाः ॥ १ ॥ इत्युपसंहारः ॥ २५ ॥
गन्धो जनमनोहारी सुरभिणतर्पणः । ।
समाकर्षी निर्हारी च ....गन्धयते गन्धो घ्राणग्राह्योऽर्थः सः ॥ १॥ जनमनोहारी ॥ २ ॥ सुष्ठु रभते सुरभिः ॥ ३ ॥ प्राणं तर्पयति प्रीणाति घ्राणतर्पणः ॥ ४ ॥ समाकर्षति चित्तं समा. कृर्षी ॥ ५॥ निहरत्सवश्यं निहारी अत्र योयं प्रति प्रसिद्धस्तदनुवादेवान्यस्य विधि: एवमन्यत्राऽपि ॥ ६ ॥
स आमोदो विदूग्गः ॥ २६ ॥ स सुरभिन्धो विदूरगोऽतिदूरव्यापी ॥ १ ॥ आसमन्तात् मोदतेऽनेन आमोदः ॥ २ ॥२६॥
विमहोत्थः परिमलः 1 रतविकसदेहांगरागपरिमलनोत्पनो हृयो गन्धः परिमलचे परिमलः ॥ १॥
अथामोदी मुखवासनः ।
इष्टगन्धः सुगन्धिश्च आमोदोऽस्त्यस्य आमे.दी । १५ मुलं बासमत्सलिम्पति मुखवासनः ॥२॥ इष्टो गन्धोऽस्य इष्टगन्धः ॥ ३ ॥ शोभनो गन्धोऽस्य सुगन्धिः, द्वौ द्वौ भिन्नार्थावित्यन्ये ॥ ४ ॥ .. दुर्गन्धः पूतिगन्धिकः ॥ २७ ॥ , दुष्टो गन्धोऽस्य दुर्गन्धः ॥ १ ॥ पूतर्विनः पूतेरिख वा गन्धोऽस्य पूतिगन्धिः "सुपूत्युत्सुरभेन्धिादिद्गुणे" ॥७॥३११४४ ॥ इतीत् ॥ २ ॥ २७ ॥
आमगन्धि तु वित्रं स्यात् आमोऽपक्को मलः तस्येव गन्धोऽस्य आमगन्धि: "वोपमानात् ॥ ७॥३॥ १४७ ॥ इतीत् ॥ १ ॥ विस्यते वित्रं "ऋज्यजि-" ॥ ( उणा-३८८ ) ॥ इति कित् रः ॥२॥
वर्णाः श्वेतादिका अमी। श्वेतः श्येतः मितः शुक्लो हरिणो विशदः शुचिः ॥ २८ ॥ अवदातगौरशुभवलक्षधवलार्जुनाः । पाण्डुरः पाण्डरः पाण्डुः
Page #559
--------------------------------------------------------------------------
________________
६ षष्ठः काण्डः ।
५५९ श्वेतते श्वतः ॥ १॥ श्यायते श्येतः "हृश्यारहि." ॥ ( उणा-२१०) ॥ इतीतः ॥ २ ॥ सिनोति मनः सितः ॥ ३ ॥ 'शुक गतौ' शोकति मनोऽत्र शुक्ल: "शुकशीमूभ्यः कित्' । ( उणा-४६३ )। इति ल: ॥ ४ ॥ हरते चेतो हरिणः "दुहृवृहि-" ॥ ( उणा-१९४ ) ।। इतीणः ॥ ५ ॥ विशति मनो विशदः "कुमुद." ॥ ( उणा-२४४ ) ॥ इति निपात्यते विशीयते वा ।। ६ ।। शोचति निर्मलीभवति शुचिः ॥ ७ ॥ २८॥ अवदायते शोध्यतेऽवदातः ॥ ८ ॥ 'गुरैचि उद्यमे गुरुते मनोऽत्र गोरः गोर एव गौरः प्रज्ञादित्वादण् , गूयते वा "खुरक्षर- ॥ ( उणा३९६ ) ॥ इति से निपात्यते ॥९॥ शोभते शुभ्रः "ऋज्यजि-"। ( उणा३८८ ) ।। इति किद् रः ॥ १० ॥ वलते वलक्षः अवलक्ष्यते वा पृषोदरादित्वात ॥ ११ ॥ धुनोत्यशोभामिति धवलः "मृदिकन्दि-" ।। उणा-१६५) ॥ इत्यल: ॥ १२ ॥ अय॑तेऽर्जुनः ॥ १३ ॥ पाण्डुः पाण्डुत्वमस्त्यस्य पाण्डुरः मध्वादित्वात् रः॥ १४ ॥ पण्डते याति मनोऽस्मिन् पाण्डर: “जठर-" ॥ ( उणा-४०३ ) ॥ इत्यरे निपात्यते ॥ १५ ॥ पन्यते स्तूयते पाण्डुः “पनेदीर्घश्च ॥ ( उणा-७६६ ) ॥ इति डुः ॥ १६ ॥
ईषत्पाण्डस्तु धूसरः ॥ २९ ॥ ईषदव्यक्तः पाण्डुः धुनाति चेतो धूसरः “कृधूतनि-” ॥ ( उणा-४४० ) ॥ इति कित् सरः ॥ १ ॥ २९ ॥
कापोतस्तु कपोताभः - कपोतस्यायं कापोतः ॥ १ ॥ कपो तस्येव अभाऽस्य कपोतामः ॥ २ ॥
पीतस्तु सितरञ्जनः ।
हारिद्रः पीतलो गौरः पीयते वर्णान् पीतः ॥ १ ॥ सितं रञ्जयति सिरञ्जनः ॥ २ ॥ हरिद्राया अयं हारिद्रः ॥ ३ ॥ पीतं पीतत्वं लाति पीतलः ॥ ४ ॥ गूयते गौरः ॥ ५॥
पीतनीलः पुनर्हरित् ॥ ३० ॥
पालाशो हरितस्तालकामः पीतश्चासौ नीलश्च पीतनीलः ॥१॥ हरति चित्रं हरित् “हसरुहि'' ॥ ( उणा४८७ ) ॥ इतीत् ॥ २॥ ३०॥ पलाशस्य पर्णस्यायं पालाशः ॥ ३ ॥ हर त हरितः "हृश्यारुहि." ॥ ( उणा-२१० ) ॥ इतीतः ॥ ४ ॥ तालकं हरितालक तस्येवाऽऽभाऽस्य तालकामः ॥ ५॥
Page #560
--------------------------------------------------------------------------
________________
५६०
अभिधानचिन्तामणौ
रक्तस्तु रोहितः । माञ्जिष्ठो लोहितः शोणः
रज्यति रक्तः ॥ १ ॥ रोहति रोहित: "हश्याकहि " ॥ ( उणा - २१० ) it इति तः ॥ २ ॥ मञ्जिष्ठाया अयं माजिष्ठः ॥ ३ ॥ रोहितस्यैव लले लोहितः ॥ ४ ॥ शोणति शोणः ॥ ५ ॥
श्वेतरक्तस्तु पाटलः ॥
३१ ॥
श्वेतश्वासौ रक्तश्च श्वेतरक्तः ॥ १ ॥ पाटयति पाडल: "मृदिकन्दि -” ॥ ( उणा४६५ ) ॥ इत्यलः ॥ २ ॥ ३१ ॥
अरुणो बालसन्ध्यामः
इयर्त्ति अरुण: "ऋकृवृ-" ॥ ( उणा - १९६ ) ॥ इत्युणः ॥ १ ॥ बालसन्ध्याया इवामा अस्य बालसन्ध्याभः ॥ २ ॥
पीतरक्तस्तु पिञ्जरः ।
कषिलः पिङ्गलः श्यावः पिशङ्गः कपिशो हरिः ॥ ३२ ॥ बभ्रुः कद्रुः कडारश्च पिं
पीतश्चासौ रक्तश्च पतिरक्तः ॥ १ ॥ पिजयति पिञ्जर : "ऋच्छिचटि." ॥ ( उणा - ३९७ ) ॥ इत्यरः ॥ ३ ॥ 'कब्रुङ् वर्णे' कवते कपिलः "स्थण्डिल - " ॥ ( उणा - ४८४) ॥ इतीले निपात्यते, वा कपिवर्ण लातीति ॥ ३ ॥ पिङ्गः पिङ्गत्वमस्त्यस्य पिङ्गलः सिध्मादित्वाल्लः ॥ ४ ॥ श्यायते श्यावः “लटिखटि - " || ( उणा - ५०५ ) ॥ इति वः ॥ ५ ॥ पिशति पिशङ्गः: “विडिविलि - " ॥ ( उणा - १०१ ) ॥ इतिः किदङ्गः ॥ ६ ॥ कपिर्मर्कटवर्णोऽस्त्यस्य कपिशः लोमादित्वात् शः ॥ ७ ॥ हरति हृरिः ॥ ८ ॥ ॥ ३२ ॥ बिभर्त्ति बभ्रुः ॥ ९ ॥ कतृ कुत्सितं द्रवति कद्दुः " हरिपीति - " ॥ ( उणा - ७४५ ) ॥ इति डिदुः ॥ १० ॥ कडति कहारः " अग्यङ्गि - " ( उणा - ४०५ ) ॥ इत्यारः ॥ ११ ॥ पिबति वर्णान् पिङ्गः स्फुलि कलि- ው ( उणा - १०२ ) ॥ इतीङ्गक् तत्र ॥ १२ ॥
५०
कृष्णस्तु मेचकः ।
स्याद् रामः श्यामलः श्यामः कालोनोलोऽसितः शितिः ॥ ३३॥
कति वर्णान् कृष्ण: "घृवीहवा - " ॥ ( उणा - १८३ ) ॥ इति कित्णः
॥ १ ॥ मचते मिश्रीभवति मेचक: पुक्लीबलिङ्गः " कीचक - " ॥ ( उणा-३३ ) ॥ इत्यके निपात्यते, "मेचकः शिखिकण्ठामः" इति दुर्गः ॥ २ ॥ रमते मनोऽत्र रामः
Page #561
--------------------------------------------------------------------------
________________
६ षष्ठः काण्डः।
५६१
॥ ३ ॥ श्यामं श्यामत्वं लाति श्यामल: । ४ ॥ श्यायते श्यामः “ विलिभिलि-"॥ ( उणा-३४० ) इति मः ॥ ५ । कालयति मनः कालः ॥ ६ ॥ नीलति नील: पुंक्लीबलिङ्गः ॥ ७॥ सितविरुद्धोऽसितः ॥ ८॥ शिनुतात् शितिः " तिकृती नानि" ॥ ५। १ । ७१ ॥ इति तिक् ॥ ९ ॥ ॥ ३३ ॥
रक्तश्यामे पुनधूम्रधूमलौ रक्तश्चासौ श्यामश्च रक्तश्यामः तत्र ॥ १ ॥ धुनाति धूम्रः “ खुरक्षुर-* ॥ ( उणा-३९६ ॥ इति निपात्यते ॥ २ ॥ धूम्रवर्ण लाति धूमलः ॥ ३ ॥
अथ कबुरः किरि एतः शबलश्चित्रकल्माषचित्तलाः ॥ ३४ ॥ कर्बति कर्बुरः " वाश्यसि-" ॥ ( उणा-४२३ ) ॥ इत्युरः ॥ १॥ कीर्यते किम्मीरः "जम्बीर-" ॥ ( उणा-४२१) ॥ इतीरे निपात्यते ॥ २ ॥ एत्येतः " दम्यमि-" ॥ ( उणा-२००) ॥ इति तः ॥ ३ ॥ शाम्यति शबल: “ शमे. 4 च पा" ॥ (उणा-४७०) ॥ इत्यलः ॥ ४॥ चीयते चित्रः " चिमिदि-" ॥ ( उणा-४५४ ) ॥ इति कित् त्रः ॥ कलयति वर्णान् कल्माषः " कुलेश्च माषक्." ( उणा-५६३ ) ॥ ॥ ६ ॥ चित्रान् वर्णान् लाति चित्रलः ॥ ७ ॥ ॥ ३४ ॥
शब्दों निनादो निर्घोषः स्वानो ध्वानः स्वरो ध्वनिः । निह दो निनदो हादो निःस्वानो निःस्वनः स्वनः ॥ ३५ ॥ रवो नादः स्वनिर्घोषः संव्याङ्झ्यो राव आखः ।
क्वणनं निक्कणः काणो निक्वाणश्च कणो रणः ॥ ३६ ॥ शपति कूटोच्चारणं शब्दः " शाशपिमनि-" ॥ ( उणा-२३७ ) ॥ इति दः शब्द्यते वा ॥ १ ॥ चिनदनं निनादः ॥ २ ॥ निर्घोषणं निर्घोषः ॥३॥ स्वननं खान: ॥ ४ ॥ ध्वननं ध्वानः ॥ ५ ॥ स्वरति खरः ॥ ६ ॥ ध्वननं ध्वनिः “ पदिपठि-" ॥ ( उणा - ६०७) ॥ इति इ: ॥ ७ ॥ निर्हादनं निींदः ॥ ८ ॥ निनदनं निनदः "नेनंदगद-" ॥ ५ ॥ ३ ॥ २६ ॥ इति वाऽल् ॥ ९ ॥ हादनं हादः ॥ १० ॥ नि:खननं नि:खानः घञ् ॥ ११ ॥ " नेनद-" ॥ ५। २ । २६ ॥ इत्यलि निःस्वनः ॥ १२ ॥ खननं खनः, “ नवा कणयमहसवन: " ॥ ५। ३ । ४८ ॥ इत्यल ॥ १३ ॥ ॥ ३५ ॥ रवणं रवः रावोऽपि ॥ १४ ॥ नदनं नादः ॥१५॥ खननं खनि: " पदिपठि-" ॥ ( उणा-६०७ ) ॥ इति इः ॥ १६ ॥ घोषणं घोषः ॥ १७ ॥ संव्याङ्भ्य उपसर्गेभ्यः परो रावः संरवणं संरावः ॥ १८॥ एवं विरावः ॥ १९ ॥
Page #562
--------------------------------------------------------------------------
________________
५६२
अभिधानचिन्तामणीआराव: " रोरुपसर्मात् " ॥ ५॥३२२ ॥ इति घञ् ॥ २० ॥ “ भाडो सप्लो: "" ॥५॥३॥४५॥ इति वाऽलि आरवः ॥२१॥ कण्यते क्वणनम् ॥२२॥ निक्कणमं निकणाः “ नेर्नद गदपठखनक्वणः " ॥ ५॥ ३ ॥ २६ ॥ इति वाइल् ॥ २३ ॥ कणनं वाणी ॥ २४ ॥ घनि निक्वाणः ॥ २५ ॥ " नवा कण-" ॥५।३। ४८ ॥ इत्यसि क्वण: ॥ २६ ॥ रणनं रणः “ युवर्ण-" ॥ ५ । ३ । २८ ॥ इत्यल् ॥२७॥॥३६॥
षड्ज-ऋषभ-गान्धारा मध्यमः पञ्चमस्तथा । भैवतो निषधः सप्त तन्त्रीकण्ठोद्भवाः स्वराः ।। ३७ ॥
षड्भ्यो जायते षड्जः, यद्वयडि:"कण्ठादुत्तिष्ठते व्यक्त षड्जः षड्भ्यस्तु जायते। . कण्ठोरुस्तालुनासाभ्यो जिवाया दशनादपि" ॥१॥ ऋषभो गोरुतसंवादित्वात्, यदाह व्यडि:"वायुः समुत्थितो नाभेः कण्ठशीर्षसमाहतः। नर्ददृषभवद् यस्मात् तेनैष ऋषभः स्मृतः ॥ ३॥ गां वाचं धारयलि गान्धारः गन्धवहमियर्ति वा । यदाहवायुः समुत्थितो नाभेः कण्ठशीर्षपमाहतः। . नानागन्धवहः पुण्यैः गान्धारस्तेन हेतुना ॥ ३ ॥ मध्ये भवो मध्यमः यदाह"तद्वदेवोत्थितो वायुरुरःकण्ठसमाहतः । नाभिप्राप्तो महानादो मध्यमस्तन हेतुना" ॥ ४ ॥ पश्चमस्थानभवत्वात् पञ्चमः यदाह- . "वायुः समुत्थितः नाभेमरोहत्कण्ठमूर्धसु । विचरन् पञ्चमस्थानप्राप्तया पञ्चमः उच्यते" ॥ ५ ॥ धिया वतो धीवतस्तस्याऽयं धैवत:, दधाति संधत्ते स्वरानिति वा; यदाह
"अधिसंधीयते यस्मात् स्वस्तेिनैष धैवतः"। "पुतपित्त-" || ( उणा-२०४ ) ।। इति ते निपात्यते ॥६॥ निषीदन्ति स्वरा अत्र निषधो निषादाख्यः यदाह-"निषदिन्ति स्वस अस्मिन् निषादस्तेन हेतुना" ।
द्विधा हि वीणा-शारीरी दारुजातेति, तत्र दारुजायां तन्त्रीतः शारीयों कण्ठादुदभवन्ति तन्त्रीकण्ठोद्भवाः । वंशमुरजादयस्तु स्वरानुकारमात्रकारित्वात् स्वरहेतुत्वेन नेहोकाः ॥ ७ ॥
Page #563
--------------------------------------------------------------------------
________________
६ षष्ठः काण्डः। ते मन्द्रमध्यताराः स्युरुरःकण्ठशिरोभवाः । ते ऋषभादय: स्वराः प्रत्येकमुर प्रमृतिस्थानभेदेन मन्द्रता मध्यतो तारतां च अक्लम्बन्ते, यद् दत्तिलः
"नृणामुरसि मन्द्रस्तु द्वाविंशतिविधो ध्वनि:1 ..
स एव कण्ठे मध्यः स्थाव तारः शिरसि गीयते" ॥१॥ रुदितं ऋन्दितं क्रुष्टम् रोदन रुदितं ॥ १॥ क्रन्दनं क्रन्दितं ॥ २ ॥ मोशनं कुष्टम् ॥ ३ ॥
तदपुष्टं तु गह्वरम् ॥ ३८ ॥ _____ तत् इदितमपुष्टं गद्गदस्वरत्वादजातोचपूत्कारं माहते हृदयान्तर्गवरः " जठर" ॥ ( उणा ४०३ ) ॥ इत्यरे निपात्यते ॥ १ ॥३८॥
शब्दो गुणानुरागोत्थः प्रणादः सौत्कृतं नृणाम् । प्रणदनं प्रणादः ॥ १॥ सीत्करणं सीत्कृतम् ॥२॥
पर्दनं गुदजे शब्दे पर्दते पईनं ॥१॥
कईनं कुक्षिसंमवे ॥ ३९ ॥ __ कर्दते कईनं ॥ १ ॥
क्ष्वेडा तु सिंहनादः 'विडा अव्यक्तशब्द ' क्ष्वेडनं श्वेडा भिदादित्वात साधुः ॥१॥ सिंहस्येव नदन भटानों सिंहनादः ॥ २ ॥
- अथ क्रन्दनं सुभटध्वनिः ।
'दु भावाने ' क्रन्दतेऽनेन क्रन्दनं प्रतिभटावानश्वनिः ॥ १ ॥ .. कोलाहलः कलकलः
कोलमप्यालति त्रासयति कोलाहल: पुंक्लीबलिङ्गः ॥ १ ॥ कल्पते कलकल: * अदुपान्त्य ऋद्भ्यामश्चान्ते" ॥ ( उणा १४ ) ॥ इति अप्रत्ययो द्वित्वं च, कलो व्यक्तो वा आमीक्ष्ण्ये द्वित्वम् ॥ १ ॥
तुमुलो व्याकुलो रवः ॥ ४० ॥ · ताम्यन्त्यनेन तुमुलः "कुमुलतुमुल" ॥ (उणा ४८७) ॥ इत्युले निपात्यते ॥१॥४॥
Page #564
--------------------------------------------------------------------------
________________
५६४
अभिधानचिन्तामणौ
मर्म वस्त्रपत्रादेः
'मृश् हिंसायाम् ' मृणाति मर्मर : " त्रतष्टित् " ॥ ( उणा ९ ) ॥ इत्यप्रत्ययः
स्वरूपद्वित्वं च ॥ १ ॥
भूषणानां तु शिजितम् ।
भूषणानां वलयादीनां रवः शिञ्जनं शिञ्जितं ॥ ९ ॥
हेषा द्वेषा तुरंगाणाम्
रव इति सर्वत्र संबध्यते हेषणं हेषा ||१|| हेषणं हेवा "केट : " || ५|३|१०६ ॥ इत्यः ॥ २ ॥
गर्जनं गजबृंहिते ॥
४१ ॥
गर्जनं गर्जः, गर्जाऽपि ॥ १ ॥ ' बृहुङ् शब्दे' बृंहणं बृंहितम् ॥ २ ॥ ४१ ॥
विस्फारो धनुषाम्
विस्फुरणं विस्फारः “ स्फुरस्फुलोर्घञ " || ४|२| ४ || इत्यात्वम् ॥ १ भारम्भे गोः
अहमित्यंभते शब्दायते हंभा, हंभेत्यनुकरणं वा ॥ १ ॥ 'रभुङ् शब्दे ' रंभणं रंभा ॥ २ ॥
जलदस्य तु ।
स्तनितं गर्जितं गर्जिः स्वनितं रसितादि च ॥ ४२ ॥
स्तन्यते स्तनितं ॥ १ ॥ गर्जनं गर्जितं ॥ २ ॥ " पदिपठि ” ॥ ( उणा - ६०७ ) ॥ इति इ: प्रत्यये गर्जिः पुलिङ्गः || ३ || स्वननं स्वनितं ॥ ४ ॥ रसनं रसितम् आदिशब्दाद् ध्वनितादयः ॥ ५ ॥ ४२ ॥
कूजितं स्याद् विहङ्गानाम्
कूजनं कूजितम् ॥ १ ॥ तिरश्चां रुतवाशिते ।
तिरश्चां मृगपक्षिणां ध्वनिः रवणं रुतम् ॥ १ ॥ ' वाशिच शब्दे' वाशनं वाशितम् ॥ २ ॥
वृकस्य रेषणं रेषा
८.
' रेषृङ् अव्यक्ते शब्दे ' रेष्यते रेषणम् ॥ १ ॥ “ केट:- " ॥ ५ । ३ । १०६ ॥ इत्यप्रत्यये रेषा ॥ २ ॥
Page #565
--------------------------------------------------------------------------
________________
६ षष्ठः काण्डः।
बुकनं. भषणं शुनः ॥ ३॥ 'घुकं भषणे ' बुक्क्यते बुकनम् ॥१॥ ' भष भोने' भध्यते भषणम् ॥२॥ ॥४३॥
पीडितानां तु कणितं न्याधिप्रहारादिभिः पीडितानां शब्दः कणनं कणितम् 'कणतिरार्तशब्दे' ॥१॥
मणितं रतकूजितम् । रते सुरते जम्पतीनां कूजितमन्यक्कशब्दो मणनं मणितम् ॥ १॥
प्रकाणः प्रक्वणस्तन्त्र्याः तन्त्री वीणानायुस्तस्या रवः प्रकणनं प्रकाणः, प्रकणः "वैणे कणः ॥५॥३॥ २७ ॥ इति वाऽल् ॥१॥२॥ . ! मर्दलस्य तु गुन्दलः ॥ ४४ ॥ गुन्देति शब्दं लाति गुन्दल; ॥१॥॥४४॥
क्षीजनं तु कीचकानाम् 'क्षीज अव्यक्ते शब्दे ' क्षीज्यते क्षीजनम् ॥ २ ॥
मेर्या नादस्तु दद्रुरः। दवशब्दं राति दवरः ॥१॥
सारोऽत्युच्चैर्ध्वनिः तारयति स्वरं स्थानेभ्यः स्थानान्तरं नयति तारः ॥१॥
मन्द्रो गम्भीरः मन्यते मध्यताराभ्यां मन्द्रः " भीवृधि-" ॥ ( उणा-३८७ ) ॥ इति रः, मद्रोऽपि ॥5॥
मधुरः कलः ॥ ४६॥ कलते कलः, कं सुखं लातीति वा ॥१॥॥ ४५ ॥
काकली तु कलः सूक्ष्मः ईषत्कलोऽस्यां काकली, यदाह निषादः-"काकलीसंज्ञो द्विः श्रुत्युत्कर्षणाद् भवेत्"। काकलिरपि ॥ १॥
एकतालो लयानुगः ।। एकः समस्तालो मानमस्य एकतालः अभिन्नकालमान इत्यर्थः ॥ १ ॥ लयो ऽनुगोऽस्य लयानुगः समन्वितलय इत्यर्थः ॥ २ ॥
Page #566
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणौकाकुर्ध्वनिविकारः स्यात् ...कायत्यर्थान्तरं काकुः पुंस्त्रीलिङ्गः, “कैशीशमि-" ॥ ( उणा-७४९ ) ॥ इति कुः, ककते प्रकृतार्थातिरिक्तं वाञ्छतीति वा. हृदयस्थवस्तुप्रतीतेरीषभूमिर्वा, काकु. . जिह्वा तद्व्यापारसंपाद्यत्वाद्वा ॥१॥ ध्वनेर्विकारोऽन्यथापत्तिर्ध्वनिविकारः ॥ २ ॥
प्रतिश्रुत् तु प्रतिध्वनिः ॥ ४६॥ ___प्रतिरूपः श्रूयते प्रतिश्रुत् "कुत्संपदादि-" ॥ ५। ३ । ११४ ॥ इति क्विम् ॥१॥ प्रतिरूपो ध्वनिः प्रतिध्वनिः प्रतिशब्दः ॥ २ ॥ ४६॥ ..
सङ्घाते प्रकरौघवारनिकरव्यूहाः समूहश्चयः संदोहः समुदायराशिविसरवाताः कलापो व्रजः। कूटं मण्डलचक्रवालपटलस्तोमा गणः पेटकं वृन्दं चक्रकदम्बके समुदयः पुनोत्करौ संहतिः ॥ १७ ॥ समवायो निकुरुम्बं जालं निवहसञ्चयौ ।
जातं
संहन्यते सङ्घातस्तत्र ॥ १॥ प्रकीर्यते प्रकरः ॥ २ ॥ ऊह्यते ओधः, न्यङ्क्वादित्वाद् घजि साधुः ॥ ३॥ वियते वारः पुंक्लोबलिङ्गः, बाहुलकात् घज्ञ ॥ ४ ॥ निकीर्यते निकरः, आकारोऽपि ॥५॥ व्यूहते व्यूहः ॥ ६ ॥ समुह्यते ढौक्यते समूहः ॥ ७ ॥ चीयते चयः ॥ ८ ॥ संदुह्यते पूर्यते संदोहः ॥ ९ ॥ 'अयि गतौ' इत्यस्य समुदयनं समुदायः, घञ् ॥ १० ॥ अश्नुते राशिः पुंलिङ्गः "अशो रश्चादिः ॥ ( उणा-६२२)॥ इति णिदिः ॥ ११॥ विस्त्रियते विसरः, बाहुलकादल ॥ १२ ॥ वियते व्रातः "कृवृकल्यलि-" ॥ ( उणा-२०९)॥ इत्यातक् ॥ १३ ॥ कल्यते कलाप: "कलेरापः" ॥ ( उणा-३०८) ॥ १४ ॥ वजन्यस्मिन् व्रजः "गोचरसंचर-" ॥ ५।३।१३१॥ इति साधुः ॥ १५ ॥ कूट्यते कूटं पुंक्तीबलिङ्गौ ॥ १६॥ मण्ड्यते मण्डलं त्रिलिङ्गः "मृदिकन्दि."॥ ( उणा-४६५) ॥ इत्यलः ॥ १७ ॥ चक्यते चक्रवालः "चात्वाल-" ॥ ( उणा-४८० ॥ इत्याले निपात्यते, 'चक्राकारेण चलनमस्य वा ॥ १८ ॥ पटति पटलः स्त्रोक्लीबलिङ्गः, "मृदिकान्द-"॥ ( उणा-४६५) ॥ इत्यलप्रत्ययः ॥ १९ ॥ 'स्तोमण संघाते' स्तोम्यते स्तोमः ॥ २० ॥ गण्यते गणः ॥ २१ ॥ पेटति पेटः लिहादित्वादच, ततः स्वार्थे के पेटकं त्रिलिङ्गः ॥ २२ ॥ त्रियते वृन्दं "वृतुकुसुभ्यो नोन्तश्च" ॥ ( उणा-२४० ) ॥ इति दः ॥ २३ ॥ क्रियते चक्रं पुंक्लीबलिङ्गः "कृगो द्वे च" ॥ ( उणा-७ ) ॥ इति साधुः ॥ २४ ॥ 'कदिः सौत्र;' कद्यते कदम्ब " कदेर्णिद्वा ". ॥ (उणा
Page #567
--------------------------------------------------------------------------
________________
६ षष्ठः काण्ड: ।
१६७
३२२ ) || इत्यम्ब के कदम्बकम्, कुत्सितमम्बते वा ॥ २५ ॥ समुदयनं समुदयः, इणो ॥ २६ ॥ पूयते पुञ्जः "पुवः पुन् च' ॥ ( उणा - १२८ ) ॥ इति जः ॥ २७ ॥ उत्कीर्यते उत्करः ॥ २८ ॥ संहननं संहतिः ॥ २९ ॥ ४७ ॥ समवेय समवायः ॥ ३० ॥ निकुरति निकुरुम्बम् " कुट्युन्दि " ॥ ( उणा - ३२६ ) ॥ इति किदुम्बः ॥ ३१ ॥ जलति जालं स्त्रीक्ला बलिङ्गः, ज्वलादित्वाद् णः ॥ ३२ ॥ निवइति निवहः ॥ ३३ ॥ संचीयते संचयः ॥ ३४ ॥ जायते स्म जातम् ॥ ३५ ॥ तिरश्चां तद् यूथं
तद् वृन्दं तिरश्चां पशूनाम्, यूथन्त्यत्र यूथं पुंक्लीबलिङ्ग: "पथयूथ - " ॥ ( उणा - २३१ ) ॥ इति थे निपात्यते, यथा- मृगयूथः ॥ १ ॥
सङ्घस्रार्थौ तु देहिनाम् ॥ ४८ ॥
"
देहिनां प्राणिनां वृन्दम्, संहन्यते सङ्घः “निघोङ्घसङ्घ ” ॥ ५९३ ॥ ३६ ॥ इत्यलि साधुः, यथा-श्रमणादिश्चतुर्विधः सङ्घः, मेघसङ्घाद्युपचाराद् ॥ १ ॥ सरतिः सार्थः अध्वगवृन्दम्, “सत्तैर्णित् " ॥ ( उणा - २३० ) ॥ इति थः, यथा - पान्थसार्थ:॥ २ ॥ ४८ ॥ F
कुलं तेषां सजातीनां
तेषां देहिनां सजातीयानां वृन्दम्, कोलति कुलम्, यथा-विप्रकुलम्, मृगकुलम् ॥ १॥ निकायस्त सधर्मिणाम् ।
समानानां वृन्दं निश्चीयते निकाय: " सङ्घेऽनूर्ध्वे " ॥ ५ । ३ । ८० ॥ इति घञ् कत्वं च यथा - वैयाकरणनिकायः, चत्वारो देवनिकाया इति ॥ १ ॥ वर्गस्तु सदृशां
सदृशानां सजातीयानां प्राणिनामप्राणिनां वृन्दं वृज्यते विजातीयेभ्यो वर्ग:, यथाब्राह्मणवर्ग:, अरिषड्वर्गः, त्रिवर्ग इति ॥ १ ॥
स्कन्धो नरकुञ्जरवाजिनाम् ॥ ४९ ॥
स्कद्यते स्कन्धः ॥ १ ॥ ४९ ॥
ग्रामो विषयशब्दास्त्र भूतेन्द्रियगुणाद् व्रजे ।
विषयादेः परो प्रामशब्दः सामर्थ्याद् विषयादेरेव वजे वर्तते, ग्रसते प्राम: “प्रसिहाग्भ्यां ग्राजिह्मै च” ॥ ( उणा - ३३९) । इति मा साधुः, यथा - विषयग्रामः शब्दप्रामः, अस्त्रग्रामः भूतग्रामः, इन्द्रियग्रामः, गुणग्राम इति ॥ १ ॥
समजस्तु पशूनां स्यात्
Page #568
--------------------------------------------------------------------------
________________
५६८
अभिधानचिन्तामणी
संवीयते समजः “समुदोऽजः पशौ" || ५ | ३ | ३० ॥ इत्यल् ॥ १ ॥ समाजस्त्वन्यदेहिनाम् ॥ ५० ॥
संवीयते समाजः पशुभ्योऽन्येषां वृन्दम्, अत्र घञेव, यथा श्रोत्रियसमाजः॥ १॥ शुकादीनां गणे शौकमायूरतैत्तिरादयः ।
"
शुकानाम्, मयूराणाम्, तित्तिराणां समूहः शौकम् ॥ १ ॥ मायूरम् ॥ २ ॥ तैतिरम् “षष्ठ्याः समूहे " ॥ ६ । २ । ९ ॥ इत्यण् ॥ ३॥ आदिग्रहणात् कापोतादयः ।
भिक्षादेशसाहस्रगार्भिणयौवतादयः ॥ ५१ ॥
भिक्षाणाम्, सहस्त्राणाम्, गर्भिणीनाम, युवतीनच समूहो भैक्षमित्यादयः॥१॥५१॥ गोत्रार्थप्रत्ययान्तानां स्युरौपगवकादयः ।
गोत्रमपत्यं तस्मिन्नर्थे विहिता येऽणादयः प्रत्ययास्तदन्तानामित्यर्थः, उपगोरपस्यानि औपगवास्तेषां समूह औपगवकं "मोत्रोक्ष- " ॥ ६ ॥ २ ॥१२॥ इत्यकञ् ॥१॥u आदिशब्दात् गार्गकादयः ॥
उक्षादेरौक्षकं मानुष्यकं वार्द्धकमैौष्टकम् ॥ १२ ॥
स्याद् राजपुत्रकं राजन्यकं राजकमाजकम् ।. वात्सकौर के
उणां मूहः औक्षकम् एवमन्येऽपि " गोत्रोक्षवत्सोष्ट्रा दाजोर भ्रमनुष्यराजराजन्यराजपुत्रादकञ्” ॥ ६ । २ । १२ ॥ १ ॥ ५२ ॥
कावचिकं कवचिनामपि ॥ ५३ ॥
कवचिनां समूहः कावचिकम् " कवचिहस्त्यचित्ताच्चे कण्” ॥ ६ ।२।१४ ॥ १ ॥५३॥# हास्तिकं तु हस्तिनां स्यात्
हस्तिनाम्, लिङ्गविशिष्टस्यापि ग्रहणात् हस्तिनीनां वा समूहो हास्तिकम् ॥ १ ॥ आपूपिकाद्यचेतसाम् ।
अपूपानां समूह आपूपिकम्, अचित्तत्वादिकं ॥ १ ॥ आदिग्रहणात् शाष्कुलिक- पार्वतिकादयः ॥
धेनूनां धैनुकंधेन्वन्तानां गौधेनुकादयः ॥ ५४ ॥
धेनूनां समूह धैनुकम् “घेनोरनञः” ॥ ६ । २ । १५ ॥ इतीकण, गोधेनूनां समूहों गोधेनुकम् ॥ १ ॥ ५४ ॥
कैदारकं कैदारिकं कैदार्यमपि तद्गणे ।
केदाराणां समूहः कैदारकम्, कैदार्यम् " केदारांण्ण्यश्च " ॥ ६२ ॥ १३ ॥
Page #569
--------------------------------------------------------------------------
________________
६ षष्ठः काण्डः
इत्यकञ् ण्यश्च प्रत्ययः १ ॥ २ ॥ अचित्तत्वादिकनि कैदारिकम् ॥ ३ ॥ ब्राह्मणादेर्ब्राह्मण्यं माणव्यं वाडव्यमित्यपि ॥ ५५ ॥
ब्राह्मणानाम्, माणवानाम्, वाडवानां समूहो ब्राह्मण्यम्, माणव्यम्, वाडव्यम् "ब्राह्मणमाणववाडवाद्यः " ॥ ६ । २ । १६ ।। १ । २ । ३ ।। ५५ ।।
५६९
गणिकानां तु गाणिक्यम्
गणिकानां समूहो गाणिक्यम् "गणिकाया ण्यः " ॥ ६ ॥ ११७ ॥ १ ॥ केशानां कैश्य कैशिके ।
केशानां समूहः कैश्यम्, कैशिकम् " केशाद्वा" ॥६|२|१८॥१॥ पक्षेऽचित्तत्वादिकण् ॥ २ ॥
अश्वानामाश्वमश्वीयं
अश्वानां समूह आश्वम्, अश्वीयम् " वाऽश्वादीयः ॥ ६ । २ । १९ ॥१॥२॥ पशूनां पार्श्वमपि
पर्शुनां समूहः पार्श्वम् “पर्श्वा वण्” ॥६ । २ । २० ॥ शौकमायूरादयः शब्दाः 'आ त्वात् त्वादिः समूहज:' इति क्ली बलिङ्गाः १
अथ ॥ ५६ ॥ वातूलवात्ये वातानां
वातानां समूहो वातूल: पुंलिङ्गः "गोरथवातात् त्रल्क ट्यलुलम् ” ॥ ६ ॥ २ ॥ २४ ॥ इत्यूलः ॥ १ ॥ “पाशादेश्व ल्यः ॥ ६ । २ । २५ ॥ इति ल्ये वायां ॥ २ ॥ गव्यागोत्रे पुनर्गवाम् |
गवां समूहः गव्या “पाशादेश्च व्यः" || ६ । २ । २५ ॥ इति ल्यः ॥ १ ॥ " गोरथ-" ॥६।२।२४॥ इति त्रलि गोत्रा ॥ २ ॥
पाश्याखल्यादि पाशादेः
पाशानाम्, खलानां च समूहः पाश्या, खल्या पाशादित्वालल्यः ॥ १२ ॥ आदिशब्दात् तृण्या-धूम्यादयः ॥
खलादेः खलिनीनिभाः ॥ ५७ ॥
खलानां समूहः खलिनी “खलादिभ्यो लिन्” || ६ | २ | २७ ॥ १ ॥ निभ ग्रहणात् कुन्दुनिनोत्यादयः ॥ ५७ ॥
जनता बन्धुता ग्रामता गजता सहायता । अनादीनां
Page #570
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणौ
जनानां समूहो जनता एवमन्येऽपि " प्रामजनबन्धुराजसहायात् तल" ॥ ६ ॥ २ । २८ ॥ १ ॥
रथानां तु स्याद् रथ्या स्थकव्यया ॥ ५८ ॥
रथानां समूहो रथ्या " पाशादेश्व - " ।। ६ । २ । २५ ॥ इति ल्यः ॥ १ ॥. “ गोरथ -” ॥ ६ । २ । २४ ॥ इति कट्याल रथकट्या, वात्यादय: 'लिन्मिन्यनियस्त्रियुक्ताः' इति लानुबन्धप्रत्ययान्तत्वात् स्त्रियां वर्तन्ते ॥ २ ॥ ५८ ॥ राजिर्लेखा ततिर्वीथीमालाल्यावलिपङ्क्तयः ।
धोरणी श्रेणी
५७०
राजते राजिः स्त्रीलिङ्गः " पदिपटि - " ॥ ( उणा६०७ ) ॥ इति इः ॥ १ ॥ लिख्यतेऽनया लेखा, भिदादित्वात् साधुः ॥ २ ॥ तन्यते ततिः ॥ ३ वीयते वीथि: “वीसञ्ज्यसि” ॥ ( उणा - ६६९ ) ॥ इति थिक्, ङयां वीथी ॥ ४ ॥ मीयते माला "शामाश्या - " ॥ ( उणा - ४६२ ) ॥ इति लः, मल्यते वा ॥ ५॥ अलत्यालि: “कृशृकुटि -” ॥ ( उणा - ६१९ ) ॥ इति णिदिः ॥ ६ ॥ आवलति आवलि: “पदिपठि–” ॥ ( उणा-६०७ ) ॥ इति इ:, स्त्रीलिङ्गौ ॥ ७ ॥ पञ्च्यते पङ्क्तिः ॥ ८ ॥ धोरन्त्यस्थां धोरणी ॥ ९ ॥ श्रीयते श्रेणिः पुंस्त्रीलिङ्गः, ड्यां श्रेणी ॥ १० ॥ उभौ द्वौ
तु
उभतः पूरयतो द्वित्वमुभौ ॥ १ ॥
युगलं द्वितयं द्वयम् ॥ ५९ ॥
युगं द्वैतं यमं द्वन्द्वं युग्मं यमलयामले ।
युज्यते युगलम् "मुरल - " ॥ ( उणा - ४७४) ॥ इत्यले निपात्यते, धर्मवृत्तौ
युगं लातीति वा ॥ १ ॥ द्वाववयवावस्य द्वितयम् "अवयवात्तयट्” ॥७|१|१५१॥
..
॥ २ ॥ “ द्वित्रिभ्याम् - " ॥ ७ । १ । १५२ ॥ इत्ययटि द्वयम् एते त्रयः स्त्रीक्लीबलिङ्गाः ॥ ३ ॥ ॥ ५९ ॥ युज्यतेऽनेन युगं वर्षादित्वादलि न्यक्कादित्वाद् गत्वम् ||४|| द्वयोर्भाव द्विता द्वितैव द्वैतं प्रज्ञादित्वादण् ॥ ५ ॥ यच्छति यमम् ॥ ६ ॥ वन्द्यते द्वन्द्वम् “ प्रवाहूवा-” ॥ ( उणा - ५१४ ) ॥ इति वे निपात्यते ॥ ७ ॥ युज्यते युग्मम् “ तिजियुजेर्ग् च ॥ ( उणा-३४५ ) ॥ इति किद् मः ॥ ८ ॥ यच्छति
29
यमं लाति वा ॥ ९ ॥ यम
यमलम् “मृदिकन्दि-” || ( उणा - ४६५ ) ॥ इत्यल:, लमेव यामलम् प्रज्ञादित्वादण्, जकुटमपि ॥ १० ॥
पशुभ्यो गोयुगं युग्मे परम्
पशुनामभ्यः परं युग्मे द्वित्वे वाच्ये गोयुगं प्रयुज्यते, यथा- गवोरश्वयोश्च द्वित्वं
Page #571
--------------------------------------------------------------------------
________________
.. ६ षष्ठः काण्डः ।
गोयुगम्, अश्वगोयुगम्, “द्वित्वे गोयुगः" ॥११११३४॥ इति गोयुगप्रत्ययः ।।१॥२॥
षट्वे तु षड्गवम् ॥ ६॥ पशुनामभ्यः परं षट्वे वाच्ये षड्गवमिति प्रयुज्यते, यथा हस्तिनामश्वानां च षट्त्वं हस्तिषड्गवम्, अश्वषड्गवं * षत्वे षड्गवः” ॥ ७॥ १।१३५ ॥ इति षड्गवप्रत्ययः ॥ १ ॥ २ ॥ ॥ ६ ॥
परःशताद्यास्ते येषां परा सङ्ख्या शतादिकात् ।। येषां सङ्ख्येयानां शतात् पंरा शतादूर्ध्व सङ्ख्या ते शतात् परे परःशता: कुञ्जराः " परःशतादिः" ॥ ३।।। ७५ ॥ इति पञ्चमीतत्पुरुष साधुः ॥१॥ आदिग्रहणात् परःसहस्राः, परोलक्षा इत्यादयः ॥
प्राज्यं प्रभूतं प्रचुर बहुलं बहु पुष्कलम् ॥ ६१ ॥
भूयिष्ठं पुरुहं भूयो भूर्यदभ्रं पुरु स्फिरम् । प्राज्यते, प्रकर्षण जायते वा प्राज्यम् “शिक्यास्यान्य-" ॥ ( उणा-३६४)। इति ये निपात्यते ॥ १॥ प्रभवति प्रभूतम् " शीरी-" ( उणा-२०१ ) ॥ इति कित् तः ॥ २ ॥ प्रचीयते प्रचोर्यते वा प्रचुरम् "खुरक्षुर-" ॥ ( उणा-३९६ ॥ इति रे निपात्यते ॥ ३ ॥ बहते बहुलम् "स्थावकि-'॥ (उणा-४८६) ॥ इत्युलो नलुक् च, बहु लातीति वा बहुलः ॥ ४ ॥ बहति बहु " मिवहि-"॥ ( उणा७२६ ) ॥ इति उः ॥ ५॥ पुष्यति पुष्कलम् “वलिपुषे: कलक्"। (उणा-४९६) ॥ ६ ॥ ६१ ॥ अतिशयेन बहु भूयिष्ठम् “ बहोर्णीष्ठे भूय " ॥ ७ ॥ ४ ॥ ४० ॥ इतीष्ठे भूयादेशः ॥७॥ पुर्विति हुयते पुरुहम् “ क्वचित् " ॥ ५॥ १। १७१॥ इति डे पृषोदरादित्वात् साधुः, पुरुत्वं जिहीते वा ॥ ८ ॥ अतिशयेन बहु भूयः "भूर्लक् चेवर्णस्य " ॥ ७ ॥ ४ । ४१ ॥ इतीयसि साधुः ॥।॥ भवति सर्वमत्र भूरि "भूसूकुशि-" ॥ ( उणा-६९३ ) ॥ इति किदिः ॥१०॥ न दभ्रमदभ्रम् ॥११॥ पूर्यते पुरु “पृकाहृषि-" ॥ ( उणा-७१९ ) ॥ इति किदुः॥ १२ ॥ स्फायते स्फिरम् “स्थविर-" ॥ ( उणा-४१७) ॥ इतीरे निपात्यते ॥ १३ ॥
स्तोकं क्षुलं तुच्छमल्पं दभ्राणुतलिनानि च ॥ ६२ ॥
तनु क्षुद्रं कृशं स्तूयले स्तोकम् “ भीण्शलि-" ॥ ( उणा-२१) ॥ इति कः ॥१॥ क्षुद्यते क्षुल्लम् “ भिल्लाच्छमल्ल-" ॥ ( उणा-४६४) ॥ इति ले निपात्यते, क्षुधं लातीति वा ॥ २ ॥ तुदति तुच्छम् “तुदिमदि-" ॥ ( उणा-१२४ ) ॥ छक् ॥ ३ ॥ अलत्यल्पम् “भापाचणि-" ॥ उणा-२९६ ) ॥ इति पः ॥ ४ ॥ दभ्यते दभ्रम् “ऋ.
Page #572
--------------------------------------------------------------------------
________________
५७२
अभिधानचिन्तामणौ
19
क्य जि - " ॥ ( खुणा - ३८८ ) इति कि रः ॥ ५ ॥ भणत्यणुः " मृमृतॄ-". ( उप्पा - ७१६ ) ॥ इत्युः ॥ ६ ॥ तिल्यते तलिनम् “ विपिनाजिना - " ॥ ( उणा- २८४ ) || इति साधुः ॥ ७ ॥ ॥ ६२ ॥ तन्यते तनुः ॥ ८ ॥ क्षुद्यते क्षुद्रम् " ऋज्यजि -” ॥ ( उणा-३८८ ) ॥ इति कि र: ॥ ९ ॥ करोति कृशम् " कृवृभृ - " ॥ ( उणा - ५२८ ) ॥ इति कितू शः, कृश्यति वा ॥ १० ॥
सूक्ष्मं पुनः श्लक्ष्णं च पेलवम् ।
॥
सूच्यते सूक्ष्मम् " रुक्मप्रीष्म - " || ( उणा - ३४६ ) श्लिष्यते श्लक्ष्णम् " भ्रूणतॄणगुणः - " ॥ ( उणा - १८६ ) ॥ पेलति पेलवम् " वडिवटि - " ॥ ( उणा - ५१५ ) ॥ इत्यवः ॥ ३ ॥
इति साधुः ॥ १ ॥
त्रुटौ मात्रालवो लेशः कणः
त्रुटति त्रुटि: "नाम्युपान्त्य " ॥ ( उणा - ६०९ ) ॥ इति किदिः स्त्रीलिङ्गोऽयं तत्र ॥ १ ॥ मीयतेऽल्पत्वान्मात्रा "हुयामा - " ॥ ( उणा - ४५१ ) ॥ इति त्रः ॥ २ ॥ लूबते लवः ॥ ३ ॥ लिश्यते लेशः ॥ ४ ॥ कणति निमीलयति कणः पुंस्त्रीलिङ्गः ॥ ५ ॥
इति साधुः ॥ २ ॥
ह्रस्वं पुनर्लघु ॥ ६३ ॥
ह्रसति ह्रस्वम् “लटिखटि-” ॥ ( उणा - ५०५ ) ॥ इति वः ॥ १ ॥ लङ्कध्यते लघुः “रङ्घिलङ्घि-” ॥ ( उणा - ७४० ) || इत्युर्नलुक् च ॥ ॥ ६३ ॥ अत्यल्पेऽल्पिष्ठमल्पीयः कनियोऽणीय इत्यपि ।
अतिशयेनाल्पमल्पिष्ठम्, अल्पियः "गुणाङ्गाद् इतीष्ठः, ईयसुश्च ॥ १ ॥ २ ॥ “अल्पयूनोः कन् वा” ॥ ७ ॥ ४ ॥ ३३ ॥ इति कनादेशे कनीयः, कनिष्ठमपि ॥३॥ अत्यणु अणीयः ॥ ४ ॥
दीर्घायसमे
ܕܝ
तुङ्गमुच्चमुन्नतमुद्धुरम् ॥ ६४ ॥ प्रांशू च्छ्रितमुदयं च
दृणाति हस्वभावं दीर्घम् “मघाघङ्घा " ॥ ( उणा - ११० ) ॥ इति घे निपात्यते ॥ १ ॥ आयच्छति स्म आयतम् ॥ २ ॥
ताम्यत्यनेन तुङ्गम् “ कमितमि " || ( उणा - १०७ ) ॥ इति डिदुङ्गः ॥ १ ॥ उदञ्चत्युच्चम् “न्युद्भ्यामञ्चेः-" ॥ (उणा - १००३) ॥ इति कप्रत्यये साधुः, उच्चीयत वा " क्वचित्" ॥ ५ । १ । १७१ ॥ इति ड: ॥ २ ॥ उन्नमति स्म उन्नतम् ॥ ३ ॥ उद्गता धूरस्य उदूधुरम् ॥ ४ ॥ ६४ ॥ प्राश्नुते प्रांशु "अरोरान्नोन्तश्च” ॥ ( उणा -
Page #573
--------------------------------------------------------------------------
________________
६ षष्ठः काण्डः ।
५७३ ७१९) ॥ इत्युः ॥५॥ ऊर्ध्वं श्रयते स्म उच्छ्रितम् ॥६॥ उच्चैरप्रमस्य उदप्रम् ॥७॥
न्यग् नीचं इस्वमन्थरे ।
खर्व कुब्जं वामनं च नियतमञ्चति न्यक् ॥ १॥ निम्नमश्चति नीचम्, नीरस्त्वस्य वा अनादित्वाद अप्रत्यये “प्रायोऽव्ययस्य" || ७।४।६५॥ इत्यन्सस्वरादिलोपः ॥ १॥ हसति हस्वम् ॥३॥ मथ्नाति मन्थरम् "ऋच्छिचटि-" ।। (उणा-३९५) ॥ इत्यरः ॥ ४॥ खर्वति खर्वम् ॥ ५॥ कूयते कुजम् "कुवः कुबकुनी च" ॥ ( उपा-१९९ )। इति साधुः ॥ ६ ॥ वाम ह्रस्वत्वमस्त्यस्य वामनः, अङ्गादित्वानः ॥ ७ ॥
विशालं तु विशङ्कटम् ॥६५॥ पृथूरु पृथुलं व्यूढं विकटं विपुलं बृहत् ।
स्फारं वरिष्ठं विस्तीर्ण ततं बहु महद् गुरु ॥ १६ ॥ विस्तृतं विशालम् , विशङ्कटम् "वेर्विस्तृते शालशङ्कटौ" ।। ७।१।१२३॥ इति माधू ॥१॥ २ ॥ ६५ ॥ प्रथते पृथु "रमिप्रथिभ्यामृच रस्य" ॥ ( उणा-७३०) ॥ इत्युः ॥ ३ ॥ इयर्ति उरु "महत्युर् च" ॥ ( उणा-७३७) ॥ इति उः ॥ ४ ॥ पृथुखं लाति पृथुलम् ॥ ५॥ विवहति स व्यूढम् ॥६॥ विस्तृतं विकटम् "कट:"॥ ७॥ १।१२४ ॥ इति कटः ॥ ७ ॥ विपोलति विपुलं ॥ ८॥ बर्हति बृहत् "दुहिबृहि-" ॥ ( उणा-८८४ ) ॥ इति कतृः॥९॥ स्फायते स्फारं "भीवृधि." ॥ ( उणा-३८७ ) ॥ इति रः ॥ १०॥ अतिशयेन उरु वरिष्ठं "प्रियस्थिर-" ॥ ७।४।३८ ॥ इतीष्ठे वरादेशः ॥ ११ ॥ विस्तृणाति स्म विस्तीर्णम् ॥ १२ ॥ तन्यते ततम् ॥ १३ ॥ बहति बहु ॥ १४ ॥ मयते महत् “हिवृहि-" ॥ (उणा-८८४)॥ इति कतृः ॥ १५ ॥ गिरति गुरु ॥ १६ ॥ ६६ ॥
दैर्घ्यमायाम आनाहः दीर्घस्य भावो दैर्घ्यम् ॥१॥ आयतिरायामः ॥२॥ आनत्यतेऽनेन भानाहः ॥३॥ ..' आरोहस्तु समुच्छ्यः ।
उत्सेध उदयोच्छ्यौ आरोहणमारोहः ॥ १॥ समुच्छ्रयणं समुच्छ्रयः "उदः श्रेः" ।। ५। ३ ॥ ५३॥ इति विकल्पेनाल् ।। २ ।। पक्षे घनि उच्छ्रायः ॥ ३ ॥ उत्सेधनमुत्सेधः, पुंक्लीबलिङ्गः ॥ ४ ॥ उदयत्युदयः ।। ५ ।।
परिणाहो विशालता ।। ६७ ॥
७३
Page #574
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणी -
परिणयतेऽनेन परिणाहः || १ || विशालस्य भावो विशालता ॥ २ ॥ ६७ ॥ प्रपञ्चाभोगविस्तारव्यासाः
५७४
प्रपञ्चनं प्रपञ्चः || १ || आभुज्यतेऽनेन आभोगः || २ || विस्तरणं विस्तारः ॥ ३ ॥ व्यस्यते व्यासः ॥ ४ ॥
शब्दे सविस्तरः ।
स प्रपञ्चः शब्दविषये विस्तीर्यते विस्तरः, अत्र ' वेरशब्दे प्रथने" || ५ | ३ | ६९ ॥ इत्यत्र शब्दवर्जनाद् घञ् न भवति विग्रहेऽपि ॥ १ ॥
समासस्तु समाहारः संक्षेपः संग्रहोऽपि च ॥ ६८ ॥
समसनं समासः ॥ १ ॥ समाहरणं समाहारः ॥ २ ॥ संक्षेपणं संक्षेपः ॥ ३ ॥ संग्रहणं संग्रहः ॥ ४ ॥ ॥ ६८ ॥
सर्व समस्तमन्यूनं समग्रं सकलं समम् ।
विश्वाशेषाखण्डकृत्स्नन्यक्षाणि निखिलाखिले ॥ ६९ ॥
सरति सर्वम् "लटिखटि - " ॥ ( उणा - ५०५) ॥ इति वः, सर्वतीति वा ॥ १४ समस्यते एकीक्रियते समस्तम् || २ || नास्ति न्यूनमस्य अन्यूनम्, अनूनमपि ॥ ३ ॥ संगतमस्य समग्रम्, समं ग्रसते वा ॥ ४ ॥ सह कलाभिर्भागैवर्तत सकलम् ॥ ५ ॥ समति समम्, अयं सर्व-विश्वशब्दवत् सर्वादिः; यथा - " सूर्यः समेषां समः" ॥ ६ ॥ विशति विश्वम् " विघृषि - " ॥ ( उणा - ५११ ) ॥ इति द्विः ॥ ७ ॥ न विद्यते शेषोऽस्य अशेषम्, निःशेषमपि ॥ ८ ॥ न खण्डमखण्डम् ॥ ९ ॥ ' कृतै संवेष्टने ' क्रुत्यते त्यज्यतेऽनेन कृत्स्नम् " कृत्यशौभ्यां स्नक् " ॥ ( उणा - २९४ ) ॥ १० ॥ न्यक्ष्णोति व्याप्नोति न्यक्षः, निष्क्रान्तमक्षादिति वा ||११|| निवृत्तं खिलात् शून्याद् निखिलम् ॥ १२ ॥ नास्ति खिलमस्य अखिलम् ॥ १३ ॥ ॥ ६९ ॥
खण्डेऽर्धशकले भित्तं नेमशल्कदलानि च ।
खण्डूयते खण्ड: पुंक्लोबलिङ्गः, तत्र खण्डलमपि ॥ १ ॥ ऋध्नोति अर्ध : आविष्ट - लिङ्गः पुंस्ययम्, यथा-प्रामार्धः, अर्ध: पटी, अर्धो नगरम्, वाच्यलिङ्गः इत्येके, यट्टीका“खण्डमात्रवृत्तितायां त्वभिधेयलिङ्गः" इति; समप्रविभागे त्वर्द्ध नपुंसकम् ॥२॥ शक्यते भेत्तुं शकलं पुंक्लीबलिङ्गः “मृदिकन्दि " ॥ ( उणा - ४६५ ) इत्यल: ॥ ३ ॥ भिद्यते स्म भित्तम् "भित्तं शकलम् " ॥ ४ । २ । ३१ ॥ इति साधुः || ४ || नीयते नेम: “अतरि-” ॥ ( उणा-३३८ ) ॥ इति मः ॥ ५ ॥ शल्यते भेत्तुं शल्कम् “भीशलि-" ।। ( उणा-२१ ) || इति कः || ६ || दलति विशीर्यते दलम् ॥ ७ ॥ अंशो भोगश्च वण्टः स्यात्
Page #575
--------------------------------------------------------------------------
________________
६ षष्ठः काण्डः ।
५७५
अश्यते अंशः, अमतीति वा “पादावमि-" ॥ ( उणा-५२७ ) ।। इति श: ॥१॥ भज्यते भागः ॥ २ ॥ वण्ठ्यते विभज्यते वण्टः ॥ ३ ॥
पादस्तु स तुरीयकः ॥ ७० ॥ स रूपकादेर्भागस्तुरीयश्चतुर्थः, पद्यते पादः ॥ १॥ ७० ॥
मलिनं कच्चरं म्लानं कश्मलं च मलीमसम् । मलोऽस्त्यस्य मलिनम् , मलीमसं मलदूषितम् "मलादीमसश्च"॥७॥ २॥१४॥ इति साधू ॥१॥ २ ॥ कुत्सितं चरति कच्चरम् ॥ ३ ॥ म्लायति स्म म्लानम् "व्यजनान्तस्थातोऽख्याध्यः" ॥४।२ । ७१॥ इति तस्य नत्वम् ॥४॥ कशति कश्मलम् "रुचिकुटि." ॥ ( उणा-५०२ ) ॥ इति मलक्, कल्मषमपि ॥ ५ ॥
पवित्रं पावनं पूतं पुण्यं मेध्यम् पूयतेऽनेन पवित्रं पुंक्लीबलिङ्गः, वाच्यलिङ्ग इत्यन्ये ।। १ ।। पावयति पावनम् ॥ २॥ पूयते पूतम् ॥ ३ ॥ पुनाति पुण्यम् “शिक्यास्याख्या-" ॥ (उणा-३६४) । इति ये निपात्यते ॥४॥ मेधनीयं मेध्यम् , मेधायां साधु वा, मेधे भवमिति वा ॥५॥
अथोज्ज्वलम् ॥ ७१ ॥ विमलं विशदं वीध्रमवदातमनाविलम् ।
विशुद्धं शुचि उज्ज्वलत्युज्ज्वलम् ॥ १॥७१ ॥ विगतो मलोऽस्य विमलम् ॥ २ ॥ विशीर्यते विशदम् ॥३॥ विशेषेण इन्धे वीध्रम् “ऋज्याज-° ॥ (उणा-३४८) ॥ इति किद्रः ॥ ४ ॥ अवदायतेऽवदातम् ॥ ५॥ नः आविलमनाविलम् ॥६॥ विशुध्यति स्म विशुद्धम् ॥ ७ ॥ शोचति निर्मलीभवति शुचि, शुचिमल्यार्थेऽत्र ॥ ८ ॥
चोक्षं तु निःशोध्यमनवस्करम् ॥ ७२ ॥ चुक्ष्यते चोक्षम् “लाक्षाद्राक्षा-"॥ (उणा-५९७) ।। इति निपात्यते ।।१।। निष्क्रान्त शोध्यान्निाशोध्यम् ॥२॥ अविद्यमानोऽवस्करो वर्चस्कोऽत्र अनवस्करम् ॥३॥७२॥
निर्णिक्तं शोधितं मृष्टं धौतं. क्षालितमित्यपि । निर्णिज्यते स्म निर्णिक्तम् ॥ १ ॥ शोध्यते स्म शोधितम् ॥ २॥ मृज्यते मृष्टम् ॥३॥ धाव्यते धौतम् ॥ ४ ॥ क्षाल्यते क्षालितम्, अमरस्तु
"निर्णिक्तं शोधितं मृष्टं निःशोध्यमनवस्करम्' इत्येकार्थानाह ॥ ५ ॥ . सम्मुखीनमभिमुखम् संमुखं दृश्यतेऽस्मिन् संमुखीनमादर्शादि, अन्यत्र तूपचारात् यथा-संमुखीनो
Page #576
--------------------------------------------------------------------------
________________
५७६
अभिधानचिन्तामणौ
जयो रन्ध्रप्रहारिणामिति “यथामुखसंमुखादीनस्तद् दृश्यतेऽस्मिन्” ॥७।१।१३ इति साधुः || १ || अभिव्याप्तं मुखेन अभिमुखम् ॥ २ ॥
पराचीनं पराङ्मुखम् ॥ ७३ ॥
पराश्चति पराक्, परागेव पराचीनम् ' अदिकू स्त्रियां वाचः ' इति स्वार्थे ईनः ॥ १ ॥ पराङ्मुखमस्य पराङ्मुखम् ॥ २ ॥ ७३ ॥
मुख्यं प्रकृष्टं प्रमुखं प्रव बयै वरेण्यं प्रवरं पुरोगम् । अनुत्तरं प्राग्रहरं प्रवेकम्
प्रधानमप्रेसरमुत्तमा ॥ ७४ ॥
ग्रामण्यग्रण्यप्रिमजात्या प्रयोनुत्तमान्यनवरार्ध्यवरे । प्रेष्ठपरार्द्धपराणि
।। ७ । १ । १०७ ॥
"
मुखस्य तुल्यं मुख्यं प्रधानस्वात् शाखादित्वाद् यः ॥ १॥ प्रकृष्यते स्म प्रकृष्टम् ॥ २ ॥ प्रकृष्टं मुखमस्य प्रमुखम् ॥ ३॥ प्रकृष्टो वह: परिच्छदोऽस्य प्रवर्हम्, प्रवति वर्द्धते प्राधान्यं भजतीति वा, प्रवहत्युयच्छतीति वा ॥ ४ ॥ वरणीयं वर्यम् "वयघसर्या-" ॥५ । १ । ३२॥ इति बाहुलकाद्यः ॥ ५॥ त्रियते वरेण्यम् “वृङः एण्यः ॥ ( उणा-३८२ ) ॥ ६ ॥ प्रक्रियते प्रवरम् "युवर्ण " ॥ ५ । ३ । २८ ॥ इत्यल् ॥ ७ ॥ पुरो गच्छति पुरोगम् ॥ ८ ॥ नास्त्युत्तरमस्मादनुत्तरम् ॥९॥ प्रकृष्टमां हरति श्रामहरम् ||१० ॥ प्रकृष्टो वेकः पृथक्त्वमस्य प्रवेकम् ॥११॥ प्रधत्ते प्रधानम्, रम्यादित्वादनट्, आविष्टलिङ्गः क्लीबेऽयम् ॥ १२ ॥ अग्रे सरव्यप्रेसरम् ॥ १३ ॥ अतिशयेन उद्गतमुत्तमम् “प्रकृष्टे तमपू” || ७ | ३ | ५ || १४ || अगत्यत्र अग्रम् “भीवृधि-" ॥ ( उणा - ३८७ ) ॥ इति रः, तत्र ॥ १५ ॥ ७४ ॥ प्रामं नयत्यधीष्टे प्रामणीः ॥ १६ || अप्रं नयत्यग्रणीः ॥ १७ ॥ अग्रे भवमग्रिमम् " पश्चादाद्यन्ताप्रादिमः " ॥ ६ । ३ । ७५ ॥ १८ ॥ जातौ साधु जात्यम् ॥ १९ ॥ अग्रे साधु अम्रयम् ॥ २० ॥ नास्त्युत्तमोऽस्मादनुत्तमम् ॥ २१ ॥ अनवरार्द्धे मुख्यभागे भवमनवरार्ध्यम् " परावराधमोत्तमादेर्यः " ॥ ६ । ३ । ७३ ॥ २२ ॥ म्रियते वरं पुंक्लीबलिङ्गः, अन्ये तु बाच्यलिङ्गमेनमाहुः || २३ || प्रतिष्ठते प्रष्ठम् " प्रष्ठोऽप्रगे" || २ | ३ | ३२ ॥ इति षत्वम ॥ २४ ॥ परार्द्धे भवं परार्थ्यम् "परावरा " ॥ ६ ॥ ३ । ७३ ॥ इति यः ॥ २५ ॥ पिपत्ति परम्, एते वाच्यलिङ्गाः ॥ २६ ॥
Page #577
--------------------------------------------------------------------------
________________
६ षष्ठः काण्डः ।
श्रेयास तु श्रेष्ठसत्तमे पुष्कलवत् ॥ ७९ ॥ अतिशयेन प्रशस्यं श्रेयः, तत्र ॥१॥ एवं श्रेष्ठम् ॥२॥ अतिशयेन सत् सत्तमम् "प्रकृष्टे तमप्" ॥ ७ । ३ । ५ ॥ ३ ॥ पुष्यति पुष्कलम्, एते वाच्यालिङ्गाः ॥४॥४५॥
स्युरुत्तरपदे व्याघ्रपुङ्गवर्षभकुञ्जराः । सिंहशादूलनागाद्यास्तल्लजश्च मतल्लिकाः ॥ ७६ ।।
मचर्चिका प्रकाण्डो द्वौ प्रशस्यार्थप्रकाशकाः । व्याघ्रादयः शब्दाः उत्तरपदे प्रयुज्यमानाः प्रशंसां द्योतयन्ति, यथा पुरुषो व्याघ्र इव पुरुषव्याघ्रः ॥१॥ एवं पुरुषपुङ्गवः ॥२॥ पुरुषर्षभः ॥ ३ ॥ पुरुषकुञ्जरः ॥ ४ ॥ पुरुषसिंहः ॥५॥ पुरुषशार्दूल', एषु "उपमेयं व्याघ्राद्यैः-"॥३॥१११०२॥ इति समासः ॥ ६ ॥ अश्वश्चासौ कुञ्जरश्च अश्वकुञ्जरः ॥ ७ ॥ गौश्चासौ नागश्च गोनागः आदिशब्दाद् गोवृन्दारकः, एषु "वृन्दारकनागकुञ्जरैः” ॥ ३ ॥ १।१०८॥ इति समास: १७॥ गौश्वासौ तल्लजश्व गोतल्लजः ॥८॥ गोमतल्लिकेल्यादि ॥॥ एषु "पोटायुवति." ।।३।१।१११ ॥ इति प्रशंसारूंढत्वात् समासः ॥ ६ ॥
गुणोपसर्जनोपाग्राण्यप्रधाने गुण्यते गुणः ॥ १॥ उपसृज्यते नियुज्यते उपसर्जनम्, माविष्टलिङ्गो नपुंसकः, यथा-उपसर्जनं भार्या ॥ २ ॥ उपरुद्धमग्रमस्य उपाप्रम् ॥३॥ न प्रधानमप्रधान तत्र ॥ ४ ॥
अधमं पुनः ॥ ७७ ॥ निकृष्टमणकं गर्यमवयं काण्डकुत्सिते । अपकृष्टं प्रतिकृष्टं याप्यं रेफोऽवमं ब्रुवम् ।। ७८ ॥
खेटं पापमपशदं कुपूयं चेलमर्व च । अधो भवमधमम् "अमोऽन्तावोधसः" ॥ ६ । ३।७४ ॥ इत्यमः॥१॥७॥ निकृष्यते निकृष्टम् ॥ २ ॥ अणति रटत्यणं कुत्सितमणमणकम् “कुत्सिताल्पाज्ञाते" ॥ ७ ॥ ३ ॥ ३३ ॥ इति कप् ॥३॥ गीते गर्यम् ॥ ४ ॥ नोद्यतेऽवद्यम् "वर्योपसर्याबद्य-" ॥ ५ ॥ १ ३२ ॥ इति साधुः ॥ ५॥ कणति काण्डं पुंक्तीवलिङ्गः “कण्यणि-" ॥ (उणा-१६९) ॥ इति णित् डः ॥ ६॥ कुत्स्यते कुत्सितम् ॥ ७ ॥ अपकृष्यतेऽपकृष्टम् ॥८॥ प्रतिकृष्यते प्रतिकृष्टम् ॥९॥ याप्यते निर्गुणखान यायम, जपादित्वाद्वत्वे याव्यमपि ॥ १० ॥ रीयते रेफ: "रीशीभ्याम्-" ॥ ( उणा-३१४ ) ॥ इति फः, "रीवृभ्याम्-" ॥ ॥ ( उणा-९८१) ॥ इति पसि रेपोऽपि ॥ ११ ॥
Page #578
--------------------------------------------------------------------------
________________
५७८
अभिधानचिन्तामणौ-
..
.
अवो भवमवमम् ॥ १२ ॥ ब्रूते ब्रुवम् "ब्रुवः" ।।५।११५१॥ इति साधुः ॥१३॥ ७८ ॥ खेटति त्रस्यति खेटम् ॥ १४ ॥ पायते पापम् ॥ १५ ॥ अपशीयते अपशदम् ॥ १६ ॥ कुत्सितं पूयते कुपूयम् ॥ १७ ॥ चेलति चलम् ॥ १८ ॥ इयर्त्यवं, एते रेफवजे वाच्यलिङ्गाः ॥ १९ ॥
- तदासेचनकं यस्य दर्शनाद् दृग् न तृप्यति ॥ ७९ ॥ आसिच्यते आप्यायते दृगनेन आसेचनकं यद्दर्शनाद् दृग् न तृप्यति ॥१॥७९॥
चारु हारि रुचिरं मनोहरं वल्गु कान्तमभिरामबन्धुरे। वामरुच्यसुषमाणि शोभनं मञ्जुमजुलमनोरमाणि च ।। ८०॥ साधुरम्यमनोज्ञानि पेशलं हृद्यसुन्दरे ।
काम्यं कनं कमनीयं सौम्यं च मधुरं प्रियम् ॥ ८१ ॥ चरति मनोऽत्र चारु "मिवहि-' ॥ ( उणा-७२६ ) ॥ इतेि णिदुः॥ १ ॥ हरति मनो हारि ग्रहादित्वाणिन् ॥ २॥ रोचते रुचिरम् "शुषीषि-" ॥ ( उणा४१६ ) ॥ इति किदिरः, रुचिं रातीति वा ॥३॥ मनोहरति मनोहरं ॥ ४ ॥ वलते वल्गु “फलिवलि-" ॥ ( उणा-७५८ ) ॥ इति गुः ॥ ५ ॥ काम्यते कान्तम् "ज्ञाने. च्छा र्थ-" ॥ ५। २ । ९२ ॥ इति सति क्तः ॥ ६ ॥ अभिरमते मनोऽत्र अभिरामम् ॥ ७ ॥ बधाति मनो बन्धुरम् “वाश्यसि." ॥ (उणा-४२३) । इत्युरः ॥८॥ वाति मनोऽत्र वामम् “अ-रि-" ॥ ( उणा-३३८ ) ॥ इति मः ॥ ९ ॥ रोचते रुच्यं “ रुच्याव्यथ्यवास्तव्यम् " ॥ ५॥ १॥ ६ ॥ इति साधुः ॥ १० ॥ सुष्ठु सम सुषमम्, शोभना समाऽत्रेति वा लक्षणया चारु “निर्दुःसुवे: समसूतेः" ॥ २ । ३ । ५६ ॥ इति षत्वम् ॥ ११ ॥ शोभते शोभनम् ॥१२॥ मजति मजुः "भृमृत-" । ( उणा-७१६ )। इति बहुवचनादुः ॥ १३ ॥ मजुरस्यास्ति मञ्जुलं मजुः, धर्ममात्रेऽत्र सिध्मादित्वालः ॥ १४ ।। मनो रमयति मनोरमम् ।। १५ ।। ८० ॥ सानोति साधु "कृवापाजि." || ( उणा-१)। इत्युण ।। १६ ॥ रमयति मनो रम्यते वा रम्यम् 'भव्यगेयजन्यरम्य-" || ५।१।७ ॥ इति साधुः, रमणीयमपि ॥ १७ ॥ जानातीति शं मनोमं यत्र तद् मनोज्ञं ॥ ५८ ॥ पिशति पेशलं "मृदिकन्दि-" ॥ ( उणा-४६५) ।। इत्यलः ॥ १९ ॥ हृदयस्य प्रियं हृद्यं "हृद्यपद्य-" ॥ ७ । १ । ११ ॥ इति यः, "हृदयस्य हृल्लास." ॥ ३ ॥ २ ॥ ९४ ॥ इति हृदादेशः ॥ २० ॥ 'सुन्दः सौत्रः' सुन्दति सुन्दरं "ऋछेचटि-"। (उणा-३९७ ) ॥ इत्यरः
Page #579
--------------------------------------------------------------------------
________________
६ षष्ठः काण्डः।
५७९
सुष्ठु नन्दयति नैरुक्ताः ॥२१॥ काम्यते काम्यम् ॥ २२ ॥ कम्यते कनं "स्म्यजसहिंस." ॥५।२। ७९ ।। इति बाहुलकात् कर्मण्यपि रः ॥ २३ ॥ अनीये कमनीयं ॥ २४ ॥ सोममेव सौम्यं भेषजादित्वात् ट्यण ॥ २५ ।। माद्यत्यनेन मधुरं "श्वशुर." ॥ ( उणा-४२६ ) ॥ इत्युरे निपात्यते ॥ २६ ॥ प्रीणाति प्रियम् "नाम्युपान्त्यप्रीकृ-'" ।।५।१।५४|| इति कः" एते वाच्यलिङ्गाः ॥२७॥ लडहो देश्यः, संस्कृतेऽपि, यद् गौड:-"मनोज्ञं मज़ुलं मञ्जु लडहं रमणीय च" इत्यादि ॥२८॥
व्युष्टिः फलं विशेषेण उश्यते काम्यते व्युष्टिः व्युच्छनमिति वा ॥ १ ॥ फलति फलं प्रयोजनम् ।। २ ॥
___ असारं तु फल्गु .
नास्ति सारोऽस्मिन्नसारम् ॥ १ ॥ फलति विशीर्यते फल्गुः " फलिवल्लि." इति गुः ।। ( उणा-७५८ ) ॥ २ ॥
शून्यं तु रिक्तकम् ।
शुन्यं तुच्छं वशिकं च शुने हितं शून्यम्, शुन्यं च "शुनो वश्चोदूत" ॥ ७।११३३ ।। इति ये साधू ||२||२।। रिच्यते रिक्तम् ।।३।। तुद्यते तुच्छम् "तुदिमदि-" ॥ ( उणा-१२४ )। इति छक् ॥ ४ ॥ वशः स्वाच्छन्द्यमस्त्यस्य अनावृतखाद वशिकम् ॥ ५ ॥
निबिडं तु निरन्तरम् ॥ ८२ ॥ निबिरीसं घनं सान्द्रं नीरन्धं वहलं दृढम् ।
गाढमविरलं च निबिडम्, निबिरीसम् "बिडबिरीसौ नीरन्ध्रे च" ॥७।१।१२९ ॥ इति साधू ॥१॥ २॥ निर्गतमन्तरम् व्यवधानमत्र निरन्तरम् ।। ३ ॥ ८२ ॥ हन्यते धनम् "मूर्तिनिचिताभ्रे घनः" ॥ ५ । ३ । ३७ ॥ इत्यलि साधुः ॥४॥ सीदन्त्यत्र सान्दम् "खुरक्षुर-" ॥ (उणा-३९६) ।। इति रे निपात्यते ।।५।। निर्गतं रन्ध्रमत्र नीरन्ध्रम् ॥ ६ ॥ वहति दाढ्यं वहलं "मृदिकन्दि-" ॥ ( उणा-४६५ ) ।। इत्यलः ॥७॥ दहति दहति वा दृढं " बलिस्थूले दृढः " || ४ । ४ । ६९ ॥ इति साधुः ।। ८ ।। गाह्यते गाढम् ।। ९ ।। न विरलम विरलम् ॥ १० ॥
अथ विरलं तनु पेलवम् ॥ ८३ ॥ विरमति, विरात्यन्तरं वा विरलम् “मुरल-" ॥ (उणा-४७४)॥ इत्यले निपा
Page #580
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणौत्यते ॥ १ ॥ तन्यते तनु ।। २ ॥ पेलति पेलवं "वडिवटि-"। ( उणा-५१५) । इत्यवः ॥ ३ ॥ ८३ ॥
नवं नवीनं सद्यस्कं प्रत्यग्रं नूननूतने ।
नव्यं चामिनवे नूयते नवम् ||१॥ नवमेव नवीनम्, नूत्नम, नूतनम, नव्यं "नवादीनतननं च नू चाऽस्य" ॥ ७१२।१६० ॥ इति साधवः ॥ २॥३॥ ४ ॥५॥ सद्यो भवं. सद्यस्कम्, पृषोदरादित्वात् साधुः ॥ ६ ॥ प्रतिगतमग्रमनेन प्रत्ययम् ॥ ७ ॥ अभिनूयतेऽभिनवं तत्र ॥ ८॥
जीर्णे पुरातनं चिरन्तनम् ॥ ८४ ।।
पुराणं प्रतनं प्रत्नं जरत् जीर्यति स्म जीर्ण तत्र ॥१॥ पुरा भवं पुरातनम् "सायंचिरंपाहणेप्रगेऽव्ययात्" ॥६।३। ८८ ॥ इति तनट् ॥ २ ॥ सूत्रनिपातनान्मोऽन्तश्च ॥ ३ ॥ ८४ ।। पुरा भवं पुराणम् "पुरो नः" ।। ६ । ३ । ८६ ।। इति न, पुरापि न नवमिति वा ।। ४ ।। प्रगतं कालेन प्रतनं प्रत्नम् "प्रात् पुराणेनश्च" ॥ ७ । २ । १६१ ॥ इति तनलप्रत्ययौ ।। ५ ।। ६ ।। जीयति स्म जरत् "जृषोऽनुः" ॥ ५। १ । १५३ ॥ ७ ॥
___ मूर्त तु मूर्तिमत् । मूर्च्छति स्म मूर्तम् ॥ १ ॥ मूर्तिरस्य मूर्तिमत् ॥ २ ॥
उच्चावचं नैकभेदम् उदक् च अवाक च, उचितं चाऽवचितं च वा, उन्नतं चाऽवनतं च षा उच्चावचम, मयूरव्यंसकादित्वात् साधुः ॥ १ ॥ न एको नैकः निरनुबन्धोऽत्र नः "नाम नाम्नैकार्थे " ।। ३। १ । १८ ॥ इति समासः, नैको भेदोऽस्य नैकभेदं नानाप्रकारमित्यर्थः ।। २ ॥
___ अतिरिक्ताधिके समे ॥ ८५ ॥
अतिरिच्यते स्म अतिरिक्तम् ॥१।। अध्यारूढमधिकम् "अधेरारूढे" || ।। १८७ ।। इति कः, अधि कायतीति वा ॥ २ ॥ ८५ ।।
पार्श्व समीपं सविधं ससीमाभ्याशं सवेशान्तिकसन्निकर्षाः। सदेशमभ्यग्रसनीडसन्निधनान्युपान्तं निकटोपकण्ठे ।। ८६ ॥
Page #581
--------------------------------------------------------------------------
________________
६ षष्ठः काण्डः ।
५८१ सनिकृष्टसमर्यादाभ्यर्णान्यासन्नसन्निधी । स्पृश्यते पार्श्वम्, "स्पृशे: श्वः पार् च" ॥ (उणा-५२३) ॥ इति साधुः ॥१॥ संमता आपोऽत्रेत्युपचारात् समीपम्, “द्वयन्तरनवोपसर्गाद- ॥३।२।१०९ ॥ इत्यप ईप ॥ २॥ समाना विधाऽस्य सविधम् ।। ३ ।। समाना सीमाऽस्य ससीमम् ॥४॥ अभ्यश्यते व्याप्यते अभ्याशं तालव्यान्तः ॥५॥ समानो वेशोऽस्य सवेशः ॥६॥ अन्तोऽस्त्यस्य अन्तिकम् ॥ ७॥ सन्निकृष्यते सन्निकर्षः ॥ ८॥ समानो देशोऽस्य सदेशम् ।। ९ । अभिमुखमप्रमस्य अभ्यग्रम् ।।१०॥ समानं नीडमस्य सनीडम् ॥ ११॥ संनिधीयतेऽत्र संनिधानम् ।।१२।। समीपोऽन्तोऽस्य उपान्तम् ॥ ३३॥ निबध्नाति निकटं पुंक्लीवलिङ्गः, “संप्रोग्नेः संकीर्ण-" ॥७।१।१२५ ।। इति कटः ॥ १४ ॥ समीपः कण्ठोऽस्य उपकण्ठम् ।। १५ ॥ ८६ ॥ संनिकृष्यते स्म संनिकृष्टम् ॥ १६ ॥ समाना मर्यादाऽस्य समर्यादम्, सावध-ससीम-सनीड-सवेश-सदेश-समर्यादेषु लक्षणया सामीप्यम् ॥१७॥ अभ्यर्थते अभ्यर्णम्, "अविदूरेऽभेः" ॥४॥४॥६॥ इतीडभावः ।। १८॥ आसीदति स्म आसन्नम् ॥ १९॥ संनिधीयतेऽस्मिन् संनिधिः, पुंसि ॥ २० ॥
अव्यवहितेऽनन्तरं संसक्तमपटान्तरम् ।। ८७ ।। न व्यवधीयते स्म अव्यवहितं तत्र ॥ १॥ नास्त्यन्तरमत्र अनन्तरम् ॥ २॥ संसजति स्म संसकम् ॥ ३॥ नास्ति पटेन तिरस्करिण्या अन्तरं व्यवधानमत्र अपटान्तरम् ॥ ४ ॥ ८७ ॥
नेदिष्ठमन्तिकतम अतिशयेन अन्तिकं नेदिष्ठम्, “बाढान्तिकयोः साधनेदो" |॥ ॥ ४ ॥३७॥ इति नेदादेशः, नेदीयोऽपि ॥ १॥ “प्रकृष्टे." ॥ ७ ॥३॥ ५ ॥ इति तमपि अन्तिकतमम् ॥ २॥
विप्रकृष्टपरे पुनः।
विप्रकृष्यते स्म विप्रकृष्टम् ॥ १ ॥ पिपर्ति परम् ॥ २ ॥ दुनोति, दुःखेन ईयते गम्यते वा दूरम्, "खुरक्षुर-" ।। (उणा-३९६) ॥ इति रे निपात्यते, तत्र आरादव्ययेषु वक्ष्यते ॥ ३ ॥
अतिदूरे दविष्ठं दवीयः अतिशयेन दूरं दविष्ठम्, दवीयः "गुणाङ्गाद्-" ॥ ७॥३॥ ९॥ इतीष्ठे इंयसौ च “स्थूलदूर-" ।। ७।४।४२ ॥ इति रलोपः ।। १ ॥ २ ॥ ३ ॥
७४ .
Page #582
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणी
૧૮૨
अथ सनातनम् ॥ ८॥
शाश्वतानश्वरे नित्यं ध्रुवं - सना सर्वदा भवति सनातनम्, “सायंचिरं-" ।६।३। ८८॥ इति तनट, सदातनमपि ॥ १ ॥ ८८ ॥ शश्वद् भवं शाश्वतम्, “भर्तुसन्ध्यादेरण' ।। ६ । ३ । ८९ ॥ शाश्वलिकमपि ।।२।। म नश्वरमनश्वरम् ||३|| नियतं भवं नित्यम्, “ने वे" ॥६॥ ३॥ १७ ॥ इति त्यच ॥ ४ ॥ ध्रुवति ध्रुवम्, कुटादिलादाच गुणाभावः ।। ५॥ .
स्थेयस्त्वतिस्थिरम् ।
स्थास्नु स्थेष्ठं अतिशयेन स्थिरं स्थेयः, स्थेष्ठम् “प्रियस्थिर-" ॥ ७ ॥ ४ ॥ ३८॥ इति स्थादेशः ॥1॥२॥ ३ ॥ तिष्ठतीलेवं शीलं स्थास्नु "स्थाग्लाम्ला-" ॥ ५॥ २॥३१॥ इति स्नुः ॥ ४ ॥
तत् कूटस्थं कालव्याप्येकरूपतः ॥ ८९ ॥ तद् अतिस्थिरम्; कूटेन अचलत्वेन तिष्ठति कूटस्थमाकाशात्मादि निरवधिकालं व्याप्नोति स्थिरत्वात् कालव्यापि, एकरूपतो निर्विकारतयेत्यर्थः ॥ १॥ ८९ ॥
स्थावरं तु जङ्गमान्यत् तिष्ठतीत्येवं शीलं स्थावरं पृथिव्यादि, “स्थेशभास-" ॥ ५॥२।८१ ॥ इति वरः, जङ्गमात् त्रस्य वीन्द्रियादेः, अन्यजङ्गमान्यत् ॥ १॥
जङ्गमं तु वसं चरम् ।
चराचरं जगदिङ्गं चरिष्णु च भृशं गच्छति जङ्गमं अकौटिल्येऽप्यभिधानाद् यङ् ॥ १॥ त्रस्यति चलत्वात् त्रसम् ॥ २॥ चरति चरम् ॥ ३ ॥ "चराचरचलाचल-" ॥४१११३॥ इत्यचि द्वित्वा-ऽऽत्वनिपातनाचराचरम् ॥४॥ गमनशीलं जगत् “दिद्युद्ददृज्जगत-" ॥ ५।२। ८३ ॥ इति विपि साधुः ॥५॥ इङ्गति इङ्गम् ॥६॥ चरणशीलं चरिष्णु "भ्राज्यलं-" ॥५। २ । २८ ।। इतीष्णु ॥ ७ ॥
अथ चञ्चलम् ॥ ९०॥ तरलं कम्पनं कम्प्रं परिप्लवचलाचले ।
चटुलं चपलं लोलं चलं पारिप्लवास्थिरे ॥ ९१ ॥ चञ्चति चञ्चलम्, “मृदिकन्दि-" ॥ ( उणा-४६५) ॥ इत्यलः, चंचल्यते वा
Page #583
--------------------------------------------------------------------------
________________
६ षष्ठः काण्डः ।
५८३ ॥१॥९० ॥ तरति चक्षुरत्र तरलम्, "मृदिकन्दि-" ॥ ( उणा-४६५) ॥ इत्यल: ॥ २ ॥ कम्पनशीलं कम्पनम्, “इडित:-" ॥५।२।४४ ॥ इत्यनः ॥३॥ "स्म्य जस-" ॥ ५॥ २॥ ७९ ॥ इति रे कम्प्रम् ॥ ४ ॥ परिप्लवते परिप्लवम् ॥५॥ चलति चलाचलम्, “चराचरचलाचल-" ॥४।।१३ ॥ इति अचि द्वित्वमात्वं च ॥ ६ ॥ चटति चटुलम्, "हृषिवृति-" ॥ ( उणा-४८५)॥ इत्युलः ॥ ७ ॥ चपति चपलम्, “मृदिकन्दि-" ॥ ( उणा-४६५)॥ इत्यलः ॥ ८ ॥ लायस्थैर्य लोलम्, "ब्रह्याभ्यः कित्" || ( उणा-४९४ ) ॥ इत्योल:, लोलति वा ॥९॥ चलति चलम् ॥ १० ॥ परिप्लवमेव पारिप्लवं प्रज्ञादित्वादण् ॥ ११ ॥ न स्थिरमस्थिरं तत्र ॥ १२॥ ९१॥
ऋजावजिह्मप्रगुणौ अयंते ऋजुः, “अर्जेज च" ॥ ( उणा-७२२) ॥ इत्युः, तत्र ॥१॥न जिह्मोऽजिह्मः ॥ २ ॥ प्रकृष्टो गुणोऽस्य प्रगुणः, प्रः सादृश्ये, सदृशो गुणेन मौा, वा ॥३॥ ____ अवाग्रेऽवनतानते।
अवनतमप्रमस्य अवारमधोमुखमित्यर्थः, तत्र ॥१॥ अवनमति स्म अवनतम् ॥ २॥ आ नमति स्म आनतम् ॥ ३ ॥
कुञ्चितं नतमाविद्धं कुटिलं वक्रवेल्लिते ॥ ९२ ॥ - वृजिनं भङ्गुरं भुग्नमरालं जिह्ममूभिमत् ।
कुञ्च्यते स्म कुश्चितम् ॥ 1 ॥ नमति स्म नतम् ॥ २ ॥ आविध्यते स्म आविद्धम् ॥ ३ ॥ कुटति कुटिलम्, "कल्यनि-" ॥ (उणा-४८१) ॥ इतीलः, कुटादित्वाद् गुणाभावः ॥ ४ ॥ वञ्चति वक्रम्, "ऋज्यजि." ॥ (.उणा-३८८) ॥ इति किन रः ॥५॥ वेल्लति स्म वेल्लितम् ॥ ६ ॥ ९२ ॥ वृज्यते वृजिनम् ॥ ७ ॥ भज्यते इत्येवंशीलं भगुरम्, "भलिभासिमिदो घुरः" ॥ ५।२।७४ ॥ ८॥ भुजति स्म भुग्नम् “सूयत्यादि." ॥ ४॥२॥ ७० ॥ इति कस्य नत्वम् ॥ ९॥ इयत्य॑रालम्,
"ऋकृमृ-" ॥ ( उणा-४७५ ) ॥ इत्यालः, असनालाति वा ॥ १० ॥ जहाति · ऋजुतां जिह्मम्, "प्रसिहाग्भ्यां ग्राजिहौ च* ॥ (उणा-३३९) ॥ इति मः ॥११॥
ऊर्मयो भङ्गाः सन्त्यस्य ऊर्मिमत् ॥ १२॥ ... अनुगेऽनुपदान्वक्षान्वञ्चि
अनु गच्छत्यनुगं तत्र ॥ १ ॥ पदस्य क्रमस्य पश्चादनुपदम् , पश्चादर्थेऽव्ययीभावः ॥ २॥ अक्षस्य रथस्य पश्चादन्वक्षम् ॥ ३ ॥ भन्वश्चत्यन्वक् ॥ ४ ॥
Page #584
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणौ
एकाक्येक एककः ॥ ९३॥ एत्येकः ॥ १॥ एक एव एकाकी, एककः असहाय इत्यर्थः “एकादाकिन् चासहाये" ॥ ७॥ ३ ॥ २७ ॥ इति साधुः, अवगणोऽपि ॥ २ ॥ ३ ॥ ९३ ॥
एकात् तानायनसर्गाग्राण्यैकाग्रं च तद्गतम् ।
अनन्यवृत्त्येकायनगतं च एकशब्दात् परे तानादयः, एकमविच्छिन्नं तननं विस्तारोऽस्य एकतानम् ॥१॥ एकमयनं गतिरस्य एकायनम् ॥ २ ॥ एकः सर्गो निश्चयोऽस्य एकसर्गम् ॥३॥ एक-.. मप्र पुरोगतमस्त्यस्य एकाग्रम् ॥ ४ ॥ एकाप्रमेवैकाग्रं प्रज्ञादित्वादण् ॥ ५ ॥ तत्र गच्छति तद्गतम् ॥ ६ ॥ अनन्या एकरूपा वृत्तिापारोऽस्य अनन्यवृत्तिः ॥ ७ ॥ एकमयनं गतमेकायनगतम् ॥ ८ ॥
अथाद्यमादिमम् ॥ ९४ ॥
पौरस्त्यं प्रथमं पूर्वमादिरग्रम् आदौ भवमाद्यम्, आदिर्धर्ममात्रेऽत्र, दिगादित्वाद् यः ॥ १॥ आदौ जातमादिमम् “पश्चादाद्यन्ताप्रादिमः ॥ ६।३ । ७५ ॥ २ ॥ ९४ ॥ पुरो भवं पौरस्त्यम्, "द क्षणापश्चात् पुरसस्त्यण्" ॥ ६ ॥ ३ ॥ १३ ॥ ३॥ प्रथते प्रथमम्, "स्पूप्रथि-" ॥ ( उणा-३४७ ) ॥ इति मः ॥ ४ ॥ पूर्वम् ॥ ५ ॥ आदीयते प्रथमतयेत्यादिः पुंलिङ्गः, धर्मिवृत्तित्वेऽपि अजहल्लिङ्गः, यथा-आदिगंर्गकुलम्॥६॥अगत्यप्रम्,प्रागपि॥७॥
अथान्तिमम् ।
जघन्यमन्त्यं चरममन्तः पाश्चात्यपश्चिमे ॥ ९५ ॥ अन्ते जातमन्तिमम् “पश्चादाद्यन्त-" ॥ ६ । ३ । ७५ ॥ इतीमः ॥१॥ जघनेऽधस्ताद् भवं जघन्यं दिगादित्वाद् यः ॥ २ ॥ अन्ते भवमन्त्यम् ॥ ३ ॥ चरति चरमम्, “स्पूप्रथिः ॥ ( उणा-३४७) ॥ इति मः ॥ ४ ॥ अमत्यन्तः, “दम्यमि-"॥(उणा-२.०) ॥ इति तः, धमिवृत्तित्वेऽप्ययमस्त्रीलिङ्गः, यथा 'कुलस्यान्तः प्रभुस्त्रियः ॥५॥ पश्चाद् भवं पाश्चात्यम्, “दक्षिणापश्चात्-" ॥ ६।३।१३ ॥ इति त्यण ॥ ६ ॥ “पश्चादाद्यन्त-"।६।३ । ७५ ॥ इति इमे पश्चिमम्, “प्रायोऽव्ययस्य" ॥ ७॥४॥६५॥ इत्यन्यस्वरादिलोपः ॥ ७ ॥ १५ ॥
मध्यमं माध्यमं मध्यमीयं माध्यंदिनं च तत् । मध्ये जातं मध्यम "मध्यान्मः" ॥ ६।३।७६ ॥ १॥ मध्ये भवं माध्यमम्, मध्यमीयम्, माध्यदिनम् “मध्याद्दिनण्णेया मोऽन्तश्च" ॥६।३ । १२६ ॥ इति साधवः, मध्यंदिनमित्यन्ये ॥२॥ ३ ॥ ४ ॥
Page #585
--------------------------------------------------------------------------
________________
६ षष्ठः काण्डः।
५८५
अभ्यन्तरमन्तरालं विचाले अभ्यधिकमन्तरमभ्यन्तरम् ॥ १॥ अन्तरमलखालाति वा अन्तरालम् ॥२॥ "विक्ते विचालम्, “चात्वाल-" ॥ (उणा-४८०) ॥ इत्याले निपात्यते, विचलन्ति अत्रेति वा, तत्र ॥ ३ ॥
मध्यमन्तरे ॥ ९६ ॥ 'मव बन्धने' मन्यते मध्यम्, "शिक्यास्याढ्य- ॥ (उणा-३६४ ) ॥ इति ये निपात्यते ॥१॥ अनित्यन्तरं पुंक्लीबलिङ्गः “अनिकाभ्यां तरः" ॥ ( उणा४३७)॥ तत्र ॥२॥१६॥
तुल्यः समानः सदृक्षः सरूपः सदृशः समः ।
साधारणसधर्माणौ सवर्णः सन्निभः सदृक् ॥ ९७ ॥ तुलया सम्मितः तुल्यः सदृगुपचारात्, "हृद्यपद्य-" ॥ ११॥११॥ इति ये साधुः ॥ १॥ समानं तुल्यं मानमस्य समानः ॥ २ ॥ समान इव दृश्यते सदृक्षः, सदृशः, सदृक् “त्यदाद्यन्यसमानादुपमानाद् व्याप्ये दृशष्टक्सको च" ॥५।१। १५२ ॥ इति सक, टक्, क्विप् च प्रत्ययाः, "दृग्दृशक्षे" ॥ ३।२। १५१ ॥ इति समानस्य सादेशः॥३॥ ४ ॥ ५॥ समान रूपमस्य सरूपः ॥ ६॥ समति समः ॥ ७॥ समानमाधारणमस्य साधारणः ॥ ८॥ समानो धर्मोऽस्य सधर्मा "द्विपदाद् धर्मादन्' ॥७॥३॥ १४१॥ इति समासान्त:, "समानस्य धर्मादिषु" ॥३॥ २११४९ ॥ इति सादेशः ॥९॥ समानो वर्णोऽस्य सवर्णः ॥१०॥ संनिभाति संनिभः ॥ ११ ॥१७॥
स्युरुत्तरपदे प्रख्यः प्रकारः प्रतिमो निभः ।
भूतरूपोपमाः काशः संनीप्रप्रतितः परः ॥ ९८ ॥ प्रख्याति प्रख्यः, यथा-'चन्द्रप्रख्यं मुखम्' इत्यादि ॥१॥ प्रकरणं प्रकारः ॥२॥ प्रीतमीत प्रतिमः ॥ ३ ॥ नियतं भाति निभः॥ ४ ॥ भवति स्म भूतः ॥५॥ रूपयति रूपम् ॥ ६ ॥ उपमीयतेऽनया उपमा ॥ ७ ॥ समादिभ्यः परः काशः, संकाशते संकाशः, यथा-काशसंकाशा:केशाः ॥८॥ नितरां काशते नीकाशः, "घञ्युपसर्गस्यः" ॥ ३२।८६ ॥ इति दीर्घः ॥९॥ एवं प्रकाशः ॥१०॥ प्रतिकाशः ॥ ११ ॥ चन्द्रेण प्रख्य इत्यादि तु व्यस्तं न भवति, समास एवोत्तरपदत्वस्य रूढेः ॥ ९८॥ ... औपम्यमनुकारोऽनुहारः साम्यं तुलोपमा ।
Page #586
--------------------------------------------------------------------------
________________
५८६ . अभिधानचिन्तामणौ
कक्षोपमानम् उपमैव औपम्यम्, भेषजादित्वात् ट्यण् ॥ १॥ अनुकरणमनुकारः ॥२॥ अनु. हरणमनुहारः ॥ ३ ॥ समस्य भावः साम्यम् ॥ ४ ॥ तोलनं तुला भिदादित्वात् ॥ ५ ॥ उपमानमुपमा ॥ ६ ॥ कक्षणं कक्षा ।। ७ ।। उपमितिरुपमानम् ॥ ८ ॥
अर्चा तु प्रतेर्मा यातना निधिः ॥ ९९॥ .. छाया छन्दः कायो रूपं बिम्बं मानकृती अपि। - अर्यते अर्चा ॥१॥ प्रतिशब्दात् परे मा-प्रभृतयः कृतिपर्यन्ता दश, प्रतिमीयते ऽनया प्रतिमा ॥ २ ॥ प्रतियात्यते उपस्क्रियते प्रतियातना ॥ ३ ॥ प्रतिनिधीयते प्रतिनिधिमुख्यसदृशोऽर्थः ॥ ४ ॥ ९९ ॥ प्रतिरूपा छाया प्रतिच्छाया ॥ ५ ॥ प्रतिछन्द्यते प्रतिछन्दः, प्रतिरूपं छन्द इति वा ॥ ६ ॥ प्रतिरूपः कायः प्रतिकायः ॥७॥ रूपेण सदृशं प्रतिरूपम्, प्रतिरूप्यते वा ॥८॥ प्रतिबिम्ब्यते प्रतिबिम्बम् , बिम्बेन सदृशं वा ॥ ९ ॥ प्रतिमीयतेऽनेन प्रतिमानम् ॥ १० ॥ प्रतिरूपा क्रियते प्रतिकृतिः ॥ ११ ॥
सूर्मा स्थूणाऽयःप्रतिमा सरति सूमिः, “ सर्तेरुच्चातः " ॥ ( उणा-६८९ ) ॥ इति मिः, ड्या सूमी शोभना ऊर्मिरस्या इति वा ॥ १ ॥ तिष्ठति स्थूणा “ स्थार्धातोरूच " ॥ ( उणा१८५ ) ॥ इति णः ॥ २ ॥ अयोमयी प्रतिमाऽयःप्रतिमा ॥ ३॥
हरिणी स्याधिरण्मयी ॥ १०० ॥ .. हरति मनो हरिणी "दुहृवृहि-" ॥ (उणा-१९४) ॥ इतीणः ॥१॥ हिरण्यस्य विकारो हिरण्मयी, " सारवैश्वाकमैत्रेय-" ॥ ७ ॥ ४ ॥ ३० ॥ इति मयटि यलोपः ॥ २ ॥ ॥ १० ॥
प्रतिकूलं तु विलोममपसव्यमपष्ठुरम् ।
वामं प्रसव्यं प्रतीपं प्रतिलोममपष्टु च ॥ १०१॥ प्रतीपं कूलात् प्रतिकूलम्, लक्षणया विरुद्धार्थम् ॥ १ ॥ लोमानि विपर्यस्यति "णिज् बहुलं-" ॥ ३ । ४ । ४२ ॥ इति णिचि, लोमयतीति विलोमम् ॥ २॥ अपगतं सव्यादपसव्यं वाममित्यर्थः, सव्यशब्दो हि दूरान्तिकार्थाऽऽराच्छन्दवत् वामदक्षिणार्थः ॥ ३ ॥ अपावृत्य तिष्ठति अपष्ठुरम् "श्वशुर-'' ॥ ( उणा-४२६) ॥ इत्युरे निपात्यते, अपष्ठुवं राति वा ॥४॥ वाति वामम् ॥५॥ प्रगतं सव्यात् प्रसव्यम् ॥ ६ ॥ प्रत्यावृत्ता आपोऽत्र प्रतीपम् “ ऋक्तःपथ्यपोऽतू " ॥४।३ । ७६ ॥
Page #587
--------------------------------------------------------------------------
________________
६ षष्ठः काण्डः |
५८७
“ द्व्यन्तरनवर्ण-””॥ ३ । २ । १०९ ॥ इति अप ईपादेशः ॥ ७ ॥ प्रतीपं लोमाSत्र प्रतिलोमम्, " प्रत्यन्ववात् सामलोन: " ॥ ७ । ३ । ८२ ॥ इत्यत् समासान्तः ॥ ( उणा - ७३२ ) ॥ ॥ ८ ॥ अपावृत्य तिष्ठतीत्यपष्ठु “ दुःखपवनिभ्यः स्थः
"
इति किदुः, भीरुष्ठानादित्वात् षत्वम् ॥ ९ ॥ १०१ ॥
वामं शरीरेऽङ्गं सव्यम्
वम्यते वामम् ॥ १ ॥ सूयते सव्यम् ॥ २ ॥
अपसव्यं तु दक्षिणम् ।
शरीरेऽङ्गमित्येव, अपक्रान्तं सव्यादपसव्यम् ॥ १॥ दक्षते दक्षिणम्, "दुहृवृद्दि - " ( उणा - १९४ ) ॥ इतीणः ॥ २ ॥
अबाधोच्छ्रङ्खलोद्दामान्ययन्त्रितमनर्गलम् ॥ १०२ ॥
निरङ्कुशे
नास्ति बाधाऽस्य अबांधम् ॥ १ ॥ उत्क्रान्तं शृङ्खलादुच्छृङ्खलम् ॥ २ ॥ उत्क्रान्तं दामाया उद्दामम्, अत्र दामाशब्दः स्त्रियां डाबन्तः ॥ ३॥ न यन्त्रितमयन्त्रितम् ॥४॥ नास्त्यर्गलास्थ अनर्गलम्, निरर्गलमपि ॥ ५ ॥ ॥ १०२ ॥ निष्क्रान्तमङ्कुशान्निरङ्कुशम्, तत्र ॥ ६ ॥
स्फुटे स्पष्टं प्रकाशं प्रकटोल्बणे ।
व्यक्तं
स्फुटति बहिः प्रकाशते स्फुटम् तत्र ॥ १ ॥ स्पश्यते स्म स्पष्टम्, " णौ दान्तशान्तपूर्णदस्त स्पष्ट -” ॥ ४ । ४ । ७४ ॥ इति साधुः ॥ २ प्रकाशते प्रकाशम् ॥ ३ ॥ प्रकाशं प्रकटं " संप्रोन्नेः - " ॥ ७ । १ । १२५ ॥ इति कटः ॥ ४ ॥ बलत्युल्बणं “चिक्कण-” ( उणा–१९० ) ॥ इत्यणे निपात्यते, उद्वणतीति वा पृषोदरादित्वात् ॥ ५ ॥ व्यज्यते व्यक्तम् ॥ ६ ॥
वर्तुलं तु वृत्तं निस्तलं परिमण्डलम् ॥ १०३ ॥
वर्तते भ्रमति वर्तुलम्, “ हृषिवृति - " ॥ ( उणा - ४८५ ) ॥ इत्युलः ॥ १ ॥ - वर्तते वृत्तं पुंक्लीबलिङ्गः, वाच्यलिङ्गोऽयमित्यन्ये ॥ २ ॥ निर्गतं तलं प्रतिष्ठाऽस्य निस्तलम्, भूमौ नास्ते, तत्र वा रजो न तिष्ठति ॥ ३ ॥ परितो मण्डलाकृति परिमण्डलम् || ४ || ॥ १०३ ॥
बन्धुरं तून्नतानतं
बध्नाति गतिं बन्धुरम् ॥ १॥ उन्नतं च तदुपाधिवशादीषन्नतं उन्नतानतम्, यथा'कण्ठस्य तस्याः स्तनबन्धुरस्य' इति ॥ २ ॥
Page #588
--------------------------------------------------------------------------
________________
५८८
अभिधानचिन्तामणौ-.. स्थपुटं विषमोन्नतम् । तिष्ठति स्थपुटम्, “ नर्कुट-" ॥ ( उणा-१५५ ) ॥ इत्युटे निपात्यते ॥ १॥ . विषमं च तदुन्नतं च विषमोन्नतम् ॥ २ ॥
- अन्यदन्यतरद् भिन्नं त्वमेकमितरच तत् ॥ १०४ ॥ __ अनित्यन्यत् “ स्थाछामा-" ॥ ( उणा-३५७ ) ॥ इति यः॥१॥ बहूनां मध्येऽन्यदन्यतरद् * बहूनां प्रश्ने डतमश्च वा " ॥ ७॥ ३ । ५४ ॥ इति डतरः ॥२॥ भिद्यते भिन्नम् ॥३॥ त्वक्षति त्वम्, "क्वचित्" ॥ ५।१।१७१ ॥ इलि' डः॥४॥ एत्येकम् , यथा-इत्येके मन्यन्ते। यत् कात्य:-'प्रधानान्यासहायेषु सङ्ख्यायां चैक इष्यते' ॥ ५॥ एतीतरत् “ इण्पूभ्यां कित् " ॥ ( उणा-४३८ ) ॥ इति तरः॥ ६ ॥ एते भिन्नादन्ये सर्वनामानि ॥ १०४ ॥
करम्बः कबरो मिश्रः संपृक्तः खचितः समाः । क्रियते करम्बः, “ कृकडि-" ॥ ( उणा-३२१ ) ॥ इत्यम्बः ॥ १॥ कूयते कबरः "ऋच्छिचटि-" ॥ ( उणा-३९७ ) ॥ इत्यरः ॥ २॥ मिश्रयते मिश्रः । ॥ ३ ॥ संपृच्यते संपृक्तः ॥ ४ ॥ खच्यते खचितः ॥ ५ ॥
विविधस्तु बहुविधो नानारूपः पृथग्विधः ॥ १०५ ॥ विचित्रो विधः प्रकारोऽस्य विविधः ॥ १ ॥ बहु, पृथग् विधोऽस्य बहुविधः, पृथविधः ॥ २॥ ३ ॥ नाना रूपमस्य नानारूप:, बहुरूप-पृथग्रूप-नानाविधा
अपि ॥ ४ ॥ १०५ ॥
त्वरितं सत्वरं तूर्णं शीघ्रं क्षिप्रं द्रुतं लघु ।
चपलाविलम्बिते च त्वरते स्म त्वरितम् ॥ १॥ सह त्वरया वर्तते सत्वरम् ॥ २॥ त्वरते तूर्ण "श्वसजप-" ॥ ४ । ४ । ७५ ॥ इति विकल्पेटत्वादिडभावः, "मव्यविधिवि-" ॥ ४ । १ । १०९ ॥ इत्युपान्त्येन ऊट , “रदादमूर्च्छ-" ।। ४ । २ । ६९ ॥ इति कस्य नत्वम् ।।३॥ श्यायते शीघ्रम्, "खुरक्षुर-" ॥ (उणा-३९६)।। इति रे निपात्यते ॥४॥ क्षिपति क्षिप्रम्, "ऋज्यजि-" ॥ ( उणा-३८८) ॥ इति किद् रः ॥ ५ ॥ द्रवति द्रुतम् ॥ ६॥ लवते लघु ॥ ७ ॥ चपति चपलम् ॥ ८ ॥ न विलम्बितमविलम्बितम् ॥ ९॥ अरमाशुमङ्क्षवोऽव्ययेषु वक्ष्यन्ते ।
झम्पा सम्पातपाटवम् ॥ १०६ ॥ झमति झम्पा “पम्पाशिल्पा-" || ( उणा-३०० ) ॥ इति निपात्यते स्त्रीलि
Page #589
--------------------------------------------------------------------------
________________
६ षष्ठः काण्डः।
५८९ कोऽयं 'झम्पः सम्पातपाटवम्' इति पुंस्यन्ये ॥ १॥ संपातने पाटवं संपातपाटवम् ॥ २ ॥ १०६ ॥
अनारतं त्वविरतं संसक्तं सततानिशे । नित्यानवरताजलासक्ताश्रान्तानि सन्ततम् ॥ १०७ ॥
आरत-विरता-ऽवरतशब्दा विरामार्थाः, ततो नसमासः-अनारतम् ॥१॥ अवि. रतम् ॥२॥ अनवरतम् ॥३॥ संसजति स्म संसक्तम् ॥४॥ संतन्यते सततम्, “समस्ततहिते वा." ॥ ३ । २ । १३९ ॥ इति सभावः ॥ ५॥ नास्ति निशाऽत्र अनिशम्, सा हि विरतिस्थानम् , अनिशमित्यव्ययमपि ॥६॥ नियतं भवं नित्यम्, “ने,वे" ॥६॥३॥१७॥ इति त्यच् ॥ ७॥ न जस्यतीत्येवं शीलमजस्रम् , “स्म्य जस-" ॥५॥२॥ ७९ ॥ इति रः ॥ ८ ॥ न सजति स्म असक्तम् ॥ ९॥ न श्राम्यति स्म अश्रान्तम् ॥ १० ॥ संतन्यते सन्ततम् ॥ ११॥ १७ ॥
साधारणं तु सामान्य समानमाधारणमस्य साधारणम् ॥ १॥ समानस्य भावः सामान्यम् ॥ २ ॥
दृढसन्धिस्तु संहतम् ।। दृढः सन्धिरस्य दृढसन्धिः ॥ १ ॥ संहन्यते संहतम् ॥ २ ॥
कलिलं गहने : कल्यते क्षिप्यतेऽत्रान्यत् कलिलम्, “कल्यनि-" ॥ ( उणा-४८१ ) ॥ इतील: ॥१॥ गाह्यते व्याप्तत्वाद् गहनम्, "विदन-" ॥ (उणा-२७५) । इत्यने निपात्यते, तत्र ॥२॥
सङ्कीर्णे तु सङ्कुलमाकुलम् ॥ १०८ ॥
कीर्णमाकीर्ण च - संकीर्यते संकीर्ण तत्र ॥१॥ संकोलति निरन्तरीभवति संकुलम् ॥२॥ . आकोलत्याकुलम् ॥ ३॥ १०८ ॥ कार्यते कीर्णम् ॥ ४ ॥ आकीर्यते आकीर्णम्, एते पूर्वाभ्यामेकार्थाः इत्येके ॥ ५ ॥
पूर्णे त्वाचितं छन्नपूरिते।
भरितं निचितं व्याप्तं पूर्यते स्म पूर्ण तत्र “णौ दान्तशान्त." ॥ ४ ॥ ४ ॥ ७४ ॥ इति साधुः ॥ १ ॥ आचीयते स्म आचितम् ॥२॥ छाद्यते स्म छन्नम, गणो दान्तशान्त." ।। ४।४।७४ ।।
Page #590
--------------------------------------------------------------------------
________________
५९०
अभिधानचिन्तामणौ-... इति इडभावे साधुः, छादितमपि ॥३॥ पूर्यते स्म पूरितम् ॥४॥ भरः संजातोऽस्य भरितं तारकादित्वादितः ॥५॥ निचीयते स्म निचितम् ॥६॥ व्याप्यते स्म व्याप्तम्॥७॥
प्रत्याख्याते निराकृतम् ॥ १०९ ।।
प्रत्यादिष्टं प्रतिक्षिप्तमपविद्धं निरस्तवत् . प्रत्याख्यायते स्म प्रत्याख्यातं प्रतिषिद्धं तत्र ॥१॥ निराक्रियते स्म निराकृतम् ॥ २ ॥ १०९ ॥ प्रत्यादिश्यते स्म प्रत्यादिष्टम् ॥ ३ ॥ प्रतिक्षिप्यते स्म प्रतिक्षिप्तम् ॥४॥ अपविध्यते स्म अपविद्धम् ॥ ५ ॥ निरस्यते स्म निरस्तम् ॥ ६॥ ..
परिक्षिप्ते वलयितं निवृतं परिवेष्टितम् ॥ ११० ॥
परिष्कृतं परीतं च परिक्षिप्यते स्म परिक्षिप्तं तत्र ॥ १ ॥ वलयः संजातोऽस्य वलयितम् ॥ २ ॥ नितसं वियते निवृत्तम् ॥३॥ परिवेष्ट्यते स्म परिवेष्टितम् ॥४॥११०॥ परिस्क्रियते स्म परिस्कृतम्, “ संपरेः कृगः-" ॥ ४॥ ४ । ९१ ॥ इति स्सट् ॥५॥ पर्यंति परीतम् ॥६॥
त्यक्तं तूत्सृष्टमुज्झितम् ।
धूतं हीनं विधूतं च त्यज्यते स्म त्यक्तम् ॥ १ ॥ उत्सृज्यते स्म उत्सृष्टम् ॥ २ ॥ उज्झ्यते स्म । उज्झितम् ॥३॥ धूयते स्म धूतम् ॥४॥ 'ओहांक त्यागे' हीयते स्म हीनम् , “सूय. त्यादि-" ॥ ४ ॥ २॥ ७० ॥ इति तस्य नत्वम्, “य॑जनेऽयपि" ॥४।३। ९७॥ इतीत्वम् ॥ ५ ॥ 'धूः सौत्रः' विधूयते. स्म विधूतम् ॥ ६ ॥
विनं वित्तं विचारिते ॥ १११ ॥ 'विदिप विचारणे' विद्यते विनम्, वित्तं "ऋहीघ्रा-" ॥ ४ ।७६ ॥ इति तस्य वा नत्वम् ॥ १॥ २ ॥ विचार्यते स्म विचारितं तत्र ॥ ३ ॥ १११॥
अवकीर्णे त्ववध्वस्तं अवकीर्यते अवकीर्णम, तत्र ॥ १ ॥ अवध्वस्यते अवध्वस्तम् , ॥ २॥ .
संवीते रुद्धमावृतम् । संवृतं पिहितं छन्नं स्थगितं चापवारितम् ॥ ११२ ॥
अन्तर्हितं तिरोहितम् 'व्येग संवरणे' संवीयते संवीतम्, “यजादिवचेः किति" ॥.४ | १ ॥ ७९ ॥
Page #591
--------------------------------------------------------------------------
________________
६ षष्ठः काण्डः ।
५९१
इति वृत् " दीर्घमवोऽन्त्यम्” ॥ ४ । १ । १०३ ॥ इति दीर्घः, तत्र ॥ १ ॥ रुध्यते रुद्धम् ॥ २ ॥ आव्रियते आवृतम् ॥ ३ ॥ संवियते संवृतम् ॥ ४ ॥ अपिधीयते पिहितम्, “वाऽवाप्यो-" ॥ ३ । २ । १५६ ॥ इति प्यादेशः ॥५॥ छाद्यते छन्नम्, छादितमपि ॥ ६ ॥ स्थग्यते स्थगितम् ॥ ७ ॥ अपवार्यते अपवारितम् ॥ ८ ॥ ११२ ॥ अन्तर्धत्ते स्म अन्तर्हितम् ॥ ९ ॥ तिरोधत्ते स्म तिरोहितम् ॥ १० ॥
अन्तर्द्धिस्त्वपवारणम् । छंदनव्यवधान्तर्द्धापिधानस्थगनानि च ॥ ११३ ॥
व्यवधानं तिरोधानं
अन्तर्द्धानमन्तर्द्धिः पुंलिङ्गः, “अन्तर्द्धिः” ॥ ५ । ३ । ८९ ॥ इति कौ साधुः ॥ १ ॥ अपवार्यते अपवारणम् ॥ २ ॥ छाद्यते छदनम्, छदेश्चुरादीनां प्रायो णिजन्तत्वाण्णिचोऽभावः, छदिरदन्त इति केचित् ॥३॥ व्यवधानं व्यवधा, “उपसर्गीदातः " ॥ ५।३ । ११० ॥ इत्यङ् ॥ ४ ॥ अन्तर्द्धानमन्तर्द्धा “मृगयेच्छा-” ॥ ५ । ३ । १०१ ॥ इति साधुः ॥ ५ ॥ विधयते विधानम् ॥ ६ ॥ स्थग्यते स्थगनम् ॥ ७ ॥ ११३ ॥ व्यवधीयते व्यवधानम् ॥ ८ ॥ तिरोधीयते तिरोधानम् ॥ ९
दर्शितं तु प्रकाशितम् । आविष्कृतं प्रकटितं
दर्श्यते स्म दर्शितम् ॥ १ ॥ प्रकाश्यते स्म प्रकाशितम् ॥ २ ॥ आविष्क्रियते स्म आविष्कृतम्, “निर्दुर्बहिरावि " ॥ २ । ३ । ॥ इति षत्वम्, प्रादुष्कृतमपि ॥३॥ प्रकट्यते स्म प्रकटितम् ॥ ४ ॥
उच्चण्डं त्ववलम्बितम् ॥ ११४ ॥
उच्चण्डतेऽवलम्बमानंमुञ्चण्डम् ॥१॥ अवलम्बते स्म अवलम्बितम् ॥ २ ॥ ११४ ॥ अनादृतमवाज् ज्ञातं मानितं गणितं मतम् ।
न आद्रियते स्म अनादृतम् ॥ १ ॥ अवशब्दाज् ज्ञातादयश्चत्वारः - अवज्ञायते अवज्ञातम् ॥ २ ॥ अवमान्यते अवमानितम् ॥ ३ ॥ अवगण्यते अवगणितम् ॥ ४ ॥ अवमन्यते अवमतम् ॥ ५ ॥
ढाऽवज्ञाऽवहेलान्यसूक्षणं चाप्यनादरे ॥ ११५ ॥
'रिहि: कत्थनादौ ' सौत्रः, रेहणं रोढा भिदादित्वात् साधुः ॥ १ ॥ अवज्ञानमंवज्ञा, अवमाननाऽवगणने अपि ॥ २ ॥ ' है अनादरे' अवहेलनमवहेलं
Page #592
--------------------------------------------------------------------------
________________
५९२
अभिधानचिन्तामणौ-... त्रिलिङ्गः ॥३॥ न सूर्यते असूक्षणम्, न सुष्छु उक्षणमसूक्षणमित्यन्ये ॥४॥११५॥
उन्मूलितमावहितं स्यादुत्पाटितमुद्धृतम् । उन्मूल्यते स्म उन्मूलितम् ॥ १ ॥ आवद्यते स्म आवहितम् ॥ २ ॥ उत्पाव्यते स्म उत्पाटितम् ॥ ३ ॥ उद्रियते स्म उद्धृतम् ॥ ४ ॥
प्रेखोलितं तरलितं ललितं प्रेङ्कितं धुतम् ।। ११६ ॥
चलितं कम्पितं धूतं वेल्लितान्दोलिते अपि । ... 'प्रेखोलिरन्दोलिश्च श्चुरादावपरपठितौ' प्रेखोल्यते प्रेोलितम् ॥ १॥ तरलं क्रियते तरलितम् ॥२॥ 'लुलिः सौत्रः' लुल्यते लुलितम् ॥३॥ प्रेङ्ख्यते प्रेखितम्, ॥ ४ ॥ धुः स्वादिरपरपठितः, धूयते धुतम् ॥ ५ ॥ ११६ ॥ चल्यते चलितम् ॥६॥ कम्प्यते कम्पितम् ॥ ७ ॥ धूयते धूतम् ॥ ८ ॥ वेल्ल्यते वेल्लितम् ॥७॥ अन्दोल्यते स्म अन्दोलितम् ॥ १०॥
दोला प्रेङ्खोलनं प्रेखा दोलनं दोला “ भीषिभूषि-" ॥ ५।३।१०९ ॥ इत्यङ् ॥ १॥ प्रेजोल्यते प्रेखोलनम् ॥ २ ॥ प्रेङ्खणं प्रेता, अन्दोलनमपि ॥ ३ ॥ .
__फाटं कृतमयत्नतः ॥ ११७ ॥
फणतीति "क्षुब्धविरिब्ध." ॥ ४ । ४ । ७० ॥ इाते क्त निपातनात् फाण्टम्, यदश्रपितम्, आपष्टम्, उदकसंपर्कमात्राद्विभक्तरसमौषधं कषायादि अग्निना तप्तं यदीषदुष्णं तत् फाण्टमित्येके, यथा-'फाण्टाभिरद्भिराचामेद्. इति कदुष्णाभिरित्यनायासो गम्यते, अनायासः पुरुषोऽन्यो वा फाण्टशब्देनाभिधीयते इत्यन्ये, यथा- 'फाण्टाश्चि. त्रास्त्रपाणयः इति ॥ १ ॥ ११७ ।
___ अधःक्षिप्तं न्यञ्चितं स्यात् अधः क्षिप्यते स्म अधःक्षिप्तम् ॥ १ ॥ न्यञ्च्यते स न्यश्चितम् ॥ २॥
ऊर्ध्वक्षिप्तमुदश्चितम् ! ऊर्ध्वं क्षिप्यते स्म ऊर्ध्वक्षिप्तम् ॥ १ ॥ उदञ्च्यते स्म उदश्चितम्, उदस्तमपि ॥ २॥
नुन्ननुत्तास्तनिष्ठ्यूतान्याविद्धं क्षिप्तमीरितम् ॥ ११८ ।। नुद्यते स्म नुन्नम्, "ऋहीघ्रा." ॥४ । २ । ७६॥ इति तस्य नत्वम् ॥ १॥ पक्ष नुत्तम् ॥ २ ॥ अस्यते स्म अस्तम् ॥ ३ ॥ निष्ठीव्यते स्म निष्ठ्यूतम्, “अनुनासिके च छवः शूट" ॥ ४ । १ । १०८ ॥ इत्यूवम् ॥ ४ ॥ आविध्यते स्म आविद्धम
Page #593
--------------------------------------------------------------------------
________________
-- ६ षष्ठः काण्डः।
५९३ ॥ ५॥ क्षिप्यते स्म क्षिप्तम् ॥ ६ ॥ 'ईरण क्षेपे' इत्यस्य ईरितम्, चोदितमपि
॥ ७ ॥ ११८॥
समे दिग्धलिप्ते दिह्यते दिग्धम् ॥ १ ॥ लिप्यते लिप्तम् ॥ २ ॥
रुग्णभुग्ने समे इति संबध्यते, एवमुत्तरेष्वपि । रुजति स्म रुग्णम् ||१॥ भुजति स्म भुग्नम्, "सूयत्यादि." ॥ ४ | २॥ ७० ॥ इति तस्य नत्वम् ॥ २॥
रूषितगुण्डिते । रूष्यते रूषितम्, रूषिलौकिको व्याप्त्यर्थः, यथा-'अन्तर्गिरिरेणुरूषितः' ॥१॥ गुण्ड्यते स्म गुण्डितम् ॥ २ ॥
___ गूढगुप्ते च गुह्यते स्म गूढम् ॥ १ ॥ गुप्यते स्म गुप्तम् ॥ २ ॥
मुषितमूषिते 'मुषश् स्तये' मुष्यते स्म मुषितम् ॥१॥ 'मूष स्तेये' मूष्यते स्म मूषितम् ॥२॥ .
गुणिताहते ॥ ११९ ॥ गुण्यते गुणितम् ॥ १॥ आहन्यते आहतम् ॥ २ ॥ ११९ ॥
स्यान्निशातं शितं शातं निशितं तेजितं क्ष्णुतम् । निशायते स्म निशातम् , निशितम् , “ छाशीर्वा" |४|४|१२॥ इति षा इत्वम् ॥१॥ एवं शितम् ॥ २ ॥ शातम् ॥ ३ ॥ ४ ॥ तेज्यते स्म तेजितम् ॥५॥ क्ष्णूयते स्म क्ष्णुतम् ॥ ६ ॥
- वृते तु वृत्तवावृत्ती - वियते वृतस्तत्र ॥ १ ॥ विवरणे वृत्यते वृत्तः॥ २ ॥ वावृत्यते वावृत्तः, 'वावृत्त विवरणे' दिवादावपरपठितः, यद्भट्टिः-"ततो वावृत्तमानसा" इति ॥ ३ ॥
हीतहीणौ तु लाजते ॥ १२० ॥ जिह्रति स्म ह्रीतः, ह्रीणः "ऋहीघ्रा." ॥ ४ । २ । ७६ ॥ इति तस्य वा नत्वम ॥१॥२॥ लजा संजाताऽस्य लजितस्तत्र ।। ३ ॥ १२० ॥
___ संगूढः स्यात् संकलिते संगुह्यते स्म संगृढः ॥ १ ॥ संकल्यते स्म संकलितस्तत्र ॥ २॥
Page #594
--------------------------------------------------------------------------
________________
५९४
आभिधानचिन्तामणौ- .. . संयोजित उपाहिते। संयोज्यते स्म संयोजितः ॥ १॥ उपाधीयते स्म उपाहिलस्तत्र ॥ २ ॥
पके परिणतं पच्यते स्म पक्वम्, "शुषिपचो मकवम्" ॥ ४।२। ७८ ॥ इति साधुः, तत्र ॥१॥ परिणमते स्म परिणतम् ॥ २ ॥
पाके क्षीराज्यहविषां शृतम् ॥ १२१ ॥ श्रायते स्म Vत क्षीरादिः “ श्रः शृतं हविःक्षारे " ॥ ४ ११०॥ इति साधुः, श्राप्यते वा "श्रपेः प्रयोक्त्रैक्ये' ॥ ४ ॥ १।१०१॥ इति साधुः ॥१॥१२१॥
निष्पक्कं कथिते निःशेषेण पक्कं निष्पकम् ॥ १॥ क्वथ्यते स्म क्वथितम्, तत्र ॥ २ ॥
प्लुष्टपुष्टदग्धोषिताः समाः । प्लुष्यते प्लुष्टः ॥१॥ पुष्यते पुष्टः ॥ २॥ दह्यते दग्धः ॥ ३ ॥ उष्यते उषितः, उर्मतान्तरेण अत्रेट् ॥ ४ ॥
तनूकृते त्वष्टतष्टौ अतनुस्तनुः क्रियते स्म तनूकृतस्तत्र ॥ १॥ त्वक्ष्यते स्म त्वष्टः ॥२॥ तक्ष्यते स्म तष्टः ॥ ३ ॥
विद्धे छिद्रितवेधितौ ॥ १२२ ॥ 'व्यधंच ताडने' विध्यते स्म विद्धस्तत्र "ज्याव्यधः क्ङिति" ॥ ४।। ८१ ॥ इति वृत् ॥१॥ छिद्रयते स्म छिद्रितः, छिद्रं संजातमस्य वा ॥ २ ॥ 'विधत् विधाने' इत्यस्य ण्यन्तस्य के वेधितः ॥ ३ ॥ १२२ ।।
सिद्धे निवृत्तनिष्पन्नौ सिध्यति स्म सिद्धम्, तत्र ॥ १॥ निवर्तते स्म निवृत्तम् ॥ २ ॥ निष्पद्यते स्म निष्पन्नः ॥ ३ ॥
विलीने द्रुतविद्रुतौ । विलोयते स्म विलीनस्तत्र सूयत्यादित्वात् तस्य नत्वम् ।। १ ॥ द्रवति स्म द्वतः ॥ २ ॥ एवं विद्रुतः ॥ ३ ॥
उतं प्रोते
Page #595
--------------------------------------------------------------------------
________________
५९५
६ पष्ठः काण्डः । 'वेंग तन्तुसन्ताने' ऊयते स्म उतम्, "यजादिवचेः किलि" ॥४।१।७९ ॥ इति य्वृत् ।। १॥ प्रोयते स्म प्रोतम्, तत्र ॥ २ ॥
स्यूतमूलमुतं च तन्तुसन्तते ॥ १२३ ॥ सीव्यते स्म स्यूतम्, "अनुनासिके च छ्वः शूट" ।।४।१।१०८ ॥ इत्यूत्वम् ॥१॥ 'ऊयैङ् तन्तुसन्ताने' ऊयते स्म ऊतम् , “य्वोः प्वयव्यञ्जने-" ॥४१४१२१॥ इति यलोपः ॥ २॥ वेंग तन्तुसन्ताने' इत्यस्य य्वृति उतम् ॥३॥ तन्तुभिः सन्ततं विस्तृतम्, तत्र ॥ ४ ॥ १२३ ॥
पाटितं दारितं भिन्ने पाट्यते स्म पाटितम् ॥ १।। दार्यते स्म दारितम् ॥ २ ॥ भिद्यते स्म भिन्नं तत्र ॥ ३ ॥
विदरः स्फुटनं मिदा। विदरणं विदरः ॥ १ ॥ स्फुट्यते स्फुटनम्, कुटादित्वाद् गुणाभावः ॥ २ ॥ भेदन भिदा "भिदादयः ॥ ५। ३ । १०८ ॥ इत्यङ्, भिदपि ॥ ३ ॥
अङ्गीकृतं प्रतिज्ञातमूरीकृतोरुरीकृते ॥ १२४ ॥ संश्रुतमभ्युपगतमुररीकृतमाश्रुतम् ।
संगीर्ण प्रतिश्रुतं च अनङ्गमङ्गं क्रियते स्म अङ्गीकृतम, कक्षीकृत-स्वीकृते अपि ॥ १ ॥ प्रतिज्ञायते स्म प्रतिज्ञातम् ॥ २॥ ऊरीक्रियते स्म ऊरीकृतम् ।। ३ ॥ एवं उरुरीकृतम् ।। ४ । उररीकृतम् ऊयादीनां त्रयाणां "ऊर्याद्यनुकरण-" ।। ३।१।२॥ इति गतिसंज्ञायां "गतिवन्यस्तत्पुरुषः" ॥ ३१॥ ४२ ॥ इति समासः॥ ५ ॥ १२४ ॥ संश्रूयते स्म संश्रुतम् ॥ ६ ॥ अभ्युपगम्यते स्म अभ्युपगतम् ।। ७ ॥ आश्रूयते स्म आश्रुतम ॥८॥ संगीर्यते स्म संगीणम् ॥ ९॥ प्रतिश्रूयते स्म प्रतिश्रुतम् ॥ १० ॥
छिन्ने लूनं छितं दितम् ॥ १२५ ॥
छेदितं खण्डितं वृणं कृत्तं - छिद्यते स्म छिन्नं तत्र ॥ १॥ लूयते लूनं ल्वादित्वात् क्तस्य नत्वम् ॥ २ ॥ छायते छितम्, “छाशोर्वा" |४|४|१२॥ इति इत्वम्, छातमपि ॥ ३ ॥ 'दों छदने' दीयते दितम् , “दोसोमास्थ." ॥ ४ । ४ । ११ ॥ इतीत्वम् ॥ ४ ॥ १२५ ॥ 'छेदण द्वैधीकरणे' छेद्यते छदितम् ॥ ५ ॥ खण्ज्यते खण्डितम् ॥६॥ वृदच्यते वृक्णम् “सूय
Page #596
--------------------------------------------------------------------------
________________
___ अभिधानचिन्तामणौत्यादि-" ॥ ४ । २ । ७० ॥ इति तस्य नत्वे "क्तादेशोऽषि" ॥ २॥ १।६१॥ . इति नत्वस्यासिद्धत्वेन “संयोगस्यादौ-" || २।१। ८८ ॥ इति शलोपः ॥ ७ ॥ कृत्यते कृत्तम् ॥ ८॥
प्राप्ते तु भावितम् ।
लब्धमासादितं भूतं प्राप्यते स्म प्राप्तम् ।।१।। भवते: प्राप्त्यर्थात् “भूङः प्राप्तौ णिङः' ॥ ३ ॥ ४ । १९ ॥ इति स्वार्थे वा णिङि भावितम्, पक्षे भूयते प्राप्यते भूतम् ।।३।। लभ्यते. स्म लब्धम् ।। ४ ।। 'आङः सदण गतौ' इत्यस्य आसादितम्, विनमपि ।। ५ ॥
पतिते गलितं च्युतम् ॥ १२६ ॥
स्रस्तं भ्रष्टं स्कन्नपन्ने पतति स्म पतितं तत्र ॥ १ ॥ गलति स्म गलितम् ॥२॥ च्यवते स्म च्युतम् ॥ ३ ।। १२६ ।। संसते स्म सस्तम् ।। ४ ।। भ्रंशते स्म भ्रष्टम् ।। ५ ।। स्कन्दति स्म स्कन्नम् ॥ ६॥ पद्यते स्म पन्नम् ।। ७॥
संशितं तु सुनिश्चितम् । संश्यति स्म संशितम् ।।१।। सुष्ठ निश्चिनोति स्म सुनिश्चितम्, सुष्ठु निश्चितमस्य वा ॥ २॥
मृगितं मार्गितान्विष्टान्वेषितानि गवेषिते ॥ १२७ ॥ 'मृगणि अन्वेषणे' मृग्यते मृगितम् ॥१॥ 'मार्गण अन्वेषणे' माग्यते मार्गितम् ॥२॥ 'ईषत् इच्छायाम' अन्विष्यते अन्विष्टम् ॥३॥ 'एषङ् गतो' अन्वेष्यते अन्वेषितम् ॥ ४ ॥ 'गवेषण मार्गणे' गवेष्यते गर्वषितं तत्र ॥ ५ ॥ १२७ ।।
तिमिते स्तिमितक्लिन्नसादादोन्नाः समुत्तवत् । तिम्यति स्म तिमितस्तत्र ।। १ ।। स्तिम्यति स्म स्तिमितः ॥ २ ॥ क्लियति स्म क्लिन्नः ।।३॥ सह आणि गुणेन वर्तते सार्द्रः ॥ ४॥ अर्दति आदः "चिजि." ।। ( उणा-३९२) इति रः, दर्घित्वं च ॥ ५ ॥ उन्नति स्म उन्नः "ऋहीघ्रा-" || ४ । २ । ७६ ॥ इति तस्य वा नत्वम् ॥ ६ ॥ पक्ष समुत्तः ॥ ७ ॥
प्रस्थापितं प्रतिशिष्टं प्रहितप्रेषिते अपि ॥ १२८ ।। प्रस्थाप्यते स्म प्रस्थापितम् ॥ १ ॥ प्रतिशिष्यते स्म प्रतिशिष्टम् ॥२।। प्रहीयते स्म प्रहितम् ।। ३ ॥ 'इषच गतौ' प्रेष्यते स्म प्रेषितम् ॥ ४ ॥ १२८.॥
Page #597
--------------------------------------------------------------------------
________________
६ षष्ठः काण्डः ।
ख्याते प्रतीतप्रज्ञातवित्तप्रथितविश्रुताः । ख्यायते स्म ख्यातः, तत्र ॥१॥ प्रतीयते प्रतीतः ।। २।। प्रज्ञायते प्रज्ञातः ॥ ३ ॥ 'विलंती लाभे' विद्यते उपलभ्यते वित्तः “वित्तं धनप्रतीतम्" ॥ ४ । २ । ८२ ।। इति साधुः ॥ ४ ॥ प्रथ्यते प्रथित: ॥ ५ ॥ विश्रूयते विश्रुतः ॥ ६ ॥
तप्ते सन्तापितो दूनो धूपायितश्च धूपितः ॥ १२९ ॥ तप्यते तप्तः, तत्र ॥ १॥ 'बहुलमेतन्निदर्शनम्' इति चुरादित्वात् स्वार्थे णिचि सन्तापितः ॥ २ ॥ दूयते दूनः, “दुगोरू च" ।। ४ । २ । ७७ ।। इति तस्य नत्वमूत्वं च ॥ ३ ॥ धूपेः "अशवि ते वा" ॥ ३ ॥ ४॥ ४ ॥ इति स्वार्थे आयप्रलये धूपायितः ॥ ४ ॥ पक्षे धूपितः॥ ५॥ १२९ ॥
शीने स्त्यानम् . श्यायते स्म शीनम्, तत्र “श्यः शीवमूर्तिस्पर्शे नश्चास्पर्शे" ॥ ४ ॥ १९ ॥ इति साधुः ॥ १॥ स्त्यायति स्म स्त्यानम्, “व्यञ्जनान्तस्थातोऽख्याध्यः ॥ ४ ॥ २॥ ७१ ॥ इति कस्य नत्वम् ॥ २ ॥
उपनतस्तूपसन्न उपस्थितः । उपनमति स्म उपनतः ॥ १॥ उपसीदति स्म उपसन्नः ॥ २ ॥ उपतिष्ठते स्म उपस्थित: ॥ ३ ॥. .
निर्वातस्तु गते वाते निर्वाति स्म निर्वातो वातः ॥ १॥
निर्वाणः पावकादिषु ॥ १३० ॥ निर्वाति शाम्यति स्म निर्वाणोऽग्निः, विध्यात इत्यर्थः “निर्वाणमवाते' ॥ ४ ॥ २॥ ७९ ॥ इति साधुः, आदिशब्दानिर्वाणो मुनिः, निर्वाणं मुक्तिः, निवृतिश्च । यथा-प्रियादर्शनमेवास्तु किमन्यैर्दर्शनान्तरैः ।।
___ निर्वाणमाप्यते येन सरागेणापि चेतसा ॥ १ ॥ १३० ॥
प्रवृद्धमेधितं प्रौढं . प्रवर्द्धते स्म प्रवृद्धम् ॥ १ ॥ एधते स्म एधितम् ॥ २ ॥ प्रवहति स्म प्रौढम्, *प्रस्यध्योढोड्यूहे.' ॥ १। २ । १४ ॥ इत्यौत्वम् ॥ ३ ॥
विस्मृतान्तर्गते समे। विस्मयते स्म विस्मृतम्, प्रस्मृतमपि ।।१॥ अन्तर्गच्छति स्म अन्तर्गतम् ॥२॥
उद्वान्तमुद्गते
Page #598
--------------------------------------------------------------------------
________________
५९८ भभिधामचिन्तामणीउमति स्म उद्वान्तम् ॥ 1 ॥ उदच्छति स्म उत्तम्, तत्र ॥१॥
गूनं हन्ने "गुत् पुरीषोत्सर्गे' गूयते स्म गूनम्, "दुगोरू व" ॥ ४ । २१७७ ॥ इति साधुः ॥१॥ हद्यते स्म हमम्, तत्र ॥॥
__ मौढं तु मूत्रिते ॥ १३१ ॥ मियते मीढम् ॥१॥ मूयते मूत्रितम्, तत्र ॥ २ ॥ १३॥
विदितं बुधितं बुद्धं ज्ञातं सितगते अवात् ।
मनितं प्रतिपन्नं च 'विदक् ज्ञाने' इत्यस्य विद्यते विदितम् ॥ १॥ 'बुधृग् बोधने' इत्यत्य इटि अधिप्तम् ॥ २ ॥ 'बुधिंच ज्ञाने' इत्यस्यानिटो बुद्धम् ॥ ३ ॥ ज्ञायते ज्ञातम् ॥ ४ ॥ अवोपसर्गात् परे सितगते अवसीयते अवसितम् “दोसोमास्थ."॥ ४।४।११॥ इतत्विम्, ॥ ५ ॥ अवगम्यते अवगतम् ॥ ६ ॥ 'मनूयी बोधने' इत्यस्येटि मनितम् , कृति वृति-नृतीनामैदित्करणेन इटनिषेधस्यानित्यत्वज्ञापनात् “वेटोऽपतः” ॥ ४ ॥ ४। ६२॥ इति इनिषेधोऽत्र न भवतात्यमरटीका । 'मानण् पूजायाम्' इत्यस्य स्थाने 'मनण्' इति केचित् पठन्ति, तस्य वा ॥ ७॥ प्रतिपद्यते प्रतिपन्नम्, एषु ज्ञानार्थत्वात् वर्तमाने क्तः ॥ ८॥
स्यन्ने रीणं स्नुतं स्रुतम् ॥ १३२ ॥ स्यन्दते स्म स्यन्नं तत्र ॥१॥ 'रीच् स्रवणे ' रीयते स्म रीणम्, सूयत्यादिखात् तस्य नत्वम् ॥२॥ स्नौति स्म स्नुतम् ॥३॥ स्रवति स्म स्रुतम् ॥ ४ ॥१३२॥
गुप्तगोपायितत्रातावितत्राणानि रक्षिते । गुप्यते गुप्तम्, "अशवि ते वा" ॥ ३।४।४ ॥ इत्यायप्रत्यये गोपायितम् ॥१॥ ॥ २॥ त्रायते त्रातम् , त्राणम् "ऋहीघ्रा-" ॥ ४।२। ७६ ॥ इति कस्य वा नत्वम् ॥४॥ अव्यते अवितम् ॥५॥ रक्ष्यते रक्षितः, शील्पादित्वात् वर्तमाने क्तस्तत्र ॥६॥
कर्म क्रिया विधा क्रियते कर्म पुंक्लीबलिङ्गः, भावे कर्मणि वा मन् ॥ १॥ "कृगः श च वा" ॥ ५।३।१०० ॥ इति शप्रत्यये क्रिया ॥ २ ॥ विधीयते विधा "उपसर्गादातः ॥ ५।३।११० ॥ इत्यङ् ॥ ३ ॥
हेतुशून्या त्वाऽऽस्या विलक्षणम् ॥ १३३ ॥
Page #599
--------------------------------------------------------------------------
________________
६ षष्ठः काण्डः। हेतुशून्या निहतुका मास्या स्थितिः, विगतं लक्षणमालोचममत्रेति विलक्षणम्, अप्रतिपत्तिरित्यर्थः ॥ १॥ १३३ ॥
कार्मणं मूलकर्म संदिष्टं कमैंव काणं वृद्धपरंपरोपदेशात् "कर्मणः संदिष्टे" ॥४।२।१६७ ॥ इति स्वार्थिकोऽण् ॥ १ ॥ मूलैरोषधादिमिर्वशीकरणं मूलकर्म ॥ २ ॥
अथ संवननं वशक्रिया। समन्ताद् वन्यते सेव्यते वाऽनेन संवननम् ॥ १॥ क्शे करणं वशक्रिया वशीकरणमित्यर्थः ॥२॥
प्रतिबन्धे प्रतिष्टम्भः प्रतिबन्धन प्रतिबन्धस्तत्र ॥१॥ प्रतिष्टम्भनं प्रतिष्टम्भो रोधः "मप्रति स्तब्धनिस्तब्धे स्तम्भः" ॥ २॥ ३ । ४१ ॥ इति षत्वम् ॥ २ ॥
स्यादास्यास्थासना स्थितिः ॥ १३४ ॥ आसनमास्या "आस्यटिव्रज्यमः क्यप्" ॥ ५ । ३ । ९७ ॥१॥ आस्थानमास्था ॥ २ ॥ "णिवेत्त्यास-" ॥ ५। ३।१११॥ इत्यने आसना ॥ ३॥ स्थान स्थितिः ॥ ४ ॥ १३४ ॥
परस्परं स्यादन्योऽन्यमितरेतरमित्यपि । - परस्परादयत्रयोऽपि स्वभावादेकत्वपुंस्त्ववृत्तयः कर्मव्यतिहारविषयाः "परस्परान्योन्येतरेतरस्यामस्यादेर्वाऽसि ॥ ३॥ २॥ १ ॥ इति सूत्रनिर्देशात् परान्येतरशब्दानां सर्वनाम्नां द्विवचनादिनिपातनात साधवः ॥ १॥ २ ॥ ३ ॥ मिथोडव्ययेषु वक्ष्यते ॥
आवेशाटोपौ संरम्भे आवेशनमावेशः ॥ १॥ 'टुपः सौत्रः' आटोपनमाटोपः ॥ २ ॥ संस्म्भणं संरम्भस्तत्र ॥ ३ ॥
निवेशो रचना स्थितौ ॥ १३६ ॥ निवेशनं निवेशः॥१॥रच्यते रचना ॥२॥ तिष्ठन्त्यस्यां स्थितिः, तत्र ॥३॥१५॥
निर्बन्धोऽभिनिवेशः स्यात् ... निबन्धनं निर्बन्धः ॥ १ ॥ अभिनिवेशनमभिनिवेशः ॥ २ ॥
प्रवेशोऽन्तर्विगाहनम् ।
Page #600
--------------------------------------------------------------------------
________________
६.०
अभिधानचिन्तामणौप्रवेशनं प्रवेशः ॥ १ ॥ पदार्थानामन्तर्मध्यस्य विगाहनम् ॥ २ ॥ ___ गतौ वीजा विहारे-परिसर्पपरिक्रमाः ॥ १३६ ॥
गमनं गतिस्तत्र ॥१॥ 'इखु गतौ' वीङ्खनं वीङ्खा ॥ २ ॥ विहरणं विहारः ॥ ३ ॥ 'ईरिक गतिकम्पनयोः' ईरणमीर्या भिदादित्वात् ॥ ४ ॥ परिसर्पण परिसर्पः ॥ ५ ॥ परिक्रमणं परिक्रमः ॥ ६ ॥ १३६ ॥
व्रज्याटाट्या पर्यटनं बननं व्रज्या "आस्यटि-' ॥ ५।३ । ९७ ।। इति क्यप् ॥ १॥ कुटिलमटनमटाट्या "अट्यत्तिसृत्रिमूत्रि-" ॥ ३ ॥ ४॥ १० ॥ इति यङ, ततो "वाऽटाट्यातू" ॥ ५। ३ । १०३ ॥ इति यः, अटाटाऽपि, "आस्यटि-' ॥ ५ ॥ ३॥ ९७ ॥ इति क्यपि अव्यापि । यन्मनु:-'तौर्यत्रिकं वृथाख्या च कामजो दशको मणः ॥ २ ॥ पर्यव्यते पर्यटनम् ॥ ३॥
चर्या वीर्यापथस्थितिः।
चरणं चर्या "समज-" ॥ ५।३।९१ ॥ इति क्यम् ॥ १ ॥ ईपिथः साध्वाचारः, यदाह-'ईयापथो ध्यानमौनादिकम् भिक्षुव्रतम्' । तत्र स्थितिरीर्यापथस्थितिः 'चर्या त्वीयों विदुर्बुधाः' इति तु मुनिः ॥ २ ॥
व्यत्यासस्तु विपर्यासो वैपरीत्यं विपर्ययः ॥ १३७ ॥
व्यत्यये व्यतिक्रम्यासनं व्यत्यासः ॥ १॥ विपर्यसनं विपर्यासः ॥ २ ॥ विपरीतस्य भावो वैपरीत्यम् ॥ ३ ॥ विपर्ययणं विपर्ययः ॥ ४ ॥ १३७ ॥ व्यत्ययनं व्यत्ययस्तत्र ॥ ५॥
अथ स्फातिवृद्धौ स्फायनं स्फाति: ॥ १ ॥ वर्द्धनं वृद्धिस्तत्र ॥ २ ॥
प्रणिनेऽवनतर्पणे । प्रीण्यते प्रीणनं तत्र ॥ १ ॥ अवः प्रीतावत्र, अव्यते अवनम् ॥ २ ॥ तय॑ते तर्पणम् ॥ ३ ॥
__परित्राणं तु पर्याप्तिहस्तधारणमित्यपि ॥
परित्रायते परित्राणम् ॥ १ ॥ पर्यापणं पर्याप्तिः ॥ १॥ प्रहा मुद्यतस्य हस्त्रस्य धारणं रोधो हस्तधारणम्, रक्ष्यस्य पृष्ठे हस्तस्थापन वा ॥ ३ ॥ १३८ ॥
Page #601
--------------------------------------------------------------------------
________________
६ षष्ठः काण्डः ।
प्रणतिः प्रणिपातोऽनुनये प्रणमनं प्रणतिः ॥ १॥ प्रणिपतनं प्रणिपातः ॥ २॥ अनुनयनमनुनय. स्तत्र ॥३॥
अथ शयने क्रमात् ।
विशाय उपशायश्च क्रमात् पर्यायेण, शयने विशयनं विशायः ॥ १॥ उपशयनमुपशायः “व्युपाच्छीङः" ॥ ५। ३ । ७७ ॥ इति घञ् ॥ २ ॥
पर्यायोऽनुक्रमः क्रमः ॥ १३९ ॥
परिपाट्यानुपूव्यावृत्. पर्ययणं पर्यायः “परेः क्रमे ॥ ५। ३।७६ ॥ इति घञ् ॥ १ ॥ अनुक्रमणमनुक्रमः ॥ २ ॥ क्रमणं क्रमः ॥ ३ ॥ १३९ ॥ परिपाटनं परिपाटिः स्त्रीलिङ्गः, "स्वरेभ्य इ." ॥ ( उणा-६०६ ) ॥ड्यां परिपाटी ॥ ४ ॥ पूर्वानुक्रमेण अनुपूर्व तद्भाव आनुपूर्वी स्त्रीक्लीबलिङ्गः, क्लीबे आनुपूर्व्यम् ॥ ५॥ आवर्तन मावृदावृत्तिः संपदादित्वात् क्यप् ॥ ६ ॥
अतिपातस्त्वतिक्रमः।
उपात्ययः पर्ययश्च आतक्रम्य पतनमतिपात: ॥ १ ॥ अतिक्रमणमतिक्रमः ॥ २ ॥ उपपन्नस्यात्ययोऽतिक्रमणमुपात्ययः॥ ३ ॥ परित्यज्यायनं पर्ययः, अत्र क्रमाभावातू "परेः क्रमे ॥ ५।३।७६ ॥ इति घञ् नास्ति ॥ ४ ॥
- समौ सम्बाधसंकटौ ॥ १४०॥
संबाध्यतेऽनेन सम्बाधः ॥ १॥ संकीर्णः संकट: "संप्रोन्नेः ॥ ७॥१॥ १२५ ॥ इति कटः ॥ २॥ १४०॥
कामं प्रकामं पर्याप्तं निकामेष्टे यथेप्सिते । काम्यते कामम् ॥ १॥ प्रकाम्यते प्रकामम् ॥ २॥ पर्याप्यते पर्याप्तम् ॥ ३ ॥ निकाम्यते निकामम् ॥ ४ ॥ एतेऽकारान्ता अनव्ययाः, यत् शाश्वतः
- कामे निकामे कामाख्या अव्ययास्तु मकारान्ताः ॥ अव्ययेषु-इष्यते इष्टम् ॥ ५॥ इप्सितमनतिक्रम्य यथोप्सितम्, प्रायः क्रियाविशेषणान्येतानि ॥६॥
Page #602
--------------------------------------------------------------------------
________________
६०२
अभिधानचिन्तामणौ
अत्यर्थे गाढमुद्गाढं बाढं तीव्रं भृशं दृढम् ॥ १४१ ॥ अतिमात्रातिमर्यादनितान्तोत्कर्षनिर्भराः । भरैकान्तातिवेलातिशया:
अतिक्रान्तमर्थमत्यर्थम्, तत्र ||१|| गाहते स्म गाढम् ॥ २॥ उद्गाहते स्म उद्वाढम् ||३|| बाह्यते स्म बाढम्, “ क्षुब्धविरिब्ध - " ॥ ४ । ४ । ७० ॥ इति साधुः ॥४॥ ति तीव्र || ५ || बिभर्त्ति भृशम् "कृवृभृ - " ॥ ( उणा -- ५२८ ) ॥ इति किंतू शः ॥ ६ ॥ दर्हति दृढम् || ७ || १४१ ॥ अतिक्रान्तं मात्रां मर्यादां व अतिमात्रम्, अतिमर्यादम् ॥ ८ ॥ ॥ ९ ॥ निताम्यति स्म नित न्तम् ॥ १० ॥ उत्कृष्यतेऽनेनं उत्कर्षः ॥ ११ ॥ निःशेषेण भरोऽत्र निर्भर: ॥ १२ ॥ भृणातेरपि भरः ॥ १३ ॥ एकोऽन्तो निश्चयोऽत्र एकान्तम् ॥ १४ ॥ अतिक्रान्तं वेल्यमतिवेलः ॥ १५ ॥ अतिशेते जयत्यनेन अतिशयः ॥ १६ ॥
जृम्भा तु जृम्भणम् ॥ १४२ ॥
जृम्भते जृम्भा त्रिलिङ्गः ॥ १ ॥ अनटि जृम्भणम् ॥ २ ॥ १४२ ॥ आलिङ्गनं परिष्वङ्गः संश्लेष उपगूहनम् । अङ्कपाली परीरम्भः क्रोडीकृति :
आलिङ्गय्ते आलिङ्गनम् ॥ १ ॥ परिष्वञ्जनं परिष्वङ्गः ॥ २ ॥ संश्लेषणं संश्लेषः ॥ ३ ॥ उपगुह्यते उपगूहनम् ॥४॥ अङ्के पाल्यतेऽङ्कपालिः, “स्वरेभ्य इः" || (उणा६०६) || ङयामङ्कपाली, अङ्के पालिरिति वा ॥ ५ ॥ परिरम्भणं परिरम्भः “घञ्युपसर्गस्य-” ॥ ३ । २ । ८६ ॥ इति दीर्घत्वे परीरम्भः ॥ ६ ॥ कोडीकरणं क्रोडी - कृतिः ॥ ७ ॥
अथोत्सवे ॥ १४३ ॥ महः क्षणोद्धवोद्धर्षाः
उत्सूते सुखमुत्सवः, तत्र ॥ १ ॥ १४३ ॥ महति महः ॥ २ ॥ क्षणुते दुःखं क्षणः ॥ ३ ॥ उद्धुनाति दुःखमुद्भवः ॥ ४ ॥ उच्चैर्हर्षयति उद्धर्षः ॥ ५ ॥
मेलके सङ्गसङ्गमौ ।
' मिलत् श्लेषणे' मेलनं मेल:, के मेलकस्तत्र ॥ १ ॥ सञ्जनं सङ्गः ॥ २ ॥ संगमनं संगमः पुंक्ली बलिङ्गः ॥ ३ ॥
अनुग्रहोऽभ्युपपत्तिः
अनुग्रहणमनुग्रहः ॥ १ ॥ अभ्युपपदनमभ्युपपत्तिः ॥ २
Page #603
--------------------------------------------------------------------------
________________
६ षष्ठः काण्डः।
समौ निरोधनिग्रहौ ॥ १४४ ॥ निरोधनं निरोधः॥१॥ निग्रहणं निग्रहः ॥ २ ॥ १४४ ॥
विघ्नेऽन्तरायप्रत्यूहव्यवायाः विहन्यतेऽनेन विघ्नः स्थादित्वात् कः, तत्र ॥१॥ अन्तरा अयनं कार्यव्यव. धानमन्तराय: ॥ २ ॥ प्रतीपमूहनं प्रत्यूहः ॥ ३ ॥ व्यवधाय अयनं व्यवायः ॥ ४ ॥
समये क्षणः ।
वेलावाराववसरः प्रस्तावः प्रक्रमोऽन्तरम् ॥ १४५ ॥ समेति समयस्तत्र ॥ १॥ क्षणुते क्षणः ॥ २ ॥ वेलयति कालमुपदिशति चेला ॥ ३ ॥ वियते वारः पुंक्तीबलिङ्गः, बाहुलकाद् घञ् ॥ ४ ॥ अवसरत्यवसरः ॥५॥ प्रसङ्गेन स्तूयते प्रस्तावः “प्रात् स्तुद्रुस्तोः " ॥ ५।३।६७ ॥ इति घन ॥६॥ प्रक्रम्यते प्रक्रमः, "मोऽकमि-" ॥ ४ ॥ ३॥ ५५ ॥ इति घनि वृद्धेरभावः ॥ ७ ॥ अनित्यन्तरम्, अन्तरातीति वा, अन्तरमस्त्यत्रेति वा ॥ ८॥ १४५ ।।
अभ्यादानमुपोद्धात आरम्भः प्रोपतः क्रमः। • आभिमुख्येनादानमभ्यादानम् ॥ १॥ उपोद्धननमुपोद्धातः, उद्घातोऽपि ॥२॥ आरम्भणमारम्भः॥ ३ ॥ प्रोपाभ्यां परः क्रमः प्रक्रमणं प्रक्रमः ॥ ४ ॥ उपक्रमणमुपक्रमः ॥ ५॥
प्रत्युत्क्रमः प्रयोगः स्यात् प्रत्युत्क्रमणं प्रत्युत्क्रमः॥१॥ कर्मारम्भे प्रयुक्तिः प्रयोगः, प्रकृष्टयुद्धार्थी प्रत्युत्क्रान्तिर्वा ॥२॥
आरोहणं त्वभिक्रमः ॥ १४६ ॥ आरुह्यते आरोहणम् ॥ १ ॥ अभिमुखं कमणमभिक्रमः ॥ २ ॥ १४६ ॥
आक्रमेऽधिक्रमक्रान्ती 'आक्रमणमाक्रमः, तत्र ॥ १॥ अधिक्रमणधिक्रमः ॥२॥क्रमणं क्रान्तिः ॥३॥
व्युत्क्रमस्तूक्रमोऽक्रमः । व्युत्क्रमणं व्युत्क्रमः ॥१॥ उत्क्रमणमुत्क्रमः ॥ २॥ न क्रमोऽक्रमः ॥ ३ ॥
विप्रलम्भो विप्रयोगो वियोगो विरहः समाः ॥ १४७ ॥ विप्रलम्भनं विप्रलम्भः ॥ १ ॥ विप्रयोजनं विप्रयोगः ॥ २ ॥ वियोजनं वियोगः ॥३॥'रहण त्यागे ' इत्यदन्तः, विरहणं विरहः ॥ ४ ॥ ॥ १४७ ॥
Page #604
--------------------------------------------------------------------------
________________
६०४
अभिधानचिन्तामणौआभा राढा विभूषा श्रीरभिख्याकान्तिविभ्रमाः । लक्ष्मीश्छाया च शोभायां
आभानमाभा “ उपसर्गादातः" ॥ ५। ३ । ११० ॥ इत्यङ् ॥ १॥ राजत्यनया राढा, भिदादित्वात् निपात्यते ॥२॥ विभूष्यतेऽनया विभूषा ॥ ३ ॥ श्रयणशीला श्रीः स्त्रीलिङ्गः, " दिद्युद्दद्-" ॥ ५। २ । ८३ ॥ इति क्विपि निपात्यते ॥ ॥ ४ ॥ अभिख्यायतेऽनया अभिख्या ॥ ५ ॥ काम्यतेऽनया कान्तिः ॥ ६ ॥ विभ्र. मत्यनेन विभ्रमः ॥ ७ ॥ लक्ष्यतेऽनया लक्ष्मीः स्त्रीलिङ्गा ॥ ८॥ छ्यति वैरूप्यं छाया " स्थाछामा-" ( उणा-३५५) ॥ इति यः ॥ ९ ॥ शोभनं शोभा भिदादिस्वादङि साधुस्तत्र ॥ १० ॥
सुषमा सातिशायिनी ॥ १४८॥ सा शोभाऽतिशयवती सुष्ठु समा सुषमा “निर्दु:सुवे:-" ॥२॥ ३ ॥ ५६ ॥ इति षत्वम् ॥ १॥ ॥ १४८ ॥
संस्तवः स्यात् परिचयः संगतं स्तवनं संस्तवः ॥ १॥ समन्ताच्चयनं परिचयः ॥ २ ॥
आकारस्त्विङ्ग इङ्गितम् । आकृतिराकारः ॥ १॥ इङ्गनमिङ्गः, घञ् ॥ २॥ क्त इङ्गितम्, इङ्गिताकाराभ्यां भावज्ञानमित्यादौ गोबलीवदन्यायेन इङ्गितं चेष्टितम्, आकारो मुखरागादिरिति कौटिल्यो व्याख्यत् ॥ ३ ॥
निमित्ते कारणं हेतुर्वीजं योनिर्निबन्धनम् ॥ १४९॥
निदानम् निमिनोति निमित्तं तत्र " पुतपित्त-" ॥ ( उणा-२०४ ) ॥ इति निपात्यते ॥ १॥ करोति कारणम्, “कारणम्" ॥ ५। ३ । १२७ ॥ इति साधुः ॥२॥ हिनोति वर्धते हेतुः पुंलिङ्गः ॥ ३॥ वेति वीजम् "वियो जक्" ॥ (उणा-१२७) ॥ ॥ ४ ॥ यौति योनिः पुंस्त्रीलिङ्गः ॥ ५॥ निबध्नाति निबन्धनम् ॥ ६ ॥॥ १४९ ॥ निदीयते जन्यतेऽनेन निदानम्, एते धर्मवृत्तित्वेऽप्यजहल्लिङ्गाः ॥ ७ ॥
अथ कार्य स्यादर्थः कृत्यं प्रयोजनम् । क्रियते कार्यम्, घ्यण ॥ १ ॥ अर्थ्यतेऽर्थः ॥ २ ॥ क्रियते कृत्यम्, “कृवृषि-" ॥५॥ १ ॥ ४२ ॥ इति वा क्यप् ॥ ३ ॥ प्रयोजयति प्रयोजनम् ॥ ४ ॥
निष्ठानिर्वहणे तुल्ये
Page #605
--------------------------------------------------------------------------
________________
६ षष्ठः काण्डः।
६०५
निष्ठानं निष्ठा ॥१॥ नितरामुह्यते निर्वहणम् ॥ २॥ - प्रवहो गमनं बहिः ॥ १५०॥ प्रवहन्त्यनेन प्रवहः, "गोचरसंचर-" ॥ ५३१३१॥ इति घः ॥१॥ १५ ॥
जातिः सामान्य जायतेऽस्या जातिः-गौरय गौरयमित्यादिसदृशाभिधानज्ञानहेतुः, जातमपि ॥१॥ समानस्य भावः सामान्यम् ॥ २॥
व्यक्तिस्तु विशेषः पृथयात्मिका । व्यज्यतेऽनया व्याक्तः ॥ १॥ विशिष्यतेऽनया विशेषः ॥ २ ॥ पृथग् आत्मा यस्याः पृथगात्मिका भिन्नस्वरूपेत्यर्थः ॥ ३ ॥
तिर्यक् साचिः . तिरोऽञ्चति तिर्यक् ॥ १॥ सचते साचिः स्त्रीलिङ्गः, "कमिवमि." ॥ ( उणा६१८) ॥ इति बहुवचनात् णिदिः, साचीत्यव्ययमपि ॥ २॥
. संहर्षस्तु स्पर्द्धा . सहर्षणं सहर्षः, संघर्षोऽपि ॥ १॥ स्पर्द्धनं स्पर्ख ॥ २ ॥ ____ द्रोहस्त्वपक्रिया ॥ १५१॥ द्रोहणं द्रोहः ॥ १॥ अपकारोऽपक्रिया ॥ २ ॥१५१ ॥
___ वन्ध्ये मोघाऽफलमुधा - बनाति वन्ध्यम्, 'स्थाच्छामा-" ॥ (उणा-३५७ ) ॥ इति यः, तत्र ॥१॥ मुह्यति अस्मिन् मोघम्, न्यवादित्वाद् घत्वम् ॥ २ ॥ न फलत्यफलम् ॥ ३ ॥ मुह्यत्यनया मुधा भिदादित्वात्, मुधेयव्ययमपि ॥ ४ ॥ .. अन्तर्गडु निरर्थकम् ।
अन्तर्गडत्यन्तर्गडः, “भूमृत." ॥ (उणा-७१६) ॥ इत्युः ॥ १॥ निर्गतमर्थात् प्रयोजनानिरर्थकम् ॥ २ ॥ .. संस्थानं संनिवेशः स्यात् संस्थितिः संस्थानम् ।। १ ॥ संनिवेशनं संनिवेशः ॥ २ ॥
अर्थस्यापगमे व्ययः ॥ १५२ ॥ 'व्ययण वित्तसमुत्सर्गे' अदन्तः, व्ययनं व्ययः ॥ १ ॥ १५२ ॥
संमूर्च्छनं त्वभिव्याप्तिः संमूर्यते संमूर्छनम् ॥ १॥ अभिव्यापनमभिव्याप्तिः सर्वतो वृत्तिः ॥ २ ॥
Page #606
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणीभ्रेषो भ्रंशो यथोचितात् । यथोचिताद् रूपाद् भ्रंशोऽधःपातः, भ्रषणं भ्रषः ॥ १॥
अभावो नाशे न भावः सत्ता अभावः ॥ १ ॥ नशनं नाशस्तत्र ॥ २ ॥
संक्रामसंक्रमौ दुर्गसंचरे ॥ १५३ ॥ संक्रामन्त्यनेन संक्रामः, घमि बाहुलकाद् वृद्धिः ॥ १॥ "मोऽकमि" ॥ ४ ॥ ३ । ५५ ॥ इति वृद्धिनिषेधे संक्रमः, पुंक्लीबलिङ्गावेतौ ॥२॥ दुर्गे संचरतेऽनेन दुर्ग-. संचरस्तत्र “गोचरसंचर-"॥ ५।३।१३१ ॥ इति साधुः ॥ ३ ॥ १५३ ॥
नीवाकस्तु प्रयामः स्यात् नियतं वचनं नीवाकः तुलाधृताऽनाधिक्यम्, क्रियादरो वा ॥१॥ प्रयमनं प्रयामः ॥ २ ॥ .
अवेक्षा प्रतिजागरः। अवेक्षणमवेक्षा अवधानमित्यर्थः ॥ १ ॥ प्रतिजागरणं प्रतिजागरः ॥ २ ॥ .
समौ विश्रम्भविश्वासौ विश्रम्भणं विश्रम्भः ॥ १ ॥ विश्वसनं विश्वासः ॥ २ ॥
परिणामस्तु विक्रिया ॥ १५४ ॥ परिणमनं परिणामः ॥३॥ विक्रियते विक्रिया, विकार-विकृती अपि ॥२॥१५४॥ ___ चक्रावतॊ भ्रमो भ्रान्तिभ्रमिषूर्णिश्च घूर्णने ।
चक्रेण आवर्तनं चक्रावर्तः ॥ १॥ भ्रमणं भ्रमः ॥ २ ॥ क्तौ भ्रान्तिः ॥ ॥३॥ "तृभ्रमि." | ( उणा-६११ ) ॥ इतीप्रत्यये भ्रमिः ॥ ४ ॥ घरणम्, घूर्णनं वा घूर्णिः, त्रयोऽपि स्त्रीलिङ्गाः "हर्णिधूर्णि-" ॥ ( उणा-६३७ ) ॥ इति णौ निपात्यते ॥ ५ ॥ घूर्ण्यते घूर्णनम्, तत्र ॥ ६ ॥
विप्रलम्भो विसंव दः विप्रलम्भन विप्रलम्भः "उपसीत् खलघञाश्च" ॥ ४ । ४ । १०७ ॥ इति घाज नान्तः ॥ १ ॥ विसंवदनं विसंवादः ॥ २ ॥
विलम्भस्त्वतिसर्जनम् ॥ १५५ ॥ विलम्भनं विलम्भः ॥ १ ॥ अतिसृज्यतेऽतिसर्जनं समर्पणमित्यर्थः ॥२॥१५५॥
उपलम्भस्त्वनुभवः
Page #607
--------------------------------------------------------------------------
________________
६ षष्ठः काण्ड,
६०७
. उपलम्भनमुपलम्भः ॥ १॥ अनुभवनमनुभवः ॥ २ ॥
प्रतिलम्भस्तु लम्भनम् । प्रतिलम्भनं प्रतिलम्भः ॥ १॥ लभ्यते लम्भनम् ॥ २॥
नियोगे विधिसंप्रेषौ नियोजनं नियोगस्तत्र ॥ १॥ विधीयते. विधिः पुंलिङ्गः ॥२॥ संप्रेषणं संप्रेषः ॥ ३ ॥
विनियोगोऽर्पणं फले ॥ १५६ ॥ विनियोजनं विनियोगः, फलविषयमर्पणम् ॥ १ ॥. १५६ ॥
लवोऽभिलावो लवनम् लवनं लवः ॥ १॥ अभिलवनमभिलावः, "निस्भे: पुल्वः" ॥५। ३ । २१ ॥ इति घञ् ॥ २ ॥ लूयते लवनम् ॥ ३ ॥
निष्पावः पवनं पवः । निष्पवनं निष्पावः "निरभेः पूल्कः" ॥ ५॥ ३ ॥ २१ ॥ इति घञ् ॥ १ ॥ पूयते पवनं धान्यादेर्निर्बुसीकरणम् ॥ २ ॥ अलि पवः ॥ ३ ॥
निष्ठेवष्ठीवनष्ठ्यूतष्ठेवनानि तु थूत्कृते ।। १५७ ।। निष्ठीवनं निष्ठेवः पुंक्लीबलिङ्गः ॥ १ ॥ष्ठीव्यते ष्ठीवनम्, "ष्टिव्यिवोऽनटि पा' ' ॥ ४।२। ११२ ।। इति दीर्घत्वम् ॥ २ ॥ भावे ते ष्ठ्यूतम्, ॥ ३ ॥ "लघोरुपान्यस्य" ॥ ४ । ३ । ४ ॥ इति गुणे ठेवनम् ॥४॥ थूकरणं थूकृतम्, तत्र ॥५॥१५७॥
निवृत्तिः स्यादुपरमो व्यवोपाभ्यः परा रतिः । निवर्तनं निवृत्तिः ॥ १॥ उपरमणमुपरमः “उद्यनोपरमौ" ॥ ४ । ३ । ५७ ॥ इति वृद्धरभावः ॥ २ ॥ व्यवोपझ्यः परा रतिः, विरमण विरतिः ।। ३ ।। एवमवरतिः ॥ ४ ॥ उपरतिः ॥ ५ ॥ आरतिः ॥६॥
विधूननं विधुवनं धूगो ण्यन्तात् “धूनप्रीगो:." ।। ४ । २ । १८ ॥ इति अनटि विधूननम् ॥१॥ 'धूत् विधूनने' विधूयते विधुवनम् . कुटादित्वाद् गुणाभावः ॥ २ ॥
रिङ्खणं स्खलनं समे ॥ १५८ ॥ ... 'रिखु गतौ' रिङ्ख्यते रितणम् ॥ १ ॥ स्खल्यते स्खलनम् ॥ २ ॥ १५८ ॥ . रक्ष्णस्त्राणे
Page #608
--------------------------------------------------------------------------
________________
६.८
अभिधानचिन्तामणौ---
रक्षणं रक्ष्णः, “यजिस्वपि." ॥ ५। ३ । ८५ ॥ इति नः ॥ १॥ त्रायते त्राणम्, अनट तत्र ॥ २॥
ग्रहो ग्राहे ., प्रहणं ग्रहः, “युवर्ष-" ॥ ५॥३॥ २८ ॥ इत्यल् ॥ १ ॥ बाहुलकाद् धान प्राहस्तत्र ॥ २॥
' व्यधो वेधे व्यधनं व्यध: "व्यधजप." ॥ ५।३।४७ ॥ इत्यल् ॥ १॥ विधत् विधाने इत्यनेकार्थत्वात् व्यधने वर्तते, वेधनं वेधस्तत्र ॥२॥
क्षये क्षिया । क्षयणं क्षयस्तत्रः ॥ १॥ क्षिप्र हिंसायाम्' क्षयणं क्षिया पित्वादङ् ॥ ३ ॥
स्फरणं स्फुरणे 'स्फरत् स्फुरणे' स्फर्यते स्फरणम् ॥ १॥ स्फूर्तिः स्फुरणं तत्र ॥ २ ॥
ज्यानिर्जीरें ज्यानं ज्यानि: " ग्लाहाज्यः " ॥ ५। ३ । १.१८ ॥ इत्यनिः ॥१॥ जरणं जोणिस्तत्र "ऋल्वादेरेषां तो नोऽप्रः" ॥ ४२।६८ ॥ इति क्तेर्नत्वम् ॥ ३॥
अथ वरो वृतौ ॥ १५९ ॥ वरणं वरः “युवर्ण-" ॥ ५॥ ३ ॥ २८ ॥ इति भावेऽल, वियतेऽसाविति कर्मणि वा। यत् कात्यः-"तपोभिरिष्यते यस्तु देवेभ्यः स. वरो मतः" ॥ १ ॥ वरण वृतिस्तत्र ॥ २॥ १५९ ॥
समुच्चयः समाहारः समुच्चयनं समुच्चयः ॥ १ ॥ समाहरणं समाहारा, अनेकस्य एकत्र अध्यावापः ॥२॥
___ अपहारापचयौ समौ।
अपहरणमपहारः ॥१॥ अपचयनमपचयः हानिरित्यर्थः, उपसर्गवैचित्र्यादर्थभेदः ॥ २॥
प्रत्याहार उपादानं प्रत्याहरणं प्रत्याहारः ॥ १ ॥ उपादीयते उपादानम् ॥ २॥
बुद्धिशक्तिस्तु निष्क्रमः ॥ १६० ।।
Page #609
--------------------------------------------------------------------------
________________
६ षष्ठः काण्डः ।
बुद्धिशक्तिरष्टधा, प्रज्ञासामर्थ्यं निष्क्रमणं निष्क्रमः ॥ १ ॥ १६० ॥
संग्रहमाह-
६०९
इत्यादयः क्रियाशब्दाः लक्ष्या धातुषु लक्षणम् ।
एवंप्रकाराः सिद्धक्रियाशब्दाः अन्येऽपि लक्षणीयाः तेषां तु लक्षणं प्रकृतिप्रत्ययविभागप्रतिपत्तिर्धातुपारायणादिति ॥ अथाव्ययानि वक्ष्यन्ते
अथेति साधारणशब्दादनन्तरम्, न व्ययन्ति- लिङ्गकारकनानात्वेऽपि न नानारूपतां प्रतिपद्यन्ते इति लिहादित्वादचि अव्ययानि स्वरादीनि, यदुक्तम्“सदृशं त्रिषु लिङ्गेषु सर्वासु च विभक्तिषु ।
वचनेषु च सर्वेषु यन्न व्येति तदव्ययम्” ॥ १ ॥
अत एव अलिङ्गानि द्वित्वादिसंख्यारहितानि चैतानि । यदवोचाम लिङ्गानुशासने"नन्ता संख्या उतिर्युष्मदस्मच्च स्युरलिङ्गकाः ।
पदं वाक्यमव्ययं वेत्य संख्यं च तद्बहुलम् ॥१॥
पुंक्लीबलिङ्गश्चायमव्ययशब्दः ॥ स्वः स्वर्गे
सुष्ठु अर्यते स्वः, “सोरतैर्लुक् च ॥ ( उणा - ९४६ ) ॥ इत्यर्, स्वरतीति बा विच्, यथा-“छायेब या स्वर्जलधेजलेषु” ॥ १ ॥
भूः रसातले ॥ १६१ ॥
भवन्त्यत्र भूः, बाहुलकात् सुक् । यथा- 'भूर्लोकः' ॥ १ ॥ १६१ ॥. भुवो विहायसा व्योम्नि
भवन्त्यत्रेति भुवः, “मिथिराज " ॥ ( उणा - ९७१ ) ॥ इति किदस् यथा"भूर्भुवःस्वस्त्रयीवीरः स एष दशकन्धरः " ॥ १ ॥
बीनां पक्षिणां हायं गतिम्, अनन्तत्वात् स्यति विहायसा विच्, विहाः पक्षिणस्तानायस्यति वा बाहुलकादाप्रत्ययः, यथा - "विहायसा पश्य विहङ्गराजम्” ॥ २ ॥
द्यावाभूयोस्तु रोदसी |
रोदसी इति विभक्त्यन्तप्रतिरूपकमव्ययम् । यथा
"रवः श्रवणभैरवः स्थगितरोदसी कन्दरः " ॥ १ ॥ उपरिष्टादुपयूर्ध्व
ऊर्ध्वे देशे उपरिष्टात्, उपरि "ऊर्ध्वाद् रिरिष्टातावुपश्चास्य " || ७ । २ । ११४ ॥ इति साधू । यथा - गिरेरुपरिष्टाद्, गिरेरुपरि ॥ १ ॥ २ ॥
Page #610
--------------------------------------------------------------------------
________________
६१०
अभिधानचिन्तामणौ-..
स्यादधस्तादधोऽप्यवाक् ॥ १६२ ॥ अधरे देशेऽधस्तात, अधः “पूर्वावराधरेभ्यो-" ॥ ७॥ २ ११ ॥ इत्यस्तादसौ . प्रत्ययौ अधादेशश्च । यथा-गिरेरधस्तात्, गिरेरधः ॥ १॥ २ ॥ १६२ ।।
वर्जने त्वन्तरेणर्ते हिरुग् नाना पृथा विना । अन्तरेणेति तृतीयान्तप्रतिरूपकमव्ययम् यथा-"त्वामन्तरेण नहि संप्रति कश्चिदीशः" ॥१॥ ऋते इति सप्तम्यन्तप्रतिरूपकम् । यथा-"ऋते कृशानोर्नहि मन्त्रपूतम्' ॥२॥ हिनोति हिरुक् ' द्रागादयः" ॥ (उणा-८७०) इति निपात्यते, यथा-"हिरुक् कर्मणां मोक्षः " कर्मक्षये मोक्ष इत्यर्थः ॥ ३ ॥ न आनयति नाना “डित् " | (उणा-६०५) ॥ इत्याप्रत्ययः । यथा-"नाना नारी निष्कला लोकयात्रा' ॥ ४ ॥ प्रथते पृथक् "ऋधिप्रथि-" । ( उणा-८७४ ) ।। इति कित्यजि साधुः । यथा"त्वत्तः पृथग् नास्ति बन्धुः" ॥५॥ विनयति निषेधयति विना 'डित्" ॥ (उणा- . ६०५ ) ॥ इत्याप्रत्ययः यथा-"विना वात विना वर्षम्” ॥ ६ ॥
साकं सत्रा समं सार्द्धममा सह एते परस्पर तुल्यार्थाः, स्यति साः विच, तं कामयते सानं विच ॥१॥ सत् त्रायते सत्रा विच, यथा-"सत्रा कलत्रैर्गार्हस्थ्यम्" ॥ २ ॥ संगतममति समं विच ॥३॥ स्यति सास्तेन रुध्यति सार्द्धम्, “सोरेतेरम्" ॥ (उणा-९३४ ) ॥ इत्युपलक्षणादम् ॥ ४ ॥ न मात्यमा “डित्" ॥ ( उणा-६०५).॥ इत्याप्रत्ययः ॥ ५ ॥ सहते सह यथाऽस्मदुपज्ञे याश्रयमहाकाव्ये
"पुलिनानि सह क्षोमैः सरोसि नभसा समम् ।
ज्योत्स्न्यऽमाऽहाऽमिषन्मेघाः पाक कैलाससानुभिः ॥ १॥६॥ कृतं त्वलम् ॥ १६३ ॥
भवत्वस्तु च किं तुल्याः कृतम्, भवतु, अस्तु च त्रयः त्याद्यन्तप्रतिरूपका अव्ययाः ॥ १ ॥ २ ॥३॥ अलनमलम् , बाहुलकादम् ॥ ४ ॥ कौति किम्, “कोर्डिम्" ॥ ( उणा-९३९)॥ यथा याश्रये
"गोत्रेण पुष्करावर्त ! किं त्वया गर्जितैः कृतम् ?। विद्युताऽलं भवत्वद्भिहसा ऊचुबिलं घनम्" ॥ ५ ॥ १६३ ॥ प्रेत्यामुत्र भवान्तरे।
Page #611
--------------------------------------------------------------------------
________________
६ षष्ठः काण्डः ।।
६११ - प्रायणं प्रेत्य । यथा- अन्यो धनं प्रेत्य गतस्य भुङ्क्ते" ॥ १ ॥ अमुमन्नमुत्र, यथा - "अमुत्र भावता यत् ते तच्चिन्तय शुभाशुभम्" ॥ २ ॥
तूष्णीं तूष्णीकां जोषं च मौने .. 'तुष तुष्ट।' तूषति तूष्णीम्, “तूपेरीम् णोऽन्तश्च'' ॥ ( उणा-९४० ) ॥ इति साधुः, यथा-"मुनिस्तूष्णीमास्ते" ॥ १ ॥ कुत्सितमल्पमज्ञातं वा तूष्णी तूष्णीकाम्, "तूष्णीकाम्" ॥ ७ ॥ ३ ॥ ३२ ॥ इति साधुः, अयं कुत्सितादिविशिष्टे मौने वर्तते, यथा-"मुमिः तूष्णीकामास्ते" ॥ २ ॥ जुष्यते जोषम्, बाहुलकादम् । यथा"जोषमास्ते" ॥ ३ ॥
दिष्ट्या तु सम्मदे ॥ १६४ ॥ दिशति दिष्ट्या “वृमिथिदिशिभ्यः-" ॥ ( उणा-६०१ ) ॥ इति व्यादिराप्रत्ययः । यथा-"दिष्ट्या पुत्रो जातः,” समुपजोषमपि ॥ १॥ १६४ ॥
परितः सर्वतो विष्वक् समन्ताच्च समन्ततः । "पर्यभेः सर्वोभये" ॥ ७॥२॥ ८३ ॥ इति तसौ परितः । यथा-परितो प्रामम् ॥१॥ सर्वासु दिक्षु सर्वतः यथा-सर्वतो ग्रामम, ॥२॥ विश्वगञ्चति विष्वक, यथा“विध्वम् व्याप्य स्थितो महीम्" ॥३॥ समन्ततोऽतति समन्तात् विच, पञम्यन्तप्रतिरूपकं वा । यथा-"समन्ताद् वाति मारुतः" ।। ४ ॥ समन्ततस्तसन्तः । यथा"येन चक्रे समन्ततः" ॥ ५ ॥
पुरः पुरस्तात् पुरतोऽग्रतः पूर्वे देशे पुरः, पुरस्तात "पूर्वीपराधर." ॥ ७ ॥ २ ॥ ९८ ॥ इत्यस्-अस्तात्प्रत्ययौ पुरादेशश्च ॥ १ ॥ २॥ पुरं तस्यति पुरतः ॥ ३ ॥ अग्रेऽग्रतः आद्यादित्वात् तसुः । यथा-पुरः सरः, पुरस्ताद् गच्छति, पुरतो गच्छति, अप्रतः सरः ॥४॥
. प्रायस्तु भूमनि ॥ १६५ ॥
प्रति प्रायः “अस्" ॥ ( उणा-९५२) ।। इत्यस् । यथा-"प्रायः प्रत्ययमाधत्ते स्वगुणेषूत्तमादरः" ॥ १ ॥ १६५॥
साम्प्रतमधुनेदानी सम्प्रत्येतर्हि — सांप्रतं विभक्त्यन्तरूपकम् । यथा - "भीमार्जुनव्यतिका: सांप्रतं वर्तते तयोः"। १॥ अस्मिन् कालेऽधुना, इदानीम्, एतर्हि "सदाधुनेदानींतदानीमेतर्हि" ॥ ७ । २। ९६॥ इति साधवः यथा-"अधुना तस्य विस्तीर्णविभवान्धस्य के वयम् ?" । "इदानी त्वं नाथः" "भवन्तमेतर्हि मनस्विगर्हिते" इति ॥ २॥ ३ ॥ ४ ॥ संप्रथते संप्रति
Page #612
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणौ-.. "प्रर्लक् च वा" ॥ ( उणा-६४७ ) ॥ इति तिः, संभूतिरिदानी इति वा “तिष्ठ- . ग्वित्यादयः" ॥ ३ । १ । ३६ ॥ इति साधुः यथा-"संप्रत्यसाम्प्रतं वक्तुम्" ॥५॥
अथाजसा।
द्राक् स्रागरं झटित्याशु मह्वह्नाय च सत्वरम् ॥ १६६ ॥ अजसेति तृतीयान्तप्रतिरूपकमव्ययम्। यथा-"यद्वाऽनसा जयति ब्रह्मलोकम्" ॥१॥द्रवति द्राक् "द्रागादयः ॥ (उणा-८७०)॥ इति निपात्यते यथा-"द्राग् विद्रुतं कातरैः" ॥२॥ स्राक् “सरन्त्यभिसारिकाः" ॥ ३ ॥ इयर्त्यरं बाहुलकादम्, यथा"अरं याति तुरङ्गमः" ॥ ४ ॥ झटदित्यनुकरणादितौ झटिति "इतावतो लुक्" ॥७॥ २।१४६ ॥ इति साधुः । यथा-"आनीय झटिति घटयति विधिभिमतमाभिमुखीभूतः" ॥५॥ अश्नुते आशु "कृवापाजि-' ॥ (उणा-१) ॥ इत्युण, यथा-"आश्वपैहि मम सीधुभाजनात्, ॥६॥ मज्जति मक्षु "मस्जीष्यशिभ्यः सुक" ॥ (उणा८२६ ) ॥ यथा-"मङ्ख्दपादि पुरतः पटलैरलीनाम" ॥ ७ ॥ अदायति विभक्त्यन्तप्रतिरूपकमव्ययम् । यथा-"अह्नाय सा नियमजं क्लममुत्ससर्ज ॥८॥सत्वरम्॥९॥
सदा सनाऽनिशं शश्वत् सर्वस्मिन् काले सदा “सदाऽधुनेदानी-" ॥ ७।२।९६ ॥ इति साधुः । यथा"सदा पुरोडाशपवित्रिताधरे' सर्वदाऽपि ॥१॥ सनोति सना "सनिलमि' ॥ (उणा-६०४) इत्याप्रत्ययः यथा-सनातनः, सनत्, सनादित्यपि यथा-सनत्कुमारः सनात् कुमारः ॥ २ ॥ न निशाम्यति अनिशम्, “गमिजमि-" ॥ (उणा-९३७)। इति डिदम् । यथा-"ये नमन्त्यनिशं जिनम्" ॥३॥ शशति शश्वत् “संश्चद् ॥ ( उणा-८८२ ) ॥ इति निपात्यते । यथा-"शश्वत् पठति छात्र;" ॥ ४ ॥
भूयोऽभीक्ष्णं पुनःपुनः।
असकृन्मुहुः भवति भूयः “ विहायस्- " ॥ ( उणा-९७६ ) ॥ इत्यसि निपात्यते यथा"भूयो नैवमिति स्खलत्कलगिरा संसूच्य दुश्चष्टितम्" ॥१॥ अभीक्ष्यते अभीक्ष्णम्, "भ्रूणतृण-" ॥ ( उणा- १८६ ) ॥ इति बाहुलकान्मान्तो निपात्यते यथा"तक्ष्णोतीव तथाऽन्योऽभीक्ष्णं तीक्ष्णाक्षरक्षारैः" ॥ २ ।। पुनाति पुनः “ पूसन्यमिभ्य:-" ॥ (उणा-९४७) ।। इत्यर् पुनादेशश्च, आभीक्ष्ण्ये द्वित्वे पुनःपुनः। यथा"पुनःपुनरिदं त्वामेवमभ्यर्थये" ॥ ३ ॥ एको वारोऽस्य सकृत् “एकात् सकृच्चास्य" ॥७ । २ । १११।। इति साधुः, न सकृत् असकृत् । यथा-"गन्तव्यमस्ति कियदि
Page #613
--------------------------------------------------------------------------
________________
६ षष्ठः काण्डः।
त्यसकृद् ब्रुवामा:* ॥४॥ मुह्यति मुहुः "मुहिमिथ्यादेः कित्" ॥ (उणा-१...)॥ इत्युस् । यथा-"यान्या मुहुर्वलितकन्धरमाननं तत्" ॥ ५॥
सायं तु दिनान्ते __ स्यति सायम्, “स्यतेर्णित्" ॥ (उणा-९३६) ।। इत्यम् । यथा- सायं प्रातरमी पुण्यममिहोत्रमुपासते" सायंतनी सन्ध्या ॥ १ ॥
दिवसे दिवा ॥ १६७ ॥ . दीव्यन्त्यत्र दिवा " दिविपुरि-" ॥ (उणा-५९९) ॥ इति किदाप्रत्ययः । यथा-दिवाकरः ॥ १ ॥ १६ ॥
___सहसैकपदे सद्योऽकस्मात् सपदि तत्क्षणे । ___ सह स्यति सहसा "डित्" ॥ (उणा-६०५) ॥ इत्याः, विभस्त्यन्तप्रतिरूपको चा। यथा-"सहसा विदधीत न क्रियाम्" ॥1॥ एकपद विभस्त्यन्तप्रतिरूपकम् , यथा"अयमेकपदे तया वियोगः" ॥२ समानेऽहनि सद्यः “ सद्योऽद्यपरेद्यवि-" ॥ ७॥ २।९७ ॥ इति साधुः । यथा-"पद्यः पतति मांसेन" || ३ | अकस्मादिति विभक्त्यन्तप्रतिरूपकम् । यथा-अकस्मादायातः॥४॥ संपद्यते सपदि "पदिपठि-" । (उणा-६०७) ॥ इति :, स्वरादिगणपाठात समो मलोपः। यथा-"सपदि प्रदहत्युपेक्षितोऽमिः ॥ ५॥ - चिराय चिररात्राय चिरस्य च चिराच्चिरम् ॥ १६८ ॥
चिरेण दीर्घकालाथें एते विभक्त्यन्तप्रतिरूपकाः । यथा-"चिराय निर्धनो भूत्वा भवत्यहा महाधनः" ॥१॥ चिररात्राय यजते ॥ २॥ “चिरस्य धनलब्धाऽसि" ॥३॥ चिराद् दृष्टोऽसि ॥ ४॥ “चिरंतनमिदं वृत्तं बलीषु तस्याः स्खलिताः" ॥ ५॥ १६८ ॥ "प्रपेदिरे चिरेण नाभिं प्रथमोदबिन्दवः" ॥ ६ ॥
कदाचिज्जातु कर्हिचित् । _ अन्योऽन्यं पर्याया एते । यथा-"न कदाचिदनीदृशं जगत्" ॥१॥ जायते जातु, .. यथा-"न जातु कामः कामानामुपभोगेन शाम्यति" ॥२॥ कर्हिचिद् भवति ॥ ३ ॥
दोषा नक्तमुषा रात्रौ दुध्यति दोषा "सनिक्षमि." ॥ ( उणा-६०४ ) ॥ इत्याप्रत्ययः यथा- दोषामन्यमहः ॥१॥ नश्यति भास्वानत्र नक्कम्, “ नशिनूभ्यां नक्तनूनौ च " ॥ (उणा
Page #614
--------------------------------------------------------------------------
________________
६१४
अभिधानचिन्तामणौ
९३५ ) ॥ इत्यम् । यथा नक्तंचरः ॥ २ ॥ उषत्युषा बाहुलकात् किदाप्रत्ययः । यथाउषानो वायुः ॥
३ ॥
प्रगे प्रातरहर्मुखे ॥ १६९ ॥
इति विभक्त्यन्तप्रतिरूपकम् । यथा-प्रगेतनो वायुः ॥ १ ॥ प्रकर्षेणाति अत्र प्रातः, “प्रादतेरर्” ॥ (उणा - ९४५) ॥ यथा - " प्रातरेव समुत्थाय ॥ २ ॥ १६९ ॥ तिर्यगर्थे तिरः साचि
तरति तिरः “मिथिरञ्जि-" ॥ ( उणा - ९७१ ) ॥ इति किदसू, यथा-तिरः कृत्वा काष्ठं गतः । परिभूतेऽन्तर्व्युपचारात् यथा - तिरस्कृतोऽरिः ॥ १ ॥ सचते या चि "कमिवमि " ॥ ( उणा - ६१८ ) ॥ इति बहुवचनात् णिदिः यथा - "साचि लोचनयुगं रमयन्ती ॥ २ ॥
निष्फले तु वृथा मुधा |
वृणोति वृथा “वृमिथि - " ॥ ( उणा - ६०१ ) ॥ इति यादिः किदाप्रत्ययः यथा - वृथा दुग्धोऽनड्वान् ॥ ॥ मुश्चति मुधा "मुचिस्वदेर्ध च* ॥ ( उणा६- २ ) ॥ इत्याप्रत्ययः यथा-' -" मुग्धे ! मुधा ताम्यसि ॥ १ ॥
मृषा मिथ्याऽनृते
मृष्यते मृषा “दिविपुरि-” ॥ ( उणा - ५९९ ) ॥ इति किदाः यथा मृषा वदति, मृषोद्यम् । ॥ १ मेथति मिथ्या "वृमिथि - " ॥ ( उणा - ६०१ ) ॥ इति यादिकिदाप्रत्ययः यथा - " मिथ्यावादिनि ! दूतीति ॥ २ ॥
अभ्यर्णे समया निकषा हिरुक् ॥
१७० ॥
समेति समया ॥ १ ॥ निकषति निकषा "समिणूनिकषिभ्यामाः " ॥ ( उणा५९ ) ॥ इति साधू यथा - समया पर्वतं नदी ॥ १ ॥ " लङ्कां निकषा हनिष्यति” ॥ २ ॥ हिनोति हिरुकू यथा - मह्या हिरुक् ॥ ३ ॥ १७० ॥
शं सुखे
शाम्यति शम्, “गमिजमि - " || ( उणा - ९३७ ) ॥ इति डिदम् । यथा - शंकरः॥१॥ बलवत् सुष्ठु किमुतातीव निर्भरे ।
बलं वाति बलवत् " संश्च देहत् - " ॥ ( उणा - ८८२ ) ॥ इति निपात्यते यथा“ बलवदपि शिक्षितानामात्मन्यप्रत्ययं चेतः ॥ १ ॥ शोभनं तिष्ठतीति सुष्ठु " दुःस्वप-"
Page #615
--------------------------------------------------------------------------
________________
६ षष्ठः काण्डः । ...
६१५. ॥(उणा-७३२)॥इति किदुः, भीरुष्ठानादित्वात् षत्वम् । थथा-"सुष्ठु खल्विदमुच्यते" ॥ २ ॥ किमूयते किमुतः "पुतपित्त-" ॥ ( उणा-२०४ ) ॥ इति निपात्यते यथाकिमुत ब्रह्मविनिमिः ॥३॥ न तीवत्यतीव, अव्ययसमुदायो वा । यथा-"अतीवक्षुत्पिपासितात्" स्वती अपि, यथा-सुसिक आम्रः फलति, अतिसित इति ॥ ४ ॥
- प्राक् पुरा प्रथमे प्राश्चति प्राक् यथा-"प्रागेव हरिणाक्षीणामुदीर्णो रागसागरः" ॥१॥ पुरति पुरा "दिविपुरि." ॥ ( उणा-५९९) ॥ इति किदाः । यथा-पुराकृतम् ॥ २॥
संवद् वर्षे संवदति संवत् "संश्चद्-" ॥ (उणा-८८२) ॥ इति निपात्यते यथा-विक्रमसंवत्, सिद्धहेमकुमारसंवदिति ॥ १॥
परस्परे मिथः ॥ १७१ ॥ मिभ्यते मिथ: "मिथिरजि-" ॥ ( उजा-९७१) ॥ इति किदस्, यथा-मियः प्रहरतः॥१॥११॥
उषा निशान्ते उपत्युषा, यथा-उषातनः ॥ : अल्पे किश्चिन्मनागीषच्च किञ्चन ।
किमपि चिनोति किश्चित्, यथा-"किश्चित् कुश्चितलोचनाभिरसकृत् घ्राताः कदम्बानिलाः" ॥१॥ मन्यते मनाक् "द्रागादयः" ॥ (उणा-८७.) । इति निपात्यते । यथा-"ब्रूते मनाग नन्दनम्" ॥ २ ॥ ईषति ईषत् "संश्चद्" (उणा-८८२) इति निपात्यते । यथा-ईषत्पाण्डः ॥ ३॥ किमपि चनति किश्चन। यथा-प्राचीमङ्खरयन्ति किम्बन रुचो सजीवजीवातकः ॥ ४ ॥
' आहो उताहो किमुत वितर्के किं किमूत च ॥ १७२ ॥ वितर्को विकल्पः पक्षान्तरम्, आजुहोत्याहो विच् । यथा-अयं स्थाणुराहो पुरुषः॥ १॥ उताजुहोत्युत्ताहो । यथा-"उताहौस्विद् भवेद् राजा नलः परपुरंजयः" ॥२॥ किमुतेत्यव्ययसमुदायः । यथा-किमुत रज्जुः, किमुत सर्पः । ॥३॥ कौति किम् । यथाकिं रज्जुः, किं सर्पः ? ॥४॥ किमु इत्यब्ययसमुदायः । यथा-"खेदयेत् किमु मानयेत् ॥ ५ ॥ अव्यते उतः, "पुतपित्त-" ।। ( उणा-२०४ ) ॥ इति निपात्यते। यथा-"एकमेव वरं पुंसामुत राज्यमुताश्रमः" ॥ ६ ॥ १७२ ॥
Page #616
--------------------------------------------------------------------------
________________
अभिधानचिन्तामणौ- ..
इतिह स्यात् संप्रदाये . इति वृत्तं जिहीते इतिह, अव्ययसमुदायो वा। यथा-इतिह स्माहुराचार्याः ॥१॥
हेतौ यत् तद् यतस्ततः। यजते यद् ॥ १ ॥ तनोति तद् "तनित्यजियजि." ॥ ( उणा-८९५ ) ॥ इति डद् । यथा-यत् सभासु प्रगल्भसे तत् पूज्योऽसि ॥ २ ॥ यतस्तत इत्येतो बिभक्त्यन्तप्रतिरूपको । यथा-यतो विद्वांस्ततः सभ्यः, येन-तेनावपि । यथा--येन दाता तेन वाध्य इत्यादि ॥ ३ ॥ ४ ॥ ___ संबोधनेऽङ्ग मोः प्याट् पाट् हे है हंहो अरेऽयि रे ॥१३॥
अङ्गत्यङ्ग यथा-अङ्गानङ्ग ! ॥ १ भाति भोः ! बाहुलकात् डोस, यथा--भो! भार्गव ! ॥ २॥ अप्यटति प्याट् पृषोदरादित्वात्, यथा--प्याट् ! पावक ! ॥ ३ ॥ पाटयति पाट् यथा--पाट ! पान्थ ! ॥४॥ हिनोति हे विच । यथा- हे ! हेराम्बकमम्बेति ॥५॥ हिनोति है बाहुलकाद डैः, यथा-है ! बाड्वले ! ॥ ६ ॥ हं जुहोति. हहो । यथा--"हंहो ! तिष्ठ सखे ! विवेकबहुभिः प्राप्ताऽसि पुण्यैर्मया" ॥ ७॥न रिणात्यरे विच् । यथा--अरे ! क्षत्रियखेट !॥ ८॥ एत्ययि स्वरेभ्य इ:" ॥ (उणा६०६)। यथा--अये ! जीवितनाथ ! जीवसि ॥ ९ ॥ रिणाति रे यथा-रे ! चेटाः ॥ १० ॥ अहो, अररे इत्यादयोऽपि ॥ १७३ ॥
श्रौषड् वौषड् वषट् स्वाहा स्वधा देवहविर्तुतौ । श्रूयते श्रौषट्, वाति वौषट्, उश्यते वषट् एते बाहुलकात् क्विबन्ता निपात्यन्ते यथा--अस्तु श्रौषट् ॥१॥ व्रीही वौषट् ॥ २ ॥ वषडिन्द्राय ॥३॥ सुष्ठ ब्रूते स्वाहा “सो ब्रूग आह च" ॥ (उणा--६०३) ॥ इत्याप्रत्ययः, आहादेशश्च । यथा-- स्वाहा देवेभ्यः ॥ ४॥ स्वदते स्वधा "मुचिस्वदेर्ध च" ॥ ( उणा-६०२)॥ इत्याप्रत्ययः यथा--स्वधा पितृभ्यः ॥ ५ ॥
रहस्युपांशु उपाश्नुते उपांशु "अशेरानोऽन्तश्च" ॥ (उणा-.५१९) ॥ इत्युः। यथा--तेषामुपांशु बधं प्रकुर्वीत ॥ १ ॥
मध्येऽन्तरन्तरेणान्तरेऽन्त। ॥ १७४ ॥ अमत्यन्तः "पूसनि-" ॥ ( उणा--९४७ ) ॥ इत्यर् अन्तादेशश्च । यथा-- "गृहस्यान्तर्विगाहते" ॥ १॥ अन्तरणेति विभक्त्यन्तप्रतिरूपकम् यथा- "अन्तरेण
Page #617
--------------------------------------------------------------------------
________________
६ षष्ठः काण्डः।
६१७ गन्धमादनं माल्यवन्तं चोत्तराः कुरवः" ॥२॥ अन्तरे सप्तम्यन्तप्रतिरूपकम् । यथा-. "आवयोरन्तरे जाताः पर्वताः सरितो द्रुमाः" ॥३॥ अन्तो राति अन्तरा "डित्". ॥ (उणा-६०५) ॥ इत्याः । यथा--''अन्तरा निषधं नीलं च विदेहा:" ॥ ४ ॥१७॥
प्रादुराविः प्रकाशे स्यात् प्राति प्रादुः "रुद्यति-" ।। (उणा--९९७) । इत्युस । यथा.."प्रादुरासीद्वसुंधरा" ॥ १॥ अवत्याविः "अवेर्णित्" ॥ (उणा--९९५) ॥ इतीस् । यथा--"तेषामाविरभूद ब्रह्मा परिम्लानमुखश्रियाम् ॥ २ ॥
अभाव त्व न नो नहि। अतति अ क्वचित्" ॥ ५।१।१७१ ॥ इति डः, यथा-"अविप्र इब भाषसे" विप्रवन्न ब्रूष इत्यर्थः ॥ १॥ नह्यति न । यथा--"नैकः सुप्तेषु जागृयात्" ॥२॥ नयति नो बाहुलकात् डो । यथा-नो जानीमः किमत्र विधास्यति ॥ ३ ॥ नह्यति नहि "पदिपठि-" ॥ ( उणा--६०७) ॥ इति इः, अव्ययसमुदायो वा यथा--नहि भीरुगतं निवर्तते ॥ ४॥
हठे प्रसह्य प्रहसनं पूर्व प्रसह्य । यथा--"प्रसह्य बित्तानि हरन्ति चौराः" ॥ १॥
मा मास्म वारणे ___ माति मा “डित् ॥ (उणा.-६०५ ) ॥ इत्याप्रत्ययः । यथा--"कुण्ठः सिद्धपतेः कृपाण इति रे ! मा मंसत क्षत्रियाः" !॥१॥ मास्मेत्यव्ययसमुदायः। यथा-- "प्रावृड् जातेति हे ! भूपाः ! मास्म त्यजत काननम् ॥ २॥
अस्तमदर्शने ॥ १७५ ॥ .. ' अस्यतेऽस्तं बाहुलकात् तम् । यथा-."अस्तंगते शशिनीति'' ॥ १ ॥ १७५ ।।
__अकामानुमतौ कामम्
आदावनिच्छायां पश्चादङ्गीकारे इत्यर्थः, काम्यते काम बाहुलकादम् । यथा-- . "कामं भवन्तु सरितो भुवि सुप्रतिष्ठाः" ॥ १॥
___ स्यादों आं परमं मते । . मतमभ्युपगमस्तत्र, अवत्योम् "अवेर्म:" ॥ ( उणा-९३३ ) ॥ इति मे "मन्यवि-" ॥४।१।१०९ ॥ इत्युपान्त्येन ऊत्वम्, ततो गुणः यथा--"80
Page #618
--------------------------------------------------------------------------
________________
६१८
अभिधानचिन्तामणीमित्युक्तवताऽथ शाणिः " इति ॥१॥ 'अमण रोगे' आमयति आम्। यथा--आ.. कुर्मः ॥२॥ परमं विभक्यन्तप्रतिरूपकम् । यथा--परमं तत्रावासम् ॥३॥
कच्चिदिष्टपरिप्रश्ने कुत्सितं चिनोति कञ्चित् यथा । कचिज जीवति मे माता ? ॥१॥
अवश्यं नूनं च निश्चये ॥ १७६ ॥ अवश्यायतेऽवश्य बाहुलकात् डिदम् । यथा-"अवश्यं यातारश्चिरतरमुषित्वाऽपि विषयाः" ॥ १॥ नूनं " नशिनूभ्यां नक्कनूनी च" ॥ ( उणा-९३५) इत्यम् । यथा-"नूनं हन्ताऽस्मि रावणम्" ॥२॥॥ १७६ ॥ - बहिर्बहिर्भवे .. बहते बहिः “ बहिवहेर्नलुक् च * ॥ ( उणा-९९०) ॥ इतीस् । यथाग्रामाद् बहिर्वसति ॥१॥ . ह्यः स्यादतीतेऽह्नि
जहाति यः अनन्तरातीतदिनम्, " पाहाक्भ्यां पयह्यौ च" ॥(उणा-९५३)। इत्यस् । यथा-शस्तनः ॥ १॥
श्व एष्यति। अहीत्येव श्वसिति श्वः अनन्तरागामिदिनम्, यथा:अद्य श्वो वा गमिष्यति ॥१॥
नीचैरल्पे न्यश्चति नीचैः “ न्युझ्यामञ्चः-" ॥ ( उणा-१००३ ) ॥ इति कैसि साधुः । यथा- नीचैर्वाति समरिणः" ॥१॥
___महत्युच्चैः - उदञ्चत्युच्चैः “ न्युभ्याम्-" ॥ ( उणा-१००३)॥ इति केसि साधुः । यथा- "उच्चैरुच्चरतु चिरम् ॥१॥ ___सत्त्वेऽस्ति सत्त्वे सत्तायां अस्तीति तिवन्तप्रतिरुपकः । यथा-अस्तिक्षीरा ब्राह्मणी ॥ १ ॥
दुष्ठु निन्दने ॥ १७७ ॥ निन्दितं तिष्ठति दुष्ठु " दुःस्वपवनिभ्य:-" ॥ ( उणा-७३२ ) ॥ इति किदुः। भारुष्ठानादित्वात् षत्वम् । यथा-दुष्ठ वादी खलः ॥ १॥ ॥ १७७ ॥ . .
Page #619
--------------------------------------------------------------------------
________________
६ षष्ठः काण्डः।
६१९
ननुच स्याद् विरोधोक्ती ननुचेत्यव्ययसमुदायः । यथा-ननुच कः शब्दः ?, इति ॥१॥
पक्षान्तरे तु चेद् यदि । चिनोति चेत् " संश्चद्-" ॥ ( उणा-८८२ ) ॥ इति निपात्यते ॥ १॥ यदति यदि विच, बाहुलकाद् गुणाभावः । यथा--"सन्तश्चेदमृतेन किं यदि खलास्तत कालकूटेन किम्" ? ॥२॥
शनैर्मन्दे शं सुखं नयति शनैः “ शमो नियो डैस् मलुक् च "॥ ( उणा-१००४ ) ॥ इति साधुः । यथा-"शनैर्याति पिपीलक: ॥ ४ ॥
अवरे त्वर्वाक् "अवरः परादन्यस्तत्र, अवरमञ्चत्सर्वाक पृषोदरादित्वात् । यथा-वर्षात षोडशादर्वाक् ॥ १॥
रोषोक्तावुम् ऊयते उ बाहुलकात् किन् म् । यथा-"उं सैवास्मि तव प्रिया" ॥१॥
नतौ नमः ॥ १७८ ॥ . नमनं नमः " अस" ॥ (उणा-९५२)॥ इत्यस् । यथा
.. . "नमो दुर्वाररागादिवैरिवारनिवारिणे ।
.. अर्हते योगिनाथाय महावीराय तायिने" ॥ इति ॥ १॥ नमःशब्दश्चार्य शास्त्रान्ते मङ्गलार्थः, यतो मङ्गलादीनि, मङ्गलमध्यानि, मङ्गलान्तानि च शास्त्राणि भवन्तीति । शेषश्चात्र
आनुकूल्यार्थकं प्राध्वमसाकल्ये तु विच्चन । तु हि च स्म ह वै पादपूरणे, पूजने स्वती ॥ वद वा यथा तथैवैवं साम्येऽहो ही च विस्मये । स्युरेवं तु पुनः वेत्यवधारणवाचकाः ॥ ऊं पृच्छायामतीते प्राक् निश्चयेद्धालसा द्वयम् । अतो हेतौ महः प्रत्यारम्भेऽथ स्वयमात्मनि ॥ प्रशंसने तु सुष्ठु स्यात् परश्वः श्वः परेऽहनि । अद्यात्राइन्यथ पूर्वेऽहीत्यादौ पूर्वेधुरादयः ॥ समानेऽहनि सद्यः स्यात् परे त्वहि परेद्यवि ।
Page #620
--------------------------------------------------------------------------
________________ अभिधानचिन्तामणौ-- उभयास्तूभयेयुः समे युगपदेकदा // स्यात् तदानीं तदा तर्हि यदा यद्यन्यदैकदा / परत परार्येषमोऽब्दे पूर्वे पूर्वतरेऽत्र च // प्रकारेऽन्यथेतरथा कथमित्थं यथा तथा / द्विधा द्वेधा त्रिधा त्रेधा चतुर्धा द्वैधमादि च // द्विस्त्रिश्चतुः पञ्चकृत्व इत्याद्यावर्त्तने कृते / / दिग्देशकाले पूर्वादौ प्रागुदप्रत्यगादयः / ... अध्ययानामनन्तत्वात दिग्मात्रमिह दर्शितम् / यदाहुः..... "इयन्त इति सङ्ख्यानं निपातानां न विद्यते / प्रयोजनवशादेते निपात्यन्ते पदे पदे' // इति // 178 // इत्याचार्यश्रीहेमचन्द्रविरचितायां स्वोपज्ञाभिधानचिन्तामणिनाममालाटकिायां सामान्यकाण्डः षष्ठः // 6 // // समाप्ता चेयमभिधानचिन्तामणिनाममालाटीका // सम्पूर्णोऽयं ग्रन्थः